Bharti Bhawan Library Allahabad
Dattaknirnyamritam
Front matter
MARWARINESHWARENT HAIttinctreliminalshen ॥ श्रीशः शरणं॥ दत्तकनिर्णयामृतम्। अयं च धर्मशास्त्रीयप्रबंधः श्रीमन्नासिकमहाक्षेत्रवासिना वारे इत्युपनाना "वैदिकतिलक"श्रीमदण्णाशास्त्रिणः सूनुना काव्यतीर्थमीमांसक- श्रीधरशर्मणा प्रणीतः तेनैव संशोध्य संस्कृत्य च श्रीमंत, उदारचरित, सुगृहीतनामधेयराजा-धनराज- गिरिगुरुनरसिंगगिरिग्यानबागदक्षिण- हैदराबाद इत्येतैर्महोदयैः प्रदत्ताश्रयेण मुम्बापुर्या निर्णयसागराख्यमुद्रणयंत्रागारेंऽकयित्वा प्रकाशितः। प्रथमावृत्तिः १००० 025252524 नासिक, शकः १८५४. मूल्यं १ रूप्यकं सन १९३२.
अस्य प्रबंधस्य सर्वेऽधिकाराः प्रबन्धका १८६७ स्य पंचविंशति-
तमराजनियमानुसारेण खवश एव प्रतिष्ठापिताः।
Printed by Ramachandra Yesu Shedge, at the Nirnaya
Sagar? Press, 26-28, Kolbhat Lane, Bombay,
Published by Shridhar Annashastri Ware,
No 2022, Somwar Peth, Nasik City,
आत्मनिवेदनं किंचित् । ॥ श्रीशः शरणम् ॥ आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः॥ तैत्तिरीयोपनिषत्- सुविदितमेवैतत्सुधियां धर्मतन्त्रविदां धर्मज्ञानमभीप्सूनां च । यच्छिरोनिर्दिष्ट- श्रुत्या गृहस्थाश्रमेतिकर्तव्यताऽवश्यं संपादनीया भूतिमिच्छद्भिर्मानवैरिति । यतो गार्हस्थ्यआश्रमे पुत्रजन्मोत्सवोऽभ्युदयस्य परां काष्ठामधिरोहति । न केवलमै- हिकाभ्युदयस्य किंतु पारत्रिकाभ्युदयस्यापीति । अत एव श्रुत्या जेगीयते । "नापुत्रस्य लोकोऽस्ती"ति । अत एव च मनुयाज्ञवल्क्यपराशरादिभिर्मुख्य- स्यौरसपुत्रस्याभावे दत्तकादयः पुत्रप्रतिनिधयोऽभिहिताः। प्रतिनिधिनाऽपि प्रजा- तन्तुः संरक्षितव्य इति । सोऽयं पुत्रप्रतिनिधिकरणविषयो धर्मशास्त्रे विविधप्राचीनार्वाचीननिबंधैः सुवि- चारिते सत्यपि एतन्नूतननिबंधनिबंधनपरिश्रमः किमर्थमिति चेदत्र किंचिदिवो च्यते। हेमाद्यादिनिबंधकालात्पूर्वं नासीत्केषां च न विवादः स्मृतित एव निर्णयात् । इत्येतत्परमप्रमोदास्पदम् । परमिदानीं दूयते स्वान्तं । तत्तन्निबंधो- त्तरं कैश्चिद्विद्वन्मान्यैः कानिचिद्वचनान्यवलम्ब्य दत्तकः सर्वथा द्यामुष्यायण एवेति निर्धारितं । कैश्चिद्विद्वन्मान्यैः कानिचिद्वचनान्यवलम्ब्य दत्तकः केवल एवेति निर्धा- रितं । तथाऽपरैः पंडितैर्दत्तकः केवलो घ्यामुष्यायणश्चेति सिद्धांतितं । एवं कैश्चि- दुच्यते दौहित्रभागिनेयौ दत्तकत्वेन ग्राह्याविति । कैश्चिदुच्यते न ग्राह्याविति । एवं केषांचन मतं कन्या दत्तका भवति । केषांचन मतं कन्या दत्तका न भवति । केवलमिदं दिङ्मात्रमुदाहृतं । एवं बढयो विप्रतिपत्तयः संति । तथाचात्र विद्वन्मा- न्यानां ग्रंथप्रणेतृणां नानाविधमतसंदर्शनाजायमानसंदेहनिवृत्तये प्रमाणलक्षणपरी- क्षया प्रमेयविनिर्णयो नितरामावश्यकः । किंच हेमाद्यादिनिबंधानां महानिबंधत्वेन सर्वविषयावगाहित्वा- तेषु प्रसंगानुरोधेन क्वचिद्विस्तारेण क्वचित्संक्षेपेण क्वचिच्च दिङ्मानप्रदर्शनेन . ..
२ । निणींतेऽप्यस्मिन्विषये साकल्येनानुपूय॑णानिरूपणाचास्य दुरवगाहत्वं संजायते स्म । यद्यपि केचन दत्तकमीमांसादयः स्वतंत्राः "शास्त्रैकदेशसंबन्धं शास्त्रकार्यान्तरे स्थितं । आहुःप्रकरणं नाम शास्त्रतत्वविचक्षणाः" इत्युक्तलक्षणाः प्रकरणग्रंथाः संति । तथापि तेषां भूमिकामनारूवि मुख्यविषय- प्रतिपादकत्वेन दुर्जेयनिर्णयसिद्धांताच्चापेक्ष्यतेऽत्यन्तमिदानी कश्चित्तादृशो ग्रंथः । यः सोपानारोहणन्यायेन भूमिकामारभ्य शिखरावधि क्रमशो दत्तकसंबंधिसकल- विषयसंग्राही प्रबंधः। तथाऽयं विषयो धर्मशास्त्रेऽवान्तरविभागे व्यवहारेऽन्तर्भवति । व्यवहारश्च सर्वदा यस्मिन्कस्मिन्नपि देशे काले च राजपरतंत्रो भवति । तत्र यदि राजा स्वदेशीयः स्वधर्मीयोऽस्ति न तदा काऽपि विप्रतिपत्तिः। तस्मात्स्वधर्मार्थ- शास्त्रानुसारिनिर्णयलाभात् । यदा तु राजा विदेशीयो विधर्मीयश्च तदा कथ- मिति समुदेति शंका । परमेतादृशेन राज्ञा न्यायः कथं देय इत्याह याज्ञवल्क्यः "यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः। तथैव परिपाल्यो- ऽसौ यदा वशमुपागतः” इति । एतदनुसृत्यासीत्कियत्कालपर्यन्तं स्थिति- स्तत्र तत्र न्यायालये। इदानीं तु तत्र तत्र वरिष्ठन्यायालये न्यायप्रदानेऽर्थिप्रत्य- र्थिनोरभिप्रायाविष्करणे च नियुक्तैः क्वचिद्विदेशीयैर्विधर्मीयैः पुरुषैः क्वचिच्च खदे- शीयैः खधर्मीयैरपि पाश्चात्यधर्मव्यवहारादिशिक्षाशिक्षितैः पुरुषैरस्मदीयं धर्मशा- समर्थशास्त्रं चानालोच्यैवालोच्येति मत्वा नानाविधकुकल्पनाः समुद्भाव्याकृष्यत इतस्ततोऽयं दत्तकविषयः। तासां कुकल्पनानामपाकरणं परमावश्यकमेतस्मिन्काल इति को न संमन्येत प्राज्ञः। अन्यच्च केचनेदानींतना विद्वांस आत्मानं समाजसुधारका इति मन्यमानाः समाजशास्त्रं धर्मशास्त्रं च भिन्नं मन्वाना अस्य दत्तकविषयस्य व्यव- हारेऽन्तर्भावात्समाजशास्त्रविषयतयांऽगीकृत्य तत्सममेव धर्मशास्त्रलेशसंस्पर्शाभावं च प्रतिपाद्यामुं विषयं खेच्छया नियमितुमीहन्ते । प्रयतन्तेऽपि ते तथा । परमेत- धर्मशास्त्राज्ञानमोहविलसितं तेषां । यस्मादिदं दत्तकादीनां पुत्रप्रतिनिधि- करणं धर्मशास्त्रे पारलौकिकक्रियालोपभयपरलोकगतिनिरोधभ- यपित्रर्णापाकरणत्रयमूलकमभिहितं । दायग्रहणादिकं त्वानुषंगिकं । तेन च दत्तकविषयस्यांतःवरूपं धर्मानुशासनात्मकं । बहिःखरूपं व्यवहारशास्त्रात्मकं । - - । । व्यवहारशास्त्रमर्थशास्त्रं चेति नार्थान्तरं । समाजशास्त्रं तु धर्मशास्त्रान्तर्भूतमेवेति सुस्पष्टं धर्मशास्त्रपर्यालोचयितॄणां । ततः प्रकृतदत्तकविषयस्यैकांगतो विचारो माऽभूत् । किंतु सर्वांगतो भवतु । इत्येव समंजसं स्यात् । तदेतत्सर्व मनसि निधाय निरमाय्ययं मया यथामति नूतनः प्रकरणग्रंथो "दत्तकनिर्णयामृतं" नाम प्रबंधः । नायं ममोद्यमः केषांचिन्मंडनार्थ खंडनार्थ स्वकीयपांडित्यप्रदर्शनार्थ वा । एतन्निबंधांतर्गतविषयाणां निःसंदेहनिर्णय- संबंधे यद्यद्गुणवैशिष्ट्यं तत्तत्सर्वं मदीयपूज्यपितृचरणारविंदश्रीसहरु- कृपाशीःफलमिति मन्यमानोऽहं तत्सर्वं श्रेयो मम महनीयतातपदकमल- युगले निदधे । एतन्निबंधविषयाणां वैमत्यव्यापकत्वकाठिन्यादिनाऽतिगहनत्वं क, मम मति- दौर्बल्यं च क । उत्तुंगतरुफलेप्सुरुद्वाहुर्वामन इवास्मिन्विषये यतमानोऽहं विद्व- द्वराणामुपहासास्पदं भविष्यामि । तथापि "हंसक्षीरन्यायेन" केवलगुणगण- ग्रहणप्रेमानन्यवृत्तयो विद्वांसो मामनुग्रहीष्यंतीत्याशासे । तथाऽन प्रबंधे “वेदांतवागीशे"त्युपाधिमलंकुर्वद्भिर्विद्वद्गरिष्ठ- वरिष्ठैः पाठकोपाभिधश्रीश्रीधरशास्त्रिमहोदयैर्मदीयां विज्ञप्तिं खीकृत्य प्रस्तावना समलेखि। तत्कृते तेषामहमधमर्णोऽस्मि । तथा श्रीकाशीमधितिष्ठद्भि- "ायाचार्य"ति पदालंकृतैः पंडितराजैः श्रीराजेश्वरशास्त्रिद्र- विडमहोदयः, तथा पुण्यपत्तननिवासिभिः “सरस्वतीभूषणे"ति पदसंभूषितैः पंडितवर्यैः श्रीवामनशास्त्रि किंजवडेकरमहोदयैरिमं प्रबंधं सम्यगालोच्य खाभिप्रायप्रदानेन बहूपकृतं मयि । तथा श्रीक्षेत्रनासिक- निवासिभिः “धर्मकार्यधुरंधरे"ति पदवीसमलंकृतैः श्रीयुतैः शौचे इत्युपनामकैराबाजीसूनुगोविंदशर्मभिः पेन्शनर. अ. डे. ए. इन्स्पेक्टरमहोदयैः समुत्साहपुरःसरं वारंवारमुपयुक्तसाहाय्यप्रदानेनानुगृही- तोऽस्मि । तथा श्रीक्षेत्रउज्जयिनीनिवासिभिर्विद्वद्वयष्टोककरोपाद्वैः श्रीविनायकसुतदत्तात्रेयसूरिभिरस्सन्मित्रवर्यैरपि लेखनादावतीव सा- हाय्यभकारीति मुदा प्रकाशयामि । तथा मोहमय्यां निर्णयसागरप्रेसाध्यक्षः प्रचा- र्यमाणसंशोधनाधिकारिभिर्विद्वच्छिरोभूषणैः पणशीकरोपाद्वैः श्रीवासु- देवशास्त्रिमहोदयैः संशोधनेऽत्यन्तं साहाय्यप्रदानेनाधमर्णीकृतोऽस्मि । , ४ विशेषतः श्रीमद्भिः सुगृहीतनामधेयैः "राजा धनराजगिरीगुरुनर- सिंगगिरी ग्यानबागदक्षिणहैदरावाद" इत्येतन्महोदयैरस्य प्रबंधस्य प्रकाशनव्ययवितरणेन प्रसिद्धिं नीतोऽयं प्रबंधः । अतस्तेषामुपकारसंदोहं न विस्मरामि । तथा मोहमयीस्थ निर्णयसागरमुद्रणालयाधिपतिभिः श्रीपांडुरंग- जावजीमहोदयैरस्य मुद्रणकार्य खल्पावकाशे नयनमनोहारि शुद्धतरं च कृत्वा बहूपकृतमिति मन्ये। तदेतस्मिन्ग्रंथे प्रमादात् दृग्दोषाद्वा यत्स्खलितं तत्संशोध्य कृपया मत्कर्णपथं नेष्यति येन पुनर्मुद्रणावसरे तान्दोषान्परिमार्जयामि । इति तान्दयादृष्टी- विदुषः संप्रार्थ्य जोषंभावमुपाश्रये । । श्रीक्षेत्रनाशिके. चैत्रशुक्लप्रतिपत् बुधवासरः शालिवाहनशकः १८५४ ता. ६-४-१९३२.इ. विद्वद्वशंवदः वारे इत्युपनामा "वैदिकतिलक" श्रीमदण्णाशास्त्रिसूनुः श्रीधरशर्मा.
wrokmarily memininete4:५४ प्रस्तावना. ॐ श्रीशिवः शरणम् . . वक्तारमासाद्य यमेव नित्या सरस्वती स्वार्थसमन्वितासीत् । निरस्तदुस्तर्ककलङ्कपङ्का नमामि तं शङ्करमार्चिताभिम् ॥ १॥ विदितचरमेवेदं प्रज्ञावतां विपश्चिदपश्चिमानां तत्रभवतां यद् भगवान् आदि- नारायणः सृष्ट्वेदं जगत्तस्य च स्थिति चिकीर्षुर्वेदपूर्वकांडगतं प्रवृत्तिलक्षणं प्रजा- पतींस्तथा निवृत्तिलक्षणमुपनिषदुक्तं च सनकादीन्धर्म ग्राहयामास । द्विविधो हि वैदिको धर्मः । 'प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च जगतः स्थितिकार- णम्' इति भगवत्पूज्यपादैः श्रीशङ्कराचार्यैर्जगद्गुरुभिराज्ञप्तत्वात् । तत्र अभ्युद- यार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णाश्रमांश्चोद्दिश्य विहितः स देवादिस्थानप्राप्ति- हेतुरपि सन्नीश्वरार्पणवुद्ध्याऽनुष्टीयमानः सत्त्वशुद्धये भवति फलाभिसंधिवर्जितः । शुद्धसत्त्वस्य च ज्ञाननिष्टायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहे- तुत्वमपि प्रतिपद्यते' इति वेदवेदान्तराद्धान्तः। सोऽयं धर्मः प्रत्यक्षतया क्वचि- द्वाक्ये 'अहरहः संध्यामुपासीतेत्यादिरूपे बोधितः' । वचिच्च लिङ्गेन यथा 'जातपुत्रः कृष्णकेशोऽग्नीनाद्धीतेत्यादिवाक्ये' जातपुत्रत्वलिङ्गेन विवाहादिवोधनम्। अयि विचारचातुरीचतुराः। एवं लिङ्गादिद्वारा खधर्मोहनं तत्तत्कालीनहीनप्रतिभमानुषाणां दुर्गममालोच्यालोच्य मनुयाज्ञवल्क्यायः करुणावरुणालयाः पारदृश्वानो नानासूत्रस्मृत्यादीन्महानिबंधान्प्राणैषुः । यतो महाभारते पञ्चमवेदत्वेन संस्तुते सर्वेषां कर्तव्यत्वेन धर्मसंसेवनं विहितम् । तथाहि-धर्ममर्थं च कामं च यथावद्वदतां वर । विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः । स्मृत्यन्तरेपि-धर्ममर्थ च कामं च यथाशक्ति न हापयेत् । तथा-न पूर्वामध्यन्दिनापरालानफला- न्कुर्यात् यथाशक्तिधर्मार्थकामेभ्यः । किं च परमपुरुषार्थभूतस्य मोक्षस्य तत्साधनभूतस्य धर्मस्य चाभ्युदयनिःश्रेयससाधनत्वमुक्तं पुराणादिषु। तथा- हि-प्रवृत्तिलक्षणे धर्मे फलमभ्युदयो मतः । निवृत्तिसंज्ञके धर्मे फलं ६ AND- निःश्रेयसं मतम् । स्कान्दे च-धर्मात्सुखं च ज्ञानं च यस्मादुभय- मानुयात् । तस्मात्सर्व परित्यज्य विद्वान् धर्म समाचरेत् । इति । स च धर्मो लक्षितस्तत्तत्स्मृतिकारैर्बहुशः। परिचयार्थ किंचिदिव लिख्यते तथाच मनुः 'विद्वद्भिराचरितः सद्भिर्नित्यमद्वेषरागिभिः । इत्यादि। जैमिनिश्च 'चोदनालक्षणोऽर्थो धर्मः' इत्यसुसूत्रत् । यतोऽभ्युदयनिः- श्रेयससिद्धिः स धर्मः। तथा 'धर्मादर्थश्च कामश्च स च करमान्न सेव्यते' इति व्यासः । एतत्सर्वमालोच्य-अपूर्वनिष्ठैव सुखकारण- तावच्छेदिका धर्मत्वं जातिरिति नैयायिकाः । वेदबोधितेष्ट- साधनत्वरूपो यागापूर्वोभयनिष्ठोपाधिरेव धर्मत्वमिति केचित् । वस्तुतस्तु-अलौकिकश्रेयःसाधनत्वेन विहितक्रियात्वं विहितत्वं धर्मत्वमिति सुस्पष्टं प्रत्यपादि विद्वत्प्रकाण्डैर्गागाभट्टैः। तथास्य धर्मस्य षाविध्यमुक्तं विज्ञानेश्वराचार्यैर्मिताक्षरायाम् । १ वर्णधर्मः २ आश्रमधर्मः३ वर्णाश्रमधर्मः ४ गुणधर्मः ५ निमित्तधर्मः ६ साधारणधर्मः इति- स्मृतीनां वरूपम् धर्म जिज्ञासमानानां प्रमाणं प्रथम श्रुतिः। द्वितीयं धर्मशास्त्रं तु तृतीयं लोकसंग्रहः । इति श्रीमन्महाभारतवचसा तथा धर्मज्ञापक- हेतुषु याज्ञवल्क्येन भगवता-श्रुतिः स्मृतिः सदाचारः खस्य च प्रियमात्मनः। सम्यक संकल्पजः कामो धर्ममूलमिदं स्मृतमिति स्मृतेः परिगणनात्-स्मृतीनां धर्ममूलत्वं निर्विवादम् । श्रुतिस्तु वेदो विशेयो धर्मशास्त्रं तु वै स्मृतिरिति मनूक्त्या धर्मशास्त्रं स्मृतिरिति नार्थान्तरम् । अयि प्रमाणशास्त्रप्रमाणितमतयः-इदं तु तत्र भवन्मतिपथमाटीकेतैव यन्मनुयाज्ञवल्क्यपराशरादिस्मृतिसंवादात्-स्मृतिः-आचारव्यवहारप्रायश्चित्तेति बोव्यत्रयान्विता भवति यथोपनिषदो ब्रह्मज्ञानोपासनाख्यायिकेत्यवयवत्रया- न्विता भवन्ति-इति । इयं छांदोग्यबृहदारण्यकादिमहोपनिषद्वन्मनुयाज्ञवल्क्या- दिस्मृतीनां गतिः । ईशप्रश्नाद्युपनिषद्वलघुस्मृतीनां गौतमलिखितदेवलादीनां त्वन्यादृशी गतिः। यतस्तासु स्मृतिषु नाचारव्यवहारप्रायश्चित्ताख्यमवयवत्रयं किंतु कुत्रचिदाचारस्यैव कुत्रचिच्च प्रायश्चित्तस्यैव निर्देशः। भगवता याशव- ल्क्येन मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोंऽगिरा इत्यादिना परि. गणितास्ता इमा स्मृतयः परावरदृश्वयौगिकज्ञानपरिपूतान्तःकरणमहर्षिप्रणीतत्वा- त्सर्वाङ्गपरिपूर्णाः सर्वावयवधर्मप्रतिपादिन्यः स्तोकेनाप्यंशेन परिवृत्तिं नाईन्ति तथाच-अल्पस्यापि निवेशस्यापि न भाजनम् । यतस्तत्र 'आपद्धर्मादीनि प्रकरणानि निवन्ध्य महर्षिभिः सर्वकालिकधर्मप्रणेतृत्वं संसाधितमेतेनाधुना नवीनस्मृतिः प्रणेया पूर्वस्मृतिभिरसंसाधितासत्कार्यत्वादिति मतं परास्तम्-पूर्वोक्तवादिनामनालोडितस्मृतिशास्त्रत्वादनधिगततद्रहस्यत्वाचेति निर्विशयं ब्रूमः । यतो हि विपुलहृदयैकवेद्यं शास्त्रम् । तथा चाभाणकः- 'विपुलहृदयकवेद्ये खिद्यति शास्त्रे जडो न मौख्य स्वे । निंदति कंचुककारं प्रायः शुष्कस्तनी नारी' इति । एवं च सर्वविधधर्मस्वरूपं बोधयत्सु स्मृतिसूत्रेषु जाग्रत्स्वपि विपुलहृदयशिष्टक्षतिकृतः कलेविलासात्कुहृद- योद्भावितविविधशङ्काः प्रादुर्भवन्ति स्म । तासां निराकरणाय हेमाद्रिमेधातिथि- विज्ञानेश्वरभट्टरामकृष्णादिभिस्ते ते निबंधा न्यबध्यन्त । पूर्व तत्तच्छङ्कानिराकरणार्थ लिङ्गपरीक्षणमूहोद्भावनं च कर्तव्यतामाटीकतेस्म । निबंधानामुद्भवे सामान्य- प्रज्ञैरपि जनैयिते स्म निर्विशकं तत्तद्धर्मावयवस्वरूपम् । यतः पूर्वोक्ता महावि- द्वांसः सर्वविधशंका उदूह्य सर्वाणि स्मृतिपुराणादिवचांसि संगृह्य संगमय्य च खीयान्निर्णयात्मकनिबंधग्रंथान्प्राणैषुः । इयं निबंधपरंपरा कौस्तुभमयूखनिर्णय- सिंधुधर्माब्धिपुरुषार्थचिंतामणिसंस्काररत्नमालादिपर्यन्तं प्रसरति स्म । एवं च स्सृत्यादितः सामान्यमतिदुरूहार्थनिर्णयकथनात्मकं निबंधानामसाधारणकार्य तच्च तैः : प्रसंगानुसारं यथायथं संसाध्यते । यद्यपि पुरुषमतिवैरूप्यात्पाण्डित्यप्रकर्षा- पकर्षवशाद्वा तत्र परस्परखण्डनादिकं दृश्यते तथापि न क्षतिः। यतोऽयं राद्धान्तः-स्मृतीनामुपदेशविधया प्रामाण्यम्-तेन तत्र यावद्वाच- निकं तावत्प्रमाणम् । निबंधानां तु विचारविधया प्रामाण्यम् । तेन यस्य निबंधस्य मीमांसापरिप्लुतो विचारो येन संमन्यते तेन स तस्मिन्नेवांश -उररीक्रियते नान्येन तथापि न क्षतिः। मीमांसाधिकरणसाहित्यं तु कस्यापि धर्ममतस्य ग्रहणाग्रहणयोर्न प्रयोजकं यतः परस्परविरुद्धान्यपि मतानि मीमांसा- धिकरणसंवलितान्युभयैरपि वादिभिः संसाधितानि दृश्यन्ते निबंधेषु सहस्रशः। तत्र श्रुत्यर्थसंदेहनिर्णायकानि मीमांसाधिकरणानि नापराध्यन्ति किंतु प्रयोजक- मतिवैभवम् । प्रकृते निबंधेऽपि पूर्वनिबंधकृन्मतानि तत्र तत्र खण्डितानीति समालोचयितॄणां दृष्टिपथमापतेत् । .
दत्तकविषये विमर्शः दत्तकविषये किमपि विमृश्यते-द्विविधा ह्यधिकारिणः प्रवृत्तिलक्षणं धर्म काम- यमाना निवृत्तिलक्षणं धर्म चेहमानाश्च । तत्र नापुत्रस्य लोकोऽस्तीति श्रुत्या पुत्रजय्यलोककामिन एव औरसाभावे दत्तकं पुत्रत्वेनात्मीयतां निन्युः । तदितरे 'किं प्रजया करिष्यामो येषां नोऽयमात्मा नायं लोकः' इति पूर्व- श्रुतिबाधिकयौपनिषदश्रुत्यात्मलोकमात्मसाच्चिकीर्षवो नापेक्षेरन्पुत्रप्रतिग्रहमल्प- फलत्वादात्मज्ञान प्रतिबंधकत्वाच । प्रकृतनिवन्धः। अयि श्रेष्ठाः प्रकृतनिबंधो दत्तकनिर्णयामृतं नाम । अयं च दत्तक- विषयः स्मृत्यवय वेषु त्रिध्वन्यतमस्य व्यवहारस्य विषयेऽन्तर्भवति । अस्याऽपि स्मृतिषु यथावकाशं वर्णनं विलसति । ततः सांगोपाङ्गं दत्तकमीमांसा-दत्तक- चंद्रिकादिषु विवरणं प्रसृतम् । ततः 'परमधुना औपासनि रघुनाथशास्त्रिप्रभृति- भिरपि निबंधाः प्राणायिषत । एतेषु सर्वेषु सत्स्वपि प्रस्तुतमहाभूपन्यायालये (हायकोर्ट प्रिव्हिकौन्सिल) दत्तकविषये विविधशंकाः प्रभवन्त्यप्रतिहतप्रसरम् । तथाच ज्येष्ठः पुत्रः प्रतिग्राह्यो न वा । एकः पुत्रः प्रतिग्राह्यो न वा । होमस्य नान्तरीयकत्वं न वेत्यादि । त एते सर्व विषयाः कथमपि निर्णीयन्ते तत्तच्या- यालयाधिकृतैः-तदा तदाऽन्योन्यविरुद्ध स्मृत्यादिशास्त्राणामनभ्यासाद्विदेशीयत्वेन सहजसुलभांस्तानेतान्कुकल्पानपाकर्तुं काव्यतीर्थोपाधिमलंकुर्वद्भिः 'वारे श्रीधरशास्त्रिभिः' दत्तकनिर्णयामृताख्यो ग्रंथः संगृहीतः। सुदृढ प्रतीयते यदेभिः सकलनिबंधकृतपरिश्रमैः सत्त्वसंदोहवशान्निवंधान्तरवारस्य- ग्राहिभिः मर्मग्राहितया विमर्शशीलैर्निबंधरूपमिदं निर्णयामृतं प्रदाय संजीविताः कुकल्पविषहताः सकलाधिकारिमनुजाः । सोऽयं निबंधो दत्तकशास्त्रविचार- जिघृक्षगां जीवातुर्जीयान्मनोविनोदं विधातुं विदुषामिति संप्रार्थयन्यावतिजानि परमेश्वरं विरमति। चैत्रशुक्लनवम्यां शुक्रवासरे शालिवाहनशकः १८५४ ता० १५-४-१९३२इ. (पुण्यपत्तने डेक्कनकॉलेज) विद्वद्वशंवदः पाठकोपनामा श्रीधरशर्मा पुण्यपत्तने डेक्कन कॉलेज.
Micipatani अभिप्रायः श्रीरस्तु। श्रा. व. १३ गुरुवार १८५३ नासिकक्षेत्रत:- श्रीमतां सुगृहीतनामधेयानामण्णाशास्त्रिमहोदयानां तनुजनुषा "वारे" इत्युपा श्रीश्रीधरशास्त्रिणा प्रहितं 'दत्तकनिर्णयामृतं' नाम ग्रन्थरत्नमवाप्तमालोचितं च। यद्यपि सन्येव दत्तकचन्द्रिका-दत्तकमीमांसाप्रभृतयो दत्तकनिर्णयविषयका अनेके पूर्वतना निबन्धग्रन्थास्तथापि परस्परं मतभेदाभासा- दिना दु यनिर्णयेऽस्मिन्परमावश्यके दत्तकविषयेऽभिनवस्यास्य प्राचीनाशेषतद्वि- षयकनिबन्धोदधिनिर्मन्थनाविर्भूतस्य दत्तकनिर्णयामृतस्य न केनापि सम्पाद्यतेऽ- न्यथासिद्धिः। नूनमनेनामृतेन बहुतरजटिलदत्तकग्रन्थनिर्मन्थनसमुद्भूतप्रबलमहा- मोहविषविषूचिकादन्दह्यमानचेतसां सचेतसां समुज्जीवनं भविष्यतीति विश्व- सिमि । पुरुषबुद्धिसंसर्गतः स्वभावत एव कदाचिद्दोषलेशसम्भवेऽपि गुणेकपक्षपा- तिनः सुधिय आत्मसात्कृत्वा सफलयिष्यन्त्येव ग्रन्थकृतामायासमित्याशासे । . राजेश्वरशास्त्रि द्राविडः १०।९।३१ शिवकुमारभवन, (श्रीक्षेत्रकाशी) कालिकाता- नगरी.
अभिप्रायः
mmunde
मीमांसायां त्विहाज्ञाते दुर्शाते वा विवेकतः ।
न्यायमार्गे महान्दोष इति यनोपचर्यता ॥
श्रीधर अण्णाशास्त्रि वारे इत्येतेभ्यः वेदोकाशिषः-
अयि महाभागाः! मीमांसासहितधर्मशास्त्रे कृतपरिश्रमाः श्रीमद्भिः प्रेषितो
दत्तकनिर्णयामृतनामा निबंधोऽवालोकि सुसंपन्नोयं किल सर्वथायं ग्रंथ इति
निवेदयितुं समुत्कण्ठतेऽस्माकमन्तरङ्गम् ।
यद्यप्यल्पशः क्वापि भवेद्विप्रतिपत्तिस्तथापि सा नान्तरीयकेति विदुषां तत्रापि
ग्रंथकृतां तत्सौभाग्यस्थानीयेति न विमतः पन्थाः। तदेतदमृतपानप्रयोगोऽपि
तत्र संगृहीतः सुबहूपकृतं याज्ञिककल्पेषु श्रीमद्भिः।
वार्तिकोक्तमिति ग्रंथस्येतोपि विवरणमावश्यकमासीत् । भवतु नाम न
तेन कापि क्षतिः।
एतदमृतं पायं पायमखिलस्य जगतः संतानवृक्षोऽहर्निशं समेधतामिति
सनातनं भगवन्तं प्रार्थयामः-
..
-
साक्षादपरकात्यायन-अण्णाशास्त्रिणां पुरतोऽस्मदभिप्रायोऽकिंचित्करः। न वयं
तेषां पुरतः किमपि वक्तुं लिखितुं प्रभविष्यामः । तेषामभिप्रायापेक्षया तैरेकदा
सम्यगवलोक्य प्रथयितव्योयं निबन्ध इति मदीया मतिः।
चैत्रशुक्ल १० शनी
१८५४
वामन रामचंद्र किंजवडेकर
पुण्यपत्तनं.
श्रीमंतपरमोदारचरितसुगृहीतनामा राजाधनराजगिरी गुरुनरसिंगगिरी. ग्यानबाग. दक्षिणहैदराबाद. । श्रीमते महामनसे विख्यातयशसे परोपकरणकृतये सकलगुणैकनिधये धर्मश्रद्धालवे धार्मिकग्रंथप्रकाशनेऽविरतधृतसमादराय प्रकृतप्रबंधप्रकाशनव्ययकराय राज्ञे"धनराज- गिरीगुरुनरसिंगगिरी"महोदयाय बहुधन्यवादपुरःसरां महतीमाशीःपरंपरां सहृदयं सानन्दं वितरति ग्रंथकर्ता श्रीधरशास्त्री।
वैदिकतिलक-पूज्यपादतीर्थरूपश्रीमदण्णाशास्त्रीवारे.
MARfinikasivinity,
MAAVAIDAMAIRatiya
RANCHI
जन्म-माघशु. ८ वुधवार शके १७९१.
REFERRIAGi
अर्पणपत्रम् श्रौतस्मादिकर्मानुष्टानगरिष्ठनैपुण्यसद्यशोमंडनमंडितप- ण्डितप्रवराणां सद्धर्माचारचरणसंपादितपवित्रचरित्र- संतुष्टशिष्टजनहृत्कमलानां-अनेकविषयानुबंधिप्रब- न्धबन्धापासारिताज्ञानतिमिरनिकराणां-मदीय- बाल्यमारभ्यविविधानवद्यविद्यागुणगणशिक्ष- णोन्नत्यर्थकृतानवरताविश्रान्तपरिश्रमाणां- सुगृहीतनामधेयानां-वैदिकतिलकश्री- मदण्णाशास्त्रिणां-चरणसरोजसी- मनि मयामितमतिना-रचि- तोऽयमल्पकृतिको ग्रंथः सप्रश्रयं समय॑ते- AMMAR ग्रंथकी- तत्तनूजन्मना श्रीधरशर्मणा- PARAMEDIA
No text on this page.
