Bharti Bhawan Library Allahabad
Sri Gurwastakam
Front matter
ॐ
॥ श्रीगुर्वष्टकम् ॥
श्रीमत्परमहंस परिव्राजकाचार्य श्रीवालकभारती
पूज्यपाद शिष्य परमहंस हरिहरानन्द भारती
विरचितम्.
तस्कृतयाचाऽद्वैतार्थप्रकाशिकया "मणिदीपिका"
ख्यव्याख्यया समुल्लसितम.
बी. ए. इत्युपाधिधारिभिः, पट्टणी त्युपनामभिः कृष्णा
(कानजी) मज विजयशंकर शर्मामि गुर्जर भाषानुबादेन
संभूषितम.
छाया इत्युपाह विजयशंकर तनुज गुलाबराय वकील.
इत्येतैः प्रकाश्यं नीतम्.
शकदा १९७९.
सन १९२३.
परमार प्रेस-राजकोट
No text on this page.
No text on this page.
a
PAWAL
प्रोत्रियो ब्रह्मनिष्ठः स्वामी श्रीहरिहरानन्द भारती परमहंसः॥
(अन्य कारः)
No text on this page.
-------....
ब्रह्मविद्वरिष्ठाः श्रीगुरुबालक भारती संन्यासिनः ।।
। येषां स्तोत्रमिदं तइमे).
No text on this page.
प्रस्तावना। अयं खल्वजातबादपरो अन्थः । अतो नास्मिन्प्रन्थे भूतसृष्टिः। तेषां कारणसूक्ष्मस्थूलावस्थाः। तासां समष्टि- व्यष्टिभेदभिन्ना अन्तर्यामिहिरण्यगर्भवैश्वानरप्राज्ञतैजसविश्वा अ- भिमानिनः । इत्यादिः प्रपञ्चः कृतः । अपि तु केवलमुत्तमाधिकार्युपयोगिपदार्था एव वर्णिताः सन्ति मात्रमननार्थम् । यस्य पुनर्मन्दाधिकारिणः प्रपञ्चद्रष्टुमिच्छा स्यात् । स खलु माण्डूक्योपनिषद्गौडपादीयकारिकाभाष्याऽऽदीन्दीर्घ- ग्रन्थान्पश्यतु। अथानुबन्धचतुष्टयं (अधिकारिविषयसंबन्धप्रयोजनानि) तु यदन्यवेदान्तग्रन्थेषु वर्णितमस्ति तदेवात्राप्यस्ति अतो न पृथग्वर्णितमस्यापि वेदान्तरूपत्वादित्यलम् ।।
No text on this page.
अथ गुर्वष्टकप्रारम्भः । ('शार्दूल० वृत्तानि) यस्माज्जायत आत्मनोऽखिलमही रज्जो र्यथा भ्रान्तितो यस्मिंस्तिष्ठति सर्वमेव गगने निष्ठा यथा नीलता॥ यस्मिन्नेव विलीयते च यदिदं रज्ज्वां यथा सर्पधी- स्तं श्रीबालकभारतीयतिमहं वन्दे गुरु चिद्धनम् ॥१॥ ब्रह्मा वै स स विष्णुरेव स शिवः सूर्यः स चन्द्रः स वा इन्द्रः सैव स वायुरेव स गुरुर्वेदान्तकृतमोक्षदः ।। एवं सर्वविधोऽपि यो हि सकलाद्भिन्नः सदा वस्तुत- स्तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिद्धनम् ॥२॥ या शक्ति विभुचेतने वसति सा द्वयंशा स्वयं विद्यते माया तत्र विशुद्धसत्त्वसहिताऽविधाऽपरा या च यः ।। १ सूर्याश्र्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ।
(२) गुर्वष्टकम् । तां मायामवलम्व्य शुद्धपुरुषो यातीश्वरत्वं तत- स्तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिद्धनम् ॥३॥ यस्येशस्य पृथगुणैरवधवा ब्रह्मा हरिः शंकरो ब्रह्मा तत्र करोति सर्वजगतां दृष्टिं हरिः पालकः ।। रुद्रो हन्ति पुनस्तथा भवति यो वाच्यस्ततस्तद्विर- स्तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिर्द्धनम् ॥४॥ एवं सर्वविवर्तरूपजगतो येको विभुः कारणं स्वाज्ञानेन विभाति चेतनधनः कर्त्तव चाऽऽदौ तथा ॥ भग मध्य इवापि नाशसमये हन्तेव यो ज्ञायते तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिद्धनम् ॥५॥ यस्याज्ञानवशादयं हि सकलो बद्धोऽस्ति लोको वृथा यं ज्ञात्या च विमुच्यते बुधजनः संसारबन्धात्क्षणात् ।। आनन्दं निजरूपमेव नचिरात्मामोति चाऽऽप्तं पुरा तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिंधनम् ॥६॥ तमाश्रित्य चिदंशरूपपुरुषोऽविद्यां स जीवो भवेत् स्वात्मानं च ततो बसौ परवशं मना करोत्युद्यमम् ॥
गुर्वष्टकम् ।
कृत्वा कर्म च तत्फलाय परमं देवं पुनः स्तौति थे
तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिद्धनम् ॥७॥
दृष्ट्वा
भ्रान्तिवशाच्च तं भययुतं भूत्वा कृपासंयुतो
ज्ञानादन्य उपाय एव भुवि ते मोक्षस्य भो जीवनो ।।
वक्तुं चेत्थमु यो विचार्य नृतनुं धृत्वा म आहोक्तिमों
तं श्रीबालकभारतीयतिमहं बन्दे गुरुं चिद्धनम् ॥८॥
एतच्छ्रीगुरुदेववन्दनपरं मोक्षपदं चाष्टकं
माङ्गल्यं यतिनाहवैविरचितं प्राज्ञो हराऽऽख्येन यः ।।
नित्यं भक्तियुतः पठेत्स परमा शान्ति ध्रुवां प्राप्नुया-
च्छ्रीमत्सद्गुरुदेवपादकमले सक्तोऽत्र नो संशयः ॥९॥
इति श्रीमत्परमहंसपरिव्राजकाऽऽचार्य श्रीबालकमारतीपूज्यपाद-
शिष्यपरमहंसहरिहराऽऽननन्दभारतीविरचितं
श्रीगुर्वष्टकं संपूर्ण।
तत्सत् ॥१॥
No text on this page.
अथ विषयानुक्रमणिका । विषयाङ्काः। विषयनामानि। श्लोकांका:पृष्टाना-पंक्त्यकाः। १ २ ૨ १ १ ३ ७ १३ १ तटस्थलक्षणम् २ सामान्यनाम्ना तटस्थलक्षणम् १ ३ विशेषनाम्ना तटस्थलक्षणम् १ आत्मशब्दार्थः ५ स्वरूपलक्षणम् ६ वेदान्तरीत्या गुरुशद्वार्थः १ 'वन्दे' इत्यस्याः क्रियाया वेदान्तरीत्याऽर्थः ८ विवर्त्तलक्षणम् (टिप्पण्याम् )२ ९ उपलक्षणम् (टिप्पण्याम् ) २ १० बाधायां सामानाधिकरण्यम् २ ११ अधिष्ठान निर्देशः ૨ १२ विबनिमित्तम् (शक्ति) ३ १ २ १२ १८ ml १६ १० (२) वि. नामानि श्लो. वि. अं. g. पं. ३ १६ १७ ३ ४ १३ मायास्वरूपम् १४ अविद्यास्वरूपम् १५. ईश्वरत्वहेतुवर्णनम् १६ जीवेश्वरोपाधिवर्णनम् १७ ईश्वरस्य त्रयः स्वभावाः १८ तत्पदवाच्यार्थः १९ तत्पदलक्ष्यार्थः २० जगशक्षणनिर्देशः २१ विवर्तलक्षणम् २२ एकाऽऽत्मवाद आक्षेपः ४ २० २० : २१ ६ २१ २३ ५ २३. १५ २३ समाधानम् २४ एकस्यैव सर्वरूपेण प्रतीतौ दृष्टान्तः ३ ३ १३ ३ २५ अज्ञानफलम् २६ ज्ञान फलम् cur वि. अं. वि. नामानि पृ. पं. २८ ६ ६ १८ ६ ३ २ ३ ७ ७ ७ ३ ७ ३१ Owa ७ १६ २७ अनर्थनिवृत्तिः २८ आनन्दप्राप्तिः २९ मोक्षनिर्देशः ३० जीवत्वहेतुवर्णनम् ३१ त्वम्पदवाच्यार्थः ३२ त्वंपदलक्ष्यार्थः ३३ अविद्यामाहात्म्यम् ३४ सर्व कल्पनामात्रमेव ३५ सिद्धान्तः ३६ परमात्मनो गुरुरूपेणाऽऽवि- भीवे हेतुः ३७ बन्धस्वरूपम् ३८ मोक्षस्वरूपम् ३९ ज्ञानादेव मोक्षो नान्यथा ४० ईश्वराऽऽभासस्यैकत्वहेतुः २ ७ ७ २४ २ ८ ३५ २ ३६ ३ ३ ३६ an ३८ .३ कि.. वि. नामानि श्लो. पृ. पं. ३८ m २ ३८ १० ३८ १ ४१ जीवाऽऽभासनेकत्वहेतुः ४२ शुद्धोपाधिगतचिदाभासस्यो- पास्यत्वम् ४३ मलिनोपाधिगतचिदाभासस्यो- पासकत्वम् ४४ उपाधिद्वयाधिष्ठानचेतनस्यो- पास्योपासकभावरहित्यम् ८ ४५ ईश्वरत्वजीवत्वाऽऽदिस धर्माः चिदाभासस्यैव ४६ मायाऽविद्यारूपोपाधेराभासस्य चाधिष्ठानसचामन्तरा स्वतः सत्ताशून्यत्वम् भष्टम श्लोकागत-'उक्तिम्- पद-व्याख्यानाऽऽरम्भ: ४८ श्रुत्युपदेशप्रकारः ४ ८ ४२ २ १ १ ४३ २ वि. अं. वि, नामानि श्लो. पृ. पं. ८ ४ ३ ३ ३ ११ ४५ w ४६ ४७ ५० १० ४९ चत्वारि महावाक्यानि ५० 'प्रज्ञानं ब्रह्म इत्यस्यार्थः ८ ५१ 'अहं ब्रह्मास्मि' इत्यस्यार्थः ८ ५२ 'तत्त्वमसि' इत्यस्यार्थः ५३ 'अयमात्मा ब्रह्म' इत्यस्यार्थः ८ ५४ 'सर्वं खस्विदं ब्रह्म' इत्यस्यार्थः८ ५५ युक्त्युपदेशप्रकारः ५६ युक्तिलक्षणम् ५७ पञ्चविधभेदः ५८ पञ्चविधा युक्तिः ८ ५९ मुख्यसामानाधिकरण्यम् (बाधायां सामानाधिकरण्यम् ६० 'उक्तिम्' पदव्याख्यानसमाप्तिः८ ६१ 'वन्दे' इत्यस्याः क्रियाया व्यावहारिकोऽर्थः ८. ५० ११ ५० ५० १५ ८ १५ ५१ ५२ ५३ २ ३ पृ. ५ १६ ५५ ३ ५६ १२ वि. नामानि श्लो. ६२ गुरुशब्दस्य व्यावहारिकोऽर्थःट ६३ सर्वकर्तव्यावधिनिर्देशः ८ ६४ सप्तभूमिनिर्देशः ६५ प्रथमभूमिकाकक्षणम् ८ ६६ द्वितीयभूमिकालक्षणम् ६७ भवणलक्षणम् ८ ६८ मननलक्षणम् ६९ तृतीयभूमिकालक्षणम् ८ ७० निदिध्यासलक्षणम् ७१ स्वरूपज्ञानस्य चत्वारः प्रतिबंधाः ७२ विषयाऽऽसक्तिनाशोपायः ८ ५७ ५८ ५९ ८ an ७३ प्रमाणगतासम्भावनालक्षणम् ८ ७४ प्रमाणगतासंभावनानाशोपायः८ ७५ प्रमेयगतासंभावनालक्षणम् ८ ५९ ४ २
वि. नामानि
वि. अं.
श्लो.
पृ.
पं.
६०
६०
७७
६०
६१
२
७६ प्रमेयगतासंभावनानाशोपायः८
विपरीतभावनालक्षणम्
७८ विपरीतभावनानाशोपायः ८
७९ चर्तुथभूमिलक्षणम् ८
८० चतुर्थभूमिगतस्य विशेषणम् ८
८१ चतुर्थभूमिगतस्याऽऽनन्दे
दृष्टान्तः
८
८२ पंचमभूमिलक्षणम्
८३ पञ्चमभूमिगतस्य विशेषणम् ८
८४ पञ्चमभूमिगतस्याssनन्दे
१५
८
१७
८५ षष्ठभूमिलक्षणम्
८६ षष्ठभूमिगतस्य विशेषणम् ८
८७ षष्ठभूमिगतस्याऽऽनन्दे
दृष्टांतः
(८)
वि. नामानि
वि. अं.
.
.
