Bharti Bhawan Library Allahabad

Sanskritchandrika Khand 6

Shri Jaychandra Sidhantbhushan Bhatachayen

PDF Proofread

Front matter

संस्कृतचन्द्रिका।
संस्कृतमासिकपत्रिका।
षष्टः खण्डः।
श्रीजयचन्द्रशमसिद्धान्तभूषणभट्टाचार्येण
संपादित: सहकारिसंपादकेन राशि-
वडेकरेण श्रीअप्पाशास्त्रिणा
प्रकाशितश्च ।
कोल्हापुरनगरे
संस्कृतचन्द्रिकाकार्यालयात् ।
तत्रैव श्रीसमर्थप्रसादयन्त्रालये मुद्रितः ।
मूल्यं साधी रूपकः।

२०१४२३११२४९/- स्कृतवाहिकायाः इष्टखण्डगताना विषयाणां শে। विषयाः विषयाः श्रीमदमादीक्षिताः २१२६२०१७ कमच्छामि शिवराजविजयः उइटोकाः प्रालिलय प्रथमपाष्टे । १ फलिप्रमानः कृतजता १३१ समारणेचनाः २०१४६१७१॥२४॥ कान्यकुब्जलीलामृतम् १३७ चन्द्रिका दोषाः सोत्तरा: १५५ १८२१३२२३८ नामनियोगरीतिः स्वागताशांचनमालिका १८३ जीनामारथीमाहात्म्यम् समस्यापूर्तयः असमत्वतव्यम् पण्डितराजः श्रीजगन्नाथ: १७० अमृत पिशावः १९४२१८१२४२।२६६ ९९॥१२॥१७९ बुद्धिमाहात्म्यम् प्रातपत्रम् २०११२२४ अधर्मविपाका श्रीकण्ठपदभूषणम् प्राचीनानां वृष्टिपरिमापनयन्त्रम् ६२ दधीच्युपाख्यानम् २२८ मणिकण्डलोपाख्यानम् श्री १०८ दरभङ्गाधिराजस्य कृते सुयग्रहणन् विलाप: २३९४२२३२२८१ कन्यकाविवाह: ८००७ साकारोपासना २४६।२७४ वाचकस्य प्रतिस्तवः ८२ वर्णलेखनप्रचार: माताजनम् १०२।१२७।१४८ प्रास्योत्तरम् वत्सरान्ते विज्ञप्ति:

श्रीशिवः शरणम् । ॥ संस्कृतचन्द्रिका ॥ ॥ श्रीगणशाय नमः ॥ शिवादीनपि कार्याणि कारयन्ती जनानिव । मायाऽवलम्ब्यते सेयमम्वा श्रीशिवमुन्दरी ॥ ॥ वर्षावतरणिका ॥ श्री श्रीमती संस्कृतचन्द्रिकेयं षष्ठे पदं वत्सरकेर्पयन्ती। रसोत्सुकानामपमत्सराणामीप्सत्यशकं कमनीयमङ्कम् ॥ ||मासावतरणिका ॥ निषेव्य नवमल्लिकाकुसुमसम्पद भूयमी निपीय मधु माधवीकुसुमजन्म चाप्यन्वहम् ॥ परं प्रमदमुद्दहन्मधुकरोऽत्र वैशाखके वसन्तमभिनौति वा ललितगुञ्जिनच्छद्मना ॥१॥ ॥ उद्भट श्लोकाः ॥ यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् । अभिजातवंशजानां सुहृदुपयोग्याः श्रियो महताम् ॥ १॥ नदीवृन्दोहामप्रसरसलिलापूरिततनुः स्फुरत्स्फीतज्वालानिविडवडवाग्निक्षतजलः । न दर्प नो दैन्यं स्पृशति बहुमत्वः पतिरपा- मवस्थानां भेदाद्भवति विञ्चति व महताम् ॥२॥ नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः ॥

No text on this page.

संस्कृतचन्द्रिका। ब्रह्मज्ञा अपिलभ्याः न्वाज्ञानज्ञायिनो विरलाः॥३॥ नहि नामसजनानां शुद्यशःस्फटिकदर्पणा विमलः।। परिभवदुःखितजनतानिःश्वासैमलिनतामेति ॥४॥ ॥ श्रीमदप्पयदीक्षितः ॥ da भवन्ति किल सुविपुलेऽत्र क्षितितले भूयांसो विद्वांसो येषां शरच्च- न्द्रिकाविमलन यशःपूरेण मण्डितामिव दिगन्तरं प्रतिभाति । तद्यशः केवलं वैदुष्यसंभवमेव भूयिष्टमुपलभ्यते । न तु तेन सहैव सहजमिवोपलक्ष्य- आणं धर्माचरणसंभूतमपि । सहृदयाः ! किं वा तया विद्वत्तया यया न धर्माचारे प्रवर्तते चेतः । सैव हि विद्वत्ता या कीर्तिमिव धर्मेऽपि श्रद्धा- मुत्पादयति । त एव च विद्वांसो ये विद्यामिव धर्ममप्युपार्जयितुमिच्छन्ति । विद्या हि नाम बीजमिदं धर्माचारस्य । किं तु तदसतर्कानलेन दग्ध- पायं न प्रसूते धर्मफलम् । अत एव विरला एव विद्वांमो धर्मनिष्ठा उप- लभ्यन्ते । येऽपि धर्मनिष्ठास्तेष्वपि विरला एव विद्वांस इत्यपि नाश्चर्यम् । यदि क्वचन महापात्रे भाग्यवशाद्वैदुष्यं धर्माचारश्चेत्युभयमपि प्रत्य- क्षीक्रियेत न तत्र प्रायेण दैविकः साक्षात्कारो लक्ष्यतामुपगच्छेत् । न चैतदपि विस्मयास्पदम् । निसर्गो ह्ययं कलिकालस्य यत्प्रायशो नैकत्र सर्वेऽपि गुणाः प्रत्यक्षतामुपयान्ति । ये च विद्वांसो धर्मनिष्ठाः साक्षात्कृते- श्वराश्च भारत वर्षमलञ्चक्रुस्तेष्वपि विरला एव सर्वशास्त्रपारङ्गमा- स्तत्रच विरलतमा एव तत्र तत्र नव्यप्रबन्धप्रणेतारः। आसीरिकल सोऽपि समयोऽस्मिन्नशेषमहीतलमण्डनायमाने भारत- वर्षे यस्मिन्नेवंविधान्यपि मानुषरत्नानि संभूय धरातलं मण्डयन्तिस्म । ।

श्रीमदप्पयदीक्षितः। Hal यानि चैवंविधानां मानुषत्वमुपगतानामिव देवानां मूर्तिमुपाश्रितानामिव सुकृतानां सचेतनत्यमिवोपयातानां यशः प्रसराणां महात्मनां श्रूयन्ते श्रव. मारसायनान्यमृतमिवोदमन्ति नामानि । तव प्राधान्यतो निशम्यते श्री- मदप्पयदीक्षितस्याभिधानम् ।। अद्य किलास्य महात्मनो यावदुपलब्धं चारित्रमुपवण्यात्मनो रसना पवित्रीकर्तुं प्रवृत्ताःमः। महाभागोऽयं कदानीमात्मनो निवासेन भारतप्रदेश मण्डयामासे ति यद्यपि समुपलब्धेभ्यस्तत्पबन्धेभ्यो दुष्करमवगन्तुं तथापि तत्सुकरमेवसि- द्धान्तयितुम् । अस्य हि पवित्रऽन्वये लब्धजन्मनाऽस्य भ्रातुः पौत्रेण श्रीनीलकण्ठपण्डितेन विरचिता विद्योतते श्रीनीलकण्ठविजयाख्या चम्पू: । तत्र च तेन महाकविना श्रीनीलकण्ठेन तस्य प्रबन्धस्य निर्माणावसरः प्रतिपादितो येन तस्येव श्रीमद्प्पयदीक्षितस्याप्यवस्थितिसमयः शक्यते निर्णतम् । तच्छेदम् । अष्टत्रिंशदुपस्कृतसप्तशताधिक चतु:सहस्रेषु । कलिवर्षेषु गतेषु प्रथितःकिल नीलकण्ठविजयोऽयम् ।। एतेन च ज्ञायते यदयं नीलकण्ठविजयः कले ( ४७३८ ) वर्षेषु व्यतीतेषु श्रीनीलकण्ठकविना प्रणीत इति । अयं च श्रीनीलकण्ठ कवि: श्रीमदप्पयदीक्षितानां सहोदरस्य चारुदीक्षिताभिधानस्य विदुषः पौत्र इति नीलकण्ठविजयान्ते विद्यमानेन इतिश्री अप्पयदीक्षितसो- दरचारुदीक्षितपौत्रेणेति विशेषणेन ज्ञायते । सांप्रतं च कुलेनवनवत्य- धिकनवशतोत्तरचतुःसहस्रवर्षाणि व्यतीतानि । तेषु च नीलकण्ठविज- यनिर्माणाब्देषु व्यवकलितेष्वेकषष्ठय तरद्विशतवर्षाण्यवशिष्यन्ते अयमेव चेतः प्राक् श्रीनीलकण्ठकवेरवस्थित्यबसरः । अर्थाच्छालिवाह- नस्य १५५९ शाकादेषु तदवस्थानं पर्यवस्यति । तस्यैव चासन्ने प्राक्तने समये श्रीमदप्पयदीक्षितस्थितिरनुमीयते । एवं च शालिवाहन ४ संस्कृतचन्द्रिका। शकस्य पञ्चदशशताब्या अवसाने समुद्भूतः श्रीमदप्पयदीक्षित इति संसि- ध्यति । यतो नीलकण्टविजये श्रीनीलकण्ठ कविना श्रीमदप्पयदीक्षित तस्य नीलकण्टविजय निर्माणावमरेऽस्तित्वं न प्रतिपादितं नापि तद- न्यतोऽनुमातुं शक्यम् । तेन च ततः प्रागेवास्य निधनावसर इत्यनुमीयते । श्रीमदप्पयदीक्षितश्च नवतिवत्सरात्मकेवयसि वर्तमानः शिवसायुज्यमुपा- गच्छदिति प्रबन्धान्तरेभ्यो निश्चीयतेऽत एवं पञ्चदश्यामेन श्रीशालिवाह. नशकाब्द्यां तदवतारोनुमातुं शक्यः । यत्तु कैश्चित्प्रतिपाद्यते श्रीजगन्नाथपण्डितस्य समानकालिकः श्रीम- दप्पयदीक्षित इति । तच्चात्मनो मतं स्थिरीकर्तृकामैर्यदुच्यते वृत्तमिदं यथा कदाचित्काश्यां वर्तमानः श्रीमदप्पयदीक्षितः श्रीमन्दाकिनीसलिल- स्नातः कस्मिंश्चन भागीरथीसलिलशीकरशीतले घट्टे मुखमावृत्य प्रसुप्त- मीषदृश्यमानधवलशिखाकेशं कमपि पुमांसं प्रातरवलोकमानः प्रोवाच- किं निःशहूं शेषे शेषे वयसि त्वमागत मृत्यौ । इति । एतदाकण्र्य व्यपनीतमुखावरणोजगन्नाथः श्रीमदप्पयदीक्षित मद्राक्षीत् । तं च जगन्नाथमात्मनोऽजय्यं प्रतिभटमवलोक्य पुनर्दीक्षितः प्राहस्म अथवा सुखं शयीथा निकटे जागर्ति जाह्नवीभवतः । इति । एवमुक्त्वा च दीक्षित आत्मनो मन्दिरमुपागच्छादिति । तदेतन्मोह- विजृम्भितं नाम । कयमार्या क्व च श्रीमदप्पयदीक्षिताः । सर्वथा नमोऽस्तु गजनिमीलिकायै भारतीयानाम् । इयं खल्वार्या नाप्पयदीक्षितस्य । एषा हि श्रीजगन्नाथरायप्रणीते भामिनीविलासे दृश्यते । भामिनीविलासे च पर- प्रणीतानां पद्यानां कथंचिदपि नास्त्येव निवेशः प्रत्युत स्वीयान्येव तत्रत्यान्यशेषाण्यपि पद्यानीति मदीय पद्यरत्नानां मञ्जूषा कृता मयेति बदञ्जगन्नाथराथ एव प्रतिपादयति । यो हि जगन्नाथो रसगङ्गाधरना- म्न्यलङ्कारशास्त्र उदाहर्तुमपि परकीयपद्यान्यनपेक्षमाणः PRITER श्रीमदष्पयदीक्षितः। निर्माय नूतनमुदाहरणानुरूपं काव्यं मयाऽत्र निहितं न परस्य किश्चित् । कि सेव्यते सुमनमा मनसाऽपि गन्धः करतरिकाजननशक्तिभृता मृगण । इति साभिमानं प्रोवाच कथं नाग स एवात्मीयत्वेन प्रतिज्ञातेऽपि प्रबन्धे परकीयानि पद्यान्युपन्यस्येत् । अत एव च भामिनी विलासे दृश्य- मानं किं निःशङ्क मेति पद्यं न श्रीमदप्पयदीक्षितप्रणीतमतएव च नाप- रितनं वृत्तं मनागपि सत्यभावं स्पृशतीति विदाकुर्वन्तु विद्वांसः । अन्यच्च श्रीमदप्पयदीक्षित जगन्नाथराययोः समानकालिकत्वे बाधक- मवलोक्यतां यथा-- जगदाभरणे दिल्लीवल्लभं यवनाधिपतिं दारासाहमुपवर्णयञ्जगन्नाथ आत्मनस्तत्समानकालिकता दील्लीवल्लभपाणिपल्लवतले नीतं नवीनं वय इति दारासाहस्यैव सविधे यौवनावस्थायामात्मनोऽवस्थानं च स्पष्ट- यति । दारासाहश्च श्रीशालिवाहनशकस्य १५८१ वत्सरान्यावदिल्ली- राज्यं पालयामासेति पुरावृत्तज्ञाः प्रचक्षते । तेन च श्रीशालिवाहन- शकस्य षोडश्याः शताब्या उत्तरार्धे श्रीजगन्नाथस्यावस्थितिनिश्चीयते । प्रतिपादितं चास्माभिः राप्रमाणं पञ्जदश्यामेव शतान्यां श्रीमदप्पयदीक्षि- तानामवस्थानम् । आ एव न कथञ्चिदप्पयदीक्षितजगन्नाथयोः सम- कालिकत्वं प्रतिपादयितुं शक्यम् । श्रीमदप्प यदीक्षितस्य जीवनचरितं तु सझेपत उपलभ्यते । तच्च रसिकेभ्य उपन्हियते। महात्माऽयं द्रविडजातीयो ब्राह्मणः । सुप्रसिद्धात्काञ्चीनानो नगरा- दामेय्यां छ. आदिपाल्यसंज्ञोऽग्रहारो विद्यते तत्रायं निवसतिस्म । पिता- ऽस्य श्रीनारायणदीक्षितो नाम ! सञ्जातोपनयनोऽयं महाभागो वेदमधी- तेस्म । समाप्य च 'दादशवर्षे ( आत्मनोवयसः ) वेदाध्ययन ।

संस्कृतचन्द्रिका। शास्त्राध्ययने बुद्धिमाबबन्ध । अयं च वेदान्तालङ्कारशास्त्रयोः परं प्रावी- ध्यमुपागच्छत् । व्याकरणादिष्वपि शास्त्रेषुपरमोऽयंपण्डित इत्यपि. श्रूयंत । समाप्ते चाध्ययनेऽयं भार्या पर्यणयत् । अस्य च तिस्रोभार्या बभूवुः । तासु चायमेकादश सुताँल्लेभे । श्रीशालिवाहनस्य पञ्चदश्यां शतान्यां विद्यानगराधिनाथस्य श्रीकृष्णदेवमहीपतेः क्षितिशासनावसरेऽयं परमम- भ्युदयमाससादेति पुरावृत्तज्ञाः प्राहुः । अयं च श्रीशिव एव परं ब्रह्मेति प्रतिपादयामास । नानाविधैः प्रति- भटपण्डितैर्विवदमानश्चायं तदेवात्मनो मतं स्थिरीचके । चन्द्रगिरि निवासी भूपालवरः श्रीवेङ्कटपतिरायल्लूरस्य पाण्डित्येन प्रमोदस्य परां काष्ठामारूढ एनं सह परिवारेण पुपोष । अदाच्चास्मै महीयसीं भूसंपदं ययाऽऽत्मन- श्ठात्रपुत्रादीनां व परिपालनायावश्यकस्य वित्तस्य कृते परमुखमनवेक्ष- माणः सुखमुवास श्रीमदप्पयदीक्षितः । अनेन किलाध्यापिता बहब- छात्राः किं तु न तत्राद्यापि कश्चिन्नामतोऽप्यवगतोऽस्माभिः । सहृदयाः ये किल विद्वांसस्ते स्वकीयं मतं स्थिरीकर्तुमतिमात्र प्रय- तन्ते । क्वचित्तु निजमतस्थिरीकरणाय प्रवृत्ताः पण्डिताः परेण पराजिता: परं क्रोधमवलम्ब्य प्रतिपक्षस्थानिष्टमप्यनुध्यायन्ति । यदा च श्रीमदप्प- यदीक्षिते बेङ्कटरायल्लूरस्निह्यत्तदा तस्यैवराज्ञो विशिष्टाद्वैतमतावलम्बी बभूव पण्डितस्ताताचार्योनाम ( अपिनामायमेव श्रीवेङ्कटाध्वरिकवेः पिता- महस्य मातुलः स्यात् ) स च स्वपक्षस्थिरीकरणाय दीक्षितमहाशयेन विवदमानो राज्ञः सभायां पराजयं लेभे । तेन संतप्तान्तरोप्याकारगोपन- प्रवीणस्ताताचार्यः प्रीतमिवात्मानं दर्शयामास । अभ्यन्तरे तु दीक्षितेन सह कृताशिथिलद्वेषः कदाचिद्राजधान्याः स्वग्रामं प्रयान्तं दीक्षितं निगू- ढमेव घातयितुं घातकान्प्रेरयामास । ते च घातका मध्येमार्ग कैश्चन दिव्यपुरुषैः पशुमारं मारिताः कोशन्तः प्रतिनिवृत्य वृत्तमिदं ताताचा- र्याय निवेदयामासुः । अथ कर्णाकर्णिकयेमा वार्तामाकर्ण्य क्रुद्धो मही- श्रीमदप्पयदीक्षित ! पालताताचार्य निर्भर्मयामास शालाधे च श्रीमदथ्यबदीसितम्। मा. अ.को. अत्य च कानिचिद्भुतचरित्राणि वृद्धभ्यः श्रूयन्ते तेषामध्यत्र प्रका- शनं नानहमिति मन्यामहे । कदाचिच्छ्रीमदम्पयदीक्षित ईश्वरदीद्वक्षया श्रीविष्णोर्मन्दिरमुपागच्छत् । श्रीशिवैकनिष्ठमनाः शिवमेव सर्वतः पश्यन्नसौ विष्णुमन्दिरेऽपिश्रीशिव- मेव बिलोकमानः शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्र त्रिनेत्रं शूलं वजं च खड़े परशुमभयदं दक्षमागे वहन्तम् । नागं पाशं च घण्टांप्रलयहुतभुजं माखुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीश नमामि।। इति श्रीशिवध्यानपद्यमेव पठतिस्म । तदावे चान्तर्हितायाः श्रीविष्णु- प्रतिमायाः स्थाने श्रीशिवमूर्तिरेवाविरभूत् । तदवलोक्य मूर्तिपरिवर्तन विस्मिताः केचन धार्मिका अप्पयदीक्षिताय निवेदयामासुः । सोऽपि पुनस्तत्र गत्वा शान्ताकारमित्यादि श्रीविष्णोनिपा पपाठ । ततश्च तत्र पुनर्विष्णुमूर्तिराविरभूदिति । अथैकदा दीक्षित आत्मनो बुद्धेः शिवैकतानत्वं परिचेतुकामो धत्तूर- बीजान्यास्वाद्यात्मनश्छात्रान्प्रोवाच । वत्सा अतःपरं समुद्घान्त इव यदहं प्रलपिण्यामि तन्मे प्रकृतिमापन्नाय निवेद्यतामिति । तेषु तथेत्युक्त्वा विर- तेषु हेमबीजीजस्थाशनतः प्रमत्तस्यापि दीक्षितमहाशयस्य वदनारवि- न्दतः श्रीशिवनामैवाविरतं निरियाय । महाभागाः निपुणं तावद्विचार्यतां कीदृशमस्य दीक्षितमहाशयस्य शैवत्वमिति प्रमत्तस्यापि यस्य वदनतो न शिवनामतोऽन्यन्निरपतत् स किं सामान्यः शैवः । यत्किमपि वा मतमवलम्बमानो योगः पण्डितोऽस्य पुरत आपपात तं तं पराजिय महाभागोयं शैवमेव मतं स्थिरीचके । प्रणयिनं च जनं सप्रणयमेवमभाविष्ट संस्कृतचन्द्रिका। । तु पुरारी च मुरारौ च न भेदः पारमार्थिकः । तथापि मामकी भक्तिश्चन्द्रचूडे प्रधावति ॥ इति ॥ शैवमतस्थापनाचार्योयं सर्वा अप्युपनिषदः शिवपरतयैव व्याचचक्षे । किं तु नारायणोपनिषद्व्याख्यानावसरे संज्ञामन्तरा णत्वस्यासंभाव्यत्वाच्छ्री शिवस्य च नारायणसंज्ञाभावाड्याकुलीभूतो णत्वं परं बाधत इत्यभिदधे । सा चोपनिषन्नानेन व्याख्यातेति श्रूयते । मैसूरुपदेशनिवासिना तु केनापि पण्डितेन सापि शिवपरत्वेन निर्णीता व्याख्याता च सविस्तरमित्यप्याक- य॑ते । न चैतत्कृतमेकस्या अप्युपनिषदो व्याख्यानं दृष्टमस्माभिः । किं नैतदसंभवनीय मन्यामहे । ब्रह्मतर्कस्तवे हि सभ्यनिर्णीतमेतेन श्रीशिव- एव परं ब्रह्मेति। अस्यालौकिकेन पाण्डित्येनासुलभेन च श्रीशङ्करसाक्षात्कारेण परं विस्मयमापन्नास्तदानीन्तना एनं श्रीशिवस्यैवांशभूतं मेनिरे। एतत्सूचकं च श्रीनीलकण्ठकवेर्नीलकण्ठविजयारम्भवति पद्यमिदम्- लीलालीढपुराणसूक्तिशकलावष्टम्भसंभावना- पर्यस्तश्रुतिसेतुभिः कतिपयैीते कलौ सान्द्रताम् ।* श्रीकण्ठोऽवततार यस्य वपुषा कल्क्यात्मना वाऽच्युतः श्रीमानप्पयदीक्षितः स जयति श्रीकण्ठवियागुरुः॥इति * लीलया न तु प्रयासेन लोढा आपाततोवगतार्था इति यावत् । न तु सम्यग्ज्ञा- तार्था ये पुराणसूक्तीनां शकलाः खण्डा न तु समग्राणि वाक्यानि तैर्योवष्टम्भः वयं पुराणज्ञा वयं पुराणज्ञा इति गर्वः तेन याः सम्भावनास्तांस्ताभिः पर्यस्ता भिन्ना इति यावत् । श्रुतिरूपाः सेतवो यैस्तैः यथेच्छाचार प्रतिबन्धकत्वात्सेतुसाम्यम् । कति- पयैमनुजैः कलौ चतुर्थे पापाचारप्रधाने युगे सान्द्रतां निबिडत्वं नीते प्रापिते सति । प्रथमेन विशेषणेन तेषां पण्डितमन्यत्वमेव न तु लेशतोपि पुराणज्ञत्वमिति ध्वन्यते कले: सान्द्रतानाम पापाचारप्रवृध्याधर्माभ्युदयः । अतएव एवश्रीकण्ठावतारत्वमाव- शाक्यमितिभावः । संभवामि युगे युग इत्युक्तः ।

श्रीमदप्पयदीक्षितः। a Name । धार्मिक प्रवरोऽयं कावेरीरोधसि भूयिष्ठानेव यज्ञान्विदधे अत एवासौ दीक्षित इत्यभिधीयते। अस्य च पुत्रा अपि प्रायो विद्वांस एव समजायन्त नवेति न सम्य- गवगम्यते किं तु दृद्धेषु भूयिष्ठप्रचारेयमाख्यायिका श्रूयतेऽनया चास्य तनयानामपि कवित्वमनुमातुं शक्यम् । सा तु यथा- कदाचिदप्पयदीक्षितस्य कश्चन पुत्रो मनसि कामपि ललनां ध्यायं- स्तामेवोद्दिश्य रहसि पद्यं निर्मातुमुपाक्रमत यथा- अकृशं कुचयोः कृशं वलग्ने विपुलं वक्षसि विस्तृतं नितम्बे अधरेरुण माविरस्तु चित्ते विहितायां चैतावत्यामेव रचनायामतर्कितमेव श्रीमदप्पयदीक्षितस्त- सोपस्थे । इथेष च पुत्रेण पत्रोपरिलिख्यमानं पद्यमवलोकितुम् । तस्य च तां कामनामनुमाय पुत्रो झगिति करुणाशालि कपालि भागधेयम् ॥ इति चतुर्थ चरणं तत्रैवोपन्यस्तवान्येन तदशेषमपि पद्यं श्रीभवानी- परतया सद्भावमेव कवयितुर्बोधयति । एतच्च श्रीमदप्पयदीक्षितैः कुवलया- नन्दे संगृहीतम् । सर्वमेतत्केवलं विद्वद्वदनेभ्यः श्रूयते न तु तत्र किमपि प्रमाणमुपलभामहे । श्रीमदप्पयदीक्षितप्रणीतास्तु प्रबन्धाः सुबहुला एव तत्र केचिदवलो- किता अस्माभिः केचित्तु नाममात्रेणावगताः। प्रायेण चास्य शैवागमप्रति- पादका एव प्रबन्धा भूयांसः। अलङ्कारादौ काव्येषु च विलसन्ति प्रबन्धा एतस्य । तान्यावद्विदितानामतो निर्दिश्य दृष्टानां तात्पर्यमपि संख्या- न्तरे वक्ष्यामः । क्रमशः )

10
संस्कृतचन्द्रिका ।
समयप्रदीपः।
श्रीशिवः शरणम् ।
नानासुरासुरशिरोमणिरश्मिजाल-
नीराजितं मुनिगणैः परिचिन्त्यमानम् ।
वन्दे तदधिसरसीरुहमिन्दुमौले-
र्यस्य प्रसाइमनुयाति वचोऽधिदेवी ॥१॥
नानाकवीन्द्रवचनानि मुहुविचिन्त्य
सम्यग्विभाव्य समयानपि सत्कवीनाम् ।
काव्यप्रवन्धरचनास्वभिलायुकाणां
कुर्वे हिताय सुगमं समयप्रदीपम् ॥ २॥
युक्तं गुणैर्बहुविधै रससारशालि
काव्यं विभूषितमलङ्कारणैश्च सम्यक् ।
सम्मन्यते न कविभिः समयव्यपेतं
न्यस्तं महाघमपि रत्नमिवाश्मसारे ॥३॥
एते न जातु समयाः कविनायकाना-
मेकत्र केनचिदपि ग्रथिता बुधेन ।
पर्याकुलत्वमवलोक्य ततो जनानां
संग्रथ्यते सुगम एष मया प्रबन्धः॥४॥
यद्यप्ययं न गुणमात्रमयः प्रवन्धः
सन्तस्तथापि न विषादमितो भजेयुः।
व्योमान्तरे निविडतां तमसि प्रयाते
नैकापि किं मुदमुश्चयिता कलेन्दोः ॥ ५॥

समयप्रदीपः। : तत्र तावत्कविसमयानां काव्योपयोगित्वात्प्रथमं काव्यलक्षणमाह । यदास्वादनमात्रेण सतां हरति मानसम् । कवेः शब्दात्मक कर्म तत्काव्यमिति कथ्यते ।। तस्य च निर्माणे व्युत्पनिरभ्यासश्च यद्यप्यावश्यकस्तथापि प्राधा- न्यतः प्रतिभवापेक्ष्यते । सा च प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मतति रुद्रेण प्रतिपाद्यते । न खलु प्रतिभा विना शक्यते काव्यं निर्मातुम् । सा च प्रतिभा संस्कृता मनोरममसंस्कृता चामनोहरं काव्यमुत्पाद याति संस्कारस्त्वस्या व्युत्पत्तेरभ्यासाञ्च सञ्जायते । तत्र तावद्व्युत्पत्तिनीम- लोकेस्थावरजङ्गमरूपे तत्स्वरूपे च लक्षणप्रमाणसाहित्यच्छ न्दोलङ्कारश्रुतिस्मृतिपुराणेतिहासागमनाट्याभिधानकोषका- मार्थयोगादिशास्त्रेषु च निपुणता इति वाग्भटः प्राह । तत्र लोका भूर्भुवरादयो मध्यमस्तु भूलोक इति । अत्र च द्वीपादीनामवस्थानेऽयं कवीनां समयः । जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाना शाल्मलोऽन्तःकमोन्तः। कौश्चः शाकः पुष्करश्चेत्यथैषां * चतुरचेतश्चमत्कारि कवेः कर्म काव्यमिति वाग्भट: । १ लोकसंस्थितिज्ञानं पुराणेभ्योऽवगन्तव्यं भास्करादिप्रणीतेभ्यो वा सिद्धान्तेभ्यः । तत्स्वरूप दिकं कविसमयसिद्धमेव काव्ये निवद्धव्यम् । तच्चाने वक्ष्यते । व्याकरणज्ञानं लक्षणज्ञानमितिवाग्भटाशयः । षड्दर्शनी प्रमाणम् । महाकाव्यकथाऽऽख्यायिकाऽऽ ख्यानादि साहित्यम् । उपमादयः सर्वस्वप्रकाशप्रदीपदर्पणगंगाधरादावुक्ता अलङ्काराः पिमलप्रणीताच्छन्दःशास्त्राच्छन्दसां ज्ञानम् । भारतादिभ्य इतिहासस्य । आप्तानां वचनमागमः । भरताहोवलादिप्रणीतेभ्यो नाट्यशास्त्रप्रबन्धेभ्यो नाट्यशास्त्रावगमः । वात्स्यायनमल्लीनाथजयदेवादिप्रणीतेभ्यः कामसूत्रपंचसायकरतिमंजरीप्रभृतिभ्यः काम- शास्त्रज्ञानम् । विदुरकामन्दकशुक्रचाणक्यादिनिर्मितेभ्यो नीतिग्रन्थेभ्योऽर्थशास्त्र ज्ञानम् । पतंजलिप्रमुखैः प्रणीतेभ्यः पातंजलदर्शनादिभ्यो हठयोगप्रदीपादिभ्यश्च योग- शास्त्रज्ञानम् । महाकवयः प्रायेण सर्वमप्येतदवगच्छन्तीत दृश्यते ।

संस्कृतचन्द्रिका। । बाह्याबाह्या संस्थितिमण्डलीभिः॥ तानभितश्च- लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयःपयाः। स्वादुवारिरुदधिश्च सप्तम- स्तान्परीत्य त इमे व्यवस्थिताः॥ इति सप्त सागरा अवतिष्ठन्ते । तत्र एकमेवांबुधि केचित्रास्त्रीनपरे जगुः । चतुरस्त्वितरे प्रोचुः सप्त चान्ये कवीश्वराः॥ सर्वेषामपि विस्तरशो विवरणं काव्यानुशासने द्रष्टव्यम् । नात्रोच्यते ऽप्रसङ्गात् । अभ्यासस्तु काव्यं निर्मातुं विचारयितुं च ये जानन्ति तेषामेवोपदे- शेन काव्यरचनायां प्रवृत्तिः । एवं व्युत्पत्त्याऽभ्यासेन च संस्कृता प्रतिभा चतुरचेतश्चमत्कारि काव्यं निर्मातुं प्रभवति । यद्यपि व्युत्पत्तिरिति लोक इत्यादिनाऽशेषवस्तुशास्त्रादिज्ञानमभिधीयते तथापि न तत्समग्रमापि निका- ममावश्यकमिति केचन प्राहुः । त्रिकोषपरिज्ञानं विनव्याकरणज्ञता। अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पद ॥ इति । परे तु- नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ इत्याहुः । एवं च वाग्भटमते केवलायाः प्रतिभाया एव प्राधान्यतः काव्यनि- र्माणहेतुत्वमितरेषां तु तत्संस्कारकत्वमिति । इतरेषां तु प्रतिभाया इव व्युत्पत्त्यादीनामपि काव्यजननहेतुत्वं सम्मतमिति । दण्डी तु प्रतिभा ।

समयमदीपः। १३ विनाऽपि केवलश्रुतेनाभ्यासेन चोपासिता वागपि काव्यं निर्मातुं प्रभवे- दित्याह यथा--- न विद्यते यद्यपि पूर्ववासना- गुणानुबन्धिप्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ इति । अभ्यासस्तु कविसमयावगमाय । ते च कविसमयाः प्रोच्यन्ते । तत्र। असन्तोऽपि निबध्यन्ते भावाः केचित्कवीश्वरैः। नाद्रियन्ते च सन्तोऽपि केचित्काव्यानिवन्धने ॥ तत्रासतां निबन्धनं प्राह- नदीप्वप्यम्बुजास्तित्वं हंसाः प्रतिजलाशयम् । स्वर्णरत्नगजास्तवृत्ततिभूधरवर्तिनः ॥ शुक्लपक्ष समग्रेऽपि चन्द्रिकाया अवस्थितिः। पेया चकोरकैर्योत्स्ना बालो हरशिरोविधुः ॥ मुष्टिमेयश्चान्धकारः कुम्भवाद्याऽपि कौमुदी । स्यायशो हासयोः शौयं वणिमा व्योमपाप्मनोः। अकीर्तश्चोच्यते तद्वच्छोणिमा क्रोधरागयोः । चातकैर्वारियाद्भुतमेव वारिनिपीयते ॥ दिवैव चक्रवाकानां घटते मिथुनं तथा । वियुज्यते निशायां च कामितापाय शीतलम् ॥ अशोकस्य विकासः स्यायोषितां पाहताडनात् । बकुलस्यास्यमधेन प्रियङो स्पर्शमात्रतः॥ वीक्षणात्तिलकस्यालिङ्गलात्कुरबकस्य च संस्कृतचन्द्रिका। -- मन्दारस्य च नर्मभ्यो हसिताच्चम्पकस्य च । आस्यवातेन चूतस्य नमेरोरपि गायनात् । पुरस्तानर्तनरेवं कर्णिकारस्य कथ्यते ॥ अशोकस्येत्यादौ सर्वत्र विकास इति पादताडनादित्यादौ च योषि- तामिति सम्बध्यते । कर्तरि षष्टी कामस्य केतने मीनो धनुस्तस्य च कौसुमम् । वाणाश्च पौष्पाः कथ्यन्ते शिञ्जिनी भृङ्गमालिका ॥ भिद्यतेऽस्य शरैनां हृदयं मदमेति च । अथात्रोदाहरणानि प्रदर्शन्ते । तत्र नदीषु कमलादीनामस्तित्वं यथा- भागीरथीमनिलकम्पितपद्मखण्ड * मन्दस्खलन्मधुमरन्दकरम्बिताम्बुम् । सद्यः पतन्निविडभृङकुलाकुलाम्भः- कालिन्दिकामदहरामनिशं भजामः ॥ इति । अत्र भागीरथ्यामपि कमलानामस्तित्वमुपवर्ण्यते । जलाशय इति जल- माशयेऽभ्यन्तरे येषामिति नदी तरस्तडागवापीप्रभृतीनामपि वाचकम् । अत एव तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षिसङ्घ' इति विश्वनाथः प्राह । तत्र नदीषु हंसस्थितिर्यथा- अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूगोदावरी रोधमि॥इति। एवमन्यदप्यूह्यम् । प्रायेण च यत्र कमलानां तत्र हंसानामपि समव- Diamonds पद्मानां कमलानां खण्ड: समूहः । मरन्दो मकरन्दः । करम्बितं मिश्रीकृतम् । सद्य- स्तत्कालमेव पतता भृगकुलेन भ्रमरसमुदायेनाकुलं व्याप्तं यदम्भो जलं तेन क लिन्द्या मदं कृष्णत्वरूपं गर्व हरतीति तथाभूताम् ।

समयप्रदीपः। । स्थानमुपवर्ण्यते कविभिः । ते हि कमलवनेषु सञ्चरन्तीति प्रसिद्धिः । पर्व- तेषु गजरत्नादीनां स्थितियथा- नीलाश्मरश्मिपटलानि महेभमुक्त- सीत्कारशीकरविमृञ्जि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुधियाऽत्र मयूरनार्यः ॥ इति । यथा वा मम गोकर्णसम्भवे अनेकरत्नातिदीपमालिका निराकृतेऽन्धेऽपि तमस्यनारतम् । महेभयूथानि चरन्ति कानने नृणामिह ध्वान्तधियं वितन्वते ॥ इति । पर्वतेषु स्वर्णस्थितियथा- तटेषु गाङ्गेयमयेषु यस्य प्रभातभानुप्रभया युतेषु। समुल्लसच्छल्लकिकान मेण प्रभाप्ररोहेषु गजाः पतन्ति ॥ इति । कविसमयप्रसिद्धमप्येदनुपवर्णितमपि न किल काव्यस्य शोभा न पु- ण्णाति । अतः क्वचित्पर्वतवर्णने न दृश्यते सुवर्णस्य रत्नानां वा तत्रोपव- र्णितमवस्थानम् । किं तु यदि कविः कमपिभूधरमधिकृत्य ब्रूयात्- न ते सुवर्ण न मतङ्गजा वा न चापि रत्नानि महीधरेन्द्र ॥ इति । तदा तदुष्टतामुपगमिष्यति । एवमन्येष्वपि समयेष्ववबोद्धव्यम् । समग्रेऽपि शुक्लपक्षे चन्द्रिकाया अवस्थानं यथा-- sel संस्कृतचन्द्रिका । विसर्पिणा ते सशता नरेन्द्र क्षितौ सदोद्भाति सितोऽत्र पक्षः ॥ इति । अत्र राजयशसा जगति सन्ततं शुक्लपक्षोद्भवस्य वर्णनया शुक्लपक्षस्य निरन्तरं चन्द्रिकया धवलीभावो ध्वन्यते। (क्रमशः) श्रीशिवः शरणम्। कविप्रसावः। किममृतमया एतेऽम्भोदा अनारतवर्षिणः किमु मधुसरित्पूरा नित्यप्रमोदविधायिनः । किमु नवरसोत्सर्गामछुमा अविनश्वरा नरतनुभृतो भूमावेते चरन्ति कदीश्वराः॥१॥ यदि दिशि दिशि न्यस्तुं वाञ्छा यशः सुविनिर्मलं यदि च महतां मूर्धन्यत्वं निकाममभीप्स्यते । यदि परिहतिश्चेष्टा दोषोत्करस्य महीयस- स्तदनुदिवसं सन्तोष्यन्तां कविप्रवरा जनैः ॥२॥ भवतु सुकृती लोकाधीशैरपि प्रतिपूजितो धनदरुचिरैवयों वाचस्पतिप्रतिमो धिया । तदपि भविताऽऽसंवर्तान्तं जनेषु विनिन्दितो यदि कविजने बद्धद्वेषो वृथैव भविष्यति ॥३॥ प्रतिभटपराजेता वीरो नृपालकुलार्चितो मदनमधुरः सदानौधैः प्रसादितभूसुरः। यदि कविजने कोपारक्तां क्षिपन्नयनद्वयीं कविप्रभावः। स खलु भविता कल्पान्तान्तं तदा बुधगर्हितः॥४॥ सुमधुरपदन्यासा राजत्सुवृत्तमनोरमा गुणगणपरिस्फूर्जकान्तिर्विराजदलकतिः। अपि नवनवैर्भावै रम्या रमोल्लसदन्तरा हरति न मनः केषां कान्ता कवीन्द्रसरस्वती ॥५॥ सुरभिसिकतातैलाभ्यक्तः सुमैगंगनोद्भवै रुचिरिततनुर्गन्धर्वाख्ये चरिष्यति पत्तने । सुललिततनुर्वन्ध्यासूनुर्नपुंसकर्वतो- नृभिरभिलषेदेवं कर्तुं कवेर्यदि भारती ॥६॥ अपि खुरणसा सक्लिनाक्षी समुन्नतदन्तयुक् तिमिरनिवहस्फूर्जकान्तिर्भवद्भुबनेङ्गाना। भवति ललितघ्राणाम्भोजेक्षणा सुदती च सा कनकरुचिरा सैव प्रायः कवीन्द्रपरिग्रहात् ॥ ७ ॥ अपि कृतयुगे काले वाचामगोचर एवं वा भवतु नृपतिः स्फूर्जकीर्तिस्तथापि स सर्वथा । बजति सततं यत्र प्रत्यक्षतां ललिताङकैः कविजनवचःपूरः सोयं किलाद्भुतदर्पणः ॥ ८॥ नयनपदवीदूरीभूते गृहे नरदुश्चरे दृढमपिहितद्वारो यत्र क्रिया मनुजश्चरेत् । अपि पवनतस्तन्वीभूत्वा प्रविश्य तदालयं निभृतचरितं तस्यावैति प्रभुः कविमारती ॥ ९ ॥ क नु कुमुदिनी निश्चैतन्या सदा जडसङ्गता क च स भगवान्पीयूषांशुर्विहायसि सञ्चरन् । नरपि घटते काम प्रीतिस्तयोर्यदनारतं १८ संस्कृतचन्द्रिका। UNT स कविवचमो दुर्विज्ञेयः प्रभाव उदीयते ॥ १० ॥ मरुदपि भवेन्मल्लीनाथो मनोजरुजार्दितः खमपि विचरन्दौत्यं युनः करिष्यति नीरदः । अपि स गगनश्रान्तो भानुर्निवत्स्यति भूतले यदि कविवचोमायावर्ते परिश्रममेष्यति ॥ ११ ॥ जलमयतनुः पारावारोऽप्यपस्मृतिपीडना- मयति तृपयाऽम्भोदं वृक्षो जलान्यभियाचते । अपि करुणयाऽश्रूणि ग्रावा विमुञ्चति लडिन्तः किमिव भुवने काव्याभिख्ये कवर्ननु दुर्घटम् ॥१२॥ भ्रमति गगने दिङ्गागानां प्रयाति *कटस्थली विहरति मुहुर्दिव्योद्यानेऽभ्युपैत्यमरावतीम् । अपि दिविषदां शुद्धान्तेषु प्रयाति निरगला नवनवरसास्वादोत्कण्ठा कवीन्द्रसरस्वती ॥१३॥ भुवनमपरं शब्दाभिख्यं विराजति यत्र ते महितचरिता आकल्पान्तं लमन्ति नरोत्तमाः। विभवगुरुणो यस्याप्येतेऽग्रिमाः प्रतिभावतां विधिमतिगता निर्मातारो बुधा रसपेशलाः ॥ १४ ॥ रसयति रसं स्वर्वामानां विलाससमुद्भवं विशदयति चामत्यर्वेद्यं चिराय सुधारसम् । अपि परिमलं दिव्यगुणां पुरो निदधात्यसौ निखिलभुवनाभ्यन्त सञ्चारिणी कविभारती ॥१५॥ यदपि दिवि यत्पाताले वा यदस्ति धरातले यदिह गहने कान्तारे यद्गुहान्तरचारि वा। * कटो गण्ड: १ अन्तःपुरम् २ नरश्रेष्ठा नायकीभूताः पुरुषा इति यावत् ।

कविप्रभावः। १९ वदपि मनुजो गेहे तिष्ठन्नवैति किलाद्भुतं यदि कविवचःकल्पद्रूणां परिग्रहतामियात् ॥ १६ ॥ यस्रष्टाऽपि न शक्नुयाजनयितुं पातुं न यच्छीपति- यत्संहर्तमुमापतिश्च कमलालतमुच्चैनै यत्। तन्नूनं जनयेदवेदभिनवस्रष्टा कविः संहरे- संस्कुचिततः कवीन्द्रसदृशः कोऽन्यः प्रभुर्भूतले॥१७ प्रकृतिपरुषा क्वापि काप्युल्लसद्दिविजद्रुमो- द्भवकिसलयश्रीका द्राक्षारसोपमिता कचित् । रमयति महश्चित्तं नानाविधत्वमुपागता श्रुतिपथमुपायातानेकै रसैः कविभारती ॥ १८॥ नीतौ दाक्ष्यं वितरतितरां शिक्षयत्येव शास्त्रं सङ्गीतोत्थं रसयति रसं भावबोधं विधत्ते । शारादौ रमयति मति मोहमञ्चै नीते काव्यं नृभ्यो वितरति न किं कल्पवल्लीसगर्म्यम् ॥१९॥ आनन्दस्य परोऽवधिनवरसप्रोल्लासलीलालयो दिव्येन्दीवरलोचनाऽधरसुधानिःस्यन्दवारांनिधिः । लीलालोलवराङ्गनामधुरिमावस्थानभूमिः परा सत्काव्यात्मकतामुपेत्य रसिकस्वान्तं समाकर्षति॥२०॥ कविता सा चिरं जीया मोक्षपद्येव सत्कवेः । यदास्वादनमात्रेण परानन्दोऽधिगम्यते ॥ २१ ॥ सुपदन्यासमनोज्ञालङ्कारोद्भासिता रसोत्फुल्ला। किं नु सखे वरवनितानहि न हि कविता कवीन्द्रस्य२३ संस्कृतचन्द्रिका विज्ञापनम् । विदाकुर्वन्तु संस्कृतचन्द्रिकाया ग्राहकमहाशयाः । एषा किल च- न्द्रिकायाः षष्ठखण्डस्य प्रथमसंख्या श्रीमतां करसरोजमापतति । सं- स्कृतचन्द्रिका चाग्रिममूल्यमनादाय न शक्या वितरीतुम् । द्रविणव्ययमन्त- रा हि दुःशकेयं प्रकाशयितुम् । अतो विज्ञाप्यते यावच्छक्यं सत्वरं प्रे- ध्यतां षष्ठवत्सरमूल्यम् । मूयांसः किल महात्मानश्चिराय चन्द्रिकामडी- कृत्यान्ते व्हीपप्रितिनिवर्तनयाऽस्मान्विप्रलब्धवन्त इतीदानीमुच्चैस्तरामावेद्यते माहाभागा यदि नेष्यत एव चन्द्रिका तदेयमेव संख्या प्रत्ययतां ये तु नेमां प्रत्यर्पयेयुस्ते किल चन्द्रिकामिच्छन्तीत्याकलय्य द्वितीयसंख्यां V. P.द्वारा प्रेरयिष्यामः सा चावश्यमङ्गीकार्येति । विनीतवशंवदः प्रकाशकः। समालोचना विज्ञानशतकम् --श्रीभर्तृहरिप्रणीतमिदं शतश्लोकात्मकं पद्यकाव्यं नागपूरनिवासिना धुले इत्युपाढेन श्रीकृष्णशर्मणा विरचितया प्रज्ञाख्य- व्याख्यया समुल्लसितं तेनैव प्रकाशित समालोचनार्थमस्मत्करतलमापतितम्। उपस्थितस्य चास्य व्यतीताः सुबहवो दिवसाः किं तु कुतोऽपि प्रति- बन्धकाकालमेतावन्तं न पारितं शतकमिदं समालोचयितुमस्माभिः । साम्पतं चेदं सविस्तरं समालोचयितुं प्रवृत्ताः स्मः । कोल्बूकसंज्ञितात्कस्माश्चिदिङ्लण्डीयपण्डिताद्भर्तृहरिप्रणीतं चतुर्थ- मपि शतकं विद्यत इति समधिगत्य तजिज्ञासमाना अनुसन्धानाय बद्ध- परिफरा अपि केचिदस्मद्देशीया विद्वांसो निष्फलीभूतमनोरथा विषादम- समालोचना। । । मुप्राप्ताः । आरब्धो हि प्रयासो विफलीभूतो द्विगुणतरं दूनयति । तेषु च विद्वत्सु विफलाशत्वमुपगतेषु साम्प्रतं पण्डितेन घुलेश्रीकृष्णशर्मणा तदा- स्मनः पितामहचरणानां प्रबन्धसङ्ग्रहे यदृच्छया प्राप्तं व्याख्यातं प्रका- शितं च । श्रीभर्तृहरिणा नाम प्राचीनविदुषा प्रणीतत्वादेव साम्प्रतमस्य गुणदोषविवेचनमसाम्प्रतं मन्यामहे । तथापि नैतदनुचितमभिधातुं यत्का- व्यमिदं मनोहारीति । व्याख्या चेयं शशिनमिव चन्द्रिका कमलमिव- सुरभिता सहकारमिव वसन्तश्रीः पारिजातमिव कुसुमसम्पत्सविशेषमु- द्भासयति काव्यम् । प्रज्ञैव खल्वियं श्रीकृष्णशर्मणः सरस्वतीमिषेण परि- णता प्रज्ञाभिधाना व्याख्या । शतकं चेदमस्माभिरामूलान्तं पठितं विचि- न्तितश्चार्थः । अत्र च व्याख्याविषये पद्यविषयेऽपि मनोरममिदमित्यतो भिन्नं न निःसरति वचनमस्मद्वदनात् । किं तु निकामं विचारणार्होऽत्रत्य उपोद्धातः । तत्र यदरमत्सम्मतं तत्प्रतिपादयितुमिच्छामः । अत्र किल श्रीशङ्कराचार्येभ्यः पराचीनत्वं मर्तृहरेः प्रतिपाद्य तस्मादेवास्य षष्ठशतकेऽवस्थानं प्रतिपादितम्। न जानीमः प्रमाणपरतन्त्राः कथं नाम श्रीशङ्कराचार्याणां ख्रिस्तीयषष्ठशतके समुद्भवः सम्भावनीय इति । निरूपितं किलास्माभिः पञ्चमखण्डस्य द्वितीयसं- ख्यायां श्रीमदाचार्याणां जननसमयादि । किं च नीलकण्ठपण्डिता अपि तमेव समयमनुमन्यन्ते ( आ. वि. सु.)। अन्यच्च श्रीमच्छङ्कराचार्याणां शृङ्गेरीपुरविद्यमाने मठे पञ्जिकायां स एव समयः समुल्लिखित उपलभ्यते ( केसरी ) सत्येवं को वा निराकृत्य श्रद्धयतमानि प्राचीनवचनानि पाश्चा- त्यानुशीलितमेव भ्रान्तिमयं पन्थानमनुशीलयंस्तर्कमात्रशरणतां प्रपद्येत । न ह्यपहाय दृष्टमुचितमदृष्टं कल्पयितुम् । स च समय इतः प्राग्द्विसहस्रस- मधिकानि वर्षाणि । वदन्तु किल पाश्चात्याः पाश्चात्यमात्रानुयायिनो वाऽस्य षष्ठशतके समुद्भूतत्वं किं तु न तद्युक्तियुक्तं प्रतिभाति । अत एवं श्रीशङ्कराचार्याणां मतान्यनुवदन्नपि श्रीभर्तृहरिन षष्ठशतक एव तदुत्तर- संस्कृतचन्द्रिका। भेव वा सम्भूत इति निर्णेतुं शक्यम् । स च कदानी समुद्भूत इति प्रति- पादनस्य तु नायमवसरः । स हि कालो भर्तृहरिसमयनिर्णयावसरे सप- माणं निरूपयिष्यते । स्यात्किल प्रमाणान्तरेण विज्ञानशतकमणेतुर्भतृ- हरेः षष्टशतकसभुद्भूतत्वं किं तु न तेन श्रीमदाचार्याणामवसरः परिवर्त- यितुं शक्यो नापि वा वाक्यपदीयवैराग्यशतकादिप्रणेतुनृपस्य भर्तृहरेः । यद्यपि निर्णीतप्रायं वैराग्यशतकादिप्रणेतुर्विज्ञानशतकप्रणेतुश्चाभिन्नत्वं भर्तृ- हरेस्तथापि तत्संसिद्धौ भूयान्प्रत्यूहः । तत्र तावच्छीकृष्णशास्त्रिणः सिद्धा- न्त उपोद्धातादुद्धृत्य संक्षेपतोऽत्रोपहियते । तथाहि । ( १ ) विज्ञानश- तकस्यान्तिमे पद्ये मयैव शतकचतुष्टयं प्रणीतमिति प्रतिज़ानीते कविर्यथा- बुधानां वैराग्यं सुघटयतु वैराग्यशतकं गृहस्थानामेकं हरिपदसरोजप्रणयिनाम् । जनानामानन्दं वितरतु नितान्तं सुविशद- त्रयं शेषव्याख्यागलिततमसां शुद्धमनसाम् ॥ इति * पद्यमिदं विज्ञानशतकस्य वैराग्यशतककर्तृनिर्मितत्वं बोधयति । (२) समानकर्तृकाणां काव्यानां यन्नैसर्गिक विचारकल्पनासाम्यं पद्यरचनारुचिसादृश्यं वर्तते तत्रापि शतकचतुष्टये प्राप्यते । तत्र दिङ्- मात्रं यथा- सहनीयतेजः ( वि० श० ५५)-शान्तायतेजसे (वैराग्यश०१) अन्नाशाय सदा रटन्ति ( वि. ९५)-दीनादीनमुखैः (वै. श०८) क्षुत्क्षामकण्ठाः (वि. १८)-क्षुक्षामोऽपि । वेदो निर्वेदमागात् (वि०६ पुरा विद्वत्ताऽऽसीत् ( वैश०२८)--- । अजरममरं चिन्तय मनः परं ब्रह्म (वि० १५)---तस्मादनन्तमजरं परमं विकासि तद्ब्रह्म चिन्तय (वै०. * सुविशदानां शतकानां त्रयमित्यर्थः । तच्च नीतिशङ्गारविज्ञानात्मकम् । शेषस्य पर- मात्मनो व्याख्या नाम तेन गलितं नष्टं तमो मोहो येषां तेषामत एव शुद्धमनसा (प्रज्ञा )। ।

समालोचना। ७६ ) तां काशी नो भजन्ते किमिति सुमतयो दुःखभारं वहन्ते (कि ३८ )--तां काशी परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते । नाभ्यस्तो धातुवादः ( वि०४७)-नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या (वै०८९)। सर्वोपायविनाशनैकचतुरः कालाय तस्मै नमः ( वि० ९९ ) सर्वं यस्य वशादगास्मृतिपथं कालाय तस्मै नमः ( वै० ३७) । जरया जीर्णी- कृतायां तनौ ( वि० ९४ ) जराजीगैरङ्गैः (वै० ११२) । आढ्यः कश्चिदपण्डितोऽपि (वि० ८२) यस्यास्ति वित्तं (नी० श. ४१) । इत्यादि । ( ३) अर्थिततया (वि० २१ )-- आत्मबोधः ( शृं० ५२) अत्रोभयत्रापि व्यधिकरणबहुव्रीहिः सप्तमीतरविभक्तिक इति सादृश्यम् । (४) लिखितपुस्तकान्ते श्रीभर्तृहरिविरचितं विज्ञानशतकमिति सष्टमुपलभ्यते । (५) भर्तृहरिनिर्वेदनाटक इवात्रापि भर्तृहरिर्भायां प्रति बालाश- ब्देन व्यवहरति । इति अथास्य समीचीनत्वमसमीचीनत्वं वा यथामति निीयते । तत्र तावन्न युज्यते प्रथमा भणितिः । न हि तत्र पद्ये विज्ञानशतकपणेत्रैव शतकत्रयं प्रणीतमिति कण्ठतः प्रोक्तम् । इदमेव खलु पद्यं विज्ञानशत- कस्य शतकत्रयकर्तुर्भिन्नकर्तृकत्वं प्रद्योतयति । को वा महात्मा पद्यमि- दं समीचीनं सरलार्थमिति वाङ्गीकुर्यात् । कश्चास्य स्वीकुर्याद्भर्तृहरि- प्रणीतत्वम् । न खलु महाकविपदा) भर्तृहरिर्दोषगणग्रस्तमेवंविधं पयं कदाचिदपि ग्रथ्नीयात् । दोषाश्चात्रसुधीभिरवधेया यथा-सुघटयतु न जानीमोऽत्र सुपदस्य प्रयोजनमिति घटयत्वित्यनेनैवेष्टार्थसिद्धरधिकपद- प्रयोगो दोषः । अन्यच्च । यदुक्तमत्र शेषव्याख्यागलिततमसां शुद्धम- नसां जनानां शतकत्रयमानन्दं जनयत्विति कथं नाम तत्सङ्गच्छताम् । परमेश्वरनामस्मरणेन गलिताज्ञानानां विशुद्धमनसां महात्मनां क इद ।

२४ संस्कृतचन्द्रिका। शृङ्गारशतकेनानन्द इति विज्ञानशतकप्रणेतैव जानातु । एवं विधानां विशुद्धान्तराणां चेतसि प्रमोदजनकं यदि नीतिशतकं शृङ्गारशतकं वा स्यात्तदा कमवलम्बतां वैराग्यशतकं के च बुधाः । विशुद्धमनसां यदि शतकत्रयमेवानन्दजनकं तदा किमविशुद्धमनसामेव प्रमोदाय वैरा- ग्यशतकं भवतु । सर्वथा नायं कविजनोचितः श्लोकोऽत एव नायं श्री- भर्तृहरिप्रणीतः । अस्य च विज्ञानशतकान्तःपातित्वाद्विज्ञानशतकस्यापि शतकत्रयप्रणेतुर्भिन्नकर्तृकत्वं स्फुटीभवति । (२) न हि खल्वयं नियमो यत्समानकर्तृकाणामेव काव्यानां विचा- रकल्पनाशब्दोपन्यासादि सादृश्यं भवत्यपि तु दृश्यते भिन्नकर्तृकाणामप्ये- तत् । किमधिकं विभिन्नदेशीयेष्वपि कविषु सदृशकल्पनानामाविर्भा- वो दृश्यते । एतच्च निबन्धमालायां द्रष्टव्यम् । क्षुत्क्षामप्रभृतयस्त्वनुप्रासा- र्थमाद्रियन्ते कविमिः । यदि तु विचारसादृश्यमेवात्रापेक्ष्यते तदा तत्र वैराग्यशतके सुस्पष्टमुपलक्ष्यमाणो न विस्मरणीयः श्रीभर्तृहरेनिसर्गोऽपि। यथा सहनीयतेजः शान्ताय तेजस इत्यादिशब्दानां सादृश्याद्विज्ञा- नशतकस्य वैराग्यादिशतककर्तृजन्यत्वं प्रतिपाद्यते। तदा श्रीभर्तृहरेरुपास्यस्य श्रीचन्द्रचूडस्य नात्र नामापि श्रूयत इति तद्भिन्नकर्तृकत्वमप्येतस्यावश्य- मभ्युपेतव्यम् । आंह च भर्तृहरिक्तिः शूलिनि शक्तिरात्मदमने इति शिवोपासकत्वमेव सतां लक्षणं नीतिशतके । अस्तौञ्चात्मनः प्रियत्वादेव चूडोत्तंसितचारुचन्द्रकलिकेति श्रीशङ्करमेव । वैराग्यशतकेऽपि । एवं कदा वाराणस्यामित्यादौ च शिवस्तवनमेवा. नेन क्रियमाणमुपलभ्यते यश्चैवमविरतं शिव एव ध्यायंस्तन्मयत्वमगमय- च्वेतः। स एव श्रीभर्तृहरिः केवलश्रीकृष्णस्तुतिमयं विज्ञानशतकं प्रणिना- येति को वा ब्रूयात् । विज्ञानशतके च तत्र तत्र श्रीकृष्ण एव कविनोपव- ण्यते । एत-च तत्रत्यैकविंशद्वाविंशत्रयोविंशचतुर्विंशादिपद्यावलोकनेन स्फुटीभविष्यति । (क्रमशः) ।

श्रीशिका शरणम्।
। संस्कृतचन्द्रिका ॥
॥ श्रीगणेशाय नमः॥
शिवादीनपि कार्याणि कारयन्ती जनानिव ।
मायाऽवलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी ॥
॥ मासावतरणिका ॥
प्लुष्टप्रायेषु शश्वहिनकरकिरणैः पावकार्चिःसगडं-
लॊकेषूद्याति योयं क्षितिधरकटकान्मासि शुक्रेम्बुवाहः ।
तेन प्रीतं निकामं भुवनमिदमभूत्तन्न चित्रं हि काले
चेतस्यल्पाऽप्यदनां मुदमपजनयत्येव वाच्छोपकर्तुः॥२॥*
॥ उद्भटश्लोकः॥
आलिङ्गन्य गाढमुदरं पितुरर्धजाने-
रुत्सङ्गन्वय॑वतु बालगजाननो वः।
यत्कुम्भयोगिरिसुताकुचपावभाजीः
स्तन्यं पिपासति गुहस्त्रिभिराननाजैः ॥ ५॥+
*प्लुष्टो दग्धः । अर्चिाला । सगर्थ्यः सदृश इत्यर्थः । क्षितिधरः पर्वतः ।
शुक्रो ज्येष्ठः । अम्बुवाहो मेघः । अदभ्रा बहुला ।
+ अर्धं शरीरस्यार्धभाग एव जाया यस्य सोऽर्धजानिः । शङ्करस्यार्धनारीनटे-
श्वरत्वाद्वामशरीरस्य नारीमयत्वमवबोध्यम् । पितुः श्रीशिवस्य उदरं गाढं यथा तथा-
ऽऽलिङ्ग्य उत्सङ्गवर्ती अङ्के वर्तमानो बालगजाननः शिशुरूपः श्रीगणपतिर्वः
अवतु । यत्कुम्भयोर्यस्य गजाननस्य कुम्भयोर्गण्डोपरिवर्तमानयोर्वर्तुलमांसपिण्डयोः

२६ संस्कृतचन्द्रिका। श्रीमदप्पयदीक्षितः । THA ( पूर्वतोनुवृत्तः) उक्तपूर्वमस्माभिः श्रीमदप्पयदीक्षितप्रणीतानां प्रबन्धानां यावद्विदितं नामानि प्रदर्य दृष्टानां तात्पर्यमपि वर्णयिष्याम इति । तदिदानी प्रस्तू- यते । एतेन किल विशालमतिवैभवेन बहवः शास्त्रीया अशास्त्री- याश्च प्रणीता ग्रन्थाः । तत्र तावच्छास्त्रीया एतेऽस्मच्छ्रवणसर- णिपुपायाताः । यथा-१ आत्मार्पणस्तुतिः २ उपक्रमपराक्रमः ३ ब्रह्म- तर्कस्तवः ४ मध्वमतविध्वंसः ५ रत्नत्रयपरीक्षा ६ वादनक्षत्रमालिका ७ विधिरसायनसुखोपजीविनी ८ वीरशैवम् ९ शारीरिकन्यायरक्षामणिः १० शिवतत्त्वविवेकः ११ शिवादित्यमणिदीपिका १२ शिवाद्वैतनि- र्णयः १३ शिवार्चनचन्द्रिका १४ सिद्धान्तलेशसङ्ग्रहः १५ कुवल- यानन्दः १६ रसिकरञ्जिनी १७ चित्रमीमांसा १८ वृत्तिवार्तिकं चेति । तत्राद्याश्चतुर्दशदर्शनरहस्यप्रतिपादकाः कुवलयानन्दादयश्च चत्वारोऽलङ्का- रशास्त्रीयाः । एतेषु च ब्रह्मतर्कस्तवः कुवलयानन्दश्चित्रमीमांसा वृत्तिवा- तिकं च दृष्टा अस्माभिः । अशास्त्रीयेषु तु द्वौ कोशौ तदितरे च काव्यमयाः। तत्र नामसङ्ग्रहमा- ला शब्दप्रकाशश्चति कोशद्वयम् । १ चन्द्रकलास्तुतिः २ दशकुमार-- चरितसंक्षेपः ३ भक्तिशतकम् ४ भारततात्पर्यसङ्ग्रहः५ वरदराजशतकम् ६ वैराग्यशतकम् शिवकर्णामृतम्८ हरिवंशसारचरितं चेति काव्यानि । एतेषु च वैराग्यशतकमेवास्मन्नयनपदवीमवतीर्णम् । ये च न दृष्टाः प्रब- गिरिसुतायाः कुचयोः पार्श्वभाजोः सन्निहितयोः सतोः गुहः कार्तिकेयः त्रिभिः आन- नाब्जैः कमलसदृशैर्वदनैः स्तन्यं मातृस्तनजन्यं पयः पिपासति पातुमिच्छति। पार्वत्याः शङ्करार्धशरीरमयत्वादेकस्तनशालित्वेऽपि तत्समीपगतौ गजाननस्य गण्डावपि स्तना- वित्येवाशङ्कमानः स्तनत्रयमिदमिति मत्वा त्रिभिर्वदनैः पातुं वाञ्छतीति भावः ॥

श्रीमदप्पयदीक्षितः। धास्तेषामप्यनुसंधानाय प्रयतामहे । किं तु सांप्रतं प्रत्यक्षीकृतानामेव प्रब- न्यानां तात्पर्यमुपवर्ण्य यथावसरमुपलब्धेषु प्रबन्धान्तरेषु तत्रत्यमपि तात्प- यं प्रतिपादयितुं वाञ्छामः । अहो दुर्भाग्यं भारतवर्षस्य यदेवंविधान्यपि प्रबन्धरत्नानि नोपलब्धुं शक्यन्ते । भवत्वनुसारामः प्रकृतम् । ब्रह्मतर्कस्तवः। प्रबन्धोयं पद्यात्मकोऽतिमनोहरश्च । अस्य च द्विपञ्चाशत्पद्यानि । प्रतिपाद्यं च किं स्यादिति श्रीमदप्पयदीक्षितस्य शिवएव परं ब्रह्मेतिसि- द्धान्तं प्रबन्धस्य च ब्रह्मतर्कस्तव इत्यभिधानमवलोक्यावगच्छेयुरेव विच- क्षणाः। स खल्वात्मनः सिद्धान्तः प्रतिपक्षशानिराकरणपूर्वकं सप्रमाणं चात्र स्थिरीकृतः । अस्ति चास्य श्रीमदपयदीक्षितैरेव प्रणीता नानाविधश्रुतिस्मृ- तिप्रमाणपरिप्लुता विविधयुक्तिजालकसमुद्भासिता च व्याख्या । तत्संवलिते. च सकृदपि पठितेऽस्मिन्ब्रह्मतर्कस्तवे भवत्येव श्रीदीक्षितचरणानां सर्वतो मुखस्य दुरासदस्य पाण्डित्यस्य परिचयो विस्मयते चान्तरं संप्ररोहन्ति च तत्क्षणमेव भक्त्युन्मेषातिशयात्पुलकाः सर्वाङ्गेषु। अतिमहीयसो विवादग्रस्त- स्यापि विषयस्य रहस्यमस्मिन्नतिलघीयस्यापि प्रबन्धे सम्यगुपनिबद्धम् । एतद्गतेभ्यश्च पद्येभ्यः कानिचित्सविवरणान्युद्धृत्य प्रदर्श्यन्ते गुणामृतमात्र- लोलुपेभ्यो विद्वद्भ्यः । उच्यते किल कैश्चित् श्रीशिवो नाम तामस एवेति तच्च निराकृतं युक्त्यादिभिर्निराकृतं ब्रह्मतर्कस्तवे यथा- अथ तामसत्वं संहाररुद्रधर्म- मपि परशिवधर्ममभ्युपेत्य तस्यदोषत्वाभावं समर्थयते- कालाग्निरुद्रवपुषा भगवान्भवाति कल्पावसानसमयेषु हरन्प्रजानाम् । गृह्णासि शङ्कर तमः करुणैकमूर्तिः शस्त्रं नृणां व्रणरुजं शमयन्निव त्वम् ॥ २० ॥ (१)विवरणं तु संक्षेपादेव प्रदश्यते विस्तरभयात् ।

संस्कृतचन्द्रिका । किमिह तामसत्वं दोषत्वेनोपपायते किं तमोगुणमुपकरणं कृत्वा स- कलं जगत्संहरतीति नैपुण्यापादकत्वेन तमोगुणोपकरणत्वेन दोषत्वमुप- पाद्यते उत प्राकृतजनवत्तदभिभूतत्वम् । तत्राद्यपक्षनिराकरणार्थं श्लोकः । संसारमहाध्वनि चिरं गतागतश्रान्तान्प्राणिनः किञ्चित्कालं महासुषुप्त्या- पादनेन विश्रान्ति प्रापयितुं सकलजगत्संजिहीर्षन्महादेवस्तत्संहारोपकरण- तया तमो गृह्णाति । यथा चिरकालव्रणरुजा. निद्राहाररहितानतिदुः- खमनुभवतो मनुष्याव्रणरुजोऽपनयनेन सुखयितुं तात्कालिकं किंचिद्दुःख- करमपिव्रणच्छेदं करिष्यन्त्रणवैद्यस्तदुपकरणतया शस्त्रं गृह्णाति । न च शस्त्रग्रहणं व्रणच्छेदनं च तस्य नैपुण्यापादकम् । किं तु अयं व्रणी रक्ष- णीय इति परमदयालुत्व ज्ञापकमेव । तदेतदुक्तं शिवपुराणे निदानज्ञस्य भिषजो रुग्णे हिंसां प्रयुञ्जतः । न किंचिदपि नैण्यं घृणैवात्र प्रयोजिकेति। अथ द्वितीयं विकल्पं निरस्यति- निद्रालुता न तव शङ्कर शक्यशङ्का क्रौर्यं किमप्यनुचिते विषये न दृष्टम् । नान्योऽपि कश्चन गुणस्तमसो विकारः शङ्ख्या कथं तव बुधैस्तमसाऽभिभूतिः॥ २१ ॥ तमसाऽभिभूतस्य हि निद्रापारवश्यं भवति न तदिह शक्यशङ्कम् । जागरेऽपि तस्य क्रौर्यं भवति तदपि शिवस्य क्वचिदपि न दृष्टम् । ननु त्रिपुरजलन्धरादिवधमूलस्य क्रौर्यस्योचितविषयत्वेऽपि ब्रह्मपञ्चमशिरोलवन- दक्षाध्वरध्वंसनादि देवतानिग्रहमूलं क्रौर्यं त्वनुचितविषयमिति चेदुच्यते। निग्रहस्तावविविधः । अनुग्रहोद्देश्यकस्तदनुद्देश्यकश्च । आद्योऽपि त्रिविधः अनुग्राह्यानुग्रहोद्देश्यकस्तदितरानुग्रहोद्देश्यक उभयानुग्रहोद्देश्यकश्च। तत्रायः सदाचारानुवर्तनाद्यर्थः पुत्रशिष्यादिनिग्रहः स तु युक्त एव । द्वितीयो बह्वितरानुग्रहार्थश्चेन्न दोषः । एकस्मिन्यत्र निधनं प्रापिते दुष्टचारिणि । बहूनां भवति क्षेमं तत्र पुण्यप्रदो वध इतिवचनात् । स यथा मृगयया श्रीमदप्पयदीक्षितः। व्याघ्रादिवधः । चोरवधउभयनिग्रहार्थः राजभिधृतदण्डास्तु हित्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति संतः सुकृतिनो यथेतिवचनात् ॥ एवं निदोषाणां मध्यवर्देवान्यतमः शिवकृतो निग्रहः सर्वोऽपि । अतः पुत्रादि- निग्रह इव ब्रह्मादिनिग्रहोऽप्युचितविषय एव । तदुक्तं शिवपुराणे । ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः । तेऽपिलोकहितायैव कृताः श्री- कण्ठमूर्तिना ॥ अखण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः । श्रीकण्ठाख्यां शिवो मूर्ति क्रीडन्तीमधितिष्ठति ॥ सदाषा एव देवाद्या निगृहीता यथोचि- तम् । ततस्तेऽपि विपाप्मानः प्रजाश्च विगतज्वराः ॥ निग्रहोऽपि स्वरूपेण विदुषां न जुगुप्सितः । अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ यसिद्धिरीश्वरत्वेन कार्यवर्गस्य सर्वशः । न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥हिते सदा निषण्णानामीश्वरस्य निदर्शनम् । कथं स हृष्यते सद्भिरसानामेव निग्रहात् ॥ सर्वोऽपि निग्रहो लोके न च विद्वेषपूर्वकः । न च दृष्टि पिता पुत्रं यो निगृह्यापि शिक्षयेत् ॥ इति ॥ एवं निद्राक्रौर्ययो- रभावऽपि मोहादिविकारो यदि दृश्येत तदाऽपिकल्प्येत तमसाऽभिभूतत्वम् । अतः श्रीशिव तस्याप्यभावात्तत्कल्पनं निरवकाशमिति भावः । इत्यादि। एवमादिभिः श्लोकैः श्रीशिवस्य तामसत्वं प्रमाणोपन्यासपुरःसरं निरा- कृत्य पशुपतित्वदोषोऽपि निरस्तः । तत्रत्यं पद्यमेकमात्रमुद्धृत्यात्र प्रका- श्यते । यथा आगन्तुकं यदि भवेत्तव पाशुपत्य- मर्थोऽपि निस्तरति नानुपपत्तिसीमाम् संसारिणो हि सकलाः पशवो निरुक्ताः स्यादादिमत्कथमधीश्वर तत्पतित्वम्॥३१॥ * यदि ते पाशुपत्यं पशुपतित्वमागन्तुकं अस्वाभाविकमा दिमदित्यर्थः । यदि भवेत्तदा अर्थः पशुपतिपदस्यार्थोऽपि अनुपपत्तिसीमां अयोग्यत्वस्यमर्यादां न निस्त- रति नोल्लङ्घयति । अयोग्यत्वरूपेण दोषेण प्रस्तो भवतीत्यर्थः । कः स पशुपति- पदस्थार्थ इत्युत्तरार्धेणाह । संसारिण इति । निरुक्ता अर्थापिताः ।

.... ... संस्कृतचन्द्रिका। पाशुपत्यं हि सर्वेषामपि जीवानामाधिपत्यरूपं सर्वेश्वरत्वमेव । आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्तिनः । तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृत इति शैवलैङ्गादिपुराणोद्घोषात् । अतस्तदनादिसिद्धमादि- मत्कल्पयितुं न युक्तमिति भावः । एतेन तत्तेजोऽसृजतत्यादौ भूतार्थक- प्रत्ययसत्वेऽपि यथा तेज आदीनां न नित्यत्वं तथा पशुपतित्वस्याप्य- स्त्विति शङ्का निरस्ता। न चेह भूतभाविवर्तमानसकल- जीवाधिपत्ये पारमेश्वर्ये नित्ये सिद्धधर्मत्वन्यायः प्रवर्तयितुं शक्यते । एवं प्रसाधितं पाशुपत्यस्यानादित्वम् । इत्यादि एवं गङ्गाधारणस्यापि यो हेतुः कैश्चिदुपन्यस्यते भगवता किल शिवे- नात्मानं पावयितुमेव पावनीति शिरसि धृता भागीरथीति तदपि निका- ममयुक्तमिति निराकृतं श्रीदीक्षितचरणैस्तत्रैव । यथा- गङ्गा धृता न भवता शिव पावनीति नास्वादितो मधुर इत्यपि कालकूटः। संरक्षणाय जगतां करुणातिरेका- कद्वयं कलितमेतदनन्यसाध्यम् ॥ ३५॥ गङ्गाधारणं तावदनन्यसाध्यमिति भारते भगीरथं प्रति गङ्गावचने- नावगतम् । करिष्यामि महाराज वचस्ते नात्र संशयः । वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥ न क्षमस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप । अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरादिति ॥ रामायणेऽपि तं प्रति ब्रह्मवचनेनावगतम् । गङ्गायाः पतनं राजन्पृथिवी न सहि- प्यते । तां वै धारयितुं नान्यं पश्यामि शूलिन इति ॥ भागवते तु । कोऽपि धारयितुं वेगं पतन्त्या मे महीतले । न चेद्भूमितलं भित्त्वा नृप यास्ये रसातलमिति पृष्टवतीं गङ्गां प्रति भगीरथवचनेनावगतं यथा-धारये- दवीवेगं रुद्रः स्वात्माशरीरिणाम् । यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव सन्तुषु । इति । इदं च गङ्गाधारणं न केवलं भगीरथपितामहोत्तारणमा- । - ।

श्रीमदप्पयदीक्षितः। ११ त्रार्थ किं तु सर्वोपकारकस्यागस्त्येन पीतस्य समुद्रस्य परिपूरणेन गङ्गा- वेगाद्भूविदारणपरिहारेण च जगत्संरक्षणार्थमित्यपि भारते समधिगतम् । तत्र ह्यारण्यपर्वणि अगस्त्यनिपीतस्य लोकपावनतया सर्वोपकारकस्य समुद्रस्य परिपूरणोपायं प्रष्टुमागतान्देवान्प्रति ब्रह्मणा भगीरथः स्वपिता- महोत्तारणार्थं गङ्गामानेष्यति तया च समुद्रस्य पूरणं भविष्यति विग- तज्वरा भवथेत्युक्तमिति प्रपञ्चितम् । एवमनन्यसाध्यं गङ्गाधारणं जग- संरक्षणार्थमेव शिवेन कृतं न तु स्वस्यापि पावनीति तद्धारणं कृतम् । यथा- कालकूटं विषं मधुरमिति नास्वादितं किं तु जगत्संरक्षणार्थमेव एवमिद- मपीति दृष्टान्ततया संप्रतिपन्नं कालकूटग्रसनोदाहरणम् । तद्धि जगत्सं- रक्षणार्थमिति शिवपुराणादिषु प्रसिद्धमेव । भागवतेऽपि तथैवोक्तम् । तत्र हि कालकूटप्रादुर्भावानन्तरं तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्प- दसह्यवीर्यम् । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदा- शिवमित्युत्क्त्वा ततस्तत्प्रसादनाय त्रिमूर्युत्तीर्णनिस्वैगुण्यशिवाभिधानपरब्र- मरूपपरमात्मतत्त्वतया तत्र कैलासवासिन: श्रीकण्ठरुद्रस्य शिवविभूतिवि- शेषस्य प्रजापतिकृते स्तोत्रे कालकूटसंहरणमिदं ब्रह्मादीनामप्यसाध्यमत- स्त्वदेकशरणा वयमित्युक्तम् । एवं भगवतः श्मशाननिवासित्वरूपो दोषोऽपि कैश्चिदुत्थाप्यमानः परिहृतः सप्रपञ्चम् + । तस्यापि सारमात्रमत्र प्रदर्शयितुमिच्छामः । यथा- दग्धे तवाक्षिदहनेन चराचरेऽस्मि- न्मत्वाऽखिलं भुवनमेव महाश्मशानम् । तत्र स्थिति विबुधनाथ तवासहायां संतः श्मशानवमति समुदाहरन्ति ॥ ४८ ॥ + श्रीशिवसहस्रनामभाष्ये तु इमानः प्रेताः प्राणिनः शेरते पुनर्जन्माभावाल्लीयन्ते ऽस्मिस्तच्छ्मशानमितिव्युत्पाद्य श्मशानं मोक्षप्राप्तिस्थानमिति स्थिरीकृत्य तच्च काश्यां तु मरणान्मुक्तिरिति काश्येवेत्याभिहितमत एव च तत्र निवासाट्रीशिवस्य नास्ति दोप- लेशोऽपीत्युक्तमिति प्रकाशकः ।

३२ संस्कृतचन्द्रिका। अत्र भागवतवचनं कामाध्वरत्रिपुरकालगराधनेकभूतद्रुहः क्षपयतः स्तुतये न तत्ते । तन्वन्तकाल इदमात्मकृतं स्वनेत्रवह्निस्फुलिङ्गशिखया भसितं न वेदेति ॥ एवं महाश्मशानवासदोषं परिहृत्य क्षुद्रेष्वपि श्मशा- नेषु नृत्यकारित्वरूपं दोषं बीजोपन्यासेन परिहरति । यथा- संध्यासु भूतगणभैरवभद्रकाली- संरम्भजन्मजगदापदपासनाय । तबोचरेषु पितृकाननभूमिषु त्वं तत्तादृशं गिरिश ताण्डवमातनोषि ॥४९॥ महान्खल्वस्य विवरणप्रपञ्चो न शक्यते समग्रः समुद्धर्तुमतस्तात्पर्य- मात्रं प्रदर्शयामः । तथा हि । लिङ्गपुराणे संध्यासु श्मशाननृत्यस्य हेतु- रुक्तः । पुरा किल पुरुषणावध्यस्य दारुकासुरस्य वधार्थं शिवेन प्रेरिता महादेवी जगन्मातृत्वेन दयालुतया क्रूरमपि तमसुरं न जघान । किं तु केन चिदंशेन शितिकण्ठं प्रविश्य कालकूटस्य सहस्रतममप्यंशं पीत्वाऽ- तिक्रूरा भद्रकाल्यभवत् । ततश्च दारुकं निहत्य गणैः सह श्मशाने नि- वसन्ती स्वयं लोकान्त्संहर्तुमारेभे । ततः शिवः केनचिदंशेन बटुकभैरवो भूत्वा तामुपसृत्य स्तन्यं याचमानो रुदन्नशैष्ट । साऽपि दयया तस्मै स्तन्यं प्रादात् । स तु तत्पानेन सपदि परिवृत्तस्वभावः क्रूरो भूत्वा तया सह जगत्संहर्तुमारेभे । ततः प्रभृति च श्रीशिवो भद्रकाल्या बटुकभै- रवस्य तद्गणानां च परित्रासाजगद्रक्षणीयमिति कृत्वा तेषामानन्दनाय श्मशानभूमिषु नृत्यति । सैव हि भद्रकाल्यादीनां निवासभूमिरिति ॥ अतःपरं च महाभारतवामनपुराणश्रीमहाभागवतादिषु यथोक्तं नैतद्रूषण- मिति तथैव सविस्तरं प्रोक्तं दीक्षितपादैः । एतच्च ब्रह्मतर्कस्तवे द्रष्टव्यं रसिकैः ॥ सहृदयाः समुपहृतोऽयं ब्रह्मतर्कस्तवस्य सारः श्रीमद्भ्यः संख्यान्तरे तु प्रबन्धान्तराण्युदाहरिष्यामः । (क्रमशः) श्रीभागीरथीमाहात्म्यम् । श्रीभागीरथीमाहात्म्यम् ॥ सुधासोदय ते सलिलमशिवं नः शमयतु । हा धिग्दैवम् । येषामेवातिविशालतमस्य ज्ञानाम्भोधेः कणानास्वाद्य विदेशवर्तिनोऽपि वैज्ञानिकत्वमासादयितुमीहन्ते येषामेव करुणालवस्य निदर्शनानि श्रीब्रह्मसूत्रप्रभृतीनि शास्त्राणि पुराणसङ्घाश्च ये च योगब- लाकालिकमपि वस्तुजातं प्रत्यक्षीकृत्य तत्तत्कालोचितान्यभिदधुः कर्माणि ये च स्वप्नेऽपि परप्रतारणं पापमेवेत्याकलयाञ्चकुस्तेषामेव पवि- त्रतमानामार्याणां वंशे समुद्भूता विलक्षणवितर्का नव्यपुरुषाः सर्वमपि प्राचीनानां मतं नाम परप्रतारणायाः पराकाटिरिति संभावयन्तो धिक्कु- र्वन्ति प्राचीनान् । न चैषां वेदाः प्रमाणं शास्त्राणि न स्मृतयो नापि वा पुराणानि । यो हि प्राचीनानां वदेण्वादरः स एषां पाश्चात्यवैज्ञानि- कानां वचनेषु । ते यदि ब्रूयुर्नास्ति गोरात्मेति तदाऽमी आप तेषामेका- न्तपरिचरा ॐ तथेति तदपिस्वीकुर्युः । तत्रैव विहितसुदृढविश्वासा ह्येते निनपितृदेवतृप्तिहेतुभूतमपि श्राद्धं ब्राह्मणानामात्मम्भरित्वे दृष्टान्तत्वेनोप- न्यस्यन्ति । सुरपूजनमपि प्रतारणामाकलयन्ति । यज्ञोपवीतधारणमपि निर्हेतुकमेव मन्यन्ते । मृते पितरि क्रियमाणं क्षौरमपि यत्किञ्चनकारि- त्वपक्षे कुर्वन्ति । तीर्थजलान्यपि तृणायमन्यन्ते । क्षेत्राण्यपि सावहेलं पश्यन्ति । किमधिकं तदेषां प्रमाणपदवीमवगाहते तदाचरणीयतामुप- याति तत्रादरः समुन्मिषति तदेवानुल्लङ्घनीयं भवति तदेव च लोक- हितबीजतामुपयाति यन्नामपाश्चात्यवैज्ञानिकानां वदनारविन्दतो यदृच्छ. याऽपि निःसरेद्वचनमित्यहो जितं भगवता कालेन पाश्चात्यास्तु अस्मद्देशीयानामपि प्राचां वचनानि विचारयितुं प्रवृत्ता विविधैर्यन्त्रादिभिरनुभूय प्राचीनप्रतिपादितानां वस्तूनां माहात्म्यं यदा यदा ।

संस्कृतचन्द्रिका। ब्रुवते अहो पवित्रतमा किल तुलसी । अस्या हि पत्रैः स्पृष्टोपि पवनः पवित्रतामुपयाति । कषायपत्रतोऽपि शैत्यव्यथापनयने साधीयांस्तुलसी- वृक्ष इति वा । अहो मतिर्भारतवर्षीयाणां प्राचीनविदुषां यदैतैः प्राणा- यामो विधेयत्वेनोक्तः । एतेन हि प्रस्फुरति बुद्धिः संवर्धते शक्तिः शुध्यति च मास्तिष्कामति वाऽवश्यविधेयानि श्राद्धानीति वा । तदा तदा तदनुकरणमात्रेण कृतार्थीभवितुकामाः खल्वेते क्षणादेव तत्र तत्र वाता- यनेषु प्रग्रीविकाप्रान्तेषु वाट्टालिकानां शतशस्तुलसी पात्राणि न्यस्यन्ति । अर्धसाधितमपि दुग्धपत्रकषायमूषरे क्षिपन्ति। प्रशंसन्ति प्राणायाम निम- न्त्रयन्ति च ब्राह्मणाञ्छ्राद्धार्थम् । यत्सत्यं बालस्यापि वदनमलङ्कुर्या- द्धासोऽमीषामेवंविधेनाचरितेन । अद्यत्वे च कश्चिद्यरोपीयवैज्ञानिकः * सहस्रशोऽपि क्रोशानतीत्य भारतवर्षमुपागतोऽत्रत्यैरप्रगल्भविवेकैः कैश्चित्प्रवाहोऽयं पूतिगन्धिनां पदा- र्थानामशुद्धेयमस्पृश्येयमित्यादिवचनैः कृतपुरस्कारामपि भागीरथीं तत्त्वतो जिज्ञासुः किमित्येषा भारतवर्षीयैः श्रद्धालुभिः प्रशस्यतमेत्यभिधीयत इति निर्णेतुकामश्चातिमहामूल्यानि पृथक्करणयन्त्राण्यादाय श्रीभागीरथ्या- जलं पृथक्चकार । सूक्ष्मदर्शिना चापरेण महामूल्येन यन्त्रेण निरीक्ष्य तन्नीरं परीक्ष्य च निपुणं प्रकारान्तरेण तस्या माहात्म्यातिशयं प्रतिपन्नो यदाह तदन्त्र केषांचित्तोषायोपन्यस्यते यथा- श्रीमत्याः काश्याः परिसरमलङ्कुर्वाणायाः श्रीभागीरथ्या नीरं मया पृथगकारि । तच्च पृथक्कर्तुमारभमाणोऽहं प्रथमं तावज्जलमात्रे विद्यमानाः सूक्ष्मतमाः कीटविशेषाः श्रीभागीरथ्या अपि नीरे विद्यन्ते न वेति विचारयितुमुद्युक्तः । जिज्ञासया चानयाऽऽक्रान्तमानसः समादाय सूक्ष्म- तरमपि पदार्थं महत्तरीकृत्य प्रदर्शयत्किमपि सूक्ष्मदर्शकं यन्त्रं श्रीमत्या भागीरथ्याः सलिलमद्राक्षम् । अहो चित्रम् । यन्निपुणतरमवलोकिते * मार्कटयूनसंज्ञः ३५ श्रीभागीरथीमाहात्यम्। तस्मिन्नासीन्मे निश्चयो यथा-- नूनं गगनमिवातिमात्रनिर्मलमिदं गङ्गो- दकमिति । ततश्च महीयांसमध्यगच्छं विस्मयम् । विषूचिकासन्निपात- जनपदोध्वंसनप्रभृतयो हि भूयांसो भुवनविभीषणा व्याधयः सलिलगतैः कीटविशेषैरेवोत्पद्यन्ते । कीटाश्चैते भूमिजलसमीरणानुसारेण सर्वाण्यपि जलानि यथायथं दूषयन्त्येव न्यूनमधिकं वा । कालविशेष च तेभ्य एव कीटेभ्यः समुत्पद्यन्ते रोगा अनेकविधाः । सत्यप्येवं सृष्टिस्वाभाव्ये निपु- णतरं सूक्ष्मदर्शकेणापि यन्त्रेणावलोकमानेन मया भागीरथ्या जले नै- कोऽपि कीटको दृष्टः । एवं भूते च येऽस्माभिर्यन्त्रविशेषैरपि निश्चेतुम- शक्यास्तेष्वपि सूक्ष्मतरेषु विषयेषु भारतवर्षीयाणां प्राचीनविदुषां निःसं- दिग्धः सिद्धान्त इत्यहो पाण्डित्यं भारतीयानां प्राचीनानाम् । तदानीं किलाहं सहस्रशः प्राचीनमुनीनां धन्यवादमुदघोषयम् । अतिमात्रं चोपा- गच्छं विस्मयम् । ततश्च पुनरहं व्यचिन्तयं किमिति जलान्तरेष्विव गङ्गाजलेऽपि न कीट- कैर्भवितव्यमित्येतदवश्यमनुसंधेयमिति । विचिन्त्य चैवमादाय कूपोदक ( यत्किल जलत्वादेव कीटदूषितम् )तद्गङ्गाम्भसि निक्षिप्तवान् । पुनश्चा- पश्यं सूक्ष्मदर्शकेन यन्त्रेण । एवं कुर्वाणस्य च ममासीत्प्रत्यक्षं यथा जला- न्तराः सर्वेऽपि कीटका गङ्गोदकं प्राप्य सपदि निधनमाजग्मुरिति । अन्तः क्षिप्तेऽपि कीटसंकुले नीरे गङ्गाजलं निजनैर्मल्येन गगनं विडम्ब- यत्येव । नैवैतज्जलान्तरण दूषयितुं शक्यमिति । आसीच्च मे सिद्धान्त:- न खलु जलं नामेदं सलिलं गङ्गाया अपि तु भूतलदुरासदममृत- मेवेदमिति । यथा जलान्तरैः कीटकैर्नेदं दूषयितुं शक्यमेवं नानाविधाः पूतिगन्ध- योपि पदार्था नास्य विकृतिमुत्पादयितुं प्रभवन्ति । काश्यां किल मूत्रपु- रीषादीनामपि कुल्या गङ्गायामिव प्रवेश्यन्ते तत्रत्यैः । कीटका अपि बहव एतत्पविशन्ति । किं तु न तैर्वस्तुभिर्नापि वा तैः कोटरेतस्यमा- ।

संस्कृत चन्द्रिका। लिन्यं भवति । नापि वाऽशतोऽपि पावित्र्यमुपयान्ति । प्रत्युत पूतयोऽपि पदार्था भागीरथीजलस्य संसर्गात्समुज्झन्ति दुर्गुणमात्मीयम् । कीटकास्तु यत्र निपतन्त एव नियन्ते । अहो नु खलु भोः पावित्र्यं भागीरथीनीरस्येति। श्रुत्वा चेदं पाश्चात्यपण्डितवचनं बहव इदानीं प्रतिपन्नाः सुधारका माहात्म्यं मन्दाकिनीसलिलस्य । आस्तिकानां तु प्राचीनमतानुयायिनां भार- तीयानां सितासिते सरित इत्यादि वेदवचनान्येव भागीरथीमाहात्म्यप्रति- पादनायालं प्रयासस्त्वयं नव्यानेव कांश्चित्पत्याययितुमिति शिवम् । अस्मत्कर्तव्यम। (पञ्चमखण्डस्य द्वादशसंख्यातोऽनुवृत्तम् ) यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । निर्दिशन्ति किल शास्त्राणि नायमात्मा नायमात्मेति न त्वयमेवा- मेति । न त्वतो नास्त्येवात्मेति प्रतिबोद्धव्यम् । अन्धः किमपि वस्तु निर्देष्टुं न पारयतीति नास्त्येव तद्वस्त्विति न किल युक्तमभिधातुम् । जनसङ्कीर्णे प्रदेशे भरभितोऽपि वर्तमाना वधन खलु ममायं भर्तेति सांगुलिनिर्देशमभिधातुं पारयते । यदि तु पृच्छेत कञ्चिदन्यमेवाभिमुखीकृत्य सुदति किमयं ते भर्तेति तदा सा ब्रूयान्नेति । एवं मुहुर्मुहुरन्यमन्यमभिमुखीकृत्यानुयुक्ताऽपि नायं नायमित्येव भाषेत । किं तु भर्तारमेवाभिमुखीकृत्य यदि साऽनुयुज्येत मुग्धे किमेष एव ते भर्तेति तदा किल नासौ किचिदपि ब्रूयात् । अपि तु तदा- नीं तस्या लज्जया तूष्णीम्भाव एव सोयमस्या भर्तेत्युत्तरयेत् । अथ भर्तुर- वलोकने यदिथं कुलवधूस्तूष्णीं भवति नैव चायमेव स इत्युत्तरयति किन्नु ततो बोद्धव्यं किमस्त्यस्याः पतिरित्याहोस्विन्नास्त्येवेति । अर्थाद- स्त्यवेत्यवश्यमवगन्तव्यम् । एवं शास्त्रैः स्वरूपतोऽनिर्दिष्टमपि ब्रह्म विद्यत एवेत्यभ्युपेतव्यम् । निषेधमुखेनैवात्मनो निर्देशस्तु शास्त्रैरप्यात्माऽ२ क्यः स्वरूपेण निर्देष्टुमित्येव बोधयति ! गुरुरपि नायमात्मेति यन्निषेधमुखेनै- । ।

