Asr,melkote
Mimamsa Koustubha
Front matter
THE CHOWKHAMBA SANSKRIT SERIES; A COLLECTION OF RARE & EXTRAORDINARYSANSKRIT WORKS. NOS 303-310&326. मीमांसाकौस्तुभः। (मीमांसासूत्रोपरि काचन विस्तृता टीका) (प्रथमाध्यायस्य तृतीयचतुर्थपादात्मको भागः) पूर्वोत्तरमीमांसापारावारपारीण- श्रीखण्डदेवविरचितः Registered According to Act XX Y obu??67.6 UyRis 'ae. Resewign)) श्रीकाशीहिन्दूविश्वविद्यालयपूर्वमीमांसाप्रधानाध्यापकेन मद्रपुरसंस्कृतविद्याशालातोऽधिगतविद्यावैशयन वेद्विशारदबिरुदभाजा श्रीवेङ्कटसुब्रह्मण्यापरनामधेयेन पं. अ. श्रीचिन्नस्वामिशास्त्रिणा प्राचीनकोशादिसाहाय्येन यथामति परिशोधित: श्रीजयकृष्णदासगुप्तेन स्वीये विद्याविलासनााम्न यन्त्रालये मुद्रापितो विजयताम् १९२४. 30AGO PUBLISHED & SOLD BY THE SECRETARY CHOWKHAMBA SANSKRIT SERIES OFFICE, BENARES. AGENTS. PANDITA JYESHTHÂRAMA MUKUNDAJI, BOMBAY: OTTO HARRASSOWITZ, LEIPZIG. GERMANY. PROBSTHAIN & CO., BOOKSELLERS, LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press, Benares. 1924.
No text on this page.
No text on this page.
करणम् प्रथमाध्यायस्य चतुर्थः पादः । २०१ अथ वा धौवाज्य एव आघारपदेन क्षरणसमर्थत्वमात्रविधानाद पाठक्रमात् सामिधेन्युत्तरक्रियमाणक्षारणाख्यसंस्कारबलेन विली. नस्वमाप्तावपि प्रधानवेलायां पुनर्घनीभूनल्बसम्भवान तब्धावस्या विलीनत्वमाप्तिफलकत्वोपपत्तिः । एवं “चतुर्ग्रहीतं वा एतदभूत् तस्याघारमाघार्य त्रीनितः प्राचीनानू प्रयाजान् यजति" इत्यत्राज्यस्य प्रयाजत्रयसाधनीभूत- जौहवस्य एकदेशमाघारशब्दोक्तमुद्दिश्य क्षारणान्तरं विधीयते । अथ वा "आधारमाधारयती" त्यनेन क्षरणसमर्थद्रव्यैकदेशसंस्कारक- त्वेन क्षारणे विहिते किं तदिति विशेषजज्ञासायां "चतुगृहीतं वा एतदभूत्" इत्यनेन जौहवचतुर्ग्रहीतरूपविशेषममर्पण "आग्मयं चतु. करोति" इतिवत् न विरुध्यते । एवञ्च संस्कार्यस्य विनियोगापे. क्षायां नाक्लुप्तोपांशुयाजार्थता कल्प्या; किन्तु "चतुर्जुवां गृह्णाति" प्रयाजेभ्यस्तदिति वाक्यलभ्यादिमायाजत्रयार्थतैवेति लाघवम् । "चतुर्ग्रहीत वे"त्यत्र चान्यस्य सर्वम्यानुयमानत्वात् विशेषसमर्पण. मात्रमिति लाघवमस्त्येव । “इन्द्र ऊों अध्वर इत्याघारमाघारयती" त्यनेन तु "देवस्य त्वेति निर्वपत्ती' तिवत् मन्त्रमात्रं क्षारणसंस्कारा. गतया विधीयते । न तु मान्नवर्णिकदेवताकल्पनम् तदलेन याग- गौरवप्रसङ्गात् । अस्तु वा इतिकरणावमृष्टविधिविहितत्वात् सूक्तवाकवत् देवता- कल्पकत्वम् तद्वलेन वा यागत्वञ्च, तथापि स्विष्टद्वदुभयरूप- खोपपत्तेः संस्कारकत्वाव्याघातः । न चैतावता आघारपदस्य नाम- धेयत्वप्रसङ्गः, तथा धात्वर्थस्य करणत्वात् नामधेयस्य तृतीयान्त- खापत्तेः । अग्निहोत्रपदे चेयं तृतीयान्तत्वापत्तिः नामत्वपक्षे द्रष्टव्या। नचोत्पत्तिवाक्यत्वादनयोः तत्र च फलाश्रवणात् भावना पदश्रुत्या धावत्वर्थस्यैव भाव्यत्वोपपत्तेः नामधेगे द्वितीयान्तत्वोपए. त्तिा उत्पत्तिवाक्येऽपि समानाभिधानोपात्तविधिश्रुतिबलेनापुरुषार्थ- कल्पनं वा, मीमांसाकौस्तुभे [ अमिहोत्राधि- स्य धात्वर्थस्य भाव्यत्वायोगेन सामान्यतो यत्किञ्चिदिष्टस्यैव विधि- वलेनाक्षिप्तस्य भाव्यत्वावगतेः धात्वर्थस्य फलवाक्य इत्र पदश्रुत्या करणत्वेनैवान्वयाभ्युपगमेन नामधेयस्य द्वितीयान्तत्वानुपपत्तेः । गुणविधिपक्षे तु-अग्निहोत्रवाक्ये होमानुवादेन गुणविधिपक्षे तस्य साध्यत्वात् , विशिष्टविधिपक्षेऽपि च विशेषणविधिवेलायां साध्य. भूतेनैव तेन गुणान्वयात् द्वितीयोपपत्तिः । आधारवाक्ये तु संस्कार्य- स्वादेव द्वितीयोपपत्तिः स्पष्टैव । एवं रूढेष्वपि “य एवं विद्वानि" सादिषु पौर्णमास्यमावास्या- दिशब्दैः कालो विधीयते । स च यद्यपि आग्नेयाद्युत्पत्तिवाक्ये माप्तत्वादेव न विधातुं योग्यः । तथापि प्रयाजाद्यनुवादेन विधीय- मानो न दोषमात्रहति । द्वितीया चात्र सप्तम्यर्थे वाक्यानुवादत्व. परिहारार्थ द्रष्टव्या। एवं फलवाक्येऽपि दर्शपूर्णमासपदवाच्यः काल एव फले सर्वप्रकृतयागाश्रितो विधीयत इति द्रष्टव्यम् । समिदादिपदानां तु "विष्णुं यजी"तिवत् देवताविधायकत्वम् । न च मन्त्रवर्णेन देवतायाः प्राप्तत्वात विधानानुपपत्तिः । मान्त्रवर्णि- कदेवताकल्पनातः पूर्वमेव विधानोपपत्तेराकाङ्क्षाविरहेण तस्यैवा. कल्पनात् । लक्ष्मात् रूढेष्वपि गुणविधित्वम् । यसु मूले यौगिकानामेवोदाहरणस्वमित्युक्तम्, तत्र रूढेष्वपि तत्प्रख्यन्यायस्य बहुशो व्युत्पादितत्त्वात् अनादरेणेति द्रष्टव्यम् । तस्मात् प्रसिध्यादिभिरेवैते विधयो गुणसमर्पका इति प्राप्ते- अभिधीयते-यत्र प्रमाणान्तरेण विधित्सितस्य प्राप्तिस्स. भाव्यते तत्र तद्विधियादेव नामधेयत्वाध्यवसानम् । तथा हि-द. होमानुवादेन तावत् गुणविधौ तेषु आग्नेयमन्त्रबलेनैव देवता. प्राप्तिसम्भावे पुनरनेन तद्वित्रियर्थम् । यत्र तु मन्त्रोऽपि नाम्नातः यथा-"यदाहनीये जुहोती"त्यादौ तत्र गुण एव विधिशक्तस्सङ्क्रा- करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २०३ न्तत्वान्नैव होमविधानम् । यत्र तु अनुपादेयरूपगुणयोगः यथा-"भिन्ने जुहोती" सादौ तत्र कर्मविध्यवश्यंभावेऽपि प्रमाणान्तरेण देवता. माप्तिमम्भवात् तदनुवादेनाग्निहोत्रवाक्ये न देवताविधिः । विशिष्टविधिपक्षस्तु विशेषणस्य सम्भवत्प्राप्तिकत्वे पुनर्विधानवै. यादेव निराकर्तव्यः । तथा हि- "अग्निज्योतिज्तौतिरग्निः स्वाहेति केवललिङ्गकमन्त्रपाठ- बलादेव उपांशुयाजवत् देवताप्राप्तिस्संभव सेवेति तद्विधिकल्पनातः पूर्वमेव एतद्विधिप्रहत्तेः न किञ्चित् प्रयोजनं पश्यामः ! अभ्युदयशि- रस्कत्वस्यापि अनन्यगतिकत्वेन सत्यां विधिलाघवापादकधात्वर्थमात्र. विधानेन गतौ गुगविषेरनाश्रयणीयत्वात् । अा एव केवललिङ्गक- मन्त्रपाठवलादेव उपांशुपाजवत् देवतामाप्तिमम्भवेन मन्त्रविनियोज. कविधेः तत्कालीनप्रयोगविषयत्वस्य व्यवस्थार्थत्वेनैवोपपत्तिः। अन्यथा हि यदग्नये चेतिवाक्यविहिनकर्मसम्बन्धे लिङ्गादेव व्यवस्थासिद्धेः मन्त्रविनियोजकविधियर्यम् । मिश्रीलङ्गकमन्त्रयोः गौणत्वमप्यस्मिन् पक्षे निष्प्रमाणकमापद्यते । अतो यदग्नये चेति वाक्पयोः न देवताद्वयविशिष्टकर्मविधानम् । नापि समुचितदेवताद्वयविधिः ; वाक्यभेदप्रसङ्गात् । आप तु मन्त्रवर्णमालाग्निसूर्यानुवादेन होममुद्दिश्य लाघात् प्रजापतिमात्र- विधानम्। नचैवं ब्राह्मणगतचतुर्या प्रजापतेकिंधाने मन्त्राणामैन्द्रीन्यायेन गौणत्वापत्तेः देवताकल्पकत्वानापत्तिः, कथञ्चिद्वा कल्पकत्वा- ङ्गीकारेऽपि अग्निसूर्याभ्यां प्रजापतेर्विकलापत्तिश्चेति वाच्यम् । (१)"अग्नेः पूर्वाहुतिः, प्रजापतरुत्तर।" इतिक्रमविध्यन्यथानुपपत्यैव सिद्धौ सद्धलेनैन्द्रीन्यायानुपपत्तेः । अत एव ब्राह्मणगतोऽपि प्रजापति- शब्दः प्रजानां पतिरिति व्युत्पत्या पात्नीवनं ग्रहं गृह्णाती" तिवतू यौ. १० ब्रा०२-२-२-१०.
मीमांसाकौस्तुभे [ अमिहोत्राधि- गिकः तस्य च विशेष्यापेक्षायां मन्त्रवर्णेनाग्न्यादेविशेष्यस्य समर्पण स्यात् (१)"अग्ना इ पत्नीवा" इत्यादिवत् इसापादयितुमप्यशक्यम् । क्रमविध्यन्यथानुपपत्या देवताद्वित्वस्यैवावगमात् । नवं होमोद्देशेन प्रजापतिमात्रविधाने तस्य सायं प्रातःकालयो- राहत्या प्रजापतेरापि दध्यादिवदात्तिसिद्धेः वाक्यद्ययापत्तिः। सायंप्रातःकालरूपीनीमत्तसम्बन्धार्थत्वेन वाक्यद्वयमार्थक्योपपत्तेः । तत्प्रयोजनश्च उपसदनन्तरकर्तव्यमासाग्निहोत्रे सायंप्रातःकालयोर- भावात् प्रजापतिनित्तिः । वस्तुतस्तु यदग्नयेचेति वाक्ये अग्निसमुच्चयविशिष्टपजापति- विधानेऽपि नाग्यशे विशेषणविधिकल्पनया विधानम् ; मन्त्रवी. देव प्राप्तः। एवं यत्सूर्याय चे'त्यत्रापि अग्निसूर्यसमुच्चयवैशिष्ट्यस्य च तत्त- काल एव प्राप्तः सायंप्रातःपदमनुवादः। लक्षणया तत्तत्कालीन- होमोद्देश्यनापरं वा । धातुस्तु साधुत्वार्थमनूयते । ततश्च तत्समुच्चय- वैशिष्टयार्थमेव वाक्यद्वयमिति नानर्थक्यम् । न च क्रमविध्यन्यथानुप- पत्या समुच्चयसिद्धः विधिवैयर्यम् । वैकल्पिकत्वेऽपि प्रयोगभेदेन पूर्वोत्तरभावविधायकत्वोपपत्तेः । अनः एकस्मिन् प्रयोगे समुचयविधानोपपत्तेः तयोश्च 'यदग्नये चे' ति पाठक्रमादेव क्रमोपपत्तेः वस्तुनः क्रमाक्यम. नुवाद एव । संख्याविशिष्टाज्यानामिव समुच्चयविशिष्टप्रजापतेरपि प्राप्तभावनानुवादेन विधानायोगः । पञ्चदशसंख्याया हि का- रकत्वात् तस्य च प्राथमिकभावनासम्बन्धं विना अनुपपत्तेः प्राप्तभावनानुवादेन उभयसम्बन्धे युक्तो वाक्य भेदः । चशब्दो- पात्तममुच्चयस्य तु अकारकत्वात् नित्यं च समभिव्याहृतपदार्थ- विशेषणत्रपतीतेः तद्वारेणैव च भावनान्वयोपपत्तेः न वावयभेदः । १. तै. सं.१-४-२७. ..
. करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २०५ तस्मात् मन्त्रार्णमाप्ताग्निसूर्या नूय तत्समुच्चयविशिष्टप्रजापतिविधा- नमेव युक्तमुत्पश्यामः। यत्त्वत्र मान्त्रवणिकदेवनाविधानपक्षे ज्योतिर्गुणविशिष्टयोरे. वाग्निमूर्ययोः देवतात्वमिति कैश्चिदुक्तम् , तत् (१)धूम एवाग्ने- दिवा ददृशे, नार्चिः । तस्मात् दिवाग्निरादित्यं गतः रात्रावादित्य. स्तम्" इत्याद्यर्थवादानुमारान् उपांशुयाजे "विष्णुरुपांशु यष्टव्यः" খুনি ৰাইঘামাইল গানাবাদিয়গান্ধব- यित्व निर्गुणानामेत्र विष्वादीनां देवतात्वकल्पनवत् लाघवात् निर्गुणयोरेवाग्निमर्ययोः देवतात्वकल्पनोपपत्तेरपास्तम् । ननु-"यदग्नये चे"ति वाक्ययोरग्निसूर्यसमुच्चयविशिष्टप्रजापति- विधानस्योपजीव्यत्वात् केवललिङ्गकमन्त्रयोः देवताकल्पकत्वोपपत्ता- वपि मिश्रलिङ्गकयोरनुपजीव्यत्वात् तत्कल्पकत्वे मानाभावः । यथा- कथञ्चित् कल्पकत्वाङ्गीकारेऽपि वा प्रनापतिसमुच्चयसिद्धौ प्रमाणा- भावः इति चेत्- न; यदग्नये चेति वाक्यस्थयोः अग्निसूर्यपदयोः सायं- प्रातःकालीनदेवतामात्रोपलक्षणत्वाङ्गीकरणाव । अन्यथा मि. श्रीलङ्गकमन्त्रयोः गौणत्वापत्तेः गोण्या वृत्त्या सायंप्रातःकालीना. ग्निप्रकाशकत्वेनैव व्यवस्थासिद्धः विनियोगवैयर्थ्यञ्च । सायंप्रात:- कालीनाग्निसूर्यसमुच्चयवशेनैव प्रजापतेरुभयकालिकत्वोपपत्तेः तद्वा- क्यगतसायंप्रातःपदवैयर्थ्यप्रसङ्गाच्च । अो वरमनुवादत्वादग्निमू- यपदयोरेव तत्तत्कालीनदेवतामात्रोपलक्षणत्वाङ्गीकरणेन तत्समुच्च- यविशिष्टप्रजापतिमात्रविधानमिति । यत्तु न्यायसुधाकृता-यथाश्रुनभाष्यानु(२)सारेण यदग्नये. चेति वाक्ययोरेवाग्निसूर्ययोरेव विधानम् । न तु मन्त्रवर्णकल्प्यविधि- बलात् अग्निसूर्ययोः प्राप्तिः, गौरवापत्तेः । न चैवं प्राप्तकर्मानुवादेन १ ते० प्रा०२-१-७. २. सारिणा.
२ मीमांसाकौस्तुभे [ अग्निहोत्राधि-- देवताद्वयविधी वाक्यभेदः, प्रत्येककारकविभक्सन्तपदद्वयोपात्तस्यापि देवताद्वयस्य च शब्दसमभिव्याहारात परस्परसापेक्षत्वप्रतीते: आख्या- तान्वययोगपद्ये नाख्यानवृत्तेरभावात् वाक्यभेदानापत्तेः । चादीनां हि निपातोपसर्गाणां पृथक् पदत्वेन वाचकत्वेऽपि केवलाप्रयोगिवेन स्वातन्त्र्येण तदर्थस्य भावनाविशेषणत्वाभावाद निस समभिव्याहत. पदार्थविशेषणत्वमतीतेः पदार्थान्तरार्थस्यापि च चाद्यान्वयं विना पदान्तरोपात्तभावनान्वयायोगात् चशब्दसमभिव्याहारात् इतरेतरस- हितयोरेव अग्निप्रजापत्योः भावनान्वयप्रतीतिरिति नात्तिप्रसङ्गः । नचारता अग्नीषोमीयादिवत व्यासज्यत्तिदेवतात्वापत्तिः । पृथक् चतुर्थीनिर्देशेन इतरेतरनिरपेक्षयोरेव देवतात्वप्रतीतेः । पदा- न्तरसम्बन्धे हि चशब्दात साहित्यं प्रतीयते, न विभक्तिसम्बन्धे ; त. सम्बन्धात्प्राक् अपरिपूर्णस्य पदस्य पदान्तरेण चशन्देन अन्वयानु- . पपत्तेः। तदेवं निपातोपसर्गाणां वाचकवाङ्गीकारेऽपि वाक्यभेद: परिहतः । यदा तु तेषां द्योतकत्वं तदा तत्समभिव्याहतस्य एकस्यैत्र पदस्य विशिष्टार्थवाचकत्वम, समभिव्याहृतेतरपदानां तु तात्पर्य- ग्राहकत्वमित्यङ्गीकारात् प्रजापतिपदेनैव अग्निदेवतानिरूपितसमुच्च- यविशिष्टप्रजापभिधानात विशिष्टार्थविधानोपपत्तेः चतुर्यन्ताग्नि- पदस्य चशब्दस्य च तात्पर्यग्राहकत्वेन विधिव्यापारत्वाभावेऽपि वैयर्थाभावात् एकपदार्थविधानातू सुतरां न वाक्यभेदः । अत एव दशमे"-ऋत्विग्भ्यो दक्षिणां ददाति" इसनेन आन- तिसाधनरूपायाः दक्षिणायाः ऋत्विगानमनार्थत्वेन प्राप्तत्वात् तदनु- वादेन "(१)गौश्चाश्वश्चे"त्यादि "तस्य द्वादश शतं दक्षिणा"इत्यन्तेन परस्परसहितानां गवादिपर्दाथानां विधानमङ्गीकृत्य भूसंज्ञिकायां कि- कृतौ धेनुर्दक्षिणाकार्ये विधीयमाना सर्वेषामेव तत्कार्यसाधनानां ग. १ . ता. ब्र'. १६-१-१०, करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । वाश्चादीनां निवर्तिका, न तु धेनुशब्देन गोमात्रत्तिगुणवाचिना प्र. कृतिलिङ्गसंयोगात् गवामेव । प्रकृतौ गवादीनां प्रत्येकमानतिसाधनत्वे सादृश्यात गोरेव निवर्तिका धेनुः स्यात, नत्वेतदस्ति, गवाश्वादीनां चशब्दबलेन परस्परसहितानामेव प्राप्तदक्षिणासम्बन्धावगत्या समु- चितानामेत्र साधनत्वावगमात् । न चैवपि वाक्यभेदः, चशब्दा. वयात् पूर्व हि गवादीनामुपादेयत्वेनापि दक्षिणासम्बन्धे प्राप्तानु- वादेन अनेकविधान वाक्य दो भवेत् । गवादीनामुद्देश्यत्वे वा च. शब्दोपात्तस्यापि साहित्यस्याविवक्षापत्तेः स्यादनेकोद्देश्यतानिमित्तो वाक्यभेदः । परस्परसहितानामेवोपादेयत्वे तु नास्य प्रमक्तिरित्यु. क्तम् । तस्मात् तद्वदेव यदग्नये चेत्यनेनापि प्राप्त करुण देवताद. यविधिर्नानुपन्नः । नचैवं ब्राह्मणवाक्येनैव देवताद्वयस्प सायंप्रातःकालकृतव्यव- स्थासिद्धः केवललिङ्गकमन्त्रद्वयस्य च तत्तल्लिङ्गादेव प्राप्तिमिद्धः तांद्व- नियोगविधियर्थम् । गिलिङ्गकमन्त्रयोः प्रत्यक्षावधिविनियुक्त. वेन लिङ्गविनियुक्तमन्त्रापेक्षया पावल्यात् ताभ्यां पर्युदस्तयोः के- वललिङ्गकयोः प्रानप्रसवार्थ विधिसार्थक्योपपत्ते-रित्युक्तम् । तन्न; अग्निप्रजापतिमातिपदिकयोः विभक्त्यन्वयात् प्रागेव चशब्दा. वयोऽभ्युपगम्यते ? तदुत्तरं वा ? नाद्यः, समुच्चितयोः देवतात्वापत्तेः विभक्तिद्वयवैयर्थ्याच्च । नान्त्यः बलवत्तरकारकश्रुतिवलेन क्रियासम्ब. न्धस्यैव झटिति प्रतीयमानत्वेन तस्यैवापत्तेः वाक्यभेदस्य परिहर्तुम- शक्यत्वात् । अन्यथा विद्वाक्यविहिनकर्मानुवादेन तद्धिया पर. परसापेक्षत्वेनावगतयोः द्रव्यदेव तयोः सहितयोरेव विधानोपपत्तेः मुतरां वाक्यभेदानापत्तेः । आश्च “गौश्चाश्वश्चे” त्यादौ प्रथमा. नत्वेन कारकविभक्त्यन्तताभावात् दक्षिणाशब्दान्वयात् पूर्वमेव चशब्दान्वये नैव किञ्चित् बाधकमस्ति । वस्तुतस्तु अत्र प्राप्तकर्मानुवादेन समुच्चिनगादिविधानरूपद्र- मीमांसाकौस्तुभे [ अमिहोत्राधि- व्यविधानसम्भवेऽपि द्वादशशतसंख्याया अपि विधेयत्वात् वाक्यभे- दस्य परिहर्तुमशक्यत्वेन द्रव्यसंख्योभयविशिष्टदक्षिणाविधिरेवा- श्रीयते। नचैवं तस्य द्वादशशत'मित्यत्र तच्छन्दवैयपित्तिः । द्रव्यसं- ख्ययोररुणैकहायनीन्यायेन तद्विरहेऽपि पाष्टिकमम्बन्धोपपत्तरिति वाच्यम् । एकवचनान्ततच्छब्दश्रवणाभावे संख्यायाः सर्वद्रव्यनि- वेशापत्तेः मुख्यगोमात्रनिवेशनप्रयोजनत्वेन तच्छब्दसार्थक्यस्य दशमे वक्ष्यमाणस्वात् तस्य चानतिसाधनत्वरूपस्य दक्षिणात्वस्य सामर्या- देव कर्मकरत्विगर्थत्वसिद्धावाप तद्भिन्नचमसावयूणामपि कर्मकर्तृ- स्वाविशेषात् तेभ्योऽपि दानप्रसक्तौ "ऋत्विग्भ्यो दक्षिणां ददाति" इत्यनेन गवादिद्रव्यं तेभ्यः परिसंख्यायते । अतो 'गौश्चाश्वश्वे'त्यत्र वाक्यभेदप्रसक्त्यभावात् चशब्दवशेन समुच्चितानां साधनत्वेन प्रती तावपि न तत्तुल्यत्वं “यदग्नये चे" त्यादेः। यदपि निपानोपसर्गाणां द्योतकत्वात् समभिन्याहृतपदस्यैव विशिष्टवाचकत्वं अन्येषां तु तात्पर्यग्राहकत्वमित्युक्तम् । तदपि न, तत्तनिपातोपसर्गादिसमभिव्याहारे तत्तत्पदेषु तत्तद्विशिष्टार्थ- विषयकशक्तिकल्पने तत्तत्समभिव्याहाराभावे च शुद्धार्थविष यकशक्तिकल्पने निपातादीनां द्योतकताशक्तिकल्पने च गौरव. प्रसङ्गेन द्योतकत्वपक्षस्यानभिमततात् । अत एव तत्र तत्र ज्ञानादि- पदेष्वपि लक्षणावाचोयुक्तिः सङ्गच्छते । यदपि च केवललिङ्गकमन्त्रविनियोगविधेः मिश्रलिङ्गकविधिप- युदासप्रतिप्रसवार्थत्वमित्युक्तम् । तन्न मिश्रलिङ्गकमन्त्रयोः स्वतन्त्र- देवताकलाकत्र वा अभिप्रेतम् ? गौण्या वृत्त्या अग्निमूर्यप्रकाशकत्व- मेव वा? नायः ; तथात्वे वैकल्पिककेवलदेवताग्निमूर्यप्रकाशकत्वेनैव केवलदेवत्यमन्त्रयोः विनियोगोपपत्तेः भिन्न विषयमिश्रलिङ्गविधिना पर्युदासासम्भवात् केवललिङ्गकविधेः प्रतिषसवार्थत्वानुपपत्तेः तद्वैय- .. १ करणम् ] . प्रथमाध्यायस्य चतुर्थः पादः । २०९ पित्तश्च । मिश्रीलङ्गकमन्त्रस्थयोः जघन्य सूर्याग्निपदयोः गौ- ध्या वृत्या सायंप्रातःकालीनाग्निसूर्यप्रकाशकत्वस्य विधि विनापि सिद्धेः विनियोगवैयर्थ्यात् । अत एव पूषानुमन्त्रणमन्त्रवत् उत्कर्ष प्राप्ते तव्यावृत्यर्थं पचन- मित्यपास्तम् । यागानुमन्त्रणसमाख्यावत् इह मिश्रलिङ्गकयोः सामा- न्यसम्बन्धवोधकममाणाभावेन उभय देवत्यकर्मद्वयस्य च अप्रसिद्ध खेन उत्कर्षासिद्वेः । अनो ब्राह्मणेन सूर्याग्निविधानाभिधानं आघा. राग्निहोत्राधिकरणवार्तिकविरुद्धं न्यायसुधाकृतोऽनादरणीयमेवेति केवललिङ्गकमन्त्रवर्णपाठवलादेव तत्प्राप्तिः । अतश्च मन्त्रवर्णमाप्तस्याः अग्निहोत्रपदेन विधानायोगाद विधेयान्तराभावेन च जुहोत्यभिधेयस्य होमत्वस्य विधेयत्वाद तस्यैव अग्निदेवताकत्त्वसम्बन्धेन अग्निहोत्रपदं नामधेयम् । अग्निहोत्रपदच अस्मिन् पक्षे (१)हुयामाश्रुभसिभ्यस्वन्" इसनेन पात्राशब्दवत् “(२)उणादयो बहुलम्" इत्येतदनुसारात होत्रशब्द भावे अन्नन्तं व्याख्याय अग्नेः होत्रपदवाच्यो होम: अग्निहोत्र- मित्येवं व्युत्पत्या तैत्तिरीयशाखाधीतस्वरसंवादात प्रमाणान्तरसिद्ध देवतात्वाख्य सम्बन्धविशेषलक्षणया षष्ठीतत्पुरुष एव । इष्यते च प्रकृतिविकारभावाभावेऽपि प्रमाणान्तरासिद्धनादाख्यसम्बन्धविशे. पलक्षणया षष्ठीतत्पुरुषोऽश्वघासादौ । न चैवं पूर्वपक्षेऽपि लक्षणायनुगतः षष्ठीतत्पुरुषसमास एव किं नाश्रीयत इति वाच्यम् । सम्बन्धविशेषस्य प्रमाणान्तरेण सिद्धेः, यस्तु भाष्यकारेण सिद्धान्ते लक्षणस्वराधननुगतोऽपि चतुर्थी- बहुव्रीहिः, न्याय सुधाकृता च षष्ठीबहुव्रीहिः, सः तत्र होत्रशब्दस्य कर्मव्युत्पत्या द्रव्यवाचित्वं इसभिमायेण द्रष्टव्यः । यदपि च कैश्चित् अग्नौ होत्रमस्मिन् इति लक्षणानुगतः सप्त- मीबहुव्रीहिरेवाश्रयणीयः इत्युक्तम् । तत् तत्पुरुषे लाघवात् , स्वरा- १.उ.सू.६१७. २.पा.सू. ३.३.१.
मीमांसाकौस्तुभे [ अमिहोत्राधि- नुगमाच्च, मासाग्निहोत्रे चाग्निदेवताकत्वप्रसिद्धः गोण्या वृत्या धर्म- मात्रोपदेशकत्वोपपत्तेः, अग्न्यधिकरणकत्वस्य तु मासाग्निहोत्रेऽपि "यदाहवनीये जुहोती"त्यनेनैव प्राप्तेः प्रायणीयपदवत् अतिदेशक- त्वानुपपत्तिप्रसङ्गात् उपेक्षितम् । यद्यपि च आहवनीय एवाहुतिद्वयं, नापरयोरित्यस्मिन् पक्षे प्रातोमप्रयोगे अग्निदेवताकवाभावात् नेदं प्रतिनिमित्तमेतद्वाक्य- विहितहोमत्वावच्छिन्ने सम्भवति, तथापि षडाहुतिपक्षदशाहुतिपक्षयोः आपराग्निकहोमाभ्यासे प्रातःप्रयोगे अग्निदेवताकत्वस्य सत्वात् प्र. त्तिनिमित्तत्वाविघातः। एकस्यैव होमस्य सायंप्रात:कालाधिकरणकदे- वतासमुच्चयानुरोधेन ज्योतिष्टोमवदभ्यासेऽपि कर्मभेदाभावेन विजा- तीयहोमत्वावच्छिन्ने सामानाधिकरण्यसम्बन्धेनाग्निदेवताकत्वाच । वक्ष्यते चैकदेशप्रवृत्तिनिमित्तेनापि तत्प्रख्यन्यायेन नामधेयत्वोपपत्तिः वैश्वदेवाधिकरणे । अतिप्रसङ्गानेराकरणं उद्भित्पदवत् सर्वत्र द्रष्टव्यम् । अतश्च सिद्धमग्निहोत्रपदस्य नामत्वम् । एवञ्च फलनिमित्तकालद्रव्यदे- वतावाक्येषु फलादिसम्बन्धः अग्निहोत्रसंज्ञकस्य नानुपपन्नः ।। आधारवाक्येऽपि आधारशब्दस्य भावव्युत्पत्त्या कर्मनामस्वाङ्गी- कारेण प्रथमविधिपकारसम्भवे द्वितीयविधिप्रकराङ्गीकरणं, नद्धलेन चोपांशुपाजे विनियोगकल्पनं चात्यन्तानुपपन्नमेव । उपांशुयाजे प्रत्यक्षशिष्टध्रौवाज्यस्य तद्तविलीनत्वस्य च(१) "सर्पिराज्यं प्रती. यात्" इत्यनेन प्राप्तत्वात विधातुमशक्तश्च । अत एव सानाय्योपांशुयाजाङ्गभूनद्रव्योद्देशेन संस्कारविधि- रित्यपास्तम्', द्वितीयविधिप्रकाराङ्गीकरणापत्तेः । अत एव चतुर्ग्रहीत बेत्यनेन संस्कार्यविशेषसमर्पणमित्यप्यपास्तम् । 'तस्याघारमाघार्य इत्येतावतैवाभीष्टसिद्धेः एतद्वाक्यस्थाघारप- दस्य वैयर्खापत्तेश्च । एतद्वाक्ये क्षरणान्तरविधानन्तु भेदकप्रमा- १ आप० श्रो० २४-१-२५.
करणम् ]] प्रथमाध्यायस्य चतुर्थः पादः । २११ णाभावादेवायुक्तम् । आधारवाक्ये विनियोगभङ्गकल्पनया द्रव्य- चिशिष्टक्षारणविधानं तु पञ्चमविधिप्रकारापत्तेः द्रव्यस्य चतुही- तवाक्यादेव प्राप्तत्वात् अयुक्तम् । अत एव "इन्द्र ऊर्व" इसनेनैव मान्त्रवर्णिकदेवताप्राप्त याग- वकल्पनया होमत्वसिद्धः तन्नामधेयाघारपदस्य प्रतिनिमित्तभेदात् न तदैक्यमादाय नामधेयवैयर्थ माशङ्कनीयम् । अस्ति च होमेऽपि प्रक्षेपांशेन क्षारणात्मकत्वमिति पूर्ववदेव प्रवृत्तिनिमित्तोपपत्तिः । अयश्च यागः स्विष्टकृद्धदेव त्यागांशेनारादुपकारकोऽपि प्रक्षे- पांशेनाद्यप्रयाजत्रयसाधनीभूताज्यसंस्कारकत्वात् सन्निपत्योपकार- कोऽपि स्वीक्रियते । सन्निपत्योपकारकत्वसम्भवे अंशेऽप्यारादुप- कारकत्वकल्पनस्य सददेवान्याय्यत्वात् । अत एव "तस्याघारमाघार्य" इति सम्बन्धसामान्यवाचिन्यपि षष्ठी "आज्यस्य यजनू" तिवत् न गुणत्वरूपसम्बन्धविशेषपरा । अपि तु भाव्युपयोगित्वात् प्राधान्यपरैव । अतश्च आधारोत्तरमपि जौहवनाशे प्रयाजार्थं तदुत्पादने पुनराधारकरणम; विकृतिषु च वा- चनिकप्रयाजपर्युदासे उत्तराघारनिवृत्तिरिति । नचैव संस्कारकर्मत्वे तस्य संस्कार्यनिरूपणाधीननिरूपणत्वात् तेनैवावच्छेदकसिद्धौ अ. वच्छेदकान्तरानपेक्षणात नामधेयानर्थक्यम् । उद्भिदादिवत सत्यप्य- वच्छेदकान्तरे नामाम्नानवशेनैव एतदवच्छेदकस्याभ्युदयशिरस्कत्व- कल्पनया "अंशुं गृह्णाति" "अदाभ्यं गृहाति" इत्यादिवत् संस्का. रकर्मण्यपि नामार्थवत्वोपपत्तेरिति न्यायसुधाकारः । वस्तुतस्तु संस्कारकर्मत्वे द्रव्यसम्बन्धांशेऽस्य अपूर्वनिधित्वा- पचे लघुभूतनियमविधित्वापादकं तस्ये तिषष्ठया गुणत्वपरत्वमङ्गी- कृत्य आरादुपकारकत्वमेव प्रयाजादिवत् युक्तमाश्रयितुम् । अत एव उद्देशप्रक्षेपत्यागसमुदायरूपस्य होमस्यैव एकस्य पदार्थस्य विधेयत्वात् अवयवभेदमङ्गीकृत्य भाव्युपयोगाङ्गीकरणमपि अन्याय्यमेव । स्त्रि- एकदादौ तु न सामवायिकत्वलामार्थं तदङ्गीकरणम् । अपि तु २१२ मीमांसाकौस्तुभे [ अमिहोत्राधि- दृष्टार्थत्वलाभायैव । प्रकृते तु संस्कारकर्मत्वेऽप्यष्टकल्पनायाः आ. वश्यकत्वात् साध्यभेदो निष्पमाणकः। अतश्च तुषोपवापवत् परम- युक्तद्रव्योपजीवित्वेऽपि संस्कारकर्मत्वाभावात् नोक्तफलसिद्धिः । विकृतिषु वाचनिकमयाजपर्युदासे परं यत्किञ्चिदाज्येनाभिधारणे- ऽपि न जौहवोत्पादनम्, कपालवत् परपयुक्तत्वात् । परप्रयुक्तत्वञ्च चतुर्ग्रहीतवाक्ये प्रयाजत्रयसाधनानुवादैवयर्थ्य भिया अवगम्यत इति न किञ्चिदनुपपन्नम् । नन्वेवं प्रक्षेपांशेनारादुपकारकत्वेऽपि उद्देशांशेन सान्नाय्याङ्ग- भृतेन्द्रदेवतास्मरणार्थत्वेन दृष्टार्थत्वोपपत्तेः स्वाहाकारोत्तमप्रयाजानू याजवदेव सन्निपसोपकारकत्वोपपत्तिः । न च सानाय्ये महेन्द्रदेव- ताया अपि वैकल्पिक्यास्सत्वाद कमिन्द्रमावस्मारकत्वोपपत्तिः । मोक्षणादिवत सानाय्यापूर्वसाधनीभूतदेवतामात्रस्मरणार्थत्वकल्पनया आधारहोमसम्बन्धिदेवतोद्देशेन सानाय्य सम्बन्धिदेवताद्वयस्यापि स्मरणोपपत्तेः। अतश्च यद्यपि (१)वीहिणां मेध सुमनस्यमान" इति मन्त्रस्य यवप्रयोग इव महेन्द्रप्रयोगेऽपि “इन्द्र ऊों अध्वर' इत्यस्य लोपेऽपि 'महेन्द्रायेदं न मम' इसनेन देवतोद्देशेनैव सान्नाय्यदे- पतास्मरणोपपत्तेरिति चेत्- नमन्त्रवर्णस्यैवानोद्देशकल्पकत्वेन कल्पकलोपे तल्लोपस्यैव न्या- य्यत्वात् । “ता एता एकविंशदाहुतयो भवन्ति-द्वावाघारौ, पञ्च प्रया- जाः,द्वावाज्यभागौ,आग्नेयः,(२)तदश। उपांशुयाज:.अग्नीषोमीयः पुरो. डाशः, खिष्टकृत् , इडा, वयोऽन्याजाः, सूक्तवाकः, शंयुवाक- श्च, यत्पनीसंयाजेषु जुगादीयते, समिष्टयजुश्चे"ति शतपथश्रुतिगतेन प्रकरणसनाथेन लिङ्गेन पौर्णमास्या(३)मपि विधानाच, अनश्च आरा- दुपकारक एवाधारो नामधेयञ्च तस्याघारपदमिति सिद्धम् । एवञ्च आधाराग्निहोत्रपदयोः तत्प्रख्यापकशास्त्रान्तरसद्भावेन गुणविधित्वा- सम्भवे सिद्ध धातुसमभिव्याहारात् तन्नामत्वे चावधारिते सामाना- १ ते, प्रा. ३-७-५-३. रते दश। aftane . ३ममावास्या।
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २१३ धिकरण्याथ द्वितीयाऽपि तृतीयार्थलक्षिकेसङ्गीक्रियते । न च शक्य. सम्बन्धाभावः। धात्वर्थे असाधितस्य करणत्वानुपपत्तेः कर्मत्वस्याऽपि सत्वात् एकार्थसमवायसम्बन्धेन विधिसामर्थ्यावगतकरणत्वलक्ष(१). कत्वोपपत्तेः । एवं दर्शपूर्णमासवाक्येऽपि आग्नेयादिवाक्येषु कालयागयोरुभयोर. पि प्राप्तौ भावार्थाधिकरणन्यायेन धात्वर्थस्यैव फलसम्बन्धकरणेन गुणफलसम्बन्धानुपपत्तिः । यत्र धात्वर्थः प्राप्तः गुणश्चाप्राप्तः तत्रैव गुणफलसम्बन्धः भावार्थाधिकरणापादेन, न तु यत्र गुणोऽपि प्राप्तः । अत एव(२)"ऐन्द्रवायवाग्रान् ग्रहान् गृहीयात् यः कामयेत यथा- पूर्व प्रजाः कल्पेरन्" इति वाक्येन ऐन्द्रवायवाग्रतारूपगुणः न फलार्थ विधीयते, अपि तु ग्रहणान्येवेत्युक्तं दशमे । ततो यागानामेव फलस- म्बन्धाद तेषां च उत्पत्तिवाक्यप्राप्तकालसम्बन्धिलक्षणया दर्शपूर्ण- मासपदं नामधेयम् । एवं समिदादिपदमपि मन्त्रवर्णादेव समिदादिदेवताया प्राप्तत्वात लक्षणया नामधेयमेव । (३)“य एवं विद्वानि"ति वाक्यद्वयेऽपि प्रयाजानुवादेन वैकल्पिक कालद्वयविधानशङ्कापि एतद्विध्यभावे फलवाक्ये सर्वेषामेकफलसाध. नत्वेनावगतानां यागानां सहप्रयोगाऽवगमाव आग्नेयादिसाहित्या. नुरोधेन पौर्णमास्यां अमावास्यायां वा प्रयाजादीनां अनुष्ठानोपपत्ते विधियर्थयप्रसङ्गादेव निराकर्तव्या । तस्मात् तदपि त्रिकस्य त्रिकस्य नामधेयम् । सूत्रं तु गुणप्रख्यापकशास्त्रान्तरयुक्तं यत् पूर्वाधिकरणद्वयावि- षयीभूतं तदपि नामधेयमिति व्याख्येयम् । इत्यग्निहोत्राधिकरणम् ॥ ४॥ (तत्पख्यन्यायः) १ लक्षणोपपत्तेः २ ते. सं.७-२-७-१ ३. तै. सं. १-६-१-१.
