Scl
The Sanskrit Third Reader
Front matter
CONTENTS. PAGE, 1. 2 18 . 32 Wor 40 42 1. Simantbini Charitrum Yajna valkva. Charitram Ansumati Vivaha Rukmini Kulyanam Prudyina Churitrun fi. Syamuntakopakhyanam Varikisarvadha 8. Prijatapaharanan 9. Kuchclopakhyanan 10). Parikshit Chitritram 11. (tajendranoks1:1 12. Dhruva Ouritrun Amrutamathanam ..14. Paulvati and Parramesvara Cnpoulou 16. Subramany: 17. Hamunan 18. V Canto of Kumarasambhavam 48 52 57 59 03 67 68 + 09 72
man E0908000 ne
॥ श्रीः॥
मध्वविलासपुस्तकालयः ।
000
OE
050
पण्डिन टी. आर. कृष्णाचार्यः. टी. के. वेंकोवाचार्यः
म्यानेजर .
NODE E0000000000
प्रोप्रैटर .
':
1OPALA
VITASA PIRTH, HI AHIRAKIY...
No text on this page.
॥ श्रीः॥ ॥ श्रीगणेशाय नमः॥ संस्कृत तृतीयपाठः ॥३॥ सीमन्तिनी चरित्रम् । - . आसीदावर्ते चित्रवर्मा नाम महाराजः । शास्ता दुरात्मनां, रक्षिता सताम्, उद्धर्ता दीनानां, शरण्यः शरणमि- च्छताम् , आहर्ता यागानां, सेवको ब्राह्मणानां, मन्मथो निज- भार्याणां, भ्राता परस्त्रीणां स बभूव । बभूवुश्च त य भार्या बह्वयो राजपुत्र्यः । तासु स बहून् अनुरूपान्पुत्रान्प्रपेदे । दौहित्रा वदनावलोकने धृतकौतुकस्य तस्य नैकापि तनयाऽजनि। तदर्थ स राजा पार्वतीपरमेश्वरावाराधितवान् । तयोरनुग्रहेण राज्ञो महिषी गर्भमधारयत् । शुक्लपक्षचन्द्र इन प गर्भो वृधे । नवमे मासि शुभे दिने शुभे शुहः सा राज्ञी तनयां शासून । भवान्य. अनुग्रहेण जातस्य कन्यारत्नस्य रूपं को नाम वर्णयेत् । द्वादशे ऽहनि राजा तस्य शिशोः "सीमन्तिनी" इति नाम चकार । तदा पहवो ज्योतिर्विदो ब्राह्मणाः तस्या राजपुच्या जातकफलं राशेवदन् । सेवेको ज्योतिपिक: "इयं कन्या उभेव माङ्गल्याती, दमयन्ती सुरूषा, भारतीय कलाभिशा, लक्ष्मीरिव महागुणा भविष्यति । अथा अष्टौ पुत्राः, एका कन्या च भविष्यन्ति, इयं दशवर्षसहस्त्राणि भी सह २ संस्कृततृतीयपाठः ॥३॥ प्रमोदेव" इत्यवदत् । तत्च्छ्रुत्वा स राजा तं द्विजं संमान्य व्यसर्जयत् । अथ अन्यो ज्योतिर्वित् "एषा चतुर्दशे वर्षे वैधव्यं ध्रुवं प्राप्स्यति" इत्यवदत् । नृपतिस्तस्य वज्रनिर्घात- निष्ठुरं वचनमाकर्ण्य चिन्तया कर्तव्यमूढोऽभवत् । “पुनः सा सर्व देवकृतम, तत्र किं मया कार्यमस्ति ? ।" इति निश्चित्य तूष्णीमासीत् । सा कन्या दशमे वर्ष एव षोडशवर्षदेशीयेव युवतिरा- सीत् । पठने, लेखने, गीते, वाद्ये च नितरां सा कुशला बभूव । तदानीं सा स्वस्थाः चतुर्दशे वर्षे भाव्यं वैधव्यं सखीमुखायजानात् । बुद्धिमती सा सीमन्तिनी व्यर्थी चिन्ता- मकृत्वा आलोचयामास । “पापानां परिहारकाणि प्रायश्चित्तानि धर्मशास्त्रेषु विहितानि । वैधव्यं च पापफलमेव । तस्मादेतत् परिहारकं प्रायश्चित्तं किमपि स्यात् । वृद्धाभ्यस्तज्ज्ञात्वाऽनु तिष्ठामि” इति निश्चित्य अनेकाः पतिव्रता आनाय्य प्राय- श्चित्तं पप्रच्छ । ता ऊचुः “भद्रे! न वयं जानीमो वैधव्य- परिहारकं प्रायश्चित्तं, महाप्रभावा पतिव्रताशिरोमणिमैत्रेयी नातिदूरे तपोवने वर्तते; तां पृच्छ” इति । सा का? कस्य पत्नी? कौशस्तस्याः प्रभावा? इति सीमन्तिन्या पृष्टाः पतिव्रता ऊचुः। याज्ञवल्क्य चरित्रम् । 'अस्ति महर्वेदव्यासस्य शिष्यो यजुर्वेदाध्यायी वैशं.
सीमन्तिनी चरित्रम् । ३ पायनो नाम महर्षिः। तस्य खत्रीयो याज्ञवल्क्य इति । स- चानेकैः सहाध्यायिभिः सह वैशंपायनात् वेदमध्यैत । अत्रान्तरे महातपस्विनो ब्रह्मज्ञानिनः केचन ऋषयो मिलित्वा "अद्यारभ्य सप्तमे दिवसे सक्रषिभिरतमाश्रममागत्य ब्रह्मविचारः कर्तव्यः। यः कोऽपि तत्र केनापि कारणेन नागच्छेत् , तस्य ब्रह्महत्यासमं पापं 'भवेत्” इति परस्परं संघां चक्रुः। तसिन्दिने केनापि महता कारणेन वैशंपायनस्तत्र गन्तुं न पारयामास । तसात्तस्य ब्रह्महत्यादोषः समभूत् । तदा स ऋषिः तस्य परिहाराय स्वप्रतिनिधितया तीर्थान्यटितुं शिष्यानाज्ञापयामास । तच्छ्रुत्वा याज्ञवल्क्यो गुरुं प्राह " अह- मेक एव तीर्थाटनं कृत्वा भगवतो ब्रह्महत्यांहो व्यपोहहिष्यामि। किमेतैरल्पसारैः कृत्यम् ?" इति । तच्छ्रुत्वा गुरुरवादीव "याज्ञवल्क्य! यद्यपि त्वं समर्थ इति जाने । तथापि सर्वेभ्या शिष्येभ्यः सेवा ग्रहीतव्येति सर्वे मयाज्ञताः। यसान्त्वं ब्राह्मणानवामनुथास्तमादितः परं मन्निकटे स्थातुं त्वं नाई। मत् अधीतं वेदं मह्यं प्रत्यर्प्य गच्छ यथेष्टम्" इति । तदा याज्ञवल्क्यः स्वाधीतं वेदं छर्दयामास । स वेदः अङ्गारा भूत्वा भूमौ पपात। शिष्यमहिम्ना अतिजाज्वल्यमानां तां वेदविद्यां दृष्ट्वा तस्यां लोभेन वैशंपायनः तां ग्रहीतुं शिष्यान् समचोदयत् । ते च तित्तिरिपक्षिणो भूत्वा तानङ्गा- ४ संस्कृततृतीयपाठः ॥३॥ रानखादन् । तदारभ्य तस्या यजुश्शाखायाः तैत्तिरीयशाखेति नाम समजनि । याज्ञवल्क्यश्च विद्यया रिक्तम् आत्मानं विलोक्य दु:खितस्सन् जन्मनः सफलीकरणाय यजुर्वेदं पुनरध्येतुं सूर्याभिमुखो भूत्वा तमुद्दिश्य तपश्चकार । तपसा प्रसनो दिवाकरः मध्याह्नसमये वाजिरूपं धृत्वा समग्रं यजुर्वेद, सर्वा विद्याश्च तस्मै उपादिशत् । तत्प्रोक्तायाः शाखायाः मध्याह्ने उपदिष्टत्वात् माध्यंदिनशाखेति, वाजिरूपेण सूर्येणोपदिष्टत्वात् वाजसनेयशाखेति च प्रसिद्धिरभूत् । तदन्तर्गता उपनिषत् बृहदारण्यकम् । भगवतः सूर्यस्यानुग्रहात् याज्ञवल्क्यः शतपथ. ब्राह्मणं चकार । अत्रान्तरे मिथिलायां जनको नाम महायोगी राजा आसीत् । स वेदान्तविद्याग्रहणाय गुरुं परीक्षितुं ब्राह्मणान! समाजं चकार । तत्र आश्वल: आतंभागः भुज्युः चाक्रायणः कहोडः उद्दालका विदग्धशाकल्यः अन्ये च ऋषयः वाचकत्री- प्रभृतयोऽनेकाः परमहंसिन्यः स्त्रियश्च समागताः । मैथिलस्तस्याः सभाया मध्ये कांचन सर्वगुणापेतां दोणवां वर्णशृङ्गां रौप्यखुरा सवत्सां गामानीय बबन्ध । तस्याः शृङ्गयोः सुवर्णनिष्कपूर्णे भस्त्रिके अवलम्बिते आस्ताम् विदेहो राजा गो: समीपं गत्वा "भगवन्तो . ब्राह्मगा!
सीमन्तिनी चरित्रम् । ५ अवधत्त । युष्मासु यो ब्रह्मवित्तमः स इमां गां गृहं प्रति कालयतु" इत्युवाच । तच्छ्रुत्वा तेषु न कोपि आत्मानं ब्रह्मवित्तमं मन्तुमधृ. ष्णोत् । तदा याज्ञवल्क्यः स्खशिष्यमाहूय "सोम्य! इमा गामसहं नीत्वा गोष्टे बधान" इत्युवाच । तदा क्रुद्धाः सर्वे ब्राह्मणाः तं शिष्यं निरुध्य " यद्ययमसत्प्रश्नानामुत्तरं दास्यति तर्हि ब्रह्मवित्तमः । गुरोः ब्रह्मवित्तमत्वनिर्धारणानन्तरं गां नय” इति तमब्रुवन् । ततः सर्वे ब्रामणाः वाचनवी च एकैकशः, मिलित्वा च पप्रच्छुः । तेषां प्रश्नानां स याज्ञवल्क्या सदुत्तराण्यदात् । तेन विसितास्ते सर्वे "वयं जिताः सः। त्वमेव ब्रह्मवित्तमः" इति याज्ञवल्क्यमवदन् । तेषु शाकल्यो नाम कश्चन ऋषि याज्ञवल्क्यं पराभावयितुमिच्छन् अमार्गेण पूर्वपक्षं चकार । क्रुद्धो याज्ञवल्क्यः त्वं दग्धो भवेति तं शशाप । तेन शापेन तदैव भस्मीभूतं शाकल्यं स ऋषिः कृपया उदजीवयत् । तदारभ्य तस्य विदग्धशाकल्य इति प्रसिद्धिरभूव । जनकराजश्चान्यान्सर्वान्बामणान् यथायोग्यं संमान्य तेभ्यः प्रभूतं धनं दत्वा विससर्ज । ततो जनको याज्ञवल्क्यात वेदान्तमधीतवान् । स राजा अध्ययनान्ते बहुद्रव्यदानेन गुरुपूजां चकार । इत्थं महानुभावः स ऋषिः अनेकासु राजसभासु विजयं प्राप्य द्रव्यनिचयं समचिनोत् ।
w संस्कृततृतीयपाठः ॥३॥ अस्य च महामहिम्नः ऋष· भार्ये आस्ताम् । तयोर्येष्ठा भार्या मैत्रेयी। द्वितीया द्वितीया रूपेऽद्वितीया कात्यायनी । स ऋषिः स्वस्य मैत्रेय्याश्च स देहश्वरम इति, खेन प्रारब्धं सुखम्, मैत्रेय्या प्रारब्धं दुःखं च अनुभोक्तव्यमिति च ज्ञात्वा कात्यायन्याः परिणयादारभ्य मैत्रेयीमुक्षत । मैत्रेयी चैतद्विदुषी भर्तारं जामातृवत् सपत्नी पुत्रीपञ्च पर्यचरत् । एवं स्थिते पत्युर्गृहीतगर्मा कात्यायनी चन्द्रकान्तं नाम सुतं प्रास्त । मैत्रेयी दंपत्योः शुश्रूषया सह शिशो- र्धात्रीकर्म च चकार । कात्यायनी तु पत्या सह केवलं सुखा- न्येव अन्वभूत् । एवं गच्छति काले महामेघः, विजय इति पुनद्वी पुत्रो अनुसंवत्सरं जाती। कस्यचित्कालस्यान्तरं याज्ञवल्क्यस्य ते त्रयोऽपि पुत्रा महादेवं कोपयित्वा तस्य शापात् दण्डकारण्ये खरो दूषणः त्रिशिरा इति नाना राक्षसा बभूवुः । तान् श्रीरामो हत्वा सुगतिमनयत् । कालेन याज्ञवल्क्यः तत् सुखप्रारब्धं स्वस्य मोक्षमार्गे अन्तरायं ज्ञात्वा स्वयं संन्यस्तुं कात्यायनीमपृच्छत् । सा च इतःपरं पत्या स्वस्याः भवितव्यं किमपि प्रयोजनमपश्यन्ती मा आर्जिते द्रव्ये अर्धादपि किंचिदधिकं मागं गृहीत्वा तमन्वजानात् । ततस्तेन तथैवापृष्टा मैत्रेयी "युवयोः सेवया एतावन्तं कालं सुखेन अनयम् । भगवति प्रव्रजिते कथमहं जीवित धारयेयम् १" इति सविनयमवादी । "मम गृहक्षेत्रविचादिषु PRIMAKIMer सीमन्तिनी चरित्रम् । अधं तुभ्यं ददामि तैस्त्वं सुखेन कालं नयेः" इति स ताम- भाणीत् । “वित्तेन मोक्षस्य मार्गोऽस्ति किम् ?; इति मैत्रेय्या पृष्टो याज्ञवल्क्यः "नास्तिवित्वेन अमृतत्वस्य आशा, प्रत्युत तत्तस्य विरोध्यपि भवति" इत्यब्रवीत् । "तर्हि येनाहममृता स्यां तदेव मे ब्रूहि" इति सा तं पप्रच्छ । "एतादृश्या मोक्षेच्छौ त्वयि भार्यायां स्थितायां कुतोवाऽहं प्रव्रजेयम् ? ब्रह्म ते उपदिशामि” इत्युक्त्वा तस्यै ब्रह्मस्वरूपमुपदिश्य तया सह जीवन्मुक्तः पृथिवीं विचरति मुनिः। सोऽपि जीवन्मुक्ता मैत्रेयी अन्तिक एव तपोवने, वर्तते । तत्र गत्वा तां पृच्छ । सा तुभ्यं क्षेमं विधास्यति" इति पतिव्रताः सीमन्तिनीमब्रुवन् । सीमन्तिन्या मैत्रेयीदर्शनम् ॥ एवच्छ्रुतवती सीमन्तिनी मातुराज्ञया सखीभिः सह अल्पपरिवारेण तपोवनं गत्वा मैत्रेयी प्रणम्य स्वागमन कारणमकथयत् । “बाले! त्वं पार्वतीपरमेश्वरौ शरणं गच्छ। सोमवारव्रताख्येन उमामहेश्वरव्रतेन तावाराधय । तौ त्वां प्राप्तवैधव्यामपि; सधवां कुर्याताम् । आगामिसोमवासरादार- भ्यैव एतद्बतमनुतिष्ठ। अत्राश्रद्धा मा कुरु। प्राप्तेऽपि वैधव्ये शोकात् ब्रतानुष्ठानं मात्यज । श्रद्धत्स्व मद्वाक्यम् । तेन त्वं दीर्घकालं सुमङ्गला भूयाः। इत्युत्ता मैत्रेयी तां विससर्ज। सीमन्तिनी च स्वभवनमागत्य तद्रूतं महता विभवेनान्वतिष्ठत् ।
८ संस्कृततृतीयपाठः॥३॥ सीमन्तिन्या विवाहः॥ निषधेषु नलो नाम राजाऽऽसीत् । तस्य भार्या वैदर्भी दमयन्ती नाम । तयोः पुत्रः इन्द्रसेनः । तस्य सतीष्वप्यनेकासु गृहिणीषु नासीदेकोऽपि वंशकर: सुतः। स पुरोहितैः संमन्त्र्य पुत्रार्थ पुत्रकामेष्टिं चकार । तत्प्रभावेन तस्य ज्येष्ठा पत्नी गर्भिण्यभूव । नवमे मासि राज्ञी पुत्र प्राप्त | चन्द्रसंनिभस्य तस्य शिशोः चन्द्राङ्गद इति नाम चकारेन्द्रसेनः। स बाला एकादशे वर्षे पित्रोपनीतः चतुरो वेदान् धनुर्वेदं सर्वाश्च विद्या अधिजगे | अश्वारोहं गजारोह नौकायात्रां च अभ्यास्यत् । पौरास्तस्य गुणातिशयं दृष्ट्वा नल एवायमित्यमन्यन्त । यौवराज्येऽभिषिक्तः स सर्वानपि शत्रून् वशे चकार । चित्रवर्मा पुन्या योग्यं वरं तत्रतत्रान्वेषयन् नलस्य पौत्रं गुणशालिनं विज्ञाय पुरोहितम् इन्द्रसेनाय प्रेषयामास । आगतं ब्राह्मणमिन्द्रसेनो विधिवदर्घ्यपाद्यादिभिः पूजयित्वा आगमनकारणं पप्रच्छ। स द्विजः चित्रवर्मणा लिखित महालपत्रिका दवा कन्याप्रदानवृत्तान्तं स्वमुखेनाप्यकथयत् । तच्छुत्वा प्रहृष्ट इन्द्रसेनः सर्वसीमन्तिनीललाम सीमन्तिनी स्नुषां करिष्यामीति पत्रिका विलिख्य तद्धस्ते दत्वा भोजन- वनालङ्कारदक्षिणादिभिस्तं यथाह सम्भाव्य विससर्ज। पुरोहितो ९. समिन्तिनी चरित्रम् । निषधेभ्यो निवृत्य स्खपुरमागत्य चित्रवर्मणे इन्द्रसेनोक्तं वृत्तान्तं निवेद्य पत्रिकामप्यदात् । महाराजः स्वपुच्या विवाहाय शुभं मुहूर्त निश्चित्य इन्द्रसेनाय पुनर्दूतं प्रेषयामास । इन्द्रसेनोऽपि सपुत्रः सान्तःपुरो बन्धुजनसहितः चतु- रङ्गया सेनया च युक्तः चित्रवर्मणो नगरं प्रायात् । चित्रवर्मा आगतेभ्यः संबन्धिम्यो यथार्थमावसथानकल्पयत् । इन्द्रसेनश्च विवाहापूर्वेधुः पुत्रस्य गोदानमङ्गलं निरवर्तयत् । चित्रवर्मा पुण्याहं वाचयित्वा देवतास्समतोषयत् । ततो विवाहदिने, क्लसे शुभे मुहूर्ते चन्द्राङ्गदः सीमन्तिनी पर्यणयत् । तदा बामणा वेदानपठन् । गायका अगायन् । नर्तका अनृत्यन् । स्तुतिपाठका अस्तुवन् । वादका मङ्गलवाद्यान्य- वादयन् । कन्यायाः पिता ब्रामणेभ्यः स्वर्णनिष्कान् दक्षिणा- मदात् । गोदानं भूदानं वस्त्रदानं च चकार । गायकादीश यथार्ह वस्त्रादिभिः सममानयत् । राजा ब्राह्मणादिभ्यो वर्णेम्यः षड्सोपेतं फेणिकापोलिकादिभक्ष्यसहितं स्वावलं ददौ । सर्वानपि बन्धून् पूजयित्वा जामाले दुहित च पारिवह स्वविभवानुरूपमदात् । एवमष्टौ दिनानि विवाहमहोत्सवः समवर्तत। इन्द्रसेनः विंशति दिनानि तत्र स्थित्वा खदेशं प्रतिष्ठ- मानः वधूमपि नेतुं चित्रवर्माणमन्वयुक्त। एवं संबन्धिनाऽनु- युक्तश्चित्रवर्मा "जामातैव कश्विन मासानत्र तिष्ठतु । तदनन्तरं तव स्नुषां पुत्रं च प्रेषयामि" इत्यवादीत् ।
१० संस्कृततृतीयपाठः ॥ ३ ॥ ततः संबन्धिषु गतेषु चित्रवर्मा जामातरं नूतननूतनै। कौतुकैरुपाचरत् । सीमन्तिनी च भारं स्वशीलरूपलावण्यैः गीतवाद्यादिकलाभिः रहस्योपचारैश्च समतोषयत् । चन्द्रा- ङ्गदोऽपि अनलसः स्वाभ्यस्ता विद्याः, स्थाश्वगजचर्या नौका- यानं च परिशीलयन् धनुर्विद्यापरिचर्याथं कदाचिन्मृगयां चरंश्च शच्या सह मरुत्वानिव सीमन्तिन्या सह श्वशुरगृहे -सुखमुवास । अत्रान्तरे सीमन्तिन्याश्चतुर्दशं वर्ष प्रावर्तत । - समिन्तिन्या वैधव्यप्राप्तिः ॥ एवं सुखेन गच्छति काले कसिंथिदिवसे चन्द्राङ्गदा सवयोभिः सह यमुनां गत्वा लीलया परपारगनाय तरीमारोह । तरी यावदपरपारसमीपं गच्छति तावत्सा दैववशादुद्धतेन 'चक्रवातेन जले ममज । एतदृष्ट्वा उभयतीरयोः स्थिता जनाः हा! हा! इति चक्रुशुः। मनानां मध्ये केचन भाग्यवशात् उन्मज्य तीरं प्राप्ताः। एतं वृत्तान्तं चित्रवर्मा श्रुत्वा पूर्वमेव ज्योतिर्षियो ज्ञाततत्त्वोऽपि विषष्णोऽभूत् । सीमन्तिनी च मैत्रेयीवाक्ये आदारवत्यपि दुःखवार्ताश्रवणमात्रेण मूछिता भुवि पपात । तन्मातरा पौरजनाः पुरोहिता मन्त्रिणश्च शोकांतमा विलेपुर । राजा नदीतीरमागत्य जले ममान् धीवरैर्विचाययामास। बदा सीमन्तिनी चरित्रम् । ११ केषांचिद्देहा केवलमलभ्यन्त । चन्द्राङ्गदस्य देहोऽपि नाप्राप्यता अम्भसि मनस्य जामातुरौर्घदेहिक राजा विधिवत्कारयामास । सीमन्तिनी वैधव्यं प्राप्यापि मैनेय्या वचने विश्रम्भात् सोम- वारव्रतं पूर्वतोऽपि विशेषविभवेन ऋत्विग्भिः कारयामास । निषध वृत्तान्तः॥ पुत्रस्य मरणं श्रुत्वा इन्द्रसेनः दुःखावेगात् भ्रान्तो बभूव । पुत्रशोकेन विक्लवं कर्तव्यमूढं वृद्धं राजानं पराभूय पूर्ववैरिणः पुष्करस्य पौत्रः पद्मबिन्दुः समायं तं बन्धने स्थापयित्वा तद्राज्यमपजहार ॥ चन्द्राङ्गद वृत्तान्तः॥ जले ममं चन्द्राङ्गदं जलभ्रमिः पाताललोकस्य तीर्थाव- तारद्वारं यमुनाया अधस्तलमन यत् । नागलोकामानार्थमागताः पन्नगकन्यकाः मूर्छाक्रान्तं तं राजकुमारं दृष्ट्वा करुणया खलोकं नीत्वा सर्पराजस्य तक्षकस्य समीपमनयन् । तत्र देवेन्द्रभवनोपमे हर्ये नवरत्नकरम्वितैः जाम्बूनदमयैः स्तम्भ १२ संस्कृतवतीयपाठः ॥ ३॥ रलंकृते चन्द्रकान्तोपलमये मण्टपे अमरसदशै गैः अप्सरस्स- शीभि नागकन्याभिश्च उपास्यमानं नागराजं ददर्श चित्राङ्गदः। तक्षकश्च तमानीतवतीः कन्या दृष्ट्वा अयं कः? किमर्थमेनं भवत्योऽत्रानीतवत्यः?" इत्यपृच्छत् । "वयं स्नानार्थ यमुना गताः। तत्रायं जले मनो मरणोन्मुखोऽसाभिदृष्टः। तं वयं कृपयात्राऽऽनीतवत्यः। नातोऽधिकं जानीमः" इति ता. अवदन् । तच्छ्रुत्वा तक्षकस्तं राजकुमारं तस्य देशं कुलं नाम च पप्रच्छ। चन्द्राङ्गदः स्वस्य देशं कुलं नाम विवाहमारभ्य नौकाया यमुनायां मजनपर्यन्तमुक्त्वा "सर्वथा भवतैवाई रक्षणीयः" इत्यवदत् । तक्षकश्चन्द्राङ्गदस्य वाक्यं श्रुत्वा "मा त्वं भैषीः, अत्रैव तिष्ठ। भूलोके का देवता युष्माभिराराध्यते ? तत्कथय" इत्यपृच्छत् । “सत्स्वप्यनेकेषु देवेषु महादेव इति या प्रसिद्धः तमेव उमापति महेश्वरं तत्रत्याः सर्वे वयमाराम यामः” इत्यब्रवीत्तक्षकं चन्द्राङ्गदः। चन्द्रशेखरस्य मक्ताग्रेसर- तक्षकस्तच्छ्रुत्वा "राजकुमार! तव शिवभक्तिं दृष्ट्वा नितरामहं तुष्टः। मम वाक्यं शृणु! एतस्य लोकस्य वैभवं पश्यसि किम् ? अत्रत्याः सर्वेऽपि शाखिनः कल्पवृक्षाः, सर्वा वाप्योऽमृतजला:, अनत्यानां मरणभीति, जरा व्याधिराधिश्च न सन्ति । पश्येमाः कन्या अप्सरोम्योऽप्यतिरूपवती, आसां मध्ये यां त्वमपेक्षसे तां परिणय। भूलोकं मनसापि मा सर" इत्यवादीन् । .
