University Library,gurukul Kangri Vishwavidyalaya
बालनीति कथामाला
Front matter
*
yogyatammanya ayo myanya Gyabaha
SonominionlookGoodlusterdaimmiti UNOSE
गुरुकुल स्थान
* ओ३म्
गुरुकुलग्रन्थावलिः।
PIEDO
COMPIL
बालनीति-कथामाला
गुरुकुलमुख्याधिष्टातृ--महादयनिदेशेन
गुरुकुलरथ पण्टिनः संकलिता।
DescolasicalOToladis
नन्दलाल-प्रबन्धन
काङ्गड़ी गुरुकुल यन्त्रालये
मुद्रिता।
DISONACSCOREDICIAL
ENGm
१६७८ वैक्रमादे ३८ दयानन्दाब्द
प्रथमाटत्तौ ।
५०० पुस्तकानि
सन् १६२१ ई०
मूल्यम् ।
Syanyooyeoyoyoyeyosyelaynayaaye oye yeayerayerayiseDYester
36RRRRRRoma
. नीतिकथामाला। ...-- धर्मयुद्धिपापबुध्यो: कथा (१) १. कस्मिंश्चिदधिष्ठाने, धर्मबुद्धिपापबुद्धिश्च, द्वे मित्र पति- वसतः स्म । अथ कदाचित् पापबुद्धिना चिन्तितम्, “अहं तावत् मूर्यो दारिद्रयोपेतश्च । तदेनं धर्मधुद्धिमादाय, देशान्तरं गत्वा, अस्याश्रयेण अर्थोपार्जनं कृत्वा, एनमपि वञ्चयित्वा, सुखी भवामि । .२. अथान्यस्मिन् अहनि पापधुद्धिः धर्मबुद्धि पाह, "भो मित्र ! वार्द्धकभावे किं स्वमात्मविचेष्टितं स्मरसि, देशान्तरमदृष्ट्वा का शिशुजनस्यवार्ता कथयिष्यसि । विद्या, वित्तं, शिल्पं, तावन्नामोति मानवः सम्यक् । यावद ब्रजति न भूमौ देशादेशान्तरं हृष्टः।" ३. अथ तस्य तद्वचनमाकर्ण्य प्रष्टमनाः तेनैव सह गुरुज- नानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः। तत्र च धर्मबुद्धिमभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तम् प्रासादितम् । ततश्च द्वावपि तौ महौ स्वयह प्रति औत्सुक्येन निवृत्तौ ।
(२) नीति कथामाला ४. अथ स्वस्थानसमीपवर्तिना पापबुद्धिना धर्मबुद्धिरभिहितः, "भद्र ! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते, यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते तदत्र एव वनगहने कापि भूमौ निक्षिप्य किञ्चन्मात्रमादाय गृहं प्रविशावो, भूयोऽपि प्रयोजने सजाते तन्मात्रं समेत्य अस्मात् स्थानात् नेष्यावः।" ५. तत् आकर्ण्य धर्मबुद्धिराह, “भद्र ! एवं क्रियताम्" । तथा अनुष्ठिते द्वौ अपि तौ स्वगृहं गला सुखेन संस्थितवन्तौ । ६. अथ अन्यस्मिन् अहनि पापबुदिनिशीथेष्टव्यां गत्वा, तत् सर्व वित्तं समादाय गर्त्त पूरयिखा, स्वभवनं जगाम । अथ अन्येयुः धर्मबुद्धि समभ्येत्य प्रोवाच, "सखे ! बहुकुटुम्वा वयं, वित्ताभावात् सीदामः । तद्गत्वा तत्र स्थाने किञ्चिन्मात्र धन- मानयावः । सोऽब्रवीत् , “भद्र ! एवं क्रियताम् ।। ७. अथ द्वावपि गत्वा तत् स्थानं यावत् खनतस्तावत् रिक्तं भाण्डं दृष्टवन्तो अत्रान्तरे पापबुद्धिः शिरस्ताइयन् प्रोवाच, “भो धर्मयुद्ध ! त्वया हृतमेतद्धनं, न अन्येन, यतो भूयोऽपि गर्तापूरणं कृतं, तत् प्रयच्छ मे तम्यादम्, अन्यथाहं राजकुले निवेदयिष्यामि । आह 'भो दुरात्मन् ! मैवं वद धर्मबुद्धिः खल्वहम् । नैतच्चौरकर्म करोमि । उक्तञ्च, मातृवत् परदाराणि, परद्रव्याणि लोष्टवत् , आत्मवत् सर्वभूतानि वीक्षन्ते धर्मबुद्धयः" ।।
धर्मधुद्धि पापबुद्धयोः । ( ३ ) ८. एवं द्वावपि तो विवदमानौ धर्माधिकारिणं गतौ पोचतुश्च परस्परं दुपयन्ती । अथ धर्माधिकरणाधिष्ठितपुरुषः दिव्यार्थे यावनियोजितो तावत् पापबुद्धिराह, "अहो ! न सम्यग्दृष्टोऽयं न्यायः, तदत्र विषये मम वृत्तदेवताः साक्षीभृताः तिष्ठन्ति । ता अपि आवयोरेकतरं चौरं साधुं वा करिष्यन्ति” | अथ तैः सर्वैरभिहितम् , “भोः युक्तमुक्तं भवता ! तदस्माकमपि अत्र विषये महत् कौतूहलं वर्तते । प्रत्यूपसमये युवाभ्यामप्यस्मा- भिः सह तत्र वनोदेशे गन्तव्यमिति"। 8. एतस्मिन्नन्तरे पापबुद्धिः स्वगृहं गत्वा स्वजनकमुवाच "तात ! प्रभूतोऽयं मयाअर्थो धर्मबुद्धेश्वोरितः, स च तव वचनेन परिणति गच्छति, अन्यथा ऽस्माकं प्राणैः सह यास्यति" । स आह, “वत्स ! टुनं वद, येन प्रोच्य तद्रव्यं स्थिरतां नयामि" पापबुद्धि राह, “तात ! अस्ति तत्प्रदेशे महाशमी, तस्यां मह- कोटरमस्ति, तत्र खं साम्प्रतमेव प्रविश, ततःप्रभाते यदाहं सत्यश्रावणं करोमि, तदा लया वाच्यं, यद् धर्मबुद्धिचौर इति"। १०. तथा अनुष्ठिने प्रत्यूषे स्नात्वा पापबुद्धिः धर्मवृदि पुर:सरो धर्माधिकरणिकैः सह तां शमीमभ्येत्यु तारस्वरेणपोवाच "भगवति वनदेवते ! आवयोंमध्ये यश्चौरः तं कथय । " अथ पापबुद्धिपिता शमीकोटरस्थः प्रोवाच, "भोः ! शृणुत, धर्मबुद्धिना हृतमेतद्धनम्" तदाकर्ण्य सर्वे ते राजपुरुषा विस्मयोत्फुल्ललोचना यावद्धर्मबुद्ध विसहरणोचिनं निग्रई Maratiwar (४) वक नकुलयोः।। शाखदृष्टया अवलोकयन्ति; तावद्धर्मबुद्धिना तच्छमीकोटर वह्नि भोज्यद्रव्यैः परिवषय वहिना सन्दीपितम् । ११. अथज्वलति तस्मिन् शमीकोटरेऽर्द्धदग्धशरीरः स्फु. टितेतणः करुणं परिदेवयन् पापबुद्धिपिता निश्चक्राम । ततश्च तैः सर्वैः पृष्टः “भोः ! किमिदम्?" इत्युक्ते स पापबुद्धिविचेष्टितं सर्वमिदं निवेद्योपरतः। अथ ते राजपुरुषाः पापबुद्धिं शमीशाखायां प्रतिलम्ब्य धर्मबुद्धि प्रशस्येदमूचुः, "अहो ! साध्विदमुच्यते- 'उपायं चिन्तयेत् माज्ञस्तथापायं च चिन्तयेत्,” । धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थपाण्डित्यात् पिता पापेन घातितः॥४॥ m- वक नकुलयोः कथा (२) -- १. अस्ति कस्मिंश्चिद्वनोदेशे बहुवकसनाथो वटपादपः। तस्य कोटरे कृष्णसर्पः प्रतिवसति स्म। स च वकबालकानजातप- तानपि सदैव भक्षयन् कालं नयति । २. अथैको वास्तेन भनितान्यपत्यानि दृष्ट्वा शिशुवैराग्यात् सरस्तीरमासाद्य वाष्पपूरपूरितनयना अधोमुख स्तिष्ठति । सञ्च ताकचेष्टितमवलोक्य कुलीरकः प्रोवाच, "माम ! किमेवं रुघते
नीति कथा माला॥
भवताय" स ाह, “भद्र ! किं करोमि, मम मन्दभाग्यस्य
बालकाः कोटरनिवासिना सर्पण भक्षिताः तद्दुःखदुःखितोऽहं
रोदिमि, सत् कथय मे यद्यस्ति कश्चिदुपायः तद्विनाशाय" ।
३. तदाकर्ण्य कुलीरकः चिन्तयामास । "अयं तावत्
अस्मज्जातिसहजवैरी, तथोपदेशं प्रयच्छामि सत्यानृतं, यथान्येऽपि
वकाः सर्वे संक्षयमायान्ति ।"
४. आह च "माम ! यद्येवं तर्हि, मत्स्यमांसखण्डानि
नकुलस्य विलद्वारात् सर्पकोटरं यावत् प्रक्षिप, यथा नकुलस्त.