॥ दत्तकनिर्णयामृतस्थ-विषयानुक्रमः॥ ... १ १ १ ... ... ... ... ... ... विषयाः. पृष्ठं. १ मंगलाचरणम् १ पुत्रोत्पादन विधिः २ विधिशेषः ३ ब्राह्मणपदस्योपलक्षणत्वं ४ वाशब्दार्थः ५ विधेनित्यत्वप्रतिपादन १ ६ पुत्रवत्वमावश्यं संपादनीयं २ ७ प्रजाशब्दः पुंस्त्वविशिष्टा- पत्यपरः ८ विध्यर्थः ९ पुत्रशब्दार्थः २ १० (१) पुत्रशब्दस्य वाच्यो- (२)ऽर्थ औरसः ११ पुत्रपदस्योपलक्षणत्वं १२ प्रतिनिधिकरणं... १३ प्रतिनिधिसंख्या ५ १४ पुत्रसंख्यानियमः १५ औरसपुत्रे पुत्रिकापुत्रे च सत्येते न कर्तव्याः ६ १६ बहवः प्रतिनिधयो न कार्याः ६ १७ प्रतिनिधिक्रमनिरूपणं १८ प्रतिनिधिकरणेऽधिकारिणः १९ ब्रह्मचारिणः पुत्रप्रतिनिधि- करणेऽनधिकारः २० पुत्रे सत्यपि क्वचित्पुत्रप्रति- ग्रहो दृष्टस्तस्य खंडन विषयाः. पृष्ठं. २१ स्त्रियाः पुत्रप्रतिनिधिकर- णेऽधिकारो नास्तीति निरा- करणं २२ पुत्रप्रतिग्रहकालनिरूपणं २३ कलौ प्रतिनिधिसंकोचः २४ लक्षणनिरूपणोपक्रमः १३ २५ पुत्रिकापुत्रलक्षणं १३ २६ क्षेत्रजपुत्रलक्षणं २७ गूढजपुत्रलक्षणं २८ कानीनपुत्रलक्षणं २९ पौनर्भवपुत्रलक्षणं ३० क्रीतकपुत्रलक्षणं ३१ सहोडजपुत्रलक्षणं ३२ अपविद्धपुत्र लक्षणं १८ ३३ दत्तकपुत्रलक्षणं ३४ (१) दत्तकः पुनर्दत्तको न भवति (२) पितामहादेर्दातृ- त्वापाकरणं १९ (३) विधिविधानव्यवस्था (४) एकः पुत्रो न देयः (५) यामुष्यायणे त्वेकोपि देयः २० (६) ज्येष्ठपुत्रोऽपि देयः २० (७) कन्या दत्तका न भवति २२ ... ... ... ...
२ विषयाः. ... ... ... २८ ... ... ... विषयाः. पृष्ठं. पृष्ठं. (८) दत्रिमे पुत्रत्वं तु ४४ (१) केवलानां विवाहो- शास्त्रैकगम्यमेव २२ पयोगिगोत्रविषयकनिर्णयः (९) दत्तकपुत्रो द्विविधः २३ (२) सापिंड्यविषयक- ३५ कृत्रिमपुत्रलक्षणं निर्णयः ३६ खयंदत्तपुत्रलक्षणं २६ ४५ (१) केवलानां दाय- ३७ (१) प्रथमं कोष्टकं विभागः २) द्वितीयं कोष्टक... २८ (२) द्यामुष्यायणानां दाय- ३८ पुत्रप्रतिनिधयः सजाती- विभागः या एव ४६ (१) केवलानां श्राद्ध- ३९ दत्रिमादीनां ग्राह्याग्राह्य- विचारः जिज्ञासा तत्र सादृश्यलक्षणं २९ (२) यामुष्यायणानां श्रा- ४० ग्राह्याग्राह्यविवेचनं द्धविचारः ३० ५५ ४१ भूयसां समवाये क्रमः ... ३१ ४७ (१) केवलानामाशौच- ४२ (१) केवलानां गोत्रप्रवर- विचारः विचारः २) यामुण्यायणाना- २) यामुष्यायणानां गोत्र- माशोचविचारः ६३ प्रवरविचारः ४८ (१) शौनकोक्तः पुत्र- (३) असमानगोत्रे व्यवस्था ४२ प्रतिग्रहप्रयोगः (४) समानगोत्रे व्यवस्था ४२ (२) बौधायनोक्तः पुत्र- ५) केवलानां मातृगोत्र- प्रतिग्रहप्रयोगः (३) वसिष्ठोक्तः पुत्रप्रति- (६) यामुध्यायणानां मातृ- ग्रहप्रयोगः गोत्र विचारः (४) स्त्रीशूद्राणां वासिष्ठः ४३ (१) केवलानां सापिंड्य पुत्रप्रतिग्रहप्रयोगः प्रस्ताव ४३ ५) कृत्रिमपुत्रकरणप्र- (२) यामुष्यायणानां सा. योगः पिंड्यप्रस्तावः ग्रंथसमाप्तिश्लोकाः इति विषयानुक्रमः। ... ... विचारः... ४२ ... ... ... ७७ ७७ ... ... ...
(दत्तकनिर्णयामृतस्थ-) ग्रंथानां ग्रंथकृतां च नामानि ....प्र. ध.. ... १. श्रुतिः वेदः २१ (संस्कार)कौस्तुभः नि. ध. २ जैमिनीयसूत्रं मी. २२ धर्मद्वैतनिर्णयः नि.ध. ३ मनुस्मृतिः ...स्मृ.ध. २३ दत्तकचंद्रिका .... प्र..घ.. ४ बौधायनदर्शनं(सूत्र) वेदांग २४ कालिकापुराणं पुराणं. ५ कलिवर्यशास्त्रं नि. ध. शा. २५ दत्तोद्धारः ६ पुत्रकल्पलता ...प्र.ध. शा. प्र. घ. शा.२६ नारायणवृत्तिः ... आ. सू. टी. ७ दत्तकमीमांसा. प्र. ध. शा. २७ गाणेशीवृत्तिः ... आ. सू.टी: ८ (स्मृति)कौस्तुभः नि. ध. २८ सापिंख्यप्रदीपः नि. ध, शा. ९ मन्वर्थमुक्तावली म. स्मृ. टी. २९ प्रयोगपारिजातः कर्मकांडं. १० गोत्रप्रवरनिर्णयः प्र. ध. ३० शु. य. कर्मकांड- ११ मिताक्षरा. या. स्मृ. टी. प्रदीपः कर्मकांड १२ (मदन) पारिजातः नि. ध. ३१ सापिंड्यमीमांसा प्र. ध. शा. १३ इतिहासः भारतं. ३२ स्मृतिचंद्रिका १४ पुराणं. ब्राम्हादि. ३३ प्रवरदर्पणः प्र. ध. शा. १५ कात्यायनसूत्रं प्रव- ३४ चतुर्विंशतिमतं ... नि. ध, शा. राध्यायः सू. प. शि. ३५ संस्कारमयूखः नि. ध. शा. १६ लौगाक्षिसूत्रं. वेदांगं ३६ गौतमसूत्रं वेदांग. १७ पुरुषार्थचिंतामणौ ३७ प्रवरमंजरी. प्र. अ.. टी. संस्कारकांडं. नि. ध. शा. ३८ देवलस्मृतिः स्मृ. ध.शा. १८ निर्णयसिंधुः नि. ध. शा. ३९ याज्ञवल्क्यस्मृतिः स्मृ. ध. शा. १९ धर्मनौका. नि. सिं. टी. ४० कातीयश्राद्धसूत्रं. वेदांग २. शूद्रकमलाकरः... नि. ध. शा. ४१. बालबोधिनी. द. मी. टी. 2 नि. ध, शा. ...
२ अत्रिः गौ-ध. का. .... .. २२ अपरार्कः ४२ शुद्धिमयूखः ... नि. ध. शा. । १२ अत्रिः अ. स्मृ.का. ४३ षडशीतिः ...प्र. ध. शा. १३ नारदः ना.स्मृ.का. ४४ निर्णयामृतं. नि. ध. शा. १४ गौतमः ४५ प्रयोगदर्पणः कर्मकांड १५ सर्वज्ञनारायणः म. स्मृ. टी. ४६ स्मृत्यर्थसारः ...नि. ध, शा. १६ कात्यायनः... का. स्मृ. का. ४७ रेणुकारिका. का. स्मा. टी. १७ पराशरः प.स्मृ.का. ४८ त्रैय्यंबकीय-आशौचं प्र. ध, शा. १८ बृहस्पतिः बृ. स्मृ. का. ४९ भट्टोजीदीक्षितकृत- १९ नंदपंडितः द. मी. का. आशौचनिर्णयः प्र. ध. शा. २० मीमांसकाः... मी. शा. विदः ५० आशौचसंग्रहः प्र. ध. शा. २१ विज्ञानेश्वरः... या. स्मृ.टी. ५१ षडशीतिव्याख्या टीका ... या. स्मृ. टी. ५२ कृष्णभट्टी (नि.सि.टी.) २३ भट्टनिलकंठः मयूखकारः २४ भट्टकमलाकरः नि. सिं. का. २५ (योगी) योगी- १शेबरखामी. पू. मी.भा. का. याज्ञवल्क्यः २ माधवाचार्यः जै. न्या.मा.का. २६ शाकल: ... शा. स्मृ.का. पू. मी. सू. का. २७ वृद्धगौतमः वृ. गौ. स्मृ. ४ मनुः ...म. स्मृ. का. २८ गोविंदराजः म. स्मृ.टी. ५ कुलूकभट्टः .... म. स्मृ. टी. २९ रामचंद्रः म. स्मृ. टी. ..६ राघवानंदः... म. स्मृ. टी. ३० बृहन्मनुः बृ. म. स्मृ.टी. ७ याज्ञवल्क्यः या. स्मृ. टी. ३१ भट्टशंकरः • ८ गृह्यकार:(पार- ३२ नागोजीभट्टः द. चं. का. स्करः) ... मा.सू.का. ३३ कृष्णंभः नि. सि.टी. ९ वसिष्ठः ध. सू.का. ३४ औपासनिको १० मेघातिथिः ... म. स्मृ.टी. रघुनाथभट्टः द. नि. का. ११ नंदनः म. स्मृ.टी. ३५ सत्याषाढः घ. सू. का. श्वरः ... ३ जैमिनिः ... घ. दै. नि.
Hongyingan HAR जापतिः ३६ संग्रहकारः ... आ. नि. का. ४७ कार्णाजिनिः का. स्मृ. का. ३७ हेमाद्रिः च. चिं. का. ४८ भरतचंद्रशिरो- ३८ प्रवरमंजरीकारः मणिः ... द. मी. टी. ३९ धर्मसिंधुकारः बाबापाध्ये ४९ भामतीकारः... :...वे. शा. भा. टी. ४० आश्वलायनः स्मा.सू. का. ५० विष्णुः ४१ पैठीनसिः ५१ शंखः ४२ शूलपाणिः ...ध. नि. का. ५२ हारितः हा. स्मृ. का. ४३ भट्टसोमेश्वरः तं. वा. टी. का. ५३ मरिचिः म.स्मृ.का. ४४ हरदत्तः ... प्र. स्मृ..का. ४५ आपस्तंबः आ. स्मृ.का. ५५ कौशिकाचार्यषडशीतिकारः ४६ बौधायनः ५६ विबुधनृसिंहवल्लभः... जा.वि.का. ॥ इति । पै. स्मृ. का. वि. स्मृ. का. शं. स्मृ. का. गो. सू. टी. बौ. स्मृ. का.
मंगलाचरणम् आदौश्रीकुलदेवतामिह महालक्ष्मीयुतां रेणुकां ॥ भक्ताभीष्टकरी मतिस्मृतियशोयुःपरानंददां ॥ प्रत्यूहौघविदारणक्षममथोद्वैमातुरं शारदां ॥ सूर्य शुक्लयजुःप्रवर्तकमृर्षि श्रीयाज्ञवल्क्यं नुमः ॥१॥ अज्ञानवाधूि परिशुष्ययन्मे ज्ञानं त्वदादाश्रुतितंत्रयुग्मं ॥ यत्क्षोणिवृन्दारकवृन्दवन्धं नित्यं नमामो गुरुमंडलं तत् ॥२॥ ॐ नमः श्रीमत्सद्गुरुहृदयानंदसरस्वतीचरणकमलेभ्यः॥३॥ श्रीगोदातटगाय॑नासिकवसन् माध्यंदिनाम्नायवित् ॥ श्रौतसातविधानकौशलमतिस्यायपाराशरः ।। वारे इत्युपनामसत्कुलजनि रामपौत्रः सुधीः॥ आत्याजी तनुजोस्ति वेदतिलकः श्रीश्रीमदण्णाभिधः॥४॥ श्रौतसातविधौ कुशाग्रधिषणो धर्मागमे मर्मभि- न्मीमांसानयकोविदः श्रुतिकृती साहित्यतीर्थांकितः ।। नत्वातातपदारविंदयुगलं तदेहजाश्रीधरः ॥ ग्रंथ "दत्तकनिर्णयामृत"महं कुर्वेऽज्ञबोधार्थकम् ॥५॥ पुराण इत्येव न सर्ववित्स्यान्नव्यो गुणी ज्ञः किमुनार्चनीयः॥ चेदस्ति नव्येऽपि हि दोषलेशो नोपास्यते धूमयुतः किमग्निः॥६॥ १ ग्रंथारंमे. २ महाराष्ट्रभाषानुवादः. DU श्री: दत्तकनिर्णयामृतम्। १ अथ । “अंजामुत्पादये"दिति विधिश्रुतौ भावनाया भाव्या- कांक्षायां विधिशेषोपात्तं पित्रानृण्यं भाव्यत्वेना- पुत्रोत्पादन विधिः न्वेति रात्रिसत्रन्यायात् । २ तथाचायं विधिशेषः। 'जायमानो वै ब्राह्मणस्त्रिभित्रं- णवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः विधिशेषः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा स्या"दिति। ३ विधिशेषे ब्राह्मणग्रहणमुपलक्षणमित्युक्तं "ब्राह्मणस्य तु ब्राह्मणपदत्योप- सोमविद्याप्रजमृणवाक्येन संयोगा"दित्यधिकरणे लक्षणत्व भाध्यकृच्छबरस्वामिमाधवाचार्यप्रभृतिभिः। ४ पूर्वोक्तश्रुतौ "ब्रह्मचारी वा स्यादि"त्यत्र वाशब्दश्चार्थे । चार्थः समुच्चयः । तेन ऋणत्रयापाकरणं त्रिभि- वाशब्दार्थः हेतुभिः संपाचं । पूर्णानृण्यं च नैकेन हेतुना संभवतीति तदर्थः। ५ सचायं "प्रजामुत्पादये"दिति विधिनित्यः। तस्य च "ब्राह्म- विधेर्नित्यत्वप्र. णस्य तु सोमविद्याप्रजमृणवाक्येन संयोगा"- तिपादनं दित्यस्मिन्नेवाधिकरणे जैमिनिमुख्यैर्विश्वजिन्न्यायेन १ इयं श्रुतिः श्रीमाधवाचार्यकृतजैमिनीयन्यायमालाविस्तरे अ० ६ पा० २ अ०११ इत्यत्रोपलभ्यते। R - २ कमियोगमाक्षिप्य काम्यत्वमाशंक्य च ऋणवाक्येन संयोगादिति हेतूपन्यासेन काम्यत्वं बाधित्वा नित्यत्वं राद्धांतितं । ६ अतो "नापुत्रस्य लोकोऽस्ती"तिश्रुतेः। पूर्वोक्तविधिशेषात् पुत्रवत्वमवश्यं “अनुत्पाद्य सुतान्न लोकं गच्छती"ति स्मृतेश्चाप्रजा- संपादनीयं स्त्वमूलकपरलोकगतिनिरोधनिरासार्थ पित्रर्णापाक- रणार्थ चानुषंगत ऐहलौकिकफलसिद्धये च स्वस्मिन्पुत्रवत्त्वमवश्यं निर्वर्तनीयमिति भावः। ७ नच विधौ पुख्यपत्यसाधारण्येन प्रयुक्तः प्रजाशब्दः। प्रजाशब्दः पुंस्त्व- तस्मात्कन्यावत्तयाऽपि पित्रणनिवृत्तिर्वाच्या। क- विशिष्टापत्यपरः न्यकायां सत्यामपि पुत्रप्रतिनिधिकरणोपदेशवै- यर्थ्यप्रसक्तेः । तस्मात्प्रजाशब्दः पुंस्त्वविशिष्टापत्यपरएवेति नि- श्चिनुमः। ८ तेन पित्रानृण्यमुद्दिश्य पुत्रं जनयेदिति-पुत्रोत्पादनविधे- विध्यर्थः रर्थः पर्यवस्यति । ९ कः पुत्रपदार्थ इति जिज्ञासायामाह मनु:-अ०९ श्लोक १३८ "मुनानो नरकाद्यस्मात्रायते पितरं सुतः। पुत्रशब्दार्थः तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवैति । पुंनानो नरकविशेषात्पितरं सुतो यस्मात्रायते तस्मात्राणाद्धेतोः स्वयमेव ब्रह्मणा पुत्रः प्रोक्त इति तदर्थः । १० (१) सच पुत्रशब्दो मुख्यवृत्त्या औरसमभिधत्ते। तथाच श्रुति:-"अंगादंगात्संभवसि हृदयादधिजायसे। ध्योऽर्थ औरसः आत्मा वै पुत्रनामासि सजीव शरदः शत” मिति । मनुस्मरणमपि "स्वक्षेने संस्कृतायां तु स्वयमुत्पाद- पुत्रशब्दस्य वा- CommittinenimROOMICALMANANDLSARORAMANETANTrictwisesiter ३ येद्धि यः। तमौरसं विजानीयात्पुत्रं प्राथमकल्पिक” इति । संस्कृतायां कन्यावस्थायामेव कृतविवाहसंस्कारायां । औरसं उरसा निर्मितं । उरसोऽण्च इत्यण । स्वजाते त्वौरसोरस्यावित्यमरः । प्राथमकल्पिक मुख्यं । स्वक्षेत्रं तु सजातीयमेव । “सवर्णायां संस्कृतायामुत्पादितमौ- रसं पुत्रं विद्यादि"ति बौधायनदर्शनात् इति व्याचख्यौ कभः । तथा चात्र राघवानंद:-स्वयमुद्वाहितायामुरःसंश्ले- घेण जातवादौरसः । क्षेत्र तदभावो नारदेनोक्तः "गात्रैर्गात्राण्य- संस्पृशनि"त्यादिना । "सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं जानीयादि"ति बौधायनदर्शनात्सजातीयोत्पन्न औरसः। अत्र सव- पदं द्विजवादिजातिपरं । अन्यथा क्षत्रियावैश्याशूद्रासु जातानां विप्रादित्रयपितृकाणामौरसत्वाभावेनापुत्रत्वापत्तिरिति । तत्र परं सजातीये मुख्यमौरसत्वमन्येषां गौणमिति भावः। स्वक्षेत्र इति खक्षेत्रशब्दस्याजहलिंगता । प्राथमकल्पिकमुत्सर्गतः सर्वत्राधिका- रिणमिति व्याकृतवान् ॥ (२) गुणगुणिभावं मनुयाज्ञवल्क्यावपि संमन्वाते । “चतुरोंs- शान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः। वैश्यापुत्रो हरेवयंशमंशं शूद्रासुतो हरेदिति । “चतुस्त्रिब्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । क्षत्रजा- खिम्येकभागा विड्जाता ब्येकभागिनः” इति। अंशांशतो न्यूनदायाधि- कारोक्तिरिति तदर्थः । यत्तु-"क्षत्रियावैश्याशूद्रासु जातानामिति- वदता राघवानंदेनोक्तशूद्रापुत्रस्यौरसत्वेऽपि न पित्रोः श्राद्धादिकर्मा- हवं । "तज्जाया जाया भवति यदस्यां जायते पुनः” इति श्रुतिमूलक "यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । नैतन्मम मतं यस्मात्तत्रायं जायते स्वयमि"ति याज्ञवल्क्यस्मृतिविरोधात् । गृह्यकारैः-"सर्वे- ४ पारशूद्रा मंत्रवर्जमि”ति हेतुनिर्देशाच्च । न च मनुस्मृतेर्नवमाध्याय- स्थाष्टसप्तत्युत्तरशततमश्लोकीर्यव्याख्यायां "यद्यप्ययं पित्रुपकारार्थ श्राद्धादि करोत्येव तथापि असंपूर्णोपकारित्वाच्छवव्यपदेशः” इति ब्रुवता कुल्लूकभट्टेन तस्य पित्रोः श्राद्धादिकर्माहत्वं त्वत्येवेति सममा- नीति चेन्मैवं । उक्तस्मृतिविरोधात्स्वदत्त "असंपूर्णोपकारित्वादिति हेतोर्विरोधाचेति । ११ पुत्रपदं पौत्रप्रपौत्रयोरुपलक्षणं । “पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रन- पुत्रपदस्योप- स्याप्नोति विष्टपमि"ति । "लोकानन्यं दिवः प्राप्ति लक्षणत्वं पुत्रपौत्रप्रपौत्रकैरि”ति वसिष्ठयाज्ञवल्क्यायुक्ते" - पुत्रस्य लोकोऽस्ति”इत्यादिश्रुतिबोधिताऽलोकत्वपरिहारस्य पौत्रप्रपौ- त्राभ्यामपि सिद्धेरिति ज्ञेयम् । १२ लोकश्रुतिदर्शितपुत्रपौत्रप्रपौत्रात्यन्ताभावनिमित्तकपरलोक- गतिनिरोधभयात्क्रियालोपभयाच प्रजोत्पादनवि- प्रतिनिधिकरणं धेर्नित्यत्वेन तल्लोपो माभूदित्येवमर्थं च पुत्रप्रति- निधीनाचख्यौ स एव मनु:-"क्षेत्रजादीन्सुतानेतानेकादश यथोदि- तान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिण” इति । पुत्रोत्पादन- विधिलोपः पुत्रकर्तव्यश्राद्धादिलोपश्च माभूदित्येवमर्थं पुत्रप्रतिच्छंद- कान्मुनय आहुरिति कुल्लूकभट्टाः । मुख्याभावे प्रतिनिधिः । अतोऽस- यौरसे एते कर्तव्या इत्युक्तं भवति । क्रियालोपाद्धेतोः क्रियतेऽपत्यमु- त्पादयितव्यमित्यस्य विधिलोपो माभूदियेवं नित्यो ह्ययं विधिः। स १ यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतं स पारयन्नेव शवस्तसात्पारशवः स्मृतः ॥
DS यथाकथंचिद्गृहस्थेन संपाचः। तत्र मुख्यकल्प औरसः। तदसंपत्तावते कल्पा आश्रयितव्या इति मेधातिथिः। मुख्ये संभवत्यौरसे तत्प्र- तिनिधिभिस्तत्कार्य न कर्तव्यमित्यभिप्राय इति नंदनः। १३ ते च प्रतिनिधयो मनुवचने एकादशेति पदोपादानादेका- दशैवेति । एते सर्वे लक्षणकथनावसरे स्पष्टा प्रतिनिधिसंख्या भविष्यति । १४ एवं चैक औरस एकादशप्रतिनिधयो मिलित्वा पुत्रा द्वादश। ननु त्रयोदशस्य पुत्रिकापुत्रस्य सत्त्वात्कथं द्वादशै- पुनसंख्यानियमः वेति नियम्यत इति चेदुच्यते । “दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुहरेत् । स एव दद्याडौ पिण्डौ पित्रे मातामहाय च॥पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः। तयोहि मातापितरौ संभूतौ तस्य देहतः ॥ पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते । दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रव"दित्युक्तमानवीयेभ्यः पुत्रि- कापुत्रस्य प्रशस्ततरत्वश्रवणात्तस्य प्रतिनिधिषु प्राथम्येन निवेशः कर्तुमुचितएवेति । याज्ञवल्क्येन "औरसो धर्मपत्नीजस्तत्समः पुत्रि- कासुतः” इत्येवं कृतोऽपि घट्टकुटीप्रभातन्यायेन द्वादशत्वनियमाभा- वापत्तिस्तदवस्थैव शूद्रापुत्रस्य सत्त्वादिति चेन्न । यद्यपि द्वादशानां मध्ये मनुना शूद्रापुत्रः पठितस्तथापि तत्पाठस्तस्य धनानहत्वज्ञाप- नार्थ । न प्रतिनिधित्वज्ञापनार्थ । तथाच श्रेयसः श्रेयसोऽलाभे" इति मानवीयवचोव्याख्यायां कुल्लूकभट्टाः । “शूद्रापुत्रस्य द्वादशपु- त्रमध्ये पाठः क्षेत्रजादिसद्भावे धनानहत्वज्ञापनार्थत्वेन सार्थकः । अन्यथा तु क्षत्रियावैश्यापुत्रवदौरसत्वात्क्षेत्रजादिसद्भावेऽपि धनं लभेदिति ।” सत्येवं द्वादशमध्यतः शूद्रापुत्रमपकृष्य तन्मध्ये यात्र- ६ वल्क्यैकवाक्यतालाघवेन कृते पुत्रिकापुत्रनिवेशे पुत्रा द्वादशैवेति नियमो भवत्येवाप्रतिहतः । परमेवमत्र ध्येयं । अयं च पुत्रिकापुत्रः अभिसंधायोत्पुत्रिकायाः पुत्र इति । १५ न चोक्तप्रतिनिधिध्वन्यबीजजा य उक्तास्ते न प्रतिनिधयः कर्तव्याः । “य एतेऽभिहिताः पुत्राः प्रसं- औरसपुत्रे पुत्रि- गादन्यबी जिनः । यस्य ते बीजतो जातास्तस्य कापुत्रे च सत्येते ते नेतरस्य वि"ति मानवादितिचेन्न । कुल्लूकभट्टैः न कर्तव्याः "सत्यौरसे पुत्रे पुत्रिकायां च सत्यां न कर्त- व्या" इत्येवंपरमिति व्याख्यातत्वात् । पुत्रिकायामिति तस्यां जनि- ध्यमाणपुत्रस्य पुत्रीकरणसंभवादिति पुत्रिकापदे गूढाभिसन्धिः। १६ ननु “एष्टव्या बहवः पुत्रा योकोपि गयां ब्रजेत् । यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेदि"त्यत्रिस्मृतेर्बहुपु- बहवः प्रतिनिध- त्रैषणावत्पुत्रप्रतिनिधयो बहवः कर्तव्या इति चेन्न। योन कार्याः मनुना लोकप्राप्त्यभावक्रियालोपभयमेव पुत्रप्रति- निधिकरणे बीजमुक्तं । तस्यैकेन प्रतिनिधिना निवृत्तौ अनेकेषामप्रयो- जनवत्त्वात् । “ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणाम- नृणश्चैव स तस्मात्सर्वमर्हति ॥ यस्मिन्नृणं सन्नयति येन चानन्त्य- मभुते । स एव धर्मजः पुत्रः कामजानितरान्विदुरि"ति । "पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखं । ऋणमस्मिन्सन्नयत्यमृतत्वं च गच्छति ॥ जातमात्रेण पुत्रेण पितृणामनृणः पिता। तदह्नि शुद्धि- माप्नोति नरकात्रायते हि स" इति। मन्वत्रिभ्यामेकेनैव पुत्रेण लोक- तासिद्धिक्रियानिवृत्तिरूपपित्रानृण्योक्तेश्च । प्रतिनिधीनां च तन्मूल- कत्वान्न बहवः प्रतिनिधयो विधेया इति । उक्तस्मृतिस्तथान्या अपि । ।
तत्समानाः स्मृतयश्च कामजपराः । अथवा पुत्राणां गयाव्रजनार्थमु- न्मुखीकरणत्वेनार्थवादसदृशाः। अतएव न बहुपुत्रेषणाविधायकाः । १७ एतेषु वक्ष्यमाणैकादशप्रतिनिधिषु पूर्वपूर्वस्याभाव उत्तरोत्त- रोऽभ्युपेयः । "श्रेयसः श्रेयसोऽलाभे पापीया- प्रतिनिधिक्रम नृक्थमहती"ति मानवात् । “पिण्डदोंऽशहर- निरूपणं श्चैषां पूर्वाभावे परः परः" इति याज्ञवल्क्यो- क्तेश्च । स च पूर्वोत्तरीभावदर्शकः क्रम "औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च । कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च ॥ पौनर्भवोऽपविद्धश्च दत्तः क्रीतः कृतस्तथा । स्वयं चोपगतः पुत्रा द्वादशैते प्रकीर्तिता” इति नारदेनोक्तः। “पुत्रा औरसक्षेत्रजदत्त- कृत्रिमगूढोत्पन्नापविद्धा रिक्थभाजः। कानीनसहोढपौनर्भवपुत्रिका- पुत्रस्वयंदत्तक्रीता गोत्रभाजः” इति गौतमेनोक्तः । “औरसक्षेत्र- जपुत्रिकापुत्रपौनर्भवकानीनगूढोत्पन्ना इत्येते दायादा बांधवाना- तारो महतो भयादित्याहुः। सहोढदत्तकक्रीतखयंदत्तापविद्धशौद्रा इत्येतेऽदायादा बांधवा" इति वसिष्ठेन प्रकारान्तरेणोक्तः । "औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बांधवाश्च षट् ॥ कानीनश्व सहोढश्च क्रीतः पौनर्भव- स्तथा। स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवा" इत्ययं मनुनाऽपि प्रकारान्तरेणोक्तः । “औरसः १ पुत्रिकासुतः २ क्षेत्रजः ३ गूढजः ४ कानीनः ५ पौनर्भवः ६ दत्तकः ७ क्रीतः ८ कृत्रिमः ९ स्वयं- दत्तः १० सहोडजः ११ अपविद्धः १२ पिण्डदोंऽशहरश्चैषां पूर्वा- भावे परः परः” इति याज्ञवल्क्येनापि प्रकारान्तरेणोक्तः। अत्र नारदोक्तक्रमविषये निर्णयसिंधुटीका-इति नारदीयः पाठक्रमः । ..