सीमन्तिनी चरित्रम् । १३ महाबुद्धिमानाजपुत्रः तक्षकस्य वचनं श्रुत्वा अञ्जलि बद्धा "नागराज! अनुगृहीतोऽहम् । भवदुक्तम् सर्वमुपपन्नम् । तथाऽपि मम पितरौ वृद्धौ, भार्या युवतिर्नवोढा पतिव्रता च । तेषां परित्यागः पापकारणम् । अन्यश्च क्षत्रियकुले जातस्य मम प्रजापालनं धर्मः। अत्र स्थितस्य मम अधर्मप्राप्तिधर्म हानिश्च भवेताम् । तस्मान्मामनुजानातु भवान्" इति विज्ञा- पयामास । तक्षकस्तस्य पापभीरुतां धर्मबुद्धिं च वीक्ष्य "वो गन्ताऽसि परश्वो गन्ताऽसि" इति कालं हापयन् त्रीन्संवत्सरान् महता सुखेन तं तत्र स्थापयामास । अथैकसिन्दिने भक्ष्यादि सहितेन मृष्टान्नेन तं भोजयित्वा वस्त्रालंकारादिभिरलंकृत्य खलोकगमनमन्वजानात् । गमनाय वायुवेगं चन्द्रपाण्डरं सर्वत्राव्याहतगतिं युद्धे जयप्रदम् एकं घोटकम् , अयुतं राक्षसवीरांश्च अदात् । तस्मै पारितोषिकतया दत्तानि रत्नानि सुवर्ण वस्त्राणि च वाहयितुं नागकुमारांश्च तेन सह प्रेषयामास । चन्द्राङ्गदस्तं प्रणम्य तं वाजिनमारुह्य तद्दत्तपरिवारेण सह प्रतस्थे। यमुनाप्रवाहमार्गेण गच्छन् स: आर्यावर्ते चित्रवर्मणो नगराभ्याशमगच्छत् ॥ तस्य दिवसस्य सोमवासरत्वात् प्राप्तवैधव्यापि सीम- न्तिनी व्रताचरणार्थ स्नातुं सखीभिस्सह यमुनायास्तथिमा- गच्छत् । सान्ती सा मध्ये प्रवाहम् अश्वमारुह्य गच्छता पुरुषस्य दर्शनमात्रेण विकृतचित्ता आसीत्। राजकुमारोऽपि आभरगहीनां १४ संस्कृततृतीयपाठः॥३॥ मङ्गलसूत्रादिसौमङ्गल्यचिह्नरहितां शोकेन कृशां सीमन्तिनी दृष्ट्वा कृच्छ्रात् स्वभार्यामवगतवान् । “अहो ! इयं तपखिनी मम प्रत्यागमनाशया केवलं प्राणान्धारयति । इमां किंचित्सान्त्व- यित्वा निषधान्गच्छामि" इति विचिन्त्य तस्याः सकाशम- गच्छत् । “अये बाले! का त्वम् ? कस्य पुत्री? कस्य भार्या । त्वं दुःखनिमन्नेव भासि, किं तव शोककारणम् ?" इत्यपृच्छत् । तद्वाक्यश्रवणमात्रेण सीमन्तिनी आशाया अत्युत्कटां कोटि- मारूढा अश्रुपूर्णाक्षी लञ्जया शिरोऽवनमय्य तूष्णीं तस्थौ । पूर्वाधिकविलक्षणदिव्यरूपं देवसदृशं चन्द्राङ्गदं वीक्ष्यापि तम- जानन्त्यः सख्यस्तम् एवमकथयन् । “इयम् एतद्देशाधिपस्य चित्रवर्मणो महाराजस्य पुत्री, इन्द्रसेनस्य स्नुषा । चन्द्राङ्गदस्य भार्या । अस्या भर्ता असिन्नेव तीर्थे उडुपेन यमुनां तरन् जले मनः। अस्याः श्वशुरौ वृद्धौ शत्रुभिर्खतराज्यौ बंधने निक्षिप्तौ । बाल्य एव वैधव्यं प्राप्ता इयं वैराग्येन सर्वान्भोगान् परित्यज्य पत्युः प्रत्यागमनाशया प्राणान्केवलं धारयति । एतादृशं क्लेशं प्राप्तापीयम् अद्य उमामहेश्वरव्रतं निवर्तयितुं खानार्थमत्रागता। इयं तपखिनी त्वां दृष्ट्वा भतारं दृष्टदेव विकता। विरक्ताया अस्याः ईदृशभावोदये कारणं न जानीमः” इति ॥ सीमन्तिनी च तेन सह भाषणं विना स्थातुमशनुवती "सुभग! त्वं ममापि मनो हरसि। कस्त्वम् ? देवो वा सिद्धो वा गन्धर्वो वा आहोस्वित् ममार्यपुत्र एववा? ब्रूहि त्वं तस्वम् ।
समिन्तिनी: चरित्रम् । १५ अमानुषरीत्या अश्वमारा जलोपरि गच्छतस्तव मनि कटमागत्य मां प्रीत्या द्रष्टुं प्रष्टुं च किं कारणम् ? त्वत्तोऽपि महारूपवतो गन्धर्वादीन् दृष्टवत्या अपि मम मनः ईषदपि न चलितम् । तदिदानीं त्वदर्शनेन त्वयि बद्धरागं जातम् । तत्रापि कारणम् त्वयैव वाच्यम्" । इत्युक्त्वा अश्रुमिरात्मानं सिञ्चन्ती मुक्तकण्ठा उच्चै रुदत्येव गतसंज्ञा पपात। चन्द्राङ्गदोऽपि भार्याया भावगम्भीरं वाक्यं श्रुत्वा ततोऽपि द्विगुणं स्वस्य शोकं बहिर- प्रकाशयन् धैर्येण स्थगयित्वा ता हस्ताभ्या मुत्थाप्य कृशाङ्गि! वयं सिद्धाः। तव भर्ता जीवति । अहं तस्य प्रियसुहृत् । सः द्विदिवसैरत्रागत्य त्वां सुखयिष्यति" इत्युवाच । ततः सीमन्तिनी " अयं स्पर्शो ममार्यपुत्रस्यैव । नात्र संदेहः । किमपि शुभसूचकमेवास्ति । आत्मनोऽप्रकाशने तस्य किमपि कारणं भवेत् । द्विवान्दिवसान्प्रतक्षेि। उमामहेश्वरावेव शरणं गच्छामि" इति निश्चित्य स्वगृहं गत्वा पूजां निरवर्तयत् । चन्द्राङ्गदः प्राणवल्लभायाः सखीमुखात् विदितमातापि तृबन्धनवृत्तान्तः स्वनगराभ्याशं गत्वा कसिंश्चिदुपवने स्थित्वा एक राक्षसवीरं राज्यमपहृतवतः शत्रोः पनबिन्दोः सकाशं प्रेषयामास । स राक्षसः सभायामुपविष्टस्य पनबिन्दोरग्रे तस्थौ। तं दृष्ट्वा सभ्या मन्त्रिणः स च राजा सर्वे विम्युः। तदा स राक्षसः "अहं नागराजस्य तक्षकस्य सेवकः । राजपुत्रस्य चन्द्राङ्गदस्यः सैनिकः । पुराहिउद्याने स्थितेन तेनासि दूता प्रेषितः । यूयं तस्यादन्तं यमुनायां मजनपर्यन्तमेव जानीथ ।
१६ संस्कृततृतीयपाठः ॥३॥ तदुपरि श्रूयतां कथयामि। ततो राजकुमारो जलावर्तेन रसातलं नीतः। सः तत्र लातुमागताभिर्नागकन्याभिः नागराजस्य तक्ष- कस्य संनिधि कृपयाऽनीयत । तक्षकस्तस्य विद्यां शिवभक्तिं पाप- भीरुतां धर्मबुद्धिं च निरीक्ष्य संतुष्टः त्रीवत्सरांस्तत्रैव स्थापया- मास । ततस्तक्षको मामन्यांश्च काश्चन राक्षसात् तस्य साहा- च्याथ दत्वा आवश्यकेषु कार्येषु स्वयमेशागत्य कार्य साध- यिष्यामीति उक्त्वा चन्द्राङ्गदं प्रेषयामास । पथ्यं वचनं ब्रवीमि शृणु। यदि त्वं स्वयमेव तस्य राज्यं मुश्वासि तर्हि तब भद्रं भवेत् । नोचेदहमेक एवं तव विनाशायालन् । किं पुन: सर्वैरस्माभिः सहितश्चन्द्राङ्गदः" इत्यवदत् । पद्मबिन्दुस्तद्वाक्यश्रवणमात्रेण भीत्वा कारागारं स्वयमेव गत्वा सभार्यायेन्द्रसेनाय नमस्कारं कृत्वा चन्द्राङ्गदो जीवतीति वृत्तान्तं कथयित्वा मङ्गलस्नानवस्त्रालङ्कारभोजनादिभिस्तावुप. चार्य शिबिकामारोप्य अमात्यादिभिः परिवृतो बायोपवन- मगमत् । प्राक्तना अमात्या श्रेणयः सबलावृद्धाः पौराश्च तत्र समाययुः। चन्द्राङ्गदः पितरावागच्छन्तौ विज्ञाय तावभि मुखो गत्वाऽनमत् । तौ मृत्युमुखादागतं पुत्रं पर्यवजेताम् । चन्द्राङ्गदो नागलोकादानीः वस्त्राभरणादिभिः पितरौ पूज- यित्वा "राज्यापहारिणम् एनं पद्मबिन्दु किं कुर्याम् ?" इति पितरमपृच्छत् । " नायं राज्यापहर्ता, किन्त्वसद्राज्यरक्षका, तसान्मित्रकोटौ गगनीयः इति इन्द्रसेनः पुत्रमुवाच । तच्छ्रुत्वा पनबिन्दुः चन्द्राङ्गदं तत्पितरौ च प्रणम्य क्षम्यतां 2 सीमन्तिनी चरित्रम् । ममापराध इत्ययाचत । इन्द्रसेनः सपुत्रमार्यः स्खभवनं गत्ता आगतात्मन्यथाई संभाव्य विमर्जयापास। पमपिन्दवे तदीयं गृहक्षेत्रवित्तादिकं दत्वा तं सेनापति चकार चन्द्राङ्गदः। पूर्वमन्त्रिणः स्वस्खाधिकारे नियुज्य नवीनभ्योऽपि कपप्यधि- कारमदाद । चन्द्राङ्गदः स्वस्य यमुनायां मजनवृत्तान्न, नागलोकगमनं, तत्र नागराजकृतमादरातिशयं च पित्रोरकथयन। इन्द्रमेन एतत्सर्व स्तुपायाः सोमवारव्रतानुष्ठानस्य फलममन्यत । अन्येद्युरिन्द्र मेनश्चित्रयपणे चन्दादो जीवतीति वृत्तान्तं दन- मुखेन निवेदयामास । चित्रवर्मा च जामातुः क्षेपोदन्तं श्रुत्वा हृष्टः सीमन्तिनीं हरिद्राकुंकुममङ्गलसूत्रादिमिः सौमङ्गल्यचिह्न- रलंकृत्य देवतायतनेषु महोत्सवमकारयत् । तत्पत्तनस्थाः सर्वे, जनाः सीमन्तिन्याः देवतामक्ति प्रशशंसुः ।। . चित्रवर्मा इन्द्र मेनं सबन्धुपरिवारं स्त्रनगरमानेतुं पूर्व- प्रेषितं पुरोहितमेव प्रेषयामास। इन्द्रसेनः सान्तःपुरः सहामात्यः चन्द्राङ्गदेन सह चित्रवर्मपुरमावजम् । तत्र चित्रवर्मा आगतान संबन्धिनः सत्कृत्य पुरोहिताज्ञया कमिश्चिच्छुने दिने स्वपुत्री सीमन्तिनी पुनश्चन्द्राङ्गदाय प्रददौ । सा च चन्द्राङ्गदस्य दर्शनदिनादारभ्यैव पीतरसायनेव पुष्टियुक्ता बभूव । भर्तुः संनिधौ रतिरिव बभौ ।। सा संस्कृतवतीयपाठः ॥३॥ इन्द्रसेनः पुत्रेण स्नुषया च सह स्वनगरमागत्य पुत्रं चन्द्राङ्गदं राज्येऽभिषिच्य सभार्यस्तपोवनं गत्वा शिवमाराध्य तच्चरणमूलं भेजे ॥ एवं सीमन्तिनी नष्टं पति उमामहेश्वरयोराराधनेन पुनः प्राप्य राज्ञी भूत्वा यावजीवं अविधवैवासीत् । तस्या अष्टौ पुत्राः। एका कन्या च बभूव ।। सीमन्तिनीचरित्रम् संपूर्णम् ॥ ॥अंशुमती विवाहः॥ (प्रदोषव्रतमहिमा) आसीद्विदर्भेषु सत्यरथो नाम राजा। तस्य राज्यमपहर्तु- कामो दुर्धर्षनामा साल्वराजो विदर्भाणा राजधानी कुण्डिननगरौं स्वसैन्येन रुरोध । तदा सत्यरथः शत्रुणा सह ससाष्टानि दिनानि सुदारुणं युद्धं कुर्वन अन्ते तेन निहतः। ततः साल्वस्य सैनिकाः नगर्यो राजभवनं प्राविशन् । तत्र स्थितानि रत्नानि आमरणानि वासांसि गाश्चापाहरन् । राजमहिषी कुत्रवुत्रेति तां विचिक्युः । शीलवती नाम सा राज्ञी क्वचिन्भिलीना सती निथि गाढे तमसि अन्यालक्षितं गृहादहि- १९ अंशुमती विवाहः। नित्य वनं प्रविवेश। अन्तर्वनी सा शीलवती यावत्सूर्योदयं अरण्ये चचार । उदिते भानौ तृषापरीता सा तत्र किंचन निर्मलं सरोऽपश्यत् । तजलं पीत्वा यावत्तटे उपविशति तदा सा तनयं प्रासूत । शिशुं तत्रत्ये कुट्टिमे शाययित्वा वस्त्रशालनाय यदा तटाकमवततार । तदा कश्चन ग्राहस्तां पादयार्जग्राह । अन्तर्जले सुदूरं तेनाकृष्टा पश्चत्वमगमत् । तदा मात्रा विसृष्टः शिशुः उच्चैः रुरोद । तत्र संनिहितात् ऋष्याश्रमात् उमा नाम काचन विधवा ब्राह्मणी एकहायनं बालमुदुह्य स्नातुं तदेव तीर्थमाययौ। सा तस्याकस्य रुदितं श्रुत्वा कस्यायं ध्वनिः? इति सर्वतो दृष्टिं सञ्चारयामास । तदा सरसस्तीरे वृक्षस्याधः कट्टिमे रुदन्तं राजलक्षणैर्लक्षित काश्चनप्रभं कंचन शिशुमद्राक्षीद। अहो! किमाश्चर्यमेतत् ? कथमचिमनाभिनालः शिशुरयं निर्जने स्थले त्यक्तः । इदानीमेव जातं शिशुमुत्सृज्य क गताऽस्य सवित्री? अविज्ञातकुलं शिशुं कथं स्पृशेयम् ? रोख्यमाणमेनं कथं वा उपेक्षेय? । इति चिन्तयन्त्यां तस्यां अशरीरा वाग्गगनादुचचार । "ब्रामाणि! रक्षेनं बालकम् । क्षत्रियकुमारोयं । मा संशयिष्ठाः। इदानीमेवेमं प्रसूयास्य जननी जलेऽवतीर्णा ग्राहगृहीता पञ्चत्वमगमत्" | तच्छ्रुत्वा सा स्त्री तं शिशुं तटोक क्षालयित्वा स्वयं च स्नात्वा स्वबालं तं शिशुं च गृहीत्वा पर्णशालामगच्छत् । ततः सा ब्रामणी त क्षित्रियशिशुमपि औरसमिव स्वम्तन्यदानादिना पुपोष । सा २० संस्कृतवतीयपाठः ॥३॥ स्वतनयस्य शुचिव्रत इति, राजकुमारस्य धर्मगुप्त इति च नामनी चकार । सा द्वित्रान् हायनान् तत्रैव स्थित्वा बाला- भ्यां सह एकचक्रनगरमगच्छन् । तत्र भेक्षं चरित्वा तावपोष- यत् । बहुतिथे गते काले उभावापे कुमारी उपनिन्याते । कदाचित्ताभ्यां वालाभ्यां सह शिवालयं गनां तां दृष्ट्वा तत्रागतः शाण्डिल्यो नाम मुनिः व्यहसत् । सा तन्निकटं गत्वा "स्वामिन् ! अनाथां मां दृष्ट्रा किमर्थ हममि ?" इत्यपृच्छत् । “अस्य कुमारस्य प्राग्भवीय कर्मविपा स्मृत्वा हसामि ; नान्यदस्ति किंचित्”, इति स नां प्रत्यत्रानि । "अयं पूर्वजन्मनि का ? कीदृशोऽस्य कर्मविपाकः ? यद्यम गोप्यं, तत्कथयतु भगवान्" इत्यन्वयुक्त । “अयं राजकुपार: अतीतजन्मनि पाण्ड्यदशाधिरति: शिवभक्तो राजा। म कदा. चित्प्रदोषसमये महादेवं पूजयन् देवगृहे आस्त । तदा वीचमा कंचित्कोलाहलं श्रुत्वा पूजां हित्वा बहिर्ययो । तेन दाषण अस्मिञ्जन्मनि राजपुत्रत्वेन जनित्वाऽपि बाल्य ईदृशीमाथा प्राप्तः पाण्ड्यः । अनेन बालेन यथाविधि प्रदोपत्रां कारयसि चेत् अयं पितू राज्यं प्राप्नुयात्। तथैव त्वं तव पुत्रश्च कुरुतम् । युवामपि व्रतप्रभावन महाक्षेमं प्राप्नुयातम्" इत्यवादीच्छा. ण्डिल्यः। तच्छ्रुत्वा गृहं गता ब्राह्मगी, शुचित्रा, धर्मगुप्तधो त्रयोsपि प्रदोषव्रतं आरभ्य एक संवत्सरमाचरन् । ततः 'कसिश्चिदिने शुचिवतः प्रातरुत्थाय एकल एवं स्वातुं नदी अंशुमती विवाहः । २१ ययौ । तत्र नद्यास्तीरे कस्यचिद्गुल्मस्याधस्तात् सुवर्णनिष्क- पूर्णम स्थूलं कांस्यपात्रमेकं भूमौ अर्धपिहितम् अपश्यत् । स तं. निधानकलशम् अन्याविदितम् उद्धृत्य गृहमानीय "मातर्मातः! पश्येदम्" इति कांस्यपात्रमदर्शयत् । अथ सा विसिता साध्वी समाहृय नृपात्मजम् “युवामुभावपि इदं द्रव्यं समं विभज्य गृह्णीतम्" इत्यवदत् । तच्च्छ्रुत्वा धर्मगुप्त आह " अम्ब! ज्येष्ठस्य मातुर्वताचरणेन तुष्टः साम्बमूर्तिम्तस्मै एनत् निधानमदात, तत्तस्यैवास्तु । यदि स देवो मत्पूजयाऽपि तुष्टः तर्हि मय्यपि पृथगेव कृपां कुर्यात्" इति । ततः संवत्सरेऽतीते उभावपि द्विजनृपात्मजौ नदीतीरे कसिंश्चित्कानने अक्रीडताम् । तत्र ती पुष्पापचयं कुर्वतीः नृत्यन्तीर्गायन्तीश्च शतशो गन्धर्व कन्या अपश्यताम | ताखेका अंशुपतीनाम बहुशोभमाना गन्धर्वराजदुहिता द्वितीयं कन्दर्पमिय स्थितं धर्मगुप्तं दृष्ट्वा "गज कुपार! अहं द्रविणकस्य गन्धर्वगजस्य दुहितात्वदर्शनमात्रेण त्वां परिणेतकामा संवृत्ता" इत्यब्रवीत । " भद्रे! अहं विदर्भराजसुन इत्येतत्सत्यमेव । मम राज्यं नास्ति, नास्ति पिता, नास्ति माता; ब्रामण्या भिक्षानेव पाषिताऽसि । तत्कथम एतादृशं दरिद्रं मां परिणेष्यमि?" इति मोऽवदत् । कमलपत्राक्ष राजपुत्र! अहं सर्वकलाभिज्ञा त्रिकालज्ञा च। त्वामहं निःस्वं जाने, तथाऽपि त्वयि मम मनो लयम्, इतःपरम् नान्यं पति घृणे। अपि च, तब परमेश्वरप्रसादन महाभ ग्य. सुपस्थितम् । मम पितवात्रागत्य तुभ्यं मां प्रदास्यनि । तस २२ संस्कृततृतीयपाठः ॥