Sringeri Sharada Peetham
Shrowdhariya
Front matter
AVA ॥ श्रीमनीवेङ्कटेगाभ्यां नमः । धरीया लघुशब्देन्दुशेखरव्याख्या । पुण्यग्रामस्थ पण्डितवरश्रीश्रीवरशमविरचिता सकलजनोपकाराय प्रत्तैल • व्य० से० प्रभृतिभिः दाविडवारेश्वरशास्त्रिया संशोध्य Nodowmlms- श्रीकाश्या ."राबराजेनरी" गाम्नि मुदायम्सालये सुदयित्वा प्राकाश्यं मीता संवत् १८४५ ॥ शुभंभवतु ॥ पस्य पन्यस्य पुनर्मुद्रणादिविषये सर्वथा ल. व्य.से. प्रभृतीनामेवाधिकारः । IDIOAAVREDITATU JANUTEURDUATES
सुरासुरासेवितपादपङ्कजा
करे विराजत्कमनीयपुस्तका।
विधेश्च पत्नी कमलासनप्रिया
सरस्वती नृत्यतु वाचि मे सदा ॥ १ ॥
॥ श्रीः ॥ घरी श्रीधरविरचिता लघुशब्देन्दुशेखरव्याख्या ॥ ॥ श्रीगणेशाय नमः॥ ॥ श्रीमलक्ष्मीव्यङ्कटेशाभ्यां नमः ।। . दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा। पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ १ ॥ पातञ्जलेइति । पतञ्जलिना निवृत्ते योगशास्त्रे इत्यर्थः । महाभाष्ये इति । महाभाष्येवेत्यर्थः । समुचितऋषित्रयेति । व्याकरणे सम्यगुचितपाणिनिका- त्यायनपतञ्जलिरूपऋषित्रयेत्यर्थः । ननु“सञ्ज्ञा च परिभाषाचे" त्यभियुक्तोक्तसूत्र लक्षणेऽइउणित्यादीनां सूत्रत्वव्यवहारो न स्यात्तेषां क्रमबोधकत्वादित्यत आह । एषामिति । वृत्तिपरिच्छेदकत्वेनेति । शक्त्युद्बोधकत्वेनेत्यर्थः । इत्सदृशेनेति । उप- दिश्यते ऽनेनेति करणव्युत्पत्तिरित्सञ्ज्ञायामुपदेशशब्दस्येति स्वमते इत्सञ्ज्ञायाः प्राप्तावपि उच्चारण सामर्थ्यालोपाभावे कल्पनाये प्रवानशास्त्रवाधकल्पनापेक्षया तदु- पयोगिनीत्सझैव वाध्यत इत्याशयेनैवमुक्तिरिति भावः । स्वौजसित्यादीनामपीति । आदिना तिप्तस्, संख्यायाअवयवे इत्यादीनां संग्रहः । सुबादीति । अत्रादिना तिङ्- मात्रजादीनां संग्रहः । अविवक्षयेति । वाक्ये तु सा विवक्षामपेक्षते इत्यंशस्यान्यो- पलक्षणत्वात्प्रत्येकम्पदत्वेन सुबन्तचयरूपवाक्यत्वाद्वेत्यर्थः । अनुकरणत्वेनेति । अभे- दविवक्षयार्थवत्त्वाभावेन प्रातिपदिकत्वाभावादितिभावः। ननु वृत्त्युपस्थितत्त्येव सादे श्रेधर्या ऽन्वयप्रतियोगित्वादनुकरणे सर्वत्र भेदविवक्षव युक्तेत्यत आह । सौत्रत्वाच्चेति । सौत्रवा"च्छन्दोवत्सूत्रागी" त्यतिदेशा " त्सुपांसुलुगि" तिल्लुगिति भावः । न विभक्त्युत्पत्चिरिति । लुक्यपि लुकानुत्पत्तिरेवान्वाख्यायते इति भावः । विरुध्येते- ति । शक्तिरित्यादिः । यतस्सन्धिकार्थे कृते विकृतरूपस्य श्रवणम्भविष्यत्यतो गृ- हीता शक्तिविरुध्येतेति भावः । तद्विरोधाभावादिति । गृहीतशक्तिनाशाभावादित्यर्थः । न चाविकृतरूपाकाराश्रयशक्तिस्तद्रूपनाशकसन्धिकार्यस्यानिमित्तमित्यस्त्येवोपजी- व्यविरोध इति वाच्यम् । एवं सत्याद् गुणइत्यादीनां वैयर्थ्य स्यात् । सन्देह इति । किं हूस्वस्यायन्निर्देश उत दीर्घस्यायमित्येवं सन्देह इत्यर्थः। व्याख्यानतइति । अणुदि- दिकोयणिति एचोऽयवायावस्त्राभ्यामैजितिनिर्देशरूपाढत्यक इतिप्रकृति भावरूपा- म्चेत्यर्थः । अस्यैववेदाङ्गत्वमिति । पाणिनिव्याकरणस्यैववेदाङ्गत्वमित्यर्थः । अ- त्रेति । चतुर्दशसूत्रयावेदत्वे महेश्क्रात्पाणिनेलाभेचेत्यर्थः । नन्वेवं लणसूत्रस्थमा- प्यासङ्गतिस्तस्मात्त्वेतस्याः पाणिनिकर्तृत्वं सादित्वञ्च प्रतीयत इत्यत आह । आ- चार्य्यपदेन महेश्वरः अनुबन्धाश्चमहेश्वरकताएवेति । ननु महेश्वरेण कृतञमङणनमि- त्यत्र मकारस्य भाष्ये प्रत्याख्यानमसङ्गतमतआह । सर्वत्रेति । अत्रार्थे भाष्यस- म्मतिमाह। तदुक्तमिति । नन्वेवमपि तत्तत्प्रत्याख्यानासङ्गतिवृद्धिसूत्रस्थभाष्यविरो- धादत आह । सूत्रस्थति । अतएव । चतुर्दशसूत्रयावेदत्वादेवेत्यर्थः । ननादेति । नादयामासेत्यर्थः । नवपञ्चवारमिति । नवाधिकाः पञ्च नवपञ्च नवपञ्चानां वा- राणांसमाहारो नवपञ्चवारम् । ननादेत्येतद्योगे कालाध्वनोरत्यन्तसंयोग इति द्विती- या । विमर्शेइति । विचारे कृते सतीत्यर्थः । अन्त्यवर्णचतुर्दशमिति। चत्वारश्च दश च चतुर्दश अन्त्यवर्णश्चचतुर्दश च अन्त्यवर्णचतुर्दश इति विद्यते यास्मिन्कदम्बे तद- त्यवर्णचतुर्दशमिति । अर्शआद्यजन्तमितिभावः । अतएव । अइउणित्यादीनां वे- दत्वादेवानुबन्धानां सादित्वादेव चेत्यर्थः । अतएव । पूर्वोक्तस्य वेदत्वादेवेत्यर्थः । एतच्चोपपादितमिति । एकवाक्यता चादिरकारादिरित्यादिनेत्यर्थः । ननु रे.त्यत्र लकारोच्चारणन्तु रप्रत्याहारानित्यत्वे एव ज्ञापकमस्तु तत्फलं रदाभ्यामित्यादावित्यत आह । किञ्चेति । वहुविति । इकोयणचि, संयोगादेरातोधातोर्यण्वत, ओःपुयण- ज्यपरे, उदात्तस्वरितयोर्यण इत्यादिष्वित्यर्थः । ननुयणघटितसूत्रेष्वर्द्धमात्रागौरवेणा- कारेग रन याहार एव नान्येन इति ज्ञाप्यते । तेनछेयः, योचि, अयोपधादित्या- संज्ञाप्रकरणम् । .. दौ न प्रत्याहारः इति न दोषोत आह । किञ्चेति । अव्यापकत्वापत्तिरिति । पक्ष- तावच्छेदकावच्छिन्नवृत्तित्वरूपव्यापकत्वाभावापत्तिरित्यर्थः । जातिपक्षस्यैवेति । अ- तएवावात्तामित्यादिसिद्धिरिति भावः । व्यक्तिपक्षेतुमामाँस्त्रायस्वेत्यत्र नदोषोऽशुदि- त्सूत्रज्ञाप्यलक्ष्यतावच्छेदकज्ञानोत्तरमकारस्य स्ववाच्यवाच्ये लक्षणायास्सत्त्वेनाणुदि- सूत्रस्य चाणसञ्ज्ञासापेक्षवेनान्तरङ्गत्वात्प्रागेवाकारस्येत्सझालोपाभ्यामपहारा- त् । नचेत्सञ्ज्ञायामपि तथा ज्ञानावलम्बापेक्षा गुणा अभेदका इत्येवगतार्थत्वात् । अनुनासिकपक्षइतिः । अनुनासिकत्वसमानाधिकरणाकारत्वजातिनिर्दिश्यत इति मतेनेदम् । वस्तुतो व्याप्यनातिनिर्देशेः प्रमाणाभावादत्र पक्षे व्यक्तिपक्षे च दूषणमा ह। सोस्तीत्यादाविति।आदिना जातिपक्षेसमाधानं देवा यान्ति शय्यासामित्यादी. नां, व्यक्तिले समस्यतेदेवा यत्र शय्यासामित्यादीनां संग्रहः । सुलोपाद्यापत्तिश्चे- ति । आदिना मोनुस्वारः, हलिसर्वेषां, हलोयमांयमिलोप इत्यनुस्वार, लोपादीनां संग्रहोबोध्यः । स इत्येतन्मात्रे हल्ङचादिलोपप्राप्तेरस्तीतिव्यर्थमिति न वाच्यम् । एतत्तदरित्यारम्भा " त्सकद्गतिन्यायस्यै " वाश्रयणात् । अतएव । लाणत्यकार- स्या ऽनुनासिकत्वाभावादेव। प्रसङ्गाद् द्वितीयहेतुमुपपादयति ।तप्रधान्यमित्यादि- ना । द्वितीयहेतोरव्यापकत्वं शङ्कते।नचेत्यादिना । समाधत्ते । हकारादिष्विति । पुनः पुनस्कारोच्चारणेनेत्यर्थः । शक्यत्वादिति । प्रत्येक मकारोच्चारणेनोच्चारणार्थ वर्णराहित्यमेवा प्राधान्यं हल्सु ज्ञाप्यत इति भावः । ननु हकारादिष्वकारोच्चारण- स्य किम्प्रयोजनमत आह । नपुनरिति । नन्वेवमप्युच्चारणार्थकृतस्यापि हल्सञ्ज्ञा- कारस्यकुतोनात आह । एषाहीति । इति भावइति । अनुवाद्येषञ्चारणार्थवर्णघटि: तसमुदायस्य तद्रहित लक्षणा । उच्चारणार्थानामपि इत्सझालोपाभ्यामेवनिवृत्तिरिति तु विवेयविषय एवेतिः तत्त्वम् । एतेन