University Liberey Allahabad
Sararic Viganayam
Front matter
अथ तृतीये जीवलक्षणाध्याये प्रेत्यभाव-पादः १ प्रारभ्यते (३।१) RELI :- विद्यावाचस्पतिः श्रीमान् महार्यो मधुसूदनः । इदं शारीरविज्ञानोत्तराद्ध वक्तुमुद्यतः ॥ १॥ तत्रादौ जीवस्य मृत्युजन्मावस्थाद्वयाधिकारे-आरोहोपक्रमाधिकरणम् ॥ १॥ १-तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥१॥ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥२॥ प्राणगतेश्च ॥३॥ अग्न्यादि गतिश्रुतेरितिचेन्न, भाक्तत्वात् ॥४॥ प्रथमेऽश्रवणादिति चेन्न, ता एव ह्युपपत्तेः ॥५॥ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः॥६॥ भाक्तं वाऽनात्मवित्त्वात् तथाहि दशयति ॥७॥ -अथैनमेते प्राणा अभिसमायन्ति (बृ. आ ४।४) इत्येवमादेः “अन्यन- वतरं कल्याणतरं रूपं कुरुते इत्येवमन्तात् संसारप्रकरणस्थश्रुतिवाक्यात्- जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्को विद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यते इति तावत् सिद्धम् । तत्र “स एतास्तेजोमात्राः समभ्या. ददान-(बृ. ४।४) इति तेजोमात्राशब्देन करणोपादानवद् भूतमात्रोपादानं न श्रूयते तेन भूतमात्रा अनुपादायैव जीवो गच्छतीति प्राप्ते उच्यते-देहान्तरप्रति- पत्तौ जीवो गच्छति देहबीजभूतसूक्ष्मैः संपरिष्वक्त इति ताण्ड्यश्रुतौ पञ्चाग्नि विद्यायामुद्दालकप्रवाहाप्रश्नोत्तराभ्यामवगम्यते । तथाहि वेत्थ यथा पञ्चम्या- माहुतावापः पुरुषवचसो भवन्तीति + (छां ५। ३ बृ. ६ । २) प्रश्ने धुपर्जन्य पृथ्वीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतीदर्शयित्वा x“इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति (छां ५। ६) निरूप्यते । तत्रं यद्ययं भूतमात्राभिरपरिष्वक्तो गच्छेत् तर्हि प्रत्यवरोहेऽपामनुपस्थितेः श्रद्धा- * तु. भा. ५।४॥) +छां ५। ३ ॥ बृ. ६ । २) (छां. ५५०६) (-छां. (६।३ प्राणा जीवन ( २ ) द्याहुत्यसंभवादपां पुरुषरूपता न स्यात् । तस्माद् भूतमात्रान्वितो यातीति लभ्यते ॥१॥ नन्वपां पुरुषाकारपरिणामप्रतीतेर्गच्छता जीवेन तासामेव परिवङ्गः प्राप्नोति, न सर्वेषां भूतसूक्ष्माणामिति चेन्न । पुरुषदेहारम्भिकाणामपां ज्यात्मकत्वात् । तासां त्रिवृतं त्रिवृतमेकैकां करवाणी (छां. ६ । ३) त्यपां त्रिवृत् करणश्रुतेः ॥ दृश्यते च देहः सार्वभौतिकः । त्रयाणामपि तेजोऽबनानां देहे कार्योंपलब्धेः॥ देहारम्भकद्रव्यस्य सार्वभौतिकत्त्वेऽपि तस्यापछब्देन व्यपदंशस्वपां भूयस्त्वा- दुपद्यते ॥ शुक्रशोणितलक्षणे देहबीजे द्रवबाहुल्यदर्शनात् ॥ उत्पन्ने च शरीरे इतरभूतापेक्षयाऽस्यपामेव बाहुल्यम् ॥ बाहुल्याच्चापशब्देन सर्वेषां भूतसूक्ष्माणा मुपादानम् ॥२॥ अपि च उत्क्रामति जीवे प्राणानां सहानुगतिः श्रूयते । “तमुत्तामन्तं प्राणोऽनूनामति, प्राणमनूकामन्तं सर्वे प्राणा अनूकामन्तीति। नहि ते प्राणा निराश्रयाः क्वचिदच्छन्ति तिष्ठन्ति वा । जीवतोऽदर्शनात् । तस्मात्तदा- श्रयभूतानां भूतसूक्ष्माणामपि गतिः संभाव्यते ॥३॥ ननु नेते सह गच्छन्ति, अग्न्यादिगतिश्रुतेः । यत्रास्य पुरुषस्य मृतस्याग्निं वागप्यति वातं प्राणश्चक्षुरादित्य (बृ.३।२।१३) मित्यादिना हि प्राणानामन्यत्रान्यत्र गतिः श्रूयते । इति चेन्न । ओषधीोमानि वनस्पतीन् केशा इत्येवमनपियता- मपि लोमकेशानामप्ययानानात् तादृशश्रुत्या भाक्तत्वात् ॥ वागाधधिष्ठातॄणां हि अन्यादिदेवतानामुपकारनिवृत्तिमात्रापेक्षया तथोपचारात् ॥ ४ ॥ ननु पश्चाग्नि- विद्यायां प्रथमेऽग्नौ श्रद्धाहुतिश्रवणेऽप्यपामश्रवणान्न भूतसूक्ष्माणां जीवेन गच्छता परिष्वङ्गः प्राप्नोतीति चेन्न । ता एवापस्तत्र श्रद्धाशब्देनाभिप्रेयन्ते । अपां पुरुषवचस्व- प्रकारे पृष्टे तत्पतिवचनैकवाक्यतानुरोधाच्छद्धाशब्देनाप्यपामेव ग्रहणस्योपपत्तेः । प्रत्ययविशेषतया प्रसिद्धाया अपि श्रद्धाया अप्प्रयुक्ततया ताच्छब्योपपत्तेः । श्रूयते हि-"आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे"-इति । अपः प्रणयति, श्रद्धा वा आपः"--इति च ॥ ५॥ नन्वाप एव श्रद्धादिक्रमेण पुरुषाकारं प्रति- पोरन् न तु तत्संपरिष्वक्ता जीवा रहेयुः । अश्रुतत्वात् ॥ नह्याप इव जीवास्तत्र श्रूयन्ते इति चेन्न । इष्टादिकारिणां प्रतीतेः।-“अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्यु- पासते ते धूममभिसंभवन्नि"-इत्युपक्रम्य पितृयानेन यथा चन्द्रप्राप्तिं कथयति पितृलोकादाकाशम्, आकाशाच्चन्द्रमसमेषु सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति । तस्मिन् यावत्संपातमुषित्वा अथैनमेवाध्वानं पुनर्निवर्तन्ते यथेतम् इति । त एवेहापि प्रतीयन्ते-तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति" इति । श्रुतिसामान्यात् ॥ ६ ॥ ननु--"एष सोमो राजा तहेवानामन्नं तं देवा भक्षयन्ति" इति श्रुतेः । ते चन्द्रं प्राप्यानं भवन्ति । तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्त्वेत्येवमेतांस्तत्र भक्षयन्ति" इति श्रुतेश्च धूमप्रतीकेन वर्मना चन्द्रमसमधिरूढानामनभावश्रवणाद् देवैर्भक्ष्यमाणाना मेषां जीवानां नोपभोगः संभवतीति चेद-अत्रोच्यते । भाक्तमेषमन्नत्वं न मुख्यम् अन्नशब्दस्योपभोगहेतुसामान्यादनन्नेऽप्युपचारदर्शनात् । यथा विशोऽन्नं राज्ञां पशषोऽनं विशामिति ॥ तत्र राजोपजीविनां परिजनानामिव वशवर्तित्वं विधेय. त्वं यथेच्छ सुखविहरणादिसाधनत्वमेवैषामनत्वं न तु चर्वणनिगरणादिलक्षणं SADA तदिहापेक्ष्यते ॥ न वै देवा अनन्ति न पिबन्ति । एतदेवामृतं दृष्ट्वा तृप्यन्ति"- इति श्रुत्या चवर्णादिलक्षणस्यानभावस्य निराकरणात् ॥ अनात्मवित्वाच्चेष्टादि- कारिणां देवोपभोग्यत्वमुपपद्यते ॥ तथा हि दर्शयति श्रुतिः-अथ योऽन्यां देवता. मुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरेवं स देवानाम्"- इति अथवान्यथा. व्याचक्ष्महे । इष्टादिकारिणो ह्येते केवलकमिणो न ज्ञान- समुच्चितकर्मकारिणः। तस्मादात्मविद्याराहित्यादेषां देवभोग्यत्वलक्षणमन्नत्वं भात- मुपचर्यते न तु सर्वथा भोग्यावमेवास्ति । भोक्तृत्वस्यापि तेषां दर्शनात् । तथाहि दर्शयति भोक्तत्वमेषां श्रुतिः-स सोमलोके भूतिमनुभूय पुनरावर्तते इति । “अथ ये शतं पितॄणां जितलोकानामानन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसंजयन्त" इति च ॥ ७ ॥ तथा चैषां जीवानामपशब्दो- पात्तैभूतसूक्ष्मैः प्राणैश्च सह संपरिष्वक्तानां गमनं सिद्धम् ॥ १॥ इत्येवमारोहोपक्रमाधिकरणं शंकररामानुजादयो व्याचक्षते ॥ वयं तु ब्रूमः । पूर्वेणाध्यायद्वयेनात्मनः स्वरूपं निरूपितम् । तच्चशरीरा. रम्भकभूतप्राणेन्द्रियादिविलक्षणं विशुद्धं किञ्चितू तत्वमिति स्थितम् । तथा चैतस्यात्मनः शरीराबहिर्गमने शरीरारम्भकभूतप्राणादिव्यावृत्तस्वरूपस्यैव तस्य शुद्धतत्वस्य गमनमर्थप्राप्तं भवति । न च तदवकल्पते । विशुद्वरूपस्या-- त्मनो व्यापितया देहावहिर्गमनायोगात् । अती निर्णयमाह । तदन्तरप्रतिपत्ती तस्मादेहावाहियोगप्रतिपत्तौ तस्यात्मनो वा बहिर्योगप्रतिपत्तौ न विशुद्धस्वरूप- मात्रेणायमुत्क्रमते अपितु संपरिश्वतो गच्छति । शरीरत्यागेऽपि शरीरारम्भकैभूत- प्राणेन्द्रियादिभिः कैश्चिदर्थैः परिवृत एवायं बहिर्भवति इत्युद्दालकप्रवाहणयोः प्रश्नप्रतिवचनाभ्यां गम्यते । तत्र हि अपां सुरुषवचस्त्वमाख्यातम् । यदि जीवात्ममात्रं गच्छेत् स एव तर्हि प्रत्यावृत्तो जन्म गृह्णन् पुरुषः स्यात् । तथा चापां पुरुषवचस्त्वाख्यानमनवलुप्तं स्यात् । तस्माद् भूतसूक्ष्मैः परिवृत आत्मागच्छतीति तावत् सिद्धम् ॥ १॥ ननु तत्रापां श्रवणादद्भिरेव संपरिष्वक्तः प्राप्नोति तत्कथं भूतसूक्ष्मैरित्युच्यते इति चेत् । व्यात्मकत्वात् तासामंपामिह सर्वभूतग्रहणं प्रतीमः । नहि तेजोऽबन्नानां भूतसूक्ष्माणामेकैकत्येतरासंपरिष्वक्तस्य कुत्र- चिदवस्थानं 'दृष्टम् । तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति त्रिवृत्करणश्रुतेः सर्वत्र त्रयाणां संयुक्तानामेवापलब्धः। ननु तर्हि त्रयाणामांप सत्वे कथमपामिव तत्रोपादानमिति चेद् भूयस्त्वादिति ब्रूमः । एकैकस्य भूयस्त्वात् त्रिवृत्कृतान्य- मित्रीणि भवन्ति तेजश्चापश्चान्नं चेति । तथा च भूयसीरद्भिः सहकृतयोस्तेजो- ऽनयोरपसंज्ञति कृत्वा तथा विधाभिरद्भिः संपरिष्वक्तरूप आत्मागष्कृतीति युक्तम् ॥ २॥ अथ न केवलं भूतसूक्ष्मयोगादेव संपरिष्वक्तः अपि तुं प्राणगते श्वायं संपरिष्वक्तः प्रत्येतव्यः। मुख्यप्राणश्चेन्द्रियप्राणाश्च सह गच्छन्तीत्यतस्तै- रप्ययं संपरिष्वक्तो गच्छति ॥३॥ ननु नेन्द्रियप्राणाः सह गच्छन्तियत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यमित्यादिश्रुत्या तेषामन्यादि- ध्वभिगमनश्रवणादिति चेन्न तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः इत्यादि छान्दोग्यश्रुत्या हार्दात्मानुगतदेवभाक्तत्वादेषां वागादिप्राणानां शरीर- स्थितान्यान्यप्रदेशब्यापूतानां सुषुप्तिमृत्युकाले इन्द्रियस्थानेभ्यस्तेभ्य उपसंहारदा- हृदयस्थितम् विज्ञानात्मसंसक्तेषु स्वप्रकृतिभूतेषु तत्तदेवेश्वेवोपनिवेशोऽनया श्रुत्या प्रतिपाद्यते । अत एव भूतसूक्ष्मवत् प्राणवच्चैषां देवानामप्यात्मना सहैव गमनात्तदक्षरे प्रतिष्ठानं श्रूयते-विज्ञानामा सह देवश्च सर्वैः प्राणा भूतानि सं- प्रतिष्ठन्ति यत्र । तदक्षरं वेदयते यस्तु सौम्य स सर्वज्ञः सर्वमेवाविवेशेतिमा तथा च भूतैर्मुख्यप्राणेनेन्द्रियप्राणैस्तदधिष्ठातृदेवैश्च संपरिष्वक्त आत्मा गच्छतौति निष्कर्षः सिद्धः ॥ ४ ॥ अथभूतसूक्ष्मविषये काचिच्छकाव- शिष्यते ततस्तत्पुनः - प्रत्यामशति-प्रथमेऽश्रवणादिति । भूतसंपरिष्वङ्ग तावत् प्रश्नपतिवचनश्रुतिः प्रमाणीक्रियते। किन्तु तया श्रुत्या भविष्यच्छरीरोपादान- त्वेनापां श्रवणमस्ति । नतु तावता प्रथमे शरीरे तासामपां संनिधानं श्रूयते । प्रथमशरीरात्त्वात्मनो बहियोगः संप्रति विवक्षित इति न तत्र प्रश्ननिरूपणाभ्या- मात्मनोऽद्भिः संपरिष्वङ्गः शक्यते प्रतिपत्तमिति वेन ॥ प्रथमशरीरतोऽपाम- नारोहणे तदसंपरिष्वक्तस्यैवात्मनः प्रत्यवरोहसंभवादपां पुरुषवचस्त्वाख्यान- मसंलग्नं स्यात् । तस्मात् ता आप एवारुह्य पुनः प्रत्यवरोहे पुरुषवचसो भवन्तीत्युपपद्यते । अपि च भविष्यंच्छरीरोपादानत्वेनापां श्रवणात् प्रथमेऽपि शरीरे- ता एवापः शरीरारम्भकत्वेन संभाव्यन्ते । आरोहावरोहयोः पर्यायतः प्रवृत्तयोः क्रमिकतया प्रथमस्यापि शरीरस्य ताभिरेवाद्भिपपत्तेः ॥५॥ ननु सत्य मुपपद्यते किन्तु श्रुत्या नापः श्रूयन्ते । अश्रुतत्वाच्च न भूतपरिष्वङ्गः प्रमाणमिति चेन्न । इष्टादिकारिणां प्रतीतेः “य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ती" त्युपक्रम्य-"अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्" इति श्रुतौ यथेतमिति शब्देनावरोहणास्यारोहणप्रकारसाम्येनोपदेशादवरोहणे श्रुतानामपामारोहणेऽपि संनिधानं प्रतीयते ॥ ६॥ अपि वा भूतानि च प्राणाश्च देवाश्च पूर्वप्रज्ञा च विद्याकर्मणी चेत्येतत्सर्वमिदमस्य जीवस्य भक्तिसिद्धं प्रत्येतन्यं अनात्मवित्वात् । तथा हि दर्शयति श्रुतिरनात्मवित्प्रकरणे तेषां धर्माणामात्मभक्तित्वम्-"स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकामयः कोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः . सर्वमयस्तधदेतदिदं- मयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति । पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति ॥ स विज्ञान- मेवान्वक्कामति तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञान्वेति च । आत्मविद्रो हि विद्याप्रभावात् सर्वेऽप्येते धर्मा निवर्तन्ते । “सर्वे पाप्मानोऽतो निवर्तन्ते इति ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तु तं पश्यति निष्कलं . ध्यायमानः" इति..व (५) श्रुतेः ॥ तथाचायमात्मवित् । निरस्तसमस्तप्रपञ्चो निर्विशेषः सपद्यते न त्वेव. मनात्मवित्तैर्धमैंः कदाचित् परिहीयते ॥ तथा च भूतादीनामनात्मविदात्म- भक्तित्वात् तैभूतादिभिः संपरिष्वक्त एवात्मा गच्छतीति सिद्धम् ॥ ७ ॥ इत्यारोहोपक्रमाधिकरणम् । ॥ (२) अवरोहोपक्रमाधिकरणम् । २-कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥१॥ चरणादितिचेन्नोपलक्षणार्थेतिकार्णाजिनिः ॥ २॥ आनर्थक्यमिति चेन्न, तदपेक्षत्वात् ॥३॥ सुकृतदुष्कृते एवेति तु बादरिः॥४॥ "तस्मिन् यावत्संपातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्ततन्ते यथैतमित्यादि- श्रुत्या इष्टादिकारिणां धूमादिमार्गतश्चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आनायते ॥ तत्र यावत्संपातमित्युक्तेः कृत्स्नस्य कर्माशयस्य तत्रैव भुक्तो तिरनुशयानामवरोहः प्राप्नोति । तेषां यदा तत्पर्यवैतीति श्रुत्यन्तराच्च । यत्तु यावदमुष्मिन् लोके उपभोक्तव्यं कर्म तस्यैव कृत्स्नस्य तत्रोपभोगो नवनारब्ध- फलस्यापीति कश्चित्कल्पयेत् । तदसत् । प्राप्यान्तं कर्मणस्तस्य यत् किञ्चेह करोत्ययम् । तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे"-इति श्रुत्यन्तरे यत्किञ्चत्य- विशेषपरामर्शात् ॥ इत्येवं प्राते ब्रूमः चन्द्रमसि कृतकर्मभोगावसाने सानुशयाः पृथ्वीमवरोहन्तीति । दृष्टो हि जन्मनैव प्रतिपाण्युच्चावचरूप उपभोगः प्रवि- भज्यमानः आस्मिकत्वासंभवादनुशयसद्भावं सूचयति । श्रुतिश्च प्रत्यक्षं दर्शयति- तद् य इह रमणीयचरणाः अभ्याशो ह यत्ते रमणीयां योनिमापोरन् । अथ य इह कपूयचरणाः-अभ्याशी ह यत्ते कपूयां योनिमापोरन् इति । पुण्यो वै पुण्ये- न कर्मणा भवति पापः पापेनेति च। स्मृतिरपि च वर्णा आश्रमाश्च स्व. कर्मनिष्ठाः प्रेत्यकर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुत- वित्तसुखमेधसो जन्म प्रतिपद्यन्ते विष्वञ्चो विपरीता नश्यन्ति इति गौतमीया "तथा ततः परिवृत्तौ कर्नफलशेरेण जातिरूपं वर्ण बलं मेधां प्रज्ञां द्रव्यागि धर्मानुष्ठानमिति अपच तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तत" इत्यापस्तम्बीया च सानुशयानामेवारोहं दर्शयति । तस्मादामुष्मिकफले कर्मजाते उपभुक्तेऽवि- शिष्टमैहिकफलं कर्मान्तरजातमनुशयस्तद्वन्तोऽवरोहन्तीति प्रतिपत्तव्यम् । ते चावरोहन्तो यथेतमनेवं चावरो हन्ति । धूमाकाशयोः पितृयाणेऽध्वन्युपात्तयो- रघरोहे संकीर्तनाद आरोहणधर्मसादृश्येनावरोहणं प्रतीयते । राज्यायसंकीर्तना- दम्राथुपसंख्यानाच्च विपर्ययोऽपि प्रतीयते ॥ १ ॥ ननु तद् य इह रमणीयचरणा अथ य इह कपूयचरणाः-" इति च श्रुतिश्चरणतो यो-यापत्तिं दर्शयति न त्वनु- शयतः । चरणं चारित्र्यमाचारः शीलमितिचाभिन्नोऽर्थः । अनुशयस्तु भुक्तफलात्कर्म- णोतिरिक्त कर्मत्यन्योऽर्थः॥ यान्यनवद्यानि कर्माणि तानि लेवितव्यानि नो इतराणि । यान्यस्माकं सुचरितानि तानि (वयोपास्यानि नो इतराणि । इति चरणकर्मणोर्भेदेनोप- देशात् ॥ तत्कथमोशश्रुतिरनुशयवतोऽवरोहं कल्पयिष्यतीतिचेन्न अनुशयोपलक्ष णार्था ह्येषा चरणश्रुतिद्रष्टव्या ॥२॥ नम्वेवंत हे चरणस्थानर्थक्यं प्रसज्येतिति चेन्न । तदपेक्षत्वात् । इष्टादि हि कर्मजातं चरणापेक्षम् । आचारहीनं न पुनन्ति वेदा इत्यादिस्मृतिभ्यः सदाचारहीनानां कर्मानधिकारात् तस्मात् कमैवाचारोपलक्षित- मनुशयभूतं योन्यापत्तौ कारणमिति कार्णाजिनिराचार्यों मन्यते ॥३॥ बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्यते इति मन्यते। चरणमनुष्ठानं कम्मत्यनान्तरम् भेदव्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजक- न्यायेनोपपद्यते । तस्माद्रमणीयचरणाः प्रशस्तकर्माणः । कपूयचरणा निन्दितकर्माण इति निर्णयः ॥ ४॥ इति अवरोहोपक्रमाधिकरणम् ॥२॥ अथ नरकारोहावरोहाधिकरणम् ॥ ३ ॥ ३-अनिष्टादिकारिणामपि, च श्रुतम् ॥ १ ॥ संयमनेत्वनुभूयेत- षामारोहावरोहौ तद्गतिदर्शनात् ॥ २ ॥ स्मरन्ति च ॥३॥ अपि च सप्त ॥४॥ तत्रापि च तद् व्यापारादविरोधः॥५॥ इष्टादिकारिणश्चन्द्रमसं • गच्छन्तीत्युक्तं तत्रीच्यते । नेष्टादिकारिण एव चन्द्रमसं गच्छन्तीति नियमः । अनिष्टादिकारिणामपि चैतच्चन्द्रमण्डल- गमनं श्रुतम् । “ये वैके चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति' कौषीतकिश्रुतेः ॥ प्रत्यवरोहे पुनर्जायमानानां देहारम्भोऽपि ললিতা चन्द्रप्राप्तिमवकल्पते । पञ्चम्यामाहुतावित्याहुतिसंख्यानियमात् । तस्मात् सः एव चन्द्रमसमधिरोहन्तीत्यवधेयम् । इष्टादिकारिणामितरेषां च समाना गतिर- युक्तति चेन्न । इतरेषां चन्द्रमण्डले भोगाभावात् ॥ ६ ॥ इतरेषां नारकिनां चन्द्रमण्डलं प्रत्यारोहावरोहौ तु संयमने नाम यमालये स्वदुष्कृतानुरूपा या- मौर्यातना अनूभूय पश्चाद् भवतः । “नसांपरायः प्रतिभाति बालं. प्रभाद्यन्तं वित्तमोहेन मूढम् ॥ अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमादय- ते मे ॥ वैवस्वतं संगमनं जनानामित्यादि श्रुतिजातैः संयमने गतिदर्श- नात् ॥ २॥ स्मरन्ति च मनुव्यासप्रभृतयो नाचिकेतोपाख्यानादिष्ठ संयमने लोके कपूयचारित्र्यवतां गमनम् ॥ ३॥ अपि च सप्त नरका रौरवप्रमुखाः स्मर्य्यन्ते ॥४॥ तत्रापि च यमस्यैव व्यापाराभ्युपगमात् संयमनानतिरिक्तत्वमेवास्तीत्यविरोधः ॥ ५ ॥ तस्मात् सर्व एव चन्द्रमसं गच्छन्तोति नियमात् कपूयचरणानामपि संयमनौ- गमनोत्तरं चन्द्रलोकोपस्थानात् ततोऽ-वरोह इति सिद्धम् ॥ ६ ॥ ॥ इति नरकारोहावरोहाधिकरणम् ॥ ३ ॥ आरोहावरोहाभावस्थानाधिकरणम् ॥४॥ ४-विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १॥ न तृतीये तथोप- लब्धः॥२॥ स्मयं तेऽपि च लोके ॥३॥ दर्शनाच॥४॥ तृतीयशब्दावरोधःसंशोकजस्य ॥ ५॥ इदं त्ववधेयम् ॥ सर्वे चन्द्रमसं गच्छन्तीत्यत्र सर्वशब्दो विद्याकर्मणोरेवाधि- काराभिप्रायेण नेयो नत्वविशेषेण । तयोरेव देवयानपितृयाणाख्यमार्गद्वयप्रसङ्ग प्रकृतत्वात् ॥ तस्माद् विद्यावशाद देवयानमिष्टादिकर्मवशादितरकर्मवशाद्वा पितृयाणं पन्थानमारुह्यास्माल्लोकात् प्रयन्त एव ल। चन्द्रमसं गच्छन्तीति नियमः क्रियते ॥ १ ॥न तृतीय स्थाने सतामपि तथा चन्द्रगतिः प्रतिज्ञायते । अथैतयोःपथोर्न कतरेण च न । तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व नियस्वेत्येतत् तृतीय स्थानं तेनासौ लोको न संपूर्यते" इति हि विद्या कर्मोभयव्यतिरेकेण क्षुद्रजन्तुलक्षणं तृतीय स्थानमाख्यायते । ततेषां विनैवारोहावरोहौ विनैव च पञ्चाहुतिक्रमं पुनः पुनः शरीर- मुपलभ्यते ॥ इहैव च तेपामुपलब्धेश्चन्द्राधिरोहणं पञ्चाहुतिक्रमश्चैषां शरीरा- रम्भाय नास्ति ॥ २ ॥ अथ व्याख्यान्तरम् ॥ तद्य, इत्थं विदुर्ये चेमेऽरण्ये श्रद्धां तप इत्युपासते । अथ य इमे ग्रामे इष्टापूर्त दत्तमित्युपासते इति श्रुतिभ्यां विद्यापुण्यकर्मणोरेव तु देवयानपितृयाणयोः पथोः प्रकृतत्वात् चन्द्रलोकपापकत्वनस्ति अतः केवलपापकर्मणा चन्द्रगमनं नास्ति । भूलोका- दूर्व प्रयतां मार्गद्वयारूढानामेव हि चन्द्रलोकगमनस्य कौषीतकिश्रुति- सिद्धत्वात् । ननु चन्द्रलोकगमनं विना पञ्चाहुत्यसंभवाहारम्भो, न स्यात् इति चेन्न । तृतीये तथोपलब्धेः क्षुद्रजन्तुषु पश्चाहुतिक्रमं विनैव देहारम्भोपलब्धेः पापकर्मणा देहारम्भे पञ्चाहुत्यपेक्षा नास्ति ॥२॥ स्मर्य्यते अपि च लोके पञ्चाहुति- ब्यतिरेकेणापि शरीरलाभः ॥ द्रोणधृष्टद्युन्नद्रौपदीसीताप्रभृतीनाम योनिज- शरीरस्मरणात् ॥ तत्र द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति धृष्टद्युन्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः । यहाहुतिसंख्यानादरस्तथा- न्यपिसंभवति ॥ ३॥ बलाकाप्यन्तरेणैवरेतःसेकं गर्भ धत्ते इति लोके रूढिः ।
जीर्णदारुषूदुम्वरवदादिफलेषु च घुणादिकृमीणामयोनिजशरीराणि दृश्यन्ते लोके । चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिजलक्षणे च स्वेदजो- द्भिजयोरतरेणैव ग्राम्यधर्मशरीरलाभादाहुतिसंख्यानादरो दृश्यते ॥ एव- भन्यत्रापीति तृतीयं स्थानं द्रष्टव्यम् ॥ ४ ॥ “अण्डजं जीवजमुद्भिजमिति" इति • त्रिविध एव भूतग्रामः श्रूयते न त्वसौ स्वेदजोपीति चेत् तत्रोच्यते । संशोकजस्यैतस्य स्वेदजस्य तृतीयेनोद्भिजशब्देन तत्रोपसंग्रहो द्रष्टव्यः। तस्योदकोद्भेदप्रभवतयोद्भिजत्वविचक्षणात् । स्थावरोद्भेदाद्विलक्षणो जङ्गमो- द्भेद इति दृष्ट्या त्वन्यत्र भेदवादः । तथा च विद्याकर्मानधिकारिक्षुद्रजन्तु- व्यतिरिक्तानां देवयानपितृयाणाभ्यामारोहतां सर्वेषां चन्द्रगमनं ततोऽवरोहणं चेति सिद्धम् ॥ ५॥ इत्यारोहावरोहाभावस्थानाधिकरणम् ॥ ४॥ अवरोहणमार्गक्रमाधिकरणम् ॥५॥ ५-साभाव्यापत्तिरुपपत्तेः ॥१॥नातिचिरेण विशेषात् ॥२॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ३ ॥ अशुद्धमिति चेन्न शब्दात् ॥४॥ रेतः सिगयोगोऽथ ॥५॥ योने- शरीरम्॥६॥ अथ चन्द्रात् प्रत्यवरोहे प्राग व्रीह्यादि प्रतिपत्तेरवरोहप्रकारः परीक्ष्यते "अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्-आकाशमाकाशाद् वायुं वायुभूत्वा धूमो भवति धूमो भूत्वा अद्भभवति, अभ्रभूत्वा मेघो भवति, मेघो भूत्वाप्रवर्षति" इत्य वरोहक्रमः श्रूयते । तत्र संशयः । किमाकाशादिस्वरूपं प्रतिपद्यन्ते आकाशादि- साम्यं वेति । तत्रोच्यते । आकाशादिसाम्यापत्तिद्रष्टव्या । तथैवोपपत्तः । चन्द्रमण्डले यदम्मयं शरीरमुपभोगार्थमारब्धं तदुपभोगक्षये सति प्रविलीय- मानं सूक्ष्ममाकाशसमं भवति । ततो वायोर्वशमेति. ततो धूमादिभिः संसृज्यते इति संभवति । आकाशादिस्वरूपप्रतिपत्तौ तु वाय्वादिक्रमेणावरोहो नोपपद्यते ॥ ६॥ तत्र चाकाशावायुधूमाभ्रमेघवर्षभावेषु किं दीर्घ दीर्घ कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरोत्तरसादृश्यं गच्छन्ति उताल्पमल्पमिति संशय नियमयति । नातिचिरेणैव कालेनाकाशादिभावैः परिवर्तमानः सवर्षधाराभिः सहेमां भुवमापतन्ति न तु चिरं तत्तद्भावे उपतिष्ठन्ते । “अतो वै खलु दुर्निष्पपतरम्" इति ब्रीह्यादिभावे विशेषाख्यानात् । दुनिषपतरं दुनिष्कमतरम् । दुःखतरं ह्यस्माद् ब्रीह्यादिभावानिःसरणं भवतीत्येवं तन्द्रावा- । ।
( 8 )
निःसरणे दुःखं प्रदर्शयन् ततः पूर्वेष्वाकाशादिषु सुखनिःसरणं दर्शयति ।
सुखदुःखताविशेषश्वायं निष्प्रपतनस्य कालाल्पत्त्वदीर्घत्वनिमित्तः ॥ तथा च
वीद्यादिभावापत्तः प्रागल्पेनैव कालेनावरोह इति सिद्धम् ॥२॥
अथेतस्मिन्नेवावरोह प्रवर्षणानन्तरं पठ्यते "त इह व्रीहियवा ओषधि-
वनस्पतयस्तिलमाषा इति जायन्ते' तत्र यथा मनुष्यादयो योनिविशेषाः
कर्मभोगानुकूलशरीरग्राहिणो भवन्ति । तथैते ब्रीह्यादयोपि योनिविशेषा इष्यन्ते
“योनिमन्ये प्रपद्यन्ते शरीरस्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथा
श्रुतम्" इति कठश्रुतेः । “शरीरजै : कर्मदोपैयति स्थावरतां नर" इत्यादि स्मृतेश्च
तथावगमात् । तेन संशयः । किमस्मिन्नेवावधौ स्थावरसुखदुःखानुकूलकानु-
रोधादिमे ब्रीह्यादिस्थावरजातात्पद्यन्ते अथवा क्षेत्रज्ञान्तराधिष्ठितेषु व्रीह्यादि-
स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तोति । तत्रस्थावरभावस्य श्रुतिस्मृत्योरुपभोगस्था-
नत्त्वसिद्धराद्यः पक्ष एवं प्राप्नोति । इष्टादिकम्र्मजातस्य पशुहिंसादियगोदनिष्ट-
फलत्वोपपत्तस्तन्फलभोगार्थ पूर्वमेषां ब्रीह्यादियोनिसंस्त्रवस्य युक्तत्वाच्च ।
यथा श्वयोनि वा शूकरयोनि वा चण्डालयोनि वेति मुख्यमेवानुशयिनां श्वादिजन्म
तत्सुखदुःखान्वितं भवति तथैव ब्रोह्यादिजन्मापौत्येवं प्राप्ते उच्यते ॥ अन्य वैरधि-
ष्ठिोधु ब्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपयन्त न तु तत्सुखदुःखभाजो भवन्ति ।
पूर्ववत् । यथा वायुथूमादिभावोऽनुशयिनां तसंश्लेषमानं तथा बौह्यादिभावो
ऽपि जातिस्थावरैः संश्लेपमात्रम् ॥ वायुयूमादिपूर्ववदेवैषां ब्रीह्यादीनामपि रमणीय-
चरणाः कपूयचरणा इत्यादिरूपेण कर्मव्यापारपरामर्श विनैवामिलापात्॥
तस्नादन्यजोवैरुपभोगस्थानतयाधिष्ठितेषु बाह्यादिष्वेषामनुशयिनां चन्द्रादवतरतां
संसर्गमानं भवतीति सिद्धम् ॥३॥
ननु पशुहिंसादियोगादावरिकं कर्मजातमशुद्धमस्ति ततस्तत्संबन्धादवतरतां
मार्गे व्रीह्यादिभावेनानिष्टफलानुपङ्गः संभाव्यते इति चेन्न । कर्मणः शुद्धत्वा-
शुद्धत्वयोर्विज्ञानस्य शब्दादेव विशेयत्वात् ॥ शब्दात्तु वेदशास्त्रात् पशुहिंसायुक्त-
मध्वरकोपदिश्यते ततो विशुद्धं भवितुमर्हति । ननु मा हिंस्यात् सर्वा भूता-
नीति शास्त्रमेवैतां भूतविषयां हिंसामधर्म बोधयति इति चेत्सत्यम् । अयज्ञियहिंसाया
एवैतेनोत्सर्गतः प्रतिषेधात् । तदपवादेन चालीषोमीयं पशुमालभेतेति शास्त्रं
याज्ञिकहिंसाया धर्मत्वं प्रत्याययति । येन सामान्यहिंसाया अधर्मत्वं प्रत्याय्यते
तेनैव यज्ञादिविशिष्टहिंसाया धर्मत्वमुच्यते । तत्राधर्मत्वाख्याने तत्प्रमाणं धर्मत्वा-
ख्याने स्वप्रमाणामित्य ईजरतीयमन्याय्यम् ॥ न हि हिंसामात्रमेकाकान्ततोऽशुद्धमे--
वास्तीत्यत्र किञ्चित्प्रमाणमस्ति । न हि वधदायान् दण्डयन् राजा किल्विषी
भवति । तस्माद् व्यवस्थितविषये हिंसायाः शुद्धत्वाशुद्धत्वे शास्त्रप्रामाण्यादवतिष्ठते
इति शब्दाद् यहिंसाया नाशुद्धत्वम् ॥ तस्माच्चन्द्रस्थलात् स्खलितानामनुश-
यिनां ब्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते न तु तत्रैषां मुख्यं जन्मैव
भवति॥४॥
(१०) अत एवैषामनन्तरमेव रेतःसिग योग आनायते । "यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भय एव भवतीति" ॥ तत्र रसामृगादिक्रमेण ब्रीह्यादिभुक्तानपरिणामे रेतसि तेषां संश्लेषमात्रं वक्तव्यम् रेतसो ब्रोह्यादिवद् भोगायतनत्वाभावात् ॥ ५ ॥ रेतः सिगयोगानन्तरं च योनौ निषिक्त रेतसि योनेरधि तेषां शरीरं फल- भोगायोपपद्यते । शरीरं केवलमेषां कर्मफलभोगाधिष्ठानं भवति । ततः प्राक्तनास्वेषां व्रीह्याद्यन्नरसरतोभावानुपष्टम्भकमात्रतया प्रत्येतव्याः॥ ६॥ इत्यवरोहणमार्गक्रमाविकरणम् ॥५॥ ॥१॥ इति जीवात्मनो मृत्युजन्मावस्था- लक्षणाधिकारः। (प्रेत्यभावपादः) इति जीवलक्षणाध्याये तृतीये मृत्युजन्मपादः प्रथमः पूर्णः १ शारीरकस्य स्वप्नाद्यवस्थात्रयाधिकारः॥२॥ १-सन्ध्ये सृष्टिराह हि ॥ १॥ निर्मातारं चैके पुत्रादयश्च ॥२॥ मायामात्रं तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ सूचकञ्च हि श्रुतेराचक्षते तद्धिदः ॥४॥ पराभिध्याना- तु तिरोहितं ततो ह्यस्य बन्धविपर्यायौ ॥ ५॥ देहयोगा- दासोऽपि ॥६॥ प्रथमे पादे जीवस्य मृत्युजन्मरूपे द्वे अवस्थे उक्त। अथ स्वप्नावस्थाभेदान् दर्शयितु द्वितीयः पाद आरभ्यते-प्रबोधसंप्रसादयोः सन्धौ भवतीति सन्ध्यं तृतीयं स्वप्नस्थानम् ॥ तत्रैषा सृष्टिः पारमार्थिको संभाव्यते । आह हि तथा श्रुतिः- "न तत्र रथा न रथयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान् पथः सृजते' इति ॥१॥ अपि चैके शाखिनोऽस्मिन् सन्ध्ये स्थाने कामानां निर्मातारमात्मानमा- मनन्ति--“य एष सुप्तेषु जागर्ति कामं पुरुषो निर्मिमाणः” इति । पुत्रादयश्च तत्र कामा अभिप्रेयन्ते- “शतायुषः पुत्रपौत्रानं वृणीष्वेति प्रकृब्यान्ते-कामा- नां त्वा कामभाजं करोमीत्येवं प्रकृतेषु पुत्रादिष्वेव कामशब्दस्य प्रयुक्तत्वात् ॥२॥ अथवा मायामानं स्वप्तस्थानम् । सृष्टिश्चैषा स्वप्ने मायामयी न तु पारमार्थिकी कायनानभिव्यक्तस्वरूपत्वात् ॥ देशकालनिमित्तसंपत्तिरबाधश्च काय॑म् । न च तस्वप्ने पश्यामः । न तावदिह रथादीनामुचितो देशः संभवति । संवृत्तेऽ- स्मिन् देहदेशे रथादीनामवकाशालाभात् । कालविसंवादोपि स्वप्ने भवति रजायां सुनो वासरं कदाचिन् मन्यते। मुहूर्त्तमात्रप्रवत्तिनि वा स्वप्ने कदाचिद्वहून् वर्ष- पूगानतिवाहयति । निमितान्यपि स्वप्ने ज्ञानाय कर्मणे वा नोचितानि विद्यन्ते । चक्षुरादिकरणानां तत्रोपसंहारात् । निमेषमात्रेण वा रथादिनिर्वतने स्वमद्रष्टुः पुसो दारुणो वा सामर्थ्य नोपपद्यते ! वाध्यन्ते चैते रथादयः स्वप्नाटयः प्रबोधे । स्वप्न एव वा ते सुलभबाधा भवन्ति । रथोऽयमिति कदाचित्स्व निर्धारितः क्षणेन मनुष्यः संपद्यते । मनुष्योऽयमिति वा निर्धारितः क्षणेन वृक्षः । तस्मा मायामात्र स्वप्नदर्शनम् ॥ ३॥ यत्तु केचिदाहुः-“वहिः कुलायादमृतश्चरित्वा स ईयते अमृतो यत्र कामम्" । इति. श्रुतेः, स्थितिगतिप्रत्ययभेदानां शरीरादनिष्कान्ते जन्तासंभवाच्च बहि ( १२ ) देहान्निष्कान्तः स्वप्नं पश्यतीति । तन्न । सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरित- देशं पर्येतु विपातु वा सामार्थ्यासंभवात् । “कुरुष्वहं शय्यायां शयानो निद्रया- भिप्लुतः स्वमे पञ्चालानभिगतश्चास्मिन् प्रतिबुद्धश्चेति' श्रुतौ कुरुषु सुप्तस्य स्वप्ने पञ्चालगतस्य ततोऽप्रत्यावृत्तस्यैव कुरुष्वेवोद्बोधं दर्शयति । तस्मान्न स्वप्ने देहान्नि- क्रमण देशान्तरधावनं वा संभाव्यते । श्रुतिश्चान्तरेव देहे स्वप्नं दर्शयति “स यत्रै- तत् स्वप्नया चरति"-इत्युपकम्य "स्वशरीरे यथाकामं परिवर्तते-॥ इति॥ बहिः कुलायादमृत इति श्रुतिस्तु बहिरिव कुलायादित्येवमर्थपरतया नेया। बहि- रिव शरीरादेषां स्वानभावानां प्रतीतेः स्थितिगतिप्रत्ययभेदा अप्येते विप्रलम्भा एव स्युः । तस्मान्मायामात्रमेवैतत् स्वादर्शनमिति निष्कर्षः ॥४॥ मायामात्रत्वेऽप्ययं स्वप्नो भविष्यतोः साध्वसाधुनोः सूचको भवति ।-"यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्न- निदर्शने" ॥ “पुरुषं कृष्णं कृष्णदन्तं पश्यति स एतं हन्ति" इत्यादि श्रुतेः । आचक्षते च स्वप्नाध्यायविदः-कुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्य- धन्थानीति । मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित् स्वप्ना भविष्यतः सत्यार्थस्य सूचका भवन्ति । तत्र सूचितस्यार्थस्य सत्यत्वेऽपि सूचकस्य स्वातभावस्य माया- मात्रत्वमद्यपि न प्रत्याहियते । तस्मादुपपन्नं स्वास्य मायामात्रत्वम् ॥ यत्तु निर्मातारमामनन्ति तदपि निर्मातृत्वमिह जीवस्य द्रष्टव्यं न तु जाग्रदर्थनिर्मा- तुरीश्वरस्य । “स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति" इति जीवव्यापारश्रवणात् ॥ यद्यपि “तदन्यत्वमारम्भणशब्दादिभ्य इति सूत्रे जाग्रदर्थानामपि स्वप्नवदेव मिथ्यात्वमाख्यातम् । तथापि जाग्रदर्थानामौश्वर- मायालुतत्वं व्यवस्थितत्वं चास्ति स्वाप्नभावानां तु जीवमायाक्लप्तत्वमव्यवस्थितत्वं चेति विशेषः । ननु स्वाप्नसृष्टौ जीवस्वातन्त्र्यै जीवभयाधुत्पादकानिष्टस्वप्ना नो- परन् ॥ स्वानिष्टार्थ जीवसंकल्पासंभवादिति चेन्नैषा जीवसांकल्पिकी सृष्टिः। किन्तु पुण्यापुण्यकर्मसंयोगोपस्थापितसामग्रीसहकृतजीवव्यापारजन्यास्ती यतः शुभा- शुभसूचकाः कर्मोपस्थापिताः स्वप्ना जायन्ते । सर्वेश्वरत्वादीश्वरव्यापारी जीवन्यापारपि समुच्चीयते इति चेदेवमपि जीवसृष्टीश्वरसृष्ट्योः पार्थक्येन व्यपदेशो न विरुध्यते । साक्षात्परम्पराभ्यां भेदव्यवहारोपपत्तरिति दिक। रामानुजस्तु स्वामभावानामाश्चर्य्यमयतया जीवशुभाशुभसूचकतया चेश्वरसंकल्पजत्वमभ्युपेत्य जीवव्यापारजन्यत्वं निराचष्टे तच्छृतिविरुद्धम् । श्रुतौ प्रत्यक्ष जोवव्यापारश्रवणात् ॥ ४॥ ननु विस्फुलिङ्गोऽग्नेरिव जीवोयमीश्वरांश इति विस्फुलिङ्गान्योर्दहनप्रकाशनशक्ती इवैतयोर्जीवेश्वरयोनिश्वर्यशक्ती अपि समाने स्याताम् । ततश्च स्वाप्नसृष्टेर्जीवव्यापाराधीनाया अपीश्वराधीनजाग्रत्सृष्टे- रिव व्यवस्थितसत्ताकत्वं कुतो नास्तीति चेत् तत्रोच्यते । ईश्वरसमानधर्मत्वं जीवे सदपि तिरोहितमविद्याव्यवधानादस्ति ॥ परस्य परमेश्वरस्याभिध्यानात्तु तिरोहितं तत्कस्यचिदेवाविर्भवति। न स्वभावत एव सर्वेषां जन्तूनाम् । ततो नापातः ( १३ ) हि तिरोधानाविर्भावाभ्यामस्य जीवस्य बन्धमोक्षौ भवतः ॥ तथा च श्रूयते-- ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ॥ तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वयं केवल आन कामः इति ॥ ५ ॥ सोपि जीवस्य ज्ञानेश्वयंतिरोभावो देहयोगाद् भवति । देहयोगाद्धि ज्ञानकर्मेन्द्रियमनोबुद्विविषयवेदनादियोगो यथाग्नदहनप्रकाशन- संपन्नस्याप्यरणिगतस्य भस्माच्छन्नस्य वा दहनप्रकाशने तिरोभवतः । एवम- विद्याधुपाधियोगाजीवस्य ज्ञानेश्वयंतिरोभावः । वा शब्दो जीवेश्वरयोरन्यत्त्वा- शङकान्यावृत्यर्थः ॥६॥ रामानुजस्विमे सूत्रे अन्यथा व्याचष्टे । पराभिध्यानादीश्वरसंकल्पादस्य जीवस्य स्वाभाविक रूपं तिरोहितम् । ततस्तत्संकल्पादेव ह्यस्य जीवस्य बन्धमोक्षी भवतः" यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विदते अथ सोऽभयं गतो भवति यदा ह्येवैष एतस्मिन्नुदमन्तरं कुरुते अथ तस्य भयं भवति एष ह्येवानन्दयाति ॥ इति श्रुतेः ॥ ५ ॥ देहावस्थेनाचिद्वस्तुना योगाद्वा तिरोभावी द्रष्टव्यः ॥ चिचिदीश्वरास्त्रितत्वस् ॥ अचितो योगाच्चितो जीवस्य कालुष्य- मुत्पद्यते ॥६॥ इति स्वप्नावस्थाधिकरणम् ॥१॥ सुषुप्त्यवस्थाधिकरणम् ॥ २॥ २-तदभावो नाडीषु तच्छुतेरात्मनि च ॥ १ ॥ अतः प्रबोधोऽ- स्मात् ॥ २ ॥ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ३ ॥ अथ सुषुप्तावस्था परीक्ष्यते । तत्रैतस्य जोवस्य हि तासु नाडीष्ववस्थान क्वचिच्छूतौ श्रूयते । “तद् यत्रैत सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति । आसु तदा नाडोषु मृतो भवति" इति । क्वचित श्रुतौ पुरीतत्यवस्थानं श्रूयते- "ताभिः प्रत्यवसृप्य पुरीतति शेते-" इति । क्वचिद्वा ब्रह्मण्यवस्थानं श्रूयते-“य एषोन्तह ये आकाशस्तस्मिन्छेने-” इति ॥ “सता सौम्य तदा संपन्नो भवति स्वमपोतो भवति" इति च । तालु तदा भवति यदा लुप्तः स्वा न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवतीति" । अन्यत्रायतनमलंध्या प्राण- मेवोपश्रयते” इति च । ततो न निर्धार्यते कुत्रावस्थानं भवतीति तत्रोच्यते । तदभावो नाडीवात्मनि चेति । तदभावः स्वप्नाभावः सुषुप्तम् । स च सुषुप्तिभावो नाड्यां पुरोततिब्रह्मणि चसमुच्चन द्रष्टव्यः । तेषां त्रयाणामप्यविशेषेण श्रुतेः। नगरे शेने प्रासादे शेतेपर्यळे शेते इत्यादिवत् संभवति समुच्चये विकल्पायोगात् । पुरी- तदिति हृदयपरिवेष्टनमुच्यते । तदन्तर्वर्तिनि हृदयाकाशे शयानः शक्यते पुरोतति शेते ( १४ ) इति वक्तुम् । प्राकारपरिक्षिप्ते पुरे वर्तमानः प्राकारे वर्तते इतिवत्॥ ताभिःप्रत्यवसृप्य पुरीतति शेते इत्येकवाक्योपादानानाडीपुरीतत्समुच्चयोऽप्यवगम्यते ॥ एण्वपि त्रिषु ब्रह्मैव मुख्यं सुषुप्तिस्थानं द्रष्टव्यम् ॥ यत्तु सुषुप्तिकाले विषयानभिव्यक्ति- कारणमुक्तम् “अतस्तं न कश्चन पाप्मा स्पृशति । तेजसा हि तदा संपन्नो भवतीति तत्र तेजसा नाडीगतेन पित्ताख्येनाभिव्याप्तकरणो न बाह्यान् विषया- नीक्षते इति । तदेतद् ब्रह्मपक्षे पि घटते । “ब्रह्मैव तेजः' इति तेजःशब्दस्य ब्रह्मणि प्रयुक्त वात् अपहतपाप्मा ह्यष ब्रह्मलोकः" इति श्रुतेर्ब्रह्मसंपत्ति- रपि पाप्मस्पर्शाभावे हेतुरुपपद्यते ॥ जीवस्य तदानी ब्रह्मणि संपन्नत्वात् ।। ब्रह्मण- श्च सर्वपाप्मनिवर्तकत्वादशेषविशेषविज्ञानोपशमलक्षणं सुषुप्तं संपद्यते । तस्माद द्वारमा नाड्यः पुरीतच्च । ब्रह्मैव त्वेकमनपायि सुप्तिस्थानम् ॥ १ ॥ 'यथाग्नेः क्षुद्रा अतएव कारणात् "कुत एतदागादिति प्रश्नप्रतिवचने विस्फुलिङ्गा व्युच्चरन्ति एवमेवैतस्मादात्मनः सर्वे प्राणाः" इत्यादिनानित्य- मस्मादात्मन एव पुनः प्रबोधः स्वापाधिकारे शिष्यते ॥ तस्मादात्मैव सुप्तिस्थानम् ॥२॥ नन्वेवं सुषुप्तिकाले परमात्मनैकरवं प्राप्तोऽयं जीवात्मा यदा पुनः प्रतिबुध्यते तदानीं स प्राक्तन एव जीवोऽविकलं पुनः प्रत्यावर्तते आहोस्वित् ततोऽन्यः प्रादुर्भवतीति जिज्ञासा भवति । यथाहि जलराशौ प्रक्षिप्तो जलबिन्दुर्जलराशी विलीयते ततः पुनरुद्धरणे स एव जलबिन्दुर्बहिर्भवेदिति दुःसंपादम् । एवमिहापि सुप्तः परेणैकत्वमापन्नः संप्रसीदति न स एव पुनरुत्थातुमर्हति । ततोऽन्यः कश्चिदीश्वरभागो जोवरूपेण प्रतिवुध्यते इत्येवं प्राप्ते ब्रूमः । स एव तूत्तिष्ठ- तीति कानुस्मृतिशब्दविधिभ्यो विजानीमः ॥ पूर्वेधुरनुष्ठितस्य कर्मणोऽपरेशुः शेषानुष्ठानाय कृतपरिकरो भवति ॥ न चान्न साभिकृतस्य कर्मणः शेपक्रियाया- मन्यः स्वकृतत्वाभिमानेन प्रवर्तेत ॥ अनुस्मरति चातीतेऽहनि दृष्टमर्थमुत्तरेयुः पूर्वानुभूतत्वेन । तच्चान्यस्योत्थाने नोपपद्यते । अन्यदृष्टस्यान्येनानुस्मर- णायोगात् । सोऽहमस्मीति चात्मानुस्मरणमातरोत्थाने नावकल्पते । शब्देभ्यश्च तस्यैवोत्थानमवगम्यते । तथाहि " पुनःप्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव "इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दति” । “त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति “इत्येवमादयः शब्दाः स्वापप्रबोधाधिकारे पठिता नामान्त- रोत्थाने सामञ्जस्यमीयुः कर्म विद्या विधिश्वैवं गम्यते । अन्योत्थानपक्षे तु सुषुप्त- मात्रो मुच्येतेति कर्मविद्याविधयोऽनर्थकाः स्युः । तस्मात् स एवोत्तिष्ठति नान्यः ॥ यत्तु जलराशौ प्रक्षिप्तो जलविन्दुर्नोद्धर्तुं शक्यते इत्युक्तं, तच्च तत्र विवेककारणाभावायुज्यते ॥ इह तु विद्यते विवेककारणं कर्म च विद्या चेति भिन्नकर्मविद्योपाधिको जीवः सुषुप्तिकाले विषयवासनाराहित्याद्विशुद्धः सति संपन्नोऽप्युपाधेरनिर्मोकात् तदुपाधिकस्य तजीवत्वात् स एव जीवः प्रतिबुद्धयते इति सुषुप्त्यवस्था हि करणम् ॥२॥ .
( १५ )
मुग्धेर्द्धसंपत्तिः परिशेषात् ॥ ३॥
नान्यान्
Hor
मुग्धावस्था परीक्ष्यते । मुग्धो मूर्छितः । तिस्रस्तावदवस्था जोवस्य
प्रसिद्धाः जागरितं स्वप्नः सुषुप्तमिति । चतुर्थीयमन्या मूर्धावस्था । पञ्चमीयमन्या
शरीरादपसृत्तिः। षष्ठी मुक्तिः । तत्र मुग्धोऽयं जागरिते स्वप्ने सुषुप्तौ वा मृत्यौ
वाऽन्तर्भाव्य इति केचिदाक्षिपन्ति । यथाहीषुकारो जाग्रदपीष्वासक्तमनस्तया
विषयानीक्षते एवं मुग्धो मुशलसंपातादिजनितदुःखानुभव-
व्यन्त्रमनस्तया जाग्रदपि नान्यान् विषयानीक्षते इति । तत्प्रत्याक्षेप्यम् । वैषम्यात् ।
चेतयमानस्येषुकारस्थेषूपलब्धिवच्चेतनाविकलस्य मुग्धस्यान्धे तमसि प्रक्षिप्तस्य
विषयानुपलब्धेः । एकविषयासक्तचेतसोऽपि जाग्रतो देहो विध्रियते । मुग्धस्य
तु देहः क्षितौ पतति । तस्मान्मुग्धो न जागर्तीति प्रतीमः । नाप्ययं स्वप्नान्
पश्यति, निःसंशत्वात् नापि सुषुनः । वैषम्यात् । सुषुप्तो हि प्रसन्न-
वदनस्तुल्यकालमुच्छ्वसिति, निमीलिते अस्य नेत्र भवतो, न चास्यदेहो वेपते ।
मुग्धस्तु कदाचिच्चिरं नोच्छ्वसिति देहश्चास्य सवेपथुर्भवति । भयानकं च
वदनं, विस्फारिते नेत्र ॥ अपि च पाणिपेषणमात्रेण सुषुप्तमुत्थापयन्ति न
तु मुग्धं मुद्रघातेनापि ॥ मुसलसंपातादिनिमित्तो मोहः, श्रमनिमित्तः स्वाप
इत्येवं निमित्तभेदश्च भवति मोहस्वापयोः । तस्मान्मुग्धं न सुषुप्तं प्रतीमः
नाप्ययं मृतः । प्राणोष्मणीर्भावात् यावता हृदयदेशालम्भनेन शरीरोष्माणं नासिका-
देशे च श्वासं प्रतिपद्यते तावन्नायं मृत इत्यध्यवस्यन्ति । तस्मात् परिशेषादर्धसंपत्ति
मुग्धे भवतीत्यवगच्छामः । सुषुप्तौ तावत् प्राणोषमणोापारो जाग्रतौवात्युल्वणः
प्रतिभाति । मृत्यौ पुनः स नितरां परिहीयते । इह तु मुग्धे सविद्यमानोऽप्यति-
मान्द्यादनुल्वण इत्यर्द्धसंपत्तिः । अतएवेदमवस्थान्तरम् ॥३॥
॥
तथा चार्य शारीरको जावात्मा जन्ममृत्युलक्षणः स्वप्नाद्यवस्थालक्षणश्च प्रतिपत्तव्यः इति सिद्धम् ।।
॥ इति मुग्धावस्थाधिकरणम् ॥३॥
॥०॥ इति जीवात्मनः स्वमाद्यवस्थात्रयलक्षणाधिकारः॥२॥
अथ जीव-पर-भेदाभेदलक्षणाधिकारः ३ परस्यात्मनः स्वप्नाद्यवस्थाभेदाभावः १ । १-न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि ॥१॥न भेदा- दिति चेन्न प्रत्येकमतद्वचनात् ॥२॥ अपिचैवमेके ॥३॥ अरूपवदेव हि तत्प्रधानत्वात् ॥४॥ इत्थं जीवस्य स्वप्नसुषुप्तिमूविस्था निरूपिताः । अतः परं मुक्तयवस्था दर्शयितव्या । तत्र मुक्तौ जीवस्य परेणैकोभावो भवतीति परस्वरूपमेवास्य जीवस्य स्वं रूपं संपद्यते । यद्यपि सुषुप्तावपि परेणैकीभावः पूर्व व्याख्यातस्तथापि तत्र यः स्वपिति स एव प्रतिबुध्यते इति दर्शनाद्-जोवे कर्मविधयोर्वासनाया मुक्तिर्ना- स्तीति गम्यते । अतएव तत्र न परेणास्य जीवस्य सर्वात्मनक्यं भवति । इह तु मुक्तौ सर्वकषायविनिमुक्तया सर्वात्मना परेणैक्यं संपाते । तस्मात् तत्र परस्व- रूपमेवास्य जोवस्थ रूपमस्ती यतस्तस्य परस्येदानी स्वरूपं परीक्ष्यते । अयं ताव जीवात्मा त्रिलिङ्गो व्याख्यातः । तथाहि कतम आत्मेति, योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः । स समानः सन्नुभौ लोकावनुसंचरति । ध्यायतीव- लेलायतीव । स हि स्वप्तो भूत्वेमं लोकमतिकामति मृत्यो रूपाणि । स वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः पाद्मभिः संसृज्यते । स उत्क्रामन् नियमाणः पाप्मनो विजहाति । तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोक- स्थानं च । संध्यं तृतीयं स्वास्थानम् । तस्मिन् संध्ये स्थाने तिष्ठनेते उभे स्थाने पश्यतीदं च परलोकस्थानं च । स यत्र प्रस्वपिति अस्यलोकस्य सर्वावतो मात्रा मपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति । पुरुषः स्वयं ज्योतिर्भवति । अथो खल्वाहुः-जागरित देश एवास्यैष इति । यानि ह्येव जाग्रत् पश्यति तानि सुप्त इति । स वा एष एतस्मिन् संप्रसादेरत्वा चरित्वा द्रवति स्वप्नायैव । स यत्तत्र किञ्चित् पश्यति, अनन्वागतस्तेन भवति । असङ्गो ह्ययं पुरुष इति । स वा एप एतस्मिन् स्वप्नरत्वा चरित्वा द्रवति बुद्धान्तायैव । स वा एष एतस्मिन् बुद्धान्तेरत्वा चरित्वा द्रवति स्वप्नांतायैव । एतावुभावन्ताव- नु संचरति स्वप्नान्तं च बुद्धान्तं च । तद्यथास्मिन्नाकाशे श्येनो विपरिपत्य श्रान्तः संहत्य पक्षी सल्लयायैव नियते एवमयं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति। सोऽस्य परमो लोकः । तद्वा अस्यैतदति छन्दा अपहतपाप्माऽभयं रूपम् । प्राज्ञेनात्मना संपरिष्वक्तो न वाहां किञ्चन वेद नान्तरम् । तद्वा अस्यैतदातकाममात्मकाममकामं रूपं शोकान्तरम् । सलिल एको द्रष्टाऽद्वैतो भवति एष ब्रह्मलोकः । एषास्य परमागतिः । एषास्य परमा संपत् । । .
एषोऽस्य परमो लोकः । एषोऽस्य परम आनन्द:-"इत्येवं श्रुतावस्य जीवात्मनस्त्री. णि स्थानान्युक्तानि । तत्र जागरितस्थाने सन्ध्यस्थाने चायं शरीरमभिसंपद्य- मानत्वात् पाप्मभिः संसृज्यते । पाप्मभिश्च संसर्गादयं सविशेष एव प्रतिपद्यते । तत्र जागरितस्थाने पञ्चज्योतिरयं पुरुषः पाप्मभिः संसर्गात् पुण्यं च पापं च तैयोतिर्भिरनुपश्यति । संध्यस्थाने स्वयं ज्योतिरयं पाप्मभिः संसृष्टत्वात् पुण्यं च पापं च स्वेन ज्योतिषानुपश्यति । अथैष तृतीये तु संप्रसादस्थाने गतो जागरित- स्वप्नयोर्विषयेरन्वागतः संग्रसन्नो निरञ्जनत्वान्निर्विशेषः संपद्यते । स तदानीं निर्विशेषेण परब्रह्मणा परमं साम्यमुपैति । अपहतपाप्मत्वाच्चायं प्रकाशमयो द्रष्टा तदानीं पश्यासंनिधानात् पश्यलपि न किञ्चित्पश्यति । तथा चेत्थं पञ्चज्योतिषा पुण्यपापद्रष्टत्वं जागरितलिङ्गं स्वयंज्योतिषा च पुण्यपापद्रष्टत्वं सन्ध्यलिङ्ग- मित्युभयविध जागरितस्थानीयसन्ध्यस्थानीयजीवपरिज्याप्तस्यास्य परात्मनस्तदुभयस्थानसंबन्धादपि नोपपद्यते तदुभयस्थानसम्बन्धादस्य शरीरिणो जीवात्मनो यथा पाप्मभिः संसर्गात् सविशेषत्वं जायते तथा जीवात्मनि- प्रस्य परस्य तदुभयस्थानतोपि सविशेषत्वं नास्ति । शरीरानभिमानात् । जागरितस्थाने वा सन्ध्यस्थान वा सुषुप्तस्थाने वा सर्वत्र हि परं निर्विशेषमेवैक- रसं प्रतिपत्तव्यम् । जीवस्योपाधियोगात् सविशेषत्वं तदुपाधिविगमे तु नैसर्गिकं निर्विशेषत्वमित्येवं यथा द्वैविध्यं भवति न तथास्थ वैविध्यं भवति । सर्वत्र हि निर्विशेषतयैवावस्थानात् ॥१॥ ननु नेदं परं सर्वत्रैकरूपं संभवति । सोमो ब्रह्म । अग्निब्रह्म । वायुर्ब्रह्म । आदित्यो ब्रह्म । मनो ब्रह्म । प्राणो ब्रह्म । वाग ब्रह्म-" इत्याद्यनेक- भेदसत्वादिति चेन्न । परब्रह्मणः सर्वत्र व्याप्तितया यथा जीवात्मनि संनिधानं तथा सोमाग्निवाय्वादित्यमनःप्राणवागादिषु संन्निहितस्य घटाकाशकुझ्याकाशा- दिवत् तत्तच्छन्दव्यपदेशेऽपि प्रत्येकमतद्चनान विशेषवत्ता संक्रमते । जागरित- स्वप्नादिस्थानकृती वा सोमान्निवाय्वादिस्वरूपकृतो वा भेदस्तच्छब्दन परामृश्यते । नास्मिन् परब्रह्मणि कदाचिजागरः कदाचित् स्वप्न इत्यवस्थाभेदः संभवति। अशरीर- त्वात् । अवस्थाभेदस्य च शरीरसम्बन्धनिबन्धनत्वात् । नाप्यत्र परब्रह्मणि सोमवा- ग्नित्ववायुत्वादिकृतो भेदः संभवति । भेदाभ्युपगमे सोमो ब्रह्माग्निब्रह्मत्येवमेपां सर्वेषामविशेषेणैकेन ब्रह्मशब्देन व्यवहारविरोधापत्तेः । तथा च व्यक्तिभेदेऽप्यभिन्ने- कजात्यनुगमवत् सोमाग्न्यादिभेदेऽपि तदनुगतस्य परब्रह्मणो निर्विशेषेकत्वोपपत्ति- द्रष्टव्या ॥२॥ अपि चैके आचार्य्याः स्पष्टमेवं भिन्नेष्वनुप्रविष्टमभिन्नमेकरूपं ब्रह्माहुः । "आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मेको छनेकस्थो जला- धारेष्विवांशुमान्-" इति । “यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्न बहुधैकोनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेवेवमजोऽयमात्मा- इति च ॥ ननु द्विविधं हीदं परं ब्रह्म श्रूयते रूपवच्चारूपवच्च । तत्र द्वे वाव ब्राह्मणो रूपे मूर्त चामूर्त चेत्यादयो रूपश्रुतयः । अशब्दमस्पर्शमरूपमव्ययमित्यादयस्वरूप- श्रुतयः । तथा चैते सोमाग्निवाय्वादित्यादयो विशेषधन्तोऽर्था अप्यस्यैव ब्रह्मणो रूपाणि स्युः । तेष्वनुगतं निर्विशेषं चाप्यस्यैव स्यादरूपं रूपम् । इति चेत् तत्रापि ब्रूमः-अरूपवदेव हि तनिर्विशेषं ब्रह्म प्रतिपत्तव्यम् । अरूपस्यैव ब्रह्मणः प्रधानत्वात् "ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुर मृतास्ते भवन्ति अथेतरे दुःखमेवा- पियन्ति ।" इत्यादिना तस्योत्तरतरत्वमितरेषां तु दुःखानुविधायित्वं दर्शयन्त्याः श्रुत्या नीरूपे निर्विशेषे ब्रह्मण्येव पक्षपातावगमात् ॥अधिकं त्वत्र ब्रह्मविज्ञानेद्रष्टव्यम्। ॥ इति परस्यात्मनः स्वमाद्यवस्थाभेदाभावाधिकरणम् ॥ परस्यात्मनो धमिधर्म-रूपद्वैविध्यम् ॥ २॥ २-प्रकाशवचावैयर्थ्यात् ॥ १ ॥ आह च तन्मात्रम् ॥ २॥ दर्श- यति चाथो अपि स्मयं ते ॥ ३॥ अतएव चोपमा सूर्यका- दिवत् ॥ ४॥ अम्बुवदग्रहणातुन तथात्वम् ॥ ५॥ वृद्धि- हासभाश्त्वमन्तर्भावादुमयसामञ्जस्यादेवम् ॥ ६ ॥ दर्श- नाच ॥७॥ पूर्वाधिकरणे परस्य ब्रह्मणोऽवस्थाभेदः प्रत्याख्यातः किन्तु तस्य धर्मरूपत्वं धमिरूपत्वं चेति वैविध्यं स्थापयितुमिदानीमधिकरणान्तरमारभ्यते । तत्रागन्तुक- धर्मप्रतिषेधात् सिद्धेऽपि निर्विशेषत्वे स्वमस्य परब्रह्मणः किं रूपमध्यवसेयमिति चिन्तायामुच्यते । “ सदेव सौम्येदमा आसीदित्याद्यनेकश्रुत्या तावत् सत्ता- बदस्य रूपमध्यवसीयते किन्तु नैतावदेवेदं ब्रह्मास्ति अपि तु प्रकाशवच्चेदं प्रति- पत्तव्यम् ।यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः" इत्यादि ज्ञानज्योतिर्बोधकवाक्या- नामवैयर्थ्यात् । “उपलक्षणमेतत् । आनन्दवच्चेदं प्रतिपत्तव्यम् । नित्यविज्ञान- मानन्दं ब्रह्मेत्यादि वाक्यानामवैयर्थ्यात् । एभिश्च वाक्यैरस्य ब्रह्मणः सत्तावत्वं चेतनावत्वमानन्दवत्वं प्रतीयते । किन्तु श्रुतिराह च तन्मात्रं ब्रह्म । सत्तामात्र चिन्मात्रमानन्दमानं चेति ॥ “शेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादि- मत्परं ब्रह्म न सत् तन्नासदुच्यते-” इति सदसद्धिलक्षणः सत्ताधनोवगम्यते । एवमन्यदेव तद्विदितादथो अविदितादधीति विदिताविदितविलक्षणो विज्ञानघनोऽव- गम्यते । रसो वै सः। रसं खेवायं लब्ध्वानन्दी भवतीति आनन्दघनो विवक्ष्यते । दर्शयति च श्रुतिरस्य प्रकाशवत्वं प्रकाशरूपत्वं च । “तमेव भान्तमनुभान्ति सर्वे तस्य भासा सर्वमिदं विभातीति प्रकाशवत्वम् । परंज्योतिरुपसंपद्य स्वेन रूपेणा- भिनिष्पद्यते । तं देवा ज्योतिषां ज्योतिरायु)पासतेऽवृतम् । यदतः परोदिवो ज्योति- दीप्यते इत्यादि व प्रकाशमानत्वम् । अपि च दर्शयति द्वैविध्यम्-" अस्तीति । ॥
ब्रुवतोऽन्यत्र कुतस्तदुपलभ्यते ।" विज्ञानं ब्रह्म चेद वेद तस्माच्वेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते" । “आनन्दाद्ध्येव हि खल्वि- मानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्त्यभिसंविशन्ती त्यादिभिर्निर्धर्मकं व्यपदिश्यते । असन्नेव स भवति असद् ब्रह्मेति वेद चेत् । अस्ति ब्रह्मति चेद्वेद सन्तमेनं ततो विदुः । नायोऽतोऽस्ति द्रष्टा नान्यो तोऽस्ति विज्ञाता। आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति धर्मवद् व्यपिदिशति अथो स्मर्य्यतेऽप्येवम्- अतएव च प्रकाशवत्वसाधादस्यात्मनः सूर्यकादिवदुपमा श्रूयते यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेद- रूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा-" इति ननु यथाम्बुनि प्रकाशप्रतिबिम्बो गृह्यते न तथायमात्मा गृह्यते तस्मान्न सादृश्यमिति चेद् तत्र ब्रूमः-इह केवलमन्तर्भावाद् वृद्धिहासभाकत्वं साम्येन नेयम् । यथा प्रवृद्ध जले प्रवृद्धःप्रतिबिम्बः स्वल्पे स्वल्पः, एवं प्रवृद्ध शरीरे भूयानात्मान्तर्भवति स्वल्पे स्वल्पः । स चैवमन्तर्भावः प्रत्यर्थ ज्योतिषो धर्मस्य वा ज्योतिषातो धर्मिणो वा तयोरुभयोरपि सामञ्जस्या- दुपपद्यते । परस्य निर्धर्मकत्वे वा धर्मवत्वे वा नोभयथापि तथान्तर्भावो व्याहत्यते । लोकेऽपिप्रकाशस्य प्रकाशवतश्चोभयंथापिजलाधन्तर्भावात् प्रतिविम्बसिद्धिदर्शनात् । अग्नितापस्याग्नेर्वा लौहादावनुप्रवेशदर्शनाच्च ॥ ॥ इति परात्मनः सचिदानन्दधर्मिधर्मरूपवैविध्याधिकरणम् ॥ परस्यात्मनो निरुक्तानिरुक्त-रूपद्धविध्यम् ॥ ३ ॥ ३-प्रकृतैतावत्त्वं हि प्रतिषेधति । ततो ब्रवीति च भूयः ॥१॥ तद- व्यक्तमाह हि ॥२॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥३॥ प्रकाशादिवबावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ ४ ॥ अतोनन्तेन तथा हि लिङ्गम् ॥५॥ पृथ्वीजलतेजसां मूतत्वं वाय्वाकाशयोरमूर्तत्वमिति मूर्तामूर्तलक्षणे भूतराशि- द्वयात्मके तावद् द्वे रूपे ब्रह्मणः प्रतिज्ञाते, तयोरेव च रसरूपाभ्यां वासनाभ्यां सूर्य- मण्डलतत्पुरुषौ च व्याख्यातौ । तेन भूतराशितद्वासनाराशिमात्ररूपत्वं ब्रह्मणः प्रतोतं भवति। तथा चैतावन्मात्रं ब्रह्मेति ब्रह्मरूपेयत्ता ततः प्रतिपन्ना भवति । तन विवक्षितः मित्यत आह-अथात आदेशो नेति नेतीति । प्रकृतैतावत्वं ह्यनेन प्रतिषेधति । यत् प्रकृतं मूर्तामूर्तलक्षणं भूतरूपद्धयं यद्वा भूतराशितद्वालनाराश्यात्मक रूपद्वयं नैताव- देव ब्रह्म प्रतिपत्तव्यम् । ब्रवीति च श्रुतिभूयोऽपि ब्रह्मणो रूपं-प्राणा वै सत्यं तेषामेष सत्यमिति । तस्माद् भूतराशितद्वासनाराशिभ्यां भिन्नमपि यत्किञ्चिदिहास्ति. ज्ञात चाज्ञातं च सच्चासच्च तत्सर्व ब्रह्मैवास्तीति स्थितम् । एतदभिप्रायेणैवाह नेति ( २० ) नेतीति। ब्रह्म नास्तीति नास्ति । अथवा इति शब्दः प्रथमो ब्रह्मपरो द्वितीयां निर्देशार्थः। न ब्रह्म नास्तीति । तन्नास्ति बद् ब्रह्म नास्तीति । अयमर्थः “न हो. तस्मादिति नेत्य यत् परमस्ति । यत्किञ्चिदिहान्यदन्यदिव दृश्यते तत्सर्वम्-एत- स्माद् ब्रह्मणो ब्रह्म नेत्येवं कृत्वा परं न ह्यस्ति ॥ परस्परतः सर्वमिदमन्यदन्यदिव प्रतीयात् किन्तु तद् ब्रह्म नास्तीत्येवं ब्रह्मव्यतिरिक्तत्वं तत्र न शक्यं वमित्याह । कारणं कार्याभिद्याने कार्य्यनाशेऽपि कारणनाशात् । कार्य तु कारणान्न भिद्यते । कारणनाशे कार्य्यस्यापि नाशदर्शनात् । अतः पाक्षिकं परत्वं स्थापयितुमिव ब्रह्म नेत्येवं परं नेति भङ्गया परत्वं प्रत्याचष्टे । ब्रह्म तु जगन्नास्तीति जगत्परत्वं ब्रह्मणि न प्रत्याख्यायते॥ अन्यदेव तद्विदितादथो अवितादधीति" "न सत् तन्नासदुच्यते." इत्यादि श्रुतिस्मृतिभ्यां ज्ञाताज्ञातयोः सदसतो_लक्षण्येनापि ब्रह्मणो रूप- प्रतिज्ञानात् ॥ १॥ ननु यद्येवं भूतराशितद्वासनाराशिभ्यां ज्ञाताज्ञाताभ्यां सदसद्भयां च विलक्षणमपि रूपं ब्रह्मणोऽस्ति चेत् तत्कस्मान्न गृह्यते । उच्यते । तव्यक्तमानिन्द्रिय- ग्राह्य प्रत्येतव्यम् । आह हि श्रुतिः-“न संघशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैतम् ।” “न चक्षुषा गृह्यते नापि वाचा नायैर्दवैस्तपसा कर्मणा वा।" "स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यते।" "यत्तदद्रेश्यमग्राह्यम् ।” “यदा ह्येवैष एतस्मिन्नश्यैऽनात्म्येऽनिरुक्तेऽनिलयते"-इत्यादिः । स्मृतिरपि-"अव्यक्तोऽयम- चिन्त्योऽयमविकार्योऽयमुच्यते-" इत्यादिः॥२॥ पश्यन्त्यपि तमेनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधने भक्तिध्यानप्रणि- धानाद्यनुष्टाने इति श्रुतिस्मृतिभ्यामवगम्यते । श्रुतिर्यथा-“पराञ्चि खानि व्यतृणत्स्वयं- भूस्तस्मात् पसङ पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुर- मृतत्वमिच्छन्, “ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तु तं पश्यति निष्कलं ध्यायमान:-" इत्यादिः । स्मृतिरपि-“यं विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जाना तस्मै योगात्मने नमः" "योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्-" इत्यादिः॥ ध्यानगम्यं यदेतदव्यक्तं तावदाख्यातं तच्चेदमवैशेष्यं निरस्ताशेषविशेषरूपत्वं प्रकाशादिवत् प्रत्येतव्यम् । प्रकाशश्चैतन्यं ज्ञानम् । आदिपदेन सत्ता विवक्षिता। यथा च प्रकाशः कर्मणि अभ्यासाद् भिद्यते ! उपलक्षणमेतत् सत्तायाः। सत्तापि कर्मण्यभ्यासाद् भिद्यते।भेदेन प्रतीयमानं सर्वमिदं विषयजातं कर्मपदेनेह विवक्ष्यते। -तत्राभ्यास: पौनःपुन्येन संनिधानम् । तानि च विषयजातानि एकयैव भात्या पुनः पुनर्ग्रहीतानि प्रतिभान्ति तत्रैषा भेदप्रतीतिः कर्मभेदानुरोधान्न तु सा भातिभिद्यते । भात्या गृहीतानां भिन्नानां कर्मणा व्यतिरेकेणेयं भातिः स्वरूपेणाविशेषा निष्कृष्य- ते तदवैशेष्यं ज्ञानप्रसाइन विशुद्धसत्वः पश्यति। एवं सत्ताप्येषा प्रत्यर्थ भिद्यते । तत्राप्येषा भेदप्रतीतिः कर्मभेदानुरोधादेवास्ति न तु सा सत्ता स्वरूपतो भिद्यते । सत्तया गृहीतानां कर्मणां व्यतिरेकेणेयं सत्तास्वरूपेणाविशेषा निष्कृष्यते तदवैशेष्यं विद्वान् पश्यति इत्यवयम् ॥ इत्थं च सत्ताज्ञानयो नारूपाश्रयभूतयोरपि यद्वद- वशेष्यमुपपद्यत । तद्ववेतेषां मूर्तामूर्तादिलक्षणसर्वविधरूपाणामाश्रयभूतं किश्चिद- विशेष रूपं प्रपतव्यम् । तदेव चाविशेषरूपं मूर्तामूर्तादिसर्वविधरूपविशिष्टं संपद्यते । तथा च वैशेष्यादलक्षणवादव्यक्त रूपमन्यत् । मूर्तामूर्तादिलक्षणं चास्य व्यक्तं रूपमन्यत्-इत्यनिर्वचनीयव्याकृतभेदाद ब्रह्मणो रूपद्वैविध्यं सिद्धम् । तत्रेद- मव्यक्त स्य रूपं व्यक्तैमूर्तीमूर्तादिलक्षणैः सर्वैरेव रूपैः संपन्नमवतिष्ठते । अतोऽन- तिनाकाशेनेदं साम्यानिकृष्यते । यथा वाय्वादयः सर्व एवैने प्रतिभिशा भावा इहैकस्मिन्नाकाशे प्रतितिष्ठति स च सर्वैः संश्लिष्टतमाऽप्यसंश्लिष्टतमी निर्लिनः सुविशुद्ध एकोऽवतिष्ठले तथायभामा प्रोतव्यः । तथा हि लिङ्गम्-आकाशवत् सर्वतश्च नित्य इति । अस्य लोकस्य का गतिरिति आकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पाते इत्याकाशं प्रत्यस्तं यन्ति । आकाशो हावै यो ज्यायान् । आकाशः परायणम ॥ इति ॥ अपि च आकाशो ह वै नाम नाम- रूपयोर्निहिता, ते यदन्तरा तद् ब्रह्म । तदमृतं स आत्मा" इति । सर्वस्य हि विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात् तान्याभर्थातरभूतं तयोश्च निर्वाहक- माकाशस्थरूपमेवैतद् ब्रह्म स आत्मेति सिद्धम् ॥ ॥ इति परात्मनो निरुतानिरुक्तिरूप विध्याधिकरणम् ॥ परस्यात्मनो निर्विशेषत्वं शंकरमते॥४॥ ४न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि ॥१॥न भेदा- दिति चेन्न प्रत्येकमतद्वचनात् ॥ २ ॥ अपि चैवमेके ॥३॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ ४॥ प्रकाशवञ्चावैयर्थ्यात् ॥५॥ आह च तन्मात्रम् ॥ ६॥दर्शयति चाथो अपि स्मयं ते॥७॥ अतएव चोपमा सूर्यकादिवत् ॥ ८ ॥ अम्बुवदग्रहणात्तु न तथात्वम् ॥ ९ ॥ वृद्धि हासभाक्त्वमन्तर्भावादुभयसामञ्ज- स्यादेवं दर्शनाच ॥१०॥ । अथ शंकरो न स्थानतोपीत्यारभ्य दर्शनाच्चेत्यन्तमेकं ततस्तथाहि लिङ्गमित्यन्त- मेकमित्येवमधिकरणद्वयं मन्यमान इत्थं व्याचष्टे । सुषुप्तौ जीवस्य ब्रह्मण्यवस्थान- मुकं तस्य ब्रह्मण इदानीं स्वरूपं परीक्ष्यते-इदं हि ब्रह्म निरस्ताशेषप्रपञ्चमेकाकार वा प्रपञ्चवदनेकाकारं वेति चिन्तायामुच्यते । स्वतस्तावदस्य परब्रह्मणो निर्विशेषत्वं सविशेषत्वं चेत्युभयलिंग नास्त्येव किन्तु स्थानतोऽप्युपाधियोगादपि परस्य नो.