३॥ साहाय्येन त्वं पैतृकं राज्यपचिरादवाप्स्यसि । तसाचयाऽपि पुनः परश्वोऽत्रागन्तव्यम्" इत्युक्त्वा स्वकण्ठं धृनमनधम् मुक्ताहारमुमुच्य तत्कण्ठे संयोज्य सखीमिः सह अंशुमती दिवमगात् । ततो धर्मगुप्तः शुचित्रतेन सह गृहमगमत् । इमं वृत्तान्तमायै कथायित्वा अंशुमत्या निर्दिष्टे दिवसे शुचित्रोन सह धर्मगुप्तस्तमेव प्रदेशपगच्छन् । तत्र गन्धर्वराजो द्रविणक: संभार्यो दुहित्रा सह पूर्वमेवागत्य धर्मगुप्तं प्रतीक्षमाण आस । गन्धर्वो राजपुत्रं दृष्टा 'अपि कुशलं ते? पूर्वेधुरहमीश्वरं सेवितुं कैलासमगच्छम् । तत्र कथाप्रसंगे नीलकण्ठो मामुवाच 'भुवि धर्मगुप्तो नाम मातापितृविहीनो राजकुमारो वर्तते । सा प्रदोषव्रताचरणेन मापाराधितवान् । तस्यानुग्रहो मया कर्तव्यः। तसाचमेव तत्र गत्वा तव पुत्रीमंशुसती तमै प्रतिपादय । शत्रुभिरपहनं परंपराप्राप्तं तद्राज्यं च तस्य वशे कुरु' इति । तस्मान्मम पुत्री तुभ्यं प्रयच्छामि प्रतिगृहाण" इत्यब्रवीत् । तथाचेदनुगृहीतोऽहम् इत्यवदद्धर्मगुप्तः । ततो द्रविण को धर्मः दुहितरं प्रदाय उज्ज्वलान् रत्न भागन् , मुक्ताहारान् , वस्त्राणि, दिव्यान्यनेकानि वस्तूनि, गजानामयुतं, वाजिनां नियुतं, स्थानां सहस्र अनेकानत्युदारान्गन्धर्ववीरांश्च ददौ । पुनरसा- धारणं जयप्रदपेकं रथम, मशरं शरासनम् , रिपुमर्दिनी शक्तिश्चादाद । गन्धर्वराजो दुहितुरेवं विवाहं विधाय पुत्री जापातरं चापृच्छय विमानमारुह्य भार्यया सह दिवमगात् । धर्मगुमो गन्धर्वनन्दिनी गृहं नीत्वा मातृसपीपे स्थापयित्वा अंशुपती विवाहा। २३ रथमारुह्य सेनया सह विदर्भानमिययौ । तत्र कुण्डिनं गन्धर्व सेनया पर्यवेष्टयत् । तद्दृष्ट्वा दुर्धर्षो योढुं प्रावर्तत । धर्म- गुप्तम्तेन मह युध्दा श्वशुग्दत्तया जयादया शक्या तं हत्वा नगरं प्राविशत् । तत्र पौराः श्रेगयोऽपायाश्च तं खराजकुमार ज्ञात्वा मुदा राज्येऽभ्यषिश्चन् ततो महाराजो दूनान् एकचक्र नगरं प्रेषयित्वा जायामंशुनती खोषिको द्विजयनितामुर्मा तत्पुत्रं शुचित्रतं चानयापास। प्रदोषव्रतमहिना प्राप्तमहैश्वर्यो रत्नसिंहासनाधिरूढो धर्मगुप्तः ब्राह्मी मातृवत् तत्पुत्रं भावच मात्रयंस्तस्य विवाहं कारयामास । एवमेव ये प्रदोषव्रतेन विधिवच्छिवं पूजयन्ति ते सर्वे आशुतोषस्य महेश्वरस्य प्रसादेन महदैश्चर्यम् प्राप्नुयुः ॥ ॥ श्रीरुक्मिणीकल्याणम् ॥ अस्ति विदर्भेषु कुण्डिनं नाम सर्वसमृद्धिमत्र पुरम् । तस्य देशम्य भीष्मको नाम विष्णुभक्तो राजाऽऽमीत् । तस्य पञ्च पुत्रा आसन । तेषामग्रजो रुक्मी। ततो रुक्मरथा, रुक्मवाहुः, रुक्मकेशः रुक्ममाली इति चत्वारः। तेषां यवीयसी स्वसा रुक्मिणी । सा महारूपवती सर्वेषां गुणानां मातगृहं च, किंबहुना वर्णनेन । तस्या उपपानं मंगलदेवता रमा, हैमवती मङ्गलाम्बिका द्वे एव । सा यदा यौवनं प्रामात २४ संस्कृततृतीयपाठः ॥३॥ तदाता भीष्मकः श्रीकृष्णाय प्रदातुमियेष । स्वसुविरुद्धगुणवान् विष्णुद्वेषी रुक्मी वृद्धं पितरमनादृत्य स्वसारं कृष्णादन्यस्मै दातुं. प्रायतत । तदा चेदिषु वसुदेवभगिन्याः श्रुतश्रवसो भर्ता दमघोषो नाम नृपतिरासीत् । तस्य पुत्रः शिशुपालो नाम, श्रीकृष्णद्विट् । रुक्मिणी तस्मै दातुं रुक्मी निरचिनोत् ।। तत्र तत्र धनिकेभ्यः धनं प्राप्तुमटमानाः ब्राह्मगा: इण्डिनमागताः राज्ञो राजपुत्रेभ्यश्च धनं लब्ध्वा रुक्मिण्या: सकाशमप्यगच्छन् । तस्याः सर्वातिशायि सौन्दर्यम् दृष्ट्वा "शोभनाङ्गि! त्वं श्रीकृष्णस्यैव भार्या भवितुपर्हसि । स एव तवानुरूपः पतिः। यदि त्वामन्यः परिणेष्यति तर्हि तव जन्म व्यर्थमेव । पर्यालोचनायां स देवकीपुत्रः खत्तोऽपि किंचित गुणाधिक एव भवेत् । न तु ईषदपि न्यूनः । तादृशयोरेव दाम्पत्यं श्लाघ्यम् ।" इत्यनुवन् । ते ब्राह्मणाः तथैव श्रीकृष्ण सकाशं च प्राप्ताः "त्रिलोकसुन्दर श्रीकृष्ण! कुण्डिने रुक्मिणी नाम भीष्मकसुता अस्ति, सा जङ्गमा सुवर्णलतैव। किंबहुना तस्या गुणवर्णनेन । सा रतीदेव्याः श्वश्रुरेव भवेत् । सैव तक भार्या भवितुमर्हति । तस्याः समा त्रिषु लोकेष्वपि नास्ति"। इत्यवदन् । श्रीकृष्णो रुक्मिणी च परस्परेण अदृष्टावपि मध्य स्थानां वचनेनैव अन्योन्यं परिणेतुकामावभूताम् ॥ खस्याः शिशुपालाय प्रदाने भ्रातुरभिनिवेशं, तेन परयो निश्चितं उद्वाहं च रुक्मिणी विजज्ञौ। तेन व्याकुलापि श्रीरुक्मिणी कल्याणम् । २५. रुक्मिणी धैर्येण पत्रिका विलिख्य आप्तं कंचन द्विजमाहूय तद्धस्तेन भगवते तां प्रेषयामास । ब्राह्मणः त्वरितं द्वारका गत्वा भैष्म्या लिखितां पत्रिका श्रीकृष्णायादात् । गोविन्दोऽपि सादरं तो पपाठ॥ रुक्मिणी पत्रिका ॥ - रुक्मिण्युवाच- (१) भुवनसुन्दर श्रीकृष्ण! गाम्भीर्य-सौन्दर्य-शौर्य औदार्य-सौभाग्य-वात्सल्य प्रभृतीन् अनेकान् तव गुणान् बहु- भ्योऽहमशृणवम् । तस्मान्मम मनः त्वय्येव त्रपां हित्वा विशति। (२) स्वयं धायन पत्रं लिखितवती मां माऽन्यथा कल्पय । विधायां वयसि ऐश्वर्ये रूपे च स्वस्याः तुल्यं त्वां सत्कुलोत्पमा बुद्धिमती का वा कन्या न वृणीत? । (३) इन्दिरायाः पति भक्तप्रियं त्वां अहमपि वृणे । हे प्रियतम! त्वां प्रणमामि । दास्या मम अभीष्टं कुरु । (४) ब्रह्मणाऽहं तवैव भार्या सुधा । तादृशी मामन्यः स्पृशेयदि तत्तवैव अपमानो भवेत् । तस्मान्मां भार्याम् विधहि ।
२६ संस्कृततृतीयपाठः ॥३॥ (५) अहं ब्रतैः दानेः दैवब्राह्मणपूजया च श्रीमत नारायणं आराधितवती । तै रमापतिस्तुष्टो यदि भवानेव मम पाणि गृह्णातु । अन्ये शिशुपालादयो मां मा स्पृशन्तु । (६) परश्वो विवाहा निश्चितः । अतोऽत्र कालविलम्बो न कर्तव्यः । तस्माचं श्व एव कुण्डिनमागत्य शिशुपालजरा- सन्धादीन्विजित्य मामपहर । (७) बन्धून् अहत्वा अन्तःपुरस्थितां त्वां कथं हरेयम् इति पृच्छति चेत् उपायं कथयामि। श्वः प्रातरहं ग्रामादहिः स्थितं पार्वत्या आलयं देवीं पूजयितुं गमिष्यापि । तत्रागत्य माम् अपहर । द्वारकां नीत्वा शुभे दिने मां परिणेष्यसि । (८) हे अम्बुजाक्ष! न केवलमहं तव रूपं गुणांच श्रुत्वा त्वां घृणे। किंतु "वं नारायणः तव पादप्रक्षालनोदक शिरसि धृत्वा उमापतिप्रभृतयः खाज्ञानं परिहृतवन्तः" इति जाने। अत एव इतरान्प्रत्याख्याय त्वां प्राप्तुं मम निबन्धः। यदि मां त्वमस्मिन् जन्मनि न परिणेष्यसि तर्हि अहं प्राणाने- वोत्स्रक्ष्यामि । ततश्च शतजन्मभिर्वा तपस्तप्त्वा सामेव पति प्राप्नुयाम् । शिशुपालादीन् अपशदान् वामपादांगुष्ठेनापि न स्पृशेयम्"। इति पत्रार्थम् श्रीकृष्णो ज्ञात्वा ब्राझगेन सह राजावेव स्थमारुह्य सूर्योदयात्प्राक् कुण्डिनं प्राप। बलभद्रः स्वपनापुच्छय गतं भ्रातरं विज्ञाय तस्य साहाय्यार्थम् सेनया सह तमनुपसार।
२७ श्रीरुक्मिणी कल्याणम् । भीष्मकः स्वपुरं चित्रैर्घजैः पताकामिः तोरंगश्च अलंकृत सुमृष्टं जलसिक्तम् आरुधूपेन सुवामिां च चकार । श्वः करिष्यमाणस्य कन्या विवाहस्य अभूतं पुण्याहवाच नान्दी- श्राद्धं च चकार। ब्राह्म गेभ्यः हिरण्यं रजांवामांमि धनूध ददो। सर्वेषु देवायतनेषु पूजां अधिकं कारयामास । ब्राह्मगान् खाद जयामास । चेदिराजो दमघोषः पुत्रस्य विवाहाय बन्धुभिः परिवारेण च सहितः कुण्डिनमाययो। भीमका आगतं संबन्धिनम् अभिगम्य संपूज्य तदर्थन क्लले प्रामादे स्थापयामास । तथैव विवाहप्रेक्षणाय आहूतानां साल्वजरा. सन्धप्रभृतीनां च निवासं कारयामाम । निश्चितपुत्रविवाहो दमघोषश्च पुत्रस्य समावर्तनादीनि कर्माणि निरवर्तयत् । भ्रातरौ रामकृष्णौ अनाहूतावपि विवाहदर्शनायागतौ ज्ञात्वा भीष्मका 'श्रीकृष्णः पुरे स्थापितश्चेत् कलहो भवेत्' इति भिया पुरादहिः उद्याने तयोः स्थलमकलायत्, कृष्णोऽपि इदमेव स्थलं रुक्मिणीमपहतुप साधीयः' इति मत्वा तत्रैव तस्थौ। रुक्मिणी श्रीकृष्णस्यागमनं, तं प्रति प्रेषितस्य द्विजस्य प्रत्यागमनं वा अपश्यन्ती सनी चिन्नयामास । "अहो विवाहस्य स्वल्पावशेषः कालः। अरविन्दाक्षः श्रीकृष्णा कुतो वा नागतः। सर्वज्ञा भगवान् माये कपपि दो ज्ञान मान् वा? अतोऽमौ नागतो नूनम् । भानु मत्संदेशहरा ब्रह्मगो वा कुनो नागतः? तत्र दर्भगाया मम दुष्कनमेव कारणम् । अत एव विधाता, महेश्वरः, अम्बिका वा दयां न कगाते" ।
२८ संस्कृततृतीयपाठः ॥३॥ इति । एवं गोविन्दागमनं प्रतीक्षमाणाया वैदा वाम ऊरु: भुजः नेत्रं च अस्फुरन् । एतानि शुभशंसीनि शकुनानि दृष्ट्वा किंचिद्धर्षेण यदा सा पुरतः पश्यति तदा तं ब्राह्मणं ददर्श । प्रहृष्टं तस्य वदनं दृष्ट्वा सुदती तं पर्यपृच्छत् । स च 'आगतः श्रीकृष्णः' इति प्रत्यब्रवीत् । परतस्तस्य महैश्चर्यम् दास्यन्ती वैदर्भी तदानीं निष्कमाला स्वकण्ठादुन्मुच्य तस्मै दत्ता नमस्कारमकरोत् । नगरवासिनः सर्वे पुरुषाः सर्वाः स्त्रियश्च भ्रात्रा सह आगतं श्रीकृष्णं विज्ञाय बाह्योपवनं गत्वा तं ददृशुः। तस्य सर्वातिशायिनो गुणान्दृष्ट्वा "अयमेव अस्मद्राजपुच्या भर्ता भवितुमर्हति । नेतरे शिशुपालादयः। अस्मटुंक्मिण्येव अस्य भार्या भवितुमर्हा नेतराः। वयं वदामो भीष्मकं गत्वा 'कन्या रामानुजायैव दातव्या' इति । क्रुद्धो राजा राजपुत्रो वा किं करिष्यत्यस्मान् । यदि त्रिलोककत् ब्रमा अस्मत्कृताना सत्कर्मणां फलं ददाति तर्हि इममस्मन्मनोरथं पूरयतु" इत्यवदन्। तच्छ्रुतवन्तः चैद्यपक्षीयाः रुक्मिपक्षीयाश्च 'जनप्र- वाद प्रतिषेधुं जनार्दनोऽपि नालम्' इत्युक्त्वा तूष्णी स्थिताः। द्वितीये प्रहरे वैदर्भी कतिपयसखीभिः सहिता मायुधैः जरासन्धादिभी रक्षकैर्गुता. ग्रामावहिः स्थितं विदर्भकल देवतायाः अम्बिकाया आलयं प्रति प्रतस्थे । वृद्धाः सुमहाला: द्विजपत्न्या देव्याः पूजार्थम् अक्षतान् लाजान् आमरणानि श्रीरुक्मिणी कल्याणम् । २९ 'वस्त्राणि माल्याणि अपूपान् फलानि एवमादीनि पूजोपकरणानि आदाय तामनुययुः। खलंकृता वारयोषितः नीराजनानि गृहीत्वा पुरतो ययुः। तदा मृदङ्गान् शङ्खान वादित्राणि च अत्रादयन् । रुक्मिणी, देव्या आलयं प्राप्य पादौ प्रक्षाल्य आचम्य विप्रयोपिद्भिः उपदिष्टेन प्रकारेण षोडशभिरुपचारै- रुमाम् अपूजयत । फलादीनि निवेद्य आगत्रिकमकरोत् । 'चैद्यो मम भवेद्भः' इति प्रार्थयेति पुरोहितपत्नीभिरुक्ता सा बाला 'कृष्णो मम भवेद्भर्ता' इति प्रार्थयामास । तदनन्तरं समीप स्थित इन्द्राण्या आलयं गत्वा तामपि विधिना अपूजयत् । ततः सख्याः पाणि स्वपाणिना गृहीत्वा कलहंसगापिनी शिञ्जाननू पुग कुण्डलमाण्डितानना नितम्बार्पिनरत्नमे बला मैनी गमनछलेन स्वशोमां श्रीकृष्णाय दर्शयितुं पद्भयमेव किंचिदूरं चचाल । तां शत्रुभ्यस्त्रातुमागताः जरासन्धप्रभृतयो महाधीराः शूराः तस्या रूपं दृष्ट्वा विमुह्य वाहनेभ्यो भूमी पेतुः। पांचिद्धस्तेभ्यो धनूंषि गलिनानि । रथमागढुं वृद्वामिः त्वर्यमाणा मा बाला रथस्य प्रथमे सोपाने पादं निधाय मुखे पतिनान् अलकान् वामकरजैरपसार्य यदा परितः पश्यति तदा गरुडध्वजे रथ स्थितं श्रीकृष्णं पुरतो ददर्श। श्रीकृष्णो स्थादवतीर्य रक्षकानविगणय्य राजन्यान्परिभूय तां रथ- मारोपयामास । खैः रक्षितां भैष्मी निर्भयमपहृत्य गच्छन्तं गोपालं दृष्ट्वा जरासन्धप्रभृतयो राजानः असहमानाः श्रीकृष्णसेनां शरपैरवा ३० संस्कृततृतीयपाठः ॥३॥ किरन् । सा बाला शात्रवैः पराभूयमानां यादवमेनां दृष्ट्वा "एते कृष्णं जित्वा आत्मानम अपहरेयुश्चत् किं कुर्याम " इति अबिभेत । श्रीकृष्णः तस्या मुखं दृष्ट्वा तदमिप्रायं ज्ञात्वा भीरू भैमि! मा भेषीः। गदसङ्कर्षणादयः शात्रवं बलं क्षणेन द्राव. यिष्यन्ति पश्य" इत्यसान्त्वयत् । ततोऽमृष्यमाणे रौहिणय. प्रभृतिभिः हन्यमाना जरासन्धादयो राजानः आयोधनात् विमुखा बभूवुः । जरासन्धः शाल्वः दन्तवक्रः विडूरथः पौण्डूकश्च पुरं प्रविश्य हृतदारमिव विषीदन्तं शिशुपालं "सर्वम् ईश्वराधीनम् , न किमपि मनुष्याधीनम् । तत्र किमस्माभिः करणीयम् ? गोपालबालेन इदानी पराजिता अपि वयं पुरतः अस्माकम् अनुकूले काले आगते तं विजेष्यामहे । शीघ्रमेव तवान्यां कन्यां विवाहयामः । मा भैषीः; मा विषीद" इति सान्त्वयित्वा भीष्मकमनापृच्छय स्वस्वदेशान् प्रययुः। शिशुपालोऽपि पित्रा सह अन्याऽविदितं रात्रौ चोरवत् पलायत । 3 रुक्मी एतं वृत्तान्तं ज्ञात्वा सर्वेषु राजसु भृण्वत्सु "अहं गोपालापशदं कृष्णं हत्वा स्वसाग्म आनेष्यामि । यद्यहम् इत्थं न कुर्याम् तदा कुण्डिनं न प्रवेक्ष्यामि" इति प्रतिजज्ञे। ततः सः रथमार ह्य सेनया सह श्रीकृष्णमन्वधावत् । नर्मदा तरन्तं तमासाद्य “तिष्ठ तिष्ठ रे जाल्म! ध्वाः पुरोडाशमिव मम सारं मुषित्वा कुत्र यासि ? तवा मुश्च समरे प्राणान्या श्रीरुक्मिणी कल्याणम् । ३१ मुश्च"। इति वदन्नेव अच्युतं शरैरवाकिरत् । स्मयमानो दाशाहः तस्य धनुः चिच्छेद । पुनःपुनः रुक्मिणा गृहीतानि बहूनि शरासनानि च्छित्वा सूतं वाहान ध्वजं च अच्छिनत । ततो विधनुः निरायुधो रुक्मी पाणी खड्गं चर्म च गृहीत्वा आवुत्तं हन्तुं प्राद्रवत् भगवानपि लीलया तस्य असिं चर्म च एकेनैव शरेण छित्वा तं हन्तुं असिम् आददे । भैष्मी भर्तारं स्वभ्रात वधोधुक्तं विज्ञाय तस्य पादयोः पतित्वा आर्यपुत्र! आस्पिन् कल्याणसमये स्यालस्य वधोऽनुचितः। इति प्रार्थयामास | ततो वासुदेवः तदीयेनैव उष्णीषचलेन तं बद्धा तेनैव असिना तस्य इमश्रून् केशांश्च कचिवचिन्मुक्त्वा वपनं कृत्वा व्यरूपयत् । अत्रान्तरे रुक्मिणः सेनया सह युद्ध्यमानो बलराम: तो जित्वा भ्रातुरन्तिकमागत्य विरूपितं रुक्मिणं ददर्श । "कृष्ण ! नाद्यापि तव बालभावो गतः। जुगुप्सितं कर्म त्वया कृतम् । श्मश्रुकेशानां वपनं क्षत्रियाणां न युक्तम् । दिवा- कीर्तीनां खलु तद्विहितम् १" इत्युवाच । ततो रुक्मिणीं दृष्ट्वा है साध्वि वैदर्मि! एष क्षत्रियाणां घोरतरो धर्मः। राज्यस्य भूमेः वित्तस्य स्त्रिया वा हेतोः क्षत्रियाः बन्धूनपि नन्ति । तस्मान्माविषीद" इत्यसान्त्वयत् । रुक्मिणं च बन्धनादुन्मुच्य प्राणावशेषमुर्जियामास रौहिणेयः । रक्मी च स्वप्रतिज्ञानु- सारेण कुण्डिनमप्रविश्य पुरादहिः भोजकटं नाम नूनं नगरं निर्माय तत्र न्यवसत् ।
३२ संस्कृततृतीयपाठः ॥३॥ श्रीकृष्णश्च सर्वान्भूपानेवं विजिन्य रुक्मिणी पुरमानीत वान् । देवकी वसुदेवश्च तां स्नुषां दृष्ट्वा तुतुषतुः । वसुदेवः बान्धवेभ्यः दूतैर्विवाहपत्रिका प्रेषयामाम । भीष्मः धृतराष्ट्रः पाण्डवाः दुपदः कैकयाः एवमाद्याः अनेके राजानः सपरिवारा आगताः । भीष्मकल रुक्मिणमेकं वर्जयित्वा अन्यपरिवारेण सहागतः । श्रीकृष्णः शुभे सुमुहूर्ते वैदी पर्यणयत् । सर्वे. बान्धवाः वधूवरयोः परिवहम् ददुः। तस्मिन्महोत्सवे द्वारकायां सर्वा अपि रथ्या विपणयः चत्वराणि च मुमृधानि सुमितानि चासन् । पुरि सर्वत्र तोरणानि बितानानि च आबद्वानि । वसुदेवः पुत्रस्य विवाहकाले ब्राह्म गेभ्यो दक्षिगां ददौ । अष्टौ दिनानि सर्वेभ्यो वर्णेभ्योऽनं ददौ । एवं महता विभवेन श्रीकृष्णरुक्मिण्योर्विवाहमहोत्सवो द्वारकायामभूत् ।। इति श्रीरुक्मिणी कल्याणम् ।। Faman प्रद्युम्न चरित्रम् श्रीकृष्णः रुक्मिण्या विवाहानन्तरं बहुकालपर्यन्तं तसा तनयं न लेभे । ततः पुत्राभावात् दूयमानमानसो वासुदेवः रुक्मिण्या सह कैलासं गत्वा महादेवोद्देशेन द्वादश वत्सरां. स्वपश्वचार । तपसा तुष्टस्यम्बकम्ताभ्यां पुत्रवरमदात् । तो दम्पती प्राप्तमनोरथौ द्वारकामगच्छताम् ।
-3] प्रद्युम्न चरित्रम् । ३३ पूर्वम् महादेवस्य तपोविघातार्थम् प्रवृत्तो मन्मथस्तस्य तृतीयलोचनाग्निना भस्मीभूनः। ततस्तद्भर्या रतिः स्वभतु. रुज्जीवनाय महेश्वरं प्रार्थयामास । प्रसन्नो हरः "प्रतीक्षख कंचित्कालं भद्रे! तब पतिः श्रीकृष्णात् रुक्मिणीदेव्याम् उद्भविष्यति । तदा तं पतित्वेन प्राप्स्यसि" इत्यवदत् । सा देवी श्रीकृष्णस्य अवतारं प्रतीक्षमाणा सत्यलोकेऽवसत् । भूपाववतरिष्यतः शाहपाणेः साहाय्यार्थम् देवानां अवतरणकथायां ब्रह्मसदसि प्रवृत्तायां 'द्रौपदी पश्च पतीन् परिणष्यति' इति वृत्तान्तं रतिः श्रुत्वा, पितामहे शृण्वति उचैहास | तद्देवहेलनं विरिको दृष्ट्वा " त्वम् असुरस्य भार्या भव" इति तां शशाप । अनुपदं पश्चात्तापं प्राप्तया तयाऽनुनीतो देवः "अनुरभार्येति प्रथा केवलं तव भवतु । वस्तुतोऽसुरस्त्वां न स्पृशतु | तव भर्ता आगत्य यावत्वां नेष्यति तावत्त्वम् असुग्गृहे वस" इति शापमोक्षं ददौ । कदाचिद्विमानेन संचरमाणः शम्बरोऽसुरः रतिं दृष्ट्वा तां विमानमारोप्य स्वगृहं नीत्वा अन्तःपुर न्यवेशयत् । तत्र महानमाधिकारे शम्बरेण निरूपिता सा आजन्मसिद्धया वैष्णव्या मायया तं वञ्चयित्वा शम्बरनिकटे खातिकृति. निर्माय प्रेषयामास । सोऽसुरो भ्रान्तस्ता प्रतिकृति रति मन्य- मानस्तया सह रेमे । इत्थं तं वश्चयन्ती रातिदेवी शम्बरगृहे मायावतीति नाना सुखमुवास ।
CC संस्कृततृतीयपाठः ॥३॥ एवं स्थिते ईश्वरानुग्रहेण रुक्मिणी गर्भिणी बभूव । तस्या गर्भात पूर्वम् महेश्वरदग्धः कामदेवोऽजनि । स एव प्रद्युम्न इति विख्यातः सर्वगुणेषु पितुः सदृशः पुत्रोऽभवत् । रतिदेवी त; संयोजित कामो देवर्नािरदः शम्बर समीपं गत्वा "राजन्! किं निर्विचारः शेषे अन्तिके. आगतं मृत्युं न वेत्सि? असुरकुलधूमकेतोः श्रीकृष्णस्य पुत्रस्तव वधायोत्पन्नः तं मोपेक्षस्व । यत्कर्तव्यं तत्कुरु।' इत्यकथयत् । मायावी शम्बरः इतराविदितं रुक्मिण्याः सूतिकागृहं प्रविश्य सूत्यनन्तरं सप्तम्यां रात्रौ तं शिशुं प्रद्युम्नम् अपाहग्द । स तस्य शिशोः सौकुमार्यम् वीक्ष्य स्वयं तं हन्तुमनिच्छन् "एनं समुद्रे प्रास्यामि दैवाद्यद्भवति तद्भवतु" इति विचिन्त्य उदधौ क्षिप्त्वा स्वगृहमगच्छत् । तत्रत्यः कश्चन महान्मत्स्यः तं निजगार। परेधुः कैव मत्स्येषु गृह्यमाणेषु गिलितशिशुर्मत्स्योऽपि गृहीतः। शम्बराय तं मीनं कैवर्ता उपायनं ददुः । सूदास्तं मत्स्य स्वधितिना यदा खण्डयन्ति तदा तदुदरे सूर्यसदृशप्रमं कुमारं दृष्ट्वा राज्ञे न्यवेदयन् । देवेच्छया विस्मृतपूर्वेधुर्वृत्तान्तः शम्बरः अनपत्यां मायावतीमा हूय देवदत्तमिमं शिशुं पुत्र- वत्पालयेत्यदात।
प्रद्युम्न चरित्रम् । ३५ पूर्वमेव नारदात् विदितस्वमवृत्तान्ता मयावती महता हर्षेण तं शिशुं रसायनायः समवर्धयत् । मायावतीं मातरं मन्यमानः प्रद्युम्नः तहत्तरसायनादिसेवनेन चतुभिरेव वत्सरी षोडशवर्षदेीयो युवा अभूत् । कदाचित्स्वहावभावविला सादिकं प्रदर्शयन्ती मायावतीं दृष्ट्वा क्रुद्धः प्रद्युम्नः अम्ब! किमेवं मयि त्वं मातृभावं विहाय कामुकीभावमलम्बसे" इत्यवदत् । तच्छ्रुत्वा रतिरवदन " भवान्नारायण सुतः; तव माता रुक्मिणी; त्वं पूर्वजन्मनि कामदेवः । अहं तव पत्नी रतिः, प्रमशापात असुरस्यास्य वशे अनपगतसच्चरित्रा तिष्ठामि । नाहं तव माता; नाप्येतस्य भार्या । न चायं पापस्तव पिता। किन्त्वयम् अस्माकं सहजशत्रुरसुरः । एष त्वां जननात्सप्तमे- ऽहनि अपहृत्य उदधाववाक्षिपत । त्वां कश्चन मत्स्योऽग्रसत् । तदुदगदस्माभिम्त्वं लब्धः। तव माता तवादशनेन विषीदति । एनं शत्रु जहि । आवां स्वगृहं गच्छावः" इति । ततः सा तस्मै सर्वाः अस्त्रशस्त्रादिविद्याः वैष्णावीर्माया- विद्याश्च ददौ। म च शम्बरमभ्येत्य संयुगाय ममाहयत । तस्य दुर्वचोभिरधिक्षिप्तः शम्बरः गदा गृहीत्वा युद्धाय तस्थौ। प्रद्युम्नः भार्यया दत्तां कालायसमयीं गदामादाय तेन प्रत्ययु- ब्यत । तस्मिन्युद्ध काणिः स्वगदया शत्रोदा चूर्णयामास । गदया हीनः शम्बरः अनेकाः आसुगर्मायास्तस्मिन्प्रायुक्त प्रद्युम्नः ताम्मर्वाः म्माययाऽपोह्य असिना तस्य शिरोऽपाहर । धुलाकचारिणम्मर्वे देवास्तं दिव्यैः पुष्पैरवीर्य तुधुवुः ।
३६ संस्कृततृतीयपाठः ॥३॥ ततः प्रधुम्नः मार्यया सह आकाशमार्गेणागत्य रुक्मिण्या अन्तःपुरं प्राविशत् । तत्रत्याः स्त्रियः श्रीकृष्णसदृशं तं दृष्ट्वा अयं कृष्ण इति मत्वा तत्रतत्र निलिलियरे । ततो रुक्मिणी श्रीकृष्णाद्वैलक्षण्यं तसिन्दृष्ट्वा "कोन्वयं भवेत् ? आहोखित मम पुत्र एव भवेद्वा?" इति अचिन्तयत् । अत्रान्तरे नारद आगत्य सर्वमपीमं वृत्तान्तं श्रीकृष्णायाकथयत् । तच्छुत्वा श्रीकृष्णः देवकी वसुदेव. बलभद्रः अन्याश्च श्रीकृष्णपल्या तौ दम्पती द्रष्टुमागच्छन् । रुक्मिणी प्राप्तयौवनं पुत्रं स्नुषा च परिष्वज्य मुदं लेभे । नष्टं प्रद्युम्नं आगतमाकर्ण्य द्वारका वासिनः सर्वेऽपि जनाः तुतुषुः। अनया कथया "भाविचेष तदन्यथा। जीवत्यनाथोऽपि वने विसर्जितः।" इत्यामाणकद्वयं सत्यमेवेति ज्ञायते ॥ ॥ प्रद्युम्नचरित्रं संपूर्णम् ॥ स्यमन्तकोपाख्यानम्, सत्यभामाजाम्बवत्योर्विवाहश्च । आसीत् वृष्णिवंशे सत्राजिनाम राजा । स बहुकालं सूर्यस्य प्रीत्यर्थम् तपस्तप्ता तस्य प्रसादेन स्यमन्तकं नाम मणि लेभे । यस्य गृहे स मणिः तिष्ठति तस्मै अष्टभारतुलित सुवर्णम् दिनेदिने ददाति । स मणिः यस्मिन्देशे तिष्ठति स्यमन्तकोपाख्यानम् । तदेशस्थानां मारिकादय उपद्रवा न जायन्ते ? अनावृष्टिभयं न भवति । तादृशं मणि कण्ठे धारयन् सत्राजित् सहस्रांशुरिव ध्यरोचत । कदाचिच्छौरिः तं मणि सत्राजितमयाचत । द्रव्यलोभेन स तं श्रीकृष्णाय अदत्वा भ्रात्रे प्रसेनाय प्रादाद । एकदा प्रसेनः तं मणि कण्ठे धृत्वा हयमारा मृगयायै वनमगच्छत् । तत्र कश्चन सिंहः प्रसेनं हत्वा तं मणि गृहीत्वा गतः। ततो मणिकण्ठं सहस्रांशुवद्विरोचमानं केसरिणम् अक्षराजो जाम्ब- वान्दृष्ट्वा तं निहत्य मणिं गृहीत्वा खस्य गुहां प्रविवेश । तन मणि बालकस्य डोलायां क्रीडनं चकार । वनादनागतं भ्रातरं वीक्ष्य सत्राजित् "कृष्णेन मणि- लोभेन प्रसेनो हतः।" इति रहसि खजनेष्वब्रवीत् । इमं अत्तान्तं जनाः कर्णेकणे अजल्पन् । वासुदेवः आत्मनः प्राप्ताया अकीर्जिनाय प्रसेनं विचेतुं तद्धयस्य खुरपदवीम अनुसृत्य कतिपयैः जनैः सह वनं गतः। तत्र कसिंश्चित्पर्वते मृगेन्द्रेण हतम् अश्वं प्रसेनं च सर्वे ददृशुः। तसात्प्रदेशात सिंहपाद- लाञ्छनमनुसृत्य सर्वेषु गच्छत्सु केनचिल्लूकन इतं सिंह ददृशुः । तन्मार्गेण गतास्ते अन्धकारण निविडां कांचन गुहाम् अपश्यन् ।
३८ संस्कृतवृतीयपाठः॥३॥ श्रीकृष्णः खसहायभूतान् बहिः स्थापयित्वा ऋण प्रविष्टं बिलं प्राविक्षन् । तत्र सुदूरं गत्वा ऋक्षराजस्य जाम्बवतो गृहं प्रविष्टः श्रीकृष्णः प्रथमकक्ष्यायां डोलायां रुदन्तं बालक 'सिंहः प्रसेनमवधीसिहो जाम्बवता हतः । सुकुमारक! मारोदीः तव ह्येष स्यमन्तकः ॥" इति श्लाकमुक्त्वा टोला संचालयन्नी धात्री चापश्यम् । सा धात्री अपूर्वम् तं नरं दृष्ट्वा भयेन चुकोश । जाम्बवन्त छ्रुत्वा क्रुद्धः सन् तत्रागत्य कस्त्वमित्यपृच्छन् । असदीयोऽयं मणिः तं त्वमपहृतवानसि तसात्तं पद्यं देहि" इति दाशार्होत्रदत् । "खबाहुबलेनार्जितमिमं मणि न तुभ्यं दास्ये गम्यतां यथा- गतम्" इति जाम्बवानवदत् । ततस्तयोर्युद्धमभवत् । 4 एवं स्थिते श्रीकृष्णस्य परिजनाः द्वादश अहानि बिला- दहिः प्रतीक्ष्य तस्य प्रत्यागमनमदृष्ट्वा दुःखिताः स्वपुरं ययुः। रुक्मिणीदेवी देवकी वसुदेवः बलभद्रः अन्ये सुहदश्च बिलात् श्रीकृष्णस्य अनिर्गमं श्रुत्वा दुःखिताः सत्राजितम् अशपन् । अत्रान्तरे श्रीकृष्णः जाम्बवता मह अठाविति अहानि द्वन्द्वयुद्धं चकार | पुण्डरीकाक्षस्तं अधः पातयित्रा तस्य- वक्षमि उपविश्य मुष्टिना प्राहरत् । केनाप्यपराजितो जाम्ब- वास्तस्मिन्द्वन्द्वयुद्धे इत्यं क्षीणपत्वः विनगात्रो महान्तं श्रम प्राप्य वाराध्यं रामदेवं दध्यौ । “राक्षसकुलनाशक ! भक्त- - स्थपन्तकोपाख्यानम् । जनरक्षक! स्वामिन् राम! अबाई केनापि अपूर्वेण नरेण पराजिनो म्रिये इदानी भोपेक्षव, मां पाहि।" इति प्रार्थया- मास । तदा श्रीरामादभिन्नः श्रीकृष्णः रामरूपेण तस्य दृग्विषयो बभूव । “त्वं पुराणपुरुषो विष्णुः त्वमेव पूर्वम् रामरूपेण अवतीर्य रावणम् अधीः। त्वमेव ब्रह्मरुद्रेन्द्रादीनां देवाना- मपि स्रष्टा । मोहात् तब खरूपपज्ञावा मया कृतम् अपराध 'क्षमस्व ।” इति ऋशराजो भगवन्तं क्षमापयित्वा श्रीकृष्णं परिणेतुमेवावतीर्णाम् महालक्ष्म्यवतारभूता जाम्बवतीं पाणि श्राहयित्वा स्यमन्तक मणि च भगवते ददौ । नववरवेषः श्रीकृष्णः सूर्यया जायया जाम्बवत्या सह मणि कण्ठे आमुच्य द्वारकापगात् । वसुदेवाद्याः सर्वे श्रीकृष्णं दृष्टा दुर्गाया अनुग्रहेण उजीवितं मेनिरे। श्रीकृष्णः सभायां सत्राजित समाहूय बन्धुजनानां संनिधौ मगेरागमनप्रकारं कथायित्वा तद्धस्ते स्यपन्तकं ददौ । सत्राजित् श्रीकृष्णे आरो- पितेन अपयशसा अतिक्रीडितः सन् "किं मया कृतं चेत् कृष्णो मयि अनुग्रहं कुर्यात् , जनाथ मां न शपेयुः” इत्या- लोच्य स्त्रीरत्नभूतां दुहितर सत्यभाषां श्रीकृष्णेन विवाहयापास स्यमन्तक मणिवरं च तस्मै उपहारमदात् । देवश्च तां यथा- विधि उपयेमे ।। ॥ विवाहद्वयम् संपूर्णम् ॥