स्प्रत्याहाररवण्डनपरण पूर्वग्रन्थेन दिवऔ- सूत्रस्थेनोत्तरग्रन्थेन चविरोधादसङ्गतामदमित्यपास्तम्। सार्थक्यायेति । अन्यथा ह- रुसूत्रस्यान्त्यमिदित्येवार्थो हलन्त्यमित्यस्य स्यादिति भावः । आवृत्त्येति । उद्देश्यवि- धेयभावार्थमावृत्त्याश्रयणमिति भावः । अनित्यनुवृत्तिसामर्थ्यादिति । अजननुवृत्तौ मनिनादौ मकारादेरित्त्वार्थं विधिरेव स्यादिति भावः। रुप्रभृताविति । रुशब्दें इ- त्यादावित्यर्थः । अदोषात् । पूर्वपक्ष्युक्तार्थखण्डनार्थमनुपन्यसनीयत्वादित्यर्थः । इङ्गतावित्यतश्चेति । इडिगिणा त्वसम्भवः । भूवादिसूत्रस्थभाष्येणेङिकोरधिपूर्व- अधर्या कयोरेव प्रयोगबोधनादिण एत्येधत्यूडिति वृद्धेर्जागरूकत्वादिति समाधानस्य समा- धानान्तरादूषकत्वादाह । किञ्चेति । एकशेषेति । तन्त्रस्योपलक्षणमिदम् । सहवि- वक्षाया अभावेनैकशेषासम्भवात् । कैयटोक्तव्याख्यायांत्विति । तुनारुचिर्बोधि- ता । सामीप्यं षष्ठयोंनास्तीति । ननु प्रतियोगिज्ञानेऽभावपदबोध्याभावज्ञानस्य कारणत्वाभावेपि निषेधज्ञानस्य कारणता ऽस्त्येवेत्यत आह । प्रतियोगिज्ञानंविने- ति । नन्वेवं पूर्वं ह्यपवादा इति अनेन विरोधोऽत आह । नन्वेवं पूर्वं ह्यपवादा इति । वाक्योपप्लवेति । एवं च निषेधविषये लक्षणाभावान्न हि विकल्प इति भावः।अन्यार्थेति। निषेधवाक्यार्थ पय्यालोचनया वाक्योपप्लवानङ्गीकारे इत्यर्थः। विकल्पापत्तेस्सत्त्वाच्चेति । निषेधविषयेप्पुत्सर्गस्य लक्षणोपप्लवादिति भावः। बु- दयारूढाभवन्तीति । उत्सर्गरूतलक्ष्यसंस्कारात्पूर्वमित्यर्थः । ततउत्सर्गइति । अप- पादवाक्यार्थपालोचनात्प्रागित्यर्थः । अयमर्थइति । इदम्प्रयोजनमित्यर्थः । त- न्मते उत्सर्गणापवादविषयं प्रकल्प्य रचयित्वा ऽपवादेप्रटते ततो ऽपवादविषयाद- न्यत्रोत्सर्गः प्रवर्तत इत्यर्थ इति । उपदेशइतिसम्बध्यतइति । अन्यथा हलविलेखने इति धातोरपि लस्येत्त्वापत्तिरिति भावः । नचोच्चारणसामर्थ्यम् । तस्योपदेश इत्य- नुवृत्तावेव तात्पर्य्यग्राहकत्वस्यौचित्यात् । ननु पूर्वणकारेणेण् प्रत्याहारे ऽन्त्यग्रह- णाभावे ऋकारादिग्रहणम्माभूदिति वक्तव्ये आदिग्रहणम्माभूदित्यसङ्गतमतआह । अचिरिन्वति । प्रायइति । तेनोदीच्यग्रामादित्यादौ क्वचित्समासेपि न दोष इति भावः । ननु व्याप्तिन्यायेन दोषो ऽत आह । अतएवप्रकारेइति । एवञ्चोकारोच्चा- रणसामर्थ्यात्प्रत्यासतिरेवानियत इत्यर्थः । नन्वेवमपि ततत्समुदायस्योपदेशत्वे उकारोच्चारणं व्यर्थमत आह । समुदायोपदेशेइति । नन्वन्त्यमुपदेश इत्स्यादित्यर्थे इउणित्यादौ णादीनां हलत्याहारसिद्धेश्भावादित्त्वं न स्यादत आह । तत्रवि- द्यमानइति । यत्रसज्ञातति । प्राय इत्यस्येत्स त्यत्रान्वयः । तेन नविभक्तावि- ति निषेधात्तत्रनेति भावः। डस्सिधुडितिसूत्रे इत्यर्थः । आनर्थक्यादिति । लोपस्तु तत्र न भवत्युच्चारणसामर्थ्यादिति भावः । तदुपस्थाप्यएवेति । एवंचेदमेव सामा- न्यापेक्षंज्ञापकं सर्वत्रोपस्थाप्य एवेत्सञ्ज्ञाकार्यमित्यत्रार्थेन तु तत्र पृथग् ज्ञापन- कल्पनागौरवादिति भावस्तदाह । वैयाकरणइति । व्याकरणस्य विकारो वैयाकर- णो ऽनुदात्तादेरञ्तत्रेत्यर्थः । तेनैञ्चकारस्य सूत्रे इत्सद्भायाः प्रत्याहारसंपादनेम संज्ञाप्रकरणम् । चरितार्थत्वात्तदुपस्थाप्ये इत्का-भावाद्वैयाकरणे चित्स्वरापादनमसङ्गतमित्यपा- स्तम् । अतएव । अनुबन्धविनिर्मुक्तस्योपस्थितेरेव । तत्रोपलभ्यतएवेति । बोधक बोध्ये चोपलभ्यत एवेत्यर्थः । यसकारो गर्गादिभ्योयञ् गाये इत्यत्र यथेापलभ्यत इति भावः । कदाप्यदर्शनादिति। एवञ्चैकान्तत्वे उभयत्र दर्शनं हेतुस्तदभावश्चा- नेकान्तत्वे हेतुरिति भावः । एकान्तत्वंसाधयति । एकान्ताएवेति । तत्र हेतुमुपपा- दयति । शास्त्रेतत्रोपलम्भादिति । शास्त्रे सूत्रे तत्र तस्मिन्नवयविनि उपलम्भाद- र्शनादित्यर्थः । हेत्वन्तरणसत्प्रतिपक्षत्वमेकान्तत्वसाधकहतोर्निराकराोत । अन्यत्रा- नुपलम्भाच्चेति । नन्वेकान्तत्वे फलाभावो ऽत आह । किञ्चेति । नन्विष्टापत्तिरत आह । अतएवेति । नन्वेकान्तत्वे भाष्याद्यनुग्रहाभावोत आह । तस्यलोपइतिसूत्रे इति । नन्वेवमुपदेशग्रहणं व्यर्थमत आहे । स्पष्टार्थमेवेति । अनुबन्धविनिर्मु- तोपस्थितौ वाक्यार्थमाह । सर्वत्रेति । अनुवादे इति च। प्रमाणं स्वोक्ते ऽर्थे आह । स्पष्टञ्चेदमिति । अत एव टकारेत्सझकाकारादित्यर्थादेव । यत्राट्सूत्रेतत्रनाच्पर इति । आपनद्या इति सूत्रे नाच्परइत्यर्थः । नन्वाडजादीनामित्यत्राच्परोऽस्त्येवे- त्यत आह । नेष्यतेचतत्रद्धिरिति । आडजादीनामित्युच्चारणेनेति भावः । वा- चालइति । लित्वे हि लिच्चित्स्वरयो:पर्यायस्स्यादिति भावः । ननु हल्ाहणा- भावे भूनीत्यादावुच्चारणसामर्थ्यादन्त्यस्यनेत्त्वमिति हल्ग्रहणं व्यर्थमत आह । चिरिणोतीति । धातोरन्त्यस्येति । इदित्त्वन्नुमथ स्यादिति भावः । भूजीत्यादीना- मेकाचामवयवाभावान्नतत्फलमिति बोध्यम् । उपदेशस्याद्योच्चारणार्थकत्वे कैयट- भाष्यसम्मतिमाह । अतएवेत्यारभ्योक्तमित्यन्तेन । प्राचीनमतमुपपाद्य दूषयति । परोत्विति । कःपुनरित्यस्य भाष्योक्तप्रश्नस्याशय वर्णयति । यदि प्रत्यक्षमिति । ननु लटश्शत्रित्यत्र, नपुंसकेभावे इत्यत्र तक्तवतूनिष्ठेत्यत्र, वदस्सुपीत्यत्र चोच्चा- रणान्नायं दोषोत आह । वदस्सुपीति । तत्संग्रहोऽ न आँ अप इत्येतद्व्यात्ति- श्चेति । उपदिश्यतेऽनेनेत्यर्थे उपदेशकरणस्योपदेशत्वमेवञ्च सन्निविष्टानिपातनै- रुपस्थिते शतृशानच्क्तक्तवतुक्यब्भिः प्रयोगस्था बोध्यन्ते इति तेषामुपदेशत्वमभ्राँ इत्येतत्प्रयोगस्थानुनासिकपदेन बोध्यत इति नाकारस्योपदेशत्वमिति भावः । ननु राजसूयेत्यत्र पकाराद्यश्रवणेनौपाधिकोभेदो नाङ्गीक्रियते इत्यत आह । किञ्चेति। नन्वन्तग्रहणसामर्थ्यात्प्रत्ययादिविशिष्टान्त्य एवगृह्यते इति चेत्तत्राह । यदित्विति । A ६ |धर्या सिद्धेइति । उपदेशकरणस्योपदेशे स्वऽर्थवत एव सम्भवेन वात्तिकानुत्थानं मम तु यत्किञ्चित्समुदायस्याप्याद्योच्चारणविषयत्वादुत्थानमिति भावः । समुदायद्वा- रोत । परम्परया ऽवयवानामपि. करणत्वं वार्तिकलतापाद्य वार्तिकम्प्रणीतम् । अतएवोपदेशने इति वदतस्तस्य न पूर्वापरविरोध इति भावः । ननु निपातानाम- नर्थकानामित्यनेनाधिपरीअनर्थकाविति स्यपकेन च निपाताना प्रातिपदिकत्वात्तद् ग्रहणं व्यर्थमत आह । ब्राह्मणवासष्ठेति । व्यवसितत्वञ्चीत । परिगणितत्वञ्चे- त्यर्थः । परिच्छिन्नत्वादिति । परिमाणादित्यर्थः । भाष्ये प्रातिपदिकप्रतिषेधोऽक- तद्धित इति पठ्यते, तस्यार्थः । अकृत्तद्धितेन श्रवणं यस्य तद्श्रवणन्तच्च तत्क-- त्तद्धितमिति मध्यमपदलोपी समासः । एवञ्च कृत्तद्धितानां श्रवणाभावे सति प्रा- तिपदिकानां प्रतिषेधोवक्तव्य इति । तेन संसर्गवहिप्रयोगस्यापीति न्यायेनाद्योच्चा-- रणविषयसमुदायभिन्नप्रातिपदिकानामन्ताद्भितानामित्यर्थः । फलमितिः। तत्फलिता- थमेव वार्तिकलतोक्तम् । तदाह । प्रातिपदिकानामित्यारभ्याकदित्यादीत्यन्तेन । अश्रूयमाणकृत्तद्धितानां प्रातिपदिकानामाद्योच्चारणविषयसमुदायभिन्नानामित्यर्थः । तेनोदश्विदादीनां निषेधः । अइउण् चोः कुश्चित्राङ्नङित्यादीनां कुम्भकार इत्यादीनाञ्च तदभावश्च सिध्यति नन्वग्रहणप्रातिपदिकानामितिः पस्पशास्थ-- भाष्येण तेषामप्यपूर्वोच्चारणेनोपदेशत्वान्न वार्तिकानुत्थानमत आह । उद्देशश्चे-- ति । ननु पस्पशास्थभाष्यस्य का गतिरत आह । एतद्भाष्यकवाक्यतयेति । करण-- साधनोपदेशपदानुवृत्तौ सर्वथा तदननुवृत्तौ च भाष्यान्तरविरोधमाह । नन्वेवमि- ति । अननुवृत्ताविति । भावघञन्तोपदेशपदाननुत्तावित्यर्थः । क्वचित्पूर्वत्रेति । आनेमुक्थेंडितीत्यादावित्यर्थः । कचिदुत्तरेति । मयउओवोवात्रेस्त्रय इत्यादावित्य-- र्थः । षष्ठीपदानुसत्ताविति । इदमुपलक्षणं. सूत्रध्यानुसत्तेराप । उभयोरिति । पर्यायेणोभयोः प्रकल्पकत्ववारणायेत्यर्थः । ननुः परत्थानवकाशत्वाभ्यामिति वदतो- युगपद्बलवत्त्वाभाव एकः पूर्वपरयोरिति ज्ञापकस्यावश्यकत्वमितरथा वि-- रोधाभावात्परत्वमनवकाशत्वञ्चाप्रयोजकमेव स्यादत आह । एकइति । एवञ्चेदं तवाप्यावश्यकमिति भावः । ननु प्रक्लप्तिपक्षे कल्पितस्यादेशस्यः चोच्चारणाभा-- वादुच्चारितस्यत्वपूर्वोच्चारणाभावाच्चेत्सञ्ज्ञा न स्यादत आह। तदने उपदेशप- दाननुत्तिमभिप्रेत्यअथवेति। नगनुत्पन्नइति । गुप्तिनित्येतदतिरिक्तेनानुत्पन्नेसनि संज्ञाप्रकरणम् । । 'प्रकृत्या न भवितव्यमित्यर्थः । नन्वेतद्बलाद्गुपादिभ्यः परस्सन्ननुमीयते ऽत आह । यदाचोत्पन्नस्सन्निति । कृतसामर्थ्यति । एवञ्च पञ्चम्यन्तराभावान्न प्रक्लप्तिरिति भावस्त्रदाह । खत्रपरत्वविशिष्टस्येत्यारभ्यकैयटआहेत्यन्तेन । एते- नात्रापि पक्षे ऽनुमितस्योच्चारणाभावादित्सञ्ज्ञा न स्यात् । नच सन्नुच्चारित एवेति वाच्यम् । तस्यानुवादरूपत्वात् । अतएव कृतसामर्थ्यापञ्चमीत्येव भाष्ये उक्तम् । नतु कतसामर्थ्य सूत्रमित्युक्तम् । कैयटेषि पञ्चम्या उपक्षयादित्येवोक्त- मित्यपास्तम् । उपदेशपदानुसत्वेरेवाभावादिति दिक् । एवञ्चेति । उपदेशपद- स्यभावजन्तस्यानुवृत्त्यभावे चेत्यर्थः । ननु भवतां भाष्यस्यैकदेश्युक्तित्वकल्पनं ममप्रौढिवादत्वकल्पनामति समानमत आह । प्रकृतेति । तद्भाष्यति । पूर्वपक्ष्युक्त- भाष्येत्यर्थः । नोचितमिति । सूत्रार्थप्रविपिपादयिषया प्रवृत्तस्यैव प्राबल्यादिति भावः । लक्ष्येति । लटस्सद्वेत्यादि लक्ष्येत्यर्थः । नन्वनुबन्धानामेकान्तत्वे शस्य लोपश् इति समुदायस्य चानर्थकत्वात्प्रातिपदिकत्वं न स्यादत आह । अनुबन्धा- नामेकान्तत्वेत्विति । एवञ्चतत्रपक्षेसएवनास्तीति भावः । अयमेवमिति । अदडा- देशेनुनासिकोपधत्वंक्रियतेइत्यर्थः । व्यवहार इति । स्वतन्त्रः कर्तेत्यादिनिर्दे- शोऽनङो नकारस्यानुनासिकत्वे प्रमाणमिति भावः । यणापत्तिरिति । यस्येति चेति लोपस्तु न शक्यः । यचिभमित्यत्र यसाहचर्यादपि अच्त्वहरूत्वोम- यधर्मानाक्रान्त एव गृह्यते इति ककारे भत्वाभावात् । नन्वेवमपि इकोऽ सवर्ण इति शाकल्येन प्रकृतिभावापत्तिरिति चेन्न । नसमासे इति निषेधादिति भावः । व्याख्यानादिति । संज्ञात्रयकरणरूपात् । अन्यासम्भवरूपादतोदीर्घइति विभाषा प्रष्टेति हैहेप्रयोग इति च ज्ञापकरूपाच्चेत्यर्थः । सादृश्यस्यव्याख्यानादिति । अ- न्यासम्भवरूपाद्व्याख्यानात्सादृश्यस्यकालकृतस्यैवग्रहणमिति भावः । नन्वेकद्वित्रि- मात्रावैशिष्टयेनापि सादृश्यस्य ग्रहणसम्भवः । एवञ्चलकारस्यैचश्च ग्रहणन्न स्या- दिति प्रणवष्टेरिति ज्ञापकादेताढशसाढश्यग्रहणासम्भव: । ननु भाष्याविनारि- तप्रयोजनकानां सूत्राक्षराणां पारायणादावदृष्टार्थत्वमेव न तु तत्र तत्र फलकल्पनं युक्तमतएव तदर्धातेतद्वेद इति सूत्रे द्विस्तद्ग्रहणं प्रमादकृतमाचार्यस्येति भाष्ये उक्तम् अत आह । तदुक्तम्भाष्यइति । पदान्ताद्वेति तुगापत्तिरिति । अन्तरङ्ग- परिभाषायास्तु ज्ञापकसिद्धत्वेन छत्रादिम्योऽणिति सिद्धे छत्रादिभ्योण इति गुरु- । - । ।
श्रेषर्यां । । । निर्देशाज्ञापकस्यासार्वत्रिकत्वादिति भावः । ज्ञापकसिद्धत्वेनेति । एवञ्च वर्ण- अहणे जातिग्रहणमित्यस्यापि ज्ञापकसिद्धत्वेनासार्वत्रिकत्वाच्छङ्का न युक्तेति भावः । ननु ज्ञापकसिद्धस्यापि प्रवृत्तिरौत्सर्गिकी अप्रवृत्तिस्तु गमकसाध्येति दोष: प्रकते तदवस्थ एवेति चेदन्तरङ्गपरिभाषाविषयेपि तुल्यत्वात्तदाह । अन्तरङ्गत्वे- नेति । अवच्छब्दस्य छान्दसत्वादाह । निकृष्टमिति । बाहुलकस्यागतिकत्वादाह । अर्शआद्यजिति निषेधस्त्विति । गार्यकाश्यपगालवभिन्नमते इत्यर्थः । इत्यर्थ- इति । वेदभाष्ये तथैव व्याख्यातत्वादिति भावः। एतेनाहव्याप्तावित्यस्मादह- लोय॑ति छान्दसत्वावृद्धयभावे सुपांसुलुगिति षष्ठयारस्थाने सुरादेश इतीत्यपा- स्तम् । अर्थासङ्गते: । व्याख्यानादिति । आस्यग्रहणप्तामर्थ्यादित्यर्थः । तत्सा- र्थक्यादिति । ननु प्रयत्नग्रहणसामर्थ्यादास्यशब्देन वायुसंयोगस्यैव ग्रहणं कण्ठा- दीनामिति विपरीतं किन्न स्यादिति चेन्न । तुल्यास्य त्वादिभ्य इत्यादिनिर्देशात् । नैचैवं प्रयत्नग्रहणं व्यर्थमेव निर्देशेनैववायुसंयोगस्याग्रहणादिति वाच्यम् । निर्देश- स्य स्थानमात्रग्रहणमास्यशब्देनेत्यर्थनाप्युपपत्तेस्तथा सति प्रयत्नभिन्नयोराप सवर्ण- संज्ञायामञ्चित इत्यादौ यकारोपि परसवर्णस्यादिति भावः। वाक्श्च्योततीते। नच झा योझयीति न्यासेन नदोषः । निस्व निस इत्यादौ लोपानापत्तेः । इतिभावइति । एवञ्चाकारादीनां स्थानान्तराभावात्कण्ठ्यत्वेनैव व्यवहारः । इकारादीनान्तु स्था- नान्तरसत्त्वात्तालव्यत्वादिना न व्यवहार इति भावः । यावत्स्थानसाम्याभावा- दिति । जिह्वामूलतालुस्थानाभ्यां भेदादिति भावः । ननु सूत्रमते इकारस्य एका- रैकाराम्यामुकारस्य ओकारौकाराभ्यां सावर्ण्य स्यादत आह । भिन्नस्थानति । वैय- •पत्तेरिति । शिक्षायां भिन्नस्थानकथनस्यैकारैकारादीनां वैयर्थ्यांपत्तेरिति भावः । ननु स्थानविधानानन्तरं सवर्णतज्ञायामणुदित्सूत्रस्य व्यापाराभावात्स्थानविधायके ऽकुहेत्यादिवाक्ये ऽकारादिभिर्दीर्घादीनां ग्रहणभावात्तेषां स्थानविधानं न स्यादत आह । तत्तद!त्पत्तेरिति । दन्तसंयुक्तेति । अत एव दन्त्योष्ठयोव इत्यत्र श- रीरावयवाच्चति यत् । अन्यथा दन्तानां शरीरावयवत्वाभावान्न स्यात् । नचावय- वत्वमेव दन्तानामस्त्विति वाच्यम् । यस्य च्छेदने शरीरस्य दुःखं जायते तस्यैव तदवयवत्वस्वीकारात् । स्पष्टञ्चेदं चमणिद्वीपिनंहन्तीति श्लोकस्य व्याख्यावसरे सब्देन्दुशेखरे । फलान्तरमप्याह । अतहति । अतएव नमकणनानां नासिकास्था- । । ।