( २२ ) भयलिंग संभवति । पृथिव्यादिषु सर्वत्र हि स्थानेषु तस्याविशेषेणावस्थानात् । अलक- काद्युपाधियागायोगयाः सर्वत्राविशेषण स्फटिकस्य स्वच्छत्ववत् ॥ ॥ ननु नाविशेपेण सर्वत्रावस्थानम् । “चतुष्पाद ब्रह्म षोडशकलं ब्रह्म वामनत्वा- दिलक्षणं ब्रह्म । त्रैलाक्यशरीरवैश्वानरशब्दोदितं ब्रह्म'-इत्येवमनेकधाभेदश्रवणात् । इति चेन्न । सत्यपिभेदश्रवणे प्रतिभेदमदश्रवणात् । चतुष्पाद् ब्रह्म भिन्नं, षोडश- कलं ब्रह्म तु भिन्नमित्येवमेषां भेदो न श्रूयते, प्रत्युत प्रत्युपाधिभेदमभेदः श्रूयते-"यश्चा- यमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः युरुषोऽयमेव स योयमामा इदममृतमिदं ब्रह्म इदं सर्वम् ॥ २ ॥ अपिचैवं भेदमेव तत्र प्रतिषिध्याभेददर्शनमेके समामनन्ति-"मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ॥ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" इति । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्व प्रक्तिं त्रिविधं ब्रह्म मेतत् । “इति समस्तस्य भाग्यभोक्त- नियन्तलक्षणस्थ प्रपञ्चस्य ब्रह्मैकभावनामाचक्षते । तथा वा रूपबच्चेदं ब्रह्म श्रूयते अरूपवच्च"। "सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः" । इति” । “स वा अयमारमा ब्रह्म विज्ञानमयो ननोमयः प्राणमयःश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपो- मयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः कानमयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः' इत्यादि । “ढे वाव ब्रह्मणे रूपे मूर्त चामूर्त चेत्यादि च रूपवत्वं ब्रह्मणः श्रावयति । “अस्थूलमनण्वहस्वमदीर्घम्" । अशब्दस्पर्शम- रूपमव्ययम्" आकाशोवै नाम नामरूपयोनिर्वहिता ते यदन्तरा तद् ब्रह्म" "दिव्यो ह्ममूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । “तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः' इत्येवमादि वारूपत्वं श्रावयति । उभयोश्च शास्त्रयोः प्रमाणत्वात् निर्विशेषं विशेषं चोभयापि ब्रह्मोपपद्यते । तथा च कथमविशेषमेवैकविधं ब्रह्म प्रतिज्ञायते । न कस्मात्सर्व रूपं तदाख्यायते इतिवेत् तत्र ब्रूमः- अरूपवदेव हि तद्ब्रह्म प्रतिपत्तव्यः । तत्प्रधानत्वात् श्रुतिवाक्यानाम् । तस्मानिरस्ताशेषप्रपञ्च- मेकाकारं ब्रह्म न प्रप.अवदनेकाकारोपेतं नापि वा तत्र जाग्रत्सुषुप्त्यायवस्थाविभाग इति सिद्धम् ॥ ४॥ ननु यद्येवं प्राधान्यादरूपवति निर्विशेषे ब्रह्मण्येव श्रुतितात्पर्य गम्यते तर्हि रूपबोधिकाः श्रुतयो निरवलम्बाः स्युरिति जेदनोच्यते प्रकाशवच्चेदमुपाधिकल्पितं रूपाख्यानं द्रष्टव्यम् । यथा प्रकाशः लौरश्चान्द्रमसो वा वियद् व्याप्यावतिष्ठमानोंगु- ल्याधुपाधिसंबन्धात्तेषु ऋजुवकादिभावापन्चेषु तद्भाववद्भवति एवं ब्रह्मापि पृथिव्या- धुपाधिसंबन्धात्तदाकारमियोपपद्यते तदालम्बनोऽयं ब्रह्मण आकारविशेषोपदेशः । स चोपासनार्थ इत्यवानाक्षेपस्थानं भवति । आह च श्रुतिश्चतनामात्रं निर्विशेषं परंब्रह्म ॥ “स यथा सैन्धवधनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव-एवं वा अरेऽय- मात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रशान घन एवेति ॥ दर्शयति च श्रुतिरस्य परस्य रूपा- भावम् । अथात आदेशो नेति नेति इति । अन्यदेव तद्विदितादथो अविदितादधीति । यतो वचो निवर्तन्ते अप्राप्य मनसा सहेति चैवमादि । अथो स्मर्यते हि तथा । “शेयं- { २३ ) यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्रुते । अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते इति ॥५॥ श्तश्चैतस्य चैतन्यरूपप्रकाशत्वमस्ति अतएव चौपया सूर्यकादिवदस्मिन्नुप- पड़ते-“यथा ह्ययं ज्योतिरात्मा विवस्वानपोभिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽमाEET-इति ॥ एक एव तु भूतात्मा भूते भूने व्यवस्थितः ॥ एकधा बहुधा वैव रश्यते जलचन्द्रवत् ॥ इति च ॥ ६ ॥ अम्बुवदस्य ब्रह्मणस्वग्रहणान्न जलमूर्खादितुल्यत्वम् । ७॥ इति चेत् कश्चित् ब्रूयात् तत्रोच्यते ।। यथा जलस्य वृद्धिहासाभ्यां तदन्तर्भू- तस्य प्रतिबिम्बस्य वृद्धिहासमाकत्वम् एवमस्य ब्रह्मणोपि देहपृथिव्यादिष्वन्तर्भावात्। वृद्रिहासभाकवमित्येवान पृष्टानेन विवक्षितम् । यथा चास्य निरुपाधिकस्य दिक्का- लाधनवच्छिन्नस्य बृद्धिहासाद्ययोगिवं लोपाधिकस्य तूपाधिधर्मग्राहितया बृद्धि- हासभाक्त्वमित्युभयं समंजसं भवति तस्मादेवमुपाधिवत् उपमाकल्पनं क्रियते ॥८॥ श्रुतिदर्शनाच्च परस्य ब्रह्मगे। दहादिष्पाधिश्वन्तरनुप्रवेशोऽभ्युपगम्यते-- पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः पुर. स पक्षी भूत्वा पुरः पुरुष आविशत्" "अनेन जीवनात्मनाऽनुप्रविश्य" इति ॥ तस्मानिर्विकल्पकैकलिङ्गमेव ब्रह्म, नोमय लिङ्गं न विपरीतलिङ्ग चेति सिद्धम् ।। ॥ इति परब्रह्मणो निर्विशेषत्वाधिकरणम् शंकरमतेन ॥०॥०॥ - . निर्विशेकानने भेदवासनामिथ्यात्वं शंकरमतें ॥५॥ .. । ५-प्रकृतैतावत्त्वं हि प्रतिषेधति। ततो 'ब्रवाति च भूयः॥१॥ तदव्यक्तभाह हि ॥२॥ अपि संराधने प्रत्याक्षानुमाना- भ्याम् ॥ ३॥ प्रकाशादिवचावैशेष्यं प्रकाशश्च कर्मण्यभ्या- सात् ॥ ४॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥ ५॥ द्वे वाव ब्रह्मणो रूपे-मूर्त चैवासूर्त च । मयं चैवामृतं च । स्थितं च यच्च सच्चासच्च ।। इत्येवं पाहाभूतानि द्वैराश्येन प्रविभज्य, तदुभयरसौ सूर्ये प्रदर्य, तत्रामूर्तरसस्य पुरुषस्य महारजनं पाण्ड्वाविकमिन्द्रगोपोऽन्यचिःपुण्डरीक सद्विद्युत्तमिति रूपाणि दर्शयित्वा, ततोऽन्ते पठ्यते-“अथात आदेशो नेति नेति । न होतस्मादिति नेत्यन्यत्परपस्ति-” इति ॥ तत्र कोऽयं प्रतिषेधविषय इति जिज्ञा- स्यते । ब्रह्मणो रूपलथं वा रूपन्यत्र ब्रह्म वा तत्र प्रकरणसंनिधानादुपतिष्ठते । ते- नायं प्रतिषेधो ब्रह्मणि रूपस्य वा, रूपोपलिझतब्रह्मणो वा, उभयोति संशयो भवति। तत्र रूपप्रपञ्चः प्रत्यक्षं श्यमानत्वादप्रतिषेध्यः । ब्रह्म तु वाङ मनसातीतत्वाद- संभाव्यमानसत्ताकमतस्तस्यैवायं वीप्सया प्रतिषेधः स्यात् । अथवा नेति नेतीति .
द्विरुक्त या ब्रह्म च रूपद्वयं च प्रतिषेधविषयः-इत्येवं प्राप्ते ब्रूमः । प्रकृतैतावत्वं हि प्रतिषेधतीति । प्रकृतं यदेतावत्त्वं परिच्छिन्नं सूर्तामूर्तलक्षणं ब्रह्मणो रूपं तदेव शब्दो निराचष्टे । अमूर्तरसस्य पुरुषस्य चक्षुहरूपयोगित्वानुपपत्तेर्माहारजनादिरूप- योगित्वमप्यस्य प्रत्याख्यायते । नद्वयोपादानात् ।। यद्वा मूर्तामूर्ते द्वे अपि रूपे नद्वयं प्रतिषेधति-तथा च तत्र कल्पितरूप- प्रत्याख्याने ब्रह्मणः स्वं विशुद्ध रूपमावेदितं भवति ॥२॥ यद्धा भूतराशिर्वासनाराशिश्च नद्वयेन प्रतिषिध्यते ॥३॥ तदास्पदं वा समस्तं कार्य्यजातं नेति नेतीति प्रतिषियते ॥४॥ सर्वस्य कार्य-जातस्य चाचारम्भणशब्दादिभ्योऽसत्व निर्णयान्नति नेतीति प्रतिषेधार्हत्वात् । तथा च ब्रह्मणि कल्पितस्य प्रपशस्य प्रतिषेधात् परिशिष्यते ब्रह्मेति ब्रह्मावसानोऽयं प्रतिषेधो नाभावावसानः। ब्रह्मणोस्तिप्रतिषेधे तु शून्यवादः प्रस- ज्येत् । ब्रवीति च भूयो ब्रह्मणोऽस्तित्वम् “नह्येतस्मादिति नेत्यन्यत्परमस्तीति ।" नह्येतस्माद् ब्रह्मणों व्यतिरिक्तमस्ति । अन्यतः परमप्रतिषिद्वं ब्रह्मास्तीति । ब्रवीति च भूयोऽस्य नामधेय- सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यमिति । अभावावसाने तु प्रतिषेधे कस्येदं नाम स्यात् । तस्माद् ब्रह्मावसान एवायं प्रतिषेधः ॥१॥ ननु यद्यस्मात् प्रतिषिद्धात् प्रपञ्चजातादन्यत् परं ब्रह्मास्ति तहि तत्कस्मान गृह्यते । उच्यते । तदव्यक्तमनिन्द्रियग्राह्यं भवति । सर्वदृश्यसाक्षित्वात् । आह हि तथा श्रुतिः-"न चक्षुषा गृह्यते नापि वात्रेति । स एष नेति नत्यात्मेति । यतद. द्रेश्यमग्राह्यमिति । स्मृतिरप्याह अव्यक्तोयमचिन्त्योऽयमिति ॥२॥ अव्यक्तमश्मप्येनमात्मानं पश्यन्त्यपि योगिनो भक्तिध्यानप्रणिधानाधनुष्ठान- काले इति श्रुतिस्मृतिभ्यां गम्यते । कश्चिद्धीरः प्रत्यगात्मानमैक्षदिति ततस्तु तं प्रपश्य- न्तीति स्मृतेश्च ॥३॥ ननु संराध्यसंराधकभावा-युपगमे परापरामनोरयत्वं स्यादिति चेत् तत्री- च्यते-प्रकाशादिवच्चाबैशेष्यमिति । यथा प्रकाशाकाशसूर्यादयोऽङ्गलिकरकोद- कादिषु कर्मसूपाधिभूतेषु सविशेषा इवावभासाते न च स्वाभाविकीमविशेषतां जहति, एवम्यमविद्योपाधिभेदादात्मभेदः, स्वतस्वैकात्म्यमेव । तथा हि जीवात्म- परात्मनोरभ्यासादभेदः श्रूयते। यतश्चानयोरभेदः स्वाभाविको भेदस्त्वविद्या कृतोऽस्ति अतो जीवः परेणानन्तेनात्मनेकतामायाति । तथाहि लिङ्गम् । स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मव भवति । ब्रह्मैव सन् ब्रह्माप्येति इत्यादि ॥५॥ ॥ इति निर्देशकब्रह्मणि भदवासनामिथ्यात्वाधिकरणम् ।।
परस्यात्मनः सर्वददोषास्पृष्टानन्तकल्याणगुणा-
करत्वं रामानुजमते ६।
६-न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि ॥१॥न भेदा-
दिति चेन्न प्रत्येकमतद्वचनात् ॥ २॥ अपि चैवमेकं ॥३॥
अरूपवदेव हि तत्प्रधानत्वात्॥४॥प्रकाशवञ्चाबयर्थ्यात् ॥५॥
आह च तन्मात्रम् ॥ ६॥ दर्शयति चाथो अपि स्मर्यते ॥७॥
सूर्यकादिवत् ॥ ८ ॥ अम्वुवदगृहणात्तु न तथात्वम् ॥ ९ ॥
वृद्धिद्वासभाक्यमन्तवादुमयसामञ्जस्यादेवम् ॥ १० ॥
दर्शनाच ॥ ११ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति । ततो ब्रवीति
च भूयः॥ १२ ॥ तदव्यक्तमाह हि॥ १३॥ अपि संराधने
प्रत्यक्षानुमानाभ्याम् ॥ १४ ॥ प्रकाशादिवच्चावैशेष्यं प्रका-
शश्च कर्मण्यभ्यासात् ॥ १५ ॥ अतोऽनन्तेन तथाहि
लिङ्गम् ॥१६॥
"सत्यकामः
रामानुजः पुनरेतानि त्रोण्यधिकरणान्यकाधिकरण्येन व्यावष्टं । तथा हि
जागरस्वप्नसुषुप्तिमुग्ध्युत्क्रान्तिषु स्थानेषुस्थानसंबन्धादुपपन्ना जीवस्य दोषाजीवानु-
प्रविष्टस्य परस्यात्मनोपि संभवन्ति नवेति विचारे प्रत्याह न स्थानतोपि परस्य दोषाः
संभवन्ति । सर्वत्र हि तदुभयलिङ्गमाख्यायते। अपहतपाप्मा विजरो विमृत्युविशो-
कोऽविजिघत्सोऽपिपास इत्यादि श्रुत्या निरस्तनिखिलदोपत्वम्
सत्यसंकल्प” इत्यादि श्रुत्या च समस्तकल्याणगुणाकरत्वमित्युभयलक्षणोपेतत्वान्न
परात्मनि स्थानविशेषकृता दोषविशेषाः संक्रमन्ते ॥१॥ ननु अपहतपाभावाद्युभय-
लिङ्गस्यापि परस्य देवादिदेहयोगरूपावस्थाभेदादोषयोगः संभाव्यते । प्रजापति-
वाक्यागतापहतपाप्मत्वाद्युभयलिङ्गस्यापि जीवस्यावस्थाभेदादोषयोगवत् । इति
चेन्न । प्रत्येकमतद्वचनात् । यः पृथिव्यां तिष्ठन् य आत्मनि तिष्ठन्" इत्यादिषु प्रति
पय्यायं तत्तत्स्थानसंवन्धप्रयुकदोषसंसर्गस्यावचनात् । स त आत्माऽन्तर्याम्यमृत
इत्यमृतत्ववचनाच्च ॥२॥
( २६ ।
अपि चैवमेके शाखिन एकस्मिन्नेव देहसंयोगे जीवस्य दोषसंबन्ध परस्य तु
तभावं दर्शयन्ति । “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयो-
रज्यः पिप्पलं स्वात्ति अनननन्योऽभिचाकशीति" इति ॥३॥
ननु अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति श्रुतेर्ब्रह्मण
एवजीवरूपेण प्रविष्टस्य देवानुष्यादिरूपत्वं तन्नामभाकत्वं चायाति ॥ ततश्च
तस्यापि कर्मवश्यत्वं प्राप्नोतीति चेत् तत्रोच्यते देवादिशरीरानुप्रवेशे तेन तेन
रूपेण युक्तमप्यरूपवदेवहि त म द्रष्टव्यम् । निर्वाहकत्वेन प्रधानत्वात् । “आकाशो
ह वै नाम रूपयोनिर्वहिता ते यदातरा तद् ब्रह्म" इति । सर्वानुप्रवेशेऽपि नामरूप-
कार्यास्पर्शेन तयोर्निवौढत्वमेव ब्रह्मणः प्रतिपादयति शास्त्रं न तु रूपवत्वं कर्मवश्य-
त्वं वा । तस्मात्सर्वदोषरहितत्वं सर्वगुणाकरत्वं चेत्युभयलिङ्ग सिद्धम् ॥ ४॥
ननु सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि श्रुत्या निरस्तनिखिलदोषनिर्विशेषप्रकाशै-
कस्वरूपं ब्रह्मावगम्यते । सर्वज्ञत्वसत्यसंकल्पत्वजगत्कारणत्वसन्तिरामस्वसत्यकाम-
त्वादयः कल्याणगुणास्तु लर्वेऽपि नेतिनेतीत्यादिभिरभ्यासात् प्रतिषिध्यन्ते तत्कथमु-
भयलिङ्गत्वं ब्रह्मणः प्रतिपाद्यते इति नेत् तत्राह-वकाशवच्चावैयर्थ्यात् । सत्यं ज्ञान-
मनन्तं ब्रह्मेत्यादिवाक्यात् प्रकाशस्वरूपत्वं सत्यसंकल्पादिवाक्याच्च सर्वकल्याण-
गुणाकरत्वमित्युभवविधवाक्यावय.दुभयलिङ्गमेव ब्रह्म ॥ ५ ॥
सत्यज्ञानमित्यादि वाक्यं याह च प्रकाशस्वरूपतामात्रं न तु सत्यसंकल्पत्वा-
दिकं वाक्यान्तरसिमर्थ निषेधति ॥६॥
दर्शयति च कल्याणगुणाकरत्वं निरस्ताखिलदोषत्वं च यः सर्वज्ञः सर्वविद्
यस्य ज्ञानमयं तपः। निष्कलं निष्क्रियं शान्तं निरवा निरजनमित्यादि अथो
अपि समय॑ते । “ईश्वरः सर्वत् सर्वशक्तिनिवलर्द्धिमान् । अन्यूनचाप्यवृद्धिश्च
स्वाधीनोऽनादिमान वशी॥ क्लमतन्द्रीभयक्रोधकामादिभिरसंयुतः । निरवद्यः पर-
प्राप्तैर्निरधिष्ठोऽक्षरक्रममित्यादि ॥७॥
यतश्च नैतस्य परस्य तत्तत्स्थानप्रयुक्तदोषभाकत्वम् । अतएव चोपमा क्रियते
जलदर्पणादिप्रतिबिम्बितसूर्यकादिवत्परमात्मेति । आकाशमेकं हि यथा घटादिषु
पृथग्भवेत् । तथात्मैको ह्यनेकस्थो जलाधारश्चिवांशुमान् ॥ इत्यादि ॥ ८ ॥
अम्बुदर्पणादिषु सूर्यमुखादिवत् पृथिव्यादिस्थानेषु परमात्मनोऽग्रहणात्तु न
दृष्टान्तकृत्यत्वमिति कश्चित् प्रत्यवतिष्ठते ॥ ६ ॥
तत्रोच्यते । पृथिव्यादिस्थानेष्वन्तर्भावात् परस्य ब्रह्मणः स्वरूपतो गुणतश्च
पृथिव्यादिस्थानगतवृद्धिहासादिदोषभाकत्वमात्र सूर्यकादि दृष्टान्तेन निवर्त्यते,
उभयदृष्टान्तसामञ्जस्याच्चैवं निश्चीयते । “आकाशमेकं हि यथा घटादिषु पृथगभवेत्।
इत्याकाश एको दृष्टान्तः । जलाधारोश्विवांशुमानिति सूर्योऽपरो दृष्टान्तः । उभयोश्चा-
नयोः स्थानसंसर्गनदोषाग्रहणे तात्पर्ये सामजस्यमुपपद्यते ॥ १० ॥
( २७ - एवं लोके दशनाच्च गम्यते । सिंहो माणवक इत्यादौ हि दृष्टान्ते विवक्षितांश. साधय दृश्यते न तु सर्वात्मना साधर्म्यम् ॥ ११॥ ननु द्वे ब्रह्मणो रूपे मूर्तचामूर्त चेत्यादिना ब्रह्मणो रूपविशेषान् प्रकृत्य सर्व एव ते विशेषा नेतिनेतीति प्रतिषिध्यन्ते । ततश्च सर्वविशेषाधिष्ठानं सन्मात्रमेव निर्विशेष ब्रह्मोपपद्यते इति कथमुभयलिङ्गत्वं ब्रह्मणः सिध्यतीति चेत् तत्राह-प्रकृतैतावत्त्वं हि प्रतिषेधति नेतिनेतीति वाक्येन न तु ब्रह्मणः प्रकृतविशेषवत्त्वं नेति नेतीति प्रतिषिध्यते। ब्रह्मणो मूर्तामूर्तविशेषयोः प्रकृतत्वात् तद्वैशिष्टयेन प्रतीयमानाया इयत्ताया एव निषेधे तत्तात्पर्य्यावसायात् । ततो निषेधादुत्तरं ब्रवीति च भूयो गुणजातं ब्रह्मणः । ह्येतस्मादिति नेत्यन्यत्परमस्ति । प्राणा वै सत्यं तेषामेव सत्यमिति" इति नेति नेति यद् ब्रह्माख्यातम् एतस्मादन्यद्वस्तु परं नास्ति । ब्रह्मतोऽन्यत् स्वरूपतो गुणतश्चो- कृष्ट नास्तीत्यर्थः । प्राणशब्देन तत्साहचर्याजीवाः परामृश्यन्ते ते तावत् सत्यम् अपरिणामित्वात् । तेषामेष परमात्मा सत्यम् । जीवानां कर्मानुगुण्येन ज्ञानसंकोच- विकाशसत्त्वेपि परमात्मनोऽपहतपाप्मत्वेन ताहशदोषासंबन्धात्। अत उभालिङ्गमेव परं ब्रह्म ॥१२॥ ननु यदि प्रकृतैतावत्त्वप्रतिषेधान्मूर्तामूर्तसर्वविधविशेषा ब्रह्मणि विवक्ष्यन्ते तत्तर्हि मूर्तगुणयोगादिदं ब्रह्म प्रत्यक्षं दृश्यतेति चेदत्र ब्रूमः-तच्च ब्रह्माव्यक्तं नेन्द्रियैः शक्यं ग्रहीतुम् ॥ आह हि शास्त्रम् । “न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कञ्चनैनम् । न चक्षुषा गृह्यते नापि वाचेत्यादि ॥ १३ ॥ साक्षात्कारोऽप्यस्य समाराधने संभवति न त्वत्यत्रेति श्रुतिस्मृतिभ्यां गम्यते । "ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तुतं पश्यति निष्कलं ध्यायमान" इतिश्रुतिः। भकया त्वनन्यया शक्य अहमेवं विधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टु' च परंतप-" ॥ इतिस्मृतिः ॥१४॥ इतश्च प्रकृतैतावत्वं प्रतिषेधति न विशेषवत्वं यतो वामदेवादीनां दर्शने ज्ञाना- नन्दलक्षणप्रकाशादिवन्मूर्तामूर्तादिविशेषवत्ताया अप्यवैशेष्यं दृश्यते । “तद्वैतत् पश्यनृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्वेत्यादि । ब्रह्मस्वरूपभूतप्रकाशा- नन्दादिश्च तेषां संराधने कर्मण्यभ्यासादुपलभ्यते ॥ १५ ॥ अत उक्तैहेतुभिर्ब्रह्मणोऽनन्तेन कल्याणगुणगणेन विशिष्टत्वं सिद्धम् । तथाहि सत्युभयलिङ्ग ब्रह्मोपपद्यते ॥ इति ॥ १६ ॥ प्रकाशादीति सूत्रार्थ शंकरः साधु नेक्षते । रामानुजोऽप्यन्यथैव व्याचष्टे भक्तितत्परः ॥ ॥ इति सर्वदोषास्पृष्टसर्वगुणाकरेश्वराधिकरणं रामानुजीयुम ॥
. अथ निर्विशेषाभेदे भेदव्यवहारोपपादनं शङ्करमते ७ ७-उभयव्यपदेशात् त्वहिकुण्डलवत् ॥ १॥ प्रकाशाश्रयदा 'तेजस्यात् ॥२॥ पूर्ववदा ॥३॥ प्रतिषेधाच ॥४॥ ॥१॥ अथ निर्विशेषैकब्रह्मणि प्रतिपने जीवजडानेकभेदव्यवहाराणामुपपत्ति मता- न्तरेणाह-। “ततस्तु तं पश्यति निष्कलं ध्यायमानः" । "परात्परं पुरुषमुपैति दिव्यम्” । “यः सर्वाणि भूतान्यन्तरो यमयति" । इत्येवं वाक्यजातैः क्वचिजीव- ब्रह्मणोातृध्येयत्वेन द्रष्टदृश्यत्वेन, गन्तृगम्यत्वेन, नियन्तृनियम्यत्वेन च भेदो व्यप- दिश्यते । क्वचित्त-"तत्त्वमसि' “अहं ब्रह्मास्मि,” “एष त आत्मा सर्वान्तरः," "एष त आत्मा अन्तर्याम्यमृतः” इत्येवं तयोरभेदो व्यपदिश्यते । उभयव्यपदेशात्तु भेदाभेदसमन्वयोऽभ्युपगन्तव्यः । स च षोढा संभवति । संस्थानविशेषोपजनाद्वा, अङ्गाङ्गिभावाद्वा, अंशाशिभावाद्वा, उपाधियोगाद्वा, कार्यकारणभावाद्वा, कर्तृकर्मत्वो- पचारसामान्याद्वा । तद् यथा कुण्डलदण्डाद्याकारिते सपै कुण्डलदण्डादिवद् व्यपदेशा अपूर्वाः प्रवर्तन्ते सर्पव्यपदेशश्च नापैति । तत्र च कुण्डलत्वदण्डत्वादिशून्ये स कुण्डलदण्डादिसंस्थानविशेषाः स्वत एवोपजायन्ते । अनित्यतया परिवर्तमा- नेष्वपि तेषु कुण्डलदण्डादिविशेषव्यपदेशेषु कदाचित्कुण्डलं कदाचिद्दण्ड इतिभेदाः सर्प इति चाभेदो भवति । एनमिहाप्यात्मनि संस्थाविशेषोपजनाद् देवभूतादयो जडधा ज्ञानस्य ज्ञेयाकाराकारितत्वादुपजायन्ते । तथा च ज्ञानमित्यभेदव्यपदेशे शेयभेदाद् भेदव्यपदेशाः स्युः । सोयं जीवात्मनि ज्ञानस्वरूपे जडधर्माणामक्षरे जीवानां निर्विशेषे परब्रह्मणि चाक्षरस्य भेदेन व्यपदेशो द्रष्टव्यः ॥ १॥ अथवा तेजस्वात् प्रकाशाश्रयवदेतद् द्रष्टव्यम् । यथा प्रकाशः सौरस्तदाश्र- यश्च सूर्यः । तत्र यावान् प्रकाशस्तावान सूर्य इत्यभिन्नः सूर्येण प्रकाशः । अपि वा सूर्यस्य प्रकाश इति भिद्यते व्यवहारः । एवम् अचिर्दीपो दीपस्यार्चिरित्युभयथापि शक्यते वक्तुम् । सर्वेष्वेव तेजःस्वेवं द्विविधो व्यपदेशो दृश्यते ॥ इदं ब्रह्मापि तेन एव ॥ प्रकाशकत्वात् तेजो वै ब्रह्मति श्रवणाच्च । तस्मादिहापि तद्वदङ्गाङ्गिरूपेण भेदाभेदव्यपदेशो युज्यते ॥२॥ पूर्ववृद्धा द्रष्टव्यम् । पूर्वशब्दः पूर्वनिरूपितानां चतुर्विधविकल्पानां स्मरणे- नोपसंग्रहार्थः॥ तथाहि-अंशोनाना व्यपदेशादिति (२।३।४२) सूत्रे भिन्नत्वेन प्रतीतयोर्जीवेश्वरयोरग्निस्फुलिङ्गवदंशांशिभावेनाभेदो निरूपितः । प्रकाशादिवत्तु नैवं परः (२।१।४१ ) इति सूत्रे, प्रकाशादिवच्चावशेष्य (३।२। २५ ) मिति- सूत्रे चाभिन्नयोजीवेश्वरयोरोपाधिको भेदो निरूपितः । अथवा जन्माधस्य, यतः प्रतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् (१।४।२३ ) इत्यादि सूत्रजाते ब्रह्मणः कारण- त्वमाख्यातम् । तर कारणं कार्याद्भिद्यते । कार्य्यनाशेपि. कारणानाशात् । कार्य्य तु ( २६ ) कारणान्न भिद्यते । कारणनाशे कार्य्यस्यापि नाशात् । तदित्थं भेदाभेदसमन्वयो द्रष्टव्यः । अथवा-उक्तं पूर्व प्रकाशादिवच्चावैशेष्यमिति । य एव हि निर्विशेषः प्रकाशो धर्ममात्रं स एव प्रकाशको वस्तु धर्माणामिति भेदेनापि व्यपदिश्यते एवमिहापि विशुद्धचैतन्यमानं निर्विशेषमेव सविशेषवद् व्यपदिश्यते । मनोमयो भाःसत्य इति केवलभारूपत्वं प्रतिज्ञाय "तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति भासकत्वमप्यस्यैव प्रतिज्ञायते। तत्रावैशेष्यमेव तात्पर्य्यविषयः प्रति- । भाति ॥३॥ प्रतिषेधाच्चायमर्थोऽवधार्यते । “तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यमित्येवं निर्धर्मकत्वेन प्रतिज्ञातस्यैव "नान्योतोऽस्ति द्रष्टा इत्यादिना परप्रतिषेधेन द्रष्टत्वं स्था- पयति । तेन चिन्मात्रमेव वेतनं व्यपदिश्यते इति सिद्धान्तः ॥ निधर्मकस्यैव तेजसो धमिव्यपदेशसंभवात् ॥ यद्यपि जीवब्रह्मणोर्मेदाभेदविवेचनं प्रागपि भूयसा कृतमेव तथाप्यत्र जडादिसाधारण्येनेदं पुनदृढीक्रियते ॥ ॥ इति निर्विशेषाभेटे भंव्यवहारोपपादनाधिकरणं शङ्करमतेन ॥ विशिष्टाभेदे विशेषणभेदाद् भेदव्यवहारो रामानुजमते ८ । ८-अथ रामानुजमते जडजीवेश्वरास्त्रितत्वं सिद्धान्तः तत्र पूर्वाधिकरणे सत्यस्य सत्यमित्युक्तया नित्यो नित्यानां चेतनश्चेतनानामित्यादिश्रुत्या च जीवानां ब्रह्मस्वरूपत्वप्रकारश्चिन्तितः। अतः परम् अचिद्वस्तुनो ब्रह्मस्वरूपत्वप्रकारश्चि- न्यते। प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् (१।४।२३) तदनन्यत्वमाररम्भण- शब्दादिभ्य ( २।१ । १५ ) इत्यत्र सूक्ष्मचिदचिद्वस्तुविशिष्टादू ब्रह्मणः स्थूलचिद- चिद्विशिष्टस्योत्पत्तिरनन्यत्वं चाख्यातम् । तत्र जडानां ब्रह्मणोऽनन्यत्वं त्वहिकुण्डल- वत् स्यादुभयव्यपदेशात् । “आत्मैवेदं सर्व ब्रह्मैवेदं सर्वमिति तादात्म्यव्यपदेशो यथा दृश्यते तथा"- हन्ताहनिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति भेदव्यपदेशश्च दृश्यते ॥ तस्माइ भेदाभेदव्यपदेशादहः कुण्डलभाव- वद् ब्रह्मणः संस्थानविशेषा अचिद्वस्तूनि स्युः॥ १ ॥ अथवा नायं पक्षः साधीयान् । ब्रह्मस्वरूपस्येवाचिद्रूपेणावस्थाने ब्रह्मणोऽपरि- णामित्ववादिन्यः श्रुतयो भेदश्रुतयश्च वाधिताः स्युः। तस्मात् प्रकाशाश्रयवदेत द्रष्टव्यम् । यथा प्रभातदाश्रययोभिन्नयोरपि तेजस्वादभेदः तथा जडप्रपञ्चस्य ब्रह्म- रूपत्वं स्यात् ॥२॥ अथवा नायमपि पक्षः साधीयान् । एकस्यैव द्रव्यस्यावस्थाविशेषयोगाभ्युपग- मेऽपिब्रह्मस्वरूपस्यैव जडस्वरूपत्वाभ्युपगमात् पूर्ववद्दोषतादवस्थ्यात् । प्रभातदा श्रययोस्तेजस्त्ववदीश्वरजीवजडेष्वनुवर्तमानं ब्रह्मत्वसामान्यं स्याद् ब्रह्म सामान्य वा तदापि पूर्ववद्विरोधः स्यात् । तस्मादिह अंशो नानाव्यपदेशात् । २ । ३।४२ । प्रकाशादिवत्त नैवं परः।२।३४५ । तदनन्यत्वमारम्भणशब्दादिभ्यः ।२।१ । १५ ।
अधिक तु भेदनिर्देशाद् ।२।। १२ । इति पूर्वोतिवदेव विशिष्टाद्वैतवादो द्रष्टव्यः । तथा च चिदचिद्विशिष्टस्य ब्रह्मण एकत्वादद्वैत श्रुतयो न विरुध्यन्ते । विशिष्टस्य विशेषणानतिरिक्तत्वादभेदव्यपदेशो विशिष्टापेक्षया चैकदेशस्य स्वरूपस्वभावभेदाद् भेदव्यपदेश इत्येवमुभयं समञ्जसं भवति ॥३॥ "स वा एष महानज आत्माऽजरोऽमरः । नास्य जरयैतनीय॑न्त"-इत्यादिभि- ब्रह्मणो जडधर्मप्रतिषेवाञ्च विशेषणविशेष्यत्वेनैवांशांशिभाव इति सिद्धम् ॥४॥ इति विशिष्टाभेटेविशेषणभेदाइ भेटव्यवहाराविकरणं रामानुजीयम् ॥०॥ ॥ इति भेदाभेदलक्षणाधिकारः॥१॥ ॥ अथ सर्वप्रभवत्वाधिकारः॥२। आत्मातिरिक्ततत्वाभावः शंकरमते॥१॥ १-परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ १॥ सामा- न्यात्तु ॥ २ ॥ बुद्ध्यर्थः पादवत् ॥ ३ ॥ स्थानविशेषात् प्रकाशा- दिवत् ॥४॥ उपपत्तेश्च ॥ ५ ॥ तथान्यत्रतिषेधात् ॥ ६॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥७॥ यदेततिरस्तसमस्तप्रपञ्च निर्विशेषं ब्रह्म निर्धारितं ततोऽन्यदपि किञ्चित् तत्वमस्ति नास्ति वेति विचार्यते । तत्रादौ पूर्वपक्षः प्रदर्श्यते--अतो निर्विशेषाद् ब्रह्मणः परमप्यस्ति किञ्चित् तत्त्वमितिसतुव्यपदेशाद्, उन्भानव्यपदेशात्, सम्बन्ध- व्यपदेशाद् भेदव्यपदेशाच्च गश्यते । “तथा हि ॥ १ ॥ अथ य आत्मा सेतुर्विधृतिः-” इति ह्यात्मनो ब्रह्मणः सेतुत्वमाचष्टे । एतं सेतुं तीर्वाऽन्धः सन्ननन्धो भवतीति तरति शब्दं चाह । सेतुशब्दश्चावारपार- संयुक्त वस्तुनि रूढ' इति यथालोके सेतु ती जाङ्गलमसेतुं प्राप्नोति एवमिहाप्या- स्मानं सेतुं तीर्वा अनात्मानमसेतु प्राप्नोतीत्यन्योऽप्यर्थः सिध्यति ॥२॥ उन्मानव्यपदेशश्च भवति । “तदेतद् ब्रह्म चतुष्पादष्टाशर्फ षोडशकलमित्या- दिः। उन्मानेन च कार्षापणप्रस्थादिद्रव्येणान्यदुन्मितं भवतीति ब्रह्मणोऽप्युन्माना- दुन्मितं किञ्चिदन्यद्भवेत् ॥ ३॥ संबन्धव्यपदेशश्च-"सता सौम्य संपन्नो भवतीति, शारीर आत्मा प्रज्ञ. नात्मना संपरिष्वक्त" इति चानेकधा दृश्यते । तत्र जीवानां सुषुप्तौ ब्रह्मणा संबन्ध- व्यपदेशादात्मनः परमन्यद्वस्तु सिद्धचति ॥ ४॥ तदा
एवमाधाराधेयादि भेदव्यपदेशोपि यथा “य एषोऽत्तरादित्य हिरण्मयः
पुरुषो य एषोऽन्तरक्षणि पुरुषः" इत्यादित्याधारमीश्वरं व्यपदिश्य ततो भेदेनाक्ष्या-
धारमात्मानं व्यपदिशति ॥५॥
अतिदेशं चास्यामुना रूपादिषु करोति-“तस्यैतस्य तदेव रूपं यदमुन्यरूप-
मित्यादिना । सावधिकं बेश्वरत्वमुभयोराह–थे चामुष्मात् पराञ्चो लोकास्तेषां
चेष्टे देवकामानां चेत्यैकस्य । ये चैतस्मादाचा लोकास्तेषां चेष्टे मनुष्यकामानां
चेत्यपरस्य । तथा चैतेभ्यो हेतुभ्यो ब्रह्मणः परमस्ति ॥ १ ॥
इति प्राप्ते ब्रूमः । सेतुसामान्यात्तु सेतुशब्दोऽयमात्मनि प्रयुज्यते । विधारकत्वं
हि मर्यादानां सेतुसामान्यमात्मनो सृष्टम् । यथा सेतुरवारं च पारं च युगपद्विधरति
एवमयमात्मा भुवं च दिवं च तथा त्रैलोक्यं च ततो बाह्यं च सर्वा मादां युगपद्वि-
धरति । सेतु तीत्वेति तरति शब्दश्च व्याकरणं तीर्ण इत्यादिवदिह प्राप्त्यर्थी
द्रष्टव्यः॥२॥
उन्मानव्यपदेशश्च बुद्धयर्थः क्रियते । नह्यविकारेऽनन्ते भूनि दिग्देशकालाद्य-
नवच्छिन्ने ब्रह्मणि केनापि शक्यते धुद्धिः कर्तुम् । बुद्धः परिच्छिन्नार्थग्राहित्वस्वा-
भाव्यात् । न च बुद्धिस्थिति विना शक्योपासना कर्तुम् । तस्मादपरिच्छिन्यो-
रपि ब्रह्मप्रतीकयोर्मनआकाशयोर्यथा वागादयोऽन्यादयश्च चत्वारश्चत्वारः पादा
आध्यानाय प्रकल्प्यन्ते तथैवायोपि सर्वः परिच्छिन्नत्वव्यपदेश उपासकानां बुद्धिस्थै-
ार्थः प्रकल्पितो द्रष्टव्यः। अथवा यथा व्यवहारप्राचुर्य्याय कार्षापणे पादविभागः
प्रकल्प्यते एवमिहाप्यात्मनि व्यवहबुद्धिप्रवेशार्थः परिच्छिन्नत्वव्यपदेशः प्रक-
ल्प्यते ॥३॥
अथ संवन्धव्यपदेशो भेदव्यपदेशश्चैकस्याप्यर्थस्य स्थानविशेषादुपपद्यते ।
प्रकाशादिवत् । यथैकस्य प्रकाशस्य सौरस्य चान्द्रस्य वाङ्गल्याधुपाधियोगादुपजात-
विशेषस्य भेदव्यपदेशोपि संभवति । उपाध्युपशमात्तु निर्विशेषेण संवन्धव्यप-
देशोपि । यथा वा घटाकाशस्य महाकाशाझेदव्यपदेश औपाधिकः संघटते । उपा-
धिविगमे त्वस्य घटाकाशस्य महाकाशतासंपत्तिरूपसंपद्यते एवमिहापि द्विविधो
व्यपदेश एकस्मिन्नर्थे न विरुध्यते ॥४॥
“योऽयं बहिर्धा पुरुषादाकाशो योऽयमन्तः पुरुष आकाशो योऽयमन्तहृदये
आकाश:-" इत्येवमेकस्याकाशस्य स्थानविशेषादेव भेदस्योपपत्तेश्च । तथैव
चोपाधिभेदाद् भिन्नानामीडशानामुपाधिकृतस्वरूपतिरोभावे "स्वमपीतो भवति-"
इत्येवं स्वरूपसंबन्धस्यैवोपपत्तश्च । तस्मादनन्यस्य निर्विशेषस्यैवायमन्यथा व्यपदेशाः
प्रकल्पिता भाव्यन्त न तु वा ताशनानाव्यपदेशदर्शनाद् ब्रह्मव्यतिरिक्तनानार्थ-
ल्कपता न्याय्या॥५॥
तथाऽन्यप्रतिषेधात् ॥ " स यश्चायं पुरुषे यश्चासावादित्ये स एकः । “स एवा-
धस्तादहमेवाधस्तादात्मैवाधस्तात् सर्व तं परादायोऽन्यत्रात्मनः सर्व वेद । ब्रह्म
वेदं सर्व नेह नानास्ति किञ्चन यस्मात्परं नापरभस्ति किश्चित् तदेतद् ब्रह्मापूर्वमन-
परमनन्तरबाह्यमित्यादिश्रुतिजातेब्रह्मन्यतिरिक्तं वस्त्वन्तरमेका ततः प्रतिषिध्यते ।
सर्वान्तरश्रुतेश्च न परमात्मनोऽन्तरोऽन्य आत्मा कश्चिदुपपद्यते ॥ ६॥
अनेनू सत्त्वादिव्यपदेशपरिक्लप्तपरिच्छेदनिराकरणेन ब्रह्मान्यप्रतिषेधवाक्येन
चास्यात्मनः सर्वगतत्वमपि सिद्धं भवति । आयामशब्दादिभ्यश्च सर्वगतत्त्वं
सिद्धयति । आयामा व्याप्तिः । तथा च श्रूयते-“आकाशवत् सर्वगतश्च नित्यः" ।
"ज्यायान् दिवो ज्यायानाकाशात्" । इत्यादि । स्मर्य्यते च-नित्यः सर्वगतः स्थाणु-
रचलोऽयं सनातनः" इत्यादि ॥७॥
॥ इति आत्मातिरिक्ततत्वाभावाधिकरणं शंकरमते ॥०॥
।
।
ईश्वरातिरिक्त-परतत्त्वाभावो रामानुजमते।
२-रामानुजस्त्वाह-जगत्परमकारणाच्चिदृचिदेकाश्रयरूपात् परब्रह्मणः परमपि
किश्चिदस्तीति पूर्वपक्षीकृत्य निराक्रियते । अत उभयलिङ्गात् परतो ब्रह्मणोपि पर-
मस्ति । “अथ य आत्मा स सेतुर्विधृतिरिति परस्य सेतुत्वव्यपदेशात् । अस्य सेतु-
त्वाच्चेतोऽन्यदनेन प्राप्यमस्तीति गम्यते । एतं सेतुं तीर्वाऽन्धः सन्ननद्धो भवतीति
स्पष्टमन्यस्य प्राप्यस्याभिधानाच्च । “चतुष्पाद ब्रह्म षोडशकलमित्युग्मानव्यपदेशश्च
सेतुना प्राप्यस्य परिच्छन्नत्वं द्योतयति ॥ अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्
अमृतस्यैष सेतु"-रिति सेतुसेतुमतोः प्राप्यमापकत्वलक्षणसम्बन्धश्च व्यप-
दिश्यते । “अक्षरात्परतः पर?” “परात्परं पुरुषमुपैति दिव्यं परात्परं यन्महतो
महान्तम्" तेनेदं पूर्ण पुरुषेण सर्व ततो यदुत्तरतरं तदरूपमनामयम्-य एतद्विदुर-
मृतास्ते भवन्ति अथेतरे दुःखमेवापियनति ॥ इत्यादिभिः स्पष्टमेव च भेदेन परात्परं
व्यपदिशान्ति । तस्मादस्ति किश्चित्परतोऽपि परमिति प्राप्ते ब्रूमः। न परब्रह्मणः परं
किञ्चिदस्ति । “एषां लोकानामसंभेदाय" इति सर्वलोकासांकर्यप्रयोजकता-
रूपसेतुसामान्यात्तु सेतुशब्दप्रयोगात् । सिनोति बनाति स्वस्मिन् सर्वं चिदचिद्ध-
स्तुजातमिति वा सेतुः । सेतु तीत्वैति तरतिः प्राप्त्यर्थः॥१॥
यस्तु चतुष्पाद ब्रह्मपादोऽस्य विश्वा भूतानोत्यादिमानव्यपदेशः स वाक-
प्राणादिपाव्यपदेशवद् बुद्धयर्थः । अन्यथोपासकानामत्रापरिमिते बुद्धयो ने
संचरेयः ॥ २॥
यत्तु कश्चिद् ब्रूयात् । उपासनार्थतायामप्यस्य स्वयमपरिमितस्य परिमाण-
कल्पनं कथं संभाव्येतेति चेत् तत्रोच्यते । स्थानविशेषात् प्रकाशादिवत् तत्संभव-
तीति । यथा विततस्य प्रकाशाइर्वातायनघटादिस्थानभेदैः परिच्छिद्यानुसन्धान-
संभवः तथा प्रतिपन्नवागादिस्थानविशेषरूपोपाधिभेदात् तत्सम्बन्धितयास्य
परिच्छिद्यानुसंधान संभाव्यते ॥३॥
अथ यदुक्तममृतस्यैष संतुरित्युक्त प्रापकात्परं प्राप्यमन्यदस्तीति । तम, तमामे- रस्यद्वाराऽनुपपत्तेः स्वयमेवोपपत्तेश्च । “नायमात्मा प्रवचनेन लभ्यो न मेघया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू स्वामति हि तस्यानन्यलभ्यत्वं श्रावयति॥४॥ यत्तू तं "ततो यदुत्तरतरं परात्परमस्तीति तदपि न । तत्रैव ततोऽन्यस्य परस्य प्रतिषेधात्" । यस्मात्परं नापरमस्ति किश्चिद यस्मानाणीयो न ज्यायोस्ति किञ्चि- दिति । ततो यदुत्तरतरमित्यत्र तु तत इति नापादानपञ्चमी । किन्तु हेतुपञ्चमी। यदुत्तरतरमिदं परं ब्रह्म तदेवारूपमनामयं यतोऽस्ति ततस्तद्वत्तारोऽमृता भवन्तीत्य. थात् ॥ ५॥ अनेन च ब्रह्मणा सर्वगतत्वं सर्वस्य जगतो व्यातत्वमायामशब्दादिभ्यो गम्यते। आयामः सर्वज्यातिः "तेने पूर्ण पुरुरेण सर्वर । नित्यं विभु सर्वगतं सुसूक्ष्वं यह तयोनि परिपश्यन्ति धीराः" "यच्च किञ्चिजगत्यस्मिन रश्यते धूरतेऽपिवा । अन्त- वहिश्च तत्सर्व व्याप्य नारायणः स्थित" इत्यादे श्रवणात् सर्वव्यापकादस्मादन्यस्य नावकाशोऽस्ति । तस्मादिदं परब्रह्मैव सर्वस्माच्चिदचित् प्रपञ्चात् परंन तयोग्यत् परमस्तीति सिद्धम् ॥६॥ ॥ इति ईश्वरातिरिक्तपरतत्वाभावाधिकरणम् रामानुजीयम् ।। ईश्वरस्यफलप्रयोजकत्वम्। फलमत उपपत्तेः श्रुतत्वाच ॥१॥ धर्म जैमिनिरत-एव ॥२॥ पूर्व तु बादरायणों हेतुव्यपदेशात् ॥ ३ ॥ इह हि लोके इष्टानिष्टव्यामिश्रलक्षणं त्रिविधं कर्मफुलं जन्तूनां दृश्यते। तहे- तत्कर्मवशादेवोपपद्यते, अथवा फलदातुरीश्वरादिति चिन्तायामुच्यते । फलमत ईश्वराद्भवति । उपपत्तेः ईश्वरो हि सर्वाध्यक्षो देशकालाद्यभिज्ञत्वात् कम्मिणांका- नुरूपं फलं ददातीत्युपपद्यते । कर्मणस्त्वनुक्षणविनाशितया कालान्तरभाविफलदातृत्वं नोपपद्यते । अभावाद भावानुपपत्तेः॥ श्रुतत्वाच्च । श्रूयते हीश्वरस्यैव फलदातृत्वम् "स वा एष महानज आत्माऽन्नादो वसुदान" "इति एष एवानन्दयति" इति च ॥१॥ जैमिनिराचार्य्यस्त्वत एवोपपत्तेः श्रुतत्वाच्च हेतोः फलदातारं धर्म मन्यते । स्वर्गकामो यजेत इति हि श्रुतिः कर्मजन्यापूर्वस्य धर्माख्यस्य फलदातृत्वं श्रावयति कर्मणो हि सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्थाऽपूर्व नामास्ति इति हि श्रुतिप्रामाण्यादवगम्यते । कर्मणोऽनुक्षणविनाशित्वेपि तजनितापूर्वस्य फलयोग- पर्यन्तमवस्थायित्वमस्तीत्युपपद्यते तस्य कालान्तरभाविफलदातृत्वम् । ईश्वरस्य तु
( ३४ )
-
फलदातृवं नोपपद्यते । अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः।वैषम्यनघृण्य-
प्रतज्ञाच्च तदनुष्ठानवैयर्थ्यांपत्तश्च । तस्मादविव फलं बोध्यम् ॥२॥
बादरायणस्त्वाचाय्यः पूर्वोतमीश्वरमेव फलदातारं मन्यते न तु केवलात्कर्मणः
केळवावपूर्वाद्वा । अपि तु कर्मापेक्षादपूर्वापेक्षाद्वा तस्मादीश्वरात् फलमिति
सिद्धान्तः । तस्यैव हेतुव्यपदेशात् । धर्माधर्मयोरपि कारयितृत्वेनेश्वर एव हेतुळ-
पविश्यते । वायव्यं श्वेतमालभेद भूति कामः । वायुर्वं क्षपिष्ठा देवता । वायुमेव
स्वेन भागधेयेनोपधावति स एवैतं भूतिं गमयतीति देवताया एवं फलदातृत्व.
श्रवणात् । देवताश्च सर्वा वाय्वादयस्तस्येश्वरस्यैव विभूतयः श्रूयन्ते । तदेवाग्निस्त-
दादित्यस्तद्वायुस्तदु चन्द्रमाः इति । अन्तर्यामिब्राह्मणे च “यो वायौ तिष्ठन् यस्य वायुः
शरीरमित्यादिनेश्वरस्यैव वाय्वाभिमानित्यव्यपदेशात् । “एष ह्येव साधुकर्म
कारयति तं यमेभ्यो लोकेभ्य उत्रिनीषते । एष उपवासाधु कर्म कारयति तं यमधो
निनीषते । इति चेश्वरस्यैव कारयितृत्वमाचष्टे । सर्ववेदान्तेषु चेश्वरहेतुका एव
सुष्यो व्यपदिश्यन्ते । एतदेव चेश्वरस्यफलहेतुत्वं यत् स्वकर्मानुरूपाः प्रजाः सृज-
तीति । विचित्रका-नुपपत्यादयोऽपि दोषाः कृतप्रयत्नापेक्षवादीश्वरस्य न
प्रसज्यन्ते"
इति फलप्रयोजकत्वाधिकरएम.॥
॥ इति सर्वप्रभवत्वाधिकारः॥२॥
- अथ सगुणविद्यानिरूपणोऽयमुपासनापादः ३ न्यायावताराधिकारः। सर्ववेदान्तप्रत्ययं चौदनाविशेषात् ॥ १ ॥ भेदान्नेति चेन्नैकस्यामपि ॥२॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधि- काराच सववच तन्नियमः ॥३॥ दर्शयति च ॥४॥ उपसंहारों- अर्थाभेदाविधिशेषवत्समाने ॥५॥ पूर्वप्रकरणे जीवस्य लक्षणं जीवश्लङ्गालीवाधिष्ठितस्य परस्यापि लक्षणं परीक्षितम् । अथैतस्य जीवस्य यात्राप्रकारे दिदयिषिते जीवयांत्रायाः कर्मविद्यो. भयनिबन्धनत्वाद्यानानिरूपणात् प्राक्तन्निमित्तभूते कर्मविद्ये निरूपणमर्हतः । तत्र शुद्धकर्मप्रकारः, कर्मविद्याः कर्माङ्गविद्याश्च पूर्व तन्ने निरूपिताः । अथ कर्माता- श्रितविद्या सगुणब्रह्मविद्यात्वादपरविद्याख्या, . तथाशुद्धविद्या निगुणब्रह्म विद्यात्वात् परविद्याख्या चावशिष्यते । तयोर्निरूपणायैदानी विद्यालक्षणं प्रकरण- मारभ्यते॥ यद्यपि प्रत्यगात्मनो जीवस्यैव निरूपणायेदं प्रवृत्तं शारीरक शास्त्र तथापि तद्भक्तिभूताः सर्वेऽप्यस्तित्मसङ्गानिरूपणमहन्तीति कृत्वा विद्यानिरूपणमपि स्थाने कृतं भवति ॥ तत्र ब्रह्मप्रतीकभूतानामुद्गीथादित्यमनोवैश्वानरादीनां ब्रह्मगुणतया तद्विज्ञानं सगुणविद्या भवति । सैव तावदेतत्पादार्थः ॥ उपासना वासनाराधना विज्ञानं विद्या इत्यनर्थान्तराणि । किन्तु निगुणोपासनायां विद्याशब्दः गुणविद्यायां तूपासनाशब्द एव भूयसोपचर्यते लोके ॥ तथा चायं तृतीय उपासनापादश्चतुर्थस्तु विद्यापाद इति विवक्तव्यम् ॥ * ॥ शाखाभेदादनेकविधाः श्रुतिग्रन्था रश्यन्ते तैत्तिरीयमैत्रायणीयवाजसनेयादयः। तेषु कर्मविशेषा विद्याविशेषाश्च समाननामरूपा विभिन्ननामरूपाश्चोपदिश्यन्ते । तत्रनामरूपादिभेदे कर्मभेदो विद्याभेदश्च निर्विवाद एव किन्तु नामरूपायैक्ये सति शाखाभेदात् ज्योतिष्टोमादिकर्मणी वैश्वानरादिविद्यायाश्चैक्यं प्रतिपत्तव्यं भिन्नत्वं वेति सन्दिह्यते । तत्र तावद् “एकं वा संयोगरूपचोदनाख्याऽविशेषादित्येवं कर्म- मीमांसायां फलसंयोगकर्मरूपकर्मोपदेशक नानाविशेषे कम्मैक्यं सिद्धान्तितम् । तथैवेहापि ब्रह्ममीमांसायां फलसंयोगविद्यारूपविद्योपदेशविशनानामविशेषे सति विद्यैक्यं द्रष्टव्यमिति सिद्धान्तयति । सर्ववेदान्तप्रत्ययमेकं विज्ञानं स्थाच्चोदनाद्य- विशेषादिति । आदिशब्ड्रेन पूर्वशास्त्रोक्तानि संयोगरूपनामानि तथा च नानरूपक- लोपदेशाविशेषे विद्यैकत्वमितिन्यायः सिद्धः ॥ उद्गीथुविद्या, शोण्डिल्यविद्या, पुरुष- विद्या, प्राणसंवादविद्या, देहरविद्या, वैश्वानरविद्या, मधुविद्या, संवर्गविद्या, परिमर- विद्या, 'पञ्चाग्निविद्या, उत्क्रान्तिविद्या, उपकोशलविद्या, षोडशकलविद्या, सविद्या, ।
१९ আe . । भूमविद्या, आनन्दमयविद्या, काशविद्या, अशरविधा, सक्षचिद्विद्या, यज्ञविद्या, विद्या, ब्राह्मविद्या-इत्येवमादयो वहयों दिया वदान्तोपनिषद्विषयाः श्रूयन्ते । तत्र यथा “याह वै ज्येष्ठं च च वेद" इलि बाजलजयिनां छन्दोगानां च समाना चोदना दृश्यते । समानश्च फलसंयोग:-"श्च श्रेष्ठश्च स्थानां भवतीति । समानं च ज्येष्ठश्रेष्ठादिगुणविशेषमान्वितं नाणतत्वं तन विनत्य रूपं भवति । एवं नामापि समानं प्राणविधति । तस्माइकमिदं विज्ञानं सर्ववेदान्तप्रत्ययमभ्युपगम्यते न तु भिन्नम् । एवं पञ्चानिविद्यादेवानरविद्यादिश्वविद्य द्रष्टव्यम् ॥ १ ॥ ननु या गुणभेदः श्रूयते तत्र नैन्यं भवितुमर्हति । यथा छान्दोगा:-पश्चाग्नि- विद्यायां पञ्च संख्ययेवोपसंहरन्ति-"अथ ह य एतानेवं पञ्चाग्नीन् वेति वाज- सनेयिनस्तु षष्ठमप्यपरमग्निमामनन्ति तस्यामिरेवाग्निर्भवतोति । न चैतद्गुणोपसंहारः शक्यते प्रत्यतुं छान्दोग्य--पञ्चसंख्याविरोधात् । तस्मात् षष्टाग्निगुणाया विद्यायाः पञ्चालिगुणया विद्ययेश्यं नोपपद्यते । तथा प्राणसंवादे श्रेष्ठादन्यांश्चतुरः प्राणान् वाक्चक्षुःश्नानमनांसि छन्दांगा आमनन्ति । वाजसनेयिनस्तु पञ्चममप्याहुः-रेतो कै प्रजापतिरित्यादि । तस्मादावापोद्वापभेदेन वेद्यभेदा विद्याभेद इति चेन्न । एक- स्यामपि विद्यायां गुणभेदोपपन्तः। तथा च गुणोपदेशवैषम्येऽधिकस्यान्यत्रापि प्रतिपत्तिरिति न्यायोऽभ्युपेयते । तेन धुप्रभृतीनां पश्चानामनोनामुभयत्र साम्येनोप- देशादेवये निश्चिते क्वचिगुणविशेषः श्रूयमाणोन्यत्राप्युपसंहियते । पठ्यते च षष्टोऽग्नि- श्छन्दोगैरपि-तं प्रेतदिष्टमितोऽनय एव हरतौति पञ्चाग्निसंख्या तूपदिष्टा न विरुध्यते । तस्याः संपादिकायभिप्रायतया विधिसमवायित्वाभावात् । एवं प्राण- संवादादिष्वपि गुणस्याधिकस्यान्योपलंहारो द्रष्टव्यः । रामानुजीयवल्लभीयादीनां तु भेदाभेलि चेदकस्यामपोतिपाः ॥२॥ ननु रूपभेदाद् गुणभेदे मास्तु विद्याभेदः किन्तु धर्मभेदाइ गुणभेदे विद्या- भेदः स्यात् । तथा हितेषामेवैतां ब्रह्मविद्या वदेत शिरोवतं विधिवद् येस्तु चीर्ण- निति मुण्डशिवितवतानाथर्वणिकानामेव विद्योपदेशनियमः श्रूयते । तथा चैषां विद्या प्रति शिवताधरक्षणादन्येषां च तदनपेक्षणाद्विद्याभेदः प्रासोति । तत् प्रत्युच्यते । स्वाध्यायस्यैष धर्मो न विद्यायाः । तथा हि मुण्डकोपनिषदध्ययनधर्मतये- वायं शिरोव्रतोपदेशनियमः क्रियते । समाचाराख्ये वेदव्रतोपदेशपरे ग्रन्थे स्वाध्याय- धत्वेनैव ब्रतान्तराण्युपायस्थ तेषामपि शिरोनतोक्तसर्वकर्मप्राप्तये "इदमपि वेदव्रतेन व्याख्यातम्" इत्येवं वेदव्रतापरपर्यायशिरोवतसाधातिदेशात् ॥ नैतदचीर्णवतो. ऽधात इतिचाध्ययनशब्दसंयोगादध्ययनाधिकाराच्च । अत्र तथात्वेनेति तृतीया. पाठे सतीपाठो रामानुजादीनाम् । तथा चायमर्थो भवति । स्वाध्यायस्य तथात्वे हि तनियमः । स्वाध्यायस्य स्वजन्यसंस्कारोत्पत्तिद्वारा स्वाध्यायत्वसिद्धयर्थे शिरोन्नतो- पदेशनियमो द्रष्टव्यः । नैतदचोर्णवतोऽधीयोतेति तस्याध्ययनसंयोगात् समाचारेधि- कारश्च ॥ समाचाराख्ये ग्रन्थे इदमपि वेदव्रतेन व्याख्यातमित्यतिदेशात् ॥ सववच्च वनियमः । पथी आरोगोम्राजः पटरः पतङ्गः स्वर्नरो ज्योतिषीमान् विभाम. इति सप्त - ।
सौर्योपक्रमाः शतौदनपर्यन्ताः सवहोमाः आथर्वणिकैकाग्निसंवाधादुक्ता इति तेषा- मेवैते नियम्यन्ते न तु वेदान्तरोदितरेताग्निषु ते क्रियन्ते ॥ तथायमपि धर्मो मुण्ड. कादिस्वाध्यायविशेषसंबन्धात् तत्रैव नियम्यत इतिसिद्धम् ॥ तस्माद्धर्मभेदेपि न विद्याभेदः ॥ स्वाध्यायविशेषकारणं धर्माणामुपदेष्टुभेदस्य च विद्याविशेषकत्वा- भाव इतिन्यायानुगमात् ॥ ३॥ दर्शयति च वेदोपि विद्यकत्वम् । “सर्वे वेदा यत्पदमामनन्ति' इति सर्व- वेदान्तेषु वेद्यैकत्वोपदेशात् । “एतमेव बढचा महत्युक्थे मीमांसन्ते एतमन्नावध्वयंव एतं महावते छन्दोगाः" इत्यादिभिरप्येकस्यैव सर्वत्र वेधत्वं प्रतिपाद्यते ॥ ४॥ तदित्थं वेदभेदादुपदेशभेदेऽपि विद्यैकत्वं न बिहायते इत्यतः समाने विज्ञानेऽन्यवेदोक्तानां तद्विज्ञानसंबन्धिनामधिकगुणानामन्यवेदोक्तविज्ञानेप्युपसंहारः शक्यः कतु मभेदात् । एको लुभयोर्वेदयोः संविज्ञानार्थः । यथाग्निहोत्रादिकर्म कचिन्न्यूनगुणं क्वचिदचिकगुणं चान्यान्यशाखासूक्तं तत्राप्यर्थाभेदादधिकोक्तो विधि- शेषो न्यूनगुणेऽथुपसंहियत तद्वत् ॥ तया च समाने नाम रूपफलोपदेशे विद्यैकत्व- प्रतिपत्तेन्यूनगुणेऽधिकगुणोपसंहारः स्यादिति न्यायोऽवसेयः । तेन छन्दोगानां- पञ्चाग्निविद्यायामनुक्तोपि षष्ठोऽग्निनाजसनेयानामुक्तचा समुच्चीयते । प्राणसंवाद च छान्दोग्योक्ते प्राणचतुष्फे पञ्चमो रेतःप्राणोपि वाजिनिर्दिष्टः संगृह्यते । एवं चोद- नाधविशेषाद्विद्यैकत्वमेकत्वे च गुणोपसंहारः कर्तव्य इत्युक्तम् । एतत्सूत्रार्थः सर्वा- भेदादित्यारभ्य पुनः प्रपञ्चयिष्यते ॥ ॥ * इति विद्याशेषोपसंहाराधिकरणम् * अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ १॥ न वा प्रकरण- भेदात् परोवरीयस्त्वादिवत् ॥ २ ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥३॥ व्याप्तेश्व समञ्जसम् ॥ ४॥ अस्युद्गीथविद्या वाजिनां छन्दोगानां च । तत्र कनीयसा देवा ज्यायसा असुरा इत्युभये प्राजापत्या एषु लोकेण्वस्पर्धन्त । तत्र,देवा यज्ञे उद्गीथेनासुरानत्यया. मेत्युक्त्वा वाकप्राणचक्षुःश्रोत्रमनांस्यूचुः यूयं न उदायतेति । तेभ्यो वागादय उद- गायन् । ये पागादिषु भोगास्तान् देवेभ्य आगायन् । यत्कल्याणं वदति, जिघ्रति, पश्यति, शृणोति, संकल्पयति वा तदात्मने । अथासुरा विदुरैनै न उद्गातृभिरत्येष्य- न्तीति तानभिद्रुत्य पाप्मनाविध्यन् । यदेवेदमप्रतिरूपं वदति जिघ्रति पश्यति शृणोति संकल्पयति वा स एव स पाप्मा । एवं खल्वेता देवताः पाप्मभिरुपासृजन्। एवमेताः पाप्मनाऽविध्यन् । ततो देवा आसन्यं प्राणमूचुस्त्वं न उगायति । तेभ्य, एष प्राण उदगायत् । तमप्यसुरा अभिद्रत्य पाप्मनाविध्यन् किन्तु यथाऽश्मानमृत्वा लोटो विध्वंसेत एवं ते विध्वंसमाना विध्वञ्चो विनेशुः ततो देवा अभवन् असुराः पराभवन् । य एवं वेद सोऽप्यात्मना भवति द्विषन् भ्रातृव्योस्य पराभवतीति हि बाजिनां विद्यारूपम् । । ॥
छन्दागानां तु "देवा सुरा उभाः प्राजापत्याः संपतिरे। तत्र दवा उद्रीथमा- हुरने नानभिभविष्याम इति। ते नालिज्यमाणं वाचं चक्षुः श्रोत्रं मनश्चौद्रीय- मुपालांचक्रिरे । तानसुरतापाप्मना विविधुः । तेन सुरभि च दुर्गन्धि चोभयं जिनति सत्यं चानृतं चोभयं वदति । दर्शनीयं चादर्शनीयं चोभयं पश्यति। श्रव्यं चा- श्रव्यं चोभयं शृणोति । संकल्प्यं चासंकल्प्य चौसर्थ संकल्पयते । पापाना होतानि विद्धानि । ततो मुख्यप्राधामुद्रीथमुपासांचक्रिरे । तं हासुरा ऋत्वा विध्वंस्तुर्यथा- इमानमाखर्णकृत्वा विश्वसत् एवं हैव सविध्वंसते य एवंविदि पापं कामयते यश्च। नमभिदासति । स एषोऽश्माखणः । अपहत्तपाप्मा ह्योषः। तेन यदनाति यत्पिबति तेनेतरान् प्राणानवति । एतमेवान्ततोऽबित्वोरकामति व्याददात्येव हा तत इलि ॥ तयङ्गिराश्च बृहस्पतिश्चावास्यश्चोगीथमुपासांचक्रिरे । इति विद्यारूपं भवति । तत्रसंशय्यते--एकविध बा नानाविध वेति। तत्र विदिधारवर्थगतचोदनायाः शत्रुपरिभवरूपफलसंयोगस्य. उदीयद्वारकवविजयारपराभवात्मकविद्यारूपस्य, उद्गीथविद्याना तश्चाविशेषात् पूर्वाधिकारल्यायेनेकविधं प्राप्नोति । तत्रेदमाशययते- इह हि रूपान्यथात्वं वा शब्दात् प्रतीयते वाजिनां तावत त्वं न उगायेति तेभ्यः प्राण उदगायदित्येवं प्राणकत कोदानादसुरे पराभवः प्रोक्तः छन्दोगानां तु मुख्यप्राणमुद्गीथ- मुपासांचक्रिरे इतिप्राणकर्मकोपासनाधर्मादखुरपराभवः प्रोच्यत । तदित्यं श्रुति- शब्दादेवान्यथात्वं प्राप्नोति न तु ताप्यमिति । एवमप्यविशेषान विद्यकत्वं न्याहन्यते । अविशेषेण धुभयत्रोपक्रमे ॥ “असुरान् यज्ञे उद्गीथेनान्ययाति, अनेनैता- नभिभविन्याम इनि चोद्गीथेनवाजुद्रपराभव उपक्रान्तः । मुख्य प्राणपरिग्रहणादेव चा- सुरपराभवोऽन्ते निर्णीत इत्युपक्रमोपसंहारयोरविशेषादैकविद्यं प्रतिपद्यामहे । अथ सिद्वान्तमाह । नवा विद्यैकत्वमन्त्रात्याव्यम् प्रकरणभेदात् । छान्दोग्ये तावत् ओमित्ये- तदक्षरमुद्गीथमुपासीतेत्येवमुद्गीथावयवस्योंकारस्योपासनामुपक्रम्य तद्विषयतयैव देवासुराख्यायिकाद्वारा तं प्राणमुद्गीथमुपासांचक्रिरे इत्याह । तत्र प्राणमुद्गीथमिति सामानाधिकरण्योक्तावपि उपक्रमानुरोधावयवे ओंकारे प्राणष्टिरुपदिश्यते । तेनैत. मुद्गीथावयवप्रणवोपासनं विज्ञायते । वाजसनेयके त्वग्यवग्रहणकारणाभावादुद्गीथस्य सकलैव भक्तिः प्राणत्वेन निरूप्यते इतिकृत्स्नोगीथविषयमधीयते तस्मादेतत् प्रस्थाना- न्तरंभवति । प्राणमुद्रीथमिति उद्गीथसामानाधिकरण्यं तदातृतयैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति ने ततो विद्यैकत्वं सिध्यति । प्रकरणभेदाद् विधेयभेदेन रूपभेदाइ परोवरीयस्वादिवत् । यथा परमात्मदृष्टयध्याससाम्यपि आकाशो होवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनातः" ॥ इति -पवरीयस्त्वादिगुणविशिष्टमुद्गीथोपालनमक्ष्यादित्यगतहिरण्यश्मश्रुत्वादि- गुणविशिष्टोद्गीथोपासनाद्भिद्यते । एवमिहाप्युपक्रमभेदाद विद्याभेद इति सिद्धान्तः॥ ननूभयोरपि विद्ययोगीथविद्यत्येका संज्ञा भवति । संजैकत्वाच्च लिये. कत्वं न्याय्यमिति चेत् तदुक्तं नानाविधं न वा प्रकरणभेदादिति । प्रकरणभेदाच्च विद्याभेदे सिद्ध मंझातो विद्यैक्यं नोपपद्यते अस्ति तु तदपि संकत्त्वं प्रसिद्ध दे.
बपि परोवरीयस्त्वाद्युपासनेद्रीयविद्यति । तस्माद्रपरक्षया रूपस्य प्राबल्यातदनु-
रोधेन विद्याभेदे सिद्ध संशैकत्वमायोजकं बोध्यम् । अत एव संवर्गाविद्यापरिमर.
विद्ययोः संज्ञाभेदेपि रूपैक्याद्विद्यैक्यमिच्छन्ति केचित् । रामानुजस्विद सूत्रमित्थं
व्याचष्टे । समानसंज्ञातस्तद्विद्यैक्यमुक्तं चेत् तदपि सक्यं छान्दोग्ये प्रथमपाठको.
कासु बहीषु भिन्नास्वपि विद्यासुदीवविद्येत्येवमस्ति किन्तु न ततस्तासु विद्यक्य-
मध्यवसीयते तद्वदिहापि विद्याभेदो द्रष्टव्य इति ॥ ॥ इत्थं विद्यैश्यं विद्याभेदो
वेति विरुद्ध मतद्वये व्याप्तिदर्शनाद्धेतोः समञ्जसं च पश्यामः । तथाहि छान्दोग्ये
तावत्-ओमित्येतदक्षरमुद्गीथमुपासीतेतिप्रणवोद्गीथोपासनविज्ञानं भिन्न भिन्ना-
सूदीथप्रसङ्गादभिव्याप्तोतीति दर्शयितुमादौ प्रणवोद्गीथोपासनं प्रस्तुत्य नानाविधा
उद्गीथविद्यास्तत्र संगृह्य पठ्यन्ते । तथा च तत्र प्रणवोद्गीथोपासनविद्याया एव
प्रस्तुतत्वात् तस्याश्च पञ्चखण्डान्यावदभिन्यातस्तन्मध्यपतितया द्वितीयखण्डामिक
याल्पीयस्योगीथविद्यया नैन्यं संभवति। ततो विद्याभेदः संप्रतिपन्नः। किन्तु "देवा.
सुरा हवै यत्रेत्यारभ्य-योक्तीयं द्वितीयखण्डात्मिकोगोथविधा, निश्यिते तस्या
वाजसनेयायुक्तयोद्गीथविद्यया भेदो नास्तीति विद्यैक्यं संप्रतिपन्नम् । तस्मादुभयस-
मजसम्॥४॥
॥ इति विद्यान्तर्गतविद्यार्या भेदाभेदसामनत्याधिकरणम् ॥
रामानुजस्तु व्याप्तश्च समासमिति सूत्रमन्यथा ध्याचष्ट्र-तथाहि छान्दोग्य
प्रथमप्रपाठके उत्तरास्वप्युद्गीथविद्यासूद्गीथावयवस्थ प्रणवस्य प्रथमप्रस्तुतस्य
व्यातहतोस्तत्प्रकरणपठितस्य "तद्ध देवा उद्गीथमाज रित्युद्गीथशब्दस्य प्रणव-
विषयत्वमेव समअसं भवति ॥ अवयवे च समुदायशब्दस्य पटो दुग्ध इत्यादिषु
दर्शनादुद्गीथावयवेऽयुद्गीथशब्दप्रयोगसंभवाच्छान्दोग्य उद्गीथशब्देन गृहीत-
प्रणवः एव प्राणदृष्टयोपास्यतया निर्दिश्यते । वाजसनेयके तु कृत्स्नोद्गीथकर्तादूगाता
प्राणदृष्टयोपास्य इति विद्यानानात्वंसिद्धम् ॥ ४ ॥
इति विद्यान्तर्गतविद्यायां रूपाक्यपि विधानानात्वाधिकरणं, शंकररामानुजादीनाम् ॥ ७॥
शंकरस्त्वनेन सूत्रेण अधिकरणान्तरमपेक्षते । तथाहि-ओमित्येतदक्षरमुद्गीथ
इति श्रुतावक्षरोद्गीथशब्दयोः सामानाधिकरण्यश्रवणात् तत्र चत्वारः पक्षाः प्रति-
भासन्ते अध्यासी वापवादो वैकत्वं वा विशेषणं वा । बुद्धिपूर्वकाभेदारोपोध्यासः।
तत्र हि द्वयोर्वस्तुनोः स्वस्वबुद्धावनिवर्तितायामेवान्यत्रात्यबुद्धिरनुवर्यते । अथ
चैत्रो मम हस्त इत्यत्र चैत्रे हस्तबुद्धिः क्रियते न तु हस्तबुद्धया चैने बुद्धिकिार्यते ।।
एवमिहाप्यक्षरे उद्गीथ बुद्धिरध्यस्यते उद्गीथे वाऽक्षरबुद्धिरित्येकः पक्षः॥१॥
अथ बाधोऽपवादः । तत्र हि मिथ्याबुद्ध चाऽन्यथाप्रतीते क्वचिद्वस्तुनि पश्चादु-
पजातया यथार्थबुद्धया पूर्वस्या मिथ्याबुद्धनिवृत्तिः क्रियते । यथा सर्पत्वेन गृही-
तायां रजो पश्चादुपजातया रज्जुबुद्धया सर्पबुद्धिनिवृत्तिः। एतमिहाप्यक्षरबुद्धचो.