अस्मत्कर्तव्यम्। ३७ बोपदिशति शिष्यं तस्याप्ययमेवाशयोऽवबोद्धव्यः। किंतु यदा शिष्यः परं ज्योतिष आनन्दमनुभवति तदा गुरुस्तूष्णीं भवति । शिष्यस्तु दिव्यं प्र- काशमधिगतः समनुभवत्यमन्दमानन्दम् । नैतदृश्यं जगदात्मेत्यशेषाणामेव शास्त्राणां सिद्धान्तः । श्रुतिरप्येतदेव प्रतिपादयति । सा खल्वात्मज्ञानेभूयिष्ठानुपायानुपदिशति यैरात्मावगन्तुं शक्येत । सर्वोऽपि स्वस्वसामर्थ्यानुरूपमुपायमनुवर्तेत । यथा कश्चिन्नरः पीवरतनुना बलीयमा पथिकनात्मनिवासोचितं ग्राम मध्याह्न पृष्टो ब्रूते महाभाग इतः पञ्चक्रोशान्तरितोऽमुकमंज्ञस्तव निवा- सोचितो ग्रामस्तत्रैवातिवाह्यतां रात्रिरिति । अथ स एव केनापिनिर्बलेन मन्दगतिनाऽस्थिमात्रसारण तथैव कृतप्रश्नो ब्रूते भद्र इतः क्रोशद्वयान्त- रितस्तवनिवासोचितोऽमुकनामा ग्रामस्तत्रातिवाह्यतां रजनीति । पृच्छतो नरस्य सामर्थ्यमनुमायाभिहितमेतद्युक्तरूपमेव । यस्य हि यादृशी शक्ति- स्तस्य तादृश उपदेशः । एवं शास्त्रमपि मोक्षपत्तनं प्रवेष्टुं वाञ्छन्तं नरं स्वसामर्थ्यानुरूपमेवानुवर्तितुमाश्रमचतुष्टयं विदधाति । तत्र च यो यस्या- नुरूपः स तेनाश्रयणीयः । ते च ब्रह्मचर्यगाहस्थ्यवानप्रस्थसंन्यासाख्या- चत्वारो द्विजैरनुभवितव्याः क्रमशः । किं तु गार्हस्थ्यात्परमेव संन्यासः स्वीकार्य इति नायं नियमः । यदा हि नरस्य वैराग्यं जायेत तदेव संन्यासो विहितः । अतो यदि वैराग्यं तदा ब्रह्मचर्यादपि प्रव्रजेत् । एव- मेव श्रुतावुक्तं यदहरेव विरजेत्तदहरेव प्रव्रजेद्ब्रह्मचर्याद्वा गृहादा वनावति । आत्मानुचिन्तनमेव संन्यासिनां परोधर्मः। गृहस्था अप्यात्मानुचिन्तना- भ्यासमात्मनो धर्मस्यान्यतमं भागमाकलयेयुः । आत्माभ्यासविषये न किल विलम्बा युक्तः। उक्तंच यावत्स्वस्थमिदं कलेवरगृहं यावज्जरा दूरतो यावञ्चेन्द्रियशत्तिरप्रविहता यावत्क्षयो नायुषः । ।

। । संस्कृतचन्द्रिका। आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा- न्त्सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥इति॥ तत्त्वं च जिज्ञासुः शास्त्रमभ्यस्येत् । तत्त्वज्ञानानन्तरं च जह्याच्छा- स्त्राणि । तेषां तदानीमनुपयुक्तत्वात् । शरीरमेवात्मेति विचारस्तु माया- मूलक एव । शरीरस्यात्मीयत्वविषयिणी तु कल्पना नरशृगालयोस्तुल्यैव तत्र शृगालस्यैव कदाचिच्छरीरस्यात्मीयत्वविषयिणी कल्पना युज्येत । मरणोत्तरं हि नराणामपि शरीरं शृगालस्यैवाधीनं भवति । शरीरं किल जलबुबुदैस्तुलितम् । किं तु जलबुबुद्दमप्यतिशेते शरीर संकटाधिक्येन । अतर्कितोपनतं मरणं यथा कश्चित्स्नातुं गच्छति तत्रैव दैवगत्या निमज्जति च । उरगग्रस्तार्थतनोर्भेकस्येव शरीरमिदमस्माकम् । यदर्थं वयं मानुष्यं प्राप्तास्तत्साधने धनमन्ये च लौकिका भोगाः संकटा- यैव । तेषां रक्षणं केवलं त्रासावहमेव । अत्रेयं काचिदाख्यायिका । कश्चिद्गुरुरात्मनः शिष्येण सह स्थानान्तरमुद्दिश्य प्रतिष्ठमानः पथि किमपि भयं वर्तते न वेति तं पप्रच्छ । शिष्यस्तु न बोधितवान्प्र- योजनमेवं विधस्यानुयोगस्य । अथान्यस्मिन्दिवसे विविक्तमासेवमानो गुरुः कामपि वसनपेशिकां कुक्षेबर्हिः कृत्वा रक्षनामप्रमत्तमिति शिष्याय प्रादात् । किमेतत्स्यादिति कुतूहलाकुलितः शिष्यो यावत्तामुद्ग्रथ्य बन्धन- मवलोकते तावत्तत्र दीप्तिमत्सुवर्णमभूत् । ततश्चेदमेव प्राग्गुरुणा कृतस्य प्रश्नस्य बीजमिति ज्ञात्वा तां सुवर्ण गर्दा पेशिकां धरातले निचखान । अथ प्रतिनिवर्तमानो गुरुः कश्चन पान्थमप्राक्षीद्विद्यते कापि मार्गे भीतिरिति शिष्यस्तु तदाकर्ण्य सविनयमब्रवीत् गुरो भीतिस्तु किल प्रागेव पृष्ठतः कृताऽलमिदानी चिन्तयेति । नेदं शरीरमात्मेति प्रत्यक्षऽपि दृश्यते यथा ममैष पादो ममेदं शिर इत्येव वयं बमो न त्वहं पादोऽहं शिर इत्यादि । एतावतैव किलतेषां कश्चिनियन्ता स्वामी च विद्यत इति संसिद्धम् । यदा किल देवदत्तो यथा- अस्मत्कर्तव्यम् । म्रियते तदा मृतो देवदत्त इति वयं ब्रूमः । किं तु दृश्यत एव तस्य शरीरम् । अतः सिद्ध नात्मा शरीरमिति । नान्नमय आत्मा । किं त- दात्मा प्राणात्मकः । गाढप्रसुप्तो नरस्तारतरमाहूतोऽपि नैव प्रत्युत्तरयति। ताकिं तदा न स जीवति । अतो नात्मा प्राणमयः । किंतर्हि मन एवा स्मा । देवदत्तो ब्रूत एवं मे मनस्यासीदिन्यादि । अतोऽस्ति किंचिन्मनसो ऽपि भिन्नं येनानुसार्यते लोक इति सिद्धम् । अतो नात्मा मनोमयः । नाप्यात्मा बुद्धिसुखात्मकः । सुखं हि क्षणविनाशि । नात्मा विज्ञानमयो ऽज्ञानमयो वा । नापि स्तनन्धयत्वबाल्यतारुण्यवार्धक्यादिभिर्विक्रियते। अथ किमिदानीमात्मा । शुद्धचिन्मयोऽयमात्मा । सुषुप्तौ किल शुद्धं ज्ञानमाविर्भवति । ज्ञानं तु द्विविधं स्मृतिरनुभवश्चेति । सुषुप्तिसमु- द्भूतं तु ज्ञानं स्मृतिसदृशम् । प्रबुद्धो हि प्रातर्वदति सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति । निद्रायां सुखं विस्मृतिश्चानुभूयते । सर्वव्यापी खल्व- यमात्मा । स प्रकाशतेऽतितरां जागृतिस्वप्नसुषुप्तिश्ववस्थासु । स किला- ब्रह्मपिपीलिकान्तमशेषं जगद्व्याप्नोति । स्वयमदृष्टोऽपि भुवनमशेषं प्रेक्षते । आत्मानमधिगन्तुं तिस्रः किल श्रेणयो विद्यन्ते । ताश्च श्रवणं मननं निदिध्यासनं चेति । तत्र श्रवणं नाम गुरुणोक्तस्य श्रोत्रेन्द्रियेणावग्रहणम् । मननं तु गुरूपदिष्टस्य तत्त्वस्य स्वयं परीक्षणमनुशीलनं च । निदिध्यासनं चैकाग्रेण मनसाऽऽत्मनोनुध्यानम् । योगश्चित्तवृत्तिनिरोधः। चित्तवृत्तिनिरोधेऽपि स एवोपायः प्रयुज्यते। स च योगोमन्त्रोलम्बिक आलयो हठश्चेति चतुर्विधः । प्रासादशिरसि विद्य- मानस्य केतोरं शुकभिवातिचञ्चलं चेतः। यथा संक्षुब्धे सरोजले प्रतिबिम्बिता अपि दिव्या आकृतयोऽसमग्राश्चञ्चलाश्च दृश्यन्ते । प्रशान्ते तु सलिले ताः सुस्पष्टाः सुनिश्चलाश्चावलोक्यन्ते । एवं न तावन्मनस्यात्मनः प्रति- बिम्बं सुस्पष्टतया पदमाधत्ते यावन्न तन्निश्चलं निराबाधं च । चित्तस्यैकाग्रयमधिगन्तुं बहवः किलोपायाः । तदर्थमेव प्रतिमाः संस्कृतचन्द्रिका। पूज्यन्ते । न किलातीन्द्रिय आत्मनि सुनिश्चलं चित्तमाधातुं मनुष्यः श- नोति ।अतः प्रथमं प्रतिमानामेव पूजनं विहितम्। ततः शनैः शनैरात्मनो- ऽनुचिन्तनम् । परब्रह्मणः प्रासादं प्रवेष्टुमभिलण्यतो मुमुक्षुपथिकस्य गन्तव्ये पथि प्रथममिदं वसतिस्थानं प्रतिमापूजनं नाम । यथा दूरतरे प्रदेशे वर्तमानं कमपि ग्रामं जिगमिषुः पान्थोऽस्मात्प्रदेशादतिदवीयांस्ते गन्तब्यो ग्राम इत्यभिहितः परिश्राम्यति किं तु प्रथममितोऽतिसमीपे ग्राम इत्यभिहितः सोल्लासं गच्छति तत्र गतश्चेतः समीपतरः स इति तत्र चातिसमीपे इति प्रोक्तः सानन्दं गच्छति न च परिश्राम्यति । एवं शनैः शनैः स्थानात्स्थानं गच्छन्नप्रतिहतोत्साहोऽचिरादेवात्मनोऽभिल- षितं ग्राममवाप्नोति । एवमेवेदम् । लब्धात्मज्ञानो जीर्णं वसनमिव शरीर- मवलोकते। अथ को नाम मोक्षः । अज्ञानस्य निरास आशायाश्च विनाशो मोक्षः । निस्पृहस्य तृणं जगत् । निराशस्थाखिलं जगदपि वशे वर्तते । ब्रह्मक्षत्रियवैश्यशूद्राख्याश्चत्वारो वर्णाः कर्मविशेषाद्विहिताः । तेषां च यानि कर्माणि तानि तेस्तैरवश्यमनुष्टेयानि । कर्माणि च चित्तस्य शुध्य- र्थमेव कल्पितानि । अज्ञानं तु तमःस्वरूपं प्रकाशात्मकं च ज्ञानम् । धूलिपटलोपहतं दर्प- णमिव नराणां चेतः । सा किल धूलिरवश्यं निराकर्तव्या । यतश्छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा । यथा न विना घर्षणादग्निः काष्ठादुत्पद्यत एवं नानपनीताज्ञानपटले चेतस्या- विर्भवेज्ज्ञानम् । कर्मसु च कानिचिन्निषिद्धानि तानि परित्याज्यानि । कानिचिच्च विहितानि तानि श्रद्धयाऽनुष्ठेयानि । कानिचिदीप्सिताधिगमायाश्रयणी- यानि । कानि चिच्चात्मनो दुःखविनाशाय त्याज्यानि । त्रिकालज्ञायीनि शास्त्राणि कलियुगेऽवश्यं भावीनि पापानि विचिन्त्य तन्निवृत्तये प्रत्यहं दशापि गायत्री पदित्यादिदिशुः । ।

अद्भुतः पिशाचः। : ये चात्मन आचारा न ते हातव्याः । न हि नृशंसेनाधिगम्यत आत्म- ज्ञानम् । ज्ञातात्माऽपि किमपि पापं कर्मानुष्ठाय प्रारब्धकर्मणो निन्द- या नैव शुद्धिमुपयाति । पूर्वजन्मसु कृतैः सुकृतैः किल ज्ञानमुपलभ्यते । यदि तु दुष्कर्मानुष्ठीयेत नात्मज्ञानमप्यधिगम्येत । अत्र किल भारते मोक्षाप्तये नानाविधाः पन्थानः समुद्भूताः । तत्र च सालोक्यसारूप्यसायुज्याख्यानि सोपानानि । तत्र च मिथो विरोधे नास्ति प्रयोजनं किंचित् । मुक्तिलाभमुद्दिश्य प्रत्येक आत्मन इष्टं पन्थानमवलम्बेत । भूयान्किलास्मदर्थे श्रीमच्छङ्कराचार्यैः परिश्रमः सोढः । तत्रभव- द्भिश्च तैर्मण्डनमिश्रमवजित्य सरस्वत्यपि पराजिग्ये । मूर्तिमत्यपि भारती नास्य ज्ञानं. चालयितुं प्रबभूव । सर्वेऽपि वयं तस्यैव वचनानुसारेण वर्ते- महि । अन्यथा न केवलमाध्यात्मिकज्ञानहानिरपि त्वस्मद्गुरोः परिश्रमोऽपि नैष्फल्यमुपगच्छेत् । अत्र जगति यदेको नरः संमानसुखादिभिरन्यमतिशेते स ईश्वरस्यैव पक्षपात इति न वक्तव्यम् । तत्र हि कारणं कर्मव । कर्मणैव कर्मणः प्रध्वंसः कर्तव्यः । न खल्वीश्वराय पार्थिवान्येव कुसुमानि प्रतिदिनमर्पणीयानीत्येव नियमः । किं तु यथा पार्थिवान्येवं कर्मात्मकानि पुष्पाणि भगवते समर्प्यन्ताम् । भगवान्हि कर्मकुसुमैरेव विशेषतः प्रसा- दोन्मुखो भवतीति शिवम् । अद्भुतः पिशाचः। आसीरिकलाद्यावधि संदेहदोलायामेवाधिरूढमस्मदीयं चेतो वर्तते न वा भुवनेऽत्र पिशाच इति। श्रुतं तु बहुशो वृद्धमुखात् । यथा किल दृष्टाः कैश्चिद्विभीषणाकृतयः शून्यानि मन्दिराण्यधिवसन्त एत इति । दृष्टश्चै- ४२ संस्कृतचन्द्रिका। षामावेशः सहस्रशो नराणामलेषु विशेतषश्च नारीणाम् । श्रुतानि पठि- तानि च संवादपत्रिकादिष्वेषामतिविलक्षणान्याचरितानि । यथा एते किल पीवरतरशरीरमपि मानुषं विद्यमानमपि दृष्टिपथातीततामुपनय- न्ति । सुशोभनान्यपि वस्तूनि बीभत्समयतां प्रापयन्ति । समीपतरवर्ति- नमपि सपदि शतक्रोशान्तरितं विदधतीत्यादि । किं तु केनात्र प्रत्येतव्यं वृद्ध- वाक्येष्वघटनीयेषु चाचरितेषु । केवलं तु नास्त्येव सर्वथा पिशाच इति दृढीभूतायामपि मतौ कैश्चिदाधुनिकैरपि मुहुर्मुहुः कर्णाभ्यणे विचार्यतां विचार्यतां ननु श्रद्धेयतमं प्राचीनानां वचनजालमिति प्रतिदिनं समुच्चा- रिते महीयसि ध्वनौ किन्वेतत्स्यादिति समुदपद्यत चेतसि जिज्ञासा । ततश्च तया विवशीकृतान्तरैरैस्माभिर्निपुणतरं तदनुसंधातुमारब्धम् । आसींञ्चास्मन्मनसि मास्तु नाम प्रत्यक्षं पिशाचस्य तथापि यदि सोऽनुमा- नेनापि सिध्येत्तदाऽपि तस्यास्तित्वमङ्गीकर्तव्यमिति । एवं भूते चानुसं- धित्सया भूयः परिभ्रम्य तत्र तत्राप्तानां वचनेभ्योऽनुभवैश्च नानाविधैः सुहृदां निरचिनुमास्त्येव पिशाच इति । सूक्ष्मतरं चानुसन्धीयमाने पर्य- वसितं यथा प्रायेण पिशाचानां नारीणामेव जातौ प्रसरति प्रभाव इति किंतु सचेतनायामेव स्त्रीजातावसौ प्रवर्तत इति । भाग्यवशाच्चैतदिशानी- मस्माभिरपि भूयिष्ठमनुभूत यदसौ पिशाचोऽदृष्टरूपः सचेतनास्वचतना स्वपि स्त्रीजातिषु प्रवर्तते ताश्च तामवस्थामापादयति यया बहुभिरपि नरैः प्रत्यक्षीकृतास्ताः स्तोकमपि द्रष्टुं न शक्येरन्निति । कथमन्यथा पत्रप्रापणाधिकरणे सावधानमप्रमत्तैश्च तत्र तत्र प्रापयितुं द्विधा त्रिधा चतुर्धा च परीक्ष्य दीयमाना अधिकरणिकैः प्रेष्यमाणाश्च संस्कृत चन्द्रिकाः भूयसां ग्राहकाणां करकमलं नालङ्कुर्युर्नचापि प्रनिनिवर्तेरन् । यदेता अ- स्माभिः प्रेषिता अपि चन्द्रिका ग्राहकै धिगम्यन्ते भवन्ति चातीन्द्रि- यास्तन्नूनं कोऽपि बलवत्तरः स्त्रीत्वमात्रविमोहितः पिशाच एवैताः कवल- यतीति । अपि नामेदमेव सत्यं स्यात् ।

समाचारपत्रसंपादकस्तवः । सप्रमोदं स्वीकारः--श्रीकृष्णचन्द्रदेवप्रहराजोरिता मोदमञ्जषा साहित्यरत्नायपाधिसमुल्लासितश्रीअम्बिकादत्तव्यासाहितानि च सङख्य- सागरसुधागद्यकाव्यमीमांसागुप्ताशुद्धिप्रदर्शनं रत्नाष्टकं चेति चत्वारि पुस्तकान्यधिगतान्येवास्माभिः । तानि च यथावसरमचिरादेव समालोच- यिष्यन्ते । समाचारपत्रसंपादकस्तवः । * देशोपकारवतधारकाय नानाकलाकौशलकोविदाय । निःशेषशास्त्रेषु च दीक्षिताय संपादकाय प्रणतिर्ममास्तु ॥१॥ पत्रे स्वकीये जगदेकनेत्रे शिशुं त्रिपादं त्रिशिरस्करश्च। सृजस्यजस्त्रं कुतुकेन तेन संपादक त्वं चतुराननोऽसि ॥२॥ आऋष्टुमुच्चैलघु पत्रमूल्यं नवोपहारादिविधेर्विधाने। समस्तमायाविशिरोमणित्वात् त्वमवे संपादक माधवोऽसि ॥३॥ * स्तबोयं बहुभ्य एव दिवसेभ्यः प्रागुपनतः किन्त्वद्यावधि प्रकाशयितुं न लब्धो- वसर इति क्षमामभ्यर्थ्य यथामति अहोऽस्ति साधुत्वमतः परं किमित्यादौ संशोध्य चेदानी प्रकाश्यते । न चायं प्रबन्धः सर्वथा संमत. किं तु मनोहर इति प्रकाश्यते । ।

संस्कृतचन्द्रिका।
स्वदोषराशिं च तृणं विधाय
त्रुटिं समालम्ब्य लघुपरेषाम् ।
अलेख्यलेखैः कृतकालनाशात्
त्वमीश्वरो भीमभयंकरोऽसि ॥४॥
संपादक त्वत्कृपयैव लखा
निंद्या अपि स्थानमवाप्नुवन्ति ।
बुधादृतास्तेऽपि भवन्ति हेयाः
सकोपकोणकटाक्षपातात्॥५॥
त्वं लेखनी पाणितले निधाय
विराजसे वीरपदासने स्वे।
सुरेन्द्रसिंहासनमष्यचिन्त्यम्
तदाऽतिगर्वेण तिरस्करोषि ॥६॥
गृह्णासि संपादक तां यदेव
तदैव शास्त्राणि सविस्तराणि।
भाषाः समस्ताः सकलाः कलाश्च
त्वां त्वद्धयेनेव समाश्रयन्ति॥७॥
अहो विचित्रं तदतीव भाति
संपादकत्वेन सहैव यत्ते।
आयाति शक्तिर्मनसि क्षणेन
नानानवीनौषधिकल्पनायाः॥८॥
पत्रेषु संप्रेषितपुस्तकानाम्
नामैव गृह्णन्विदधासि मौनम् ।
आलोचनामन्यकृतां तथापि
रम्यामपि त्वं किल धिक्करोषि॥९॥

समाचारपत्रसंपादकस्तवः।
विज्ञप्तिमेतां शृणु मामकीनाम्
वदामि संपादक ते हिताय ।
परस्य सत्पुस्तकपत्रकेभ्यो
मा मैव गुप्तं विषयान्हर त्वम् ।।१०।
टाइम्समुख्यानि जयन्तु तानि
पत्राणि येभ्यः परिगृह्य वार्ताः।
त्वमन्यदानोदरपूरकस्य
प्राणान्स्वपत्रस्य सदैव पासि॥११॥
नम्रोऽसि मूल्यग्रहणे च मौनी
पत्रोत्तरे दोषनिदर्शने स्वे।
रुष्टः कुतो नीतिविदस्त्वयेवं
विलक्षणा नीतिरहो गृहीता ॥१२॥
अभद्रभद्रौपधिपुस्तकानां
विक्रेतृवर्गः समवाप्य सम्यक् ।
विज्ञापनद्दारमल भ्यलाभम्
प्राप्नोति संपादक ते प्रसादात् ॥१३॥
इहास्ति साधुत्वमतः परं किम्
प्रकाश्य लोकस्य विमाननां यत् ।
स्थिते भये पाणियुगं प्रसार्य
क्षमस्व हाहेति च भाषसे त्वम्॥१४॥
गायन्ति मंपादकता गुणानाम्
लीलां यथाशक्ति महाजनास्ताम् ।
स्वातन्त्र्यविद्यावलवर्धनानि
सर्वाणि यच्छक्तिविजृम्भणानि ॥ १५॥

संस्कृतचन्द्रिका । अतोऽन्वहं भक्तिभरान्वितोऽहम् कीर्ति त्वदीयां किल कीर्तयामि । ममोपरीदं स्तवनं निशम्य प्रसीद संपादक सर्ववन्ध ॥ १६ ॥ इति । महावीरप्रसाद द्विव दिनः झांशी समालोचना ( पूर्वतोऽनुवृत्ता।) विज्ञानशतकम्। अथ यदुदाहृत दिङ्मानं शब्दादिसादृश्यं शामताना विज्ञानश- तकगतानां च पद्यानां तदिह सझेपत एव विचारयितुमिच्छामः । तथा हि । तत्र तावदिदं नैव विस्मरणीयं यदृच्छयाऽपि कवीनां वदनक- मलतो निःस्यन्दत परैरङ्गीकृतोऽपि काव्यरसमकरन्दा न किल ते तं तथा- विधमेव निबद्धं वाञ्छन्ति । नापि तथोपनिबद्ध इत्येव स परप्रणीतत्व- मुपयाति । योऽह्यजानद्भिरेव कविप्रवरैरुपनिबध्यतेऽर्थः कथं नाम स परकीयत्वमुपयातु । कविवरः श्रीभवभूतियथाह जगजीारण्यं कथमसि विधातुं व्यवसित इति मालतीमाधवे तथैव किलापरोऽपि कश्चित् जग- जीर्णारण्यं विषयविनिवृत्तस्य मनस इति प्राह । तत्किमेतच्चरणद्वयमेक- कर्तृकमेवेत्यभ्युपेतव्यम् । अतएवसहनीयतेजः क्षुत्क्षामप्रभृतयो विज्ञानश- तकप्रणेत्राऽऽत्मनः काव्ये समुपनिबद्धा अपि शब्दा न खल्वात्मनोऽधिक- रणभूतमपि विज्ञानशतकं शतकत्रयविरचयित्रैव श्रीभर्तृहरिणा प्रणीत- मिति बोधयितुं प्रभवन्ति । ।

समालोचना। अत्रेदमपि प्रसादवबोध्यम् । विज्ञानशतकं किमु भर्तृहरिणा प्रागेव समुपनिबद्धमाहोस्विच्छतकत्रयप्रणयनादुत्तर एव काल इति । प्रागेवेति तु न शक्यते वक्तुम् । यो हि विज्ञानरसिकत्वं विन्दति न किल स कालकू- टसहोदरेषु प्रसज्जते विषयेषु। अत एव शतकत्रयप्रणयनोत्तरकालमेव तत्तेन विरचितमिति स्वीकर्तव्यं किं तु तदपि न युज्यते । यो हि प्राक्प्रणी- तानन्तमधुरपद्ये न किल तस्यैव वदनारविन्दादमनोहरः पद्यप्रबन्धः कथ- ञ्चिदप्युदयमासादयति । अतः कथमुत्तीर्यतामियनुभयतस्पाशा रज्जुः । यद्यपि विज्ञानशतकं नाम मनोहरं तथापि न तदंशतोऽपि श्रीभर्तृहरिप्रणीतस्य शतकत्रयस्य तुलाप्रधिरोपयितुं युक्तम् । मातर्मेदिनि तात मारुत सखे तेजः मुबन्धो जल भ्रातोम निबद्ध एष भवतामन्यः प्रणामाअलिः। युष्मत्संगवशोपजातसुक्कतोद्रेकम्फरनिर्मल- ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ (वैराग्यशतकम्) इत्यादिषु सुस्पष्टमवलोकमाना सुमनोहरा शय्या हृदयङ्गमं वाऽप्योजो ( यद्वामनेनानुमतं पदानां नृत्यत्वायत्वमिति ) बन्धस्य वा गाढत्वं सुवि- शंदश्च प्रसादो न किल हे पुत्रा बजताभयं यत इतो गेहं जनन्या समं रागद्वेषमदादयो भवतु वः पन्थाः शिवोऽमायया। ( विज्ञानशतकम् ) इत्यादिषु मुहुरतिनिपुणमप्यन्विष्यमाणः कथञ्चिदपि नयनगोचरत्वमुप- याति । अतोऽनन्यगत्याऽवश्यमेतदङ्गीकर्तुमापतितं यन्नैव शतकमिदं शत- कत्रयप्रणेत्रा श्रीभर्तृहरिणा प्रणीतमिति । एतावता दूरीभूतायामपि सादृश्यकल्पनामूलायां शतकत्रयविज्ञानशत- कयोः समानकर्तृकत्वशङ्कायां पुनः किञ्चिदभिधायेतो विरन्तुमिच्छामः । यथा। यदि- सस्कृतचान्द्रका। . कदा वाराणस्याममरतटिनीरोधसि वस- न्वसानः कौपीनं शिरसि निदधानोऽअलिपुटम् । अये गौरीनाथ त्रिपुरहरशंभो त्रिनयन प्रसीदत्याक्रोशनिमिषमिवनेष्यामि दिवसान ।। इति वैराग्यशतकवर्तिना पद्येन कदा भागीरथ्या भवजलविसंतारतरणेः स्खलद्वीचीमाला चपलतलविस्तारितमुदः । तमःस्थाने कुञ्ज क्वचिदपि निविश्याहृतमना भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥ इति पद्यस्य सादृश्याद्भर्तृहरिप्रणीतमेवेदमिति मन्तव्यं तदा कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः श्यामायाः कुचयुगमलं वक्षसि वहन् । अये वाले मुग्धे चपलनयने चन्द्रवदने प्रसीदेत्याक्रोशनिमिषमिव नेष्यामि रजनीः । इत्यादीनामपि तत्सादृश्यस्य दुष्परिहरत्वात्तद्विरचितत्वमेवाभ्युपेयं स्यात् । एवं स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रिया विभ्रमैरिति वैराग्यशतक आरोप्यमाणं स्वर्गस्य ग्रामत्वं स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभि- (जैरिति मुरारिपद्येऽष्यवलोक्यत इति किमेतदुभयमपि समानकर्तृकमेवे- त्यूरीकर्तव्यम् । अतो न युज्यत एवंविधसादृश्यमात्रेण कस्यापि समान- कर्तृकत्वमापादयितुमिति किल मन्यामहे । ( ३ ) एवमर्थितयाऽऽत्मबोध इत्यत्रापि दृश्यमानं बहुव्रीहेर्वैय्य- धिकरण्यं नोभयोः समानकर्तृकतां बोधयितुं प्रभवेत् । बहवो हि स्वीकुर्वते कवयो वैय्यधिकरण्यं बहुव्रीहेरिति प्रत्यक्षीक्रियतां कादम्बर्यादिषु प्रब- न्धेषु । विस्तरभयात्तु नात्रोदाहर्तुमिच्छामः । (क्रमशः) * अत्र द्वितीयचरणबन्धस्य भक्तिरसेऽनुचितत्वं तृतीय आपूर्वस्य हरतेः प्रत्याह- रणे कविभिरप्रयुक्तत्वं च १ दोषायैव २ समुपनिबद्धं भवति ।

श्रीशिवः शरणम्। . ॥ संस्कृतचन्द्रिका ॥ ॥ श्रीगणेशाय नमः॥ शिवादीनपि कर्माणि कारयन्ती जनानिव । मायाऽवलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी ॥ ॥ मासावतरणिका ॥ आवृण्वन्नखिलं नमो धनतमःसंपातकान्तिईनो भानोभी तिरयन्नशेषजनतानेत्रोत्सवं चैन्दवीम् । याति श्लाध्यतमत्वमेव भुवने वर्षनजस्त्रं शुचर्चा- वेकोऽपि क्षपयेद्धि दोपनिवहं सर्वाङ्गरम्यो गुणः॥३॥ ॥ उद्भटश्लोकाः॥ पश्यति परेषु दोषानसतोऽपि जनः सतोऽपि नैव गुणान्। विपरीतमिदं स्वस्विन्महिमा मोहाञ्जनस्यैषः ॥६॥ गतिर्योना तत्किं गरुडमभिटीकेत चटकः पिवत्वम्भः क्षारं न खलु कलशीस्नुरलसः। कलः कण्ठे नादः क इव मशकः किन्नरपतेः कथंचित्साधय क्षिपति न तु वैधर्म्यनियमम् ॥७॥ १ शुचिः- आषाढः । २ असतः अविद्यमानान् । ३ सतः विद्यमानान् । ४ स्वस्मिन् आत्मविषये । जनः किल अविद्यमानानपि परस्य दोषान् पश्यति । गुणांस्तु नैव पश्यति । आत्मनस्तु गुणानेव पश्यति न दोषानिति भावः । * गतिरिति । कथञ्चिदवाप्तमपि परेषामेकदेशीयं सादृश्यं न वैधर्मस्यापकरणाय भवतीति पद्येनानेनोच्यते । यद्यपि व्योम्ना आकाशेन गतिर्गमनं गरुडसशमित्यर्थः ।

राम संस्कृतचन्द्रिका। श्रीमदप्पयदीक्षितः। ( पूर्वतोऽनुवृत्तः) प्रतिश्रुतमस्माभिर्द्वितीयसंख्यायां श्रीदीक्षितप्रणीतानामपरेषामपि प्रब- न्धानामिहोद्धरणं तत्रेदानी प्रवर्तामहे । अस्मदवलोकितेषु च दीक्षित- प्रणीतेषु द्वित्तीयश्चित्रमीमांसानामालङ्कारशास्त्रीयः प्रबन्धः। तत्र च प्रथमप्रकरणे (ग्रन्थारम्भप्रकरणे) ध्वनिर्गुणीभूतव्यङ्गं चित्रं चेति काव्यस्य भेदत्रयं प्रतिपाद्य यदव्यङ्ग्यमपि चारु तचित्रमिति चित्रलक्षणमुप- न्यस्य शब्दचित्रमर्थचित्रमुभयचित्रं चेति चित्रस्यापि त्रिविधता प्रति- पादिता। त्रिविधे ( ध्वनिगुणीभूतव्यङ्ग्यचित्राख्ये) च काव्ये प्रथमं ध्वनिगुणी- भूतव्यङ्ग्यमिति द्विविधं काव्यं ग्रन्थान्तरे प्रपञ्चितमिति दीक्षिताः प्राहुः। स च प्रबन्धो वृत्तिवार्तिकमवेत्युपरिष्टात्स्फुटीकरिष्यामः । चित्रं तु वृत्ति- बार्तिके न प्रतिपादितमिति तदेव चित्रमीमांसाया विषय इति बोद्ध- व्यम् । त्रिविधे च ( शब्दचित्रमर्थचित्रमुभयचित्रं चेति ) चित्र शब्द- चित्रं प्रायो नीरसमिति न विशेषतः कविभिराद्रियते । अत एव शब्द- चित्रस्यानुप्रासयमकपद्मादेरंशमपहाय केवलमर्थचित्रस्यैव चित्रमीमांसायां प्रतिपादनमिति चित्रमीमांसायामुक्तम् । तथापि चटक: कलविङ्क: (चिमणी ) गरुडमभिटीकेत किं सादृश्यं कुर्यात् किं ने- त्यर्थः । टीकृगतावभिः सादृश्ये । अलस: सल्यामपि शक्तौ कर्मण्यनुत्साहवान्पुरुषः कर्ता क्षारं लवणं ( खारट ) अम्भः जलमालस्यादिति भावः पिबतु तथापि स कल- शीसूनुः कुम्भपुत्राऽगस्तिः न खलु नैव भवति । क्षारजलपानेऽपि नागस्त्यसाम्यमि- त्यर्थः । कण्ठे मशकस्य कण्ठे कल: सुन्दरो नादः अस्तीति शेषः । तथापि मशक: किन्नरपतेः क इव नोभयोः सादृश्यसंबन्ध इति भावः । अत्रार्थान्तरमाह । कथं- चिन्महता प्रयासेन यत्सादृश्यं साम्यं तत्कर्तृभूतं वैधर्म्यस्य नियम विरुद्धधर्मवत्ताया नियमेनस्थितिमित्यर्थः न क्षिपात नापाकरोति । एकदेशतः कथंचित्सद्भिः समानत्वे प्राप्तेपि तद्विद्रा नैसर्गिकागुणा नैव परिहत शक्या इति भावः ॥

श्रीमदप्पयदीक्षितः। Image एतेन चास्य ग्रन्थस्य चित्रमीमांसेत्यस्य नाम्नः प्रवृत्तेनिमित्तमप्यभि- हितं भवति चित्रस्य मीमांसाज्ञानं यस्मात्प्रबन्धादिति । अर्थचित्रं चोपमादयोऽलङ्कारा इत्यभिप्रायेण द्वितीयप्रकरणेऽलङ्कार- लक्षणान्युपक्रान्तानि । तत्र च प्रायेण सर्वेष्वप्यलङ्कारेषु प्राधान्यात्माये- णालङ्काराणामुपमामूलकत्वाच्चोपमैव प्रथमत उपन्यस्ता यथैकैव नटी नानाविधानां भूमिकानां परिग्रहे नानाविधैर्नामभिराख्यायत एवमुपमैव प्रयोजनभेदाद्रूपकादिसंज्ञाभिर्व्यपदिश्यत इति च प्रोक्तं दीक्षितैर्यथा- उपमैका शैलूपी संप्राप्ता चित्रभूमिकाभेदान। रञ्जयति काव्यरले नृत्यन्ती तद्विदां चेतः ॥ इति।। उदाहृतं चेदं सप्रपञ्चं तत्रैव । तच्च रमणीयत्वादत्रोपन्हियते । यथा- चन्द्र इव मुखमिति सादृश्यवर्णनं तावदुपमा । सैवोक्तिभङ्गीभेदेना- नेकालङ्कारभावं भजते । तथा हि । चन्द्र इव मुखं मुखमिक चन्द्र इत्युपमेयोपमा । मुखं मुखमिवेत्यनन्वयः । मुखमिव चन्द्र इति प्रतीपम् । चन्द्रं दृष्ट्वा मुखं स्मरामीति स्मरणम् । मुखमेव चन्द्र इति रूपकम् । मुखचन्द्रेण तापः शाम्यतीति परिणामः । किमिदं मुखमुताहो चन्द्र इति संदेहः । चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति इति भ्रान्तिमान चन्द्र इति चकोराः कमलमिति चञ्चरीकास्त्वन्मुखे रज्यन्तीत्युल्लेखः । चन्द्रोऽयं न मुखमित्यपनुतिः । नूनं चन्द्र इत्युत्प्रक्षा । चन्द्रोऽयमित्यति- शयोक्तिः । मुखेन चन्द्रकमले निर्जिते इति तुल्ययोगिता । निशि चन्द्रस्त्वन्मुखं च दृश्यतीति दीपकम् । त्वन्मुख एवाहं रज्यामि चन्द्र एव चकोरो रज्यत इति प्रतिवस्तूपमा । दिवि चन्द्रो भुवि त्वन्मुखमिति दृष्टान्तः । मुखं चन्द्रश्रियं बिभर्तीति निदर्शना । निष्कलङ्क मुखं चन्द्रादतिरिच्यत इति व्यतिरेकः । त्वन्मुखेन सह चन्द्रो निशासु । १नटी। २ चित्रान्भूमिकानां भेदानितिचित्राण्येव भूमिका इति च ।

५२ संस्कृतचन्द्रिका। हृष्यतीति सहोक्तिः । मुखं नेत्राङ्कुरुचिरं स्मितज्योत्स्नोपशोभितमिति समासोक्तिः । अब्जेन सदृशं वक्त्रं हरिणाहितसक्तिनेति श्लेषः। मुखस्य पुरतश्चन्द्रो निष्प्रभ इत्यप्रस्तुतप्रशंसा । इति ॥ अत्र चोपमाया एव कथमलङ्कारान्तरमूलकत्वमिति सम्यगुपवर्णितम् । एतेषु चोदाहरणेषु प्रायश उपमाया ध्वनिरेव । साधर्म्यमूलिका झुपमा। तञ्च केचिदुत्प्रेक्षादयोलङ्कारा नापेक्षन्ते । ते ह्यध्यवसायमूला एवेति धर्म- सूरिप्रभृतयः प्राहुः । यद्यपि नापेक्षन्तेऽलङ्कारान्तराणि ( कानिचित् ) सादृश्यमतो नास्ति तेषामुपमात्वमिति सत्यं तथापि सादृश्यमूलामुपमा विशदीकुर्वद्भिर्वचनैरेवालङ्कारान्तराणि निष्पादयितुं शक्यानि येषु ध्वनि- मात्रेणोपमाया अवस्थितिः स्यादित्येव दीक्षिताशय इति केचित् । इयं च मनोरमाऽपि चित्रमीमांसा न समापिता श्रीदीक्षितचरणैः । किमत्र कारणमिति तु नावगन्तुं शक्यते । प्रतिबन्धकमन्तरा स्वेच्छयैव दीक्षितैरेषाऽर्थ एव परित्यक्तेति प्रतिभाति । अस्या ह्यन्ते अप्यर्धचित्र- मीमांसा न मुदे कस्य मांसला । अनूरुरिव धर्माशोरर्धेन्दुरिव धूर्जटेः ॥ इत्युक्तम् । अर्धाप्येषा रमणीयैवेति वचनं तु स्वयमेषा समाप- यितुं नेष्यत इत्येव बोधयति । न किल सिद्धिमतां विद्वदग्रेसराणां दीक्षि- तसदृशानां महात्मनां विमृश्यकारिणामुत्साहसंपदमन्तराथा बाधेरन् । अतः स्वयमेव तैरेषा परित्यक्तेति ब्रूमः । अस्यां च यानि मनोहराणि पद्यानि तानि संक्षेपत उदाहृत्यान्यत्र प्रवर्तिध्यामहे । यथा- चक्रनमणकरत्वात्कुदृष्टिभिर्दूरवय॑मानत्वात् । श्रुत्यन्तखेलनत्वान्मशक खामेव माधवं मन्ये ॥ श्लेषोत्थापितमनुमानमिदम् । चक्रस्य भ्रमणो भ्रामकः करो यस्य तथाविधत्वात् कुदृष्टिभिः कुत्सितैश्चार्वाकादिनास्तिकदर्शनैर्दूरवर्ण्यमानत्वात श्रुतीनामन्तेषु उपनिषत्सु खेलनं विलासो यस्य तथाविधत्वादिति श्रीमदप्पयदीक्षितः। माधवपदा । मशकपक्षे तु चक्रभ्रमणस्य चक्राकारभ्रमणस्य करः कारकः । कुदृष्टिभिर्दूषितनेत्रैर्दूरवर्ण्यमानत्वात् । अक्षिरोगग्रस्ताः किल मशकान्न- यनसमीपगतान्न सहन्त इति । श्रुत्योरन्ते कर्णसमीपे खेलनः क्रीडकः । श्रवणसमीपे हि मशकः परिभ्रमतीति प्रसिद्धिः ॥ एवम्- सुहृदालापेनैव प्रणश्यति स्थास्नुरान्तरः क्लेशः। कान्तामुखचन्द्रेण हि शाम्यति रुचिरेण विरहजस्तापः॥ इति। सुलभमिदम् । एवं भगवतः शशाङ्कशेखरस्य वर्णनं यथा- तारानायकशेखराय जगदाधाराय धाराधर-- च्छायाधारककन्धराय गिरिजासंगैकशृङ्गारिणे । नद्या शखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेनगृहिणे नाथाय सर्थ नतिः॥इति॥ कोऽपि भक्तिरसविनम्रान्तरो भगवन्तं चन्द्रचूडमभिष्टौति । तारेति । तारानायकश्चन्द्र एव शेखरो यस्य यश्च जगतामाधारो यस्य च धाराधरस्य मेघस्य छायायाः कान्त्या धारिका कन्धरा । यश्च गिरिजायाः श्रीपार्वत्या संगेनैकः शृङ्गारी यश्च नया भागीरथ्या शिरोधृतया शेखर- वान्यश्च दृशा ललाटतवर्तिन्या तृतीयया दृष्ट्या तिलकवान्यश्च नारायणेन भगवता विष्णुना त्रिपुरदहनावसरे बाणतां प्रापितेन अस्त्रवान् । यश्च नागैः करादिषु भूषणतां नीतैः सपैंः कङ्कणवान्यश्च नगेन निवा- सभूतेन कैलासगिरिणा गृहवांस्तस्मै नाथाय भगवते महादेवाय इयं नतिरयं नमस्कार इति ॥ एबमुल्लेखालङ्कारस्योपमासंकीर्णस्योदाहरणम्- कस्तूरीतिलकन्ति फालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमाललोलमुकुलोत्तंसन्ति मौलिं प्रति । १ स्थास्नुः स्थिरतरः । अन्तरो मानसः ।

संस्कृतचन्द्रिका। याः कर्णे विकचोत्पलन्ति कुचयोरंशे च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः॥इति * अत्र च भगवतो नीलकण्ठस्य कण्ठकान्तेस्तत्र तत्र देव्याः श्रीपार्वत्याः शरीरभागे कस्तूरीतिलकादिवदाचरणमुल्लिख्यते । एवमपनुत्यलङ्कारो- दाहरणे- आकृष्यादावमन्दग्रहमलकचयं वक्त्रमामज्य वक्त्रे कण्ठे लग्नः सुकण्ठः प्रसरति कुचयोर्दत्तगाढाङसंगः । बद्धासक्तिर्नितम्बे पतति चरणोर्यः स तादृप्रियो मे बाले लज्जानिरस्तानहिनहि सरले चोलकःकिं त्रपाछत्॥इति अत्र च काचिद्विलासिनी प्रियमधिकृत्य प्रकान्तवचना मध्य एव सख्या पृष्टाऽऽत्मन आशयं निगृहितुं प्रियमपनुत्य चोलकोऽयं मयो- पवर्ण्यत इति प्राह । अयं च चोलकः कञ्चुलिकाख्यः स्त्रीणामाप्रपदीनो वसनविशेषः । एवमुत्प्रेक्षोदाहरणम् । भूयस्तराणि यदमूनि तमम्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकाया- मावर्तितैरुडुभिरेव कृतोऽयमिन्दुः ॥ इति ॥ क्षीणचन्द्रासु कृष्णपक्षे तमोयुक्तासु रात्रिषु यतो नक्षत्राणि भूयांसि भवन्ति यतश्च ज्योत्स्नायुक्तासु रात्रिषु तान्येव विरलतामापद्यन्ते त्तो * याः श्रीकण्ठस्य शङ्करस्य कण्ठत्विषो गलकान्तयो देव्याः पार्वत्याः फालफल- के ललाटे कस्तूरीतिलकवदाचरन्ति । क्विबन्तो नामधातुः । मुखाम्भोरुहे मुखकमले रोलम्बा भ्रमरा इबाचरन्ति। मौलि प्रति शिरसि तमालस्य नीलवर्णस्य वृक्षविशेषस्य लोलश्चञ्चलो मुकुलानां कलिकान मवतंस इवाचरन्ति । कर्णे. विकचं प्रफुल्लमुत्पलं कमलमिवाचरन्ति । कुचयोरंशे प्रान्ते कालागुरो; कृष्णचन्दनस्य स्थासः स्थासकः पत्र- वल्लीति यावत्तद्वदाचरन्ति । तास्तव प्रार्थयितु. शिवं मङ्गलं प्रथयन्तु विस्तारयन्त्वि त्यर्थः ।

प्ररितपत्रम् । मन्यामहे संध्यामयेनाग्निनाऽऽकाशरूपायां मूषायां नक्षत्राण्यावर्त्य तेषा- मेवायं चन्द्रो निर्मित इति । यथा स्वर्णकारः स्वर्णकणैर्मुषायामावर्तितः कुण्डलकटकादीनलङ्कारान्निष्पादयति एवं नक्षत्रैरेव निर्मितोयं चन्द्रः । अत एव कृष्णपक्षे चन्द्राभावे नक्षत्राणां बाहूल्यं शुक्लपक्षे च तेषां चन्द्र- किरणे विनियोगानन्यूनत्वमितिकश्चित्कविः प्राह । एवमतिशयोक्त्युदाहरणेषु-कश्चित्पण्डितः कमपि राजानं श्लाघते । पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर। भूषयति कर्णमेकः परस्तु कर्णं तिरस्कुरुते ॥ इति ॥ हे राजन्भवतः करण सदृशः कल्पतरुपल्लव इति यद्यपि सत्यं तथापि तत्रायं विशेषो यत्कल्पतरुपल्लवः कर्णं ( श्रवणं) भूषयति । सुरसुंदरी- भिर्हि स कर्णपूरीक्रियते । भवतः करः पुनः कर्ण ( कर्णनामानमङ्गदेशा- धिपति) तिरस्कुरत इत्यर्थः । (क्रमशः) प्रेरितपत्रम् | * काव्यकादम्बिनीसमस्यासमालोचना कसभार्याधिपालम् । समस्येयं काव्यकादम्बिन्या नाम ग्वाल्हेरनगरावस्थितायाः परिषदः । अस्याः पूर्तिस्तु- न किल वयं कामपि व्यक्तिमुद्दिश्य दोषोद्घाटने प्रवर्तितुं वाञ्छामः । यदि तु सम- अस्यापि देशस्य हितचिकीर्षया किमपि केनाप्यारभ्येत तदा देशहितवाञ्छयैव तद्गतानां दोषाणां प्रकाशनमावश्यकम् । तत्र संस्कृतभाषासमुद्धारप्रवृत्तानां भाषादोषा अत्य- न्तमनुचिता इत्यवधार्य शास्त्रिण: पत्रं प्रकाशितं चन्द्रिकायाम् । शास्त्रिणा तु केवलं व्याकरणदोषाः समुल्लिखितास्तदतिरिक्तास्तु काव्यदोषाः समुन्नेयाः स्वयमेव सु- धीभिः । मेघमालयेवं चन्द्रस्य काव्यकादम्बिन्यापि काव्यस्य प्रसादः समूलमुन्मू- लति इति भाति।

संस्कृत चन्द्रिका। श्रीपूषाणं द्विजयुतमथो नेत्रयुक्तं भगं च श्मश्वाढ्यं श्रीभृगुमपि तथान्यानमत्यांश्च सांगान् । साकं धात्रा त्रिपुरमथनं दीनवाचा ययाचे सप्राणंकुर्विति सुमनसांकं सभाऽऽर्याधिपालम् ।।इति। कं दक्षं सुमनसां ( देवानां ) सभा आर्याधिपालं पार्वतीपतिम् अत्र पूषणमिति वक्तव्ये ( पूषाणमिति ) दीर्घकरणमसाधु। इन्ह- पूषार्यम्णां शाविति नियमात् । काव्यकादम्निन्या मन्त्रिणा तु समाधा- नमत्रात्यद्भुतं कल्पितम् । यथा-श्रीपूषाणमानयति जीवयति श्रीपूषाणः । अन् प्राणन इत्यतः कर्मण्यण् ब्रह्माणीवत् । श्रीपूषाणं तदधिष्ठात्री देव. तामित्यर्थः। तत्रभवता. मन्त्रिणा श्रीपूषाणमानयतीति विग्रहे दीर्घ एव लिखितः । अत्र विमर्शः । ब्रह्माणीवंदवतावाचकत्वे स्त्रीत्वबुद्धेरनिवार्य- वान्डीबापत्तिः । संज्ञाविरहाण्णत्वस्यानापत्तिश्च । पूषा स्वयं देवता तत्र देवतान्तराधिष्ठानकल्पने प्रमाणाभावः फलाभावोऽनवस्था च । भगवता तु व्यासेन भागवतीयचतुर्थस्कन्धे चण्डीशः पूषणमिति साधु- रेव प्रयुक्तः। श्रीपदप्रयोगोऽपीशतिरस्कारप्रकरणस्याविसंवादी याचनावि- संवादी च । एवमन्या समस्या- दैवतं दैवतन्त्रम् ॥ इति ॥ अस्याः पूर्तिः- इच्छामात्रोल्लसितनयनप्रान्तविस्तारतो यो लोकोत्पत्तिस्थितिविनशनं रारचीत्यत्प्रयत्नात् । सोऽयं देवो दशमुखमुखान्हन्तुमद्धावतीर्ण- स्तस्मान्मन्ये श्रुतिपथमतं दैवतं दैवतन्त्रम् ॥ इति । अत्र रारचीति यङ् लुङ्गन्तमसाधु रचयतेरेकाच्वविरहेण यङ् एवा- प्रवृत्तेरिति समालोचकः । मन्त्रिणा त्वत्रापि समाहितम् । रचेरदन्त- ।

अधर्मविपाकम्। वसामर्थ्याणिज्विकल्पः । रचधातोः विपि तस्याकारस्य लोपे तत आ- चारक्विपि तदन्ताद्यङ् तस्य लुगिति । अत्र सामर्थ्यविचारः । अथा- दन्ता इत्युपक्रम्य चुरादिगणे रचिः पठितस्तस्यान्तिमोऽकारो दीर्घसन्वद्भा- वोपधावृद्धीनां निवृत्तये पाणिनिना पठित इति चारितार्थ्यात्तस्य न णिज्वि- कल्पकल्पनायां हेतुता । तथा च तत्रैवोक्तं दिक्षितैः । अल्लोपस्य स्थानि- वद्भावान वृद्धिः। कथयति । अग्लोपित्वान्न दीर्घसन्वद्भावौ। अचकथदिति। तुल्यमेतद्रचयतौ । रचयति अररचत् । मन्त्रिरीत्या णिज्विकल्पाङ्गीकारे तु कथति प्रथति रचति गणतीत्यादीनामनिष्टानामापत्तिः । क्विन्द्वयार्थसह- कृतयङर्थधीरप्यनियन्त्रणैव मन्त्रिणःप्रयोगस्यैवानुपपत्तीतादृशानिष्टधिषणा विचारणा निष्फलैवेति मदीया बुद्धिः । गीर्वाणवाण्यभ्युन्नतये समुद्युक्तानां विचारचातुरी तत्सहचरी वाङ्माधुरी चापेक्षत इति नाथ्यते । समालोचितमेतद्रनललामपाठशालाध्यापक- श्रीविष्णुशास्त्रिणा (रतलाम) । अधर्मविपाकम् । (पञ्चमखडस्य दशमसंख्यातोऽनुवृत्तम् ) (ततः प्रविशति धर्मः) धर्म:-अहो नु खलु भोः कष्टोयं प्रणयपाशः । मया हीदानीं वत्साया वि- रहपर्याकुलेन अग्रे सा शिशुभावतः समुदयद्धासाऽथपृष्ठेऽपि सा सोदर्यानुगताऽखिलास्वपि दिशास्वेकैव वत्सेक्ष्यते । १ प्राय॑ते.

संस्कृतचन्द्रिका। चित्रं किंतु जिघृक्षया प्रतिपलं व्यापारितो मत्कर- स्लामप्राप्य निराशतामुपगतो बाढं परिश्राम्यति ॥ ३॥ अवितथं ग्वल्विदमभिधीयतेऽभिज्ञैरनिष्टाशङ्कि प्रियजनहृदयामिति । यतः- किं घोरे गहने चरन्त्यशरणा हिंत्रैर्गृहीता भवे- किं वा नः प्रथमावलम्बनमिति व्यापादिताऽरातिभिः। किं नारी ललितति काननचरै रुद्धा दुराशावशै- रित्थं नैकविधं मदीयमधुना वत्सां मनः शङ्कते ॥४॥ (वामाशिसंदनं सुचविता ) कथममङ्गलनिलयेन स्फुरितमिदा- नीमेव दक्षिणेतरेण चक्षुषा । ( सविषादम् ) प्रभवति किल सर्वथा दैवम् । न जाने किमिदानीमापतिप्यति दुःसहं दुःखमिति । भवतु । ( सोद्वेगम्) रात्रिंदिवं वत्सामेव विचिन्तयता किल मया पादमूलगताऽपि न संभ- विता देवी । एषाऽपि किल प्रतिदिनं कन्यकाविरहव्याकुला परिहीयते गात्रैः । प्रकृतिरेव हि नारीणां कातरत्वं नाम । अयं चैवंविधो जीवितनि- बन्धनायमानाया विप्रयोगो वत्साया येनाहमपि नाम प्रगल्भः पुरुषो व्याकलतां नीतः । एतां च प्राभातिकसुधांशुसन्निभाननामवलोक्यतः समधिकं दूयते मे चेतः । तन्न युक्तमयैनामप्रसाद्य स्थातुम् । तत्कुत्र नु खलु भवेदिनानी देवी ( ऊर्ध्वमवलोक्य ) एषा किल तत्रभवत्याः प्रम- दवनप्रवेशवेला तद्यावत्तत्रैव गच्छामि । ( परिक्रम्यावलोक्य च ) एतत्त- प्रमदवनम् ( पुनर्निपुणमवलोक्य सानन्दम् ) अये कथमिहैव मन्दस्मितोल्लसितचारुमुखी विलोल. गानी भयादिव चलाक्षिसरोरुहेयम् । आपाण्डुरेण वमनेन समुल्लसन्ती वत्मा विभाति मदनं परिवर्तमाना॥५॥ । २ अरण्ये प्रतिनिवर्तमानेत्यर्थः ।

अधर्मविपाकम् । हन्त अधिगतमिदानीमाश्वासनम् ( उपसृत्य ) वत्से किमेवमसि कातरा ( इत्यादातुमिच्छन्स्पर्शमभिनीय सविषादं निःश्वस्य ) हा धिक् विप्रलब्धो- ऽस्मि मन्दभाग्यः । तथा हि- नवविकसितः पुष्पौषोऽयं न हास्यमुत्यद- स्तरलिततनुर्भङ्गालीयं न चाक्षिसरोरुहम् । इदमपि रजोवृन्दं सर्पत्सितं किल नांशुकं पवनचपला चेयं वीरुन मे तनुसंभवा ॥६॥ ( पुनर्नि:श्वस्य ) अहो एवं किल प्रतिपलं प्रतारयति मां विप्रयोगो वत्सायाः । भवतु यावप्रियामवलोकयामि ( इति किंचित्पुरत उपसृत्य विलोक्य च ) एषा किल तनया विरहपर्याकुलाऽविरतरुदितोतन ना शिलातलमधिशयाना देवी किमपि विस्रब्धं मन्त्रयमाणा सखीभिस्तिष्ठति। न खलु क्षणविस्मृतमस्याः शोकानलमात्मन उपसर्पणेनोद्दीपयितुमिच्छा- मि । तदत्रैव तावल्लतान्तरितः शृणोमि किमेषा मन्त्रयतीति ( इति तथा कुर्वन्स्थितः) (ततः प्रविशति यथोद्दिष्टव्यापारासह सखीभिरासनस्था देवी) सखी- हला श्रुतिशीलने अलं धीरतामज्झित्वा । देवी- ( दीर्घमुष्णं च निःश्वस्य ) हला क्वेदानी मे वत्सा ( इति बाष्पं विसृजति ) द्वितीया सखी -( अश्रूणि परिमृज्य ) सखि किमसि कातरा । ननु रमणीयतमेदानीमरण्यानीति समुचित एव स्वभावरसिकाया वत्साया विलम्बः । तद्धैर्य तावदवलम्ब्यतामचिरेणैव त्वामानन्दयिष्यति श्रद्धा । देवी-मकरन्दिके व मे वत्साया विरहानलेन भस्मावशेषीकृतं धैर्यम् । सखि रमणीयेष्वपि वस्तुषु न मे सज्जति दृष्टिः । शन्यमिव प्रति- भाति मे भुवनम् । बलादपसार्यमाणाऽपि न मुञ्चति मानसमुत्कण्ठा । तृतीया सखी-कथं वा चन्द्रिकाविरहं सहिष्यते कुमुदिनी । पुरुषोपि- किलामुना विरहसंतापेन व्याकुलीभविष्यति किम्पुनरबला नः प्रियसखी। । S संस्कृतचन्द्रिका। धर्मः-एवमेतत् । अनेकप्रतिपक्षनिर्दयावदारणकर्कशं ममापि हि हृदयमभिलङ्धितमनेन दुर्निवारेण वत्साया विप्रयोगेण । देवी-सखि वारंवारमनिमित्तानि मां व्याकुलीकुर्वन्ति । प्रभातप्रा- यायां च रजन्यामद्यावलोकितो मया कोऽपि परुषदर्शनः स्वप्नः । ततस्तु द्विगुणीभूतशोकावेगा2 किमपि न रोचते मह्यम् । दीर्यतीव मे हृदयम् ( इति बाष्पमुत्सृजति) सख्यः-( अश्रूण्यपनीय ) अस्त्येतच्छिद्रेषु बहुलीभवनमनर्थानाम् । सखि कः पुनः स स्वप्नः । धर्मः-ममाप्यस्ति कौतूहलमेतदाकर्णयितुम् । देवी-(सगद्गदम् ) श्रूयताम् । अद्य किल प्रभाते सुप्ताहं कस्मि- श्चिदरण्ये नयनविलोभनीयं कनकविषाणं हरिणतनयायुगलं मातरमन्वि- च्छद्विलोकितवती। धर्मः-उपक्रान्तमिव प्रतिकूलस्य विलसितं मे देवस्य । सख्यः-ततस्ततः। देवी-ततः पथि गच्छत्तत्र तत्र बालातपशिखामनोहराणि लव- लीकिसलयान्यास्वाय मरकतकिरणजालमिव बालतृणकवलमुपभुज्य शर- चन्द्रिकापूरमिवातिनिर्मलं सलिलमापीयात्मनो निवासस्याभिमुखीभूतम् । सख्यः-ततस्ततः ततः कियदूरमतिकान्ते तस्मिन् धर्म:-किन्वतः परं वक्ष्यति । देवी-सहसा समुत्पन्नः कोपिश्रवणभीषणो घर्घरध्वानो यमाकाह- मेपि प्रलयपविपातमिव मन्वाना सभयं स्थिता। सख्यः-अहो विस्मयनीयता स्वप्नस्य । सखि ततस्ततः : धर्म:-यथाऽस्य श्रवणेन वर्धते मे संतापस्तथा तयामि किमपी- दमत्याहितमेवेति ।

अधर्मविपाकम् । देवी-तदाकर्ण्य ध्वनितमितस्ततो विक्षिप्तचपललोचनमशरणं भववि- बलस्नस्तसुकुमारगात्रं पर्याकुलमिव क्षणं तन्मृगकन्यकाद्वयमतिष्ठत् । सख्यः-हुं ततस्ततः । देवी- ततो यावत्तद्रुतपदं पलायते तावदुपनिपतितः कोपि मूर्त- इवान्तकोऽचिरास्वादितदीनश्वापदरुधिरलोहितायमानलोलजिह्वो दंष्ट्रा- न्तरावसक्तनव्यमृगमांसखण्डविगलच्छोणितबिन्दुपाटलीकृतमार्गो विवृ- तवदनव्यक्तसंदृश्यमानकण्ठरन्ध्रो निश्चलोन्नमितश्रवणयुगलः परुषतरन- खरभयङ्करचरणः समुत्पतञ्च्छार्दूलः । धर्म:-हा धिक् प्रत्यासन्नः किलानर्थः । सख्यः- (सभयम् ) ततस्ततः । देवी- ततो यावदितस्ततो नयनं विकीर्य शरणमवलोक्य च स्वेद- सलिलस्नातं भयनीमीलितलोचनं परिम्लानमृणालशिथिलगात्रं मोहमु- पुगत्य धरातले पतितं तत्स दुरात्माऽऽजिघ्राति तावदहं प्रबुद्धा । सख्यः-शान्तं पापम् । सखि युज्यते ते संतापः । धर्म:-अहो प्रतिकूलता मे भागधेयानाम् । एषा किल स्वप्नकथा सानुजां वत्सां श्रद्धामेव लक्षयति । सर्वथा निरवलम्बोऽस्मि दुर्भागः । प्रथमा-सखि पल्लविके न किल युक्तमिदानीमस्य स्वप्नस्य शान्ति- मविरचय्य स्थातुम् । तद्गच्छ त्वं तत्र भवत्या मीमांसायाः समीपम् । तस्याश्चादेशमवाप्य यथोचितं करिष्यामः । हला मकरन्दिके त्वमपि गत्वा उपाध्यायं निवेदय शान्तिरस्य करणीयेति । उभे-सखि माधविके एवं कुर्वः । ( इति निष्क्रान्ते ) देवी- हला माधविके ततः प्रभृति पावकार्पितमिव मे मानसं न मनागपि शान्तिमङ्गीकुरुते । तत्कदा नु वत्सां सानुजां श्रद्धामवलोक- येयं । ( इति रोदिति) माधविका-सखि धीरा भव। अचिरेणैव भवती श्रद्धामवलोकिश्यते ।

संस्कृतचन्द्रिका। -- धर्म:-अवश्यमिदानीमाश्वासनीया देवी । तत्पर्यवस्थाप्यात्मानमुपस- पम्यिनाम् ( इति पटान्तेन वदनं प्रमृज्य सानन्द इवोपसर्पति । ) माधविका-अये देवः । स्वागतं देवस्य ( इत्युत्तिष्ठति । श्रुतिशीलना बाप्पपर्याकुलमुख्येव प्रत्युत्तिष्ठति ।) धर्म:-( सप्रणयं श्रुतिशीलनां करे गृहीत्वाऽऽसन उपवेश्य च । ) सुन्दरि किमिति निष्कारणं रुद्यते । ( श्रुतिशीलना द्विगुणितशोका बाप्पमृत्सृजति ) माधविका-देव कियान्किल कालो देवपरिचरणाय प्रस्थिताया वत्साया भक्तयनुगतायाः श्रद्धायाः । तस्याश्चाद्यावध्यपरिचितेन विरहेण बलवद्वाध्यमानाऽनिमित्तोपचितोदेगा पर्याकुला देवी नानाविधमनिष्टमाश- माना रोदिति । भूयः परिसांत्व्यमानापि च नोज्झति शोकम् । (क्रमशः) प्राचीनानां वृष्टिपरिमापनयन्त्रम् । यानि किल पाश्चात्यैः प्रकाशितानि यन्त्राणि तत्र कानिचिद्रीत्यन्त- रवर्तीनि भारतवर्षीयैरपि प्रामेव विनिर्मितानीति प्रोक्तपूर्वमस्माभिः । सांप्रतं च प्राचीनानां वृष्टिमापनयन्त्रस्य प्रकारं प्राचीनग्रन्थादुद्धृत्य ग्राहकेभ्य उपहरामः । पाश्चात्यास्तदनुयायिनो भारतीया वा समदेशे कामपि कूपी निधाय तस्यां च लिखितजलप्रमाणाङ्कां काचनलिकां निवेश्य कुपीमखे स्थूलमुखं सूक्ष्ममूलं मूले रन्धवञ्च पात्रं विन्यस्य तत्र पतितैः कूपसिंचितैर्जलबिन्दुभिवृष्टिं परिमिमतेऽस्मिन्दिन इयती वृष्टिः संजातेति तत्संमतं चांशादिकं प्रमाणमन्यतो ज्ञेयम् । प्राचीनानां तु वृष्टिपरिमाण- रीतिरिदानी विलुप्तप्राया। केवलं तु वत्सरस्यारम्भदिवसे ज्योतिर्विदा कथ्यमाने पञ्जिका ( पञ्चाङ्ग ) फले श्रूयतेऽमुकाढकोऽस्मिन्वत्सरे पर्जन्य- स्तत्र चैतावाङ्गिरिष्वियाञ्जलधावेतत्परिमाणश्च क्षित्यामित्यादि । किं तत् श्रुत्वैव यत्किमप्यसौ प्रलपति दैवज्ञ इत्यविशंकितमभिधीयते । उप- तु मणिकुण्डलोपाख्यानम्। A हस्यते च पञ्जिकाकर्ता अहो चातुर्यमेतस्य यदनेन धान्यमानेनैव प्रस्था- ऽऽढकादिना वृष्टिः परिमीयत इति । किं तु सकृदापि बृहत्संहितायां कृतेऽवलो- कनानुग्रहे सोयमुपहासो नाम परिहासकस्यैवान्यतमो मूर्खतायाः प्रकार इति स्फुटीभवति । तत्र हि प्रोक्तम्- हस्तविशालं कुण्डकमधिकृत्याम्बुप्रमाणनिर्देशः। पञ्चाशत्पलमाढकमनेन मिनुयाज्जलं पतितम् ॥इति॥ एकहस्तदीर्घ वृतं किमपि पात्रं सुलभवर्षे प्रदेशे निधाय तत्र पतितं जलं मिनुयात् । तत्प्रमाणं च तोलकचतुष्टयेनैकं पलं पञ्चाशता च पलैरेक आढकश्चतुर्भिश्चाढकैरेको द्रोण इति भावः । इति । मणिकुण्डलोपाख्यानम्। >Co*en- पञ्चमखण्डस्याष्टमसंख्यातोऽनुवृत्तम् ) हा भगवन्नारायण हा दयानिधे हा अशेषभुवनसृष्टिस्थितिप्रलयनि- दान हा समस्तपरिचरशरण्य हा विपदन्धतमसनिराकरणैकसहस्रकर भग- वन्कमलापते किं मयाऽनुष्ठितं दुरितं यस्यैवेदमसदृशं फलमनुभावयसि । प्रभो केनास्मि सर्वतः प्रलिप्ताङ्गोऽहं पापेन येन सुरसहस्राभिलषितेन वामे- नाप्यग्रचरणेन मां स्पष्टुं नादेति ते चेतस्यभिलाषः । भगवन् गायन्ति भवदीयं स्तोत्रमशेषा अपि श्रुतयोऽशेषदुरितधामभूतमपि संकृदपि भवच्च- रणं स्मरन्तमुद्धरसि तत्कालमेव महीयसो दुःखाब्धेरित । न जाने पुनः किमिति मय्येव समवलम्बस औदासीन्यमिति । विभो किमु समवसिता ते करुणा येन मामुद्धर्तुं लेशतोऽपि सा नोंदेति । अथवा नैवायं मे वृत्ता- न्तस्ते नयनपदवीमुपयातः । किं वा कोऽप्ययं क्षुद्र इति मत्वैव मामवधी- रयसि । सुरासुरनायक कथं नाम घटतामेतत् । त्वं किल विश्वतश्चक्षु- रसि करुणासमुद्रोऽसि । प्रभो किमु पितुरपि मानसेऽयं क्षुद्रोऽयं न क्षुद्र ।

संस्कृतचन्द्रिका। इति समुदेति मतिः सुतानां विषये । अथवा ममैव भाग्यदोषोऽयं य एवं पश्यन्तमपि भवन्तं न मामुद्धर्तुं प्रवर्तयति । भगवन् सर्वथाऽशरणोऽस्मी- दानीम् । परिपालय माम् । अस्मिन्नप्यवसरे यदि न मां सकरुणमवलो- कसे तदा व गच्छामि का मे गतिः कः शरणं कमालपामि कस्याये रोदिमि भगवन्नास्ति मेऽन्यः समवलम्बस्तद्विधेहि यदिदानीं सांप्रतम् । इति दीर्घतरमाक्रन्दन्विमुक्तकण्ठं प्रारोदीत् । एवमुच्चैस्तरं साश्रुगद्गदं विलपतोऽस्याक्रन्दितं तत्क्षणमेव भगवतो योगेश्वरनाम्नो महेश्वरस्याभ्यहणायानतिदूरवति मन्दिरमुपायातः प्रशान्त मनसामग्रणीबिभीषणः शुश्राव। निशम्य च तत्कालमेव वज्रपाताभिहत इव निकामव्याकुलः स महाभागो रुदितध्वनेरनुसारेण गच्छन्नपसृत्य च विच्छि- नकरचरणं विपद्तमार्तस्वरेण पाषाणमपि प्रस्यन्दयन्तं धर्मैकनिष्ठमशरणं मणिकुण्डलमद्राक्षीत् । दृष्ट्वा च सपदि दुःखव्याकुलान्तःकरणस्तदीय- विपत्परिमार्जनमीहमानो बिभीषणः पप्रच्छ । वत्स कस्त्वमस्मिन्नमानुषस- ञ्चारे कानने नानाविधहिंस्रपशुसमावृते मूर्तिमतीव भये वर्तसे । केन च दुरात्मना शिरीषकुसुमसुकुमार उत्तप्तकनकावदातः काममप्यपत्रपयन्नेवं- विधामननुभवनीयां दुःखमयीमवस्थामापादित आत्मा भवदीयः । हा धिक्सष्टमेवंविधानामप्याकृतिविशेषाणां दुःखानुभव इति नूनमनुल्लङ्घनीयो विलासो देवस्यति। । । तेन चादितः प्रभृत्यशेषमपि स्वकीयं वृत्तान्तमावेदितो बिभीषणः सत्वरमात्मनः पुत्रमाहूय वत्स ! आनीयतां शीघ्रं महौषधिमन्दिरायमाणः शैल इति समादिक्षत् । तेन च वेगातिशयावधीरितमारुतप्रसरेण समुप- नीते महीधरे समुत्थायात्मनः समीहितामौषधि मार्गयामास । अन्विष्य च दिव्यां छिन्नमपि शरीरं पुनः प्ररोपयितुं प्रभवन्ती समुत्कान्तानपि प्राणान्प्रत्याहर्तुमीश्वरी विकृतमपि च गात्रं पुनः प्रकृतिमापादयन्तीमौ- षधि संजीवनीं नाम छित्वा च तस्याः काष्ठं कस्याश्चन लताया गुणेन सूर्यग्रहणम् । समाबध्य शरीरवत इव मदनस्य मणिकुण्डलस्य कण्ठे निदबन्ध । तत्क्षणं च दावाग्निदग्धशाखापटल इव भूरुहा दिवामृतवर्षेण पुनः पल्लवनिकरः समुद्ययौ बालातपमनोहरो गात्रनिकरो मणिकुण्डलशरी- रात् । तदानीमेव च मणिकुण्डलः समुदद्वहत्पूर्वतोऽपि मनोहरां कान्तिम् । प्ररूढकरचरणपल्लवश्च विस्मयस्य परां काष्ठामधिरूढो मणिकुण्डलः प्रमोदप्रविकसितलोचनयुगलः साश्रुगद्दं बिभीषणं स्तुवन्नुपसृत्य च क्षि- तितलविलोलचूडामणिना मौलिना साष्टाङ प्रणम्य भगवन्परमनुगृहीतोऽ स्मि । केन पुनः कर्मणास्य श्रीमत उपकारस्य प्रत्युपकृती भवेयम् । इत्य- भिदधानो बाष्पप्रसरप्रतिरुद्धकण्ठः किमपि न शशाकान्यद्वक्तुम् । बिभीष- णस्तु वत्स चिरं जीव। परिहीयते भगवतोऽभ्यर्चनावसरः । तिष्ठ साधयाम्य- हामिति सप्रणयं मणिकुण्डलस्य पृष्ठे करपल्लवं परिवर्त्य तेन कथञ्चिद- नुज्ञातः प्रययौ। ( क्रमशः) विज्ञप्तिः। अस्यां चन्द्रिकासंख्यायां मलपृष्ठे संस्कृतेंग्रेजीभाषाभ्यां महाभागस्य विद्याव्यसनिनः परोपचिकीर्षाशीलस्य कल्याणाभिनिवेशिन उदारमतेः खेतडीराजधानीनिवासिनः श्रीमदम्बिकादत्तसूनोः श्रीगुरुदत्तशर्ममहा- शयस्य विज्ञापन प्रकाशितं तदवश्यमवलोकनीयं संस्कृतचंद्रिकाया ग्राह- कमहाशयैः । अनुष्ठाय च तदुक्तं प्रोत्साह्यतां संपादकः प्रकाशकश्च सफलमनोरथः क्रियतां च श्रीगुरुदत्तशर्मा संपाद्यतां च सुमनोहर उप. हार आरोप्यतां चाभ्युदयं संस्कृतचन्द्रिकेति । सूर्यग्रहणम्। अत्यन्तभीषणरणो दिशि पश्चिमायाम् हृत्कम्पकारि महिकम्पनमेव पूर्वे।

संस्कृतचन्द्रिका। याम्ये तथा मनुजमारकरोगपीडा प्रादुर्बभूव नितरां युगपद्यदैव ॥१॥ वेदेषु खण्डशशि ( १९५४ ) सूचितवैक्रमीये भंवत्सरे जनपढ़ेऽत्र तदैव येयम् । दृष्टा जनैर्नभसि संघटनाद्भुता ताम् मित्रानुरोधवशतो ननु वर्णयामि ॥ २ ॥ शीतर्तुमध्यगतमञ्जुलमाघमासे मध्ये दिन दिनकरस्य तनूममायाम् । आच्छादयिष्यति शशी नियतं निजेन बिम्बन तूर्णमिति पूर्णतया निरूप्य ॥३॥ तदर्शनाय विदुषामवलिः समन्ताद् दीपान्तरादपि चचाल विलङ्घन्य सिन्धून् । नानाविधानि परिगृह्य बुधस्तुतानि यत्राणि सूर्यविधुविम्बपरीक्षकाणि ॥४॥ विज्ञानशास्त्रकुशला विबुधा अनेका उच्चोच्चराजपुरुषा अपि गौरकायाः। सिद्धिं विधाय रविवीक्षणसाधनानाम् तस्थुर्यदा वसनवेश्मनि बक्सरादौ ॥ ५॥ पूर्णोपरागमथ पङ्कजबान्धवस्य ज्ञात्वा तदा भुवि चिरेण भविष्यमाणम् । लोकैरकारि कृतभारतवर्षवासै- यद्यद्वदामि तदहं नियतैर्वचोभिः ॥ ६॥ युद्धं भविष्यति नृपेषु परस्परेषु लोकं गमिष्यति यमस्य रुजा प्रजा च । धान्यं धनं बहु हरिष्यति चौरवर्ग ॥

सूर्यग्रहणम् ।
इत्यादि कैश्चिदिह सूरिभिरवन्भावि ॥७॥
तत्तनिशम्य सहसा मनुजाः सशङ्कम्
पञ्चाङ्गवाचकजनानभिवन्य केचित् ।
दैवज्ञराज वद राशिफलं मदीय
मेवं विरक्तमनसाअलिबन्धमूचुः॥८॥
अन्नांशुकविणदानविधानमाशु
दोषक्षयाय परिपृच्छय बुधांश्च केचित् ।
उद्योगिनः समभवन्खलु तत्तदाप्ती
नास्त्यालये तदपि देयमवश्यमेव ॥ ९
दैवज्ञमेव शरणं शिरसा नतेन
केचित्फलानि भयदानि निशम्य जग्मुः।
केनापि पण्डितपते परिपाहि नस्त्वं
यत्नेन वाक्यमिति दीनतमं न्यवेदि ॥१०॥
भानूपरागकृतमाविमहर्घतायाः
संचिन्तनेन विवशाः कतिचिभूवुः ।
अन्नं विनास्मदसवः कथमीश हा हा
स्थास्यन्ति दुर्विलसिता इति संविलय ॥ ११ ॥
तत्तत्स्थलस्थितमहीसुरवल्लभानां
गेहेषु दत्तधनमाशु निवेषणाय ।
काशीप्रयागमथुराकुरुपुष्करादि
तीर्थानि चेलुरति भक्तियरेण केचित् ॥ १२ ॥
कश्चित्तथा सुनयना सुरनिन्नमादि-
स्नानच्छलेन युक्कैः सह सङ्गमाय ।
ईयुमनोरथशतं हृदि धारयन्त्यः
सङ्केतितस्थलमनानिपीडितायः ॥ १३॥

। संस्कृतचन्द्रिका। केचिद्वधूबदनचन्द्रविलोकनाय केचिद्धनस्य हरणाय परस्य केचित् । कूले ययुग्रहण दुष्परिणामदुःख- नाशाय सनिकटवर्तिजलाशयस्य ॥१४॥ येऽस्मद्विधा विधिवशान्ननु किञ्चिदन्यत् शक्ता न कर्तुमथ ते स्वकरे गृहीत्वा । काचस्य कजलितपृष्ठतलस्य खण्ड- मुच्चस्थले बहुभिरात्मजनैर्विरेजुः ॥१५॥ यस्मिन्क्षणे चपलतातिशयेन चन्द्र उत्प्लुत्य मेघधःस्थलतश्चकार । स्पर्श प्रमाणितदिने दिवसेशबिम्ब- स्तस्मिन्बभूव जनताक्षिशतैकलक्ष्यः ॥ १६ ॥ दृश्यं विलोक्य तदिदं किल कोऽपि नादः संश्रूयते स्म भुवि लोककृतः समन्तात् । स्त्राने जपे हरिहरस्मरणे च दाने सर्वेऽभवन्रुचिविचित्रतया निमग्नाः ॥ १७ ॥ हहो असत्यरुणमण्डलमेष राहुः पौराणिकैः खलु पुनः पुनरित्यभाणि । वैज्ञानिकैरपरबुद्धिविचक्षणैस्तु सर्वैरमानि शशिचण्डकराभियोगः ॥१८॥ धर्म प्रभो कुरु कुरु ग्रहणं प्रसक्तम् त्वं देहि देहि वसनश्च धनश्च धान्यम् । इत्यादि दीनवचनानि च याचकानाम् केषां न कर्णकुहरे पतितानि तानि ॥ १९ ॥ छायां करोति वियति स्म यदा यदेन्दुः सूर्यग्रहणम् । श्यामप्रभां वितनुते स्म तदा तदार्कः। आपत्सु दैवविनियोगकृतागमासु धीरोऽपि याति वदने किल कालिमानम् ॥ २० ॥ कालक्रमेण शशिना निजनीलमूर्त्या संच्छादनं कृतमियद्रविमण्डलस्य । येनेह रत्नगिरिबक्सरशाहडोल- ग्रामेषु तस्य समलोकि समस्तलोपः ॥ २१ ॥ शुभ्रप्रकाशरहिते जगतीतलेऽस्मिन् यल्लोहितातपरुचिर्ददृशे मनुष्यैः । तरि पुराणलिखितारुणराहुयुद्धे जाते विधुन्तुदशिरोऽसनिपातजन्मा॥ २२ ॥ ग्रासं गते नभसि पूर्णतयाबिम्बे स्पष्टीवभूव भुवि कोऽपि तमित्रपुञ्जः। आलोक्य कष्टमभितो महतां मलीनाः स्वान्ते सदा समधिका मुदमावहन्ति ॥ २३ ॥ संध्याजगाम सहसा किमतेत्यकाण्डे वासेच्छुकं खगकुलं विरुतिं ततान । गावोऽपि गेहगमनोत्सुकतां दधानाः पुच्छं प्रसार्य परितश्चलिताः सशब्दम् ॥ २४ ॥ खग्रासतामभजताक इति प्रदातुं साक्ष्यं किमेष भगवानुशना मनुष्यान् । तस्मिन्क्षणे समुदियाय नभोन्तराले यत्रं विनैव यदयं सकलैबलोकि ॥ २५॥ एवं गते मयि महाविषमामवस्थाम् कुर्वन्ति किं जगति सर्वजना इतीव ।

संस्कृतचन्द्रिका। द्रष्टुं रविः पिहितबिम्बतटाभिजात- ज्योतिश्छटाक्षिनिकरं बिभराम्बमूव ॥ २ ॥ देदीप्यमानदहनोपमभास्करस्य साहाय्यमापदि विधातुमहो किमेषः । वेगेन पश्चिमहरिद्वदनावलम्बी वायुः क्षणं प्रवहति स्म तदा रुषेव ॥ २७ ॥ पूर्णग्रहस्य समये कतिचित्पलानि विश्वो विशेषकपिशीकृत ईश्यते स्म । औदास्यभावमभजन्जनतामुखानि संस्तब्धतातिशयपूरितसर्वदिक्षु ॥ २८ ॥ चन्द्रस्ततो लघुतया निजया दिनेशात कक्षान्तरेषु गमनेन तदीयरोधम् । कालक्रमेण विजहौ तदनन्तरं स सूर्यो जगाम भुवि नेत्रपथं जनानाम् ॥२९॥ खग्रासमाप खलु यः सं दिवाकरोऽयं स्वच्छे नभस्यतितरां महमा चकासे । संपद्विपद्युगमिदं हि नितान्तलोलं कुत्रापि नैव भजते स्थिरतां चिराय ॥ ३० ॥ लोकद्वये भवति यावदिदं समस्तं विज्ञानशाम्रपदभिः समुपादितानि । तावत्क्रमागतरविग्रहणस्य यत्रै- श्चित्राणि चित्रफलकानि मनोहराणि ॥३॥ आदित्यमोक्षमनुलक्ष्य ततो मनुष्याः स्नानं विधाय विधिवद्गृहमागताः स्मः। एतस्य च ग्रहणवर्णनगुम्फितस्य काव्यस्य पूर्तिरधुना क्रियते मयाऽत्र ॥ ३२ समालोचना । एतानि पथकुसमानि मयार्पितानि सन्त्येव यद्यपि गुणै रहितानि मित्र । भक्तिं विलोक्य मम तावदिमां तथापि त्वं स्वीकुरुष्व बुधपूजितपाद तानि ॥॥३३॥ इति । महावीर प्रसाद द्विवेदिनः (झांसी.) समालोचना। ( पूर्वतोऽनुवृत्ता।) ( ४ ) लिखितपुस्तकान्त उपलभ्यमानं भर्तृहरिप्रणीतं विज्ञानशत- कमितिवचनमपि विज्ञानशतकस्य भर्तृहरिविरचितत्वमेव बोधयति न तु शतकत्रयसमाकर्तृत्वम् । स हि भिन्नो भर्तृहरिः शतकत्रयकर्तुयेन विज्ञा- नशतकं प्राणायि। स्पष्टं चेदमुपरितनेन कल्पनाप्रपञ्चेन । अतो यथा कालि- दासानामेवं भर्तृहरीणां बहुत्वं स्वीकरणीयमेवेति । (५) इदं पुनर्न मनागपि युज्यते वक्तुं यथा भर्तृहरिनिर्वेद इवात्रापि विज्ञानशतके भर्तृहरिर्भार्या प्रति बालाशद्वेन व्यवहरतीति शतकत्रयप्रणे- तैवास्य कर्तेति । निसर्गो ह्ययं कवीनां यत्यायेण कान्तासु प्रयुञ्जते बाला- शद्धम् । दृश्यते हि बाले नाथ विमुञ्च मानिनि रुषमिति वाले बालम- 'रालमञ्जुगमन इत्यादौ च भार्या प्रति बालाशब्दस्य प्रयोगः । अतो मही- यसाऽपि प्रयासेन साध्यमानं न सिद्धयति शतकत्रयविज्ञानशतकयोः समानकर्तृत्वमित्येवानन्यगत्या स्वीकुर्मः । एवं विचारिता अस्माभिः श्रीकृष्णशास्त्रिणोपन्यस्ता हेतवः । हेत्व- न्तरैरपि नास्य शतकत्रयकर्तृभर्तृहरिविरचितत्वं पर्यवस्यति । तथाहि । प्रथम तावदियं बलवत्याशङ्का यथा येन यदेकदा ये नार्थेनानुगतं पद्यं विरच्यते न किल तेनैव तादृशं तद्विरुद्धार्थ कदाचिदप्युपनिबध्यते । दृश्यते च शतकत्रयानुपलब्धं तथापि भक्तिस्तरुणेन्दुशेखर इत्यादिभिः पधैभर्तृहरेर- । - ७२ संस्कृतचन्द्रिका। नभिमतत्वेन ज्ञायमानं च शतशः प्रत्यक्षीक्रियमाणं विज्ञानशतके श्रीरङ्गादिपदोपनिबद्धं भर्तृहरेः श्रीविष्णौ प्रेम न च विष्णोः परब्रह्मत्वा- वैराग्योत्तरमेव तत्रै प्रवृत्तिरेतस्येति वक्तव्यम् । यो हि तस्य परब्रह्मता- मवगच्छेत्स ब्रह्मवर्णनप्रस्तावेऽवश्यं तथोपनिबध्नीयान्न तु तत्तथा क्वचिदपि लीये परब्रह्मणीत्यादौ दृष्टमतो न विज्ञानशतकं शतकत्रयकर्तुरितिप्रतिभाति। किं च यान्येव वैराग्यशतके वैराग्यमयानि पद्यानि दृश्यन्ते तान्ये- वानुवादसरणिमनुसृतानि विज्ञानशतकेऽपि । एतच्चैककर्तृकत्वे न सम्भवति । वैराग्यशतके किल वैराग्यस्यैव विशेषतः प्रतिपादनीयत्वायुज्यत एव ताट्ट- शानामेव मद्यानामुपनिबन्धः। किं तु न विज्ञानशतकेऽपि वैराग्यमेवभूयिष्ठमु- पवर्णयितुं युक्तम् । तत्र हि विज्ञानमेव प्रतिपाद्यं विशेषेण । विज्ञानशतके वेत- द्विरुद्धमेवावलोक्यते प्रायेण अतोऽप्युपरितनमेवास्मन्मतं स्थिरीभवति । अपि च । काव्यद्वयस्य भावसादृश्येऽपि नास्त्येव रचनासाम्यम् । शतकत्रये हि प्रायेण द्राक्षापाको निरर्थकपदशून्यत्वं सङ्केपि बहुलार्थत्वं मनोहरशय्याशालित्वं प्रसादभास्वरत्वं च भूयिष्ठं प्रत्यक्षीक्रियते । अत्र च विज्ञानशतके नैतविशेषतो दृष्टमित्यपि प्रायुक्तमेव मतं स्थिरीकुरुत इत्यलं विस्तरेण । एव च नेदं विज्ञानशतकं शतकत्रयकर्ता भर्तृहरिणा प्रणीतमपि तु तद्भिन्नेनैवेति संसिद्धम् । अत्रापि सन्ति मनोहराणि कियन्ति पद्यानि तानि च विज्ञानशतकेऽवश्यं दृश्यन्तां रासिकैः विस्तरभयात्तु नात्रोदाहर्तुं शक्यन्ते । इदं किल नव्यं काव्यमवश्यं सङ्ग्राह्यम् । एतच्च प्रकाशयता बहूपकृतं श्रीकृष्णशास्त्रिणा लोकानामिति सप्रमोदं ब्रूमः । प्रणन्दामश्चैवं विधेनास्य महाशयस्य संस्कृतभाषाप्रेम्णा । आशास्महे साफल्यमेतस्य महाभागस्य प्रयत्नमचिरादेवोपस्थेयादिति । यच्च सम्पादकानां धर्ममनुसरत: किमपि न्यूनाधिक मदनतो निरसरंतत्र यदि किमप्यनुचितमेव भासेत तदा क्षम्यतामिति शिवम् ।

श्रीशिव शरणम् । ॥संस्कृतचन्द्रिका॥ श्रीगणेशाय नमः। शिवादीनपि कर्माणि कारयन्ती जनानिव । मायाऽवलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी ॥ ॥ मासावतरणिका ॥ पुरा तपे क्षीणजलाः किलापगाः * प्रसस्वनुईप्ततमा इवावनौ। नभस्यमः पूर्णजला न तु स्वनं वितन्वते क्षुद्रतमो हि जल्पति ॥ ४ ॥ ॥ उद्भटश्लोकाः॥ अधरकिसलये कान्तदन्तक्षते हरिणशिशुदृशां नृत्यति भ्रयुगम् । ध्रुवमुचितमिदं यद्विपत्तौ सता- मतिकुटिलगतेः स्यान्महानुत्सवः ॥ ८॥ परमर्मनिरीक्षणानुरक्त स्वयमत्यन्तनिगूढचित्तवृत्तिम् । अनवस्थितमर्थलुब्धमारा- दौपच्छन्दमिकं जहीहि मित्रम् ॥ ९ ॥ अतिदारुणा द्विनिहा परस्य मर्मानुसारिणी कुटिला। दूरातरिहरणीया मैत्री नागीय सज्जनैरसताम् ॥ १० ॥ तपो ग्रीष्मतुः आपगा नदी । नभा श्रवणः २ स्वच्छन्दवर्तीति यावत् ।

संस्कृतचन्द्रिका। श्रीमदप्पयदीक्षितः । ( पूर्वतोऽनुवृत्तः) इतरश्च प्रबन्धः श्रीदीक्षितप्रणीतो वृत्तिवार्तिकं नाम । अत्र किलाभिधाल- सणाव्यञ्जनाख्यानां तिसृणामपि वृत्तीनां लक्षणानि सोदाहरणानि तद्भेदाश्च सविस्तरं प्रतिपादिताः । अस्य च प्रबन्धस्य च परिच्छेदद्वयमेवोपलभ्यते । तत्र च प्रथमेऽभिधाया द्वितीये च लक्षणाया निरूपणमतिमात्रमनोहर- मवश्यद्रष्टव्यं चास्ति । अस्य च प्रबन्धस्य वृत्तिविषयकत्वाद्वृत्तीनां च त्रित्वात्तिसृणामपि पृथक्प्रतिपादकाः परिच्छेदास्त्रय एवेति सर्वेऽपि प्रति- पद्येरन् । किंतु तत्राद्यवृत्तिद्वयप्रतिपादक एव प्रबन्ध इदानीं परिच्छेद- द्वयात्मक एव प्रबन्ध इदानीमुपलब्धः । मन्यामहे चान्यो विद्यत एव किंतु नाद्याप्युपलब्ध इति । अनुसंधीयमानश्च स यदि समाधिगम्येत तदाऽवश्यं तं वा तद्विषये वा कमप्यात्मन आशयं प्रकाशयिष्यामः। न केवल त्रयोऽस्य परिच्छेदा इत्यनुमानं किंत्वस्ति तत्र दीक्षितानां वचन- मपि तच्च तृतीयसंख्यायां ( षष्ठखण्डस्य ) पञ्चाशपृष्ठ समुदाहृतमस्माभिः । वृत्तीनां च त्रयं प्रोक्तं दीक्षितैवृत्तिवार्तिके । यथा- वृत्तयः काव्यसरणावलङ्कारप्रबन्दृभिः । अभिधा लक्षणा व्यक्तिरिति तिस्रो निरूपिताः ॥ तत्राभिधा नाम शक्त्या प्रतिपादकत्वम् । सा त्रिधा योगो रूढिर्योग- रूढिश्चति । एतषां लक्षणान्यपि दीक्षितैः प्रोक्तानि ग्राहकेभ्य उपहियन्ते । यथा--तत्राखण्डशक्तिमात्रेणैकार्थप्रतिपादकत्वं रूढिः। यत्र शब्दे धातुप्रत्ययाद्यवयवशक्तिर्नाङ्गीक्रियते नापि संगच्छते किंतु समुदितस्यैव विशिष्टार्थो बोध्यते तत्र रूडिरित्यर्थः । यथा--- १ व्यंजना । २ कोशव्याकरणादीनां सकेतः शक्तिः । ईश्वरसंकेत इति तु विका- दास्पदत्वानोक्तम् ।

