Prakrit Bharati Academy, Jaipur
Shastravarta Sammuchay1
Front matter
No text on this page.
--~-- सकलागमरहस्यवेदि-आचार्य-श्रीमद्विजयदानसूरीश्वरेभ्यो नमः । -श्रीअजितप्रभसूरीश्वरविरचित-श्रीशान्तिनाथचरित्रान्तर्गतम् मङ्गल कलश-कथानकम् । news समामूर्ति- स्वर्गीयाचार्य-श्रीमद्विजयक्षमाभद्रसूरीश्वर-शिष्य-मुनिराज-श्रीमाणेकविजयोपदेशात् शेठ शान्तिलाल छनाभाइ द्वारा नडीआद-श्रीजैनसज्ञानद्रव्यसम्प्राप्तार्द्धद्रव्यसाहाय्येन प्र का शिका--श्री विजय दानसूरीश्वर-जैन ग्रन्थ माला। पुग्नकगिदं मुम्यय्यां निर्णयसागरमुद्रणालये कोलभाटवीभ्यां २६-२८ तमे गृहे लक्ष्मीबाई नारायण चौधरी द्वारा मुद्रापयित्वा श्रीविजयदानसूरीश्वर-जैनग्रन्थमाला-व्यवस्थापकेन वरतेजनिवासि-मास्तर पोपटलाल जीवणदासाहेन प्रकाशितम् । पीरमंत-२४१९ आरममवत्-५६ विक्रमसंवत्-२००९ ईस्वीसन्-१९५३ , पाठक पुगव- कथानकम्। मङ्गलmuchAAA 卐 नागेन्द्रनिर्मितफणाश्चितमौलिपाश्चों, यो भान्युपासकसुरासुरनाथपावः। यत्तीर्थरक्षणपरो विदितोऽस्ति पार्श्वः, शकेश्वराधिपतिरस्तु सुखाय पार्श्वः ॥१॥ ॥१॥ --- PALA 300039200000280010 0000000000000000 000000000000000000 000000000000000000 000000000000000000 000000000000000000 000000000000000002 000000000000000000 सद्गुरुस्तुतिः। Fooooooo स छ मल क्षक आचार्य- श्रीमद्विजयकमलसूरीश्वरेभ्यो नमोनमः। सच्चारित्रपवित्रचित्रचरितं चारुप्रबोधान्वितं, शान्तं श्रीसमतारसेन सुखदं सर्वज्ञसेवाधरम् । विद्वन्मण्डलमण्डनं स्वयशसा सुव्याप्तभूमण्डलं, तं सूरि सततं नमामि विजयानन्दाभिधं सादरम्॥१ उपाध्याय- श्रीमद्वीरविजयसद्गुरुभ्यो नमोनमः। ॥१॥ Printed by Laxmibai Narayan Chaudhari, at the Nirnaya Sagar Press, 26-28, Kolbhat Street, Bombay 2. Published by Master Popatlal Jivandas Vartejwala, Secretary Vijayadan Surishwara Jain Granthmala.
अहम् । भगवच्छ्रीमद्वर्द्धमानस्वामिपादपझेभ्यो नमः । सकलागमरहस्यवेदि-आचार्य-श्रीमद्विजयदानसूरीश्वरेभ्यो नमः । आचार्य-श्रीअजितप्रभसूरीश्वरविरचितश्रीशान्तिनाथचरित्रान्तर्गतम् मङ्गलकलश-कथानकम् । मानुष्यकादिसामग्री सम्प्राप्याऽपि प्रमादिनः। ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥१॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ताः सिद्धिसुखं ये ते श्लाघ्या मङ्गलकुम्भवत् ॥२॥ तद्यथा- उज्जयिन्यां महापुर्या वैरिसिंहो महीपतिः। सोमचन्द्रा च तद्भार्या धनदत्तश्च श्रेष्ठ्यभूत् ॥३॥ धर्मार्थी सुविनी- तात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः ॥ ४ ॥ सत्यभामेति तद्भार्या शीलालकृतिशालिनी । पत्यौ प्रेमपरा किन्त्वपत्यभाण्डविवर्जिता ॥ ५॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ ! किं ते दुःखस्य
कथानकम्।
मङ्गल-
कलश-
॥२॥
कारणम् १ ॥ ६ ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनी पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ॥७॥ धर्म एव
भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥ ८॥ तत् त्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि
दानं सुपात्रेभ्यः पुस्तकं चापि लेखय ॥९॥ एवं च कुर्वतोः पुत्रो भावी यदि तदा वरम् । भविता निर्मलो नाथ ! परलोकोऽ-
न्यथाऽञ्चयोः॥ १० ॥ हृष्टः श्रेष्ठ्यप्युवाचैवं प्रिये ! साधूदितं त्वया । सम्यगाराधितो धर्मों भवेचिन्तामणिर्नृणाम् ॥ ११ ॥ ततश्च
देवपूजार्थ पुष्पग्रहणहेतवे । आकार्याऽऽरामिकं तमै ददौ श्रेष्ठी धन बहु ॥१२॥ खयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे। गृहा-
_मर्चयित्वा च गच्छति स्म जिनालये ॥१३॥ तत्र नैपेधिकीमुख्यान् यथास्थानं दश त्रिकान् । ख्यापयन् परया भक्त्या विदधे चैत्य-
वन्दनाम् ॥१४॥ ततः साधून नमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥१५॥ अन्यदप्यखिलं
धर्मकर्म शर्मनिवन्धनम् । आह्निकं रात्रिकं चैव धनदत्तो व्यधात्सुधीः॥१६॥ अथ धर्मप्रभावेण तुष्टा शासनदेवता । ददौ तसै पुत्रवरं
प्रत्यक्षीभूय साऽन्यदा ॥१७॥ पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैवत । खमे हेममयं पूर्णकलशं मङ्गलावृतम् ॥ १८॥ जातश्च समये
पुत्रस्ततः कृत्वोत्सवं गुरुम् । तसै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥१९॥ कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोज्ज्यदा । तात !
