Svclrc
Prapanna Parijatam Of Sri Vatsya Varadacharya
Front matter
ORIENTAL SRI VAISHNAVA SAMPRADAYA GRANTHAMALA- Editor - Prof. P. V. RAMANUJASWAMI, M.AZ 0-3 PRAPANNAPARIJATAM SRI VATSYA VARADACHARYA ALIAS NADADUR AMMAL EDITED WITH INTRODUCTION, NOTES, ETO BY: SABITVA NY VEDANTA SIROMANI VIDVAN. T. K. V N SUDA RSANACHARYA Assistant Editor Sri Vaishnava Sampradaya Granthamala Sri Venkatesvars Oriental Institute PUBLISHED UNDER THE AUTHORITY OF SRI O. ANNA RAO, B,A, EXECUTIVE OFFICER all of the Board of Trustees T. T Devasthanams, Ti 17 80 FENIKATESVARA PERKA SA! NSTITUTE 43 SRI TIRUPATI ਖੇ ੧੪ 1954 PRINTED. AT TIRUMALA-TIRUPATI DEVASTHANAMS PRESS TIRUPATI
श्रीवैष्णवसम्प्रदायमन्थमाला सं. ४.
utninmaya
nanatant
Dura
संपादकः - श्रीपरवस्तु वेङ्कटरामानुजस्वामी, एम्. ए.
श्रीवेङ्कटेश्वरप्राच्य परिशोधनालयाध्यक्षः
श्रीमद्वरदाचार्यमहागुरुभिरनुगृहीतः
प्रपन्नपारिजातः
उपोद्घात - टुप्टीकादिभिरसहितः
:
--
श्रीवैष्णवसम्प्रदायग्रन्थमालासहायसम्पादकेन
साहित्य-न्याय-वेदान्तशिरोमणिना
उभयवेदान्त विदुषा
ति. कु. वें. न. सुदर्शनाचार्येण
संपादितः
श्री तिरूमल - तिरुपति देवस्थानमुद्रणालये
मुद्रितः
म
१९५४
All Rights Reserved
by
Tirumala Tirupati Devasthanans
Tirupati
པ བས་བདའ བ
de 4,780.
Die 7-10-67....
FIRST EDITION
PRINTED AT
TIRUMALAI-TIRUPATI DEVASTHANAMS PRESS
TIRUPATI
श्रीरस्तु श्री श्रीनिवासपरब्रह्मणे नमः श्रीमते रामानुजाय नमः श्रीमते वरदार्यमहागुरवे नमः ॥ प्रस्तावनी॥ ॐ नमो वेङ्कटेशाय जगन्मङ्गलभूमये । कृपया दिशते स्वामी प्रपत्तव्यों स्वपाणिना ।। नमः श्रीभाष्यकाराय प्रपत्त्यमृतवर्षिणे । कृपाप्रसन्नगुरवे वेदान्ताम्बुधिसेतवे ॥ नमोऽस्तु वरदाय प्रपन्नाब्जविवस्वते । वरदाय पयोदाय श्रीभाष्यामृतवर्षिणे ।। अखिलप्रपन्नजनविमलमङ्गलमनोरथपरिपूरणपारिजातोऽसौ प्रपन्नपारिजातः, प्रपन्नपारिजातस्य परमकारुणिकस्य भगवतः श्रीनिकेतनस्य अमलमङ्गलकरुणाकटाक्ष- वीक्षणप्रसरणमहिम्ना संगुम्भितायामस्यां अस्मदीयश्रीवैष्णवसम्प्रदायग्रन्थमालायां, बरीवर्ति सर्वाङ्गीणरमणीयं परमवरणीयं गुणपञ्चकपरिमिलितं प्रसन्नमधुरपरिमल- परिमेदुरं पञ्चमं प्रसूनम् । ग्रन्थप्रशस्तिः जयति सर्वस्वमिवेदं श्रीमत, श्रीभगवद्रामानुजमुनिपुङ्गवसंप्रतिष्ठापितस्य सकलपाणिहितङ्करस्य नित्यनिरवद्यनिगमनिगमान्तादिप्रमाणप्रदीपसमुल्लासितस्य श्री- मतोऽस्य सर्वदर्शनशिरोमणिभूतस्य औपनिषदशुद्धान्तसिद्धान्तस्य श्रीमद्विशिष्टाद्वैत- दर्शनकल्पमहीरुहस्य । परमविलक्षणस्य उपादेयतमस्य अस्य प्रबन्धरत्नस्य सम्पादनेन कृतार्थम्मन्या वयं मोमुद्यामहे । विलक्षणदेशविशिष्टविशिष्टब्रह्मानन्दानुभवरूपस्य मोक्षसाम्राज्यस्य 4 संप्राप्तौ परमोपायभूतस्य परमपुरुषप्रसादस्य प्रसाधने अत्यन्तं अन्तरङ्गभूतस्य प्रपत्त्यु- पायस्य प्रमाणलक्षणस्वरूपफलविशेषादिकं निखिलनिगमनिगमान्तरहस्यं सर्वमपि विषयजातं ललितोचितसन्निवेशरम्येण मृदुमधुरसंस्कृतमयपदबन्धसन्दर्भण सर्वेषामपि करतलामलकयतः प्रबन्धतल्लजस्यास्य प्रकाशनं, मन्यामहे, सर्वेषामपि सहृदयमहो- दयानां महते प्रमोदाय प्रभवतीति । . : ग्रन्थकारप्रशस्तिः प्रबन्धतल्लजस्यास्य प्रणेतारः – परमविलक्षणप्रतिभाप्रभावसमुदश्चितसर्वतन्त्र- स्वातन्त्र्याः, नित्यानवद्यहृद्यदिव्यकल्याणगुणगणचारित्रादिविभूषिताः, विशिष्टा- नुष्ठाननिष्ठागरिष्ठाः, श्रीमद्विशिष्टाद्वैतसिद्धान्तविजयध्वजायमाना, श्रीवत्सवंशकल- शोदधिपूर्णचन्द्राः, 'नडादर् अम्माळ् ' इति द्राविडभाषायां प्रसिद्धतमपवित्रदिव्य- नामधेयाः श्रीमद्वरदाचार्यमहागुरवः । एते च आचार्यवर्याः, श्रुत्यन्तद्वयपीठदेशिकमणीनां श्रीदेवराजभगवदत्यन्न- प्रियतमे 'नल्लान् । इति द्राविडभाषायां प्रसिद्धतमे श्रीमति श्रीवत्समहर्षिदिव्यवंशे कृतावतरणानां सन्ततसन्तन्यमानश्रीमद्देवराजभगवदिव्यकैङ्कर्यधुरंधराणां श्रीमद्यति- वृन्दारकसार्वभौमप्रियभागिनेयानां श्रीमच्छीभाष्यसिंहासनमधितस्थुषां " नडादूर आल्वान् ” इति द्राविडभाषायां सुप्रसिद्धानां अभ्यर्हिततमानां 'कुलपति । बिरुद- भाजां श्रीमद्वरदविष्ण्वाचार्यवर्याणां पौत्राः, मत्तप्रतिवादिवारणप्रकटारोपविमर्दनक्षमाणां वादाहवविजितप्रत्यर्थिदार्शनिकसंघप्रदत्तनैकविधबिरुदावलीविराजमानानां श्रीमदुभय- वेदान्तकुलान्वयरत्नदीपानां श्रीमदेवराजगुरुचरणानां पुत्राश्च । यथाहुरभियुक्ताः-- श्रुत्यन्तद्वयपीठदेशिकमणिः श्रीवत्सवंशाग्रणीः श्रीरामानुजभागिनेय इति यः ख्यातः क्षमामण्डले । स श्रीहस्तिगिरीशसेवनपरः प्रत्यस्तबाह्यागमो माहाकारुणिकिर्गुणैर्वरदविष्ण्वाख्योचितरेधते ॥
तस्यासीत्तनयस्त्रिविष्टपतटिन्युद्दामदोराहवैः वादैर्भग्नमतान्तरक्षितिरुहैस्संदर्शनं दर्शयन् । उद्वृत्तप्रतिवादिदत्तविरुदस्तोमस्समानाधिक- त्यक्तग्रन्थसहस्रकृत् गुणनिधिः श्रीदेवराजो गुरुः ।। पुत्रस्तस्य करीन्द्रदिव्यकरुणापात्रस्य विद्वन्मणे: योगीन्द्रप्रियभागिनेयसुधियः पौत्रः पवित्रात्मनः । श्रीभाष्यप्रमुखप्रदीपसततारोपैरपास्य स्तमः सामस्त्यां वरदाह्वयो विजयते वत्सान्बयो देशिकः ॥ इति । .. ग्रन्थकर्तृणां अभिजनविद्यासम्पत्तिः श्रियः पत्युरत्यन्तप्रियतमे मुक्तिफलदे श्रीमति सत्यव्रतक्षेत्रे श्रीमद्देवाधिनाथ- गवन्नित्यकैकर्यनिर्वङ्गकतानसकलविधकरणप्रवृत्तयः, परमात्मनि रक्ताः, अन्यत्रात्यन्त बेरक्ताः, भगवदत्यन्तप्रीतिपात्रभूताः " नल्लान् ” (साधुः) इति भगवदनुगृहीत- भनितरसाधारणबिरुदभूषणाः श्रीवत्सकुलतिलकायमानाः । महाकारुणिकः” इति थिता आचार्याः प्रशस्तां परमपावनां काञ्चीपुरीमध्यवात्सुः । ते च तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणां मनोहरां महितमङ्गलगुणालयां श्रीमद्रामानुजार्यप्रियभगिनी कमलानाम्नी कन्यकामुपयेमिरे । सहधर्मचारिण्या तया सह गार्हस्थ्यमादर्शभूतमनुभवत्सु तेष्वाचार्यवर्येषु, च्छति च कस्मिंश्चित् काले, प्रपन्नजनभागधेयपरिपाकवैभवेन, भगवतः श्रीमतो रदराजस्य निर्हेतुकनिरवधिककृपात्रभावबलेन च सद्गुणनिधयः श्रीमन्तो “ वरद- वेष्ण्वाचार्या " इति विश्वविख्यातकीर्तयः श्रीसुदर्शनाचार्यापरनामधेयाः तेषां तरलतया समवातरन् । ते च बाल्यात्प्रभृति सुस्निग्धाः भगवदिव्यकैकर्यानुष्ठानैकनिरताः अधीत- साङ्गसशिरस्कसकलशाखाश्रुतयः सर्वशास्त्र कलापारंगताः अनन्यसुलभसुतीक्ष्णशेमुषी- .
6 Ena- वैभवेन श्रीभगवदामानुजाचार्याणां तन्मातुलचरणानां निरुपाधिकनिरवधिकप्री मापन्नाः प्रत्यर्थिवावदूकविततिविजयेन सन्तुष्टान्तरङ्गैस्तैः “प्रियभागिनेय " इ प्रदत्तदिव्यविरुदाः अनितरसुलभं श्रीभाष्यसिंहासनं तदीयनिखिलचिरैस्साकमवापुः यथोक्तमभियुक्तैः सत्कुर्वता संसदि शिष्यवर्गान् अनन्यलभ्यैरखिलैः स्वचिह्नः । श्रीभाष्यसिंहासनमात्मनीनं यस्मै च दत्तं यतिशेखरेण ।। इति, श्रीरामानुज सदीक्षाफलमेतन्महात्मनः । प्रियस्वनीयताराज्यमासीत् प्राज्यं कुलेशितुः ।। इति च । एतेषां विषये अनुसन्धीयमानौ 'तनियन् ' श्लोको यथा ' यस्मिन् पदं यतिवरस्य मुखात्प्रणेतुं निष्कामदेव निदधे निगमान्तभाष्यम् । तस्यैव तं भगवतः प्रियभागिनेय वन्दे गुरुं वरदविष्णुपदाभिधेयम् ।। ज्ञानोत्तमोद्धतिनिराकरणप्रतुष्यत्. रामानुजार्यकरुणापरिणामपात्रम् । वत्सान्ववायतिलकं वसति गुणानां वन्दामहे वरदविष्णुगुरुं वरेण्यम् ॥ इति । तेषां च अनन्यसामान्यवैदुष्यभूषिताः विजितप्रतिवादिदत्तबिरुदस्तोमा निस्समाभ्यधिकग्रन्थसहस्रप्रणेतारः सद्गुणनिधयः श्रीदेवराजगुरवः पुत्ररत्नमभवन् तद्विषयोऽयं श्लोकः 7 नमो वेदान्तवाक्यार्थविवादेऽभेदवादिभिः (नाम्) । वितीर्णजयपत्राय देवराजविपश्चिते ॥ इति । तेषां च श्रीमद्देवराजगुरूणां अनपत्यतया दूयमानानां श्रीदेवराजभगवन्निरव- हानुग्रहप्रभावेन 'सुभद्र ' नामधेयो नित्यसूरिः, अज्ञानान्धतमसावृतसंसारि- वेतनसमुद्धरणाय , श्रीमद्वेदान्तयुगलीचिकरबन्धसमीकरणाय गोमत्कुमाररत्नतया सर्वमङ्गलमाङ्गलिके पुण्ये पुष्पितकानने परमपावने चैत्रे मासे चेनानक्षत्रे । अन श्लोका एवमनुसन्धीयन्ते । च अवततार था: चैत्रं गच्छति पद्मिनीसहचरे चन्द्रे च चित्रां गते लग्ने चोक्षणि देवराजतनयः श्रीदेवराजाज्ञया । काञ्चीनामनि मुक्तिधामनि पुरे सूरिः सहस्रायः श्रीवत्सान्वयदेशिकस्समजनि त्रैलोक्यरक्षाकृते ॥ चैत्रे चित्रोद्भवं काञ्च्यां देवराजगुरोः सुतम् । सुभद्रांश गुरूत्तंसं वात्स्यं वरदमाश्रये ॥ इति । देयाच्छेयांसि भूयास्यतुलगुणलसद्वत्सर्वशोत्सवार्थम् चित्रायां चैत्रमासे भुवि रचितसुभद्रांशभद्रावतारः । श्रीमद्रामानुजार्यस्फुरदुरुमधुरोदारगी:पूरकेलि- स्फायद्रोमोद्मश्रीवरदगुरुवरः स्वान्वयस्थाय मह्यम् ॥ इति ॥ श्रीमतो भगवतो दिव्यचरणारविन्दयुगलै कान्तिकात्यन्तिकपरभक्ति-परज्ञान- मभक्तिभरिता एते च महानुभावाः श्रीमद्देवराजदिव्यकैर्यनिर्वहणैकनिरताः, मिद्विष्णुचित्तदिव्यसूरय इव भगवत्यतिमात्रप्रेमविह्वलाः, कदाचित् भगवत्कैङ्कर्यपरेण नचित्, अनासत्त्या, सुकथिते अत्युष्णेऽप्रशस्ते पयसि भगवते प्रदीयमाने, apoor 8 तमत्यन्तमपचारमसहमानाः, भृशं दुःखिताः, सरमसं तहलादाकृष्य, तदन्य निक्षिप्य, अन्यत् सुखोष्णं सुप्रशस्तं सुमधुरं सुभगपरिमलपरिमिलितं स्वादिष्ठ गोळे समानीय भक्तिविनमितोत्तमाङ्गाः सादरं भगवते समर्पयामासुः । तदा तु सपदि एतद्दर्शनसुसन्तुष्टेन भगवता तदीयनिस्सीमप्रेममहिमानुगु अनन्यसाधारणं " अम्माळ " (अम्बा) इति बिरुदनाम समनुजगृहे। तदारभ्यै च एतेषां “नडादूर् अम्माळ " इति व्यपदेशः समजनि । अत्र इमौ श्लोको प्राचीनैरनुसंधीयेते क्षीरं येन समर्पितं मधुरिमस्फार निपीयाऽऽदरात् धीरं 'मज्जननी ' त्यगर्जि करुणाऽऽसारं मुहुर्वर्षता । श्रीरन्त्रा करिशैलशृङ्गमयतोदारं महाम्भोमुच। नीरन्धं सुखमातनोतु वचसां दूरं स वात्स्यो गुरुः ॥ पुत्रिणे चिदचित्पिना पौत्रिणे परमेष्ठिना । स्नुषावते जगन्मात्रा वात्स्याय गुरवे नमः ॥ इति । आचार्यवर्याश्चैते---स्वावतारमहिन्ना, भक्तिप्रकर्षेण च आजानपावनदिव्य शेमुषी यशःप्रभावपरिकलिताः स्वपितृचरणानां सविध एव नातिचिरेण काले सर्वाण्यपि तन्त्राण्यध्यगीषुः । तदनु स्वपितृदेवानां नियमनेन श्रीमद्यतिराजाब्धिचन्द्रमा श्रीमत्कुरुकाधीश्वरगुरुवर्याणां सच्छिप्यरत्नानां चुलुकीकृतसाङ्गोपाङ्गसशिरस्कसकर श्रुतिविततिसिन्धूनां निरन्तरमुपन्यस्यमान-पौढगम्भीरश्रीमद्यतिशेखरभारती-दिर गभीरभावानो श्रीविष्णुचित्तार्यतल्लाजानां पादसरोजसंसेवनेन समधिगतश्रीभाष्यादि निखिलवेदान्तदिव्यनिबन्धाः समभवन् । तदुक्तम् आम्नायान्यध्यगीष्ट स्वपितृचरणतस्साकमङ्गोत्तमाङ्गैः स्वातन्त्र्यं प्राप तन्त्रे तदनु कणभुजः पश्यदनेश्च शास्त्रे । सांख्ये योगे पुराणेष्वपि विपुलधियामग्रगण्यप्रसिद्धिम् स श्रीमदत्सवंशे जयति 'वरद ' इत्याख्यया देशिकेन्द्रः ॥ इति 9 श्री विष्णुचित्तपदपङ्कजसङ्गमाय (संश्रयाय) चेतो मम स्पृहयते किमतः परेण । नो चेन्ममापि यतिशेखरभारतीनां भावः कथं भवितुमर्हति वाग्विधेयः ॥ इति एतदारचितग्रन्थमङ्गलश्लोकत एव निष्पद्यते, श्रीविष्णुचित्तार्याणां सविध एव श्रीभाष्यादिवेदान्तसम्प्रदायग्रन्था एभिरधीता:-इति । विष्णुचित्तदयापातं वत्सवंशशिरोमणिम् । देवराजगुरोस्सूनुं वन्दे वरददेशिकम् ।। इति कैश्चिदाचाथैः एतेषां तनियन् ' श्लोकः अनुसन्धीयते । श्रीविष्णुचित्तार्याणां च द्राविडभाषायां एगळाळ्वान् ” इति व्यवहारः । ते च श्रीमद्यतिराजाब्धिचन्द्रमसां श्रीमत्कुरुकेश्वरदेशिकानां प्रियशिष्या इति, विख्यातो यतिसार्वभौमजलधेश्चन्द्रोपमत्वेन यः श्रीभाष्ये च(ण)यदन्वयास्सुविदिताः श्रीविष्णुचित्तादयः । व्याख्यां भाष्यकृदाज्ञयोपनिषदां यो द्रामिडीनां व्यधात् पूर्व(ण) तं कुरुकेश्वरं गुरुवरं कारुण्यपूर्णं भजे ॥ इति श्लोकतो विज्ञायते । “ एतेषां शिष्यप्रशिष्याः मृदुमधुरगम्भीरोपन्यासप्रकारैः श्रीमद्यतिसार्वभामानुगृहीत-दिव्यश्रीभाष्य- दुग्धामृताभिवर्षणेन सर्वमपि विश्वमाप्याययतां एतेषां महानुभावानां महागुरूणां-श्रीम- द्धारीतकुलतिलकवाग्विजयसूनवः श्रीवत्सांकमिश्रवंश्याः श्रीरङ्गराजदिव्याज्ञालब्धवेद- व्यासापरनामधेयाः " श्रीमच्छ्रुतप्रकाशिकाचार्याः' इति सर्वत्र सर्वतोमुखं विस्तृत्वर- विकस्वरदिव्ययशोवैभवाः श्रीमत्सुदर्शनभट्टारकाः, श्रीवादिहंसाम्बुवाहः॥ तथा 10 घटाम्बु' इति तन्नि " " इति प्रतिकथकविततिजेगीयमानविमलयशोभूषिताः न्यायकुलिशादिप्रौढप्रबन्धप्रणेता श्रीमद्यतिराजदिव्यमाहानसिकानां श्रीमद्वेदान्तोदयनबिरुदभाजां श्रीमद्यतिशेखर गुरुतलजेभ्यः पवित्रतमदिव्याम्बुपरिपूर्णघटादिसमर्पणेन रूपकसुप्रसिद्धदिव्याभिजननामधेयानां किडाम्बि आचान्" इति द्राविडभाषाय व्यवद्वियमाणानां श्रीमत्प्रणतार्तिहराचार्याणां नप्तारः, श्रीमदुभयवेदान्तदुग्धाम्बुधि मध्योद्धृतसत्तत्त्ववचम्सुधानां श्रीरङ्गराजापरनामधेयानां श्रीमदात्रेयपद्मनाभार्याणां पुत्रा सर्वतन्त्र स्वतन्त्रस्य कविकथककण्ठीरवस्य श्रीमद्वेदान्ताचार्यस्य मातुलपादाः, तथ तदाचार्यचरणाश्च श्रीमदायरामानुजाचार्याश्च प्रधानशिष्याः । वन्देऽहं वरदार्य तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥ इति श्रीमच्छूतप्रकाशिकारम्भे श्रीमत्सुदर्शनसूरिभिरनुसंहितो मालश्लोक एक एतेषामाचार्यवर्याणां 'तनियन् । श्लोकतया प्रसिद्धिमवाप । अथ कदाचिदेभिराचार्यैः स्वान्तरङ्गशिष्येभ्यः श्रीभाष्याध्यापने क्रियमाणे पञ्चवर्षदेशीयः पुनीभूततेजोराशिः स्फुरन्मूर्तिः श्रीमान् वेंकटनाथार्यः स्वमातुलपादै आवेयरामानुजाचार्यैः साकं तदाचार्यचरणचरणनलिनसंसेवनकुतूहलेन तत्राजगाम तस्य अतिविलक्षणाकृतेर्बालकस्य दर्शनेन पर्युत्सिकितान्तरङ्गा आचार्यपादाः समयाचारकुशलप्रश्नाद्यनन्तरं " कोऽयं बालकः ? ” इति आत्रेयरामानुजाचार्या स्वपार्श्वस्थितान् पर्यपृच्छन् । तैश्च सविनयमुपपादिते सर्वोदन्ते, विज्ञाततदभि- जनादिवृत्तान्ताः, स्वपरित्यक्तपाठस्थलसूचनेन च संपरिज्ञाततदीयविस्फूर्जत्सुनिशित मेधावैभवाः, संप्रहृष्टस्वान्तरजाः ---- प्रतिष्ठापितवेदान्तः प्रतिक्षिप्तबहिर्मतः । भूयास्त्रैलोक्यमान्यस्त्वं भूरिकल्याणभाजनम् ।।" इति अवितथं मङ्गलाशासनमकार्षः; नियोजयामासुश्च स्वप्रियशिष्यान् तानात्रेय- रामानुजाचार्यानेव तदाचार्यकत्वे ।
11 Aware विंशत्यब्दे विश्रुतनानाविधविद्यः त्रिंशद्वारं श्रावितशारीरकभाष्यः श्रीमद्वय- वदनभगवदिव्यलालाजलनिषेवणसम्प्राप्त-निरर्गलनिवधिकपौढगम्भीरवाग्झारीसंप्लावित- दशदिगन्तः अक्षोभ्यानवद्यहृद्दाशताधिकदिव्यनिबन्धनिर्माता श्रीमद्वेदान्तदेशिकः " श्रीमद्भयां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्याम् सम्यग् दृष्टेन सर्व सह निशितधिया वेङ्कटेशेन वलतः ।" इति अधिकरणसारावलीश्लोकेन ; तथा " श्रुत्वा रामानुजार्यात् सदसदपि ततस्तत्त्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुस्कृपालम्भितोद्दामभूमा ।" इति तत्त्वमुक्ताकलापश्लोकेन, मीमांसापादुकागतमङ्गलश्लोकादिना च विषय- ममुं स्वहस्तयति । एतेषां दशकालचरित्रादिकम् एतेषामाचार्यवर्याणां वैभवादिकं सर्वमपि चारित्रं तत्कुलीनैः श्रीहेममालि- देशिकार्यवौं : चर्यादीपनामके ग्रन्थे, श्रीमीमांसावल्लभवरदाचार्यैश्च वरद- देशिकवैभवप्रकाशिकायां, वरददेशिकाभ्युदये च अभ्यवर्णि सुविशदनिपुणम् । विस्तरस्तत्र द्रष्टव्यः तद्विविदुषुभिः । यत एते, (१०१७-~~,१३७ A. D. कालिकस्य) श्रीमद्रामानुजमुनि- पुङ्गवस्य प्रियभागिनेयानां श्रीमद्वरदविष्ण्वाचार्याणां पौत्राः, श्रीमरसुदर्शनभट्ट- श्रीमदालेयरामानुजार्यादीनां आचार्याश्च , ततः, क्रीस्तुशकत्रयोदशशताब्दारम्भे (13 th Century A. D.) आसन्निति निर्णयः अतीव सुकरः। सकल- पुरीनिकषायमाणा आजानपावनप्रशस्तिः काञ्चीपुरी च एतेषां जन्मावासभूमिरिति करतलकलित एवायं विषयः । अतोऽत्र विस्तरणं नापेक्ष्यते । एतैरारचिताः प्रबन्धाः श्रीमन्नाथमुनिदिव्याद्रिमारभ्य प्रवृत्तायाः श्रीमन्नारायणानुगृहीतायाः श्रीमदु- भयवेदान्तसम्प्रदायदिव्यस्रोतस्विन्याः संतरणे तरणिभूताः, परमकारुणिकाः, एते ..