६८
८८ सप्तमभूमिलक्षणम्
८९ सप्तमभूमिगतस्य विशेषणम् ८
९० सप्तमभूमिगतस्यानन्दे
३
३
दृष्टान्तः
ure
इति॥
अथगुर्वष्टकप्रारम्भः ।। ('शार्दू वृत्तानि) यस्माज्जायत आत्मनोऽखिलमही रज्जो यथा भ्रान्तितो यस्मिस्तिष्ठति सर्वमेव गगने निष्टा यथा नीलता ॥ यस्मिन्नेव विलीयते च यदिदं रज्ज्यां यथा सर्पधी- स्तं श्रीबालकभारतीयतिमहं बन्दे गुरुं चिवनम् ॥१॥ ॐ तत्सत् । गुरुभ्यो नमः । अथ गुर्वष्टकाद्वैतार्थ- प्रकाशिका मणिदीपिका व्याख्या प्रारभ्यते- NEE यस्मादिति । तं गुरुमहं बन्द इत्यन्वयः । तं के ? यो वालकभारतीनामा यतिः संन्यासी भूत्वा वर्तते तम् । अथेदानी १. सूर्याश्चैर्मसजस्तताः संगुरवःशार्दूलविक्रिडितम् ।
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । तस्य लक्षणमुच्यते--(१) तत्र तावत्तटस्थलक्षणमुच्यते- यस्मादित्यादिना पादत्रयेण । तत्रापि तावत्सामान्यतः सर्वनाम्ना कथ्यते-- (अथ सामान्यनामा तटस्थलक्षणम् ) १ लक्षणं द्विविध भवति---१ तटस्थलक्षणं२ स्वरूप- लक्षणं चेति । २ कदाचित्तत्र वर्तित्वे सति तव्यावर्तकत्वं तटस्थ- लक्षणत्वम् । तदुदाहरणम्-यथा काकवद् गच्छ" इत्यत्र काको गृहस्य तटस्थलक्षणम् । कुतः काको न सर्वदा तहहे वसति । तथापि तदानीं त्वन्यभ्यः काकरहितेभ्यो गृहे- भ्यः स्वाऽऽश्रयभूतगृहं व्यावृत्य ज्ञापयति । अतः काको गृहस्य तटस्थलक्षणं भवति न स्वरूपलक्षणम् । तथैव जगजन्माद्यपि परमात्मनि कदाचिदेव भवति न सर्वदा। तथाऽप्यन्यवस्तुभ्यः परमात्मानं व्यावृत्य ज्ञापयति परमात्मानं विनाऽन्यत्र जगज- न्माउनुपपत्त्या। अतःपरात्मनो जगज्जन्मादि तटस्थलक्षणमिति बोद्धव्यम् । (कादाचिकत्वे सति व्यावर्तकं तटस्थलक्षणम्) .. गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकथा व्याख्यया सहितम् । यस्मादिति । (२) यस्मादिदं दृश्यमानं कर्तृक्रिया- फलात्मकमखिलं जगज्जायते तमितिसंबंधः । ननु यदि जगद्वस्तुतो जायते तर्हि द्वैताऽऽपत्तेः "नेह नानाऽस्ति किंचन" ( का.२।१।११) इतिश्रुत्या विरोधः स्यादित्याशंकायामुच्यते-रज्जोरिति । यथा श्रान्तितो भ्रान्तिवशाद्रज्जोःसकाशादपच्युतपूर्वस्वरूपाया एवाहिः सो मिथ्यैव दृश्यते तथेदमपि जगद्धान्तिधशादेव जायत इव दृश्यते नतुपरमार्थतो जायतेऽतोन श्रुतिविरोत्र इत्यभिप्रायः । तथा चेममेवाभिप्रायमाश्रित्यात्रापि श्रुतिरस्ति- ॥ यतो वा इमानि भूतानि जायते । येन जातानि नीवन्ति । यत्प्रयन्त्यभिसंविशन्ति " (ते.३।१) इति । ननु रज्जुज्ञानानन्तरं रज्जुसो न दृश्यते । इदं तु सर्व जगद्यथापूर्वमेवाधिष्ठानज्ञानान्तरमपि दृश्यते । तत्कथं मिथ्या भवितुमर्ह तीत्याशंक्य दृष्टान्तान्तरमुच्यते-गगने निष्ठेति । यथा गगने निर्विकारे नीलतारहितेऽपि योनि निष्ठा स्थिता व्योमनिर्मल त्वज्ञानरहितदशायां सत्येव दृष्टा या नीलता सा नेय निलता किंतु निर्विकारे गगने नीलताया भान्तिरे- । गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । वास्ति " इत्येवं गगननिर्विकारज्ञाने तथा नीलतामिथ्यात्वज्ञाने सत्यपि पूर्ववदेव गगने नीलता दृश्यते । तथेदं ब्रह्मादिस्थाव- रान्तं जगदपि सर्व मिथ्याऽपि सद्यस्मिन्नधिष्ठाने व्योमस्थानीये निर्विकारे सति परमात्ननि तिष्ठति यत्सत्यत्वेन सत्यवद्भाति (अतो न तत्र सत्यत्वदुराग्रहः करणीयः) । तथा यदिदं प्रत्यक्षं जगदृश्यते तत्सर्व ज्ञानदशायां यस्मिन्बिलीयतएव (रज्जु साक्षात्कारेसर्पभ्रान्ति र्यथा नश्यति तथेदं जगदपि नश्यति, गगननिर्विकारत्वसाक्षात्कारे नीलतावनिमथ्यात्वेन निश्चीयन इत्यभिप्रायः ) । तमितिपूर्ववत् । तदेवं सामान्येन सर्वनामनिर्देशन तटस्थलक्षणमुक्त संमति विशेषनामनिर्देशेन तटस्थलक्षणमुच्यते- (अथ विशेषनाम्ना तटस्थलक्षणम् ) आत्मन इति । (३) यस्मादात्मन इदमखिलं जायते येनात्मना सर्व तिष्ठति यस्मिन्नात्मनि विलीयते च सर्व तमात्मानं गुरुं वन्द इत्यन्वयः । तत्राऽऽत्मशब्दार्थ:- । यच्चाऽऽमोति यदादत्ते (४) यच्चाति विषयानिह ।
आप्ल व्याप्ती गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । यच्चास्य संततो भावस्तस्मादात्मेति कीर्त्यते ॥" यच्छब्दाः सर्वे यस्मादथै द्रष्टव्याः । इति धात्वर्थानुगमादामोति व्यामोति स्वस्मिन्कल्पितान् स्व. विवर्तभूतान्सर्वपदार्थानस्ति भाति प्रियरूपेणेत्यात्ना व्यापकः । तथा च यद्यस्मादामोति तस्मादात्मेतिकीर्त्यते श्रुत्या ब्रह्मविद्धि- वैत्यन्वयः। किंच यद्यस्मादादत्ते संहरति स्वात्मन्येव सर्व तस्मा- दात्मेतिकीय॑ते । लयाविष्ठानमात्मीयत इत्यर्थः । कार्यस्य च कारणे लय इत्यात्मनोऽनया व्युत्पत्त्योपादान कारण लभ्यते मायाविशिष्टस्य । किं च यद्यस्मादिह लोके विषयानत्ति तस्सा. दात्मेतिकीय॑ते । अनया व्युत्पत्या स्वचैतन्याऽऽभासेनोप- कब्धृत्वमात्मनो लभ्यते । किं च यद्यस्मादस्य संततो भावस्त- स्मादात्मेतिकीर्त्यते । यस्माकारणादस्याऽऽत्मनः संततो निर- स्तरो भावः कल्पितस्याधिष्ठानसत्तामन्तरेण सचा भावाद्यथा रज्ज्वामध्यस्ते सपै रज्ज्वाः सातत्यं तथा कसितं सर्व येन स्वस्वरूपवत्स आत्मेत्यर्थः । तथा चाधिष्ठानत्वमात्मानो लभ्यते। इत्यात्मशब्दार्थः ।। तथा चैवं भूतादात्मशब्दविषयाद्यस्माद्दुरोरिदं सर्व विवmardan गुवेष्टकमद्वैतार्थप्रकाशिकथा मणिदीपिकया व्याख्यया सहितम् । तरूपेण जायते यस्मिस्तिष्ठति यस्मिंश्च विलीयते तमात्मानं गुरूं वन्द इत्यन्धयः । इतितटस्थलक्षणम् ।। तदेवं प्रतिपाद्यवस्तुनस्तटस्थलक्षणमुक्तमथेदानी स्वरूप लक्षणमुच्यते- १नित्यं तत्र बत्तित्वे सति तच्या वर्तकत्वं स्वरूपलक्षण- त्वम् । तदुदाहरणम्-यथा शुक्लगृहं गच्छ इत्यत्र शुक्लयों गृहस्य स्वरूपलक्षण । कुतः शुक्ल वर्णो नित्यमेव तहे विद्यते तथान्येभ्यो नीलपीतादिवर्णवद्भयो गृहेभ्यः स्वाश्रयरूपशुक्लगृहं व्यावृत्त्य ज्ञापयति । अतः शुक्लयों गृहस्य स्वरूपलक्षणम् । तथैव सच्चिदानन्दादयो ( सत्य ज्ञानानन्तादयः )ऽपि परमात्मनः स्वरूपलक्षणम् । कुत्तः . सच्चिदानन्दादयोऽपि नित्यं परमात्मनि विद्यते तत्स्वरूपत्वादेव । तथाऽन्येभ्योऽनि. त्य जडदुःखाल्पाऽऽत्मकेभ्यः पदार्थेभ्यः परमात्मानं व्यावृत्य ज्ञापयति । अतः सच्चिदानन्दादयः ( सत्यज्ञानानन्तादयः) परमात्मनः स्वरूपलक्षणमिति बोध्दव्यम् । (स्वरूपं सत् व्यावतकं स्वरूपलक्षणम् ) मुंबष्टकमैद्वाथप्रकाशिकथा मणिदीपिकया व्याख्यथा सहितम् । (अथ स्वरूपलक्षणम्) चिद्घनमिति । चिद्धनं चिदेकरसं (५) चित्पदं सदानन्द- योरप्युपलक्षणम् । तथा च सच्चिदानन्दधनं गुरुं वन्द इति सिद्धम् । तत्र श्रुतिश्चभवति-." सत्यं ज्ञानमनन्तं ब्रह्म । (तै० २ । १) इति । तत्र यद्यपि श्रुतौ त्वनन्तपदमस्ति नानन्दपदम् । तथापि योऽनन्तो भवति स एवानन्दोऽपि भवत्येव “यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम् ।” (छो० ७ । २३ । १) इतिश्रुतेः । अतः सच्चिदानन्दानन्तं ( सत्यं ज्ञानमानन्दमनन्तम् ) गुरुं वन्द इति सिद्धम् । तत्र त्रिषु कालेप्वबाध्यत्वं सत्यत्वम् । ज्ञान स्वयंप्रकाशम् । आनन्दं निरतिशयसुखं दुःखसंयोगरहितत्वं वा । अनन्तं देशकालवस्तुपरिच्छेदरहितम् । गुरुं (६) 'गु' मूलाज्ञानं संसारकारणम् । 'रु' तन्नाशकस्तदाधारश्च स्वयं- प्रकाशः सच्चिदानंद आत्मा । स ह्यज्ञातः सन्सर्वप्रपंचाऽऽधारो भवति यथा रज्जुरज्ञाता सती सर्पदंडमालाजलधाराभूच्छिद्रादि प्रमाणाम् । अथाऽपरोक्षतया ज्ञातः सन्पुनः सकार्याज्ञाननाशको भवति यथा रज्जुरपरोक्षतया ज्ञाता सती सादिसर्वभ्रमाना- (८) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकथा व्याख्यया सहितम् । शयति तथा । तत्र श्रुति:---.". आत्मानं चेद्विजानीयादय- भस्मीति पूरुषः। किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥" ( बृह. ४ । ४ । १२ ) इति । तथा च य औपाधिकरूपेण जगदुत्पत्तिस्थितिलयहेतु भवति बालकभारतीयतिश्च भवति मायया । यथा निद्रया स्वमहास्वप्नप्रपंचस्य भवति हेतुः । अथ बास्तबिकस्वरूपेण तु चिद्घनश्चिदेकरस एवास्ति यस्तमुक्त- विशेषणं गुरुं 'परमात्मानमहमविद्यांऽशावच्छिन्न आत्मा बन्दे नमामि (७) भ्रान्तिकल्पितविरुद्धभावं परिच्छिन्नाहंभावं हित्वा भागत्यागलक्षणावृत्त्या “ अहं ब्रह्मास्मि" इति तदभेदबुद्धया तन्निरुपाधिकस्वरूो मम व्यष्ट्यहंकार समर्पयामि तदभेदभावं व्रजामि । तदेतदप्यभेदभावेन परमात्मचिंतनं नमनं भवति । तद्यथाऽस्मिलोकेऽपि यः कश्चित्सुरुषो येन केनचित्पुरुषेण सह स्वकृतविरुद्धभावं त्यक्त्वा संधि करोति । सोऽपि ॥ अयं पुरुषोऽस्मै पुरुषाय नतोऽस्ति" इत्युच्यते यथा तथाऽत्रापि जीवः स्वकृतं भेदभावं हित्वा परमात्मना सहकीभावं ब्रजति तादात्म्यभावं प्राप्नोति । सोऽयं जीवब्रह्मणोरभेदभाव एव १. अयमधिकारिनिर्देशः । २ अयं विषयनिर्देशः ।
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। "वन्दे " इत्यस्या नमनक्रियाया अर्थ इति वोद्धव्यमन्यार्थ- स्याद्वैतवादेऽसंभवात् । तथा च श्रुतिः- " योऽन्यां देवतामुपास्ते न्योऽसावन्योऽहमस्मीति. न स वेद यथा पशुरेव५ स देवानाम् ॥ (बृह.१।४।१०) इति । तथा यदा वैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति ॥ " (ते. २ । ७) इति च । सोऽयम- भेदचिंतनरूपोप्यर्थों भूतपूर्वगत्योच्यते न साक्षात्कारे । तत्रं स्वस्याप्यसंभवान्निष्प्रयोजनवाच्चेति दृष्टव्यम् । तथा च श्रुतिः न ध्यानं च न च ध्याता न ध्येयोऽध्येय एव च । " (तेजोबिंदुप. १।१०)"बन्ध- मोक्षादिकं नास्ति सदाऽसद्वासुखादि वा । नातिनास्ति गति- नास्ति वर्णों नास्ति न लौकिकम् । सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि । चिदित्येवेति नास्त्येव चिदहंभाषणं नहि। अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित्"। (तेजो बिन्दूप. ५-३८ । ४० ) " बन्धत्वमपि चेन्मोक्षो बन्धा- - ३ ( फलाधिकारिणोः प्राप्यपापकभावसंबंधः ।)
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । भावे वमोक्षता । मरणं यदि चेन्जन्म जन्माभावे मृतिर्न च । त्वमित्यपि भवेच्चाहं त्वं नो वेदहमेव न । इदं यदि तदेवास्ति तदभावादिदं न च । अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किंचन । कार्य चेत्कारणं किंचित्कार्याभावे न कारणम् । द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न । अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च । पूर्णत्वमस्ति चेतिंचिदपूर्णत्वं प्रसज्जते । तस्मादेतत्त्व- चिन्नास्ति त्वं चाहं वा इमे इदम् । नास्ति दृष्टान्तिक सत्ये नास्ति दान्तिकं ह्यजे । परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि । ब्रह्ममात्रं जगदिदं ब्रममात्रं त्वमध्यहम् । चिन्मानं केवलं चाहं नास्त्यनात्मेति निश्चिनु । इदं प्रपंचं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् । चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा। न प्रपञ्चं न चित्तादि नाहंकारोन जीवकः। ANNA मायाकार्यादिकं नास्ति माया नास्ति भयं नहि। को नास्ति क्रिया नास्ति श्रवणं मननं नहि। समाधिद्वितयं नास्ति मातृमानाऽऽदि नास्ति हि। अज्ञानं चापि नास्त्येय ह्यविवेक कदाचन । ( तेजोबिन्दूप. ५ । २४-३४) इत्याद्या श्वासंख्याकाः श्रुतयो भवति ।