श्रीमदप्पयदीक्षितः। ७५ यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं धन्याः प्रपद्य सहदीश भवन्ति मुक्ताः । नित्यं तदेव भजतामतिमुक्तलक्ष्मी- र्युक्तैव देव मणिनूपुरमौक्तिकानाम् ॥ इति ॥ यदि सकृदपि चरणौ प्रपन्नाः पुरुषा मुक्ता भवनि तदा ये संततमेवे- श्वरस्य चरणयाः संनिहितास्तेषां नूपुरमौक्तिकानां साहजिकमेवातिमुक्त- लक्ष्मीवत्वमिति भावः। मौक्तिकानामतिमुक्तकुसुमानां च सादृश्यमुपजीव्ये- यमुक्तिः । तत्र प्रौण्डूकवाच्यतिमुक्तशब्दो मणिनूपुरशब्दौ चाखण्डयैव शक्त्या बोध्यन्ते न त्ववयवशक्त्या । तत्र मुक्ता नतिक्रान्ता इत्याद्यवयव- शक्तेरनुपयुक्तप्राय वात्समुदायशक्तिरेवाङ्गीक्रियते । अवयवशक्तिमात्रसापेक्षत्वं पदस्यैकार्थप्रतिपादकत्वं योगः।। यदि पदेनावयवशक्त्यैवैकोऽर्थः प्रतिपाद्यते तदा योग इत्यर्थः । यथा-- ऊध्र्व विरिञ्चिभवनात्तव नाभिपद्मा- द्रोमावलीपदजुषस्तमसः परस्तात् ॥ इति ॥ अत्र विरश्चिभवननाभिपद्मरोमावलीशब्दानां योगः । अवयवसमुदायोभयशक्तिसापेक्षमेकार्थप्रतिपादकत्वं योगरूढिः। यथा मेरौ सुरालयशब्दः । तत्र हि सुरा निवसन्तीति मेरौ सुराणा- मालयो निवासस्थानमित्यवयवार्थेन रत्नसानुः सुरालय इति समुदायार्थेन चैकस्यैवावबोधः। यथा वा कमले पङ्कजशब्दः। अत्र हि पङ्काज्जायत इत्यवयवे पङ्कजमिति समुदायेन चैकस्यैव कमलरूपार्थस्य बोधाद्यागरूढिः । त्रिविधाप्येषाऽनेकार्थानां शब्दानां स्थाने संयोगायनियम्यते । संयो- गादयश्च यथा-- संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यागस्य संनिधिः ॥ १ मोगरा इति भाषा ।

७६ संस्कृतचन्द्रिका। सामर्थ्य मौचिती देशः कालोव्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषम्मृतिहेतवः ॥ इति ॥ अर्थः प्रयोजनम् । प्रकरणं वक्तृश्रोतृबुद्धिस्थता । लिङ्गं प्रयुक्तानां नानार्थपदार्थानामर्थान्तरव्यावर्तको धर्मः । शब्दस्यान्यस्य संनिधि- ानार्थस्य पदस्य विशिष्टार्थसंसर्गिणोऽर्थान्तरवाचकस्य पदस्य संनिधिः । सामर्थ्य कारणत्वम् । औचिती योग्यता । व्यक्तिः पुंस्त्रीनपुंसकान्यतम- त्वम् । स्वरा उदात्तानुदात्तादयो वेदादौ प्रसिद्धाः। एतेषां चोदाहरणानि तत्र संयोगस्योदाहरणं यथा सशङ्खचको हरिरिति । अत्र हि हरि- पदस्य केसरितुरङ्गकपिप्रभृतिविन्द्रादिषु च वर्तमानत्वेऽप्यत्र शङ्ख- चक्रसांनिध्याद्धरि म भगवान्विष्णुरेवेति बोध्यते। न ह्येतस्मादन्यत्र शङ्खचक्रसंयोगसंभव इति। विप्रयोगा यथा । अशङ्खचक्रो हरिरिति । अत्र निषधस्य प्राप्तिपूर्वकत्वनियमाच्छङ्खचक्रयोश्चान्यत्रापाप्या तनिषे- धस्यान्यत्रानुपपत्तेः पूर्वत्र संयोगेनेवात्रापि शङ्खचक्रयोर्वियोगेन स एव विष्णुरूपोऽर्थो बोध्यते । साहचर्य च सहचरत्वम् । तच्च यथा रामलक्ष्मणौ। अत्र रामशब्दस्य परशुरामबलरामाद्यनेकार्थान्तरसत्वेऽपि लक्ष्मणसाहच- यस्यान्यत्रासंभवाद्रामो दाशरथिरेव । विरोधित्वं यथा रामरावणाविति । रामशब्दस्य पूर्वोक्तानेकार्थसत्वेऽपि रावणविरोधविषयत्वस्यान्यत्रासंभवा- द्रामोऽत्र दाशरथिरेव । अर्थों यथा मोक्षाय हरि भजति । मोक्षरूपेण प्रयोजनेनान्यस्य हरेरुपासनाया असंभवादत्र हरिभगवानव । प्रकरणं यथा विवेश रामो दुर्धर्ष तापसाश्रममण्डलमिति । अत्र वक्तः श्रोतुश्च बुद्धौ रघुवीरकथाया एव स्थित्या रामा रघुवीरः एव । लिङ्गं यथा कुपितो भूभृदिति । भूभृच्छब्दस्य पर्वताद्यर्थान्तरवाचकत्वेऽपि कुपितत्व- रूपस्य धर्मस्य पर्वतेऽसंभवाद्भूभृदन राजैव । कोपोहि भूभृच्छब्दं पर्वत- रूपार्थायावर्तयन्राज्ञि योजयति । शब्दस्यान्यस्य संनिधिर्यथा निषधं पश्य भूभृतमिति । अत्र पर्वतविशेषवाचिनो निषधशब्दस्य सांनिध्याभू- । । ।

७७ श्रीमदप्पयदीक्षितः । च्छब्दस्य पर्वत एवार्थः । सामर्थ्य यथा मधुना मत्तः कोकिल इति । अत्र कोकिलमदजनकत्वसामर्थ्यस्यान्यत्रासंभवान्मधुर्वसन्त एव । औचिती यथा भजत हरिं भवतापखिन्ना इति । अत्र संसारतापखेदहरणौचित्य- स्यान्यत्राप्रसिद्ध्याहरिभगवानेव । क्षीरार्णवे हरिः शेते प्रलये तिष्ठति हरिरित्यत्र क्षीरार्णवप्रलयरूपाभ्यां देशकालाभ्यां हरिगरुडध्वज एव । मित्रो भातीत्यत्र 'व्यक्त्या मित्रः सूर्यः । स्वरोदाहरणं तु तिस्र एव सायाह्नोपसदो द्वादशाहीनस्येति । अत्र श्रुतावहीनपदं मध्योदात्तस्वरेणा- हर्गणसाध्यसुत्याकं द्वादशाख्यं क्रतुविशेषमभिधत्ते । अह्नः क्रतावित्यनु- शासनात् । एवं यथा वृत्तिवार्तिके श्रीमदप्पयदीक्षितैरभिधा निरूपिता तथा प्रदर्शितमावश्यकत्वात्संक्षेपतोऽस्माभिः । द्वितीयपरिच्छेदे तु लक्षणा सविस्तरं प्रतिपादिता । तस्याश्च नात्यु- पयुक्तत्वान्नात्रोच्यते । व्यञ्जनां तु प्रवन्धान्तरे वर्णयिष्यामः । अन्यश्च दीक्षितप्रणीतोऽस्मन्नयनगोचरः प्रबन्धो रनत्रयपरीक्षा नाम । तस्यापि तात्पर्यमत्रोपवर्णयितुमिच्छामः । अयं किल श्रीमदप्ययदीक्षितप्रणीतोष्टपद्यात्मको लघीयानपि बह्वर्थों हृदयङ्गमो युक्तिप्रपञ्चसमुल्लसितोऽवश्यं पठनीयश्च प्रबन्धः । यः किला- तिबृहत्तरया व्याख्यया समुद्भासितः समुप ननयति विस्मयं द्रष्टुणां मनसि । यद्यपि व्याख्ययं केन प्रणीतेति प्रबन्धान्त नोल्लिखितं तथापि यस्य दीक्षितविरचिताः प्रबन्धाः परिचिताः स विनैवायासं निश्चिनुया- दीक्षितपणीतैवेयं व्याख्योति । अन्यो हि प्रबन्धमेवंविधं व्याचक्षाण: प्रबन्धान्ते नामाप्यात्मनो व्यलेखिष्यत् । यथा च ब्रह्मतर्कस्तव नाना- विधानां प्रमाणानामुपन्यासो यथा वा कल्पनासमुल्लासो यथा वा वचनशैली तथैव रत्नत्रयपरीक्षाया व्याख्यायां प्रविभाति । अत एवोच्यते व्याख्याप्यस्य श्रीमदप्पयदीक्षितैरेव विरचितति । किमधिकं व्याख्यां विना केवलाया अष्ट- संस्कृतचन्द्रिका। पद्या रत्नत्रयपरीक्षात्वमेव न संगच्छते। न हि प्रतिज्ञोपन्यासमात्रस्य परी- क्षति क्वापि श्रूयते नाम | सा हि प्रमाणोपन्यासादिनाऽर्थस्य विचारः। स चात्र व्याख्यायामेवास्तीति व्याख्यासंवलितस्यैवास्य प्रबन्धस्य रत्नत्रयपरी- क्षेत्याख्येति युक्तमुत्पश्यामः । व्याख्याते च आमथ्य भाष्यदुग्धाब्धि प्राप्तं रत्नत्रयं ततः। शंभुर्गौरी हरिश्चेति तच्च सम्यक्परीक्षितम् ॥ इत्युक्तेयाख्यावसान एव रत्नत्रयपरीक्षायाः परिसमाप्तिरित्यवगम्यते । प्रबन्धस्य चास्याप्पयदीक्षितप्रणीतत्वाव्याख्यांशस्यान्यकर्तृकत्वशङ्का निरव- लम्बैव । यदप्युच्येताष्टमपयावसान एवेति श्रीत्यादिदण्डकेन रत्नत्रयपरीक्षायाः समाप्तेरुलंखात्तत्रैव तस्याः परिसमाप्तिः । तस्मिन्नेव दण्डके श्रीमदप्ययदी- क्षित नाम्नः समुल्लेखाद्दीक्षितकृतिस्तावत्येव व्याख्या त्वन्यप्रणीतैवेति तन्न समञ्जसम् । उपर्युक्तेन व्याख्यावसानश्लोकेन व्याख्यासंवलितस्यैव प्रबन्धस्य रत्नत्रयपरीक्षेति नाम्नः स्पष्टत्वात् । दण्डकस्य तु व्याख्यान्ते लेख्यस्य पद्यान्ते लेखः प्रामादिक एव । स्याच्च कदाचियाख्याया अन्यकर्तृत्वं यदि नाम तत्र पद्यगतपदानामों निर्दिश्येत । न चैतदस्ति। प्रत्युतमूलेऽनवलोक्यमानेभ्यः प्रमाणेभ्योऽतिरिक्तप्रमाणादीनामुपन्यासेन मूले प्रतिज्ञातस्यैवार्थस्य परिपोषणं विस्पष्टयति पद्यसमानकर्तृकैव व्याख्येति । तत्सिद्धमतात्रता व्याख्यासंवलित एव प्रबन्धोऽयं रत्नपरी- क्षाख्यामहतीति तत्सहकृतायं दीक्षितप्रणीत एवेति । ब्रह्मतर्कस्तवे दृश्यमाना च दीक्षितचरणानां व्याख्यानसरणिरत्रापि प्रकटीभवन्ती गुढयति नः सिद्धान्तम् । पद्यैः सहैव व्याख्यागतस्य युक्ति जालस्य संक्षेपत एवोपन्यासोऽत्र नायुक्तः किंतु प्रबन्धोऽयमचिरादेव स्मार्तमतोत्तेजकसभाद्वारा प्रकाशयि- प्यत इति व्याख्यामुपेक्ष्य संक्षेपतः पद्यानि कानिचित्संबन्धप्रदर्शनपूर्व- कमुदाहियन्ते ।

७९
श्रीमदप्पयदीक्षितः।
अत्र च प्रतिपायं रत्नत्रयम् । तच्च धर्मी धौं चेति । तत्र धर्मी
श्रीशिवः परब्रह्माख्यः । धर्मस्तु द्विविधो मायोपादानभेदात् । तत्राद्यो
गौरी द्वितीयस्तु नारायणश्च पुराणादीनां वचनैस्त्रयाणामप्येषामभेद एव ।
तत्र धर्मभूयोर्गौरीनारायणगाः सेवायाः श्रीशिवोपासनायामावश्यकत्वम् ।
शिवोपासनाच्च तदेकतानतामापद्यानन्दस्वरूपीभावो मोक्ष इति । तत्रा-
यमाद्यः श्लाकः।
नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्यमेकं
धर्मोधर्मेति भेदद्वयमयति पृथग्भूयमायावशेन ।
धर्मस्तत्रानुभूतिः सकलविषयिणी सर्वकार्यानुकूला
शक्तिश्वेच्छादिरूपाभवति गुणगणश्चाश्रयश्चैक एव॥इति।
द्वितीये च पये धर्मस्य माहात्म्यं निरूपितम् । तृतीये च धर्मिणो
धर्मस्य च कृत्यविभागः प्रदर्शितः ।
कर्तृत्वं तस्य धर्मी कलयति जगतां पञ्चके सृष्टिपूर्व
धर्मः पुंरूपमाप्तः सकलजगदुपादानभावं विभर्ति ।
स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादिकर्तुः
प्रोक्तौ धर्मप्रभेदावपिनिगमविदां धर्मिवद्ब्रह्मकोटिः ॥इति।।
अथ कोयं धर्मी का चास्य महिषी महामाया कश्योपादानसंज्ञो
धर्मस्यांश इति चतुर्थे प्रतिपादितम् । यथा-
योऽसौ धर्मी स शम्भुः शिव इति च परब्रह्म चेति प्रसिद्धो
या चोक्ता धर्मिणोऽस्याविघटितमहिषी साम्बिकोमेति विद्या।
यश्चापादानभूतः पर इति पुरुषस्त्वेष नारायणोक्त्या
ख्यातः कौआदिवाक्यैरधिगमितमिदं नारदस्यापि वाक्यैः
॥ इति ॥
सृष्टिपालनसंहारतिरोधानानुग्रहरूपाणि पंचकृत्यानि ।

संस्कृतचन्द्रिका। । पञ्चमे तु नारायणस्य महिमानं प्रपञ्च्य श्रीशिवप्राप्तिकामानां प्राक्तदु- पासनस्यावश्यकत्वं प्रतिपादितम् । तस्यैवायस्य पुंमः परिणतिरखिलोऽप्यम्बरादिर्विकार- स्तस्यैवांशो विरिञ्चावधिरिह सकलोऽप्येष संसारिवर्गः । प्राप्यं कृत्वैव तस्य प्रपदनममृतस्याद्यमानन्दमूर्तेः स्थानं भर्गस्य जुष्टं तदमृततनयैर्देवदेवैः पुराणैः ॥ इति ॥ षष्ठे गौर्या महिमानं प्रकाश्य तस्याः सेवायाः शिवोपासनायां नियत- भावः प्रदर्शितः । सप्तमे शिवोपासनायाः साक्षान्मुक्तिहेतुत्वमुक्तम् । अन्ते च पद्यमिदमुपन्यस्तं यथा- विद्वांसः शङ्करस्य श्रुतिमतिमहितोपासनावासनाभि- लंब्धस्वान्तःप्रतिष्ठाः सुदृढमभिधिया तं विलोक्यात्मनैव । गोलोकस्योर्ध्वभागादपि परमपदाद्वैष्णवादूर्ध्वदेशे भास्वत्कोटिप्रभं यान्त्यपुनरवगमं स्थानमानन्दरूपम् ॥ एतावता च प्रबन्धेनानेन श्रीमदप्पयदीक्षितानां महाशैवत्वं स्फुटीभ- वति । एवमुदाहृतं संक्षपतो रत्नत्रयपरिक्षणम् । एषां चान्यः क्षुद्रः प्रब- न्धोऽस्माभिरवलोकितो रसपरिप्लुत आर्याजातिमयः शतपद्यात्मको वैराग्य- शतकाख्यः । अस्य च नाम्नैव तत्रत्यं प्रतिपाद्यमवगन्तुं शक्यते । यश्वापरो महान्यबन्धः सिद्धान्तलेशसंग्रहो नाम तस्यापि तात्पर्य संख्यान्तरे प्रकाशयिष्यामः । ( क्रमशः ।) कन्यकाविवाहः। हा कालमाहात्म्यम् । हा शिक्षापरिणामम् । येषां खल्वीश्वरक- ल्पानां सर्वदर्शिनां महर्षीणां मज्योच्छिष्टभूनं करणं वा धर्मसंहिता १ तस्य नारायणस्येत्यर्थः ।

कन्यकाविवाहः। ८१ वा दर्शनं वा किंचिदपि कथमपि गुरुतोऽधीत्यात्मानं मानवसंख्यासु गणयामः । तानेवेदानीं प्रतिपदं द्राग्दूषयितुं तेषामेव भ्रान्तिं घोषयितुं तेषामेव च स्थूलदर्शितां प्रतिपादयितुं प्रायः प्रयतामहे । तत एव ब्रवीमि हा कालमाहात्म्यं हा शिक्षापरिणाममिति । येषां खलु पूज्यपादकनिष्ठारजःकणानामेकस्यापि शब्दार्थस्य विभा- वनायां कुण्ठायते मतिर्मन्दायते हृदयमज्ञायते च मस्तिष्कं तेषामेव शास्त्रा- ण्यनधीत्याप्याद्यन्तमध्यमन वलोक्यापि केवलं भाषान्तरेणानूदितानि पठित्वा द्राक्समालोचयामः । तत एव ब्रवीमि हा कालमाहात्म्य हा शिक्षापरिणाममिति । अधुनातना अनेकेऽर्वाचीना नवशिक्षिता झटिति ब्रह्मवादिनः समा- लोचयन्त्येवं यदार्थशास्त्रेषु बालिकाविवाहः संवादितो नासौ धर्ममूलो वा युक्तियुक्तो वा विज्ञानप्रसूतो वा भवितुमर्हति । अहो ते खल्वेवं बुवते । तथा हि-अशेषदुःखपापाकरो हि बाल्यो- द्वाहः । असंपूर्णे वयसि न परिणयो विधेयः । तथा सति हपरिणत- बीजोद्भवः शाखिन इव तदुद्भवाः संताना हीनवीर्या निस्तेजस्काश्च भवेयुरिति । पठन्ति च ते तदनुकूलं वचनम्- ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् । यद्याधत्ते पुमान्ग) कुक्षिस्थः स विपद्यते ॥ जातो वा न चिरं जीवेज्जीवेद्वा दुर्बलेन्द्रियः । तस्मादत्यन्तबालायां गर्भाधान न कारयेत् ॥ इति सुश्रुते शारीरस्थाने। अत एव ते- पितृवेश्मनि या नारी रजः प्रामोत्यसंस्कृता। सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति ॥ इति विष्णुपुराणम् २४ अध्याये ११ श्लोकः - । AND

संस्कृतचन्द्रिका।
संप्राप्ते दशमे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥
माता चैव पिता चैव ज्यष्ठो भ्राता तथैव च।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
यस्ता विवाहयेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः।
असंभाष्यो ह्यपाङ्क्तेयः स शेयो वृषलीपतिः ॥
इति यमवचनम् ( २२।२८)
अष्टवर्षा भवेद्वौरी नववर्षा च रोहिणी।
दशवर्षा भवेत्कन्या तत ऊर्य रजस्वला ॥
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
तस्माद्विवाहयेत्कन्यां यावचर्तुमती भवेत् ।
विवाहोऽष्टमवर्षायाः कन्यायास्तु प्रशस्यते ॥
इति संवर्तवचनं च ६६ । ६८
नैव युक्तिसहं न वा धर्म प्रवर्तयितुं प्रभवतीति च प्रलपन्ति ।
अहो रे पाण्डित्यम् । क्व वा बाल्योद्वाहः क्व वा बाल्यगर्भाधानम् ।
न हि बाल्यविवाह एवाशेषदुःखपापाकरो भवितुमर्हति । विवाहसंस्कारे
क्रियमाण एव गर्भ आधीयत इति कुतः प्राप्तं नव्यशिक्षितैः परंतु बाला-
यामजातपुष्पायां रतिरेव दुष्टेति स्मर्यते यथा-
प्राग्रजोदर्शनात्पत्नी नेयाद्त्वा पतत्यधः।
वृथाकारेण शुक्रस्य ब्रह्महत्यामवाप्नुयात् ॥
इतिनिर्णयसिंधौ यमः।
यदपि प्रतिवादिभिर्महाभारतीयमुद्दाहतत्त्वधृतं निर्णयसिन्धुधृतं च
षोडशवर्षीया अपि विवाहबोधकं वचनं दर्शयितुं कथंचिद्युज्यते किंतु

कन्यकाविवाहः। ८३ तदपि कमलाकरेण निर्णयसिन्धौ तृतीयपरिच्छेदे दातुरभावे द्वादश- षोडशाब्दे ज्ञेये इत्यादिनाऽनागतार्तवाया एव षोडशवर्षीयाया विवाहो युक्त इति व्यवस्थापितम् । तथा च तत्रत्यवचनं महाभारते- त्रिंशदर्पः षोडशाब्दां भायाँ विन्देत नमिकाम् । दशवर्षोष्टवर्षी वा धर्मे मीदति सत्वरः॥ अतोऽप्रवृते रजसि कन्यां दद्यापिता सछत् ।। इति । पित्रादीनां सत्त्वे त्वष्टवर्षीया एव विवाहः सर्वथा युक्त ॥ इति । अतोऽद्य बालिकाविवाहे कापि लौकिकी युक्तिरन्तर्निहिता वर्तत एवेति विचार्यते । किंतु ऋषीणां यौगिकीयुक्तिस्तु नास्मादृशां स्थूलदृशां विषय इति क्वाप्यलौकिकी युक्तिरप्रकाशमानाऽपि राज्ञामिवाज्ञामृषीणाम- प्यपसारयितुं नालमिति तां शिरसा वन्देमहि । प्रायः सर्वैरेवैतद्विदितं संभवेद्यदुक्तं शाक्तानन्दतरङ्गिण्यां प्रथमे पटले ब्रह्माण्डे ये गुणाः सन्ति ते तिष्ठन्ति कलेवर इति। शरीरमप्येकं क्षुद्र- ब्रह्माण्डमिति । यथा महाब्रह्माण्डे चन्द्रसूर्यादिग्रहा नक्षत्राणि मिरिनदी- वनप्राणिन उद्भिज्जामृतविषाणि च विराजन्ति स्थूलरूपेण तथा तावन्त्ये- वाऽस्मिन्क्षुद्रब्रह्माण्डे क्षद्ररूपेण च विराजन्ते । तथा हि देहेऽस्मिंश्चक्षुषी तिमिरापहरणेनालोकं प्रयच्छतो यथा सूर्याचन्द्रमसौ । रसना सेढकमिता अपि धानाकाः क्लेदयति यथा जलम् । जठरानलो भुक्तमन्नं विकरोति यथा हुतं फलादिक वन्हिः । त्वचि संतापो- ऽनुभूयते यथा वन्हौ । केशा रोमाणि च शरीरे प्ररोहन्ति यथा भूतले कुशकाशाः । उत्कुणाः शिरोरुहेषु विचरन्ति यथा विपिने मृगाः । ते तत्र मिथुनीभावमापद्यन्ते सन्तानानुत्पादयन्ते संपद्यन्ते विपद्यन्त च यथा वयं वासभूमौ । इत्थमन्यानि तु पाठकैरूहनीयानि । यथैव सूर्यादयोऽत्र प्रकारान्तरेण सन्ति तथाऽत्रामृतानि विषविशेषाश्च । ।

। संस्कृतचन्द्रिका ध्रुवं वर्तन्ते । अस्माकं दशनाग्रेषु नखधारासु च विषमस्ति । नृणां द्वादशम- ला*एव विषाणि । अन्ततो वड्देशीयव्यवहारे दृश्यते । विषस्य विषमौषधमिति तु सिद्धान्तितं शास्त्रम् । यः खलु मर्तुकामो विषमश्नाति तं जीवयितुं नरपुरीषं भक्षयति । यस्य च यूनो मुखनासादिषु व्रणा रोहन्ति तत्र द्विधा त्रिधा च नासाश्लेष्मप्रलेपः प्रदीयते । म्रियन्ते च व्रणा इति बहुधा प्रत्यक्षितम् । यस्य गलपार्श्वे कक्षे वङ्क्षणे वा ब्रनः संजातः स तं निठवितेन द्विधा त्रिधा च विलिम्पति म्रियते च विज्व- रितावस्थो बन्नः । यस्य चोपदंशपीडया पुंश्चिद्रं पीड्यते तं स्वमूत्रेण तत्क्षतं धावयितुमुपदिशति भिषक् । यस्य यस्मिन्नले कश्चिन्निःश्वसिति क्षुतं वा क्षिपति तदङ्गं स बहुधा परिमार्टि कुप्यति च निःश्वसितारं क्षुत्कारकं वा पुरुषम् । तस्मादुपपद्यते नरशरीरे विषविशेषोऽस्तीति । स च विशेषोऽसाधुशरीरे पापमित्याख्यायते मुनिभिरित्यनुमीयते । स पुनरालापाद्गात्रसंसर्गानिःश्वासात्सहभोजनात्सहशय्यासनाध्यायाधौ. नादितश्च संसर्गादपरशरीरे सरति । प्रसृतश्च तं विकृतयति रुजत्यायुषा वियोजयति शेषे मारयति च । साधुशरीरेऽपि स विषविशेषोऽणीयाननु- ल्बणो वर्तमानोऽपि पुण्याख्यया गीयमानेनामृतेनाभिभूयत इति तेषां संसर्गः प्रार्थनीय इति। एतेन कश्चित्कस्यचित्संसर्गात्पुष्टिमादधाति कश्चिद्वा जीर्यतीत्यायातम् । पूर्व खलु महर्षयः कस्य तनौ विषं कस्य वा पीयूषं प्रवहतीत्यङम- त्यङ्गलिन परीक्षितुमीशते स्म । तेन च कस्य वा केन संसर्गः सुखाय सोढव्यो भवेत्कस्य केन वा न भवेदिति च ते स्फुटं वक्तुं च शक्नुवन्ति स्म । किंतु जीवनमेव सर्वैरभ्यर्थ्यत न तु मरणमित्यपि स्वीकरणीयमिति । हा हा अधुना तु वयं मन्दमतयः स्थलदृशश्च नैव नरशरीरस्थानि * वसा शुक्रनसृङ्मज्जा मूत्रं विटकर्णविण्नखाः । भष्माश्रुषिका स्वेदो द्वादशैते नृणां लाः ॥ इति स्मृतिः ॥

कन्यकाविवाहः। विषपीयूषसूचकानि सूक्ष्मानुसूक्ष्मचिनानि कियदपि निश्चयेन वेदितुं नाल- मिति । तथापि जीवनमेव सर्वैरभ्यथ्यते न तु मरणमित्यपि स्वीकरणीयमिति । पूर्वकाले विवाहविधौ-उद्वाहतत्त्वम् न मूत्रं कणिलं यस्य विष्ठा वाप्सु निमज्जति । मेश्वोन्मादशुकाभ्यां हीनः क्लीबः स उच्यत ॥ इत्यनुशासनाद्वरः परीक्ष्यते स्म । कन्याऽपि च- त्रीणि यस्याः प्रलम्बानि ललाटमुदरं भगम् । क्रमेण भक्षयेन्नारी श्वशुरं देवरं पतिम् ॥ इत्यनुशासनाच्च परीक्षिता स्यात् । किं त्वधुना सामाजिकशासनाद्वरस्य कन्यायाश्च का कथा परीक्षाया- स्तन्नामापि ग्रहीतुं दोषमाशङ्कन्ते । तथापि जीवनमेव सर्वैरभ्यर्थ्यते न तु मरणमित्यपि स्वीकरणीयमिति । इत्थं किंवदन्ती जागर्ति । यथा यः श्वा यश्च विषधरः पुनः पुनः प्राणिनो दशति तस्य विषवेगः क्रमशः इलथीभवति । ततश्च तेन दृष्टा अनेके नाक्रम्यन्ते विषेण न वा म्रियन्ते च | तथा स्त्रीशरीरेऽपि विषमस्त्येव । तच्च विषं यदा वयो वर्धते यौवन- मुद्भिद्यते अडं प्रत्यक्षं च सम्यगुपचीयते तदा तस्या अपि युक्त्याः प्रोच्छ- लितविषवेगाया अपरीक्षितायाः षोडश्याः परिणीताया आलापाद्गात्रसं- स्पर्शात्प्रथमो भर्ता म्रियते । ततः प्रशान्तविषवेगा द्वितीय उपभर्तरि सुखं सा रमते । यथा रामदासकषिवल्लभकृते ज्योतिःसारार्णवे पञ्चमतरते- भूमिर्न स्पृश्यते यम्या अङ्गुल्या च कनिष्ठया। भर्तारं प्रथमं हन्ति द्वितीयं चाभिनन्दति ॥ इति ॥ किमधिकं प्रौढयौवनाया लम्बोदर्याः स्थलजायाः स्थूलनासा- याश्च शारीरविषं संस्त्रवाक्रमश एक द्वयं त्रयं चतुष्टयं पञ्चमं षष्ठं सप्त- ममष्टमं च पतिमुपपतिं च विनाश्य श्लथीभूतवेगं नवममुपपतिं न मार- Ramera संस्कृतचन्द्रिका। CRIHINDHINITI रजोनिःस्रवे तु युवत्या विषदोषः प्रशाम्यति । तथा च मनुः- स्त्रियः पवित्रमतुलं नेता दुष्यन्ति कहिंचित् । मासि मासि रजो येषां दुष्छतान्यपकर्षति ॥ इति ।। अत एव रजोदर्शनादिनानि त्रीणि न सा कमपि स्पृशति न केना- प्यालपति न हसति नाभ्यञ्जयति न स्नाति न द्विभुङ्क्त न तैजसपात्रे भुङ्ते न खटायां साधुशव्यायां च शेते सर्वैरलक्षिता गृहकोणे वसति वस्त्राणि न स्वाङ्गं संयोजयति * दैवाद्योजितानि चेद्रजके- न निर्णेजितानि भवेयुः । दैवात्स्पृष्टश्चेत्कश्चित्तत्क्षणात्सचेलः नाति देवलः-संलापस्पर्शनिःश्वाससहशय्यासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ।। छागलेयः-आलापागातसंस्पर्शान्निःश्वासात्सहभोजनात् । सहशय्यासनाध्यायात्पापं संक्रमते नृणाम् ॥ इति च । तथा च मदनपारिजाते दक्षः- अंजनाभ्यंजने स्नान प्रवासं दन्तधावनम् ! न कुर्यात्सातवा नारी प्रहाणामीक्षणं तथा । अत्रिश्चाह-वर्जयेन्मधुमांसं च पात्रे खर्वेच भोजनम् । गन्धं माल्यं दिवास्वापं ताम्बूलं चास्यशोधनम् ॥ दग्धे शराने मुंजीत पेयं चांजलिना पिबेत् । याज्ञवल्क्यः-स्त्रीधर्मिणी त्रिरात्रं तु स्वसुखं नैव दर्शयेत् । स्ववाक्यं श्रावयेनापि यावत्स्नानान्न शुध्यति ॥ विष्णुधर्मोत्तरे -आहारं गोरसानां च पुष्पालंकारधारणम् । अंजनं काकतं दन्ताः पीठशय्याधिरोहणम् ।। अग्निसंस्पर्शन चैव वर्जयेञ्च दिनत्रयम् । सुश्रुतेऽप्युक्तं ऋतौ प्रथमदिवसात्प्रभृति ब्रह्मचारिणी दिवा स्वप्नाञ्जनाश्रुपातस्नानानुलेपना- भ्यंगनखच्छेदनमप्रधावनहसन कथनातिशब्दश्रवणावलेखनानिलायासान्परिहरेत् । prentiation x दर्भसंस्तरशायिनी करतलशरावपर्णान्यतममोजिनीं हविव्यं व्यहं च भर्तुः संरेक्षत् । इत्यादि (सुश्रुते शारीरस्थाने )।

वाचकस्य प्रतिस्तवः। Team तुलसी स्पृशति विष्णोः पादोदकं पिबति ततश्च स विशुध्यति । एमि- रेव लिगैः कथंचिदनुमीयते नारी विषधरीति । अत एव च प्रोभिन्नयौवनायाः समुच्छलितस्फुटविषाया विवाहो दीर्घ जीवितुकामेन नैव कर्तव्यो नैव कर्तव्य इति । परंतु तथाविधविष- कवलनादात्मानं त्रातुकामेन प्रच्छन्नाङ्कुरितान्तर्विषाया बालिकाया एव विवाहः कर्तव्यः कर्तव्य इति । अत एव तत्त्वदर्शिभिर्बहुभिर्मुनिमिः समस्वरमष्टमादिवर्षदयस्कानां बालिकानां विवाहः प्रशस्तत्वेन यदनुमोदितः प्रौढाया दृष्टरजस्कायास्तु विवाहो दुष्टत्वन च यद्भूयोभूयः शिरःशपथं निषिद्धस्तन्सर्वथैव युक्ति- युक्तं च धर्ममूलं च विज्ञानप्रसूतं चेति सुधीभिश्चिन्तनीयम् । स्वीकरणीयं चेति सर्व सुव्यवस्थितम् । अधुना नव्यशिक्षितैराद्यन्तमध्यमस्य प्रबन्धस्यालोच्य पूर्वोक्तानि पितृवेश्मनि या नारी रजः प्रामोत्यसंस्कृतेत्यादीनि च विष्ण्वा- दिवचनानि विवाहे साधकानि बाधकानि च साधून्यसाधूनि वा विचा- यन्ताम् । मुनयश्च धन्या उद्यन्ताम् । अन्ततो बहिरप्रकटमन्तर्हृष्यतां चेति । ( क्रमशः।) * वाचकस्य प्रतिस्तवः । तुष्टस्त्वदीयेन मनोहरेण स्तवेन पीयूषसहोदरेण । सद्भक्त किंचित्प्रतिवक्तुकाम- स्त्वामागतोऽहं शृणु सावधानः ॥ १ ॥ न भाजनं त्वत्प्रणतः मखेड * यद्यपि वाचकशब्दोऽर्थान्तरे रूढस्तथाप्यत्र प्रबन्धे समाचारपत्रिकापाठकपरो- ऽसौबाध्यः ।

संस्कृतचन्द्रिका "pur Hamala tha F न चाप्यहं त्वत्कृतसंस्तवस्य । ईशो न नाह चतुराननोऽपि न माधवो नापि समश्च तेषाम् ॥ २ ॥ एष प्रभावः खलु पत्रिकायाः सत्यं समाचारसुबोधिकायाः। यदद्य पात्रं प्रणतेः स्तुतेश्च जातोऽस्म्यन)ऽपि निकाममस्याः॥ ३ ॥ तस्याः प्रभावेण नृपाः प्रजाश्च ज्ञानं सुखं चापि समाप्नुवन्ति । जानन्ति भूपा हृदयं प्रजानां ताश्चापि तेषां चरितं विदन्ति ॥ ४ ॥ तस्याः प्रभावेण गृहे स्थितोऽपि द्रष्टुं प्रभुः स्याद्भुवनं मनुष्यः । आयोधनं वर्षवरोऽपि घोरं पश्यन्न भौति समुपैति कश्चित् ॥ ५॥ खोऽपि पृथ्वी परितः प्रयाति वचो दवीयोऽपि शृणोत्यकर्णः । गरुद्विहीनोऽपि चरत्यमौ खे अहो प्रभावः खलु पत्रिकायाः॥६॥ सेवेत भक्त्या मनुजो य एना-- मयेत संपादकवाच्यतां सः। आरूढसंपादकतापदस्य दोषा लयं यान्ति गुणा महत्त्वम् ॥७॥ वालोऽपि वृद्धो भवति क्षणेन वाचकस्य प्रतिस्तवः। मुर्दोऽपि वा गीपतितामुपैति । हन्त प्रसादात्खलु पत्रिकायाः संपादकं सर्वगुणा भजन्ते ॥८॥ संपादको यश्च गुणी निसर्गा- त्परीक्षते तं विनिपात्य दुःखे । नयत्यसौ तीर्णपरीक्षमञ्चै- रन्यं क्षिपत्येव हठादधस्तात् ॥ ९ ॥ दोषा नृपस्यापि बदत्यशर्ट्स दीनस्य शंसत्यपि मा गुणौघान् । तस्या न लिङ्गेषु वयःसु नैव दीनेषु चेनेषु न पक्षपातः ॥ १० ॥ पुष्टा कशा चापि लघुश्च दीर्घा बाला च वृद्धा युवती तथैषा । अनेकवर्णा सरमा विचित्रा जागर्ति मायेव जगत्सु नित्यम् ॥११॥ संपादकस्यात्ति मुखेन भोज्यं पेयं पिवत्यापि तदाननेन । ग्राह्यं च गृह्णाति करेण तस्य अमेरिवाखण्डलमुख्यदेवाः ॥ १२ ॥ प्रयाति पश्यत्यपि सा परेषां पादैश्च नेत्ररिव भूमिपालः। शृणोति कर्णैरपि चान्यदीयः सा केवलं स्वेन मुखेन वक्ति ॥१३॥ एवंप्रभावानवगम्यरूपा संस्कृतचन्द्रिका जयत्यसौ कापि सुखप्रदा या। नमोऽस्तु तस्यै मम पनिकायै कृताअलेः संप्रणतस्य चानयोः ॥ १४ ॥ परं च भो वाचक धन्यधन्य- स्त्वमेव सत्यं भुवनेषु जातः । एवंप्रभावापि निरन्तरं य- संसेवते त्वां बत पत्रिकयम् ॥ १५ ॥ नित्यं चतुर्थेऽहनि सप्तमे वा मासे द्विवारं यथवैकवारम् । अनुत्वदिच्छामुपतिष्ठते त्वां दूरस्थितं वापि समीपगं वा ॥ १६ ॥ रम्याः कथा नित्यमनेकरूपा- स्तत्वं च नव्यं बहुशास्त्रजातम् । वक्तुं स्वयं त्वामनुयाति भक्त्या त्वदीयमोकपरायणा सा ॥ १७ ॥ सखे परं चित्रमहो विचित्र दृष्ट्यापि भो नाद्रियसे यदेनाम् । दैवादृशोर्गिमुपेयुषी तां बहिःकरोष्येव सहोत्करेण ॥१८॥ एवं त्वया नित्यमनाहतापि भ्रातस्त्वदीयं गृहमेति भूयः। सति प्रमादे मम दृष्टिदोषा- दोरेण दण्डेन नियोजयेन्माम् ॥ १९ ॥ क्षुधार्दिता हीनबलातिदीना RAHEED वाचकस्यापतिस्तवः। भाज्य चिई व परिपाचमाना। बहिष्कृता निष्करणं बयानो सेवा निराशा त्यजति खड़ीयाम् ॥ २० ॥ हा पत्रिकामौ मम हन्त हन्त त्वय्यति दीनत्वममर्षणापि । महाप्रभावोऽपि जगत्मणाशो जले प्रशान्तिं समुपैति वह्निः॥ २१॥ तस्मात्प्रभो वाचक भर्वशक्ते नमोऽस्तु तुभ्यं सुकृती त्वमेव । भवकपालेशमपेक्षमाणा जीवत्यनाथा भुवि पत्रिका सा॥ २२ ॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव पाता च पतिश्च हर्ता तस्याः सखे सर्वमसि त्वमेव ॥ १३ ॥ कपाकटाक्षास्तव तां सृजन्ति त एव सृष्टां परिपालयन्ति । रूपः कटाक्षास्तव संहरन्ति ब्रह्मा च विष्णुश्च शिवस्त्वमेव ॥२४॥ सा पत्रिका मे त्वदधीनजीवा तन्निनजीवोऽस्मि तदीयभक्तः। देवश्च तस्मादसि मे त्वमेव स्तोतुं च नातोऽहसि मां त्वमेवम् ॥ २५॥ नमाम्यहं वाचक संततं त्वां संस्कृतचन्द्रिका। प्रसीद नित्यं स्खलितं क्षमस्व । गृहाण सेवां मम पत्रिकायाः समर्प्य भोज्यं परिपाहि चैनाम् ॥ २६ ॥ प्राप्तिस्वीकारः। श्रीशृङ्गगिरिवर्तिजगद्गुरुश्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमत्सच्चि- दानन्दशिवाभिनवनरसिंहभारतिस्वामिपूज्यपादैः प्रणीता शुद्धाद्वैतब्रह्म- विद्याधिगमप्रकारमीमांसा श्रीशृङगिरिपुरनिवासिना काशीनृ- सिमाभिधानेन पण्डितप्रधानेन श्रीमज्जगद्गुर्वाज्ञया प्रणीता कल्यब्धिया- नमीमांसा श्रीमदप्पयदीक्षितान्वयसंजातेन विविधशास्त्रपारदृश्वना कविना शृङ्गेरीपुरस्थितिमताश्रीवैद्यनाथशास्त्रिणा विरचितं श्रीमच्छङ्करगुणरत्न- मालिकास्तोत्रं गणेशस्तोत्रं चास्मत्करतलमापतितम् । सानन्दं सभक्त्युन्मेषं सविनयं च शिरसा स्वीक्रियते । एवं पण्डितगोपी- नाथपुरोहितप्रेषितं तत्प्रणीतव्याख्यादिसमुल्लसितं भर्तृहरेः शतकत्रयं मनभावन प्रेमलीला चेति पुस्तकत्रयमपि सादरं सानन्दं चाङ्गीक्रियते । नागपुरनिवासिना घुले श्रीकृष्णशास्त्रिणा प्रेषिता च पतितोद्धारमी- मांसा सानन्दं सोत्साहं चोररीक्रियते । एतेषु च पुस्तकप्रेषयितृषु चिरकृतज्ञोऽहमस्मीति शिवम् । समालोचना। श्रीभर्तृहरिप्रणीतं शतकत्रयम्-पुस्तकमिदं जयपुरदरबारव- कीलपण्डितश्रीगोपीनाथपुरोहित एम्. ए. इत्यनेन महाशयेन प्रकाशित समालोचनार्थमस्मत्करतलमापतितं च । सविस्तरं चैतत्संख्यान्तरे समालो- समालोचना । ९५ चयिष्यते । सामान्यतस्त्वेतदस्यस्वरूपं यथा-----संस्कृतं मूलं तस्याधस्ताद्धि- दीभाषानुवादस्तस्याधचङ्ग्रेजीभाषानुवादस्तस्याप्यथ एतद्देशीयानां विदे- शीयानां च कवीनां तादृशा उत्तयः। प्रथमं सविस्तरं विविधपण्डितसंमतं श्रीभर्तृहरेर्जीवनवृत्तमन्तेचेङ्ग्रेजीभाषामय्यर्थबोधिनी टिप्पनी श्लोकानांव- र्णानुक्रमश्चेति । एतच्च साम्प्रतं पी.ई.परीक्षार्थिनां मुम्बपीविभागीयानामत्यन्त- मुपयुक्तमवश्यसंग्राह्यं च । न खल्वस्मात्परो विशेषोऽस्मिन्पुस्तके कर्तुं शक्यो नापि वा केन कृतो नापि क्रियते मूल्यं त्वस्य रूपकद्वयं प्राप्तिस्थानं च पण्डि- तगोपीनाथपुरोहितजयपुरदरबारवकीलजयपुरहाउस् आबू( Abu)इति। तदवश्यं संग्राह्यमिदं रसिकैरिति सामान्यतोऽभिधाय साम्प्रतं विरमामः । मोदमंजूषा- चतुर्धरीणप्रहराजोपाधिकश्रीकृष्णचन्द्रदासमहापात्रश- र्मणा बङ्गीयविदुषा विरचिता प्रमोदातिशयदायिनी नूनमियं मोदमञ्जूषा । अस्यां च सरसमधुरैः पद्यैः संग्रथितानि वाणीपञ्चकं बालिश्यभञ्जनं वैरा- ग्यपद्या द्वन्द्वाष्टकं श्रीगिरिजास्तोत्रं गुरुः शव उत्कूलां स्वर्णरेखां प्रति- वचनमित्यादीनि खण्डकाव्यान्युपनिबद्धानि । अत्र च द्वित्राणि प्रकाशि- तान्येव संस्कृतचन्द्रिकायाम् । वैराग्यपयां वा शवं वाऽवलोकमानो रसिक- स्तत्तद्रसमयेन चतसा कमपि महान्तमनुभवत्यानन्दामति प्रत्यक्षमेव संस्कृ- तचन्द्रिकाया ग्राहकवर्गस्य । प्रमोदयति किलानवरतं नश्वेतः कृतिरियं श्रीकृष्णचन्द्रदेवस्य । इदं चात्र विशेषतः प्रमोदास्पदं यदयं महापात्रः श्रीकृष्णदेवो धनिकनवरोऽपि विद्वदग्रेसरः । अनल्पमेव हि व्यञ्जयन्ति सुकृतं पुरुषस्थैकस्मिन्नेवाधिकरणे समकालमेव विहितास्पदानि प्रभुत्वं च विवेकित्वं च विद्वत्त्वं च कवित्वं चेत्यादीनि । एतत्कृतश्चायं प्रबन्धो रसास्वादाभिलाषुकैरवश्यं संग्राह्यः । यत्तु विषदमौक्तिकावल्या इवाभ्य- न्तरे सूत्रमत्राति विरलं मृगेशकटिक इत्यादि ग्राम्यं कविः प्राथुङ्क्त न किल तद्रससारविदां वैमनस्यं जनयेत् । एको हि दोषो गुणसंनिपाते निमनतीन्दोः किरणेष्विवाङ्कः । अमूलस्याप्येतस्यानकचतुष्टयं मूल्यम् । सामवेदीयनित्यकर्मदर्पणम्- रत्नललाम ( रतलाम ) वर्ति- श्रीमालवैदिकपाठशालाध्यक्षेण पण्डितश्रीमदनराजश्रीमालिना संगृहीतं संस्कृतचन्द्रिका। प्रकाशितं चैतत् । नाम्नैवास्य शक्यते ज्ञातुं किमत्र प्रतिपाद्यामिति । अत्र किल ब्राह्म मुहूर्ते चोत्थाय संस्मरेदिष्टदेवतामित्यादीनि समुचितानि तानि तानि प्रमाणानि प्राणायामादीनां च संक्षेपतो लक्षणान्याभिधाय प्रातःस्मरण- मारभ्य सायंसंध्यान्तं सर्वेऽपि विधयः सप्रयोगा उपन्यस्ताः । सामवेदी- गानां किल बटूनामयमत्यन्तमुपयुक्तः प्रबन्धः । मूल्यमस्य केवलं सार्थ- मानकद्वयम् । पण्डितमदनराजश्रीमाली, श्रीमालवैदिकपाठशाला-रत- लाम-इत्यतः स्थानालभ्यम् । অলাখাল रहस्यम्-मिरतनगरनिवामिश्रीभारतधर्ममहामण्डल- पुस्तकालयाध्यक्षपण्डितश्रीईश्वरीप्रसादशर्ममहाशयेन प्रकाशितमेतत् । एतन्य प्रकाशयताऽनेन महाभागेन महीयः किलोपकृतं सनातनधर्मानुया- यिनां भारतीयानाम् । विदितप्राय एव सर्वेषां दयानन्दः स्वामी यः किल प्राचीनधर्मोध्वंसनायैव प्रवृत्तो वैदिकमार्गप्रवर्तकमात्मानं प्रख्यापयामास । यस्यैव च महानुभावस्य दवदहनसोदर्येण निकाममहीयसा पाण्डित्यप्रभा- वेण समाक्रान्ता नियन्त्रिता इव श्रुतयस्तत्क्षणमेव अग्निमीळे पुरोहितमि- त्यादिभ्यः सूक्तेभ्यः स्वप्नेप्यात्मनानवलोकितां बाष्पशकटीमुद्वमन्ति स्म । तस्यैतस्य प्राचीनसनातनधर्मश्रद्धालूनां नयनेषु धूलिजालमुन्क्षिपतो धूर्तप्र- वरस्य धौयं प्रकाशयितुमेव विनिर्मितः प्रबन्धोऽयम् । अत्र च दयानन्द- स्य तत्पथानुयायिनां चार्यसमाजपथप्रवृत्तानां मनस्येकं वचस्येकं कृताव- न्यदवेक्ष्यत इत्येवंविध आचारः सुविशदतां नीतः। प्रायश्च तेषां रहस्या- नि प्रकाश्य प्रमाणोपन्यासपूर्वकं खण्डितानि । हिन्दीभाषामयोऽप्ययं प्रबन्धो मादृशैस्तद्भाषाऽपरिचितैरपि पठ्यमानः सम्यगवबोद्धं शक्यते । पठितुमारब्धश्वासमाप्ति न शक्यते परित्यक्तुम् । पठितोऽपि पुनः पठनेच्छां जनयति । एतेन च प्रबन्धेनावबुद्धार्यसमाजरहस्याः श्रद्धालवे मतान्तर- प्रबन्धैः किञ्चित्कलुषीकृतान्तरा अपि परित्यज्य दुर्मताभिमानं सनातनधर्म एव प्रवर्तेरन् । प्रबन्धोऽयं मिरतनगर उपर्युकस्थानाल्लभ्यः । मूल्यं तु ध्यानकमात्रम् । शिलाक्षरैः प्रकाशितममुद्रितमिममचिरादेव प्रकाशक आयसाक्षरैः प्रकाशयेदिति किल प्रत्याशास्महे ॥

श्रीशिवः शरणम् । ॥ संस्कृतचन्द्रिका॥ ॥ श्रीगणेशाय नमः॥ शिवादीनपि कर्माणि कारयन्ती जनानिव । मायाऽवलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी ॥ ॥ मासावतरणिका॥ रुन्धानाः किल कान्तिमच्छशभृतो भाद्रे घना मण्डलं तत्संसर्गवशाजहत्यपि निजां नैसर्गिकी कृष्णताम् । कोपाटोपवशीकतेन मनसा देषोऽपि सद्भिः समं नूनं निर्मलयेदनिर्मलमपि द्वेष्टुः क्षणादन्तरम् ॥५॥ ॥ उद्भटश्लोकाः॥ तत्किं कर्म यदस्तशर्म रसना किं साऽपि याऽरुन्तुदा किं तत्प्रेम यदस्थिरं स च पुमान्किं नाम यो निर्गुणः । साकिं श्रीरुपभोगमर्हति न या सेव्यः स किं योन्तरं नो जानाति तदस्ति किं विलसितं वेश्याम यत्कत्रिमम् ॥ मुक्ताहारनिषेविता अपि न तवृत्त्यै दिशन्त्यन्तरं बद्धे गाढविमर्दने न च जहत्यन्योन्यसंपीडनम् । उष्णे शीतलतामुपेत्य शिशिरे प्राप्त भजन्युष्णतां कामान्तःपुरचेटिकाकुचतटीकाठिन्यवन्तः सलाः॥ * १ भाद्रो भाद्रपदः । २ अस्तं नष्टं शर्म सुखं येन तत् । * मुक्तेति । कामस्य मदनस्यान्तःपुरसंबन्धिनीनां चेटिकानां कुचतटीनां विशालस्तनानामिव काठिन्यम- स्त्येषां ते खला दुर्जनाः कर्तृभूताः । मुक्तानां मौक्तिकानां हारैः निषेविता: सेविता क्रमशः) संस्कृतचन्द्रिका। PARAN क श्रीमदप्पथदीक्षिताः। उक्तपूर्वमस्माभिश्चतुर्थसंख्यायां श्रीदीक्षितप्रणीतस्य सिद्धान्तलेशसंग्र- हस्य सारं पाठकेभ्य उपहरिष्याम इति । तदिदानीमारभ्यते । सिद्धान्तलशसंग्रहाख्यः प्रबन्धोयं श्रीमदप्पयदीक्षितैः प्रणीतोऽद्वैत- प्रतिपादकः । अस्य चत्वारः परिच्छेदाः । प्रतिपरिच्छेदं च नानाविधानि प्रतिपाद्यानि । नानाविधैार्शनिकैरद्वैतमतावलम्विभिः कृतानां तत्तत्प्रति- याद्यसिद्धा ताना मस्त्यत्रोपन्यासः । दुर्बो वस्याप्यद्वैतदर्शनस्य प्रतिपादकः प्रबन्धोऽयं नातिदुर्बोधः । प्रत्युत प्रायशः सुबोध एव तत्त्वमात्र जिज्ञा- सूनाम् । यदि तु कश्रिन्नैयायिकप्रवरः प्रबन्धमेवंविधमकरिष्यत्तड़ा नूनम- नत्यभ्यस्तन्यायशास्त्राणां विदुषामद्वैत तत्त्वजिज्ञासूनां वाऽवच्छिन्नावच्छेद- कादिशब्दकान्तारदुष्प्रवेशान्यासेतुहिमाचल विस्ताराणि वाक्यप्रकाण्डजा- लान्युपन्यस्य व्यामोहयिष्यद्वारणावतीमपि बुद्धिम् । अत्र तु नास्त्येवांश- तोऽपि न्यायशास्त्रप्रवेश इति तु न ब्रूमः किंवस्त्येव तत्र तत्र तस्य संबन्धः। न पुनस्तनास्य काठिन्यमंशतोऽप्युपयातम् । किंत्वद्वैतस्य नाम प्रतिपाद्यस्यैव निमर्गदुर्बोधतया तत्प्रतिपादकवाक्यान्यप्यत्रत्यानि नात्यप्रगल्भबुद्धि- भिरवबोद्धं शक्यानीति नैतदाश्चर्यम् । (पूर्वतोनुवृत्तम् ) आप विमलमौक्तिकहारयुक्ता अपीत्यर्थः । तेषां मौक्तिकानां वृत्त्यै वर्तनाय सर्वदा- निर्मलतयावस्थानरूपाय अन्तरं अवकाशं आत्मनो मनसीति शेषः न दिशन्ति न ददति । शुद्धानां मौक्तिकानां सततं संसर्गेपि तस्य नैर्मल्यगुणं नानुशीलयन्तीत्यर्थः । खलेषु सत्संसर्गो निष्फल इति भावः । गाढविमर्दनेऽत्यन्तमर्दने बद्धे कतेऽपि अन्यो- न्यसंपीडनं परस्परपीडां न जहति न यजन्ति । दण्डिता अपि परपीडकत्वरूपं स्वभावं न मुञ्चन्तीत्यर्थः । उष्णे स्वापेक्षया तेजस्विनि पुरुषे शीतलतां दीनतामिति यावत् । उपेत्य प्राप्य शिशिरे स्वापेक्षया मन्दतेजसि प्राप्ते सति उष्णतां तेजस्वितां विक्रममिति . यावद्भजन्ति । कुचतटीपक्षे तु यथायथं योज्यम् । तत्र च... ... .. तरुणाकुचौ । शीतकाले भवेदुष्णमुष्णकाले च शीतलम् । इत्यनुसंधेयम ।

श्रीमदप्पयदीक्षिताः। ९२ अस्य च श्रीमदच्युतकृष्णानन्दतीर्थ विराचता व्याख्याऽपि काचिद- स्तीति श्रूयते । तद्गतानि च कानिचिद्वचनानि काश्यां मुद्रितस्य मूलमा- त्रस्य सिद्धलेशसंग्रहस्य ठेवधस्तादृश्यन्ते तस्य भुमिकायामप्यवभि- धीयत सव। अस्य च प्रबन्धस्य प्रथमपरिच्छेद ऊनविंशतिः प्रतिपाद्यानि । तत्र तावत्प्रथममात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्य इत्यादिनाऽधीतसाङ्ग- वेदस्य वेदान्तरापाततोऽवगंत ब्रह्मणि समुदितजिज्ञासस्य ब्रह्मज्ञानाय वेदान्तश्रवण प्रतीयमानो विधिः किविध इति नित्यत इत्यारभ्य विधि- भेदान्प्रतिपाद्य तत्र कैर्विद्धिः को बा भेदोऽवत्यः स्वीकृत इति प्रतिपा- द्वितम् । तत्र विधिभेदानां ज्ञानमत्युपयुक्तमिति तदत्रोपन्हियते । त्रयः किल विधभेदा अपूर्वविधिनियमविधिः परिसंख्याविधिश्चति । * १ तत्र कालत्रयेऽपि कथमप्यप्राप्तस्य प्रातिफलको विधिः प्रथमः । यथा वीडीयोक्षतीति । नात्र त्रीहीणां प्रोक्षणस्य संस्कारकर्मणो विधा- यकशब्दं विना प्रमाणान्तरेण कथमपि प्रापिरस्ति (अतोयमपूर्वविधिः )। २ पक्षेत्राप्तस्याप्राप्तांशपरिपूरणो विधिद्धितीयः । यथा ब्रीहीनवह- न्तीति । अत्र विध्यभावेऽपि पुरोडाशद्रव्याणां तण्डुलनिष्पादनस्या- वश्यकत्वादवहननस्य प्राप्तिभविष्यतीति नायमवह ननप्राप्त्यर्थो विधिः किं तु यथाऽ वहननस्य यथा साहजिकी प्राप्तिरेवं लोकेषु कारणवि- शेषानवगमान्नख विदलनादिनाऽपि तण्डुलनिष्पादनस्य प्राप्तिर्भविष्य- तीति पक्षेऽवहन नाप्राप्तांशसभवात्तत्परिपूरणकलाऽयं ब्रीहीनवहन्तीति विधिनियमविधिरेव । ३ द्वयोः शेषिणोरेकस्य शेषस्य नित्यप्राप्ती शेष्यन्तर निवृत्तिफलक एकस्मिनछेषिणि द्वयोः शेवयानित्यप्राप्ती शेषान्तरनिवृत्तिफलको वा * एते च भेदाः संक्षेपता वेदान्त र हस्ये सम्यक्प्रतिपादिताः । वेदान्तरहस्य त्व- चिरादेव चन्द्रिकायां प्रकाशयितुमिच्छामः । अयं च विध्यादिबोधकः श्लोकस्तत्रोप- न्यस्त:----विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तो परि- संख्या विधीयत इति ।

संस्कृतचन्द्रिका विधिस्तृतीयः । अत्र शेष उपकार्यकः शेषी तूपकारक इति बोध्यम् । यथाऽग्निचयने इमामगृभ्णरशनामृतस्येत्यश्वाभिधानीमादत्त इत्याद्यस्यादा- हरणम् । अग्निचयनेऽश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेतिद्वयमप्यनुले- यम् । तत्राश्वरशनाग्रहण इमामगृभ्णन्नितिमन्त्रो रशनाग्रहणप्रकाशनस्व- रूपालिङ्गादव प्रवर्तत इति नाश्वरशनाग्रहणस्य प्राप्त्यर्थो नाप्यप्राप्तांशप- रिपूरणार्थोऽयं विधिः । किं तु अग्निचयनेऽश्वरशनाग्रहणस्येव गर्दभरशना- ग्रहणस्याप्यनुष्ठेयत्वेन रशनाग्रहणप्रकाशनरूपलिङ्गाविशेषान्मन्त्रोऽयं गर्द- भरशनाग्रहणेऽपि प्राप्नुयादिति तन्निवृत्त्यर्थोयं विधिः । यथा वा चातुर्मा- स्यान्तर्गत इष्टिविशेष गृहमेधीये आज्यभागौ यजतीति । अत्र गृहमेधी- यस्य दर्शपूर्णमासप्रकृतित्वादतिदेशादेवाज्यभागौ नित्यं प्राप्नुत इति न तत्र विधिस्तत्प्राप्त्यर्थस्तन्नियमार्थो वा किंत्वतिदेशात्प्रयाजादिकमपि प्राप्नुया- दिति तन्निवृत्त्यर्थ इति ॥ अत्रेयं स्वत एव शङ्का समुदेति यथा-को वा नियमपरिसंख्ययोः फले विशेषः । नियमविधौ हि यथा ब्रीहीनवहन्तीति नखविदलनादेनि- वृत्तिः फलमेवं परिसंख्यायामपि गर्दभरशनाग्रहणनिवृत्तिरित्युभयोः समा- नमेव फलमिति । अत्रोच्यते अस्त्यनयोर्भेदः । नियमविधौ हि फलमप्रा- तांशपरिपूरणमेव परिसंख्यायां वितरनिवृत्तिरेव संनिकृष्टत्वादिति । एवं विधेर्विधा उक्ता किंविधोयं वेदान्तश्रवणविधिरिति विस्तरशो विचारितम् । अत्र बहूनां विदुषां नानाविधानि मतान्युपन्यस्तानि । तत्र केचिदिमं श्रवणविधिमपूर्वविधिमपरे नियमविधिमितर तु परिसंख्याविधि मन्यन्ते । अथ ब्रह्मणो लक्षणमुक्तं तत्र च श्रुतिः । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्तीति । अत्र च मतद्वयं प्रादर्शि। तृतीये च प्रतिपाद्ये ब्रह्मणः कीदृशं जगदुपादानत्वमिति विचारितम् । तच्च विवर्तमानत्वरूपमिति सिद्धान्तं स्थिरीकृत्य विवर्तपरिणामलक्षणान्य- । ।

श्रीमदप्पयदीक्षिताः। । भ्यधीयन्त । तत्रैकं यथा---वस्तुनस्तत्समसत्ताकोऽन्यथाभावः परिणामस्त- दसमसत्ताको विवर्त इति । चतुर्थे किमु शुद्धं ब्रह्म जगदुपादानमाहोस्विदीश्वररूपमिति विचारि- तम् । पञ्चमे मायाया जगदुपादानत्वमित्याशङ्का परास्ता । पंष्ठ क ईश्वरः कश्च जीव इति निर्णीतम् । अत्र च तत्त्वविवेकमतमुपन्यस्तं यथा- रजस्तमोनभिभूतशुद्धसत्त्वप्रधाना माया तदभिभूतमलिनसत्त्वाऽविद्येति मायाविद्याभेदः । मायाप्रतिबिम्ब ईश्वरोऽविद्याप्रतिबिम्बो जीव इति । अत्र च भूयान्विस्तरः । सप्तमे जीवस्यैकत्वानेकत्वविचारः। अष्टमे ब्रह्मणः कर्तृत्वस्य स्वरूपं प्रतिपादितम् । नवमे ब्रह्मणः सर्वज्ञत्वं निरूप्यते। दशमे यथेश्वरो वृत्तिमनपक्ष्यैव घटादीनवभासयति कुतो वा नैवं जीव इति विचा- यते । तत्र च पक्षत्रयमुपन्यस्य तस्यैवैकादशद्वादशत्रयोदशेषु विचारः प्रपञ्चयते । चतुर्दशे सविस्तरं साक्षिणः स्वरूप न्यरूपि । पञ्चदशे यथा ज्ञानेन चैतन्यमात्रमावियत एवं साक्षिणोऽप्यावरणावश्यंभावात्कथमा- वृतेन तेनाऽविद्याहंकारादिभानमिति व्यचारि । षोडशे साक्षिणः साक्ष्या- नन्दस्य चानावृतत्वं प्रत्यपादि । सप्तदशे साक्ष्यहंकारानुसन्धानमुपापादि। अष्टादशेऽध्यासः सविस्तरमभ्यधायि । ऊनविंशे साक्षिप्रसादादेव सर्वेषां पदार्थानां प्रकाशोपपत्तेः किंवृत्तेः प्रयोजनमित्याशक्य वृत्तिनिर्गमस्या- वश्यकत्वमवाचि । एवमसौ समाप्तः परिच्छेदः । द्वितीयस्तु परिच्छेदो वेदान्तानामद्वैतब्रह्मणि समन्वयं प्रतिपादयितुमेवावतारित इत्यवबोद्धव्यम्। तृतीये तु परिच्छेदे प्रायशो मोक्षसाधनानि कर्मणामुपयोगा विद्याधि- कारिणः संन्यासाश्रमस्यावश्यकत्वं निर्गणोपासनं ब्रह्मसाक्षात्कारश्चेत्यादयो विषयाः । चतुर्थपरिच्छेदे त्वविद्या तन्निवृत्तिस्वरूपं ब्रह्मानन्दस्य प्राप्यत्वं मुक्तस्वरूपं चेत्येतावन्त एव विषयाः । एवमसौ चतुर्भिः परिच्छेदैरवसितो अन्थः । विचारितं किल प्रथममस्माभिरस्य सारोऽत्र रसिकेभ्य उपहर्तव्य १ वृत्तिर्नामान्तःकरणस्य परिणामो येन जीवो घटादीन्प्रकाशयति ।

मंस्टतचन्द्रिका। इति । किन्तु तथाविधस्य सारमात्रस्थास्य नात्युपयुक्तत्वात्समग्रस्य सिद्धा- न्तलेशसंग्रहस्यावलोकनमन्तरा जिज्ञासूनां तर्षस्य प्रशान्तरसंभवान्न तथाऽ- नुष्ठितमस्माभिः । अवश्यं चायं प्रबन्ध: संग्राह्योऽद्वैतमतसिद्धान्तानव- बोद्धमिच्छद्भिरिति किल ब्रूमः। अनेन च सिद्धान्तलेशसंग्रहेण श्रीमदप्ययदीक्षितानामध्यापकादेानं भवति तच्च संख्यान्तरे प्रदर्शयितुमिच्छामः । सांप्रतं च श्रीशृङ्गेरिमठनि- वामिभिः कश्चनास्मत्सुहृत्यवरैः श्रीमदप्पयदीक्षितवंश्यैः श्रीमदप्पयदीक्षि- तानां संक्षिप्तचारित्रं तत्कृतग्रन्थानां नामानि च प्रेरितानि । तदवलोकनेन क्वचिदस्माभिः पूर्वं प्रतिपादिते श्रीदीक्षितचरणवृत्तान्ते परिवृत्ति रावश्यिके- त्यवधारितमस्माभिः । अतो यानि प्रमाणान्युपजीव्य चरितमिदमुल्लिखितम- स्माभिस्तेषां च प्रमाणानां कियत्प्रामाण्यमित्यपि संख्यान्तरे विचारयितुमि-- च्छामः । कीदृशी च प्रथमं दीक्षित चरणानां वृत्तिः कीदृशी च काल - न्तर संवृत्तेत्यपि तत्रैव प्रतिपादयिष्यामः । (क्रमशः ।) मूर्तिपूजनम् । सहृदयाः ! विषयः खल्वयमतिमात्रं जटिलः । नव्याश्चात्र किल केऽप्यनाघ्रातश्रुतिलेशाः स्पेन्सरप्रभृतीनां निसर्गनास्तिकानां विचारपरि- प्लुतानि निःसन्देहमभ्यस्य पुस्तकानि वितण्डावलम्बिनोऽत्र भूयोभूयः प्रत्यवतिष्ठन्ते । तषां च कुतर्कमयतामिवोपगतानां नास्ति किल वचसः सीमा नाम । तन्मतप्रत्याख्यानाय च नालमयमल्पीयान्प्रबन्ध इति पर- मेश्वरसिद्धिविषये तन्मतप्रत्याख्यानं यथावसरं करिष्यामः इति प्रतिज्ञाय सांप्रतं केवलं मूर्तिपूजनमेव प्रतिपादयितुं प्रवृत्ताः स्मः । केषांचित्त प्रथममीश्वर सद्भावसाधनं विना न युज्यते मूर्तिपूजा- विचारो न हि विना भित्ति चित्रमुत्थापयितुं शक्यमिति वदतां सन्ता- षायातिसंक्षिप्तं प्राचीनस्य पुष्पदन्तमुनेर्मतमुपन्यस्याभीष्टं विषयमुपपादीय- मूर्तिपूजनम्। १०३ ध्यामः । तथा हि बसावयवं तत्तजन्यं यथा घटादयः। जगदप्येत- सावयवमतस्तजन्यन् । संसारविधियं ताशेरबबबवतां प्राणिनामधि- छातृपुरुषसहितः । अधिष्ठाता चास्यश्वर एव तद्भिन्नस्यानुपयोगित्वादि- त्येतदभिहितं पुष्पदन्तेन यथा----- अजन्मानो लोकाः किमवयववन्तोऽपि जगता- अधिवाना किं भवविधिरनाहत्य भवति । अनीशो वा कुर्याद्भुवनजलने कः परिकर यतो मन्दावा प्रत्यदरवर संशरत इमे ॥ इति । निरगलपलापिनः खल्बते नव्यशिक्षिता अश्रद्धयतमा एवेति नास्ति तेभ्य आस्तिकानां भीतिलेशोऽपि । किं तु चावक्रिप्रतिमूर्तिभिरमीभिस्तालु- चुडै व्यशिक्षितव्याधैः प्रसारितऽस्मिन्पतनभयकोऽतिमात्रविस्तृते पाषण्ड- मतप्रलापशवध्वनिमये जाले परिपतनेनानुभूय नानाविधं परिभ्रमण- पर्याकुलत्वमुपगतायाः संदेहदालान्दालिताया आस्तिकमतेनिर्मलीकरणा- यैव मूर्तिपूजनं विस्तरशः प्रतिपादयितुमिच्छामः । निसर्ग एवायं नव्यशिक्षितधुर्याणां यदेते समुत्थाप्य महान्तं वागाडम्बरं जगद्विलक्षणमात्मनः पाण्डित्यमुद्भावयितुं प्रयतन्ते । तत्र च प्रवृत्ता एते विलक्षणमतयः श्रुतिलशमप्यनाघ्राय दूरीकृत्य च स्मृतिसङ्घमविगणय्य च पुराणवचनानि धर्मशास्त्रपरिचयशून्या अध्यात्मनोऽशेषश्रुतिवेदित्वमखिल- स्मृतिपारङ्गमत्वं निःशेषपुराणपारदृश्वतां च निःसंदेह मेव प्रतिभासयन्ति । प्रलपन्ति च निःशङ्कमात्मनः संमतमेवानुमतं वेदस्यति । अहो साहसमे- तेषाम् । अथवा युज्यत एतत्तथा चाहुः । निर्विषेणापि सर्पण कर्तव्या महती फटा । यदि तत्र विषं नास्ति फटाटोपो भयङ्कर इति । अनेन चैषागतिक्रान्तमर्यादन वचनाडम्बरेण पर्याकुलीभवन्ति केषांचिदनवलो- कितवेदानामपि वेदैकप्रमाणानामास्तिकानां चेतांसि । एते च तथाविध- मात्मनो व्यवसायमारभमाणा धर्मकञ्चकं प्रविश्यात्मन एकान्तसंमतमपि संस्कृतचन्द्रिका । चार्वाकमतमसंमतमिवावभासयन्ति । प्रकाशयन्ति चात्मनः सारमात्रग्रा- हित्वम् । प्रख्यापयन्ति च धार्मिकप्रवरत्वम् । आविष्कुर्वन्ति च श्रुतिमात्र- प्रमाणताम् । एवमेतेषां वचनजालेन सविषेणेव मधुनो निःस्यन्देन साह- जिक एवादूरदर्शिनां केषांचिदज्ञप्रायाणामलसमतीनां व्यामोहः । एतेषां च नव्यशिक्षितमहाशयानां पारमार्थिकं स्वरूपमवबोद्धकामैः सकृदपि पठ्यतां प्रबन्धोऽयं ततश्च श्रूयन्तां नानाविधान्यपि सुधारकमानिनां वचनानि। महाभागाः ! संचार्यता सकृदपि तत्र तत्र श्रुतिविभागेषु नयनद्वन्द्वं विलोक्यन्तां स्मृतयः समीक्ष्यन्तां पुराणानि विभाव्यतां चामीषामर्थः । नूनं यदि विधूय चेतस एकतरपक्षपातित्वं समीकृतमानसा विचारयेयुभ- वन्तस्तदाऽवश्यं प्रतिपद्येरन्नासीदेव पूर्व प्रतिमापूजनं लोकेष्वस्ति च तत्प्र- कारादिकं धर्मसंहितासु विद्यते च मूर्तिवर्णनमपि वेदेष्विति । वेदादिषु च यथा प्रतिपादिता मूर्तयो देवानां तथोपरिष्टात्स्फुटीकरिष्यामः । प्रथमं तावद्विचार्यते को वा न मूर्ति पूजयतीति । तत्र तावन्मूर्तिर्नाम प्रस्तरकाष्ठमृत्तिकादिभिनिर्मिताऽभ्यर्हणीयस्य प्रतिमा वा कुड्यादिण्वा- लिखितोऽपि वा पूज्यस्ताकारः । पूजा च नाम संमाननमेव । सा चा- स्मदादिभिः पुष्पादिभिरुषचारैरिव यद्यन्यैर्मनसाऽपि संमन्येत्तदा ते मूर्ति- पूजका इत्येव समञ्जसः स्वीकुर्यात् । अत एव ब्रूमो भवतु वाऽऽस्तिको वर्ततां वा नास्तिकः सर्वोऽपि किल मूर्तीः पूजयति । दृश्यन्ते हि सर्वे- षामपि विहारस्थानेषु तेषां तेषां महाशयानां पितृगुरुप्रभृतीनां प्रतिमूर्तय उपन्यस्ताः । तत्र यदि कश्चिद्दुरात्मा सहसोपसृत्य सुमृदुतमेन समुद्भासितपद्मरागकान्तिना सकृदपि चरणास्पृष्टेन नव्योपात्कुसुमजालेन कल्पयेत्पूजां तदा किमु प्रस्तरसदृशत्वमेवालम्बेत चेतः सुधार कधीरेयस्या- होस्विदङ्गीकृतक्षोभं सपदि नयनद्वयमाघूर्णयत्संचालयञ्च द्वित्राङ्गुलपरि- मितां तालुनि समुल्लसमुल्लसन्तीं चूडां विडम्बयेत्कुपितकपिचेष्टितानि वद- नेन । यदि च कोऽपि समुन्नतंमन्यानां नव्यसुशिक्षितमहाभागानां समाभि- मतासुप्रतिमासु कदाचिदेकमात्रमपि पातयेदात्मनो वदनारविन्दान्मकरन्दा- ।

मूर्तिपूजनम् । । । धमान मुक्ताफलसप्रमं सधिक्कारं लालाजलबिन्दुं तदा किम् शान्तिरसा- नन्दमेवासेवेत चेतः सुधारकधौरेयस्याहो प्रत्यर्पयेदसौ निष्ठीवित्रे तद्यापा- रोचितं पुरस्कारम् । नूनमत्र साधु विचार्यमाणे प्रत्यक्षीकुबुर्विचक्षणा यन्नास्तिकमानिनो मूर्तिपूजनं तिरस्कुर्वाणा मूर्तिषु पूज्यस्यांशतोऽपि सद्भा- वस्यासंभवमेव प्रलपन्तोऽपि सुधारकादयो न स्तोकमपि सहन्ते स्वसंम- तानां गुर्वादीनां प्रतिमानां क्रियमाणमवमानमिति । यद्येवं तदा तैरन्य- वश्यमभ्युपेतव्यं यदस्ति किमपि तत्त्वं मूर्तिषु येन ताः संमानाईतामुय- यान्ति । अन्यथा व भूयिष्टेभ्यो दिवसेभ्यः प्रागेव वह्निताद्भता भूगर्तसु- खशयनसुखमनुभवन्तो वा गुर्वादयः कापि वा जीर्णपत्रादावालिखिता तन्मूर्तिः । न किल सा सचेतना नापि वा तस्यामाविशति भस्मताद्भूतो ऽस्याभीष्टो जनो नापि वा स तन्मयत्वमुपयाति । तत्क इव संमानचित्र आलिखितानां तेषाम् । यद्यपि कश्चिन्नराधमो नरात्मा वा पराहतक आत्मनः समक्षमबहेलितायामपि जनकादेः प्रतिमायां न केवलं जायमानीत प्रत्युत स्वयमात्मनो धनं व्ययीकृत्य निर्माय च तथाविधानां पूज्यतमाना प्रतिमाः स्वयमेव ता उन्नीयात्पूजयेच जीर्णाभियूरोपीयोपानभिमन्येत च कृतार्थतममात्मानं * पापस्तथापि न स आत्मनो मूः स्वमाननां सहेतेति किल प्रतिभाति । तिष्ठेद्वातथाकृतेऽपि कदाचित्सुधारकत्वमङ्मयातूष्णीमेवा किंतु यामसौमनोरमां भणति यामेव चात्मनः परात्राणानभिवले या चास्य पर- ममास्पदं प्रेम्णो यस्या एव करतल चुम्बनेन धन्यमाकलयमात्मानं तस्याश्चि- जगताया एवेषदुत्फुल्लपाटलकुसुममनोहरं कपोलतलं संस्पृशेदात्मनो वदनेन कश्चिन्मदनसमानाकारोऽपि युवा तदा तु तत्कालमेव गुञ्जाफलसमानता- माप्नुयान्नयनमेतस्य । तत्कथ्यतां किमेतदिति । किम् जीवनपि सोऽयं सुधारकमानी वा तस्य प्राणेश्वरी वा तां प्रतिमा प्रविशति येन प्रतिमाऽव- * बहुभिः किलैतत्प्रत्यक्षीकृतं कोल्हापुरनगरे । अहो भाग्यमस्माकं नगरस्य यदस्मिन्क्षेत्रभूतेऽप्येवंविधा नरपशवः समुद्भासन्ते !

संस्कृतचन्द्रिका। । मानोऽप्यात्मन एवेति मन्तुं युज्येत । किं वा विधात्राऽस्यापर एव निर्मित मात्मा यो नितनेम्वपि पदार्थेषु प्रवेष्टुं प्रभवेत् । वदन्तु च दयानन्दीयाः किमेतदिति । एतत्पथानुयायिनो हि न केवलं दयानन्दप्रतिमां दृष्ट्वाऽपि तु नामाप्यस्याकर्ण्य मूर्धानमवनमयन्ति । प्रशान्ता- स्मानोऽपि न सहन्ते दयानन्दप्रतिमायाश्चरणावताडनव्यापारम् । यदि च नास्तीश्वरस्य प्रतिमायाश्च कोपि संबन्ध इत्यस्ति खिस्तीयानामाभिमान- स्तदा क्रिमिति महाराश्याः प्रतिमायाः पुरतः संमाननीयानां वा परेषां मूर्तीनां पुरतः समवतार्यन्ते संमानसूचनाय वेतसकुशूलेापमानि शिरोग्रा- वरणानि । वदन्तु च महम्मदीया यदि नेष्यते प्रतिमायाः पूजनं तदा यत्र कुत्रापि दृष्टेषु महम्मदचैत्येषु किमिति मुच्यन्ते कच्छाः किमिति च स्पृश्यते जानुभ्यां भूमिः किमिति च तत्कालमेव कर्णयोः प्रवेश्यागु- लीर्या अल्ला इति तारतरेण स्वरेण दन्ध्वन्यते । यदि च न पावयति मर्तिस्तदुपासकानामात्मानं तदा किमिति महीयानयं परिश्रमो यूरोपियानां यदतैर्मृतानां शवपूरणगर्तेषु येशोर्वधस्तम्भा निखायन्ते । किमिति च रोम- क्याथोलिकैरभिवाद्यन्ते प्रतिमा येशोः । किमिति च ब्रह्मसमाजीयैर्न सह्यते गरुपतिमानामपमानः । किमिति चाहूतायां समायामध्यक्षीक्रियन्ते महाजनप्रतिमाः सभ्यः । किमिति च प्रार्थनासमाजीया आत्मनः संमान- नीयानां प्रतिमानामबहेलनां न सहन्त । नूनमत्र साधु विचार्यमाणे सर्वेऽपि भङ्ग्यन्तरेण सचेतनैः सह प्रतिमानां कमपि संबन्धमुररीकुर्वन्ति पनैव वशीकृतानां तदवमाननाद्यसहिष्णुरवमेतेषाम् । सहृदयाःन किल पूजनं नाम गन्धाक्षतादिसमर्पणमेवापि तु संभावनाऽपि पूजैव । स हि प्रायः सुरप्रतिमानां संभावनायाः प्रकारो यत्तत्र गन्धा- क्षतादिकं समय॑ते । नापि मूर्तिनाम केवलं मृदादिघटिता देवानां प्रति- माऽपि त्वालिखितापि मान्यानामपि चेति । अत एव सुधारकधुर्यादी- पालिकोद्दाहः। नामप्यस्त्ययमाचारो, योऽयं मूर्तिपूजनाख्यः समाधीयते सभवन्युन्मेषं धर्मिः । किं तु देवप्रतिमानां पूजनं नव्यशिक्षिताना सुधारकमानिना शिरःशूलमुत्पादयति प्रमाणपरतन्त्रास्त्वास्तिकारतेनैव महान्तं प्रमोद- मनुभवन्तीत्येतावानेव भेदः । तदुच्यता को वा न स्वीकरोति पूजन मूर्तीनामिति । ( क्रमशः।) बालिकोद्वाहः। ( पूर्वतोनुवृत्तः ।) यदपि--- ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् । यद्याधत्ते पुमान्गर्भ कुक्षिस्थः स शिपयते ।। जातो वा न चिरं जीवेज्जीवेद्वा दुबलेन्द्रियः। तस्मादत्यन्तबालायां गर्भाधान न कारयेत् ॥ वचनमेतदुल्लिख्य बालिकाविवाहो न युक्तिसह इति नव्यशिक्षिताः कथयन्ति तन्न मनोरमम् । यतो नैतत्सौश्रुतं वचनं बाल्यविवाहप्रतिषे- धकं धर्मप्रवर्तकं वा । किंत्वत्यन्तबालायां गर्भस्य विविधदोषाशङ्कया गर्भाधाननिषेधकमवेति । अत्रात्यन्तबालापदेन रजःप्रवृत्तिकालतः किंचिन्न्यूनषोडशपञ्चदशचतुर्दशादि वर्ष लक्ष्यते । किं तु तत्र तत्र वर्षेऽपि धृतगर्भाया बलपुष्टिमान्दीर्घजीवी चोत्पद्यते बालक इति बहु- भिर्बहुशो दृश्यते प्रत्यक्षत एवातो व्यभिचारि वचनमेतत् । तथापि स्वीक- रोमि तर्कानुरोधादूनषोडशवर्षायां गर्भाधानं दुष्टमिति । मा कारि गर्भा- धानं किंत्वष्टवर्षादौ बालिकाया विवाहसंस्कारे कः प्रतिबन्धः । तस्मि- निष्पन्न एव गर्भ आधीयत इति कुतः प्राप्तम् । हा व्यामोह नव्यशिक्षि- तानाम् ।

संस्कृत चन्द्रिका । पुनरपि तकीनुरोधास्तीकरोभ्यत्यन्तबालायां गर्भाधानं तथापि किमत्र विधेयम्--- तत्रात्मा हि स्वयं किंचित्कर्म किंचित्स्वभावतः । करोमि किंचिदभ्यासाद्धर्माधर्मोभयात्मकम् ॥ মসজিনল যখনফল কানি। यथा तुजलौकैवं देही कर्मगतिं गतः ॥ इत्यादि याज्ञवल्क्यभागवतादिस्मृतेर्जीवस्य कर्जिकत्वं कर्मानुसारतो गति प्रतिपद्यते । स्वकर्मफलभोगाय च कश्चिज्जीवो गर्भ एव विपद्यते कश्चिन्तो जायते कञ्चिजातमात्रो म्रियते कश्चिदशाहाभ्यन्तरे कश्चिद- जातदन्तः कविजातवन्त एवंरीत्या पञ्चाशदब्दः शताब्दो वा केवलम. दृष्टवशास्त्रियत । एवं चेकेनचिनीवेनेत्थमेव कर्म प्रारब्धं येन स कुक्षा- वेव वियते न काऽऽजीवं जीवेज्जीवेद्दा दुर्बलेन्द्रियो भवेत् । तेन जीवेन किं विधेयम् । किं तत्सौश्रुतं वचनमास्थाय तत्तदोषपरिजिहीर्षयाऽप्राप्त- पञ्चविंशतौ पितरि शत्यादिना सहन प्रवेष्टव्यं न बोनषोडशवर्षायां मातरि जन्म ग्रहीतव्यम् ! यदि गर्भेण पितरि दोषमालोच्य तावत्कालं तूष्णीमास्थाय प्राप्तपञ्चविंशतौ पितरि शस्यादिना प्रविश्यते गृह्यते व जन्म षोडशवर्षायां मातरि तर्देवं कुक्षिस्थितिविपत्तिप्रभृतिदोषसाधकं प्रारब्धं कर्मात्मनो वैफल्यं प्राप्नयादृते तत्फलभोगम् । अथ यदि स्वार्जितकर्मभिराकृष्यमाणेन जीवेन तत्तत्फलभोगाय प्रकृति- नियन्त्रणादप्राप्तपञ्चविंशतो पितरि शस्यादिभिः प्रविश्येत जन्यत चोन- पाडशवर्षायां मातरि तहि सुश्रुतोक्ताः क्षिस्थितिमरणादयो दोषाः प्राप्यन्त इत्यतः सुश्रुतवचनेन प्रारब्धकर्मणा चोभाभ्यां समाकृष्यमाणन जापनोनषोडशवर्षायां पूर्णषोडशवर्षायां वा मातरि न स्थितिपदं लभ्यत सुतरां त्रिशङ्कनवान्तराल एव चिरं स्थीयेत । अत एव सुश्रुतवचनं नैवाश्रद्धेयं किंतु वरं विषं भुझ्न तथाप्यकार्य मा चरेत्यादिवजीवोपार्जितकर्मफलज्ञापकतयाऽत्यन्तदोषबोधनपरमिति ।

NERALIAS- बालिकाहाहः । यदतुमती भवत्युपरत शोणिता तदैव संभवकाल इत्यादि गोभिलादि- सुत्रेषु-~- ऋतुस्नानां तु यो भायाँ संन्निधौ नोपगच्छति । घोरायां ब्रह्महत्यायां युज्यते नात्र संशयः ॥ इत्यादि गौतमादिवचनेषु च वत्सरादिकमनभिधाय केवलं यदा तहे- त्यनेन शास्त्रानुमोदित ऋतुकाल एवं गर्भ आधीयत इति शङ्खनादान- कारिणा ध्वनिनाऽनुशासितं मुनिभिरिति । अपि च यत्तु सुश्रुतेनोनषोडशवरेत्यनेनोनषोडशवर्षी निषिद्धा वि- हिता च षोडशवर्षा गर्भस्थाधान इति तदपि न धर्मशास्त्रसङ्गतम् । तथा च रघुनन्दनकृतज्योतिस्तत्त्वे गर्भाधानप्रकरणे भुजबलभीम:- या सुता घोडशे वर्षे तत्र वा धृतगर्भिका। मृत्युस्तस्याः सपुत्रायाः पितुश्चापि च संपतः ॥ माली प्रियङ्गुरजनी गुग्गुलूवंशलोचना। तालिशेन तिलालाजा गर्भिणीस्नानमुत्तमम् ॥ गौरी संपूज्य तत्पश्चात्संभमेच्छिवमंनिधौ । छानी गर्भवती देया दैवज्ञायाथ गोयुगम् ।। कांस्यपानस्थितं चन्द्रसितवस्त्राजसंयुतम् । दरः कृष्णेश्व सत्पुष्पश्चन्दनागुरुधूपकैः ।। कृत्वाऽपमार्जयनारी भोजयेद्वाह्मणांस्ततः । एतेषां प्रणिधानादेतदेव प्रतीयत-यषोडशवर्माया गर्भग्रहणं प्रसवनं च दलक्षणं दोषसूचकं च । यथा रवो प्रथमरजोदर्शनं वन्ध्यात्वं सोमवारे तु सतीत्वं सूचयति नैतत्कन्यायत्नपमेक्षत परं तु स्वादृष्टमीश्वरेच्छा व तत्र हेतुत्वेनोपादीयते । तथाऽत्रापीति । एतत्तु कालमाहात्म्यं कालवि- भिरेव मुनिभिनितुं शक्यते ।

संस्कृतचन्द्रिका
: अपि च षोडशवर्षातिकान्ताया एवं नार्या निर्दुष्टः पुत्र उत्पद्यत
इत्येतदपि न सम्यक् । यतो निर्दुष्टपुत्रोत्पत्तौ द्वयोरेव रेतोरजसोर्विशुद्धिः
कारणम् । तथा च तत्रैव-
पुमान्विंशतिवर्षश्चत्पूर्णषोडशवर्षया ।
स्त्रिया संगच्छते गर्भाशये शुद्धे रजस्यपि ॥
अपत्यं जायते भद्रं तयो!नेऽधमं स्मृतम् ।
रजःशुद्धिस्तु-----
यंशे शान्तं यच्च रक्तं वाम
नर्मार्थ वेदनागन्धहीनम् ॥
इत्यादीनां पूर्वापर पर्यवेक्षणेन ध्रुवमनुमीयते बालिकोदाह एवं शुभावह
इति जितं मुनिमतैजितं मुनिमतैरिति शिवम् ।
व गच्छामि।
भयंकरी पापनिशाचरीयं
दिगन्नाले मलिनत्वहेतुः।
इतस्तता भ्राम्यति सर्वदेव
हरेक गच्छामि तक शान्तिः ॥ १॥
अत्तुं सुखेनेयमिहाशु दीना-
नस्माशान्तमत्वम्माननं तत् ।
प्रमारयामास सुभीषणामा
हरेक गच्छामि तक शान्तिः ॥२॥

ROMANHAR
SNNN
व गच्छामि।
एकाऽप्यसौ किं बहुधा विभाति
यतोहि सर्वत्र सदैव वीक्षे.
मालिन्यभाजं प्रतिमूर्तिगल्या
हरे व गच्छामि ननु क शान्तिः ॥ ३॥
आश्रित्य पापं ननु पादपंत-
मापल्लता विस्मृतिमति नो किम् ।
দু মালালনি লা-
न्हरे व गच्छामि ननु व शान्तिः ॥ ४ ॥
समाजखड़ः प्रखरच कान्ति
विभेत्तुमेकन चिरं विभाति ।
अन्यत्र तीवाः करणीयसा
हरे कमच्छामि ननुक शान्तिः ॥ ५॥
दशन्ति तिग्मं हृदयं विवेक-
सर्पा दशन्त्यत्र सुदीर्घकालम् ।
व्यथालयो भेषजमत्र ने
हरे व गच्छामि ननुक शान्तिः ॥ ६ ॥
न्यायात्मके वर्मनि वर्तमानो
योऽसौ समाजः प्रयुतामयासीत् ।
भावः स तस्यास्ति किमद्य हा हा
हरे क गच्छामि ननु क शान्तिः ॥
धर्मोऽप्यधर्मः सुकृताऽकृतं बा
सदस्तु वाऽसत्करणीयमेव ।
समाजतिम्माक्षिभयान्न किं स्या-
दरेक गच्छामि ननु क शान्तिः ॥८॥

संस्कतचन्द्रिका
मसागरदीपवसुन्धरायाः
प्रभोः प्रदण्डोऽपि च सावधिः स्यात् ।
समाजदण्डस्य न सावधित्व
हरेक गच्छानि ननु छ शान्तिः ॥ ९ ॥
मन्ये यदस्मिन्ननु पापमेव
तदेव नूनं विषमः समाजः ।
आलिङ्गति प्रीतिसहसमावे-
हरेक गच्छामि ननु क शान्तिः ॥ १० ॥
विषोपमाद्यामि यतः सुदूर-
महं समाजः श्रयते तदेव ।
पीयूषबुद्धया स्वत एव नूनं
हरे क गच्छामि ननुक शान्तिः ॥ ११ ॥
तुच्छीकृतं ययदहं विचिन्त्य
विवेकयोगात्तृणवक्षिपामि।
हा तत्समाजो नयति स्वमङ्घ
हरे क गच्छामि ननु व शान्तिः ॥ १२ ॥
हिया रुषैवात्र जुगुप्सया च
यतो विरक्तः सततं भवामि ।
तत्रानुरक्तः कुतुकी समाजो
हरे क गच्छामि ननु क शान्तिः ॥ १३ ॥
विवेकदंशो मनसो दृढत्वं
शास्त्रानुशिष्टिश्च पलायिता स्यात् ।
समाजनेत्राग्निभिया समन्ता-
द्धरेच गच्छामि ननु क शान्तिः ॥१४॥

क गच्छामि।
त्यजाम्यहं यद्विषपुष्पवृद्धया
न कि समाजः सबलं तदेव ।
जानाति पुष्पं हरिचन्दनस्य
हरे व गच्छामि ननुक शान्तिः ॥ १५ ॥
कीटोपमं यन्नरकस्य वस्तु
मन्ये समाजस्तदलं सुखेन ।
देवभ्रमात्पूजयितुं प्रवृत्तो
हरे व गच्छामि ननु क शान्तिः ॥ १६ ॥
यदेव ननं मनसाहमीडे
शृणामि यस्यैव गुणातिरेकम् ।
उपेक्षते तकिमु नो समाजो
हरेक गच्छामि ननु क शान्तिः ॥ १७ ॥
বৃশিৰালতলীজনস:-
शिखा ज्वलन्ती सततं प्रदग्धुम् ।
জামালুলনা সবা
हरेक गच्छामि ननु क शान्तिः ॥१८॥
न को दिशं गच्छति तीवशक्ति-
भयङ्करी प्राणहराऽपि काम्या।
पापस्य हालाहलशक्तिकल्पा
हरेक गच्छामि ननु क शान्तिः ॥१९॥
भक्ष्याणि पेयान्युदरं न वेत्ति
तिष्ठत्यमुमिन्हृदय बलं नो।
गन्तुं ग्रहीतुं च न शक्तिरस्ति
हरेक गच्छामि ननु क शान्तिः ॥२०॥

