Rmic,golpark

Kalki Puranam

Bedabyas · 2006/05/23

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

कल्किपुराणम्।
महर्षिवेदव्यासप्रणीतम् ।
पण्डितकुलपतिना
वि, ए, उपाधिधारिणा
श्रीजीवानन्दविद्यासागरभट्टाचार्येण
संस्कृतं प्रकाशितञ्च ।
RMIC LSVMY
2060
कलिकातानगर्य
नारायणुयम्चे
30.5.7
'मुद्रितम् ।
STAR
.
MON
uhh
ई. १८८०॥
(ket
প্রকাশক–শ্রীজীবানন্দ বিদ্যাসাগর
२ नः यानाथ रामनारजग निन ।
প্রিন্টর শ্রীরামনারায়ণ পাল
১৬ নং নূতন পগয়পটী।

कल्किपुराणस्य सूचीपत्रम्। १ अंशः। १ अध्यायः । १ سلم ४ ५ ५ मङ्गलाचरणम् सूतसमीपे शौमकादीनामहर्षीणां भविष्यप्रश्नः १ शकस्य कल्किपुराणप्राप्तिविवरणम् कलेरुत्पत्तिः कलिविवरणम् ३ कलौ आचारबंश धरित्या सह देवानां ब्रह्मलोकगमनम् ब्रह्मलोकवर्णनम् २ अध्यायः। ब्रह्मसमीप कलेर्दोषकीर्तनम् ब्रह्मणा सह देवानां गोलोके गमनम् विष्णुसमीपे निवेदनम् ५ विष्णोर्विष्णुयशसो रहे अवताराङ्गीकार: विष्णुयशसः पत्नयाः सुमत्या गर्भ: ६ विष्णो जाते देवानां हर्षः विष्णोचतुर्भुजमूर्तिपरिहारपूर्वकं मानुषरूप- धारणम् रामकृपव्यासादीनां कल्किदर्शनार्थमागमनम् कल्कर्नामकरणम् करकेरुपनयनकाले पितुरुपदेशः ३ अध्यायः। कल्केगुरुकुलवासार्थ यात्रा जामदग्न्यप्राप्तिश्च । करकेर्वेदाध्ययनं धनुर्वेदशिक्षा च ५ कल्किपुराणस्य सूचीपत्रम्। ३ ३ गुरुदक्षिणादानाभिलाषः १० कस्कोविखोदकखरशिवदर्शनं स्तुतिश्च १० शिवया शिवस्थाविर्भावो वरदानच्च शङ्गरात् कल्केः करवालशकतुरङ्गप्राप्तिः ११ कल्कोसहप्रत्यागमनम् १२ कस्केराश्रमधर्मोपदेशः १३ ४ अध्यायः । कस्कोर्धम्मकथनम् १३ ब्राह्मणलक्षणम् १४ शुकक्कतसिंहलहीपवर्णनम् १६ पद्माया राजकन्याया विवरणम् १६ शिवात् पद्माया वरलाभ: १७ ५ अध्यायः। पद्मायाः स्वयंवरोद्योगः समागतभूपानां स्त्रीत्वप्राप्तिः १८ ६ अध्यायः । पद्माया विलापः कल्क रादेशेन शुकस्य पद्मासमीप गमनम् २१ पद्माशुकसंवाद: २१ ७ अध्यायः । विणुपूजाप्रकरणम् २ अंशः। १ अध्यायः । पनासमीपे अच्युतावतारंकथनम् २८ शुकस्य शम्भले प्रतिगमनम् कल्किशुकसंवादः कल्केः सिंहलगमनम् २ अध्यायः। पद्मायाः कल्किसमीपे गमनम् ३३ पद्मायाः कल्किदर्शनम् ३४ २४ २८ ४० कल्किपुराणस्य सूचीपत्रम्। ३ अध्यायः। कल्किदर्शनेन भूपानां पुरुषत्वप्राप्तिः राजगणकतकरिकस्तवः ३७ ४ अध्यायः। अनन्तस्यागमनम् ३८ अनन्तोपाख्यानम् ५ अध्यायः। अनन्तन हंसस्य साक्षात्कारः ४४ ६ अध्यायः। कस्केराजया विश्वकर्मण: शम्भले पुरीनिर्माणम् ४८ करक: स्वस्त्रीकस्य शम्भले प्रत्यागमनम् कल्क: सुतोत्पत्तिः ७ अध्यायः । बौद्धयुद्धम् ५२ जिनविनाशः ५४ बौद्धजयः ५५ ३ अंशः। १ अध्यायः । ६१ ६२ ६४ म्लेच्छजयः म्लेच्छकामिनीभिः कल्क युधम् २ अध्यायः। बालखिल्यानामागमनम् निकुम्भदुहितुराख्यानम् कुथोदUः संहारा) कल्कर्यात्रा कुथोदा बधः ३ अध्यायः । नारदादीनां महर्षीणामागमनम् मरोरात्मपरिचयाथ सूर्यवंशवर्णनम् श्रीरामचरितम् सीतापरित्यागः सीताया भूतलप्रवेश: रामस्य स्वर्गारोहणम् ६५ ७२ ७२ ७४ ७७ ७८ ७८ कल्किपुराणस्य सूचीपत्रम् । ५ ४ अध्यायः । रामस्य वंशावली, मरोरुत्पतिविवरणञ्च ७३ चन्द्रवंशे देवापेरुत्पत्तिविवरणम् देवापर्मरोष दिव्यरथप्राप्तिः ७६ ५ अध्यायः। कृतयुगस्यागमनम् मन्वन्तरवर्णनम् कलिना संग्रामोद्योगः ६ अध्यायः । करको दिग्विजययात्रा धर्मस्य कल्किना समागमः धम्मस्यात्मनिवेदनम् कलिना कल्क: संग्रामः ८१ मरुदेवापिप्रभृतीनां खशकाम्बोजबर्वरचीना- दिभिः संग्रामः ७ अध्यायः । कलिसहचराणां पराभवः कोकविकोकबधः ८ अध्यायः । कल्क र्भलाटनगरगमनम् शशिध्वजस्य समरोद्योगः ८ अध्यायः । मूर्छितं कल्किमादाय शशिध्वजस्य रहा- गमनम् १० अध्यायः । सुशान्ताया गीतम् ८३ शशिध्वजकन्यया कल्क विवाद: ८५ ११ अध्यायः । शशिध्वजस्य हरिभक्तिकारणम् शशिध्वजस्य पूर्वजन्मवृत्तान्तकथनम् भक्तिलक्षणम् १२ अध्यायः । हरिभक्तस्य संग्रामप्रवृत्तिकारणम् १०१ ८४ ६ कल्किपुराणस्य सूचीपत्रम्। १३ पथायः। द्विविदोपाख्यानम् कृष्णावतारहत्तान्तम् १०५ १४ अध्यायः। कल्क : काञ्चनपूर्या प्रवेशः विषकन्यासंवादः कल्क रनुचराणां पृथक् पृथक राज्येऽभिषेकः१०८ कल्क : शम्भले प्रतिगमनम् १०८ सत्ययुगप्रवर्तनम् १०८ १५ अध्यायः। मायास्तवः ११० १६ अध्यायः। विष्णुयशसो राजसूययज्ञारम्भः ११२ नारदस्यागमनम् ११३ मायाजीवयोः कथोपकथनम् विष्णुयशसो वनगमनम् ११५ परशरामस्यागमनम् ११६ १७ अध्यायः। रुक्मिणीव्रतकथनम् १८ अध्यायः। कल्कः पत्नीभिविहार: १२१ १८ अध्यायः। शम्भले देवानामागमनम् १२३ कल्केः स्वर्गारोहणम् १२५ २० अध्यायः । गङ्गास्तोत्रम् १२७ २१ अध्यायः। कल्किपुराणस्य सूची १२८ कल्किपुराणश्रवणादिफलम् १३२ करिकपुराणसमाप्तिः । १३२

कल्किपुराणम्।
प्रथमोऽध्यायः।
सेन्द्रा देवगणा मुनीखरजना लोकाः सपालाः सदा
खं खं कर्म सुसिद्धये प्रतिदिनं भक्त्या भजन्त्युत्तमाः ।
तं विघ्नेशमनन्तमथुतमज सर्वतसर्वात्रय
वन्दे वैदिकतान्त्रिकादिविविधैः शास्त्रैः पुरोवन्दितम् ॥१॥
नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।
देवीं सरखतीञ्चैव ततो जयमुदीरयेत् ॥ २ ॥
यहोर्दण्डकरालसर्पकवलज्वालाज्वलहिग्रहाः
नेतुः सत्करबालदण्डदलिता भूपाः क्षितिक्षोभकाः ।
शश्वत् सैन्धववाहनो हिजजनिः करिकः परात्मा हरिः
पायात् सत्ययुगादिवत् स भगवान् धर्मप्रवृत्तिप्रियः ॥ ३ ॥
इति सूतवचः श्रुत्वा नैमिषारण्यवासिनः ।
शौनकाद्या महाभागाः पप्रच्छुस्तं कथामिमाम् ॥ ४ ॥
हे सूत ! सर्वधम्मंन्त्र ! लोमहर्षणपुत्त्रक!।
त्रिकालज्ञ ! पुराणन ! वद
भागवती
कथाम् ॥ ५॥
कः कलिः ? कुत्र वा जातो जगतामीखरः प्रभुः ।
कथं वा नित्यधर्मस्य विनाशः कलिना कतः ? ॥६॥

कल्किपुराणे
इति तेषां वचः श्रुत्वा सूतो ध्यात्वा हरि प्रभुम् ।
सहर्षपुलकोभिन्न सर्वाङ्गः प्राह तान् मुनीन् ॥ ७ ॥
सूत उवाच । शृणुध्वमिदमाख्यानं भविष्य परमाबुतम् ।
कथितं ब्रह्मणा पूर्व नारदाय विपृच्छते ॥ ८ ॥
नारदः प्राह मुनये व्यासायामिततेजसे ।
स व्यासो निजपुत्वाय ब्रह्मराताय धीमते ॥ ८ ॥
स चाभिमन्युपुत्वाय विशुराताय संसदि ।
प्राह भागवतान् धर्मान् अष्टादशसहस्रकान् ॥ १० ॥
तदा तृपे लयं प्राप्त सप्ताहे प्रश्नशेषितम् ।
मार्कण्डेयादिभिः पृष्टः प्राह पुण्याथमे शुकः ॥ ११ ॥
तत्राहं तदनुज्ञातः श्रुतवानस्मि याः कथाः ।
भविष्या कथयामीह पुण्या भागवती: शुभाः ॥ १२ ॥
ताः शृणुध्व' महाभागाः ! समाहिनधियोऽनिशम् ।
गते कृष्षणे स्वनिलयं प्रादुर्भूतो यथा कलिः ॥ १३ ॥
प्रलयान्ते जगत्स्रष्टा ब्रह्मा लोकपितामहः ।
ससर्ज घोरं मलिनं पृष्ठदेशात् खपातकम् ॥ १४ ॥
स चाधम्म इति ख्यातस्तस्य वंशानुकीर्तनात् ।
अवणात् स्मरणालोकः सर्वपापैः प्रमुच्यते ॥ १५ ॥
अधम्मस्य प्रिया रम्या मिथ्या मार्जारलोचना।
तस्य युत्तोऽतितेजस्वी दम्भः परमकोपनः ॥ १६ ॥
समायायां भगिन्यान्तु लोभं पुत्वञ्च कन्यकाम् ।
निहाति जनयामास तयोः क्रोधः सुतोऽभवत् ॥ १० ॥
म हिंसायां भगिन्यान्तु जनयामास तं कलिम् ।
वामहस्तकृतोपस्थ तैलाभ्यताञ्जनप्रभम् ॥ १८ ॥

प्रथमोऽध्यायः ।
سه
काकोदरं करालास्यं लोलजिस भयानकम् ।
पूतिगन्धं द्यूतमद्यस्वीसुवर्णकृताश्रयम् ॥ १८ ॥
भगिन्यान्तु दुरुस्त्यां स भयं पुत्वञ्च कन्यकाम् ।
मृत्युं स जनयामास तयोश्च निरयोऽभवत् ॥ २० ॥
यातनायां भगिन्यान्तु लेभे पुत्रायुतायुतम् ।
इत्थं कलिंकुले जाता बहवो धम्मनिन्दकाः ॥ २१ ॥
यज्ञाध्ययनदानादिवेदतन्त्रविनाशकाः ।
आधिव्याधिजराग्लानिदुःखशोकभयाश्रयाः ॥ २२ ॥
कलिराजानुगाचेरुयूथशो लोकनाशकाः ।
बभूवुः कालविभ्रष्टाः क्षणिका: कामुका नराः ॥ २३ ॥
दम्भाचारदुराचारास्तातमाढविहिंसकाः ।
वेदहीना दिजा दीनाः शूद्मेवापराः सदा ॥ २४ ॥
कुतर्कवादबहुला धमविक्रयिणोऽधमाः ।
वेदविक्रयिणो व्रात्या रसविक्रयिणस्तथा ॥ २५ ॥
मांसविक्रयिण: क्रूरा: शिश्नोदरपरायणाः ।
परदाररता मत्ता वर्णसङ्करकारकाः ॥ २६ ॥
इखाकाराः पापसाराः शठा मठनिवासिनः ।
षोड़शाब्दायुषः श्यालबान्धवा नीचसङ्गमाः ॥ २० ॥
विवादकलहक्षुब्धाः के गवेशविभूषणाः ।
कली कुलीना धनिनः पूज्या वाईषिका विजाः ॥२८॥
सन्यासिनो ग्रहासता ग्राहस्थास्त्वविवेकिनः ।
गुरुनिन्दापरा धमध्वजिन: साधुवञ्चकाः ॥ २८ ॥
प्रतिग्रहरता:
शूद्राः परखहरणादराः ।
इयो: स्वीकारमुद्दाहः शठे मैत्री वदान्यता ॥ ३० ॥

४
कल्किपुराणे
प्रतिदाने क्षमाशती विरतिकरणाक्षमे ।
वाचालत्वञ्च पाण्डित्ये यशोऽर्थे धर्मसेवनम् ॥ ३१ ॥
धनाव्यत्वञ्च साधुत्वे दूरे नीरे च तीर्थता ।
सूत्रमात्रेण विप्रत्वं दण्डमात्रेण मस्करी ॥२२॥
अल्पशस्या वसुमती नदीतीरऽवरोपिता।
स्त्रियो वेश्यालापसुखा: स्वपुंसा त्यक्तमानसाः ॥ ३३ ॥
पराबलोलुपा विप्राश्चण्डालग्राहयाजकाः ।
स्त्रियो वैधव्यहीनाच खच्छन्दाचरणप्रियाः ॥ ३४ ॥
चित्रहष्टिकरा मेघा मन्दशस्या च मेदिनी ।
प्रजाभक्षा नृपा लोका: करपीड़ाप्रपीडिताः ॥ ३५ ॥
स्कन्धे भारं करे पुत्रं कृत्वा क्षुब्धाः प्रजाजनाः ।
गिरिदुर्ग वनं धोरमाधयिष्यन्ति दुर्भगा: ॥ २६ ॥
मधुमांसद्लफलैराहारः प्राणधारिणः ।
एवं तु प्रथम पादे कलेः कृष्णविनिन्दकाः ॥ ३७॥
हितीये तबामहीनास्तृतीये वर्णसङ्कराः ।
एकवर्णाश्चतुर्थे च विस्मृतायुतसक्रियाः ॥ ३८ ॥
निःस्वाध्यायस्वधाखाहावौषड़ोंकारवर्जिताः ।
देवाः सर्वे निराहाराः ब्रह्माणं शरणं ययुः ॥ ३८ ॥
धरित्रीमग्रतः कृत्वा क्षीणां दीनां मनस्विनीम् ।
ददृशुब्रह्मणो लोकं वेदध्वनिनिनादितम् ॥ ४० ॥
यन्नधूमः समाकीणं मुनिवर्यनिषेवितम् ।
सुवर्णवेदिकामध्ये दक्षिणावर्त्तमुज्ज्वलम् ॥ ४१ ॥
वति यूपाशिरतोद्यानवनपुष्पफलान्वितम् ।
सरोभिः सारसहसैराजयन्तमिवातिथिम् ॥ ४२ ॥

हितीयोऽध्यायः ।
५
वायुलोललताजालकुसमालिकुलाकुलैः ।
प्रणामाह्वानसत्कारमधुरालापवीक्षणैः ॥ ४३ ॥
तद्ब्रह्मसदनं देवा: मेश्वराः लिनमानसाः ।
विविशस्तदनुज्ञाता निजकार्य निवेदितम् ॥ ४४ ॥
त्रिभुवनजनकं सदासनस्थं सनकसनन्दनसनातनैश्च सिई:
परिसेवितपादकमलं ब्रह्माणं देवता नमुः ॥ ४५ ॥
इति श्रीकल्किपुराणेऽनुभागवते भविष्थे कलिविवरणं
नाम प्रथमोऽध्यायः ।
-
द्वितीयोऽध्यायः ।
सूत उवाच । उपविष्टास्ततो देवा ब्रह्मणो वचनात् पुरः ।
कलेर्दोषादमहानिं कथयामासुरादरात् ॥ १ ॥
देवानां तहचः श्रुत्वा ब्रह्मा तानाह दुःखितान् ।
प्रसादयित्वा तं विष्णु साधयिष्याम्यभीप्सितम् ॥ २ ॥
इति देवैः परिवृतो गत्वा गोलोकवासिनम् ।
स्तुत्वा प्राह पुरो ब्रह्मा देवानां हृदयेप्सितम् ॥ ३ ॥
तत् श्रुत्वा पुण्डरीकाक्षो ब्रह्माणमिदमब्रवीत् ।
शम्भले विष्णुयशसो रहे प्रादुर्भवाम्यहम् ।
सुमत्यां मातरि विभो ! कन्यायां त्वनिदेशतः ॥ ४ ॥
चतुर्भिटिभिर्देव ! करिथामि कलिक्षयम् ।
भवन्तो बान्धवा देवाः खांशनावतरिथथ ॥ ५ ॥
इयं मम प्रिया लक्ष्मीः सिंहले सम्भविष्यति ।
बृहद्रथस्य भूपस्य कोमुद्यां कमलेक्षणा।
भाव्यां मम भायंषा पद्मानानी जनिष्यति ॥ ६ ॥

कल्किपुराण यात यूयं भुवं देवाः खांशावतरणे रताः । राजानौ मरुदेवापी स्थापयिष्याम्यहं भुवि ॥ ७॥ पुनः कृतयुगं कृत्वा धर्मान् संस्थाप्य पूर्ववत् । कलिव्यालं संनिरस्य प्रयास्ये खालयं विभो!॥८॥ इत्युदीरितमाकण्यं ब्रह्मा देवगणवृतः । जगाम ब्रह्मसदनं देवाय बिदिवं ययुः ॥८॥ महिमा खस्य भगवान् निजजन्मक्तोद्यमः । विप्रर्षे! शम्भलग्राममाविवेश परामकः ॥ १०॥ मुमत्यां विणुयशसा गर्भमाधत्त वैष्णवम् । ग्रहनक्षत्रराश्यादिसेवितश्रीपदाम्बुजम् ॥ ११ ॥ सरित्समुद्रा गिरयो लोकाः सस्थाणुजङ्गमाः । सहर्षा ऋषयो देवा जाते विष्णौ जगत्पती ॥ १२ ॥ बभूवुः सर्वसत्वानामानन्दा विविधाश्चयाः । नृत्यन्ति पितरो हृष्टास्तुष्टा देवा जगुर्यशः ॥ १३ ॥ चक्रुर्वाद्यानि गन्धर्वानऋतुवाप्सरोगणाः ॥ १४ ॥ हादश्यां शुक्लपक्षस्य माधव मासि माधवः । जाते ददृशतुः पुत्रं पितरौ दृष्टमानसौ ॥ १५ ॥ धाटमाता महाषष्ठी नाभिच्छेत्री तदम्बिका। गङ्गोदकलेदमोक्षा सावित्री मार्जनोद्यता ॥ १६ ॥ सस्य विणोरनन्तस्य वसुधाऽधात् पयःसुधाम् । मातृका माङ्गल्यवचः कृष्णजन्मदिने तथा ॥ १७॥ ब्रह्मा तदुपधाऱ्याशु स्वाशगं प्राह सेवकम् । याहीति सूतिकागारं गत्वा विष्णुं प्रबोधय ॥ १८ ॥ चतुर्भुजमिदं रूपं देवानामपि दुर्लभम् ।

द्वितीयोऽध्यायः।
त्यता मानुषवद्रूपं कुरु नाथ ! विचारितम् ॥ १८ ॥
इति ब्रह्मवचः श्रुत्वा पवनः सुरभिः सुखम् ।
सशीतः प्राह तरसा ब्रह्मणो वचनादृतः ॥ २० ॥
तच्छुत्वा पुण्डरीकाक्षस्तत्क्षणात् विभुजोऽभवत् ।
तदा तत् पितरौ दृष्ट्वा विस्मयापनमानसौ ॥ २१ ॥
भ्रमसंस्कारवत्तत्र मैनाते तस्य मायया ।
ततस्तु शम्भलग्राम सोत्सवा जीवजातयः ।
मङ्गलाचारबहुलाः पापतापविवर्जिताः ॥ २२ ॥
सुमतिस्तं सुतं लब्ध्वा विष्णु जिणु जगत्पतिम् ।
पूर्णकामा विप्रमुख्यानाइयादात् गवां शतम् ॥ २३ ॥
हरे: कल्याणकादिष्णुयशाः मुद्देन चेतसा ।
साम यजुर्विद्भिरग्य स्तवामकरणे रतः ॥ २४ ॥
तदा रामः कपो व्यासो द्रौणिभिक्षुशरीरिणः ।
समायाता हरिं द्रष्टं वालकत्वमुपागतम् ॥ २५ ॥
तानागतान् समालोक्य चतुरः सूर्यसबिभान् ।
दृष्टरोमा दिजवरः पूजयाञ्चक्र ईखरान् ॥ २६ ॥
पूजितास्ते वासनेषु संविष्टाः खसुखाश्रयाः ।
हरिं क्रोडगतं तस्य ददृशुः सर्वमूर्तयः ॥ २७ ॥
तं वालक नराकारं विष्णु नत्वा मुनीखराः ।
कल्कि कल्कविनाशार्थमाविर्भूतं विदुर्बुधा: ॥ २८ ॥
नामाकुर्वस्ततस्तस्य करिकरित्यभिविश्रुतम् ।
कृत्वा संस्कारकम्माणि ययुस्ते दृष्टमानसाः ॥ २८ ॥
ततः स वक्षधे तत्र सुमत्या परिपालितः ।
कालेनापन कंसारिः एक्लपक्षे यथा शशी ॥ ३० ॥

! कल्किपुराणे करकेज्येष्ठास्त्रयः शूराः कविप्रान्जसमन्त्रका; । पिटमाप्रियकरा गुरुविप्रप्रतिष्ठिताः ॥ ३१ ॥ कल्करंशाः पुरो जाताः साधवो धर्मतत्पराः । मार्यभये विशालाद्या जातयस्तदनुव्रताः ॥ ३२ ॥ विशाखयूपभूपालपालितास्तापवर्जिताः । ब्राह्मणा: कल्किमालोक्य परां प्रोतिमुपागताः ॥ ३३ ॥ ततो विष्णुयशाः पुत्र धीरं सर्वगुणाकरम् । कल्कि कमलपत्राचं प्रोवाच पठनाहृतम् ॥ ३४ ॥ तात ! ते ब्रह्मसंस्कारं यन्त्रसूत्रमनुत्तमम् । सावित्री वाचयिष्यामि ततो वेदान् पठियसि ॥ ३५ ॥ कल्किरुवाच । को वेदः का च सावित्री केन सूत्रेण संस्कृताः । ब्राह्मणा विदिता लोके तत्तत्त्व बद तात ! माम् ॥३६॥ पितोवाच । वेदो हरेर्वाक सावित्री वेदमाता प्रतिष्ठिता। त्रिगुणञ्च त्रिहत् सूत्रं तेन विप्राः प्रतिष्ठिताः ॥ ३७ ॥ दशयः संस्कृता ये ब्राह्मणा ब्रह्मवादिनः । तत्र वेदाय लोकानां त्रयाणामिह पोषकाः ॥ ३८ ॥ यज्ञाध्ययनदानादितपःस्वाध्यायसंयमैः । प्रीणयन्ति हरि भक्त्या वेदतन्त्रविधानतः ॥ ३८ ॥ तस्मात् ययोपनयनकम्मणोऽहं हिजैः सह । संस्कर्तुं बान्धवजनैस्त्वामिच्छामि शुभ दिने ॥ ५० ॥ पुत्र उवाच । के च ते दश संस्कारा ब्राह्मणषु प्रतिष्ठिताः । ब्राह्मणा: केन वा विष्णुमर्चयन्ति विधानतः ॥ ४१ ॥ पितोवाच । ब्राह्मण्या ब्राह्मणाद यातो गर्भाधानादिसंस्कृतः। सध्यात्रयेण सावित्रीपूजाजपपरायणः ॥ ४२ ॥ ।

तृतीयोऽध्यायः ।
तपस्वी सत्यवाग् धीरो धम्मात्मा नाति संसृतिम् ।
विश्र्चनमिदं ज्ञात्वा सदानन्दमयो हिजः ॥ ४३ ॥
पुत्र उवाच । कुत्रास्ते स बिजी येन तारयत्यखिलं जगत् ।
सन्मार्गेण हरि प्रीणन् कामदोग्धा जगत्रये ॥ ४४ ॥
पितोवाच । कलिना बलिना धर्मघातिना विजपातिना।
निराकता धर्मरता गता वर्षान्तरान्तरम् ॥ ४५ ॥
ये स्वल्पतपसो विप्राः स्थिता: कलियुगान्तर ।
शिश्नीदरभृतोऽधम्मनिरता विरतक्रिया: ॥ ४६॥
पापसारा दुराचारास्तेजोहीनाः कलाविह ।
पात्मानं रक्षितु' नैव शताः शूद्रस्य सेवकाः ॥ ४७ ॥
इति जनकवचो निशम्य कल्किः
कलिकुलनाशमनोऽभिलाषमा ।
बिजनिजवचनैस्तदोपनीतो
गुरुकुलवासमुवास साधुनाथः ॥ ४८॥
इति श्रीकल्किपुराणेऽनुभागवते भविष्थे कल्किजन्मोपनयन
नाम द्वितीयोऽध्यायः।
तृतीयोऽध्यायः ।
सूत उवाच। ततो वस्तुं गुरुकुले यात कल्कि निरीक्ष्य सः ।
महेन्द्राद्रिस्थितो राम समानीयायमं प्रभुः ॥ १ ॥
प्राह त्वां पाठयिष्यामि गुरु मां विद्धि धर्मतः ।
भृगुवंशसमुत्पत्र जामदग्न्य महाप्रभुम् ॥ २॥
वेदवेदाङ्गतत्त्वज्ञ धनुर्वेदविशारदम् ।
छत्वा निःक्षत्रियां पृथ्वी दत्त्वा विप्राय दक्षिणम् ॥ ३ ॥

१० कल्किपुराण महेन्द्राद्री तपस्तप्तुमागतोऽहं विजात्मज ! । त्वं पठात्र निजं वेदं यच्चान्यच्छास्त्रमुत्तमम् ॥ ४ ॥ इति तद्दच आश्रुत्य संप्रदृष्टतनूरुहः । कल्किः पुरो नमस्कृत्य वेदाधीती ततोऽभवत् ॥ ५ ॥ सङ्गं चतुःषष्टिकलं धनुर्वेदादिकञ्च यत् । समधीत्य जामदग्न्यात् कल्किः प्राह कृताञ्जलिः ॥ ६ ॥ दक्षिणां प्रार्थय विभो ! या देया तव सविधौ । यया मे सर्वसिद्धिः स्याद् या स्यात् त्वत्तोषकारिणी ॥७॥ ब्रह्मणा प्रार्थितो भूमन् ! कलिनिग्रहकारणात् । विष्णुः सर्वाश्रयः पूर्माः स जातः शम्भले भवान् ॥ ८ ॥ मत्ती विद्या शिवादस्त्र लगा वेदमय शुकम् । सिंहले च प्रियां पद्मां धर्मान् संस्थापयिष्यसि ॥ ८ ॥ ततो दिग्विजये भूपान् धम्महीनान् कलिप्रियान्। निष्टह्य बोद्धान् देवापि मरुञ्च स्थापयिष्यसि ॥ १० ॥ वयमेतैस्तु सन्तुष्टाः साधुकत्यैः सदक्षिणाः । यन्नं दानं तपः कम्म करिष्थामो यथोचितम् ॥ ११ ॥ इत्येतत् वचनं श्रुत्वा नमस्कृत्य मुनिं गुरुम् । विल्वोदकेखरं देवं गत्वा तुष्टाव शङ्करम् ॥ १२ ॥ पूजयित्वा यथान्यायं शिवं शान्तं महेश्वरम् । प्रणिपत्याशुतोषं तं ध्यात्वा प्राह हृदिस्थितम् ॥ १३ ॥ कल्किरुवाच । गौरीनाथं विश्वनाथं शरस्थं भूतावासं वासुकीकण्ठभूषम् । वाक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥१४॥ योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिनमूर्धानमीशम् ।

तीयोऽध्यायः । - जटाजूटाटोपरिक्षिप्तभावं महाकालं चन्द्रभालं नमामि ॥१५॥ श्मशानस्थ भूतवेतालसङ्ग नानाशास्त्रैः खगशूलादिभिश्च । व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोबूतलोकोऽस्तमेति १६ यो भूतादिः पञ्चभूतैः सिसृक्षुः तमात्रात्मा कालकम्मखभावः। प्रहत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दो रमते तं नमामि ॥१७॥ स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान् साधून् धम्मसेतून् बिभर्षि ब्रह्माद्यांश योऽभिमानी गुणामा शब्दाद्यङ्गस्त परशं नमामि ॥ १८ ॥ यस्याज्ञया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन् शीतांशुः खे तारकः सग्रहैश्च प्रवर्तते तं परेशं प्रपद्ये ॥ १८ ॥ यस्याखासात् सर्वधात्री धरित्री देवो वर्षयम्बु कालः प्रमाता। मेरुमध्ये भुवनानाञ्च भर्त्ता तमीशानं विखरूपं नमामि ॥२०॥ इति कल्किस्तवं श्रुत्वा शिवः सर्वात्मदर्शनः । साक्षात् प्राह हसबीशः पार्वतीसहिसोऽग्रतः ॥ २१ ॥ कल्क : संस्पृश्य हस्तेन समस्तावयवं मुदा । तमाह वरय प्रेष्ठ ! वरं यत्तेऽभिकाशितम् ॥ २२ ॥ खया कृतमिदं स्तोत्रं ये पठन्ति जना भुवि । तेषां मर्वार्थसिद्धिः स्यादिह लोके परत्र च ॥ २३ ॥ विद्यार्थी चाप्नुयाविद्यां धर्मार्थी धम्ममाप्नुयात् । कामानवाप्नुयात् कामी पठनात् श्रवणादपि ॥ २४ ॥ त्वं गारुड़मिदं चाख कामगं बहुरूपिणम् । शुकमनञ्च सर्वनं मया दत्तं गृहाण भोः ! ॥ २५ ॥ सर्वशास्त्रास्त्रविदासं सर्ववेदार्थपारगम् ।

१२ करिखपुराणे जयिनं सर्वभूतानां त्वां वदिष्यन्ति मानवाः ॥ २६ ॥ रवत्सरु कराल करबालं महाप्रभम् । रहाण गुरुभारायाः पृथिव्या भारसाधनम् ॥ २७ ॥ इति तहच पाश्रुत्य नमस्कृत्य महेश्वरम् । शम्भलग्राममगमत् तुरगण वरान्वितः ॥२८॥ पितरं मातरं भ्रातृन् नमस्कात्य यथाविधि । सर्व तहर्णयामास जामदग्न्यस्य भाषितम् ॥ २८ ॥ शिवस्य वरदानञ्च कथयित्वा शुमाः कथाः । कल्किः परमतेजस्वी ज्ञातिभ्योऽप्यवदन्मुदा॥ ३० ॥ गाय भय विशालाद्यास्तत् श्रुत्वा नन्दिताः स्थिताः । कथोपकथनं जातं शम्भलग्रामवासिनाम् ॥ ३१ ॥ विशाखयूपभूपालः श्रुत्वा तेषाञ्च भाषितम् । प्रादुर्भावं हरमने कलिनिग्रहकारकम् ॥ ३२ ॥ माहिपत्यां निजपुर यागदानतपोव्रतान् । ब्राह्मणन् क्षत्रियान् वैश्यान् शूद्रानपिहरेः प्रियान्॥३३॥ खधम्मनिरतान् दृष्ट्वा धर्मिष्ठोऽभूवृपः स्वयम् । प्रजापालः शडमनाः प्रादुर्भावात् श्रियः पतेः ॥३४ ॥ अधम्मवंश्यास्तान् दृष्ट्वा जनान् धम्मक्रियापरान् । लोभानृतादयो जग्मुस्तद्देशात् दुःखिता भृशम् ॥३५॥ जैत्रं तुरगमारुध खनञ्च विमलप्रभम् । दंधित: सशरं चापं गृहीत्वागात् पुराइहिः ॥ ३६ ॥ विशाखयूपभूपाल: प्रायात् साधुजनप्रियः । कल्कि' द्रष्टुं हरेरंशमाविर्भूतश्च शम्भले ॥ ३७ ॥ कविं प्रानं सुमन्तुञ्च पुरस्कृत्य महाप्रभम् । .