संस्कृततीयपाठः ॥३॥ नरकासुरवधः। अस्ति प्राग्ज्योतिष नाम सर्वसमृद्धिमत्पुरम् । तत्र नरको नाम आसुरस्वभावो राजाऽऽसीत् । स यदा भगवान् वराहावतारमकरांत तदा भूदेव्यां तस्मात उत्पन्नः। महाबलिष्ठः स वरुणस्य श्वेतच्छत्रं, इन्द्रस्य मणिपर्वतं, अदितिदेव्याः कुण्डले च अपजहार । तं प्रतिकर्तुमसमर्थो देवेन्द्रः द्वारवती सकलभाग्यवतीमागत्य नरकासुरस्य दौरात्म्यं श्रीकृष्णाया- ऽकथयत् । गोविन्दो मघवन्तम् आश्वास्य, 'नरकम् अचिरा- देव हनिष्यामि' इति उक्त्वा तं प्रेषयामास । तस्य गमनानन्तरं अच्युतः सत्यभामया सह गरुड- मारुह्य प्राग्ज्योतिषं ययौ। तस्य पत्तनस्य गिरिदुर्गः, शस्त्र. दुर्गः, जल-अग्नि अनिलदुर्गाश्च अभूवन् । तान् सर्वाशौरिः गदया चक्रायुधेन सायकैश्च भक्त्वा पुरं प्रविश्य पाश्चजन्य दध्मौ । शङ्खध्वनिश्रवणेन जले सुप्तो मुरनामा नरकस्य मन्त्री उत्थाय त्रिशूलं गृहीत्वा श्रीपतिना सह अयुद्धयत । तदा स: गदया मुरप्रयुक्तं विशूलं छित्वा तमवधीत् । तदारभ्यैव श्रीकृष्णस्य "मुरारिः" इति नाम अजनि । ततो नरकस्य पीठप्रभृतयः चमूपतया युद्धाय तस्थुः । तान्सन्धिणेन अरारियमलोकमनयत् ।
नरकासुरवधः । ४१ घरासुतः सेनापतीनां नाशं श्रुत्वा स्वयं सुप्रतीकाभिधाने क्षारोदधिजे गजे स्थितः अनेकैः तथाविधैर्गजैः, महत्या सेनया च सहितः मुरमथनेन सह युद्धायागच्छत् । सत्यभामां दृष्ट्वा सौमोऽतीव कुपितः कृष्ण सत्यभामागरुडानामुपरि शरवर्षपवा- किरत् । गरुडः दम्पती उदय भौमस्य गजान् तुण्डेन पक्षाभ्यां नखैश्च व्यदारयत् । ताक्ष्योपद्रुताः नरकस्य गजा: सैनिकाश्च पलायन्त । सेनायाः पराभवेन नितरां क्रुद्धो नरका तोमरान् नागचान् त्रिशूलं च प्रायुत । तानि सर्वाण्यायुधानि. छित्वा चक्रायुधेन तस्य शिरो जहार देवकीतनयः । ततो नगरी प्रविष्टः धरया स्तुतः शौरिः नरकस्य पुत्रं भगदत्तं राज्येऽभिषिच्य मणिपर्वतम् इन्द्राय, श्वेतच्छत्रं वरुणाय च संप्रेष्य भौमस्यावरोध प्राविशद । तत्र भौमेन बलादपहृताः. पोडशसहस्त्राणि अनूढा राजकन्यकाः आसन् । ताः सर्वाधार सर्वाङ्गया श्रीकृष्णं वविरे पतिम् । ताः सर्वाः नरकान्तकः शिविकाभिः द्वारकां प्राहिणोत् । भगदत्ताय सुप्रतीकमेकमेव गजं दत्वा अवशिष्टान् चतुषष्टिं बजान् स्वपुरी प्रेषयत् । धरादेव्या दत्ते अदित्याः कुण्डले गृहीत्वा मात्रे दातुं भार्यया सह स्वर्गमगच्छन्द्रीकृष्णः । श्रीकृष्णः आगच्छतीति विज्ञाय दिवौकसः अभिमुखं गत्वा अर्घ्यपाद्यादिभिः तं संपूज्य इन्द्रभवनमानयन् । श्रीकृष्णा ac संस्कृततृतीयपाठः॥३॥ सत्यभामा च इन्द्रशचीभ्यां पूजितौ सन्नौ अदित्याः भवनम् अगच्छताम् । श्रीकृष्णो मातरमनमत् । चिरादृष्टं सुनम अदितिः आशीमिः अभ्यनन्दत् । सत्यभामा च कुण्डले श्वश्वाः पादयोः समर्थ प्रणनाम । सा स्नुषामालिजय "दीर्घायुभव कल्याणि, पत्युस्त्वं प्रीतिपात्रं भो।" इति आशिषोऽवदत् ॥ पारिजातापहरणम् । तौ दम्पती अदित्या अनुज्ञातौ वैनतेयमारुम प्राथा। मध्येमार्गम् हृद्यगन्धं मनोरमं नन्दनवनं दृष्ट्वा देवी दयितं पाह। "केशव! असिन् प्रविश्य मुहूतम् विहर्तुम् मम इच्छा- अस्ति" इति । एवं दयितया प्रार्थिनो देवः गरुडादरुप शक्रकिकरैः पालितं वनं प्रविवेश । मत्यभामा तत्र अनेकान् मनोरमान् अभ्रंलिहान वृक्षान् , सुगन्धिाभात्या लताः उत्पल- वतीवापीः, फलभारनतान्वनस्पतीन् , प्रसूताजा सुरमीगि शुचिजल नि तटाकानि चापश्यन् । तत्र कंचन विचित्र अदृष्टपूर्वम् महानुभं देवी दृष्ट्वा पश्य प्राणनाथ! अस्य मूलानि प्रवालानि, बुनोऽस्य जातरूपम्, पर्णानि इन्द्रनीलानि, पुष्पाणि माणिक्यानि, वेदिका वैदूर्यन, मुक्ताफलानि फलानि, कुसुपकिंजल्कानि वज्राणि, किनामवेयोऽयं तरू? एका पारिजातापहरणम् । महोरुहम् अहं कुत्रापि नापश्य, अयं मम मनो हरति । अयं विटपी अस्मापुरी नेतन्यः । 'रुक्मिण्या, जाम्भव या मित्र- विन्दायाः, भद्रायाः, लक्ष्मगायाः नीलायाश्च त्वमेव मम दयिता' इति मां आर्य वदसि, तद्यदि परमार्थः, न तु परिहासपिजलितं तर्हि इपम् उत्पाव्य मम निष्कुटे रोपय ! तेनाहं मम सपत्नीनां मध्ये अधिक शोभेय । तव वाक्य सत्यमिति च श्रद्धास्ये" इत्यवदत् । प्रिये! सत्यं वं मर्वाभ्योऽपि मम वल्ल पतपैव । अमृत- मथनकाले क्षीरोदधेरुत्पन्नोऽयं तरुः । मम आज्ञयैत्र इन्द्र इम गृहीतवान् । भद्रे! न केवलम् अयं शोमनदर्शनः, अपि तु महान्नोऽस्य गुणाः। अयं मनाम मंकल्पितान् सर्वान् कामान् वितरति । स एव असा "कल्पतरूः" इति नाम । तस्मादयं स्वर्गान् भुवं नेतुं न शक्यः । यद्यावाम् एनमय गच्छेव तर्हि इन्द्राद्याः अष्टौ दिमाला युद्वार्थ पागच्छेयुः। एकस्य मम बहुभिः सह जन्ये कोहनी विपन् मवेतवमेव युदयस्व"। इति सात्राजितीमवदद्गदाग्रजः । कंगारे! किमेभिर्व्य लीक विनम् वित्रलभ? तब बलातिगयं जानती अहं न विभीयाम् । युद्धं वा भवतु, अन्यद्वा मवतु, उत्पाटय तरुम, आरोपय गरुडम्, शब्दापय पाञ्चजन्यम् प्रतिष्ठस्व द्वारकाम्” इति सयभामा अवदत् ।
४४ संस्कृतवतीयपाठः॥३॥ इत्युक्तः सत्यया कृष्णः ताननादृत्य रक्षकान्। उत्पाव्या रोपयामास पारिजातं गरुत्मति । ततो निवारयामासुर्गोविन्दं वनपालकाः। केचिद्रुततरं गत्वा देवेन्द्राय न्यवेदयन् । “कृष्ण! त्वं देवेन्द्रस्य अनुज इति त्वां वयं मानयन्तो वनं प्रवेष्टुमन्व- जानीम । यदि इमं कामतरूं नयसि तर्हि क्षेमेण नगरी न प्राप्स्यसि" इति केचित्कृष्णमवदन् । शच्या सह एकासने उपविष्टं पाकशासनं केचित् वनरक्षका गत्वा "सुरेन्द्र! वृत्रहन् ! सत्यभामा नन्दनवनं म; सह प्रविश्य इन्द्राणी बहु विनिन्ध पारिजातमुत्पाव्य भुवं नयति"। इति अवदन । इदमप्रियं वाक्यं श्रुत्वा दण्डाहत उरग इव क्रुद्धः पार्श्वस्थायाः भार्याया मुखं च वीक्ष्य भटान् युद्धमनाहाय आदिशत् । संनाहभरीश्रवणानुपदम् अनिः यमः नितिः वरुणः वायुः कुबेरः ईशानश्च स्वानि वाहनान्यालय सैन्यः सह युद्धाय सजा आगताः । पृष्ठतः आपततः दिक्पालानालोक्य श्रीकृष्णः “प्रिये। न मे हितां वाचं त्वमग्रहीः। इमे बृन्दारकाः तव पाहुणिका: प्राप्ताः । यत्कर्तव्यं तत्कुरु" इत्यवदत । तच्छ्रुत्वा सत्यभामा श्रीकृष्णहस्तात शाईमादाय तेषां अभिमुखीभूय नदद्भिस्तैः प्रयुक्तान्बाणान् शाङ्गप्रयुक्तैः शिलीमुखैः चिच्छेद । ततो वैश्रवणः सत्यभामाण उपरि स्वर्णपुंखाशरानमनत् । सा देवी तान्बाणान् समीपे अप्राप्तानेव नाराचैः कतित्वा पुनः पारिजातापहरणम् । ४५ पञ्चभिः शिलीमुखैः तं जठरे विव्याध । अनिविद्वः सः हगिपियां भल्लः प्राहरत । सा तान् पुनः अर्धमार्गे छित्वा अर्धचन्द्रेण बाणेन पौलस्त्यस्य महत् धनुः चिच्छेद । धनश्वरः क्षणात् अन्यं चापमादाय सजं चकार । तमपि सा चिच्छेद । एवं तस्य बहूनि धनूंषि सा न्यकृन्तत् । ततो देवीं हन्तुं कुबेर मुद्गरं प्राहिणोत् । अन्तिकागतं मुद्गर मुरारिवीमेन करेण गृहीत्वा उच्चैहास "अये! त्वं श्लाघनीयासि, त्वं क्षत्रियाण्ये- वासि" इति तां प्रशस्य समाश्लिष्यत् । धनदो वीडिता युद्धादपाक्रामत् । ततो वरुणः पाशहस्तः पुरतस्तम्थौ। तदा कृष्णवाहस्य गरुडस्य, वरुणस्य च घारं युद्वर समभूत । वरुणः गरुडस्य कण्ठ पाशं विन्यस्य तं विचकर्ष । पनगरिपुः पक्षाभ्यां पार्श निरस्य तस्य वाहनभूतं न नखरैर्ग्रहीत्वा समुद्रे प्राक्षिपत् । वरुणः स्ववाहने नष्टे महता प्रयत्नन पाशं संपाद्य पदातिरे। युद्धात अपाद्रवत् । ततः अनिः मारुतः यमः नितिष श्रीकृष्णेन युद्धयमानाः पराजिताः। तान्पिलायितान्वीक्ष्य वृषभवाहनः शङ्करः श्रीकृष्णमभ्यद्रात् । लोकविख्याती तावुभौ घोरं कदनं चक्राते । गौरीशः लक्ष्मीशे त्रिशूल प्राहिणोत् । वैकुण्ठः गिरिशे कौमोदकी गदां विक्षेप। ते गदा त्रिशूले मध्येमार्गम् परस्परं प्रहृत्य अम्बुधौ पेतः । पुना' कौमोदकी श्रीकृष्णहस्तं, त्रिशूलं शङ्करं च प्रापतुः। गरुडा द्वाभ्यां पक्षाम्यां चञ्चुकोव्या नखरैश्च वृषभमम्पर्दयत् । पुनः ४६ संस्कृतवतीयपाठः । ३॥ शूलिना चोदितम् वृषभं वैनतेयः पन्यां विषाणे गृहीत्वा सुदूर चिक्षेप। वृषभवाहनः प्रमथैः सह कैलासं जगाम । एवं सर्वान्पराजितान् शक्रो वीक्ष्य प्रगृहीतशरासनः मन् ऐरावतमारुह्य कृष्णमभ्यद्रवत। तावुभौ भ्रातरौ अन्योन्यस्मिन् बाणगणानमुञ्चताम् । क्षीणसत्वो मघवा ऐरावतं तायम् प्रति प्रेषयामास । पाकशासनप्रेषितो हस्ती गरुडं चतुर्भिर्दन्तैः घट्टयामास । पक्षीश्वरश्च ऐगवतं पक्षाम्या पद्धयां च प्राहरन् । इन्द्रो वजं गृहीत्वा वृषाकपि प्रजहार | समीपे आगतं वज्रायुधं चामेन हस्तेन गृहीत्वा श्रीकृष्णः प्रजहास । सुरपतिः निरायुधः अदितवाहश्च भूत्वा ब्रांडया रणात पराद्रवत् । पलायमानं तं दृष्ट्वा सत्भामा प्रहस्य " शक्र ! एहि! मा निवर्तस्व, पौलोम्या घल्लभस्य तव पलायनं नोचितम् । ऐश्वर्यमत्ता पौलोमी रणपराजितं त्वां सद्यः अवमस्यते ।" इत्यब्रवीत् । इत्थं देव्याः सोपालम्भ वचः शक्रो निशम्य "देवि! यद्यप्यहं तव ज्येष्ठो देवरः, तथापि त्वं सर्वजगतां जननी महालक्ष्मीः; तव भर्ता तु सर्वजगजनका परमपुरुषः। जगत: पितरों युवा विरुद्धय को वा विजयी भवेत् । युवाभ्यां पराजयो मम भूषणमेव ।” इति देवीमुक्ता कृताञ्जलिर्वासुदेवं प्रणम्य “पुण्डरीकाक्ष ! अज्ञानेन मया कृतमपराध क्षमस्व । मयि विद्यमानं सर्वम् त्वयैव दत्तम् । ऐरावतः, कुलिशम । पारिजातः, देवराज्यम् , इयर अमरावती, एतानि सर्वाणि,
, इति
पारिजातापहरणम् ।
त्वदधीनानि, एतेषु यद्यद्रोचते तत्सर्वम् भगवान्द्वारका नयतु"
इति कृष्णमब्रवीत् ।
"शक! त्वया कश्चिदपि अपराधो न कृतः
भगवानुवाच । पुनरिन्द्रः "श्रीकृष्ण! तब पैतृष्वसेयः
स्यालश्च, मत्पुत्रः अर्जुनः भारते युद्धे राधेयात् रक्षितव्यः"।
इति भूयोभूयः प्रार्थयामास । ततः पुरन्दरः वज्रायुधं
लब्ध्वा पुरं ययौ ।
गरुडः श्रीकृष्णं सत्यभामा पारिजाततरं च वहन्
लीलया द्वारकां ययौ ।
तत्र श्रीकृष्णः समां प्रविश्य आहुकं वसुदेवं बलभद्रं
च प्रणम्य नरकासुरवधाधिकं सर्वम वृत्तान्तमकथयत । आनीतं
पारिजातं मत्यभामायाः प्राङ्गणे मणिमय कुट्टिी स्थापयामास ।
देवकीप्रभृतिकाः मातरः, रुक्मिण्याद्याः सप्त महिष्यश्च आगत्य
पारिजातं ददृशुः। प्राग्ज्योतिषपुगत प्रेषिताः षोडशसहस्त्राणि
राजकन्याः नानागारेषु निवेश्य स्वयं तावन्ति रूपाणि स्वीकृत्य
एकस्मिन्नेव मुहूर्ते तास पाणीन अग्रहीत् ।
यथा श्रीकृष्णस्य सर्वत्र जयः कल्याणपरंपरा च तथा
एतत्कथापठितॄणामपि स्यात् ॥