12 सारः सदाचार्यमहोदया:--तमिमं श्रीमद्विशिष्टाद्वैतसिद्धान्तं, न केवलं पठनपाठनक्रमेण, नैवाऽऽचरणप्रचारणसरण्या, नापि गम्भीरोपन्यासामृताभिवर्षणप्रणाल्या, न चापि युक्तिप्रयुक्तिप्रयोगकोटिक्रमप्रवृत्तवादगोष्ठीप्रवर्तनप्रक्रियया, अपि तु, नेकविधानां सहृदयमर्मस्पर्शिनां मृदुमधुरगम्भीरसन्दर्भाणां श्रीमदुभयवेदान्तसम्प्रदायग्रन्थानां अवतरणेन सर्वत्र सर्वतोमुखं व्यवस्थापयामासुः । एभिरारचितादिव्यप्रबन्धाः (१) तत्त्वसारः (२) प्रपन्नपारिजातः (३) प्रमेयमाला (४) आह्निक- चूडामणिः (१) आराधनक्रमः (६) प्रमेयसारः (७) मङ्गलाशासनम् (८) ज्ञान- (९.) जयन्तीदर्पणम् (०) हेतिराजसप्तकम् (११) रहस्यसंग्रहः (१२) चतुर्लक्षणसंग्रहः (१३) दमिडोपनिषत्संग्रहः (१४) श्रीभाष्यसंग्रहः (१५) परतत्त्वनिर्णयः (१६) परत्वादिपञ्चकम् (१७) प्रातःस्मरणीय--अर्चिरादि- श्लोकद्वयम् --- इत्यादिका अनेके विराजन्ते । एषु ग्रन्थेषु सर्वेषु आद्यन्तनिबद्धैः श्लोकैः एतेषां चारित्रकांशा अनेके स्फुट विज्ञायन्ते । किं च एतत्कुलीनैः “घटिकाशतं अम्माळ्” इति प्रसिद्धैः, एतत्पुत्रसन्ततौ पञ्चमैवरदाचार्यैः, एतद्विषये सुप्रभातस्तोत्रं विरचितं किञ्चिद्विलसति ; तेन च बहुविधा एतच्चरित्रांशा विज्ञायन्ते । यथा त्वत्सन्निधेधुरि यतीश्वरभाष्यटीका- मादायतिष्ठति सुदर्शनभट्टसूरिः । रामानुजोऽपि च तदर्थविवेचनाय भक्त्यैव ते वरददेशिक ! सुप्रभातम् ।। क्षीरप्रदानसमये जननी कथं मे प्रीतीयुतो वरदराडदगृह यद्यम् । यस्य क्षितौ भवति विश्रुतमाह्वयं तत् 'अम्मेति ते वरददेशिक! सुप्रभातम् ॥ इत्यादिभिः श्लोकैः ।
18 एतत्प्रबन्धरचनामधिकृत्याप्येवमभ्यवर्णि श्रीमत्पन्नजनवान्छितपारिजात- नामप्रबन्धमनघं प्रबबन्ध वाचा। यो वै परत्वमुखाञ्चकमचिरादि- मार्ग च ते वरददेशिक ! सुप्रभातम् ॥ इति । अदसीयेषु प्रबन्धेषु प्रपन्नपारिजातोऽसौ सर्वप्राणिसमुत्तरणचणप्रपत्तिमार्ग- विशदीकरणचुचुः सर्वथा पारिजातायत इति, एतद्ग्रन्थमुद्रणे प्रथमं वयं प्रवृत्ताः । सति समये क्रमश एतेषां सर्वे ग्रन्था मुद्रापयिष्यन्ते । प्रपत्तिमार्गविशदीकरणप्रबन्धाः प्रायशो द्राविडभाषायामेव परश्शता उप- लभ्यन्ते । अयं तु, सर्वदेशविद्वदनुभावयोग्यसंस्कृतभाषायां, तत्रापि सुललित पदबन्धपरिमिलितश्लोकपसूनसंग्रथित काव्यरूपतया च समुलपतीति, पुनरयं हेम्नः परमामोदः ॥ - । अन्यूनानतिरिक्तविषयप्रतिपादके सारतमेऽस्मिन् प्रबन्धे, सारतमा दश अंशाः, दशसु पद्धतिषु सुललितसुभगं सकलश्रुतिस्मृतीतिहासपुराणपाञ्चरात्रादि- प्रमाणवचनोपन्यासपुरस्सरं क्रमशो निरूप्यन्ते । ते च (१) प्रपत्तिबोधकप्रमाणानि (२) प्रपत्तिस्वरूपम् (३) प्रपत्तरधिकारी (४) प्रपन्नानां गुरौ वृत्तिः (५) प्रपन्नानां भगवत्परिचर्याक्रमः (६) भगव- त्परिजनोपासनाक्रमः (७) भागवतपरिचर्याक्रमः (८) विहितव्यवस्थापनक्रमः (९) वर्जनीयविवेकः (१०) फलोदयक्रमः - वेद - वेदान्त - आगम - सूत्र - स्मृति - इतिहास -पुराणादिषु शास्त्रेषु, ये वा विषयाः, अत्यन्तं सारतमाः, हिततमाश्च अतिनिगूढं समुपवर्णिताः, सर्वेऽप्यत्र आदर्शप्राये प्रबन्धे सर्वप्राणिहृदयङ्गमं समृह्य विनिवेदिताः । अतोऽयं निरुपमः प्रबन्धपारिजातः सर्वेषामत्यन्तमुपादेय इत्यत्र नास्ति संशयलेशोऽपि । इति । .do- 14 कृतज्ञताविष्करणम् एवमतिविलक्षणस्य प्रबन्धास्यास्य सम्पादने अनुमतिपदानादिना अतिमहा मुपकार सम्पादितवद्भयः महोदारेभ्यः श्रीतिरुमलतिरुपतिदेवस्थानधर्मकर्तृसंघसः महोदयेभ्यः, तथा, तत्सकलकार्यधुरंधराय महितकल्याणगुणाय श्री चेलिकानि अन्नारावुमहाशयाय च परश्शतान् धन्यवादानर्पयामि । एवं विमलकल्याणगुणगणपूर्णेभ्यः मन्दस्मितसमुदश्चितसारसूक्तिभ्यः सदै रूपरूपेभ्यः सदापि वात्सल्यामृतमभिवर्षयः एतद्न्थमुद्रणे अत्यन्तमुपकृतव श्रीमद्भयः अस्मदध्यक्षमहाभागेभ्यः श्रीमत्यरवस्तु-वेङ्कटरामानुजस्वामिमहोदये सदाऽहमधमर्णः, कृतज्ञः, क्रियमाणज्ञः, करिष्यमाणज्ञश्च भवन् , नतिततीर्पया पाठभेदादिनिवेशने, तथा आकरनिर्देश - अनुबन्धादिसम्पादने स कर्मणि सहायभूते, विदुषि श्री-ईयुण्णि-गोपालकृष्णमाचार्ये शिरोमणौ मङ्गलशास् पुरस्सरी कृतज्ञता प्रकाशनीया भवति । विज्ञापनम् भ्रान्तेः पुरुषधर्मत्वात् अत्र ज्ञाताज्ञाता अनेके दोषा भवेयुः, तान् सर्वात सहृदयशिरोमणयः हंसक्षीरन्यायेन परिपाल्य, गुणग्रहणपारीणाः, समी वात्सल्येन, पुनः संस्करणे कृपया मां प्रतिबोधयेयुरिति विज्ञाप्यते । प्रसीदतु भगवान् पद्मासहायः पद्मया सह ; प्रसीदन्तु परमकारुणि आचार्यवर्याः ; प्रसीदन्तु च वत्सलाः सहृदयशिरोमणयः । जय-मिथुन शुक्लदशमी श्रीपदपुरी इति विज्ञापयिता ति. कु. ३. न. सुदर्शनदास १०-१९५४.
श्रीमते श्रीनिवासाय नमः
ऊझे हस्तौ यदीयौ प्रतिभटदलने बिभ्रतः शङ्खचक्रे
सेव्यावज्री स्वकीयावभिदधदधरो दक्षिणो यस्य पाणिः ।
तावन्मात्रं भवाब्धि गमयति भजतामृरुगो वामपाणिः
श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतो वेङ्कटेशस्स जीयात् ॥
चक्र शास्ति सुकर्मयोगकलनं, ज्ञानं च शङ्खस्तथा
पाणिश्चारुकटिप्रसञ्जिततलः श्रीभक्तियोग तथा ।
श्रीमत्पादसरोजदर्शककरो योग प्रपत्तिं परं
यस्यान्वर्थचतुर्भुजस्स भगवान् जेजेतु लक्ष्मीसखः ।
श्रीवेङ्कटादिनिलयः कमलाकामुकः पुमान् ।
अभङ्गुरविभूतिनः तरङ्गयतु मङ्गलम् ॥
श्री:
श्रीमते रामानुजाय नमः
विषयानुक्रमणिका
पनर
१
....
१५-
....
विषयः
१. प्रपत्तौ प्रमाणनिरूपणम्
२. प्रपत्तिस्वरूपनिरूपणम्
३. अधिकारिनिरूपणम्
४. गुरूपासनप्रकारनिरूपणम्
५. भगवत्परिचर्याक्रमनिरूपणम्
६. भगवत्परिजनोपसनाक्रमनिरूपणम्
७. *भागवतपरिचर्याक्रमनिरूपणम् (सदुपासनाक्रमनिरूपणम् )
८. विहितव्यवस्थापननिरूपणम्
९. वर्जनीयनिरूपणम्
१०. फलोदयक्रमनिरूपणम्
२१-
२६-
३२-
३६-
....
४१-
* गमनिका - अन्धेऽस्मिन् सप्तम्याः पद्धते म ‘भगवदुपासनपद्धतिः' इति प्रमादा
पतितम्।
श्रीरस्तु श्री श्रीनिवासपरब्रह्मणे नमः श्रीमते रामानुजाय नमः श्रीमते घरदार्यमहागुरवे नमः * वन्देऽहं वरदाय तं वत्साभिजनभूषणम् । भाप्यामृतपदानाद्यः सञ्जीवयति मामपि । श्रीवत्सकुलतिलकैः श्रीमद्वरदाचार्यमहागुरुभिः अनुगृहीतः प्रपन्नपारिजातः प्रमाणपद्धतिः (अवतरणिका) + आचार्याय मपादेभ्यो 'नमस्यासन्ततिं दधे । 'यदाऽऽसङ्गवशात् पुंसां मनःपद्मं प्रबुध्यते ॥ १ ॥ श्लोकोऽयं -- श्रीमद्वरदाचार्याणां वैभवप्रकाशनेन तद्विषये कृतज्ञता- निवेदनपुरस्सरं वन्दनसमर्पणैकतानः, 'तनियन्' इति द्राविडभाषायां व्यवहिय- माणः, तदन्तरङ्गशिष्यावतंसैः श्रीमद्भिः श्रुतप्रकाशिकाचार्यैः श्रीसुदर्शनभट्टारकै- अनुगृहीतः, तदुपकारस्मृत्यै ग्रन्थादावन पूर्वाचार्यैरुपनिबद्धः॥ | श्रीमन्तः, तत्रभवन्तः, श्रीभगवद्भागवताचार्याणां निरवाधिक- निरुपाधिकदिव्यकृपाकटाक्षसन्धुक्षणेन समुपलब्ध दिव्य विशदतम विलक्षण- विज्ञानसर्वस्वाः, विशुद्ध विमलदिव्यचारित्राः, नित्यानवद्यहृद्य विलक्षणविशिष्टा- नुष्ठाननिष्ठागरिष्ठाः, प्रपन्नजनजीवराजीयजीवातवः, परमकारुणिकाः कृपा- 1. नमस्यां विदधाम्यहम् - पा. ग. 2. यत्संसर्ग आन्ध्रलिपितालपत्रमन्थः ।। आन्ध्रलिपिलिखितपुस्तकम् ।। ग्रन्थलिपितालपत्रग्रन्थः ॥ . पा. ग. -- प्रपन्नपारिजातः . * अभङ्गुरकलादानस्थूललक्ष्यत्वमीयुषे । तुङ्गाय 'महते तस्मै तुरङ्गाय मुखे नमः ॥ २ ॥ । लक्ष्मीचक्षुरनुध्यानात् तत्सारूप्यमुपेयुषे । नमोऽस्तु मीनवपुषे वेदवेदिविपन्मुषे ।। ३ ।। + रजो रजःप्रशमनं प्रपद्ये पदयोः सताम् । प्रपन्नपारिजाताख्यप्रबन्धाय यतामहे ॥ ४ ॥ (१) प्रपत्तेर्मानसौभाग्य (२) स्वरूप (३) मधिकार्यपि । (४) प्रपन्नानां गुरौ वृत्तिः (५) श्रीशे (६) सूरिषु (७) सत्सु च ॥ ५ । ० means Cated- - मालप्रसन्नाचार्य श्रीभगवद्रामानुजमुनिपुङ्गवानुगृहीत श्रीमद्विशिष्टाद्वैत सिद्धान्तविजयध्वज --- श्रीभाष्यदिव्यप्रबन्धप्रवचनसाम्राज्यसिंहासनमधितस्थि वांसः 'नडादूर अम्मालू' इति द्राविडभाषायां प्रसिद्धतमपवित्रदिव्यनामधेयाः श्रीमदुभयवेदान्तसम्प्रदायघण्टापथप्रतिष्ठापनाचार्याः, श्रीमद्वरदाचार्यमहोदया: भगवत्प्राप्तिस्वरूपमोक्षसाम्राज्यानुभूतिप्राप्तौ भगवत्प्रपत्तिमन्तरा नान्यमुपाय माकलयन्तः, कलयन्तश्च तामेव परमोपार्य, तत्स्वरूपलक्षणप्रमाणादिनिरूप प्रवृत्ताः, सुललितं सुभगमधुरं संस्कृतपद्यप्रसूनपरिमिलितं, कञ्चन दिव्यं प्रबन प्रणिणीषवः, स्वप्रणीतप्रबन्धस्य निर्विघ्नपरिसमाप्त्यर्थ, प्रच यगमनाय च समुचित . इष्टदेवतानमस्कारात्मकं मङ्गलं प्रणयिष्यन्तः, प्रथमतः, तत्पुरुषकारभूत-आचार्य चरणचरणनलिन वन्दनरूपं मङ्गलं तद्विहितमहोपकारसंस्मरणपुरस्सरं शिष्य शिक्षाय ग्रन्थतो निबध्नन्ति । * ततः समुचित इष्टदेवतास्वरूप-श्रीमद्धयवदनपरब्रह्मनमस्काररूपमङ्गल माबन्नन्ति । | वेदोद्धरणादिना महदुपकृतवतः परमपुरुषप्रथमावतारस्य लक्ष्मीसवि भ्रमालोकसुभ्रविभ्रमचक्षपो मीनवपुषो भगवतो वन्दनमातन्वन्ति । | स्वप्रबन्धप्रमेयस्य सुतरामनुगुणं सतां महतां पादरजः प्रपद्य, स्वप्रबन्ध प्रणयनं प्रतिजानन्ति। • स्वप्रबन्धप्रमेयं पाठकजनमनःप्रबोधनाय विभज्य प्रदर्शयन्ति । - 1. महसे-पा. ग.