चतुर्थोऽध्यायः ।
१३
गार्यभठविशालैश्च जातिभिः परिवारितम् ॥ ३८ ॥
विशाखयूपो ददृशे चन्द्र तारागणैरिव ।
पुराइहिः सुरैर्यदिन्द्रमुच्चैःश्रवःस्थितम् ॥ ३८ ॥
विशाखयूपोऽवनतः सम्प्रष्टतनूरुहः ।
कल्के रालोकमात् सद्यः पूर्णमा वैष्णवोऽभवत् ॥४०॥
सह राजा वसन् कल्कि: धर्मानाह पुरीदितान् ।
ब्राह्मणक्षत्रियविशामाश्रमाणां समासतः ॥ ४१ ॥
ममांशान् कलिविभ्रष्टानिति मज्जन्मसङ्गतान् ।
राजसूयाखमेधाभ्यां मां यजख समाहितः ॥ ४२ ॥
अयमेव परो लोको धर्मांचाहं सनातनः ।
कालस्वभावसंस्काराः कर्मानुमतयो मम ॥ ४३ ॥
मोमसूर्यकुले जातौ देवापिमरुसंजको ।
स्थापयित्वा सतयुगं कृत्वा यास्यामि सहतिम् ॥ ४४ ॥
इति सहचनं श्रुत्वा राजा करिक हरिं प्रभुम् ।
प्रणम्य प्राह सहान् वैष्णवान् मनसेप्सितान् ॥ ४५ ॥
इति नृपवचनं निशम्य करिकः कलिकुलनाशमवासनावतारः।
नेजजनपरिषदिनोदकारी मधुरवचोभिराह साधुधर्मान् ॥१६॥
इति श्रीकल्कि पुराणेऽनुभागवते भविथ करिकवरलाभ-
नामकस्तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः ।
त उवाच । ततः कल्किः सभामध्ये राजमानो रवियथा।
बभाषे तं नृपं धर्ममयो धर्मान् बिजप्रियान् ॥ १ ॥

१४
करियापुराणे
.
करिवारवाच । कालेन बामणो नाम प्रलवें मयि सङ्गताः ।
अहमेवासमेवाग्रे नान्यत् कार्यमिदं मम ॥२॥
प्रसुप्तलोकतन्त्रस्य ईतहीनस्थ चामनः ।
महानिशान्ते रन्तुं मे समुह तो विराट् प्रभुः ॥ ३ ॥
सहस्रशीर्षा पुरुषः सहस्राक्ष: सहस्रपात् ।
तदङ्गजोऽभवद ब्रह्मा वेदवको महाप्रभुः ॥ ४ ॥
जीवोपाधेममांशाच प्रवत्या मायया खया ।
ब्रमोपाधिः स सर्वत्रो मम वाग्वेदशासितः ॥ ५ ॥
ससज्ज जीवजातानि कालमायांगयोगतः ।
देवा मम्वादयो लोकाः सप्रजापतयः प्रभुः ॥ ६ ॥
गुणिन्या माययांचा मे नानोपाधी ससर्जर
सोपाधय इमे लोका देवाः सस्थानुजङ्गमाः ॥ ७॥
ममांशा मायया सृष्टा यतो मय्याविशन् लये।
एवंविधा प्राधणा ये मत्शरीरा मदाधिकाः ॥८॥
मामुदरन्ति भुवने याध्ययनसक्रियाः ।
मा प्रसेवन्ति शंसन्ति तपोदानक्रियाखिह॥८॥
स्मरन्यामोदयन्ये व नान्ये देवादयस्तथा ।
ब्राह्मणा वेदवतारो वेदा में मूर्तयः पराः॥ १० ॥
तस्मादिमे ब्राह्मणजास्तैः पुष्टास्त्रिजगज्जनाः ।
अगन्ति मे शरीराणि तत्योषे ब्रह्मणो वरः ॥ ११ ॥
तेनाहं तान् नमस्यामि शुद्धसत्वगुणात्रयः ।
ततो जगन्मयं पूर्व मा सेवन्तेऽखिलाश्रयाः ॥ १२ ॥
विशाखयूप उवाच। विप्रस्य लक्षणं ब्रूहि खालि का च तत्वृता।
यतस्तवानुग्रहण वाग्बाणा ब्राप्रपाः शताः ॥१३॥

चतुर्थोऽध्यायः । १५ करिकरवाच । वेदा मामीयर प्राहुरव्यता व्यक्तिमत्परम् । ते वेदा ब्राणमुसे नानाधमें प्रकाशिताः ॥ १४ ॥ घो धर्को ब्राधणानां हिसा भतिर्मम पुप्फला तयार तोषितः श्रीम: सन्भवामि युग बुरी ॥ १५ ॥ जाईन्तु विवत सूर्व संधवानिर्मितं मनः । तन्तुबयमोहत्तं यज्ञसून पिदुर्बुधाः ॥१५॥ विगुणं तदन्यियुक्त वेदप्रवरसमितम् । शिरोधरात् नाभिमध्यात् पठाईपरिमाणकम् ॥ १७ ॥ यजुर्विदा नाभिमित सामगानामयं विधिः । वामस्वभेन विधुतं यज्ञसूत्र बलप्रदम् ॥ १८ ॥ मदभमचन्दनाबस्तु धारयेत् तिलकं रिजः । भाले विपुष्ट्र कर्नाङ्गं केशपर्यन्तमुज्ज्वलम् ॥ १८ ॥ पुनमगुलिमानन्तु विमुद्र तत् विधा कृतम् । ब्रह्मविणुशिवावास दर्शनात् पापनाशनम् ॥ २० ॥ ब्राधणामां कर स्वर्गा वाचो वेदाः कर हरिः । गाचे तीर्थानि रागाच नाड़ीषु प्रकृतिस्विवत् ॥ २१ ॥ सावित्री कण्ठकहरा हृदयं ब्रह्मसंज्ञितम् । तेषां स्तनान्तरे धर्मः पृष्ठोऽधम्मः प्रकीर्तितः ॥ २२ ॥ भूदेवा ब्राह्मणा राजन् ! पूज्या वन्द्या सदुक्तिभिः । चतुरायम्यकुशला मम धर्मप्रवर्तकाः ॥ २३ ॥ बालाबापि वानवास्तपोवृदा मम प्रियाः । तेषां वच: पालयितुम् अवताराः कता मया ॥ २४ ॥ महाभाग्य प्राणानां सर्वपापप्रणाशनम् । कलिदोषहर श्रुत्वा मुचते सर्वतो भयात् ॥ २५ ॥ -

१६
कल्किपुराण
इति कल्किवचः श्रुत्वा कलिदोषविनाशनम् ।
प्रणम्य तं शुद्धमनाः प्रययौ वैशवाग्रणी: ॥ २६ ॥
गते राजनि सध्यायां शिवदत्तशको वुधः ।
चरित्वा कल्किपुरतः स्तुत्वा तं पुरतः स्थितः ॥ २७ ॥
तं शुकं प्राह कल्फिस्तु सस्मितं सुतिपाठकम् ।
खागतं भवता कस्मात् देशात् किं खादितं ततः ॥२८॥
शुक उवाच । शृणु नाथ ! वचो मय कौतूहलसमन्वितम् ।
अहं गतश्च जलधर्मध्ये सिंहलसंत्रक ॥ २८॥
यथावृत्त होपगतं तश्चित अवप्रियम् ।
वृहद्रतस्य नृपतेः कन्यायाश्चरितामृतम् ॥ ३०॥
कौमुद्यामिह जाताया जगतां पापनाशनम् ।
चरितं सिंहले हीपे चातुर्वर्ण्यजनाहतं.॥ ३१ ॥
प्रासादधर्म्यसदनपुरराजिविराजिते ।
रत्नस्फाटिककुयादिस्खलताभिविभूषिते ॥ ३२ ॥
स्त्रीभिरुत्तमवेशाभिः पद्मिनीभिः समाते ।
सरोभिः सारसहसैरुपकूलजलाकुले ॥ ३३ ॥
भृङ्गरङ्गप्रसङ्गाये पन : कह्वारकुन्दकैः ।
नानाम्बुजलताजालवनोपवनमण्डिते ॥ ३४ ॥
देशे वृहद्रतो राजा महाबलपराक्रमः ।
तस्य पद्मावती कन्या धन्या रजे यशस्विनी ॥३५॥
भुवने दुर्लभा लोकेऽप्रतिमा वरवर्णिनी।
काममोहकरी चारुचरिचा चित्रनिर्मिता ॥ ३६ ॥
शिवसेवापरा गौरी यथा पूज्या सुसम्मता।
सखीभिः कन्यकाभिव जपध्यानपरायणा ॥ ३७॥

पञ्चमोऽध्यायः।
ज्ञात्वा ताच हरेर्लक्ष्मी समुद्भूता वराङ्गनाम् ।
हरः प्रादुरभूत् साक्षात् पार्वत्या सह हर्षितः ॥ ३८॥
सा तमालोक्य वरदं शिवं गौरीसमन्वितम् ।
लज्जिताधोमुखी किञ्चिबोवाच पुरतः स्थिता ॥ ३८ ॥
हरस्तामाह सुभगे! तव नारायणः पतिः ।
पाणिं ग्रहीष्यति मुदा नान्यो योग्यो नृपात्मजः ॥४०॥
कामभावेन भुवने ये त्वां पश्यन्ति मानवाः ।
तेनैव वयसा नार्यो भविष्यन्त्यपि तत्क्षणात् ॥ ४१ ॥
देवासुरास्तथा नागा गन्धर्वाश्चारणादयः ।
त्वया रन्तुं यथाकाले भविथन्ति किल स्त्रियः ॥ ४२ ॥
विना नारायणं देवं त्वत्पाणिग्रहणार्थिनम् ।
गृहं याहि तपस्त्यला भोगायतनमुत्तमम् ॥ ४३ ॥
मा क्षोभय हरे: पनि ! कमले ! विमलं कुरु ।
इति दत्त्वा वरं सोमस्तत्रैवान्तर्दधे हरः ॥ ४४ ॥
हरवरमिति सा निशम्य पद्मा
समुचितमाममनोरथप्रकाशम् ।
विकसितवदना प्रणम्य सोमं
निजजनकालयमाविवेश रामा ॥ ४५ ॥
इति थीकल्किपुराणेऽनुभागवते भविष्ये हरवरप्रदान-
नामकचतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः ।
शुक उवाच । गत बहुतिथे काले पद्मां वीक्ष्य वृहद्तः ।
निरूढ़यौवनां पुत्री विस्मितः पापशङ्गया ॥ १ ॥

.
कल्किपुराण
कौमुदीं प्राह महिषीं पनोराहत कं नृपम् ।
वरयिष्यामि सुभगे ! कुलशीलसमन्वितम् ॥ २ ॥
सा तमाह पति देवी शिवेन प्रतिभाषितम् ।
विष्णुरस्याः पतिरिति भविथति न संशयः ॥ ३ ॥
इति तस्या वचः श्रुत्वा राजा प्राह कदेति ताम् ।
विष्णुः सर्वगुहावासः पाणिमस्या ग्रहीथति ॥ ४ ॥
न मे भाग्योदयः कश्चित् येन जामातरं हरिम् ।
वरयिष्यामि कन्याथै वेदवत्या मुनर्यथा ॥ ५ ॥
इमां स्वयंवरां पनां पद्मामिव महोदधेः ।
मथनेऽसुरदेवानां तथा विष्णुग्रहीष्यति ॥ ६ ॥
इति भूपगणान् भूपः समाइय पुरस्मतान् ।
गुणशीलवयोरूपविद्याद्रविणसंवृतान् ॥ ७ ॥
स्वयंवरार्थं पद्मायाः सिंहले बहुमङ्गले ।
विचार्य कारयामास रूपनं भूपनिवेशनम् ॥ ८ ॥
तत्रायाता नृपाः सर्वे विवाहकतनिश्चयाः ।
निजसन्यैः परिवृताः स्वर्णरत्नविभूषिताः ॥ ८ ॥
रथान् गजानखवरान् समारूढ़ा महावलाः ।
खेतच्छत्रकृतच्छायाः खेतचामरवीजिता: ॥ १० ॥
शस्त्रास्त्र तेजसा दीप्ता देवा: सेन्द्रा इवाभवन् ।
रुचिराखः सुकर्मा च मदिराक्षो दृढ़ाशगः ॥ ११ ॥
कृष्णसारः पारदश्च जीमूतः क्रूरमर्दनः ।
काशः कुशाम्बुर्वसमान् कङ्गः क्रथनसञ्जयौ ॥ १२ ॥
गरुमित्रः प्रमाथी च विजृम्भः सृञ्जयोऽक्षमः ।
एते चान्ये च वाहवः समायाता महाबलाः ॥ १३ ॥

पञ्चमोऽध्यायः ।
१८
विविएस्ते रङ्गगता खखस्थानेषु पूजिताः ।
वाद्यताण्डवसंहष्टाचित्रमाल्याम्बराधराः ॥ १४ ॥
नानाभोगसुखोदिताः कामरामा रतिप्रदाः ।
तानालोक्य सिंहलेश: खां कन्यां वरवर्णिनीम् ॥ १५ ॥
मौरौं चन्द्रानना श्यामा तारहारविभूषिताम् ।
मणिमुत्राप्रबालैश्च सर्वानालङ्गता शुभाम् ॥ १६ ॥
किं मायां मोहजननी किंवा कामप्रियां भुवि ।
रूपलावण्यसम्पत्या न चान्यामिह दृष्टवान् ॥ १७ ॥
खर्गे क्षितौ वा पातालेऽप्यहं सर्वत्रगो यदि ।
पश्चादासीगणाकीर्णा सखीभिः परिवारिताः ॥ १८ ॥
दौवारिकत्रहस्तैः शासितान्तःपुराबहिः ।
पुरोवन्दिगणाकीणी प्रापयामास तां शनैः ॥ १८ ॥
नूपुरैः किङ्किणीभिश्च क्वणन्तों जनमोहिनीम् ।
स्वागतानां नृपाणाञ्च कुलशीलगुणान् बहन् ॥ २० ॥
शृण्वन्ती हंसगमना रनमालाकरग्रहा।
रुचिरापाङ्गभङ्गेन प्रेक्षन्ती लोलकुण्डला ॥ २१ ॥
नृत्यत्कुन्तलसोपामगण्डमण्डलमण्डिता।
किञ्चित् स्मेरोलसहवादशनद्योतदीपिता ॥ २२ ॥
वैदीमध्यारुणक्षौमवसना कोकिलखना ।
रूपलावण्यपण्य न केतुकामा जगत्रयम् ॥ २३ ॥
मागतां तां प्रसमीक्ष्य भृपाःसंमोहिनौं कामविमूढ़चित्ताः ।
तुः क्षितौ विस्मृतवस्वशस्त्रा: रथाश्वमत्सद्दिपवाहनास्ते ॥२४॥
स्याः स्मरक्षोभनिरीक्षणेन स्त्रियो बभूवः कमनीयरूपाः ।
इनितम्बस्तनभारनम्राः समध्यमास्तत्स्मृतिजातरूपाः ॥२५॥

कल्किपुराणे विलासहासव्यसनातिचिवाः कासाननाः गोणसरोजनेवाः- स्त्रीरूपमात्मानमवेक्ष्य भूपाः तामन्वगच्छन् विणदानुवृत्त्या ॥२ अहं वटस्थः परिधर्षितामा पद्माविवाहोत्सवदर्शनाकुलः । तस्या वचोऽन्त इदि दुःखितायाःश्रोतुं स्थितः स्त्रीत्वमितेषु तेषुर जाहीहि कल्क! कमलाविलापं श्रुतं विचित्र जगतामधीश!। गते विवाहोत्सवमङ्गले सा शिवं शरण्यदये निधाय ॥२८॥ तान् दृष्ट्वा नृपतीन् गजावरथिभिस्त्यक्तान् सखित्वं गतान् स्त्रीभावेन समन्विताननुगतान् पां विलोक्यान्तिके । दीना त्यक्तविभूषणा विलिखती पादाङ्गुलैः कामिनी ईशं कत्तुं निजनाथमीश्वरवचस्तथ्यं हरिं साऽस्मरत् ॥ २८ ॥ इति श्रीकल्किपुराणेऽनुभागवते भविथ पद्मास्वयंवर भूपतीनां स्त्रीत्वकथनं नाम पञ्चमोऽध्यायः । । ! षष्ठोऽध्यायः । शुक उवाच। ततः सा विस्मितमुखी पद्मा निजजनता। हरिं पतिं चिन्तयन्ती प्रोवाच विमलां स्थिताम् ॥ १ ॥ पद्मोवाच । विमले ! किं कृतं धात्रा ललाटे लिखनं मम । दर्शनादपि लोकानां पुंसां स्त्रीभावकारकम् ॥ २ ॥ ममापि मन्दभाग्याया: पापिन्चाः शिवसेवनम् । विफलत्वमनुप्राप्तं वीजमुप्तं यथोपरे ॥ ३ ॥ हरिलक्ष्मीपतिः सर्वजगतामधिपः प्रभुः । मत्कृतेऽप्यभिलाषं किं करिष्यति जगत्पतिः ॥ ४ ॥ यदि शम्भीर्वचो मिथ्या यदि विष्णुर्न मां स्मरेत् ।

षष्ठोऽध्यायः । २१ सदाहमनले देह त्यच्यामि करिभाविता ॥ ५॥ क्क चाह मानुषर्षी दीना वास्ते देवो जनाईनः । निष्टहीता विधावाहं शिवेन परिवञ्चिता ॥ ६ ॥ विशुना च परित्यता मदन्या कात्र जीवति ॥ ७ ॥ इति नाना विलापिन्या वचनं शोचनाश्रयम् । पद्मायाचारचेष्टाया: श्रुत्वायातस्तवान्तिक ॥८॥ शुकस्य वचनं श्रुत्वा करिकः परमविस्मितः । . तं जगाद पुनर्याहि पद्मा बीधयितुं प्रियाम् ॥ ८ ॥ मत्सन्देशहरो भूत्वा मद्रूपगुणकीर्तनम्। आवयित्वा पुनः कीर ! समायास्यसि बान्धव ! ॥१०॥ सा मे प्रिया पतिरहं तस्या दैवविनिर्मितः । मध्यस्थ न त्वया योगमावयोश्च भविष्यति ॥ ११ ॥ सर्वज्ञोऽसि विधिज्ञोऽपि कालज्ञोऽसि कथामृतः । तामाखास्य ममाखासकथास्तस्याः समाहरः ॥ १२ ॥ इति कल्केवचः श्रुत्वा शुकः परमहर्षितः । प्रणम्य तं प्रीतमनाः प्रययो सिंहलं त्वरन् ॥ १३ ॥ खगः समुद्रपारणं नाला पीत्वामृत पयः । वीजपूरफलाहारौ ययौ राजनिवेशनम् ॥ १४ ॥ तब कन्यापुर गत्वा वृक्षे नागखरे वसन् । पद्मामालोक्य तां प्राह शको मानुषभाषया ॥ १५ ॥ कुशलं ते वरारोह ! रूपयौवनशालिनि ! । त्वां लोलनयनां मन्ये लक्ष्मीरूपामिवापराम् ॥ १६ ॥ पद्माननां पगन्धां पद्मनेवां कराम्बजे । कमलं कालयन्ती खां लक्षयामि परां श्रियम् ॥ १७ ॥ 96261 THERANAKRAMAIRAM INSTITUT o quin

कतिपुराण
किंधावा सर्वजगती रुपसावखसम्पदाम् ।
निर्मितासि वरारोह जीवानी मोहवारिहिं ! ॥१८॥
इति भाषितमावर्य कीरवामितमजुतम् ।
इसन्ती प्राह सा देवी से पन्ना पनमालिनी ॥ १८ ॥
कस्त्व ? कस्मादागतोऽसि ! कर मां शवपक् ।
देवो वा दानवो वा स्वम् ! भागतोऽसि दयापरः ॥२८
शुक उवाच । सर्वनोकामगामी सर्वशास्त्रार्थतत्त्ववित् ।
देवगन्धर्वभूपानां सभासु परिपूजितः ॥ २१ ॥
चरामि खेच्छया से लाम् ईषणार्थमिहागतः ।
त्वामहं हृदि सता त्यत्तभोगा मनखिनीम् ॥ २३ ॥
हास्यालापसखीसादेहाभरणवर्जिताम् ।
विलोक्या दोनरेताः पच्छामि श्रोतुमीरितम् ।
कोकिलालाप-सन्तापजनकं मधुरं मृदु ॥ २३ ॥
तव दन्तौष्ठनिशालुसिताक्षरपातयः ।
यत्कर्णकुहर मन्नास्तेषां किं वय ते तपः ॥ २४ ॥
सौकुमायं शिरीषस्थ व कान्तिर्वा निशाकरे ।
पीयुषं क बदम्वेवानन्द ब्रह्माणि ते बुधाः ॥ २५ ॥
सव बाहुलताबहा ये पास्यन्ति सुधाननम् ।
तेषां तपोदानजपर्यथैः किं जनयिषति ॥ २६ ॥
तिलकासकसमित्रं लोलकुण्डलमण्डितम् ।
लोलेक्षणोजसह पश्यतां न पुनर्भवः ॥ २७॥
हातसुते ! स्वाधिं वद भामिनि ! यत्तते ।
तपःक्षीणामिव तनूं लचयामि रुजं विना ।
कनकप्रतिमा यहत् पांभिर्मलिनीकता ॥ २८ ॥

षष्ठोऽध्यायः।
वाच। विरूपण कुलेनापि धनेनाभिजनेन वा।
सर्व नियालतामति यस्य देवमदक्षिणम् ॥ २८॥
मृणु कीर ! समाख्यानं यदि वाविदितं तव ।
बाय-पौगण्ड-कांगोरे हरसेवा करोम्यहम् ॥ ३० ॥
तेन पूजाविधानेन तुष्टो भूत्वा महेसरः ।
वरं वरय पो ! त्वमित्याह प्रियया सह ॥ ३१॥
लज्जयाधोमुखीमने स्थिता मा वीण्य शारः ।
पाह, ते भविता स्वामी हरिनारायणः प्रभुः ॥ ३२ ॥
देवो वा दानवो वान्यो गन्धों वा तवेक्षणात्।
कामन मनसा मारी भविषति न संशयः ॥ १३ ॥
इति दत्त्वा वर सोमः प्राह विष्णुचनं यथा ।
तथा ते प्रवक्ष्यामि समाहितमनाः ॥ ३४ ॥
एताः सस्यो नृपाः पूर्वमाहता ये खयम्बर।
पित्रा धार्थिना दृष्ट्वा रम्या मा यौवनाविताम् ॥ ३५॥
स्वागतास्ते सुखासीना विवाहातनिण्याः ।
युवानो गुणवन्तय रूपद्रविणसन्नताः ॥२६॥
स्वयंवरगता मा ते विलोक्य रचिरप्रभाम् ।
रनमालावितकरां निपेतुः काममोहिताः ॥ ३० ॥
तत उत्थाय संभ्रान्ताः संप्रेक्ष्य स्त्रीत्वमात्मनः ।
स्तनभारनितम्बन गुरुणा परिणामिताः ॥ ३८ ॥
जिया भिया च शत्रूण मिवाणामतिदुःखदम् ।
स्त्रीभाव मनसा ध्याला मामवानुगताः एक ! ॥ ३८ ॥
पारिचर्या हररताः सख्यः सर्वगुणान्विताः ।
मया सह तपोधानपूजाः कुर्वन्ति सन्मताः ॥ ४० ॥

२४
करिकपुराण
नदुदितमिति संनिशम्य कीरः श्रवणसुखं निजमानसप्रकाशम्।
समुचितवचनैः प्रतीष्य पनां मुरहरयजनं पुनः प्रचष्टे ॥ ४१ ॥
इति श्रीकस्किपुराणेऽनुभागवत भविष्थे शकपद्मासंवादे
प्रष्ठोऽध्यायः ।
सप्तमोऽध्यायः ।
शुक उवाच । विर्धनं शिवेनोक्तं श्रोतुमिच्छाम्यहं शुभ !।
धन्यासि कतपुण्यासि शिवशिष्यत्वमागता ॥ १ ॥
अहं भाग्यवशादत्र समागम्य तवान्तिकम् ।
शृणोमि परमाययं कीराकारनिवारणम् ॥ २ ॥
भगवद्भक्तियोगच जपध्यानविधिं मुदा ।
परमानन्दसन्दोहदानदहं श्रुतिप्रियम् ॥ ३ ॥
पद्मोवाच । श्रीविष्णोरचनं पुण्य शिवन परिभाषितम् ।
यत् श्रद्धयानुष्ठितस्य श्रुतस्य गदितस्य च ॥ ४ ॥
सद्यः पापहरं पुंसां गुरुगोब्रह्मघातिनाम् ।
समाहितेन मनसा शृणु कोर ! यथोदितम् ॥ ५ ॥
लत्वा यथोक्तकम्माणि पूर्वाह्ने जानकत् शुचिः ।
प्रक्षाल्य प्राणी पादौ च स्पृष्ट्वापः स्वासने वसेत् ॥ ६ ॥
प्राचीमुखः संयतामा साङ्गन्यासं प्रकल्पयेत् ।
भूतशुद्धिं ततोऽय॑स्य स्थापनं विधिवच्चरेत् ॥ ७ ॥
बत: केशवक्कत्यादिन्यासेन तन्मयो भवेत्।
आत्मानं तन्मयं ध्यावा हृदिस्थ सासने न्यसेत् ॥ ८ ॥
पाद्यार्थ्याचमनीयाः मानवासोविभूषणैः ।
यथोपचारैः संपूज्य मूलमन्त्रण देशिकः ॥ ८ ॥

सप्तमोऽध्यायः। २५ ध्यायेत् पादादिकेशान् इदयाम्बु जमध्यगम् । प्रसववदनं देवं भक्ताभीष्टफलप्रदम् ॥ १० ॥ भों नमो नारायणाय स्वाहा। योगेन सिद्धविबुधैः परिभाव्यमाणं लक्ष्मयालय तुलसिकाचितभक्तभृङ्गम् । प्रोत्तुङ्गरतानखरानुलिपत्रचित्र गङ्गारसं हरिपदाम्बु जमाश्रयेऽहम् ॥ ११ ॥ गुम्फन्मणिप्रचयघहितराजहंस- सिस्नत्सुनूपुरयुतं पदपद्मसम्। पीताम्बराञ्चलविलोलबलत्यताक वर्णविवक्राबलयञ्च हरेः स्मरामि ॥ १२ ॥ जो सुपर्णगलनीलमणिप्रबडे शोभास्पदारुणमणिद्युतिचञ्चुमध्ये । भारतापादतललम्बनशोभमाने लोकेक्षणोत्सवकरे च हरेः स्मरामि ॥ १३ ॥ ते जानुनी मखपतर्भुजमूलसङ्ग- रङ्गोत्सवाततडिइसने विचित्रे । चच्चत्पतचमुखनिर्गतसामगीत- विस्तारितात्मयशसी च हरेः स्मरामि ॥ १४ ॥ विष्णोः कटिं विधिक्कतान्तमनोजभूमि जीवाण्डकोषगणसङ्गदुकूलमध्याम्। नानागुणप्रकृतिपीतविचित्रवस्त्रां ध्यायेविवरवसना खगपृष्ठसंस्थाम् ॥ १५ ॥ ३

२४
कल्किपुराणे
शातोदरं भगवतस्त्रिवलिप्रकाशम्
पावर्तनाभिविकसहिधिजन्मपन्नम् ।
नाड़ीनदीगणरसोत्थसिताम्वसिन्धं
ध्यायेऽण्डकोषनिलयं तनुलोमरेखम् ॥ १६ ॥
वक्षः पयोधितनयाकुचकुखुमन
हारण कौस्तुभमणिप्रभया विभातम् ।
श्रीवत्सलक्ष्म हरिचन्दनजप्रसून-
मालोचितं भगवतः .सुभगं स्मरामि ॥१७॥
बाह सुवेशसदनौ वलयाङ्गदादि-
शोभास्पदौ दुरितदैत्यविनाशदक्षौ।
तौ दक्षिणी भगवतश्च गदासुभाभ-
तेजोजितौ सुललितौ मनसा स्मरामि ॥१८॥
वामौ भुजौ मुररिपोतिपद्मशही
स्यामी करीन्द्र करवमणिभूषणाव्यो।
रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ
पद्मालयाप्रियकरी रुचिरौ परामि ॥१८॥
कण्ठं मृणालममलं मुखपजस्य
लेखालयेण वनमालिकया निवीतम् ।
किंवा विमुक्तिवसमन्त्रकसत्फलस्य
हन्तं चिरं भगवतः सुभगं स्मरामि ॥२०॥
रक्ताम्बुजं दशनहासविकाशरम्य'
रत्ताधरौष्ठवरकोमलवाक्नुधाक्यम् ।
सम्मानसीद्भवचलेक्षणपत्रचित्र
बोकाभिरामममलञ्च हरेः स्मरामि ॥ २१ ॥

सप्तमोऽध्यायः।
२७
शूरामजावसथगन्धविद सुनाश
5पल्लवं स्थितिलयोदयकम्मदक्षम् ।
कामोत्सवञ्च कमलाहृदयप्रकार्य
संचिन्तयामि हरिवक्त्रविलासदक्षम् ॥ २२ ॥
कर्णी लसम्मकरकुण्डलगण्डलोलो
नानादिशाच नभसव विकासगेहौ।
लोलालकप्रचयचुम्बनकुञ्चिताग्री
लग्नौ हरमणिकिरीटतटे स्मरामि ॥ २३ ॥
माल विचित्रतिलकं प्रियचारुगन्ध-
गोरोचनारचनया ललनाक्षिसख्यम् ।
ब्रह्मकधाममणिकान्तकिरीटयुष्ट
ध्यायेमनोनयनहारकमीखरस्य ॥ २४ ॥
श्रीवासुदेवचिकुरं कुटिलं निबई
नानासुगन्धिकुसुमैः खजनादरेण ।
दीर्घ रमाहृदयगाशमनं धुनन्तं
ध्यायेऽम्बुवाहरुचिरं हृदयानमध्ये ॥ २५ ॥
मेघाकारं सोमसूर्यप्रकाशं सुनशं शक्रचापैकमानम् ।
लोकातीतं पुण्डरीकायताक्षं विद्युञ्चेलञ्चाश्रयेऽहं त्वपूर्वम्॥२६॥
दीनं हीनं सेवया वेदवत्या पापस्तापैः पूरितं मे शरीरम् ।
लोभाकान्तं शोकमोहाधिविवं कपादृष्ट्या पाहि.मा वासुदेव ! २७
ये भत्याद्यां ध्यायमानां मनोज्ञां
व्यक्ति विणोः षोड़शश्लोकपुष्यैः ।
स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः
शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति ॥ २८॥

२८
कल्किपुराणे [२ अंशः
पद्मरितमिदं पुण्यं शिवेन परिभाषितम् ।
धन्यं यशस्यमायुष्यं स्वयं स्वस्त्ययनं परम् ॥ २८ ॥
पठन्ति ये महाभागास्ते मुच्यन्तेऽ'हसोऽखिलात् ।
धमार्थकाममोक्षाणां परोह फलप्रदम् ॥ ३० ॥
इति श्रीकल्किपुराणेऽनुभागवते भविथ हरिभक्ति-
विवरणं नाम सप्तमोऽध्यायः ।
समाप्तश्चायं प्रथमांशः।
द्वितीयांशः।
प्रथमोऽध्यायः ।
सूत उवाच । इति पद्मावचः श्रुत्वा कोरो धीरः सतां मतः ।
कल्किदूतः सखीमध्ये स्थितां पद्मामथाब्रवीत् ॥ १ ॥
वद पद्मे ! साङ्गपूजां हरेरगुतकर्मणः ।
यामास्थाय विधानेन चरामि भुवनत्रयम् ॥ २ ॥
पद्मोवाच । एवं पादादिकेशान्तं ध्यात्वा तं जगदीश्वरम् ।
पूर्णामा देशिको मूल मन्त्र जपति मन्त्रवित् ॥ ३ ॥
जपादनन्तरं दण्डप्रणति मतिमांश्चरेत् ।
विश्वक्सेनादिकानान्तु दत्त्वा विष्णुनिवेदितम् ॥ ४ ॥
ततः उद्दास्य हृदये सापयेन्मनसा सह ।
नृत्यन् गायन् हरेर्नाम तं पश्यन् सर्वतः स्थितम् ॥ ५ ॥
ततः शेषं मस्तकेन कला नैवेद्यभुग्भवेत् ।
इत्येतत् कथितं कीर ! कमलानाथसेवनम् ॥ ६ ॥
सकामानां कामयूरमकामामृतदायकम् ।
थोत्रानन्दकर देवगन्धर्वनरहप्रियम् ॥ ७ ॥

! २ पंशः।] प्रथमोऽध्यायः। २८ शक उवाच । समीरितं श्रुतं साध्धि ! भगवद्भशिलक्षणम् । त्वत्प्रसादात् पापिनो मे कीरस्य भुवि मुक्तिदम् ॥ ८॥ किन्तु त्वा' काञ्चनमयों प्रतिमा रत्नभूषिताम् । सजीवामिव पश्यामि दुर्लभां रूपिणीं श्रियम् ॥ ८ ॥ नान्यां पश्यामि सदृशों रूपशीलगुणस्तव । नान्यो योग्यो गुणी भती भुवनेऽपि न दृश्यते ॥ १० ॥ किन्तु पारे समुद्रस्य परमाश्चर्यरूपवान् । ' गुणवानीखरः साक्षात् कश्चिद् दृष्टोऽतिमानुषः ॥ ११ ॥ न हि धावतं मन्ये शरीरं सर्वसौभगम् । यस्य श्रीवासदेवस्य नान्तरं ध्यानयोगतः ॥ १२ ॥ त्वया ध्यातं तु यद्रूपं विष्णोरमिततेजसः । तत् साक्षात्कतमित्येव न तत्र कियदन्तरम् ॥ १३ ॥ पद्मोवाच । ब्रूहि तम्मम किं कुछ जातः कोर ! परावरम् । जानासि तत्वतं कर्म विस्तरेणात्र वर्णय ॥ १४ ॥ वृक्षादागच्छ पूजां वे करोमि विधिबोधिताम् । वीजपुरफलाहारं कुरु साधु पयः पिब ॥ १५ ॥ सब चञ्चुयुगं पारायादारुणमुज्ज्वलम् । रत्नसाहितमहं करोमि मनसः प्रियम् ॥ १६ ॥ कन्धरं सूर्यकान्तेन मणिना स्वर्णघटिना । करोम्याच्छादनं चार मुक्ताभिः पक्षति तव ॥ १७ ॥ पतत्त्रं कुङ्कुमेनाङ्गं सौरभणातिचित्रितम् । करोमि नयनानन्ददायक रूपमीदृशम् ॥ १८ ॥ पुच्छमच्छमणिव्रातघर्धरणातिशब्दितम् । यादयो परालापलापिनं त्वां करोम्यहम् ॥ १८ ॥ ॥

कल्किपुराणे [२ अंशः तवामृतकथावातत्यताधि साधि मामिह । सखीभिः संगीताभिस्ते किं करिष्यामि तहद ॥ २० ॥ इति पद्मावचः श्रुत्वा तदन्तिकमुपागतः। कीरो धीरः प्रसन्नात्मा प्रवक्तुमुपचक्रम ॥ २१ ॥ कोर उवाच। ब्रह्मणा प्रार्थितः श्रीशो महाकारुणिको बभी शम्भले विष्णुयशसो रहे धर्मरिरक्षिषुः ॥ २२ ॥ चतुर्भिर्धाभिर्धातिगोत्रजैः परिवारितः। कतोपमयनो वेदमधीत्य रामसविधी ॥ २३ ॥ धनुर्वेदश्च गान्धर्व शिवादश्वमसि शुकम् । कवचञ्च वरं लब्धा शम्भलं पुनरागतः ॥ २.४ ॥ विशाखयूपभूपालं प्राप्य शिक्षा विशेषतः । धर्मामाख्याय मतिमान् अधम्मांश्च निराकरोत्॥२५॥ इति पद्मा तदाख्यानं निशम्य मुदितानना। प्रस्थापयामास शुक कल्केरानयनादृता ॥ २६ ॥ भूषयित्वा स्वर्णरत्नेस्तमुवाच कृताञ्जलिः ॥ २७ ॥ 96367 पद्मोवाच । निवेदितं तु जानासि किमन्यत् कथयाम्यहम् । स्त्रीभावभयभीतात्मा यदि नायाति स प्रभुः ॥ २८ ॥ तथापि मे कर्मदोषात् प्रणतिं कथमिष्यसि। शिवेन यो वरो दत्तः स मे शापोऽभवत् किल ॥ २८ ॥ पुंसां मदर्शनेनापि स्त्रीभावं कामतः शुक ! । श्रुत्वेति पनामामन्बा प्रणम्य च पुनः पुनः ॥३०॥ उड्डीय प्रययौ कीरः शम्भलं कल्किपालितम् । तमागतं समाकर्ण्य कल्किः परपुरञ्जयः ॥ ३१ ॥ कोड़े कृत्वा तं ददर्श स्वर्णरत्नविभूषितम् ।