दूगीथबुद्धिरपोद्यते उद्गीथबुद्धयाक्षरखुद्धिर्वा इतिद्वितीया पक्षः ॥२॥
अथकत्वं वास्तवामंदः । तत्रयोः शब्दवोरनतिरितार्थवृत्तित्वं विवक्ष्यते। यथा द्विजोत्तमो ब्राह्मणी भूमिदेव इति एवमिहा यक्षरोद्गीथशब्दयोरैकार्थ्यम् ।। इति तृतीयपक्षः ॥३॥ अथ विशेषणं व्यावर्तकम् । तत्र हि समुदायस्य व्यापकार्थस्य विशेषणे. नेतरवारजनादया तहेकदेशे व्यापये उपरोधः क्रियते । यथा नीलमुत्पलमितिनील. पीतादि सर्ववर्णसाधारणोत्पलशब्दः पोतादिव्यावृत्त्या नीलमात्रे विश्रान्यते-~-एक- मिहापि सर्ववेदव्यापिनः प्रणवस्यौड़गानविषयमाने पर्यवसानं क्रियते-उद्गीथो य ओंकारस्तमुपासीतेति चतुर्थपक्षः ॥ ४॥ तदित्थं चतुर्वपि पक्षेष्वनिर्धारणप्राप्ताविदं निर्धार्यते-व्याप्तश्च समासमिति ओमित्येतदक्षरस्य व्यातेः सर्ववेदव्यापकार्थत्वात् सर्वविधस्य ग्रहणप्रसङ्गे विव- क्षितस्यौद्गात्रविषयस्यैव ग्रहणार्थमुद्गीथमित्येतद् विशेषणं समअसं भवति ।। अत्र बमः-नेदं शंकरव्याख्यानमतीव समासं भवति । सूर्याक्षरस्वारस्येन ताशार्थस्या- प्रतिपत्तेः विद्युक्यानक्यविचारप्रसंगे ताशार्थविचारस्याप्रासनिकत्वाच्च ॥ 6 । इत्युद्गीथाक्षरोपासनाधिकरणम् ॥ शङ्करमतेन ॥ सर्वाभेदादन्यत्र मे। छान्दोग्ये वाजसनेयके कौषीतकीये च प्राणसंवाद विद्या श्रूयते । तथाहि "प्राणो ज्येष्ठः श्रेष्ठश्च । वाग वसिष्ठा । चक्षुः प्रतिष्ठा । श्रोत्रं संपत् । मन आयतनम् । अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानह श्रेयानितिाते प्रजापति पितरमुचुः भगवन को नः श्रेष्ठ इति । स उवाच । यस्मिन् व उत्कान्ते शरीरं पापिष्ठतरमिव श्येत स वः श्रेष्ठ इति ततो वाचि तावदुकान्तायाम्-अवदन्तोऽपि तेऽकला अजीवन् । अविशेषतो वाक । अथ चक्षुषि श्रोत्रे मनसि च क्रमेणोकान्तेऽन्धा बधिरा बालाश्च तेऽजीवन् । ततस्ते पुनः प्रविविशुः । अथ प्राण उत्क्रान्तुमिच्छन् यथा सुहयः पइवीशशंकून संखिदेदेवमितरान् प्राणान् संबबह। ततस्ते तमूचुः॥ त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति । या वाग वसिष्ठा त्वं तद्वसिष्ठोसि । यच्चक्षुः प्रतिष्ठा, त्वं तत्प्रतिष्ठासि । यच्छ्रोत्रं संपत् त्वं तत्संपदसि । यन्मन आयतनं त्वं तदायतनमसीति । वाक् चक्षुःश्रोत्रमनां- स्यपि प्राणा इत्येवाचक्षते। प्राणी ह्येवैतानि सर्वाणि भवन्तीति छान्दोग्ये (५। १)॥ वाजसनेयकेऽप्येवं सर्व किन्तु रेतः प्रजापतिरप्यत्र षष्ठः प्राण आख्यातः । तस्मि- गोमाते क्लीवा अप्रजायमाना अजीवन्निति होवाच (६। १) कौषीतकीये तु- अथातो निःश्रेयसादानम् । एता देवता अहंश्रेयसे विषिदमाना अस्माच्छरीरादुच्च- क्रमुः। तदारुभूतं शिश्ये । अथैतद्वाकचक्षुःश्रोत्रं मनश्च प्रविविशुः तद्वदत्पश्यच्छ- ण्वंद्ध्यायच्छिश्य एव । अथैतत् प्राणः प्रविवेश तत् तत् समुत्तस्थौ । तहेवाः प्राणे निःश्रेयसं विचिन्त्य प्राणमेव तत्प्रज्ञात्मानमभिसंस्तूय सहैतैः सर्वैरस्माल्लोकादु- 'च्चक्रमुः। ते वायुप्रतिष्ठाकाशात्मनः स्वर्ययुः (२११४) । इत्येवमियं प्राणसंवाद- विद्या नायते । तथा च न्यूनाधिकभावेनाख्यानात् रूपभेदात् संशयो भवति । किमियं विद्या भिद्यते न वेति । तत्रेदमुच्यते नात्र विद्याभेदः कल्प्यः । किन्तु सर्वा- भेदादन्यत्र इमेऽनुक्ता गुणा उपसंहा- इति । प्रतिज्ञातप्राणज्यैष्ठ्यत्रैष्ठ्यौपपादन- प्रकारस्य सर्वस्य सर्वत्रैकरूप्यादेकविध प्रतिपन्ने सायन्यत्रोक्ता इमेऽधिकगुणा अन्य- त्रापि नेयाः स्युः । तथा च छान्दोग्येपि रेतसः प्रजापतेः प्रवेशः कार्य्यः । कौषीतकी- येऽपि वसिष्टत्वादयो वागादिगुणा भाव्यास्ते प्राणे प्रत्यर्पणीयाश्च। तदित्यमेकप्रधान- संबद्वाधर्मा एकत्रैवोच्यमानाः सर्वत्राप्युपनेयाइति सिद्धम् ॥ इत्थं शङ्करोदयः सूत्रमे- तद् व्याचक्षते । तन्न साधु प्रतीमः। एतद्व्याख्यानस्य-"उपसंहारोऽर्थाभेदादिति सूत्रेण गतार्थत्वादेतत्सूत्रस्य वैयर्थ्यापत्तः । न हि भगवान् कृतधीराचार्यः सूत्रद्वय- मेकार्थं वृथा ब्रूयात् । तस्माच्चिन्त्यमेतत् ॥ इन्-िशूणोपसंहारााधिकरणम् शंकरादिमतेन ॥ ७ ॥ आनन्दादयः प्रधानध्य ॥१॥ प्रियशिरस्त्वाद्यप्राप्तिरुपच- यापचयौ हि भेदे ॥२॥ इतरे त्वर्थसामान्यात् ॥३॥ आध्यानाय प्रयोजनाभावात् ॥४॥ आत्मशब्दाच ॥ ५॥ आत्मगृहीतिरि- तरवदुत्तरात् ॥ ६ ॥ अन्वयादिति चेत् स्यादवधारणात् ॥७॥ ६ रामानुजानुसारेणादौ व्याख्यायते । सर्वाभेदादिति पूर्वसूत्रतोऽभेदादित्यनु- वर्तते प्रधानस्य गुणिनी ब्रह्मणः सर्वेपासनेष्वभिन्नत्वादानन्दादयों ब्रह्मस्वरूपणा एकत्रोपदिष्टा अन्यत्रापि सर्वासु विद्यासु ब्रह्मगुणतयोपसंहर्तव्याः। ननु तर्हि तस्या- नन्दस्य धर्माः प्रियशिरस्त्वादयोऽपि सर्वत्र ब्रह्मगुणतया प्रसज्येरन् इति चेन्न । प्रिय- शिरस्वादीनां ब्रह्मण्यप्राप्तिः, तेषां ब्रह्मणः पुरुषविधत्वरूपणमात्रान्तर्गतत्वेन ब्रह्मगुण- त्वाभावात् । अन्यथा शिरःपक्षपुच्छाधवयवभेदाद् ब्रह्मणोऽप्युपचयापचयौ प्रसज्ये- याताम् । यद्यपि भगवद्विग्रहविशेषो नित्योऽभ्युपगम्यते नित्यो च परमयामनिलये- ऽस्मिन् भगवद्विग्रहे तदंशभूतव्यूहविभावादिविग्रहप्रवेशनिर्गमावभ्युपगम्यते । तदंश- भूतेषु च विग्रहेषु बाल्ययौवनवामनवमहीयस्वादिकं च दृश्यते तथापि तस्य स्वेच्छायतत्वादविरोधः । ननु प्रियशिरस्त्वादीनामप्राप्तावपि कारुण्यगाम्भीर्योदा- र्यादयोऽनन्ता ब्रह्मगुणाः सर्वत्र प्रसज्येरनिति वेन इतरे त्वानन्दादयोऽर्थसान्यात् सर्वत्रानुवर्तन्ते । तेहि आनन्दसत्यज्ञानानन्तत्वामलत्वादयो ब्रह्मगुणा अर्थप्रतीत्यनु- बन्धित्वादर्थसमाना एव सन्तीत्युपास्यब्रह्मस्वरूपावगमाय सर्वासु विद्यास्वनुवर्तते। ये तु निरूपितस्वरूपस्य ब्रह्मणः कारुण्यादयो गुणाः ब्रह्मनिष्टतया प्रतिपद्यन्ते ते यत्र श्रुतास्तत्रैव भाव्या न त्वन्यत्रोपसंहार्य्याः । आश्रितधर्माणां तेषामर्थसमानत्वा- भावात् ॥
. मनु यदि प्रियशिरस्त्वादयो धर्मा ब्रह्मणः पुरुषविधावनिरूपणमात्रार्थाः कोश- गुणा न ब्रह्मगुणास्तर्हि तथात्वेन ब्रह्मनिरूपणं किमर्थ क्रियते तत्राह-आध्यानाय प्रयो- जनाभावात् । आध्यानमनुचिन्तनमुपासनम् । न चाध्यानं निर्गुणस्थोपपद्यते। तस्मादन्नमयप्राणमयमनोमयक्रगेणास्मिनानन्दमये कोशेऽपि कल्पितावयचे चित्तस्थै- र्यद्वारा तदन्तःप्रविष्टे निर्गुणे ब्रह्मणि चित्तावस्थानसिद्धये कोशगुणोपन्यासो ब्रह्मणि क्रियते न त्वन्यप्रयोजनार्थम् । प्रयोजनान्तरानुपपत्तः । आत्मशब्दाच्च । अथोऽन्तर आत्मानन्दमय इत्यात्मशब्देन प्रतिपन्नस्य शिरःपक्षपुच्छादिप्रयोजनं किमपि नास्तीत्यतस्ते आध्यानार्था एव स्युरिति प्रतिपद्यामहे ।। नन्वयमात्मशब्दोऽनमयप्राणमयादिप्वनात्मस्वपि दृश्यते तथा च कथमात्म- विषयत्वं तस्याध्यवसेयमिति चेत् तत्राह-आत्मगृहीतिरितरवदुत्तरादिति।आत्मग्रह- णमिहेतरे साम्ये तद्रष्टव्यम्-यथेतरत्र-"आरमा वा इदमेक एवाग्रे आसीत्" इत्या- दिषु परमात्मनो ग्रहणं तथेहाप्यस्तीति गम्यते । “सोऽकार चद् बहु स्यां प्रजायैयेत्या- नन्दमयविषयादुत्तरंवाक्यात् । पूर्वान्नमयप्राणमयमनोमयादिष्वनात्मस्वात्मशब्दान्व- यादिहात्मशब्दो नेतरवत्परमात्मवचनः स्यादिति चत् तत्रोच्यते । स्यादेवायं परमा- रमवचनोऽवधारणात् । पूर्वत्रापि “तस्माद्वा एतस्मादामन आकाशः संभूत इत्यादिना परमात्मैव बुद्ध्यावधारितः। स एवान्नमयादिण्वन्तरान्तरक्रमेणावतार्य- माणः सन्तिरेऽस्मिन्नानन्दमये तदन्तराभावाद्विश्रान्तः । उत्तरत्र च सोऽकाम- यतेत्यादिवाक्ये स एव प्रक्रान्तः परमात्मा परापृश्यते । तस्मात् परमात्मैवायमात्मा स्यात्। तस्याध्यानायैव च प्रियशिरस्त्वादिकल्पनाऽस्तीति वस्तुदृष्टया ब्रह्मणि तेषामपानिरभ्युपगम्यते । आनन्दत्वादयस्तु धस्तित्रोपपद्यन्त एवेति सिद्धम् ॥ इति रामानुजमतेन पञ्चकोशविद्यायामात्मस्वरूपवर्माश्रितधर्मयोल्पसंहारा- नुपसंहाराविवेकाधिकरणम् ॥ रामानुजायनुसारेण सप्तभिः सूत्ररित्थमैकाधिकरण्यं व्याख्यातम् । शङ्कर- स्तत्र त्रिभिः सूत्ररेकं पश्चाद् द्वाभ्यां द्वाभ्यामेकमेकमित्यधिकरणत्रयमारचयति । तथा हि-आनन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मकत्वमित्येवंजातीया ब्रह्मधर्मा भिन्नभिन्नासु श्रुतिषु क्वचित्तचिच्छ्यन्ते । ते यावन्तो यत्र श्रूयन्ते तावन्त एव तत्र भाव्या उत सर्वे सर्वत्रेति सन्दिह्यते तत्रोच्यते । आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र भाव्याः । सर्वाभेदाद्गुणोपसंहाराधिकरणन्यायात् । सर्वत्र हि गुणोपदेशे तदेवैकं प्रधानं विशिष्यं ब्रह्म न भिद्यते । नन्वेवं सत्यानन्दमयधर्मतयोक्ताः प्रियशिर- स्वरश्योऽपि धर्माः सर्वत्र संकीर्खेरन् इति चेत्तत्राह-प्रियशिरस्त्वादानां धर्माणां तैत्तिरीयकोक्तानामन्यत्र प्राप्तिास्ति । प्रियमोदप्रमोदानन्दानां परस्परापेक्षया भोक्त- भेदापेक्षया वोपचितापचितरूपत्वात् भेदेऽप्युपचयापचयो संभवतो निर्भेदं तु ब्रह्म श्रूयते-एकमेवाद्वितीयमिति तस्मात् कोशधर्मा एते प्रियशिरस्त्वादयो न ब्रह्मधर्मा इत्यानन्दमयोऽभ्यासादिति सूत्रे निरूपितम् ॥ उपचितापचितगुणत्वं हि सति भेद- व्यवहारे सगुणे ब्रह्मण्युपपद्यते । न निर्गुणे परस्मिन् ब्रह्मणि । अतएव सत्यकामत्व- (४३) संपद्धामस्वादिधर्माणामप्यस्मिन्निर्गुणे निर्विशेषे परब्रह्मण्यप्राप्तिः प्रतिपत्तव्या॥ ननु तर्हि निर्धर्मकत्वादस्मिन्नानन्दसत्यज्ञानादयः स्वरूपधर्मा अपि प्रतिषिद्धाः स्युरिति चेन्न । इतरे त्वानन्दादयो धर्माः प्रतिपत्तिमात्रप्रयोजना अर्थस्य प्रतिपाद्यब्रह्मणः सर्वत्र प्रतिपद्यन्ते न क्वापि प्रतिषिध्यन्ते। इति शङ्करमतेन स्वरूपेतरवाणां परब्रह्मत्तित्वप्रतिषेधाधिकरणम् ॥ आध्यानाय प्रयोजनाभावादात्मशब्दाच्च । इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मन इत्यारभ्य, पुरुषान परं किञ्चित् सा काष्ठा सा परा गतिरिति काड पठ्यते। तत्र सर्व इमेऽर्थादयस्ततस्ततः परत्वेनाल्या- यन्ते अथवा पुरुष एव सर्वेभ्यः पर इष्यते इति संशये ब्रूमः । पुरुषएवेभ्यः सर्वेभ्यः पर इष्यते न प्रत्येकमेव परो विवक्ष्यते । प्रयोजनाभावात् । नहीतरेषां परत्वप्रति- पादने किश्चित् प्रयोजनं दृश्यते श्रूयते वा । पुरुये त्विन्द्रियादिभ्यः परस्मिन् प्रतिपन्ने मोक्षसिद्धिः प्रयोजनम् । श्रूयते हि-निचाय्य तं मृत्युमुखात् प्रमुच्यते इति । पुरु- षान्न परं किञ्चिदिति परप्रतिषेधेन काष्ठादिशब्देन च पुरुषविषयसादरं दर्शयन् पुरुषप्रतिपत्यथैव पूर्वापरप्रवाहोक्तिरिति दर्शयत्याध्यानायेति । सम्यग दर्शनार्थाया- ध्यानायेत्यर्थः आत्मशब्दाच्च पुरुषप्रतिपत्त्यर्थै वेयमिन्द्रियादिप्रवाहोक्तिर्गम्यते यतः "एष सर्वेषु भूतेषु गूढामा न प्रकाशते। दृश्यते त्वाया बुद्धया सूक्ष्मया सूक्ष्मदर्शि- भिरित्येवं हि तस्मिन्नेव पुरुषे आत्मशब्दं विधत्ते । अतश्चानात्मत्वमितरेषां विवक्षित- मिति गम्यते । तद्विज्ञानायैव च यच्छेवाङ्मनसी प्राज्ञः"-इत्याध्यानं विदधाति । व्याख्यातं चेदमानुमानिकमप्येकेषामित्यत्र (१।४।१ ) अपि च । सोऽध्वनः पार- मामोति तद्विष्णोः परमं पदमित्युक्तं किं तवनः पारमित्याकाङ्क्षायां तत्परमपद- प्रतिपत्त्यर्थ एवायनायास इत्यवसीयते ॥ इति शङ्करमतंन पुरुषपरत्वाधिकरणम् ॥ आत्मगृहीतिरितरवदुत्तरात् ॥१॥ अन्वयादिति चेत् स्याद- वधारणात् ॥ २॥ - वाजसनेयके “कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः"- इत्यात्मशब्देनोपक्रम्य “ल वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म (३०४ । ४) इत्येवें तस्य सर्वसङ्गविमुक्तब्रह्मात्मत्वमवधारयति ॥ छान्दाग्ये "सदेव सौम्येदमन आसीदेकमेवाद्वितोयम्" इत्यात्मशब्दं विनवोपक्रम्योदके "स आत्मा तत्त्वमसीलगात्मशब्डेनोपसंहरति । तथा चैतयोरान्नानयोरुपक्रमभेदा- देकार्थ्य नास्तीति प्राप्त उच्यते । आत्मगृहीतिरितरवत् द्रष्टव्या । सदेव सौम्येद- मिति छन्दोगाम्नानेऽपि “कतम आत्मा"-इत्यादीतरामानवदात्मन एव ग्रहमस्ति ।
उत्तराद् “स आत्मा तत्त्वमसीत्युदर्कवाक्येन तादात्म्योपदेशात् । ननूपक्रमस्या वया. दुपक्रमे चामशब्दश्रवणाभावानात्मगृहीतिरिति चेत् तत्र बमः स्यादवधारणात् । "येनाश्रुतं श्रुतं भवति, अमतं मतमविज्ञातं विज्ञात"-मित्येकविज्ञानमवधार्यते । तन्न मुख्यादात्मनोऽन्यत्र संभवति अपि च । प्रागुत्पत्तरेकत्वमवधार्यते, जीवस्य चात्मशाइन परामर्शः तस्मादुपक्रमे आत्मशब्दासंकीर्तनेऽपि वाक्यशेषे आरमत्वाव- धारणादुक्क्रमेऽप्यात्मन एव परिग्रहः स्यात् । तस्मादेवं जातीयकेषु वाक्येषु प्रति पादनप्रकारभेदेऽपि प्रतिपद्यार्थाभेद इति सिद्धम् । आत्मशब्देनानुपक्रमेऽपि परि शेषादवधारणाच्चात्मनो ग्रहण कार्यामिति न्यायानुगमात् ॥ इति सद्विद्याया श्रात्मविद्यात्वाधिकरणम् ॥ अत्रैवाधिकरणान्तरमप्युच्यतेः- ऐतरेयके श्रूयते-आत्मा वा इदमक एवान आसीत् नान्यत् किञ्चन मिपत् । स ऐक्षत लोकान्नु सृजा इति–स इमाँल्लोकानसृजत अम्भोमरीचीर्मरमाप इत्यादि । अत्रात्मशब्देनोपक्रमेऽपि तेन परमेश्वरोगृह्यते ईश्वरो वेत्यनिश्चये लोकाद्युत्तरकालिक- सृष्टिवचनाद् विशेषवानीश्वर एवायमात्मा स्यादिति प्राप्नोत्यत उच्यत । आत्म- गृहीतिरितरवत् । इतरेषु सृष्टिनवणेषु “तस्माद्वा एतस्मादात्मन आकाशः संभूतः इत्येवमादिषु यथा तथैवेहाप्यात्मग्रहणं द्रष्टव्यम् । तत्र परमात्मनो ब्रहणादिहापि परमात्मैव गृह्यते इति तात्पर्य्यम् । एतच्च “स ऐक्षत लोकान्नु सृजै स इमानसृजते". त्याधुत्तरवाक्याद् गम्यते इतरसाधारण्येनेहापि स्रष्टत्वाख्यानात् परमात्मनो ग्रहणात् ॥१॥ . ननु चास्ति पुरुषविधो नराकार आत्मा हिरण्यगर्भः प्रजापतिः । स चे शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माने समवर्तत" ॥ इति स्मृतेरात्मैवेदमन आसीत् पुरुषविधः (बृ० १।४)-(शत० १४।४।२) इति श्रुतेश्च । तत्रैवायमैतरेयवाक्यानामन्वयः संभाव्यते । “तस्याप्यात्मशब्दात् स्रष्टत्वाच्च । लोकान्नु सृजै" इत्यादिना चोत्तरवाक्येन लोकनष्कृत्वमुच्यते तच्च प्रजापतावेवान्वेति न परमात्मनि । तस्य सर्वादो महाभूतसृष्टिकर्तृत्वेऽपि तदुत्तर- भाविन्यां महाभूतसंनिवेशविशेषरूपाणां लोकानां सृष्टौ प्रजापतेरेवाधिकारात् । अथातो रेतसः सृष्टिः प्रजापते रेतो देवा इत्यादिनैतरेयिभिरपि पूर्वस्मिन् प्रकरणे प्रजापतिकर्तृकाया एव सृष्टेराख्यानाच्च । तस्मादम्भोमरीच्यादिलोकस्नष्टत्वं न परमात्मनः स्यादिति चेत् तत्रोच्यते । परमात्मन एवेह ग्रहणं स्यादवधारणात् । एक एवाग्न आसीदिति हि सृष्टेः प्रागात्मैकत्वमवधार्यते । प्रजापतेस्तु प्रागेव परमात्म- कर्तृकमहाभूतादिसृष्टिसत्त्वादात्मैकत्वावधारणं व्याहन्येत । अपि च आत्मैवेदमय इत्युपक्रम्य “स एतमेव सीमानं विदाय्यतया द्वारा प्रापद्यतेत्यादिना तस्यैवात्मनः शरीरे प्रवेशमुक्त्वा" “स एतमेव पुरुषं ब्रह्म ततमपश्यद्" इति ब्रह्मात्मत्व दर्शनमव- धारयति । अन्ते च एष ब्रौष इन्द्रः सर्व तत् प्रज्ञानेत्र प्रज्ञाने प्रतिष्ठित प्रज्ञानं ब्रह्म" इति ब्रह्मात्मावदर्शनमेवावधारयति । तस्मादिह भूयोऽवधारणादुपक्रमवाक्ये परमात्मन एव ग्रहणमिति सिद्वम् । आत्मसामान्योपादानेऽपि परिशेषादवधार- णाच्च परमात्मनो ग्रहण कार्यमिति न्यायानुगमात् ॥ इति परमेश्वरक कलोकसृष्टयधिकरणम् ॥ मर्वाभेदादन्यत्रम ॥ १॥ आनन्दादयः प्रधानस्य ॥२॥ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥३॥ इतर त्वर्थ- सामान्यात् ॥ ४॥ आध्यानाय प्रयोजनाभावात् ॥ ५॥ शङ्करमतेनेस्थमधिकरपयं व्याख्यातम् । वयं त्वत्राधिकरणद्वयं पश्यामः ॥ तथा हि-"सर्वाभेदादन्यत्रेम आनन्दादयः प्रधानस्येन्यन्तमिदमेकं सूत्रम् ॥ इतः पूर्व विद्यक्यानैक्यविचारपरिभाषा सामान्येन प्रदर्शिता । अतः परं गुणोल्लेखपूर्वक विशिष्य गुणविद्या विचार्यते । तत्र तावत् तैत्तिरीयकश्रुतौ अन्नमयं ब्रह्म प्राणमयं ब्रह्मत्यादिना पञ्चकोशविद्या निदश्यते । तत्रोक्ता इमे आनन्दविज्ञानमनःमाणानरूपाः पञ्चार्थाः प्रधानाद् ब्रह्मणोऽन्यत्र प्रतिपत्तन्याः । प्रधानस्य ब्रह्मणः सर्वाभेदात् । सर्वैरेवानन्दादिभिरस्याभेद आ नायते आनन्दमयं ब्रह्म, विज्ञानम्यं ब्रह्म, मनोमयं ब्रह्मेत्यादिना ॥ अयं भावः यद्यानन्दमयस्य ब्रह्मस्वं मुख्यमुपदिष्टं स्यात् तर्हि विज्ञानमयस्य ब्रह्मत्वमुच्यमानसमञ्जसं स्यात् । आनन्दमयावविज्ञान वयोः पार्थ- गर्थ्यात् । तस्माद् ब्रह्मस्वरूपतो निर्विशेषं निर्धर्मकं प्रतिपत्तव्यं तस्यते पञ्च कोशाः स्युरानन्दमयादयः । पञ्चस्वपि तेषु कोशेषत्तरोत्तरसंवरकेषु ब्रह्मेदमनुस्यूतं भवतीति सर्वेषां ब्रह्मशब्देन व्यपदेशः । अर्चिष एव मुख्यदीपवेपि सवर्तिकस्य सतैलस्य सपात्रस्य साधारस्तम्भस्य च दीपसम्बन्धाद्दीपत्वमनुवर्तते । शुद्धवाचिनः स्वार्थ- संबन्धात् सोपकरणेऽपि व्यपदेश इति त्यायात् । तथेहापि प्रधानस्य ब्रह्मणः संबन्धात्पञ्चकोशानां प्रत्येकस्य ब्रह्मत्वमुपचयंते आनन्दादय आनन्दमयादि- कोशावच्छिन्नस्थ ब्रह्मणो धर्माः संभवन्ति न तु प्रधानस्य ब्रह्मणो धर्मा इति सिद्धम् ॥ यत्तु तत्र आनन्दमयमात्मानं प्रक्रम्यानायते-तस्य प्रियमेव शिरो मोदो दक्षिण पक्षः प्रमोद उत्तरः पक्षः, आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठेति। त इमे प्रियशिर- स्वादयो धर्माः कोशवद् ब्रह्मनिष्ठाः शुद्ध ब्रह्मण्यपि संकीर्येरन् इति चेत् तत्रो- च्यते । प्रियशिरस्त्वादीनां धर्माणां ब्रह्मणि प्राप्तिर्नास्ति । प्रियं मोदः प्रमाद आनन्द इत्येते परस्परतो भोक्तभेदाच्चोपचितापचितरूपाः स्युरित्यतो निर्भेदेऽस्मिन् ब्रह्मणि तेषां प्रसराभावः । उपचयापचयौ हि भेदे सति संभवतः । तस्मात् कोशधर्मा एते न ब्रह्मधर्माः। सति भेदे हि प्रतिपत्तव्याः परस्परविरुद्वधर्मा उपासनार्थ क्वचित् क्वचिदुपदिष्टा अपि न शक्याः ब्रह्मण्युपनेतुम् ॥ तेनान्नमयत्वप्राणमयत्व. मनोमयत्वादयो धर्मा ब्रह्मण्युक्ता अपि न गृह्यन्ते "अप्राणो ह्यमनाः शुद्ध" इत्यादिना । - प्रतिषिद्वत्वात् । अतएव चाग्निरहस्यभूतौ "अयं वाव यजुर्थोऽयं पवते" इत्येव वायोर्यजुष्ट्वं प्रतिज्ञाय “तदेतज्ज्येष्ठं ब्रह्म तइतर ब्रापूर्वमपरवत् तस्य वा एतस्य यजुषो रस एवोपनिषत् । तुतिरेवास्य गतिरानन्द एवात्य विज्ञानमात्मा । आनन्दा- मानो हैव सर्वे देवाः । सा हैवैव देवानामा विद्या । सह स न मनुष्यो य एवं चिद देवानां हैव स एकः” इत्येवं ब्रह्माणि यजुष्ट्वं रसत्ववायुवभिन्नानेकदेव- रूपत्वादयो धर्मा उपासनार्थमुपदिश्यन्ते नैते ब्रह्मण्युपनीयन्ते निर्विशेषे ब्रह्मणि विशेषाणामेषामप्रसरात् ॥२॥ नन्वेवं तर्हि निर्धर्मके तस्मिन्ब्रह्मणि धर्ममात्रप्रत्याख्यानादानन्दत्वविज्ञान- धनत्वसर्वगतत्वादयोऽपि धर्माः प्रत्याख्याताः स्युरिति चेन । इतरे त्वर्थसामा- ज्यादनुवर्तेरन् । सत्यं ज्ञानमनन्तं ब्रह्म । नित्यं विज्ञानमानन्दं ब्रह्म आत्माऽपहतपाप्ता विजरो विमृत्युर्विशोकोऽविजिघासोऽपिपासः सत्यकामः सत्यसंकल्प" इत्यादयो हि गुणा अर्थस्वरूपनिरूपणधर्मत्वेनार्थप्रतोत्यनुबलियनस्तेऽर्थस्वरूपवत् परब्रह्मण्य- नुवर्तन्ते । शंकरस्तु सत्यकामत्वसंपद्धामत्वादिधर्माणामप्यस्मिन्निगुणे निर्विशेष पर. ब्रह्मण्यप्राप्तिमाचष्टे । नतु अन्नमयत्वप्राणमयत्वमनोमयावादीनामितेपामानन्दं सत्य- ज्ञानादीनामप्युपासनार्थत्वमेव कस्मानाभ्युपगम्यते । ज्ञानप्रसादेन विशुद्धसत्व- स्ततस्तु तं पश्यति ध्यायमानः" इति श्रुतस्तादशानन्दादिरूपण ध्यानादव निष्कल- साक्षात्कारसंभवादिति चेन्न । आध्यानाय प्रयोजनाभावात् । उपासितुहि द्विविधा- वस्था भवति। साधनरूपा सिद्वरूपा च साधनावस्थायामुपासकोऽल्पगुणं प्रत्यगात्मानमधिकगुणं तूपास्यं परमात्मानं भेदन पश्यन्नुपास्ते । तत्रैते उपास्यस्य परमात्मनः सर्वे गुणा उपासनार्था उपकुर्वन्त्युपासनधर्मम् । गुणभादयेव गुणिनि बुद्ध्युपपत्तः अथ स व्यायमानो यदा ज्ञानप्रसादेन विशुद्धसत्त्वो निगुणं ब्रह्म पश्यति तदास्य सा सिद्धावस्था भवति न तदानीमाध्यानाय प्रयोजनमवशिष्यते उपास्योपासकभेदबुद्धिविलोपात् । अतो न तदानीमाध्यानाय गुणानामपि प्रयोजनं पश्यामः । आत्मशब्दाच्च । ब्रह्मविद् ब्रह्मैव भवति । आत्मैवाभूद् विजानतः । यत्र त्वस्य सर्वमात्मैवाभूत् ततः केन कं पश्येदित्यादिश्रुतिभिरुपास्योपासकयोरेकत्व- संपत्तावात्मशब्देनैवाविशेषमुभयोर्ग्रहणात् तदानीं गुणिग्रहणाय गुणानपेक्षणात् । तस्मानानन्दादयो ब्रह्मणि द्रष्टव्या गुणा अपि त्वानन्द एव निर्धर्मकं ब्रह्मेति विद्यात् ॥ इत्यात्मस्वरूपधर्मविशेषकधर्मविवेकाधिकरणम ॥०॥ आत्मगृहीतिरितरवदुत्तरात् ॥ १॥ अन्वयादिति चेत्स्यादव- धारणात् ॥२॥ उपक्रमोपसंहाराभ्यां सर्वत्रार्थनिर्णयो भवतीप्युपनिषत्प्रकरणेऽपि ताभ्यामेवा- स्मग्रहणं क्रियते । किन्तु यत्रोपक्रमे स आत्मशब्दो नोपादीयते तत्राप्यन्यत्रेवात्म- (४७) ग्रहणं कार्यम् । उपसंहारोपात्तेनात्मशब्देन तत्प्रतीतेः । ननु येनार्थनापक्रमस्ते- नैवार्थेनोपसंहारे तस्यार्थस्य तत्प्रकरणेऽनुगमो भवतीत्यत उपक्रमोपसंहाराभ्यामर्थ- निर्णयः कतु पार्य्यते । उपक्रमे तदर्थानुपादाने तु तदन्वयप्रतिपत्त्यसंभवान्न केवले- नोपसंहारेणार्थनिर्णयः शक्यः कमिति चेत् सत्यम् । तथा सत्यवधारणादर्थ- निर्णयः स्यात् ॥ विनिगमकप्रतिज्ञाविशेषो वा तस्यार्थस्याभ्यासेनीपादानं वाऽव- धारणम् । आभ्यां स्वत एवार्थावधारणसंभवात् ॥ १॥ तथा च उपक्रमोपसंहाराभ्यामर्थनिर्णयस्ताभ्यामप्रतिपत्तौ त्ववधारणादर्थ- निर्णयः कार्य इति न्यायोऽनुगम्यते । तत् प्रदेशो यथा-सदेव सौम्येदमग्र आसी- दित्यात्मशब्दं विनवोपक्रम्य–स आत्मा तत्त्वमसीत्यात्मशब्देनोपसंहरति । तत्रोप- संहारादात्मनि प्रत्ययो भवति । अपि च येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातमित्यात्मविनिगमकप्रतिज्ञाविशेषात् स आत्मा स आत्मेत्यभ्यासेनात्मोपादा- नाच्चात्मनः प्रकरणमवधार्थ डे अथ यत्राप्यात्मशब्देनोपक्रम्यते तत्रापि जीवाक्षर- पराख्यानां त्रयाणामात्मनामन्यतम स्यानिर्णयेऽवधारणादेवात्मविशेषनिर्णयः कार्यः । कार्याख्यानादपूर्वम् । सर्व हि वाक्यं कार्याख्यानाय प्रवर्तते न कृताख्यानाय । तस्माद् वाक्यविधेयः संदहे सति यदपूर्व तद्विवेयं कल्प्यम् । पूर्वप्रातस्य विवेयत्वानौचित्यात् । अपूर्वन- प्राप्तम् तथा च प्राताप्राविधाने सत्यप्राप्ते विधिपारिनिष्ठा इति न्यायोऽनुगम्यते । तथा हि छन्दोगा वाजिनश्च प्राणसंवाद श्वादिभादं प्राणस्यानमुक्त्वा तस्यापोवास आमनन्ति ततश्छन्दोगाः “तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिणादद्भिः परि- दधतीत्याहुः । छा५ । २ । २)" वाजिनस्तु-"तद्विद्वांसः श्रोत्रिया अशि- ध्यात आचामन्ति, अशित्वाचामन्ति,एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते । तस्मादेवं. विदशिष्यन्नाचामेदशित्वा चाचामेत् । एतमेव तदनननग्नं कुरुते"-इत्याहुः । (वृ०६।१।१४) तत्रेदमपामाचमनं विधीयते वा प्राणाननताकरलक्षणमपां प्राण- वासस्वं वेति विचारे आचामेदिति विस्पष्टं विधिदर्शनादाचमनमेव विधीयते । अनग्नतासंकीर्तनं त्वाचमनस्यैव स्तुत्यर्थमिति प्राप्त ब्रूमः। कार्यत्वेन स्मृत्या सिद्धस्यै- वाचमनस्यानुवादेनाख्यानान्नाचमनस्य विधिरिह युक्तः । किन्वाचमनीयास्वप्सु प्राणविद्यासंबन्धित्वेनापूर्वप्राणानग्नताकरणमेवैतदुपदिश्यते इति भाव्यम् । न चाय- मनग्नतावाद आचमनस्तुत्यर्थ इति न्याय्यम् । आचमनस्याविधेयत्वात् ॥ १॥ अपि च यदिदं किञ्चश्वभ्य आशकुनिभ्य इत्यादिना तावन्न स सर्वानाभ्यवहारः कर्तव्यतया विधीयते तस्य लोकरुचिप्राप्तत्वात् ॥ किन्तु सर्व प्राणस्यानमित्यनदृष्टि- रेव सर्वत्रोपपाद्यने अपूर्वत्वात् । एवं तत्साहचर्यादापो वास इत्यत्रापि नापामाच- मनं कर्तव्यतया विहितं स्यात् । अपि त्वप्नु परिधानदृष्टिरेव संपाद्यते इति प्रतीमः । अर्द्धवैशसस्थानौचित्यात् ॥ २॥ ।
यत्तु आचामेदिति विस्पष्टं विधिदर्शनादाचमनविधिरित्युक्त तदप्यनुवादेन पूर्ववत्वात् प्रत्युक्तम्। अतएव च काण्वास्तदनमनग्नं कुर्वन्तो मन्यन्ते इत्यत्रैव पर्याव- स्यन्ति नामनन्ति तु तस्मादेवंविदित्याद्युत्तरपाठः। तस्मामाभ्यन्दिनानां पाठेप्याच- मनानुवादेन प्राणानग्नत्वविज्ञानमेवोपदिश्यते इति प्रतिपत्तव्यम् ॥ "रामानुजस्त्विदं सूत्रमित्थं लापयति । कार्याख्यानात्-अप्राप्ताख्यानादप्राप्ता- ख्याने शास्त्रस्यार्थवत्त्वादिहापूर्वमप्राप्तमेवापां प्राणवासस्वं प्रतिपाद्यते न त्वाचमनम् तस्य स्मृत्या विहितत्वादपूर्वत्वाभावादिति ॥ इत्यपां प्राणवासस्त्वाधिकरणम् ॥ . समान एवं चाभेदाता यथा भिन्ने तन्त्रे पृथगानातयोर्विद्यासंदर्भयो रूपचोदनाद्यभेदादेकविधं गुणोपसं- हारश्च नियम्यते, एवं समाने च तन्त्रे प्रतिपाद्यस्यार्थस्याभेदादैकविद्यं गुणोपसंहा- रश्च स्यातामित्यर्थः। तथा च समानतन्त्रेऽपि रूपाद्यभेदाद् विद्यकत्वं नेयमिति न्यायो- ऽनुगम्यते यथा छान्दोग्यवद् (३ । १४) वाजिनामग्निरहस्येऽ (१०।४।६)-पि शा. ण्डिल्यविद्याख्यायते । "स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम्" इत्यादिः किन्तु वाजिनां पुनर्वृहदारण्यके-(१४ । ६)। "मनोमयोऽयं पुरुषो भाः सत्यस्तस्मि- नन्तहृदये यथा ब्रीहिर्वा यवो वा स एष सर्वस्येशानःसर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किस" इति पठ्यते । तत्र यद्यपि विद्याशेषोपसंहाराधिकरणन्यायेन छान्दोग्य- बृहदारण्यकानातयोगुणोपसंहारादेकविधं युज्यते तथापि बृहदारण्यके समानशा- खायामेकस्या विद्याया द्विरानाने पौनरुक्यापत्तरिह गुणानुपसंहाराद्गुणातिरेकेण च रूपभेदादिमे भिन्ने द्वे विद्ये स्यातामत उच्यते समान एवं चाभेदादिति ॥ समानत- त्रेऽपि गुणोपसंहारेण रूपायभेदादैकविद्यं प्रतिपत्तव्यम् ॥ अग्निरहस्यानाने हि विद्याविधानार्थे केषांचिदनुक्तानां सर्वेशानत्वसर्वाधिपतित्वसर्वप्रशासकत्वगुणानां विधानार्थमिदं बृहदारण्यके पुनस्तद्विद्यान्नानम् । तत्र तद्विधाप्रत्यभिज्ञानार्थीयं पूर्वो- क्तकतिचिद्रूपानुवादः इति बोध्यम् ॥ केचित्तु सूत्रार्थमन्यथा लापयन्ति । मनो- मयत्वादिगुणके ब्रह्मण्युभयत्र समाने प्रतिपाद्ये सत्यस्तु क्वचिद्गुणातिरेकेण प्रतिपादनम्। एवमप्यभेदो न व्याहन्यते । वेद्यरूपाभेदे विद्याभेदस्याध्यवसातुमयोग्यत्वादिति । न च भिन्ने तन्त्र तथा संभवत्यपि समाने तन्त्रे तथा नवकल्पते पौनरुत्तथप्रसङ्गा- दिति वाच्यम् । तत्रापि अर्थविभागोपपत्तेरपौनरुक्त्यात्। एकं ह्यानानं विद्याविधाना- र्थमपरं गुणविधानार्थमित्यर्थविभागानास्ति पौनरुक्त्यम् ॥ इति समानतन्त्रेऽपि गुणोपसंहाराइविध कत्वाधिकरणम् ॥
। संबन्धादेवमन्यत्रापि, ॥१॥ न वा विशेषाद ॥२॥ दर्शयति च ॥३॥ यथा शाण्डिल्यविद्यायां विभागेनाप्यधोतायां गुणोपसहार उक्तः एवमन्यत्र येवं. जातीयके विषये भवितुमर्हति । एकविटाभिसंबन्धात् । तथा च यत्र वृहदारण्यके "सत्यं ब्रह्म"-इत्युपक्रम्य “तद् यत् तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः' इत्येवं तस्य सत्यस्याधिदेवतमध्यात्म चायतनविशेषमुपदिश्य वे उपनिषदावुपदिश्यते । तस्योपनिषदहरित्यधिदैवतम् । तस्योपनिषदहमित्यध्यात्मम् । तत्रापि सत्यैकविद्यासंबन्धाद् गुणोपसंहारौचित्यादुर्भ द्वे अप्युपनिषदावुभयत्र प्राप्त त इति चेत् तत्र प्रतिविधीयते । न वोभयोरेतयोरुभयत्र प्राप्तिः। उपासनस्थानविशेषोपनिबन्धात् । य एष एतस्मिन्मण्डले पुरुषस्तस्यो. पनिषदहरित्यधिदैवतपुरुषसंबाधेन भिन्नामुपनिषदमाख्याय "योऽयं दक्षिणेऽक्षन् पुरुषस्तस्योपनिषदहमित्यध्यात्मपुत्वसंबन्धेन भिन्नामुपनिषदमाचष्टे । रहस्य ह्यु पनिषत् । तत्र तस्येति संनिहितोलम्बनशब्दादायतनविशेषव्यपाश्रयेणैव भेदेनो- पनिषदोरुपदेशान्नोभयत्र प्राप्तियुज्यते वक्तुम् । नन्वेकस्यैव सत्यस्य ब्रह्मण आयतन- द्वयप्रतिपादनादधिदेवतमध्यात्मं चैकस्यैव पुरुषस्य सत्वादुभयोरुभयत्र प्राप्तिः स्यादिति चेन्न एकस्यापित्ववस्थाविशेषोपादान नैवोपनिषद्विशेषोपदेशात् तदवस्थ- स्यैव तत्सिद्धः॥ दर्शयति चैवंजातीयकानां धर्माणां व्यवस्थालिङ्गम् “तस्यैतस्य तदेव रूपं यदमुष्य रूपम्, यावमुष्य गेष्णौ यन्नाम तमामेति" इह हि अक्ष्यादित्यस्थान- भेदाद्धर्माणामन्योन्यस्मिन्नुपसंहारभावं पश्यन्नेवातिदेशेनादित्यपुरुषगतान् रूपादौन- क्षिपुरुष उपसंहरति । तस्मादत्रोपनिषदोरनुपसंहारांत् तयोर्व्यवस्थैवेति सिद्धम् । लिद्वश्चात्र विद्यैक्येऽपि प्रतिज्ञाविशेषादांशिकोदोऽनुगृह्यते इति न्यायांनुगमः ॥ . इति विद्याक्येऽपि प्रतिज्ञानादाशिकमवाप्रवेशाधिकरणम् ॥ संभृतिधुव्यात्यपि चातः॥ १॥ अतश्चानुपसंहारकर्मयोगेऽनुपसंहाराद्धेतोःसंभृनिधुव्यायाप नोपसंहियते विशेषोपदेशस्यानुपसंहारकत्ववद्-अक्तपरिमाणायतनद्वयविरोधस्याप्यनुपसंहारक- त्वात् । तथा हि "ब्रह्मज्येष्ठा वीर्यासंभृतानि, ब्रह्माने ज्येष्ठं दिवमाततान । ब्रह्मभूतानां प्रथमोत जज्ञे नार्हति ब्रह्मणा स्पर्द्धितुंकः" इति तैत्तिरीयके राणायनीयानां खिलेषु च ब्रह्मणि ज्येष्ठानां वीर्याणां संभृतियुनिश्चेत्यादयो विभूतय आनायन्ते तेषामेव चोपनिषदि शाण्डिल्यविधाप्रभृतयो ब्रह्मविद्याः पठ्यन्ते । तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंहियन्ते न वेति विचारे ब्रह्मसंबन्धादुपसंहारप्राप्तौ ब्रूमः संभृति व्याप्त्यपि चालेनोपसंहाय॑मिति । व्यक्तपरिमाणानां विरुद्धायतनानामनुपसंहारकत्वसिद्धान्तात्-इह हि परस्परविरुद्धायक्तपरिमाणा- न्यायतनानि गृह्यन्ते । “एष आत्माऽन्तहदय-इतिहृदयायतमत्वं शाण्डिल्य- परस्पर विद्यायाम् "दहरं पुण्डरीकं वेश्मदहरोऽस्मिन्नन्तर आकाशः" इति दहरायतनत्वं दहरविद्यायाम्। “य एषोऽक्षणि पुरुषो दृश्यते'-इत्यच्यायतनत्वमुपकोशलविद्यायाम् इत्थमाध्यात्मिकमायतनमासु विद्याभूपदिश्यते । आधिदैविक्यस्वेता विभूतयः संभूतिधुच्यातिप्रभृतयोऽतिविस्तृतायतनलापेक्षाः । तस्मादाच्यामिकाधिदैविकयो- रायनज्योरकपरिमाणतया पूर्वाधिकरणन्यायनानुपसंहारो याय्यः ॥ परस्पर- व्यावृत्तस्वरूपत्वमतपरिमाणत्वम् ॥ धुव्याप्तिस्ताव वृदयापस्थानीय स्वसामर्थ्या- देव व्यावृत्तिलक्षणा भवतीत्यनुपसंहार्यता। ननु शाण्डिल्यविद्यादिष्वपि-"ज्यायान् दिवो ज्यायानेभ्यो लोकेन्यः । एष एव भामनीः एष हि सर्वेषु भूतेषु भाति, यावान् बायमाकाशस्तावानेषोऽन्तहदये आकाशः, उभे अस्मिन् द्यावापृथिवी अन्तरव समाहित"-इत्यादिना हृदयाद्यल्पस्थानविरुद्धधर्मा आख्यायते इति चेत् माहात्म्य- प्रतिपादनपरा एते आध्यात्मिकस्येत्यविरुद्धमैतत् । अल्पस्थानविशिष्टस्य औपाधिकाल्पत्ववतो ब्रह्मणस्तस्मिन्नेव स्थाने महास्थानविशिष्टेनोपाधिकमहत्त्ववता ब्रह्मणां गुणोपसंहारत्वद्वारा साम्यप्रतिपादनं तु निरुद्धमित्यनुपसंहारोन्याय्यः॥ इति विरुद्धधर्मोपदेशोऽनुपसंहाराधिकरणम् ॥ । पुरुषविद्यायामिव चेतरेषामनानानात् ॥१॥ बह्वयः समाननामानः पुरुषविद्या उपदिश्यन्ते । तत्रैकेषां पुरुषविद्यायामिवा. न्येषां पुरुषविद्यायां धर्माणामनाजानाद रूपादिभेदानुपसंहार इति विद्यानानात्व. सिद्धिः । नामरूपफलोपदेशानां विद्यैकत्वप्रयोजकानां मध्ये नामापेक्षया रूपादीनां बलवत्वाभ्युप्रगमात् ॥ तथा च.नामैक्येपि रूपादिभेदे विद्यानानात्वमितिन्यायोऽवसी- यते ॥ तद् यथा-"पुरुषी वाव यशः । तस्य यानि चतुर्विशतिवर्षाणि तत् प्रातः स- बनम्"-इत्यादिना ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्यान्नायते । तत्र पुरुषो यशः कल्पितः । तस्यायुस्त्रयं सवनत्रयम । बुभुक्षापिपासोगिा दीक्षा । अशनपान- रमणान्युपसदः । हसनमैथुनादीनि स्तुतशस्त्राणि ॥ तपोदानादिदक्षिणा । मृत्युरव- भृथः। प्राणानां यावदायुरनुसंतननमाशीः । षोडशशतवर्षजीवित्वं फलमित्युक्तम् । एवं तैत्तिरीयकेऽप्यन्या पुरुषविद्याम्नायते । “तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिधनम् उरी वेदिः लोमानि बर्हिरित्यादि । तत्र संशयः । किं ता- ण्डयोक्ता धस्तैित्तिरीयकेऽप्युपसंहर्तव्या नवेति । पुरुषयशत्वाविशेषादुपसंहारप्राप्ता- वुच्यते। ताण्डिनां पैङ्गिनां च पुरुषविद्यायामिवेतरेषां तैत्तिरीयकाणामनान्नानाद्विद्या- भी विज्ञायते तस्मानोपसंहार इति । विलक्षण हि तेषां यज्ञपरिकल्पनं दृश्यते । पत्नीयजमानवेदवेदिबर्हिथुपाज्यपश्वृत्विगाद्यनुक्रमणात् । सवनान्यपि छान्दोग्ये पुरुषस्यायूंषि कल्प्यन्ते, तैत्तिरीयके तु सायंप्रातमध्यन्दिनानि । दीक्षोपसहक्षिणा- स्तुतशस्त्रादीनि च नेहोपकल्ण्यन्ते । तस्मादनयो रूपभेदं पश्यामः । अपि च तैत्तिरीयके पुरुषस्य यज्ञत्वं न श्रूयते । आत्मा यजमान इति पुरुषस्य यजमानत्वश्रव- णात् विदुषो यो यज्ञस्तस्यैति वैयधिकरण्यप्रतिपत्तेः । सत्यां गतौ मुख्यस्यैवार्थस्य -- । । .
ग्रहणौचित्याच्च ॥ तस्मादनयोश्चोदनाभेदं पश्यामः । अपि च तैत्तिरीयके पूर्वानु- वाके-"ब्राह्मणात्वा महले ओमित्यात्मानं युञ्जीतेति" ससंन्यासामात्मविद्यामभिधाय ब्रह्मणो महिमानमाप्नोतीति च तत्फलमुक्तवा तस्यैवंविदुष इत्यादिनेयं पुरुषविद्याना- यते। तथा च फलवत्संनिधावफलं तदङ्गमिति न्यायात् पूर्वशेष एवैष आनायो न स्वतन्त्र इत्यतस्तैत्तिरीयपुरुषविद्यायाः पूर्वोक्तात्मविद्याङ्गत्वसिद्धौ ब्रह्ममहिमाप्ति- रूपस्यात्मविद्याफलस्यैवेहापिसंबन्धः सिद्धयति । ताण्ड्य पुरुषविद्यान्नायस्य त्वन- न्यशेषस्यायुरभिवृद्धिः फलमित्युभयोः फलसंयोगभेदं पश्यामः । संयोगापेक्षया च नानो दौर्बल्यमित्यतो नामैक्यपि संयोगरूपचोदना वैशेष्याद्विद्याभेद इत्येकत्रानाताना पुरुषविद्याधर्माणामाशीर्मन्धादीनामन्यत्र तैत्तिरीयपुरुषविद्यायामनुपसंहारः॥ रामा. नुजस्तु पुरुषविद्यायामपीत्येवमपि शब्दमिवस्थान पठति ॥ ॥ ॥ इति नामैक्येपि रूपादिभेदेऽनुपसंहाराधिकरणम् ॥ वेद्यर्थभेदात् ॥१॥ आथर्वणिका उपनिषदारम्-"सर्व प्रविध्य हृदयं प्रविश्य धमनीः प्रवृज्य. शिरोऽभिप्रवृज्य विधा विपृक्तः” इत्यादि मन्त्रसमानायमधीयते । “देवसविलः प्रसुव यज्ञम्" इत्यादिन्ताण्डिनः । श्वेताश्वो हरितनीलोऽसीत्यादि शाट्यायनिनः । "शं नो मित्रः शं वरुणः” “सह नाववतु सह नाववतु सह नौ भुनक्तु" इत्यादि काठास्तैत्तिरीयकाश्च । देवा ह वै सत्रं निषेदुरित्यादि प्रवर्यब्राह्मणं वाजसनेयिनः॥ इन्द्रो ह वै वृत्र हत्वा महानभवद्" ---इत्यादिकं. महायतामणमैतरयिणः । प्रजापतिर्वै संवत्सरस्तस्यैष आत्मा यन्महानतम्" इत्येवं तु महावतब्राह्मणकोषीत- किनः । ब्रह्मैवा अग्निष्टोमो ब्रह्मव तदहब्रह्मैव ते बमोपयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरुपसंयन्तीत्यग्निष्टोमबाह्मणञ्च कोपीतकिनोऽधीयते । तत्र सर्व प्रविध्येत्यादि. मन्त्राणां प्रवादिकर्मणां च प्रधाोनपनिषद्मन्थारम्भे पाठात् संनिधिसमानान- सामाद्विद्याङ्गत्वप्रतीत्या विद्यारसूपसंहारः प्राप्नोति इत्यत आह वैधाधर्थभेदाभेषां विद्यासुपसंहारोऽस्तीति । तथा हि श्रुतिलिङ्गवाश्याकरणस्थानसमास्यानां पारदौर्बल्यमर्थविप्रकर्षात् स्यादिति पूर्वतन्त्रसिधाताति लिङ्गवाश्यः प्रवादि. कर्मणा कर्मस्वेव विनियोगो नाम्यो ! प्रविध्यत्यादि मन्त्राणां च बंधाद्यर्थसा- मादभिचारादिशेषत्वं गम्यते । तथा च कर्माङ्गत्वे सिद्ध संनिधिपाउरूपप्रकरणस्य दौर्बल्यात् तदर्शन विद्याङ्गत्वं नापपद्यते । ननु शं नो मिन. सहनाववतु ऋतं वदि- व्यामोत्यादिमन्त्राणां अतिलिङ्गवाक्यैः कर्मविशेने विनियोगः नावाम्यत इत्यतः प्रकरणाविद्याङ्गवं स्यादिति चेत्र । तेषामपि हि सामर्थ्यात् स्वाध्यायशेषत्वमवधूप- द्यते न तु विद्याङ्गत्वम् । विद्याभिरनभिसंघद्धार्थालामेधामुपनिषदुक्तविद्याभिः संगन्तुं सामर्थ्यालामात् ।। हृदयबेधादयश्चार्या उपनिषदर्थेभ्यो विद्यारन्यो भिन्नाः प्रतिभासन्ते ॥ तस्मान्भेषां विद्याङ्गतया प्रवेशसामर्थ्यमस्तीति नापसंहारः ॥ तथा चानभिसंबद्वार्थी विद्यायां नोपसंहियते इति न्यायः सिद्धः ॥ ॥ ॥ इत्यसंबचानुपसंहाराधिकरयाम् ॥ ..
(५२) । । । हानौ तूपायनशब्दशेषत्वात् कुशाछन्दस्तुत्युपगानवत् तदुक्तम् १ ॥ ब्रह्मविदां क्रममुक्तिवारे कौषीतकिनस्तावत्-"तत्सुकृतदुष्कृते विधूनुते, तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम् इत्येवं पुण्यपापयोर्हानं सुहृदुई- गयां दायादाभ्यां तदुपायनं चामनन्ति । ताण्डिनस्तु अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोमुखात् प्रमुच्य, धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि इति । तथाऽथर्वणिकाः"-तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्य- मुपैति इति च केवलं हानमेवामनन्तस्तदुपायनं नामनन्ति । शाव्यायनिनः पुनः "तस्य पुत्रा दायमुपयन्ति सुखदः साधुक्त्यां द्विषन्तः पापकृत्याम्” इत्येवमुपायन- मेवामनन्तो हानि नामनन्ति । तत्र हानिरुपायनमुभयं वा विकल्प्यन्ते अथवा परस्परोपसंहारात् समुच्चीयन्ते इति विचारे विकल्पापेक्षयोपसंहारात् समुच्चयो न्याय्यः । तत्रान्यैरुपायने स्वस्मिस्तद्धानिर्न प्राप्तेत्युपायनश्रवणो हानिरप्यर्थादेव समुच्चीयते । किन्तु हानिमात्रश्रवणे तदुपायनं नार्थतः सिद्धं भवति । तस्मा- त्तत्रोपायनं शास्त्रार्थो न वेति चिन्तायामुच्यते । हानौ केवलायां श्रूयमाणायां तु तच्छेषत्वादुपायनशब्दस्यापि तत्रोपसंहारो भालः कौषीतकिरहस्ये युपायनशब्दस्य हानी शेषत्वानुगमात् । अत्र हानावुपायनस्य शेषत्वादिति वक्तव्ये शब्दशब्दः स्तुत्यर्थमेव हानावुपायनानुवृत्तिं प्रत्याययति । हानोपायनाभ्यां हि विद्या स्तूयते इत्युपायनद्वारकस्तुत्युपसंहारश्छन्दोगाथर्वणिकयोरपेक्ष्यते न तूपायनगुणोपसंहारो ऽप्यत्र विवक्ष्यते इति बोध्यम् इत्थं चात्रशाखान्तरोक्तविशेषस्य शाखान्तरेऽप्युपसंहारे दृष्टान्तो भवति कुशाछन्दस्तुत्युपगानवदिति । कुशा वानस्पत्याः स्थ ता मा पातेति भाल्लविनां निगमे कुशानां वनस्पतियोनित्वमविशेषाच्छ यते । तत्रानियमे प्राप्ते "औदुम्बराः कुशाः” इति शांव्यायनिनां विशेषवचनादौदुम्बर्य्यः कुशा आश्रीयन्ते देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्ग "देवच्छन्दांसि पूर्वाणि"-इति पैङ्गयानानानियमोऽध्यवसीयते । अतिराचे षोडशिनः स्तोत्रं कदा कार्यमितिकन्दो- गानोमाकांक्षायां "समयाध्युषिते सूर्ये इत्याचार्यश्रुतेः कालविशेषनियमः । ऋत्विज उपगायन्तीत्यविशेषभुतो नाध्वर्युरुपगायन्तीति भाल्लविनां विशेषान्नाना- दध्वयु भिन्नानामेवोपगानम् इत्थं च यथैतेषु कुशादिषु श्रुत्यन्तरगतविशेषान्वय- स्तथेहापिहानायुपायनान्वयो युक्तः अन्यथा श्रुत्यन्तरोक्तसामान्यार्थस्य श्रुत्यन्तरोक्त- विशेषार्थपर्यवसानेनैकवाक्यत्वानभ्युपगमे शास्त्रद्वयप्रामाण्याद्विकल्पः स्यात् स चान्याय्यः ॥ तदुक्तं पूर्वतन्ने “अपि तु वाक्यशेषत्वादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्याद"- इति । तथा च यावज्जीवमग्निहोत्रं जुहुयादिति सामान्यशास्त्रार्थे दीक्षितो न जुहोतीति ज्योतिष्टोमीयशास्त्रोक्तविशेषातिरिक्तत्वेन संकोचाददौक्षितो यावज्जीवं जुहुयादित्येकवाक्यत्वं सिद्धयति न तु विकल्पस्तथेहा- पि शास्त्रान्तरार्थनियामकत्वं द्रष्टव्यम् ॥ विकल्पापेक्षयोपसंहारेणार्थसमुच्चयो न्याय्य इति न्यायानुगमात् ॥ संभवन्त्यामेकवाक्यतायां विकल्पो न न्याय्य इति न्यायानुगमाहा॥०॥ • " इति शाखान्तरप्रामाण्या वाक्यशंषोपसंहाराधिकरणम् ॥ -- ।
हानौ तूपायनशब्दशेषत्वात् कुशाछन्दस्तुत्युपगानवत् ॥ शंकरस्त्वत्रैवाधिकरणान्तरमप्यारचयति । “विधूय पापमिति ताण्डिनः पुण्यपापे विधूयेत्याथर्वणिकाः सुकृतदुष्कृते विधूनुते"-इति कौषीतकिनश्च पुण्यपापयोधूिननमामनन्ति । तत्र धूञ् कम्पने इति स्मृतेर्लोकप्रसिद्धेश्चेदं विधूननं कम्पनं चालनं वा स्यात् तच्च पुण्यपापयोः कञ्चिन्कालं फलप्रतिबन्धनात् संभवतो- त्येवं प्राप्त ब्रूमः । हानौ तु विधूननशब्दो इष्टव्यो न कम्पने । उपायनशब्दशेषत्वात् ॥ न होतयोििनपतरेण परैरुपायनं भवन्नि ! यद्यपीदमुपायनं विधूननसाहचर्यण कौषीतकिभिरेवा त्रायते न वन्यैरपि । तथापि कुशाच्छन्दस्तुत्युपगानवदन्य. श्रुतिष्वपि विधूननसंनिधावुपनेतु शक्यते । सामान्यविशेषरूपाणां शास्त्राणां विकल्पापेक्षया समुच्चयपक्षस्यैवोचित्यात् । तदुर्फ पूर्वतन्त्रे-“अपि तु वाक्यशेष- स्वादितरपयुदासः स्यात् प्रतिषेधे विकल्पः स्यादिति" ॥धातूनामनेकार्थत्वाभ्युप. गमाच्च न पाणिनिस्कृतिविरोधः ॥ इति वस्यशेषादयनिर्णयाधिकरणम् ॥ सांपराये तर्तव्याभावात् तथा ह्यन्ये ॥ १॥ छन्दत उभया- विरोधात् ॥ २॥ गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः॥३॥ उपपन्नस्तल्लक्षणार्थोपलब्धेलॊकवत् ॥ ४॥ यावदधिकारमवस्थि- तिराधिकारिकाणाम् ॥ ५॥ सर्वासु विद्यासु कर्मणो हानमुपायनं चोक्तम् । तच्च हानं देहादुलान्तस्या- ध्वन्युपपद्यते वा देहावसानकाले एव वेति संशयः । उभयथा हि श्रूयते । कौषीतकि- नस्तावत्-स एतं देवयानं पन्थानमापद्याग्निलोकं गच्छतीत्युपक्रम्य–स आग- च्छति विरजां नदी तां मनसात्येति तत्सुकृतदुष्कृते धूनुते' इत्येवमध्वनि हान- मामनन्ति । ताण्डिनस्तु-"अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोमुखात् प्रमुच्य धूत्वा शरीरमकृतात्मा ब्रह्मलोकमभिसंभवानीत्येवे दहावसानकाल एवाहुः । शाट्यायनिनोऽपि तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्" इति ब्रुवाणाः पुत्रेषु दायसंक्रान्तिसमकालमेव कर्मणामुपायनाद्धानमभिप्रयन्ति । तत्रोभयवाक्यप्रामाण्याद्विकल्पो वा स्यात् समुच्चयों वेतिसंशये उपसंहाराधिकरण- सिद्धान्तात् समुच्चयः प्राप्नोति । तथा चैकदेशो देहवियोगकाले हीयते । शेषस्त्व- ध्वनीति प्राप्त उच्यते-सॉपराये दहोत्क्रमणकाल एव विदुपः कर्मनिकोष हीयते । दहवियागात् पश्चात् विद्याफलभूतब्रह्मप्राप्तिन्यतिरेकेण पुण्यपापाभ्यां कर्मभ्यां तरितव्यभोगाभावात् । तथाान्ये तदानीं कर्मभोक्तव्यसुखदुःखाभावम- धीयते-"अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः । एष संप्रसादोऽस्माच्छरी. गत् समुत्थाय परं ज्योि परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । तस्य तावदेव .चिरं यावन विमोत्ये अथ संपत्स्य"-इति ॥१॥ ।
श्रुतेरर्थस्वभावस्य चोभयोरविरोधेनैव स्वाच्छन्द्यात् पदानामर्थाः कार्या इत्य- तोऽर्थस्वाभाव्यानुरोधेनेह कौषीतकिवाक्ये "तनुश्तदुष्कृते धूनुते"-इत्यंशः "स एतं देवयानं पन्थानमापति प्रथमवाक्यात् प्राग नेयः ॥ तथा च न श्रुतिविरो- धो भवति ॥२॥ केचित्वाहुः । नैतवं कौषीतकिश्रुतौ वाक्यव्यत्यासो युज्यते । अर्थस्वाभाज्या- पक्षया श्रुतेः प्रावल्यात् । श्रुत्यन्तरैकवाक्यत्वानुराधेन तथा क्रियत इति चेन्न । उभयोः प्रामाण्याविशेषादेकानुरोधनान्यत्रार्थव्यत्यासस्थान्याय्यत्वात् । तस्मादुभयमामाण्या- दुक्तरीत्या समुच्चयपक्ष एव साधीयान् प्रतीयते । तथा च कमैकदेशस्य देहवियोग- काले हानिः शेषस्य पश्चादध्वनीत्येवमुभयया कर्मक्षये प्रतिपन्ने देवयानगरप्यर्थवत्व- मुपपद्यते ॥ अन्यथा भवदुक्तरीत्या देहवियोगकाल एव कात्स्न्येन कर्मक्षये प्रतिपन्ने सूक्ष्मशरीरस्यापि नाशापत्तौ अशरीरस्यात्मनो गतिरुच्यमाना विरुध्यते । अशरी. रस्य गतेरनुपपन्नत्वात् ॥ अपि च विदुषां वसिष्ठापान्तरतमःप्रभृतीनां दहपातादूर्व देहान्तरसङ्गमः ‘पुत्रजन्मविपत्यादिनिमित्तसुखदुःयानुभवश्च स्मर्यमाणो विरु- ध्यते । देहपातकाले एवैकहेलया कृत्स्नक परिक्षयाभ्युपगमे सुखदुःखानुभव- स्यानुपपन्नत्वात् इति चेत् तत्र बभः ॥ उपपस्तलक्षणार्थोपलब्धेः । “परं ज्योति- रुपसंपद्य स्वेन रूपेणाभि निष्पद्यते । स तत्र पयति जक्षत् क्रीडन् रममाणः । स स्वराड भवति । तस्य सर्वेषु लोकेषुकामचारो भवति । स एकधा भवति त्रिधा भव- तीत्यादिषु देहसम्बन्धलक्षणस्यार्थस्योपलब्धेः परिक्षीणनिःशेषकर्मणोऽप्युपपनस्ता वदयं देवयानगतिसम्बन्धः सूक्ष्मशरीरयोगश्च । विद्यायाः सूक्ष्मशरीरानारम्भकत्वे- ऽपि विद्यामाहात्म्यात् सर्वेषु लोकेषु कामचारान्यथानुपपत्तेश्वोपपद्यते सूक्ष्मशरीर- योगो लोकवत् । यथा लोके समृद्यर्थमारब्धे नडागादिके तहतुषु तडागेच्छादिषु विनष्टेष्वपि ,तडागादिकमविनाशयन्तस्ततो जलग्रहणादिकं कुर्वन्ति तद्वत् । एव- मुपपनो वसिष्ठादीनां दहपातादूर्वमपि सुखदुःखानुभवः । न वयं ब्रूमः सर्वेषां विदुषामविशेषेण देहपातकाल एवाशेषकर्मपरिक्षयो भवतीति । किन्तु येषां विदुषां देहपातानन्तरमर्चिरादिगतिः प्राता तेषां दहपातकाले कृत्स्नकर्मपरिक्षयो भवतीति मः वसिष्ठादीनां त्वाधिकारिकाणां कर्मविशेषणाधिकारविशेषप्रारब्धकर्मणो भागादेव क्षयापरमाद यावदधिकारमवस्थितेन देहपातानन्तरमेवाचिरादिगति- प्राप्तिः । तस्मातेषामाविकारिककर्मणोऽपरिक्षयादुपपद्यते तस्कृतः सुखदुःखानु- भवः । अन्येषां तु विदुषां देहपातादूर्व सुखदुःखानुभवा नास्ति । मृत्युसमकालं परिक्षीणाशेषकर्मत्वादिति बोध्यम् ॥ ॥ ला इति भुक्तप्रारण्यकर्मणामनाधिकारिकाणां विदुषा दहास्ययकालाशंषकर्मक्षयाधिकरणम् ॥ अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् ॥ उपकोशलविद्यापश्चाग्निविद्ययोरचिंदिगतिरानायते । सा संनिधानात् । तदुभयविधीपासकानामेव स्थादविशेपेण सर्वब्रह्मविद्योपासकानां वेति संशये उच्यते । अनियमः सर्वषामिति । सर्वोपारागनिष्टानां तयवगत्या गमनात् तमिष्टाना- मेवेति नियमो नास्ति । अनियमाभ्युपगमाच्च गुतिस्मृतिभ्यामविरोधः । ब्रुतौ ताथ- च्छान्दोग्ये "तद् य इत्थं विदुर्थे मेऽरण्ये भद्रातप इत्युपालते तेऽपिनभिसंभव- न्तीति वाजसनेयकेऽपि-“य एवमेतद्विदुयें चेमऽरण्ये श्रद्धां सत्यमुपासते तर्चिष- मभिसंभवन्तीति । उभयत्र पश्चाग्निविधानिष्ठान श्रद्धापूर्वकं ब्रहोपासिनचोदिश्यार्चि- पदिगनिरुपदिश्यते । स्मृतावपि-अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणमा तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।" इत्यविशेषेण सर्वेषां ब्रह्मविदार्चिरा- दिगतिः स्मय॑ते । तस्मात् सर्वविधासाधारणीयं गतिः ॥ इति सर्वविदयासावारणदेवानाधिकरणम् ॥ मांपराये तर्तव्याभावात् तथा ह्यन्ये॥ छन्दत उभयाविरोधात् ॥ इत्थं पञ्चभिः सूत्रैरेकं षष्टेन चैकमित्यधिकरणद्वयं रामानुजाद्यनुसारेणाख्या. तम् । शङ्करस्तु सांपराये इत्यादिना सूत्रषटकेनाधिकरणचतुष्टयं संपश्यति । तत्रादौ द्वाभ्यामधिकरणं प्राग्वद् द्रष्टव्यम् । तद्यथो स एनं देवयानं पन्थानमापद्या- ग्निलोकमागच्छतोत्युपक्रम्य–स आगच्छति विरजां नदीं तां मनसैवात्येति, तत्सु. कृतदुष्कृते विधुनुते"-इत्यादिना पर्यङ्कविद्यामामनन्ति कौषीतकिनः । तत्र श्रुति- प्रामाण्याद् यथा श्रुतिप्रतिपत्त्या देवयानमार्गेण पर्यङ्कस्थब्रह्माभिप्रस्थानानन्यर व्यध्वनि पुण्यपापवियोगः प्राप्नोति तद्युतिविरुद्धं शस्त्रान्तरविरुद्धं चेत्यतः प्रति जानीने-सांपराये तर्तव्याभावादादावेव देहादपसर्पणकाले विद्यासामर्थ्यात् पुण्यपापे जहातीति । संपरायो देहादपसृतस्य लोकान्तरे गमनः । न च विद्यावतः संपरेतस्य ब्रह्मावाप्त: पूर्व पापाभ्यां कश्वनमार्गभागस्तरणीयः संभाध्यते येन कति- चित्क्षणानक्षीणे ते कल्प्याता विद्याविरुद्धफलत्वातु विद्यासामथ्येन तयोः क्षयो युज्यत इति यदैव सामिमुखी तत्क्षण एव भवितुमर्हति । न च निर्हेतुकः कालविल- म्बः सम्भवति । तस्मात् प्रागेव संपन्नोऽयं कनैक्षयः पश्चात् पठ्यते । तथा ह्यन्ये शाखिनस्ताण्डिनः शाव्यायनिनश्च प्रागेव कर्मक्षयनामनन्ति-अश्व इव रोमाणि विधूय पापमिति । "तस्य पुत्रा दायमुपयन्ति । सुहृदः साधुकृत्यां द्विषातः पाप- कृत्याम्" इति च ॥१॥ कर्मक्षयार्थ यमनियमाभ्यासादि प्रयत्नं कुर्वतां यदि ताशप्रयत्नाभिनिप्पत्य- व्यवहितोत्तरमेव कर्मक्षयः स्यात् तदा छन्दतः सोऽनुष्ठितः स्यात् । ताण्डिशाट्या- यनिश्रुत्योरविरोधश्च स्यात् । अन्यथा देहादपसृप्तस्य देवयानेन प्रस्थितस्याग्थे कर्मक्षयो यद्यभ्युपगम्येत तदा तत्काले यमनियमादिप्रयत्नासंभवादाकस्मिकोऽयं निर्हेतुकः कर्मक्षयः प्रतिपन्नः स्यात् । स च युक्तिविरुद्धः शास्त्रविरुद्धश्च स्यात् । तर्हि न कोपि कर्भक्षयार्थ छन्दतः प्रवर्तेत कारणसत्त्वे कार्य्यावश्यंभावनियमात सत्यपि छन्दतो यत्ने कर्मक्षयाभावेन यन्नानामकारणत्वप्रतिपत्तेः॥२॥ इति विदुषां देहात्ययकालाश्रेषकर्मक्षयाधिकरणम् ॥
। (५६) गतेरर्थवत्वमुभयथाऽन्यथा हि विरोधः॥ १ ॥ उपपन्नस्तलक्षणार्थोपलब्ध.कवत् ॥२॥ कृत्स्नकर्महानौ क्वचिदेवयानगतिः श्रूयते क्वचिन्न । तत्र संशयः । हानौ सर्वत्रो. पायना तु वृत्तिवत् किमविशेषेण देवयानगतिरनुवर्तते अथवा विभागेन क्वचिदस्ति क्वचिन्नेति । तत्रोच्यते । देवयाने गतेरर्थवत्वमुभयथा द्रष्टव्यम् । क्वचिदर्थवती गतिः क्वचिन्नति विभागो युज्यते । नाविशेषेण । अन्यथा हि सर्वत्राविशेषण गतौ स्वीकृ- तायां विरोधः स्यात् । पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति इति श्रुतिहिं निरअनस्य देशान्तरसंचारमन्तरेणैव परसाम्योपपत्ति श्रावयन्ती तत्र गतेरभावमावे. दयति ॥१॥ उपपश्चायं गतेरुभयथाभावः क्वचिदतिरस्ति क्वचिन्नेति । तल्लक्षणार्थीपलब्धेः गतेः कारणभूती ह्यर्थः पर्यविद्यादिषु सगुणोपासनेषूपलभ्यते । तत्र बहुदेशान्तर- प्राप्त्यायत्तस्य “पर्यारोहणब्रह्मसंवदनविशिष्टगन्यापाप्त्यादिरूपकलस्यान्यथानुप पत्याऽर्थवती गतिः। न तु सम्यगदर्शने तल्लक्षपर्थोपलब्धिरस्ति । न ह्यात्मैकत्व- दर्शिनामाप्तकामानामिहैव दग्धाशेषक्लेशबीजानामारब्धभोगकर्माशयक्षपणव्य- तिरिक्तकिञ्चिदपेक्षितव्यमस्ति तस्मात्तत्रानर्थका गतिः । लोकवच्चैष विभागी द्रष्टव्यः । तत्र हि ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते नारोग्यप्राप्ती एव- मिहापीति । भूयश्चैतं विभागं चतुर्थेऽध्याये सुविशदं वक्ष्यामः ॥ इति सगुणनिर्गुणविक्षा विभागेन प्राणोत्क्रान्त्यनुत्क्रान्ति विभागाधिकरणम् ॥ अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ॥ सगुणा विद्यासु गतिरर्थवती न निगुणायां परमात्मविद्यायामिति पूर्वाधि- करणे उक्तम् । किन्तु सगुणास्वपि विद्यासु क्वचिदेवगतिः श्रूयते । यथा पर्यङ्क- विद्यायां पञ्चाग्निविद्यायामुपकोशलविद्यायां दहरविद्यायां च । अन्यासु यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडशकलविद्यायां वैश्वानरविद्यायाम् । तथा च संशयः । यास्वेवैषा गतिः श्रूयते तत्रैव नियम्यते अथवा सर्वासु विद्या- स्वियं गतिः संबध्नातीति तत्रोच्यते । अनियमः सर्वासामिति । सर्वासां सगुण- विद्यानामविशेषेण देवयानगतिरिष्यते । प्रकरणप्राप्तस्थापि नियमस्य चिरोधः श्रुतिस्मृतिभ्यां परिहियते । तथाहि- तद्य इत्थं विदुरिति पञ्चाग्निविद्यावतां देव- यानं पन्थानमवतारयन्ती “ये मेऽरण्ये श्रद्धां तप इत्युपासते" इति छान्दोग्य- श्रुतिर्विद्यान्तरशीलानामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां गमयति । वाजसनेयकश्रुतिरप्येवमेवार्थ गमयति । स्मृतिरपि-शुक्लंकृष्णे गती ह्ये ते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनरिति विद्याविभागेन मार्गद्वय- विभागं कुर्वन्ती सर्वगुणविद्यामात्रे देवयानगतिं दर्शयति ॥ रामानुजस्तु याव- दधिकारसूत्रादूर्ध्वमनियमसूत्रं पठति ॥ अनियमः सर्वेषामिति च सूत्रपाठः॥ इति सगुणविद्यासाधारणदेवयानाधिकरणम् ॥ । । । .