न्मार्गेण गत्वा तं दुष्टसर्प विनाशयति ।
५. अथ तथा अनुष्ठिते मत्स्यमांसानुसारिणा नकुलेनतं
कृष्णसर्प निहत्य, तेऽपि तद्वत्ताश्रयाः सर्वे बकाच, शनैःशनै-
भक्षिताः।
नृपवानरयोः
कथा (३)
१. कस्यचित् राज्ञो नित्यं वानरोऽतिभक्तिपरोऽङ्गमेवकोऽन्तः
पुरेऽप्यपतिपिद्धपसरोऽतिविश्वासस्थानमभूत् । एकदा राझोनिद्रा
गतस्य, वानरे व्यजनं नीत्वा वायुं विदधति, राज्ञो वक्षःस्थलोपरि
मक्षिका उपविष्टा । व्यजनेन ‘मुहुर्मुहुनिषिध्यमानापि, पुनःपुनः
तव उपविशति ।
(१) नृपवानरयोः ।। २.ततः तेन स्वभावचपलेन मूर्खेण वानरेण क्रुद्वेन सता, तीक्ष्णं खड्गमादाय, तस्योपरि प्रहारो विहितः। ततो मक्षिका उड्डीय गता; तेन शितधारेण असिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्मात् चिरायुरिच्छता केनापि मो ऽनुचरो न रक्षणीयः। ३. अपरमेकस्मिन्नगरे कोऽपि प्रिो महाविद्वान् , परं पूर्व- जन्मयोगेन चारो वर्त्तते । स तस्मिन् पुरेऽन्यदेशादागतान् चतुरो विप्रान् बहूनि वस्तूनि विक्रोणतो दृष्ट्वा चिा चिन्तितवान्, अहो ! केनोपायेन एषां धनं लभ ,, इति विचिन्त्य तेपां पुराऽनेकानि शास्त्रोक्तानि मुभाषितानि, अतिप्रियाणि मधुराणि वचनानि च जन्पतो तेषां मनसि विश्वासमुत्पाद्य, सेवा कर्तुमारब्धा । ४. अथ तस्मिन् सेवां कुर्वति, तै विः सर्ववस्तूनि विक्रीय बहुमूल्यानि रनानि क्रीतानि । ततः तानि जङ्यामध्ये तत्समक्ष प्रतिष्य स्वदेशं प्रनि गन्तुमुद्यमो विहितः । ततः स धूर्तविप्रस्तान विप्रान् गन्तुमुद्यतान् प्रेक्ष्य चिन्ताव्याकुलिनुमनाः सञ्जातः । "ग्रहो ! धनमेतत् न किञ्चित् मया हितम् । अथ एभिः सह यामि, पथि कापि विषं दत्वा एनानिहत्य सर्वरत्नानि गृह्णामि" । इति विचिन्त्य तेपामग्रे सकरुणं विलप्य इदमाह, "भोः मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः तन्मे- मनो भवद्भिः सह स्नेहपाशेन बद्ध, भवद्विरहनाम्नैव आ- कुलं सजानं; यथा धर्ति कापि न धत्ते । यूयमनुग्रहं विधाय सहायभूनं मामपि सहैव नयत" ते नीति कथा माला (७) ५. तद्वचः श्रुत्वा ते करुणाईचित्ताः तेन सममेव स्वदेश प्रति प्रस्थिताः । अथाध्वनि तेषां पश्चानामपि पल्लीपुरमध्ये ब्रजता ध्वांक्षाः कथयितुमारब्धाः, “रे रे किराताः ! धावत धावत । सपादलक्षधनिनो यान्ति । एतान निहत्य धनं नयत" । ६. ततः किरातैः ध्यांक्षवचनमाकर्ण्य सत्वरं गत्वा, विपा लगुड़पहारैजर्जरीकृत्य, वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभिहितम् । 'भो पान्थाः ! पुरा कदापि ध्वांक्षवचनमनृतं नासीत् । ततो भवतां सन्निधौ कापि धनंविद्यते । तदर्पयत, अन्यथा सर्वेपामपि वर्ष विधाय, चर्म विदार्य, प्रत्यङ्ग प्रेक्ष्य, धनं नेप्यामः । ७. तदातेपामीदृशं वचनमाकर्ण्य चौरविण मनसि चि- न्तितम् “यदा एपां विप्राणां वधं विधाय अङ्गं विलोक्य रत्नानि नेप्यन्ति, तदाऽपि मां हनिप्यन्ति । ततोऽहं पूर्वमेवात्मानमरत्न समय॑ एतान मुञ्चामि । उक्तञ्च, मृत्योविभेपि कि बाल ! न स भीतं विमुञ्चति । अब वान्दशतान्ते वा मृत्युर्वं प्राणिनां ध्रुवः ।।" इति निश्चित्य अभिहिनम् , “भोः किरानाः ! यदि एवं ततो मां पूर्व निहत्यविलोकयत"। ८. ततस्तैः यथानुष्ठिते तं धनरहितमवलोक्य अपरे च- खारोऽपि मुक्ताः। तदुक्तम् । me- (८) बुद्धिबलयोः पण्डितोऽपि वरं शत्रुर्न मूो हितकारकः । वानरेण हतोराजा विप्राचौरेण रक्षिताः॥५॥ बुद्धि बलयोः कथा (४) १. कस्मिश्चिदने मासुरको नाम सिंहः प्रतिवसतिस्म । अथासौ वीर्यातिरेकात् नित्यमेव अनेकान् मृगशशकादीन, व्यो- पादयन् नोपरराम । २. अथान्येद्युस्तदनजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलिखा तमभ्युपेत्य प्रोचुः, "स्वामिन् ! किमनेन सकलमृगवधेन ? नित्यमेव यतस्तव एकेनापि मृगेण तृप्तिर्भवति । तत् क्रियता- मस्माभिः सह समयधर्मः। ३. "अद्य प्रभृति तवात्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थ समेष्यति । एवं कृते तब तावत् प्राणयात्रा, क्लेशं विनापि भविष्यति, अस्माकञ्च पुनः सर्वोच्छेदनं न स्यात् । तदेष राजधऽिनुष्ठीयताम् । लोकानुग्रहकर्तारः प्रवद्र्धन्ते नरेश्वराः । लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः॥ ४. अथ तेषां तद्वचनमाकर्य भासुरक आह, “अहो ! स- त्यमभिहित भवद्भिः। परं यदि ममोपविष्टस्यात्र नित्यमेव नैक: वापदः समागमिष्यति, तभूनं सर्वानपि भक्षयिष्यामि ।
, नीति कथा माला॥ (8) ५. अथ ते तथैव प्रतिज्ञाय नितिभाजः तत्रैव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति; वृद्धो वा, वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा, तेषां मध्यात् तस्य भोजनार्थ मध्याह्नसमये उपतिष्ठते । ६. अथ कदाचित् जातिक्रमाच्छशकस्यावसरः समायातः । स समस्तमृगैः परितोऽनिच्छन्नपि मन्दं मन्दं गत्वा, तस्य वधोपायं चिन्तयन् , वेलातिक्रमं कृत्वा, व्याकुलितहृदयो यावद् गच्छति, तावन् मार्गे गच्छता कूपः संदृष्टः । यावत् कूपोपरि याति, तावत् कूपमध्ये आत्मनः प्रतिविम्बं ददर्श, दृष्टाव तेन हृदये चिचिन्ततं, यद्भव्य उपायोऽस्ति, अहं भासुरकं प्रकोप्य स्वबुद्धया अस्मिन् कूपे पातयिष्यामि। ७. अथासौ दिनशेपे भासुरकसमीपं प्राप्तः। सिंहोऽपि वेलातिक्रमेण सुत्क्षामकण्ठः कोपाविष्टः सृकणी परिलेलिहत व्यचिन्तयत् । "अहा ! मातराहाराय निःसत्त्वं वनं मया कर्त्त- व्यम्" । एवं चिन्तयतस्तस्य शशको मन्द मन्दं गत्वा प्रणम्य तस्याने स्थितः। ८. अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्नाह, " शश- काधम ! एकतस्तावत् त्वं लघुः प्राप्तोऽपरतश्च बेलाति तदस्मादपराधात् त्वां निमात्य, प्रातः सकलान्यपि मृगकुलानि उच्छेदयिष्यामि।। 8. अथ शशकः सविनयं मोवाच 'स्वामिन् ! नापराधो मम न चापरेपां सत्त्वानाम् , तत् श्रूयतां कारणम् । सिंह अाह, (१०) बुद्धिवलयोः॥ "सत्वरं निवेदय, यावत् मम दष्ट्रान्तर्गतो न भवान् भविष्यतीति” । शराक आह, "स्वामिन् ! समस्तमृगैरय जातिक्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्चशशकैः समं प्रेपितः । १०. "ततश्च अहमागच्छन् अन्तराले महता केनचिदपरेण सिंहेन विवराभिर्गत्य अभिहितः । 'रे ! क प्रस्थिता यूयम् ? अभीष्टदेवतांस्मरत' । ततोमयाभिहितम् , 'वयं स्वामिनो भासुरक- सिंहस्य सकाशे आहारार्थ समयधर्मेण गच्छामः । ततः तेना- भिहितम्, 'यद्येवं तर्हि मदीयमेतद्वनं, मया सह समयधर्मेण समस्तैरपि श्वापदै नैतिव्यम् । चौररूपी स भासुरकः । अथ यदि सोच राजा नतो विश्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहय द्रुततरमागच्छ, येन यः कश्चिदावयोर्मध्यात् पराक्रमेण राजा भावपति रा सानेतान मक्षयितीतिः। ततोहं तेनादिष्टः स्वा- मिसकाशमभ्यागतः, एतत् वेलाव्यतिक्रमकारणम् , तदत्र स्वामी प्रमाणम् । ११. तच्छ्रुत्वा भासुरक आह, ‘भद्र ? यदि एवं, तत् सत्वरंदर्शय मे तं चौरसिहम्, येनाहं मृगकोपं तस्योपरि क्षिप्त्वा सहसो भवामि । सशक आह, मि. सत्यमिदं, स्वभूमिहेतोः परिशपाई १३ पारियाः, पर दुर्गाश्रयः, दुर्गानिष्क्रम्य वयं सन विता, दुर्गस्थय ध्यो भवति रिपुः" । भासुरक आह, “भोः ? तव अनन व्यापारेण, दर्शय मे तं दुर्गस्थ- मपि । अथ शशक आह, “यव तर्हि आगच्छतु स्वामी" । १२. एकमुक्या अग्रे प्रस्थितः । ततश्च तेन आगच्छता नीति कथा माला ॥ (११) यः कूपो दृष्टोऽभूत् तमेव कूपमासाद्य भासुरकमाह । "स्वामिन् ! कस्ते प्रतापं सोढुं समर्थः । त्वां दृष्ट्वा दूरतोऽपि चौरसिंहः प्र. विष्टः स्वं दुर्गम् , तदागच्छ येन दर्शयामीति” । भासुरक आह, "दर्शय मे दुर्गम्" । तदनु दर्शितस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूप मध्ये आत्मप्रतिविम्बं जलमध्यगतं दृष्टा सिंहनादं मु- मोच । ततः प्रतिशब्देन कूपमध्याद द्विगुणतरो नादः समुत्थितः । १३. अथ तेन तं शत्रु मत्वा आत्मानं तस्योपरि प्रतिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्टमनाः सर्वमृगान् आनन्द्य तैः सह प्रशस्यमानो यथासुखं तत्र बने निवसति स्म । अत ए. बोक्तम्- यस्य बुदिलं तस्य निर्बुद्ध स्तु कुतोवलम् । पश्य सिंहो मदोन्मत्तः शशकेन विनाशितः॥ --- अनागतविधात्रादीनां । कथा (५ १. कस्मिंश्चित् जलाशये अनागतविधाता प्रत्युत्पन्नमतिः यदविष्यश्चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जला- शयं दृष्ट्वा गच्छद्बुभिर्मत्स्यजीविभिरुक्तं, यदहो! बहुमत्स्योऽयं ह्रदः, कदाचिदपि नास्माभिरन्वेषितः, तदा ताबदाहारनि:
(१२) अनागतधित्रादीनाम् ॥ सजाता, सन्ध्यासमयश्च संवृत्तः, ततः प्रभातेऽत्र आगन्तव्य- मिति निश्चयः। २. अतस्तेषां तत्कुलिशपातोपमं वचः समाकर्ण्य अनागत- विधाता सर्वान् मत्स्यान् आहूय इदमूचे, "अहो ! श्रुतं भवद्भिः यत् मत्स्यजीविभिरभिहितम् ? तनूनं प्रभातसमये मत्स्यजीविनो. ऽत्र समागम्य मत्स्यसंक्षयं करिष्यन्ति, एतन्मम मनसि वर्त्तते । तन्न युक्तं साम्प्रतं क्षणमपि अत्रावस्थातुम् । उक्तञ्च, विद्यमाना गतिर्येषामन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देहभङ्गं कुलक्षयम् ॥ ३. तदाकण्ये प्रत्युत्पन्नमतिः माह, “अहो ! सत्यमभिहितं भवता, ममापि अभीष्टमेतत् , तदन्यत्र गम्यतामिति । उक्तञ्च, परदेशभयाद्भीता वहुमाया नपुंसकाः। स्वदेशे निधनं यान्ति काकाः कापुरुषा मृगाः" । ४. अंथ तत् समाकर्ण्य पोच्च विहस्य यद्भविष्यः प्रोवाच,- "अहो ! न भवद्या मन्त्रितं सम्यगेतदिति । यतः, किं वाङ्मात्रेणैव तेषां पितृपैतामहिकमेतत्सरः त्यक्तुं युज्यते ? यदि आयुःक्षयोऽस्ति, तदन्यत्र गतानामपिमृत्युभविष्यत्येव । उक्तञ्च, अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । तदहं न यास्यामि, भवद्भयां च यदरोचते नन् कर्त्तव्यम्" ।
नीति कथा माला॥ (१३) ५. अथ तस्य तं निश्चयं ज्ञात्वा, अनागतविधातामत्यु- त्पन्नमतिश्च, निष्क्रान्ती सह परिजनेन । अथ प्रभाते तैर्मत्स्य- जीविभिः जालैस्तजलाशयमालोड्य यद्भविष्येण सह तत्सरो निर्मत्स्यता नीतम् । अतएवोक्तम् - अनागतविधाताच प्रत्युत्पन्नमतिस्तथा । द्वावेतौसुखमेधेते, यद्भविष्यो विनश्यति॥ चण्डरवश्वापदानाम् कथा (६) १. कस्मिंश्चित् वनप्रदेशे चण्डरवो नाम श्रृगालःप्रतिवसति- स्म । स कदाचित् क्षुधाविष्टो निहालोल्यात् नगरान्तरं प्रविष्टः । अथ तं नगरवासिनः सारमेया अवलोक्य, सर्वतःशब्दायमानाःपरि धाव्य, तीक्ष्णदंष्ट्राग्रेभक्षितुमारब्धाः । सोऽपि तैः भक्ष्यमाणः प्राण- भयात् पासन्नरजकगृहं प्रविष्टः ।तत्र च नीलीरसपरिपूर्णमहाभा- एडं सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्डमध्ये पतितः । २. अथयावत् निष्क्रान्तस्तावत् नीलीवर्णः सञ्जातः । तत्र अपरे सारमेयास्तं शृगालमजानन्तो यथाभीष्टदिशं जग्मुः। चण. डरचोप दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नीलवर्णेन कदाचित् निजरङ्गः त्यज्यते । ३. अथ अपूर्व तत् सत्वम् अवलोक्य, सर्वे सिंहव्याघ्रद्वी- :
च, (१४) चएडरवश्वापदानाम् ॥ पिटकमभृतयः अरण्यनिवासिनः भयेन व्याकुलितचित्ताः सम- न्तात् पलायनं कुर्वन्ति, कथयन्ति "न ज्ञायते अस्य कीटक विचेष्टितं पौरुषं च, तत् दूरतरं गच्छामः । न यस्य चेष्टितं विद्यात् , न कुलं, न पराक्रमम् । न तस्य विश्वसेत् प्राज्ञो, यदीच्छेच्छियमात्मनः" ॥ ४. चण्डरवोऽपि तान् भयेन व्याकुलितान् विज्ञाय, इद- माह, “भोः भोः श्वापदाः ! किं यूयं मां दृष्ट्वा एव सन्त्रस्ताः बनथ ? तत् न भेतव्यम् । अहं ब्रह्मणा अद्य स्वयमेव सृष्ट्वा अभिहितः- श्वापदानां मध्ये कश्चित् राजा नास्ति तत् त्वं मया अद्य सर्वेपां श्वापदानाम् प्रभुत्वे अभिपिक्तः ककुद्रुमाभिधः । ततः गखा तितितले तान् सर्वान् परिपालय'-ततः अहम् अत्र आगतः । तत् मम छत्रच्छायायां संवैः एव श्वापदैः वर्तितव्यम्। अह ककुद्रुमो नाम राजा वैलोक्ये अपि सञ्जातः ।" ५. तत् श्रुत्वा, सिंहव्याघ्रपुरःसराः श्वापदाः "स्वामिन् ! प्रभो ! समादिश" इति वदन्तः तं परिवत्रुः । अथ, तेन सिंहस्य अमात्यपदवी प्रदत्ता । व्याघ्रस्य शय्यापालित्वं, द्वीपिनः ताम्बूलाधिकारः, कस्य द्वारपालकत्वम् । ये च आत्मीयः श्रृ- गालाः, तैः सह आलापमात्रम् अपि न करोति । सर्व अपि शृगालाः अर्धचन्द्रं दत्वा निम्सारिताः ! ६ एवं तस्य राज्यक्रियायां वर्तमानस्य, ने सिंहादयः मृगान व्यापाद्य, नस्य पुरतः पक्षिपन्ति । सोऽपि प्रभुधर्मेण सर्वेषाम्, नीति कथा माला॥ (१५) तान् पविभज्य प्रयच्छति । एवं गच्छति काले, कदाचित् तेन समागतेन, दूरदेशे शब्दायमानस्य शृगालबन्दस्य कोलाहलः अश्रावि । तं शब्दं श्रुत्वा पुलकिततनुः, आनन्दाश्रुभिः परिपूर्ण- नयनः उत्थाय विरोतुम् आरब्धवान् । ७. अथ ते सिंहादयः तं तारस्वरं श्रुत्वा"शृगालोऽयम्" इति मत्वा सलज्जम् अधोमुखाः क्षणम् एकं स्थित्वा मिथः प्रोचुः "भोः ! वश्चिताः वयम् अनेन क्षुद्रशुगालेन" तत् वध्यताम् । सोऽपि तत् ओकण्यं पलायितुम् इच्छन्'तत्र स्थाने एव सिंहादि- भिः खण्डशः कृतः, मतश्च । त्यक्ताश्चाभ्यन्तरा येन बाद्याश्चाभ्यन्तरीकृताः स एव मृत्युमामोति, यथा राजा ककुद्रुमः ।। - ---- -- मित्रशर्मणो धूर्तानाञ्च कथा (७) १. करमश्चिंत अधिष्टाने मित्रशा नाम ब्राह्मणः कृता- ग्निहोत्रपरिग्रहः प्रतिवसतिस्म । तेन कदाचित् माघमासे, मेघा- च्छादिते गगने, मन्दं मन्दं प्रवर्षति मेघे, पशुप्रार्थनाय किश्चिद् ग्रामान्तरं गत्वा कश्चित् यजमानो याचितः । “भो यजमान ! आगामिन्याम् अमावास्यायाम् अहं यक्ष्यामि यज्ञम् । तद् देहि मे patos uptet- (१६) मित्र शर्मणो धूर्तानाच पशुम्" | अथ तेन तस्य पीवरतनुः पशुः दत्तः। सोपि तम् इतश्च इतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा स्वपुराभिमुखः प्रतस्थ । २. अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः सम्मुखाः बभूवुः। तैश्च तादृशं पीवरतर्नु पशुम् अवलोक्य मिथः अभिहितम् , "अहो ! अस्य पशोः भक्षणात् अद्यतनीयो हिमपातः अपनीयते। तत् एनं वंचयित्वा पशुम् आदाय शीतत्राणं कुर्मः।" ३. अथ तेषाम् एको वेशपरिवर्तनं विधाय सम्मुखं भूत्वा तम् आहितामिम् ऊचे, “भो भो बालाग्निहोत्रिन् ! किम् एवं जनविरुद्ध हास्यकार्य क्रियते, यत् एष सारमेयः अपवित्रः स्कन्धेन नीयते । ततश्च तेन कोपाभिभूतेन अभिहितम् , "अहो ! किम् अंधो भवान् , यत्पशु सारमेयं प्रतिपादयसि ? सोब- वीत् "ब्रह्मन् ! कोपस्त्वया न कर्त्तव्यः । यथेच्छं गम्यताम्।। ४. अथ, यावत् किश्चित् अध्वनोऽन्तरं गच्छति, तावत् द्वितीयो धूर्तः सम्मुखे समुपेत्य तम् उवाच, “भो ब्रह्मन् ! य- द्यपि वल्लभोऽयं ते मृतवत्सः, तथापि स्कन्धम् आरोपयितुम् अयुक्तम्" । अथ, असौ सकोपम् इदमाह, “भोः ! किम् अंधो भवान् , यत् पशु मृतवत्सं वदसि” । सोऽब्रवीत्, “भगवन् ! मा कोपं कुरु । अज्ञानात् मया अभिहितम्। तत् वं यथेच्छम् . प्राचर। ५. अथ, यावत् स्तोकं वनांतरं गच्छति, तावत् तृतीयो अन्यवेशधारी धूर्तः सम्मुखे समुपेत्य तम् उवाच, "भोः ! अ.