२ अंशः।]
प्रथमोऽध्यायः।
सानन्दं परमानन्ददायकं प्राह तं सदा ।। ३३ ॥
कल्किः परमतेजस्वी तरस्मिन्नमलं शुकम् ।
पूजयित्वा कर स्पृष्ट्वा पयःपानेन तर्पयन् ॥ ३३ ॥
तन्मुखे स्वमुखं दत्त्वा पप्रच्छ विविधाः कथाः ।
कस्माद्देशाचरित्वा त्वं दृष्ट्वापूर्व किमागतः ? ॥ ३४ ॥
कुत्रोषितः कुतो लब्धं मणिकाञ्चनभूषणम् ।
अर्हनिशं त्वन्मिलनं वाञ्छितं मम सर्वतः ॥ ३५ ॥
तवानालोकनेनापि क्षणं मे युगवद्भवेत् ॥ ३६ ॥
इति कल्केवचः श्रुत्वा प्रणिपत्य शुको भृशम् ।
कथयामास पद्मायाः कथा: पूर्वोदिता यथा ॥ ३७
संवादमात्मनस्तस्या निजालङ्कारधारणम् ।
सर्वं तहर्णयामास तस्याः प्रणतिपूर्वकम् ॥ ३८ ॥
श्रुत्वेति वचनं कल्किः शुकेन सहितो मुदा ।
जगाम त्वरितोऽखेन शिवदत्तेन तन्मना: ॥ ३८ ॥
समुद्रपारममलं सिंहलं जलसंकुलम् ।
नानाविमानबहुलं भाखरं मणिकाञ्चनैः ॥ ४० ॥
प्रासादसदनाग्रेषु पताकातोरणाकुलम् ।
श्रेणीसभापणाट्टाला रगोपुरमण्डितम् ॥ ४१ ॥
पुरस्त्रीपद्मिनीपद्मगन्धामोददिरेफिणीम् ।
पुरौं कारुमतौं तत्र ददर्श पुरत: स्थिताम् ॥ ४२ ॥
मरालजालसञ्चालविलोलकमलान्तराम् ।
उम्मीलितामालालिकलिताकुलितं सरः ॥ ४३ ॥
जलकुक्कुटदात्यूहनादितं हंससारसैः ।
ददश स्वच्छपयसा लहरीलोलवीजितम् ॥ ४४ ॥

३२
कल्किपुराणे
[२ अंशः
वनं कदम्बकुहालशालतालामकेसरैः ।
कपित्याखत्यखर्जूरवीजपूरकरमकः ॥ ४५ ॥
पुनागपनसै गरगैरर्जुनशिंशपैः ।
कमुकैनारिकेलेच नानाहक्षेच,शोभितम् ।
वनं ददर्श रुचिरं फलपुष्पदलावृतम् ॥ ४६ ॥
दृष्ट्वा इष्टतनुः शुकं सकरुणः कल्किः पुरान्ते वने
प्राह प्रीतिकरं वचोऽत्र सरसि सातव्यमित्याहतः ।
तत् श्रुत्वा विनयान्वितः प्रभुमतं यामीति पद्माश्रम
तत्मन्द शमिह प्रयाणमधुना गत्वा स कीरोऽवदत् ॥४
इति श्रीकल्किपुराणेऽनुभागवते भविष्य हितीयांश
कल्केरागमनवर्णनं नाम प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः ।
मूत उवाच । कल्किः सरोवराभ्यासे जलाहरणवर्मनि।
स्वच्छस्फटिकसोपाने प्रवालाचितवेदिकं ॥ १ ॥
सरोजसौरभव्यग्रभमनमरनादिते ।
कदम्बपोतपत्रालिवारितादित्यदर्शने ॥ २ ॥
समुवासासने चित्रे सदश्वेनावतारित: ।
करिकः प्रस्थापयामास शुकं पद्माश्रम मुदा ॥ ३ ॥
स नागखरमध्यस्थः शुको गत्वा ददर्श ताम् ।
हम्मास्था विषिणीपत्रशायिनी सखीभिर्वताम् ॥ ४॥
निखासवासतापन स्लायती वदनाम्बुजम् ।
उत्क्षिपन्ती सखीदत्तकमल चन्दनीक्षितम् ॥ ५ ॥

R ! १ अंशः।] द्वितीयोऽध्यायः । रेवावारिपरिनातं परागास्यं समागतम् । धृतनीरं रसगतं निन्दन्तीं पवनं प्रियम् ॥ ६ ॥ शुकः सकरुणः साधुवचनस्तामतोषयत् । सा, त्वमेवेहि, ते स्वस्ति, स्वागतं ? स्वस्ति में शुभ ! ॥७॥ गते त्वय्यतिव्यग्राहं शान्तिस्तेऽस्तु रसायनात् । रसायनं दुर्लभं मे, सुलभं ते शिवाश्रमे ॥ ८ ॥ क्व मे भाग्यविहीनावा: १ इहैव वरवर्णिनि ! । देवि ! तं सरसस्तीरे प्रतिष्ठाप्यागता वयम् ॥ ८ ॥ एवमन्योऽन्यसंवादमुदितात्ममनोरथे । मुखं मुखेन नयनं नयने साहता ददौ ॥ १० ॥ विमला मालिनी लोला कमला कामकन्दला । विलासिनी चारुमती कुमुदेत्यष्टनायिकाः ॥ ११ ॥ सख्य एता मतास्ताभिर्जलक्रीड़ार्थमुद्यताः । पद्मा प्राह, सरस्तीरमायान्तु सा मया स्त्रियः ॥ १२ ॥ इत्याख्यायाश शिविकामारुह्य परिवारिता । सखीभिश्चारुवेशाभिर्भूत्वा खान्तःपुराइहिः । प्रययो त्वरितं द्रष्टुं भैमी यदुपतिं यथा ॥ १३ ॥ जनाः पुमांसः पथि ये पुरस्थाः प्रदुद्रुवुः स्त्रीत्वभयात् दिगन्तरम् । शृङ्गाटके वा विपणिस्थिता ये निजाङ्गनास्थापितपुण्यकार्याः ॥ १४ ॥ नेवारितां तां शिविकां वहन्त्यः नार्योऽतिमत्ता बलवत्तराच । या शकोत्या तदुपर्युपस्था जगाम ताभिः परिवारिताभिः१५॥ रोजलं सारसहंसनादितं प्रफुल्लपद्मोडवरेणुवासितम् । .

कल्किपुराण [२ अंश
चेरुर्विगायाश सुधाकरालसाः कुमुदतीनामुदयाय शोभना
तासा' मुखामोदमदान्धभृङ्गाः विहाय पैदानि मुखारविन्द
लग्नाः सुगन्धाधिकमाकलय्य निवारितश्चापि म तत्यजुस्ते॥
हासोपहासः सरसप्रकाशः वाद्येच वृत्यैश्च जले विहारैः ।
करग्रहैस्ता जलयोधनार्ताः चकर्ष ताभिर्वनिताभिरुचः ॥
सा कामतप्ता मनसा कोक्ति विविध पद्मा सखिभिः समेत
अलात् समुत्थाय महाभूषा जगाम निर्दिष्टकदम्बषण्डम्॥१
मुखे शयानं मणिवेदिकागतं कल्कि पुरस्तादतिसूर्यबर्चसम्
महामणिवातविभूषणाचितं शुकन साई तमुदक्षतेशम् ॥२९
तमालनीलं कमलापतिं प्रभु पीताम्बर चारसरोजलोचनम्
पाजानुबाहुं पृथुपीनवक्षसं श्रीवत्ससत्कौस्तुभकान्तिराजितम्
तदद्भुत रूपमवेक्ष्य पद्मा संस्तम्भिता विस्मृतसक्रियार्था ।
सुप्तं तु संबोधयितुं प्रवृत्तं निवारयामास विशशितात्मा ॥२२
कदाचिदेषोऽतिबलोऽतिरूपी मद्दर्शनात् स्त्रीत्व मुपैति साक्षार
तदान किं में भविता भवस्य वरण शापप्रतिमन लोके ॥२३
चराचरात्मा जगतामधीशः प्रबोधितस्तवृदयं विविच्य ।
ददर्श पद्मा प्रियरूपशोभा यथा रमा श्रीमधुसूदनाग्रे ॥ २४
संवीक्ष्य मायामिव मोहिनौं तां जगाद कामाकुलितः स कलि
सखीभिरीणां समुपागतां तां कटाक्षविक्षेपविनामितास्याम् २
रहैहि सुखागतमस्तु भाग्यात् समागमस्ते कुशलाय मे स्यात्
तवाननेन्दुः किल कामपूरतापापनोदाय सुखाय कान्ते ! २
लोलाक्षिलावण्यरसामृतं ते कामाहिदष्टस्य विधातरस्य ।
तनोतु शान्ति सुकतेन त्या सुदुर्लभ जीवनमाश्रितस्य ॥२
बाह तवतो कुरता मनोजौ हदि स्थितं काममुदतवासम् ।

अंशः।] द्वितीयोऽध्यायः । ३५ ायिती चारुनखाडुशेन दिपं यथा सादिक्दिीर्णकुम्भम् २८ तनाविमाबुस्थितमस्तकौ ते कामप्रतोदाविव वाससाती। मोरसा भिवनिजाभिमानौ सुवर्चुलो व्यादिशा प्रियं मे २८ कान्तस्य सोपानमिदं वलियं सूत्रेण लोमावलिलेखलक्षितम् । विभाजितं वैदिविलम्नमध्यमे ! कामस्य दुर्गाश्रयमस्तु मे प्रियम् ॥ ३० ॥ (भोरु ! सम्भोगसुखाय मे स्यात् नितम्बविम्बं पुलिनोपर्म ते । पन्वनि ! तत्वंशकसङ्गशोभं प्रमत्तकामाविमदोद्यमग्लम् ॥३१॥ दाम्बुजं तेऽङ्गुलिपत्रचित्रितं वरं मरालक्वणनूपुराहतम् । कामाहिदष्टस्य ममास्तु शान्तये हदि स्थितं समधने सुशोभने ३२ श्रुत्वैतवचनामृतं कलिकुलध्वंसस्य कस्केरल दृष्ट्वा सत्पुरुषत्वमस्य मुदिता पना सखीभिर्वृता । काम् कासमनाः कृतानलिपुटा प्रोवाच तत् सादरं धीरं धीरपुरस्कृतं निजपतिं नत्वा नमकन्धरा ॥ ३३ ॥ इति श्रीकरिकपुराणेऽनुभागवते भविष्य दितीयांशे पना- करिकसाक्षात्संवादो नाम हितीयोऽध्यायः । तृतीयोऽध्यायः । सूत उवाच । सा पनातं हरि मत्वा प्रेमगहदभाषिणी। तुष्टाव बीड़िता देवी करुणावरुणालयम् ॥ १ ॥ प्रसीद जगतां नाथ ! धर्मवन् ! रमापते ।। विदितोऽसि विशद्वात्मन् ! वशगां वाहि मां प्रभो! ॥२॥ ॥

करिकपुराण
[२ अंशः
धन्याहं शतपुण्याहं तपोदामजपव्रतः ।
त्वां प्रतोष्य दुराराध्यं लब्धं तव पदाम्बुजम् ॥ ३ ॥
प्राज्ञां कुरु पदाम्भोजं तव संस्पृश्य शोभनम् ।
भवनं यामि राजानमाख्यातुखागतं तव ॥ ४॥
इति पद्मा रूपसमा गत्वा स्खपितरं नृपम् ।
प्रोवाचागमनं कल्केर्विष्णोरंशस्य दौत्यकैः ॥ ५ ॥
सखीमुखेन पनायाः पाणिग्रहणकाम्यया।
हरेरागमनं श्रुत्वा सहर्षोऽभूत् बहद्रतः ॥ ६ ॥
पुरोधसा ब्राह्मणश्च पात्रमित्रः सुमङ्गलैः ।
वाद्यताण्डवगीतैश्च पूजायोजनपाणिभिः ॥ ७ ॥
जगामानयितु कल्कि साई निजजनैः प्रभुः ।
मण्डयित्वा कारुमतौं पताकास्वर्णतोरणैः ॥ ८ ॥
ततो जलाशयाभ्यामं गत्वा विष्णुयश:सुतम् ।
मणिवेदिकयासीनं भुवनैकगतिं पतिम् ॥ ८ ॥
घनाघनोपरि यथा शोभन्ते रचिराण्यहो।
विद्युदिन्द्रायुधादीनि तथैव भूषणान्युत ॥ १० ॥
शरीरे पीतवासानघोरभासा विभूषितम् ।
रूपलावण्यसदने मदनोद्यमनाशने ॥ ११ ॥
ददर्श पुरतो राजा रूपशीलगुणाकरम् ।
साश्रुः सपुलक: श्रीशं दृष्ट्वा साधु तमर्चयत् ॥ १२ ॥
ज्ञानागोचरमतन्मे तवागमनमोखर ।।
यथा मान्धाटपुत्रस्य यदुनाथेन कानने ॥ १३ ॥
इत्युक्त्वा तं पूजयित्वा समानीय निजाश्रमे।
हम्माप्रासादसंबाध स्थापयित्वा ददौ सुताम् ॥१४॥

१७ गः।] वतीयोऽध्यायः । पो पनपलाशाची पन्नमवाय पधिनीम् । पद्मजादेयतः पमनाभायादात् यथाक्रामन् ॥ १५ ॥ करिवलंबा प्रियां भार्थी सिंहले साधुसत्कृतः । समुवास विशेषतः समीक्ष्य हीपमुत्तमम् ॥ १६ ॥ राजानः स्त्रीत्वमापवाः पनायाः सखितां गताः । द्रष्टुं समीयुस्त्वरिताः करिक विणु जगत्पतिम् ॥ १७ ॥ ताः स्त्रियोऽपि तमालोक्य संस्पृश्य चरणाम्बुजम् । पुनः पुंस्त्व समापना रवानानात् तदाज्ञया ॥ १८ ॥ पद्माकरली गौरवणी विपरीतान्तरावुभौ । वहिःस्फुटौ नीलपीतवासोव्याजेन पश्यतु ॥ ॥ १८ ॥ हा प्रभाव कल्केस्तु राजानः परमाबुतम् । प्रणम्य परया भक्त्या तुष्टुवुः शरणार्थिनः ॥ २०॥ जय जय निजमायया कपिताशेषविशेषकल्पनापरि- नाम ! बलातलोकवयोपकरणमाकलय्य मनुमनिगम्य पूरितमविननाविजनाविर्भूतमहामीनशरीर ! त्वं निजकत- धतुसंरचणज्जतावतारः ॥ २१ ॥ पुनरिह दितिजबलपरिलकितवासवसूदनादृतजितभुवन- पराममहिरण्याक्षनिधनपृथिव्युहरणसंकल्पाभिनिवेशेन धृत- कोशावतारः पाहि नः ॥ २२ ॥ पुनरिह जलधिमथनादृतदेवदामवगणमन्दराचलानयन- थाकुलितानां साहाय्येनाहतचित्त ! पर्वतोहरणामतप्रायन- रचनावतार ! कूमाकार! प्रसीद परेश! त्वं दीमनृपाणाम् ॥२३ पुनरिह विभुवनजयिनो महाबलपराक्रमस्य हिरण्य- अशिपोरहिताना देववराणां भयभीतानां कल्याणाय दिति- ! ४ कतिकापुराणे [२ अंशः। मुतबधप्रेसुर्ब्रह्माणो वरदानादववस्य न शस्त्रास्वविदिवा- वर्गमर्त्यपातालतली. देवगन्धर्वपिबतरनांगरिति विचिन्त्य नरहरिरूपेण नखाग्रभिवानन्दष्टदत्तच्छदं वासु कत- वानसि॥२४॥ पुनरिह बिजगज्जयिनो बलेः सत्रे, शत्रानुजो वटु- वामसो दैत्यसम्मोहनाय विपदभूमियाजाच्छ लेन विखकाय- स्तदुत्सृष्टजलसंपविलमनोऽभिलाषस्व'. भूतले बलेर्दी- वारिकत्वमङ्गीकृतमुचितं दानफलम् ॥ २५ ॥ पुनरिह हैहयादिपाषाम् अमितबसपराक्रमाणां नानामदोल्लखितमादावार्ममा निधनाय भृगुवंशजो जाम- दग्न्यः पिटहोमध हरणप्रवृद्धमन्युवशात् पिसप्तवलो निः- क्षत्रियां पृथिवीं कृतवानसि परशुरामावतारः ॥ २६ ॥ पुनरिह पुलस्त्यवंशावतंसस्य विश्ववस: पुत्रस निशा- चरस रावणस्य लोकत्रयतापनस्य निधनमुरीलत्य रवि. कुलजातदशरथात्मजो विश्वामिवादनाखुपलभ्यः पने सोता- हरणवशात् प्रहधमन्युना अम्बुधि वानरनिवध सगणं दश- कम्मर हतवानसि रामावतारः ॥२७॥ पुनरिह यदुकुलजलधिकलानिधिः सकलमुरगपसवित- पादारविन्द इन्दः विविधदानवदैत्यदलनलोकत्रयदुरिततापनो वसुदेवात्मजो रामावतारो बलभद्रस्वमसि ॥ २८॥ पुनरिह विधिवतवेदधर्मानुष्ठानविहितमानादर्शनसंधुदः संसारकम्मत्यागविधिना ब्रह्माभासविलासचातुरौं प्रति- विमाननामसम्पादयन् बुद्धावतारस्त्वमसि.॥ २८ ॥ अधुना कलिकुलनाशावतारो बौद्यपाषण्डनच्छादीनाच र पंथा।] चतुर्थोऽध्यायः। विदधामसुपरिपालनाय बतावतारः, कल्किरूपेणास्मान् स्त्रीत्वनिरयाटुकृतवानसि तवानुकम्पा किमिह वषयामः॥३० व ते ब्रह्मादीनामविदितवितासावतरण क नः कामा वामावलितमगतष्णातमनसाम् । सुदुष्याप्यं युभधरणजलजालोकनमिदं कपापारावारः प्रमुदितदृशाखासय मिजान् ॥ ३१ ॥ इति शोकल्कि पुराणेऽनुभागवते भविष्य द्वितीयांशे नृपाणां बतीयोऽध्यायः । स्तवो नाम चतुर्थोऽध्यायः । त उवाच । श्रुत्वा नृपाणां भक्तानां वचनं पुरुषोत्तमः । ब्राह्मणक्षविटशूद्रवर्णानां धर्ममाह यत् ॥ १ ॥ प्रहत्तानां निवृत्तानां कर्म यत् परिकीर्तितम् । सर्व संधावयामास वेदानामनुशासनम् ॥ २ ॥ इति कल्केर्वचः श्रुत्वा राजानो विषदाशयाः । प्रणिपत्य पुनः प्राहु: पूर्वान्तु गतिमामनः ॥ ३ ॥ स्त्रीत्वं वाध्यथवा पुंस्त्वं कस्य वा केन वा कतम् । जरायौवनबास्वादिसुखदुःखादिकञ्च यत् ॥ ४ ॥ कस्मात् कुतो वा कस्मिन् वा किमेतदिति वा विभो!! अनिर्णीताम्यविदितावपि कम्मावि वर्णय ॥ ५ ॥ (तदा तदाकणं करियरनन्त, मुनिमस्मरत् ।) सोऽप्यनन्तो मुनिवरस्तीर्थपादो हव्रतः ॥ ६ ॥ कल्पोर्दर्शनतो मुप्तिमाकलथ्यांगतस्वरन् । समागत्य पुनः प्राह कि करिबामि हुन वा ।

करिकापुराण [२ अंधः यास्यामीति वचः श्रुत्वा कल्किः प्राह सन् मुनिम् ॥७ कृतं दृष्टं त्वया सर्व जात यायनिवर्तकम् । पदृष्टमकतञ्चेति श्रुत्वा इष्टमना मुनिः ॥८॥ गमनायोद्यत ते तु दृष्ट्वा नृपगणास्ततः । कल्कि कमलपवावं प्रोविस्मितचेतसः ॥ ८ ॥ राजान अचुः। किमनेन नापि कथित त्वया वा किमुतान्युत सर्व तत् श्रोतुमिच्छामः कथोपकथनं हयोः ॥ १० ॥ नृपाणां तदचः श्रुत्वा तानाह मधुसूदनः । पृच्छतामुं मुनि शान्त कथोपकथनादृताः ॥ ११ ॥ इति कल्यो वचो भूयः श्रुत्वा ते नृपसत्तमाः । अनन्तमाहुः प्रणता: प्रश्नपारतितीर्षवः ॥ १२ ॥ राजान ऊचुः । मुने ! किमत्र कथनं कल्किना धवीणा । दुर्बोधः केन वा हातस्तत्त्व वर्णय मः प्रभो ! ॥१३॥ मुनिरुवाच । पुरिकायां पुरि पुरा पिता मे वेदपारगः । विद्रुमो नाम धर्मजः ख्यातः परहिते रतः ॥ १४ ॥ सोमा मम विभो! माता पतिधर्मपरायणा। तयोर्वयःपरिणती काले पण्डाशतिस्त्वहम् ॥ १५ ॥ सनात: शोकदः पिचोर्लोकानां निन्दिताकतिः । मामालोक्य पिता क्लीवं दुःखशोकभयाकुलः ॥ १६ ॥ त्यता ग्रहं शिववनं गत्वा तुष्टाव शहरम् । सम्पूज्येशं विधानेन धूपदीपानुलेपनैः ॥ १७ ॥ विद्रुम उवाच । शिवं शान्तं सर्वलोकैकनाथं भूतावास वासुकीकण्ठभूषम् । जटाजूटाबच्चगणातरङ्ग वन्दे सान्द्रानन्दसन्दोहदचम् ॥१८

२ अंशः।] चतुर्योऽध्यायः ।
४१
इत्यादि बहुभिः स्तोवैः स्तुतः स शिवदः शिवः ।
वृषारूढ़ः प्रसवात्मा पितरं प्राह मे ॥१८॥
विद्रुमो मे पिता प्राह मत् पुंस्त्व तापतापितः ।
हसन् शिवो ददौ पुंस्त्र पार्वत्या प्रतिमोदितः ॥२०॥
मम पुंस्त्व' वर लब्ध्वा पितायात: पुनर्यहम् ।
पुरुषं मां समालोक्य सहर्षः प्रियया सह ॥ २१ ॥
ततः प्रवयसौ तौ तु पितरौ हादशाब्दके ।
विवाहं मे कारयित्वा बन्धुभिर्मुदमापतः ॥ २२ ॥
यज्ञरातसुतां पत्नौं मानिनौं रूपशालिनीम् ।
प्राप्याहं परितुष्टात्मा ग्राहस्थः स्त्रीवशोऽभवम् ॥ २३ ॥
ततः कतिपये काले पितरौ मे मृती नृपाः ।।
पारलौकिककार्याणि सुहनिर्बाधणीतः ॥ २४ ॥
तयोः कृत्वा विधानेन भोजयित्वा दिजान् बहन् ।
पित्रोवियोगतप्तोऽहं विष्णुसेवापरोऽभवम् ॥ २५ ॥
तुष्टो हरिमें भगवान् जपपूजादिकम्मभिः ।
खप्ने मामाह मायेय नेहमोहविनिर्मिताः ॥ २६ ॥
अयं पितयं मातेति ममताकुलचेतसाम् ।
शोकदुःखभयोगजरामृत्युविधायिका ॥ २७ ॥
शुत्वेति वचन विष्णोः प्रतिवादार्थमुद्यतम् ।
मामालल्यान्तर्हितः स विनिद्रोऽहं ततोऽभवम् ॥ २८ ॥
सविस्मयः सभार्योऽहं त्यक्त्वा तां पुरिकां पुरीम् ।
पुरुषोत्तमाख्य श्रीविष्णोरालयञ्चागमं नृपाः ! ॥ २८ ॥
तत्रैव दक्षिण पार्वे निर्मायाश्रममुत्तमम् ।
सभार्यः सानुगामात्यः करोमि हरिसेवनम् ॥ ३० ॥

करिकपुराण [२यः मायासन्दर्शनाकासी हरिसमनि संस्थितः । गायन् नृत्यन् जपन् नाम चिन्तयन् शमनापहम् ॥३१॥ एवं वृत्ते हादशाब्दे हादश्यां पारणा दिने । सातुकामः समुद्रऽहं बन्धुभिः सहितो गतः ॥ १२ ॥ तव मग्न जलनिधौ लहरीलोलसंकुले । समुत्थातुमशहां मां प्रतुदन्ति जलेचराः ॥ ३३ ॥ निमज्जनोन्मज्जनेन व्याकुलीकृतचेतसम् । जलहिलोलमिलनदलिताङ्गमचेतनम् ॥ ३४ ॥ जलधेर्दक्षिण कूले पतितं पवनेरितम् । मां तत्र पतितं दृष्ट्वा वृधशर्मा हिजोत्तमः ॥ ३५ ॥ सन्ध्यामुपास्य सणः स्वपुर मां समानयत् । स वृद्धशर्मा धर्मात्मा पुत्रदारधनान्वित: । कत्वा रुग्नन्तु मां दव पुत्रवत् पर्यपालयत् ॥ ३६॥ प्रहन्तु तत्र दीनामा दिग्देशाभिन्न एव न । दम्पती तौ खपितरौ मत्वा तवावसं नृपाः ! ॥ ३७॥ स मां विज्ञाय बहुधा वेदधर्मेष्वनुष्ठितम् । प्रददौ स्वां दुहितरं विवाहे विनयान्वित: ॥ ३८ ॥ लब्धा चामीकराकारां रूपशीलगुणान्विताम् । नाम्ना चारुमती तत्र मानिनों विस्मितोऽभवम् ॥ ३८ ॥ तयाहं परितुष्टात्मा नानाभोगसुखान्वितः । जनयित्वा पञ्च पुचान् सम्भदेनाहतोऽभवम् ॥ ४० ॥ जयश्च विजयश्चैव कमलो विमलस्तथा । बुध इत्यादयः पञ्च विदितास्तनया मम । ४१॥ खजनबन्धुभिः पुत्रर्धनैर्नानाविधैरहम् ।

थः।] चतुर्थोऽध्यायः । ४३ विदितः पूजितो लोके देवरिन्द्रो यथा दिवि ॥ ४२ ॥ बुधस्य ज्येष्ठपुत्रस्य विवाहार्थं समुद्यतम् । दृष्ट्वा दिजवरस्तुष्टो धर्मसारो निजां सुताम् ॥ ४३ ॥ दित्सुः कर्माणि वेदनवकाराभ्यु दयान्यपि । वाद्यैर्गीतैश्च नृत्यैव स्त्रीगणे: स्वर्णभूषितः ॥ ४४ ॥ पहञ्च पुत्राभ्यु दये पिटदेवर्षितर्पणम् । कर्तुं समुद्रवेलायां प्रविष्टः परमादरात् ॥ ४५ ॥ वेलालोलायिततनुर्जलादुत्थाय सत्वरः । तीरे सखीन् मानसन्ध्यापरान् वीच्याहमुम्भना: ॥४६॥ सद्यः समभवं भूपाः ! हादश्यां पारणाहतान् । पुरुषोत्तमसंवासान् विष्णुसेवार्थमुद्यतान् ॥ ४७ ॥ तोऽपि मामग्रतः छत्वा तद्रूपवयसां निधिम् । विस्मयाविष्टमनसं दृष्ट्वा मामझुवन् जना: ॥ ४८ ॥ अनन्त ! विष्णुभक्तोऽसि जले किं दृष्टवानिह । स्थले वा व्यग्रमनसं लचयामः कथं तव ॥ ४८॥ पारणं कुरु तद ब्रुहि त्यक्षा विस्मयमात्मनः । तानब्रुवमहं नैव किश्चित् दृष्टं श्रुतं जनाः ! ॥ ५० ॥ कामात्मा तत् कपणधीमायासन्दर्शनादृतः । तया हरेर्माययाहं मूढ़ो व्याकुलितेन्द्रियः ॥ ५१ ॥ न शम्म वेधि कुवापि नेहमोहवशं गतः । पात्मनो विस्मृतिरियं को वेद विदितां तु ताम् ॥५२॥ इति भार्याधनागारपुत्रीहाहानुरक्तधीः । प्रनम्तोऽहं दीनमना न जाने वापसम्भितम् ॥ ५३ ॥ मां वीक्ष्य मानिनी भार्या विवशं मूढ़वत् स्थितम् ।

४४
कल्किपुराणे [२ अंधः
क्रन्दन्ती किमहोऽकस्मात् पालपन्ती ममान्तिके ॥५४॥
इह तां वीक्ष्य तांस्तत्र स्मृत्वा कातरमानसम् ।
हंसोऽप्य को बोधयितुमागतो मां सदुतिभिः ॥ ५५ ॥
धीरो विदितसर्वार्थः पूर्णः परमधम्मवित् ॥ ५६ ॥
सूर्याकारं सत्त्वसारं प्रशान्तं दान्त शुद्ध लोकशोकक्षयिष्णुम्
ममाग्रे तं पूजयित्वा मदङ्गाः पप्रच्छुस्ते मत्शभध्यानकामाः
इति श्रीकल्किपुराणेऽनुभागवते भविथ द्वितीयांश
अनन्तमायादर्शनं नाम चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः ।
सूत उवाच । उपविष्टे तदा हंसे भिक्षा लत्वा यथोचिताम्
तत: प्राहुरनन्तस्य शरीरारोग्यकाम्यया ॥१॥
हंसस्तेषां मतं ज्ञात्वा प्राह मां पुरतः स्थितम् ।
तव चारुमती भार्या पुत्राः पञ्च बुधादयः ॥ २ ॥
धनरत्नान्वितं सद्म सम्बाधं सौधसंकुलम् ।
त्यत्वा कदागतोऽसीह पुत्रोहाहदिने न तु ॥ ३ ॥
समुद्रतीरसञ्चार: पुरात्
धर्मजनादृतः ।
निमन्त्र मामिहायातः शोकसंविग्नमानसः ॥ ४॥
त्वञ्च सप्ततिवर्षीयस्तत्र दृष्टो मया प्रभो।।
त्रिंशद्वर्षीयवत् कस्मात् इति मे सम्धमो महान् ॥ ५
इयं भार्या सहाया ते न तवालोकिता कचित् ।
अहं वा क्व कुतस्तस्मात् कथं वा केन काशितः ॥६
स एव वा न वापि त्वं नाहं वा भिक्षुरेव सः ।
पावयोरिह संयोगश्वेन्द्रजाल इवाभवत् ॥ ७ ॥

२ अंशः।] पचमोऽध्यायः।
४.५
वं ग्राहस्वः स्वधर्मशो भिक्षुकोऽहं परामकः ।
पाययोरिह संवादो बालकोयत्तयोरिव ॥८॥
तस्मादीशस्य मायेयं विजगमोहकारिणी।
ज्ञानामाप्यातलभ्या मन्येऽहमिति भो हिज ! ॥ ८ ॥
इति भिक्षुः समाश्राव्य यदन्यत् प्राह विस्मितः ।
मार्कण्ड य ! महाभाग ! भविष्यं कथयामि ते ॥१०॥
प्रलये या त्वया दृष्टा पुरुषस्योदराभसि ।
सा माया मोहजनिका पन्यानं गणिका यथा ॥ ११ ॥
तमो घनन्तसन्तापा नोदनोचतमक्षरी।
ययेदमखिलं लोकमात्यावस्थया स्थितम् ॥ १२ ॥
लये लोने विजगति ब्रा तन्मात्रतां गतः ।
निरुपाधी निरालोके सिसचुरभवत् परः ॥ १३ ॥
ब्रह्मण्यपि विधाभूते पुरुषप्रकती स्वया ।
भासा संजनयामास महान्तं कालयोगतः ॥ १४ ॥
कालस्वभावकर्मात्मा सोऽहमारस्ततोऽभवत् ।
त्रिहत् विष्णुशिवब्रह्ममयः संसारकारणम् ॥ १५ ॥
तमात्राणि ततः पञ्च यतिर गुणवन्ति च ।
महाभूतान्यपि ततः प्रक्षती ब्रह्मसंश्रयात् ॥ १६ ॥
जाता देवासुरनरा ये चान्ये जीवजातयः ।
ब्रह्माण्डभाण्डसंभारजन्मनाशक्रियामिकाः ॥ १७ ॥
मायया मायया जीवपुरुषः परमात्मनः ।
संसारशरणव्यग्रो न वेदामगति कचित् ॥ १८ ॥
अहो बलवती माया ब्रह्माचा यश स्थिताः ।
गावो यथा नसि प्रोता गुणबद्धाः खगा इव ॥ १८ ॥

कतिपुराण [२ अंशः
ता.माया गुणमय्यां ये तितीर्षन्ति मुनीखराः ।
स्रवन्तों वासनानका त एवार्थविदो भुवि ॥ २० ॥
शौनक उवाच । मार्कण्डेयो वशिष्ठश्च वामदेवादयोऽपरे ।
श्रुत्वा गुरुवचो भूयः किमाहुः श्रवणाहताः ॥ २१ ॥
राजानोऽनन्तवचनमिति श्रुत्वा सुधोपमम् ।
किंवा प्राहुरतो सूत ! भविथमिह वर्णय ॥ २२ ॥
इति तद्दच आश्रुत्य सूतः सस्कृत्य तं पुनः ।
कथयामास कार्मेन शोकमोहविघातकम् ॥ २३ ॥
सूत उवाच । तवानन्तो भूपगणैः पृष्टः प्राह तादरः ।
तपसा मोहनिधनमिन्द्रियाणाञ्च निग्रहम् ॥ २४ ॥
अनन्त उवाच । अतोऽहं वनमासाद्य तपः कला विधानतः ।
नेन्द्रियाणां न मनसो निग्रहोऽभूत् कदाचन ॥ २५ ॥
वने ब्रह्म ध्यायतो मे भार्यापुनधनादिकम् ।
विषयश्चान्तरा शश्वत् संस्मारयति मे मनः ॥ २६ ॥
तेषां स्मरणमात्रेण दुःखशोकभयादयः ।
प्रतुदन्ति मम प्राणान् धारणाध्याननाशकाः ॥ २७ ॥
ततोऽहं निश्चितमतिरिन्द्रियाणाञ्च धातने ।
मनसो निग्रहस्तेन भविष्यति न संशयः ॥ २८ ॥
प्रतो मामिन्द्रियाणाञ्च निग्रहष्यप्रचेतसम् ।
तदधिष्ठाटदेवाच दृष्ट्वा मामीयुरनसा ॥ २८ ॥
रूपिणो मामथोसुस्ते भोऽनन्त ! इति ते दश ।
दिग्वातार्कप्रचेतोऽखिवहीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥
इन्द्रियाणां वयं देवास्तव देहे प्रतिष्ठिताः ।
नखाग्रकाण्डसंभिवान् नास्मान् कर्तुमिहाईसि ॥३१॥

अंशः।] पनमोऽध्यायः। ४७ ! न योषितवानन्त ! मनोनिग्रहकमणि। छेदने भेदनेऽस्माकं भिवमा मरिष्यसि ॥ ३२ ॥ अन्धानां वधिराणाञ्च विकलेन्द्रियजीविनाम् । वनेऽपि विषयव्ययं मानसं लक्षयामहे ॥ ३३ ॥ जीवस्यापि गृहस्थस्य देहो गेहं मनोऽनुगः । बुद्धिर्भा- तदनुगा वयमित्यवधारय ॥ ३४ ॥ कर्मायत्तस्य जीवस्य मनो बन्धविमुक्तिक्तत् । संसारयति लुब्धस्य ब्रह्मणो यस्य मायया ॥ ३५ ॥ तत्मान्मनोनिग्रहार्थं विष्णुभक्ति समाचर । मुखमोक्षप्रदा नित्यं दाहिका सर्वकर्मणाम् ॥ ३६ ॥ ईताईतप्रदानन्दसन्दोहा हरिभलिका। हरिभक्तया जीवकोषविनाशान्त महामते ! । ३७ ॥ पर प्रासासि निर्वाण करकेरालोकनात् त्वया । इत्यहं बोधितस्तेन भक्त्या संपूज्य केशवम् ॥ १८ ॥ कल्कि दिक्षुरायात: कृष्ण कलिकुलान्तकम् । दृष्ट रूपमरूपस्य स्मृष्टस्तत्पदपल्लवः । अपदस्य, श्रुतं वाक्यमवाच्यस्य परात्मनः ॥ ४॥ इत्यनन्तः प्रमुदितः पद्मानार्थ निजेश्वरम् । कल्कि कमलपना नमस्त्य ययौ मुनिः ॥ ४१ ॥ राजानो मुनिवाक्येन निर्वाणपदवीं गताः । कल्किमभ्यच्चा पदाच नमस्कात्य मुनिव्रताः ॥ ४२ ॥ । उवाच । अनन्तस्य कथामतामज्ञानध्वान्तनाशिनीम् । मायानियन्त्रौं प्रपठन् शृखन् बन्धादिमुच्यते ॥ ४३ ॥ संसाराधिविलासलालसमतिः श्रीविणुसेवादरो