मंस्कृतचन्द्रिका।
अनावृतं गात्रमिदं हिमेन
प्रकम्पते शुष्यति देश एषः।
पथ्यं न किंचित्परिचीयतेऽत्र
हरेक गच्छामि ननु क शान्तिः ॥२१॥
आच्छादनं नैकमपीह हा हा
छिन्नांशुकैरावरयन्ति गात्रम् ।
प्रिया बुभुक्षास्तु हरन्ति शान्ति
हरे क गच्छामि ननुक शान्तिः॥२२॥
चेतः सदाऽस्मि पतापदग्धं
कमावसादेन हतं शरीरम् ।
तथाऽपि किंचिन हि वक्तुमीशो
हरे क गच्छामि जनु क शान्तिः ॥२३॥
गृहाहते वृक्षतलाधिवासी
हा हन्त चन्द्रातपमन्तरेण।
इहावलम्बेऽम्बरनिर्मलान्तं
हरेक गच्छामि बतक शान्तिः ॥ २४ ॥
आर्तस्य हाहाध्वनिरत्र कर्ण-
मयःशलादेव विशत्यजनम् ।
विषण्णमेव स्वजनास्यमीक्षे
हरेक गच्छामि ननु व शान्तिः॥२५॥
आकर्यले कातरमित्रतार-
चीत्कार उच्चैः परिदेवनोत्थः।
शोकावसनस्य कराहतिश्च
हरेक गच्छामि बत क शान्तिः ॥२६॥

अनन्तमंसारसमुद्रतार- तरङ्गासहगे बलवत्सदैव । इलस्ततश्चालयतीह नूनं हरेक गच्छामि ननु क शान्तिः ॥ २७ ॥ समन्ततः पापभुजङमार्थाः सुभेषजेनाप्यनिवारणीयाः । मर्माणि चित्तस्य दशन्ति कष्टं हरे छ गच्छामि ननु क शान्तिः ॥ २८ ॥ निरन्तरं यः खलु पूज्यते स्म रम्पप्रभैरान्तरभक्तिपुष्पैः। तमय पश्यामि नितान्तभक्तं हरेक गच्छामि ननु व शान्तिः ॥ २० ॥ सत्यवतं सत्यपरं यमेव जज्ञो निरीहं च म एक नूनम् । इस्युर्भवत्यत्र कलिप्रभावा- धरे व गच्छामि ननु क गान्तिः ॥ ३० ॥ अकृत्रिमा शान्तिरहो किमु स्या- दकृत्रिमं प्रेम मतं चिराग । अकृत्रिमं सत्यमिदं किमस्ति हरेक गच्छामि बतक शान्तिः ॥ ३ ॥ कामः प्रमादा बलवान्प्रमादः भषाऽभिमानो विषमा च हिंमा। कामन्ति किं नो मततं समन्ता- हरेक गच्छामि बत क शान्तिः ॥३॥ - संस्कृत चन्द्रिका। अनाथनाथो धगतेगतिस्त्वं सदावलम्बोऽनवलम्बनम्य । उपायहीनस्य महानुपायो नश्येद्विपत्त्वञ्चरणाश्रितानाम् ॥३३॥ जगदरितिमिरालित्रासविध्वंसहेतो निखिलभुवननाथ ब्लान्तिनाशैकबीज । अनुगतमनुजानां मादृशानां शरण्य विपदमपहरेमें सर्वशान्त्येकबन्धो ॥३४॥ श्रीनारायणार्पणमस्तु ॥ श्रीअन्नदाचरणतर्कचूडामणेः । नोयाखाली, सोमपाडा। बेंगाल । श्रीशिवराजविजयः। ( उपन्यासः) प्रथमो निश्वासः। विष्णोमाया भगवती यया संमोहितं जगत् । हिंशः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते ॥ भागवते। अरुण एष प्रकाशः पूर्वस्यां भगवतो मरीचिमालिनः । एष भग- वान्मणिराकाशमण्डलस्य चक्रवर्ती खेचरचक्रस्य कुण्डलमाखण्डलदिशो * अस्मद्देशोद्धारकस्यालौकिकक्षालतेजःसमुद्भासिताशेष भारतवर्षस्य च्छलपतेः श्रीशिवाजीमहाराजस्य जीवनवृत्तमधिकृत्य विरचितोऽयं मनोहर उपन्यासो भार- तरत्नश्रीमदम्बिकादत्तसाहित्याचार्येण नाम छप्रानगरवासिना पण्डितप्रवरेण १ मरीचिमाली सूर्यः । २ खेचरा अह' । ३ आखण्डल दिन पूर्वदिशा। --- श्रीशिवराजविजयः। दीपको ब्रह्माण्डभाण्डस्य प्रेयान्पुण्डरीकैपटलस्य शोकविमोकःकोक- लोकस्यावलम्बो रोलम्बदम्नस्य सत्रधारः सर्वव्यवहारस्येनैश्च दिनस्य । अयमेवाहोरात्रं जनयत्ययमेव वत्सरं द्वादशसु भागेषु भुनक्त्यय- मेव कारण षण्णामृतनामेष एत्राङ्गीकरोत्यत्तरं दक्षिणं चायनमेनेनैव संपादिता युगभेदा एनेनैव कृताः कल्पमता एनमेवाश्रित्य भवति परमेष्टिन: पराईसंख्याऽसावेव चकति बभर्ति जैहाते च जगद्वेदा एतस्यैव बन्दिनो गायत्र्यमुमेव गायति ब्रह्मनिष्ठा ब्राह्मणा अमुमेवाहरहरुपतिष्ठन्ते । धन्य एष कुलमूलं श्रीरामचन्द्रस्य प्रणम्य एष विश्वेष नित्युदेष्यन्तं भास्वन्तं प्रणम. निजपर्णकुटीरीनिश्चक्राम कश्चिद्गुरुसेवनानुप्रिबटुः । अहो चिररात्रीय सुप्तोऽस्मि स्वप्न बालपरतन्त्रवातिपुण्यमयः समयो- ऽतिवाहितः सन्ध्योपासनसमयोयमस्मद्गुरुचरणानां तत्सपद्यवचिनोमि कुसुमानीति चिन्तयन्कदलीदलमेकमाकुञ्य तृणशकलैः संधाय पुटकं विधाय पुष्पावचयं कर्तुमारेभे। बटुरेष आकृत्या सुन्दरो वर्णेन गौरो जटाभिर्बह्मचारी वयसा षोडशव- र्षदेशीयः कम्बुकण्ठ आयतललाट: सुबाहुर्विशाललोचनश्चासीत् । कदलीदलकुञायितस्यैतत्कुटीरस्य परितः पुष्पवाटिका पूर्वतः परम- पवित्रपानीयं पर:सहस्रपुण्डरीकपटलपरिलसितं पतत्रिकुलकूजितपूजितं पय:- पूरपूरितं सर आसीत् । दक्षिणातचैको निर्झरझर ध्वनितदिगन्तरः फल- पटलास्वादचपलितचंचपत कुलक्रमणाधिकविनत शाखशौखिकदम्बव्याप्तः सुन्दरकन्दरः पर्वतखण्ड आसीत् । यावदेष ब्रह्मचारी बटुलिपुञ्जमुद्धय कुसुमकोरंकानवचिनोति ताव- १ पुण्डरीकं श्वेतकमलम् । २ विमोको मोक्षः। ३ रोलम्बा भ्रमराः । ४ इन: स्वामी । ५ परमेष्टी ब्रह्मा । ६ चर्कर्ति अतिशयेन करोति एवम् । ७ बभर्ति विभाति पालय. तीत्यर्थः । ८ जहर्ति हरति संहरतीत्यर्थः । ९ भास्वान् सूर्यः । १० कुटीरः अल्पकुटी ( झोपडी ) ११ चिररात्राय चिरम् । १२ परिलसितं भूषितम् । १३ पतत्रिणः पक्षिणः । १४ पतङ्गाः पक्षिणः । १५ शाखिनो वृक्षाः । १६ कोरकः कलिका ।

संस्कृतचन्द्रिका त्तस्यैव संतीयोऽपरस्तत्समानक्याः कस्तूरिकारेणुरूषित इव श्यामश्चन्दन- चर्चितभालः कर्पूरागुरुक्षोइच्छुरितवक्षोबाइदण्डः सुगन्धपटलैरुन्निद्रयानवि निद्रामन्थराणि कोरकनिकरम्बकान्तराल सुप्तानि मिलिन्दवृन्दानि झटिति समुपगत्य निवारयन्गौरवमेवमवादीत् । अलं भो असं मयैव पूर्वमवचितानि कुसुमानि त्वं तु चिरं रात्राव- जाँगरिति क्षिप्रं नोत्थापितः । गुरुचरणा अन तडागतटे संध्यामुपासते । संस्थापिता मया निखिला सामग्री तेषां समीपे । यां च सप्तवर्षकल्पां यवनत्रासेन निःशब्दं रुदती परमसुन्दरी कलितमानवदेहामिव सरस्वती सान्त्वयन्मरन्दमधुरा अप: पाययन्कन्दखण्डानि भोजयंस्त्वं त्रियामात्रयम- नयः सेयमधुना स्वपित्युध्य च पुनस्तथैव रोदिष्यति । तत्परिमार्ग- णीयावस्थाः पितरौ गृहं च । इति संश्रुत्योष्णं नि:श्वस्य यावत्सोऽपि किंचिद्वतुमियेष तावदस्मात्पर्वतशिखर निपपात भयोईष्टिः । (क्रमशः) सविनया विज्ञप्तिः। सहृदयवाचकाः ! विज्ञापितपूर्वमेवास्माभिरतृतीयसंख्यायां सत्वरमेव प्रेर्यतां मूल्यं संस्कृतचन्द्रिकाया इति । महात्मना श्रीगुरुदासशर्ममहाशयन तु चन्द्रिकायाः कल्याणं कामयभानेनैकमासाभ्यन्तर मूल्य प्रेषयितृभ्य उपहारोऽपि प्रत्यादि । आसीचास्माकं प्रत्याशा भूयाभिरेव ग्राहकम- हाशयैः संभाव्येत मूल्यप्रदानेन तपस्विन्येषेति । अस्याश्च यादृशीदानी- मवस्था तथा निवेदितव भूयोभूयः पूर्वमस्माभिः । विदितवृत्तान्ता अपि पुनहिकमहाशया अत्यावश्यकस्याप्यत्यन्तन्यूनस्याप्यस्या मूल्यस्य प्रदाने मनो न कुर्वन्तीत्यहो दुर्भाग्यमे तस्याः । एतच्च प्रायो महाभागानां विदितव यथा संवादपत्रिकामासिकपत्रि- १ सतीर्थ्यः सहाध्यायी ।२ निकुरम्ब समूहः । ३ मिलिन्दा भ्रमराः । ४ अजागो जागरं कृतवान्निन्नां न लब्धानित्यर्थः । ५ मरन्दो मकरन्द. १६ त्रियामा रात्रि ।

मविनया विज्ञप्तिः। -- कादीनां कृते पत्रप्रापणाधिकरणे कोऽपि नव्या नियमः संवृत्तो येन परिवर्तने देयान्यपि पुस्तकानि न हि शुल्कपत्रमन्तरा दातुं शक्यन्ते । पुरा त्यग्रिममेव त्रैमासिक शुल्कं दीयेत तदा मासत्रयं यावत्पत्रिका यथा- स्थान प्रापयन्ति स्माधिकरणिकाः । सांप्रतं पुन: प्रतिमासं प्रतिपत्रिकं च शुल्कपत्रादासमवन्तमावश्यकम् । तच्च न हि विना द्रव्यण विधातुं शक्यम् । द्रव्यमपि च न हि ग्राहकमहाशयानां कृपाकटाक्षमन्तरा संस्कृ- तचन्द्रिकायाः सुलभम् । अतः प्रार्थत पत्रिकामेतां प्राप्यैकमासाभ्यन्तर एव प्रेर्यतां समग्रं पष्टवार्षिकं चन्द्रिकामूल्यं कृपयेति । यदि तु मूल्य- मवसरेऽस्मिन्न प्रर्यंत तदा न जाने कथ चन्द्रका प्रेरयितुं शक्ये तेति । महीयान्हि संवृत्तोन्तरायः पापणानियमाख्यः । यदि तु धनमापणाद्वारा मूल्यं न प्रेरयितुं शक्यते तदाऽऽविश्यतां व्ही. पी. द्वारा चन्द्रिका प्रेरयितुम् । आदेशादृते तु व्ही. पी. द्वारा न शक्यते चन्द्रिका प्रेषयितुम् । गते हि वत्सरे विप्रलब्धाः स्नो व्ही. पी. परावर्तन- श्रेयःसंपादकैर्दिशतग्राहकमहाशयः । एकादश संख्या निःशब्दमङ्गीकृष्य समुपनते मूल्यप्रदानावसरे व्ही. पी. परावर्तन नामेइमतिप्रशंसनीयमेवाच- रणं महोदाराणामित्यत्र नास्त्येव विवादोऽस्माकम् । पर न वयं धनिका येन विनाऽपि मूल्यं चन्द्रिका वितरीतुं प्रभवेति न विस्मरणीयम् । तत्सत्वरं विधीयतां मूल्यपदानानुग्रह इति सविनयं भूयोभूयः मार्थ्य प्रत्याशास्य च नैव ग्राहकमहाशयाश्चन्द्रिकामुपवासवते नियु- झीरन्निति सांप्रतं विरभ्यते । ॥ : मानन्दमङ्गीकारः। नेपालाभिजनेन श्रीकाशीक्षेत्रनिवासिना श्रीमच्छबिलालसूरिणा प्रणीतो वृत्तालाङ्कारः श्रीयुक्त जगन्नाथवर्मक्षत्रियेण प्रकाशितं तेनैव काश्या: प्रहितं संकेतनिधिः सारमञ्जरी चेति पुस्तकद्वयं लष्करग्वालियरवर्तिन्याः संस्कृतकाव्यकादम्बिनीसभायाः समस्यापूर्तेद्वितीयखण्डस्य द्वितीयसंख्या श्रीमत्पण्डितगोविन्दरायोपाध्यायप्रणीतसमन्वयाख्यभाष्यसंवलितायाः श्री- संस्कृत चन्द्रिका। मद्भगवद्गीतायाः प्रथमखण्डं चेति पुस्तकपञ्चकं समालोचनार्थमस्मत्स- विधमुपागतम् । एतत्प्रेरकागां चानुग्रहं शिरसा श्लाघमानो यथावसरम- चिरांदवैतानि समालोचविण्यामीति प्रतिज्ञाय सांप्रतं विरमामि । मलपृष्ठे प्रकाशिता सूचनाऽवश्यमवलोक्यतां ग्राहकमहाशयैरि- त्यभ्यर्थ्यते । rnarontinesienarsespesapnasamaAPORamaeme समालोचना। । गुप्ताशुद्धिप्रदर्शनम्---छमानिवासिना भारतरत्नश्रीमदम्बिकादत्त- व्याससाहित्याचार्येण प्रणीतं समालोचनार्थमस्मत्करतलमापतितं च । इंग्रेजीभाषाध्यायिनो विद्यार्थिनः परीक्षावसरे प्रायेण परीक्षकैः कानिचि- द्वाक्यानि पद्यानि वा संशोधयितुमादिश्यन्ते । तत्र च विषये प्रावीण्यमा- सादयितुमत्युपकारकोयं प्रबन्धः । अत्र १११ एकादशोत्तरैकशतमितानि गद्यवाक्यानि दश च पद्यान्यशुद्धानि विद्यन्ते । विना सूक्ष्मावलोकनमत्र- स्थानि कानिचिद्वाक्यानि न शक्येरन्विद्यार्थिभिरशुद्धानीत्यवगन्तुम् । मूल्यमस्य केवलमधीनकमात्रम् । निम्नलिखितानि पुस्तकानि मिरतनगरे सदरबाजारवीथ्यां विद्यमा- नस्य संस्कृतपुस्तकालयस्याध्यक्षेण पण्डितश्रीईश्वरीप्रसादशर्मणः सका- शाप्राप्तानि तत एव लभ्यन्ते । क्षत्रियवर्गकोषः (प्रथमभागः)- अत्र अआदिवर्णविन्यासादिपूर्वकं क्रमशः पञ्चमपाठात्परं क्षत्रियवर्गे( अमरकोशादौ ) पठ्यमानानां शब्दानां हिन्दीभाषायामर्थाः सम्यक्प्रतिपादिताः । संस्कृतशब्दस्तल्लिङ्गमर्थः क्वचि- द्वर्षवरव्यूहादीनां लक्षणान्यपि विन्यस्तानि । क्षात्रधर्मजिज्ञासूनामय- मत्यन्तोपयुक्तः पण्डितहरदयालुनाम्ना विदुषा प्रणीतः । अवश्यं संग्राह्यो जिज्ञासुभिः । अस्यापि मूल्यं नावगतम् । ।

७१०1८९ श्रीशिवः शरणम् । ॥ संस्कृतचन्द्रिका ॥ ॥ श्रीगणेशाय नमः॥ शिवादीनपि कर्माणि कारयन्ती जनानिव । मायाऽवलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी ।। ॥ मासावतरणिका ॥ केदारेषु मनोहराः सुरभय : सन्मञ्जरीमजुला: शालिस्तम्बगणाः शिरांसि धरणौ नम्राणि सन्तन्वते । फुल्लत्पझकदम्बकेऽपि मधुपास्तन्वन्ति गुञ्जामिषे जायन्ते विनयप्रमोदविधये नूनं सतां सम्पदः ॥६॥ ॥ उद्भटश्लोकाः ॥ कालश्चेत्करुणापरः कलियुगं यद्यद्य धर्मप्रियं निस्त्रिंशो यदि पेशलो विषधर : सन्तोपदायी यदि। अग्निश्चेदतिशीतलः खलजन : सर्वोपकारी स चे- दायुष्यं यदि वा भविष्यति विपं वेश्याऽपि तद्रागिणी।। कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वत । अभित्तिविहितालम्बमालोकं विलिखेत्कथम् ॥* तथाऽऽचरेदहि यथा रजन्यां न स्यात्सुषुप्तोर्वरतिः कथञ्चित् । अथ क्षपायां तदिवानुतिष्ठे- न लज्जते येन मन: प्रभाते ॥ श्रीपद्मनाथभट्टाचार्यस्य ( सिलहट-आसाम ) १ गुजां गुजारवं । इष आश्विने । *अप्रस्तुतप्रशंसेयम् । परेषां वेषभाषादिकं बाध्यस्वरूपमनुकतुं शक्यं न पुन : कथंचिदपि तत्प्रकृतिसिद्धा गुणा : शक्यन्त आसाद- यितुमिति भाव: ।

संस्कृतचन्द्रिका। श्रीमदप्पयदीक्षिताः। [पूर्वतोऽनुवृत्ति :] गतसंख्यायां यावदुल्लिखितमस्माभिस्तावदेव प्राय : श्रीमदप्पयदीक्षिता- नामुपलम्यमानं चरितम् । तच्च लिखद्भिरस्माभिः काव्यमाला भारतवर्षी- यावर्वाचीनकोश इतरे च कैश्चिदस्मद्देशीयैर्विरचिता: प्रबन्धाः संख्यावद्व- दनगताश्वाख्यायिकाः प्रमाणीकृताः । किन्तु स्वभाव एव मनुष्याणां यत्प्र- मादबाहुल्यम् । अत: क्वचित्काव्यमालायां वचिच्च कोशेऽपि प्रमादा- उपलब्धा इति नानावसर आश्चर्यस्य । श्रीनीलकण्ठदीक्षितविरचित- प्रबन्धैरनुमाय यदस्माभिर्दीक्षितानां जननविषये प्रोक्तं तदेव मनाक्सत्यतां भजते । एतच्च चरितं लिखद्भिरेवास्माभिर्मद्रविभागीयेभ्य: स्वसुभ्य : श्रीमदप्पयदीक्षितानामेव वंशे लब्धजन्मभ्य: श्रद्धेयतमं दीक्षितचरणानां वृत्तमासादितम् । प्रबन्धान्तरेभ्यश्चान्यदपि किञ्चिदधिगतम् । तदिदानी ग्राहकेम्य उपहर्तुमिच्छाम:। अन श्रीमदप्पयदीक्षितवंश्यैः श्रीशृङ्गेरिपुरनिवासिभिः पण्डितै :श्रीवैद्यनाथशास्त्रिभिः प्रेरितं पत्रम् । इमे खलु दीक्षितेन्द्रा : ( श्रीमदप्पयदीक्षिताः ) श्रीमति काञ्चीप्रदेशे श्रीकाञ्चीनगरपरिसरविराजमाने अडयप्पलाख्येऽप्रहारे गतेषु चतु : पञ्चा- शदुत्तरषट्शताधिकचतु सहस्रमितेषु ( ४६५४ ) कल्यब्धेषु तथा हूणा- ब्देषु १५६२ संख्याकेषु [ अर्थात् १४७३ संख्याकेषु श्रीशालिवाहना- ब्देषु ] श्रीमद्भारद्वाजकुलजलधिकौस्तुभमणे : श्रीरङ्गराजाध्वरीन्द्रता : x x श्रीमदप्पयदीक्षिताः। लब्धजन्मानो* विरचितचतुरधिकशतप्रबन्धा विजितवैतण्डिकनिकुरुम्बा : प्रख्यातचरित्राश्चेति सार्वजनीनमेतत् । तेषां जन्मवत्सरादिकं तद्वंश्यः श्रीशिवानन्दयोगीन्द्रैस्तञ्चरिते सम्यनिरूपितम् । तेषां किल त्रिसप्तति- वयस : परमावधिरित्यभियुक्ताः । तेषां चेयं सूक्तिश्चरमा श्रीमति चिदम्बरक्षेत्रे यथा- चिदम्बरमिदं पुरं प्रथितमेव पुण्यस्थलं सुताश्च विनयोज्ज्वलाः सुकृतयश्च काश्चित्कृताः। घयांसि मम सप्ततेरुपरि नैव भोगे स्पृहा न किञ्चिदहमर्थये शिवपदं दिदृक्षेपरम् ॥ इति ॥ तेषां [ श्रीदीक्षितानाम् ] विद्याग्रहणं पितुरेव। यतस्त एव सिद्धान्तलेशसं- प्रहाख्ये ग्रन्थे सिद्धान्तलेशान्धियः शुध्यै संकलयामि तातचरणव्याख्यावचः ख्यापितान् ॥ इति निरबध्नन् । तथा शिखरिणीमालाव्याख्याने । शिवतत्वविवेकेऽपि- सर्वविद्यालतोपनपारिजातमहीरुहान् । महागुरुन्नमस्यामि सादरं सर्ववेदसः [?]॥ इत्युपक्रमे तथा समाप्तावपि श्रीरङ्गराजमस्त्रिन : श्रितचन्द्रमौलि- रस्त्यप्पदीक्षित इति प्रथितस्तनूज : ॥ इति ॥ * सिद्धान्तलेशसअहे तु दीक्षितानां पितामहस्यापि धीसवतोमुखमहा- बतयाजीतिनामोपलभ्यते यथा- विद्वद्रोविहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहाव्रतयाजि सूनोः । श्रीरंगराजमखिन : श्रितचन्द्रमौलि- रस्त्यप्पदीक्षित इति प्रथितस्तनूजः ॥ इति ॥ 8 एतचरितमधिगन्तुं प्रयतामहे । लब्धे च तस्मिन्यथावसरं दीक्षितचरधानां चरितगतं विशेष प्रतिपादयिष्याम: ।

१०४ संस्कृतचन्द्रिका। तत्कृताः कृतय : संख्यया चतुरधिकं शतमिति तदीयविरुदलेखनक्रम- गतेन चतुरधिकशतप्रबन्धनिर्वाहकपदेन ज्ञायते । इदानीमप्युपलम्यन्ते पञ्चाशदधिका ग्रन्थाः । तत्रेदानीमपि प्रचारे विद्यमाना : श्रीमदद्वैतसि- द्धान्तावलम्बिनो निर्गुणवस्तुप्रतिपादनधुरीणा :--[१] श्रीपरिमल :*[२] सिद्धान्तलेशसंग्रह : [३] वेदान्तनक्षत्रवादावलिः [ ४ ] मध्वतन्त्रमुखम- दनम् [५] मध्वमतविध्वंसनम् [६] न्यायरक्षामणिश्चेति षट् । [१] सगुणनिष्ठा [२] शिखरिणीमाला [३] शिवतत्वविवेक : [ ४ ] ब्रह्मतर्कस्तवः [५] लघुविवरणम् [६] आदित्यस्तवरत्नं [७] तथ्याख्या [ ८ ] शिवाद्वैतविनिर्णय : [९] शिवध्यानपद्धतिः [१०] पञ्चरत्नं [११] तच्याख्या [ १२ ] आत्मार्पणम् [१३] मानसोल्लासः [१४] शिवकर्णामृतम् [१५] आनन्दलहरी [१६] चन्द्रिका [१७] शिवमहिमकलिकास्तुति : [१८] रत्नत्रयपरीक्षा [ १९ ] तयाख्या [ २० ] अरुणाचलेश्वरस्तुति : [ २१ ] अपीतकुचाम्बास्तव : [ २२ ] चन्द्रकलास्तव : [ २३ ] शिवार्कमणिदीपिका [२४] शिवा- चनचन्द्रिका [२५] शिवपूजाविधि : [२६] नयमणिमाला [ २७ ] तयाख्या चेति शिवोत्कर्षवादपरा : षड्विंशति : ॥ तथा श्रीरामानुजीय- * परिमलाख्यग्रन्थकरणे त्वित्यनुश्रूयते । पूर्वं श्रीमदप्पयदीक्षिता : शिवार्कमणि- दीपिकाख्यं श्रीकण्ठाचार्यप्रणीतशिवोत्कर्षप्रबन्धव्याख्यानं विरचय्यात्मन :स्वमतप्रख्या- पनेऽप्रतिहतां शक्ति व्यञ्जयामासु : । तदाकर्ण्य श्रीमद्वैताचार्या : श्रीनृसिंहस्वामिनो दीक्षितसमीपमुपेत्योपदिश्य च तस्मान्मार्गात्तं निवर्तयामासुः । अथ दीक्षिता अद्वैत- मतानुयायिनः संवृत्ता: । ततश्च तमेव मार्गमवलम्ब्याद्वैताचार्यत्वमधिजग्मुरिति । तथाहि श्रीमदीशानस्तुती- वैकुण्ठे शुण्ठ कोलाहलमयकलहोल्लुण्ठनेऽकुण्ठशक्ति: श्रीकण्ठाचार्यकण्ठोदितनयसरणेव्याकृतौ कुण्ठितो न । इत्येवं शिक्षितश्चाद्वयनयगुरुभिर्दक्षिणामूतिरूपै- दक्षोऽभूट्टीक्षितोऽसौ परिमलकृतितः शङ्कराचार्यपक्षः ॥ इति ॥ [स० सम्पादक:

श्रीमदप्पयदीक्षिता: मतानुसारिण:- [१] नखमयूखमालिका [२] तव्याख्या [३] श्रीवेदान्तदेशिकविरचितयादवाभ्युदयव्याख्या [४] तथा तत्कृतपादुका- सहस्रव्याख्या [५] वरदराजन्तवश्चेति पञ्च ॥ श्रीमदानन्दतीर्थीय- सिद्धान्तानुसारिणौ [१] न्यायरत्नमाला [ २ ] तद्व्याख्या चेति द्वावेव ।। तथा पूर्वमीमांसायाम् --- [१] नक्षत्रवादावलि : [२] विधिरसायनं चेति द्वौ ॥ तथा व्याकरणे--[१] नक्षत्रवादावलि : । अलङ्कारशास्त्रे- [ १ ] कुवलयानन्द : [२] चित्रमीमांसा चेति द्वौ। [वृत्तिवार्तिकं त्वसमग्रामिति नोल्लिखितं स्यादिति । (स० सम्पादक :)] एवं मिलित्वा पञ्चचत्वारिंशत् । अन्ये च बहवो ग्रन्थास्तत्कृता उपलभ्यन्ते । न तु समग्रा: । इति । यत्तु काव्यमालाकारैः कुवलयानन्दाख्यस्यालङ्कारशास्त्रप्रबन्धस्यव्याख्याया रसिकरञ्जिन्याख्याया अपि श्रीमदप्पयदीक्षितप्रणीतत्वमेव प्राकाशि तद्रसिक- रञ्जिन्यनवलोकनमूलं स्खलितमेव । सम्प्रति कुम्भकोणनगरे किल मुद्रितासौ रसिकरञ्जिनी । तस्याश्च प्रणेता श्रीमद्गङ्गाधरवाजपेयी नाम श्रीमदप्पयदी- क्षितान्वयसंभव : पण्डितप्रवर : । तस्य सङ्क्षिप्तस्येतिवृत्तस्यात्रोपनिबन्धनं नानुचितमित्याकलय्य तत्रोपहर्तुमिच्छामः । यथा-- कविरयं गङ्गाधरवाजपेयी कस्मिन्काले बभूवेति न सम्यग्ज्ञायते । श्रीमदप्पयदीक्षितकालस्यैतत्कालस्य च मध्यकाल : शतबत्सरा : स्युरिति प्रतिभाति । यतोऽयं रसिकरञ्जन्या नाम कुवलयानन्दव्याख्याया उपक्रमे- अस्मत्पितामहसहोदरदेशिकेन्द्र- मप्पय्ययज्वतिलकं प्रणमामि मूनी । यस्यानवद्यकृतिभिः शतशोऽधिकाभि- वैपश्चिती बुधततेः प्रसरीसरीति ॥ इति पद्यमुपन्यबध्नात् । रसिकरञ्जिनीकारस्य पितामह : समरपुङ्गवदीक्षित इति व्यवहरन्ति पूर्ववृत्तविदो वृद्धाः । पितामहसहोदरस्य देशिकेन्द्र इत्युक्त्या कियानेवानयोर्मध्यकाल इति ज्ञायते ।

संस्कृतचन्द्रिका। अयं चन्नपुरोसमीपवर्तिमोशूर्तिरुवालगाडुनामकाग्रहाराभिजनः । पिताऽस्य श्रीमद्वाधूलवंशमुक्ताफलायित : श्रीदेवनरसिंहभट्टः । अयं श्रीकाश्यो श्रीविश्वरूपयतीन्द्रत : सर्वास्वपि विद्यासु वैशारद्यमधिजगाम । श्रीतञ्जासंस्थानमहाराजश्रीशहाजीभूपतेः प्रतिगृहीतग्रामसमूहोऽयं तत्रैव मरुद्वृद्धातीरे न्यवसत् । निजनिवासग्रामस्य च तिरुवालंगाडु इत्यभिधानं चक्रे । आप्तजनप्रथितश्च वृत्तान्तोऽयम् । साम्प्रतमप्यनुभूयते तत्प्रतिगृहीतगृहारामादिकं तद्वंश्यैः । एतद्विरचिताः प्रबन्धास्तु भूयांसः । तथापि तेप्विदानीमुपलभ्यमानाः काणादतन्त्रे सिद्धान्तचन्द्रिकाख्यं प्रकरणरत्नं विस्तृता च तद्व्याख्या सिद्धान्तचन्द्रि- कामसादाभिख्याऽलङ्कारशास्त्रे कुवलयानन्दव्याख्या रसिकरञ्जिनी चेति । एतद्न्थपरिशीलनेनास्य सर्वेष्वपि शास्त्रेषु प्रबन्धृत्वमस्तीत्यनु- मीयते । इति । एवं च रसिकरञ्जिन्या: श्रीमदप्पयदीक्षिप्रतणीतत्वं कथञ्चिदपि न वक्तुं शक्यम् । यद्यपि श्रीमदीशानस्तुतिगतेन पूर्व टिप्पन्यामुदाहृतेन पद्येन श्रीमदप्पय दीक्षितानां श्रीमच्छिवपदसरोजैकनिष्ठत्वं प्रति सन्दिग्धे मानसं तथाप्यस्मि- विषये निधनप्रत्यासन्नेऽवसरे श्रीमद्दीक्षितवदनारविन्दाद्विनि : सृतस्य चिदम्बरमिदं पुरमित्यादि पद्यस्यापेक्षया न तद्वचनस्य प्रामाण्यमङ्गीकर्तु युक्तमिति समवगच्छेयुरेव विद्वांसः । पण्डितरायश्रीजगन्नाथस्य श्रीदीक्षितचरणानां च मध्यवर्तिन : कालस्य शताधिकवत्सरात्मकत्वेऽपि न जानीमः किमिति प्ररूढ एतैः सहाम्य द्वेष इति । पण्डितरायस्तु पण्डितराय एवेति नास्ति सन्देहस्तथापि तस्य श्रीदीक्षितप्रणीतानां ग्रन्थानामुपरि प्रद्वेषपक्षपातित्वं महीयांसं विस्मयमुत्पा- दयति । यथा चास्याकारणविद्वेषित्वं तथा चितमीमांसाखण्डनरसगङ्गाधर- ।

मूर्तिपूजनम् । योस्तव्याख्ययोश्च नागेशभट्टप्रणीतयोविलोकनेन स्फुटीभवति । न चैतावता श्रीमद्दीक्षितविरचितानां प्रवन्धानां सर्वथा निर्दोषत्वमित्यस्माकमभिमान इति बोद्धव्यम् । तथापि युक्तिवादमात्रमनवलम्ब्य केवलं द्रविडशिशुप्रभृतीनां आम्यजनमात्रप्रयोज्यानां शद्वानां पण्तिरायसदृशेन पण्डितकुलमण्डनेन नि शेषशास्त्रपारदृश्वसु श्रीदीक्षितचरणेषु प्रयोग : कथङ्कारं युज्यत इति वदन्तु पण्डिता एव । भवतु न चिरादेव श्रीजगन्नाथनीवनवृत्ते सविस्तर- मेतद्विचारयिष्यामः। एवमेष यावल्लाभमुपद्धत : श्रीदीक्षितचरणानां जीवनवृत्तान्तो रसिकेभ्य इति शिवम् । मूर्तिपूजनम् । [ पर्वतोऽनुवृत्तम्] अत्रैवं केचन संशयीरन्---न किल गुरुप्रतिमाया ईश्वरप्रतिमायाश्च सादृश्यं कथंचिदप्यापादयितुं शक्यम् । गुरुप्रभृतयो हि प्रत्यक्षीकृता इति शक्यते निश्चेतुं तेषामेवेयं प्रतिमेति । अभिज्ञातायां च तत्प्रतिमायां साह- जिक एवादरोन्मेष : । कथं पुनरतीन्द्रियस्थापीश्वरस्यैवेयं प्रतिमेत्यवबोद्धव्यम्। अनभिज्ञातायां च तस्यां कथं वा समुदयतामादर इति । अनोच्यते । अवितथं किलतदायुप्मता प्रोक्तं परं यान्भवान् जन्मनः प्रभृति सकृदपि नावेक्षितवांस्तेषामेव प्रबन्धमात्रेणावगतगुणानां केषाञ्चिद्भवद्भूदेवानां यूरो- पीयानां प्रतिमासु किमिति भवानादरातिशयमाविष्कुरुते । किं च विदे- शीयानां तेषामेवेयं प्रतिमेति निर्णेतुमस्ति साधनं भवत: । सन्तु नाम ते ये खल्विदानी गतेन श्रीमता विलोकितुं शक्या: । ये पुनः शतशोऽपि वत्सरेभ्य: प्रागेव समुद्भता न शक्यन्ते कथंचिदपीदानी प्रत्यक्षीकर्तुं तेषां तु प्रतिमानामभिज्ञाने किंवा प्रमाणं भवानङ्गी- कुर्यात् । यदि तु तत्राप्तानां वचनं प्रबन्धा वा प्रमाणमिति ब्रूषे तदा ब्रूहि किमपराद्धं वेदेन यदयं परमेश्वरस्य प्रतिमां व्याचक्षाणोऽपि न संस्कृतचन्द्रिका। प्रमाणीक्रियते । यो हि यज्जानाति स एव तत्र प्रमाणीकर्तव्य : अत एवाती- न्द्रियेथेषु येषां न प्रसरति वैभवं बुद्धेर्न किल तेषां वचनानि प्रतिमापूज- नसदृशेषु जटिलतमेपु विषयेषु प्रमाणपदवीमारोपयितुमर्हन्ति । तत्र त्वना- दित्वादीश्वरप्रणीतत्वाद्वा वेदा एवं प्रमाणं वेदकल्पानि वा मनुप्रभृतीनामा- प्तानां वचनानि । तथा चाहु : सांख्या : सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् । तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् ॥ इति ॥ वेदस्य च यथाऽपौरुषेयत्वमीश्वरप्रणीतत्वं वा तथा प्रतिपादितमेव सर्वेष्वपि दर्शनशास्त्रेषु । तच्चात्र न प्रासङ्गिकमित्युपेक्ष्यते । तस्य च सार : श्रीमद्भगवत्पूज्यपादाचार्यैः प्रावोचि वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया । भवति हि परं प्रमाणम् ॥ इति ॥ तद्वेदवचनैः स्फुटीकृता वा तन्मूलकस्मृतिभिः प्रतिपादिता वा पुराण- वचनैस्तथाविधैरुपदिष्टा वा भगवतो मूर्तीनिर्माय निर्माप्य वा तत्पूजनं नाशास्त्रीयं न वाऽसामञ्जस्यविलसितं प्रत्युतात्मन: कर्तव्यस्यैवानुष्ठान- मित्याकलयामः । यदि तु स्मृत्यादिप्रतिपादितानां मूर्तीनां नासायेत मूलं वेदवचनं तथापि तत्रानुमितश्रुतिवचनमवश्यमभ्युपेतव्यम् । तथा चोक्तं मीमांसादर्शने जैमिनिना विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानमिति । यदि श्रुतिस्मृत्योविरोधो दृश्येत तदा स्मात वचनमनादरणीयम् । यदि तु तत्र वेदवचनमेव नोपलम्येत तदा तदनुमातव्यं न तु निर्मूलेति स्मृतिरुपे- क्षणीयेत्यर्थः । स्मृतिवदेव व्यवस्था पुराणानाम् । + + + ९ आप्तलक्षणं तु गौडपादाचार्याः प्राहु :- आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयात्विसंभवात् । इत्यारभ्य ॥ स्वकर्मण्यभियुक्तो यः सङ्गद्वेषविवर्जितः । पूजितस्तविधैनित्यमाप्तो ज्ञेयः स तादृशः ॥ इति ॥ ।

मूर्तिपूजनम् । १२९ ननु न क्वाऽपि दृश्यते वर्णनं मूर्तीनां तत्किमिति निर्मूलो मूर्तिपूजना- चार : स्वीकरणीय इति न वक्तव्यम् । न ह्ययं वेदादिवचनानां दोषो यदेतानि भवतो नयनगोचरतां नापद्यन्ते । दोपस्त्वयमनाघातवेदादिवचनस्य नूनं भवत एवेति ब्रूमः । विलसितं वा तदेतद्भवतो विशालतमाया : प्रज्ञाया : । अन्धस्यैव ह्ययं दोषो यदस्य वस्तुजातानि न दृग्गोचरतामु. पयान्ति न पुन : पदार्थजातस्य । एवमेवेदम् । ननु कानि तानि श्रुत्यादि- वचनानि येषु देवानां मूर्तयः प्रतिपाद्यन्त इति चेच्छ्यताम् कथयामि । अत्र त्वेतदतबोद्धव्यं यदल्पमतयो वयं न किल शक्नुम : सर्वानपि वेदान्पठि- तुमतो यावदृष्ट केषांचिद्वचनानामुपन्यासं कर्तुमिच्छामः । एतावताऽपि स्थालीपुलाकन्यायेनापरेषामपि देवानां मूर्तिवर्णनं वेदेऽनुमातव्यम् । तत्र तावच्छ्रीशिवस्य प्रतिमोपवर्णिता वेदे । यथा-( ऋ० मं० १ अ० १६ स० ११४) इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः।१ अत्र सायनभाष्यतात्पर्यम्--तस्मै रुद्राय इमा मती : स्तुती : प्रभरामहे प्रकर्षण निप्पादयाम: । कीदृशाय तवसे प्रवृद्धाय कपर्दिने जटिलाय क्षयद्वीराय क्षयन्तः प्राप्तैश्वर्या वीरा मरुद्गणाः पुत्रा यस्य तस्मै । इति । तथा तत्रैव ७३।४६ इमा रुद्राय स्थिरधन्वने क्षिप्रेषवे देवाय स्वधाने। अपाळाय सहमानाय वेधसे तिग्मायुधाय भरताशृणोतु नः॥२ ( सा० भा० ता० ) हे अस्मदीया : स्तोतार : यूयं इमा गिर : स्तुतीः रुद्राय एतन्नामकदेवाय भरत धारयत । कीदृशाय । स्थिरधन्वने दृढधनु- प्काय क्षिप्रेषवे शीघ्रगामित्राणाय स्वधाने अन्नवते अपाळाय केनाऽप्यन- भिभूताय सहमानाय शत्रूणामभिभवित्रे वेधसे विधाने तिग्मायुधाय तीक्ष्णा- युधाय । स च रुद्र : न : अस्मदीया : स्तुती : शृणोतु ।

संस्कृतचन्द्रिका। एवं यजुष्यपि रुद्राध्याये नीलग्रीवो विलोहित ॥ इति ।। ३ याते रुद्र शिवा तनूरघोरा पापकाशिनी ॥ इति ॥ ४ नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ॥ ५ अत्र प्रथमस्यामृचि भगवतो रुद्रस्य कपर्दित्वं तृतीयस्यां नीलग्रीवत्वं चतुर्थ्यां मङ्गलमूर्तिमत्वं पञ्चम्यां बाहुशालित्वं च प्रतिपाद्यमानं विस्पष्टयति प्रतिमा भगवतस्तस्य । किं च यो धनुर्धारयति यस्य च क्षिप्रगामिनो बाणा इत्याख्यायते तस्यैव नास्ति मूर्तिरिति को वा मनस्वी स्वीकुर्यात् । लोकेऽपि भगवतो महादेवस्य नीलग्रीवत्वं जटावत्वं चोपवर्ण्यत एव । अत एव न किल जानीम ः कथं वा नास्ति वेदे मूर्तिप्रतिपादनमिति वच: श्रद्धेयतामापद्यत इति । एवं भगवतो विष्णोरपि प्रतिमा श्रूयते वेदे । यथा-- इदं विष्णुर्विचक्रमे बेधा निधे पदम् । समूळमस्य पांसुरे॥ ता०) विष्णुस्त्रिविक्रमावतारधारी इदं जगदुद्दिश्य विचक्रमे विशेषेण पादक्रमणं कृतवान् । त्रिधा त्रिभिः प्रकारैः पादं निदधे स्वकीयं पादं स्थापितवान् । अस्य विष्णो : पांसुरे धूलियुक्तेपादस्थाने समूहळं इदं सर्वं जगदन्तर्भूतम् । एकेनाप्यतेन वचनेन सिध्यति भगवतो मूर्तिमत्वं विष्णोः पदयुक्तः पदानि निदधानश्च यः स किल नैव मूर्तिमानिति कथं कश्च वा स्वीकुर्यात् । किं चास्येन्द्रेण सह सख्यमपि तत्रैव प्रतिपाद्यते इन्द्रस्य युज्यासखा इति । एवं विष्णुगोपा अदाभ्यः इति सकलजगत्पालकत्वमनभिभवनी- यत्वं चोच्यते । न चाप्येवमुपवर्णितस्य मूर्तिशून्यत्वं कथंचिदपि सिद्धान्त- यितुं शक्यम् । तदवश्यं स्वीकार्यमस्ति विष्णोरपि मूर्तिमत्ववचनं वेद इति । सा० भा० ता. .. .

कृतज्ञता। प्रतिपाद्यते च भगवतः सूर्यस्यापि मूर्तिराम्नाये । यथा च लोके स सप्ताश्वरथारूढ इत्युच्यते यथा च तदीयानामश्वानां हरिद्वर्णत्वमाख्यायत एवमेव श्रूयते वेदे । तथाहि---(ऋ. मं १ अ. ९ सू. ५०० ) अयुक्त सप्तशुन्ध्युवः सूरो रथस्य नत्यः ताभिर्याति स्वयुक्तिभिः । ( सा. भा. ता. ) सूरः सूर्यः शुन्ध्युवः शोधिकाः अश्वस्त्रियः तादृशीः सप्त सप्तसंख्याकाः ।अयुक्त स्वरथे योजितवान् । कीदृश्यः । रथस्य नप्तयः न पातयिभ्यः । याभियुक्ताभिः रथो याति न पतति तादृशीभिः ।। इति ॥ रवेरश्वानां हरिद्वर्णत्वं तु भद्रा अश्वा हरितः सूर्यस्येति सौरसूक्ते स्पष्टम् । सप्त त्वा हरितो रथे वहन्ति देव सूर्य इत्यन्यत्र च श्रूयते । तसिध्यत्येव भगवतो भानोमूर्तिमत्वं वेदानुसारेणेति प्रमाणमेव वचः केषां- चिदभियुक्तानाम् । अत एव सप्ताश्वरथमारूड इति ध्यायते भगवान्मा- नर्वेदिकमतानुयायिभिः । क्रमशः। कृतज्ञता। सहदयग्राहका: विरला : खलु महाशया आत्मानमिव परानपि पश्यन्ति बिरला एव च सनातनं धर्ममुद्धत् प्रयतमानास्तत्रात्मनो हानिमपि संवृत्तां न गणयन्ति विरलाच जनपदसमुद्धरणाय निबद्धपरिकरा: समुपनतं दैवदुर्विपाकान्महीयांसमपि दुःखमनुभ्य न त्यजन्ति क्षणमप्या- त्मनो व्यवसायम् । एवं विधैश्च महाभागै : संघटितः क्षणमपि संसर्गो भूयिष्ठं भावयति भव्यं भुवने । किं पुनश्चिरायाशिथिलं च संघटितः ।

संस्कृतचन्द्रिका। ये खल्वत्र विरला इत्यस्मन्मतं तेप्वेवान्तर्भवितुमर्हति तत्रभवान्कल्याण- भाजनममन्दव्यवसायो विविधविद्याविलासिनीविहारवैभवविभूषितः श्रीमा- न्मोदवृत्तयन्त्रालयाध्यक्ष आर्यधर्मरहस्यार्यधर्मदर्पणमोदवृत्तादीनां सम्पादकः काशीनाथशास्त्रिमहाशयः । विदितमेवेदं संस्कृतचन्द्रिकाग्राहकाणां यत्को- ल्हापुरमुपागता संस्कृतचन्द्रिका वाईक्षेत्रे श्रीकाशिनाथशास्त्रिण : प्रशस्यतमं संश्रयमाप्तवतीति । तथाभूतायाश्चैतस्याः पञ्चमास्युत्तर एको वत्सर : समतीतः । कं वा नानीजन्मोदमेतद्वृत्तं यत्संश्रितः संस्कृतचन्द्रिकया मोदवृत्ताध्यक्ष इति । केन वा ततःप्रभृति नास्यामुद्रणसौष्ठवमवर्णि । सर्वथा मोदवृत्तसम्पादकमवलम्ब्य प्रकाशमाना खल्वेषा कामप्यावहदक्षरविभूतिम् । नूनं तत्र मुद्यमाणायामेतस्यामात्मनःप्रियतमभ्योपि व्यवसायेभ्यः समधिक- तरं व्यधासीत्नेह सम्पादको मोदवृत्तस्य । किन्तु दूरतरं कोल्हापुराद्वाईक्षेत्रमतः संभवत्यामात्मनः सामध्ये मुद्रण- व्यवस्थायां न परोक्षे तस्या निष्पादनं युक्तमिति विभाव्याकलय्य चास्या : कुतोऽपि केषांचिन्महोदाराणां ग्राहकमहाभागानां करुणानिवन्धनं दैवविपाकं गत्यन्तराभावात्सांप्रतं कोल्हापुर एव श्रीसमर्थप्रसादनाम्नि यन्त्रालये मुद्रयितुमुपाक्रमे । नूनमेष सुदुःसहो मोदवृत्तविरहः संस्कृतचन्द्रिकायाः । किन्त्वाशास्महे समाश्रयमुपागतेयं कथञ्चिदीप समुत्तरिष्यति गुरुतर- मपि सद्वियोगदुःखमिति । अतःपरं कोल्हापुर एव सरपि ग्राहकैर्मूल्यादिकं मेर्यम् । मोदवृत्तसम्पादकसमीपे प्रेरिते हि तस्मिन्नत : परं निरर्थको धनप्रापणा- शुल्कव्ययः सम्पद्यतेति प्रार्थ्यते । अन्ते च श्रीकाशिनाथशास्त्रिमहाशयेभ्यः सहस्रशो धन्यवादानुद्घोप्य महाभागा : समेधतामनुदिनमधिकाधिक चान्द्रकायां प्रेम यथा चायमतिकुःसहो भवद्विरहो नैनां व्याकुलीकुर्यात्तथा संस्मर्यतां सम्भाव्यतां च तपस्विन्येषेति च सविनयाञ्जलिबन्धं सानुरागो- न्मेषं च तान्सम्बायते । सर्वथा हि चिरकृतज्ञा : स्म एतेषु । इति शिवम् ।

श्रीशिवराजविजयः। श्रीशिवराजविजयः । स्वागत- (पूर्वतोनुवृत: ) तस्मिन्पर्वते आसीदेको महान्कन्दरस्तस्मिन्नेव महामुनिरेकः समाधौ तिष्ट- तिस्म । कदा स समाधिमङ्गीकृतवा निति कोऽपि न वेत्ति । ग्रामणीमा- मीणग्रामीः समागत्य मध्ये तं पूजयन्ति प्रणमन्ति स्तुवन्ति च । तं केचि- कपिल इत्यपरे लोमश इतीतरे जैगीषव्य इत्यन्ये च मार्कण्डेय इति विश्वसन्ति स्म । स एवायमधुना शिखरादवतरन्ब्रह्मचारिबटुभ्यां दृष्टः । अहो प्रबुद्धो मुनिः प्रबुद्धो मुनिरित एवागच्छति सत्कार्योऽयं सत्कार्योऽयमिति तौ सम्भ्रान्तौ बभूवतु : । अथ समापितसन्ध्यावन्दनादिक्रिये समायाते गुरौ तदाज्ञया नित्यनि- यमसम्पादनाय प्रयाते गौरबटौ छात्रगणसहकारेण प्रस्तुतामु च सामग्रीषु इत आगम्यतां सनाथ्यतामेष आश्रम इति सप्रणाममभिगम्य वदत्सु निखिलेषु योगिराज आगत्य तन्निर्दिष्टकाष्ठपीठं भावानिवोदयगि- रिमारुरोह उपाविशच। तस्मिन्पूज्यमाने योगिराडुत्थित इत्यायात इति चाकण्य कर्णपरम्प- रया बहवो जनाः परितः स्थिताः सुघटितं शरीरं सान्द्रां जटां विशाला- न्यङ्गान्यङ्गारप्रतिमे नयने मधुरां गम्भीरां च वाचं वर्णयन्तश्चकिता इव संजाताः । अथ योगिरानं सम्पूज्य यावदीहितं किमप्यालपितुं तावत्कुटीरादश्रूयत तस्या एवं बालिकायाः करुणरोदनम् । ततः किमिति कुत इति केयमिति च पृच्छापरवशे योगिराजे ब्रह्मचा- रिगुरुणा बालिकां सान्त्वयितुं श्यामबटुमादिश्य कथितम् । १ प्रामाधिपानां ग्रामनिवासिनां जनानां च समूहाः ।

१३४ । संस्कृतचन्द्रिका! भगवन् श्रूयतां यदि कुतूहलम् । य: सम्पादितसायन्तनकृत्येऽत्रैव कुशास्तरणमधिष्टिते मयि परितः समासीनेषु च्छात्रवर्गेषु धीरसमीरस्पर्शन मन्दमन्दमान्दोल्यमानासु व्रततीपुं समुदिते यामिनीकामिनीचन्दनविन्दावि- वेन्दौ कौमुदीकपटेने सुधाधारामिव वर्षति गगनेऽस्मन्नीतिवाती शुश्रूषुप्विव मौनमाकलयत्सु पतगकुलेषु कैरवैविकाशहर्षप्रकाशमुखरेषु चञ्चरीकेषु अस्पष्टाक्षरं कम्पमाननिश्वासं श्लथत्कण्ठं घर्षरितस्वनं चत्किारमात्रं दीन- तामयमत्यवधानश्रव्यत्वादनुमितदविष्ठतं क्रन्दमश्रौषम् । तत्क्षणमेव च कुत इदं किमिदामिति दृश्यतां ज्ञायतामित्यादिश्य च्छात्रेषु विसृष्टेषु क्षणानन्तरं छात्रेणैकेन भयभीता सवेगमत्युष्णं दीर्घ च निःश्वसन्ती मृगीव व्याघ्राघाताऽश्रुप्रवाहैः स्नाता कन्यकैकाङ्के निधाय समानीता। चिरान्वेषणेनापि तस्याः सहचरी सहचरो वा न प्राप्तः । तां चन्द्रक- लयेव निर्मितां नवनीतेनेव रचितां मृणालगौरी कुन्ददतीं सक्षोभं रुदतीमव- लोक्यास्माभिरपि न पारितं निरोद्धं नयनबाष्पाणि । अथ कन्यके मा भैषीः पुत्रि त्वां मातुः समीपे प्रापयिष्यामः दुहितः खेदं मा वह भगवति भुक्ष्व किंचित् पिब पयः एते तव भ्रातरो यत्क- थयिष्यसि तदेव करिप्यामो मा रोदनैः प्राणान्संशयपदवीमारोपय मा स्म कोमलमिदं शरीरं शोकज्वालावलीढं कार्षीरिति सहस्त्रधा बोधेन कथमपि संबुद्धा किंचिदुग्धं पीतवती। ततश्च मया कोडे उपवेश्य बालिके कथय व ते पितरौ कथमस्मि- नाश्रमप्रान्ते समायाता किन्ते कष्टं कथमरोदी : किं वाञ्छसि किं कुर्म इति पृष्टा मुग्धतयाऽपरिकलितवाक्पाटवा भयेन विशिथिलवचनविन्यासा लज्जयाऽतिमन्दस्वरा शोकेन रुद्धकण्ठा चकितचकितव कथंकथमप्यबोध- ४ अमरेषु । १ लतासु। २ मिषेण । ३ कमलविशेषाः कैरवाख्याः । ५ कोड: शना सूकरे ना न पुमानंकरक्षसेरिती मेदिनी ।

श्रीशिवराजविजयः। यदम्मान्यदेषाऽस्मिन्नदीयस्येव ग्रामे वसतः कस्यापि ब्राह्मणस्य * यास्ति । एनां च मुन्दरीमाकलय्य कोऽपि यवनतनयो नदीतटान्मातु: हस्तादाच्छिद्य क्रन्दन्ती नीत्वाऽपससार। तत: कञ्चिद्ध्वानमतिक्रम्य यावदसिधेनुका सन्दर्य विभीषिकयाऽस्या : क्रन्दनकोलाहलं शमयितुमि- येष तावदकस्मात्कोऽपि कालकम्बल इव भल्लूको वनान्तादुपाजगाम । दृष्ट्वैव यवनतनयोऽसौ तत्रैव त्यक्त्वा कन्यकामिमां शाल्मलितरुमेकमारुरोह विप्रतनया चेयं पलाशलाशिश्रेण्यांप्रविश्य घुणाक्षरन्यायेनेत एव समा- याता यावद्भयेन पुना रोदितुमारब्धवती तावदस्मच्छात्रणेवानीतेति । तदाकर्ण्य कोपज्वालाज्वलित इव योगी प्रोवाच विक्रमराज्येऽपि कथ- मेष पातकमयो दुराचाराणामुपद्रव इति। ततः स उवाच महात्मन्क्वाधुना विक्रमराज्यम्। वीरविक्रमस्य तु भारतभुवं विरहय्य गतस्य वर्षाणां सप्तदशशतकानि व्यतीतानि। वाधुना मन्दिरे मन्दिरे जयध्वनि : क्व सम्पति तीर्थे तीर्थे घण्टाबोष : वाद्यापि मठे मठे वेदाध्ययनम् । अद्य हि वेदा विच्छिद्य वीथिषु विक्षिप्यन्ते धर्मशास्त्राण्युङ्ख्य धूमध्वजे ध्मायन्ते पुण्यानि पिष्ट्वा पानीयेषु पात्यन्ते भाप्याणि च भ्रंशयित्वा भ्राप्ट्रेषु भय॑न्ते । कचिन्मन्दिराणि भिद्यन्ते क्वचित्तुलसीवनानि च्छिद्यन्ते क्वचिद्दारा अपहि- यन्ते क्वचिद्धनानि लुण्ट्यन्ते क्वचिदार्तनादा : क्वचिद्रुधिरधारा : क्वचिदग्नि- दाह : क्वचिद्गृहनिपात इत्येव श्रूयतेऽवलोक्यते च परितः । तदाकर्ण्य दुःखितश्चकितश्च योगिराडवाच-कथमेतत् ह्य एवं पार्व- तीयाञ्छकान्विनिर्जित्य महता जयघोषेण स्वराजधानीमायात : श्रीमानादि- त्यपदलाञ्छनो वीरविक्रम : । अद्यापि तद्विजयपताका मम चक्षुषोरयत इव समुद्ध्यन्तेऽधुनापि तेषां पटहानक गोमुखानां निनाद : कर्णशष्कुलीं पूयतीव तत्कथं कथयथ वर्षाणां सप्तदशशतकानि व्यतीतानीति । *वस्तुतस्तु न ब्राह्मणतनया किन्तु ब्राह्मणमेव पितरं जानती तदने स्फुटाभविष्यात वस्तुत एषा मातृविहाना किन्तु यां मातेति जानाति तद्रस्तादिति तात्पर्यम् । २ खंजीर इति लोके । ३ पलाशी वृक्ष: । ४ अग्निषु । ५ भर्जनपानेषु संस्कृतचन्द्रिका। तत: सर्वेषु स्तब्धेषु चकितेषु च ब्रह्मचारिगुरुणा प्रणम्य कथितं भगवन्न- दसिद्धासननिरुद्धीन :श्वासै: प्रबोधितकुण्डलिनीकैविजितदशेन्द्रियैरनाहत- नादतन्तुमवलम्व्याज्ञाचक्रं संस्पृश्य चन्द्रमण्डलं भित्वा तेज:पुजमविग- णय्य सहस्त्रदलकमलम्यान्त : प्रविश्य परमात्मानं साक्षात्कृत्य तत्रैव रममाणैमृत्युञ्जयैरानन्दमात्रस्वरूपानावस्थितैर्न ज्ञायते कालवेग : । तस्मिन्समये भवता ये पुरुषा अवलोकितास्तेषां पञ्चाशत्तमोऽपि पुरुषोऽधुना नावलोकयिप्यते । अद्य न तानि स्रोतांसि नदीनां न सा संस्था नगराणां न साऽऽकृतिगिरीणां न सा सान्द्रता विपिनानाम् । किमधिकं कथयामो मारतवर्षमधुनाऽन्यादृशमेव सम्पन्नम् । इदमाकर्ण्य किंचित्स्मित्वेव परितोऽवलोक्य च योगी जगाद-सत्यं न लक्षितो मया समयवेग : । यौधिष्ठिरे समये समाहितोऽहं वैक्रमे समय उदस्यां पुनश्च वैक्रमे समये समाधिमाकलय्यास्मिन्दुराचारमये समये समुत्थितोऽस्मि । अहं पुनर्गत्वा समाधिभेव कलयिष्यामि किन्तु तावत्सं- क्षिप्य कथ्यतां का दशा भारतवर्षस्येति । तत्संश्रुत्य भारतवर्षीयदशासंस्मरणजातशोको हृदयस्थप्रसादसंभारो- द्विरणश्रमेणेवातिमन्थरेण स्वरेण मास्म धर्मध्वंसनघोषणैर्योगिराजस्य धैर्य- मवधीरयेति कण्ठं रुन्धतो बाप्पानविगणय्य नेत्रे प्रमृज्योष्णं निःश्वस्य कातराम्यामिव नयनाम्यां परितोऽवलोक्य च ब्रह्मचारिगुरु : प्रवक्तुमारभत । भगवन्दम्भोलिघटितेयं रसना या दारुणदानवोदन्तोदीरणैर्न दीर्यते । लोह- सारमयं हृदयं यत्संस्मृत्य यावनान्पर :सहस्रान्दुराचाराञ्छतधा न भिद्यते भस्मसाच्च न भवति । धिगस्मान्येऽद्यापि जीवामः श्वसिमो विचराम आत्मन आर्यवंश्यांश्चाभिमन्यामहे । उपक्रममिममाकर्ष्यावलोक्य च मुनर्विमनायमानं हरिद्राद्रवक्षालितमिव वदनं निपतद्वारिबिन्दुनी नयने अञ्चितरोमकञ्चुकं शरीरं कम्पमानमधरं भज्यमानं च स्वरमवागच्छत् सकलानर्थमयः सकलपापमयः सकलवञ्चना- ।

कान्यकुजलीलामृतम् सदैव शुक्लारुणपीतवर्ण- पाटीरपाहतसर्वभाल । आभूतलालम्बिदुकूलधारि- न्हे कान्यकुब्ज द्विज ते नमोऽस्तु ॥१॥ बहान गायन्ति यशस्त्वदीयं पत्राणि* ते वंशधरैः कृतानि । एकस्य तन्ये मितभाषिणस्त्व- मिदं क्षमस्व स्तवचञ्चलत्वम् ॥२॥ भवन्ति ते धन्यतमा द्विजा ये त्वदीयसम्बन्धमवामुवन्ति । व्रजन्ति ते ब्रह्मपदं तथान्ते त एव वंशं निजमुनयन्ति ॥३॥ अहो दयालुत्वमतः परं किं यथेहितं यद्दविणं गृहीत्वा । निन्धानपि त्वं विमलीकरोषि तदीयकन्याकरपीडनेन ॥४ स्वगोलजानेव यदा सदा त्वं किं धाकर स्तरित विक्करोषि । तदाऽन्यजातीयजनास्त्वदीयाः के नाम वन्धैरपि वन्दनीयाः ॥५ शास्त्रीयवातासु भवत्यहो ते मुखे रसज्ञा किल कीलितेव । * समाचारपत्राणि धाकरः प्राकृतसंज्ञाविशेषः १३८ संस्कृतचन्द्रिका। स्थिते तु वैवाहिकभाषणे त्व- माविष्करोष्यद्भुतवाक्पटुत्वम् ॥६ शेषस्तदा किं रसनासहस्त्र स्वीयं महीदेव ददाति तुभ्यम् । येन त्वदुक्तिपरवरप्रवाहै- स्तिरस्क्रियन्ते बहु वाग्मिनोऽपि ॥७ मन्ये तदैव त्वयि वासवोऽपि न्यासीकरोत्यक्षिचयं स्वकीयम् । न चेन्निमेषेण कथं परेषा दोषानसंख्यांश्च समीक्षसे त्वम् ॥८ कन्याविवाहे समुपस्थिते त्व- मृणं गृहाभूषणविक्रयं च । कृत्वा कृतार्थ मनुषे नृजन्म विलक्षणौदार्यमिदं त्वदीयम् ॥९ पुनः पुनः पुत्रवधूपितुश्च धनानि हृत्वाऽपि धरासुरेन्द्र । निरन्तरं तस्य कदर्थनायां न शोभते ते रसनोपयोगः॥१० गुणान्वितं द्रव्ययुतं विहाय हा भूसुर त्वं कुलपक्षपातिन् । मूर्खाय निःस्वाय वराय कन्यां भदाय तज्जन्म वृथाकरोषि ॥११ किं विद्यया किं तव कर्षणेन व्यापारवृत्त्या किमु चापि भृत्या । जयत्यहो स श्वशुरालयस्ते त्वं कल्पवृक्षीयसि यं सदैव ॥१२ निः शेषनिन्धव्यसनेषु नित्यं शनैः शनै शितवित्तजातः।

कान्यकुब्जलीलामृतम् । चिरेण जागर्षि चमत्कृतः सन् विद्राव्य दीर्घालसघोरनिद्राम् ॥१३ योन केनापि तदा कथंचित् करोषि कष्टेन वयोऽतिपातम् । तथापि हाहा न जहास शुष्कं गभीरगर्व वरवंशजातम् ॥१४ अलं विवाहादिविधिस्तवेन हे कान्यकुब्जावनिदेव देव। अतः परं पश्य निजान्यलीलां श्रुतिस्मृतिस्थापितधर्मशीलाम् ॥१५ ते वाजपेयादिसवाः कृतास्तै- रेकदिवारं तव पूर्वजैस्तु । पारावतच्छागलमत्स्यमेधा मखा गृहे ते प्रभवन्त्यनेकाः ॥१६ स्वभ्रातगेहेऽपि यदाऽप्रसन्नः पानीयपानेऽपि शिरो धुनोषि । वेश्याजनस्याप्यधरामृतेन कृतार्थतां यासि यदाऽसि तुष्टः ॥१७ समाजमुख्यास्तव य सभासु तेषां चरित्रं भुवनातिशायि । विहाय कांश्चिद्रणयन्ति नान्यां- स्ते कान्यकुब्जद्विजनामयोग्यान् ॥१८ विशिष्टविद्यापरिशीलनेन बुद्धर्विकाशो भवतीति नीतिः । एषामहो त्वद्विदुपामुदार- भावः परं सहन्छुचतीव भाति ॥१९

संस्कृतचन्द्रिका ।
नैवं करिष्यामि वृथान्ननाशं
नैवं अहिष्यामि धनं विवाहे ।
उच्चैरिति त्वं परिषत्सु नित्यं
करोषि भूदेव दृढां प्रतिज्ञाम् ॥२०
परन्तु तत्तत्रियमावलीनां
निवेश्य पलं गृहपेटिकायाम् ।
उपस्थिते विभ विवाहकाले
सर्व क्षणाद्विस्मरसीति चित्रम् ॥२१
अध्यक्षतां किंबहुना त्वदीयां
गृणान्ति ये तेऽपि तदा पलाय्य ।
स्वलम्बिलालमितस्ततश्च
गृहन्ति भीता इव भो द्विजेन्द्र ॥२२
अपव्ययस्ते भवति द्विजेश
किं नातिनिन्धव्यसनेषु नित्यम् ।
परं स्थिते सर्वसमाजकार्ये
पुरस्त्वमङ्गुष्टशिरः करोषि ॥२३
त्वयि प्रसन्ने च तथाऽप्रसन्ने
हानिः समाना भवति द्विजानाम् ।
तुष्टः समाकर्षसि वित्तराशि
रुष्टो व्यथां त्वं हृदये ददासि ॥२४
मृगेन्द्रतां यल्लमते बलेन
सिंहो वने तत्तु यथार्थमेव ।
कुतस्तदा विष बदत्वमेव
महीसुरेन्द्रत्वमिदं त्वयाप्तम् ॥२५
का नाम सन्ध्या प्रणवोऽपि सम्यङ्-
नोच्चार्यते ते स्वजनैरनेकः ।
।

कान्यकुब्जलीलामृतम् । महीसुरश्रेष्ठ बलात्तथापि स्वश्रेष्ठतां त्वं विजहासि नैव ॥२६ तदस्ति कि त्वं कथय द्विजेन्द्र मूर्वोऽपि सन्स्थापयसीह येन । निजोचतामन्यमहीसुरेभ्यः खगोलजेभ्योऽपि विवाहकाले ॥२७ यशः पवित्रं निजपूर्वजानां विभाव्यते किं भवता सगर्वम् निवेदय त्वं शपथेन तेषां के के गुणा आत्मनि संगृहीताः ॥२८ त्वं नाममात्रग्रहणेन तेषां श्रीहर्षमिश्रादिमहाजनानाम् । समीहसे पूज्यपदं ग्रहीतु- महो विमोहस्य विजृम्भणं ते ॥२९ आस्ते यथोक्तैव दशा त्वदीया सथापि केचिद्भुवि कान्यकुब्जाः। सन्त्येव शुद्धाचरणाश्च येषां सन्दर्शनं पुण्यकरं नराणाम् ॥३० आस्तामिदं तत्तव लीलयाऽलं पारं व्रजेत्कः कथनेन तस्याः। अतोऽधुना साञ्जलिवन्धमेत- घदुच्यते तच्छृणु भूसुरेन्द्र ॥३१ दिनानि ते तानि गतानि नातः शुष्काभिमानेन सुवंशजेन। भविष्यति त्वत्कुशलं कदापि विचिन्तयान्तःकरणे त्वमेव ॥३२ त्यजालसं शीलय विम विद्या विधेहि दुष्टव्यवहारनाशम् ।

संस्कृतचन्द्रिका।
उदारतां बन्धुषु दर्शय त्वं
कुरुष्व कार्य सुजनादृतं च ॥३३
महत्वमायाति हि मानवेषु
सुविद्ययैवान
मनुः प्रमाणम् ।
मन्दादरस्तद्वचने यदि त्वं
तदा न किं हन्त हतः स्वधर्मः ॥३४
मत्संमुखेऽसौ किल कः पदार्थों
विभावनेयं भवतश्व माऽभूत् ।
यदस्ति किञ्चिद्वदने मदीये
ग्राह्यं गृहाण त्यज सर्वमन्यत् ॥३५
त्वत्कीर्तिगाने चरितामृतस्य
पाने रता विप्र पुराविदोऽपि ।
जानन्ति के नो तव सप्रमाणं
यशः पुराणादिषु वर्ण्यमानम् ॥३६
न विस्मरातश्चरितं पवित्रं
शाण्डिल्यकात्यायनकाश्यपानाम् ।
अद्यापि विद्याविभवेन येषां
विभूष्यते भारतभूमिखण्डः ॥३७
किं विस्तरेण बहुनेति हृदि प्रधार्य
हे कान्यकुब्जमहिदेव नमस्करोमि ।
स्वस्यैव मामपि कुलस्य करीररूपं*
जानीहि सादरमयं विनयो मदीयः॥३८
इति
महावीरप्रसादद्विवेदिनः ( झांशी.)
वंशाङ्कुररूपमित्यर्थः।

समालोचना। सानन्दमझीकारः। पण्डितलक्ष्मीनारायणशिवप्रसादेन जयपुरात् प्रेरितं वसन्तशतकं प्राप्तम् । तत्सानन्दमझीक्रियते । अचिरावतचन्द्रिकायां समालोचयिष्यामः । विद्योदयाख्यस्य संस्कृतमासिकपत्रस्यापि सप्तविंशतिवत्सरस्य दशम- संख्या प्राप्ता सप्रमोदमुररीक्रियते । । समालोचना। प्रबुद्ध भारतम् | Awakened India ] इंग्रेजीभाषामयं मासिक- पत्रमेतत् । अहो भाग्यमद्वैतविद्याया यदाधुनिका नव्यशिक्षिता अप्येता- मनुशीलयन्त्युपदिशन्ति च परेभ्यो नयन्ति च ब्रह्मानन्दमयत्वमन्तराणि विदेशीयानाम् । इंग्रेजीभाषया च प्रतिपाद्य भारतवर्षीयाणां विद्यारहस्यानि प्रकाश्य च तानि मासिकपत्रादिभिरपनयन्ति गाढं तमोऽज्ञानप्रभवम् । प्रबुद्धभारतमप्येतदेवंविधमेव । अनेन चायासमन्तरैवावबुध्येत भारतवर्षी- याणां प्रबुद्धत्वं विदेशीयैः । यथा रमणीनां सौन्दर्य च कुलीनत्वं च सौशील्यं चैकत्र समुदितमतिमात्रमानन्दयति मनो भर्तुरुत्पादयति चावि- नश्वरां प्रीतिमेवं मासिकपत्रिकाणामपि पत्राणां मनोहरत्वमक्षराणां हृदय- गमत्वं भाषायाश्च सौकुमार्यमिव प्रसन्नत्वं विषयाणां च प्रगल्भत्वं सत्स- म्पादकजन्यत्वं चेत्यादि । प्रकृतं तु मासिकपत्रं पूर्व सर्वथैवमेवासीत् । साम्प्रतं तु तस्याकृतिरक्षरविन्यास : पत्राणि च परिवृत्तानि । युक्तं चैतद्यदाह कालिदासः नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेणेति । प्राचीनो ह्यस्य सम्पादको ब्रह्मभूयं प्राप्तस्तेन चास्य महती हानिः संवृत्ता । यदेतत्पुरा मद्रविभागे प्राकाश्यत तत्सम्प्रति पश्चिमोत्तरप्रदेश प्रकाश्यते । तदस्य साम्प्रतं दूरगमनपरिश्रान्तस्येव म्लानिः कियन्तं कालमनुरूपैव । पूर्वमेतत्परस्यैव मुद्रायन्त्रऽमुद्यत सम्प्रति प्रबुद्धभारतं नाम मुद्रायन्त्रमेव संस्कृतचन्द्रिका। निर्मितम् । अतः खलु बलीयसी प्रत्याशा यत्पत्रिकेयमचिरादेव बाह्यांग- सौन्दर्येणापि प्रमोदयेद्रसिकानां मनासीति । श्रीविवेकानन्दस्वामिप्रभृतय- श्वास्या: सम्पादका इत्येतावैतवास्या विषयविन्यासादिष्वतिमनोहरत्वमनु- मातुं शक्यम् । तथाऽप्यचिरादेवेयमात्मन: पूर्ववैभवमवाप्यानन्दयताद्रा- हकाणां चेतांसीत्याशंसामहे । एतच्च ग्रहीतुमभिलप्यद्भिः पश्चिमोत्तर प्रदेशे [ N. W. P. ] अलमोडा [ Almora] नगरे प्रबुद्धभारत- कार्याध्यक्ष : पत्रेणज्ञाप्यः । अन्तरङ्गं त्वस्य पूर्ववन्मनोहरतममेव । सम्भाव्यते चातोऽधिकां मनोहरतां तदुपयास्यतीति ॥ श्रीमद्भगवद्गीतायाः समन्वयभाष्यम्--भाष्यमिदं कलिकातानि- वासिन्या नवविधानमण्डल्या उपाध्यायेन श्रीगौरगोविन्दशर्मणा पण्डितप्र- वरेण प्रणीय खण्डश उद्भास्यते । उपनतमस्मत्सविधेस्य खण्डद्वयम् । पुस्तकेऽस्मिन्स्थूलाक्षरैः श्रीमद्भगवद्गीतापद्यानि सूक्ष्माक्षरैश्च भाष्यं मुद्रितम् । प्राचीनाः किल तत्तन्मताचार्याः स्वस्वमतानुरोधेनेदं गीताशास्त्रं व्याचख्युः। तेन खलु पारमार्थिकोऽस्यार्थी दुरवबोध : संवृत्त इत्याकलय्य श्रीगौरगौवि- न्दरायमहाशयः कमपि सरलं पन्थानमवलम्ब्य शास्त्रमेतद्व्याचख्यौ । भाषासरणिरेतस्यातीव सरला सुबोधा सुमधुरा च । एतद्भाष्यावलोकनेन च प्रणेतु : सकलशास्त्रपारङ्गमत्वं वेदाब्धिपारदृश्वत्वं च पदे पदे स्फुटी- भवति । एतत्परं प्रमोदस्थानं यदाधुनिकैरपि शास्त्रिभिर्गीतासदृशानां सकल शास्त्ररहस्यभूतानामाम्नायकल्पानां प्रबन्धानां विवरणे प्रयास : क्रियते । अस्य चायं प्रयास ः प्रायेण सफलीभूत इति ब्रूमः । अधुनातनेष्वेवंविधं भाष्यं निर्मातुं सुविरला एवं प्रभवेयुः । क्वचित्तु श्रीशङ्करभगवत्पूज्यपादा- चार्यैः सहोद्भावितो विरोधो नैवास्माकं मन : प्रीणयति । विशेषतस्तु भाष्यमिदं चरमसंख्याप्राप्त्युत्तरं समालोचयिष्यामः । मनोहरं खल्वेत- दवश्यं संग्रात्यं जिज्ञासुभिरिति ब्रूमः । मूल्यादिकं चन्द्रिकाया मलपृष्ठे द्रष्टव्यम् । ܤ܀ श्रीशिवः शरणम्। ॥ संस्कृतचन्द्रिका ॥ ॥ श्रीगणेशाय नमः॥ शिवादीनपि कर्माणि कारयन्ती जनानिव । मायाऽवलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी ।। ॥ मासावतरणिका ॥ क्किासयति पङ्कजं वितनुते च शीतोगमं करोति विमलं जलं हरति च क्लमं कामिनाम् । निरासयति नीरदानयति विस्तरं चन्द्रिका विरावयति षट्पदानपि समागतः कार्तिकः ॥ उद्भटश्लोकाः । उत्पत्तिर्जलधौ तुपारशिशिरा कान्तिः क्लमच्छेदिनी वासो जनुसुताङ्गसङ्गशुचिनि स्थाणोर्जटाजूटके। एतस्मिंत्रितये तथापि न गतः सम्पूर्णतां चन्द्रमाः पुंसां सत्यमिदं न जन्म न गुणा नोपाश्रयः सम्पदे ।। ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः । सद्वेषोऽपि द्वेषनिर्मुक्तचित्तो धन्यो लोके जायते कापि कश्चित् ॥ * * ब्रह्मण्यो ब्राह्मणेभ्यो हितः । अपिविरोधे । ब्रह्मविनस्य ब्राह्मणद्रव्यस्य अपहारी चौर इति विरोधः । तस्य च ब्रह्मवित् तापहारीति पदच्छेदे परिहारः । विप्रयुक्तो विर- हीति विरोधो विप्रैर्युक्त इति परिहारः । सद्वेषो द्वेषेण सहित इति विरोधे सन् वेषो यस्येति परिहारः । विरोधाभासः संस्कृतवन्द्रिका। श्रीमदप्पयदीक्षिताः। प्रथमं परिशिष्टम् । ( श्रीशृङ्गेरिमठाधीशश्रीमज्जगद्गुरुचरणानां प्रियशिष्येण श्रीवैद्यनाथशास्त्रिणा प्रेरितं पत्रम् ) श्रीकालहस्तिशरणशिवानन्दकमन्दिविरचिते आत्मार्पणस्तुतेः सप्तमश्लो- कव्याख्याने वक्ष्यमाणं श्रीमदप्पयदीक्षितानां जननचरितं दृश्यते । उक्तं च श्रीनीलकण्ठमखिना জুলহাতাক্ষ তক্ষুদ্র জাঃ। विद्येश्वरेषु कन्चन पितामहो न इति विसम्मः ॥ इति ॥ श्रीकण्ठोऽवतार यस्य वपुषाकल्ल्यात्मनेवाऽच्युतः श्रीमानप्पयदीक्षितः स जयति श्रीकण्ठविद्यागुरुः॥ इति च॥ ज्योतिर्विदस्त्वेवमाहुः- ঘবশ্বজাহৰতিন লাকসাশী সুর ফানান ও হুসন্সবিসি। ন্যাভিশ্বাশ্বনবিহব্যালিস্তি श्रीगौर्यै प्राग्यथाहरूम लमजनि विरिवीशयाँ कलेशः ॥ अस्यार्थ:-वीणातत्वज्ञेति पञ्चाक्षराणि तत्र ज्ञकारोऽनर्थकः । प्रातिलोम्येन तयुक्तवकारस्य चतुःसहस्रसंख्या । केवलतकारस्य षट्शतम् । णा इत्यस्य पञ्चाशत् । वी इत्यस्य चतुःसंख्या। आहत्य चतुःपञ्चाशत्सं- गुतषट्शतोत्तरचतुःसहस्रसंख्याके ( ४६५४ ) कल्यब्दे प्रमाती च वर्षे कन्यामासे कृष्णपक्षे प्रथमातिथौ उत्तरप्रोष्ठपदनक्षत्रे कन्यालग्ने श्रीकलेशः श्रीशिवावरणस्थाष्टविद्येश्वराणां मध्ये. सप्तमस्थानाधिपः श्रीकण्ठविद्येश्वर इत्यर्थः । प्राक् कल्पान्तरे श्रीपरमेश्वरो वैदिकेषु अमितदयाशेवधिः सन् श्रीगौरीदेव्यै यथाऽऽहस्म अवादीत् तथैव विरिञ्चीशपुर्या श्रीविरिञ्चिपुरे समजनि संजात इत्यर्थः । यद्यपि श्रीमद्दीक्षितचरणस्य पितृपितामहपर- म्परायाः वासस्थानं आरणिसमीपवर्त्यडयप्पलमित्यग्रहार एव तथाप्यस्य । १ कर्मन्दी सन्यासी. REAL श्रीमदभगदीक्षिताः। विरिञ्चिपुरे मातुलमन्दिरमालीदिति किंवदन्त्यवगम्यते । जननमपि तत्रै- वासदिति च श्रूयते । श्रीशिवोपदेशसूक्तिरुत्तरत्र विवरिष्यते । तेषां जन्मलस्थितिस्तु---- लोरान्दुलतयोभिकरे व मान्दौ ( ? ) मीने शशिन्यथ वृष रवि च राही। चापे गुग क्षितिलुते मिथुने तुलायां शुरु शिलिन्यालिगत शुभल एवम् ॥ एवं भूते शुमलन श्रीकण्ठविवेशः उत्तरीत्या विरिञ्चिपुरे मातुलगृहे समजनीति पूर्वेण सम्मव्यते. श्रीशिवसूक्तिस्तु शिवरहस्ये नवमांशेऽष्टमाध्याये कलिविशेषकथने श्रीभगवत्पादायवतारसूक्तियथा- म्लेच्छाचारपराः सचे दरिद्रा विजातयः। কালো প্রান্তির সুশ্রিাব। হিাই লেখক : লি: লক্ষ। অনুবি : বস্তু হি মোৰজানি। বৰ-বাণিখামু নখ হল অখি। ৯ম স্বাক্ষম খল ও অকলি ? কত নাহি লা লিঃ। अशैव दण्डनीय भविष्यति महीतले ।। दीक्षितोऽपि सवेकश्चिन्मदशा मूलुरोऽम्बिके । নাসলিবে: ইনশার : হীরা । না শুধু নিন । इत्यादि प्रपञ्च्यते। उपरितनैः श्रीवैद्यनाथशास्त्रियो वर्चनः श्रीमदप्पयदीक्षितानां जनना- वसरो निःसन्देहः समवगम्यते । स च कलेश्चतुःपञ्चाशदुत्तरषद्शताधिक- श्चतुःसहस्त्रतमात्परोवत्सर एव । संप्रति च नवनवत्युत्तरनवंशताधिकचतु:- सहस्रतमः कल्यब्दः तत्रोपरितनवत्सराणां व्यवकलनायां पञ्चचत्वारिंशत्तरं १४८ संस्कृतचन्द्रिका शतत्रयमवशिष्यते । तस्मिंश्च वर्तमानेषु शकाव्देषु विंशत्यधिकाष्टादशशत- मितेनीले शिष्टाः पञ्चसमत्युत्तरचतुर्दशशतमिता वत्सराः । स एव श्रीमदप्पथदीक्षितानां जननकाल: । यस्तु षष्ट्यां संख्यायां हूणाब्दादि- निर्देशः सप्रामादिक एव । नासीत्खनु पूर्वमन्माकं प्रत्याशा यदीक्षितचरणानां जन्मलग्नादिकमप्यु- पलभेमहीति किन्तु साम्प्रतं श्रीवैद्यनाथशास्त्रिमहाशयेन कृतार्थीकृताः स्मः सर्वमप्येतन्निवेदयता । यथा महात्मनांजीवनचरितमेवं तेषां जन्मलग्नादिक- मप्यवश्यमवगन्तव्यम् । तेन हि कुतोऽस्यैवंविधं माहात्म्यमित्यवबोटुं- शक्यते । ज्योतिपिकास्त्वेतदवगमनेन महान्तं लाभमधिगच्छेयु : शक्नुयुश्च ग्रहाणां माहात्म्यं प्राकृतानवबोधयितुम् । यदप्यन्यदीक्षितचरणानां किञ्चिद्वृत्तं कदाचिदवगम्येत तत्सर्व निवेदयिष्यामः । आगामिन्यां तु संख्यायां पण्डितराजस्य श्रीजगन्नाथस्य चरितमुपवर्णयिप्यते । मूर्तिपूजनम्। *. ( पूर्वतोऽनुवृत्तम् ) एवमन्येषामपि देवानाभिन्द्रादीनां मूर्तय : श्रुतिभिरनुमीयन्ते । तनेन्द्रस्य यथा [ऋ. १ मं. ३२ ऋ.५.] * श्रीमदीक्षितचरणानां जन्मलग्नकुण्डली. जन्मलग्न. -के. १२ चं. श.२ रा.