२१४ मीमांसाकौस्तुभे [तब्धपदेशाधि- (५) तव्यपदेशाधिकरणम् । सू-तव्यपदेश च ॥ १-४-५.॥ (सि) "अथैष श्येनेनाभिचरन् यजेत" "अथैष सन्दन्शेनाभिचरन् यजे- A" "अथैष गवाभिचरन् यजेत"इत्यादिषु श्रुताः श्येनादिशब्दाःगुण. विधयः कर्मानामधेयानि वेति विचार्यते । तत्र प्रसिद्धयादिभिर्गुणविधि- त्वम् ।न चात्र उद्भिन्न्यायावतारः,तस्य सोमदध्यादिवत् रूढेष्वप्रहत्तेः। नापि वाक्यभेदः येन चित्राधिकरणन्यायप्रवृत्तिः शंक्येत । अत एवं तत्पख्यशास्त्रान्तरसद्भावात् न पूर्वाधिकरणविषयत्नम, तेन प्रत्युदाह- रणरूपेण पूर्वपक्षोत्थानात् अनन्तरा सङ्गतिरपि सिद्धा भवति । तत्रा- पि फलोद्देशेन गुणविशिष्टकर्मविधानम् । नचैत्रमपि "यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेन" इत्यर्थवादोपात्तश्येनसादृश्यस्य इयेन एवासम्भवात् श्येनशब्दस्य गौण्या वृया यागपरत्वं परिकल्प्य प्रसिद्धश्येनसादृश्योपपादनार्थं पागनामत्वं स्वीक्रियतामिति वा- च्यम् । विशेषणांशे प्रसिद्धस्य श्येनसादृश्यस्याभेदादनुपपद्यमानत्वे. ऽपि विशेष्यांशे तस्योपपन्नतरत्वेन नामत्वासाधकत्वात् । अथ वा एतस्य वाक्यजातस्य ज्योतिष्टोमप्रकरणे पाठात् कर्म- भेदकप्रमाणाभावेन विशिष्टविधित्त्रानुपपत्तेः ज्योतिष्टोमाश्रित पत्र गुणः फलाय विधीयते "दध्नेन्द्रियकामस्य जुहुयादि"तिवत् । न चैतस्मिन्नपि पक्षे तर्हि गुणस्यैव विधेयत्वेन स्तोतव्यत्वात् स्वस्यैव स्वोपमानवानुपपत्तिः। "(१)रामरावणयोर्युदं रामरावणयोरिव" इत्यादिवदौपचारिककालव्यक्तिकृतभेदकल्पनया उपमानान्तराभाव- लक्षणया वा स्तुत्युपपत्तेः । न च तर्हि स एव दोषः । उपक्रमस्थविध्युद्देशवार्तश्येनपदस्य १ श्रीमद्वाल्मी० यु. ११०-२४.
. . करणम् ] प्रथमाध्यायस्थ चतुर्थः पादः। २१५ गुणत्वकल्पनापेक्षया उपसंहारस्थार्थवादे तदङ्गीकरणस्यान्याथ्य- स्वात् । न पत्र विध्युद्देशः सन्दिग्धः, येन वाक्यशेषेण निर्णीयेत । एतदभावे "सोमेन यजेते" सादिवत् गुणविधित्वस्य त्वयाप्यङ्गीकार्य- त्वात् । अतो विरोधात् उपक्रमस्य प्राबल्येनार्थवादे अन्यथानयनं न दोषः। वस्तुतस्तु उपमानान्तराभावद्योतकस्य उपमेये उपमानत्वकथ- नरूपानन्धयालङ्कारस्याभेदेऽनुगुणत्वमेव । अत एव "ते तद्विलासा इत्र तद्विलासा" इसादौ अभेद एव अनन्वयालङ्कारोदाहरणं सङ्गच्छते । अतो निर्मुलैव नामत्वोक्तिरिति प्राप्ते- अभिधीयते-विशिष्टकर्मान्तरविधिस्तावत् भेदकप्रमाणाभा- वादेवायुक्तः, गुणफलसम्बन्धविधिस्तु उपमानासम्भवादेव निराक- तव्यः । यद्यपि चेयं स्तुतिः नासन्तस्वार्थसत्यत्वमपेक्षते, तथापि आलम्बनापेक्षत्वात् नोपमानस्य भेदं विनोपपत्तिः, नचौपचारिक- भेदकल्पना रामरावणयोरित्यत्रेवाशङ्कनीया। एकस्या एव व्यक्त कालभेदेन उपमानत्वकल्पने तावत् यथा अनेन पूर्व निपत्य मांसादानं कृतं तथा वैरिणोऽप्यादानं क्रियते इसर्थस्यापत्तेः आदत्त इति लटः भूतकाललक्षणा,यथैवंशब्दाभ्यां समभिव्याहृतयोः श्येनपदसर्वनाम्नोः भिन्नार्थकतेन प्रतीयमानयोः एकार्थत्वकल्पनेत्यनेकत्र दोषकल्पनाप- तेः वरमेकत्रैवोपक्रमस्थेऽपि श्येनपदे लघुभूतद्वितीयविधिप्रकारापा. दिका निरूढा गौणी युक्ता आश्रयितुम् । अत एव जघन्यानामपि भूयसामनुग्रहो न्याय्यः । मुख्यानुग्रहश्च समसङ्ख्याविषय इति द्वादशे वक्ष्यते । एवमेकस्मिन्नपि कार्ये व्यक्तिभेदेन उपमानकल्पनायां श्येन. पदसर्वनाम्नोः श्येनत्वावच्छिन्नोपस्थापकयोः ग्राह्य तदितरव्यक्तिल. क्षकत्रम्, पुनश्च विधेयतावच्छेदकश्येनत्वावच्छिन्नस्य स्तुत्यभावः इत्यनेकत्र दोषः ।
.0 २१६ मीमांसाकौस्तुभे [तव्यपदेशाधि- वस्तुतस्तु “रामरावणयोरिव" इत्यत्र नैव औपचारिकभेदक- रूपनया उपमानोपपादनम् , रसविधातापत्तेः । किन्तु उपमानाभाव. लक्षणया अनन्याचरितत्वख्यापनमेव । अतश्च तद्रदेवात्र उपमाना- न्तराभावलक्षणायां पूर्ववदेवात्र अनेकेषु पदेषु लक्षणेति । नचोपमा- न्तराभावस्य व्यञ्जनयैवोपस्थितेः न लक्षणेति वाच्यम् । तस्याः - त्यन्तरत्वे प्रमाणाभावात् । अत एवास्मन्मते अनन्वयालङ्कारस्थ- लेऽपि तात्पर्यानुरोधेन लक्षणैवेति ध्येयम् । अतः प्रकृते अनेकेषु पदेषु लक्षणापत्तेः एकस्मिन्नेव वरं मुख्येऽपि येनपदे एका निरूढा गौणी। सापि च भिन्नयोः आहाभेदकथनात्मकरूपकविधयै- वेति केचित् । वस्तुतस्तु वेदे आरोपकपुरुषाभावात् न क्यापि रूपकम् । अतस्साधारणधर्मवाचिपदाभावात् लुप्तोपमारूपयं गौणी। तत्र च प्रसिद्धश्येनातिरिक्तं तत्सदृशश्च यागरूपमपि अभिचाररूपफलजनक श्येनपदप्रतिपाद्यमित्येतावदवगम्यते । ज्योतिष्टोमस्य संज्ञान्तरावरो- धाव तत्वानुपपत्तेः गौणसंज्ञयैव कर्मान्तरत्रसिद्धिः । नचैव सर्वत्र जघन्यत्तिस्थले अतिप्रसङ्गनिराकरणस्य पदा- स्तरसमभिव्याहाराघवगलतात्पर्यबलादेव सिद्धेः सिद्धान्ते रूट्यगी. करणप्रयोजनाभावः । “समानमितरत् श्येनेन" इसादौ प्रसिद्ध- इयेनयागोपस्थितिप्रयोजकत्वात् । अत एव दर्शपूर्णमासादिपदे लाक्ष- णिकेऽपि निरूज्यङ्गीकरणप्रयोजनं "मासं दर्शपूर्णमासाभ्या"मित्या- दिषु गौणत्वसिद्धिः । तस्मिन् हि सति मुख्यत्वाविशेषात् अपरत्र गौणी वृत्तियुज्यते, नान्यथा । अर्थवादस्तु श्येनपदस्थगौण्यपेक्षित- सादृश्योप(१)स्थापनार्थस्सन विनैव लक्षणां उपमानोपमेयसाधारण. धर्मसादृश्यवाचकपदैः पूर्णत्वात् पूर्णोपमाविधया विधेययागस्तुत्यर्थों न विरुध्यते । अतस्सिद्धमुपमानव्यपदेशानुरोधेन श्येनपदं ना. १ पपादनार्थ।
करणम् ] प्रथमाध्यायस्थ चतुर्थः पादः। २१७ मधेयम् । एवमुत्तरयोरपि “यथा सन्दशेन दुरादानपादत्ते" इति "यथा वै गावो गोपायन्ति" इतिचार्थवादिकापमानवशेनैव ना. मधेपत्त्रमनुसन्धेयम् । अतश्च सिद्धं श्येनादिपदानां नामधेयत्वमिति । सूत्रं तु विधिसितगुणोपमानव्यपदेशयुक्तं चशब्दात् मत्वर्थल- क्षणापादककर्मान्तरत्वग्राहिप्रमाणशुन्यं च यत् श्येनादिपदं तदपि नामधेयमिति व्याख्येयम् ॥ तदेवं मत्वर्थलक्षणा, वाक्यभेद, तत्प्रख्य, तव्यपदेशाख्यैः चतु. भिरेव प्रकारेस्सर्वत्र नामधेयत्वमुन्नेयम् । न त्वेतेभ्योऽन्यः प्रकारोऽ स्ति । विशिष्य चायमों (१) वैश्वदेवाधिकरणे निरूपयिष्यते। अत एव(२) “अथैष ज्योतिः “(३) अयैष सर्वज्योति" रिसादावपि यद्यपि प्रथमानिर्दिष्टे ज्योतिरादिपदे द्रव्यस्य क्रतुवाचकपदसमभिव्याहारा. भावे तदङ्गत्वेन विनियोक्तुमशक्तः प्रकरणेन च सिद्धरूपस्याविनि- योगाव"एतेन सहस्रदक्षिणेन यजेते" त्यनेनैव विनियोगसम्भवे क्र. मेणापि विनियोगाकरणात् क्रमेणैव च विनियोगे एतद्विधिया- पत्तेः ज्योतिष्टोमयागानुवादेन ज्योतिरादिपदोपनीताः गुणाः एत- च्छब्देन विधीयन्ते इसाशङ्का जायते तथापि एमच्छब्दपरामृष्टानां गुणानां सहस्रदक्षिणायाश्च प्राप्तकर्मानुवादेन विधाने वाक्यभेदाप- तेः चित्रान्यायेन नामधेयत्वम् । न च पाक्यभेदापादकगुणादेव कर्मान्तरत्वोपपतेः तस्यैव गुणद्वयविशिष्टस्य विधौ वाक्यभेदाभावात् न चित्रान्याय इति वाच्यम् । विधिगौरवापादककर्मान्तरत्वकल्पनापेक्षया नामधेयत्व- स्यैव न्याय्यत्वात् । अतश्च नामत्वकल्पकत्वात् तहलेनैव विधि- लाघापादकं कर्मान्तरत्वकल्पनमुचितमिति नामत्वमेव न्याव्यम् । एतदभिप्रायेणैव न्यायसुधाकृता ज्योतिरादिशब्दानां. द्भिदाय. : १ पू. मी. १.४-६. २ ता० ब्रा०१६-८-१. ३ ता. बा.१६-९-१. ૨૮ २१८ मीमांसाकौस्तुभे [ वाजपेयाधि- धिकरणेषु यथासम्भवं निवेशो भविष्यतीत्युक्तमिति तस्मिन् बहु- भाषितत्वमात्रारोपेण दोषाभिधानं भ्रम एव ।। एवं वैश्वदेवदर्वीहोमादिपदानामपि तत्प्रख्यन्यायादेव नामधेय- त्वम् । वैश्वदेवाधिकरणे तदेव वैश्वदेवपदस्याक्षिप्य समाधीयते । अ. हमादौ इह सिद्धमेव नामधेयत्वमपूर्वत्त्वविचारार्थ प्रसङ्गात् स्मार्यत इति न पौनरुक्समपीति सर्वमनवद्यम् ॥ इति पञ्चमं तद्वयपदेशाधिकरणम् ।। अथ षष्ठं वाजपेयाधिकरणम् (६)॥ सू-नामधेये गुणश्रुतेः स्यात् विधानमिति चेत् ॥ १-४-६॥ (पू) इह पूर्वाधिकरणे सूत्रगतचशब्दसूचितमस्त्रीलक्षणादोष एवाक्षिप्य समाधीयते "वाजपेयेन स्वाराज्यकामो यजेते त्यत्र वाजपेयशब्द: गुणविधिः कर्मनामधेयं वेति विचारः । तत्र वाजपेयशब्दो यवागू- रूपपेयानवचनस्सन प्रसिध्यादिभिर्गुणविधिः । न च मत्वर्थलक्षणा, यागस्य करणत्वानभ्युपगमात् । यदि करणत्वमभ्युपगम्येत ततो गु. णस्यापि करणत्वात् करणयोरन्वयार्थं भवेद मत्वर्थलक्षणा । न तु तक्ष्भ्युपगमे प्रमाणमस्ति । यजेतेत्यत्र श्रुत्या लक्षणया वा करणत्व- स्यानुक्तत्वात् । कथं तर्हि अनीप्सितस्य यागस्य प्रसयार्थरूपायां भा- बनायां अन्वयः। नह्यत्र भावनानङ्गीकारेण वैयाकरणवत् पूर्वपक्ष- स्सम्भवति । तस्याः प्रधानभूतायाः भावार्थाधिकरणे साधयिष्यमा- णत्वात् । कथञ्चैवं सति इतरकारकाणामन्वयः? उच्यते-- are करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २१९ धात्वर्थ एव सर्वेषां कर्मकरणसम्प्रदानानामन्वयः। न तु भावनायाम्। तस्या यत्ररूपत्वेन द्रव्यादिजन्यत्वासम्भवात् । धात्व- थद्वारकत्वाश्रयणापेक्षया साक्षात् धात्वर्थान्वयस्यैव न्याय्यत्वाच्च । अतस्साण्यपि कारकाणि भावनासम्बन्धमनादृत्य धात्वर्थेनैवा- बीयन्ते । सोऽपि च कारकान्वयित्वात् न स्वयं कारकलोपः । आप तु यथैव सिद्धान्ते सकलकारकाविता भावना क्रियारूपैव सती प्रत्ययेनाभिधीयते, तथास्मिन् मते धात्वर्थोऽपि क्रियारूप. स्वेनैव धातुनाभिधीयते । अत एव न भावनावदेव कर्मत्वकरणत्वा- दिकृतवरूप्यमाप । अतश्च सकलकारकविशिष्टो धात्वर्थोऽपि प्रधा- नभूतायां भावनायां करणत्वसम्बन्धेन नान्वीयते । अपि तु सम्बन्ध- सामान्येनैव । अत एव "प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः" इत्यनु- शासनमपि सम्बन्धसामान्याभिप्रायकं सङ्गच्छते । नचैवमाप सम्बन्धसामान्यस्य वाक्यार्थविधयैव भानोपपत्ते तवाप्यनुशासनवैयर्थम् । एनद्धलादेव प्रकृत्यर्थान्वयस्य शक्त्या निरूढलक्षणया वा पदार्थविधयैव भानाङ्गीकारात् । न च भावनायाः कारकरूपत्वे जनकत्वेन गुणत्वापत्तेः प्राधान्धाभावप्रसङ्गात् क्रिया- रूपायां तस्यां कारकातिरिक्तस्थान्वयानुपपत्तिः इत्यत्र किञ्चित् प्र- माणमस्ति । "(१)एतस्यैव रेवतीषु वारवन्तीयमानिष्टोम साम कु. स्वा" इसादौ क्रियाद्वयस्य कारकत्वातिरिक्तेनापि पूर्वकालत्वादिना सम्बन्धेन वातशोऽन्वयाङ्गीकारात् । अतश्चोल्लेखोऽपि यजेतेत्येवमा- कारक एव सम्बन्धसामान्येनेति न विरोधः । तदाप कारकाणां धा- त्वर्थसम्बन्धमेवाभ्युपगम्य तस्य भावनान्वय उपपादितः । अथ वा अस्तु प्रधानान्वयस्याभ्यर्हितत्वात् कारकाणां भाव- नायामेवान्वयः । न चैतावता यागस्यापि कारकत्वात् तस्य पूर्वो- तविधया सम्बन्धोपपत्तेः न कर्मत्वकरणत्वादिकृतवैरूप्यापत्तिः । १. ता. बा.१७-७-१.
यागा- २२० मीमांसाकौस्तुभे [ वाजपेयाधि- शाब्दबोधे युगपत् प्रतीसङ्गीकारे हि वैरूप्यं दोषः । न तु वस्तुत. एकस्मिन् अर्थे धर्मयाङ्गीकारः भिन्नप्रतियोगित्वेन तस्यादोषत्वात् । अतश्च एकस्मिन्नेव यागे वस्तुतो गुणादिनिरूपिते कर्मत्वे फलादि- निरुपिते च करणत्वे विद्यमानेऽपि तयोश्शाब्दबोधे प्रतीच्यभावा- दून वैरूप्यापत्तिः । अतश्च धात्वर्थस्य गुणवेनानवगमात् तत्र कारकीभूतगुणान्वयार्थ न मत्वर्थलक्षणापत्तिः । अत एव उद्भिदा. धुदाहरणऽपि विशिष्टविधिपक्षे मत्वर्थलक्षणाया दोषत्वेनोक्तवाद तत्रापि मत्वर्थलक्षणोद्धारोपपत्तेः तदप्यत्रोदाहरणम् । नुवादेन गुणविधिरिति पूर्वपक्षेऽपि विशिष्टविधाविव यानि जघ. न्यविधिप्रकाराद्याश्रयणापत्तिरूपाणि दूषणानि तेषां तत्र सम्ब- न्धाङ्गीकारेऽपि उद्धर्तुमशक्यत्वात् न तदाक्षेपार्थमिदमधिकरणम् । चित्राधिकरणेऽपि चित्रत्वस्त्रीत्वावच्छिन्ने द्रव्यविशिष्टकर्मान्तर- विधिपक्षेऽपि मत्वर्थलक्षणादोषस्याप्युद्भावयितुमशक्यत्वात् तदुद्धारा- थमपीदमधिकरणमिति तदप्यत्रोदाहरणम् । वाक्यभेदायुद्धारस्तु गुणद्वयस्य यागान्वये तन्त्रत्वोपपत्तावाप विध्यन्वयस्य तन्त्रत्वे प्रमाणाभावात् विध्यावृत्तिमसङ्गन (१)अश- क्य एव । एवं "आज्यैः स्तुवत" इत्युत्पत्तिवाक्येऽपि आज्यविशिष्टस्तोत्र- विधाने मत्वर्थलक्षणादोषस्याप्युद्भावितत्वात् तदुद्धारार्थमप्येतदधिक- रणम् । आज्यप्रकाशकमन्त्रलक्षणादिदोषस्योद्धारस्तु तत्राप्यशक्य एव । “पञ्चदशान्याज्यानी" सत्र तु सामानाधिकरण्येनान्वयस्य विशिष्टविधावपि मत्वर्थ लक्षणां विनैवोपपत्तेः आज्यानां च द्रव्यत्वेन क्रियान्वयस्य शङ्कितुमप्यशक्यत्वेन तदुद्धारस्याप्यशक्तेः न तस्यो- दाहरणत्वम् । एवमग्निहोत्रशब्दोऽपि नोदाहरणम् । तत्र बहुव्रीहिणैव मत्व- १. अनाशंक्य एव।
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २२१ यस्योपादानेन विशिष्टविधिपक्षे मत्वर्थ लक्षणाया अप्रसक्तत्वात् । न चैवं वाजपेयपदेऽपि वाजं पेयमस्मिन्निति बहुव्रीह्यन्तत्वाविशेषात् तल्लक्षणापत्तेः अप्रसक्तोद्धारायोगेन अस्योदाहरणत्वानुपपत्तिः। ब- हुव्रीह्य पेक्षया वाजं च तत् पेयं चेति कर्मधारयस्य लघुत्वेनाश्रयणी- यत्वात् । तदा च कर्मसामानाधिकरण्यार्थं मत्वर्थलक्षणायाः प्रसक्त- वेन तदुद्धारोपपत्तेः। यस्तु अग्निहोत्रशब्दे तत्पख्यायायः, स नैत्रोद्धर्तुं शक्यः । न हि तन्त्रसम्बन्धेऽपि मान्त्रवर्णिकदेवताप्राप्तिः निराकर्तुं शक्यते । यत्तु-अत्र न्यायसुधाकृता स्वमतवासनया यदग्नये चेति शा- स्त्रस्य देवतापापकत्वं तन्त्रप्सम्बन्धपक्षे कर्मान्तरत्वापत्तेः न सम्भ- वतीत्युक्तम् । तत् तन्त्रसम्बन्धाङ्गीकारेऽपि प्रकृतकर्मप्रत्यभिज्ञानात् कर्मान्तरत्वे प्रमाणाभावादयुक्तं इत्युपेक्षितम् । नचैवं तत्पख्यन्यायस्यानुद्धारे वाजपेयशब्देऽपि (१) सुराग्रहा- न गृहाती” त्यनेनैव सुरारूपपानाहान्नद्रव्यस्य प्राप्तत्वात् कथं द्वि- धानोपपत्तिः ? सुरोद्देशेन ग्रहणाख्यसंस्कारविधानेऽपि मुराविनि- योगविधेरत्राभावेन वाजपेयशब्देन मुरारूपयवागूविध्युपपत्तेः । श्येनशब्दे तु चशब्दनैव विशिष्टविधिपक्षे मत्वर्थलक्षणायास्मू- चिततात् तदुद्धारोपपत्तेः उदाहरणत्वं युक्तमेव । तथ्यपदेशन्यायस्तु नैवोद्धर्तुं शक्यत इति सर्वत्रैव मत्वर्थलक्षणामात्रस्यैवोद्धारात् सर्वा. ण्यप्युद्भिदादीनि यथासम्भवमुदाहर्तव्यानि । नचैवं अत्रापि वाज- पेयोदाहरणवैयर्थ्यम् । वक्ष्यमाणतन्मात्रवृत्तिदीक्षोपसद्रूपलिङ्गदर्शना- नुरोधेन तस्योदाहृनत्वात् । अतो नामधेयत्वेनाभिमते सर्वस्मिन्नप्यु- द्भिदादिशब्दे गुणविधिपक्षे श्रुत्यर्थविधानासम्भवन मत्वर्थलक्षणादो- पस्याभावात् गुणविधानमेव युक्तमिति सूत्रार्थः। १. ते. ब्रा.१-३-३-३.
२२२ मीमांसाकौस्तुभे [वाजपेयाधि- सू-तुल्यत्वात् क्रिययोर्न ॥१-४-७॥ (सि) - नैते गुणविधयः, अग्रिमसूत्रोक्तरीया तन्त्रसम्बन्धासम्भवात् । वाजपेयोदाहरणे तु अयमपरो विशेषः । यदि यवागृरूपगुणविधानं औषधद्रव्यकविध्यन्तापत्तेः सोमयागक्रियायाः वाजपेययागक्रिया. याश्च परस्परं प्रकृतिविकाराभावेन तुल्यत्वापत्तेः सौमिकदीक्षोप- सत्याप्यभावेन तत्र "सप्तदशदीक्षो वाजपेयः" "सप्तदशोपसत्को वाज- पेयः" इति संख्याविधानात् दीक्षोपसदामनुवादो नावकल्पेत, नाम- धेयत्वे तु अव्यक्तत्वेन सौमिकविध्यन्तप्रवृत्तेः युक्तस्तदनुवादः । नचैवं गुणविधिपक्षेऽपि अव्यक्तत्वानपायात सौमिकविध्यन्त- प्रवृत्तिस्तुल्येति वाच्यम् । देवताघटितसादृश्यस्यैव बलवत्तायाः अष्टमे स्थापयिष्यमाणत्वेन गुणविधिपक्ष ऐष्टिकविध्यन्तस्यैव प्रस- ते । सो लिङ्गबलादपि वाजपेयशब्दो नामधेयम् ॥ . सू-ऐकशब्द्ये परार्थवत् ॥ १-४-८॥ न धात्वर्थे कारकाणामन्वयः, प्रधानभूतभावनान्वये सम्भवति गुणभूतान्वयस्यान्याय्यत्वात् । अत एवं यत्र प्रधानभूता भावना नास्त्येव, यथा-घटो भवतीत्यादौ, तत्रं धात्वर्थ एव कारकान्वय इति प्राचां मते वक्ष्यते । तत्राख्यातलक्ष्ये आश्रयत्वादावेवान्वय इति तु नव्याः । यत्र तु भावनासर्वापेक्षया प्रधानाभूता, यथा-आख्याते, पत्र वा द्रव्याद्यपेक्षया गुणत्वे विद्यमानेऽपि धात्वर्थापेक्षया प्राधा. न्यस्वीकारः, यथा-पक्तेत्यादौ कृदन्ते, तत्र प्रधानत्वात् भाक्ना- यामेव कारकान्वयः, न धात्वर्थे । सोऽपि भावनायां न सम्बन्धसामा- न्येन, अपि तु पचति पाकं करोति, पाकेन ओदनं निष्पादयति करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २२३ इत्यादिविवरणात् कारकत्वेनैव । यदपि च पाकस्य कृतिः पाकस्य भावना इत्यादिषष्ठया विव- रणम् , तदपि कृद्योगे कर्मणि षष्ठीत्येवं कर्मकारकत्वार्थकमेव । अ. तश्च विधिसमभिन्याहारसत्वे धात्वर्थस्यापि अपुरुषार्थस्य करणत्वे. नैव भावनान्वयः, तदभावे पुरुषार्थत्वावगतौ वा कर्मत्वेनैवेति न सम्बन्धसामान्येनान्वयः, अन एव "सह ब्रूत" इत्यानुशासनमपि कारकत्वरूपान्वयस्य पदार्थविषया भाननियमपरम् । न तु सम्ब. न्धसामान्यस्य । अनश्च कारकत्वेन भावनान्वये पाष्टिकान्वयवेलायां योग्यत्वात् फलेनैवान्वयार्थम् , न तु गुणेन, विधिसमभिव्याहारे सति कथञ्चित् कर्मत्वाभ्युपगमे गुणेनैवान्वयः स्थाव, न फलेन । उभयरूपत्वावगत्यङ्गीकरणं तु युगपद्धोधे विरुद्धम् । श्रूयमाणस्यैव क्रमिकबोधद्वयवाचकत्वाङ्गीकरणे आवृत्तिलक्षणो वाक्यभेदः,एकस्यैव यागस्य विधयत्वं, गुणवं, उपादेयत्वञ्च फलं प्रति । गुणं प्रति अनुवाद्यत्वं, प्राधानत्वं, उद्देश्यत्वञ्चेति विरुद्धत्रिकद्वयापातश्च । तथा हि-क्रमिकेऽपि बोधे विध्यपेक्षितत्वेन गुणत्वावगतेः प्राथ- मिकत्वस्यावश्यकत्वात् अज्ञातपूर्वस्यैव यागस्य फलसम्बन्धकरणेन तत् प्रति यागस्याज्ञानज्ञापनविषयत्याख्यं विषयत्वं करणत्वाव- स्थायां ज्ञातस्य यागस्य गुणसम्बन्धवेलायां उत्तरकालमनुवादात् ज्ञातज्ञापनविषयत्वाख्यमनुवाद्यत्वं गुणं प्रति । तदिदं यागगुणयोरु- त्पत्तिविधिक्रमाङ्गीकारे पूर्व यागस्योत्पत्तिः, अनन्तरं गुणस्यति वैरूप्यम् । तथा फलं प्रति यागस्य शेषन्त्रापरपर्यायं गुणत्वम् । गुणं प्र- ति शेषत्वापरपर्यायं प्राधान्यमिति श्रूयमाणस्यैव क्रमिकविनियोग- विधिविषयत्वाङ्गीकारे बैरूप्यम् । तथा फलं प्रति यागस्योपादेयत्वं, गुणं प्रति चोद्देश्यत्वमिति प्रयोगविधिक्रमाङ्गीकारे वैरूप्यम् ।
२२४ मीमांसाकौस्तुभे [ वाजपेयाधि- ननु किमिदं उपादेयत्वम् ? उद्देश्यत्वं वा ? न तावत् कृति- व्याप्यत्वतदव्याप्यत्वे । समादिरूपस्य देशस्य, दर्शपूर्णमासोत्तरत्वादे- श्व कालस्य, रथन्तरसामत्वादेश्च निमित्तस्य, ब्रीह्यादेश्च संस्कार्यस्य, कृतिव्याप्यत्वसत्वेन उपादेयत्वापत्तेः । कर्तुः तदेकत्वादेश्च कृति- व्याप्यत्वाभावेन उद्देश्यत्वापत्तश्च । नापि कृतिव्याप्यत्वेन प्रकृत- विध्यन्वयित्वमुपादेयत्वम् । एवमपि कर्नादावव्याप्तिस्तदवस्थैव । यथा च कर्बकत्वादि नानुपादेयं तथा (१)प्रकरणान्तराधिकरणे वक्ष्यते । किश्चैव आहवनीयपुरोडाशकपालादिष्वपि विध्यन्तरप्रयु. केषु तत्र विधौ कृतिव्याप्यत्वेनान्वयात् अव्याप्तिः स्यादेवीत चेत्- उच्यते-कृतिसमवायाघटितसम्बन्धेन प्रकृतभावनान्वयित्वे सति प्रकृतविधिप्रयुक्सविषयत्वं उद्देश्यत्वम् । तदभावश्चोपादेयत्वम् । अस्ति चेदमुद्देश्यत्वं स्वर्गादिरूपे फले, प्रातरादिरूपे काले, सरस्व. तीदक्षिणतीरादिरूपे देशे, राहूपरागादिरूपे निमित्ते । तेषां यथो- तकर्मतादिसम्बन्धेन भावनासम्बन्धिनां कृतिविषयत्वाभावेन प्रकृ. तविध्यप्रयुक्तत्वात् । अस्ति चेदं समादावापे, तस्य वस्तुतः कृतिव्या. प्यत्वेऽपि लोकसिद्धसमोपजीवनेन प्रकृतविध्युपपत्तेः ब्रह्यादिवच्च निष्पत्युत्तरकालं विहारदेशमापणादिरूपक्रियान्तरव्याप्यत्वाभावेन प्रकृतविधिप्रयुक्तिविषयत्वाभावात् । अत एव पशादिद्रव्यस्य तनिष्ठगुणादेश्च वस्तुतो लोकसि- द्धत्वेऽपि विहारदेशपापणादिक्रियाविषयत्वेन प्रकृतविषिप्रयुक्ति. विषयत्वात् नातिव्याप्तिः। एवमाहवनीयादेः आधानविधिप्रयुक्ताधाननिष्पन्नत्वेन "य- दाहवनीये जुहोती"त्यादि प्रकृतविधेः उत्पत्यप्रयोजकत्वेऽपि प्रणयन- पादुष्करणादिरूपक्रियान्तरव्याप्यत्वेन रूपेणप्रयुक्तिविषयत्वसत्वात् नातिव्याप्तिः । १-पू मी २-३-१४.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । एवं पुरोडाशकपालस्यापि विहारदेशव्यवस्थितस्य हस्तग्रहणा- दिरूपाक्रियाविषयत्वं द्रष्टव्यम् । संस्कार्यस्य च "व्रीहिभिर्यजेते" ति वाक्ये प्रयुक्तिविषयत्वे. ऽपि "ब्रीहीन प्रोक्षति" इत्यादिमस्कारबोधकप्रकृतविधौ प्रयुक्ति- विषयत्वाभावात् उद्देश्यत्वाविघातः । आख्यातोपात्तस्य कर्तु। तदेकत्वादेर्वा सत्यपि प्रकृतविध्यप्रयुक्तत्वे कृतिनिरूपितसमवायघटि- तसम्बन्धनैव प्रकृतभावनासम्बन्धात् नातिव्याप्तिः । यत्र तु केशश्मश्रुवपनादौ भोक्तृसंस्कारे मुष्टीकरणादो कर्तृसंस्कारे पुरुषस्य संस्कार्यत्वम्, तत्र तस्य कर्मतासम्बन्धेनैव संस्कारभाव- नान्वयात् समवायघटितसम्बन्धेनान्वयाभावेन नोद्देश्यत्वविधातः । एवमाधानवाक्ये अग्नीनां कर्मतासम्बन्धेनान्वयेऽपि तद्विधे- राधानमात्रप्रयोजकत्वेन अग्नीनामनुनिष्पन्नत्वेन अप्रयुक्तत्वेन नोद्देश्यत्वविधातः। नचवमैपि प्रतिपत्तिरूपसंस्कारस्य संस्कार्यस्थापनक्रियाप्रयोज- कस्वाङ्गीकारात् स्थापनक्रियाव्याप्यत्वेन संस्कार्यस्यापि प्रयु. क्तिविषयवोपपत्तेः उद्देश्यत्वानापत्तिः । तादृशक्रियाया अननुष्ठेय. स्वेन लक्षणे तयाप्यत्वेन प्रयुक्तिविषयत्वस्य विवक्षानङ्गीका- रात् । अतश्च यागगुणयोः प्रयोगविधिक्रमिकवाङ्गीकारेण फलो. देशेन गुणप्रयोगविधिवेलायां तस्योपादेयत्वम् , यागोदेशेन गुण- प्रयोगविधिवेलायां च तस्योद्देश्यत्वमिति वैरूप्यम् । यद्यपि कालादिविशिष्टस्य कर्मणः फलोद्देशेन विधी यागवि- धिवेलायामुपादेयतया अन्वितस्यापि कालादिविधिवेलायां का. लस्य प्रयोगविध्यविषयत्वेन यागस्यैव कालाजुद्देशन उपादेयत्वा- ङ्गीकरणात् न वैकप्यम् , तथापि द्रव्यादिविशिष्टविधावत्र सम्भवा- दुपन्यस्तम् । कालादिविशिष्टविधौ वैरूप्यद्वयमेवोपन्यसनीयमिति न कश्चित् विरोधः । अनश्च श्रूयमाणस्थैव क्रमेण, युगपद्वा २९ मीमांसाकौस्तुभे [ वाजपेयाधि- न उभयरूपपरत्वायोगात् श्रूयमाणो विधिः अन्यतरपरः, अन्यच्चार्थिक- मिसवश्यमभ्युपगन्तव्यम् । तत्र विध्यपेक्षितत्वात योग्यत्वाच्च भावार्थाधिकरणन्यायेन करणत्वमेव शाब्दं प्राथमिकभावनान्वयि इति पार्टिकसम्बन्ध. वेलायामपि तेनैव रूपेण फलेनान्वयः, तु कर्मतया गुणेन, तस्य फलसम्बन्धोत्तरकालीनत्वेनार्थिकत्वात् । अतश्च गुणस्यापि प्राथमिकभावनान्वये सञ्जातेऽपि द्वितीयबोधवेलायां यागसम्ब. न्धस्यावश्यकत्वात, तदा च यागं प्रति करणत्वात् करणीभूत- स्य गुणस्यान्वयात् मत्वर्थलक्षणा आवश्यकी न कथञ्चिदुद्धा. रमर्हति । साचेयं रूढेषु सोमादिषु कश्चिदङ्गीकृतापि न यो- गिकेद्भिदादिषु अङ्गीकर्तुमुचितेति तेषां नामधेयत्वमेवाश्रितम् । न चवमपि वाजपेयशब्दस्य गुणे यौगिकत्वेऽपि कर्मणि तदभावात् एकहायन्यादिपदवत् मत्वर्थलक्षणाङ्गीकारेणापि गुण- विधित्वमेव स्यादिति वाच्यम् । मत्वर्थलक्षणाभावेन गुणविधित्वे निराकृते वाजपेयपदस्यार्थवत्वाय यजिसामानाधिकरण्योपपसर्थ च बहुव्रीह्यङ्गीकरणेन नामत्वस्यैवाश्रयितुं युक्तत्वात् । न च ब- हुव्रीह्यर्थाप्रसिद्धिः। वाजपेयरूपसुरासम्बन्धित्वस्य प्रमाणान्तरेण सिद्धेः । यद्यपि साक्षात् यागे न पुरासम्बन्धित्वं प्रसिध्यति, त- थापि “(१)सप्तदश मुराग्रहान गृहाती"त्यनेन ग्रहणसंस्कृतानां वि- नियोगापेक्षायां "(२)अनेन मधुग्रहं निष्क्रीणाति "तं ब्रह्मणे ददाति सपात्र"मिति शतपथश्रुत्या सुराप्रतिग्रहकर्वे पूर्वदत्तहिरण्य- पानस्थमधुग्रहस्य सुराग्रहाणां निष्क्रयार्थत्वेन विनियोगाद मधुग्रहस्यापि च सपात्रस्य ब्रह्मसम्बन्धि सम्पदानके दाने विनि- योगात् परम्परया यागे मुरासम्बन्धित्वप्रसिद्धः । अतो युक्तं नामधेयत्वम् ॥ १श. ब्रा.१-१-१-१०. २श.बा.५-१-५२-२८.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । सूत्रं तु ऐकशब्द्ये एकेनैव शब्देन युगपत् क्रमेण वा कर्मत्वकरणयोर्बोधे उच्यमाने स्वार्थवत् स्वार्थविधानवत् परार्थ- वत् परार्थविधानवच्च रूपयाङ्गीकारात वैरूप्यापत्तेः गुणविधित्वं न युक्तमिति व्याख्येयम् ॥ इति षष्ठं वाजपेयाधिकरणम् ।। अथ सप्तमं आग्नेयाधिकरणम् (७)॥ सू-तद्गुणास्तु विधीयेरन् अविभागात विधा- नार्थे न चेदन्येन शिष्टाः ॥ १-४-९. ।। एवमाक्षेपसमाधानाभ्यां नामधेयत्वे सार्वत्रिके उपपादिते अधुना तदपत्रादः प्रस्तूयते । (१)"यदाग्नेयोऽष्टाकपालोऽमा- वास्यायां च पौर्णमास्यां चाच्युतो भवति" । (२) "अग्नीषोमीयमे- कादशकपालं पूर्णमासे प्रायच्छतू" (३)"ऐन्द्रं दध्यमावास्यायाम्", इत्यादौ आग्नेयादिशब्दाः गुणविधयः, कर्मनामधेयं वेति संश- यः । पादाध्यासङ्गती स्पष्टे । आफ्यादिकीत्वनन्तरा । आक्षेपसमाधानार्थस्यापि च पूर्वाधिकरणस्य नामधेयत्व- साधकत्वात् अस्य तदपत्रादत्वोपपत्तिः । तत्र यद्यपि भवतिना सत्तामात्रोपादानात् विधेः भावनाया वा सदवच्छेदयोग्यधात्वर्थस्य वा नोपादानम् , तथापि अप्राप्ता- र्थत्वात् विधि प्रकल्प्य तस्य भूधातोश्च भावनां विना अनुपप- तेः भावनापि तावत् भवतिनैवाक्षिप्यत इति सैवोच्यते । तस्यां च प्रथमान्तस्याष्टाकपालपदस्यानन्वयाद अनीप्सिततमत्वे तस्य कर्मत्वायोगात् अष्टाकपाल: सक्तुबदेव करणत्वेनान्वीयते । १ तै. सं.२-६-३-३. २ तै. सं. २-५-२-२. ३ तै. सं. ३ तै. सं.२-५-४-१.