(५७) । । यावदधिकारमवस्थितिराधिकारिकाणाम् । निर्गुणविद्यावतां गतिर्व्यर्था । अत्रैव तेषां समवलयाल्लोकान्तरगमनाय तेषां प्राणोत्क्रमणाभावात् । सगुणविद्यावतां तु सर्वत्र गतिरर्थवतो । अचिरादिना देवयानमार्गेणीकान्तप्राणानां ब्रह्मलोकपर्यन्तं गमनात् । तत्र ब्रह्मभूतानामपवर्ग- श्रवणादिति व्यवस्था पूर्वाधिकरणैः प्रतिपन्ना । किन्त्वितिहासादौ ब्रह्मविदामपि केषांचिद् दृश्यते पुनर्जन्मसंबन्धः । तथा हि अपान्तरतमा नाम देवाचार्य: कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः संबभूव वसिष्ठश्च ब्रह्मणो मानसः पुत्रो निमिशापादपगतपूर्वदेहो मित्रावरुणाभ्यां पुनर्जज्ञे । भृग्वादीनामपि ब्रह्मणो मानस. पुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः स्मर्यते । सनत्कुमारो ब्रह्मणो मानसः पुत्रो लदाय स्वयंवरं प्रदाय तत्पुत्रतया स्कन्दो नाम प्रादुर्बभूव । दक्षनारद- प्रभृतीनामपि ब्रह्मणो मानसपुत्राणां भूयसी देहान्तरोत्पत्तिकथा तत्र स्मर्यते। तथा बैषां ब्रह्मविद्यापरायणानामपि देहान्तरोत्पत्तिदर्शनात् संशयः विदुषां वर्तमानदेहपातानन्तरं पुनदेहान्तरमुत्पद्यते न वा । ब्रह्मविद्यायाश्चीपवर्गहेतुत्त्वमस्ति न वेति तत्रोच्यते । आधिकाालेकाणां यावदधिकारमवस्थितिः प्रतिपद्यते इति यथा हि भगवान् सविता सहस्त्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तत्पश्चादुदया- स्तमयवर्जितं कैवल्यमनुभवतीति श्रूयते । “अथ तत ऊर्ध्व उदत्य नैवोदेता नास्त- मेता एकल एवं मध्ये स्थाता"-इति विदेहाश्च ब्रह्मविदः प्रारम्धकर्मभोगक्षय- पर्यन्तं सदेहं स्थित्वा ततः कैवल्यमायान्ति इति श्रूयते-"तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति । एवमपान्तरतमःप्रभृतयो ब्रह्मविदोऽप्यक्षीणाधिकारक- मणो यावदधिकारमवतिष्ठन्ते तदवसाने चापवृज्यन्ते । ते हि सकृत् प्रवृत्तमेव कम्नशियमतिवाहयन्तः स्वाधिकारनिवर्तनाय युगपदेव देहेन्द्रियप्रकृतिवशि- त्वान्नानादेहान्निर्माय, क्रमेण वा स्वातन्त्र्येण गृहादिव गृहान्तरमन्यमन्यं देह संचरन्ती अपरिमुषितस्मृतयो यावदधिकारक्षयं देहसंबन्धं न त्यजन्ति । “यथै- धांसि समिद्धोऽनिर्भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ॥ ज्ञानदग्धैस्तथा लकेशैर्नात्मा संपद्यते पुनः ॥ इत्यादिस्मृतिभिः पुनः संस्मृतिबीजैकर्मणां ज्ञानाग्निपरिदग्धत्त्वे निर्धारितेऽपि प्रवृत्तफलस्य कर्माशयस्य मुक्त षोरिव वेगक्षयादेव निवृत्तिसंभवा- देषामधिकारप्रारब्धकर्मणां भोगादेव क्षयो न ज्ञानादित्यतस्तत्पर्यवसान एवाप- वर्गः स्यात् ॥ प्रारब्धकर्मातिरिक्तकर्माशयस्य तु ज्ञाननाश्यत्वादेकान्तिकी विदुषः कैवल्यसिद्धिरिति सिद्धान्तः ॥ इति विदुषां यावदधिकारमनपवर्गाधिकरणम् ॥ अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदु- क्तम् ॥ १॥ इयदामननात् ॥ २॥ "ततिदक्षरं गार्गि ब्राह्मणा अभिवदन्ति ॥ अस्थूलमनण्वहस्वमदीर्घमलो-, বলাঅলাবান্ধাহাঙ্গদু খাগমুখীক্ষা-লা- মানজিলা ল না কিঞ্জল লং লা হয় प्रशासन गाणि सूर्याचन्द्रनसौ विधृतौ तिष्ठतः।। इति वाजसनेयश्रुतौ । तथाथर्वणे- ত্বি— ! যা বহুঙ্খলাধা ; অস্বাস্থ্য तदयाणिपादर्मिति पठ्यते । तत्रैतदक्षरब्रह्मसंबन्धितया श्रुता अस्थूलत्वादयःप्रपञ्च धर्मप्रतिषेधाः किं सर्वासु ब्रह्मविद्यालु नेया उत यत्र श्रूयन्तं तव व्यवतिष्ठन्त इति संशय उच्यते । अक्षरधियो स्वराधः सामान्यतदानाभ्याम् । अयमर्थः । अक्षरब्रह्म संबन्धिनीनां विशेषसंसर्गप्रतिषेधबुद्धीनां सर्वासु ब्रह्मविद्याभूपसंहाले युज्यते । सर्वत्र प्रतिपाद्यस्याक्षरब्रह्मणः समानत्वाद्, ब्रह्मप्रतिपादनप्रकारस्य चाशेषविशेष- লিঙ্ক समानत्वाद, अस्थूलत्वादोनां सर्वत्राप्यक्षरस्वरूपभावाच्च गुणानां हि प्रधानानुवर्तित्वानोप सदवद् श्यते । यथा जामदग्न्ये चतूराजेऽहीने पुरोडाशिनीभूपसत्तु विहितासु "अग्नहोत्र बेरध्वरमिन्यादीनामुद्रातृवेदपठितानां पुरोडाशप्रदानमन्त्राणामध्वर्युभिरभिसंवन्धा भवति युरोडाशप्रदानकर्मणोऽश्वयु कर्तृकत्वाद्।" "गुणानुख्यन्यतिकमे तदर्थत्वान्नुयन वेदसंथागः" इतिपूर्वतन्त्रेऽङ्गाना प्रधानतन्त्रतासिद्धान्तात् । तस्मादिहाप्यक्षरतन्त्रविात् तद्विशेषणानां यत्र कचि. दुकानामप्यक्षरेण सर्वत्राभिसंधाधः ॥ नम्वेवं तर्हि सर्वातु ब्रह्मविद्यासु ब्रह्मण एव गुणित्वाद् गुणानां च प्रधानानुवर्तित्वात् “सर्वकर्मा सर्वगन्धः सर्वरसः" इत्यादेगुण जातस्य प्रतिविद्यं व्यवस्थितस्याप्यव्यवस्था स्यादिति चेत् तत्राह--इय- दामननात् । येन गुणा जातेन विना ब्रह्मस्वरूपस्येतरब्यावृत्तस्यानुसंधानं न संभवति । तदेव सर्वत्रानुवर्तनीयम् । इयदेव च तदनुचि तनात् सिध्यति । यदस्थूलत्वादिविशेषितमानन्दादिकं नाम । इतरे तु सर्वकर्भवादयः प्रधानानुवर्ति- नोऽपि चिन्तनीयत्वेन प्रतिविधं व्यवस्थिता इति बोध्यम् ।। इत्यक्षरब्रह्मणो निर्विशेषत्वाविकरणम् ॥ इयदामननात्॥ शङ्करस्त्वियदामननादिति सूत्रेऽधिकरणान्तरं पश्यति । "तथा हि द्वासुपर्णा सयुजा सखाया समानं वृक्ष परिषस्वजाते । तयोरन्यः पिप्पलं स्वोत्ति अनश्नन्नन्थो अभिचाकशीति" इत्याथर्वणिकाः श्वेताश्वतराश्चामनन्ति । कठाः पुनः "ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः" इत्याहुः । तत्रात्मनोत्विश्रुतिसामान्या- देकविधं नेयम् । अथवा द्वासुपर्णेत्यत्रकस्य भोकृत्वमेकस्य चाभोक्तत्वं श्राव्यते । ऋतं पिबन्तावित्यत्र तूभयोरपि भोक्तत्वमाख्यायते इति विशेषदर्शनाद् विद्यानाना- त्वं नेयमित्येवं संशये उच्यते-उभयोरप्येतयोर्मन्त्रयोदित्वरूपेयत्तापरिच्छिन्न- वेद्यामननाद् विद्यैकत्वं प्रत्येतव्यम् । ननु रूपभेदस्य दर्शितत्वाद्विद्यानानात्वं प्राप्नो तीति-चेन्न । उभानप्येतौ मन्त्री जीवद्वितीयमीश्वरमेव प्रतिपादयतो नार्थान्तरम्। .
(५६) सत्रावश्यं जीव एव तकर्मभोक्तष्यते । अशनायातीतस्वन्य ईश्वरः स्यात् । जुष्टं यदा पश्यत्यन्यमीशमिति धाक्यशेषे तदुल्लेखात् । ऋतं पिवन्ताविन्यत्र तु पिबति जीवे तत्साहचर्याच्छत्रिन्थायेनेश्वरः पिबतीत्युपत्रच्यते । गुहां प्रविष्टौ चात्माना- वित्यत्र चैतत् प्रपश्चितम् । अपिन “अन्यत्र धर्मादन्यत्राधर्मादित्युपक्रमाद्" यः सेतुरीजानानामक्षरं ब्रह्म यत्परनिति वाक्यशेषानेषु त्रिवपि वेदान्तेषु परमात्मन एवेदं प्रकरणं गम्यते । तादात्म्यप्रतिपादनविवक्षया जीवोपादानेऽपि तद्विवक्षया तत्प्रकरणानवतारात्। तस्मादुभयत्रैवियं सिद्धम् । सिद्धं च जीवस्य कर्मफलभोक्तत्वमभोक्तत्वस्वीश्वरस्य । इनीश्वरस्य कर्मर लभोक्तृत्वाधिकरणम् ॥ अन्तरा भूतग्रामवत् स्वात्मनोऽन्यथा ॥ १॥ भेदानुपपति- रिति चेन्नोपदेशवत् ॥२॥ व्यतिहारो विशिषन्ति हीतरवत् ॥३॥ सैव हि सत्यादयः ॥ ४॥ अत्र रामानुजायनुसारेणादौ व्याख्यायते-अन्तरेत्यारभ्य नोपदेशवदित्यन्तमेकं सूत्रम् ॥ वाजसनेयश्रुतौ “यत्साक्षादपरोक्षाइ ब्रह्म य आत्मा सर्वान्तरस्तन्मे आचक्ष्व"-इत्येवमेकरूपेप्युषस्तिकहोडयोः प्रश्ने भिन्नभिन्नरूण तयोरुत्तरदर्शनात् संशयः किसनयोविकत्वं विद्यानानात्वं वेति । तत्र तावत् पूर्वपक्षमतमुच्यते-अन्त- राभूतग्रामवत्स्वान्मनोऽन्यथा भेदानुपपत्तिरिति । अयमर्थः । “योऽशनायापि- पासे शोकं मोहं जरां मृत्युमत्येति, अतोऽन्यदातमित्येवं कहोडप्रश्नप्रतिवचनेऽशना- पिपासाद्यतीतत्त्वलक्षणाख्यानात् परमात्मनः सर्वान्तराख्याने प्रतिप्रश्नेऽपि । “यः प्राणेन प्राणिते योऽपाननापानिति य उदानेनोदानिति स ते आत्मा सर्वान्तरः एष ते आत्मा सर्वान्तरः । न उटेष्टारं पश्र्न श्रुतेः श्रीतारं शृणुया, न मतेमन्तारं मन्वीथा, न विज्ञातेर्विज्ञातारं विजानीयाः,-एष ते आत्मा सर्वान्तरोऽतोऽन्यदा- तम्" इत्येवमुषस्तिप्रतिवचनेऽन्तयत्मत्वाख्यानं भूतग्रामवत भौतिकरहविशिष्टस्य- स्वामनो जीवशब्दप्रतिपत्रस्य प्रत्यगात्मना द्रष्टव्यं न परमात्मनो भौनिकरहितस्य ॥ अन्यथाऽस्यापि प्रतिवचनस्य परमात्मविषयत्वाभ्युपगमेऽशनायाद्यतीतत्वलक्षणमप्य. वोषस्तिप्रतिवचने प्रवेश्यकेनैव रूपेण प्रतिवक्तुमौचित्याद् भेइन प्रतिवचनमनुपपन्नं स्यात् । तस्मादुषस्तिप्रतिववनं प्रत्यगात्मविषयं कहांडप्रतिवचनं तु परमात्मविषय- मिति विद्याभेदः प्रामाति-इति चेत् तत्रसिद्धान्त उच्यते-नोपदेशवदिति । नात्र विद्याभेदः कल्प्यः । तथा सति साक्षादपरोक्षादिति विशेषणद्वयसामर्थ्यात् परमात्म- विषयतयेवोभयोरेकरूपेण प्रश्न कस्मैचित् प्रत्यगात्मविषयतया कस्मैचिता परमात्म- विषयतया पार्थक्येन प्रतिवचने प्रश्नप्रतिवचनयोर्विषयभेदप्रसङ्गादनौचित्यं स्यात् । तस्मादिह प्रत्यगात्मनः प्राणनापाननादयोमी सर्वे व्यापारा अपि परमात्मनि बन्धना एव स्युरित्येकः परमात्मैवाध्यात्म चाधिदेवं च सर्वत्र सर्वान्तरोऽन्यत्त सर्वमात- 2RONE । मित्येवमुभयोरपि प्रतिवचनयोरेकस्यामुष्य परमात्मन एव तटस्थलक्षणस्वरूपलक्ष- णाभ्यां विवक्ष्यमाणत्वात् तादृश रूपभेदस्य विद्याभेदप्रयोजकत्वं नास्ति । अपि च- "अतोऽन्यदातम्" इत्युभयत्राप्यविशेषेण वाक्यशेषश्रवणात् प्रत्यगात्मविद्यायां परमात्मनोऽप्यातत्वं परमात्मविद्यायां च प्रत्यगात्मनोऽप्थार्तत्वं प्रसज्येतेति स्ववचन- व्याघातः स्यात् । तस्मात् प्रश्नकरूप्यात् प्रतिवचनवाक्यशेपैकरूप्याच्च विद्यैकत्वमेव सिद्धं भवति । ननु विद्यैकत्वे एकत्रैव प्रतिवचने तयोरुभयोर्लक्षणयोः समावेशसंभ- वादान्नान दानुपपत्तिरिति चेत् तत्रोच्यते । उपदेशवदेतद् द्रष्टव्यम् ॥ यथा सद्वि. द्यायां छान्दोग्यश्रुती-स आत्मा तत्त्वमसि श्वेतकेतो" इति नवकृत्वोऽप्युपदेशे विद्या- भेदो नास्ति । एकस्यैव सतो ब्रह्मणस्तत्तन्माहात्म्यविशेषाणां पार्थक्येन दिदर्शयिषया तथाऽवृत्त्या व्याख्यानात् । एवमिहाप्येकस्यैव सर्वान्तरस्य तत्तल्लक्षणपार्थक्यदिदर्श- यिषयानानभेदेऽपि विधेकत्वं न विहन्यते इति सिद्धम् ॥ नन्वेवमध्येकत्र प्राणापा- नाद्यध्यात्मलक्षणस्यान्यत्राशनायाद्यतीतत्वरूपाध्यात्मविरुद्धलक्षणस्य च श्रवणदूप- भेदो विज्ञायते ॥ अत एव चैकत्र सर्वप्राणिप्राणनहेतुत्वेनोपासनम्-अन्यत्राशना- याद्यतीतत्वेनेत्युपासनस्य गुणभेदनाध्यवसानादूपभेदों भवति । रूपभेदात् प्रष्टभे- दाच्च विद्याभेदः प्राप्नोति चेत् तत्रोच्यते । व्यतिहार इति । यत्साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तर" इत्येवमेकरूपेण जिज्ञास्योपादानप्रश्नयोरेकविषयत्वं तावन्नि- ‘र्यते । द्वितीयप्रश्ने यदेवेत्येवकारेण चोत्तरप्रश्नस्य पूर्वप्रश्नविषयताऽवधार्यते । प्रतिवचनं चोभयत्रापि स ते आत्मा सर्वान्तर" इत्येवमेकरूपेणोपसंहारादेक- विषयमेवेत्यवगम्यते ॥ इत्थं च प्रश्नपतिवचनयोः परमात्मैकविषयत्वेऽवधृते सत्ये- कस्मिन्नेव तस्मिन्नुपास्य द्वयोरुषस्तकहोडयोरितरतरबुद्धिव्यतिहारः कर्त्तव्यः। उप- स्तायोपदिष्टा सर्वप्राणिप्राणनादिहेतुत्वविषया बुद्धिः कहोडेनापि कार्या। कहोडा- योपदिष्टा चाशनायाद्यतीतत्वविषया बुद्धिरुषस्तेनापि कार्या इति सूच्यते । तथा च प्रत्यगात्मसंनियोगेन दृष्टानप्येतान् प्राणनादिव्यापारानशनायाद्यतीतपरमात्मैकमूल- कत्त्वेन व्यवस्थाप्य प्रत्यगात्ममूलकत्वं तेषां व्यावर्तयन्ति हीमानि प्रतिवचनाक्षराणि । इतरवत् । यथेतरत्र सद्विद्यायां भूयोभूयः प्रश्नाः प्रतिवचनानि च तदेवैकं सद्ब्रह्म व्यवच्छेदयन्ति नतु प्रश्नप्रतिवचनभेदात् प्रतिवचनं लक्ष्य भेदेन विविचन्ति । तद्वदि- हाप्येकविषयत्वं द्रष्टव्यम् ॥ ननु तत्रापि सद्विद्यायामेकमेव लक्ष्यं प्रतिवचनमस्तीति कुतो गम्यते इति चेत् तत्राह-सैव हि सत्यादयः इति । "सेयं देवतैक्षत तेजः परस्यां देवतायाम्" इति प्रकृता या सच्छब्दाभिहिता परा देवता सैव हि तत्र स. र्वेषु प्रतिवचनप-येषूपपाद्यते । ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मेति प्रथमप- र्यायोदिताः सत्यादय एव च सर्वेषु प्रतिवचनपायेषु लक्ष्यत्त्वेन प्रतिपाद्यन्ते । तस्मादुपक्रमोपसंहारयोरैकरूप्यादेकविषयत्त्वं तत्र गम्यते । तद्वदिहोषस्तकहोड प्रश्नप्रतिवचनयोरप्यकविषयत्वं चेति सिद्धम् ॥ इत्युषस्तकहोडप्रतिवचनयोः पर- मात्मैकविद्याधिकरणम् ॥ । आध्यात्मिकप्राणनादिवत्तीनां परमात्ममूलकत्वाधिकरणम् ॥
। अन्तरा भूतग्रामवत् स्वात्मनः ॥ १॥ अन्यथा भेदानुप- पत्तिरिति चेन्नोपदेशान्तरवत् ॥ २ ॥ अथ शंकरानुसारेण व्याख्यायते । तत्र स्वात्मन इत्यन्तमेकं सूत्रम् । अन्यथेत्या. रभ्य नोपदेशान्तरवदित्य यत् सूत्रम् । ताभ्यां चैकमधिकरणं विरच्यते । उपस्ति- कहोडयोः प्रश्ने विद्यैकत्वं विद्यानानात्वं वेति संशये द्विरानानसामा विद्यानाना- त्वं प्राप्नोति । कर्मतन्त्रे यजत्याभ्यासात् प्रयाजादि कर्मभेदवत् । तत् प्रत्युच्यते । स्वा. त्मनोऽन्तरान्नानाविशेषाद्विद्यकत्वमस्तीति ॥ सर्वान्तरो हि स्वात्मोभयत्राप्यविशिष्टः पृच्छ्यते प्रत्युच्यते च । नहि द्वावामानावेकदेहे सर्वान्तरौ संभवतः । एकस्मिन् देहे एकस्य सर्वान्तरत्वे सिद्धेऽप्यनेकस्य सर्वान्तरत्वं भूतग्रामवन्नोपपपद्यते यथा पञ्चभूत- समूहे देहे पृथिव्या आपोऽन्तरा अद्भयश्च तेजोऽन्तरमित्यापेक्षिकान्तरत्वे सत्यपि नैषां सर्वान्तरत्वं संभवति । अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति । "एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा' इति श्रुतौ सर्वेषु भूतग्रामेष्वेक एव सर्वान्तरात्मानायते एवमिहाप्येक एवान्तरात्मा वेद्य इति विद्यैकत्वं भवति ॥ यत्तूक्तं विद्याभेदानभ्युपगमे आनानभेदानुपपत्तिरिति तन्न उपदेशान्तरवदुपपत्तेः यथा छान्दोग्ये सद्विद्यायां-"स आत्मा तत्वमसि श्वेतकेतो"-इति नवधोपदेशे सत्यान्नानभेदे विद्यैकत्वं न विहन्यते ॥ उपक्रमोपसंहाराभ्यामैकार्थ्यावगमात् । एवमिहापि प्रश्नरूपाभेदात्-"अतोऽन्यदातम्" इति परिसमाप्त्यविशेषाच्चैकवि- षयत्वमुपपद्यते तस्मादेकविध सिद्धम् ॥ इत्युषस्तिकहोडप्रश्नयाकविद्याधि- करणम् ॥ । ॥ प्रत्यगात्मप्राणनादीनापरमात्मनिबन्धनवाधिकरणम् ॥ व्यतिहारो विशिषन्ति हीतरवत् ॥ आदित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति-"तद्योऽहं सोऽसौ योऽसौ सोऽ. हम् इति । जाबालाश्चाहुः त्वंवा अहमस्मि भगवो देवते अहं वै त्वमसि" इति । तत्र संशयः किमत्र जीवस्येश्वरात्मत्वमीश्वरस्य तु जीवात्मत्वमित्युभयथा बुद्धिर्विव- क्षिता। अथवा जीवस्येश्वरात्मत्वमानं विवक्षितमिति। तत्रान्त्यपक्ष एव युक्तः ईश्वरस्यापि संसार्यात्मत्त्वे विवक्षिते उपास्यनिकर्षापत्तरिति चेत् तत् प्रत्युच्यते । व्यतिहारोऽयमाध्यानायानायते । इतरवत् । यथेतरे सर्वात्मत्वप्रभृतयो गुणा आध्या- नायात्रायन्ते तद्वत् । तथा हि विशिषन्ति आनातारः स्वमहमस्म्यहं च तत्वमा सीति । एतेन ह्युभयरूपमुपदि भवति । अन्यथा त्वहं त्वमसीत्यैकमेवरूपमुपदिष्टं- स्यात् । यत्तूपास्यनिकर्षः स्यादित्युक्तं तन्न व्यतिहारेणैकात्म्यस्यानुचिन्तनीयत्वात् ॥ ॥ इति जीवेश्वरतादात्म्याधिकरणम् ॥ ॥ इतिव्यतिहारश्रुतेरुभयबुद्ध्यर्थताधिकरणम् ॥
. ( ६२ ) सैव हि सत्यादयः ।। लयात महद्यक्षं प्रथम वेद सत्यं ब्रह्म-त्यादिना वाजसनेयके सनामाक्षरा सत्यविद्या विधीयते । अनतरमेव च "तधत् तत्सत्यनसोल आदित्यो य एष तस्मि- भण्डले .दुख्यो यचायं दक्षिणेऽक्षन् पुरुः" इत्यानायने। तत्र संशयः। किमिमे के सत्यविये अथवा एकैवेति तत्र जयतीनान लोक्षानिति पूर्वत्र, हन्ति पाप्मानं जहाति चेत्युत्तरत्र फलश्रुति देनाख्यानाद् द्वे विद्ये कश्चित् प्रतीयादत आह । सैव ोकेयं सत्य- वियेति । "तप्रत् तत्सत्यम्" इति प्रकृतस्यैवाकर्षणेनोत्तरत्राख्यानात् । यत्तु फलान्तर- श्रवणाद्विद्यान्तरमिन्युक्तं तन्न . तस्योपलिपदहरहमिति चाहान्तरोपदेशस्य स्तावकत्वेन फलान्तरध्रुतेरर्थवावात् । तस्मात् सैवेयमेका सत्यविद्या तेन तेन विशेषेणानायते इत्यतः सर्व एव सत्यादयो गुणा एकस्मिन् प्रयोगे उपसंहर्तव्याः ॥ केचित्तु-"तद्यत् तत्सत्यमसौ स आदित्यो य एम एतस्मिन्मण्डले पुरुपो यश्चायं दक्षिणेऽक्षन् पुरुष इति वाजसनेयके, छान्दोग्ये पुनः “अथ य एषोऽन्तरादित्य हिरण्मयः पुरुषो पश्यते ऽथ एषोऽन्तरक्षिणि पुरुषो तश्यते"। इत्युभयत्राक्ष्यादित्यपुरुषविषया विद्यानायते । तकविद्यं वा विद्यानानात्वं वेति विचारे सैव ह्यका विद्योतिप्रतिज्ञायते। सत्यादयश्च तत्र तत्रोपदिष्टा गुणा इतरत्रोपसंहा- इत्याहुः ॥ इत्यक्ष्यादित्यपुरुषैकविद्याधि- करणम् ॥ इत्यस्यादित्यपुरुषगतसत्यतैकविधात्वाधिकरणम् ॥ कामादातरत्र तंत्र चायतनादिभ्यः ॥१॥ आदरादलोपः॥२॥ उपस्थितेऽतस्तद्वचनात् ॥ ३॥ अथ यदिदस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दहरोऽस्मिन्नन्तर आकाश- स्तस्मिन् यदन्तस्तदन्वेष्टव्यम्" इति छान्दोग्ये, वाजसनेयके तु “स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु, य एषोऽन्तहदये आकाशस्तस्मित सर्वस्य वशी सर्वस्येशानः" इत्यादि श्रूयते तत्र विद्यैकत्वं विद्याभेदो वेति संशये उच्यते । कामायेव हि रूपमितरत्र तत्र च पश्यते तस्मादेकोभयत्र विद्यति प्रतीमः । कामशब्दः सत्यकानार्थः । गदिपदं सत्वगुणाष्टकस्य विज्ञानगुणाष्टकस्य चोपल- क्षणार्थम् । तद् यथा-सत्यकामः, सत्यसंकल्पः, अपहतपाप्मा, विजरः, वि- मृत्युः, विशोकः, अविजिघत्सः, अपिपासः इति सत्यगुणाष्टकं छान्दोग्ये श्रुतमितरत्र वाजसनेयकेऽप्युपसंहार्य्यम् । तथा महाजनत्वं, सर्ववशित्वं, सर्वेशानत्वं सर्वाधि- पतित्वं भूतपालत्वं सेतुत्वं विधरणत्वं निर्विकारत्वम्-इति विज्ञानगुणाष्टकं वाजस. नेयके श्रुतमितरत्र छान्दोग्येऽप्युपसंहार्यम् । अन्तह दयाकाशरूपायतनादिभ्योऽ- नन्यधर्मभ्यस्तदन्तर्वतिनो वेद्यस्याभेदप्रतिपत्तेः । आयतनोपदेशसाम्येन चोदना- साम्यं दर्शयति । आदिपदेन कामादिगुणोपसंहारान् पसाम्यं, दहरब्रह्मविद्यानाम- साम्यं फलसंयोतासाम्यं च। तत्र संयोगो यथा-परं ज्योतिरुपसंपद्य स्वेन रूपेणाभि- (६३ ) निष्पद्यते । अभयं ये ब्रह्म भवतीत्येवमेकविधी रgः । तस्मादेकविधीयन। अत्र शं. करः सूत्रसिद्धमप्येकविद्यं नामिति । तथाहि-"अथ य इहान्मानमनुविद्य वजन्य. तांश्च सत्या कामान्" इति छान्दोग ध्रुतावात्मवत् कामानामपि चचत्वभवणात् तत्र सगुणब्रह्म विद्योपदेशः प्रतीयते । वाजसनेयके तु-"अत ऊर्व विमीक्षायैव बृह्यसको लयं पुरुष:"-इत्यादिप्रश्नपतिवचनसमन्वयात्, “स एष नेति नित्या. स्मा"-इति निर्गुणब्रह्मणोपसंहाराच्च तत्र निर्गुणब्रह्मविद्यापदेशः लियति । सूत्र तु गुणोपसंहाराख्यानं विभूतिप्रदर्शनार्थ नोपासनार्थमित्याह ॥ रामानुजा- दयस्तु कामादिसूत्रेण कामादिगुणानामुपसंहारविधानात् सगुणब्रह्मविद्यापरिशपर. त्वमेधोभयाश्का-दोग्यवाजसनेयशाखारभिप्रयन्ति तत्र च "मनसैवानुद्रष्टव्यं नेह नानास्ति किश्चन । मृत्याः रा भृत्युमति य इहनानव पश्यति"-"एकधैवानुद्रष्ट व्य' “स एष नेति नत्यात्मा इत्यादिश्रुतिभिर्ब्रमणो निर्विशेषत्वश्रवणान् तद्विरोध- माशक्य तदुद्वारायांत्तरसूत्रभवतारयन्ति । आदरादलोप इति । सत्यकामवादि- गुणानां सर्ववशत्वादिगुणानां चास्मिन् ब्रह्मणि सादरमुपदशादेषां ब्रह्मण्यलांपा द्रष्टव्यः : नित्या होत प्रसगुणा न कदाचिन्न सन्तीति नत्वेव निर्विशेषं तद् ब्रह्म कदा- चिदनुध्येयं भवति । अथ य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान् कानांस्तेषां सर्वेषु लोकेष्वकामचारी भवति" इति गुणविशिष्टा वेदननिन्दाश्रवणाद् गुणेष्वा- दरः प्रतोयते । तस्मात् सगुणमेव ब्रह्म न निगुणं तदुपास्यम् ॥ “ह नानास्ति किञ्चन, एकधैवानुद्रष्टव्यम् इति तु सर्वस्य ब्रह्मकार्यतया तदात्मकवादेकधाऽनुष्टि विधत्ते । अब्रह्मात्मकत्वेन च नानात्वबुद्धि प्रत्याचष्टे न तु वा तता ब्रह्मण एक नि: णत्वं प्रत्याय्यते । नेति नेतीत्यत्र चौत शब्देन प्रपञ्चाकारं परामृश्य सर्वसाधारणस्य ब्रह्मणः प्रपञ्चविलक्षणत्वं प्रतिपाद्यते । “अग्राह्यो नगृह्यते अशोय्यां न शीर्यंत असङ्गो न सज्यते अव्यथिती न व्यथत न रिप्यति "नास्य जरयतजीयंति, न वेधनास्य हन्यते ॥ एतत्सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिताः" इत्यादयः श्रुतयोप्य- स्य ब्रह्मणः प्रत्यक्षादिग्राह्यविशरणीयादिप्रपञ्चरूपवैसाहश्यमेवान्याचक्षते नत्वात्म- गुणानपि ताः प्रत्याचक्षते ॥ तस्मात् गुणविशिष्टमेवैतदेकं ब्रह्म न निगुणमिति सि- धम् ॥ ननु "तद् य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामास्तेषां सर्वेषु लोके- षु कामचारो भवति स यदि पितृलोककामो भवती" त्यादिना गुणविशिष्टविद्यायाः सांसारिकालसंबन्धश्रवणान्न निगुणविद्यामन्तरेण मोक्षसिद्धिरिति चेत् तत्रोच्यते उपस्थितेऽतस्तद्वचनादिति । उपस्थानं ब्रह्मरूपेणाभिनिष्पत्तिः स्वेन रूपेणामिनिष्पन्ने प्रत्यगात्मन्यतः स्वरूपोपसंपत्तेरेव हेतोः स सर्वेषु लोकेषु कामचारो भवति ॥ श्रुती तथैव तद्वचनात् ॥ तथा हि-परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रोडन् रममाणः स्त्रीभिर्वा यानैर्वा शातिभिर्वा नोपजनं. स्मरनिदं शरीरं स स्वराड भवति तस्य सर्वेषु लाकेषु कामचारा भवतीति । तदित्य मुक्तयनन्तरमेवेदशः फलसंयोगः श्राव्यते इतिसर्वलोककामचारस्य मुक्तोपभोग्यफल- त्वावगमान्न मुक्तधर्थं निर्गुणब्रह्म विद्यापेक्ष्यते ॥ तदेतच्चतुर्थे निपुणतरमुपपाद- यिष्यते॥ ॥ इति मगुणब्रह्मविद्याया मुक्तिफलत्वाधिकरणम ॥
आदरादलोपः। उपस्थितेऽतस्तद्वचनात् इत्थं त्रिभिः सूत्ररेकमधिकरणं रामानुजायनुसारेणाख्यातम् । शंकरस्तु कामादि. सूत्रेणैकेन तावदेकं सत्यकामत्वादिगुणोपसंहराधिकरण व्याख्यायोत्तरसूत्रत्रद्वयेना- धिकरणान्तरमारचयति ॥ छान्दोग्ये वैश्वानरविद्यां प्रकुत्य-"तद्भक्तं प्रथममागच्छेत् तद्वोमीयं स प्रथमामाहुति जुहुयात् प्राणाय स्वाहेति"-इत्यादिना पश्च प्राणाहुतयो विहिताः ॥ तासां चाग्निहोत्रतामभिप्रयन्नाह-य एतदेवं विद्वानग्निहोत्रं जुहोति इति" | "यथेह क्षुधितावाला मातरं पय्युपासते एवं सर्वाणि भूतानि अग्निहोत्रमुपा- सते" इति च । तत्र भोजनेलोपे सत्यस्य प्राणग्निहोत्रस्य लोपोऽलोपो वेति चिन्ता. यां प्राणाग्निहोत्रस्य भक्तागमसंयोगात् तस्य च भोजनार्थत्वाद् भोजनलोपे लोपः संभाव्यते । किन्त्वत्र पूर्वपक्षी तावदाशंकते-आदरादलोप इति वैश्वानरविद्याया- मेव जाबालानां श्रुतौ-पूर्वोऽतिथिभ्योऽश्नोयात् । यथा वै स्वयमहुत्वाग्निहोत्रपरस्य जुहुयादेवं तद् इत्यतिथिभोजनप्राथम्यं निन्दित्वा गृहिभोजनप्राथम्यविधानादा- दरः प्राणाग्निहोत्रे श्यते । तस्मात् प्राणाग्निहोत्रस्य नित्यावश्यकत्वसिद्धौ हवनीय. भक्तादिगुणलोपेपि मुख्यस्थ हवनस्य लोपो न कार्य इति स्थिते प्रतिनिधिन्याये- नाद्भिरन्येन वा द्रव्येणाविरुद्धेन तदनुष्ठानं कार्यमेवेति लभ्यते ॥ इत्येवं प्राप्त सिद्धा- तो प्रत्याह-उपस्थितेऽतस्तद्धचानादिति । उपस्थिते भाजन प्रथमोपनिपतिता- दतो भोजनद्रव्यादेवैतत् प्राणाग्निहोत्रं संपाद्यम् । “तद्यद्भक्तं प्रथममागच्छेत्- तद्धोमीयम्" -इति सिद्धिवद् भक्तोपनिपातपरामर्शेन तद्वचनात् । तथा च होमसाधनद्रव्यतया भक्तस्य विशिष्योपादानाद् भोजन-पक्ष एवैते मन्त्रद्रव्यदेवता संयोगात् पश्च होमाः सिध्यन्ति न तु भोजनलोपे द्रव्यान्तरप्रतिनिधेयं सिध्यति। तस्मात् भीजन लोपे लोप एव प्राणाग्निहोत्रस्यति सिद्धम् ॥ । इति प्राणाग्निहोत्रानुगतवैश्वानरविद्याधि करणम् ॥ तन्निर्धारणानियमस्तदृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥ ओमित्येतदक्षरमुद्गीथमुपासीत-"इत्येवमादीनि विज्ञानानि कर्माङ्गतया श्रूयन्ते । तानि तत्तत्कर्मसु नित्यान्यनित्यानि वेति विचार्यते । ननु नोदीथो- पासनस्य कर्मागरवमुपपद्यते अनारभ्याधीतत्वात् । आपयिता ह वै कामानां भवति समयिता ह वै कामानां भवतीत्येव पृथकफलश्रवणाच्चेति चेन । यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति -इत्यादीनामपापश्लोकश्रवणफलानाम- प्रकरणपठितानामपि जुह्वादिद्वारा ऋतुप्रवेशात् कर्माङ्गत्वं नित्यत्वं च यथा- भ्युपेयते तथोगोथायुपासनानामपि स्यादित्येवं प्राप्त ब्रूमः । तनिरिणानियमः इति ॥निर्धारणं निश्चयेन मनोधारणं ध्यानमिति रामानुजः । कर्मसु तदुद्गीथो पास्त्यनियमो द्रष्टव्यः । नोद्गीथं तथोपास्यैवोद्गीथकर्म कुर्यादिति नियमोऽस्ति । अनुपास्यापि कृतमुद्गीथकर्मस्वरूपेण सिद्धयत्येवेति भावः । शंकरस्त्वाह ।
याजना- आप्तिः, सम्वृद्धिः, मुख्यः प्राण आदित्यः-इत्येवमादीनामुद्रीथादिकर्म-गुण- याथात्स्यनिर्धारणानां नित्यवत् कर्मसु नियमो नास्ति । अनि र्यापि कृतानि कर्माणि सिध्यन्त्येवेति भावः । यदि कर्माङ्गविज्ञानमपि कर्माङ्ग स्यात् तहिं तद- विदुषा कृतस्य कर्मणाऽङ्गहीनत्वादसिद्धिः स्यात् । न चैतदस्ति तद्दष्टेः । दर्शयति हवंजातीयकानामनियतत्वं श्रुतिः-तेनोभो कुरुते यश्चैतदेवं वेद-इत्यवि- दुषोऽपि क्रियाभ्यनुज्ञा दृश्यते । प्रस्तोतुर्या देवता प्रस्तावमन्वायत्ता-तां चेद- विद्वान् प्रस्तोप्यसीत्यादिषु प्रस्तावाददेवताविज्ञानविहीनानामपि ध्यवसानं श्यते । तस्मात् कर्माङ्गविशेषाणां विज्ञानस्य कङ्गित्वं नास्ति । पृथग हि तत्कर्तव्यतया विधीयते । पृथगेन च तस्य फलमुपदिश्यतेऽप्रतिबन्धो नाम तथा हि श्रूयते नाना तु विद्या चाविद्या च । यईव विद्यया करोति श्रद्धयो- पनिषदा तदेव वीर्यवत्तरं भवति"--इति । वीर्यवत्तरत्वं कर्मफलस्याप्रतिबन्धः । तत्तवृद्धिरतिविशेषः कश्चित् । प्रतिवध्यते हि कर्मफलं प्रवलकर्मान्तरफलेन स्वभोगं यावत् । तदभावोऽप्रतिबन्धस्तत्फलं विद्यायाः । वीर्यवत्तरमिति तरपः प्रयोगाद्विद्याविहीनकर्मणो वीर्यवत्वं गम्यते । तच्च विद्याया अनित्यत्त्वे उपप- होत। नित्यत्त्वे तु तद्विहीनल्याजवैकल्यात् सर्वाङ्गानुपसंहारात् कर्मणः स्वरूप- सिद्धिरेव न स्यात् वीर्यवत्वं तु दूरे क्षितम् । तस्मात् कङ्गिविद्यापूर्वक कर्मानुष्टानं वीर्यवत्तरं निर्विवास्य तु कर्मानुष्ठानं वीर्यवदित्येवं फलतारतम्य- दर्शनात् कर्मसु विद्याया नियमेन प्रवेशो नास्तीति सिद्धम् ॥ । ॥ इति विद्याया. कनिङ्गत्वाधिकरणम् ॥ प्रदानवदेव तदुक्तम् ॥ अत्र शंकरो व्याचष्टे । वाजसनेयके श्रेष्ठचविद्यायां "वदिष्याम्यवाहमिति वाग दधे इत्यध्यात्म वागादिषु प्राणस्याधिदैवत्वं त्वग्न्यादीनां वायोः श्रेष्ठय- मुक्तम् । छान्दोग्ये च संवर्गविद्यायां "प्राणो वाव संवर्गों, वायुवि संवर्गः इति वागादिषु प्राणस्याग्यादिषु च वायोः संवर्गत्वमुक्तम् । अग्निरहस्येच यजुर्विद्यायां जाय्याकाशयोरधिदैवतं गाणाकाशयोश्चाध्यात्मं यजुट्वमाख्याय ज्यैष्ठ्यमुक्तम् ॥ उपकोसलविद्यायां च कं ब्रह्म खं ब्रह्मति प्राणकाशयोरैक्येन प्राणत्वमाख्याय तत्राग्निविध्यमुक्तम् । एषु सर्वत्रतयोर्वायुप्राणदेवतयोः श्रेष्ट्येन चोपगमन- प्रयोगयोराधिदैविकत्वाध्यात्मिकत्वरूपावस्थयोर्विद्ययोश्चाभेदो भेदो वेति चतुर्धा संशये तावदेवतयोस्तत्वादः प्राप्नोति । “यः प्राणः स वायु" रिति श्रुत्या विस्पष्टं तयोरेन्योपदेशात् । “अग्निर्वाग भूत्वा मुखं प्राविशदित्यादिना, “अत एते सर्व एवं सलाः सर्वेऽनन्ता:-'इत्यन्तेन च वाक्येनाध्यात्मिकानां प्राणानामाधिदैविकी विभूतिरात्मभूता दयते । वाजसनेयके प्राणाद्वा एष उदेति प्राणेऽस्तमेति" इत्येव- मंकन प्राणेनैव श्रेष्ठ्योपदेशमुपसंहरति । "तस्मादेकमेव व्रतं चरेत् । प्राण्याच्चैवा- पान्याच्चति चैकनैव प्राणव्रतेनोपसंहरति । छान्दोग्यपि-"महात्मनश्चतुरो देव एकः कः स जगार"-इत्यग्निसूर्योदकचन्द्राणां वाकचक्षुःश्रोत्रमनसां चैक एवं प्रजापतिः संवर्ग उक्तः। तेनैकस्यैव तत्वस्याध्यात्मिकत्वाधिदैविकत्वाभ्यामवस्था- भेदो गम्यते। अवस्थाभेदेनैव च तयोरापातता भेदो गम्यते । वस्तुतस्त्वेक- मेव तत्वमधिकरणद्वये तिष्ठति नत्वधिकरणभेदात् तत्वभेद इति वायुप्राणयोरक्ये स्थिते तयोरपार्थक्येनैवानुचिन्तनं प्राप्नोति । अवस्थाभेदस्योपगमनभेदप्रयोजकत्वा. योगात् । इत्येवमुपगमनैक्यै प्राप्ते तत् प्रत्युच्यते--प्रदानवत् पृथगेवोपगमनं कार्यमिति । यथा “इन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्राधिराजायेन्द्राय स्वाराशे' इत्यस्यां त्रिपुरोडाशिन्यामिष्ट्यामिन्द्रदेवतैक्यात् सह प्रदानाशङ्कायां विशेषणभेदनिबन्धनविशिष्टभेदन्यायात् राज्याधिराज्यस्वाराज्यगुणभेदेन देवतापृ. थकत्वात् प्रदानपृथक्त्वं नियम्यते । एवमिहापि वायुप्राणयोरैक्यात् सहानु- चिन्तनाशङ्कायामाधिदैविकत्वाध्यात्मिकत्वगुणभेदेन देवतापृथकत्वादुपर्गमनपृ. थक्त्वं व्यवस्थापयामः । तदुक्तं संकर्षे नाम दैवत्यकाण्डे-नाना वा देवता पृथग्ज्ञानाद"-इति दृष्टान्ते देवताभेदात् कर्मभेदोपि नियम्यते किन्त्वत्र प्रयोग- भेदमात्रे दृष्टान्तसाम्यं विवक्षितं न तु देवताभेदाद्विद्याभेदेपि उपक्रमोपसंहारा- भ्यामध्यात्माधिदैवोपदेशेष्वेकविद्याविधानप्रतीतेः । विद्यैक्येपि प्रवृत्तभेदो न व्याह- न्यते अग्निहोत्रकम्मैक्येपि सायं प्रातः कालभेदेन प्रयोगभेदस्य दृष्टत्वात् ॥ ॥ इत्यध्यात्माधिदैवविभागात् पृथगनुध्यानाधिकरणम् ॥ प्रदानवदेव तदुक्तम्॥ रामानुजादयस्त्वधिकरणान्तरमत्र पश्यन्ति । “तद्य इहात्मानमनुविद्य व्रजन्त्ये- तांश्च सत्यान् कामानिति दहरविद्यायां इहरात्मन उपासनमुक्त्वा गुणानामपि सत्य- कामानां पृथगुपालनं विधत्तांतत्र गुणोपासने गुणिनो दहरस्याप्यावर्तनादुपसंग्रहण- मस्ति नवेति चिन्तायामुच्यते । प्रदानवदेवेहाप्यावृत्त्योपसंग्रहणं स्थाय्यम् । यथेन्द्राय राक्षे पुरोडाशमित्यत्रेष्टौ राज्योधिराज्यस्वाराज्यगुणसंबन्धेनेन्द्रस्यावृत्त्योप- संग्रहणं दृश्यते । स्वाराज्यविशिष्टायेन्द्राय पृथक प्रक्षेपः क्रियते एवमिहापि सत्य- कामविशिष्टं दहरात्मानं पृथानुविद्य वजन्तीति श्रुत्यर्थों द्रष्टव्यः । स्वरूपमात्राद्द- हरादपहतपाप्मत्त्वादिगुणाष्टकविशिष्टस्य दहरस्य भिन्नत्वाभिन्नमनुवेदनं प्रदान- वदेव द्रष्टव्यम् । तदुक्तं सांकर्षणे-"नाना वा देवता पृथक्त्वादिति । ॥ इति गुणाध्यानस्य गुणिन्यासंजकत्वाधिकरणम् ॥ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि। अत्रशङ्करो निम्बार्कादयश्च लिङ्गभूयस्त्वादित्यादि सूत्राष्टकेनैकं सप्तचिद्वद्या- धिकरणं पश्यन्ति । रामानुजस्तु प्रथमेनकेन सूत्रेणैकं नारायणोपास्यत्वाधिकरणं भिन्नं प्रकल्पयति । तदनुसारेणादौ पृथगधिकरणं व्याख्यायते । तैत्तिरीयके दहरविद्या.
नन्तरम् "सहस्त्रशीर्ष देवं विश्वाक्ष विश्वसंभवम् । विश्वं नारायणं देवमक्षरं परम प्रभुम्" ! इत्यादिकमधीयते । तत्र संशयः । किमनेन पूर्वप्रकृतदहरविद्यकविद्या. त्वेन तदुपास्यशेषनिर्धारणमिति। तत्र-“दहरं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं परमध्यसंस्थम्” ॥ तत्रापि दहरं गमनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् ॥ इति पूर्वानुवाके दहरविद्यायाः प्रकरणं हश्यते । उत्तरे चास्मिनारायणानुवाके पझ- कोशप्रतीकाशं हृदयं पुण्डरीकाभिधानमस्यानुवाकस्य दहरविद्योपास्यनिर्धारणार्थ- त्वमुपोद्वलयति । तत्र ब्रूमः-लिङ्गभूयस्त्वादिदं परविद्योपास्यनिर्धारणमस्तीति । भूयांसि हि लिङ्गानि तथात्वे दृश्यन्ते । परविद्यासु तत्र तत्र भूयसा निर्दिष्टानामक्षर शिवपरब्रह्मपरज्योतिःपरतत्वपरमात्मादिशब्दानामेव हि नारायणविशेषणवि- धयोपादानात् । तद्वि लिङ्ग प्रकरणाबलीयः । तदप्युक्तं पूर्वकाण्डे-श्रुतिलिङ्ग त्या- दि । यत्तूक्तं पद्मकोशप्रतीकाशमिति वाक्यं दहरविद्याङ्गत्त्वोपोलकमिति तन । "अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः तस्याः शिखाया मध्ये तु परमात्मा व्यवस्थितः । स ब्रह्म स शिवः सेन्द्रः सोऽक्षरः परमः स्वराडिति" वाक्येन सर्व- व्यापकत्वावगमात् सर्वव्यापिनो दहरेऽप्यप्रतिद्वत्वादवस्थानोतिन विरुध्यते । तस्मानारायणोपास्यत्त्वं स्वतन्त्रं न तु दहरविद्यामिति सिद्धम् । इति विद्याविशेष. प्रकरणपठितानामपि लिङ्गविशेषात् स्वतन्त्रविद्यात्वाधिकरणम् ॥ ॥ इति नारायणस्य स्वतन्त्रीपास्यत्वाधिकरणम् ॥ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ॥ पूर्व विकल्पः प्रकरणात् स्यात् क्रिया मानसवत् ॥ अतिदेशाच ॥ विद्यैव निर्धारणादर्शनाच ॥ श्रुत्यादिवलीयस्त्वाच्च न बाधः॥ अनु- बन्धादिभ्यः प्रज्ञान्तरपृथक्त्त्ववदृष्टश्च तदुक्तम् ॥न सामा- न्यादप्युपलब्धेमृत्युवन्न हि लोकापत्तिः ॥ परेण च शब्दस्य ताद्विध्ये भूयस्त्वात्त्वनुबन्धः॥ नैव वा इदमत्र अथ शङ्करादिमतेनोच्यते-वाजसनेयिनोऽग्निरहस्ये सदासीत् (शत. १।४।१) इत्यादिना मनोऽधिकृत्य “पत्रिंशत्सहस्राण्यपश्य- दात्मनोऽग्लीनन्मिनोमयान्मनश्चितः इत्यधीयते । तथैव वाचितः, प्राणचितः चक्षुश्चितः, श्रोत्रचितः कर्मचितोऽग्निचितः इति पृथगग्नीनामनन्ति । तत्र संशयः। किमेते मनश्चितादयोऽग्निचित्या कर्मप्रकरणपठितत्वात् तच्छेषभूताः सन्ति उत स्वतन्त्राः केवलविद्यात्मका इति । तत्र लिङ्गभूयस्त्वात् केवल विद्यात्मका इति प्रतिजानीमः । भूयांसि हि लिङ्गानि विद्यात्मकत्वोपोद्वलकानि दृश्यन्ते यत्किने मनि भूतानि मनसा संकल्पयन्ति वाचा वदन्ति प्राणेन प्राणन्ति चक्षुषा पश्यन्ति श्रोत्रण श्रृण्वन्ति कर्म कुर्वतेऽग्निमिाधते तेषामेव साकृतिरिति प्रकृत्या संभवतोऽर्था- नेव तु वेद्यत्वेनाक्षिपति । न तु कर्तव्यत्वेन विधते । अपिच-तान् हैतानेविदे सर्वदा सर्वाणि भूतानि चिन्वात्यपि स्वपते "-इति विद्यानिबाधनां सिद्धिमन्या- ह। अपिच-ते हैते विद्याचित एव । विद्यया है वैसे एवं विदश्चिता भवन्ति" इत्येवं विस्पष्टमेव विद्यात्मकत्वमाचष्टे । तद्धि लिङ्ग प्रकरणालीयः । तदप्युक्तं । पूर्वकाण्डे-श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थ- विप्रकर्षात् स्यादिति । ननुविधिवाक्यस्थमेवलिङ्गप्रकरणावलीयो नार्थवाद- स्थं, तस्य सांपादिकाग्निप्रशंसारूपतयाऽन्यार्थदर्शनत्वात् तेनेह प्रकरणवशादय संकल्पमयत्वादि विकल्पविशेषोपदेशः क्रियामयाग्निविषय एव स्यान स्वतंत्रः । अत एवैतेऽग्नयः क्रियानुप्रवेशिनः स्युर्मानसवत् । यथा द्वादशरात्रस्य दशमेऽ- हत्यविवाक्ये पृथिव्या पात्रेण समुद्रस्थसोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येवान्नायाते मानसोपि ग्रहकल्पः क्रियाप्रकरणात् क्रियाशेष एवास्ति, तथायमप्यग्निकल्पः क्रियाशेषः स्यात् ॥ “षत्रिंशत्सहस्राण्यग्नयोऽस्तेिषामेकैक एव तावान् यावानसौ पूर्वः"- इत्यतिदेशाच्चैषामग्नीनां क्रियानुप्रवेशो गम्यते । पूर्वस्यैष्टकाचितस्थाग्ने क्रियानुप्र- वेशो गम्यते । पूर्वस्येष्टकाचितस्याग्नेः क्रियानुप्रविष्टत्वात् । इति चेत् तत्र प्रत्यु च्यते । विद्यैव तु निर्धारणात् प्रतिपत्तव्या। "ते हैते विद्याचित एवाविध्या हैवैते एवंविदश्चिता भवन्ति "-इति हि निर्धारयति । तस्माद्विद्यामका एवैते स्वतन्त्रा मनश्चिदादयोऽग्नयः स्युर्न क्रियाशेषभूताः॥ पूर्व प्रदर्शितस्य विद्यात्त्वे लिङ्ग भूयस्त्वस्य दर्शनाच्चैतद् गम्यते ॥ ननुचोक्तं प्रकरणात् क्रियाशेपत्वमस्तीति तत्रो- च्यते श्रुत्यादिबलीयस्त्वाच्च नैतस्य विद्यारवबाधः शक्यः कर्तुम् । बलीयांसि हि प्रकरणात् श्रुतिलिङ्गवाक्यानि । श्रुतिस्तावत्-ते हैते विद्याचित एवेति सावधा- रणं विद्यात्वं प्रतिजानीते । लिङ्गमपि-"सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्व- पते" इति लातत्यदर्शनमेषां स्वातन्त्र्यं गमयति । क्रियानुप्रवेशे तु क्रियाप्रयोग- स्याल्पकालत्वात् सातत्यमसमञ्जसं स्यात् । वाक्यमपि-विया ह वैत एवंविद- चिता भवन्तीति पुरुषस्य संबंधमेवैषामाचक्षाणं ऋतुसंबन्धं वारयति । तस्मा- न्मनश्चिदादयोऽग्नयो विद्यात्मका एवेति प्रतीमः ॥ अपि च अनुबन्धादिभ्यः प्रज्ञा- न्तरपृथकत्ववदेषां क्रियातः पृथक्त्वं द्रष्टव्यम् ॥ "ते मनसैवाधीयन्त मनसैवाची. यन्त, मनसैव प्रहा अगृह्यन्त मनसास्तुवन्, मनसाशंसन्,यत्किञ्चिद् यज्ञे कर्म क्रियते यत्किश्चियज्ञीयं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमक्रियत"- इत्यादिना हि मनःप्रभृतिव्यापारेषु क्रियावयवाननुबनाति । क्रियात्मकत्वे तु प्रत्यक्षा एव क्रियावयवाः स्युरिति मनः प्रभृतिष्वग्नित्वग्रहत्वायनुबन्धोपकल्पनमन- र्थकं स्यात् । आदिशब्दः पूर्वनिर्दिष्टातिदेशादिहेतून् समुच्चिनोति । तद्यथा प्रशान्तराणि शाण्डिल्यविद्यादीनि स्वेन स्नानुबन्धेनानुवन्ध्यमानानि कर्मभ्यः प्रशान्तरेभ्यश्च पृथगेव स्वतन्त्राण्युपगम्यन्ते तथहाप्यनुबन्धादिभ्यः कर्मपृथक्त्वं नी- यते दृष्टश्चैवमुत्कर्षों उभयत्रापि । यथा क्षत्रियमात्रानुवन्धिनि राजसूयप्रकरणे पठिताया अवेष्टेर्वर्णत्रयकर्तव्यत्त्वानुबन्धादुत्कर्षः। प्रकरणात् प्राप्तायाः ऋत्त्वङ्गताया निरासेन । तत्क्रतुबाह्यत्वनिर्धारणमुत्कर्षः । यथा वर्णत्रयकर्तव्यतया विहितावेष्टिः क्षत्रिय- मात्रकर्तव्यस्य राजसूयस्याङ्गन संभवतीत्यनुबन्ध्यवशात् स्वतन्त्रैवेष्यते । एव. मिहापि विद्यालिङ्गभूयस्त्वानुबन्धादिमेऽग्नयः कर्मप्रकरणपटिता अपि कर्मबाह्या इप्यन्ते । तदुक्तं पूर्वकाण्डे-ऋत्वर्थायामिति चेन्न वर्णत्रयसंयोगादिति ॥ अन्यस्तु व्याचष्टे अनुबन्धश्रुतिलिजायनुरोधादिष्टकचिताम्वयिनः क्रिया- मयाकतोः पृथगेवायं विद्यामयः क्रतुः कल्यः । दहरविद्यादिप्रतान्तरवत् । दृष्टश्चानुवादसरूपेषु कल्प्यमानो विधिः । तदुक्तं वचनानि त्वपूर्वत्वादिति ॥ तस्य च कल्प्यमानस्य विद्यामयतोः फलमपीष्टकचिताग्निफलवदेवोपपद्यते इति तेषामेकैक एव तावान् यावानसौ पूर्व इत्यतिरेशाद्गम्यते ॥ यत्तु कर्मप्रकरणे पठितवान्मानसस्यापि ग्रहकल्पस्य क्रियाशेषत्वमितस्याग्निकल्पस्य क्रियाशेषत्वं स्यादित्युक्तं तत्प्रत्युच्यते । न मानस ग्रहलामा यादपि मनश्चिदादीना क्रियाशेपत्वं नेयम् । उक्तरीत्या-वैशेषस्थाप्युपलब्धः । सत्यपि यथाकथंचित्सामान्ये स्वं वैषम्यं न निवर्तते । मृत्युक्त् ।। यथा-स वा एप एन मृत्यु य एष एतस्मिन्मण्डले पुरुषः"--"इति । अग्निव कृत्युः" इति चारस्यादित्ययोमुत्युशब्दसामान्येऽपि नात्य. तलाभ्यं घटते । यथा वा "असो वाव लोको गौतमाऽग्निरस्यादित्य एव समिद्"- इत्यत्रापि न समिदादिसामान्यादग्निलोकयोरैकमाव्यापत्तिः तद्वत् ॥ अन्यस्तु व्याचष्टे । अस्य विधामयक्रतोः क्रियामये एकचिताग्नितुल्यवीर्य- त्वमतिदेशादुक्तं ततश्चास्थापि क्रियामवक्रतुत्वं स्यात् । तत्प्रत्युच्यते । नावश्यमति- देशावान्तरव्यापारस्थापि तुल्यत्वं भाव्यते । यत्किश्चित्सामन्यादप्यतिदेशो- पलव्धेः । उपलभ्यते हि स एष एव मृत्युर्य एतस्मिन्मण्डले पुरुषः। इत्यादिषु संहर्तृ- त्वादिसामान्यमानान्मृत्युत्वातिदेशः । नैतावता तत्रादित्यस्य मृत्युषत् तल्लोका- पत्तिरपि भवति । लोको देशः । तथा चेहापि फलसामायादेवेष्टकचिताम्यतिदेशो न तु क्रियामयक्रतुसामान्यादप्यतिदेशः । अपिच पूर्वेण परेण च ब्राह्मणेन मध्यस्थ- स्यास्य ब्राह्मणस्यापि केवलविद्यात्मकत्वं लभ्यते । पुरस्तात् तावत्-यदेतन्मण्डलं तपतीत्यत्र ब्राह्मणे “सोऽतो भवति मृत्युर्थस्यामा भवतीत्येवं विद्याफलेनैवोपसं- हाराद् विद्याप्राधान्यं लक्ष्यते न कर्मप्राधान्यम् । परस्ताच्च-"अयं वाव लोक एषोऽ- ग्निश्चित" इति ब्राह्मणे-"विद्यया तदारीहन्ति यन कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः । इति श्लोकेन कर्म निन्दन विद्यां च प्रशंसन् प्रकरणस्य विद्याविषयत्त्वं निगमयति । तत्सामान्यादिहापि तथात्वं द्रष्टव्यम् ॥ ननु तर्हि मनश्चि- दादयो ज्ञानप्रकरणे बृहदारण्यकेऽनुबन्धव्याः किमर्थमिह कर्मप्रकरणेऽग्निरहस्येनु- वध्यन्ते । तत्रोच्यते-भूयस्त्वात्वनुबन्ध इति ॥ मनश्चितादिविद्यायामग्न्यङ्गानां भूयस्त्वात्-तत्संनिधाविहानुबन्धः सौकाय कृतो नैतावता तत्र कङ्गित्व भ्रमः कार्यः॥ । ॥ इति कर्मप्रकरणपठितानामपि विद्यालिङ्गानां विद्यात्मकत्वाधिकरणम् ॥ . ॥ इति सप्तचिद्विधाधिकरणम् ॥
एक आत्मनः शरीरे भावात् ॥ व्यतिरेकस्तदावाभावित्वा- तूपलब्धिवत् ॥ अत्र शंकरस्तावदित्थं व्याचष्टे-अस्स्यस्मिन्देहे देहादिव्यतिरिक्तः कश्चिदात्मा लोकान्तरसंचारी नारित वेति चिन्तायामेके तावदहमात्रात्मवादिनी लौकायति. का आत्मनः शरीरे भावाखेतोः देहादिव्यतिरिक्तस्यात्मनः सत्तां न स्वीकुर्वते प्राणचेष्टाचता यस्मृत्यादय एव स्वात्मधर्मा इप्याते । तेऽतरेव देहे उपलभ्यन्ते बहिश्च नोपलभ्यते । तस्मादेहधर्मा एवैते संभाव्याते न तु देहव्यतिरिक्तः कश्चिदन्य एपां धम्मी युज्यते कल्पयितुप्रमाणाभावात् । पृथिव्यादिभूतेषु हि शरीराकार- परिणतेषु मदशक्तिवच्चैतन्यमुद्भूयते तत्संयोगवैषम्याच्च विनश्यतीति देह एवाय- मात्मा संभवति। न चात्मनो लोकान्तरे संचारः प्रमाणगम्यः । तस्मानात्मनो देहाद् व्यतिरेकोऽस्तीति प्राप्ते तत्प्रत्युच्यते अस्ति व्यतिरेको देहादात्मनः । शरीरभावेप्यभाविवादात्मधर्माणाम् । प्राण चेष्टाचैतन्यस्मृत्यादयो हि धर्मा देहसत्वे ऽपि मृतावस्थायां भवन्ति । तस्मानत्वेवेदं शरीरमेवात्मा । उपलब्धिवत् । यथेयमुपलब्धिः शरीरे प्रतीयमानापि न शरीरमेवारित । तद्भावाभावित्वात् । शरीरसत्त्वेपि मृतावस्थायां तदसत्त्वात् । यदनुभवनं भूतभौतिकानां तच्चैतन्य- मेवोपलब्धिः । सा च भूतचतुष्टयान्यतमरूपा वा, भूतचतुष्टयसंयोगविशेषोपपन्न विकारविशेषरूपा वा, चतुभ्योऽतिरिक्तभूतं वा, भूतातिरिक्ततत्वं वा । नाद्यः । प्रकाशरूपाया उपलब्धेः · पृथिव्यादिभ्यो वैलक्षण्यात् । पृथिव्यादिषु सास्वप्यु- पलब्धेः सर्वत्रानुपलब्धेस्तस्याः पृथिव्यादित्वासंभवाच्च । भूतधर्माणामग्नितापवद् यावद्भूतभावित्वावश्यंभावात् । न द्वितीयः, विकारस्यास्य चतुलनातर्भा. वादतिरिक्तभूतत्वं वा स्याद्भूतातिरिक्तत्वं वा । उभयथापि चतुर्योतिरिक्तत्वाव- सायान शरीरमेवोपलब्धिः स्यात् । अपि च मदं शक्तिवद्धि तदा तदाविर्भावं मन्यन्ते किन्तु नेयं तत्रापि शक्तिः स्वाधिकरणद्रव्यरूपैव स्याद् । द्रव्यस्योद्भूतत्वेऽपि मदशक्तरनुद्भूततया द्रव्ये वादाचिरकोत्पतियोगित्या च ततो व्यतिरिक्तत्वा- वगमात् । तस्मादुपलब्धिः शरीरे सती शरीराद् व्यतिरिच्यते । तद्वदयमात्मा शरीरे सन् शरीराद् व्यतिरिच्यते । अथवा उपलब्धिस्वरूप एव च न आत्मे- ति सिद्धमात्मनो देहाद् व्यतिरिक्तत्वम् । ॥ इति देहव्यतिरिक्तात्माधिकरणम् । एक आत्मनः शरीरे भावात् ॥ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ अथ रामानुजादयोऽयथाधिकरणमाहुः-किमयं प्रत्यगात्मा जीवों ज्ञाता कर्ता भोक्ता दहामुत्र संचारी अथवा प्रजापतिवाक्यानुसारेणापहतपामत्वादिरूप (७१) इति विचारे एके तावदस्यात्मनः शरीरे भावाद् ज्ञातृत्वाद्याकारमात्रता मन्यन्ते। द्विविधा हि तस्यावस्था संभाव्यते । स्वर्गादिफलार्थिनः कर्मस्वधिकृतस्य देहा- वस्थानावस्था प्रथमा । कृतकृत्यस्य तत्कर्म फलानुभवाय लोकान्तरे परिणत- रूपस्य संपद्यमानावस्था द्वितीया । तत्र साधनानुष्ठानदशायामुपासकस्यात्मनः शरीरे भावान्न सिद्धयवस्थमपहतपाजत्वादि रूपं संभवति । उपासना- वस्थायामपि सिद्ध्यवस्थारूपे नित्यतया प्रतिपन्ने सति तदर्थमुपासना- नर्थक्यापत्तः । ननु-"यथाक्रतुरस्मिन् लोके पुरुषो भवति नथेतः प्रेत्य भवति"। इति विशेषवचनात् साधनावस्थायामप्यपहतपाप्मत्वाद्याकार एवाय- मनुसंधातव्योऽन्यथाऽमुत्रापि ताशरूपं न स्यादिति चेन्न । “तं यथायथोपासते"- इत्यादिना तस्योपास्यविषयत्वात् । यस्माज्ज्ञातृत्वाद्याकार एवायमनुसंधातव्य इति प्राप्ते तत् प्रत्युच्यते । अस्यात्मनः संसारदशापेक्षया मोक्षदशायां व्यतिरेकोऽय- मपहतपाप्मत्वादिरूपोऽनुसंधेयः । अस्य मोक्षदशायां यादशं रूपं संपत्स्यते ताप एवायमुपासनकालेप्यनुसंधेय इति तात्पर्यम् । तद्भावभावित्वात् तद्र पापत्तेः । “यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्ये भवति । तं यथा यथोपासते तथैव भवति । एवं क्रतुरिहामुत्र लोकं प्रेत्याभिसँभवितास्मि"- इति श्रुत्योपासनारूपेणैवामुत्र रूपसंपत्तेः श्रुतत्वात् । न तूपास्वेश्वरस्वरूपमात्र- विषयमिदमिति वाच्यम् प्रत्यगात्मनोऽप्युपास्येश्वरशरीरतयोपास्यकोटि- प्रविष्टत्वात् । तस्मान्मुक्तिप्राप्याकारेणैवायं प्रत्यगात्मानुसंधेयः । उपलब्धिवत् । यथा ब्रह्मोपलब्धिश्चिन्तनानुसारिणी संपद्यते-तथेयमात्मोपलब्धिरपीति स्थितम् । शंकरमते भावाभावित्वादिति सूत्रपाठः । अत्र तु भावभावित्वादिति पठ्यते । । - ॥ इतीश्वरस्वरूपवजीवानुसंधानाधिकरणम् ॥ अङ्गाववद्धास्तु न शाखासु हि प्रतिवेदम् ।। मन्त्रादिवद्धाविरोधः॥ ओमित्येतदक्षरमुद्गीथमुपासीतेत्युद्गीथावयवोंकारे प्राणदृष्टिः । लोकेषु पञ्च- विधं सामोपासीत, पृथिवी हिंकारोग्निः प्रस्तावोऽन्तरिक्षमुद्गीथमादित्यः प्रतिहारो द्यौर्निर्धनभिति सानि लोकष्टिः । उक्थमुकथमिति वै प्रजा वदन्ति तदिदमेवोक्थ- मियमेव पृथिवीत्युक्थाख्यशस्त्रे पृथ्वीडष्टिः। अयं वाव लोक एषोऽग्निश्चितः इतीष्टका- चितानौलोकष्टिः इत्येवंकङ्गिाश्रित्या उपासना दृश्यन्ते।ता यासु शाखासुश्रूयन्ते तास्वेव नियता उत सर्वासु शाखास्वविशेषणोदीथादिषु संबध्यन्त इति विचारे उच्यते । नैते काङ्गाश्रयाः प्रत्ययाः प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठन्ते अपि तु सर्वशाखास्वनुवर्तन्ते उद्गीथादिश्रुत्यविशेषात् ॥ अपि च मन्त्रादिवदविरोधी द्रष्टव्यः ॥ मन्त्राणां कर्मणां गुणानां च शाखान्तरानातानामपि शाखामात्रे विनियो. गात्। येषामपि समिदादयः प्रयाजा नानातास्तेषामपि. तेषु गुणविधिरामायते ।
ऋतवो वै प्रयाजा इत्यादिः । तस्माद् यथा कर्माङ्गानामेषां सर्वत्रानुवृत्तिस्तथा कर्वा- नाश्रितानामपीत्यविरोधः॥ ॥ इति काङ्गाश्रितोपासनाना सर्वशाखासाधारणत्वाधिकरणम् ॥ भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ताण्ड्योपनिषदि "प्राचीनशाल औपमन्यव -- इत्यारभ्य वैश्वानरविद्याधीयते । तत्र-“एष वै सुतेजा आत्मा वैश्वानर' इत्यादिभिर्वाक्यैर्व्यस्तस्य वैश्वानरस्योपा- सनं श्रूयते । "तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्दैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथगवर्मात्मा संदेहो बहुलो व्यक्तिरेव रयिः पृथिव्येव पादौ”–इत्यनेन च समस्तस्य तस्योपासनमुच्यते । तेनेहोभयथाप्युपासनं प्रतीतं स्यादतस्तत्र निर्धारण- माह-भूत्रः क्रतुवज्ज्यायस्वमस्तीति । भूमशब्दः समस्ताभिप्रायः । समस्तस्यैव वैश्वानरस्योपालनमिह ज्यायः प्रतीमः । न प्रत्येकावयवस्यापि पार्थक्यैन यथा - तुषु दर्शपूर्णमासादिपु सामस्त्येन साङ्गप्रधानप्रयोग एवैको विवक्ष्यते न व्यस्ताना- मेव प्रयाजादीनां तद्वत् । तथाहि भूलो ज्यायस्त्वमत्र श्रुतिरेव दर्शयति । तत्र हि धु. प्रभृतीनामेकैकमृषीणामुपास्यं पृथक पृथग दर्शयित्वा "मूर्धा त्वेप आत्मनः, चक्षुष्टवे तदात्मनः, प्राणस्त्वेष आत्मनः' इत्यादिवाक्यमूर्धादिभावं तेषां विधाय मूर्धा ते व्यपतिष्यत्" इत्यादि निन्दावचनात् तत्तयस्तोपासनान्यपवदति-समस्तोपासनं च "सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति'-इत्येवं प्रशंसति । तस्मात् धुलोकादित्यवाय्वाकाशोदकपृथिव्यवयव एको वैश्वानर एवोपास्य इति सिद्धम् ॥ ॥ इति वैश्वानरोपासनाधिकरणम् ।। नाना शब्दादिभेदात् ॥ उपनिषत्सु खलु ब्रह्मविद्याप्राणविद्यासंवर्गविद्यापरिसरविद्यादयो नानाविद्याः श्रूयन्ते । तत्र ब्रह्मप्राप्तिफलेयं ब्रह्मविद्यापि सद्विद्याभूमविद्यादहरविद्योपकोसलविद्या- शाडिल्यविद्यावैश्वानरविधाऽऽनन्दमयविद्याक्षरविद्यादिभेदादनेकधा विधीयते । वेध हि विद्याया रूपमित्यतो वेद्यस्य ब्रह्मण एकत्वादाला सर्वासा ब्रह्मविद्यानामेकत्वं प्राप्नोति । तत्रेदं प्रत्युच्यते । नाना शब्दादिभेदात् प्रतिपत्तव्येति । शब्दः श्रुतिः आदि- शब्दादभ्याससंख्यागुणप्रक्रिया नामधेयानि गृहान्ते ॥ यथा शब्दान्तरे कर्मभेदः, कृतानुबन्धत्वादिति यजतिजुहोतिददात्यादिशब्दभेदात्कर्मभेदः पूर्वतन्त्रेऽधिगतस्तद्व- दिहापि “वेद उपासीत, स ऋतुं कुर्वीत-इत्यादयः शब्दा भिद्यमाना विद्याभेदं गमयन्ति । यद्यपि यजतिजुहोत्यादिवदिह वेदोपासीतेत्यादेिण्वर्थभेदो नास्ति तथा- प्यनुबन्धभेदाद्विद्याभेदो गम्यते । एकस्याप्युपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते ॥ तथा च गुणभेदाद्विशिष्टं वेधरूपं भिद्यते ततो विद्याभेद इति सिद्धम् । ॥ इति शब्दादिभेदाइ विद्यानानात्वाधिकरणम् ॥ ।
( ७४ ) मुपासनानामन्यत्रविहितेषु कर्मस्वपि समुच्चयो न विरुद्ध इति प्रतिपद्यामहे ॥ रामानुजस्तु दुरुगीथं घेदनविहीनमुहीर्य वेदनहानौ तस्यान्यतः समाहारात् तस्य वेदनस्य नियमेनोपपादनं गम्यत इत्याह ॥३॥ उपासनगुणस्य प्रणवस्य-"तेनेयं त्रयी विद्या वर्तते-ओमित्याश्रावयति, ओमिति शंसति, ओमित्युदायति-इति साधारण्यश्रुतेश्वोपासनस्यापि साधारण्य गम्यते । उपासनस्य प्रणवसहभावनियमादुद्गीथाद्युपासनामप्युद्धीथादिवनियमेनो- पादानमवकल्पते । अथवा उद्गोथादयः कर्मगुणाः सर्वे सर्वप्रयोगसाधारणाः श्रा. व्यन्ते । ततश्चाश्रयसहभावात् तदुपासनसहभावोऽवकल्पते । अर्थतन्मतं प्रत्याख्या- यसिद्धान्तमाह-न वा तत्सहभावाश्रुतेः । नैतदाश्रितानामुपासनानामुक्तरीत्या यथाश्रयभावः संभवति॥ उपासनानां सहभावस्याश्रुतत्वात् । “अहं वा गृहीत्वा चमसं वोन्नीय स्तोत्र- मुपाकरोति । स्तुतमनुशंसति । प्रस्तोतः सामगाय होतरेतद् यज"-इत्यादिना यथा स्तोत्रादीनामझानां सहभाव श्रूयते नैवमुपासनानां सहभावश्रुतिरस्ति । ननुप्रयोग- वचनादेव सहभावः प्राप्तः स्यादिति चेन । प्रयोगवचनो हि त्वर्थानामुद्गीथादीनां सहभावं प्रापयति नोद्गीथाधुपालनानामपि । तेषां ऋत्वङ्गाश्रयत्वेऽपि गोदोहनादि- वत्पुरुषार्थत्वादिति पृथगध्यप्रतिबन्धः फलमित्यत्रोक्तम् ॥ दर्शनाच्चैषां प्रत्ययानामस. हभावं प्रतिपद्यामहे । “एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वाश्च ऋत्विजोऽभिरक्षति". इति विज्ञानवतैकेन ब्रह्मणेतरेषां परिपाल्यत्त्वं दृश्यते सर्वप्रत्ययोपसंहायत्तु सर्वे सर्वविदः स्युरिति न तथाख्यायेत तस्माद् यथा काममुपासनानां समुच्चयो विक- ल्पो वेति सिद्धम् ॥ ॥ इति कांगाश्रितोपासनानां याथाकाम्याधिकरणम ॥ इति तृतीतः सगुणोपासनापादः ॥३॥ : अथ चतुर्थो निर्गुणविद्यापादः॥४॥ पुरुषार्थाऽतः शब्दादिति बादरायणः ॥.१॥ शेषत्वात् पुरु- पार्थवादो यथान्येष्विति जैमिनिः॥२॥ आचारदर्शनात् ॥३॥ तच्छु ते ॥४॥ समन्वारम्भणात् ॥५॥ तद्वतो विधानात् ॥६॥ नियमाञ्च ॥७॥ अंधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात् ॥८॥ .