“४८ संस्कृततृतीयपाठ ॥३॥ कुचेलोपाख्यानम् । आसीन्कुचेल इति नाम्ना कश्चित ब्राह्मणपुत्रः। यदा श्रीकृष्णः अवन्तीपुरवास्तव्यात् सान्दीपिन्याचार्यात् विद्या अभ्यास्यत् तदा कुचेलाऽपि श्रीकृष्णेन सह विद्याभ्यासमकरोत्। तसात्स तस्य सतीोऽभूत् । कृतसमावर्तनः स ब्राह्मणा स्वगृहं गत्वा स्वसदृशीम अन्यमा सुशीलाम् भार्याम् उदवहन् । तस्य द्वित्राः पुत्राः तावत्यो दुहितरश्चाभवन् । सः उञ्छवृत्या गृहस्थाश्रपविहितानि पञ्चमहायज्ञादीनि कर्माणि कुर्वाणः जायां पुत्रांश्वापोषयत् । धनिकैदरिद्राणामुपयोगाय मार्गवृक्षेषु निक्षिप्ता कन्था आनीय भार्यायै ददाति । सा पश्चषान् पटखण्डान् मेलयित्वा स्वयं परिधत्ते; पुत्रीणां च अर्धारुकं करोति । तथाऽपि सा संतुष्टैवासीत् । एवं गच्छति काले कदाचित्सा- दैवयोगेम स्वशिशूनां दौर्भाग्यं हष्ट्रा विषष्णाऽभूत् । ततः सा भारपेत्य नाथ! पश्यासहारकान् । एतेषां केशेषु लेपनाय प्रसूतिमात्रमपि तैलं गृहे नास्ति । निःस्नेहा एतेषां मूर्धजा आकाशे डयन्ते। एते पिशाचा इव दृश्यन्ते । एतान्पश्यतस्तव कुतो वा नोत्पद्यते दया। यस्य कस्य वा प्रभो सकाशं याचनार्थम् गत्वा विपुलं धनम् आनेतुं त्वं शक्तः। त्वं तु सान्दीपिन्याचार्याद चतुरो वेदान् चतुष्पष्टिं कलाश्च अधीतवान् । एतादृशं त्वां सर्वेऽपि संपानयेयुः । अपि च त्वमेवासकद्वदति "मम सतीर्थ्यः श्रीकृष्णः। सः लक्ष्मीपतेरवतारभूतः। तेन - 4] कुचेलोपाक्यान । ४९ आचार्यान्य पूर्व समुद्रे पतित्वा मृतः पुत्रः यमलोकादानीय दत्तः। स एव मोक्षदाता। किमुत तत्कृपया ऐहिक सर्वैश्वर्थ भवेदिति" इति। "तस्मात् श्रियः पत्युः सकाशं गच्छ । ब्राह्मणेषु प्रीतिमान् सः वाल्यसखाय तुभ्यं भूरि द्रव्यं दद्यात्"। इति भार्याया वचनं श्रुत्वा 'अनेन वा कारणेन मम चिराव तस्य मुकुन्दस्य दर्शनं भविष्यति' इति संचिन्त्य, अये कल्याणि! भगवतः खाद्यम् उपायनं गृहे क्रिमप्यन्ति ?, इति पप्रच्छ । भर्ता श्रीकृष्ण सकाशं गमिष्यतीति हर्षेण सा पृथुकतण्डुलानां चतुरो मुष्ठीन्याचित्वा कन्थायां बद्धा भर्ने प्रादात् । स ब्राह्मगः तदुपायनं गृहीत्वा प्रातिष्ठन । मध्यमार्गम् गच्छन् सः 'दरिद्रस्य मम कृष्णसंदर्शनम् कथं स्यात्' इति यहाऽचिन्तयत् । तदा गगने गरुडध्वनिरश्रूयत । तादृशशकुनदर्शनेन इष्टमिद्भिरवश्य भविष्यतीति निश्चित्य सः द्वारकां गत्वा तत्र अच्युतमहिषीणां षोडशसहस्रगृहाणां मध्ये अन्यतमं गृहं प्रविवेश । तहं तु शैव्याया मित्रविन्दाया आसीत् । तत्र प्रियया सह पर्यके उपविष्टः श्रीकृष्णः आगछन्तं विप्रं दूरादेव विलोक्य तमभिगम्य दोाम् परिगृह्य मञ्चे उपावेशयत् । शौरिः तस्य स्वागतं पृष्ट्वा भार्यया रजतपात्र आनीतेन वारिणा वित्रस्य पादावक्षालयत् । खयं सर्वलोकपावनोऽपि देवः तस्य पादोदकं स्वशिरसा दधार। चन्दनागरुकुलमत्रासितेन गन्धेन तं लिलिम्प । शैव्या व्यालव्यजनेन तं मित्रं वीजयांचके। अध्वगमनेन शान्ताय ५० संस्कृततृतीयपाठः ॥३॥ तसै पातुं पानीयं, किंचिदुपहारं च ददौ। सभार्येण श्रीकृष्णेन एवं सभाजितं तं विप्रं दृष्ट्वा अन्तःपुरजनो व्यसयत । श्रीकृष्णस्तं ब्रवीति "मित्र! आवयोर्विद्याभ्यासपर्यन्तं त्वां जाने। ततः स्वग्रामं गतस्त्वं सदृशी भार्याम उदवहः किम् । तव धनेच्छा नास्तीति मम पूर्वमेव विदितम् । कामलम्पटोऽभूत्वा यावदर्थम् गृहे त्वं सजसे कच्चित् । वर्णाश्रमोचितानि विहितकर्माणि आचरसि कच्चित् । आवां बाल्ये गुरुकुले अवात्स्व खलु ? तत्स्मरसि किम् ? । तत्र. कसिंश्चिद्दिने गुरुभार्यया चोदितावावां इन्धनानयनाया प्रविष्टावभवाव । तत्र अकालोत्पन्नेन सवातवर्षेण क्लिष्टावावां रात्रौ वन एवावसाव । परेववि प्रातः आचार्यः आवाम् अन्विष्य आगत्य स्वगृहमनयत् । असत्परिचर्यया तुष्टो गुरु - वनुजग्राह । मित्र! सत्यं वदामि गुरोरनुग्रहेणैवाहमेवं सुखी वसामि" इति। ब्राह्मणस्तच्छ्रुत्वा "श्रीकृष्ण ! सर्वम् मरामि । यावच्छक्यं विहितमार्गेण गृहस्थाश्रमे वर्ते। सकलवेदप्रतिपाद्येन ब्रह्मस्वरूपिणा त्वया यो गुरुकुलवासः कृतः, यच्च गुरुप्रसादा- दियांस्तव महिमेति उच्यते, तत्सर्वम् लोकशिक्षणार्थमेव"। इत्यवादीत् । एवं नानाविधाः पूर्वकथाः कथयन् श्रीनिवासः "मित्र ! चिरादागतेन त्वया किमप्युपायनमानीतं किम १ तव भार्यया किमपि प्रेषितमेव स्यात् । किमसिंश्चीरवन्धे वर्तते ? इति कुचेलोपाख्यानम् । ५१ तत्स्वयमेवापहृत्य तद्धन्धनमवमुच्य अहो! एते पृथुकतण्डुला। मह्यं परमं रुचिताः खलु इत्युक्त्वा तेषामेको मुष्टिं गृहीत्वा बघास । पुनर्द्वितीयां मुष्टिं यावदृह्णाति तावच्छेब्या त्वरित- मागत्य ईश्वरस्य हस्तं स्वहस्तेन गृहीत्वा "आर्यपुत्र! एतावदलं अस्य द्विजन्मनः सर्वसमृद्धिं दातुम् । किंपुनर्वितीयेन ?" इति न्यषेधत् । श्रीकृष्णेन सह रात्रौ षड्रसोपेतमन्नं भुक्त्वा क्षीरं पीत्वा तेन सह हंसतूलिकातल्पे सुखमशेत कुचेलः। अपरेधुः प्रभाते श्रीकृष्णः "गृहिणीं बालकांचासहायान्गृहे त्यक्ता तवात्र बहून् दिवसान स्थितिनोंचिता। अतः शीघ्रं गच्छ” इति अवदत् । " तदेव ममापि इष्टम् । अनुजानीहि मां गन्तुम्" इत्यापृच्छय विप्रः स्वग्राम प्रति प्रतस्थे। अर्धमार्गम आगतेन तेनालोचितम् "अहो दृष्टः खलु ब्राह्मणेष्वादरो लोकनाथस्य ? दरिद्रतमं मां देवः स्वयमाश्लिष्टवान् । देव्याऽहं चामरेण वीजितः । इतरेषां दुर्लभं तस्य दर्शनं मम जातम् । एतावदलं मम जन्मनः साफल्याय। तथापि मम भार्याया वाञ्छा केवलं न पूरिता। तत्राहं कारणं मन्ये 'अधनायासै धनं दत्तं चेन्मत्तस्सन्नयम् आत्मानं न सरेत् ।' इति करुणया मह्यं धनं स्वल्पमपि न दत्तवान् । भवतु : कथंचिज्ज्ञानोपदेशेन गृहिणी समाधासे" इति । - ५२ संस्कृतत्तीयपाठः॥३॥ ततो यदा स्वस्याग्रहारमागच्छति तदा स्वगृहस्य स्थाने अदृष्टपूर्वम् हर्म्यम् ददर्श। तदृष्ट्वा "कस्यदं सुधानिर्मित महद्वेश्म ? कुत आगता इमा वाप्यः? केन वा निर्मितानि इमानि उद्यानानि? कुत्र वा गतं मदीयं कुटीरम् ?" इ य. चिन्तयत् । एवं मीमांमया तस्य हर्पस्य पुरतः तिष्ठन्नं तं श्रीरिव रूपिणी निष्ककण्ठीभिर्दासीभिः परिवृता तस्य भार्या गृहादहिरागत्य दासीभिर्नीराजनं कारयित्वा नपन्तः प्रावेशया इन्द्रभवनसदृशं सर्वसमृद्धिमत्स्वभवनं, बहुभिर्भूषणैः खलंकृतां गृहिणी, निष्ककण्ठी: पीतांवरं यमानाः वपुत्रीः, अवेयरधारिणः सुवसनान्पुतांश्च वीक्ष्य, “अहो! श्रीपतेः श्री कृष्णस्य प्रमाद एव कारणम् एतस्याः समृद्धेः। यदवदन्नेव सः महनी संपदं मे दत्तवान् एतदेव खलु नस्य महत्वम् ?” इति विसिपिय । एवं श्रीनिवासकृपया प्राप्तमहेश्वर्यः स कुचेलः तदा रभ्य "सुधामा" इति प्रमिद्धोऽभून। नस्मा छ्रीकृष्णमकानां दुर्लभं किञ्चन नास्ति । ऐहिकं पारत्रिकं च सर्वम् हस्तगतपेव ॥ ॥ सुधापचरित्रं संपूर्णम् ॥ ॥ परीक्षिचरित्रम् ॥ आसीत्पश्चसु पाण्डयेषु मध्यमः अर्जुनो नाम । तस्य भार्या सुभद्रा नाम भद्रभाषिणी श्रीकृष्ण भगिनी। तत्पुत्रो परीक्षिचरित्रम् । १३ अभिमन्युः पितरं मातुलं च शौर्येऽनुससार । सः षोडशवर्ष देशीय एव भारतयुद्धे अनेकाशनवधीत् । तत्पराक्रममसह- मानाः द्रोणकर्णजयद्रथाद्याः प्रत्येकं तं जेतुम् असमर्थाः सन्तः मिलित्वा तमभिमन्युम अधर्मेण जघ्नुः । तदानीं तद्भार्या विराटराजपुत्री उत्तरा अन्तर्वन्यभवत् । भीमसेनस्य गदा- प्रहारेण मृतस्य दुर्योधनस्य तृप्त्यर्थम् द्रोणपुत्रोऽश्वत्थामा पाण्डवसन्ततिनाशाय ब्रह्मास्त्रं विसर्ज। तेनास्त्रेण पीड्यमान गर्मा उत्तरा श्रीकृष्णं शरणमगच्छत् । भगवास्तं गर्भम् अस्त्रतो ररक्ष । तथाऽपि म शिशुर्पत एव जज्ञे। तदा “यदि कश्चिदाजन्मब्रह्मचारी इमं मृतं शिशुं स्पृशेतर्हि अयं जीयेत् " इति अशरीरा वाणी नमसो बभूव । तां श्रुत्वा युधिष्टिरः मृतं शिशु देवव्रतेन स्पर्शयांचकार । तेन मृतस्य शिशोः कोऽपि विशेषो नाभवत् । ततो भीष्मः युधिष्टिरमवदत् "मादृशानां किमपि मानसिकं चाश्चल्यं कदाचित स्यात् । अतो न वयं शुद्धा ब्रह्मचारिणः। वस्तुतो नित्यब्रह्मचारी तु श्रीकृष्ण एव । स यदीमं स्पृशेत् तर्हि अयमसंशयं जीवेत् । तद्वाक्यं श्रद्धाय धर्मसूनुः श्रीकृष्णं सस्मार। स्मृतमात्र एव वासुदेव आगत्य तं शवम् अस्पृशत् । स्पर्शनानुपदं स शिशुः रोदितुमारभत । युधिष्टिरः तस्य शिशोः परीक्षित इति नाम चकार । सः उत्तरकुमारस्य तनयाम् इरावतीम उपयेमे। तस्यां तस्य जनमेजयाद्याश्चत्वारः तनया बभूवुः ।
संस्कृततृतीयपाठः ॥३॥ स परीक्षित्कदाचिन्मृगयायै वनं गतोऽनेकान् दुष्टान् मृगानवियत् । तत्रैको मृगोऽर्थविद्धः प्राद्रवत् । परीक्षित् तस्य पृष्ठतो दूरं धावित्वाऽपि तं मृगमलभमानः पिपासातः कुत्रापि जलाशयं नापश्यत् । तत्रैकस्याः पर्णशालाया बहिः निमीलित- नयनं ध्याने स्थितं मौनव्रतधरं शमीकं नाम ऋपिम् औत्तरेयो दृष्ट्वा अयं मह्यं पानीयं दास्यतीति मत्वा "ब्रह्मन्! अहं पाण्डवानां प्रपौत्रः परीक्षिनाम चक्रर्ती । आखेटे मया विद्धो मृगोत्र धावनागतः। तं कच्चिद्भवान् दृष्टवान् ? नो चेत् विशुष्यतालवे मह्यं जलं वा पातुं ददातु" । इत्यवदत् । असंप्रज्ञातसमाधौ स्थितः स मुनिन किंचिदपि प्रत्युवाच । स राजा "मुधा मीलितनयनोऽयं मुनिः अनेन क्षत्रियापशदेन मम किं भाव्यम् ? इति अभिप्रायेण मामवाजानात्" इति मत्वा कोपात दूरे पतितं मृतमुरगं धनुष्कोट्या उदृत्य मुनेरंसे क्षिप्त्वा प्राचलत् । तस्यर्षेः पुत्रोऽतितेजवी शृङ्गी नाम सवयोभिः क्रीडन् आसीत् । सः तातं राज्ञा अवमानीतं शुश्राव । कोपाकुलितः सः वृद्धस्य तपस्यभिरतस्य मम पितुः कण्ठे यः क्षत्रियापशदो मृतं सर्पम् समसृजत् तं राजानं परीक्षितं मद्वाक्यचोदितः सर्पराट् तक्षकः इतः सप्तमेऽहनि दशतु” इति शशाप । ततः स ऋषिकुमारः पितुः सकाशं गत्वा तथाविधं तं दृष्ट्वा तस्य कण्ठात् तमुरगं निष्कास्य समाधेरुत्थापनमार्गेण तमुत्थाप्य राज्ञे वदत्तं शापं पित्रेकथयता -- परीक्षिचरित्रम् । शमीका पुत्रं चिनिन्ध गौरमुखनाम्नः स्वशिष्यस्य मुखेन शाप वृत्तान्तं राज्ञे निवेदयामास । परीक्षिञ्च वनात्प्रतिनित्य नगर गतः क्रोधात्स्वकृतेन ब्राह्मणापमानेन बहु पर्यतप्यत । अत्रान्तरे स राजा ऋषिशिष्यात् भृङ्गिदत्तं शापं श्रुत्वा महापराधिनि स्वस्मिन् ऋषिकुमारेण यः शापो दत्तः स युक्त एवेति अमन्यत। ततः स राजा पुत्रं जनमेजयं राज्येऽभिषिच्य यावच्छक्यं प्रतीकारस्य कर्तव्यत्वात् एक तम्भं सुरक्षितं सौर- प्रवेश्य प्रासादं गङ्गायां कारयित्वा स्वयं तत्रोपविश्य स्वरक्षणार्थ विषवैद्यान् मन्त्र सिद्धान्द्विजांश्चानाययामास । खभावतो भगवद्भक्तस्य प्रायोपविष्टस्य राज्ञस्त लोपदेशार्थम् आगतेन व्यासपुत्रेण शुकाचार्येण द्वादशस्कंधात्मकं श्रीमद्भागवतं सप्तसु दिवसेषूपदिष्टम् । दैवचोदितस्तक्षकः सप्तमेऽहनि प्रातः सहायभूतैः कति- पयै गैः सह परीक्षितं दष्टुं ब्राह्मणवेषेण आययौ । दैवात्सा, धनाशया राजानं निविष कर्तुम् तेनैत्र मार्गेण गच्छन्तं कश्यप- गोत्रोद्भवं मन्त्रसिद्धं कंचन ब्राह्मणं ददर्श । स ब्राह्मण कथाप्रसङ्गेन "तक्षण दमयमाणं राजानं निर्विषं कृत्वा तसाद्धनं प्राप्तुं गच्छामि" इत्यवदत् । तच्छ्रुत्वा तक्षकस्तं द्विजम् "अहमेव स तक्षकः। यदि तव मद्दष्टस्य राज्ञ उञ्जीवने शक्तिः स्यातर्हि इमं वृक्षं दशाम्नमुजीवय" इत्युक्त्वा पुरतः स्थितं वटवृक्षमदशत् ।
५६ संस्कृततायपाठः ॥३॥ तक्षकेन दष्टः सः वृक्षः, तत्स्थाः पक्षिणः, इन्धनाहरणाय तं वृक्षमारूढः कश्चन द्विजश्चेत्येते सर्वे भलीभूताः। स काश्यपो द्विजः आचम्य प्राणानायम्य प्रयतो भूत्वा सर्वमपि भस्म पृञ्जीकृत्य विषहरं मन्त्रं जजाप । जपपहिम्ना तहस्यशेषणु- न्यग्रोधाङ्कुरः समभूत् । ततः पर्णद्वयं, क्षुद्राः शखाः, महा शाखाः, समग्रो विटपी, तत्स्थाः पक्षिणः तमाश्रिताः लताः, इन्धनापचायी स पुरुषश्व इत्येवं क्रमेण ते सर्वेऽपि समजीवन् । स तक्षकस्तस्यान्याही मन्त्रशक्तिं दृष्ट्वा विस्मिनस्तं ब्राह्मणमुवाच । “मामा! सस्माद्राहो बाद्धनीबसे ततोऽपि अधिक स्वापतेयं ते दास्यामि सद्गहीत्वा निदर्तरत्र गृहान । मदीयं धनं निश्चितम् । राजकीय तु संदिग्धम् । यदिष्टं तरकुरु" इति । तच्छ्रुत्वा स काश्यपः दिव्यज्ञानेन नं राजानं क्षीणायुपं विज्ञाय तक्षकाद्वित्तं लब्ध्या अपावर्तन । तक्षकोऽपि स्वसाहाय्यार्थमागतान् भुजङ्गमान तापकरूपेण राजप्रासादं प्राहिणोत । स्वयं च तैस्तापसैः राज्ञे उपायनत्वेन दातुं गृहीतेषु फलेषु एकस्मिन्बदरी ने सूझा अभिषेक अतिष्ठत । ते च तापसरूपिणः सः से आशीर्वाद कुत्ता तद्धन्ते फला-बददुः। ततः परीक्षिति एकस्मिन्फले कमप्यपूर्वम् कृमि दृष्ट्वा “किमयमेव तक्षको भवेत् । इति वितर्कयति सति स तक्षकः स्वीयं महान्तं रूपं गृहीत्वा भांगन तमावेश अदशत् । तथाभूतं तं राजानं दृष्ट्वा तत्र स्थिताः परिजना: प्रदुद्रुवुः।
गजेन्द्रमोक्षः।
५७.