२२८ मीमांसाकौस्तुभे [ आग्नेयाधि- तत्र च यदि अष्टाकपालकरणिकायां भावनायामग्नेरपि देवतात्वेन विशेषणत्वम्, ततोऽनेकविधिनिमित्तगौरवापत्तेः अग्ने: प्रमाणान्तरमाहत्वाच आग्नेयपदं नामधेयपरम् , न तु गुणवि- धिरित्यवगम्यते । तत्माप्तिश्चेत्थम्- अग्नेस्तावत् (१)"अग्निर्मूर्धा" इति याज्यानुवाक्यायुगलस्या. धिकाराख्यप्रकरणेन स्थानेन वा अष्टाकपालभावनाङ्गत्वावगतेः उपांशुयाजवत श्रुत्यविनियोगेऽपि देवताकल्पकत्वोपपत्तिः । न चाधिकारस्य उपांशुयाजादिष्वप्यविशेषाद् यथाक्रमपा- अदिरूपस्य च स्थानस्यापि अग्नीषोमीयब्राह्मणानन्तरपठिताग्ने- यब्राह्मणपाठापेक्षया मन्त्रपाठवैपरीत्यस्य (२)पञ्चमे वक्ष्यमा- णत्वेनाभावात् कथमङ्गत्वावगतिारीत न्यायसुधाकारोक्तं शङ्कनीय- मिति वाच्यम् । अग्नीषोमीयानन्तरपठितस्यानेयस्य "(३)शिरो वा एतद्यज्ञस्य यदागेयो हृदयमुपांशुयाजः पादावनीषोमीयः" इसनेन "स एष औपत्रसथ्येऽहनि द्विदैवत्यः पशुरालभ्यते "इतिवत् अप्राप्त- खेन विधिकल्पनात स्वस्थानादपकृष्य पूर्वमनुष्ठानावगतः अनुष्ठानसा- देश्यलक्षणस्थानक्रमात् पशुधर्माणामिव याज्यानुवाक्यायुगलस्यापि आग्नेयाङ्गत्वोपपत्तेः, अमावास्यायामाग्नेयमानाय्यमन्त्रयोः पाठक्रम- स्यापि सत्वाञ्च। अन्ये तु आग्नेयवाक्य एवार्थवादे (४) अग्नये ध्रियस्व" इति चतुर्थीनिर्देशात् देवत्ताप्राप्तिमाहुः, ते यदि तदर्थवादस्य वाक्यान्तर. स्वमङ्गीकृत्य तदाहुः तदा वाक्यभेदः। याद तु एकवाक्यतामङ्गीकृत्य सदा अनेकविधिनिमित्तदोषाभावात् वर मग्नय' इति तद्धितेनैव देव- ताप्राप्तिः। तस्मात् न्यायसुधाकृदुक्नदोषोद्धारस्य नायं पन्थाः इसस्म- दुक्त एव श्रेयान् । अाश्चाधाराग्निहोत्रयोः मान्त्रवणिकदेवता. १ते. ब्रा. ३-५-१०-१. २ पू. मी. ५-१-९. ३का. श.१-७-६. ४ तै. सं.२-६-३-३.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २२९ प्राप्तेः सम्भावितत्वात् आग्नेयादिपदं पुरोडाशकरणकभावनानामधे- यम् । अतश्च भावनाया अपि अवेच्छेदकधात्वर्थापेक्षायां स्ववाक्ये तदवच्छेदे योग्यधात्वर्थाश्रवणेऽपि देवतासम्बन्धकल्पितयागस्यैव प- श्वादवगतस्यापि अवच्छेदकत्वोपपत्तिः । इष्यते चाभ्युदितेष्टौ भा- वनान्तरविधिपक्षे गुणसम्बन्धबोधकवाक्येषु पश्चादवगतस्यैव घा- वर्थस्थावच्छेदकत्वम् । अनश्च पूर्वावगतस्यानिर्धारितविशेषरूपस्य भावनावच्छेदकीभूनधात्वर्थस्यैवेयं संज्ञेत्यस्यापि वक्तुं शक्यत्वाव नास्माकं भावनानामत्वाङ्गीकरणमच्यावश्यकम् । अत एव "ज्योतिौ" इत्येवमादेः अप्राप्तिबलकल्पितविध्यन्य- थानुपपत्तिसिद्धभावनाक्षिप्तानिर्धारितधात्वर्थस्यैव ज्योतिरादि नामे. त्यवधारिते पश्चादव्यक्तत्वादिसादृश्येनातिदेष्टव्यद्रव्यदेवतासम्बन्धब. लेन यागरूपधात्वर्थविशेषनिर्धारणमिदम् । तेन न धात्वर्थविशेषनिरूप- णं विना द्रव्यादिविशिष्टभावनाविधिस्सम्भवतीति कैश्चिदुक्तमपास्तम्। नचैवमपि नामधेयप्रयोजनस्य भेदाघरगमस्य गुणोपसम्बन्धा- देव आग्नेयादिपदे अभावात् तद्वैयर्यमिति न्यायमुधोक्तं युक्तम् । "(१)आग्नेयमाज्यम् (२)ऐन्द्रः पुरोडाशः" इत्यादौ द्रव्यसादृश्यवलेन उपांशुयाजानेयविध्यन्ते प्रसक्ते नामातिदेशबलेन आग्नेयसान्नाय्यवि- ध्यन्तप्राप्तेरेव प्रयोजनस्वात् । न च आज्यादौ अवधाताद्यसम्भ. वात् अतिदेशानुपपत्तिः । लुप्तार्थकानां बाधेऽपि अन्येषां मोक्षणा- दीनामतिदेशोपपत्तेः। आग्नेयादिपदस्य गुणविधित्वपक्षे तु देवतासा- दृश्यस्य दौर्बल्यात् उपांशुयाजादिविध्यन्तोपपत्तिरिति प्रयोजनवा- विधाता। यत्तु भवदेवेन तदनुयायिभिरन्यैश्च "आमेयं चतुर्धा करोती". त्यत्र नामस्वपक्षे कर्मणः चतुरावृत्तिर्विधीयत इति प्रयोजनमुक्तम् , तत् उत्पत्तिवाक्यगतस्यानेयपदस्य नामधेयत्वेऽपि चतुर्धा करणवा- १ का.सं.११-७. २. ब्रा. ३-७-१-७.
[ आमेयाधि- २३० मीमांसाकौस्तुभे क्यगतस्य तस्य “पुरोडाशं चतुर्धा करोती"ति वाक्यान्तरानुसारेणा- निदेवतोपलक्षितपुरोडाशपरत्वावगमेन तस्यैव विभागरूपचतुर्धाकर- णविषिप्रतीते: उपेक्षणीयम् । अतश्च पूर्वोक्तरीत्या प्रयोजनवत्वात् नामधेयत्वमेव युक्तम् । तेन नामधेयत्वपूर्वपक्षस्य प्राप्तिपयोजनयोरभावन अतितुच्छत्वात् विशिष्टविध्यसम्भव एवं पूर्वपक्षे, तदुपपादनं च सिद्धान्ते इत्येवाधिकरणशरीरम् । नामधेयत्वं तु आकरे आग्नेयपदानर्थ- क्यपरिहाराय सम्भवमात्रेणोक्तमिति यत् न्यायमुधाकृतोक्तं तत् विशि- विधिव्युत्पादनस्य प्रस्तुतनामधेयत्वविचारानुपयुक्ततेनासङ्गतत्वात नामत्वपूर्वपक्षस्य चात्र दृढत्वेन स्थापितत्वादयुक्तमेवेति प्राप्ते- अभिधीयतेनेदं नामधेयम् । तत्प्रख्यापकशास्त्राभावात् । यदि ह्यष्टाकपालकरणिकात्रभावना विधीयेत ततः तस्यां त्वदुक्तविधया मान्त्रवर्णिकदेवताप्राप्तेः सत्वात् स्यादस्यानेयपदं नामधेयम्, न तु तदस्ति, अष्टाकपालकर्तृकभवनाक्षिप्तायां भावनायामष्टाकपालस्य "भवसर्थस्य य: कां करोतेः कर्म जायते" इति न्यायेन कर्म- त्वेनैवान्वयनयत्याव। अतश्च पुरोडाशस्य स्वरूपेणानीप्सितस्यापि अनीप्सितकर्मत्वेनै- वान्वयोपपत्तः सक्तूनां विषयतासम्बन्धेन करणत्वव्यवहारवर अष्टा- कपालस्यापि कश्चिद्बुद्धिस्थत्वेन स्वोत्पत्तिं प्रत्यपि करणत्वव्यवहारो- पपत्तेः अष्टाकपालोत्पत्तिजनकव्यापाररूपैव अष्टाकपालभावना विधे. या। न तु सिद्धाष्टाकपालकरणिका अनिर्धारितधात्वर्थविशेषावच्छिन्ना यागादिभावना । अतश्च पुरोडशोत्पत्तिभावनायां अग्निदेवताप्रका- शकस्य याज्यानुवाक्यायुगलस्य कथञ्चिदप्यन्वयानुपपत्तेः याज्यानु- वाक्यासमाख्यासहकृतलिङ्गनान्यत्रैव विनियोगावगमेनानुष्ठानसादे- श्यलक्षणस्थानबाधापातात न मन्त्रस्याष्टाकपालभावनाङ्गत्वे प्रमाणम- स्तीति मान्त्रवर्णिकदेवताप्राप्तेरसम्भवान्नेदं तत्पख्यन्यायेन नामधेयम् ।
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । एवं अग्नीषोमीयवाक्येऽपि 'पायच्छदिति दानानुवादाद परकृ. त्यर्थवादेन दानभावनाविधेरेव कल्पनापत्तेः तत्र चाग्नीषोमयोः अप- तिगृहीतृत्वेनानन्वयात् तत्प्रकाशकस्य मन्त्रस्य वा स्थानादङ्गत्वानु- पपत्तेः पूर्ववदेव नामधेयत्वानुपपत्तिः ॥ आघारे तु यद्यपि श्रूयमाणे क्षरणात्मके धात्वर्थे इन्द्रप्रकाशा- कस्य मन्त्रस्याकाङ्क्षायोग्यतयोरभावात् नान्येन प्रमाणनान्वयस्सं. भवति, तथापि साक्षादितिकरणश्रुत्यैव विनियोगाव तबलेनैव च देवतायागयोयोरपि कल्पनात् क्षरणस्य च होमात्मकत्वकल्पनेना- विरोधा(१) पादनानामधेयत्वोपपत्तिरिति वैषम्यम् । उपांशुयाजे तु यागस्य प्रत्यक्ष श्रुतत्वात् तेन च स्थानेन मन्त्रा. न्वयोपपत्तेः देवताकल्पनं नैवानुपपन्नम् । अतश्चानेयादौ तत्प्रख्यशा- स्वान्तराभावात् कर्मणि चग्निदेवताकत्वस्य चाप्रसिद्धत्वेनोभयत्र तु. ल्यबद्दत्तिकत्वरूपोद्भिन्न्यायविषयत्वासम्भवात् विशिष्टविध्यङ्गीकारेण च वाक्यभेदाभावात् तब्धपदेशाभावेन च तन्न्यायस्य शाकिन्तुमध्य- शक्यत्वात आग्नेयादिवत् विधेयदेवतारूपगुणसमर्पणमेव । तत्र चायं प्रकार:-भवतीत्ययमप्राप्तार्थत्वात् अर्थवादसमभि- व्याहाराच्च लेडर्थकः, लत्वावच्छेदेन भावनाभिधायी, तस्यां च न भवन्मत इव अष्टाकपालस्य भाव्यमानत्वेन कर्मत्वम् । अपित्वग्निस. म्बन्धस्यैव; आग्नेय इति गुणप्रतिपादकपदान्तरोपादानसामर्थ्यात् । असति हि पदान्तरे पटो भवतीत्यादौ पटस्यैव भवने कर्तृत्वाद तदाक्षिप्तायां भावनायां तस्यैव कर्मत्वम् । सति तु पदान्तरोपादाने घटसंयुक्तः पटो भवतीत्यादौ गुणसङ्क्रान्तशक्तित्वात घटसयोगस्यैव भवनकर्तृत्वावगमेन भावनाकर्मत्वम् । अतश्चाग्निदेवतासम्बन्धकर्मि- कैवेयं भावना, न तु पुरोडाशोत्पादिका। सम्बन्धस्य च भावनायां कम- त्वं वास्तविकम् ; न शाब्दबोधे सम्बन्धो भावनायां कर्मत्वेनान्वेति । १ अविरोधोपपादनात्।
२३२ मीमांसाकौस्तुभे [ आनेयाधि- तस्य पाचकादिशब्द इवापदार्थत्वस्य (१)समाख्याधिकरणे वक्ष्य. माणत्वन पदार्थरूपायां भावनायर्या अन्वयायोगात् । शाब्दबोधे तु द्रव्यस्य करणत्वेन देवतालेन चामेरन्वयात् स. कलकारकविशिष्टाप्याक्षिप्तयत्किचिद्धात्वर्थकरणिका इष्टसामान्यभा- यिका च भावनैव विधीयते । पश्चाच्च हविस्समाभिव्याहृतदेवता- स्वस्य यागं विना अनिर्वाहात् भावनापेक्षितो धात्वर्थः याग एवेसव. धार्यते । न हि त्यज्यमानद्रव्योद्देश्यत्वरूपं देवतात्वं यागमन्तरेण सम्भवति । अतश्च देवतात्वानुमिनस्यापि शाब्दत्वासिद्ध्यर्थ स्वतन्त्र- पदाध्याहारे गौरवापत्तेरन्येषां च पदानां शक्यार्थान्वयबोधेनैव नि. राकाङ्क्षत्वाल्लक्षकत्वानुपपत्तेः भूधातुरेव भवनाश्रयत्वेन सम्बन्धेन यागलक्षको निर्वपत्यादिवदङ्गीक्रियते । न च देवतात्वस्य त्यागपटिनोपाधिरूपत्वात् त्यागरूपस्य च या. गस्य तद्धितेनैव प्रतीतिसिद्धेः न धातुना तल्लक्षणा युक्तेति वाच्यम् । यागत्वादिवत् देवतात्वादीनामपि जातिरूपत्वस्याखण्डोपाधिरूपत्वस्य वाङ्गीकारात् । अन्यथा"ऐन्द्रवायवं गृह्णाती"त्यादौ तद्धितेनैव यागाव- धानसिद्धेः 'सोमेन यजेते'त्यादौ यागांवध्यनापत्तेः । तस्माद्धातुरेव यागलक्षकः। एवञ्च यात्तिके आग्नेयादिपदेनैव आग्निर्देवता, अष्टा- कपालः द्रव्यं, यागो, भावना च सर्व प्रतीयत इति नानेकविधिनि- मित्तो वाक्यभेद इत्युक्तम्, तत् प्रौढिवादमात्रेण । तेनाग्निप्रातिपदिके- नानिः तद्धितेन देवतात्वयुक्तः समाभिव्याहृनः द्रव्यावशेषः । अष्टा- कपालपदं तु गुणाधिकरण वक्ष्यमाणन्यायेनाष्टत्वसंख्यावच्छिन्नकपा. लाधिकरणकसंस्कारसंस्कृतद्रव्यविशेषतात्पर्यग्राहकम् । विशेषप्रति- पत्तिश्च (२)पुरोडाशं कूर्म भूतं सर्पन्तमपश्यन्" इत्यर्थवादात् द्रष्टव्या। उभयत्र च प्रथमया करणत्वं लक्ष्यते, भूधातुना च यागः, तिपा च विधिभावने उच्यते, पौर्णमास्यमावास्यापदाभ्यां च काल १पू. मी. ३-३-६. २ते. सं.२-६-३-३.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । इति तत्तत्पदेनैव तत्तदर्थप्रतीतावपि विशिष्टभावनाविध्यङ्गीकारादेव न वाक्यभेदः, गौरवं तु अन्यतोऽप्राप्तत्वादेवापाद्यपानं न दोषमा. पादयति । अत एव यत्र "कपालेषु पुरोडाशं श्रपयात" इत्यादिना प्रमा- णान्तरेण कपालानां तदधिकरणत्वस्य श्रपणाख्यसंस्कारविशेषस्य च प्राप्तिः तत्र उत्पत्तिवाक्येऽपि तदंशे विशेषविषेरकल्पनान्न गौरवम् । नचैवमष्टत्वस्य प्रमाणान्तरेणाप्राप्तत्वाद प्राप्तकपालानुवादेन विधिः यागभावनाविधिश्चेति वाक्यभेदः, अष्टत्वस्य समासभङ्गाप- त्या कपालसम्बन्धं विहाय यागे वैशिष्टयानुपपत्तेः इति वाच्यम् । विशिष्टविधिवेलायां प्राप्तानामपि कपालानां वैशिष्टयसम्पादकत्वा- ङ्गीकारेण वाक्यभेदानापत्तेः । अत एव विधिविषयविशिष्टान्तर्गतस्य विधेयसन्दष्टस्य प्राप्त- स्यापि विशेषणस्य विधेयत्वमुक्तं मीमांसकमूर्धन्येन रसायनकृता । अतश्च विशिष्टविध्यन्तर्गतत्वेऽपि तदंशे प्राप्तत्वेन विशेषणविधिकल्प- नाभावात् न गौरवम् । अतश्च द्रव्यदेवताविशिष्टयागभावनाविधा- नात् आग्नेयपदं गुणविधिरेव । एवञ्च मन्त्राणां लिङ्गाधिकाराख्यप्रकरणाभ्यामेवाङ्गत्वोपपत्तेः तत्क्रमेणैव च पाञ्चमिकन्यायेन आग्नेयापकर्षसिद्धेः "शिरो वा एतद्यज्ञस्य" इति वाक्यमपि नापकर्षविधिकल्पकम् , किन्तु वि- ध्यन्तरशेषभूनं अर्थवादरूपमेवेति द्रष्टव्यम् । सूत्रं तु तत्तत्कर्मगुणाश्च द्रव्यदेवतादयोऽपि विधीयेर- नेव, न तु गुणवाचकस्य नामधेयत्वम् ; प्राप्त्यभावात् । न च वाक्यभेदः, विधानार्थे प्रसये सर्वेषां विशेषणविशेष्यभावेनान्वये. नाविभक्तत्वात् , तेऽपि च तदा विशेषणविधिवेलायां विधीयन्ते यदि नान्यतः प्राप्ताः । अतो गौरवमपि नागतिकवादेवादोष , मीमांसाकौस्तुभे [ बर्हिराज्याधि- (१)इति व्याख्येयम् ॥ इति सप्तममानेयाधिकरणम् ॥ (तगुणाधिकरणम) अथाष्टमं बर्हिराज्याधिकरणम् (८)॥ सू-बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छ- ब्दः ॥ १-४-१०. ॥ (सि) आयेऽधिकरणे गुणविधित्वनामधेयत्वरूपान्यतरप्रकारेण स- बैषामुपपदानां प्रामाण्ये साघिने अनन्तरव्युत्पादितमकारचतुष्टयनैव सर्वत्र नामधेयत्वम्, तदभावे तु गुणविधानमेवेति च पूर्वाधिकरणे. नोक्ने प्रसङ्गाद बाईराज्यपुरोडाशादिशब्दानां किं संस्कारविशिष्ट जातिमहन्यविधायित्वम् उत तद्रहित केवलजातिमहव्यविधायित्वम् इतीहेदानीं विधेयो गुणविशेषो विचार्यते । अत एव पादाध्यायान- नतरसङ्गतयः स्पष्टाः। तत्र सर्वयाज्ञिकप्रसिद्धः शास्त्रस्थत्वात् तेषां संस्कृत एव कुशा. दौ बहिरादिशब्दप्रयोगात् (२)आश्ववालाधिकरणन्यायेन सत्यामपि कतिपयानां अशास्त्रस्थानां असंस्कृतजातिविशिष्टमात्रविषयत्वप्र- सिद्धौ तदबाधेन संस्कृतकुशादिवाचित्वावधारणम् । नचैव(३) बहिर्जुनाति (४)"आज्यमुत्पुनाति"(५)"पुरोडाशं मथ- यति"इत्यादिसंस्कारविधिषु बहिरााद्देशेन संस्कारविधानात् उद्देश्यानां लवनादिसंस्कृतानां कुशादीनां पूर्वावगमे संस्कारविधिवैवर्थ्यम्, अन- वगमे तु उद्देश्यत्वायोगात् सुतरां विधानानुपपत्तिरिति वाच्यम् । १ इत्येवं २ पू . मी. १-३-४. ३ ते. प्रा. ३-२-२-४. ४ आपं. श्री. १-६-७. ५ बौ. श्री.२-१७.
, करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २३५ यल्लुनाति तदहिरिति विपरीनवचनव्यक्त्यङ्गीकारेण बाधकाभावात् । अतश्च यथैव सिद्धान्ते संस्कारवाचित्वेन प्रसिद्धानां यूपाहवनीयादि- शब्दानां संस्कारविधिषु "यूपं च्छिनत्ति"(१)"आहवनीयमादधाति" इत्यादिषु विपरीतवचनव्यत्यङ्गीकरणेनैव विरोधं परिहत्य संस्कार- निमित्तत्वाङ्गीकरणं तथैव बहिरादिशब्दानामपीति प्राप्ते- अभिधीयते-न बहिरादिशब्दानां संस्कारविशिष्टजातिमद्रव्ये शक्तिः, गौरवापत्तेः । अत एव न नागृहीतविशेषणान्यायेन संस्कार- मात्र एवं शक्तिः, संस्काराणां अनेकत्वात् । अवजातिमति संस्कार- संस्कृतेऽपि प्रयोगाभावाच । ए सबपि यदि संस्काररहिते जाति- मात्रे बहिरादिशब्दप्रयोगो न स्यात् , सतो लाघवस्य प्रमाणानुग्राहक- स्वेन प्रमाणाभावे स्वमोऽसाधकत्वात् स्यात् संस्कारनिमित्तता यूपादि- शब्दवत् । अस्ति तु 'वर्हिरादाय गावो गताः,' 'आज्यं क्रय्यम्' 'पुरो- डाशेन मे माता पहेलकं ददाति' इत्यसंस्कुन जातिमात्रे अयाक्षिका. नामपि केषांचित् प्रयोगः । न च शास्त्रस्थत्वादसौ बाध्यः, जातिमपहायाप्रयुज्यमानत्वेन शास्त्रस्थैरसह विरोधाभावात् । अतो- ऽवयव्यतिरेकादपि जातेरेव वाच्यत्वम् , न तु व्यभिचरितानां संस्काराणाम् । यूपादिशब्दानां तु संस्कारमपहाय कचिदपि प्रयोगाभावाद अगस्या संस्कारनिमित्तत्वाङ्गीकरणम् । तत्रापि नागृहीतविशेषणान्या- येन दृष्टादृष्टसंस्काररूपविशेषणेष्वेव शक्तिः, न तु तद्विशिष्टकाष्ठ इति केचित् । संस्कारविशेषाणां अनेकत्वादन नागृहीतविशेषणान्यायः। तेन उभयविशिष्टे उभयोफ्लक्षिते वा काष्ठविशेषे एव शक्तिरित्यन्ये । अत्र च पक्षद्वयेऽपि संस्कारशब्देन च्छेदनादिजन्यनियमादृष्टानि प्रोक्षणादिजन्यादृष्टानि च विवक्षितानि, न तु च्छेदनादिक्रियाः, १सत्या श्री.१-६-४४.
मीमांसाकौस्तुभे [ बर्हिराज्याधि- तासां क्षणिकत्वेन वैशिष्ट्यासम्भवात् । यथा चानयोः पक्षयोर्वि- शेषः तथा(१) दशमे वक्ष्यते । तस्मात् स्फुटमेषां यूपादिवलक्षण्यम् । अत एव तद्वत् संस्कारवाक्येषु वचनव्यक्तिवैपरीत्याङ्गीकरण. क्लेशोऽपि निष्प्रमाणको नायितुं युक्तः। किं च "पालाशे बध्नाती" त्यादिवाक्यान्तरवशात् 'यूपं छिनत्ती' त्यादीनां पालाशादिविषय- त्वावगमात् युक्ता यूपशब्दस्य संस्कारविशिष्टपालाशत्वादिजातिम- काष्ठवाचिता । बर्हिरादिशब्दानां तु 'बहिलनाती' त्यादिविधीनां कुशपिष्टघृतविषयत्वे प्रमाणाभावादतज्जातीये च लवनादिसंस्कृते अयाज्ञिकानां बर्हिरादिशब्दप्रयोगाभावात् कुशादिविषयत्वे प्रमा- णाभाव: । न च "दभैंस्स्तृणीत हरित" रिति मान्त्रवर्णिकद्रव्यविधिवशात् "पिष्टानि संयोती" त्यादिसंस्कारविधिबलाच्च बहिरादिशब्देऽपि कुशादिविषयत्वसिद्धिः। एवमप्युत्पवनादीनां घृतविषयत्वस्य के- नापि प्रमाणेनासिद्धेः । अतश्च याज्ञिकप्रसिद्धिबलेनैव घृतविषयत्वक- ल्पने तत एव संस्काराणामपि प्राप्त्युपपत्तेः तद्विधिवैयर्यम् । ते. नावश्यं घृतविषयवसिध्यर्थं असंस्कृते जातिमात्रे यः प्रयोगः सोऽ. युपजीवनीयः। अतः श्रुत्युपजीवितमयोगस्य शास्त्रस्थेनापि पाक्षि- कप्रयोगण बाधायोगाज्जातिमात्रवाचित्वं बर्हिरादिशाब्दानां सि- दमेव । एतत् प्रयोजनं च यूपावटास्तरणार्थे बर्हिषि युपाञ्जनार्थे चा- ज्ये प्राकृतकार्यापन्ने विनाप्यतिदेशेन पूर्वपक्षे बहिरादिशब्दबलेन लवनादिसंस्कारमाप्तिः । सिद्धान्ते तु नेत्येवंविधं द्रष्टव्यम् । तृतीये (२) निर्देशानु विकृतावप्यपूर्वस्यानधिकार' इत्यत्र तु सत्यपि बहिरादिशब्दानां जातिवाचित्रे प्रकृतावङ्गप्रधान- साधारणत्वात् वाधर्माणां विकृतावङ्गतामापने यूपावटास्तरणार्थे १पू.मी. १०-२-३१. २३-८-३१.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २३७ बहिष्यप्यातिदेशेन धर्मापत्तिमाशक्य अप्राकृनकार्यापनत्वात् न तत्र धर्मा इति वक्ष्यत इति विशेषः । सूत्रं तु बहिराज्यशब्दयोः तुल्यन्यायत्वात् पुरोडामशब्द. स्थापि असंस्कृतेऽपि कचिच्छब्दप्रयोगाद न संस्कारबाचित्वं इति व्याख्येयम् ॥ इति अष्टमं बहिराज्याधिकरणम् ।। अथ नवमं प्रोक्षण्यधिकरणम् (९) ॥ सू-प्रोक्षणीष्वर्थसंयोगात् ॥ १-४-११ ॥ (सि) ? (१)"प्रोक्षणीरासादये"सत्र प्रोक्षणीशब्दस्य किं उत्पवनाभिमन्त्र. णादिसंस्कारनिमित्तत्वम् ? उताप्त्वजातिनिमित्तत्वम् ! अथ वा प्रक- टोक्षणसाधनवाचित्वम् ? इति विचारे पूर्ववदेव सङ्गतिद्वयम् । अप. वादत्वेन चानन्सरसङ्गतिः आधपूर्वपक्षश्च द्रष्टव्यः । द्वितीयस्तु 'पोक्षणीभिः उद्रेजिनाः स्मः' इति लोके असंस्कृ. तास्वप्यप्मु प्रयोगात् पूर्ववदेवाप्त्वजातौ रूढिः । न च क्लुप्तावय- वयोगेन प्रकृष्टोक्षणसाधनस्वरूपेणैव प्रकृत्युपपत्तौ अतिरिक्तढिक- स्वनानुपपतिः । उदासीनास्वप्यम प्रोक्षणीशब्दप्रयोगणावयवार्थ- याक्लप्तत्वात तैलादौ अवयवार्थसद्भावेऽपि प्रोक्षणीशब्दप्रयोगा- भावाचा न च तैलादीनां सत्यपि वाच्यत्वे तत्राप्रयोगस्यालस्यादिना- प्युपपत्तेः अन्वयव्यभिचारस्थादोषत्वम् । आधुनिकेन केनचित् प्रोक्ष- णीशब्दस्य तैलादौ प्रयोगेऽपि श्रोतुः प्रतीत्यभावेन वाच्यत्वकल्प- नानुपपत्तेः । अन्यथा पङ्कनादिशब्दस्य मण्डुकादौ शक्तत्वेऽपि आलस्यादिनैव प्रयोगाभावोपपत्तेः नानिरिक्तरूढिकल्पनापत्तिः । १ते. ब्रा.३-२-९-१४.
मीमांसाकौस्तुभे [ बर्हिराज्याधि- तासां क्षणिकत्वेन वैशिष्ट्यासम्भवात् । यथा चानयोः पक्षयोर्वि- शेषः सथा(१) दशमे वक्ष्यते । तस्मात् स्फुटमेषां यूपादिवलक्षण्यम् । अत एव तद्वत् संस्कारवाक्येषु वचनव्यक्तिवैपरीत्याङ्गीकरण. क्लेशोऽपि निष्प्रमाणको नायितुं युक्तः। किं च "पालाशे बध्नाती" त्यादिवाक्यान्तरवशात् 'यूपं छिनत्ती' त्यादीनां पालाशादिविषय- त्वावगमात् युक्ता यूपशब्दस्य संस्कारविशिष्टपालाशत्वादिजातिम- काष्ठवाचिता । बर्हिरादिशब्दानां तु 'बहिलनाती' त्यादिविधीनां कुशपिष्टघृतविषयत्वे प्रमाणाभावादतज्जातीये च लवनादिसंस्कृते अयाज्ञिकानां बर्हिरादिशब्दप्रयोगाभावात् कुशादिविषयत्वे प्रमा- णाभाव: । न च "दर्भेस्स्तृणीत हरित" रिति मान्त्रवर्णिकद्रव्यविधिवशात् "पिष्टानि सयौती" त्यादिसंस्कारविधिबलाच्च बहिरादिशब्देऽपि कुशादिविषयत्वसिद्धिः। एवमप्युत्पवनादीनां घृतविषयत्वस्य के- नापि प्रमाणेनासिद्धेः। अतश्च याज्ञिकप्रसिद्धिबळेनैव घृतविषयत्वक- ल्पने तत एव संस्काराणामपि प्राप्त्युपपत्तेः तद्विधिवैयर्यम् । ते. नावश्यं घृतविषयवसिध्यर्थं असंस्कृते जातिमात्रे यः प्रयोगः सोऽ. युपजीवनीयः। अतः श्रुत्युपजीवितमयोगस्य शास्त्रस्थेनापि पाक्षि- कप्रयोगण बाधायोगाज्जातिमात्रवाचित्वं बर्हिरादिशाब्दानां सि- दमेव । एतत् प्रयोजनं च यूपावटास्तरणार्थे बर्हिषि युपाञ्जनार्थे चा- ज्ये प्राकृतकार्यापन्ने विनाप्यतिदेशेन पूर्वपक्षे बहिरादिशब्दबलेन लवनादिसंस्कारमाप्तिः । सिद्धान्ते तु नेत्येवंविधं द्रष्टव्यम् । तृतीये (२) निर्देशानु विकृतावप्यपूर्वस्यानधिकार' इत्यत्र तु सत्यपि बहिरादिशब्दानां जातिवाचित्रे प्रकृतावङ्गप्रधान- साधारणत्वात् वाधर्माणां विकृतावङ्गतामापने यूपावटास्तरणार्थे १पू.मी. १०-२-३१. २३-८-३१.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । मात, भूणां च (१)"ऋभूणां त्वा देवानां व्रतपते बोनादधामीतिर. यकारस्यादध्यात्" इति विनियुक्तमन्त्रबलेन रथकारपर्यायवावगमात् सत्यपि रथकरणयोग्यत्वे विशेषतो जातिविशेषशक्तिग्राहकबलात- दतिरिक्तशत्यन्तरकल्पना सामान्यतः प्रवृत्तयोगबाधोपपत्तेः । सामान्यतो योग्यतामात्रेण योगाङ्गीकारे त्रैवर्णिकस्य सर्वदा रथ. कर्तृत्वसम्भवेन निमित्तत्वानुपपया वर्षाविध्यनुपपत्तेश्च, ब्राह्मणादौ रथकर्तरि स्थकारबाब्दप्रयोगाभावेन पङ्कजादिपदवत् योगरूढेराव- इयकत्वाच। अतश्च वर्षाविधिवाक्ये फलोपहितरथकर्तृत्वेनैव योगो वा- च्यः । नादृशस्प चोदासीनावस्थे सौधन्वनापरपर्याये जातिविशेषे प्रयोगेण व्यभिचारात् अतिरिक्तशक्तिकल्पनामिति वैषम्यं प्रोक्षणी- शब्देन । नाप्यन्वयव्यभिचारः। सत्यपि तैलादौ प्रकष्टोक्षणसाधनत्वेन प्रोक्षणपदवाच्यत्वे स्त्रीप्रलयबहुवचनानन्वयादेव प्रोक्षणीशब्दा- प्रयोगोपपत्तेः। अत एव तद्रहितमोक्षणप्रातिपादिकमात्रप्रयोगो 'घृतं मोक्षण'मि. यादौ दृश्यते एव । तस्मादव्यभिचारात् क्लुप्तयोगेनैवोपपत्तौ अति- रिक्तरूढिकल्पनानुपपत्तेः यौगिक एवं प्रोक्षणशब्दः इति सिद्धम् । प्रयोजनं विकृतिविशेषे 'घृतं प्रोक्षण'मित्यत्र संस्कारवाचि- स्वपक्षे प्राकृतः "प्रोक्षणीरासादये"त्ययं प्रैषोऽविकृत एवं प्रयोक्त- व्यः । न च संस्कारनिमित्तत्वेऽपि ईकारबहुवचनयोरपि सामानाधि- करण्यनिमित्तत्वात् घृतात् निवृत्तिसिद्धेः प्रोक्षणमासादयेत्येव ऊहः प्रसज्येत इति वाच्यम् , प्रकृती विकृतौ वा प्रागीकारात् प्रोक्षण- प्रातिपदिकमात्रस्य संस्कारेषु कचिदपि अप्रयोगेण प्रोक्षणीशब्द- स्यैव संस्कारवाचित्वावगमात् । यस्तु विकृती(२)"घृतं प्रोक्षण"मिति प्रोक्षणशब्दः स नोत्पव- १ तै. बा. १-१-५. २मै. सं.२-१-५.