८ : तथापि परिगणनमात्रेण कल्प्यक्रममपेक्ष्य "एषां पूर्वाभावे परः परः" इति प्रत्यक्षतो विहितक्रम एव ग्राह्य इति । गौतमीयः क्रमोऽपि परिगणनमात्रेण कृत इति हेतोः प्रत्यक्षक्रमाद्दुर्बलः। वासिष्टोऽपि गौतमन्यायेनैव गौतमीयवद्दुर्बलः। अथवा वक्ष्यमाणमक्तक्रमवढ्या- ख्येयः। षट् दायादाः षडदायादा इति ग्रहणात् । मनुयाज्ञवल्क्यो- तक्रमविषये "श्रेयसः श्रेयसोऽलाभे” इत्येतन्मानवीयव्याख्यायां सर्वज्ञनारायणः । तत्र औरसपुत्रिकाजक्षेत्रजगूढजकानीनपौनर्भव- दत्तकक्रीतकृत्रिमस्वयंदत्तसहोढजापविद्धानुक्रमेण परिगणय्य याज्ञव- ल्क्येन "पिंडदोंऽशहरश्चैषां पूर्वाभावे परः परः” इति विशेषतो विधानात्तद्वचनानुसारेण कर्तव्यः । अत्र तु क्रमपाठो न पूर्वपूर्वो- त्कर्षापादनार्थः किंतु स्वबंधुदायादबांधवविवेकपर इति । तेनात्र प्रतिनिधिषु याज्ञवल्क्योक्तक्रमोऽनुसंधेय इति । १८ तत्प्रतिनिधिकरणत्वं च पुत्रपौत्रप्रपौत्राभावे मन्वादिभिरभि- हितत्वादपुत्रवत एव पुत्रप्रतिनिधिकरणेऽधिकार प्रतिनिधिकरणे- इति । तदेव स्पष्टयत्यत्रिः-"अपुत्रेणैव कर्तव्यः ऽधिकारिणः पुत्रप्रतिनिधिः सदा । पिण्डोदकक्रियाहेतोर्य- स्मात्तस्मात्प्रयत्नत” इति । अपुत्रोऽजातपुत्रो मृतपुत्रश्च । “अपुत्रो मृतपुत्रो वा पुत्रार्थ समुपोष्य च । दातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत्” इति शौनकस्मरणात्। नचात्र कदाचिच्छंक्यं । अपुत्रपदेन ब्रह्मचारिणोऽप्यधिकारः स्यादिति । ब्रह्मचारिणस्तु पुत्रित्वासंभावन- या पित्रर्णाभावात् । प्रपंचितं चैतद्भामत्यादिषु । स्नातकस्यतु भवत्ये- वाधिकारः । तस्य गृहस्थाश्रमान्तरोन्मुखत्वेन पित्रर्णसंभवात् । ततश्चापुत्रस्यैव पुत्रीकरणविधानात्पुत्रवतः पुत्रीकरणेऽनधिकार इति । पुत्रपदं पौत्रप्रपौत्रयोरप्युपलक्षणमिति प्रागुक्तमेव ।
HIROINORITUTWARPANTTREATRE ९ । १९ यत्तु विश्वामित्रादीनां पुत्रवतामपि देवरातादिपुत्रप्रतिग्रहलिं- गदर्शनं तद्पुत्रेणैवेत्यादिविधिविरोधात् श्वजापनी. पुत्रे सत्यपि कचि- भक्षणवन्न श्रुत्यनुमापकमिति ध्येयं । न च स्मार्तो त्पुत्रप्रतिग्रहो दृष्ट- विधिःौतलिंगस्य न बाधक इति वाच्यं । "ना. स्तस्य खंडन पुत्रस्य लोकोऽस्ती"त्याद्यपुत्राधिकारिकपुत्रप्रतिनि- धिविधायकप्रत्यक्षश्रुत्युपष्टंभेन तस्यैव बलवत्त्वादिति वीरमित्रोदये । २० नन्वत्रिवाक्ये 'अपुत्रेणेति' पुंस्त्वनवणात्त्रियाः पुत्रप्रतिनि- धिकरणे नास्त्यधिकार इति चेन्मैवं । “अपुत्रेणे". स्त्रियाः पुत्रप्रति- निधिकरणेऽधि त्यत्र पुंस्त्वाविवक्षणात् । तथाहि-तत्र हि लिंगं कारो नास्तीति विवक्षितं भवति । यत्र लिंगस्य प्रकृत्यर्थता विधेय- निराकरणं संस्पर्शिता वा। नात्र प्रकृत्यों लिंगं । तस्य "टाङ्” इति पुंल्लिंगविभक्तिविकारेणाभिहितत्वात् । नापि विधेयसंस्पर्शित्वं । "अपुत्रेणैव कर्तव्यः पुत्रप्रतिनिधिः सदे"त्यात्रेयशास्त्रेणापुत्रमधिका- रिणमुद्दिश्य पुत्रप्रतिनिधिकरणत्वविधानात् । ततश्च लिंगस्य प्रकृ- त्यर्थत्वाभावाद्विधेयासंस्पर्शित्वादुद्देश्यगतत्वेनाविवक्षितत्वाच लिया अप्यधिकारः। स "न स्त्री पुत्रं दद्यात्प्रतिगृहीयाद्वाऽन्यत्रानुज्ञा- ना रि"ति वासिष्ठाद्भत्रनुज्ञाताया अत एव सधवाया एव स्त्रिया अस्तीति नियम्यत इति चेदन ब्रूमः । न स्त्री पुत्रं दद्यात्प्र- तिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुरि"ति वासिष्ठं । अत्र भत्रनुज्ञा च सधवाया एव दृष्टार्थत्वात् । विधवायास्तु भत्रनुज्ञासत्त्वे सम्यगेव तदभावे पितुः । तदभावे ज्ञातीनां वा अनुज्ञया दानप्रतिग्रहौ । अत एव "रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके । अभावे ज्ञातय- स्तेषां न स्वातंत्र्यं कचिस्त्रिया” इति याज्ञवल्क्येनावस्थाविशेष एव १० भर्तुः पारतंत्र्यमुक्तं । कात्यायनेनापि "नारी खल्वननुज्ञाता भर्ना पित्रा सुतेन वा। विफलं तद्भवेत्तस्या यत्करोत्यौदेहिकमि"त्यवस्था- विशेष एव पितृभाद्यनुज्ञोक्ता । अतो यस्यामवस्थायां भत्रनुज्ञा प्राप्ता सैवात्रानूद्यते । नत्वपूर्वा विधीयते । अतो विधवाया भर्तुराज्ञां विनाऽप्यधिकार इति व्यवहारमयूखादौ । एवं सति भर्तृपदस्योप- लक्षणत्वापत्तिः स्यादिति । स्यादेवं । तां च स्वीकुर्मः। लोकश्रु- त्याऽपुत्रतयाऽवस्थाने महादोषश्रवणेनोपलक्षणत्वस्येष्टत्वात् । ततश्च भत्रनुज्ञासत्त्वे सधवाया भत्रनुज्ञासत्त्वासत्त्वयोश्च विधवाया अपि स्त्रिया अधिकारो भवत्येव निष्कंटकः । न च स्त्रीशूद्रयोः पुत्रप्रति- ग्रहांगमंत्रपाठहोमयोरधिकाराभावात्पुत्रप्रतिग्रहेप्यनधिकारो वाच्यः। विप्रद्वारांऽगानुष्ठानेन कर्तव्ये पुत्रप्रतिग्रहे स्त्रीशूद्रावप्यधिकृतौ । "उपवासो व्रतं होमस्तीर्थस्नानजपादिकं । विप्रैः संपादितं यस्य संपन्नं तस्य तत्फलमि”ति पराशरोक्तेः। ननु "दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद्धविः । ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेदिति तस्यैव पराशरस्योक्तेः शूद्रकर्तृकहोमस्य विप्रद्वारा करणे कर्तुः पातित्यमिति चेन्न । दक्षिणां गृहीत्वा होमकरणे पातित्यं न बनादाय दक्षिणां होमकरणे पातित्यमिति धार्मिकाणां घण्टाघोषः। २१ अविस्मृतौ "सदा” इति पदोपादानात् "वंध्याऽष्टमेऽधि- वेद्ये"तिवत्कालप्रतीक्षा न विधेयेति। ततः स्वदे- पुत्रप्रतिग्रहकाल- हस्य सापायत्वमाशंकमानः पुमान्वृद्धस्तरुणो निरूपणं वाऽपि पित्रानृण्यार्थ पुत्रप्रतिनिधि यदा कर्तुमि- च्छेत्स तत्करणस्य काल इति पर्यवसितोऽर्थः।
२२ मन्वादिमिरुपदिष्टाः प्रागुक्ता एकादश प्रतिनिधयोऽपि सर्वे कलौ नाभ्यनुज्ञायते। "अनेकधा कृताः पुत्रा ऋषि- कलौ प्रतिनिधि- भियः पुरातनैः । न शक्यास्तेऽधुना कर्तुं शक्तिहीन- संकोचः तया नरैरि"ति बृहस्पतिवचनात् । "दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रह” इति कलिवयंशास्त्रेण दत्तेतरपुत्रप्रतिग्रहप्रति- षेधाच्च । अत्र पुत्रकल्पलतायां विशेषः । प्रस्तुतशास्त्रवचनस्थं दत्तपदं रूड्या दत्तकस्य वाचकमिति मत्वा दत्तकभिन्ना गौणाः पुत्राः कलौ वा इति व्यवहारमयूखकारादयः । स्मृतिकौस्तुभकारादयस्तु दत्तपदं योगमर्यादया दानकर्मीभूतयोर्दत्तकस्वयंदत्तयोर्वाचकमिति मत्वा तदुभयभिन्नाः पुत्रप्रतिनिधयः कलौ वा इत्याहुः। दत्तकमी- मांसायां नंदपंडितास्तु दत्तकृत्रिमव्यतिरिक्तानां गौणपुत्राणां वय॑त्व- माहुः । तथा चात्र लोकमान्यानां ग्रंथकृतां नानाविधमतदर्शना- ज्जायमानसंदेहस्य निवृत्तये प्रमाणपरीक्षया सिद्धांतविनिर्णयोऽवश्यं कर्तव्यः । तथायुच्यते । कलिवयंप्रकरणस्थवचनगतेन दत्तश- ब्देन योगवृत्त्या दत्तकस्वयंदत्तावुभावप्युच्येते। उभयोरपि दानकर्मी- भूतत्वरूपदत्तपदशक्यतावच्छेदकाक्रांतत्वाविशेषात् । असति बाधके प्रमाणानां सामान्ये पक्षपात इति न्यायाच । "योगाद्रूढिर्बलियसी"ति न्यायस्य तु नात्रावसरः । शास्त्रेऽस्य न्यायस्य योगरूढशब्दोपस्थाप्या- र्थनिर्णायकत्वाभ्युपगमात् । यथा जलजशब्दस्य योगमर्यादया कम- लशैवालमीनाद्यर्थबोधकत्वे प्राप्ते प्रबलया रूढ्या कमलमात्रार्थवाच- कत्वमनेन न्यायेनावधार्यते । “दत्तौरसेतरेषामि"त्यत्र पठितो दत्त- शब्दस्तु न योगरूढः । तस्य दानकर्मीभूतगोहिरण्याद्यर्थेषु बहुशः प्रयोगदर्शनात् । “संज्ञायां कन्नि”ति विहितकन्प्रत्ययान्तस्य दत्तकश- ब्दस्यैव पुत्रप्रतिनिधिविशेषरूपेऽर्थे योगरूढत्वात् । तथा च प्रकृत- वचनेन दत्तकस्वयंदत्तभिन्नानामेव पुत्रप्रतिनिधीनां कलौ वय॑त्वं सिध्यतीति कौस्तुभग्रंथोक्तः सिद्धान्तः सप्रमाणः सोपपत्तिकश्चेति ज्ञेयं । तथा "औरसः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुत" इति कलि- धर्मप्रस्तावे पराशरस्मरणात् कृत्रिमोऽपि पुत्रः कलौ ग्राह्यः । कलि- वयंप्रकरणस्थवचनगतं दत्तपदं पराशरवचनैकवाक्यतासंपादनाय कृत्रिमस्याप्युपलक्षणमित्यवश्यमभ्युपेयं । न चैवं क्षेत्रजोऽपि पुत्रः कलौ स्यादिति वाच्यं । क्षेत्रजोत्पत्तिसाधनीभूतस्य नियोगस्य कलावनेक- स्मृतिवचनैनिषिद्धत्वादेव क्षेत्रजनिषेधस्याप्यर्थत एव सिद्धेः । अस्तु तर्हि विहितप्रतिषिद्धत्वात्क्षेत्रजस्य कलौ विकल्प इति चेन्न । क्षेत्र- जोत्पत्तिसाधनस्य नियोगस्य कलौ निषिद्धस्य लोकविद्विष्टस्याप्यंगी- कारप्रसंगादिरूपानेकदोषदुष्टाया विकल्पकल्पनाया अयुक्तत्वात् । अत एव सत्यां गतौ विकल्पो नाभ्युपगन्तव्यस्तस्याष्टदोषदुष्टत्वादि- त्याहुर्मीमांसकाः। पराशरवचनस्थं क्षेत्रजपदं त्वौरसस्योपरंजकविशे- षणतया स्वरूपलक्षणप्रकाशनेनापि संगतं भवति । तथाचोक्तमौर- सलक्षणे मनुना "स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौ- रसं विजानीयात्पुत्रं प्राथमकल्पिकमि"ति । स्पष्टं चैतद्दत्तकमीमां- सायां। किंचोदाहृतपराशरवचनस्थमपि दत्तपदं दत्तकस्वयंदत्तयो- र्योगमर्यादया बोधकमेव । असतिबाधके प्रमाणानां सामान्ये पक्ष- पात इति न्यायसंचारस्यात्रापि तुल्यत्वात् । एवं च प्रमाणवचना- दागतेन सोपपत्तिकविचारेण दत्तकः स्वयंदत्तः कृत्रिमश्चेति त्रयः पुत्राः कलौ शास्त्रेणाभ्यनुज्ञाता भवन्तीति सिद्धान्तनिर्णयः संपन्न इति । - १३ । । २३ एतेषां प्रतिनिधीनां लक्षणानि याज्ञवल्क्यक्रमेणोच्यते । लक्षणनिरूप- तत्रापि कलौ ग्राह्यान्पुत्रानुत्कृष्य लक्षयामः । णोपक्रमः अधुना कलौ निषिद्धानां लक्षणानि । २४ तत्र पुत्रिकापुत्रलक्षणं । तथाच मनु:-"अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकां । यदपत्यं भवेदस्यां तन्मम पुत्रिकापुनलक्षणं स्यात्स्वधाकरमि"ति । अपुत्रोऽविद्यमानपुत्रो यद- स्यामपत्यं जायेत तन्मम श्राद्धाद्यौर्ध्वदेहिककरं स्यादिति कन्यादान- काले जामात्रा सह संप्रतिपत्तिरूपेण विधानेन दुहितरं पुत्रिकां कुर्या- दिति कुल्लूकभट्टाः । वसिष्ठोऽपि “अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम- लंकृतां । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति संप्रतिपत्ति- रूपेण विधानेन संविदेत्यर्थः । अयं च पुत्रिकापुत्रो व्यामुष्यायण एव संविदा कृतत्वात् । न केवलः । मन्वादिभिः पुत्रिकापुत्रकरण- त्वस्याभिसंधिपूर्वकत्वेनोक्तत्वात् । ननु संविदं विना कृतः पुत्रिका- पुत्रः केवलो भवितेति चेन्न । तस्य दौहित्रत्वेन मुख्यगौणपुत्रपत्नी- दुहित्रभावे उक्तश्राद्धधनाद्यधिकारित्वस्यानवस्थाप्रसक्तेः। कलिवर्ये कृतप्रतिषेधस्यासंगत्यापत्तेश्च । ततश्चायं व्यामुष्यायण एवेति सिद्धं । तथा च ब्यामुष्यायणगणे जातूकर्ण्यवामरथ्यादयोऽत्रेः पुत्रिका- पुत्राः। “अत्रेस्तु पुत्रिकापुत्रा वामरथ्यादयस्तथा। विश्वामित्रात्रि- गोत्राभ्यां नोद्वहेयुर्धनंजया” इत्युक्तेरिति । २५ अथ क्षेत्रजः-“यस्त्वन्यजः प्रमीतस्य क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृत" क्षेत्रजपुत्रलक्षणं इति मानवात् । प्रमीतस्य मृतस्य । क्लीबस्य न- पुंसकस्य । व्याधितस्य प्रसवविरोधिव्याध्युपेतस्य । स्वधर्मेण घृता. ॥
कादिनियोगधर्मेण । नियुक्तायां गुरुनियुक्तायां । अन्यजोऽन्यस्मा- जात उत्पन्नः पुत्रः क्षेत्रजः । मन्वादिभिः स्मृत इति । तद्- लाभे नियुक्तायां क्षेत्रज" इति वासिष्ठात् । "क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण"ति याज्ञवल्क्योक्तेश्च । स च नियोगविधिर्मनुनैव प्रदर्शितः। "देवराद्वा सपिंडाद्वा खिया सम्यनियुक्तया । प्रजे- प्सिताऽधिगन्तव्या संतानस्य परिक्षये ॥ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचने”ति । अत्र मन्वर्थमुक्तावली-संतानाभावे स्त्रिया पत्यादिगुरुनियुक्तया देव- रादन्यस्माद्वा सपिण्डाद्वक्ष्यमाणघृताक्तादिनियमवत्पुरुषगमनेनेष्टाः अजा उत्पादयितव्याः। ईप्सितेत्यभिधानमर्थात्कार्याक्षमपुत्रोत्पत्तौ पुनर्गमनाथ । विधवायामित्यपत्योत्पादनयोग्यपत्यभावपरमिदं । जीव- यपि पत्यौ अयोग्यपत्यादिगुरुनियुक्तो घृताक्तसर्वगात्रो मौनी रात्रा- वेकं पुत्रं जनयेन्न कथंचिद्वितीयमिति । अत्र नियोगविषये कन्याया विशेषमाह मनु:-“यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः। तामनेन विधानेन निजो विदेत देवरः॥ यथा विध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रतां। मिथो भजेताप्रसवात्सकृत्सकहतावृताविति । अत्र मिताक्षरा-यस्मै वाग्दत्ता कन्या स प्रतिग्रहमंतरेणैव तस्याः पतिरित्यस्मादेव वचनादवगम्यते। तस्मिन्प्रेते देवरस्तज्येष्ठः कनिष्टो वा निजः सोदरो विदेत परिणयेत् । यथाविधि यथाशास्त्रमधिगम्य परिणीयानेन विधानेन घृताभ्यंगवाड़ियमादिना शुक्लवस्त्रां शुचिव्रतां मनोवाकायसम्मितां मिथो रहसि आगर्भग्रहणात्प्रत्युतुमेकवारं ग- च्छेत् । अयं च विवाहो वाचनिकः । घृताभ्यंगादिवाङ्यिमनगुरु- नियुक्ताभिगमनांगमिति न देवरस्य भार्यात्वमुत्पादयति । अतस्तदुत्स- : । नमपत्यं क्षेत्रवामिन एव भवति न देवरस्य । संविदा तूभयोरपीति मिताक्षरायां । स च क्षेत्रजो द्विविधः केवलो व्यामुष्यायणश्च । तथोक्तं मनुना-"फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामों बीजाद्योनिगरीयसी"ति । क्षेत्रिणां तथा बीजिनामित्यु- भयोः । फलं त्वनभिसंधाय यदस्यामुत्पत्स्यतेऽपत्यं तदाक्योरित्यभि- संधिर्न कृतः तत्र प्रत्यक्षं निःसंदिग्धमेव क्षेत्रिणामर्थः । क्षेत्रिणा- मेव तदपत्यं यतो बीजाद्योनिर्गरीयसी बलियसीति । ततश्चायं केवलः क्षेत्रजः ।व्यामुष्यायणस्तु "क्रियाभ्युपगमात्त्वेतद्वीजार्थ यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव चे"ति मनुः । क्रियाभ्यु- पगमो नाम संविदंगीकरणाभिधानं । तस्मात् यदपत्यमत्र भविष्यति तदावयोरिति नियम्य एतत्क्षेत्रं स्वामिना बीजार्थं बीजवपनार्थ यदीजिने दीयते तस्यापत्यस्येह लोके बीजिक्षेत्रिक एव च बीजि- क्षेत्रिणावुभावपि भागिनौ स्वामिनौ दृष्टौ । ततश्चायं व्यामुष्यायणः क्षेत्रजः। एवं च मनुवचनादभिसंधिरेव व्यामुष्यायणले बीजमिति । तथा च व्यासादंबांऽबिकयोर्जनिती पांडुधृतराष्ट्री केवलक्षेत्रजपुत्रौ । व्यामुष्यायणगणे व्यामुष्यायणक्षेत्रजपुत्रा विश्वामित्रान्तर्भूतकतगणा- न्तर्गताः शौंगशैशिरादयः। "भरद्वाजेन शुंगेन विश्वामित्रस्य शैशिरे। क्षेत्रे जातो द्विगोत्रर्षिः प्रोच्यते शौंगशैशिरि"रित्युक्तेरिति । २६ अथ गूढजः "उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः। स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पज" इति गूढजपुत्रलक्षणं मनुः । यस्य गृहेऽवस्थितायां भार्यायां पुत्र उत्प- द्यते तज्जातीयोयं भवतीति ज्ञानेऽपि कस्मात्पुरुषाज्जातोऽसाविति न ज्ञायते । स गृहेऽप्रकाशमुत्पन्नस्तस्य पुत्रः स्याद्यदीयायां भार्यायां । + जात इति कुल्लूकभट्टाः । याज्ञवल्क्यः-"गृहे प्रच्छन्न उत्पन्नो गूढजः स सुतः स्मृत" इति । अयं च "न च ज्ञायेत कस्य स” इत्यनेन ज्ञानस्य कारणत्वोक्तेः कस्यायमिति ज्ञानाभावे केवलः। ज्ञाने तु ब्यामुष्यायणः । तथाहि-"गूढोत्पन्नो यदि ज्ञातस्तदा स्यात्तु द्वयोः सुतः । तत्रापि प्रायशो रेतःसेक्तुरेव सुतो भवेत्” इति । प्रायश इति बुधादौ तथा दर्शनादिति भावः । यदि न ज्ञानं तर्हि क्षेत्रपतेरेव सुतः प्रसिद्ध इति भावः। इति विबुधवल्लभनृसिंहवि- रचिते जातिविवेके। २७ अथ कानीनः । तथा च मनु:-"पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः। तं कानीनं वदेन्नान्ना वोदुः कानीनपुत्रलक्षणं कन्यासमुद्भवमि"ति । रहोऽप्रकाशं । वोदुः परि- णेतुः । शेषं स्पष्टम् । “कानीनः कन्यकाजातो मातामहसुतो मत" इति याज्ञवल्क्यः । वासिष्ठेऽपि “या पितुर्गृहेऽसंस्कृता कामादु- त्पादयेन्मातामहस्य स पुत्रो भवतीत्याहुः। अथाप्युदाहरति । अप्रत्ता दुहिता यस्य पुत्रं विन्दति तुल्यतः। पुत्री मातामहस्तेन पिण्ड दद्याद्धरेद्धनमि"ति । मनुना परिणेतुः पुत्रो भवतीत्युक्तं । याज्ञ- वल्क्यवसिष्ठाभ्यां मातामहस्य पुत्रो भवतीत्युक्तं । इत्युभयोरेक- वाक्यतालाघवायायं कानीनः पुत्रो व्यामुष्यायणोऽभ्युपेय इति । तथा व्यासः कर्णश्चोभावपि कानीनौ ब्यामुष्यायणौ च । व्यासादौ पाराशर्यत्वव्यवहाराचेति। २८ अथ पौनर्भवः । तथा च मनु:-"या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत्पुनर्भूत्वा स पौनर्भवपुत्रलक्षणं पौनर्भव उच्यत” इति । पुनर्भूला पुनर्भार्या KindnessSAACKinfininfriniministakesLAas awlishing । । यमुत्पादयेत्स उत्पादकस्य पौनर्भवः पुत्र उच्यत इति मन्वर्थमुक्ता- वल्यां । याज्ञवल्क्योऽपि "अक्षतायां क्षतायां वा जातः पौनर्भवः सुत” इति । स चायं पौनर्भवः पुत्रः केवल एवेति । पुनर्भूसंस्कार- स्त्वन्यत्र ज्ञेयः। २९ अथ क्रीतकः । तथोक्तं मनुना "क्रीणीयाद्यस्त्वपत्यार्थ मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य क्रीतकपुत्रलक्षणं सदृशोऽसदृशोऽपि वा” इति । सदृशोऽसहशोऽपि वैति । केतुर्गुणैस्तुल्यो हीनो वा भवेत् । न तत्र जातितः सादृश्य- वैसादृश्ये । "सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिरि"ति या- ज्ञवल्क्येन सर्वेषामेव पुत्राणां सजातीयत्वाभिधानात् । मानवेऽपि क्रीतव्यतिरिक्ताः सर्वे पुत्राः सजातीया बोद्धव्या इति कुलूकम- हाः । सदृशोऽसहशः सवर्णोऽधमवर्णोवेत्यर्थइतिसर्वज्ञनारायणः । सदृशोऽसदृश इति गुणवानगुणवान्नतु विजातीयः। "सजाती- येष्वयं प्रोक्तस्तनयेषु विधिर्मये"ति याज्ञवल्क्योक्तेरिति राघवानंदः । उपक्रमोपसंहारलिंगालोचनया राघवानंदोक्तिरेव वस्तुगतियुक्तेति भाति । याज्ञवल्क्योऽपि 'क्रीतश्च ताभ्यां विक्रीत" इति । अयं च क्रीतकः पुत्रः संवित्सत्त्वे ब्यामुष्यायणः । संविदभावे केवलः । तथा च ब्यामुध्यायणगणे-संस्कृतयः पूतिमाषाश्चांगिरसः सुताः। वासिष्टैः क्रयक्रीता इति केचित् । वसिष्ठपुत्रस्य शक्तेर्दत्तपुत्रा इत्यन्ये । इति निर्णयसिंधुटीकायां । ३० अथ सहोढः । तथा च मनु:-"या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती । वोदुः स गर्भो सहोढपुनलक्षणं भवति सहोढ इति चोच्यते” इति । ज्ञाता अज्ञातांवा गर्भिणीवेनेत्यर्थः । कन्यायां संस्क्रियमाणायां सत्यां तत्सहगर्भस्या- दत्त०२ १८ प्यनायासेन संस्कृतभवनात्सहोढ इति व्यवहारः । याज्ञवल्क्योऽपि "गर्भ विन्नः सहोढज” इति । वासिष्ठेऽपि "या गर्भिणी संस्क्रियते तस्यां जातः सहोढः पुत्रो भवती"ति । तथा चायं सहोढः पुत्रो द्विविधः । अज्ञातगर्भायाः परिणीतायाः पुत्रः केवलः सहोढः। ज्ञातगर्भायाः परिणीतायाः पुत्रो व्यामुष्यायणः सहोढः । तथाहि- "क्षेत्रजः पुत्रिकापुत्रः सहोढश्चेति ते त्रयः । व्यामुष्यायणतां यांति द्वयोरपि सुता मता" इति विबुधवल्लभनृसिंहविरचिते जातिविवेके द्वितीयपरिच्छेदे पुत्रत्वविचारे । ३१ अथापविद्धः। तथा च मनु:-"मातापितृभ्यामुत्सृष्टं तयो- रन्यतरेण वा । यं पुत्रं परिगृह्णीयादपविद्धः स अपविद्धपुत्रलक्षणं उच्यत” इति । बहुप्रजतया भरणासमर्थेनात्यन्त- दुर्गत्या केनचिद्वा दोषयोगेन मातापितृभक्तिहीनत्वादिना । न पुनः प्रत्यक्षत्वेन । तस्य न कचिदेव पुत्रकार्येऽधिकार इति दर्शितं । अन्य- त्वमप्यन्यतरेणोत्सर्गः । परिग्रहः पुत्रबुद्ध्या न तु तज्जीवितेच्छया इति मेधातिथिः । याज्ञवल्क्योऽपि "उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुत” इति । अयं च केवलः। मातापितृभ्यां त्यक्तत्वात्तस्यो- परि स्वत्वनिवृत्तरर्थसिद्धत्वादिति । कलिनिषिद्धा अपि पुत्रा वक्ष्य- माणशास्त्रीयविचारपरिस्फुटतायै वर्णिताः । । ३२ अथ दत्तकः । तथा च मनु:-"माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्तकपुत्रलक्षणं दत्रिमः सुतः” इति । माता भाङ्माने धातुः । माति गर्भोऽस्यामिति माता जनकस्रोत्वावच्छिन्ना यथा यज्ञदत्तस्य KEDARSIMARATHISROUTITIVATRA १९ न भवति .. मातेति। पिता पा रक्षणे धातुः । दौहदादिप्रदानेन यः पाति स पिता जनकपुंस्त्वावच्छिन्नो यथा यज्ञदत्तस्य पितेति । मातृत्वं-पितृत्वं च जन्यपुंस्त्वरूपपुत्रनिमित्तकं “शुक्रशोणितसंभवः पुरुषो मातापितृ- निमित्तक” इति वासिष्ठस्मरणात् । मात्रादिग्रहणं पालकाभ्यां पालि- तस्य दत्तकस्यान्यस्मै दानवारणार्थं । तेन दत्तकः दत्तकः पुनर्दत्तको पुनर्दत्तको न भवतीति । पितामहादेर्दातृत्वस्य वारणार्थं चेति निर्णयसिंधुटीकायां । वासिष्ठस्म- पितामहादेदातृ- रणमपि "शुक्रशोणितसंभवः पुरुषो मातापितृ- त्वापाकरणं निमित्तस्तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवत” इति। ततश्च मातापितरावेवौरसपुत्रदानेऽधिकारिणौ नान्यः कश्चनेति । वेति विभाषार्थो निपातः । मात्रभावे पितैव दद्यात् । पित्रभावे मातैव । उभयसत्त्वे तूभावपि । इति मदनव्यवहारम- यूखप्रभृतिषु । दद्यातां । दा दाने धातुः । विधौ लिङ् दानेनेष्टं भावयेतामित्यर्थः । दानं च स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दानमिति । यं उत्तरार्धगततत्पदप्रतिपाद्यतया वक्तबुद्धिविषयक- उद्देश्यो यत्पदार्थः । अद्भिः। विधिनोदकपूर्व दत्तमित्यर्थः । इदं वासिष्ठाद्युक्तविध्युपलक्षणं । तत्र बढचानां शौन- विधिविधानव्य- कोक्त एव विधिरिति निर्णयसिंधुटीकायां । तैत्ति- रीयाणां बौधायनोक्त एव विधिरिति दत्तकमीमां- सायां । पारिशेष्यादन्येषां वासिष्ठ एव विधिरिति पर्यवस्यति । शौनकीयवासिष्ठकल्पयोः शाखाभेदेन शक्ताशक्तभेदेन वा व्यव- स्थेति वीरमित्रोदये । इति विधिविधानव्यवस्था । पुत्रं । पुत्रा- मनरकात्रायमाणं । तथोक्तं मनुना-पुन्नानो नरकाद्यस्मात्रा- ।
। यत' इत्यादिना । अत्रायं विशेषः । दातुरेकपुत्रत्वे स न देयः । प्रतिग्रहीत्राऽपि स न गृहीतव्यः । “नत्वेक एकः पुत्रो न देयः पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वे- पामिति वासिष्ठात् । विज्ञानेश्वरोऽप्येवं । व्यामुष्यायणे तु। एकोऽपि पुत्रो दानप्रतिग्रहकर्मीभूतो भवति । “नत्वेकं पुत्रं दद्यात्न- तिगृह्णीयाद्वा स हि संतानाय पूर्वेषा"मिति वासिष्ठोक्तनिषेधस्तु नात्र प्रविशति । तस्य केवलदत्रिमे सावकाश- ब्यामुष्यायणे त्वात् । व्यामुष्यायणत्वेन पुत्रीकरणे "स हि त्वेकोऽपि देयः संतानाय सर्वेषा”मिति हेतुवाक्यबोधितस्य जन- कवंशोच्छेदस्याभावाच । केवलव्यामुष्यायणप्रकारस्त्वग्रे वक्ष्यते। तथा अनेकपुत्रसत्त्वे ज्येष्ठः पुत्रो देयः प्रतिगृहीतव्यश्च । ज्येष्ठ- दाने निषेधकताया अभावात् । ननु “ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणामनृणश्चैव स तस्मात्सर्व- ज्येष्टपुत्रोऽपि देयः महती"ति मानवीयेन वचसा ज्येष्ठो निषिध्यत इति चेन्न । मानवीयस्य "पुत्रीभवती” त्यनेन पुत्रित्वमात्रोक्त्या ऋणापाकरणोक्तिमात्रपरत्वाच । अतश्च "पितृ- णामनृणश्चैव स तस्मात्सर्वमहती”-त्युत्तरार्धं संगच्छते । सर्व द्रव्यमिति व्यवहारमयूखे । एतेन विद्यमानभ्रातृको ज्येष्ठपुत्रोऽपि दत्तको भवतीति फलितं ॥ पुत्रपदं चौरसपरं । तेन न दत्तका- दीनां पुत्रीकरणापत्तिः । इति-निर्णयसिंधुटीकायां ॥ आपदि । प्रतिग्रहीतुः पुत्राभावरूपायामापदीत्यपरार्कः । राघवानंदश्च । यद्वा दातुर्दुर्भिक्षादाविति राघवानंदो दत्तकमीमांसा च । आपगृहणा- दनापदि न देयः । आपन्निमित्तमात्रं । नचापदो निमित्तत्वेन तस्यां । । ।