•~ । ७५ ) तुल्यं तु दर्शनम् ॥९॥ असागत्रिको ॥१०॥ विभागः शतवत ॥११॥ अध्यययनमात्रवतः ॥१२॥ नाविशेषात् ॥१३॥ स्तुत- येऽनुमति ॥१४॥ कामकारेण के ॥१५॥ उपमई च ॥१६॥ ऊर्ध्वरेतःसु च शब्दे हि ॥१७॥ परामर्श जैमिनिरचोदना चाप- वदति हि ॥१८॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥१९॥ विधि- वा धारणवत् ॥ २०॥ 'ब्रह्मगुणानामादित्यमनोवैश्वानरादीनां कर्मरूपतया तज्ञाश्रितविद्याः सगुणो. पासनायाः कर्मसमुञ्चितत्वात् संभवति कर्मण्यनुप्रवेशः। तत्र कर्मणैव पुरुषार्थ- सिद्धिरित्यपि शक्यते वक्तुन् ॥ अर्थोतः॥ औपनिषदमात्मज्ञानमधिकारिद्वारेण कर्मण्येवानुप्रविशति । किं वा स्वतन्त्रं पुरुषार्थलायनमिति मीनांसायामुच्यते ॥ अत औपनिषदादात्मज्ञानात् पुरुषार्थो भवतीति बादरायण आचार्यो भन्यते । शब्दप्रत्ययात् । तथा हि श्रूयते । “तरति शोकमात्मवित्-ल यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति । ब्रह्मविदाप्नोति परम् । आचार्यवान् पुरुषो बेद तस्य तावदेव चिर यावन्न विमोक्ष्येऽथ संपत्स्यै। स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मा. नमनुविद्य विजानाति । इत्येवंजातीयका अतिर्विद्यायाः शुल्वार्थत्वं श्रावयति ॥१॥ अथात्र मतान्तरं जैमिनिराचार्यो मन्यते कल्वेनात्मनः कमशेषत्वात् ॥ तद्विज्ञानमपि ब्रोहिप्रोक्षणादिवद् विषयद्वारेण क्रत्वर्थमेव । न तु पुरुषार्थम् । आत्म- ज्ञाने फलश्रुतिस्तु पुरुषार्थवादो यथान्येषु द्रव्यसंस्कारकर्मसु । यस्य पर्णस्यी जुहूर्भ- वति न स पापं श्लोकं शृगोति । यदङके चक्षुरेव भ्रातृभ्यस्य वृते । इत्यादिषु कर्माङ्गद्रव्यसंस्कारस्य ययाफलश्रुतिरर्थवाइस्तत् ॥ उक्तंच-"व्यगुणसंस्कार- कर्मसु परार्थत्वात् फलश्रुतिर्थवादः स्यादिति ॥ २॥ विदुषामपि यज्ञादिकर्मप्रवृत्तावाचारदर्शनाच्चैतदेवं गम्यते । “जनको ह वैदेहो वहुदक्षिगेन यज्ञेनेजे"। "यक्ष्यमाणो वै भगवन्तोहमस्मीत्यश्वपतिः कैकेयः प्रोचे॥ एवमादयो हि ब्रह्मविदानाचारा विद्यायाः क्रत्वर्थत्वं गमयन्ति यदि केवला- दात्मज्ञानात् पुरुषार्थसिद्धिः स्यातहि तेषां जनकाश्वपत्युदाल कादीनामात्मज्ञानवतां कर्मसु प्रवृत्तिन स्यात् ॥ तस्माद्विद्या कङ्गिम् ॥ तच्छु तेः । “यदेव विद्यया करोति श्रद्वयोपनिषदा तदेव वीर्यवत्तरं भवतीति विद्यायाः कम्मोपकारत्वं श्रूयते । "तं विद्याकर्मणी समन्वारमेते" इति विद्याकर्मणोः फलारस्मे साहित्याच्च विद्यायाः स्वाताव्यं नास्तीति गम्यते।अपि च "आचार्य कुलावदनधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः"-इत्यादि श्रुत्या समस्तबेदार्थविज्ञानवतः कर्माधिकारविधानाद् विज्ञानस्य स्वातन्त्र्यैण फलहेतुत्वं नास्तीति प्रतीयते "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं ।
है त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे" । एतदै जरामा लत्रं यदग्निहोत्र जरया वा ह्येवास्मान्मुच्यते मृत्युला वा' इत्येवंजातीयकानियमादपि कर्मशेषर विद्याया गस्यने तस्त्राद् विद्या पूर्वकं कम्मैव पुरुषार्थी विद्या तुक्र वा इति जैमिने: सिद्धान्तः॥३॥ . बादरायणस्य मते तु न शेषत्वात् पुरुषार्थवादो युक्तः ॥ अधिकोपदेशात् । यदि संसायवायं शारीर आत्मा कर्ता भोक्ता चेहोपनिषत्सु शरीात् पृथकत्वेनोप- दिष्टः स्यात् तहि कर्तुरात्मनः क्रियाङ्गत्वात्तज्ज्ञानस्य परार्थत्वात् फलश्रुतिरर्थवादः स्यात् । अधिकं तु शरीरादात्मनोऽसंसारीश्वरः कतृत्वादसंसारधर्मरहितोऽप- हतपाप्मत्वादिलक्षणः परमामा वेद्यत्वेनोपदिश्यते" ---इति । "नेतरोऽनुपपत्तेः भेद- व्यपदेशाच्च, अनुपपत्तेस्तु न शारीरः, । इतरपरामर्शात्ल इति वेनासंभवात्, अधिकं तु भेददेशानिर्देशाद-इत्येतेषु सूत्रेषु प्रागेवोपपादितम् । न स कतत्वेन यज्ञाधिकारिपुरुषत्त्वेन च क्रियास्वनुप्रविशतीत्यतस्तद्विज्ञानं न क्रियाशेषः । वेद्य- स्यात्सन एवंविधस्यैव श्रुत्या दर्शनात् ॥ अपहतपामा विजरो विमृत्युः” । “यः सर्वज्ञः सर्ववित्" । "भीपास्माद्धातः पवते भीषोदेति सूर्यः । एतस्य वा अक्षरस्य प्रशासने गार्गिः सूर्याचन्द्रमसौ निधृतो तिष्ठतः द्यावापृथिव्यौ विकृते तिष्ठतः । तदक्षत बहु स्यां प्रजायेय तलेजोऽसृजत' इत्यादिश्रुतिभिःपरमात्मैवह वेल्वेन विधीयते । तद्विज्ञानमक्रियाङ्गदात् स्वतन्त्र पुरुषार्थः संभवति ।। ननु “आत्मनस्तु कामाय सर्व प्रियं भवति । आमा वा अरे द्रष्टव्यः । यः प्राणेन प्राणिति स ते आत्मा सर्वान्तरो य एषोऽक्षिणि पुरुषो दश्यते" "एतं व ते भूयोऽनुव्याख्यास्यामि" इति संसारिणः प्रत्यगात्मन एव वेद्यातयाऽनुकर्षणान जीवात्मनोऽतिरेकेणाधिक किञ्चिद्वे- द्यास्ति--इति चेन्न । “अस्य महतो भूतस्य निःश्वसितमेतत् योऽशनायापिपाले शोक मोहं जरा मृत्यु त्येति परं ज्योतिरूपसंपच स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः” इत्यादिवाक्यशेरैः पारमेश्वरमेव हि शारीरस्य पारमार्थिक रूपं शारीरत्व तूपाधिकृतमित्यावेदायतु यत्र तत्र प्रत्यगात्मनिरूपणेऽपि मुख्यतया परमात्मनिरूपणा- यैव शास्त्रस्य प्रवर्तमानत्वात् ॥ ४॥ यदुक्तं विद्यायाः कर्मशेषत्वे आचारदर्शनं हेतुरिति, तत्र बमः । आचारदर्शनं तु तुल्यमकर्मशेषत्वेपि विद्यायाः। तथा हि- "एत सम वैतद्विद्वाल आहुऋषयः कावषेयाः-किमर्था वयमध्येषामहे किमर्था वयं यक्ष्यामहे--एतत स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवांचक्रिरे । एतं वैतमात्मानं विदित्वा ब्राह्मणाः पुषणा- याश्च वित्तषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षावर्थे चरन्ति" । इत्यादिश्रुतिः कर्मणो निवृत्तानां केवलायां विद्यायां प्रवृत्ति श्रावयति । "एतावदरे खल्बमृतत्त्वमि- ति होक्तवा याज्ञवल्क्यः प्रववाज,, इत्यादिश्रुत्या च ब्रह्मविदां याज्ञवल्क्यादीनाम- कर्मनिष्टत्वं दृश्यते । “यक्ष्यमाणो ह वै भगवन्तोऽहमस्मीति हि लिङ्गदर्शन वैश्वानर. विद्याविषयम् । तत्र ब्रह्मविद्यायाः, सोपाधिकायाः कर्मसाहित्यदर्शनेऽपि नैकान्ततः सर्वांसां ब्रह्मविद्यानां कम्मङ्गित्वं संभवति ॥ ५ ॥ - ( ७७ ) यदपि तच्छुतेरित्युक्तं तत्प्रत्युच्यते । यदेव विद्यया करोतीत्वा तिरुदीर्थाव- द्याभिसंबन्धादसार्वत्रिको न लवविद्याविण्यास्ति । - यदपि- "न विद्याकर्मणी समन्वारलेते इत्युक्त तत्र नः ॥ यथा शताभ्यां दीयतामित्युक्ते पञ्चाशदेकस्मै पञ्चाशदपरस्मै दीयते तदिहापि विभागा इत्यः । विद्यान्यं पुरुष स्वफलाय समन्वारभते करयिं स्वफलामेति ॥ ७ ॥ यञ्चोक्तं तद्वता विधानादिति तच्छब्दाध्ययनमात्र बतो द्रष्टव्यम् वने । यमध्य- यनविधिविवोधपर्यन्तं प्रवर्तयति। तदर्थविचारे च पुरुषः स्वयमेव प्रवर्तते । तथा च कर्मार्थी कर्मज्ञाने मोक्षार्थी तु ब्रह्मज्ञान प्रवर्तते । ता कमविबोधन भवतु कर्माधिकार कारणम् ॥ औपनिषदमान्मज्ञानं तु स्वातव्येणैव संभाव्यन पुरुषार्थ इति ब्रूमः ॥ अथवाध्ययनविधिरस्त्वर्थावबोधस्यापि प्रवर्तकः । तथापि न वाच्य- वाचकभावसंबन्धज्ञानमात्र विद्या स्यात् । प्रत्यगात्मपरमात्मयाथार्थ्यज्ञानस्येह विद्यात्वेन विवक्षणात् । तच्च नाध्ययननानवतः संभवति । मनननिदिध्यासनाभ्यां पश्चादुपपाद्यत्वात्। तथा च शब्दार्थज्ञानस्याङ्गत्वोपपादनेऽपि न विद्याया अङ्गव संभवतीति पुरुषार्थत्वं सिद्धम् ॥ ८ ॥ एवं नियमादित्यपि विदुपो नास्ति नियमः । कुशेवेह कर्माणीत्यविशेपेण नियमविधानात् तस्याविद्वाद्वषयत्वात् ॥ अथवा विद्वद्विषयतायामपि विद्यास्तुतये कर्मानुज्ञानमेतदृष्टव्यम् । यावञ्जीवं कर्म कुर्वत्यपि विदुषि विद्यासामर्थ्याच कर्म लिप्यत नरे इत्युक्तर्विद्यास्तुत्यवशात् ॥ ३ ॥ अपि च-"एत व स्म वै तत्पूर्व विद्वांसः प्रजां न कानयाते किं प्रजया करिप्याम येषां नोयमात्मा लोकः" इत्येवं प्रत्यक्षीकृतविद्याफला एके विद्वांसो विद्यया कामकारेण प्रजादीनां गार्हस्थ्यवर्भाणां परित्यागं पराशन्ति ॥ १०॥ अपि च "भिद्यते हृदयग्रन्थिश्चिन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् उष्टे परावरे"। यत्रत्वस्य सर्वनात्मैवाभूत् तस्केन कं पश्येत् । केन कंजिनेत्। इत्यादिना समस्तस्य क्रियाकारकफललक्षणस्य कर्माधिकारहेत. प्रपञ्चस्य विद्या- सामर्थ्यादुपमर्दभामनस्ति । तथा च कम्मोच्छित्तिहेतोविद्यायाः काङ्गत्वं नैव संभवतीति स्वातन्त्र्यं विद्यायाः सिद्धम् ॥ ११ ॥ अपि च ऊर्ध्वरेतःसु विद्या श्रूयते । न च तेषामनिहोत्रादीनि कर्माणि सन्तीति कर्माभावात् तत्र विद्यायाः कर्माहत्वं नोपपद्यते । यत्तूवरेतसामाश्रमा नैव सन्ति यावजीवमग्निहोत्रं जुहोतीत्यादिना कर्मणां यावजीवाधिकारश्रवणात् कर्मत्याग- लक्षणस्याश्रमस्यासंभाव्यमानत्वादिति कश्चिद् ब्रूयात्-तन्न । शब्दे हि "त्रयो धर्मस्क- न्धा" “ये चेमेऽरण्ये श्रद्धातप इत्युपासते" तपाद्वे ये खुपवसन्त्यरण्ये"-एतमेव प्रवाजिनो लोकनिच्छन्तः प्रबजन्ति' ब्रह्मचर्यादेव प्रबजेद" इत्यादिषु तच्छवणात् । यावजीवमग्निहोत्रमिति श्रुतिस्त्वविरक्तविषया द्रष्टव्या । जैमिनिस्तु यो धर्मस्कन्धा इत्यादिषु शद्देष्याश्रमातराणां परामर्श मन्यते न तु विधानम् । यतस्तत्र लिङ्गादीना- मन्यतचोदनाशब्दो नास्ति । रामानुजीये त्वनुचोदनादिति पञ्चमीपाठादविधाना दित्यर्थः । तस्माते आश्रमाः श्रुत्या विधीयन्ते किन्तु ब्रह्मसंस्थताया आत्यन्तिक- फलत्वं स्तोतु स्नृत्याचाराभ्यां प्रसिद्धानामल्पफलानां तेषां त्रयाणां पुण्यलाकाना- मिहानुवादः क्रियते "सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति"-अपिचाप- वदति हि प्रत्यक्षा श्रुतिराश्रमातरम् ।" वीरहा वा एष देवानां योऽग्निमुद्वालयते” । "आचार्यायप्रियं धनमाहृत्य प्रजातन्तुमा व्यवच्छेत्लोः" :"नापुत्रस्य लोकोऽस्तीति" "तत्सर्वे पशवो विदुः" इत्येवमाया। एतद्वै जरामर्य सत्रं यदग्निहोत्रं जरया बाह्य वास्मान्मुच्यते नृत्युना वेति श्रुत्त्या यावजीवनं नित्यत्वेनाग्निहोत्रादि कर्मणां विधा- नात् कर्मप्रतिषेधलक्षणस्याश्रमस्य प्रतिषेधावगमाच॥ एव स्थिते "ब्रह्मचर्यादेव प्रबजेदिति जावालानां श्रुतिरेकदेशिनीति चेद्-अत्राह भगवान् बादरायणः। अनुष्ठेय- माश्रमान्तरं प्रतीयात् । साम्यश्रुतेः । सामाना हि गार्हस्थ्येनाश्रमान्तरस्य परामर्श- श्रुतिश्यते "त्रयो धर्मस्कन्धा" इत्यादिः। अत्र हि स्कन्धत्रित्वं प्रतिज्ञायते।न चाश्रम- यसम्बन्धाद यत्र यज्ञादीनामुत्पत्तिभिन्नानां भूयसाधर्माणां त्रित्वेऽन्तर्भावोऽवकल्पते। उपपद्यते हि यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धः। ब्रह्मचारीति स्पष्ट निर्दिष्ट एवाश्रमी द्वितीय स्कन्धः । ये चेमेऽरण्ये इत्यरण्यलिङ्गाच्छद्धातपोभ्यां पञ्चाग्निविद्यया तृतीयो वानप्रस्थाश्रमः स्कन्धः । अथैभ्यस्त्रिभ्यो विशिष्टफलस्तुरीयो ब्रह्मसंस्थता. रूपः पारिव्रज्याश्रमः प्रतिपाद्यते। एतमेव प्रवाजिनो लोकभिचकन्तः प्रव्रजन्ति इति इत्थं च तुरीयाश्रमस्य फलाधिकत्वं दर्शयितुमितरेषां त्रयाणां परामर्शतोऽपी- दमाश्रमान्तरमनुष्यं प्रतिपद्यामहे । अपि वा नेदं परामर्शमात्रं किन्तु विधिरेवा- यमाश्रमान्तरस्य शक्यतेऽभ्युपगन्तुम् । “अधस्तात् समिधं धारयन्ननुद्रवेद-उपरि हि देवेभ्यो धारयति" इति । धारणवत् । अत्र यथा लत्यामप्यधो धारणेनैकवाक्य- ताप्रतीतो धारणस्थान्यत्र विवानाभावाद् पूर्वत्वादुपरिधारणस्य विधिः कल्प्यते एवमिहापि पुण्यलोकफलास्त्रयो धर्मस्कन्धाः ब्रह्मसंस्था त्वमृतफलेति त्रयाणां परामर्शनैकवाक्यताप्रतीतावपि विध्यन्तरस्यादर्शनादपूर्वत्वाद्विधिरेवाभ्युपगम्यते । उक्तं च शेषलक्षणे-"विधिस्तु धारणोऽपूर्ववात्" इति । तस्माद् ब्रह्मचारिगृह- मेधिवैखानसभिक्षुलक्षणाश्चत्वार आश्रमा एवानया श्रुत्या साम्येन श्रूयन्ते-इति सिद्धम् । अपि वा प्रत्यक्षमेवान्यत्र चत्वारोऽप्याश्रमाः श्रूयन्ते यथामनन्ति जाबाला:- ब्रह्मचर्य समाप्य गृही भवेत् । गृही भूत्वा वनो भवेत् । वनी भूत्वा प्रव्रजेत् । यदि वेतरथा-ब्रह्मचर्या देव प्रव्रजेत् । गृहाद्वा वनाद्वा यदहरेव विरजेत् तदहरेव प्रव्रजेत्” इति । “अथ पुनरेव व्रती वाऽवती वा स्नातको वाऽस्नातको वा उत्सन्ना- ग्निरनग्निको वा परिव्रजेत्”-अथ परिवाविवर्णवासा मुण्डोऽपरिग्रहः शुचिर- द्रोही भैक्षाणो ब्रह्मभूयाय भवति"-इत्यादिषु । तस्मात् सिद्धा ऊर्ध्वरेतल आश्रमाः सिद्धं चोर्ध्वरेतःसु कर्मनिष्ठेष्वपि विद्याया विधानात्तस्याः स्वातन्त्र्यम् ॥ ॥ इति विगविशेषस्य कम्माङ्गत्वाभावाधिकरणम् ॥
( 8 ) स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् भावशब्दाच । "स एष रसानां रसतमः परमः परार्दोऽष्टमो यदुद्गीथः" । इयमेवर्गग्निः साम । अयं वाव लोक एपोऽग्निश्चित:" तदिदमेवोकथमियमेव पृथ्वी"-इत्येवमादि- श्रुतय उद्गीथादिस्तुत्यर्थाः सन्न्युपासनविध्यर्था वेति संशये केचित्तावदाहु:-कर्मा- ङ्गानामुद्गीथादीनामुपादानात् स्तुतिमात्रं मन्यामहे इति । यथा "इयमेवपृथ्वी जुहूरादित्यः कूर्मः स्वर्लोक आहवनीयः" इत्यादयो जुह्वादिस्तुतयस्तद्वत्त्ववय. वभूतोद्रीथादिस्तुतिमात्रमिदं स्यादिति चेन्न । अपूर्वत्वात् । अप्राप्तार्थविधानादु- पासनविधिरयं भवति । इयमेव जुहूरित्यादि तु विधिसंनिधाबुपादानाद्विधि- शस्य चास्यशेषत्वमापद्यते इति विधिनावेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युरिति न्यायेन संभवति स्तुतिः। प्रकृते तु प्रदेशान्तरपठितानामुद्गीथादीनां प्रदे- शान्तरपठिता एताः श्रुतयो न वास्यशेष वाय कल्पन्ले इति न स्तुतिः ॥ भाव- शब्दाच्च । “उदीथनुपासीत् सामोपासीत् अहमुक्थमस्मीति विद्यात्-इत्यादयश्च विस्पष्टं विविशब्दाः श्रूयन्ते । प्रतिप्रकरणं फलानि च श्रूयन्ते-"आपयिता हवैकामानां भवति कल्पन्ते हास्मै लोका ऊश्चि वृत्ताश्चेत्यादीनि । तस्मादुद्गीथादिश्रुतय उपासनविधानार्थाः सन्तीति सिद्धम् ॥ ॥ इति विद्याप्रकरण पठितानां काङ्गस्तुतीनां काङ्गत्वाभावाधिकरणम् ॥ पारिलवार्था इति चेन विशेषितत्वात् तथा जैकवाक्यतोप- बन्धात्। कर्मप्रकरणे तावद् अश्वमेधे यज्ञे पुत्रामात्यपरिवृताय राज्ञे पारिशुवमाचक्षीत आख्यानानि शंसन्तीत्यादिश्रुत्या नानाविधाख्यानकथनं विहितम्-प्रथभेऽहनि "मनुर्वैवस्वतो राजा-इत्यादि-द्वितीयेऽहनि “यमो वैवस्वत" इत्यादि । तृतीये- ऽहनि वरुण आदित्य इत्यादि । एवनिहापि विद्याप्रकरणे उपनिपर-श्वेतकेतु- हारुणेय आस । जानश्रुतिर्ह पौत्राथणः श्रद्धादेयो बहुदायी बहुपाक्य आस" इत्यादीन्याख्यानानि बहूनि दृश्यन्ते तेषामप्याख्यानलामान्यात् पारिलवप्र- योगार्थत्वं संभाव्यते इति चेन्न । केषांचिदेवाख्यानविशेषाणां परिगणय्य तत्र पारिवशब्देन विशेषितत्वात् तेषामेव पारिलवार्थत्वं संभवनत्वविशेषणवैयर्थ्य स्यात् । तस्मादुपनिषत्वाख्यानश्रुतयो न पारिगुवार्थाः किन्तु विद्याविशेषप्र- तिपत्त्यर्थाः स्युः । तथाचैकवाक्यतोपवन्धात् । पारिश्तवार्थत्वानभ्युपगमे सत्येषा. माख्यानानां संनिहिताभिर्विद्याभिरकवाक्यतयोपनिबन्धो दृश्यते । यथा मैत्रेयी- ब्राह्मणे आत्मा वा अरे द्रष्टव्य इति विद्यया प्रातर्दनेऽपि "प्राणोस्नि प्रज्ञात्मेति विद्ययैकवाक्यता संदर्भः ॥ तस्माद्विद्याविध्यर्थता सिद्धयति न पारिप्लवार्थता ॥ इत्युपनिषत्पठितानामाख्यानानां कर्माहत्त्वाभावाधिकरणम् ॥
( ८० ) अत एव चाग्नीन्धनाचनपेक्षा॥४॥ सर्वापेक्षा च यज्ञादि श्रुते- रश्ववत् ॥ शमदमाद्युपेतः स्थात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ विद्यायाः स्वात-उण पुरुषार्थहेतुत्वादेव च विद्यया स्वार्थ सिद्धौगृहाश्रमक- मणामग्नीधनादीनामपेक्षा नास्ति । विद्यावन्तो अ॒र्ध्वरेतस आश्रमिणः सन्तीति तदाश्रमेऽग्याधानपूर्वकाखिलयज्ञकर्मानपेक्षणात् केवलया विद्ययैवावृतत्वप्राप्तिः फल- मुपपद्यते॥ इत्यूर्ध्वरेतसांकृतविद्यानां विद्यायां यज्ञादिकापेक्षानास्ति इति प्रथमः प्रस्ताव.॥१॥ विद्यायां कर्मानपेक्षा दर्शिता तत्प्रत्युच्यते । अस्ति विशयां सर्वाश्रमकर्मा- पेक्षा दर्शिता तत्मत्युच्यते । अस्ति विद्यायां सर्वाश्रमकर्मापेक्षा । तमेतं वेदानुवच- नेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति यज्ञादीनांविद्या- साधनत्वश्रुतेः। “अथ यद्यज्ञ इत्याचक्षते । ब्रह्मचर्यमेव तत्" इत्यत्र विद्या- साधनस्य ब्रह्मचर्यस्य यज्ञादिभिः संस्तवात्तेषां विद्यालाधनत्वावगतेश्च । "कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते"-इति स्मृतिरपि ज्ञानोदथे कर्मणां हेतुत्वमुपपादयति । नत्वेवं सति पूर्वाधि- करणविरोधः स्यादिति चेन्न । अश्वविद्याया योग्यतावशेन व्यवस्थानात् । यथाश्वो योग्यतानुरोधाद्रथचायां युज्यते न लागलाकर्षणे । एवमियं विद्या स्वोत्पत्ती सर्वाण्याश्रमकाण्यपेक्षते उत्पन्नया तु तथा स्वफलोत्पादने स्वातन्त्र्यात् तानि नापेक्ष्यन्ते इति शङ्करः । तथा चोर्ध्वरेतसां विदुषां विद्यायज्ञादिपूर्वाश्रमसर्वकर्म- निरपेक्षा भवति उत्पनत्वात् । गृहस्थानां तु कर्मिणां विविदिषावतां विधायज्ञादि- सर्वकर्मसापेक्षा भवति उत्पाधत्वात्-इति रामानुजोऽधिकरणद्वयं समर्थयति । शंकरस्तु विद्याया यज्ञादिकलापेक्षावे निवृत्तकर्मणां परिबाज.पि विद्यानधि- कारः स्यादतो गृहस्थपरिबाडादिसर्वसाधारण्येन विद्यायां यज्ञादिनिरपेक्षवं पूर्वसूशेण पूर्वपक्षीकृतम् । तदपवादेन चेदानीमुत्तरसूत्रेण गृहिणां परिवाजांच নার্থবিজ্ঞখাত্মিজিলাখনু গিয়ন—নথ ন অহনাজg विणयामनपेक्षितस्य यज्ञादिकर्मणो गृहस्थेवपेक्षा युज्यते इति सूत्रद्वयमेकाविकरण- माहुः। इति विद्योत्पती यज्ञादिकर्मापेक्षा विद्यते इति द्वितीयः प्रस्तावः ॥२॥ घद्यपि यज्ञादिश्रुतेर्यज्ञादीनां कर्मणां विद्यासाधनत्वमाख्यातं तथापि तु विद्यासिद्धयर्थ शमदमाधुघेतः स्यात् । “तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षः समाहितो भूत्वात्मन्येवात्मानं पश्यति" इति विद्यासाधनत्वेन तेषां विधानात् । विद्याङ्गतया च देषामवश्यांनुष्ठेयत्वात् । अयमर्थः । न केवलं यज्ञादिभिरेवेयं विद्या m । स्यात् अपि तु सत्यपि यज्ञाधाचरणे शमदमादिभिरेवैषा विद्या संपद्यते । एवं- विदिति विद्यासंयोगाच्छमादीनि तावत् प्रत्यालमानि विद्यासाधनानि । यज्ञादीनि तु विविदिषासंयोगाद्वहिरङ्गसाधनानि । न च करणब्यापारतद्विपर्ययरूपत्वेन कर्मणां शनादीनां च परस्परविरोधः शङ्कयः। विहितत्वामित्यानुष्ठेयानां यज्ञादिक- मणामत्यागेन अविहितानानविहिताप्रतिषिद्वानां भोजनादिव्यतिरिक्तानां काम्य- कर्मणां चोपरामेन च कर्मणां शमादीनां च भिन्नविषयत्वादविरोधात् । सत्र शंकर- स्तु “यज्ञादिभिरेवैतां विद्याभवातुमिच्छतीति विद्यास्तुतिपराया यज्ञेनविविदिपन्तीति श्रुतेर्यज्ञादिविधायकत्वाभावादविहितत्वाद्विद्यायां यज्ञाद्यपेक्षा नास्ति । तथापि तु शमादीनां विद्याङ्गतया विधानाद् विहितानां चावश्यानुष्ठ यत्वाद्विद्यानिवृत्त्यर्थं शनदैमाधुपेतःस्यात्-"इत्येवनिदं सूत्रं पूर्वाधिकरणेऽन्तर्भाव्य त्रिभिः सूत्रैरैकाधि- करण्यमभिप्रेति ॥ इति विद्यालिद्वौ शमदमादिकर्मविशेषापेक्षा विद्यते इति तृतीयः प्रस्तावः॥३॥ ॥ इति कर्मविशेषाणां विद्याइत्वाधिकरणम् ॥ ४॥ सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् ॥ अबाधाच्च । अपि च स्मयते । शब्दश्यातोऽकामकारे॥ प्राणसंवादविद्यायाम्-"न वा एवंविदि किञ्चनानन्नं भवतीति छन्दोगा आम- नन्ति । "न ह वा अस्याननं जग्धं भवति नाननं प्रतिगृहीतमिति वाजसनेयिनश्च । तत्रेदं सर्वान्नानुज्ञानं शमादिवद्विद्या विधीयते अथवा स्तुत्यर्थ संकीर्यते इति चिन्तायां केचिदाहुः-न कांचन परिहरेत् तद्बतमिति वामदेव्यविद्याविषयेण सर्वस्त्र्यपरित्यागवचनेन्न सामान्यविषयं गम्यागम्यविभागशास्त्रं यथा बाध्यते तथे- हापि प्राणविद्याविषयण सर्वानभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं वाध्यते । तथा चेयं प्राणविद्याङ्गतया भक्ष्याभक्ष्यनियमनिवृत्तिर्विधीयते इति । तत्रेदं प्रत्युच्यते। नेदं सर्वान्नानुज्ञानं विधीयते विधिशब्दाभावात् । किन्तु प्राणात्यये सति परस्या- मापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते । प्राणात्यये तद्दर्शनात् । मटचीहतेषु कुरु- षु चाक्रायणा ऋषिरापत इभ्यनामे वसन् सामिखादितान् कुल्मापांचखादानु- पानं तूच्छिष्टदोषात् प्रत्याचक्षे । न वा अजीविष्यमिमानखादन कामो म उदपान- मिति च ब्रुवन् प्राणात्यय प्रसंगे आप हर्मतया प्राणसंधारणायाभक्ष्यभक्षणमयमनु- मन्यतेस्म । तस्मान्न स्वस्थावस्थायामभक्ष्यभक्षणमनुज्ञायते । अनुपानप्रत्याख्यानेन तथावगमात् । एवं सत्याहारशुद्धिविधायकशास्त्राणामबाधाच्च । अन्यथा भक्ष्या- भक्ष्यव्यवस्थाया अभावे- आहारशुद्धौ सत्वशुद्धिरित्यादि शास्त्राणां बाधः स्यात् ॥ स्मर्यतेऽपि चापदि सन्निभक्षणमविशेषेण-"जीवितात्ययमापन्नो योऽन्नमत्ति यत- स्ततः । लिप्यते न स पापेन पनपत्रभिवाम्भसा ॥ इति ॥ अनापदि चानन्नवर्जन स्मय्यते मद' नित्यं ब्राह्मणो वर्जयेत् । सुरापस्य ब्राह्मणस्योष्णामासिञ्चयुः सुरामा- स्थे । सुरापाः क्रिमयो भवन्यभक्ष्यभक्षणादित्यदि शब्दश्चातोऽनन्न प्रतिषेधकोऽकाम- ( २ ) कारनिमिते श्रूयते । यथा कठानां संहितायां-"तस्मा ब्राह्मणः सुरांन पिवेत्" पापमना नोत्सृजा इति । तस्मादनशभक्षगानुमतिरापविषया स्याइर्थवादरूपैवेति बोध्यम् ॥ ॥ इति सर्वानादनस्य आपद्धम्मस्व विधाङ्गत्वाभावाधिकरणम् ॥ विहितत्वाचाश्रमकर्मापे । सहकारित्वेन च । सर्वथापि त एवो- भयलिङ्गात् । अनभिनवं च दर्शयति ॥ यशादीनां गृहस्थाश्रमकर्मणां विद्यालाधनत्वमाख्यातं किन्वाश्रममात्रनिष्ठेमु. कोच्छाराहित्याद्विद्यामकालय तानस्तानि कर्मण्यनुष्ठेयानि नवेति चिन्तायामुच्यते । यावजीवमग्निहोत्रं सुस्तीति नित्यविहितस्वाच्चेदमाश्रमकर्म यज्ञादिकं विद्यामका- मयमानैरपि कर्तव्यमेव । नन्वेषां नित्यत्वेन कर्तव्यताप्राप्ती विद्यालाधनवं न स्या- दिति चेन्न । विद्यासहकारिवेन चैषामभ्युपगमात् । सहकारित्वं चोपकारकत्वम् । तच्च विद्योत्पत्तौ द्रष्टव्यं न तु विद्याजन्यफलोत्पत्ती । विद्याफलस्यासाध्यत्वात् । नन्वेवं तर्हि यज्ञादीनामानमधर्मत्वेन नित्यत्वे तेषानकामेनापि कर्तव्यताप्राप्तो विद्या- कामेन विद्योत्पादने सहकारितयाऽन्यानि यशादीनि कार्याणि स्युरथवा नित्यैरेव तैः कृतैः कर्मभिर्विद्यापि संपद्यते इति चिन्तायामुच्यते । सर्वथापि त एवोभयलि- जात् इति । आश्रमधर्मत्वेन सहकारित्वेन चैकविधा एव धर्मा अनुष्ठेया न तु, नित्य- यज्ञानुष्ठानानन्तरं विद्याकामनया पुनर्द्वितीयानुष्ठानमवकल्पते । यथा कुण्डपायिना- मयने मासनग्निहोत्रं जुहतीति यावञ्जीवकर्तव्यानित्याग्निहोत्रात्पृथगेव मासकर्त- व्याग्निहोत्रं विधीयते नैवमिह कर्मभेदो विधीयते । एकेषामेव कर्मणामुभय- लिङ्गात् नित्यकृतकर्मभिरेवविद्योत्पत्तेरपि संभवात् । उभयलिङ्गत्वमुभयनिर्वाह- कत्वम् । अथवा श्रुतिस्मृती लिंगे स्तः । श्रुतिलिङ्गं तावत्-"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषातीति सिद्धवदुत्पन्नरूपाणि यज्ञादीनि विविदिषायां विनियुक्त न तु सामाग्निहोत्रं जुहृतीत्यादिवशूर्व रूपमुत्पादयति । स्मृतिलिङ्गं यथा-अना- श्रितः कर्मफलं कार्य कर्म करोति यः । इति विद्योत्पादकं कर्म दर्शयति ॥ अनभि- भवं च दर्शयति श्रुतिर्ब्रह्मचर्यादिसाधनसंपन्नस्य रागादिभिः क्लेशैः । “एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते इत्यादिना। इति शंकरः। अहरहरनुष्ठीयमानयज्ञा- दिभिर्विशुद्धऽन्तःकरणे प्रत्यहं प्रकृष्यमाणा विद्या भवति न तु कर्मणा विद्याया अभिभवं दर्शयतीति रामानुजः । तस्माद्यज्ञादिकर्माण्याश्रमधर्मतया नित्यानुष्ठ यानि सन्ति विद्यासहकारीणि चेति सिद्धम् । ॥ इति अकामकृत्तानामपि नित्यानां यज्ञादिकर्मणां विद्याङ्गत्वाधिकरणम् ॥
। अन्तरा चापि तु तदृष्टेः । अपि च स्मय्यते। विशेषानुपहश्च । अतस्त्वितरज्ज्यायो लिङ्गाच। द्रव्यसंपत्यभावादाश्रमधर्माज्ञानाद्रा ये कमपि नाश्रमधर्म पालयन्ति तेऽन्तराल- वर्तिनो विधुराः । तेषां विद्यायाधिकारोऽस्ति न वेति चिन्तायां विद्या प्रत्याश्रमकर्मणां हेतुत्वाद्विधुराणां चानाश्रमित्वान्नास्ति विद्याधिकार इति प्राप्ते ब्रूमः । अन्तरा चापि तु तद्दृष्टः । अन्तरालवर्तिनामप्यस्ति विद्याधिकारो रैकवाचक्नवीत्रभृतीनां विधुराणामपि ब्रह्मवित्वदर्शनात् । अपि च कार्यने नन्नवादियोगादनपेक्षिताथम- कर्मणां संवर्तप्रभृतीनां महायोगिनां ब्रह्मवित्वम्। विशेषानुग्रहश्च दृश्यते समय॑ते च। "तपसा ब्रह्मचर्येण श्रद्वया विद्ययात्मानमन्विष्यति श्रुत्या यज्ञेन दानेन तपसाऽनशने- नेति श्रुत्या च तपश्रद्धादिधर्मविशेविद्यानुनदर्शनात् । “जयेनैव तु संलिद्धद ब्राह्मणो नात्र संशयः । कुर्य्यादन्यन्न वा कुर्य्यामैत्रो ब्राण उच्यते"- इत्यादिस्कृत्या च जपोपवासदेवताराधनादिभिर्धर्मविशेवियानुग्रहस्मरणाञ्च । अनेकजन्मसंलि द्व- स्ततो याति परां गतिमिति स्मृया जन्मान्तरसंचिताना लस्कारविशेषाणामपि विद्यानुग्राहकत्वस्मरणाच । संभवत्येवमन्तरालवर्तिनामपि विद्यानुग्रहः किन्तु अतोऽनाश्रमिवादितरदाश्रमनिष्ठत्वं ज्याया विद्यासाधनं मन्ये"। तेनैति ब्रह्मवित् पुण्यकृत् तैजसश्चेति श्रुतिलिङ्गात् । अनाश्रमी न तिष्ठत्क्षु दिनमेकमपि द्विजः । संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेदिति स्मृतिलिङ्गाश्च । ॥ इत्यनाश्रमिणां यज्ञाडिकमविबुराणामपि विश्वाधिकाराधिकरणम् ॥ ततस्य तु नातवायो जैमिनेरपि नियमातदपाभावेभ्यः । न चाधिकारिकमपि पतनानुमानात् तदयोगात्। उपपूर्वमपि त्वेके भावमशनवत् तदुक्तम्। बहिस्तूमयथापि स्मृतेरावाराच। पूर्वाधिकरणे विधुराणामगृहीताश्रमधर्माणां विद्याधिकार आख्यातः । अथेदानीं भ्रष्टाश्रमाणां विद्यायामधिकारोस्ति न वेति चिन्त्यते । तत्र तावदाश्रमाद् भ्रंशः शास्त्रेण नानुज्ञायते इत्युच्यते । नैष्ठिकवैखानसपरिव्राजकास्त्रयोऽमी ऊर्ध्वरेतस आश्रमाः प्रसिध्यन्ति । तद्भूतस्योवरेतोभावं प्रातस्य पुनरतद्भावो नावकल्पते । अतथाभावोऽतद्भावः । परिवाजको भूत्वा केनापि हेतुना पारिवाज्यं परित्यज्य पुनर्यदि पौर्वि कं वैखानसाश्रमं गृहीतुमिच्छेत् वैखानसो वा पुनर्गार्हस्थ्यं ग्रहीतु. मिच्छेत् नैष्ठिको वोपकुर्वाणतयाऽवस्थातुमिच्छेत् । अथवा आश्रमी भूत्वा स्वाच्छ- न्यादाश्रमधर्मनपरिपालयननाचनी भवितु प्रक्रमेत। तनावकल्पते। पूर्वाश्रमा- दुत्तराश्रमं यथाऽऽरोहति न तथोत्तराश्रमात् पूर्वाश्रमं पुनः प्रत्यवरोदु शक्नोति । नियमादतद्रूपादतद्भावाच्च । अत्यन्तमात्मानमाचार्यकुलेऽवसादयन्निति नैष्ठिकस्य, अरण्यमियान्न पुनरेयादित्युपनिषदिति वैखानसस्य, संन्यस्यासिं न पुनरावर्तयेदिति । ( ८४ ) परिवाइ भिक्षोः-आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । आविमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि"-इत्येवमाश्रममात्रस्य नियमः प्रच्युत्यभावं दर्शयति । ब्रह्म- चयं समाप्य गृहीभवेद् ब्रह्मचर्या व प्रव्रजेद"---इत्यादीन्यारोहरूपाणि यथा श्रयन्ते न तथा प्रत्यवरोहरूपाणि क्वचिदानायन्ते । न शिष्टाचारश्च तथाभूतो दृश्यते। तस्मादुत्तराश्रमं प्राप्तस्य ततः प्रच्युति स्ति । रामानुजस्तु नियमादिति पृथक्पदं पठतितेषां नैष्ठिकादीनां रूपाणि वेषा धर्मा आचारा वा तेषानभावास्ततो निवृत्तयः। तथा च तद्पाभावेभ्यः शास्त्रकृतानियमादित्यर्थः । नैष्ठिकाद्याश्रमं प्रविष्टानां स्वा- श्रमधर्मनिवृत्तिभ्यो नियच्छन्ति हि शास्त्राणि पूर्वोक्तानि । तस्मान्नैष्ठिकादीनामाश्रम- धर्मपरित्यागपूर्वकमनाश्रभित्वेनावस्थानं नास्ति । जैमिनेरपीत्यपिशब्देन जैमिनि- बादरायणयोरत्र संप्रतिपत्तिय॑ते । ननु नैष्ठिकादीनां ब्रह्मचर्याद्याश्रमधर्मात् प्रच्युतानां प्रायश्चित्तेन पुनः शुद्धिः संभवतीति चेत् तदलत् । “ब्रह्मवार्यवकीर्णी नै तं गईभमालभेत"-इत्यधिकारलक्षणोक्तमपि प्रायश्चित्तं नैष्ठिकानां नैष्ठिकधर्माद भ्रष्टानां नास्ति । "आरूढो नैष्टिकं धर्म यस्तु प्रच्यवते पुनः। प्रायश्चित्तं न पश्यामि येन शुद्धधत् स आत्महा" इत्यप्रतिसमाधेयपतनस्मरणात् प्रायश्चित्तायोगात् । पूर्वोक्तमाधिकारिकं प्रायश्चित्तं तूपकुर्वाणविषयं नेयम् । तेषां ताटक पतनस्मृत्य- भावात् । अपि वेके आचार्याः नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्य्य चेद्वि. शीर्यते तर्हि तदुपपासकमेवेति मन्यन्ते। महापातकेवपरिगणनात् । अतो यथा ब्रह्मचारिणी मधुमांसाशने व्रतलोपस्तप्रायश्चित्तसंस्कारश्चान्नायते तद्वदुप. कुर्वाणस्य नैष्ठिकस्याप्यविशेषणात् प्रायश्चित्तभावमाहुः। तदुक्तं प्रमाणलक्षणे यव- वराहाधिकरणे समा विप्रतिपत्तिः स्यात् । शालस्था वातन्निमित्तवादिति। प्रियङ्ग:- दीर्घशूकयोर्यवंशब्दस्य, कृष्णशकुनिशूकरयोर्वराहशब्दस्य प्रसिद्धावपि यवमयश्चरु- राहि उपानहावित्यत्र शास्त्रस्वारस्यादीर्घशूकशूकरयोरेव ग्रहणं भवति किन्तु प्रकृते महापातकवदुपपातके तथा प्रायश्चित्ताभावशास्त्रं नास्तीत्युपकुर्वाणनैष्ठिकयोः प्रायश्चित्तं साम्येनोपपद्यते । यत्तु नैष्ठिकस्य प्रायश्चित्ताभावशास्त्रं प्रागुपदर्शितं तद्यत्नगौरवातिशयद्योतनार्थ बोध्यम् । एवं वानप्रस्थो दीक्षाभेदे कृच्छ्द्वादशरात्रं चरित्वा महाकक्षं वर्द्धयेत् । भिक्षुर्वानप्रस्थवत् सोमवल्लिवर्ज स्वशास्त्रसंस्कारश्चेति भिक्षुवानप्रस्थयोरपि प्रायश्चित्तं द्रष्टव्यम्-इति शंकरो व्याचष्टे । रामानुजस्तु तदुक्त- मिति पदमन्यथा व्याचष्ट तथाहि तदुक्तं स्मृतिकारैः उत्तरेषां चैतदविरोधीति । ब्रह्मचारिणो यदुक्तं तत् स्वाश्रमाविरुद्ध चंदुत्तरेषामप्याश्रमिणां दृष्टव्यम् । तथा च वैखानसपरिव्राजोरपि ब्रह्मवादिस्वधर्मप्रच्यवने प्रायश्चित्तसंभवाच्छुद्धिरस्तीति गम्यते । इति परेषां मतं भवति। तनिराकृत्येदानी सिद्धान्तं ब्रूमः । ऊर्ध्वरेतसां स्वाश्रमप्रच्युतेरुपपातकत्वे वोभयथाऽप्येते बहिष्कार्या एव । नैषां विद्याधिकारो- ऽस्तीति प्रतिपद्यामहे । आरूढपतितं विप्रं मण्डलाच विनिःसृतम् । उद्वद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेदिति निन्दास्मरणात् । आरूढो नैष्ठिकं धर्ममिति प्रायश्रित्ता. भावस्मरणाच । तेषामपरिग्रहानुकूलशिष्टाचाराच्च । ॥ इत्याश्रमच्युताना विद्यानविकाराधिकरणम् ॥
( २ ) स्वामिनः फलश्रु तेरित्यात्रेयः । आर्विज्यमित्यौडलोमि- स्तस्मै हि परिक्रीयते ॥ श्रुतेश्च ॥ यानि कर्माङ्गाश्रितानि उद्गीथाद्युपासनानि तानि यजमानस्य कर्माणि ऋत्विजां वेति संशये स्वामिनो यजमानस्यैव तानि कर्माणीत्यायो मन्यते । “वर्षति हास्मै य उपास्ते"-इत्यादिषु फलश्रवणात् फलस्य च स्वाभिगामित्वसिद्धान्तात् । दहराधु पासनेषु फलोपासनयोरेकाश्रयत्वदर्शनाच । न च गोदोहनादिवङ्गकर्मसु यजमानकर्तृकत्वादर्शनात् तन्न्यायादङ्गाश्रितानामुपासनामपि तत्ककत्वं न स्या- दिति वाच्यम् । गोदोहनादिष्वध्वयु कर्तृकप्रणनाश्रयदोहनस्यान्येनाशक्यत्वात् तथावेपि प्रकृते तूगातृकर्तृकोदीथे तस्य रसतमत्वानुसंधानं यजमानेनैव शक्यते कर्तुमतः कर्तृत्वभोक्तृत्वयोरेकाश्रयताया एव न्याय्यावात् । अथौडुलोमिस्स्वास्विय॑मे- वैतदुपासनं मन्यते । यत: तस्मै साङ्गाय कर्मणे कर्तुमृत्विक परिक्रीयते । तस्माद्यथा कायिकानि गोदोहनाद्यङ्गकर्माणि ऋत्विग्भिः क्रियन्ते एवं मानसान्युद्गीथाद्युपासना. न्यपि प्रयोगान्तःपातीन्यधिकृताधिकारवाइस्विम्भिरेव कार्याणि । अत एव-"तं ह वको दाल्भ्यो विदांचकार स ह नैभिशानीयासुद्राता वभूवे"-त्युद्गातृकर्तृकं विज्ञानं श्रूयते । “यां वै काञ्चन यज्ञ ऋत्विज आशिपमाशासते यजलानायव तामाशासते इति होवाच । तस्मादेवंविदुद्गाता ब्रूयात् कं ते काममागायानी" तिश्रुत्या ऋत्विकर्तृविज्ञानगामिफलश्रुतेश्च । तस्मादङ्गोपासनानामृस्विक्कर्मवसिद्धिः । श्रुतेश्चेति सूत्रं रामानुजीया नाधीयते। ॥ इति कर्माङ्गकर्मवत्कर्माङ्गविज्ञानानामपि ऋत्विक कत्याधिकरणम् ॥ सहकार्य्यन्तरविधिः पक्षण तृतीयं तद्वतो विध्यादिवत् । कृत्स्नभावात्तु गृहिणोपसंहारः मौनवदितरेषामप्युपदेशात् । अना- विष्कुर्वन्नन्वयात् । "तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः, अमौनं च मौनं च निर्विद्याथ ब्राह्मणः-इति वाजसनेयकश्रुतौ मौनपदेन वाकसंन्यासलक्षणपारिवाज्यं विधीयते । अथवा मननलक्षणशानार्थक- त्वात् पाडित्यमेवानेनानूद्यते इति संशयः । तत्र मौनं तावत् पाण्डित्यमेव । तस्येहानुवादमात्रं न विधिः । अमौनं मौनं निर्विद्य ब्राह्मण इत्यत्र ब्राह्मणस्य प्रागेव प्राप्तत्वादविधित्वादस्यापि मौनस्य तत्समाननिर्देशत्वादिति कश्चिन्मन्यते । तत्र ब्रूमः । सहकार्यान्तरविधिरति । विद्यासहकारिणो मौनस्य वाल्यपांडित्या- भ्यामतिरिक्तस्येह विधिः क्रियते । अपूर्वत्वात् । ज्ञानातिशयार्थत्वात् प्रशान्तलक्षणं हीदं.मुनित्वं पण्डित्यादतिरिच्यते । गार्हस्थ्यमाचार्यकुलं वानप्रस्थ" मित्यादावुत्त- माश्रमे मुनिशब्दप्रयोगात् सद्वचनोऽयं शब्द इति तु न भ्रमितव्यम् । तत्रेतराश्रमसं.
। ( ८६ ) निधाने पारिशेण्यादुत्तमाश्रमस्य च ज्ञानप्रधानत्वात्तत्र तथार्थलाभेऽपि बाल्मीकि- मुनिपुङ्गव इत्यादौ व्यभिचारादस्य शब्दस्य तदर्थकत्वाभावनिर्णयात् ॥ तस्माद्वाल्यपा- ण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं तद्वतो विद्यावतः संन्यासिनः पक्षण विधीयते । “आत्मानं विदित्वा पुत्राधेषणाभ्यो व्युत्थायाथ भिक्षाचर्य" चरन्ती- त्यधिकारादर्थसिद्धः संन्यासी विद्यावान् यद्यपि स्वत एव मौनेन युज्यते तथापि यस्मिन् पक्षे भेददर्शनप्राबल्यान्मौनं न प्राप्तं तेन पक्षेणेष विधिद्रष्टव्यः। विध्यादिवत् । विधेरादिमुख्यो दर्शपूर्णमासविधिः । तत्र यथा अग्न्याधानादिकमङ्गजातं सह- कारितया विधीयते । तथेह विद्यावाको मौनविधिरिति शङ्करः ॥ रामानुजस्त्वाह- विध्यादिवदिति । विधिर्यज्ञादिः सर्वाश्रमधर्मः शमदमादयश्च । आदिशब्दाच्छ्वण- मनने ।"यथा तमेत वेदानुवचनेन ब्राह्मणा विदिषन्ति यज्ञेन दानेन तपसा" इत्या- दिना च सहकारी यज्ञादिः शमदमादिश्च विधीयते, यथा वा श्रोतव्यो मन्तव्य इत्यादिना श्रवणमनने विद्यालहकारित्वेन गृह्यते तथैवेह "तस्माद् ब्राह्मणः" इत्या- दिश्रुत्या पाण्डित्यं वाल्यं मौनमिति त्रितयं विद्याः सहकार्यान्तरं विधीयते इति बोध्यम् ॥ नम्वेदै बाल्यादेवारभ्य कैवल्याश्रमे श्रुतिसिद्ध कथं छान्दोग्ये "अभिसमा- वृत्य कुटुम्बे शुचौ देशे इत्यारभ्य स खल्वेवं वर्तयन् थावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते" इति यावदायुषं गार्हस्थ्यधर्मणोपसंहारः इति चेत् तत्रोच्यते- कृत्स्नभावात्तु गृहिणोपसंहार इति । करस्नेष्वाश्रमिषु विद्यायाः सद्भावात् गृहिणोऽस्य- स्ति विद्या । अहिंसेन्द्रियसंयमादीनां विद्याधर्माणां गृहिष्वप्यौचित्यात् बहुलायासा- नि च बहून्याश्रमकर्माणि यज्ञादीनि गृहस्थकर्तव्यतयोपदिश्यन्ते । तस्मात् सर्वा- श्रमधर्मप्रदर्शनार्थोऽयं गृहिणोपसंहारः॥ न केवलं “सर्वेषणाविनिर्मुक्तस्य भिक्षा चरणपूर्वकं मौनोपदेश एवेह शास्त्रार्थः । किन्तु मौनवदितरेषामप्यानमधर्माणामु- पदेशाच्चत्वारोऽप्याश्रमाः परिपाल्याः। तथाहि श्रूयते-त्रयो धर्मस्कन्धाः । यज्ञोध्य- यनं दानमिति प्रथमः । तप एव द्वितीयो ब्रह्मचाऱ्यांचा-कुलवासी तृतीयोऽत्यन्त- मात्मानमाचार्यकुलेऽवसादयन् । सर्व एते पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽमृतत्व- मेतीति । तत्र यज्ञादित्रयं गार्हस्थ्यधर्मः। तपो वानप्रस्थधर्मः । आचार्यकुलवासो नैष्ठिकधर्मः । ब्रह्मसंस्थता पारिबाइधर्मः प्रत्येकमेते वृत्तिभेदाधुनश्चतुर्धा स्मर्य्यन्ते- गायत्रो ब्राह्मः प्राजापत्यो वृहन्निति ब्रह्मचारी चतुर्धा । वार्तावृत्तिः शालीनवृत्तिः यायावर: घोरसंन्यासीति गृही चतुर्धा । वैखानसोदुम्बरवालखिल्यफेनपप्रभेदा- द्वानप्रस्थश्चतुर्धा । कु-चकबहूदकहंसपरमहंसभेदात्परिब्राडपिचतुर्धा तदित्थं षो- डशप्रभेदा आश्रमधर्माः । सर्वेषामुपदेशाविशेषात् । तुल्यवद्विकल्पसमुच्चयाभ्यां- प्रतिपत्तिः ॥ इति चतुर्थाश्रमधर्मस्य विद्यासहकारितया विहितस्य मौनस्य स्वरूपमाख्यातम् । अथ विद्यासहकारितया विहितस्यैवान्यस्य चतुर्थाश्रमधर्मस्य वाल्यस्यैदानी स्वरूपं निरूप्यते॥ तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्टासेत् "इत्यत्र विदुषो वाल्य- मनुष्ठेयमुच्यते बालस्य भावः कर्म वाल्यं स्यात् । तत्र बालभावस्य वयोऽवस्थाविशे- ) ( ८७ षस्थाशक्यत्वात् कम्मव ग्राह्यं स्यात् । तथा चाविशेषात् कामचारवादनक्षता, दम्मदर्पप्ररूढन्द्रियत्वादिराहित्यलक्षणाभावविशुद्धिर्वा पाहोति संशये प्रवृत्ते ग्राह्यं वालस्वभा निर्णयति । ज्ञानाध्ययनधामिकत्वादिभिरात्मानमनाविष्कुर्वन वतेत विद्वान् । ईशस्यैव वाल्यस्य विदुष्यन्वयसंभवात् । इतरेषां तुकामचारवा- दक्षतादीनामिहात्वयो न संभवति "नाविरतो दुश्चरितानाशान्तो नासमाहितः । नाशान्तमानलो वापि विज्ञानेनैनमाप्नुयात्" आहारशुद्धौ सत्वशुद्धिरित्यादिना तेषां विद्याविरोधित्वनवणात् ॥ इति चतुर्थाश्रमधर्माणां नौनवाल्यादीनां विद्या- सहकारित्वाधिकरणम् ॥ ऐहिकमप्रस्तुतप्रतिबन्धे तदर्शनात् ॥ एवं मुक्तिफलानियमस्तदवस्थाववृतेः ॥ विद्याकामैरिह जन्मनि प्रस्तुतेभ्यो विद्यालाधनेभ्यस्तद्विद्यासिद्धिरिहैव जन्म- न्युपपद्यते, अमुत्र जन्मान्तरे वेति संशये निर्णयमाह ॥ ऐहिकमेव विद्याजन्म प्रतिप- त्तव्यं यदि कश्चिद्धलवान् प्रतिबन्धो न प्रस्तुतः स्यात् , यदा विह जन्मनि विद्योदय- संपत्तौ कश्चित् प्रतिवन्ध उपतिष्ठते तदामुत्र जन्मान्तरे सा विद्याविर्भवति । तदर्श- नात् । श्यते हि प्रवलेन विरोधिना कान्तरेण कर्मफलप्रतिबन्धे जन्मान्तरे तत्फलोपलंपत्तिः । गर्भस्थस्यैव वामदेवस्य ब्रह्मभावप्रतिपत्तिश्रवणात् । न हि गर्भ- स्थस्यैहिकं किञ्चिद्विद्यासाधनं संभाव्यते । "तन त बुद्धिसंयोगं लभते पौर्वदेहिकम् । अनेकजन्मसंसिद्धस्ततो याति परी गतिमित्यादिस्मरणाच्च ॥ तस्मादसति प्रति- बन्धक विद्यासाधनसंपत्ताविहेव जन्मनि विद्यां लभते । प्रतिबन्धकसत्त्वे तु जन्मा- न्तरे इति सिद्धम् ॥ अथ विद्याफलभूतमुक्तिसिद्धावंप्येवं द्रष्टव्यम् ॥ यथा कर्मसाध्याया विद्योया उपसंपत्तो प्रतिबन्धकसद्भावाभावाभ्यां कालानियमो व्याख्यातः एवं विद्यासा- ध्यायामुक्तरप्युपसंपत्तौ कालानियमो द्रष्टव्यः । मुक्तिसंपत्यवस्थायाः विद्यासंपत्त्यै- वावधारणात् । यथा प्रतिबन्धकासत्त्वं वा प्रतिबन्धकनाशो वा विद्यासंपत्तिकाल: एवं तदुभयमेव मुक्तिसंपत्तिकालः स्यात् । इति रामानुजः । ब्रह्मावगति है विद्या नाम । ला विद्यैव च मुक्ति म । ब्रह्मविद् ब्रह्मैव भवतीति ब्रह्मभावरूपाया मुक्ते- विद्यात्मकत्वश्रवणात् । तथा च ब्रह्मैव हि मुकयवस्थेति ब्रह्मण एव मुक्तयवस्था- त्वेनावधारणात् तस्य च ब्रह्मणो निर्विशेषैकरसत्वश्रवणान मुक्तिफले कश्चिद्विशेष- प्रतिनियमः शक्यतेऽध्यवसातुम् इति शङ्करः ॥ अपि वा विद्येयं द्विविधा भवति सगुणा निगुणा च तत्र "मनोमयः प्राणशरीर"-इत्याद्यासु सगुणविद्यासु गुणा- वापोडापवशाद भेदोपपत्तौ सत्यामुपपद्यते यथास्वं फलभेदनियमः कर्मफलवत् ॥ "तं यथायथोपासते तदेव भवति" इति लिङ्गात् निगुणायां तु मुक्तिसाधनभूतायां विद्यायां गुणाभावात् कर्मवद्भेदो नोपपद्यते । विद्याभेदाभावाच्च तत्फलभेदनियना- भावः । न हि विद्यायामुक्तिरूपे फले तारतम्यरूपः कश्चन भेदो त्रियम्यते । नहि.
( ८८ ) गतिरधिकास्ति कस्यचित् सति हि गुणे प्रवदन्त्यतुल्यताम्" इति स्मरणात् ॥ इति प्रकारान्तरेणापि शंकरी व्याचष्टे ॥ विद्याकलानियमेनैवायं मुक्तिकलानियमो व्याख्या तः । विद्यालक्षणाया एव तु मुक्त अवस्थाया अवधारणादित्यन्ये ॥ ॥ इति कर्मसाध्यविद्याया विद्यासाध्यमुक्तश्व संपत्तौ कालानियमाधिकरणम् ॥ • ॥ इति निर्गुणविद्यानिरूपणात्मकश्चतुर्थः पादः समाप्तः ॥ [निगुणविद्यापादः] जीवं परं च विद्यां सगुणामगुणां च दर्शयद्भिरयम् ॥ पादैः पूर्णोऽध्यायस्तृतीय एषोऽस्ति कमयात्रार्थः ॥ १ ॥ ॥ इति तृतीयोऽध्यायः संपूर्णः ॥ ३ ॥ ..
( ६ ) शारीरकसूत्रव्यारयाने चतुर्वाध्याय प्रारम प्रथमः पादः । निर्गुणोपामनावल्याधिकारः। प्रथमं तावत् कर्मकाण्डे प्रयाजाविसकृविधानं दृश्यते न क्रियान्तिः श्रूयते । तथा च समानतन्त्रत्वादिह ज्ञानकाण्डेऽपि-"तमेव धीरोवित्राय प्रज्ञांकुर्वीत।सोऽन्ये. एव्यः स विजिशासितव्य"-इत्याद्यादेश सशत् प्रत्ययो विहितः स्थानतु प्रत्यया- वृत्तिः प्रामति, इष्यते तु प्राययावृत्निरत आह-- आवृत्तिरमकदुपदेशात् लिङ्गाश्च ॥ १ ॥ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य'-इत्येवमलकदुप- देशात् प्रत्ययावृत्तिर्विधेयतया प्रतोयते । अपि च निदिध्यासनं निध्यानमुपासनन् । तच्चान्तर्णीतावृत्तिगुणैव क्रियाभिधोयते । उपास्ते ध्यायतोयुक्त धारावाहिक- निरन्तरस्मरणो ध्येयं प्रति सोत्कण्ठ इति प्रतीतेः । उपासनमेव च वेदनम् । विद्युपास्त्योः सांकर्येण प्रयोगात् । तथा हि-“यस्तछेद, यत् स वेद स मयैतदुक्तः"- इत्यत्र विदिनोपक्रम्य-अतुम एतां भगवो देवतां श.धि यां देवतामुपास्ले"-इत्यु- पास्तिनोपसंहरति । मनो ब्रह्मगुपासीत"-इत्युपास्तिनापकम्य भाति च तपति च य एवं वेद-इति विदिनोपसंहरति । अपि च ब्रमविदानोति परमिति वेदनेन दर्शनमुक्तं तद्वदेव"-"ततस्तु तं पश्यति निष्कलं ध्यायमानः" इति ध्यानेन दर्शन- मुच्यते । तस्माद्ध्यानवेदनोपासनानामेकाप्रचित्तवृत्तिनैरन्तय्य सामथ्यं प्रतीयते । तथा चासदर्थस्य नैरन्तर्यस्य वेदनोपासनव्यानेष्यन्तभावणोपदेशादस्य यावद् ब्रह्मसाक्षात्कारो न स्यात् तावदावृत्तिः काय्येति शंकरः । रामानुजस्तु ध्यानोपास- नपर्यायेण वेदनशब्देनोपदेशादसकदावृत्तिः कायेत्येवं व्याचष्ट । वयं तु ब्रूमः । आत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्यादिवाक्यं नात्मनः श्रवणमनननिदिध्यासन- पूर्वकं दर्शनं विधत्ते। प्रकरणतात्पर्यविरोधात् । अपि तु चक्षुःश्रोत्रमनोवुद्धि- विषयाणामर्थानामात्मत्वं विधत्ते । आत्मनि हटे श्रुते मते विज्ञाते सर्व विदित- मित्युपसंहारेण तथावगमात् । यत्किश्चित् क्वचिदृश्यते यते मन्यते विज्ञायते वा तत्सर्वमात्मैव टश्यते । श्रूयते मन्यते विज्ञायते इत्यतो नात्मातिरिक्तं किञ्चिद्वि. दितं भवतीति तात्पर्य्यात् । तथा च नेदमसकृदुपदेशोदाहरणवाक्यं संगच्छते । वस्तुतस्तु-तत्वमसि श्वेतकेतो "इत्युपदिश्य भूय एव मा भगवान् विज्ञापयतु"- इति पुनः पुनः संप्रार्थ्यमानः सन्भेकमेवार्थ बहुभिः संदर्भः प्रतिवोधयन्- "तत्वमसि" इत्येवासकृदुपदिशति । असदुपदेशाच्च जीवब्रह्मैकताद्यर्थस्य नानावाक्यैर्नाना- युतिभिधासकृदनुभावनं तात्पर्यसिद्धं भवतीति प्रत्ययावृत्तिरुपपद्यते ॥ १ ॥ लिकाच्च प्रत्ययावत्तिर्गम्यते । “आदित्य उदीय' इन्येकात्रताचोषणापोद्य-रश्मी- -- त्व पर्यावर्तयादिति रश्मिबहुत्वविज्ञान पडुपुत्रताय विदधानः प्राययावृत्ति दर्शयति । तत्सामान्थात् सर्वप्रत्ययेवात्तिलिद्धिरिति शङ्करः । रामानुजस्वाह लिङ्गं स्मृतिः । स्मर्यते हि वेदनं स्मृतिसन्ततिरूप -"सद्रूपप्रत्यारे चैका सातश्चा. न्थनिस्पृहा । तद्वयान प्रधमैः षड्भिरङ्गैर्निष्पाद्यते तथा" इति ॥ २॥ तस्मादु- पासनापरपक्यं वेदनमसकृदाइत्तं कार्यम् । इति यात्मभावनापोनःपुन्याधिकरणम् ॥ १॥ आत्मेति तूपगच्छन्ति प्रायन्ति च ॥ २॥ ब्रह्मभावना पौनःपुन्यं कर्तव्यतया पूर्वाधिकरणे सिद्धान्तितम् । किन्तु किंरूपेण भाव- येदित्यत्राह प्रत्यगात्मायं परमेश्वर एव इति कृत्वा भावयेत् । अहमयं परमेश्वर इति भावयेत् । यथा शरीरस्य भिन्नत्वपि अहमिति कृत्वा शरीरं भावयति एव पुरुषो. त्तमस्य भिन्नत्वेऽप्यहमित्येव कृत्वा तं भावयेत् । जीवात्मनः परमात्मांशतया परमात्माभेदेन जीवात्मानं भावयेत् । तथाहि जावाला उपगच्छन्ति "वं वा अहमस्ति भगवो देवते अहं वै त्वमसि देवते"-इति । अन्येऽप्यहं ब्रह्मास्मि अयमात्मा ब्रह्मेत्यादिना तादात्म्यमुपगच्छन्ति। हम यन्ति चात्मत्वेनैवेश्वरं श्रुतिवाक्यानि । "आत्मानं चेद विजानीयादयमस्तीति पूरुषः किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत्" इति । एप त आत्मान्तर्याम्यमृतस्तत् सत्यं स आत्मा तत्वमसीत्यादीनि ॥ अपि च आत्मेत्येवोपासीत। आत्मानमेव- लोकमुपासीत ‘अथ योऽन्यां देवतामुपास्तेऽन्योसावन्योऽहमस्तीति न स वेद मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । सर्व तं परादादू योऽन्यत्रात्मनः वेद"-इत्येवमाद्याः श्रुतयो भेददर्शनमपवदन्त्यः परमेश्वरमात्मत्वेनैव ग्राहयन्ति । नन्वधिकं तु भेदनिर्देशादिति सूत्रे ब्रह्मणः प्रत्यगामापेक्षयाऽर्थान्तरत्वमुक्तं तद्विरुध्यते इति चेन्न । ईश्वरस्य जीवाद्भिन्नत्वे तत्तात्पर्य्यात् । अधिकत्वहेतोरीश्व- रस्य जीवाद्भिवत्वेपि जीवस्येश्वराद्भिन्नत्वं नास्तीति सांप्रतं ब्रूमः प्रतिबिम्ब- वदेतत् प्रत्येतव्यम् । सूर्यस्य प्रतिबिम्बाद्भिवत्वेऽपि प्रतिविम्बस्य सूर्य्याद् भेदो नास्ति। स यथा प्रतिबिम्बं पश्यन् सूर्योऽयमिति भावय त । एवभिम प्रत्यगात्मानं पश्यन् परमात्माऽयमिति भावयेत् । न हीश्वरस्य संसार्यात्मत्वं प्रतिपाद्यते अपि तु संसारिणः संसारित्वापोहनेश्वरात्मत्वं विवक्षितम् । अपहतपा- पमत्वादयोष्टावीश्वरगुणा जीवावस्थायामपि सन्त्येवाविद्ययान्तर्हिताः । सा चाविद्या मिथ्यास्तीति भेदव्यवहारा गौणो मुख्यस्तु जीवस्येश्वरेणाभेद इति सिद्धम् । इति ईश्वरानतिरिक्तजीवभावनाधिकरणं शंकरस्य ॥ २ ॥ : जीवेश्वरभेदवादी, रामानुजस्त्वाह । उपासकः प्रत्यगात्मा स्वशरीरस्य स्वय यथारमा तथा स्वात्मनोपि परं ब्रह्मात्मेत्येवोपासीतेत्यर्थः । उपासितुर्जीवात्मनोऽप्या - त्मन्वेन परं ब्रह्मापास्यमिति तात्पर्यन् । जावालाधभेदोपासनाश्रुतीनामगि तव तात्पर्य्यात् । ॥ इति ईश्वरप्रत्यगात्मकत्वन जीवभावनाधिकरणम् ॥ न प्रतीके न हि सः । ब्रह्मदृष्टिरत्कर्षात् आदित्यादिमतय- श्वाङ्ग उपपत्तेः॥३॥ ब्रह्मणो व्यापकत्वादशेषेऽस्मिन् जगति व्यासज्यवृत्त्या ब्रह्मत्वमिन्यते किन्तु अवयवापर्याप्तस्य समुदायपर्याप्त्यसंभवात् समुदाय दृष्टाः शब्दा अवयोऽपि वर्तन्ते इति न्यायादर्थभेदेन प्रत्येकपातमपीदं ब्रह्मत्वं शक्यं वक्तुमित्यत एव तत्र तत्र श्रूयते-आदित्यो ब्रह्म यादेश: मनो ब्रह्मेत्युपासीत आकाशो,ब्रह्म स यो नाम ब्रह्मयुपारले इत्यादि। प्रतीकोपालनान्येतानि । प्रतीकोऽवयवः खण्ड एकदेशः। यथा गुरुपादसेवया गुरुसेवा संपर्यत एवं प्रतीकोपासनया ब्रह्मोपासना संपद्यते । तथाच प्रत्येकस्य प्रतीकस्य ब्रह्मत्वाविशेषात् पूर्वाधिकरणरीत्या तेष्वप्यात्मेति भावनाविधानं प्राप्नोति तत् प्रतिषिध्यते न प्रतीकेन्वात्ममति बनीयात् । आदित्य एवाहं मन एवाहमाकाश एवाहनिस्वनादित्यादितादात्म्येनात्मानं न भावयेत् । न हि स आन्मा प्रतीको न हि स प्रतीक आत्मा। पायत्वाविशेषात् । कटक- कुण्डलरुचकस्वस्तिकादीनां पागाणां प्रत्येकस्य सुवर्णतादात्म्यपि न कटका- दीनां कुण्डलादिभिस्तादात्म्यं शक्यं वक्तुम् । कटकस्य कुण्डलवाभावात् । एवमयं प्रत्यगात्नापि आदित्याकाशादिवत् पर्यायभूत इति आदित्याकाशादिवत् प्रत्यगा. मतः परब्रीकात्म्येऽपि नादित्येनैकात्म्यं युज्यते । हरष्टिस्तु प्रत्यगात्मनि आदि- त्याकाशादिप्रतीकेषु च शक्यते कर्तुमुत्कर्षात् । उत्कृष्टं हि प्रत्यगात्मन आदित्यादि भिश्चेदं ब्रह्म कारणत्वात् । व्यापकभावापभयोः कार्यकारणयोस्तादात्म्यमुपपद्यते न तु कार्यपाणां परस्परम् । नन्दादित्यादिषु ब्रह्मदृष्टौ सत्यामादित्यादिमतयो नितान्तमुत्लशाः स्युः आदित्याकाशविद्युन्मनःप्राणाधनेशव्यस्तरूपाणां परस्परतो भिनानामे कैकस्य ब्रमतादात्म्यानुपपत्तिवेति चेन्न । आदित्यादिनयश्चाङ्ग उपपत्तेः । ब्रह्माहत्वाद् ब्रह्मशब्दस्तेथूपपद्यते । यथा हस्ताङ्ग ल्यां पादाङ्ग ल्यां शिरसि कट्यां वा गृहीतायां देवदत्तो गृहोत इत्यभिनानः । अङ्गिन उत्कर्षातवङ्ग वरिष्टयुपपत्तः न तु देवदत्ते हस्तादिष्टिः क्रियते नापि हस्तपादशिरस्कट्यादीनामन्योन्याभेदष्टिः संभाव्यते एवनिहाप बोध्यम् । इत्थं च काय पर्यायान्योन्यतादात्म्यप्रतिरेयसिद्वा- तात् प्रत्यगासनोऽस्यादि यादिभित्रं मप्रताकैरेक्यभावना प्रतिपदा भति। जीवा- लनोव प्रतीपि परनालावयवत्वात् पानानत्वोपपतावपि जीवानि प्रतीका- नतिरिक्तत्वभावना प्रतिपिध्यते । ॥ इति प्रतीकप्रत्यगात्मैक्यभाषनाप्रतिषेषाधिकरणाम ।
( १२ ) ईश्वरजनजारा भेदवासी रा-नुजस्वाद । प्रतीकेन्वान्मत्वानुसंधानं न कार्य न युपालिलुराणा प्रतीकः । प्रतीपालनपु प्रतीक एवोपास्यो न ब्रह्म । ब्रह्म तु तन रष्टिविशेषणनान । प्रतीकोपासनं हि अब्रह्मणि ब्रह्मस्ट्यानुसंधानम् । मनु आदित्यादीनानचेतनानामल्पशकीनामुपास्यत्वं नोपपद्यते । अत आदित्यादि- प्रच्या ब्रह्मवोपास्यति उन्न। ब्रह्मपटिरुत्कर्षात्। आदित्यादीनामेव ब्रह्महष्टयो- पासन कार्यम् न तु प्राह्मण आदित्यादिट्टयोपासनं युस म । ब्रह्मण आदित्यादिभ्य उत्कर्षात् । उकृष्टे हि राजनि भृत्याष्टिः प्रत्यवायाय । भृत्ये तु राजदृष्टिरभ्युदयाय नथा च प्रतीकेपु परयोपासनामन्येपि तेप्वहत्वाभिमानः प्रतिषिध्यते । ॥ इति प्रतीकंवत्वमावनाप्रतिपधाधिकरणम ॥ शंकररूवत्र सूत्राभ्यामधिकरणद्वयं निरूपयति । तथाहि प्रतीकोपासनेषु उपा. सको न प्रतीकानि व्यस्तान्यात्मत्वेनाक्लयेत् । प्रत्यगात्मन ईश्वरेणाभेदेऽपि प्रती- कैरभेदाभावात् । यत्तु प्रतीकानां ब्रह्मविकारतया ब्रह्मत्वाद् ब्रह्मणा च प्रत्यगात्मनोऽ- स्याभेदादमेवः शक्यं वक्तुमिति कश्चिद्भूयात् तदसत् । प्रतीकस्य विकारस्वरूपी- पमहेन ब्रह्मत्वे स्थिते न हि स प्रतीक इदानीमवशिष्यते येन तत्रात्मबुद्धिः स्यात् । ब्रह्म तु तदानी तत्संपनम् । ब्रह्मणि त्वात्मग्रहः पूर्वाधिकरणे सिद्धान्तित एवेत्य- विशेषः । प्रतीकस्य तु यावता प्रतीकत्वं नोपैति तावदत्रात्मप्रहः प्रतिषिष्यते । ॥ इति प्रतीकप्रत्यगात्मैक्यभावनाप्रतिपेधाधिकरणम् ॥ अथ प्रतीकेष्वेवाधिकरणान्तरमुच्यने । आदित्यो ब्रोत्यादेशः प्राणो ब्रह्म विद्युद् ब्रह्म इत्यादिपु कि-अदित्यादिवटयो ब्रह्मण्यध्यसितव्या उत वा ब्रह्मतिरादि- त्यादिग्वितिसंशये नियम्यते । प्रारपिरेवादित्यादिपु कार्या । उत्कृष्टाभ्यासादा- दित्यादयोऽप्युत्कर्षेण दृष्टाः स्युः । उचिता च लोकप्रत्ययादुत्कृष्टदृष्टिनिकृष्टे । तस्मा- मादित्यादिदृष्टयो ब्रह्मणि शास्त्रार्थः । न विष्णौ प्रतिमाबुद्धिरुपासना स्यादपि तु प्रतिमायां विष्णुद्धिकरणात् प्रतिमोपासनया विष्णूपासना कृता भवति। . ॥ इति प्रतीकोपासनाधिकरणम् ॥ आदित्यादीति सूत्रे च शंकररामानुजादयोऽधिकरणान्तरंपश्यन्ति । यएवासौ तपति तमुद्रीधमुपासीत (छा० ३।२) लोकेषु पंचविध सामोपासीत (छा०२।२) वाच सप्तविध सामोपासीत (छा० २।८) इयमेवर्गग्निः साम (छा०६।१) - इत्यादिवङ्गावरुद्वोपासनेषु किमादित्यादिषद्रीयादि दृष्टयो विधीयन्तेऽथवोदीथा- विवादित्यादिदृष्टय इतिसंशयादनियमे प्राप्त नियम्यते-आदित्यादिमतय एवाङ्ग- द्रिीयादिषु प्रतिक्षिप्येरन् । तथैव कर्मसमृद्धरुपपत्तेः । उद्गीथोपासनाप्रकरणे त.. व लोकवागादि बुद्धयोपासनाविधानोपपत्तेः । आदित्यादिदेवताराधनद्वारा कर्मणां फललाधमत्वादादित्यादीमामेवोत्कृष्टतया निकृष्ट तदुत्कृष्टदृष्टरेवौचित्योप- तपरत्याछु । बस्तु तंतु उद्रीथादिवादित्याविरष्टिविधान शंकरादीनां साहस- मात्रम् । तस्य ल्गुणोपासनारूपतग पूर्वपादापनिवेशयोग्यत्वेोऽप्यत्र निगुणापास. नाप्रकरणे तत्संनिवेशस्याप्राकरणिकत्वात् । प्रत्यक्षरस्वारस्यविरोधाचासारविचा- रवाच्चेत्युपेक्ष्यते। ॥ इत्युद्गीथादिप्रतीकेष्वादित्यादिप्रतीक प्रयोपासनाधिकरणम् ॥ ॥ इति निर्गुणोपासनात्मकविद्याम्बम्पाविकारः ॥१॥ ॥ अथ उपासनोपचाराधिकारः॥ आसीनः मभवात्। ध्यानाथ। अचना चापेक्ष्य । स्मरन्ति च । यत्रैकाग्रता तत्राविशेषात् । आप्रायलन तत्रापि हि दृष्टम् ॥ ४ ॥ न सम्यग्दर्शने तावदासनाद्यपेच्यते । ज्ञानस्य वस्तुतन्त्रवात् । नापि कर्माङ्गो- पासनेषु । कर्मतन्त्रत्वात् । तथापि इतरेयूपासनेषु तिष्ठन्नासोनः शयानो वेत्यनियमे प्राप्त नियममाह-आसीत एवोपासीत। समानप्रत्ययप्रवाहरूपस्योपासनस्यासीने. नैव संभवात्। गतिनिद्रादीनां चित्तविक्षेपकत्वात् । अपि च संततस्मृतिरूपं हीदमुपासनं ध्यानं नाम । तश्च प्रशिथिलाङ्गवेष्टेषु प्रतिष्ठितइष्टिप्वेकविषयाक्षिप्त- चित्तपूपचर्यते । तच्चासीने समजस । अत्रलवं चापेक्ष्य ध्यानव्यपदेशो तश्यते- "ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव द्यौायन्तीवापो ध्यायन्तीव पर्वताः" इत्यादौ । अचलत्वं चासीनस्योपपद्यते। स्मरन्ति चासीनस्यैव ध्यानम् "शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥ नात्युच्छ्रितं नातिनीवं चैलाजिन- कुशोत्तरम् ॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्यासने युज्याद्. योगमात्मविशुद्धये" । इति ॥ दिग्देशकालानां तु नास्ति नियमः । यत्रैवास्य दिशि देशेकाले वा मनसः सौकयेणैकाग्रता भवति तत्रैवोपासीत । “समे शुचौ शर्करा- वहिवालुकाविवर्जिने शब्दजलाअयादिभिः । मनोऽनुकूले न तु चक्षुःपीडने गुहानि- वाताश्रयणे प्रयोजयेत्" इति श्रुतौ देशादिनियमो ननोऽनुकूलविशेषणादेकाग्रतो- पायाभिप्राय एवेति बोध्यम् ॥ एतच्चोपासनमामरणादनुवर्तनीयम् । तत्रापि हि मरणकाले संततस्मृतिरूपप्रत्ययानुवर्तनं बटन । स यावत् ऋतुरस्माल्लोकात् 4ति -इत्यादौ । स विमानो भवति। स विज्ञानमेवाग्ववकामति यच्चित्तस्तेनेष प्राणमायाति प्राणस्तेजसा युक्तः सहालना यथासंकल्पितं लोकं नयति"-इत्यादौ च । अपि चापायणमुपालन हितं श्यरे-"स खल्येवं यावदायुषं वर्तयन् ब्रह्मलोकमभिसंपद्यते" इति। . । इति उपासनोपभराधिकार प्रासमध्याननिश्चलत्वकाग्रत्वयावजीवनकर्तव्यत्वाधिकरणम् ॥
( ८ ॥ अथनिगुणोपासनाफलाधिकारः॥ तदधिगमे उत्तरपूर्वाधयोरश्लेषविनाशौ तदवदेशात् । इतरस्या- येदमस श्लेषः पाते तु। अनारब्धकार्य एव तु पूर्षे तदधेः। अमिहोत्रादि तु तत्काय्यायैव तदर्शनात् । अतोऽन्यापि हवेषा- मुभयोः । यदेव विद्ययेति हि । भोगेन वितरे क्षपयित्वा मपद्यते ॥ ५॥ अथ विद्यापलमुच्यते । ब्रह्मशाने जाते सति पश्चाक्रियमाणं पापं न लिप्यते पूर्वकृतं तु विनश्यति । तथाहि व्यपदिशति श्रुतिः-"यथा पुष्करपलाशे आपो न लिप्यन्ते एवमेवंविदि पापं कर्म न लिप्यते तस्यैव स्यात् पदवित् तं विदित्वान कर्मणा लिप्यते पापकेन" इति । तद्यथेषीकातूलमनौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रडूयन्ते" इति च न केवलं पापस्यैवाश्लेषविनाशौ किन्तु इतरस्थ पुण्यस्थाप्येवमसंश्लेषो विनाशश्च भक्तः । तत् लुकृतकृत वियूनुले इति । “उभे उ हैवैप एतेन तरति"--इति च सुकृतदुष्कृतयोरुभयोरेव प्रणाशव्यपदेशात् । "भिद्यते हृदयग्रन्थिश्विद्यन्ते सर्वलंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् अष्टे परावर" इति ज्ञानफलानि प्रदर्शयन्त्या श्रुत्या निर्विशेष कर्ममात्रक्षयस्य दर्शित. त्वाच्च ॥ “सर्व पाप्मानोऽतो निवर्तन्ते"-इत्यादि श्रुतौ च पाप्मशब्दः पापवत् पुण्येपि प्रवर्तते । तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वात् । अयं त्वत्र विशेष उच्यते-य एष पूर्वषां पुण्यपापाना-विशेषादिह नाश उक्तः स विदुषः शरीरपातानतरं द्रष्टव्यः । आशरीरपातं प्रारब्धकर्मणाजुपक्षयात् । अनारब्धकार्य एव तु पुण्यपावे जन्मान्तरसंचिते ज्ञानोत्पत्तेः प्रागिहव जन्मनि संचिते वा विद्यासामर्थ्यात् क्षीयेते नत्वारग्धकार्ये । तस्य तावदेव चिरं यावन विनोक्ष्ये"- इति शरीरपातावधेः श्रवणात् । अन्यथा हि ज्ञानप्राप्त्यनन्तरमेव निरवशेषकर्मक्षये शरीरस्थितिहेत्वभावात् शरीरपातप्रतीक्षा नाचक्षीत । तस्मात् संजितानामागामि- नां च कर्मणां ज्ञानोत्पत्तिसनकालमेव नाशेपि प्रारब्धकर्मणां शीरजात्यायुर्भोग- स्थितिहेतुभूतानां भोगादेव नाशोपगमाच्छरीरपातानन्तरमेव मुक्तिरिति सिद्धम् । ननु विद्यायां कर्मक्षपणलार्थं वस्तुबलादस्ति वा नास्ति वा । अस्ति चेत प्रारब्धकर्माण्यप्यवश्यं क्षपयेत् । नास्ति चेत् संचितागानिकर्माण्यपि न क्षपयेत् । समानं वस्तुबलं कथमिव कानिचित् क्षपयेत् कानिचिच्चापेक्षेनेति चेत् तत्रोच्यते । न ज्ञानेन तावत् कर्मणां नाशोऽभिप्रेयते । “अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपी"ति भोगव्यतिरेकेण कर्मणामक्षय्यत्वस्मरणात् । सतामेव तु कर्मणां सतीनामेव तु कर्मशक्तीनां विशुद्धज्ञानरूपे विदुपामात्मनिवृत्ति प्रतिबन्धाद् भोगानारम्भ ब्रूमः। “वीजान्थन्युपदग्धानि न रोहन्ति यथा पुनः। R see ज्ञानदग्धस्तथा क्लेशेजाना सपद्यते पुनः-- "इति स्मृतः ॥ स च भोगानारम्भा- ऽनारब्धकार्याणां संचितागामिनामेव संभवति। न खारब्धानां प्रवृत्तधेगानामना- रम्भः शक्यते । तस्मात् प्रारब्धकर्मणां भोगादेव क्षयः। संचितागामिनां तु प्राय- श्चित्तेन बलवकर्मान्तरेण ज्ञानेन च नाश्यत्वमिति स्थितम् । ननु ज्ञानेन कर्मभोग- प्रतिबन्धाभ्युपगमेऽपि नाभुक्तं क्षीयते कति स्मृतिविरोधस्तदवस्थ इति चेत् । सत्यम् । "तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विपातः पापकायाम्" इति श्रुतस्तेषां कर्मणां तत्सुबहु दात्मसु भोगोपगमादविरोधात् । अन्यकृतकर्मणामन्येन भोगो नावकल्पते इति चेन। दायलाभादीनां स्वतोत्पादकतादृशकर्मणामपि स्वकीय. त्वोपगमादिति । तथा च विद्यायाः प्रारब्धातिरिक्तकर्मभोगप्रतिवन्धकन्वं तावत् सिद्धम् ॥ १॥ अथ संचितागामिनामपि न सर्वेषामविशेषाज्ञाननाश्यत्वमुच्यते । ज्ञानप्रति- बधकानामेव लौकिकानां कर्मणां ज्ञाननाश्यत्वाभ्युपगमात् । अग्निहोत्रादि तु ज्ञान- कार्यायेव भवति । "तमेतं वेदानुवचनेन ब्राझणा विविदिषन्ति योन दानेन तपसाऽनाशकेन"-इति श्रुत्या यज्ञस्य ज्ञानोत्पादकत्वदर्शनात् । तस्लान्नाग्निहोत्रादि- यज्ञकर्मापि ज्ञाननाश्यं किन्तु ज्ञानमुत्पाद्य मुक्ति साधयति । ननु अग्निहोत्रायेव तु शास्त्रविहितत्वात् पुण्य कर्मास्ति। तच्चेजज्ञाननाश्यं नास्ति तर्हि "इतरस्या- प्येवमसंश्लेष" इति पुण्यकर्मणो ज्ञाननाश्यत्वाख्यान विरुध्यते इति चेत् तत्राह- अतोऽग्निहोत्रादेर्नित्याकर्मणोऽन्यापि हास्ति साधुकृत्य केषां शाखिना या फलमभि- संधाय श्यिते यथेदमिष्टमायूतं दत्तवाऽन्यद्वा किमपि लौकिकं कर्म, तस्यैव ज्ञान- नाश्यत्वं पूर्वोक्तं वेदितव्यमित्युभयोजैमिनिवादरायणयोः संप्रतिपन्नोऽर्थ इति शंकरः । पूर्वोत्तरयोः संचितागामिनोरुभयोरप्यवस्थयोनिनाश्यत्वमिति रामानुजः। तथा च विद्याया यज्ञादिव्यतिरिक्तकर्मभोगप्रतिबन्धकत्वमित्येकं मतम् ॥२॥ परे वेतत्सूत्रमन्यथा ब्याचक्षते । याऽग्निहोत्रादिक्रिया ज्ञानोत्पादिका भवति अतोऽन्यायग्निहोत्रादिक्रियास्ति या ज्ञानं नोत्पादयति । तथाहि द्विविधं ह्येतदस्ति यज्ञकर्म । विद्यासंयुक्तं केवलं चेति । “य एवं विद्वान् यजति, य एवं विद्वान जुहोति, य एवं विद्वान् शंसति, य एवं विद्वानुदायति तस्मादविदमेव ब्रह्माणं कुर्वीत" इत्यादिश्रुतिभ्यो विदुषा क्रियमाणत्वात् विद्यासंयुक्तं तदुपपद्यते ॥ "तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद" इतिछान्दोग्यश्रुतेस्त्वविदुषापि क्रियमाणो यज्ञः फलाय संपद्यते एवेति ताशं यज्ञादिकर्मजातं विद्यासंयोगाभावात् केवलमुच्यते। तत्र विद्यासंयुक्तस्याग्निहोत्रोदियज्ञकर्मणो ज्ञानोत्पादकतया स्वसंयुक्तकर्मातिरिक्तकर्म- मात्रनाशकत्वादितरसर्वकर्मक्षये जाते केवलं यज्ञकर्मप्रभावादेवलोकेषु भोगान भुक्तवा तस्यापि कर्मणो नाशोत्तरं ज्ञानान्मुक्ता भवन्ति सा क्रममुक्तिर्नाम । तथाच विद्यासंयुक्तयज्ञादिकर्मणां विद्योत्पादनद्वारा मुक्तिजनकत्वं स्थितम् । अथ यत्पुन- विद्यानिरपेक्षमग्निहोत्रादि यज्ञकर्मास्ति तदितरकर्मवज्ञाननाश्यं भवत्येव । ज्ञाना- नुत्पत्तौ तु ताशाद्यज्ञकर्मणो देवलोकेषु पितृलोकेषु वा भोगसिद्धचनातरं पुनरावृत्त्या जन्मोपपत्तिरियाहुः । तथा च विद्याविधुरयज्ञादिकर्मणां स्वर्गभोगजनकन्वं . ।
पुनरावर्तकत्वं च स्थितः । तया विधाया विद्यासंयुक्तयज्ञादिव्यतिरिक्तकर्मभोग- प्रतिबन्धकत्वमित्यपरं अतम् । तद्युक्तमिति बहवः ॥ एशेषां तु मते यछिद्यासंयुक्तं यच केवलं तयोरुभयोरपि शानकार्यविमिष्यते । "नाना तु विद्या चाविद्या । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्य- वत्तरं भवति" इति हि श्रुतौ विद्यासंयुकस्य वीर्यवत्तरत्वाख्यानादितरस्य विद्याविहि- तस्य स्वप्रयोजनं प्रतिवीर्यवत्त्वं दयते । तस्मादलमान्यपि नानोत्पादकत्वं सर्वथा नापोद्यते इति विद्यासंयुक्तविद्याविहीनयोरुभयविधयोरपि यज्ञयोर्शानोत्पादकत्वा. न्मुक्तिसाधनत्वमस्त्येवेत्येकेषां मतम् । शंकरस्वामी चैतन्मतपक्षपाती ॥ वस्तुतस्तु "अनृतवस्य नाशास्ति'-इति वाजसनेयश्रुत्याऽग्निचयनातिरिक्ता. नां यज्ञानां देवलोकेषु पितृलोकेषु वा सर्वभोगप्राकाम्यसमर्पकत्वेऽपि मोक्षप्रयोज- कत्वं नास्तीति विद्याविहीनयज्ञानां पितृलोकभोगसाधकानामितरकर्मवज्ञाननाश्य- त्वमेवोपपद्यते । विद्यासंयुक्तयज्ञानां तु कर्मावच्छेदेन देवलोकीयदिव्यभोगप्रयोज- करवेऽपि विद्यावच्छेदेन मोक्षप्रयोजकत्वात् कर्मभोगानन्तरं मुक्तिर्भवतीत्यभिप्रायेणे. वात्राग्निहोत्रादीनां ज्ञानकायंत्वमाख्यायो। तच विद्यासंयुक्तानामेवास्येयं न तु विद्याविहीनानामिति सिद्वम् ॥ यदेव विद्यया करोति तदेव वीर्यवत्तरमिति श्रुतिश्च विद्यासंयुक्तस्य भोगमोक्षोभयसाधकत्वाद् वीर्यवत्तरत्वं ब्रुवन्ती विद्या- विहीनस्य फेवलभोगसावकत्वादल्पवीर्य वं दर्शयति ॥ अपि चोड:-यज्ञोऽव्ययमाकाशादित्यादिवद् ब्रह्मरूपतया ब्रह्मगुणः। तद्विद्याया अपि सगुणविद्यात्वात् ततस्तत्फलभूत सर्वैश्वर्यप्राकाम्यलक्षणाऽवरमुक्तिः संभवती- त्यविसंवादः॥ इत्थं च विद्यासंयुक्तयज्ञातिरिक्तानांकर्मणामनारब्धकार्यवे एव ज्ञान- नाश्यत्वमित्युक्त प्रारब्धकर्मणामनुपक्षयाविद्यावतानपि मुक्तिर्न स्यादित्याशङ्कापरि- हर्तुमाह-भोगेन वितरे आरब्धकायं पुण्यपापे क्षायि वा ब्रह्म संपद्यते। तस्य तावदेव चिरं यावन विमोक्ष्ये अथ संपत्स्ये इति श्रुतेः ॥ ॥ इति विद्यानाभ्यकर्माभदाधिकरणम् ॥५॥ इतिचतुर्थाध्याये प्रथमपादः ॥ १॥ (निगुणोपासनापादः) अथ उत्क्रान्तिपादः प्रारभ्यते। अथोत्क्रान्तिमाधिकारः॥३॥ वाङ मनसिदर्शनाच्छब्दाच । अत एव च सर्वाण्यनु । तन्मनः प्राण उत्तरात् । सोऽध्यक्ष्ये तदुपगमादिभ्यः । भूतेषु तच्छुतेः । नैक- स्मिन्दर्शयतो हि.१ समाना चामृत्युपक्रमादमृतत्वं चानुपोप्य २ ६७ ) २ तदापीतेः संभारव्यपदेशाल। यूक्ष्म प्रमाणत तथोपलव्यः॥ नोपमनातः । अस्यैव चोपपत्तरप ऊपमा । ३ । भतिधादिति चेन्न, शारोरात् । स्पष्टो होकेषाम् । स्मर्य्यते च ।४। तानि परे तथा ह्याह ॥ अविभागो वचनात् ॥ ५॥ (१६)॥ शरीरादात्मनो बहिर्भाव उत्क्रान्तिः । उन्कान्तस्यान्मनो बहिः प्रदेशान्तरे गन्तु मार्गविशेषाश्रयणं गतिः । एतदुभयं प्रारणनुच्यते । तत्रादावुत्क्रान्तिक्रमो व्याख्यायते । प्राणोत्क्रमणकाले वागिन्द्रियं तावमनसि संपते । विजानतापि भापणसामर्थ्यापक्ष- यदर्शनात् । वागिन्द्रियोपरामेऽपि मनःप्रवृत्तिदर्शनात् "अस्य सीम्य पुरुषस्य प्रयतो वाङ मनसि संपधते । मनः प्रागे। प्राणस्तेजसि । तेजः परस्यां देवतायाम्" इति श्रुतिवाक्याश्च । अत्र वाग्वृतिमनसि लीयते न तु वृत्तिमत्या वाचःस्वरूपं । यथा गाय॑र्कमरीचयोऽर्कस्यास्तं गच्छतःसर्वा एतस्मिस्तेजामण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रवरन्ति, एवं ह वैतत्सर्वं परे देवे ननस्कीमवति तेन तāष पुरुषो न शृणोति न पश्यति न जिप्रति न रसयत न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितोन्याचक्षते । प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । अत्रैष देवः स्वमे महिमानमनुभवति । स यदा तेजसाभिभूता भवति अप देवःस्वप्नान पश्यति तदेतस्मिन्छरोरे एतत्सुखं भवति । स यथा वयांसि वासोवृक्षं संप्रतिष्ठन्ते एवं हवै- तत्सर्वं परे आम्नि संप्रतिष्टते । एष विज्ञानामा पुरुषः स पक्षरे आत्मनि संप्रतिष्ठते परमेवाक्षरं प्रतिपद्यते । इति श्रुता निद्रावस्थायां वृत्तिलोप एवाभिप्रेयते एवमिहापि श्रुतौ सूत्रे च वाक् शब्दस्य वागधृत्यभिप्रायत्वादिति शंकरो व्याचष्टे । रामानुजस्त्वाह । वाकछब्दस्य वागवृत्तिपरत्वमन्याय्यम् । श्रुतिसूत्राक्षरस्वारस्य- विरोधात् । तस्माद्यागिन्द्रियस्यैवोपसंहारो न्याय्यः । अत एव च वागिन्द्रियोप- संहारात् क्रमेण सर्वाण्येवेन्द्रियाणि वाचमेवानुगच्छन्ति मनसः सर्वेन्द्रियाईहरत्वात् सर्वाण्येवेन्द्रियाणि मनसि संपद्यन्न इत्यर्थः । तदानीं श्रात्रत्वकचशूरसनाघ्राणा- दीन्यपि सर्वाण्युपरमन्ते । केवलमस्मीत्यन्तर्वोयमात्रमबशिष्यते । अथैतन्मनोपि पश्चात् प्राणे पञ्चवृत्तिके निश्वासोछ्वासमात्र संपद्यते । मनः प्राणे इत्युत्तराच्छु ति- वाक्यात् । स पुनः प्राणोऽध्यक्षेऽविद्याकर्मपूर्वप्रज्ञोपाधि देहेन्द्रियपजराध्यक्षे विज्ञानात्मन्यवतिष्ठते । प्राणवृत्तेस्तत्प्रधानत्वात् । ननु श्रुती तावामनः प्राणे प्राण- स्तेजसीत्येवंक्रमोश्यते । तत्कथमस्य प्रागस्य तेजसि संबन्धमनुक्तवाऽध्यक्षे संबन्ध- माहेति चेत् । तदुपगमादिभ्य इति नः । “एवमेवेममात्मानमन्तकाले सर्व प्राणा अभिसमायन्ति यत्रैतदूर्वोच्छवासी भवति"-इति ध्रुप्यन्तरे सर्वेषां प्राणानामध्यक्षोप- गामित्वं श्रूयते । अपि च-"स यत्रायमात्माऽवल्यं नेत्य संमोहमिवन्येति-अथैन मेते प्राणा अभिसमायन्ति स एतास्तेजो मात्राः समभ्याददानी हृदयसेवान्ववकामति । स यौष चाक्षुषः पुरुषः पराङ् पर्यावर्ततेऽथारूपक्षो भवति-एकीभवति न पश्यती. त्याहुः । एकीभवति न जिघ्रतीत्याहुः । एकीभवति न रसयस इत्याहुः । एकीभवति.