४८
करिकपुराणे
[२अंग
भत्त्यास्थानमिदं खभेदरहितं निर्माय धीमना ।
जानोझासनिशातखामुदित: सनलिदुर्गाश्रयः
षड्वर्ग जयतादशेषजगतामामखितं वैशवः ॥ ४४ ॥
इति श्रीकरिकपुराणानुभागवते भविणे हितीयांश
अनन्तमायानिरसन नाम पथमोऽध्यायः ।
षष्ठोऽध्यायः ।
सूत उवाच । गते नृपगधे कल्किः पमया सह सिंहलात् ।
शम्भलयामगमने मतिं चक्र स्वसेमया ॥१॥
ततः करकेरभिप्राय विदित्वा वासवस्वरन् ।
विशकर्माणमाइय वचनश्चेदमब्रवीत् ॥ २ ॥
इन्द्र उवाच । विश्वकर्मन् ! शश्नले त्वं गृहोद्यानाधरितम्।
प्रासादहर्म्यसम्बाध रचय स्वर्णसञ्चयः ॥३॥
रवस्फटिकवैदूर्थनानामणिविनिर्मितः ।
सर्वव शिल्पनेपुरथ तव यञ्चास्ति तत् कुरु ॥ ४ ॥
श्रुत्वा हरर्वचो विवकर्मा शर्म निज़ स्मरन् ।
शश्चले कमलेशस्य वस्त्यादिप्रमुखान् यहान् ॥ ५॥
हंससिंहसुपर्णादिमुखांचक्र स विश्ववत् ।
उपर्युपरि तापनवातायनमनोहरान् ॥ ६॥
नामावनलतोद्यानसरीवापीसुशोभितः ।
सभालचाभवत् कल्ोर्यथेन्द्रस्थामरावती ॥ ७ ॥
कल्किस्तु सिंहलाद द्वीपात् वहिः मेमागणेहतः ।
त्या कारमती कूले पाथोधेरकरोत् स्थितिम् ॥ ८॥

२ अंशः।] षष्ठोऽध्यायः । ४६ वृहद्रतस्तु कौमुद्या सहितः स्नेहकातरः । पप्रया सहितायामै पनानाथाय विष्णवे॥८॥ ददौ गजानामयुतं लक्षं मुख्यञ्च वाजिनाम् । रथानाञ्च हिसाहन दासीना हे शते मुदा ॥१०॥ दत्त्वा वासांसि रबानि भक्तिस्रहालोचनः । सयोर्मुखालोकमेन नाशकत् कियदीरितम् ॥ ११ ॥ महाविणुदम्पती तौ प्रस्थाप्य पुनरागतो। पूजितौ करिकपनाभ्यां निजकारमतौं पुरीम् ॥ १२ ॥ करिकस्तु जलधेरम्भो विगाह्य पृतनागणेः । पारं जिगमिषु दृष्ट्या जम्बुकं स्तम्भितोऽभवत् ॥ १३ ॥ जलस्तम्भमथालोक्य कल्किः सबलवाहनः । प्रययौ पयसां राशेरपरि श्रीनिकेतनः ॥ १४ ॥ गत्वा पार शुकं प्राह याहि मे शम्भलालयम् ॥ १५ ॥ विश्वकम्मकतं यत्र देवराजाज्ञया बहु । सद्म संबाधममलं मप्रियार्थं सुशोभनम् ॥ १६ ॥ तत्रापि पित्रोर्जातीना खस्ति ब्रूया यथोचितम् । यदत्राङ्ग ! विवाहादि सर्व व त्वंमईसि ॥ १७ ॥ पश्चाद् यामि इतस्त्वेतैस्त्वमादौ याहि समलम् ॥ १८ ॥ कल्कवचनमाकण्यं कीरो धीरस्ततो ययौ। आकाशगामी सर्वज्ञः शम्भल सुरपूजितम् ॥ १८ ॥ सप्तयोजनविस्तीर्णं चातुर्वण्य जनाकुलम् । सूर्य्यरश्मिप्रतीकाश प्रसादाशतशोभितम् ॥ २० ॥ सर्व सुखद रम्य शम्भल विलोऽविशत् ॥ २१ ॥ राहात् सहान्तरं दृष्ट्वा प्रासादयदपि चाम्बरम् । ५ कल्किपुराणे [२ अंशः। वनाद वनान्तरं तब हमाद चान्तरं व्रजन् ॥ २२ ॥ शुकः स विष्णुयशसः सदनं मुदितोऽवजत् । तं गत्वा रुचिरालापैः कथयित्वा प्रियाः कथाः ॥२३॥ कल्करागमनं प्राह सिंहलात् पमया सह ॥ २४ ॥ ततस्वरन् विष्णुयथाः समानाय्य प्रजाजनान् । विशाखयूपभूपालं कथयामास हर्षितः ॥ २५ ॥ स राजा कारयामास पुरयामादिमण्डितम् । वर्णकुभैः सदम्भोधिः पूरितचन्दनोक्षितः ॥ २६ ॥ कालागुरुसुगन्धाव्यैर्दीपलाजाडुराक्षतः । कुसुमैः सुकुमारैच रम्भापूगफलान्वितैः । शुशुभे शम्भलग्रामो विबुधानां मनोहरः ॥ २७ ॥ तं कल्कि: प्राविशद भीमसेनागणविलक्षणः । कामिनीनयनानन्दमन्दिराङ्गः कपानिधिः ॥ २८ ॥ पद्मया सहितः पित्रोः पदयोः प्रणतोऽपतंत् । सुमतिर्मुदिता पुत्र ऋषां शक्र शचीमिव । ददृशे त्वमरावत्यां पूर्णकामा दितिः सती ॥ २८ ॥ शालग्रामनगरी पताकाध्वजशालिनी। अवरोधसुजघना प्रासादविपुलस्तनी। मयूरचूचुका हंससंघहारमनोहरा ॥ ३० ॥ पटवासोद्योतधूमवसना कोकिलखना। महासगोपुरमुखी वामनेत्रा यथाङ्गना। कल्कि पतिं गुणवती प्राप्य रेजे तमीखरम् ॥ ३१ ॥ स रेमे पपया तत्र वर्षपूगानजाश्रयः । शम्भले विहलाकारः कल्किः करकविनापनः । ३२॥

अंशः।] षष्ठोऽध्यायः । कवेः पत्नी कामकला सुषुवे परमेष्ठिनौ । वृहत्कीर्तिवादबाह महाबलपराक्रमी ॥ ३३ ॥ प्रान्जस्य सवतिर्भार्या तस्यां पुत्री बभूवतुः । यज्ञविज्ञौ सर्वलोकपूजितौ विजितेन्द्रियौ ॥ ३४ ॥ सुमन्त्रकस्तु मालिन्यां जनयामास शासनम् । वेगवन्तञ्च साधूनां हावेतावुपकारकौ ॥ ३५ ॥ ततः कल्किच पनायां जयो विजय एव च । हौ पुत्री जनयामास लोकख्याती महाबली ॥ ३६ ॥ एतैः परिवृतोऽमात्यैः सर्वसम्पत्समन्विती। वाजिमेधविधानार्थमुद्यतं पितरं प्रभुः ॥ ३७ ॥ समीक्ष्य कल्कि: प्रोवाच पितामहमिवेश्वरः । दिशां पालान् विजित्याहं धमान्याहत्य इत्युत ॥ ३८ ॥ कारयिष्याम्यखमेध यामि दिग्विजयाय भोः ! ॥ ३८ ॥ इति प्रणम्य तं प्रीत्या करिकः परपुरश्नयः । मेनागणैः परिवृतः प्रययौ कीकर्ट पुरम् ॥ ४० ॥ बुद्धालयं सुविपुलं वेदधर्मवहिष्कृतम् । पिटदेवार्चनाहीनं परलोकविलोपकम् ॥ ४१ ॥ देहात्मवादबहुलं कुलजातिविवज्जितम् धनैः स्त्रीभिर्भक्ष्यभोज्यैः स्वपराभेददर्शिनम् ॥ ४२ ॥ नानाजनैः परिवृतं पानभोजमतत्परः ॥ ४३ ॥ श्रुत्वा जिनो निजगणैः करकरागमनं क्रुधा । अचौहिणीभ्यां सहितः संबभूव पुराबहिः ॥ ४४ ॥ गजरथतुरगः समाचिता भूः कनकविभूषणभूषितैर्वराङ्गः।

५२
करिखपुराणे
[२ अंशः।
शतशतरथिभिधृतास्त्रशस्त्रैः
ध्वजपटराजिनिवारितातपैर्बभौसा ॥ ४५ ॥
इति श्रीकल्फिपुराणेऽनुभागवते भविष्ये द्वितीयांश
बुद्धनिग्रहे कोकटपुरगमनं नाम षष्ठोऽध्यायः।
सप्तमोऽध्यायः ।
भूत उवाच । ततो विशुः सर्वजिष्णुः कल्किः कस्कविनाशनः ।
कालमायास तां सेनां करिणीमिव केशरी ॥१॥
मनाङ्गनां तां रतिसङ्गरक्षतौं
रक्ताक्तवस्त्रां विकृतोरुमध्याम् ।
पलायती चारुविकीर्णकेश
विकूजतों प्राह स कल्किनायकः ॥ २ ॥
रे बौद्धाः ! मा पलायध्वं निवर्तध्व रणागण ।
युध्यध्वं पौरुषं साधु दर्शयव पुनर्मम ॥ ३ ॥
जिनो हीनबलः कोपात् करके राकखं तद्दचः ।
प्रतियोडुषारूढ़ः खगचम्मधरो ययौ ॥ ४ ॥
नानाप्रहरणोपेतो मानायुधविशारदः ।
कल्किना युयुधे धीरो देवानां विस्मयावहः ॥ ५ ॥
शूलेन तुरगं विड्डा कल्कि बाणेन मोहयन् ।
क्रोडीक्वत्य द्रुतं भूमे शक तोलनादृतः ॥ ६ ॥
जिनो विश्वम्भरं ज्ञात्वा क्रोधाकुलितलोचनः ।
चिच्छेदास्य तनुत्राणं कल्क शस्त्रञ्च दासवत् ॥ ७ ॥
विशाखयूपोऽपि तथा निहत्य गदया जिनम् ।
मूर्छितं कल्किमादाय लीलया रथमारुहत् ॥८॥

पेशः।]
सप्तमोऽध्यायः।
५३.
लब्धसंस्तथा कविः सेवकोसाहदायकः ।
समुत्पत्य रथात् तस्य नृपस्य जिनमाययो।।
शूलव्यथां विहायाजी महासत्वस्तरङ्गमः ।
रिङ्गणैर्भमणैः पादविक्षेपहननर्मुहुः ॥ १० ॥
दण्डाघातः सटाक्षेपर्बोइसेनागणान्तरे।
निजधान रिपून कोपात् शतशोऽथ सहस्रशः ॥ ११ ॥
निवासवारुण्डीय केचिद हीपान्तरेऽपतत् ।
हस्यश्वरथसम्बाधा: पतिता रणमूईनि ॥ १२ ॥
गर्यो जनुः षष्टिशतं गर्ग्य: कोटिशतायुतम् ।
विशालास्तु सहस्राणां पञ्चविंशं रणे त्वरम् ॥ १३ ॥
पयुते हे जघानाजी पुत्राभ्यां सहितः कविः ।
दशलच तथा प्रान्तः पञ्चलवं सुमन्त्रकः ॥ १॥
जिनं प्राह हसन् कल्किस्तिष्ठाग्रे मम दुर्मते !।
देवं मां विदि सर्वत्र शुभाशुभफलप्रदम् ॥ १५ ॥
महाणजालभिवाङ्गो निःषको यास्यसि क्षयम् ।
म यावत् पश्य तावत् त्वं बन्धूनां ललितं मुखम् ॥१६॥
कल्क रितीरितं श्रुत्वा जिनः प्राह इसन्
बली
देवं त्वदृश्य शास्त्र ते बधोऽयमुररीकृतः ।
प्रत्यक्षवादिनो बौद्धा वयं यूयं स्थाश्रमाः ॥ १७ ॥
यदि वा देवरूपस्व तथाप्यग्रे स्थिता वयम्
यदि भत्तासि बाणौधेस्तदा बौद्धः किमत्र ते ॥१८॥
सोपालम्भं त्वया ख्यातं त्वय्येवास्तु स्थिरो भव ।
इति क्रोधाद बाणजालैः कल्कि घोरैः समावणोत्॥१८॥
स तु बाणमयं वर्ष क्षयं निन्येऽर्कवधिमम् ॥ २० ॥

कतिपुराण [२ अंधः।
ब्राह्मा वायव्यमाग्नेयं पार्जन्य चान्यदायुधम् ।
कल्केर्दर्शनमात्रेण निष्फलाग्यभवत् षणात् ॥ २१ ॥
यथोषरे वीजमुसं दानमयोषिये यथा ।
यथा विणी सतां हेषात् भक्तिर्येन कताप्यहो ॥ २२ ॥
कल्किस्तु तं वृषारूढ़मवप्नुत्य कचेऽग्रहीत् ।
ततस्तौ पेततर्भूमौ ताम्रचूड़ाविव क्रुधा ॥ २३ ॥
पतित्वा स कल्किकच जगाह तस्कर कर । २४ ॥
ततः समुत्थिती व्यग्री यथा चानूरकेशवौ।
धृतहस्तौ धृतकचौ ऋक्षाविव महाबली।
युयुधाते महावीरो जिनकल्ली निरायुधौ ॥ २५ ॥
ततः कल्की महायोगी पदाघातेन तत्कटिम् ।
विभज्य पातयामास तालं मत्तगजो यथा ॥ २६ ॥
जिनं निपपतितं दृष्टा बोजा हाहेति चुक्रुशुः ।
कल्के: सेनागणा विप्रा जहनिहतारयः ॥ २७ ॥
जिने निपतिते भ्राता तस्य शुद्धोदनो बली।
पादचारी गदापाणि: कल्कि हन्तु द्रुतं ययौ ॥ २८ ॥
कविस्तु तं बाणवतः परिवार्य समन्ततः ।
जगर्ज परवीरनो गजमात्य सिंहवत् ॥ २८ ॥
गदाहस्तं तमालोक्य पत्ति स धर्मवित् कविः ।
पदातिगो गदापाणिस्तस्थौ शुद्धोदनाग्रतः ॥ ३० ॥
स तु शुद्धोदनस्तेन युयुधे भीमविक्रमः ।
गजः प्रतिगजेनेव दन्ताभ्यां मगदावुभौ ॥ ३१ ॥
युयुधाते महावीरौ गदायुद्धविशारदौ ।
कृतप्रतिकती मत्ती नदन्तौ भैरवान् रवान् ॥ ३२ ॥

सप्तमीऽधायः। १५ कषिस्तु गदया गुां शुजोदनगदी भदन् । करादपास्यास तया स्वया वक्षस्वताश्यत् ॥ ३३ ॥ गदाधान निहतो वीरः शबोदनो भुवि । पतिला सहसोत्याय तं जने गदया पुनः ॥ ३ ॥ संताड़ितेन तेनापि शिरसा स्तभितः कविः । न पपात स्थितस्तत्र स्थाणवविहलेन्द्रियः ॥ ३५ ॥ राहोदनसमालोक्य महासारं रथायुतः । माहत तरसा मायादेवीमागेतमाययौ ॥ ३६ ॥ यस्था दर्शनमात्रेण देवासुरनरादयः । निःसाराः प्रतिमाकारा भवन्ति भुवनाश्रयाः ॥ ३०॥ बीहा शौखोदनाद्यग्रे कृत्वा तामयत: पुनः । योमु समागता म्लेच्छकोटिलक्षहताः ॥३६॥ सिंहध्वजोत्थितरथां फेरुकाकगवाहताम् । सर्वास्त्रशस्त्रजननी षड़ वर्गपरिसेविताम् ॥ ३८॥ मानारूपां बलवतीं त्रिगुणष्यशिलक्षिताम् । मायां निरीक्ष्य पुरतः कल्किसेना समापतत् ॥ ४॥ नि:साराः प्रतिमाकाराः समस्ताः शस्त्रपाक्षयः । ४१ ॥ कल्किस्तानालोक्य निजान् भ्राज्ञातिसुहबनान् । मायया जायया जीर्णान् विभुरासीत् सदग्रतः ॥ ४२ ॥ तामालोक्य वरारोहां थीरूपां हरिरीखरः । सा प्रियेव तमालोक्य प्रविष्टा तस्य विग्रहे । ४३ ॥ सामनालोक्य ते बौद्धा मातरं कतिधा वराः। रुरुदुः संघशो दीनाः होनस्ववलपौरुषाः ॥ ४४ ॥ विस्मयाविष्टमनसः क गतेयमथाब्रुवन् ।

कल्किपुराणे [३ अंशः।
कल्किः समालोकमेन समुत्याप्य निजान् जनान् ॥४५॥
निशातमसिमादाय सोच्छान् हन्तु मनो दधे ।
सबई तुरगारूढ़ हदहस्ततमम् ॥ ४ ॥
धनुनिषङ्गमनिशं बाणजालप्रकाशितम् ।
तहस्ततनुवाणगोधानुलिविराजितम् ॥ ४० ॥
मेघोपर्युप्तताराभं दंशनस्वर्णविन्दुकम् ।
किरीटकोटिविन्धसमणिराजिविराजितम् ॥ ४८ ॥
कामिनीनयनानन्दसन्दोहरसमन्दिरम् ।
विपक्षपक्षविक्षेपवितरक्षकटाक्षकम् ॥ ४८ ॥
निजभक्तजनोमाससंवासचरणाम्बुजम् ।
निरीक्ष्य कल्कि ते बौद्धास्तवस धम्मनिन्दकाः ॥ ५० ॥
महषुः सुरसङ्घा: खे यागाहुतिहुताशनाः ॥ ५१ ॥
सुबलमिलनहर्षः शत्रुनाशकतर्षः
समरवरवितार साधुसत्कारकाशः ।
स्वजनदुरितहत जीवजातस्य भर्त्ता
रचयत कुशलं वः कामपूरावतार: ॥ ५२ ॥
इति श्रीकरिकपुराणेऽनुभागवते भविष्यं द्वितीयांश
बौद्ययुद्धो नाम सप्तमोऽध्यायः ।
समाप्तोऽयं द्वितीयांशः।
-
बतीयांशः।
प्रथमोऽध्यायः ।
सूत उवाच। ततः कल्किलेंच्छगणान् करवालेन कालितान्।
बाणैः संताड़ितानन्यान् अनयद् यमसमनि ॥ १ ॥

३ अंशः।]
प्रथमोऽध्यायः।
विशाखयूपोऽपि तथा कविप्राजसमन्वकाः ।
गार्यभार्ग्यविशालाद्या म्लेच्छान् निन्युर्यमक्षयम् ॥२॥
कपोतरोमा काकाक्ष: काकक्कष्णादयोऽपरे ।
बौद्धाः शौद्धोदना याता युयुधुः कल्किसैनिकः ॥ ३ ॥
तेषां युद्धमभूद् घोरं भयदं सर्वदेहिनाम् ।
भूतेशानन्दजनक रुधिरारुणकर्दमम् ॥ ४ ॥
गजाखरथसंघानां पततां रुधिरस्रवैः ।
स्रवन्ती केशवाला वाजिग्राहा सुगाहिका ॥ ५ ॥
धमुस्तरङ्गा दुष्यारा गजरोधः प्रवाहिणी।
शिर:फूमा रथतरिः पाणिमीनासृगापमा ॥ ६ ॥
प्रवत्ता तत्र बहुधा हर्षयन्ती मनस्विनाम् ।
दुन्दुभेयरवा फेरुशकुनानन्ददायिनी ॥ ७ ॥
गजैगजा मरैरखाः वररुष्ला रथ रथाः ।
निपेतुर्बाणभिन्नाङ्गाः छिनबाडिकन्धराः ॥ ८ ॥
भस्मना गुण्ठितमुखा रक्तवस्त्रा निवारिताः ।
विकीर्णकेशाः परितो यान्ति सन्यासिनो यथा ॥८॥
व्यग्राः केऽपि पलायन्ते याचन्त्यन्ये जलं पुनः ।
कल्किसेनाशुगञ्जमा म्लेच्छा नो शम्म लेभिरे ॥ १० ॥
तेषां स्त्रियो रथारूढ़ा गजारूढ़ा विहङ्गमः ।
समारूढ़ा इयारूढ़ाः खरोष्ट्रहषवाहनाः ॥ ११ ॥
योई समाययुस्त्यक्ता पत्यापत्य सुखाश्रयान् ।
रूपवत्यो युवत्योऽतिबलवत्यः पतिव्रताः ॥ १२॥
नानाभरणभूषाव्याः सनदा विशदप्रभाः ।
खगशक्तिधनुर्बाणवलयाक्तकराम्बुजाः ॥ १३ ॥

करिकपुराण
[३ अंश:
खैरिण्योऽप्यतिकामिन्यो पुंचल्यञ्च पतिव्रताः ।
ययुर्योधु कल्विसन्यैः पतीनां निधनातुराः ॥ १४ ॥
मृशाकाष्ठचित्राणां प्रभुतानायशासनात् ।
साक्षात् पतीनां निधनं किं युवत्योऽपि सेहिर ॥ १५ ॥
ताः स्त्रियः खपतीन् बाणभिवान् व्याकुलितेन्द्रियान् ।
अत्वा पश्चाद् युयुधिरे कल्किसैन्यैर्धतायुधाः ॥ १६ ॥
ताः स्त्रीरहीय ते सर्वे विस्मयस्मितमानसाः ।
करिफमागत्य ते योधाः कथयामासुरादरात् ॥ १७ ॥
स्त्रीणामेव युयुत्सूनां कथाः श्रुत्वा महामतिः ।
कल्किः समुदितः प्रायात् खसैन्यैः सामुगो रथैः ॥१८॥
ताः समालोक्य पझेशः सर्वशस्त्रास्त्रधारिणीः ।
नानावाहनसंरूढाः कतव्यूहा उवाच सः ॥ १८ ॥
करिकरुवाच । रे स्त्रियः ! शृणुतास्माकं वचनं पथ्यमुत्तमम् ।
स्त्रिया युद्धेन किं पुंसां व्यवहारोऽत्र विद्यते ॥ २० ॥
मुखेषु चन्द्रविम्बेषु राजितालकपङ्क्तिषु ।
प्रहरिष्यन्ति के तत्र नयनानन्ददायिषु ॥ २१ ॥
विधान्ततारभ्रमरं नवकोकनदप्रभम् ।
दीर्घापानेक्षणं यत्र तत्र कः प्रहरिष्यति ॥ २२॥
वक्षोजशम्भू सत्तारहारव्यालविभूषिती।
कन्दर्पदर्पदलनौ तत्र कः प्रहरिष्यति ॥ २३ ॥
लोललीलालकत्रातचकोराकान्तचन्द्रिकम् ।
मुखचन्द्र चित्रहीनं कस्तं हन्तुमिहाईति ॥ २४ ॥
स्तनभारभराक्रान्तनितान्तक्षीणमध्यमम् ।
तनुलोमलताबन्धं कः पुमान् प्रहरिथति ॥ २५ ॥

अंथः।] प्रथमोऽध्यायः । नेत्रानन्देन नेवेश समाहतमनिन्दितम् । जघनं सुघन रम्य बाणैः कः प्रहरिषति ॥२६॥ इति कल्कैर्वचः श्रुत्वा प्रहस्य प्राहुराहताः । अस्माकं वं पतीन् हंसि तेन नष्टा वयं विभो !। हन्तुगतानामस्त्राणि कराण्य वागतान्युत ॥ २७ ॥ खाशक्तिधनुर्बाणशूलतोमरयष्टयः । ताः प्राहुः पुरतो मूर्ताः कार्त्तखरविभूषणाः ॥ २८ ॥ स्वाखूचुः । यमासाद्य वयं नार्यो हिंसयामः स्वतेजसा । तमामानं सर्वमयं जानीत कृतनिश्चयाः ॥ २८ ॥ समीयमात्मना नायः ! घरामो यदनुज्रया । यत् कृता नामरूपादिमैदेन विदिता क्यम् ॥ ३० ॥ रूपगन्धरसस्पर्शशब्दाच्या भूतपञ्चकाः । चरन्ति यदधिष्ठानात् सोऽयं कल्किः परात्मकः ॥ ३१ ॥ कालखभावसंस्कारनामाद्या प्रकृतिः परा। यस्येच्छया सृजत्यण्डं महाहवारकादिकान् । ३२ ॥ यभायया जगदयात्रा सर्गस्थित्यन्तसंजिता। य एवाद्यः स एवान्ते तस्यायः सोऽयमीखरः ॥ २३ ॥ असौ पतिमें भा•हमस्य पुचाप्तबान्धवाः । खप्नोपमास्तु तनिष्ठा विविधाचन्द्रजालवत् ॥ ३४ ॥ मेहमोहनिबन्धानां यातायातदृशां मतम् । न कल्किमेविना रागहेषविहेषकारिणाम् ॥ ३५ ॥ कुतः कालः कुतो मृत्युः क यमः क्वास्ति देवता । स एव कल्किभंगवान् मायया बहुसीयतः ॥ २६ ॥ न शस्त्राणि वयं नार्यः संप्रहा- म प चित् ।

कल्किपुराणे [३ अंश: शस्त्रप्रहर्टभेदोऽयमविवेकः परामनः ॥ ३७ ॥ कल्किदासस्यापि वयं हन्तु' नार्हाः कथामृतम् । हनिष्यामो देत्यपतः प्रसादस्य यथा हरिम् ॥ ३८ ॥ इत्यत्राणां वचः श्रुत्वा स्त्रियो विस्मितमानसाः । मेहमोहविनिर्मुक्तास्तं करिक शरणं ययुः ॥ ३८ ॥ ताः समालोक्य पोशः प्रणता ज्ञाननिष्ठया। प्रोवाच प्रहसन् भक्तियोग कल्मषनाशनम् ॥ ४० ॥ कर्मयोगचात्मनिष्ठ ज्ञानयोगं भिदात्रयम् । मेष्कम्मलक्षणं तासां कथयामास माधवः ॥ ४१ ॥ ताः स्त्रियः कल्किगदितज्ञानेन विजितेन्द्रियाः । भत्या परमवापुस्तत् योगिनां दुर्सभं पदम् ॥ ४२ ॥ दत्त्वा मोक्षं न छबौद्धप्रियाणां कत्वा युद्धं भैरवं भीमकर्मा । हत्या बौहान् म्लेच्छसंघांश्च करिक- स्तेषां ज्योतिः स्थानमापूर्य रेजे ॥ ४३ ॥ ये खन्ति वदन्ति बौदनिधनं मच्छक्षयं सादरात् लोकाः शोकहरं सदा शुभकर भक्तिप्रदं माधवे । तेषामेव पुनर्न जन्ममरणं सर्वार्थसम्पत्कर मायामोहविनाशनं प्रतिदिनं संसारतापच्छिदम् ॥ ४४ इति श्रीकरिकपुराणेऽनुभागवते भविष्थे तृतीयांचे मच्छनिधनं नाम प्रथमोऽध्यायः ।

हितीयोऽध्यायः। सूत उवाच । ततो बौहान् च्छगणान् विजित्य सह सैनिकः । धनान्यादाय रखानि कोकटात् पुनराबवत् ॥१॥ करिकः परमतेजस्खी धमायां परिरचकः । चक्रतीर्थं समागत्य मानं विधिवदाचरत् ॥ २ ॥ माभिर्लोकपालाभैर्बहुभिः खजईतः । समायातान् मुनीस्तत्र ददृशे दीनमानसान् । १ समुडियागतांस्तव परिपाहि जगत्पते ।। इत्युक्त्तवन्तो बहुधा ये तानाह हरिः परः ॥४॥ बालखिल्यादिकामल्पकायान् चीरजटाधरान् । विनयावनतः कल्किस्तानाह कपणान् भयात् ॥ ५॥ कस्माद यूयं समायाताः केन वा भीषिता वत । समहं निहनिष्यामि यदि वा स्यात् पुरन्दरः ।। इत्याश्रुत्य कल्किवाक्य तेनोलासितमानसाः। नगदुः पुण्डरीकाक्षं निकुम्भदुहितुः कथाः ॥ ७ ॥ मुनय अचुः । शृण विष्णुयशः पुत्र ! कुम्भकर्णालजात्मजा । कुथोदरीति विख्याता गगनाईसमुत्थिता ॥८॥ कालकनस्य महिषी विकनजननी च सा। हिमालये घिरः कला पादौ च निषधाचले। शेते स्तनं पाययन्ती विकन प्रम तस्तनी॥८॥ तस्या निश्वासवातेन विवशा वयमागताः । देवेनैव समानीताः सम्प्राप्तास्त्वत्पदास्पदम् । मुनयो रचनीयास्ते रक्षः च विपक्ष च ॥ १० ॥ ६ करिकपुराणे [३ अंश: इति तेषां वचः श्रुत्वा कल्किः परपुरश्त्रयः । सेनागणैः परिहतो जगाम हिमवहिरिम् ॥ ११ ॥ उपत्यका समासाद्य निशामकां निनाय सः । प्रातर्जिगमिषुः सैन्यैर्ददृशे क्षीरनिम्नगाम् ॥ १२ ॥ शङ्खन्दुधवलाकारां फेनिलां बहती द्रुतम् । चलन्तों वोय ते सर्व स्तम्भिता विस्मयान्विताः ॥ १३ सेनागणमजाखादिरथयोधैः समावृतः । कल्किस्तु भगवांस्तन ज्ञातार्थोऽपि मुनीश्वरान् ॥ १४ ॥ पप्रच्छ का नदी चेयं कथं दुग्धवहाभवत् । ते कल्केस्तु वचः श्रुत्वा मुनयः प्राहुरादरात् ॥ १५ ॥ शृणु कल्के ! पयस्वत्याः प्रभवं हिमवगिरी। समायाता कुथोदाः स्तनप्रनवनादिह ॥ १६ ॥ घटिकासप्तके: चान्या पयो यास्यति वेगितम् । हीनसारा तटाकारा भविष्यति महामते ! ॥ १०॥ इति श्रुत्वा मुनीनान्तु वचनं सैनिकैः सह । अहो ! किमस्या राक्षस्याः स्तनादेका वियं नदी ॥१ एक स्तनं पाययति विकलं पुत्रमादरात् । न जानेऽस्याः शरीरस्य प्रमाणं कति वा भवेत् ॥ १८ बलं वास्या निशाचर्या इत्यूचर्विस्मयान्विताः । कल्किः परात्मा सब्रह्म सेनाभिः सहसा ययौ ॥२॥ मुनिदर्शितमार्गेण यत्रास्ते सा निशाचरी। पुत्रं स्तनं पाययन्ती गिरिमूर्ध्नि घनोपमा ॥ २१ ॥ खासवातातिवातेन दूरक्षिप्तवनहिपाः । यस्याः कर्णविलावास प्रसुप्ताः सिंहसगुलाः ॥ २२ ॥ !