। तददाने प्रत्यवायापत्तिः । एतद्वचनस्य संज्ञासंज्ञिसंबधमात्रबोधक- त्वेन दानाबोधकत्वादिति- व्यवहारमयूखे निर्णयसिंधुटीकायां च । सदृशं । प्रतिगृहीतुः समानजातीयं । यत्तु गुणैः सदृशं । ततश्च ब्राह्म- णादेःक्षत्रियादिरपि दत्तको भवती"ति मेधातिथिः प्राह तन्न । याज्ञ- वल्क्येन "औरसो धर्मपत्नीज” इति द्वादशपुत्रानुपक्रम्य "सजाती- येष्वयं प्रोक्तस्तनयेषु मया विधिरि" त्युपसंहारात् । विज्ञानेश्वरोप्येव- मिति व्यवहारमयूखे । तथाच सजातीय एव दत्रिमो भवतीति सिद्ध । प्रीतिसंयुक्तं । इदं देयपुत्रविशेषणं । न बलोपाधिकृतमिति राघवा- नंदः । "विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः । दाराः पुत्रा- श्चेति वचना"दिति निर्णयसिंधुटीकायां । सः । पूर्वदलगतयत्पद- प्रतिपाद्यतया वक्तृबुद्धिविषयको विधेयस्तत्पदार्थः । ज्ञेयः । ज्ञानवि- पयः करणीयः । दत्रिमः । दा दाने धातुः । भावार्थे डितक्रिरिति क्रिः प्रत्ययः। ततः केर्मम् नित्यमिति निवृत्त्यर्थे मम्प्रत्ययः । तेनाय- मर्थः । दानेन जनकगोत्रानिवृत्तोऽपि जनकगोत्रसंबंधकार्यमानेऽपि निवृत्त इति दत्रिमशब्दार्थः । मयूखकारप्रभृतिविदुषां दानप्रतिग्रह- संकल्पोल्लेखोऽपि दत्रिमशब्दार्थानुसार्येव । अस्मदादीनामस्य च पुत्रस्य परस्परं वर्तमानपितृपुत्रादितत्तत्संबंधनिमित्तकतत्तत्कार्य- निवृत्तये प्रतिगृहीत्रादीनामस्य च परस्परं पितृपुत्रादितत्तत्संबंध- निमित्तकतत्तत्कार्यप्रवृत्तये पुत्रदानं करिष्ये इति दातुरुल्लेखः । गृहीष्यमाणपुत्रस्य तज्जनकादीनां च परस्परं वर्तमानपितृपुत्रादि- तत्तत्संबंधनिमित्तकतत्तत्कार्यनिवृत्तये अस्मदादीनामस्य च पुत्रस्य परस्परं पितृपुत्रादितत्तत्संबंधनिमित्तकतत्तत्कार्यप्रवृत्तये च पुत्रं प्रतिग्रहीष्ये इति प्रतिग्रहीतुरुल्लेखः । सुतः । पुंस्त्वविशिष्टापत्यं ।
२२ कन्यादत्तका न भवति पुत्रः। "क्षेत्रजादीन् सुतानेतानिति” मनुना दत्तकस्य क्रियालोप- भयेन औरसप्रतिनिधित्वोक्तेरौरस इव तत्प्रतिनिधिष्वपि पुंस्त्वविव- क्षाया आवश्यकत्वात् । अन्यथा औरसेऽपि पुंस्त्वाविवक्षणापत्त्या औरसाभावे कन्यायाश्च दत्तकादिभ्यः प्रथममौ- र्ध्वदेहिकाधिकारप्रसंगेन बहुव्याकोपः स्या- दिति । ततश्च पुंस्त्वविशिष्टापत्यपुत्रलाभात्क्लीबा- पत्यमिव ख्यपत्यं कन्या दत्रिमा न भवत्येवेति । अत्र क्लीबमित्यंग- हीनानामुपलक्षणं । तेषामप्यद्रव्यत्वात् । व्यवहारमयूखे निर्ण- यसिंधुटीकायामप्येवं । इतिहासपुराणादौ कुंत्या दत्तकोक्तिस्तु विधि विनैव । “आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकां । धर्येण विधिना दानमसगोत्रेऽपि युज्यते” इति । अत्र सुवर्णशब्दस्य प्रलो- भनोपायपरत्वात् । ऋष्युक्तमेव कर्तव्यं न तु तत्कृतमाचरेदिति न्या- याच्च दत्रिमे पुत्रत्वं प्रतिग्रहहोमसंस्कारजन्यादृष्टजन्यमेव । नत्वौ- रसवजन्यपुंस्त्वरूपं । तथाच वीरमित्रोदयादौ । दन्त्रिमे पुत्रत्वं तु न दत्रिमे स्त्रीपुरुषसंबंधजन्यपुत्रत्ववल्लौकिक शास्सैकगम्यमेव पुत्रत्वं । किंतु शास्त्रैकसमधिगम्यहोमसंस्कारा- दिजन्यत्वेन भार्यात्वादिवदलौकिकसंस्कारविशेषपर्यवसन्नं तत् । यथा प्रतिग्रहादिना स्वत्वास्पदीभूतायां योषिति पाणिग्रहणादिना भार्यात्वं । तथा प्रकृतेऽपि प्रतिग्रहादिना स्वीकृते बाले होमसंस्कारा- दिभिः पुत्रत्वं । तथाच होमसंस्काराद्यभावे न पुत्रत्वमिति वीरमि- जोदये । दत्तके तु "पुत्र प्रतिग्रहीष्यन्नित्यादि” पुत्रप्रतिग्रहविधौ पुत्रमिति द्वितीयावशात् पुत्रस्य भाव्यत्वेन जन्यपुंस्त्वरूपपुत्रत्वस्य भाव्यत्वासंभवाददृष्टं भाव्यमंगीकार्य । तदेव च श्राद्धादिसकलपुत्र- २३ कार्यप्रयोजक । तथा दत्रिमे पितृश्राद्धाद्यधिकारित्वावच्छेदकमदृष्ट- मेव । औरसे तु जन्यपुंस्त्वमेवेति प्रसिद्धमिति निर्णयसिंधुटीकायां । ३३ याज्ञवल्क्योऽपि । “दद्यान्माता पिता वा यं स पुत्रो दत्रिमः स्मृतः” इति । वासिष्ठेऽपि । “दत्तको द्वितीयो यं मातापितरौ दद्याता" मिति । अयं च दत्तकपुत्रः केवलो व्यामुष्यायणश्च । उभयविधशास्त्रात्। दत्तकपुत्रो तथाहि । तत्रोभयोरावयोरसौ पुत्र इति संविदं द्विविधः विना यो दीयते स केवलः । केवलोऽव्यामुध्या- यणःशुद्धः एकगोत्रः इति चानांतरं । यस्तु संविदा दीयते स व्यामु. ध्यायणः । द्विगोत्र इति च नार्थातरं । अमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । पुत्रवचनोयमामुष्यायणशब्दः । शक्तिस्वभावात् । द्वयोरामुध्यायणो व्यामुष्यायण इति तदर्थः। एवंविधस्वार्थस्यान्यथा- नुपपत्त्या उभयोरावयोरसौ पुत्र इत्यर्थसिद्ध्या संविदा पुत्रीकृतानेव दत्तकादीन् ब्यामुध्यायणशब्दोऽभिधत्ते । ब्यामुध्यायणत्वे निमित्तं तु संविदेव । तथाच "अपुत्रेण परक्षेत्रे” इत्यत्र मिताक्षरायां यथोक्तं मनुना । "क्रियाभ्युपगमात् क्षेत्रं बीजार्थं यत्प्रदीयते। तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव चे"ति । क्रियाभ्युपगमादित्यत्रोत्पन्नमपत्य- मावयोरुभयोरपि भवत्विति संविदंगीकरणादिति । तत्रैव तदने । "फलं त्वनभिसंधाय क्षेत्रिणा बीजिना तथा । प्रत्यक्षं क्षेत्रिणामों बीजाद्योनिबलीयसी"ति । फलं त्वनभिसंधायेति । अत्रोत्पन्नमपत्य- मावयोरुभयोरस्त्वित्येवमनभिसंधायेति विज्ञानेश्वरेणोक्तत्वात् । प्रति- ग्रही तु ब्यामुष्यायणज्ञानार्थत्वेन दृष्टार्थत्वादिति व्यवहारमयूरे भट्टनीलकंठोक्तेश्च । तुल्यन्यायान्महर्षिकात्यायनलौगाक्षिसूत्रयोरपि । "अथ ये दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेण ब्यारेया जातास्ते ।
२४ ज्यामुष्यायणा भवंती”त्यत्र परिग्रहशब्दार्थो ब्यामुष्यायणोपक्रमात् उभयोरावयोरसौ पुत्र इति संविदंगीकरणमिति । तत्र केवले प्रमाणं मनुवचनं । पुरुषार्थचिंतामणौ संस्कारकांडे । अव्यामुष्यायणदत्तक- सिद्धौ किं मानमिति चेदुच्यते । “एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनं श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमहती” त्यग्रिमवाक्येनैवौरसाभावे दत्तकादीनां रिक्थसंबंधे सिद्धे औरसपुत्रे सत्यपि विद्याविनयादि- गुणयुक्तस्य निवृत्तजनकगोत्रस्य संप्राप्तप्रतिग्रहीतगोत्रस्य रिक्थहारि- त्वविधायकस्य प्राक्पठितस्य “उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दुत्रिमः । स हरेतैव तद्रिक्थं संप्राप्तोप्यन्यगोत्रत” इति मनुवचन- स्यैव प्रमाणत्वात् । अध्यामुष्यायणदत्तकास्वीकारे एतद्वैयर्थ्यस्य स्पष्टत्वादिति । यद्यपि केवलदत्तकः कापि शब्देन नोक्तः । तथापि पूर्वोक्तमनुवचनेन जनकादीनां संबंधमात्रनिवृत्तेरुक्तत्वात् व्यामुष्या- यणे तदभावोऽर्थात्सिद्ध्यत्येव । अपिच प्रवराध्याये । 'व्यामुष्या- यणका ये स्युर्दत्तकक्रीतकादयः । गोत्रद्वयेप्यनुद्वाह्याः शौंगशैशिरयो यथा" इत्यनेन गोत्रद्वयमपि व्यामुष्यायणस्योक्तं । मानवीयेन च जनकगोत्रनिवृत्तिरुक्तैवेति । अयं च विरोधः केवलव्यामुष्यायण- भेदेनैव परिहरणीयः । तेन सिद्ध्यत्येव केवलोऽपि दत्तक इति ठयवहारमयूखे । ब्यामुष्यायणे प्रमाणं महर्षिः कात्यायनो लौगाक्षिश्च । "अथ ये दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेण व्यार्षेया जातास्ते ब्यामुष्यायणा भवंति । यथैतत् । शौंगशैशिरीणां भरद्वाजो...नां लौगाक्षीणां च । यानि चान्यान्येवं समुत्पत्तीनि कुलानि भवंती"ति ॥ व्यायाः। ऋषिः प्रवरः। द्वयोजनकपालकयोः पित्रोः प्रवरसंबंधिन । । 1 २५ । । इत्यर्थः । निर्णयसिंधुटीकायां तु निर्णयसिंधुकारधृत "अनाया" इति पाठमाहत्य ऋषिः प्रवरः । जनकप्रवरगोत्रहीना इति यावत् । व्यार्षया इति पाठो युक्त इति व्याख्यातं । अत्र केषांचित्पंडितंमन्या- नामयमाशयः । केवलदत्रिमस्त्वविधानान्नास्त्येव । आवयोरसाविति संविदश्च विधानाभावात् । तां विना गृहीतोऽपि ब्यामुध्यायण एवेति । तद्विषये विशिष्टतया व्यवहारमयूखे निर्णयः कृतोऽस्ति । स यथा । दत्तकस्तु द्विविधः । केवलो ब्यामुष्यायणश्च । तत्र संविदं विना दत्त आद्यः । आवयोरसाविति संविदा दत्तस्त्वंत्य इति । तत्रैवाने । केचित्तु केवलदत्तकस्याविधानात् स नास्त्येव । आवयोर- साविति संविदश्च विधानाभावात्तां विना गृहीतोऽपि व्यामुष्यायण एवेत्याहुः । तचिंत्यं । इत्यादितत्तत एव विज्ञेयं जिज्ञासुभिः । नेह विस्तरभियोद्धृतं । एवंसिद्धे केवले व्यामुष्यायणे चावयोरसाविति संविदपि सिध्यति । व्यवहारमयूखे केवलव्यामुष्यायणदत्तकयो- दीनप्रतिग्रहसंकल्पावपि निबंद्धृभिस्तत्तच्छब्दानुसारिणावेवाभिहितौ। तत्र केवलदत्तकस्य त्वनुपदमेवोक्तः । व्यामुष्यायणदत्तकस्य तु निर्णयसिंधुटीकायामुद्धृतः । स यथा । अस्मदादीनामस्य च पुत्रस्य परस्परं पितृपुत्रभावादिसंबंधसत्त्वेऽपि अस्य प्रतिग्रहीतुश्च परस्पर पितृपुत्रभावादिसंबंधसिद्धये इमं पुत्रं दास्यामीति दातुरुल्लेखः। एवं । अस्य पुत्रस्य जनकादीनां च परस्परं पितृपुत्रभावादिसंबंधसत्त्वेऽपि अस्य पुत्रस्य अस्मदादीनां च परस्परं पितृपुत्रभावादिसंबंधसिध्यर्थ- मिमं पुत्रं प्रतिग्रहीष्ये इति प्रतिग्रहीतुरुल्लेख इति । ततश्चायं दत्तक- पुत्रः केवलो व्यामुष्यायणश्चेति फलितं ॥ ३४ अथ कृत्रिमः । तथाच मनुः । “सदृशं तु प्रकुर्याधं गुण- । दोषविचक्षणं । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिम" इति । तु पुनः। यं पुत्रं । सदृशं समानजातीयं । गुणदो- कृत्रिमपुत्रलक्षणं षविचक्षणं । पारलौकिकश्राद्धादिकरणाकरणाभ्यां गुणदोषौ भवत इत्येवमादिशं । पुत्रगुणैश्च युक्तं । मातापित्रोरारा- धनादिगुणयुक्तं । पुत्रं कुर्यात् । स कृत्रिमाख्यः पुत्रो वाच्य इति कुल्लूकभट्टाः । इदमत्र विवेक्तव्यं । जीवन्मातापितृको न कृत्रिम- पुत्रो भवितुमर्हति पराधीनत्वात् । ननु ताभ्यां दत्ते सति तु भवेदह इति चेन्न । स दत्तको भवतीति धर्मशास्त्रप्रसिद्धेः । ततश्च प्रमीत- मातापितृक एव कृत्रिमपुत्रो भवितुं योग्यः। अतएव याज्ञवल्कीयं । "कृत्रिमः स्यात्स्वयंकृत” इति कृत्रिमपुत्रलक्षणं । कृत्रिमस्तु स्वयं पुत्रार्थिना धनक्षेत्रादिप्रदर्शनादिप्रलोभनैः पुत्रीकृतो मातापितृ- विहीनः । तत्सद्भावे परतंत्रत्वान्न पुत्रीकरणं भवतीति व्याकृत्य विज्ञानेश्वरेणापि एषोऽर्थः सममानि । अयमपि कृत्रिमपुत्रः केवलो व्यामुष्यायणश्च । संविदभावे केवलः। संवित्सत्त्वे तु व्यामुष्यायणः। संविचात्र स्वकर्तृका। तस्या दृष्टार्थत्वेन शक्नोति च स्वयं संविदं कर्तुमिति भावः ॥ ३५ अथ खयंदत्तः । तथाच मनुः । “मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्मै स्वयंदत्तस्तु स स्मृत" इति । अकारणात्पातित्यादित्यागकारणेष्व- स्वयंदत्तपुत्रलक्षणं सत्सु । स्पर्शयेद्दद्यात् । तच्चोदकपूर्वमत्र । कृत्रिमे तु तेन परिग्रहमानं । अस्य सांतत्येनेति विशेषः । इति सर्वज्ञ- नारायणः । याज्ञवल्क्योऽपि । "स्वयंदत्तात्मा तु स्वयंदत्तः" इति । वासिष्टेऽपि । स्वयमुपागतश्चतुर्थस्तच्छुनःशेपेन व्याख्यात” मित्या- दीनि । अयमपि स्वयंदत्तपुत्रः केवलो व्यामुष्यायणश्च । संविदभावे SMARHMIRE २७ स्वयंदत्तात्मा केवलः । दत्तकवदत्रापि निरुपाधिकदानस्य समान- त्वात् । विशेषानवगमाच । संविदा स्वयंदत्तात्मा तु ब्यामुष्यायणः । यद्ययं स्वदाने स्वयं समर्थों भवति तर्हि संविदं कर्तुं समर्थो भवे- देवेति न कश्चन दोषः । प्रागप्युक्तं । स्वकर्तृका संवित्संभवतीति । तथाच । यामुष्यायणगणे देवरातादयः स्वयंदत्ता इति । ३६ अथ कलावभ्यननुज्ञातानां पुत्रप्रतिनिधीनां याज्ञवल्कीय- क्रमानुगं केवलढ्यामुष्यायणादिभेदप्रदर्शक कोष्टकम् अनुक्र- निश्चितक्र. मांकाः नामानि. केवलाः मांकाः ब्यामुष्या- यणाः पुत्रिकापुत्रः २ क्षेजत्रः ३ गूढजः कानीनः पौनर्भवः ६ क्रीतकः सहोढजः अपविद्धः o ६ ६ अथ कलावभ्यनुज्ञातानां पुत्रतत्प्रतिनिधीनां च याज्ञवल्कीयक्र- मानुगं केवलव्यामुष्यायणादिभेदप्रदर्शक (२) कोष्टकम् अनुक्र मांकाः निश्चितक- मांकाः नामानि. केवलाः ब्यामुष्या- यणाः औरसः मुख्यः दत्तकः कृत्रिमः स्वयंदत्तः २ ० ३ । ३७ एतच्च पुत्रीकरणं सजातीयेष्वेव करणीयं । यद्यपि तत्तल्लक्ष- णव्याख्यानावसरे कैश्चिट्टीकाकृद्भिः सदृशादि- पुत्रप्रतिनिधयः सजातीया एव। शब्दा गुणपरतया व्याख्याय अन्यजातीया अपि पुत्रप्रतिनिधयो भवंतीयापातत उक्तं । तथापि तत्सर्वमनादृत्य सजातीया एव पुत्रप्रतिनिधयो भवंतीति नियमो- ऽभ्युपेयः । "सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधि"रिति योगी- श्वरेण विशेषविधानात् । ३८ ते च त्रिमादयः कीदृशा ग्राह्या अग्राह्याश्चेति जिज्ञा- सायां । “सदृशः प्रतिनिधिः"रिति षाष्ठन्यायात्सदृशा एवं । ।
२९ तच सादृश्यं पुत्रकल्पलतायामभिहित। दत्रिमादीनां प्रा- गाग्राह्यजिज्ञासा: “न्यूनवयस्त्वे सति पूज्यत्वप्रयोजकसापिंड्यसंबं. तत्रादौ साह धानाश्रयत्वस्वरूप”मिति । पित्रपेक्षया पुत्रो न्यून- श्यलक्षणं । वयाः पूज्यत्वप्रयोजकसापिंड्यसंबंधानाश्रयश्च । तथा प्रतिग्रहीनपेक्षया प्रतिग्राह्यो भ्रातृपुत्रसपिंडसगोत्रादिः पुत्रो वा न्यूनवयाः पूज्यत्वप्रयोजकसापिंड्यसंबंधानाश्रयश्चेति भवति लक्षणसमन्वयः। पूज्यत्वप्रयोजकसापिंड्यसंबंधानाश्रयाणामपि अधिकवयसां भ्रातृपुत्रादीनां निरासाय सत्यंतं दुलं । न्यूनवय- सामपि पितृव्यत्वमातुलवादिना पूज्यत्वप्रयोजकसापिंड्यसंबंधवतां पितृव्यमातुलादीनां निरासाय विशेष्यं दलमिति बोध्यमिति शास्त्रीय- मेवेदं पुत्रलक्षणं । “पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिम"इति कृत्रि- मपुत्रप्रतिनिधिलक्षणविधायके मनुवचने पुत्रपदस्य पुत्रगुणैर्युक्तमिति विशेषणोपादानात् । पुत्रगुणाः पित्रोराराधनादयः । कुल्लूकभट्टप्रभृ- तिभिरित्थमेव व्याकृतत्वात् । न्यूनवयस्कत्वं त्वर्थसिद्धमेवेति । यत्तु दत्तकमीमांसायां नंदपंडितोक्तं । “नियोगादिना स्वयमु- त्पादनयोग्यत्वं पुत्रसादृश्यलक्षणं" । अत्रादिना विवाहयोग्यत्वमिति च । एतद्धि लक्षणं शास्त्रासंमतं । तथाहि । परस्त्रियां पुत्रोत्पाद- नार्थं गुर्वनुज्ञानियोगशब्दार्थः क्षेत्रजपुत्रे शास्त्रप्रसिद्धः । पाणिगृ- हीत्यां पुत्रोत्पादनार्थ तु न तथा । ततश्च वैसादृश्येन पुत्रसादृश्या- संभव एव । नच नियोगादिनेत्यत्रादिपदेन ऋतौ भार्यामुपेया"दि- त्यस्य विधेर्मीमांसकर्नियमविध्यंगीकारेण चोदनाया असंभवात् । किंच । स्त्रियां स्त्रिया नियोगस्य विवाहयोग्यत्वस्य प्रतिषिद्धरतियो- । ।
३० - । गस्य वा असंभवात् स्त्रीकर्तृकपुत्रप्रतिग्रहस्याशास्त्रीयत्वं प्रसज्येत । नचेष्टापत्तिः । सधवानां स्त्रीणां भत्रनुज्ञया विधवानां तां विनाऽपि पुत्रकर्मकदाने प्रतिग्रहे चाधिकारस्य शास्त्रसिद्धत्वात् । ननु भत्रनु- ज्ञया स्त्रीणां यः पुत्रप्रतिग्रहाधिकारः स भत्रनुज्ञामूलकत्वेन भर्नर्थ एव । न स्वार्थ । अतो विवाहादिना रतियोगोऽवश्यं वाच्य इति चेन्न । "सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनु"रिति मनुना स्त्रीणामपि क्रियालोपभया- स्वातंत्र्येण सपत्नीपुत्रस्य पुत्रीकरणाभ्यनुज्ञानात् । अन्यथा सप- बीपुत्रस्य स्वभर्तुरपि पुत्रत्वेन तत्पुत्रीकरणाभ्यनुज्ञावचनस्य वैयर्थ्या- पत्तेश्चेति । अत एव भट्टरामकृष्णैर्जीवत्पितृकनिर्णये सप- समातरि व्यपेतायां सपत्नीपुत्रस्य द्वादशविधपुत्राभावे अंत्येष्टिक्रि- याकरणे अधिकारमात्रमुक्तं । न क्षौरादिकं । अत एव च सर्वे निबं- धारः सपत्नमातुरतिक्रांताशौचं त्रिरात्रमेव जगुर्न जननीवदशरा- त्रमिति दिक् । विस्तरस्तु शुक्लयजुर्वेदीयकर्मकांडप्रदीपे बोध्यः। अत्रेदमवश्यं ध्येयं । इदं हि लक्षणं दत्तककृत्रिम- खयंदनपुत्रान् लक्ष्यीकरोति । नेतरान् । तेषूत्पत्तेर्विद्यमानत्वात् । तेन तद्विषये ग्राह्याग्राह्यविचारानवसरः । ३९ तत्र वर्णकांतरमाह । “ब्राह्मणानां सपिंडेषु कर्तव्यः पुत्रसंग्रहः । तदभावेऽसपिंडो वा अन्यत्र तु न ग्राह्याग्राह्यवि. कारये"दिति शौनकीये"सपिंडेष्वि"ति सा- मान्यश्रवणे "उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः । स हरेतैव वद्रिक्थं संप्राप्तोप्यन्यगोत्रतः। गोत्ररिक्थे जनयितुर्न भजेद्दत्रिमः सुतः । गोत्ररिक्थानुगः पिंडो व्यपैति वेचनं । ।
दतः स्वधा"इति मनुवचनाभ्यां सगोत्रासगोत्रसपिंडासपिंडबोध. नात् । द्विविधाः सपिंडाः सगोत्रा भिन्नगोत्राश्च क्रमेण सप्तपंचपु- रुषावधिकाः । तत्र सगोत्रतया वल्पपुरुषांतरतया च प्रथमं सगो- सपिंडेषु पुत्रप्रतिनिधिः कार्यः । “अदूरबांधवं संप्रति गृह्णीया"- दिति वासिष्ठात् । अदूरश्चासौ बांधवश्चेत्यदूरबांधवः । सन्निकृष्टः सपिंड इति तदर्थात् । तदभावे असगोत्रोऽपि सपिंड एव । नत्व- सपिंडः समानगोत्रः । गोत्रप्रवर्तकपुरुषापेक्षया सापिंड्यावर्तकपु- रुषस्य प्रत्यासन्नतरत्वात् । शौनकेनापि सगोत्रासगोत्रसाधारण्येन सपिंडेषु पुत्रकर्तव्यतोक्त्यनंतरं "तदभावेऽसपिंडो वे"ति सगोत्रा- सगोत्रसपिंडेषु पुत्रकर्तव्यतोक्तेः । ततोऽप्यसगोत्रसपिंडाभावे सपिं- डोपि समानगोत्र एव । सोदक इति यावत् । समानगोत्रतयैव प्रत्यासन्नत्वात् । तथाच वसिष्ठः । "बंधुसन्निकृष्टमेव संप्रतिगृह्णी- यात्" इति । भिन्नगोत्रसपिंडस्याभावे बंधुसन्निकृष्टः । बंधूनां सपि- डानां सनिकृष्टः सपिंडः।स्वस्यासपिंडः सोदक इत्यर्थात्पर्यवस्यति । सोदकाभावे चतुर्दशादूर्ध्वमैकविंशात्सगोत्रः । समानगोत्रत्वेन सन्नि- कृष्टत्वात् । तदभावे भिन्नगोत्रोपीति । तथाच वसिष्ठः। 'संदेहे चोत्पन्ने दूरे बांधवं शूदमिव स्थापयेदि"ति। दूरे बांधवा यस्यासौ दूर- बांधवः गोत्रसापिंड्याभ्यामसन्निहितमित्यर्थः। संदेहोऽत्र कुलशीला- दिविषयः। स चासपिंडेऽसगोत्रे च भवतीति सोप्यनुज्ञायत इति । "अन्यत्र तु न कारयेदिति । अन्यत्र जात्यंतरे न कुर्यादित्यर्थः । ४० तत्रापि भूयसां सपिंडानां समवाये को प्राह्य इति जिज्ञा- भूयसां समवाये सायां सति भ्रातपुत्रे प्रथमं स एव ग्राह्यः । तथाच मनुः । “भ्रातृणामेकजातानामेक श्चेत्पु- नमः।
त्रवान् भवेत् । सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीदि"ति । नन्व- नेन वचनेनाकृतस्यैव भ्रातृपुत्रस्यानपत्यपितृव्यपुत्रत्वं विधीयत इति- चेन्न। अस्य त्रयोदशत्वापत्त्या "पुत्रान्द्वादश यानाह नृणां स्वायंभुवो मनुरि"ति द्वादशत्वोक्तेरसंगत्यापत्तेः । किंच । पुत्रीकरणं विना भ्रातृपुत्रस्य पुत्रत्वे इतरपुत्रवदस्यापि पत्न्यादिभ्यः पूर्वमेवाप्रति- हतो दायग्रहणाधिकारः प्रसज्येत । ततश्चापुत्रदायग्रहणाधिकारिक- क्रमविधायके पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुता गोत्र- जा"इति योगीश्वरवचने भ्रात्रनंतरं भ्रातृसुतानां निवेशोऽसं- गतः स्यात् । तस्मादिदं वचनं भ्रातृपुत्रस्य पुत्रीकरणसंभवेऽन्यः पुत्रप्रतिनिधिर्न कार्य इति निषेधतात्पर्यकमेव । कुल्लूकभट्टप्रभृतिरपीदं वचनमित्थमेव व्याकृतं । मिताक्षरायां विज्ञानेश्वरेणापि । ''भ्रातृणामेकजातानामि"त्येतद्वचनं भ्रातृपुत्रस्य पुत्रीकरणसंभवे अन्येषां पुत्रीकरणनिषेधार्थं । न पुनः पुत्रत्वप्रतिपादनाय । “तत्सुता गोत्रजा" इत्यनेन विरोधादित्येवं व्याकृतं । तदभावे सापत्नभ्रात्पु- त्रः। भ्रातृणामित्यस्यैकजातानामितिविशेषणाक्रांतत्वात् । एकजाताना भिन्नोदराणामेकपितृकानामपि । सपिंडांतरलाभसत्त्वे अन्यपुत्रवार- णार्थ । न तु सर्वथा भिन्नोदरभ्रातूपुत्रस्याग्राह्यत्वार्थ । तन्निषेधस्यानु- पलंभात् । तथाचात्रैकजनितानां सपत्नानामपीति सर्वज्ञनारायणो व्याऽख्यत् । तथा अपुत्रसपत्न्याः सति सपत्नीपुत्रे अन्यः पुत्रप्रति- निधिर्न कार्यः। किंतु सपत्नीपुत्र एव । यथा । “भ्रातृणामे- कजातानामि"तीदं वचनं भ्रातृ पुत्रस्य पुत्रीकरणसंभवे अन्यः पुत्रः प्रतिनिधिने कार्य इति निषेधतात्पर्यकं । तद्वदेवेदं । सर्वासामेक- पत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवती- । ।
। मनुरिति मानवं वचः सपत्नीपुत्रस्य पुत्रीकरणसंभवे अन्यः पुत्रः प्रतिनिधिर्न कार्य इति निषेधतात्पर्यकमेव । तदभावे कनिष्ठो भ्राता पुत्रसहशत्वात् । तथाहि । भ्रातरोऽपि न सर्वे परस्परं पुत्रत्वबुद्ध्यनर्हाः । किंतु । पूज्यत्वप्रयोजकसापिंड्य- संबंधवान् ज्येष्ठ एव । कनिष्ठस्तु भ्राता ज्येष्ठभ्रात्रपेक्षया न्यून- वयाः पूज्यत्वप्रयोजकसापिंड्यसंबधानाश्रयश्चेति पुत्रसदृशत्वाद्भवति पुत्रत्वबुद्ध्यर्हः । तथाच मर्यते । "पितेव पालयेत्पुत्रान् ज्येष्ठो भ्रातॄन् यवीयसः । पुत्रवञ्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मत" इति । अत्र पितेवेति पुत्रवदिति च वदन् मनुज्येष्ठे भ्रातरि पितृसा- दृश्यं कनिष्ठे पुत्रसादृश्यं स्पष्टमेवाभिहितवान् । ततश्च ज्येष्ठस्य भ्रातुः कनिष्ठो भ्राता पुत्रप्रतिनिधित्वेन ग्राह्यो भवतीति सिद्धं । अत्रायं विवेकः । यदि मातापितृविहीनः कनीयान् भ्राता तदा निज- ज्यायसो भ्रातुः स्वयंदत्तः कृत्रिमो वा पुत्रो भवितुमर्हति । दत्रिमः पुत्रो भवितुं नार्हति दानकर्तुरभावात् । यदा तु जीवन्मातापितृकस्तदा पितृव्यादेर्दत्तकपुत्रीभूताय निजसोदरज्येष्टभ्रात्रे जनकेन जनन्या वा पुत्रत्वेन दत्तः सन् दत्रिमपुत्रो भवितुमर्हति । तत्राप्येवं ध्येयं । पित्रोर्जीवतोः सतोः पितृव्यादेरदत्रिमभूतस्य निजसोदरज्येष्टभ्रातुः कनिष्ठो भ्राता न दत्तको भवति । पालनसमर्थयोर्जनकपित्रोर्जीव- मानत्वेन ज्येष्ठभ्रातरि पालयितृत्वाभावेन पितृसादृश्याभावात् कनि- ठभ्रातरि पालनीयत्वाभावेन पुत्रसादृश्याभावात् इति । तदभावे कनिष्ठः सापत्नभ्राता । उक्तहेतुत्वात् । तदभावे पितृव्यपुत्रादयः सप्तपुरुषावधिकाः सपिंडाः । सगोत्रसपिंडाभावे भिन्नगोत्राः स. पिंडाः । तेषु पुत्रसादृश्यलक्षणावच्छिन्नत्वात् । दौहित्रो भागिनेयः दत्त०३ ३४ । । । कनीयानात्ममातुलबंधुः आत्मपितृष्वसृबंधुः आत्ममातृष्वसृबंधु- नवबंधूनां पुत्रादयश्चैते सापिंड्यसन्निकर्षक्रमेण ग्राह्याः। ननु "दौ- हित्रो भागिनेयश्च शूद्राणां विहितः सुतः । ब्राह्मणादित्रये नास्ति भागिनेयः सुतः कचित्” इति "दौहित्रो भागिनेयश्च शूद्रस्यापि च दीयते” इति च शौनकः। तथा स्वगोत्रजसुतालाभे पालयेद्न्य- गोत्रजं । दौहित्रं भागिनेयं च मातृष्वसृसुतं विना । दौहित्रं भागि- नेयं च शूद्राणां च पतिर्यदि । इति शाकलः । तथा ब्राह्मणा- दित्रये नास्ति भागिनेयः सुतः क्वचित् । दौहित्रो भागिनेयश्च शूद्रैस्तु क्रियते सुतः । इति वृद्धगौतमः । इति शौनकशाकलवृद्धगौतमा- दिवचोभ्यो दौहित्रभागिनेयमातृष्वसृसुता दत्रिमा न भवेयुरिति चेन्न । एषां वचसां याज्ञवल्क्यस्मृति, मिताक्षरा, अपरार्क, मनु- स्मृति, तद्व्याख्यात मेधातिथि, गोविंदराज, सर्वज्ञनारायण, राघ- वानंद, नंदन, रामचंद्र, कुल्लूकभट्ट, निर्णयसिंधु, धर्मनौका, शूद्र- कमलाकरादिप्राचीनार्वाचीनप्रामाणिकनिबंधेष्वनुल्लेखेन केनचिदा- धुनिकेन प्रक्षिप्तानीत्यतोऽनाकरत्वेनाप्रामाण्यात् । किंच । निर्णय- सिंधौ दत्तकविषयकसापिंड्यप्रकरणे बृहन्मानवीयवृद्धगौतमीय- वासिष्टनारदीयवचसामनाकरत्वं "वस्तुतस्त्वित्यादिना पूर्ववचसां म- हानिबंधेषु काप्यनुपलंभात् । अपरार्कादिलेखनाभावात् पूर्वोक्त- व्यवस्थायाश्च प्रातिभज्ञानतुल्यत्वाद्यैरेतल्लिखितं तत्तेषामेव शोभत इत्यंतेन ग्रंथेन प्रदर्शितं । व्यवहारमयूखे पुरुषार्थचिं- तामणौ चापि दत्तकप्रकरणे वृद्धगौतमादिवचसामनाकरत्व- मेव प्रदर्शितं । शौनकशाकलवचसोरपि वृद्धगौतमीयसमानार्थतया तुल्यकक्षीयत्वादनाकरत्वं स्पष्टमेवेति । अन्यच्च शौनकनाना ।