(१८) न वदतीत्याहुः । एकीभवति न शृणोतीत्याहुः । एकीभवति न मनुत इत्याहुः । एकीभवति न स्पृशतीत्याहुः । एकीभवति न विज्ञानातीत्याहुः । तस्य हैतस्य हृद- यस्यानं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्कामति चक्षुष्टो वा मू वाऽन्येभ्यो वा शरीरदेशेभ्यः । तमुत्क्रामन्तं प्राणोऽनूकानति प्राणमनकामन्तं सर्वे प्राणा अनूका- मन्ति,स विज्ञानो भवति । स विज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारमेते पूर्वप्रज्ञा च" इति श्रुतौ स विज्ञानो भवतीति वदन्नध्यक्षप्राणस्यान्तर्विज्ञानत्वं दर्श- यति । तमुलामन्तमित्यादि चाचक्षाणः प्राणस्य पञ्चवृत्तस्तदध्यक्षानुगामितां तदनु- वृत्तितां चेतरेषामिन्द्रियप्राणानामुपदर्शयति । तस्माच्छ त्यन्तरप्रामाण्यात् प्राणोऽध्य- क्षेऽध्यक्षस्तेजसीत्येवमत्र श्रुतावधिकावापस्यौचित्यात् तेजोऽनुप्रवेशतः प्राक प्राणस्याध्यक्षेऽनुप्रवेशोऽभ्युपगम्यते । तस्य च तेजस्यनुप्रवेशो द्रष्टव्यः न केवलं तेजस्येव किन्तु प्राणस्तंजसीत्यत एव श्रुतेः तेजःसहचरितेषु देहबीजरूपेषु सर्वेष्वेव सूक्ष्मभूतेष्वनुप्रवेशोऽभिप्रेयते । तेजःशब्दस्य भूतोपलक्षकत्वात् । ननु एतास्तेजो. मात्राः समभ्यादान" इति श्रुत्यन्तरेऽपि तेजस एवाख्यानादिहापि श्रुतौ तेजस्ये- वैकस्मिन् प्रवेशोऽभ्युपगन्तव्य इति चेतदस्ति। नैकस्मिन् तेजस्येवानुप्रवेशो मन्तव्यः। शरीरस्यानेकात्मकत्वदर्शनादेकेनैव तेजसा शरीरान्तरारम्भासंभवात् । दर्शयतश्चै. तमर्थमुहालकजैवलीये प्रश्नप्रतिवचने । “आपः पुरुषवचस"-इत्यत्रापां भूतमात्रो. पलक्षकत्वस्य "आत्मकत्वातु भूयस्त्वाद" इति सूत्रे व्याख्यातत्वात् । श्रुतिस्मृती चैतमर्थ दर्शयतः। "स वा अयमात्मा पृथ्वीमय आपोमयो वायुमय आकाशमय. स्तेजोमयोऽतेजोमय इत्यादिश्रुतेः । “अण्व्यो मात्रा विनाशिन्यो दशा नां तु याः स्मृताः । तामि सामिदं सर्व संभवत्यनुपूर्वशः (मनु १ । २७ ) इति स्मृतेश्च । तथा च प्राणान् प्राणं भूतमात्राश्च समभ्याददान आत्मा हृदयाग्रप्रद्योतेन शरीरा- दुत्क्रामतीत्युत्क्रान्तिक्रमः सिद्धः। इतीन्द्रियमनःप्राणभूतमात्रासंकलितविज्ञानोस्क्रमणाधिकरणम् ॥१॥ समाना चैषोत्क्रान्तिर्विदुषश्चाविदुषश्चामृत्युपक्रमाद् भवति सृत्युपक्रमो नाडी- विशेषानुप्रवेशरूपं मार्गानुसरणम् ॥ तत्र विदुषामूद्धनाड्या शुक्लमार्गेण चावि. दुषामधोनाडीभिः कृष्णमार्गेण च गमनस्य व्यवस्थानात् तत्रोभयोर्मेदेऽपि ततः प्रागुत्क्रान्तिकमे विद्वदविदुषो दो नास्ति । अविशेषश्रवणात् ॥ ननु विदुषा ताव- दमृतत्वं मोक्षापरनामकं प्राप्तव्यं न च तद्देशान्तरायत्तमिति विदुषो नास्त्येव मृत्युपक्रमो न वोत्क्रान्तिरपि प्रतिपद्यते । “न तस्य प्राणा उत्क्रामन्तीति श्रुतेरितिचेत् सत्यम् । द्विविधं घेतदमृतत्वम् । आत्यन्तिकं चापेक्षिकं च । तत्र निगुणविद्याया- मात्यन्तिकं भवतीति सृत्युपक्रमश्वोत्क्रान्तिश्च तत्र नापेक्ष्येते । “न तस्य प्राणा उत्का- मन्तीति श्रुत्या समवलये गत्युत्कान्त्योरुभयोः प्रत्याख्यानांत् । सगुणविद्यायां त्ववि- द्यादयः क्लेशा नात्यन्तं निवर्तन्ते इति विद्यासमुचितकर्मणा देवयानं पन्थानमासा- घ देवलोकानाला तत्र भोगान् भुक्तवा क्रममुक्तिं गच्छन्ति पुनर्वा निवर्तन्ते इति हि द्विविधा स्थितिर्भवति तथा च तत्र देवलोकेषु भोगान् भुक्त्वैवामृतत्वं लभते इति देवलोकेषु गत्यर्घमुत्क्रान्तिः सृत्युपक्रमश्चापेक्ष्येते । अभोग उपवासोऽनुपवासस्त भोगः । रामानुजस्तु अनुपोष्येत्यस्य शरीरेन्द्रियादिसंबन्धमदग्ना उत्तरपूर्वाधयो- रश्लेषविनाशरूपममृतत्वं प्राप्यते इत्यर्थमाह ॥ यदा सर्व प्रमुच्यते कामा येऽस्य हदि- स्थिताः । अथ मोऽमृतो भवति अत्र ब्रह्म समश्नुतेः" इति श्रुतेरुपालनवेलायाँ ब्रह्मानुभवरूपस्यामृतत्वस्य तदभिप्रेतत्वात् । शंकर स्वनुपोध्येत्यस्य क्लेशानविद्या- दीनत्यन्तमदग्ध्वैवापरविद्यासामर्थ्यादापेक्षिकममृतत्वं प्रेप्स्यते इत्यर्थमाह । सर्वचापि तत्रोत्क्रान्तिः सृत्युपक्रमो भूताश्रयत्वं चोपपद्यन्ते इति सि द्वम् ॥ इति विद्वदविद्वत्सा. धारणोकमाधिकरणम् ॥ २॥ । - । तदित्थं साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं चेदं तेजः परस्यों संप- द्यते। इत्युत्क्रान्तस्य गत्युपसंहारः । सर्वस्य हि जन्यस्य वस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापनादस्य तेजसश्चान्द्र सौरे वैद्युते परब्रह्मणि च वा तेजसि एकीभाव इत्युक्तं भवति । अत्रेदं बोध्यम् । परदेवतासंपत्तिरेवैतदारोहणे गत्युपसंहारः । किन्तु तत्रायं विशेषः श्रूयते श्रद्वया केवलया युक्तन कर्मणा चन्द्रे, श्रद्धाविद्योपनि- षद्भियुक्तिन कर्मणा सूये, ताभिश्च शमदमादिसंपत्तिभिश्वोपसंपन्नेन कर्मणा वैद्युते तेजस्युपसंक्रमो भवति । तथा च श्रद्धालोरपि-अविदुपस्तावदिष्टापूर्तादिकर्मा- त्मनस्तेजसश्चान्द्रे संपद्यते न सूर्ये । स चन्द्रात् परावृत्य संसारं भजते । अथ श्रद्धालोविदुषोपि च शमदमादिविधुरस्य विदुषा यज्ञतपोदानकर्मात्मनस्तेजलश्च- न्द्रादूर्वं सौरे तेजसि देवलोकेषु संपद्यते। “आदित्यं गच्छति । एतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुपामिति श्रुतेः" । स ततः परावृत्य संसारं भजते । नत्वेष सूर्यादूर्व वैद्युते तेजस्यनुप्रविशति । शमदमादिसंपत्तिविधुरत्वात् । अथ वाजसनेयके त्वेकत्र यशतपोदानादिभिरपि पितृयाणमार्गेण चन्द्रगतस्य तत एव प्रत्यावृत्तिः श्राव्यते । तच्छमादिविकलस्याविदुषः संवन्धेनाभ्युपगन्तव्यम् । इत्थ- मनयोः प्रत्यवरोहात् पुनः संसारव्यपदेशः । अथ विद्यासमुच्चितर्षज्ञतपोदाना- दिभिः कर्मिणामुपासकानां शमदमादिषटसंपत्तिमतां सूर्यादूर्व वैद्युते समावेशः । तस्यैवोज़ ब्रह्माप्ययान्मुक्तिसिद्धिः । न से पुनः संसारी भवति । तदित्थं संसारि- मुक्तात्मभेदेन द्वैविध्ये सिद्धे तयोः पार्थक्येन साध्यक्षलप्राणकरण प्रामभूतग्रामाणां व्यवस्था वक्तव्येत्यादौ संसारिपु निरूप्यते। तदिदं सर्व परतेजलि संपद्यानानं तत्रैव तिष्ठते । अध्ययपर्यन्तं संसारव्यपदेशात् । अत्ययो निगुणविद्याप्रभावाद् ब्रह्मणि लयः । ब्रह्मविद् ब्रह्मैव भवतीति श्रुया ब्रह्मगैकीभाव एवापीति म । सापी- तिर्यावन संभवति तावदमुष्य जीवस्थात्मनः संसारव्यपदेशो दृश्यते । योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति• यथा कर्म यथा श्रुतमिति स्मृतेः । संसारान्यथानुपपत्या चेदं सर्व जीवत्वापादकमुपकरणजातं तत्रात्मनि तिष्ठत्येवेति बमः । प्राणकरणभूतग्रामनिवृत्तौ तु क्लेशकर्मविपाकाशयानामुच्छेदाद् विज्ञानमयस्याध्यक्षस्य ब्रह्मस्वरूपाविशेषतासंपत्तो परमात्मनैकीमावाजीवात्मत्वन्यप- देशो निवर्तते, अत एव च संसारव्यपदेशोपि निवर्तते । यावता संसारव्यपदेशो न निवर्तते तावदमुष्य प्रत्यगात्मनो जीवत्वसमर्पकं तदखिलं प्राणकरणभूतग्रामा- दिकमर्थजातं बीजभावावशेष तिष्ठत्येवेति विद्यात । तच्च म जीवलोकस्थितप्राfor. । ।
(२००) नामिदानीमिव दृश्यमानं लशीर स्वाप नाभिकमात्र वा भवति । किन्तु स्वरू- पतो मात्रातश्चेदं सर्व वृक्ष्मं प्रतिपसव्यन् । नाडोनिष्क्रमणश्रुया तथोपलब्धेः । नाड्यां हि तनुत्वात् संचारः स्वच्छवाजाप्रतिधात उपपद्यते। सौम्यादेव च दहानिर्णयाला पावस्थेन श्यते। अत एव च सौदल्यानतस्य स्थूलशरीरस्योप- भदेनेदं सूक्ष्मशरीरनुपमृधते इति शंकरः । रामानुजन्तु निर्गच्छत आत्मनः सूक्ष्म- शरीरमस्ति । कौषीतकादिश्रुतिप्रमाणतस्तथोपला । तत्र हि देवयानेन पथा गच्छतो विदुषश्चन्द्रमसा संवादः श्रूयते न च सूद शरीरमन्तरेण तत्संभवति । तस्मात् सूक्ष्मशरीरवानयं जीवो गच्छतीयत एवास्य वन्धो न निई इत्यपि ज्ञायते। अत एव च सूक्ष्मशरीरसावादस्यात्मनो बन्धोपमर्दनानृतत्वमुच्यते इत्येवं व्याचष्टे । अस्यैव च सूक्ष्मशरीरस्यैष ऊष्मा यो जोवतः शरीरे संस्पर्शन विज्ञायते । मरणोत्तरं स्थूलशरीरसद्भावेऽपि तत्रोष्मणोऽनुपलब्ध्या तस्थोष्मणः सूक्ष्मशरीरव्यपाश्रयतयैवोपपत्तेः । "उष्ण एव जीविष्यन् शोतो मरिष्यन्'-इति श्रुतिरपि मरणोत्तरं शैव्यं ब्रुवन्ती तदुष्णतायाः सूक्ष्मशरोरानुगतत्वं दर्शयति । तथा चास्य सूक्ष्म शरीरस्य ब्रह्माप्ययं यावदनिवृत्या तेनैव सूक्ष्मशरीरेण विदु- षोऽप्यविदुष इवास्ति समानैवोत्क्रान्तिरित्युक्तं भवति । ॥ इति प्रामुक्ति मशरीरानुपक्षयाधिकरणम् ॥ - अथ मुक्तात्मसु प्राणकरणभूतग्रामाणां व्यवस्था वक्तुमुपक्रममाण आदौ तावत् प्राणविषयं निरूपयति । तत्र वादी तावदाशङ्कते। “अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकालो न तस्य प्राणा उत्क्रामन्ति ब्रह्मव सन् ब्रह्माप्येति"- इति श्रुत्या प्रत्यक्षं प्रतिपेधाच परब्रह्मविदो विदुषो देहात् प्राणानामुत्क्रान्तिः शक्यते प्रतिपत्तुम् इति चेत् तत्रोच्यते। नैतदेवमाशङ्कितव्यम् । तया श्रुत्या शारीरादात्मनः प्राणोत्क्रान्तिः प्रतिषिध्यते इति शरीरतः प्राणोत्क्रान्तेरप्रतिषेधात् ॥ न तस्य प्राणा उत्तामन्तीति श्रुतौ तस्येति पञ्चम्यर्थे पष्ठी । स्पष्टो होकेषां शाखिनां भाध्यान्दिनानां श्रुतौ शारीरो जीव एव प्राणोत्क्रान्त्यपादानस्वेन निर्दिश्यते। “न तस्मात् प्राणा उत्तामन्तीति पञ्चम्याः श्रूयमाणत्वात् । तेन जीवात् माणा नोकामन्ति । उत्क्रमण- वेलायामपि जीवेन सहैव प्राणास्तिष्ठन्ति । इति हि श्रुतितात्पर्य्यमवगम्यते ॥ इत्थं च शारीरपुरुषात् प्राणानामनुरक्रान्तिर्विदुषश्चाविदुषश्चाविशेषादेवेष्यते । "तस्य तावदेव चिरं यावन्न विमोक्ष्ये" इति श्रुतेर्विदुषः प्रारब्धकर्महेतुकचरमशरीर. वियोगकाले ब्रह्मसंपत्तिवचनेन शरीरवत् प्राणानामपि वियोगोऽर्थतः प्रामोती- त्यतस्तत्परिहारार्थमिदमुच्यते । न तस्मात् प्राणा उत्क्रामन्तीति। तेन विदुषो- ऽपि देहपातोत्तरं देवयानेन पथा सूर्योदू समारूढस्य ब्रह्मामृतत्वं प्राप्यते इति- ब्रह्मप्राप्तः प्रागमुष्माद्विदुषोऽपि जीवात् प्राणा न विश्लिष्यन्ते इत्येवान श्रुति- तात्पर्यसिद्धोऽर्थः ॥ “अथ यत्रैतदस्माच्छरीरादुकामति-अथैतैरेव रश्मिभि- कीमाक्रमते स ओमिति वाह-उद्धामीयते । स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छति एतद्वै खलु लीकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम्। तदेष श्लोकः-शतं.
- . ( १०१ ) चैका च हृदयस्य नाज्यस्तासां मूर्धानमभिनिःसृतका । तयोर्ध्वमायामृतत्व- मेति विष्वङन्या उत्क्रमणे भवन्ति' इति ताण्ड्यभु यादिनिर्विदुपाऽपि सूर्य- प्राप्त्यनन्तरममृतत्वप्राप्तेरभ्युपगन्तव्यत्वात् । स्मय्यते चायमर्थ. "ऊर्वनेकः स्थित- स्तेषां यो भिवा सूर्यमण्डलम् । ब्रह्मलाकनतिक्रम्य तन याति परां गतिम्"- इति ॥ इति रामानुजः । एतन्मते प्राणकरणभूतग्रामसहितस्य जीवात्मनो मूर्धन्य- नाड्योक्रान्तस्य देवयानमार्गेण सूर्यमारूढस्यैव मुक्तिरिति सिद्धान्तादनुस्क्रान्ति- मुक्तिर्नास्तीति सिद्धं भवति ॥ इति रामानुजमतेनानुकान्तियुक्त्यभावात् सूर्यमण्डलमदितालक्षणमुक्तयधिकरणम् ॥ ४॥ शंकरस्तु "प्रतिषेधादिति चेन्न शारोरादिति सूत्रनिर्दिष्टस्य जीवापादानक. प्राणोत्क्रान्तिप्रतिषेधवादस्य प्रतिपलितया "स्पष्टो होकेपां स्मर्यते चेति सूत्रद्वयं व्याचष्टे । तथाहि-दहापादान एवोत्क्रान्तिप्रतिव एकेषां सभानाये स्पष्ट उपल- भ्यते । यत्रायं पुरुषो म्रियते तदस्मात् प्राणा उत्क्रामत्याहोस्विनेत्यार्तभाग- प्रश्न नेति होवाच याज्ञवल्क्यः । अत्रैव समवलीयन्ते स उच्छवयत्याध्मायति, आध्मातो मृतः रोते"--इत्येव मुस्कात्यववेरेवोच्छ्वयनादीन्याह। तानि च देह- स्यैव न देहिन इति कृत्वा देहादेवोत्क्रान्तिप्रतिवेवो गम्यते । यद्यप्यत्र विद्वदविदुषो- रप्रसङ्गात् सर्वसाधारण्येनानुस्क्रान्तिः प्रानोति । तथापि श्रुत्यन्तरे- "चक्षुष्टो वा मूद्धनो वाऽन्येभ्यो वा शरोरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूकानति प्राणभनूकामन्तं सव प्राणा अनूकानन्ति स विज्ञाना भवति। तं विद्याकर्मणो समन्वारमेते"। इत्यादिना तावदविदुपाभु क्रान्ति संसारणति च दर्शयित्वा--"इति नु कामय- मानोऽथाकामयमानो योऽकामो निष्काम आतकाम आरमकामा न तस्य प्राणा उत्कामन्ति ब्रह्मव सन् ब्रह्माप्येति । यदा सर्वे प्रमुच्यन्ते काना येऽस्य हदि स्थिताः ॥ अथ मोऽमृतो भवति अत्र ब्रह्म समश्नते" यथा हि निर्वयनी वल्मीके मृता प्रत्यस्ता शयीत-एवनेवेदं शरीरं शेतेऽथायमशरीराऽमृतः प्राणों ब्रह्मव तेज एव इत्येवं विद्वांसमधिकृत्य तद्विपयतयैवाऽनु.कान्तिं व्यवस्थापयति । प्राणस्य चानुकान्त- स्यात्रैव ब्रह्मभावाख्यानान देवयानादिमार्गानुसरणमस्यास्तीति प्रतीयते । एतच्छ तिवाक्यतया च पूर्वस्या अपि आर्तभागप्रश्नोत्तरश्रुतेर्विद्वद्विषयत्वं निश्ची- यते । तथा च परब्रह्म विदुषां गायु क्रान्त्योरभाव एवास्तीति श्रुतितात्पर्या- दवसीयते । स्मर्यते च महाभारते विदुषां गत्युत्क्रान्योरभावः । “सर्वभूतात्म- भूतस्य सम्यग्भूतानि पश्यतः। देवा अपि मार्गे मुहल्यपदस्य पदैषिणः" इति । पदैषिणो देवा अप्यस्य प्राप्यपदरहितस्य मार्गे मुह्यन्ति मार्ग न जानन्ति मार्गा- भावादित्यर्थः॥ इति शङ्करमते विद्या निर्दग्धकर्मणां देहपातकालानुकान्तिमुक्तिविपयाधिकरणम् । ४ ॥
( १०२ ) ननु विदुषां गत्युत्क्रान्स्योरभावे-"अणुः पन्था विततः पुराणो मां स्पृष्टोऽनु- वित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्ग लोकमित ऊर्ध्वं विमुक्ताः"- इति गतिश्रुतिः । शतं चैका च हृदयस्य नाड्य इत्यादिरूपा मूर्धन्यनाड्योकान्ति- श्रुतिश्च विरुध्येते इतिचेत् तत्रोच्यते । द्विविधा हीयं विद्या भवति निगुणत्वात् परा सगुणत्वादपरा चेति ॥ तत्र यो निगुणया परविद्यया विद्वानिहैव जन्मनि काम- कर्मक्लेशाविद्याधर्मः परिहीयते स जीवन्मुकः प्रारब्धकर्मणा जीवन्नपि देहपातो. तरं कौन्तराभावादेवयानादिना तर्तव्याभावात् सद्योमुक्तिं लभते न तस्य प्राणा उत्क्रामन्तीति गत्युत्क्रान्त्यभावश्रुतिस्तद्विषयतया नेया । यस्तु सगुणविच्या विद्वा- नुपासकः स मूर्धन्यनाड्योकान्तो देवयानेन पथा सूर्यमुपगम्य काम भोगान् भुत्त्वा विशुद्धो विद्युत्पुरुषमासाद्य पुण्यपापे विधूय विरजा ब्रह्माप्येतीति सा क्रममुक्ति- गत्युत्क्रान्तिविधायिन्याः श्रुतेविषय इत्यविरोधः ॥ तत्र विद्युत्पुरुषप्राप्त्यनन्तरं पुण्य- पापविधूननाद्विरजस्त्वे तान्यपि सर्वाणि सप्राणानीन्द्रियाणि भूतानि च परब्रम- विदस्तस्मिन्नेव परस्मिनात्मनि प्रलीयन्ते । तथा ह्याह पिप्पलादश्रुतिः-स परेऽक्षरे आत्मनि संप्रतिष्ठते परमेवाक्षरं प्रतिपद्यते । स यो ह वैतदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते स सर्वज्ञः सर्वोभवति । तदेष श्लोकः। विज्ञानात्मा सहदेवैश्च सर्वैः प्राणभूतानि संप्रतिष्ठन्ति यत्र । तदक्षरं वेदयते यस्तु सौम्य स सर्वज्ञः सर्वमेवावि- वेश-इति । एवमेवास्य परिदधुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति इति च । स च कलाप्रलयो ब्रह्माणि तवलयादविभागलक्षणो भवति न तु सुषुप्तिप्रलयवद् वृत्तिमात्रनिराधाद्वीजभावावशेषरूपः ॥ "मिद्यते तासां नामरूपे पुरुष इत्येवं प्रोच्यते -स एषोऽकलोऽमृतो भवतीत्येवं श्रुतौ नाम परित्याग- वचनात् ॥ यत्तु “गताः कलाः पञ्चदश प्रतिष्ठा-देवाश्च सर्वे प्रतिदेवतासु । कर्मा. णि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति इति बिद्वद्विषययैवापरया मुण्डकश्रुत्या पार्थिवादीनां कलानां स्वस्वप्रकृतिषु पृथिव्यादिष्वप्ययो निरूप्यते तद् व्यवहारापेक्षमिति शंकरः समाधत्ते । एतच्च नात्यन्तं युक्तम् । विदुषां व्यवस्थाया व्यावहारिकत्वाभावात् । वस्तुतस्तु मुक्तिधा-क्षीणोदकर्का भूमोदर्का च । संन्यासिनामाद्या। तत्र कलानां विज्ञानतः पृथग्भवन्तीनां स्वस्वप्रतिष्ठानुगमो भवति। सर्वैकाम्यविज्ञानिनां तु द्वितीया । तत्र कलानामशेषाणां परमात्मन्येव लयो भव- तीति न विरोधः। विस्तरतश्चैतदू व्याख्यातं ब्रह्मविज्ञाने शुक्लत्रिसत्यादौ । ॥ इति विद्वत्सदमशरीरविलयनाव परेण सर्वात्मनैकीमावलक्षणक्रममुक्तयधिकरणम् ॥५॥ अथ निगुणविद्यां जीवब्रह्मक्यभावं चानभ्युपगच्छन् रामानुजः सगुणो. पासमया ब्रह्मणि जीवस्य सहावस्थानरूपाविभागलक्षणं मुक्ति दर्शयितुमिदं सूत्रद्वयमन्यथा व्याचष्टे-वाङमनसि मनः प्राणे, प्राणस्तेजसीत्येवमुत्तरोत्तर- क्रमेण संधीयमानानि तानीन्द्रियप्राणभूतजातानि अन्ततः परस्मिन्नात्मनि संप- धन्ते.। तथा ह्याह श्रुति:-तेजः परस्यां देवतायामिति । सुषुप्तिप्रलययोर्यथा परमात्मसंपत्या सुखदुःखोपभोगायासविश्रामस्तवदिहापि वोध्यः । सेयं परमा- ( १०३ ) मनि संपत्तिर्न प्राकृतलयवत् कारणापत्तिरूपा किन्तु वाङ मनमीत्यादिवदविभाग- रूपैव । पृथग व्यवहारानहसंसर्गोऽयमविभागः । तेजः परस्यां देवतायामित्यत्रापि वाङ मनसि संपद्यते इति वचनस्यानुषङ्गाच्चैतदेवं विज्ञायते । इति बोध्यम् ॥ । ॥ इति रामानुजमतेन विद्वत्तस्मशरीरविलयनाभावात् परेणाविभक्तसहावस्थानलक्षणा- क्रममुक्तयधिकरणम॥५॥ ॥ इति विद्वदुत्क्रान्तिक्रमविवेकाधिकारः ॥ : तदोकोऽय ज्वलनं तत्प्रकाशितद्धारो विद्यासामर्थ्यात् तच्छेष- गत्यनुस्मृतियोगाच हार्दाऽनुगृहीतः शताधिकया । १ । रश्म्य- नुसारी । २। निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वाद दर्शयति च । ३ । अतश्चायनेऽपि दक्षिणे।४। योगिनःप्रति च स्मयंते स्मार्ते चैते। ५। : । - अथ मृत्युपक्रमः प्रदर्श्यते । उत्क्रान्तिवत् मृत्युपक्रमोपि यथाविद्यं यथाकर्म चोपपद्यते । तत्र विद्याविषयं वक्ष्यामः । विद्या चापरा सगुणोपासनारूपा द्रष्टव्या। निगुणविद्यायामुत्क्रान्तिमृत्युपक्रमयोः प्रतिषिद्धत्वात् ॥ उपसंहृतवागादिकलापोऽयं विज्ञानात्मा यदोक्रममाणो भवति तदा तदोकसस्तदायतनस्य हृदयस्याग्रभागः प्रज्वलिति । “स एतास्तेजोमात्राः समभ्याददानी हृदयमेवान्ववकामति"-इति कौषीतकश्रुतेः तस्य हैतस्य हृदयस्यानं प्रद्योततेातेन प्रद्योतेनैष आत्मा निकामति- चक्षुष्टो वा मूद्ध नोवाऽन्येभ्यो वा शरीरदेशेभ्यः इति वाजसनेयश्रुतेश्च । तेन द्योतेनाय- मात्मा प्रकाशितद्वारो भवति । यया नाडीद्वारा तेन गन्तव्यं तद्धारं तस्य प्रकाशते । हृदयस्थानादेकशतनाडीषु विततास्वप्ययं विज्ञानात्मा विद्याप्रभावाद् विद्याशेषभूत- मूर्धन्यनाडीगतिशीलनाभ्यासवशाच्च शतादतिरिक्तया एकशततम्या नाड्या निष्का- मति । इतराभिरितरे मन्दविद्याः । “शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानम- भिनिःसृतैका। तयोर्द्धमायन्नमृतत्वमेति विश्वङन्या उत्क्रमणे भवन्ति"-इति ताण्ड्यश्रुतेः ॥ निष्क्रममाणश्चैष हार्दानुगृहीतो निष्कामति । हार्दो हृदय- स्थानोऽष्टगुणः शरीराध्यक्षो विज्ञानात्मा प्राणः ॥ "यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दहरोऽस्मिन्नन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यम् । किं तत्र विद्यते यदावेष्टव्यम् । यावान् वा अयमाकाशस्तावानेषोऽन्तहृदये आकाशः । उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रम- सावुभौ । विद्युन्नक्षत्राणि यश्चास्येहास्ति यच्च नास्ति सर्व तस्मिन् समाहितम् ।
तं युरचिदिदं ब्रह्मपुरेल समापन सर्वाणि च भूतानि सर्वे च काम:- पदैन जमावाति प्रध्वंसने वाकिं ततोऽतिशिष्यते इति । स यानास्य जरयै- तजीयेति न वधेनास्य हन्यते एतत्सत्यं प्रलापुरम् । अहिलन् कामाः समाहिताः । एप आरलाऽपहतपायमा विजरो विऋत्युर्विशोको विजिधरतोऽपिपासः सत्यकामः सत्यलंकल्पः--तध्येह कर्मजितो लोकः क्षीयते एकाजामुन पुण्यजितो लोकः क्षीयते । तद्य इहालानमननुविध व्रजन्ति एतांश्च सत्यान् कानान् । तेषां सर्वेषु लोकेष्वकामधारो भवति । अथ य इहारमानमनुविद्य अजन्ति एव सत्यान् कामान् । तेषां लर्वेषु लोकेषु कामचारो भवति ।। इति श्रुते ॥ एवं हाई माला- नमनुविद्य गच्छन् विद्वान् प्रज्ञानात्मा जीयो हानुगृहीत एका जतोति हाईस्य रश्म्यनुसारितया लोषि रसम्यनुसारी गच्छति । अथ या एता हृदयस्य नाज्यस्ताः पिङ्गलस्याणिनस्तिष्ठन्ति । असो वा आदित्यः पिङ्गलः। अथ यत्रैतदस्माच्छरीरादुत्क्राति अथैतैरेव रश्मिभिरुद्धमाक्रमते ॥ इति श्रुतेः ।। ननु आदित्यसूर्य्यरश्मीनामहन्येव संभवानिशि रसम्यनुसारिगमनं न संभव- तीति चेन्न । नाडोरशिक्षसंवन्धस्य यावदेहभावित्वात् ॥ जन्मकाले संभूतशिरा. किरण संपर्को यावदेहमहोरानं शश्वदनुवर्तते न निशि विच्छिद्यते । दर्शयति चैतमर्थ श्रुतिः । “अमुमादादित्यात्-प्रतायन्ते ता आसु नाडीयु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते ता अमुनिनादित्ये सुमाः" इति। न च दिनाभिप्रायैव सा श्रुतिः स्यादिति वाच्यम् । अविशेषश्रवणात् । दर्शयति च श्रुतिरमुष्मिन् हार्देऽहो- रात्रवैशेष्याभावोऽविच्छिन्नप्रभावत्वं च । 'नैनं सेतुमहोरात्रे तरतः सकृद्विभातो ह्येवैष इति तस्मादिवेव रात्रावप्यविशेषेण नाडीसंवद्धरश्मिभिरेवायमूर्व गच्छति तनुप्रयाणेऽहोरात्रादिकालविशेषो मार्गविशेष निमित्तं भवति । अतएव चाहनि मृतस्य दक्षिणेऽप्ययने. गमनं संभवति । अन्यथाऽहनि प्रेतस्य शुक्लपक्ष- द्वारोत्तरायणे. गमनादक्षिणायने गमनं न स्यात् । अथवेदमन्यथा व्याख्येयम् । निशि कृष्णपक्षे दक्षिणायने वा, प्रेतानां शुक्लमागों नोपपद्यते इति विदुषामपि मुक्तिमार्गारोहो न स्यात् । “यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ'-इत्यादिनाऽहःशुक्लपक्षोत्तरायणानामेवा- नावृत्तिनियामकत्वस्मरणाभीमादीनां विदुषामप्युत्तरायणकालप्रतीक्षाकरणाचति केचिदाहुः । तत्रेदं प्रत्युच्यते । यतस्तावदात्मनो हार्दानुगृहीतस्य रात्रावपि रम्यनुसारिगमनं संभवति अतश्चायनेऽपि दक्षिणे নাহি; संभाव्यते । अर्चिरहःशुक्लपक्षोत्तरायणादीनां धूमरात्रिकृष्णपक्षदक्षिणायनादीनां चातिवाहिकन्वाभ्युपगमात् । प्रयाणकालोपलक्षकत्वानपेक्षणात् । ननु तं कालं वक्ष्यामीति स्मृतौ कालप्रतिज्ञानात् तद्विरोध इति चेन्न । योगिनः प्रति चाय. महरादिकालविनियोगोऽनावृत्तये स्मर्य्यते । न विदुषःप्रतीत्यधिकारिभेदा- दविरोधः । स्मार्ते चैते योगसांख्ये न श्रौते। तस्मान्न श्रौतेषु विज्ञानेषु विरोधावतारः। ॥ इति सृत्युपक्रमाधिकरणं शंकरस्य ॥ " a रामानुजस्तु निशि नेत्यादिसूत्रत्रयमन्यथा व्याचष्टे-यद्यपि निशायामपि सूर्यरश्मिसंभवात् तत्रापि रम्यनुसारेण गतिः संभाव्यने तथापि-"दिवा च शुक्लपक्षश्च उत्तरायणमेव च । सुसूर्यतां प्रशस्तानि विपरीतं तु गहिनम् । इति दिवा मरणस्योत्तमगतिहेतुत्वं निशामरणस्य चाधमगतिहेतुत्वं प्राप्नोतीति विदुषोपि निशि मृतस्य ब्रह्मप्राप्तिलक्षणतिर्न स्यादिति चेन्न । विदुषः कर्मसं. वन्धस्य यावहेहभाविवाददोषात् । तथाहि-अधोगतिहेतुभूतानां कर्मणा- भनारब्धकार्याणां विद्यया नष्पत्यादुत्तरेषां चाश्लेषादस्य जीवन्मुक्तस्य केवलं प्रारब्धकर्मवशाच्चरमदेहपातपर्यन्तं जीवनमवशिष्यते । तदेहपाते तु बन्ध- हेतुकर्मानवशेषात् दिवा वा निशि वा निर्विशेषं ब्रह्मप्राप्तिरुपपद्यते । दर्शयति च श्रुतिः-"तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये"-इति । दिवा च शुक्लपक्षश्वेत्यादि कालवचनं त्वविद्विषयं नेयम् । निशि प्रेतस्य विदुषो ब्रह्म- प्राप्तौ यो हेतुरत एव हेतोदक्षिणेऽप्ययने मृतस्य ब्रह्मप्राप्तिः सिद्वा। "अथ यो दक्षिणे प्रमीयते पितृणामेव महिनानं गत्वा चन्द्रमसः सायुज्यं गच्छतीति श्रुत्याः यदा तत् पर्यवेति अथैतमेवाधवानं पुनर्निवर्तन्ते' इति पुनरावृत्तिश्रुत्याश्चा- विद्वद्विषयत्वं पूर्ववन्नेयम् । विदुषस्तु "तस्माद् ब्रह्मणो भहिमानमाप्नोतीति वाक्य- शेषश्रवणात् दक्षिणायनमृतस्य चन्द्रप्राप्तिब्रह्मप्रपित्लतो विश्राममात्रं गम्यते । "ननु “यत्र कालेवनावृत्तिमावृत्ति चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥१॥ अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥२॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते । । शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्यथा वर्तते पुनरिति ॥४॥ अनावृत्तिपुनरावृत्तिहेतुत्वेन कालविशेषो नियम्यते । स च विद्याकर्मणोरनुल्लेखाद् विद्वदविद्वत्साधारणः संभाव्यते इति चेत्र । अत्र हि तन्मार्गद्वयं योगिनः प्रत्येव योगाङ्गतयाऽभुदिनं स्म स्मर्य्यते । नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन इत्युपसंहारात् ॥ स्मार्ते चैते देवयानपितृयाणे न श्रौते। स्मार्तयोः काल- विशेषनियततया श्रौतयोश्च विद्याकर्मनियततया भेदात् ।। ॥इति सृत्युपक्रमाधिकरणम् रामानुजस्य ।। इति उत्क्रान्तिपादो द्वितीयः॥२॥ अथ गतिपादः प्रारभ्यते ३ तत्र प्रयाता देवयानगतिक्रमाधिकारः॥१॥ अचिरादिना तत्प्रथितेः । वायुमब्दादविशेषविशेषाभ्याम् । तडितोऽधि वरुणः संबन्धात् ॥ १॥ आतिबाहिक़स्तल्लिङ्गात् ।
( १०६ ) उभयव्यामोहात् तत्सिद्धेः । वैद्युतेनैव ततस्तच्छुतेः ॥२॥ कार्य वादरिरस्य गत्युपपत्तेः विशेषितत्वाच । सामीप्यात्तु तद्व्यपदेशः। कार्यात्त्यये तदध्यक्षण सहातः परमभिधानात् । स्मृतेश्च ॥ ३॥ परं जैमिनिमुख्यत्वात् दर्शनाञ्च । न च कार्ये प्रतिपत्त्यभि- सन्धिः॥४॥ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा- ऽदोषात् तत्क्रतुश्च । विशेषं च दर्शयति ॥ ५॥ ܀ दर्शितः पूर्वमुत्क्रान्तिक्रमो दर्शितश्च सृत्युपक्रमः । सृतिक्रमस्विदानी प्रदर्श्यते । तत्र तावद् वढयो विप्रतिपत्तयः श्रूयन्ते अथैतैरेव रश्मिभिर्ध्व आक्रमते ल यावत् क्षिप्येन्मनस्तावदादित्यं गच्छतीति श्रुतौ तावन्मार्गपर्वानपेक्षमतिक्षप्रेणादित्याभि- प्राप्तिं दर्शयति ॥ १ ॥ अन्यत्र तु देवयानपितयाणाख्यौ द्वौमार्गभेदी व्याख्याय तयोः पृथक पृथक् पर्वाण्युपदिशति- तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाण- पक्षमापूर्यमाणपक्षाद् यान् षडुदङ्ङति मासांस्तान् । मालेभ्यः संवत्सरं संवत्सरा- दादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोमानवः। ल एतान् ब्रह्म गमयति एष देवयानःपन्था ॥ इत्यादिना । क्वचि च्चन्द्रमसमनाख्याय वैद्युतं ब्रह्मलोकं चाह । क्वचिद् विद्युतमनाख्याय चन्द्रमसं ब्रह्मलोकं चाह ॥ क्वचित्तु " स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकमित्यादिना स देवयानोऽग्निलोक- वायुलोकादिपर्वाख्यायते नाचिरादिपर्वा । इतरत्राग्निलोकमनुक्त्वा वायुलोका- देवेमं मार्गमुपक्रमते । यदा वै पुरुषो ऽस्माल्लोकात् प्रौति स वायुमागच्छतीति ॥४॥ अपरत्र सूर्य्यादुपक्रमते-"ये सूर्यद्वारेण ते विरजाः प्रयान्तीति ॥ ५॥ एकत्र पुनश्चन्द्रादुपक्रमते ये वैके चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वेगच्छन्तीति ॥६॥ तदिथमप्रतिपत्तौ ब्रूमः अचिरादिना तत् प्रथितेरिह सामञ्जस्यं द्रष्टव्यमिति । पूर्वाधिकरणे सृत्युपक्रमे मूईन्यनाड्या तदितरनाडीभिर्वोत्क्रान्तस्य यै रश्मिभि- रूर्ध्वगमनमाख्यातं तेषामेवं रश्मीनामचिरादिना पर्वविशेषेण प्रथनं निरूप्यते । सामान्येनोक्तानां रश्मीनामचिरादिपर्वाख्यानाद्विस्तारः प्रदर्शितो भवति । तत्रा- चिरहःशुक्लपक्षोत्तरायणसंवत्सररश्म्यवयवविशेपा द्रष्टव्याः ॥ स एतावानयमग्नि- लोकः । रश्मिरूपस्य संवत्सरस्याग्नित्वेनाख्यानात् ॥ १॥ संवत्सरादूर्ध्व वायुगच्छतीति ब्रूमः। अग्निवायवादित्यानां त्रैलोक्याधिष्ठातृतया वायुमगत्वा साक्षादग्नितआदित्यसंबन्धायोगात् ॥ श्रुतौ वायुर्नाख्यायते इति तु न भ्रमितव्यम् । अविशेषतो विशेषतश्च वायोराख्यातत्वात्। तथाहि । मासेभ्यः संवत्सरं संवत्सरादादित्यमितिछान्दोग्ये संवत्सरः पठ्यतेन देवलोकः ॥मासेभ्यो देवलोकं देव- लोकादादित्यमिति वाजसनेयके देवलोकः पठ्यते न संवत्सरः । तदुभयैकवाक्यतया संवत्सर एव देवलोक इति गम्यते । यत्तुशंकरस्तयोर्भेदं मन्यमानोमासेभ्यः संवत्सरः ( १०७ ) ततो देवलोकः ततो वायुः तत आदित्य इत्येवमावपति तदज्ञानात् । संवत्सरःखलुवै देवाना पूरिति श्रुतेः, देवचक्रं वा एतत् परिप्लवं यत्संवत्सरः । संवत्सरमेव तद्यज- मानाः समारोहन्तीति ( कौ० वा० २०११ ) कौषीतकिश्रुतेः । “मध्येह संवत्सरस्य स्वर्गों लोकः (शत० ६७ अ०४ वा ) इति । संवत्सरो वै देवानां जन्म ( शत० ८७ अ०३ वा० ) इति श्रुतेश्च संवत्सरस्यैव देवलोकत्वाभ्युपगमात् ॥ तथा च देवत्वा. विशेषाद् वायुरपि तत्रोक्तप्राय एव । योऽयं पवते एष देवानां गृहा:"-इति श्रुतेः "अग्निः सर्वा देवता वायुः सर्वा देवताः" इति श्रुतेश्च संवत्सराग्निवदं वायोरपि देवलोकत्वाविशेषाद् देवलोकशब्देनैव वायोरपि संग्रहणात् ॥ येषां तु शंकरा. दीनां मते संवत्सरादूर्ध्व देवलोकः पृथक पठ्यते तेषां च तच्छब्देन वायुरेवायं द्रष्टव्यः । अथ विशेषतश्च स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति। स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलीकम्" इति कौषी- तकश्रुतावग्निलोकं वरुणाधादित्यलोकं चान्तरा वायुराख्यायते ॥२॥ तथा चाशिःसर्वा देवताकायुःसर्वा देवता" इति श्रतः संवत्सरशब्दोक्तानग्निम- यान् सर्वान् पूर्वगत्वा वायुमयान्देवानन्तरिक्षभाजोगच्छति। ततोयदा वै पुरुषोऽस्मा- ल्लोकात् प्रति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं, तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति । तस्मै स तत्र विजिहीते। यथालम्बस्स्य खं, तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति । तस्मै स तत्रविजिहीते यथा-दुन्दुभेः खम् । तेन स ऊर्ध्वमाक्रमते सलोकमागच्छत्यशोकमहिमम् । तस्मिन्वसति शाश्वतीः समाः' इतिवाजसनेयच तेः, पूर्वोक्तकौषीतकश्रु तेश्च; वरुणेन्द्राभ्यां द्वधा विभक्त- मादित्यं गच्छाति प्राप्तौ तत्र विशेषं ब्रूमः-तडितोऽधि वरुणो द्रष्टव्य इति ॥ संवत्सरादूर्व वायु गत्वा तत आन्तरीक्ष्यत्वसामान्याञ्चन्द्र विद्युतं च प्रथमं गच्छति ततो वरुणमिन्द्रं चेति क्रमोनेयः । “यदा हि विशाला-विद्युतस्तीवस्तनितनि?षा जी. मूतोदरेषु प्रनृत्यन्ति अथापः प्रपतन्ति । विद्योतते स्तनयति वर्षिष्यति वेति ब्राह्मण- श्रुत्या विद्युद्वरुणयोः सम्बन्धावगमात् ।। नन्वेवं तर्हि संवत्सरादादित्यमादित्या. च्चन्द्रमसं चन्द्रमसो विद्युतं स ब्रह्म गमयतीति प्रत्यक्षश्रुतिविरोधः स्यादिति चेन्न । तत्रादित्यशब्दश्य संवत्सरप्रवर्तकतदात्माभिप्रायकत्वात् तस्याग्निलोक एवान्त- र्भावात् । ततो वायुचन्द्रविद्युद्भिर्वायुलोकः। ततो वरुणेन्द्राभ्यां धुलोकः। ततः प्रजापतिर्ब्रह्म वेत्युभयमशोकमहिमं दिवः परस्तात् परोरजो धाम ।। तत्रापि प्रजाप- तिरपरं कार्यब्रह्म । ततः परं मुख्यं ब्रह्म । ला परागतिः ॥ प्रजापतिरेव वा परागति- रितिमार्गपर्वाणि । सूर्यद्वारेण ते विरजाः प्रयान्तीत्यत्र सूर्य्यशब्दो वरुणेन्द्रपरः । इन्द्रोयं हिरण्मयः कोशः तमिन्द्रं गत्वा विरजसो भवन्तो विरजो ब्रह्मैव संपद्यते । "हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्। तच्छुभ्रं ज्योतिषां ज्योतिरायुहोपा. सतेऽमृतम्" इति श्रुतेः ॥ ३॥ अथवा विद्युदेवायमिन्द्रो य एष हिरण्मयकोश इहेष्यते । न तु वरुणादुत्तरः । “यदा वैपुरुषोऽस्मालोकादिति वाजसनेयश्रुत्येकवाक्य- तानुरोधेन “स एतं देवयानं पन्थानमिति कौषीतकश्रुतौ वरुणस्यादित्यतया इन्द्रस्य च चन्द्रपरतया व्याख्येयत्वात् । वरुणपर्यन्तानामहिनवाय्वादित्यांनाम- ( १०८ ) ग्निरूपतया तदूर्व सोमस्यैव लब्धावसरत्वाच्च । अग्निसोमाभ्यामुत्तीर्णस्य तत्प्रभवे कार्यब्रह्मणि परब्रह्मणि च क्रमेण प्रवेशोऽवकल्पते । तत्राद्यस्य कामप्रलोकत्वं परस्या- शोकमहिमलोकत्वं चावसेयम् । तत्प्रथितेरविशेषाभ्यामित्येतद्वयाख्यानं शंकरकृतं विडम्वनामात्रं नातीव सम्यगस्तीत्युपेक्ष्यते ॥ १॥ ॥ इति आरोहणमार्गपर्वाधिकरणम् ॥१॥ - or अर्चिः अग्निलोकः पृथ्वी ३ शुक्लपक्षः उत्तरायणमासाः ५ संवत्सर देवलोकः प्रथमलोकः . वायुलोकः ६ वायुः मध्यमलोकः अतरिक्षम् आदित्यलोकः ७/ आदित्यः उत्तमलोकः धुलोकः सोमलोकः चन्द्रमाः ६ विद्युत्-ईन्द्रः विरजा अशोकमहिमलोकः १० | वरुण:-आदित्यः ११ इन्द्रः-चन्द्रमाः कः द्यौः उत्तमलो- १२ प्रजापतिः १३ ब्रह्म अस्मिंश्चार्चिरादि विद्युदन्ते देवयानमार्गेऽहरादयः संवत्सरान्ताः कालशब्दाः श्रूयन्ते ततोऽहरादिकालविशेषे मृतानामेवायं देवयानः पन्थाः स्यात् इष्यते च राज्यादिमृतानामपि विदुषामित्यत उच्यते-न तावदिमे कालविशेषा अभ्युप- गम्यन्ते किन्तु आतिवाहिका एते कालाभिमानिनो अग्निमया देवाः प्रेतानामति- यात्रायां प्रवृता इति तल्लिङ्गादवगम्यते । "तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयतीत्युपसंहाराक्षरेणार्चिरादीनां सर्वेषां गमयितृत्वोपपत्तेः । अत एवैतानि मार्गचिह्नानि भोगभूमयो वेत्यपि निरस्तम् । ननु प्रेताः स्वयमेव गमिष्यन्ति ।
। अहरादिकालद्वारा वा यास्यन्ति इति तेषां देवविशेषत्वकल्पनं नावकल्पते इति चेन्न । उभयव्यामोहात् तत्सिद्धेः । प्रेतास्तावदेहवियोगात् संपिण्डित- करणनामा दीर्घयात्रायामस्वतन्त्रा स्युः । अचिरादयोऽप्यचेतनत्वादस्व- तन्त्राः स्युः । तथा चोभयेषामयोग्यत्वादभिमानिदेवानां चेतनानां नेतृत्वं सिद्धयति । अग्निस्वामिकं लोकं प्राप्तोऽग्निनातिवाहते वायुस्वामिकं तु लोकं प्राप्तो वायुनेति संभाव्यते । एष च न्यायो विद्युत्पर्य्यन्त एव द्रष्टव्या नोपरिष्टा- द्वरुणेन्द्रप्रजापतिलोकेषु वरुणेन्द्रादिभिर्नीयते । विद्युतं प्राप्तस्य तत ऊर्वेषु वरुणादि लोकेषु वैद्युतेनैवामानवेन पुरुषेणातिवाह्यत्वं प्रतिपत्तव्यं तच्छतेः । "स एतान् ब्रह्म गमयतीति ब्रह्मपर्यन्तं तस्यैव गमयितृत्वं श्र यते । न वरुणादीनाम् । ।। इत्यचिरादीनामातिवाहिकत्वाधिकरणम् ॥ स एतान् ब्रह्म गमयतीत्यत्र किं कार्यमपरं ब्रह्म गमयति अथवा परमं वा विकृतं मुख्यं ब्रह्मति संशये निर्णयमाह वादरिराचार्यः स एतानमानवः पुरुषो हिरण्यगर्भाख्यं कायं ब्रह्म गमयतीति । अस्य मत्युपपत्तेः । अस्यैव हि कार्य- ब्रह्मणो गन्तव्यत्वमुपपद्यते तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयभित्यादि श्रुत्युक्तप्रदेशवत्वात् । न तु परस्मिन् ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिवापपद्यते। सर्वगतत्वात् गन्तृणां प्रत्यगात्नत्वाच्च । विशेषितत्वाच्च । ब्रह्मलोकान् गमयति ते तषु ब्रह्मलोकेषु पराः परावतो वसन्ति" इति श्रुत्यन्तरे वहुवचनेन विशेषि- तत्वात् कार्यब्रह्मविषयैव गतिरित्यवगम्यते । काय्यऽवस्थाविशेषोपपत्या वहुत्वसंभवेऽपि परब्रह्मणि निर्विशेषे तदनवक्लतः । ननु कार्याविषये ब्रह्मशब्दो नोपपद्यते समस्तजगजन्मादिकारणे ब्रह्म शब्दप्रतिष्ठानादिति चेन्न। सामी- प्यात्तु तद्वयपदेशः । परमेव हि ब्रह्म विशुद्धोपाधिसंबन्धात् क्वचिकैश्चि- द्विकारधर्मेर्मनोमयत्वादिभिरुपासनायोपदिश्यमानमपरमुच्यते इति परब्रह्म- सामीप्यादपरस्मिन् ब्रह्मशब्दव्यपदेशो न विरुध्यते । तत्र गतानां तेषामिह न पुनरावृत्तिरस्ति ।पराः परावतस्तत्र वसतां कार्यात्यये तध्यक्षेण सहातः परं प्रतिपद्यते इत्यभिधानादवगच्छामः । भवति हि कदाचित् कार्यब्रह्मणः प्रलयसमयः । तदानीं कार्यधर्माणां स्वत एवात्यये जाते तदध्यक्षेण विज्ञानात्म- ना सहैवातः प्रजापतेः परं ब्रह्म परिशुद्धं निर्विशेष धाम प्रपद्यते। एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते इत्यभिधानात् " ब्रह्मणा सह ते सर्वे संप्राप्त प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्-इति स्मृतेश्च ॥ तस्मात् कार्यब्रह्म- विषयैव विदुषां प्रभावाद् गतिः श्रूयते इति सिद्वान्तः ॥ इति वादरिमतेन कार्यब्रह्मावसानगत्यधिकरणम् ॥ जैमिनिस्त्वाचार्यों मन्यते-“स एतान् ब्रह्म गमयतीत्यत्र वैद्युतः पुरुषः परमेव ब्रह्म प्रापयति । तस्य मुख्यत्वात् । परस्मिन्नेव हि ब्रह्मशब्दस्य मुख्यावृत्तिः । ।
( ११० ) कार्य गौणी । संभवति मुख्यग्रहणे गौणग्रहणमन्याय्यम् । तयोध्वमायन्नमृतत्व. भेतीति दर्शनाच परावसाना गतिाय्या । कर्मणा मृत्युमृषयो निषेदुरिति श्रुतेः कार्यस्य मृत्युमयत्वात् । अपि च कठवल्लीषु दृश्यते । “अन्यत्र धर्मादन्यत्राधर्मा- दन्यत्रास्मात् कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वति परब्रह्म- विषयके नाचिकेतप्रश्ने प्रतिवक्ष्यमाणो यमः-"अव्यक्तास्तु परः पुरुषो व्यापको- ऽलिङ्ग एवच । यज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति । महतः परमव्यक्त- मव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्टा सा परागतिरित्यादिना तस्यैव परब्रह्मणः परगतित्वं व्याचति ॥ प्रजापतेः सभां वेश्म प्रपद्ये इत्यादीनां प्रजापतिविषयकवाक्यानामपि न च काये ब्रह्मणि प्रतिपत्तिमभिसंभः ॥ नाम- रूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मेति-कार्यविलक्षणस्य परस्यैव ब्रह्मणस्तत्रापि प्रकृतत्वात् ॥०॥ ॥ इति जैमिनिमतेन परब्रह्मावसानगत्यधिकरणम् ॥ अथ गन्तव्यं निर्धार्य गन्तृन्निर्धारयति। तत्र निगुणिया विद्यया विद्यावतां देवयान- गतिनास्ति । निर्गणं निर्विशेष परब्रह्मोपासमानानामशेषाविद्याविनिवृत्या स्वस्यैव ब्रह्मभावेन संपत्तौ तत्र गत्यपेक्षाभावात् । सगुणाभिस्तु सर्वविधाभि- विद्याभिदेवयानगतिः संभवति । कार्य ब्रह्मोपासमानानामचिराधातिवाहिकै- ह्मलोकेषु नीयमानत्वादिति तृतीयाध्याये तृतीयपाद गतेरर्थवत्वनुभयथेत्यादि- सूत्रत्रये पूर्व निरूपितम् । तत्र सगुणास्वपि कासुचिद्विद्यासु देवयानगति- नास्तीत्येवं विशेष दयितुमिदानीमधिकरणान्तरमुच्यते-अप्रतीकालम्वनान्न- यतीति वादरायणः प्रतिजानीते । नामवाङ्मन:संकल्पचित्तध्यानविज्ञानवला- नापतेजोऽयं मस्मराशाप्राणानां ब्रह्मभावनानि प्रतीकोपासनानि । तेषु देवपथा- ख्येने देवयानेन विद्युत्पर्यन्त सत्यपि गमने तत ऊर्ध्व स वैद्युतः पुरुषस्तान् प्रतीकोपासकान ब्रह्म प्रापयति । गतेरर्थवत्वमुभयर्थत्यत्र सूत्रे यथा गति- सत्त्वासत्त्वोभयथात्वं निर्गुणसगुणविद्याभेदाद् व्याख्यातं, तथेह सगुणविद्याया- भपि प्रतीकाप्रतीकोपासनभेदादू गतिसत्त्वासत्त्वोभयथात्वाभ्युपगमे कश्चिद्दोषो नास्ति । तत्क्रतुर्हि ब्रह्मप्राप्ती हेतुः । यथा ऋतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति तं यथा यथोपासते तदेव भवन्तीति श्रुत्या ब्रह्मक्रतोरेव ब्रह्म- संपद्योग्यत्वात् । नन्वब्रह्मक्रतुमानपि ब्रह्म गच्छतीति पञ्चाग्निविद्याफलश्रव- णाद् गम्यते इति चेत् सत्यम् । तत्र विशिष्य विधानात् तथा सिद्धावप्यन्यत्री. सर्गिकेण तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव ब्रह्मप्राप्त्यभ्युपगमात् । नामादिषु तु ध्येयेषु ब्रह्मणो गुणत्वान्न ब्रह्मथ्यायित्वमतस्तत्र नामादिप्राप्तिरेव सिद्ध्यति । विशेषं च दर्शयति । यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यावद्वाचोगतमित्यादिना पूर्वस्मात् पूर्वस्मात् फलविशेषमुत्तरस्मिनुत्तरस्मिन्नुपासने दर्शयति । स चायं फलविशेषः प्रतीकतारतम्यादुपपद्यते । ब्रह्मोपपत्तौ तु तस्या विशिष्टत्वादीदशः फले विशेषो न स्यात् । तस्मान्न प्रतीकालम्वनानां ब्रह्मसंपत्तिरिति सिद्धम् ॥ इति वादरायण मृतेन प्रतीकोपासकानां विदुषामपि मुत्तयभावाधिकरणम् ॥
रामानुजस्तु गन्तव्यविषयमेवाधिकरणत्रयेण निर्धारयितु कार्य वादरित्यादि- सूत्रकलापमन्यथा व्याचष्टे । अर्चिरादिविधुदन्तोऽयमातिवाहिको गणः कार्य- ब्रह्मोपासीनं नयति परब्रह्मोपासीनं बेति संशये वादरिस्तावदाह- कायं हिरण्य- गर्भमुपासीनमेव नयति अस्यैव गत्युपपत्तेः । नहि परिपूर्ण सर्वज्ञं सर्व- गतं सर्वात्मभूतं परब्रह्मोपासितुस्तपातये देशान्तरगतिरुपपद्यते । नित्यप्राप्त- परब्रह्मविषयाविद्यानिवृत्तौ परविद्यया जातायां प्राप्तस्यैव ब्रमणः स्वयं प्रकाश- मानत्वत् । कार्यस्य तु हिरण्यगर्भस्यापरिच्छिन्नत्वात् तत्प्राप्तये गतिरुपपद्यते । पुरुषोऽमानवः स एत्य ब्रह्मलोकान् गमयतीति वहुवचनेन विशेषितत्वाच्च । ननु हिरण्यगर्भस्य गम्यत्वे स एतान् ब्रह्माणं गमयतीति निर्देष्टव्यं स्याद् ब्रह्म गमयती- त्येवं कथमुच्यते इति चेत्-लामीप्यातु तद्यपदेशो द्रष्टव्यः । यो ब्रह्माणं विदधाति पूर्वमिति श्रुत्या हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्मसामीप्यातच्छव्हेन व्यपदेश उपपद्यते । ननु एष देवपथो ब्रह्मपथः एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्त- न्ते इत्ययुनरावृत्तिश्रवणं हिरण्यगर्भातौ विरुदयते । हिरण्यगर्भस्य कार्यभूतस्य द्विपरार्द्धकालनात्रावसायित्वात् । आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽजुनेति वच नाच्च हिरण्यगर्भप्राप्तस्य पुनरावर्तनीयत्वादिति चेन्न । कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । कार्यस्य ब्रह्मलोकस्यात्यये ब्रह्मलोकाध्यक्षेण हिरण्य- गर्भण सह स्वयमधिगतविद्योऽयं जीव आत्मा कार्यादतः परं ब्रह्म प्राप्नोति । अपुनरावृत्त्यभिधानात् । ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्व इत्यभिधानाच्च । ब्रह्मणा सह ते सर्व इत्यादिस्कृतेश्च ॥ तस्मात् कार्य- मुपासीनमेवातिवाहिको गणो नयतोति सिद्वान् ॥. इति रामानुजमतेन वादरिमतीयं कार्यब्रह्मोपासनैकहेतुकदेवयानगत्यधिकरणम् । । जैमिनिस्त्वाचार्यों मन्यते--परं ब्रह्मोपासीनमेवातिवाहिको नयतीति विद्मः परस्मिन्नेव ब्रह्मणि ब्रह्मशब्दस्य मुख्यत्वात् । न च गत्यनुपपत्तिरस्ति । निःशेषा- विद्यानिवृत्तिलक्षणामृतत्वप्रातर्विशिष्टदेशगतिसापेक्षत्वात् । एष संप्रसादोऽस्मा. च्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते इत्यादि शास्त्र- दर्शनाच्च । नन्वचिंरादिनागतस्य प्रजापतेः सभां वेश्म प्रपद्ये इत्यादिना काय प्रत्यभिसन्यिदृश्यते इति चेत्तत्र ब्रूमः । न चायं काये हिरण्यगर्भे प्रत्यभिसन्धिः । अव इव रोमाणि विधूय पापं चन्द्र इव राहोमुखात् प्रमुच्य धूत्वा शरीरमकृतं कृता- मा ब्रह्मलोकमभिसंभवानीत्यभिसंभाव्यस्य ब्रह्मलोकस्याकृतत्वश्रवणात् सर्व- वन्धविनिर्मोकश्रवणाच्च । तस्मात् परं ब्रह्मोपासीनमेवातिवाहिको गणो नय- तीति विद्यात् ॥ ॥ इति रामानुजमतेन जैमिनिमतीयं परब्रह्मोपासनकहतुकदेवयानगत्यधिकरणम् ।। अनयोर्मतयोबिरुद्धत्वात् तत्र सिद्धान्तं भगवान् वादरायणः प्राह । प्रतीको- पासकव्यतिरिक्तानुभयविधानप्येतानयत्यर्चिरादिरातिवाहिको न” इति . मन्त:
( ११२ ) व्यम् । कार्यभुपालीनानेव नयतीति वादरिमताभ्युपगमे-'अस्माच्छरीरात् समुत्थाय परं ज्योतिरूपसंपोत्यादिकाः अतयः प्रकुप्येयुः । परमुपालीनानेव नयतीति जैमिनिमताभ्युपगमेऽपि “तच इत्थं विदुय चोऽरण्ये श्रद्धां तप इत्युपासते तेऽचित्रमभिसंभवन्तीति पश्चानिविदा श्रद्वायुपालकान्दामपि ब्रह्मपथोपदेशिका श्रुतियाकुप्येत् । तस्मादुभयथापि दोषदर्शनाद लवोऽपि तत्क्रतुः सन् ब्रह्म प्राप्नोति मन्यामहे । तत्क्रतुस्तथोपालीनस्तथा प्रामोतीति कृत्वा कार्यब्रह्मोपासीनान् कार्याब्रह्मैव, परब्रह्मोपासीनांस्तु परब्रह्मैव जयतीति लिद्धान्तः । नामैव ब्रह्म वागेब ब्रह्मत्येवं प्रतीकोपासकांस्तु ल प्रक्ष नयांत। नामादिक्रतुवामामादिप्रातरेव तेषां न्यायप्राप्तत्वात् । श्रुतिरेव च तनि विशेषं दर्शयति-यावना जो गतं तत्रास्य यथा- कामचारो भवतीत्यादिना ॥ ॥ इति रामानुजमतेन वादरायणमतीयबुभयविधनोपासनहेतुमदेवयानगत्यधिकरणम् ॥ ॥ इति गतिविवेकाधिकारः।। ॥ इति गतिपादस्तृतीयः ॥ ३ ॥ " अथ मुक्तिपादः प्रारभ्यते ४ ॥ कैवल्यमुक्त्यधिकारः ॥ २॥ संपाद्याविर्भावः स्वेन शब्दात् । मुक्तः प्रतिज्ञानात् । आत्मप्रकरणात् ॥ १॥ एवमेवैष संप्रसादोऽस्माकरीरात् समुत्थाय परंज्योतिरूपसंपद्य स्वेन रूपेणा- भिनिष्पद्यते' इति मुक्तिच तावभिनिष्पत्तिशब्देन देवलोकायुपभोगस्थानेष्वि- वागन्तुकस्य कस्यचिद्विशेषस्थात्मनि सिद्धिर्वक्तव्या, नतु यथाश्रुतं स्वरूपावस्थान- मात्रम् । नित्यप्राप्तस्य तस्यापुरुषार्थत्वादित्येवं प्राप्ते ब्रूनः-संपाद्याविर्भावोऽस्ती- ति ॥ ज्योतीरूपस्यारमनो ज्योतिरावरकधर्माणां नि.शेषविमोकादात्मस्वरूपेण संपाद्य केवलस्य विशुद्धज्योतिष आविर्भाव एवाभिनिष्पत्तिः। न तु धर्मान्तर- संश्लेषस्तत्र विवक्ष्यते । स्वेन रूपेणाभिनिष्पद्यते इत्येवं स्वेनशब्दात् । यद्यत्र धर्मा- स्तरोत्पत्तिः स्यात् तर्हि तेन धर्मविशेषेणाभिनिष्पद्यते इति ब्रूयात् । यत्तु स्वरूपस्य नित्यप्राप्तत्वादपुरुषार्थत्वमुक्तं तन्न । आत्मज्योतिरावरकाणां बन्धहेतूनां धर्माणां निवर्तनस्यैव पुरुषार्थत्वात् ॥ तस्मात् सर्वधर्मपरित्यागात् नित्यनिरतिशयस्वरूपा- विर्भावोऽभिनिष्पत्तिरितिबोध्यम् । ननु स्वरूपस्य नित्यप्राप्तत्वादुपसंपद्याभि- निष्पद्यते इति वनमनकमिति चेत् । तत्रोच्यते। मुक्तः प्रविज्ञानात् । नित्यप्राप्त.