अंशः।]
द्वितीयोऽध्यायः।
६
॥
पुचपोचपरिवता गिरिगहरविभ्रमाः ।
केशमूलमुपालम्बा हरिणा शेरते चिरम् ॥ २३ ॥
यूका इव न च व्यग्रा लुग्धजाताया भृशम् ।
तामालोक्य गिरेमधि गिरिवत् परमागुताम् ।
करिकः कमलपत्राक्षः सीस्तानाह सैनिकान् ॥ २४ ॥
भयोहिग्नान् बुद्धिहीनान् त्यतोद्यमपरिच्छदान् ॥ २५ ॥
ल्किरुवाच । गिरिदुर्गे वह्निदुर्ग कृत्वा तिष्ठन्तु मामकाः ।
गजाखरथयोधा ये समायान्तु मया सह ॥२६॥
अहं स्वल्पेन सैन्येन याम्यस्याः सम्मुखं शनैः ।
प्रहत्तुं बाणसन्दोहैः खङ्गशक्तिपरश्वधैः ॥ २७ ॥
इत्युक्त्वा स्थाप्य पश्चात् तान् बाणैस्ता समहनद बली।
सा क्रुधोत्थाय सहसा ननदं परमाद्भुतम् ॥ २८ ॥
तेन नादेन महता विवस्तायाभवन् जनाः ।
निपेतुः सैनिकाः सर्वे मूर्छिता धरणीतले ॥ २८॥
सा रथांश्च गजांश्चापि विकृतास्या भयानका।
जघास प्रवासवातैः समानीय कुथोदरी ॥ ३० ॥
सेनागणास्तदुदरं प्रविष्टाः कल्किना सह ।
यथः मुखवातेन प्रविशन्ति पिपीलिकाः ॥ ३१ ॥
तद् दृष्ट्वा देवगन्धर्वा हाहाकारं प्रचक्रिरे ।
सवस्था मुनयः शेपुर्जेपुथान्ये महर्षयः ॥ ३२ ॥
निपेतुरन्ये दुःखार्ता ब्राह्मण ब्रह्मवादिनः ।
रुरुदुः शिष्टयोधा रे जहषुस्तविशाचरा: ॥ ३३ ॥
जगतां कदनं दृष्ट्वा सम्मारात्मानमात्मना।
कल्किः कमलपत्राक्षः सुरारातिनिसूदनः ॥ ३४ ॥

करिकपुराण
[३ अंधः
बाणानि चेलचाभ्यो कम्मर्याणदारभिः ।
प्रज्वाल्योदरमध्येन करवाल समाददे ॥ ३५ ॥
सेन खड्नेन महता दात्य निर्भिद्य बन्धुभिः ।
बलिभिांभिर्वाहतः शस्त्रास्त्रपाणिभिः ॥ ३६ ॥
वहिर्बभूव सर्वेशः कल्कि: कल्कविनाशनः ।
सहस्राक्षो यथा इनकुक्षि दम्भोलिनेमिना ॥ ३७ ॥
योनिरन्ध्राद गजरथास्तुरगाथाभवन् बहिः ।
मासिकाकर्णविवरात् केऽपि तस्याः विनिर्गताः ॥ ३८
ते निर्गतास्ततस्तस्याः सैनिका रुधिरोक्षिताः ।
मां विव्यधुनिक्षिपन्ती तरसा चरणौ करौ॥ ३८ ॥
ममार सा भिवदहा भिवकुक्षिशिरोधरा।
मादयन्तीं दिशो द्योः ख चूर्णयन्ती च पर्वतान् ॥ ४. ।
विकञोऽपि तथा वीक्ष्य मातरं कातरोऽभवत् ।
स विकन्नः क्रुधा धावन् सेनामध्ये निरायुधः ॥ ४१ ॥
गजमालाकुलो वक्षोवाजिराजिविभूषणः ।
महासर्पकतोष्णीषः केशरिमुद्रितागुलि: ॥ ४२ ॥
ममर्द कल्किसेना तां मातुर्यसनकर्षितः ।
स कल्किस्तं ब्रामस्त्र रामदत्तं जिघांसया ॥४३॥
धनुषा पञ्चवर्षीय राक्षस शस्त्रमाददे ।
तेनास्त्रेण शिरस्तस्य छित्वा भूमावपातयत् ॥ ४४ ॥
रुधिराक्त धातुचित्र गिरिशृङ्गमिवामृतम् ।
सपुत्रां राक्षसौं हत्वा मुनीनां वचनाविभुः ॥ ४५ ॥
मातीरे हरिद्वार निवासं समकस्पयत् ।
देवानां कुसुमासारैर्मुनिस्तोत्रः सुपूजितः ॥ ४ ॥

अंशः।] तृतीयोऽध्यायः । निनाय तां निशां तत्र कल्किः परिजनाहतः । प्रातर्ददर्श गङ्गायास्तीरे मुनिगणान् बहन् । तस्याः मानव्याजविष्णोरात्मनो दर्शनाकुलान् ॥ ४७ ॥ हरिहार गङ्गातटनिकटपिण्डारकवने वसन्तं श्रीमन्तं निजगणवृतं तं मुनिगणाः । स्तवैः स्तुत्वा स्तुत्वा विधिवदुदितैर्जदुतनयां प्रपश्यन्तं कल्किं मुनिजनगणा द्रष्टुमगमन् ॥ ४८ ॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्य तृतीयांशे कुथोदरी- बधानन्तरं मुनिदर्शनं नाम द्वितीयोऽध्यायः । तृतीयोऽध्यायः । चूत उवाच। सुखागतान् मुनीन् दृष्ट्वा कल्किः परमधम्मवित्। पूजयित्वा च विधिवत् सुखासीनानुवाच तान् ॥ १ ॥ कल्किरुवाच । के यूयं सूर्यसङ्गासा मम भाग्यादुपस्थिताः । तीर्थाटनोत्सुका लोकत्रयाणामुपकारकाः ॥ २ ॥ वयं लोके पुण्यवन्तो भाग्यवन्तो यशस्विनः । यतः कपाकटाक्षेण युमाभिरवलोकिताः ॥ ३ ॥ ततस्ते वामदेवोऽत्रिर्वशिष्ठो गालवो भृगुः । पराशरो नारदोऽश्वल्लामा रामः कपस्त्रितः ॥ ४ ॥ दुर्वासा देवलः कण्वी वेदप्रमितिरङ्गिराः । एते चान्ये च बहवो मुनयः मंशितव्रताः ॥ ५ ॥ कत्वाग्रे मरुदेवापी चन्द्रसूर्यकुलोद्भवौ। राजानी तौ महावीर्यो तपस्याभिरती चिरम् ॥ ६ ॥ ऊचुः प्रष्टमनस: कल्कि कत्कविनाशनम् ।

करिकपुराणे
[३ अंशः
महोदधस्तीरगत विष्णु सुरगणा यथा ॥ ७॥
मुनय जवुः । जयाभेषजगन्नाथ ! विदिताखिलमानस ! ।
सृष्टिस्थितिलयाध्यक्ष ! परमात्मन् ! प्रसीद नः ॥ ८ ॥
कालकमंगुणवास ! प्रसारितनिक्रिय ! ।
ब्रह्मादिनुतपादाम ! पद्मानाथ ! प्रसीद नः ॥८॥
इति तेषां वचः श्रुत्वा कल्फिः प्राह जगत्पतिः ।
कावती भवतामग्रे महासत्वी तपस्विनी ॥ १० ॥
कथमत्रागतौ स्तुत्वा गङ्गा मुदितमानसौ ।
का वा स्तुतिस्तु जानव्या युवयो मनी च के ॥ ११ ॥
तयोमरुः प्रमुदितः कृताञ्जलिपुटः कती
पादावुवाच विनयी निजवंशानुकीर्तनम् ॥ १२ ॥
भररुवाच। सर्व वेसि परात्मापि अन्तर्यामिन् ! हदि स्थितः।
तवाघ्या सर्वमेतत् कथयामि शृण प्रभो ! ॥ १३ ॥
तव नाभेरभूद् ब्रह्मा मरीचिस्तत्सतोऽभवत् ।
ततो मनुस्तत्सुतोऽभूदिवाकुः सत्यविक्रमः ॥ १४ ॥
युवनाख इति ख्यातो मान्धाता तत्सुतोऽभवत् ।
पुरुकुत्मस्तत्सतोऽभूदनरण्यो महामतिः ॥ १५ ॥
त्रसदस्युः पिता तस्मात् हर्यश्वस्त्यरुणस्ततः ।
त्रिशङ्कस्तत्स्तो धीमान् हरिचन्द्रः प्रतापवान् ॥१६॥
हरितस्तत्सतस्तस्मात् भरकस्तत्सुतो हकः ।
तत्सुतः सगरस्तस्मादसमजास्ततोऽशुमान् ॥ १७ ॥
सतो दिलीपस्तत्पुत्रो भगीरथ इति स्मृतः ।
येनानीता जानवीयं ख्याता भागीरथी भुवि ।
स्तता नुता पूजितेयं तव पादसमुद्भवा ॥ १८ ॥

३ अंशः।] हतीयोऽध्यायः । भगीरथात् सुतस्तस्याबाभस्तस्मादभूद बली। सिन्धुहीपसुतस्तस्मात् प्रयुतायुस्ततोऽभवत् ॥ १८ ॥ ऋतुपर्णस्तत्सतोऽभूत् सुदासस्तत्सुतोऽभवत् । सौदासस्तत्सुतो धीमानश्मकस्तत्सतो मतः ॥ २० ॥ मूलकात् स दशरथस्तस्मादेविड़स्ततः । राजा विश्वसहस्तस्मात् खट्टाङ्गो दीर्घबाहुकः ॥ २१ ॥ ततो रघुरजस्तस्मात् सुतो दशरथः कती। तस्माद्रामो हरिः साक्षादाविर्भूतो जगत्पतिः ॥ २२ ॥ रामावतारमाकण्य कल्किः परमहर्षितः । मरुप्राह विस्तरेण श्रीरामचरितं वद ॥ २३ ॥ मरुरुवाच । सीतापतेः कम वक्तं कः समर्थोऽस्ति भूतले । शेषः सहस्रवदनैरपि लालायितो भवेत् ॥ २४ ॥ तथापि शेमुषी मेऽस्ति वर्णयामि तवाज्ञया। रामस्य चरितं पुण्य पापतापप्रमोचनम् ॥ २५ ॥ प्रजादिविधार्थितोऽजनि चतुर्भिरंशः कुले रवरजसुतादजो जगति यातुधानक्षयः । शिशुः कुशिकजाध्वरक्षयकरक्षयो यो बलाद बलीललितकन्धरो जयति जानकीवल्लभः ॥ २६ ॥ मुनेरनु सहानुजो निखिलशस्त्रविद्यातिगो ययावतिवनप्रभो जनकराजराजत्सभाम् । विधाय जनमोहनद्युतिमतीव कामगुहः प्रचण्डकरचण्डिमा भवनभञ्जने जन्मनः ॥ २७ ॥ तमःप्रतिमतेजसं दशरथात्मजं सानुज मुनेरनु यथाविधैः शशिवदादिदेवं परम् ।

६ कल्किपुराणे [३ अंश: . निरीक्ष्य जनको मुदा क्षितिसुतापतिं सम्मत निजोचितपणक्षम मनसि भत्सयबाययौ ॥ २८ ॥ स भूपपरिपूजितो जनकजेक्षितैरचितः करालकठिनं धनुः करसरोरुहे संहितम् । विभज्य बलवद् दृढ़ जय रघूइहेत्युच्चकै- ध्वनि त्रिजतीगतं परिविधाय रामो बभौ ॥ २८ ॥ ततो जनकभूपतिर्दशरथात्मजेभ्यो ददौ चतस्र उषतीर्मुदा वरचतुभ्यं उदाहने । स्खलनतनिजात्मजाः पथि ततो बलं भार्गव- थकार उररी निजं रघुपती महोग्रं त्यजन् ॥ ३० ॥ तत: स्वपुरमागतो दशरथस्तु सीतापति नृपं सचिवसंयुतो निजविचित्रसिंहासने । विधातुममलप्रभं परिजनैः क्रियाकारिभिः समुद्यतमतिं तदा द्रुतमवारयत् केकयी ॥ ३१ ॥ ततो गुरुनिदेशतो जनकराजकन्यायुतः प्रयाणमकरोत् सुधीर्यदनुगः सुमित्रासुतः । वनं निजगणं त्यजन् गुहटहे वसनादरात् विसृज्य नृपलाञ्छनं रघुपतिजंटाचीरभृत् ॥ ३२ ॥ प्रियानुजयुतस्ततो मुनिमतो वने पूजितः स पञ्चवटिकाथमे भरतमातुरं सङ्गतम् । निवार्य मरणं पितुः समवधार्य दुःखातुर- स्तपोवनगतोऽवस द्रघुपतिस्ततस्ताः समाः ॥ ३३ ॥ दशाननसहोदरां विषमबाणवेधातुरां समीक्ष्य वररूपिणी प्रहसतों सती सुन्दरीम् ।

पंथः] वतीयोऽध्यायः। 12 निजाश्रयमभीसती जनकजापतिर्लक्ष्मणात् करालकरबालतः समकरोहिरूपा ततः ॥३४॥ समाप्य पथि दानव खरशरैः शनैर्नाशयन् चतुर्दशसहस्रकं समहनत् खर सानुगम् । दशाननवशानुगं कनकचारुचञ्चन्मृगं प्रियाप्रियकरो वने समवधीद् बलाद्राक्षसम् ॥ ३५ ॥ ततो दशमुखस्वरस्तमभिवीक्ष्य रामं रुषा व्रजन्तमनुलक्ष्मणं जनकजां जहाराश्रमे । ततो रघुपतिः प्रियां दलकुटीरसंस्थापिता न वीच्य तु विमूर्छितो बहु विलप्य सीतेति ताम् ॥३६॥ वने निजगणाश्रमे नगतले जले पल्वले विचित्य पतितं खगं पथि ददर्श सौमित्रिणा। जटायुवचनात् ततो दशमुखाहतां जानकों विविच्य कृतवान् मृते पितरि वह्नितत्यं प्रभुः ॥ ३० ॥ प्रियाविरहकातरोऽनुजपुरःसरो राघवो धनुर्धरधुरन्धरो हरिबलं नवालापिनम् । ददर्श ऋषभाचलादविजबालिराजानुज- प्रियं पवननन्दनं परिणतं हितं प्रेषितम् ॥ ३८ ॥ ततस्सदुदितं मतं पवनपुत्वसुग्रीवयो- स्तृणाधिपतिभेदनं निज़पासनस्थापितम् । विविध व्यवसायकैनिजसखाप्रियं बालिन निहत्य हरिभूपति निजसखं स रामोऽकरोत् ॥ ३८ पथोत्तरमिमा हरिर्जनकजां समन्वेषयन् जटायुसहजोदितर्जलनिधि तरन् वायुजः ।

करिकपुराणे
[३ अंशः
दशाननपुर विशन् जनकजां समानन्दयन्
अशोकवनिकाश्रमे रघुपतिं पुनः प्राययौ ॥ ४० ॥
ततो हनुमता बलादमितरक्षसां नाशनं
ज्वलज्ज्वलनसंकुलज्वलितदग्धलक्षापुरम् ।
विविध रघुनायको जलनिधिं रुषा शोषयन्
बबन्ध हरियूथपैः परिवृती नगैरीखरः ।
बभञ्ज पुरपत्तनं विविधसर्गदुर्गक्षम
निशाचरपतेः क्रुधा रघुपतिः कृती सहतिः ॥ ४१ ॥
ततोऽनुजयुतो युधि प्रबलचण्डकोदण्डभृत्
शरैः खरतरः क्रुधा गजरथाखहंसाकुले ।
करालकरबालत: प्रबलकालजिह्वाग्रतो
निहत्य वरराक्षसान् नरपतिर्बभौ सानुगः ॥ ४२ ॥
ततोऽतिबलवानरैगिरिमहीरुहोद्यत्करैः
करालतरताड़नर्जनकजा रुषा नाशितान् ।
निजघ्नुरमराईनानतिबलान् दशास्यानुगान्
नलाङ्गदहरीखराऽशुगसुतर्थराजादयः ॥ ४३ ॥
ततोऽतिबललक्ष्मणस्त्रिदशनाथशवं रणे
अघान घनघोषणानुगगणैरसृक्प्रासनः ।
प्रहस्तविकटादिकानपि निशाचरान् सङ्गतान् ।
निकुम्भमकराक्षकान् निशितखङ्गपातः क्रुधा ॥ ४४ ॥
ततो दशमुखो रणे गजरथावपत्तीखरै-
रलवगणकोटिभिः परिवृतो युयोधायुधैः ।
कपी खरचमूपतेः पतिमनन्तदिव्यायुध
रघूहहमनिन्दितं सपदि सङ्गतो दुर्जयः ॥ ४५ ॥

पंशः।] बतीयोऽध्यायः । ७१ दशाननमरिं ततो विधिवरस्मयावर्जित महाबलपराक्रमं गिरिमिवाचल संयुगे । बघान रघुनायको निशितशायकरडत निशाचरचमूपतिं प्रबलकुम्भकर्ण ततः ॥ ४६ ॥ सयोः खरतरैः शरैर्गगनमच्छमाच्छादित बभौ घनघटासमं मुखरमड़िहहिभिः । धनुर्गुणमहाशनिध्वनिभिराहतं भूतलं भयङ्करनिरन्तरं रघुपतेय रक्षःपतेः ॥ ४७ ॥ ततो धरणिजारुषा विविधरामबाणोजसा पपात भुवि रावणस्त्रिदशनाथविद्रावसः । ततोऽतिकुतुकी हरिज्वलनरक्षितां जानकी समर्प्य रघुपुङ्गवे निजपुरीं ययौ हर्षितः ॥ ४८ ॥ पुरन्दरकथादरः सपदि तत्र रक्ष:पतिं विभीषणमभीषणं समकरोत्ततो राघवः ॥ ४ ॥ हरोखरगणाहतोऽवनिसुतायुतः सानुजो रथे शिवसखेरिते सुविमले लसत्पुष्पके । मुनीश्वरगणार्चितो रघुपतिस्त्वयोध्यां ययौ विविध मुनिलाञ्छनं गुहरहेतिसख्य सरन् । ५० ॥ ततो निजगणतो भरतमातुरं सान्वयन् स्त्रमागणवाक्यतः पिटनिजासने भूपतिः । वशिष्ठमुनिपुङ्गवः कतनिजाभिषेको विभुः समस्तजनपालक' सुरपतिर्यथा संबभौ ।११ नरा बहुधनाकरा दिजवरास्तपस्तत्पराः खधम्कतनिश्चया बगानसशता निर्भयाः । ।

कतिपुराणे [३बंध: घनाः सुबहुवर्षियो वसुमती सदा हर्षिता भवत्यतिबले नृप रघुपताभूत सजगत् ॥ ५२॥ गतायुतसमाः प्रियनिजगुणैः प्रजा रजयन् निजां रघुपतिः प्रियां निजमनोभवैर्मोच्यन् । मुनीन्द्रगणसंयुतोऽप्ययजदादिदेवाअखे- धनविपुलदक्षिणरतुलवाजिमेधैस्त्रिभिः ॥ ५३ ॥ ततः किमपि कारणं मनसि भावयन् भूपति- जही जनकजां बने रघुवरस्तदा निर्गुणः । सतो निजमतं स्मरन् समनयत् प्रचेतःसुतो निजाममुदारधीरघुपतेः प्रियां दुःखिताम् ॥ ५४ ॥ . ततः कुशलवी सुतौ प्रसुषुवे धरित्रीसुता महाबलपराक्रमी रघुपतर्यशोगायनौ । स तामपि सुतान्वितां मुनिवरस्तु रामान्तिके समर्पयदनिन्दितां सुरवरैः सदा वन्दिताम् ॥ ५५ ॥ ततो रघुपतिस्तु तां सुतयुतां रुदन्तों पुरो जगाद दहने पुनः प्रविश शोधनायात्मनः । इतीरितमवेच्य सा रघुपतेः पदाले नता विवेश जननीयुता मणिगणोज्ज्वलं भूतलम् ॥ १६ ॥ निरीक्ष्य रघुनायको जनकजाप्रयाणं स्मरन् वशिष्ठगुरुयोगतोऽनुजयुतोऽगमत् खं पदम् । पुर:स्थितजनैः स्वकैः पशुभिरीखरः संस्पृशन् मुदा सरयुजीवन रथवरैः परीतो विभुः ॥ ५७ ॥ ये खन्ति रखूहहस्य चरितं कर्णामृतं सादरात् संसारार्षवशोषणच पठतामामोददं मोबदम् ।

अंशः।] चतुर्थोऽध्यायः । ७३ रोगाणामिह शान्तये धनजनखर्गादिसम्पत्तये वंशानामपि वृदये प्रभवति श्रीशः परशः प्रभुः ॥५८ ॥ ति श्रीकल्किपुराणेऽनुभागवते भविष्ये तृतीयांश सूर्यवंशानु- वर्णने श्रीरामचन्द्रचरितं नाम पञ्चमोऽध्यायः । चतुर्थोऽध्यायः । रामात् कुशोऽभूदतिथिस्सतोऽभूविषधाबभः । तस्मादभूत् पुण्डरीकः क्षेमधन्धाऽभवत् ततः ॥ १ ॥ देवानीकस्सतो हीनः पारिपात्रोऽथ हीनतः । बलाहकस्ततोऽर्कश्च रजनाभस्ततोऽभवत् ॥ २ ॥ खगणादिकृतस्तस्मादिरख्यनाभसंजितः । तत: पुष्याद् ध्रुवस्तस्मात् स्यन्दनोऽथाग्निवर्णकः ॥ ३ ॥ तस्मात् शीघ्रोऽभवत् पुत्रः पिता मेऽतुलविक्रमः । तस्माम्मरु' मां केऽपोह बुधश्चापि सुमित्रकम् ॥ ४ ॥ कलापग्राममासाद्य विधि सत्तपसि स्थितम् । तवावतारं विज्ञाय व्यासात् सत्यवतीसतात् ॥ ५ ॥ प्रतीक्ष्य कालं लक्षादं कलेः प्राप्तस्तवान्तिकम् । जम्मकोव्यासां राशेर्नाशनं धम्मंशासनम् । यशःकीर्तिकरं सर्वकामपूर परात्मनः ॥ ६ ॥ करवाच । ज्ञातस्तवान्वयं त्वाञ्च सूर्यवंशसमुद्भवम् । द्वितीयः कोऽपरः श्रीमान् महापुरुषलक्षणः ॥ ७ ॥ इति कल्किवचः श्रुत्वा देवापिर्मधुराक्षराम् । बाणी विनयसम्पन्नः प्रवक्तुमुपचक्रमे ॥ ८ ॥ पिरुवाच । प्रलयान्ते नाभिपमात् तवाभूचतुराननः ।

७४ करिकपुराणे [३ अंशः। तदीयतनयादवेश्चन्द्रस्तस्मात्ततो बुधः-८॥ तस्मात् पुरुरवा अज्ञे ययाति हुषस्ततः । देवयान्यां ययातिस्तु यदु तुर्वसुमेव च ॥ १० ॥ शर्मिष्ठायां तथा द्युञ्चानु पुरुच सत्यते !। जनयामास भूतादिभूतानीव सिसृक्षया ॥ ११ ॥ पूरोर्जन्मेजयस्तस्मात् प्रचिन्वानभवत् ततः । प्रवीरस्तन्मनस्युर्वं तस्माच्चाभयदोऽभवत् ॥ १२ ॥ उरुक्षयाच चारुणिस्ततोऽभूत् पुष्करामणिः । वृहत्क्षेत्रादभूधस्ती यत्रामा हस्तिनापुरम् ॥ १३ ॥ अजमीढ़ोहिमोढ़श्व पुरमीढ़स्तु तत्सताः । अजमीढ़ादभूदृक्षस्तस्मात् संवरणात् कुरुः ॥ १४ ॥ कुरोः परिक्षित् सुधनुर्जगुनिषध एव च । महोत्रोऽभूत् सुधनुषश्चावनाञ्च ततः कती ॥ १५ ॥ ततो वृहद्रथस्तस्मात् कुशाग्रादृषभोऽभवत् । ततः सत्यजितः पुत्रः पुष्पवाबहुषस्ततः ॥ १६ ॥ वृहद्रथान्यभार्यायां जरासन्धः परन्तपः । महदेवस्ततस्तस्मात् सोमापिर्यत् श्रुतश्रवाः ॥ १७ ॥ सुरथाद्विदूरथतस्तस्मात् सार्वभौमोऽभवत् ततः । जयसेनाद्रथानोकोऽभूद युतायुश्च कोपनः ॥ १८ ॥ तस्माद्देवातिथिस्तस्मादृक्षस्तस्मादिलीपकः । तस्मात् प्रतीपकस्तस्य देवापिरहमीखर ! ॥१८॥ राज्यं शान्तनवे दत्त्वा तपस्थेकधिया चिरम् । कलापग्राममासाद्य त्वां दिहरिहागतः ॥ २० ॥ मरुणाने न मुनिभिरेभिः प्राप्य पदाम्बुजम् ।

७५
३ अंशः।] चतुर्थोऽध्यायः ।
तव, कालकरास्थाद यास्थाम्यात्मवतां पदम् ॥ २१ ॥
तयोरवं वच त्या कल्किः कमललोचनः ।
प्रहस्य मरुदेवापी समावास्य समनवीत् ॥ २२ ॥
कल्किरुवाच । युवां परमधाजी राजानौ विदितावुभौ ।
मदादेशकरी
भूखा
निजराज्यं भरिष्यथ: ॥ २३ ॥
मरो! त्वामभिषेक्ष्यामि निजायोध्यापुरधुना।
हत्वा म्लेच्छानधर्मिष्ठान् प्रनाभूतविहिंसकान् ॥ २४ ॥
देवापे ! तव राज्ये त्वां हस्तिनापुरपत्तने ।
पभिषेक्ष्यामि राजर्षे ! हत्वा पुक्कसकान् रणे ॥ २५ ॥
मथुरायामहं स्थित्वा हरिष्यामि तु वो भयम् ।
शय्याकर्णानुष्टमुखान् एकजवान् विलोदरान् ॥ २६ ॥
हवा कृतं युगं कृत्वा पालयिथाम्यहं प्रजाः ।
तपोवेशं व्रतं त्यक्त्वा समारुह्य रथोत्तमम् ॥ २७ ॥
युवां शस्त्रास्त्रकुशलौ मेनागणपरिच्छदौ ।
भूत्वा महारथौ लोके मया सह चरिष्यथः ॥ २८ ॥
विशाखयूपभूपालस्सनयां विनयान्विताम् ।
विवाह रुचिरापानौं सुन्दरौं त्वां प्रदास्यति ॥ २८ ॥
सा वो भूपाल ! लोकानां स्वस्तये कुरु मे वचः ।
रुचिराखसुतां शान्तां देवापे! त्वं समुहह ॥ ३० ॥
इत्याखासकथाः कल्केः श्रुत्वा तो मुनिभिः सह ।
विस्मयाविष्टवदयौ मैनाते हरिमीखरम् ॥ ३१ ॥
इति ब्रुवत्यभयदे आकाशात् सूर्यसबिभौ ।
रथौ नानामणिवातघटितौ कामगी पुरः ।
समायाती ज्वलदिव्यशस्त्रास्त्रैः परिवारितौ ॥ ३२ ॥

कल्किपुराणे
[३ अंशः।
दहशुस्ते सदोमध्ये विश्वकम्यविनिर्मिती।
भूपा मुनिगणाः सभ्याः सहर्षाः किमितीरिताः ॥३३॥
कल्किरुवाच । युवामादित्यसोमेन्द्रयमवैश्रवणाङ्गजी।
राजानौ लोकरक्षार्थमाविर्भूती विदस्यमी ॥ ३४ ॥
कालेनाच्छादिताकारौ मम सङ्गादिहोदिती।
युवां रथावारुहतां शक्रदतं ममाजया ॥ ३५ ॥
एवं वदति विखे पनानाथे सनातने ।
देवा ववर्षः कुसुमैस्तुष्टुवुर्मुनयोऽग्रतः ॥ ३६ ॥
गङ्गावारिपरिक्तिवशिरोभूतिपरागवान् ।
शनैः पर्वतजासङ्गशिक्वत् पवनो वयौ ॥ ३७॥
तबायातः प्रमुदिततनुस्तप्तचामीकराभो
धर्मावासः सुरुचिरजटाचीरभृद्दण्डहस्तः ।
लोकातीतो निजतनुमरुवाशिताऽधर्मसङ्घ-
स्तेजोराशिः सनकसदृशो मस्करी पुष्कराक्षः ॥ ३८ ॥
इति श्रीकल्किपुराणेऽनुभागवते भविष्य तृतीयांश
चन्द्रवंशानुकीर्तनं नाम चतुर्थोऽध्यायः ।
--
पञ्चमोऽध्यायः ।
शुक उवाच । अथ कल्किः समालोक्य सदसाम्पतिभिः सह
समुत्थाय ववन्दे तं पाद्यार्थ्याचमनादिभिः ॥ १॥
वृद्धं संवेश्य तं भिन्तु सर्वाश्रमनमस्कृतम् ।
पप्रच्छ को भवानव ? मम भाग्यादिहागतः ॥२॥
प्रायशो मानवा लोके लोकानां पारणेच्छया।
चरन्ति सर्वसहदः पूर्ण विगतकल्मषाः ॥ ३ ॥

३ अंशः। पञ्चमोऽधायः । मस्र्युवाच । अहं कृतयुगं श्रीश ! तबादेशकरं परम् । तवाविर्भावविभवमीक्षणार्थमिहामतम् ॥ ४ ॥ . निरुपाधिर्भवान् कालः सोपाधिनमुपागतः । क्षणदण्डलवाद्यङ्गमायया रचितं स्वया ॥ ५ ॥ पक्षाहोरात्रमासक्तु संवत्सरयुगादयः । तवेक्षया चरन्त्येते मनवश्व चतुर्दश ॥ ६ ॥ खायम्भुवस्तु प्रथम स्ततः खारोचिषो मनुः । तृतीय उत्तमस्तस्माच्चतुर्थस्तामसः स्मृतः ॥ ७ ॥ पञ्चमो रैवतः षष्ठश्चाक्षुपः परिकीर्तितः वैवस्वतः सप्तमो वै ततः सावणिरष्टमः ॥ ८ ॥ नवमो दक्षसावर्णिब्रह्मसावर्णिकस्ततः । दशमो धम्मसावर्णिरेकादश: स उच्यते ॥ ८ ॥ रुद्रसावणिकस्तत्र मनुर्व द्वादशः स्मृतः । त्रयोदशमनुर्वेदसावर्णि कविश्रुतः ॥ १० ॥ चतुर्दशेन्द्रसावर्णिरेते तव विभूतयः । यान्त्यायान्ति प्रकाशन्ते नामरूपादिभेदतः ॥ ११ ॥ द्वादशाव्दसहस्रेण देवानाञ्च चतुर्युगम् । चत्वारि त्रीणि हे चैकं महनगणितं मतम् ॥ १२ ॥ तावत् शतानि चत्वारि त्रीणि हे चैकमेव हि। सन्ध्याक्रमेण तेषान्तु सन्ध्यांशोऽपि तथाविधः ॥ १२ ॥ एकसप्ततिकं तत्र युगं भुङ्क्ते मनुर्भुवि । मनूनामपि सर्वेषामेवं परिणतिर्भवेत् । दिवा प्रजापतस्तत्तु निशा सा परिकीर्तिता ॥ १४ ॥ अहोरात्रञ्च पक्षास्ते माससंवमरर्तवः ।

७८ करिकपुराणे [३ अंशः। सदुपाधिक्कतः कालो ब्रह्मणो जन्ममृत्युक्त् ॥ १५ ॥ शतसंवत्सरे ब्रमा लयं प्राप्नोति हि त्वयि । लयान्ते त्ववाभिमध्यादुत्थितः सजति प्रभुः ॥ १६ ॥ तत्र सतयुगन्तेऽहं कालं सद्धम्मपालकम् । कृतकृत्याः प्रजा यत्र तवाना मां कृतं विदुः ॥ १७ ॥ इति तहच पाश्रुत्य करिकनिजजनाहतः । प्रहर्षमतुलं लब्धा श्रुत्वा तद्दचनामृतम् ॥ १८ ॥ पवहित्थामुपालख्य युगस्याह जनान् हितान् । योडुकाम: कलेः पू- हष्टो विशसने प्रभुः ॥ १८ ॥ गजरथतुरगावरांश्च योधान् कनकविचित्रविभूषणचिताङ्गान् । धृतविविधवरास्त्रशस्त्रपूगान् युधिनिपुणान् गणयध्वमानयध्वम् ॥ २०॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्य वतीयांश कृतयुगागमनं नाम पञ्चमोऽध्यायः । षष्ठोऽध्यायः । सूत उवाच । इति तो मरुदेवापी श्रुत्वा कल्केर्वचः पुरः । कतोद्दाही रथारूढ़ी समायातौ महाभुजौ ॥ १ ॥ नानायुधधरैः सैन्यैराहतौ शूरमानिनौ। बड़गोधानुलिवाणी दंशितो बद्धहस्तकौ ॥ २ ॥ कार्णायमशिरस्त्राणी धनुर्धरधुरन्धरौ। अक्षौहिणीभिः षड्भिस्तु कम्पयन्तौ भुवं भरैः ॥ ३ ॥ विशाखयूपभूपस्तु गजलक्षः समावृतः ।

३ अंशः।] षष्ठोऽध्यायः। ७८ प्रखैः सहस्रनियुतैः रथैः सप्तसहस्रकैः ॥ ४ ॥ पदातिभिर्लिक्षेञ्च सबईधृतकार्मुकः । वातोहतोत्तरोणीर्षः सर्वतः परिवारितः ॥ ५ ॥ रुधिराखसहस्राणां पञ्चाशनिमहारयः । मर्दशशतमसनवलक्षीतो बभौ ॥ ६ ॥ अक्षौहिणीभिर्दशभिः कल्किः परपुरश्चयः । समातस्तथा देवरवमिन्द्रो दिवि स्वराट् ॥ ७ ॥ भाटपुत्रसुशिव मुदितः सैनिकटतः । ययौ दिग्विजयाकामी जगतामीखरः प्रभुः ॥८॥ काले तस्मिन् दिजो भूत्वा धम्मः परिजन: सह । समाजगाम कलिना बलिनापि निराकतः ॥८॥ ऋतं प्रसादमभयं सुखं मुदमुथ खयम् । योगमर्थं ततोऽदपं स्मृति क्षेमं प्रतिश्रयम् ॥ १० ॥ नरनारायणी चोभौ हरेरंशो तपोव्रती। धम्नस्त्वेतान् समादाय पुत्रान् स्त्रीश्चागतस्वरन् ॥ ११ ॥ श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोबतिः । बुद्धिर्मेधा तितिक्षा च ह्रीमतिर्धर्मपालकाः ॥ १२ ॥ एतास्तेन सहायाता निजबन्धुगणैः सह । कल्किमालोकितं तत्र निजकार्यं निवेदितुम् ॥ १३ ॥ कल्किदिजं समासाद्य पूजयित्वा यथाविधि । प्रोवाच विनयापनः कस्त्व ? कस्मादिहागतः ? ॥१४॥ स्त्रीभिः पुत्रश्च सहितः क्षीणपुण्य इव ग्रहः । कस्य वा ? विषयाद्राजस्तत्तत्त्व वद तत्वत: ॥ १५ ॥ पुत्राः स्त्रियच ते दीनाः हीनस्वबलपौरुषाः ।

! करिकपुराण [३ अंशः। वैष्णवाः साधवो यहत् पापण्डैस तिरस्कृताः ॥ १६ ॥ कलोरिति वचः श्रुत्वा धर्मः शम्म निजं स्मरन् । प्रोवाच कमलानाथमनाथस्वतिकातरः ॥ १७ ॥ पुत्रैः स्त्रीभिर्निजजनैः कृताञ्चलिपुटैहरिम् । स्तुत्वा नवा पूजयित्वा मुदितं तं दयापरम् ॥ १८ ॥ धर्म उवाच । शृण कल्क ! ममाख्यानं धर्मोऽहं ब्रह्मरूपिणः। तव वक्षःस्थलाज्जातः कामदः सर्वदेहिनाम् ॥ १८ ॥ देवानामग्रणीहव्यकव्यानां कामधुग् विभुः । तवाञया चराम्येव साधुकीर्त्तिकदन्वहम् ॥ २० ॥ सोऽहं कालेन बलिना कलिनापि निराकतः । शककाम्बोजशवरैः सर्वैरावासवासिना ॥ २१ ॥ अधुना तेऽखिलाधार ! पादमूलमुपागताः । यथा संसारकालाग्निसन्तप्ताः साधवोऽर्दिताः ॥ २२ ॥ इति वाग्भिरपूर्वाभिर्धर्मेण परितोषितः । कल्कि: कल्कहरः श्रीमानाह संहर्षयन् शनैः ॥ २३ ॥ धम्म ! कृतयुगं पश्य मरु चण्डांशुवंशजम् । मां जानासि यथा जातं धाटप्रार्थितविग्रहम् ॥ २४ ॥ कीटकोंडदलनमिति मत्वा सुखी भव । अवैष्णवानामन्येषां तवोपद्रवकारिणाम् । जिघांसुर्यामि मेनाभिश्वर गां त्वं विनिर्भयः ॥ २५ ॥ का भीतिस्ते ? क मोहोऽस्ति ? यज्ञदानतपोव्रतः । सहितैः सञ्चर विभो ! मयि सत्ये व्युपस्थिते ॥ १६ ॥ अहं यामि त्वयागच्छ स्वपुर्बान्धवैः सह । दिशां जयार्थ त्वं शत्रुनिग्रहार्थं जगत्प्रिय ! ॥ २७ ॥ !