गुर्वष्टकमद्वैतार्थप्रकाशिकथा मणिदीपिकया व्याख्ययां सहितम् । अतोऽभेदविचारोऽपि साक्षात्कारात्पूर्वमेव सावकाशी भवति न साक्षात्कारे पुनर्घटते तत्र मूलाज्ञाननिवृनेस्तत्कार्यस्य भेदभावस्याभावाईवमोक्षतत्साधनानां सर्वेषामनुपपतेः । यत्र हि भेदप्रतीतिस्तत्रैवाभेदभावनाऽपि संभवति नतु भेदाभाने किमपि घटत इतिसिद्धान्तः । तह पूर्वोक्तः " वन्दे” इत्यस्याःक्रियाया अभेद- विचारूपोऽर्थः कुत्रोपयुज्यते ।। इतिचेत् साक्षात्कारापूर्व त्ववश्यमेवासावंगीकर्तुमर्हः । कुतः । साक्षात्कारोपायत्वात् । नहि क्वापि किमप्युपायमन्तरेणोपेयं वस्तु लभ्यते केनापि । अतो न निष्फलोक्ति रिति तात्पर्यन् ।। " ज्ञानकर्मपदार्थों ही वस्तुकात्मतंत्रकौ । ज्ञानान्मोक्षो न कर्मभ्य इतिवेदान्तडिडिमः ॥" ( इति प्रथम श्लोक व्याख्या ) ॥ १ ॥ उ० पूर्व श्लोके " इदमखिलं जायते " इत्युक्तम् । तत्र किमात्मकतदिदमखिलमित्याकांक्षायां तत्स्वरूपमुच्यते- मू° ब्रह्मावै स स विष्णुरेवसशिवः सूर्यः स चन्द्रः स वा इन्द्रः सैव स वायुरेव स गुरुर्वेदान्तकृन्मोक्षदः ॥ Prademia गुर्वष्टकमद्वैतार्धप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । एवं सर्वविधोऽपि यो हि सकलाद्भिन्नः सदा वस्तुत- स्तं श्रीबालकमारतीयतिमहं वन्दे गुरुं चिद्धनम् ॥२॥ टी० ब्रह्मेति । स वै स एव । पूर्व श्लोके पंचम्योक्तः । तथा " आत्मा वा इदमेक एवान आसीन्नान्यत्किंचन मिषत्स ईक्षत लोकान्नु सृजा इति ॥ (ऐ. १।१।१) " आत्मैवेदमन आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेय || " (बृ. १ । ४ । १७ ) " स य एषोऽणिमै. तदात्म्यमिद५ सर्व तत्सत्य ५ स आत्मा तत्वमसि श्वेतकेतो (छा. ६ । ८ । ७) इत्यादिश्रुत्युक्तश्चिद्घनः परमात्मैव ब्रह्मा स्रष्टा । विष्णुः पालयिता । शिवः संहर्ता कल्याणरूपो वा । सूर्यश्चक्षुरिन्द्रियानुग्राहकः । चन्द्रः सुधात्मकः । इन्द्रः सुरपतिः । वायुः समष्टिरूपो व्यष्टिरूपः प्राणादि । वेदान्तकृत् वेदस्यान्तो निर्णयस्तस्य कर्ता मोक्षदो महावा- क्योपदेशद्वारा संसारबन्धभ्रान्तिनाशको गुरुराचार्यः । इत्या- दिनानाकारेण विवर्त्तते । १ (८) स्वरूपविकारमन्तरेणैवान्यथाऽवभासो विवर्तः ।
wate- गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । अत्र ब्रह्मादीनां कथनं सर्वजगदुपलक्षणार्थम् । तेन च ब्रह्मादिस्थावरान्तं सर्वविश्वं परमात्मविवर्तः। परमात्मैव स्वस्व- रूपादपच्युत एवं नानाऽऽकारेण परस्परविरुद्धरूपणावभाति स्वाऽऽश्रितयाऽनिर्वचनीययाऽनाद्यविद्ययेति सिद्धम् । तत्र श्रुतयः- स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वरांट् । स एव विष्णुः स प्राणः स कालोमिः स चन्द्रमाः । स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ॥ " (कै० १ । ८-९) "वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी। वं जीणों दण्डेन वचसि त्वं जातो भवसि विश्वतो मुखः । नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः। अनादिमत्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥ " ( श्वे. ४ । ३, ४) इत्याद्याः। तथा च विवर्तस्याधिष्ठानव्यतिरेकेण सत्वाभावात् स एव ब्रह्मा " इत्यादिषु बाधायां सामाना- धिकरण्यम्-" (१०) पूरुषः स्थाणुः, सर्पो रज्जुः, रजतं शुक्तिः " इत्यादिष्विवेति बोद्धव्यम् । २ उपलक्ष्यते (सूच्यते) स्वं स्वेतरच येन (९) तदुपलक्षणम् ।
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । तदेवं विवर्तस्वरूपमुक्तं पादंद्रयेनाथेदानीमधिष्ठानस्वरूप मुच्यते--एवमिति । एवमुक्तप्रकारेण सर्वविधोऽपि ब्रह्मादि- स्थावरान्तेन परस्परविलक्षणस्वभावेन सर्वजगदाकारण विवर्त- मानस्सन्नपि यो (११) वस्तुतः स्वस्वरूपेण तु सदा नित्यं प्रपंचाऽऽभासकालेऽपि सकलात्संपूर्णात् स्वस्मिन्कल्पिताद्विव- ताल्पकात्प्रपंचाद्भिन्नः पृथनिर्विकार एव विद्यते तं गुरुं वन्द इत्यादि व्याख्यातम् । ननु पादहयेनोक्तानामन्येषां रबस्वस्तु मिथ्याविवर्त- रूपत्वम् । परन्तु मोक्षदस्य वेदान्तकृतो गुरोस्तु कथं मिथ्या- विवर्तरूपत्वं स्यात् ? । कुतः । तस्य मिथ्यात्वे तत्कृतं वेदा. तशास्त्रमपि मिथ्यैव स्यात् । तथा तत्कृत उपदेशोऽपि मिथ्यैव स्यात् । तथा च सति मिथ्योपदेशेन मोक्षो न स्यात् । अतः प्राप्तं मोक्षसाधनजातस्य वेदान्तविचारादेरा- नर्थक्यम् । इति चेत् । न । बन्धस्यमिथ्यात्वात्तदपेक्षस्य मोक्षस्य मिथ्यात्वं सिद्धमेव । ततश्च यादृशयक्षन्यायेन मिथ्या- ऽऽचार्यकृतमिथ्योपदेशेन मिथ्या मोक्षोऽपि भविष्यति । इत्यतो न कोऽपि दोषः । एतदुक्तं भवति--गुरोःस्वरूप तु नित्य- . . गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । शुद्धबुद्धमुक्तसच्चिदानन्दात्मकमेवास्ति तथाऽपि गुरुशरीरं पुरु- वं वा मिथ्याविवर्तात्मकमेवभवति । किं च शिष्यत्वापेक्षया गुरुत्वमुत्तमं पूज्यं च भवति विद्यापरिकल्पितव्यवहारदशा- याम् । तथाऽप्यविद्याकल्पितविवर्त्तत्वस्य तूभयत्रापि गुरुत्व- शिष्यत्वयोस्तादवस्थ्यमेवास्ति । अतो गुरुत्वशिष्यत्वदेवत्व- मनुष्यत्वतिर्यक्त्वादिनानाभासात्मकं सर्वमपि जगत्परात्मवि. वर्तभूतमेवेति सिद्धान्तः । तस्य च विवर्तात्मकस्याधिष्ठानेन परमात्मना सह बाधायामेवसामानाधिकरण्यं संभवति न मुख्यसामानाधिरकण्यम् । कलितस्य सत्येनसह तदसंभवाद- जतस्येव शुक्त्या सहेति ॥ " सत्तास्फुरणसौख्यानि भासते सर्ववस्तुषु । तस्माह्ममय सर्वमिति वेदान्तडिंडिमः॥" ( इति द्वितीय श्लोक व्याख्या ) ॥ २ ॥ उ० पूर्वश्लोके ॥ सर्वजगत्परमात्मविवर्तात्मकं केवलं प्रातिभासिकमेव नाधिष्टानव्यतिरेकेण किंचिदपि वस्त्वस्ति । किं त्वधिष्ठानं परमात्मैवाप्रच्युतपूर्वस्वरूप एव नानाऽऽकारण विवर्त्तते ।" इत्युक्तम् । तत्र किं पुनर्विवर्तनिमित्तम् ।।
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । इत्याकांक्षायामुच्यते- मू० याशक्तिर्विभुचेतने बसति सा चंशा स्वयं विद्यते माया तत्र विशुद्धसत्त्वसहिता विद्याऽपरा या च यः ।। तां मायामवलम्ब्य शुद्धपुरुषो यातीश्वरत्वं तत- स्तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिद्धनम् ॥३॥ टी । येति । विभुचेतन इति । विभु श्वासौ चेतनश्चेति विभुचेतनः । देशकालवस्तुपरिच्छेद- शून्यत्वं विभुत्वम् । स्वयंप्रकाशत्वं चेतनत्वम् । तस्मिन्विभु- चेतने । (१२) या “ अजामेका लोहितशुक्लष्णाम् ।" (श्वे० ५। ५) " मायां तु प्रकृति विद्यात् । " (श्वे. १।१०) " पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । (श्वे० ६ । ८) इत्यादिश्रुतिप्रसिद्धा शक्तिर्वसति सा शक्तिः स्वयं स्वतोऽजसा द्वयंशा विद्यते । द्वावंशौ विभागौ विभागाविव विभागौ प्रकारौ यस्याः सा द्वयंशा द्विधा द्विप्रकाराऽस्तीतियावत् । तत्रेति । तत्र द्वयोः प्रकारयो मध्ये । (१३) विशुद्धसत्त्वसहिंता विशुद्धं रजस्तमो- भ्यामनभिभूतं सत्वं सत्त्वगुणो विशुद्धसत्त्वं विशुद्ध च गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया न्यारूपया सहितम् । तत्सत्त्वं चेति विशुद्धसत्वं तेन विशुद्धसखेन सहिता विशुद्ध- सत्त्वसहिता शक्ति या भवति । अविद्येति । (१४) अपरा शुद्धेन रजस्तमोभ्यां रजोगुणतमोगुणाभ्यां सहितेन रजोगुण- तमोगुणाभ्यां व्यामिश्रेण सत्त्वेन सहिता या सा शक्तिरविद्या भवति । य इति । तां (१५) शुद्धसत्त्वो मायामवलम्ब्या- धिष्ठाय ततो हेतो यः शुद्धपुरुषः स्वस्वरूपेण वस्तुतो माया- मलसंबन्धरहितत्वाच्छुद्धः परिपूर्णत्वाच्च पुरुषः शुद्धश्चासौ पुरुष श्चेति शुद्धपुरुषः परमात्मा । ईश्वरत्वं तत्पदवाच्यत्वं याति प्रामोति। वास्तविकस्वरूपेण शुद्धःसन्परिपूर्णश्च सन्नपि यश्चि- द्धातुः स्वाश्रितां शुद्धसत्त्वां मायाशक्ति 'शुद्धसत्वप्रधानां १ मायाया मायाकार्यस्य च सर्वस्य सर्वत्रापि त्रिगुणा- स्मकत्वात् क्वापि केनापि गुणेनान्याभ्यां गुणाभ्यां विना केव- लेनैकेन भवितुमशक्यत्वात् यत्र यत्र यो यो गुणो दृश्यते. तत्र तत्र तस्य तस्य गुणस्य प्राधान्य मेव भवति न तत्र स एक एव गुणः केवलं भवति गुणद्वयं विना । अतो मायाऽपि शुद्धसत्त्वप्रधानैव भवति न शुद्धसत्त्वा भवितुं शक्नोतीत्यतः शुद्धसत्त्वाम्" इत्युक्तेऽपि पुनः शुद्धसत्त्वप्रधानाम्" इत्युक्तमिति तात्पर्यम् ।
(१८) गुर्वष्टकमद्वैतार्धप्रकाशिकया मणि दीपिकया व्याख्यया सहितम् । मायाशक्तिमधिष्ठाय सर्वज्ञत्वसर्वशक्तित्वादिभावं प्राध्येश्वरत्वं तत्पदवाच्यतां याति (अविद्वदृष्टया)। तमित्यादि व्याख्यातम्।। (१६) अविद्योपाधिको जीवो मायोपाधिक ईश्वरः । मायाऽविद्यागुणातीत इति वेदान्तडिंडिमः॥" ( इति तृतीयश्लोकव्यख्यया ) ॥ ३ ॥ उ० पूर्व श्लोके 'शुद्धपुरुषः परमात्मैव स्वाश्रितां शुद्ध- सत्तप्रधानां मायामधिष्ठायेश्वरत्वं याति' इत्युक्तम् । तत्र किमात्मकं तदीश्वरत्वं ? । इत्याकांक्षायांतत्पस्वरूपमुच्यते- मू० यस्येशस्य पृथग्गुणैरवयवा ब्रह्मा हरि शंकरो ब्रह्मा तत्र करोति सर्वजगतां सृष्टिं हरिः पालकः॥ रूद्रो हन्ति पुनस्तथा भवतियो वाच्यस्ततस्तद्विर- स्तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिद्धनम्॥४॥ टी० । यस्येति । यस्य मायाशबलत्वं गतस्येशस्य पृथक् पृथङ् मायागुणै रजआदिभिः पृथक् पृथग् (१७) ब्रह्मा हरिः शंकरश्चेति त्रयोऽवयवा अवयवा इवावयवाः सन्ति । तत्र तेष्ववयवेषु ब्रह्मा रजः प्रधान ईश्वरावयवः सर्व जगतां .. गुवष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । सृष्टिं करोति । हरिः सत्त्वप्रधान ईश्वरावयवः सर्वजगतां पालकः पालयिता भवति । रुद्रः पुनस्तमोगुणप्रधान ईश्वरा- वयवः सर्वजगति हन्ति संहरति । अध्यात्मपक्षे तु सर्वानु मबसिद्धं ह्येतत् । तथा हि- -संसारी जीवोऽप्येकस्यामेव जाग्रदवस्थायां वर्तमानोऽपि यदा रजोगुणप्रधानो भवति तदा स्खलु नानाविधाननेकान्संक- स्पमयान्मिथ्यापदार्थान्कल्पयति । यदा तु सत्वगुणप्रधानो भवति तदा दयाधर्मादिशुभगुणयुक्तः सन्यथाशक्ति प्राणिपा- लनं करोति । यहा पुनस्तमोगुणप्रधानो भवति तदा किल सर्वा मनोबाकायक्रिया स्वस्मिन्नैव संहत्य तृष्णीमेव तिष्ठति यथा । तथैवेश्वरपक्षेऽपि बोद्धव्यम् । तथा हि-परमात्मैव स्वस्वरूपेण निर्विकार एवं सन्न- प्यविवेकदृष्टया मायाशबलत्वं प्राप्य मायाऽवांतरभेदै रजआ. दिगुणैः पुनः कुत्रचित्कस्यचिद्गुणस्य प्राधान्येन स्रष्टा भाति । कुत्रचित्कस्यचिद्गुणस्य प्राधान्येन पालयिता भाति । क्वचि- कस्यचिद्गुणस्य प्राधान्येन तु संहती भाति । तत इति । तत उक्ताद्धेतोः । मायामधिष्ठाय सर्वज्ञत्व- , (२०) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । सर्वशक्तित्वादिभावप्राप्ते जगदुतात्यादिकरणाच्च हेतो यः पर- मात्मा तद्विरस्तत्पदम्य वाच्यः शक्यो भवति तमितिसंबंधः । तमित्यादि व्याख्यातम् । (१८) तथा च 'माया, मायायां प्रतिबिंबितश्चिदा- भासो, मायाधिष्ठानचैतन्यं चेति त्रयाणां पदार्थानां समूह- स्तत्पदवाच्यो भवति । (१९) माया'चिदाभासौ हित्वा तद्- धिष्ठान'चैतन्यमानं तत्मदलल्यार्थः । इति विवेकः ।। समष्टिव्यष्टिरूपो द्वौ पदार्थी सर्वसंमती । समष्टिरीश्वरो व्यष्टिीवो वेदान्तडिंडिमः ॥' ( इतिचतुर्थश्लोक व्याख्या ) ॥ ४ ॥ उ० पूर्व श्लोके जगदुत्पत्त्यादिकर्तारो ब्रह्मादय ईश्वरांश- भूता उक्ताः। तत्र किं जगद्वास्तविक कल्पितं वा । ब्रह्मणि चेश्वरत्वं तद्वारा जगत्कर्तृत्वादिकं च वास्तविकमुत प्रातिभा- सिकम् । इत्याकांक्षायामुच्यते-- मू० एवं सर्वविवर्तरूपजगतो ह्ये को विभुः कारणं स्वाज्ञानेन विभाति चेतनधनः कर्त्तव चाऽऽदौ तथा॥ wale १ समष्टिमाया।
त :- गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । भर्ती मध्य इवापि नाशसमये हन्तेव यो ज्ञायते तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिद्घनम् ॥५॥ टी० । एवमिति । एवमुक्तप्रकारेणानिर्वचनीयमाया- बष्टम्भेनैव वस्तुत एगो विभुश्चेतनधनोऽपि सम्परमात्मा सर्वस्य (२०) विवर्तरूपस्य जगतः कारण मुपादानं भवति न खतः । तत्र श्रुतिः इन्द्रो मायाभिःपुरुरूप ईयते (बृह. २।५।१९) । इति । इन्द्रः परमेश्वरो मायाभि- रविद्याप्रज्ञाभिः पुरुरूपो बहुरूप ईयते प्रतीयते । वस्तुत एक- रूपः प्रज्ञानधन एवं सन्नपि मिथ्याधीहेतुभूतानाधनिर्वाच्य- दण्डायमानाज्ञानवशादेव बहुरूपो भाति । प्रकारभेदात्तु बहु- वचनम् । इतिश्रुत्यर्थः। तथा चाविद्यादृष्टचैव परमात्मा विवर्त्तते न ज्ञानदृष्टया। तत्र विवर्त्तलक्षणम्- (२१) अप्रच्युतपूर्वस्वरूपस्यासत्यनानाऽऽकारावभासो विवर्तः । इति । तदेव परमात्मनोऽपि कतृत्वादिभावेऽपि घटतेऽतस्त- देवोच्यते- MORENAM MAINE (२२) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । स्वाज्ञानेनेति । यश्चेतनधनश्चिदेकरसः सन्नपि परमात्मा स्वाज्ञानेन स्वस्याऽऽत्मनोऽज्ञानेनाहंब्रह्म.स्मीतिवोधेन विना । अथवा स्वाश्रितेन स्वव्यामोहकरेणाज्ञानेन स्वाज्ञानेनानाद्यनि- वाच्येनाज्ञानेन स्वरूपाश्रितेनाऽऽवरणशक्त्यानकेन तत्कायण विक्षेपशक्त्य सकेन चाऽऽदौ सर्गकाले कर्त्तव विभाति चका- रात्कार्यमिवापि यो विभातीति दृष्टव्यम् । तथैव मध्ये स्थितिकाले यः परमात्मा मतेव पालयितेव विभाति । अपिशब्दात्यालनी- यरूपेणापि यः परमात्मैव विभातीति च बोद्धव्यम् । तथैव च नाशसमये प्रलयकाले यो हन्तेव संहवि विभाति तथा हन- नीयाकारेणापि यः स्वयमेव ज्ञायते प्रतीयते तमिति संबन्धः । तमित्यादि व्याख्य तम् । एतदुक्तं भवति-प्रथम शुद्धचैतन्याश्रिवानाद्यनिर्वा- च्यामायाशक्तिःस्वाऽऽवरणशक्त्या तदेव चैतन्यमाच्छादयति। तदनन्तरं सैव शक्तिः स्वविक्षेपशक्त्या तदेव चैतन्यं निर्विकारं सदेव विपरीतप्रकारेणेश्वरत्वेन जीवत्वेन जगत्वेन च दर्शयति। तथा चैवं सति देशकालवस्त्वादीनां कर्तृकरणकर्मादीनां च सर्वेषां पदार्थानां कल्तिपत्वात् "आदौ मध्ये नाशसमये" गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् | इत्यत्रोक्तः कालोऽप्यविद्याकाल्पित एव न वस्तुतः परमात्मनि कालोऽप्यस्तीति दिक। (२२) ननु भवतु सर्वस्येश्वरादिस्थावरान्तस्य जगतः परमात्मविवर्त्तत्वेन कल्पितत्वम् । तथाऽप्येकाऽऽत्मवादे कर्तृ- कर्मप्रतीतिविरोधः स्यात् । कुतः । नहि लोके क्वचिदेक- स्मिन्वस्तुनि कर्तकर्मनान्तिरपि भवत्येककाले । नापि संभवति चैकमित्काल एकवस्तुनि कर्तृत्वकर्मत्वयोरसंभवात् । अत एकस्यैवाऽऽत्मनः कर्तृकर्माऽऽकारेण प्रतीति नै सम्भवति दृष्टविरोधात् । दृश्यते तु ब्रह्मादिषु कर्तुत्वमस्मदादिषु च कर्म- त्वमित्यतो न विवर्चवादेऽप्येकाऽऽमवादो घटते। न हि रज्ज्वां सर्पाद्याकारेण विवर्त्तमानायामपि सत्यां कर्तृकर्मभ्रान्ति भवति कदाचित् । अते विववादेऽपि नैकाऽऽत्मवादो घटते। परि- शेषातु नानाऽऽत्मवाद एव साधुः । इति चेत् । (२३) न । एकाऽऽत्मवादेऽपि कर्तृकर्मप्रतीतेः सम्भवात् । तथा हि- (२४) यथा स्वनहक् कचित्कुलालं कारं पश्यति । क्वचि- 'चक्रदण्डाऽऽदीनि करणानि पश्यति । क्वचिद्घटादिकार्याणि पश्यति । क्वचिद्राजानं पश्यति । क्वचित्प्रजाः पश्यति ।