ततो जनमेजयः पितुरो_देहिकी क्रियां चकार ।
तन्मन्त्रिणः काश्विरस्थ सुवर्णधर्मणः पुत्रीं वपुष्टमा नाम
जनमेजयेन विवाहयामासुः ।
अनया कथया ब्राह्मणापमानी क्षेमं न लभते इति,
मंत्रम्य शक्तिरस्ति इति ज्ञायते ।
॥ परीक्षिचरित्रं संपूर्णम् ॥
aren
॥ गजेन्द्रमोक्षः॥
पूर्वम् पाड्यदेशे इन्द्रद्युम्न इति ख्यानो विष्णुभक्तो गजा
आसीत् । सः चिरं धर्मेण अवनि प्रशास्य पुत्रे राज्यभारं
निधाय वानप्रस्थाश्रमी मलयपर्वते अवसत् । मः तस्मि-
श्चिाहने विष्णोः पूजां कुर्वन ध्यानपर आसीत् । तेन पथा
अस्थितः महायशा अगस्ट ऋपिः शिष्यैः सह तबाजगाम ।
मौनी स राजा तं दृष्ट्वाऽपि देवपूजालोपभयात् समृषि
नापूजयत् । क्रुद्धोऽगम्त्यः “अस्मार्च मां प्रत्युत्थानादिका
कृत्वा अवामनुथाः तस्मा गजो भव" इति तं शशाप ।
तस्मादिन्द्रद्युम्नो गजेन्द्रोभृत्वा त्रिकूटनाम्नि पर्पनेऽभवन् ।
कदाचित्स गजेन्द्रो धर्मातोऽने कामिः करणुभिः कलभैश्च सह
जलं पातुं तत्रत्यं किंचन विपुलं सर अभ्यगात् । सपरिवारः स
संस्कृततृतीयपाठः॥३॥ तत्सरो विगाह्य जलं निकामं पपौ। शुण्डादण्डेन जलमुद्धृत्य करेणूः सिपिञ्चे । ताभिश्च स तथा सिक्तः। एवं तत्सरो लोडयन्तं गजेन्द्र तत्र जलाशये स्थितो ब्राहः चरणे जग्राह । आसीच हूहूर्नाम गन्धर्वराजः। सः अप्सरोभिः सह कस्मिंश्चित्सरसि जलक्रीडामकरोत् । तत्र देवलो नाम ऋषिः स्नातुं जलेऽवततार । हूहूस्तमृर्षि पादयोः प्रगृह्य जले चकप । स च कुपितो देवलो ग्राहो भवेति तमशपत् । स एव नको भूत्वाऽस्मिन्सरसि स्थितः। तेन गृहीतो गजेन्द्र आत्मानं तस्मान्मोचयितुं बहुधा यतमानोऽपि न शशाक । करिण्यः कलभाश्च तमाकृष्यापि मोचयितुमशनुवन्तः पर्यदेवयन् । इत्थं सुदीर्घम् कालं ग्राह- गृहीतस्य निराहारस्य गजेन्द्रस्य बलक्षयो बभूव । यावहुद्धि प्रतीकारं कृत्वाऽप्यपारयन्गजेन्द्रः ईश्वरं शरणमगच्छन् । " स्थावरजङ्गयात्मकं एतजगत् येन सृष्टं तमादिमूलमीश्वरम् अहं शरणं गतः । स एव मां रक्षतु,” इति सर्वेश्वरं प्रार्थयामास | तस्य प्रार्थनां श्रुत्वाऽपि ब्रह्मादयो देवा यदा तं रक्षित नागच्छन् तदा श्रीनारायणः वैनतेयमारुह्य गजेन्द्र श्रातु- मागच्छत् । करीन्द्रस्तं नारायगं दूरत एवं दृष्ट्वा करे अम्बुज. मुत्पाव्य "नारायण! अखिलगुरो! भगवन् ! नमस्त" इति ननाम । श्रीहरिः चक्रायुधेन ग्राहं मुखे विषाव्य दिपेन्द्र मोचयामास । शापात् ग्राहत्वं प्राप्तो हूहूश्च स्वस्वरूपं प्राप्तः ।
ध्रुवचरित्रम् । ५९ गजेन्द्रश्च भगवतः करस्पर्शेन निरस्तसमस्ताशुभो भगवतः सरूपो भूत्वा तस्य पार्षदो बभूव । तस्मादापधनन्यभावेन यः ईश्वरं शरणं गच्छति भगवा- स्तं असंशयं रक्षति ॥ ॥ गजेन्द्रमोक्षम् संपूर्णम् ॥ ॥ ध्रुवचरित्रम् ॥ बभूव ब्रह्मणः पुत्रः स्वायंभुवनामा मनुः। तस्य भार्या शतरूपा नाम । तयोः पुत्र उत्तानपाद इति । तस्य द्वे भार्ये आस्ताम् । तयोराचा महानीतिमती सुनीतिः, यस्याः पुत्रो ध्रुवः। द्वितीयायाश्च रूपवत्याः सुरुचेः पुत्र उत्तमा नाम । तयोर्भार्ययोर्मध्य द्वितीया राज्ञः प्रेयसी। एकदा सिंहासने उपविष्टो राजा कनीयस्याः पुत्रम् उत्तमममारोप्य लालयात स्म । तदा ध्रुवोऽपि तत्रागत्य पितुरङ्कमारोढुपैच्छत् । पाश्चंता स्थिता सुरुचिः राज्ञि शृण्वति ईयया ध्रुवमाह । “रे! मूढ ! मम पुत्र एव नृपतेरङ्कमारोढुपर्हति । त्वं नाहः। अयं तय मनोरथो दुर्लभः। ईश्वरमाराध्य मत्कुक्षौ अन्यस्मिन् जन्मनि यदि स्त्र जनिष्यसि तदा आरोक्ष्यसि" इति। इत्थं सपनीमात्रा अवमानितो ध्रुवः पितुर्मुग्वमैक्षत। उत्तानपादः पुत्रं दृष्ट्वा साधु ६० संस्कृतकृतीयपाठः॥३॥ असाधु वा किमपि नोवाच ! ध्रुवः पञ्चहायनवालोऽपि आत्मानं तातेनाप्यनादृतं मत्वा अमद्दन मातरम गन्रत् । स्वपुत्रस्य सापनमातृकृतं तिरस्कारं दारीमुखाद विज्ञाय सुनीतिर्विललाप : "वत्स! सापत्नमात्रे मा कुप्य । सत्यान तयोक्तम् । यतस्त्वं ममोदरे उत्पन्नस्तस्थापितुरुत्मङ्गमागेहु- मनह एवं त्वम् । भगवन्तं नारायणं आराधय । अराधिना लक्ष्मीपतिस्तव अत्युत्तमं पदं वितरेत ।" इति पुत्रमनीत । ध्रुवो मातुर्वचनं निशम्य दुःखं नियम्य रूपले नणगान वनं जगाम । मार्गे गच्छन्तं त बालं नारद आगत्य सुख करण स्वकरण मूर्ध्नि पस्पर्श । "वत्स! वनं मा गच्छ । तत्र बहूनि दुःखानि भवेयुः । भगवत आराधनं च दुष्करम् । सुरुच्या कृतमवमानं तितिक्षस्व । प्रतिनिवर्तस्व गृहम" इनि तमवदा ।। स्वामिन् ! अहं क्षत्रियदायादः अतिकठिनं मम हृदयम्। सुर.च्या दुर्वचोबाणैः कृतच्छिद्रेऽपि मम हृदि भवतो वाक्यं पदं न लभते । यदि व्यनुग्रहस्तर्हि त्रिभुवनेष्वपि उत्कृष्टं स्थानं साधयितुमिच्छोर्मम मार्गम् ब्रूहि" इति तं स बालोs पृच्छत् । तच्छ्रुत्वा नारदः “तात! भगवतो वासुदेवस्य आराधनमेव क्षेमस्य पन्थाः। अस्ति यमुनायास्तटे मधुबन नाम काननम् । तत्र नित्यं संनिहितो हरिः। गत्वा तत्र तपः कुरु। नित्यं कालत्रये कालिन्या माहि। मगवतो वासुदेवस्य मन्त्रं च जप। तेनैव मन्त्रण भगवतः षोडश उपचारान् अर्पय ।
ध्रुवचरित्रम् । सः शीघ्रमेव प्रीतः सन् तव वरान्यच्छेत् ।" इत्येनमुक्त्वा उत्तानपादस्य समीपमगात् । सुतं विवास्य पश्चात्तपन्तं राजानमेत्य देवर्षिः “राजन्! तव बालः शीघ्रमेव कृतार्थ आगमिष्यति । तं माशुच" । इति सान्त्वयामास । बालश्च नारदस्य उपदेशानुसारेण तदेव मधुवनं प्राप्य वासुदेवमाराधयामास । सः प्रथमं त्रिरात्रान्ते त्रिरानान्ते कपित्थं बदरं वा अभुत । ततः द्वितीये मासे षष्ठे पठे दिने वृक्षात् शीर्णानि पर्णानि अश्नानः हरि पूजयामास । तृतीये मासि नवमे नवमेऽहनि जलपानं केवलं कुर्वन् पुण्डरीकाक्ष- माराधयन् । चतुर्थे मामि द्वादशे द्वादशेह्नि वायुभक्षणं कृत्वा देवं पूजितवान् । पञ्चमे मास्यनुप्राप्ते श्वासजयं कृत्वा एकेन पादेन स्थित्वा वासुदेवं दध्यौ। "अयमस्माकं स्थानानि अपहरिष्यति चेलिक कर्तव्य { ?" इति भीताः इन्द्राइयो देवाः सपैंः गजैः मिहै: पिशाचैश्च तं भीषयामासुः। भगत पादपने एव बचि तस्य तस्य नैते दृष्टिगोचरा अभूवन् । यदा स बाला एकंपादं भूमौ निधायान्यं पादं उनमयति तदा मही गजेनाक्रान्ता तरीव पर्यायेगोभयोः पाश्ववान नाम । अस्य श्वामजयरूपतपः प्रमाण सर्वे जनाः श्वपिपि नाशकन् । तेन खेदं प्राप्ता देवा देवदेवाय शाङ्गिगे ध्रुवतपमा समुत्पन्नं जगतः संकट निवेदयामासुः। तच्छुता भगवान् संस्कृततृतीयपाठः ॥३॥ गरुत्मन्तमारुह्य मधुवने प्राणान्निरुध्य स्वहृदये नारायणं पश्य तस्तस्य ध्रुवस्य पुरतः तस्थौ । अनुपदं तस्य हृदि स्थितः तटित्प्रभो देवः तिरोहितो बभूव । तत्कारणं जिज्ञासमानः स: यदा नेत्रे उन्मील्य पुरतः पश्यति तदा तमेव देवं बहिःस्थितं ददर्श । तदर्शनेन पुलकाश्चितगात्रः स राजसूनुः तं स्तोतु- मिच्छन्नपि बाल्यात् साध्वसाच्च किमपि वक्तुं नशशाक । दण्डवत् केवलं प्रणतं तं वालं भगवानुत्थाप्य पाश्चजन्याख्येन निजशङ्खन कृपया कपोले पस्पर्श । सुनीतिपुत्रः ब्रममयस्य शङ्खस्य स्पर्शमात्रेण वेदादिसकलविद्यानां पारंगतो भूत्वा उपनिषत्सिद्धाभिः स्तुतिभिस्तं तुष्टाव ॥ तया स्तुत्या प्रसन्नो वासुदेवा "हे राजन्यपुत्र! जानामि ते अभिप्रायम् । सर्वेषां ग्रहाणां नक्षत्राणां च आधारभूतमस्ति ध्रुवाख्यं स्थानम् । तच्च सप्तर्षीणां स्थानादपि उपरिष्टार्तिते । तस्याधिपत्यं तव दास्यामि । त्वं चिराय भुवि सर्वाणि सुखान्यनुभूय अन्ते तत्स्थान प्राप्स्यसि" इत्युक्त्वा अन्तरधात् ॥ दुर्लभं वरं लब्ध्वा प्रतिनिवर्तमानं आत्मजमाकर्य भार्याभ्यां, पुत्रेण उत्तमेन, पोरैश्च सह राजा तं प्रतिययौ । सुनीतिः सुरुचिश्च वैरं विहाय एका शिविकामारुध जग्मतुः । उपवनाभ्याशे पादचारिणमायान्तं ध्रुवं दृष्ट्वा राजा स्थादवतीर्य दोश्याम परिषस्वजे। ध्रुवोऽपि जनक जनन्यौ च अभ्यवादयत्।
अमृतमथनम्। ६३ ध्रुवः उत्तमश्च अन्योन्यमालिलिङ्गतुः। सुनीतिः चिरादृष्टं पुत्रमालिङ्गय परमां मुदं लेभे । सर्वे जनाश्च राज्ञीं सुनीति प्रशशंसुः । राजा ध्रुवं करिणीमारोप्य पुरं प्रावेशयत् । पत्तने सर्वेषां गृहद्वारेषु सवृन्ताः कदलीस्तम्भाः तथाविधाः पूगपोताः, चूतपल्लवाः, तोरणानि च आबद्धानि । वृद्धाः पुरस्त्रियः ध्रुवं सिद्धार्थैः पुष्पैः लाजैश्च हर्येभ्यः अवाकिरन्। विप्राः आशिष: प्रायुञ्जत । एवं महता संभ्रमेण ध्रुवः पुरीं प्रविश्य पितुर्भवनं प्राविशत् । सुनीतिश्च तदाऽऽरभ्य राज्ञः सुरुचेरपि प्रेयसी बभूव । उत्तानपादः स्वपुत्रस्य भ्रमि, इलां च विवाहयामास । भ्रम्या कल्पो वत्सश्च पुत्रौ जाती। इलायामुत्कलानाम पुत्रोs. जनि । नृपः पुत्रे प्रजानामनुरागं दृष्ट्वा तं राज्ये अभ्यषेचयत् । य एवं परकृतमात्मनोऽपमानं सोड्वा ईश्वरं शरणं गच्छेत् सः क्षेमं प्राप्नुयात् ॥ ।। ध्रुवचरित्रम संपूर्णम् ॥ 1 ॥ अमृतमथनम् ॥ असकृदसुरैः पर्गाजता इन्द्रप्रभृतयो देवाः ब्रह्मलोकं. गत्वा स्वदुर्दशा तस्मै विज्ञापयामासुः। स च तैर्देवैः सह श्रीप्ते नारायणाय एतत निवेदयितुं क्षीराब्धि प्राप | आदि संस्कृततृतीयपाठः ॥शा पुरुषश्च तदैव योगनिद्राया बुबुधे। चतुर्मुख स्तं पुरुषसू तेन स्तुत्वा देवानामागवनकारणं निवेदयाचके । तच्छ्रुत्वा भगवानाह "भो ब्रह्मन् ! शंभो! नर्वे च देवाः! शृगुन । क्षीरोदधौ मन्दरपर्वतं निधाय तं पन्थानं कृत्वा सर्पराज वासुकिं च रज्जुं कृत्वा असुरैः मह मन्धि विधाय तैः सह पयोन्धि यूयं निर्मनीत । चिरं कलादर्शनेऽपि अश्रद्धा तत्र न कर्तव्या । मध्ये कालकूटादेविघ्नाश्च भवेयुः । तेभ्यो न भेतव्यम् । बहोः कालादमृतमुत्पद्यत । मायया असुरान् वञ्चयित्वा तदहं युष्मान्पाययिष्यामि । ततो यूयं जरामरण- रहिता भविष्यथ" । इति ।। इन्द्रादयो देवाः सत्यलोके ब्रह्माणं, कैलामे शिवं च विसृज्य त्रिविश्पपगच्छन् । पुरंदरोऽपि दानवेन्द्रं बलिं प्राप्य दुग्धाब्धियथनोदन्तमकथयत् । तत्कार्यम् वैरोचनेयोप्यराचत । ते सर्वे देवा दानवाश्च मन्दरपर्वतमुत्पाव्य तं गरुडमारोप्यानीय दुग्धाब्धाववाविपन् । देवास्तं पर्वतं वासुकिना संवेष्टय तस्य पुच्छ भागमसुराणां विसृज्य स्वयं घुबभागे तस्थुः। अनुरास्तु वालुकेः पुच्छममङ्गलं पत्वा मुवभागपत्र जगृहुः । इत्थं कुनस्थानविभागा: उभयेऽपि कश्यपनन्दना मथितुमुश्चक्रपिरे- असुरा पासुकेविषश्वासानिलहता मम्लुः ।। एवं महोदधौ मथ (माने भारातिशयान्मन्दरगिरिरधी ऽगच्छत् । तदा नारायणः कच्छपस्य वपुः स्त्रीकृत्य तं गिरि 5 अमृतमथनम् । ६५ स्वपृष्ठेनोद्दधार | बहुकालमथनेपि यदा सुधा नाजायत तदा देवा दानवाच भगवत्प्रीत्यर्थम् एकादश्यां उपवास कृत्वा भगवन्तं समभ्यर्च्य द्वादश्यां व्रतपारणां च कृत्वा पुनर्मथितु- मारब्धवन्तः । भगवान् स्वयं च ममन्थ । मध्यमानादुदधे- हालाहलाख्यं विषमुदभूत । तद्दृष्ट्वा भीता दैत्या देवाश्च प्रदुद्रुवुः ततो देवैः प्रार्थितो देवदेवो महादेवस्तद्विषं लोकहितार्थम् पातुकामः देव्या मुखमपश्यत् । भर्तुः प्रभावज्ञाऽम्बिका वदन्वमोदत। निगीर्यमाणं तद्विषं ईश्वरेऽपि स्ववीर्यम् किंचित् दर्शयामास । तेन तस्य गले नीलिमाऽभूत् । तदपि नैल्यं तस्य महतो देवस्य विभूषणमेव भवति । तदारभ्य तस्य नीलकण्ठ इति नाम च समभूत् । ततः कामधेनुः, कल्पवृक्षा, पारिजातः, ऐरावताख्यो गजः, उच्चैःश्रवानाम हयश्चेत्येतानि श्रेष्ठानि वस्तूनि उदधे झिरे । इन्द्रस्तानि जगृहे । अभूञ्च ततः कौस्तुभाख्यं रत्नम् । तद्विष्णोक्षः श्रितम् । ततो लक्ष्मीः करधृतपना आविरासी । ब्रह्मादयो देवास्तां जगन्मातरं पूजयामासुः। दिग्गजास्तां पूर्णकलशैः स्वपयांचः। प्रजापतयस्ता मुक्तवाक्यैरस्तुवन् । अष्टौ दिक्पालास्तस्यै वस्त्राणि, भूषणानि च ददुः। केचिचा भारमभिलषन्ती मत्वा भार्यात्वे प्रार्थयामासुः । मङ्गलदेवा तु तान्सर्वान्दोषिणो विज्ञाय निर्दोष परानपेक्षं नारायणं भर्तारं वत्रे । तयोर्लक्ष्मीनारायणयोर्विवाहमहोत्सवे सर्वेऽपि परमामेव मुदं लेभिरे ॥
संस्कृततृतीयपाठः ॥३॥ ततोऽमृतपूर्णम् हाटकमयं कलशं हस्ते धृत्वा हरेरंशः स्मरणमात्रेण सर्वरोगपरिहारको धन्वन्तरिः क्षीरोदधेरुदतिष्ठत् । दैत्यास्तं सुधाकलशं प्रसह्यापजदुः। दैत्येषु दोषमारोपयितुं स्वयमशक्तइव तान्समुपैक्षत । ततोऽसुरेष्वेव परस्परं "ममेदं ममेदं, न तव" इति विवाद: समजनि । तदा तेषां वञ्चनार्थ भगवान्परमाद्भुतेन योषिपेण प्रादुरासीत् । तस्या मोहिन्या अनिर्देश्यं रूपं दृष्ट्वा मोहिताः दैत्याः 'असाकमिमां सुधां त्वं विभजव' इति तस्या हस्ते सुधाकलशं ददुः। तमादाय सा "स्त्रियं मां न विश्वसित । अथवा मयेवैतत् विभजनीयमिति भवतां यदि मतं, तर्हि यथा मम मनः प्रवर्तेत तथैव विभजेयम् । अहं तु युवतिरेकाकिनी च कथमनेकेषां भवतां दृष्टिपथे स्थित्वा परिवेविषाणि? तस्मात्सर्वैर्नेत्रमीलनं कर्तव्यम् । यद्येतत्सर्वम् भवद्भिरभ्युपेयते, तर्हि विभजामि"। इत्यवादीत् ।।. दैत्याच तड्पमोहितास्तथेति अशीचक्रुः । सा मोहिनी देवानामसुराणां च पतीः पृथक्कल्पयित्वा तत्र तत्र तांस्तांनुपवेश्य निमीलितनयनानामसुराणां पतिषु केवलं नू पुरशब्दं दर्वी शब्द च कुर्वाणा देवानेव सुधामपाययत् । ततो देवाः अमृतपानेन जरामरणवर्जिता बलिनश्चाभूवन् । ततस्ते असुरैः सह युद्धा ताञ्जित्वा देवराज्यं निष्कण्टकमन्वभूवन् ॥ ॥ अमृतमथनं संपूर्णम् ॥
पार्वतीपरमेश्वरौ । ॥ पार्वतीपरमेश्वरी॥ अस्त्युत्तरस्यां दिशि कैलासो नाम नगाधिराजः । तत्र वेदस्वरूपो वटवृक्षोऽस्ति। तस्याधस्तात् रत्नमय्यां वेद्या देवगणै- रुपास्यमानो नारदादिभ्यः शिष्येभ्यो विद्याः प्रब्रुवन् , स्मरण- मात्रेण सकलविद्याप्रदया उमया च सहितः सुकृतिनां पर शंकरः सदाशिवः सदा संनिहितो वर्तते । येयमिह जन्मनि पार्वती सा पूर्वजन्मनि प्रजापतेर्दक्षस्य पुत्री सतीनाम्नी आसीत् । पितृकता खमतरवज्ञामसहमाना सा योगधारणया देहं तत्याज। स्वायंभुवमनुपुत्री प्रसूतिर्नाम तस्या माता, पिता दक्षश्च पुत्र्या देहत्यागं दृष्ट्वा पश्चादतप्यताम् । आत्मानं चागहेंताम् । सती पुनः ईशानं सर्वविद्यानां ईश्वरं सर्वभूतानां तमेव महादेवं पतिं लभेयेति हिमवतो भार्यायां मेनायाम् अजायत । ततः सा पर्वतस्य पुत्रीति नाना पार्वती बभूव । सा च महादेवमेवोद्दिश्य तपश्चचार। पर्णाशनमपि त्यात वा दुस्संहं तपः कुर्वती तां माता“उ! मा" इति निवारयामास। तस्मात्तस्याः "अपर्णा, उमा" इति च नामनी अभवताम् । इत्थं तपसा खमाराधयन्ती तां अनन्यशरणां ज्ञात्वा भवो वृषभारूढस्तदन्तिकमाजगाम । क्या प्रार्थितस्तां च परिणिनाय ॥
संस्कृतवृतीयपाठः ॥३॥ ॥ गणेशः॥ तस्यां पार्वत्यामेका पुत्रो जातः। माता कदाचित्तं बालम् "अन्तर्न कमपि प्रवेशय" इत्युक्त्वा तं द्वारि निधाय गृहस्यान्तः स्नातुं प्रवृत्ता। अत्रान्तरे आगतं पितरमपि स न्यवारयन् । कुपितो देवस्तस्य शिरो न्यकृन्तत् । तत उमया प्रसादितो हरः "उत्तरदिशि शिरः कृत्वा खपतो यस्य कस्यापि शिर उत्कृत्य आनयत " इति पार्ष- दानादिदेश। ते च रात्रौ सर्वत्राटित्वाऽपि वादृशं कमपि पुरुषमलममानाः तथा शयितं कंचन गजं दृष्ट्वा तस्य सशुण्ड शिररिच्छत्वा आनिन्युः। भगवांय तच्छिरः संधाय पुत्रमुखीवयामास । ततः प्रभृति तस्य कुमारस्य "गजानन” इति नामाऽभूत् । भक्तानां विनपरिहारकः सः "विघ्नेश्वर" इति, सर्वपार्षदगणाधिपस्सन् "गणेश" इत्यादीन्यनेकानि नामानि भेजे। ॥ सुब्रह्मण्यः॥ अथाऽसदसुरपराजितैर्देवैः प्रार्थितो हर: उमायाँ द्वितीयं पुत्रं जनयामास । ब्रामणप्रियस्य तस्य "सुब्रमण्य:
हनुमान् ।
इति नाम चक्रे पिता । तस्य भार्या देवसेना नाम । तं देवाः
सेनान्यं कृत्वा तारकादीन् असुरानजयन् ।
या परमेश्वरे भक्तिमान् स सर्वा विद्या अनायासेन
लमते । एवं मङ्गलाम्बिकायाः प्रसादाच सर्वाणि मङ्गलानि
भक्ता प्राप्नुवन्ति ॥
गणपतेरनुग्रहात् भक्तानां सर्वेऽपि विना नश्यन्ति ।।
सुब्रह्मण्यं सरता सर्वा आपदो निवर्तन्ते । तनमन्त्रं
जपतां न कदाचिदपि पिशाचादिपीडा भवति ।
॥ हनुमान् ॥
पुरा त्रेतायुगे सुमेरुनानि पर्वते केसरिनामा वानर
उवास। तस्य भार्या अतीव रूपवती अञ्जना। तस्यां जगत्प्राणों
वायुः स्वयं रामसेवार्थम् हनुमद्रूपेण अक्ततार। तस्य महिमा
वर्णयितुमशक्यः। प्रसवानुपदं फलान्याहर्तुम् गतायामञ्जनायो
क्षुधितः स शिशुः तत्क्षणोदितं भगवन्तं सूर्यम् दृष्ट्वा खाद्य
फलं मन्वानो गगनमुत्पपात ।।