२४० मीमांसाकौस्तुभे [प्रोक्षण्यधि- नादिसंस्कारपरः, तथाले उत्पवनादिकार्यप्रोक्षणाक्रियालक्षणापत्ते। यदि हि अत्र घृतोद्देशेनोत्पवनादयो विधीयेरन् ततो न स्यादपि सा, न तु तदस्ति, घृतस्य अप्राप्तत्वेनोद्देश्यत्वायोगात् । अतोऽत्र पुनस्यैव विधेयत्वात् उत्पवनोदेशेन तद्विध्ययोगात् उत्पवनादिसंस्कारवाच- कं प्रोक्षणपदं कार्यलक्षणार्थ प्रसज्येत । तेन वरं "घृतं प्रोक्षण" मित्यत्र प्रोक्षणवान्दो भावव्युत्पन्नल्युडन्तः सन् मोक्षणक्रियाभि- धायक एव। नचैवं तदुद्देशेन घृतविधाने घृतमित्यनेन तृतीयार्थलक्षणापत्तिः, तस्याः त्वत्पक्षेऽपि समानत्वात् । अतः कचिदपि संस्कारेषु ईकार- रहितस्य प्रोक्षणशब्दस्याप्रयोगात् इकारान्तस्यैव संस्कारवाचिवा. वगतः प्रैषगतस्यापि प्रकृती संस्कारवाचकत्वेन क्लुप्तस्य प्रोक्षण. शब्दस्य इह प्रत्यभिज्ञायमानस्याविकृत एव प्रयोगः। जातिवाचिस्वपक्षे तु "घृतमासादये" त्येवमूहितव्यम् , घृतस्य सूर्यादिवत् प्राकृतकार्यापनत्वात् । यौगिकत्वे तु ईकाररहितस्यैव प्रोक्षणशब्दस्य यौगिकत्वावगमात् ईकारस्य च प्रकतो असामाना- चिकरण्यनिमित्तस्थ धृते अर्थलोपेन निवृत्तिसिद्धेः तद्रहितं प्रोक्षण. प्रातिपदिकमेव 'मोक्षणमासादयेत्येवं प्रयोक्तव्यम् । न चास्मिन्नपि पक्षे विधिगतस्य घृनपदस्यैव देवतापदवत् मन्त्रे- घु प्रयोज्यत्वावगमात् नेष्टसिद्धिरिति वाच्यम , द्रव्यस्य खरूपेणैवो- पयोगित्वात् देवतावत् शब्दद्वारा उपयोगिताभावेन तत्र विधिगत- शब्दनियमाभावस्य(१)दशमे वक्ष्यमाणत्वात् । अतः सिद्धान्ते मोक्षण- मासादयेत्येव प्रयोक्तव्यमिति सिद्धम् । प्रोक्षणीशब्दस्यावयवार्थसंयोगेनैवार्थपरत्वोपपत्तेः न संस्कारप- रत्वं न वा जातियाचित्वं इति सूत्रार्थः । इति नवम प्रोक्षण्यधिकरणम् ॥ १ पू. मी.१०-४-१७.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । अथ दशमं निर्मन्ध्याधिकरणम् (१०)। सू-तथा निर्मन्थ्ये ॥ १-४-१२. ॥ (सि) एवं "निमन्थ्यनेष्टकाः पचन्ति" इत्यत्रापि निर्मन्थ्यशब्दे पूर्ववदेव सङ्गतिद्वयमातिदेशिकत्वेन चानन्तरसङ्गति प्रदर्घ त्रिविधः संशयः प्रवर्तनीयः । तत्र पश्चादौ अधिमन्यनशकलनिधानाधकस्य मन्थन- स्य विहिनत्वात् तत्संस्कृते चानौ शास्त्रस्थानां निर्मन्थ्यशब्दप्रयो- गात् संस्कारनिमित्तत्वमित्याद्यः पक्षः। एवञ्च यत् कैश्चिदुक्तं संस्कारनिमित्तत्वपक्षे विहितस्यैव संस्कारस्य ग्राह्यत्वात् स्वातव्येण च मन्थनस्य कचिदपि अविधानात् मन्थनाधङ्गकाधानजन्यसंस्का- रनिमित्तको गाईपत्य एव निर्मन्थपशब्देनाभिधीयते इति, तत् पश्चा- दौ मन्थनस्यापि स्वातन्त्रण विहितत्वात् तत्रैव च कल्पसूत्रकृता निर्मन्थ्यशब्दप्रयोगात उपेक्षणीयम् । द्वितीयस्तु 'निर्मन्थयमानय पक्ष्याम' इति लोके प्रयोगात् सं- स्काराणां व्यभिचारित्वेन निमित्तलानुपपत्तेः अग्नित्वजातिवाचि. त्वम् । न च पूर्वाधिकरणन्यायेन मन्थनकर्मत्वयोगेनैव शब्दप्रकृत्यु- पपत्तौ अतिरिक्तशक्तिकल्पनानुपपत्तिः । निर्मन्थ्यशब्दस्य ण्यत्मस- यान्तत्वात् ण्यतश्च कृसप्रखयत्वेन कर्मत्ववाचित्वावगतः मन्थनकर्म- वापरपर्यायमन्थनव्याप्यत्वरूपयोगस्यापि मथननिष्पन्ने अग्नौ अभा. वेन संस्कारवदेव व्यभिचारात् । निर्मन्थयमानय पक्ष्यामः' "निमन्थ्येनेष्टकाः पचन्ती" सादौ हि निष्पन्नावस्थायां प्रयुज्यमानो निर्मन्थ्यशब्दः कथमिव मन्थनव्याप्यत्वरूपयोगनिमित्तत्वं प्रतिपद्यते । न ह्यत्र पूर्ववत् कर्मत्वयोग्यताप्यस्ति; विनष्टेऽपि नाशयोग्यतावन्मथित मधनव्याप्यत्वयोग्यताया अनुक्तिमहत्वाद । मोक्षणीशब्दस्य मोक्ष- णीभिरुद्वेजिनाः स्मः इसादौ सेचनावस्थायामपि प्रयोगात् उत्तरकालं मामांसाकौस्तुभे [निर्मन्थ्याधि- प्रयोगेऽपि वा साधनत्वयोग्यताया अनपायाद न योगस्य व्यभि(१) चरितत्वमिति विशेषः । अत एवैतदाशङ्कानिराकरणार्थमधिकर- भारम्भ न च मथिते वर्तमानतया मथनव्याप्यत्वासंभवेऽपि भूतपूर्व- गत्या क्तप्रत्ययान्तमायतशब्दवत् ण्यत्प्रत्ययान्तनिर्मन्थ्यशब्देऽपि निष्पन्नस्याग्नेः मन्थनव्याप्यत्वस्य संभवानिमित्तत्वोपपत्तिः । क्तम- त्ययवत् ण्यत्प्रत्ययस्य भूनकालवाचितायाः विशिष्याननुशिष्टत्वात् । अग्न्यादेः संसर्गिद्रव्यस्य प्रतिक्षणमुपचयापचयाभ्यां परिमाणप्रकाशा. दिभेदेन भेदाभ्युपगमात् स एवायं वह्निरियादिप्रत्यभिज्ञायाश्च स- जातीयसन्तानजत्वेनाप्युपपरैक्यासापकत्वात् , पाकसाघनीभूनाग्नि- व्यक्तेर्भूतपूर्वगत्यापि मथनव्याध्यत्वासम्भवाच्च । यथाकथञ्चित् परम्प- रया मथनप्रयोज्यत्वाङ्गीकारे ताशाग्निजन्यपाकादेरपि निर्मन्थ्य- शब्दवाच्यत्वापत्तिः । अतो योगस्य व्यभिचरितत्वम् । अत एव सा- क्षान्मथनव्याप्यत्वेऽपि नवनीतादौ निर्मन्थ्यशब्दाप्रयोगः। तस्मा- दन्वयतो व्यतिरेकतश्च योगस्यापि व्यभिचारात् तन्निमित्तत्वानुपपत्तेर- रणिप्रयोज्यानिवृत्त्यनित्वावान्तरव्याप्यजातिवाची निर्मन्थ्यशब्दः । न तु संग्राहकलाघवेनानिवजातिवाची वैद्युनाइमाघातोत्थानौ निर्मन्थ्य- शब्दप्रयोगाभावात् । तस्मात् जातिनिमित्त एव निर्मन्थ्यशब्दः इति प्राप्ते- अभिधीयते-प्रोक्षणीशब्दवदेव क्लुप्तावयवशक्त्यैव प्रयोगो- पपत्तो नातिरिक्तशक्त्यन्तरकल्पनावसरः । न च तस्याः व्यभिचारि- त्वम् । ण्यत्प्रत्ययस्य कालत्रयसाधारण्येन निष्पद्यमानावस्थायां वर्त- मानमथनकर्मत्वाभिप्रायेण प्रयोगेऽपि निष्पन्नावस्थायां मथितशब्दव. देव भूतमन्धनकर्मत्वाभिप्रायेण प्रयोगोपपत्तेः । न च पाकसाधनीभूत. व्यक्तस्ततो भिन्नत्वात नोक्तावयवयोगोपपत्तिरिति वाच्यम् । सत्यप्यु- १व्यभिचारित्व०॥
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २४३ पचयापचयाभ्यां परिमाणप्रकाशादिभेदे स एवायं वतिरिति दृढप्रत्य- भिज्ञानेन वह्निभेदे प्रमाणाभावात् । यदि तु वहिव्यक्तिभेद आवश्पक एव, तत: प्रयत्सत्ययं(१)"अहे कृत्यतृचश्च" इति सूत्राइर्थिमङ्गीकृत्य मन्थनाईतायास्संबन्धा. पक्षायां मन्थनप्रयोज्यत्वसम्बन्ध एव मन्यनजन्यवसिन्ताने निर्मन्थ्य- शब्दप्रयोगनिमित्तत्वेनाश्रीयते । न च तस्य मथितवह्निजन्यपाकेऽपि सत्वादतिप्रसङ्गः । उद्भिपङ्कजादिशब्दवत् पाके प्रयोगाभावेन तनिष्ठ- प्रयोज्यत्वस्य निमित्तत्वानङ्गीकाराव । नवनीतादौ तु सत्यपि शब्दा- प्रयोगे उक्तावयवयोगस्य सत्वाद्वाच्यत्वमेव । न हि यो यद्वाचकः स तत्र सर्वैः प्रयोक्तव्य इति नियमः समस्ति । असत्यपि प्राक्तनम- योगे इदानीन्तनेनैव केनचिद्वक्त्रा नवनीते निर्मन्थ्यशब्दप्रयोगे कृते श्रोतुरवयवार्थयागेन झटित्येवार्थप्रत्ययात् । पङ्कजादिपदे तु इदानीन्त. नेन पङ्कजध्वनिरित्येवं प्रयुक्तेऽपि श्रोतुरन्वयानुपपत्ति विना मण्डू. कादिबोधाभावस्यानुभाविकत्वादतिप्रसङ्गानिराकरणोपायाङ्गीकरण. मिति वैषम्यम् । नचैवं 'निर्भन्थयेनेष्टकाः पचन्ती' त्यादौ विशेषतो वहिप्रत्याय- काभावः । पाकसाधनत्वार्तेरादेव प्राप्तेस्तदनुवादेनैव निर्मन्थ्य. शब्देन मथनक्रियामात्रस्य लोहितोष्णीषादिवद्विधानेन ण्यत्सत्यय- स्यापि वह्निरूपद्रव्यविशेषपरत्वोपपत्तेः । यदि तु पाकोऽप्यन्यतो नैव प्राप्तः इत्याशङ्कयेत ततोऽत्रैव मथनसंस्कृतद्रव्यविशिष्टे पाके विहिते द्रव्यविशेषाकाङ्क्षायां मन्थनस्य दृष्टार्थत्वलाभाय अग्निविशेषप्रतिपत्तिसिद्धिः। अत एवास्मिन् पक्ष अङ्गप्रधानयोर्मन्थनपाकयोरेकदेशकालकर्तृकत्वलाभात् प्रयोगमध्य- वृत्तित्वलाभाच्चाधिमन्थनशकलनिधानादिधर्मरहितं केवलमेव मन्थनं कृत्वा तेनाग्निना पाकः कार्यः इत्यनुष्ठानलाभादचिरनिर्मथितत्वसि. १पा.सू.३-३-१६९.
मीमांसाकौस्तुभे [ वैश्वदेवाधि- दिः । जातिवाचित्वपक्षे तु प्रयोगबहिर्भूतेनाग्निना पाकः । संस्कारवाचित्वे च पशुप्रकरणविहिताधिमन्धनशकलीनधा- नादिरूपधर्मविशिष्टस्य मन्थनस्य प्रयोगान्तःपात इति विशेषः। सूत्रं निगदव्याख्यातम् । इति दशमं निर्मन्थयाधिकरणम् । अथैकादशं वैश्वदेवाधिकरणम् । सू०-वैश्वदेवे विकल्प इति चेत् ॥१-४-१३॥ (पू) चातुर्मास्येषु वैश्वदेवे पर्वणि आग्नेयादीनष्टौ यागान् विधाय "वैश्वदेवेन यजे"ति समाम्नातम् । तत्र वैश्वदेवपदं किं देवतारूप- गुणविधिः उत कर्मनामधेयामिति विचारः । पादाध्यायसङ्गती स्पष्टे । अनन्तरातु आग्नेयाधिकरणे तत्प्रख्यन्यायासम्भवेन गुणविधि- ले साधिते तत्प्रसङ्गेनान्यत्रापि गुणविधौ विधेयगुणविशेषे विचारिते 'यत्प्रसङ्गेन येदागतं तत्समाप्तौ तद्बुद्धिस्थं जायते' इति न्यायेन आग्ने- याधिकरणोक्तगुणविधित्वे बुद्धिस्थे सति अत्रापि तत्प्रख्यन्यायाले- पेण गुणविधित्वपूर्वपक्षकरणादापवादिकी। तत्र यद्यपि(१) 'वैश्वदेव्यामिक्षे' खामिक्षायागे विश्वेषां देवानां माप्तत्वान्न तत्र देवताविधानं संभवात, तथापि कर्मान्तरे आग्नेयादिषु सप्तमु वा तेषाममाप्तत्वेन विधानोपपत्तेः आमिक्षायागमात्रनामत्वस्य च प्राचीनप्रचणादिदेशसम्बन्धस्य तदभावेऽपि सिद्धः वैयर्थ्यप्रस. उन सिद्धान्तिनोऽप्यनभिमतत्वात् । अन्येषु च तत्पख्यन्यायाभावेन १ मै, सं. १-१०-१.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। नामत्वानुपपत्तेः गुणविधिरेवायम् । न हि वैश्वदेवपदस्य देवतातद्धि- तान्तत्वात् तस्य च "मुक्तहविषोश्चे" खनेन सूक्ते हविषि च निय. मात् यागपरत्वानुपपत्तेः विश्वेदेवदेवताकहविष्कयागपरत्वे च लक्ष- णापत्तेः यागनामधेयत्वमुपपत्तिमत् , अत एवैकदेशप्रतिनिमित्ता- ङ्गीकरणेनापि अग्निहोत्रपदस्य सायंप्रातरभ्यामद्वयनामस्त्रे लक्षणाय- नापत्तेः नास्य तत्तुल्यत्वम् । न च तद्धितस्य सम्बन्धमामान्याभिप्रायत्वेन यागेऽप्युपपत्तेर्न लक्षणेति वाच्यम् । तदनुशासनस्यैव लाक्षणिकविषयत्वात् । अन्यथा योग्यताबलेनैव देवतास्वरूपसंबन्धविशेषलाभे पुनर्देवतातद्धितानुशा- सनवैयपित्तेः । अतो देवतातद्धितान्तत्वेन यागनामधेयत्वासम्भ- वात् गुणविधिरेवायम् । तत्र यद्यप्यानेयादिषु उत्पत्तिशिष्टान्यादिदेवतावरोधान्न देव. तान्तरस्य निवेशस्सम्भवति, तथापि गुणात् भेदोपपत्तेः भिन्ने च कर्मणि देवतामाप्सभावात् देवताविशिष्टकर्मान्तरविधिरेवायम् । तद्धिनेन चानिर्धारित द्रव्यविशिषेऽवगने निर्धारणापेक्षायां अनेकदे- बताकत्वसादृश्येनातिदेशात् पुरोडाशादिद्रव्यविशेषावधारणम् "अ- टौ हवीपी" ति लिङ्गं च पुरोडाशामिक्षयोरेकदेवताकत्वाद साना- य्यवत सहयागावगतेश्च "त्रयोदशामावास्याया" मितिवदुपपद्यते । अस्तु वा “वैश्वदेव्यामिक्षे "सनेन वैश्वदेववाक्यविहितयागोद्दे- मोनामिक्षामात्रविधानात् द्रव्यविशेषावधारणम् । सर्वथाऽयमानेयाय- क्षया कर्मान्तरविधिः । न च मत्वर्थलक्षणा; तस्यास्तवापि समानत्वे- नापर्यनुयोज्यत्वाद। अथ वा आग्नेयादिवाक्येषु तावदनेकगुणोपादानेन कर्मणोऽवश्य विधेयत्वात् तेन तत्रैव वैश्वदेववाक्येन देवतान्तरविधिसंभवे न वि- शिष्टविधिगौरवाश्रयणं मत्वर्थलक्षणा वा युक्ता समाश्रयितुम् । किश्च वैश्वदेववाक्ये तद्धितान्तर्गतस्य सर्वनाम्नः प्रकृतद्रव्यप-
No text on this page.
करणम् 1 प्रथमाध्यायस्य चतुर्थः पादः । पि देवताविशिष्टयागविधाने गौरवापत्तेः आग्नेयादिष्वेव देवतामात्र. विधानम्। अत एव सर्वनामश्रुषा उत्पत्तिशिष्टाग्न्याधवरुद्धस्यापि अष्टाक. पालादेः परामर्शादुत्पन्नशिष्टाया अपि देवतायाः विधि युक्तः। यदि हि वैश्वदेष्यामिक्षा, सेभ्यो वाजिनश्चेत्यश्रोष्यत, तदा कश्चिदु- त्पत्तिशिष्टप्राबल्यमङ्गीक्रियत। अत एव गुणाधिकरणपूर्वपक्षे वाजमामिक्षारूपमन्नं येषां विश्वे- षां देवानां ते वाजिनः विश्वे देवा तेभ्यो वाजिनमित्यर्थाङ्गीकारण- वोत्पत्तिशिष्टप्राबल्याशङ्का निरस्ता। सिद्धान्ते च वाजिशब्दस्य रूढ. त्वोपपादनेन प्रत्यभिज्ञापकाभाव एवोपन्यस्तः। प्रकृते तु यौगिकत्व- स्यासंदिग्धत्वात् सर्वनाम्नाष्टाकपालादिपरामोपपत्तेर्युक्तः उत्पन्न शिष्टस्यापि देवतान्तरस्य विधिः । तत्रापि शिक्ये घटोऽस्ति तमानयेत्यादौ सर्वनाम्नः सिद्धद्रव्य- परामर्शित्वस्यैव दर्शनात् पूर्वदेवतासंबन्धापरित्यागेन देवतान्तरसं- बन्धस्य प्रधानावृत्त्यापादकत्वेनायोगाच समुच्चयानुपपत्तेः उत्पत्त्युत्प- नशिष्टयोरपि विकल्प एव । किश्च नामधेयत्वे वैश्वदेवत्राक्यस्य वैयापत्तेः आनर्थक्पप्र. तिहतन्यायेनापि विकल्पाङ्गीकरणमदोषः। तथा हि- न तावद्यागो विधीयते । नापिनामधेयम् । तस्याविधेयत्वादान चा. टानां यागानामयं समुदायसिध्यर्थमनुवादः, तत्सिद्धेः प्रयोजनाभा- वात् । न चैतदभावे "प्राचीनप्रवणे वैश्वदेवेन यजेत" 'वसन्ते वैश्वदेवेन यजेते" सादौ क्लुप्तप्रतिनिमित्तवैश्वदेवपदममभिव्याहारेणामिक्षाया. गस्यैव देशकालसंबन्धापत्तेस्सर्वेषामाग्नेयादीनां तत्सिध्यर्थ समुदा- यानुवादोऽर्थवानिति वाच्यम् । वैश्वदेववाक्येऽपि तर्हि तस्यैवानुवा. दप्रसंगेन समुदायानुवादानुपपत्तेः । आग्नेयादौ देशकालादिसंबन्धस्य प्रकारान्तरेण सिद्धेश्च । एतदभावे हि वसन्तादिवाक्ये आमिक्षाया- MOHAN २४८ मीमांसाकौस्तुभे [ वैश्वदेवाधि- गस्यैव साक्षात्कालाधन्वयेऽपि 'चातुर्मास्यैः स्वर्गकामो यजेते' सानामिक्षायागस्यैव वरुणपघासादिपर्वावान्तरसहचरितस्य फलमंच- न्धापत्तेः आग्नेयादीनां वैश्वदेवपर्वावान्तरप्रकरणादामिक्षायागाङ्गत्वा. पत्तिः । चातुर्मास्यशब्दो हि "चतुर्थे चतुर्थे मास्यकैकेन पर्वणा यजेन" इति वाक्यान्तरानुरोधेनोत्तरपर्वत्रये मासचतुष्टयोत्तरस्वस्थ श्रौतस्य पूर्वावध्यपेक्षायां अर्थादाद्यस्य पर्वणो मासचतुष्टयपूर्वभावा- बगतेर्मासचतुष्टयपूर्वोत्तरभावरूपप्रतिनिमित्तकेन चतुर्णामपि पर्वणी नामधेयम् । पूर्वोत्तरभावस्य च विशेषापेक्षायां वमन्तादिवाक्येन काल- विधानात् तेषामेव पूर्वोत्तरभावघटकवसन्तादिसंबन्धः, तेषामेव चातु- मास्यनामावच्छिन्नेन यजिना फलसंबन्धानवगतेरामिक्षायागस्यैव फल. संबन्धादाग्नेयादीनां वाजिनयागवत्तदङ्गत्वोपपत्तिः। अश्वाङ्गप्रधान. योरेकदेशकालकर्तृत्वात् प्राचीनप्रवणदेशादिसंबन्धः आग्नेयादीनां सिद्ध्यत्येवेति नामधेयत्वे वैश्वेदवाक्यस्य वैव्योपत्तेः गुणविधित्वा- ङ्गीकारणागसा विकल्पाङ्गीकरणमपि(१) अदोष एव । सूत्रंतु इति चेत् कर्मान्तरविधि मन्यसे तदपि कर्मनामधेयत्वव- दनभिमतम; वैज्ञदेवशब्दस्य देवतातद्धितान्तत्वेन प्रकृतसत्रद्रव्यपरा. मर्शिवावगमात् । अतः तेषु गुणविधिरेव युक्तः । ततश्चागत्या विकल्प इति व्याख्येयम् । . सू-न प्रकरणात् प्रत्यक्षविधानाच्च न हि प्रकरण द्रव्यस्य ॥ १-४-१४.॥(सि) नैतदेवम् वैश्वदेवशब्दस्य गुणविधित्वम; प्रकृतेषु आग्नेयादिषु (२)गुणाधिकरणे वक्ष्यमाणरीत्योत्पत्तिशिष्टाग्न्याद्यवरुद्धत्वेन देवता. तरसमर्पकत्वानुपपत्तेरामिक्षायागे तस्याः प्रत्यक्षावधिना प्राप्तत्वेनैव वि- १ उपपन्नमेव। २पू. मी. २-२-९, करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । ध्यनुपपत्तेश्च। न चामेयादीनामुत्पत्तिशिष्टाग्न्याधवरूदत्वेऽपि वैश्वदेवपदस्प देवतातद्धितान्तत्वात् तस्य च सर्वनामार्थकत्वात् सर्वनाम्नश्च स्ववाक्योपात्तद्रव्याभावे प्राकरणिकद्रव्यपरामर्शित्वस्यावश्यकत्वाद गुणाधिकरणपूर्वपक्षन्यायेनोत्पन्नशिष्टस्यापि देवतान्तरस्य विधानोप- पत्तिरिति वाच्यम् । सर्वनाम्न स्त्रवाक्योपात्तद्रव्यपरत्वासम्भवेऽपि स्व- बाक्योपात्तयागपरत्वस्यैवोपपत्तेः असम्भवनिवेशमाकरणिकद्रव्यप. रत्वकल्पनायोगात् । न च देवतातद्धितस्य "सूक्तहविषोश्च"ति महाभाष्याभि- यमविषयत्वप्रतीतेनं यागपरत्वोपपत्तिः(१) अग्नेयो वै ब्राह्मणो देव- तये" यादौ अन्यपरत्वस्यापि दर्शनेनास्याः स्मृोरनियामकत्वात् । अथ तत्र(२)"तस्येद" मिति सूत्रेण संबन्धसामान्ये विहितं तद्धि- तमङ्गीकृत्य विशेषापेक्षायां योग्यतया देवतापदश्रवणाच देवतात्व- रूपविशेषप्रतीतिः, तदन्यत्रापि समानमिति यागपरत्वे बाधकामावः। न च तस्य लाक्षणिकत्वानुशासनत्वात् आग्नेय इत्यादौ पदा. न्तरसामानाधिकरण्यातदङ्गीकारेऽपि प्रकृते तथाङ्गीकारे प्रमाणा- भावः, तस्य लाक्षणिकत्वे प्रमाणाभावात् । अस्तु वालाक्षणिकत्वम,तथापि तदङ्गीकार आवश्यक एव । तथा- हि-तद्धितो हि देवतात्वयुक्तोपस्थितद्रव्यवाची। प्रातिपदिकञ्च देवता. स्वाधिष्ठानवाचि । देवतात्ववैशिष्ट्यश्च निरूपकतासम्बन्धेन । देवता- तात्वरूपं विशेषणमपि शक्त्यैव भासते लक्षणया वेत्यन्यदेतत् । (३)तच्च सर्वथा सर्वनामार्थविशेषणमेव । अतश्च प्रधानभूतसर्वनामार्थ- प्राबल्यात् स्ववाक्योपात्तयागपरत्वावगतः विशेषणीभूतासम्भवनिवेश- देवतात्वत्यागेनापि सम्बन्धसामान्यलक्षणायां न काचित् क्षतिः । १ तै. सं. २-१-२-८. २पा.सू.४-३-१२०. ३ तत् सर्वथा सर्वनामार्थो द्रव्यं विशेष्यमेष ।
२५० मीमांसाकौस्तुभे [वैश्वदेवाधि- न चात्र देवतात्वत्यागोऽपि । संबन्धसामान्यस्य विशेषापेक्षा देवतास्वरूपसंबन्धविशेषस्याङ्गीकरणात् । यथा च सर्वेषु यागेषु देवता- स्वरूपसंबन्धविशेषसिद्धिस्तथानुपदमेव वक्ष्यामः । किञ्च विषमशिष्टयोरष्टदोषदुष्टविकल्पस्वीकारापेक्षया आनुशास- निकलक्षणाङ्गीकरणमपि नातीवायुक्तम् । अतश्च प्रकृतेष्वामेयादिषु गु- णविधित्वासम्भवात सामानाधिकरण्येन यज्यनूदितसर्वयागनामधेयं वैश्वदेवशब्दः। नामधेयत्वं चोत्पत्तिशिष्टगुणावरोधसहकृतेन तस्मख्य. न्यायेन गुणविध्यसंभवसंपादनद्वारा स्वापादितप्रवृत्तिनिमित्तसंपाद. नद्वारा वा अवगन्तव्यम् । न तु शुद्धेन तत्पख्यन्यायनैव । सेनामिक्षा. पागे गुणविध्यसम्भवसम्पादनेऽपि इतरेषु तदसम्भवस्य सम्पादयि- तुमशक्यत्वाद। यत्तु कैश्चित गुणविध्यसम्भवं प्रति तत्पख्यन्यायस्य न समानवि- पथकत्वेन हेतुता, प्रमाणाभावात ; किन्तु यत्र कचिङ्गुणनिधित्वे नि- रस्ते सर्वेषु वक्ष्यमाणरीत्या प्रतिनिमित्तमात्रसम्पादनद्वारा नामत्व. साधकता तत्प्रख्यन्यायस्येत्युक्तम् , तन्न (१) "दनेन्द्रियकामस्य जुहुः या" दित्यत्रापि "दना जुहोती" त्यनेन दनः होमे प्राप्तत्वाद्विधिस- म्भवनिरासोपपत्तेः दर्शादिवच लक्षणया प्रवृत्युपपत्ते मत्वापाता। अतश्च समानविषयत्वमप्यवश्यं प्रवेशनीयम् । ततश्च दनः होमे प्राप्ता. वपि फलार्थ प्राप्त्यभावात विधेयत्वोपपत्तेन नामस्वापत्तिः। अतश्चाने- यादिषु गुणविध्यसम्भवसम्पादनार्थ उत्पत्तिशिष्टबलवत्वस्य सहका. रित्वाङ्गीकरणं युक्तमेव । प्रवृत्तिनिमित्तं च यद्यपि तत्पख्यन्यायेनामिक्षायाग एव सम्पा- द्यते तथापि यजेतेयनेन प्रकृतत्वाविशेषात् वक्ष्यमाणार्थवत्वाय च सर्वेषां यागानां समुदायीकरणा) अनुवादात् , समुदाये च विश्वेदेव. देवताकत्वस्य स्वजन्यघाटमत्वसंबन्धेन सत्वात् तद्वारा समुदायिषु १ ते, प्रा. २-१-१६ करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २५१ अष्टमु प्रवृत्तिनिमिचसम्पादनोपपतिः । एवश्चात्र तद्धिनेन समुदायिन एवोच्यन्ते, प्रातिपदिकेन विश्व- देवाः। तेषां तत्संबन्धसामान्ये पदश्रुत्यावगने तद्विशेषापेक्षायां योग्य- तया विश्वेदेवदेवताजन्यामिक्षायामघटितसमुदायाश्रयत्वरूपविशेष- सम्बन्धावगतिर्न विरुध्यते । अथ वा न प्रतिनिमित्तमा तत्प्रख्यन्यायेनैव सम्पादनीयमि. ति नियमः । किन्तु तस्य सहकारिसहकृतस्य शुद्धस्य वा गुणवि- ध्यसम्भवसम्पादकत्वयात्रम् । अतश्च प्रकृने सहकारियुक्तेन तेन गुणविध्यसम्भवे सम्पादिते थजिसामानाधिकरण्यादेव नामधेयत्वे अवगते प्रवृत्तिनिमित्तापेक्षायां अगया विश्वेदेवशब्दस्य क्लुप्तामपि देवताविशेषरूदि परित्यज्य विश्वशब्दस्य सर्वशब्दपर्यायत्वाङ्गीकारे. ग(१) "सर्वत्वमाधिकारिक" मिति न्याया प्रकृतासविषयत्वमापा. ध देवशब्दस्य च देवतापरत्वमङ्गीकस प्रकृताग्न्यादिसर्वदेवताक- स्वस्यैवाष्टस्वपि यागेषु प्रतिनिमित्तत्वमङ्गीक्रियते । एवं चास्मिन पक्षे नावश्यं तत्पख्यन्यायस्य नामवपर्यन्तम्या- पारोऽभ्युपगन्तव्यः । तेन विधेयसमर्पकत्वमात्रे निराकृते शब्दस्य मा. सगुणानुवादकत्वेनाप्युपपत्तेः । किन्तु सामानाधिकरण्यमेव नामत्व. साधकमित्यवगन्तव्यम् । पक्षद्वयेऽपि च वैश्वदेवेनेत्येकवचनं राज. सूयवत् समुदायाभिषायं सत् उक्तलक्षणार्थ द्रष्टव्यम् । यत्तु (२)"यद्विश्वे देवास्समयजन्त । तद्वैश्वदेवस्य वैश्वदेवत्व"मिति वास्यशेषे अष्टस्वपि यागेषु विश्वेदेवकर्तृकत्वरूपप्रवृत्तिनिमित्तकथ- नम् , तद वाक्यशेषस्य स्तुतिमात्रपरत्वेन तादृशप्रतिनिमित्तसद्भावे प्रमाणाभावात् ‘उद्भिपदमचिनिमित्तबलच्यवनस्येव “गमेझैम्" इतिवतू साधुत्वज्ञापनमात्रमिसवधेयम् । तत्सिद्धं वैश्वदेवशब्दः अ- शनामाप पागानां नामधेयमिति । १. पू.मी १-२-१६. २. तै. प्रा.१-४-१०-५.
मीमांसाकौस्तुभे [ वैश्वदेवाधि- सूत्रं तु न वैश्वदेवशब्द: गुणविधिः, स्ववाक्योपात्तदेवतान्त- रावरुद्धेषु प्रकरणाद्देवतान्तरविधानानुपपत्तेः, प्रसक्षविहितविश्वेदेव. देवताके आमिक्षायागे देवतायाः प्राप्तत्वेन विध्यनुपपत्तेश्च । न च सर्व- नाम्ना स्वचाक्योपात्तद्रव्याभावे प्रकृतानां द्रव्याणां ग्रहणस्यावश्य- कत्वादुत्पत्तिशिष्टदेवतावरोधेऽपि न क्षतिरिति वाच्यम् । सर्वनाम्ना स्ववाक्योपात्तयागग्रहणसम्भवे प्रकृतद्रव्यग्रहणे प्रकरणस्पानियाम- कत्वादिति व्याख्येयम् ॥ सू-मिथश्वानर्थसम्बन्धः ॥ १-४-१५ ॥ इदं सूत्र भाष्यादौ वैश्वदेवशब्देनैव वैश्वदेवावैश्वदेवसमुदाये वैश्वदेवशब्दाङ्गीकारेण अष्टौ यागानुद्दिश्य पुनस्तेनैव विश्वेदेव- देवताविधिरस्त्वियाशङ्कय वैश्वदेवपदावृत्तिमसङ्गात् मिथः परस्प- रमुद्देश्यत्वविधेयत्वयोरेकेन शाब्देन असम्बन्ध इत्येवं व्याख्यातम् । तस्याः पाङ्कायाः स्पष्टदूषणत्वेन तदर्थ सूत्रप्रणयनवैय्यापत्तेरन्यथा व्याख्यायते । पदुक्तं वैश्वदेवपदस्य नामधेयत्वे तस्याविधेयत्वात् यागा. तरस्य च रूपाभावेन विद्वाक्यवद्विधातुमशक्यत्वात् प्रतिनिमि- नाभावेन च कर्मान्तरे वैज्ञदेवपदस्य नामत्वानुपपत्तेः देवतावि. शिष्टकर्मान्तरविधेश्च पूर्वमेव निराकृतत्वेन तवाप्यसम्मतत्वात् समुदा- पानुवादत्वमङ्गीकार्यम् । न च तस्य प्रयोजनमस्ति, घसन्तादिकालसम्बन्धस्य समुदाया- नुवादाभावेऽपि आग्नेयादियागानां आमिक्षायागाङ्गत्वसम्भवेनोपप. तेः। अतः प्रयोजनाभावादस्य वाक्यस्यानर्थक्यप्रसङ्ग इति तनि. राकरणार्थमिदं सूत्रम् । मिथ: परस्परं आग्नेयामिक्षायागानां अङ्गा- तित्वसम्बन्धासिद्धिरेवास्य प्रयोजनम् । अस्मिन् हि सति समुदा- करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २५३ यानुवादे सर्वेषामाग्नेयादीनां वैश्वदेवसंज्ञकत्व सिद्धेः वसन्तादिवा. क्येऽपि वैश्वदेववाक्येन सर्वेषामनुवादपूर्वकं कालादिसम्बन्धोपपत्तेः मासचतुष्टयपूर्वोत्तरभावघटकवसन्तकालसम्बन्धन चातुर्मास्यपदाभिधे. यत्वसम्भवादाग्नेयादीनां फलसम्बन्धसिद्धिः। असति वेतस्मिन् वसन्तादिवाक्ये क्लुप्तप्रतिनिमित्तत्वेनामिक्षायागस्यैव तत्रसवैत्रदे- नपदेन कालसम्बन्धापत्या तस्यैव फलसम्बन्धापत्तेरितरेषां अङ्गत्वा- पत्तिः। ततश्व समुदायानुवादेन प्राधान्यसिद्धौ नामिक्षाविकारखाने- याद्यतिदेश इत्याद्यपि प्रयोजनम् । नचैवं "वैश्वदेवेन यजेत" इत्यत्रापि क्लुप्तप्रवृत्तिनिमित्तत्वेना. मिक्षायागस्यैवा(१)नुवादापत्तेः प्रकरणाविशेषाद्वा सर्वानुवादे वाजि- नयागस्याप्य(२)नुवादापत्तेः आमिक्षायागमात्रानुवादे सर्वस्याप्यस्य वाक्यस्य वैय्यापत्तेः । वाजिनपागस्य तु आमिक्षाऽनुनिष्पन्नवाजि- नप्रतिपत्यर्थत्वस्य चतुर्थे वक्ष्यमाणत्वात् आमिक्षायागाङ्गत्वावगतेरति- देशप्राप्तप्रयाजादिवदेव नानुवादः। तस्मादष्टानामेव यागानां फ- लसम्बन्धार्थमनुवादात् नानर्थक्यम् । यत्तु न्यायसुधायां वसन्तादिवाक्ये अष्टानां यागानां कालसम्ब. धावगमेऽपि “य इष्टया पशुना सोमेन इत्यादिवदेकप्रयोगत्वे प्रमाणा. भावादेकप्रयोगतासिद्धिः समुदायानुवादप्रयोजनं इत्युक्तम् । तत् स- मुदायानुवादाभावे सर्वेषां वसन्तादिसम्बन्धे प्रमाणाभावात् सत्वे वा सर्वेषां सहितानां फलसम्बन्धसम्भवेन एकफलसाधनानामेककालयोगे पूर्णमासादिवदेकमयोगत्वस्यापि सिद्धेः विकृतीष्टयादीनां चैक- फलसाधनत्वतत्साहित्ययोरभावेन एककालयोगेऽपि साहित्यानुपप- तेपेक्षणीयम् । तस्मादुक्तसमुदायानुवादप्रयोजनकथनार्थमेवेदं सूत्रम् । १-२ अनुवादापत्तिः।
व मीमांसाकौस्तुभे [वैश्वानराधि- अथ वा उत्तरसूत्रेणेकवाक्यतापमम्- सू-परार्थत्वात् गुणानाम् ॥ १-४-१६. ॥ याद ह्ययं भाग्नेयादियागेषु देवताविधिः स्यात्, ततः पक्षे सम्प्रति- पनदेवताकत्वेनानयादीनां मिथोऽन्विततया सहानुष्ठनापत्तेः (१)"नव प्रयाजाः। नवानूयाजा द्वावाघारौ । द्वावाज्यभागौ। अष्टौ हवींषि"इति विंशत्संख्यासम्पत्तिरूपार्थसम्बन्धानुपपत्तिः (२)कस्पांचिच्छाखायां वाघारद्वयस्थाने स्विष्टकद्वाजिनेज्ये गणिते । न च सम्प्रतिपन्नदेवताकत्वेऽपि द्रव्यभेदादेव प्रधानाहुतिभेद- शायः । गुणानां द्रव्यादीनां प्रधानार्थत्वेन तदात्यापादकत्वानुप- पत्तेः। सर्वेषां द्रव्याणां युगपत् त्यक्तुं वाक्यत्वेन प्रयोगविध्यवगतमा धानसाहिसवाधानुपपत्तेश्च । देवताभेद एव हि सर्वाद्देशेन युगपत् त्यक्तु । मशक्यत्वात् तद्वाधः, न तु सान्नारयवत् द्रव्यभेदेऽपि । अतः प्रधा. नाहुसैक्यापच्या त्रिशत्संपत्तिवाक्यानुपपत्तेरापि न देवताविधिस्सम्भ- पतीति सिद्धम् ॥ इति एकादशं वैश्वदेवाधिकरणम् । अथ द्वादशं वैश्वानराधिकरणम् (१२) । सू-पूर्ववन्तोऽविधानास्तित्सामर्थ्य समाम्ना- ये ॥ १-४-१७. ॥ (पू)। (३)"वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते, यदष्टाकपालो १ तै. ब्रा. १-६-३-३. २दं च मैत्रायणीयशाखां मनसि निधायोक्तम् । तत्र हि नव प्र. याजाः, नवान्याजा, द्वा आज्यभागा, अष्टौ हवींषि, अग्नये समय- धति, वाजिनो बजति, तत् त्रि शत् । इति श्रुतम् ।। (१-१०-८) ३ तै. सं. २-२-५-३.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २५५ भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालो भवति त्रि- वृतवास्मिन तेजो दधाति, यद्दशकपालो भवति विराजैवास्मिन्नना- धं दधाति, यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति, यद्वा- दशकपालो जगत्यैवास्मिन् पशुन् दधाति, यस्मित् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवतीति श्रूयते । तत्र पुत्रे जाते इत्यन्तस्य तावदाग्नेयाधिकरणन्यायेन निर्व- पतेरतिदेशप्राप्तनिर्वापानुवादेन पागलक्षकत्वमङ्गीकृत्य वैश्वानरा- दिपदस्य च द्वितीयान्तस्य सक्तुन्यायेन करणत्वलक्षणार्थत्वमङ्गीक. स पुत्रजनने निमित्ते वैश्वानरदेवताकेन द्वादशकपालेन यजेत्यय- मर्थों निस्मन्दिग्धः। अष्टाकपालादिपदानि तु किं तस्यैव यागस्य नाम- धेयम् ? अथ वा तत्रैव गुणविषयः? उन सदाश्रितगुणाः फलाथै वि- धीयन्ते ? आहोस्वित् तदीयद्वादशकपालस्तुत्यर्थान्यर्थवादाः ? इति सन्दिह्यते । पादाध्यायसङ्गनी स्पष्टे । अनन्तरा तापवादिकी। नामत्वापवा- दात् पूर्वाधिकरणोक्तोत्पत्तिशिष्टबलीयस्त्वादिरूपन्यायाभावेनात्र द्वि- तीयतृतीयपूर्वपक्षोत्थानात् प्रत्युदाहरणरूपा(१)च । आधाधिकरणो. तोत्पत्तिशिष्टगुणविधिनामधेयत्वरूपप्रकारद्वयापवादाच प्रकरणमङ्ग- तिरपि । औदुम्बराधिकरणोक्तस्याप्यर्थवादत्वस्य गुणविधिनामधेय. स्वरूपप्रकारद्वयासम्भवे उपपादिते वैय्याशङ्कापरिहारार्थं स्मर. णादाक्षिप्य समाधानाद्वा न पौनरुत्यमपि । तत्र यद्यपि अष्टाकपालादिपदैः अष्टवादिसंख्या, कपालानि, तदधिकरणकरसंस्कारः, द्रव्यमिसेतावदेव शत्योच्यते, न तु यागः, तथापि सर्वेषाममीषां द्वादशकपालपदेनैव प्राप्तत्वात् तत्मख्यन्याये. न लक्षणया समिदादिपदवदष्टाकपालपदानि वैश्वानरयागनामधे. यम् । न चान्येषां प्राप्तत्वेऽपि अष्टत्वादेरमाप्तन्वाद्विध्युपपत्तिः तस्या- १वा.