संज्ञाप्रकरणम् । - - - नत्वादेव । “एतेषां नासिका न स्थानं किन्तु करणं शिक्षायां तेषान्नासिकास्था- नानुक्तेरिति” केषां चिन्मतं खण्डयात । यत्त्विात । अमामाप परस्परं सावा- पत्तिरिति । तथाच हरिन्नमतीत्यादौ आदिः परसवर्णस्स्यादिति भावः । अनुवा- दकं सत्तस्यैवबोधकमिति । प्रयत्नभेदस्यैव बोधकमित्यर्थः । प्रयत्नभेदादिति । अइउणसूत्रस्थेन विवृतेन संवृतस्य प्रयत्नभेदादसावात्तस्याणुदित्सूत्रेणाग्रहणा- दत्त्वाभावाद्दीर्घाभाव इत्यर्थः । एतेन प्रयत्नभेदाद्दीर्घाभावोप आद्गुणस्य दुर्वा- रत्वेन सर्वे विधयश्छन्दसि विकल्पन्ते इत्यस्यावश्यकत्वात्तेनैव दीर्घस्यापि वारणस- म्भवे प्रयत्नभेदकथनवैयर्थ्यान्न्यूनतापत्तश्चेत्यपास्तम् । व्याख्यानादिति । तपरक- रणरूपादेकशेषनिर्देशरूपाद्वा भाष्योक्तादित्यर्थः । अनुनासिकेष्विति । प्राप्तेष्वि- त्यर्थः । भष्भावानापत्तेरिति । तत्र घत्वे भष्भावनापवादत्वाद्बाधितेपि जश्त्वे ऽनु- नासिकभष्भावयोर्विनिगमनाविरहेण पर्यायेण प्रवृत्तौ कृताकृतप्रसङ्गित्वेन नित्यत्वादनुनासिकावृत्तौ चानुनासिकपक्षे भष्भावानापत्तिरिति भावः। ननु पर्या- यस्वीकारेण शास्त्रद्वयबाधापेक्षया शब्दान्तरात्प्राप्नुवतो विधेरनित्यत्वेनानुनासिक- शास्त्रेण भष्भावशास्त्रबाधापेक्षया च शास्त्रद्वयसमावेशस्य न्याय्यत्वेन पूर्वम्भष्भावे ततो ऽनुनासिके नोक्तदोषो ऽत आह । वस्तुतइति । वत्वापतिर्दोषइति । वत्वानुना- सिकयोरेकत्र समावेशासम्भवेन पर्यायेण प्रवृत्तौ पक्षे वत्वापत्तिर्दोष इति भावः । अतएवेति । भष्भावानुनासिकयोस्समावेशस्य न्याय्यत्वादेवेत्यर्थः । अधिकारत्व प्र- माणमाह । श्चुत्वेधुटीति । अतएवेति । वाक्यभेदादेवेत्यर्थः । तेनेति । शृङग्राहिकयेव तत्तच्छास्त्रम्प्रत्यासिद्धस्य यत्रोपस्थितिस्तस्य प्रतिपादनेनेत्यर्थः । अपवादस्य यम्प्र- ति । ढविधिम्प्रति । अन्यत्र । वत्वविधौ । नन्वपवादस्यासिद्धत्वे द्वित्वे परसवर्णस्य सिद्धत्वं वक्तव्यमिति वचनस्योत्थानमेव न स्यात् । तथाहि । ताद्ध सय्यन्तेत्यादौ त्रियकारादिसिद्धयर्थमन्यथानुस्वारस्य द्वित्वे परस्य वापदान्तस्येति परसवर्णे ऽपि पूर्वस्यापदान्तत्वाद्वापदान्तस्येत्यस्याप्राप्त्या वापदान्तस्यत्यस्यासिद्धत्वादनुस्वारस्य ययीत्यस्याप्यप्राप्त्यानुस्वारस्य श्रवणप्रसङ्गात् । अपवादस्य सिद्धत्वे तु वापदान्तस्ये- त्यस्य सिद्धत्वात्पूर्वस्यानुस्वारस्यययीति परसवर्णे रूपस्य सिद्धत्वाहार्तिकानुत्थाना- दिति चेन्न । अपवादवचनसामर्थ्यादुत्सर्गशास्त्रे ऽपवादशास्त्रोद्देश्यतावच्छेदकानाक्रा- न्तस्योद्देश्यस्य ग्रहणेनाप्युपपत्तौ शृङग्राहिकयेव तत्तच्छास्त्रम्प्रत्यसिद्धत्वकल्पने । । - । - २ अधयों गौरवमिति तदाशयात् । यदि तु साक्षाद्विधिभूतोत्सर्गशास्त्रे संकोचकल्पनापेक्षया ऽपवादशास्त्रे ऽनुवृत्तातिदेशभूतपूर्वत्रासिद्वमिति शास्त्रीयपूर्वशब्दे एवोत्सर्गसूत्रभि- नस्य ग्रहणमिति संकोचः । एवञ्चैकदैव पूर्वत्रेत्यस्य वाक्यार्थो न तु शृङग्राहिकयेव तत्तच्छास्त्रं प्रत्यासद्धत्वस्य पूर्वम्प्रवृत्तिरित्येवापवादेनोत्सर्गस्य बाध इति स्वीक्रियते। ततोलाघवमिति । द्वित्वे परसवर्णवचनं न कर्तव्यमिति महदेव लाघवम् । अतएवाप- वादो नासिद्धो वचनप्रामाण्यादिति प्रकृतसूत्रभाष्योक्तं सङ्गच्छते। एतत्सर्वं ध्वनयता शृङ्गमाहिकयेव तु इत्यरुचिबोधकस्तुशब्दो मूलकता प्रयुक्त इति दिक् । ननु पूर्वत्रेत्येव सूत्रमस्तु । आमन्त्रितं