मूर्तिपूजनम्। अहन्वृदां वृत्रतरं व्यंसमिन्द्रो वशेण महता वक्षेन। [ सा. भा. ता.] अयमिन्द्रो वज्रेण सम्पादितो यो महान् वधस्तेन वज्रेण वृत्रतरं त्रैरावरणैः सर्वाब्शत्रूल्तरति तं वृत्रमेतन्नामकमसुरं व्यंसं च्छिन्नवाहुर्यथा भवति तथा अहन् हतवान् । अत्रेन्द्रस्य वज्रेण वृत्रहननोक्त्या तस्य करशालित्वमवश्यमभ्युपगन्त- व्यम्। तेन चेन्द्रस्य मूर्तिमत्वमर्थादायातम् । एवं तत्रैव पञ्चमो मन्त्र : अहेर्यातारं कनपश्य इन्द्र हृदि बत्ते जनुषो भीरगच्छत् । हे इन्द्र जन्नुपो वृत्रं हतवतस्तवहदि यदि भीरगच्छत् । न हतवानस्मीति बुध्या भयं प्राप्नुयात् । तर्हि अहेव॒त्रस्य यातारं हन्तारं कमपश्य : त्वत्तोऽन्यं कं दृष्टवानसि। अत्रापीन्द्रस्य हृदयसत्वमभिधीयते। तेन चास्य मूर्तिमत्वमनुमातुं शक्यम्। किमधिकं यदि वैश्वदेवस्यानुष्ठाता शिशुरपि निपुणं विचारयेत्तदा ब्रूयादस्त्येव मूर्तिवर्णनं वेद इति । तत्र हि भगवतो वन्हे : प्रतिपाद्यते मूर्तिः चत्वारि शृङ्गा बयो अस्य पादा वे शीर्ष सप्त हस्तासो अस्य । इति अस्य चार्थस्तत्रैव स्मृतिवचनेन निर्दिष्ट : सत्तहस्तश्चतु:शृङ्गः सप्तजिदवो द्विशीर्षक: त्रिप्रात्प्रसन्नवदन इति। एतच संक्षेपत : प्रोक्तम्। यदितु देवप्रतिमावर्णनस्य वेदेऽभावमाचक्षाणा विशालप्रज्ञा : सकृदप्येकमपि वेदमापाततोऽपि भाप्यानुसारेणालोचयेयु- स्तदा नूनं न प्रलपेयुरनाचारोऽयं मूर्तिपूजनाचार : श्रुतिप्वनुपलब्धत्वा दिति। किन्तु कुत एतावद्भागधेयं भगवतो वेदस्य येनायमेवंविधानां विशङ्कटमतीनां नयनमार्गमधिरोहेत्। यद्येवमेषां देवतानां मूर्तिमत्वं वेदवचनैः पर्यवस्यत्येव तदा क्वेदानी नास्ति वेदे मूर्तिवर्णनं नास्ति वेदे मूर्तिवर्णनमिति साभिमानं सानन्दं च समुन्नटन्ती नास्तिकतमानां नासा। सर्वथा विप्रलम्भका : खल्वेते यत्किमपि :

। संस्कृत चन्द्रिका। वा प्रतिपाद्य महीयसाऽऽडम्बरेण प्रतारयन्त्यज्ञान् । अहो विलास : पापीयसः कलिकालम्य । यदन्त्र लुप्यन्त आचारा : सन्त्यपि वस्तूनि च नास्तिभाव- मुपयान्ति। स्मृतिषु तु सहस्रशो दृश्यते मूर्तिपूजनविधि : । तत्र मनुरायजे पितेति मनुर्वैयत्किञ्चिदवददित्यादिभिश्च श्रुतिवचन : स्फुटीकृतमाहात्म्येन प्रोक्तं भगवता मनुना यथा---(२।१७६ ) नित्यं सात्वा ततः कुर्यादेवर्षिपितृतर्पणम् । देवताभ्यर्चनं चैव सनिदाधानमेव च ॥ इति ॥ अत्र देवतार्चनं विधीयते। तच नाम गन्धाधुपचारैरभीष्टदेवताया : संभावनमेव । तच्च न हि प्रतिमा विना घटते। बचात्र निराकारोपासनम- भिमतं मनोरिति भ्रमितव्यम्। प्रमाणाभावात्। अनधिकारिण्युपदेशस्या- नहत्वाच्च । निराकारोपासानायां त्वधिकारी योग्येव । प्रकरणवशाच्चावगम्यते नैया योगिनं प्रत्युक्तिरिति। तदवश्यमम्युपेतव्यं मनोवचने देवतार्चन- पदस्य मूर्तिसम्भावनापरत्वमेवेति। मनुसंहितागतानां च सर्वेषामप्यर्थानां वेदगतत्वस्यः स्मृत्यारम्भे प्रतिज्ञानान्मूर्तिपूजनस्य वेदविहितत्वमनुमातुं शक्यमित्यपि विचक्षणा जानीयुः । एवं देवालये देवप्रतिमानां स्थापन तासांच पूजनादिभिः केषांचिदु- पजीवनमनादिकालात्प्रभृति प्रचलितमित्यपि मनुस्मृतिवर्तिभिः कैश्चन पद्यैः सुस्पष्टमवगम्यते । तथाचोक्तं तत्रैव-( ८१२४८ ) सीमासन्धिषु कार्याणि देवतायतनानि च ॥ इति ॥ अत्र न हि देवतायतनं नाम निराकारस्य जगत्पितुः सामक्ष्ये रोदनार्थ- मालयविशेष इति कोऽप्यार्यधर्मानुयायी स्वीकुर्यात् । किन्तु यत्र देवानां प्रतिमाः स्थाप्यन्ते तान्येव देवतायतनानीति ब्रूयात् । एवमनुशासच्च मनुः सुस्पष्टं ध्वनयति देवताप्रतिमानां पूजनमाचार एवेति । चिकित्सकान्देवल- कान् ( ३।११७ ) इत्यादीच देवलक शब्दं प्रगुजानो भगवान्मनुर्घोषयति ।

मृतिपूजनम्।
वण्टाम्रोयं वेदविहितत्वं मूर्तिपूजनाचारस्य । देवलको हि देवताप्रतिमानामेव
पूजयिता भवति । स चासति मूर्तिपूजनाचारे वन्ध्यापुत्रत्वमापयेत । नाधि
बेदस्याप्तम्मतमाचारं मनुप्रभृतय आता आचक्षीरन् । किमिव हि प्रयोजनं
तेषां जगद्वञ्चनयेति वयं तु न प्रत्येतुं प्रभवामः ।
शाण्डिल्योपनिषदादौच मुस्पष्टमुपवर्ण्यते मूर्तिपूजनाचारः सच जिज्ञासु-
भिस्तत एवावबोद्धव्यः । अन्ये च शतशो महपयो दुन्दुभिध्वानं ध्वनयन्ति
मूर्तिपूजनाचारम् । किन्तु किमत्राश्चर्यं यदि बधिरस्य श्रवणयोरुच्चैरपि
ध्वनितो दुन्दुभिर्नेप्फल्यमुपगच्छेत् ।
श्रीमन्महाभारतगतेषु च वृन्तान्तेषु श्रधाना : प्रतियन्तु गीतोपनिषत्सु
पठ्यमानीमंद पद्यद्वयम् ।
यो यो यां या ततुं भक्तः श्रद्धयार्चितुमिच्छति।
तस्य तस्याचलां श्रद्धांतामेव विदाम्यहम् ॥
स तया श्रद्धया युक्तस्तस्याराधनमोहते ।
लभते च ततः कामान्मयैव विहितान्हितान् ॥ इति ॥
एवम्
यद्यानुवर्तन्ते मनुष्याः पार्थ सर्वशः।
काङ्क्षन्तः कर्मणां सिद्धि यजन्त इह देवताः ।।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ इतिच ॥
एवं किल सहस्रशो धर्मप्रबन्धैः शक्यमवगन्तुं विद्यते वेदादिषु वर्णन
देवप्रतिमानामिति । अवश्यं तदनुष्ठातव्यमिति च । सत्येवं नैवानुष्ठेया
मूर्तिपूजा प्राकृतजनमानसमुचिता ह्येषेत्यादयो विशृङ्खला : प्रलापा वैदिके-
तराणामेव शोभन्ते न पुनर्मनागपि श्रुतिप्रामाण्यमशीकुर्वतां कदाचिदपि ।
(क्रमश:)

संस्कृतचन्द्रिका । मालपत्र ।। श्रीः ।। अयि संस्कृतचन्द्रिकासम्पादक! तत्रभवतासमालोचनाफलं विदुपा विदुषाम्मुदे कादम्बिनीयसम्यसाहाय्य- सम्पत्तये च निजकर्तव्यतया मदीयो लेखो विमृश्यैव प्रकाशन्नीतः ॥ तत्र श्रीपूषाणमिति रारचीतीति च द्वयमेव समालोच्य यन्मया निजविचारप्रचारतो लिखितन्तदुपरि विद्याधरमिश्रेण प्रति- समालोचकीभूतेन कटककादम्बिनीपत्रिकाद्वारा स्वकपोलकल्पनाप्रभा. वतो विकृश्य विवेकमुधारस इव प्रकाशितो निजो लेखः । तचिन्तना- ऽभन्मे रुग्णस्य निर्वित्रिकित्सं चिकित्सा । अतस्तमाशात्यम्मनसा नम- स्कृत्य तदीयलेखसमालाचना वितन्यते । तदेनामपि प-लोच्य चन्द्रिका चमत्कृत्या श्रीमता प्रकटतान्नेयो मदीयोयल्लेख इति विज्ञापना । श्योकी कटकतटनदन्ती, किन्तु कादम्बिनी सा। कपटपटु रटन्तो, बालकान्मोहयन्ती॥ निपुरमथनमौलौ, भूरियाम्नि ज्वलन्ती । मनुनयमपनीयोन्मूलयेचन्द्रकातिम् ॥ १॥ या पादस्पर्शसुखाभिलाषा स्वां स्वामिनीन्तामभिमन्यमाना ॥ कादम्बिनी दम्भमरा कथं स्या- खान्द्री समुन्मूलयितुनविद्मः ॥ ३ ॥ पश्यन्तु पण्डिताः सर्वे विद्याधरचातुरीम् ॥ पूषाणशद्वे की- बापत्तिर्णत्वानापत्तिः प्रमाणाभावः फलाभावोऽनवस्थाचेति दोषपञ्चक- भीतेरङ्गीकृतिपुरस्सरन्तिरस्कृतिमन्त्रिमते सम्पादितेति भात्येष पाण्डित्य- पाण्डिम्नो महिमैव मदीये मानसे तदीयः । तद्यथा ॥ १ लष्कर पर्ततनितम्बो वा १५३ तु माप्तपत्रम्। पूषणमानयति जीवयतीति विग्रहविन्यासस्तुल्यः ॥ पूषार्थः कोशा- धनुसारेण मन्त्रिणा सशरीरो मिहिर आश्रित आनशब्दार्थस्तदधिष्ठात्री- न्देवतामित्यर्थ इति लिखता ब्रह्माणीवदिति दृष्टान्तन्निदर्शयताच सूर्या- विष्टात्री देवतेति ॥ मुरारिमिश्रवद्विद्याधरामश्रेण तदोषपञ्चकभीतेन शरी- रांशम्परिदृत्य तच्छरीराधिष्टात्रीन्देवताम्पूषाणमिति विन्यासं निदर्श- यता तादृशदेवताभिन्नमिहिरः पूषार्थ आनार्थश्च पूषाणं पूष्णा देवेना- विष्ठितं शरीरं क्लीत्रलिङ्गमिति तत्रैव दन्तयुतत्वस्य मुख्यतया जीवे चौपचारिकतयेति युक्तिमास्थाय तादृशं शरीरं दन्तयुतं कुर्विति सम्बन्ध- माकलय्यच पूर्वमतरीतिरनादृता ॥ तदयमत्राभिसन्धिः ।। पूर्वमते कृदर्थतया सूर्याधिष्ठात्री देवताभ्युपेतति तत्र दोषगण- सन्निवेशः । दार्टान्तिकन्यायेन मदुक्तदोषगणस्य निराकरणासंभवात् । वैद्याधररीत्या तु कृदर्थकर्तरि नपुंसकत्वेन डीवनापत्तिर्नापि तत्रानवस्था- दोषः । ब्रह्माणीवदत्रापि संज्ञात्वाङ्गीकाराण्णत्वसिद्धिरिति । अत्रेत्थं समालोचना मुरङ्गपद्ये दक्षमखविध्वंसकथाक्षिप्तातोऽत्र भृगुपूषभगाः श्मश्रुरदननयनहीना वर्णितास्तेषु भृगु श्मश्रुलं पूषणं रदनयुतं भगन्नययुतं च कुर्विति संसर्गतुल्यतासंभवे भृगुभगयो- रानशब्दासङ्गे पूषणि तदासङ्गे च फलविशेषेण भाव्यन्नहि सोत्र निरुतः केनापि। भारतभागवतादिषु पृषाणशब्दाप्रयोगात्पूपशब्दप्रयोगोपलब्धेश्च- पूषाणेत्यस्याप्रामाण्यम् । अतःसंज्ञात्वाभावाण्णत्वानापत्तिरितिदोषता- दवस्थ्यम् । ब्रह्माणीशब्दस्य ब्रह्माणमानयति चेष्टयतीत्यर्थ एव साधुतेति हंसयुक्तविमानाग्र इतिमन्त्रव्याख्यायां द्रष्टव्यम् । ब्रह्माणीशब्दे । समकक्षतया संस्कृतचन्द्रिका । तारानाधीयकोशे च पूर्वपदात्मज्ञायामिति णत्वमित्युक्तम् । कर्मण्यणिति प्रतीकमुपादाय पूर्वपदात्संज्ञायामिति णत्वमिति मनोरमायां स्थितम् । एतेन संज्ञात्वस्येत्यादिणत्वाभाववाद इत्यन्तोग्रन्थः कादम्बिनीयः परास्तः । वैपन्यात्यूषाणं पूजा देवेनाधिष्ठित शरीरमिति परिणतार्थ- विन्यासे आनशद्वार्थानुपादानात्प्रतिसमालोचकीभूतेन स उपेक्षित इति गम्यते । शरीरनाम स्वरूपतोऽचेतनं वस्तु जगत्प्रदीपं धीचोदकम्मिहिर- जीवयितुमलन्न वेति मुष्ठ चिन्तनीयम्प्रतिसमालोचकेन । अथ पूषाणरूपे विलक्षणसाधुतापन्ने खण्डद्वयार्थविवेकः । आद्यस्य वैद्याधरमते तच्छरीराधिष्ठानगा देवतार्थः । तच्छरीराधिष्ठात्रीन्देवताम्पूषाण- मिति तदीयाद्विन्यासात् । तादृग्देवतायाः कर्मत्वमानेत्युत्तरखण्डे हेतु- मति प्रतीयते । स्पष्टतया तु न निरुक्तस्स इत्यद्यापि निर्णेतव्यतया तिष्ठत्येव ब्रह्माणीशद्वे ' हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः । आयाता शक्तिब्रह्माणीत्यभिधीयत' इत्यार्पवचनात्तट्टीकातश्चनिर्णीतः । सुरङ्गगोविन्दकविषयटीकायाम्मन्त्रिणा ब्रह्माणीवदिति निदर्शयता प्रयोतितस्तु कार्यसाधकः वैद्याधरलेखतस्तदवहेलनात् । जगजनेः कर्तारन्तदीया शक्तिरेव चेष्टयितुम्प्रभवति नान्यः खलु कोपीति प्राक्तनवचनानुरोधश्च ॥ न च पूषदेवाधिष्ठितशरीरमिति क्लीबताशालि वस्तु प्रकल्पितमस्तीति वाच्यम् ॥ अनौचित्यात् ॥ दार्टान्तिकन्यायेन जगदात्मनि सूर्ये निजशक्तयतिरिक्तस्य तद्धर्मवत्तासंभवात् ॥ शक्तितद्वतो- रभेदोपचारो न प्रकृतोपयोगी ॥ स्त्रीत्वापातात्तत्प्रत्ययापत्तेः ।। । ब्रह्मणः न [क्रमशः] लामपाठशालाध्यापकेन विष्णुना लिखितमेतत् ।।

समुद्भाविताश्चन्द्रिकादोपा। ग्वाल्हेरनिवासिना काव्यकादम्बिनीसभामन्त्रिगा समुद्भाविता: चन्द्रिकादोषाः। [१] द्वितीयसंख्यायां देसायीलेखे भर्तुरभित इत्यत्र अभित :- परित समयानिकपाहामतियोगेऽपि इत्यस्याप्रवर्तनं भ्रममूलम् । [२] सहकारिसम्पादककृतसमालोचनायाम् उभयतस्पाशा रज्जुरित्यत्र सत्वमुत्सूत्रम् । [३] तृतीयसंख्यायां । आदावारक्तपत्रे ८ पङ्क्तौ श्रीअप्पाशा- स्त्रिणेत्यत वाक्याभावेऽपि संहिताया अविवक्षा भ्रममूला। तत्रैव २ पृ० पञ्चसप्ततिरूपका : । अत्रासंज्ञायां समासश्चिन्त्यः । [४] ३ पृ० २ पं. शिवंकरमित्यपि गणेशशास्त्रिण : [ रुकडीकरस्य ? ] अत्र खच्प्रत्ययमुमागमावुत्सूत्रौ। [५] १८ पं. प्रार्थयामि. अत्र परस्मैपदं भ्रममूलम् आगर्वादात्मने- पदिन : इत्यधिकारेऽर्थधातो : पाठात् । [६] ५६ पृ० २४ पं. यङ्लुङ्गन्तमसाधु इति रत्नललामपाठशाला- ध्यापको विष्णु: । अत्रोकारस्य डुगागमो गकारस्य कुडागमो वा समालोचकानुभूत एव । [७] ५७ पृ० ११ पं. गीर्वाणवाण्यभ्युन्नतये समुद्यतानां विचार- चातुरी तत्सहचरी वाङ्माधुरी चापेक्षते इत्यत्र अपेक्षतेः कर्म संस्कृता- ध्यापकहृदयस्थमेव चातुर्यादेः कर्मत्वे [अपेक्षते ] अन कर्मणि यका भाव्यम्। न चैतान्प्रकाशयितुमैच्छाम । किन्तु मन्त्रिण : पत्रिकान्तरेष्वेतदोषप्रकाश- नेऽभिनिवेशमवबुध्य तथाच सति तूष्णींभावोऽयमस्माकं नूनं हानिकर इत्याकलथ्य च ग्राहकाणां भावि मतिवैपरील्यं निराकर्तुमेतान्दोषाभासान्प्रकाश्य तन्निराकृतिलेखगपि प्रकाशयितुं प्रवृत्ताः स्मः ।

.. সম্ব संस्कृतचन्द्रिका । [८] ५९ पृ० १३ पं. मन्त्रयतीत्यत्र धातो: परस्मैपदित्वं विस्मरणमूलम् आकुस्मादात्मनेपदिन : इत्यधिकारे पाठात् । [९] ६० पृ० ५ पं. दीर्यतीव मे हृदयम् अत्र दीर्यतीति निर्मूलं दिवादी दृधातोरनुपलब्धे । [१०] तत्रैव ९ पं. सखि कः पुनः स स्वप्नः । धर्म :। ममाप्यस्ति कौतूहलमेतदाकर्णयितुम् । स्वप्नपरामर्षण एतच्छब्दस्य पुंस्त्वमुचितम् । [११] २३ पं. एतावाङ्गिरिपु अत्र पदान्तस्थस्यापि नकारस्या- नुस्वारस्तस्य च परसवर्णत्वं चेति वैचित्र्यं संहिताया ः ॥ [१२] ७२ पृ० २१ पं. प्रणन्दामः ॥ टुनदिसमृद्धावित्यस्य रूपम्॥ अत्र धातोरस्य तु णोपदेशविरहाण्णत्वं परं बाधते ॥ [१३] २४ पं. आशास्महे साफल्यमेतस्य महाभागस्य प्रयत्न- मचिरादेवोपस्थेयादिति ॥ अत्र प्रयत्नशहस्य क्लीवत्वं भ्रममूलम् नङतस्य पुंस्त्वात्। अत एव स्पष्टं प्रयतनं स्पर्शानामत्र प्रयतनमिति नपुंसके भावे ल्युट प्रयत्नमित्यपपाठ : इति नागोजीभट्टैरुक्तम् ॥ आशास्महे सहकारिसम्पादकानां चेतो नानेन लेखेनातितरां दूयेत यतः स्वभाव एव कादम्बिन्या यच्चन्द्रिका समूलमुन्मूलयति ॥ का का० स० मं० शिवरामशास्त्रिणः ॥ अत्रोत्तरम् सहृदयग्राहकाः जानीयुरेव भवन्तः कीदृश एते दोषाः कीदृशी चैते- पामुद्भावनावसर उद्भावयितुर्बुद्धिरिति । नूनमनुगृहीताः स्मो मन्त्रिणा यदावरणपृष्ठमारभ्य सर्वत्रापि विद्यमाना हस्तदोषेणाक्षरपथकानां प्रमा- दाद्वा संभूता दोषाभासा अपि शल्यानीवायस्कान्तशकलेन सहेलमेवोन्नीय प्रादयन्त । वयं तु ब्रूमः क्षणं निःपक्षपतया बुद्ध्या दोषानतान्प्रतिसमालोच- ।

समुद्भाविताश्चन्द्रिकादोपा । कधिया पश्यतो मन्त्रिण आत्मैव हासमुपजनयेत् । भवतु यथोचितमेता- निराकर्तुमिच्छामः । किन्तु यङ्लुङ्गन्त एतावाङ्गिारिषु प्रणन्दाम इत्यादयो मुद्रणदोषा एव न पुनस्तैः कर्तुदोषभात्कमिति तुपपेपणमनादृत्य दोषा- भासा एव निरास्यन्ते । धिनोति किलैतन्मन्त्रिणः समालोचकत्वमस्मदीयं चेतो येनैवंविधेप्वपि निःसारेषु दोषाभासेषु मन्त्रिणः कृपाकटाक्षः सम्पातित :। भवतु प्रकृतमनुसरामः । [१] भर्तुरभित इति । न जानीमः किमेष देसायीप्रयुक्त इति प्रयोगो दुष्ट आहोस्विव्याकरणासंमत इति किंवा कव्यादिभिरनादृत एवेति । नाद्योऽनुचितत्वात् । न द्वितीयः अभितः परित इत्यादिना प्राप्ता- यामपि द्वितीयायां शेषेषष्ठ्या वारयितुमशक्यत्वात् । प्रतिपदोक्ताया अपि विभक्तेः स्थाने नमो नम आर्यपुत्रचरणकमलानामित्यादौ महाक- विवचने षष्ठ्या दृश्यमानत्वाच । नान्त्यः प्रयुञ्जते ह्येवं कवयः । तथाहि भवभूतिः-त्वदर्थमिवविन्यस्तः शिलापादोऽयमग्रतः । यस्यायमभितः पुष्पैः प्रवृष्ट इव केसर इति । एवं श्रीगीतायामपि कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् । इति । एवमन्या अपि भूयांसः प्रयोगा विस्तरभयान्नात्रोपन्यस्यन्ते । तन्न जानीमः किम त्राशुद्धमिति । [२] उभयतस्पाशेति । अहो भ्रान्तत्वम् । न ह्यत्र पाशशद्वोऽपितु स्पाशशर एवैत्यवबोद्धव्यं मन्त्रिणा । स्पश अ ग्रन्थवन्धयोरिति बोपदेवी- यधातुपाठस्थाद्वा स्पशग्रहणसंश्लेषणयोरिति पाणिनीयधातुपाठगताद्वा स्पशधा- तोर्षञि स्पाश इति रूपम् । तस्मिंश्च परे खपरेशार वा विसर्ग लोपो वक्तव्य इति विसर्गलोपे सिद्धमुभयतस्पाशेति । अत एव क्वचिद्विसर्गवान्क- चिच्च तदभाववानेव प्रयोगो दृष्टः । यथा अकाण्डताण्डवाख्यपरिभाषेन्दुशे- खरव्याख्यादिकृद्भिर्वैय्याकरणप्रवरैः श्रीबालशास्त्रिचरणैर्विरचिते विधवोद्वाह- विवेकशङ्कासमाधितिलके उभयतः स्पाशा इति । श्रीतारानाथतर्कवाचस्पति- भट्टाचार्यप्रणीते बहुविवाहवादेऽपि उभयतस्पाशाबन्धनं कथमुत्तीर्येतेति ।

१५८ संस्कृतचन्द्रिका । ( ३ ) श्रीअप्पेति । ब्राह्मणनाम्नां श्रीपूर्वकत्वस्यावश्यकत्वं धर्मविवे- कादौ द्रष्टव्यम् । अत एव स्थलेष्वेवंविधेषु संहिताया अनङ्गीकारोऽपि नैव दूषणायेति भूयांसः पण्डिता मन्यन्ते । दृश्यन्ते चैवं श्रीअन्नदाचरण श्री उमेशचन्द्र इत्यादय : प्रयोगा वडीयेषु । अहो चन्द्रिकायां प्रणयपक्षपा- तित्वं मन्त्रिणो यदात्मना बहुशस्तिरस्कृतोऽप्येवंविधस्थलेषु संहितायाः सद्भाव : केवलं चन्द्रिकाया निर्मलीकरणायैव स्वीक्रियते । कथमन्यथा- त्मन : काव्यकादम्बिन्यां द्वितीयखण्डस्य तृतीयसंख्यायां चतुर्थे पृष्ठे शेंडे इत्युपाव्हेति चतुर्दशे महाराज अवघदेशीयति अष्टादशे होलकररा- जाश्रित आलम्पुरस्थेति विंशे देशान्तर्गत आहोरेग्रामनिवासीति सप्तविंशे श्रीयुत उभ इति तत्रैव च काफले इत्युपाव्हेति द्विचत्वारिंशे श्रीयुतवाबू उदयभान्विति एवमादिषु न दृष्टि : क्षिप्येत । एतत्पुनश्चित्रं यत्सर्षपमात्रानषि परस्य दोषानन्विच्छता स्वस्य बिल्वमात्रा अपि न ते प्रत्यक्षीक्रियन्ते । अथवा परहितनिरतानामादरो न स्वकार्ये । पंञ्चसप्तति (७५) रूपका इति । शब्दकल्पद्रुमविज्ञापनगतमेत- द्वाक्यम् । न चात्र समास : किन्तुसप्ततीत्यत्र दीर्घस्थाने हस्वेकारनिवेशोऽ- क्षरग्रथकानामनवधानोद्भूतः । शिरसा चे दोषमङ्गीकृत्य सति संभवे तन्निरासमपि प्रतिनानीमः । प्रयोगास्त्वेवंविधा अप्युपलभ्यन्ते । ( ४ ) शिवंकरमिति । यद्यपि खशखचादय : पाणिनीये नियतविषया एव तथापि व्याकरणान्तरेषु भिन्नविषयत्वमप्येतेषां दृष्टम् । अत एव फले- अहिरात्मभरिश्चेत्यत्रासतोऽपि उदरम्भरिशब्दस्य चान्द्रमतेन संसिद्धिः । क्षेमप्रियमद्रेऽण् चेत्यत्रासंगृहीतेऽपि भद्रशब्द उपपदे कृनः खच् सारस्व- तेन संसिद्धः । अत एव च प्रयोगो मुरारेरनर्धराघवे ज्योत्स्नाकरम्भमुद- रंभरयश्चकोरा इति धातुवृत्तिकृतो माधवापरनाम्नो विद्यारण्यस्यापि पाद: स्यादमितंपच : करुणया भद्रंकर : शांकर इति । एवंविधानां च प्रयोगानां वैय्याकरणकविकृतानां दुष्टत्ववादापेक्षया व्याकरणान्तरसंसिद्धिरवश्यमनु- समुद्भाविताचन्द्रिकादीपा:। १५० Upaye HTTAR मातव्या । तथाविधानां च द्विव्याकरणज्ञल्वज्ञापन कवित्वनोपलक्षिता- नामातानां वचनं यदि कश्चिदनुवदेनल दोपभाजनं भविता । आप्ततम एव च चतुर्वेदभाव्यकृद्धावृतेविधाता नि :शेषशास्त्रपारदृश्वतया सर्वज्ञो माधवापरनामा विद्यारण्य ः स चात्मना विरचिते शंकरविजये प्रायुक्त पयोऽधिविवरीलुनिःसृतसुधाझरीमाधुरी- কালনা আখখালি। शिवंकरलुशंकराभिधजगद्गुरोः प्रायशो यशो दयशोधक कलयितुं समाहामहे ॥ इति ॥ १।५ न जानीमः कथं शिवंकर शंकरमित्यत्रोपरितनमेव प्रयोगमनुवदतां श्रीगणेशास्त्रिणामेव प्रयोगम्य दुष्टत्वमभिधातव्यमिति । पण्डितरायोऽपि जगन्नाथो लोकंगैः परिमलवितनोषि तुष्टिमिति पृगातेः खशं प्रायुक्त । अतोऽवश्यं स्वीकर्तव्यं प्राचीनप्रयोगानामनुकरणं ( आलङ्कारिकैरप्रदर्शित- दूषणानाम् ) न दोपायेति । प्राचीनानां च वचनेषु दोषोपन्यासे नास्माक- मधिकार इति । तथापि यद्याग्रहस्तदा करमिति पृथक्पदम् । सुखवाचिनि कपद उपपदे रातेरातोऽनुपसर्ग इति कः । कं सुखं राति ददातीति करस्तं सुखप्रदमित्यर्थः । ( ५-७ ) प्रार्थयामि मन्त्रयतीति । अहो भ्रान्तिः । न हल चौरा- दिकल्यार्थयतेमन्त्रयतेवी कापम् । किन्तुयाचनार्थकादर्थशब्दादगुप्तपरिभाष- णार्थकान्मन्त्रशब्दाच तत्करोतीति णिचि सिद्धमेतद्रूपद्वयम् । अस्य च णिच उभयपदित्वात्साधुत्वमेवास्य प्रयोगस्याभ्युपेतव्यम् । ततश्च प्रार्थयामि प्रार्थनां करोमि मन्त्रयति मन्त्रं करोतीत्यर्थः । (८) दीर्यतीवेति । दीयतेः पाणिनिना देवादिकेप्वपठितत्वेऽपि यगि । विदारे इति बोपदेवीये तस्य देवादिकत्वं मन्त्रिणा द्रष्टव्यम् । किं च पाणिनीयेऽपि दिवादेराकृतिगणत्वेन क्षीयतिमृग्यतिप्रभृतीनामि- वदीयतेरपि दिवादिप्वन्तर्भावो दुर्निवार एव । अत एव दृ विदारे दिवादिः संस्कृतचन्द्रिका। च्यादिश्च x x x दीर्यति दृणातीति शहस्तोममहानिधौ तर्कवाचस्पतिः (९) ममाप्यस्ति कौतूहलमेतदाकर्णयितुमिति । नात्र स्वप्नपरा- मर्शक एतच्छब्दः किन्तु पूर्ववाक्यपरामर्शक एव । ततश्च युक्त एवात्र नपुंसकस्यैतदः प्रयोग इति विद्वांसो जानीयुः । ( ११ ) साफल्यमित्यादि । अहो विपरीतदर्शित्वम् । न ह्यत्र प्रयत्न- मिति कर्तृपदं येन तस्य दुष्टताप्रतिपादनायायं मन्त्रिणो महीयानायासः । अपि तु साफल्यमित्येवात्र कर्तृपदं प्रयत्नमिति च कर्मपदं । ततश्चास्यापि प्रयोगस्य नास्त्यसाधुत्वं नाम । ( १३ ) यत्त्वाशास्मह इत्यादिना प्रोक्तं मन्त्रिणा स्वभाव एवायं कादम्बिन्या यच्चन्द्रिकां समुन्मूलयतीति तदेतद्भ्रममूलकेमव। नहि सर्वेऽपि दोषैकचक्षुष्काश्चन्द्रिकाविद्वेषिण एव येनासौ समूलमुन्मूल्येत। वचनं चैत- न्मत्रिणो घनच्छन्नदृष्टियनच्छन्नमर्क यथा मन्यते निष्प्रभं चेत्यादि श्रीश- ङ्करभगवत्पूज्यपादानां पद्यं स्मारयति। सहकारिसम्पादकस्तु नैतैर्दूषणामा- सैर्यते किन्तु मन्त्रिणः प्रयासस्य वैफल्यमेवास्य चेतो दूनयति। यदि चन्द्रिकामिवात्मन : कादम्बिनीमपि समालोचनाकरपत्रेण योजयेन्मन्त्री तदा नूनं नवदशभ्योऽधिकं नैकमपि पद्यं निर्दोषतामुपगच्छेत्। नूनं चन्द्रिकाया : षष्ठखण्डस्य तृतीयसंख्यायां प्रकाशितेन श्रीविष्णुशास्त्रिण: [ रतलाम ] पत्रेणातिभूमिं गतस्य मन्त्रिण : कोपस्य विजृम्भितमेतत्। किन्तु प्रज्ञतमेन मन्त्रिणा कथमेतन्न विदितं स्वीयमणौ गुणहीने को वा कलह : परीक्षकेण सहेति। विष्णुशास्त्रिसमालोचितानां च पद्यानां प्रसाद- शून्यत्वे साक्षिण : साहित्यविदो रासिका : । इत्यलं तुषपेषणप्रयासेन । आगामिन्यां च संख्यायां कादम्बिन्या : समालोचनामवश्यं प्रकाशयिष्यामो येनानायासमेव तस्याः स्वरूपमवबुध्येत समीकृतमनोभिर्विद्वद्भिः । इति शिवम्। •.

श्रीशिवराजविजयः। मयः सकलोपद्रवमयश्चायं वृत्तान्त इति । अत एव तत्स्मरणमात्रेणापि विद्यत एप ढदये । तन्नाहमेनं निरर्थ जिल्लापयिषामि न वा चिखेदयिषा- मीति च विचिन्त्य मुने विलक्षणोऽयं सकलकलाकलापकलनः सकल- कालनः करालः कालः । स एव कदाचित्पयःपूरपूरितान्यकूपारतलानि मेरूकरोति सिंहव्याघ्रभल्लकगण्डकफेरुशशसहस्त्रव्याप्तान्यरण्यानि जनपदी करोति मन्दिरमासादहन्यशृशाटकचत्वरोद्यानतडागगोष्ठमयानि नगराणिच काननीकरोति । निरीक्ष्यता कदाचिदस्मिन्नेव भारते वर्षे यायकै राजसूयादयो यज्ञा व्यधायिषत कदाचिदिहव वर्पवातातपहिमलहानि तपास्यतापिषत सम्प्रति तु म्लेच्छेगावो हन्यन्ते वेदा विदार्यन्ते स्मृतयः संमृबन्ते मन्दिराणि मन्दुरीक्रियन्ते सत्यः पात्यन्ते सन्तश्च सन्ताप्यन्ते सर्वमेतन्माहात्म्यं तस्यैव महाकालस्येति कथं धीरधौरेयोऽपि धैर्व विधुरयसि । शान्तिमाकलय्याति- संक्षेपेण कथय यवनराजवृत्तान्तं न जाने किमित्यनावश्यकमपि शुश्रूषते मे हृदयमिति कथयित्वा तूप्णीमवस्थे । अथ स मुनिर्भगवान्धैर्येण प्रसादन प्रतापेन तेजसा वीर्येण विक्रमेण शान्त्या श्रिया सौख्येन धर्मेण विद्यया च सममेव परलोकं सनाथितवति तत्रभवति वीरविक्रमादित्ये शनैः शनैः पारस्परिकविरोधविशिथिली- कृतस्नेहबन्धेषु राजसु भामिनीभङ्गभूरिभावप्रभावपराभूतवैभवेषु भटेषु स्वार्थचिन्तासन्तानकतानेष्वमात्यवर्गेषु प्रशंसामात्रप्रियेषु प्रभुषु इन्द्रस्त्वं वरुणस्त्वं कुबेरस्त्वमिति वर्णनामात्रसक्तेषु बुधजनेषु कश्चन गजिनी* स्थाननिवासी महामदो यवनः ससेनः प्राविशद्धारते वर्षे । स च प्रजा विलुण्ठ्य मन्दिराणि निपात्य प्रतिमा विभिद्य परश्शतान् जनांश्च दासीकृत्य शतश उप्ट्रेषु रत्नान्यारोप्य स्वदेशमैनधीत् । एवं स ज्ञातास्वादः पौनः- -- १ समुद्रः २ वाजिशाला तु मन्दुरल्यमरः । ३ ज्ञाशुस्मृदृशां सनीलात्मने पदम् । गिजनी इतिप्रसिद्धम् । महमद इति प्रसिद्धः ।

संस्कृतचंद्रिका पुन्येन द्वादशवारमागत्यू भारतमलुण्ठत् । तस्मिन्नेव च स्वसंरंभे एकदा गुर्जरदेशचूडायितं सोमनाथतीर्थमपि धूलीचकार । अद्य तु तत्तीर्थस्य नामापि केनापि न स्मयते परं तत्समये तु लोकोत्तरं तस्य वैभवमासीत् । तत्र हि महाहवैदूर्यपद्मरागमाणिक्यमुक्ताफलादिघटितानि कपाटानि स्तम्भान् ग्रहावंग्रहणीभित्तीर्वलंभीविटङ्कानि च निर्मथ्य रत्ननिचयमादाय शतद्वयमणसुवर्णराशिशृङ्खलावलम्बिनीं चञ्चच्चाकचक्यचकितीकृतावलो- चकलोचननिचयां महाघण्टा प्रसह्य संप्रगृह्य महादेवमूर्तावपि गदामुदतू- तुलत् । अथ वीर गृहीतमखिलं वित्तं पराजिता आर्यसेना बन्दीकृता वयं संचितममलं यश इतो पि न शाम्यति ते क्रोधश्चदस्मांस्ताडय मारय च्छिन्धि भिन्धि पातय मज्जय खण्डय कर्तय ज्वलय किन्तु त्यजेमामकि- ञ्चित्करी निर्जीवां महादेवप्रतिमाम् । यद्येवं न स्वीकरोषि तद्गृहाणा- स्मत्तोऽन्यामपि सुवर्णकोटिद्वयीं वायस्व मैनां भगवन्मूर्ति स्प्राक्षीरिति सानेडं कथयत्सु विलुठत्सु प्रणमत्सु च पूजकवर्गेषु नाहं मूर्तीविक्रीणे किन्तु मिननि इति संगj जनताया हाहाकारकलकलमाकर्णय- न्योरगदया मूर्तिमतुत्रुटत् । गदापातसमकालमेव चानेकार्बुदपद्ममुद्रामूल्यानि रत्नानि मूर्तिमध्यागुच्छलितानि परितोऽवाकीर्यन्त । स च दग्धमुखस्तानि रत्नानि मूर्तिखण्डानि च क्रमेलकैपृष्ठेष्वारोप्य सिन्धुनदीमुत्तीर्य स्वकीयां विजयध्वजिनी गजिनी नाम राजधानी प्राविशत् । अथ कालक्रमेण सप्ताशीत्युत्तरसहस्रतमे ( १०८७ ) वैक्रमाब्दे सशोकं सकष्टं च प्राणांस्त्यक्तवति महामदे गोरदेशवासी कश्चित् शहा- बुद्दीननामा प्रथमं गजिनीदेशमाक्रम्य महामदकुलं धर्मराजलोकाध्वन्यध्वनीनं विधाय सर्वाः प्रजाश्च पशुमारं मारयित्वा तद्बुधिरामृदा गोरदेशे वहून १ देहली । २ गोपानसी चन्द्रशाला [ शिरोगृहं ] वा । ३ क्रमेलक: उष्ट्र:

श्रीशिवराजविजयः। *गृहान्निर्माय चतुरङ्गिण्याऽनीकिन्या भारतवर्ष प्रविश्य शीतलशोणितानप्य- सयन्पञ्चाशदुत्तरद्वादशशतामितेव्दे दिल्लीमश्वयोम्बभूव । ततो दिल्लीश्वरं पृथ्वीराज कान्यकुब्जेश्वरं जयचन्द्रं च पारस्परिक- विरोधग्रस्तं विस्मृतराजनीति भारतवर्षदुर्भाग्यायमानमाकलय्यानायासेनो भावपि विशस्य वाराणसीपर्यन्तमखण्डमण्डलमकण्टकमकीटकिटें महारत्न- मिव महाराज्यमङ्गीचकार । तेन वाराणस्यामपि बहवोऽस्थिगिरयः संचिताः रिङ्गत्तरङ्गभङ्गा गङ्गापि शोणितशोणा शोणीकृता परःसहस्त्राणि च देवम- न्दिराणि भूमिसात्कृतानि । स एव प्राधान्येन भारते यावनराज्याङ्कुरारोपकोऽभूत् । तस्यैव च कश्चित्क्रीतदासः कुतुबुद्दीननामा प्रथमो भारतसम्राट् जातः । तमारभ्याद्यावधि प्रायो राक्षसा एव राज्यमकुर्वन्त प्रायो दानवा एव च दीनानदलयन् । अभूत्केवलमकबरशाहनामा यद्यपि गूढशत्रुारतवर्षस्य तथापि शान्तिप्रियो विद्वत्प्रियश्च । अस्यैव प्रपौत्रो मूर्तिमानिव कलियुगो गृहीतविग्रह इव चाधर्म आलमगिरोपाधिधारी अवरङ्गजीवः सम्प्रति दिल्लीवल्लभतां कलङ्कयति । अस्यैव पताकाः केकयेषु मत्स्येषु मगधेप्वङ्गेषु वङ्गेषु कलिङ्गेषु च दोधूयन्ते । केवलं दक्षिणदेशेऽधुनाप्यस्य परिपूर्णो नाधिकारः संवृत्तः । दक्षिणदेशो हि पर्वतबहुलोऽस्त्यरण्यानीसंकुलश्चास्तीति चिरोद्योगेनापि नायमशकन्महाराष्ट्रकेसरिणो हस्तयितुम् । साम्प्रतमस्यैवात्मीयो दक्षिणदेशशासकत्वेन शास्तिखाननामा। प्रेष्यत इति श्रूयते । महाराष्ट्रदेशरत्नं यवनशोणितपिपासाकुलकृपाणो वीरतासी- मन्तिनीसीमन्तमुन्दरसान्द्रसिन्दूरदानदेदीप्यमानदोर्दण्डो मुकुटमणिमहारा- प्ट्राणां भूषणं भटानां निधिर्नीतीनां कुलभवनं कौशलानां पारावारः परमो- * गृहाः पुंसि च भूम्न्येवेत्यमरः । ४ जगानेत्यर्थः । 8 अवरंगजेब इति प्रसिद्ध: । षाइस्तेखान इति प्रसिद्धः ।

संस्कृतचंद्रिका। त्साहानां कश्चन प्रातःस्मरणीयः स्वधाग्रहग्रहपहिलः शिव इव धृता- वतारः शिववीरश्चास्मिन्पुण्यनगरान्नदीपस्येव सिंहदुर्गे ससेनो निवसति । विजयपुराधीश्वरेण साम्प्रतमस्य प्रवृद्धं वैरम् । कार्यं वा साधयेयं देहं वा पातयेयमित्यम्य सारगर्भा महती प्रतिज्ञा । सतीनां सतां त्रैवर्णिकस्य आर्यकुलस्य धर्मस्य भारतवर्षस्य चाशासन्तानवितानस्यायमेवाश्रयः । इयमेव वर्तमाना दशा भारतवर्षस्य किमविक विनिवेदयामो योगबलावगत- सकलगोप्यतमवृत्तान्तेषु योगिरानेषु इति कथयित्वा विरराम । नढाकर्ण्य विविधभावभङ्गमासुरवदनो योगिराजो मुनिराजं तत्सह- चरांश्च निपुणं निरीक्ष्य तेषामपि शिववीराङ्गतामङ्गीकृत्य मुनिवेषव्याजेन स्वधर्मरक्षाबतिनश्चोररीकृत्य विजयतां शिववीरः सिध्यन्तु भवतां मनोरथा- इति गम्भीरस्वरेणोक्का समुत्थाय सपद्युपत्यकां गण्डशैलानधित्यकां चारुह्य पुनस्तस्मिन्नेव पर्वतकन्दरे तपस्तप्तुं जगाम । ततः शनैः शनैर्निर्यातेष्वपरिचितननेषु संवृत्ते च निमक्षिके मुनि!र- बटुमाहूय विजयपुराधीशाज्ञया शिववीरेण सह योध्दु सतेनं प्रस्थितस्य अपजलखानस्य विषये यावत्किमपि प्रप्युमियेष तावत्पादचारध्वनिमिव कस्याप्यौपीत् । तमवधार्यान्यमनस्क इव मुनौ गौरवटुरपि तेनैव ध्वनिना कर्णयोः कृष्ट इव समुत्थाय निपुणं परितो निरीक्ष्य पर्यट्य कोयमिति च सानेडितं व्यात्दृत्य कमप्यनवलोक्य पुनर्निवृत्य मन्ये मार्जारः कोपीति मन्दं गुरवे निवेद्य पुनस्तथैवोपविवेश । मुनिश्च मान्म कश्चिदितरः श्रौषी- दिति सशङ्कः क्षणं विरम्य पुनरूपन्यस्तुमारेभे । वत्स गौरसिंह अहमत्यन्तं तुष्यामि त्वयि यत्त्वमेकाकी अपजलखानस्य त्रीनश्वास्तेन दासीकृतान्पञ्च १ ग्रहो निर्बन्धोऽस्त्यस्य प्रहिलो निर्वन्धयुक्त इति वाचस्पतिः । ग्रहो ग्रहणं तदें- स्यास्ति अहिलः गृहीत इत्यर्थ इति वा । २ उपत्यकाटेरासन्ना भूमिलमधित्यकेति गण्डशैलास्तु च्युताः स्थूलोपला गिरे- रिति चामरः । ३ एकान्ते । ४ अफजुलखान इति प्रसिद्धः ।

समालोचना । सप्रमोदमङ्गीकारः। कोल्हापुरे प्रकाश्यमानस्य जैनबोधकनानो मासिकपत्रस्य चतुर्दशवत्स- रस्य द्वितीयोङ्कस्तत्प्रकाशकात्समालोचनार्थमस्मत्करतलमापतितः । एवं लङ्कायां दोडुवन्दुग्राममलङ्कुर्वता बुद्धमताचार्येण श्रीमता शीलस्कन्ध- स्थविरेण प्रेरितं तत्कृतव्याख्यासमुल्लासितं भक्तिशतकं भारतरत्नादिविविधोपा- धिमण्डितपरमपण्डितश्रीमदम्बिकादत्तव्याससाहित्याचाचमहाशयप्रेरितो विहा- रीबिहारश्च प्रात: सानन्दमङ्कीक्रियते । एतत्प्रेरयितॄणां चानेकशो धन्यान्यूमः । यथावसरं चैतानि पुस्तकान्यवश्यं समालोचयिष्यामः । समालोचना। दिनाजपुरराजवंशम् -- श्रीमताविद्वद्रत्नेन तत्रभवता महाकविना महेशचन्द्रतर्कचूडामणिना प्रणीतमिदं महाकाव्यं तस्यैव सकाशात्समालो- चनार्थमम्मत्करतलमापतितम् । उपागतस्य चास्य व्यतीतो बहुतिथ : कालः । अस्मिन्नागामिनस्ततः परस्मिन्वा मासे समालोचयिष्याम्येतदिति निश्चित- वतापि न पारितं विविधकार्यव्याप्तेन मयाऽद्यावधि पुस्तकमेतदामूलान्तं पठितुम् । अवसितपठनेन चाधुना सप्रमोदमेतत्समालोच्यते। परिचित एवायं महाकविः प्रायेण सर्वस्यापि संस्कृतचन्द्रिकाया ग्राहकगणस्य विशेषतश्च पञ्चमवर्षीयस्य । समालोचितपूर्वाहि कविनतेनैव प्रणीता ललितपदविन्यासमनोहरा नानाविधालङ्कारसमुज्वलिता विविधरसप्रसरतर- ङ्गिता नवयौवननिधानपेटिका युवतिरिव हृदयङ्गमा काव्यपेटिकानाम । समालोचितचरं च प्रसन्नतरं सुधामपि तिरस्कुर्वदमुष्यैव कवेः सरस्वती- निःस्यन्दो भगवच्छतकम् । अहो भाग्यं भारतभुवो यदेवंविधाः परदेशीय- भाषाविप्लावितेऽपि काले समुज्जीवयन्तः संस्कृतभाषां नानाविधमनोहर- संस्कृतचन्द्रिका। काव्यप्रणेतार : समुद्भवन्त्येतस्याम् । सर्वथा चिरंजीवयित्वाऽभिनवमपि प्राचीनसदृशवाचं कविगणममुं समुज्जीवयतु संस्कृतभाषां भगवांश्चन्द्रचूड इत्याशास्य प्रकृतमनुसरामः । अस्मन्नयनयोर्गोचरश्चेदं पूर्वखण्डमेतदस्य काव्यस्य । इदं च सप्तदश- सर्गात्मकम् । वर्तमानदिनाजपुराधश्विरश्रीयुतगिरिजानाथरायबहादूरस्य प्रपितामहान्तस्तद्राजवंशोऽत्र सविस्तरं मनोरमया सरस्वत्या समुपवर्णितः । अस्य काव्यस्य च प्रणयनप्रयोजन तृतीयसारम्भे कथेयमुपलभ्यते । कदाचिगिरिजानाथरायबहादूरस्य सभां गतस्तत्पुरोहितो महात्मा महेश- चन्द्रतर्कचूडामणिस्तेन राज्ञा सम्यक् संभाव्य विज्ञापितः । आर्य अस्ति कुतूहलमस्माकं पूर्वेषां चरितानि श्रोतुम् भवांस्तु कविप्रवरो वक्ता च विदितास्मद्वंशकीर्तिश्च तत्सफलय मदीयां वाञ्छामिति । तदाकर्ण्य प्रमुदितेन श्रीमहेशचन्द्रकविना प्रशस्य राज्ञो वाञ्छां तस्य च पूर्वजानां वर्णने देवभाषाया एव युक्तरूपत्वमवबुध्योपक्रान्तोऽयं प्रबन्धः । प्रस्तावे चास्मिन्कविना विरचितं संस्कृतभाषाया वर्णनमतिप्रसन्नमतिमात्रं च हृदयङ्गमं संवृत्तम् । ये च केचिदाधुनिका नव्यशिक्षितप्रवराः सावहेल मृतेति संस्कृतभाषामधिकृत्य ब्रुवते तान्प्रति कवेरस्य वचनमत्रोपहर्तुमि- मे च्छामः ॥ यथा- ये तु केचिदिमां दिव्या भारतीममृतामपि । मृतां वदन्तो निन्दन्ति दूरात्परिहरन्ति च । मूढास्ते पण्डितम्मन्या बालास्ते वृद्धमानिन । अन्धास्ते दृष्टिमन्तोऽपि प्राप्ता गजनिमीलिकाम् ॥ पश्यन्तोऽपि न पश्यन्ति ते हि ब्राह्मीमितस्तत:। अद्यापि ब्राह्मणमुखे नृत्यन्तीं रुचिरैः पदैः॥ यावदस्ति त्रयी लोके चतुर्मुखमुखोद्गता । :

समालोचना। यावद्रा रामचरितं वाल्मीकिकविचित्रितम् ।। क्षरन्त्यमृतधारा वा यावयासस्य सूक्तयः। वाग्देव्या वरपुत्रस्य कालिदासस्य वा गिरः॥ तावदेषा देवभाषा देवी स्थास्यति भूतले । यावच्च वंशोस्त्यार्याणां तावदेपा ध्रुवं ध्रुवा ।। असते सांप्रतं यातु बलाजनपदानिमान् । राक्षसी सा म्लेच्छभाषा तिष्ठेदत्र कियचिरम् ॥ यावदेवाधिकारोऽस्ति बृटिशामिह भारते । तावदेन तदीयाया भाषाया अपि जीवितम् ॥ पारसकागराऽप्यासीदीदृगेवाहता पुरा । हतादरा त्विदानी सा वेश्येव गतयौवना ॥ इति ॥ एतावद्भिरपि पद्यै ः काव्यस्यास्य मधुरिमा प्रसादातिशयश्च शक्य : सम्यगनुभवितुं रसिकैः । अहो धन्यः स प्रदेशो यत्रैवविधा अस्मिन्नपि काले सिद्धसरस्वतीका : कवयो यत्र चैषां सम्भावयितारो विद्यैकव्यसनिनो महाराजगिरिजानाथसदृशा महीपाला : । सर्वथा वरीवृध्यन्तामेवंविधाः समा- श्रितकवयो भूपाला : संस्कृतभाषायां प्रणयपक्षपातिनश्र कविप्रवराः । यमकादावपि कवेरस्याप्रतिहत एव प्रसादगुण : तत्रैकमेव पद्यमत्रोदाहिर- यते यथा-- अपगते जलदावरणे चिरात् स्फुटपुटैः कुमुदैनयनैरिव। कुमुदिनीभिरदृश्यत तारक- ब्रजगतो जगतो हितकृद्विधुः ॥ इति ॥ । १ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशेति गिर आप्प्रत्यय: ।

•. *. संस्कृतचन्द्रिका। यमकचित्रप्रायोऽपि समनः सप्तदश : सर्ग इतरकाव्यापेक्षया सुबोध : संवृत्तः । अत्र च चतुर्थसं कायस्थवृत्तान्तो निवेदितोऽतिमात्रमनोरम: । पुरा किल विराज : पुरुषल्य पादोद्भवेषु प्राणिषु प्रदीपाख्य ः कश्चिजज्ञे । तस्य च विनयोपेतस्तनयो बभूव कायस्थो नाम । तेनैव शब्दलेखनसंकेता वर्णा : प्रादुरकारिपत न तु ततः पूर्वं लिपि मासीत् । तेन पञ्चाशाल्लिपय : प्राकाश्यन्तेत्यादि । एतच्च उतत्य : पश्यन्न ददर्शवाचमुतत्व : शृण्वन्न शृणोत्येनाम् । इति श्रुतिवचनविरुद्धमिव प्रतिभाति । एतच्च औतं वचनं श्रुतिसमयेऽपि विद्योतयति लिपेविद्यमानत्वम् । अन्यथा ह्यत्र वाचश्चाक्षुषं प्रत्यक्षमभिधीयमानं व्याहन्येत । तथापि नायं कायस्थवृन्तान्तो निर्मूल इति ब्रूम : । अत्र हि स्यात्किमपि मूलं स्याच तस्य व्यवस्थाऽप्यन्या । काव्ये चालायमस्माकमभिप्राय : न कः काव्याद्स्मादमृतरसनिःस्यन्दमधुरा- दमन्दं नु माता रसिकवर आनन्दमतुलम् । किमन्यद्वक्ष्यामो ललितलनालिङ्गितनू रपि त्यक्त्वा राम सुरसमदसीयं रसयिता ॥१॥ जयतु गिरिजानाथः स्फूर्जधशा माहिमण्डले क्षितिपतिरसौ विद्यानिष्ट : श्रित : कविनायकैः । विलसतु तथा निर्यातं यन्महेशमुखाम्बुजा- दमृतमधुरं तद्वंश्यानां चरित्रमनुत्तमम् ॥ २॥ काव्येऽत्र वर्तमानानां मनोहराणां पद्यानामुपहरणे न प्रभवेदसौ लवी- यसी संस्कृतचन्द्रिकेति तानि दिदृक्षमाणैरेतदवश्यं सङ्ग्राह्यम् । कलिकाता- प्रभृतीनां वर्णने तु पठितेऽपि नयनगोचरीभूतानिव तांस्तान्पदार्थान्मानसं मनुते। स्थूलदृशा संवेदनीयस्तु नास्त्येकोऽपि दोषोऽत्रमहाकाव्ये। सर्वथा हृदयङ्गममिदं मुहुर्मुहुः पठितमपि पुन: पठनेच्छां जनयति। मूल्यं तु नावबोद्धं शक्यं निसर्गत एवामूल्यस्यैतस्येति शिवम् ।

श्रीशिवः शरणम् । । संस्कृतचन्द्रिका ॥ ॥ श्रीगणेशाय नमः॥ शिवादीनपि कर्माणि कारयन्ती जनानिव । मायाऽवलम्ब्यते सेयमम्वा श्रीशिवसुन्दरी ।। || मासावतरणिका ॥ निशेष शिशिरीकरोति भुवनं मासः सहाः सन्ततं भानोरप्याहिमान्मरीचिनिचयांश्चान्द्रानिवाभासयन् । किन्तु प्राणसमावियोगविकलः पान्थोऽयमेकान्ततः प्रत्यूपस्युपयाति कामपि दशां चित्तेऽग्निनेव क्षतः ॥ ८॥ उगट-श्लोकाः। विद्या सत्कविता तथा सुजनता सेवा तथा भावना पञ्चैताः परिणिन्यिरे जनयितुं वित्तात्मजं यत्नतः। व्यापारान्परिहत्य हन्त बहुधा तत्रैव रेमे सदा दुर्दैवेन दुरात्मना विदधिरे पञ्चैव वन्थ्याः स्त्रियः ॥ नाभेबिलादवविनिर्गतपन्नगीयं संस्थिता नयनखञ्जनभक्षणाय । नासां विलोक्य गरुडभ्रममुद्वहन्ती लीना हि पीनकुचपर्वतयारधस्तात् ॥* ** कस्याश्चित्तरुण्या रोमावलिवर्णनमिदम् । एषा रोमावलिरूपा भुजगी नाभिबिला- नयनरूपखंजरीटभक्षणायोपसर्पन्ती मध्ये नासाया गरुडनासासदृश्या अवलोकनेन सजातगरुडाशङ्काऽऽत्मानं परित्रातुं कुचपर्वतयोरधत्तालीनेतितात्पर्यम् ।

संस्कृतचन्द्रिका । पण्डितराजः श्रीजगन्नाथः। जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति येषां यशाकाये जरामरण भयम् ॥ भूयांसः खल्वत्रप्राणिनः समुत्पद्यन्ते बहुतराश्च विलीयन्ते । ते किल गणयितुमप्यशक्या एव । ते पुनर्मातुरुदरान्निर्गता इत्येव संभूता इत्यभिधी- यन्ते । एवंविधं किल जन्म न केवलं मानुषा अपि तु तिर्यञ्चोऽपि प्रतिपद्यन्ते । किन्तु किमनेन मातुर्यौवनवनकुठारेण जन्मना । स एव किलात्र संभूत इत्यभिधीयते विद्वद्भिर्यस्य दशानामपि दिशां वदनमभिचुम्बति शारदशशिप्रभाभास्वरा कीर्तिर्यस्य वा प्रणयिनीव वशंवदा भगवती गिरांदेवी योवा मदयति सुधामधुरेणाचरितेन मनांसि विबुधानाम् । विरलाः खल्वेवं- विधा जन्मिनो जगति जायन्ते । जाताश्च विरला एव नाभिभूयन्ते महीय- साऽहङ्कारेण । योऽयमस्माभिरघोपवर्णयितुमारब्धः सोऽपिकिल महात्मा प्रतिभटकरिकेसरी पण्डितराजो जगन्नाथ एवंविधैरेव गुणैः सम्पन्नः । बहुभिः किलास्य जीवनवृत्तमतिसंक्षेपतः क्वचित्किवदतीमयं क्वचित्प्रमाण- परिपूरितं चोल्लिखितं दृष्टमस्माभिः । किन्तु या एतत्सबन्धिन्य एकान्ततो वितथाः श्रूयन्ते वार्ता न ताः कैश्चिदपि सम्यनिराकृताः । नापि वा मनोरममुपावणि चारित्रमेतस्य । नापि वा समालोचिता एतत्कृताः प्रबन्धाः। अतस्तत्रेदानीं यावच्छक्यं प्रवृत्ताः स्मः । यथान्येषां प्राचीनपण्डितानामेवं श्रीजगन्नाथरायस्यापि जननावसरो न शक्यते सुनिश्चितः समवबोद्धम् । किन्तु पण्डितोत्तंसस्यैतस्य दिल्लीवल्लभा- वलम्बनं बहुविधैःप्रमाणौनिर्णीयमानं निवेदयत्यापाततः स्थितिसमयम् । अयं किल भामिनीविलासस्यान्तिमोल्लासे दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वय इति दिल्लीश्वरस्य समीप आत्मना यौवनमतिवाहितमिति पण्डितराजः श्रीजगन्नाथः। १७१ । प्रतिपादयति । स च दिलीश्वरोऽकबर इत्येक प्राहुः । अपरे तु तं शहाज- हानमेव त्रुवते । जनेषु सुप्रथिता तु प्रथमा वार्ता निर्मूलतमैव । जगन्नाथो यात्मना विरचित आसफविलासनान्नि काव्ये स्वस्य शहाजहान- प्रियत्वमुपवर्णयति । शहाजहानन्तु श्रीशालिवाहनशकस्य पोडशशताव्या अपरार्धदिल्लीश्वरत्वमापन्नः । तस्याश्चावसानावसरे कालवशं प्राप्तः । ततः परं च तत्स्नुरवरंगनीवो दिल्लीराजपदमध्यरोहत् । न च जगन्नाथविरचि- तेषु म्लेच्छभूपालचरितवर्णनात्मकेषु काव्येषु दिल्लीपतेरवरंगजीवस्य चरितं दृश्यते । तदयं पण्डितराजः शहाजहान समीप एव विललास न पुनरव- रंगजीवमुपाश्रयदिति प्रतीयते । तेन चावरंगजीवस्य राज्याधिरोहणपर्यन्त- मेव दिल्लीनगरेऽस्य संस्थितिरित्यपि सुबोधम् । स च यवनमहिपाल : पितरं निगडीकृत्याशीत्युत्तरपञ्चदशशतमिते (१५८०) शालिवाहनशके दिल्ली- श्वरपदमात्मसाञ्चक्रे । तस्मिंचावसरे जगन्नाथो यौवनपरिभूषित आसीदित्यु- परितनेन पद्येन स्फुटीभवति । एवं च चत्वारिंशदधिकपञ्चदशशतमित- मब्दमारभ्य पञ्चाशदुत्तरपञ्चदशशततमान्तेष्वेवाव्देष्वन्तर्भूतो जगन्नाथस्य जननवत्सर इति वचनं न किल वैतथ्यपदवीमवगाहेत । पण्डितप्रवरस्यास्याभिननो देशस्तैलङ्गापरनामाऽऽन्ध्र इति तैलङ्गकुला- बतंसेनए ण्डितराज जगन्नाथेनेत्यासफविलासावसाने निबद्धाद्यतस्तैलङ्गा- बयमङ्गलालय इत्यादिप्राणाभरणवर्तिनः पाद्याच्चावगम्यते । अत्रैवमेके संशयीरन् । न किल तैल झान्वय इत्यनेन तैलङ्गप्रदेशसंभवत्वमेतस्याववोर्ल्ड शक्यम् । अन्यदेव हि कुलनाम भिन्नमेव चाभिजनप्रदेशाव्हानं भव- तीति । सत्यमिव चैतत्प्रतिभाति । अत एव काव्यमालाकाराणामुपरितना- शयगर्भ वचनं केवलं जगन्नाथरायस्य पूर्वनानां तैलङ्गे स्थितिं सूचयितुं प्रभवति न पुनः श्रीजगन्नाथरायस्यापि तदेव जननस्थानमिति । न चाग्रे वेगिनाडकुलत्वमुच्यमानं विरुध्येतेति वक्तव्यम् । तस्य तैलङ्गीयता- व्याप्यत्वेनाविरोधात् । दृश्यन्ते हि अहवस्तैलङ्गकुलासंभूता अपि तदन्तर्गतभे- । A नान्य १७२ संस्कृतचन्द्रिका। दवत्सु कुलेषु परिगण्यमानाः पुरुषाः । यथा हिन्दुपदवाच्येषु ब्राह्मणादि- कुलसंभूता इति । एवंच काव्यमालाकाराणां तैलङ्गाभिजन इतिवचनस्य तैलंगकुल*त्वमेवार्थ इति प्रत्येतव्यमिति प्रतिभाति । तथाच जन्मभूमिरववोढुं शक्या किन्तु पूर्वजानां निवासस्थानं तैलङ्गप्रदेश इत्येव संसिद्धम् । तैलङ्गताव्याप्येषु च कुलेषु वेगिनाडसंज्ञे कुले लब्धजन्माऽयं पण्डितप्रवर इति काव्यमलाकाराः प्राहुः । पिता चास्य समस्तपण्डितमण्डलीमण्डन : पेरमभट्टापराख्य : पेरुभट्टो नाम । अयं चातिप्रशंसनीयोऽध्यापक आसीत् । अस्य च वैदुष्यादिविषये रसगङ्गाधरारम्भे श्रीमतो जगन्नाथरायस्योक्तिरियम् --- श्रीमज्ज्ञानेन्द्रभिक्षोराधिगतसकलनलविद्यामपञ्चः काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् । देवादेवाध्यगोष्ट स्मरहरनगरे शासनं जैमिनीयं शेषाङ्कमातशेषामलभाणतिरभूत्सर्वविद्याधरो यः ॥ पाषाणादपि पीयूषं स्यन्दते यस्य लीलया। तं वन्दे पेरुमहाख्यं लक्ष्मीकान्तं महागुरुम् ॥ इति ॥ यस्य लीलया पाषाणादपि पीयूषं स्यन्दते निर्बुद्धेरपि वदनात्सरसा सरस्वती प्रवर्तत इति भावः । इदमेव च श्रीपेरमभट्टमहाशयस्याध्यापको- त्तमत्वे ज्ञापकम् । नत्वेतत्प्रणीता : केचिदपि प्रबन्धा अस्मच्छ्रवणसरणि- मुपयाता: । द्वितीयपद्यनिबद्धं महागुरुपदं जगन्नाथस्यैतच्छिप्यत्वमेव प्रकाशयति । उपरितनपद्ये निर्दिश्यमाना ज्ञानेन्द्रभिक्षुमहेन्द्रप्रभृतय : कदा * भवेदभिजन : ख्याती जन्मभूम्यां कुलध्वजे । कुलेऽपि च पुमान् इतिमेदिनी । । शेषाङ्केति-शेषइत्यङ्कश्चिन्हं यस्य तस्माच्छेषोपाढ्वादित्यर्थः । शेषो- पाहबवीरेश्वरभटादेव च व्याकरणशास्त्रनोतमतेनेति प्रसिद्धिः। शेषस्य पतञ्जलेरमला भणितियाकरणशास्त्ररूपेत्यर्थ :

पण्डितराजः श्रीजगन्नाथः । कुत्र समुद्भूता इत्यादि सम्यङ्न ज्ञायते । अस्यैव च महाभागन्यायं प्रभावो यदशेषपण्डितजनपाण्डित्यगर्वसर्वङ्कप : श्रीजगन्नाथ : संवृत्तः । पुरन्ध्रगणवन्द य चारित्रा चास्य मूर्तिमतीव लक्ष्मीबश्व भार्या लक्ष्मी म । तयोश्च तथाविधयोरपत्यमयं पण्डितराय : श्रीगन्नाथ : । अवितथं किले- दमभिधीयते प्राज्ञै : सुक्षेत्रपतितं बीजं समधिकामेव कामपि सम्पदमुपया- तीति । अशेषविद्वज्जनवरेण्येन हि पित्रा निरुपममतिवैभवे जगन्नाथे संक्रमितानि शास्त्राणि समधिकामेव कामपि कान्तिमविन्दन्त । अहो धन्यौ तो मातापितरौ ययोरयमप्रतिहतवैदुप्यो रसिकशेखर : कविप्रवरश्च पण्डितराजो- जगन्नाथस्तनयः । । यदुक्तं जगन्नाथरायेण दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वय इति तेन किलास्याध्ययनादिकं तारुण्यारम्भात्प्राक्तत्समनन्तरमेव वा समवसितमित्यवगम्यते । अन्यथा कथं ब्रूयान्नवीनं वय इति । संभवनीयं चेदम् । अशेषशास्त्रपारदृश्वा जनकोऽध्यापक : पण्डितराज- सदृश : प्रशस्यतरत्रुद्धिविभूषितश्च तनयोऽध्येता इति सङ्घटित एतस्मि- न्ननुरूपतमे द्वन्द्वे कथं नाम न वशमनुवर्तेत वशंवदेव रमणी विद्या । जगन्नाथसदृशो यदि पितुरितरमपि गुरुमध्ययनायोपासीत तदाऽपि समधीतेषु शास्त्रेप्वेकान्तत : प्रावीण्यमधिगच्छेत् किंपुनर्जगति निरुपममा- त्मनस्तनयमवलुलोकिषमाणनोत्साहवता पाण्डित्यगुरुणा जनकेनाध्यापित : । विरला : किल सरसमधुरपदविन्यासाया : सरस्वत्या : प्रियतमत्वमुपयाता जगन्नाथसदृशा दार्शनिका: । स किल लोकोत्तर : प्रसाद : स चा- लौकिको मधुरिमा तच्च निरुपममौदार्य साच मनोहरता नूनं विरलाना- मेवान्येषां काव्येप्वनुभूयते । सर्वथाऽवितथं किलोक्तमेतन भामिनीविलासे- गिरां देवो वीणागुणरणनहीनादरकरा यदीयानां वाचाममृतमयमाचामति रसम् ।

संस्कृतचन्द्रिका। वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपते- रधुन्वन्मूर्धानं नृपशुरथवाऽयं पशुपतिः॥ इति ॥ न खलु तादृशो रसिक एकोऽपि भुवने दृश्येत यस्यान्तरं न मदये- त्सरस्वतीनिस्यन्दो जगन्नाथस्य । एतस्य हि तत्तद्रसपरिपूरितेषु पठ्यमानेषु तेषु तेषु पद्येषु तत्तद्रसमयतामिवापद्यते चेतो रसिकस्य । मुहुर्मुहु : पठि- तान्यप्येतस्य पद्यानि पच्यमानानि नवं नवमेव कमपि रसं वितरन्ति । अयं चात्मनः पित्रा तुल्यमेव प्रायः सर्वत्रापि शास्त्रेषु प्रावीण्यमधिजगा- मेति रसगङ्गाधरे तत्र तत्र प्रतिपादितेभ्यस्तेभ्यस्तेभ्यो विषयेभ्य : स्फुटी- भवति प्रबन्धास्त्त्वस्य न सर्वेषु शास्त्रेषु दृश्यन्ते । केवलं व्याकरणे प्रतिवादिमद- सिन्धुकूलङ्कपा कुचमर्दिनी अलङ्कारशास्त्रे साहित्ये वा तथाविध एव रस- गङ्गाधरश्चेति द्वावेवास्य सुप्रथितौ प्रबन्धौ शास्त्रीयौ । अन्यच्च चित्र- मीमांसाखण्डनं नाम श्रीमदप्पयदीक्षितचरणैविरचितायाचित्रमीमांसाया : खण्डनम् । तदितरे तु सर्वेऽपि लोकोत्तरलालित्यसमुल्लसिता : काव्यमया एव ग्रन्था विरचिता एतेन । काव्यं हि नाम निष्प्रयाससाध्यं वशीकरणं भूपानाम् । स्वभावतो हि दुरूहाणि शास्त्राणि न किल ततः प्रौढमतिमात्र- मनोरमेभ्यः प्रमोदमामुवते महीपाला: । तत्र च जगन्नाथेनावलम्बित : स्वप्नेऽप्यदृष्टशास्त्रप्रवेशो म्लेच्छजातीयो महीपति :। तत्कुतो वा शास्त्रविचार- चर्चया तथाविधस्य भूपतेरनुरञ्जनप्रत्याशा । अत एवात्मन : प्रभोर्लेच्छमही- पालस्य दुराराध्यं चित्तमाराधयता न लब्ध इतरशास्त्रेषु प्रबन्धान्प्रणेतु- मवसरो जगन्नाथेनेति प्रतिभाति । रसास्तु शृङ्गारादयः सरसमतिनोपवर्ण्य- माना ः कस्य वा मनसि न प्रमोदं जनयेयुः। यद्यभिलषेयुः कवयस्तदा नूनं निरस्तसंसारवासनमपि पुमांसं कुसुमशरशरशरव्यतामुपनयेयुरविरतर- मणीवनचुम्बनलालसमपि च क्षणादेव निराकृतविषयवासनं विदधीरन् । ततः का कथा यवनस्य । काव्यं च नाम नहि यथावसरमेव रच्यमान विशेषतो मधुरिमाणमासादयति। अतस्तत्कविभिरनुक्षणमेव निर्मीयते। अशक्यंच प्रासपतम्। सर्वाङ्गमनोरमतरं काव्यमन्तरा निसर्गत एवं विभिन्नरुचे॰च्छस्य चित्त- माराधयितुम्। अत उच्यते विशेषतो न लब्ध : शास्त्रीयप्रबन्धान्प्रणेतुमवसरो जगन्नाथेनेति। [ क्रमश:] प्राप्तपत्रम् । ( पूर्वप्रकाशितात्परम् ) द्वितीयस्य तु चुरादिणिचो वैकल्पिकत्वस्येत्यादिनाश्वघाटी जगन्नाथो विश्वत्दृयामरीरचदित्यन्तेन रारचीतीत्येतस्य वाचकतोक्ता विद्याधर- मिश्रेण साऽति विचिन्त्या । साधारण्येन चुरादिणिज्विकल्पकल्पनाया अश्रद्धेयत्वात् । तदुक्तन्नोगशभेट्टन भाप्याब्धितिमिङ्गिलाय- मानेन । गणेरनित्यण्यत्वे णेरणावितिसूत्रस्थभाष्यासंगतिरिति । अणौ कर्मणो णौकर्तृत्वे भवत्यात्मनेपदङ्गाणिस्तुनित्यण्यन्त इति हि तत्र भाट्ये स्थितम् । एतेन वृति : परास्तापध्यानकथा चाप्यस्ततामगात् । कथकः कत्थनानन्दसन्दोहो भवेदेव । मादृक्षलक्षावध्यदक्षदीक्षादीक्षितेनापि प्रौढमनोरमायामदन्तत्वप्रतीकमुमादाय गर्वयतावुक्तम् । अयंभावः । कथयति गणयतीत्यादावपुधावृद्धिनिवारणेनाचकथदित्यादावग्लोपित्वाद्दीर्घ- सम्वद्भावविरहेण सारभामप्रभृतीनामुपधाहस्वव्यावर्तनेन चादन्तत्वं सार्थकम् । गर्वादीनान्तु अदन्तत्वे फलाभावाणिज्विकल्पोनुमीयते । युक्तंचैतत् । चिन्तयतेरिदित्त्वं सामान्यापेक्षकं ज्ञापकमिति मते इहाप्यकारफलस्येष्टत्वात् । विशेषापेक्षकमिति मतेऽपि तत्र तत्राकार इकार ईकार उकार ऊकारश्चेत्यनुबन्धा ज्ञापकतया स्वीकृता यथा चावि- शद्वन इति निषेधस्तथादन्तताप्यस्तु । एवंसति मतद्वयेऽप्येकरूप- फललाभात् । विकल्पस्तावदनेकदोषदुष्टो निर्मूलश्चेति सुष्ठु द्रष्टव्यम् ।

१७६ संस्कृत चन्द्रिका। अश्वघाटीजगन्नाथो विश्वहृद्यामरीरचदित्यत्रारीरचदिति म्लेच्छ एव । वाचकतायाः कथमप्यनुपपतेः । रचेरग्लोपितायाः प्रतिसमालोचकीभूत- मतेप्यनपायात् । सन्वद्भावदी? विना चास्यसुतरामनुपपत्तिस्तत्राग्रह- त्याग एव ज्यायान् । अचीकरदिति तत्र पठनीयम् । यङश्चर्चा च चिन्तनीया रारचीतीत्यत्रत्या । तस्य असभ्यत्वात् । अन्यथा सूचिसूत्रिमूत्रिभ्यस्त्रिभ्यस्तद्विधेः प्रातिकूल्यम्प्रसज्येतेति सङ्क्षपः । ॥ श्लोकः ॥ अब्धावुत्तरलीकृते तरलिते दिङ्मण्डले चन्द्रिका- कृष्ट्या तत्र च भूतनाथनयने ज्वालावलिज्वालिते ॥ स्फारोत्फूत्कृतिनागचीत्कृतिगजे पञ्चाननोद्गर्जिते हाहाकारभये भविष्यति सखे त्वं रे कथं स्थास्यसि ॥१॥ नामनियोगरीतिः। यथा-- ऊर्ध्वपुण्ड्रं द्विजः कुर्यात्रिपुण्ड्र क्षत्रियस्तथा। वैश्यैस्त्रिकोणमालेख्यं वर्तुलं शूद्रजातिभिः॥ इत्यादिशास्त्रात् तथाविधतिलकधारिणं यं कंचिद्वा दृष्टं तिलकाकृत्यैव ब्राह्मणमन्यं वा निश्चित्य तदनुरूपं व्यवहरति व्यावहारिकस्तथा पृष्टेनोचा- रितेन च नाम्नैव ब्राह्मणोयमन्यो वेति निश्चिनोति। इत्थमार्याणां वेशेन नाम्ना च शास्त्रदृष्टेन न कस्यापि परिचयोपपत्तौ विप्रतिसंभावना स्यात् । तय नामकथनं विचार्य प्रबध्यते। १ म्लेच्छो ह वा एष यदपशब्द इति भाष्यम् ( स० सम्पादकः)

नामनियोगरीतिः।
१७७
..
तत्र रघुनन्दनकृतज्योतिःसंस्कारोद्वाहतत्वे गर्ग:
आदौ घोषवदक्षरं यवरलान्मध्ये पुनः स्थापये-
दन्ते दीघविसर्जनीयरहितं नाम प्रयत्नात्कृतम्।
ऋक्षे तिप्यकराश्विसौम्यवसुभे चित्रानुराधोत्तरे
पौपणे चादितिरोहिणीषु शुभकृत्पुंसां समैरक्षरैः ॥ इति ॥
दीपिकास्वरसात्स्वातिशतभिषाश्रवणा अत्र ग्राह्या । गोभिलसमतं पूर्वार्धं
तेन नारायण जनार्दनादि नाम कुर्यात् ।
यत्तु नामकरणं कुलदेवतानक्षत्राभिसम्बन्धं पिता नाम कुर्या-
दन्यो वा कुलवृद्ध इति कल्पतरुधृतशङ्खलिखितवचनेनाभिवादनीय
नामधेयं कल्पयित्वा देवताश्रयं गोत्राश्रयं नक्षत्राश्रयमप्येक इति गोभि-
लसूत्रेणोपनयनकाले च नक्षत्राभिसम्बन्धेन नामाभिधानं तच्छतपदचक्रानु-
सारात्स्वनक्षत्रपदानुसाराज्ज्ञेयम् । पाश्चात्यानां तथैव व्यवहार : । यत्र तु
न तथाकृतं तत्र नामाक्षरानुसारनक्षत्रादपि फलं ज्ञेयम् । अत्र कुलवृद्ध
इति दर्शनात्संस्कारान्तरे तथैव व्यवहार : ।
गोभिल :--एतदतद्धितम्-एतन्नाम तद्धितरहितं कुर्यात् । तच्च
देवशर्माद्युपपदान्तत्वेन कर्तव्यम् । तथाच विष्णुपुराणे ३ अंशे १० अध्याये-
ततश्च नाम कुर्वीत पितैव दशमेऽहनि ।
देवपूर्व नराख्यं हि शर्मवादि संयुतम् ॥
शर्मति ब्राह्मणस्योक्तं वर्मति क्षत्रसंश्रयम् ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः॥
नार्थहीनं न चाशस्तं नापशब्दयुतं तथा ।
नामङ्गल्यं जुगुप्स्यं वा नाम कुर्यात्समाक्षरम् ॥
नातिदीर्घ नातिन्हवं नातिगुर्वक्षरान्वितम् ।
सुखोचार्याक्षरं नाम कुर्याश्च प्रवणाशरम् ॥
प्रवणाक्षरं लघूत्तराक्षरमिति तट्टीकाकारः ।
अत्र स्मार्तो रघुनन्दनः संस्कारतत्वेऽर्थमित्थं व्याकरोत् । नरमाचष्ट
इति नराख्यं नरनाम देवात्पूर्व तच्च विशिष्टं शर्मयुतम् ।

- १७८ संस्कृतचन्द्रिका। शर्मा देवश्च विप्रस्य वर्मा नाता च भूभुजः। भूतिप्प्तश्च वैश्यस्य दासः शूद्रस्य कारयेत् ॥ इति यमवचने समुच्चयोपलब्धः शर्मान्तं ब्राह्मणस्य स्यादिति शातात- पीयेन शर्मान्तता च । तेन अमुकदेवमिति नामायातम् । वङ्गेऽनेके गौडीयास्तथैव व्यवहरन्तीति । वाचस्पतिमिश्रस्तु ततोऽन्यथा व्याचख्यो । स तु देवेति देववाचकं हरिरित्यादिकं नाम्नः पूर्वप्रतीकं शर्मेत्युत्तरप्रतीकं तेन हरिशर्मा नारायण- शर्मेत्यादिकमुपपद्यते नामेत्याह । मैथिलानां व्यवहारो पि तथैव एतत्तु द्वैतनिर्णये तेन विशेषतः प्रपञ्चितम् । जीवतां नाम्नः श्रीपूर्वकत्वं यथा--- देवं गुरुं गुरुस्थानं क्षेत्र क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्व समुदीरयेत् ॥ इति राघवभधृतप्रयोगसारदर्शनात् स्वर्गक्रामित्वादिना सिद्धोऽधिकारो येषां नराणामित्यनेन जीवतां* श्रीशङ्कादित्वं नाम्नो न मृतानां तथेति शिष्टाचारः । इति संस्कारोद्वाहज्योतिस्तत्वे रघुनन्दनः । स्त्रीणां तु नाम- स्त्रीणांसुखोद्यमक्रूरं विस्पष्टार्थ मनोहरम् । माङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्॥ इति वचनादयुग्दान्तं स्त्रीणामिति गोभिलसूत्राच यशोदा सारदा वरदा सुखदेत्यादि शस्तम् । तच्च द्विजातीनां देव्यन्तम् । देव्यन्ताश्च स्त्रिय : सर्वा दास्यन्ताः शूद्रयोनय इति कर्मविपाकवचनात् । शूद्रो दासान्तकः स्मृत इति वचनात्तत्पत्न्याश्च पुंयोगाजातेश्चेतीप्रत्ययेन दास्यन्तता। व्यवहा- रोऽपि शूद्रे तथैव । यत्तु देव्यन्ता इति सर्ववर्णपरमिति तन्न । प्रकारणाविनातिपुंयोगवा- धाच्च । शर्मणीवर्मणीप्रयोगस्तु न व्यवहार्य इति । । * यागादिक्रियाधिकार : स्वर्गकामित्वं च जीवतामेव संभवति ।

श्रीशिवराजविजयः। ब्राह्मणपुलांश्चानीतवानसीति । कथं न भवेरीदृश : कुलमेवेदृशं राजपुत्र- देशीयक्षत्रियाणाम् । तावत्पुनरश्रूयत मर्मर : पादक्षेपश्च । ततो विरम्य मुनिः स्वयमुत्थाय शिलापीठमेकमारुह्य निपुणतया परित : पश्यन्नपि कारणं किमपि नावलोकयामास चरणाक्षेपशब्दस्य । अथ पुनरेकतानेन निपुणं निरीक्षमाणेन गौरसिंहेन दृष्टं यत्कुटीर- निकटस्थनिष्कुटककदलीकूटे द्वित्रास्तरवोऽतिरां कम्पन्त इति । तदेव संशयस्थानमित्यगुल्या निर्दिश्य कुटीरवलीके गोपथित्वा स्थापितानाम- सीनामेकमाकृष्य रिक्तहस्तेनैव मुनिना पृष्ठतोऽनुगम्यमान : कपोलतल- विलम्बमानांश्चक्षुश्चम्बिनः कुटिलकचान्यामकराङ्गलिभिरपसारयन्मुनिवेषोऽपि किञ्चित्कोपकषायितनयन : करकम्पितकृपाकृपणकृपाणो महादेवमारिराध- यिषुस्तपस्विवेषोर्जुन इव शान्तवीररसद्वयत्नात : सपदि समागतवास्तन्निकटे । अपश्यच्च लताप्रतानवितानवेष्टितरम्भास्तम्भत्रितयस्य मध्ये नीलवस्त्र. खण्डवेष्टितमूर्धानं हरितकञ्चुकं श्यामवसनानद्ध*कटितट कबुराधोवसनं काकासनेनोपविष्ट रम्भालवाललग्नाधोमुखखड्गत्सरुन्यस्तविपर्यस्तहस्तयुगलं लशुनगन्धिभिनिःश्वासः कदलीकिशलयानि मलिनयन्तं नवाङ्कुरित- श्मश्रुश्रेणिच्छलेन कन्यकापहरणपङ्ककलङ्कपङ्ककलङ्किताननं विंशतिवर्ष- कल्पं यवनयुवकम् । ततः परस्परं चाक्षुषे सम्पन्ने दृष्टोऽहमिति निश्चित्योप्लुत्य कोशात्कृपाणमाकृष्य युयुत्सुः सोऽपि सपदि संमुख- मवतस्थे । ततस्तयोरेवं सजाता : परस्परमालापा: । गौरसिंहः--कुतो रे यवनकुलकलङ्कः । । १ पर्णानां शब्दः । २ गृहारामास्तु निष्कुटा इत्यमरः । ३ वलीकं छदिष : प्रान्त : (पाखाडे इति भाषा) * आनद्ध : आसमंतात् बद्ध : । १ त्सरु: खड्गमुष्टि : २ चक्षुर्व्यापारे दर्शन इत्यर्थ :

संस्कृतचन्द्रिका। यवनयुवक:--आः वयमपि कुत इति प्रष्टव्याः। भारतीयकन्दरि- कन्दरेवपि वयं विचरामः शृङ्गलाशूलविकलानां हिन्दुपदव्यवहार्याणां च युप्मादृक्षाणां पशूनामाखेटकक्रीडया रमामहे । गौरसिंह :-( सक्रोधं विहस्य ) वयमपि तु स्वाङ्कागतसत्ववृत्तयः शिवस्य गणा अत्रैव निवसामः । तत्सुप्रभातमद्य यत्स्वयमेव त्वं दीर्घदाव- दहने पतङ्गायितोऽसि । यवनयुवक:-अरेरे वाचालाः ह्यो रात्रौ भवत्कुटीरे रुदतीं समायातां तनयां सपदि प्रयच्छत तत्कदाचिज्जीवतोऽपि त्यजेयमन्यथा मदसिभुज- जिन्या दृष्टाः क्षणात्कथावशेषाः संवत्यथ । कलकलमेतमाकर्ण्य श्यामवटुरपि कन्यकासमीपाडुत्थाय दृष्ट्वा च हन्तुमेतं यवनवराकं पर्याप्तो गौरसिंह इति मा स्मागमदन्योऽपि कश्चित्कन्यकामप- जिहीर्षुरिति वलीकादेकं विकटखड्गमाकृष्य त्सरौ गृहीत्वा कन्यकां रक्ष- स्तदध्युषितकुटीरनिकट एव तस्थौ । गौरसिंहस्तु कुटीरान्तः कन्यकास्ति सा च यवनवधव्यसनिनि मयि न शक्या द्रष्टुमपि किं नाम स्प्रष्टुं तद्यावत्तव कोणशोणिततृषित एष चन्द्रहासो न चलति तावत्कूर्दनं वा उल्फालं वा यच्चिकीर्षसि तद्विधेहि । इत्युत्का व्यालीमर्यादया सज्जः समतिष्ठत । ततो गौरसिंहो दक्षिणान्वामांश्च परःशतान्कृपाणमार्गानङ्गीकृतवतो दिनकरकरस्पर्शचतुर्गुणीकृतचाकवक्यैश्चञ्चञ्चन्द्रहासचमत्कारैश्वभूषि मुष्ण तो म्लेच्छहतकस्य केनाप्यनुपलक्षितोद्योगोऽकस्मादेव स्वासिना कलितले. दसंजातस्वेदजलजालं विशिथिलकचकुलमालं भ्रूभङ्गभग्नभालं शिरश्चिच्छेद । १ कवोष्णम् ईषदुष्णम् । २ चन्द्रहास : तरवारि : ३ कूर्दनं क्रांडेति वाचस्पति : [कुर्द-क्रीडायां ल्युट्] ४ उत्फाल: उत्पतनम् [उडो] ५ व्यालीढं नाम युद्धा- वस्थानविशेष : कोरण्डमण्डनादिषु प्रसिद्धः ।

श्रीशिवराजविजयः। अथ मुनिरपि दाडिम्बकुसुमास्तरणाच्छन्नायामिव ज्वलदङ्गाररचितायां चितायामिव गाढरुविरदिग्धायां वसुधायां शयानं वियुज्यमानभारतभुवमा- लिङ्गन्तमिव निर्जीवीभवदङ्गबन्धचालनपरं शोणितसङ्घातव्याजेनान्तः- स्थितरजोराजिमिवोद्भिरन्तं कलितमायन्तनघनाडम्बरविभ्रमं सततताम्रचूड- भक्षणपातकेनेव ताम्रीकृतं छिन्नकन्धरं यवनहतकमालोक्य सहर्प ससाधु- वादं सरोमोद्गमं च गौरसिंहमाश्लिष्य भ्रूभङ्गमात्राज्ञप्तेन भृत्येन मृतक- कञ्चुक कटिबन्धोष्णीषादिकमन्विप्यानीतं पत्रमेकमादाय स्वकुटीरं प्रविवेश। इति श्रीशिवराजविजयोपन्यासे प्रथमविरामे प्रथमो निश्वासः अथ द्वितीयो निश्वासः। रात्रिर्गमिष्यति भविष्यति सुप्रभातं चन्द्रोऽप्युदेप्यात हसिष्यति पङ्कजश्री। इत्थं विचिन्तयाति कोशगते द्विरेफे हा हन्त हन्त नलिनी गज उजहार । स्वतन्त्रयवनकुलभुज्यमानयवनपुराधीशप्रेषित : पुण्यनगरस्य समीपे एव प्रक्षालितगण्डशैलमण्डलाया निझरवारिधारापूरपूरितप्रवल- प्रवाहाया : पश्चिमपारावारप्रान्तप्रसूतगिरिग्रामगुहानिर्गताया अपि प्राच्य- पयोनिधिचुम्बनचञ्चुराया रिङ्गत्तरङ्गभङ्गोद्भूतावतशतभीमाया भीमाया नद्या अनवरतनिपतहकुलकुलकुसुमसुरभीकृतमपि नीरं वगाहमानमत्त- मतङ्गजमदधाराभि : कटूकुर्वन् हयहेषाध्वनिप्रतिध्वनिवधिरीकृतगव्यू- तिमध्यगाध्वनीनवर्ग : पटकुटीरकूट* विहितशारदाम्भोधरविडम्बनो निर- १ ताम्रचूड : कुक्कुट । पटकुटीरकूट :- शिविरसमुदाय : ।

१८२ संस्कृतचन्द्रिका । पराधिभारताभिननपीडनपातकपटलैरिव समुध्यमाननीलध्वनैरुपलक्षितो विजयपुरेश्वरस्यान्यतमः सेनानीरपझलखान : प्रतापदुर्गादविदूर एव शिववीरेण सहाहवद्यूतेन चिक्रीडिषु : ससेनस्तिष्ठति स्म। अथ जगत : प्रभाजालमाकृष्य कमलानि संमुद्य कोकान्सशोकीकृत्य सकलचराचरचक्षु : सञ्चारशक्तिं शिथिलीकृत्य कुण्डलेनेव निजमण्डलेन पश्चिमाशां भूषयन्वारुणीसेवनेनेव माञ्जिष्ठमञ्जिमरञ्जितोऽनवरतभ्रमण- परिश्रमश्रान्त इव सुषुप्सुर्मेच्छगणदुराचारदुःखाक्रान्तवसुमतीवेदनामिव समुद्रशायिनि निविवेदयिपुर्वैदिकधर्मध्वंसदर्शनसजातनिर्वेद इव गिरि- गहनेषु प्रविश्य तपश्चिकीर्षुर्धमतापतप्त इव समुद्रजले सिस्नामु : सायं समयमवगत्य सन्ध्योपासनमिव विधित्सुर्नास्ति कोऽपि मत्कुले यः सकेशग्राहं धर्मध्वंसिनो यवनहतकान्यज्ञियादस्माद्भारतगर्भान्निःसारयेदिति चिन्ताक्रान्त इव कन्दरिकन्दरेषु प्रविविक्षुर्भगवान्भास्वान्क्रमश : क्रूरकरान- पहाय दृश्यपरिपूर्णमण्डल : संवृत्य श्वेतीभूय पीतीभूय रक्तीभूय च गगन- धरातलाम्यामुभयत आक्रम्यमाण इवाण्डाकृतिमङ्गीकृत्य *कलिकौतुक- कवलीकृतं सदाचारप्रचारं पातकपुञ्जपिञ्जरितं धर्म यवनगणग्रस्तं भारतवर्ष च स्मारयन्नन्धतमसे च जगत्पातयंश्चक्षुषामगोचर एव सञ्जातः । ततः संवृत्ते किञ्चिदन्धकारे धूपधूमेनेव व्याप्तासु हरित्सु भुशुण्डी स्कन्धे निधाय निपुणं निरीक्षमाण आगतप्रत्यागतं च विदधान : प्रताप- दुर्गदौवारिक ः कस्यापि पादक्षेपध्वनिमश्रौषीत् तत स्थिरीभूय पुरत : पश्य- न्सत्यपि दीपप्रकाशेऽवतमसवशादागन्तारं कमप्यनवलोकयन्गम्भीरस्वरेण समवादीत् कः कोऽत्रभोः कः कोऽत्र भो इति । भूय : साक्षेपमवोचत्क एष मामनुत्तरयन्मुमूर्षु : समायाति बधिरः। ततो दौवारिक शान्तो भव किमिति व्यर्थ मुमूर्षरिति बधिर इति च वदसीति वक्तारमपश्यतैवाणि .. * सूर्योण्डाकृतिरुदेत्यस्तमेति चेति वदन्ति बहुविद्या: ।

१८३ स्वागताशीर्वचनमालिका। स्वागताशीर्वचनमालिका. * श्रीसद्गुरुचरणारविन्दाभ्यां नमः श्रीशृङ्गेरिजगद्गुरुसभास्थानस्थापितसद्विद्यासञ्जीविनीपाठशालाध्यक्षो- पाध्यायान्तेवासिप्रभृतिभिरुपदीकृता स्वागताशीर्वचनमालिकेयममन्दानन्द- मरन्दतुन्दिलं रचयतुतरां श्रीमत्कर्णाटसिंहासनाधीश्वरश्रीकृष्णराजमहा- रानमनोरविन्दम्। यदीयाइघ्रिपङ्केरुहध्यानमात्रा- दभीष्टार्थसिद्धिर्भवेदेव नृणाम्। सदा सच्चिदानन्दरूपं शिवं तं गुरूणां गुरुं भावयामोऽध भक्त्या॥ ? यदालोकमात्रेण पुंसां हि लोके जरीजृम्भ्यते स्वर्धनीस्पर्धिनी वाक् । स्वपादाम्बुजासक्तभक्तष्टदा नो गिरां देव्यसौ लास्यमास्ये तनोतु ॥२ निमजं निमज्जं सुसारस्वताब्धौ शुभाः सूक्तिमुक्ता समुद्धृत्य काश्चित् । इदानीं वयं तुभ्यमभ्यर्पयामो मुदाकृष्णराजमभो स्वीकुरुष्व ॥ ३ किमु स्वागतं साम्पतं कृष्णराज प्रभो स्वानुगैश्चापि मार्गा: शिवास्ते। भवद्भातृमुख्यैः सुखं वाऽध राझ्या : प्रशान्ताधिरोगाश्च किंनु मजास्ते ॥ ४ * कतिपयदिवसेभ्य : प्राक् शृङोरीपुरंसमागतवते श्रीमज्जगदगुरुचरणदर्शनाका- क्षिणे श्रीमैसुराधीश्वराय तत्रत्यैर्विद्वद्भि : प्रदत्तं संमानपत्रमिदम् । ..