प्रसिद्धानां कारिकाणामनार्षत्वात् । तथाहि शौनकीयत्वेन लिखितं वाक्यं तु शौनकसूत्रातिरिक्तोऽपपाठः । श्लोकरूपायाः स्मृतेर- भावेन मानुषकारिकारूपमेतत् वृत्त्यादिमूलकमेवेति स्पष्टमाश्व- लायनगृह्यस्य गाणेश्यां वृत्तौ ॥ ननु कौस्तुभदत्तकमीमांसादा- वेषां वचसामुद्धृतत्वादेव प्रामाणिकत्वेन दौहित्रभागिनेयौ दत्रिमौ न भवत इति चेन्न । धर्मद्वैतनिर्णये पुत्रपरिग्रहविधिसंश- योद्भेदपरिच्छेदे पदवाक्यप्रमाणपारावारपारीणभट्टशंकरैः । व्य- वहारमयूखे भट्टनीलकंठैः । दत्तचंद्रिकायां श्रीमन्नागोजीभट्टैः । निर्णयसिंधुटीकायां कृष्णंभट्टैश्च पूर्वोक्तवचांसि मीमांसाशास्त्रतः सम्यग्विविच्य चातुर्वर्ण्य दौहित्रभागिनेयौ दत्रिमौ भवत एवेति सिद्धांतितत्वात् । स सिद्धांतस्तु तत्र तत्र द्रष्टव्यः । विस्तरभि- या नात्र लिखितः। अत एव सर्वत्र दौहित्रभागिनेययोर्दत्रिम- त्वेन पुत्रीकरणरूढिः संगच्छत इति । तथा यदुक्तमपरं दत्तकमी- मांसायां भागिनेयपदं पुत्रसदृशानां सर्वेषामुपलक्षणं । विरुद्धसंबं- धस्य समानत्वात् । विरुद्धसंबंधश्च नियोगादिना स्वयमुत्पादनायो- ग्यत्वं इत्युपक्रम्य । तथा प्रकृतेऽपि विरुद्धसंबंधपुत्रो वर्ज- नीय इति । यतो रतियोगः संभवति तादृशः कार्य इति यावदित्य- न्तमुक्तं । तदपि शास्त्रासम्मतमेव । दत्रिमे पुत्रत्वस्य शाखैकसमधिगम्यत्वेन औरसवजन्यपुंस्त्वरूपपुत्रत्वस्याभावेन रति- योगस्यासंभवाद्विरुद्धसंबंधस्यानापत्तेः। किंच विरुद्धसंबंधापत्यव- जनांगीकारे शूद्रस्यापि दौहित्रभागिनेयौ दुत्रिमौ न मेव । दुहितरि भगिन्यां च नियोगादिना स्वयमुत्पादनायोग्यत्वा- त्तन्मते शूद्रस्यापि कथं शौनकीयं शास्त्रमनुजानातीति सुधीभिरालो- स्याता- चनीयम् । ततश्च दौहित्रभागिनेयमातृष्वसृसुता दत्रिमा भवत्येवेति सिद्धं ॥ अथ भिन्नगोत्रसपिण्डाभावे सप्तमादूर्ध्व चतुर्दशावधिकाः सगोत्राः सोदका ग्राह्याः । सोदकाभावे चतुर्दशादूचं ऐकविंशात् गोत्रजाः। गोत्रजाभावे अन्यगोत्रीयः । असपिंडोऽपि जायासोद. रादियः कश्चन इति । स च जातकर्मादिसंस्कृतस्तदसंस्कृतो वा। अनुपनीत उपनीतो वा । परिणीतोऽपि जातपुत्रोऽपि च दत्रिमो भवति । बाधकामावादिति द्वैतनिर्णये शंकरभट्टाः । व्यवहारमयूखे नीलकंठभट्टाश्च । “शुनःशेपो विश्वामित्रपुत्रः स्वयमेवाभवदि"ति बढचब्राह्मणसंवादाच्च । शुनःशेपश्चोपनीतः । अनुपनीतस्य वेदाध्य. यनासंभवेन वैदिकमंत्रैः प्राजापत्यादिस्तुतौ इंद्रदत्तहिरण्मयरथ- प्रतिग्रहे च प्रवृत्त्यनुपपत्तेः । श्रुतिवशाजातोपनयनः स्वयंदत्त इव जातोपनयनस्य दत्तकस्यापि दुर्वारत्वादिति निर्णयसिंधुटीकायां । यानि तु । अकृतसंस्कार एवापूर्णपंचवर्षीय एव दत्तकः स्वीकार्य इत्यर्थप्रतिपादकानि "न क्षेत्रजादितनयं राजा राज्येऽभिषेचयेत् । पित्रणशोधने नित्यमौरसे तनयेऽसति ॥१॥ अत्रासतीति छेदः । औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गुढोत्पन्नोऽपविद्धश्व भागाहस्तिनया इमे ॥२॥ कानीनश्च सहोढश्च क्रीतः पौनर्भ- वस्तथा । स्वयंदत्तश्च दासश्च षडेते पुत्रपांसनाः ॥ ३ ॥ अलाभे पूर्वपूर्वेषां परान्समभिषेचयेत् । पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् ॥ ४ ॥ दत्ताद्या अपि निजगोत्रेण संस्कृताः। आयांति पुत्रतां सम्यगन्यबीजसमुद्भवाः ॥ ५॥ पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते ॥ आचूडांतं न पुत्रः स पुत्रतां याति चान्यतः ॥ ६॥ चूडाद्या यदि संस्कारा निजगोत्रेण तनया कृताः । दत्ताद्यास्तनयास्त स्युरन्यथा दास उच्यते ॥७॥ ऊर्ध्वं तु पंचमाद्वर्षान्न दत्ताद्याः सुता नृप । गृहीत्वा पंचवर्षीयं पुत्रेष्टिं प्रथमं चरेत् ॥ ८॥ पौनर्भवं तु तनयं जातमानं समान- येत् । कृत्वा पौनर्भवस्तोमं जातमात्रं तु तस्य वै ॥ ९॥ सर्वांस्तु कुर्यात्संस्कारान् जातकर्मादिकानथ । कृते पौनर्भवस्तोमे सुतः पौनर्भवस्ततः॥१०॥एकोद्दिष्टं पितुः कुर्यान्न श्राद्धं पार्वणादिकम् । क्रीता पारमिता मौल्यैः सा दासीति निगद्यते ॥ ११ ॥ इत्येतानि कालिकापुराणवचनानि प्रायशः कालिकापुराणपुस्तकेष्वदर्शनान्नि- मूलानि । समूलत्वेऽपि कालिकापुराणवचसां राज्याई पुत्रपरतया तस्यैव प्रतिगृहीतृकर्तृकसंस्कारस्यावश्यकत्वपराणीति निर्णयसिंधु- टीकायां कृष्णंभट्टाः । उपक्रमादिलिंगाच्च । पुरुषार्थचिंतामणा- वप्येवं । अथवा प्रबलाभ्यां श्रुतिस्मृतिभ्यां दुर्बलानां पुराणोक्त- वचसां बाधो युक्त इतिकृत्वोक्तश्रुत्या बाधितत्वादुपेक्ष्यानीति । अयमेव न्यायः क्रीतापविद्धकृत्रिमस्वयंदत्तेषु बोध्य इति । ४१ अथ केवलढ्यामुष्यायणानां दत्रिमादीनां गोत्रप्रवरा निर्णी- यंते । (१) तत्र प्रथमं केवलानामुच्यते केवलद- चलानां गोत्र- त्रिमादिभिर्गोत्रप्रवरसंबंधिषु विवाहादिसर्वस्थलेषु प्रवरविचारः पालकैकपितुर्गोत्रप्रवरा वावय॑तया स्वीक- र्तव्याः । मनुना जनकगोत्रादिनिवृत्तेरुक्तत्वात् । तथाच मनुः “गोत्ररिक्थे जनयितुर्न भजेद्दत्रिमः सुतः । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधे"ति । गोत्रं वंशपरंपराप्रसिद्धमिति विज्ञानेश्वरः कमलाकरभट्टश्च । रिक्थं धनं । जनयितुः खस्वामिभावसंबंधः यष्ट्यर्थः । जनकवामिनी गोत्रधने इति यावत् । दत्रिमः दत्तकः । तत्र के- ॥ केवलदत्तक एवात्र व्यामुष्यायणे जनकगोत्राद्यनुवृत्तेरुक्तत्वात् । न क्वचिदत्रिमो हरेदित्यपि पाठः । न कचिन्न कदाचित् । हरेत्प्राप्नु- यात् । हृञ् हरणे । हरणं प्रापणं स्वीकारः । तत्र हेतुः । गोत्र- रिक्थानुग इति दत्रिमस्य विशेषणमिति दत्तोद्धारे । गोत्ररिक्थे अनुगच्छतीति गोत्ररिक्थानुगः। प्रायस्तत्समनियत इति यावत् । इति । व्यवहारमयूखेऽप्येवमेव । पिंडः सापिण्ड्यं । न श्राद्धं दद्दतः खधेति पौनरुचयापत्तेः स्वधा और्ध्वदेहिकादिश्राद्धं । ददतः पुत्रं दद्तो जनकस्य । व्यपैति निवर्तते इति मन्वर्थः। अत्र मेधाति- थिरपि । यः अन्यस्मै स्वपुत्रं ददाति तस्मान्निवर्तते न तस्य कर्तव्य- मित्यर्थः । एष एव न्यायः कृत्रिमादीनां सहोढापविद्धव्यामुष्या यणानामुभयोपकारत्वमिति । तथा सर्वज्ञनारायणोऽपि । अत एव नासौ ब्यामुष्यायणः । प्रतिग्रहीतृगोत्रत्वात् । किंतु देवरजपुत्रिका- सुतावेव द्विपितृकत्वात् । इति । तथा श्रौतसागरपारावारपारीणा औपासनिकोपनामानो रघुनाथभट्टा अपि दत्रिम इत्यत्र दानार्थादा- धातोर्भावार्थे द्वितः क्रिरितीडित् । ततो निवृत्त्यर्थे क्रिमपोर्विधानं । तेनायमर्थः । दानेन जनकगोत्रान्निवृत्तोऽपि गोत्रसंबंधकार्यमानेऽपि निवृत्त इति । दत्तक इत्यत्र भावार्थे क्तप्रत्ययः। तेन दानमात्रसिद्धिः। न तु निवृत्तिः । संज्ञायां कन्प्रत्ययः तेन दत्तक इत्यस्य संज्ञा- वाचकत्वमिति व्यवहारमयूखे नीलकंठभट्टा अपि । वस्तुतस्तु "जातपुत्रः कृष्णकेशोऽग्नीनादधीते" त्यत्र यथा वयोऽवस्थाविशेषो लक्ष्यते । यथा वा "अर्धमंतर्वेदि मिनोति अर्धं बहिर्वेदि" इत्यनेन देशविशेषो लक्ष्यते तथाऽत्र गोत्ररिक्थपिंडस्वधापदैर्जनकादीनां संबंधप्रयुक्तं कार्यमानं लक्षयित्वा तन्निवृत्तिरुच्यते । तेन सोदर- । । पितृव्यादिसंबंधनिवृत्तिरपि सिद्धा भवति । इति ॥ पुरुषार्थचिंता- मणिरपि । प्रकृते दत्रिमे ऽपि निरुपाधिकदानात् पितृगोत्रसापिण्ड्य- सूतकनिवृत्तिः। प्रतिग्रहीतगोत्रसापिंड्यादिप्राप्तिरेवोचिता । व्याप्य- पुत्रत्वविधायकवचनानामेव व्यापकगोत्रसापिंड्यविधायकत्वात् । शिष्टैरपि दत्तकपुत्रादिभिः प्रतिग्रहीतृगोत्रेणैव प्रतिग्रहीतृकुले एव दत्तकसपिंडीकरणानुष्ठानस्य प्रतिग्रहीतृसपिंडाद्यैर्दशरात्राद्याशौचा- नुष्ठानस्य “गोत्ररिक्थे” इति मनुवचनस्यातिप्रसिद्धत्वाञ्चेति । चंद्रि- काकाराश्च । गोत्ररिक्थानुगः पिण्ड इति । एतेन पुत्रत्वापादक- क्रिययैव दत्रिमस्य प्रतिगृहीतृधने स्वत्वं तत्सगोत्रत्वं च भवति । दातृधने तु दानादेव पुत्रत्वनिवृत्तिद्वारा दत्रिमस्य स्वत्वानिवृत्तिात- गोत्रनिवृत्तिश्च भवतीति । मदनपारिजातोऽपि । दत्रिमाणां जनक- गोत्रनिवृत्त्या अन्यगोत्रप्राप्तिरुक्ता मनुना “गोत्ररिक्थे जनयि- तुरि"ति इति । "पिंडदोंऽशहरश्चैषा" मित्यत्र मिताक्षरायामपि । मनुः “गोत्ररिक्थे जनयितुरि" त्यत्र दत्रिमग्रहणस्य पुत्रप्रतिनिधि- प्रदर्शनार्थत्वादिति ॥ दत्तकमीमांसायामपि । अत्र च स्वधापिंड- शब्दौ आशौचादिसकलपितृकर्मोपलक्षणं । पिण्डदानादिनिमित्तभूत- गोत्ररिक्थयोनिवृत्तिश्रवणात् । प्रेतपिंडदानादेश्वाशौचपूर्वकत्वनिय- मात् । ततश्च पिंडनिवृत्त्या आशौचनिवृत्तिरर्थसिद्धैव । “अस- गोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् । यावदाशौचमुदकं पिंडमेकं च निर्वपेदि"त्यादिवाक्यपर्यालोचनया पिंडाशौचयोः समव्याप्तिसिद्धे- रिति ॥ तथाचेदमत्र सिद्धं । केवलदत्रिमस्य निरुपाधिकदानादेव मनुवचनेनच जनकगोत्रप्रवररिक्थसापिंड्याशौचश्राद्धपितृपुत्रादिसं- । बंधतत्तत्प्रयुक्तकार्यनिवृत्तिरेवेति । प्रतिग्रहीतुरेव गोत्रप्रवररिक्थ- सापिंड्याशौचश्राद्धपितृपुत्रसंबंधतत्तत्प्रयुक्तकार्यप्रवृत्तिश्चेति फलितं। यत्तु संस्कारकौस्तुभे । तत्र यश्च प्रतिगृहीत्रा जातकर्मादिभिश्चू- डादिभिर्वा संस्कृतस्तदेकगोत्रः । एतमभिप्रेत्यैव "गोत्ररिक्थे जन- यितुर्न भजेद्दत्रिमः सुतः” इति शास्त्रं प्रवृत्तं । एतदन्यस्तु प्रति- ग्रहीनोपनयनमात्रसंस्कृतस्तदुत्तरं प्रतिगृहीतो वा देवरातवहिगोत्र एवेति । तथा नंदपंडितैर्दत्तकमीमांसायां । ततश्चूडान्तसंस्कारसंस्कृ- तस्य परिगृहे ब्यामुष्यायणता भवति गोत्रद्वयेन संस्कृतत्वात् । इत्याद्यभिधायाने । यत्तु "गोत्ररिक्थे० सुत” इति तत्प्रतिग्रहीत्रैव जातकर्मादिसर्वसंस्कारकरणपक्षे वेदितव्यमिति ॥ अत्र पुरुषार्थ- चिंतामणिकार आह । उत्पत्तिसमये जनकगोत्रानुवृत्त्या तद्गोत्रेण संस्काराद्वा अपत्ये गोत्रसंबंधे सिद्धेऽपि तत्र प्रतिग्रहीत्रा संस्कारे कृते तद्गोत्रसंबंधे सिद्धेऽपि उत्पत्तिसमये अनुवर्तमानजनकगोत्र- निवृत्तिः कथमित्याकांक्षायां "गोत्ररिक्थे” इत्यनेन "स्वगोत्राद्धश्यते नारी” इत्यादिभिरिन अनुवर्तमानस्य चूडांतसंस्कारादुपनयनांत- संस्काराद्वा रूढीकृतसंबंधस्य जनकगोत्रस्य निरुपाधिकदानमेव निवर्तकं प्रतिपाद्यते । तथाच निरुपाधिकदानसंप्रदानभूतप्रति- ग्रहीत्रा जातकर्मादिभिरुपनयनादिभिर्वा विवाहांता संस्कारैः संस्कृतोऽसंस्कृतो वाऽपि स तदेकगोत्रस्तस्यैवासाधारणपुत्रः संपन्नः इत्यव्यामुष्यायण एव भवति । इति ॥ यत्तु अपरमुक्तं दत्तकमीमां- सायां । द्विविधा दत्तकादयः । नित्यव्यामुष्यायणा अनित्यब्यामुष्या- यणाश्च । आवयोरयमिति संविदा कृता नित्याः । उपनयनादिभिरेव प्रतिगृहीत्रा संस्कृता अनित्याः । जातमात्रपरिगृहे पितृगोत्रमेव । H .. तदिदं सर्वमाह सत्याषाढः । नित्यानां व्यामुष्यायणानामित्यादि इति च। अत्रापि पुरुषार्थचिंतामणिकार एवाह । तदपि सत्याषाढप्रवरा- ध्याये एतत्सूत्रद्वयाभावादुपेक्ष्यं । कचित्पुस्तके तैईष्टमिति चेत्तथापि "अथेमानि ब्यामुष्यायणकुलानि भवंती' त्युपक्रम्य शौंगशैशिर्यादयः पठिताः सूत्रांतरे तद्विषयमेव प्रथमसूत्रं । द्वितीयं तु । "व्यामुष्या- यणका ये स्युर्दत्तकक्रीतकादयः। गोत्रद्वयेप्यनुद्वाह्याः शौंगशैशिरयो यथेति” संग्रहकारोक्तेः दत्तक्रीतादीनां जनकपालकयोर्गोत्रनिषेधः । शौंगशैशिरिग्रहणस्य प्रदर्शनार्थत्वादिति नारायणवृत्तेः । इदानीं- तनसर्वदत्तकविषयमिति कल्पनायामपि नित्यवदनित्यवदित्यंशयोवै- यर्थ्यमेव । व्यामुष्यायणमात्रस्य गोत्रद्वयनिषेधादिति दिक् । तस्मा- द्व्यामुष्यायणदत्तकस्य सर्वथैव जनकगोत्रनिवृत्तिरिति सिद्धं नाप- न्होतुं शक्यमिति राद्धांतः ॥ केवलैत्रिमादिभिः पालकैकपितुर्गोत्र- प्रवरा गोत्रप्रवरसंबंधिषु विवाहादिकार्यस्थलेषु वावय॑तया ग्राह्या इति यदुपक्रमे प्रतिज्ञातं तदेव युक्ततरत्वेनादरपथमारोहतीति ।। (२) अथ व्यामुष्यायणदत्तकादिभिस्तु जनकपालकोभयपितु- र्गोत्रप्रवरा गोत्रप्रवरसंबंधिषु विवाहादिकार्य- ज्यामुष्यायणगोत्र- स्थलेषु वावय॑तया ग्राह्याः । महर्षिकात्यायन- प्रवरविचारः लौगाक्षिप्रभृतिसूत्रप्रणेतृभिः प्राचीनैराचीनैर्हे- माद्रिकमलाकरप्रभृतिनिबंधृभिश्च व्यामुष्यायणदत्तकादीनामुभयगो- त्रप्रवरसंबंधित्वोक्तेः । नात्र केऽपि विवदंते । व्यामुष्यायणानामु- भयगोत्रप्रवरसंबंधित्वेन शौंगशैशिर्यादिवत् । इदानींतनैरपि व्यामु- ध्यायणदत्तकादिभिर्विवाहे द्वयोरपि पित्रोर्गोत्रप्रवरा वाः। एवं दत्तक्रीतकृत्रिमस्वयंदत्तपुत्रिकापुत्रादीनामुत्पादकपालकयोः पित्रो- र्गोत्रप्रवरा वा इति" प्रवरमंजरीकारनारायणवृत्तिप्रयोगपारिजा- ७ तादिषु व्यामुष्यायणानुपक्रम्योक्तत्वात् । तथा प्रवराध्याय 'ब्यामु- घ्यायणका येस् युदत्तकक्रोतकादयः । गोत्रद्वयेप्यनुद्वाह्याः शौंगशैशि- रयो यथे” त्यत्र ब्यामुष्यायणका इति विशेषणोपादानाच्च । अत एव "शतपुरुषोत्तरमपि द्विगोत्रत्वं नापैती"ति धर्मसिंधुकारोक्तिरपि व्यामुष्यायणपरैवेति विज्ञेयं । तेनायमों निष्पद्यते । इदानींतनाना- मपि दत्तकादिव्यामुष्यायणानां शौंगशैशिर्यादिवत् शतपुरुषोत्तरमपि द्विगोत्रत्वमेव । पुरुषसंख्यानियामकप्रमाणाभावादिति । (३) अथ व्यामुष्यायणानामुभयगोत्रप्रवरव्यवस्था । तत्रा- समानगोत्रे आश्वलायनः "तेषामुभयतः प्रवृ- असमानगोत्रे णीते । एकमितरतो द्वावितरतः । द्वौ वेतरतस्त्री- नितरतः । न चतुर्णा प्रवरोऽपि न पंचानामति- प्रवरणमिति । तत्र विशेषमाह कात्यायनो लौगाक्षिश्च । तेषां तथैव प्रवराः स्युः । द्विःसन्निपाते पूर्वः प्रवर उत्पादयितुरुत्तरतः प्रतिग्रहीतुरिति । त्रीनेव पंच वा प्रवृणीयादिति ॥ (४) समानगोत्रे तु कात्यायनो लौगाक्षिश्च व्यवस्थामाह । अथ यदि पितृव्येण ज्ञातिनैकायेण जातास्ते समानगोत्रे संहतकुलीनाः परिग्रहीतुरेव भवंतीति” इति ॥ व्यवस्था । व्यवस्था (५) अथ केवलढ्यामुष्यायणदत्तकादीनां मातृगोत्रविचारः प्रदश्यते । तत्र प्रथमं केवलैत्रिमादिभिः पाल- तत्र प्रथमं केव- कैकपितृगोत्रवत्पालकमातृगोत्रमेव विवाहादिषु गोत्रविचारः वर्जनीयं । निरुपाधिकदानेन जनकपितृगोत्रप्र- वरादिनिवृत्तिवत्तुल्यन्यायेन जनकमातृगोत्रनिवृ- तेरर्थसिद्धत्वादिति । लानां मातृ- ४३ प्रस्तावः। (६) अथ यामुष्यायणदत्तकादीनां मातृगोत्रविचारः। व्यामु- घ्यायणैर्दत्तकादिभिस्तु जनकपालकोभयपितुर्गो- (१) यामुष्याय- वजनकपालकोभयमातुर्गोत्रमेव विवाहादिषु णानां मातृ- वय॑म् । समानन्यायादेवेति । मातगोत्रे तु गोत्रविचारः न प्रवरचिंतनावश्यकत्वमिति तु शुक्लयजुर्वेदीय- कर्मकांडप्रदीपे मातृगोत्रनिर्णये ज्ञेयं ॥ इति मातृगोत्रवि- चारसंक्षेप इति ॥ ४२ अथ केवलढ्यामुष्यायणदत्तकादीनां सापिंड्यं प्रस्तू- यते । तत्रादौ केवलानां दत्तकादीनां सापिंड्यं तत्र प्रथमं केव- लाना सय प्रस्तूयते । तच्च सापिंड्यं द्विविधं । एकश- रीरावयवान्वयित्वं । एकपिंडदानक्रियान्वयित्वं च । केवलदत्रिमादीनां जनककुले द्विविधमपि सापिंड्यं न “गोत्ररिक्थे जनयितुरि" ति प्रागुक्तमनुवचनेन तन्नि- वृत्तेरुक्तत्वात् । ननु गोत्ररिक्थे इत्यनेन जनककुले सापिंड्य- द्वयमध्यादेकपिंडदानक्रियान्वयित्वरूपसापिंड्यनिवृत्तिर्वाच्या नतु सर्वथा सापिंड्यनिवृत्तिरिति चेन्न स्वतःसिद्धैकशरीरावयवान्वयित्व- रूपसापिंड्यसद्भावात्तेनैवैकपिंडदानक्रियान्वयित्वरूपसापिंड्यरूपग- तार्थत्वात्तत्र तदप्राप्त्या तन्निवृत्तिप्रसंगासंगत्यापत्तेश्च । पालककुले तु साप्तपौरुषं पांचपौरुषं एकपिंडदानक्रियान्वयित्वरूपं सापिंड्यं "ऊर्च सप्तमात्पितृबंधुभ्यो बीजिनश्च मातृबंधुभ्यः पंचमादिति गौतमोक्तौरससापिंड्यवदुत्सर्गसिद्धमस्त्येवेति । एकशरीरावयवान्व- यित्वं तु न । प्रत्यक्षबाधात् । यत्तु सापिंड्यमीमांसायां। मदनपारिजातादौ च केवलत्रिमादीनां पालककुले पांचपौरुषं त्रिपौरुषमित्यल्पं सापिण्ड्यमुक्तं । तथाहि सापिंड्यमीमांसायां। पालकपितृकुले तु पांचपौरुषं । पालकमातृकुले तु त्रिपौरुषं । तथाचापरार्के पैठीनसिः "त्रीन्मातृतः पंच पितृतः पुरुषानतीत्योद्व- हेदि"ति । एतत्स एव व्याचख्यौ । दत्तकादीन् पुत्रान्पितृप- क्षतो निवृत्तपिंडगोत्रार्षेयान्प्रत्येतदुच्यते पंच पितृत इत्यादिनान्या- न्प्रतीति । यत्तु वृद्धगौतमः। खगोत्रेण कृता ये स्युर्दत्तक्रीतादयः सुताः। विधिना गोत्रमायांति न सापिंड्यं विधीयते” इति । यच्च वसिष्ठः "अन्यशाखोद्भवो दत्तः पुत्रश्चैवोपनायितः । स्वगोत्रेण स्वशाखोक्तविधिना स्वस्वशाखभागि"ति । यच्च नारदः “धर्मार्थ वर्धिताः पुत्रास्तत्तद्गोत्रेण पूर्ववत् । अंशपिंडविभागित्वं तेषु केवल- मीरितमि”ति तत्पालककुले सातपौरुषं सापिंड्यं नेत्येवंपरं । नतु सर्वथा सापिंड्यनिषेधपरं । इति मदनपारिजाते। पंच पितृत इति । यस्य दत्तपुत्रः पिता तस्य दत्तस्य यजनककुलं तद्वि- षयमिति एतन्निराकृतं भट्टकमलाकरैः । वस्तुतस्तु पूर्ववचसां महानिबंधेषु काप्यनुपलंभादपरार्कादिलेखनाभावात्पूर्वोक्तव्यवस्था- याश्च प्रातिभज्ञानतुल्यत्वाद्यैरेतल्लिखितं तत्तेषामेव शोभते । त्री- न्मातृत इत्यादि तु सवर्णसापत्नमातृकुलपरं "यद्येकजाता बहवः" इति शंखैकवाक्यत्वादिति निर्णयसिंधौ । तथा व्यवहारमयूखे नीलकंठभट्टानां च सिद्धान्तः। अतोऽत्र केवलदत्तकस्य पालकपितृकुले साप्तपौरुषं मातृकुले पांचपौरुषं सापिंड्यं । यत्तु वृद्धगौतमः "स्वगोत्रेण विधीयते” इति । यत्तु बृहन्मनुः "दत्तक्रीतादिपुत्राणां बीजवप्नुः सपिंडता । पंचमी सप्तमी चैव गो- त्रित्वं पालकस्य चे"ति । यदपि नारदः "धर्मार्थं वर्धिताः पुत्राः० ।
मीरीतमिति । वाक्यानि तान्यनाकराणि । साकरत्वेऽपि व्यामु- घ्यायणस्य प्रतिग्रहीतृकुले साप्तपौरुषसापिंड्याभावप्रतिपादनार्थ । केवलदत्तके पूर्वोक्तगौतमीयेन पालककुले साप्तपौरुषसापिंड्यस्यो- क्तत्वात् । मानवीयेन च जनककुले सापिंड्यनिवृत्तेरुक्तत्वा- दिति । अत्रेदमाकूतं । साकरत्वेऽपि ब्यामुष्यायणस्य प्रतिग्रहीतृकुले साप्तपौरुषसापिंड्याभावप्रतिपादनार्थमिति मतं । येषां मते वृद्ध. गौतमनारदबृहन्मनुवचनानि साकराणि तेषां मतं । न व्यवहारम- यूखकृतो मतमिति ॥ तत्सिद्धं केवलदत्रिमादीनां पालकपितृकुले पालकमातृकुले एव साप्तपौरुषं पांचपौरुषं च सापिंड्यमिति सर्व निरवद्यमेतदिति केवलत्रिमादीनां सापिंड्यप्रस्तावः ॥ (२) अथ व्यामुष्यायणदत्तकादीनां सापिंड्यं प्रस्तूयते । दत्तका- दीनां जनकपालकोभयकुले क्रमादेकशरीरावय- ब्यामुष्यायणानां वान्वयित्वमेकपिंडदानक्रियान्वयित्वं साप्तपौरुषं सापिंड्यप्रस्तावः पांचपौरुषं सापिंड्यमस्त्येव । व्यामुष्यायणानां सोपाधिकदानसंपन्नत्वेन जनकगोत्रसापिंड्यादेरनिवृत्त्या जनककुले दानात्पूर्व यत्सापिंड्यमासीत्तदेव दानोत्तरमपीति न कश्चि- द्विशेषः । पालककुले तु प्रतिग्रहादिना तत्प्रयुक्तोत्पन्नपुत्रत्वेन तद्गोत्रसापिंड्यादेः प्राप्त्या प्राप्तसाप्तपौरुषपांचपौरुषसापिंड्यस्य दुनि- वारत्वात् अल्पसापिंड्यविधायकप्रमाणाभावात् । ननु वृद्धगौतमव. सिष्टनारदबृहन्मन्वादीनां वचांसि प्रमाणानि संत्येवेति चेन्न तेषाम- नाकरत्वं प्रागुक्तमेव । नागोजीभट्टकृतसापिंड्यप्रदीपेऽप्येवं । अत एव तानि केनचित्स्वकपोलकल्पनाकौतूहलतया प्रक्षिप्तानीति मंत- व्यं । अत एव निर्णयसिंधौ "मम तु पालककुले एक- पिंडदानक्रियान्वयित्वरूपं साप्तपौरुषमेव सापिंड्यं । बीजिनश्चेति गौतमोक्तेर्जनककुलेऽपि तावदेवेति भट्टकमलाकरोक्तसिद्धांतः संग- च्छते। नन्वयं भट्टकमलाकरसिद्धांतः केवलदत्रिमपरोऽस्तीति चेदत्र ब्रूमः। यदि तत्परस्तदा सोऽपि मनुवचनविरुद्धत्वात्खंडितः स्यात् । न तेनास्माकमत्र काऽपि क्षतिरिति । ततश्च सिद्धं । व्यामुष्यायणद- त्तकादीनां जनकपालकोभयकुले साप्तपौरुषं पांचपौरुषसापिंड्यमिति केवलल्यामुष्यायणदत्तकादीनां सापिंड्यप्रस्तावः॥ ४३ (१) अथ केवलदत्रिमादीनां जनकगोत्रसापिंड्यविषये केवलदत्रिमादीनां विवाहाद्युपयोगि किंचिनिर्णीयते । तत्र प्रथम विवाहोपयोगी गोत्रविषये । सर्वथा जनकगोत्रसापिंड्यनिवृत्त्या गोत्रविषयको केवलदन्त्रिमादीनां जनकगोत्रसापिंड्ययोः परि- निर्णयः णयो भवत्येव । नात्र तत्प्रयुक्तो निषेधः प्रसरति । ननु । “असगोत्रा च या पितुरि"ति मनुवचनात्तन्निषेधः । अत्र यत्तु “गोत्ररिक्थे० स्वधेति” मनुवचनं तद्दत्तकादेर्जीवत आर्षेयवरणाभिवादादिषु मृतस्य च श्राद्धदेवतात्वे जनकगोत्र- संबंधनिवृत्त्यर्थ । विवाहस्तु जनकगोत्राया निषिद्ध एव । स्वस्य च जनकगोत्रसंबंधाभावेन तस्याः सगोत्रात्वाभावेऽपि पितृसगोत्रत्वात् । “असगोत्रा च या पितुरि" त्यत्र पितृग्रहणस्येद- मेव प्रयोजनमिति अपरार्क शूलपाणि स्मृतिचंद्रिका संस्कारकौस्तु- भादौ । तथा। तस्माहृयामुष्यायणदत्तकस्य सर्वथा जनकगोत्रनि- वृत्तावपि "असगोत्रा च या पितुरि”ति मनुवचनादेव जनक- गोत्रे विवाहनिषेधः। न तु तत्संततेरिति सिद्धं । इतिपुरुषार्थचिं- तामणौ । तथा । “गोत्ररिक्थे०स्वधेति मनुवचनं तदत्तकादेर- AN भिवादनादिषु जीवतो मृतस्य श्राद्धे देवतात्वे जनकगोत्रसंबंधनि- वृत्त्यर्थं । विवाहे तु जनकपालकगोत्रे अपि वर्षे इति निर्णय- सिंधौ । प्रवरदर्पणे चोक्तत्वादिति चेन्मैवं । सामान्यस्य विना प्रामाण्येन कार्यविशेष संकोचस्यायुक्तत्वात् । किंच । अने- कार्थेष्वेकार्थस्य कार्यसंकोचस्य सर्वथा निवर्तकत्वस्यायंतायुक्तला- चेति रघुनाथभट्टाः । व्यवहारमयूखे भट्टनीलकंठोक्तं "वस्तु तस्तु इत्यादि । तथाच गोत्ररिक्थपिंडस्वधापदैर्जनकादीनां संबंध- प्रयुक्तकार्यमानं लक्षयित्वा तन्निवृत्तिरित्युच्यते । तेन सोदरपितृ- व्यादिसंबंधनिवृत्तिः सिद्धा भवति । इत्यन्तेन” उत्पत्तिकृतगोत्र- निवृत्तिवज्जन्यजनकसंबंधनिमित्तकपितृत्वपुत्रत्वाभावादेव "अस- गोत्रा च या पितुरि"ति निषेधाप्रवृत्त्यसंभवात् । अपि च । "अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्हेत् । अनन्यपूर्विकां कांताम- सपिंडां यवीयसीं ॥ अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ॥" इति याज्ञवल्क्यवाक्येन लक्षण्यामित्यादिविशेषणविशिष्टा विवाहाथ या प्राप्ता तो "असपिंडा च या मातुरसगोत्रा च या पितुरि"त्यनेनानूद्य प्राशस्त्यमात्रं द्योत्यते । सा प्रशस्तेतिपदाभि- धानात् । इति श्रौतसागरपारावारपारीणीपासनिकोपनामकरघुनाथ- भट्टैमनुवचनस्य वास्तविकार्थोक्तेश्च । मिताक्षरायां मनु- स्मृतिव्याख्यासु च मेधातिथिप्रभृतीनामपरार्कादिवत् व्याख्यानाभावात् अपरार्कादिव्याख्यानानां विनिग- मनाविरहाच । दत्तकमीमांसायामपि। अत्र कैश्चिदुच्यते। "असपिंडा च या मातुरसगोत्रा च या पितुरि" त्यादिनोपक्रम्य तस्मादौरसविषयमेवेदं वचनं गर्भाधानादिप्रक्रमात् । पंचमात्सप्त- , । मादूर्ध्वमिति वचनांतरैकवाक्यत्वाचेत्यंतेन ग्रंथेन असपिंडा च या मातुरिति वचनस्य दत्तकपरत्वं निराकृत्य औरसपरत्वेन सिद्धांति- तत्वादिति । तत्सिद्धं, केवलत्रिमादीनां जनकगोत्रे परिणय इति केवलदनिमादीनां जनकगोत्रविषयकविवाहोपयोगी निर्णयः॥ (२) अथ केवलदत्रिमादीनां सापिंड्यविषये किंचि- निर्णीयते । तथाच केवलदत्रिमादीनां जनक- सापिंड्य विषयक- गोत्रे विवाहो भवतीत्युक्तं तत्तथैवास्तु । परं केव- निर्णयः लदत्रिमादीनां जनककुले मातापित्रोः सापिंड्ये विवाहो नास्तीत्यंगीक्रियतां । कुत इति चेदुच्यते । तथाहि पुरुषार्थ- चिंतामणौ। न चैवमव्यामुष्यायणदत्तकपुत्रस्य दत्तकजनककन्यापरि- णयः स्यादिति चेन्न "पितृष्वसारं मातुश्च मातुलानीं स्नुषामपि। मातुः सपत्नी भगिनीमाचार्यतनयां तथा ॥ आचार्यपत्नी स्वसुतां गच्छंस्तु गुरुतल्पगः ।” इति याज्ञवल्क्येनैव परिहृतत्वादिति । न चैवं तृतीयां वेति चतुर्विंशतिमतेन जनकपौत्रादिका परिणेया स्यादिति वाच्यं । तृतीयाया लिंगावष्टंभेनैव तस्य विधायकत्वेन मातृष्वस्त्रीयाया इव प्रकृतेऽपि तदपत्यभावादिति । दत्तकपौत्रादेर- ब्यामुष्यायणदत्तकजनकपौत्र्यादिविवाहस्तु “चतुर्थी वे” त्या- दि वाक्यैः "असपिंडेत्यादि" वाक्यैकवाक्यतयैव विहितत्वेन युक्त एवेति विभावनीयमिति सिद्धांतितत्वादिति चेन्न । पितृत्वादिसंबंध- निवृत्त्या तत्प्रयुक्तपितृष्वसृत्वमातृष्वसृत्वमातुलत्वादि यावत्संबंधा- भावात्सापिंड्यनिवृत्त्या तदभावाच्चाविचारितरमणीयतरत्वेन यत्किं- चिदिति शास्त्रासम्मतम् । अतोबाधकाभावात्केवलत्रिमादिपुत्रपौत्रा- ४९ दीनां केवलदत्रिमादिजनककन्यापौत्र्यादिकाभिः साकं विवाहो भवत्येवेति । केवलत्रिमादीनां तु जनककन्यां वर्जयित्वा जनक- पौत्र्यादिभिः सह विवाहो भवतीति पुरस्तात् वक्ष्याम इति । ननु संस्कारमयूखे । “गोत्ररिक्थे० स्वधे०"ति । दत्रिमस्य सापिंड्य- निवृत्तौ जनककन्यादिपरिणयनं स्यादिति । स्यादेव। यदि "ऊर्ध्व सप्तमात्पितृबंधुभ्यो बीजिनश्च मातृबंधुभ्यश्च पंचमादिति वाच्यं नाभविष्यत् । अत्र हि बीजिग्रहणेन दत्रिमस्य जनककुले सापिंड्य- मस्तीति ज्ञायत इत्युक्तं तथा व्यवहारमयूखेऽपि । “ऊर्ध्व सप्तमात्पितृबंधुभ्यो बीजिनश्च मातृबंधुभ्यः पंचमादि"ति गौतमी- येन बीजिकुले साप्तपौरुषं यावद्विवाहो निषिद्धः। स व्यामुष्यायणे व्यर्थः स्यात् । तस्मिन्सापिंड्यसत्त्वात् । अतोऽवश्यमेतत्सार्थक्याथ केवलदत्तको वाच्यः। तत्र सापिंड्यनिवृत्तेरुक्तत्वात् । अत एव शूरेण कुंतिभोजेन कृत्रिमदत्तायाः कुंत्याः सुतस्यार्जुनस्य शूरपुत्रवसुदेवदु- हितुः सुभद्रायाः सापिंड्यनिवृत्ति मनुवचनेनोक्त्वाऽस्य गौतमीयस्य बीजिसंतानजाया अपि निषेधमानपरत्वमेव चोक्त्वा अर्जुनेन सुभद्रा न परिणेया इत्याशंक्य वार्तिकोक्तं संबंधव्यवधानकल्पनाख्यं समाधानमाह भट्टसोमेश्वरः। यत्तु कश्चित् सोमेश्वरेण गौतम- वचनात्कुंत्याः शूरकुलेऽपि साप्तपौरुषं सापिंड्यमुक्तमित्याह तद्वंथाध्य- यनाभावनिबंधनं । तेन हि सापिंड्यनिवृत्तिं पूर्वमुक्त्वा गौतमीयस्य जनककुले विवाह निषेधपरत्वमुक्तं । न तु सापिंड्यबोधकत्वमिति । तथा निर्णयसिंधुटीकायामन्यमते तु इत्युपक्रम्य “ऊवं सप्तमात्पितृबंधुभ्यो बीजिनश्च मातृबंधुभ्यः पंचमादि"ति गौतमकृतो बीजिकुले सप्तपूरुषं यावद्विवाहनिषेधो व्यामुष्यायणे सापिंड्य- दत्त०४ ५० सद्भावेन व्यर्थ इति तत्सिद्धेश्च तस्य जनकसापिंड्यासत्त्वेन विवा- हप्राप्तेस्तत्सार्थक्यादिति। तथा निर्णयसिंधावपि । दत्तकविषये तूच्यते । तत्र गौतमः "ऊर्ध्वं सप्तमात्पितृबंधुभ्यो बीजिनश्च मातृबंधुभ्यः पंचमादिति” बंधुग्रहणान्न दत्तकमात्रपरमिदं । किंतु संतानेऽपि । एतत्क्षेत्रजादिसर्वव्यामुध्यायणपरं इति हरदत्तः। अत्र स्मृतिचंद्रिका । नियोगाद्य उत्पादयति तस्या बीजिनोऽपि ऊर्ध्वं सप्तमादित्यर्थ इति । दत्तकस्य जनकविषयमेतदिति सा- पिंड्यमीमांसायां । इत्यभिधाय पुरस्तादुक्तं मम तु पालककुले एकपिंडदानक्रियान्वयित्वरूपं साप्तपौरुषमेव सापिंड्यं । बीजिन- श्वेति गौतमोक्तेर्जनककुलेऽपि तावदेवेति । अत्र संस्कारमयूखे केवलदत्रिमस्य गौतमवचनाजनककुले साप्तपौरुषं सापिंड्यं । तन्नि- मित्तो विवाहनिषेधः । व्यवहारमयूखे निर्णयसिंधुटीकायां च-गौतमवचनाजनककुले साप्तपौरुषं यावद्वाचनिको विवाहनिषेधः इति निर्णयसिंधौ-गौतमीयं वचः सर्वब्यामुष्यायणपरमिति हरदत्तमतं । केवलक्षेत्रजपरमिति स्मृतिचंद्रिकामतं । केवल- दत्रिमपरमिति सापिंड्यमीमांसामतं । केवलदत्तकपरं तत्संता- नपरं च तेन पालककुले जनककुले क्रमेणैकपिंडदानक्रियान्वयि- वरूपमेकशरीररावयवान्वयित्वरूपं साप्तपौरुषं पांचपौरुषं सापिं- यमिति निर्णसिंधुमतं । ततश्चेत्यादिनिबंधेभ्यः केवलदन्त्रि- मादीनां जनककुले केषांचिन्मतेन साप्तपौरुषपांचपौरुषसापिंड्य- सत्त्वात्तत्प्रयुक्तविवाहनिषेधात् अन्येषां मतेन मनुवचनाजनककुले सापिंड्यनिवृत्त्या गौतमवचनाद्वाचनिकविवाहनिषेधाद्वा केवलद- त्रिमादिपुत्रपौत्रादीनां तज्जनककन्यापौत्र्यादीनां च विवाहो न 55 । स्यादिति प्राप्ते ब्रूमः । उक्तमतांतराणि प्रमाणभूतवचनानुपलब्धेर- प्रमाणान्येव स्वस्खमतोपष्टंभकानि स्वस्वेच्छाकल्पनामात्राणि । गौतमसूत्रेतूपक्रममारभ्य समाप्तिं यावत् व्यामुष्यायणकेव- लक्षेत्रजकेवलत्रिमविषयकप्रवेशस्याप्यनुल्लेखात् । किंच। "पंच- मात्सप्तमादूर्ध्व मातृतः पितृतस्तथा ।" इति याज्ञवल्क्येन पितृमातृद्वारकसापिंड्यमुक्तं । “आसप्तमात्पंचमाच बंधुभ्यः पितृ- मातृतः । अविवाह्या सगोत्रा च समानप्रवरा तथा” इति नार- देन पितृमातृपितृबंधुमातृबंधुद्वारकसापिंड्यमुक्तं । तद्वगौतमेनापि "गृहस्थः सदृशीं भायाँ विदेतानन्यपूर्वा यवीयसीं । असमानप्र- वरैर्विवाहः । ऊवं सप्तमात्पितृबंधुभ्यो बीजिनश्च मातृबंधुभ्यः पंचमादि"ति पितृमातृपितृबंधुमातृबंधुद्वारकसापिंड्यमुक्तं । तच्च यथौरसपुत्रे तथा तत्प्रतिनिधितया केवलदत्रिमादीनां प्रतिग्रही- तृकुले एवेति । न जनककुले कदाचिदिति । तत्सिद्धं, केवलदत्रि- मादिपुत्रपौत्रादीनां केवलदत्रिमादिजनककन्यापौत्र्यादिभिः साकं विवाहो भवत्येवेत्ययं सिद्धांत एव युक्ततर इति । तत्र केवलद- त्रिमादीनां तु जनककन्यां वर्जयित्वा पौत्र्यादिभिः सह भवति विवाहो बाधकाभावात् । जनककन्यायास्तु “सखी-सयोनि-स. गोत्रा-शिष्यभार्यासु सुषायां गवि च गुरुतल्पसमोऽवकर” इति गौतमीये। सखीसयोनिसगोत्रासु स्नुषायां गवि गुरुतल्पसमं गमनमिति गोत्रप्रवरमंजयाँ चोक्तसयोनित्वप्रयुक्तप्रतिषेधादित्यलं पल्लवितेनेति केवलदत्रिमादीनां जनकगोत्रसापिंड्यवि- षयकविवाहोपयोगी निर्णयः॥
.. गूढजस्तु सुतः स्मृतः ४ । कानीनः कन्यकाजातो मातामह- ५२ ४४ अथ केवलयामुष्यायणदत्तकादीनां दायविभा- गः। तत्र केवलानां । तथा च द्वादशपुत्रेषु प्रथ- प्रथमं केवलानां मत औरसः । “एक एवौरसः पुत्रः पित्र्यस्य दायविभागः वसुनः प्रभुरि"ति मनुवचनात् । पित्रा सह भिन्न- जातीयानामौरसानां विभागमाह याज्ञवल्क्यः। “चतुनिट्येक- भागाः स्युर्वर्णशो ब्राह्मणात्मजाः । क्षत्रजाखिम्येकभागा विट्जास्तु ब्येकभागिन" इति । तथा मनु: "चतुरोंऽशान्हरेद्विप्रस्त्रीनंशा- क्षत्रियासुतः। वैश्यापुत्रो हरेहवंशमंशः शूद्रासुतो हरेत् ।” इति। यत्पुनर्मनुः "ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ।” इति । तदपि जीवता पित्रा यदि शूद्रापुत्राय किमपि प्रदत्तं स्यात्तद्विषयं । यदा तु प्रसादानं नास्ति तदैकांशभागित्वमविरुद्धमिति कुल्लूकभट्टाः। औरसाभावे एकादशपुत्रप्रतिनिधयः । “न भ्रातरो न पितरः पुत्रा रिक्थहराः पितु"रिति मानवात् । मुख्यामुख्यपुत्राणां दायग्रहणे क्रममाह याज्ञवल्क्यः । औरसो धर्मपत्नीजः १ तत्समः पुत्रिकासुतः २ । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ३ ॥ गृहे प्रच्छन्न उत्पन्नो सुतो मतः ५॥ अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ६ । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ७॥ क्रीतश्च ताभ्यां विक्रितः ८ कृत्रिमः स्यात्स्वयंकृतः ९ । दत्तात्मा तु स्वयंदत्तो १० गर्भे विन्नः सहोढजः ११ ॥ उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत्सुतः १२ । पिंडदोंऽशहरश्चैषां पूर्वाभावे परः परः ॥ उत्तर उत्तर इत्यर्थः । इति । तत्रौरसपुत्रिकापुत्रसम- ५३ वाये औरसस्यैव धनग्रहणे प्राप्ते मनुरपवादमाह । "पुत्रिकायां कृतायां तु यदि पुत्रोऽनु जायते । समस्तत्र विभागः स्याज्येष्ठता नास्ति हि स्त्रियाः” इति । तथा । अन्येषामपि पूर्वस्मिन्पूर्वस्मिन्स- त्यपि उत्तरेषां पुत्राणां चतुर्थांशभागित्वमुक्तं वसिष्ठेन । "तस्मि- श्वेत्प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याहत्तक” इति। दत्तकग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थ पुत्रीकरणाविशेषात् । तथाच कात्यायनः । “उत्पन्ने त्वौरसे पुत्रे चतुर्थांशहराः सुताः। सवर्णा असवर्णास्तु प्रासाच्छादनभाजना” इति । सवर्णा दत्तक- क्षेत्रजादयः । असवर्णाः कानीनगूढोत्पन्नसहोढजपौनर्भवाः । ते औरसे सति न चतुर्थांशहराः । किंतु प्रासाच्छादनभाजनाः । औरसाद्यभावे तु कानीनादीनामपि सकलपित्र्यधनग्रहणमस्त्येव । पूर्वाभावे परः परः इति वचनात् । दत्तकादीनामौरसप्रतिकूलत्वे निर्गुणत्वे चान्नवस्त्रप्रदानं । तथाच मनुः । 'एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः। शेषाणामानृशंस्यार्थ प्रदद्यात्तु प्रजी- वनमि"ति । क्षेत्रजस्य तु विशेषः । मनुः । “षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं पित्र्यं पंचममेव वे"ति प्रतिकूलत्वनिर्गुणत्वसमुच्चये षष्ठोंऽशः । एकतरसद्भावे पंचमोंऽशः इति विवेकः । तथा दत्तकस्य विशेषांतरमाह मनुः “उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः । स हरेतैव तद्रिक्थं संप्राप्तोऽ- प्यन्यगोत्रतः।” इति । अत्र "एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुरि"ति औरसस्य सर्वोत्कर्षाभिधानात् । तेन नास्य समभा- गित्वं किंतु क्षेत्रजोक्तषष्ठांशभागित्वमेवास्य न्याय्यमिति कुल्लूक- भट्टाः। औरसे सति दत्तकस्य वसिष्ठात् कातीयाच्चतुर्थांशभागित्वं । ।
। मानवात्षष्ठांशभागित्वमिति फलितोर्थः । केवलदत्रिमादीनां जनक- कुले तु रिक्थग्रहणाभावः। प्रागुक्तम् “गोत्ररिक्थे...स्वघे"ति मनुवचनादिति ॥ विस्तरस्तु मनौ याज्ञवल्क्ये तद्दीकादौ द्रष्टव्यः । इत्ययं केवलदत्रिमादीनां दायविभागः॥ २ अथ व्यामुष्यायणदत्तकादीनां दायविभागः । याज्ञवल्क्यः । “अपुत्रेण परक्षेत्रे नियोगोत्पादितः ब्यामुष्यायणानां दायविभागः। सुतः। उभयोरप्यसौ रिक्थी पिंडदाता च धर्मत" इति । अस्यार्थः । यदासौ नियुक्तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य परक्षेत्रे स्वपरपुत्रार्थ प्रवृत्तो यं जनयति स द्विपितृको व्यामुष्यायणो द्वयोरपि रिक्थहारी पिंडदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थ प्रवर्तते तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति । न बीजिनः । स च नियमेन बी जिनो रिक्थहारी पिंडदो वा इति । तथोक्तं मनुना । “क्रियाभ्युपग- मात्क्षेत्रं बीजार्थ यत्प्रदीयते । तस्येह भागिनो दृष्टौ बीजी क्षेत्रिक एव चे"ति । क्रियाभ्युपगमादिति । अत्रोत्पन्नमपत्यमुभयोरावयोरपि भव- विति संविदंगीकरणादिति । तथा पुनर्मनुः “फलं त्वनभिसंधाय क्षेत्रिणा बीजिना तथा । प्रत्यक्षं क्षेत्रिणामों बीजाद्योनिर्बलीयसी" फलं वनभिसंधायेति । अत्रोत्पन्नमपत्यमुभयोरावयोरस्त्वित्येवमनभि- संधायेति । मिताक्षरायां । अत्र विशेषमाह मनुः “यद्येकरि- क्थिना स्यातामौरसक्षेत्रजौ सुतौ । यस्य यत्पैतृकं रिक्थं स स गृहीत नेतरः” इति । 'अपुत्रेण परक्षेत्रे० धर्मतः” इति याज्ञवल्क्योक्त- विषये यदा क्षेत्रिकस्य पितुः क्षेत्रजानंतरमौरसः पुत्रो भवति तदा चौरसक्षेत्रजौ एकरिक्थिनौ एकस्य पितुर्यद्यपि रिक्थाहौ । । DO भवतस्तथापि यद्यस्य जनकसंबंधि तदेव स गृह्णीयात् । न क्षेत्रजः क्षेत्रिकपितुरिति । यत्तु “षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसं विभजन्दायमि"ति तत्पुत्रबहुलस्य । यच्च याज्ञवल्क्येनोभय- संबंधिरिक्थहारित्वमुक्तं तत्क्षेत्रजपितुरौरसाभावे बोद्धव्यमिति कुल्लूकभट्टाः। निर्णयसिंधुटीकायां व्यामुष्यायणो जनकस्य प्रतिग्रहीतुर्वा पुत्रांतरासत्त्वे तस्मै पिंडं दद्यात् रिक्थं च गृह्णीयात् । न तत्सत्त्वे । उभयोरौरससत्त्वे तु न कस्मा अपि । प्रतिग्रहीत्रौरसांश- चतुर्थभागं हरेत् । "उत्पन्ने लौरसे पुत्रे” इति वचनात् । इति । अत्र प्रमाणं महर्षिः कात्यायनो लौगाक्षिश्च । अथ यद्येषां वासु भार्यास्वपत्यं न स्याद्रिक्थं हरेयुः पिंडं चैभ्यो दद्युरिति । यामु- घ्यायणदत्तकादीनां दायविभागः । ४६ अथ केवलयामुष्यायणदत्तकादीनां श्राद्धवि- चारः। तत्र केवलानां दत्रिमादीनां जनककुले न १) प्रथमं के वलानां श्राद्ध जनकादिश्राद्धं । प्रागुक्त "गोत्ररिक्थे...स्वधे"ति विचारः मनुवचनेन तन्निवृत्त्युक्तेरिति केवलदत्रिमा- दीनां श्राद्धविचारः॥ २ अथ घ्यामुष्यायणदत्तकादीनां श्राद्धविचारः । व्यामुष्यायणदत्तकादिभिरुभयकुले पुत्रासत्त्वे श्राद्धं ब्यामुष्यायणानां कार्य। तत्सत्त्वे तूभयकुलेऽपि न कार्य । तदाहतु- श्राद्धविचारः महर्षिः कात्यायनो लौगाक्षिश्च । अथ ये दत्तकी- तकृत्रिमपुत्रिकापुत्राः परपरिग्रहेण व्यार्षेया जातास्ते ब्यामुष्यायणा भवंति । यथा शौंगशैशिरीणां यानि चान्यान्येवं समुत्पत्तीनि कुलानि भवंतीत्यादिना द्वयोः पित्रोः प्रवरानुक्त्वोक्तं ॥ अथ यद्येषां स्वासु भार्यास्वपत्यं न स्याद्रिकथं हरेयुः पिंडं चैभ्यस्त्रिपुरुषं दधुः । यद्युभयोर्न स्यादुभाभ्यामेव दयुरेकस्मिंश्छ्राद्धे पृथगुद्दिश्यैकपिंडे द्वावनुकीर्तयेत्परिग्रहीतारं चोत्पादयितारं चातृतीयात्पुरुषात् । इति । व्यामुष्यायणो जनकस्य प्रतिग्रहीतुर्वा पुत्रान्तरासत्त्वे तस्मै पिंडं दद्यात् रिक्थं च हरेत् । न तत्सत्त्वे । यदा तूभयोरप्यौर- सपुत्रसत्त्वं तदा कस्मा अपि पिंडं न दद्यात् । प्रतिग्रहीत्रौरसां- शस्य चतुर्थ भागं हरेत् । "उत्पन्ने त्वौरसे पुत्रे चतुर्थांशहराः सुताः। सवर्णा असवर्णाश्च प्रासाच्छादनभाजना” इति कात्यायनोक्तेः सवर्णाः क्षेत्रजदत्तकाद्या इति विज्ञानेश्वरः । यदा तु उभयोः पुत्राभावस्तदा द्वयोरपि पित्रोरापरपक्षिकाद्येकमेव श्राद्धं तंत्रण कुर्यात् । तत्रैकः पिंडः एकस्मिन्नेव पिंडे द्वयोः पित्रोः पृथगुद्देशः। तत्र प्रथमं परिग्रहीतुः पश्चादुत्पादयितुरुद्देशः । अादावप्ययमेव न्यायः । अत्रापत्यपदमधिकार्युपलक्षकं । पौत्रादिसत्त्वे रिक्थ- ग्रहणासंभवात् । इति तदर्थः। आपस्तंबोऽपि “यो द्विपिता स्यादेकैकस्मिन्पिडे द्वौ द्वावुपलक्षयेदि"ति । बौधायनोपि "द्वि- पितुः पिंडदानं स्यात्पिडे गोत्रे च नामनी । त्रयश्च पिंडाः षण्णां स्युरेवं कुर्वन्न मुह्यति” इति । नारदस्मृतौ तु "व्यामुष्यायणका द्द्याभ्यां पिंडोदके पृथक् । रिक्थादर्धं समादधुर्बीजिक्षेत्रिक- योस्तथे"ति । अत्र पृथगित्यभिधानादेकैकस्मिन्पितृवर्गे त्रयस्त्रयः पिंडा इत्येवं षट्तिंडाः प्रदेया इत्युक्तं भवति । अत एव देवल- स्मृतौ "ब्यामुष्यायणका दद्युाभ्यां पिंडोदके पृथक् । षण्णां देयस्तु षपिंडा एवं कुर्वन्न मुह्यति" इति । यथागृह्यं व्यवस्था ५७ चेत्यवगंतव्यमिति हेमाद्रिः। पिंडभेदपले व्यामुष्यायणपुत्रस्या- परपक्षिकादौ पित्रे एकः पितामहप्रपितामहयोद्वौं द्वाविति पंच। तत्पौत्रस्य पितुरेकः पितामहस्य चैक इति द्वौ । प्रपितामहस्य द्वाविति चत्वारः । प्रपौत्रस्य तु त्रय एवेति । केचित्तु एकै- कस्मिन्पिडे द्वौ द्वाविति कुंडगोलकपरं वर्णयति । तत्तु न स्मृत्यंत- रसंवादि । इति हेमाद्रौ मयूखे चेति ॥ अथ सपिंडन- प्रकारमाह हेमाद्रौ कार्णाजिनिः । यावंतः पितृवाः स्युस्तावद्भिर्दत्तकादयः। प्रेतानां योजनं कुर्युः स्वकीयैः पितृभिः सह। द्वाभ्यां सहाथ तत्पुत्राः पौत्रास्त्वेकेन तत्समं । चतुर्थपुरुषे छंदस्तस्मादेषा त्रिपौरुषी । साधारणेषु कालेषु विशेषो नास्ति वर्गिणां। मृताहे त्वेकमुद्दिश्य कुर्युः श्राद्धं यथाविधी"ति ॥ अस्या- र्थमाह हेमाद्रिः। दत्तकादयो जनकपालकयोः कुले प्रेतानां स्वस्ववर्गीयैः सपिंडनं कुर्युः । दत्तकानां पुत्रास्तु पितुर्दत्तकस्य पितृभ्यां जनकपालकाभ्यां स्वपितामहाभ्यां सपिंडनं कुर्युः । तेषां पौत्राः खपितरं दत्तकेन पितामहेन तज्जनकेन च सपिंडयेयुः । चतुर्थोऽपि तत्कुलस्थ एव । तेषां प्रपौत्रास्तु दत्तकस्य प्रपितामहस्य पालककुलस्थं चतुर्थ योजयेन्न वा । छंद इच्छा । दर्शमाहालयादौ तु द्वयोः पित्रोः पितामहयोः प्रपितामहयोर्वा श्राद्धं देयं । तत्र द्वयोः पित्राद्योः पृथकू पिंडदानं द्वयोरुद्देशेनैको वेति हेमाद्रिकृतका) जिनिवा- क्यार्थः । एकमुद्दिश्येति प्रतिसंवत्सरमेकोद्दिष्टमेवेति मृताहे एको- द्दिष्टाचारपरमिति निर्णयसिंधुटीकायां ॥ यथेदं द्विपितृकस्य पितृपार्वणद्वयं दर्शितं तथा तुल्यन्यायात् । “मातामहानामप्येव"- मिति कातीयश्राद्धसूत्रात् । “पितरो यत्र पूज्यंते तत्र ५८ (१) केवलानां मातामहा ध्रुवमिति स्मृतेश्च व्यामुष्यायणदत्तकादीनां प्रतिग्रहीत्री- पित्रादीनां जननीपित्रादीनां च पार्वणद्वयं । उभयमातामहपार्वण- मित्यर्थः । अत्रापि प्रथमं प्रतिग्रहित्रीपित्रादीनां पश्चाजननीपि- त्रादीनां निर्देशो बोध्यः । एवं यच्छाखीयानां आभ्युदयिकापरप- क्षिकादौ मातृमातामाहीपार्वणे भिन्ने तेषामप्ययमेव न्यायः । इति केवलढ्यामुष्यायणदत्तकादीनां श्राद्धविचारः॥ ४७ अथ केवलयामुष्यायणदत्तकादीनामाशौच- विचारः। तत्र केवलदत्रिमादीनां जनककुले आशौचविचारः जनकपितृमातृसोदरसपिंडादीनां च मरणे परस्पर- माशौचं नास्त्येव । प्रागुक्त “गोत्ररिक्थे” इति मनुवचनेन पितृत्वमातृत्वपुत्रत्वादिसंबंधस्य निवृत्त्युक्त्या भार्यापुत्र- शब्दयोः संबंधिशब्दत्वाद्यत्प्रतियोगिकं भार्यात्वं पुत्रत्वं च तस्यैवेदमाशौचमिति मिताक्षरासिद्धांतात् । “गोत्ररिक्थे" इति मनुवचनं तु प्राक्केवलानां गोत्रप्रवरविचारे व्याख्यातं । ननु "बैजिकादभिसंबंधादनुरुंध्यादधं त्र्यहमि"ति मनुवचनेन बैजिकसंबंधाविशेषाद्वाचनिकाशौचस्यानिवार्यत्वात्केवलदत्रिमादीनां जनकमातापित्रोश्च मृतौ परस्परं त्रिरात्रमाशौचं भवत्येवेति चेन्न "गोत्ररिकूथे” इति मानवेनैव जन्यजनकसंबंधस्यापि निवृत्तेः प्रागभिहितत्वात् । न चास्य दत्रिमवाक्यस्य बैजिकवाक्येन बाधो वाच्यः । दत्रिमवचनस्य विशेषशास्त्रत्वात् बैजिकवचनस्य सामान्यशास्त्रत्वाच्च बैजिकवचनेन दत्रिमवचनस्य बाधो दूरतरः प्रत्युत दत्रिमवचनेन बैजिकवचनस्य बाधो भवितुमुचित एव । "सामान्यविधिरस्पष्टः संहियेत विशेषतः।” इति न्यायात् ।
ततश्च बैजिकवचनस्यात्राप्रवृत्तेर्दत्तकातिरिक्तस्थले क्षेत्रजादौ साव- काशत्वात् । तथोक्तं दत्तकमीमांसायां । यत्तु "बैजि- का० उयहमिति तदपि “व्यैपैति दतः स्वधे"त्यनेनापोदितं । दत्तकातिरिक्तस्थले तस्य सावकाशत्वादिति । तथाचात्र दत्तकमी- मांसाटीकायां बालविबोधिन्यां तदपीति । तथाच "बैजिका- दभिसंबंधादिति” सामान्यवचनस्य गोत्ररिकूथे जनयितुरि" त्यनेनापवादादित्यभिप्रायः । दत्तकातिरिक्तस्थले इति । तथाच तद्वचनस्य "अन्यपूर्वा" जातापत्यविषयत्वमवतिष्ठते । अत एव कुल्लूकभट्टः । बैजिके तु परपूर्वाभार्यायामपत्योत्पत्तौ व्यहमा- शौचं भवतीति तद्वचनं व्याख्यातवानिति भरतचंद्रशिरोमणिः । अन्यैरपि मनुस्मृतिव्याख्यातृभिरित्थमेव प्रतिपादितं । तथाचात्र मेधातिथिः। बैजिकादभिसंबंधात्। बीजनिमित्तको बैजिकः । अभि- संबंधः अपत्योत्पत्तिः। अतस्तत्र कथं नानुरुंध्यान्नानुवर्तेत । अवमा- शौचं । व्यहं । यादृशं च शुक्रनिरसनेन कृतस्नानस्याशुचित्वं न तादृशमेव प्रसवे । अपि तु त्र्यहमिति । बैजिकादिति । स्वस्त्री- व्यतिरिक्तासु स्त्रीषु जनितानां प्रसवमरणयोर्बीजसंबंधात्र्यहमघमा- शौचमनुरुंध्यात् बैजिकादिति दशाहाशौचाभावार्थ । बीजमात्रसं- बंधो न तु स्वभार्याद्वाराऽपि संबंध इति तात्पर्येणोक्तमिति सर्वज्ञनारायणरामचंद्रौ । बैजिके तु संबंधे परपूर्वाभार्याया- मपत्योत्पत्ती व्यहमाशौचं । तथाच विष्णुः । परपूर्वाभार्यासु त्रिरात्रं रेतःपातिनामाशौचं प्रकृतमपि जननप्रकरणे प्रसंगात्त- दनुगुणतयोक्तं । यत्र रेतःपातमात्रेण स्नानं तत्रापत्योत्पत्ती त्रिरात्रमुचितमिति कुल्लूकः । यत्र पुनर्जनने वीजनिमित्तमात्र ।
६० . एवाभिसंबंधो न शास्त्रत इति गोविंदराजः। सपिंडतादि- संबंधासत्त्वेन बीजं रेतःसंबंधहेतुरिति राघवानंदः। त्रिरात्रा- नुवृत्तौ विष्णुस्मृतावपि-"अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु चे"ति ॥ शंखोऽपि 'अनौरसेषु पुत्रेषु भार्यावन्यगतासु च । परपूर्वासु च स्त्रीषु व्यहाच्छुद्धिरिहेष्यते” इति ॥ बृहस्पतिरपि “अन्याश्रितेषु दारेषु परपत्नीसुतेषु च । मृतेष्वाप्लुत्य शुध्येत्तु त्रिरात्रेण द्विजोत्तमः' इति । हारितोऽपि “परपूर्वासु भार्यासु पुत्रेषु मृतकेषु च । मातामहे त्रिरात्रं स्यादेकाहं त्वासपिण्डतः।” इति बार्हस्पत्यहारीत- वचनयोश्च मूलं मृग्यं । यदा तु पितुस्लिरात्रं तदा सपिण्डा- नामेकरात्रं । यथाह मरीचिः “सूतके मृतके चैव त्रिरात्रं पर- पूर्वयोः। एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितु"रिति । याज्ञ- वल्क्येन तु क्षेत्रजाघनौरसानां तन्मातापित्रोश्च प्रसवमरणयोः परस्परमेकाहमाशौचमुक्तं ॥ तथाहि "एकाहानुवृत्तौ” “अनौर- सेषु पुत्रेषु भार्यावन्यगतासु च” इति ॥ यदा पितुरेकाहं तदा सपिण्डानामाशौचाभाव एव । यथाह प्रजापतिः "अन्याश्रितेषु दारेषु परपत्नीसुतेषु च । गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्पिता" इति । एकरात्रेणेति पाठो यदि मूलसंमतः स्यात्तदानीं स एव युक्ततर इति भाति । नचायं विरोधः संपद्यते इति वाच्यं । सन्निधिविदेशस्थापेक्षया व्यवस्थया विरोधस्य परिहृतत्वात् । तथोक्तं मिताक्षरायां । अहरित्यनुवर्तते । अनौरसाः क्षेत्रजदत्तका- दयः तेषु जातेषु उपरतेषु वाऽहोरात्रमाशौचं । तथा स्वभार्याख- न्यगताखन्यं प्रतिलोमव्यतिरिक्तमाश्रितास्वतीतासु चाहोरात्रमेव । ।
न पुनः सत्यपि सापिण्डथे दशरात्रं । प्रतिलोमाश्रितासु चाशौचा- भाव एव । पाखण्ड्यनाश्रिताः स्तेना इत्यनेन प्रतिषेधात् । एतच्च भार्यापुत्रत्वशब्दयोः संबंधिशब्दत्वाद्यत्प्रतियोगिकं भार्यात्वं पुत्रत्वं च तस्यैवेदमाशौचं । सपिण्डानां त्वाशौचाभाव एव । अत एव प्रजापतिः। 'अन्याश्रितेषु दारेषु परपत्नीसुतेषु च । गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्पिता” इति । स्वैरिण्याद्यास्तु यमा- श्रितास्तस्य तु त्रिरात्रमेव । यथाह विष्णुः “अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु चे"ति । त्रिरात्रमत्र प्रकृतं । अनयोश्च त्रिरात्रैकरात्रयोः सन्निधिविदेश- स्थापेक्षया व्यवस्था । यदा तु पितुत्रिरात्रं तदा सपिण्डानामेकरात्रं । यथाह मरीचिः । “सूतके मृतके चैव त्रिरात्रं परपूर्वयोः । एकाहस्तु सपिंडानां त्रिरात्रं यत्र वै पितु"रिति । अत्र 'अनौरसाः क्षेत्रजदत्तकादयः ।" इति । दत्तकग्रहणं दत्तकादिषु उपचारवृत्त्या अनौरसत्वज्ञापनार्थ न पुनः प्रकृताशौचप्रतिपादनार्थमिति ज्ञेयं । अस्य याज्ञवल्क्यवचसो “बैजिकादभिसंबंधा"दिति मनुव- चनेन तुल्यतया समानकक्षत्वात् । दत्तकाशौचरूपप्रकरणाभावात् । अस्य प्रकरणस्य अन्यपूर्वाप्रसूतानौरसाशौचविषयत्वात् । दत्तका- शौचस्य दत्तकलक्षणकथनेनैव गतार्थत्वात् । अत एव न केनापि स्मृतिका दत्तकाशौचं पृथगभिहितं । शुद्धिमयूखे मिताक्ष- रोक्त एवाशयः । षडशीतौ कौशिकाचार्या अपि "अनुलोमाश्रितायास्तु भार्यायाः प्रसवे मृतौ ॥ पुत्रस्यानौरसस्यापि समीपे त्रिदिनाच्छुचिः। अन्यत्र तु दिनादन्यपूर्वापत्न्या दिनत्रयात् । बैजिकादभिसंबंधानुरुंध्यादचं त्र्यहमिति । स्पष्टमस्य "बैजिका- .