२५६ मीमांसाकौस्तुभे [वैश्वानराधि- पि द्वादशत्वेऽन्तर्गतत्वेन प्राप्तत्वात् । अन्यथा सहस्रदर्शनेन शातानु- मानानुपपत्तेः । अत एव(१)"शतं ब्राह्मणास्सोमं भक्षयन्ती" त्युत्का "दश दशैकैकं चमसमनुपसर्पन्ती" ति विभागकथनं दृश्यते । अत एव च(२) सप्तमान्ते चोदनालिङ्गानिदेशापेक्षया नामधेयस्य बलबले साधिते गवामयने तहि "वैश्वानरो ज्योतिष्टोमः प्रायणीयम- हर्भवती"ति प्रथमस्याह्नः नामधेयबलीयस्त्वात् ज्योतिष्टोमविकारत्व- प्रतिप्रसवेनोपसत्रित्वप्राप्तेः तस्य च मुख्यत्वात् तदनुरोधेनान्येषामपि त- थैव प्राप्त द्वादशोपसत्वदर्शनमयुक्तमिसाशमा द्वादशसु तिमृणां सत्वाद सर्वेषामनुग्रहाय द्वादशत्वस्यैव आपत्तेर्युक्तं तदर्शनामित्युक्तम् । अन. श्च कपालादिवदेवाष्टवादेरापि प्राप्तत्वात् द्वादशात्वप्राप्तेः निर्विवाद- स्वादेव तत्प्रख्यन्यायेनैव एते शब्दा यागनामधेयम् । न च प्रथमान्त- स्वाद निर्वपेदिसनेन श्रौतसामानाधिकरण्याभावान्नामत्वानुपपत्तिः, "अग्निहोत्रं जुहोती" तिवत् लाक्षणिकसामानाधिकरण्योपपत्तेः । न चैव सज्ञया कर्मभेदापत्तिः संज्ञात्वस्य पाचक(३)याजकादिवत् मे. दं विनाप्युपपत्तौ तदङ्गीकारे प्रमाणाभावात् । तथा हि- अष्टाकपालादिपदस्य नामधेयत्वाभावे गायव्यैवैनमित्याद्यर्थ. वादत्वस्यैवाङ्गीकारात् तस्य च रात्रिसत्रन्यायेन फलपरत्वाभ्युपग- मात् फलानां च नामधेयत्वाभावे लाघवेन एकस्यैव कामशब्दस्य कल्पनेन युगपदुत्पत्यभ्युपगमेन योगसिद्ध्यधिकरणविषयत्वानाप- तेः तद्विषयवसिद्ध्यर्थं सर्वनामधेयार्थवत्वोपपत्तेः। तदा हि सर्वेषां नामधेयानां सङ्कल्पादौ विकल्पनार्थवत्वेऽपि यदा यन्नामधेयेन सङ्क- ल्पः तदा तस्य पुत्रस्य तन्नामधेयावच्छिन्नादेव फलं पूतत्वादि जा. यते इत्यस्याप्यर्थस्यावगमेन तत्पन्नामधेयपुरस्कारेण उपात्ते पूत- स्वादौ प्रत्येकमेव कामशब्दकल्पनावसायात योगसिध्यधिकरणविष. यत्वोपपत्तिः। १ तै-ब्रा-१-८-३-२. २ पू. मी. ७-४-२, ३ लावक करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । नचैवं वाक्यभेदापत्तिः, अर्थवादोनीतवाक्येन पूतत्वायनेको. द्देश्यसमर्पणवत् उक्तव्यवस्थाया अपि करणोपपत्तेः श्रूयमाणवा- क्यस्य स्तुतिमानपरत्वेन वाक्यभेदाभावात् । तस्मात् नामधेषमष्टा- कपालादिशब्दा इसेवमाद्यः पक्षः । द्वितीयस्तु नेमे नामधेयम् । तत्प्रख्यापकशास्त्राभावात् । तथा हि-यद्यपि तावत् कपालादीनि प्राप्तानि तथापि अष्टत्वादीनां द्वादशत्वे सत्युत्पादकसामग्न्यभावादेवा(१)सत्वादप्राप्तिः । द्वाद. शत्वसंख्याया हि द्वादशव्यक्तिविशेष्यकद्वादशत्वावच्छिन्नप्रत्ये- कैकत्वप्रकारकबोधरूपापेक्षाबुद्धिजन्यत्वेन उक्तकारणसद्भावे सति द्वादशवोत्पत्युपपत्तौ अष्टव्यक्तिविशेष्यकोक्तबोधरूपकारणस्यास- म्भवेन नाष्टत्वादेरुत्पत्तिसम्भवति । नचैवं शतेन दशानुमानानुपपत्तिः । ताशस्थले (२)शतबोधोत्त. रंदशव्यक्तिविशेष्यकोक्तबोधरूपकारणस्य नियमेनो(३)त्पद्यमानत्वेन दशवोत्पत्तावनुमित्सायां सत्यां अतीतसाध्यकानुमानोपपत्तेः । प्रकृते तु द्वादशत्वोत्पत्यनन्तरं ततः पूर्व वा अष्टत्वोत्पादककारणस्य निय. मेनोत्पत्तौ प्रमाणाभावेन अष्टत्वाद्युत्पत्ती प्रमाणाभावात् । अतः तस्या अमाप्तत्वेन विधेयत्वोपपत्तेर्न नामत्वम् । अस्तु वा महासंख्यायामवान्तरसंख्या, तथापि तस्याः संख्या- न्तरानिवर्तकत्वेनापरिछेदकत्वाव द्वादशत्वस्यैव व्याप्यसंख्यासत्वेऽपि व्यापकसख्यामात्रनिवर्तकत्वेन परिच्छेदकत्वात् अष्टत्वादीनां परि- च्छेदकत्वेनाप्राप्तत्वात तेन रूपेण विधेयत्वोपपत्तिः । नचाष्टाकपालपदे संबन्धविशेषानुपादानात परिच्छेदकत्वम- तीतेः कथं तद्विधिरिति वाच्यम् । अत एव योग्यतया परिच्छेद- कत्वप्रतीत्युपपत्तेः। १ असम्भवात्। ३ जायमानत्वेन।
mpsten तस्य २५८ मीमांसाकौस्तुभे [ वैश्वानराधि- वस्तुतस्तु अष्टाकपालादिपदाव(१) "तत्रोधृतममत्रेभ्य" इति सूत्रात् तत्रेत्यस्यानुवृत्तौ (२) संस्कृतं भक्षाः" इत्यनेन अष्टसु कपा- लेषु संस्कृतमित्यस्मिन्नर्थे विहितस्य तद्धितरूपस्याण्प्रत्ययस्य (३)"द्वि- गोलगनपय" इत्यनेन संख्यापूर्वसमासत्वेन द्विगुसमाससंज्ञादष्टाकपा- लपातिपदिकात् परत्वेन लोपकरणात तद्धितान्तत्वावगमेन नदन्तर्ग- वस्याष्टत्वस्य संस्कारसाधनीभूतकपालवावच्छिन्नविशेषणत्वप्रतीते: च व्यापकसंख्यानिवर्तनव्यतिरेकेणासम्भवात् परिच्छेद- कत्वप्रतीतिरस्फुटैव । नचैवमपि तद्धितप्राग्भाविद्विगुसमासकरणदशायां कपालेषु सं- स्कारोपाधेरभात्राव शुद्धष्वेव कपालेषु समवायसम्बन्धेनाष्टमात्रवृत्ति- व्यापकसंख्यान्तरपरिच्छेदकत्वरूपसम्बन्धेन वाष्टत्वस्य संबन्धोपपत्तेः समासविधानात् पश्चात् तद्धितकरणलायामपि च अष्टत्वोपलक्षि- तानामेव कपालानां चित्रगुगृहमितिवत् तद्धितकृत्युपपत्तेः संस्कार- कत्वोपहितकपालत्वावच्छिन्नविशेषणत्वस्य शब्दादमतीतः प्रतीतस्य वाष्टमात्रातिसंख्यान्तरपरिच्छेदस्य द्वादशकपालेऽपि प्राप्तत्वाद्विध्यनु- पपत्तिरिति वाच्यम् (४)"तद्धिनार्थोत्तरपदसमाहारे चे"तिसूत्रेण तद्धि तार्थे विवक्षित एव दिकमंख्ययोः समानाधिकरणसमासस्मरणात् । अष्टत्वस्य भक्षद्रव्यसंस्काराधिकरणकपालत्वावच्छिन्नेष्वेव तद्वृत्तिव्या- पकसंख्यान्तरपरिच्छेदकत्वसंवन्धनान्वयप्रतीतेः । तस्मादष्टत्वादीनां परिच्छेदकत्वेन द्वादशकपाले अप्राप्तत्वात् पुरोडाशानुवादेन विधि - तुपपन्नः। यदि तु पदश्रुसा द्वादशकपालपुरोडाशे द्वादशत्वस्यान्वितस्त्रेन तदवरुद्धे पुरोडाशे नाष्टत्वादिविधिस्संभवतीत्याशंक्येत ततो गु. पात् क्रयवदेव पुरोडाशादिवजात्यकल्पनया भेदप्रतीतेवैश्वानरयागे अष्टाकपालादिरूपद्रव्यान्तरविधिरङ्गीकर्तव्यः। १ पा० सू०४-२-१४. । ३पा० सू०४-१-६८. । ४पा० सू०२-१-५१. । २पा० सु०४-२-१६. ।
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २५९ न चोत्पत्तिशिष्टद्वादशकपालावरोधात् न द्रव्यान्तरविधिस्सं- भवतीति वाच्यम् । उपक्रमोपसंहारयोरेकविषयत्वेनैकवाक्यत्वप्रतीते. स्सर्वेषामेवोत्पत्तिशिष्टत्वात् । नचैवमेकवाक्योपात्तत्वात् समुच्चयापत्तिः । संख्यानां समुच्चये संख्यान्तरोपजननापत्तर्विकल्पस्यैव न्याय्यत्वात् । द्रव्यान्तरावेधिपक्षे समुच्चयस्त्विष्ट एव । अथ वा आख्यातभेदादस्तु नानावाक्यत्वमाप, तथापि न द्वाद- कपालस्य बलवत्वम्, 'यद्वादशकपालो भवती'त्यनेनैव तद्विध्याङ्गिकर- णे तस्याप्युत्पन्न शिष्टत्वेन तुल्पबलवत्वोपपत्तेः । अस्मिश्च पक्षे द्रव्या- णामपि विकल्पो निरपेक्षसाधनत्वात् ब्रीहियवदनानुपपन्नः । वैश्वा- नरवाक्ये तु प्रमाणान्तरसिद्धद्रव्यानुवादत्वात् द्वादशकपालपदं स. र्वेषामुपलक्षणार्थमङ्गीकृत्य केवलदेवतामात्रविशिष्टयागविधानमिति लाघवम् । एवं सर्वेषां विधायकत्वेनोपपत्तौ नामधेयत्वमर्थवादत्वं वा नाङ्गीकर्तुं युक्तम् । किंच नामत्ववदर्थवादेऽपि प्राप्यपेक्षत्वस्यावि- शिष्टत्वात् द्वादशकपाले चाष्टाकपालाप्राप्तेः पूर्वमुपपादितत्वात् द्वादशकपालस्य अष्टाकपालपदवाच्यत्वानुपपत्तेः न तावद्दादशकपा- लस्तुतिरियम् । अष्टाकपालस्य तु अविधेयत्वादेव स्तुतिरनाशङ्कनीया। नचापा स्तुत्या विधेयवेत्तसावकास्तुतिवदत्रापि जन्यजनकभावेन स्तुत्युपपत्तिः । अष्टत्वादीनां पूर्वोक्तविधया द्वादशत्वारम्भकत्वे प्रमा णाभावेनाष्टत्वादिस्तुत्या द्वादशवस्तुतेः तद्वारा च पुरोडाशस्तुते: तद्वारा च यागस्तुतेरनुपपत्तेः । अष्टाकपालरूपद्रव्पान्तरस्य तु द्वादशकपालरूपद्रव्यान्तरजनक. त्वस्य शंकितुमप्यशक्यत्वेन द्वादशकपालस्तुतिद्वारा यागस्तुतेस्मुतरा- मनुपपत्तेश्च ।
२६० मीमांसाकौस्तुभे [ वैश्वानराधि- किञ्च "यहादशकपालो भवती"त्यनेन लक्षणां विनैव द्वादशकपा- लस्तुनः कृतत्वात न लाक्षणिकी अष्टाकपालादिपदकृता स्तुतिः उप- युज्यते । अतः प्रकृतयागसाधनीभूतकपालानुवादेनाष्टत्वादिविधिः- कृतयागानुवादेन वा अष्टाकपालादिद्रव्यविधिरिसेव युक्तम् । अत्र चा 'टाकपालो भवती'त्यादौ अप्राप्तार्थत्वादेव संख्यामात्र. विषयः तद्विशिष्टद्रव्यविषयो वा विधिः कल्प्यते । तदपेक्षिता च भावना अष्टाकपालकर्मिका यागकर्मिका वा वैश्वानरवाक्यप्राप्ता भवतिना ल. क्षणयानूद्यते । गायत्र्यैवैनमियादिना तु तत्तद्वाक्यविधेयस्य संख्यादेः स्तुतिः । अत्रापि 'ब्रह्मवर्चसेन पुनाती'त्यादिना अध्वर्युकर्तृको व्या- पारो 'यस्मिजात' इत्पनेनोक्तस्य पुत्रनिष्ठपूतत्वादिभवनस्योपपा- दकत्वेनोच्यते । अत एव चोपपाद्यं पूतत्वादिभवनमपि य एतामष्टाकपालगुणकामिष्टि निर्वपति स पून एव भवति य एतां नवकपालगुणकामिष्टिं निर्वपति। स तेजस्व्येव भवतीत्यनुषङ्गाङ्गीकारेण प्रसेकं सम्बध्यते तत्र चेष्टिशिर- स्कत्वेन पुतत्वादिकथनं प्रधानगतफलप्रयोजकतासंबन्धस्य स्तुत्याल- म्बनत्वद्योतनार्थम् । अत एवार्थवादिकं फलमपीष्टेरेव कल्प्यते, नत्वष्टत्वादेरिति दिक् । केचित्तु यस्मिन् जात' इत्यन्तस्याष्टवादावनन्वयात् इष्टेश्च दू- रस्थत्वेन स्तुसनहत्त्वादगत्या कामशब्दं विधिञ्च कल्पयित्वा "सर्वे- भ्यो दर्शपूर्णमासा" वितिवदिष्टिफलविधिरेवायमित्याहुः । तत्तु अष्ट- स्वाधवयस्योपपादितत्वादकिञ्चित्करम । सूत्रं तु ये पूर्ववन्तः प्रमाणान्तरेण सम्भवत्प्राप्तिकाः ते विधा. नानहींः इति नामधेयमर्थवादा वा भवेयुः यथा वैश्वदेवादयः, इह समाम्नाये पुनर्विधानस्यैवोक्तविधया सामर्थ्यम्; अतो गुणविषय एवैत इति व्याख्येयम् ॥
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २६१ सू-गुणस्य तु विधानार्थेऽतद्गुणाः प्रयोगे स्युरनर्थ- का न हि तं प्रत्यर्थवत्तास्ति ॥ १-४-१८. (सि) न तावदते कपालानुवादेनाष्टत्वादिविधयः; सदा हि कपाल. विधिः द्वितीयान्तद्वादशकपालपदेन वाभ्युपगम्यते ? अतिदेशेन वा? नाधः, पदश्रुत्युपात्तद्वादशात्वसंख्यावरुद्धेषु कपालेषु अष्टवादीनां प. दान्तरोपात्तानामन्वयानुपपत्तेः । न च प्रथमान्तद्वादशकपालपदेनैव द्वादशत्वविधानात् द्वितीयान्तेन च द्वादशत्वानुवादेन कपालमात्रवि- धानात् तत्राष्टत्वादिविधेरुपपत्तिरिति वाच्यम् । उपक्रमस्थद्विती- यान्तपदान्तर्गतस्य द्वादशपदस्य सर्वसंख्यापरत्वे लक्षणापत्तेः । अवयुसानुवादेन द्वादशत्वमात्रपरत्वे सापेक्षत्वात् कपालपदेन समा- सानुपपत्तेश्च, अष्टाकपालादिपदैः एकपसरताभङ्गभयेन कपालायु. देशेन संख्याविधानानुपपत्तेश्च । अत एव नान्त्योऽपि ; यागायनुवादेन संख्याविधिस्तु याग- स्यैत्र भेदकतया अभ्यासापादकतया वा संख्यान्वयापत्तरिष्टापत्तो च कपालपदेन समासानुपपत्तेरयुक्त एन । एवमष्टाकपालादिरूपद्रव्यान्तविधिकत्पतिशिष्टद्वादशकपाला- वरोधादेव नाशययः । न च "यद्वादशकपालो भवती" सनेनैव द्वादशक- पालविधानात सर्वेषामुत्पन्नशिष्टत्वम् । तथा सति उत्पत्तिशिष्टद्वाद- शकपालस्योपक्रमस्थस्यानर्थक्यापत्तेः । न चोपसंहारस्थानामा ब- हूनां लाक्षणिकत्वापेक्षया वरमेकस्याविवक्षितत्वमिति वाच्यम् । तेषां स्तावकानां लाक्षणिकत्वेऽप्यानर्थक्याभावात् निर्वपतिसम्बन्धार्थ प्रथमायाः तृतीयार्थलक्षणायास्तवाप्यावश्यकत्वात् । किश्चास्मिन् पक्षे वक्ष्यमाणसूत्रोक्तया रीत्यावगम्यमानैकवा- क्यत्वयागोऽपि तदवस्थ एव । एकवाक्यत्वाभ्युपगमेन सर्वेषामुत्पत्ति- , मीमांसाकौस्तुभे [वैश्वानराधि- शिष्टत्वाङ्गीकरणं तु सखपि सर्वेषां पदानां सक्तुन्यायेन तृतीयार्थ- लक्षकत्वे अष्टाकपालादीनां करणत्वेन निर्वपतिलक्षितयागान्वया. ङ्गीकारे भवतिनानन्वयात् तद्वैयापत्तेः, भूधातुलक्षितयागान्वया. ङ्गीकारे च भूधातुना यागविधानस्य तावदेवतासम्बन्धाभावना(१) शक्यत्वात्, शक्यत्वेऽपि वा विशिष्टैक्याभावेन वाक्यभेदस्य तद- वस्थत्वापत्तेः, अनुवादाङ्गीकरणे च वचनव्यक्तिभेदेन वाक्यभे- दापत्तेः स्फुटत्वादेवायुक्तम् । यथा च स्तावकत्वपक्षे एकवाक्यत्वो. पपत्तिः तथा (२) आनर्थक्या" दिति सूत्रे वक्ष्यामः । तस्मात् गु. विधिपक्षे वाक्यभेदस्यावश्यकत्वात् , तत्र च वैश्वानरवाक्ये पूर्वो- क्तविधया द्वादशकपालस्यावश्यविधेयत्वात् उत्पत्तिशिष्टद्वादशक- पालावरुद्धे यागे द्रव्यान्तरावधानानुपपत्तेः नैतेऽष्टाकपालीदशब्दा: गुणविधयः; अतश्चार्थवादा एवेति सिद्धम् ॥ सूत्रं तु गुणस्य विधानार्थे अष्टाकपालादिशब्देऽभ्युपग- म्यमाने अतङ्गुणाः पूर्वकर्मणोऽगुणास्सन्तः यागान्तरविधानाश- तः प्रयोगप्रतिपादके विधौ अनर्थकाः अविषयीभूताः स्युः, न हि तं द्वादशकपालावरुद्धं यागं प्रत्यर्थवत्तास्तीति व्याख्येयम् ।। . सू-तच्छेषो नोपपद्यत इति चेत् ॥ १-४-१९. ॥ भाष्यकारेण इतिचेदिति पदद्वयं न पठितम् । यदुक्तं-अष्टा- कपालादीनामविधेयत्वेन स्तुत्यनहत्वात् द्वादशकपालादीनां च अस. म्बन्धेन स्तुत्यनुपपत्तेः नार्थवादत्वमुपपद्यत इति, अत्रोच्यते- सू-अविभागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन॥१-४-२०॥ यद्यपि च अष्टवस्याष्टाकपालादेर्वाऽविधेयत्वात् स्तुत्यनह। १ अशक्यत्वात् । २ जै. सू. ३-१-१८ . . करणम् ] प्रथमाध्यायस्थ चतुर्थः पादः । त्वम् , तथापि तत्स्तुतिः वेतसावकान्यायेन द्वादशत्वस्य द्वादशकपा- लस्य वा स्तुसर्थ न विरुध्यते । न च सम्बन्धाभावः, द्वादशत्वे अष्ट. त्वस्याप्यन्तर्गतत्वेन सम्बन्धोपपत्तेः । यथै हि द्वादशत्वं द्वादशव्य. क्तिविशेष्यकायकैकत्वप्रकारकापेक्षाबुध्योत्पद्यते तथा कदाचि- दिमेऽष्टौ इमे चत्वार इत्येवं अष्टत्वचतुष्टप्रकारकापेक्षाबुध्योत्पद्यत एव । ततश्चास्यापि कारणकोटिप्रविष्टत्वेन सम्बन्धादुपपन्ना स्तुतिः । तत्र गायच्याद्यक्षरसाम्यात् ब्रह्मवर्चसादिजनकत्वेन स्तूयमानमष्टत्वा- दि लक्षणया द्वादशवस्तुत्यर्थं सम्पद्यते । अथ वा अष्टाकपाला- दिशब्दः आग्नेयादिसाधनीभूतेऽष्टाकपाले मुख्यस्सन् सादृश्यात् द्वादशकपालावयवभूतं पुरोडाशावयवं उपस्थापयति । यद्यप्यसौ अष्ट: मु कपालेषु न संस्कृतः, वैधस्यैव श्रपणस्य संस्कारपदवाच्यत्वेन अ- वयवे तदसम्भवात् , तथापि अष्टम् कपालेषु श्रपितस्तावत् । अतश्च गोण्या वृत्याष्टाकपालपदेन द्वादशकपालावयवाभिधानांव, तत्स्तु- त्या तदवयविनो द्वादशकपालस्य स्तुति न विरुध्यते । एवं गौणीगर्भलक्षणया द्वादशकपालमात्रस्तुत्युपपत्तौ द्वादश- कपाले न तद्वत्तासम्बन्धेन लक्षणान्तरमङ्गीकृत्य यागनामधेयत्वं यु. क्तमाश्रयितुम् । यत्तु द्वादशकपालस्य 'यद्वादशकपालो भवती बनेन लक्षणां गौ- णी वा विनैव स्तुतेः कृतत्वान्न परोक्षस्तुत्यङ्गीकरणं युक्तमित्यु. क्तम्, तत् 'यस्मिनात' इत्येतत्पतिपाद्याया इष्टिस्तुतेरुपपादकत्वेन क्रियमाणानां द्वादशकपालस्तुतीनां पूतत्वाद्युपपादनार्थं सर्वासाम- पेक्षितत्वेन ग्रहणोपपत्तेः अनपेक्षितत्वेऽपि वा यथैव विध्युद्देशमात्रात प्रवृत्तं पुरुषं प्रति स्तुतेरानर्थक्येऽपि पुरुषान्तरं प्रति मार्थक्यम् , त. थैव अल्पस्तुत्या केषुचित् प्रवृत्तेष्वपि पुरुषान्तरं प्रति स्तुत्यन्तरस्य सार्थक्योपपत्तेरकिञ्चित्करम् ॥ सूत्रं तु विधानार्थे विधेये द्वादशकपाले स्तुति कर्तुं अष्टाकपा- मीमांसाकौस्तुभे [ वैश्वानसधि- लादिशब्दास्तावका उपपद्येरन् , तयोर्जन्यर्जनकभावादिना(१)स. म्बन्धसत्वादित्येवं व्याख्येयम् ॥ सू-कारणं स्यादिति चेत् ।। १-४-२१ ।। इदानी फले गुणविधिवादी प्रसवतिष्ठते-नेयं द्वादृशकपा- लस्तुतिः, जघन्यवृत्याश्रयणापत्तेः। किन्तु 'यदष्टाकपालो भवती' त्यादिनाऽप्राप्मार्थत्वादेव विधि प्रकल्प्य विहितानामष्टाकपालादीनां 'गायत्र्यैवैन' मित्यादिनोपपाधोपपादकभावेन स्तुति कृत्वा उत्पत्ति- शिष्टद्वादशकपालावरुद्धे यागे साक्षादङ्गत्वेन निवेशायोगाव देवता- न्तराभावेन च यागान्तरकल्पनानुपपत्तेः फलापेक्षायां रात्रिसव- न्यायेन पूतत्वादिकं फलत्वेन कल्प्यते । तत्र चोपपादकानां प्रसेकवृत्तित्वादुपपाय पूतत्वादिकमपि प्र- सेकमेव फलत्वेन सम्बध्यते । तत्र चाश्रयापेक्षायां प्रकृतो वैश्वानर- याग एवाश्रयत्वेन सम्बध्यते । तत्र च काम्यत्वेनाष्टाकपालादीनां उ. त्पत्तिशिष्टद्वादशकपालबाधकत्वं न विरुध्यते । नचैवमुत्पत्तिशिष्टत्वेन द्वादशकपालस्य बाधकत्वमेव किं न स्या- दिति वाच्यम । उत्पत्तिशिष्टत्वस्य प्रमाणाश्रयत्वेन प्रमेयाश्रितस्य काम्यत्वस्यैव बलवत्तासाधकत्वात् । नचैवमनेकगुणफलसम्बन्धाङ्गीकारेण वाक्यभेदापत्तेरुपक्रमो- पसंहारयोरेकविषयत्वेन गम्यमानैकवाक्यत्वभङ्गापत्तिः, तस्य सिद्धा- न्तेऽप्यावश्यकत्वात् । अन्यथा एकस्यां जातेष्टौ निमित्तस्य पूत- खादिफलानाञ्चोद्देश्यत्वानुपपत्तेः। यद्यपि च निमित्तं विजातीयमुद्दे- श्यम, तथापि तदलकल्प्यस्य पापक्षयस्य तावत् सजातीयस्यैवोद्दे. " १सम्बद्धत्वाता करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । इयत्वात्तमादायानकोद्देश्यता अपरिहार्यैव । नचैषां कल्प्यत्वेन न वाक्यभेदापादकत्वम् । फलवाचकपदा- नां कल्प्यत्वेऽपि श्रूयमाणविधावेवोद्देश्यत्वेनान्वयाङ्गीकरणेन त. दावृत्त्या वाक्यभेदस्यापरिहार्यत्वात् । अतश्च तत्र उपक्रमोपसंहारयो- रसाधकत्वादाख्यातभेदाद्वाक्यभेदो युक्त एव । तेनाश्रयस्यापि पाकरणिकस्य लाभादष्टाकपालादयः फलार्थ विधीयन्ते । यद्यपि चात्र द्वितीयपूर्वपक्ष इवाष्टत्वादिरेव फलाथै विधीयत इसनाशङ्कयम्, तथात्वे आश्रयालाभापत्तेः; नात्र यागः पुरोडाशो वा ऽऽश्रयीभवितुं योग्यः, तथावे संख्यायाः कपालविशेषणत्वा- नुवादानुपपत्तेः । नापि कपालम् , तस्यावान्तरप्रकरणेन विशिष्य प्रणयनादिवदनुपस्थितः । तथाप्यष्टाकपालादिद्रव्याण्येव फलार्थ विधीयन्ते । तत्र च प्रधानत्वाद्विशिष्योपस्थितो याग एवाश्रयत्वेन सम्बध्यत इति न किञ्चिदनुपपन्नम् । अतोऽष्टाकपालादिद्रव्याण्येव फलस्य कारणं स्यात् इति सूत्रार्थः ।। सू-आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थे हि विधीयन्ते ॥ १-४-२२ ॥ नैते गुणफलसम्बन्धविधयः, वाक्यभेदप्रसङ्गात् । नचाख्यात. भेदात्तस्यादोषत्वम् । आख्यातभेदेऽपि(१)"यस्योभयं हविरातिमा. छे"दिखादावेकवाक्यत्वोपगमात् । अतश्च यथैव तव यच्छन्दोपब- न्धादेकवाक्यत्वप्रतीतिः तथैवात्र 'यस्मिनात' इत्युपसंहारस्य य. तच्छब्दोपबद्धत्वेनोपक्रमस्थजातष्टिविषयत्वप्रतीतेरेकवाक्यत्वमवगम्य. ते । सम्भवति च तत् । स्तावकत्वपक्षे सर्वेषां निर्वपत्यतिरिक्ताना- माख्यातानामनुवादकतेन एकस्तुतिलक्षकत्वाङ्गीकारात् । गुण- १. तै० ब्रा०३-७-२-१४.