१८४ संस्कृतचन्द्रिका। कचिद्वेदविद्भिः कचिच्छ्रोतविद्भिः कचिन्न्यायशद्धादिशास्त्रप्रवीणैः। कचिब्रह्मविद्याविचारानुषक्तैः सभा मण्डितेयं विभात्यद्य राजन् ॥ ५ वयं स्तोतुमीहामहेऽवद्यशीलं नरं नैव मोचारसस्यन्दिवाचा। नरेन्द्र त्वदीया गुणा रम्यरम्या बलादद्य वाचालयन्ति प्रभोऽस्मान् ॥६ अहो भाग्यमेतन्महाराज ते य- न्महानुग्रहस्यासि पात्रं गुरूणाम् । गुरुर्ब्रह्मविष्णू गुरु : श्रीमहेशो गुरुब्रह्म साक्षाद्धि वेदा गृणन्ति ॥ ७ न बुध्या न शुध्या न चाप्यौषधैर्वा प्रशान्तेति मत्वा महामारिकैषा। महात्मानमेनं शरण्यं विभाव्य त्वमायात इत्यत्र मन्यामहेऽद्य ॥ ८ तृपस्तागीहक्प्रभावोऽयमित्या- दिभिस्त्वां मृषा नैव तुष्दूषव : स्मः। प्रभो नामत: केवलं नासि कृष्ण: परं त्वर्थत श्रीनिवासोऽसि साक्षात् ॥९ निरालम्बलोकावने बद्धदी:- नरो देशिकेन्द्र: प्रदत्तावलम्बः। न किं वाञ्छितार्थ लभेतह सर्व न केनापि मोहेन कार्येह चर्चा ॥१० इदं क्षेत्रमत्यन्तरम्यं पवित्रं मुनर्ऋष्यशृङ्गस्य तत्तादृशस्य। १ मोचा कदली।

स्वागताशीर्वचनमालिका ।
१८५
यदीयाक्षिवीक्षावलादिष्टमापु :
पुरा रोमपादादयो भूमिपाला :॥ ११
महाभाग्यमेतन्महाराज नृणां
महीख्यातकर्णाटराज्यस्थितानाम् ।
यत: शौर्यधैर्याापेतोऽनवद्यः
समारूढासिंहासनोऽसि त्वमद्य ॥१२
वयं भावयामो महाराज चित्ते
व्ययं भूरि वित्तस्य तूलाय मत्वा ।
गदातावने बद्धदीक्षं भवन्तं
गदाशवचनादिचिह्न मुकुन्दम् ॥१३
यथा शीतभानुं हि दृष्ट्वा चकोरा
यथा चण्डभानुं च कोका प्रहृष्टा ।
तथा कृष्णराजेन्द्र दृष्ट्वा भवन्तं
परानन्दसिन्धौ प्रमन्ना भवाम । १४
सदा शारदाम्बा शशाङ्क्षार्धमौलि-
स्तथा रत्नगर्भो गणेशो गुरुश्च ।
महाराज सर्वेऽपि यच्छन्तु तेऽमी
मनोभीऽष्टजातं विशिष्टमहृष्टाः॥ १५
प्रभो पञ्चदश्यानिबद्धां विशुद्धा-
मिमां पद्यमुक्तासराणां सुरम्याम्।
भृशं लोभनीयामशेषैः समीड्यां
गुदागीकुरुप्वाद्य मालाममूल्याम् ॥ १६
इति श्रीसद्विद्यापाठशालाध्यक्षेण श्रीवैद्यनाथशास्त्रिणा विरचिता
स्वागताशीर्वचनमुक्तामालिका।
:

संस्कृतचन्द्रिका।
समस्यापूर्तयः।
[पूर्वतोऽनुवृत्ताः]
बलेस्तदा वामनदानकाले
गूढे गते दैत्यगुरौ हताशे।
भृङ्गारतोऽभूत्पतिताद्विरायो
घघग्यवरघग्घग्घघग्घघग्घघ्॥ १
घण्टापथे दाशरथौ सवर्गे
समागते दर्शनकौतुकिन्याः।
कुम्भाच्च्युतानि:स्वन आविरासी-
घग्घघग्घग्घघघग्घघग्घ ॥ २
मुदा तदोवाच कुमारलक्ष्मण
स्फुटा विशुद्धिर्वत जानकीमुखम् ।
कथं न्यहो कीलकलापसंकुले
विभाति वनौ जलजं यथा जले ॥३
जानाति गुप्तं मधु का नु लोके
महीरुहं कि क्रकच: करोति ।
कामं किमिच्छन्ति तथा चकोराः
पिपीलिका कुन्तति चन्द्रबिम्बम् ॥ ४
रुषा स्थिताया दयितस्य सन्निधौ
करेरुणस्य स्फुटतामुपागते । [?]
मुखेन्दुरासीन्मलिनः स्त्रिया हठा-
द्विभाति मेघे कमलं वने यथा ॥५
केकागीतिसुकौशलैः शिखिदलैरुन्मोचितं मेचक
सान्द्रस्निग्धनवाम्बुवाहविलसद्दीप्तिं च सम्मोदिनीम् ।
दृष्ट्वा मानसगापिनां विसयुतं नोटौ मरालावले-
रब्ज कस्य मुदं तनोति न विदन्काले निदाघे गते ॥६
काव्यतीर्थोपाधेभट्टाचार्यस्य
श्रीविधुशेखरशर्मण ।

समस्यापूर्तय:।
१८७
रथो रमेशस्य विहारशेपे
मिररथो रैवतकस्य नूनम् ।
समेति कृत्वेति वं ला रम्यं
ঘৰৰমৰ ঘৰু?
हते दशास्ये जनकात्मजाऽनले
অহম্বিতা প্রস্তুলা লিখালিলা ।
भविश्य तवैव हसन्मुखी तदा
विभाति वहीं जलनं यथा जले ॥२
सरोवरोर स्थशशांकविचे
विलोक्य पालं कविरेव कस्याः। (?)
बदत्यसो संतरणच्छलेन
पिपीलिका कृन्तति चन्द्रविम्बम् ।। ३
गते शुचौ फुल्लसरोजलोचना
पयोदवस्त्रां पयसा समागताम् ।
विलोक्य वर्षामुदिता तदा तडित् ।
विभाति भोकमलं बने यथा ॥४
मार्तण्डस्य करो यथा व्यपगते लब्धोदयो दुर्दिने
शीतांशो: किरणो यथा मरणपाती कृष्णपक्षे गते; [?]
पीडान्ते रुचिदो यथाम्लरस उत्फुल्लं तथा सुन्दरं
अब्ज कस्या मुदं तनोति न विन्दकाले निदाघ गते ॥५*
रत्नेश्वरपुरनिवासिन :
श्रीश्रीमन्तविद्याभूषणस्य ।
अवसितं सर्वासां समस्यापूर्तीनां मुद्रणम्। अथाऽचिरादेवैता : परीक्ष्य
य : परीक्षामुत्तरिष्यति तस्मै प्रतिश्रुतपूर्वमुपधिं दास्यति प्रष्टा समस्यानामिति
स. संपादकः।
* नित्यं सहितकवत्पादेवर्धान्तवर्जमित्यस्योगधनं न शोभते ।

१८८ संस्कृतचन्द्रिका । सानन्दमङ्गीकारः। हिन्दीभाषायाः प्रथमपुस्तकं कलिसन्तारणोपनिषञ्चति पुस्तक- द्वयं कल्याणनगरवर्तिश्रीवेंकटेश्वरयन्त्रालयाध्यक्षेण श्रीमता गंगाविष्णु श्रीकृष्णदासेन समालोचनार्थं प्रेरितमधिगतमस्माभिः। एतस्य प्रेषयितारं च धन्यं ब्रूम : । यथावसरं च चन्द्रिकायामेतत्समालोचयिप्यते । समालोचना । संस्कृतकाव्यकादम्बिनीसभासमस्यापूर्ति :-सहृदयपाठकप्रवराः न खलु वयं केषाममि गुणेषु मनागपि दोषानारोपथितुमिच्छामो नापि वा कांश्चिदप्यवमन्तुमभिलप्यामः । एषा पुनर्भगवती संस्कृतभाषा नानाविधै- रुपप्लवैर्व्याकुलीभूतेति तस्या : समुन्नतये ये ये प्रयत्ना विद्वद्भिरास्थीयन्ते तेषां तेषां प्रकृतोपयुक्तत्वं तदभावो वा पर्यवस्यति पर्यवस्येच्चेति विवेचन देववाण्या : समुन्नतय एव च प्रयत्नगतदोषाणामाविष्करणं साम्प्रतमति- मात्रं साम्प्रतमिति वयं मन्यामहे । तथाननुष्ठानमेव परं दूषणं गुणज्ञानामिति च निश्चला नो बुद्धि : । अत एव साम्प्रतं काव्यकादम्बिन्या : समालोचनां निःपक्षपातिना मनसा विधातुमिच्छामः । मुद्रणदोषास्त्वनवधानमूलका एवेति न तानत्र प्रदर्शयितुमिच्छाम : किन्तु थैः कादम्बिनी सजलकाद- म्बिनीसमानतामधिगच्छेत्तथाविधानेव कांश्चिदोषान्प्रकाशयितुमीहामहे । सत स्तु गुणानपि नोपेक्षामहे । एतत्तु निकामं प्रीणयति नश्वेतो यत्साम्प्रतं ग्वाल्हेरनिवासिभि : पण्डि- तैर्महीयसा प्रयत्नेन नानाविधपण्डितसाहाय्येन च संस्कृतकाव्यकादम्बिनी नाम सभा निरमायि । नूनमेतद्भागधेयं संस्कृतभाषाया यदस्या : पारमा- थिक्यामवस्थायां निपतितममीषां चक्षुः । किन्तु तस्या : समुद्धरणाय विधी- यमाने मासिकपत्रिकादिरूपे प्रयत्ने दोपरिन्दोरप्यवशेषणं निकाममनुचितमिति समालोचना। प्रयासकैरवबोद्धव्यम् । नापि वा पारमार्थिकदोषाणां दर्शयितारः प्रत्याख्येयाः। दोषा ह्युपेक्षमाणा उपेक्षितारमेव दूषयन्ति न पुनरंशतोऽपि दर्शयितारम् । कादम्बिन्यास्तु प्रधानसभासदो नैतन्मनसि कुर्वन्तीत्येतदेव संस्कृतभाषाया भद्रं कामयमानानां मनो दूनयति । विरलानि खलुकादम्बिन्यां निर्दोषाणि पद्यानि । तथा हि । द्वितीयखण्डम्य द्वितीयसंख्यायां पञ्चमं पद्यम्- युधि शितशरजालै नगात्रं पवित्र शयविगलितशस्त्रं वीक्ष्य वृत्रो ह्यमित्रम् । यदपि वशगतं तं नावधीत्तन्न चित्रं न चलति निजधर्मानीतिमानेत्य नीतिम् ॥ निक्षिप्यतामत्र तावत्स्थूलापि दृष्टि : । सति कर इति मुबोधे शद्वेऽ सतित्र श्लेषसंभवे किमत्र दुर्बोधतापादनमन्तरा प्रयोजनमप्रयुक्तस्य शयशब्दस्य प्रयोगेणेति । किं च वृत्रो ह्यमित्रमित्यत्र हे : प्रयोगस्य प्रयो- जनमिति च विचार्यतां निपुणम्। पूर्वार्धेऽनुपयुक्तोऽपि हिः प्रयुज्यत उत्तरत्र तु निकाममावश्यकोऽपि न निबध्यत इति न जानीमः किमेतदिति । किं च नीतिमतः कदा वा नीत्या सह विरह : सम्पद्यते येन नीतिमेत्यैव स धर्मान्न चलेदित्यपि सुधिय एव विदांकुर्वन्तु । प्रथमे पादे पवित्रशब्दन्यास : किं हेतुक इत्यपि न प्रतीयते । किमु पवित्र इति शत्रुर्नवध्यत आहोस्वित्क- रविगलितशस्त्र इति । आये युद्धारम्भ एवान्याय्य : पवित्रे शस्त्रक्षेपस्य सर्वथानहत्वात् । यदि तु आततायिनमायान्तं हन्यादेवाविचारय- निति पवित्रेऽपि शस्त्रक्षेपस्याहत्वं साध्यते तदा शयविगलितशस्त्रमित्यने- नैव तदुत्तरं युद्धस्याधर्म्यत्वात्पवित्रमित्यस्यापि प्रकृतानुपयोगित्वमवश्यमङ्गी- कर्तव्यम् । एवं चैवंविधानि पद्यान्युपनिबध्यमानानि कादम्बिन्याः कान्तिम- पहरन्तीति विचक्षणा एवाभिदधीरन् । एवमष्टमपद्ये निबद्धं सकलगुणयुतेक्ष इति तद्गता व्याख्या च निकाममायासयति मति मतिमतोऽपीति प्रमाणमन धी: सुधियाम् । ।

संस्कृतचन्द्रिका। एवं चतुर्विशे पद्ये वानरेन्द्रवाचकस्य सुग्रीवपदस्यार्थ प्रयुज्यमानं सुगल इति पदं नितान्तमयुक्तम् । एवंविधानां शब्दानां परिवृत्तिसहत्वस्य कुता- प्यदृष्टत्वात् । एवमस्यामेव संख्यायां श्रीशिवरामशास्त्रिणो विज्ञापने रसदे- वताकयगणाभिमुखां वसन्ततिलका निर्देष्टुमुत्सह इति । अहो च्छन्दः शास्त्राभिज्ञत्वं मन्त्रिणः। न जानीम : कुत्रोपलब्धं मन्त्रिणा वसन्ततिलकाया यगणाभिमुखत्वमिति । छन्द :शास्त्रकृतस्तु उक्ता वसंततिलका तमजा- जगौगः इति लक्षणं जानन्तो वसन्ततिलकायां यगणस्य नामापि नावलोकन्ते। अत्यामेव च संख्यायाम् (१ मपृष्ठे १९ पद्यम् ) शकुनिसचिवयोगाद्धार्तराष्ट्रोऽप्यधाक्षा- इरलसहजचन्द्रो भोरुभिन्नानताप्सीत् । कनकयदुपुरी द्यामाननैषीन्मुरारिः खलजनसहवसानीतिमालेल्यनीतिम् ॥ अत्र प्रथमपादेऽधाक्षीदिति । दहतेस्तावदन्तर्भावितणिच्कतामेव स्वीकु- वते कवयः । भवतु वा तन्निर्दुष्टं परं द्वितीयपादे किमिव लुङ : प्रयोगस्य प्रयोजनमिति प्रयोक्तार एव जानीयुः । न हि हिमांशोर्विप्रयुक्तकामि- जनसन्तापनशक्तिर्भूतपूर्वैव किन्तु सार्वकालिक्येवासावित्येवंविधस्थलेषु भूत- मात्रप्रयोज्यस्य लुङ : प्रयोगं नानुमन्यन्ते शाद्विकाः । किंच भीरुभीन्नानेव भवगवांस्तापयति चन्द्रो न पुनर्भीरूनिति कुतो वाऽवगन्तव्यम् । स किल सर्वानपि विप्रयुक्तासन्तापयति न पुनस्तत्र भीरुतामभीरुतां वा विचार- यति । अपि च भीरुभीन्नानपि विषयवासनाविहीनान्नसंतापयति नापि वा कामिनीसमाश्लिष्टांस्तापयति । किं च गरलसहजचन्द्रो भीरुभिन्नानताप्सी- दिति विशेष खलजनसहवासान्नितिमानत्यनीतिमित्यनेन सामान्येन कथं वा समर्थ्यत इति कवयितैव जानीयात्। चन्द्रस्य गरलसहजत्वेऽपि तेन सहवासो नैव कुत्रापि प्रसिद्धः । गरले च खलजनत्वाभावेन पादद्वयस्य समालोचना। समर्थ्यसमर्थकभावो दूरतोऽपास्तः । किं च तृतीयपादे कनकयदुपुरी धामा- ननैषीन्सुरारिरित्यत्र आननपीदि कस्य धातो रूपमेतदिति न शक्यते प्रत्येतुम् । अपि च कनकयदुपुर्या द्यां प्रति प्रापणे कइव कृष्णस्य खल- जन : सहवासो बीजमित्यपि न निर्दिष्टम् । मुरारेनिवृत्तवासनत्वेन कनक- मय्या यदुपुर्यास्तत्कृतं संक्रमणं केवलं तस्या एव भव्यायेति नात्रानीति- लेशोऽपि । तत्कथं तृतीयतुर्ययोश्चरणयो : समर्थ्यसमर्थकभाव : । एवंविधैश्च नानाविधदोषकलुषैः पद्यैः कथं वा कादम्बिनी नोपयाति दुष्टत्वमिति नान प्रसरति नो बुद्धिः। एवं ३५ पृष्ठे ३ य पद्ये प्रभोविनयमानौ रघुपतेः समाधीपतेरित्यत्र धकारोत्तरवर्तिन इकारस्य दीर्धीकरणे किंवा सूत्रमित्यपि न ज्ञायते । नूनं नैवमाघ्रातशद्वशास्त्रा : प्रगुञ्जीरन् । एवमेव च चतुर्थपृष्ठे श्रीमन्तमहा- राजपुरोहितेत्यत्र श्रियः परं विहितस्य मतुप : कथंवाऽदन्तत्वमिति च नैव जानीमः । तद्धि केवलं महाराष्ट्यादिषु प्रयुज्यते । एवं ११ शपृष्ठे २८ शं पद्यम् -- दशरथतनुजोऽजो लक्ष्मणो नागराजो जनकनृपति कन्या श्रीरतस्तान्भजस्व । सकलदनुजने माल्यवान्रावणाय ह्यकथयादिति लड्कां नीतिमानेत्य नीतिम्॥ अत्र प्रथमपादे आहतविसर्गत्वरूपो धीरो वरो नरो यातीत्यादिवदोषः। एवं चतुर्थपादे ह्यकथयदित्य त्र हे : पादपूरणमात्रार्थत्वं न पादादौ खल्वा- दय इति वामनसूत्रेण निषिद्ध ः पादादौतत्प्रयोगश्च दोषायैवेति विद्वां- सो जानीयुः। एवं सप्तमपृष्ठे नवमपद्यम्- विधिरपि निजकन्यां धर्षितुं संप्रवृत्तो मधुरिपुरथ गोष्ठेऽदूषयगोपदारान् । तदिदमहह मन्ये मोहिनी यद्धरोऽगा- न्मनसिजशरनुन्नो नीतिमानेत्यनीतिम् ।

संस्कृतचन्द्रिका। अत्र मोहिनी यद्धरोनादित्यन्ते वाक्यत्रयेन्तर्भूतं तदिदमहह मन्य इतिवाक्यं गर्भितताख्याय दोपायवेत्यालङ्कारिका अवगच्छेयुः । एवं नवमपृष्ठे विंशे पद्ये बल इति विजहासोच्चैः कलिङ्गाधिनाथ इत्यत्न यतिभङ्गो न शोभामावहति । तुर्येऽनवमतिपरिभूत इत्यत्र च परिभवानवमत्योभिन्नार्थकत्वमुपवर्ण्यमानं विरुद्धतमम् । अथ धर्मशास्त्रानुसारित्वं काव्यकादम्बिन्याः परिमाय सांप्रतं विरन्तु- मिच्छामः । तत्र तावत्पट्त्रिंशे पृष्ठे पद्यम् --- नानापुराणनिगमागमदुष्टवाद- क्षाराम्बुधेर्जलमतीव सुधासमानम् । कर्तुं निपीय धरणीतलदेवरूपा कादम्बिनी शुभजलाप्तसभा विभाति ॥ इति अनोपवर्ण्यमानं पुराणादिवादानां दौष्टयपूर्वक क्षाराम्बुधित्वं धर्म- प्रातिकूल्यं कादम्बिन्या बोधयति । न च तद्विषया दुर्जनकृता दुष्टवादा एव सुधात्वं नीयन्ते न त्वत्र तेषु दुष्टत्वादिकमारोप्यत इति वक्तव्यम् । दुर्जनकृतानां दुष्टवादानां सुधात्वसम्पादनस्यैकान्ततोऽसम्भवात् । किं च न हि कादम्बिन्यां समस्यापूर्तिमन्तरा कश्चिद्विषयो येन पुराणादिषु कृताना दुष्टाक्षेपाणां निरास : संभवेत् । तदेवंविधानां पद्यानां कादम्बिन्यां प्रका- शनमनुजानत : संपादकस्य कथं वाऽसमीचीनकाव्यमुद्रणे नानुमतिरिति बुधैरेवावबोद्धव्यम् । एवमेते द्वितीयसंख्याया : स्थूलतमा एव दोषाश्चन्द्रिकाग्राहकेम्य उप- हता । यदि पुनरेतस्या : सर्वा अपि संख्या : समालोच्येरंस्तदा स्थूला- नामपि दोषाणां प्रकाशनं नानया लघीयस्या पत्रिकया समाप्स्यति । तदलं नि:सारप्रसङ्गेन । सति प्रसङ्गेऽनन्यगत्या सहस्त्रशो दोषान्सप्रमाणमुदाहरि- प्याम : । न पुनरतः कश्चिदस्माकं लाभ इति सांम्प्रतं विरम्यते । काद- विन्या तु चन्द्रिकामाक्षेप्तुं स्वीयमुद्देश्यं सुदूरमपासारीति बुधा एवात्र प्रमा- णम् । काव्यमात्रप्रकाशनमेवास्या उद्देश्यमित्यलं पल्लवितेनेति शिवम्। : ।

श्रीशिवः शरणम् । ॥संस्कृतचन्द्रिका ॥ ॥ श्रीगणेशाय नमः॥ शिवादीनपि कर्माणि कारयन्ती जनानिव । मायाऽवलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी ॥ || मासावतरणिका ॥ पौषे व्यपेलकमलां सरसीमवेक्ष्य व्याकोशपङ्कजकदम्बकवासिनी श्री। फुल्लत्कुशेशयक्त : सरसो अमेण तारागविलसितं गगनं प्रपदे ॥९॥ उद्भट श्लोकाः। समुन्नत्यां सत्यां य इह वसुमल्लां बत सदा परेप पीडायै प्रभवति विधिस्तस्य कुरुते । * मुखं म्लानं कृत्वा ह्यचिरदिवसेनैव पतनं प्रमाणं नारीणां कुचकलश एवात्र भवति ॥ रम्यं स्थास्यसि मन्दिरे सरिदप : स्वच्छन्दमापास्यसि श्रान्ति मोक्ष्यासि शीतले तरुतले रम्यां सभां द्रक्ष्यसि। सर्व साधुमयं सुराज्ञि नगरे किन्त्वेककष्टं मह न स्याद्रन्थिगतं कियद्यदि धनं नैकादशी का तिथि:॥? विधि : अचिरेणैव दिवस : तस्य पतनं कृत्वा मुख म्लानं कुरुत इति सम्बन्धः।

१९४ संस्कृतचन्द्रिका। पण्डितराजः श्रीजगन्नाथः। [ पूर्वतोऽनुवृत्तः] अनेन किल पण्डितगणमण्डनायमानेन श्रीजगन्नाथरायेण श्रीभर्तृहरेः यदा किंचिशोऽहं द्विप इव मदान्धः समभवं तदा सर्वशोऽस्मीत्यभवदवलिप्तं मम मनः। यदा किंचित्किंचिदुधजनसकाशाद्वगतं तदा मन्दोऽस्मीति द्विप इव मदो मे व्यपगतः ॥ इति विदुषामहङ्कृतिशून्यत्वप्रतिपादकं वचनमात्मन आचरितेनान्य- थात्वमिवानायि । न किल श्रीमतो जगन्नाथस्य वैदुष्यं प्रति केषामपि मनः सन्दिग्धे । किन्तु तत्प्रतिपदं प्रसर्पता दुःसहतमेनाहङ्कारगन्धेन परावर्तय- त्यात्मनःसकाशान्मनांसि विबुधानाम् । एतत्प्रणीतः सर्वोत्तमः काव्या- नुशासनग्रन्थो रसगङ्गाधरो यदद्यावधि भूयिष्ठं पठनपाठनप्रचारं नाधिजगाम तत्रापि बीजमिदमेवेति प्रतिभाति । श्रीजगन्नाथस्याहङ्कृतिमत्वं भामिनी- विलासगतमादिममेव पद्यं विद्योतयति तथाहि- दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः। इदानी लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥ इति ॥ अप्रस्तुतप्रशंसया ध्वन्यमानमत्रत्यं वृत्तं जगन्नाथरायेणात्मनः सदृशस्य विवादाहस्य विदुषोऽभाव एवात प्रतिपादित इत्येव ज्ञापयति । किं च रसगङ्गाधरारम्भे निबद्धं निर्माय नूतनमुदाहरणानुरूपं काव्यं मयाऽन निहितं न परस्य किञ्चित् । किं सेव्यते सुमनसां मनसाऽपि गन्धः कस्तूरिकाजननशक्तिभृता मृगेण ॥ ।

पाण्डितराजः श्रीजगन्नाथ : । इति पद्यमत्र प्रमाणम् । अत्र हि उदाहरणानुरूपाणामपरेषामर्थात्प्रा- चीनानां श्रीकालिदासभारविभवभूतिश्रीहर्षप्रभृतीनां काव्यानां प्रतिपाद्यमानं कुसुमत्वमात्मनश्च काव्यस्योपवर्ण्यमानं कस्तूरिकात्वं नूनमहङ्कारशालि- त्वमेव स्पष्टयति श्रीजगन्नाथस्वभावस्य । किं च रसगङ्गाधरादौ तत्र तत्र श्रीदण्डयाचार्यप्रभृतिषु जरत्तरादीनि पदानि प्रयुज्यमानानि विस्पष्टयन्तीदम् । यदि पुनरयं महात्मा वैदुष्यस्याननुरूपमहङ्कारमत्यक्ष्यत्तदा नूनमवदिष्य- विद्वांसः समुदितं सुवर्णे सौरभ्यमिति । भवतु साम्प्रतं श्रीजगन्नाथमधिकृत्य प्रवृत्तानां कासांचिदाख्यायिकानां सत्यत्वमसत्यत्वं वा स्फुटीकुर्मः । तत्रेयमतिप्रथिता किंवदन्ती पुरा खल्वात्मनः पाण्डित्येनाद्वितीयतां प्राप्ते श्रीमति जगन्नाथे दिल्ली- श्वरः शहाजहानस्तमानीयात्मनः सभायां निवेशयामास । मेने च तमा- त्मनो बहिश्चरमुच्छ्वसितम् । अथैकस्मिन्नहनि श्रीमता जगन्नाथरायेण सहोपक्रान्तबुद्धिवलक्रीडो दिल्लीश्वरस्तृपयाऽभ्यभ्यत । ततस्तेन नीरमाने- तुमात्मनस्तनया* समाज्ञापि । साऽपि कौसुम्भं वसनं परिदधाना तन्वङ्गी सलिलपरिपूरितं सौवर्ण कुम्भं शिरसि विनिधाय सञ्चारिणीव शृङ्गाररसदेवता मन्दमन्दमुपागमत्समीपं बादशाहस्य । ततः शिरसः समवतारिते कुम्भे परिपीतनले च दिल्लीश्वरे कन्यका पुनर्मूर्ध्नि कलशी विनिधाय प्रतिगन्तु- मुपाक्रमत । ततो बादशाहस्तां कुमारिकामुपश्लोकयितुं समीपवर्तिनं जग- नाथमादिक्षत् । सोऽप्यादेशोत्तरक्षणमेव प्राहस्म इयं सुस्तनी मस्तकन्यस्तकुम्भा कुसुम्भारुणं चारु चेलं वसाना। समस्तस्य लोकस्य चतः प्रवृति गृहीत्वा घटे स्थाप्य (?) यातीव भाति ॥ इति आत्मनो दास्यास्तनयेति केचित् । २ न्यस्येति स्यात् १ कुसुम्भरक्तम् । तेन रक्तं रागादित्यम् ।

संस्कृतचन्द्रिका। तत्कालमेव श्रीजगन्नाथस्य वदनारविन्दतो लब्धोदयं सुललितं पद्य- मतदाकर्ण्य निकामप्रसन्नमना यवनराजः समवोचत् । पण्डितराज प्रसन्नोऽस्मि भवदीयेनामुना वाग्वैभवेन तदुच्यतां किमभिलप्यते भवतेति । श्रीजग- नाथस्तु पुनः पद्येनैव भूपालं प्रार्थयामास । यथा- नयाचे गजालिं नवा वाजिराजि न वित्तेषु चित्तं मदीयं कदाचित् । इयं सुस्तनी मस्तकन्यस्तकुम्भा लवडी कुरङ्गीगङ्गकिरोतु ॥ इति ॥ निशम्यैतस्यैवंविधां प्रार्थनां किंचित्सञ्जातविस्मयो महीपतिरभाषिष्ट । पण्डितराज कथं वा ब्राह्मणेनापि भवता स्व.कप्रतिरोधकारिणी यवनी प्रार्थ्यत इति । स तु पुन ः पद्यमयमेव प्रतिजगाद- यवनी नवनीतकोमलाङ्गी शयनीये यदि लभ्यते कदाचित् । अवनीतलमेव साधु मन्ये न वनी माधवनो विनोदहेतुः ॥ इति ॥ एवं तस्य निर्बन्धातिशयं साक्षात्कृत्य पूर्वतोऽपि समधिकं सन्तुष्टान्तरो यवनपतिस्तयैव लवङ्ग्या नामात्मन: कन्यकया पण्डितराजं विवाहया- मास । श्रीजगन्नाथरायोऽप्यधिगताधिगन्तव्यस्तयैव यवनकन्यकया सह नानाविधान्भोगानुपभुज्य स्वाराज्यमपि तृणमिवाकलयामास । अथैकदा काशीक्षेत्रमुपागत : पण्डितरायस्तत्रत्यै : पण्डितैर्यवनकन्यकापरिणेतृत्वादव्य- वहार्योऽयमित्युदघोषि । सर्वेऽपि च ब्राह्मणास्तेन सह संसँग पर्यहरन् । ततस्तु किञ्चिद्विषण्णमना : श्रीजगन्नाथ : प्रावोचद्यदि मां च मम प्रेयसी चैतां भवन्तः पावयेयुनयेयुश्च ब्राह्मण : सह व्यवहार्यत्वं तदा प्रायश्चि- त्तमङ्गीकरिष्यामीति । एवंविधे चात्मन आशये काशीस्थानां विदुषां संमति- मनुपलभ्य भवतु किं मे प्रायश्चित्तेन जगत्त्रयपवित्रा भगवती भागीरथ्येव सभायं मां पवित्रयिष्यतीति सनिश्चयमाचक्षाण : पण्डितराजो द्विपञ्चाश- मूर्तिपूजनम् । सोपानान्तरितभागीरथीप्रवाहं कमपि घट्टमधिष्ठाय मुललितपदबन्धनानि कानिचित्पद्यानि प्रणीयोचारयामास यान्येव सांप्रतं पीयूषलहरी गङ्गालह- रीति वाऽऽख्यायन्ते । उच्चार्यमाणेषु च तेषु पद्येषु प्रतिपद्यमेकैकं सोपान- मारुह्यान्तिमपद्यावसाने कूलङ्कषात्वमुपागता भगवती भागरथी तया यवन- कन्यकया सह पण्डितराजमात्मनोऽङ्गेषु विलयं निन्ये । तदवलोक्य काशी- स्थास्तदानीन्तना : पण्डिता निकाममेव व्यस्मयन्त । इति । (क्रमश:) । मूर्तिपूजनम् । ( पूर्वतोऽनुवृत्तम् ) अथेदानीं निर्णीयते युक्तिसिद्धत्वं मूर्तिपूजनाचारस्य । महाभागा : काश्यादीनि पवित्रतमानि क्षेत्राण्युपगन्तुकामो बुद्धिमत्तमोऽपि मानवो न किल पन्थानमन्तरा तत्र तत्र गन्तुं शक्नोति । न वा प्रांशुतरस्याट्टालकस्य शिखरप्रदेशमारुरुक्षु : सोपानसरणिमपहायात्मनोऽभिलषितं साधयितुं प्रभ- वेत् । न वा प्रक्रान्तविद्याध्ययन एव कश्चिदपि तत्कालमेव पाण्डित्यमुप- याति । कारणे त्वत्र विचार्यमाणे सर्वस्यापि वस्तुन : क्रमप्राप्यत्वमेव तत्त्वेन प्रथममाविर्भवति । धर्मशास्त्रादयश्च सर्वेऽपि शास्त्रग्रन्था : परब्रह्मण उपास्यत्वं प्रतिपादयन्त- स्तस्य स्थूलमतिभिर्युगपडुपासितुमशक्यत्वेन मनसश्चातिचञ्चलतया प्रथमत एव निराकारे निवेशयितुमशक्यत्वेन साकारब्रह्मोपासनमेवादितोऽनुमन्यन्ते । यथा कश्चिज्जानपदो राज्ञोऽस्तित्वंप्रतिपत्तुकाम : प्रथमं प्रासादादीनां राज- निवासोचितानां स्थानानां प्रत्यक्षीकरणन तस्यास्तित्वमनुमिनोति । ततश्च केनचिदाप्तेन प्रदर्शितां भूपालस्य प्रतिकृतिं साक्षात्कृत्य तस्य स्वरूपं .. १९८ संस्कृतचन्द्रिका। निर्णयति । तां चानुध्यायाप्रत्यक्षीकृतपूर्वमपि भूपालं कदाचिदुपनतं प्रत्यभिजानीते । समधिगच्छति च सफलीभूतप्रयास : कमप्यानन्दम् । एवमेव स्थूलमतिर्मनुनः प्रथमतो न शक्नोत्यवबोद्धं सच्चिदानन्दं ब्रह्म सगु- णमपि कुतः पुनर्निर्गुणम् । स एव च मूर्तिषु विनिधापितश्रद्धो भगवतः सद्भावं मूर्तिध्यानेन संजातमन : स्थैर्यश्चाभ्यासतः शनैः शनैर्निर्गुणमपि परं ब्रह्म प्रतिपत्तुं प्रभवेत् । अत एवोच्यते प्राचीनैः पूजनीया मूर्तिरिति । ये किलानुपलब्धपरमात्मानो मन्दमतयः कथं नाम ते तन्न तन्नेति श्रुतिवचननिषेधमुखेनैव प्रतिपाद्यमानं भगवन्तमवगच्छेयुर्यदि मूर्तिपूजया ध्यानमभ्यस्य न प्राप्नुयुर्बुद्धे : सौक्ष्म्यम् । न हि स्थूलस्यापि विषयस्य ग्रहणेऽप्रभवन्ती बुद्धिः सूक्ष्मतरं वस्तु गोचरीकर्तुं प्रभवेत् । अत एवासौ स्थूलतमेऽर्थान्मन्दमतिभिरपि सुग्रह एव पदार्थे प्रथमं निवेश्यते । निवेश्यते च ततः क्रमश एवानतिस्थूले सूक्ष्मे सूक्ष्मतरे सूक्ष्मतमे च विषये । नियम एव खल्वयं यत्प्रथमतः स्थूल एव प्रसरति धिषणा मनुष्यस्येति । निदर्शन- मत्र धनुर्विद्यामभ्यस्यन्धानुष्कः । स हि लक्ष्यवेधमभ्यस्यन्प्रथमतः शरं सन्धाय सुस्थिरं स्थूलतममेव च पदार्थ लक्षयति । तत्र च लब्धप्रावीण्य : क्रमशः स्थूले चले च लक्ष्ये शरं विक्षिपति । ततश्च सूक्ष्मे चले च लक्ष्ये बाणं प्रक्षिपति । तत्र चाधिगतपाटवो यस्मिन्कस्मिन्नप्यति चलेऽतिसूक्ष्मेपि च लक्ष्ये क्षिप्तशर : प्राप्नोति दिगन्तरविसृत्वरां कीर्तिमनुभवति चामन्द- मानन्दम् । स एव चेदुपक्रान्तधनुर्विद्याभ्यास : क्षत्रियपोतः प्रथममेवाति- चलेऽतिसूक्ष्मे च लक्ष्ये प्रक्षिपेद्वाणं तदा नूनं प्रभ्रष्टलक्ष्य : कदाचिदपि नासादयेत्कौशलं धनुर्विद्यायाम् । अनुभवेच्चासिद्धमनोरथः कमप्यनिर्वचनीयं निर्वेदम् । एवमेव च यदभ्यस्तयोगर्योगिभिरपि न शक्यते सपद्येव ज्ञातुं कथं तत्र मन्दमतेर्मतिः प्रवेश लभताम् । किं चात्र विस्मयास्पदं यदि प्रथमत एव तिरस्कृतमूर्तिपूजनः परं ब्रह्मैव ध्यातुमुपक्रममाणस्त्रिशङ्कुरि- वोभयतो भ्रष्टतामापयेत । अत एवोच्यते प्राचीनैः पूजनीया मूर्तिरिति ।

.. । मूर्तिपूजनम् । अत एव योगशास्त्रे भगवता पतञ्जालना संप्रज्ञातसमाधेश्चतस्रोऽवस्थाः प्रतिपाद्यन्ते । यथा समाधिपादे- वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ इति ॥ १८ ॥ सम्यक्संशयविपर्ययशून्यत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते ध्येयस्य स्वरूपं येन स सम्प्रज्ञात : समाधिः । स च सवितर्कः सविचार : सानन्द : सास्मितश्चेति चतुर्विधः । सवितर्के शालिग्रामादिषु स्थूलमहाभूतेष्वेव परमे- श्वरो ध्यायते । तस्मिंश्च सुदृढमभ्यस्ते सविचाराभ्यास : । तत्र च पञ्च तन्मात्राणि ( यैःपञ्चमहाभूतानि समुद्भवन्ति ) सान्त ःकरणानि भाव्यन्ते । ततो यदा मनसो योग्यताप्राप्तौ रजस्तमोलेशानुविद्धमन्त :करणसत्वं भा- व्यते तदा भाव्यमानस्य सत्वस्योद्रेकात्सानन्दः समाधिर्भवति । तस्मिंश्च बद्धधृतयो रजस्तमोलेशानभिभूतं शुद्धसत्वमालम्बनीकृत्य यां भावनां प्रव- तयन्ति तस्यां सत्तामात्रमेवावशिष्यत इत्यसौ सास्मितः समाधिः । आसां च चतसृणामवस्थानां मध्ये क्रमश एकैकां परित्यज्योत्तरोत्तरामम्यस्यन्ति योगिनः । यतो न हि सविचाराद्या : प्राथमिकीरवस्था : परित्यज्य युगप- सानन्दे मन : प्रवेशं लभते । अत एवोच्यते प्राचीन : पूजनीया मूर्तिरिति। लोकेऽपि खल्वेतदृश्यते यथा शालासु प्रथमां श्रेणी प्रविष्टानां छात्राणां कृते विरचितेषु पाठ्यपुस्तकषु प्रतिपाठं शिरोदेशे किमपि तत्तद्विषयाऽनुरूपं चित्रं मुद्यते । विचार्यतां महाभागाः किमत्र बीजमिति । नूनं निमील्य नय- नद्वयीमेतद्विषयकं विचारमवतारयन्तः श्रीमन्तो जानीयुर्यच्छिशुभिः प्रथम- मेवावबोद्धुमशक्यानां विषयाणां सम्यगवबोधनायव मुञ्चन्ते पुस्तकेषु चित्रा- णीति । एतच्च विचारवद्भिर्नैव विस्मरणीयम् यद्यावान्पाठ्यपुस्तकगतान्वि- षयानवगन्तुं शिशूनामधिकारो न किल तावानपि परमेश्वरमवबोध्दं मनु- प्यस्येति । तद्यदि लौकिकविषयावबोधायापि चित्रादीन्यपेक्ष्यन्ते तदा कथं वा प्रतिमामन्तरा भगवत्स्वरूपस्य सुबोधत्वशङ्काऽपि युज्येत । अत एवो- च्यते प्राचीन : पूजनीया मूर्तिरिति । :

संस्कृतचीन्द्रका। एवं शालासु विद्यार्थिभ्योऽदृष्टान्दवीयसश्च देशानवबोधयितुं तत्तद्देशानां चित्राणि प्रदर्श्यन्ते । यैरेव प्रतीततत्तद्देशस्वरूपा विद्यार्थिन : सति प्रसङ्गे- तांस्तान्देशानभिज्ञातुं प्रभवेयु: । एवमेव च शालासु गुरुभिरप्यदृष्टानां ग्रहादीनां प्रतिमा विशालतमायाश्चादृष्टपर्यन्ताया भुवो गोलस्य चित्राणि च तत्तद्विषयावबोधनावसरे समुपयोज्यन्ते यैरेव निपुणं विचार्यमाणैर्नास्तिकत- मोऽपि प्रतिपद्येत माहात्म्यं मूर्तिपूजायाः। एवं च युगपदवबोध्दुमशक्ये विषये मन : प्रवेशयितुं मूर्तयो वा चित्राणि वा निर्मीयन्त इति प्रतीयते । लौकिकेऽपि खल्वेवम् । अलौकिकस्तु भगवानीश्वर : तत्कथं वा तत्र समुल्ल- चितक्रमा स्थूला मतिः प्रवेशं लभताम् । अत एवोच्यते प्राचीनै ः पूजनीया मूर्तिरिति । किमधिकं यदि मूर्तिनाम नैवाङ्गीक्रियेत तदा न कोऽप्यदृष्टं किमप्यव- गन्तुं प्रभवेन्न वा कश्चिदपि किंचिदपि दुर्बोधमवबुध्येत । अथोच्यते कैश्चिन्निर्गुण : सर्वव्यापी च भगवानीश्वरस्तस्य कथं सगुणत्व- मुररीकरणीयम् । न ह्याकाशस्य रूपं केनापि भित्तिष्वालिख्यते । तत्कथं वा तस्य मूतिनिर्मातुं युज्येत । किं च यदि सभगवानशेषमपि विश्व व्याप्नोति तदा कथं मूर्तय एव पूजनीया इत्याग्रहः । स किल सर्वत्रापि निवसतीति सर्वेषामपि पूजनीयतापत्तिः । अत : किमुच्यते मूर्तयः पूजनीया एवेति । अत्रोच्यते । निर्गुणमपि वस्तु समवबोध्दु कदाचित्साकारतां नीयते । यथा संख्यादि । गुणो हि नामायं संख्येति । नास्या रूपवत्वं केचिदपि स्वीकु- युनापि वा स्वीकुर्वन्ति । तथापि वैदुष्यस्य परां कोटिमारूंढा अपि सर्व- देशीया विद्वांस : कयाचिदाकृत्या १-२ इत्यादिरूपया तामेवावबुध्यन्ते । वस्तुतस्तु न किल तत्तस्या रूपम् । संख्या हि. नाम नीरूपैव । यथा च रूपशून्याऽप्यसावाकृतिविशेषेण लिखितेनावबोध्दुं शक्यते एवं नीरूपोऽपि भगवास्तस्तैभक्तैस्तया तयाऽऽकृत्या दृश्यमानो बोधविषयतां प्राप्नोति । अत एवोच्यते विधेयं मूर्तिपूजनमिति । यदप्युच्यते सर्वत्र विद्यमाने भगवति ..

बुद्धिमाहात्म्यम् । कथं मूर्तय एव पूजनीया इति तदपि न संगतम् । यदि सर्वत्र विद्यते भगवानिति स्वीक्रियते तदा मूर्तिप्वपि तस्यास्तित्वमवश्यमभ्युपेतव्यम् । मूर्तयश्च पार्थिवानामेव पदार्थानां विधीयन्ते । पृथिवी चैकान्तत उपयुक्ता सर्वबीजप्रकृतिर्भगवतो मूर्तिः । तस्यां च निपुणं चिन्त्यमानायां मनसो भगवति प्रवेश : सुलभः । वयं किल पृथिव्या एव विकृतयः । अतोऽस्म- दपेक्षया तस्या एव महत्त्वमर्थादायाति । अत एव न देवस्थाने मनुष्याः पूज्यन्ते । विकारा ह्येते मनुष्या नाम पृथिव्यादिमहाभूतानाम् । न चैवं मूलप्रकृतेरेव पूजनं युक्तं तस्याश्च मूर्तर्विधातुमशक्यतया मूर्तिपूजनमयुक्त- मिति वाच्यम् । मूलप्रकृतयुगपबुद्धावारापयितुमशक्यत्वेन साकाराया एव तस्या : पूजनस्य युक्तत्वात् । यत्र पुनर्योगसिध्यादीनांप्रत्यक्षीकरणेन लोकोत्तरत्वमनुमायेत तत्रापि नरे देवभावना विधातुं युक्ता । किं तु नहि तन्मात्रासक्ततया मूर्तयः परित्याज्याः । द्वारं हि खल्वेतद्देवभावप्राप्तेर्य- देतन्मूर्तिपूजनं नाम । इदमेव श्रद्धयाऽनुष्ठीयमानं चेतः संशोधयति । एतदेव च ब्रह्मभावनायामधिकारं जनयति मनुष्यस्य अमुनेंव खलु भूयांसः संसरणाव्यमुच्यन्त । एतेनैवभारतवर्षीयाणामार्यत्वमपरिक्षीणम् । अत एवो च्यते पूजनीया मूर्तिरिति । [क्रमश:] बुद्धिमाहात्म्यम् । अधर्मपरिपाकश्च । आसीद्विन्ध्यगिरिप्रान्ते कश्चिन्नरपतिः । तस्यायमेव निसर्गो यत्प्रत्यु. त्पन्नमतिमतिचतुरं च पुरुषं समधिकं श्रद्दधाति । तस्य च वाक्पतिरिव बुद्धिमान्मन्त्री कश्चिद्वभूव । स कदाचित्स्वावासतो धर्माधिकरणं गच्छन्राज- संस्कृतचन्द्रिका। वर्मपार्वे गर्त खनन्तं दीनवेश निरवद्यसर्वाङ्गं युवानमद्राक्षीत् । मन्त्री तं युवकं पृच्छति रे कथं प्रणिपातयोग्ये स्थाने गर्त खनसीति । स प्रतिव्रते सोजे[सिधा ] रास्ते चल् याइ [ ओ] ये बावा नहि गिरे गा । इति स इत्थमेव सर्वान्पृच्छकान्प्रतिवक्ति । प्रतिनिवृत्तोऽपि धर्माधिकरणात्स्वावासं गच्छंस्तथैवावटं खनन्तं मन्त्री पश्यति । तमापादमस्तकमवलोक्य महाबुद्धिरयमिति निश्चित्य च सस्नेह- माव्हयति स मन्त्री । ब्रवीति च यद्यस्मद्गृहमेप्यसि तर्हि व्यवहरिप्यामि पुत्रनिविशेषं श्रीमन्तम् । सोऽपि प्रतिवक्ति तथाऽस्तु कोत्र विकल्प एपोऽहं पितृभ्यां विहीन : पितेत्यनुगच्छामि पूज्यपादं भवन्तमिति । युवकस्यास्य नाम मुदर्शनशमति । गत्वा स मन्त्रिनिकेतनं मन्त्रिपत्नी हे मातरेषोऽहं पादयोर्भवतीमभिवन्दे अनुगृणीष्व मामिति ब्रूते। मन्त्रिपुत्रमपि सखे भ्रात- रिति परिप्वजति । इत्थं सर्व एव सानन्दं सुखमासते। अथ कदाचित्पुत्रं सुशीलं मन्त्रित्वपदे नियुज्य राजानमाभाष्य च मन्त्री तीर्थं पर्यटितुं गृहात्प्रस्थित : पुतं कथयति हे पुत्र राजकुले सावहितेन भवितव्यम् अस्मिन्मुतनिर्विशेषे सुदर्शने साधु व्यवहर्तव्यं संवत्सरमती- त्याहमागन्तास्मि । अपि च यदि वापि राजादिष्टे गहने कृत्ये ते मति: कुण्ठायेत तदा पुत्रीकृतमेतं तत्पृष्ट्वा राजकृत्यं निष्पाद्यतामिति स गृहान्निर- गमत्। अथ कदाचित्कौतुकेनात्मानं विनोदयितुं परीक्षितुं च मन्त्रिपुत्रस्य मतिसम्पदं तमादिशति भूपाल :-अमात्यज जनमेकं समुद्रस्यापरतीरादेकं मध्यतोऽपरं चैतस्मात्तीरादुपाहर तांस्तु यथार्ह भोजनेनाप्याय्य सुखीभवामि लभेयास्तदर्थमयुतं रूपकानिति । परंतु सप्ताहमध्ये तत्सम्पादयेथा नोचे- च्छिामि च्छेत्तव्योऽसीति । ।

.. : बुद्धिमाहात्म्यम् । २०३ राजाज्ञा तु शिरसा वहनीयेति मन्त्रिपुत्र : स्वावासं प्रति गत : । किन्तु नृपनिदेशाभित्राय हृदयं गमयितुमतमों विनात्मा पित्रा पुत्रीकृतं सुद- शनं तं सर्वं निवेदयति । श्रुत्वा च तद्भाषितं तत्क्षणमेवावगतार्थ : स युवा स्मित्वा कथयति किमत्र भयेन सप्ताहमन्तरैव तथाविधं जननयमाने- प्यामीति सुखं स्थीयतामिति । अथ निर्दिष्टेऽहनि तथाविधं जनत्रयमुपस्थाप्य सचिवसुताय कथयति भो मित्र योऽयं विषयमुखं तृगाय मन्वानो गिरिकुहरमध्यासीनो वातान्बु- पर्णाशन : कङ्कालशिष्टकायो विकीर्णारुणप्रवृद्धकेशश्मश्रुकरकण्टको भग- वत्प्रणिहितमना मुनि : परमकारुणिकोऽत्र पादावर्षयति महात्मानमेनं पारावारपरपारादानीतं विद्धि । यश्चैष परमपण्डित : साधुवृत्तोऽशेपगुणसागर : परोकारपरायणोऽत्र वर्तते अथैनमुदधिमध्यदेशादासादितं विद्धि । याचैपा मदपाटललोचना हावभावगर्भाभ्यामीक्षणाभ्यां समाश्वासयन्ती कन्दर्पकिङ्करान्गौरिव वृषाननु- गतान्कतुं शक्नोति एनामाभरणभारवाहिनी वाराङ्गनामेतस्मातसमुद्रपारादाह- तामवेहि । इत्येवं राजानं प्रतियोषयेति । मन्त्रिपुत्रन्तु तथेति गृहीत्वा नृपतये तान्निवेद्य सन्तोप्य च रूपकान- युतमादाय सानन्दं गृहमागच्छत् । एवं दिनेषु गच्छत्सु अन्येषु : मुशीलं नृपतिरादिशति भो ईदृशं किमपि वस्तु मत्यमानाय्य दीयतां यदर्शना- त्सुखं दुःखं च जायेत कियञ्च तस्य मूल्यं युज्येत तदपि कथ्यतामिति । मन्त्रिपुत्रस्तु श्वः सर्वं कथयिष्यामीति दुरत्ययां चिन्तामापन्नः शुष्क- कण्ठोष्ठतालुको गृहं प्राविशत् । अथ परेऽहनि पित्रा पुत्रीकृतेन तेन मुदर्शनेन समनुमोदितो नृपतिमवादीत् । रत्नपाद समर्थोऽस्मि सुखदुःखप्रद- मेकमेव वस्तु प्रदातुं षण्मासात्परं परन्तु तन्दल्यं रूपकलशं निश्चितं- ततोऽथैव लक्षा) देयं तस्मिन्समानीते च वस्तुनि पराध प्रदास्यते श्रुत्वैतत्प्रभुपादाः प्रमाणमिति ।

संस्कृतचन्द्रिका। ततो राजाह-कोऽत्र विकल्पो नीयन्तामद्यैव पञ्चाशत्सहस्रं रूपका इति दत्वा विसृष्टो मन्त्रिमुतः प्रहृष्टो गृहमगात् । अथ दिनेषु गच्छत्सु सुशीलः सुदर्शनं भो मित्र किं नाद्यापि तद्वस्तु समानीतं समयस्तु प्रायोऽनुपदं व्यपैतीति त्वरयति । तदाकर्ण्य सुदर्शनो ब्रवीति सखे न भेतव्यं किमत्र भयेन यथासमयमानेष्यामि तद्वस्तु भवान्पुनः स्वच्छन्दं व्यवहरतु क्रीडतु निद्रातु च किमिति व्याकुलोऽस्तीति । अथ यदा षष्ठोमासः समुपस्थितस्तदा सुसंविग्नः सुशीलः सुदर्शनं समधिकं त्वरयितुमारभते सुदर्शनस्तु सपरिहासं कथयति भोः सखे वीरपुङ्गव न भेतव्यं जीवति मयि भवच्छिरो नैव च्छेद्यमिति सुखं स्थीयतामिति । ततः स सुशीलो विस्मयविमूढोऽवतिष्ठते । अथ यस्मिन्नहनि षष्ठो मासः पूर्णतामेष्यति तत्पूर्वेयुः सुदर्शन आपण गत्वा स्वर्णकारेण ताम्राङ्गुलीयकमेकं निर्माप्य कनकद्रवभाविते तत्र ऐसा दिन नहि रहेगा ( एवं दिनं नैव स्थास्यति ) इत्युत्कार्य रजत- पुटिकायां पूरयित्वा मित्राय मुशीलाय नीयतामिति ददौ । सुशीलोऽपि परेचुस्तद्रूपतये गृह्यतां सुखदुःखात्मकमङ्गुलीयकं दीयन्तां चापराः पञ्चाशत्सहस्रं मुद्रा इत्युक्ता यावदर्पयति तावत्तदवलोक्य राजा परां प्रीतिमापत् । अथार्पयच्च पराः पञ्चाशत्सहस्रं मुद्रा इति । यदा खलु नरपतिविजितरिपुनिकायः सानन्दं तदङ्गुलीयकं पश्यति तदा ऐसा दिन नहि रहेगा [ इत्थं दिनं न स्थास्यति ] इत्थमरिपराजयादि- मुखदिनं न स्थास्यताति विमृशन्दुःखमापद्यते । यदा व्यसनं किमप्युपपतति तदा तद्विलोकयन् ऐसा दिन नहि रहेगा इत्थं व्यसनोपनिपातदु :खदिनं न स्थास्यतीति चिन्तयन्सुखं आग्नोति । (क्रमश:)

श्रीशिवराजविजयः। २०५ .. संन्यासी--कथमस्मान्संन्यासिनोऽपि कठोरभाषणेस्तिरस्करोषि । दौवारिक :--भगवन्भवान्संन्यासीति तुरीयाश्रमसेवीति प्रणम्यते । परन्तु प्रभूणामाज्ञामुल्लय निजपरिचयमदददेवायाति इत्याक्रुश्यते । संन्यासी--सत्यं क्षान्तोयमपराधः परमद्यावधि संन्यासिनो ब्रह्म- चारिण : पण्डिता : स्त्रियो बालाश्च न किमपि प्रष्टव्या: । आत्मानमपरिचा- ययन्तोऽपि च प्रवेष्टव्याः। दौवारिक:-संन्यासिन् संन्यासिन बहूक्तं विरम । न वयं दौवारिका ब्रह्मणोऽप्याज्ञा प्रतीक्षामहे। किन्तु यो वैदिकधर्मरक्षाव्रती यश्चसंन्यासिना ब्रह्मचारिणां तपस्विनां च संन्यासस्य ब्रह्मचर्यस्य तपसश्चान्तरायाणां हन्ता येन च वीरप्रसविनीयमुच्यते कोङ्कणदेशभूमिस्तस्यैव महारानशिववीरस्याज्ञां वयं शिरसा वहामः। संन्यासी-अथ किमप्यस्तु पन्थानं निर्दिश । आवां शिववीरनिकटे जिगमिषावः। दौवारिक:-अलमालप्यापि तत् * । प्राणे महाराजस्य सन्ध्यो- पासनसमये भवादृशानां प्रवेशसमयो भवति न तु रात्रौ । संन्यासी--तत्कि कोऽपि न प्रविशति रात्रौ । दौवारिक :-( साक्षेपम् ) कोऽपि कथं न प्रविशति परिचिता वा प्राप्तपरिचयपत्रा वा आहूता वा प्रविशन्ति न तु भवादृशा ये तुम्बी गृही- त्वा द्वाराद्वार-(इति कथयन्नेव तत्तेजसेव धर्षितो मध्य एव विरराम ।) संन्यासी--(स्वगतम् ) राजनीता निष्णातः शिववीर ः। सर्वथा दौवारिकतायोग्य एवायं द्वारपाल : स्थापितोऽस्ति । परीक्षितमप्येनमेकस्मि- न्विषये पुन: परीक्षिप्ये (प्रकाशम् ) दौवारिक इत आयाहि किमपि कर्णे कथयिष्यामि। * अलंखल्वो : प्रतिषेधे प्राचां क्त्वा । यथा । अलं सदित्वा ननु भवतीभ्यामेव स्थि: रीकर्तव्या शकुन्तलेति शाकुन्तले ।

संस्कृतचन्द्रिका । दौवारिक:-( तथा कृत्वा ) कथ्यताम् । संन्यासी--दौवारिक तव हितं कथयामि सूक्ष्म निरीक्षस्व । पश्य त्वमधुना दौवारिकोऽसि प्राणानप्यगणयन् जीविका निर्वहसि । त्वं सहस्त्रं वा अयुतं वा मुद्रा राशीकृता : कदाऽपि प्राप्स्यसीति न कथमपि संभाव्यते। दौवारिक:--आम् अग्रे कथ्यताम् । संन्याली-वयं च संन्यासिनो वनेषु गिरिकन्दरेषु च विचाराम : सर्व च रसायनतत्वं विद्मः । दौवारिक:--स्यादेवम् । अग्रे अग्रे। संन्यासी--तद्यदि त्वं मां प्रविशन्तं न प्रतिरुन्ध्यास्तदधुनैव परिष्कृतं पारदभस्म दद्यां यथा गुञ्जामात्रेणापि द्वापञ्चाशत्संख्यकतुलापरिमितं तानं जाम्बूनदं विधातुं शक्नुया:। दौवारिक:--हंहो कपटसंन्यासिन् कथं विश्वासघात स्वामिवञ्चनं च शिक्षयसि । ते केचनान्ये भवन्ति जारजाता ये उत्कोचलोभेन स्वामिनं वञ्चयित्वाऽऽत्मानमन्धे तमसि पातयन्ति । न वयं शिवगणास्तादृशाः। (सैन्यासिनो हस्तं धृत्वा ) इतस्तु सत्यं कथय कस्त्वं कुत आयात ः केन वा प्रेषितः। संन्यासी-( स्मित्वेव ) अथ त्वं मां कं मन्यसे । दौवारिक :--अहं तु त्वामस्येव ससेनस्यायातस्यापजलखानस्य-- संन्यासी--(विनिवार्य मध्य एव ) विग्धिक् । दौवारिक :-कस्याप्यन्यस्य वा गूढचरं मन्ये । तदादेशं पालयि- प्यामि प्रभुवर्यस्य । ( हस्तमाकृष्य ) आगच्छ दुर्गाध्यक्षसमीपे । स एवाभिज्ञाय त्वया यथोचितं व्यवहरिष्यति । तत: संन्यासी तु त्यज्यतां नाहं पुनरेवं कथयिष्यामि महाशयोऽसि दयस्व दयस्वेति सहस्रधा समचकथत् । तथापि दौवारिकस्तु तमाकृष्य नयन्नेव प्रचलितः।

श्रीशिवराजविजयः। २०७ .. अथ यावद् द्वारस्थस्तम्भोपरि संस्थापितायां काचमञ्जूषायां जाज्वल्यमा- नत्य प्रबलप्रकाशस्य दीपस्य समीपे समायातस्तावत्संन्यासिनोक्तं दौवारिक अपि मां पूर्व कदाप्यद्राक्षीरिति । ततो दौवारिक : पुनस्तं निपुणं निरी- क्षमाणो मन्द्रेण खरेणारुणापाङ्गाभ्यां गौरतरेण वर्णेन चुम्बितयौवनेन वयसा निर्भीकेण च हारिणा मुखमण्डलेन पर्यचिनोत् । भुशुण्डीसमुत्तोलन- किणकर्कशकरग्रहमपहाय सलज्ज इव च नम्रीभूय प्रणमन्नुवाच । आ : कथं श्रीमान् गौरसिंह आर्य: । क्षम्यतामनुचितव्यवहार एतस्य ग्राम्यवराक- स्येति । तदवधार्य तस्य पृष्ठे हस्तं विन्यसन् संन्यासिरूपो गौरसिंह : समवोचत् । दौवारिक मया बहुश: परीक्षितोऽसि । ज्ञातोऽसि च यथा- योग्य एव पदे नियुक्तोऽसि । त्वादृशा एव प्रभूणां पुरस्कारभाजनानि भवन्ति लोकद्वयं च विजयन्ते । तव प्रामाणिकतां जानीत एवात्रभवान् प्रभुवर्य : । परमहमपि विशिष्य कीर्तयिष्यामि । निर्दिश तावत्कुत्र श्रीमान् किं चानुतिष्ठतीति । ततः पुनद्धाञ्जलेीवारिकस्य किमपि कर्ण कथितमाकर्ण्य प्रधानद्वा- रमुल्लङ्य नेदीयस्यामेकस्यां नितम्बतरुतलवेदिकायां सहचरं समुपवेश्य तुम्बीमेकत ः संस्थाप्य स्वागरक्षिकावरणं काषायवसनं चैकतो निम्बशाखा- यामवलम्ब्य पटखण्डेन पक्ष्मणोः कपोलयो : कर्णयोर्धवोश्चिवुके नासायां केशप्रान्तेषु च च्छुरितामिव विभूति प्रोञ्छच स्कन्धयो : पृष्ठे च लम्बमानान् मेचकान् कुञ्चितान् कचानावध्य सहचरपोटलिकात उष्णीषमादाय शिरसि चाधाय सुन्दरमुत्तरीयं चैकं स्कन्धयोनिक्षिप्य दौवारिकनिर्देशा- नुसारं श्रीशिववीरालंकृतामट्टालिका प्रति प्रातिष्ठत । शिववीरस्तु कस्यांचिञ्चन्द्रचुम्बिन्यां सान्द्रसुधासारसंलिप्तभित्तिकायां धूप- धूपितायां गजदन्तिकावलम्बितविविधच्छुरिकाखड्गरिष्टिकायां सुवर्णपिञ्जरप- रिलम्बमालशुकपिकचकोरसारिकाकलकूजितपूजितायामट्टालिकायां संध्यामु. पास्योपविष्ट आसीत् । परितश्च तस्यैव खामप्यखर्वपराक्रमां श्यामा- मपि यश समूहश्वेतीकृतत्रिभुवनां कुशासनाश्रयामपि सुशासनाश्रयां पठन- •• २०८ संस्कृतचन्द्रिका। पाठनादिपरिश्रमानभिज्ञामपि नीतिनिष्णातां स्थूलदर्शनामपि सूक्ष्मदर्शनां हत्याकाण्डव्यसनिनीमपि धर्मधौरेयी कठिनामपि कोमलां उग्रामपि शान्तां शोभितविग्रहामपि दृढसन्धिबन्धां कलितगौरवामपि कलितलाघवां विशाल- ललाटां प्रचण्डवाहुदण्डां शोणापाङ्गां कम्बुग्रीवां सुनद्धस्नायु वर्तुलश्यामश्मश्रु धारिताकृतिमिव वीरतां विग्रहिणीमिव धीरतां समासादित समास्फूर्ति मूर्ति दर्श दर्श परं प्रसादमासादयन्तस्तस्य मित्राणि कटानध्यवसन् । तेषु चाप- जलखानदमनविषयकवार्तामारिप्सुष्वेव कश्चिद्वेत्रहस्त : प्रतीहार : प्रविश्य वेत्रं कक्षे संस्थाप्य शिरोनमयित्वाञ्जलिं बद्ध्वा न्यवीविदत्प्रभो श्रीमान् गौरसिंहो दिदृक्षतेऽत्रभवन्तमिति । तदाकर्ण्य आं प्रवेशय प्रवेशयेति सानन्दं सोत्साहं च कथितवति महाराष्ट्रमण्डलाखण्डले प्रतीहारो निवृत्त्य सपद्येव तं प्रावीविशत् । तमवलोक्यैवेत इतो गौरसिंहोपविशोपविश चिराय दृष्टोऽसि। अपि कुशलं कलयसि । अपि कुशलिनस्तव सहवासिनः । अप्यङ्गीकृतमहाव्रतं निर्वहथ यूयम् । अपि कश्चिन्नूतनो वृत्तान्त इतिकुसुमानीव वर्षता पीयूष- प्रवाहणेव सिञ्चता मृदुना वचनजातेन तत्रभवता शिववीरेणाद्रियमाण आपृच्छयमानश्च त्रि: प्रणम्यातरङ्गमण्डलीजुष्टकटे समुपविश्य करौ सम्पुटी कृत्य भगवन्नखिलं कुशलं प्रभूणामनुग्रहेणास्माकमखिलानाम् । अङ्गीकृत महाव्रते च मा स्म पदं धात्कश्चनान्तराय इत्येव सदा प्रार्थ्यते भगवान्भूत- नाथः । नूतनः प्रयत्नश्च । को नामाद्यतनसमये वक्तव्य : श्रोतव्यश्व वृत्तान्त ऋते दुराचारात्स्वच्छन्दानामुच्छृङ्खलानामुच्छिन्नसच्छीलान म्लेच्छहतकानामिति कथयामास । ततश्च तेषामेवमभूदालापः । शिववीर:--अथ कथ्यतां को वृत्तान्तः का च व्यवस्थास्मन्महात्र- ताश्रमपम्परायाः। गौरासंह:--भगवन् सर्वं सुसिद्धम् । गव्यूत्यन्तरालमङ्गीकृतसनातन- धर्मरक्षामहाव्रतानां धारितमुनिवेषाणां वीरवराणामाश्रमा : सन्ति । प्रत्या- श्रमं च वलीकेषु गोपयित्वा स्थापिता : पर ः शताः खड्गाः पटलेषु तिरो ।

२०९ श्रीकण्ठपदभूषणम् । श्रीकण्ठपदभूषणम् । प्रथमो मरीचिः राजद्राजकलं बलत्सुरसरिकल्लोललोलालक भास्वन्नद्धफणीन्द्रफुत्कृतिचलद्भलमभामास्वरम् । हासोत्फुल्लकपोलपाल्यनुचरोद्धाराय तारादरं नित्यानन्दमयं तदेकममलं ध्यायान्यजलं मह॥१ अद्य श्वो वा नवरं विश्वमेत- कस्मादस्मिंश्चित्त कनासि रागम् । आनन्दं चेच्छाश्वतं वाञ्छसीह ध्याय श्रीमचन्द्रमौले पदान्जम् ॥ २ लोके किं ननु शाश्वतं किमथवा सम्मोदमानाश्चित तापं नो विरहेऽपि किं वितनुते केनामृषा निति । इत्यालोच्य विभाव्य नश्वरमिदं ब्रह्माण्डमाण्ड सखे चेतश्चिन्तय चन्द्रचूडमनिशं भावा स्वमी दुःखदाः॥३ उत्पादयत्युपगतैब मई महान्तं विस्मारयत्यपि मुदां निलयं महेशम् । निर्माप्य भूरि दुरितं प्रपलायमाना दुःख भृशं वितनुते ननु भार्गवीयम् ।। ४ आवास : सकलैनसामसुहृदां पण्णां विहारालय श्चिन्ताया अविनश्वरश्च सरस : कन्दोऽङ्कुरैराकृतः। १ राजा चन्द्र:। २ गद्धाः वद्धा: । ३ भार्गवी लक्ष्मीः। ४ पपणामसुहृदा पड्रिपूणां तेच कामक्रोधनोहलोभमदमसुरा:।

संस्कृतचीन्द्रका।
आशायाः परमं पदं किल विसंवादस्य शय्याग्रह
चेत: केन गुणेन नाम कमलामावर्जयेथा मुहुः ॥ ५
लक्ष्मीरुपागतवतीति न च प्रमोदो
यातेति वाऽस्तु न मनागपि ते विषाद:।
ध्यायत्सदैव हिमवत्तनयाधिनाथं
चेतः सखे भव समं सुखदुःखयोस्त्वम् ॥ ६
क्षणांदुर्ग दुर्ग विशसि तटिनी दुस्तरतरां
तरस्यद्रोणीकं सुखमयमशेषं कलयसि ।
मुहुर्धामं भ्रामं क्षपयास वृथैवं दिनगणं
तदप्याप : सौख्यं वचिदपि मनश्चेत्कथय माम् ॥७
सानन्दं फललिप्सया हृदय रे तृष्णांविषद्रोः शिरवा-
मारूढं किल कालमारुतगतिक्षोभात्पतस्युच्चकैः ।
बाद खेदमथावहस्ययि कुतः सन्मार्गमुज्झन्मुहु :
किं रामेश्वरमेति धावनपटुर्विन्ध्याटवीं प्रस्थितः ॥ ८
धावं धावमये मुहुर्मुहुरापि श्रीलाधमानां पुरो
गायं गायममर्त्यमात्रसदृशं तेषां मृषैव स्तवम् ।
जोपं जोषमहर्दिवं शिव शिव त्वं दु:खमेवोच्चकै-
श्वेत : किं गिरिजापतेरपचितेर्युक्तं वयो हापये ॥९
अन्ये दीनतमा वयं किल जगत्येके कुबेराधिका
इत्येवाकलयन्ति मन्दमतयो दैवाप्तलक्ष्मीलवाः।
कृत्ये किंच नियोजयन्ति विबुध हा भृत्यमालोचिते
तानप्यन्तर चेदुपैषि किमथो नाकार्यकार्य त्वया ॥१०
:
१ विसंवादः वञ्चना । २ कमला लक्ष्मी : । ३ दुर्ग दु :खेन गंतुं शक्यम् ।
४ तटिनी नदो। ५ द्रोणी नौविशेष :।
६ आशा ७ अग्र ८ धनिका : ९ अपचिति : पूजा १० योग्यं

श्रीकण्ठपदभूषणम्। नाना योनिपरिभ्रमश्रमवता लब्धं त्वयेदं जनु- तश्चिन्तय चित्त तत्र किमपि प्राप्तं सुखं नु त्वया । अस्मिन्नप्यतिदुर्लभे यदि शिवस्याङ्ग्रिद्वयं नो भजे : संसारानलकालजालजटिल स्यानैव ते निति ॥११ क्रीडामात्ररतस्य यातमशिवध्यानेन ते शैशवं रामारक्ततया निनीपसि मन : कस्मात्पुनयौवनम् । एतत्ते शिवपादपद्मयुगलध्यानैकयोग्यं वयो मा मा मूढ वृथाऽतिवाहय कदापीत्थं मुहुःप्रार्थये ॥१२ हे मन्मानस चिन्तयस्यनुदिनं लाभ न हानि निजी लाभे हृष्यसि रे विपीदसि पुनर्लेशेऽपि हान्याः स्थिते । किं नो खिद्यसि दुर्लभेऽपि वयसि क्षीणे शिवं न स्मर- घातं नैव वयोऽधिगम्यत इदं नानाप्रयासैरपि ॥ १३ कान्तानां प्रदिधक्षति प्रतिपलं त्वामेकतोक्षिच्छटा सज्जीभूय मुहुर्मुमोहयिषति श्रीमत्त्वमप्यन्यतः । इत्थं दु:खशतैर्वृतं यदि शिवस्याङ्घ्रिद्वयं नो भजे. भ्रातश्चिन्तय चित्त सन्ततमये केनाऽस्तु ते नितिः॥१४ भार्या दुःखमयी विभावयसि यामानन्दसान्द्रेत्यहो पुला : कुत्र निजैनसा यमपुरी चेतस्त्वयि प्रस्थिते । लक्ष्मीर्दु :खविपाकिनी च विषया : सर्वेऽपि दुःखात्मका इत्थं चिन्तय चित्त नूनमखिलं दुःखैकसारं जगत् ॥ १५ पुन्नान्नो नरकात्समुद्धरति यत्तत्पुत्र इत्युच्यते सोऽयं तgपयुज्यते. यदि पिता यास्यत्यहो दुर्गतिम् । * १ ज्वाला २ सुखं ३ अनुदात्तेत्वलक्षणस्यात्मनेपदस्यानित्यत्वात्परस्मैपदम् । ४ दग्धुं वाञ्छति

Mana
संस्कृतचन्द्रिका ।
चेत : शहरपादपङ्कजमध्यानकतक्या युहु-
लीनं तत्र भव प्रमोदनिलये किं मूढ पुत्रेण ते ॥ १६
सायास क्त मन्दिरं विरचितं यद्वैजयन्तोपमं
सम्पद्धिकृतमयधर्मविभवा कष्टादथोपार्जिता।
कान्ता मानुषतां गतेव कमला सम्पादिता किन्तत.
श्वेत : शहरपादपायुगलध्याने न चेत्सज्जसे ॥ १७
नो विद्यां समपीपदोऽन्धतमसमाग्भारविध्वंसिनी
नाच्यार्थ समुपानिज सुविपुलं येनार्मदीनावनम् ।
काम नाप्यभुन सखे सुविमलं धर्म तु नैवाचर:
किन्तनमानुपतासतमकृयाश्चतस्त्वमेतद्वद ॥ १८
पुराभवसममित सुकृतसंचयश्चित्त में
त्वयाऽविगतमुत्तम जनुरिदं द्विजानां कुले ।
गुगैरसि परिष्कृतं यदि ततो भवं भावये.
देयुरयि साधव : परिमलस्य हेम्न्युद्भवम् ।। १९
विहाय श्रीशम्भोश्चरणकमलद्वन्द्वममलं
विमूढ त्वं भूयः कियु विषयजालेषु रमसे।
मुधासिन्, हित्वा हृदय किल देवादुपनतं
रतिः किं वा युक्ता सरलि विषसम्पूर्णसलिले ॥ २०
नानायोनिपरिभ्रभैरनुदिनं कष्टर्मुहुः कर्मभि.
भूरि व्याधिभिराविभिश्च नितरां मञ्चित्त सन्तग्यसे ।
कस्मान्यूड सुखाशयाथ कुरुषे कर्माणि दु:खाश्रया.
ण्यैशं पादयुगं सुखाय सततं योगीन्द्रसेव्यं भज ॥ २१
१ वैजयन्त इन्द्रस्य प्रासाद : । २ मर्त्यधर्मा कुवेर : । ३ प्रारभार : समूह : ।

समालोचना। सममोदमद्धीकारः। नागपुरनिवासिश्रीयुतपण्डितगङ्गाप्रसादाग्निहोत्रिभिः प्रेरिता हिन्दीभाषा- मयैश्छप्पयच्छन्दोभिरनुवादिता श्रीरामगीता श्रीछप्पयरामगीताख्या श्रीयुत- वडेचौवे श्रीराधाचन्द्र प्रेषितो हिन्दीभाषामयो वैद्यवल्लभ : खेत डीनिवासिधी- गुरुदत्तशर्मणा प्रेषितं करिस्तोत्रं श्रीमदाचार्यचक्रवर्तिश्रीसम्पत्कुमारनरसिं- हाचार्यस्वामिभिः प्रहित : शिक्षानिक्षेपश्चति सानन्दं धन्यवादमदानपुर : सरं सादरं च स्वीक्रियन्ते । यथावसरं च पुस्तकान्येतानि चन्द्रिकायां समालोचयिष्यन्ते। समालोचना। (निन्ने समालोचितानि पुस्तकानि ' सदरबाजार, मेरट ' इत्यस्मिस्थाने संस्कृतपुस्तकालयाधीशपण्डितश्रीईश्वरीप्रसादशमणः सकाशाल्लभ्यन्ते । ) नवग्रहकाण्डी अर्थात् नित्यपूजाविधानपद्धतिः-अत्र श्रीगणपती- न्द्रसूर्यप्रभृतीनां देवतानां पूजनमन्त्रा यजुवेदगताः संस्कृतव्याख्यया हिन्दी- भाषानुवादेन च संवलिताः समुद्भासन्ते । एतच्च मनोहरैरक्षरैः खेमराज श्रीकृष्णदासमहाशयस्य वेङ्कटेश्वरयन्त्रालये [मुम्बय्यां] मुद्रितम् । संस्कृतव्याख्या च भाषानुवादश्च हृदयङ्गमः संवृत्तः । सवैरपि संग्रही. तुमर्हमिदम् । शिवताण्डवस्तोत्रम्-लङ्कानाथश्रीरावणविरचितं शिवस्तोत्रमिदम् । पण्डितश्रीमदीश्वरीप्रसादशमणा हिन्दीभाषयाऽनुवादितम् । अनुवादः किल हिन्दीभाषामयोऽपि तद्भापानभिज्ञेरप्यवबोढुं शक्यते । तथापि न ग्राम्यभावं प्राप्त: । मुद्रगमयतिमनोहरम् । प्रतिदिनं पठितुं योग्यमिदमवश्यं संगृह्यता- मभिलाषुकैः । ।

•. , .. संस्कृतचन्द्रिका । आंगरेजीकी सीढी-इंग्रेजीभाषाप्रासादस्य शिखरमारुरुक्षोरत्यन्तमुप. युक्तः प्रबन्धोऽयम् । अत्र च इंग्रेजीवर्णा देवनागराक्षरैापितास्तदुच्चाराः शब्दाश्चोपयुक्ता : सोच्चारास्तथाविधान्येव वाक्यानि पत्रप्रभृतीनां लेखन- पद्धति : समुपयुक्ताश्च केचिद्व्याकरणनियमा : प्रणेत्रोपनिबद्धाः । पुस्तक स्यास्योपयुक्तत्वविषये तु नास्ति नः सन्देहः । किन्तु क्वचित् News, Want, Your, Live, That, इत्यादिशब्दानामुच्चारा 'निउन, वान्ट, युऔर, लिव, देट ' इत्यादयोऽसदृशा : सम्पन्नास्तांश्च संस्करणान्तरे शोधयेद्विरचयितेति बलवदाशास्महे । पुस्तकेनानेन इंग्रेजीभाषाया इव उर्दू- भाषाया लिप्याश्च ज्ञानमनायासेनैव भविष्यतीति प्रतीतिरस्माकम् । तस्या अपि हि भाषाया वर्णशब्दादयोऽत्र समुपनिबद्धाः । उपयुक्तं खल्वेतत्पुस्तकं छात्राणाम् । पण्डितेनेश्वरीप्रसादशर्मणैव संकलितमेतत् । गंगालहरी-हिन्दीभाषया सरलैः शिखरिणीवृत्तै ः कृतो गङ्गालहर्या अनुवादोऽयम् । अनुवाद : किल सम्यक्सम्पन्नः । तेन हि मूलगतोऽर्थः शक्यते ज्ञातुम् । परं क्वचिच्छन्दोभङ्गो हृदयमुद्वेनयति । अत्र द्वितीयादि पद्यानि निदर्शनम् । मुद्रणादि सौष्ठवं त्वतिमात्रं प्रशंसनीयम् । हिन्दीभा. पाभिज्ञास्त्वनेन सन्तोषं विन्देरन् । रुद्री--शुक्लयजुर्वेदिया षडङ्गरुद्राष्टाध्यायीयम् । पण्डितस्य श्रीमदी- श्वरीप्रसादशर्मण आदेशानुसारेण तत्रभवता बलदेवप्रसादमिश्रेण हिन्दी- भाषया विरचितेनानुवादेन संवलिता। अतिमात्रमनोहरया रसपरिप्लुतया भूमिकया च समुल्लसिता । अतितरां हृदयङ्गमोऽस्यानुवाद : संवृत्तः । सारल्यमप्येतस्य प्रशंसनीयम् । मनोरमैमुम्वयीप्रदेशीयैर्वणैः सम्यङ्मु- द्विता। पत्राणि चास्याश्चारूणि । संग्रहणमस्या अवश्यंविधातव्यं शुक्लयजु- वेदीयैस्तत्र च विशेषत : परिचितहिन्दीभाषैः । कलियुगाचार्यदयानन्दस्तोत्रम्-सर्वेषामपि सनातनधर्मावलम्बिनामु- पकाराय पण्डितनेश्वरीप्रसादेन प्रकाशितमेतत् । न किल. वयं दयानन्दम- समालोचना। २१५ तानुसारिणः प्रत्युत सनातनं वैदिकमेव धर्ममेकान्तताऽभिमन्यामहे । तेन यद्यप्यस्मद्विरुद्धमतस्थापक : पण्डितो दयानन्द इति सत्यं तथापि नैत- त्तदीयं स्तोत्रं निन्दामात्रव्यञ्जकं प्रमोदयति नश्चेतः। अनार्यसमाजरह- स्यप्रभृतीन्प्रमाणपरिपूरितान्दयानन्दमतखण्डनग्रन्थान्प्रकाशितवतो निकाम- मेतदनुचितं ग्राम्यजनमात्रोचितस्य मार्गस्यानुसरणं पण्डितस्येश्वरीप्रसादस्येति वाचालयत्यस्मान्वुद्धिरस्माकम् । प्रतिवादिनोऽप्यग्राम्यैः प्रमाणयुक्तिसमुल्ल- सितैर्वादै : पराजेतव्याः। योगसार:--हिन्दीभाषया विरचितं योगविषकं पुस्तकमेतत् । अत्र प्रथमं छात्राणां हिताय कस्यचिद्योगिनश्चितं तत्र च संक्षेपत : पिङ्गला- दीनां स्थानानि प्रदर्शितानि । ततो योगलक्षणमासनभेदा एकादश कर्माणि तेषां निरूपणं च योगस्याष्टाङ्गानि समाध्यास्थानप्रकारस्तदुत्तारणविधि- र्योगफलं च सम्यनिरूपितम् । एतेन योगबलान्नानाविधा रोगाश्चिकित्सितुं शक्या विविधानां च विषाणां वेगा: सुप्रशमा इति च सम्यक्प्रतीयते । लघीयोऽप्येतदतिमात्रोपयुक्तं मनोहरं सरलं च । आशास्महे पुनरेतत्सी- सकाक्षरैर्मुद्रयेत्पण्डित ईश्वरीप्रसाद इति । .. अस्यां संख्यायां शिवराजविजये प्रथमत एतत्पठ्यतां वाचकैः त्रुटितं ह्येतदनवधानात् । मन्द्रस्वरमेदुरा वाणी । अथ तत्कि नाज्ञाय्यद्यापि भवता प्रभुवर्याणामादेशो यद्दौवारिकेण प्रहरिणा वा त्रि : पृष्टोऽपि प्रत्युत्तरमददद्धन्तव्य इति । इत्येवं भाषमाणेन द्वाःस्थेन क्षम्यतामेष आगच्छामि आगत्य च निखिलं निवेदयामि इति कथयन्द्वादशवर्षेण केनापि भिक्षुबटुनाऽनुगम्यमान : कोपि काषायवासा धृततुम्बीपात्रो भस्मच्छुरितललाटो रुद्राक्षमालिकासना- थितकण्ठो भव्यमूर्तिः संन्यासी दृष्टः । ततस्तयोरेवमभूदालाप: । •.

२१६ संस्कृतचन्द्रिका । संस्कृतचन्द्रिकायाः पाठकमहाशयेषु विज्ञप्तिः। सहृदया वाचकमहाशया : श्रीमतामनुग्रहादेव व्यतीतो वराक्या : कोल्हापुरे प्रकाश्यमानाया अस्याश्चन्द्रिकाया : संवत्सर एकः। द्वितीयस्य च वत्सरस्य नवमीयं संख्या श्रीमतां कराम्बुजमलङ्करोति । आशास्महे च श्रीमतामेव महनीयतमेन प्रसादेन शेषा अपि संख्या : श्रीमत्सविधमुप- गच्छेयुरिति । चन्द्रिका तु यथावसरं नोपयातीति केषांचिन्मनसोऽप्रसन्नतामा- कलय्य वयमपि विषीदामः । किन्तु चन्द्रिकाया मुद्रणस्थानादे : परिवृत्त्या- दिना संवृत्त : समयभङ्ग एतस्मिन्वत्सरे यद्यपि निवारयितुमशक्यस्तथापि आगामिनि वत्सरे प्रतिमासं यथावसरमेवासौ प्रकाश्यतेति प्रतिजानीमः । केचित्तु महाशया दार्शनिकविषयाणामेतस्यां प्रकाशनमनवलोक्य विम- नायन्ते तेषामपि चेतस आवर्जनायागामिन्यब्दे प्रतिमासं सांख्ययोगवे- दान्तमीमांसादिदर्शनानां मर्माणि समवबोधयितुं केचन प्रबन्धा अवश्य प्रकाश्येरन् । एतावन्तमपि कालमशेषेऽपि भारते सिंहलद्वीपे च विरलविरलं प्रचरन्त्या नैतस्यास्तावन्तो ग्राहका : सम्पन्ना यैरनन्तरायमे- वास्या मुद्रणादिव्ययो निर्वाह्येत । आवेदिताश्च भूयांसो भारतीयाः प्रभवो- ऽस्माभिरेतस्या : साहाय्याय। किन्तु नाद्यापि भाग्यमेतस्या उदयितुमारभते। एष च मुद्राणादिव्ययो वाचकानुग्रहमन्तरा नूनमशक्यो निर्वाहयितुम् । विज्ञापिताश्चास्माभिः सर्वेऽप्यप्रदत्तमूल्या वाचकमहाशया मूल्यवितरणेना- नुग्रहीतुं चन्द्रिकाम् । किन्तु नाद्याप्यस्यां तेऽपि कृपापाङ्गं विकिरन्तीत्यहो दुर्भाग्यमेतस्याः । अथ यदि मासेऽत्र मूल्यं न प्रदीयेत तदाऽऽगामिनी संख्यामवश्यं व्ही. पी. द्वारा प्रेरयिष्यामस्तां चावश्यं स्वीकुर्युर्दयालयो भवन्त इति । अनन्यगत्या व्हीपीकरणमेतदवश्यं मर्षणीयमित्यभ्यर्थयामहे । यश्चास्यां विशेषोविधातुमिष्ट : सोऽवश्यं निवेद्यतां समुचितश्चेदवश्यं स्वीक- रिष्यत इति शिवम् । विनयावनतस्य संस्कृतचन्द्रिकाया: सहकारिसम्पादकस्य ।

श्रीशिवः शरणम्। BSITAREETENTRANCELLANE । তিশা লন : शिवादीनपि कर्माणि कारयन्ती जनानिक । मायाऽवलम्ब्यते लेथमन्वा श्रीशिवसुन्दरी ॥ |मासावतरणिका॥ याता सम्पदनुत्तमाऽपि विलयं नष्टोऽभिमानाऽङ्गुरो जातिति दिगन्तरं पुनिमतो धोऽपि संक्षीयते । इत्येव भविलोक्य भारतभुवि शोमं मनस्युदहन भाघोऽनास्य निसर्गजानपि गुना मोकन सन्तप्यते ॥१॥ उद्भट-लोकाः। स्थाने सुशिष्यनिवहे बिनियुज्यमाना विद्या गुरुं हि गुणवत्तरमातनोति । आदाय शुक्तिपु बलाहकविप्रकीर्णान् হলা স্বনি আহিল। कारुन्तुदमन्तरेण रटितं गाहल काक स्वयं माकन्द मकरन्दशालिनमथ त्वां मन्महे कोकिलम् । धन्यानि स्थलभवन कतिचिवस्तूनि कस्तूरिकां नेपालक्षितिपालालपत्तिते पोन शतकः॥ १ शीतादीन् २ योग्ये ३ बलाहको नेव: ४ समुन्द्र : : अरुन्तुदं मर्मस्फक कर्णत्रासदायकामित्यर्थ: । ६ विना ७ माकन्द : आत्र :

२१८ संस्कृतचन्द्रिका। पण्डितराजः श्रीजगन्नाथः। .. .. ( पूर्वतोऽनुवृत्त) प्रकाशितैव लवङ्ग्युपाख्यानकिंवदन्ती गतसंख्यायामस्माभिः । अथेदानी तस्या : सत्यत्वादि विचारयितुमिच्छाम : । स्वभावत एव किल क्रोधवन्तो यवनाः स्वाङ्गनाम् परस्य प्रेममयं भावसम्भवमपि नयनपातं न सहन्ते किम्पुनर्विधर्यिस्य कामाविष्टमनस आत्मन: समक्षमेव निजकन्याविषयिणी प्रार्थनाम् । यद्यपि भूयांसो विद्वांसो वैदुष्यस्याननुरूपमहङ्कारमवाप्नुवते तथापि नहि काममालासक्त्या धर्ममुल्लचयितुमीहन्त इत्यपि नैव विस्मरणीयम् । क्षुद्रतमोऽपि यवनो यदि विधर्मीयैः कृतया कान्तागतया कथयापि कोपस्य परां कोटिमारोहेत्तदा कथं वा निखिलभारतवर्षभूपालसमभ्यर्चितशासनो दिल्लीश्वरः शहाजहानः पण्डितेनापि जगन्नाथेनात्मन: समक्षमभ्यर्थितां कन्यां तस्मै प्रदाय यवन- धर्ममवधीरयितुं प्रभवेत् । नूनं नैतत्कथञ्चिदपि सम्भवति । यवनीनवनी- तकोमलाङ्गीत्यादयः श्लोका यदि पण्डितराजविरचिता एवेति स्वीक्रियेत तदा भामिनीविलासेऽपि तेषामुपनिबन्धनमवश्यमङ्गीकर्तव्यम् । दुवेत्ता जार- जन्मानो हरिप्यन्तीति शङ्कया स्वीयपद्यरत्नानां भामिनीविलासाख्यां मञ्जूषां निर्मितवता पण्डितराजेन कथं वा तानि विस्मर्येरन्कथं च मञ्जूषायां न संगृह्येरन्नित्यपि विचारणीयं विद्वद्भिः । अतो नैतानि पचानि पण्डितराज- प्रणीतानीति प्रतीयते । ततश्चजगन्नाथस्य यवनीपरिणयविषयिणीयमाख्या- यिकागगन आलेखलेखनमनुहरति । किं च सार्वभौमायमानो दिल्लीश्वर : समायां जलं पिबेदित्यपि न श्रद्धेयं नापि वा तस्य कन्यका शिरासि कलशी निधाय हीनभाग्या योषिदिव नीरमानयेदित्यपि सम्भवास्पदम् । येभ्यः पन्थानापि भृत्यैरेवादिश्यन्ते तेषामपूर्वपश्या: कन्याम्तल च मुस्त- २१२ । पण्डितराजः श्रीजगन्नाथः। नीत्वादिविशेषणार्हा: प्रगल्भे वयसि पदमर्पयन्त्य : परपुरुषपरिवृतायां परिषदि पानीयमानयेयुरित्यपि विरुद्धमेव प्रतिभाति । अतो निर्मूलेयं जग- नाथस्य यवनीपरिणेतृत्वविषयिण्याख्यायिका । अथ भगवत्या भागीरथ्याऽऽल्मनोऽङ्गेषु विलयं नीतो जगन्नाथ इत्येपाधि किंवदन्ती कियत्सत्यभावमवलम्बन इति विचार्यते । यथैव पण्डितराज- विरचितया स्तुत्या प्रमुदितहड़या देवनदी जगन्नाथं पावयामासेति श्रूयते सा किल पीयूषलहरी गङ्गालहरीति वा प्रथिता । यदि तूपरि निर्दिष्टा लोक- वाता मृपात्वं नावगाहेत तदा गझालहरीप्रणयनकाल एव जगन्नाथस्यायुपो- ऽवसानावसर इति स्फुटमेव । ततश्च गङ्गालहरीप्रणयनोत्तरं जगन्नाथो नान्यं प्रबन्ध निर्माभ्यतीत्यपि सिद्धम् । अर्थाजगन्नाथविरचिते प्रबन्धान्तरे गङ्गालहरीगतानि पद्यानि नैव दृश्येरन् । किन्तु तानि दृश्यन्ते । अत एवं गङ्गालहरीप्रणयनावसान एव जगन्नाथस्यायुष: परिसमाप्तिरिति वचनं नैव विचारसहम् । नापि गङ्गालहरीभिन्ना जगन्नाथविरचिता काचिदपि मन्दाकिन्याः स्तुतिरम्ति यस्या अवसानसमयं जगन्नाथस्य निधनावसर मंन्यामहे । अत : सर्वथा नियमाख्यायिका । दृश्यन्ते च गङ्गालहरी- गतानि पद्यानि रसगङ्गाधरे यथा-- विधतालिश লিঅহা লিম सुखं शेषे शेतां हरिरविरत नृत्यतु हरः। জুন মাখানে লালমিল; खात्रीकामानां यदि जगति जागर्ति सवतो!माधुर्योदाहरणम्। एवमनन्ययालझारप्रकरणेऽपि শদখাগ্রোল সুত্ব ললন : समुख सन्ति लिनुबनतले तीर्थनिवहाः। आमायादेश যখন অন্য দী এব ভাল - নিযৰ নি ।

.. संस्कृतचन्द्रिका। एवं भावम्योदाहरणप्रसङ्गेनोक्तं जगन्नाथेन तत्रैव मनिर्मिताश्च पर लहयो भावल्येति उदाहरणमिति सम्बध्यते । ताश्च पच लहों नाम पीयूषलहरीसुधालहरीलक्ष्मीलहर्यवृतलहरीकरुणालहरी चेति । एवं च पीयू- पलहर्यपराख्यायाः श्रीगङ्गालहाः पञ्चतु लहरीप्वन्तर्भूततया लहरीपञ्च- कस्य च रसगङ्गाधर उल्लिखितत्वेन गङ्गालहरीगतानां पद्यानां रसगङ्गाधरे दृश्यमानत्वाच्च गङ्गालहर्या रसगङ्गाधरनिर्माणात्याक्सम्भूतत्वं स्फुटमेव प्रतीयते । ततश्च निर्मूलेयमाख्यायिका यदुच्यते लीनो मन्दाकिन्याः ऋोडे जगन्नाथ इति । अथ द्वितीया किंवदन्ती । आसीत्किल दिल्लीपतेः कोऽपि पुरोहितो म्लेच्छजातीयो यः संस्कृतभाषाब्धेः परं पारमासाच शास्त्रसागरमुल्लय च तत्र तत निवसतः पण्डितगणान्पराभवति स्म । स च तैस्तै ः पण्डितै- विवमानस्तांस्तान्विदुषो विजयमानस्तत्र तत्र प्रदेशे सनातनं भारतधर्म- मुत्सादयमानो निराकुर्वन्प्रतिपक्षान्प्रतिपादयन्यवनधर्म परिखण्डयञ् शास्त्राणि हेपयन्नस्खलितया संस्कृतगिरा भारतीयान्विबुधानवजिताशेपदाक्षिणप्रदेश सकलविद्यावशद्यावभासितां नानाविधविबुधमण्डलीमण्डितां पण्डिताग्रेप्सरसमु- पक्रम्यमाणदार्शनिकविषयचर्चामचीनुकूलकलसमर्पणकल्पपादपायमानेन भग- वता शशिखण्डमौलिना समुद्भासितां भासिताशेषत्रिभुवनया परमपाव- नया मन्दाकिनीदेव्या परिगतां सभुमचीयमानायुकृतराशिं काशी नाम गरी- यसी नगरीमुफ्तस्थौ । ततश्च तत्रत्यान्विबुधानाव्हयमान : काजी सभा महायसी निर्माय विवादमारिप्सामात । पण्डिता अपि तदानीमेवाहम्पूर्वि- कया सभामागत्य विविधाभियुक्तिभिनीनाविधाभिवचनरचनाभिः परिस्फु- रन्तीभिः प्रमाणपरम्पराभिश्च काजी जेतुमयतन्त । काजी तु पवन इव पथिपतितांस्तृणच्छेदास्तानि वचननालानि क्षणादेव प्रतिक्षिपन्नखण्डितमतः करनलरात्रैरानाभि लम्बमानां धवलकीर्तिसन्ततिमिव पुञ्जीभूयोपागतां १ स्पर्धायामा इतिहबचतेरात्मनेपदम् ।

पण्डितराजः श्रीजगन्नाथ कर्चिकां* परिकुर्वन्तावहेलमत्रासनमधिलरोह ! तदनु विवादेऽप्रभविष्णवो ऽध्यपमानासहिष्णवो वाराणसीनिवासिनो द्विजन्मानोऽनुचरविपदपहतार सृष्टिस्थितिप्रलयकारं निजपरिचरप्रतिभटखण्डनं सुधाकर कलामण्डनं समु. पेत्यानन्यगतेन मनसा नानाविधाभिस्तत्कालसमुचिताभिःकरुणरसपरिप्लुताभिः स्तुतिभिस्तमेव भगवन्तमुपत्रीणयामासुः । अवगताशेपवृत्तान्तश्च भगवान्भु- जगभूषणो भागीरथीमौलिमहेश्वरस्तदात्व एव प्रत्यक्षीभूय वाचमेतामुदीयर- यामास । अस्त्यत्र कत्यापि रत्नेश्वरनानो. द्विजन्मनो धनिकस्य सदन आम्भसिकः कश्चिद्भिक्षुः स एवाम्यावलिप्तस्य यवनहतकस्य पराजये प्रभवतीति स एवाभ्यर्यतामिति । ते तु ब्राह्मणाः फलमिवात्मनो मनोरथ- द्रुमल्य तवचनमाकण्ये इतपदं रनेश्वरश्रेष्टिनो भवनमागत्यासाद्यच श्रेष्ठिनं भगवतो निदेशमावेदयामासुः । स च तेषां तद्वचनमाकर्ण्य परं विस्मयमा- पन्नस्तमेव नीराधिकृतमात्मनो दासं समाहूय निजगादाभिलपितं ब्राह्मण- समाजस्य । अपृच्छच्च अपि प्रभवसि कर्मण्येतस्मिन्निति । ततो धीवरजा- लायमानेन संख्येयतन्तुसन्तानेनाजानुलम्बिना मालीमसेन वसनेनावेष्टिताध : कायो जठरभरमन्थरगतिरंसमुभयत : प्ररूईजलकुम्भवहनसञ्जातै : किणै : समुल्लमित: पीवरतनु : श्यामायमानेन चेलखण्डेनवष्टितोतमाङ्गो घटीचेटो हुं करिष्याम्येतबदि भवन्तोऽनुजानीपुरिति मन्दमन्दं प्रत्यभाषिष्ट । ततः श्रेष्ठिना समर्पिते तस्मिन्प्रमुदिता ब्राह्मगाः को शेयानि पट्टवसनानि परिधाप्य अन.- भूषणैरलङ्कृत्योष्णीपसमुल्लपितं च तस्य मूर्धानं विधाय कनकशिविकाया- मारोप्य महीयसामहोत्सवेन विरचितायां सभामानाय्य तमुपवेशयामासु : । कानीरपिसमाहृतागतस्तस्यैव संमुखमुपाविशत् । ततो दोलायमानकात्र- काकलापं समुध्यमानश्मश्रुरोमजालं च प्रवदता काज्यासह प्रववृते भिक्षोविवादः । अन्ते पुनभिक्षुवचनचातुरीविस्मितोऽश्रुतपूर्वा : सहस्रशो युक्तीराकयेतिकर्तव्यताविमूढो विवादमागरमूत्तरीतुमप्रभविष्णु: काजी. .. ६. दाढी । १ आम्भसिक अम्भगि निबुता : पाणक्या इति ख्यातः । २ पाणक्या।

संस्कृतचीन्द्रका। तृप्णीम्भावस्मवलय भितुं प्रणनाम । ततो विजितं विजितं भिक्षुगात सता. लरवं प्रवृत्तेषु वचनेषु तदानीमेव मूर्छन्मु तूर्येष्वाहन्यमानेषु सुरजेषु ध्वन्यमानेषु दुन्नुभिपु आध्मायमानेषु शोषु उच्चरत् क्ष्वेलानुकारिषु सिंहनर्दिकाके कारेषु महोत्सवमय इव मङ्गलमय इव प्रमोदमय इव विजयमय इव यशोमय इव च तस्मिन्समये सबहुमानं सपणामं च सौवर्ण यानमारोप्य भिक्षु श्रेष्ठिन : सदनमानाय्य यथावृत्तं वृत्तं निजगदुर्द्विजन्मानः । ततस्तु समुद्भूत- जिज्ञासा : सर्वेऽपि तस्य भिक्षो : कुलं नाम विद्यामभिजनं च पप्रच्छुः । तस्मिंश्वाशेषतोऽपि तेन कथिते निश्चित्यु : काशीस्था विबुधा अयमेव पण्डितराजो जगन्नाथ इति । काजीस्तु तत प्रभृति तस्य पण्डितराज- जगन्नाथल्य मित्रतामुपागच्छत् । ततो गच्छता कालेन दिल्ली गतो बादशाह विज्ञाप्य जगन्नाथमपि दिलीनगर एवानाययामान । ततः प्रभृति च प्ररूढं जगन्नाथवादशाहयोः सौहार्दमिति । (क्रमश:) मूर्तिपूजन। ( पूर्वतोऽनुवृत्तम् ) केचित्त्वाचीना ज्ञानलवदुर्विदग्धा वेदान्तमेव समवलम्बमाना नास्ति- क्यस्य परां कोटिमारूढा वेदान्तशास्त्रविरुद्धेयं मूर्तिपूजेत्याहु । तन्न समञ्ज- सम्। प्रतिपादयत्येव हि सगुणोपासनं वेदान्त: । वेदान्तस्तावद्वेदानामन्त : शिरखरभाग उपनिषद्भाग: । शाण्डिल्योपनिषदि च सगुणोपासनमान्ना- यते । किं चाद्वैतशास्त्रमेव वेदान्त इति चेदीक्रियते तदाऽपि न क्षति : वेदान्तदर्शने व्यासनैव सगुणोपासनाया अभिधीयमानत्वात् । श्रीशङ्करा- चार्या अपि सर्वत्रैवमेव प्रतिपादयामासुः । किं च नास्ति वेदान्तमूर्तिपूजन- योविरोध : समानविषयकत्वाभावात् । वेदान्ताधिकारायैव हि सगुणोपासनं १ देवता सिंहनादः । wnmeuwarima मूर्तिपूजनम् । विधीयते । तन्न युज्यते वेदान्तमूर्तिपूजनयोविरोध इति वक्तुम् ।ये तु स्थितप्रज्ञा : समलोष्ठाश्मकाञ्चनास्तृगे स्त्रेण च समानबुद्धयो दिगम्बरा अलिप्तमतय आनन्दैकमूर्तयो निर्द्वन्द्वा : परित्यक्तजनसंसर्गा महापुरुषा: परित्यजन्तु नाम ते प्रतिमापूजां न हि स्वयं देवप सुपायातानां मूर्तिपूजया प्रयोजनं किञ्चिदपि । किन्तु ये मदिराया अपि रसं रसयन्तो नापत्रपन्ते ये वा मुहुर्मुडधूमवर्तिपानधूसरितरदनाश्च बाप्पयानशीर्षमिव निरन्तरनिर्ग- च्छङ्ख्मयुद्धं वदनं वहन्त : पथ्यपि न विरमन्ति कर्मणस्तस्मात् ये च साचि- स्मितेनासमप्रैश्च भावगभैरपाङ्गपातैरुद्दीपितमदनानला रमन्ते रमणीबु ये वा क्षणमपि ताम्रकूटचर्वणविरहं न सहन्ते ये वा समुज्ज्वलमेव वेपादि बहुमन्यन्ते येषां चाक्रम्यन्तै मनांसि द्वन्द्वैः सर्वथा च ये दुराचारमयेप्वेब वर्त्मसु पदानि वितरन्ति येषां च मलीमसतमं चेतः प्रमोदते सौख्येनोद्विजते च दुःखेन कथंनाम ते वेदान्तशास्त्रस्याधिकारिण : सम्पद्येरन् । अधिकारमप्य- नधिगतवन्तश्च परित्यक्तमूर्तिपूजा निराकृतधर्मा : कथं वा दिव्यं पदमवाप्नुयु : कथं च निरये न पतेयुः । सर्वथोपरिनिर्दिष्टाचाराणां वेदान्तमात्रालम्बानां नास्ति नो वेदान्तविरुद्धया मूर्तिपूजया प्रयोजनं किमपीति वचनं तेषामुभयतो भ्रष्टत्वमन्तरा न किञ्चिदप्यन्यद्योतयतीति बोद्धव्यम् । विभावनीयं च नैव वेदान्तशास्त्रविरुद्धो मूर्तिपूजनाचार इति । स चावश्यमनुष्ठेय आर्यत्वं कामयमानेनेति । एवं च ध्वनयति विदधाति च मूर्तिपूजनं वेदो निरूपयति च तदाचार स्मृति ः प्रशंसन्ति तदाचरितं दर्शनानि प्रतिपादयन्ति प्रतिमापूजनं पुरा- णानि साधयत्येतलौकिकी युक्तिः। अतो यदीप्यत आत्मनो हिन्दुत्वं यदि विद्यते वैदिकधर्माभिमानो यदि नास्ति निरयप्रत्याशा यदि च समपेक्ष्यते निर्गुणब्रह्मोपासनायामधिकारो यदि च प्रेप्स्यते निःश्रेयसमन्दिरकपाटोद्धा- टनक्षमता तदा पूज्यन्तामन्वहं प्रतिमाः । इदमेव ह्यादिमं कर्तव्यमार्यवंशे- समधिगतजन्मनां पुरुषाणामिति शिवम् संस्कृतचन्द्रिका । बुद्धिमाहाल्यम्। ( पूर्वतोऽनुवृत्तम् ) अथ दिनेषु व्यतीतप्वेकदा पुनरपि नृपति : सुशीलमादिशति---सुशील अहं लोकेऽदृष्टपूर्व सप्ततलं सौधं निर्मास्यामि । किन्तु निर्माणप्रकारोऽन्य- विध : श्रूयताम् । तथाहि प्रथमं शिखरदेशं निर्मातुमिच्छामि तदधो विटङ्गं तदधो विविधकारुकार्यखचितप्रदेशं तद्धश्छदिस्तधो भीमकाष्ठसंयोजन तदधो बृहतः स्तम्भांस्तदध : षष्ठतलं तदध : पञ्चमतलं तदधश्चतुर्थतलं ततस्तृतीयतलं ततो द्वितीयतलं तदध : प्रथमतलं परिशेषे च वसुधायां भित्ति निर्मातुमिच्छामि । अतस्तथाविधप्रकारकारकं कञ्चित् स्थपतिमुपाह- रेति । तदाकर्ण्य सुशील : स्मित्वा श्वस्तथा वक्ष्यामि स्वसामर्थ्यमसामर्थ्य वेति कथयामास । ततः स्वावासं गत्वा तद्विस्मयकरं वचनं सुदर्शनमवादीत् । विदित्वा च मुदर्शनः किमत्र चित्रं तथैव प्रथमतो निभित्तिकं सप्तमतलं निर्मातुं कुशलं स्थपतिमानेष्यामि किन्तु षण्मासगम्यपथात्परदेशत: । नास्मिन्देशे सर्वथैव स मिलति । तद्वेतनमपि लक्षद्वयरूपकं प्रदेयं भविष्यति । अधुनैव तु तदर्धमिति भूपतये ब्रूया इति प्राह स्म । परेयुः सुशीलो भूपति तथा व्यज्ञापयत् । विदित्वा नन्दिताच तस्मान्मु- द्रालक्षमादाय स स्वसदनं प्रत्यगमत् । अथैकस्मिन्दिने सुदर्शन : सुशीलं कथयति सखे तथाविधं स्थपतिमानेतुं सुदूरदेशं व्रजामि षण्मासशेषसमये पुन: समेप्याम्यत : पाथेयं किञ्चिद्रव्यं दीयतामित्युक्त्का लब्धपाथेयः समालिङ्गय च सखायं गृहान्निरगात् । ततः सुदर्शन : सुदूरं पर्वतमासाद्य सुजातीयं प्रियदर्शनं च किराता- त्कीरमेकं क्रीत्वाऽतीवनिभृतदेशं गत्वा स्वाभिमतं कमपि वाविशेषं तं कीरं सम्यगशिक्षयत् स्वहस्तात्तमुदक्षिपत्पुनरपि तमाहूय स्वहस्तमुपानयत् । ..