। अंशः।] षष्ठोऽध्यायः । ८१ इति कल्कवचः श्रुत्वा धम्मः परमहर्षितः । गन्तं कृतमतिस्तेन प्राधिपत्यममुं स्मरन् ॥ २८ ॥ सिद्धाश्रमे निजजनानवस्थाप्य स्त्रियब ताः ॥ २८ ॥ सबद्धः साधुसत्कारैवेंदब्रह्ममहारथः । नानाशास्त्रान्वेषणेषु सङ्कल्पवरकामुकः ॥ ३० ॥ सप्तस्वराखो भूदेवसारथितिराश्रयः । क्रियाभेदबलोपत: प्रययौ धमेनायकः ॥ ३१ ॥ यन्नदानतपःपात्रर्यमैश्च नियमतः । खशकाम्बोजकान् सर्वान् शवरान् ववरानपि ॥ ३२ ॥ जतं कल्किर्ययौ यत्र कलेरावासमीसितम् । भूतवासबलोपेतं सारमेयवराकुलम् ॥ ३३ ॥ मोमांसपूतिगन्धाव्य' काकोलूकशिवावृतम् । स्त्रीणां दुर्दूतकलहविवादष्यसनाश्रयम् ॥ ३४ ॥ घोरं जगद्भयकर कामिनीस्वामिनं गृहम् । कलिः श्रुत्वोद्यम कल्क : पुत्रपौत्रहतः क्रुधा ॥ ३५ ॥ पुरादिशसनान् प्रायात् पेचकाक्षरथोपरि। धर्मः कलिं समालोक्य ऋषिभिः परिवारितः ॥ २६ ॥ युयुधे तेन सहसा कल्किवाक्यप्रचोदितः । ऋतेन दम्भः संग्राम प्रसादो लोभमाश्यत् ॥ ३७॥ समयादभयं क्रोधो भयं सुखमुपाययो। निरयो मुदमासाद्य युयुधे विविधायुधः ॥ ३८ ॥ प्राधियॊगेन च व्याधिः क्षेमेण च बलीयसा। प्रश्रयेण तथा ग्लानिर्जरास्मृतिमुपास्यत् ॥ ३८ ॥ एवं वृत्ती महाघोरो युरः परमदारुणः ।

८२ कल्किपुराणे [३ अंश से द्रष्टुमागता देवा ब्रह्माद्याः खे विभूतिभिः ॥ ४० मरुः खशैश्च काम्बोजयुयुधे भीमविक्रमः । देवापिः समर चीनवरेस्तर्णरपि ॥ ११ ॥ विशाखयूपभूपालः पुलिन्दैः खपचैः सह । युयुधे विविधैः शस्त्र रस्त्रदिव्यमहाप्रभः ॥ ४२ ॥ कल्किः कोकविकोकाभ्यां वाहिनीभिर्वरायुधैः । तौ तु कोकविकोकौ च ब्रह्मणो वरदर्पिती ॥ ४३ ॥ भ्रातरौ दानवश्रेष्ठौ मत्तौ युद्धविशारदौ । एकरूपी महासत्त्वा देवानां भयवर्द्धनौ ॥ ४४ ॥ पदातिको गदाहस्ती वजागी जयिनी दिशाम् । शुम्भैः परिवृतौ मृत्युजितावेकत्र योधनात् ॥ ४५ ॥ साभ्यां स युयुधे कल्किः सेनागणसमन्वितः । शुभाना कल्किसैन्यानां समरस्तुमुलोऽभवत् ॥ ॥ ४६ हेषितैहितैर्दन्तशब्दैष्टङ्कारनादितैः । शूरोत्क्रुष्टैर्बाहुवेगैः संशब्देस्तलताड़नैः ॥ ४७ ॥ सम्पूरिता दिश: सर्वा लोका नो शर्म लेभिरे । देवाश्च भयसंवस्ता दिवि व्यस्तपथा ययुः ॥ ४८ ॥ पाशैर्दण्डै: खड्गशत्यृष्टिशूलै- गंदाघातर्बाणपातैश्च घोरैः । युद्दे शूराश्छिन्नबाजि मध्या: पेतुः संख्ये शतशः कोटिशश्च ॥ ४८ ॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्य हतीयांश कल्किसेनासंग्रामो नाम षष्ठोऽध्यायः ।

सप्तमोऽध्यायः । त उवाच । एवं प्रहत्ते संग्रामे धर्मः परमकोपनः । कृतेन सहितो घोरं युयुधे कलिना सह ॥ १ ॥ कलिर्दमित्रबाणोधर्धस्यापि कृतस्य च । पराभूतः पुरौं प्रायात् त्वज्ञा गर्दभवाहनम् ॥ २ ॥ विच्छिवपेचकरथः स्रवद्रताङ्गसञ्चयः । छुछुर्गन्धः करालास्यः स्त्रीखामिकमगाद ग्रहम् ॥ ३ ॥ दम्भः सम्भोगरहितोइतबाणगणाहतः । व्याकुलः स्वकुलाङ्गारो निःसारः प्राविशद् गृहम् ॥ ४ ॥ लोभः प्रसादाभिहतो गदया भिबमस्तकः । सारमेयरथं छिवं त्यक्त्रागाद्रुधिरं वमन् ॥ ५ ॥ अभयेन जितः क्रोधः कषायीकतलोचनः । गन्धाखुवाहं विच्छिन त्यक्ता विशसनं गतः ॥ ६ ॥ भयं सुखतलाघाताहतासन्यपतन भुवि । निरयो मुदमुष्टिभ्यां पीड़ितो यममाययौ ॥ ७ ॥ आधिव्याध्यादयः सर्वे त्यक्ता वाहमुपाद्रुवन् । नानादेशान् भयोहिग्ना कृतबाणप्रपीड़िताः ॥ ८ ॥ धर्मः कृतेन सहितो गत्वा विशसनं कलेः । नगरं बाणदहनैर्ददाह कलिना सह ॥८॥ कलिविमुष्टसर्वाङ्गो मृतदारो मृतप्रजः । जगामैको रुदन् दीनो वर्षान्तरमलक्षितः ॥ १० ॥ मरुस्तु शककाम्बोजान् जघ्ने दिव्यास्त्रतेजसा । देवापिः शवरांश्चोलान् वर्वरांस्तगणानपि ॥ ११ ॥ दिव्यास्त्रशस्त्रसम्पातैरर्दयामास वीर्यवान् ।

८४ कल्किपुराणे [३ अंशः विशाखयूपभूपालः पुलिन्दान् पुकसामपि ॥ १२ ॥ जघान विमलप्रनः खङ्गपातेन भूरिया । नानास्त्रशस्त्रवर्षस्ते योधा नेशरनेकधा ॥ १३ ॥ कल्किः कोकविकोकाभ्यां गदापाणियुधां पतिः । युयुधे विन्यासविज्ञो लोकानां जनयन् भयम् ॥ १४ ॥ बकासुरस्य पुत्रौ तौ नप्तारौ शकुनहरिः । तयोः कल्कि: स युयुधे मधुकैटभयोर्यथा ॥ १५ ॥ तयोगदाप्रहारेण चूर्णिताङ्गस्य तत्पतेः । करात् युतापतद भूमौ दृष्ट्वोचुरित्यहो जनाः ॥ १६ । तत: पुनः क्रुधा विष्णुर्जगजिष्णुमहाभुजः । भन्नकन शिरस्तस्य विकोकस्याच्छिनत् प्रभुः ॥ १७ ॥ मृतो विकोकः कोकस्य दर्शनादुत्थितो बली। तद् दृष्ट्वा विस्मिता देवाः कल्किश्च परवीरहा ॥ १८ ॥ प्रतिक गदापाणेः कोकस्याप्यच्छिनच्छिरः । मृतः कोको विकोकस्य दृष्टिपातात् समुत्थितः ॥ १८ । पुनस्ता मिलितो तेन युयुधाते महाबलौ। कामरूपधरौ वीरौ कालमृत्यू इवापरौ ॥ २० ॥ खड्गचम्मधरो कल्कि प्रहरन्तौ पुनः पुनः । कल्किः क्रुधा तयोस्तहद बाणेन शिरसी हते ॥ २१ ॥ पुनर्लग्ने समालोक्य हरिश्चिन्तापरोऽभवत् । विसत्त्वत्वमथालोक्य तुरगस्तावताडयत् ॥ २२ ॥ कालकल्यौ दुराधर्षों तुरगणार्दितौ भृशम् । कल्क स्तं जनतर्बाणैरमर्षाताम्रलोचनौ ॥ २३ ॥ तयोर्भुजान्तरं सोऽग्वः क्रुधा समदशद् भृशम् ।

८५ पंशः।] सप्तमोऽध्यायः। तौ तु प्रभिवास्थिभुजी विशस्ताङ्गदकार्मुको । पुच्छ जगहतुः सप्तेर्गोपुच्छ बालकाविव ॥ २४ ॥ धृतपुच्छो तु तो चाला सप्तिः परमकोपनः । पश्चात् पयो दृढ़ अन्ने तयोर्वक्षसि वववत् ॥ २५ ॥ त्वतपुच्छौ मूर्छितो तो तत्क्षणात् पुनरस्थिती। पुरतः करिकमालोक्य बभाषात स्फुटाक्षरौ ॥ २६ ॥ सतो ब्रह्मा तमभ्येत्य कताबलिपुटः शनैः प्रोवाच कल्कि नैवामू शस्त्रास्त्र बंधमहतः ॥ २७ ॥ कराघातादेककाले उभयोर्निर्मितो बधः । उभयोर्दर्शनादेव नोभयोमरणं क्वचित् । विदित्वेति कुरुष्वात्मन् ! युगपञ्चानयोर्बधम्॥ २८ ॥ इति ब्रह्मवचः श्रुत्वा त्यक्ताशस्त्रास्त्रवाहनः । तयोः प्रहरतोः स्वैर कल्किनवयो: क्रुधा । मुष्टिभ्यां वचकल्याभ्यां बभन्न शिरसी तयोः ॥ २८ ॥ तौ तत्र भग्नमस्तिष्की भग्नशृङ्गावगाविव । पेततुर्दिवि देवानां भयदी भुवि बाधको ॥ ३० ॥ पद दृष्ट्वा महदाश्चयं गन्धर्वाप्सरसां गणाः । नृतुर्जगुस्तुष्टुवुश्च मुनयः सिद्धचारणाः । देवाश्च कुसुमासारैर्ववर्षुहर्षमानसाः ॥ ३१ ॥ देवि दुन्दुभयो नेदुः प्रसवाचाभवन् दिशः । योर्बधप्रमुदितः कविर्दशसहस्रकान् । खान् महारथान् साक्षादहनद दिव्यसायकैः ॥ ३२ ॥ जिः शतसहस्राणां योधानां रणमूर्धनि । श्यं निन्ये समन्वस्तु रथिनां पञ्चविंशति ॥ ३३ ॥ ।

कल्किपुराणे
[३ अंश
एवमन्ये गाय॑भर्यविशालाथा महारथान् ।
निजः समरे क्रुका निषादान् म्लेच्छवर्वरान् ॥ ३४ ।
एवं विजित्य तान् सर्वान् कल्कि पगणैः सह ।
शय्याकर्णश्च भलाटनगर जेतुमाययौ ॥ ३५ ॥
नानावाद्येोकसब वरास्त्रैः नानावस्वर्भूषणभूषिताङ्गः ।
नानावाहैश्चामरैर्वीज्यमानः यातो योई करिकरत्युग्रसेनः॥३
इति श्रीकल्किपुराणेऽनुभागवते भविष्ये तृतीयांशे कोक-
विकोकादीनां बधो नाम सप्तमोऽध्यायः ।
.
अष्टमोऽध्यायः ।
सूत उवाच । सेनागणैः परिवतः करिकर्नारायणः
प्रभुः।
भल्लाटनगर प्रायात् खड्गधक् सप्तिवाहनः ॥ १ ॥
स भलाटेवरो योगी ज्ञात्वा विणु जगत्पतिम् ।
निजसेनागणैः पूर्णो योडु कामो हरिं ययौ ॥ २ ॥
स हर्षोत्पुलक: श्रीमान् ! दीर्घाङ्गः कृष्णभावनः ।
शशिध्वजो महातेजा गजायुतबलः सुधी ॥ ३ ॥
तस्य पत्नी महादेवी विणुव्रतपरायणा ।
सुशान्ता स्वामिनं प्राह कल्किना योडु मुद्यतम् ॥ ४ ॥
नाथ ! कान्त जगनाथं सर्वान्तर्यामिनं प्रभुम् ।
कल्कि नारायणं साक्षात् कथं त्वं प्रहरिष्यसि ॥ ५ ।
शशिध्वज उवाच। सुशान्ते ! परमो धम्मः प्रजापतिविनिर्मि
युद्धे प्रहारः सर्वत्र गुरौ शिष्ये हरेरिव ॥ ६ ॥
जीवतो राजभोगः स्यात् मतः स्वर्गे प्रमोदते ।
युद्धे जयो वा मृत्यु, क्षत्रियाणं सुखावहः ॥ ७ ॥

अंशः अष्टमोऽध्यायः। शान्तोवाच । देवत्वं भूपतित्वं वा विषयाविष्टकामिनाम् । उम्मदानां भवेदेव न हरे: पादसेविनाम् ॥ ८ ॥ त्वं सेवकः स चापीशस्वनिष्कामः स चाप्रदः । युवयोर्युइमिलन कथं मोहाद भविष्यति ॥ ॥ शिध्वज उचाच । इन्दातीते यदि इन्दमीखरे सेवके तथा। देहावशालीलयैव सा सेवा स्यात्तथा मम ॥ १० ॥ देहावेशादीखरस्य कामाद्या दैहिका गुणाः । मायाङ्गा यदि जायन्ते विषयाश्च न किं तथा ॥ ११ ॥ ब्रह्मतो ब्रह्मतेशस्य शरीरित्वे शरीरिता । सेवकस्याभेददृशस्त्वेवं जन्मलयोदया: ॥ १२ ॥ सेव्यसेवकता विष्णोर्माया सेवेति कीर्तिता। हैताईतस्य चेष्टेषा त्रिवर्गजनिका सताम् ॥ १३ ॥ अतोऽहं करिकना योद्धं यामि कान्ते ! खसेनया । त्वं तं पूजय कान्तेऽद्य ! कमलापतिमीवरम् ॥ १४ ॥ छतार्थोऽहं त्वया विष्णुसेवासम्मिलितामना । स्वामिनिह परत्रापि वैष्णवी प्रथिता गतिः ॥१५॥ इति तस्या बला वाग्भिः प्रणताया: शशिध्वजः । पात्मानं वैष्णवं मेने साश्रुनेत्री हरिं स्मरन् ॥ १६ ॥ तामालिङ्गय प्रमुदितः शूरैर्बहुभिराहतः । वदनाम स्मरन् रूपं वैष्णवैर्योडुमाययौ ॥ १७ ॥ मत्वा तु कल्किसेनायां विद्राव्य महती चमूम्। शय्याकर्णगणैर्वोरैः सवरुद्यतायुधैः ॥ १८ ॥ शशिध्वजसुतः श्रीमान् ! सूर्यकेतुर्महाबलः । मरुभूपेन युयुधे वैष्णवो धन्विनां वरः ॥ १८ ॥ ॥

कल्किपुराणे
[३मा
तस्यानुजो वृहत्केतुः कान्तः कोकिलनिखनः ।
देवापिना स युयुधे गदायुद्धविशारदः ॥ २० ॥
विशाखयूपभूपस्तु शशिध्वजपेण च ।
युयुधे विविधैः शस्त्र : करिभिः परिवारितः ॥ २१ ॥
रुधिराखो धनुर्धारी लघुहस्तः प्रतापवान् ।
रजस्यानेन युयुधे भर्म्यः शान्तेन धन्विना ॥ २२ ॥
शूलैः प्रासैर्गदाघातैर्बाणशक्त्यृष्टितोमरैः ।
भल : ख भूषण्डीभिः कुन्तैः समभवद्रण: ॥ २३ ॥
पताकाभिर्ध्वचिङ्गस्तोमरैश्वचामरैः
प्रोडूतधूलिपटलैरन्धकारो महानभूत् ॥ २४ ॥
गगनेऽनुघना देवाः के वा वासं न चक्रिरे ।
गन्धर्वः साधुसन्दर्भर्गायनरमृतायनैः ॥ २५ ॥
द्रष्टुं समागताः सर्वे लोकाः समरमद्भुतम् ।
शङ्खदुन्दुभिसदादैरास्फोहितैरपि ॥ २६ ॥
ट्रेषितर्योधनोत्क्रुष्टैर्लोका मूका इवाभवन् ।
रथिनो रथिभिः शाकं पदाताश्च पदातिभिः ॥ २०॥
हया हयैरिभाश्चेभैः समरोऽमरदानवैः ।
यथाभवत् स तु घनो यमराष्ट्रविवईनः ॥ २८॥
शशिध्वजचमूनाथैः कल्किसेनाधिपः सह ।
निपेतुः सैनिका भूमौ छिन्बबाडि, कन्धराः ॥ २८ ॥
धावन्तोऽतिब्रुवन्तश्च विकुर्वन्तोऽसृगुक्षिताः ।
उपर्युपरि सञ्छवा गजाश्वरश्रमर्दिताः ॥ ३० ॥
निपेतुः प्रधने वीराः कोटिकोटिसहस्रशः ।
भूते सानन्दसन्दोहा: स्रवन्तो रुधिरोदकम् ॥ ३१ ॥

३ अंशः।]
अष्टमोऽध्यायः ।
८९
उष्णीष इंसाः सनिगजरोधी रथनवाः ।
करोरुमीनाभरणमसिकाञ्चनवालुकाः ॥ ३२ ॥
एवं प्रवृत्ताः संग्रामे नद्यः सद्योऽतिदारुणाः।
सूर्यकेतुस्तु मरुणा सहितो युयुधे बली ॥ ३३ ॥
कालकल्यो दुराधर्षो मरु' बाणैरताड़यत् ।
मरुस्तु तत्र दशभिर्मार्गणैरदरद भृशम् ॥ ३४ ॥
मरुबाणाहतो वीरः सूर्यकेतुरमर्षितः ।
जघान तुरगान् कोपात् पदोहातेन तद्रथम् ॥ ३५ ॥
चूर्णयित्वाऽथ तेनापि तस्य वक्षस्यताडयत् ।
मदाघातेन तेनापि मर्ममिवाप ह॥ ३६ ॥
सारथिस्तमपोवाहरथेनान्येन धम्मवित् ।
वृहत्केतुश्च देवापिं बाणैः प्राच्छादयद् बली ॥ ३७ ॥
धनुर्विवष्य तरसा नीहारेण यथा रविम् ।
स तु बाणमयं वर्ष परिवार्य निजायुधः ॥ ३८ ॥
वृहत्केतं दृढ़ जन्न कसपत्रः शिलाशितैः ।
भिन्न शूलमथालोक्य धनुध पतत्तिभिः ॥ ३८ ॥
शितधारैः स्वर्णपुरैर्गापौरयोमुखैः ।
देवापिमा शुगर्जने वृहत्केतुः ससैनिकम् ॥ ४० ॥
देवापिस्तद्धनुर्दिव्यं चि छेद निशितैः शरैः ।
छिनधन्वा वृहत्केतुः खड्गपाणिजिघांसया ॥ ४१ ॥
देवापः सारथिं शाख जघ्न शूरी महामृधे ।
स देवापिर्धनुस्त्यक्त्वा तलेनाहत्य तं रिपुम् ॥ ४२ ॥
भुजयोरन्तरानीय निष्यिपेष स निर्दयः ।
तं ाष्टवर्ष निष्क्रान्तं मूर्छितं शत्रुणार्दितम् ॥ ४३ ॥

Ei
करिकापुराणे
[३६
.
अनुज वीक्ष्य देवापि मूनि सूर्यध्वजोऽवधीत् ।
मुष्टिना वचपातन सोऽपतमूर्छितो भुवि ।
मूर्छितस्य रिपुः क्रोधात् सेनागणमताड़यत् ॥ ४४
शशिध्वजः सर्वजगविवास
कल्कि पुरस्तादभिसूर्यवर्चसम् ।
श्याम पिशङ्गाम्वरमम्बुजेक्षणं
वृहद्भुजं चारुकिरीटभूषिणम् ॥ ४५ ॥
नानामणिवातचिताङ्गशोभया
निरस्तलोकेक्षणहत्तमोमयम् ।
विशाखयूपादिभिराहतं प्रभु
ददर्श धर्मेण कृतेन पूजितम् ॥ ४६ ॥
इति श्रीकल्किपुराणेऽनुभागवते भविष्य रतीयांशे शशिध्वज
कल्फिसेनयोर्युदं नाम अष्टमोऽध्यायः ।
नवमोऽध्यायः ।
सूत उवाच । हृदि ध्यानास्पदं रूपं कल्कदृष्ट्वा शशिध्वजः ।
पूर्ण खङ्गधरं चारुतुरगारूढ़मब्रवीत् ॥ १॥
धनुर्बाणधरं चारुविभूषणवराङ्गकम् ।
पापतापविनाशार्थमुद्यतं जगतां परम् ॥ २ ॥
प्राह तं परमात्मानं हृष्टरोमा शशिध्वजः ।
एहहि पुण्डरीकाक्ष ! प्रहारं कुरु मे हृदि ॥ ३ ॥
अथवात्मन् ! बाणभिया तमोऽधे हृदि मे विश ।
निर्गुणस्य गुणशत्वमइतस्यास्त्रताड़नम् ॥ ४ ॥

३ अंशः।] नवमोऽध्यायः । ८१ निकामस्य जयोदयोगसहायं यस्य सैनिकम् । लोकाः पश्यन्तु युद्धे मे हैरथे परमात्मनः ॥ ५ ॥ परबुधिर्यदि दृढ़ प्रहर्ता विभवे त्वयि । शिवविष्णो दक्ते लोकं यास्यामि संयुगे ॥ ६ ॥ इति राज्ञो वचः श्रुत्वा अक्रोधः क्रुधवहिभुः । बाणैरताड़यत् संख्य धृतायुधमरिन्दमम् ॥ ७ ॥ शशिध्वजस्तत्प्रहारमगणय्य वरायुधैः । तं जघ्न बाणवर्षेण धाराभिरिव पर्वतम् ॥ ८ ॥ तद् बाणवर्षभिवान्तः कल्किः परमकोपनः । दिव्यैः शस्त्रास्त्रसङ्घातैस्तयोर्युद्धमवर्तत ॥ ॥ ब्रह्मास्त्रस्य च ब्रह्मास्त्रायव्यस्य च पर्वतैः । आग्नेयस्य च पार्जन्यः पनगस्य च गारुड़:॥ १० ॥ एवं नानाविधैरस्त्र रन्योऽन्यमभिजनतः । लोकाः सपालाः संत्रस्ता युगान्तमिव मेनिरेः ॥११॥ देवा बाणाग्निसंत्रस्ता अगमन् खगमा: किल । ततोऽतिवितथोद्योगी वासुदेवशशिध्वजी ॥ १२ ॥ निरस्त्री बाहुयुद्धेन युयुधाते परस्परम् । पदाघातैस्तलाघातैर्मुष्टिप्रहरणैस्तथा ॥ १३ ॥ नियुद्धकुशलौ वीरौ मुमुदाते परस्परम् । वराहोद्धृतशब्देन तं तलेनाहन हरिः ॥ १४ ॥ स मूर्च्छितो नृपः कोपात् समुत्थाय च तत्क्षणात् । मुष्टिभ्यां वजकल्पाभ्यामबधीत् कल्किमोजसा । स कल्किस्तत्प्रहारण पपात भुवि मूर्छितः ॥ १५ ॥ धर्मः कृतञ्च तं दृष्ट्वा मूर्च्छितं जगदीश्वरम् । ॥

८२ करिकपुराणे [३ अंश समागतो तमानेतुं कक्षे तो जरहे नृपः ॥ १६ ॥ कल्कि वक्षस्युपादाय लब्धार्थः प्रययौ गृहम् । युद्धे नृपाणामन्येषां पुत्रौ दृष्ट्वा सुदुर्जयो ॥ १७ ॥ करिक सुराधिपपतिं प्रधने विजित्य धर्म कतञ्च निजकक्षयुगे निधाय । हर्षोल्लसदृदय उत्पुलकः प्रमाथी गत्वा ग्राहं हरियह ददृशे सुशान्ताम् ॥ १८ ॥ दृष्ट्वा तस्याः सुललितमुखं वैष्णवीनाञ्च मध्ये मायन्तीनां हरिगुणकथास्तामथ प्राह राजा । देवादीनां विनयवचसा शम्भले जन्मवाना विद्यालाभं परिणयविधिं म्लेच्छपाषण्डनाशम् ॥ १८ ॥ कल्कि: स्वयं हृदि समायमिहागतोऽद्धा मूर्छाछ लेन तव सेवनमीक्षणार्थम् । धर्म कतञ्च गम कक्षयुगे सुशान्ते ! कान्ते । विलोकय समचय संविधेहि ॥ २० ॥ इति नृपवचसा विनोदपूर्णा हरिकृतधर्मयुतं प्रणम्य नाथम् । सह निजसखिभिन्नत रामा हरिगुणकीर्तनवर्सना विलज्जा ॥ २१ ॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्य ढतीयांशे धर्मकल्किकतानामानयनं नाम नवमोऽध्यायः ।

दशमोऽध्यायः ।
सुशान्तोवाच ।
जय हरेऽमराधीशसेवितं तव पदाम्बुज भूरिभूषणम् ।
कुरु ममाग्रतः साधुसत्कतं त्यज महामते ! मोहमात्मनः ॥१॥
तव वपुर्जगद्रूपसम्पदा विरचितं सतां मानसे स्थितम् ।
रतिपतर्मनोमोहदायकं कुरु विचेष्टितं कामलम्पटम् ॥ २ ॥
तव यशो जगच्छोकनाशनं मृदुकथामृतप्रीतिदायकम् ।
'स्मतसुधोक्षितं चन्द्रवन्मुखं तव करोखलं लोकमङ्गलम् ॥३॥
मम पतिस्त्वयं सर्वदुजयो यदि तवाप्रियं कर्मणाचरेत् ।
बहि तदात्मनः शत्रुमुद्यतं कुरु कपां न चेदीगोखरः ॥ ४ ॥
महदहं युतं पञ्चमात्या प्रकतिजायया निर्मितं वपुः ।
नव निरीक्षणालीलया जगत् स्थितिलयोदयं ब्रह्मकल्पितम् ॥५
भूवियन्मरुद्दारितेजसां राशिभिः शरीरन्द्रियाशितैः ।
वेगुणया स्वया मायया विभो! कुरु कृपां भवत्सेवनार्थिनाम् ६
नव गुणालयं नाम पावनं कलिमलापहं कीर्तयन्ति ये।
नवभयक्षयं, तापतापिता मुहुरहो जना: संसरन्ति नो ॥७॥
नव जन्मः सतां मानवईनं निजकुलक्षयं देवपालकम् ।
तयुगापकं धर्मपूरकं कलिकुलान्तकं शन्तनोतु मे ॥ ८ ॥
मम गृहं पतिपुत्रनप्तकं गजरथैर्ध्व जैश्चामरैर्धनः।
पणिवरासनं सत्कति विना तव पदानयोः शोभयन्ति किम् ?
व जगहपुः सुन्दरस्मितं मुखमनिन्दितं सुन्दरारवम् ।
दि न मे प्रियं वला चेष्टिते परिकरोत्यहो मृत्युरस्त्विइ ॥१०॥

कल्किपुराणे
[३ अंशः
हयचरभयहरकरहरशरणखरतरवरशरदशबलमदन!।
!
जयहतपरभरभववरनशनशशधरशतसमरसभरवदन! ॥२१
इति तस्याः सुशान्ताया गीतेन परितोषितः ।
उत्तस्थौ रणशय्याया: कल्कियुद्धस्थवीरवत् ॥ १२ ॥
सुशान्तां पुरतो दृष्ट्वा कृतं वामे तु दक्षिण ।
धर्म शशिध्वज पश्चात् प्राहेति वीडिताननः ॥ १३ ॥
का त्वं ? पद्मपलाशाक्षि ! मम सेवार्थमुद्यता।
कान्ते ! शशिध्वजः शूरो मम पश्चादुपस्थितः ॥ १४ ॥
हे धर्म ! हे कृतयुग ! कथमत्रागता ? वयम् ।
रणानन विहायास्याः शत्रोरन्तःपुरे वद ॥ १५ ॥
शत्रुपत्नाः कथं साधु ! सेवन्ते मामरि मुदा ।
शशिध्वजः शूरमानी मूर्छित हन्ति नो कथम् ? ॥१॥
मुशान्तोवाच । पाताले दिवि भूमौ वा नरनागसुराऽसुराः
नारायणस्य ते कल्के ! के वा ? सेवां न कुर्वते ॥ १७
यत् सेवकानां जगतां मित्राणां दर्शनादपि ।
निवर्तन्ते
शत्रुभावस्तस्य साक्षात् कुतो
रिपुः ? ॥ १८
खया साई मम पति: शत्रुभावेन संयुगे ।
यदि योग्यस्तदानेतु किं समर्थो ? निजालयम् ॥१८॥
बव दासो मम स्वामी अहं दासी निजा तव ।
पावयोः सम्प्रसादाय आगतोऽसि महाभुज ! ॥ २० ॥
धर्म उवाच । अहं तवैतयोर्भक्त्या नामरूपानुकीर्तनात् ।
कृतार्थोऽस्मि कतार्थोऽस्मि कतार्थोऽस्मि कलिक्षय! ॥२६
कृतयुग उवाच । अधुनाहं कृतयुगं तव दासस्य दर्शनात् ।
त्वमीश्वरो जगत्पूज्यसेवकस्थास्य तेजसा ॥ २२ ॥

अंशः।] दशमोऽध्यायः । ८५. शिध्वज उवाच। दण्डंय मां दण्ड्य विभो! योद्धृत्वादुद्यतायुधम्। येन कामादिरागण त्वय्यामन्यपि वैरिता ॥ २३ ॥ इति कल्किर्वचस्तेषां निशम्य हसिताननः । त्वया जितोऽस्मीति नृपं पुनःपुनरुवाच ह ॥ २४ ॥ ततः शशिध्वजो राजा युद्धादाहय पुत्रकान् । सुशान्ताया मतिं बुड्डा रमा प्रादात् स कल्कये ॥ २५ ॥ तदैत्य मरदेवापी शशिध्वजसमाहृतौ । विशाखयूपभूपश्च रुधिरावश्च संयुगात् ॥ २६ ॥ शय्याकर्णनृपणापि भल्लाटं पुरमाययुः । सेनागणैरसंख्यातः सा पुरी महिताभवत् ॥ २७ ॥ गजाखरथसम्बाधैः पत्तिच्छत्ररथध्वजः । कल्किनापि रमायाश्च विवाहोत्सवसम्पदाम् ॥ २८ ॥ द्रष्टुं समीयुस्त्वरिता हर्षात् सबलवाहनाः । शङ्गभेरीमृदङ्गानां वादित्राणाञ्च निस्वनैः ॥ २८ ॥ नृत्यगीतविधानश्च पुरस्त्रीकतमङ्गलैः । विवाहो रमया कल्करभूदतिसुखावहः ॥ ३० ॥ नृपा नानाविधैर्भोज्यैः पूजिता विविशुः सभाम् । ब्राह्मणाः क्षत्रिया वैश्या: शूद्राश्चावरजातयः ॥ ३१ ॥ विचित्रभोगाभरणाः कल्कि द्रष्टुमुपाविशन् । तस्यां सभायां शुशुभे कल्किः कमललोचनः ॥ ३२ ॥ नक्षत्रगणमध्यस्थः पूर्णः शशधरो यथा । रेज राजगणाधीशो लोकान् सर्वान् विमोहयन् ॥३३॥ रमापति कस्किमवेक्ष्य भूपः सभागतं पद्मदलायवेक्षणम् ।

कल्किपुराणे
[३ अंशः।
जामातरं भक्तियुतेन कर्मणा
विवुध्य मध्ये निषसाद तब ह ॥ ३४ ॥
इति श्रीकल्किपुराणेऽनुभागवते भविथे हतीयांशे कल्किना
रमाविवाहो नाम दशमोऽध्यायः ।
एकादशोऽध्यायः ।
सूत उवाच । तत्राहुस्ते सभामध्ये वैष्णवं तं शशिध्वजम् ।
मुनिभिः कथिताशेषभक्तिव्यासतविग्रहम् ॥१॥
सुशान्ताञ्च कतेनापि धर्मेण विधिवद् युताम् ।
राजान ऊचुः । युवा नारायणास्थास्य कल्के: श्वशरतां गतो।
वयं नृपा इमे लोका ऋषयो ब्राह्मणाच ये॥२॥
प्रेक्ष्य भक्तिवितानं वा हरौ विस्मितमानसाः ।
पृच्छामस्वामिय भक्तिः क लब्धा ? परमात्मनः ॥ ३ ॥
कस्य वा ? शिक्षिता राजन् ! किंवा ? नैसर्गिकी तव ।
योतुमिच्छामहे राजन् ! त्रिजगज्जनपावनीम्।
कयां भागवतीं त्वत्तः संसाराश्रमनाशिनीम् ॥ ४ ॥
शशिध्वज उवाच । स्त्रीपुंसोरावयोस्तत्तत् शृणुतामोघविक्रमाः!।
वृत्त यज्जम्मकम्मादि स्मृतिं तद्भक्तिलक्षणम् ॥ ५ ॥
पुरा य गसहस्रान्त ग्धोऽहं पूतिमांसभुक् ।
राधीय मे प्रियारण्य कतनीडो वनस्पती ॥ ६ ॥
चचार कामं सर्वत्र वनोपवनसङ्गुले ।
मृतानां पूतिमांसोधैः प्राणिना हत्तिकल्पकौ ॥ ७ ॥
एकदा लुब्धक: क्रूरो लुलोभ पिशिताशिनी ।
आवां वीक्ष्य रहे पुष्टं रन तत्राप्ययोजयत् ॥ ८॥

८७ शः।] एकादशोऽध्यायः। तं वीक्ष्य जातविश्वम्भी सुधया परिपीड़िती। स्त्रीपुंसी पतितो तत्र मांसलोभितचेतसौ॥८॥ बचावावां वीक्ष्य तदा हर्षादागत्य लुब्धकः । जग्राह कण्ठे तरसा चञ्चुग्राघातपीडितः ॥ १० ॥ पावां गृहीत्वा गण्ड क्या: शिलायां सलिलान्तिक । मस्तिक चूर्णयामास लुश्चकः पिशिताशनः ॥ ११ ॥ चकाशितशिलागङ्गामरणादपि तत्क्षणात् । ज्योतिर्मयविमानेन सद्यो भूत्वा चतुर्भुजी ॥ १२ ॥ प्राप्तौ वैकुण्ठनिलयं सर्वलोकनमस्कृतम् । तत्र स्थित्वा युगशतं ब्रह्मणो लोकमागतौ ॥ १३ ॥ ब्रह्मलोके पञ्चशतं युगानामुपभुज्य व । देवलोके कालवशाद गतं युगचतु:शतम् ॥ १४ ॥ ततो भुवि नृपास्तावत् बदसूनुरहं स्मरन् । पररनुग्रहं लोके शालग्रामशिलाश्रमम् ॥ १५ ॥ नातिस्मरत्वं गण्डक्या: किं तस्याः कथयाम्यहम् । यजलस्पर्शमात्रेण माहात्मा महदद्भुतम् ॥ १६ ॥ चकाशितशिलास्पर्णमरणस्येदृशं फलम् । न जाने वासुदेवस्य सेवया किं भविथति ॥ १७ ॥ इत्यावा हरिपूजासु हर्षविह्वलचेतसौ । नृत्यम्तावनुगायन्ती विलुठन्तौ स्थिताविह ॥ १८ ॥ कस्कारायणांशस्य अवतारः कलिक्षयः । पुरा विदितवीर्यस्य पृष्टो ब्रह्ममुखात् श्रुतः ॥ १८ ॥ इति राजसभायां सः श्रावयित्वा निजाः कथाः । ददौ गजानामयुतमखाना सक्षमादरात् ॥ २०॥ ८ करिकपुराणे [३ पग रथानां षट्सहस्रन्तु ददौ पूर्णस्य भक्तितः । दासीनां युवतीनाञ्च रमानाथाय षट्शतम् ॥ २१ ॥ रत्नानि च महा_णि दत्त्वा राजा शशिध्वजः । मेने कृतार्थमात्मानं स्वजनैर्बान्धवैः सह ॥ २२ ॥ सभासद इति श्रुत्वा पूर्वजन्मोदिताः कथाः । विस्मयाविष्टमनसः पूर्ण तं मेनिरे नृपम् ॥ २३ ॥ कल्कि स्तुवन्तो ध्यायन्तो प्रशंसन्तो जगज्जनाः । सुनस्तमाहूराजामं लक्षणं भक्तिभक्तयोः ॥ २४ ॥ नृया सुः। भक्तिकाम्याद भगवतः को वा ? भक्तो विधानवि किं करोति किमश्राति क्व वा वसति वक्ति किम् ? एतान् वर्णय राजेन्द्र ! सर्व त्वं वेसि सादरात् । मातिस्मरत्वात् कष्णस्य जगतां पावनेच्छया ॥ २६ ॥ इति तेषां वचः श्रुत्वा प्रफुल्लवदनो नृपः । साधुवादः समामन्बा तानाह ब्रह्मोदितम् ।। २७ । शशिध्वज उवाच । पुरा ब्रह्मसभामध्ये महर्षिगणसङ्गुती । सनको नारदं प्राह भवद्भिर्या स्त्विहोदिताः ॥ २८ ॥ तेषामनुग्रहेणाहं तत्रोषित्वा श्रुता: कथाः । बास्ता: संकथयामीह शृमुव पापनाशनाः ॥ २८ ॥ मनक उवाच । का भत्मिः ? संमृतिहरा हरौ लोकनमस्मत सामादौ वर्णय मुने ! नारदावहिता वयम् ॥ ३० ॥ नारद उवाच । मनःषष्ठानीन्द्रियाणि संयम्य परया धिया गुरावपि न्यसेहेहं लोकतन्त्रविचक्षणः ॥ ३१ ॥ मुरौ प्रसवे भगवान् प्रसीदति हरिः स्वयम् । प्रसवानिप्रियामध्ये सवर्ण तबिदेशतः ॥ ३२ ॥ ?