त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥ २०॥ सोऽवदद्वत्स! गत्वाऽहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूज-
॥ २१ ॥ ययौ पित्रा सहान्येास्तत्र सोऽपि कुतूहली । आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ॥ २२ ॥ ज्ञात्वा च श्रेष्ठिपुत्रं
-तिमि निसीही १ तिनि उ पयाहिणा २ तिनि चेव य पणामा ३ । तिविहा पूया य तहा ४ अवत्थतियभावणं ५ चेव ॥ १ ॥
तिदिसिनिरिक्खणविरई ६ पयभूमिपमजणं च तिक्खुत्तो७। वनाइतियं ८ मुद्दातियं ९ च तिविहं च पणिहाणं १० ॥२॥
॥ २॥
नं तमै सोऽपि ददौ मुदा । नारङ्गक(दला)रणादीनि सुखानि फलान्यलम् ॥२३॥ खगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोs- ढोकयत्पुत्रः पूजोपकरणं स्वयम् ॥ २४ ॥ द्वितीये च दिने तेन सादरं भणितः पिता । अतः परं मया गम्यं पुष्पानयनकर्मणि ॥ २५ ॥ निश्चिन्तेनैव स्थातव्यं त्वया तात ! निजे गृहे । अत्याग्रहेण तद्वाक्यमनुमेने पिताऽपि तत् ॥ २६ ॥ एवं च कुर्वतस्तस्य धर्माभ्यास तथाऽन्तरा । कियत्यपि गते काले यजातं तनिशम्यताम् ॥ २७ ॥ अस्त्यत्र भरतक्षेत्रे चम्पा नाम महापुरी । अभूतत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥ २८॥ राज्ञी गुणावली तस्य सा निजोत्सङ्गवर्तिनीम् । दृष्ट्वा कल्पलतां स्वमे पार्थिवाय न्यवेदयत् ॥ २९ ॥ राजा प्रोवाच हे देवि! तव पुत्री भविष्यति । सर्व- लक्षणसम्पूर्णा सर्वनारीशिरोमणिः ॥ ३० ॥ पूर्णकालेऽथ चाङ्गी सा देवी सुपुवे सुताम् । त्रैलोक्यसुन्दरी नाम तस्याश्चके महीपतिः ॥ ३१ ॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा । बभूव यौवनप्राप्ता सा मूर्तेव सुराङ्गना ॥ ३२॥ तां विलोक्यानवद्याङ्गी दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या वत्साया मे भविष्यति ॥ ३३ ॥ ऊचे च प्रेयसीः सर्वा वराहेयं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थ वः प्रधानता ॥ ३४ ॥ ता ऊचुरियमसाकं जीवितादपि वल्लभा । नालं धत्तुं वयं प्राणान् क्षणमप्य- नया विना ।। ३५ ॥ दातव्या तदसी मत्रिपुत्रायात्रैव हे प्रिय ! । प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥३६ ॥ ततो राज्ञा समाहूय सुवुद्धिः सचिवो निजः। अभाणि यन्मया दत्ता त्वत्सुतायात्मनन्दिनी ॥ ३७॥ अमात्योऽप्यवदद्देव! किमयुक्तं अवीष्यदः । कम्मैचिद् राजपुत्राय दातुं कन्या तयोचिता ॥ ३८ ॥ राज्ञोचे न त्वया वाच्यमित्यर्थे किश्चनाऽपि भोः । देया त्वत्स्- नवेऽवश्यं पुत्री त्रैलोक्यसुन्दरी ॥ ३९ ॥ मत्री कृतावहित्थोऽथ गृहे गत्वा व्यचिन्तयत् । हा व्याघ्रदुस्तटीन्याये पतितोऽसि करोमि कर
कथानकम्।
कलश
॥३॥
किम् ? ॥ ४० ॥ तिरम्भोपमाकारा राज्ञः पुत्री सुतस्तु मे । कुष्ठी तदेतयोर्योगं कथं जानन् करोम्यहम् ॥४१॥ अथवाऽयं
मयोपायो लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ ४२ ॥ ततश्चाऽऽराधयामास विधिना कुलदेवताम् ।
उवाच साऽपि प्रत्यक्षीभूय मनिन् ! स्मृताऽसि किम् ।। ४३ ॥ मंत्र्युचे त्वं स्वयं वेत्सि सर्व दुःखस्य कारणम् । तथा कुरु
यथा पुत्रो नीरीगाङ्गो भवेन्मम ॥ ४४ ॥ देव्यूचे नान्यथाकर्तुं नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत वृथेयं प्रार्थना तव
॥ ४५ ॥ मत्री प्रोवाच यद्येवं तदन्यमपि पूरुपम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽपय ॥ ४६ ॥ तेनोद्वाह्य महाराजपुत्री
कमललोचनाम् । अर्पयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ॥ ४७ ॥ देवतोचे पुरीद्वारेऽश्वरक्षकनरान्तिके । शीतव्यथानिरा-
सार्थमग्निसेवापरो हि यः॥४८॥ कुतोऽप्यानीय मयका मुक्तो भवति बालकः। स मनिन् ! भवता ग्राह्यः पश्चात्कुर्याद्यथोचितम्