* बुद्धिमाहात्म्यम् । शुकमेवं सुष्टु शिक्षयित्वा भूषितपञ्जरं तमादाय खगेहमागच्छत् । आगत्य च सुदर्शनः सुशीलं वक्ति सखे समानीतस्तथाविधः स्थपतिर्वि- जाप्यतां राजेति। ततस्तथा बदति सुशीले हर्षविस्मयकुतूहलोत्कुललोचनो भूपाल : सर्या- विज्ञापयति परश्वो निमित्तिकं निर्मापयामि सौधं शिखरदेशादारभ्येति सर्वेरेव तत्रोपस्थातव्यं द्रष्टव्यं च महदाश्चर्यमिति । अथ निर्दिष्टे दिवसे महती जनता समवेता अहो किमिति कथमिति व्याहरन्ती यावत्कलकलायमाना विचेष्टते तावत्सुदर्शनसुशीली सर्वैरलक्षितं शुकमुबैरुदडाययताम् । स चातीत्य चक्षु :पथमन्तरीक्षं मुहुर्मुहु : स्पष्ट- मुच्चै रौति- ईंटा लेओ सुरकी लेोहान् गाँधेगा, इँटा लेओ सुरकी लेओ हाम् गाँथेगा, इँटा लेओ सुरकी लेओ हाम् गाँथेगा," इति तदाकर्ण्य सर्वे ते जनसमा : साश्चर्या उग्रीवास्तस्थुः । सुदर्शनानुमत : सुशीलोऽपि राजानमुपागम्य निवेदयति नरपते रलपाद स्थपतिरत्युच्चदेश- मारूढ : परिश्राम्यति मुहुः प्रार्थयते स्पष्टमाचष्टे च इँटा लेओ सुरकी लेओ हार गाँथेगा इत्यत : शीघ्रमेव इष्टकादिकं प्रासादोपकरणं भृत्यैस्तत्र योजय स्थपतिराजो मदीयो वृथा परिश्राम्यति । यदि प्रभुपादेरेव निरवलम्बे वियति सौधोपकरणं योजयितुं नैव शक्थेत तर्हि नास्त्यत्र स्थपते : किमपि दूषणं ममापि च तदानेतुरिति । श्रुत्वेदमुच्चैर्हसित्वा च भूपतिस्तत्क्षणमेव साधु साध्विति मुहुराख्याय तस्मै मुद्रालक्षं प्रादात् । अथ प्राय : संवत्सरमतीत्य वर्षीयानमात्य : पर्यटित्या बहूनि तीर्थानि खगृहमागमत् । समतुप्यच श्रुतताववृत्तान्त : । किन्तु मन्त्रिपत्नी निर- : इँटा इटका : सुरकी कोगसाधना कोनाळीति प्रसिद्धा गाँधमा मन्दिर निर्मास्यामीत्यर्थः संस्कृतचन्द्रिका। न्तरं विषण्णवदना किमपि विचिन्तयन्ती दिनानि यापयति । मन्त्रिणा पुन : पुन : सनिर्वेदंसानुनयं च पृच्छ्यमानापि न वैमनस्यनिमित्तं ब्रूते केवलं रोदिति । अहो माहात्म्यं स्त्रीमायाया : । एवं गच्छति काले किमिति कथमिति भृशं रुदती मामपि रोदयसि प्रिये किमपराद्धं मयाऽन्येन केनाऽपि वेति सानुनयं पृच्छति मन्त्रिणि तत्पनी कथयति । नाथ भवानतिवर्षीयान्कदा- ऽस्मान्परित्यज्य स्वरारोक्ष्यतीति नास्ति निश्चयः । परन्तु भवति कालवशं- गते महाचतुरो धूर्ततमश्च पुत्रीकृतो योऽसौ सुदर्शन :स बुद्धिवृत्याऽऽत्मज सुशीलं पराजित्यामात्यपदमधिकरिष्यतीति ध्रुवम् । प्रत्यक्षतो दृश्यतां वर्ष- स्यान्तर एवानागते त्वयि राजानं वञ्चयित्वाऽऽनीतानि द्रव्याणि । नास्य मतिचातुर्यं भवानपि सोढुं शक्ष्यति । अतो यद्यधुनैव नायं विनाश्यते तर्हि ध्रुवं प्राणांस्त्यक्ष्यामीति त्रिसत्यं वच्मि । तदाकर्ण्य दुःखरोषाविष्टो मन्त्री विविधेनापि न्यायोपन्यासेन यदा पत्नी तस्माद्दुर्व्यवसायान्नियन्तुं नापारयत्तदा गत्यन्तरमपश्यन्ननिच्छन्नपि निरागसः सुदर्शनस्य वधमङ्गीचकार । अहो धिक् स्त्रीणां चित्तानुवर्तनम् । अथ साहसिकनामानं राजपशुच्छेदकमानाय्य विश्वास्य प्रलोभ्य च धनापणेन मन्त्री उवाच । अद्य पत्नीद्वितीयोऽहं किमपि मनोरथसिद्धिदं व्रत- मनुतिष्ठामि तत्र च नरकण्ठशोणितमपेक्षणीयमत : क्षणान्तरे यस्त्वां समु- पसृत्य भाषिष्यते दीयतां सबश्छिन्नपशुमांसमिति तत्क्षणमेव तं हन्या इति समादिष्टस्तथेत्युक्त्वा साहसिको गृहमाययौ । व्यतीते च कियति क्षणे समाहूतं सुदर्शनं मन्त्री जगाद । गच्छ ताव- ब्रूहि साहसिकं पत्नीद्वितीयो मन्त्री व्रतार्थं मांसमिच्छत्यतो दीयतां सद्यश्छि- नपशुमांसमिति । तथेति विमलान्तरत्मा सुदर्शनोऽङ्गीकृत्य यावद्वहिरागत- स्तावत्पथि मध्ये समेत्य सुशीलोऽपि तमिदमब्रवीत् सखे दीयमानेनानेन --- २२७ बुद्धिमाहात्म्यम्। हेम्वाञ्चनैव पूर्व राजपुत्रार्थ कारिते इव कुण्डले ममाऽपि कारयित्वा समानयेति इत्युक्तो मन्त्रिपुत्रेग सुदर्शनस्तदैव कृतानुरोध : कुण्डलयोः कृते प्रहित: । पित्रादिष्टं तु मांसमहमेवानेप्यामीति सुशीलोऽपि सुदर्शनकथित- मादेशं गृहीत्वा साहसिकसमीपं गतवान् । पूर्वमेव स्मृतादेश : सपशुघात- कस्तथवोक्त्वा मन्त्रिण आदिष्टं स्थितं सुशीलं द्रुतहस्तं खड्गेनावधीत् । तच्चानीय कण्ठशोणितं मन्त्रिणे साहसिक उपाहरत् सानुतापं च चिन्तयति तस्मिन्मन्त्रिाणि कुण्डलहस्त : स सुदर्शन : कास्ते सखा मे सुशील इति यावत्पृच्छति तावत्सविलापमाख्यातस्ववृत्ता- तो मन्त्री भूतले पपात । भायीमात्मानं च निन्दन हा पुत्र इति चक्रन्द । मृत्यैरन्यैः पृष्ट : स यथावत् सर्वमवर्णयत् । तदाकर्ण्य सुदर्शन : कथयत्ति पूर्वमेव मया भूयो भूय उक्तम् -- सोले रास्ते मे चलू आइये बाबा नहि गिरे गा इति तथाचोक्तम्- कन्दुको भित्तिनिक्षिप्त इव प्रतिफलन्मुहुः । आपतत्यामनः प्रायो दोषोऽन्यस्य चिकीर्पितः ॥ साधुहत्यां चिकीर्षुभिः पापैरम्माभिर्यत्पुत्रघातनं कृत्वा तत्कण्ठशोणितं प्राप्तमतो न प्राणान्रक्षयेयमिति मुदर्शनं बोधयित्वा दत्वा च समग्रं विभवं मन्त्रित्वपई चास्मै स्वपापशुद्धये सभार्यो मन्त्र्यनुशयाऽग्निना दग्धो- ऽपि हुताशनं प्रविवेश। सुदर्शनोऽपि मन्त्रित्वमास्थाय सुखेन राज्य शशास । अत एव सर्वैरपि साधुरेव पन्था : समाश्रयणीय इति शिवम् ।

संस्कृतचन्द्रिका। दधीच्युपाख्यानम् । । युगान्ते चलते मेरुः कल्पान्ते सत सागराः । হল : শিল্বাহী ৰ অন্তৰি জন্মল। पुरा किल दधीचिरिति महातपास्तापस आप्तीत् । तस्य च भाषी मूर्तिमतीव पातिव्रती बभूव गभस्तिनी नाम । यां खलु वडवेत्यप्याजुहवु- मुनयः । निजकलत्रमात्रनिवृतोऽपरोऽगस्तिरिव भगवान्मरीचिहधर्मपरा- यणस्तथैव भार्यया सहारण्यमधिवसन्धिविधं तपस्तेपे । निखिलं जगदु- पप्लावयितुं बद्धपरिकरा अपि दानवास्तपःप्रभावपरिपालितं तस्याश्रमपद- माक्रमितुं न प्रबभूवुः । अथ गच्छता कालेन शक्रप्रमुखा देवाःसर्वेऽपि तस्याश्रमपदं प्राप्य सादरं कृतनतयो मुनिना च ग्राहितातिथ्याः कुशलमनु युक्ताश्च प्रोचुः । मुनीन्द्र कुशलं नः फलितप्रायश्चास्माकं मनोरथद्रुमा यदसि संदृष्टः । भवता हि परिगृहीतानां न किञ्चिदपि दुर्लभं भुवने । तीर्थस्नानं भूतदया भवदर्शनं चेत्येतावदेव कर्तव्यं जीवतः पुरुषस्य । सत्यप्येवं किमपि कार्यान्तरमभिधातुं मुखरयतीवायमस्मान्नेहः । तच्चावधार्यताम् । भगवन- शेषानपि दानवान्नामशेषान्विधाय भवत्पादमूलमुपयाताः स्मः । साम्प्रतं च शत्रुविरहितानां विफलान्येव नोऽस्त्राणि । यदि पुनः स्वर्ग एवैतानि स्थाप्यरंस्तदान कविध यत्न नास्थायापहरेयुरेताने पराभवमसहमाना दैत्याः । तदेतानि भवदाश्रम एवार्हाणि स्थापयितुम् । अत एतान्यात्मी- यतां नीत्वाऽनुजानीयस्मान्नन्दनवनविहाराय । तपःप्रभावादानवदुःप्रवेशे ह्यत्र प्रदेशे नैतेषामपहारस्य शङ्काया अप्यवसर इति । मुनिरपि तत्सादर- मडीचकार । गभस्तिनी तु तदखिलमाकर्य भतारं प्राह । नाथ किमनेन देवकार्येगास्माकम् । परमार्थेकनिष्ठानामपेतसंसारानुरागाणां हि लोकद्वय- । ।

२९ । दीच्युपाख्यानम् । विरुद्धमेतदाचरणम् । किं च यदि जानीयुरत्र निहितान्यायुधानि महाप्रयासा दैत्यास्तदा महीयसा प्रयत्नेनाप्यपहरेयुः ततश्च निक्षेपविनाशक्रुद्धा अमी एव देवाः शनवः सम्योरन्नम्माकान् । विदितमेवैतदार्यपुत्रस्य यद्बहवः खलु निक्षेपविनाशादृच्छिन्नसौदाः सुदीप्यमुहदः सम्पन्ना इति । अत एवं परित्यजन्त्यापातरमणीयं दुःखविपाकिनं पन्थानमेतं सन्तः । तदलमेतेन व्यवसायेनेति । पूर्वमेव प्रतिपत्रार्थन्तु दवीचिनिशम्चेदं भार्थीया वचनं प्रत्यत्रीत् । प्रेयसि अविथतं खल्वेतत् सर्व किन्तु न शक्रोमि परावर्तयितुं सकृदपि समुद्गतां वाचम् । सा तु तदाकर्य देवमेव शरणं मन्वाना तुष्णीम्बभूव । देवा अपि प्रनष्टनीतयस्तापसाभ्यनुज्ञाता : सानन्दं दिवमगच्छन् । तेषु गतेषु दधीचिरपि कियन्तं कालं भार्थया सह सुखमुवास । अथ देत्या दधीचि पीडयितुं प्रावर्तन्त । देवान्तु व्यतीतेऽपि वर्षाणां सहस्र नात्मन आयुधविषयिणी निनीषां प्रदर्शयामासुः । प्रतिदिनं पुनरधिकाधिकं ववृधे राक्षसत्रासः । ततः पयर्याकुलमतिर्दधीचि र्यामाह स्म । प्रेयसि आयुधान्यत्र संस्थाप्य निर्विशङ्ख दिवं प्रस्थिता देवा नाबापि प्रतिनिवर्तन्ते प्रतिदिवसं च समेत उपल्लवो दैत्यानां तदशक्यान्यत : परमायुधानि संरक्षितुं ब्रूहि किमत्र करवाणीति । सा तु सर्वार्थविद्धवानेवात्र प्रमाणमिति प्रत्यव्रत । ततो बलोत्कटेभ्यो दानवेभ्य आयुधानि परिरक्षितुमीहमानो दधीचि : पुण्यैर्जलैस्तानि प्रक्षाल्य जलमयत्वं नीत्वा च प्राश्चात् । एवं भूते च देवा दधीचिमुपेत्य प्राहु: । मुने उपस्थिताऽस्माकं महा- भीतिस्तत्प्रत्यय॑न्तामस्त्राणीति । ततो दधीचि : प्राह स्म । महाभागाः अत्रा. वस्थाप्यायुधानि दिवं प्रविष्टेषु युप्मामु निकामं प्रववृधे राक्षसत्रासः । ततो भीतश्चाहं भवतः प्रतिपालयंश्चिरायापि अनागतेषु श्रीमत्सु तान्यायुधानि जलमयतां प्रापच्यापिवम् । साम्प्रतं च तानि मदीये शरीरेऽस्थिभावमापन्नानि तदुच्यतां यत्र सान्प्रतमिति । ततो देवा अमापन्त । मुनीन्द्र कृतं परि- •• .. : संस्कृतचीन्द्रका। हासेन देहि नोऽस्त्राणि बलवत्किल प्रपीड्यामहे रिपुभिः कथं वा तानि विना सुखं निवत्स्याम : कुत्र वा गमिष्यामः कथं च जीवितं धारयिष्यामः तद्विधीयतां करुणा समय॑न्तां चास्त्राणीति । ततो मुनिर्जगाद--महाभागाः न किल भवज्जीवितादप्यधिको मे देह : तद्योगयुक्तस्य तनुं त्यजतो ममा. स्थिभिर्निर्वाह्यतामस्त्रकार्यमिति । देवेषु च तथेति तद्वचनमङ्गीकृतवत्सु जल- मानतुं प्रयातायां च सहधर्मिण्यां महासत्वो दधीचिर्बद्धपद्मासन आत्मनो जीवं परमात्मसाच्चके । ततो दधीचिं व्यपेतप्राणमवलोक्य देवास्त्वष्टारं समादिदिशु : आदाय मुनेरस्थीनि निर्मीयन्तां दिव्यान्यस्त्राणीति । तस्मिंश्चा- स्थिसमुद्धरणमनङ्गीकृतवति गा आहूय दधीचेरस्थीन्योनतुमाज्ञापयामासुः । ता अपि तदभ्युपगत्य निष्कास्य दधीचिशवादस्थीनि संलिय व्यपनीय च संलग्नं मांसादिमलं समानीय तानि देवेभ्य : प्रायच्छन् । ततो देवा अपि कृतायुधा : स्वर्ग प्रययुः। अथ नद्या : प्रतिनिवृत्ता गभस्तिनी प्रविश्याश्रमे भर्तारमनवलोकमाना नितरां विषसाद । उद्घान्तेव च हा नाथ काऽसीति विलपन्तीतस्ततो बभ्राम । तत आश्रमवर्तिनं भगवन्तं हुताशनमुपेत्य व मे जीवितेश्वर इत्य- प्राक्षीत् । सोऽपि यथावृत्तं वृत्तं निजगाद । तदाकर्णयन्त्येव च मूच्छिता धरातले न्यपतत् । ततो लब्धसंज्ञा च सोरस्ताङमुच्चै : क्रोशन्ती भर्तुनख- लोमादीन्यादाय विरचय्य च महीयसी चितां प्रणम्य चानलं प्रविदार्य चात्मन : कोष्ठं तत्र संस्थित तनयं च पाणावादाय साञ्जलिबन्धं प्रार्थयामास पित्रा हीनो बंधुभिगोत्रजैश्च मात्रा हीनो बालकोऽछिन्ननालः। ओषध्योऽमुं भूतसबै समेताः सर्वे पान्तु प्रेमतो लोकपालाः ॥ अयं च चरमो व : प्रणाम इति वदन्त्येव ज्वालामालाजटिलं जातवेदसं प्राविक्षत् । अहो सत्यवादिता साधूनाम् । अवितथं खल्वेतद्वचनं यथा- विदुषां बदनाद्वाच : सहसा यान्ति नो बहिः । याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ इति । ..

श्रीशिवराजविजयः। भाविता : शक्तय: कुशपुञ्जान्त स्थापिता भुशुण्डयश्च समुल्लसन्ति । उञ्छस्य शिलस्य समिदाहरणस्येमुदपिर्यन्वेषणस्य भोजपत्रपरिमार्गणल्य कुसुमावचयनस्य तीर्थाटनस्य सत्सङग्म्य च व्याजेन केचन जटिन : परे मुण्डिन इतरे कापायिणोऽन्ये मौनिनोऽपरे ब्रह्मचारिणश्च बहवो बटवश्चराः सञ्चरन्ति । विजयपुरादुड्डीयात्रागच्छन्त्या मक्षिकाया अप्यन्तस्थितं वयं विद्मः । किं नाम यवनहतकानाम् । शिववीर:-साधु साधु कथं न स्यादेवम् । भारतवर्षीया यूयम् । तत्रापि महोच्चकुलजाता : । अस्ति चेदं भारतं वर्ष । भवति च स्वाभाविक एवानुरागः सर्वस्यापि स्वदेशे । पवित्रतमश्च यौप्माकीण : सनातनो धर्मः। तमेते जाल्मा : समूलमुच्छिन्दन्ति । अस्ति च प्राणा यान्तु न च धर्म इत्यार्याणां दृढ : सिद्धान्तः । महान्तो हि धर्मस्य कृते लुण्ठ्यन्ते पात्यन्ते हन्यन्ते न च धर्म त्यजन्ति । किन्तु धर्मस्य रक्षायै सर्वसुखान्यपि त्यक्त्वा निशीथेष्वपि वर्षास्वपि ग्रीष्मधर्मप्वपि महारण्येप्वपि कन्दरिकन्दरेप्वपि व्यालवृन्देष्वपि सिंहसोप्वपि वारणवारेप्वपि चन्द्रहासचमत्कारेप्वपि च निर्भया विचरन्ति । तद् धन्या : स्थ यूयं वस्तुत आर्यवंशीया वस्तुतश्च भारतवर्षीया: । अथ कथ्यतां कोऽपि विशेषोऽवगतो वापजलखानस्य । विपये। गौरासिंह:-अवगतस्तत्पत्रमेव दर्शयामि । ( इति व्याहत्योप्णीपसन्धौ स्थापितं कन्यापहारकयवनयुवकमृतशरीर- वस्त्रान्त : प्राप्त पत्रं बहिश्चकार ।) सर्वे च विजयपुराधीशमुद्रामवलोक्य किमेतत् कस्मादेतदिति जिज्ञा- समाना : सोत्कण्ठा वितस्थिरे । गौरसिंहस्तु शिववीरस्यापि तत्प्राप्तिशुश्रू- षामवगत्य संक्षिप्य सर्वं वृत्तान्तमवोचत्। ततस्तु दर्श्यतां प्रसार्यतां पठ्यतां कथ्यतां किमिति पृच्छति शिववीरे गौरसिंहो व्याजहार । भगवन्सीकारै- संस्कृतचन्द्रिका। रक्षरैः पारस्यभाषायां लिखितं पत्रमेतदति एतस्य सारांशोऽयमस्ति । विजयपुराधीश : स्वप्रेषितमपजलखानं सेनापति सम्बोध्य लिखति यत्- वीरवर महाराष्ट्रराजेन सह योद्धं प्रस्थितोऽसीति मास्म भूत्कश्चनान्तरा- यस्तव विजये। शिवं युद्धे जेप्यसि चेत्पद्भयां सिंह जितवानसीति मंस्ये किन्तु सिंहहननापेक्षया जीवत : सिंहस्य वशीकार एवाधिकं प्रशस्य ः । तद्यदि जीवन्तं शिवमानयेस्तद् वीरपुङ्गवोपाधिदानसहकारेण तव महती पदवृद्धिं कुर्याम् । गोपीनाथपण्डितोऽपि मया तव निकटे प्रस्थापितोऽस्ति स मम तात्पर्य तब निकटे कथयिष्यति इति । इत्याकर्णयत एव शिववीरस्यारुणकौशेयजालनिबद्धौ मीनाविव नयने सजाते सुखं च बालभास्करबिम्बविडम्बनमाललम्बे अधरश्च धीरताधुरम- धरीकृतवान् । अथ स दक्षिणकरपल्लवेन श्मशृं परामृशन्नाकाशे दृष्टिं बध्वा अरेरे विजयपुरकलङ्क स्वयमेव जीवन् शिवस्तव राजधानीमाक्रम्य वीरपु- नवोपाधिसहकारेण तव महतीं पदवृद्धिं करिष्यति तत्किं प्रेषयसि मृत्योः क्रीडनकानेतान्कदर्यहतकान् इति साम्रेडमवोचत् । अपृच्छच्च ज्ञायते वा कश्चिद्वृत्तान्तो गोपीनाथपण्डितस्येति । यावगौरसिंह : किमपि विवक्षति तावत्प्रतीहारः प्रविश्य विजयतां महाराज इति त्रिादृत्य करौ सम्पुटीकृत्य शिरो नमयित्वा कथितवान् भगवन्दुर्गद्वारि कश्चन गोपीनाथनामा पण्डित : श्रीमन्तं दिक्षुरुपतिष्ठते । नायं समय : प्रभूणां दर्शनस्य पुनरागम्यतामिति बहुशः कथ्यमानोऽपि किंचनात्यावश्यक कार्यमिति प्रतिजानाति। तत्र प्रभुचरणा एव प्रमाणमिति । तदवगत्य सोऽयं गोपीनाथ : सोऽयं गोपीनाथ इति सानेड सतर्क सोत्साहं च व्याहृतवत्सु निखिलेषु शिववीरेण निजबाल्यप्रियो मालश्रीक- नामा संबोध्य कथितो यद् गम्यतां दुर्गान्तरेव महावीरमन्दिरे तस्मै वास- स्थानं दीयतां भोज्यपर्यङ्कादिसुखदसामग्रीजातेन च सत्क्रियतां ततोऽहमपि साक्षात्करिष्यामीति । •• श्रीशिवराजविजयः। ततो बाढमित्युक्त्वा प्रयाते मालश्रीके महाराज आज्ञा चेदहमद्यैव अपजल बानं कथमपि साक्षात्कृत्य तस्याखिलं व्यवसितं विज्ञाय प्रभुचर- णेषु विनिवेदयामि । नाधुना मम शान्तिः शान्तिश्च यत : सन्यासिवेषोऽहं समागच्छन् द्वयोर्यवनभटयोर्तियावागच्छं यच्छ एव युयुत्सन्त इति । ततो वीर कुशलोऽसि सर्वं करिष्यसि जाने तव चातुरी तद्यथेच्छं गच्छ नाहं व्याहन्मि तवोत्साहं नीतिमार्गान्वेत्सि । किन्तु म्लेच्छा एतेऽ त्यन्तं निर्दया आतकदया अतिकूटनीतयश्च सन्ति । एतैः सह परमसा- वधानतया व्यवहरणीयमिति कथयित्वा शिववीरस्तं विससर्ज । गौरसिंहस्तु त्रिःणम्य उत्थाय निवृत्य निर्गत्यावतीर्य सपदि तस्या एव नितम्बतरुतलवेदिकाया : समीपे आगत्य स्वसहचरं कुमारमिङ्गि- तेनाहूय कस्मिंश्चित्स्वसङ्केतितभवने प्रविश्य आत्मन : कुमारस्यापि च केशान्प्रसाधनिकया प्रसाध्य मुखमाईपटेन प्रोञ्छय ललाटे सिन्दूरविंदु- तिलकं विरचय्य उप्णीषमपहाय शिरसि सूचिस्यूतां सौवर्णकुसुमलतादि- चित्रविचित्रितामुष्णीपिका सन्धार्य शरीरे हरितकोशेयककञ्चुकिकामा- योज्य पादयो : *शोणपट्टनिर्मितमधोवसनमाकलय्य दिल्लीनिर्मिते महाहें। उपानहौच धारयित्वा लघीयसी तानपूरिकामेकां सह नेतुं सहचरहस्ते समर्प्य गुप्तच्छुरिकामेकां दन्तावलदन्तमुष्टिकां यष्टिको मुष्टया मुष्टौ गृहीत्वा पटवासैदिगन्तं दन्तुरयन्करस्थपटखण्डेन च मुहुर्मुहुराननं प्रोग्छन्गायकवेषेणापजलखानशिबिराभिमुखं प्रतस्थे । : * अधोवसनं पायजमा इति प्रसिद्धम् । । ईदूदेविवचनं प्रगृह्यमिति न स्वरसन्धिः । * तानान्पूरयतीति तानपूरिका । वाद्ययन्त्रविशेष : । S गुप्तच्छरिका यष्टिरद्यापि गुप्तिरिति प्रसिद्धा ।

संस्कृतचन्द्रिका। अथ तौ त्वरितं गच्छन्तौ सपदि एव पर: शतश्वेतपटकुटीरै : शारद- मेघमण्डलायितं दीपमालाविहितबहुलचाकचक्यमपजलखानशिबिरं दूरत एव पश्यन्तौ यावत्समीपमागच्छतस्तावत्कश्चित्कोकनदच्छविवस्त्रखण्ड- वेष्टितमूर्धा कटिपर्यन्तसुनद्धश्यामाङ्गरक्षिक : कर्बुराधोवसनः शोणश्मश्रु- विजयपुराधीशनामाङ्कितवर्तुलपित्तलपट्टिकापरिकलितवामवक्ष : स्थल : स्कन्धे भुशुण्डी निधायेतस्ततो गतागतं कुर्वन्सावष्टम्भमुर्दुभाषया उवाच कोऽयं कोऽयमिति ततो गौरसिंहेनापि गायकोऽहं श्रीमन्तं दिदृक्ष इति समार्दवं व्याख्यायि । ततो गम्यतामन्येपि गायका वादकाश्च सम्प्रत्येव गताः सन्तीति कथयति प्रहरिणि घृतेन स्नातु भवद्रसनेति व्याहरन् शिविर- मण्डलं प्रविवेश। तत्र च क्वचित्खट्वासु पर्यङ्केषु च उपविष्टान् सगडगडाशब्दं ताम्रक- धूममाकृष्य मुखात्कालसर्पानिव श्यामलनिः श्वासानुद्रित : वहृदय- कालिमानमिव प्रकटयतः स्वपूर्वपूरुषोपार्जितपुण्यलोकानिव फूत्कारैरग्नि- सात्कुर्वतो मरणोत्तरमतिदुर्लभं मुखाग्निसंयोगं जीवनदशायामेवाकलयतः प्राप्ताधिकारकलिताखर्वगर्वान् क्वचित् हरिद्रा हरिद्रा लशुनं लशुनं मरिचं मरिचं चुकं चुकं वितुन्नकं वितुन्नकं शृङ्गवरं शृङ्गवेरं रामठं रामठं मत्स्यण्डी मत्स्यण्डी मत्स्या मत्स्या : कुक्कुटाण्डं कुक्कुटाण्डं पललं पललमिति बालानां निद्रा विद्रावयत : समीपसंस्थापितकुतूकुतुपकर्करी- कण्डोलकटकटाहककम्बिकडम्बान् उपगन्धानि मांसानि शूलाकुर्वतो नखम्पचा यवागू : स्थालिकासु प्रसारयतो हिगुगन्धीनि तेमनानि तिन्तिडारसैमिश्रयतो मध्ये मध्ये समागच्छतस्ताम्रचूडान्व्यजनताडनैः ६ यवनभाषया सेना उर्दू इत्युच्यते । यवनसैनिकानां भाषा उर्दूभाषा । कस्मि- श्चित्समये शुद्धां भारतभाषां भाषितुमसमर्था यवनसैनिकाः स्वभाषया संमिश्य ब्रुवते स्म सैव भाषाऽधुना भारते व्याप्ता । म ताम्रकं तमाखूरिति प्रसिद्धम् ।

दरभङ्गाविराजस्य कृते विलापः। चक्रवत्परिवर्तन्ते दुःखानि च मुखानि च ॥ स्वर्गतस्य दरभङ्गाधिराजमहाराजस्य जी. सी. आय. इ. इ. इत्युपाधिमण्डितस्य लक्ष्मीश्वरसिंहबहादुरस्य कृते विलापः ।। हा किमिदमनभ्रादप्यभ्रान्निपतितमद्य महाघोरं वज्रम् । येनकेनैव पतता नैको न द्वौ न वा बहव : परंतु सर्व एवादह्यन्त शोकाचिषा लोकाः । हन्त केनापत्तोऽकस्मादस्माकं सर्वेषां साधारणश्चिन्तामणिदवो लक्ष्मी- श्वर: । केन निपातितो भूभूषण : सङ्कल्पितफलप्रद : समाश्रिततापापहशीतल, च्छाय: कल्पपादपो दरभङ्गाधिराज : । केनाच्छिन्नोऽथिनां महानिधिर्दयादा- क्षिण्यादिनानागुणनिधिमहाराजोमिथिलाराज: । केन ग्रस्तोऽमृतशीतलप्र- कृति : कीर्तिज्योत्स्न : कलापूर्णा द्विजराजराज : । यस्य विरहात्सतोरपि चन्द्रसूर्ययोरन्धकारितमिवाद्य पश्यामो जगत् । तथाहि निरवलम्बन इव संवृत्तो गुणप्रकाशः । निर्वाणप्राय : शास्त्रार्थदीप: । स्खलितपदेव कवि- सूक्ति: । विधवायते गन्धर्वविद्या । उन्नतिनिराशा इव सर्वविद्या : । किं बहुना देवानपि सम्प्रति दु:स्थितानिव जानीम: । स ह्येको देव : सर्वेषा- मासीदेकमाशानिबन्धनम् । का कथा मानुषीणां दैवीनामप्यापदामासीत्सप्रतिहतः । अनतिचिर- मतीते हि दुर्भिक्षे अष्टौ लक्षाणि रजतानां प्रभूतांश्च सोपकरणान्पर्वतप्राया- नन्नराशीन्वितरन्नरक्षत्स दुर्भिक्षरक्षोमुखादखिला : प्रजाः । नूनमतिमानुपांस्तांस्तान्गुणानवलोक्य स्वर्गाधिपत्यं गाणपत्यं वा प्रापयितुं तमाचकर्ष भगवान्महादेवः । तथापि वयं नैकान्ततो निराशा: । आशास्महे हि तदनुजस्य महारा- जस्य श्रीमतो रामेश्वरसिंहबहादुरम्य तत्पदमधिरूढस्य तांस्तान् गुणानव- लोकयितुमिति ।

संस्कृतचन्द्रिका। कीदृग्गुणः स आसीदिति विज्ञापयितुं तस्मै दत्तपूर्वमभिनन्दनपत्रमिदं प्रकाश्यते। स्वस्ति श्रील श्रीलक्ष्मीश्वरसिंहबहादुरस्य जी. सी. आय. इ. इ. इत्युपाधि- भूषितस्य दरभङ्गाधिराजमहाराजस्य क्षत्रियवंशावतंसस्य गुणिगायनपण्डि- तजनप्रतिपालकस्य यशोमयहीरकिरीटमण्डलमण्डितसमुच्छ्रितशिरसो गुण- हारालङ्कारभासुर हृदयस्य महोन्नताय महिम्ने सबहुमानमाशी :पूर्वकं प्रशस्तिरियमुपहियते-श्रीमहेशचन्द्रशर्मणा । तलाशिषः पावैर्गाङ्गजलै : स्वयं श्लथजटाजूटाच्च्युतै : क्षालिता भालेन्दोर्मधुपर्किताभिरमृतज्योत्स्नाभिराज्यायिता ।* दीपेनापि तृतीयनेत्रशिखिना नीराजिताङ्घ्रिद्वयी मानं मोचयतेश्वरेण नमता चण्ड्या: प्रसनास्तु वः ॥१॥ सभ्रूभङ्गं विवाननमपवचनं बिभ्रती मानभाणं : मानं विज्ञाय पत्युस्तदुपशमकृते पादभूले नतस्य । मूर्धारोहात्सगर्वा कलकलमुखरां वामपादेन हत्या जह्नो कन्यां सपनी दिशतु जयवती पार्वती मङ्गलं वः ॥२ मानध्वंसाय कान्तं चरणनिपतितं हस्तिभूतं विभाव्य स्कन्धं तस्याधिरुह्य त्वरयति कुतकाद्याहि याहीति पुत्रे । मानिन्या दौर्मनस्यान्नयनजलमुचोऽप्याशु हासप्रकाशो वर्षासम्मिन्नरौद्रस्फुरणमभिनयन्पानु वः स्कन्दमातु: ।।३ * मधुपर्क : कृता इति मधुपार्कताः । अमृतं मधुकृतं ज्योत्साश्च दधिकृताः । ताभिरमृतेन ज्योत्स्वामिश्च आप्यायिता तार्पिता । | मानभाणं भाणं धूर्तचरितं मानाभासमित्यर्थः । मानस्यावस्थाऽनुकरणम् । ३ स्कन्दस्य मातुः पार्वला मानवसाय कोपभगार्थ तस्याश्चरणयोनिपतितं प्रणत मित्यर्थः कान्तं महादेवं हस्तिभूतं अहस्तिनमपि हस्तिनं भूतं निश्चित्य [ अयं मम क्रांडाथै हस्ती भूत इति मत्वेत्यर्थः ] पुत्रे स्कन्दनाम्नि धृष्टे तनये शिशाविति भावः तस्य महादेवस्य स्कन्धे आरुह्य याहि याहि गच्छ गच्छ इत्यक या स्वरयति पादाभ्यां ..

* दरभङ्गाधिराजस्य कृते विलाप । दानादि कीर्तयः। ब्रह्मेव भवतो दानमनन्तं विश्वतोमुखम् अद्वैतं परमानन्दमवाङ्मनसगोचरः॥४ अष्टी लक्षाणि भूपानामष्टानामपि सम्पद : नालं ते स्थूल लक्ष्यस्य सकृद्दानाय तान्यपि रस्तोगङ्गाप्रवाह: शिशिरयति धरामीशर्मालेः किमेष स्वर्गात्पीयूषधारा क्षरति किमथवा स्वर्गिणां पीतशेषः । किंवा थोतन्ति कल्पद्रुमकुसुमरसास्तुण्डतः षट्पदाना- मित्थं नानाविकल्पान्विधति कवयः स्वादयन्तो यशस्ते।। हन्त गङ्गाजले पङ्क : कलङ्कश्चन्द्रमण्डले । मुक्ताफलेष्वपि च्छिद्रं राजन्कीर्तेस्तुला कते ।। ७ ( पूर्वपृष्ठादनुवृत्तम् ।) चालयति सति मानिन्या ईर्ष्याकोपवत्या अत एव दौर्मनस्यान्मनोदुःखात् अश्रु मुञ्चन्त्या अपि आशु सद्यो हासप्रकाशो हास्यनिर्गमो वर्षासम्भिन्नरौद्रस्फुरणं वृष्टिकालीनातपस्य प्रकाशम् अभिनयन्त्रवस्थयाअनुकुर्वन् वो युष्मान्पातु रक्षतु । पिता हि कदाचित्पुत्रस्य क्रोडाथै हस्ताव नम्रः सन्जुत्रं स्कन्धे करोतीति लोके दृश्यते । वर्षासम्भिन्नेति अश्रुणि वर्षासादृश्यं हासे च आतपसादृश्यं बिम्बानुबिम्बभावेन बोव्यम् । हास आनन्दस्य लक्षणं तेन आनन्दिता स्कन्दमाता पातु इति भावो गम्यते । ४ ब्रह्मेवेति । दानपक्षे अनन्तं समाप्तिरहित विश्वतोमुखं सर्वद्वारं अद्वैतं तुल्यद्वि- तीयरहित परमानन्दं पवित्रानन्दजनकम् । अवाङ्मनसगोचर : बाबा वर्णयितुमशक्य मनसा च वितयितुमशक्यम् । ब्रह्मपक्षेतु अनन्तमविनाशि विश्वतोमुखं सर्वव्यापकम् अद्वैतं द्वितीयशून्यं परमानन्दं नित्यानन्दस्वरूपं अवाङ्मनसगोचर: वाङ्मनसयोः पन्धानमतीतमिति । ५ अष्टाविति । अष्टी लक्षाणि रजतमुद्रा : अष्टानामपि राज्ञां सम्पदो भवन्ति लक्ष. पतिरपि राजेत्युच्यत इति भाव : । तान्यपि अष्टलक्षापयपि रजतानि स्थूललक्ष्यस्य बहुप्रदस्य तव सकृद्दानाय अलं पर्याप्तानि न भवन्ति । अतीते तृतीयवत्सरे दुभिक्षपा. डितानां प्रजानां रक्षार्थ दरभङ्गाधिराज : अष्टलक्षाणि दत्वाऽपि अतिरित्तमपि दातुं खीकृतवानियत इयं वर्णना। ७ हन्तेति । पङ्क: कर्दम : पापं च । कलको मलिनोऽको लोकनिन्दा च। छिद्रं आवकाशो दूषणं च। ।

संस्कृतचन्द्रिका। सप्रमोदमङ्गीकारः। लष्करग्वाल्हेरतः पण्डितप्रवरश्रीमद्रघुपतिशास्त्रिभिः प्रेरितं हैमन्तो वस- न्तोत्सवः सटीकं गोपीगीतमिन्दुविनोदावहाऽगाधमाधवश्चेति पुस्तकचतुष्टयं श्रेष्ठिवरेण श्रीगङ्गाविष्णुखेमराजमहाशयेन कल्याणतः प्रेषितं हिन्दी- भाषाया द्वितीयपुस्तकं पण्डितेन लक्ष्मीनारायणाशवप्रसादेन प्रहितं शाखोच्चारपत्रावलिजयनगराष्टकं लघुपाराशरी १८२१ शाकीयं बृहत्प- ञ्चाङ्गं पट्टीपहाडे पुस्तकं चेति पुस्तकपञ्चकं सानन्दं धन्यवादप्रदान- पुरःसरं सानुरागं च स्वीक्रियते । यथावसरं चैतानि समालोचयिष्यामः । समालोचना। श्रीगुरुतन्त्रम्--तन्त्रग्रन्थोऽयम् । कैलासशिखरासीन : प्रणयिन्या श्रीपार्वतीदेव्या कृतप्रश्नो भगवान्महादेवो गुह्याद्गुह्यतरं परमोपयुक्तं तन्त्र- मेतत्कथयामास । अत्र गुरुविषये शिप्यस्येतिकर्तव्यता ततो जायमानं फलं च सम्यक्सुस्पष्टं च प्रतिपादितम् । शक्यमेतेन गुरोर्माहात्म्यमवबोध्दं श्रद्धालुभिः । भूयांसः किल संस्कृतभाषानभिज्ञाः पुमांस : प्रबन्धानेवं विधाञ्जिज्ञासन्ते । तेषां चाभिलाषं पूरयितुं श्रीवलदेवमिश्रमहाशयेनानु- वादितोऽयं ग्रन्थ । सुमनोहरा किलानुवादनपद्धति : पण्डितस्य बलदेवमिश्रस्य। अतो नैतत्पृथग्वक्तुमावश्यकं यत्सम्यगयं सम्पन्नोऽनुवाद इति । मुद्रणसौन्दर्य- मप्यस्य हृदयङ्गमम् । सर्वथा सङ्ग्राह्यमेतदिति शिवम् पञ्चाङ्गम् ---जयपुरनगरनिवासिना श्रीजीवनरामतनयेन पण्डितेन श्रीमनुशर्मणा निर्मितमेतदतिमनोहरमत्युपयुक्तं बृहत्तमं च पञ्चाङ्गम् । । .. ।

समालोचना। एतच्च पण्डितमन्नालालशिवनन्दपुस्तकालये जयपुरनगरे ( राजपुताना ) लव्धुं शक्यते । मूल्यं तु नावगतम् । अत्र च इंग्रेजीमासदिवसविशेषेषु सनातनधर्मीयाणां कर्तव्यानि घातचक्रं राशिसंज्ञाचक्रमत्थुपयुक्तं गङ्गा- माहात्म्यापगमनविचारणं नक्षत्राणामुदयखमध्यास्तादिपत्रं वर्षमारणी हद्दा- चक्र होराद्रेष्काणादिचक्रं रेखाचक्रं पञ्चधामैत्रीचक्रं गुणपर्यवेक्षणचक्र नक्षत्रदोहदादि शलाकाचक्राणि वर्षफलं मासदशा सप्तादि ग्रहयोगशान्तिः सूर्यादिग्रहाणां मण्डलजपदानादिकं सामुद्रिकं नैकविधमुहूर्ताः लग्नसाधनपत्रं दशान्तर्दशोपदशादिपत्राणीत्याद्यत्युपयुक्ता विषया विलसन्ति । नूनमेतदे- कमप्यवश्यं सङ्ग्राह्यम् । भक्तिशतकम् --बुद्धागमग्रन्थोऽयम् । प्रसादयति खलु मानसं प्रसा- दगुण एतस्य । अस्मत्सुहृदा बुद्धागमोपदेशकेन श्रीशीलस्कन्धस्थविरेण नाम लङ्कानिवासिना पण्डितेन विरचितया व्याख्यया समुद्भासित आमूला- पठितोऽयं प्रबन्धोऽस्माभिः। काव्यमेतदितिधिया पठितमेतदानन्दयतीति यद्यपि सत्यं तथाप्यस्य ब्राह्मणपण्डितेन [?] केनापि प्रणीतत्वमवलोक्य विस्मयते चेतो विषीदति च। सर्वेरेव हि स्वस्वधर्म : समाश्रयणीयस्तेन बौद्धानामेव युक्तस्तद्धर्मो धर्मविदा ब्राह्मणेन सेवित इत्यही पाण्डित्यमे- तस्य । एतदेव चेत्कश्चिबुद्धभत्तो बौद्धजातीय एव प्राणप्यत्तदा कमप्य- मन्दमानन्दं प्राप्स्यदन्तरमस्माकम् । तेस्तैहि सेवमान : स्वीयो धर्म एकान्तत: प्रीणयति नश्चेतः । अत एवास्य व्याख्याने मित्राय श्रीशीलस्कन्धस्थवि- राय सहस्रशो धन्यवादा : प्रदीयन्ते । प्रशंसामश्चात्य संस्कृतभाषा- प्रावीण्यम् । भूमिकायां भक्तिशतकपणेतुर्नानाशाखपारगमत्वे समुमणितेऽपि नानेनास्मदीयो धर्म : सम्यग्विज्ञात इति प्रतीयते । प्रत्याययति ह्येवं पद्यमिदं यथा--- २४० संस्कृतचन्द्रिका। ब्रह्माविद्याभिभूतो दुरभिगममहामायया लिङ्गितोऽसौ विष्णू रागातिरेकानिजवयुषि धृता पार्वतीशङ्करण । वीताविद्यो विमायो जगति सभगवान् वीतरागो मुनन्द्रिः कः सेव्यो बुद्धिमद्भिर्वदत वदत मे भ्रातरस्तेषु सुषन्त्यै ॥३॥ ब्रह्मादीनामविद्याद्याभिभूतत्वं यद्यपि प्रतिपक्षपरितोषाय स्वीकृतं तथापि कुत्र वा तत्सेवनान्मोक्ष इत्यभिधीयते वैदिकग्रन्थेषु येन तत्परित्यागपूर्वक बुद्ध : सेव्येत । किं च व्यतिरेकेण प्रतिपाद्यमानेऽत्रब्रह्मादिभ्यो बुद्धस्या- धिक्ये स्वीक्रियमाणे यत्किञ्चिदवच्छेदेनापि बुद्धब्रह्मादीनां सादृश्यमवश्य- मभ्युपेतव्यम् अन्यथाव्यतिरेकासङ्गतेः । तथाच ब्रह्मादीनामिव बुद्धस्यापि सान्तत्वं मुक्तौ साक्षादनुयुक्तत्वं च दुःपरिहरमेवेत्यलमप्रकृतप्रसङ्गेन । दृश्यन्ते खल्वत्र केचित्कायदोषाः । यथा--पष्टितमे पद्ये कवि- वरमहमस्मि पण्डितस्ते---नुदति हि तमसन्ततिंप्रवृत्ताम् । अत्र कविवरमिति नपुंसकत्वं तमःशद्वस्य चादन्तत्वमप्रसिद्धतमम् । एवं पञ्चसप्ततितमे- कुमतिमुदस्य भवेभवेर्यभक्तिम् । इत्यत्र एकारात्परमाकारस्यपूर्वरूपं विधाय आर्यभक्तिमिति पदच्छेदो व्याकरणविरुद्धः । एवं सप्तसप्ततितमे यतते रात्मनेपदित्वम् । युक्तिसमुपन्यासस्तु मनोरमोपि ब्राह्मणेनास्थानेकृत इति न सम्यक्समुल्लसति । व्याख्या त्वस्य सर्वाङ्गमनोरमा किन्तु क्वचिद्वैदिकधर्मप्रतिपाद्यविषये- ध्वस्यां स्खलितमवलोक्यते यथा ब्रह्माविद्याभिभूत इत्यत्र पद्ये ब्रह्मशब्दस्य पुंस्त्वेऽपि अद्वैतब्रह्मपरत्वं व्याख्यायत इति । अत्र च भक्तिरस : सर्वतः परिप्लुत इव प्रत्यक्षीभवति माधुर्यं च पदे पदेऽनुभूयते तथापि बौद्धेतरविरचितत्वमेव शोभां हापयति । बौद्धैस्त्वेतदवश्यं समाह्यम् । तेषु चैतस्य व्याख्याप्रणयनेन प्रकाशनेन च बहूपकृतं श्रीशीलस्कन्धस्थविरेणेति भूयोभूय : प्रशस्यतेऽयं महाभागः । •.

७४३१९९.
श्रीशिवः शरणम् ।
॥ संस्कृतचन्द्रिका ॥
॥ श्रीगणेशाय नमः॥
शिवादीनपि कर्माणि कारयन्ती जनानिव ।
मायाऽवलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी ।।
॥ मासावतरणिका ॥
यतैवाकलयाम्बभूवुरनिशं धर्म प्रिय प्राणतो-
म्लेच्छाचारविधानसक्तमनसस्तवाधुना ब्राह्मणा।
इत्यालोच्य विपर्ययप्रतिगतं दूनोऽखिलं भारतं
मास : फाल्गुनिको दहत्युपगतो होली वपुर्वनिना।।११
उद्भटश्लोकाः
पयसा कमलं कमलेन पय:
पयसा कमलेन च भाति सर।
रविना किरण: किरणेन रवी
रविना किरणेन च भाति नमः॥
मणिना वलयं वलयेन मणि-
मणिना वलयेन च भाति नरः।
कविना च विभुर्विभुना च कवि :
कविना विभुना च विभाति सभा ॥
अये चेतः श्वेतारुणमणिमये कापि निलये
सुखं सुप्त्वा कालं गमयसि कथं जागृहि पशो।
अयं त्वामाकष्टुं प्रसरति कृतान्त : सह भटै-
रदरे श्रूयन्ते महिपगलघण्टा धनरवा : ॥

संस्कृतचन्द्रिका। पण्डितराजः श्रीजगन्नाथः। (पूर्वतोऽनुवृतः) अथ दशमसंख्यायां विनिर्दिष्टाया : किंवदन्त्याः सत्यत्वासत्यत्वविचारं संक्षेपत एव विधायाख्यायिकान्तरे प्रवर्तिष्यामहे । विदितप्राय एव विबुधानां जगन्नाथस्यालौकिकाहङ्कारभूयिष्ठः स्वभावः । यश्च क्षणमप्यन्यकृतामवहेलनां व्यञ्जनामात्रेणाप्यवबुद्धां सोढुं न क्षमते कथं नाम स नानाविधापमानकन्दायितं सेवकत्वमङ्गीकुर्यात् । किं च प्रयोजनं जगन्नाथसदृशस्य पण्डितप्रकाण्डस्यात्मनो वैद्रुप्यमप्रकाशयितुम् । यस्य च तन्त्रीरणितसमधिकमनोहरेण वचनमाधुर्येण वशीकृतमानसा वीणागुणरणनमपि विरमयति भगवती भारती कथं नाम स एव पण्डित- राज आत्मनो वचनवैभवेन लोकान्प्रीणयितुमशक्नुवान : समनुभवेदारिद्यम्। यदि च केषांचिद्वदनपङ्कजमलङ्कुर्वाणा किंवदन्तीयं प्रमाणतामवगाहेत तदा का गति : कर्नाटकभूपालसमीपे कियन्ति दिनान्यतिवाह्य तत्र वैरस्यमा- पन्ने चेतसि जयपुरमुपागत्य पाठशाला निर्माय च शिष्यानध्यापयता जगन्नाथेन दिल्लीवल्लभस्य वालभ्यमासादितमिति केषुचित्प्रवन्धेषूपलभ्य- मानस्येतिवृत्तस्य । तन्मन्ये न दशमसंख्यायामुल्लिखिता प्रमाणमाख्यायि- केति । एवंविधा हि भूयस्यः प्रवर्तन्ते निर्मूला : कथास्तेषु तेषु प्राचीनविद्वत्सु । इति । अथापरा लौकिकी गाथा । दिल्लीवल्लभपार्श्वमण्डलमलङ्कुर्वाणे ललित- मधुरप्रसन्नपदविन्यासहृदयङ्गमैः पचैरावर्जितदिल्लीश्वरमानसे पण्डितराजे कदाचित्कश्चिन्मण्डलेश्वरस्तत्रोपाजगाम । आकर्णितवांश्च पण्डितराजस्या- लौकिकं पाण्डित्यमसामान्यं कवित्वं च । तत आत्मनःसविध एवंविधः पण्डितो निकाममावश्यक इत्याकलय्य कस्मिंश्चिदिने पण्डितराजं सादरं सानु- ..

पण्डितराजः जगन्नाथाः। रागं च समाहूय विज्ञापयामास । पण्डितोत्तंस नूनमिदानीमासादितं मया जन्मनः साफल्यं यदस्मि सुकृतकाधिगम्यस्य श्रीमत : कृपारसपरिस्यंदिनो- ऽपाङ्गपातस्य पात्रतां प्राप्तः । महात्मन् एवमेव सन्ततं श्रीमत: सहवासेन पवित्रीकर्तुमिच्छाम्यात्मानम् । विद्वन्नूनं भवदीयमेतत्सर्वं यदास्त मदीयं नाम । तत्संमान्यतामयं प्रणय : कृपया । आर्यकुलसंभवस्य मम सहवासान्न किल गरीयस्त्वमाकलनीयं म्लेच्छस्य पार्श्वचारित्वे महाभागेन । बलीयसा हि सन्तमसेन व्याकुलीकृतचक्षुष : प्रातिपदिकेन कलामात्रोदितेनापि विधुना समुल्लसितां बहुमन्यन्ते शर्वरी लोका: । तत्प्रार्थये सनिबन्ध समनुगृह्यता- मयं परिचयाभिलाषुको जनो मनोरथपरिपूरणेनेति । तदाकर्ण्य मनाग्विहस्य चाकारव्यञ्जितानादरो जगन्नाथ : पपाठ पद्यमिदम् -- दिल्लीश्वरो वा जगदीश्वरो वा मनोरयान्यूरयितुं समर्थः । अन्यैर्नृपालः परिदीयमानं शाकाय वा स्याल्लवणाय या स्यात् ॥ इति ॥ भवतु वा कथाया एतस्या अदितथत्वं सत्यत्वेऽ सत्यत्वेऽपि वा तुल्ययोगक्षे- मत्वात् । किन्तु जगन्नाथविरचिते कस्मिंश्चिदपि प्रवन्धे नैव विद्यते पद्यमिदम् । यदि वार्तयं सत्यभावमवगाहेत तदा तु दिल्लीश्वरपाश्र्वावस्थायि- त्वमेव जगन्नाथस्य सिध्येत् । तच्च प्रमाणान्तरै : साधितमेवास्माभिः । श्रीमतो जगन्नाथस्य वैडुप्यं देवीप्रसादसंसिद्धमित्यपि श्रूयते । तथाहि । पुरा गुरोः सकाशाद्विविधानि शास्त्राण्यधीतुमुपक्रममाणो जगन्नाथ : स्वस्मा- दात्मन: सतीर्थ्यानामेव प्रतिभाया : समधिकमौज्वल्यमवलोक्य मनस्य- मन्देन विषादेनाक्रान्त : काननं गत्वा भगवतीं महकालीमर्चयामास । तपे चानेकविधं तपः । ततः प्रसन्ना भगवती साक्षाड्यूय जगन्नाथमप्रासीत् । वत्स सन्तुष्टास्मि तवानेनानन्यसुलभेन तपश्चरणेन । तत्कथ्यतामात्मनोऽ भीष्टमिति । सोऽपि तदात्व एव समुद्भिद्यमान पुलकेन गात्रेण प्रमोदजलप- रिप्लुतेन च नयनपानद्वन्द्वेनानन्दरसमेयन च चेतसा भगवती सहस्रशः प्रणम्याभ्यर्च्य च चन्दनादिभिरुपन्चारैरामूलादात्मनो वृत्तं कथयामास । ततो देवी पद्यमिदं व्याजहार--- -- २४४ संस्कृतचन्द्रिका। आकुरुदेशं विचरेमा कुरु परवादिनिर्जये शङ्काम् । स्वीकुरु वरमेकं मे व्याकुरु भो वत्स शास्त्राणि ॥ इति ॥ व्याहृत्य चेदमन्तर्दधे भगवती महाकाली । जगन्नाथस्तु तत्कालमेव समुद्दीप्तप्रज्ञः प्रत्यागत्य मन्दिरं सतीर्थ्यान् पराजिग्ये। ततः प्रभृति च निःशङ्कमेव प्रतिवादिनः पराबभूव व्याकरोच्च शास्त्राणीति । एषा तु वार्ता सत्यतामसत्यभावं वा भनत इत्यवबोध्दुं यद्यप्यशक्यं तथापि समनन्तरोदाहतेन वार्ताद्वयेनैतस्या मनाग्विरोध इव प्रतिभाति । कथं हि नाम प्रसन्ना भगवती महाकाली नैर्धन्यजलधिकल्लोलपरम्पराघातव्याकुलित- मानसं विदध्यादात्मनो भक्तम् । सा तु यद्यपि विद्यामेव प्रार्थिता जगन्नाथेन तथापि प्रसन्नायास्तस्याः कृपापाङ्गपातस्यानुषङ्गिकमेतत्फलं ल- क्ष्मी म । कश्च नाम प्रसादितमहाकालीक : संख्यावतामग्रणीरनाया- सोपनतामार्यवंश्यभूपालमैत्रीमवीर्य वैदिकाचारविरोधिनी म्लेच्छभूपतिसेवां- बहुमन्येत । अतोऽस्यामपि वार्तायां बलवत्संशेते हृदयम् । इति । दिल्लीवल्लभस्य हृदयमावर्जयति जगन्नाथे कदाचित् तत्रभवतश्चुलुकीकृत- भाष्याब्धेर्महावैय्याकरणस्य श्रीनागेशभट्टस्य गुरुहरदीक्षितो व्याकरणे विवादं कामयमानो दिल्लीमागत्य जगन्नाथेन सह विवादं विधातुमिच्छामीति भूपतिमभाषिष्ट । सोप्येवमस्त्विति प्रतिभाष्य तथाकर्तुं पण्डितराजमादि- क्षत् । पण्डितराजस्तु विवादे हरदीक्षितो नैव पराजेतुं शक्यो विवादम- मन्तरा च नैव भूपालमनम : सन्तोष इत्युभयत : पाशया सन्दानित इव क्षणं विचार्य आं एवं करिष्यामीत्यस्फुटासरं सावहेलमिव च प्रतिनगाद । अथ नियतायां विवादवेलायां समागतेषु पण्डितजनेषु समधिष्ठिते च नाना- विधमणिमयूखजालेन शिखिकलापकान्तिमपहरदकाण्डेन्द्रधनुर्विभ्रवावहं सिंहा- सनं दिल्लीपतौ विजिगीषयाऽऽक्रान्तमनसि सोत्साहं सकौतुकं च जगन्नाथा- गमनमार्गसमर्पितेक्षणे समलङ्कुति सभां हरदीक्षिते तन्त्रशास्त्रप्रवीणो जग- नाथः प्रतिवादिव्यामोहोत्पादकै : कैश्चिदपि मन्त्र : संस्कृतामड़िको शरीर पण्डितराजः जगन्नाथाः। । आमुच्य सभामण्डपं प्रविवेश । तत: पूर्वपक्षं कृतवति हरदीक्षिते जगन्नाथ : सरभसं तमुपसृत्य सुदृढमालिलिङ्ग । तदानीमेव च तच्छरीरगतया तया- ऽङ्गिकया संस्पृष्टगात्रो हरदीक्षितो व्यामोहमापन्नो जानन्नप्यजानन्निव संवृत्त : जगन्नाथश्च यथा यथा सिद्धान्तयति स्म तथा तथा तमनुससार । अन्ते च जगन्नाथ एव विजयी संजातः। तत: सदनं प्रत्यागतो विनिवृत्तमोह : श्रीहरदीक्षितो जगन्नाथस्य वचनानि तत्समये चात्मनस्तृष्णीम्भावं संस्मर- नात्मनैवात्मानं विनहास । इति च जगन्नाथविषये वार्तान्तरं श्रूयते । न मानीमो महाकालीतो मा कुरु परवादिनिर्जये शङ्कामित्यधिगतवरस्य किमिव मन्त्रसंस्कृताया अङ्गिकाया आमोचनप्रयोजनं जगन्नाथस्येति । सर्वथा वार्तेय सत्यभावमवगाहमाना उदाहृतपूर्वायामाख्यायिकायामश्रद्धां जनयेत् । अपरश्चायं जगन्नाथविषये लोकप्रवादः । परिणीतम्लेच्छवधूर्जगन्नाथो दिल्लयां तारुण्यमतिवाह्य शरचन्द्रिकासमानकान्तितामुपगते केशपाशे स्खलितप्रायायां रदनावलौ पलितपाण्डुरेपु गानेषु सहमिणीवितीयः काशीमुपागत्य मन्दाकिनीतीरे निववास । एकदा तु प्रभातायामपि रजन्यां भार्यया साकं भागीरथीवझे स्वपन्तं जगन्नाथमवलोक्य श्रीमदप्पयदीक्षिता: प्रोचुः । किं निःशंकं शेष शेषे वयासि त्वमागते मृत्यौ । इति । तदाकर्ण्य प्रबुद्धे कोयं प्रवदतीति निरूपयति जगन्नाथे सञ्जातप्रत्य- भिज्ञाः पुनः प्राहु: स्म- अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी भवतः । इति । एवंविधाभिश्च वार्ताभिः संकुलप्रायमेतच्चरित्रं जगन्नाथस्य । एताश्च कथा यद्यपि न शक्यन्ते सर्वथा श्रद्धातुं तथापि शक्यमेताभिरवबोद्धं जग- नाथमाहात्म्यम् । अथैतत्कृताना प्रबन्धानां वर्णनं चिकीर्ण्यमाणं संख्यान्तरे करिष्याम इति प्रतिजानीमः । (क्रमशः) संस्कृतचन्द्रिका । साकारोपासना। - इह जगति हीनदीनकृपणरुग्णा अमरनरपतियोगिनो वा सर्वेषामेव प्राणिनां लक्ष्यमेकं सुखमेव । यत् किमपि दैनिकव्यापारमाहारादिकं कुर्महे वयं तत्सुखलाभार्थमेव केवलमात्मन: । प्राणिनां तु मनो निरन्तरं सुखमाहर्तुमेवेतस्ततो वम्भ्रन्यते न निमेषमपि कालं स्थितिपदं लभते । धनं राज्यमैश्वर्यं पुत्रक्षेत्रकलत्रमित्राणि क्रमशः पर्णकुटीरादेकतलं द्वितलं त्रितलं च प्रासादं भूषणं वसनं यानमासनं किमधिकं देवत्वं लब्ध्वापि मनो न परितृप्यते प्राणिनां न वा लभते शान्तिम् । यथाऽत :परमपि किमपि मुखं वर्तेतैव तदर्थमेवाहनिशं घूर्णति लोलुपं मन : । यदुक्तं शान्तिशतके- 'ends निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेश्वरत्वं पुनः । चक्रेशः पुनरिन्द्रतां सुरपतिब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपदं पुनः पुनरहो आशावाध को गतः ॥ इति ॥ अत्रैकमेव कारणं निरूपये यदुपर्युक्तेषु धनादिषु नित्यस्याखण्डस्याकृ- त्रिमस्य सुखस्य कारणता न लक्ष्यते । प्रत्युत ते च विषया : कृत्रिमस्य दु: खानुविद्धस्यैव सुखस्य हेतवो भवन्तीति । प्राणिनां तु मनो न दु:ख- संसृष्टायानित्याय सुखाय स्पृहयदपि कृतार्थीभवति न वा शाम्यति । अत एव तच्छान्तिलाभेऽकृतकार्य विषीदति । तदानीमेव मनः कृतार्थम्मन्यं वीतलिप्सं सुस्थं शान्तं च तिछेत् यदा खलु तदखण्डानन्दकन्दमकृत्रिमं लप्स्यते सुखम्। तथाविधमुखला. भायैकमेवेश्वरसाक्षात्कार एव कारणमवाधारि पुराविद्भिरिति । तदन्यया युगसहस्त्रचेष्टयापि तथाविधसुखलाभो नभ :पुष्पमेव सम्पत्स्यते ।

साकोरोपासना। नास्माकं सर्वसुखाकरस्य सुखमयत्त्येश्वरस्य साक्षात्कारोऽनायाससाध्य : यतोऽसौ क्षित्यप्तेजोमरुध्योमातिरिक्तस्तत्तद्गुणाच शहस्पर्शरूपरसगन्धाद- तिरिक्तश्च । सुतरां श्रोत्रत्वगक्षिरसनघ्राणैरिद्रियैरत्यन्तमविषय : एवं परमाणुरिव प्रत्यक्षायोग्य ईश्वर : कदापि मनसापि न ग्रहीतुं शक्यते । एतदेव नलवकारोपनिषदि व्यक्तं । यन्मनसा नमते येनाहर्मनो मनं । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ईश्वरः सर्वभूतानां हृद्देशे तिष्ठतीति सिद्धान्तितं वचः । ईश्वरः सर्व- कर्तेत्यत्रापि नास्त्यास्तिकानां वैमत्यम् । अधुनेश्वरः सर्वकर्तेत्यस्यैव शब्दस्य विचार्य तात्पर्य प्रतिपाद्यते । तथाहि सर्वपदेन तावच्चतुर्दश भुवनानां चराचरं वस्तु कथ्यते । तत्र तावतां वस्तूनां मध्ये कल्पनाप्येकं वस्तु । एकस्मिन्वस्तुन्यन्यस्यारोपः कल्पनेति । यथा मुखे चन्द्रबुद्धिघटे प्रतिमाया- ञ्चेश्वरबुद्धिरिति । कल्पनापीश्वरेणैव सृष्टेति । यदि कल्पना तदितरेण सृष्टा तर्हि तस्य सर्वकर्तृत्वं व्याहन्यते । अपि चैवमपि समुचितं नैव वक्तुं । यदीश्वरेण निरर्थकं तत्सृज्यते यदि तथेति स्वीक्रियते तर्हि निष्फ- लसृष्टत्वेन स दोषैर्ग्रस्यते । अत एव कल्पनापि सफलेल्यवश्यमभ्युपतव्यं कल्पनाया : साफल्य बहुषु लक्ष्यते । तथाहीश्वरेण सृष्टस्य शद्वस्य नास्त्या- कृतिर्न वा शुक्लादिरूपसंस्थितिरिति । किन्तु तथापि द्विविधस्यापि तस्य शवस्य ध्वनिवर्णात्मकस्य कल्पितेन ध्वनिवर्णाकृतिविशेषेण तावदेव कर्म निर्वाह्यते लोकैरिति । तथाहि ध्वन्यात्मकस्य ' तितिन्ता ना धिन्ता तिनि किटिगेदा धिनि , इत्यव्यक्तस्यापि गुरूपदिष्टेन कल्पितेन तत्तद्वर्ण- संस्थानेन ध्वनिना चैकतालादि तालं समभ्यस्यन्ते लोकाः । एवं वर्णात्मकस्यापि शब्दस्य 'क ख' 'ग' 'घे' त्यादेः कल्पि- तेन वर्तुलकुण्डल्यादिरूपेण पत्रारूढेन देशान्तरस्थितानामपि बन्धूनां वार्ता- २४८ संस्कृतचन्द्रिका। दिकं निश्चयेनोपलभ्यते । सुतरां कल्पना निष्फलेति कल्पनया फलं न लभ्यत इति न जातु वक्तुमुचितं । अत एव कालमावहमानमारभ्य प्राचीन रानिराकारस्येश्वरस्य कल्पितेन पञ्चवक्त्रत्रिनेत्रादिशिवादिरूपेण निरा- कारस्य शब्दस्य कल्पितकादिरूपेण यथाविधि पूजितेन स्वस्वाभीष्टं लभ्यते। साकारस्त्वीश्वरो रूपादिमत्त्वात्साक्षात्कर्तुं भवितुञ्च नासम्भवीति । अपि चेश्वरो निराकार इति सर्ववादिसिद्धमिति । एवं सोऽ- पीश्वरो जीवात्मनो वयमिव भक्तिस्नेहप्रेमादिभिः साक्षात्कर्तव्य इति । एवं जीवात्मापि नास्मादीश्वराज्जलानलवदत्यन्तं भिन्न : किन्त्वविद्यानुवि- द्धश्चित्प्रतिबिम्ब : क्लेशकर्मविपाकैः परामृष्टः पुरुषो वा जीवोपाधिना जातः । तस्या एवाविद्याया आवरणशक्तिमहिम्नैव स जीवो नित्यसुखादे- निराकारत्वाच्च प्रभ्रष्टः। इदानीं विचार्यते निराकारे प्रेम विधातुं शक्यते न वेति । इत्थमेवा- वलोक्यते यदस्माभिराजन्म प्रेमादि : साकार एवाभ्यस्यते विनाऽभ्यासान्न किमपि सिध्यति । यथा जीवनौषधिरूपे मातु : स्तन्ये स्नेहपरम्परा संजाता परन्तु तदप्याकारवत् शुक्लं मधुरं कवोष्णं चातस्तद्पीन्द्रियग्राह्यं प्रत्यक्षत इति । ततो बाल्यमुपेयुषामस्माकं परमस्नेहमय्यां जनन्यामेवाधिकाधिका प्रेमप्रवृत्तिरिति सापि मूर्तिमयीति । तत: साकारैरेव सह सर्वदा भोजन विहरणजनित : संसर्ग इत्यतोऽस्माकमिन्द्रियप्रवृत्तिरपि साकार एव चिर- प्रसक्ता । यतो निराकारं वस्तु कदापि कस्यापि नेन्द्रियगोचरं तेनैव हेतुना प्रेमभाजनमपि नैव भवितुं युज्यते । अतो निराकारद्वारा सुखप्रत्या- शान क्वापि सम्भवति । (क्रमश:) ।

श्रीशिवराजविजयः। पराकुर्वतस्त्रपुलिसेषु ताम्रभाजनेषु आरनालं परिवषयतः सूदान् क्वचिद्व- क्रप्रसाधितकाकपक्षान्मदव्यावर्णितशोणनयनान्सपारस्परिककण्टग्रहं पर्यटतो यौवनचुम्बितशरीरान्स्वसौन्दर्यगर्वभारेणेव मन्दगतीननवरताक्षिप्तकुसुमेषु बा- गैरिव कुसुमैभूषितान् वसनातिरोहिताङ्गच्छटान्विविधपटवासवासितानपि चिरास्नानमहामलिनमहोत्कटस्वेदपूतिगन्धप्रकटीकृतास्पृश्यतान्यवनयुवकान् क्वचित् अहो दुर्गमता महाराष्ट्रदेशस्य अहोदुराधर्षता महारा- ष्ट्राणाम् अहो वीरता शिववीरस्य अहो निर्भयता एतत्सेनानीनाम् अहो त्वरिता गतिरेतद्घोटकानाम् आः किं कथयामो दृष्ट्वैव चमत्कार शिववीरचन्द्रहासस्य न वयं पारयामो धैर्य धर्तुं न च शक्नुमो युद्धस्थाने स्थातुं को नाम द्विशिरा यः शिवन योध्दुं गच्छेत् कश्च नाम द्विपृष्ठो यस्त टैरपि च्छलालापं विदध्यात् वयं बलिन आस्माकीना महती सेना तथापि न जानीमः किमिति कम्पत इव क्षुभ्यतीव च हृदयम् । यवनानां पराजयो भविष्यति अपजलखानो विनक्ष्यतीति न विद्मः को जपतीव कर्णे लिखतीव सम्मुखे क्षिपतीव चान्तःकरणे मास्म भो मैवं स्यात् रक्ष भो रक्ष जगदीश्वर । अथवा सम्बोभवीतितमामेवमपि योयमपजलखानः सेनापतिपदविडम्बनोऽपि शिवेन योत्स्ये हनिष्यामि ग्रहीष्यामि वेति सप्रौढि विजयपुराधीशमहासभायां प्रतिज्ञाय समायातोऽपि शिवप्रताप च विदन्नपि अद्य नृत्यमद्य गानमद्य लास्यमद्य वाराङ्गना अद्य*भ्रकुंसकोऽद्य वीणवादनमद्य मद्यगोष्ठीति स्वच्छन्दैरुच्छृङ्खलाचरणैर्दिनानि गमयति । न च यः कदापि विचारयति यत्कदाचित्परिपन्थिभिः प्रेषिता काचन वारवधूरेव मामासवेन सह विषं पाययेत् कोऽपि नट एव ताम्बूलेन सह गरलं ग्रासयेत् कोऽपि गायक एव वा वीणया सह खड्गमानीयासयेत् इत्यादि ध्रुव एव तस्य विनाशो ध्रुवमेव पतनं ध्रुवमेव च पशुमारैारणम् । तन्न वयं तेन सहजीवनरत्नं हारयिष्याम इति व्याहरतः इतरांश्च मैवं भोः * स्त्रीवेषधारी पुरुषः ।

संस्कृतचन्द्रिका। श्व एवाहवक्रीडाऽस्माकं भविष्यति तच्छ्रयते सन्धिवार्ताव्याजेन शिव एकत आकारयिष्यते यावच्च स स्वसेनामपहाय एकाकी अस्मत्स्वामिना सहालपितुमेकान्तस्थाने यास्यति तावद्वयं श्येना इव शकुनिमण्डले महा- राष्ट्रसेनायां छिन्धि भिन्धीति कृत्वा युगपेदेव पतिप्यामो वसन्तवाताहत- नीरसच्छदानिव च क्षणेन विद्रावयिष्यामः । इतस्तु च्छलेनास्मत्स्वामि- सहचराः शिवं पाशैर्वध्वा पिञ्जरे स्थापयित्वा जविन्तमेव वशंवदं करि- प्यन्ति । परन्तु गोप्यतमोऽयं विषयो मास्म भूत्कस्यापि कर्णगत इत्यु- त्तरयतः साङ्ग्रामिकभटानवलोकयन् धन्या भवन्तो येषां गोप्यतमा अपि विषया एवं वीथिषु विकीर्यन्ते महाराष्ट्रा धूर्ताचार्या नैतेषु भवतां धूर्तता सफला भविष्यतीत्यात्मन्येवात्मना कथयन्स्वप्रभावधर्षितसकलरक्षकगण : स्वसौन्दयणोत्कर्षयन्निव विश्वेषां मनांसि सपधेव प्रधानपटकुटीरद्वारमाससाद। तत्र च प्रहरिणमालोकयदुक्तवांश्च यत् पुण्यनगरनिवासी गायकोऽहमन- भवन्तं गानरसरसायनैरमन्दमानन्दयितुमिच्छामीति । तदवगत्य स भ्रूसं- चारेण कंचिन्निवेदकं सूचितवान् स चान्तःप्रविश्य क्षणानन्तरं पुनर्बहिनिर्गत्य गायकमपृच्छत् किं नाम भवतः पूर्वं च कदाचित्समायातो नवा । अथ स आह तानरङ्गनामाहं कदाचन युष्मत्कर्णमस्पृशं न पूर्वं कदापि ममात्रो- पस्थातुं संयोगोऽभूत् अद्य भाग्यान्यनुकूलानि चेच्छ्रीमन्तमवलोकयिष्यामि इति । स च आमित्युदीर्य पुनः प्रविश्य क्षणानन्तरं वहिनिर्गत्य च विचित्रगायकममुं सह निनाय । तानरङ्गस्तु तेनैव तानपूरिकाहस्तेन बालकेनानुगम्यमानः शनैः शनैः प्रविश्य प्रथमं द्वितीय तृतीयं च द्वारमतिक्रम्य कांश्चिन्मृदङ्गस्वरान्संदधत : कांश्चिद्वीणावरणमुन्मुच्य*प्रवालं प्रोञ्छ्य कोणं कलयतः कांश्चिदविचलोऽयमेते नैव सह योज्यन्तामपरवाद्यानीति वंशीरवं साक्षीकुर्वत : कांश्चित्कलितनेपथ्या- frrammar - ! कोणाश्च तदादनोपकरणविशेष : [मिजराफ इति भाषा श्रीशिवराजविजयः। पादयोनूपुरं बध्नत : कांश्चित्स्कंधावालम्बिगुटिकात : करतालिकामुत्तोलयत : कांश्चिच्च कर्णे दक्षकरं निधाय चक्षुषी संमील्य नासामाकुच्य पातितो- भयजानूपविश्य वामहस्तं प्रसार्य तन्त्रीस्वरेण+स्वकाकली मेलयत : संमुखे चे पृष्ठतः पार्श्वतश्चोपविष्ठैः कैश्चित्ताम्बूलवाहकैरपरैनिष्टयूतादान- भाजनहस्तैरन्यैरनवरतचालितचामरैरितरैर्बद्धाञ्जलि भिलालाटिकैश्च परि- वृतं रत्नजटितोष्णीषिका मस्तकं सुवर्णसूत्ररचितविविधकुसुमकुङ्मललता प्रतानाङ्कितकञ्चुकं महोपबर्हमेकं क्रोडे संस्थाप्य तदुपरि सन्धारितभुज- द्वयं रजतपर्यके विविधफेनफेनिलक्षीरजलघितलच्छविमङ्गीकुर्वत्यां तूलि- कायामुपविष्टमपजलखानं च ददर्श । ततस्तु तानरङ्गप्रभावशीकृतेषु सर्वेष्वागम्यतामागम्यतामास्यतामास्यता- मिति कथयत्सु तानरङ्गोऽपि सादरं दक्षिणहस्तेनादरसूचकसङ्केतसहकोरण यथानिर्दिष्टं स्थानमलंचकार । ततस्तु इतरगायकेषु सगर्व सासूयं सक्षोभं साक्षेपं सचक्षुर्विस्फारणं सशिरःपरिवर्तनं च तमालोकयत्सु अपजलखानेन सह तस्यैवमभूदालाप : । अपजलखान :--किंदेशवास्तव्यो भवान् । तानरङ्ग:--श्रीमन्राजपुत्रदेशीयोऽहमस्मि । अप० --ओ: राजपुलदेशीयः । तान०--आम् श्रीमन् । अप०-~-तत्कथमत्र महाराष्ट्रदेशे । तान--सेनापते मम देशाटनव्यसनं मां देशाद्देशं पर्याटयति । अप०--आ एवम् तत्कि प्राय : पर्यटति भवान् । तानरग:-एवं चमूपते । नव्यान्नव्यान्देशानवलोकायतुं नवा नवा भाषा अवगन्तुं नूतना नूतना गानपरिपाटीश्च कलयितुमेधमानमहाभिलाष एष जनः । + काकली तु कले सूक्ष्मे इति अमरः । लालाटिक: प्रभोनालदर्शी कार्याक्षमश्चय : ! उगीपिका टोपी इति भाषा २५२ + संस्कृतचन्द्रिका। अपजल-अहो ततस्तु बहुदर्शी बहुज्ञश्च भवान् । अथ वनदेशे गतो भवान् । श्रूयतेऽतिवैलक्षण्यं तद्देशस्य । तान--भगवन्वर्षत्रयात्पूर्वमहं काश्यां गङ्गायां संस्नाय उज्जयिनीदेशीय क्षत्रीयकुलालङ्कतं भोजपुरदेशमालोक्य गङ्गागण्डकतटोपविष्टं हरिहरनाथं प्रणम्य विलासिकुलविलसितं पाटलिपुत्रपुरमुल्लथ्य सीताकुण्डविक्रमचण्डि- कादिपीठपटलपूजितं विक्रमयशः सूचकदुर्गावशेषशोभित देवधुनीतरङ्गक्षा- लितप्रान्तं * मुद्गलपुरं निरीक्ष्य + कर्णदुर्गस्थानने तयशोमहामुद्रयेवाङ्कित- मङ्गदेशं दिनत्रयमध्युप्य अतिवर्धमानविभवं वर्धमाननगरं च सम्यक् संदृश्य यथोचितसंभारेस्तारकेश्वरमुपस्थाय ततोऽपि पूर्व वङ्गदेशे पूर्ववङ्गेऽपि चिरमहमभ्रमम्। अप०---किं किं किं पूर्ववङ्गेऽपि तान०--आं श्रीमन् पूर्ववङ्गमपि सम्यगवालुलूकदेष जनो यत्र प्रान्तप्ररूढां पद्मावली परिमर्दयन्ती पद्मेव द्रवीभूता पयः पूरप्रवाहपरम्परा- भि: 8 पद्मा प्रवहति यत्र प ब्रह्मपुत्र इव शत्रुसनानाशनकुशलो बह्मदेशं विभजन् ब्रह्मपुत्रो नाम नदो भूभागं क्षालयति यत्र साम्लसुमधुररसपूरि- तानि फूत्कारोद्भूतभूतिज्वलदङ्गारविजित्वरवर्णानि जगत्प्रसिद्धानि नार- गाण्युद्भवन्ति यद्देशीयानां जम्बीराणां रसालानां तालानां नारिकेलानां खजूराणां च महिमा सर्वदेशीयरसज्ञानां सानेडं कर्णं स्पृशति यत्र च भयङ्करावर्तसहस्राकुलासु स्रोतस्वतीषु सहोहोकारं क्षेपणी : क्षिपन्त : आरित्रं चालयन्त : बडिशं योजयन्तः कुवेणीस्थम्रियमाणमत्स्यपरीवर्ताना- लोकमालोकमानन्दन्त ः अदृष्टतटेष्वपि महाप्रवाहेषु स्वल्पया कूष्माण्डफ- किकाकारया नौकया भिन्नाञ्जनलिप्ता इव मसीस्नाता इव साकारा अन्ध- कारा इव काला धीवरबाला निर्भया : क्रीडन्ति । मुंगेर इतिप्रसिद्धं नगरम् फ्या नाम नदी भागलपुरनामकनगरे कर्णदुर्गचिन्हमद्याप्यस्ति । M ब्रह्मपुत्रः प्रद पन : गरलविशेष: ।

।
दरभङ्गाधिराजस्य कृते विलाप ।
श्रीदरभङ्गाधिराजस्य कृते विलाप
( पूर्वतोऽनुवृत्त :)
स्फुटति नवयुवत्याः प्रेमहास्यं यथास्ये
सितरजनिमुखे वा चन्द्रिकोदोति यद्वत् ।
कुसुममभिनवं वा भाति यद्वसन्ते
स्फुरति शुचि यशस्ते देव ताग्दिगन्ते ॥ ८
चेतो रञ्जयति श्रियं वितनुते धत्ते सुधामाधुरी-
माशां पूरयति क्षिणोति जगतस्तापं तमो हन्ति च ।
यद्यत्ते कुरुते यशस्तदखिलं कुर्वन्नपि श्रीपते
चन्द्रस्तस्य गुणाकरस्य तुलनां नामोति दोषाकरः॥९
माधुर्येण सुधारसं परिमलेनामोदिना सारसं
वैमल्येन विधो कर तरलया कान्त्या च मुक्तासरम् ।
गत्या गन्धवहं परं महदपि व्याप्त्या च जित्वाऽम्बरं
क्षुद्रे कर्णविले नृणां तव यशो राजन्कथं लीयते ॥ १०
९ चेत इति । यश : पक्षे श्रियं त्रिवर्गसम्पदं चन्द्रपक्षे शोभाम् । आशा याचका-
नामिच्छाम् अन्यत्र दिशम् । तमो हिताहितज्ञानविपर्ययम् चन्द्रपक्षे तु अन्धकारम् ।
गुणानामाकरस्य उत्पत्तिस्थानस्य तस्य यशस : । दोषा रात्रिस्तां करोति ( ? ) दोषा-
कर : दोषाणां कलङ्कगुरुपत्नीहरणादिपापानामाकर इति च व्यज्यते ।
१० माधुर्येणेति सुधारसं अमृतस्यास्वादं आमोदिना परिमलेनेति आमोदयति
प्रीणयतीत्यामोदी प्रमोदजनकस्तेन परिमलेन विमर्दनेन आमोदिना अतिनिहारिणा
विमर्दोत्थगन्धेनेव सारसं पद्मम् । अत्र यशसो विमर्दनं पुन: पुनश्चर्वणा इत्यर्थ : ।
मुक्तासरं मुक्तावलि मुक्ताहारमिति यावत् । गत्या गतिवेगेन गन्धवहं पवनम् ।
व्याप्त्या विस्तारेण च परं महदपि परमहदपि अम्बरमाकाशं जित्वेत्यर्थः । लीयत
इति तिष्ठतीति भावः । अथ च तत्सर्व जित्वाऽपि भीतवत् कथं कर्णच्छिद्रे अन्तर्धन्ते
इति व्याजस्तुतिश्च ।

संस्कृतचन्द्रिका। शुद्धत्यव्यभिचारिणीति नृपते प्राणप्रियां मन्यते यां कीर्ति नियतं न वेत्ति चरितं तस्या निगूढं भवान् । सान्येषां वदनानि चुम्बितवती सन्धातुमन्यान्पुन- मन्त्रं कञ्चन कामसाधनमिव ब्रूते श्रुतौ सङ्गता ॥ ११ रूपं भूप तवावलोक्य यशसः काचिदरिद्राङ्गना मुग्धा हीरककर्णपूर इति तत्कणे करोत्यादरात् । अन्याघ्राय सुशीतलं परिमलं कर्पूरचूर्णभ्रमा- ताम्बूलेन सहैव चर्वति तदित्यालोकि चित्रं मया ॥ १२ समावर्णना बहुगुरुद्विजराटकविसौम्यया परिषदा बहुमङ्गलभित्रया। तव कृतककतैरुपसेविता सुरसभा रसभावविदप्यधः ॥ १३ ११ शुद्धेति । कीर्तिपक्षे शुद्धा निष्कलङ्का अव्यभिचारिणी अनन्यसाधारणा । पत्नीपक्षेतु शुद्धा बाह्यशौचशालिनी । अव्यभिचारिणी एकपत्नी । व्याजस्तुतिरत्रालं. कार : भावस्तु एकेषां मुखेभ्य उच्चरिता तव कीर्तिरन्येषां कर्णप्रविष्टा सती तानपि समीपं गत्वा प्रार्थयितुं प्रवर्तयतीत्यर्थ: । १२ रूपमिति । अस्यायं भाव: । काचिद्दरिद्रवनिता अन्यस्या दरिद्रवनिताया। सकाशात्तव यशः शृणोति साच ताम्बूलं चर्वन्ती तव यश : खादं खादं कथयतीति पूर्वार्धे यशसश्चाकचक्यशालि रूपं परार्धेच कर्पूरवच्छुभ्रत्वं व्यज्यते ॥ १३ बह्विति । बहवो गुरव उपदेशका मन्त्रिणोऽध्यापका वा द्विजराजो ब्राह्मणाश्च कवयो वर्णयितारश्च सौम्या ज्ञाश्च नादविद्याभिज्ञाश्च यस्यां तया अथवा बहुभिर्गुरुभि: द्विजराभिः कविभिश्च सौम्यया मनोज्ञया । तथाच सौम्यो से ना त्रिष्वनुग्रे मनोजे सोमदैवत इति मेदिनी । तथा बहूनि मग्लानि मङग्लजनकानि मित्राणि सुत्टदो यस्यां तया तव परिषदा सभया एककतैः सच सच सच सच सचेतिते एककाचते तेचीत एककतै एकाकिना गुरुणा बृहस्पसिना एकाकिना द्विजराजा चन्द्रेण एकाकिना कविना शुक्रेण एकाकिना सौम्येन सोमपुत्रेण बुधेन तथा एकाकिना मङ्गलेन भौमग्रहेण एकाकिना मित्रेण सूर्येण च उपसेविता समीपे आश्रिता सुरस- समा देवानां सभा रसभावविदपि रसान्भावांश्च जानत्यपि अध:कृता निजितेत्यर्थः । नांच: कतेति विरोधाभासश्च ।

दरभङ्गाधिराजस्य कृते विलाप:। भवतस्तां सुधर्माणमानन्दामृतमानदाम् । भूमौ देवसभां द्रष्टुं कविम्मन्योऽहमागमम् ।। १४ पुनराशिषः। जय गुणिषु धृतादर दरभङ्गेश्वर दुष्टभयङ्कर शिष्टमते धनहीनगत । जय मर्त्यपुरन्दर सत्यधुरन्धर नित्यमनश्वर धर्मरते कृतकीर्तितते ॥ जय मानवतांवर दानपयोधर कविमानसचर हंसपते विहितारिहते । जय गुणरत्नाकर विबुधपुरःसर नृपलक्ष्मीश्वर भवनु सते कुशलं भवते ॥ १५ ॥ गीति : ॥ द्विजानां राजासौ लसति दरभङ्गाभुवि हरं- स्तृपां भूदेवानां सुचरितसुधाभिर्बुधहितः । कलापूर्णो देवः परिहृतकलङ्कश्च स भवा- निति श्रुत्वाऽऽश्चर्य वयमुपगता द्रष्टुमनसः ॥ १६ १४ भवत इति । हे देव राजन् भूदेवेति वा भवतस्तां सभा द्रष्टुमहमागम मि- त्येकोऽर्थः । भूमौ मर्मलोके तो देवसभा बहुगुर्वादिभूषिताम् अपूर्वामित्यपरोर्थ: । सुधर्माणं शोभनो धर्मो यस्यां ताम् सुधर्मनानींच । आनन्दोऽमृतीमवेति तेन मानदां- सम्मानप्रदाम् । आनन्दजनकेनामृतेन पीयूषण सम्मानदामितिच । १५ जयेति । कविमानसन्चरहसपते इत्यत्रपरम्परितरूपकं कानसं मनएव मानसं सरस्तत्र चरतीति तादृशो हंसपती राजहंस : सते साधवे भवते कुशलं भवतु सज्जनस्य तव शुभमस्तु इत्यर्थ: १६ द्विजानामिति । द्विजानां राजा ब्राह्मण : चन्द्र इति च व्यज्यते । सुचरितानि पुण्यकर्माणि दानादीनि सुधा इवेति सुचरितसुधास्ताभिरिति राजपक्षे चन्द्रपक्षे तु शोभनं चरितं चेष्टितं यासां ता : सुचरितास्ताश्च ता: सुधाश्चेति ताभि: । भूदेवानां ब्राह्मणानां तृषामाशां हरन्नपनयनिति राजपक्षे चन्द्रपक्षे तु भुवः स्वर्गरूपस्य स्थानस्य देवानामिन्द्रादीनां तृषां पिपासां हरनिति देवा हि चन्द्रस्य सुधां पिबन्तीति प्रसिद्धिः । बुधहित : पण्डितानां उपकारक इति राजपक्षे चन्द्रपक्षे तु बुधस्य स्वपुत्रस्य हितः [१] कलाभिगीतवाद्यादिभिः चन्द्रपक्षे तु षोडशभिर्भागै : । देवो राजा चन्द्रपक्षे तु द्योतनशील: । परिहृतकलङ्क :कलङ्करहित इतिव्यतिरेकवान् स भवान्दरभङ्गानाम्न्यां भुवि पृथिव्यां लसतीति आश्चर्यम् । अन्यत् सुगमम् । । ..