पंचः।] एकादशोऽध्यायः । te स्मरेदनन्धया बुध्या देशिकः सुसमाहितः । पाद्यार्थ्याचमनीयाद्यः मानवासोविभूषणः ॥ ३३ ॥ पूजयित्वा वासुदेवपादपनं समाहितः । सर्वाङ्गसुन्दर रम्यं स्मरेत् हृत्पद्ममध्यगम् ॥ ३४ ॥ एवं ध्यात्वा वाक्यमनोबुद्धीन्द्रियगणैः सह । पात्मानमर्पयेद विद्वान् हरावेकान्तभाववित् ॥ ३५ ॥ पङ्गानि देवास्त्वेषान्तु नामानि विदितान्युत । विष्णोः कल्केरनन्तस्य तान्येवान्यव विद्यते ॥ ३६ ॥ सेव्यः कृष्णः सेवकोऽहमन्ये तस्यात्ममूर्तयः । पविद्योपाधयो जानाद् वदन्ति प्रभवादयः ॥ ३०॥ भक्तस्यापि हरौ हैतं सेव्यसेवकवत् तदा । नान्यद् विना तमित्येव क च ? किश्च न विद्यते ॥३८॥ भत: स्मरति तं विष्णु तबामानि च गायति । सत् कम्माणि करोत्येव तदानन्दसुखोदयः ॥ ३८ ॥ मृत्यत्युद्धतवद्रौति इसति प्रेति तम्मनाः । विलुठल्यात्मविस्मृत्या न वेत्ति कियदन्तरम् ॥ ४० ॥ एवंविधा भगवतो भक्तिरव्यभिचारिणी। पुनाति सहसा लोकान् सदेवासुरमानुषान् ॥ ४१ ॥ भक्तिः सा प्रतिनित्या ब्रह्मसम्पत् प्रकाशिता । शिवविणुब्रह्मरूपा वेदाद्यानां वरापि वा ॥ ४२ ॥ भक्ताः सत्वगुणाध्यासात् रजसेन्द्रियलालसाः । तमसा घोरसङ्कल्पा भजन्ति हैतदृग् जनाः ॥ १३ ॥ सत्वानिर्गुणतामेति रजसा विषयस्पृहा। तमसा नरकं यान्ति संसारातधर्मिणि । ४४॥

करिकपुराणे [१पंपः
उच्छिष्टमवशिष्ट वा पथ्यं पूतमभीप्सितम् ।
भक्तानां भोजन विष्णोनवेद्यं सात्विक मतम् ॥ ४५ ॥
इन्द्रियप्रीतिजननं शुक्रशोणितवईनम् ।
भोजनं राजसं शुकमायुरारोग्यवईनम् ॥ ४६॥
अतःपरं तामसानां कसम्बोष्णविदाहिकम् ।
पूतिपर्युषितं ज्ञेयं भोजनं तामसप्रियम् ॥ ४७ ॥
सालिकानां वने वासो ग्राम वासस्तु राजसः ।
तामसं द्यूतमद्यादिसदनं परिकीर्तितम् ॥ १८ ॥
न दाता स हरि: किञ्चित् सेवकस्तु न याचकः ।
तथापि परमा प्रीतिस्तयोः किमिति शाखती ॥ ४८ ॥
इत्येतत् भगवत ईखरस्य विष्णो-
गुणकथनं सनको विबुध्य भक्त्या।
सविनयवचनैः सुरर्षिवयं
परिणत्वेन्द्रपरं जगाम शुद्धः ॥ ५० ॥
इति श्रीकल्किपुराणेऽनुभागवते भविष्य दृतीयांशे
नृपगणशशिध्वजसंवादे जातिस्मरत्वकथनं
नाम एकादशोऽध्यायः ।
हादशोऽध्यायः ।
शशिध्वज उवाच ।
एतद् वः कथितं भूपाः ! कथनीयोरुकम्पः ।
कथा भतस्य भक्तोश्च किमन्यत् कथयाम्यहम् ॥ १॥
भूपा ऊचुः । त्वं राजन् ! वैष्णववेठः सर्वसत्वहिते रतः ।
तवावेशः कथं युद्धरले हिंसादिकर्मणि ॥ २ ॥

३ अंशः।] द्वादशोऽध्यायः। १०१ प्रायशः साधवी लोके जीवानां हितकारिणः । प्राणबुद्विधनैर्वाग्भिः सर्वेषां विषयात्मनाम् ॥ ३ ॥ शशिध्वज उवाच । देतप्रकाशिनी या तु प्रकृतिः कामरूपिणी । सा सूते त्रिजगत् कत्न वेदांश्च त्रिगुणात्मिका ॥ ४ ॥ ते वेदास्त्रिजगत् धम्मंशासना धर्मनाशनाः । भक्तिप्रवर्तका लोके कामिनां विषयैषिणाम् ॥ ५ ॥ वात्स्यायनादिमुनयो मनवो वेदपारगाः । वहन्ति बलिमीशस्य वेदवाक्यानुशासिता: ॥ ६ ॥ वयं तदनुगाः कभधम्मनिठा रणप्रियाः । जिघांसन्त' जिघसामो वेदार्थकतनिथयाः ॥ ७ ॥ अबध्यस्य बधे यावांस्तावान् बध्यस्य रक्षणे । इत्याह भगवान् व्यासः सर्ववेदार्थतत्परः ॥८॥ प्रायश्चित्त न तत्रास्ति तनाधर्मः प्रवर्तते मतोऽत्र वाहिनीं हत्वा भवतां युधि दुर्जयाम् ॥ ८ ॥ धर्म कृतय कल्किन्तु समानीयागता वयम् । एषा भक्तिर्मम मता तवाभिप्रेतमीरय ॥ १० ॥ महं तदनुवक्ष्यामि वेदवाक्यानुसारतः । यदि विणुः स सर्वत्र तदा किं हन्ति को हतः ? ॥११॥ हन्ता विणुहतो विष्णुबंधः कस्यास्ति तत्र चेत् । युद्धयज्ञादिषु बधे न बधो वेदशासनात् ॥ १२ ॥ इति गायन्ति मुनयो मनवश्व चतुर्दशम् । इत्थं युद्धैश्च यन्तैश्च भजामो विणुमीवरम् ॥ १३ ॥ अतो भागवती मायामाथित्य विधिना यजन् ।

करिकपुराणे [३ प्रशः सेव्यसेवकभावन सुखी भवति नान्यथा ॥ १४ ॥ भूपा ऊचुः । निमभूपस्य भूपाल ! गुरोः शापात् मृतस्य च तादृशे भोगायतने विरागः कथमुच्यताम् ॥ १५ ॥ शिष्यशापात् वशिष्ठस्य देहावाप्तिर्मतस्य च । श्रूयते किल मुक्तानां जन्म भक्त विमुक्तता ॥ १६ ॥ अतो भागवती माया दुर्बोध्या विजितात्मनाम् । विमोहयन्ति संसारे नानात्वादिन्द्रजालवत् ॥ १७ ॥ इति तेषां वचो भूयः श्रुत्वा राजा शशिध्वजः । प्रोवाच वदतां श्रेष्ठो भक्तिप्रवणया धिया ॥ १८ ॥ शशिध्वज उचाच । बहुना जन्मनामन्ते तीर्थक्षेत्रादियोगतः । दैवाद भवेत् साधुसङ्गस्तस्मादीवरदर्शनम्॥ १८ ॥ ततः सालोक्यताम्प्राप्य भजन्त्याहतचेतसः । भुक्ता भोगाननुपमान् भक्तो भवति संसृतौ ॥ २० ॥ रजोजुषः कर्मपराः हरिपूजापराः सदा । तनामानि प्रगायन्ति तद्रूपस्मरणोत्सुकाः ॥ २१ ॥ अवतारानुकरणपर्वव्रतमहोत्सवाः । भगवद्भक्तिपूजाळ्याः परमानन्दसंप्लुता: ॥ २२ ॥ प्रतो मोक्षं न वाञ्छन्ति दृष्टमुक्तिफलोदयाः । मुखा लभन्ते जन्मानि हरिभावप्रकाशकाः ॥ २३ ॥ हरिरूपाः क्षेत्रतीर्थपावना धर्मतत्पराः । सारासारविदः सेव्यसेवका दैतविग्रहाः ॥ २४ ॥ यथावतारः कृष्णस्य तथा तत्से विनामिह । एवं निभनिमिषता लीला भक्तस्य लोचने ॥ २५ ॥ मुतास्यापि वशिष्ठस्य शरीरभजनादरः ।

अंशः।]
त्रयोदशोऽध्यायः ।
१०३
एतद् वः कथितं भूपा! माहात्मा भक्तिभक्तयोः ॥२६॥
सद्यःपापहरं पुंसां हरिभक्तिविवईनम् ।
सर्वेन्द्रियस्थदेवानामानन्दसुखसञ्चयम् ।
कामरागादिदोषघ्न मायामोहनिवारणम् ।। २७ ।।
नानाशास्त्रपुराणवेदविमलव्याख्यामृताम्भोनिधि
समथ्यातिचिरं त्रिलोकमुनयो व्यासादयो भावुकाः ।
कणे भावमनन्यमेवममलं हैयङ्गवीनं नवं
तथा संमृतिनाशनं त्रिभुवने श्रीकृष्णतुल्यायते ।। २८ ।।
इति श्रीकल्किपुराणेऽनुभागवते भविष्य बतीयांशे ।
भक्तिमतमाहात्मा नाम हादशोऽध्यायः ।
त्रयोदशोऽध्यायः ।
त उवाच। इति भूपः सभायां सः कथयित्वा निजाः कथाः।
शशिध्वजः प्रीतमनाः प्राह कल्कि कताञ्जलिः ॥ १॥
शशिध्वज उवाच ।
त्वं हि नाथ ! विलोकेश ! एते भूषास्त्वदाश्रयाः ।
मां तथा विधि राजानं त्वबिदेशकर' हरे ॥ २॥
तपस्तप्तुं यामि कामं हरिद्वार मुनिप्रियम्
एते मत्युत्रपौत्राश्च पालनीयास्त्वदाश्रयाः ॥ ३ ॥
ममापि कामं जानासि पुरा जाम्बवतो यथा ।
निधनं द्विविदस्यापि तदा सर्व सुरेखर !॥ ४॥
इत्युक्त्वा गन्तुमुद्युक्ता भार्यया सहितं नृपम् ।
लज्जयाधीमुखं कल्कि प्राहुर्भपा: किमित्युतः ॥ ५॥

१०४
कल्किपुराणे
[३ अंशः
!
हे नाथ ! किमनेनोक्तं यत् श्रुत्वा त्वमधोमुखः ।
कथं ? तद् ब्रूहि काम न: किं वा नः शाधि संशयात् ॥
कल्किरुवाच । अमं पृच्छत वो भूपा यूमाकं संशयच्छिदम्
शशिध्वजं महाप्राज्ञ मद्भक्तिकृतनिश्चयम् ॥ ७ ॥
इति कल्केवचः श्रुत्वा ते भूपाः प्रोक्तकारिणः ।
राजानं तं पुनः प्राहुः संशयापनमानसाः ॥८॥
नृपा जचुः । किं त्वया कथितं राजन् ! शशिध्वज!महामते
कथं कल्किस्तइदिदं श्रुत्वैवाभूदधोमुखः ॥ ८ ॥
शशिध्वज उवाच। पुरा रामावतारण लक्ष्मणादिन्द्र जिद् बधम्
मोक्षञ्चालक्ष्य दिविदो राक्षसत्वात् स दारुणात् ॥१०॥
पन्यागार ब्रह्मवीरबधनकाहिको ज्वरः ।
लक्ष्मणस्य शरीरण प्रविष्टो मोहकारकः ॥ ११॥
तं व्याकुलमभिप्रेक्ष्य दिविदो भिषां वरः ।
पश्विवंशेन सजातः स्वापयामास लक्ष्मणम् ॥ १२ ॥
लिखित्वा रामभद्रस्य संज्ञापत्रीमतन्द्रितः ।
लमणं दर्शयामास आईस्तिष्ठन् महाभुजः ॥ १३ ॥
लक्ष्मणो वीक्ष्य तां पत्रों विज्वरो बलवानभूत् ।
स ततो हिविदं प्राह वर वरय वानर ! ॥ १४ ॥
दिविदस्तहचः श्रुत्वा लक्ष्मणं प्राह हृष्टवत् ।
त्वत्तो मे मरणं प्रार्थ वानरत्वाच्च मोचनम् ॥ १५ ॥
पुनस्तं लक्ष्मणः प्राह मम जन्मान्तरे तव ।
मोचनं भविता कोश ! बलरामशरीरिणः ॥ १६ ॥
समुद्रस्योत्तर तोरे दिविदो नाम वानरः ।
ऐकाहिक ज्वर हन्ति लिखनं यस्तु पश्यति ॥ १७ ॥

अंशः।]
वयोदशोऽध्यायः।
१०५
!
इति मन्वाक्षर हारि लिखित्वा तालपत्रके ।
यस्तु पश्यति तस्यापि नस्यत्यैकाहिकज्वरः ॥ १८॥
इति तस्य वर' लब्धा चिरायुः सुस्थवानरः ।
बलरामास्त्रभिवामा मोक्षमापाकुतोभयम् ॥ १८ ॥
तथा क्षेत्रे सूतपुत्रो निहतो लोमहर्षणः ।
बलरामास्वयुक्तात्मा नैमिषेऽभूत् स्ववाञ्छया ॥ २०॥
जाम्बुवांश्च पुरा भूपा वामनत्वं गते हरौ।
तस्याप्यू ईगतं पादं तत्र चक्र प्रदक्षिणम् ॥ २१ ॥
मनोजवं तं निरीक्ष्य वामनः प्राह विस्मितः ।
मत्तो वृणु वर काममृक्षाधीश ! महाबल!॥ २२॥
इति तं दृष्टवदनो ब्रह्मांशो जाम्बुवान् मुदा ।
प्राह भो ! चक्रदहनात् मम मृत्युभविष्यति ॥ २३ ॥
इत्युक्त वामनः प्राह कृष्णजन्मनि मे तव ।
मोक्षश्चक्रेण संभिवशिरसः संभविष्यति ॥ २४ ॥
मम कृष्णावतारे तु सूर्यभक्तस्य भूपतेः ।
सत्राजितस्तु मण्यर्थे दुर्वादः समजायत ॥ २५ ॥
प्रसेनस्य तव भातुर्बधस्तु मणिहेतुकः ।
सिंहात् तस्यापि मण्यर्थे बधो जाम्बवता कृतः ॥ २६ ॥
दुर्वादभयभीतस्य कृष्णस्यामिततेजसः ।
मण्यन्वेषणचित्तस्य ऋणाभूद्रणो विले ॥ २७॥
स निजेशं परिज्ञाय तच्चक्रग्रस्तबन्धनम् ।
मुक्तो बभूव सहसा कृष्ण पश्यन् सलक्ष्मणम् ॥ २८॥
नवदूर्वादलश्यामं दृष्ट्वा प्रादात् निजात्मजाम् ।
तदा जाम्बवती कन्यां प्रग्ध मणिना सह ॥ २८॥

१०० कल्किपुराये [३मः हारकां पुरमागत्य सभायां मामुपादयत् । पाइय मह्यं प्रददौ मणिं मुनिगणार्थितम् ॥ ३० ॥ सोऽहं तां लज्जया तेन मणिना कन्यका स्वकाम् । विवाहेन ददावस्म लावण्याजरहे मणिम् ॥ ३१ ॥ तां सत्यभामामादाय मणिं मय्ययं स प्रभुः । द्वारकामागत्य पुनर्गजाह्वयमगादिभुः ॥ ३२ ॥ गते कृष्ण मां निहत्य शतधन्वाग्रहीमणिम् । प्रतोऽहमिह जानामि पूर्वजन्मनि यत् कृतम् ॥ ३३ ॥ मिथ्याभिशापात् क्वणस्य नैवाभूमोचनं मम । पतोऽहं करिकरूपाय कृष्णाय परमात्मने । दत्वा रमा सत्यभामारूपिणों यामि सद्गतिम् ॥ ३४ ॥ सुदर्शनास्त्रघातेन मरणं मम काहितम् । मरणेऽभूदिति ज्ञात्वा रणे वाच्छामि मोचनम् ॥ ३५ इत्यसौ जगतामीशः कल्किः श्वशुरघातनम् । श्रुत्ववाधोमुखस्तस्थी हिया धर्मभिया प्रभुः । ३६ ॥ पत्याश्चर्य्यमपूर्व मुत्तममिदं श्रुत्वा नृपा विस्मिता खोकाः संसदि हर्षिता मुनिगणाः कल्केर्गुणाकर्षिता पाख्यानं परमादरेण सुखदं धन्यं यशस्यं परं श्रीमद्भपशशिध्वजेरितवचो मोक्षप्रदं चाभवत् ॥ ३७ । इति श्रीकल्किपुराणेऽनुभागवते भविष्य तृतीयांशे शशिध्व रितचक्रमरणाख्यानं नाम त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः । दूत उवाच । ततः कल्किर्महातेजाः खरं तं शशिध्यमम् । समामन्या वचचित्रः सह भूपैर्ययो हरिः ॥ १॥ शशिध्वजो वर लब्धा यथाकाम महेश्वरीम् । सुत्वा मायां त्यतामायः सप्रियः प्रययो वनम् ॥ ३ ॥ कल्कि: मेनागणेः साई प्रययौ काञ्चनी पुरीम् । मिरिदुर्गावतां गुप्ता भोगिभिविषवर्षिभिः ॥ ३ ॥ विदार्य दुर्ग सगण: कल्किः परपुरचयः । छित्त्वा विषायुधान् बाणैस्ता पुरीं ददृशोयुतः ॥ ४ ॥ मषिकाञ्चनचिवाश्यां नागकन्यागणाहताम् । हरिचन्दनवृक्षायां मनुजैः परिवर्जिताम् ॥ ५ ॥ विलोक्य कल्किः प्रहसन् प्राह भूपान् विमित्यहो !। मर्पस्येयं पुरी रम्या नराणां भयदायिनी । नागनारीगणाकीर्णा किं यास्यामो पदविहा॥ इति कर्तव्यताव्यग्रं रमानाथं हरिं प्रभुम् । भूपांस्तदनुरूपाच खे वागाहाशरीरिणी विस्खोक्य नेमा सेनाभिः प्रवेष्टुं भोस्वमर्हसि । खां विनान्ये मरिष्यन्ति विषकन्यादृशादपि ॥ ८॥ आकाशवाणीमाकर्ण्य कल्किः शकसहायतम् । ययावेकः खड्नधरस्तुरगेण वरान्वितः ॥८॥ गत्वा तां ददृशे वीरो धीराणं घे-नाशिनीम् । रूपेणारच लक्ष्मी प्रात प्रहसितामना। १.॥

करिकपुराणे [३ पथः
विषकन्योवाच । संसारस्मिन् मम नयनयोक्षिणक्षीणदेहा
लोका भूपाः कति कति गता सत्युमत्युप्रवीर्याः ।
साहं दीमासुरसुरनरप्रेक्षणप्रेमहीना
ते नेवामदयरससुधाप्लाविता त्यां नमामि ॥ ११ ॥
काहं विषक्षणा दीना कामृतक्षणसङ्गमः ।।
मवेऽस्मिन् भाग्यहीनायाः केमाहो! तपसा छातः ॥१२॥
कल्किरवाच । कासि कन्यासि सुयोणि! कस्मादेवा गतिस्तव
ब्रूहि मां कभणा केन विषनेत्रं तवाभवत् ॥ १३ ॥
विषकन्योवाच । चित्रग्रीवस्य भायाहं गन्धर्वस्य महामते !
सुलोचनेति विख्याता पत्युरत्यन्तकामदा ॥ १४॥
एकदाई विमानेन पत्या पीठेन सङ्गता।
मन्धमादनकुठेषु रेमे कामकलाकुला ॥ १५ ॥
तत्र यक्षमुनिं दृष्ट्या विकृताकारमातरम् ।
रूपयौवनगर्वेण कटाक्षेणाहसं मदात् ॥ १६ ॥
सोपालम्भ' मुनिः श्रुत्वा वचनञ्च ममाप्रियम् ।
शशाप मां क्रुधा तत्र तेनाहं विषदर्शना ॥ १७ ॥
निक्षिप्ताह सपपुरे काञ्चन्यां नागिनीगणे ।
पतिहीना देवहीना चरामि विषवर्षिणी । १८॥
न जाने केन तपसा भवद दृष्टिपथं गता।
वलशापामृताचाहं पतिलोकं व्रजाम्यतः॥ १८॥
अहो ! तेषामस्तु शापः प्रसादो मा सतामिह ।
पत्युः शापाषर्मोक्षात् तव पादानदर्शनम् ॥ २० ॥
इत्युक्खा सा ययौ स्वर्ग विमानेनार्कवर्चसा।
ककिस्तु तत् पुराधी नृपं चक्र महामतिम् ॥ २१॥

बंधः।] चतुर्दयोऽधायः। अमर्षस्तत्वतो धीमान् साम्रो नाम तत्सतः । सहसतः सुतबासीद्राजा वित्तवानसिः ॥ २२ ॥ बहबलानां भूपानां सम्भूता यख वंशजाः । तं. मनु' भूपशार्दूल नानामुनिगोईतः ॥ २३ ॥ अयोध्यायां चाभिषिच मधुरामगमहरिः । तस्यां भूपं सूर्यकेतुमभिषिच महाप्रभम् ॥ २४ ॥ भूपं चक्रे ततो गत्वा देवापिं वारणावते । परिस्थल हकस्थल माकन्दच गजाध्यम् ॥ २५॥ पञ्चदेशेवरं छत्वा हरिः शम्भलमाययौ । पोभं पौण्ड पुलिन्दश्च सुराष्ट्र ममधं तथा। कविधानमन्त्रेभ्यः प्रददौ मानवसतः ॥२६॥ कोकट मध्यकर्णाटमन्ध्रमोडू कसिङ्गवम् । अङ्गं वर्ष खगोवेभ्यः प्रददौ जगदीखरः ॥ २७॥ स्वयं शम्भलमध्यस्ख: काकेन कलापकान् । देशं विशाखयूपाय प्रादात् करिवः प्रतापवान् ॥ २८ ॥ चोलवर्वरकस्यान् हारकादेशमध्यगान् । पुत्रेभ्यः प्रददौ कल्कि: छतवर्मपुरस्कृतान् ॥ २८ ॥ पिने धनानि रवानि ददौ परमभक्षितः । प्रजाः समावास्य हरिः शम्भलग्रामवासिनः ॥ ३०॥ पद्मया रमया कस्विहस्थो मुमुदे भृशम् । धमंचतुष्पादभवत् हतपूर्ण नमधयम् ॥ ३१ ॥ देवा यथोक्षफलदाचरन्ति भुवि सर्वतः । सर्वशस्था वसुमतीपष्टपुष्टजनाहता। बाबचीर्यावृतींना पाधिष्याधिविवर्जिता ॥ ३२॥ १० कस्तिपुराच [[यः विप्रा वेदविदः सुमङ्गलयुता नार्यस्तु वार्या व्रतः पूनाहोमपराः पतिव्रतधरा यागोषताः क्षत्रियाः । बेश्या वस्तुषु धम्तो विनिमयः बीविष्णुपूजापराः शूद्रास्तु हिजसवनाहरिकथालापाः सपर्यापराः ॥१२॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्ये वृतीयांये विषकन्यामोक्षतधर्माप्रहत्तिकथन नाम चतुर्दशोऽध्यायः। पञ्चदशोऽध्यायः । शौनक उवाच। शिववो महाराजःसूत्वा मायां मतः कुतः। का वा ? मायास्तुतिः सूत वद तत्वविदां वर!। या त्वत्कथा विष्णुकथा वक्तव्या सा विशद्धये ॥१॥ सूत उवाच । शृणुध्व मुनयः ! सर्वे ! मार्कण्ड याय पृच्छते शुकः प्राह विशद्वामा मायास्तवमनुत्तमम् ॥ २ ॥ तत् शृणुष्व प्रवक्ष्यामि यथाधीतं यथाश्रुतम् । सर्वकामप्रदं नृणां पापतापविनाशनम् ॥ ३ ॥ शुक उवाच । भल्लाटनगरं त्यक्ता विष्णुभक्तः शशिध्वजः । आत्मसंसारमोक्षाय मायास्तवमलं जगौ॥ ४ ॥ शशिध्वज उवाच । ओं ह्रींकारांसत्त्वसारां विशुद्धां ब्रह्मादीनां मातरं वेदबोध्याम् तन्वीं स्वाहां भूततभावकक्षां वन्दे वन्द्यां देवगन्धर्वसिहः ॥५ लोकातीतां हैतभूतां समीड़े भूतैर्भध्यां व्याससामासिकाद्यैः। विद्वीतां कालकमोललोला लीलापानक्षिप्तसंसारदुर्गाम् ॥६ ३ अंधः।] पञ्चदशोऽध्यायः। १११ पूर्णां प्राप्या हेतलभ्यां शरण्यामाघे शेषे मध्यतो या विभाति। नानारूपैदेवतियंजनुष्यस्तामाधारा ब्रह्मरूपा नमामि ॥७॥ यस्था भासा विजगजाति भूतैर्न भात्येतत्तदभावे विधातुः । कालोदेवं कर्मचोपाधयो ये तस्याभासातां विशिष्टां नमामि॥८ भूमौ गन्धो रसता, प्रतिष्ठा रूपं तेजस्येव वायो स्पृशत्वम् । खे शब्दोवायश्चिदाभास्ति माना तामभ्येतां विखरूपां नमामिट सावित्री त्वं ब्रह्मरूपा भवानी भूतशस्य, श्रीपतेः श्रीस्वरूपा: शची शक्रस्यापि माखरस्य पत्नी श्रेष्ठा भासि माये! जगसु॥१० बाल्ये वाला युवती यौवने त्वं वाईकये या स्थविरा कालकल्पा। नानाकार्यागयोगरूपास्या ज्ञानातीता कामरूपा विभासि११॥ रिया त्वं वरदा लोकसिया साध्वी धन्या लोकमान्या सुकन्या। सडी दुर्गा कालिका कालिकास्था नानादेभे रूपवेशैविभासि१२ तव चरणसरोज देवि ! देवादिवन्ध यदि उदयसरोजे भावयन्तीह भत्त्या । अतियुगकुहरे वा संश्रुतं धम्मसम्पत् जनयति जगदाधे !'सर्वसिधिञ्च तेषाम् ॥ १३ ॥ मायास्तवमिदं पुण्यं शुकदेवेन भाषितम् । मार्कण्डेयादवाप्यापि सिदि लोम शशिध्वजः ॥ १४ ॥ कोकामुखे तपस्तमा हरि ध्यात्वा वनान्तरे । सुदर्शनेन निहतो वैकुण्ठं शरणं ययौ ॥ १५ ॥ इति श्रीकरिकपुराणेऽनुभागवते भविथे वृतीयांश मायास्तवो नाम पञ्चदशोऽध्यायः ।

!
षोडशोऽध्यायः ।
सूत उवाच । एतद वः कषित विप्राः! शशिधविमोक्षणम्
करके: कथामप्रतिमा मृण्वन्तु विधर्षभाः !॥१॥
वेदो धर्मः सतयुग देवा लोवाखराचराः ।
दृष्टाः पुष्टाः सुसन्तुष्टाः कल्ली राजनि चाभवम् ॥ २ ॥
नानादेवादिलिङ्गेषु भूषणभूषितेषु च ।
इन्द्रजालिकवद हत्तिकल्पकाः पूजका मनाः ॥ ३ ॥
म सन्ति मायामोहाब्याः पापडाः साधुवनकाः।
तिलकार्चितसर्वाः कवी राजनि पुतषित् ॥४॥
शम्भले वसतस्तस्य पथा रमया सह।
प्राह विष्णुयशाः पुत्र देवान् यष्टुं जगवितान् ॥ ५॥
तच्छ्रुत्वा प्राह पितरं कल्किः परमहर्षितः ।
विनयावनतो भूत्वा धर्मकामार्थसिचये ॥ ६ ॥
राजसूयैर्वाजपेयरखमधर्महामखैः ।
नानायागः कर्मतन्वेरीज तुपति हरिम् ॥ ७॥
कपरामवशिष्ठाद्यासधौम्याकतवणः ।
अवस्थाममधुच्छन्दो मन्दपालमहाममः ॥८॥
गङ्गायमुनयोर्मध्ये सात्वावभृथमादरात् ।
दक्षिणाभिः समभ्यची ब्राह्मणान् वेदपारगान् ॥८॥
चव्य॑श्चोर्थव पेयेच पूगशष्कुलियावः ।
मधुमांसद्लफलैरन्येश्च विविधर्दिजान् ॥ १० ॥
भोजयामास विधिवत् सर्वकम्मसमृद्धिभिः ।
यत्र वह्निईतः पाके वरुणो जलदो मरुत् ॥ ११ ॥

अंशः। षोड़शोऽध्यायः।
परिवेष्टा विजान् कामैः सदवाद्यैरतोषयत् ।
वाद्यैर्नृत्यैश्च गीतैश्च पिटयनमहोत्सवैः ॥ १२ ॥
कल्किः कमलपत्राक्षः प्रहर्षः प्रददौ वसु ।
स्त्रीबालस्थविरादिभ्यः सर्वेभ्यश्च यथोचितम् ॥ १३ ॥
रम्भा तालधरानन्दी हुहुर्गायति नृत्यति ।
दत्वा दानानि पात्रेभ्यो ब्राह्मणेभ्यः स ईश्वरः ॥ १४ ॥
उवास तीरे गङ्गायाः पिलवाक्यानुमोदितः ।
सभायां विष्णुयशस: पूर्वराजकथा: प्रियाः ॥ १५ ॥
कथयन्तो हसतच हर्षयन्तो विजा बुधाः ।
तत्रागतस्तुम्बुरुणा नारदः सुरपूजितः ॥ १६ ॥
तं पूजयामास मुदा पिता सह यथाविधि ।
तो सम्पूज्य विष्णुयशाः प्रोवाच विनयान्वितः ।
नारदं वैष्णवं प्रीत्या वीणापाणिं महामुनिम् ॥ १७॥
विष्णुयशा उवाच ।
अहो ! भाग्यमहो ! भाग्यं मम जन्मशतार्जितम् ।
भवदिधानां पूर्णनां यन्मे मोक्षाय दर्शनम् ॥ १८ ॥
अद्याग्नयश्च सुहुतास्तृप्ताश्च पितरः परम् ।
देवाश्च परिसन्तुष्टास्तवावेक्षणपूजनात् ॥ १८ ॥
यत्पूजायां भवेत् पूज्यो विष्णुर्यन्ममदर्शनम् ।
पापसङ्घ स्पर्शनाञ्च किमहो ! साधुसङ्गमः ॥ २० ॥
साधूनां हृदयं धर्मो वाचो देवाः सनातना: ।
कम्मक्षयाणि कम्माणि यतः साधुहरिः स्वयम् ॥ २१ ॥
मन्ये न भौतिको देहो वैष्णवस्य जगत्रये ।
यथावतार कृष्णस्य सतो दुष्टविनिग्रहे ॥ २२ ॥

११४ करिकपुराणे [३ पृच्छामि त्वामतो ब्रह्मन् ! मायासंसारवारिधौ। नौकायां विष्णुभक्त्या च कर्णधारोऽसि पारवत् ॥ २३ केनाई यातनागारात् निर्वाणपदमुत्तमम् । लसामीह अगहन्धो ! कर्मणा शम्म तहद ॥ २४ ॥ नारद उवाच । अहो ! बलवती माया सर्वापर्य्यमयी शुभ पितरं मातरं विष्णु व मुञ्चति कर्हिचित् ॥ २५ ॥ पूर्णो नारायणी यस्य सुतः करिकर्जगत्पतिः । तं विहाय विष्णुयशा मत्तो मुक्तिमभीप्सति ॥ २६ ॥ विविथेत्यं ब्रह्मसुतः प्राह ब्रह्मयशःसुतम् । विविक्त विष्णुयशसं ब्रमसम्पदविवनम् ॥ २७॥ नारद उवाच । देहावसाने जीवं सा दृष्ट्वा देहावलम्बनम् मायाह कर्तुमिच्छन्तं यन्मे तत् शृणु मोक्षदम् ॥ २८ विध्याद्री रमणी भूत्वा मायोवाच यथेच्छया ॥ २८ ॥ मायोवाच । अहं माण मया त्यक्तः कथं जीवितुमिच्छसि जीव उवाच । नाहं जीवाम्यहं माये! कायेऽस्मिन् जीवनायं अहमित्यन्यथाबुद्धिविना देहं कथं भवेत् ॥ ३० ॥ मायोवाच । देहबन्ध यथा श्लेषात् तथा बुद्धिः कथं तव । मायाधीनां विना चेष्टां विशिष्टां ते कुतो वद ॥ ३१ जीव उवाच । मां विना प्राज्ञता माये! प्रकाशविषयस्मृहा मायोवाच । मायया जीवति नरयेष्टते हतचेतनः । निःसारः सारवद भाति मअभुक्ताकपित्यवत् ॥ ३३ ॥ जीव उवाच । मम संसर्गजाता त्वं नानानामखरूपिणी। मां विनिन्दसि किं मूढ़े ! खैरिणी स्वामिनं यथा ॥३६ ममाभावे तवाभाव: प्रोद्यत्सूर्ये तमो यथा।

३ अंशः।]
!
षोडशोऽध्यायः ।
मामावयं विभासि खं रवि नवधनो यथा ॥ ३५ ॥
लीलावीजकुशूलासि मम माये ! जगभये ।।
नाद्यन्ते मध्यतो भासि नानात्वादिन्द्रजालवत् । ३६ ॥
एवं निर्विषर्य नित्यं मनोव्यापारवर्जितम् ।
अभौतिकमजीवञ्च शरीरं वीक्ष्य सात्यजत् ॥ ३७॥
त्यता मां सा ददौ शापमिति लोके तवाप्रिय।।
न स्थितिर्भविता काष्ठकुचोपम ! कथञ्चन ॥३८॥
सा माया तव पुत्रस्य कल्केर्विश्वात्मनः प्रभोः ।
तां विज्ञाय यथाकामं चर गां हरिभावनः ॥ २८ ॥
निराशो निर्ममः शान्तः सर्वभोगेषु निष्पृहः ।
विष्णौ जगदिदं ज्ञात्वा विष्णुर्जगति वासवत् ।
आत्मनामानमावेश्य सर्वतो विरतो भव ॥ ४०॥
एवं तं विष्णुयशसमामन्बा च मुनीखरौ।
कल्कि प्रदक्षिणीकृत्य जग्मतुः कपिलाश्रमम् ॥ ४१ ॥
नारदेरितमाकय कल्कि सुतमनुत्तमम् ।
नारायणं जगनाथं वनं विष्णुयशा ययौ ॥ ४२ ॥
गत्वा वदरिकारण्य सपस्तवा सुदारुणम् ।
जीवं बहलि संयोज्य पूर्णस्तत्याज भौतिकम् ॥ ४३ ॥
मृतं स्वामिनमालिङ्गय सुमतिः स्नेहविक्लवा ।
विवेश दहनं साध्वी सुवेशैदिवि संस्तुता ॥ ४४ ॥
करिकः श्रुत्वा मुनिमुखात् पित्रोनिर्याणमीवरः ।
सवास्पनयनं सहात् तयोः समकरोत् क्रियाम् ॥ ४५ ॥
पनया रमया कल्किः शम्भले सुरवाञ्छिते ।
चकार राज्यं धम्मामा लोकवेदपुरस्कृतः ॥ ४६ ॥

२१६
करिखपुराणे.
[३ अंशः।
महेन्द्रशिखराद्रामस्तीर्थपर्यटनादृतः ।
प्रायात् कल्क दर्शनार्थ शम्भलं तीर्थतीर्थक्षत् ॥ ४७ ॥
तं दृष्ट्वा सहोत्थाय पाया रमया सह ।
करिकः प्रहर्षी विधिवत् पूजाञ्चके विधानवित् ॥ ४८ ॥
नानारसैर्गुणमयैर्भोजयित्वा विचित्रिते।
पर्यक्रेनर्धवस्त्राव्ये शाययित्वा मुदं ययौ ॥ ४८ ॥
तं भुक्तवन्तं विश्रान्त पादसंवाहनैर्नुभम् ।
सन्तोष्य विनयापनः कल्किर्मधुरमब्रवीत् ॥ ५० ॥
तव प्रसादात् सिद्ध मे गुरो ! त्रैवर्गिकञ्च यत् ।
शशिध्वजसुतायास्तु शृणु राम ! निवेदितम् ॥ ५१ ॥
इति पतिवचनं निशम्य रामा
निजहृदयेप्सितपुत्रलाममिष्टम् ।
ब्रतजपनियमैर्यमैश्च कैर्वा
मम भवतीह मुदाह जामदग्न्यम् ॥ ५२ ॥
इति श्रीकरिकपुराणेऽनुभागवते भविष्ये रतीयांशे विष्णुयशम
मोक्षो रामदर्शनं नाम षोडशोऽध्यायः ।
सप्तदशोऽध्यायः ।
सूत उवाच । जामदग्न्यः समाकय रमा तो पुवगहिनी
कल्करभिमतं बुड्डाकारयद्रुक्मिणीव्रतम् ॥ १ ॥
व्रतेन तेन च रमा पुत्राब्या सुभगा सती।
सर्वभोगन संयुता बभूव स्थिरयौवना ॥ २ ॥

अंशः।] सप्तदयोऽध्यायः। शौनक उवाच । विधानं ब्रूहि मे सूत ! व्रतस्साख च यत् फलम् । पुरा केन छतं धय रुक्मिणीव्रतमुत्तमम् ॥३ त उवाच । शृणु अधन् ! राजपुत्री शर्मिष्ठा वार्षपर्वती। प्रवगाध सरोनीर मोम हरमपश्यत ।। सा सखीभिः परिहता देवयाच्या च साता। शभुभीत्या समुत्थाय पर्यधुर्वसनं श्रुतम् ॥ ५ ॥ तत्र शुक्रवं कन्याया वसाव्यत्ययमात्मनः । संलय कुपिता प्राट वसन वन भिक्षुकि !॥६॥ इति दानवकन्या सा दासीभिः परिवारिता । तां तस्या वाससा बहा कूप दिया मता रहम् ॥ ७॥ तो मम्नां रदती कूप अवार्थी नहुषामजः । करे स्पृश्य समुत्य प्रात का? त्वं वरानने ! ॥८॥ सा रानापुत्री वसनं परिधाय किया भिया। शर्मिष्ठायाः छत सर्व प्राह राजानमीचती॥८॥ ययातिस्तदभिप्राय प्रात्वानुव्रज्य शोभनम् । आखास्य तां ययौ गई तस्याः परिणयातः ॥१०॥ सा मत्वा भवनं शक्र प्राह शर्मिष्ठया छतम् । तच्छुत्वा कुपितं विप्र वृषपर्वाह सान्वयन् ॥ ११ ॥ दण्ड्य मां दण्ड्य विभो ! कोपो यद्यस्ति ते मयि । शर्मिष्ठा वाप्यपछता कुरु यमनसेसितम् ॥ १२ ॥ राजानं प्रचत पादे पिता रुषाब्रवीत् । देवयानी वियं कन्या मम दासी भवविति ॥ १३ ॥ समानीय तदा राजा दास्ये मां विनियुज्य सः। .