नीति कथा माला॥ (१७) युक्तम् एतत्, यत् खं रासभं स्कंधाधिरूढं नयसि तत् त्यज्यनाम् एषः । उक्तश्च- 'यः स्पृशेद्रास मों ज्ञानादज्ञानतोऽपि वा। सचैलं स्नानमुद्दिष्टं, तस्य पापप्रशांतये ।। तत् त्यज एनम् , यावत् अन्यः कश्चित् न पश्यति" । ६. अथ, असौ तं पशु रासभं मन्यमानो, भयात् भूमौ प्रक्षिप्य, स्वगृहम् उद्दिश्य, प्रपलायितः । ततस्ते त्रयो मिलिखा तं पशुम् आदाय यथेच्छया भक्षितुम् आरब्धाः । बहुबुद्धिसमायुक्ताः मुविज्ञाना, बलोत्कटान् शक्ला वश्चयितुं धूर्ताः; ब्राह्मणं छागलादिव ।। दधिपुच्छखरनखरयोः - - कथा (८) १. कस्मिंश्चित वने खरनखरो नाम सिंहः प्रतिवसतिस्म । स कदाचित् इतश्च इतश्च परिभ्रमन् , तुझ्या पीडितः नकिश्चि- दपि सखम् आससाद । ततश्च अस्तमनसमये महतीं गिरिगुहार आसाद्य प्रविष्टः चिन्तयामास, "नूनम् एतस्यां गुहायां रात्री केनापि सवेन आगन्तव्यम् । तत् निस्तब्धो भूखा तिष्ठामि ।" २. एतस्मिन् अंतरे तस्याः स्वामी दधिपुच्छो नाम श्रृगालः समायातः । स च यावत् पश्यति, तावत् सिंहस्य पदपद्धतिः
(१८) दधिपुच्छखरनखरयोः
गुहायां प्रविष्टा, नच निर्गता । ततश्च अचिंतयत्, अहो ? वि-
नष्टोऽस्मि । नूनम् अस्या अंतर्गतेन सिंहेन भाव्यम् । तत् किं
करोमि ? कथं ज्ञास्यामि ?"
३. एवं विचिन्त्य द्वारस्थः फूत्कर्तुम् आरेभे, "अहो बिल !
अहो बिल !” इत्युक्त्वा तूष्णीभूय, भूयः अपि तथा एव पत्य
भाषत् “भोः किं न स्मरसि, यत् मया खया सह समयः कृतो-
ऽस्ति, यत् मया वाह्यात् समागतेन खं वक्तव्यः, खया च अहं
प्रतिवक्तव्यः । तत् यदि मां न आयसि, ततोऽहं द्वितीयं विलं
यास्यामि
४. अथ तच्छ्रुखा सिंहः चिन्तितवान, "नूनम् एषा गुहा
अस्य समागतस्य सदा समाहानं करोति । परम्, अद्य मम भयात्
न किश्चिद् ब्रूते । अथवा साधु इदमुच्यते,
'भयसन्त्रस्तमनसौं हस्तपादादिकाः क्रियाः ।
प्रवर्तन्ते न, वाणीच, वेपथुश्चाधिको भवेत् ॥
तत् अहम् अस्य श्राद्वानं करोमि, येन, तदनुसारेण
प्रविष्टोऽय भोज्यतां यास्यति ।" एवं सम्प्रचार्य, सिंहः तस्य
आह्वानम् अकरोत् ।
५. अथ, सिंहस्य शब्देन सा गुहा पूतिरवसम्पूर्णा अन्यान्
अपि दूरस्थान् अरण्यजीवान् त्रासयामास । शगालोऽपि
पलायमान इमं श्लोकम् अपठत् ।
नीति कथा माला।। (१६) "अनागनं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् । वनेऽत्र संस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता ॥" सिंहसुतयोः शृगालकस्य च कथा (६) १. कस्मिंश्चित् वने सिंहदम्पती प्रतिवसतःस्म । अथ सिंही पुत्रयं अजीजनत् । सिंहोऽपि नित्यम् एवं मृगान् व्यापाद्य सिर ददाति । अथ, अन्यस्मिन्अहनि तेन किमपि न आसादितम् । वने भ्रमतोऽपि तस्य रविः अस्तं गतः । २, अथ, तेन स्वगृहम् आगच्छता शृगालशिशुः प्राप्तः । स च "बालकोऽयम्" इति अवधार्य, यत्नेन दंष्ट्रामध्यगतं कृत्वा, सिह्याः जीवन्तम् एव समर्पितवान् । ततः सिंह्या अभिहितम् , "भोः कान्त ! त्वया यानीत किन्नित् अस्माकं भोजनम् ?" सिंह आह, “पिये ! मया अद्य एनं शृगालशिशु परित्यज्य न किञ्चित् सत्वम् प्रासादितम् । स च "बालोऽयम्" इति मत्वा न व्यापादितः, विशेषात् स्वजातीयश्च । इदानीं त्वम् एनं भक्ष- यित्वा पथ्यं कुरु,प्रभाते अन्यत् किश्चित् उपार्जयिष्यामि ।" ३. सा माह, “भोः कान्त ! त्वया बालकोऽय विचिन्त्य (२०) सिंहसुतयोः शृगालकस्य च न हतः । तत् कथम् एनम् अहं स्वोदरार्थे विनाशयामि । 'अकृत्यं नैव कर्तव्यम् , प्राणत्यागेऽपि संस्थिते । न च कृत्यं परित्याज्यम् , एष धर्मः सनातनः।" तस्मात् मम अयं तृतीयः पुत्रो भविष्यति ।" इत्येवम् उक्तवा तमपि वस्तनक्षीरेण पराम् पुष्टिम् अनयत् एवं ते लयोऽपि शिशवः परस्परं जातिम् अजानन्तः एकाचारविहारा बाल्यसमयं निर्वाहयन्ति । ४. अथ, कदाचित् तत्र वने भ्रमन् अरण्यगजः समायातः। तं दृष्ट्वा तौ सिंहसुतौ द्वौ अपि कुपिताननौ तम् प्रति यावत् प्रच- लितो, तावत् , तेन शृगालसुतेन अभिहितम् , "अहो ! गजोऽयं युष्माकं कुलशत्रु:, तन्न गन्तव्यम् एतस्य अभिमुखम् ।" एवम् उक्त्वा गृहं प्रधावितः । तौ अपि ज्येष्ठवान्धवस्य भङ्गात् निरु- त्साहतां गतौ। ५. अथ, तौ द्वौ अपि गृहं प्राप्य पित्रोः अग्रतो विहसन्तो ज्येष्ठस्य भ्रातुः विचेष्टितम् ऊचतुः, यद “गजंदृष्ट्वा दूरतोऽपि नष्टः सोऽपि तत् आकर्ण्य कोपाविष्टमना ताम्रलोचनः भृकुटिं वध्वा, तौ भलैयन् परुषतराणि वचनानि उवाच । ततः सिंह्या एकान्ते नीला असौ प्रबोधितः, "वत्स ! मा एवं कदाचित् जल्प । एतौ भवदीयो लघुभ्रातरौ ।' ६. अथ असौ प्रभूतकोपाविष्टः ताम् उवाच, “किम् अहम्
+
८५० नीति कथा मा
माला
३३,००
(२१)
एताभ्यां शौर्येण, रूपेण, विद्याभ्यासेन कौशलेन वा हीनः ?