महामहा यच्छतु पावर वरम् ।। १९ संस्कृतचन्द्रिका । क्षीरोदादुदिता तदम्बुवसतेः कष्टाद्विमुक्ता रमा विष्णोर्वक्षसि निःश्वसत्यपि पुनः सम्पीडिता वर्मणा । तस्मात्पद्ममुपेत्य तत्र च निशि पाप्य व्यथां मीलिते पाणिं ते प्रतिपद्यमुक्तमनिशं दानाय सम्मोदते ।। यमकेनाशीः काव्ये। शुभवतो भवतोषणकर्मणा मुदामिता दमितासुरविक्रमा। हरवधूररवधूनयताद्भयं तवाहितावाहिता शमनादपि ॥ १८ सुरासुराणां पिबतिस्म योऽस्मयो दयोदयोन्नः किल किल्विषं विषम् । सवः सवध्वत् पुरमन्मथोन्मथो मोदते। १७ क्षीरोदादिति । लक्ष्मीः क्षीरोदजलेवसन्ती निः श्वासमपि ग्रहीतुमशक्ताऽऽसीत् इत्यतस्तस्मादुत्थिता विष्णोर्वक्ष आश्रित्य नि:श्वासं तत्याज । अथ दैत्यवधाय विष्णो सन्नद्धे सति वर्मणा सम्यक्पीडिता बमूव ततश्च पद्ममाश्रित्य तिष्ठन्ती राखौ पः मुद्रिते सति पीडां प्राप । अथ तस्मात्तव हस्तं दानाय सदा मुक्तमाश्रित्य सम्यक् १८ शुभवत इति । दमित उपशमितोऽसुराणां विक्रमो यया सा दमितासुरविक्रमा। तोध्यतेऽनेनेति तोषणं प्रीणनं भवस्य संसारस्य महादेवस्य वा भवयोरुभयोवी तोषण तत्कर्म तेन मुदं प्रीति इता प्राप्ता । हितेषु पथ्येषु अवहिता अवधानवती जाग्रतीति यावत् । हरवधूभवानी देवो शुभवतो मङ्गलयुक्तस्य तव शमनाद्यमादपि किमुतान्व- स्मादिति भावः भयं अवधूनयतात् त्याजयतु इत्याशीः । भवतो भवतो दमिता दमिता रवधूरवधू वहिता वहिता इाते यमकचतुष्टयम् । १९ सुरासुराणामिति । स्मयो गर्व: । अस्मयो गर्वरहित: । दयाया उदयेन उन्न : क्लिन्नः [ उन्दीक्लेदन इत्यस्य धातोः क्तान्तस्य रूपम् ] दयोदयोनः दयार- सेनाः य : सवध्वत् ऋतुध्वंसी महादेवः सुरासुराणां देवानामसुराणां च किल्विष- मनिष्टं मृत्युजनकं विषं कालकूट नामकं गरल किल ऐतिह्ये पिबतिस्म पपौ अथवा विषसदृशं किल्विषं पापमेव पपी। महत् महस्तेजो यस्य स महामहा महातेजा:। पुराणि च मन्मथः कामश्च पुरमन्मथा ः तेषामुन्मथ : उन्मश्नातीत्युन्मथोदाहकृत् । सवं यज्ञं दक्षयज्ञं ध्वंसत इति सवध्वत् ऋतुध्वंसी महादेव : वो युष्मभ्यं पीवरं स्थूलmaranaswap remarateamya Pre- प्रश्नस्योत्तरम् । चित्रकाव्येनाशिषः। देवस्तावच्छिवस्ते गुरुरुरु कुरुतां ज्ञानदानम्मनस्थ: सा काली कान्तकाया तवभवतु वराभीतिदातिप्रतिष्टा । देवी ते वीर वीणागुणगणरणनी ढोकतां कम्बुकण्ठं श्रीपाणौ पाणिपाल्या लगतु गजगतिः सा च ते चन्द्रचर्चा!॥२०॥ कण्ठभूषणबन्धः । (१) * वर्णलेखनप्रचार। बहवः किल विदेशीयाः प्रतिपादयन्ति योऽयं धरणीतले वर्णलेखन- प्रचारो दृश्यते स पाणिनेरुत्तरकालिक : । श्रुतिसमये तु नायमासीत्क्वापि । तदानीं खलु सर्वेऽपि सर्वानाञ्छ्रवणेनैवावधारयामासु : । अत एव च वेदानां श्रुतिसंज्ञा । नापि वेदेषु क्वचिल्लेखनकलाविषये किंचिदपि प्रमाण- । २० देव इति । गुरुझानोपदेशको देवः शिवस्तव मनसि स्थित : सन् तावत् [वाक्यालङ्कारः] उरु महद्यथा स्यात्तथा ज्ञानदानं कुरुताम् । कान्त: कमनीयो भक्तानां स्पृहणीय इति यावत् कायो मूर्तिर्यस्याः सा कान्तकाया अतिप्रतिष्ठा पूजितगौरवा अतिशब्द : पूजार्थकः प्रतिष्ठा गौरवम् प्रतिष्ठा गौरवे क्षितौ इति मेदिनी। सा प्रसिद्धा काली तव वराभयप्रदा भवतु । हे वीर दानवीर वीणाया गुणगणानां तन्त्रीसमूहानां रणनी वादयित्री वाच्यलिंड्गं क्वापति कर्तरियुट् देवी सरस्वती तव कम्बुसदृशं त्रिरेखं कण्ठं ढौकतां प्राप्नोतु । चन्द्र : कर्पूरं चर्चा अनुलेपनं यस्याः सा चन्द्रचर्चा श्रीलक्ष्मी : पाणिपाल्या करावल्या करद्वयेनेत्यर्थः । तव पाणौ हस्ते लगतु च लग्नाभवतु च कीदृशी सती गजगति : गजस्येव गतिर्यस्याः यद्वा गजे: गतिरागमनं यस्यास्तादृशी। * सर्वेषामपि बन्धानां चित्राणि अन्ते प्रकाशयिध्यन्ते ।

संस्कृतचन्द्रिका। मुपलभ्यते येन वर्णविन्यासरीतेः प्रचारस्य तत्समानकालिकत्वं व्यव- स्थापयितुं शक्यतेति । एतमेव च विदेशीयानां सिद्धान्तमनुसरन्ति केचिद- स्मद्देशीया : पण्डिता : । अतोऽत्र सप्रमाणं विचार्यते कदातनोऽयं वर्ण- लेखनप्रचार इति। तत्र तावद्यदुच्यते वेदानां श्रुतिरिति संज्ञायाः प्रवृत्तिनिमित्तं लिपि विना श्रवणमात्रेणार्थावधारणं ततश्च प्रतीयते न हि श्रुतिसमानाकलिको वर्णलिपिप्रचार : अन्यथा वेदानां श्रुतित्वानुपपत्तरिति । तदेतदापाततो रमणीयम् । न हि संज्ञामात्रेणैव तदानीन्तन उदन्तः शक्योऽनुमातुम् । दृश्यते हि मन्वादिप्रणीतानामपि धर्मसंहितानां स्मृतिरित्याख्या । किन्तु न हि तया तदानी लेखनकलाया अभाव : कथंचिदप्यनुमातुं शक्यते । तासु प्रत्यक्षत एव लेखविधानस्य दृश्यमानत्वात् । अतो न संज्ञया संज्ञिकालिकं वृत्तमनुमातुं युक्तम् । वेदानां श्रुतिरित्याख्या तु पूर्वपूर्वमह- र्षिभिः पठितानां मन्त्राणामुत्तरोत्तरैः श्रुत्वा संग्रहणादेवेति प्रतीयते श्रुतिमूलकमेव च संग्रहणम् । ततश्च निमित्तनैमित्तकयोरभेदोपचारेण वेदा- नामपि श्रुतिसंज्ञा । एवं च नहि श्रुतिरित्याख्यामालेण वेदकाले लिपि- प्रचाराभाव : शक्योऽनुमातुमिति । किं च वेदानामिव श्रीमत्कालिदासादि- प्रणीतानां रघुवंशादीनामपि श्रव्यकाव्यत्वमालङ्कारिकै: स्वीक्रियते । तच्च भवडुक्तन्यायस्वीकारे कालिदाप्तादिकविकालेप्वपि लेखनाप्रचारमनुमापयेत्। अनुमानं चैतन् एतस्मिशुकोदरसुकुमारे नलिनीपत्रे नखैनिक्षितवर्ण कुरु इत्यादि शकुन्तलाया : पत्रलेखनप्रस्ताकव्याहतेन वचनेन विरुद्धमेव । तदवश्यमभ्युपेतव्यं न हि संज्ञा : सज्ञिकालिकमुदन्तं निवेदयितुं प्रभवन्तीति। अथोच्यते नास्ति वेदे लेखनसाधनानां वर्णपत्रमसीलेखनीत्यादिशद्वा- नामुपन्यासः वापि येन तदानीं लेखनकलाया : प्रचारो ऽनुमातुं शक्ये- तेति । तदपि वैव विचारसहम् । न ह्यप्राकरणिकं केनापि कदाचिदपि काप्युपनिवध्यते । न हि भोक्तुमुपविष्ट : शय्यां तत्कालीनं वा कृत्यमुप- पुस्तकपठनमन्तरा वर्णलेखनमचार २८२ वर्णयति नापि वा गुरुमभिवादयन् रमणी सम्बोधयति न वा भगवति हुताशने हव्यं जुह्वत्सङ्गीतशास्त्रगतानसरिगमावादीनुचारयति अप्रकृता- नुरोधि खुपवर्यमानमभिधीयमानं वा वारसामञ्जस्यं बोबोधयतीति । एतदेव श्रुतिषु लेखनलेखनीत्यादिशब्दानामनुपनिवन्धने बीजम् । ऋग्भि : स्तौति यजुर्मिर्नुहोति सामभिगोयतीत्यादिना वेदानां भगवदा- राधनमानहेतुकत्वेन तथाविधस्थले 5 प्रकृतानां लेखन्यादिपदानामुपनि- बन्ध : कथं वा घटतामिति प्रष्टार एवं जानन्तु । यज्ञादौ वेदप्रतिपाये कर्मणि च लेखन्यादीनामनावश्यकत्वं स्पष्टतो द्रष्टव्यम् । किंच दृश्यते वेदेवधीत इत्यादि शहानामुपनिबन्धनमिति प्रतिवादि- केवलेन श्रवणेनाधीतुं शक्य : कथञ्चिदपि । अतोऽपि श्रुतिकाले लेखन- प्रचारस्यास्तित्वानुमानं सुस्थिरीभवति । प्रश्नस्योचरम्। .. अद्य दशयसंख्यायां प्रकटितस्य साम्बा पुनाविति पयस्य यथामति अनतिक्लिष्टोऽर्थ : : कृतः प्रेर्यते प्रकाश्यताम्। पद्यमिदं महाकविर्भवभूति : प्रणिनाय । एतद्रचनासन्तुष्टेन राज्ञा भव- भूतिरित्यभिख्या तस्मै कवितलजाय प्रथमतो दत्ता । पद्यस्यास्यायमर्थ :- शम्भो : परिचर्यानियुक्ता पार्वती गङ्गाजलं गाङ्गं प्रसन्नतरं क्रीडा- योग्यं सलिलं हृदयमात्मनस्तदुत्सुकं चित्तं कुचौ आलिङ्गनमभिकाङ्क्षन्ती घनोन्नतौ स्तनौ पादौ च अभिसरणोडाक्तौ चरणौ च विलोक्य मृगाररसो- दीपकत्वेन विभाव्य हरे तु हारे हिंसभूते सप हिमेकरं विरहिजनोपालनहा- संस्कृतचन्द्रिका। यिनि कुटिले चन्द्रे मकरे कन्दर्पदाहकविषमचक्षुषि (?) करे शूलादिप्रति- भयहेतिसनाथे हस्ते वक्र भयोत्पादकत्वेन स्वाभीष्टकुण्ठकं यथा स्यात्तथा विलोक्य दृष्ट्वा या मदनानलदह्यमाना मदनानलेन मन्मथाग्निना दह्यमाना भस्मीक्रियमाणा नितान्तमभिसन्तप्तेत्यर्थः । बभूवेति शेष : । सा भवभूति- पवित्रमूर्ति : भवस्य रुद्रस्य भूत्या [ अनुलेपनसम्बन्धिना ] भस्मना जीवनो- चितसम्पदा वा पवित्रमूर्ति : अवाप्तनिरुपमसर्वमङ्गलशरीरा अम्बा प्रपञ्च- माता भवानी पुनातु सत्पथे प्रवर्तयतु अस्मानिति शेषः । अत्र निगरणपूर्वकाध्यवसानेन मकरपदं चक्षु :परम् । अयमाशय:- पार्वती परमप्रिये नितरामनुरक्ताऽपि तदीयभीषणहेतिदर्शनेन संजा- तभया मदनानलपीडिता बभूव । किन्तु भक्तपराधीनस्य परमेश्वरस्य कृपया समधिगताश्लेषा पवित्रमूर्तिनितान्तं सुखमनुवभूवेति । प्रकृतिमधुरस्य राज्ञः प्रसादमाकाङ्क्षमाण : क्रूरात्तदीयपरिजनाद्भीतस्त- दर्शनालाभननितं दुःखमनुभवन् राज्ञा स्वयमाहूय पश्चात्समानितो भव- भूतिगूढार्थेनानेनाशीर्वादरूपेण पद्येन स्ववृत्तान्तं व्यवृणोत् । तेन तुष्टो भूपालस्तस्मै भवभूतिरिति नाम दत्तवानिति प्रकृतोऽर्थः । बालकवि: श्रीशेषशायिशर्मा। ( मेलकोट्टय) सप्रमोदमङ्गीकारः। समस्तीपुर [ दरभङ्गा ] निवासिना श्रीयुतपण्डितजगन्नाथमिश्रेण प्रेरितं अष्टत्रिंशद्भाप्यसंवलितं गायत्रीभाप्यपुस्तकं श्रीयुतपंडित लेले श्रीकाशी- समालोचना। नाथशास्त्रिभिः प्रहितं महाराष्ट्रभाषामयं वर्णव्यवस्था उत्पत्तिसिद्धच आहे, ''वेदांत सुरापान निषिद्ध च आहे, ' 'विवाहकालनिर्णय ' भारतीयव्याख्यानमालायाः प्रथमव्याख्यानस्य पूर्वार्धमुत्तरार्ध चेति पुस्तक पञ्जकं एट्टनराजेन कविप्रवरेण तत्रभवता श्रीमता श्रीमानविक्रमकविराज- कुमारेण प्रेषितानि विशाखविजयोल्लासं केरलविलासो वैराग्यतरङ्गिणी ओदनवनेश्वरविजयं दीनदयापरचम्पू: ध्रुवचरितकाव्यं सूक्तिमुक्तामणि- माला सहृदयसमागमपुस्तकं केरलभाषागानमाला कृत्यनुमोदनं समस्यापूरण- माला सङ्गीतकृतिशतकं Pearls of Advice collected अनेकविषय- कृतिपुस्तकं पार्वतीपरिणयनाटकं लेखमालापुस्तकत्रयं तदन्यच्च पुस्तकत- यमिति एकविंशति : पुस्तकानि अत्रत्येन तोरो श्रीबालशास्त्रिणा प्रदत्त आदिकसारश्चेति पुस्तकानि प्राप्तान्यस्माभिः तानि च सादरं सविनय सानन्दं च स्वीक्रियन्ते । केरलदेशे प्रतिमासं त्रि: प्रकाश्यमाना विज्ञान- चिन्तामणिसंज्ञा च सर्वाङ्गहृदयङ्गमा काऽपि संस्कृतपत्रिकाऽस्मत्सविध- मुपागता निकाममाह्लादयति नश्चेत : । उत्तरदेशीयाश्चैतां केरलवर्णमयी- मनवबुध्यमाना रसामृतास्वादे न प्रभवन्तीत्यालोच्य तुलामासात्प्रभृति सेयं देवनागराक्षरैरेव मुद्रयिष्यत इति प्रत्यज्ञायि अस्या : सम्पादकै : पुन्नश्शेरि निम्बिश्रीनीलकण्ठशास्त्रिभिः तदस्ति बलवती न: प्रत्याशा सङ्ग्रणीयुरेता- मवश्यमुत्तरदेशीया आस्वादयेयुश्च रसं प्राप्नुयुश्चामन्दमानन्दमिति विशेषतस्तु समयान्तरे समालोचयिष्याम इतिशिवम् । समालोचना- वृत्तालङ्कार:-नयपाल (नेपाळ ) निवासिना पण्डितश्रीछविलालसूरिणा विरचितः । अत्र च प्रतिपद्यमलङ्काराणां वृत्तानां च लक्षणं सोदाहरणमु- पवर्णितम् । भूयांस : खलु वर्तन्ते छन्दसि अलङ्कारशास्त्रे च प्रबन्धाः पूर्वेषां विदुषाम् । तथापि अल्पीयसा कालेन गुरुमन्तराप्यवबोष्टुं सुलभो युगपच्छास्त्रद्वयावबोधको नैवंविधः प्रबन्धोऽद्यावधि नयनपदवीमुपारूटो- संस्कृतचन्द्रिका। ऽस्माकम् । अनेन च सामान्यतोऽलद्वारा वृत्तानि चावबोध्दुं शक्यानि । उपयुक्तश्चायमतिमात्रं प्रथमशिक्षायाम् । क्वचिञ्च दुर्बोधवद्धासमानानि प्रतिपाद्यानि व्याख्याकरणेन सुलभतां नीतानि । अत्रत्यानि च कानिचि- त्पद्यानि पाठकेभ्य उपहियन्ते । तन्त्रप्रतीपलक्षणं यथा- হজ্জ সুনাৰিকা यत्कल्प्यते तद्भवति प्रतीयम् । कान्तेऽरविन्दं तव नेत्रतुल्य स्थादिन्द्रवजा यदि तो जगौ पः॥ इति ॥ एवमपनुतिनिरूपणम् -- বাংলঘস্থায় विधायाडविज्ञास्तामिह बहुधापढ्नुतिरिति । सुधांशु यं खे किमुत खसरित्पङ्कजमिन्द रसरुन्छिना यमनसनलाग : शिखरिणी ॥ इति ॥ एवमुत्प्रेक्षा-- भवति खलु सोपेक्षा हेतोः फलस्य च वस्तुन- स्तदितरसरूपत्वे सम्भावना यदि गृह्यते। নিশি ও केकीवियोगजशुप्मणो रसागहयन्सौ नौ स्लो गौ यदा हरिणी तदा ॥ इति ॥ एवं तुल्ययोगिता-- वानां वेतरेषां शुणयुतिकथनात्तुल्यायोगित्वसाहु : सङ्कुञ्चत्त्येव कान्ते तव नयनयुगं कैरवं चार्कभासा दृष्ट्वा ते सौकुमार्य शशिकरसुमन केशरा यान्ति दाय प्रश्नैर्यानां त्रयेण त्रिनुनियतियुता स्नग्धरा कीर्तितेयम् ॥ इति ॥ एतानि च पद्यान्यवलोक्य शक्यमवबोद्धं प्रबन्धस्यास्य स्वरूपं विद्वद्भिः अतीवोपयुक्तोऽयमवश्यं संग्रात्योऽनायासेन च्छन्दसि चालङ्कारे च प्रवेष्टु- कामैरिति शिवम् ।

समालोचना। सङ्केतनिधि :--होरास्कन्धऽनुभूतकलप्रतिपादको ज्यौतिपग्रन्थोऽयम् । एष च श्रीरामदयालुनान्ना ज्योति शास्त्रविशारदेन प्रणीतः । अस्ति खल्वस्य प्रबन्धप्रणेतुज्यायस : सहोदरस्य तनयो घासीरामो नाम । तं च ज्योति शास्त्रस्य होरास्कन्धमवबोधयितुं विरचितोऽयं प्रबन्ध इत्यनेनैव शक्यमवबोद्धमेतस्य सौष्ठवादिकम् । नूनं बहूकारकोऽयं प्रबन्धो होरास्कन्ध- जिज्ञासूनाम् । सुबोधस्याप्येतस्य कचिट्टीकासापेक्षत्वमिव प्रतिभाति । तदाशास्महे संस्करणान्तरे टिप्पनीसहकृत एवं प्रबन्धोऽयं प्रकाश्यतेति । अनत्यश्च लग्नसाधनप्रकारोऽयं दृश्यतां जिज्ञासुभि:- বললিতালিকাভনীতলা- स्वोदयात्खगुणातभोग्यपलैर्वियुक स्वपलबजात् । বলমান : হল 3 যাকাত शुद्धराशियुतं लवादिफलं तनुययनांशकम् ॥ इति ।। मन्यामहे नैवंविधानि पानि विना व्याख्यामविज्ञातज्योति शास्त्रै- रवबोद्धं शक्यानोति । मूल्यमस्य केवलमानकचतुष्टयं जिघृक्षुमिस्तु पत्रं मूल्यं च ' श्रीजगन्नाथप्रसाद, कोटीगुरसहाय छोटेलाल बूलानाला बनारस- सिटी' इत्यत्र प्रेरणीयम् । सारमञ्जरी--श्रीजयकृष्णतालङ्कारभट्टाचार्यविरचिता श्रीवैकुण्ठ- नाथन्यायरत्नविरचितेन विवरणेन संवलिता च । एषा किल न्यायघटित- व्याकरणसिद्धान्तमयं मकरन्दं विकिरन्ती कल्पद्रुममञ्जरीव कस्य वा सचे- तसश्चेतो नानुरञ्जयेत् । यथा किल श्रीगदाधरभट्टाचार्यस्य व्युत्पत्तिवादो यथा वा श्रीजगदीशतर्कालङ्कारस्य शशक्तिप्रकाशिका यथा वा कौंडभ- दृस्य वैय्याकरणभूषणसारो यथा वा श्रीतारानाथतर्कवाचस्पतिभट्टाचार्यस्य शब्दार्थरत्नमेवमसौ श्रीजयकृष्णतकालङ्कारप्रणीता सारमञ्जरी । नवद्वीपे समुल्लसन्त्या विबुधजनन्या नाम सभाया द्वारा प्रतिवत्सरं भवन्त्यां उपा- पिपरीक्षायां व्याकरणे परीक्ष्यविषयत्वेन निर्दिष्टयं मञ्जरी । एतावतैव ।

संस्कृतचान्द्रका। चास्या : सौष्टवं चोपयुक्ततमत्वं च माहात्म्यं चावबुध्येत सुधीभिः । अत्रत्यश्च वैधहिंसाविचार ः सहदयेभ्य उपहियते-- मा हिंस्यात्सर्वाभूतानीति सामान्यशास्त्रं श्वेतच्छागलमालभेतति विशेषशास्त्रम् । अत्र हिंसायां विधिनिषेधयोरवस्थानेन विरोधात्सामान्य- शास्त्रं विशेषशास्त्रेण बाध्यते । विरोधे हि बलीयसा दुर्बलं बाध्यते । विशेषशास्त्रं तु बलीयो निरवकाशत्वात् सामान्यशास्त्रं दुर्बलं सावकाशत्वात्। तेन सामान्यशास्त्रस्य वैधेतरपरत्वम् । न खलु सर्वभूतहिंसाभावविषयकं कार्य इति निषेधविध्यर्थस्य बाधकं विना अग्नीषोमीयपश्वालम्भनविषयक कार्यमिति भावविध्यर्थमुपपद्यत इति मीमांसका : । नन्वेवं श्येने नाभिचरणा- य यजेतेत्यत्र श्येनस्य शत्रुवधरूपेष्टसाधनत्वं अभिचारो मूलकर्म चेति- मनुनोपपातकमध्ये पाठादनिष्टसाधनत्वं चावगम्यते तदेतत्कथमुपपद्यत इति चेन्न । आततायिनमायान्तं हन्यादेवाविचारयन् इत्येकवाक्यतया आततायिन : स्थले इष्टसाधनत्वमनाततायिस्थले तु उपपातकत्वेन बल- वदनिष्टसाधनत्वमित्यविरोधः कल्प्यते । पदार्थान्तरसाकाङ्क्ष विशेषमिति न्यायात् । तथा च वैधेतरहिंसाया एव नरकजनकत्वमिति करप्यते । वाचस्पतिमिश्रमते तु सामान्यविशेषशास्त्रयोर्न विरोधो भिन्नविषयत्वात् । तथाहि मा हिंस्यादिति हिंसाया अनर्थहेतुता ज्ञाप्यते । विशेषशास्त्रेण तु हिंसाया : ऋतूपकारकत्वं बोध्यते । अतएव वैधहिंसाया अपि नरकन- नकत्वं कल्प्यम् । वैधहिंसाया : ऋतूपकारकत्वमेव न तु स्वर्गजनकत्वं किन्तु क्रतोरेव स्वर्गजनकत्वं तत्तद्विशेषविध्यभिधानात् । इति । एतेन चास्या : सुबोधत्वं विषयप्रतिपादनाशैली चावबुध्येतैव रसिक : । लघीयानपि बहूपकारक : प्रबन्धोऽयमवश्यं समाह्यो जिज्ञासुभिः । मूल्य- मस्य आनकषट्कं आदित्सुभिः पत्रादिकं तूपरि सङ्केतनिध्यधिगमस्थान एव प्रेयम् । । .. ..

७४/९९.
श्रीशिवः शरणम् ।
॥ संस्कृतचन्द्रिका ॥
॥ श्रीगणेशाय नमः॥
शिवादीनपि कर्माणि कारयन्ती जनानिव ।
मायाऽवलम्ब्यते सेयमम्बा श्रीशिवसुन्दरी ॥
॥ मासावतरणिका ॥
विविधभूमिरुहप्रसवोद्भवे
दिशि दिशि प्रसरत्यपि सौरभे।
विकसितं न लेता भजते मघौ
क इव वेत्तुमलं वनितान्तरम् ॥
उद्भट श्लोकाः।
अकारणमुखग्लानि : कठिनत्वं विलासति ।
उन्नतिः परपीडायै नीचस्येव कुचस्य च ॥
यदि भवेत्करुणा मयि पामरे
तदिह ते करुणा परिगीयते ।
चरणपअनिषेविणि सेवके
न करुणा करुणा करुणाम्बुधेः ॥
गन्तुं यदि व्यवसितासि घनान्धकारे
नीलाम्बरेण तनुमावृणु मुग्धशीले ।
विद्युल्लता पथि यदि प्रतिरोधिनी स्या-
दपाहतैव कनकद्रवगौरि गच्छे ः ॥
१ भावे क्तः । २ सुमना मालती जातिर्वासन्ती माधवी लता। स्था चैत्रे चीत्रको
मधुरिति चामरः ।

संस्कृतचन्द्रिका। पण्डितराजः श्रीजगन्नाथः। (पूर्वतोऽनुवृत्तः ।। प्रतिपादितप्रायमेवास्माभिः पण्डितराजश्रीजगन्नाथरायस्य चरितादिक सिद्धान्तितोऽस्यावस्थितिसमयो निर्णीतं च तद्विषयिणीनां लोकवार्तानां सत्यत्वासत्यत्वादिकम् । अथैतत्कृतानां प्रबन्धानां सुधासमधिकं रसं पाठ- कानास्वादयितुमिच्छाम : । तत्र तत्र च तत्तद्विषयाणां युक्तत्वायुक्तत्वादिकं यथोचितं विचारयिष्यामो निर्देश्यामश्च केषु केषु शास्त्रेष्वस्यातिमात्रं प्रावीण्यं समुहमास इति । तत्र तावत्पण्डितरायप्रणीता : प्रबन्धा जगदाभरणं प्राणाभरणं पीयूषलहरी सुधालहरीकरुणालहर्यमृतलहरी लक्ष्मीलहरी चेति पञ्चलहों रसगङ्गाधरो मनोरमाकुचमर्दनं भामिनीविलास आसफविलास श्चित्रमीमांसाखण्डनं यमुनावर्णनचम्पूश्चेत्येवं त्रयोदश । १ प्राणाभरणम्--पद्यमयोयं ग्रन्थ : । अत्र च प्राणनारायणाख्य- स्यश्रीकामरूपदेशाधिपतेः प्रशंसा समुल्लसति । काव्ये चात्र तेनैव निर्मिता काचन टिप्पन्यप्यस्ति यया तत्तत्पद्यगता अलङ्कारध्वन्यादय : सम्यगव- बोर्बु शक्यन्ते विज्ञायते च श्रीमतः पण्डितरायजगन्नाथस्याद्वितीयं कवित्वम् । अत्र च प्रथमपद्ये- विद्वांसो वसुधातले परवच श्लाघासु वाचंयमा भूपालाः कमलाविलासमदिरोन्मीलन्मदापूर्णिताः। आस्ये धास्यति कस्य लास्यमधुना धन्यस्य कामालस- स्वर्वामाधरमाधुरीमधरयन्वाचां विलासो मम ॥ इत्यनन्यसामान्यमधुरिममण्डिताया आत्मनो वाचो रसास्वादे पटुतमस्य •. पण्डितराज: श्रीजगन्नाथः। २६७ विद्राणैव गुणज्ञता समुदितो भूयानसूयाभर कालोयं कलिराजगाम जगतीलावण्यकुक्षिम्भरिः। एवं भावनया मदीयकविते मौनं किमालम्बसे जागर्तु क्षितिमण्डले चिरमिह श्रीकामरूपेश्वरः ॥ इत्यात्मन: कविता समाश्वास्यते । एतेन च पद्येन जगतीतले काम- रुपेश्वरस्यासाधारणं गुणज्ञत्वं पण्डितराजकवितारसास्वादलोलुपत्वं तेन च जगन्नाथस्य तदाश्रितत्वं स्फुटीभवति । इदमेव च प्रायेण जगन्नाथस्यादिमं काव्यमिति तयितुं शक्यते । यदत्र क्षितितले विद्वांसः सन्तीत्यङ्गीकृतं पण्डितरायेण न पुनस्तृणीकृतं नि : शेषमपि विश्वं यथा दिगन्ते श्रूयन्तइत्या- दिभिः पद्यैः । क्रमशो ह्यधिगताशेषविद्यावैशारद्यः सर्वानपि पण्डितानकि- ञ्चिज्ज्ञान्मेने जगन्नाथ इत्येव युक्तिसहं वचनम् । माहात्म्यस्य परोऽवधिनिजगृहं गम्भीरतायाःपिता रत्नानामहमेक एव भुवने को वाऽपरो मादृशः । इत्येवं परिचिन्त्य मास्म सहसा गर्वान्धकारंगमो। दुग्धाब्धे भवता समो विजयते श्रीप्राणनारायणः । एतेन च कामरूपेश्वरस्य श्रीप्राणनारायण इत्यभिधानं स्फुटीभवति । प्रतीपालङ्कारघटितश्चायं मनोहर : श्लोकः । केचित्विममुपमाविशेषमपरे चातिरिक्तमेवालङ्कारं मन्यन्त इति प्रोक्तं जगन्नाथेन व्याख्यायाम् । अत्रत्येन चैकेन पद्येन श्रीजगन्नाथावसरे पट्टिशयुद्धप्रचारो विशेषत आसीदिति प्रतीयते यथा- भुजभ्रमितपहिशोदलितहप्तदन्तावलं भवन्तमरिमण्डलथन पश्यतः सङ्गरे करालकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो न कस्य हृदये झटित्यधिरुरोह जम्माहितः ॥ इति॥ अत्र स्मरणालङ्कारोऽनुगुणारचना च निकाममाङ्लादयति मनः सहृदया- नाम् । एतत्काव्यगतेनोपान्त्यपद्येन च किमपीतिवृत्तं विशदीभवति ।

२६८ संस्कृतचन्द्रिका। तथाहि । कामरूपेश्वर : प्राणनारायणमहीपाल : कविरासीत् तस्य च कविता जगन्नाथरायस्य नयनगोचरतामापन्नास्ताश्चावलोक्य प्रसन्नात्मा जगन्नाथः क्षितिपतिं वर्णयामासेति । एतेनैव च पद्येन जगन्नाथस्यात्मनो वैदुप्यंप्रति महीयानहङ्कार : प्रस्फुट एवावगम्यते । तच्च पद्यम्-- तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयालालित : श्रीमत्परमभट्टसूनुरनिशं विद्वल्ललाटन्तपः । सन्तुष्ट : कमताधिपस्यकवितामाकर्ण्य तवर्णन श्रीमत्पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम्॥ एतेनैव च पधेनास्माभिः प्रकाशितपूर्वाया : पडितराजविषयिण्या दिल्लीश्वरो वा जगदीश्वरो वेति पद्यमूलिकाया आख्यायिकाया : सम्भवो मन्थरतरत्वमुपयाति । यदि हि जगन्नाथो दिल्लीश्वरादन्यान्नृपालानवमन्यते स्मेति स्वीक्रियेत तदा कामरूपेश्वरस्य श्रीप्राणनारायणस्य तेनैव विहित- मिदं वर्णनमननुरूपभावमावक्ष्यति । प्रतीमश्चामुना पद्येन दिल्लीवल्लभाश्र- यणोत्तरमेव श्रीमता जगन्नाथेनैतत्काव्यं प्रणीतमिति यतोऽत्र पण्डितराज इति तेनात्मा विशेषित : पण्डितराजपदं च तेन दिल्लीश्वराच्छहाजहानभूपा- लादेवाधिगतमिति च प्रादशि सप्रमाणमेवास्माभिः प्राक् । अतो दिल्लीपति- माश्रितवताऽपि जगन्नाथेन गुणकपक्षपातिनो हिन्दुभूपाला नैवावामन्यन्तेति प्रतिपत्तव्यम् । दिल्लीपतिसमाश्रयणोत्तरमेवास्यप्रणीततया च नेदमादिम काव्यमिति च प्रतीयते । ततश्च दिल्लीश्वराश्रयणात्प्राक्प्राणनारायणमही- पालमेवावललम्बे जगन्नाथ इति केषाञ्चिद्वचनं निर्मूलमिव प्रतिभाति । काव्यं चैतत्रिपञ्चाशता पद्यैः समाप्तिमापन्नम् । अतश्च काव्याज्जग- न्नाथस्यालङ्कृतिशास्त्रपारङ्गमत्वं सुविशदीभवति । २ अमृतलहरी--एकादशपद्यात्मकं काव्यमेतत् । अस्य चेदमादिम पद्यम पण्डितराजः श्रीजगन्नाथः। मात: पातकपातकारिणि तव प्रातः प्रयातस्तट यः कालिन्दिमहेन्द्रनीलपटलस्निग्धां तनुं वीक्षते। तस्यारोहति किं न धन्यजनुष : स्वान्तं नितान्तोल्लस- नीलाम्भोधरवृन्दवन्दितरुचिर्देवो रमावल्लभः ॥ इति अत्र चान्तिमे पद्ये अयं पण्डितराजेन श्रीजगन्नाथशर्मणा । स्तव : कलिन्दकन्याया निर्मलो निरमीयतेति तेनात्मन : पण्डितराज इति शहाजहानाख्ययवनभूपाल्लब्ध उपाधिरुपन्यस्तस्ततश्च दिल्लीश्वराश्रयणोत्तर- मेवायमपि स्तवो व्यरचीति प्रतीयते । एतेन च स्तवेनैत्तत्प्रणयनावसरे जगन्नाथचेतसो राजसेवाया उद्वेगोनुमीयते । अत्र हि तृतीयपये-- दानान्धीकृतगन्धसिन्धुरघटागण्डप्रणालीमिल- भृङ्गालीमुखरीकृताय नृपतिद्वाराय बद्धोअलिः। त्वत्तोरे फलमूलशालिनि मम श्लाघ्यामुरीकुर्वतो वृत्तिं हन्त मुनेः प्रयान्तु यमुने वीतज्वरा वासराः ॥ इति राजसेवाया अनभीष्टत्वं घोतितमेतेन । भगवत्यां गङ्गायां श्रीमतो जगन्नाथरायस्य विशिष्टा प्रीतिरिति तु यदुच्यते कैश्चित्तन्न हृदयङ्गममिति चैतदादिस्तवावलोकनेन सुदृढीभवति बुद्धिः । यथाहि गङ्गालहयां कृतं प्रायश्चितैरलमथ तपोदानविभरित्यादि भगवत्या भागीरथ्याः पापापनो- दनपटुत्वम्प्रत्यपादि तथैवात्रापि दृश्यते । यथा सप्तमपद्ये स्वर्णस्तेयपरानपेयरसिकान्पाथाकणास्ते यदि ब्रमन्नान्गुरुतल्पगानपि परित्रातुं गृहीतताः । प्रायश्चित्तकुलैरलं तदधुना मातः परेताधिष- प्रौढाहकृतिहारिहुतिमुचामने तव स्रोतसाम् ॥ इति ॥ ३ सुधालहरी-आदित्यस्तवात्मकमेतत्काव्यमस्य च त्रिंशत्पद्यानि । एतदवलोकनेन जगन्नाथपण्डितरायस्यान्यादृशोऽसामान्यः कविभावः स्फुटी- भवति । अन्येषु काव्येष्विवात्र न माधुर्यगुणप्रायैव रचना । यद्यपि चात्रपरि- स्फरति भयिष्ठमोजस्तथापि पदेषु नार्थग्रहणाय हठात्कारोत्रांशतोऽपि व्यधाथि

२७०
संस्कृतचन्द्रिका।
पण्डितरानेन । किञ्चात्रार्थालङ्कारे प्विव शब्दालङ्कोरऽनुप्रासे भूयसी दृश्यते
ऽनुकम्पा जगन्नाथरायस्य । वर्णनानि च कानिचित्रत्यान्यतिमात्रमनोरमाणि।
अयं चाम्य काव्यस्यादिमः श्लोको यत मालया हेत्वलङ्कार उपन्निबद्धो
निकाममावहति सौभाग्यम् । यथा---
उल्लास: फुलपतेरहपटलपतन्मत्तपुष्पन्धयानां
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् ।
उत्पातस्तामसानामुपहतमहलां चक्षुषां पक्षपात:
सङ्घातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥ इति ॥
पद्मरागारक्तरोचिषां च प्राभातिकानामहस्करकिरणानामुपर्वर्णनमेतदृश्यतां
रासकै
आलेपा हिगुलानामिव धरणिभुजामच्छसौधानमौलि-
वनेषु क्षमारुहाणामभिनवविलसत्पल्लवोल्लासलीलाः।
प्रौढप्रालेयपुञ्जोपरि चितखदिराङ्गारभाराइचारा-
त्पारावारात्प्रयान्तो दिनकरकिरणा मङ्गलं नः कृषीरन् ॥ इति ॥
यद्यप्यनुप्रासवाहुल्यमत्रानुपदमेव प्रत्यक्षीभवति तथापि विशेषत:
प्रादुर्भूतं तत्केपुचित्पद्येषु । तेषु च पद्यमेकमुपहारामो रसिकेभ्यः । यथा---
गीर्वाणग्रामणीभिर्गगनतलगतैर्गीर्भिरुद्गीथगाभि-
गन्धर्वैश्चापि गीता गुणगणगरिमोद्गारिगाथासहस्त्रैः।
गाहं गाहं गृहालीरगतिकगदिनां गन्धयन्तो गदाति
ग्लानिनामं असन्तां प्रहरुचिगुरवो गोपतेगोविलासाः ॥इति॥
(क्रमश:)
१ उद्गीथं सामवेदस्य कश्चन भाग : २ गन्धयन्तो नाशयन्तः ३ गोपति ः सूर्य :

वत्सरान्ते विज्ञप्तिः। वत्सरान्ते विज्ञप्तिः। .. । अयि भो प्रियमहाभागाः संस्कृतचन्द्रिकावाचकाः अवसितः खल्वयमनया संख्यया भगवत : श्रीचन्द्रचूडस्य श्रीमतां भवतां चासाधारणया ऽनुक- म्पया चन्द्रिकायाः षष्ट : खण्ड: । नूनमेतदतिमात्रं कष्टं कर्म यन्नाम प्रतिमासमेवंविधाया : पत्रिकाया नियतकालं प्रकाशनम् । तत्र च विना- वाचकमहाशयानुग्रहं नैव कमैवंविधं निरन्तरायं प्रचलतीति नैव व्यस्मराम न विस्मरामो नापि विस्मरिप्याम: । किन्तु कर्मण्यन दयावद्भिः सहृदयै- र्वाचकमहाशयैरपि नैवोदासितव्यमित्यपि प्रार्थयामः । अत्र च कोल्हापुर प्रकाश्यमानायाश्चन्द्रिकाया पूरितमिदानीं वत्सरद्वयम् । तत्र च भूयसां महाभागानां नैष्कारुण्यं चन्द्रिकां विघातयितुं प्रावर्तत । एतच्च नैष्कारुण्यं पैशुन्यापरपर्यायमेव यन्न सहृदयः कश्चिदपि स्वीकुर्यात् । निवेदितमेव गतवत्सरावसाने ऽस्माभिर्यद्वत्सरारम्भादेकादशसंख्यास्तूष्णीं स्वीकृत्य मू- ल्यार्थं व्ही. पी. द्वारा प्रेरितां प्रतिन्यवर्तयन्केचन महोदारा इत्यहो पराकाष्ठा सौजन्यस्य । प्रियमहाभागाः विचार्यतां तावन्निपुणं यदि नामवं. विधैवासाधारणा करुणा भूयसां मनांस्यलङ्कुर्यात्तदा कथं नाम निरात्राधमेव चन्द्रिका प्रचारयितुं शक्येत । तथापि स्वीकृत्यापि महीयसी हानि नोज्झित्वा च धैर्य वत्सरेऽत्र चन्द्रिका प्राचारयाम । गतवार्षिकं च तत्तेषां महोदाराणां चरितं नास्मन्मनस्यतिमात्रमाश्चर्यं जनयामास । तत्र हि वत्सरे विनाप्यनुज्ञां केषांचिद्रसिकतया प्रतीतानां सकाशे चन्द्रिका प्रेरयामेति । तथापि आदार्थ प्रेरितायां पत्रिकायां यदि नैषा रोचेत तदा प्रतिनिवर्त्य- तामियमेव संख्या अन्यथा श्रीमतामप्रतिषेधात्मिकामनुमतिं मन्वाना वयं ग्राहकश्रेण्यां श्रीमतां नाम निवेशयिष्याम इति न्यवेदयाम ।

संस्कृतचन्द्रिका। दुर्भाग्यं वराक्याश्चन्द्रिकायाः । अत्र च संवत्सरे प्रथमतोऽस्माभिर्मूल्यप्रार्थना- पत्राणि प्राहीयन्त ततोऽप्यननुगृहीतायां ग्राहकमहाभागैश्चन्द्रिकायां तदनुग्रहमन्तरा च दुष्प्रचारामेतामवलोक्यानन्यगत्या व्ही. पी. द्वारैतस्या : प्रेषयाम संख्यां दशमीम् । तथापि बत नैवानुगृहीताः स्मः कैश्चित् । प्रतिनिवर्तिता हि कैश्चिन्महाशयैः संख्याः । तेषां च नामानि यथावसरं प्रकाशयिष्यामः । भवतु नमस्तेभ्यो महोदात्तचरितेभ्यो यैरात्मनः स्वरूप- माविष्कुर्वद्भिर्यशसोऽपि द्रव्यमेव बहुमन्वानैश्च प्रतारकस्वभावमवबोधिताः स्मः। प्रियमहाभागाः गतवत्सरे खल्वेषा चन्द्रिका प्रदत्तावलम्बना वङ्गदेशीय- प्रधानविद्याधिकरणिकेन । किन्तु निरुति नश्चेतस्तद्वृत्तं कथयितुं यदतीत- प्रायेऽपि वत्सरद्वये न चन्द्रिकामूल्यमस्मत्करतलमापतितम् । तेन च महा- भागेन शतंचन्द्रिकाः प्रतिमासं प्रहेतुमन्वज्ञायि । तत्र च षष्टिः प्रतिपाठशाल- मेकैकेति प्रेषणीयेति चाज्ञप्तं तेन । तथा च प्रेरितायामप्यस्यां दैवदुर्वि- पाकाद्वाभवितव्यतयैव वैवंविधस्य वृत्तस्य सौजन्यातिशयाद्वाऽध्यापकमहाश- यानां नाधिगतानि बहूनां शिक्षकमहाशयानां चन्द्रिकाप्राप्तिपत्राण्यस्माभिः । प्रतिमासं सम्यद्विधा निधा च परीक्ष्य प्रेरितास्वपि संख्यासु वत्सरान्ते कैश्चित्संख्यामेकामारभ्य संख्यादशकं यावन्नाधिगतास्माभिश्चन्द्रिकेति प्रेरि- तानि पत्राणि । न जानीमः सर्वेभ्योऽपि समकालमेव प्रेरितायामेतस्यां कथमेषा कैश्चिदेवाधिगन्तव्या न तु सर्वैरिति कथं च पत्राणि सर्वैरप्यधि- गम्यन्त इत्यपि नैव शक्यते ज्ञातुम् । नूनं कर्मण्यत्र यावांश्चन्द्रिका रणव्ययस्तावानेव पत्रप्रेरणव्ययः संवृत्तोऽस्माकम् । एवं विधेन च व्यापारेण कामपि हानिमुपादत्ते सम्प्रति चन्द्रिका । अन्ते च यद्र्व्यं विद्याधिकरणिकेन दातुं प्रत्यश्रावि नैव तदद्यापि चन्द्रिकायां कृपामृतं वर्षतीत्यहो भाग्य चन्द्रिकायाः । वल्मोऽत्र चन्द्रिका प्रचारयितं विशेषत: प्रायत्यतास्माभिः वङ्गदेशी- - वत्सरान्ते विज्ञप्ति प्राहैप्म तेषां चाचरितेनासीदस्माकं प्रत्याशा यदचिरादेव सावलम्बनतामारो- क्ष्यति वराक्येषेति किन्तु नाद्यापि सा सफलीभूता प्रत्याशा । एवमस्या : साहाय्यार्थं काश्मीरजयपूरमैसूरुत्रिवेन्द्रमत्रावणकोराद्यधीश्वराः प्रार्थ्यन्त । आवदिताश्च श्रीमत्परमहंसपरिव्राजकाचार्याद्यनेकविरुदावलिभ्राजमानाः शृंगेरिमठाधिष्ठिताः श्रीजगद्गुरुपूज्यपादाः । किन्तु बलवती भवितव्यता नाद्यापि विमुञ्चत्येताम् । अत्र चैतन्नांशतोऽपि विस्मर्तुं योग्यं यद्वत्सरेऽस्मिन्संशयितप्रायजीविता चन्द्रिकाऽस्माकं प्रियवयस्येन महोद्यमेन कल्याणभाजनेन झांशीनिवासिना श्रीमहावीरप्रसाद द्विवेदिमहाशयेनैव प्रत्युदजीविति। अहो एतस्य महाभाग- स्याकारणबन्धुत्वमस्मासु । एतत्कृतां चोपकृतिमाजीवितं नैव विस्मरिष्यामः। अथेदानीमेतन्निवेद्यते यत्केवलमस्यास्तपस्विन्याश्चन्द्रिकाया वाचकानुग्रह- मात्रनिबन्धनं जीवितमिति तैरेवेयं यावच्छक्यं समवलम्बनीया । गतवत्स- रापेक्षया च वत्सरेऽस्मिस्तेषामस्यामनुग्रह ः सुखाकरोति न श्वेतः । एतां च प्रतिदिनमधिकाधिकमभ्युदयमारोपयितुं प्रयतेरन्वाचकमहाशया इति बली- यसी न : प्रत्याशा । अथ यदि एकैकेन वाचकेन नव्य एकैको वाचक : सम्पायेत तदापिनिरन्तरायमेवैषा प्रचलेदित्यत्र नास्त्यस्माकमंशतोऽपि सन्देहः । तद्विज्ञाप्यते विधीयतां यथोचितमिति । .. वर्षेऽस्मिन्मुद्रालयपरिवृत्यादिना नानाविधेन प्रतिबन्धकेन चद्रिकां यथा- वसरं प्रेरयितुं न प्राभाव्यस्माभिरिति दुःखितं लज्जितं नश्चेत : । आशास्महे पुनरचिरादेवेयं यथावसरं प्रकाशयितुं शक्यतेति । अन्येषां यन्त्रालये मुद्य- माणा चेयं कदा वा यथावसरं प्रकायितुं शक्यतेति यद्यपि सुनिश्चितं नशक्यमभिधातुं तथापि प्रयतामहे वयं तथा कर्तुम् । सति प्रसङ्गे मुद्रायन्त्रान्तरे संख्यामेकां पृथक् प्रकाश्य प्रवर्तमानां वाचकमहाशयानां ** UITATI NI काव्यकाद- .. संस्कृतचन्द्रिका। आगामिनि च वत्सरे प्रतिमासं कश्चन दार्शनिक : प्रबन्धो द्वितीये तृतीये चावरणपृष्ठे देशेतिवृत्तानि प्रकाश्येरन् । अन्ये च भूयास उपयुक्ताः प्रबन्धाः प्रकाश्येरनिति च निवेद्यते । अस्मिन्वर्षे वङ्गदेशात्प्रकाशमानो विद्योदय : केरलविभागे प्रतिमासं त्रि प्रादुर्भवन्विज्ञानचिन्तामणिर्वाल्हेरनगरात्प्रकाश्यमाने च म्बिनीविद्वत्कलाख्ये पत्रिके इति संस्कृतपत्राण्युपस्थितान्यानन्दय- न्त्येकान्ततो नश्चेत : एतानि च चिरायालङ्कुर्वन्तु भारतं वर्षमिति भगवन्तं शशाङ्कशेखरमभ्यर्थयामः । अथ चन्द्रिकायां प्रकाशयितुं ये केचन महाभागा : प्रबन्धादिकं प्रेरये- युस्तै : स्वीया मनोहरा : प्रबन्धा : समग्रा एव प्रेर्या :: असमग्रास्तु प्रकाश- यितुमशक्या एव । तेषां चाप्रकाशने प्रधानं कारणमसमग्रत्वमेवेति चाव- बोद्धव्यम्। अवसित : खल्वयं वत्सरस्तदत : परं यैर्नानुग्रहीतुमिप्यते संस्कृतचन्द्रिका तैः संख्यामेतां प्राप्यवासौ प्रत्याख्येया। न पुनही.पी.परा- वर्तयतां सरणिरनुसरणीया । अनुचिततमो ह्ययं पन्था यविश्वास्य प्रता- येते विस्त्रब्धः। यदि तु न प्रत्याख्यानपत्राणि प्रेयरंस्तदा सर्वानपि ग्राहकानाकलयिष्यामः। यैस्तु प्रतारिता : स्मस्तेषां दमनाय राजनियमोऽनन्यगत्याचिरादेवावल- इति शिवम् । •• म्बिप्यते। साकारोपासना। (पूर्वतोऽनुवृत्ता) यथाहि क्षितिकुहरे निश्चितनिहितनिधानमिन्द्रियागोचरत्वादेव नास्माकं व्यावहारिकसुखसम्पत्यै प्रभवति तथेश्वरोपि निराकार : सदासन्निहितोऽपि साकारोपासना। विचार्यतां तावन्मनसि श्रद्धया स्नेहेन भक्तया च लब्धव्यं वस्तु नान्येनोपायेन लब्धुं शक्यते गन्धग्रहणे नासिकैव पटीयसी न तु सहस्रं पद्मचक्षुरपि पातालमूले स्थितं वस्तु गिरिशिखरे न लभ्यते दक्षिणसागरे- वृत्तं वस्तु निरन्तरमुत्तरस्यां युगसहस्रमनुसन्दधानेनापि न लब्धुं शक्यते जलेन निर्वाह्य कर्मानलेन तेन च निर्वाह्यं जलेन नैव निष्पद्यते । अपि च यद्वस्तुलाभे यादृशी प्रक्रिया यादृशं स्थानं यथाविध : कालश्चापेक्ष्यते तदन्यया प्रक्रियया स्थानेन कालेन च तल्लामः कथमपि नैव सम्भवेत् । विचार्यमेतन्मनसि--सर्वस्मिन्नेव गोशरीरे क्षीरं सञ्चरति किन्तु हस्ताभ्यां स्तनस्याकर्षणादेव न तु च्छेदात् स्तनादेव न तु जिह्वादितो यथासमयमेव नत्वकालत : क्षीरं प्रस्नौति तद्वत् भक्तया श्रद्धया प्रेम्णा विश्वासेन शास्त्रोक्तपूजनादिना च यदुपपद्यते कार्य न तदन्यया युगसहस्त्रक्रिययापि तत्सम्पद्यन्ते । अत एव निराकारस्य शब्दस्य कल्पितवर्णवत् कल्पिताभिः शिवदुर्गा- प्रभृतिभिर्मतिभिर्मनसि प्रसन्ने शास्त्रोक्तस्थानं भक्तिश्रद्धाप्रेमादिभिश्च शास्त्रोक्तैरेवेश्वराराधनेनतत्साक्षात्कार : शक्यते लब्धुम् । ईश्वरो हि सर्वेषां जानाति मन : प्रवृतिं च बुध्यते सर्वज्ञः । अत: केवलं मुखत एव स्तोत्रपाठेन ललाटे च कृत तिलकेन सर्वाङ्गे च समूढ- रुद्राक्षभारेण भूरिणा च नैवेद्येन सदीर्घश्वासं नारायण नारायण शिवशिव दीननाथ इत्यायुक्तेन च न प्रतारणीयोऽसौ धूर्तभक्तैः । न वा सप्ताहमध्ये रविदिवसे केशविन्यासादिना विजातीयवेशेन च सज्जीभवन्तः पट् किड् मिडिति शब्दायमाने च चर्मपाके परिधत उचैरासन्दीषु दीर्घवर्तुलखट्टि- कामु चोपविशन्तो मन्दुरास्तृतसर्वत : कुट्टिमेषु उपासनागृहेषु प्रविशन्त एव मुद्रितचक्षुषो ब्रह्मवादिन : हे नाथ दीनबन्धो त्वं निरञ्जनस्त्वं हि सहस्रसूर्यवत्पुरो विराजसि किन्तु ज्ञानिभिर्नास्माभिरवलोक्यस इत्यादि preme संस्कृतचन्द्रिका। न त्वां विना क्षणमप्यन्यं जानीमो नान्यं स्नेहयामो नान्यं श्रद्दधीमो नान्यं न : शरणं तुभ्यमेवात्मानमुत्सृज्यामह इत्यादि विश्वस्ततया तमीश्वरं ज्ञाप. यितुं शक्नुम इति । अपि च यः खल्वीश्वर : स्वशक्तयाऽऽत्मानमुत्तुङ्गं पर्वतमपारसागरं परमाण्वादश्चिासृजत् स पुनर्भक्तचाराध्य ः स्वाभीष्ट : शिवो दुर्गा राम : कृष्णश्च भूत्वा नास्माकं पुर उपस्थातुं शक्नोतीति न श्रद्धेयं वच :। यदि पुनस्तथा न शक्नुयात्तर्हि कथं तं सर्वकर्तारं सर्वशं सर्वान्तर्यामिणं वा मन्येमहि किमिति वा भक्तानुग्रहकातर इति तं पूजयेम । अपि चास्माकमिन्द्रियाणामयमेव धर्मो यद्विना हि स्थूलमालम्बनं सूक्ष्म प्रत्यक्षीकर्तुं नाह्यते । यथाऽनाकृते : शब्दस्य स्थूलानां कण्ठताल्वादीनां साहाय्येनैत्र श्रवणप्रत्यक्षं जायते । तथा रूपस्यापि न स्वातन्त्र्येणोपलब्ध- व्याऽऽकृतिर्वतते किन्तु घटादिस्थूलवस्त्वालम्बनादेव शुक्लपीतनीललोहिता- दयो वर्णा नयनगोचरीभवितुमर्हन्ति । यदि वयं जलीयकीटाणुं द्रष्टुमि- च्छामस्तार्ह तच्चर्मचक्षुषा न साधयाम : किन्त्वणुवीक्षणयन्त्रसाहाय्यमपे- क्ष्यते । तथा अलोकसाधारणं मनोनयनकमनीयं देवविग्रहं पुर : संस्थाप्य शास्त्रानुमोदितयानवविधया* भक्तया संशुद्धचेतसः साकारं तमीश्वरं प्रत्यक्षीकृत्य विदित्वा च नित्यशुद्धबुद्धमुक्तस्वभावं सच्चिदखण्डानन्दमतिमृत्यु लभेमहि प्रशान्तमनसो वयमिति । स्वकपोलकल्पितया मनोगठितया अशास्त्रीयभक्तया पुनरतीवानर्थः सम्पद्यते नित्यमुखं तु सुदूरत : पराहन्यते । तथा च स्मयते श्रुतिस्मृतिपुराणानि पञ्चरात्राणि हापयन् । अत्युत्कटा हरेभक्तिरनायैव कल्प्यते ॥ इति ॥ शिवम् श्रीशिवराजविजय: २७७ अप०-[ खयं हसन् सर्वानपि हसत : पश्यन् ] सत्यं सत्यं धन्यो भवान्योऽस्पेनैव वयसा एवं विदेशभ्रमणैश्चातुरी कलयति । तान०--धन्य एव यदि युष्मादृशैरभिनन्छ । अप०-[क्षणानन्तरम् ] अथ भवान्मूर्छनाप्रधानं गायति तानप्रधानं वा। तान-~-ईदृक्ष तादृशं च । अप०--[ क्षणानन्तरम् ] अस्तु आलप्यतां कश्चिद्रागः । तान [किञ्चिद्विचार्य ] आज्ञा चेदेकां रागमालागीतिं गायामि यत्र प्रत्याभोगं नवीन एव रागो भवेदेकेनैव च ध्रुवेण सङ्गच्छेत तत्तद्रा- गनामानि च तत्रैव प्राप्येरन् । अप०--आ : किमेवम् । ईदृशं तु गानं न प्रायः श्रूयते तद्गीयताम् । ततस्तानपूरिकायाः स्वरान्संमेल्य पातितवामजानुस्तानपूरिकातुम्ब क्रोडे निधाय दक्षपादस्योत्थितजानुनि च दक्षहस्तकर्परस्थापनपुरः सरं तेनैव हस्तेन तर्जन्यङ्गुल्या तानपरिकां रणयन् स्वकण्ठेनापि त्रीन् अामान् सप्त- स्वरांश्च समधात् । तन्मात्रश्रवणेनैव मुग्धेष्विवाखिलेषु *रागमाला- गतिमगायत् । सखि हे नन्दतनय आगच्छति ॥ सखि ॥ मन्दं मन्दं मुरलीरणनैः समधिकसुखं प्रयच्छति । भैरवरूप : पापिजनानां सतां सुखकरो देवः । कलित ललितमालतीमालिक: सुरवर वाञ्छितसेवः। सारङ्गै सारजसुन्दरोग्भिर्निपीयमान । : : : ** यस्यां प्रतिचरणं रागभेदो भवति रागनामानि च शेषमुद्रया तत्रतत्रोपलभ्यन्ते सा रागमालेत्युच्यते ।

२७८ .. ++ संस्कृतचन्द्रिका। चपलाचपलचमत्कृतिवसनो विहितमनोहरगानः। श्रीवत्सेन लाञ्छितो हृदये श्रील: श्रीद : श्रीश:। सर्वश्रीभिर्युत : श्रीपति श्रीमोहनो गवीशः। गौरीपतिना सदा भावितो बहिणबहकिरीट:। कनककशिपुकदनो दलिमथनो विहतदशाननकीट: ॥ अथैतावदेव श्रुत्वातितरां प्रसन्नेषु पारिषदेषु ससाधुवादं वितीर्ण- कङ्कणे चापजलखाने तानरङ्गोऽपि सप्रसादं तानपूरिकां भूमौ संस्थाप्या- पजलखानस्य गुणग्राहितां प्रशशंस । अथापजलखान उवाच । कथ्यतामस्मिन्प्रान्ते भवादृशानां गुणग्राहका: के सन्ति के वा कवितायाः संगीतस्य च मर्मावगच्छन्तीति । ततस्तानरको ऽचकथत् को नामापर : शिववीरात् स एव राजनीतौ निष्णातः । स एव सैन्धवारोहविद्यासिन्धु: । स एव चन्द्रहासचालने चतुरः । स एव मल्लविद्यामर्मज्ञ: । स एव पण्डितमण्डलमण्डन ः। स एव बाणविद्यावारिधिः । स एव धैर्यधारिधौरेयः । स एव वीरवारवरः। स एव पुरुषपौरुष- परीक्षक : स एव दीनदुःखदावदहन : । स एव स्वधर्मरक्षणसक्षण: । स एव विलक्षणविचक्षण : । स एव च मादृशगुणिगणगुणग्रहणाग्रह्यस्तीति । अथापजलखाने तत्कि शिव एष एवं गुणिगणविशिष्टोऽस्ति । एवं वा वीरवरो- ऽस्तीति सचकितं सभयं सतर्क सरोमोद्गमं च कथयति किञ्चिद्विचार्येव नीतिकौशलपुर :सरं तानरङ्गः पुनरवादीद्भगवन् सामान्यराजभृत्यस्य पुत्र : शिववीरो यदि नाम नाभविष्यत्स्वयमादृश ऊर्जस्वलस्तत्कथं स्वर्ण- देशसदृशं सहचरं प्राप्स्यत् । कथं तद्वारा समस्तं कल्याणप्रदेशं कल्याण- दुर्गच स्वहस्तगतमकरिष्यत् । कथं तोरणदुर्गभोगभाजनतामकलयिष्यत् । कथं तोरणदुर्गादक्षिणपूर्वस्यां पर्वतस्य शिखरे महेन्द्रमन्दिरखण्डमिव धर्षि- श्रीशिवराजविजय: । तारिवर्ग डमरुहुडुक्कारतोषितभर्गं रायगढनामकं महाग व्यरचयिष्यत् । कथं वा तपनीयभित्तिकाजटितमहारत्नकिरणावलीवितन्यमानमहावितान- विततिविरोचितं प्रतापतापितपरिपन्थिनिवहं चन्द्रचुम्बनचतुरचारुशिखर- निकरं भुशुण्डिकाकिणाङ्कितप्रचण्डरक्षककुलविधीयमानपर :सहस्रपरिक्रम धमद्धमद्दोधूयमानानेकध्वजपटलनिर्मथितमहाकाशं प्रतापदुर्ग निरमापयि- प्यत् । कथं वागत एव शिववीर इति भ्रमेणापि सम्भाव्यास्य विरोधिषु केचन मूच्छिता निपतन्ति । अन्ये विस्मृतशस्त्रास्त्रा : पलायन्ते । इतरे महानासाकुञ्चितोदरा विशिथिलवाससो नग्ना भवन्ति । अपरे च शुष्क- मुखा दशनेषु तृणं सन्धाय साम्रडं प्रणिपातपरम्परा रचयन्तो जीवन याचन्त इति । ततस्तस्य प्रतापमवगत्य किञ्चिदरुणनयन इव दक्षिणहस्ताङ्गुष्ठत- र्जनीभ्यां श्मश्र्वग्रं परिमृजति यवनसेनापतौ तानरङ्ग : पुनर्यवेदयत्परन्त्वद्य सिंहेन सह शिवस्य साम्मुख्यमस्ति तन्मन्य इयमस्तमनवेला तत्प्रतापसू- यस्येति । तत्कणे कृत्वा सन्तुष्ट इव सकन्धरकम्पं सेनापतिरुवाचाथान संग्रामे कस्य विजय : संभाव्यत इति । स उवाच श्रीमन्यदि शिवस्य साहाय्यं साक्षाच्छिव एव न कुर्यात्तद्विजयपुरस्यैव विजय इति । अथ सहासं सोऽब्रवीत्कोनाम खपुष्पायित : शशशृङ्गायित : कमठीस्तन्यायित : सरीसृपश्रवणायितो भेकरसनायितो वन्ध्यापुत्रायितश्च शिवोऽस्ति य एनं रक्षिष्यति । दृश्यतां श्व एवैषोऽस्माभिः पाशैर्बद्ध्वा चपेटैस्ताडयमानो विजयपुरं नियत इति । सकष्टमाकर्ण्य स्यादेवं भगवन्निति कथयति तान- रङ्गेऽभिमानपरवश : स स्वसहचरान्सम्बोध्य पुनरादिशो भो योद्धार : सूर्योदयात्प्रागेव भवन्तः पञ्चापि सहस्त्राणि सादीनां दशापि च सहस्त्राणि पत्तीनां सज्जीकृत्य युद्धाय तिष्ठत । गोपीनाथपण्डितद्वाराहूतोऽस्ति मया शिववराकस्तद्यदि विश्वस्य स समागच्छेत्ततस्तु बद्ध्वा जीवन्तं नेप्यामोऽन्यथा तु सदुर्गमेनं धूलीकरिष्याम इति ।

२८० संस्कृतचन्द्रिका। तदवधार्य समस्तककूर्चान्दोलनं यदाज्ञाप्यते यदाज्ञाप्यत इति वाचा धारासंपातैरिव स्नापयत्सु पारिषदेप्वकस्मादेव प्रविश्य सूदेनोक्तं श्रीमन्- व्यत्येति भोजनसमय इति । तच्छ्रुत्वा आ एवं किलैतदिति*सोत्प्रासं सविस्मस्यं सकूर्चाद्भूननं सोपवर्हताडनमुच्चार्य सपद्युत्थाय पुनरागम्यतामिति तानरङ्ग विसृज्य सेनापतिरन्त : प्रविवेश । तानरङ्गश्च यथागतं निववृते । इतस्तु प्रतापगुर्गे विहिताहारव्यापारे रजतपदिककामेकामधिष्ठिते किञ्चित्तन्द्रापरवश इव गोपीनाथे शनैः शिववीर उपसृत्य तं प्रणम्योपा- विशदवोचच्च । अहो भाग्यमस्माकं यदालयं युप्मादृशा भूदेवाः स्वचरण रजोभिः पावयन्तीति । अथ तयोरेवमभूवन्नालापाः । गोपीनाथ :--राजन् कोऽत्र सन्देह : सर्वथा भाग्यवानसि । परं साम्प्रतं नाहं पण्डितत्वेन कवित्वेन वा समायातोऽस्मि किन्तु यवनराजदू- तत्वेन । तच्छ्यतां यदहं निवेदयामि । शिववीर :--शिव! शिव! खलु खलु खल्वेवमुक्त्वा बा । येषां श्रीमतां चरणेनाङ्कितं विष्णोरपि वक्ष : स्थलमैश्वर्यमुद्रयेव मुद्रितं विभाति । न तेषां ब्राह्मणकुलकमलदिवाकराणां यवनकैङ्कर्यकलङ्कपङ्को युज्यते यं शृण्वतोऽपि मम स्फुटत इव कर्णौ । तथापि कुलीना निरभिमाना भवन्ती- त्यानीतश्चेत्कश्चित्संदेशस्तदेष आज्ञाप्यतां श्रीमच्चरणकमलचञ्चरीकः । गोपीनाथ :--वीर कलिरेष काल : । यवनाक्रान्तोऽयं भूभाग : । तन्नास्माकं तथा तानि तेजांसि यथा वर्णयसि । साम्प्रतं तु विजयपुरा- धीशवितीर्णा भूमिं भुज इति तदाज्ञामेव परिपालयामि तच्छ्रयतां तदादेशः। शिववीर :-आर्य अवदधामि ।

दरभङ्गाधिराजस्य कृते विलापः। २८१ इदं सरस्वती देवी भवते कण्ठभूषणम् । महेशप्रथितं प्रेम्णा ददाति गुणिने गुणि ॥ मल्लीमङ्गलमाल्यवत्तव यशो दिक्कलिहास्यायित- कण्ठं हेडतु धीमतां नवगुणस्यूतं गिरां शिल्पिनाम् । दग्ध्वा शङ्करभालदृष्टिवदथो तेजश्छटैषा खरा राजन् काममरिं करोत्वदयितां तस्याङ्गनां सत्वरा ॥२१ महेशस्याँशिषां विष्णुः समुत्पाव्य स्वचक्रतः। सुदर्शनमिदं चक्रं ददाति तव शक्तये ॥ कविनामगर्भश्चक्रबन्ध ः। देवता तावदेकेष्टा तव तातावतक्षतु । धीरतातारधीगम्यादूनतातानदूरघम् ॥ २२ ॥ प्रवेशनिर्गमाभ्यामष्टदलपद्मबन्धः । २१ मल्लीति । दिशां स्त्रीणामिवेति भाव : केलिहास्यं नमहसितमिवाचरितवदिति दिक्कलिहास्यायितं । क्यङन्तादकर्मकतया कर्तरि क्त: । नवैरपूर्वैर्गुणैः सूत्रैरिव त्रिवृता त्रिगुणेन सूत्रेणेति भावः स्यूतं योजितं प्रथितमिवेति भावः । तव यशो मल्लीमङ्गल- माल्यवत् मल्लिकापुष्पाणां मङ्गलप्रयोजनं माल्यमिव मालेव स्वार्थे यत् । गिरां शिल्पिनां वाचो प्रथ्नतां धीमतां पण्डितानां कवीनामित्यर्थ : कण्ठं हडतु वेष्टतां गृह्णातु इति भाव : । तवयशोऽधिकृत्य कवयः कण्ठेनोद्गायन्तु इति भावः । अथो समुच्चये तव खरा तीक्ष्णा एषा प्रसिद्धा तेजस: प्रातापस्य च्छटा दीप्तिः परम्परा सत्वरा त्वरया सह वर्तमाना सती शङ्करस्य भालदृष्टिवत् ललाटचक्षुरिव काम यथेष्टं यथा स्यात्तथा अरिं शत्र दग्ध्वा भस्मीकृत्य शत्रोरङ्गनां पत्नी अदयितां दयितशून्यां विध- वामिति यावत् करोतु विदधातु । शङ्करस्य ललाटनेत्रं काममेव अरं दग्ध्वा तस्मा- गनां रति विधवां चकार । तव तेजश्छटा तु अरिं यथेटं दग्ध्वा तदङ्गनां विधवां करोत्विति श्लेषानुप्राणितोपमा । २२ देवतेति । देवता । तावत् । एका । इष्टा । तव । तात । अवतक्षत। धीरतातार- ।

२८२ संस्कृतचन्द्रिका। एतत्पद्मापदेशेन पद्मं नाम महानिधिम् । पद्मा मातेव वात्सल्यात्करपद्मे ददाति ते ॥ उमा ददातु साऽऽराध्या शं पदे रक्षतादिह। ससाया गानपाधीशज्ञानिभावा जयन्तव ॥ २३ ॥ उदेतु दिवपा वासा दक्षराशयगाऽनिशम् । याज्ञापदानन्तहसा धीध्याताजरसा सुभा ॥ २४ ॥ अश्वपदवन्धेन श्लोकद्वयम् । [पूर्वपृष्टादनुवृत्तम् ।। हेतात वत्स धीरतातारधीगम्या धीरता धैर्य तारः प्रणव : धाश्चिन्ता ताभिर्गम्या लभ्या ज्ञेया वा। दूनतातानदू : दूनस्य उपतप्तस्य भावो दूनता उपताप : दूनता च दूनता च दूनता च दूनतास्त्रय उपतापा: आध्यात्मिकाधिदैविकाधिभौतिका उपतापा इति फलितोऽर्थः तेषां तानो विस्तार : तं दूरयति निवारयतीति दूरशब्दाणिजन्तात् क्विप्ततः प्रथमैकवचनं दूनतातानदू : उपतापसमूहद्ध्वसंकृत् । एका अद्वितीया इष्टा अभीष्टा देवता देव : तव अघं पापं दोषं वा तावत् [ वाक्यालङ्कारे ] अवतक्षतु तनूकरोतु विनाशयत्विति यावत् । २३ उमेति । आराध्या आराधनीया सा प्रसिद्धा उमा पार्बती देवी शं मङ्गलं ददातु । इह जीवलोके तव जयपदे जयस्थाने रक्षतात् रक्षतु च । कीदृशी सा सुसाया स्यति अन्तं करोति येन स सायोऽस्त्रं षोऽन्तकर्मणीयस्माद्धातो: करणघञ् । शोभना: साया : सायकायस्याः सा तादृशी गानपा गानं स्तुतिगानं पिबति शृणोति इति गानपा। अधीशज्ञानिभावा अधिगत : प्राप्त : ईशस्य महादेवस्य ज्ञानिभावो ज्ञानित्वं ज्ञानमिति यावत् । यया सा तादृशी। २४ उदेत्विति । हे धीध्याताज धिया एकाग्रया बुध्या ध्यातश्चिन्तितोऽजो विष्णु- येन तादृश अक्षरा अनश्वरा रमा लक्ष्मी : दिवं स्वर्ग पाति रक्षतीति दिवप : इन्द्रस्तस्य आवासाच्छयं हस्तं गच्छतीति शयगा तव हस्तगता सतीत्यर्थ : अनिशं नित्यं उदेतु उन्नमतु वर्धताम् । या रमा अज्ञापदा अज्ञो मूर्ख : अपदं अस्थानं यस्या : सा तादृशी तथा अनन्तो हसो हास्यं हासलक्षण यस्याः सा अनंतहसा । अथवा अज्ञापदा अज्ञानां मूर्खाणामापदा व्यसनेन अनन्तो हसो हासजनिका प्रीतिर्यस्या : सा तादृशी दरभङ्गाधिराजस्य कृते विलाप । २८३ कुरङ्गनयना लक्ष्मीस्तुरङ्गपदबन्धनम् । चतुरङ्गक्रीडनकं चक्रमेतद्ददाति ते ॥ अस्योद्धारस्तु अनुलोमेन पङ्क्तिक्रमेण प्रथमश्लोकस्य पाठः। द्वितीय- श्लोकस्य पाठस्तु चतुरङ्गक्रीडायामश्वो यथा सार्ध द्विपदमुल्लङ्घय गच्छति तथाविधया गत्या १, ११, ५, १५ प्रभृतिचिह्नितेषु कोष्ठेषु चालनीय इति । दुष्करोयं बन्धः । तारा ताततताराता रावलाववलावरा। तालावहाहावलाता तवहानिनिहावत ॥ २५ ॥ सर्वतोभद्र । एकैव दिक्षु सर्वासु पार्वतीवर्ततां तव । सर्वतोभद्रबिम्बस्थाकविसूक्तिरिवादद्भुता ।। श्रीरामोऽघतमो वध्याद्धारामोदक्षमोवत । तवमोक्षद्रुमो दत्तां कावमोघतमोदयम् ॥ २६ ॥ मुरजवन्धः २५ तारेति । तारा । तात । ततारातारावलाववला । वरा । तालावहा । आहा- वलाता । तव । हानिनिहा । वत । इति पदच्छेदः । हे तात वत्स ततारातारावलाववला अरातीनां वृन्दमारात पादातादिवत् तद्वन्दार्थेऽण् । आरातस्य अरातिवृन्दस्य शत्रू वृन्दस्येत्यर्थ : आराव : शब्दः सिंहनाद इति यावत् ततो विस्तीर्णश्चासावारातारावश्चेति तताराताराव : तं लुनाति इति कर्मण्यण् । ततारातारावलावं व [ब] लं सारो यस्याः सा तादृशी । वरा श्रेष्ठा वरणीया वा 1 तालावहा तालं समरनृत्यस्य तालं कालक्रिया- मावहतीति तादृशी । आहावलाता आहावेन आहुत्या लाता गृहीता ला आदान इत्य- स्मात्कर्मणि क्त: । तादृशी तारा महाविद्या बत हर्षे तव हानिनिहा हानि क्षति निहन्तीति डप्रत्ययः । अस्तु इति शेषः । २६ श्रीरामेति । धीराणां विदुषामामोदाय आनंदाय क्षम : शक्तो हितो वा धीरा- मोदक्षमः । मोदस्य निर्वाणफलस्य दुमोद्मवत् दाता श्रीरामस्तव अधं पापावहं तमस्त- .

संस्कृतचन्द्रिका। कुशीलवसमुद्गीतयशोमङ्गलसङ्गतः । श्रीरामस्येव ते राज्ये जायतां मुरजध्वनिः॥ वासेनुतातव निरस्तदवापलावा । वालापवादरहिता स जयाभिधा वा ॥ वाधाभिया जलजतः किलसा रमा वा। वामा रसालसपदाऽस्तु ततानुसेवा ॥ २७ ॥ राशिचक्रवन्धः । रमेव गौरी कीर्तिस्ते राशीभूय दिने दिने । राशिचक्रमपि स्पृश्याद्विप्रधीराशिषा सह ॥ देव जीव भवत्वेव देवदेवः शिवशिव । नवजीवनवर्षीव भवदावपिवस्तव ॥ २८॥ षोडशदलपद्मबन्धः । २७ वास इति । सा प्रसिद्धा रमा लक्ष्मीस्तव वासे गृहे रसालसपदा रसेन अलसं अन्यत्रगमनाशक्तं पदं चरणं यस्याः सा तादृशी अस्तु । कीदृशी सेत्याह । नुता स्तुता प्रशस्तेति यावत् । निरस्तदवा निरस्तो निवारितो दव उपतापो यया तवेति भावः । अपलावा अपगतो लावश्छेदोयस्याः हासशून्या इत्यर्थः । वालापवादरहिता बालानाम- पवादो लक्ष्मीश्चञ्चलेति कलङ्कस्तेन रहिता त्यक्ता अचञ्चलेत्यर्थ: । जलजत: किल वाधाभिया वा पद्मात्पीडाभियेव पद्मं रात्रौ निमीलति तदानीं तनावस्थान कष्टकरमित्याशङ्कयेव तस्मात्तत्पध्र परित्यज्य सजयाभिधावा जयेनसहवर्तमानोऽभि- धावोभवदभिमुखधावनं यस्याः सा तादृशी । वामा सुन्दरी अथवा पद्मं प्रति वाम प्रतिकूला । ततानुसेवा तता विस्तृता अनुगता सेवा परिचर्या यस्याः सा तादृशी । २८ देवेति । हे देव राजन् भूदेवेति वा त्वं जीव शतं जीवेत्याशीः । नन्वत्र संसारे बहवस्तापा : सन्ति तान्भुक्त्वा दीर्घजीवितमपि कष्टकरमित्यत आह । हे शिव मङ्गलास्पद अनुकूलेति वा देवदेवो महादेवः शिवोऽनुकूल : सन्नवजीवनवर्षी नूतन- ।

दरभङ्गाधिराजस्य कृते विलापः। अत्रेव षोडशदले तव हृत्कमलेऽमले । विदले वसतु ध्यातो महेशोऽयविषाशनः मन्दाररक्तच्छविपुण्यपांशु हेरम्बमाताच्छमुखेन्दुशोभा। शस्तं पदं तेऽच्छलमजकाशिशि स्यन्नामृतं यच्छतु मातृवेषा ॥ २९ ॥ कवेराशी:सूचकोऽष्टदलपद्मबन्धः । सप्रमोदमङ्गीकारः। गोस्वामिश्रीलक्ष्मणाचार्यनिर्मितो मुहूर्तप्रकाश : श्रीमद्विधुशेखरशर्मणा विरचितो यौवनविलास : श्रीमहेन्द्रनाथकविरत्नप्रणीतं भूदेवनिर्वाणं रतला- मनगरात्प्रकाशमानस्य कलासंग्रहाख्यस्य सचित्रमासिकपुस्तकस्य तृतीय- संख्याचेति पुस्तकानि मिरतनिवासिना पण्डितश्रीसूर्यप्रसादशर्मवैद्यराजेन निर्मितं नयनामृताख्यमञ्जनं चास्मत्करतलमापतितम् । एतानि सानुग्रहम- स्मभ्यं प्रेषयतां तेषां तेषां महाशयानां निरतिशयं प्रेम सहस्रशो- ऽभिनन्दामः । २९ मन्दारेति । अच्छमुखेन्दुशोभा अच्छा निर्मला प्रसन्नेति यावत् मुखेन्दोमुख- चन्द्रस्य शोभाकान्तिर्यस्था : सा तादृशी हेरम्बमाता गणेशजननी दुर्गा देवी तव मातृ- वेषासती मातुर्वेषमिव वेषं विधायेत्यर्थः ते तुभ्यं शस्तं सुखजनकं प्रशस्तं वा पदम- धिकारं निजचरणं वा अच्छलमव्याजं यथा स्यात्तथा यच्छतु ददातु। पदं चरणं कीदृशं मन्दारपुष्पस्येव रक्ता लोहिता छवि कान्तिर्यस्य तादृशं । पदमधिकारंतु मन्दा- रैर्मन्दारपुष्पै रक्ता छवि : कान्तियत्र तादृशं पदं ऐन्द्र पदमिति भाव : तत्रैव देववृक्षस्य मन्दारस्य सत्वात् । पुण्यपांशु चरणपक्षे पुण्या : पावनाः पांशवो धूलयो यस्य । अधिकारपक्षे तु पुण्या : पुण्यगन्धय : पांशव : पुष्परागा यत्र तादृशम् । अब्जकाशि चरणपक्षे पद्मवत्काशते दीप्यत इति अधिकारपक्षे तु अब्जवत्चन्द्रवत्काशते स्वयं प्रकाशत इति । स्यन्नामतं चरणपक्षे स्यन्नं स्पन्दितं अमृतं मुक्तिर्यस्मात्तादृशं । अधि- -- संस्कृतचान्द्रका। समालोचना। .. मुहूर्तप्रकाश :-एतन्नामश्रवणेनैव किमत्रप्रतिपाद्यमिति तत्कालमेवा- वबोद्धं शक्यते सर्वैः । किन्तु मुहूर्तमार्तण्डमुहूर्तमालाप्रभृतय इव सर्वेषां मुहूर्तानां शास्त्रार्थप्रतिपादक एवायमन्यतमः प्रबन्ध ः स्यादिति भ्राम्ये- न्मति : केषांचित् । स च भ्रम एतत्पुस्तकावलोकनेन भ्रम एव स्यात् । अत्र हि गर्भाधानादिसंस्काराणां यात्रादीनां द्विवाणांचान्येषां कर्मणां मुहूर्ता एतद्वार्षिका : सर्वेऽपि प्रतिपादिताः । यथा दैवज्ञपञ्जिकासु विवा- होपनयनानां मुहूर्तदिनानि निर्दिश्यन्ते एवमेवानान्येषामपि संस्काराणामे- तद्वर्षे समुचितानि दिनानि निर्दिष्टानि । तेन मुहूर्तमार्तण्डाद्यनभिज्ञो ज्यौति- षिक एतत्पुस्तकावलोकनेनात्मन: कार्य निर्विर्तयितुं शक्नोति । अत्र च पुस्तके मुहूर्तदिनादिनिर्देशात्प्राक् तत्तन्मुहूर्तविषयक : संक्षिप्तः शास्त्रार्थो हिन्दीभाषया निवेशित: । प्रबन्धारम्भे च मुहूर्तविषयकपरिहारादिप्रमाण- सन्दोह इत्याख्यं नानाविधप्रमाणसमुल्लसितं प्रकरणमेकमुन्यस्तम् । मुहूर्त- निर्देशक्रमश्च प्रथमं तिथिस्ततोवारस्ततो नक्षत्रं ततो दिनमानं ततश्च- न्द्रस्तत ः स्पष्टसूर्यस्ततो लग्नं ततो यथासंभवं मुहूर्तगतो दोष इति । यथा अक्षरारम्भमुहूर्त: । वैशाखशुक्ले तिथिः वार : नक्षत्रं दिनमानं चन्द्र : स्प. सूर्य : लग्नं दोषः । १२ । चन्द्रः । चित्रा। ३३॥ ४० ॥ ६ तुला। १।८।१९ । मि.। अभि. व्यतीपात: । इति । एतच्च सांप्रतिकग्रामगणकानामतिमात्रमुपकरिष्यतीत्यस्माकमभिप्रायः । मूल्यमस्यानकद्वयम् । जिघृक्षुभिः पत्रादिकं गोस्वामिश्रीलक्ष्मणाचार्य, मथुरा इत्यत्रस्थाने प्रेर्यम् । मीरतनगरवर्तिन आयर्वेदिकौषधालयस्याध्यक्षेण .. •. नागनापताजा २८७ समालोभना। तमञ्जनम् । अत्र च भीमसेनकर्पूरमुक्तादयो बहवो बहुमूल्यपदार्था मिश्रिता इति ज्ञायते ऽस्माभिः । दृष्टमेतदञ्जनमभ्यञ्जितं चानेन चक्षु : ससुहृद्भि- रस्माभिः । एतेन सुतप्तमपि चक्षुस्तत्कालं शीतलीभवतीति नः प्रत्यय: । निवेशनिमेषे तु किञ्चित्संत्रस्यति चक्षु : पश्चात्पुनरश्रुणि निप्पतिते तच्छी- तलीभवति । अत्रत्यश्च कर्पूरोञ्जने ऽस्मिन्ननावृतप्रदेशे समवस्थापिते सति व्योमसाद्भवति । तत्तस्य स्थिरीकरणे यदिकोऽप्युपायो वैद्यराजेनास्थीयेत तदा बहूपकृतं स्यद्ग्राहकजनस्येति ब्रूमः । सर्वेषामपि नेत्रामयानामपहारकं सर्वतुसेव्यं चेदमिति प्रोच्यते वैद्यराजेन । बहुभिश्चायुर्वेदविद्भिः परीक्षितमे- तत् । एककर्षमितस्यास्य मूल्यमेको रूपक : किन्तु य आगमिनि वत्सरे सस्कृतचन्द्रिकां गृहीयुस्तैरर्धमूल्येनैव लभ्येत आदित्मुभिः पत्रिकादिकं पण्डितसूर्यप्रसादशर्मा वैद्यराज, आयुर्वेदिक औषधालय मु० मोरीपाडा शहर मीरत ' इत्यत्र प्रेरणीयम् । सालयसागरसुधा-भारतरत्नपण्डितश्रीमदम्बिकादत्तव्याससाहित्या- चार्यप्रणीतोऽयं प्रबन्ध : । एतत्कर्तुर्नाम्न : श्रवणेनैवैतस्य समीचीनभाव : शक्यतेऽनुमातुम् । विदित : खल्वयं महाभागश्चन्द्रिकाया : सर्वेषामपि वाचकमहाशयानाम् । अस्यैव हि समुत्तरङ्गं सरस्वतीसुधानिस्यन्दं श्रीशि- वराजविजयं नाम स्वादं स्वाद दोधूयन्ते शिरांसि रसिकप्रवरा : । यः किल प्रतिमासमेव चन्द्रिकां समलङ्करोति । अतो विनाऽपि वाचनं कीदृशोयं प्रबन्ध इति शक्यमेव समवबोद्धं रसिकै : । सन्ति किल प्रतिदर्शनं प्राथमि- कशिक्षणे छात्राणामुपकारका बहव : प्रबन्धा : । यथा वेदान्तसारो वेदान्ते मीमां- सायां मीमांसापरिभाषा तर्के तर्कसङ्ग्रहतर्ककौमुदीतर्कभाषाप्रभृतयो न्यायेच । योगसांख्ययो: पुनर्नैवविध : प्रबन्ध : समभूत् । सांख्यसारतत्वकौमुदी- प्रभृतयस्तु साङ्ख्यदर्शनमात्रजिज्ञासूनां शास्त्रान्तराप्रविष्टानां नैकान्तत उपयुक्ता : । अतो नि :शेषमपि साङ्ख्यदर्शनसमुद्रं समुन्नततमेन धीमन्दरेण .. ।

२८८ संस्कृतचन्द्रिका। नूनमेप सुगम : सारभूतश्च साङ्ख्यग्रन्थः सर्वैरप्यवश्यं सङ्ग्रहणीयः। किञ्चा- यमपर : पयसि सितशर्करापातो यदेष सुबोधोऽपि प्रबन्धो हिन्दीभाषानु- वादेन पुनरतिमात्रं सुबोधतां नीतः। एतदवलोकनेन चा लेखंलेखमेव पर सहस्रेषु पठितवत्सु बहूनामाग्रहेण प्रकाश्यतेऽपि मुद्रायन्त्रसंस्कृ- तैषापुस्तिकेत्येतदुपोद्घातगतं प्रणेतुर्वचनं यथार्थमेवेति प्रतिभाति । सांख्य- दर्शनसंमतं प्रत्यक्षानुमानागमाख्यं तु प्रमाणत्रयं नात्र प्रपञ्चितमिति तदर्थ प्रबन्धान्तरानुधावनमावश्यकत्वमुपयाति । अत : संस्करणान्तरे तदवश्यमन निवेश्येतेत्याशास्महे । यत्त्वत्रोपोद्घाते बादरायणमतस्य संशयितसाध्यकत्वं प्रतिपाद्यते तन्न रोचते चेतसेऽस्माकम् । अवश्यं संग्राह्य ः प्रबन्धोऽयं भागलपुरे व्यासमुद्रायन्त्रालय आनकद्वयमूल्येन लब्धुं शक्य : । रत्नाष्टकम्-श्रीमदम्बिकादत्तव्याससाहित्याचार्यमहाशयेनैव प्रणीतोऽयं ग्रन्थ ः न किल तादृश एकोऽपि रसिक : स्याद्यस्यैतत्पुस्तकं पठतो नालङ्कुर्याद्वद- नसरोरुहं प्रमोदातिशयोद्भूतो हास: । अन च हासरससमुल्लसितान्युपदेश- गभितानि चाष्ट कथारत्नानि । ये किल संस्कृतभाषाया नामाप्याकर्ण्य नासासङ्कोचनपूर्वकं भ्रुवं कुटिलीकृत्यप्रकाशयन्ति तिरस्कारं तेऽपि खल्व- प्रत्याः कथा : समाकर्ण्य संस्कृतभाषाया अवगमने प्रयतेरन्निति प्रतीयते । एतच्च मुद्रयितुं प्रयतमानेनापि मुद्रापकेन नापारि स्वाभिलषितं पूरयितुं सम्यक् । क्वचिद्धि वर्णानां विकलीभावो रसानुभवे प्रतिबन्धकतामुपयाति । पुस्तकपठनेन तद्गतरस एकतानतां गतस्य पाठकमनसो वर्णानां सामीचीन्य- मेवान्यतमो हेतुरनुद्वेगस्य । रसप्रवणीभूते हि चेतसि वर्णानवबोध ः पायसे दैवान्निपतितो गोक्षुरकण्टक इव परित्रासयति चेतः । मुहुर्मुहुः पठितमप्ये- तत्पुनः पठनवाञ्छामुत्पादयति । आखाद्यतां सकृदप्यस्य रसो रसिकैरिति साग्रहं ब्रूमः । बालानां चोपयुक्ततममेतत् । इदंचोपरिनिर्दिष्टादेव स्थाना- टभिगन्तं डाक्यत आनकचतण्यात्मकेन मन्येन । । ••

Sanskritchandrika Khand 6

Author
Shri Jaychandra Sidhantbhushan Bhatachayen
Title
Sanskritchandrika Khand 6
File name
Sanskritchandrika Khand 6
Text
OCR done
Publisher
Sanskrit Chandraikakayrayat
Language
Sanskrit
Pages
289
Library
Bharti Bhawan Library Allahabad
DLI number
273972
Barcode
5990010894320.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
GZhHlv0XYJy
Download PDF

Sanskritchandrika Khand 6