(२४) शुवेष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। क्वचिच्चारं पश्यति । क्वचिच्छासितारं पश्यति । क्वचिच्छउँ पश्यति । क्वचिन्मित्रं पश्यति । क्वचिदुदासीनं पश्यति । क्वचित्स्थावरं पश्यति । क्वचिजंगमं पश्यति । इत्याधनेका- विरुद्धस्वमावान्पदार्थान्पश्यति । तथा स्वमपि चापच्युतपूर्व- स्वरूपमेव ब्राह्मणोऽहं शूद्रोऽहं पूमानहं स्व्यहं सुख्यहं दुःख्य- हमित्यादिविपरीतभावं प्राप्तं मन्यते । इति सर्वलोकप्रसिद्ध होतत् । तत्र यथैक एव सन्निर्विकार श्चापि सन्साक्ष्यात्मा कर्तृ करणकार्याऽऽकारेण द्रष्ट्रदर्शनदृश्याऽऽकारेण च भाति । न हि तत्र साक्षिणं विना न्यत्किचिदप्यस्ति । यथा च स्वमें स्वकल्पितोऽपि राजा स्वनियंता भाति । स्वकल्पितोऽपि पिता स्वोत्पादको भाति । स्वकल्पिता अपि चोराः स्वधनं चोरयन्ति। एवं सर्वेऽपि स्वमहक ल्पताः पदार्थाः फलवंत एव भान्ति स्वमसमये । यदा पुन जागति तदा तु सर्वस्वमप्रपंच मि बुद्ध यथापूर्व तिष्ठति स्वयमेक एवं यथा । तथैवानाद्यनिर्वाच्याज्ञाननिद्रायुतो लोको पीश्वरादिस्था- (२५) गुर्घष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । वरान्तं सर्व प्रपञ्चं स्वयमेव कल्पयति ( स्वयमेव लोक आत्मा सर्वाऽऽकारेण विवर्तते )। तत्रापि च स्वकल्पितोऽपश्विरः स्वनियामको भाति । एवमन्येऽपि पदार्थाः स्वकल्पिता अपि सन्तोऽज्ञाननिद्राप्रभावातत्फलवंत एव परमार्थसत्या इवैव भान्ति स्वमन्यायेनाज्ञाननिद्रायाम् । यदा पुनर्गुरूपदेशपूर्वकम् " 'तत्त्वमसि " खल्विदं ब्रह्म तज्जलान् " " आत्मैवेदम् " इत्यादि शास्र विचार्य " "अहं ब्रह्मास्मि" इतिज्ञानरूपां जाग्रदवस्थां प्राप्नोति तदा तु स्वकल्पितेश्वरत्वजीवत्वविभिनिषेधादिसर्यातीतः सन्या- दृच्छिक एवावतिष्ठते। तत्र श्रुतिः यत्र लोका न लोका देवा न देवा वेदा न वेदा यज्ञा न यज्ञा माता न माता पिता न पिना स्नुषा न स्नुषा चाण्डालो न चाण्डालः पौष्कसो न पौकसः श्रमणो न श्रम- णस्तापसो न तापस एकमेव तत्परं ब्रह्म विभाति निर्वाणम् ।। ( ब्रह्मोपनि) । इति ॥ १ (छा. ६ । ८ । ७.) ॥ २ (छा. ३ । १४ । १)। ३ (छा. ८।२५।२)। ४ (बृ.१।४।१०)। adding (२६) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । "सर्वात्ममा स्थितं ब्रह्म सर्वं ब्रह्मात्मना स्थितम् । न कार्य कारणाद्भिन्नमिति वेदान्त डिंडिमः॥" ( इति पञ्चम श्लोकव्याख्या ) ॥ ५ ॥ उ० 'शुद्धचिद्धातुरेव स्वाश्रितानाद्यनिवर्चनीयमायाम- धिष्ठाय तत्पदवाच्येश्वरत्वं यात्यज्ञानदृष्टया ज्ञानदृष्टया तु सदै. करसश्चिद्धन एवास्ति परमात्मा।' इत्युक्तमतीतमन्थेन ।। संप्रति तज्ज्ञानाज्ञानयोः फलमुच्यते- NOLD v० यस्याज्ञानवशादयं हि सकलो बद्धोऽस्ति लोको वृथा यं ज्ञात्वा च विमुच्यते बुधजन: संसारबन्धाक्षणात् ।। आनन्दं निजरूपमेव नचिरात् पामोति चाऽऽतं पुरा तं. श्रीबालकभारतीयतिमहं वन्दे गुरुं चिद्घनम् ॥६॥ टी० यस्येति । (२५) यस्य चिद्घनानन्दैकरसस्य परमात्मनोऽज्ञानवशादज्ञानात् । सोऽहमहंस इत्याकारकज्ञानेन विना । अयं सकलः सर्वोऽज्ञो लोको वृथा हि बद्धोऽस्ति । भ्रान्त्यैव वस्तुतो बंधमोक्षादिरहितमपि बद्धोऽस्मीति मन्यते स्वात्मानं न तु वस्तुतो जीवस्यापि बन्धोऽस्ति किं तु भान्तित गुर्वष्टकमद्वैतार्थप्रकाशिकथा मणिदीपिकया व्याख्यया संहितम् । एव भाति बन्धः । अन्यथा ज्ञानानिवर्त्यत्वप्राप्तेः । न हि ज्ञानेन सत्यपदार्थस्य निवृत्तिर्भवति । तथा च-यथा कश्चिद्राजा निद्रां प्राप्य स्वस्वरूपं विस्मृत्य स्वमं पश्यन् ' अहं चोरोऽस्मि मया कस्यचिद्धनं हृतं तेन चैतै राजदूतै मुहीतोऽस्मि दुःख्यस्मि' इत्येवं मन्यते . मिथ्यैव स्वम् । , यदा तु जागर्ति तदा पुनः 'राजाऽहं न चोरोऽस्मि न च दुःख्यस्मि ' इत्येव मन्यते यथा । तथैवाज्ञो लोकोऽपि स्वस्वरूपभूतब्रह्मणोऽज्ञानादेव 'अहं बद्धोऽस्मिः' इति मन्यते मिथ्यैव न तु परमार्थतो बद्धोऽस्तीति वृथा हि' इत्यस्यार्थः। ननु यदि वस्तुतो बन्धो नास्ति तर्हि गुरुशास्त्रादीनी बन्धनिवृत्तिसाधनानि निष्फलानि । इति चेत् । न । मिथ्या- बन्धस्यापि निवृत्तिस्तु कर्त्तव्यैव । कुतः ।। मिथ्याऽपि बन्धो यावदज्ञानं दुःखदो भाति । यथा निद्रायुक्तं पुरुषं मिथ्याऽपि दुःस्वमो दुःखदो भाति तथा । अतो मिथ्याबन्धस्यापि निवृत्तेरपेक्षितस्वान गुरुशास्त्रा- (२८) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । दीनि निष्फलानि तज्जन्यज्ञानस्य मिथ्याबन्धस्यापि निवर्तक- त्वेनेष्टत्वादित्युच्यते-यं ज्ञात्वेति । यं (२६) सच्चिदानन्द सर्वत्रैकरसम्' " एकमेवाद्वितीयम् ।" (छा. ६।२।१) यो वै भूमा तत्सुखं नारूपे सुखमस्ति भूभैव सुखं भूमा त्वेव विजिज्ञासितव्यः ।" (छा. ७ ॥२३ । १)" सत्यं ज्ञान- मनन्तं ब्रह्म । t. २ । १) आत्मा वा अरे। द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे ! दृष्टे श्रुते मते विज्ञात इद २ सर्व विदितम् ।। (बृह. ४ । ५। ६) इत्यादि श्रुति प्रसिद्धः परमात्मानं ज्ञात्वा । सोऽहमेव न ततः पृथगस्मि' इति साक्षात्कार कृत्वा । बुधजनो ज्ञानी पुरुषोऽपरोक्षज्ञानी भूत्वा । क्षणात्तरिम व क्षणे न कालान्तरे यथा स्वामबद्धो जागरितकाल एव तया संसारबन्धाद्विमुच्यते । संसरणं पुनः पुन र्जननं मरणं च संसारः संसार एव बन्धः संसारबन्धस्तस्मात्संसारबन्धाद्विमुच्यते विशेषेण मुच्यते (२७) पुनर्बन्धभ्रान्तिरहितत्वं प्रामोतीत्यर्थः । एतेनाननिवृत्तिरुक्ताऽथेदानी परमानन्दप्राप्तिरुच्यते--(२८) आनन्दामिति । नचिरादिति । नचिराच्छीघ्रं निजरूपमा- नन्दं प्रत्यग्भूतं ब्रह्मानन्दं चाऽऽमोति प्राप्नोति ।
कमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । (२९) ननु यदि ब्रह्मानन्द प्रामोति पूर्वमसंतमेव जीवस्तर्हि संयोगा वियोगान्ताः" इतिन्यायाकालान्तरे प्राप्याडेड- नन्दवियोगात्पुनर्दुःखी भविष्यतीत्याशंक्योच्यते-(२९) आप्त- पुरेति । पुरा ज्ञानकालात्पुर्वेऽपि प्राप्तमेव प्रामोति निजरूप- मित्युक्तत्वात् । नहि निजरूपं कदाचिदप्यप्राप्तं भवति । परि- शेषातु विस्मृतकण्ठाभरणन्यायेनप्राप्तस्यैव स्वरूपानन्दस्य प्रा- प्तिर्बोद्धव्या। पुरा विस्मृतं परब्रह्मभूतनिजरूपं यथावज्जानाती- त्यभिप्रायः । अतो न तद्वियोगशंका सावकाशेति भावः । संसारबन्धानर्थस्यापि निवृत्तस्यैव निवृत्तिरित्युक्तं निद्वितराज- दृष्टान्तेन “वृथा हि" इत्यस्यव्याख्याने । तदेवं संसारबन्धानर्थनिवृत्ति निजानन्दप्राप्तिश्चोक्ता । तदेव मोक्षस्वरूपं भवति । तथा च संसारबन्धभ्रान्तिनिवृत्तेः। विस्मृतस्वरूपस्मृतेश्च 'जीवन्मुक्तो भवतीति समग्रार्थः। तमि- त्यादिकं व्याख्यातम् ॥ "ज्ञानाज्ञाने पदार्थो द्वावात्मनो बन्धमुक्तिदौ । ज्ञानान्मुक्तिनिबन्धोऽन्यादिति वेदान्तडिंडिमः । ( इति षष्ठ श्लोक व्याख्या ) ॥ ६ ॥ १ अयं ४-प्रयोजननिर्देशः।
muline गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । उ० एवं तत्पदवाच्यार्थमुक्त्वा । लक्ष्यार्थकथनपूर्वक लक्ष्यार्थज्ञानाज्ञानयोः फलं चोक्तम् । अथाधुना त्वं पदस्वरूप- मुच्यते- मू० तामाश्रित्य चिदंशरूपपुरुषोऽविद्यां स जीवो भवेत स्वात्मानं च ततो हासौ परवशं मत्वा करोत्युद्यमम् ॥ कृत्वा कर्म च तत्फलाय परमं देवं पुनः स्तौति यं तं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिद्घनम् ।। ७॥ टी० तामिति । तां 'पूर्वोक्तां (३०) मलिनसत्त्वामवि- घामाश्रित्य चिदंशरूपपुरुषो यो वर्तते स जीवो भवेदित्यन्वयः। चितश्चेतनस्य विभोरंशरूपोशभूतः पुरुषः पुरिशयः । व्यष्टि- शरीरगतेन व्यष्टिशरीरकारणेनाविद्यांशेनावच्छिन्नश्चैतन्यैकदेश इति यावत् । अंश इवांशो महाकाशस्येव घटाकाशः । न हि निरवयवस्य विभोः परमात्मनो मुख्योऽशः संभवति निरवयव. त्वादिति बोद्धव्यम् । चिदंशो रूपं स्वरूपं यस्य स चिदंश- रूपः। चिदंशरूपश्चासौ पुरुषश्चेति चिदंशपरूपपुरुषः तथा हि-(३१) साssभासांतः करणेन साssभासाविद्याशेन वा १ तृतीयश्लोकोक्ताम् । ..
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। विशिष्टो विभुचैतन्यैकदेशो जीवोभवेद्भवति । त्वं पदवाच्यो भवतीत्यर्थः । (३२) तथा साऽऽभासांतःकरणेन साऽऽभासा- विद्यांशेन वोपहितो विभुचैतन्यैकदेशमात्रस्त्वं पदलक्ष्यः । इति विवेकः । वाचोच्यत इति वाच्यः । लक्षणया लक्ष्यत इति लक्ष्यः। तत्र स्वरूपेण निरंशस्यापि परमात्मनो व्यष्टिशरीरगतव्यष्टय- विद्याकार्यान्तः करणावच्छिन्नदेशोंऽश इव भाति तेनासावंश इत्युच्यते । तत्र श्रुतिश्च-" तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् । " (श्वे० ४।१०) इति । किं च सर्वासु पूर्ष शरीरेषु शेतेऽतः पुरुषोऽपि चासाबेवोच्यते । तत्रापि श्रुति:--" स वा अयं पुरुषस्सर्वासु पूर्षु पुरि- शयो नैनेन किंचनानावृतम् ।" (वृह०२।५।१८) इति । अथेदानीमविद्यावशगतस्य यत्फलं भवति तदुच्यते- (३३) ततो हीति । यतोऽविद्यामाश्रित्य तयाऽविद्ययाऽपहृतज्ञानो भूत्वा वर्तते ततो हेतो हौवासौ जीवः परमार्थदृष्टया स्वतन्त्रोऽपि सन्नविद्यामाहात्म्यात् स्वात्मानं स्वमात्मानं परवशं परस्येशस्य ।