येन माम् उपहसतः । तत् मया अवश्यम् एतौ व्यापादनीयौ ।"
तत् आकर्ण्य तस्य जीवितम् इच्छन्ती अन्तर्विहस्य पाह,
"शूरोऽसि, कृतविद्योऽसि दर्शनीयोऽसि, पुत्रक ।
यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥
७. नत् सम्यक् शृणु वत्स, खं शृगालीसुतः। कृपया मया
स्वस्तनक्षीरेण पुष्टिं नीतः। तत् यावत् एतौ मम पुत्रौ शिशु-
खात् खां शृगालं न जानीतः, तारत् द्रुततरं गत्वा स्वजातीयानां
मध्ये भव । नोचेत् , अाभ्यां हतो मृत्युपथं समेप्यसि ।"
८. सोऽपि तस्या वचनं श्रुत्वा भयेन व्याकुलमना शनैः शनैः
अपसृत्य स्वजात्या मिलितः।
घण्टोष्ट्रस्य
कथा ( १०)
१. कस्मिंश्चित् अधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिव
सतिस्म । स च अतीव दारिद्रयोपहतः चिन्तितवान्, “अहो
धिक, इयं दरिद्रता अस्माकं गृहे ! यतः, सर्वोऽपि जनः स्वकर्मणि
रतः तिष्ठति । अस्माकं पुनः व्यापारो न अत्र अधिष्ठाने
अर्हति । यतः, सर्वेषां लोकानां चिरन्तनाः चतुर्भूमिकाः गृहाः
ekasheREAT
( २२ ) घण्टोष्ट्रस्य सन्ति । मम च न अत्र । तत् किंमदीयेन रथकारत्वेन प्रयोजनम् ? " इति चिन्तयित्वा देशात् निष्क्रान्तः । २. यावत् किञ्चित् वनं गच्छति, तावत् वनमध्ये सूर्यास्त- मनवेलायां स्वयूथात् भ्रष्टाम् , प्रसववेदनया पीड्यमानाम् उष्ट्री- मपश्यत् । स च दासेरकेण युक्ताम् उष्ट्री गृहीत्वा स्वस्थानाभि- मुखः प्रस्थितः। गृहम् आसाद्य रज्जुकां गृहीत्वा ताम् उष्ट्रिकां- बबन्ध । ३. ततश्च तीक्ष्णं परशुम् आदाय, तस्याः कृते पल्लवानाम् आनयनार्थ पर्वतस्य एकदेशे गतः । तत्र च नूतनानि, कोमला- नि, बहूनि पल्लवानि छित्त्वा शिरसि आरोप्य, तस्या अग्रे निचि- क्षेप । तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवानां भक्षणात् अहर्निशं पीवरतनुः उष्ट्रीसजाता । सोऽपि दासेरको महान् उष्ट्रः सञ्जातः स नित्यम् एव दुग्धं गृहीत्वा स्वकुटुम्बं पालयति । ४. अथ रथकारण, वल्लभत्वात् दासेरकस्य ग्रीवायां महतीघण्टा प्रतिवद्धा । पश्चात् रथकारो व्यचिन्तयत्, "अहो! किम् अन्यैः दुष्कृत कर्मभिः, यावत् मम एतस्मात् एव उष्ट्रीपरिपालनात् अस्य कुटु- म्बस्य भव्यं सजातम् तत् किम् अन्येन व्यापारेण " एवं विचिन्त्य गृहम् आगत्य प्रियाम् आह, “भद्रे ! समीचीनः अयं व्यापारः । तव सम्मतिः चेत्, कुतोऽपि धनिकात् किञ्चित् द्रव्य- म् आदाय मया करभानां ग्रहणाय गुर्जरदेशे गन्तव्यम् । तावत् त्वया एतौ यत्नेन रक्षणीयौ, यावत् अहम् अपराम् उष्ट्री नीत्वा समागच्छामि।
नीति कथा. माला॥ ( २३ ) ५. ततश्च गुर्जरदशे गत्वा, उष्ट्रीं गृहीत्वा स्वगृहम् आगतः। किम् बहुना, तेन तथा कृतं यथा तस्य प्रचूरा उष्ट्राः करभाश्च सम्मिलिताः । ततः तेन महत् उष्ट्रयूथ कृत्वा रक्षापुरुषो धृतः । तस्य वर्ष प्रति हत्या करभम् एकं प्रयच्छति । अन्यच्च अहर्निशं तस्य दुग्धपानं निरूपितम् । एवं रथकारोऽपि नित्यम् एव उष्ट्री- करभव्यापारं कुर्वन् मुखेन तिष्ठति । ६. अथ, ते दासेरका अधिष्ठानोपवने आहारार्थ गच्छन्ति । कोमला वल्लोः यथेच्छया भक्षयित्वा, महति सरसि पानीयं सायंतनसमये मन्दं मन्दं लीलया गृहम् आगच्छन्ति । सच पूर्वदासेरकः मदस्य अतिरेकात् पृष्ठे आगत्य मिलति । ततः तैः करभैः अभिहितम् , "अहो, मन्दमतिः अयं दासेरकः, यथा यूथात् भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन् आगच्छति । यदि कस्यअपि दुष्टस्य सत्त्वस्य मुखे पतिष्यति, ततः. नूनं मृत्युः भविष्यति । ७. तेषां तत् वनं गाहमानानां कश्चित् सिंहः घण्टायाः रवम् आकर्ण्य समायातः । यावत् अवलोकयति, तावत् उष्टीदासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीडां कुर्वन् , वल्लरीः चरन् यावत् तिष्ठति तावत् अन्ये दासेरका; पानीयं पीत्वा स्वगृहे गताः। सोऽपि वनात् निष्क्रम्य यावत् दिशः अवलोकयति, तावत् न कञ्चित् मार्गे पश्यति, वेत्तिच । यूथात् भ्रष्टः मन्द मन्दं वृहत् शब्दं कुर्वन् यावत् कियत् दूरं गच्छति, तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतः अग्रे सव-
4
(२४)
घण्टोष्ट, स्य
स्थितः । ततः, यावत् उष्ट्रः समीपम् आगतः, तावत् सिंहेन
लम्फयित्वा ग्रीवायां गृहीतः।
सतां वचनमादिष्टम् मदेन न करोति यः।
स विनाशमवानोति; घण्टोष्ट्र इव सत्वरम् ॥
महाचतुरकस्य शृगालस्य
कथा (११)
१. कस्मिंश्चित् वने महाचतुरको नाम शृगालः आसीत् ।
तेन कदाचित् अरण्ये स्वयंमृतः गजः समासादितः । स तस्य
समन्तातु परिभ्रमति परं, कठिनां त्वचं भेत्तुं न शक्नोति ।
२. अथ, अत्र अवसरे इतश्च इतश्च विचरन् कश्चित् सिंहः
तत्रैव प्रदेशे समाययौ । अथ तं सिंहं समागतं दृष्ट्वा स करयुगलं
संयोज्य सविनयम् उवाच, "स्वामिन् ! अहं त्वदीयः लागुडिकः
अत्र स्थितः त्वदर्थे गजम् इमं रक्षयामि । तत् एनं भक्षयतु
स्वामी।"
३. तं प्रणतं दृष्ट्वा सिंहः माह, “भोः ! न अहम् अन्येन
हतं सत्त्वं कदाचित् अपि भक्षयामि । उक्तञ्च,
'वनेऽपि सिंहा मृगमांसभुक्ताः,
बुभुतिताः नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभूताः
न नीतिमार्ग परिलङ्घयन्ति ।
तत् तव एव अयं गजः मया प्रसादीकृतः । तत्
नीति कथा माला॥ (२५) श्रुत्वा शगालः सानन्दं पाह, “युक्तम् इदं स्वामिनः नि- जभृत्येषु । ४. अथ सिंहे गते कश्चित् व्याघ्रः समाययो । तम् अपि दृष्ट वा असौ व्यचिन्तयत् , "अहो ! एकस्तावत् दुरात्मा मणिपा- तेन अपवाहितः । तत् कथं इदानीम् एनम् अपवाहयिष्यामि । नूनम् , शूरोऽयं, न खलु भेदं विना साध्यः भविष्यति ।" ५. एवं सम्पधार्य तस्य अभिमुखो भूत्वा गर्वात् उन्नत- कन्धरः ससम्भ्रमम् उवाच, "माम, कथम् अत्र भवान् मृत्योः मुखे प्रविष्टः । येन एष गजः सिंहन व्यापादितः, स च माम् एतस्य रक्षणे नियुज्य नद्यां स्नानार्थ गतः । तेन च गच्छता मम समादिष्टम् , “यदि कश्चित् इह व्याघ्रः समायाति तत् त्वया मुगुप्तं मम आवेदनीयम् , येन वनम् इदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्व व्याघेण एकेन, मया व्यापादितः गजः, भक्षयित्वा उच्छिष्टतां नीतः। तस्मात् दिनात् श्रारभ्य व्याघ्रान् प्रति प्रकुपितोऽस्मि"। ६. तत् श्रुत्वा व्याघ्रः संत्रस्त आह, “भो भागिनेय ! देहि मे प्राणदक्षिणाम् , त्वया तस्य चिराय आयातस्य अपि मदीया काऽपिवार्ता न आख्येया" । एवम् अभिधीय सत्वरं पलाया- चक्रे । ७. अथ, गते व्याघ्र कश्चित् द्वीपी समायातः । तम् अपि दृष्ट्वा असौ व्यचिन्तयत् "अयं चित्रकः दृढदंष्ट्रः। तत्, अस्य पार्वात् गजस्य यथा चर्मणः छेदो भवति, तथा करोमि ।" एवं निश्चित्य तम् अपि उवाच, "भो भगिनीसुत ! किमिति .