प्रमाणपद्धतिः (८) विहितेषु व्यवस्थान (९) वर्जनीय (१०) फलं तथा । एते दशार्थाः 'कथ्यन्ते वय्यन्ताद्यर्थसंग्रहात् ।। ६ ।। * *[श्रुतार्थमननस्थेम्ने मम नेतरथा श्रमः । सोढव्यमत्र स्खलितं सद्भिर्विषयगौरवात् ] ॥ ७ ॥ ग्रन्थारम्भः । प्रपत्तिः - तैत्तिरीयाणां वेदे तावत् विधीयते । + न्यासाभ्यासप्रयोगो 'हि वसुरण्ये " ति मन्त्रतः ।। ८ ॥ तत्रोपास्यं यथा ब्रह्म सर्वकारणमुच्यते । प्रपत्तव्यं तदैवेति “ विभु विश्वस" गित्यपि ॥ ९ ॥ सूर्यादीनां यथापूर्वं तेजः कल्पयिताऽसि च । वसुवत् रमणीयोऽसीत्येवं ब्रह्म गुणैः स्तुतम् ॥ १० ॥ जीवात्मानं हविः कृत्वा तच्छरीरं महीयसि । ब्रह्मानौ 'जुहुयादो" मित्यनेनाम्नायरूपिणम् ॥ ११ ।। स्वाहङ्कारनिरसन - नैच्यानुसन्धानपूर्वकं सतां सहृदयानां क्षमा प्रार्थ- " * यन्ते। प्रिपत्तिसाधकानि प्रमाणानि विविच्य प्रदर्शयन्तः, प्रथमतः, सर्व- प्रमाणमूलभूतत्वात् , वेदवाक्यानि नित्यनिर्दुष्ट स्वतःप्रमाणानि प्रदर्शयन्ति । # वसुरण्यो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि विश्व- मुक्तेजोदारस्वमसि । अग्नेर्व!दास्त्वमसि । सूर्यस्य गुम्नोदास्त्वमसि । चन्द्रमस उपयाम गृहीतोऽसि । “ब्रह्मणे त्वा महस ओ" मित्यात्मानं युञ्जीत। एतद्वै महोपनिषदं देवानां गुह्य य एवं वेद । ब्रह्मणो महिमानमाप्नोति । तस्माद्ब्रह्मणो महिमानमित्युपनिषत् । इति । (तैत्तिरीयोपनिषत् ४ - -७७) 1. कीर्त्यन्ते-पा. ग. 2. कुण्डलितः श्लोकः "ग" पुस्तके नास्ति। 3. न्यासा- ख्यान-पा. क. 4. असौ-पा. ग. 5. विभुर्विश्वदृड्-पा. क. 6. अपि च-पा० क. "7. जुहुयाभीत्थमित्यनेन द्वयरूपिणा-पा. ग.
प्रपन्नपारिजातः . 5 , इति प्रपत्तेराम्नातः प्रयोगः प्रणवात्मना । * तस्यैवं विदुषो यज्ञशरीरे 'तत्र कल्पितः ॥ १२ ॥ + प्रपत्ति तपसामेषां न्यासारख्यामाहुरुतमाः । | आम्नातं कठवल्लीषु प्रपत्तेर्वाचकं द्वयम् ।। १३ ॥ प्रमाणं सुभगं प्राह श्वेताश्वतरसंहिता । प्राह चोपनिषन्यासे यथाऽनुष्ठानदर्शिनी ।। १४ ॥ तस्यैवं विदुषो यज्ञस्यात्मा यजमानः, श्रद्धा पत्नी, शरीरमिध्भम, उरे वेदिः, लोमानि बहि: वेदशिशखा, हृदयं यूपः, काम आज्यम्, मन्युः पशुः तपोऽग्निः, शमयिता दक्षिणा, वग्घोता, प्राण उद्गाता, चक्षुरध्वर्युः, मनो ब्रह्मा, श्रोत्वमग्नी, यावद्भियते सा दीक्षा, यदनाति यत्पिबति तदस्य सोमपानम् , यद्र- मते तदुपसदो, यत्संचरत्युपविशत्युत्तिष्ठते च स प्रवर्यो, यन्मुखं तदाहवनीयो, यदस्य विज्ञानं तज्जुहोति, यत्सायं मातरत्ति तत्समिधो, यत्सायं प्रातमध्यदिनं च तानि सवनानि, ये अहोरात्रे ते दर्शपूर्णमासो, येऽर्धमाश्च मासाश्च ते चातुर्मास्यानि, य ऋतवस्ते पशुबन्धाः, ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणाः, सर्ववेदसं वा एतत्सत्नम , यन्मरणं तदवबृथः, एतद्वै जरामर्यमग्निहोत्रम , य एवं विद्वान उदगयने प्रमीयते देवानामेव महिमानं गत्वा आदित्यस्य सायुज्यं गच्छति, अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रमसोमहिमानी ब्राह्मणो विद्वानभिजयति, तस्माद्राह्मणो महिमानमाप्नोति, तस्माद्ब्रह्मणो महिमानमित्युपनिषत् - इति । (तैत्तिरीयोपनि- षत् ४-७८) + " तस्मान्यासमेषां तपसामतिरिक्तमाहुः" (ते. उ. ४-७७) इति वाक्यं कटाक्षयन्तः प्रतिपादयन्ति । तदेषाऽभ्युक्ता। तदेव भूतं तदुपासितव्यं सत्यं तद्वयम् । श्रीम- नारायणचरणौ शरणं प्रपद्ये " (पूर्ववाक्यम्)। इदं पूर्णमदःपूर्ण पूर्णात्पूर्ण- मुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । सर्व पूर्णगं स होम् । “ श्री. मते नारायणाय नमः” ( उत्तरवाक्यम्)। वेदे या ब्रह्मा विदुः । वेदेनानेन बेदितव्यम् । य एवं वेद । इत्युपनिषत् इति । (कठवल्लीखण्डम् ) 1. यत्र-पा.क. 2. उत्तमाम् - पा. क, ग, , प्रमाणपद्धतिः !" * " ब्रह्माण विदधात्यग्रे" " यस्तस्मै दिशति" 'श्रुतिः । आत्मज्ञान प्रसादार्थं मुमुक्षुः शरणं व्रजेत् ॥ ११ ॥ 1 " अपि वध्यं प्रपन्नं न प्रयच्छ ” न्त्येवमादिकाः । बहवः श्रुतयो मान, । श्रीशास्त्रे भगवानपि ॥ १६ ॥ " श्रीमन्नारायणाये " ति ब्रह्मणे "द्वयमुक्तवान् । लक्ष्मीतन्ने कमलया "शकायैव प्रपञ्चितम् ॥ १७ ॥ तथा सनत्कुमारस्य संहिता वक्ति सादरम् । " प्रपत्तिं सर्वफलदां "सर्वोपायानपेक्षणीम् ॥ १८ ॥ प्रपत्तेः क्वचिदप्येवं परापेक्षा न विद्यते । सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥ १९ ॥ -कृदुच्चारिता येव तस्य संसारनाशिनी । राक्षसानामविस्तम्भात आञ्जनेयस्य बन्धने ।। २० । यो ब्रह्माणं विदधाति पूर्व, यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाश, मुमुक्षुबै शरणमहं प्रपद्ये ॥ (श्वेताश्वतरोपनिषत् ६-१८) । देवा वै यज्ञाद्द्रमन्तरायन् , स आदित्यानन्वक्रामत, -- ते द्विदै- वत्यान् प्रापद्यन्त, तन्न प्रतिप्रायच्छन् , तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति । तस्माद्विदैवतेभ्य आदित्यो निर्गृह्यते - इति (कृष्णयजुर्वेदः ६-५-६); देवा वै त्वष्टारमाजिघांसन् । स पत्नीः प्रापद्यत । तं न प्रतिप्रायच्छन् । तस्मादपि वध्य प्रपन्नं न प्रतिप्रयच्छन्ति इति च । (कृष्णयजुर्वेदः ६-५-९) । श्रीभगवच्छास्त्रं प्रदर्शयन्ति । *लक्ष्मीतन्त्रं निर्दिशन्ति। सनत्कुमारसंहिता प्रदर्शयन्ति । 1. प्रभुः --- पा. क. पा. क. 2. प्रसादं तम् पा. क. 3. नारायणेत्यादि-पाक, ग. +. स्वयम्--पा. क. 5. शकायेयं प्रपञ्चिता--पाक. 6. एवम्---पा. ग. 7. सौं- पायैरपेक्षिताम्----41. क. ४, येन--पा० क, ग. 9. संसारतारिणीपा. क. " 1.-.- ६ अपनपारिजातः यथा विगलिता सद्यो 'ह्यमोघाऽप्यास्त्रबन्धना । तथा पुंसामविश्वासात् प्रपत्तिः प्रच्युता भवेत् ।। २१ ।। तस्माद्विसम्भयुक्तानां मुक्ति दास्यति साऽचिरात् । साधनान्तरयुक्तानां प्रपत्तिः स्वयमेव वा ॥ २२ ॥ साधयेत् मुक्तिकामानां विमुक्तिं प्रणवो यथा ।" * 'यथाऽऽह भगवान् व्यक्तं विष्वक्सेनाय शृण्वते ॥ २३ ॥ " इतरोपायदौष्कर्यादधिकारादिहानतः । उपायमिह वक्ष्यामि प्रपत्तिं सार्वलौकिकम् ॥ २४ ॥ कालदोषान्मनुष्याणां मनश्वाञ्चल्ययोगतः । विषयेन्द्रियसंयोगात् निषिद्धकरणादपि ॥ २५ ॥ विहिताऽकरणान्नापि जेतुं शक्या गणाधिप ! इन्द्रियाणीन्द्रियार्थेभ्यः' नृणां कालस्वभावतः ।। २६ ।। तस्मात्तु कर्मयोगेऽस्मिन् "नाधिकारो हि विद्यते । विहितेषु च सर्वेषु तदभावान्महामुने ! ज्ञानयोगेष्वभिरतिः" कस्यचिद्विद्यते न च । तदभावान्मयि प्रीतिः न च भक्तिश्च जायते ॥ २८ ॥ तस्मान्न कर्मयोगेऽस्मिन् नाधिकारो न चान्यथा । तस्मान्मत्पादयुगलम् ऐकान्त्याच्छरणं ब्रजेत् ॥ २९ ॥ * विष्वक्सेनसंहिता प्रदर्शयन्ति ।। JI 1 ចំ 1. ह्यमोघं वस्त्रबन्धनम्---प' क. 2. अविश्रम्भात-पाक. है संयुक्ता 4. यथा च भगवान् वक्ति----पा० क, ग. 5. हानित:-पा० क. पा.डा. 6. साम्प्र- 7. इन्द्रियार्थाश्च-पाक. 8. तस्मान्न ....पा. क. 9. अधि- ताम्-पा० क, ग. कारो हि युज्यते-पा. क. 10. अपि-पा० क, ग. 11. महामते-पा. क. 12. अधिकृति:-..पा. क. 13. कस्यचिन च विद्यते--पा० क. 11. वर्धते-पा. क, ग. 15. अर्थश्लोकोऽयं "क", "ग" पुस्तकयोर्न दृश्यते ।
प्रमाणपद्धतिः आत्मनो दुर्दशापत्तिं विमृश्य च गुणान्मम' । मदेकोषायसवित्तिः मां प्रपन्नो विमुच्यते ॥ ३० ॥ *आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरण तथा ॥ ३१ ॥ आत्मनिक्षेपकार्पण्ये षडिधा शरणागतिः । अनया च प्रपत्त्या माम् आकिश्चन्यैकपूर्वकम् ॥ ३२ ॥ मां माधवइति ज्ञात्वा मां गच्छेच्छरणं नरः । एवं मां शरणं गच्छन् कृतकृत्यो भविष्यति" ॥ ३३ ॥ 'रामायणे च भगवान् भारते च यदुक्तवान् । " सकृदेव प्रपन्नाय तबास्मीति च याचते ॥ अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम " ॥ ३४ ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" ॥ ३५ ।। वरदानात् वसिष्ठस्य देवतापारमार्थ्यवित् । पराशरः प्रणिजगौ पुराणे वैष्णवे तथा' ॥ ३६ ॥ तावदार्तिस्तदा वाञ्छा तावन्मोहः तदाऽसुखम् । यावन्न याति शरणं त्वामशेषावनाशनम् ॥ ३७ ॥ . * प्रपत्तेः षडङ्गानि निर्दिशन्ति । श्रीमद्रामायणभारतचरमश्लोको प्रदर्शयन्ति । 4. श्रीपराशरस्याप्ततमत्वं व्यवस्थापयन्तः, तदनुगृहीतं श्रीमद्वैष्णवं पुराण प्रमाणयन्ति । 1. हरेर्गुणान्-पा. क. 2. संपत्तिः-पा. क, ग. 3. अनयैव प्रपत्त्यैचम्-पा. ग. 4. माधवमिति -पा. क. 5. हि -- पा. क, ग. 6. यथोक्तवान् -पा० क, ग. 7. यथा---पा० क, ग. 8. तथा-पा० ख, ग.
८ प्रपन्नपारिजातः कमलनयन वासुदेव विष्णो धरणिधराच्चुत शङ्खचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् " ॥३८॥ * मनुरप्याह भगवान् गूढं सन्यासवैभवम् । अर्चा नारायणस्येति ब्रुवन् वर्णाश्रमक्रियाः ॥ ३९ ॥ "यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गाम् मा कुरून् गमः ॥ ४० ।। दक्षिणाशापतेस्त्र न मुख्या हृदयस्थितिः । अन्तः प्रविष्टः शास्ता यो जनानां यमयत्यपि ॥ ४१ ॥ आत्मानमन्तरस्तस्य' मृत्युम॒त्योः हादे स्थितः । तेन सर्वाधिराजेन विवस्वद्विम्बवर्तिना ॥ ४२ ॥ अविवादस्तु तस्यैव पादयोरात्मनोऽर्पणम् । योन्यथा सन्तमात्मानं अन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ।। ४३ ॥ तस्मात्सर्वनियन्तारं सर्वेषां च हृदि स्थितम् । भगवन्तं प्रपन्ना ये तीर्थादिस्तैर्विशुद्धयति ।। ।। ४४ ॥ | अर्थोऽयं बहुशः प्रोक्तो शौनकाद्यैर्महर्षिभिः । "तावदन्छेत्तु तीर्थानि सरितश्च सरांसि च । यावन्नाभूच्च भूपाल ! विष्णुभक्तिपरं मनः ॥ ४५ ॥ यत्किञ्चिन्मनुरवदत् तद्भेषजम” इति श्रुतिप्रकीर्तितवैभवस्य मनो: स्मृति प्रमाणयन्ति। । विष्णुधर्मव्यवस्थापकाचार्यसार्वभौमानां श्रीशौनकादिमहर्षीणां धर्म - शास्त्राणि उदाहरन्ति । -LRKHES ManumaatanARNAMA 1. अन्तरा तस्य--पा. क. पदयो:-~पा. ग. 3. अन्यथा--पा० क. 4, तैर्हि शुध्यति-पा. क. . अथायम् ---पा० क्र. 6. मनीषिमिः-पा. क.
स्वरूपपद्धतिः भवद्विधा भागवताः तीर्थभूताः स्वयं प्रभो! । तीर्थी कुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता" ॥ ४६ ।। * प्रमाणमियदेवालं प्रपत्तेः व्यासशौनकौ । प्रोक्तवन्तौ यथा श्रीमद्विष्णुधर्मे च भारते ॥ ४७ ॥ " वृथैव भवतो याता भूयसी जन्मसन्ततिः । तस्यामन्यतमं जन्म संचिन्त्य शरणं व्रज" || ४८ ॥ अथ पातकभीतस्त्वं सर्वभावेन भारत ! विमुक्तान्यसमारम्भो नारायणपरो भव" ॥ ४९ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजात प्रमाणपद्धतिः प्रथमा श्रीमद्वरदमहागुरुदिव्यचरणनलिने एवं शरणम् श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदार्यमहागुरवे नमः २. अथ स्वरूपपद्धतिः द्वितीया 'प्रपत्तिस्वरूपं चाह; बुद्धिरध्यवसायात्मा यानापर्यवसायिनी । प्राप्येच्छोरनुपायस्य प्रपत्ते रूपमुत्त्यते ॥ १ ॥ । “अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायतायाना प्रपत्तिः शरणागतिः" ॥ २ ॥ * किं बहुना, विशिष्टधर्मशास्त्रप्रवर्तकाभ्यां अभ्यर्हिततमाभ्यां श्रीमपास- शौनकाभ्यां श्रीमति महाभारते, श्रीमति विष्णुधर्मे च मुक्तकण्ठमभ्यभाषि - इति परमप्रमाणत्वेन तयोः श्लोको प्रमाणयन्ति । प्रपत्तिखरूपवैशाबोधिनी श्रीमद्विष्वक्सेनसंहिवां समुल्लिखन्ति । 1..वाक्यमिदं न दृश्यते "क " "ग" पुस्तकयोः । 2 १० प्रपन्नापारिजातः शरणागतिशब्देन प्रपत्तिातु विशेषिता । प्रपत्ति संश्रयेद्भत्तया शरणागतिलक्षणाम् " |॥ ३ ॥ इति युक्तं भगवता विष्वक्सेनाय सादरम्' । आर्तप्रपत्तिरित्युक्ता सैषा पञ्चाङ्गसंयुता ॥ ४ ॥ * " अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः । त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः ॥ ५ ॥ शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् । आत्मनो दुर्दशापत्तिं विमृश्य च हरेर्गुणान् ॥ ६ ॥ तदेकोपायसंवित्तिः तं प्रपन्नो विमुच्यते"। वाक्येप्वेतेषु पञ्चाङ्गा प्रपत्तिलक्ष्यते यथा ॥ ७ ॥ निक्षेपापरपर्यायो न्यासः पञ्चाङ्गलक्षणः । सन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥ ८ ॥ "आनुकूल्यस्य संकल्पात् प्रातिकूल्यस्य वर्जनात् । अङ्गानां लक्ष्यते रूपं लक्ष्मीतन्त्रप्रकारतः ॥ ९॥ तेषा मङ्गफलत्वं च तद्रूपं च विभागशः । # " आनुकूल्यमिदं प्रोक्तं सर्वभूतानुकूलता ॥ १० ॥ अन्तःस्थिताऽहं" सर्वेषां भावानामिति निश्चयात् " । एतेन व्याप्तिविज्ञानात् प्रपत्तव्यस्य सर्वशः ॥ ११ ॥ * पञ्चाङ्गसंयुताया आर्तप्रपत्तेः स्वरूपबोधकान् श्रीमदहिर्बुध्न्यसंहिता- श्लोकान् उपपादयन्ति । प्रपत्तेः पर्यायनामानि कीर्तयन्ति । प्रपत्तेः पञ्चाङ्गानां स्वरूपफलबोधकलक्ष्मीतन्त्रश्लोकान् समुत्क्षिपन्ति । 1. शृण्वते-पा. क. 2. गुणान् हरे:-पा. ग. 3. संपत्तिः-पा. क. 4. संयुतः-पा० क,ग. 5. अर्धश्लोकोऽयं "क" "ग" पुस्तकयोः न दृश्यते । 6. येषाम---पा. क. 7. अङ्गि- फलत्वम्-पाग. पा. ग. 8. तद्रूपत्वम्-पा० क. तद्रूपेणैव चोच्यते--पा. ग. 9. इति- पा० काग. 10. ज्ञातम् - पा. क. 11. अयम्---पा. क. 12. सर्वतः~-पा. क.