मीमांसाकौस्तुभे [वैश्वानराधि- विधिपक्षे तु तत्तदाख्यातेनैव तत्तद्गुणविधानात् विभज्यमानसाका. सत्वे सति ऐका.भावात् वाक्यभेदापत्तिरनिवार्यैव । नच निर्व- पत्याख्यातेनैव सर्वगुणविधानम् । तथात्वे भवत्याख्यातेनैव तत्तद्गु- णोत्पत्तिविनियोगानामन्वयेन तद्वैयर्खापत्तेः । किञ्चैवमेकवाक्यत्वाभ्युपगमोऽपि फलार्थ गुणविधिवादिनो ऽसन्तायुक्तः । नो केन वाक्येनाश्रयोत्पत्तिविनियोगप्रयोगाणां त- तद्गुणोत्पत्तिविनियोगायोगाणाञ्च विधिसम्भावयितुमपि शक्यः । तेन वाक्यभेदप्रसङ्गात् न फले गुणविधानम् । यत्तु सिद्धान्तेऽपि उपपाद्योपपादकरूपेणेष्टिस्तावकस्यापि इ. ष्टेः फलाकाङ्क्षायां पूनत्वादेः फलत्वेन कल्पनस्य चतुर्थे वक्ष्यमा. णत्वात् फलनिमित्तरूपोद्देश्यानेकत्वानिमित्तो वाक्यभेदो दुष्परिहर इत्युक्तम् , तन्न; निमित्तस्यावश्यानुष्ठापकत्वरूपोद्देश्यत्वेऽपि ईप्सि- तजन्यत्वरूपोद्देश्यात्वाभावात् फलस्यैव च तद्रूपत्वाद्विजातीयोद्दे- इययोश्चैकेनान्वयेऽपीतरविषयकाकासानिवृत्त्यभावेन तस्याप्यन्वयो. पपत्तेर्वाक्यभेदाभावात् । न च निमित्तसम्बन्धोपपत्तावपि भावनाया भाव्यापेक्षायां नि- मित्तबलेनावगतस्यापि अकरणे प्रत्यवायस्य करणे सत्पनुत्पत्तेः तत्परिहारस्याजन्यत्वेन भाव्यत्वानुपपत्तेरन्यनिषिद्धाचरणजन्यप्र- सवायचंसस्यैव दर्शपूर्णमासादिवत् भाव्यत्वकल्पनात् पूतत्वादेरपि सजातीयस्य भाव्यत्वकल्पने वाक्यभेदः स्यादेवेति वाच्यम् । दर्शा- दौ ध्वंसस्य भाव्यत्वकल्पनेऽपि प्रकृते आर्थवादिकपूतत्वायपेक्ष. या तस्यानुपस्थितत्वात् । प्रतियोग्युपस्थितिसापेक्षतेन विलम्बोप- स्थितिकत्वाच्च भाव्यत्वेनाकल्पनाद्वाक्यभेदानापत्तेः । अत एव निमित्तबलावगतप्रसवायध्वंसस्यैव भाव्यत्वकल्प- नात् आर्थवादिकफलकल्पना न युक्तेत्यपास्तम् । न चैत्रमप्यनेकेषां पूततादीनां फलानामुद्देश्यत्वाद्वाक्यभेदस्तदवस्थ एव, फलवाचक- करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २६७ पदानां कल्पितत्वेऽपि श्रूयमाणस्यैव विधेः प्रत्युद्देश्यं सम्ब- धादिति वाच्यम् । अर्थवादोपात्तफलकामे निर्वदित्येवं लाघवेन पूतत्वादीनां व्यासज्पत्तिफलत्वकल्पनेन वा प्रसेकमुद्देश्यत्वाभा- वात् । अत एव नात्र योगसिध्यधिकरणन्यायोऽपि । नचैवमार्थवादिकफलकल्पने वाक्यभेदाभावेऽपि पूतत्वादिकाम- नायाः स्वर्गादिकामनावदनुष्ठापकत्वावगमात कामनाभावे पुढे जाते. ऽपि करणानापत्तिः, दर्शपूर्णमासादिवद्वा.कामनायां प्रयोगान्तरत्वाप. त्तिरिति वाच्यम् । जातेष्टिभावनाया अनुष्ठापकापेक्षायां निमित्तस्यैः वानुष्ठापकत्वेन श्रुतत्वादनुष्ठापकान्तरापेक्षाभावेन पृतत्वादिकाम- नाया अनुष्ठापकत्वाकल्पनात् । अत एव भावनाया भाव्यापेक्षायां लाघवात् पूतत्वादीनां इ. च्छाविषयत्वयोग्यानां जन्यत्वमात्रं कल्प्यते न त्वनुष्ठापकत्वम् । स्व. र्गादिकामनायास्तु यागानुष्ठापकत्वस्यापि श्रुतत्वात् नैमित्तिकभाव- नाभाव्यसमर्पकत्वानुपपत्तेः युक्तं प्रयोगान्त रविषयत्वम् । अतश्च पुत्र- जनने निमित्ते अवश्यं पुत्रगतपुतत्वाद्यर्थ जातेष्टिः कर्तव्या, अन्यथा प्रत्यवैतीति वाक्यार्थावगमात् पुवे मृते तत्र पूतत्वाद्युत्पससम्भवात् दिष्टं गतस्य पुत्रस्य पूनत्वादेरनीप्सितत्वेन फलत्वायोगात् फला- भावे च निमित्तेनापि नैमित्तिकस्याननुष्ठापनात् पुत्रे मृते नैव जा- तेष्टिः कार्या, न च तदकरणे पुरुषस्य प्रत्यवाय इति फलाभावात् संबलिताधिकारा जातोष्टिाति सिद्धं भवति । तस्मादर्थवादत्वे वाक्य- भेदाभावादर्थवादा एव अष्टाकपालादिशब्दाः इति सिद्धम् ॥ सूत्रं तु गम्यमानैकार्थत्यागप्रसङ्गादकारणं पूतत्वादीनामष्टा. कपालादीनि यदि ह्येतानि कर्तुरुपदिष्टानि स्युः तदा फलकारणानि भवेयुरपि, न त्वेतानि (१)तस्योपदिष्टानि, प्रकरणप्राप्ताश्रयाभावेन सिद्धरूपाणामेषां कर्तुरुपदशाविषयत्वाद । अतो गोण्या वृत्या स्तु- १ तथा।
२६८ मीमांसाकौस्तुभे [तसिध्यधि- तिरूपार्थ एन विधीयन्त इति व्याख्येयम् ।। प्रयोजनं तु तत्तत्पक्षोपपादनवेलायामेव स्पष्टीकृतम् ।। इति द्वादशं वैश्वानराधिकरणम् ।। अथ त्रयोदशं तसिध्यधिकरणम् ।। (१३) (तत्सिडिपेटिका) सू-तत्सिद्धिः ॥१-४-२३॥ (सि) (१)गुणाश्रया इत्यन्तस्यैकसूत्रत्वेऽपि मन्त्राधिकरणपूर्वपक्षमूत्रवत् प्रत्येकं प्रथामान्तसूत्रोपन्यासो व्याख्यासौकर्यार्थ न विरुध्यते । पूर्वा- धिकरणे स्तुस्युपपादकत्वेनोक्ताया गोण्या वृत्तेः निमित्तासम्भव- माशा तत्र निमित्तप्रतिपादनद्वारा गौणीवृत्तिलक्षणमनेन सूत्रेण वेदापामाण्यापादकपरोक्तलक्षणत्रयनिरासमुखेनाभिधीयते। तेनाध्या- यसङ्गतिः अनन्तरसङ्गतिश्च सिद्धैव । पादसङ्गतिस्तु प्रामाण्योपयो. गिपदनिष्ठगुणवृत्तिलक्षणप्रतिपादनात् द्रष्टव्या । अप्रामाण्यापादकलक्षणान्तरनिरासेन प्रामाण्योपयोगिलक्षणक- थनाच (२)गुणमुख्याधिकरणव्युत्पादित मन्त्रलिङ्गविनियोगविषयवि- वेकार्थ भाष्यकारादिभिः क्रियमाणेनाप्रामाण्यापादकलक्षणान्तराने- रासद्वारा एतल्लक्षणस्थिरीकरणेनापि न पौनरुक्यम् । पूर्वाधिकरण- व्युत्पादितगुणत्याक्षेपसमाधानार्थत्वेऽपि चास्य सूत्रस्य सार्वत्रिक- गौणत्ति(३)साधानार्थत्वं मूत्रयितुं भाष्यकारादिभिः (४)"यजमान: प्रस्तर!" (५)"यजमान एककपालः" इत्युदाहृय यजमानपदं प्रस्तरा. दिनामधेयम् ? किं वा तत्कार्यसाधनत्वेन यजमानरूपगुणविधिः ? १ "तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवाया इति गुणाश्र. याः" इति समयसूत्रम् २ पू. मी. ३.३-२. ३ समाधानार्थत्वम् । ४ . सं.१-७-४-४. ५ ते. ब्रा. १-६-३-६ मै.सं.१-१०-७.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २६९ उनाय(१)मौदुम्बराधिकरणन्यायेन गोण्या त्या अर्थाद इति विचारः गतार्थोऽपि स्मारितः । उदाहरणान्तरं चोपक्षिप्तम् । अआएव(२) रूपात् प्रायात्' इत्यत्र एतान्येव गुणवृत्तनिमित्तानि, तत्तदुदाहृतार्थवादमात्रनिष्ठतया कानिचिद्विविच्य कथितानीति न तेनापि पौनरुत्यम् । (३)गुणवादसूत्रे तु अन सिद्धाया गोण्या वृत्तेः स्तुत्युपयोगमात्रकथनात् न पौनरुक्त्यमपि । तत्र प्रस्तरैककपालयोरचेतनत्वेन स्वतन्त्रतया यागकर्तृत्वासम्म वेऽपि यागप्रयोगवर्तिस्वव्यापार प्रति स्थाल्यादिवत् कर्तृत्वोपपत्तेः अवयवयोगेन, यजमानशब्दो नामधेयं प्रस्तरैककपालयोः । तत्प्रयो- जनञ्च 'शुक्रं यजमानोऽधारभते' इत्यादौ प्रस्तरैककपालयोरपि ग्रह- गसिद्धिरिति आद्यः पूर्वपक्षः। द्वितीयस्तु-स्वव्यापार प्रति प्रस्तरैककपालयोराश्रयत्वरूप- कर्तृत्वसम्भवेऽपि अचेतनयोश्चेतनव्यापाररूपयागकर्तृत्वासम्भवात (४) तङानावात्मनेपद'मित्यनेन प्रधानरूपस्य शानच आत्मनेपदसंज्ञा- वाभिधानात् आत्मनेपदस्य च (५) स्वरितभिः कञभिषाये क्रिया- फले' इत्येवं यागक्रियाफलस्य स्वर्गादेोगक्रियाकर्तृनिष्ठत्वावग- मात् अचेनने च प्रस्तरादौ स्वर्गादिफलानुपपत्तेः शानजन्तयजमान- पदस्य प्रस्तरादौ योगासम्भवेन भिन्नार्थयोः प्रस्तरयजमानपदयोः सामानाधिकरण्यमात्रेण नामवायोगात् न तावन्नामधेयत्वोपपत्तिः। अत एव नार्थवादत्वम् , यजमानपदेनावयवयोगेन स्तुत्यनुपपत्तेः। न च गौण्या तदुपपत्तिः । वेदे तदसम्भवात् । तथा हि-- न तावत् लक्ष्यमाणगुणयोगनिमित्त(६)वृत्तित्वं गौणत्वं लोके वेदे वा सम्भवति । सिंहादिनिष्ठगुणानां देवदत्तादौ बाधितत्वेन योगासम्भवात् । किञ्चैवं सिंहादिशब्दस्य स्वशक्यनिष्ठगुणवत्तासंब. न्धेन लक्षणयैव बोधकत्वोपपत्तेः सिंहादिशब्देन गुणलक्षणा, तैश्च १पू. मी. १-२-२. २ जै. सू. १-२-११. ३ जै. सू. १-२-१०. ४ पा. सु.१-४-१००, ५पा.सू.१-४-७२. ६निमित्तत्वं anth २७० मीमांसाकौस्तुभे [ तंत्सिध्याधि- देवदत्तलक्षणा इत्येवं लक्षिलक्षणयैव तावदुगपत्तेः नातिरिक्तगौ- णतिस्वीकारोपपत्तिः। अतो लक्षणाऽमम्भवात् नेदं सिद्धान्तलक्षण- मुपपत्तिमत् । अत एव लोके सिंहो देवदत्त इत्यादौ गौणत्वव्यव. हारादीदृशानि तत्तद्दार्शनिकैः गौणत्वलक्षणान्युक्तानि । तथा हि- कैश्चित् प्रसिद्धार्थत्यागेनापसिद्धगुणवाचित्वं गौणत्वमित्युक्तम् । सिंहशब्दस्य हि प्रसिद्धं सिंहस्वरूपमर्थ त्यत्का देवदत्तपदसामाना- धिकरण्यादेव देवदत्तनिष्ठप्रसह्यकारित्वादिगुणेष्वतिरिक्ता शक्तिः कल्प्यते । अतश्च क्रूरो देवदत्त इतिवन्मत्वर्थलक्षणया सामानाधिकर- प्योपपत्तिः। गौणपदाभिलप्यत्वञ्चास्य 'तत्र भव'इति व्युत्पत्या गुणे. वाधुनिकशक्तिकल्पनाद्रष्टव्यम् । अत एव शुक्लादिपदवनादिश. क्तिमत्सु न गौणत्वव्यवहारः । अत एव गुणवाचित्वं शुक्लादिपदे- या। तदर्थमाधुनिकसंकेतितपर्यायप्रसिद्धपदग्रहणं तादृशस्यापि गुणे सांकेतिषु डित्यादिपदेष्वतिप्रसक्तिमाशंक्य प्रसिद्धार्थत्यागेनेति विशोषि- तम् । अतश्च लोके ईदृशस्य गौणत्वस्य वक्त्रभिप्रायानुरोधेन संभवेऽपि वेदे तदभावात प्रसिद्धार्थत्यागेऽप्रामाण्यापत्तेः नेशेन गौणत्वेन स्तु. त्युपपत्तिः। तथा अन्यैः समुदायवाचिनो लक्षणयैकदेशत्तिः गौणीत्येव लक्षणं कृतम् | तन्मते हि सर्वेऽपि सिंहादिशब्दाः न जातिमात्रवचनाः, तथात्वे गुणादिवचनैः शुक्लादिशब्दैस्सामानाधिकरण्यानुपपत्तेः । किन्तु जातिद्रव्यगुणक्रियादिसमुदायविशेषवचनाः। अतश्च तादृशस- मुदायस्य देवदत्ते अभावात् देवदत्तपदसामानाधिकरण्यानुपपत्या समुदायैकदेशे प्रसहकारित्वे लक्षणया सिंहशब्दो वर्तते । तेन पूर्ववदे- व मत्वर्थलक्षणया देवदत्तपदसामानाधिकरण्योपपत्तिः। गौणपदा- मिलप्यत्वञ्च गुणशब्दस्याङ्गे प्रयोगात् अङ्गशब्दस्य चावयवापरप- र्यायैकदेशवाचित्वात् गुणे एकदेशे भवः गौण इति व्युत्पत्या सिं- हाब्दस्य द्रष्टव्यम् ।
करणम् ] प्रथमाध्यायस्थ चतुर्थः पादः। २७१ एतस्यापि च लक्षणस्य लोके यथाकथञ्चित् सम्भवेऽपि वेदे समुदायस्यानित्यत्वेनानित्यार्थसंयोगममङ्गादप्रामाण्यप्रसक्तेर्नेदृयोना- पि गौणत्वेन स्तुत्युपपत्तिः । अन्यैस्तु स्वोत्प्रेक्षाप्रभवारोपविषयीभूतात्तिलं गौणत्वमि- त्युक्तम् । तन्मते हि न शब्दः स्वाभिधेयं विना अन्यत्र गुणादिप्रयो- गमात्रण प्रवर्तते, अतश्च वक्त्रा प्रयुज्यमानः (२.)देवदत्ते सिंहशब्दः श्रोत्रा वक्तप्रयोगान्यथानुपपत्त्या नूनमभिधेयं सिंहत्वमारोप्य अनेन प्रयुक्तः इति कल्प्यते । न च विविक्तयोरारोपानुपपत्तिः । शुक्ति- कादौ रजतत्वारोपवत् योषायां वा रेतोरूपहविःप्रक्षेपरूपहोमाधि- करणत्वसादृश्येनाग्नित्वारोपवत् करणत्वमादृश्येन गुणारोपोपपत्तेः । नचैवं शुक्तिकादौ रजतत्वाधारोपेण रजतत्वादिशब्दप्रवृत्ते. ौणत्वापत्तिः । तदारोपस्य करणदोषजन्यत्वेन स्वोत्प्रेक्षाप्रभवत्वा- भावात् । अतोऽनारोपितार्थत्तिश्शब्दो मुख्यः । यस्तु शब्दः आरोपं कृत्वा पश्चात प्रवर्तते स जघन्यः, गुणहेतुकारोपनिमित्तकत्वाच गुणादागत इति व्युत्पच्या गौणः । एवं अर्थोऽपि देवदत्तादिरारोपितसिंहत्वाद्याश्रयतया गौणो जघन्यश्च । अस्यापि लक्षणस्यारोपकपुरुष(२)सम्भवेन कथञ्चिल्लोके सम्भवेऽपि वेदे तदभावात् , नेदृशेनापि गौणत्वेन स्तुत्युपपत्तिः । अत एव शक्यसम्बन्धाभावाल्लक्षणयापि स्तुतिरनाशङ्कया। अत अर्थवादत्वासम्भवान्न कापि विध्येकवाक्यत्वम् । अप्राप्तार्थ- त्वादेव विधि कल्पयित्वा “यो होता सोऽध्वर्यु"रितिवदेकस्य पदस्य कार्यलक्षणार्थत्वमङ्गीकृत्यापरपदार्थो विधीयते । तत्रापि यजमा- नकार्ये त्यागादौ अचेतनस्य प्रस्तरादेः कर्तृत्वासम्भवात् मुख्यत्वा- च यजमानपदे कार्यलक्षणानुपपत्तेः प्रस्तरादिपद एव कार्यलक्षणा- मङ्गीकृत्य यजमानः सुग्धारणादिसाधनत्वेन विधीयते । १सिंहो देवदत्त इति शब्दः। २ सत्वेन।
२७२ मीमांसाकौस्तुभे [तसिध्यधि- न च त्रुग्धारणादौ विनियुज्यमानस्य यजमानस्य स्वपदार्थक- रणविरोधात् अन्येषविरोधेऽपि वा “दक्षिणतो ब्रह्मयजमानावासाते कर्मणः क्रियमाणस्ये" ति वाक्यविहितदक्षिणदेशावस्थानरूपस्वप्रयो. जनीभूतपदार्थकरणविरोधः स्यादेवेति वाच्यम् । “परिधौ पशुं नि- युश्चीते" त्यत्र परिधित्वाविरोधेन यूपधर्मान्वयवत् वेदिदेशकत्व- रूपप्रस्तरधर्मवाधेन दक्षिणदेशावस्थितस्यैव स्त्रुग्धारणसाधनत्वोप- पत्तेर्वेदिदेशरूपप्रस्तरधर्मस्य प्रस्तरपक्षे सार्थकत्वोपपत्तेश्च । अथ वा सामान्यविहितदक्षिणदेशावस्थानं प्रस्तरकार्यनुग्धार- णपूर्वोत्तरकालयोरनुष्ठेयमिति न विरोधः। न चैवमप्येककपालसा- ध्यस्य त्यागस्य स्वात्मनि क्रियाविरोधात् यजमानसाध्यत्वानुपपत्तेः कथमेककपालकार्ये यजमानविधिराशोनेति वाच्यम् । 'गुरौ स्वा. स्मानमर्पयेत् "सख्यमात्मनिवेदन'मित्यादिवत् स्वशरीरे स्वात्माभिमा- ननिवृत्तेरुपपनत्वेन बाधकामावाद । न चैवं यजमानस्यापि कार्यापत्या प्रस्तरवत् सूक्तवाकेन प्रहरणा- ख्यप्रतिपत्त्यापत्तेः “एककपालं सर्वहुनं जुहोती"ति वचनात् कार्यापत्ति- बलात् सर्वहोमरूपप्रतिपत्त्यापत्तेः सर्वतन्त्रपरिलोपप्रसङ्गः,यजमानस्या- न्यार्थस्यैव पुरोडाशकपालवत् मुग्धारणादौ विनियोगेऽपि तन्मात्रनि- पत्त्या कृतार्थत्वाभावेन प्रतिपत्त्यनहत्वात् । अतः (१) विधि; स्याद- पूर्वत्वा'दित्यौदुम्बराधिकरणपूर्वपक्षसूत्रोकन्यायेन वैकल्पिको यजमा- नस्साघनत्वेन विधीयते प्रस्तरैककपालकार्य इति प्राप्ते- अभिधीयतेनायं गुणविधिः, अशक्यत्वात् । न हि दक्षि. पदेशे उदङ्मुखासीने यजमाने अध्वर्युणा त्रुचो धारयितुं शक्य- न्ते । दक्षिणदेशावस्थानसङ्कोचस्तु कल्प्येन विधिना अनाशङ्का S एवमेककपालकार्ये स्वत्वत्यागे स्वात्मनि स्वस्य पुत्रादिष्विव १ जै. सू. १-२-१९.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २७३ स्वत्वाभावात् तन्नित्तेरवाक्यत्वस्य स्फुटत्वात् न विधिस्सम्भवति । अतः (१)"विषिश्वानर्थकः कचि"दिसौदुम्बराधिकरणसूत्रोक्तेन न्यायेन नायं गुणविधिः । किश्चैवं कार्यापच्या प्रहरणसर्वहोगरूपप्रतिपत्त्यापत्तेः सर्वतन्त्र परिलोपापत्तिः । न चाकृतार्थत्वात् प्रतिपत्त्य नहत्वम् । प्रयोजनानुरो. धेन क्रमं बाधित्वा सर्वयाजमानकरणोत्तरकालं प्रतिपच्यापत्तेः। नचे. धापत्तिः, क्रमनिबद्धसोमयागाद्युत्तरक्रतुतन्त्रलोपप्रसङ्गात् । प्रस्तरपक्ष- विषयत्वकल्पने च कल्प्यविध्यनुरोधेन पाक्षिकत्वकल्पनाप्रसङ्गः “प्र- स्तरमुत्तरं बहिषस्सादयति" "एककपालं सर्वहुतं जुहोती"ति विध्य. तरैकवाक्यताभङ्गश्च सत्यामर्थवादत्वेन गतौ न युक्तः स्वीकर्तुम् । न च यजमानपदेन प्रस्तरादेः स्तुत्युपपत्तिः । गोण्या वृत्त्या तदुपपत्तेः । न च (२) गौणत्वाङ्गीकरणे वेदस्याप्रामाण्यापत्तिः । परप्रकल्पितानां गौणतालक्षणानामयुक्तत्वेनानङ्गीकारात् अप्रामा- ण्यानापत्तेः । तथा हि- न तावदाधन्तलक्षणे युक्त पूर्वक्लप्तशक्तय(३)नुसारेणैव वक्ष्य- माणरीया प्रयोगप्रतीत्युपपत्तावनकशक्तिकल्पनादियववराहाधिकर- योक्तदोषचतुष्टयस्वीकारानुपपत्तेः, यत्रान्पत्र प्रसिद्धार्थकस्यैव प- दस्य गुणे साङ्केतिकशक्तिकल्पना तादृशस्थले गौणत्वव्यवहारा- भावात्तल्लक्षणस्यातिव्याप्तेश्च । न द्वितीयमपि प्रतिव्यक्ति जातिद्रव्यगुणक्रियासमुदायानां भिन्नत्वादेकस्यामपि च व्यक्तौ प्रतिक्षणं गुणक्रियाणामुपचयापच- यसत्वेन समुदायभेदात् सङ्केतग्रहासम्भवेन समुदायबाचित्वासम्भ- वात्संकेतग्रहानुपपत्तेः, समुदायवाचिनो लक्षणयैकदेशमवृत्तौ च लक्षितलक्षणयैव देवदत्तप्रतीत्युपपत्तेरतिरिक्तगौणीकृतिस्वीकारे प्र- • माणाभावाद। १जै. सू. १२-२३. २ गौणीकल्पने। ३ नुरोधेनैत्र ।
२७४ मीमांसाकौस्तुभे [तत्सिद्ध्यधि- नापि तृतीयम् , रूपकादिकाव्ये वक्तुरारोपविवक्षया प्रयोगे. णारोपितार्थवृत्तित्वलक्षणगौणत्वसम्भवेऽपि सिंहो देवदत्त इसादौ वक्त्रा यत्र शक्यार्थगतगुणसादृश्यमात्र विवक्षया प्रयुज्यते, श्रोता च तथैव प्रतिपद्यते तत्र वक्ष्यमाणेन सानुगतेन गौणवेनैव प्रयोगोप- पत्तेरारोपकल्पने प्रमाणाभावातल्लक्षणस्याव्याप्तेः । किश्च 'खपुष्पं भवसिद्धान्त' इत्यादौ खपुष्पादीनामननुभूतपूर्व- वादीहशमिति निरूपणाशक्तेः सिद्धान्तादावारोपासम्भवेन गौणत्वा- नापत्तिः। अथ तत्र समुदायरूपेण खपुष्पादेरासिद्धावपि खपुष्पशब्दस्य यौगिकत्वाद्विशकलितप्रसिद्धिमादाय खाधिकरणतासंसर्गारोपेणा- रोपितखाधिकरणताकं लतादौ प्रसिद्धं पुष्पं खपुष्पसमासार्थ- मङ्गीकृस तदारोपेण सिद्धान्ते गौणता खपुष्पशब्दस्येत्युच्यते, ततः खपुष्पशब्दस्यारोपितसंसर्गरूपार्थवृत्तित्वात्तदाश्रयलतापुष्प एव ख- पुष्पशब्दस्य गौणत्वापत्तिः । न चेष्टापत्तिः, तस्य गौणत्वेनाप्रतीय- मानत्वात् । अत एवार्थलक्षणमपि आरोपिताश्रयत्वरूपं लतापुष्पेऽ तिप्रसक्तम, तस्याप्यारोपितखाधिकरणताकत्वरूपार्थाश्रयत्वेन गौण- वोपपत्तेः । आरोपितार्थवृत्तिशब्दविषयत्वरूपं त्वर्थलक्षणमारोप्यस्य सिंहत्वादेरपि तत्वादतिप्रसङ्गभयेनैवानाशङ्ग्यम् । तस्मादप्रामाण्या- पादकलक्षणत्रयानङ्गीकरणादेव गौणत्वाङ्गीकरणेऽपि अप्रामाण्या- नापत्तिः। कीदृशं तर्हि गौणत्वमङ्गीक्रियते इति चेत् ? उच्यते-खशक्यगुण- वत्ता गौणी वृत्तिः । गुणवत्ता च कचित्तत्समानजातीयगुणवत्व- सम्बन्धेन, कचिदारोपेण साक्षादेव ; तत्राद्या यथा,-सिंहशब्दस्य शक्ये सिंहे विद्यमानैः प्रसह्यकारित्वादिगुणैः समानजातीयाः गुणाः देवदत्ते सन्तीति तत्र गौणत्वम् । अतश्च सिंहत्तिगुणसमानजातीय. गुणप्रकारकदेवदत्तविशेष्यकशाब्दबोधत्वावच्छिन्नं प्रति सिंहपद- करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २७५ शक्यत्तिगुणवत्ताज्ञानं कारणम् । तत्रासिंहपदोच्चारणे सति शत्त्यैव प्रतीयमानेन सिंहेन स्वत्तिगुणानां एकमम्बन्धिस्मरणेनापरसम्बन्धि. स्मरणमिति न्यायेनोपस्थानात तैश्च तेनैव न्यायेन तत्समानजातीय. गुणवत्ताज्ञापनादेव एवंविधगुणवत्ताज्ञाने सति सिंहपदादुक्तविध. शाब्दबोधोपपत्तौ न किश्चिद्धाधकमुत्पश्यामः । अा एवं गुणादी- नामुक्तविधकार्यतावच्छेदककोटिप्रविष्टत्वादेव नाशाब्दत्वम् । द्वितीया तु यत्र रूपकादौ सयपि भेददर्शने सादृश्यमा. त्रेण सिंहनिष्ठं सिंहत्त्रक्रूरत्वादि देवदत्ते वक्तारोप्य सिंहशब्द प्रयुङ्क्ते श्रोता तथैव प्रतिपद्यते तत्रानुभवसिद्धारोपापह्नवे प्रमाणा. भावात् साक्षात्संबन्धेनैव स्वशक्यनिष्ठगुणवत्ता गौणी वृत्तिः । अत एवं गुणपदं समवेतमात्रपरम् , सिंहवादेरप्यारोपाङ्गीकारात् । अत एवालङ्कारिकैः(१) सौन्दर्यस्प तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नमरहसामुल्लासनावासभूः । विद्या वक्रगिरी विधेरनवधिमावीण्यसाक्षाक्रिया बाणाः पञ्चशिलीमुखस्य ललना- चूडामणिः सा प्रिया" इसादावारोपेणैव गौणी समर्थिता । यद्यपि चेयं काव्यातिरिक्तंषु लोके वेदे वा बहुशो न दृश्यते तथापि काव्येष्वेव सम्भवन्त्याः निराकर्तुमशक्यत्वात् वेदेऽपि च(२)“योषा वाव गौतमाग्निः" इत्यादौ यत्र विधिसम्भवः तत्रारोपस्वीकारादुप- न्यस्ता। वार्तिके तु प्राचुर्याभावादेवानुपन्यासः। न चैतावतैव सर्वत्र वारोपप्रसङ्गः । सादृश्यमात्रविक्षायामारोपकल्पने प्रमाणाभावात् । अतश्चोभयसाधारण्येन स्वशक्यसमवेतवत्ता गौणीवृत्तिः । तद्ज्ञान- कार्यतावच्छेदकं स्त्रशक्यसमवेतप्रकारकदेवदत्तादिविशेष्यकशाब्द- त्वम् । नचैवंविधेन गौणत्वेन वेदस्याप्रामाण्यापत्तिः । अर्थान्तरभा- नेऽपि शक्यार्थभानस्यात्यागात् । अतएवोक्तं-अनहत्स्वार्थास्सा- शब्दवृत्तय-इति । १काव्यप्रका-उ, १०.इलो ४२४ . २छा.उ.५-७-१०.
२७६ मीमांसाकौस्तुभे [ तसिद्ध्यधि- नचैन यत्र शक्यार्थस्यैवाप्रसिद्धिः यथा खपुष्पादौ, तत्र तनिष्ठ- गुणयोगाभावात्सिद्धान्तादौ गौणत्वानुपपत्तेः तल्लक्षणस्याप्यच्याप्ति- रिति वाच्यम् | लतादौ प्रसिद्ध पुष्पे खाधिकरणतामारोप्यारोपितखा- धिकरणताकं पुष्पमेव मुख्यं समासार्थमङ्गीकृत्य तन्निष्ठगुणानामली. कत्वादीनां सिद्धान्तादौ सत्वेन गौणत्वोपपत्तेः । अतएव 'खपुष्पं नास्ति भूतले' इसादावारोपितखाधिकरणताकस्यैत्र समासार्थस्य प्रति. षेधः, अन्यथाऽप्रसक्तस्य प्रतिषेधानुपपत्तेः। अथ वा अस्तु भूतलादित्तिपुष्पे(१)अप्रसक्तस्यैव खाधिकरण. ताकत्वस्य प्रतिषेधः नियानुवादरूपः, परन्तु भूतले पुष्पाभावदशायां भूतले खपुष्पं नास्तीति प्रयोगे आरोपाङ्गीकरणमेव शरणम् , ख. त्तित्वस्य भूतलवृत्तित्वस्य चैकेन नमा प्रतिषेधायोगात् । अस्तु वा तत्रापि तथा । सर्वथा खपुष्णं भवसिद्धान्त इत्यत्रारोपाङ्गीकरणेनैव मुख्यार्थसम्पादनमित्यदोषः । नचैवमुपमानस्योपपत्तावपि उपमेयस्य खपुष्पं भवसिद्धान्त इत्येव प्रयोक्त्रा वादिनानभ्युपगमात् वस्तुन एवासत्यत्वे सति गुणयोगानुपपत्तेरुपमेयत्वानुपपत्तर्गौणप्रयोगानुपपत्तिरिति वाच्यम् । सिद्धान्तपदाभिधेयस्य निश्चयस्य वस्तुतस्तद्रूपविषयाभावेन भ्रमत्वे- ऽपि स्वरूपेण विद्यमानतया सत्वादुपमेयत्वोपपत्तेः । एवं बौद्धादिप्रयुक्तस्य खपुष्पमात्मेति वाक्यस्यापि तन्म- ते अहंप्रत्ययग्राहस्य स्वशरीरादेवस्तुनश्शरीराद्यभेदेऽपि शरी- रादिभिन्नत्वेन परैरारोपितस्यात्मशब्दार्थत्वाद्धमारोपेऽपि धर्मिणः सद्रूपत्वेनोपमेयत्वोपपत्तिः । अनेनैव चात्मशब्दार्थेनात्मा नास्ती. ति बौद्धप्रयोगेऽपि प्रतियोगिप्रसिद्धिः सम्पादनीया । दुपमानोपमेययोर्द्वयोरपि खपुष्पमात्मेति प्रयोगे उपपन्नत्वाद्गौणत्वो. पपत्तेः स्वशक्यनिष्ठपदार्थत्रत्वमेव गौणत्तिलक्षणं युक्तम् । गौ- १ अप्रसिद्ध। तस्मा- करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २७७ गशब्दाभिधेयत्वञ्च गुणनिमित्तकत्तिमम्बन्धित्वात् शब्दार्थयोरुप. पन्नम् । गौणत्वाख्ये हि गुणयोगे गुणा एव निमित्तम् । अत एवं वार्तिका (१) लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता' इसव गुणैरिति निमित्तपरतृतीयामयोगः । सिंहपदेन सिंहत्वजातिवाचिना लक्ष्यमा- णायाः सिंहव्यक्तेः ये गुणाः तैर्योगाच्छब्दप्रवृत्तेर्गुणयोगः एव गौ. णीति वार्तिकार्थः। यत्तु वात्तिके निरारोपगौणीस्थले आरोपवायुक्तारोपनिराकर- णार्थं न क्वाप्यारोप: स्त्रोत्प्रेक्षाप्रभवः 'खपुष्पं नास्ति, 'खपुष्पं भ. चत्सिद्धान्त' इत्यादावपि च नारोपः, किन्तु खपुष्पमिति समासः खे पुष्पं नास्तीति विग्रानुसारादन्तर्गतनमर्थकस्सन्नभाववचनः, वि. ग्रहे 'नास्तीति कथनं समासार्थविवरणार्थम् । समासोत्तरं च नास्ती- ति पदजातमनुवादमात्रम् । अतः खपुष्पशब्दस्यारो विवाभाव- चाचित्वावगमात् मुख्याभाववृत्यसत्यवादिगुणयोगेन सिद्धान्तादौ प्रवृत्तिरित्युक्तम् । तव निरारोपगौणीस्थले अप्रतीयमानारोपकल्पने प्रमाणाभावस्येव रूपकादौ सारोपगौणीस्थले प्रतीयमानारोपत्यागे प्रमाणाभावस्य तुल्यत्वात् आरोपनिराकरणायोगेन खपुष्पं नास्ती. सत्र च नास्तीत्यस्य वैश्यापत्तेः प्रतियोगिभानं विना केवलाभा. वभानस्याक्लप्तस्यैव कल्पनीयत्वापत्तेः खपुष्पादिशब्दानामभाववा- चित्वायोगेन कुसृष्टिकरत्वात् पौढिमात्रमारोपवादिप्रसरनिराकरणा- थीमत्यवधेयम् । अत एव नास्तीत्यस्य सार्थक्ये बहुधायस्तम् । अत एव च पार्थसारथिमिश्रः आरोपितखाधिकरणताकमेव पुष्पं खपुष्प- शब्दार्थ इत्युक्तम् । तत्सिद्धं गोण्या त्या स्तुत्युपपत्तिरिति । यत्तु लक्षणया लक्षितलक्षणयैव वा सिंहपदात् देवदत्तबोधो- पपत्ते तिरिक्तगौणाहीत्तस्वीकरणं युक्तमित्युक्तम, तत् कस्यचिल्ल- क्षणादिना बोधोपपत्तावपि अन्यस्य कदाचित् गौण्यापि बोधोपप- १तं. वा. १-४-१३. पृ. ३१८. :
२७८ मीमांसाकौस्तुभे [तत्सियधि- तेरपास्तम् । कः पुनरनयोर्भेदः ? येनैवमाश्रीयते इति चेत् ? उच्यते- स्ववाच्यसम्बन्धवत्वं लक्षणा, यथा गङ्गायां घोष इत्यत्र गङ्गा. पदशक्यप्रवाहसम्बन्धोऽस्ति तीरे । अतो गङ्गापदात्तीरबोधे लक्षणा वृत्तिः। तज्ज्ञानञ्च गङ्गापदात् शक्त्यैत्र प्रवाहबोधे जाते एकसम्बन्धि. दर्शनेनापरसम्बन्धिस्मरणमिति न्यायेन तत्सम्बन्धवत्ताबोध इत्येवं. प्रकारेणैव । तत्कार्यतावच्छेदकश्च तीरविशेष्यकगङ्गासम्बद्धतीरत्वमा कारकशाब्दत्वम् । सर्वत्र हि गङ्गायां घोषः, सिंहो देवदत्त इत्यादौ उभयत्राप्युभपावधशाब्दबोधोऽनुभवसिद्धः । कदाचित् शक्पस- म्बन्धः सम्बन्धत्वेन रूपेण भासमान एव प्रकारताघटकः यथा गङ्गा- सम्बन्धितीरे घोषः, सिंहसम्बन्धी देवदत्तः इति; कदाचिच्च स एव सम्बन्धः शक्यसम्बन्धत्वेन रूपेण नैव भासते, अपि तु तेन्निष्ठमयोगः स्वादिना-गङ्गानिष्ठसंयोगवति तीरे घोषः, सिंहनिष्ठगुणसमानजाती. यगुणवान देवदत्तः-इति । तदेवं तत्तत्प्रकारताभेदेन बोधे वैलक्षण्यात् कार्यवैलक्ष- ण्यानुरोधेनापि कारणवैलण्यमावश्यकम् । तद्यत्र सम्बन्धिता साक्षात्परम्परासाधारण्येन प्रकारे प्रविष्टा गङ्गासम्बन्धिनि घोषः, गङ्गासम्बन्धितीरे वा घोषः, सिंहसम्बन्धी देवदत्त इति, ताह- शशाब्दत्वावच्छिन्नं प्राते लक्षणापदाभिधेयः स्वशक्यसम्बन्धत्वेन ज्ञातः कारणम् । अतएवोक्तं (१)"अभिधेयाविनाभूते प्रोत्तलक्षणे- ध्यते” इति । इदं हि नाविनाभावसम्बन्धेनैव लक्षणसेवंपरम् । सम्ब- न्धान्तरेणापि तस्याः दृश्यमानत्वात् । आपे तु यस्मिन् बोधे यत्स. म्बधित्वं प्रकारतया अविनाभूतं तस्मिन् बोधे या शब्दस्य वृत्तिः सा लक्षणेत्येवंपरम् । अतएव सिंहो देवदत्त इत्यादौ सिंहसम्बन्धी देवदत्त इत्येवं यदा बोधः तदा लक्षितलक्षणेत्याप द्रष्टव्यम् । यत्र तु स एव सम्बन्धो न सम्बन्धत्वेन रूपेण भासते अपि तु तनिष्ठगुणवत्ता- १तं.वा.१-४-१३. पृ. ३१८, करणम् ] प्रथमाध्यायस्थ चतुर्थः पादः । २७९ दिना भासमान एव तीरदेवदत्तादिविशेष्यकबोधे प्रकारीभवति ता. दृशशाब्दत्वावच्छिन्नं प्रति गौणीपदाभिधेयस्य शक्यनिष्ठगुणवत्ता त- खेन ज्ञाता कारणम् । नचैवं येन तीरत्वमात्रप्रकारकबोधः तादृशस्थले वृत्तिद्वयस्यापि कार्यतावच्छेदकत्वाभावाच्चतुर्थवृत्तिस्वीकारापत्तिः। तीरत्वमात्रप्रका- रकबोधस्यानुभवपथमनारूढस्यालीकत्वात् । अन्यथा समुद्रतीरे नद्य. न्तरतीरे वेति संशयापत्तेः । तत्सिद्धो लक्षणागौण्योर्भेदः । अत एव सहचरणादीन्यक्षपादप्रभृतिभिलक्षणानिमित्तान्युक्ता- नि । जैमिनिना तु तसिध्यादीनि गौणीनिमित्तानीति विवकोऽपि सङ्गच्छते । सिंहनिष्ठगुणानां हि देवदत्तसम्बन्धेऽस्ति निमित्तत्वम् । अतः स्वशक्यनिष्ठगुणवत्वलक्षणस्य गौणत्वस्य लोके वेदे च सम्भवा- धुक्ता यजमानपदेन गोण्या वृत्त्या प्रस्तरस्तुतिः । अस्ति हि यजमान. निष्ठकार्यसमानजातीयकार्यकारित्वं प्रस्तरैककपालयोः, तयोरपि या. गजनकत्वाविशेषेण यागाख्यकार्यनिरूपितत्वरूपैकधर्मयोगेन भि- नयजमानप्रस्तरनिष्ठयोः कारणत्वयोः साजासात् । अत एव तस्य मुख्यार्थस्य सिद्धिः कार्य परम्परासम्बन्धेन गुणाश्रयो गौणी. त्तिनिमित्तमिति सूत्रार्थः । इति ( तसिद्धिपेटिकायां प्रथमं ) त्रयोदशं तत्सिद्ध्याधिकरणम् अथ (द्वितीयं ) चतुर्दशं जात्यधिकरणम् (१४) ।। सू-जातिः ।। १-४-२४.॥ "आग्नेयमष्टाकपालं निपेत् ब्राह्मणो ब्रह्मवर्चसकामः" इत्या- दौ मुख्याष्टाकपालकार्यत्वेन श्रुतस्य ब्रह्मवर्चसादेः परम्परासम्बन्धेन . २८० मीमांसाकौस्तुभे [जात्यधि- द्वादशकपालावयवभूनाष्टाकपालादिकार्यत्वदर्शनात् तसिद्धिपदेनैवा- टाकपालादिशब्दानां गुणप्रतिनिमित्त कथनात् गौणत्वे समाहिनेड- पि तत्सिद्धिरूपनिमित्तांवरहेऽपि लोके निमित्तान्तरेण गौणीदर्शनात् कथं तत्सिद्धिौणी निमित्तमित्याशक्य न (१)तसिद्धिरेव गौणीनि- मित्तम् , अपि तु जात्यादीन्यपि । अतः यत्किञ्चिन्निमित्तान्तरं तदेते- वेव षट्स्वन्तर्भाव्यमित्यभिधानार्थमयं सूत्रैकदेशः। तदत्र"अग्नि ब्राह्मण" इत्यादौ पूर्ववदेव नामधेयत्वगुणविधित्ते आशङ्ग्य ब्राह्मणकार्यस्य त्यागादेरग्निना कर्तुमशक्यत्वात् गुणविधि- त्वानुपपत्तेः विध्यन्तरकवाक्यतानुरोधनाग्निशब्देन गोण्या वृत्या ब्राह्मणस्तुतिरिति तथैव सिद्धान्तयितव्यम् । गुणवृत्तिनिमित्तकथनार्थ तु.जातिशब्दः । जासिर्जननं एकप्रभवत्वामित्यर्थः । अग्निब्राह्मणयोहि "आग्नेयमष्टाकपालं निर्वऐव ब्राह्मणो ब्रह्मवर्चसकामः" इत्येतद्वाक्य- शेष "प्रजापतिरकामयत प्रजाः सृजेयेति, स मुखतः विकृतं निरमिमीत, तमग्निर्देवताऽवसृज्यत, गायत्री च्छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणामजः पशूनां" इत्यादिना एकप्रजापतिमुखप्रभवत्वं सङ्की- तितम् । यद्यपि चार्थवादस्यान्यपरत्वादस्मन्मतेऽग्निब्राह्मणयोः मृष्ट्या- दिकालेऽपि एकमुखप्रभवत्वे प्रमाणाभावः। अतश्च शक्यतावच्छेदकवत गौणतावच्छेदकस्यापि वस्तुत एव (२)विशिष्टत्तित्वनियमान्नैतस्य गौणत्वनिमित्तता युज्यते, तथापि अर्थवादोपात्तैकमुखप्रभवत्वालम्बन- भूतस्याग्नेयमष्टाकपालमिति प्रकृतकविशिष्टविधिप्रसूतविशेषणविधि- कत्वस्य वस्तुत एव सत्वात् गौणीनिमित्तत्वोपपत्तिः । यत्तु भाष्यकारेणैतद्विधिशेषभूत एवा(३)"नेयो वै ब्राह्मण" इति वाक्ये अर्थवादत्वसिद्धान्तमुपपाद्य तदालम्बनार्थ गौणत्वमाग्नेय- शब्दस्योक्तम् , तत् आग्नेयशब्दश्य सूक्तहविस्समभिव्याहाराभावेन १ तत्सिद्धरेव गौणीनिमित्तता.। २ विशेष्य, ३ तै. सं. २-३-३-३.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २८१ देवतातद्धितत्वानुपपत्तावपि(१)"तस्येद" मिसनेन प्रकृते सम्बन्ध- मात्रेऽपि 'सर्वत्राग्निकालभ्यां दरवक्तव्य' इति स्मृत्या तद्धित- विधानादुक्तविधया चामिब्राह्मणयोस्सम्बन्धसत्वादाग्नेयशब्दस्य मु. ख्यवृत्त्यैव ब्राह्मणपदसमभिव्याहारोपपत्तौ गौणत्वे प्रमाणाभावा- दुपेक्षितं वात्तिककृता। न च सम्बन्धसामान्ये तद्धितोत्पत्तावपि सम्बन्धसामान्यस्य वि. शेषापेक्षायां विधिवलाद्देवतात्वविशेषणस्यैव प्रतीतेः तस्य च सूक्त- हविस्समभिव्याहारं विनानुपपत्ते मुख्यत्वायोग इति वाच्यम् । “आ- ग्नेयो वै ब्राह्मणो देवतये" त्यादौ सूक्तहविस्समभिव्याहाराभावेऽपि सम्बन्धमात्रे तद्धितगङ्गीकृत्य विशेषापेक्षायां प्रमाणान्तरावगतदे- वतात्वविशेषग्रहस्य बहुशो दृष्टत्तात् । सूत्रं तु पूर्ववदेव तस्य मुख्यार्थस्य जाति ननमेव परम्परा- सम्बन्धेन गुणाश्रयो गौणीनिमित्तमिति व्याख्येयम् । इति (तत्मिद्धिपेटिकायां द्वितीय) चतुर्दशं जासधिकरणम् । अथ (तृतीयं ) पश्चदशं सारूप्याधिकरणम् (१५) ।। सू-सारूप्यम् ॥ १-४-२५. ॥ 'आदित्यो यूप' 'यजमानो यूप' इत्यादौ पूर्ववदेव नामधेयत्वगुणविधित्वे आशय युपकार्ये पशुनियोजनादौ अन- पक्रमणसाधनत्वेनादित्यविधेरशक्यत्वात् आदिसपदस्य दारुमया- दित्यप्रतिकृतिपरत्वे विधौ गुणवृत्यङ्गीकारापत्तेः यूपकार्ये यजमान- विधावपि च कार्यापत्योत्तरवेदिमाग्देशनिखननस्यापि प्राप्तस्य य. जमानपदार्थेन दक्षिणदेशावस्थानेन बाधापत्तेः अबाघसम्भवे च १. पा. सू.४-३-१२०. ३६ २८२ मीमांसाकौस्तुभे [ सारूप्याधि- बाधायोगात् गुणविधित्वायोगः प्रमाधनीयः । यत्त्वत्र न्यायसुधायां माग्देशनिखननस्य पशुधारणस्य च पशुनिरोधार्थत्वेन यूपकार्यान्तःपाताद्यजमानेऽपि प्राप्ते दक्षिणदे- शावस्थानरूपस्वपदार्थकरणविरोधप्रसङ्ग इत्युक्तम्, तत् (१)"यूपं मिनोती"ति वाक्येन निखननस्य पशुधारणस्य च युपधर्मत्वप्रतीतेः यूपकार्यान्तःपातायोगात् । अन्यथा परिधावपि निखननापत्तेः । यूपकार्यान्तःपाते वा अतिदेशप्राप्तदक्षिणदेशावस्थानस्य वाचनिकेन यूपकार्यसम्बन्धेन(२) “यो होता सोऽध्वर्यु"रितिवत बाधापत्तेपेक्षि- तम् । आश्च निखननस्य यूपधर्मस्यापि कार्यापत्या प्राप्तस्य याज- मानकार्येण दक्षिणदेशावस्थानेनापि बाधापत्तेः अबाधसम्भवे च बाधायोगात् (३)"यपमुच्छ्रयती" ति बिध्येकवाक्यताभङ्गापचेश्व गुणवृत्त्या यूपस्तुतिरेवायम् । सारूप्यरूपनिमित्तार्थान्तरकथनार्थन्तु सारूप्यशब्दः। ननु-सर्वत्रैव तत्सिध्यादौ समानजातीयाख्यस्य सारूप्यस्य स. स्वान्न तस्य निमित्तान्तरत्वमिति चेत्-न, तत्सिध्यादौ सारूप्यस्य सम्बन्धविधया कार्यकोटौ कारणकोटौ वा प्रवेशेऽपि तत्कार्यस्यैव स्वसमानजातीयकार्यकारितासम्बन्धेन प्रकारताख्यनिमित्तनावगमा. न सारूप्यस्य प्रकारताख्यनिमित्तत्वम् । इह तु आदित्ययजमाना- भ्यां यूपे अअनोच्छ्रयणजन्यतेजस्वित्वोर्ध्वत्वरूपसादृश्यस्य चाक्षु. घस्य झटिति प्रतीतिसम्भवेन कारणतावच्छेदके कार्यतावच्छेदके वा भकारतया प्रविष्टत्वानिमित्तत्वोपपत्तिः । तथा च यत्र सारूप्यसम्बन्धेन मुख्यनिष्ठाः तसिध्यादय एव गुणाः प्रकारा भवन्ति तत्र तसिध्यादीनि पञ्च निमित्तानि, यत्र तु सादृश्यमपि प्रकारीभवति तत्र सारूप्यं निमित्तम् । अतश्चाभय- साधारण्येन यस्मिन् देवदत्त विशेष्य के शाब्दबोधे सिंहनिष्ठगुणाः प्र. १२.प्रा.३-७-१-१५. २ आप.श्री. २३-११-१२.३ श.बा.३-७-१-१४.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । कारवायां प्रविष्टाः तादृशशाब्दतावच्छिन्नं प्रति साक्षात्परम्परासा. धारण्येन मिहपदशक्यत्तिगुणवत्ताज्ञानं कारणमिति निय- मकल्पनात सारूप्यस्य गौणीकृत्तिनिमित्तत्वोपपत्तिः । एतदभिप्रा. येणोक्तं चक्षुह्य सादृश्यविवक्षया पृथगुपादानमिति न चक्षुर्ग्रह्यत्व मेव पृथगुपादानप्रयोजकम् । छत्रिणो गच्छन्तीत्यादौ बाहुल्यादीनाम- पि चक्षुह्यत्वेन तदपेक्षया पृथगुपादानानुपपत्तेः । तस्मात् सारूप्प- स्य प्रकारतया भानादेव पृथगुपादानमिति द्रष्टव्यम् । अत एव भा- ज्यादौ सारूप्यादिति सन्निमित्तपञ्चम्यध्याहृता। इति (तसिद्धिपोटकायां तृतीय) पञ्चदशं सारूप्याधिकरणम् ॥ अथ (चतुर्थ) षोडशं प्रशंसाधिकरणम् (१६) ।। सू-प्रशंसा ॥ १-४-२६. ॥ (१)"अपशवो वा अन्ये गोअशेभ्यः पशवो गोअवा" (२)"अयज्ञो. वा एष योऽप्तामा" (३)अमत्रं वा एनद्यदच्छन्दोमम्" इसादौ गवा- शव्यतिरिक्तानामपशुशब्दो नामधेयमिति सम्भवमात्रणाशय गवा- शव्यतिरिक्तानामजादीनां पशुपदवाच्यत्वादेवापशुसंज्ञकत्वानुपप- त्तेर्घटादीनामपशुपदवाच्यत्वस्य प्रमाणान्तरेणैव सिद्धेस्संज्ञान्तरवै- व्यापत्तनगममासान्तर्गतं पशुपदं पशुकार्यलक्षकमङ्गीकृत नमा गवाश्वभिन्नानां अजादीनां पशुकायें पर्युदासः क्रियते । गवाश्वव्य- तिरिक्ताजादिभिन्नेन पशुकार्यमग्नीपोमीययागादि कुर्यादिति । अथ वा अजादीनां विहितत्वेन विकल्पस्यापरिहार्यत्वात् दूरस्थै कवाक्यताकल्पनक्लेशापत्तेश्च प्रतिषेध एवायम् । अतो विधायकमे- १. तै. सं.५-२-९-४. २. सं.१-५-७-१. ३ तै. सं. ७-४-२-३.