(२६) महाचतुरकस्य श्रृगालस्य चिरात् दृष्टोऽसि ? कथञ्च बुभुक्षित इव लक्ष्यसे ? तत् अतिथि: असि मे ! एष गजः सिंहेन हतः तिष्ठति । अहं च अत्य, तेन अादिष्टः रक्षपालः । परं तथापि यावत् सिंहः न समायाति, तावत् अस्य गजस्य मांसं भत्तयित्वा, तृप्तिं कृत्वा द्रुतं बन । ८. स आह "माम ! यदि एवं, तत् न कार्य मे मांसाशनेन । यतः 'जीवन् नरः भद्रशतानि पश्यति। तत् अहम् इतः अपयास्या- मि" । शृगाल आह “भो अधीर ! विश्रब्धः भूत्वा भक्षय त्वम्। तस्य आगमनं दूरतोगपि तव अहं निवेदयिष्यामि"। तथा अनु- ष्ठिते, द्वीपिना भिन्नां त्वचं विज्ञाय जम्बूकेन अभिहितम् , "भगिनीसुत ! गम्यताम् , एष सिंहः समायाति !” तत् श्रुत्वा चित्रक: दूरं प्रनष्टः। ६. अथ, यावत् असौ किञ्चित् मांसं भक्षयति, तावत् अतिसंक्रुद्धः अपरः शृगालः समाययौ । अथ तम् आत्मतुल्य- पराक्रमं दृष्ट्वा एनं श्लोकम् अपठत् । 'उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत्, नीचमल्पप्रदानेन, समशक्ति पराक्रमः ।। सतः स्वदंष्ट्राभिः तं विदार्य स्वयं चिरकालं हस्तिनो मांसं बुभुजे।
नीति कथा माला॥ (२७) वककर्कटकयोः कथा ( १२) १. अस्ति कस्मिंश्चित् वने विविधैः जलचरैः अधिष्ठितं महत् सरः। तत्र च एको वकः, वृद्धभावम् उपागतः, मत्स्यान् व्यापा- दयितुम् असमर्थः प्रतिवसति । स कदाचित, क्षुधया नामकण्ठः सरसः तीरे उपविष्टः, अश्रुभवाहैः धरातलम् अभिषिञ्चन् रुरोद । २. एकः कुलीरकः, नानाजलचरैः सह समेत्य, तस्य दुःखेन दुःखितः सादरम् इदम् ऊचे, "माम ! किम् अव त्वया न भोजनं क्रियते ? केवलम् अश्रुपूर्णाभ्यां नेत्राभ्यां सनिःश्वासेन स्थीयते ।" स ाह, "rs ! सत्यम् उपलक्षितं भवता । मया हि मत्स्यानाम् अदनं प्रति वैराग्यतया प्रायोपवेशनं कृतम्, तेन अहं समीपम् आगतान् अपि मत्स्यान् न भत्तयामि !" ३ तत् श्रुत्वा कुलींरकः प्राह, "किंतत्य वैराग्यस्य कार- णम् ॥ स पाह, "वत्स ! अहम् अस्मिन् सरसि जातः, वृद्धि गतश्च । तत् मया एतत् श्रुतं, 'यत् द्वादशवार्षिकी अनावृष्टिः लमा सम्पद्यते । तत, एतत् सरः स्वल्पतोयं वर्तते । शीघ्र शोपं यास्यति । अस्मिन् शुष्के, यैः सह अहं वृद्धिं गतः सदैव क्रीडि- तश्च, ते सर्वे तोयस्य अभावात् नाशं यास्पन्ति । तत् तेषां वियोगम् अहं द्रष्टुम् असमर्थः । तेन एतत् प्रायोपवेशनं कृतम् । साम्प्रतं. सर्वेषां स्वल्पानां जलाशयानां जलचराः गुरुषु जलाश येषु स्वैः स्वैः जनः नीयन्ते । अत्र पुनः सरसि ये जलचराः, निश्चिन्ताः सन्ति तेन अहं विशेषात् रोदिमि, यत् बीजशेषमात्रम् अपि अत्र न उद्धरिष्यति ।" ! ते , (२८) चककर्कटकयोः ४. ततः स तत् आकये, अन्येषाम् अपि जलचराणां तत् तस्य वचनं निवेदयामास । अथ, ते सर्वे भयेन संत्रस्ताः मत्स्यकच्छपमभृतयः तम् अभ्युपेत्य पप्रच्छुः, “माम ! अस्ति कश्चित् उपायः, येन अस्माकं रक्षा भवति ?" वक आह, “अस्ति अस्य जलाशयस्य समीपं, प्रभूतजलं, पमि- नीभिः मण्डितं सरः, यत् चतुर्विंशत्या अपि वर्षाणाम् अदृष्ट्या न शोपम् एष्यति । तत् , यदि कवित् मम पृष्ठम् आरोहति, तत् अहं तत्र नयामि " ५. अथ, ते तत्र विश्वासम् आपन्नाः “तात, मातुल, भ्रातः" इति ब्रुवाणाः “अहं पूर्वम् , अहं पूर्वम्” इति समन्तात् परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठे आरोप्य जलाशयस्य नातिदूरे शिला समासाद्य, तस्याम् आक्षिप्य, स्वेच्छं भक्षयित्वा, भूयोऽपि जलाशयं समासाद्य, जलचराणां मिथ्यावार्ताभिः मवांसि रज- यन् नित्यम् एव आहारत्तिं करोति । ६. अन्यस्मिन् दिने च कुलोरकेण उक्तम् "मया सह ते प्रथमः स्नेहसम्भाषः सजातः । तत, किंमा परित्यज्य अन्यान् नयसि ? तस्मात् अय मे प्राणानां त्राणं कुरु ।” तत् आकर्य सोऽपि दुष्टाशयः चिन्तितवान् “निर्विएणोऽहं मत्स्यानां मांसस्य अद- नेन । तत् अय एनं कुलीरकं व्यञ्जनस्य स्थाने करोमि ।'' इति विचिन्त्य तं पृष्ठे समारोप्य, तां वध्यशिलाम् उदिश्य प्रस्थितः । ७. कुलीरकोऽपि दुरात् एव अस्थिपर्वतं शिलायाः समीपम् अवलोक्य, मत्स्यानाम् अस्थीनि परिज्ञाय तम् अपृच्छत्, "माम !
नीति कथा माला॥ ( २६ ) कियद्दूरे स जलाशयः । मम भारेण अतिश्रान्तः त्वम् । तत् कथय । " सोऽपि मन्दधीः "जलचरोऽयम्” इति मत्वा "स्थले न प्रभवति" इति सस्मितम् इदम् आह, “कुलीरक ! कुन अन्यो जलाशयः ? मम प्राणयात्रा इयम्,तस्मात् स्मयंताम् आत्मनः अभीष्टा देवता ,वाम् अपि अस्यां शिलायां निक्षिप्य भक्षयिष्या- मि" इति उक्तवति तस्मिन् कुलीरकेण स्ववदनदंशाभ्यां मृदुग्री- वायां गृहीतः, मृतश्च । ८. अथ स तां वकस्य ग्रीवां समादाय शनैः शनैः तं जला- शयम आससाद । ततः, सर्वैः एव जलचरैः पृष्टः, "भोः कुली- रक ! किं वं निवृत्तः १ स मातुलोऽपि न आयातः । तत् किं चिरयति । वयं सोत्सुकाः तिष्ठामः" एवं तैःअभिहिते कुलीरको- ऽपि विहस्य उवाच, "मूर्खाः सर्वे जलचराः, तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भतिताः। तत् मया आयुषःशे- पतया तस्य विश्वासघातकस्य अभिप्रायं ज्ञात्वा इयं ग्रीवा आनीता। तत्, अलं सम्भ्रमेण । अधुना सर्वेषां जलचराणां में भविष्यति ।" भक्षयित्वा बहून् मत्स्योन्, उत्तमाधममध्यमान् । अतिलौल्याद वकः कश्चिन् मृतः कर्कटकग्रहात् ।। मरकुणस्य यूकायाश्च कथा [१३] १. अस्ति, कस्यचित् महीपतेः, कस्मिंश्चित् स्थाने मनोरम शयनस्य स्थानम् । तत्र शुक्लयोः पटयोः मध्ये संस्थिता, मंदविस- पिणी नाम श्वेता यूका प्रतिवसति । सा च, तस्य महीपतेः
(३०)
मत्कुरणस्य यूकायाश्च ॥
रक्तम् आस्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्येधुश्च,
तत्र शयनस्थाने कुतश्चित् भ्राम्यन्, अग्निमुखो नाम मत्कुणः
समायातः।
२.अथ, तं दृष्ट्वा सा विषएणवदना प्रोवाच, "भोः अग्निमुख!
अत्र अनुचिते स्थाने त्वं कुतः समायातः? तत्, यावत् न कश्चित्
वेत्ति, तावत् शीघ्र गम्यताम् ।" स आह, "भगवति ! गृहम्
आगतस्य असाधोरपि न एतत् युज्यते वक्तुम् । उक्तञ्च,
'एह्यागच्छ, समास्यसासनामिदम् , कस्माच्चिराद् दृश्यसे ?