॥ ४९ ॥ (युग्मम् ) ॥ इत्युक्त्वाऽन्तर्दधे देवी दृष्टोऽथ सचिवेश्वरः । सर्वो विवाहसामग्री प्रगुणीकुरुते स्म 'सः॥ ५० ॥
अश्वपालनरं छन्नमाकार्य निजकं ततः । तसै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥ ५१ ॥ इदमूचे च यः कश्चिदभ्येति भव-
दन्तिके । कुतोऽपि वालकः सो हि समर्यो मेऽविलम्बितम् ॥ ५२॥ तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय भाविनम् । उज्जयिन्यां
ययौ पुर्य्या मन्त्रिणः कुलदेवता ॥ ५३॥ अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चाऽऽरामागच्छतो निजवेश्मनि
॥ ५४॥ स एप बालको याति पुष्पभाजनपाणिकः । परिणेष्यति. यो राजकन्यका भाटकेन हि ॥५५॥ तच्छुत्वा विसिता
सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ॥ ५६ ॥ गृहं गतस्य सा वाणी विस्मृता तस्य
१ रोगरहितम् ।
॥३॥
दैवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥ ५७ ॥ अहो ! अद्यापि सा वाणी या श्रुता हो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ ५८॥ सोचिन्तयदिदं यावत्तावदुत्पाट्य वात्यया । नीतो दूरतरारण्ये चम्पापुर्याः समीपगे ॥ ५९ ॥ भयभ्रान्तस्तुपाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसश्रमकरं ददर्शाग्रे सरोवरम् ॥ ६० ॥ तत्र वस्त्राञ्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिश्राय बद्रुमम् ।। ६१॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं कर्तुमिवाक्षमः ।। ६२ । कृत्वा दर्भतृणै रज्जु तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् ॥ ६३ ॥ ततो वटात्समुत्तीर्य स भीतः शीतविह्वलः । हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥६४ ॥ तत्रोपान्तेऽश्वपालानां कुर्वाणो वहिसे- वनम् । यावदासीदसौ हस्समानस्तैर्दुष्टचेष्टितैः ॥६५॥ तावत्तेन नरेणैत्य पूर्वादिष्टेन मत्रिणा । आत्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः ॥ ६६ ॥ गोपयित्वाऽतियत्नेन प्रभातसमयेमुना । अपितोऽमात्यवर्यस्य गृहे नीत्वा सगौरवम् ॥ ६७॥ भोजनाच्छाद- नप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥ ६८ ॥ ततोऽसौ चिन्तयामास किमयं मम सक्रियाम् । कुरुते निर्गमं चैव यत्नाद्' रक्षति मन्दिरात् ।। ६९ ॥ पप्रच्छ चान्यदाऽमात्यं तात! वैदेशिकस्य मे । किमिदं माननं हन्त भवद्भिः क्रियतेऽधिकम् ॥ ७० ।। का नामैपा पुरी को वा देशः को वाऽत्र भूपतिः । इति सत्यं ममाऽऽख्याहि विस्मयोत्र प्रवर्त्तते ॥ ७१ ॥ अमात्योऽप्यत्रबीचम्पानाम्नीयं नगरी वरा । अङ्गाभिधानो देशश्च राजाऽत्र सुरसुन्दरः॥ ७२ ॥ सुवुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनीतोऽसि वत्स! त्वं कारणेन गरीयसा ॥ ७३ ॥ त्रैलोक्यसुन्दरी नाम राज्ञा पुत्री विवाहितम् । १ याहिर्गमनं। h +--- - 1 kone कथानकम्। माला ॥४॥ प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडितः ॥ ७४ ॥ परिणीय त्वया भद्र ! विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थ त्वामिहाऽऽनयम् ॥ ७५ ॥ तच्छ्रुत्वा मङ्गलोऽयोचदकृत्यं किं करोष्यदः । क सा रूपवती बाला निन्धरोगी व ते सुतः ॥ ७६ ॥ कमेंदें न करिष्यामि कथञ्चिदतिनिष्ठुरम् । कूपे क्षिप्त्वा जनं मुग्धं वरत्राकर्त्तनोपमम् ॥ ७७॥ मयूचे चेन कर्मेदं करिष्यसि सुदुमते ! । तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ ७८ ॥ इति निस्त्रिंशमाकृष्य भणितोऽपि सुबुद्धिना । अकृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ ७९ ॥ प्रधानपुरुपैर्मत्री निपिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यख भद्र! त्वं मत्रिणो वचः ॥८॥ ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोजयिनी काऽसौ ममेहागमनं क च ।। ८१ ॥ इदमाकाशवाचापि दैवत्या कथितं तदा । तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो। ॥ ८२॥ विचिन्त्येदं पुनः माह मङ्गलो मत्रिणं प्रति । यद्यवश्यमिदं कार्य मयका कर्म निघृणम् ॥ ८३॥ तदाऽहमपि वः पार्थे नाथ ! नाथामि सर्वथा । मह्यं ददाति यद्राजा वस्तुजातं ममैव तत् ।। ८४ ॥ स्थापनीय तु तत्सर्वमुञ्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तद्वाक्यं मेने मन्त्र्यपि बुद्धिमान् ।। ८५ ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्व च सज्जयामास क्रमाद्वैवाहिकं विधिम् ॥ ८६ ॥ अथ व्योम्नः प्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेशकारकैर्भूपः स्वानुरूपमकारयत ॥ ८७ ॥ कुमारकः कृतस्त्रानः कृतचन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकङ्कणः ॥ ८८ ॥ दत्तकुङ्कुमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥ ८९ ॥ द्राधीयोभिर्वरस्त्रीणां उलूलुध्वनिभिर्भृशम् । पञ्चखनैश्च विदधद् दिवं नादमयी- मिव ॥ ९०॥ कृतशक्रधनुईण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपद्वारसन्निधिम् ॥ ९१ ॥ उत्तीर्य कुञ्जरात तुङ्गात् १ खड्गम् । । २ याचे। ॥४॥ १ । . का स ---- AARAA कुलस्त्रीभिः कृतं तदा । अयमेष प्रतीयेप द्योतन इव प्रमे ॥ ९२ ॥ समासने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पाच वखाभरणभूपितः ॥ ९३ ॥ त्रैलोक्यसुन्दरी साध्य दृष्ट्वा तं मन्मथोपमम् । अमस्त तद्वरप्राप्त्या कृतार्थ खं मनस्विनी ॥९४ ॥ ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वह्नि भ्रमतुर्मङ्गलानि तौ ॥ ९५ ॥ प्रथमे मगले राजा चारुवखाण्यने- कशः । वरायादाद् द्वितीये च स्थालाभरणसञ्चयम् ॥ ९६ ॥ तृतीये मणिहेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्थं जज्ञे पाणिग्रहोत्सवः ॥ ९७ ॥ कृतोद्वाहे वरे चास्मिन् वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स ! यच्छामि किं नु ते १ ॥९८॥ ततच याचितस्तेन जात्यघोटकपञ्चकम् । तत्तसै शीघ्रमेवासौ प्रददौ प्रीतमानसः ॥ ९९ ॥ वाद्यमाने ततस्तूर्ये भवद्धवलमङ्गलः । मन्त्रिणा स्वगृहे निन्ये समं वध्या स मङ्गलः ॥ १०० ।। तत्रामात्यगृहजनश्छन्नं छन्नमभापत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ॥ १०१॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ।। १०२ ॥ ततः क्षणान्त- रेणाऽसी देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाऽऽशु तदनु प्राचलच सा ॥ १०३ ॥ कृतायामपि तस्यां तं शून्यचित्तं रहास्थितम् उवाच प्रेयसी कान्त ! बाधते त्यां क्षुधा नु किम् ? ॥ १०४ ॥ ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य खगृहात्तस्मै ददी त्रैलोक्यसुन्दरी ॥ १०५॥ भुक्तेषु तेषु पानीयं पिवता तेन भापितम् । अहो रम्यतरा एते मोदकाः सिंहकेसराः ॥ १०६ ॥ उज्जयिन्या नगाचेन्नीरमाखाद्यतेऽमलम् । तदा तृप्तिर्भवेनूनं मोदकेश्वशितेष्वपि ॥ १०७ ॥ तच्छ्रुत्वा राजपुत्री सा दध्यावाकुल- चेतसा । अहो अघटमानं किं वाक्यमेप प्रजल्पति ॥ १०८ ॥ मागेहमथावन्त्यामार्यपुत्रस्य भावि वा । तदसौ दृष्टपूर्वलाजानात्यसाः १ सूर्ग । --- man -------- -- कथानकम्। खरूपताम् ॥ १०९॥ ततथ निजहस्तेन मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्यसौ ॥ ११० ॥ सन्ध्याकाले पुनर्मत्रि- मानुपैः प्रेरितोज्य सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥१११॥ गमिष्यामि पुनर्देहचिन्तायामुदरार्तिभाक् । त्वया क्षणान्तरे- णाऽऽगन्तव्यमादाय पुष्करम् ॥ ११२ ॥ निरगाच ततो मत्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः ! कास्ति तद्वस्तु मामकम् ॥११३॥ तैश्च तद्दर्शितं सर्वमुञ्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु निक्षिप्यकरथे वरे ॥