। । दिति” चरणेनान्यपूर्वी प्रसूतानौरसाशौचविषयत्वमुक्तं षडशी- तिश्लोकव्याख्यानावसरे नंदपंडितः। पुत्रस्यानौरसस्या- पीति। अनौरसाः क्षेत्रजो गूढजः कानीनः सहोढः पुत्रिकापुत्रश्चेति तेषां प्रसवे उत्पत्तौ क्रीतकृत्रिमदत्तकस्वयंदत्तापविद्धाग्रहीतुर्भवंती- त्यर्थः। पौनर्भवस्त्वन्यपूर्वाप्रसव एव वक्ष्यते इत्यादि भेदं प्रदय पुनः। "औरसं वर्जयित्वा तु सर्ववर्णेषु सर्वदा । क्षेत्रजादिषु पुत्रेषु जातेषु च मृतेषु च ।आशौचं तु त्रिरात्रं स्यात्समानमिति निश्चयः" इति सर्वदा सर्वकालं उपनयनाद्यनंतरमपि । इत्यनेन ब्राह्मणसर्वे- पामविशेषोपादानादिति । इत्यंतेन दत्तकादीनामपि त्रिरात्राशौच- मुक्तं । तन्मूलासंगतत्वादत्तकमीमांसास्थस्वकीयलेखविरुद्धत्वादुपे- क्ष्यं । वस्तुतस्तु ब्राह्मवचनान्यपि अन्यपूर्वाप्रसूतानौरसाशौच- विषयकान्येवेति स्पष्टं प्रतीयते तद्वचनस्वारस्यादिति । निर्णया- मृते मिताक्षरोक्त एवाशयः । ननु द्वैतनिर्णये दत्तक- पुत्रमरणे सापिंड्यादशाहमाचरंति तत्प्रतिग्रहीतृपत्नीपुत्रांतरादयः सर्वे इति शिष्टाचारः। तत्र विरुद्धं याज्ञवल्क्यवाक्यमित्युप- क्रम्य याज्ञवल्क्यविष्णुप्रजापतिमरीचिप्रभृतीनां वचनानि दत्तकादीनां वयोऽवस्थाशौचविषयकाणीति व्यवस्थापितमिति चेन्न द्वैतनिर्णयकृतां प्रवृत्तेरुद्देशस्तु केवलं विरुद्धत्वेनोपस्थितयाज्ञवल्क्यवचसो व्यवस्था- करणमिति । यदि तद्विरुद्धमेव न समायाति । कुतोऽयं महत्प्रया- ससाध्यो व्यवस्थाकरणप्रयत्नः । कथं न विरुद्धमिति त्वनुपदमे- वोल्लिखितं तत्पश्यतु भवंतः। मदनपारिजाते तु । अनौ- रसेषु पुत्रेषु क्षेत्रजदत्तकादिषु जातेषु मृतेषु वा सन्निधौ पित्रोखिरात्रं सपिंडानामेकाहः । असन्निधौ तु पित्रोरेकाहः । सपिंडानां सद्यः।
शौचमिति निर्णयसिंधौ धर्मसिंधौ प्रयोगदर्पणे स्मृत्यर्थसारे रेणुका- रिकासु त्रैय्यंबकीये भट्टोजीदीक्षितकृताशौचनिर्णये आशौचसंग्रहे इत्यादिग्रंथेषु मदनपारिजातोक्त एवाशयः। विस्तर- भिया नोद्धृतो जिज्ञासुभिस्तत्र तत्र द्रष्टव्यः । तद्यय- मेवाशयः समादरणीय इति चेन्न । यद्यप्येते निबंधारो विद्वन्मान्या- स्तथाऽपि तेषामाशयो नादरपथमारोहति । मनुयाज्ञवल्क्यस्मृतिवि- रोधात् । याज्ञवल्क्यवचनस्य तत्रत्यमिताक्षरायाश्च अन्यपूर्वाप्रसूत- विषयत्वेन तन्मूलकस्यैतेषां विद्वन्मान्यानामाशयस्य विनिगमनावि- रहत्वप्रसक्तिर्दुर्निवारैवेत्यलं पल्लवितेनेति । तत्सिद्धं जनक- कुले केवलदत्रिमादीनामाशौचलेशोऽपि नास्तीति । पालककुले तु केवलत्रिमादीनां पालकपितृमातृसपिण्डादीनां च मरणे परस्परं यथायथं वयोऽवस्थाशौचं जात्याशौचं चौरसवत्स- मानमेव। पालकासाधारणपुत्रत्वात् । तदेकगोत्रत्वात् । तदेकसापिं- ड्यात् । शिष्टाचाराच्च । एते हि हेतवः पूर्व प्रपंचिताः ॥ इति केवलदत्रिमादीनामाशौचविचारः॥अथ व्यामुष्या- यणदत्तकादीनां जनकपालकोभयमातृपित्रादिसपिण्डानां च मरणे उभयकुले परस्परं सगोत्रसपिण्डत्वाद्यथायथं वयोऽवस्थाशौचं जात्याशौचं चौरसवत्समानमेवेति । अत्र केवल ब्यामुष्यायणाना- माशौचविचारः। व्यामुष्यायणदत्तकाशौचविचारे आदि"पदेन क्रीतकृत्रिमस्वयंदत्तापविद्धा ग्राह्याः। तथा “आ- शौचपदं” जननमरणनिमित्ताशौचपरं ॥ उपनयनात्याकालीनमा- शौचं वयोऽवस्थाशौचमित्यभिधीयते ॥ उपनयनोत्तरकालीनमाशौचं जात्याशौचमित्यभिधीयते इति ध्येयं ॥ इति व्यामुष्याय- णदत्तकादीनामाशौचविचारः॥ ४८ अथ केवलझ्यामुष्यायणदत्तकादीनां दानप्रति- ग्रहप्रयोगः । तत्रादौ तत्संबंधि किंचिदुपवर्ण्यते । दानप्रतिग्रहप्र- योगाश्च त्रयः । तत्र शौनकोक्तो ऋग्वेदिनां । बौधायनोक्तस्तैत्तिरी- यादिकृष्णयजुर्वेदिनां । वासिष्ठोक्तो माध्यंदिनादिशुक्लयजुर्वेदिनां सामवेदिनामाथर्ववेदिनां चेति शाखाभेदेन व्यवस्थेति प्रागुक्तमेव । अयं च होमव्यतिरिक्तो दानवर्जितश्च प्रतिग्रहीतुर्विधिः क्रीत- कृत्रिमापविद्धस्वयंदत्तेषु यथायथं बोध्यः । स्वयंदत्ते तु दान- होमावपि भवतः। मनुना तत्तदुपसर्गेण बोधनात्। निर्णयसिंधुटी- कायामपि । दत्तकः अत्र होमान्यो ग्रहणापादनप्रतिग्रहीतृगोचरः सर्वोऽपि नियमः क्रीतकृत्रिमापविद्धस्वयंदत्तेष्वपि यथासंभवमाव- श्यकः । अदृष्टार्थत्वात् । तस्य प्रदानविक्रयपरित्यागेषु मातापितरौं अभवत इति वासिष्ठे क्रयपरित्यागयोरुपादानात् । स्वयंदत्ते तु हो- मोऽपि प्रतिग्रहसत्त्वात् । यत्तु द्वैतनिर्णये प्रजोत्पादनविधेनित्यत्वेन प्रयोगविधिप्रयोज्यहोमाचंगेषु यथाशक्तिन्यायः । तन्न प्रजोत्पादनवि- धेःस्वरूपतो नित्यत्वेऽपि फलतः काम्यत्वादत्तकादिषूत्पत्स्यमानपुत्र- त्वस्य होमादिजन्यत्वाच्च सांगएव प्रतिग्रहविधिरनुष्ठेयः । तदेतत्सर्व निर्णयसिंधौ तट्टीकायां च स्पष्टं इति ॥ बौधायनसूत्रेप्येवं ॥ (१) अथ शौनकोक्तः पुत्रग्रहप्रयोगः॥ तत्र मूल- वाक्यानि निर्णयसिंधौ पारिजाते शौनकः। शौनकोहं प्रवक्ष्यामि पुत्रसंग्रहमुत्तमं । अपुत्रो मृतपुत्रो वा पुत्रार्थ समुपोष्य च । वाससी कुण्डले दुत्वा उष्णीषं चांगुलीयकं ॥ १॥ आचार्य 50 ६५ धर्मसंयुक्तं वैष्णवं वेदपारगं । बर्हिःकुशमयं चैव पालाशमिध्ममेव च ॥२॥ एतानाहृत्य बंधूंश्च ज्ञातीनाहूय यत्नतः।। बंधूनन्नेन संभोज्य ब्राह्मणांश्च विशेषतः। अन्वाधानादि यत्तंत्रं कृत्वाऽज्योत्पवना- दिकं ॥ ३ ॥ दातुः समक्षं गत्वा तु पुत्र देहीति याचयेत् । दाने समर्थो दाताऽस्मै ये यज्ञेनेति पंचभिः ॥४॥ देवस्यत्वेति मंत्रण हस्ताभ्यां परिगृह्य च । अंगादंगेत्यूचं जत्वा आघ्राय शिशुमूर्धनि ॥ ५॥ गृहमध्ये तमादाय चरुं कृत्वा विधानतः । यस्त्वा हृदेत्यूचा चैव तुभ्यमग्नऋचैकया ॥६॥ सोमोदददित्येताभिः प्रत्यर्च पंचभि- स्तथा । स्विष्टकृदादिहोमं च कृत्वा शेषं समापयेत् ॥ ७ ॥ ब्राह्म- णानां सपिण्डेषु कर्तव्यः पुत्रसंग्रहः । तदभावेऽसपिंडो वा अन्यत्र तु न कारयेत् ॥ ८ ॥ क्षत्रियाणां सजातौ वा गुरुगोत्रभवोपि वा। वैश्यानां वैश्यजात्यां तु शूद्राणां शूद्रजातिषु ॥ ९ ॥ सर्वेषां चैव जातीनां ज्ञातिष्वेव च नान्यतः। नैकपुत्रेण कर्तव्यं पुत्रदानं कदा- चन ॥ १० ॥ बहुपुत्रेण कर्तव्यं पुत्रदानं च यत्नतः । दक्षिणां गुरवे दत्वा यथाशक्ति द्विजोत्तमः ॥ ११॥ इति शौनककारि- कायां पुत्रप्रतिग्रहविधिः ॥ अत्र निर्णयसिंधुटीका ॥ अपुत्रो मृतपुत्रो वेति । उद्देश्यविशेषणतया उपादेयमपि राजत्वव- दधिकारिसंकोचकं । वंध्या वा मृतपुत्रा वा पुत्रार्थ समुपोष्य च । इति वाक्यांतरे वंध्यात्वाद्यपि तथा । अतो वंध्या वेति न शौन- कीयमिति स्पष्टं प्रतीयते ॥ पुत्रार्थमिति । पुत्रं प्रतिग्रहीष्यन्बन्धू- नाहूय चावेद्येति वासिष्ठात् । राजा च ग्रामपाल इत्याहुः। गणेशार्चनादिनांदीश्राद्धांतंतूभयोरपि । नांदीश्रांद्धांतंतूभयोरिति व्यवहारमयूखेऽपि ॥ वाससी कुण्डले दत्वेति । प्रयोगपारि- । - दत्त०५ जाते नंदपंडितीये चायमेव पाठः। इदं वरणविधिना वृताचार्याय दानं "दत्वा" इत्यस्य "आदाय" इत्यनेन समानकर्तृ- कत्वात् । न तु प्रतिग्रहीष्यमाणपुत्राय । दातृसमक्षमिदानीमगम- नात् । आचार्याय तदानं च धृतवासोद्वयोष्णीषकुंडलस्याचार्यस्य दातुर्गृहे नयनाथ । तेन प्रतिग्रहीतुरापत्तिशून्यत्वं व्यज्यत इत्य- प्याहुः । पुत्रार्थमपि वाससी कुण्डले उष्णीषमंगुलीयकं च संपाद्य मूर्धनीत्यनंतरं "वस्त्रादिभिरलंकृत्य पुत्रच्छायावहं सुतं” इति ग्रंथांतरावधृतशौनकात् । छायावहं सदृशं । तत्र "वस्त्रादि- भि"रित्यादिना कुण्डलादिग्रहः । दत्वेत्यस्याचार्याधीनं कृत्वेत्यर्थे तु तहानं लुप्यते । “वाससी कुण्डले छत्रमुष्णीषं चांगुलीयकमि" ति पठतां मते एव । अतो "वस्त्रादिभिरलंकृत्येति" "वाससी कुण्डले" इति च वचनद्वयं न शौनकीयमिति स्पष्टं प्रतीयते । ब्राह्मणान त्रीन्बहुवचनात् । अन्वाधानादि आचार्यकृत्यं । दातुरिति । ग्रही- तृकृत्यं । याचयेदितिणिजविवक्षितः । आचार्यादिरन्य एव कश्चन याचेत । अयं तु याचयेदिति सविवक्षित इत्यन्ये । दाने इति दातृकृत्यं । दवेति क्त्वाप्रत्ययः । दातेति तृजपाठे दद्यादिति शेषः । दाने समर्थ इति च पत्न्या अनुमत्यनपेक्षाव्यंजकं । पंच ऋगते । इमं पुत्रं तुभ्यमहं संप्रददे न मम इति दद्यादित्यर्थः । "प्रतिगृह्णीत मानवं सुमेधस” इति मंत्रलिंगात् । ड्यामुष्या- यणे च न मम इत्यस्य त्यागः । देवस्यत्वेति प्रतिग्रहीतृकृत्यं । चकारेण स्वशाखोक्तकामस्तुतिसमुच्चयः । आदाय धृतवस्त्रद्वयकु- ण्डलोष्णीषादि वाद्यादिघोषपूर्वकमानीय । चरुमिति ॥ आचार्य- कृत्यं । होममंत्रानाह । यस्त्वाहृदा इत्यूचा चैवेति । एवं सप्तभिर्मत्रैः ।
सप्तचर्वाहुतीर्तुत्वेत्यर्थः । अत्र बचानां शौनकोक्त एव विधिः । तत्र यस्त्वाहृदा इत्येकया ऋचा होमः ॥ शौनकोक्तौ यस्त्वा हृदा व्यूचा चैव पठित्वा ऋद्वयकरणको होम इति वदतां महासा- हसं। आज्योत्पवनादिकमित्यादिना बर्हिषि हविरासादनांतं लभ्यते॥ शेषे कश्चिदंशः पूर्व व्याख्यातःकश्चिदंशः सुस्पष्टः। इति ॥ अथ प्रयोगः॥ प्रतिग्रहीतुः पूर्वेयुरुपवासः । परेधुबै- धूनाहूय । प्रतिग्रहं राज्ञे (राजनियुक्तयामाऽधिकारिणे) कथ- यित्वा । स्नात्वा । आचम्य । पवित्रे धृत्वा । प्राणानायम्य । देश- कालौ संकीर्य । संकल्पः। तत्रादौ केवलदत्तकप्रतिग्रह- संकल्पः। ग्रहीष्यमाणपुत्रस्य अमुकगोत्र-अमुकशर्मणां तजनका- दीनां च परस्परं विद्यमानपितृपुत्रभावादितत्तत्संबंधनिवृत्तिद्वारा तत्तत्प्रयुक्तकार्यनिवृत्तिपूर्वकं अमुकगोत्र-अमुकशर्मणामस्मदादीनां ग्रहीष्यमाणपुत्रस्य च परस्परं पितृपुत्रभावादि तत्तत्संबंधप्रवृत्ति- द्वारा तत्तत्प्रयुक्तकार्यप्रवृत्तये पुत्रं प्रतिग्रहीष्ये ॥ केवलवयंद- त्तेऽपि एष एव संकल्पः। अथ यामुष्यायणप्रतिग्रह- संकल्पः। ग्रहीष्यमाणपुत्रस्य अमुकगोत्राऽमुकशर्मणां तज्जनका- दीनां च परस्परं पितृपुत्रभावादिसंबंधसत्त्वेऽपि अमुकगोत्राऽमुक- शर्मणामस्मदादीनां ग्रहीष्यमाणपुत्रस्य च परस्परं पितृपुत्रभावादि- संबंधसिध्यर्थ पुत्रं प्रतिग्रहीष्ये ॥ यामुष्यायणखयंदत्तप्र- तिग्रहसंकल्पोप्येष एव । इति संकल्प्य ॥ गणेशपूजना- दिनांदीश्राद्धान्तं विधाय ॥ आचार्य वृत्वा मधुपर्केण पूजयेत् ॥ मधुपर्काते त्रीन्ब्राह्मणान्बंधुवर्गाश्चान्नेन भोजयेत् ॥ अथाचार्यों यजमानानुज्ञया पुत्रप्रतिग्रहांगहोमं करिष्ये इति संकल्प्य ॥
अग्निं प्रतिष्ठाप्य ॥ चक्षुषी आज्येनेत्यंतंमुक्त्वा । सकृदग्निं सूर्यासा- वित्री षडारं चरुणा। अग्निं वायुं सूर्य प्रजापतिं चाज्येन शेषेण स्विष्टकृतं । इत्यन्वाधाय ॥ अष्टाविंशतिमुष्टीस्तूष्णीं निरूप्य । तथैव प्रोक्ष्य । आज्योत्पवनादिबर्हिषि हविरासादनान्तं कृत्वा ॥ आचार्य- प्रभृतिब्राह्मणैः सह दातुः समक्षं गच्छेत् । दातारं प्रति एतस्मै पुत्रं देहीति आचार्यादिः कश्चन याचेत । एवं ब्राह्मणद्वारा याच्या कारयेत् । पुत्रं देहीति । वयं वा याचेत ॥ ततो दाता। आचम्य । पवित्रे धृत्वा ॥ प्राणानायम्य ॥ देशकालौ संकीर्य । अथ केवलदत्तकदानसंकल्पः । अमुकगोत्रामुकशर्मणां अस्मदादीनां अस्य पुत्रस्य च परस्परविद्यमानपितृपुत्रभावादित- तत्संबंधनिवृत्तिद्वारा तत्तत्प्रयुक्तकार्यनिवृत्तये प्रतिग्रहीतुरस्यच पुत्रस्य परस्परं पितृपुत्रभावादिसंबंधसिद्धये अमुकगोत्रामुकश- मणे अस्मै पुत्रं दास्यामि । इति । केवलस्वयंदत्ते तु । अमुकगोत्रामुक- शर्मणामस्मज्जनकादीनां मम च परस्परं० प्रतिग्रहीतुर्मम च पर- स्परं० अमुकगोत्रायामुकशर्मणे अस्मै अहमात्मानं पुत्रत्वेन दास्यामि ॥ इति ॥ अथ यामुष्यायणदत्तकदानसंकल्पः। अमुकगोत्रामुकशर्मणामस्मदादीनां अस्य पुत्रस्य च परस्परं पितृ- पुत्रभावादिसंबंधसत्त्वेऽपि प्रतिग्रहीतुरस्य पुत्रस्य च परस्परं पितृपु- त्रभावादिसंबंधसिद्धये अमुकगोत्रायामुकशर्मणे अस्मै इमं पुत्रं दास्यामि । इति ॥ यामुष्यायणखयंदत्ते तु । अमुकगोत्रामु- कशर्मणामस्मज्जनकादीनां, मम च परस्परं० प्रतिग्रहीतुर्मम च पर- स्परं० अमुकगोत्रायामुकशर्मणे अस्मै अमात्मानं पुत्रत्वेन दास्यामि। इति ॥ गणेशपूजनादिनांदीश्राद्धांतं कृत्वा । प्रतिग्रहीतारं यथा- पुन्नामनरकत्राणसिध्यर्थ श्रीपरमेश्वरप्तीत्यर्थे तुभ्यमहं संप्रदे न शक्ति संपूज्य ॥ येयज्ञेनेतिपंचानां नाभानेदिष्ठो मानवो विश्वेदेवा- त्रिष्टुप् पंचम्यनुष्टुप् पुत्रदाने विनियोगः । ॐ ये यज्ञेन दक्षिणया समक्ता० । इति ऋक्पंचकांते । इमं पुत्रं तव पैतृकऋणापाकरण- मम ॥ इति केवलदत्तके ॥ अहमात्मानं पुत्रत्वेन तव पैतृक० संप्रददे ॥ नाहं जनकपितुः ॥ इति केवलखयंदत्ते ॥ ममैत- पुत्रद्वारा संभाव्यमानपैतृकऋणापाकरणपुन्नामनरकत्राणसिद्धिस- त्त्वेऽपि तव पैतृकऋणापाकरणपुन्नामनरकत्राणसिध्यर्थं श्रीपरमेश्वर- प्रीत्यर्थ इमं पुत्रं तुभ्यमहं संप्रददे । इत्येतावन्मात्रोच्चारः । इति यामुष्यायणदत्तके ॥ महारा मज्जनकपितुः संभाव्यमान सिद्धिसत्त्वेऽपि तव पैतृक० अहमात्मानं पुत्रत्वेन तुभ्यं संप्रदे । इत्येतावन्मात्रोच्चारः । यामुष्यायणे "न मम" "नाहं जनक- पितुः" इतीमौ त्यागौ न भवतः । इति यामुष्यायणस्वयं- दत्ते ॥ केवलयामुष्यायणदत्तके । प्रतिगृह्णातु पुत्रं भवान् । केवलढ्यामुष्यायणखयंदत्ते। प्रतिगृह्णातु मां पुत्रत्वेन भवान् ॥ इत्युक्त्वा दाता प्रतिग्रहीतृहस्ते जलं क्षिपेत् । दानसांगतासिध्यर्थ दक्षिणां च दद्यात् ॥ प्रतिग्रहीता देवस्य त्वा० भ्यां ॥ प्रतिगृह्णामि । इति । पुत्रं हस्तद्वयेन गृहीत्वा स्वशाखोक्तां कामस्तुतिं पठित्वा । खांके उपविश्य । ॐ अंगादंगात्सं० शतं । इति मंत्रेण मूर्धनि जिघेत ॥ ततस्तं सुतं युवं वस्त्राणि० इति मंत्रेण वस्त्रं परिधाप्य । तूष्णीमुष्णीषं बध्वा । कुंकुमादिना तिलकं कृत्वा ॐ हिरण्यरूप० इत्यादिना कुण्डलाभ्यामलंकृत्य । छत्रेणाच्छादितं बालं नृत्यगीतवाद्यैः ॐ स्वस्तिनोमिमात० इत्यादिमत्रैश्च स्वगृहमानीय । पादौ प्र- : । क्षाल्य। आचम्य ॥ आचार्यदक्षिणतः स्वयं । स्वदक्षिणे भायाँ । तदुत्संगे दक्षिणतो वा पुत्र इत्युपविशेत् । तत आचार्यों बर्हि- रास्तरणाद्याज्यभागान्ते । चरुमवदाय । यस्त्वा हृदा इत्यात्रेयो वसुश्रुतोग्निस्त्रिष्टुप् पुत्रप्रतिग्रहांगहोमे विनियोगः। ॐ यस्त्वा- हृदा० इत्येकयैव ऋचा जुहुयात् । यजमानः अग्नय इदं न मम ॥ तुभ्यमग्नेपर्यवहन्निति सूर्यासावित्रीसूर्यासावित्र्यनुष्टुप्० । ॐ तुभ्य- मग्ने० । सूर्यासावित्र्या इदं न मम । सोमोददिति पंचानां सूर्या- सावित्री सूर्यासावित्री अनुष्टुभौ जगती त्रिष्टुबनुष्टुभौ । ॐ सोमो- ददत्० ॐ इहैव स्तं मा० । ॐ आनः प्रजां जः। ॐ अघोरच क्षुः । ॐ इमां त्वमिंद्र० । ऋक्पंचखपि सूर्यासावित्र्या इदं न मम । एवं सप्तचर्वाहुतीर्तुत्वा । स्विष्टकृदादि समाप्य ॥ आचार्याय धेनुं दत्वा यथाशक्तिदक्षिणां दद्यात् । विप्रान्भोजयेत् ॥ ततः समाचारात् स्वकुलोचितनामकरणं कुर्यात् ॥ इति शौनकोक्तः केवलद्ध्यामुष्यायणदत्तकस्वयंदत्तप्रयोगः समाप्तः ॥ (२) अथ बोधायनोक्तः पुत्रप्रतिग्रहप्रयोगः। तत्र मूलं बौधायनसूत्रं । पुत्रप्रतिग्रहविधिं व्याख्यास्यामः । शोणि- तशुक्रसंभवो मातापितृनिमित्तकः । तस्य प्रदानपरित्यागविक्रयेषु मातापितरौ प्रभवतः । नत्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा सहि सं- तानाय पूर्वेषां । न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः। प्रतिग्रहीष्यन्नुपकल्पयते । द्वे वाससी । द्वे कुण्डले । अंगुलीयकं चाचायं च वेदपारगं कुशमयं बर्हिः पर्णमयमिध्ममिति । अथ बंधूनाहूय । मध्ये राजनि चावेद्य परिषदि च । आगारमध्ये ब्राह्मणानन्नेन परिविष्य । पुण्याहं वस्त्यृद्धिमिति वाचयित्वा । अथ । । देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा । दातुः समक्षं गत्वा । पुत्रं देहीति भिक्षेत । ददामीतीतर आह । तं प्रतिगृह्णाति धर्माय त्वा प्रतिगृह्णामि संतत्यै त्वा गृह्णामि । अथैनं वस्त्रकुंडलाभ्यामंगुली- यकेन चालंकृत्य । परिधानप्रभृत्यग्निमुखांतं कृत्वा । पक्कान् जुहोति। यस्त्वाहृदाकी रिणामन्यमान इति पुरोऽनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेद इति याज्यया जुहोति । अथ व्याहृतीर्तुत्वा । स्विष्ट- कृत्प्रभृतिसिद्धमाधेनुवरप्रदानात् । दक्षिणांददात्येते च वाससी परिधाय एते च कुण्डले एतच्चांगुलीयकं । यद्येवं कृत्वौरसः पुत्र उत्पद्यते तुरीयभागे प्रभवति । इति ह माह बौधायनः । इति ।। अस्यार्थः । पर्णमयं पालाशमयं । मध्ये राजनीति । सभायां बंधुसमक्षं राज्ञे प्रतिग्रहावेदनमित्याशयः । ददामीति इतर आह । इतरो दातेत्यर्थः । शेषं स्पष्टं ॥ इति । अथ प्रयोगः॥ मुहूर्त दिने बंधूनाहूय । तत्समक्षं राजनियुक्तयामाधिकारिणे प्रतिग्रहं कथयित्वा । स्नात्वा ॥ आचम्य ॥ पवित्रे धृत्वा ॥ प्राण- नायम्य ॥ देशकालौ संकीर्य ॥ केवलदत्तकप्रतिग्रहसंकल्पः। ग्रहीष्यमाणपुत्रस्य अमुकगोत्रामुकशर्मणां तज्जनकादीनां च परस्पर विद्यमानपितृपुत्रभावादितत्तत्संबंधनिवृत्तिद्वारा तत्तत्प्रयुक्तकार्यनि- वृत्तिपूर्वकं अमुकगोत्रामुकशर्मणामस्मदादीनां ग्रहीष्यमाणपुत्रस्य च परस्परं पितृपुत्रभावादितत्तत्संबंधप्रवृत्तिद्वारा तत्तत्प्रयुक्तकार्यप्रवृत्तये पुत्रं प्रतिग्रहीष्ये । केवलखयंदत्तेप्येष एव संकल्पः । अथ ड्यामुष्यायणदत्तकप्रतिग्रहसंकल्पः। ग्रहीष्यमाण- पुत्रस्य अमुकगोत्रामुकशर्मणां तज्जनकादीनां च परस्परं विद्यमान- ॥
पितृपुत्रभावादिसंबंधसत्त्वेऽपि अमुकगोत्रामुकशर्मणामस्मदादीनां ग्रहीष्यमाणपुत्रस्य च परस्परं पितृपुत्रभावादिसंबंधसिध्यर्थं पुत्रं प्रतिग्रहीष्ये ॥ यामुष्यायणस्वयंदत्तप्रतिग्रहसंकल्पोऽ- प्येष एव ॥ इति संकल्प्य ॥ गणेशपूजनादिनांदीश्राद्धांत विधाय ॥ आचार्य वृत्वा मधुपर्केण पूजयेत् ॥ अगारमध्ये अन्नेन परिविष्य । त्रीन्ब्राह्मणान्बंधुवर्गाश्च भोजयेत् ॥ पुण्याहं । स्वस्ति । ऋद्धिं वाचयित्वा । आचार्यों यजमानानुज्ञया पुत्रप्रतिग्रहांगहोमं करिष्ये इति संकल्प्य । देवयजनोल्लेखनादि आप्रणीताभ्यः कुर्यात् । अन्वाधाने चक्षुषी आज्येनेत्यंतमुक्त्वा । सकृदग्निं चरुणा। अग्निं वायुं सूर्य प्रजापतिं चाज्येन । शेषेण स्विष्टकृतमित्याधन्वा- धाय । प्रणीताप्रणयनांते ॥ ग्रहीता आचार्यप्रभृतिब्राह्मणैः सह दातुः समक्षं गत्वा । पुत्रं मे देहीति स्वयं भिक्षेत ॥ दाता ददामी- त्याह ॥ ततो दाता ॥ आचम्य ॥ पवित्रे धृत्वा । प्राणाना- यम्य ॥ देशकालौ संकीर्ख ॥ केवलदत्तकदानसंकल्पः। अमु- कगोत्रामुकशर्मणामस्मदादीनां अस्य पुत्रस्य च परस्परं विद्यमान- पितृपुत्रभावादितत्तत्संबंधनिवृत्तिद्वारा तत्तत्प्रयुक्तकार्यनिवृत्तये प्रति- ग्रहीतुरस्य पुत्रस्य च परस्परं पितृपुत्रभावादितत्तत्संबंधप्रवृत्तिद्वारा तत्तत्प्रयुक्तकार्यप्रवृत्तये अमुकगोत्रायामुकशर्मणेऽस्मै इमं पुत्रं दास्यामि । स्वयंदत्तेतु । अमुकगोत्रामुकशर्मणामस्मज्जनकादीनां मम च परस्परं प्रतिग्रहीतुर्मम च परस्परं० अमुकगोत्रायामु- कशर्मणे अस्मै अहमात्मानं पुत्रत्वेन दास्यामि । इति । अथ यामुष्यायणदत्तकदानसंकल्पः॥ अमुकगोत्रामुकशर्मणा- मस्मदादीनां अस्य पुत्रस्य च परस्परं विद्यमानपितृपुत्रभावादिसंबंध- सत्त्वेपि प्रतिग्रहीतुरस्य पुत्रस्य च परस्परं पितृपुत्रभावादिसंबंधसिद्धये अमुकगोत्रायामुकशर्मणेऽस्मै इमं पुत्रं दास्यामि । इति ॥ यामुष्या- यणखयंदत्ते तु । अमुकगोत्रामुकशर्मणामस्मज्जनकादीनां मम च परस्परं० प्रतिग्रहीतुर्मम च परस्परं० अमुकगोत्रायामुकशर्मणेऽस्मै अहमात्मानं पुत्रत्वेन दास्यामि । इति ॥ गणेशपूजनादिनांदीश्राद्धांतं विधाय । प्रतिग्रहीतारं यथाशक्ति संपूज्य । इमं पुत्रं तव पैतृक- ऋणापाकरणपुन्नामनरकत्राणसिध्यर्थं श्रीपरमेश्वरप्रीत्यर्थ तुभ्यमहं संप्रदे । न मम । इति केवलदत्तके॥ अहमात्मानं पुत्रत्वेन तव पैतृक० संप्रददे । नाहं जनकपितुः ॥ इति केवलस्वयंदत्ते ॥ ममैतत्पुत्रद्वारा संभाव्यमानपैतृकऋणापाकरणपुन्नामनरकत्राणसि- द्धिसत्त्वेऽपि तव पैतृकऋणापाकरणपुन्नामनरकत्राणसिध्यर्थं श्रीपर- मेश्वरग्रीत्यर्थ इमं पुत्रं तुभ्यमहं संप्रददे । इत्येवमात्रं । न मम इति तु नोच्चारयेत् । इति यामुष्यायणदत्तके ॥ महारा मज्ज- नकपितुः संभाव्यमान० सिद्धिसत्त्वेऽपि तव पैतृक० अहमात्मानं पुत्रत्वेन तुभ्यं संप्रददे ॥ घ्यामुष्यायणे । “न मम" "नाहं जनकपितुः" । इतीमौ त्यागौ न संभवतः । इति यामुष्याय- णखयंदत्ते । केवलद्ध्यामुष्यायणदत्तके । प्रतिगृहातु पुत्रं भवान् । केवलब्यामुष्यायणस्वयंदत्ते । प्रतिगृह्णातु मां पुत्रत्वेन भवान् । इत्युक्त्वा दाता प्रतिग्रहीतृहस्ते जलं क्षिपेत् ॥ दानसां- गतासिध्यर्थ दक्षिणां च दद्यात् ॥ प्रतिग्रहीता ॐ धर्माय त्वा गृह्णामि संतत्यै त्वा गृह्णामि । इति मंत्रेण पुत्रं हस्तद्वयेन परिगृह्य । एनं पुत्रं वस्त्रकुंडलांगुलीयकैरलंकृत्य । गीतवाद्यैः स्वस्तिमंत्रैश्च गृह- मानीय ॥ पादौ प्रक्षाल्य ॥ आचम्य ॥ आचार्यदक्षिणतः खयं । ।