का वार्ता ? न्वति दुर्बलोऽसि, कुशलम् ? प्रीतोऽस्मि ते दर्शनात् ।
एवं नीच जनेऽपि युज्यलि गृहं प्राप्ते सता नर्वदा,
धर्मोयं गृहमेधिननिगदितः, स्मात घुः सर्वदा ॥
३. "अपरं, मया अनेकेषां मानुषाणां विविधानि रुधिराणि
आस्वादितानि, कतिक्तकषायाम्लरसास्वादनानि । तत् यदि
त्वं प्रसादं करोषि तर्हि, अस्य नृपतेः शरीरे विविधानां व्यञ्जना-
नाम् अन्नपानचोष्यलेह्यानाच आहारवशात् यत् मिष्टं रक्तं
सञ्जातं, तस्य प्रास्वादनेन जिह्वायाः सौख्यं सम्पादयामि । तत्
मया तव गृहम् आगतेन, बुभुक्षया पीड्यमानेन तव सकाशात
भोजनम् अर्थनीयम् । तत् न खया एकाकिन्या अत्य नृपतेः
भोजनं कर्तुं युज्यते।"
४. तत् श्रुखा मन्दविसर्पिणी पाह, “भो मत्कुण ! अहं
निद्रावशं
अस्य नृपते रक्तम् आस्वादयामि ।
तत् त्वं पुनः, अग्निमुखः चपलश्च । तत् यदि मया सह
गतस्य
SAMBRanada नीति कथा माला॥ (३१) रक्तस्य पानं करोषि तत् तिष्ठ, अभीपतरं अभीतर रक्तम् आस्वादय । सोऽब्रवीत् , "भगवति ! एवमेव करिष्यामि । यावत् त्वं प्रथमं नृपस्य रक्त न आस्वादयसि, तावत् मम देवगरुकत: शपथः स्यात् , यदि सत् आखादयामिण ५. एवं, तयोः परस्परं वदतोः, स राजा तत् शयनम् श्रा- साद्य प्रसुप्तः । अथ, असौमत्कुणो जिह्वालोल्यात् जाग्रतम् अपितं महीपतिम् अदशत् । अथवा साधु इदम् उच्यते "स्वभावो नोपदेशेन शक्यते कतु मृत्यथा मुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ।।" ६. अथ, असौ नृपतिः सूच्यग्रेण विद्ध इव, तत् शयन त्यक्ला तत्क्षणादेव उत्थितः । “अहो ! ज्ञायताम् । अत्र प्रच्छादन- पटे मत्कुणो, यूका वा नूनं तिष्ठति, येन अहं दष्टः " अथ ये क- चुकिनः तत्र स्थिताः ते सत्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मया दृष्ट्या वीक्षांचक्रुः । अत्रांतरे, स मत्कुणः चापल्यात् खट्वान्तं प्रविष्टः, सा मंदविसर्पिणी तु वस्त्रसंधेः अंतर्गता तैः दृष्टा, व्यापा- दिता च । नाविज्ञातशीलस्य प्रदातव्यः प्रतिथयः; मत्कुणस्य हि दोपेण हता मन्दविसर्पिणी। - (३२) काकादीनां क्रथन कस्य च काकादीन क्रथनकस्य च कथा (१४) ! १. कस्मिंश्चित् वनोद्द शेमदोत्कटो नाम सिंहःप्रतिवसतिस्म। तस्य च अनुचरो अन्ये द्वीपि-बायसगोमायवः सन्ति । अथ, कदा- चित् तैः इतस्ततः भ्रमद्भिः सार्थात् भ्रष्टः क्रथनको नाम उष्ट्र:- दृष्टः । अथ, सिंह आह, “अहो ! अपूर्वम् इदं सत्त्वम्, तत् ज्ञायतां किम् एतत् आरण्यकं ग्राम्यं वा ।" तत् श्रुत्वा वायस आह "भोः स्वामिन् ! ग्राम्यः अयम् उष्ट्रनामा जीवविशेषः, तव भो. ज्यः। तत् व्यापाद्यताम् ।" सिंह आह, “नाहं गृहम् आगतं हन्मि ।- तत्, अभयदानं दत्वा मम सकाशम् आनीयताम् , येन, अस्य आगमनस्य कारणं पृच्छामि।" २. अथ, असौ सर्वैरपि विश्वास्य, अभयप्रदानं दत्वा मदो- स्कटस्य सकाशम् आनीतः; प्रणम्य उपविष्टश्च । ततः, तस्य पृच्छतः, तेन सार्थभ्रंशसमुद्भव प्रात्मनो वृत्तान्तो निवेदितः। सिंहेन उक्तम् “भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारस्य उद्वहनेन कष्ट प्राप्नुहि । तत्, अत्र एव अरण्ये निर्विशङ्कः मरकतसदृशानि शष्पाग्राणि भक्षयन् , मया सह सदैव वस " सोऽपि तथा इति उकला, तेषां मध्य विचरन्न कुतोऽपि भयम् इति सुखेन आस्ते। ३. अन्येद्यु:, मदोत्कटस्य अरण्यचारिणा महागजेन सह युद्धम् अभवत् । ततः तस्य दन्तमुशलयोःप्रहारेण व्यथा सजाता। व्यथितः कथमपि प्राणैः न वियुक्तः । अथ, शरीरस्य असमर्थ- ततः, नीति कथा माला॥ (३३). त्वात् न कुत्रचित् पदात् पदम् अपि चलितु शक्नोति । ते अपि सर्वे काकादयः अप्रभुत्वेन क्षुधाऽऽविष्टाः परं दुःखं भेजुः । अथ, तान् सिंह, आह, “भोः ! अविष्यतां कुत्रचित् किञ्चित् सत्त्वम् । येन अहम् एताम् अपि दशां प्राप्तः, तत् हत्वा युष्माकं भोजनं सम्पादयामि । ४. अथ, ते चत्वारोऽपि भ्रमितुम् आरब्धाः । यावत् न कि- ञ्चित् सत्त्वं पश्यन्ति, तावत् वायसशृगालौ परस्परं मन्त्रयतः। श्रृगाल आह, भो वायस ! किम् प्रभूतेन भ्रान्तेन ? अयम्अस्मा. कं प्रभोः विश्वस्तः क्रथनकः तिष्ठति । तत्, एनं हत्वा प्राणयात्रा कुर्मः।" वायस आह "युक्तम् उक्तं भवता; परं, स्वामिना एतस्य अभयप्रदानं दत्तम् आस्ते । न वध्यः अयम् ।' शृगाल आह, "भो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिये, यथा स्वामी वधं करिष्यति । तत्, तिष्ठन्तु भवन्तः अत्रैव, यावत् अहं गृह गत्वा, प्रभोः आज्ञां गृहीत्वा च आगच्छामि ।" एवम् अभिधाय सत्वरं सिंहम उदिश्य प्रस्थितः । ५. अथ, सिंहम् आसाद्य इदम् आह, “स्वामिन् ! समस्तं वनं भ्रान्त्वा वयम् आगताः, न किञ्चित् सत्वम् प्रासादितम् । तत्, किं कुर्मः वयम् । सम्पति, वयं बुभुक्षया पदम् एकम् अपि प्रचलितुं न शकुमः । देवोऽपि पथ्याशी वर्तते। यदि देवस्य आदेशः भवति, तत् क्रथनकस्य पिशितेन अद्य पथ्यक्रिया क्रियते ।" ६. अथ सिंहः, तत् दारुणं वचनम् आकर्ण्य सकोपम् इदम् आह, “थिक् पापाधम ! यदि एवं भूयः वदसि, तत्, खां तत्- (३४) काकादीनां क्रथनकस्य च ।। क्षणात् एव वधिष्यामि । मया तस्य अभयं प्रदत्तम् , तत् कथं व्यापादयामि ॥ ७. तत् श्रुखा श्रृगालः प्राह, "स्वामिन् ! यदि अभ- यादानंदत्त्वा वधः क्रियते, तदा एष दोषो भवति, यदि तु स जीवि- तव्यं प्रयच्छति, तत् न दोषः। ततः, यदि पुनः देवपादानां भत्त्वया स आत्मानं वधाय नियोजयति, तत् वध्यः; अन्यथा अस्माकं मध्यात् एकतमः बध्यः, यतः देवपादाः पथ्याशिनः, क्षुधाया निरोधात् अन्त्यां दशां यास्यन्ति । अपरं, पश्चात् अपि अ- स्माभिः बह्नौ प्रवेशः कार्यः, यदि स्वामिपादानां किंचित् अनिष्टं भविष्यति । उक्तञ्च, 'यस्मिन् कुले यः पुरुषः प्रधानः, स सर्वयन: परिरक्षणीयः।" तत्श्रुत्वा मदोत्कटः माह, “यदि एवं, तत् कुरुष्व यत् रोचते ॥ ८. तत् श्रुत्वा स सत्वरं गला तान् आह, “भोः ! स्वा- मिनः महती अवस्था वर्तते तत् किं पर्यटितेन ! तेन विना कः अत्र अस्मान् रक्षयिष्यति ? तत् गवा तस्य क्षुद्रोगात् परलोकं प्रस्थितस्य आत्मशरीराणां दानं कुर्मः, येन स्वामिनः प्रसादस्य अनृणतां गच्छामः।" तदनन्तर ते सर्वे बाष्पपूरितदृशः मदोत्कटं प्रणम्य उपविष्टाः । तान् दृष्ट्वा मदोत्कट आह, “भोः ! प्राप्त, दृष्टं वा किञ्चित् सत्त्वम् ?"