स्यापि स्वरूपस्य कर्मरूपाविद्यातिरोहितस्य तिरोधाननिवृत्या कर्मसंवन्धतत्कृत-
देहादिमुको भवतीत्येवान संपदाभिनिष्पत्तिः ॥ तथा चायमात्मा पूर्वमन्धप्रयोजकैः
सर्वरेव धर्मः पूर्व मुक्तो नासीत् स इदानीं तैमुक्ता भवति। "अशरीरं वाव सातं न
प्रियाप्रिये स्पृशतः" इति प्रतिज्ञानात् । यथा न क्रियते ज्योत्स्नामलप्रक्षालनाणेः।
दोषप्रहाणान ज्ञानमालन: क्रियते तथा?|यथोदपानकरणात् क्रियते न जलाम्वरम्।
सदव नीयते व्यक्तिमसतः संभवः कुतः ॥२॥ तथा हेयगुणध्वंसादेव बोधादयो
गुणाः । प्रकाश्यन्ते न जायन्ते नित्या एवात्मना हि ते॥३।" इतिशानकादिप्रतिज्ञा-
नाच्च ॥ ननु परं ज्योतिरूपसंपद्येत्यादिना ज्योतिः स्वरूपोपसंपत्त्याख्यानान्नायमेका.
तितो विका विषयातिवृत्तो भवतीति चेन्न । प्रकरणानुरोधादात्मैव तत्र ज्यो-
तिरिति कृत्वा वैकारि ज्यातिषोऽनुपग्रहणात् ॥ तदेवा ज्योतिषां ज्योतिरियादि
श्रुत्याऽत्मन्यपि ज्योतिःशब्दस्य वृत्तः। व्याख्यातं चैतज्ज्योतिर्दर्शनादिति सूत्रे ।
तथा च सर्वधर्मविनाकादामनः स्वरूपमात्रपर्यवसायिता मुक्तिरिति सिद्धम् ॥
तत्र चेन्द्रियविषयादिद्वितीयासंनिधानात् सुषुतिवदसंवीधः प्रशान्तानन्दरूपत्वं
चेति वोध्यम्॥
॥ इति ज्योतिरावरकाषायात्यन्तविनिया ज्योतिराविर्भावस्य कैवल्यमुक्तयधिकरणम् ॥
अविभागेन दृष्टत्वात् ॥ १ ॥
वैकारिकैर्धनैरपरिश्वतो विशुद्धज्योतिःस्वरूपः परमाना । वैकारिकधः
परिष्वक्तस्तु ज्योति.स्वरूपः प्रन्यगाना । स यदानीं तैर्वनरत्यन्तविनिर्मको
भवति तदानीमविशेषात् परमामना सारश्यमेति । इत्येवं स्थित जिज्ञासा भवति
किमयं तदानीं परमालनः पृथगेवावतिष्ठतेऽथवा तदविभागेनैकीभवतीति । तत्रेदं
निर्धाय॑ चूने-अविभागेन त्वादिति । अविभक्त एव परेणात्मना भुक्तोऽवतिष्ठते ।
"तत्वमलि । अहं ब्रह्मास्ति । यत्र नान्यत् पश्यति । न तु तद् द्वितीय-स्ति । ततो.
ऽन्यद्विभकं यत् पश्शेद । यथोदकं शुद्ध शुद्धतालिकं ताडगेव भवति एवं मुनेर्वि-
जानत आला भवात गौतम" इत्यादिभिर्वाक्यजातैः परमामाविभक्तस्यैव तस्य
दशनात् ॥ ननु-यदापश्यः पश्यने रुकन्वर्ण कर्तारमाशं पुरुपं ब्रह्मयानिम् । तदा
विद्वान् पुण्यपा विधूय निरञ्जनः परमं साम्यमुपैति"-इति श्रुतौ साम्योपदेशात् ।
"सोऽश्न सर्ग काला सह ब्रह्मणा विपश्चिता"-इतिश्रु तो साहित्योपदेशात् ।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यागताः । सर्गेपि नोपजायात प्रलये न व्यथन्ति च ।
इति स्मृती साधोपदेशाच्चास्य मुकात्मनः परमा-पार्थक्यं लभ्यते इति चेन्न ।
देवादिप्राकृतरूपहाणेन ब्रह्माजनान शु. परस्परकीभावे साहिन्यं, ध-तोऽनति-
रेकं च वक्तुं तथा व्यवहारात् ॥ तथा च मुक्तात्मनः परमात्मना सर्वथैकीभावो
भवतीति सिद्वम् ॥
॥इति शंकरमतेन कैवल्ययुक्तौ जीवात्मनः परमात्मना सर्वथैकीभावस्य मुक्तित्वाधिकरणम् ॥३॥
( ११४ )
रामानुजस्तु जीवेश्वरयो दवादितया यदापश्यः पश्यते रुक्मवर्णमित्यादि
श्रुतिस्मृत्यनुरोधान्मुक्तस्य परमात्मस्वरूपैक्यममन्यमानः सूत्रमिदमन्यथा व्याचष्टे ।
तथाहि मुक्तात्मा परस्माद्ब्रह्मणः स्वात्मानमविभागेनानुभवति । परं ब्रह्मोप-
संपद्य याथातथ्येन निवृत्ताविधातिरोधानस्य स्वात्मनो वृष्टत्वात् ॥ यथा शरीरमिदं
जीवात्मना सात्मक प्रतिपद्यते तथायं जीवात्मापि परमात्मना सात्मकः प्रतीयते ।
शरीरप्रत्यगात्मनोरविभागवत् प्रत्यगात्मपरमात्मनोरयविभागं तदानीमनुभवति ।
अहंब्रह्मास्मीत्याद्यभेदश्रुतीनामत्रैव तात्पर्य्यात् ॥ अवस्थिते रिति काशकृत्स्नः ।
अधिकं तु भेदनिर्देश्यादधिकोपदेशादित्यादिसूत्रजातं चानार्थे विमृश्यम् ।
इति रामानुजमतेन कैवल्यमुक्तौ जीवात्मनः परमात्मना सात्मकत्वानुभवस्य मुक्तित्वाविकरणम् ।
ब्राह्मण जैमिनिरुपन्यासादिभ्यः । चितितन्मात्रण तदात्मकत्वा-
दित्यौडुलोमिः ॥ एवमप्युपन्यासात् पूर्वभावादविरोधं बाद-
रायणः ॥३॥
मुक्तावस्थायां प्रत्यगात्मा बाह्यधर्मविक्षिणात् स्वेन रूपेणाविर्भवतीत्युक्तम् ।
तत्र कीहशेन स्वरूपेणेति जिज्ञासायां जैमिनिस्तावदाह-ब्राह्मण रूपेणाविर्भव.
तीत्युपन्यासादिभ्यो गम्यते । एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽवि-
जिघत्सोऽपिपासः सत्यकामः सत्यसंकल्प इत्युपन्यस्य, स तत्र पति जक्षत्
क्रीडन् रममाणः तस्य सर्वेषु लोकेषु कामचारो भवति इति, सर्वज्ञः सर्वेश्वर इति
चाख्यानादपहतपाप्मत्वादेरेवास्य ब्रह्मणः स्वीयरूपत्वात् ॥ अथोडुलोमिस्त्वा-
चार्यों मन्यते । चितितन्मात्रेण रूपेण मुक्तात्मनोऽवस्थानमस्ति । स यथा सैन्धव-
घनोऽनन्तरोऽवाह्यः कृत्स्नो रसधन एव, एवं वा अरेऽयमात्माऽनन्तरोऽवाह्यः कृत्स्नः
-प्रज्ञानधन एव विज्ञानघन एवेत्यवधारणादस्यात्मनो विज्ञानमात्रात्मकत्वात् ॥
यद्यप्यपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिश्यन्ते तथापि विकारसुखदुःखाद्यविद्या-
त्मकधर्मव्यावृत्तिमात्रं तत्र गम्यते न तु तावता केनचिद्धर्मण धर्मित्वमुपपद्यते।
सत्यकामत्वादयो धर्मा यद्यपि वस्तुस्वरूपेणोच्यन्ते। तथापि न स्थानतोऽपि परस्यो-
भयलिङ्गमिति सूत्रेऽस्यात्मनोऽनेकाकारत्वप्रतिषेधान्न कामसंकल्पादीनां चैतन्य-
वदात्मस्वरूपत्वं संभाब्यते । अत एव जक्षनक्रीडनरमणान्यपि दुःखाभावमात्राभि-
प्रायाणि स्तुत्यर्थान्येव नतु मुख्यानि । तेषां द्वितीयविषयत्वानिरस्ताशेषप्रपञ्चेऽस्मि-
नेषामयोगात् तस्माद्विशुद्धज्ञानमात्रं स आत्मा न स्वयं तदानीं ज्ञानवान् सर्वज्ञ
इति प्रतिपत्तव्यम् ॥ अथ वादरायणस्तु विरुद्वयोरप्यनयोजैमिन्यौडुलोमिमतयो-
रविरोधमेव पश्यति । एवमुक्तरीत्या पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेपि
"एष आत्मापहतपाप्मेत्याधुपन्यासात् सत्यकामत्वसत्यसंकल्पत्वसर्वज्ञत्वादि-
रूपस्य जैमिन्युक्तपूर्वभावस्याऽपि संभवात् ॥ प्रकाशस्य प्रकाशकाववज्ज्ञानस्य
ज्ञानव्रत्त्वं नानुपपन्नम् । तत एव च सत्यकामत्वसत्यसंकल्पत्वादयोऽप्यविरुद्वाः॥
॥ इति स्वात येणात्मनः संकल्पोपनतसर्वकामाधिकरणम् ॥ ४॥
रामानुजस्त्वाह-न ज्ञानमात्रमेवास्यात्मनः स्वं रूपमिति श्रुतिसिद्धोऽर्थः ।
किन्तु यथा रमवत्स्वानफ्लादिषु स्वगादिदन रसभेदोऽवकल्पते, न तथा
सैन्धवयने । तत्र हि सर्वत्रेकरसोऽस्ति। एवमत्यात्मनः सर्वत्र विज्ञानस्वरूपत्वं
स्वप्रकाशस्वरूपत्वमिति कृत्वा कृत्स्नोऽप्यात्मा जडव्यावृतः स्वप्रकाशोस्ति ।
नन्यायत्तप्रकाशः स्वल्पोऽप्यस्य प्रदेशोऽस्तीत्यत्रैव श्रतितात्पर्य । तथा च
यथा सैन्धवधनस्य कृत्स्नस्य रसघनत्वे रसनेन्द्रियावगते चक्षुराधवगता
रूपकाठिन्यादयो धर्मा न विरुध्यन्ते तथेह कृत्स्नस्य विज्ञानघनत्वेऽपि अपहत.
पाप्मत्वसत्यसंकल्पत्वादिधर्मसम्बन्धः श्रुत्यन्तरसिद्धो न विरुध्यते।
॥ इति रामानुजमते कैवल्यमुक्तो निर्दोषगुणवच्चेतनात्मरूपाभिसंपत्यधिकरणम् ॥३॥
॥ इति कंवल्यमुक्तिविचाराधिकार. पूर्णः।।
.
अथ निःश्रेयसमुक्तिविचाराधिकारः।
सङ्कल्पादेव तु तच्छुतेः । अत एव चानन्याधिपतिः ॥ ४॥
सत्यकामत्वसत्यसंकल्पत्वादिरूपेणाय मुक्तात्माविर्भवतीत्युक्तम् । तस्य च
संकल्पसिद्धा व्यवहाराः श्रूयन्ते “स तत्र पयति जक्षत् क्रीडन् रममाण
इत्यादयः ।
तत्रता यथाका स्त्रीयानज्ञात्यादिप्रातयः संकल्पपूर्विकाः
प्रयत्नान्तरसापेक्षा उत्पद्यन्ते अथवा प्रयत्नान्तरनिरपेक्षं संकल्पमात्रादेवोप.
पद्यन्ते इति संशये लोके संकल्पितज्ञार्यसिद्धौ प्रयत्नान्तरसापेक्षत्वदर्शनाद-
त्राप्यपेक्षा स्यादिति प्राप्त निरूपयति संकल्पमात्रादेधास्य सर्वे कामाः संसिध्यन्ति
न निमितान्तरमपेक्षन्ते इति तच्छ्रुतेरवगम्यते । “स यदि पितृलोककामो भवति
संकल्पादेचास्य पितर: लमुत्तिष्ठति" इत्येवमादिश्रुतिजातं निमित्तान्तरनिरपेक्षं
संकल्पस्यार्थोद्भावकत्वं दर्शयति । निमित्तान्तरमपि वापेक्ष्यमाणं संकल्प-
मात्रोपपाधं स्यात् । अतः संकल्पस्यैव सर्वार्थसाधकत्वात् स मुक्तात्मा सत्य-
संकल्प उपपद्यते । अत एव चावन्ध्यसंकल्पत्वादयमनन्याधिपतिर्भवति । नास्य
तदानीमन्योऽधिपतिरवतिष्ठते । परतन्त्रत्वे हि परसंकल्पाधीनतया कदाचिद्
व्याहतसंकल्पः स्यात् । सत्यसंकल्पस्तु श्रूयते । तस्मादयमात्मा मुक्तः स्वतन्त्रो
भवतीत्यवधेयम्।
॥ इति स्वातन्त्र्घेणात्मनः संकल्लोपनतसर्वकामाधिकरणम् ॥४॥
अभावं वादरिराह ह्येवम् ॥ १॥ भावं जैमिनिर्विकल्पा-
मननात् ॥ २ ॥ द्वादशाहबदुभयविधं वादरायणोऽतः ॥ ३ ॥
तन्वभावे सन्ध्यवदुपपद्यते ॥ ४॥ भावे; जगद्धत् ॥ ५॥
( ११६ ) प्रदीपवदाशरतथा हि दर्शयति ॥ ६॥ स्वाप्ययसम्पत्योरन्य- तरापेक्षमादितं हि ॥७॥ संकल्पाइस्य कानाः सिध्यातीयुक्तत्वान्मनस्तावसंकल्पसाधनं सिद्धम् । किन्तु शरीरेन्द्रिय णि. मुक्तात्मनः सन्ति न सतीते विचारः प्रक्रम्यते। तत्र मुकावस्थायालामतः शरीरस्मेन्द्रियाणां चामा वादरिन्यते। एवं हाह श्रुतिः “न ह वै सशरीरस्य सतः प्रियाप्रिययोरप इतिरस्ति । अशरीर वाव स तं नियापियन स्पृशतः" । इति सशरीरस्य सुखदुःखयानाव्यतिरेक- मुकवा "अाच्छरोगत् समुत्थाय स्वेन रूपेणाभिनिष्पद्यते इति मुक्तस्या- शरीरत्वं दर्शयति । “स वा एष दिन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलाके इति च शरीर नवेक्ष्येव केवलेन मनसा सिद्धिमाप । तस्मान सन्त्येव देहन्द्रियाणि मुक्तात्मन इति बोध्यम् । मुक्तस्याशरीरत्वात् स्वप्नवदस्य सांकल्पिकाः सर्वे कानाः स्युरिति प्राकाम्यं सर्वैश्वयं सर्वशत्वं चास्थ भाव्यम् इत्येकः पक्षः ॥ १॥ जैमिनिसवाचार्यो मनोवच्चरीरस्यन्द्रियाणां च भावं मन्यते । “स एकथा भवति त्रिधा भवति" इत्यादिनाऽनेकधाभावविकल्पालन- नात्। शरीराभावपरम् । तस्मात् सन्स्येव नियं देहेन्द्रियाणि मुक्तस्यापीति वाध्यम् । सशरीरत्वाच्च मुक्तस्यापि जाग्रहास्तविकाः सर्वे कानाः स्युरिति प्रामाम्यसश्वर्ये सर्वज्ञत्वं चास्य भाव्यम् । इत्यपरः पक्षः ॥ २॥ अथ चादरा- यणो मन्यते । अत एवाभयलिङ्गतिदर्शनादुमयविध द्वादशाहवत् प्रतिपत्तव्यनिति । यथा द्वादशाहयागोऽहीनेषु पाजादहीनः सनेषु पाठात् सत्त्रञ्च भवति। एवनयं मुकारला उभयथा श्रुतत्वात् सशरीरश्वाशरीरश्च संभाब्यते । अपि चातः संकल्पा- देतदुभयविधं द्रष्टव्यम् । यदा रूशरीरतां . संकल्पयति तदा सशरीरो भवति अशरीरतासंकल्पे त्वशरीर एवेति । सत्यसंकल्पत्वात् संकल्पवैचित्र्याच्वेति सिद्धा.तपक्षः॥३॥ तत्राशरीरत्वपक्षे स्वमवाक्षेपि उपलब्धिनात्राः सर्वे कामाः संकल्पादुपपद्यते । सशरोरत्वपक्षे तु जाग्रदेव सर्वे कालाः स्युः। ननु संकल्पनात्रादयानेकशरीराणि नि ति चेत् तेप्वेकस्यैव सालक- वातावं स्यादितरेषा नात्मकत्वादारुयात्रवजडत्वं संभाच्यते । प्रत्यगात्मनोऽणु- परिमाणत्वाइकत्रैव कचित् शरीरं तदवस्थानादन्यशरीरेषु तदप्रवेशादिति चेत् तत्रोच्यते-प्रदीपवद वेशो द्रष्टव्य इति । यथैकदशे वर्तनानस्यैकदीपस्य स्वच्छेत्र- नेकवस्तुषु स्वप्रभयास्यात्या नानाप्रदीपाभासप्रवर्तकत्वम् । एवमेकस्याप्यात्मनो मुक्तावस्थायामसंकुचितैश्वय्यतया प्रतिशरीरं स्वचैतन्यव्याप्तया नानाभावोपपत्ति: सभर्वात ॥ एकमन ऽनुवृत्तीनि समनस्का-येवापराणि शरीराणि सत्यसंकल्पत्वात् सृजति । तेषु च सृष्टेषूपाधिभेदादात्मनोपि भेदेनाधिष्टातृत्वं भवति । वालाप्रशतभा- गस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानात्याय कल्पते" इति श्रुतेर|परिमाणस्यापि जीवस्यैश्चर्ययोगादनेकधात्वापपत्तेः ॥ ननु नेदमनेकशरीरा- - ( ११७ ) वेशादिलक्षणमैश्वर्य मुक्तक्य संभवति । "तत् केन विजानीयान तु तद् द्वितीय. मस्ति ततोऽयद्विभक्त यद्विजानीयादेको द्रष्टाऽद्वैतो भवती" यादिश्रुतिभिरेकातितो निधिशेषप्रातपादनाद् द्वितीयप्रत्याख्यानाच्चेति चेत् तत्रोच्यते ।। स्वाप्यय पत्योर- न्यतरापेक्ष हि तदाविष्कृतम् । स्वाप्ययः सुषुप्तिः संपत्तिः कैवल्यम् । तयोरेवान्यतरा. वस्थापक्ष्यंतत्संभाववचनं प्रदतव्यम् । “यत्र सुप्ता न कंचन कामं कामयते न कंचन स्व पक्ष्यांत" इति । नायं खल्वयमेवं संप्रत्या-मानं जानाति । अय-ह-स्मीति नो एवेनानि भूतानि विनाशमेवापीतो भवः" ति सुषुप्तौ निर्वाधत्वाविष्करणात् "एतेभ्यो भूतभ्यः समुत्थाय तायवानु विनश्यति न प्रेत्य संज्ञास्तीति कैव- ल्येऽप्यसंवोधावाविष्करणात् । न स्वेतादह लगुणविद्यापाकस्थानं भाव्यतं । तत्र स्वर्गाश्वर्यसुखोपभागस्य श्रूयमाणत्वादिति शंकरः । रामानुजस्त्वन्यथा व्याचष्टे । "प्राज्ञेनात्मना संपरिष्वक्तो न वाह्यं किचन वेद नास्तरनितिश्रुतिः परब्रह्मप्राप्तस्यान्तरवाहज्ञानलोपः प्रानातीति कथमस्थामनो भुक्तावस्थायां सर्वज्ञत्व. मुच्यते इति चत् तबाह । सुषुप्तिमरणयारेवावस्थयो.नःसवोधत्वमात्मनः प्रतिज्ञायते । मुक्त स्य तु सर्वज्ञत्वमेवास्ति । आविष्कृतं हि तथैव श्रुत्या “स वा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् र ते य एते ब्रह्मलाके" इति। "सर्व ह पश्यः पश्यति सर्वमानोति सर्वशः" इति च । ॥ इति निःश्रेयसाख्यापरमुत्तथा मुक्तात्मनः सशरीरत्वाशरीरत्वस्यवस्थाधिकरणम् ॥५॥ जगद्व्यापार प्रकरणादसंनिहितत्वाच ॥ १ ॥ प्रयक्षोप- देशादेोते चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ २ ॥ विकाराति च तथाहे स्थितिमाह ॥ ३ ॥ दर्शयतश्चैवं प्रत्यक्षानुमाने ॥४॥ भागमात्रसाम्यलिङ्गाच ॥५॥ अनावृत्तिः शब्दात् ॥ ६॥ सगुणब्रह्मोपासनात् सहैव मनसा ये जीवा ईश्वरसायुज्यं लभन्ते ते सर्वात्मनेश्वरसाम्यमायान्तीति निरङ्कुशमेषामैश्वर्य संभाव्यते "आप्नोति स्वा- राज्यं" "सर्वेऽस्मै देवा वलिनावहन्ति" "तेषां सर्वषु लोकेषु कामचारो भवति" इत्यादि श्रुतिभ्यस्तथावगमात् । तथावेश्वरवयं मुक्कामापि जगदु परिस्थिति- संहारान् करोतीति कश्चित् प्रतीयात् तं प्रत्याह । जगद्व्यापारवजवंतस्य सवमैश्वर्य संपद्यत । नवयमपि जगदुत्पादयति । यतो वा इनानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीत्यादि श्रुया प्रयतामेषां मुच्यमाना नामभिसंवेशस्थानस्य जीवात्मविजिज्ञास्यस्य जगदीश्वरस्यैवास्मिन् जगजन्म- स्थितिभङ्गकर्म प्रकरणात् । यतो वा इमानीत्यादिश्रुत्या च जगदुत्पत्ति स्थितिलयहेतुत्वं प्रयतां निवासस्य जिज्ञास्यस्येश्वरस्यासाधारणं लक्षण मुच्यत । यदि भुक्तात्मनामपि जगत्कर्तृत्वं स्यात् तर्हि तस्येश्वरलक्षणत्वं न स्या- दतिब्यातत्वात् । तस्मादीश्वरप्रकरणाजगद्व्यापारस्य मुक्तात्मसु न प्राप्तिः । असंनिहितत्वाच्च । अस्य हि मक्तात्मनस्तांत्रिधैश्यस्यादिमत्वागतः ।
। स्थितिकाले पश्चात् संभाव्यमानतया जगदुत्पत्तिकाले तस्य संनिधानमेव नास्तीति जगत्कर्तृत्वं तस्य नोपपद्यते । ननु आप्नोति स्वाराज्यमित्यादि प्रत्यक्षा- पदेशात् संभाव्यते तस्य तथाविधामपि साममिति चेन । आधिकारिका ये सवि- तृमण्डलादिषु विशेषायतनेषु व्यवस्थिता हिरण्यगर्भादय ईश्वरास्तेषां लोकस्थे- षु भोगेश्वेवैतस्या कर्मवश्यस्य मुक्तात्मनः स्वाराज्यं भवतीति तस्य सर्वेषु लोकेषु कामचारी भवतीत्यादि श्रुत्योच्यत । तथा चायं मुक्तारमा ब्रह्मविभूतिभूतान् विकारलोकार्नवैतान् सर्वानासाद्य तद्वतान् वैकारिकानेव सर्वान् भागाननुभूय यथाकामं तृप्यतीति सिध्यत्यर्थः । अस्ति च विकारावर्त्यपि नित्यमुक्तं पारश्वर- मन्यद्रूपम् । तथाहि तस्य परमेश्वरस्य द्विरूपां स्थितिमाह श्रुतिः। तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादास्य सर्वा भूतानि त्रिपादस्थामृतं दिवि" इति । तत्र नेतरालम्वनास्तनिर्विकारं रूपमाकलयितुं शक्नुवन्ति तेषामतत्ऋतुत्वात् । तस्माद् द्विरूपेऽस्मिन् परमेश्वरे निगुणरूपमनवाप्य सगुण एवैतद्रूपे सज- यन्ते 'लगुणविघया मुक्ताः । एवमत्र सभुणेऽपि ते जगत्कवादिलाधारण निरवग्रहमैश्वर्यमनवाप्य सावनहे सर्वविधभोगलक्षणेश्वर्य एवावतिष्ठन्ते इति सिद्धम् । इति शंकरः । रामानुजस्वाह । ननु यद्ययं मुक्तारमा ब्रह्मविभूति- भूतान् विकारलोकान् वैकारिकांश्च तांस्तान् भोगानेवोपलभते । तहि विका. रान्तर्वति भोगमात्रलामे बद्धस्येव मुक्तस्याप्यत्र वह्वल्पमात्रभोग्यभोक्तृत्वापत्ति- रिति चेत् तत्रोच्यते । अस्ति च विकारावयपि किश्चिनिधूतिनिखिलविकार- मनन्तकल्याणैकतानं निरतिशयानन्दं परब्रह्म । तदप्ययमनुभवति मुक्तात्मा । तथाहि निर्विकारे तस्मिन् परब्रह्मणि परमानन्दे मुक्तरयानुभवितृत्वेन स्थितिमाह “यदा होवैष एतस्मिन्नश्येऽनात्स्येऽनिरुक्तेऽनिलयतेऽमयं प्रतिष्ठा विन्दते अथ सोऽभयं गतो भवति । रसो वै सः । रसं होवायं लब्ध्वा- ऽनन्दी भवतीति । तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चनेति च । अतः स- विभूतिकं सर्वविकारातीतं सामानन्दमनुभवन् विकारान्तर्वतिनोऽप्याधिकारिक- मण्डलस्थान् भोगानयं मुक्तात्मा भुक्त इति सर्वेषु लोकेषु कामचार इत्यस्यार्थः इत्थं च शंकरमते वैकारिकानन्दमात्रं रामानुजनते वैकारिक विकारातोतं चानन्दभोगं भुआनस्यैतस्य मुक्तात्मनस्ताधदेव स्वाराज्यमैश्वर्य चोपपद्यते न वस्य जगत्कर्तृत्व- लक्षणमप्यैश्वर्यमस्ति । तस्य नित्यमुक्तपरमेश्वरमात्रधर्मत्वात् । एवं हि दर्शयतः प्रत्यक्षानुमाने । प्रत्यक्षं श्रुतिस्तावत्-"भीषास्माइयातः पवते भीषादेति सूर्य्यः । भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः । एतस्य वा अक्षरस्य प्रशासने सूर्याचन्द्र- मसौ विधृतौ तिष्ठतः' इत्यादि । अनुमानं स्मृतिः-भयाऽध्यक्षेण प्रकृतिः सूयते स- चराचरम् । हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ॥ इति ॥ अथवा मुक्तस्य सर्वविधा- नन्देभोगोऽपि परमेश्वर एव हेतुरित्येवं श्रुतिस्मृती दर्शयतः । एष ह्येवानन्दयाति । मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते इति रामानुजः । शंकरस्तु न तत्र सूर्यो भाति इत्यादि श्रुतिः । नतद्भासयते सूर्यो न : शशाङ्को न पावक इत्यादि स्मृतिश्च परमेश्वरस्यविकारावर्ति च रूपं दर्शयत इत्याह । वस्तुतस्तु तथाहि स्थितिमाहेति पूर्वसूत्रेण गतार्थत्वादिह शंकरस्यार्थी न साधी- । m यान् ॥ युक्तं तु श्रुतिस्मृती सगुणविद्यावतां मुक्तानां विकारालम्बनत्वाजगत्कर्तृत्वा- दिसाधारण निरङ्कुशमैश्वर्य नास्तीति दर्शयत इत्यर्थ सूत्रलापनम् । भागमात्रसाम्य. लिङ्गाच्चेत्युत्तरसूत्र चकारस्य तदानुगुण्यात् ॥ सवयु लाकेषु कामचाराद् मुक्तानां सवावधखभागमात्र केवलमीश्वरण साम्यमित्यत्रव लिङ्ग भवति । “तमाह- आपा वै खलु मीयन्ते लोकोऽसौ इति । स यथेतां देवतां सर्वाणि भूतान्यवन्ति एवं हैवंविदं सवाणि भूतान्यवन्ति तेनो एतस्यै देवताय सायुज्यं सलोकतां जयति"-- इत्यादिषु भेदेन व्यपदेशात् ॥ तस्मादीश्वरेणेषां भोगमा साम्यं न जगद्व्यापारेऽ- पीति सिद्धम् । नन्वेवं तहि मुक्तानामैश्वर्यस्य सातिशयत्वादन्तवत्वं स्यात् तथा च पुनरावृत्तिरोप कदाचित् प्रसज्यतेति चत् तत्रोच्यत अनावृत्तिः शब्दात्ायद्याप चन्द्र- लाकादिवदस्य ब्रह्मलोकस्यापि संस्थानविशेषः श्रूयते कौषीतकादिश्रुतिषु । अस्ति हि तृतीयस्यामितो दिवि ब्रह्मलोके द्वावर्णवो, एरंसदीयं सरः, अश्वत्थः सोमस- वनः, ब्रह्मणोऽपराजिता पूः । प्रभुविमित हिरण्मयं वेश्म" । इत्यादिः । तथापि तं ते प्राप्य न चन्द्रलोकादिव भुक्तभोगा आवर्तन्ते -"तयोर्ध्वमायन्नमृतत्वमेति, तेषां न पुनरावृत्तिः एतेन प्रतिपद्यमाना इमं मानवमावत नावर्तन्ते," ब्रह्मलोकमभिसंप- द्यते न च पुनरावर्तने"- इत्यादि शब्दैरनावृत्तेः प्रतिज्ञानात् ॥ दर्शितं चैतत् प्रागपि "कार्यात्यये तध्यक्षेण सहातः परमिति सूत्रे । तथा च यथा निगुणविद्यायां सम्यग दर्शनविश्वस्ततमसामनावृत्तिस्तथा सगुणविद्यायामप्यपरब्रह्मलोकं प्रा- तानामेषां मुक्तानामस्यनावृत्तिरिति सिद्धम् ।। . १ । क इतिश्रुक्तानां जगन्यापारातिरिक्तसवंश्वर्यसंपत्यविकरणम् ॥ ६॥ ॥ इति मुक्तिपादश्चतुर्थः संपूर्णः ॥ १ ३ इति सन्ति यत्र विद्योत्क्रान्तिगतिक्रमविमुक्तिभिः पादाः। अध्यायः स चतुर्थो विद्वद्यात्रानिरूपकः पूर्णः ॥ १॥ श्रीमन्माधवसिंहभूपतिकरच्छायाश्रयात् सर्वतो । निधूताखिल तापसंततिरयं निर्व्यग्रचित्तः सुधीः । सर्वैश्वर्य्यसुखं निरन्तरमलं भुन्निम वैक्रमे । वर्षे गोनगगोमहीपरिमिते ग्रन्थं व्यधादुत्तमम् ॥२॥ (१९७६) राजीवनन्दतनयो विधुधाढ्यगाढाग्रामोद्भवः सकलशास्त्ररहस्यवेत्ता। मत्स्येशमाधवकृपावशलब्धशान्तिर्ग्रन्थं व्यधादनुपमं मधुसूदनोऽयम् ॥३॥ शारीरकविज्ञानं भूषयति ब्रह्मविज्ञानम् । ताभ्यां भूषितहृदयो विद्योतं वेदलोकयोर्लभते ॥४॥०॥ इति मधुसूदन विद्यावाचस्पतिप्रणीतं शारीरकविज्ञानशास्त्रम् सम्पूर्णम् ॥
शारीरसूत्र व्याख्यानं वल्लभमतानुसारेण ॥ ३ अध्याय १ पादः .. (१) तदन्तर प्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणा- भ्याम् ॥१॥-यामकरदात्तु भूयस्तात ॥२॥ प्राणगश्च ॥३॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥४॥ प्रथमेऽश्रवणादिति चेन्न, ता एव ह्युपपत्तेः ॥५॥ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतोतेः ॥६॥ भाक्तं वाऽनात्मवित्वात् तथाहि दर्शयति ॥७॥ । । । ॥ अथ वल्लभानुगामिनां व्याख्या ॥ जीवात्मनामारोहणप्रत्यवरोहण् चक्रके पश्चाग्निविद्या श्रूयते । तत्र द्युलोकेऽग्नौ श्रद्धाहुन्या सोनसंभवः । पर्जन्येऽग्नौ सोमाहुत्या वृष्टिसंभवः । पृथिव्यग्नौ वृष्टया. हुत्या अन्नोत्पत्तिः । पुरुषाग्नौ अनाहुत्या रेतःसंभवः । योषाग्नौ रेत आहुत्या गर्भ संभवः इति पञ्च्वाहुतिभिरपां पुरुषभाव उच्यते । स पुरुषः पुनरेव शरीरं परित्य- ज्यावं गच्छन् धुलोकेऽग्नौ श्रद्धया हूयमानः सोमभावं प्रतिपद्यते । सेयं प्रथमाहुति- स्तावद्विचार्यते ॥ सप्तसूत्रं प्रथमाधिकरणम्॥ब्रह्मज्ञानौपयिकजन्मार्थम स्मोच्छरीराजीवात्मासंस्कृत. भूतैः सहितो गच्छति । पञ्चभूतानां संस्कृतत्वं तु पञ्चाहुतिफलभूतत्वनिति प्रथमार्थः॥१॥ (१) तमुत्क्रामन्तं प्राणोऽनूजामतीति प्राणगतेः श्रवणाच्च प्राणेन गच्छता समपां गमनं सिद्धं भवति आपो-यः प्राण इति श्रुतेरपां प्राणपोषकत्वात् ॥ इति तृतीयार्थः ॥३॥ यत्रास्य पुरुषस्येत्यादिश्रुत्या अग्निवाय्वाद्यप्ययबोधिकाया मुक्तविषयत्वा- दुत्क्रमणश्रुतेरमुक्तविषयतया भाकत्वा मुख्यश्रुत्या गौणश्रुतेरवाध इति चतुर्थार्थः॥ ४॥ अथ सर्वे जीवाः संस्कृतभूतयुक्ता गच्छन्ति अथवा ज्ञानाधिकारिण एवेति विचारे पश्चाग्निविद्यायामधिकारिणामश्रुतत्वाइविशेषात् सर्वेषामेव जीवानां पश्चा- हुतिप्रकारेण जन्मेति प्रामोतीति चेन्न । इष्टादिकारिणो हि धूमादिमार्गेण गच्छन्तः । ( १२१ ) सोमत्वं लभन्ते । सोमभावाच्चायं पञ्चाहुतिप्रकार: संभवतीत्यत इष्टादिकारिण एवेत्थं संपरिष्वक्ता गच्छन्ति न सर्वे जीवा इति लिद्धम् इतिषष्टार्थः ॥ ६ ॥ अन्यत्र न विशेषः ॥ अस्मिन्मते न सर्वजीवानां भूतसूक्ष्मैरन्यैश्च प्राणादिभिः सहारोहः किन्तु इष्टादिकारिणामेवेन्येको विशेषः । अग्निवाय्वाद्यप्ययश्च मुक्तिदशा- यामेव न सर्वदेत्यन्यो विशेषः । एतदुभयं चिन्त्यम् ॥ ॥ इति पञ्चाग्निविद्यायां प्रथमाहुतिविचाराधिकरणं वल्लभीयानाम् ॥ २ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ १॥ चरणादिति चेन्नोपलक्षणार्थेति काष्णाजिनिः ॥२॥ आनर्थक्य- मिति चेन्न, तदपेक्षत्वात् ॥३॥ सुकृतदुष्कृते एवेति तु वादरिः॥४॥ ३ अनिष्टादिकारिणामपि च श्रुतम् ॥ ५॥ सयमने त्वनुभूयेतर- पामारोहावरोहौ तद्गतिदर्शनात् ॥ ६॥ स्मरन्ति च ॥ ७॥ अपि च सप्त ॥८॥ तत्रापि च तद्व्यापाराद् विरोधः ॥९॥ ४ विद्या- कर्मणोरिति तु प्रकृतत्वात् ॥१०॥ न तृतीये तथोपलब्धेः ॥११॥ स्मयतेऽपि च लोके ॥१२॥ दर्शनाच ॥१३॥ वल्लभीयानां मते कृतात्यये इत्यारभ्य त्रयोदशसूत्रं द्वितीयाहुतिविचाराधि- करणम् । इष्टादिकारिणां चन्द्रारूढानां सोमत्वं क्रियते। कृतसोमत्वनाशेऽवान्तर- फलसाधकसुकृतफललेशसहित.एवावरोहति स महात्मा धन्यो जीवो न तु सुकृत- फलरहितः। दृष्टं हि लोके भोगसाधनमूलधननाशेपि ताशवस्त्रोपकरणादिसहित एव तत्स्थानादपगच्छति । तथेहापि सानुशयोऽवरोहति । स्मृतिश्च-यद्यत्र नः स्वर्गसुखावशेषितमित्यादिः । अद्भिश्च भिन्न प्रकाराद्भिश्च परिष्वक्त आयातीत्याह यथेतमनेवं चेति । चकाराद्वैराग्यसहितोऽपीति अष्टमार्थः । इदमप्यवरोहणं न सर्व- जीवसाधारणं किन्तु ज्ञानाधिकारिभात्रविषयमिति विशेषो वल्लभीयानाम् ॥ ननु तद्य इह रमणीयचरणा इत्यादिश्रुतेश्चरणादेव सस्यग जन्म लियतीति तदर्थमनुशयो नापेक्ष्यते इति चेन्न । चरणश्रुतौ या योनिरुक्ता तस्याः पूर्वजन्मकृतपुण्यज्ञापकतयोप- लक्षणार्थत्वेऽप्यत्रजन्मनि साधुवृत्ति नियामकत्वं नास्ति । तस्मादिह जन्मनि ज्ञानो- दयसिध्यर्थमनुशयोपेक्ष्यते इति कार्णाजिनिराह । ननूपपलक्षणार्थमात्रत्वे चरण- श्रुतेरानर्थक्यं स्यादिति चेन्न । काम्यकर्मिणां सुकृतभोगानन्तरं दुप्कृतभोगप्राप्तेाय- प्राप्तत्वाद् दुष्टयोनिरपि संभाव्यते तन्निरासार्थ साधुयोनेरेव प्राप्त्यवगमार्थतच्छ तेः सार्थकत्वात् । साधुयोनिप्रापकधूमादिमार्गस्थ तच्छृत्यपेक्षत्वादितिनवमदशमार्थः सुकृतफललेशोऽनुशयः प्रागुक्तः । तत्र मतान्तरमाह-विहितनिषिद्धकर्मणी एवानुशय इति वादरिर्मन्यते इत्येकादशार्थः ॥ ११॥ । com , ( १२२ ) ननु “ये वैकेचास्माल्लोकात् प्रयन्तीति कौषीतकिश्रुतौ सर्वपदोक्तेरनिष्टादि- कारिणामपि सोमभावप्रापणं श्रुतम् । तस्मात् सर्वेषां सोमभावानन्तरं सानुशयमव- तरता प्रामोतीत्यतः परिहति । इतरेषामिष्ठादिकर्तृभिन्नानां संयमने नाम यमलोके सुखदुःख अनुभवतामारोहावरोहौ भवतः । “वैवस्वते विविच्यन्ते” इति श्रुतौ तेषां विलक्षणगतिदर्शनात् । व्यासादयोपि “यमेन पृष्टस्तत्राहमित्यादिना" यमगतिं स्म- रन्ति ॥ - ॥ येदि सप्त रोरवादयो नरकास्तत्रापि यमव्यापाराद् यमगतित्वमेव ॥ ननु पञ्चाग्निविद्यायामचिरादि मार्गविद्यायां च गत्यन्तरस्यानुक्तरवानास्येपा यमगतिरि- ति चेत् तत्रोच्यते । विद्यया देवयानकर्मणा सोमभाव इति श्रुत्या विद्याकर्मणोरेव गतिकारणत्वेन तत्र प्रस्तत्वान्न यममार्ग उक्तः यमगती विद्याकर्मणोरहेतुत्वात् । नैतावता तदभावः कल्प्यः । श्रुत्यन्तरलिद्धत्वात् ॥ ननु जायस्व म्रियस्वेत्यादिश्रुा सिद्ध तृतीये सर्वजीवसाधारण प्रवाहमार्ग यममार्गस्याप्यन्तर्भावः क्रियतां किमर्थ पृथङ मार्गः कल्प्यते इति चेत् तत्रोच्यते । न प्रवाहमार्गेऽन्तर्भावः शक्यः । तथा यम लोकवत् तत्र सुखदुःखोपलव्ध्यत्वात् । अतथोपलब्धेरिति सूत्रपाठः । इयं च यमग. तिर्लोकोपि स्मर्य्यते । मूर्छादिषु यमलोकगमनसंभाषणादीनां वचित्संभवात्। दर्शनाच यमपुरुषाणामजामिलप्रभृतिभिर्यभगतिः प्रतिपद्यते। तस्मादनिष्टादिकारिणां भिन्नैव यमगतिर्योध्या न तु तेषां पितृयाणगत्या चन्द्रारूढानां सोमभावो नापि तेषामुत्तम- शरीरार्थ चन्द्रात् प्रत्यवरोहः । ॥ इति पञ्चाग्निविद्यायां द्वितीयाहुतिविचाराधिकरणम् । . तृतीयशब्दावरोधः संशोकजस्य ॥ १ ॥ साभाव्यापत्ति- रुपपत्तेः ॥३॥ नातिचिरेण विशेषात् ॥ ३॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ४॥ अशुद्धमिति चेन्न शब्दात् ॥ ५॥ तृतीयेत्यारभ्य पञ्चसूत्रेपा तृतीयाधिकरणेन तृतीयाहुतिर्विचार्यते । वृष्टेरन- मित्युक्तम् । किन्तु लोके वीजं विना केवलवृष्टरन्नोत्पत्तिास्तीत्यत आहुस्तृतीय- शब्दावरोधः संशोकजस्येति । तस्माद् यत्र क्वच शोचति स्वेदते वा पुरुषः तेजस एव तद्वापो जायन्ते" इति श्रुतेः संशोकजस्य जलस्य तृतीयाहुतौ वृष्टिशब्देन ग्रहणम् । “तस्माद् यत्र क्वच वर्षति तदेव भूमिष्टमन्नं भवतीति श्रुते/जान्तर- निरपेक्षाभ्योऽप्यद्भूयोऽन्नं भवति ॥ १॥ ननु कथं वृष्टरनस्य तृतीयाहुतित्वमुच्यते । यावता "अथैतमेवाध्वानं पुनर्नि- वर्तन्ते" इत्युपक्रम्य, आकाशमाकाशाद्वायु वायुभूत्वाऽभं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति" इत्येवमाकाशवाय्वभ्रमेघवृष्टिक्रमेण कार्यभा- 'वोत्तरमनभाव आम्नायते । तथा चाकाशवाय्वादीनामाहुत्यामनन्तर्भावान्यूनतेति चेत्रोच्यते । साभाव्यापत्तिपपत्तेरिति । सा हि. वाय्वादिरूपापत्तिराभाव्यापत्ति
द्रष्टव्या । वाय्वादिवदाभानमेव भवति न तु मुख्यं वाय्चादित्वम् । आकाशवाय्वोः
सोमादतिरिक्ततया सर्वथा ताद्भाव्यासंभवादाभानस्यैवोपपत्तेः ॥ २॥
वृष्टेरनरूपता च नातिचिरेण संभवति । 'अतो वै खलु दुनिष्प्रपतरमिति
वक्ष्यमाणश्रुत्याऽन्नभावापत्युत्तरमेव विलम्बश्रवणात् । ततः पूर्वावस्थाया विशेषा.
वगमात् ॥३॥
ननु "संसर्गजैः कर्मदोषैर्याति स्थावरतां नर" इत्युक्तेह्यादिभावोऽस्य
भोगार्थः स्यादिति चेन्न । अन्य वैः स्वकर्मभोगार्थ ब्रीह्यादिभावापन्नैर धिष्ठि-
तेऽस्मिन् व्रीह्यादिशरीरे तावद् पूर्ववत् संपृक्तस्यास्य प्रत्यवरोहतोऽन्यजीवस्य तास्थ्या-
त्ताद्भाव्यमितिन्यायेन व्रीहियवादिशब्दैरमिलापात् ॥ ४ ॥
पापकर्मवशाहुःखभोगोपयोगिस्थावरशरीरापनस्यत्रीह्यादिशरीराधि-
ष्ठातृजीवस्य तच्छरीरमशुदमस्तीत्यतस्तत्संपृक्तस्यास्य प्रत्यवरोहतो जीव.
स्याप्यशुद्धिः स्यात् । तथा च ज्ञानाधिकारयं ग्यउत्तमशरीरवान् पुरुपस्ततो
वोत्पद्यतेति चेन्न । देवा अन्नं जुक्षति तस्या आहुते रेतः संभवतीति शब्दप्रामाण्या-
देवान्नाशुद्धः स्थावरभावरूपायास्तत्र रेतस्यसङ्कमणावगमात् ॥ ५ ॥
॥ इति तृतीयाहुतिविचाराधिकरणम् ॥
रेतःसिग्योगोऽथ ॥ १॥
अन्नस्य रेतोभावो बाल्ये वा ईक्ये क्लीवत्वे च व्यभिचरति इत्यतः समाधत्ते।
रेतःसिग्योगोऽथेति बाल क्लोवादयो रेतालिचो न सन्ति। रेतःसिचां त्वत्र योगो
विवक्षितः । अथ शब्दो रेतः सिगयोगेऽवरोहणमार्गानुक्रमलमातिसूचनार्थः । रेतः
सिगयोगादनन्तरमेवाहुतिक्रमफलरूपोऽपां पुरुषमावः सिध्यति ।नोत्तरतः पुनराहु-
त्यन्तरमपेक्ष्यते ॥१॥
॥ इति चतुर्थाहुतिविचाराधिकरणम् ॥ ४॥
योनेः शरीरम् ॥ १॥
तस्या आहुतेर्गर्भः संभवतीति फलरूपां पंचमीमाहुतिमाह । योनेः शरीर-
मिति । न तावद्गर्भाशये गर्भसंभवमात्रमाहुतिफलं भवति किन्तु योनेर्वहिनिर्गतं
शरीरं गर्भशब्देनासिप्रेयते । अग्नेत्थितस्य फलत्वप्रतिपत्तेः ।
॥ इतिपश्चमाहुतिविचाराधिकरणम् ॥ ५ ॥
इति पंचाग्निविद्या निरूपणपादः प्रथमः पूर्णः ॥ १ ॥
सन्ध्ये सृष्टिराह हि ॥ १ ॥ निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
मायामात्रं तु कात्स्न्नानभिव्यक्तस्वरूपत्वात् ॥ ३॥ सूचकश्च हि
श्रुतेराचक्षते च तदिदः ॥ ४ ॥ पराभियानात्तु तिरोहितं ततो ह्यस्य
बम्धविपर्यायौ ॥ ५॥ देहयोगादासोऽपि ॥ ६॥ तदभावोनाडोषु
तच्छु तेरात्मनि च ॥ ७ ॥ अतः प्रबोधोऽस्मात् ॥ ८ ॥ स एव तु
कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ मुग्धेऽर्द्धसम्पत्तिः परिशे-
पात् ॥ १० ॥
C
पूर्वपादे जीवस्य मोक्षान्तरङ्गसाधनज्ञानभक्तिसिध्यर्थं योग्यदेहसिद्धिरुक्ता।
अथेदानी मुक्ति योग्यतानिरूपणपाद आरभ्यते । तत्र जीवस्य मुक्ति प्रतिबन्धको
गुणदोषसंबन्धः सृष्टिलंबन्धनिवन्धनोऽस्तीति कृत्वा सृष्टिसंबन्धः परीक्ष्यते ।
सूत्रद्वयेन तावत्पूर्वपक्षः क्रियते । सन्ध्ये स्वप्ने सृष्टिर्वस्तुभूतास्ति । आह हि
श्रुतिस्तथा रथान् रथयोगान् पथ: सृजते इत्यादिना ॥ १॥ ताशसृष्टिान-
तारं चैके आचार्या जीवं वदन्ति । एष सुप्तेषु जागर्तीत्यादिना। जागर्तीत्यनेन
कतु रम्रान्तत्वात् सृष्टेः सत्यत्वमुक्तम् । कामं कामं पुरुषो निर्मिमाण इत्यनेन सृष्टे-
रिच्छापूर्वकत्वमुच्यते। पुत्रादयश्च स्वमे सृष्टा भवन्ति ॥२॥
तथा च ताशस्वातसृष्टिकृतगुणदोषसंवन्धाजीवस्य मोक्षप्रतिबन्धः प्राप्ता-
तीत्यतः सिद्धान्तमाह । नैषा जोवकृता सृष्टिः किन्तु ईश्वरेच्छाक्लुप्तं मायामात्र-
मतत्स्वप्नदर्शनं न वस्तुभूतम् । यद्वस्तुनो याशदेशकालसापेक्षं रूपमवक्तृप्तं तद्र
पेण तस्य तत्रानभिव्यक्तः॥३॥
किमथं तर्हि स्वप्नसृष्टिरिति चेदुच्यते-सूचको हि स्वप्नः शुभाशुभफलस्या-
स्ति" । यदा कर्मसु काम्येष्नित्यादि श्रुतेः । आचक्षते च तथा स्वप्नाध्यायविदो
धन्याधन्यानि स्वप्नरूपाणि ॥४॥
ननु तर्हि जीवस्य बन्धादिः कुत इति चेदुच्यते । परस्यात्मनो यो जीवभोगे.
च्छानुकूलप्रवृत्तिनिवृत्तिसाधनसंकल्पः
तस्मादस्य भगवदंशस्यापि जीवस्य
निजमैश्वर्यादिगुणषटकं तिरोहितं भवति । तत एवास्थ बन्धमोक्षौ भवतः ॥ ५ ॥
अथवा मतान्तरं भवति ।न परमेश्वरेच्छयैवास्य जीवस्य निजधर्मतिरोभावः
किन्तु देहयोगादपि स प्रतिपत्तव्यः । अस्मिन्मते जीवन्मुक्तो न स्यात् । देहवियो-
गोत्तरमेव ज्ञानोदयसंभवात् । तस्मादीश्वरसंकल्पादेव जीवो वध्यते मुच्यते चेत्रि
मुख्यं मतम् ॥६॥
( १२५ )
स्वाप्नसृष्टिः परीक्षिता । सुषुप्तौ सृष्टिरस्ति नास्ति वेति चिन्त्यते । तत्राह।
नाडीषु वा परात्मनि वा जीवात्मसत्वे स्वताभावे इति द्विविधा सुषुप्तिर्भवति ।
"ता वा अस्यैता हिता नाज्यः इति । तद्वा अस्यैतदात्मकाममिति च द्वैविध्येन सुषु-
तिश्रुतेः ।। अथवा व्याख्यान्तरम् । पुरीतन्नाडीषु परात्मनि च जीवात्मावस्थान-
श्रुतेस्तत्र सुषुप्तौ सृष्ट्यभावः ॥ ७॥
अथ जाग्रवस्था चिन्त्यते। द्विविधा सुषुप्तिरुक्ता । तत्र नाडीपु सुषुप्तौ
नाडीभ्य एव प्रबोधः । परात्मनि सुपुतो हृदयदेशे परात्मनः सत्वात् तत एव
प्रबोधः । यत्र स्थितस्तत एवास्य प्रवोधी युक्तः। प्रतियोन्याद्रवति बुद्धान्तायै-
वेति श्रुतेः ॥८॥
ननु सुषुप्तद्वैविध्ये सति यदा परात्मनि सुषुप्तिर्भवति तदायं जीवः प्राज्ञेनात्मना
संपरिष्वक्तः सुषुप्तौ परमानन्दमनुभवतीति स जीवो मुक्त एवाभूत् । अतस्तस्य
जीवस्य पुनरुत्थानासंभवात् प्रवोधे कश्चिदन्य एवागन्तुको जीवः, परमात्मेच्छया
देहनिर्वाहार्थ देहे संसृष्टः स्यादिति चेत् तत् प्रत्याचष्टे । परात्मनः सकाशात्
प्रवोधेपि नाडीप्रवोधवत् स एव तु जीवः पुनरुत्तिष्ठते । इति कर्मादिप्रत्यभि.
ज्ञानाद्विजानीमः॥६॥
ननु यत्र कर्मानुस्मृत्यादिहेतवो न संभवन्ति मुग्धादिषु तत्र नियामकाभावा-
दन्यो जीवः स्याद् अत आह मुग्धभावत्वर्द्धसंपत्तिः। मुग्धोऽत्यन्तमूर्यो विवेकशून्यो
जडवद्धर्मा स हि परिशेषात् स एव वान्यो वेति निश्श्यप्रमाणाभावात् सन्देहोऽव.
शिष्यते ॥ यत्तु मुग्धो मूर्छित इति कैश्चिदुक्तं तदसत्। जीवावस्थानामेव विचार्य-
त्वात् प्राणायनविघातकृताया मू या विचारायोग्यत्वात् ॥ मुग्धस्तु मूढत्वात्
कर्मानुस्मृत्यादिवैकल्यात् सन्दिह्यते ॥ तदिन्थं स्वप्नादिदोषाणामप्रतिबन्धकत्वात्
पञ्चाग्निसाधित्तदेहस्योपपद्यते ज्ञानाधिकार इति सिद्धम् ॥
॥ इति ज्ञानाधिकारें, स्वप्नादिजीवावस्थापरीक्षाधिकरणम् ॥१॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्रहि ॥ ११॥ न भेदा-
दिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥ अपि चैवमेके ॥ १३ ॥
अरूपवदेव हि तत्प्रधानत्वात् ॥१४॥ प्रकाशवचावैयर्थ्यात् ॥१५॥
आह च तन्मात्रम् ॥ १६ ॥ दर्शयति चाथो अपि स्मर्य्यते॥१७॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ अम्वुवदग्रहणात्तु न तथा-
त्वम्॥१९॥ वृद्धिब्बासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्॥२०॥
( १२६ )
दर्शनाच ॥ २१ ॥प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च
भूयः ॥ २२ ॥
।
परात्मनो धर्मा द्वेधा-स्वगताश्च जडजीवानुगताश्च । तत्र स्वगतधर्मास्तृती-
यपाढे वृक्ष्यन्ते । जडजीवधर्मत्वेन प्रतीतास्त्वत्र विचार्य्यन्ते । तत्रोपनिषत्सु ब्रह्म
धर्माणामाख्याने भूयोऽलामञ्जस्यं दृश्यते । "अणोरणीयान्महतो महीयानात्मा.