स्वरूपपद्धतिः ११ आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् । हिंसाद्यपायविरतिः उक्ता सर्वेषु जन्तुषु ॥ १२ ॥ '[" अङ्गसामग्र्यसम्पत्तेः अशक्तेश्चापि कर्मणाम् । अधिकारस्य चाऽसिद्धेः देशकालगुणक्षयात् ॥ १३ ॥ उपाया नैव सिद्ध्यन्ति "ह्यपायबहुलास्तथा । इति या गहानिस्तु दैन्यं कार्पण्यमुच्यते " ॥ १४ ॥ उपायान्तरदौष्कर्यात् तन्निवृत्तिर्हि सूचिता । अकिंचनाधिकारत्वं प्रपत्तेरपि सूचितम् ।। १५ ।। * “ शक्तेस्सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् । ईशेशितव्यसम्बन्धात् अनिदंप्रथमादपि ॥ १६ ॥ रक्षिष्यत्यनुकूलान्नः इति या सुदृढा मतिः । स विश्वासो भवेच्छक सर्वदुष्कृतनाशनः ॥ १७ ॥ स्वरक्षायोग्यतां ज्ञात्वा प्रपत्तव्यस्य युक्तितः । रक्षिष्यतीति विश्वासात् अभीष्टोपायकल्पनम् ॥ १८ ॥ करुणावानपि व्यक्तं शक्तस्वाम्यपि देहिनाम् । अप्रार्थितो न गोपायेत् इति तत्प्रार्थनामतिः ।। १९ ॥] गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् " । यानापर्यवसायित्वं प्रपत्तेरथ उच्यते ॥ २० ॥ प्रपत्तेस्तु प्रपत्तव्यप्रसादद्वारता तथा । "तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता ॥ २१ ॥ * पञ्चाङ्गसंयुतायाः प्रपत्तेः लक्षणनिरूपणैकतानं लक्ष्मीतन्त्र प्रदर्शयन्ति । -1, कुण्डलितो भागः "ग" पुस्तके १२ श्लोकानन्तरं दृश्यते ।। 2. उपायेनैव- पा. ग. 3. ह्यपाया---पा. क. 4. तत्--पा. क. 5. तु-.पा. क.6: भक्तः पाग. 7. सूपपदस्थापचपा. ख. 8. रूपम्-.पा. क. -- प्रपन्नपारिजातः १२ + केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते । उपाये च फले चैव 'स्वप्रयत्ननिवर्तनम् ॥ २२ ॥ . स्वाम्यायत्तमिति व्यक्तं निक्षेपस्याङ्गिता तथा । आर्तप्रपत्तावित्येषां अङ्गानां सन्निधिः तथा ॥ २३ ।। दृप्तपपत्तावेतानि भविष्यन्त्युत्तरोत्तरम् । आर्तहप्तविभागस्तु श्रीमद्रामायणोदितः ॥ २४ ॥ * " आतॊ वा यदि वा दृप्तः परेषां शरणागतः । अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना" ॥ २५ ॥ यस्य देहान्तरकृते शोको दृप्तस्स उच्यते। यश्च प्रारब्धदेहेऽपि शोचत्यार्तस्स उच्यते ॥ २६ ॥ आतंदृप्तविभागेन प्रपत्तिरियमुच्यते । साधनं भगवत्प्राप्तौ स एवेति स्थिरा दृढा ।। २७ ।। साध्यभक्तिः स्मृता सैव प्रपत्तिरिति गीयते । इमं चार्थमभिप्रेत्य वचो भागवते यथा ॥ २८ ॥ "प्रपन्नश्चातको यद्वत् प्रपत्तव्यः कपोतवत् । रक्ष्यरक्षकयोरेतत् लक्षणं' लक्ष्यमेतयोः" ॥ २९ ।। प्रपत्तिरपि सामान्यशास्त्रेऽन्यत्र प्रपञ्चिता । ० " यद्येन कामकामेन न साध्यं साधनान्तरैः ॥ ३० ॥ आर्तहप्तप्रपत्तिविभागबोधकं श्रीमद्रामायणश्लोकमुदाहरन्ति । प्ति--आर्तप्रपत्ती विवेचन्ति । श्रीमद्भागवतवचः संवादयन्ति । प्रपत्तिप्रभावबोधकं शास्त्रान्तरं समुल्लिखन्ति । 1. स्वप्रयत्नात--पा. क. 2. कृतात्मभिः--पा. ख. 3. अस्तु--पा. 4. स्थितिर्थथा-या. क. 5. तु या-पा० ग, 6, भगवतो-पा....... 7. लक्ष्यं लक्षणमू.
अधिकारिपद्धतिः १३ मुमुक्षुणा न सांख्येन योगेन न च भक्तितः । प्राप्यते परमं धाम यतो नावर्तते पुनः ॥ ३१ ॥ तेन तेनाप्यते तत्तन्न्यासेनैव महामुने! । (परमात्मा च तेनैव साध्यते पुरुषोत्तमः) ॥ ३२ ॥ साधनान्तरदुस्साधं प्राप्यं यल्लोकवेदयोः । सुखेन प्राप्यते येन सा प्रपत्तिरिति स्थितिः" ।। ३३ ।। इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते स्वरूपपद्धतिः द्वितीया श्रीमद्वरदार्यमहागुरुदिव्यचरणावेव शरणम् श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदार्यमहागुरवे नमः ३. अथ अधिकारिपद्धतिः तृतीया 'अधिकारिस्वरूपमाह * अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता । प्रपत्तौ सवर्णीय सात्त्विकत्वादियोगतः ॥ १ ॥ " सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा" । इति सर्वफलप्राप्तौ सर्वेषां विहिता यतः ॥ २ ॥ प्रपत्तेर्वाचको मन्त्रः कठवल्लयादिषु स्मृतः । अयं पुराणे पाझे च पराशर - वसिष्ठयोः ॥ ३ ॥ संवादे प्रणवैकार्थः पञ्चविंशतिवर्णकः । ऋष्यादिसहितः साङ्गः भूयोभूयः प्रपञ्च्यते ॥ ४ ॥ * प्रपत्तेः सर्वाधिकारतां प्रपञ्चयन्ति । 1. च--पा० ख. यत्-पा. ग. 2. कर्मणा-पा. ग. 3. अर्धश्लोकोऽयं "ग" पुस्तके न। 4. दुस्साध्यम्-पा. क. 5. साध्यते-पा० क. 6. वाक्यमेतत् न दृश्यते "क" पुस्तकयोः ।... ?. योगिनः-पा० क, ग. 8. श्रुतःपा. ग. 9. तुपा का १४ प्रपन्नपारिजातः तत्र सर्वाधिकारखं सकृदुच्यार्यता' तथा । विधीयते तथाऽन्यत्र शास्त्रे भगवताऽपि च ॥ ५ ॥ लैवर्णिकेतरस्यापि द्वये तस्मादधिक्रिया । धर्मिग्राहकमानेन यत्सिद्ध लोकवेदयोः ॥ ६ ॥ यथा हि रथकारादेः 'अन्याधानादिवैदिके । यथाऽऽज्यावेक्षणादौ तु मन्त्रे पल्याः प्रमाणतः ॥ ७ ॥ यद्वाऽऽधीतक्रमापायात् स्वरादेर्वा विलोपतः । द्वयस्य सर्वाधिकृतिः सर्वेषां तान्त्रिकं तु वा ॥ ८ ॥ * अज्ञ-सर्वज्ञ-भक्तानां प्रपत्तावधिकारिता । उपायान्तरविज्ञानाशक्तेरज्ञस्य युज्यते ॥ ९॥ सहशोपायवैधुर्य साक्षाद्भगवतो विदन् । सर्वज्ञः शरण याति योगमार्गपराङ्मुखः ॥ १० ॥ सर्वकालं प्रेमवशात् भजन् भक्तोऽप्यनन्यधीः । उपाय वाऽप्युपेयं वा क्षमोऽन्यं नावलम्बितुम् ॥ ११ ॥ जितन्तामन्त्रविवृतौ शौनकेन यदीरितम् । | " अज्ञसर्वज्ञभक्तानां गतिर्गम्यो भवेद्धरिः" ॥ १२ ।। “ इदं शरणमज्ञानां इदमेव विजानताम् । इदं तितीर्णतां पारं इदमानन्त्यमिच्छताम् " ॥ १३ ॥ * अज्ञ-सर्वज्ञ-भक्तानां प्रपत्तावधिकारितां व्यवस्थापयन्ति । शौनकवचो दर्शयन्ति । लक्ष्मीतन्त्रमुदाहरन्ति । 1. उच्चारिता-पा. क. 2. ह्यत्र-पा. क. 3. श्रीशास्त्रे भगवानपिपा. ग. 4. धर्मिग्राहिप्रमाणेन-पा० क, ग. 5. सिद्धेय लोकवेदयो:-पा. क, ग. 6. तु-पा० क. 7. अन्याधाले तु --पा. क, ग. 8. दौहार्यात्-पा. क.9: नान्यावलम्बनम्-पा. ग.
गुरूपासनपद्धतिः - इति लक्ष्म्या च' तन्त्रेऽपि प्रपत्तावनुवर्णितम् । आस्तिक्यादिगुणोपेतं शास्त्रं वक्त्यधिकारिणम् ॥ १४ ॥ * यथाऽऽह भगवान् शास्त्रे विष्वक्सेनाय शृण्वते । “य एवं शरणं गच्छेत् कृतकृत्यो भविष्यति ॥ १५ ॥ एतद्रहस्यं वेदानां पुराणानां च सम्मतम् । गुह्या'द्रुह्यतमं प्रोक्तं निगमान्तेषु कीर्तितम् ॥ १६ ॥ नादीक्षिताय वक्तव्यं नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं नास्तिकाय कदाचन । गुरुभक्तिन यस्यास्ति बीजपिण्डपदादिषु ॥ १७ ॥ नोपदेशस्तु 'यस्यास्ति न वक्तव्यं हितार्थिना । इत्युक्तवान् जगन्नाथो द्विरदानन मां प्रति । मयाऽपि तव भक्तस्य' कथितं यच्छ्रुतं पुरा" ॥ १८ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते अधिकारिपद्धतिः तृतीया श्रीमद्वरदार्यमहागुरुदिव्यचरणावेव शरणम् .natin.in श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदार्थमहागुरवे नमः ४. अथ गुरूपासनपद्धतिः चतुर्थी संसारोद्विग्नमनसा तापत्रितयभीरुणा । विरक्तनेह चाऽगुत्र फले गम्यो गुरुर्महान् ॥ १ ॥ * प्रपत्तेर्माहात्म्यबोधकं विष्वक्सेनसंहितावचनमुपक्षिपन्ति । 1. स्वतन्त्रेऽपि--पा. क, ग. 2. प्रपत्त्युक्तौ तु वर्णितम्---पा० क, ग. एवं शरणं गच्छन्--पा. क, ग. 4. गुह्यं मया--पा. ग. 5. लोके--पा० क.. . मन्त्रज्ञानप्रदादिषु-पा. क. बीजपिण्डवरादिषु-~पा. ग. 7. तस्य---पाग 1. तुभ्यं भक्ताय--पा. क.
॥ प्रपन्नपारिजातः * परीक्ष्य लोकान् कर्मचितान् विप्रो निर्विण्णमानसः । कृतेन मोक्षो नास्तीति तज्ज्ञानार्थं गुरुं व्रजेत् ॥ २ ॥ श्रोत्रियं ब्रह्मनिष्णात प्रीणयेद्वस्तुभिः प्रियैः । तस्मै प्रशान्तचित्ताय शिष्याय प्रणताय च ॥ ३ ॥ दद्यादष्टाक्षर सत्यं ब्रह्म नारायणं परम् । तां ब्रह्मविद्या प्रवदेदित्यर्थ शृतिराह हि ॥ गुरोशिशप्यस्य विद्याया लक्षण कालमेव च । सामान्यतो विशेषाच्च भगवान् शास्त्र उक्तवान् ॥ ५ ॥ " त्रिपु वर्गेषु सम्भूतो मामेव शरणं गतः । नित्यनौमित्तिकपरो मदीयाऽऽराधने रतः ॥ ६ ॥ आत्मीयपरकीयेषु समो देशिक उच्यते । आस्तिको धर्मशीलब्ध शीलवान् वैष्णवः शुचिः ॥ ७॥ गम्भीरश्चतुरो धीरः शिष्य इत्यभिधीयते । नानुकूल्यं न नक्षत्रं न तीर्थादिनिषेवणम् ।। ८ ॥ न पुनश्चरणं नित्यं जपं वाऽपेक्षते ह्ययम् । नमस्कृत्य गुरून् दीर्घप्रणामैस्त्रिभिराहतः ॥ ९ ॥ परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदभायात् नास्त्यकृतः कृते नदिनानाथं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै विद्वान उपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुष मनत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ।। अति पतिपादितमर्थ भगवच्छास्त्रेण उपबृहयन्ति । .in .w...mams Munderarurnak Aan rat Mar..."" ""rn Ary 1. नातीति कर्मणा मोक्ष:--पा. क. 2. निष्ठं तम्-.-.पा. क. 3 प्रयताय-पाव 5.हि---पा. क, ग. 6. वर्गेषु---.पा. क. क. 8.न.--पा० क, ग. 9. दीर्घः---पा० ग. 10. आदित:पा क 7. चैष्णवार्च गुरूपासनपद्धतिः गृह्णीयान् मन्त्रराजान' निधिकांक्षीव निधनः । परंपरामुपदिशेत् गुरूणां प्रथमं गुरुः ॥ १० ॥ वाचयित्वा द्वयं साङ्गं प्रपतिं मानसीं दिशेत् । अनुकांक्षन् सदा शिष्यं गुरुरौरसपुत्रवत् ।। ११ ।। 'विद्वान् समाहितो भूत्वा ग्राहयेदुपधिं विना । तदौपनिषदी विद्या विश्वासज्ञानवर्धिनीम् ॥ १२ ॥ अन्यामाध्यात्मिकी 'विद्या शिष्यावस्थानुरूप्यतः । तस्मै प्रशान्तचित्ताय कृपया निस्पृहो वदेत् ।। १३ ॥ दत्त्वा तु दक्षिणां तस्मै यथाशक्ति यथाविधि । तमचयेद्यथाकालं हितं चास्य समाचरेत् " ॥ १४ ॥ गुरोर्वैभवमाख्याति "जयाख्याऽपि च संहिता । गुरुरेव परं ब्रह्म गुरुरेव परं धनम् ॥ १५ ॥ गुरुरेव परा विद्या गुरुरेव परायणम् । गुरुरेव परः कामो गुरुरेव परा गतिः ॥ १६ ॥ 1"यस्मात्तदुपपेष्टाऽसौ तस्माद्गुरुतरो गुरुः । अर्चनीयश्च वन्ध्यश्च कीर्तनीयश्च सर्वदा ॥ १७ ॥ ध्यायेज्जपेन्नमेद्भक्त्या भजेदभ्यर्चयेन्मुदा । उपायोपेयभावेन तमेव शरणं व्रजेत् " ॥ १८ ॥ इति सर्वेषु वेदेषु सर्वशास्त्रषु सम्मतम् । एवं द्वयोपदेष्टारं भावयेद् बुद्धिमान् धिया ॥ १९ ॥ ख्यसंहितावचनानि दर्शयन्ति । तम्-पा० क. 2. विद्याम्-पा. क. 3. आदावुपनिषद्विद्याम् ---पा. ग. 5. अनुरूपतः पा.---क, ग. 6. श्लोकार्थोऽयं न दृश्यते "क 7. जगन्नाथम् --पा. क, 8. प्राप्य चार-पा.क, ग. नसंहिता-पा. क. 10. अर्धश्लोकोऽयं "ग" पुस्तके न ॥ 11. मुदा-पा० क. क.
१८ अपनपारिजातः 5 * " शरीरं वसु विज्ञानं वासः कर्म गुणानसून् । गुर्वर्थे धारयेद्यस्तु स शिष्यो नेतरस्स्मृतः ॥ २० ॥ " नारायणोऽपि 'विकृति याति गुरोः प्रच्युतस्य दुर्बुद्धेः । कमलं जलादपेतं शोषयति रविन तोषयति ॥ २१ ॥ यो विष्णोः प्रतिमाकारे लोहभावं करोति च । यो गुरौ मानुषं भाव उभौ नरकपातिनौ ॥ २२ ॥ सामान्यतो विशेषाच्च यस्माद्धर्मान् सनातनान् । आचिनोति स आचार्यः तस्मै द्रुह्येन्न किंचन ॥ २३ ॥ 'गु' शब्दस्त्वन्धकाराख्यो 'रु' शब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् “ गुरु " रित्यभिधीयते ॥ ॥ २४ ॥ । मनुरप्याह भगवान् " वन्द्यो बालोऽपि मन्त्रदः । "ज्यैष्टयं वेदान्त विज्ञानात् विप्राणामिति चोदितम् ॥ २५ ॥ अध्यापयामास पितॄन् शिशुरागीरसः कविः । पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ २६ ॥ ते तमर्थमपृच्छन्त देवानागतमन्यवः10 देवाश्चैतान समेत्योचुः न्याय्यं वश्शिशुरुक्तवान् ॥ २७ ॥ बालोऽपि विप्रो वृद्धः स्यात् पिता भवति मन्त्रदः" । अझं "हि बालमित्याह पितेत्येव च मन्त्रदम् ॥ २८ ॥ * जयसंहितावचनानि उदाहरन्ति । मनुवचन प्रमाणयन्ति । 1. विमुखम् --पा० क. 2. पोषयति-पा. ग. 3, यस्तु धर्मानशेषतः-पा. क. 4. अशेषत:--पा. ग. 5. आचारयेद्यः-पा० ग, 6. अन्धकारस्स्यात्---पा. ग. 7. ज्येष्ठो-पा. ग. 8. वेदार्थ-पा. क. 9. विज्ञाने प्रमाणमिति चाहतम्---पा. ग. 10. माहितमन्यवः -पा० ग. 11. मन्त्रत:-पा, ग. 1.2. तु-~पा० क.
गुरूपासनपद्धतिः १९ न हायनैर्न पलितैः 'न च वित्तैन बन्धुभिः । ऋषयश्चक्रिरे धर्मान् योऽनूचानः स नो महान् ॥ २० ॥ विप्राणां ज्ञानतो ज्यैष्ष्टयं क्षत्रियाणां तु वीर्यतः । वैश्यानां धनतो ज्यैष्ष्टयं शूद्राणा मेव जन्मतः ॥ ३० ॥ गुरोश्च गुवस्सर्वे पूजनीया विशेषतः । गुरुदारसुतादौ तु गुरुववृत्तिमाचरेत् ॥ ३१ ॥ धर्मव्यतिक्रमस्त्याच्चत् गुरुर्बोध्यो रहस्यपि । पतनीयं गुरोः कर्म यद्यशक्यमपोहितुम् ॥ ३२ ॥ बोधनादेवभजनात् सत्संगपरिवेषणात् । 'सद्गुरूनुपसेवेत हित्वा तदनुवर्तनम् ॥ ३३ ॥ तस्यापि हितमाकांक्षन् मुच्यते नात्र संशयः । यदि शिष्यः पतेन्मार्गात् तं प्रयत्नेन वारयेत् ॥ ३४ ॥ श्रियः पत्युः पदाम्भोजे गुरुाचेत तद्धितम् । प्रसादयेद्भगवता "आत्मनाऽपि तमुद्धरेत् ॥ ३५ ॥ तेन सम्भाषणादीनि वर्जयेदनिवर्तने । 1"न निश्वासमभिव्यक्तं विसृजेद्गुरुसन्निधौ ॥ ३६ ।। गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः " ॥ ३७ ॥ आचार्यस्य प्रसादेन' मम सर्वमभीप्सितम् । प्रामुयामिति विश्वासो "यस्यास्ते स सुखी भवेत् ।। ३८ ॥ 1. न वित्तैर्नच-पा. ग. 2. बान्धवैः--.पा. क. है. धर्मम्-पा० क, ग. 4. धनधान्यतः 5. नियमातिक्रमः-पा० क, ग. 6. प्रयत्नेन-- पा. ग. 7. तद्गुरून्--पा० क, ग. 8. प्रियम्--पार क. 'नोऽपि---पा० ग. आत्मनोऽपि-पा० ख. 10. निश्वासमपि सुव्यक्त--पा. क. 11. पदानेन---पा. क. प्रभावेनपा. ग. 12. यस्यास्ति पाग. 1 -पाक. धान्यधनत:: - ग. ..नात्म.