गरुडात, वायो', मनसश्च अधिकतमं हनुमतो वेगं दृष्ट्रा
देवा दानवाश्च विमिता बभूवुः। आदित्या आत्मानं खादितु-
मागतं ज्ञात्वाऽपि तं शिशुं न ददाह । तसिव दिने भास्कर
संस्कृततृतीयपाठः ॥३॥ असितुमागतो राहुर्वानरं दृष्ट्वा भीतस्सन् पुरंदरं विज्ञापयामास । शचीपतिः कुलिशायुधमुद्यम्य ऐरावतमारुह्य मारुतिमभिययौ । आञ्जनेयश्च चतुर्दन्तं तं श्वेतं दन्तिनं "इदमन्यत्सुभोज्यं इति मत्वा आदित्यं परित्यज्य सेन्द्रं तमैरावतमभिससार । सुमागीतः पाकशासनः आत्मरक्षणार्थम् तं वज्रेणाताडयत् । सन ताडनेन विह्वलाङ्गः स बालः योजनानां सहस्रादधः अस्मिन्नेव सुमेरौ पर्वते अक्षताङ्गः पपात । परंतु तेन कुलिशायुध प्रहारेण तस्य वामा हनुः किश्चिदिव भुनाऽभूत् । तदपि तस्य इपिश्रेष्ठस्य पराक्रमचिह्नमभूत् । तस्मादेव तस्य हनुमानिति नाम पप्रथे । . एतावतैव कुपितः प्रभञ्जनः पुत्रं गृहीत्वा सर्वत्र व्याप्त- मात्मानम् उपसंहृत्य सुमेरुगुहायां निलीनो बभूव । प्राणिनां जीवनमुख्यहेतोयो संचाराभावात् त्रिलोकीगताः सर्वेऽपि माणिनो निरुच्छासाः पीव्यमानाः ब्रमाणं शरणमगच्छन् । चतुर्मखोऽपि रुद्रेन्द्रादिभिर्देवैः सह वामेव सुमेरुगुहां प्राप्य वायुमनुनीय हनुमते दुर्लभान्वरानयच्छत् । ततोः पायो। प्रसादेन सर्वेऽपि प्राणिना सुखिनो बभूवुः। आञ्जनेयोऽयं प्रत्यहम् उदयाद्रिमारभ्य चरमाद्रिपर्यन्तं सूर्याभिमुखो भूत्वा पृष्ठतो वजन् विवखतः सकाशाद नव व्याकरणानि, चतुर्दश विद्याः, चतुःषष्टि कलाश्च अधिजगे।।
हनुमान् । ७१ अत्रान्तरे सः सूर्यपुत्रस्य सुग्रीवस्य सचियो भूत्वा तेन सह ऋश्यमूके पर्वतेऽवसत् । रावणेनापहृतां सीतां विचलु तत्रागतेन सलक्ष्मणेन श्रीरामेण सह सुग्रीवस्य सख्यं कारयामास सुग्रीवोऽपि दाशरथेः प्रसादात्कपिराज्यं प्राप। सीतां मार्गयन समुद्रं ती लङ्कां गतो हनुमान् तत्र देव्यै रामाङ्गुलीय दत्वा तस्याः सकाशात् चूडामणिं गृहीत्वा अक्षकुमारादीन राक्षसान् हत्वा लङ्कां ददाह । पुनः रामान्तिकमागत्य तस्म चूडामणिं अर्पयित्वा सीतायाः कुशलोदन्तकथनेन तमतोषयत् । ततः काकुत्स्थः दक्षिणसमुद्रे सेतुं बड़ा तेन मार्गेप लङ्कां गत्वा आञ्जनेयादीनां साहाय्येन रावणं जपान । सीत पुष्पके विमाने प्रतिष्ठाप्य सर्वैः सहाऽयोध्यामगच्छत् । श्रीरामस्थ राज्याभिषेकानन्तरं सीता हनुमतः प्रत्युपकारं कर्तुमजानती मुक्ताहारं वकण्ठादुन्मुच्य तत्कण्ठे मुमोच । श्रीरामभद्रोऽपि प्रसादातिशयात्तमालिंग्य आगामिनि ब्रह्मकल्ले ब्रह्मपदवीमयच्छत् ॥ स्वामिभक्तौ ब्रह्मचर्ये धैर्य शौर्य सत्यवचने च हनुमतः सदृशः कश्चिदपि त्रिभुवनेऽपि नास्ति । तन्नामस्मरणस्यापि महाफलमुक्तं वाल्मीकिना। बुद्धिर्बलं यशो धैर्यम् निर्भयत्वमरोगता। अजाव्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत्, इति ।। ॥ तृतीयपाठः संपूर्णः ॥३॥ .
॥ श्रीः॥
॥ कुमारसंभवे पञ्चमः सर्गः ॥५॥
तथा समक्षं दहता मनोभवं पिनाकिना भममनोरथा सती।
निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता॥
हयेष सा कर्तुमवन्ध्यरूपता समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः॥
निशम्य चैनां तपसे कृतोद्यमा सुतां गिरीशप्रतिसक्तमानसाम् ।
उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ।।
नीषिताः सन्ति गृहेषु देवतास्तपाक वत्से क च तावकं वपुः।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥४॥
पति ध्रुवेच्छामनुशासती सतां शशाक मेना न नियन्तुमधपाद ।
क ईप्सितार्थ खिरनिश्चयं मनः पयश्च निमामिमुखं प्रतीपयेत् ॥
कदाचिदासमसखीमुखेन सा मनोरथमं पितरं मनखिनी ।
जयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपासमाधये ।।
अथाऽनुरूपामिनिवेशवोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
पजासु पश्चात्प्रथितं तदाख्यया जगाम गौरीशिखरं शिखण्डिवम्।।
विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिमविलुप्तचन्दनम् ।
बबन्ध बालारुणयनु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥८॥
यथा प्रसिद्धैमधुरं शिरोफोर्जटामिरप्येवमभूचदाननम् ।
न षट्पदश्रेणिभिरेव पाजं सवलासङ्गमपि प्रकाशते ॥९॥
कुमारसंभवे पञ्चमः सर्गः ॥५॥ ७३ प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौजी त्रिगुणांबमार याम् । अकारि तत्पूर्वनिबद्धया तया सरागमस्या रशनागुणास्पदम् ।। विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताश्च कन्दुकात् । कुशानुगदानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ महाईशय्यापरिवर्तनच्युतैः स्वकेशपुष्परपि या स्म दूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥ पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्षित द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥ अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनप्रस्रवणयंवर्धयत् । गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यपपाकरिष्यति ॥ अरण्यवीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः। यथा तदीयैनं पनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥ कृताभिषेका हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोऽभ्युपागमन धर्मवृद्धेषु वयः समीक्ष्यते ॥ विरोधिसत्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि । नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् ।। यदा फलं पूर्वतपासमाधिना न तावता लभ्यममंस्त काशितम् तदाऽनपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥ क्लमं ययौ कन्दुकलीलयाऽपि या तया मुनीनां चरितं व्यगायत। ध्रुवं वपुः काञ्चनपदनिर्मितं मृदु प्रकृत्यां च ससारमेव च ।।
७४ संस्कृततृतीयपाठः ॥३॥ शुचौ चतुर्णा ज्वलता हविर्भुजां शुचिस्मिता मध्यगता सुपध्यमा। विजित्य नेत्रप्रविघातिनी प्रभामनन्यदृष्टिः सवितारमैक्षत ।। तथाऽतितप्तं सवितुर्गभस्तिमिर्मुखं तदीयं कमलश्रियं दधौं। अपाङ्गयोः केवलमस्य दीर्घयोः शनैःशनैः श्यामिकया कृतं पदम्।। अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः । बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः॥ निकामतप्ता विविधन वहिना नमश्चरेणेन्धनसंभृतेन सा । तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुश्चदूर्ध्वगम् ।। स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः। वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदविन्दवमा शिलाशयां तामनिकेतवासिनीं निरन्तराखन्तरवातवृष्टिषु । व्यलोकयन्नुन्मिषितैस्तडिन्मय महातपः साक्ष्य इव स्थिताः क्षपाः निनाय साऽऽत्यन्तहिमोत्किरानिलाः सहस्यरात्रिरुदवासतत्परा। परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती॥ मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसंपदा सरोजसंधानमिवाकरोदपाम् ।। २७॥ खयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः । मृणालिकापेलवमेवमादिभिर्वतैः खमई ग्लपयन्त्यहनिशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्वकार सा ।।
कुमारसंभवे पञ्चमः सर्गः ॥ ५ ॥ [सुरास्तदुद्वीक्ष्य नगेन्द्रकन्यया कृतं तपः शम्भुवशक्रियाक्षमम् । ययाचिरे तं प्रणिपत्य दुःखिताः पतिं चमूनां सुतमाजिहेतवे]||* अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्विजटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥ तपातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः॥ विधिप्रयुक्तां परिगृह्य सकियां परिश्रमं नाम विनीय च क्षणम्। उमा स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः॥ अपि क्रियाएं सुलभ समित्कुशं जलान्यपि स्नानविधिक्षमाणिते। अपि खशक्त्या तपसि प्रवर्तसे शरीरमायं खलु धर्मसाधनम् ॥ अपि त्वदावर्जितचारिसंभूतं प्रवालमासामनुवन्धि वीरुधाम् । चिरोज्झितालतकपाटलेन ते तुला यदारोहति दन्तवाससा ॥ अपि प्रसन्न हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु । य उत्पलाक्षि प्रचलैर्विलोचनैस्तवाक्षिसादृश्यामिव प्रयुञ्जते ॥ यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः । तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशवां गतम् ।। विकीर्णसप्तर्षिवलिग्रहासिमिस्तथा न गाडैः सलिलैर्दिवश्च्युतैः। यथा त्वदीयैश्चरितैरनाविलमहीधरः पावित एष सान्वयः ।। अनेन धर्मः सविशेषमय मे त्रिवर्गसारः प्रतिभाति भामिनि वया मनोनिविषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ ।
७६ संस्कृततृतीयपाठः ॥ ३ ॥ प्रयुक्तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि । यतः सतां संनतगात्रि संगतं मनीषिभिः साप्तपदीनमुच्यते ॥ अतोत्र किंचिद्भवती बहुक्षमा द्विजातिभावादुपपन्नचापलः । अयं जनः प्रष्टुमनास्तपोधने न चद्रेहस्यं प्रतिवक्तुमहसि ॥ कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वयस्तपः फलं स्याकिमतः परं वद ।। भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपचिरीदृशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कुशोदरि! त्वयि ॥ अलम्यशोकाभिभवेयमाकृतिर्विमानना सुभु! कुतः पितुर्ग्रहे । पराभिमझे न तवास्ति का करं प्रसारयेत्पन्नगरत्नसूचये ॥ किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । क्द प्रदोषे स्फुटचन्द्रतारका विभावरी यबरुगाय कल्पते ॥ दिवं यदि प्रार्थयस वृथा श्रम पितुः प्रदेशीस्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥ निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ।। अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते। उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः॥ मुनिवतस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनोनयते ॥
७७ कुमारसंभवे पञ्चमः सर्गः॥५॥ अवैमि सौभाग्यमदेन वञ्चितं तब प्रियं यश्चतुरावलोकिनः । करोति लक्ष्यं चिरमस्य चक्षुषो न वक्तमात्मीयपरालपक्ष्मणः।। कियश्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः। तदर्धभागेन लभस्व कासितं वरं तमिच्छामि च साधु वेदितुत ।। इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितम्। अथो वयस्यां परिपार्श्ववर्तिनी विवर्तितानञ्जननेत्रपेक्षत ॥५१॥ सखी तदीया तमुवाच वर्णिनं निबोध साधो! तव चेत्कुतूहलम् । यदर्थपम्भोजमिवोष्णवारणं कृतं तपः साधनमेतया वपुः ।। इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्यम् मदनस्य निग्रहापिनाकपाणिं पतिमाप्तुमिच्छति॥ असमहुंकारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः । इमांहदि व्यायतपातमक्षिणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥५४॥ तदाप्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका । न जातु बाला लभते स्म निति तुषारसंघातशिलातलेष्वपि ।। उपात्तवर्णे चरिते पिनाकिनः सवाष्पकण्ठस्खलितः पदैरियम् । अनेकशः किमरराजकन्यका वनान्तसंगीतसखीररोदयत् ।। त्रिभानशेषासु निशासु च क्षणं निमील्य नेत्रेसहसा व्यबुध्यत । क नीलकण्ठ जसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबंधना ।। यदा बुधैः सर्वगतस्त्वमुच्यसे न वेरिस भावस्थमिमं कथं जनम् । इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ।।
७८ संस्कृततृतीयपाठः ॥३॥ यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधि विचिन्वती तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥ द्रुमेषु सख्या कृतजन्मसु खयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिमंश्रयः न वेभिस प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् । तपाकशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ।। अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया। अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥६२॥ अथाग्रहस्ते मुकुलोकताङ्गलौ समर्पयन्ती स्फटिकाचमालिकाम्। कथंचिदनेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत । यथा श्रुतं वेदविदां वर त्वया जनोऽयमुखैःपदलानोत्सुकः तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न वियते ॥६॥ अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव बर्वसे। अमङ्गलाम्यासरति विचिन्त्य तं तवानुवृत्ति न च कर्तमुत्सहे ।। अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुका। करेण शंभोवलयीकृताहिना सहिन्यते तत्प्रथमावलम्बनम् ॥ त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमईतः। बधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि ।। चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तषानुमन्यो । अलकाकानि पदानि पादयोर्विकीर्ण केशानु परेवभूमिधु ।।
कुमारसंभवे पञ्चमः सर्गः ॥५॥ अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभ तवापि यत् । स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चितामस्मरजः करिष्यति ।। इयं च तेऽन्या पुरतो विडम्बना यदृढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजन: स्मेरमुखो भविष्यति ।। द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः । कलाच सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी।। वपुर्विरूपाक्षमलक्षिता जनिर्दिगम्बरत्वेन निवेदितं वसु । वरेषु यदालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने । निवर्तयास्मादसदीप्सितान्मनाक तद्विधस्त्वं क च पुण्यलक्षणा। अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसस्क्रिया ॥ इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया । विकृश्चितचूलतमाहिते तया बिलोचने तिर्यगुपान्तलोहिते ।। उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्य माम् । अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दावरितं महात्मनाम्॥ विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ।। अकिंचनः सन्प्रभवः स संपदा त्रिलोकनाथः पितृसबगोचरः। स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदा पिनाकिनगा विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालमि दुकूलधारिवा। कपालि वा स्यादथवेन्दुशेखरं न विश्वमूवधार्यते वपुः ।।७८॥
संस्कृततृतीयपाठः ॥ ३ ॥ तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये । तथाहि नृत्याभिनय क्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा। करोति पादावुपगम्य मौलेना विनिद्रमन्दाररजोरुणांगुली ।। विवक्षता दोषमपि च्युतात्मना त्वयै कमीशं प्रति साधु भापितम्। यमामनन्त्यात्मभुवोऽपि कारण कथं स लक्ष्यप्रभवो भविष्यति । अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः । ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमक्षिते ॥ निवार्यतामालि किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्॥ इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला। स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृपराजकेतनः।। तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिनिक्षेपणाय पदमुद्धृतमुद्वहन्ती। मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ ८५॥ अद्य प्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अह्वाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेनहि पुनर्नवतां विधत्ते ॥८॥ ।। इति कुमारसंभवे पश्चमः सर्गः ॥५॥ Printed at the Sri Viaya Pren, Kumbakonam-July '48, ॥ शुद्धि पत्रम् ॥ पृ. पं. স্তম্ভ दौहित्रा যু दौहित्र १ 9 13 भवान्य भवान्या र्सवं सर्वम् २ हिष्यामि यिष्यामि 13 ३ णानां 14 णाना 21 ब्राधणा: ब्राह्मणा: 6 गोष्टे गोष्ठ सोऽपि साऽपि 9 20 इत्युत्त्वा इत्युक्त्वा 4 ९ मुहूर्त मूहूर्तम् 17 बर्ह बहम् 6 १० थि यार्थम् 11 गताय गमताय 17 षष्णो অন্য १३ 21 स्तार्थ स्तीर्थ 22 उद्याने रुद्याने १९ 2 सूर्ये सूर्यो 21 त तं २० 4 भक्षं भैक्षं , 17 पाध्य पाण्डन्यः 2 दानः दानः 7 दमघा दमघो ३२ 5 अनके अनके 7. श्लाक लोक 15 सैन्यैः 13 कण्ठ कण्ठे ४९ 22 व्याल ५६ 6. शखा शाखा 16 यातना याक्त्वा
No text on this page.