स्य जन्तोनिहितो गुहाया । एष मे आत्मान्तहदयेऽणीयान् ब्रीहेर्वा यवाद्वा सर्षपाद्वा
श्यामाकतन्दुलाद्वा । एष मे आत्माऽन्तहदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षा-
ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः" इत्यादि वाक्यैः परस्परविरुद्धानामणुत्व-
महत्वादीनामेजवाधर्मितयाख्यानं हश्यते तन्नोपपद्यते इत्येकाऽनुपपत्तिर्भवति ॥
अपि च "सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्त ॥ इति सर्वध-
मोपपनत्वं ब्रह्मणः कचिदुच्यते । क्वचिद्वा पुनः-अन्यत्र धर्मादन्यत्रास्मात् कृता-
कृतात् । अन्यत्रभूताच भव्याच्च"-इत्येवं सर्वधर्मविनिमुक्तत्वमुच्यते । इत्यपरा-
ऽनुपपत्तिर्भवति । ताभ्यां व्याहतवाक्यत्वाच्च श्रुतीनामप्रामाण्यं प्राप्नोति । तत्राणुत्व-
महत्त्वादिविरुद्धभावद्वयसामञ्जस्याय भावाभावोभयविरोधसामञ्जस्याय
केचित्तावदित्यमाहुः । सर्वत्र व्यापकस्य परस्य विभिन्नपरिच्छेदकतत्तास्थानाणु-
स्वमहत्त्वाद्युपाधिसंवन्धाद्विरुद्धोभयमावलिङ्ग संभवति । सर्वधर्मविशिष्ट ब्रह्म
भिन्नं सर्वधर्मविनिर्मुक्तं तु ब्रह्म भिन्नमिति ब्रह्मणो भेदाच्च भावाभावोभयसामञ्ज-
स्यमुपपद्यते इति । तदेतन्मतं प्रत्याख्यातुं सूत्रद्वयमाह-न स्थानतोपि परस्य
विरुद्धोभयलिङ्गं समासं भवति । अनेजदेकं मनसो जवीयो नैनवा आमवन्पूर्व-
मर्षत् । तद्वावतोऽन्यानत्येतितिष्ठत् तस्मिन्तयो मातरिश्वा दधाति ॥ तदेजति तन्नै
जति तरेतद्वन्तिके । तदन्तरस्य सर्वस्य तदुसर्वस्यास्य वाह्यतः"-इत्यादिषु सर्वत्र
हि स्थाननैरपेक्ष्येणैव ब्रह्मणस्ताडशविरुद्धरूपाख्यानात् ॥ १ ॥
अपि च न ब्रह्मणो भेदकल्पनाद् भावाभावोभयविरोधोस्तीति चेत् तदपि न ।
मधुब्राह्मणो अयमेव स योऽयमित्यादिना प्रत्येकमभेदवचनादू भेदकल्पनस्या-
युक्तत्वात् ॥२॥
अपि चैवमेके शाखिनो भेदं प्रत्याचक्षते। नेह नानास्ति किञ्चन । मृत्योः स
मृत्युमाप्नोति य इहनानेव पश्यतीति । तस्मादित्थं युत्तयामासाभ्यांविरोधापरिहारा-
दुपनिषद्वाक्येषु परस्परविरोधः प्राप्नोत्यैव ॥३॥
अथान्ये केचिदित्थं पञ्चभिः सूत्रैः परिहारमाहुः-जगदेवेदं रूपवदस्ति ।
ब्रह्मस्वरूपवदस्ति । जगद्विलक्षणत्वात् । तथा चोपनिषद्वाक्यानान्तद्ब्रह्मनिरूपण-
प्रधानत्वात् तत्रोपनिषत्स्वरूपवदेवास्ति प्रतिपाद्यं न तु रूपवदपि । सर्वकर्मा-
दयस्तु जगद्धर्मा उपचारादुच्यन्ते । तेन निर्धर्मकत्व एव शालतात्पर्य धर्मोपपादन
त्वौपचारिकं द्रष्टव्यम् ॥६॥
(१२७ ) ननु ब्रह्मणो निर्धर्मकत्वे तस्य सर्वव्यवहारायोग्यत्वात् ब्रह्मणस्तदाराधनस्थ तत्प्रतिपादकशास्त्रस्य च वैयर्थ्य स्यादिति चेत् तत्राह । प्रकाशवच्चावैयर्थ्यात् तद्वयवहारा उपपद्यन्ते । यथा सौरः प्रकाशी जीवैर्यथेच्छं स्थापयितु विधातु चाशक्यत्वादव्यवहार्योपि प्रकृत्या सूर्योदये मेघाद्यावरणाभावे च व्यवहार्यो भवति तथेदं ब्रह्मापि, आसीनी दूरं व्रजति, अपाणिपादो जवनो ग्रहीता इत्यादि वाक्यैः सर्वधर्मरहितेप्यलौकिकसामर्थ्यवद्रूपरवाज्जीवानुग्राहकत्वसंभवादीश्वरकृपयैव व्य- वहार्य संभवति । तस्माच्छास्त्रादिवैयर्थं नास्ति ॥ ५ ॥ ननु अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण इति श्रुतेरलौकि- कस.न्द्रियत्वं ब्रह्मणः सिद्धचतीति निर्धर्मकरवपक्षो व्याहत्यते इति चेन्न । आह च तन्मानं श्रुतिः- “यथा सैन्धवधनोऽनन्तरोऽबाह्य इत्यादिना । तथा च प्रज्ञान- घनस्वरूपातिरिक्तेन्द्रियाभावात् सर्वक्रियाणां तत एवोत्थानान्न निर्धर्मकत्व- व्याघातः॥६॥ ननु ब्रह्मण एवेदं जगदुत्पन्नमिति वेदान्ता आहुः। सर्वविधरूपवति चास्मिन् जगति कामादिधर्मा यन्ते । तथा च कारणधर्माणामेव कार्ये दर्शनाजगतो धमैरेव कारणे ब्रह्मणि सर्वधर्मवत्वं संभाव्यत इति चेत् तत्राह-दर्शति श्रुतिरेव "अथात आदेशो नेति नेतीत्यादिना" ब्रह्मणि जडजीवधर्माणां सर्वेषामभावम् । अथो स्मर्य्यतेपि तथा-अनादिमत्परं ब्रह्मत्यादि । अतः प्रपञ्चधर्माणां ब्रह्मणि कथनमौपचारिकमेव सिद्धम् ॥ ७ ॥ अत एव च निर्णयात्-"समा लषिणा समो नागेन समो मशकेन सम एभि- स्त्रिाभिर्लोकैरित्यादिना निरुपमस्याप्यस्योपमा क्रियते । अन्यथा स्वतो ब्रह्मणो विभिन्न- वत्वाधर्मसंभवात् जडजीवादिसम्बन्धव्यतिरेकेण ताशविभिन्नधर्मव्यवहारोनुप- पन्नः स्यात् ॥ उपाधियोगात्ताशव्यवहारे दृष्टान्तमाह-सूर्यकादिवत् इति । सूर्य्यसहितं जलं सूर्यकम् । “यथा ह्ययं ज्योतिरात्मा विवस्वान्, एकधा वहुधा चैव दृश्यते जलचन्द्रवदित्यत्र प्रतिविम्वो जलादिनिष्ठो जलाद्युपाधिभेदाद्भिन्नवत् प्रतीयते तथा च ब्रह्मणि सर्वधर्म प्रतिषेधे एवैषां शास्त्राणां मुख्य तात्पर्य्यम् । सर्वकर्मादयो जडजीवधर्मास्तु तत्रौपचारिका एवेति मतमेकदेशिनां सिद्धम् ॥ ८ ॥ अथ सिद्धान्ती तावदेतन्मतं प्रत्याचष्टे- अम्बुवदग्रहणातु न तथात्वम् । यथाम्बु प्रतिविम्वं गृह्णाति न तथैते धर्मा ब्रह्म ग्रहीतुं शक्नुवन्ति । आधेयानां धर्मा- णामाधारत्वायोगाद्, ब्रह्मण एव सर्वाधारत्वप्रतिपत्तश्च, ब्रह्मणोनीरूपनिःसङ्गतया प्रतिविस्ववजडजीवधर्मेषु ब्रह्मणोऽनुषङ्गेन भानासंभवाच्च । तस्मात्सर्वकामादयो ब्रह्मधर्मा र स्वाभाविका न तूपाधि संबन्धादौपचारिकाः इति मन्तव्यम् ॥ ६ ॥ ननु तर्हि तेषूपनिषद्वाक्येषु विरोधः कथं परिहर्तव्य इति वेदत्र सिद्धान्ती परिहारमाह वृद्धिहासमाकत्वमन्तर्भावादिति । यथैकस्याकाशस्य करकादिष्वात - वाद वृद्धिहासभाकल्वम् . एवमिहापि द्रष्टव्यम् । यथा जपाकुसुमलौहित्यं स्फटिक- ।
धर्माः ब्रह्म- धर्माभावेपि स्फटिके संक्रान्तं प्रतिभाति एवमेते विरुद्वाविरुद्वाः सर्वे ब्रह्मण एव धर्मा अन्यत्रान्यत्र जडजीवेषु प्रतिभालन्ते नतु जडजीवधर्मा ब्रह्मणि संसृज्यन्ते। एवमेवोभयसामंजस्यात् । विरुद्धाविरुद्धसर्वधर्मोपपन्नस्यास्य नानाविधिविभि- नपरिच्छेदवत्सु जडजीवेष्वन्तर्भावात् तत्र तत्राणुषु महत्सु च ते संवधान प्रतिपद्यन्ते इति विरुद्धोभयलिंगं समंजसं भवति ॥ १०॥ एकत्रे ब्रह्मणि विरुद्धोभयदर्शनाच्च तथा प्रतिपत्त युक्तम् । यथैकत्रैव शरी- रेवाल्यकिशोरादिविरुद्धधर्माणां यथा वैकत्रैवरथचक्र विरुद्धयोरवयवगतिसमुदाय- गत्योश्च सामंजस्यं दर्शनादेवोपपद्यते एवमिहापि स्यात् । यद्यत्र यथा दृश्यते तत्तत्र तथाभ्युप्यते नहि दृष्टेऽनुपपन्नं नाम किश्चिदस्ति । तस्मात् सर्व विरुद्धधर्माश्रयत्वेन ब्रह्मप्रतीतेन कश्चिद्विरोधः ॥ ११ ॥ ननु ब्रह्मणो विरुद्धाविरुद्धसर्वविधधर्मोपपन्नत्वमाख्यातं तन्नोपपद्यते । श्रुति- विरोधात् श्रुतिर्हि “अस्थूलमनण्वहूस्वमदीर्घम् अशब्दमस्पर्शमरूपमव्ययमित्या- दिना सर्व धर्मसंवन्धं प्रतिषेधति इति चेत् तत्रोच्यते । प्रकृतैतावत्वं हि प्रतिषेधति शास्त्रम् । जगति हि प्रत्यर्थमेतावत्वं प्रकृतं दृश्यते यत्तावत् स्थूलं तनाणु द्रव्यमस्ति । यच्चाणु द्रव्यं तन्त्र स्थूलमस्तीत्युभयोर्नियतमेतावत्वं प्रकृतं भवति । अतएवाणुत्व- स्थूलत्वयोर्विरोध प्रतिपद्यन्ते लोकाः । यत्परिमाणकं यद् द्रव्यं तद्रव्यं तदानीमेव तदन्यपरिमाणकं न संभवति लोके । एतावत्वस्य सर्वत्र जगति प्रकृतत्वात् । तदेव जगतः प्रकृतमेतावत्वं ब्रह्मणि प्रतिषेधति शास्त्रम् । तत्र हि सर्वलोकवैलक्षण्येन युग- पत् सर्वेषां धर्माणामणुत्वस्थूलत्वादीनामभ्युपगन्तव्यत्त्वात् तथाहि यदिदानी ब्रह्मणि परिमाणमुक्तम् अणोरणीयानिति, ततो ब्रवीति च भूयोऽन्यपरिमाणं महतो महीयानिति,। एवं यदेकत्रोकमग्निब्रह्मति, ततो ब्रवीति च भूयः सोमो ब्रह्मेति । अग्निरयमग्निरेव न सोमः। एवं सोमो नाग्निरिति सर्वत्रतावत्वं प्रकृतं दृश्यते । ब्रह्मणि तु नेदमेतावत्त्वम् । तद्वयग्निश्च भवति सोमश्च । तस्माद्धमैतावत्त्वप्रतिषेधात् सर्वधर्मवत्त्वं ब्रह्मणि सिद्धम् । अस्थूलादिवाक्यैर्ब्रह्मणों जगद्वैलक्षण्यमेवोच्यते तत्र स्थूलत्वादिपरिच्छेदनियमप्रतिषेधे एव तात्पर्य्यात् स्थूलत्वादिधर्मसंवन्धा न प्रतिषिध्यन्ते । तथा च जगद्धर्मा ब्रह्मणि नोपसृज्यन्ते । ब्रह्मधर्मा एव तु जगति सर्वत्रानुवर्तन्ते । ब्रह्मणि धर्मंतावत्त्वप्रतिषेधः। सर्वधर्मोपपत्तिः । जगति परस्पर- विरुद्धानां धर्माणां ब्रह्मणि सामंजस्यं चेत्येतेषामर्थानां संग्राहकब्रह्मणि अलौकिक- धर्मस्थापने न लौकिकधर्मविरोधपरिहाराधिकरणमिदं बल्लभीयं द्रष्टव्यम् । तदव्यक्तमाह हि ॥२३॥ अपि संराधने प्रत्यक्षानुमानाभ्याम्॥२४॥ पूर्व द्विविधाऽनुपपत्तिरुपक्रान्ता विरुद्धभावद्वयनिवन्धना च। तत्राद्यायाः --समाधानं कृतम् । द्वितीयेदानीं विचार्य्यते। यद्यपि पूर्वाधिकरणे एव प्रकृतैतावत्त्व- -प्रतिषेधवादेन निर्धर्मकवपक्षो निरस्तः । तथापि तेनास्पर्शमगन्धमरसं, सर्वरूपः सर्वगन्धः सर्वस इत्यादीनामेव विरुद्धवाक्यानां समन्वयः कृतो भवति । अवशि- - ( १२६ ) श्यतेत्वन्यो विरोधः। तथाहि-यत्तदद्र्श्यमग्राह्यम् । न चक्षुषा गृह्यतेनापि वाचा". इत्येकत्र चक्षुर्वागादीनामविषयत्वं ब्रह्मण्यारयायते । तेन ब्रह्मणो निराकारत्वं सिध्यति । अन्यत्र पुनः तद्भूतयोनि परिपश्यन्ति धीराः, कश्चिद्धारः प्रत्यगात्मानमैक्षत्, सर्वे वेदा यत्पदनामनन्तीत्यादिना चक्षुर्वागादिविषयत्वं प्रतिज्ञायते। तेन ब्रह्मणः साकारत्वं सिध्यति । तथा चावश्यमेकस्य यथार्थवादित्वात् प्रामाण्यमन्यस्य त्यौप. चारिकार्थदादित्वाद् गौणत्वं वक्तव्यमित्युत्तरपक्षनिर्धारणे कर्तव्ये केचित् तावदाहुः । तव्यक्तमेवास्तीति चक्षुर्वागाद्यविषयत्वमेव ब्रह्मणो युक्तम् । आह हि श्रुति हु- शोऽव्यक्तत्वम् यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं मीमांस्यमेव ते मन्ये विदितम् । संविदन्ति न यं वेदा विष्णुर्वेद न वै विधिः। यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादिः ॥ तस्मादिन्द्रियादिविषयतावादो ब्रह्मणः स्यादौपचारिक एवेति प्राप्त सिद्धान्त उच्यते । अपिसंराधने दृश्यं भवत्यैश्वरं रूपमिति प्रत्यक्षानुमाना- भ्यां गम्यते । प्रत्यक्षं तावदुपासकानां स्वानुभवः । अनुमानं तु ध वादीनां प्रत्यक्षो- पाख्यानाद्भवति । श्रुति स्मृतिभ्यां च । ततस्तु तं पश्यति निष्कलं ध्यायमानः, नाय. मात्मा प्रवचनेन लभ्यो यमेवैष वृणुते तेन लभ्य इत्यादि श्रुतेः । भक्त या त्वनन्यया लभ्यः, ज्ञातुं द्रष्टं च तत्वेनेत्यादि स्मृतेश्च ॥ न चाकारमन्तरेण साक्षात्कारः संभ- वति । तस्मात् साकारमनन्तगुणपूर्ण चेदं ब्रह्म ति सिद्धम् ॥ इति ब्रह्मणि साकार- स्वस्थापनेन साकारनिराकारविरोधपरिहाराधिकरणं वल्लभीयम् ॥ २॥ । प्रकाशादिवचावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥२५॥ अतोऽनन्तेन तथाहि लिङ्गम् ॥ २६ ॥ उभयव्यपदेशात्त्वहि- कुण्डलवत् ॥ २७॥ पुनरन्यः प्रत्यवतिष्ठते । प्रकाशादिवनिर्विशेषमेव ब्रह्म प्रतिपत्तव्यं न तु सव- धर्मवत् । यथा प्रकाशः सूर्यचन्द्राग्निमणिप्रभृतीनां भिन्न भिन्नरूपो हुदैयते । जलं वा गङ्गायमुनाकूपादीनां भिन्नवद्भवति । सुवर्ण चाटजातीयं कटककुण्डलादि- भेदाच्चानेकरूपं क्रियते तथापि तेषां प्रकाशत्वेन जलत्वेन सुवर्णत्वेन चैकरूप्यं प्रति- पद्यन्ते एवं ब्रह्मणोपि निर्विशेषत्वं स्यात् । यत्तु नानारूपेश्वरसाक्षात्कारान्यथानुप- पत्त्या नानारूपवत्वं ब्रह्मणः कल्प्यते इति कश्चिद् ब्रूयात् तत्तुच्छम् ।ईश्वरस्य साक्षा- कारो नाम प्रकाशस्तु तपःप्रणिधानादिकर्मणि भक्तेच्छानुरोधेनैवाभ्यासाहहुचार- मनेकरूपेण च प्रकटीभवतीति ताशानेकरूपदर्शनस्य वस्तुनिर्णायकत्वा- संभवात् ॥ १॥ अत एव चाभ्यासादनन्तेन रूपेणाविर्भावः संपद्यते । यदि केनचिद्धर्मविशेषेण धर्मे तद्रूपवत् स्यात्तर्हि तद्धर्मा स तेनैकरूपेणैवाविर्भवेत् । न ह्येक वस्तु स्वतो- ऽनेकविधं भवति । तथाहि विग्रहधारणमेव तत्र लिङ्ग न स्वरूपमिति कृत्वा निर्ध- मकमेव ब्रह्म सिध्यतीति प्राप्ते॥२॥ सिद्धान्तमाह-उभयपदेशावहिकुण्डलवत ( १३० ) ब्रह्मस्वरूपनिर्णयो हि शाकाहाणलाध्यो न युनिसाध्यः । शाले च निगुण- त्वेनानन्तगुणत्वात् सर्वविरुद्धधर्मात्रयत्न चोमवथा व्यपदेशो उश्यते । तस्मादुभ- यरूपं ब्रह्म प्रतिपत्तव्यम् । तदुभयनपि वास्तविक नित्यम्। विरोधस्तु नास्ति । गुणा- नामपितदात्मकत्वेन तदभेदाभिगुणत्वस्यैवमाश्रयाशायभावेन गुणानां स्फुरणात् गुणवत्त्वस्य च संभगदुभयोपपत्तेः । एकस्यानेकवाभा नमपि न विरुद्धम् । अहिकु- ण्डलवत् संभवात् । यथा सर्प ऋजुशरीरः कुण्डलओत्यनेका भवति तथा निगुण निराकारं ब्रह्माप्यचिन्त्यशक्त्या नानागुणं नानाकारं रफुरतीति संभवति । तस्माविरुद्वाविरुद्ध सर्वधर्मवदेकं ब्रह्मास्ति इति सिद्धान्तः । इत्यप्रत्याय सर्व धर्मवद् ब्रह्माधिकरणं वल्लभीयम् ॥ ३ ॥ प्रकाशाश्रयवदा तेजस्त्वात् ॥ २८ ॥ पूर्वदा ॥ २९॥ प्रतिषेधाच ॥३०॥ - ननु ब्रह्मणः सर्वधर्मोपपनत्वं सिद्धान्तितं तत्रेदं जिज्ञास्यते-धर्मा इमे ब्रह्मणो भिन्ना वा ब्रह्मैव सन्तीति। भिन्नत्वे एकमेवाद्वितीयं ब्रह्मेति ब्रह्माद्वैतश्रुति- विरोधः स्यात् । ब्रह्मत्वे तु ब्रह्मणः सर्वधर्मोपपनं व्याहन्यते । स्वेनाश्रयाश्रयिभावा- नुपपत्तेरिति चेदन द्वेधा समाधीयते प्रकाशाश्रयवद्वा तेजस्त्वादित्येकम् । पूर्ववद्वा प्रतिषेधाच्येत्यपरम् । तेजसां तावत् सूर्याग्न्यादीनां विम्वप्रकाशभेदाद्वैविध्यं दृश्यते। तत्र प्रकाशाश्रयो विम्व एव यदि सूर्योध्यवसीयते तदा सूर्यस्य प्रकाश इति सूर्यसंबन्धितया प्रकाशः पृथग व्यवहियते । यदि तु प्रकाशावच्छिन्नं सर्व- व मण्डलं सूर्य इध्यते तदानीमद्वैतमुपपद्यते । तेजस इत्थंभूतरूपत्वात् सर्वत्रैवं भेदाभेदव्यपदेशः शक्यं कर्तुम् । वस्तुधर्मस्थानाक्षप्यत्वात् । एवमेव ब्रह्मण्यपि प्रतिपत्तव्यम् । तस्यापि चिद्र पस्य तेजस्त्वात् । सूर्यस्याङ्गिनोऽङ्गभूतप्रकाशवद्धर्मिणो ब्रह्मणः सवै धर्मा अङ्गभूतास्तदतिरिक्तानतिरिक्तरूपाः सन्तीत्यतिरिक्तत्वविवक्षायां सर्वधर्मोपपन्नत्वं बृमः। अनतिरिक्तत्वविवक्षायां तु शुद्धब्रह्माद्वैतं प्रतिजानीमः । एकस्मिन्नेवार्थे प्रतिपत्तिद्वैधेऽपि वस्तुद्वेधाभावादविरोधः । इत्युपपत्तिविचार- पक्ष एव सिद्धान्तमतेनोपनीयते ॥१॥ अथोत्पत्तिविचारपक्षणाप्यन्ये समादधते। पूर्व तावदरूपवदेव हीत्यादिपञ्च. सूत्र्या यः सिद्धान्त उक्तः सोऽभ्युपगन्तव्यः । तत्र निर्धर्मकमेव पूर्वब्रह्मासीत् । ततश्च एकोऽहं वहुः स्यामिति सृष्टीच्या क्रियारूपेण प्रपञ्चरूपेण च सर्वेऽप्येते धर्मा ब्रह्मकार्य्यभूता उत्पन्नाः । तत्र च कारणं कार्याद्भिद्यते कार्य्यनाशेऽपि कारणाना- शात् । तथा च कार्यकारण योरभेदश्च व्यपदिश्यतेभेदश्च । यथा कटककुण्डलरुचक- स्वस्तिकादयः स्वर्णाद्भिद्यन्ते परस्परतश्च भिद्यन्ते तथैते जगच्छद्वा ब्रह्मधर्मा ब्रह्मणो भिद्यन्ते परस्परतश्च भिद्यन्ते इति सर्वधर्मोपपनत्वं ब्रह्मणः शक्यं वक्तम् । यथा वा तानि स्वर्णाभर शनि र्णमेव सन्ति। वाचारम्भणं विकारो नामधेयं स्वर्णमित्येव । सत्यं तथैतानि जगन्त्यपि ब्रहकार्यभूतानि ब्रह्मैव सन्ति । तस्मादिकविज्ञानेन सर्व- विज्ञानप्रतिज्ञासिद्धिः सद्विद्याथाम् । तस्माकमेवाद्वितीयं ब्रह्मोति शुद्धब्रह्माद्वैत- वादश्चोपपन्नः । एकमेवाद्वितीयलिति श्रुतौ एक्कारेणान्यनियमाप्ती पुनद्वितीय- मिति प्रतिषेत्राच्च धर्मप्रतियोपि गल्यते। धर्मर्मिभावप्रतिषेवाद्विशुदानिर्द्ध- मकाद ब्रह्मणः पश्चाद्धर्माणाभिव्यक्तिरित्युभयं ब्रह्माणि समंजसं भवति । इत्थं च प्रकारद्वारे निदर्शिते सूबत्लनलिरुभयत्र एश्यो । वल्लभीयानां तूपपत्तिः विचारपक्ष एवेति सिद्धान्तः। ॥ इति लर्वधर्मापपलब्रह्मणि शुद्धाद्वैतवादाधिकरणं बल्लभीयानाम् ॥ ४॥ परमतः सेतून्मालसम्बन्धमेदव्यपदेशेभ्यः ॥३१॥ सामा- न्यात्तु ॥३२॥ युद्धादयः पादयत् ॥३३॥ स्थानविशेषात्प्रकाशा- दिवत् ॥३४॥ उपपत्तेः ॥३५॥ तायप्रतिषेधात् ॥३६॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥३७॥ एवं ब्रह्मणो धामणः स्वधर्मसापेक्षां ताशङ्का परिहय अय॑न्तरसापेक्षा द्वैताशङ्का परिहरवि पूर्वोत्तरपक्षाभ्याम् । तत्र पूर्वपक्ष तावदाह--परनतः सेतून्मा- नसंबन्धनेदव्यपदेशेभ्यः । अतो ब्रह्मणः परमपि किश्चिदुख्यमस्ति इति संत्त्वादि- हेतुभ्यो ज्ञायते । अर्थ य आत्मा रू तुर्वितिरिति ब्रह्मणः सेतुव्यपदेशात् तर- णानन्तरं पारे प्राच्यमन्यदस्तीत्यवगम्यते ।। २ ॥ यावान् वायनाकाशस्तावानेयोऽन्तहदये आकाश इबुन्मानन्यपदेशन परि- च्छिन्नवादन्यसत्तापि लंभाव्यते॥२॥ उभावस्मिन् द्यावापृथिवी अन्तरे व समाहिते इत्याचारायसंबन्धः ॥ ३॥ - य एषोऽन्तरादित्ये हिरण्मयः पुरुषः, य एषोऽन्तरक्षणि पुरुषः इत्येवं द्वयोः पुरुषयोल्योन्यधर्मातिदेशो धर्मिभेदनिबन्धनो श्यते ॥ ४॥ तथा चास्य ब्रह्मणः परिच्छिन्नत्वोक्तचा परिच्छेदरहितं किञ्चिदन्यतत्वमस्ति इति लभ्यते इति प्राते उच्यते । सामान्यात्तु ते व्यपदेशाः क्रियते इति । ब्रह्मणि संसारसागरोतरणोपावसामान्यात् सेतुव्यपदेशः । निलपवतालान्यादाकाश- व्यपदेशः । कानादिदोहाय चतुष्पात्वपरिच्छेदः । अमृतत्वाय षोडशकलत्वपरि- च्छेदः । अदुर्लभवाय सम्बन्धोक्तिः । अक्षिस्थितपुरुषे दिव्यत्वज्ञापनायादित्य धर्मातिदेशः । अतो जलणि गुणांवशेषाख्यानाय सेतुत्वादियचनं न तु तावता ब्रह्म- स्वरूपापकर्षे तात्पर्य्यम् || इत्थमन्यसमानत्वेन व्यपदेशस्तु बुयर्थः क्रियते पादवत् । यथा भूतादीनां पादत्वे विज्ञानमुपास्यर्थ तयेदभप्युपासनार्थ भविष्यति । इत्थं बुद्धयोपासना का. य्येति ॥ यथा सूर्यचन्द्राग्निप्रकाशादीनां सूर्खादिस्थानभेदात् समानधर्मत्वं ना- स्ति तथादित्याक्षिपुरुषयोरपि अयादिस्थानविशेषात् समानधर्मवत्वं न स्यादत- स्तयोर्धातिदेशः क्रियते इति नैतेन पुल्पद्वैविध्यम् ॥ ॥ उपपत्तेश्च सर्वोपनिषद्वा- क्यानामेकं ब्रह्मवाद्वितीयतत्वं सिध्यति ॥ न तत्समश्चाभ्यधिकश्च दृश्यते इतिश्रत्या ततोऽन्यप्रतिवेधाद् ब्रह्मातिरिक्तधर्मिस्तत्वकल्पनं नावकल्पते ॥ * ॥ तस्मादनेन ब्रह्मणोऽन्यस्य प्रतिषेधवाश्येनायामशब्दादिभ्योऽवगतं सर्वगतत्वमप्यस्यैव ब्रह्मणो ज्ञेयम् ॥ आकाशवत् सर्बगतश्च नित्यः । ज्यायान् दिवो ज्यायानाकाशात् । तेनेदं पूर्ण पुरुषेण सर्वम् । सर्वतः पाणिपादं तदित्यादयो व्यापकाभिधायिन्यः श्रुत- य आयामशब्दाः । आदिशब्दो युक्त चभिप्रायः ॥ तथा च ब्रह्मवेदं विशुद्धमद्वैतं सर्व- धर्मोपपन्नं तत्वमिति सिद्धम् ॥ इति ब्रह्मातिरिक्ततत्वप्रतिषेधाधिकरणं वल्लभीयानाम् ॥ ५॥ अथ ब्रह्मणो महिमानमाह । अमीषां जोवादीनां सर्वमेवैहिकं पारत्रिक वा फलमत ईश्वरादेवोपपद्यते । सर्वस्य वशी सर्वस्येशान इत्यादि श्रुतिभिस्तस्यैव वस्तुमात्रशासकत्वोक्तया सर्वविधनिग्रहानुग्रहादिफलदातृत्वोपपत्तेः ॥ ३८॥ "स वा एष महानज आत्माऽन्नादो वसुदान" इत्यादि श्रुतिभिस्तथा श्रुत- त्वाच्च । "भवन्ति भावा भूतानां मत्त एव पृथग विधाः" इति स्मरणाच्च ॥ ३६ ॥ कर्मवादी जैमिनिस्त्वाचार्योऽतएव हेतोर्धर्म फलदातारं मन्यते । तथाहि ईश्वरस्य जीवादिकर्मनिरपेक्ष स्वातन्त्र्येण फलदातृत्वाभ्युपगमे तस्य वैषम्यनैण्ये प्रसज्येते, कर्मविधयश्च व्यर्थाः स्युः । कर्मसापेक्षत्वे तु कर्मण एवान्ततः फलदात. त्वमुपपद्यते । दर्शपूर्णमासज्योतिष्टोमादिविधिश्रुतिभिः कर्मणां फलप्रयोजकतायाः श्रुतत्वाच्च ॥ ईश्वरस्य फलदातृत्ववचनान्यर्थवादतया नेयानि ॥ ४० ॥ इत्थं जैमिनिमतमुपन्यस्य तत्प्रत्याचक्षाणः सिद्धान्तमाह-पूर्व तु वादराय- णो हेतुव्यपदेशात् इति। वादरायणस्त्वाचार्यः पूर्वमेव मतमभिप्रेति ॥ “एष ह्येव साधुकर्म कारयति"-इत्यादिश्रुत्या कर्मविधानेपीश्वरस्यैव हेतुव्यपदेशात् ॥ वैषम्य- नैघृण्यदोषस्त्वात्मसृष्टया परिहरणोयः । स्वतन्त्रस्यैश्वरस्य फलोत्पत्तये कणो द्वारीकरणं किमर्थमिति च-कृतप्रयत्नापेक्षास्त्विति सूत्रे पूर्व विचारितमित्या- स्ताम् ॥४१॥ अतः फलार्थिभिर्भगवानेव सेव्यो नान्य इति सिद्धम् ॥ ॥ इतीश्वरस्य फलदातृत्वाधिकरणम् ( वल्ल.)६॥ इति जगद्धर्मविचारपादो द्वितीयः ॥ २ ॥ (औपाधिकधर्मपादः ) ܀܀ ॥ अथ प्रातिस्विकधर्मविचारपादः ॥३॥ तत्रादौ उपास्यरूपनिर्णयाधिकरणम् ॥ १ ॥ सर्ववेदान्तप्रत्ययं चोदनाविशेषात् ॥ १ ॥ भेदान्नेति चंदे- कस्यामपि ॥२॥ स्वाध्यायस्य तथाले हि समाचारेऽधिकाराच सववच्च तन्नियमः ॥ ३॥ दर्शयति च॥४॥ उपसंहारोऽर्था- भेदाद्विधिशेषवत्समाने च ॥५॥ अन्यथात्वं शब्दादिति चेन्ना- विशेषात् ॥ ६॥न वा प्रकरणभेदात्परोवरीयस्वादिवत् ॥ ७॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८॥ व्याप्तेश्च समञ्जसम् ॥९॥ सर्वाभेदादन्यत्रमे ॥ १०॥ आनन्दादयः प्रधानस्य ॥ ११ ॥ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥ इतरे त्वर्थ- सामान्यात् ॥ १३ ॥ आध्यानाय प्रयोजनाभावात् ॥ १४ ॥ आत्मशब्दाच्च ॥ १५॥ आत्मगृहोतिरितरवदुत्तरात् ॥ १६॥ अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥ कार्याख्यानाद- पूर्वम् ॥ १८॥ समान एवं चाभेदात् ॥ १९॥ सम्बन्धादेव- मन्यत्रापि ॥२०॥ न वा विशेषात् ॥ २१ ॥ दर्शयति च ॥ २२ ॥ सम्भृतिधुव्याप्यपि चातः ॥ २३॥ पुरुषविद्यायामपि चेतरेषा- मनाम्नानात् ॥ २४॥ ब्रह्मैव सर्ववेदान्तप्रत्ययं वोध्यम् । सर्वैरपि वेदान्तवाक्यैरेकमिदं ब्रह्मैव प्रत्या- य्यते । विधायकवाक्यादीनामेकरूपेण तत्र प्रत्तिपत्तेः ॥ १॥ अथ शाखाभेदेन वेदान्तानां भेदात्, प्रतिवेदान्तं चान्यान्यधर्मोपदेशात् । प्रतिपाद्यविषयस्य धर्मभेदादेकत्वं नास्तीति चेद् ब्रूयात् तत्र त्रूमः । एकस्यामपि धर्मि- व्यक्तौ भिन्नानेकधर्माः संभवन्तीति न धर्मभेदाद्धर्मिभेदः शक्यः ॥ अन्ये तु सूत्र- मित्थं व्याचक्षते । भिन्नैर्धर्मिनशाखायां भिन्नोपनिषदि-ब्रह्मोपदिश्यते तस्मा- तत्र तत्र श्रुतौ प्रतिपाद्यं ब्रह्म भिद्यते इति चेन्नैतदेवं शक्यम् । एकस्यामपि शाखाया- मेकस्यामप्युपनिषधेकस्यामपि श्रुतौ भिन्नैर्धमैष्टुभिब्रह्मोपदिश्यते ।. नैकस्यां श्रुतौ प्रतिपाद्यं भेदेनाभिप्रेयते तद्वद्भिशाखायानपि नैतत् प्रतिपाद्यं ब्रह्म भिन्नं स्यादिति । २॥ ननु वहि तरच्छाखायां भेदेनोकानामुपालनाप्रकाराणामन्यान्यशाखाया. मप्युपसंहारापती सर्वशाखिनां समुञ्चनैश एवोपासनाप्रकार: स्याद् वेकत्वात्। उपासनाप्रकाराणां शाखाभेदेन भेदामुपगमे तु पेबैकत्वं न स्यादिति चेत् तत्री- च्यते-तत्तच्छाखिना स्वस्वशाखोकप्रकारेणैव ककरणेऽधिकाराच हेतोः स्वा. ध्यायस्य वदस्य सोमयागाधामले समाचार तथात्वेन तच्छाखोलप्रकारेणैव तेषां कर्तभ्यतानियनः किरते संपवत् । यथा सवा जाम होनविशेषा आथर्वणिकानाव कार्यत्वेन लियस्यन्ते नान्येषाम् तथान्यत्रापि वोध्यन् ॥ ३ ॥ एवमपि घेद्यैकत्वं न विहन्यते । उपासनारूपभेदेपि सः रूपैरेकस्यैवोपास्य- वेन विज्ञातव्यत्वात् । दर्शयति च शाखाभेदेपि वेचैकरवं-"सर्वे घेदा यत्पदमा. मनन्तीत्यादिना ॥४॥ अथवा व्यवस्थां वक्ष्यामः । द्विविधा धुपासका इण्यन्ते-एकान्तमका अने- कान्तभकाश्च । ये निगुणं ब्रह्मोपासतेऽथवा सर्वैर्धम्मरेकमेव शुधं ब्राह्मोपासते ते सामान्योपासका अनेकान्तभक्ता उच्यते । ये पुनर्विष्णु वा शिवं वा सूर्य वा केन- चिद्विशेषरूपेणानियम्योपास्यं गुणविशेषविशिष्टं ब्रह्मोपासते ते विशेषोपासका एका- न्तभक्ताः स्युः । तत्रानेकान्तभकानां सर्वेष्वपि धर्मेष्वर्थस्योपास्यस्याभेदाद्विरो- धमानासंभवात् सर्वधर्माणां सर्वत्रोपसंहारः स्यात् । ये विष्णुगुणाः ये वा शिव- गुणा ये वा सूर्यगुणाः सर्वैप तैगुणैरविशेषं स एक एवोपास्यः संस्तूयते "त्वं विष्णुस्वं शिवः सूर्य इति । अध विष्णुशिवादिरूपविशेबैकान्तभक्तानान्तु ये विष्णु- शिवादिपरस्परविरुद्वागुणाः कृष्णशुक्लादयस्तपा समुच्चयानोग्यत्वात् परस्परं नोप- संहारः स्यात् । समाने चाविरुद्वे धर्म दयालुत्वानन्दमयत्वसर्वाभीष्टफलदातृत्वदुःख. हन्तृत्वादिरूपे विरोधाभावात् सबुच्चयलंभवाद विधिशेषवदुपसंहारः स्यादेव । शाखान्तरीयविध्युक्तधर्माणां शाखान्तरीयवियः शेषवत् नतिः शक्यते कर्तुम् । तत्रानुक्ताविरुद्धधर्मान्तरसमुच्चयेन तविधेिरूपं कल्प्यमितिभावः॥ ५ ॥ ननु व्यवस्थायामप्यनेकान्तभक्तानामविशेषात् सर्वरपिगुणैरुपासमानानां सर्वशाखोक्तसर्वधर्मोपसंहाराभ्युपगमे धर्माणां परस्परविरुद्धानामनेकरसत्वात् तदभिन्नत्वेन विवक्षितस्य ब्रह्मणो वेदोक्लमेकरसत्वं व्याहन्येत। तथा चैकरसत्वं प्रतिपादकाच्छब्दादन्यथात्वमनकरसत्वं प्रसज्येतेति चैन । अविशेषात् । यथेमेक- रसत्वं ब्रह्मणः शब्दतो निर्णीतं तथेदं विरु द्वानेकधर्मवत्त्वमपि ब्रह्मणः शब्दत एव निर्णीयते इति न शब्दादन्यथात्वं शक्यनाक्षेतुम् ॥ ६ ॥ अथवा नैष दोषः प्रसज्यते । परोवरीयस्त्वादिवत् प्रकरणभेददर्शनात् । परोवरीयस्त्वं नाम व्रतविशेषो दीक्षाप्रकरणे पठ्यते ततो दीक्षासाहितस्यैव व्रतस्य परावरीयस्वं नान्य-पवमिवाप्युत्तरतापिन्यां ज्ञानप्रकरणे शानिनं प्रत्येव ब्रह्मदमेक-
( १३५ )
रसमश्यभग्राहामिति निरूपितम् । भक्तिपरणे तु ध्यानोपयोगार्थमनेकविधा
धर्मा उपासकरुचिसापेक्षा भिन्नभिन्न प्रकारणायर्वजोपनिपदि निरूप्यन्ते । तथा
च प्रकरणभेदात् स्वरूपस्यान्यथात्वं नास्तीति बोध्यम् ॥ ७ ॥
ननु निगुणवोपासका ज्ञानिन उच्यन्ते । सगुण झोपासकास्तु भक्ताः
स्युः । किन्तु एकमेवाद्वितीयंमलात श्रुत्या ब्रह्मातिरिक्तस्वासत्वामानानपिसवैषां
ब्रह्मत्वमेवावगम्यते। तथा च ययैकस्य धर्मिणो इन्वं तथैवामीपां धर्माणा-
मपि सर्वेषां ब्रह्मत्वनिति धर्म जोरभेदाध्यवसायात् सर्वधर्मोपपन्नम्पीद ब्रह्म
निर्धर्मकत्वेनैवाध्यवसीयते शुद्धाद्वैतवादिभिर्वल्लभीयारति सिद्धान्तितं प्राक् । एवं
स्थिते निगुणोपासकानां भक्तानां चाविशेषाद् ब्रह्मोपासतया संदकत्वं सिध्यति ।
संजैकत्वाच्च प्रकरणभेदो नास्तीति शब्दादन्यथा तदस्थमेव । अत आह । संज्ञात-
श्वेत् प्रकरगैक्यं ब्रूयात् तदसत् । उक्त तत्पूर्व न वा प्रकरणभेदादिति । तदपि त्वस्येव
प्रकरणभिन्नत्वम् । तथा हि एकान्तमनस्य तत्स्वरूपैकनिष्ठरवन, तत्स्वरूपवहिभूत-
धर्माणामनुपसंहारः। अनेकान्तभकस्य तु ब्रह्मत्वसामान्येन सर्वकज्ञानात् सर्व-
धर्मोपसंहारे वाधकाभावः । इत्थं च संकत्वेऽप्यातनिधाभेदस्य नाप्राप्तत्वादु.
भयोरुपासनाप्रकरणं भिद्यते । प्रकरणभेदाच्चीपसहारानुपसंहारौं भेदन
द्रष्टव्यो॥८॥
नन्वेकान्तभक्तानां परिच्छिन्नाकारचन्द्र पोपासक्तया परमेश्वरोपासकत्वं न
स्यात् । परिच्छिम रूपस्याथस्य दिगदेशकालानवछिनपरमेश्वरतो भिन्नत्वादिति
चेत् तत्र त्रूमः । व्याप्तश्व समंजसमिति । सर्वतः पाणिपादं तदित्यादिश्रुतः साका.
रस्यापि तस्य व्यापकत्वाभ्युपगमानिधर्मक्ब्रह्मवत्सामंजस्यानानुपपत्तिः सवरस
इति श्रुश्या च भक्तानुग्रहविग्रहस्य भिन्नभिन्नरसप्रादुर्भावाय भिन्न भिन्नरूपेण प्राक-
ट्यपि सर्वधयुपसहारेण व्यापकताया उपपन्नत्वात् ॥ ६ ॥
ननु सर्गलीलाविसर्गलीलादीनामीश्वरलीलात्वेन नित्यत्वात् सर्गलीलालम्ब-
न्धिजीवानां विसर्गलीलासंबन्धि वं न स्यात् । तथास्वाभ्युपगमे लीलाया अनित्यत्व-
प्रसॉरति चेत् तत्राह x सर्वाभेदादन्यत्रमें इति । लीलासम्बन्धसर्वार्थाना-
मीश्वरेण सहाभेदादन्यत्राग्रिमलीलायामपि इमे एव जीवाः संभवन्ति । जीवाना.
मीश्वरांशवादीश्वरस्य चैकत्वाद् व्यापकत्वाच्च ॥ १०॥
ननु लीलास्थितजीवानानीश्वराभिन्नत्वेन व्यापकत्वाभ्युपगमे साधकजीवाना-
मपि पूर्णानन्दादिधर्भवत्वं स्यात् । ईश्वरधर्मस्य सर्वस्यापि तत्रौचित्यादिति चेत्
तत्र ब्रूमः आनन्दादयः प्रधानस्यैवेश्वरस्य ध..ः स्युन तु जीपस्यापि । साधक
जीवानामीश्वरादभेदो यावन्न स्फुरति तावत् पूर्णानन्दादीश्वरधर्माणां तत्रादिर्भा.
वाभावात् तत्र दुःखस्फूर्तेः। अभेदस्फूतौ तु जीवत्वव्यपायादीश्वरेणानतिर कात्
पूर्णानन्दादयो धस्तित्राप्याविर्भवन्त्येव ॥ ११ ॥
ननु प्रधानस्येश्वरस्यानन्दमयत्वे प्रियशिरस्त्वादिधर्माणामपि प्रधानधर्म- त्याविशेषात् तेषामप्यत्रेश्वरे तदीश्वरतादात्म्यापने मुक्तजीवे वेदोपसंहारः स्यादत आह प्रियशिरस्त्वाद्यप्राप्तिरीश्वरे मुक्तजीवे चेष्यते । ईश्वरस्य निर्भदाखण्डैकरसा- नन्दत्वेन प्रतिपनत्वात् । भेरे हि सति प्रियमोदाद्युपचयापचयो संभवतः । अन्तःकर- णशुद्धपतित्वे तत्तारतम्यानुरोवेनानन्द प्रियत्वमोदवादयो विशेषा उपचया- पचयभेदेन भालले । यस्य त्वन्तःकरणशुद्धिः पाताभूत् तस्य विशुद्धाभेदज्ञा- निनः पूर्णानन्दरूपत्वात् ततेषां तारतम्यधर्माणामनवसरत्वान्न प्रियशिरस्त्वाद्युप संहारप्रतिः संभवति ॥ १२॥ ननु विष्णुशिवसूर्यादिषु सगुणब्रह्मनु परस्परविरु द्वगुणानां पूर्वोक्त: रीत्यानुपसंहारे सर्वगुणत्वाभावात् तेषां सर्वेषामपीश्वरत्वं न स्याद् । अनीश्वर- वाच्चानुपास्यत्वं प्रसज्येतेति चेत् तत्रोच्यते इतरे त्वर्थसामान्यात् इति । इतरे विरुद्धधर्मा विष्णुशिवसूर्यादयो हर्थस्य ब्रह्मणः सामान्याद् धर्मिरूपेणोपसंहा- नतु धर्मरूपेण । परस्मिन् तत्तधर्मानुपसंहारेण परस्परतो भेदेऽपि ब्रह्मणा सह सर्वेषामस्त्यभेद इति सर्वतत्तद्धम्मिलमुच्चयेनैकं ब्रह्म व शुद्धमुपास्यं सिद्धं भवति । यथा पुरुषे ऋङ्गयुच्छादीनां जीवविशेषधर्माणामनुपसंहारेऽपि पुरुषाणां पशूनां च जीवसामान्यादेकवर्ग उपसंहारः तथेहापि प्रतिपत्तव्यः॥१३॥ आध्यानाय हि गुणोपसंहारः क्रियते तस्माद् यावता ध्यानसिद्धिस्तावता- मेव गुण नामुपसंहारः कार्य । अन्येषां तु प्रयोजनाभावानोपसंहारः । तेन शुद्धाखण्डैकरसानन्दमयस्वरूपमात्रेण ध्यानलिद्धर्न मोदप्रमोदादिपक्षादीनामुप- संहारः॥१४॥ पञ्चकोशविद्यायाम् आनन्द आत्मेत्यानन्देऽस्मिन् आत्मशब्दान्मोदप्रमोदा- दीनामाननन्दरूपतया तेषामप्यात्मस्वरूपेणैवोपसंहारः कार्यो न तु पक्षपुच्छादि- रूपेण नवोपचयापचयरूपेण नवाभेदेन ॥ १५॥ ननु तत्रैव पञ्चकोशश्रुतौ तस्यैष एवशारीर आत्मेत्युक्तरन्यस्य शरीराभिमानिनो जीवस्य तदानन्दमयं प्रत्यारमत्वेनोपदेशात् । जीवात्मधर्मोऽयमानन्दमयः प्रतीयते नत्वात्मा तथाचालशब्दादित्युक्तिर्न साध्वीति चेदत्रोच्यते । आत्मगृहीतिरितर- वदुत्तरात् इति । तस्यैष एव शरीर आत्मेति यदितरवदन्नमयादिष्वात्मग्रहणं तदुत्त- रात् सर्वान्त्यादानन्दमयाद्धतोरेव क्रियते । आनन्दमय एव हि शरीर आत्मा तस्यै- व तु विज्ञानमयाद्यन्नमयपर्यन्तध्वनुस्रव इष्यते । तस्य परमकाष्ठापन्नत्वेन तदतिरिक्त- ब्रह्मणोऽभावात् ॥ १६ ॥ । ननु पञ्चमतस्यैतस्यानन्दमयस्य व्यापकत्वेन सर्वत्रान्वयाद्भवतु नामान- मयादिध्वप्यनुस्रवः किन्तु तावता पूर्वष्वन्नमयादिषु पृथक् पृथक् श्रुतः शारीर आरमा जीवः कथं प्रत्याख्यातः स्यादिति चेदुच्यते । स्यादवेधारणादिति । एष ह्ये.
घेत्येवकारेण निर्धारणादानन्दमय एवायमनमयादिशरीराभिमान्यपि स्यान्न तु भिन्नो जीवः॥ १७॥ ननु पञ्चकोशविद्यायामन्नमयादीनां पुरुषविधतामाख्याय तत्पुरुषविधता- मन्वयं पुरुषविध इति प्रतिज्ञायते। तथा चान्त्यस्यानन्दमयस्य पुस्पके तस्यैव सर्वात्म्यात् कोयमन्यः पुरुषविधोऽवशिष्यते इति चेत् तत्र ब्रूमः । द्विविधो ह्यत्र पुरुषो विवक्षितः-बाहात्मा चान्तरात्मा च तत्र तैत्तिरीयके "तस्माद्वा एतस्मादादित्या. दाकाशादिमहाभूतसृष्टिमुक्तवा तत ओषधीभ्योऽन्नमन्नात् पुरुषः । स वा एष पुरुषो- ऽन्नरसमय इत्यन्नरसमयत्वात् कार्याका यः पुरुषः तस्यैव वाह्यान्मन इहेर्दशब्द- नाख्यानात् तदातरपूर्वमानन्दमयादिलक्षणं बाह्यान्तरात्मत्वेनेप्यते । कार्यपुरुषा- पेक्षयेदमपूर्व पुरुषलक्षणं प्रतिपत्तव्यम् ॥ १८ ॥ अथवाऽन्यथा व्याख्यास्यामः ॥ शरीरादतिरिक्तोऽन्तरात्माप्यत्र द्विविधः- जीवात्मा परमात्मा च । तथा च यत्र बृहदारण्यके आत्मेत्येवोपासीतेत्युपक्रम्य तस्य सर्वेभ्यः प्रियमुक्तवा ईश्वरो हि तथा स्यादात्मानमेव प्रियमुपासीतेत्युक्तम् ॥ तत्रात्मपदेन जीवात्मनः परमात्मनो वोपासनं विधीयते इति संशये उच्यते। कार्याख्यानादपूर्वमिति । प्राणन्नेव प्राणो भवतीत्यादि पूर्वश्रुतौ जीवात्मनः सर्वे- न्द्रियकाय्राख्यानादपूर्व जीवभिन्नं ब्रह्मैवोपास्यं द्रष्टव्यम् ॥ ईश्वरो हीतीश्वर- पदस्वारस्यात् सर्वस्मादातरमिति अन्तरात्मापेक्षयाप्यातराम वेनाण्यानाच्च ॥ ननु ब्रह्मदमुपास्यं शुद्धा तमेकरसं व्याख्यांतम् । चक्षुःश्रोत्रहस्तपादा- दीनीन्द्रियाणि च परस्परविलक्षणानि भवन्तीति तेषां परमात्मविग्रहे सत्त्वाभ्यु- पगमे तस्यैकरसत्वं व्याहत्येत । अनभ्युपगमे तु तस्य सर्वेन्द्रियकार्यकर्तृत्वन स्थात् इति चेत् तत्रोच्यते । समान एवं चाभेदादिति। चक्षुःश्रोत्रादीनां सत्वेऽप्येयां चक्षुरादीनां ब्रह्मत्वेन परस्परमभेदात् समानः स एकरस एवोपपद्यते । आनन्द. मयस्य तस्य स्वेच्छयाऽनेकविरुद्धाविरुद्धभावाभ्युपगमेऽपि तेषां भावानां ब्रह्मभिन्न- त्वाभावादेकरसत्त्वाव्याघातात् ॥ १६ ॥ अथ यत्र कार्य जीवविशेषे ईश्वरावेशः, तस्येश्वराविष्टजीवविशेषस्योपास- नार्थ तस्मिन् जीवे सर्वेषामीश्वरधर्माणामुपसंहारः कार्यो नवेति जिज्ञासायां द्वै- विध्यं वक्त तावत् प्रथमं पक्षमाह संवन्धादेवमन्यत्रापि इति । अन्यत्रेश्वराविष्ट- जीवेऽपि एवमीश्वरसर्वधर्मोपसंहारेणेश्वरवदेवोपासनं कार्यम् । अयोगोलके वहरिव तत्र जोवे परमात्मसंबन्धात् ॥ २० ॥ अथवा पक्षान्तरं द्रष्टव्यम् । न वाऽविशेषादिति । न वोपसंहारकार्यः । तस्य जोवस्यापीश्वरणाविशेषात् । ईश्वरावेशादेव तत्र सर्वेश्वरधर्मसत्वात् ॥२१॥ दर्शयति चतत्रेश्वरः स्वत एव सर्वानात्मधर्मान् इति नोपसंहारोऽपेक्ष्यते ।उपसंहारोहि तत्रानु- पलभ्यमानानां धर्माणी तत्र भावनम् । तथा चोपलभ्यमाने तत्रेश्वधर्म होपसंहारः ।
कर्तव्योभवति ॥२२॥ ननु इतरधर्माणामनुपसंहारेऽपि धुलोकव्याप्त्यादयो धास्तत्र जीवेउपसंहर्तव्याः स्युरिति चेदुच्यते ॥ संभृतिधुव्याप्त्यपि चात इति । अतः पूर्वोक्ता दविशेषादेव हेतोः सकलवीर्यसंभरणधुव्याप्त्यादयोपि धर्मा नोपसंहार्याः ॥ २३ ॥ ननु सहस्त्रशोर्षा पुरुष-इत्यादिना पुरुषविद्या श्रूयते । ब्रह्मप्रपाउके च स वा एष पुरुषो- ऽन्नरलमय इत्युच्यते । पञ्चकोशविद्यायां चान्नमयादीनी पुरुषविधत्वमाख्यायते । तथा चान्नमयादीनां पुरुषविधत्वोपदेशात् पुरुषविद्योपात्तानां सहस्रशीर्षत्वादीनामत्रोप- संहारः स्यादत उच्यते। पुरुषविद्यायामिव चेतरेषामनाम्नानादिति । इतरेषामन्न- मयादीनां भौतिकानां पुरुषविद्यायामिव साकारव्यापकाधिदैविकब्रह्मस्वरूप- स्य सहस्रशीर्षादिलक्षणस्थाम्नानं नास्तीत्यतस्तत्र सहनशीर्षवत्वाद्युपसंहारो नास्ति ॥२४॥ भगवद्भक्ति माहात्म्यम् ॥२॥ वेद्याद्यर्थभेदात् ॥ २५॥ हानौ तूपायनशब्दशेषत्वात्कुशा- च्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥ साम्पराये तर्त्तव्याभावात्तथा ह्यन्ये ॥२७॥ छन्दत उभयाविरोधात् ॥२८॥ गतेरर्थवत्वमुभयथाऽ- न्यथा हि विरोधः॥२९॥ उपपन्नस्तलक्षणार्थोपलब्धेर्लोकवत्॥३०॥ अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् ॥३१॥ यावदधिका- रमवस्थितिराधिकारिकाणाम् ॥३२॥ अक्षरधियां ववरोधः सामा- न्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३३॥ इयदामननात् ॥३४॥ अन्तरा भूतग्रामवत्स्वात्मनोन्यथा भेदानुपपत्तिरिति चेन्नोपदेशा- न्तरवत् ॥३५॥ व्यतिहारो विशिंपन्ति हीतरवत् ॥३६॥ सैव हि सत्यादयः॥३७॥ कामादीतरत्र तत्र चायतनादिभ्यः ॥३८॥ आदरादलोपः ॥ ३९ ॥ उपस्थितेऽतस्तद्वचनात् ॥ ४० ॥ तन्नि- रिणानियमस्तदृष्टेः पृथग्व्यप्रतिबन्धः फलम् ॥४१॥ प्रदानव- देव तदुक्तम् ॥४२॥ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४३॥ पूर्व- विकल्पः प्रकरणात्स्याक्रियामानसवत्॥४४॥ अतिदेशाच॥४५॥ विद्यैव तु निर्धारणात् दर्शनाच्च ॥४६॥ श्रुत्यादिवलीयस्त्वाच्च न. बाधः ॥४७॥ अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्-
दृष्टश्च तदुक्तम् ॥४८॥न सामान्यादप्युपलब्धेमृत्युवन हि लोका-
पत्तिः॥४९॥ परेण च शब्दस्यताद्वियं भूयस्त्वात्त्वनुबन्धः॥५०॥
एक आत्मनः शरीर भावात् ॥५१॥ व्यतिरेकस्तनावमावित्वान्न
तूपलब्धिवत् ।। ५२ ॥ अङ्गाववद्धास्तु न शाखामुहि प्रतिवे-
दम् ॥ ५३ ॥ मन्त्रादिवद्वाऽविरोधः ॥ ५४ ॥ भून्नः क्रतुवज्-
ज्यायस्त्वं तथा हि दर्शयति ॥५५॥ नाना शब्दादिभेदात् ॥५६॥
विकल्पोऽविशिष्टफलत्वात् ।। ५७ ॥
उद्गीथ विद्यायां वागादिप्राणेपूदानेऽसुरकृतः पापवेधो देवपराजयश्चाभूत् तत्र
हेतुमाह वेधाद्यर्थभेदादिति । अर्थस्येश्वरलक्षणस्य भेदात् संवन्धाभावादेषु प्राणेषु
वेधाद्यभूत् । आसन्ये तु प्राणे भगवत्संबन्धात् स दोषो नाभूदिति बोध्यम् ॥ २५ ॥
ईश्वरसंबन्धाभावे गुणहानिश्च भवतीत्याह हानो तूपायनशब्दशेपत्वादिति
जीवस्य हानावीश्वरतो विभागे ये जीवनिष्टा आनन्दांशैश्वव्दयो धम्नास्तिरोहि-
तास्ते भगवत्संवन्धे सति पुनराविर्भवन्ति । परमं साम्यमुपैतीति श्रुतेः ।
नतु सर्वथा भगवदर्भवत्वं किन्तु यावन्तसिरोहितास्तावन्त एवाविर्भवन्ति
नान्ये धर्माः, उपायनशद्वेन कथनात् । उपायनं प्राप्तिः। सा च स्वधर्माणा-
मेव नान्येषाम् । न-वानन्दादिभिः साम्ये ब्रह्माभेद एव स्यादिति चेन्नेत्याह कुशाच्छन्दः
स्तुत्युपगानवत् । कुशा औदुम्वर्यः समिधः । तत्संवन्धिच्छन्दःस्तुत्युपगानमभित्वा
शूर नोनुम इत्येतस्यामृचि अच एवोपसंहृत्य भकारेण क्रियते। नैतावताभकाराणामृगा.
मिकत्वं संभवति तथात्रापि बोध्यम् । ननु तत्त्वमस्मादिवाक्यैरस्तु जीवे भगवदभेद
एवेति चेत् तदभेदवोधनश्रुतितात्पर्य पूर्वमुक्तमिति नैतच्छुन्या तदभेदः
कल्प्यः ॥ २६॥
सम्यकपरस्य पुरुषोत्तमस्यायो ज्ञानं येन स संपरायो भगवद्भक्तिमार्गः । तस्मिन्
प्राप्तब्थे तर्तव्यस्य पापस्याभावान भक्या पापनाश: साध्यते । भक्तिमार्ग प्रवेशात्
पूर्वमेव पापानां नष्टत्वात् । ननु सर्वे पानानं तरन्तीति श्रुत्या भक्ल्या पापनाशः कुतो
नाङ्गीक्रियते तत्राह तथा हान्ये इति । तस्थाः श्रुतेनिमार्गीयविषयत्वात । तथा हि
भक्तिमार्गीयेभ्योऽन्ये पापवन्तो ज्ञानान्तरं पाप्मानं तरन्तीत्यर्थः ॥२७॥
ननु तर्हि भरतस्यं भक्तस्य भक्त युत्तरं भृगदेहारम्भकपापस्थित्यसंभव इत्या-
शङ्कयाह-छन्दत उभयाविरोधादिति ॥ भक्तिमार्ग विशिएफलदानायेश्वरेच्छातो
भक्तरन्तरमपि पापनाशो भवतीति मन्तव्यम् ॥ तथा च नराणां क्षीणपापानामिति
पापनाशतो भक्त युदयवो वकवाक्यस्य मृगदेहारम्भकभरतप्रारब्धकर्मवोधकवाक्य
चेन्युभयोरेवाविरोधी भवति ॥ २८ ॥
मर्यादापुष्टिभेदेनोभयथापि गतेनिस्य फलजनकत्वं मन्तव्यम् अन्यथा तु "ज्ञानेनैव हि कैवल्यमिति, यमेवैष वृणुते तेन लभ्यः" इति वाक्ययोर्विरोधः स्यात् ॥२६॥ -मुमुक्षीरपेक्षया रहस्यभजनकतैवोपपनो मन्तव्यः । भगवालणपुरुषार्थस्य स्वाधीनत्वेनोपलव्धेः । लोके यथा स्वाधीनपतिका स्वाभिनं स्वाधीनं मनुते तद्वत् ॥३०॥ भगवतो धारणरसनभजनध्यानादीनां समुदितानामेव सतां फल साधकान- मिति नास्ति नियमः। सर्वासामेव धारणादिभक्तीनां प्रत्येकस्यापि फलजनने विरोधाभावात् । एतच्च “चिन्तयश्चेतसा कृष्णमिति श्रुतेः, केवलेन हि भावेनेति स्मृतेश्च गम्यते ॥३१॥ कार्यविशेष साधनार्थ क्वचिजीवे भगवता ये स्वकीयधर्माः स्थापितास्ते आधिकारिकाः स्युः । तेषां यावत्कााधिकारमेवावस्थानं भवति । कार्य संपन्ने तान् धर्मान् स्वस्मिन्नाकर्षति भगवान् न तु तजीवस्य जीवनपर्यन्तं स्थापयति ॥ ३२॥ त्रिविधोऽयमात्माभवति-जीवो अक्षरपरश्चेति । तत्र परस्य पुरुषोत्तमस्य प्राप्तिरेव मुख्या मुक्तिः॥ सा च भक्तानामेवाक्षरप्राप्त्यनन्तरं परप्राप्त्या संपद्यते । तत्राक्षरज्ञानस्य परम्परासाधनत्वम् । अक्षरज्ञानेन ब्रह्मोभावोत्तरं भगवद्भावात् । अथ अक्षरज्ञानिनां तु परमात्मसंवन्धाभावादक्षरप्राप्तिरूपा सामान्यमुक्तिरेवोप- पद्यते । तत्राक्षरज्ञानस्य साक्षात्साधनत्वम् । एवं मोक्षद्वयेऽप्यक्षरज्ञानानांसामान्य- मुक्तिपरभावमुक्तिभ्यां साधनत्वमुपपद्यते । नत्वेवसक्षरज्ञानवतां क्वचिदक्षरे लयात् सामान्यमुक्तिः क्वचित्पुनः परभक्तिभावोदयान्मुख्या मुक्तिरिति द्वैविध्यं कुतः संभव- तीति चेद् औपसद्वद्रष्टव्यम् उपसदाख्ये कर्मणि यजमानः सर्वेषु ऋत्विक्षु यं का- मयेत यज्ञयशसमृच्छेत् तं प्रथमं तानूनपत्राख्यमाज्यं स्पर्शयेत् । तत्र यथा यजमाने- च्छा नियामिका तथाऽत्र भगवदिच्छा हेतुरिति वोध्यम् । ननु भगवत्संवन्धिश्रवणा- दीनां यथा भगवत्प्रापकत्वं तथाऽक्षरज्ञानस्य कुतो नेत्यत्राह तदुक्तमिति । “यद- क्षरं वेदविदो वदन्तीत्यारभ्य स याति परमां गतिमित्यन्तेनाक्षरज्ञानेनाक्षरस्यैव प्रातिर्नतु परस्य इति गीतायामुक्तम् ॥ ३३॥ अथ तैत्तिरीयकानन्दमीमांसायां मानुषानन्दमारभ्यैकादश्यामुत्तरकक्षायां ब्रह्मानन्दः परकाष्ठायामाख्यातः । सोऽयं ब्रह्मानन्दोऽक्षरानन्द एव प्रतिपत्तव्यः इयदामननात् । उत्तरोत्तरवृद्धिक्रमेण परिच्छिद्याख्यानात् । आनन्दानुभवयोग्यलय- पूर्वदशापेक्षयैवानन्दतारतम्यस्य वक्तुं शक्यतया तत्राक्षरानन्दस्यैव चरमसीमापन्न- त्वात् । निर्धर्मके तु परब्रह्मणि लये भोक्तरभावादानन्दानुभवासंवात् गणनासाधक- संख्याधभावाच्चानानन्दतारतम्यं संभवति । तस्माज्ज्ञानिनामक्षरानुगामिनाम पेक्षि-
( १४१ )
कात्यन्तिकानन्दप्राप्तावपि परिच्छेदसत्वादल्पत्वमेव । भक्तानां तु पूर्णपुरुषोत्तमानु-
गामिनामगणितानन्तानन्दावाप्तिरिति वोध्यम् ॥ ३४ ॥
भगवता भक्तिमार्ग स्वीयत्वेनाङ्गीकृत आत्मा स्वात्मा स्वात्मत्वेन भगवज्ञानं
भजनेऽन्तरायमिति कृत्वा भगवानोत्पादयति ताडशभक्तविग्रहस्यालौकिकच्चात् तेषु
यथाभूतग्रामो लौकिको नास्ति तदिदं ज्ञानमपि तेषु नास्ति ॥ ३ ॥
ननु चान्यथा भगवदभेदज्ञानस्य भजनान्तरायत्वाभ्युपगमे एकादशस्कन्धे
भक्तेषूद्धवादिष्वभेदज्ञानेनोपदेशानुपपत्तिरिति चेन्न । उपदेशान्तरवत् । यथा
गायञ्युपदेशेन संस्कृतं ब्राह्मणशरीरं वैदिककोपयोगि भवति तथेशज्ञानोप-
देशसंस्कृतो भक्तो भक्तिरसानुभवयोग्यो भवतीत्येतदर्थमुपदेशो नत्वभेदज्ञाना.
र्थम् ॥ ३६ ॥
अहं कृष्णः कृष्णोऽहमित्येवं यद्विशिंषन्ति भक्ताः सव्यतिहारः सोऽपीतरव-
ज्ज्ञेयः । विप्रयोगोद्रेकेऽश्रुप्रलापादिवदेवायं व्यतिहारोपि द्रष्टव्यः नैतावताऽभेदज्ञा.
नस्य भक्तिफलत्वम् ॥ ३७॥
सत्यशमदमादयोपि भक्तानां सा भक्तिरेव हि भवति । सत्यादीनां ज्ञान-
मार्गीयसाधनानां प्रयत्नविशेषानपेक्षं स्वत एव भक्तेषूत्पत्तः ॥ ३८ ॥
विहितभक्तरितरत्र तु कामाद्योपाधिकभगवद्भावे कामाद्येव तन्मुक्तिसाधनम् ।
तत्र च गृहादिभ्योपि मुक्तिसिद्धिः। भगवत्सेवासाधनत्वात् ॥ ३६ ॥
वर्णाश्रमधर्माणां भगवदर्माणां च युगपत्करणे प्रसक्त भगवद्धम्मवादरश्रवणात्
तेषां कर्मभिरलोपः ॥ ४०॥
तथा च कर्मवद्धर्मयोयुगपत्करणे उपस्थितेऽत आदरादलोपवचनाद् भग-
वद्धर्म एव कार्य्यः ॥४१॥
अस्माकं कर्मकरणेऽकरणे वा भगवदिच्छास्ति नास्ति वेति निर्धारणानियम
आधुनिकानाम् । अतस्तैर्निष्कामतया तत्कर्तव्यमेव । भगवदिच्छाविषयकज्ञान-
वतोऽम्वरीषोद्धवयुधिष्ठिरादेस्तु जीवकृतकर्मफलात् पृथगीश्वरकृतकर्मफलं सन्मार्ग-
रक्षालोकसंग्रहादिरूपं भवति । पूर्वोक्तस्य निष्कामकर्तुस्तु स्वकर्मजफलोत्पत्ति-
प्रतिबन्धाभावः फलम् ॥ ४२ ॥
तस्मात्त्वमुद्धवोत्सृजेत्यनेनोद्धवं प्रति भगवता कुतः सर्वात्मभावोपदेशस्तु
प्रकर्षेण कृपावशादानवदेवासीत् । नतु साधनसाध्यासः। तदुक्तंश्रया । नाय-
मात्मा प्रवचनेन लभ्य इति ॥४३॥
यमेवैष वृणुते तेन लभ्य इति श्रुत्या भग्वत्कत के भक्तवरणं प्रसिद्वम् । तस्य लिङ्गं सर्वात्मभावः । तस्य भूयस्त्वात् सर्वतोऽधिकत्वाद्धतास्तद्धि वरणं कालकर्मादि- भ्यो वलीयास्ति । यदि भगवान् वरीतुमिच्छति तदास्य भन्नस्य कालदुरदृष्टादयो न प्रतिबन्धकाः संभवन्ति भगवदिच्छायाः सर्वतो बलवत्तरत्वात् । ननु मार्गीय- ज्ञानेन प्रतिवन्धः स्यादिति चेत्तदपयुक्तमन्तराभूतप्रामवदिति सूत्रे ॥४४॥ भक्तिमार्गफलं सर्वात्ममावः । ज्ञानमार्गफलमात्मज्ञानम् । तयोश्च सर्वात्म- भावस्थ वलीयस्वे हेतुभूयस्त्वं तच्च छान्दोग्ये नारदसनत्कुमारसंवादे नोक्त- मिति तत्र पूर्वपक्षः क्रियते सूत्रद्वयन । पूर्वविकल्पः प्रकरणात् स्यादिति । ताण्ड्यो- पनिषदि पष्ठाध्याय श्वेतकेतूपाख्याने नात्मज्ञानयुक्तम् । ततः सतमेध्याये नारदो- पाख्याने यदिदं भूम्नो निरूपणं तदपि पूर्वाध्यायोक्तात्मज्ञानस्यैव विकल्पनं स्यात् । उभयत्रात्मन एव प्रकरणात् । यथा क्रिया वाहापूजा मानसं कर्मातरपूजा । तयोपि प्रकरणात् पूजात्वाविशेषः । तथैतयोः प्रकारभेदेऽपि प्रकरणात् ज्ञानत्वाविशेषः स्यात् ॥४५॥ नामैवैतन्नामोपास्वेत्यादिना तत्रैव नामब्रह्मातिदेशाच्चायं विशेष एव स्यान्न तु भगवद्भावस्य भूयस्त्वं तत्रोक्तं सिद्धं भवतीति प्राप्ते ॥४॥ सिद्वान्तमाह विद्यैव तु निर्धारणात् इति । भूमैव सुखं भूमा त्वेव विजि- ज्ञासितव्य इत्यानन्दात्मकपुरुषोत्तमस्यैव जिज्ञास्यत्वेन निर्धारणादिह विद्यैव नि- रूप्यते । विद्या हि सर्वात्मभावो न स्वात्मज्ञानम् । तस्मात् सर्वान्लभावस्येव स्त्वम् ॥४७॥ ज्ञानप्रकार- सर्वात्मभाववता ब्रजभक्तानां भगवत्पादिना सविस्मृतेर्दर्शनाच्च । चित्तं सुखेन भवतापहृतं गृहेष्वित्यादिवचनात् । "तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मनः प्राणा". -इति श्रुतिदर्शनाच्च सर्वात्मभाव एव तत्रा- तोगस्यते ॥४८॥ . ननु तरति शोकमात्मविदित्युपक्रमाज्ञानमेवात्र प्रतिपाद्यं न सर्वात्मभाव इति चेत् तत्र ब्रूमः । श्रुत्यादिवलीयस्त्वाच्च न वाधेति । उपक्रमवाक्यानुरोधाज्ञान- विषयता प्राप्नोति । श्रुतिलिङ्गाभ्यां तु सर्वात्मभावः सिध्यति ॥ तम च श्रुतिलिङ्ग- वाक्यप्रकरणेति न्यायाद्वाक्यापेक्षया श्रुतिलिङ्गयोवलीयस्त्वात् सर्वात्मभावलिङ्ग- भूयस्त्वस्य वाधो नास्ति इति वोध्यम् ॥ ४६॥ नन्वेवमपि तत्र श्रुतौ सर्वात्मभावः प्रतिपाद्यो नास्ति भूमा कुत्र प्रतिष्ठित इति प्रश्ने स्वे महिन्नि प्रतिष्ठित इति ब्रह्मण: स्वाधाश्त्वाख्यानादिति चेत् तत्रोच्यते ॥ अनुवन्धादिभ्य इति । स पा एवं पश्यनित्यनेनतच्छन्दस्य पूर्वपरामर्शित्वाद् भूमाधिकरणसर्वार्धभावादिभ्यो हेतुभ्यः सर्वात्मभाव एवात्र प्रतिपाद्यो, न ब्रह्मणः ( १४३ ) स्वाधारत्वम् । नन्वात्मज्ञानवत् सर्वात्मभावस्यापि मुक्तिरेव फलमित्युभयोवैशेष्याभाव इति चेन्न । सर्वात्मभाववद्भक्तप्रज्ञातो भिन्नाया मुमुक्षुप्रज्ञायाः भगवल्लीलासाध- करवमेव न तु स्वकामनासाधकत्वम् । अत एव नास्या मुक्तिलाधकत्वम् ॥ श्व व्रजभक्तादौ स्वरूपानुभावातिरिक्तफलाभावः। तदुक्तं भगवता-अहं भक्त परा- धीन इत्यारभ्य, वशे कुर्वन्ति मां भक्तया इत्यादिना | ननु सर्वात्मभावनिरूपकनारदसनत्कुमारसंवादप्रपाठके तस्य सवपु लोकेषु कामचारो भवतीत्युक्त्या सर्वात्मभाववद्भक्तस्याप्यन्यकामना गम्यते इति चेत् तत्रोच्यते नेति। नात्र कामचारोक्तिभक्तस्य नानाकामनासद्भाव प्रतिपादयति । सामान्यादण्युपलब्धेः तत्समानधर्मसंवन्धादपि श्रुतौ तत्प्रयोगो बहुश उपलभ्यते । प्रकृतेऽपि भगवत्संवन्धिसर्वसुखान्येव लोकास्तेषु कामचारत्वाभिप्रायेण तथोक्तिः। नन्वस्तु प्रसिद्धेषु लोकेष्वेव सर्वपु कामचारः किमिति भगवत्सुखानां लोकत्वमिह कल्प्यते इति चेत् तत्र ब्रूमः। मृत्युवन्नहि लोकापत्तिरिति । न पश्यो मृत्यु पश्यतीति तादशभाववतो यथा मृत्युनिषेधः क्रियते तथा भगवत्स्वरूपातिरिक्तलोकान्तर- संवन्धापि सभवतीति भाव्यम् ॥ ५१ ॥ तत्रत्वन्तरमुच्यते-परेण च शब्दस्य ताद्विध्यमिति ॥ शब्दस्य, आचमन ए. वेदं सर्वमिति श्रुतिवाक्यस्य परेण, "सर्वमानोति सर्वश"-इति वाक्येन ताद्विध्य- भेकरूपत्वमस्तीत्यता न लोकान्तरसंवन्धो वक्तुं शक्यः । नन्वात्मन एवेदमित्युक्ते पुनः लर्वमाप्नोतीति किमर्थमुच्यते तत्राह-भूयस्त्वात्वनुवन्ध इति । हेतूनां बाहुल्यै दाढ्यं भवतीति कृत्वा पुनरनुवन्धो द्रष्टव्यः ॥ ५२ ॥ अत एवैके शाखिन आत्मनो भगवतो भक्तशरीरे आविर्भावात तेन सह कामो. पभोगं श्रावयन्ति-"लोऽनुते सर्वान् कामानिति श्रुत्या ॥ ५३ ॥ भगवता कृतस्य वरणस्याभावेन भगवद्भावस्थाभावात्तु ज्ञानिनांहृदये परमव्यो- माविर्भावस्य व्यतिरेको द्रष्टव्यः। ननु भगवतो ज्ञानविषयत्ववदाविर्भावोऽप्यस्तु । तत्राह । न तूपलब्धिवत् । उपलब्धिर्ज्ञानं तद्यथा साधनेन साध्यते न तथा भगवदा- विर्भावः साध्यते । तस्य भगवत्कृतवरण विना केनाप्युपायेनाशक्यत्त्वात् । “यमे. वैष वृणुते तेन लभ्य इति श्रुतेः ॥ ५४॥ तत्र निदर्शनमुच्यते प्रतिवेदं नियतानां हौत्रौद्रात्राधकर्मणां करणार्थ यजमान- वृता ऋत्विजो यथा सर्वशाखीयकर्मकरणसमर्था अपि कर्मविशेषाववद्धत्वादन्य- त्राधिकाराभावान्न सर्वशाखासु प्रभवन्ति तथात्र भगवरणाभावाज्ज्ञानिनां हृदये भगवद्भावाविर्भावो नास्ति ॥ ५५ ॥ ननु केचित्कर्मज्ञाननिष्ठा अपि भक्तिमार्गे भगवता वियन्त इति ऋत्त्विग दृष्टान्त- वैषम्यमत आह-मन्त्रादिवद्वाऽविरोध इति। यथैक ऐः कश्चिन्मन्त्रो शास्त्राज्ञा-
क्शादनेककर्मसु विनियुज्यते, कश्चिद् द्वयोः, कश्चिदेकत्रैव । तथेह भगवदिच्छाव-
शाजीवोपि कश्चित्कर्मनिष्ठां प्राप्य वरणेन भक्तिनिष्ठां प्राप्नोति, कश्चिज्ज्ञाननिष्ठां
प्राप्य । कश्चित्तु प्रथमत एव भक्तौ बियत इत्यविरोधः ॥५६ ॥
ननु भक्तिफलस्य सर्वात्मभावस्य लिङ्गभूयस्त्वादिति सूत्रे सर्वोत्कृष्टत्वमुक्त
तनयुक्तम् ॥ श्यामा श्यामा जेगति सकले इत्यादिषु लौकिकनायकस्यापि सर्वत्रनायि-
काभानदर्शनात् तस्य लौकिकरसतुल्यत्वादिति चेत् तत्रोच्यते । भून्नः क्रतुवज्ज्या-
यस्त्वमिति । यथा दर्शपूर्णमासादिक्रतुषु दोहनाधिश्रयणादिकर्मणां लौकिककर्म-
तुल्यत्त्वेपि न लौकिकत्वमलौकिकप्रमाणैकगम्यत्वात् तथैवेह भूनः सर्वात्मभाव-
स्य सर्वोत्कृष्टत्वं नेयम् । तथा हि-आत्मनः प्राणा इत्यादिश्रुतिभक्तानां सर्व भग-
वत एवेति दर्शयति । भक्तयादीनां लौकिकक्रियासाम्येपि भगवद्विषयत्वात् सर्वो-
त्कृष्टत्वं भाव्यम् ॥ ५७॥
॥ इति भगवद्भक्तिफलभूतसर्वात्मभावस्वरूपविचारः ॥
॥ इति भगवद्भक्तिमाहात्म्याधिकरणम् ॥
(३) अथोपासनानिर्णयः ॥
काम्यास्तु यथा काम समुच्चीयेरन्नवा पूर्व हेत्वभावात् ॥५८ ॥
अङ्गेषु यथाश्रयभावः ॥ ५९॥ शिष्टेश्च ॥ ६०॥ समाहा-
रात् ॥ ६१ ॥ गुणसाधारण्यश्रुतेश्च ॥ ६२ ॥ न वा तत्सह-
भावोऽश्रुतेः ॥ ६३ ॥ दर्शनाच ॥ ६४ ॥
ईश्वरावताराणां व्यक्तिचरित्रादिभेदादुपासनापि तेषां भेदेनैव कार्या न तु
सर्वावतारविशिष्टस्यैकस्य ब्रह्मणः । तत्तास्वरूपवोधकशब्दानां तदाकाराणां चरि-
त्राणां च भेदादैकरूप्येणोपासनाया अयुक्तत्वात् ॥ ५ ॥
पार्थक्येन कर्तव्यानां चोपासनानां विकल्पो न त्वग्निहोत्रदर्शपूर्णमासादिवत्
समुच्चयः । प्रत्येकावतारोपासनानां भिन्नानामपि सर्वेषामविशिष्टफलत्वात् ।
अन्यतमोपासनेन फलसिद्धौ समुच्चयवैयर्थ्यात् ॥ ५६ ॥
यास्तु काम्योपासना भिन्नफलास्ता यथा कामं समुच्चीयेरन् । फलगतविशेष-
सत्वाद्विकल्पानौचित्यात् । अथवा काम्यास्वपि यत्रैकस्या एवानेकफलसाधक-
त्वमुपपद्यते तत्र तयैकयैव कार्यसिद्धौ भिन्नफलत्वरूपपूर्वोक्तहेत्वभावात् समुच्चयो
नास्ति ॥६॥
( १४५ ) एकफलसाधकानामुपासनां भिन्नभिन्नस्थलेष्वानातानां भिन्नाङ्गयुक्ताना- मङ्गषु यथाश्रयभावो नेयः । यदङ्गं यत्रान्नातं तत्र तदङ्गविशिष्टं देवोपासनं कार्यम् । न त्वन्यत्रानातानामन्यत्रोपसंहारः कार्यः॥ ६१ ॥ शिष्टेः । तदङ्गानां तत्रैव शासनादन्यत्रोपनयने प्रमाणाभावात् ॥ ६ ॥ । ज्ञानमार्ग तु सर्वावतारधर्माणामेकस्मिन् ब्रह्मण्येव समादायत् सर्वधर्म- विशिष्टकब्रह्मोपासनं क्रियते॥६३॥ 'ऐश्वर्यवीर्य्यादिगुणानां सर्वावतारेषु साधारण्येन श्रवणाच्चैकस्मिन्नवतारे सर्वावतारधर्मोपसंहारेणोपासनमयुक्तम् ॥ ६४॥ अथवा नैतद्युक्तम् । तेषां रूपाणां नियततया तत्सहभावश्रवणाभावात् ॥ ६५ ॥ दर्शनाच्च । दर्शनं ह्युपासनस्य फलम् तच्च स्वधर्मविशिष्टंकावतारस्यैव संभ- वति नतु सर्वावतारधर्मविशिष्टस्य । तस्माद् भक्तिमार्गीयस्य स्वधर्मविशिष्टै- कावतारोपासनमेव युक्तमिति सिद्धम् ॥ ६६ ॥ ॥ इति प्रातिस्विकधर्मविचारपादस्तृतीयः वल्लभीयानाम् ॥ ३॥ (प्रातिस्विक धर्मपादः-मुख्यधर्मपादः) *शुद्धा-शुद्ध पत्र* Numes पृष्ठे अशुद्ध पाठाः शुद्धपात्रः २ ७ दुपथते दुपपद्यते २ यथा पथा २ २ २ मेष क्षीयस्वे मेषामन्नत्वं भूयसीभिरद्धिः संहाराद् ३ २७ मेषु ३२ क्षीयस्त्वे ३४ मेषमन्नत्वं ३० भूयसीरद्भिः ६ / संहारदा ३५ प्रशान्येति १ सपद्यते १० निवर्त्ततन्ते १६ | आस्मिक ४ प्रज्ञा-चेति ५ संपद्यते निवर्तन्ते आकस्मिक २३ श्रुत ५ २६ प्रपद्यते २६/चावरो हन्ति श्रुतवृत्त प्रतिपद्यन्ते चावरोहन्ति सर्व ६ २४ सव - कर्नणां कर्मणां ननु"अण्ड विवक्षणात् ८ २३ कर्मणा २७ कर्मणा ४ "अण्डजं ७ विचक्षणात् २५ २८ उपतिष्ठन्ते ६ कर्म भोगा ३० | मित्यर्द्ध ६ | भावानुपष्टम्भक - ऽवतिष्ठन्ते कर्मफलभोगा मित्यर्ध 8 ६ भावानामुपष्टम्भक ( २ ) IncomALR.amaries पृष्ठ पक्षी अशुद्ध पाठः शुद्ध पाठः काम काम १० तस्मा माया तस्मान्माया १३ २० १७ ऽनिलयते २० २४ तस्मै २१ २२ २२ ३१ कर्मणा २८ निविशेषत्वं २. योगा योगयाः २ सर्वत्रा विशेषण १८ नामरूपयो निहिता २१ / निर्विशेष २२ कस्मात्सर्व २८ भानोंगु ३१ इत्यवै थ्यो ३५ वचो ऽनिलयने स्तस्मै कर्मणां निर्विशेषत्वं योगायोगयोः গান্বিতীয় नामरूपयोनिहिता লিহি कस्मालई मानोड इत्यवैया वाचो मश्नुते अन्तर्भावाद् २२ २२ २३ . २३ ३ अन्तर्भावात् থা १६ विपरीतलिङ्ग १८ निर्विशेषेकानने १६ ब्रवाति २ तदेव ११ । ब्रह्मणोस्ति १२ ज्येत् १७ तहि १६ यतद विपरीतलिङ्ग निर्विशेषेकानन्त ब्रवीति तदेष ब्रह्मणोऽपि ज्येत तर्हि ( ३ ) mameapMInsan पृष्ठे अशुद्ध पाठः शुद्ध पाठः २१ वृक्षम २४ २२ प्रपश्य २४ २३ तोति ब्रह्मव २४ ३० २५ १ सर्वदाषा ७ सूर्यकादिवत् वृश्य पश्यति निष्कलं ध्यायमान इति च श्रुतेः॥ योगिनस्तं.प्रपश्यन्ति भगवन्तं सनातनम् हात ति ब्रह्मव इति परिच्छेदप्रतिषेधाद- नन्तत्वाधिकरणं वा शङ्क- रमतेन ॥ सर्वदोषाः अत एव चोपमासूर्य- कादिवत् अम्वुवग्रहणात प्रत्याही विमृत्युर्विशो नामरूप उभयलिङ्ग ब्रह्म दर्शनाच्च अरूपविशेषान् तेषामेष तद्वैतत् धमिवद् व्यपदेश २५ २६ २ ६ ८ २७ २७ अम्बुवदगृहणात्तु १६ । प्रत्याह १८ विमृत्युविशो- नाम रूप उभय लिङ्ग १ दशनाच ३ रूपविशेषान् तेषामेव २४ तद्वैतत् ११ धार्मिम व्यप देश १८ माररम्भण २० ब्रह्मणे २७ भित्रयो १ अधिक २७ २६ २६ ब्रह्मणा भित्रयो अधिक ३० ३० २।१।१२॥ २।१।२२।
( ४ ) पृष्ठे अशुद्ध पाठः शुद्ध पाठः ३० ३१ १ | पूर्वोक्ति जीर्यन्त २६ प्रज्ञे २८ | भेदस्योपपत्तश्च २६/ तिरोभावे १८ परिच्छन्नत्वं २२ दुःखमेवापियनत २७ ब्रह्मपादो १० व्यातत्व ३२ ३२ ૨૨ ३३ ३३ ११/ सर्वगतं २२ / उपपत्तेः ३३ पूर्वोक्त जीर्यत प्राशे भेदस्योपपत्तश्च तिरोभावे सति परिच्छिन्नत्वं दुःखमेवापियन्ति ब्रह्म पादो व्याप्यत्व सर्वगतम्। उपपत्तेः। एवानन्दयाति फलभोग- श्वेतमालभेत शुद्धकर्मप्रकाराः विद्यालक्षणप्रकरण- वासना भावनाराधना छन्दोगा पञ्चसंख्य छान्दोग्ये श्रोत्रमनांसि वैषम्ये शिरोव्रताद्यपेक्षणा ३३ - ३४ २६ एवानन्दयति ३० फलयोग- ६ श्वेतमालभेद १० शुद्धकर्मप्रकार: १२ विद्यालक्षणं प्रकरण- १६ वासनाराधना ८ छान्दोगा ३५ ३५ पान 8 पञ्च संख्य ३ ३६ ३६ ११ १३ श्रत्रमनांसि १५ वैषम्पा २५ शि। बताद्य पेक्षणा ३६ २८व्रतान्तराणु पय स्य व्रतान्तराण्युपन्यस्य शिरोवत २६ शिराबत - ३१ / रानानुजादीनाम् रामानुजादीनाम् पृष्ठे | पती अशुद्ध पाठः शुद्ध पाठः काराश्च ३७ ४ विशेषकाणां ३७ विद्यैकत्वम् ३७ ३७ ३८ ३८ ३४ कारश्च ४ विशेषकारणं ६ विद्यकत्वम् ७ वेधकत्वापदेशात् २३/ कनीयसा ११ एकविद्यु १४ रूपान्यथात्वं ६५ नादसुरे २१ मत्रान्याय्यम् २४ नुरोधावयवे मुद्गीथा ७ दर्शनादेतोः है सूद्गीथ १४ तस्मादुभय २१ गृहीत- २५ मुद्गीथ २८ अथ ३४ उद्गीथबुद्धया ३ तृतीयपक्ष ८ चतुर्थ पक्षः २० अविशेषतो २५ वेद्यैकत्वोपदेशात् कानीयसा ऐकविद्यु रूपान्यथात्वं विद्यान्यथात्व नादसुर भत्रन्याय्यम् नुरोधादुद्गीथावयवे दुद्गीथा दर्शनाद्धतोः सूद्गीथविद्यासुद्गीथ तस्मादुभयं गृहीतः मुद्गीथमुपासीत यथा उद्गीथबुद्धया तृतीयः पक्षः चतुर्थः पक्षः प्रविवेश ततो 8 ३६ ३३ ३९ OC ४० २२ सुहयः सुहयः सैन्धवः ર ३३ काशात्मनः ४ मनोमय ७ अथोऽन्तर ११ मिहेतरेलाम्ये १२ | सोऽकामयद काशात्मानः मनोमयविज्ञानमय अन्योऽन्तर भिहेतरसाम्येन सोऽकामयत ४२ पृष्ठे पको अशुद्ध पाठः शुद्ध पाठः है ४२ उपसहारा उपसंहार ४२ २४ स्तत्र ४२ - ४२ आनन्दादयःप्रधानस्य ॥१॥ प्रियशिरस्त्वाद्याप्तिरु- पचयापचयो हि भेदे ॥२॥ इतरे त्वर्थसामान्यात्।। धर्माः सन्तीत्यतः विशेष्य पुरुषविषयमादरं ग्रहणमस्ति प्रतिहितं २७/धर्माः २६ | विशिष्यं ३३ पुरुषविषयसादर ३१ ग्रहमस्ति १ प्रतिष्ठित ४२ ४५ सृष्टय १७ मानसमजसं १७ विज्ञानत्वयोः २३ आनन्दादय ४७ १७ बिधिपारिनिष्ठा २१ | अशित्त्वाचामन्ति ४७ सृष्ट्य मानमसमञ्जसं विज्ञानमयत्वयो तथाचैते आनन्दादय इत्यवधारणादर्थ निर्णया- धिकरणम् ॥ विधिपरिनिष्ठा अशित्वा चाचामन्ति नग्नताकारणलक्षण विधिरित्युक्तं पाठम् गेष्णो तो गेष्णौ विलक्षणं पत्नीय तस्मादनयो प्रधानो ४७ २३ नग्नताकालक्षण १ विधिरित्युक्त ४८ ३ पाठः १८ गेष्णौ २६/ बिलक्षण ३० वतीय १ तस्मादनया २२ प्रधोन ( ७ ) Thanh पृष्ठे अपुद्ध पाठः शुद्ध पाठः २७ सामर्था ५२ ११ श्रवण २२ पौर्वापर्य प्रसङ्ग pom प्राप्त १ सर्वषामिति सामा খাতা पौर्वापटप्रर्थसह प्राप्त सर्वेषामिति प्रयत्न गन्धाप्राप्त्यादि क्लेशै २८ प्रयत्र ५६ १२ गधापाप्यादि २५ । केश १८ अशना अशनाया ang श्रवणा द्वितीयप्रश्शे बचनयोरप्येक अभ्यश्च ६२ ६ १२ श्रवण १७ द्वितीयप्रश्न ३३ बचनयोरप्यक १० अग्दयश्च १ सया २४ विद्यत ६ विद्यापदेशः २ सूत्ररेकमधिकरणं ३ | संहराधिकरण ८ प्राणाग्नि होत्रस्य १६ भाजने २८ श्रुणोति २६ प्राणकाशयारक्येन १ परम १ श्रोत्रण १ श्रृण्वन्ति ३३ हेत्न् ११ | मनञ्चिदादीना स यो विद्येत विद्योपदेशः सूत्रैरेकमधिकरणं संहाराधिकरणं प्राणाग्निहोत्रस्य भोजने शृणोति সাহাখাল ६४ ६५ ६७ 40 4 ६८ श्रोत्रण शृण्वन्ति हेतून मनश्चिदादीनां ( ८ ) पृष्ठे । पढौ अशुद्ध पाठः शुद्ध पाठः अग्निर्वै मृत्युः १४ अग्नि व मृत्युः ४ लाकान्तरसंचारी २४ वादाचित् ३ लाकान्तरे यथायासते १ २ मुद्गीर्थ १३ चिर १० अनुपपत्तस्तु १५ गार्गिः १५ विधृता लोकान्तरासंचारी कादाचित् लोकान्तरे यथोपासते कर्मा मुद्गीथं चिरं ७२ ७४ ७५ ७६ अनुपपत्तस्तु गार्गि बिधृतो इत्युक्त विभागो ३ इत्युक्त ४ बिभागा ७७ ६ नत्व ७७ १६ तस्याविद्वाद्विषयत्वात् तस्याविद्वद्विषयत्वात एवं एव १२ सामाना १४ ऊर्जाश्चवृत्ता २६ घद्यपि A ८१ २५ चाकायण- ८१ ३३ मह ८१ समाना ऊश्चिावृत्ता यद्यपि चाकाषणो मद्य सिञ्चेयुः दित्यादि अनुष्ठीयमानैर्यज्ञान विद्यां ब्रह्मवित्त्वम् विधिरिति ८१ ३३ सिञ्चयुः ३४ दित्यदि २६ अनुष्ठीयमानयज्ञा ४ विद्या ८ ब्रह्मवित्वम ८२ . ५३ २६ विधिरति (६) पृष्ठे पङ्को अशुद्ध पाठः शुद्ध पाठः ८६ ३१ पण्डित्यादति ६ शब्दाच्छूवण १२ | गृह्यते १३ विद्याः १ पाण्डित्यादति शब्दाच्छवण गृह्यते बिद्यायाः कम्मैव ८६ तत्रत तत्रत ब्रह्मभावना पौनःपुन्यं १४ हग्रयन्ति २६ भेदव्यवहारा ब्रह्मभावनापौनःपुन्यं ग्राहयन्ति भेदब्यवहारो स्वयं ईश्वरप्रत्यगात्मकत्वेन अवयवेऽपि ३१ स्वय . ३ ईश्वरप्रत्यगात्मकत्वन ७ अवयेऽपि १३त्मतः ६२ ६२ २२ कार्यपर्बाणां २८ एवमिहाप २८ काय्य ६ | प्रतोके २७ बााच ३३ त्तपेइत्याःदु १८ कुशात्तरम् २ तव्य देशात् ४ तत्काय्यायैव तविदित्वा १ सपद्यते १ भोगानारम्भा १६ तहिं कार्यपायाणां एवमिहापि कार्य प्रतीके वाचि पत्तेरित्याहुः कुशोत्तरम् तयपदेशात् तत्कायैिव तेविदित्वा संपद्यते भोगानारम्भो तर्हि ज्ञाननाश्यत्वाख्यान- ६४ ६४ ६४ १७ ज्ञाननाश्यत्वाख्यान ( १० ) पृष्ठे पतो अशुद्ध पाठः शुद्ध पाठः ७ फलभूता क्षपयित्वा वाग्वृत्त्य न्वेति एतास्तेजोमात्राः ६७ ११ फलभूत। ०२ क्षायित्वा रह बागवृत्य ३१ न्यति ३२ एतास्तेजोमात्राः १७ आत्मकत्वातु २० तामि ४ ब्रह्मलोक मतिक्रस्य ५ मून्य सव ६८ आत्मकत्वात्तु ताभिः ब्रह्मलोकमतिक्रम्य मुंईन्य सर्वे १८ तत्त्व १०४ १०४ १०५ गत्यनुस्मात २३ तयोर्द्ध २ मामाति १५ महोरात्र ३ गहिंतम् २३ स्म २ देवाना २६ शब्दश्य ३ स्वतन्त्रा १ कार्य १ निर्धारयितु मानत्वत् १३ | रूपेणाय गत्यनुस्मृति तयोर्ध्व मामोति महोरात्रं गर्हितम् स्मतुं देवानां ११० स्वतन्त्राः काय निर्धारयितु मानत्वात् रूपेणायं संकल्प निमित्तान्तर ब्रह्मलोके १४ सकल्प -- १६ निमितान्तर १० ब्रह्मलाके (११) पृष्टे Phos अशुद्ध पाठः शुद्ध पाठः ११६ २१ ऽनिलयतेऽभयं २६ भीषादेति ३ सवषु ४ सवविधसुख भागमत्रे ४ केवलभीश्वरण आपा वै ५ लोकाऽसौ ६ सवाणि ८ तहि २५ भुञ्जत्रिभ १० त्वनुभूयेतर २६ ननूपपलक्षणार्थ २ वैके चास्मा ल्लाकात् २६ भवत्यभ्र १४ रेतस्यसङ्क ४ बम्धविपर्य यो १२१ १२१ १२२ ऽनिलयनेऽभयं भीषोदेति सर्वेषु सर्वविधसुखभोगमात्रे केलवमीश्वरेण आपो वै लोकोऽसौ सर्वाणि तर्हि भुत्रिम स्वनुभूयेतरे ननूपलक्षणार्थ वैके चास्माल्लोकात् भवत्यभ्रं रेतस्यसङ्क बन्धविपर्ययो किमर्थ सामञ्जस्यात् समजलं सामअस्य सामञ्जस्य सर्व समअसं धर्मिणः मुपास्त्यर्थ तृप्तिः समअसमिति १२३ २० किमर्थ ३ सामंजस्यात् १२८ १२६ १३७ १३१ १३२ ५ लमं असं ८ सामंजस्य २८ सामंजस्य २१ सव ५ समं असं १३ धामणः २ भुपास्यथं २४ कृप्तिः १६ समंजसमिति
( १२ )
RAN
पृष्ठे
अशुद्ध पाठः
शुद्ध पाठः
१३६
१३६
८ संहार प्राप्तिः
१८ गुण नामुपसंहारः
२२ दीनामाननन्दरूपतया
२८ मयाद्धतोरेर
३२ पूवश्वन्नमयोदिषु
३/ शरीर
१७ ब्रह्मोभावोत्तरं
३३ गामिनाम पेक्षि
३ बलीया स्ति
संहारप्राप्तिः
गुणानामुपसंहारः
दीनामानन्दरूपतया
मयाद्धेतोरेव
पूर्वेष्वन्नमयादिषु
হাই
१३४
१४०
ब्रह्मभावात्तर
गामिनामापेक्षि
वलीयोस्ति