११४ ॥ तस्मिंश्च योजयित्वाऽश्वाश्चतुरः पृष्ठतस्तथा । बद्ध्वैकं शेपकं वस्तु मुक्त्वा तत्रैव सोञ्चलत् ॥११५ ॥ (युग्मम् ) ॥ पृष्टाश्चानेन ते ग्रामानुजयिन्यध्वगानराः प्रत्येकं कथयन्ति स्म नामग्राहं मुहुर्मुहुः॥११६॥ ततो रथाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरी निजाम् ॥ ११७ ॥ इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घौर्गतशोको बभूवतुः ॥ ११८ ॥ गृहाभिमुखमायान्तं रथारूढं विलोक्य तम् । वभाषेऽथापरिज्ञाय जनन्यस्य ससम्भ्रमम् ।। ११९ ॥ प्रेर्यते गृहमध्येन राजपुत्र! कथं रथः। कर्त्तास्यभिनवं मार्ग कि त्वं त्यक्त्वा पुरातनम् ॥ १२० ॥ इत्थं निषिध्यमानोऽपि न यावद्विरराम सः । आचख्यौ श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ १२१ ।। श्रेष्ठयप्यस निषेधार्थ गृहायापन्निरीयिवान् । तावद्रथात्समुत्तीर्य पितुः पादौ ननाम सः ॥१२२ ॥ उपलक्ष्य ततस्ताभ्या- माश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवद्ध श्रुपूरप्लावितेक्षणम् ॥ १२३ ।। पप्रच्छ चोपविष्टः सन् वत्सर्द्धिः कुत ईदृशी। व वा कालमियन्तं त्वं स्थितोऽसि वद नन्दन! ॥ १२४ ॥ ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक्श्रुत्यपहारादि स्वस्थानागमनावधि ॥१२५ ॥ अहो! पुत्रस्य सौभाग्यमहो! पुत्रस्य दक्षता । अहो ! धैर्य्यमहो! भाग्यमिति प्राशंसतामिमौ ॥१२६ ॥ ततः प्राकारसंगुप्तं स ॥५॥ १ जलम् ।
* खगेहमकारयत् । अश्वानां रक्षणार्थ च मन्दुरादिनियत्रणम् ॥१२७॥ सोऽन्येबुर्जनकं स्माह मम तात ! कलागमः । स्वल्पोऽस्त्ययापि तं पूर्ण करिष्यामि त्वदाज्ञया ॥ १२८ ।। ततश्चानुमतः पित्रा कलाचार्य्यस्य सन्निधौ । कलाभ्यासं चकारासौ स्वकीयसदनान्तिके ॥१२९ ।। इतश्च मत्रिणा तेन रात्रौ मङ्गलवेपभृत् । प्रेपितो वासभवने बधूपान्ते सुतो निजः ॥ १३० ॥ शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी । कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ १३१ ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटित्यपि । सा शय्यायाः समुत्थाय निर्ययो भवनादहिः ॥ १३२ ॥ दासीभिर्भणिता किं नु खामिन्यसि ससम्भ्रमा।। सावदद्देवतारूपी गतः क्वापि स मे पतिः ॥ १३३ । प्रत्यूचुस्ता इदानीं स प्रविष्टोत्र पतिस्तव । मानवीनास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥ १३४ ॥ दासीमध्ये ततः सुप्ता तामतीय विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पितृगृहं निजम् ॥ १३५ ॥ सुबुद्धिरपि दुर्बुद्धिः सोऽथ मत्री महीपतेः। ययौ सकाशमन्येधुचिन्ताश्याममुखः किल ॥१३६॥ कृतप्रणतिमासीनमथैनं पृथिवीपतिः। हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ १३७॥ स जगाद महाराज! विचित्रा कर्मणां गतिः । अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ॥ १३८॥ चिन्तयत्यन्यथा जीवो हर्षपूरि- तमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ॥ १३९ ॥ राजा प्रोवाच हे मत्रिन् ! उक्त्वा खं दुःखकारणम् । मामप्यमुष्य दुःखस्स संविभागयुतं कुरु ॥ १४० ।। निश्वस्य सचिवोऽप्यूचे देव ! दैवं करोति तन् । यद्वक्तुमपि नो शक्यमश्रद्वेयं च शृण्वनाम ॥ १४१ । सामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा । तस्यां तु परिणीतायां यद् वृत्तं तनिशम्यताम् ॥ १४२ ॥ यादृग् राज्ञा स्वयं दृष्टस्तादगेव सुतो मम । अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ॥ १४३ ॥ तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी । अलक्षणा तन्प्रभावात् कुष्ठी जातोऽस्य पुत्रकः ।। १४४ ॥ खकर्मफल भोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो ५
कथानकम्।
.