२० प्रपन्नपारिजातः येनैव गुरुणा यस्य 'न्यासविद्या प्रदीयते । तस्य वैकुण्ठदुग्धाब्धिद्वारकाः सर्व एव सः ॥ ३९ ॥ ऐहिकामुष्मिकं सर्वं गुरुरष्टाक्षरप्रदः । इत्येवं ये न मन्यन्ते त्यक्तव्यास्ते मनीषिभिः ॥ ४० ॥ एकाक्षरप्रदातारमाचार्य योऽवमन्यते । श्यानयोनि'शतं प्राप्य चण्डालेष्वभिजायते ।। ४१ ॥ * महावराहो भगवानाह जन्माब्धितारणे । " नावं नृतनुमात्मानं अनुकूलाऽनिलं गुरुम् ॥ ४२ ॥ कर्णधारमतो देही गुरुणा संस्कृति तरेत् । नृदेहमाद्य प्रतिलभ्य दुर्लभ प्लवं सुकल्यं गुरुकर्णधारम् । मयाऽनुकूलेन नभस्वतेरितम् पुमान् भवाब्धि न तरेस हात्महा इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते गुरूपासनपद्धतिः चतुर्थी श्रीमदरदमहागुरुदिव्यचरणनलिने एवं शरणम् * :- वाराहपुराणवचनमुपदर्शयन्ति । महता पुण्यपापेन क्रीतेयं कायनोस्त्वया । वत् त्वं दुःखोदधेः पारं त्वर यावन्नभिद्यते । लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते मानुष्यमर्थ सुख नित्यमपीह धीरः । तूर्णं यतेतनपतेदनुमृत्युयावत् निर्भेदसार्धविषयः खलु सर्वत रस्यात् ।। m- 1. सम्यग्विधा--.पा. क..हि-पा. क. 3. ममाष्टाक्षरदो गुरुः-पा. क. 4. सहस्रेषु-----पा. क. 5. आनुकूल्येन--पा. ग.
भगवत्परिचर्यापद्धतिः २१ श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदार्यमहागुरवे नमः ५. अथ भगवत्परिचर्यापद्धतिः पञ्चमी एवं गुरुप्रसादेन 'शेषित्वज्ञानपूर्वकम् । देवतान्तरवन्नित्यं शब्दादीनपि कुत्सयन् ॥ १ ॥ 'विष्णुप्राप्ति फलाकांक्षी विष्णूपायो हि वैष्णवः । एकान्ती तु विनिश्चित्य देवताविषयान्तरैः ॥ २ ॥ भक्त्युपायं समं कृष्णप्राप्तौ कृष्णैकसाधनः । देवतान्तरशब्दादिभक्तिकृष्णाख्यहेतुषु ॥ ३ ॥ साम्यकृत् परमैकान्ती हरौ स्वामीति बुद्धिमान् । किं कुर्वाणः सदाकालं भगवत्पादपद्मयोः ॥ ४ ॥ शेषत्वमात्मनो 1 जानन् सार्थयन् कालमाक्षिपेत् । विज्ञाय मूलमन्त्रार्थं "द्वयैकार्थतया गुरोः ॥ ५ ॥ तदेकशरणो भूत्वा हरिं तेन समर्चयेत् । काल्यमर्चन कुर्यात् मूलमन्त्रेण शक्तितः ॥ ६ ॥ " सर्ववेदान्तसारार्थः संसारार्णवतारणः। मन्त्राणां परमो मन्त्रो गुह्यानां गुह्यमुत्तमम् ॥ ७ ॥ पवित्राणां पवित्रं च मूलमन्त्रः सनातनः । मुमुक्षूणां सदा जप्यं भुक्तिमुक्तिफलप्रदम् ॥ ८ ॥ * भगवन्त प्रपन्नोऽसौ हरौ स्वामीति भक्तिमान् | ---पा. ग. 1. शेषत्व--पा. क. 2. शब्दादी:-पा. वा. 3. कुत्सयेत्---पा. क. 4. कृष्ण- प्राप्ति-पा. ग. 5. फलैकार्थी भक्त्युपायो हि-पा. क, ग. 6. भक्त्युपायसमम्-पा. ग. 7. साधकः-पा. ग. 8. किंकुर्वाणस्सदाकालं-पा० क, ग. 9. मनस्तत्पाद- पद्मयो:---पा. क. 10. ज्ञात्वा---पा० क, 11. मन्त्रेण--पा० ग. 12. भक्ति- पा० क. 13, तारक:-पा, क. - ग.
२२ प्रपन्नपारिजातः है वैष्णवानां सदा जप्यं भक्तिज्ञानबिवर्धनम्' । मन्त्राणामाश्रयं दिव्यं सर्वपापप्रणाशनम् ॥ ९ ॥ समाहितमना भूत्वा जपं कुर्यादत्तन्द्रितः " । इत्थं गजाननादीनां श्रीमत्सेनेशशासनात् ॥ १० ॥ [अनेन वैष्णवः कुर्यात् हरेर दिकं सदा । द्वयेन वार्चन कुर्यात् गुरुवन्दनपूर्वकम् ॥ ११ ॥ कृतलक्षण एवायं अर्चयेद्वैष्णवो हरिम् । ] * व्यासस्तु भगवानाह “ वर्णैस्तु कृतलक्षणैः ॥ १२ ॥ अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ।" लक्षणं द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ॥ १३ ॥ शङ्खचक्रादिकं बाह्य अन्यद्रागाद्यपेतता । तथाच सर्वोपनिषसिद्ध चक्रादिधारणम् ॥ १४ ॥ + अथर्वोपनिषद्यक्तं विदधाति विपश्चिताम् । " दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ॥ १५ ॥ सव्ये तु शङ्ख बिभृयात् इति ब्रह्मविदो विदुः ।" तन शृतित्वसन्देहे 'खिलमन्त्रोऽपि तत्समः ॥ १६ ॥ महत्परिग्रहान्नास्ति सन्देहस्तत्र चेद्धमः । * पाझं पुराणमाग्नेय कोश "त्युद्वाहुरप्युत ॥ १७ ॥ * तप्तचक्राङ्कनधरैरेव भगवदर्चने कार्यमित्यव व्यासवचनमुपक्षिप्यते । अथर्वोपनिषदं प्रमाणयन्ति । । पञ्चायुधानां धारणे पाद्ममानेयं च पुराणं संवादयन्ति । 1. प्रवर्धनम् —पा. क. ग. 2. आश्रयेत्-~-पा. ग. 3. कुण्डलितो भागः “ग पुस्तके न॥ 4. तप्तादि-पा. ग. 5. वेदविदो-~~-पा. ग. 6. खिलमन्त्रऽपि तत्त मम्-पा० क, ग. '7. समम्-पा० क.; मत:-पा. ग. 8. तथा पुराणम्-पा. कर 9. चात्यतः--पा० रु., अप्यत:पाग, भगवत्परिचर्यापद्धतिः २३ +- पञ्चायुधानि धार्याणि भक्तिश्रद्धोपबृंहितः । ललाटे 'मूर्ध्नि हृद्वाह्योः एकवैक पृथक् पृथक् ॥ १८ ॥ ललाटे तु गदा धार्या मूर्ध्नि चापं तथा परम् । नन्दकं चैव हमध्ये शङ्खचक्रे भुजद्वये ॥ १९ ॥ लोहरनलसन्तप्तः : ततन्मन्त्राधिवासितैः। अङ्कयेत् , " * वृद्धमनुरप्येतदाहाऽऽदराद्यथा ॥ २० ॥ 'ऊर्ध्वपुण्डू तथा चक्र नित्यं धारयते नरः । शुभानि तस्य वर्धन्ते स्वशुभन्तु प्रणश्यति" ॥ २१ ॥ काल उक्तो भगवता शास्त्र चक्रादिधारणे । ""उत्तमः षोडशादर्वाक् आपञ्चाशस्तु मध्यमः ॥ २२ ॥ अतः परं वै ह्यधम" इति कालव्यवस्थितिः । विना तु वार्षिकान् मासान् सवै मासाशुभावहाः ॥ २३ ॥ स्थानं प्रमाण द्रव्यं च पाश्चरात्रे विशेषतः । विहितं तत्प्रकारेण धारयेदूर्ध्वपुण्डूकम् ॥ २४ ॥ प्रशस्ते पर्वताग्रादौ जातया श्वेतमृत्स्नया । ऊर्ध्वपुण्डं ततः कार्य वैष्णवैस्तु विशेषतः ॥ २५ ॥ विमलान्यूर्ध्वपुण्डाणि सान्तरालानि यो नरः । करोति विमलं तेन मन्दिरं "मे करोति सः ॥ २६ ॥ * वृद्धमनुवचनमुदाहरन्ति । +चक्रादिधारणे काल सप्रमाण निरूप पन्ति । 1. मूर्भिवत्-पा. ग. 2. शाझं तत:-पा० ग. 3. हि-पा० क, ग. त्तमम्-पा. ख, ग. ह. पञ्चविंशात्तु मध्यभम् -पा. ग. 6. अधमम् -पा. ग. ताः -पा०क. 8. तु-पा. ग. 9. द्विजः कुर्यात्-पा. ग. 10. निर्म- -पा.क. 11, तेषु-पा० ग. 12. शेषशायिनः-पा० क.
प्रपन्नपारिजातः * 'रागाद्यपेतं हृदयं वागदुष्टाऽनृतादिना । "हिंसादिरहितः कायः केशवाराधनं त्रयम् ॥ २७ ॥ अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमापुष्पं विशेषतः ॥ २८ ॥ ज्ञानपुष्पं तपःपुष्पं ध्यानपुष्पं तु सप्तमम् । सत्यमष्टविध पुष्पं विष्णोः प्रीतिकरं भवेत् " ॥ २९ ॥ # एवमाभ्यन्तरैर्बादैः चिह्रभूषितविग्रहः । स्नातस्तीर्थेषु विधिवत् कृतदेवादितर्पणः ।। ३० ॥ अष्टोत्तरशतं जप्त्वा मूलमन्त्रमतन्द्रितः । सांस्पर्शिकं द्रव्यजातं तथैवाऽऽभ्यवहारिकम् ॥ ३१ ॥ अध्यौपचारिक कृत्वा यागभूमेरलंकृतिम् । यतीन्द्रोदितनित्योक्तक्रमेणैव यजेद्धरिम् ॥ ३२ ॥ प्रदक्षिणनमस्कारैः स्तोत्रैरेकान्तिसम्मतैः । यथा भृत्यो महाराज प्रीणयेत् प्रेमविह्वलः ।। ३३ ॥ तथाऽऽत्मस्वामिनं देवं 'प्रीणयेदुपधिं विना । महावराहो भगवान् अगस्त्याय यदुक्तवान् ॥ ३४ ॥ भक्त्यङ्गजातं तत्कुर्यात् यथाकालं समाहितः । मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । स्वयमभ्यर्चन चैव मदथै दम्भवर्जनम् ॥ ३५ ॥ केशवाराधनलितयक्रममुपपादयन्ति । + विष्णोः प्रीतिकरं पुष्पाष्टकमुल्लिखन्ति । भगवदाराधनक्रमं निरूपयन्ति । महावराहवचनं प्रमाणयन्ति । 1. रागायदुष्टम्पा. क. 2 हिंसायदुष्टः-पा. क. हिंसाविरहित:--पा. ग. 3. तथैव च--पा० क, ग. + विधिना--पा. क, ग. 5. समाहितः---पा. क, ग. 6. तथा--पा. क. अथ-पा. ग. 7. तोषयेत् ---पा, क. ग. 4 ..
भगवापरिचर्यापद्धतिः मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविकिया। ममानुस्मरणं नित्यं यच्च मां नोपजीवति ॥ ३६ ॥ भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते । स विप्रेन्द्रो मुनिः श्रीमान् स यतिः स च पण्डितः ॥ ३७ ।। तस्मै दियं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ।। * एवमर्चावतारं तु यजेच्छौनकवाक्यतः ॥ ३८ ॥ 'सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वाऽऽत्मनः प्रियकरी सुवर्णरजतादिभिः ॥ ३९ ॥ '(तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् । तामर्चयेत् तां प्रणमेत् तां भजेतां विचिन्तयेत् ॥ ४० ॥ विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ।) 'यत्किंचिदपि कुर्वाणो विष्णोरायतने वसेत् ।। विष्ण्वालये बसेन्नित्यं कुर्यात्तत्कर्म भक्तितः ॥ ४१ ॥ यडूलं मन्दिरं विष्णोः 'यदलकारकं प्रियम् । भोगोपयुक्तं वा किञ्चित् कुर्यान्नोपायबुद्धितः ॥ ४२ ॥ यन्मुहूत क्षण वाऽपि वासुदेवो न चिन्त्यते । सा हानिः तन्महच्छिदं सा भ्रान्तिः सा च विक्रिया ॥ ४३ ।। . अर्चावतारयननं शौनकवचनेनोपपादयन्ति । - 1. विक्रियाः .- पा. ग. १. एवमटविधा भक्तिःपा. क, ग. 3. तु-पा० क. 1. तम् -पा० क, ग. 5. प्रीतिकरीम् --पा. क, ग. 6. कुण्डलितो भागः '' पुस्तके न || 7. न किञ्चिदप कुर्वाण.-~~-पा. क. 8. शक्तित:.-पाक. 9. यत्कर्म --पा. क; ग, 10. मुदितम् ---पा० क, 1!, यथालहरणम्----पा. क. यदालकरिक प्रये-पा० ग. 4 २६ प्रपन्नपारिजातः एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते । दस्युभिर्मुपितेनेव युक्तमाक्रन्दितुं भृशम् ।। ४४ ॥ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा ॥ ४५ ॥ इति श्रीवात्स्यवरदाचार्य महागुरुभिरनुगृहीते प्रपन्नपारिजाते भगवत्परिचर्यापद्धतिः पञ्चमी श्रीमदरदमहागुरुदिव्यचरणनलिने एव शरणम् : श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदार्थमहागुरवे नमः ६. अथ भगवत्परिजनोपासनापद्धतिः षष्ठी 'अथ लक्ष्मी समभ्यर्च्य भूमिनीलादिभिस्सह । सूत्रवत्यादिभिश्चैव प्रपन्नेन विशेषतः ॥ १ ॥ गुरूणां विश्रमस्थानं ईशानां जगतोऽस्य च । . महिषीं देवदेवस्य "दिव्यां नित्यानपायिनीम् ॥ २ ॥ 'यथाऽऽह भगवांच्छास्त्र विष्वक्सेनाय शृण्वते । लक्ष्म्यां मयि च युष्मासु भक्तो यो भुवि दुर्लभः" ॥ ३ ॥ अनन्तरं हरेस्सर्वैः उपचारैस्समाहितः । तद्वत्समर्चयेद्देवी देवदेवस्य वल्लभाम् ॥ ४ ॥ श्रीमहालक्ष्म्या आराधनस्यावश्यकताबोधकं विष्वक्सेनसंहिताश्च मुपाददते। 1. अथ लक्ष्म्यास्समर्चा स्यात् ---पा. क, ग.: 2. श्रीभूनीलादिभिस्सह-पा. 3. देवीम्---पा. ग. A. यदाह-पा० ग. 5. विष्वक्सेनस्य शृण्वत:पा। 6, सर्वदा-पा. क.
भगवत्परिजनोपासनापद्धतिः २७ अस्या वैभवमाख्याति तत्त्वरत्ने यथा हरिः । " परव्यूहादिकान् पञ्च प्रकारानात्मनो विदन्' ॥ ५ ॥ तथा लक्ष्म्याः "स्वरूपं च वक्ष्ये शृणु समाहितः । गुणतश्च स्वरूपेण व्याप्तिस्साधारणी मता ॥ ६ ॥ 'मया यथा जगद्याप्त स्वरूपेण स्वभावतः । तया व्याप्तमिदं सर्व नियन्त्री च तथेश्वरी ॥ ७ ॥ मया व्याप्ता तथा साऽपि तथा व्याप्तोऽहमीश्वरः । मम तस्याश्च सेनेश ! वैलक्षण्यमिदं शृणु ॥ ८ ॥ मच्छेषभूता सवैधामीश्वरी वल्लभा मम । तस्याश्च जगतश्चाहमीश्वरो वेदविश्रुतः ॥ ९ ॥ अस्या मम च शेषं हि' विभूतिरुभयात्मिका । "इति श्रुतिशिरस्सिद्धं मच्छास्त्रेष्वपि मानदः ॥ १० ॥ "यथा भूमिश्च नीला च शेषभूते मते मम । तथाऽऽत्मनाञ्च" सर्वेषां ज्ञानतो व्याप्तिरिष्यते ।। ११ ।। स्वरूपलस्तु न तयोः व्याप्तिर्वेदान्तपारग!" 11 अस्मिन् शास्त्रे "यथाऽन्यत्र "तथा लक्ष्मीरपि स्वयम् ॥ १२ ॥ b 11. * श्रीमहालक्ष्म्या वैभवबोधकवचनानि उपाददते । एवं लक्ष्या भगवदनपायित्वे भगवद्वचनमुपपाद्य, इदानीं श्रीमहालक्ष्म्या वचनमुपाददते। 1. बदन्- मा. क, ग ... प्रभावं च-पा० क. 3. मम.पा. ग. 4 यथा- मया पाग. 5. यथा----पा. क. 6. तस्याः---पाक, प्रा. 7. शेषैषा--पा० क. 8. इति हि श्रुतिभिसिद्धम-पा० ग. 9. मानद-..पा.ग. 10. तथा--पा०. क. 11. यथा--पा. क.. 12. तु -पा. क. 13. गुणतो ध्याप्तिरिष्यते-पा. क. 14, तस्मिन् ----पा, क; यथा---पा, ग. 15. तथा-पा. ग. 16. गुथा--पाका २८ प्रपन्नपारिजातः 'स्वस्य नाथस्य सम्बन्धं व्याप्तिमैश्चर्यमेव च। अपृथग्भूतशेषित्वात् ब्रह्माद्वैतं तदुच्यते ॥ १३ ।। तस्य या परमा भक्तिः ज्योत्स्नेव हिमदीधितः । सर्वावस्थागता देवी स्वात्मभूताऽनपायिनी ॥ १४ ॥ अहन्ता ब्रह्मणस्तस्य साहमस्मि सनातनी आत्मास्मि सर्वभूतानां अहंभूतो हरिः स्मृतः ।। १५ ।। '( अहन्ता सर्वभूतानां साहमस्मि सनातनी ।) येन भावेन भवति वासुदेवः सनातनः ।। १६ ।। "(भवद्भावात्मकं ब्रह्म ततस्तच्छाश्वतं पदम् ।) भवान्नारायणो देवो "भावो लक्ष्मीरहं परा" |॥ १७ ॥ लक्ष्मीनारायणाख्यं तत् ततो" ब्रह्म सनातनम् । अहंतया "समायुक्तो ह्यहमर्थः प्रसिद्धयति ॥ १८ ॥ अहमर्थ समुत्या च साऽहन्ता परिकीर्तिता । 1"अन्योन्यस्याऽविनाभावात् अन्योन्येन समन्वयात् ॥ १९ ॥ तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः । पराशरस्तु भगवानाहैनां ब्रह्मरूपिणीम् ।। २० ॥ *"नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुः तथैवेयं द्विजोत्तम ! ॥ २१ ॥ * विष्णुपुराणवचनानि उदाहरन्ति । 1. स्वस्या:--पा.क. आह-~-पा. ग. 3. अर्थकभूनशक्तित्वात--पा. व अपृथग्भू शक्तित्वात-पा. ग. 4 शक्ति:--पा. क. 5. च--पा. क. ८.स लोकानाम्---पा. ग. 7,8. कुण्डलितो भागः "ग" पुस्तकेन ॥ 9. तत्तस्माच्छाश्व परम--पा.क. 10. यथा--पा० ग. 11. अत:--पा. ग. 12. समाकान्तो ह्यय मर्थ:--पाक ग. 13. समर्था--पा. के. 14. अन्योन्येन--पा० क, ग. 15. यम्-- पाक भगवत्परिजनोपासनापद्धतिः देवतियङ्मनुष्येषु पुन्नामा भगवान् हरिः । 'स्त्रीनाम्नी लक्ष्मीमैत्रेय! नानयोर्विद्यते परम् ॥ २२ ॥ अपराधैकसक्तानां अनर्हाणां "चिरं नृणाम् । भर्तुराश्रयणे पूर्व स्वयं पुरुषकारताम् ॥ २३ ।। 'वाल्लभ्येनानुतिष्ठन्तीं वात्सल्याद्युपबृहिणीम् । उपायसमये भर्तुः ज्ञानशक्त्यादिवर्धिनीम् ॥ २४ ॥ " (मुक्तानां भोगवृद्धयर्थं सौन्दर्यादिविवर्धिनीम् ।) आकारत्रयसम्पन्नां अरविन्दनिवासिनीम् ॥ २५ ॥ अशेषजगदीशिवीं वन्दे वरदवल्लभाम् " । 'तथा भूमि च नीलां च देवीश्चान्याः सहस्रशः ॥ २६ ॥ "नित्यसूरिप्रधानांश्च तत्तन्मन्त्रैः समर्चयेत् । यद्धस्तवेत्रवशगं जगच्चिदचिदात्मकम् ॥ २७ ॥ विष्णेरमात्यं सेनेशं परिवारैस्समर्चयेत् । ये नित्यसूरयोऽनन्तगरुडाद्याः सहस्रशः ॥ २८॥ परिवारैः सहैतांश्च चक्रादीन्यायुधानि च । 1"देव्यश्च सूत्रवत्याद्याः या "लक्ष्म्याः परिचारिकाः ॥ २९ ॥ ताश्च तत्परिवार च12 1 पूजयेत् तदनुक्रमात् । * भजन्ते ये "तथा विष्णोरागता मन्दिरे सुराः ॥ ३०॥ मुमुक्षुभिरुपास्यान् प्रकीर्य, इदानीमनुपास्यान् विवेचयन्ति । 1. स्त्रीनामलक्ष्मी:--पा. ग. 2. चिरात्---पा. क. 3. पुरुषकारिणी--पा. क. पुरुषकारिताम्---पा. ग. 4, वात्सल्येन----पा. क. 5. कुण्डलितो भागः "ग" पुस्तके 6. यथा भूमि तु नीलां तु-पा. ग. 7. निसं रमा प्रधानां तुळपा. क. 8. तु--पा. ग. 9. अपि-~-पा. क, ग, 10. दास्यश्च ---पा. क. 11. लक्ष्मीपरि- चारिका:--पा० क. पा. क. 12, परिवारत्वे--पा. क. 13. पूजयन्---पा. क. तोऽपि-~-पा. क, ग. 15. ततो--पा. क. 16. अङ्गता मन्दिरेषु तु-पा. का आगतानमन्त्रिणस्सुरान् -पा. ग. # 14. भज- प्रपन्नपारिजातः- 1 विना विधान नित्येषु नौयास्य ते मुमुक्षुभिः । ब्रह्मरुद्रार्जुनन्याससहस्रकरभार्गवाः ॥ ३१ ॥ ककुत्साऽत्रेयकपिलवुद्धाद्या ये सहस्रशः । शक्त्याऽऽवेशावतारास्ते विष्णोस्तत्कालविग्रहाः ॥ ३२ ॥ अनुपास्या मुमुक्षूणां यथेन्दान्यादिदेवताः । यथा भगवतैवोक्तं विष्वक्सेनाय शृण्वते ।। ३३ ।। अनुकालं मुमुक्षूणामनुपास्या विशेषतः । अनानपि वक्ष्यामि प्रादुर्भावान् यथाक्रमम् ॥ ३४ ॥ चतुर्मुखस्तु भगवान् सृष्टिकार्य नियोजितः । शक्कराख्यो महान् रुद्रः संहारे विनियोजितः ।। ३५ ।। मोहनार्थे तथा बुद्धः व्यासश्चैव महानृषिः । वेदानां व्यसने तत्र देवेन विनियोजितः ॥ ३६॥ अर्जुनो धन्विनां श्रेष्ठो जामदग्न्यो महानृषिः । बसूनां पावकश्चाऽपि वितेशश्च तथैव च ॥३७॥ "(यद्यद्विभूतिमत्सर्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ स्वं मम तेजोऽशसम्भवम् ॥ ३८॥) यद्यद्विभूतिमत्सर्वं श्रिया जुष्टं विशेषतः । रागद्वेषविहीनं तु स्वतो बलवदुल्बणम् ॥ ३९ ॥ उक्तार्थस्थेने विष्वक्सेनसंहितावचनान्युपाददते। 1. यथा हि भवतेवोक्ता--पा. ग. विष्वक्सेनस्य श्वतः-पाक, ग. B.अधिकृत्य--पा. क. 4. उपास्याम् हि-~-पाक, अनुपास्यान्.पा. ग. 5. क्रमा- 6. मोहनायन्तदो---मा. क. 7. देवानाम्---पा. क. तू-पा. क. 3. प्रताप चान्-~-पा० क. 9. श्लोकोऽयं "क" "ग" पुस्तक्यो न दृश्यते ॥. 10. सत्त्वम्-पाक, ग. .