(३२) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। वशमघीनं मत्वा । अहमसमर्थो जीवः कर्त्ताभोक्ता पराधीनोऽसिम ईश्वरस्तु समर्थःस्वतन्त्रः कर्मफलदाता मद-योऽस्ति । अतो ममास्ति कर्त्तव्यं कर्म तथा कर्मफलदात्रीश्वराराधनं च कर्तव्य- मेवास्त्यतोऽहं कर्मेशाराधने कृत्वा सुखी भविष्यामिति मत्वा । उद्यमं श्रौतस्मादिकाम्यकर्म करोति । पुनः कर्म कृत्वा तत्फलाय स्वकृतकर्मफलप्राप्तये यं परमं देवं स्तौति तमिति- संबंधः। यं परमं देवं स्वरूपेणाशेषविशेषरहितमपि सन्तं परमात्मानं खलु सर्वशं सर्वशक्तिं कर्मफलदातारं सर्वनियंतारं दयालुमीश्वरं मत्वा यं स्तौति स्तुत्या प्रसन्नं करोत्याराधयति । ततश्च (३४) स्वकल्पना नुसारेण स्वकल्पनाप्रभावेणैव फलमपि लभत इति वाक्यशेषः । auntain तत्र श्रुतिः " अथ खलु ऋतुमयः पुरुषो यथाक्रतुर- स्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत।" (छा. ३ । १४ । १) इति । ऋतुः संकल्पः । ऋतुमयः संकल्पमयः । स्पष्टमन्यत् । तथा-"स यदि पितुलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते । अथ गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्या सहितम् । यदि मातृलोककामो भवति संकल्पादेवास्य मातरः समुत्ति- ष्ठन्ति तेन मातृलोकेन संपन्नो महीयते । अथ यदि भ्रातृलो. ककामो भवति संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन प्रातृ- लोकेन संपन्नो महीयते । अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसलोकेन संपन्नो महीयते । अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन संपन्नो महीयते । अध यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमात्यलोकेन संपन्नो महीयते। अथ यंद्यन्नपानलोककामो भवति संकल्पादेवास्यानपाने समुत्तिष्ठत- स्तेनानपानलोकेन संपन्नो महीयते । अथ यदि गीतवादित. लोककामो भवति संकल्पादेवास्य गीतवादिते समुत्तिष्ठतस्तेन गीतवादितलोकेन संपन्नो महीयते । अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः समुत्तिष्ठान्त तेन स्त्रीलोकेन संपन्नो महीयते । यं यमन्तमभिकामो भवति यं कामं काम- यते सोऽस्य संकलमादेव समुत्तिष्ठति तेन संपन्नो महीयते ॥" (छा. ८।२।१-१०) इत्यादिश्रुतिभ्यः स्वकल्पना- मात्रमेव कर्तृत्वभोक्तृत्वदातृत्वकर्मतत्कलादिविशिष्टं सर्व जग- गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । ज्जातं (३५) भातीति सिद्धम् । इत्यतो निर्विशेष सन्तमेव परमात्मानमीश्वगत्मना कल्पयति जीवः। स्वमपि निर्विशेष सन्तमेव जीवात्मना कल्पयति स्वयमेव । ततश्चक्तिस्वमन्यायन स्वकल्पितेश्वराधीनोऽपि भवति । तदाज्ञानुरोधेन सुखी दुःखी च भवति । वस्तुतस्तु यागस्ति ताडगेवास्ति चिदेकरसो जीव- वेश्वरत्वादिशून्य इति सिद्धान्तः। तमित्यादि व्याख्यातार्थम् ॥ " अविद्योपाधिको जीवो मायोपाधिक ईश्वरः । मायाविद्यागुणातीत इति वेदान्तडिंडिमः ॥ "न जीवब्रह्मणोमेंदः पिंडब्रह्मांडभेदतः । ध्यष्टेः समष्टेरेकत्वादिति वेदान्तडिंडिमः ॥" ( इति सप्तमश्लोक व्याख्या ) ॥ ७ ॥ उ० तदेवं स्वंपदलक्षणमुक्त्वाऽधुना परमात्मनो गुरु. रूपेण ऽऽविर्भावे हेतुरुच्यते- मू. दृष्ट्वा नान्तिवशाच तं भययुतं भूत्वा कृपासंयुतो ज्ञानादन्य उपाय एव मुवि ते मोक्षस्य भो जीव नों। वक्तुं चेत्थमुयो विचार्य नृतनुं धृत्वा म आहोक्तिमोर नं श्रीबालकभारतीयतिमहं वन्दे गुरुं चिधनम् ।।८॥
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । टी० दृष्ट्रेति । (३६) तं पूर्वोक्तं जीव प्रान्तिवशा- स्वरूपाज्ञानाद्भययुतं दृष्टा । 'जन्ममरणादिदुःखपरंपरारूप- संसारनाशोपायमलभमानम् "कथं न्यहमस्मात्संसारदुःखान्मुक्तो भवेयम्" इत्येवं भीतं दृष्टा । कृपासंयुतो भूत्वाऽहो चित्र- मेतद्यस्स्वरूपेण दुःखसंयोगविधुरोऽपि सन्स्वाज्ञानवशाद्वथैव दुःखीव भवतीति दयायुक्तो भूत्वा । यः परमात्मा भो जीव! भुवि संसारे ते तव मोक्षस्य ज्ञानादन्य उपाय एव नो" इत्थमेवं वक्तुं विचार्य नृततुं धृत्वा में मह्य मुक्तिमाह तमित्य- न्वयः। ॐकारोऽष्टकसमाप्तिवाचकः। हे जीव ! प्राणाभि- मानिन् ! हेतुगर्मित संबोधनम् । तथा हि-यतः प्राणधारणात् प्राणाभिमानात् । प्राणोपलक्षितप्राणद्रियदेहादिषु खल्वनात्म- 'स्वात्मत्वाहंकारं कृत्वा स्वरूप विस्मृत्य भ्रान्त्यैव जीवभावं प्राप्तोऽसि । अत एव भ्रान्तिविरोविज्ञानादन्यः कश्चिदपि ते मोक्षस्योपायो नास्त्येव । कुतः । यतो मनोबुद्धिप्राणदेहादि- प्वनात्मसु प्रान्त्याऽऽत्मत्वबुद्धिर्हि (३७) बन्ध इत्युच्यते । १ अयं स्वरूपाध्यासनिर्देशः 15२ अयं संसर्गाध्यासनिर्देश गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। तृन्निवृत्तेः स्वरूपावस्थानरूपी (३८) मोक्षो भवति । तन्निवृत्ति श्व तद्विरोधज्ञानेन (३९) विना न भवति । यथा भ्रान्तिज- न्यरज्जुसर्पनिवृत्ति न रज्जो यथार्थज्ञानेन विना भवति परंतु रज्जो यथार्थज्ञानादेव भवति । एवमत्रापि बोद्धव्यम् । तत्र श्रतय: "यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवम- विज्ञाय दुःखस्यान्तो भविष्यति ॥ " (श्वे. ६ । २०) न कर्मणान प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः।" (कै. १।२) ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमु- तये ॥ " ( के. १ । ९) " तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥" (श्वे. ३ । ८) " सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । संपश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ " ( कै. १ । १०) " तहह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥"(कै.१११७) " तरति शोकमात्मवित् ।" (छा. ७।१।३) मिद्यते हृदयगन्थि रिछद्यते सर्व संशयाः ।
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥" ( मुं. २।२।८) नास्त्यकृतः कृतेन । (मुं. १ । २ । १२) इत्याद्याः सहस्रशः श्रुतयो ज्ञानादेव मोक्षमाहुः । अतो ज्ञानादन्यस्ते मोक्षस्योपायो नास्त्येवेत्थं वक्तुं कथयितुं विचार्य यः परमात्मा नृतनुं मानुषदेहं धृत्वा श्रीबाल कभारतीति नाम्ना प्रसिद्धेन नरदेहेन दक्षिणामूर्त्याकारण विशेपरूणाऽऽविर्भूय मे मह्यं हरदेवभारत्याख्यायः केवलभ्रान्तिवशादेव प्राप्त जीवभावाय शिष्याय । उक्तिं वाचम् इत्यादिमहावाक्य- रूपां जीवब्रह्मैक्यज्ञानपरां युक्तिसहिताम् । आहोक्तवान् । अमिति पदमष्टकसमाप्तिवाचकम् । इत्यमु " इत्यत्रोका- रोऽवधारणाओं निपातः । तेन चेत्थं ववतुमेव गुरुरूपेणा- वतारः परमात्मनो नान्यप्रयोजनायेत्युक्तं भवति । तमित्यादि व्याख्यातम् ॥ अयं भावः-स्वरूपेणाशेषविशेषातीतो जीवेश्वरभाव- शून्योअप सम्परमात्मा स्वाश्रितानिर्वचनीयमायाप्रभावेण स. विशेषवद्भाति । तत्र मायाशक्तेर्द्विविधत्वं शुद्धसत्त्वमलिनसत्त्व तत्वमसि । " (३८) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । भेदेनोक्तम् । तत्र शुद्धसत्त्ववत्यां मायायां प्रतिबिंबितचिदा- भासः सर्वज्ञत्वसर्वशक्तित्वादिधर्मवान्भवति । तस्यामेव मलि- नसत्त्ववत्यां प्रतिबिंबितचिदाभासोऽल्पज्ञत्वाल्पशक्तित्वादिधर्म- वान्भवति । तत्र शुद्धसत्त्वा समष्टिरूपा (४०) मायकैव भवति । अतस्तत्राऽभासोऽपि समष्टिरूप एक एव भवति । अथ (४१) मलिनसत्त्वा वंशभेदेनानेकशाखा भवति । अत एव तत्र प्रतिबिंबिताश्चिदाभासा अपि प्रतिशाखासु प्रतिबिंबिता असंख्या भवन्ति । (४२) अथ तत्र शुद्धोपाधिगत सर्वज्ञ- खसर्वशक्तित्वादिगुणकश्चिदाभास उपास्यभावं भजते। (४३) मलिनोपाधिगतोऽल्पज्ञवाल्पशक्तित्वादिगुणकश्चिदाभास उपा- सकभाव भजते। (४४) उपाधिद्वयाधिष्ठानचेतनस्तु सदैकरसः सर्वज्ञत्वालज्ञत्वादिसर्वविकारशून्य एव स्थितः । (४५) इत्यत ईश्वरत्व जीवत्वकर्तृवकारयितृत्वभोक्तृत्वदातृत्वसर्वज्ञत्वा- ल्पज्ञत्वबद्धत्वमुक्तत्वजगदुत्पत्तिस्थितिलयकत्र्तृत्वगुरुत्वशिष्यत्वा- दयः सर्वेऽपि धर्माः समष्टिव्यष्टिशुद्धमलिनोपाधिगतचिदाभास. स्यैव सन्ति नाधिष्ठानस्य । (४६) तथाऽपि 'मायाऽऽभासयोरधिष्ठानसत्ताव्यतिरेकेण १ अत्र मायापदमविद्याया अप्युपलक्षणम् ।
masaala गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। स्वतः सत्ताशून्यत्वात्तयोरधिष्ठानभिन्नवस्तुत्वाभावादधिष्ठानमेव सर्वप्रकारेण विवर्त्तते तद्भिन्नवस्तुनोऽभावादिति सिद्धान्तः । अत एवास्मिन्संग्रहन्थे सर्वरूपेण ब्रह्मैव भवतीत्युक्तम् ।। तथा हि विवर्त्तवादावष्टम्भेन श्रुती चाऽऽहतुः- " पुरमेकादशहरमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ॥ एतद्वैतत् ॥" (क. २।२।१) हसः शुचिषद्वसुरन्तरिक्षसद्धोता बेदिषदतिथिईरो- णसत् । नृषहरसदृतसद्वयोमसदब्जा गोजा ऋतजा अद्विजा ऋतं बृहत् ॥” ( क. २ । २ । २) इति । ऋ. ३ । ७ । १४ । ५। अथ श्रुत्यर्थः-पुरम् । पुरमिव पुरम् । द्वारपालाधि- ष्ठात्राधनेकपुरोपकरणसंपत्तिदर्शनाच्छरीरं पुरम् । पुरं च सोप- करण स्वात्मनाऽसंहतस्वतन्त्रस्वाभ्यर्थ दृष्टम् । तथेदं पुरसा- मान्यादनेकोपारणसंहतं शरीरं स्वात्मनाऽसंहतराजस्थानीय- स्वाभ्यर्थ भवितुमर्हति । तच्चेदं शरीराख्यं पुरमेकादशद्वारम् । एकादशद्वाराण्यस्य सप्त शीर्षण्यानि नाभ्या सहाचि त्रीणि शिरस्येक तैरेकादशद्वारं पुरम् । कस्य । अगस्य जन्मादिवि (४०) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकथा व्याख्यया सहितम् । क्रियारहितस्याऽऽत्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य । पुनः कथं भूतस्य । अबक्रचेतसः। अवक्रमकुटिलमादित्यप्रका- शवन्नित्यमेवावस्थितमेकरूपं चेतो विज्ञानमस्येत्यवक्रचेतास्त- स्यावक्रचेतसो राजस्थानीयस्य ब्रह्मणः। यस्येदं पुरं तं परमेश्वरं पुरस्वामिनमनुष्ठाय ध्यात्वा । ध्यानं हि तस्यानुष्ठानं सम्य- विज्ञानपूर्वकम् । तं सवैषणाविनिर्मुक्तः सन्समें सर्वभूतस्थं ध्यात्वा न शोचति । तद्विज्ञानादभयप्राप्तेः शोकायसराभा- वात्कुतो भयेक्षा । इहैवाविद्याकृतकामकर्मबन्धनौमुक्तो भवति। विमुक्तश्च सन्विमुच्यते पुनः शरीरं न गृह्णातीत्यर्थः । एतद्वै तत् । तकिम् । यन्नचिकेतसा पृष्टं ( क. १ । १।२०) देवादिभिरपि विचिकित्सितं (क.१।१।२१) खपदलक्ष्यम् । धर्मादिभ्योऽन्यत् (क. १।२।१४ ) तत्पदलक्ष्यं विष्णोः परमं पदं यस्मात्परं नास्ति तद्वा एतत् ।। स तु नैकशरीरपुरवपेवाऽत्मा। किं तर्हि । सर्वपुरवती । कथम् । हन्ति गच्छत्तीति हंसः। शुचौ दिव्यादित्याऽऽत्मना सीदति गच्छतीति शुचिषत् । सर्वान्वासयतीति वसुः । बावात्मनाइन्तरिक्षे सीदति गच्छतीत्यन्तरिक्षसत्। होताऽमिः गुर्वष्टकमद्वतार्थप्रकाशिकया मणिनीपिकया व्याख्यया सहितम् । " अग्मि होता" इति श्रुतेः । वेद्या पृथिव्यां सीदतीति वेनिषत् " इयं वदिः परोल्न्त पृथिव्याः " ( या यज्ञे प्रसि- द्धेय वेदिः सा वेदिः पृथिव्याः परोऽन्तः परस्स्वभावः) इत्या- दिमन्त्रवर्णात् । अतिथिःसोमः सन्दुरोणे कलशे सीदतीति दुरे,णसत् । ब्राह्मणोऽतिथिरूपेण दुरोणेषु यज्ञगृहेषु सीददीति वा दुरोणसत् । नृषु मनुष्येषु सीदतीति नृपत् । वरेषु देवेषु सीदतीति वरसत् । ऋतं सत्यं यज्ञो वा तस्मिन्सीदतीत्यृतसत् । व्योम्न्याकाशे सीदतीति व्योमसत् । अप्लु शंखशुक्तिमकरा- दिरूपेण जायत इत्यजाः। गवि पृथिव्यां बौहियवादिरूपेण जायत इति गोजाः । यज्ञांगरूपेण जायत इत्यृतजाः । पर्वते- भ्यो नद्यादिरूपेण जायत इत्यद्रिजाः । सर्वाऽऽत्माऽपि सन्नत- भवितथस्वभाव एव । वृहन्महान्सर्वकारणत्वात् । यदाऽप्यादित्य एव मन्त्रेणोच्यते तदाऽप्यस्याऽऽत्मस्व- रूपत्वमादित्यस्याङ्गीकृतत्वाहाह्मणव्याख्याने प्यविरोधः । तथा च सर्वव्याप्येक एवाऽऽत्माजगतो नाऽऽत्मभेद इति मन्त्रार्थः॥ अथ च विवर्त्तवादपरा गौडपादीयकारिका- कल्पयत्यात्मनाऽऽस्मानमात्मा देवः स्वमायया । स एच गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकथा व्याख्या सहितम् । बुध्यते भेदानिति चेदान्तनिश्चयः ॥” (गौ. २॥ १२ ) इति । अतः परमात्मैव सर्वाऽऽकारशून्योऽपि सन् स्वयमेव सर्वाऽऽकारेण विवर्त्तत तदतिरिक्तवस्त्वभावादिति सिद्धम् । इत्यतोऽविद्वदृष्टिमनुसृत्य विवर्त्तवादावष्टम्भेनास्मिन्ग्रन्थेऽप्युक्तः परमात्मैव तत्तदाकारेण भवतीति । वस्तुतस्तु न केनाघ्या- कारेण मवति विभुः । तत्र श्रुतिः- "न निरोधो न चोत्पत्तिर्न बन्यो न च शासनम् । न मुमुक्षा न मुक्तिश्च इत्येषा परमार्थता ॥ " (ब्रह्मबिंदूप. १०) इति । अतः सर्वमनवद्यमेवेति मन्तव्यम् ।। (४७) (अथ "म आहोक्तिम्" इत्यस्यव्याख्यानम्) तत्र “ उक्ति महावाक्यरूपां युक्तिसहितामाह " इति सामान्यरूपेणाक्षराथें व्याख्यातम् । तत्र महावाक्यशब्देन श्रतयो गृह्यन्ते। तेन च श्रुतियुक्तिसहितामुक्तिमाहेति सिद्धम् । तत्र काः श्रुतयः काश्च युक्तयः ? । इति जिज्ञासायां श्रुतयो युक्तयश्चोच्यन्ते । तत्रादौ श्रुतयः उच्यन्ते- १ विवर्त्तत इति सिद्धम् । (इत्यन्वयः)
6
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् ।
(४८) ( अथ श्रुत्युपदेशप्रकारः)
(४९) प्रज्ञानं ब्रह्म (ऋ. एत. आ. अ. ६ उ.
अ. ३ खं. ५ श्रु. ३)
" अहं ब्रह्मास्मि " (य. बृह. १।४।१०)
३ ॥ तत्त्वमसि (सा. छा. ६ । ८।७)
अयमात्मा ब्रह्म (अ. मा. २)
" सर्व खल्विदं ब्रह्म तजलान् " (छा.३।१४।१)
इत्याद्यनेकसहस्रशो ब्रह्मजीवजगदैक्यप्रतिपादिकाः श्रुतयः
सन्ति । अथ श्रुतीनामर्थः-तत्र
१ "(५०) प्रज्ञानं ब्रह्म" इत्यस्यर्वेदमहावाक्यस्यार्थ:-
प्रकृष्टं ज्ञानं प्रज्ञानम् । अन्तःकरणोपहितचैतन्यमित्यर्थः ।
तथा हि-श्रीत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानामिन्द्रियाणां
वृत्त्युपहितेन येन चैतन्येन शब्दस्पर्शरूपरसगन्धानां ज्ञानानि
भवन्ति तच्चेतन्य : प्रज्ञानम् ' इत्युच्यते ।
आभासचैतन्य. त्वविष्ठानचैतन्याधीनं न स्वतन्त्रमतः
साभासान्तःकरणाविष्ठानचैतन्यमेव प्रज्ञानशब्दार्थः ।..
1.