॥६॥
यद्यप्यस्ति जिनोदितः ॥१४५॥ तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके भाजनं
गुणदोषयोः ॥१४६ ॥ (युग्मम्)। खकर्मपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तनिमित्तत्वात्पुत्री मे दोपभाजनम् ॥१४७॥
ऊचे च सचिवाऽनर्थमकार्षमहमीदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ॥ १४८ ॥ अमात्योऽप्यत्रवीत् स्वामिन् !
हितकार्य प्रकुर्वताम् । को दोपो भवतामत्र दोपो मत्कर्मणां पुनः ॥ १४९ ॥ अथोत्थाय ययौ मत्री सा तु त्रैलोक्यसुन्दरी ।
इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ १५० ॥न कोऽप्येनामाललाप नाभ्यनन्दत् दृशापि हि । एकत्र गुप्तगेहेऽस्थात् सा
मातृगृहपृष्ठतः ॥ १५१ ॥ अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा । येन क्वापि ययौ नंष्ट्वा परिणीतः स मे पतिः॥१५२ ॥
अन्यच्च लोकमध्येदा कलङ्क समुपस्थितम् । किं करोमि व गच्छामि व्यसने पतिताऽस्मि हा ॥१५३॥ एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते
स्थितं तदा । भवितोजयिनीपुयां प्राप्तो नूनं स मे पतिः ॥ १५४ ॥ तदा च मोदकांस्तेन भुक्त्वा संजल्पितं किल । एते हि मोदका
रम्याः किंत्ववन्त्या जलोचिताः ॥ १५५ ॥ ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तदान्विष्य मिलित्वाऽस्य भवामि सुखभागिनी
॥१५६ ॥ अथान्येधुरुवाचाम्बां हे मातर्जनको मम। एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु ॥ १५७॥ तां दृष्ट्वाऽनादरपरामन्येयुः
सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थ कृताञ्जलिः ॥१५८ ॥ सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञप-
यामास प्रस्तावे वदतांवरः ॥१५९॥ नृनाथ ! भवता मान्यचरी सम्प्रत्यसम्मता । वराकी वर्तते कष्टे सैषा त्रैलोक्यसुन्दरी ॥१६०॥
अस्याः संमानदानादि दूरेऽस्त्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् ॥ १६१ ॥ पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह !
पुराभवे । अनया विहितं किश्चिदभ्याख्यानादि दुष्कृतम् ॥ १६२ ॥ तदियं तत्प्रभावेण कलङ्किततनूरभूत् । इष्टाऽप्यनिष्टतां प्राप्ता
॥६॥
कल गाढमस्माकमप्यहो। ॥ १६३ ॥ वाक्यं तदद्य यत्किश्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुटैरप्यात्मीयः परिभूयते ॥ १६४ ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात ! मे वेपं कुमारोचितमर्पय ।। १६५ ॥ भूयो राजाऽत्रवीत् सिंह किमिदं वक्त्यसौ वचः । सोऽवदद्देव ! युक्तं हि क्रमोऽस्ति यदयं किल ॥ १६६ ॥ राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । पुंवेषं याचते तर दातव्यः स न संशयः ॥ १६७ ॥ ततस्तदनुमत्याऽसै पुंचे पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थ बलान्वितम् ॥१६८॥ अभ्यधासुन्दरी भूयस्ताताज्ञा चेद्भवेत्तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥ १६९ ॥ कारणं कथयिष्यामि तजाते च समीहिते । अधुना कथिते तस्मिन् परिणामो न शोभनः ॥ १७० ॥ हे पुत्रि ! मम वंशस्य यथा नाभ्येति दूषणम् । तथा कार्य त्वयेत्युक्त्वा विसृष्टा सा महीभुजा ॥१७१ ।। ततश्च सिंहसामन्तभूरिसैन्यसमन्विता । अखण्डितप्रयाणैः सा ययावुज्जयिनी पुरीम् ॥ १७२ ॥ वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् । यच्चम्पायाः समागच्छन्नस्त्यत्र नृपनन्दनः ॥ १७३ ॥ अभिया- नादिसन्मानस्वागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निजमन्दिरे ॥ १७४ ॥ पृष्टा चागमनाथ सा प्रोवाच नगरीमिमाम् । द्रष्टुमाचर्यसंपूर्णामागतोऽसि कुतूहलात् ॥ १७५ ।। ततः प्रोक्तो नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गेहस्य नान्तरम् ॥ १७६ ॥ राजढीकितगेहे सा तस्थौ सबलवाहना । पत्तींश्चेत्यादिशत् स्वादुनीरस्थानं निरीक्ष्यताम् ॥ १७७ ॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तसे न्यवेदयन् । तन्मार्गे कारितावासेवात्सीत् साऽथ नृपाज्ञया ॥ १७८ ॥ गच्छतो नीरपानार्थमन्यदा:- श्वानिरीक्ष्य तान् । सा दध्यौ मम तातस्य सत्का एते तुरङ्गमाः ॥ १७९ ॥ तेपामनुपदं प्रेष्य पुन त्यान् विवेद सा । भतुहाभिधानादिसर्वशुद्धि मनस्विनी ॥ १८० ॥ कलाभ्यासपरं तं च ज्ञात्वा त्रैलोक्यसुन्दरी । उवाच सिंहमेते हि कथं ग्राह्या- * मा