भगवत्परिजनोपासनापद्धतिः तत्तदंश विजानीयात् 'मम कार्यार्थमादरात् । एवमाद्यास्तु सेनेश ! प्रादुर्भावैरधिष्ठिताः ॥ ४० ॥ जीवात्मानस्सर्व एते नोपास्यास्ते मुमुक्षुभिः । आविष्टमात्रास्ते सबै कार्यार्थममितद्युते ॥ ४१ ॥ अनाः सर्व एवैते विरुद्धवान्महामुने । 'अहंकृतियुताश्चैते जीवमिश्रा ह्यधिष्ठिताः ॥ ४२ ॥ प्रादुर्भावास्तु मुख्या ये मदंशत्वाद्विशेषतः । 'अजहत्स्वस्वभावा हि दिव्याः प्राकृतविग्रहाः ॥ ४३ ॥ दीतादीप इवोत्पन्ना जगतो रक्षणाय ते । अर्ध्या एव हि सेनेश संसृत्युत्तरणाय वै ।। ४४ ॥ * यथाह भगवान् व्यासः पुराणे च पराशरः । "ब्रह्माणं शितिकण्ठं च याश्चान्या देवतास्तु ताः ॥ ४५ ॥ प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ” । " अन्ये तु" पुरुषव्याघ्र ! चेतसा ये व्यपाश्रयाः ।। ४६ ।। अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः" ॥ इति श्रीवात्स्यवरदाचार्य महागुरुभिरनुगृहीते प्रपन्नपारिजात भगवत्परिजनोपासनापद्धतिः षष्ठी श्रीमद्वरदमहागुमदिव्यचरणनलिने एवं शरणम् 8 * एतदर्थप्रतिष्ठापनाय परमप्रमाणभूते महाभारत-विष्णुपुराणे उपाददते । 1. महावाक्याथम् -पा. क, महाकायोर्थम्-पा. ग. 2. वणवहि ते-पा०क, ग. 3. महामते-~-पा. क. 4. अहतियुसवेमे --'पा. ग. ---'या. ग. 5. ह्येते--पा. क. 6. मिश्रा- यधिष्ठिता:-पा० ग. 7. अजहत्तभावा ह्येते--पा. क. 8. अना---पा. ख. ३. यथा हि भारते 'व्यास:-.पा. ग. 10. स्मृताः--पा. क. 11. ये--पा० क. 12. चेतसो-पा. ग. 13, स्युः-- पा. ग.
प्रपन्नपारिजातः श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदार्यमहागुरवे नमः ७. अथ भगवदुपासनापद्धतिः सप्तमी श्रुतार्थसंशयोच्छित्यै बोधनाय परस्परम् । साधवस्त्वभिगन्तव्याः सन्तस्सङ्गस्य भेषजम् ॥ १॥ '(यथाह भगवान् व्यासो विषयत्यागभेषजम् । सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ॥ २ ॥ (साधवस्त्वभिगन्तव्याः सन्तस्सङ्गस्य भेषजम् । ) विचिकित्सा यदा तु स्यादात्मनः कर्मवृत्तयोः ॥ ३ ॥ * तत्र सम्मशिनो युक्ता ये 'विप्राः सत्पथे स्थिताः । तेषां समीपं विनयात् उपेत्यार्थं तु शिक्षयेत् ॥ ४ ॥ यथा ते तत्र वर्तेरन् तथा 'वर्तेत सात्त्विकः । +" अभिगन्तव्याः सन्तो यद्यपि कुर्वन्ति नैकमुपदेशम् । "यास्तेषां स्वैरकथाः ता एव भवन्ति शास्त्राणि " ॥ ५॥ शौनकस्तु यथा प्राह साधूनां दर्शने तथा । * " सुदूरमपि गन्तव्यं यत्र भागवताः स्थिताः ॥ ६॥ *ये तत्र ब्राह्मणारसम्मर्शिनः । युक्ता आयुक्ताः अलूझा धर्मकामाः स्युः । य ते तत्र वर्तेरन् , तथा तत्र वर्तेथाः तथा तेषु वर्तेथाः। तै. उ. शी. ४. । भगवच्छास्त्रम् । । विष्णुधर्मवचो दर्शयन्ति । 1. कुण्डलितग्रन्थः "क" पुस्तके न दृश्यते ॥ 2. यथा हि-~-पा. ग... कुछ लितो भागः "ग" पुस्तके न ॥ 4. युक्ताः--पा. क. 5. समीपे---- 1. क. 6. 7. तेषां वरकथा या:--.पा. क. 8. फलम्----पा, क, दर्शनं सर मू-पा. ग. 9, भगवतः स्थितः--पा. ग. तु--पा.क.
भगनदुपासनापद्धतिः प्रयलेनापि द्रष्टव्याः तत्र सन्निहितो हरिः। (इममेवार्थमाह म नारदशौनकाय वै । पापावसानमिच्छद्भिः नित्यं विष्णुपरायणैः ।। सुदूरमपि गत्वा च द्रष्टव्या लोकपावनाः ।) साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ॥ ७ ॥ कालेन फलते तीर्थ सद्यः साधुसमागमः" । * शुकोऽपि भगवानाह " सतां तु गुणकीर्तनम् ॥ ८॥ चिरकालार्जितस्यैतत् श्रुतस्यव फलं यथा । शृतस्य पुंसां "सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीरितोऽर्थः । तस्माद्गुणानुस्मरणं मुकुन्दपादारविन्दं हृदयेषु येषाम् ॥ ९ ॥ सद्धिगुहागताः सन्तः पूजानीया विशेषतः । प्रियवाक्यैः तथाऽधैिः भोगैरिष्टैर्यथोचितैः ॥ ॥ १० ॥ " नाकांस्ये 'धावयेत्पादौ ॥ इति स्मृत्याऽन्यभाजने । मृण्मयादौ क्षालयीत यथाह भगवान् शुकः ॥ ११ ॥ # " व्यालालयद्रुमा ह्येते ह्यरिक्ताखिलसम्पदः । ये गृहास्तीर्थपादीयपादतीर्थविवर्जिताः ।। १२ ।। * उक्तार्थस्थेने श्रीशुकवचो दर्शयन्ति । 1 पुनश्शुकवचनं प्रमाणयन्ति । 1, द्रष्टव्या हि प्रयत्नेन-पा. क. 2. कुण्डलितो भागः ख" "ग" पुस्तकयोः न ॥ 3. रुचिर--पा. ग. 4. यत्तद्गुणा--पा. क. 5. पुंसाम्-~-पा. क. हृदये न येषाम्-.पा. ग. 6. वारिभा---पा, क. 7. क्षालयेत्-पा० क, ग, 8. क्षालयित्वा तथैव--पा० ग, 5 प्रपन्नपारिजातः 1 (सर्वेषामेव पापानां प्रायश्चित्तं मनीषिभिः । वर्णित भगवद्भक्तपादोदकनिषेवणम् ) ॥ १३ ॥ तत्तीर्थं शिरसा धार्थ तथाझैश्च क्षुरादिभिः । पेयमन्तयथा सोमे तन नाचमनक्रिया ॥ १४ ॥ पीते पादोदके विष्णोः वैष्णवानां तथैव च । तत्र नाचमनं कार्यं यथा सोमे द्विजोत्तम ॥ १५ ॥ नारदस्यातिथेः पादौ सर्वासां मन्दिरे स्वयम् । कृष्णः प्रक्षाल्य पाणिभ्यां पपौ पादोकं मुनेः ॥ १६ ॥ भोगैरिष्टैश्च शास्त्रीयैः तोषयेद्वैष्णवान् गृहे । त्रिविधत्यागपूर्व तु शेषत्वज्ञानवृद्धये ॥ १७ ॥ भुक्तवत्सु तथा तेषु शेषं भुञ्जीत सात्त्विकः । यदुच्छिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥ १८ ॥ (ते त्वचं भुञ्जते पापाः ये पचन्त्यात्मकारणात् । तैश्च सम्भाषणादीनि भगवान् शास्त्र उक्तवान् । (त्रिषु वर्णेषु सञ्जातो मामेव शरणं गतः ।) नित्यनैमित्तिकपरो ॥) "वेदशास्त्ररथारूढाः ज्ञानखड्गधरा द्विजाः । क्रीडार्थमपि यद्भूयुः स धर्मः परमो मतः " ॥ १० ॥ 5 7 २ 1. श्लोकोऽयं "ग" पुस्तके न दृश्यते ।। अस्य श्लोकस्य स्थाने श्लोकोऽयं । पुस्तके परिदृश्यते ॥ तेऽनन्तस्थानि तीर्थानि स गुरुः सा च देवता । प्रसिध्यति यदम्यासे शरीव जलं मनः ।। 2. विशेषतः----पा. क, ग. 3. कुर्यात्-- क, ग. 4. सिद्धये--पा. क. शिष्टाशिनः--पा० क, ग. 6, 7. कुण्डपलितो भागः "क" "ख" पुस्तकयोः नदृश्यते ।। 5.यज्ञ.
३५ 645 6 भगवदुपासनापद्धतिः वासुदेवं प्रपन्नानां 'यान्येव चरितान्यपि । तान्येव धर्मशास्त्राणीत्येवं वेदविदो विदुः ॥ २० ॥ वीक्षणादेव सिद्धयन्ति वैष्णवानां हि मानवाः । तथा न तीर्थेशुध्यन्ति शौनकस्तु यथोक्तवान् ।। २१ ।। न शुध्यति यथा जन्तुः तीर्थवारिशतैरपि । लीलयैव यथा भूप' वैष्णवानां हि वीक्षणैः ॥ २२ ।। (वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुखजनसंवासवैससम् ) ॥ २३ ॥ ये तु भागवतानङ्गैः स्पृशन्त्युपविशन्ति च । 10पश्यन्त्यपि च शृण्वन्ति दासस्तेषां महामुने ॥ २४ ॥ सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गमम् । सद्भिर्विवाद मैत्री च नासद्भिः किंचिदाचरेत् 1 ॥ २५ ॥ यथा पतित्वा' सन्मध्ये ययातिः पुनराप्तवान् । स्वपथं तत्तथा सत्सु पतितो न विमुह्यति ॥ २६ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते. प्रपन्नपारिजाते भगवदुपासनपद्धतिः सप्तमी श्रीमदरदार्यमहागुरुदिव्यचरणावे शरणम् . 1. तान्येव-पा. ग. 2. वै--पा. ग. 3. शुद्धयन्तिपाक, ग. 4, यथा-पा. 5. न तथा शुद्ध चते-पा. ग. 6. लीलया तु-पा. क. 7. भूमौ -- पा. ग. 8. वीक्षितैः-पा. क. 9. कुण्डलितश्लोकः "क" "ग" पुस्तकयोः न दृश्यते ॥ 10. वदन्ति ---पा. क. 11. महात्मनाम्--पा. ग. 13. वा--पा. ग, 13. उच्चरेत्- पा. ग. 14. तन्मध्ये ----पा० क. 15. विमुच्यते-पा० क, पतितोऽपि न मुह्यति-पा. ग. 16. भगवतपरिचर्यापद्धति: पाक, औः श्रीमते रामानुजाय नमः श्रीमते वरदार्यमहागुरवे नमः ८. अथ विहितव्यवस्थानपद्धतिः अष्टमी विहितेषु व्यवस्थान प्रपन्नानां प्रपञ्च्यते । शृतिस्मृत्यादिविहितं अनुष्ठेयं तु नैत्यकम् ॥ १ ॥ * "श्रुतिस्मृतिर्ममैवाज्ञे " त्याह लक्ष्मीपतियतः । प्रपन्नस्तु विशेषेण शास्त्रषु विहितान्यपि ॥ २ ॥ "कुर्यात् सम्बन्धनादीनि कर्माणि श्रीयतेस्सदा । यथा लक्ष्म्या स्वतन्त्रेऽपि शक्रायोक्ता तु पृच्छते ॥ ३ ॥ "न्यासविद्यैकनिष्ठस्य विहितेषु व्यवस्थितिः । उपायापायसन्यासी मध्यमां वृत्तिमाश्रितः ॥ ४ ॥ रक्षिष्यतीति निश्चित्य विक्षिप्य स्वस्वगोचरः । बुध्येत देवदेवं तं गोतारं पुरुषोत्तमम् ॥ ५ ॥ शक्रः ।। उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके । उपायापायतामेव क्रियाः सर्वावलम्बते ॥६॥ स्वीकारे व्यतिरेके वा निषेधविधिशास्त्रयोः । दृश्यते कर्मणोऽव्यक्तं उपायापायरूपता ॥ ७ ॥ गीता। लक्ष्मीतन्त्रश्लोकानुपपादयति । 1. च नैष्ठिकम्-पा० क. 2. कुर्वन्-पा. ग. 3. चन्दनादीनि-पा. क. 4. अपृच्छते-पा.. 5. सन्त्यागी माध्यमी 'स्थितिम्-पा. क, 6. नावबुद्ध घेत बुद्धिमान या मह 7. Ble=पा न.