खदक्षिणे भार्या । तदुत्संगे तद्दक्षिणतो वा पुत्र इत्युपविशेत् ॥ ततआचार्यः । कुशमयं बर्हिः पालाशमिध्मं च संपाय । परिधा- नप्रभृत्यग्निमुखं कृत्वा चरुश्रपणं सादनान्ते पूर्वांगहोमं कृत्वा । चरुमवदाय । ॐ यस्त्वा हृदाकी रिणा० । इति पुरोनुवाक्यामुक्त्वा ॐ यस्मै त्वं सुकृते जातवेदः । इति याज्यया हुत्वा ।। जातवेदसे- नय इदं न मम ॥ ततो व्यस्तसमस्तव्याहृतीर्तुत्वा ॥ विष्टकदादि समाप्य ॥ आचार्याय धेनुं दत्वा यथाशक्तिदक्षिणां च दद्यात् ॥ विप्रान्भोजयेत् ॥ ततः समाचारात्स्वकुलोचितनामकरणं कुर्यात् ।। इति बोधायनोक्तः केवलढ्यामुष्यायणदत्तकखयंदत्त- प्रयोगः समाप्तः ॥२॥ (३) अथ वसिष्टोक्तः पुत्रप्रतिग्रहप्रयोगः॥ तत्र मूलं वसिष्ठसूत्रं ॥ शोणितशुक्रसंभवः पुरुषो मातापितृनिमि- त्तकः । तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः। न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि संतानाय पूर्वेषां । न स्त्री दद्यात्प्रति- गृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः। पुत्रं प्रतिग्रहीष्यन् बंधूनाहूय राजनि चावेद्य निवेशनस्य मध्ये व्याहृती त्वा । अदूरेबांधवं बंधुसंनिकृष्टमेव संप्रतिगृह्णीयात् । संदेहे चोत्पन्ने दूरे बान्धवं शूद्रमिव स्थापयेत् । विज्ञायते टेकेन बहूत्रायते इति । तस्मिंश्चेत्प्रतिगृहीते औरसः पुत्र उत्पद्यते चतुर्थभागभागी स्यादिति ॥ अस्यार्थः॥राजनि प्रामाधीशे। निवेशनं गृहं । व्याहृतीः व्यस्ताःसमस्ताश्चेति । आज्यभागान्ते आ- हुतिचतुष्टयं हुत्वेत्यर्थः॥ शेषे कश्चिदंशः पूर्व व्याख्यातः। कश्चिदंशः स्पष्ट इति ॥ यद्यप्यत्रोपवासादयो धर्मा नोक्तास्तथाप्य- विरोधिनस्ते सर्वे शाखाप्रत्ययेन शौनकायुक्ता ग्राह्याः।।
। अथ प्रयोगः॥ पूर्वेधुरुपवासं कृत्वा ॥ परेधुबंधूनाहूय । पुत्रप्रतिग्रहं राज्ञे तन्नियुक्तप्रामाधिकारिभ्यो वा कथयित्वा ॥ आचम्य ॥ प्राणाना- यम्य ॥ पवित्रधारणं । देशकालसंकीर्तनं । संकल्पः। तत्रादौ केवलदत्तकप्रतिग्रहसंकल्पः। ग्रहीष्यमाणपुत्रस्य तज्जनका- दीनां च परस्परं वर्तमानपितृपुत्रभावादितत्तत्संबंधनिवृत्तिद्वारा तत्त- त्प्रयुक्तकार्यनिवृत्तये अमुकगोत्रामुकशर्मणामस्मदादीनां ग्रहीष्यमाण- पुत्रस्य च परस्परं पितृपुत्रभावादिसंबंधप्रवृत्तिद्वारा तत्कार्यप्रवृत्तये च पुत्रं प्रतिग्रहीष्ये ॥ केवलस्वयंदत्तेप्येष एव संकल्पः॥ अथ यामुष्यायणदत्तकप्रतिग्रहसंकल्पः॥ ग्रहीष्यमाण- पुत्रस्य अमुकगोत्रामुकशर्मणां तज्जनकादीनां च परस्परं वर्तमान- पितूपुत्रभावादिसंबंधसत्त्वेऽपि अमुकगोत्रामुकशर्मणामस्मदादीनां ग्रहीष्यमाणपुत्रस्य च परस्परं पितृपुत्रभावादिसंबंधसिध्यर्थं पुत्रं प्रतिग्रहीष्ये ॥ यामुष्यायणखयंदत्तप्रतिग्रहसंकल्पो- प्येष एव ॥ इति संकल्पः॥ गणेशपूजनादिनांदीश्राद्धांत विधाय । आचार्य वृत्वा मधुपर्केण संपूजयेत् ॥ ततः पुत्रप्रतिग्र- हांगत्वेन त्रीन्ब्राह्मणान्बंधुवाँश्च भोजयिष्ये ॥ इति ब्राह्मणेभ्यो बंधुवर्गेभ्यश्चान्नदानं ॥ ततो गृहमध्ये स्थंडिले पंचभूसंस्कारपूर्वक- मग्निं प्रतिष्ठाप्य ॥ दक्षिणतो ब्रह्मासनमास्तीर्येत्यादिचरुवर्जमाज्य- भागान्ते ॥ आज्येन व्यस्तसमस्तव्याहृतिभिर्होमः॥ ॐ भूः खाहा । इदमग्नये न मम । ॐ भुवः स्वाहा । इदं वायवे न मम। ॐ स्वः स्वाहा । इदं सूर्याय न मम ॥ ॐ भूर्भुवः स्वः स्वाहा । इदं प्रजापतये न मम ॥ ततो भूराद्या नवाहुतयः ॥ विष्टकृदादिन ॥
प्रणीताविमोकांतं ॥ ततआचार्यप्रभृतिब्राह्मणैः सह दातुः समक्षं गच्छेत् । एतस्मै पुत्रं देहीति आचार्यो याचेत ॥ मह्यं पुत्रं देहीति स्वयं वा याचेत ॥ ततो दाता ॥ आचमनं ॥ प्राणा- यामः ॥ पवित्रधारणं ॥ देशकालसंकीर्तनं ॥ संकल्पः॥ तत्रादौ केवलदत्तकदानसंकल्पः॥ अमुकगोत्रामुकशर्मणा- मस्मदादीनामस्य पुत्रस्य च परस्परं वर्तमानपितृपुत्रभावादितत्तत्सं- बंधतत्तत्प्रयुक्तकार्यनिवृत्तये प्रतिग्रहीतुरस्य पुत्रस्य च परस्परं पितृपु- त्रभावादितत्तत्संबंधप्रवृत्तिद्वारा तत्तत्प्रयुक्तकार्यप्रवृत्तये अमुकगो- त्रायामुकशर्मणेऽस्मै पुत्रं दास्यामि ॥ इति ॥ केवलखयंदत्ते तु ॥ अमुकगोत्रामुकशर्मणामस्मन्जनकादीनां मम च परस्परं० प्रतिग्रहीतुर्मम च परस्परं० अमुकगोत्रायामुकशर्मणेऽस्मै अहमात्मानं पुत्रत्वेन दास्यामि ॥ इति ॥ अथ यामुष्यायणदत्तकदान- संकल्पः ॥ अमुकगोत्रामुकशर्मणामस्मदादीनामस्य पुत्रस्य च परस्परं वर्तमानपितृपुत्रभावादिसंबंधसत्त्वेऽपि प्रतिग्रहीतुरस्य पुत्रस्य च परस्परं पितृपुत्रभावादिसंबंधसिद्धये अमुकगोत्रायामुकशर्मणेऽस्मै पुत्रं दास्यामि ॥ इति ॥ यामुष्यायणस्वयंदत्ते तु । अमु- कगोत्रामुकशर्मणामस्मन्जनकादीनां मम च परस्परं० प्रतिग्रहीतुर्मम च परस्परं० अमुकगोत्रायामुकशर्मणेऽस्मै अहमात्मानं पुत्रत्वेन दास्यामि ॥ इति ॥ गणेशपूजनादिनांदीश्राद्धांतं विधाय ॥ प्रतिग्र- हीतारं यथाशक्ति संपूज्य ॥ इमं पुत्रं तव पैतृकऋणापाकरणपुन्ना- मनरकत्राणसिध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं तुभ्यमहं संप्रददे । न मम ॥ इति केवलदत्तके ॥ अहमात्मानं पुत्रत्वेन तव पैतृक० संप्र- ददे । नाहं जनकपितुः ॥ इति केवलखयंदत्ते ॥ ममैतत्पुत्र- द्वारा संभाव्यमानपैतृकऋणापाकरणपुन्नामनरकत्राणसिध्यर्थं श्रीप- रमेश्वरप्रीत्यर्थमिमं पुत्रं तुभ्यमहं संप्रददे । इत्येवमानं ॥ इति यामुष्यायणदत्तके ॥ महारा मजनकपितुः संभाव्यमान० सिद्धिसत्त्वेऽपि तव पैतृक० अहमात्मानं पुत्रत्वेन तुभ्यमहं संप्रदे । इत्येवमात्रं ॥ व्यामुष्यायणे "नमम" "नाहं जनकपितुः" इतीमौ त्यागौ न भवतः ॥ इति यामुष्यायणखयंदत्ते ॥ केवलयामुष्यायणदत्तके ॥ प्रतिगृह्णातु पुत्रं भवान् । केवल- ब्यामुष्यायणस्वयंदत्ते । प्रतिगृह्णातु मां पुत्रत्वेन भवान् । इत्युक्त्वा दाता प्रतिग्रहीतृहस्ते जलं निक्षिपेत् ॥ दानसांगतासिध्यर्थ दक्षिणां च दद्यात् । प्रतिग्रहीता । ॐ देवस्य त्वा० भ्यां । प्रति- गृहामि । इति मंत्रेण हस्तद्वयेन प्रतिगृह्य । ॐ कोदात् कस्मा० कामैतत्ते० ० ॥ इति कामस्तुतिं पठेत् ॥ स्वांके उपवेश्य । ॐ अंगादंगात्सं० शतं ॥ इति मंत्रेण शिशुमूर्द्धनि अवजित् ॥ सकृन्मंत्रण द्विस्तूष्णीं ॥ ततो वस्त्रकुण्डलांगुलीयकचंदनतिलकपुष्प- मालाचलंकृतं पुत्रं गीतवाद्यैः स्वस्तिमंत्रैश्च स्वगृहमानीय ॥ पादौ प्रक्षाल्य ॥ आचम्य । आचार्य दक्षिणतः स्वयं । स्वदक्षिणे भाया । भार्योत्संगे तदक्षिणतो वा पुत्र इत्युपविशेत् ॥ ततः समाचा- रात् खकुलोचितनामकरणं कुर्यात् ॥ आचार्याय धेनुं दत्वा यथाशक्तिदक्षिणां च दद्यात् ॥ विप्रान्भोजयेत्॥ इति वसि- टोक्तः केवलद्ध्यामुष्यायणदत्तकस्वयंदत्तः प्रयोगः समाप्त:॥ (४) अथ स्त्रीशद्राणां वासिष्ठः पुत्रप्रतिग्रह प्र- योगः॥ पूर्वेदुरुपवासं कृत्वा । परेद्युबंधूनाहूय । पुत्रप्रतिग्रहं राज्ञे तन्नियुक्तप्रामाधिकारिभ्यो वा कथयित्वा । आचमनं । तूष्णींप्राणायामः। पवित्र धारणं । देशकालसंकीर्तनं । संकल्पः। तत्रादौ केवलदत्तकप्रतिग्रहसंकल्पः। ग्रहीष्यमाणपुत्रस्य तज्जनकादीनां च परस्परं वर्तमानपितृपुत्रभावादितत्तत्संबंधनिवृत्ति- द्वारा तत्तप्रयुक्तकार्यनिवृत्तये अमुकगोत्रामुकनानीनां (शूद्रे अमुक- दासीनां अस्मदादीनां ग्रहीष्यमाण पुत्रस्य च पितृपुत्रभावादितत्तत्सं- बंधप्रवृत्तिद्वारा तत्तत्प्रयुक्तकार्यप्रवृत्तये पुत्रं प्रतिग्रहीष्ये ॥ इति॥ केवलस्वयंदत्तेऽप्येष एव संकल्पः । अथ झ्यामुष्याय- णदत्तकप्रतिग्रहसंकल्पः। ग्रहीष्यमाणपुत्रस्य तज्जनकादीनां च परस्परं वर्तमानपितृपुत्रभावादितत्तत्संबंधसत्त्वेऽपि अमुकगोत्रा- मुकनाम्नीनां (शूद्रे अमुकदासीनां) अस्मदादीनां ग्रहीष्यमाणपुत्रस्म च परस्परं पितृपुत्रभावादिसंबंधसिध्यर्थं पुत्रं प्रतिग्रहीष्ये । इति ॥ यामुष्यायणखयंदत्तप्रतिग्रहसंकल्पोप्येष एव ॥ गणे- शपूजनादिनांदीश्राद्धांतं विधाय ॥ आचार्य वृत्वा मधुपर्केण संपूज- येत् ॥ पुत्रप्रतिग्रहांगत्वेन त्रीन्ब्राह्मणान्बंधुवाँश्च भोजयिष्ये ।। इति ब्राह्मणेभ्यो बंधुवर्गेभ्योन्नदानं ॥ ततो गृहमध्ये स्थंडिले पंच- भूसंस्कारपूर्वकमग्निं प्रतिष्ठाप्य । दक्षिणतो ब्रह्मासनमास्तीर्येत्यादि चरुवर्जमाज्यभागान्ते । आज्येन व्यस्तसमस्तव्याहृतिभिर्होमः ।। ॐ भूः स्वाहा । इदमग्नये न मम । ॐ भुवः स्वाहा । इदं वायवे न मम । ॐ स्वः स्वाहा । इदं सूर्याय । ॐ भूभुर्वः स्वः स्वाहा । इदं प्रजापतये न मम । शूद्रे तु नाममंत्रेण होमः ॥ अग्नये नमः । इदमन्नये न मम । वायवे नमः। इदं वायवे न मम । सूर्याय नमः। इदं सूर्याय न मम ॥ प्रजापतये नमः । इदं प्रजापतये न मम ।। ।
तते भूराद्या नवाहुतयः॥ स्विष्टकृदादिप्रणीताविमोकांतं कृत्वा ।। तत आचार्यप्रभृतिब्राह्मणैः सह दातुः ( दाव्याः) समक्षं गच्छेत् ।। एतस्यै (शूद्रे एतस्मै ) पुत्रं देहीति आचार्यों याचेत । मह्यं पुत्रं देहीति स्वयं वा याचेत ॥ ततो दाता ॥ ( दात्री) आचम्य ।। तूष्णीं प्राणनायम्य ॥ पवित्रे धृत्वा । देशकालौ संकीर्त्य ॥ केव- लदत्तकदानसंकल्पः । अमुकगोत्रामुकनाम्नीनां (शूद्रे अमुक- दासानां) अस्मदादीनामस्य पुत्रस्य च परस्परं वर्तमानपितृपुत्र- भावादि तत्तत्संबंधनिवृत्तिद्वारा तत्तत्कार्यनिवृत्तये प्रतिग्रहीतुः (प्रति- ग्रहीन्या ) अस्य पुत्रस्य च परस्परं पितृपुत्रभावादि तत्तत्संबंधप्रवृ- त्तिद्वारा तत्तत्कार्यप्रवृत्तये अमुकगोत्राया अमुकनान्यै अस्यै । शुद्धे अमुकदासायास्मै पुत्रं दास्यामि ॥ इति ॥ अमुकगोत्रामुकनाम्नीनां (शूद्रे अमुकदासानां) अस्मजनकादीनां मम च परस्परं० प्रतिग्र- हीतुः (प्रतिग्रहीयाः) ममच परस्परं० अमुकगोत्रायै अमुकनाश्य अस्यै (शूद्रे अमुकदासायास्मै ) अहमात्मानं पुत्रत्वेन दास्यामि ॥ इति केवलखयंदत्तदानसंकल्पः॥ अथ यामुष्यायण- दत्तकदानसंकल्पः॥ अमुकगोत्रामुकनानीनां (शूद्रे अमुकदा- सानां) आस्मदादीनामस्य पुत्रस्य च परस्परं वर्तमानपितृपुत्रभावादि- संबंधसत्त्वेऽपि प्रतिग्रहीतुः (प्रतिग्रहीत्र्याः) अस्य पुत्रस्य च परस्परं पितृपुत्रभावादिसंबंधसिध्यर्थ अमुकगोत्रायै अमुकनान्य अस्यै (शूद्रे अमुकदासायास्मै ) पुत्रं दास्मामि ।। इति ॥ यामुष्यायण- खयं दत्ते तु । अमुकगोत्रामुकनानीनां (शूद्रे अमुकदासानां) अस्मजनकादीनां मम च परस्परं० प्रतिग्रहीतुः (व्याः) मम च परस्परं० अमुकगोत्रायै अमुकनाम्य अस्यै (शूद्रे अमुकदासायास्मै) LA अहमात्मानं पुत्रत्वेन दास्यामि ॥ इति ॥ गणेशपूजनादिनांदीश्रा- द्धांतं विधाय ॥ प्रतिग्रहीतारं यथाशक्ति संपूज्य ॥ इमं पुत्रं तव पैतृकऋणापाकरणपुन्नामनरकत्राणसिध्यर्थं श्रीपरमेश्वरप्रीत्यर्थ तुभ्य- महं संप्रदे । न मम ॥ इति केवलदत्तके ॥ अहमात्मानं पुत्रत्वेन तव पैतृक० संप्रदे ॥ नाहं जनकपितुः ॥ इति केवल- खयंदत्ते ॥ ममैतत्पुत्रद्वारा संभाव्यमानपैतृकऋणापाकरणपुन्ना- मनरकत्राणसिद्धिसत्त्वेऽपि तव पैतृकऋणापाकरणपुन्नामनरकत्राण- सिध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं इमं पुत्रं तुभ्यमहं संप्रददे । इत्येवमात्रं ॥ इति यामुष्यायणदत्तके ॥ मद्वाराजनकपितुः संभाव्यमान० सिद्धिसत्त्वेऽपि तव पैतृक० अहमात्मानं पुत्रत्वेन तुभ्यं संप्रदे । इत्येवमात्रं ॥ यामुष्यायणे “न मम” “नाहं जनकपितुः" इतीमौ त्यागौ न भवतः ॥ इति यामुष्यायणस्वयंदत्ते ॥ केवलयामुष्यायणदत्तके । प्रतिगृह्णातु पुत्रं भवती । शूद्रे पुरुषे भवान् । केवलढ्यामुष्यायणस्वयंदुत्ते । प्रतिगृह्णातु मां पुत्रत्वेन भवती। (शूद्रे पुरुषे) प्रतिगृह्णातु मां पुत्रत्वेन भवान् । इत्युक्त्वा प्रतिग्रहीतृहस्ते जलं क्षिपेत् । दानसांगतासिध्यर्थं दक्षिणां च दद्यात् । प्रतिग्रहीता (त्री) प्रतिगृह्णामि । इति हस्तद्वयेन प्रतिगृह्य । खांके उपवेश्य । मूर्द्धानं त्रिरवजिघेत्तूष्णीं ॥ तत एनं वस्त्रकुंडलां- गुलीयकचंदनतिलकपुष्पमालाद्यलंकृतं पुत्रं गीतवाद्यैः स्वस्तिमंत्रैश्च स्वगृहमानीय पादौ प्रक्षाल्य । आचम्य ॥ अग्नेः पश्चादाचार्यदक्षि- णतः स्वयं । खोत्संगे स्वदक्षिणतो वा पुत्रः (शूद्रे पुरुषे स्वदक्षिणे भार्या । भार्योत्संगे तद्दक्षिणतो वा पुत्रः) इत्युपविशेत् ॥ ततः समाचारात्स्वकुलोचितनामकरणं कुर्यात् । आचार्याय धेनुं दत्वा ।
यथाशक्तिदक्षिणां च दद्यात् । ब्राह्मणान्भोजयेत् ॥ इति स्त्रीशू- द्राणां वासिष्ठोक्तः केवलयामुष्यायणदत्तकखयंदत्त- प्रतिग्रहप्रयोगः समाप्तः॥ (५) अथ सर्वेषां ब्राह्मणादिचातुर्वर्णिकानां कृत्रिमपुत्रकरणप्रयोगः ॥ पूर्वेधुरुपवासः॥ परेधुर्बधूनाहूय । पुत्रकरणं राज्ञे तन्नियुक्तप्रामाधिकारिभ्यः कथयित्वा ॥ आचमनं ।। प्राणायामः ॥ पवित्रधारणं ।। देशकालसंकीर्तनं ॥ संकल्पः॥ केवलकृत्रिमपुत्रकरणसंकल्पः॥ करिष्यमाणपुत्रस्य तज्जन- कादीनां च परस्परं विद्यमानपितृपुत्रभावादि तत्तत्संबंधनिवृत्ति- द्वारा तत्तत्प्रयुक्तकार्यनिवृत्तिपूर्वक अमुकगोत्रामुकशर्मणां (स्त्रियां नानीनां) (शूद्रे दासानां) अस्मदादीनां करिष्यमाणपुत्रस्य च पर- स्परं पितृपुत्रभावादितत्तत्संबंधप्रवृत्तिद्वारा तत्तत्प्रयुक्तकार्यप्रवृत्त ये पुत्रं करिष्ये । इति ॥ अथ यामुष्यायणकृत्रिमपुत्रकर- णसंकल्पः। करिष्यमाणपुत्रस्य तज्जनकादीनां च परस्परं विद्य- मानपितृपुत्रभावादिसंबंधसत्त्वेऽपि अमुकगोत्रामुकशर्मणा (स्त्रियां नानीनां, शूद्रे दासानां) मस्मदादीनां करिष्यमाणपुत्रस्य च पर- स्परं पितृपुत्रभावादितत्तत्संबंधसिद्धये पुत्रं करिष्ये ॥ इति ॥ गणेशपूजनादिनांदीश्राद्धान्तं विधाय ।। आचार्य वृत्वा मधुपर्केण संपूजयेत् ॥ पुत्रकरणांगत्वेन त्रीन्ब्राह्मणान्बंधुवर्गाश्च भोजयिष्ये (शूद्रे ब्राह्मणेभ्य आमान्नदानं ॥ बंधुवर्गेभ्यो भोजनं) इति ब्राह्म- णबंधुवर्गेभ्योऽन्नदानं ॥ ततः आचार्यप्रभृतिब्राह्मणैः सह पुत्रसमक्षं गच्छेत् ॥ एतस्य त्वां केवलकृत्रिमाख्यं पुत्रं व्यामुध्यायणकृत्रि- माख्यं पुत्रं वा क्रिये । इत्याचार्यो याचेत । अहं वां केवल- ६ ८२ कृत्रिमाख्यं पुत्रं : व्यामुष्यायणकृत्रिमाख्यं पुत्रं वा क्रिये । इति स्वयं वा याचेत ॥ तेन “कुरु” इत्युक्ते तं पुत्रं स्वांके उप- वेश्य ॥ ॐ अंगादंगात्सं० शतं ॥ इतिमंत्रेण सकृद्विस्तूष्णीं शिशुं मूर्द्धनि जित् (स्त्रीशूद्रयोस्तु त्रिवारमपि तूष्णीं)॥ तत एनं वस्त्रकुंडलांगुलीयकचंदनतिलकपुष्पमालाद्यलंकृतं पुत्रं गीतवाद्यैः स्व- स्तिमंत्रैश्च स्वगृहमानीय ॥ पादौ प्रक्षाल्य ॥ आचम्य ॥ आचार्यद- क्षिणतः स्वयं ॥ स्वदक्षिणे भार्या ॥ भार्योत्संगे तदक्षिणतो वा पुत्रः स्त्रियां स्वयं अग्ने पश्चिमतः॥ स्त्रोत्संगे स्वदक्षिणतो वा पुत्रः) इ- त्युपविशेत् ॥ ततः समाचारात्स्वकुलोचितनामकरणं कुर्यात् ॥ आचार्याय धेनुं दत्वा यथाशक्तिदक्षिणां च दद्यात् ।। ब्राह्मणान्भो- जयेत् ॥ इति सर्वेषां ब्राह्मणादिचातुर्वर्णिकानां केवल- यामुष्यायणकृत्रिमपुत्रकरणप्रयोगः समाप्तः ॥ वासिष्ठे केवलव्यामुघ्यायणदत्तकस्वयंदत्तप्रयोगे केवलढ्यामुष्या- यणकृत्रिमप्रयोगे च यत्र यत्र शर्मशब्दस्य प्रयोगस्तत्र तत्र क्रमात् वर्मगुप्तशब्दयोरूहे कृते क्षत्रियवैश्ययोः केवलढ्यामुष्यायणदत्तक- स्वयंदत्तकृत्रिमप्रयोगा भवंतीति विशेषः ॥ इति ॥ इतिश्रीगोदातटिनीतटनिकटवर्तिश्रीमन्नासिकमहाक्षेत्रवासिना "वारे" इत्युपनाम्ना ज्योतिर्विजयरामप्रपौत्रभट्टात्याजी- सूरिपौत्र श्रीमज्जगद्गुरुशंकराचार्यदत्त "वैदिकति- लक" पदसंभूषित अण्णा शास्त्रिणः सूनुना "काव्यतीर्थोपाधिकेन" श्रीधरशर्मणा विरचितो दत्तकनिर्णयामृतं नाम प्रबंधः समाप्तः॥
८३ प्रबंधप्रणयनकालः॥ प्रख्यातेभुविभारतेमुनियुगव्यालेंदु १८४७ संज्ञे शके ॥ भद्रेकोधनहायनाश्विनशुचौ घने दशम्यां रवौ ॥ नूनं दत्तकनिर्णयामृतमिदं धर्मानुशिष्ट्यर्णवात् ।। पीला निर्मथितं कुशाग्रमतयस्तृप्यंतु तज्ज्ञा बुधाः ॥ १ ॥ दूरमुत्सार्य मात्सर्य सदसब्यक्तिकारणाः । ज्ञास्तं गृहंतु संशोध्य प्रार्थयामीति सादरम् ॥ २ ॥ लिखितं ॥ वैशाखशुक्ल २ शनिवार शके १८५३ शुक्लनामसंवत्सरे ७।५।२९ श्रीधर अण्णा शास्त्री वारे. श्रीक्षेत्र नासिक सोमवारपेठ घर नं० २०२२ शुक्लयजुःशाखीयब्रह्मकर्मप्रदीप- प्रथम भाग. andu या पुस्तकांत एकंदर १० विषय असून अल्पवयी विद्यार्थ्यांस ब्रह्मक- माचे एक वर्षांचे शिक्षण दिले जाईल अशा योजनेने हे पुस्तक तयार केलें आहे. व यावर वेदांतवागीश श्रीधरशास्त्री पाठक यांचा अभिप्राय आला आहे, तो येणेप्रमाणे:- अभिप्राय. "ब्रह्मकर्मप्रदीप भाग १ हे पुस्तक वाचून पाहिले. एकंदर पुस्तकाचें धोरण चांगले आहे व योजनाही मुलांचे शक्तीकडे लक्ष देऊन केलेली दिसते. वैदिक मंत्र जाड टाईपांत घातल्याने स्पष्ट प्रत्यभिज्ञा ( स्पष्टज्ञान) होते. आपल्या पुस्तकानें सर्वांची सोय होणार आहे. राहिलेले चार भागही लवकर प्रसिद्ध व्हावे." या अभिप्रायावरून सदर पुस्तकाची शास्त्रशुद्धता वाचकांचे लक्षात सहजच येईल; व यावरून ब्रह्मकर्माचे प्राथमिक शिक्षण क्रमशः पांच वर्षे पुरे देण्याची योजना पुरी करण्याचा संकल्प केला आहे. त्यापैकी प्रथम भाग प्रसिद्ध झाला. पुढे लवकरच चार भाग प्रसिद्ध होतील. ज्यांना आपले मुलांस इतर शिक्षण सांभाळून ब्रह्मकर्म शिकवावें असें बाटत असेल त्यांना ही पुस्तकें उपयुक्त आहेत. हा पहिला भाग घेऊन पुढील भागांकरितां ज्यांना नांवें नोंदवावयाची असतील त्यांनी खालील पत्त्यावर कळविण्याची कृपा करावी. पुस्तकें जसजसी प्रसिद्ध होतील तसतसी पाठविण्यात येतील. श्रीधर अण्णाशास्त्री वारे सोमवारपेठ, नासिक, घर नंबर २०२२. नासिक, पत्ता:- Bh
No text on this page.