कथानकम्।
कलश-
॥७॥
स्तुरङ्गमाः ॥ १८१॥ सिंहोवादीचयादिष्टोपायेनैव ततश्च सा । सच्छात्रं तं कलाचार्य भोजनाय न्यमन्त्रयत् ॥ १८२ ॥ भोज-
नार्थमुपाध्याये तत्राऽऽयाते ददर्श सा । छात्रमध्ये स्वभार हृदयानन्ददायिनम् ॥ १८३ ॥ तस्मा आसनमात्मीयं स्थालं चादा-
पयत्तदा । अकारयद्विशेषेण गौरवं भोजनादिपु ॥ १८४ ॥ ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्म
मनोहरम् ॥ १८५॥ उवाच च कलाचार्यमेतन्मध्यात् त्वदाज्ञया । यो जानाति स आख्यातु छात्रो मम कथानकम् ॥ १८६ ॥
सर्वैरपीjया छात्रनिर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्तुमेवं प्रचक्रमे ॥ १८७ ॥ चरितं कल्पितं किं वा
कथयामि कथानकम् । साऽवदचरितं ब्रूहि पर्याप्तं कल्पितेन भोः। ॥ १८८ ॥ मङ्गलश्चिन्तयामास सैपा त्रैलोक्यसुन्दरी । चम्पापुर्या
भाटकेन परिणीता हि या मया ॥ १८९ ।। केनापि हेतुनेहागाद्' भूत्वा पुंवेषधारिणी । भवत्वेवं कथां तावत् कथयामि
निजामहम् ॥ १९०॥ जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ १९१ ॥
ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता । तावद्यावदमायेन गृहानिर्वासितोऽस्म्यहम् ।। १९२ ॥ अत्रान्तरे कृतालीककोपा राजसुतावदत्
अमुं गृहीत गृह्णीत रे रे मिथ्याभिभापिणम् ॥ १९३ ॥ इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानीतो
गृहान्तरे ॥ १९४ ॥ अथैनमासनेऽध्याय सिंहमूचे नृपात्मजा । अयि येनाहमूढाऽस्मि स एवायं प्रियो मम ॥१९५॥ किमत्र युज्यते
कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा सेव्योऽपशङ्कितम् ॥ १९६ ।। सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः ।
ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोकय ॥ १९७ ॥ तद्विधातुमथो सिंहो धनदत्तगृहं ययौ । सोऽग्रे छात्रमुखात् पुत्रापायं
श्रुत्वाऽनुलोऽभवत् ॥ १९८ ॥ पुत्रस्य गौरवोदन्तमाख्यायैतेन वोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥ १९९ ॥
॥७॥
S वध्याः स्वरूपकथनेनालाय श्रेष्ठिनं ततः । सिंहः पुनः राजपुत्र्याः समीपं समुपाययौ ॥ २०० ॥ सिंहेनानुमता साऽथ कृत्वा खीवेपमु- इटम् । बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥ २०१॥ ययौ च श्रेष्ठिनो वेश्म तद् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्ट्या श्रुत्वा विसिमिये । २०२ ॥ ततस्तत्रैव प्रासादे गत्वा राजाज्ञया पुनः । समं त्रैलोक्यसुन्दO विललास स मङ्गलः ॥ २०३ ।। मुन्दर्या प्रेपितः सोऽथ सिंहः सबलवाहनः । लात्वा पुरुपवेपं तं ययौ चम्पापुरी पुनः ॥ २०४ ॥ अमुना सर्ववृत्तान्ते कथिते जगतीपतिः । हृष्टोऽभापिष्ट वत्साया अहो! मे मतिकौशलम् ॥ २०५ ॥ अहो! कुधीरमात्यस्य पापकर्मविधायिनः । येनादोपाऽपि मत्पुत्री सदोपा पिहिता कथम् १ ॥ २०६ ॥ सिंह पुनरपि प्रेष्योजयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सचके च यथाविधि ॥ २०७ ॥ अमात्यं धारयित्वा तं मार्यमाणं महीभुजा । मङ्गलो मोचयामास गाढाभ्यर्थनया नृपात् ॥ २०८ ॥ जामातुरुपरोधेन मया मुक्तोऽसि पाप रे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् ॥ २०९ ॥ अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ।। २१० ।। अन्येधुर्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । मङ्गलकलशं राज्ये मुधीः स्थापयति स्म सः ॥