चिहितव्यवस्थानपद्धतिः 1 2 श्री विविधां पश्य देवेश कर्मणो गहनां गतिम् । निषेधविधिशास्त्रेभ्यः 'तां विधां च निबोध मे ॥ ८ ॥ अनर्थसाधनं किंचित् किंचिच्चाप्यर्थसाधनम् । अनर्थपरिहाराय किंचित् कर्मोपदिश्यते ॥ ९ ॥ नैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा । अपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत् ॥ १० ॥ तृतीयो द्विविधो राशिः अनर्थपरिहारकः । प्रायश्चित्तात्मकः कश्चित् उत्पन्नानर्थनाशनः ॥ ११ ॥ तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् । क्रियमाण न कस्मैचित् यदर्थाय प्रकल्पते ॥ १२ ॥ अक्रियावदनाय तत्तु कर्म समाचरेत् । : एषा सा वैदिकी निष्ठा युपायापायमध्यमा ॥ १३ ॥ अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् । एतदुक्तं भवत्यत्र हिंसास्तेयादिकं च यत् ॥ १४ ॥ अनर्थसाधक कर्म काम्यं त्वर्थस्य साधकम् । चैत्यादिकं तथा कर्म सांख्ययोगादिकं तथा ॥ १५ ॥ प्रायश्चित्त तथा द्वेधा कृतपापप्रणाशनम् । चान्द्रायणादिकं त्वेक अन्यत् सन्ध्यार्चनादिकम् ।। १६ ।। . 1. श्रीरुवाच-पा. क, ग. 8. निषिद्ध-पा० क. 3..त्रिविधाम्.-.-पा० क. 4. अपायोपायमध्यमा-पा. क. 5. प्रविद्येत.पा. ग. 6, 7. साधनम्..पा. क, ग. 8. चित्रादिकम्पा. ग. 9. यथा---पा. क. 10. योगोदितं यथा--पा. क. 1.1, वैव... पाक ३८ प्रपनपारिजातः I अत्र हिंसाद्यपायं च काम्यं 'चौत्यादिकं तथा । उपायं कर्मसांख्यादि प्रायश्चित्तादिकं तथा ॥ १७ ॥ चान्द्रायणादिकं कर्म न कुर्याच्च कदाचन । भाव्यनर्थस्य यत्कर्म परिहारेण कीर्तितम् ॥ १८ ॥ सन्ध्यार्चा पञ्चयज्ञादि तन्मुमुक्षुभिराहतम् । नैमित्तिक चाग्रयण सीमन्तोन्नयनादिकम् ॥ १९ ॥ अग्न्याधानादिकं कार्य अधिकारे सति द्विजैः । निषिद्धकाम्योपायाख्यकर्माण्यानि नाचरेत् ॥ २० ॥ प्रायश्चित्तं "प्रपन्नस्य विशेषेण यदुच्यते । लक्ष्मीतन्त्रे कमलया निमित्ते तु तदाचरेत् ।। २१ ॥ शक्तौ प्रतिपदोक्तं स्यात् अशक्तौ शरणागतिः । प्रायश्चित्तमिदं 'ह्येतत् निर्णीतं तु मनीषिभिः ।। २२ ॥ अनन्यसाध्ये स्वाभीष्टे इति न्यासस्य लक्षणात् । शक्तौ प्रतिपदोक्तं स्यात् प्रायश्चित्तं हि सिध्यति ।। २३ ॥ अन्यथाऽतिप्रसङ्गस्स्यात् अवैष्णवगृहाशने । शरणागतहन्तुस्स्यात् प्रपत्त्यैव परिग्रहः ॥ २४ ॥ * ° (प्रायश्चित्तिरियं सात्र यः पुनश्शरणं ब्रजेत् ) श्री:- सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम् । उपायापायसंयोगे निष्ठया हीयतेऽनया ॥ २५ ॥ लक्ष्मीतन्त्रवचनान्युदाहरन्ति । 1, तत्र--पा० क, ग. 2. चित्रादिकम्-पा. ग. 3. परिहाराय--पा. क. 4. नि.पा.क. 5. विशेषेण प्रपन्नस्य--पा० का अशेषेण प्रपन्नस्य-पा. ग. दाचरेत--पा. ग. 7. इति-----पा. ग. 8. विशिष्यते--पा. ग. 9. कुण्डलितो " "ग" पुस्तकयोः न दृश्यते ॥ 10. “ख 10. "ख" "ग" पुस्तकयोः न ॥
विहितव्यवस्थानपद्धतिः अपायसम्प्लवे सद्यः प्रायश्चित्तं समाचरेत् । प्रायश्चित्तिरिय साऽत्र यत्पुनश्शरणं व्रजेत् ॥ २६ ॥ उपायानामुपायत्वस्वीकारे प्येतदेव हि । प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ॥ २७ ॥ मामेकां देवदेवस्य महिषीं शरणं व्रजेत्" । तस्मात् प्रमादात् भक्त्या' वा यत्प्रपन्नस्य दुष्कृतम् ॥ २८ ॥ तत्सर्वं शमयत्याशु शरणागतिरेव सा । ज्ञात्वाऽप्यपाये पातिवं यः करोति विमूढधीः । भोग एव हि तत्र स्यात् निष्कृति ऽनयाऽपि हि ॥ २९ ॥ प्रपन्न इति गर्वेण न कुर्यात् पुरु दुष्कृतम् । ज्ञात्वा प्यपायकर्माणि कुर्वन् मूढः पतत्यधः ॥ ३० ॥ ज्ञानिनो न च कुर्वन्ति यद्यज्ञानात् प्रमादतः । तच ज्ञानामिना सर्वं दहन्ति विमलाशयाः ।। ३१ ॥ (अत्राह भगवान् कृष्णः अर्जुनस्य तु शृण्वतः । यथैधांसि समिद्धोऽग्निः भस्मसात् कुरुतेऽर्जुन ॥ ३२ ॥ ज्ञानामिस्सर्वकर्माणि भस्मसात् कुरुते तथा " ॥ ३३ ॥ भगवज्ञानविस्रम्भविशुद्धमनसां सताम् । शास्त्रोक्तं भगवज्ज्ञानं प्रायश्चित्तं कृतैनसाम् ।। ३४ ॥) यस्य यावांश्च विश्वासः तस्य सिद्धिश्च तावती । नैतावानिति विश्वासः प्रभावः परिमीयते ॥ ३५ ॥ 6 1. बुद्धया---पा. क. १. च-पा. ग. 3. शमयित्वा--पा. ग. 4. व्यपाय- हेतुत्वम्-पा. क. 5. व्यपाय ---पा० क. 6, 7. कुण्डलितग्रन्थः "क" पुस्तके नास्ति ।।
अपनपारिजातः वेदोदितं सदाचार'(माद्रियेत सदा सुधीः । । असिन् तन्त्रे यथोक्तं तु वैदिकाचारलचने ॥ ३६ ।। अविप्लवाय धर्माणां पालनाय कुलस्य च । संग्रहाय च लोकानां मर्यादास्थापनाय च ॥ ३७ ॥ प्रियाय मम विष्णोश्च देवदेवस्य शाणिः । मनीषी वैदिकाचार) मनसाऽपि न लङ्घयेत् ।। ३८ ॥ यथाहि वल्लभो राज्ञो नदी राज्ञा प्रवर्तिताम् । (लोकोपयोगिनी रम्या बहुसस्यविवर्धिनीम् ॥ ३९ ॥) लङ्घयन् शूलमारोहेदनपेक्षोऽपि तां प्रति । एवं विलङ्घयन् मत्यों मर्यादां वेदनिर्भिताम् ।। ४० ॥ प्रियोऽपि न प्रियो मेऽसौ मदाज्ञाव्यतिवर्तनात् । उपायत्वग्रहं तत्र वर्जयेन्मनसा सुधीः " ॥ ४१ ॥ 5 स्ववर्णाश्रमयुक्तं तु देशकालानुरूपतः । विशेषविहितं यच्च तत्कुर्याच्छीपतेः प्रियम् ॥ ४२ ॥ इति श्रीवास्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते विहितव्यवस्थानपद्धतिः अष्टमी श्रीमद्वरदमहागुरुदिव्यचरणनलिने एवं शरणम् 3. लक्ष 1. कुण्डलितग्रन्थः "क" पुस्तके वास्ति । 2. तथा-पा. ग. तन्त्रे-पा. ग. 4. लोकस्य--पा. ग. 5. अर्धश्लोकोऽयं "ग" पुस्तके न 6. विप्रः--पा० क. 7. असौ मे-पा० क, 8. तस्य--.पा. क. 9. रूपम्-पा०1 10. व्यवस्थापना--पा० क.
श्री: श्रीमते रामानुजाय नमः श्रीमते वरदार्यमहागुरवे नमः ९. अथ वर्जनीयपद्धतिः नवमी वर्जनीय 'प्रपन्नानां वर्ण्यते लोकवेदयोः । स्वावस्थादेशकालानां विरुद्ध वर्जयेत् सदा ॥ १ ॥ वर्णाश्रमविरुद्धं यत् मन्याद्युक्तं विशेषतः । स्वाधिकारविरुद्धं च शास्त्रोक्तं न समाचरेत् ॥ २ ॥ सामान्यशास्त्रानुज्ञात विरुद्ध यद्विशेषतः । चतुष्पदवनस्पत्योः मङ्गलादेः प्रदक्षिणम् ॥ ३ ॥ प्रदोषे शङ्करा दि पापहानिकरं नृणाम् । न कुर्यात् परमैकान्ती काम्यं लोकद्वयप्रदम् ॥ ४ ॥ सामान्यशास्त्रविहित' विरुद्धं चाङ्कनादिकम् । गतिनृत्तादिकं यत्तु विशेषागमचोदितम् ॥ ५ ॥ तत्सर्वं वैष्णवः' कुर्यात् यथोक्तौ यमशौनकौ" * " हरिकीति विनवान्यत्" ब्राह्मणेन नरोत्तम । भाषागानं न गातव्यं तस्मात्पापं त्वया कृतम् ॥ ६॥ अत्र प्रमाणतया श्रीविष्णुधर्मवचनानि समुल्लिखन्ति । " 1, प्रपन्नस्य वर्णितम्-पा० क. 2. सुधीः-पा०. क. 3. चेत्-पा० क; विरुद्ध तु शास्त्रोक्तं तु-पा. ग. 4. शास्त्र.द्विज्ञातम्-पा. क. 5. मङ्गलार्थप्रदक्षिणम्--पा. क. 6. फलप्रदम्-पा. का ग. 7. अभिहितम्-पा० क. 8.चा-पा.ग. 9. चोद- नादिकम् ----पा. क. 10. गोचरम्-----गा. ग. 11. वैदिकः-पा. क. 12, यथोक्तं व्यासशौनको पा. क. 13. हरिगीतम् पा० क. 14, विना नान्यम् पार ग. 15. कर्तव्यम्-पा० क, ग. 6 ४२ प्रपन्नपारिजातः विष्णो'गानं च गेयं च नटनं च विशेषतः । ब्रह्मन् ! ब्राह्मणजातीनां कर्तव्यं नित्यकर्मवत् ॥ ७ ॥ नृत्यतां श्रीपतेरये करसंस्फोटनादिभिः । उड्डीयन्ते शरीरस्थाः महापातकपक्षिणः" ॥ ८ ॥ एवं विशेषशास्त्रोक्तं विष्णुचक्रांकनादिकम् । विशेषशास्त्रप्राबल्यात् वैष्णवस्तु न वर्जयेत् ॥ ९ ॥ लोकेऽनुष्ठानसंकोचात् लाघवात् फलगौरवात् । विमुक्तिसाधनत्वं हि प्रपत्तेरवजानते ॥ १० ॥ "अन्यथा योजनाच्चापि प्रमाणानां कुतर्कतः । तेन दुप्कृतिनो मूढाः नराणामधमाः स्मृताः ॥ ११ ॥ माययाऽपहृतज्ञानाः आसुरीं योनिमाश्रिताः । यान्न पश्येज्जायमानान् पापिनो मधुसूदनः ॥ १२ ॥ ब्रह्मा रुद्रोऽथवा पश्येत् रजसा तमसा वृतान् । तैरालापं न कुर्वीत नासद्भिः किंचिदाचरेत् ॥ १३ ॥ कौतस्कुतानां शास्त्राणि तामसान्यवदन् मनुः । * वाङ्मालेणापि संसर्ग तैस्साकं तु निषेधति ॥ १४ ॥ "या वेदबाह्या स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्पलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः " ॥ १५ ॥ * कुदृष्टिबाह्यशास्त्राणि तान्यप्यपवइन्मनुः-अर्धशोकोऽयं "क" पुस्तके दृश्यते ॥ मनुवचनमुदाहरन्ति ॥ 1. नृत्तम्-पा. क. 2, गीत च नृत्तं च नर्तनं च तथैव तु ---पा. ग. 3, सदा- नघ-पा. क. 4. परमैकान्तिनां हितम् ---पा० क. 5. अनन्ययोजनाचापि .पा. ग. 6. वितर्कतः-पा. क. . 7. तथा--पा० क. 8. आसुरं भावमू-पा० क, ग. 9, तान्यप्यपवदन-पा. क, ग. 10. मुनिःपा. ग. 11, सतामू-पा० क, ग.
वर्जनीयपद्धति पाषण्डिनो विकर्मस्थान बिडालबतिकाञ्छठान् । हैतुकान् बकवृत्तींश्च वाङ्मयात्रेणापि नार्चयेत् ॥ १६ ॥ प्रपत्तेः प्रतिबन्धस्तु जायते यैर्हि कर्मभिः । प्रपन्नो न निषेवेत तादृशानि न किंचन ॥ १७ ॥ देवतान्तरसंभक्ति नित्यकर्मविधि विना । उपायान्तरनिष्ठां' च द्रोहं भागवतेष्वपि ॥ १८ ॥ ३विश्वासमान्ध विषयप्वतिमावण्यमेव च । श्रीश्रीशयोः परिजने निन्दनादीनि सर्वशः ॥ १९ ॥ देहावध्यनुवृत्तानि नानुतापयुतानि च । प्रायश्चित्तविहींनानि पातकानि महन्ति च ॥ २० ॥ बन्धकानि प्रपन्नस्तु न कुर्यात्तादृशान्यपि । तेष्वन्वये सति सतामनुतापो भवेद्यदि ॥ २१ ॥ प्रायश्चित्तं ततः कुर्याद्रहस्यं च प्रकाशकम् । "(प्रपन्नस्यानुतप्तस्य रहस्ये 'त्वधिकारिता ॥ २२ ।। प्रायश्चित्ते' यथेन्द्राय "पृच्छते कमलाऽऽह च ।) 1रहस्यं तु प्रपन्नस्य दर्शितं पूर्वपद्धतौ ॥ २३ ॥ एतदर्थमभिप्रेत्य “पराशरवचो यथा ॥ २४ ॥ कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २५ ॥ गुराणवचनान्याहुः । ष्ठा च द्रोह:--पा. क. 2.च-पा. क. 3. विश्वासयोग्यविषयेष्वेत. 4. नानास्मृत्युदितानि-पा० क. 5. विधाने तु--पा० क, ग. -पा.क. 7. प्रपन्ना---पा. क. 8. प्रकाशनम् --पा. क. ग" पुस्तके न || 10. हि-पा० क. 1}. प्रायश्चित्तम्-पा. क. च पृच्छते-पा. क. 13. प्रायश्चितम्-पा. ग. 14. बचो.भगवतःच्या या. 9. कुण्ड- ४४ प्रपत्नपारिजातः '(पापे गुरूणि गुरूणि स्वल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायम्भुवादयः ॥ २६ ॥ प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । यानि तेवामशेषाणां कृष्णानुस्मरणं परम्" ॥ २७ ॥ प्रमादात् क्रियते कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतिः ॥ २८ ॥ * " भगवद्ध्यानयुक्तस्य तद्ध्यानावधिकाः क्रियाः । (नास्तिकस्य तु मूर्खस्य युक्तं द्वादशवार्षिकम् ) ॥ २९ ॥ '(नास्तिकस्य तु कर्तव्यं यथोक्तं दशवार्षिकम् ) । एवं विषयभेदेन गुरुलध्वोन संकरः ॥ ३० ॥ क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः परमा मता" । इत्येवं याज्ञवल्क्येन ब्रुवताऽऽत्मेशयोरपि ॥ ३१ ॥ शेषशेषित्वविज्ञानात् शुद्धिर्जीवस्य वर्णिता । 1" अतिपापप्रवृत्तोऽपि ध्यायन्निमिषमच्युतम् ॥ ३२ ॥ भूयस्तपस्वी भवति पङ्क्तिपावनपावनः । अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः" ॥ ३३ ।। * याज्ञवल्क्यवचो निर्दिशन्ति । शौनकवचस्समुल्लिखन्ति । 1. कुण्डलितो भागः "क" पुस्तके २९ इलोकानन्तरं दृश्यते ।। वधिकाः-पाक. 3. नरस्य पापमूर्खस्य- 3. नरस्य पापमूर्खस्य--पा. क; अर्धे इलोकोऽयं “ग ' पुस्तके न 1. कुण्डलितो भागः "क" पुस्तके न ॥ 5. सोऽयम् --पा. ग. 6. तानि कुय वैष्णवः -पा. क. 7. खारात्मनो:--दा. क; बृंहिता खपरात्मनो: पा. ग. कोऽमि.-पा० क. 2. त 8.
वर्जनीयपद्धति 1 इत्यादिशौनकाद्युक्तेः भगवदज्ञानिनां नृणाम् । कृते पापेऽनुतप्तानां तद्धयानावधिकाः क्रियाः ।। ३४ ॥ देवतान्तरसंसक्तैः सङ्गं त्यक्तैव वैष्णवः । उपायान्तरसक्तैश्च प्रपन्नस्सह संवसेत् ॥ ३५ ॥ * न मूर्खमाश्रयेत् साधुः न मूर्खाय गुरुर्वदेत् । य आश्रयेदविद्वांसं तामसस्तु तमो विशेत् ॥ ३६ ॥ मूर्खदत्तं तु यज्ज्ञानं उप्तं बीजमिवोषरे । अन्योन्यस्मै गुरुच्छात्रौ न दृह्येतां कदाचन ॥ ३७ ।। यो दृह्यत्यनयोस्सोऽयं भ्रश्यते मुक्तिमार्गतः । अनादिष्टेन गुरुणा मन्त्रेण न हरि श्रयेत् ॥ ३८ ॥ गुरुं न गर्हयेच्छिष्याः धार्मिकं त्वर्थलोभतः । अनिवेद्य गुरोः' किंश्चित् नोपभुजीत बुद्धिमान् ॥ ३९ ।। गुरुविद्वेषिण स्सर्वान् वर्जयेद्वैष्णवोत्तमः । विष्ण्वालये न कुर्यात्तु निष्ठोवनमलादिकम् ॥ ४० ॥ पादौ न क्षालयेत्तत्र नान्तरा देवपीठयोः । गच्छेत्प्रपन्नो नाऽद्वारात् संविशेद्धरिमन्दिरम् ॥ ४१ ।। 10(कृष्णकम्बलसंवीतो न विशे"जातु वैष्णवः । विना दीपादिकं कर्म तन्मालाबन्धनादिकम् ) ॥ ४२ ॥ शिष्याचार्यव्यवस्था निरूपयन्ति । प्रपन्नस्य वर्जनीयानि कीर्तयन्ति । 1. अनुतापे च-पा० क, ग. 2. तज्ञाना-पा. क. 3. संयुक्त:-पा. क. 4. युक्तैश्व-पा.. क. 5. वदेद्गुरु-पा०. क. वदेद्गुरुः था.. ग. 6. गुरुनगर्ह- येच्छिष्यम्-पा. क, ग. 7. गुरौ-पा. ग. 8. विद्वेषिणं विद्वान् -पा, ग. 9. प्रक्षा लये--पा. ग. 10. कुण्डलितः श्लोकः "क" पुस्तके न दृश्यते ॥ 11. हरिमन्दि- रम्-पा.ग. 12. जपादिक कर्म यन्मात्मा गा.
प्रपन्नपारिजातः अन्यत्कार्य न कुर्वीत वैष्णवो विष्णुमन्दिरे । नान्यं देवं नमस्कुर्यात् नान्यं देवं निरीक्षयेत् ॥ ४३ ॥ नान्यं प्रासादमारोहेत् 'नान्यमायतनं ब्रजेत् । उद्देशतस्तु द्वात्रिंशदपचारा हरेः स्मृताः ॥ ४४ ॥ 'पुराणे खलु वाराहे वर्जयेद्वैष्णवस्तु तान् । गन्धं पुप्पं तथा वासः भूषणानि पशून् गृहान् ॥ ४५ ॥ तथा भोज्यानि चान्यानि नात्माथै वैष्णवो हरेत् । कर्तव्याशेषताबुद्धिः नात्मनस्तनयादिषु ॥ ४६ ॥ विष्णोर्विभूतिभूतेषु ममतां वर्जयेत् सुधीः ॥ ४७ ।। " एकान्ती व्यपदेष्टव्यो नैव ग्रामकुलादिभिः । विष्णुना व्यपदेष्टव्यः तस्य सर्वं स एव हि " || ४८ ॥ नशास्तस्यैव नामानि प्रविष्टाया यथार्णवम् । सर्वात्मना प्रपन्नस्य 'विष्णुमेकान्तिनस्तथा ।। ४९ ॥ 'छायाविलंघनादीनि न कुर्याच्च "सतां सदा । 10सद्भिश्च सह वर्तेत विवादं तेषु वर्जयेत् ॥ ५० ॥ प्रपन्नाननुशास्तीत्थं "विष्वक्सेनेशसंहिता । "नावैष्णवग्रन्थरतिः नासच्छास्त्ररतो भवेत् ॥ ५१ ॥ नानृतं शपथं कुर्यात् न च पृच्छेच्चुभाशुभे । विषनिहरणं चापि पिशाचादिविमोचनम् ॥ ५२ ॥ श्रीविष्वक्सेनसंहितावचनानि समुल्लिखन्ति । 1. कर्म----पा. ग. 2. नान्यत् -पा. क, वा. 3. विशेत—पाक, ग. 4. पुराणे वैष्णवस्योक्तान् वैष्णवस्तु समाचरेत् --पा. क. 5. भूषणादि--पा० ग. भोग्ययानि--पा. क. 7. विष्णो:-- मा. ग. 8. छायादि-पा. ग. कंचित-पा. क. 10. संदिरेव सहासीत--पा. क. 11. श्रीमच्छेनेश-पा. क, ग. 12. परो-पा० क, ग. 13. एव-पा.रा. aiment ५. सदा वर्जनीयपद्धति समस्तव्याधिहरणं क्षुद्रमन्तैन साधयेत्' । न धारयेजटाभारं भस्म चैव न धारयेत् ॥ ५३ ॥ बाह्यलिंगानि सर्वाणि सन्त्यजेद्यावदायुषम् । यत्र यत्र हि नीतिस्यात् वैष्णवी शिष्टसम्मिता' । तत्र तत्रावसेन्नित्यं नान्यतेति मतिर्मम ॥ ५४ ॥ न लोकवृत्ति वर्तत वृत्तिहेतोः कथञ्चन । सत्सम्मता तु या वृत्तिः देशकालानुरूपिणी ॥ ५५ ॥ तामास्थितो न लोभेन हीनां वृत्तिं समाश्रयेत्" । व्यासस्तु भगवानाह वर्जनीयं सतामिह ।। ५६ ।। * " न शब्दशास्त्राभिरतस्य मोक्षो न चापि 'रम्यावसधप्रियस्य । न भोजनाच्छादनतत्परस्य न लोकवृत्त ग्रहणे रतस्य ॥ ५७ ॥ शिश्नोदरे येऽभिरताः सदैव स्तेयानृता वाक्परुषाश्च नित्यम् । व्यपेतधर्मा इति तान्विदित्वा संपरिवर्जयन्ति ।। ५८॥ एकान्तशीलस्य दृढव्रतस्य पञ्चेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मविद्या रतमानसस्य मोक्षो ध्रुवो नित्यमहिंसकस्य ।। ५९ ॥ नाभिनन्देत मरण नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निवेशं भृतको" यथा ।। ६० ।। महाभारतवचनानि दर्शयन्ति । . 1, कारयेत् --~-पा. क. 2. ललाटे भस्मचन्दने---पा० क.. 3. चन्दनम्-पा. गा. सम्मता--पा. ग. 5. वृत्ती-पा. ग. ७. आश्रितः-पा. क. 7. एव-पा. क, ग. चित्तग्रहणे--पा० क, ग. 9. श्लोकोऽयं "क" "ख" पुस्तकयोः न दृश्यते ।। ), गतमानसस्य--पा. क. 11, 12. आभनिन्देत-पा. क. 13, जीवनम्-पा. क. है, कृतकापा. ग.