२८४ मीमांसाकौस्तुभे [ प्रशंसाधि- - वै वेति प्राप्त- अजादीनां तत्र तत्र विहितत्वेन निषेधकल्पनानुपपत्तेः कल्प्यनिषेधे. न चक्लप्तविधेः पाक्षिकत्वापादनस्य कथमप्यशक्यत्वात(१) "अमेध्या माषा' इतिवत् प्रतिनिधिनिषेधकत्वस्य च (२)पुरस्तात्प्रतीचीनम. श्वस्योपदधाति पश्चात् प्राचीनप्रभस्ये" ति प्रकृतविध्येकवाक्यताभ- झापादकत्वेन कल्पयितुमशक्यत्वात् साक्षात्पशुत्वादीनाञ्च प्रतिषे. धुमशक्यत्वात गौण्या वृत्त्या पूर्ववत् गवाश्वप्रशंसैवेयम् । प्रशंसा- ख्यनिमित्तान्तरकथनार्थस्तु प्रशंसाशब्दः । तथा हि- नसमासान्तमपशुपदं गवाश्वविध्येकवाक्यतानुरोधादर्थवादे- ऽपि च पशवो गोअश्वा' इति सामानाधिकरण्यादेकमम्बन्धिज्ञाने- नापरसम्बन्धिस्मरणमिति न्यायेन गवावगतप्राशस्त्याभावोपस्थाप. कम् । अतोऽर्थाद्वाश्वगतप्राशस्त्यावगमादजादीनां निन्दावगम्यते । सा च नहिनिन्दान्यायेन विधेयगवाश्वस्तुत्युर्था । अत्र चापशुशब्द- स्य पशुभिन्नघटादिवचनस्य स्वशक्यघटनिष्ठगवाश्वगतमाशस्त्याभा- घरूपगुणयोगाद जादौ गौणत्वम् । अतश्च प्रशंसाभावस्य गुणत्वे प्र- तियोगिविघया प्रशंसाया आप मकारतायां प्रविष्टत्वानिमित्तत्वो- पपत्तिः। यत्तु न्यायसुधादौ पशुपदं गवाश्वगतमाशस्त्यपरमजीकृस नमा तदभाव अजादौ प्रतिपाद्यत इत्युक्तम् , तद्यदि एकसम्बन्धि- दर्शनन्यायेन गवाश्वगतमाशस्योपस्थितिरभिप्रेता ततोऽशाब्द- वाव तस्य शाब्देन नार्थेनान्वयानुपपत्तिः। अथ लक्षणया, तत- स्तयैव निर्वाहाद्रेणीवृत्युपपादनानुपपत्तिरित्युपेक्षणीयम् । अतः पू. र्वोक्तविधया अपशुपदं स्वार्थोषस्थापनद्वारा गवाश्वगतप्राशस्त्याभा- वरूपं स्वशक्यनिष्ठगुणमुपस्थापयतीति तद्योगादजादौ गौणी । एव "मयज्ञो वा एषः" इत्यादौ यद्यपि पशवो गोऽश्वा इति. १. सं. ५-१-७-१. ५-२-९-४. २.ते. सं.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २८५ बन्नार्थवादे सामानाधिकरण्यम, तथापि क्रतोः मामच्छन्दोमवतो विध्ये. कवाक्यतानुरोधेनोपस्थितस्य सामच्छन्दोमवत्क्रतुगतप्राशस्त्याभाव- रूपस्य गुणस्यायज्ञादिपदशक्यघटादिनिष्ठस्य योगादयज्ञादिपदं स्व. तो यज्ञरूपेष्वपि दर्शपूर्णमासादिषु गौणम् । नचैवं गवाश्वगतप्राश- स्यस्य प्रतियोगिविधया पूर्वमेवोपस्थितौ पुनरजादिपदोन्नीतगवाश्व- स्तुतिवैय्यर्थम् । गवाश्वगतमाशस्त्यस्यानन्यनिष्ठत्वख्यापनेना. तिशयद्योतनार्थत्वात् । अतश्च फलीभूने प्राशस्त्येऽतिशयं घो. सयितुं क्रियमाणायां अजादिनिन्दायां गवाश्वगतं प्राशस्यमपशुश. ब्दस्याजादौ गौणवृत्तेनिमित्तमिति सिद्धम् ॥ इति (तसिद्धिपेटिकायां चतुर्थ) षोडशं प्रशंसाधिकरणम् । अथ (पश्चमं) सप्तदशं भूमाधिकरणम् (१७) ।। सू-भूमा ॥ १-४-२७. ॥ (१)"सृष्टीरुपदधाती"त्यत्र सृष्टिपदं स्मृष्टिलिङ्गकमन्त्रमात्रपरम्? उत गौण्या वृत्या सृष्ट्यसृष्टिसमुदायपरम? इति विचारः। गुणवृत्तिनिमित्त- कथनार्थत्वाच्च पूर्ववदेव सङ्गतित्रयम् । तत्र न तावदयमर्थवादः, येना. नुवादत्वात् गुणवृत्यङ्गीकरणमपि युज्येत । आख्यातप्रत्ययश्रवणाद विध्यन्तरैकवाक्यताभावात्तु अयं विधिः । तत्रापि तु नोपधानं विधी. यते । तस्यानुपधीयमानाभिरिष्टकाभिश्चयनस्य कर्तुमशक्यत्वेन टकाभिरग्निं चिनुते' इति विध्यन्यथानुपपत्यैव स्वरूपेणेष्टकासम्ब. न्धित्वेन च प्राप्तत्वाव, गुणसंक्रान्तविधिशक्तित्वाच्च । अत: उपधा- नानुवादेन सृष्टिपदार्थो विधीयते । सोऽपि च नष्टकारूपः । (२)त. १ ते. सं.५-३-४-७. २पा.८.४-४-१२५.
२८६ मीमांसाकौस्तुभे [ भूमाधि-- द्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः" इति स्मृत्या सृष्टिलिङ्गकमन्त्रोपधेयेष्टकामु गम्यमानासु मतुपः लोपविधानात् सृष्टिशब्दोऽयं सृष्टिपदघटितमन्त्रोपधेयेष्टकाविशेषपरः । वस्तुतस्तु अनेन सूत्रेण मतुप्लोपकरणे सन्नियोगशिष्टचशब्दवि. हितयत्प्रत्ययस्यापि करणापत्तेः (१)"ऋतव्या उपदधाती"तिवत् मृ- ष्ट्या इति रूपापत्तिः। अनः दृष्टानुविधिरित्येवं मतुविधेरेवानित्यतां प्रकल्प्य मतुबन्तप्रातिपदिकत्वाभावादेव च यत्मत्ययमतुब्लोपयोः प्रस. त्यभावात स्त्रीलिङ्गायनुरोधेन सृष्टिपदेनैव सृष्टिमन्मन्त्रोपधेयेष्टकाविशे- षाणां लक्षणयाऽभिधानम्,अतश्चेष्टकाविशेषाणां सृष्टिपदाभिधेयत्वेऽपि कासामिष्टकानां स्मृष्टिमन्त्रैरुपधानमिति विशेषानवगमादिष्टकामामान्य- स्य चेष्टकाविधिनैवोपधानसम्बन्धप्राप्तौ तद्विशेषस्य सुतरां उपधानस- म्बन्धप्राप्तेविधानायोगात,इष्टकाविशेषाणामुपधानाङ्गत्वे सृष्टीरित द्वि- तीयानुपपत्तेश्च । द्वितीयाबलादेवेष्टकाविशेषाद्देशेनोपधानविधिस्तु वि. शेषानवगमादेव निराकर्तव्यः। अतः पारिशेष्यात्"(२)तिमृभिरस्तुवत ब्रह्मामृज्यते"त्यादिसजिधातुयुक्तमृष्टिलिङ्गकयन्त्रविधिरेवासयपि द्वि- तीयासंयोगे "एन्द्रवायवं गृह्णाती"तिवन्नानुपपन्नः । न च मन्त्राणामपि लिङ्गप्रकरणाभ्यामेव प्राविध्यानर्थक्यम् । लिङ्गप्रकरणकप्ल्यविनि- योगात्पूर्वमेव प्रत्यक्षवचनेन सृष्टिमन्त्रविधानोपपत्तेः । तत्पयोजनञ्चा- सृष्टिलिङ्गकमन्त्रान्तरूपरिसंख्या । न चैवं त्रैदोष्यम, अप्राप्तपरिसं- ख्याङ्गीकारा। न चासृष्टिलिङ्गकमन्त्रान्तरवैय्यर्थ्यम् । मन्त्रान्तरणामुपधानका- न्तिकलिङ्गाभावेन साधारणलिङ्गत्वादिष्टकाग्रहणादिष्वपि चयनवि. ध्याक्षिप्तेषु विनियोगेनार्थवत्वात् । अथ वा मन्त्रातराणां सत्यप्युपधानकान्तिकलिङ्गे(३)"यां काश्च- न ब्राह्मणवीमिष्टकामभिजानीयात् ता मंध्यमायां चितावुपदध्यात्" १ते. सं.५-४-२-१, २ ते. सं:४-३-१०-१. ३ श. बा. ८-७-२-१८, करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २८७ इत्यादिवचनेनाभिपूर्वस्य जानातेः प्रत्यक्षज्ञानवाचित्वात् प्रत्यक्षबा. ह्मणविहितानां इष्टकानां मध्यमाचतावेवोपधानस्य नियतत्वेन लिङ्ग- विनियुक्तानां असति मध्यमाचत्यवान्तरप्रकरणे महाप्रकरणेन लोक- पृणावत् सर्वचितिषु निवेशोपपत्तेः नानर्थक्यम् । अत एव सृष्टिमन्त्रवि- धानस्यैतदपि प्रयोजनं यदुक्तवचनेन मध्यमचितिमात्रसम्बन्धः । अ- न्यथा लिङ्गविनियुक्तानां मध्यमचित्यन्तरेऽपि निवेशस्यात् । न तु मध्यमायामेव । अतः मध्यमचितिमात्रसम्बन्धार्थ मन्त्रविधि युक्तः । न च मन्त्राणां प्रत्यक्षब्राह्मणविनियोगेऽपि तदुपयेष्टकाविशे- षाणामविधानस्य तुल्यत्वेन कथं मध्यमचितिसम्बन्धोपपत्तिः, इष्टका. वाचिश्रुतशब्दविनियुक्तमन्त्रोपधेयेष्टकात्वेनैवेष्टकानां ब्राह्मणवत्वा- भ्युपगमात् । अत एव “यदेवास्योनं यच्छिद्रं तदेतया पूरयति"परि- चिदसि तया देवतया" "लोकं पृण च्छिद्रं पृण" इत्यतिकरणवि. नियुक्तमन्त्रोपधेयेष्टकायाः न ब्राह्मणवत्वमिति पञ्चमे वक्ष्यते । सृष्टिमन्त्राणान्तु तादृक्शब्दविनियुक्तलेन तदुपधेयेष्टकानां ब्राह्मण वत्वोपपत्तेः युक्तं सृष्टिमन्त्रविधिप्रयोजनत्वं मध्यमचितिसम्बन्धश्च । किञ्च यथैव सृष्टिमन्त्रविधेहमेधीयाज्यभागन्यायेन मन्त्रान्तर- रूपशेषपरिसंख्याफलकत्वं तथैव सृष्टिमन्त्राणां साधारणलिङ्गत्वादि. ष्टकाग्रहणादौ तदुपधाने चाविशेषात् प्राप्तानां गर्दभाभिधानीन्यायेन ग्रहणादिकार्यान्तरपरिसंख्याफलकत्वमपि न विरुध्यते । किञ्च यत्र भूतेष्टकावविण्यादौ तन्मन्त्राणामुपानुवाक्याकाण्डाधी- तत्वेन सति सामान्यसम्बन्धबोधकप्रमाणे लिङ्गमात्रेण विनियोगायो- गादसम्भवत्प्राप्तिकता तत्रैषामप्राप्तपापणमेव विधेः फलमिति सर्वथा गुणसङ्क्रान्तशक्तिना तेन विधिना मन्त्रविधानमेव युक्तम् । एवञ्च सृष्टिपदस्य विधायकत्वे सिद्धे तेन गोण्या वृत्त्याऽसृष्टिमन्त्रप्रतिपादनं विधौ गौणत्वस्वीकरणश्चात्यन्तमेवान्याय्यम् । नचैवमौपानुवाक्यकाण्डाधीवानामेकानुवाकगतानां मन्त्राणां --- २८८ मीमांसाकौस्तुभे [ भूमाधि- मध्ये केषांचित्तल्लिङ्गानां विनियोगेऽप्यन्येषामतल्लिङ्गानामानर्थक्याप- तिः तेषाश्चयनाङ्गत्वबोधकप्रमाणाभावेऽपि वाचस्तोमादौ सर्व यजु- मन्त्रविनियोगेन सार्थकत्वोपपत्तेः । अतः सृष्टिपदं नासृष्टिपरामिति प्राप्त-- भाष्यकारेण तावदेवं सिद्धान्तिनम्-उपयोस्सम्भवस्माप्तिकत्वेन भावार्थाधिकरणन्यायेन धात्वर्थस्यैवाक्षेपतः पूर्वप्रवृत्या विधेयत्वमा ङ्गीकर्तव्यम् । तत्पयोजनश्चेष्टकासंस्कारकत्वसिद्धिः। अन्यथा हि"इ. टकाभिरग्नि चिनुन" इति विध्यत्रगतचयनसाधनतानिर्वाहार्थ अबान्तर- व्यापारतयाऽऽक्षिप्तस्योपधानस्येष्टकासाध्यत्वावगमेनेष्टकासंस्कारक. स्वामतीते।तत्फलमपि प्रतिप्रधानं गुणात्तिन्यायात्प्रतीष्टकमुपधाना. त्तिसिद्धिः। अन्यथा कदाचित्समुदितेष्टकोपधानेनापि चयननिष्पत्तेर्जा- यमानत्वेन प्रतीष्टकमुपधानप्राप्तः। यदि तु प्रधानभेदेऽपि प्रयोगविध्यव- गतसाहित्यनिर्वाहार्थ यथाशक्ति पात्राभिमर्शनादिवत्समुदितोपधानमेव युक्तमित्याशक्यते तदा इष्टकासंस्कारविधिफलं तत्स्वरूपे आनर्थक्या- चयनाङ्गतासिद्धिः। अन्यथा(१)मिनाक्षेपलभ्यस्योपधानस्य कृष्यादिवत् विष्यकल्पकत्वेनाविहितत्वात् विधानघटिनस्याङ्गत्वस्यावगतः। तत्फलं चाङ्गप्रधानयोरेककर्तृत्वसिद्धिः । अन्यथा हि अन्यकृतेनाप्युपधा- नेनाध्वर्युकर्तृकचयनोपपत्तेः न नियमेनककर्तृकतासिद्धिः । नावान्तर- व्यापारस्य कार्येण सह समानकर्तृत्वं नियतम् , सन्धुक्षणाधवान्त- रव्यापारस्यान्यकर्षकत्वेऽपि काष्ठजन्ये पाके देवदत्तेन पाकः कृत इत्यादिव्यवहारविषयत्वदर्शनात् । अतश्चयनसमानकर्तृकत्वसिद्धि. रेवोपधानविधेः प्रयोजनम् । यत्तु पथनादिविधिवदाध्वर्यवसमाख्याविषयतालाभेनाध्वर्युक- तकतैवोपधानविधिप्रयोजनमित्युक्तं मूले, तदसत्यपि साक्षादुपधान- स्याध्वर्यवसमाख्याविषयतालम्बने चयनसमानकर्तृकत्वबलादेवाध्वर्यु. १ नियता.
करणम् ] प्रथमाध्यायस्थ चतुर्थः पादः । कर्तृकत्वप्राप्तः फलवायोगात् प्रथने च यजमानकर्षकत्यागसमानक- तकत्वबाधेन समाख्यायाः अध्वर्युकर्तृकत्वविध्युपपत्तेः फलत्वसम्भ- वेन वैषम्यादुपेक्षितम् । अतः प्रयोजनबत्वादुपधानमेवामाप्तावस्थं वि- धीयते इष्टकोद्देशेन । मन्त्राः पुनः प्रथनमन्त्रवत्सन्निधानसहकृतलिङ्गा- दुपधानसम्बन्धितया प्राप्ताः अनूयन्ते सृष्टिपदेन । तत्रापि च यथैव सृष्टिमन्त्राः अनूयन्ते तथैव सन्निधानावगताङ्गत्वबाधायोगादसृष्टिम- त्रा अपि । अत एव 'सृष्टीरूपदधाती'त्युपक्रम्याधमन्त्रप्रभृति सप्तदश- मन्त्रोपधानसंस्कार्याणां इष्टकानां प्रत्येकं स्तुति कृत्वा "यत्सप्तदशेष्ट- का उपदधाती"त्युपसंहारात् सृष्टिपदस्य सृष्टिमन्त्रपरत्ववत् आद्य- चतुर्दशसप्तदशरूपासृष्टिमन्त्रपरत्वमध्यवगम्यते गौण्या वृस्या । नचैवमुपक्रमस्थेऽसन्दिग्धे विध्युद्देशे उपसंहारस्थार्थवादानुरोधेन जघन्यवृत्याश्रयणानुपपत्तिः। उपसंहारार्थवादेष्वपि वहुवानर्थ- क्यात् जघन्यवृत्याश्रयणापेक्षया उपक्रमस्थेऽपि विधावेकस्मिन् तद- ङ्गीकारस्य श्येनपद इबोचितत्वात् । अत एव मन्त्रकाण्डपठितानां म. न्त्राणांमध्ये "सृष्टीरुपदयाती"त्यनेन सार्थवादेन सप्तदशानां विनियोग उक्त्वा अष्टादशप्रभृति व्युष्टिमंज्ञकानामग्रे विनियोगः उक्तः। अाश्च सू- ष्टिपदं अजहत्स्वार्थवृत्या सृष्टयसृष्टिसमुदायिपरं सृष्टिनिष्ठबाहुल्य समानाधिकरणसमुदायाश्रयत्वगुणयोगेन। अस्ति हि सृष्टिषु बाहुल्यं सृष्टयादिघटितश्च समुदायः साहित्यापरपोयो धर्मः सप्तदशानां म- त्राणां यत्सप्तदशेत्यादिना एकाभिधानावगतः। अतश्च तादृशसमु- दायाश्रयत्वसम्बन्धेन सृष्टिपदं सप्तदशमन्त्रेषु गौणम् । न च सृष्टिमन्त्राणां शक्यैव भानोपपत्तेः गौणत्वकल्पनानुपप- त्तिः। तथाङ्गीकारे युगपत्तिद्वयविरोधापत्तेः। अतश्चार्थवादानुरोधेन स्वार्थमात्रपर्यवसाने बाधिते उक्तगुणयोगेनासृष्टिमन्त्रपरत्ववदर्थवादा- नुरोधादेव तयैव गुणवृत्त्या सृष्टिपरत्वमाप न विरुध्यते । केचित्तु न्यायसुधास्वारस्येन सृष्टिपदं असृष्टिपत्यायनार्थमेव मीमांसाकौस्तुभे [भूमाधि- गोण्या प्रवृत्तं गौण्यवच्छेदकस्य शक्येष्वपि सत्वात तानपि प्रतिपाद- यति, यथा 'व्रीहीन प्रोक्षती' सत्र व्रीहिमदं स्वशक्यनिष्ठापूर्वसाध- नत्वमेवानर्थक्यपरिहारार्थ लक्षयितुं प्रवृत्तमपि लक्ष्यतावच्छेदकसंग्र- हादेव व्रीहिवत् यवानपि प्रतिपादयतीत्याहुः तन्न, अर्थवादानुपपत्ते. समानत्वेनासृष्टिबोधार्थवत् सृष्टिबोधार्थमपि प्रवृत्तेरावश्वकत्वात् । अन्ये तु पार्थसारथिमिश्रस्वारस्येन सृष्टयसृष्टिसमुदाय एव बा- हुल्याख्यगुणयोगेन सृष्टिपदं गौणम् । न च समुदायस्योपधानसंस्का. रकत्वानुपपचिः। स्वाश्रयसमुदायद्वारा नदुपपत्तरियाहुः । तदपि न, समुदायविधौ सर्वमन्त्रपाठोत्तरं सकृदुपधानापत्तेः। समुदायवि. धाने हि तेषां प्रत्येकसाधनतानिर्वाहार्थं प्रत्येकमेवोपधानं स्यात् । एवं सत्यपि यद्यत्रेष्टकाबाहुल्यं न स्यात् ततः "तां चतुर्भिरभ्रिमादत्त"इति- वत् स्यात सकृदुपधानम् । अस्ति तु तत् । अतस्तमुदायिविधानप- क्षे प्रत्येकोपधानासिद्धिः । समुदायविधौ तु सप्यपि तस्य स्वाश्रयद्वारा उपधानप्रकाशकत्वे एककरणतानिर्वाहार्थ सूक्तादिवत्सदुपधाना- पतिः। न च वार्तिककारमते समुदायस्य विधेयत्वात्तदापत्तावापे भा- ष्यमते सन्निधानप्राप्तानुवादत्वान्नैतदोषापत्तिरित वाच्यम् । सन्नि- धानेन प्रत्येकमेव साधनत्वावगतः तन्मते समुदायसाधनत्वानुवाद- स्यैवायोगात् । अतस्तल्लिङ्गातल्लिङ्गेषु भूयस्त्वनिमित्तः शब्दप्रयोग इति वार्तिकस्वारस्यात् सप्तदशसमुदायिष्वेव गोणीति युक्तमुत्पश्यामः । तत्सिद्धं सन्निधानप्राप्तसप्तदशमन्त्रानुवादमानं सृष्टिशब्दः । त- त्प्रयोजनं तु प्रथनार्थवादवत् “यथासृष्टमेवावरुन्धे" इत्यस्यार्थवाद- स्यालम्बनं, उपधानस्तुतिरेव वेत्यादि द्रष्टव्यम् । वार्तिककारस्तु नोपधानमात्रविधिः । तथा सति "प्राणभृत उपदधाती"सनेकोपधानविधिय्यापत्तेः। नचाभ्यासाद्भदावगतेनैवै- व्यर्थ्यम् । सकृत् विहितस्यापि चयनसमानकर्तृकत्वलाभेन भेदवोधवै- करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । य्यात् । अतः पूर्वपक्षोक्तरीत्या सृष्टिपदं मन्त्राविधायकमेव । तत्पः योजनञ्च मन्त्रान्तरपरिसंख्या। भाष्यक्तिरीत्यैव सृष्टिपदस्य सृष्ट्य- सृष्टिममुदायरूपसप्तदशमन्त्रपरत्वात् । नचैव विधौ गौणत्वापत्तिः। 'श्येनचितं चिन्वीते' त्यादिवदगत्या विधावपि तदङ्गीकाराव । किन्तु मध्यमचितिसम्बन्धः ग्रहणादिकार्यान्तरपरिसंख्या वति पूर्वपक्ष्युक्त- मेवानुसन्धेयम् । उपधानन्तु अर्थप्राप्तमेवानूद्यत इति न्यायसुधाकृता व्याख्यातम् । वस्तुतस्तु तस्य कर्मत्वेन तावन्नैवानुवादस्सम्भवति, इष्टकानां द्वितीयया कर्मत्वावगमात् । अतो द्वितीयावगतेष्टकाकर्मत्वनिर्वाहार्थ उपधानस्य करणत्वं वाच्यम् । अतश्चाक्षपोत्तरमेतद्वाक्यप्रवृत्ती प्रमाणाभाचेनानुवादासम्भवादुपधानस्यापि विधानमङ्गीकर्तव्यम् । तत्प्रयोजनञ्च भाष्योक्तरीत्या चयनसमानककत्वादिसिद्धिः अन्यथा ह्यवान्तरव्यापाररूपोपधानानुवादेन मन्त्रविधौ समन्त्रकस्याप्युपधा- नस्यान्यकर्तृकत्तप्रसङ्गे सति चयनसमानकर्तृकत्वासिद्धेः । अतो मन्त्रविशिष्टोपधानमेवेष्टकासंस्कारार्थत्वेन विधीयते । आवश्यकश्चैवं. विधिप्रकाराङ्गीकरणं अनारभ्याधीते भूतेष्टकाचित्रिणीवविण्यादौ । तत्र न हि तावदुपधानमात्रविधिः । तन्मन्त्राणां सन्निधिपाठन प्रा. प्तिसम्भवेऽपि अनेकोपधानविधिय्यर्थ्यस्य तदवस्थत्वात् । नापि दूरस्थचयनविध्याक्षिप्तोपधानानुवादेन मन्त्रविधिः । इष्टकाख्यसंस्का- यरूपानुपादेयगुणयोगेन कर्मान्तरत्वप्रतीतः प्राकरणिकमन्त्रावरोधाच। अतश्चेष्टकासंस्कारार्थत्वेन मन्त्रविशिष्टोपधानविधिस्तत्रावश्यक एव । नचैवमव्यभिचरितसम्बन्धाभावेनाग्न्यङ्गत्वे प्रमाणाभावः । (१)"त- स्मादग्निचित्सर्वमायुरोते" इति तदुपधानावधिसन्निधिपठितार्थवादव- शादेव चयनाङ्गत्वप्रतीतानचैवमप्येकेन विधिनोपधानविधानसिद्धेः इत- रविधीनामुपधानविधानाशक्तिः । गुणाकर्मभेदावगमेन तत्तन्मन्त्रवि. १. तै. सं.५.
२९२ मीमांसाकौस्तुभे [लिङ्गसमवायाधि- शिष्टोपधानान्तरविधानेनैव सकलविध्यर्थवत्वोपपत्तेः । नोकेन चा. क्येन कतिपयमन्त्रोपधेयेष्टकानां उपधाने विहिते इतरेष्टकोपधानवि- धिवैय्यीमापादयितुं शक्यते । अत एवोद्देश्यस्वरूपपर्यालोचनया सर्वे- ष्टकानामेकैकस्मिन् वाक्ये संस्कार्यत्वावगतावपि कतिपयमन्त्रविशिष्टो- पधानरूपविधेयपर्यालोचनया तावदिष्टकानामेव संस्कार्यत्वावगमान्न वाक्यान्तरानर्थक्यम् । भाष्यकृन्मते तु विधेयोपधानस्येष्टकाविशेषप्रत्या. यकत्वाभावात् मन्त्राणां च संस्कार्येष्टकाविशेषकत्वानुपपत्तेः “यत्स- सदशेष्टका उपदधाती" अर्थवादस्य च विधौ सर्वेष्टकाविषयत्वेन नि- श्चिते सन्देहाभावेनानिर्णायकत्वाद्वाक्यान्तरानर्थक्यमिति विशेषः । तत्सिद्धं मन्त्रविशिष्टोपधानेऽपि सृष्टिपदस्य सृष्टिममुदायिषु गौणत्वम् । बाहुल्यापरपर्यायश्च भूमा उक्तगुणवृत्तिप्रकारतायां प्रविष्ट- त्वात् गौणीत्तिनिमित्तम् ॥ इति (तत्सिद्धिपेटिकायां पञ्चम) सप्तदशं भूमाधिकरणम् ॥ अथ (षष्ठं ) अष्टादशं लिङ्गसमवायाधिकरणम् (१८) ॥ सू-लिंगसमवाया इति गुणाश्रयाः ॥१-४-२८॥ "(१) प्राणभृत उपदधाति," "अज्यनीरुपदधाती" त्यादौ पूर्ववदेव मन्त्रविशिष्टोपधानविधित्वेऽपि प्राणभृदादीनां बाहुल्याभा. वात् गुणतिनिमित्ताभावमाशङ्कय निमित्तान्तरकथनार्थ लिङ्गसम. वायेत्ययं सूत्रैकदेशः। तत्र भूम्नः पूर्व निमित्तत्वस्योक्तत्वात गोबलीवर्दन्यायेन तदति- रिक्तस्याल्पत्वस्य साम्यस्य च निमित्तत्वे तात्पर्य लिङ्गसमवायपद- स्थावगम्यते । अस्ति हि माणभृन्मन्त्राणां अप्राणभृन्मन्त्रापेक्षया अल्प- १. श० ब्रा०८-१-१.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २९३ त्वम् । अतःप्राणभृच्छब्दः प्राणभृदल्पत्वसमानाधिकरणसमुदायाश्र- यत्वगुणयोगेन प्राणभृदप्राणभृन्मन्त्रेषु पूर्ववदव गौणः । एवं यत्र शक्यतद्भिन्नयोस्साम्यं तत्र तस्यापि गुणत्तिनिमित्तत्वम् । अतः श्री. भागवते "श्यालस्वसौरथाग्रही" दित्यत्र स्वसृपदं स्वमृतत्पत्योः लिङ्गसमवायेन गौणमित्येव व्याख्यातं श्रीधराचार्यः । अत एव वार्ति कस्थोऽल्पशब्दो भूयस्त्वानपेक्षत्वपर इत्येवं व्याख्यातः । तदेवं तत्सिध्यादीनां गुणत्तिनिमित्तप्रकारता(१)सत्वात् स्वशक्यनिष्ठगु- णवत्ता गौणीत्तिलक्षणं युक्तमिति सिद्धम् ।। सूत्रं व्याख्यातम् ।। इति (तसिद्धिपेटिकायां षष्ठं) अष्टादशं लिङ्गसमवाया. धिकरणम् ।। ( इति तसिद्धिपेटिका) अथैकोनविंशं वाक्यशेषाधिकरणम् (१९) सू-सन्दिग्धेषु वाक्यशेषात् ।। १-४-२९. ॥ इदानीं स्तावकत्वेन प्रमाण्यस्यापि "तेजो वै घृत"मिसर्थवादस्थ- स्य घृतादिपदस्य “अक्ताः शर्कराः उपदधाती" त्यादिविध्यपेक्षि- ताञ्जनसाधनीभूतद्रवद्रव्यादिनिर्णये प्रामाण्यमस्ति न वेति विचार्यते । तत्र पदप्रामाण्यनिर्णयात् पादाध्यायसङ्गती स्पष्टे । विध्यादीनां नामधेयान्तानां प्रमाणानाममामाण्यनिरासेन प्रामाण्ये साधिते अधु- ना प्रकारान्तरेण प्रामाण्यनिरूपणात नामधेयविचारेणावसरसङ्गतिः । घृतपदे च लिङ्गसमवाये घृताघृतरूपस्नद्रव्यमात्रत्तित्वापवादा. वानन्तरसङ्गतिरपि । तत्र विधेरुपक्रमस्थत्वात् तेन चाअनसाधनीभूतस्नेहद्रव्यमावा. १ प्रकाराणां स्वशक्यनिष्ठगुणवत्तालक्षणगौणीवृत्तेनिमित्चत्वं युक्त- मिति सिद्धम् ।
२९४ मीमांसाकौस्तुभे [ वाक्यशेषाधि- क्षेपायेन केनचिदानप्रतीतेः "उच्चैःऋचा क्रियत" इतिवदुपमहारस्थघृ. तमात्रप्रत्ययबाथः । नचात्राप्यपच्छदाधिकरणन्यायेनोपसंहारमाबाल्यं शवाम् | तस्य भिन्नवाक्यविषयत्वस्य वक्ष्यमाणत्वात् । न चात्र भिन्नवाक्यता; विध्यर्थवादयोः(१) "विधिना त्वेकवाक्यत्वादि" त्य- नेनैकवाक्यत्वस्योक्तत्वात् । न चाङ्गवाक्यानां प्रधान वाक्यानाञ्चैक- वाक्यत्ववत् वाक्यैकवाक्यताभिप्रायेण तत् । तद्वदिह स्वार्थबोधे समा. प्त्यभावात् । यत्र हि द्वयोवाक्ययोः स्वस्त्रवाक्यार्थबोधे प्रत्येकं पर्यवस- नयोः पश्चादाकासावशेनान्वयः तत्र वाक्यैकवाक्यता, यथा-"दधा जुहोति" "अग्निहोत्रं जुहोती"ति। अत्र हि वाक्यद्वयमपि मुख्य- विशेष्यं नैय्यायिकमते प्रथमान्तपदोपस्थाप्यवदस्मन्मते भावार्थाधि- करणे वक्ष्यमाणरीत्या कारकान्वययोग्य यच्छब्दाद्यसमाभिव्याहृतात- ङन्तपदाभिधेया क्रियैव । सापि च न सर्वत्र भावनारूपेण । घटो भवति इत्यादी कारकान्वयप्तत्वेन भवनस्य तदाश्रयत्वस्य वा मुख्य- विशेष्यत्वात् । अत एव घटो भवति शुक्लो भवती त्यनयोर्वाक्यैकवाक्यतैव । ओदनं भुक्त्वा बजतीत्यादौ त्क्वान्तपदाभिधेये भोजनादौ तद्भावना- यां वा कारकान्वयसत्वेऽपि तिङन्तपदाभिधेयत्वाभावान्न मुख्यविशे- ध्यत्वम् । घटः शुक्ला, स्वाध्यायोऽध्येतव्यः, इत्यादौ तु अस्तिभवन्ती' त्यनेन तिपदाध्याहारात मुख्य विशेष्यस्य भवनादेः प्रतीत्युपप- त्तिः । “यस्योभय" मित्यादौ तिङ्पदाभिधेयाया अप्याः यच्छ- ब्दान्वयादेव न मुख्यविशेष्यत्वम् । कारकान्वययोग्येति तु स्वरूप- कीर्तनमात्रम् । अतश्च तस्मिन् मुख्यविशेष्ये इतरसंसर्गतात्पर्यकत्वमेव वाक्यस्य स्वार्थे पर्यवसन्नत्तम् । अतश्च घटस्य शौक्ल्पमित्यादौ प. ष्ठयन्तस्य शौक्लये अन्वयेन पदद्वयस्य संसर्गतात्पर्यकत्वेऽपि शौक्लय- स्य मुख्याविशेष्यत्वात्तावन्न पर्यवसन्नत्वम् । एवं क्त्वान्तेऽपि द्रष्टव्यम्। अस्ति तु "दना जुहोती"त्यादौ तत् । मुख्यविशेष्ये भावनायां द- १. जैसू०१-२-६.