उपाधिश्चतभेदमन्तरण न स्वरूपे (४४) गुर्वष्टकमद्वैतार्थप्रकाशिकथा मणिदीपिकया व्याख्यया सहितम् । तत्र श्रुतिः-- येनेक्षते शृणोतीदं जिप्रति व्याकरोति च । स्वादस्वादू विजानाति तत्वज्ञानमुदीरितम् ॥" (शुकरहस्योपनिषदि द्वितीयसंख्यायां १ प्रथम श्रुतिः) येन चक्षुरादिद्वारा निर्गतान्तःकरणवृत्युपहितचैतन्येनेदं दृश्यजात- मोक्षते शृणोति जिनते व्याकरोति विजानाति च लोकस्त- चैतन्यं प्रज्ञानमुदीरितमुच्चैः संशयविपर्ययरहितैर्महावाक्यैरीरितं कथितमित्यन्वयः तथा च व्यष्टयुपपिविशिष्टचैतन्यं प्रज्ञानं पद- बाच्यार्थः । व्यष्टयुपाध्युपहितचैतन्यमानं तु प्रज्ञानंपदलक्ष्यार्थ इति विवेकः । अथ ब्रह्मादिस्थावरान्तेषु यदेकं चैतन्यमस्ति तचैतन्य ब्रह्मेत्युच्यते । तथा हि--समष्टयुपाधिविशिष्टचैतन्यं ब्रह्मपद- वाच्यार्थः । समष्टयुपाध्युपहितमनुपहितं च चैतन्यमानं देशका- लवस्तुपरिच्छेदरहितं यदस्ति तत्तु ब्रह्मपदलक्ष्यार्थ इति विवेकः । भेदोऽस्त्यतः प्रज्ञानं चैतन्यं ब्रह्मचैतन्यमेव न ततोऽन्यदिति तत्र श्रुतिः बाक्यार्थः।
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । चतुर्मुखेन्द्रदेवेषु मनुष्याश्चगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥" (शुक.२) इति ॥ १॥ २ अथ (५१) अहं ब्रह्मास्मि " इत्यस्य यजुर्वेद- महावाक्यस्यार्थः-( अहं पदार्थः) देशकालबस्तुपरिच्छेद- रहितब्रह्मपरमात्मैवास्मिन्देहे बुद्धिसाक्षितया स्फुरन्सूक्ष्मदेहोप- हितः सन्नहमित्युच्यते । तथा हि-व्यष्टयपाविविशिष्टचैतन्यम् • अहम्-' पदवाच्यार्थः । व्यष्टयुपाध्युपहितचैतन्यमात्रम् अहम्-' पदलश्यार्थ इति विवेकः । तत्र श्रुतिः-" परिपूर्णः पराऽऽकाsस्मिन्देहे विद्याधि कारिणि । बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते ॥" (शुक. ३) इति । (अथ ब्रह्मपदार्थः) देशकालाधनवच्छिन्नः सर्वत्र स्वतः परिपूर्णः परमात्मा ' ब्रह्म' इत्युच्यते । तथा हि--समष्टि- मायोपाधिविशिष्टचैतन्यम् ' ब्रह्म-' पदवाच्यार्थः । मायारहितचिदेकरसविभुचैतन्यमानं तु 'ब्रह्म-' पद- लक्ष्यार्थ इति विवेकः। तथा च सति । उपाधिकृतभेदमन्तरेण, न स्वरूपे भेदोऽस्त्यतोऽहं व्यष्टयुपाध्युपहितचैतन्यमानं परमा- गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। र्थतो ब्रह्मैवास्मि नान्यदिति वाक्यार्थः । तत्र श्रुति:- स्वतः पूर्णः पराऽऽत्माऽत्र ब्रह्मशब्देन वर्णितः । अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥" (शुक- रहस्योपनि.४) इति । अत्र महावाक्ये स्पष्टमन्यत् ॥२॥ ३ अथ " (५२) तत्त्वमसि इत्यस्य सामवेदमहा- वाक्यस्य व्याख्यानम्-( तत्पदार्थः ) " सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" (छा. ६ । २ । १) इति श्रुत्या सृष्टेः पुरा स्वगतादिभेदशून्यं नामरूपरहितं यत्सद्वस्तु प्रति- पादितमस्ति तद्वस्तुनोऽधुनाऽपि सृष्टयुत्तरकालेडमि परमार्थ- दृष्टया ताइक्वं तदित्युच्यते । तथा हि-मायारूपसमष्टयु- पाधिविशिष्टविभुचैतन्यं तत्पदवाच्यार्थः । केवलं विभुचैतन्यं तु तत्पदलक्ष्यार्थ इति विवेकः । तत्र श्रुतिः- एकमेवाद्वितीयं सन्नामरूपविवर्जितम्। सृष्टेः पुराऽधुनाऽध्यस्थ ताइक्वं तदितीयते ।।" (शु. रह.५) इति । ( अथ स्वंपदार्थः) श्रोतुः शरीरत्रयसाक्षितयाऽवस्थितं शरीरत्रयविलक्षणं य. त्सद्वरत्वस्ति तत्सतस्त्वेवान महावाक्ये त्वम् ' इत्युच्यते । 6 (१७) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। तथा हि-नदेव विमुचैतन्य व्यष्टिसंघातविशिष्टं सत्त्वं. पदवाच्यार्थः। व्यष्टिसंघातोपहितचेतन्यमानं तु 'त्वम् - पदलश्यार्थ इति विवेकः । तथा च सति । उपाधिट्टयकृत- भेदमन्तरा न सच्चिदानन्दरूपवस्तुम्वरूपे भेदोऽस्तीत्य सिपदे- नैकता ग्राह्यते । इति वाक्यार्थः । तत्र श्रुतिः-“श्रोतुर्देहन्द्रियातीतं वस्त्वत्र त्वं देरितम् । एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ।। " (शुकरहस्योप. ६) इति ॥ ३ ॥ ४ अथ " (५३) अयमात्मा ब्रह्म इत्यस्याथर्ववेद- महावाक्यस्यार्थः-(तत्रायमात्मेत्यस्यार्थः) अहंकारादिदेहा- न्तसंघातस्य यः स्वप्रकाशत्वेनापरोक्षोऽधिष्ठानचिधातुः सोऽय- मित्युच्यते । स एवा न्तरःसर्वस्मादित्यात्मेत्युच्यते । तथा हि-व्यष्टिसंघातविशिष्टचैतन्यं स्वप्रकाशत्वेनापरोक्षत्वादयं- पदवाच्यार्थः। तदेवाऽऽन्तरत्वादिभुत्वाच्चाऽऽत्मपदबाच्यार्थः । अथ तदेव तु विशेषणभागं हित्वा केवल चैतन्यम् । अयमात्मा' इत्यस्य (पदद्वयस्थ) लक्ष्यार्थ इति विवेकः ।
" गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । तत्र श्रुतिः- स्वप्रकाशापरोक्षत्वमयामित्युक्तितो मतम् अहंकारादिदेहान्तात्मत्यगालोति गीयते ॥ ( शुकरहस्योप- नि. ७) इति । घटादिवदृश्यसमदृष्टादिवन्नित्यपरोक्षत्वं च व्यावर्तयितुम् ' स्वप्रकाशापरोक्षत्वम् ' इत्या स्वरकाशत्वम-) परोक्ष चेति विशेषणदयामिति योद्धव्यम् । यतोऽहंकारादिदेहान्तात्प्रत्यगान्तरोऽत आहोति गीयते कथ्यते महावाक्यइत्यन्वयः । अहंकार आदिर्यस्य प्राणमन- इन्द्रियदेहसंघातस्य सोऽहंकारादिस्तथा देहोऽन्तो यस्योक्त- संघातस्य स देहान्तोऽहंकारादि श्चासौ देहान्तश्चेत्यहंकारादि- देहान्तस्तस्मादहंकारारिदेहान्तासंघाताद्यतः प्रत्यगधिष्ठानतया साक्षितया चाऽऽन्तरोऽत आत्मेति गीयतेऽस्मिन्महावाक्य इत्यर्थः । (अथ ब्रह्मपदार्थः) दृश्यमानस्य विवर्तरूपस्य सर्व जगतोऽधिष्ठानं देशकालवस्तुपरिच्छेदशून्यं सचिदानन्दषनव- स्त्वत्र ब्रह्मत्युच्यते । तथा हि-समष्टिमायाविशिष्टचैतन्यं ब्रह्मपद- वाच्यार्थः । स्वतः सबाह्याभ्यन्तरपरिपूर्ण निरस्ताशेषविशेष स्वप्रकाशैकरसघनकेवल चैतन्यं ब्रमपदलधार्थ इति विवेक।
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिझ्या व्याख्यया सहितम् । तथा च सति समष्टिमायां तत्कृतसर्वजत्वसर्वशक्तिवा- दिकाय च हित्वा तथैव व्यष्टयविद्या नत्कृताल्पज्ञवाल्पशक्ति- स्वादिकार्य च त्यक्त्वोभयत्र वस्तुमात्रे न भेदोऽस्त्य तोऽयं सर्व- स्याऽऽत्मत्वादेवापरोक्षानुभवरूपो य आत्माऽस्ति सोऽयमात्मा ब्रह्मवास्ति नाऽऽत्मब्रह्मपदलक्ष्यभेद आत्तो ब्रह्मणः परोक्ष- वजडत्वाऽऽपत्ते ब्रह्मदे चाऽऽत्मनः परिच्छिन्नत्वाऽऽपत्तेरिति वारमार्थः । तत्र श्रुतिः-" दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीयते । ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥ ( शुकरहस्यो- पनि, ८) इति । इति चतुर्णी महावाक्यानामर्थः ॥ ४ ॥ अथ ॥ सर्व (५४) खल्विदं ब्रह्म तज्जलान् " इत्यस्या अर्थ:-इदं नामरूपविकृतं प्रत्यक्षादिविवयं समस्तं जगह- व । कुतः । तज्जलान (तजलानम् ) अवयवलापश्छान्दसः। तथा हि-तस्मा ब्रह्मणो जायते विवर्तरूपेण स्वमद्रष्टु- रिव स्वमजगद्धस्त्यादि। इति तज्जम् । तथा तस्मिन्नेव ब्रह्मणि लोयते तज्ज्ञानात्तदात्मतयाश्लिष्यते स्थाणुज्ञानात्पुरुषस्येचेति तल्लम् । तथा तस्मिन्नेव ब्रह्माणि स्थितिकालेऽनिति प्राणिति - ? (५०) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । चेष्टते समुद्र तरङ्गवदिति तदनम् । तज्नं च तलं च तदनं च तज्जलानम् । तथा च--- -यत इदं तज्जलानमतो ब्रह्मवेदं सर्व कस्थितस्याधिष्ठ नमन्तण वस्तुताभावादिति संक्षेपः । अजेई रहस्यम् --आराप्यस्याविष्ठानरूपत्वात् 'पुरुषः स्थ णु । रजनं शुक्तिः । सो रज्जुः ।' इत्य दिवत् " सर्व ब्रह्म इत्यत्राति बाधायां सामानाधिकरण्यं कुतः ? । रज्जुसादि- कल्पस्य जगतो रज्ज्वादिस्थानीयन ब्रह्मणा सह मुख्यसामा- नाधिकरण्यासंभवादिति बोद्धव्यम् । (इति श्रुत्युपदेशप्रकार) ( अथ (५५) युक्त्युपदेशप्रकारः) अथ (५६) भेदबाधिकाऽभेदसाधिका च या विचारणा सा युक्तिरुच्यते । भेदश्च पञ्चविधः शिष्यबुद्धौ कल्पितोऽस्ति स यथा--(१)(५७) ईशजीवभेदः । (२) जीवानां मियों भेदः । (३) जीवजडभेदः । (४) ईश नडभेदः । (५) जडानां मिथो भेदश्चेति। तत्र युक्तिरपि पञ्चविधा भवति । सा चैवम्- (५८)-(१) ईशजीवभेदो मिथ्या । साऽऽभासमायानानाs- न्तःकरणरूपोपाधिकृतस्वात् महाऽऽकाशघटाऽऽकाशभेदवत् । तथा गुर्वष्टकमद्वैतार्धप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । (२) जीवानां मिथो भेदो मिथ्या । साऽऽभासनानाऽ- न्तःकरणरूगेपाधिकृतत्वात् । नानाघटाकाशभेदवत् । तथा (३) जीवजडभेदो मिथ्या । साऽऽभासान्तःकरणनिरा- भासनामपरूपमयोपाधिकृतत्वात् । स्वमगतचराचरपदार्थभेदवत्। तथा (४) ईशजडभेदो मिथ्या । मायानामरूपमयोपाधिकृत- स्वात् । स्वमदृष्टस्वापदार्थभेदवत् । तथा (५) जडानां मिथो भेदो मिथ्या । नामरूपमयोपाधि- कृत्वात् । रज्ज्वां प्रातिभासिकसर्पदण्डमालाजलधाराभूच्छि- द्रदिभेदयत् । इति पञ्चविधायुक्तिः । अत्रायं निष्कर्षः-यत्र यत्र "जीवो ब्रह्म " इति प्रयोगो भवति । तत्र जीवो नाम साऽऽभासान्तःकरण विशिष्ट- चैतन्यं साऽऽभासाविद्यांऽशविशिष्टचैतन्यं वोच्यते । तत्र वि- शेष्यांशचैतन्यस्य ब्रह्मणा सह (५१) मुख्यसामानाधिकरण्यं भवति " घटाऽऽकाशो महाऽऽकाशः" इतिवत् । विशेषणां शान्तःकरणस्य वाऽविद्यांऽशस्य तु ब्रह्मणा सह बाधाया । (५२) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। सामानाधिकरण्यं भवति “पुरुषः स्थाणुः" इतिवत् । इति विवेकः। जगब्रह्म " इत्यस्यार्थस्तूतःपुरा ॥ सर्व खल्वि ब्रह्म " इति श्रुतिव्याख्याने । ( इति युक्त्युपदेशप्रकारः) तत्र " ( अथ श्रुत्युपदेशप्रकारः ) " इत्यत आरभ्य ' (इति युक्त्युपदेशप्रकारः)' इत्यन्तो ग्रन्थविस्तारः " म आहोक्तिम् " इत्यत्र मूलश्लोकगतस्य ' उक्तिम् । इतिपदस्य (६०) व्याख्यानरूपोऽस्तीति बोद्धव्यम् ।। ततश्च " यो मे मह्यं श्रुतियुक्तिरूपामुक्ति वाचमाहो. तवांस्तं गुरुं वन्दे " इति संबन्धः । तत्र 'वन्दे इत्यस्याः क्रियाया अर्थोऽद्वैतपक्षे जीव- ब्रोक्यभावनारूपः प्रथम श्लोक व्याख्याने सदृष्टांत उर अद्वैतज्ञानान्तरङ्गोपायत्वात् । तथा 'गुरुम् ' इत्यस्य कर्मणोऽर्थः परमात्मोक्तः ॥ अथ मन्दमध्यमाधिकारिबुद्ध्यपेक्षया व्यावहारिककारिप- (५२) मुर्वेष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । तभेदोऽपि गृह्यते स्थूलारुन्धतीन्यायेनाद्वैतज्ञानसिद्धये। अस्मि. पक्षे तु 'वन्देइत्यस्याः क्रियायाः (६१) साष्टाङ्गप्रणामो- डों मनोवाकायशुद्धिहेतुत्वात् । तथा 'गुरुम्' इत्यस्य कर्मणोऽर्थो (६२) देशिकमूर्ति- रितिबोद्धव्यम् । तत्राटायङ्गानि तु - १दोबी २पद्धयां च ३जानुभ्या४ मुरसा ५शिरसा ६शा । ७मनसा ८वचसा चेति प्रणामोऽष्टांग उच्यते ॥ भवन्ति । एषोऽर्थोऽपि मन्दमध्यमाधिकारिभ्यामविरुद्धः । अन्तःकरणशुद्धिद्वारा मोक्षमुख्यसाधनस्याद्वैतज्ञानस्योपायत्वात् उत्तम.धिक रिणे तु पूर्वोक्तोडभेदभावनारूपोऽर्थ एवोत्तमः साक्षान्मोक्षसाधनत्वादितिभावः । अथ " अहं ब्रम" " स ब्रझैव " इत्याकारकोऽयं जीवजगबौक्यविचारोऽपि स्वरूपसाक्षात्कारात्मकसमाधेः प्रा- गेवोपयुज्यते न (६) चरमावस्थायां तत्र सर्व प्रकारस्य कर्त- ध्यविशेषस्याभावान्निष्प्रयोजनवाचेति सिद्धान्तः ॥ ननु यदि स्वरूपसाक्षात्कारे सति सर्व कर्तव्यजातं नि- । (५४) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। प्रयोजनमेव भवति तर्हि पुराऽपि न किञ्चिदपि कुर्याद्वथा- sऽयासरूपत्वात् । मोक्षस्य च स्वरूपावस्थानात्मकत्वात्स्वरूपस्य च नित्य- प्रासवान तत्प्राप्त्यर्थमपि किश्चित्कर्तव्यं सम्भवति । अतः प्राप्त गुरुशास्त्रादेः सर्वस्य मोक्षसाधनजातस्याऽऽनर्थक्यम् । ततश्च गुरूपसदनपुरःसराणां श्रवणमनननिदिध्यासनादीनामध्यानर्थ- क्यमेव । इति चेत् । न । कथम् ? । मोक्षात्मकं स्वरूपं नित्यप्राप्तमपि खल्प- नाद्यनिर्वाच्याज्ञानमाहात्म्यादप्राप्तकल्पं भवति । अतोऽज्ञाननि- वृत्तेरावश्यकत्वात् । अज्ञाननिवृत्तिश्च स्वरूपज्ञानादेव भवति । स्वरूपज्ञान च गुरुःसकाशात्कृतवेदान्तशास्त्रविचारादेव भवति । संवि- चारश्च यथाविधिगुरूपसदनादे भवति । एवं परंपरयाऽ माहे- तत्वनिश्चय उपकारकत्वाद्गुरूपसदनादि सर्व सार्थमेव मुमुक्षु दशायाम् । अतो न कस्यचिदप्यानर्थक्यम् । तत्र श्रुतिः " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्याणिः श्रोत्रिय बनानिष्ठम् ॥ ॥ ( मुं. १ । २ । १२) इति ।
गुर्वष्टकमद्वैतार्थपकाशिकया मणिदीपिकया व्याख्यया सहितम् ।
स्मृती अपि-
" तद्विद्धि प्रणिपातेन परिपक्षेन सेवया ।
उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ।।
यज्ज्ञ त्वा न पुरा हमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषग द्रक्ष्यस्थात्मन्यथो मयि ॥"
( भ. गी. ४ | ३४-३५) इति ॥
अयममि मायः-यावदज्ञानमूलकसंसारमान्तिस्तावद्भूमि-
काऽनुसारेण यथाधिकार सर्व कल्पितमप्युपयुज्यते । अतः
सर्वमनवद्यमेवेति बोद्धव्यम् ।
तत्र भूमिकाः कति सन्ति कीदृश्यश्च सन्तीतिजिज्ञासा
ज्ञानभूनिका उच्यन्ते-
( अथ भूमिकानामानि)
१ (६४) शुभेच्छा २ विचारणा ३ तनुमानसी ४ स.
वापत्ति: ५ असंसक्तिः ६ पदार्थभावना ७ तुर्यगाचेति सप्त
झानभूमयः । तत्र श्रुती-
" ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीया तु तृतीया तनुमानसी !!