[१ अंधः। ११८ करिखपुराणे ययौ निजग्राहं जानी देवं परमर्व सरन् ॥ १४ ॥ ततः शक्रखमानीय ययाति प्रतिलोमकम् । तस्मै ददौ तां विधिवत् देवयानौं तया सह ॥ १५॥ दत्त्वा प्राह नृपं विप्रोऽम्य नां राजसुतां यदि। शयने जयसे सद्यो जरा खामुपभोश्यति ॥ १६ ॥ शुक्रस्यैतद्वचः श्रुत्वा राजा तां वरवर्षिनीम् । अदृश्यां स्थापयामास देवयान्यनुगां भिया ॥ १७ ॥ सा शर्मिष्ठा राजपुत्री दुःखयोकभयाकुला । नित्यं दासीयताकीर्णा देवयानीन्तु सेवते ॥ १८॥ एकदा सा वनगता रुदती जावीतटे। विश्वामित्र मुनि सा तं ददृशे स्त्रीभिरावतम् ॥ १८ ॥ अतिनं पुण्यगन्धाभिः सुरूपाभिः सुवासितम् । कारयन्तं व्रतं माल्यधूपदीपोपहारकैः ॥ २० ॥ निर्मायाष्टदसं पण वेदिकायां सुचिड़ितम् । रम्भापोतचतुर्भिस्त चतुष्कोर्ष विराजितम् ॥ २१ ॥ वाससा निर्मितराहे स्वर्णपट्टविचित्रिते। निर्मितं श्रीवासुदेवं नानारतविघहितम् ॥ २२ ॥ पौरुषेण च सूक्लोन नानागन्धोदकः शुभैः पञ्चामृतः पञ्चगव्यैर्यथामहिजरितः ॥ २३ ॥ नापयित्वा भद्रपीठे कर्णिकायां प्रपूजयेत् । पञ्चभिर्दशभिर्वापि षोड़शरुपचारकैः ॥ २४ ॥ पाद्यमय॑श्रमहर शीतलं सुमनोहरम् । परमानन्दजनक रहाण परमेश्वर ! ॥२५॥ दूर्वाचन्दनगन्धाध्यमय युक्त प्रयत्नतः ।

११८ प्रशः।] सप्तदयोऽध्यायः। यहाण किाशीनाथ ! प्रसवस्य मम प्रभो ! ॥ २६ ॥ नानातीर्थोजवं वारि सुगन्धि सुमनोहरम् । यहाशचमनीयं त्वं श्रीनिवास ! त्रिया सह ॥ २० ॥ नानाकुसुमगन्धाज्य सूत्रप्रथितमुत्तमम् । वचःशोभाकर चार मात्यं मय सुरेखर ! ॥२८॥ वन्तुसन्तानसम्बानरचित बन्धन हरे!। यहाणावर राई निरावरण ! सप्रिय ! ॥ २८ ॥ यत्रसूतमिदं देव ! प्रजापतिविनिर्मितम् । यहार वासुदेव ! खं रुक्मिण्या रमया सह ॥ ३० ॥ नामारबसमायुक्त स्वर्णमुक्त्वाविघटितम् । प्रियया सह देवेश ! राहाणामरकं मम ॥ ३१ ॥ दधिक्षीरगुड़ाबादिपूपलड्डुकमण्डकान् । ग्रहास रुक्मिणीनाथ ! सनाथं कुरु मां प्रभो ! ॥३२॥ कर्पूरागुरुगन्धाव्य परमानन्ददायकम् । धूपं गृहाण वरद ! वैदा प्रियया सह ॥ ३३ ॥ भक्तानां गेहशताना संसारध्वान्तनाशनम् । दीपमासोकय विभो ! जगदालोकनादर ! ॥ ३४ ॥ श्यामसुन्दर ! पद्माक्ष ! पीताम्बर ! चतुर्भुज !। प्रपन्न पाहि देवेश ! रुक्मिस्था सहिताच्युत ! ॥ ३५ ॥ इति तास व्रतं दृष्ट्वा मुनिं नत्वा सुदुःखिता। शर्मिष्ठा मिष्टवचना कताकलिरुवाच ताः ॥ ३६ ॥ मष्ठोवाच । राजपुत्रीं दुर्भगां मां स्वामिना परिवर्जिताम्। नातुमईथ हे देव्यो ! व्रतनानेन कर्मणा । ३७ ॥ श्रुत्वा तु ता वचस्तस्याः कारण्याच कियत् कियत् ।

१२० कतिपुराणे [३ र पूजोपकरणं दत्त्वा कारयामासुरादरात् ॥ १८ ॥ व्रत अबा तु शर्मिष्ठा लवा खामिनमीवरम् । सूत्वा पुमान् ससन्तुष्टा समभूत् स्थिरयौवना ॥ २९ सीता चाशोकवनिकामथे सरमया सह । व्रतं छत्वा पति लेभे रामं राचसनाशनम् ॥ ४० ॥ बदवप्रसादेन छत्वेमं द्रौपदी व्रतम् । पतियुत्ता दुःखमुन्ना बभूव चिरयौवना ॥४१॥ तथा रमा सिते पक्षे वैशाखे हादशी दिने । आमदम्याद बत चक्रे पूर्ण वर्षचतुष्टयम् ॥ ४२ ॥ पसूर्व की बहा भोजयित्वा हिजा बहन् । भुला इविष्य वीरा मुबष्ट स्वामिना सह । ४३ ॥ बुभुजे पृथिवीं सर्वामपूर्वी खजनता । सा पुत्री सुषुवे साध्वी मधमालबलाहकी ॥४४॥ देवामामुपकारी यजदानतपोव्रतैः। महोत्साही महावीयौँ सुभगी कल्किसम्पती॥ ४५। व्रतवरमिति सत्वा सर्वसम्ममा भवति विदिततत्त्वा पूजिता पूर्णकामा । हरिचरणसरोजहदभन्यकताना व्रजति मतिमपूर्वी ब्रह्मविरमम्याम् ॥ ४६ ॥ इति श्रीकरिकपुराणेऽनुभामवते भविष्र्थ हतीयां रुकिाणीव्रतं नाम सप्तदशोऽध्यायः ।

अष्टादशोऽध्यायः । बूत उवाच । एतद् वः कथितं विप्रा ! व्रतं बैलोक्यविश्रुतम् । अतःपरं कल्किकृतं कम्म यत् गृणुत हिजा: ! ॥ १ ॥ शम्भले वसतस्तस्य सहस्रपरिवत्सराः । व्यतीता भाटपुत्ववज्ञातिसम्बन्धिभिः सह ॥ २ ॥ शम्भले शशी श्रेणी सभापणकचत्वरैः । पताकाध्वजचिनायैर्यथेन्द्रस्यामरावती ॥ ३ ॥ यनाष्टषष्टितीर्थानां सम्भवः शम्भलेऽभवत् । मृत्योर्मोक्षः क्षितौ कल्करकल्कस्य पदाथयात् ॥ ४ ॥ वनोपवनसन्ताननानाकुसुमसङ्ग लैः । शोभितं शम्भलं ग्रामं मन्ये मोक्षप्रदं भुवि ॥ ५ ॥ तत्र करिकः पुरस्त्रीणां नयनानन्दवईनः । पद्मया रमया कामं रराम जगतीपतिः ॥ ६ ॥ सुराधिपप्रदत्तेन कामगेन रथेन वै नदीपर्वतकुलेषु दीपेषु परया मुदा ॥ ७ ॥ रममाणो विशन् पद्मारमाद्याभीरमापतिः । दिवानिशं न बुवुध स्त्रैणश्च कामलम्पटः ॥ ८ ॥ पद्मामुखामोदसरोजसीधुवासोपभोगी सुविलासवासः । प्रभूतनीलेन्द्रमणिप्रकाशे गुहाविशेष प्रविवेश कस्किः ॥८॥ पद्मा तु पद्माशतरूपरूपा रमा च पीयूषकलाविलासा । पतिं प्रविष्ट गिरिंगही ते नारीसहस्राकुलिते त्वगाताम् ॥१०॥ पद्मा पतिं प्रेक्ष्य गुहानिविष्ट रन्तु मनोज्ञा प्रविवेश पश्चात् । रमाबलायूथसमन्विता तत्पश्चाहता कल्किमहोग्रकामा ॥११॥ ११ १२२ कल्किपुराणे [३था। तवेन्द्रनीलोत्पलगहरान्ते कान्ताभिरामप्रतिमाभिरीशम् । कल्किञ्च दृष्ट्वा नवनीरदाभं ततः स्थितं प्रस्तरवमुमोह ॥१२॥ रमा सखीभिः प्रमदाभिरार्ता विलोकयन्ती दिशमाकुलाक्षी। पदापि पद्माशतशोभमाना विषसचित्तान बभौम चार्ता ॥१३॥ भूमौ लिखन्ती निजकज्जलेन करिक शकं तं कुचकुछ मेन। कस्तूरिकाभिस्तु तदग्रमग्रे निर्माय चालिङ्गय ननाम भावात् १४ रमा कलालापपरा स्तुवन्ती कामादिता तं हृदये निधाय। ध्यात्वा निजालङ्करणः प्रपूज्य तस्थौ विषमा करुणावसबा१५ क्षणात् समुत्थाय रुरोद रामा कलापिन: कण्ठनिभं खनाथम्। दोपगूढं न पुनः प्रलभ्य कामादित्याह हरे प्रसीद ॥१६॥ पद्मापि निर्मुच्य निजाङ्गभूषाकार धूलिपटले विलासम् । कण्ठञ्च कस्तूरिकयापि नीलं कामं निहन्तुं शिवतामुपेत्य ॥१० कलावतीनां कलयाकलय्य क्षीणेक्षणानां हरिरातबन्धुः । कामप्रपूराय ससार मध्ये कल्कि: प्रियाणां सुरतोत्सवाय ॥१८॥ ताः सादरेणात्मपतिं मनोज्ञाः करेणवो यूथपतिं यथेयुः । सानन्दभावा विषदानुत्ता वनेषु रामाः परिपूर्णकामाः ॥१८ वैचाजके चैत्ररथे सुपुष्ये सुनन्दने मन्दरकन्दरान्ते । रेमे स रामाभिरुदारतेजा रथेन भावत्खगमेन कल्किः ॥२०॥ पद्मामुखामामृतपानमत्तो रमासमालिङ्गनवासरङ्गी। वराङ्गनानां कुचकुञ्जमातो रतिप्रसङ्गे विपरीतयुक्तः । मुखे विदष्टो रसनावशिष्टामोदः स करिकन हि वेद देहम् २१ रमा: समाना: पुरुषोत्तमं तं वक्षोजमध्ये विनिधाय धीराः । परस्परम्नेषणजातहासा रमुर्मुकुन्द विलसत् शरीराः ॥ २२ ॥ तत: सरोवरं त्वरा स्त्रियो ययुः कमज्वराः

शः।]
जनविंशोऽध्यायः।
१२३
प्रियेण तेन कस्किना वनान्तर विहारिणा ।
सरः प्रविश्य पनया विमोचरूपया तया
जलं ददुर्वराङ्गना: करणयो यथा गजम् ॥ २३ ॥
इति ह युवतिलीला लोकनाथः स कल्किः
प्रिययुवतिपरीतः पद्मया रामयाद्यः ॥
निजरमणविनोदैः शिक्षयन् लोकवर्गान्
जयति विबुधभर्ता शम्भले वासुदेवः ॥ २४ ॥
ये शृण्वन्ति वदन्ति भावचतुरा ध्यायन्ति सन्त: सदा
करके श्रीपुरुषोत्तमस्य चरितं कर्णामृतं सादराः ।
तेषां नो सुखयत्ययं मुररिपोर्दास्याभिलाषं विना
संसारः परिमोचनच परमानन्दामृताम्भोनिधेः ॥ २५ ॥
इति श्रीकरिकपुराणेऽनुभागवते भविथे हतीयांश
कल्किवर्णनं नाम अष्टादशोऽध्यायः ।
जनविंशोऽध्यायः!
त उवाच । ततो देवगणाः सर्वे ब्रह्मणा सहिता रथः
खैः स्वर्गणैः परिवृता: कल्कि द्रष्टुमुपाययुः ॥ १ ॥
महर्षयः सगन्धर्वाः किबराबासरोगणाः ।
समाजग्मुः प्रमुदिताः शम्भलं सुरपूजितम् ॥ २ ॥
तत्र गत्वा सभामध्ये कल्कि कमललोचनम् ।
तेजोनिधिं प्रपनानां जनानामभयप्रदम् ॥ ३ ॥
नीलजीमूतसङ्काशं दीर्घपीवरबाहुकम् ।
किरीटेनार्कवणेन स्थिरविद्युनिभेन तम् ॥ ४ ॥

१२४
कल्किपुराणे
[३ अशा
शोभमानं द्युमणिना कुण्डलेनाभिशोभिना ।
सहर्षालापविकसहदन स्मितशोभिनम् ॥ ५ ॥
कृपाकटाक्षविक्षेपपरिक्षिप्तविपक्षकम् ।
तारहारोलसहक्षचन्द्रकान्तमणिश्रिया ॥ ६ ॥
कुमुद्दतीमोदवहं स्फुरत्शक्रायुधाम्बरम् ।
सर्वदानन्दसन्दोहरसोल्लसितविग्रहम् ॥ ७ ॥
नानामणिगणोद्योतदीपितं रूपमद्भुतम् ।
ददृशुर्देवगन्धर्वा ये चान्ये समुपागता: ॥८॥
भन्या परमया युक्ताः परमानन्दविग्रहम् ।
कल्कि कमलपना तुष्टुवुः परमादरात् ॥८॥
देवा अचुः । जयाशेषसंक्लेशकक्षप्रकीर्णानलोहामसङ्कीर्ण होश
देवेश ! विषेश ! भूतेश ! भावः ।
तवानन्त चान्त:स्थितोऽप्तरत्न-
प्रभाभातपदाजितानन्तशतो ! ॥ १०॥
प्रकाशीलताशेषलोकत्रयात्र
वक्षःस्थले भावत्कौस्तुभश्याम !।
मेघौघराजत्शरीरदिजाधीशपुनानन !
त्राहि विष्णो ! सदाराः वयं त्वां प्रपन्ना सशेषाः ॥११॥
यद्यस्त्यनुग्रहोऽस्माकं ब्रज वैकुण्ठमीवर ! ।
त्यका शासितभूतखण्डं सत्यधर्माविरोधतः ॥ १२ ॥
कल्किस्तेषामिति वचः श्रुत्वा परमहर्षितः ।
पात्रमित्रः परिवृतश्चकार गमने मतिम् ॥ १३ ॥
पुत्रानाहूय चतुरो महाबलपराक्रमान् ।
राज्ये निक्षिप्य सहसा धर्मिष्ठान् प्रततिनियान् ॥ १४ ॥

३ अंशः।]
जनविंशोऽध्यायः ।
१२५
ततः प्रजाः समाइय कथयित्वा निजाः कथाः ।
प्राह तान् निजनिर्याणं देवानासुपरोधतः ॥ १५ ॥
तच्छ्रुत्वा ताः प्रजाः सर्वा रुरुर्विस्मयान्विताः ।
तं प्राहुः प्रणताः पुत्रा तथा पितरमीश्वरम् ॥ १६ ॥
प्रजा ऊचुः। भो नाथ ! सर्वधम्मन ! नास्मान् त्यक्तुमिहार्हसि।
यत्र त्वं तब तु वयं यामः प्रणतवत्सल ! ॥ १७ ॥
प्रिया रहा धनान्यत्र पुत्राः प्राणास्तवानुगाः ।
परनेह विशोकाय जावा त्वां यज्ञपूरुषम् ॥ १८ ॥
इति तहचनं श्रुत्वा सान्वयित्वा सदुक्तिभिः ।
प्रययौ निबहदयः पत्नीभ्यां सहितो वनम् ॥ १८ ॥
हिमालयं मुनिगणैराकीर्ण जाह्नवीजलैः ।
परिपूर्ण देवगणैः सेवितं मनसः प्रियम् ॥ २० ॥
गत्वा विणुः सुरगणेतश्चारुचतुर्भुजः ।
उषित्वा जाहवीतीरे सस्मारामानमात्मना ॥ २१ ॥
पूर्णज्योतिर्मयः साक्षी परमात्मा पुरातनः ।
बभौ सूर्यसहस्राणां तेजोराशिसमद्युतिः ॥ २२ ॥
शङ्खचक्रगदापद्मशााद्यैः समभिष्टुतः ।
नानालङ्करणानाञ्च समलङ्करणाकतिः ॥ २३ ॥
ववषुस्त' सुराः पुष्पैः कौस्तुभामुक्तकन्धरम् ।
सुगन्धिकुसुमासारैर्देवदुन्दुभिनिस्वनैः ॥ २४ ॥
तुष्टुवुर्मुमुहुः सर्वे लोकाः सस्थाणजङ्गमाः ।
दृष्ट्वा रूपमरूपस्य निर्याण वैष्णवं पदम् ॥ २५ ॥
तद् दृष्ट्वा महदाभयं पत्युः क रकमहात्मनः ।
रमा पद्मा च दहनं प्रविश्य तमवापतुः ॥ २६ ॥

करिकपुराण [३अंधः। धम्मः कृतयुगं कस्केराजया पृथिवीतले । निःसपत्नी सुसुखिनो भूलोकं चरतश्विरम् ॥ २७ ॥ देवापिश्च मरुः कामं कल्करादेशकारिणी । प्रजाः सम्पालयन्ती तु भुवं जुगुपतुः प्रभू ॥ २८ ॥ विशाखयूपभूपालः कल्केर्निर्याणमीदृशम् । श्रुत्वा स्वपुत्र विषये नृपं कृत्वा गतो वनम् ॥ २८ ॥ अन्ये नृपतयो ये च कल्केविरहकर्षिताः । तं ध्यायन्तो जपन्तश्च विरताः स्युपासने ॥ ३० ॥ इति कल्केरनन्तस्य कथां भुवनपावनीम् । कथयित्वा शुकः प्रायात् नरनारायणाथमम् ॥ ३१ ॥ मार्कण्डेयादयो ये च मुनयः प्रशमायनाः । श्रुत्वानुभावं कलकैस्ते तं ध्यायन्तो जगुर्यशः ॥ ३२ ॥ यस्थानुशासनात् भूमौ नाधर्मिष्ठाः प्रजा जनाः । नाल्पायुषो दरिद्राश्च न पाषण्डा न हैतुकाः ॥ ३३ ॥ नाधयो व्याधयः लेशा देवभूतात्मसम्भवाः । निमत्सरा: सदानन्दा बभूवुर्जीवजातयः ॥ ३४ ॥ इत्येतत् कथितं कल्केरवतार महोदयम् । धन्यं यशस्यमायुष्यं स्वयं स्वस्त्ययनं परम् ॥ ३५ ॥ शोकसन्तापपापघ्नं कलिव्याकुलनाशनम् । सुखदं मोक्षदं लोके वाञ्छितार्थफलप्रदम् ॥ ३६ ॥ तावत् शास्त्रप्रदीपानां प्रकाशो भुवि रोचते । भक्तिभानुपुराणाख्या यावत् लोकेऽतिकामधुक् ॥ ३७ । श्रुत्वैतत् भृगुवंशजो मुनिगणैः साकं सहर्षो वशी ज्ञात्वा सूतममेयबोधविदितं श्रीलोमहर्षात्मजम् ।

।
अंशः।]
विंशोऽध्यायः।
थीकल्केरवतारवाक्यममलं भक्तिप्रदं श्रीहरे:
सुश्रूषः पुनराह साधुवचसा गङ्गास्तवं सत्कृतः ॥३८॥
इति श्रीकल्किपुराणेऽनुभागवते भविथे रतीयांशे
कल्किनिर्याणं नाम ऊनविंशोऽध्यायः ।
विंशोऽध्यायः।
नक उवाच । हे सूत ! सर्वधर्मज्ञ ! यत्वया कथितं पुरा।
गङ्गा स्तुत्वा समायाता मुनयः कल्किसबिधिम् ॥ १ ॥
स्तवं तं वद. गङ्गायाः सर्वपापप्रणाशनम् ।
मोक्षदं शुभदं भक्त्या शृण्वतां पठतामिह ॥ २ ॥
त उवाच । शृणुध्वमृषयः !
सर्वे ! गङ्गास्तवधनुत्तमम्।
शोकमोहहरं पुंसां ऋषिभिः परिकीर्तितम् ॥ ३ ॥
एषय ऊचुः । इयं सुरतरङ्गिणी भुवनवारिधेस्तारिणी
स्तुता हरिपदाम्बुजादुपगता जगत्संसदः ।
सुमेरुशिखरामरप्रियजला मलक्षालनी
प्रसन्नवदना शुभा भवभयस्य विद्रावणी ॥ ४ ॥
भगीरथमथानुगा सुरकरीन्द्रदर्यापहा
महेशमुकुटप्रभा गिरिशिरःपताका सिता।
सुरासुरनरोरगरजभवाथुतैः संस्तुता
विमुक्तिफलशालिनी कलुषनाशिनी राजते ॥ ५ ॥
पितामहकमण्डलुप्रभवमुक्तिवीजा लता
श्रुतिस्मृतिगणस्तुतहिजकुलालबालाहता।
सुमेरुशिखराभिदा निपतिता त्रिलोकाहता
सुधम्मफलशालिनी सुखपलासिनी राजते ॥ ६ ॥

१२८ कल्किपुराणे [३ अंशः। चरविहगमालिनी सगरवंशमुक्तिप्रदा मुनीन्द्रवरनन्दिनी दिवि मता च मन्दाकिनी। सदा दुरितनाशिनी विमलवारिसन्दर्शन- प्रणामगुणकीर्तनादिषु जगत्सु संराजते ॥ ७ ॥ महाभिधसुताङ्गना हिमगिरीशकूटस्तना सफेनजलहासिनी सितमरालसञ्चारिणी। चललहरसलरा वरसरोजमालाधरा रसोलसितगामिनी जलधिकामिनी राजते ॥ ८ ॥ क्वचिन्मुनिगणैः स्तुता क्वचिदनन्तसम्पूजिता कचित् कलकलखना क्वचिदधीरयादोगणा । क्वचिद्रविकरोज्ज्वला क्वचिदुदापाताकुला कचिज्जनविगाहिता जयति भीममाता सती ॥ ८ ॥ स एव कुशली जनः प्रणमतीह भागीरथों स एव तपसां निधिजपति जाह्नवीमादरात् । स एव पुरुषोत्तमः स्मरति साधु मन्दाकिनी स एव विजयी प्रभुः सुरतरङ्गिणी सेवते ॥ १० ॥ तवामलजलार्चितं खगशृगालमीनक्षतं चलल्लहरिलोलितं रुचिरतीरजम्बालितम् । कदा निजवपुर्मुदा सुरनरोरगैः संस्तुतो- ऽप्यहं त्रिपथगामिनी प्रियमतीव पश्याम्यहो! ॥ ११ ॥ त्वत्तीरे वसतिं तवामलजलस्रानं तव प्रेक्षणं त्वबामस्मरणं तवोदयकथासंलापनं पावनम् । गङ्गे ! मे तव सेवनकनिपुणोऽप्यानन्दितचाहतः स्तुत्वा वोहतपातको भुवि कदा शान्तश्चरिष्याम्यहम् ॥१५

१ अंशः ।]
एकविंशोऽध्यायः ।
१२८
इत्येतदृषिभिः प्रोतां गङ्गास्तवमनुत्तमम् ।
स्वयं यशस्यमायुष्य पठनात् श्रवणादपि ॥ १३ ॥
सर्वपापहर पुंसां बलमायुर्विवईनम् ।
प्रातमध्याह्नसायाहे गङ्गासाविध्यता भवेत् ॥ १४ ॥
इत्येतत् भार्गवाख्यानं शुकदेवात् मया श्रुतम् ।
पठितं श्रावितं चात्र पुण्य धन्य यशस्करम् ॥ १५ ॥
अवतारं महाविष्णोः कल्कः परममद्भुतम् ।
पठतां शृण्वतां भक्त्या सर्वाशभविनाशनम् ॥ १६ ॥
इति श्रीकरिखपुराणेऽनुभागवते भविष्य तृतीयांश
मङ्गास्तवो नाम विशोऽध्यायः ।
एकविंशोऽध्यायः।
चूत उवाच । प्रत्रापि शुकसंवादो मार्कण्डेयेन धीमता।
अधर्मवंशकथनं कलेविवरणं ततः ॥ १॥
देवानां ब्रह्मसदनप्रयाणं गोभुवा सह ।
ब्रह्मणो वचनाविष्णोजब विष्णुयशोराहे ॥२॥
सुमत्यां स्वांशकै चतुर्भिः शम्भले पुरे ।
पितुः पुत्रेण संवादस्तथोपनयनं हरः ॥ ३ ॥
पुत्रेण सह संवासो वेदाध्ययनमुत्तमम् ।
शस्त्रास्त्राणां परिज्ञानं शिवसन्दर्शनं ततः ॥ ४ ॥
कल्केस्तवं शिवपुरो वरलाभ: शकापनम् ।
शम्भलागमनं चक्रे प्रातिभ्यो वरकीर्तनम् ॥ ५ ॥
विशाखयूपभूपेन निजसर्वात्मवर्णनम्।
महाभागात् ब्राणानां प्रकस्यागमनं सतः ॥ ६ ॥

१३०
करिकापुराण
[३ अंशः।
कल्किना शकसंवादः सिंहलाख्यानमुत्तमम् ।
शिवदत्तवरा पड़ा तस्या भूपखयंवरे ॥ ७ ॥
दर्शनात् भूपसङ्घानां स्त्रीभावपरिकीर्तनम् ।
तस्या विषादः करकस्तु विवाहार्थं समुद्यमः ॥८॥
शुकप्रस्थापनं दौत्ये तया तस्यापि दर्शनम् ।
शुकपमापरिचयः श्रीविष्णोः पूजनादिकम् ॥८॥
पादादिदेहध्यानञ्च केशान्तपरिवर्णितम् ।
शुकभूषणदानञ्च पुनः शकसमागमः ॥ १० ॥
कल्क: पनाविवाहार्थं गमनं दर्थनं तयोः ।
जलक्रीड़ाप्रसङ्गेन विवाहस्तदनन्तरम् ॥ ११ ॥
पुस्त्वप्राप्तिश्च भूपानां कस्कदर्शनमात्रतः ।
अनन्तागमनं राज्ञां संवादस्तेन संसदि ॥ १२ ॥
षण्डत्वादात्मनो जम्म कम्म चात्र शिवस्तवः ।
मृते पितरि तविष्णोः क्षेत्रे मायाप्रदर्शनम् ॥ १३ ॥
अत्राख्यानमनन्तस्य ज्ञानवैराग्यवैभवम् ।
राज्ञां प्रयाणं कल्क व पनया सह शम्भले ॥ १४ ॥
विखकम्मविधानञ्च वसति: पमया सह ।
जातिभ्राटसुहृत्पुत्रैः सेनाभिर्बुधनिग्रहः ॥ १५ ॥
कथितवान तेषाञ्च स्त्रीणां संयोधनाश्रयः ।
ततोऽत्र बालखिल्यानां मुनीनां खनिवेदनम् ॥ १६ ॥
सपुत्रायाः कुथोदा बधश्चात्र प्रकीर्तितः ।
हरिद्वारगतस्यापि करके मुंनिसमागमः ॥ १७ ॥
सूर्यवंशस्य कथनं सोमस्य च विधानतः ।
श्रीरामचरितं चार सूर्यवंशानुवर्णने ॥ १८ ॥

शः।] वयोदशोऽध्यायः। १३१ देवापेच ! मरोः ! सनो युद्धायात्र प्रकीर्तितः। महाघोरवने कोक-विकोकविनिपातनम् ॥ १८ ॥ भट्टालगमन तत्र शय्याकर्णादिभिः सह । युद्ध शशिध्वजनात्र सुशान्ताभक्तिकीर्तनम् ॥ २० ॥ युद्धे कल्क रानयन धर्मस्य च तस्य च । सुशान्तायाः स्तवस्तत्र रमोदाहस्तु करिकमा । २१ ॥ सभायां पूर्वकथनं निजग्रभ्रत्वकारणम् । मोक्षः शशिध्वजस्थात्र भक्तिप्रार्थयितुर्विभोः ॥ २२ ॥ विषकन्यामोचनञ्च नृपाणामभिषेचनम् । मायास्तवः शम्भलेषु नानायज्ञादिसाधनम् ॥ २३ ॥ नारदात् विष्णुयशसो मोषचात प्रकीर्तितः । कतधम्मप्रवत्तिश्च रुक्मिणीव्रतकीर्तनम् ॥ २४ ॥ ततो विहारः कल्क च पुत्रपौत्रादिसम्भवः । कथितो देवगन्धर्वगणागमनमत्र हि ॥ २५ ॥ ततो वैकुण्ठगमनं विणोः कल्केरिहोदितम् । शुकप्रस्थाममुचितं कथयित्वा कथाः शुभाः ॥ २६ ॥ गङ्गास्तोत्रमिह प्रोक्तं पुराणे मुनिसन्मतम् । जगतामानन्दकर पुराणं पञ्चलक्षणम् ॥ २७ ॥ सकल्कसिहिदं श्लोकः षट्सहस्रं शताधिकम् । सर्वशास्त्रार्थतत्वानां सार श्रुतिमनोहरम् ॥ २८ ॥ वतुर्वर्गप्रदं कल्किपुराणं परिकीर्तितम् । लियान्ते हरिमुखात् निःसृतं लोकविस्तृतम् ॥ २८ ॥ प्रहो ! व्यासेनाकथितं हिजरूपेण भूतले । वेष्णोः करके गवतः प्रभावं परमातम् ॥ ३० ॥ ॥

१३२ कल्किपुराणे [३ ये भक्त्यात्र पुराणमारममलं श्रीविष्णुभावाप्न तं गृगवन्तीह वदन्ति साधुसदमि क्षेत्रे सुतीर्थाश्रमे । दवा गां तुरगं गजं गजवरं वणं द्विजायादरात् वस्त्रालङ्करण: प्रपूज्य विधिवत् मुक्तास्त एवोत्तमाः ॥३१॥ श्रुत्वा विधानं विधिवत् ब्राह्मणो वेदपारगः । क्षत्रियो भूपतिर्वभ्यो धनी शूद्रो महान् भवेत् ॥ ३२ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां पठनात् थवणादपि ॥ ३३ ॥ इत्येतत् पुण्यमाख्यानं लोमहर्षणजो मुनिः । श्रावयित्वा मुनीन् भक्त्या ययौ तीर्थाटनादृतः ॥ ३४ शौनको मुनिभिः माई मूतमामन्त्रा धम्मवित् । पुण्यारण्ये हरिं ध्यात्वा ब्रह्म प्राप स योगवित् ॥ ३५ लोमहर्षणजं सर्व-पुगणतं यतवतम् । व्यासशिष्यं मुनितरं तं भूतं प्रणमाम्यहम् ॥ ३६ ॥ आलोक्य मवशाम्बाणि विचार्य च पुनः पुनः । इदमव सुनिष्यमा ध्येयो नारायणः मदा ॥ ३० ॥ वेदे गमायण चैव पुराण भारत तथा । आदावन्तं च मध्ये च हरिः मर्वत्र गीयते ॥ ३८ ॥ सजलजलददेहो वातवेगकवाह: करतकरबानः सर्वलोकैकपालः । कलिकुलबलहन्ता सत्यधम्मप्रणता कलयतु कुशलं वः कल्किरुपः म भूपः । ४८ ॥ इति श्रीकरिफपुराणेऽनुभागवते भविष्य तृतीयांश एकविंशोऽध्यायः। समाप्तम् । TA

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Kalki Puranam

Author
Bedabyas
Title
Kalki Puranam
File name
Kalki Puranam
Text
OCR done
Citation
1890
Published
2006/05/23
Publisher
Jibananda Bidyasagar, Kolkata
Language
Sanskrit
Pages
149
Library
Rmic,golpark
Classification
Other Hindu sects
Keywords
Hindu Puran
DLI number
345025
Barcode
4990010218329.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
Gxs9yWYEPJu
Download PDF

Kalki Puranam