नीति कथा माला॥ (३५) १. अथ, तेषां मध्यात् काकः प्रोवाच, "स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः । परं, न किञ्चित् सखम् प्रासादितं दृष्टं वा । तत्, अद्य मां भतयिखा प्राणान् धारयतु स्वामी, येन देवस्य आश्वासनं भवति, मम पुनः स्वर्गप्राप्तिः, 'स्वाम्यर्थ यस्त्यजेत् प्राणान् भृत्यो भक्तिसमन्वितः । परं स पद मामोति, जरामरणवर्जितम् ।” १०. तत् श्रुत्वा शृगाल आह, “भोः ! स्वल्पकायः भवान् । तव भक्षणात् स्वामिनः तावत् प्राणयात्रा न भवति, अपरः दोषश्च समुत्पद्यते । उक्तं हि, 'काकमांस, शुनोच्छिष्ट, स्वल्पं, तदपि दुर्लभम्, भतितेनापि किं तेन ? तृप्तिर्येन न जायते ।। तत्, दर्शिता स्वामिभक्तिः भवना, गतश्च आनृण्यं भर्तृपि- एडस्य, प्राप्तश्च, उभयलोके साधुवादः । तत्, अपसर अग्रतः । अहं स्वामिन विज्ञापयामि ।" तथा अनुष्ठिते श्रृगालः प्रणम्य उपविष्टः, "स्वामिन् ! मां भक्ष यिखा अद्य प्राणयात्रां विधाय, मम उभयलोकप्राप्तिं कुरु ।' ११. अथ, तत् श्रुत्वा द्वीपी आह, “भोः साधु उक्त भवता पुनः भवान् अपि स्वल्पकायः, स्वजातिश्च । नखायुधवात, अभक्ष्य एव । तत्, दर्शितं त्वया आत्मनः कौलीन्यम् । तत्, अपसर अग्रतः, येन अहं स्वामिनं विज्ञापयामि।" तथा अनुष्ठिते द्वीपी प्रणम्य मदोत्कट-माह स्वामिन् ! क्रियताम् अद्य मम (३६) काकादीनां क्रथनकस्यच॥ पाणैः प्राणयात्रा । दीयताम् अक्षयः वासः स्वर्गे । मम विस्तार्यतां तितितले प्रभूततरं यशः। तत्, अत्र विकल्पः न कार्यः । . १२. तत् श्रुखा क्रथनकः चिन्तयामास, “एतैः तावत् समस्तैः अपि शोभनानि वाक्यानि प्रोक्तानि, न च एकोऽपि स्वामिना विनाशितः । तावत् अहम् अपि प्राप्तकालः विज्ञाप- यामि येन मम वचनम् एते त्रयोऽपि समर्थयन्ति ।" इति निश्चित्य प्रोवाच "भोः ! सत्यम् उक्त भवता । परं, भवान् अपि नखा- युधः, तत् कथं स्वामी भवन्तं भक्षयति । तत्, अपसर अग्रतः, येन अहं स्वामिनं विज्ञापयामि" । तथा अनुष्ठिते क्रथनकः अग्रे स्थित्वा प्रणम्य उवाच, "स्वामिन् ! एते तावत् अभक्ष्या भव- ताम् । तत् मम पाणैः प्राणयात्रा विधीयताम् , येन मम उभयलो- कपाप्तिः भवति । १३. एवम् अभिहिते, शृगालचित्रकाभ्यां विदारितोषय- कुतिः क्रथनकः, भाणान् अत्यातीत् । बहवः पण्डिताः चुदाः सर्वे मायोपंजीविनः कुर्युः कृत्यमकृत्यं वा; उष्ट्रकाकादयो यथा । ॥ इति॥ .
कटिनपदानां वाक्यानाजु विवरणम् । निर्धनः वृद्धावस्थायाम् आत्मनः कृत्यम् स्मरिष्यसि पृष्ठम् अङ्कः १ १ दारिद्रयोपेतः २ वार्द्धकभावे २ आत्मविचेष्टितम् २ स्मरसि ३ प्रासादितम् ४ वनगहने ४ तन्मात्रम् ६ सीदामः ७ भूयोपि ७ राजकुले धर्माधिकरणम् २ माप्तम् वनस्य गहरे यावदिष्यते, तावदेव क्लेशं प्राप्नुमः mr ८ मो (खनित्रा) पुनरपि न्यायालये न्यायालयः चौर्यरूपं दोषं परस्परमारोप- यन्तौ स्वकीयमभियोगं निवे- दितवन्तौ । न्यायालयाध्यतः शपथाय विचारितः : " ८ धर्मा.... ८ दिव्यार्थे " ८ (२) " परिण..."ति अस्माकं भविष्यति 8 ‘प्रोच्य साक्ष्यं दत्वा ९ सत्यश्रावणम् "किमेतत्सत्यम् १" इत्येवं श्राव- यिखा यदा पृच्छामि । १० निग्रह दण्डम् २ शिशुवैराग्यात् शिशुहेतोरुदभूताद वैराग्यात् २ कुलीरकः "केकड़ा,, इत्यार्यभाषायां प्र. " ४ सिद्धो जलचरः सत्येन युक्तमनृतम् वारं वारम् ५ ३ सत्यानृतम् ४ प्रतिप क्षिप, विस्तारय १ अन्तःपुरे यत्र राज्ञा स्त्रीजनो निवसति तत्र १ विश्वासस्थानम् विश्वासपात्रम् १ मुहुर्मुहुः ६ २ शितधारेण तीक्ष्णेन ३ पूर्व पूर्व......पूर्वजन्मनः संस्काराणां वशाद ४ चेटितम् हृतम् ५ ध्वांता ५ किराता वनमिवासिनो लुएटकाः ६ मोचयित्वा उत्तार्य " ७ मुञ्चामि मोचयामि काका: -- २ समयधर्मः ७ खुद ७ (३) १ वीर्यातिरेकात् बलस्योन्मादातू २ सारङ्ग" सारङ्गो हरिणः नियमव्यवस्था ३ पारपयात्रा पापरता ४ श्वापदः पशु: ५. निवृतिमाजः निश्चिन्ताः ६ भव्यः उत्तमः तुधया शुष्यत्कण्ठः सू लिहत् ओष्ठपान्तौ दन्तैश्चर्यन निपात्य निहत्य १० ६ प्रस्तावम् आगमनावसरम् " ११ विष्कम्भिताः अवरुद्धाः ११ १ मत्स्यजीविभिः मत्स्यादीनेव विक्रीय स्वकी- यामाजीविका कुर्वन्ति, तैः, १२ २ कुलि" "मम् विद्युत्पातोपमम् १३ ५ परिजनेन परिवारेण १ सारमेयाः कुक्कुराः ३ अपूर्वम् विलक्षणम् " ३ सिंह द्वीपी, चित्रका(चीता) वृकः कुक्कुराकारो हिंसकः पशुः (भेड़िया) .......
... ४ (४) १४ ३ समन्तात् सर्वासु दिनु ४ प्रभुखे स्वामिपदे ५ छत्रच्छायायाम् ममाधीनम् ५ अर्धचन्द्रम् गलहस्तम् १५ ६ पुलकिततनुः प्रफुल्लशरीरः ७ वाहिताः छलिताः ग्रहः यो नियमेनाग्निहोतं विदधाति, सः १ पशुम् गाम् ( हवनाथ दुग्धाद् घृत- निष्पादनाय) १६ २ हिम........"यते शैत्यं नाश्यते वल्लभः प्रियः ५ स्तोकम् किञ्चित् १७ ५ सचेलम् सवस्त्रम् १ निस्तब्धः निश्चेष्टः १८ ३ समय: प्रतिज्ञा क्रिया न प्रवर्तन्तेवाणीचा- पि न प्रवर्तते १६ २ पथ्यंकुरु भोजनेन हितं सम्पादय ४ ज्येष्ठ 'जात् ज्येष्ठभ्रातुःपलायनात् ५ परुषतराणि कठोराणि २१ ख"""भव श्रृगालेष्वेव गत्वा निवस १ दारिद्रयोपहतः . निर्धनतारूपेणदुःखेन दुःखितः १ अधिष्ठाने स्थाने ४ प्रवर्तते २० ४ " (५) २२ २ दासेरकेण उष्ट्रीशिशुना भव्यम् कल्याणम् ४ कलभानाम् दासेरकाणाम् २३ ६ अधिष्ठानोपवने समीपस्थे वने ७ गाहमानानाम् भ्रमताम् ७ निभृतः ७ लम्फयित्वा कूदित्वा २४ २ लागुडिकः लगुडधारी ३ मृग"""भुक्ताः मृगमांसभोजिनः २५ ४ अपवाहितः दूरीकृतः ६ भागिनेयः भगिनीसुतः ७ द्वीपी चित्रकः ७: रक्षपोल: लागुडिक (रक्ष्यवस्तु पालयतीति) २६ ८ विश्रब्धः विश्वस्तः प्रनष्टः प्रधावितः २७ कुलीरकः १ अभिषिञ्चन् आईयन् २ माम मातुल (सामान्यतः वयो- वृद्धसम्बोधनम् ) २ उपलक्षितम् अवबुद्धम् ३ प्रायोपवेशनम् उपवासः ३ उद्धरिष्यति बीजमात्रमपि नावशिष्टं स्थास्यति १ कर्कटकः
४
(६)
२८ तात
सामान्यतो वयोवृद्धसम्बोधनम्
५ नित्या....."ति नित्यं तयैवाहारवृत्या जीवति
६ स्नेहसम्भाषः स्नेहालापः
६ निर्विएणः खिन्नः
३० २ गृहमेधिनाम् गृहस्थानाम्
३ अन्न नाञ्च अन्नं गोधूमादि, पानंदुग्धादि,
चोष्यमानादि, लेह्य चटनी-
त्यादि प्रसिद्धम्
३१ ४ देवगुरुकृतः ईश्वरगुरुकृतः
६ कञ्चुकिनः राज्ञामन्तःपुरसेवकाः
३२
"द्भवः स्वयूथाद भ्रष्टतयोत्पन्नः
२ मरकतसदृशानि हरितानि
३ दन्तमुशलयोः मुशलसदृशयोर्दन्तयोः
३३ ५ पथ्याशी क्षुधाविष्टः?
५ पथ्यक्रिया क्षुन्निवृत्तिः
३४
७ अन्त्यां दशाम्
मृत्युम्
महती अवस्था अतिदुर्दशा
स्वामिनः प्रसादस्य अद्य यावत् स्वामिना कृताया:
कृपायाः
३६ १३ मायोपजीविनः कपटिनः
॥ इति ।।
२ सार्थ
"
.
No text on this page.