-
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यथा सहितम् ।। सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थभावना षष्ठी सप्तनी तुर्यगा स्मृता । " (महोपनि, ५। २४-२५) इति ।। (अथ भूमिकालक्षणानि) १ तत्र विवेकवैराग्यषसंपत्तिमुमुक्षः दिमोक्षसाधनसंपन्न- स्य (६५) या-'किम्हं मूढ एव स्थितोऽस्मि शास्त्रसज्जनैः प्रेक्षेऽहम् ' इतीच्छा भवति सा प्रथमा भूमिः शुभस्य मोक्ष- स्येच्छेति · शुभेच्छा ' इति कथ्यते । तत्र श्रुति:-"स्थितः किं मूढ एवास्मि प्रेशेऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥ " ( महोपनि, ५।२७) इति ॥ १॥ २ अभ (६६) पूर्वोक्तशुभेच्छाऽनन्तरं स मुमुक्षुः । यथाविधि गुरूपसत्तिपूर्वक श्रवणमनने करोति । (अथ (६७) श्रवणलक्षणम्) तत्र--उपक्रमोपसंहार-. " " १ यद्धस्तु ग्रन्थाऽदौ प्रतिपादितं भवति तस्यैव वस्तुनों अन्यान्तेऽपि यत्प्रतिपादनं तत् "उपक्रमोपसंहाराख्यम्"लिका भवति । तत्र गूढतात्पर्यावद्योतकं लिङ्गभित्युच्यते ।
-- SEAR (५७) गुर्वष्टकमद्वैतार्थप्रकाशिका मणिदीपिकया व्याख्यया साहितम् । अभ्यास-अपूर्वत्व-फल -अर्थवाद'-उपपत्तिभिः प्रमाण- गतसंशयनाशकैः श्रुतितात्पर्यार्थनिश्चायकैः धलिङ्गःसहाऽऽ- चार्यमुखात् ॥ वेदान्ता जीवबौक्यमेव प्रतिपादयन्ति न भेदम्" इति निश्चयपर्यन्तं वेदान्तपठनम् 'श्रवणम्' भवति । तदनन्तरं पूर्वोक्तप्रकारेण श्रवणेन निश्चितं ब्रह्मात्मैक्यरूपमर्थ दृढीकर्तुं मननं भवति अथ (६८) मननलक्षणम् ) तत्र- २ प्रतिपाद्यवस्तुनः पुनः पुनः कथनम् ४६ अभ्यासः" । ३ प्रतिपाद्यवस्तुनो वेदान्तव्यतिरिक्तप्रमाणाविषयत्वम् "अपूर्वत्वम्" स्वयं प्रकाशत्वं वा "अपूर्वसम्" । ४ प्रतिषाद्यवस्तु साक्षात्कारेऽमयस्त्वामृतत्यादिफलकथनम् "फलम्" तदपि प्रापवस्तूपायप्रवृत्ते हेतुत्वात् 'लिङ्गम्' उच्चते कुतः ? प्राप्यवस्तु फलश्रवणाद्धि तदुपाये प्रवृत्ति भवति। ५ प्रतिपाद्यवस्तुस्तुतिस्तदन्यवस्तुनिन्दा च " अर्थवाद:" अयमपि प्रतिपाद्यवस्तूपायप्रवृत्तेरन्यत्राप्रवृत्तेश्च हेतुः । ६ श्रोतृबोधसौकर्याय नानादृष्टान्तादियुक्तिभिः प्रतिपाद्य- वस्तुप्रतिपादनम् । उपपत्तिः " । , भवति। (५८) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । पूर्वोक्तपञ्चविधया युक्त्या तथाऽन्याभिरपि प्रमेयगतसंशयना- शिनीभि नानायुक्तिभिः स्वयमेव श्रुतार्थविचारणम् “मननम्" उच्यते। सैषा श्रवणमननरूपा द्वितीया "विचारणा" भूमिका तत्र श्रुतिः- " शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥" (महोपनि. ५।२८) इति ॥२॥ ३ (६९) अथोक्तभूमिकाद्वयानन्तरं विपरीतभावनाना- शकं निदिध्यासनं क्रियते । (अथ निदिध्यासलक्षणम् ) (७०) तत्र-विजातीयानात्मप्रत्ययानन्तरितं सजाती- यप्रत्ययब्रह्माकारवृत्तीनां नैरंतर्येण तैलधारावत्पबाहकिरणम् 'निदिध्यासनम् ' उच्यते । अनेन खलु या विपरीतभावना- ख्या बाह्येष्विन्द्रियार्थेषु सत्यत्वनान्तिनिबन्धना रक्तता सा तनुतां याति । अतः सैषा निदिध्यासनरूपा तृतीया भूमिका " तनु- मानसी" इत्युच्यते। तत्र श्रुतिः- । SAD गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यथा सहितम् । ४" विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ " (महोपनि.५।२९) इति ।। अत्रैतहोद्धव्यमस्ति-स्वरूपज्ञानस्य (७१) प्रतिबन्धा- श्चत्वारः सन्ति (१) विषयाऽऽसक्तिः (२) प्रमाणगता- सम्भावना ( ३ ) प्रमेयगतासम्भावना (४) विपरीतभावना चेति । तत्र (१) विषयाऽऽसक्तिनिवृत्ति (७२) विवेकवैरा- ग्यादिसाधनचतुष्टयपूर्विकायाः शुभेच्छायाः प्रथमभूमे भवति।। না (२) ' (७३) प्रमाणं (वेदान्ताः ) कि जीवब्रह्मैक्यं प्रतिपादयति किं वा तद्भेदं प्रतिपादयति' इत्येवं प्रमाणे (वेदान्तेषु) यः संशयः सः प्रमाणगतासम्भावना' उच्यते । सा च पूर्वोक्तलक्षणेन द्वितीयविचारणाभूमिगतेन (७४) वेदा- न्तश्रवणेन नश्यति ॥ (३)' (७५) प्रमेयं ( जीवब्रह्मैक्यम् ) वेदान्तैः प्रतिपाद्यते यत्तत्तथैव सत्यं किं वा जीवब्रह्मभेदोऽपि चान्य- शास्त्रेषु श्रूयते स सत्यः' इत्येवं प्रमेये (जीवब्रह्मैक्ये ) यः . तथा
(६०)
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् ।
संशयः सः " प्रमेयगतासम्भावना " उच्यते । सा च पूर्वो-
क्तलक्षणेन द्वितीयविचारणाभूमिगतेन (७६) मननेन नश्यति ॥
तथा
(४)' (७७) जीवब्रह्मभेदः सत्यो जगदपि सत्यम् ।
भेदस्यानुभूयमानत्वात् । वेदान्तातिरिक्तशास्त्रेषु श्रूयमाणत्वाच ।
जगतस्तु दृश्यमानत्वात् ।' इति भावना विपरीतभावना,
उच्यते । सा च पूर्वोक्तलक्षणेन तृतीयभूमिरूपेण (७८)
निदिध्यासनेन नश्यति ।।
इत्येवं प्रकारेण ज्ञानप्रतिबन्धचतुष्टयनाशद्वारा ज्ञानहेतु.
त्वात्शुभेच्छाविचारणातनुमानस्यस्तिस्रोभूमयो ज्ञानबाह्या अपि
ज्ञानभूमय उच्यन्त इति भावः ।
ता एताः शुभेच्छाविचारणातनुमानस्यस्तिस्रो भूमयो
जाग्रदवस्थारूपाः सन्ति । आसुभेदभावप्रतीते र्जाप्रतीच
सद्भावत्वात् ।
एतासु शुभेच्छाविचारणातनुमानसीपु तिसूषु भूमिषु
विहरन्पुरुषो मुमुक्षु भवति । तत्र श्रुति:-" भूभित्रयेषु
विहरन्मुमुक्षु भवति । " ( वराहोपनि. ४ । १) इति ।
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । एतासु तिसृषु भूमिषु विहन्यो मृत्युमाप्नुयात्स योग- भ्रष्ट उच्यते स च पुन मनुष्यदेहमेव प्राप्य तत्रापि प्रयत्ना- धिकं कृत्वा पूर्वजन्मभूमिकाऽपेक्षयाऽधिकां भूमि प्रामोति । एवमेकस्मिञ्जन्मनि द्वितीये जन्मनि तृतीये वा जन्मनि मुक्त एव भवति न तु भूमिकायां प्रवृत्तः पुरुषः कदाचिदप्य- घोगति यातीति दिक् ॥ ३ ॥ ४ (७९) अर्थ भूमित्रितयाभ्यासात्मतिबन्धाभावे सति शुद्धेऽन्तःकरणे सत्त्वस्याऽऽत्मन आपत्तिः साक्षात्कारो भवति यस्यां सा चतुर्थी " सत्त्वापत्तिः ॥ भूमि भवति । तत्र श्रुतिः- " भूमिकात्रितयाभ्यासाचित्ते तु विरतेशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥" ( महोपनि. ५ । ३० ) इति । सैषा चतुर्थी भूः स्वभावस्थारूपा भवति । अस्या जगद्व्यवहारप्रपञ्चो बावितानुवृत्त्या मिथ्यारूपेणाऽऽभाति । मुप्तोस्थितस्य यथा स्वमे दृष्टः प्रपंचः स्मृतिरूपेण भाति तथा । . NAME on गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्या सहितम्। अस्यां बिहरन्पुरुषो (८०) ब्रह्मविद्भवति । तत्र श्रुतिः- " तुरीयभूम्यां विहरन्ब्रह्मविद्भवति । ( वराहोपनि. ४॥ १) इति । अयमर्थः-चतुर्थभूमिं प्राप्य पुरुषो मुक्तो भवति । अत श्चतुर्थभूमौ मृतो न पुनर्जायते । चतुर्थभूमेरारभ्याऽऽस- समभूमिपर्यन्ता भूमयस्तु प्रारब्धतारतम्यवशादेकस्मिन्नेव ज- न्मनि भवन्ति । तत्रापि न सर्वेऽपि पुरुषाः सप्तमभूमिभेव प्राप्नुवन्तीति नियमोऽस्ति किं तु कश्चिच्चतुर्थीमेव प्राप्त म्रियते कश्चित्पञ्चनीं प्राप्य म्रियते कश्चित्वष्ठीं प्राप्य भियते कश्चित्तु सप्तमी प्रामोति तत्र चतुर्थभूमेरारभ्याऽऽसप्तमीषु भूमिषु मृतानां सर्वेषां पुरुषाणां न विदेहमुक्तौ विशेषः (भेदः)। नापि जीवन्मुक्ती विशेषोऽस्ति । अपि तु जीवन्मुक्ति- सुखतारतम्यमस्तीति विवेकः । तत्राणि चोत्तरोत्तरश्रेष्ठचमस्ति । तत्र चतुर्थभूमिकावतो ब्रह्मविद आनन्दे (८१) दृष्टान्त:- यथा कश्चित्पुरुषः समुद्रतीरे तिष्ठन्सन् यावदेकतः पश्यति तदा केवलं जलमेव भाति । यदा वन्यतः पश्यति गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । तदा खलु पृथिवीवनपर्वतादयोऽनेकपदार्था अपि भान्ति । तथैव चतुर्थभूमि तः पुरुषोऽपि यदा विचारदृष्टया पश्यति तदा सच्चिदानन्दप्रत्यगभिन्नास्तिभातिप्रियात्मकब्रसव भाति सर्वत्र । यदा तु पूर्वसंस्कारेणोस्थितया जगदाभासाऽऽकारया वृत्या पश्यति तदा खलु बाधितानुवृत्त्या जगदपि भाति भर्जितबीजवत् । किं च चतुर्थभूमिष्ठः पुरुषो लोकसंग्रहार्थमपि व्यवहा- राऽऽभासं कुर्वन्निवाऽऽचारति । यथा रामकृष्णजनकादयः॥४॥ ५ (८२) अथ भूमिचतुष्टयाभ्यासाद्रूढसत्त्वचमत्कारी पञ्चमी भूमिः " असंसक्तिः " उच्यते । तत्र संसक्ति नामा- ssभासमात्रेऽपि व्यवहारे या लोकसंग्रहादौ प्रीतिः पुरा चतु- भूमावासीत् । साऽपि सर्वत्रैऋब्रह्मदृष्टेन विद्यते यस्यां भूमौं साइसंसक्तिः। यद्धा संसक्ति नाम पूर्वावस्थायां या-' अहो नु शास्त्राचार्यानुग्रहाब्रह्मात्मैक्यज्ञानप्राप्त्या मुक्तोऽस्मि ज्ञात्वैव . गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । कृतकृत्योऽहं ज्ञानमेव मोक्ष सुखदमस्त्यतोऽधुना मया सर्व- प्रयत्नेन ज्ञानमेव रक्षणीयम्' इत्येवं रूपा ज्ञाने ज्ञानफले मुक्तौ वा प्रीतिरासीत् । सा प्रीतिरपि यदि सर्वत्र सर्वदा सर्वथा हमेव बद्धल्वमुक्तत्वादिरहित एकरस एवास्मि तर्हि मत्स्वरूपे मोक्षस्यापि कल्पितत्वात्तत्प्राप्तौ तत्साधनात्मकज्ञान- प्राप्तौ वा किमपूर्वत्वं न किमपि कुतः ? कल्पितस्य सर्वस्य मदभिन्नत्वान्मत्स्वरूपप्राप्तौ मे किं चित्रं न किमपि ' इतिवृष्टे- न विद्यते यस्यां भूमौ सा पञ्चमी भूमिरसं सक्तिः । तत्र श्रुति- दशाचतुष्टयाभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥" ( महोपनिष. ५ । ३१ ) इति । अस्यां भुवि वर्तमानःपुरुषो ब्रह्मविद्वरो भवति । तत्र श्रुतिः- पञ्चमभूम्यां (८३) विहरन्ब्रह्मविद्वरो भवति ।" ( वराहोपनि. ४ । १) इति । सैषा पञ्चमी भूमिः सुषुप्त्यवस्थारू ग भवति । अस्यां सुषुप्ता- विव भेदाभानात् । अथास्यां भूमौ यद्यपि प्रारब्धवशात्पुरुषः स्वयमेव ।
(६५) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । व्युत्थाय व्यवहाराऽऽभासं करोति तथाऽपि प्रारब्धस्य श्रेष्ठ- त्वान्न सर्वदा करोत्यपि तु कदाचिदेव करोति प्रायस्तु निया- पार एव भवति । तत्र (८४) दृष्टान्त: -यथा कश्चित्पुरुषः सिद्धिप्रभावेण समुद्रमध्ये सदा बसन्नपि कदाचित्कदाचित्वयमेव तीरमाग- त्याऽऽगत्य किंचिद्गहीत्वा किंचित्त्यक्त्वा किंचिद्वयित्वा किंचिच्छृत्वा वा पुनः शीघ्रं समुद्रमध्ये निमज्ज्य तत्र वसति पुनश्च यदा ६ दाचिदागच्छति तदाऽणि किंचिद्यवहाराss- भासत्वमनुभूय पुनः समुद्रमध्ये निमज्जति । -तथैव पञ्चमभूमिष्ठः पुरुषोऽपि सच्चिदानन्दानन्ता- स्मकब्रह्मसमुद्रमध्ये सर्वदा वसति कदाचित्तु प्रारब्धवशात्पूर्व- दशा कृतव्यवहार संस्कृतान्तःकरणवलेन स्वयमेव स्वरूपभूत- ब्रह्मसमुद्रावहिरिव व्यवहारतीरमागत्येव किंचित्कुर्वन्निव व्यव- हाराऽऽभासगनुभूय पुनः समुद्रस्थानीय स्वरूपभूतब्रह्मानन्दे निममो भवति । यथाऽष्टावक्रवासिष्ठागस्त्यादयः ॥ ५ ॥ ६ (८५) अथ भूमिपञ्च काभ्यासादत्यन्ताऽऽत्माऽऽगम- तथा बाह्यानामाभ्यन्तराणां च पदार्थानां भृशमभावनात्पर- ७ mymaa गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । प्रयुक्तेन चिरं प्रयत्नेनावबोधनम् ' पदार्थभावना' षष्ठी भूः। तत्र श्रुती- भूमिकापञ्चाकाभ्यासात्स्वात्मारामतया दृढम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ।। परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् । • पदार्थभावना नाम षष्ठी भवति भूमिका ॥" (महोपनि, ५। ३२-३३) इति । अस्यां षष्ठयां भूमौ बिहरन्पुरुषो (८६) ब्रह्मविद्वरीया- भवति । तत्र श्रुतिः- " षष्ठभूम्यां विहरन्ब्रह्मविद्वरीयान्भवति ॥” (वराहोपनि. ४ । १) इति । सैषा षष्ठी भूमिर्गाढसुषुप्तिरूपा भवति भेदभावस्यात्यन्ताभानात् । षष्ठभूमिष्ठः पुरुषो न स्वयमुत्ति- ष्ठति किं तु चिरं परप्रेरित एव सुतबुद्धवद्ध्यवहाराऽऽभास कुर्वन्निव दृश्यते । तत्र (८७) दृष्टान्त:- यथा कांचिद्योगसिद्धिं गतः कश्चित्पुरुषः सदा समुद्र- मध्ये निमन एवं वसेत् । कदाचित्पुनः केनचिचिरं प्रेरितः सञ्च्छिरोमानं जलाहहिष्कृत्य किंचिदुक्त्वा पुनस्तत्रैव प्रविशेत् । ।
(६७) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । तथैव षष्ठभूमिष्ठः पुरुषोऽपि स्वयं स्वरूपाऽऽनन्दसमुद्रे नित्यनिमग्न एव भवति । कदाचित्पुनः केनचिचिरं प्रेरितः सन्किचित् कुर्वन्निव लोकदृष्टया व्यवहाराऽऽभासं कृत्वा पुनः शीघ्र तत्रैव स्वरूपाऽऽनन्दसमुद्रमध्ये निममो भवति । यथा दत्तात्रेयशुकादयः ॥ अत्रैतच बोद्धव्यमस्ति-शुभेच्छा विचारणातनुमानसीषु मुमुक्ष्ववस्थासु तिसृषु भूमिषु पुरुषार्थप्रारब्धयोः पुरुषार्थ- प्राधान्यं भवति । अथ सत्त्वापत्यसंसक्तिपदार्थभावनातुर्यगाषु ज्ञान्यवस्थासु चलसृषु भूमिषु तु केवलं प्रारब्धमेवास्ति तथाऽपि । चतुर्थी तु स्वप्नवन्मिथ्या ज्ञात्वाऽपि पुरुषार्थाऽऽभासं करोति स्वयं पुरुष- स्तथाऽन्यान्कारयति च यथार्थतया चतुर्थभूमिकावतःसर्वोऽपि व्यवहारो यथाक्रममेव भवति परन्तु न स पुनर्जन्महेतु भवति मिथ्यात्वेन निश्चितत्वात् । अथ पञ्चमभूमिगतस्तु यद्यपि प्रारब्धवशाव्यवहाराss- भासं करोति स्वयं तथाऽन्यान्कारयति यथाक्रम तथाऽपि न गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्। सर्वदा करोति कारयति वाऽपितु मध्ये मध्ये विच्छिद्य विच्छिद्य करोति। अथ षष्ठभूमिठस्य तु प्रारब्धमध्याभासी भवति । अतो न स्वयं किमपि करोति षष्ठयां पुरुषः किंतु परप्रेरित एव करोति जाग्रन्नपि सुप्तवत् । अथ चतुर्थीपञ्चमीषष्ठीषु तिसृषु भूमिषु वर्तमानाः पुरुषा अपि प्रारब्धवैलक्षण्यादागी त्यागो सात्त्विको घोर श्चेति चतु- विधा भवन्ति तत्र जनकाजातशबादयो रागिणः । दत्तात्रेय- शुकाऽऽदयस्त्यागिनः । जमदामिपिप्पलादाऽऽदयः सात्त्विकाः। दुर्वासाविश्वामित्रपरशुरामाऽऽदयस्तु घोरा बभूवुः । तेषां प्रारब्धाचीने व्यवहारे मिन्ने सत्यपि न ज्ञाने मुक्तौ वा भेदोऽ- स्तीति दिक् ॥ ६ ॥ ७ (८८) अथ गमिषट्कविराभ्यासाद्भेदस्यानुपलम्भ- नाद्यत्स्वभावैकनिष्ठत्वं सा सप्तमी ' तुर्यगाभूमि भवति । तत्र भुतिः- " भूमिपकचिराभ्यासाद्भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया. तुर्यगा गतिः ॥"
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणि पिया व्याख्यया सहितम् । (महोपनि. ५ । ३४ ) इति । अस्यां सप्तम्यां भूमौ बिहर- शुरुषो (८९) ब्रह्मविद्वरिष्ठो भवति । तत्र श्रुति:--"सप्तमभूम्यां विहरन्ब्रह्मविद्वरिष्ठो भवति" (वराहोपनि. ४।१) इति । सैषा सप्तमी भूमिस्तुर्यावस्थाररूपा भवति पूर्वभूमित्रों जाग्रद्रूपं १ चतुर्थी भूमिः स्वमरूपा २ ततो भूमिद्यं सुषुप्ति- रूपं ३ तदेपेक्षयाऽस्याश्चतुर्थत्वात् ।। सप्तमभूमिकावतस्तु प्रारब्धमपि न विद्यते । अतः सप्तम भूमिगतः पुरुषो न स्वतो न परप्रेरितो वा व्यवहाराऽऽभास- मपि करोति । अपि तु सर्वदा सच्चिदानन्दवनप्रत्य-भिन्नब्रह्म- स्वरूपेऽकथ्यलक्षणस्तदाकार एव भवति सर्वभेदप्रत्ययाभावात् । यत्र ह्यहत्वत्वत्त्वेदत्वाऽऽदयो भेदप्रत्यया भवन्ति तत्रैव हि व्यवहाराऽऽभासेोऽपि भवति । अत्र तु द्वैतप्रत्ययाऽऽभासोऽपि न विद्यते तर्हि व्यवहारस्य तु कोऽवकाशः । न कोऽपीति सिद्धान्तः । तत्र (९०) दृष्टान्तः-यथाऽलौकिकी सिद्धिं गतः कश्चित्सुरुषो महासमुद्रतले सदा वसेत् । तं खलु जलस्य
(७०)
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् ।
स्वच्छत्वादन्ये जनाः पश्यन्ति च तथाऽपि न ते तत्समीपमपि
गन्तुं समा भवन्ति कुतस्तर्हि तं प्रेरयितुं शक्नुः ? । अपि तु
न शकुयुः।
तथैव सप्तमभूमिगतः पुरुषोऽपि नित्यं सच्चिदानन्दघनै-
करसे स्वरूपाऽऽनन्दसमुद्रे निमग्न एव भवति तमन्ये पश्यम्तो.