अपनपारिजातः 'प्रायेणाऽकृतकृत्यास्तु मृत्योरटेजिता जनाः । कृतकृत्याः प्रतीक्षन्ते मृत्यु प्रियमिवातिथिम् ॥ ६१ ॥ तत्पादभक्तिज्ञानाभ्यां फलमन्यत् कदाचन । न याचेत् पुरुषो विष्णु याचनान्नश्यति ध्रुवम् ।। ६२ ॥ प्रमादा द्धितो वाऽपि यदागः क्रियते सताम् । अनुतप्तस्तु तानेव क्षामयेन्नान्यथा शमः ॥ ६३ ।। भगवत्यपचारे ऽपि नैषा शान्तिरनुत्तमा । स्त्रीणां स्त्रीसङ्गिनां चैव संसर्ग वर्जयेत् सुधीः ।। ६४ ॥ तस्मात्सर्वात्मना विद्वान् विषयान्विषवत् त्यजेत् । 'अविद्यः प्राकृतः प्रोक्तो वैद्यो वैष्णव उच्यते ॥ ६५ ॥ अविद्येन न केनापि वैद्यः किंचित्समाचरेत् । इति युक्तं भगवता शास्त्र मन्वादिभिस्तथा ॥ ६६ ॥ तस्मात् प्राकृतसंसर्ग वर्जयेद्वैष्णवोत्तमः । एकशय्यासनं पंक्ति भाण्डं पक्कान्नमिश्रणम्' ।। ६७ ॥ याजनाध्यापने यानं तथैव सहभोजनम् । नवधा संकरः प्रोक्तो न कर्तव्योऽधमैस्सह ॥ ६८ ॥ (सल्लापस्पर्शनस्वापविधानाऽसनशायनात् । याजनाध्यापनाद्यानात् पापं संक्रमते नृणाम् ॥ ६॥ * वर्जनीयं नवविधसांकयं समुल्लिखन्ति । .. 1. प्रायशः पापकारित्वात्-पा. क; प्रायेण कृतकृत्यत्वात् मृत्योरुद्विजते जनः-पा. ग 2. अपराधे--पा. क. 3. सैषा-पा. ग. 4. अवैद्यः-पा. क, ग. 5. स्तब्धः-पा० ग 6. अवैधेन-पा. क, ग. 7. मिश्रितम्-पा. क. 8. योनिः-पा० ख, ग. 9. कुण्ड लितः श्लोक: "क" पुस्तके न ॥
फलोदयपद्धतिः संवत्सरेण पतति पतितेन समाचरन् । याजनाध्यापना'द्यानात्सहशय्याऽऽसनाऽशनात् ।। ७० ॥ बृहस्पतिमनुभ्यां तु संकरस्य तु वर्णनम् । * वैविध्य योजनादीनां सद्यः पातित्यहेतुता ।। ७१ ।। न्यासविद्यैकनिष्ठानां वैष्णवानां महात्मनाम् । प्राकृताभिष्टुतिनिन्दा निन्दास्तुतिरिति स्मृता ।। ७२ ॥ अद्य प्रभृति हे लोका यूयं यूयं वयं वयम् । ' अर्थकामपरा यूयं नारायणापरा वयम् ।। ७३ ।। नास्ति संगतिरस्माकं युष्माकं च परस्परम् । वयं तु किंकरा विष्णोः यूयमिन्द्रियकिंकराः " ॥ ७४ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजात वर्जनीयपद्धतिः नवमी श्रीमद्वरदार्यमहागुरुदिव्यचरणावेव शरणम् श्री: श्रीमते रामानुजाय नमः श्रीमते वरदार्यमहागुरवे नमः १०. अथ फलोदयपद्धतिः दशमी एवं प्रपन्ना' विष्णोस्तु पादौ तत्प्राणसंज्ञितान् । अनुव्रजति तान्विष्णुः अत्यर्थप्रेयविह्वलः ॥ १ ॥ * भवच्छात्रवचनमुन्दाहरन्ति । 1. ध्यानात-पा.क, ग. 2. सहयानात्सहाशनात्-पा. क. 3. वर्णितम्-पा० क, ग. 4. विध्यम्-पा. ग. 5.निन्दा चामिष्टुतिर्मता-पा० क. निन्दा स्तुतिरिति स्मृता-पा. ग. 6. अर्थश्लोकोऽयं "नास्तिसंगतिः इत्यत ऊचं दृश्यते "स्व" पुस्तके ।। 7. श्रीभर्तुः पा० क. प्रपन्नान् श्रीभर्तुः-पा० ग. 8. संज्ञिकान् -पा० ग. 9. अत्यन्त-पा. क. अत्यन्तं प्रेमविह्वल:-पा० ग. 7 प्रपन्नपारिजातः ३ । स्वयं भगवता चोक्तं * " ज्ञानी स्वात्मैव मे मतम् " । बहुजन्मसहस्रान्ते दिष्ट्या यस्तु प्रपद्यते ॥ २॥ + " वासुदेवस्सर्वमिति स महामा सुदुर्लभः ।। उक्ता शास्त्रे भगवता प्रपन्ने कृतकृत्यता ॥ ३ ॥ तस्मिंश्चानुत्तमा प्रीतिः "स्वस्याऽशेषविशिष्टता । "विष्णूपायो योऽन्यफलः सोऽधमः परिकीर्तितः ॥ ४ ॥ 5 अन्योपायो विष्णुफल: मध्यमः परिकीर्तितः । माधवांघ्रिद्वयोपायो माधवांघ्रिप्रयोजनः ॥ ५ ॥ स उत्तमाधिकारी स्यात् कृतकृत्योऽद्य जन्मनि । याः क्रियाः सम्प्रयुक्ताः स्युः एकान्त गतबुद्धिभिः ॥ ६ ॥ तास्सर्वा शिरसा देवः प्रतिगृह्णाति वै स्वयम् । " भक्तैरण्वप्युपानीतं प्रेम्णा भूर्येव मे भवेत् ॥ ७ ॥ भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते "। भक्तशब्दस्तु" मुख्योक्त्या प्रपन्ने पर्यवस्यति ॥ ८ ॥ आत्मीयसंहितायां तु "यथा सेनेश उक्तवान् । "सेवा तु प्रोच्यते सद्भिः भक्तिशब्देन भूयसी ॥ ९ ॥ सेवा चात्यन्त नीचत्वापत्तिहि स्वामिनं प्रति । तस्मात्परस्य" दास्यैकरसता भक्तिरुच्यते ॥ १० ॥ गीता। विष्वक्सेनसंहितावचनानि दर्शयन्ति । 1. स्वयमुक्तं भगवता-पा० क. एतद्द्वोतं भगवता---पा० ग. 2. प्रवर्तते-पा०३ 3. अस्मिन्-पा० क. 4. तस्य-पा० ग. 5. अन्योपायाद्विष्णुफलः स मध्यम इस रित:--पा० क. 6. अन्यजन्मनि-पा० क. 7. कृत-पा० क. 8. हि-पा०६ 9. तभूरि-पा० क. 10. जायते-पा० ग. 11. शब्दस्य मुख्यार्थ:----पा० क, 12. तदा-पा० क. 13. नीचत्ववृत्तिः -पा० क. 14. अनन्यदास्यैक-पा० ग. Amma फलोदयपद्धतिः आकिंचिन्यैकशरणाः केचिद्भाग्याधिकाः पुनः । लक्ष्मी पुरुषकारेण वृतवन्तो नरोत्तमाः ॥ ११ ॥ मामेकं शरणं प्राप्य (मामेकं प्राप्नुवन्ति ते । एवं मां प्राप्य शरणं वीतशोकमयलमाः ॥ १२ ॥ निरालम्बो निराशश्च निर्ममो निरहंकृतिः । मामेव शरणं प्राप्य तरेत् संसारसागरम् ॥ ॥ १३ ॥ सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा । नाहन्ति शरणस्थस्य कलां कोटितमीमपि " ॥ १४ ॥ "उपायाधिकृतस्यापि भवेदुत्तरपूर्वयोः । अश्लेषश्च विनाशश्च' पुण्यपापमयाधयोः ॥ १५ ॥ प्रारब्धदेहभोग्यं तु "विना दृप्तस्य नश्यति । पूर्वाधमुत्तराधं तु मतिपूर्वं महत्तरम् ॥ १६ ॥ आदेह पतनाद्वत्तम् अनुतापविवर्जितम् । यत्तद्विनैवा' 55श्लेषस्स्यात् अन्यस्याघस्य युक्तितः ॥ १७ ॥ अयमों भगवता सविशेषमुदीरितः । * “ उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ॥ १८ ॥ साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी" । उपायभक्तिरित्युक्तो भक्तियोगो हि "साङ्गकः ॥ १९ ।। 1. अनघा नरा:-पा० क, ग. 2. कुण्डलितो भागः "क" पुस्तके न॥ 3. शरणं प्राप्यपा.ग. 4. निराशी-पा. क, ग. 5. एकम् --~-पा. ग. 6. उपायाधिक गमस्याथ.पा.क. 7. पापपुण्यमय-पा. ग.. फलभोगादिनश्यति-पा० क. 9. पाता- दावृत्तम्-पा. क, ग. 10. विनावाश्लिष्ट स्यात्-पा. क, विनवाश्लेषस्स्यादनन्याघस्य युक्तितःपा. ग. 11, अत्र:--.पा का ५२ प्रपन्नपारिजातः बहुदेह'निमित्त हि प्रारब्धा न नाशयेत् । साध्यभक्तिरिति प्रोक्ता प्रपत्तिर्मोक्षरूपिणी ॥ २० ॥ आतानां भूयसी साऽपि प्रारब्धमपि नाशयेत् । प्रारब्धदेहभोग्यं तु दृप्तस्या न नाशयेत् ॥ २१ ।। एतदुक्तं भवत्यत्र भक्तियोगाद्विमुच्यते । प्रारब्धकर्म'निर्मोके बहुजन्मोपभोगतः ॥ २२ ॥ कर्मणशोकहेतोस्त्वां " मोक्षयिष्यामि मा शुचः एवं भगवतोक्तत्वादेतदेहेऽपि शोचनात् ॥ २३ ॥ आर्तस्य सद्यो मुक्तिः स्यात्मपत्तिभूयसी यतः । दृप्तः प्रारब्धदेहात्तु न शोचति यतः स्वयम् ॥ २४ ॥ देहान्ते मुच्यते सैषा मोक्षकालव्यवस्थितिः । सोऽयं श्रियःपत्युरन्तहृदयाम्भोजवासिनः ॥ २५ ॥ 1"प्रसादेनैव सुसुखं नाडी भित्वा शताधिकाम् । "सद्यस्तयोर्ध्वमुत्क्रम्य गत्वा ता"नातिवाहिकान् ॥ २६ ॥ अर्चिरादीन् स तेर्हतः "प्रीतियुक्तै:18 पदेपदे । अमानवकरस्पर्शात् सूक्ष्मदेह विसृज्य च ॥ २७ ॥ विरजां मनसा तीर्खा ब्रह्मगन्धादिलाञ्छितः" । सालोक्य मथ सारूप्यं सामीप्यं च क्रमाद्रजेत् ॥ २८ ॥ 1. देहि-पा० ग, 2. प्रारब्धं न स-पा० क, ग. 3. मोक्षकांक्षिभिः-पा. ग 4. तु-पा० ग. 5 यत्-पा० ग. 6. योगे प्रमुच्यते-पा. क; योगात्प्रमुच्यते-पा० ग 7. कर्मणि क्षीणे-पा० क, ग. 8. अनुशोचनात्--पा० क. 9. देहे तु--पा० क देहान्तम्---पा० ग. 10. ततः-पा० क. -पा० क. 11. श्रियः पतेः-पा० क. दादेव-पा० क, ग. 13. सुमुखाः-पा. ग. 14. गत्वा-पा० क. 15. तत:-पाक 16. अतिवाहिकान्-पा० क, ग. 17. प्रिय-पा०क. युक्ता-पा० ग. 19.वि मुच्य-पा० क, ग. 20. सः-पा० ग. 21. लाभतः-पा० क. 2. अपि-पाक 3. सामीप्यं सारूप्यम् ---पा० क, ग. 24. भजन-पा० ग. 12. प्रसा 18.
फलोदयपद्धतिः ५३ ३ सायुज्यं 'चाधिगच्छेत ब्रह्मणा सह सर्वशः । * अनुसञ्चरन्निमान् लोकान् कामान्नी कामरूप्यपि ॥ २९ ॥ साम गायन् किंकुरुते सूरिभिस्सह सर्वदा । यद्वाऽचिरादिमार्गेण विलम्बमसहन्निव ॥ ३० ॥ प्रपन्नं हरति क्षिप्रं यथेष्टमिति 'च श्रुतम् । महावराहो भगवानेतत्संवादकं वचः ॥ ३१ ।। यदाह देव्यां शृण्वन्त्यां भूम्यां प्रवदतां वरः । "स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः । धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम् ॥ ३२ ।। ततस्तं म्रियमाणन्तु काष्ठपाषाणसन्निभम् । अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ॥ ३३ ॥ यदाकदाचित् वातादिधातुसाम्यादरोगतः । मनस्थितिस्सम्भवति यः कश्चित्तु तदा नरः ॥ ३४ ॥ स्मरेत् स्वामित्व सौशील्यवात्सल्यादिमहोदधिम् । अवतीर्ण वराहं मां श्रिया दीप्तगुणैयुतम् ॥ ३५ ॥ नारायण विश्वरूपमजमिच्छात्त विग्रहम् । श्रीमन्नारायणस्वामिन् ! अनन्यशरणस्तव ।। ३६ ।। " * कामानी कामरूप्यनुसश्चरन् , एतत्सामगायन्नास्ते हा उ हा उ हा उ. वाराहचरमम् । . 1. चाश्नुते कामान्-पा० क, ग. 2. समाश्लिष्टः-पा० ग. 3. मार्गादि-पा. क, ग. 4.अपि-पा० ग. 5. भूमिभृतांवर:---पा० क. 6. धातुसाम्यत्वलाभत:--पा० क. 7. वात्सल्यसौशील्यादिगुणैर्युतम् - पा. क, वात्सल्यसौलम्यादिगुणैः-पा. ग. 8. गुणो- दयम- या क; गुणोज्वला-पा. ग. १, बालक-पा ग.
प्रपन्नपारिजातः चरणौ शरण यातः" इति मां यस्मरेत् सकृत् । ततस्तमितरोपायव्यवधानविवर्जितम् ॥ ३७ ॥ तदवस्थं मृतिप्राप्तौ काष्ठपाषाणसन्निभम् । काष्ठवत्त स्वतोदेहे' मनश्चेष्ठाविवर्जितम् ॥ ३८ ॥ परप्रबोधासशं तु विलुप्तहृदयं ततः । आत्मवत् स्वयमन्यैश्च हितस्मरणवर्जितम् ॥ ३९ ॥ आश्रितेषु प्रसुप्तेषु पुरुषो यो व्यवस्थितः । काम काम निर्ममाणः तेषां जागर्ति सिद्धये ॥ ४० ॥ सोहमाश्रिततन्त्रात्मा स्मरामि च तदा स्वयम् । 'इमं मद्भोगयोग्य तु कृपापूर प्रकाशनात् ।। ४५ ।। नयामि परमं स्थानम् अचिरादिगति विना । गरुडस्कन्धमारोप्य यथेष्टमनिवारितः" ॥ ४२ ।। (एतत्प्रभावयुक्तस्य प्रपन्नस्य तु पार्श्वतः) । अपयान्ति "द्रुतं भीताः पाशिनो यमकिंकराः ॥ ४३ ॥ अयं न कस्यचिद्भत्यः पराशरशुकौ यथा ॥ ४४ ।। विष्णुपुराणे : " स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ।। ४५ ! 9 1. तथैवात्म्यहमच्युत-पा, ग. 2. मृति प्राप्तम्-पा. क. 3. देहम्-पा. व देहगुणचेष्टादि----पा. ग. 4. परे प्रबुध्य--पा. क. 5. अश्मवत्स्वयमन्यच्च । 6. ह स्थितः-पा. क. 7. ते तु-पा. क; मद्योगयोग्यभोग्यं तम्-पा० रा. 8. रूप-पा.६ 9. कुण्डलितो भागः "क" पुस्तके न ॥ 10. एवम् ...पा. ग. 11. ध्रुवम्--पा०६ 13. एतष झ्यते "क " "ख" पुस्तकयोः।
फलोदयपद्धतिः ५५ * (सत्यं बवीमि मनुजाः स्वयमूर्ध्वबाहुः यो मां मुकुन्द नरसिंह जनार्दनेति । जीवो जपत्यनुदिनं मरणेप्यृणीव पाषाणकाष्ठसहशाय ददामि मोक्षम् ।।) श्रीभागवते देवर्षिभूतात्मनृणां पितॄणां न किंकरो नायमृणी च राजन् । सर्वात्मना यः 'शरणं शरण्य नारायण लोकगुरुं प्रपन्नः ॥ ४६ ॥ उपसंहारः तैयन्तस्मृतिमुख्य सन्मुनिश्चः श्रीपांचरात्राचल- क्षोदैः संघटितः प्रपन्नचरितः क्षीराब्धिसेतुर्महान् । ये वाञ्छन्त्यमुना पथाऽऽप्तुमचिरात् पारं भवाम्भोनिधेः ते पूर्वोत्तर पापकर्मनिचयैः मुक्ता विमुक्ताः स्मृताः ॥ ४७ ॥ कार्पण्याचितबद्ध मूलफलका विश्वासकीलाचिता यान्नाबन्धनरज्जु कृष्टिवशगा निक्षेपसंक्षेपणिः । संसारार्णवतारिणी तनुभृतान्यासात्मनौः तामिमाम् अच्छिद्रामथ पारयिष्णु मभयाः संद्योऽधिरुढा जनाः ॥ * कुण्डलितो भागः क" "ख" पुस्तकयोर्न दृश्यते ॥ 1. व-पा. ग. 2. तन्त्रवचसा संवादिमिस्सद्वचः क्षोदैः-पा. क. ३. तथा--पा. ग. 4. कर्मसागरभयात्-पा. क, ग. 5. ध्रुवम्---पा. क, ग. 6. अनति-पा. का आनत-पा. ग. 7. कर्षि-पा. क, ग. 8. संक्षेपिणी-पा. क, सत्क्षेपणी-पा. ग. ५. तारणे पा. का तारणी--पा. ग. 10, सन्न्यासशास्त्रम् --पा. क, सन्न्या- सनौः-पाग, 11. पारयिष्णुरथयात्----पा० कर .
अपनपारिजातः
अशेषापेक्षितं यत्र परितो जायते सताम् ।
प्रपन्नपारिजाताख्यः प्रबन्धः 'कथितो भुवि ॥
सर्व आचार्यार्पणमस्तु ।
इति श्रीवात्स्यवरदाचार्यमहागुरुमिरनुगृहीते
प्रपन्नपारिजात फलोदयपद्धतिः दशमी
श्रीमदरदमहागुरुदिव्यचरणनलिने एवं शरणम्
1, पठितो-पाल