करणम् ] प्रथमाध्यायस्थ चतुर्थः पादः । २९५ धिहोमादिसंसर्गतात्पर्यकत्वात् । अत एव दध्यादिसंसर्गभेदेऽपि मु- ख्यविशेष्यकत्वादेवैकवाक्यत्वं वक्ष्यते । नचैव जुहोतीत्येतावतोऽपि मुख्यविशेष्ये भावनायां होमसंस- गतात्पर्यकत्वेन पर्यवसन्नत्वं स्यादिति वाच्यम् । तस्य पर्यवसन्नत्वेऽ पि दध्नेत्यस्यापर्यवसन्नत्वेन पदैकवाक्यत्वोपपत्तेः। वस्तुतस्तु दधिहो- मसंसर्गस्यात्र "प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूनः" इति विशेषानु- शासनबलेन पदार्थविधया भानेऽपि संसर्गमर्यादया तस्य तत्तात्पर्य- कत्वाभावान्न पर्यवसन्नत्वम् । अाश्च यत्र मुख्यविशेष्ये वाक्यार्थ- विधया इतरसंसर्गतात्पर्यकत्वं तत्र तस्य पर्यवसन्नत्वम् । ततश्च युक्ता पर्यवसन्नत्वादङ्गप्रधानवाक्यानां सिद्धार्थप्रतिपादकानामुपनिषद्वा- क्यानां (*)"यन्न दुःखेन सम्भिन्न" मित्यादि वाक्यानाश्च स्वर्गा- दिस्वरूपपराणां मन्त्रवाक्यानां स्वार्थमात्रपराणां पदैकवाक्यताऽसं. भवेन भिन्नवाक्यत्वेऽवगते पश्चादङ्गाङ्गिभावाकाङ्क्षावशेन वाक्यैक- बाक्यता । अर्थवादानां तु सखपि मुख्यविशेष्ये इतरक्षेपिष्ठत्वादिसंसर्गवो. धकत्वे अध्ययनविध्यनुरोधेन तत्र तात्पर्यावगमान पर्यवसानम् । न च तेषां पिष्ठत्वादिसंसर्गे तात्पर्यम्, तस्य लाक्षणिकपा- शास्त्यबोधोपायमानत्वेन तात्पर्याविषयत्वात् । यत्तु तात्पर्यविषयी- भूतं रुचिविषयत्वयोग्यतारूपं प्राशस्त्यं तस्य प्रशस्तत्वादियेवरूपेण लक्षणयैव पदार्थविधया भानादुक्तविधपर्यवमानकारणाभावेन कर्त- व्य इत्येवंरूपविध्येकवाक्यत्वं विना न पर्यवसानमित्ति स्वार्थबोधे समाप्यभावात् सिद्धमर्थवादानां पदैकवाक्यत्वम् । अतश्चापच्छेदा- धिकरणन्यायाविषयत्वेनोपक्रमस्थविधिप्राबल्यावसायातू उपसंहार- स्थघृतादिपदस्यैव ऋगादिपदवत्तदनुरोधेन वृत्तित्वं युक्तमाश्रयितुम् । * यन दुःखन सम्भिन्नं न च अस्तमनन्तरम् । अभिलापोपनीतं च तत् सुखं खःपदास्पदम्।
-- नावश्यकल्पयत्वाच्छास्त्रस्य मीमांसाकौस्तुभे [वाक्यशेषाधि- न चोपक्रमे अञ्जनमात्रश्रवणात् तस्य साधनभूतद्रव्यापेक्षायां उप- संहारे विशेषश्रवणे सत्याक्षेपायोगात उपसंहारोपजीवित्वेनोपक्रमस्य कथं बलवत्वामिति वाच्यम् । उपसंहारस्थस्य घृतपदस्यार्थवादान्तर्गत- वेनाष्टाकपालादपदवव साक्षादेवाञ्जनभावनाविशेषणसमर्पकत्वानु- पपत्तेः । न च रात्रिसत्रप्रतिष्ठापदवत स्तुतिपरस्यैव द्रव्यविशेषस. मर्पकत्वं वाच्यम् । न च तदृष्टान्तमाप सम्भवति । विधिवाक्यस्य यत्किञ्चिद्रव्याक्षेपणार्थवादान्वयं विनाऽपि शब्दतोऽर्थतश्च पर्यवसन्न- स्वावगमेन स्वानर्थक्यपरिहारार्थं पश्चादन्वितस्याप्यर्थवादस्य दौर्ब- ल्यात् । तथा हि- शब्दतस्तावन्मुख्यविशेष्येतरसंसर्गतात्पर्यकत्वादेव विधिवाक्यं पर्यवसन्नम् । अर्थतोऽपि च द्रव्यवाचकपदस्येह श्रुतस्येहानन्वये- महाविषयत्वापादकान्तरङ्गक्रियाक्षेपेण स्नेहपदस्यैव कल्पनीयत्वावगतः पर्यवसन्नम् । नचैवमपि प्ररोचनां विना प्रवर्तकत्वानुपपत्तेः कथमर्थवादं विना विधिपर्यवसानमिति वा- च्यम्। विध्याक्षिप्तेष्टसाधनस्वावगमबलात् विधिवलादेव वा प्ररोचना- सिंध्या पर्यवसन्नत्वोपपत्तेः । अतश्चार्थवादसत्वे तदपर्यवासानमात्रेणै- व विध्यर्थवादयोः पदैकवाक्यत्वेऽपि स्वानर्थक्यपरिहारार्थ पर्यवसन्ने विधावन्वितस्यार्थवादस्य विध्यनुरोधत्तित्वावगतेरर्थवादस्थं घृतप- दमेव लिङ्गसमवायेन स्नेहद्रव्यमात्रपरं सत् तात्पर्यविषयीभूतं विधेय- स्नेहत्तिमाशस्त्यं प्रतिपादयति । अत एवान्यपरत्वाद्विधेयस्तुत्युपायतया जघन्यवृत्त्याश्रयणमपि नातीव दोषावहम् । अत एव चात्र विशेषविषयच्छागमन्त्रेण विधिस्थपशुपदसङ्कोचवदानविध्याक्षेपमङ्कोचोऽपि नाशक्यः । च्छागपदस्यानन्यपरत्वेन सङ्कोचकत्वेऽपि घृतपदस्य स्तुतिपरत्वेन सङ्कोचकत्वानुपपत्तेः । अतोऽत्र घृतपदमेव द्रवद्रव्यमात्रपरम् । युक्तञ्चैतव , प्रधानभूतविध्यनुरोधेन तदनुग्राहकार्थवादश्रुतित्तित्व- रूपधर्मत्यागस्याङ्गगुणविरोधन्यायसिद्धत्वात् ।
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः। २९७ अथ वा आक्षेपकल्पितपदेन स्नेहद्रव्यमाने विहिते तस्य स्तु. त्यपेक्षायां विधेरेव सर्व विषयपरोचनाशक्तिकल्पनाप्रसक्तौ घृते प्रत्यक्षां स्तुतिं दृष्ट्वा तदंशे कल्पनाप्रतिबन्धेऽपि तदितरविषये तत्म- तिबन्धे प्रमाणाभावाद्विधेरेव प्ररोचकत्वोपपत्तेः अर्थवादस्थघृतपद- मुपलक्षणमपि न गौणम् । अतो नात्र घृतपदं सन्दिग्धानिये प्रमाणमियेवं प्राप्ते- ब्रूमः-विधावञ्जनमात्रश्रवणात द्रव्यापेक्षायां अथर्वादे स्तु- त्यर्थमप्युपात्तस्य घृतस्योपस्थितत्वात् स्तुतेश्वाविधेयनिष्ठत्वायोगेन त- दन्यथानुपपत्त्या घृतस्य विधेयत्वावगतेः तस्य चाञ्जनभावनासाधन. त्वं तद्वाचकपदकल्लनयावसीयते । एवं यत्रापि “वासः परिधत्त" इ- त्यादौ द्रव्यसामान्यश्रवणं तत्रापि विशेषापेक्षायां "एतदै सर्वदेवत्यं वासः यत् क्षौमम्" इत्याद्यर्थवादोपात्तस्य क्षौमादेरेव ग्रहणमत्रमीयते ! न च क्रियाताधनीभूतस्य द्रव्यस्य क्रियानिष्ठापेक्षयान्वयात् तनिष्ठानुपपत्त्यैव तद्वाचकपदकल्पनस्य तदर्थसम्बन्धमात्रस्यैव वोपप- तौ न बहिरङ्गस्तुत्यनुपपत्तेः घृतपदकल्पकत्वं युक्तमिति वाच्यम् । अन्यथानुपपत्तेः सर्वप्रमाणप्रसस्तमषाऽनुसन्धानसापेक्षत्वेन विधिवे- लायामेवानुदयात् । प्रमाणान्तरालोचने चार्थवादानुपपत्तेरप्यालोच. नात् द्वयोः स्वरूपण पौर्वापर्येऽपि कार्योत्पादने तदभावादुभयोः सं- भूय कार्यजनकत्वावगतरर्थवादे गौणीपरिहारार्थ घृतपदकल्पकत्वो- पपत्तेः। वस्तुतस्तु-स्तुत्यनुपपत्पनुरोधेन क्रियानुपपत्तेः घृतलक्ष- कत्वं क्रियानुपपत्त्यनुरोधेन वा स्तुत्यनुपपत्तेः स्नेहसामान्य- कल्पकत्वमिति सन्देहे सत्येव लक्षणापरिहारार्थ स्तुत्यनुपपत्तेः घृ. तपदकल्पकत्वावश्यकत्वे तेनैव क्रियायाः द्रव्याकासाशान्तः क्रिया: नुपपत्तद्रव्यपदकल्पकत्वमपि गौरवभिया नाङ्गीकर्तव्यम् । अत एव क्रि- यानुपपत्तेरर्थसम्बन्धमात्रकल्पकतयाप्युपपत्तौ पदकल्पकत्वे प्रमाणा- भावात् स्तुत्यनुपपत्या तु पदस्यापि कल्पनात् गौरवमपि फलमुख.
२९८ मीमांसाकौस्तुभे [ सामर्थ्याधि- त्वादनाशयम् । यत्तु द्रव्याक्षेपेण स्नेहमात्रेऽवगते घृतपदे लक्षणादिकं विनैव घृ. तमात्रस्तुतौ सिद्धायां द्रव्यान्तरे विधिरेव स्तुत्याक्षेपक इत्युक्तम, तद- पि सिद्धस्तुत्युपजीबनेनैव विधेराकाङ्क्षाशान्तौ स्वयं स्तुसन्तराक्षेपे गौरवापत्तेराग्नेयाधिकरणन्यायेन प्रकृतस्तुतद्रव्यमात्रग्रहणोपपत्ते. रपास्तम् । अत एव शब्दतः पर्यवसनस्यापि विधेः अर्थत: पर्य- वसन्नत्वाभावात् शब्दतोऽप्यपर्यवसन्नेनार्थवादेन पदैकवाक्यत्वम- प्यविरुद्धम् । तस्मात् सिद्धं विधेयविशेषस्य विषये विधिनाऽनिर्धा- रणे वाक्यशेषानिर्धारणम् । एवं यत्रोद्देश्यस्यापि न समुच्चित्य प्राप्तिरिति प्रमाणान्तरेणाव- धारितं यथा-"द्वयोः प्रणयन्ती" त्यादौ तत्रापि विशेषानवधारणे वाक्योषानिर्णयः । यत्र तु ग्रहादिवत्मत्युद्देश्यं वाक्यसमाप्तिः तत्र विधेनिर्धारितत्वाद्वाक्यशेषस्यानिर्णायकत्वमिष्टमेव । नचैवं रात्रिसत्रविधेरापि विश्वजिन्यायेनैव निीतत्वाद्वाक्य. शेषेण निर्णयानापत्तिः, तदधिकरणे विश्वजिन्न्यायत: पूर्वप्रवृत्युप- पादनेन वाक्यशेषस्य निर्णायकत्वोपपत्तेः । अत एव न तदधिकरण- स्य पौनरुक्तयम् । सूत्रं तु उत्तरसूत्रस्थकल्पनापदानुषङ्गेण योज्यम् ॥ इति एकोनविंशं वाक्यशेषाधिकरणम् ॥ अथ विंशं सामर्थ्याधिकरणम् ॥ (२०) सू-अर्थादा कल्पनैकदेशत्वात ॥१-४-३०॥ (सि) "सुवेणावधति" "वधितिनावद्यति" 'हस्तेनावद्यति" इ. सादाववदानानुवादेन विहितस्य सुवादेः द्रवमंहतमांसावदा.
करणम् ] प्रथमाध्यायस्य चतुर्थः पादः । २९९ नरूपोद्देश्येऽविशेषेणैत्र शब्दखामाव्यात् प्रवृत्तस्य खगतस्वाभावि- कमामर्थ्यानुरोधेन व्यवस्था ? उत स्वाभाविकसामाभावेऽपि सहायान्तरोपादानेन यथाकथञ्चित् सामर्थ्य सम्पाद्य व्यवस्थेति सन्देहः । अत्र सामर्थ्यकल्पितस्य द्रवादिपदस्य सन्दिग्धानिर्णये प्रा- माण्याभिधानात् पादाध्यायसङ्गती स्पष्टे । अनन्तरा तु पूर्वाधिकर- णोक्तवाक्पशेषाख्यनिर्णयकारणाभावादव्यवस्थैवेति पूर्वपक्षोत्थाना- तू प्रत्युदाहरणरूपा । तत्र प्रमाणान्तरगम्यवस्तुसामर्थ्यापेक्षत्वे वेद. स्याप्रामाण्यापत्तेरस्य निर्णायकत्वायोगात् वाक्यशेषस्य च प्रकृते अश्रवणादव्यवस्थैव । किञ्च वाद्यवदानानामुद्देश्यत्वात् सर्वेष्वपि सुवादिप्राप्ननि- श्चितत्वेन नाव वस्तुसामर्थ्यस्य निश्चायकत्वम्, अपि तु विरोधित्व मेव । तेन शब्दवस्तुसामर्थ्य योर्विरोधे(१)अरुणाधिकरणन्यायेन श- ब्दसामर्थ्यादेव कश्चिदापादितार्थसामानुगृहीतानिर्णयो युक्तः । शक्यते हि स्तुवे तीक्ष्णपुष्करतां सम्पाद्य सेन पुरोडाशादिसंहताव- दानं, आयसावष्टम्भेन च मांसावदानं, हस्तेनापि अङ्गुलीसङ्कोचेन द्रवावदानं, स्वधितिना च सकोटरेण तत् कर्तुम् | एवं यत्रापि अलिशब्दस्य देवतानमस्कारादौ सम्पुटीकरणवा- चित्वं, "अञ्जलिनापः पिबेदि" त्यादौ च व्याकोशवाचित्वं प्रसि. द्धं तत्र (२)"अञ्जलिना सक्तून प्रदाव्ये जुहोती"तिविधौ श्रुतस्याज लिशब्दस्योद्देश्यसक्तुहोमगतस्वाभाविकसामर्थ्यानुरोधेन न व्याको शरूपैकार्थविधायित्वनिर्णयः । अपि तु शब्दसामर्थ्यानुरोधेन यथाकथञ्चित् सामर्थ्य सम्पाद्य व्यवस्थितार्थपरत्वमेवेति प्रास- अभिधीयते--विधेयसमर्पकस्य तावदञ्जालपदस्य गुणानुरो. धेन प्रधानावृत्तेरन्याय्यत्वादुपस्य च सक्तुहोमस्यैकेनैवं सिद्धः नि- यमेनैकार्थपरत्वावसायानियामकाकाङ्कायामत्यन्तवलवतोद्देश्यसामर्थेन १.पू. मी. ३-१-६. २.तै. सं. ३-३-७.
मीमांसाकौस्तुभे [ सामर्थ्याधि- निर्णयो दुरपह्नवः । तत्रापि त्रुबादौ उद्देश्यस्य द्रवाद्यवदानस्य ग्रहा. दिवत् सर्वस्यैव प्रतिवाक्यमुद्देश्यतावभासते, तत्रापि अष्टदोष. दुष्टविषमशिष्टविकल्पापत्तिपरिहारार्थ कतिपयानामेवोद्देश्यत्वप्रति- पादनाव केषां कस्मिन् वाक्ये उद्देश्यत्वमिति नियामकाकाङ्क्षायां विधेयगतस्रवादिसामर्थ्येनापि युक्तो निर्णयः । किञ्च वावदाने स्वाभाविकमामर्थेन सुवस्य झटिति प्राप्त वाव तेनैव निराकाङ्के विधौ इतरांशे सामर्थ्यकल्पने गौरवापत्ते- (१)राग्नेय्यधिकरणन्यायेनापि स्वस्यैव ग्रहणमवमीयते । अत एव शब्द- सामर्थ्यानुरोधेनार्थस्य स्वाभाविकसामर्थ्यकल्पने गौरवमतन्त्रीकृत्य सामार्थान्तरकल्पनमप्यपास्तम् | शब्दसामर्थ्यस्यैव गौरवपरिहारार्थम- र्थसामर्यानुरोधवृत्तित्वावगमात् । अत एवार्थमामयस्य प्रमाणा- न्तरगम्यत्वेऽपि शक्तिग्रहादिवत्तदपेक्षत्वेऽपि नाप्रामाण्यं शक्यम् । त- स्य तात्पर्यग्राहकत्वेन शाब्दबोधसामग्यतर्भावात् । अरुणादात्रपि हि सत्यपि शब्दसामर्थ्यन क्रयसम्बन्धे एकहायनीपरिच्छेदकत्वस्य अर्थसामर्थ्यावगतस्य नैव त्यागः, अपितु पाष्ठिकान्वयवेलायामगी- क्रियत एव तत् । अतश्वोदेशमात्रपर्यालोचनया अविशेषावगमेऽपि विधेयनुवादिशक्तिपर्यालोचनया पुनराधेयवद्यवस्थावगमायवदान - वेणैव, संहतावदानं हस्तनव, मांसावदानं स्वधितिनैबोते निर्णयोपपत्तेः सिद्धं वाक्यशेषवत् सामर्थ्यस्यापि सन्दिग्धार्थनिर्णायकत्वम् । नचैवं सामर्थ्यावगतस्य विशेषस्याशाब्दत्वाच्छाब्दपदार्था- न्तरेणान्वयानुपपत्तेरवैदिकत्वापत्तिः । शाब्दत्व सिध्यर्थं द्रवादि- वाचकपदस्यैवाध्याहारेण वैदिकशब्दसामर्थ्यकल्पितस्य च वेदैकदेश- त्वेन च तदर्थस्य वैदिकत्वोपपत्तेः। अञ्जलिपदस्य तु सामर्थ्यानु- गृहीतस्य विनाप्यध्याहारादिकं व्याकोशबोधकत्वोपपत्तेः तदर्थस्य शाब्दत्त्ववैदिकत्वयोरविरोधः । वायुदाहरणेष्वपि चावदानस्यै- मी.३-२-८. १.पू.
करणम् ] प्रथमाध्यायस्थ चतुर्थः पादः। ३०१ व प्राप्तत्वेनोद्देश्यत्वादवद्यातिपदस्यैव सामर्थ्यानुगृहीतस्य द्रवर्म- कावदानबोधकत्वोपपत्तेन ध्याहारादिकमित्यपि वक्तुं शक्यम् । यदिह्यत्र जुवादिविशिष्टमबदानं विधीयेत ततो भावनाया भा- व्याकाङ्क्षायां विश्वीजति स्वर्गकामपदाध्याहारवत् द्वितीयान्तद्रवादि- पदाध्याहारोऽप्यावश्यकः स्यात् । नत्वेदस्ति । अवदानस्य चतुर- वत्तचोदनादिनैव प्राप्तत्वात् । अतस्सामथ्र्यस्यापि धर्मप्रमाणत्वात् सि. द्धान्यष्टौ धर्मप्रमाणानीति । सूत्रं तु अर्थात् सामर्थ्याद्वा कल्पना निर्णयः इत्यर्थः । न च तत्र निर्णीतस्यार्थस्यावैदिकत्वम् । तत्कल्पितपदस्य वेदैकदे- शत्वेन तस्य वैदिकत्वोपपत्तेः इति व्याख्येयम् ॥ विध्यर्थवादमन्त्राः स्मृतिचरिते नाम संस्तुतिश्शक्तिः। धर्मे प्रमाणमेतान्युक्तान्यथ तस्य भेदोक्तिः ॥ मीमांसाम्बुनिधि प्रमथ्य विविधैन्याऽयोचयनिर्जरैः कृत्वा जैमिनिसूत्रमन्दरममुं वेदं तथा वासुकिम् । यद्धालाहलसंज्ञमेव कलितं ग्रन्थान्तरं सजनैः श्रीकृष्णस्य तु भूषणाय स परं यः कौस्तुभाख्यो मणिः ॥ श्रीरुद्रदेवमूनोः कृतिरेषा खण्डदेवस्य । मीमांसाकौस्तुभाख्या प्रथमाध्याये चतुर्थोऽध्रिः ।। इति पूर्वोत्तरमीमांसापारावारपारीणधुरीणश्रीरुद्रदेवमूनोः खण्डदेवस्य कृतौ मीमांसाकौस्तुभे प्रथमाध्यायस्थ चतुर्थः पादः॥ समाप्तः प्रथमोऽध्यायः॥ शुभं भूयात् ।
हमारे यहां हर तरह की छपाई तथा जिल्दसाजी का कार्य भी होता है।
हर तरह के संस्कृत ग्रन्थ तथा भाषा भाष्य पुस्तकों के मिलने का पता-
-
जयकृष्णदास-हरिदासगुप्तः
चौखम्बासंस्कृतसीरीज आफिस,
विद्याविलास प्रेस, गोपालमंदीरलेन,
बनारस सिटी।
मीमांसाकौस्तुभप्रथमाध्यायतृतीयचतुर्थपादीयानां सूत्राणां सूची। १ १ ३ ३ ३२ १४३ १२६ २६ ३ ३ १ ३ २ or ३ ३२ २ ३ १६ १ १ १ १ १ १ ३ १ अद्रव्यशब्दत्वात् २ अन्यदर्शनाच ३ अन्यायश्चानेकशब्दत्वम् ४ अनुमानव्यवस्थानात् ५ अपि वा कर्तृसामान्यात् ६ अपि वा कारणाग्रहणे ७ अपि वो नामधेयं स्यात् ८ अपि वा सर्वधर्मस्स्यात् ९ अर्थाद्वा कल्पनैकदेशत्वात् १० अवाक्यशेषाच ११ अविभागाद्विधानार्थे १२ आकृतिस्तु १३ आख्या हि देशसंयोगात् १४ आनर्थक्यादकारणम् १५ उक्तं समाम्नायैदमयं १६ एकदेशत्वाच्च १७ ऐकशब्द्ये परार्थवत् १८ कर्मधर्मोवा प्रवगवत् १९ कारणं स्यादिति २० गुणस्य तु विधानार्थे २१ चोदितन्तु प्रतीयेत २९८ ९२ २६२ १४३ २० ३ ३ ૨૨ १ १ १ १ १ १ २९ ३ २६५ १५१ १३४ २२२ १०६ ३ २२ १ १८ १० ३ ३ १ २४ २२ जातिः २७९ २६२ १ or ३ २७ २३ १२६ २६८ १ २३ तच्छेषो नोपपद्यते २४ तत्प्रख्यञ्चान्यशास्त्रम् २५ तत्र तत्वमभियोग २६ तत्सिद्धिः २७ तथा निर्मन्थ्ये २८ तदर्थत्वात्प्रयोगस्य २९ तदशक्तिश्च ३० तद्गुणास्तु विधीयेरन् ३१ तद्व्यपदेशञ्च ३२ तुल्यत्वात्रिययोर्न १४९ १ १ ३ ३ २८ १ ४ ९ २२७ ४ ५ १ ४ २२२ [२] ३ २३ १ ३ १ ३ ३ 10 १०२ १ १४८ ३ ३३ तुल्यन्तु कर्तृधर्मेण ३४ तेष्वदर्शनाद्विरोधस्य ३५ दर्शनाद्विनियोगः ३६ धर्मस्य शब्दमूलत्वात् ३७ न क्रियास्यादिति ३८ न प्रकरणात् ३९ न शास्त्रपरिमागत्वात् ४० न स्याद्देशान्तरेषु ४१ नामधेये गुणश्रुतेः ४२ नासन्नियमात् ४३ परार्थत्वाद्गुणानाम् ४४ पूर्ववन्तोऽविधानार्थाः ४५ प्रयोगचोदनाभावात् १ १ १ १ १ १ १ ६ ३१ ३ ३ २० ६०४ ३ ६ १२ १६ १ १ or ३ १३५ " " " oM १ २४ २६ १ १ १०७ २८३ २३७ २३४ १ or १ ३ १ १ ४६ प्रयोगशास्त्रमिति चेत् ४७ प्रयोगोत्पत्त्यशास्त्रत्वात् ४८ प्रशंसा ४९ प्रोक्षणीप्वर्थसंयोगात् ५० बहिराज्ययारसंस्कारे ५१ भूमा ५२ मिथश्चानर्थसंबन्धः ५३ यस्मिन् गुणोपदेशः ५४ लिङ्गाभावाच ५५ लिङ्गन्समवायाः ५६ विरोधे त्वनपेक्षं स्यात् ५७ वैश्वदेवे विकल्पः ५८ शब्दे प्रयत्न निष्पत्तः ५९ शास्त्रस्था वा ६० शिष्टाकोपे ६१ संदिग्धेषु वाक्यशेषात् ६२ सर्वत्र च प्रयोगात् ६३ सारूप्यम् ६४ स्याद्योगाख्या ६५ हेतुदर्शनाच्च २५२ १७३ १०३ २९२ १२ و اسم علم ه ه ه ه » اسم ه م ه اسم فلم اسم و لم و لم اسم १ १ १ १ २७ ३ १३ १२३ ९ २९ १ १ १ १ २५ २१ २८१ १०४ १ १ 18 " मीमांसाकौस्तुभप्रथमाध्यायचतुर्थपादीयाटिप्पणास्थाना साङ्केतिकशब्दानामर्थविवरणम् । इदमत्रावधेयम्-ये तावत् तृतीयपादस्थाः साङ्केतिकशब्दाः अ- त्राप्यानेडिताः तेषां विवरगं तत्रैव कृतमिति न पुनस्तत्रापीदानी व्याप्रियते। परन्तु ये ततो- तिरिक्ता एतत्पादस्थाः तेषामेवेदानी विवरण क्रियते-इति। उ. सू. 'उणादिसूत्रम् । काव्यप्रका. काव्यप्रकाशः। का.श. काग्वशतपथब्राह्मणम् । कुमा कुमारसम्भवः । मी. पूर्वमीमांसा। बौ. श्री... बौधायनश्रौतसूत्रम्। सत्या. श्री "सत्याषाढश्रौतसूत्रम् ।
मीमांसाकौस्तुभप्रथमाध्यायतृतीयपादस्थानां अधिकरणानां सूची। CER पृष्ठम्. १ १२ २९ १ स्मृत्यधिकरणम् २ विरोधाधिकरणम् ३ शिष्टाकोपाधिकरणम् ४ यववराहाधिकरणम् ( अस्यैवाधिकरणस्य आर्यस्लेच्छाधिकरणं, पील्वधिकरणं, त्रिवृश्चर्वाश्ववालाधिकरणमिति वार्तिककारमते तत्तद्वर्णक- भेदेन नामान्तराणि विद्यन्ते ) ५ पिकनेमाधिकरणम् ६ कल्पसूत्राधिकरणम् ७ होलाकाधिकरणम् ८ व्याकरणाधिकरणम् ९ लोकवेदाधिकरणम् १० आकृत्यधिकरणम् १३५ मीमांसाकौस्तुभप्रथमाध्याय चतुर्थपादीयानां अधिकरणानां सूची। . १५८ १७३ १९५ २१४ २१८ २२७ - १ नामधेयप्रामाण्याधिकरणम २ उद्भिदधिकरणम् ( मत्वर्थलक्षगान्यायः) ३ चित्राधिकरणम् ( वाक्यभेदन्यायः) ४ अग्निहोत्राधिकरणम् (तत्प्रख्यन्यायः) ५ तन्वयपदेशाधिकरणम् ६ वाजपेयाधिकरणम् ७ आग्नेयाधिकरणम् ( तद्गुणाधिकरणम् ) ( आग्नेयादिशब्दानामनामताधिकरणम् ) ८ बर्हिराज्याधिकरणम् ९ प्रोक्षण्यधिकरणम् १० निर्मन्थ्याधिकरणम् ११ वैश्वदेवाधिकरणम् १२ वैश्वानराधिकरणम् १३ तसिध्यधिकरणम् १४ जात्यधिकरणम् १५ सारूप्याधिकरणम् (तसिद्धिपेटिका) १६ प्रशंसाधिकरणम् १७ भूमाधिकरणम् १८ लिङ्गसमवायाधिकरणम् १९ वाक्यशेषाधिकरणम् २० सामर्थ्याधिकरणम् २३७ २४१ २४४ २५४ २७९ २८० २८१ २८३ २९२ २९३ २९८ मीमांसाकौस्तुभप्रथमाध्यायतृतीयचतुर्थपादयोः शुद्धाशुद्धपत्रिका। पृष्ठे पङ्क्तौ ३ ४ १४ २२ २३ ८ ३२ ६ १९ ४२ शुद्धम् निर्मूल यत्किञ्चित् आवश्यक मप्रामाण्या तारतम्येन प्रमाणमस्ति गृहीतृत्व प्रयोग मन्यते पुत्रशो नेकत्वकल्पन स्मिन् पक्षे व्याहृति असंस्कार्य अविवक्षितत्वे নিহা देरविवक्षा बुध्यानु दृष्टार्थ नाक्षा तनैरेव सापिण्ड्यानि प्रवृत्तेः विवाहात् कास ४८ अशुद्धम् निमूल यक्तिचित् अवस्यक सप्राण्या तारम्येन प्रमाणमिति गृहीतत्व प्रयोग मन्यने पुत्राशो नेकल्पनं स्मित्पक्षे व्यहति संस्कार्य अविवक्षित्वे विशेषा देविवक्षा बुद्धानु दृष्टर्थ नाशक्षा तनेरैव सापिण्डानि प्रत्तेः विहात् कार्यास द्रशाना कोशेय २३ २ " १६ १७ १८ ६२ ६ " ७१ ७५ ७९ कौशेय ( २ ) पृष्ठे पङ्क्तौ २२ ९९ २४ १०१ १६ १७ १२ १०६ १०९ ११२ २ or " २३ २ ४ ११९ १२२ १२६ अशुद्धम् शुद्धम् प्यथा प्यर्थाप पूर्वेपक्ष पूर्वपक्ष लिङ्गादिषु लिङादिषु प्रमाणिकी प्रामाणिकी आचेरषु आचारेषु अयुक्तम् अयुक्ता जातिविशषः जातिविशेषःसः। दक्षिणात्या दाक्षिणात्या तदनुगत तदननुगत पम्परया परम्परया षङ्गपदान्य षडङ्गपदान्य सूत्रणौत्सगिके सूत्रेणौत्सर्गिके जपमन्वपाठ जपमन्त्रपाठ बाधवइति बाध इति स्वरापाठेन स्वरपाठेन इतिवदेवम् इतिवदेकम् वाक्यार्थस्यैव वाक्यार्थस्येव वीचमुक्तम् शक्तिजत्बेऽन शक्तिजत्वेन अष्टकादो अटकादौ उपस्थिन उपस्थित गमकमिनि गमकमिति संभवतित्युक्तं संभवतीत्युक्ते अङ्गीकारेपि भावनायां अङ्गीकारेऽपि वा सिद्ध- रूपत्वेन भावनायां पठिव्याना पठितव्यानाम् तदुत्तमरपठितः तदुत्तरपठितः विधिपदोदवो विधिपदादेवो पदान्तरर्था पदान्तरार्थ दाबल्यम् दौर्बल्यम् यागसन्धोऽभ्यु यागसम्बन्धोऽभ्यु उद्भिदीनानां उद्भिदादीनां विदारेण विदारणे २५ बीजमुक्तम् २१ १२७ १२९ १४० १५२ १५३ २५ १६२ २४ " १६३ १ १६८ २२ Academy of Sanskrit Research १७१ ૧૮૮ २० २३ २०१ १३ ६ ३ ११ २०४ २०६ २०७ २०८ २०९ २१४ ६ १ अवच्छेदकम् पृष्ठरुप एकपृष्ठ पूर्वसा वहिष्यवमान लभ्यादम धावत्वर्थ रूपिनिमित्त ख्यातवृत्त नानुपन्नः दध्यादि अपासद्धत्वेन सन्दन्शेन न्तरसवात् त्यानुशासन शेषत्वापर नचवैमपि वरमग्नय पुराडाश तेषामेव संबधानवगते वैश्वदेनपदेन अनुवादापत्तेः अवच्छेदकः पृष्ठरुप एकपृष्ठापूर्वसा बहिष्पवमान लभ्यादिम धात्वर्थ रूपनिमित्त ख्यातावृत्ते नानुपपन्नः नादि अपसिद्धत्वेन सन्दंशेन न्तरासद्भावात् त्यनुशासन शेषित्वापर न चैवमपि वरमाग्नेय पुरोडाश येषामेव संबन्धावगते वैश्वदेवपदेन अनुवादापत्तिः ६ " २२३ ૨૨ ૨૨ २२६ २२८ २४६ २४८ ९ २५३ १० ६ १० ११ . २५९ २७७ २७८ ૨૮૮ ३ ११ सर्वादेशेन द्वादकपाल वार्तिका तेन्निष्ट आशक्यते अवगते सर्वोद्देशेन द्वादशकपाल वार्तिक तन्निष्ट आशंक्यते अनवगतः
No text on this page.
परिशिष्टदीपका-संस्कारदीपकस्य परिशिष्ट- विषयाणां निरूपणात्मकः । DUR- . अस्मिन् ग्रन्थे विषया:- दानस्वरूपादिकं, दानविधिः, प्रतिग्रहविधिः, देयद्रव्यदेवताः, द्रव्य-धान्य-भूमानानि, कुण्डमण्डपनिर्माणप्रकारः, सहोमतुलादा- नप्रयोगः, होमरहिततुलादानप्रयोगः, बृहद्गोदानप्रयोगः, गवा- दिमूल्यनिरूपणम्, संक्षिप्तगोदानप्रयोगः, वृषदान-महिषीदान- त्रिविधविद्यादान-सुवर्णदान-भूम्यादिदशदानानि । सर्वप्राय- श्चित्तप्रयोगः, ऋणधेन्वादिपञ्चधेनुदानानि । अश्वदान-हस्ति- दान-रथदान-गृहदानानि । सवास्तुशान्तिशिलान्यासप्रयोगः शय्यादान-द्विजस्थापन-नवग्रहदानानि । मुवर्णादिदानमन्त्राः । गोमुखपसवशान्तिः । मूलाश्लेषादिशान्तयः। जलाशयोत्सर्गप्र. योगः । लघुजलाशयोत्सर्गप्रयोगः । मृ० २।) कातीयेष्टिदीपक:-यन्त्रस्थः । हर तरह के संस्कृत ग्रन्थ तथा भाषा भाष्य पुस्तकों के मिलने का पता- जयकृष्णदास-हरिदासगुप्तः चौखम्बासंस्कृतसीरीज आफीस, विद्याविलास प्रेस, गोपालमंदीरलेन, बनारस सिटी।
No text on this page.