ऽपि न तत्तुल्यदशारूपसमीपमपि गन्तुं शक्नुवन्ति कुतस्तर्हि
ते तं व्यवहारे नियोजयितुं शक्नुयुः । । अपि तु न शक्नुपुः ।
अतः सप्तमभूमिगतः पुरुषो न स्वयं न परप्रेरितो वा किमपि
कुरुते यथर्षभदेवः ।
तत्र श्रुतयः-
" यत्र त्वस्य सर्वमात्मैव मृत्तत्केन के पश्येत्तत्केन के
जितकेन क५ रसयेत्तरकन कमभिवदेत्तत्केन क५ शृणुया-
त्तत्केन के मन्वीत तत्केन कर स्पृशेत्तकेन के विजानीयाचे-
नेद सर्व विजानाति तं केन विजानीयात्" (बृ.४।५।१५)
" त्वत्ताऽहंताऽऽत्मता यत्र परता नास्ति काचन ।
न क्वचिद्भावकलना न भावाभावगोचरा ।।
सर्व शान्तं निरालम्ब व्योमस्थं शाश्वतं शिवम् ।
अनामयमनाभासमनामकमकारणम् ॥
(७१)
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् ।
न सन्नासन्नमध्यान्तं न सर्व सर्वमेव च ।
मनोवचोभिरग्राह्यं पूर्णात्पूर्ण सुखात्सुखम् ।।
असंवेदनमाशान्तमात्मवेदनमाततम् ।
सत्ता सर्वपदार्थानां नान्या संवेदनाहते ॥
( महोपनिष. ५ । ४४-४७)
कुर्वन्नभ्यासमेतस्यां भूभ्यां सम्यग्विवासनः ।
सप्तमी गाढसुप्त्याख्या क्रमप्राप्ता पुरातनी ॥
यत्र नासन्न सद्रूपो नाहं नाघ्यनहंकृतिः ।
केवलंक्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः॥
अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ।
अन्तः पूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे ।।
(बराहोपनिष. ४ । १६-१८)
पृषा हि जीवन्मुक्तेषु तुर्यावस्थेति विद्यते ।
विदेहमुक्तिविषयं तुर्यातीतमतः परम् ।।
ये निदाघ! महाभागाः सप्तमी भूमिमाश्रिताः।
आत्माऽऽरामा महात्मानस्ते महापदमागताः ।।
जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते ।
(७२)
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्।
प्रकृतेनाथ कार्येण किश्चित्कुर्वन्ति वा न वा ॥
पार्श्वस्थबोधितासन्तः पूर्वाऽऽचारक्रमाऽऽगतम् ।
आचारमाचरन्त्येव सुप्तबुद्धवदुत्थिताः ।।
भूमिकासप्तकं चैतद्धीमतामेव गोचरम् ।
प्राप्य ज्ञानदशामेतां पशुम्लेच्छाऽऽदयोऽपि ये ॥
सदेहा वा प्यदेहा वा ते मुक्ता नात्र संशयः ।
ज्ञप्ति हि ग्रन्थिविच्छेदस्तस्मिन्सति विमुक्तता ॥"
( महोपनिष. ५ । ३५-४० ) इत्याद्योडनेकसहस्त्रशः श्रुतयो
ज्ञानिनः कर्तव्यत्वाभावमाहुः ॥ ७ ॥
अनेन भूमिसप्तककथनेन शास्त्राचार्याऽऽदिमोक्षसाध-
नानामानर्थक्यशङ्का ज्ञानिनः कर्मकर्तव्यत्वशका द्वैतप्रपञ्च-
स्य बन्धमोक्षाऽऽदिरूपस्य सत्यत्वशका च निराकृता । तथा
गुरुवेदान्तविचाराऽऽदि कुत्रोपयुज्यते ? ' इत्यस्य प्रतिवचनं
चोक्तमिति द्रष्टव्यम् ।
" योगिनो भोगिनो वाऽपि त्यागिनो रागिणोऽपि च ।
ज्ञानान्मोक्षो न सन्देह इति वेदान्त डिमः ॥"
(इत्यष्टमलोकव्याख्या) ॥८॥
MAHARA गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । उ० अथेदानीमष्ट कपठनतदर्थज्ञानयोः फलमुच्यते- मू० एतच्छ्रीगुरुदेववन्दनपरं मोक्षपदं चाष्टकं माङ्गल्यं यतिनाह वैविरचितं प्राज्ञोहराऽऽख्येन यः॥ नित्यं भक्तियुतः पठेत्स परमां शान्ति ध्रुवां प्राप्नुया- च्छीमत्सद्गुरुदेवपादकमले सक्तोऽन नो संशयः ॥९॥ इति श्रीमत्परमहंसपरिव्राजकाऽऽचार्य श्रीबालकभारती- पूज्यपादशिष्यपरमहंसंहरिहराऽऽनन्दभारतीविरचितं श्रीगुर्वष्टकं संपूर्णम् ॥ ॐ तत्सत् ॥ १॥ टी० एतदिति । एतत् 'यस्मात् ' इत्याऽऽरभ्य 'ॐ' इत्यन्तम् । हराऽऽख्येन हरदेवभारत्याख्येन ( हरि- हराऽऽनन्दभारत्याख्येन) यतिनां संन्यासिना विरचितं श्रीगुरु- देववन्दनपरं माङ्गल्यं श्रवणपठनमानत एव शुभकरं च पुनर्मो- क्षप्रदं तदर्थसहितपठितं जीवब्रह्मैक्यज्ञानद्वारा स्वरूपसाक्षा- कारूपमोक्षपदमष्टकमष्ट श्लोकाऽऽत्मकं ज्ञानगर्म स्तोत्रम् | यः प्राज्ञो मुमुक्षु नित्यं भक्तियुतः सम्पठेत् । स श्रीमत्सद्गुरुदेव- N (७४) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । पादकमले श्रीमतः सद् गुरोर्देवस्य पादकमलयोः ( जातावेक- वचनम् ) सक्तः श्रद्ध वान् । परमां श्रेष्ठां मोक्षाऽऽख्यां ध्रुवा- मपुनरावृत्तिरूपां शान्ति प्राप्नुयात्प्राप्स्यति । अत्रास्मिन्विषये संशयो नो नास्ति गुरुभक्तेः सर्वेषु मोक्षसाधनेपू तमत्वात् । एतदुक्तं भवति-ज्ञानं विना न मोक्षः किं तु ब्रह्मा- स्मैक्यज्ञानादेव साक्षात्कारपर्यन्तान्मोक्षो भवति । तच्च ज्ञानं न गुरूपदेशवेदान्तविचाराभ्यामन्तरेण भवति। गुरूपदेशवेदान्त- विचारयोरपि वेदान्तविचारो गुरूपदेशद्वारैव भवति न स्वतः । स चोपदेशो न गुरुभक्तिं विना लभ्यः । अतो गुरुभक्तिरेव मोक्षसाधनेष्वेकान्तिकसाधनमिति स्थिते गुरुसेवया गुरुप्रसन्नता ततो गुरुमुखान्महावाक्यश्रवणं ततो ज्ञानं ततो मोक्षो भवति। इत्येवं गुरुभक्त मोक्षसाधनेषु मुख्यत्वं ज्ञापयितुम् 'नो संशयः', इत्युक्तम् । तथा च श्रुतयः- " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रिय ब्रह्मनिष्ठम् ॥" (मुं०१।२ । १२) आचार्याध्येव विद्या विदिता साधिष्ठं प्रापयति ॥"(छा.४।९।३) " आचार्यवान्पुरुषो वेद ॥" (छा. ६।१४।२) RANA (७५) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । यस्य देवे परा भक्ति यथा देवे तथा गुरौ । तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः ॥" ( श्वे. ६ । २३ ) " सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः ॥ " ( निराल- म्बोपनिष.)" हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् । यो ददाति महाविद्यां हंसाऽऽव्यां पारमेश्वरीम् ॥ तस्य दास्यं सदा कुर्यात्मज्ञया परया सह । शुभंवाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि ।। तत्कुर्यादविचारेण शिष्यः संतोषसंयुतः । हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः॥ आत्मानमात्मना साक्षाद्ब्रह्म बुद्धा सुनिश्चलम् । देहजात्यादिसम्बन्धान्वर्णाऽऽश्रमसमन्वितान् ॥ वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् । गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः ।। गुरुरेव हरिः साक्षान्नान्यः " ( ब्रह्मविद्योपनिष. २६-३१) " आप्तोपदेशगम्योऽसौ सर्वतः । " (ब्रह्मविद्योपनिष. ३३) गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतो मुखम् ॥" (ब्रह्मविद्यो- पनि. ३४) " चोदको बोधक श्चैव मोक्षदश्च परः स्मृतः ।।
(७६) गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् । इत्येषां त्रिविधो ज्ञेय आचार्यस्तु महीतले ।। चोदको दर्शयेन्मार्ग बोधकः स्थानमाचरेत् ॥ मोक्षदस्तु परं तत्वं यज्ज्ञात्वा परमश्नुते ॥" ( ब्रह्मविद्योपनिष. ५१-५३ ) इत्यायः सहस्रशः । अथ किंबहुना कथनेन गुरुभक्तिः खल्वीश्वरभक्तेरप्य- तिरिच्यते । कथम् ? । ईश्वरभक्तेः केवलान्त:करणशुद्धिरेव भवति न बोधसिद्धिः। अथ गुरुभक्तेस्तु पूर्व भक्तिप्रभावा- दन्तःकरणशुद्धिस्ततो बोशेषयोगिशमदमाऽऽदिशुभगुणनिष्प- त्तिस्तत: सेक्या प्रसन्नो गुरुः कृपया स्वयमेव श्रतियुक्तिभ्यां ब्रह्मात्मैक्यज्ञानोपदेशं करोति । ज्ञानेन चाज्ञाननिवृत्तेरजन्य जन्माऽऽदिभ्रान्तिनाशपूर्वकस्वरूपावस्थानरूपो मोक्षो भवति । यस्तु कचिद्रामकृष्णाऽऽदिरूपेणेश्वरेणापि लक्ष्मणहनुमद- र्जुनाऽऽदिभ्यो ज्ञानोपदेशः कृतः । तत्रापि गुरुत्वं प्राप्यैवे- श्वरोऽपि तेभ्य उक्तवान् । तथा चोक्तमर्जुनेन-"शिष्यस्तेऽई शाधि मां त्वां प्रपन्नम् । " ( भ. गी. २ । ७) इति । अत: सिद्धं गुरुत्वस्येश्वरत्वाच्छ्रेष्ठत्वं गुरुभक्तेश्चेश्वरभक्तेः श्रेष्ठत्वम् ।
गुर्वष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम् ।
GREAnimal
तथा च श्रुतयः-
नीवेश्वराऽऽदिरूपेण चेतनाचेतनाऽऽस्मकम् ।
ईक्षणाssदिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।
जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥
त्रिणाचिकाऽऽदियोगान्ता ईश्वरभ्रान्तिमाश्रिताः ।
लोकायताऽऽदिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः ॥
तस्मान्मुमुक्षुभि व मतिजावेशवादयोः ।
कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥
अविशेषेण सर्व तु यः पश्यति चिदन्वयात् ।
स एव साक्षाद्विज्ञानी स शिवः स हरिविधिः ॥
दुर्लभो विषयत्यागो दुर्लभ तत्त्वदर्शनम् ।
दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥"
(महोपनिष. ४ । ७३-७७ ) इति ।
इश्वरोऽस्तु, परन्तु मुमुक्षोस्तु न गुरुकरुणां विना
मोक्षो भवतीति श्रुतितार्थ न निरीश्वरत्वे रचेश्वरनिंदाया-
मिति द्रष्टव्यम्।
:
गुर्वेष्टकमद्वैतार्थप्रकाशिकया मणिदीपिकया व्याख्यया सहितम्।
तथा हि-यद्यपि पर एवाऽऽत्मा स्वमाययेश्वराss.
कारेण गुर्वाकारेण च विवर्त्तते स्वयम् ।
अतो न गुश्विरशब्दयो लक्ष्यार्थे भेदोऽस्ति तात्त्विका
गुरु ब्रह्मा गुरु विष्णु गुरु देवस्सदाऽच्युतः ।
न गुरोरधिकः कश्चित्रिषु लोकेषु विद्यते ॥
दिव्यज्ञानोपदेष्टार देशिक परमेश्वरम् ।
पूजयेत्परया भत्त्या तस्य ज्ञानफलं भवेत् ।।
यथा गुरुस्तथैवेशो यथैवेशस्तथा गुरुः ।
पूजनीयो महाभक्त्या न भेदो विद्यतेऽनयोः॥"
( योगशिखोपनिष. ५ । ५६-५८) इत्यादि श्रुतिभ्योऽभे-
दावगमात् । तथाऽपि तयो र्वाच्यभेदमाश्रित्य तु तयोर्भेद
उच्यते । तथैव तयोः कृत्य नेदोऽपि दृश्यते लोके। कथम् ।।
ईश्वरः खलु भ्रांतिवशं जीवं कर्मानुसारेण तत्र तत्र भ्रामयति
पूर्वदेहं परित्याज्य देहान्तरे प्रापयति तथैव तत्रापि केवलं
कर्मानुरोधेनैव सुखदुःखरूपं फलं भोजयति न तु स्वरूपबोधे
नाविद्यानाशपूर्वकस्वरूपावस्थानरूपमोक्षदशां प्रापयति ।