२११।। यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ॥ २१२॥ राज्ये संस्थापितः कोऽपि वणिग्जातिरितीर्ण्यया । प्रत्यन्तपार्थिवा राज्यं हतु तस्योपतस्थिरे ।। २१३ ॥ सेनया चतुरङ्गिण्या सहितेन महौजसा । दृढपुण्यप्रभावेण जिताः सर्वेऽपि तेन ते ॥ २१४॥ शान्ताऽमित्रस्य तस्याथ राज्यं पालयतः सतः । पत्न्यां त्रैलोक्यसुन्दयाँ सुनोऽभुजयशेखरः ॥२१५।। स च राजा निजे देशे जिनचैत्यान्यनेकशः। जिनाची रथयात्राश्वेत्यादिधर्ममकारयत् ॥२१६॥ अन्यदोघानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलनः स भूपतिः॥ २१७ ॥ पप्रच्छ च यथा केन कर्मणा ।
कथानकम् ।
॥८॥
भगवन्मया। प्राप्ता विडम्बनोद्वाहे देव्या प्राप्तं च दूषणम् ॥ २१८ ॥ मूरिरूचेऽथ भरते क्षेत्रेऽत्रैवास्ति पत्तनम् । क्षितिप्र-
तिष्ठितं नाम धनधान्यसमृद्धिमत् ॥ २१९ ॥ आसीत्तत्र सोमचन्द्राभिधानः कुलपुत्रकः । श्रीदेवी च तद्भार्याऽभूत् तौ मिथः
प्रीतिशालिनौ ।। २२० ।। सोमचन्द्रः प्रकृत्याऽसावार्जवादिगुणान्वितः। मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥ २२१ ॥
इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥ २२२ ॥ जिनदेवो धनाकाङ्क्षी धने सत्यपि
सोऽन्यदा । देशान्तरं गन्तुकामो निजं मित्रमभापत ॥ २२३ ॥ धनायाहं गमिष्यामि मयि तत्र गते त्वया । मामकीनं धनं
सप्तक्षेन्यां वाप्यं यथाविधि ॥ २२४ ॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतसार्पयत्करे
॥ २२५ ॥ गते देशान्तरे तस्मिन् सोमचन्द्रोऽथ तत्सुहृत् । व्ययति स्म यथास्थानं तद् द्रव्यं शुद्धचेतसा ॥ २२६ ॥ आत्मीयमपि
तस्यानुसारेणायं व्यधाद् वृषम् । तज्ज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ २२७ ॥ तस्मिन्नेव पुरे तस्याः सखी
भद्राभिधाऽभवत् । नन्दनश्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥ २२८ ॥ देवदत्तः स कालेन कर्मदोपेण केनचित् । कुष्ठी
जज्ञे ततो भद्रा तत्प्रिया विपसाद सा ॥ २२९ ॥ पुरः सख्यास्तथाऽन्येयुस्तत्वरूपं निवेदितम् । तया च हासपरया भणिता सा
ससंश्रमम् ॥२३०॥ हले त्वत्सङ्गदोषेण कुष्ठी जज्ञे पतिस्तव । ममापि दृष्टिं मा गास्त्वमतोऽपसर दूरतः ॥२३१॥ सा तेन वचसा
दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयैवाह्लादिता ततः ॥ २३२ ॥ स सोमचन्द्रः श्रीदेव्या तया सार्द्ध च
भायेंया । साधुसंसर्गतः प्राप्तं श्राद्धधर्ममपालयत् ॥ २३३ ॥ अन्ते समाधिना मृत्वा सौधर्मे त्रिदशाविमौ । दम्पती समजायेतां
१ धर्मम्।
॥८॥
॥८॥
पञ्चपल्योपमस्थिती ॥ २३४ ॥ सौधर्मात्सोमचन्द्रात्मा च्युत्वाऽभूद् भूपतिर्भवान् । जीवश्युत्वा च श्रीदेव्या जज्ञे त्रैलोक्य- सुन्दरी ॥ २३५ ।। परद्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेपा भाटकेनैव परिणीता नृपात्मजा ॥ २३६ ॥ हास्येनापि वयस्यायै यद्दत्तमनया पुरा । तदेतस्यामिह भवे कलङ्कः समभूद् ध्रुवम् ।। २३७॥ तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं खसूनवे । राजा राज्ञी च प्रव्रज्यां पार्वे जगृहतुर्गुरोः ॥ २३८ ॥ क्रमेण सोऽथ राजर्षिः सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकरावृतः ॥ २३९ ॥ त्रैलोक्यसुन्दरी साध्वी स्थापिता च प्रवर्तिनी। विपद्योभौ च तावन्ते ब्रह्मलोकमुपेयतुः ॥ २४० ॥ ततच्युतो मनुष्यत्वं प्राप्याऽनिमिषतां पुनः । एवं भवे तृतीये तो प्रापतुः पदमव्ययम् ॥ २४१॥ इति मङ्गलकलशकथानकम् । PEREST "विद्ववृन्दमुखास्यमुद्रणमहद्वैदुष्यमुद्राधरः, श्रेष्ठानुष्ठितदुष्कृतघ्नतपसा बंहिष्ठधामा गुरुः । समाप्तमिदं मङ्गलकलश-कथानकम् । 48 मोहध्वान्तनिलीढनेत्रजनताकारुण्यकल्पद्रुमः, कल्याणं तनुतां कृताक्षविजयः श्रीदानसूरीश्वरः ॥१॥"
No text on this page.