पूर्वमविद्यमानवदित्यतो ऽविद्यमानवदित्यनुवर्तते । एवञ्च मनोरथ इत्यादौ पूर्वत्रोत्वे रोरीति लोपे ऽविद्यमानवदिति सिद्धे ऽसिद्धमिति व्यर्थमत आह । सिद्धमिति । अविद्यमानवदित्यनेन तु न निर्वाहः । गोमानित्यादौ नलोपापत्तेः । शास्त्रस्याविद्यमानत्वेपि कार्य्यस्यविद्यमानत्वात् । कुलालस्याविद्यमानत्वे ऽपि तत्कृतघटस्य विद्यमानत्ववदिति भावः । अन्तरङ्गत्वात्पादिकमिति । इदम्प्रा- चामनुरोधेन । स्वमते त्वन्तरङ्गपरिभाषायास्त्रिपाद्यामप्रवृत्त । अझतव्यूहपरिभाषाया अभावाद्वाचिक इत्यादेरसिद्वेश्च पूर्वत्रेत्यस्य पूर्वविधेयपरमसिद्धमित्यर्थस्य वाचिक इत्यत्र स्वयमेवोक्तत्वान्नान्तरङ्गस्य पूर्वम्प्रवृत्तिरिति तत्त्वम् । दिगिति । दिगर्थस्तु नेलोपे सुप्स्वरसज्ञातुग्विधय: कृतीति न्यासेन पूर्ववेत्यस्यासम्बन्धेन च प्रकृते नलोपे कते एते न भवन्तीत्यर्थेनादोषे ऽपिगोमानित्यादौ संयोगान्तलोपादेरनापनिरि- ति। शच्छयोरपीति । तयोस्सावये राजश्छिन्धीत्यत्र झरोझरीति लोपस्स्यात् । आदन्तइति । अदन्तत्वे ह्यन्तस्स्थाभिरित्यसतं स्यात् । द्विव्यञ्जनाश्रयोविधि- रिति । संयोगसंज्ञेत्यर्थः । नाणुदित्सूत्रेण तद्ग्रहणमित्युक्तमिाते । यद्यप्यनुस्वारपरस- वर्णयोरसिद्धत्वेनाप्यत्र समाधानं वक्तुं सुकरन्तथाप्यनचिचेति द्वित्वसिद्धयर्थमेतत्स- माधानस्यावश्यकत्वेन संयोगसञ्ज्ञायामाप समाधानस्य समाधानान्तरादूषकत्वादिति न्यायेनेदमेवोक्तमिति भावः । एकारस्य तालव्यत्वमोकारस्यौष्ठयत्वमिति । अत्र मते यजुष्येकेषामलंखल्वोरित्यादिनिर्देशादिगोस्सावाभाव इति भावः। एकारंश- कारादीनामिाते । आदिना विवृतमूष्मणामित्यत्रोष्मशब्देन वद्वितीयचतुर्थयो- रपि ग्रहणात्तयोविवृत्तत्त्वन्नाज्झलावित्यादिनिर्देशात्तत्तद्वर्गीयोपि प्रयत्नः प्रयत्नांशे यत्किञ्चित्साम्यनिर्देशादाश्रीयते इति मते इकारछकारादीनां ग्रहणं नस्या- - - - संज्ञाप्रकरणम् । दिति । भावइति । तथा च नाज्झलावित्यादिनिर्देशासङ्गतिः । परवल्लिङ्गमिति । नपुंसकत्वञ्च स्यादित्यर्थः । अच्पवोध्यत्वमिति । अच्वं स्यादित्यत्राच्पदस्यो- पस्थानात्तस्याच्वबोध्ये लक्षणेति । ननु, प्रत्याहारेषु तद्वाच्यवाच्ये लक्षणेति पक्षे ऽप्ययन्दोषोस्त्येवेत्यत आह । व्यक्तीति। जातिपक्षे न दोष इति भावः। ज्ञापयतीति । बोधयतीत्यर्थः । टित्किन्मित्स्विति । इड्यक्तुगस्वित्यर्थः । ध्वनितमिति । प्रत्य- यपदस्य प्रतीयते विधीयते इत्यस्यायुक्तत्वमित्यर्थः । ज्ञाप्यतइति । एवं च घटवदिम- मित्यादौ भाव्यमानेनेत्यनेनान्तरङ्गत्वादणुदित्सवर्णस्येत्यस्यैव निषेधेऽपि न दोष इति भाव: । परास्तमिति । अष्टन आ इत्यर्थं बाध्यसामान्यचिन्ताया आवश्यकवादि- ति भावः । चोभिन्नइति । नतु स्वरूपसमुच्चायकस्स्वस्यापि स्वसवर्णत्वेन फला- भावात्तदेव ध्वनयन् वक्ष्यति । हूस्वेत्यादि । भेदमारोप्येति । मूलानुरोधेनेदम् । स्वमते सादृश्यस्य भेदाघटितत्वात् । व्याख्यानादिति । उदित्यत्र तपरकरणरूपादि- त्यर्थः । नरादित्प्रयुक्तति । कूलप्तशिखेत्यादौ तु वत्पद्घटितानां त्रिपाद्यामप्रवृत्ते- न दोष इति भावः । ऐऔइत्यनयोरसत्त्वशङ्कावारणाय सूत्रमावश्यकमत आह । अत्रेति । वैकल्पिक इति । अत्र चाण्ग्रहणमेव मानमिति भावः । ननु यणो गु- णाभेदकत्वेन सिद्धत्वादग्रहणेनैव सिद्धावणग्रहणं व्यर्थमत आह । गुणाअभेद- काइति । अवर्णग्रहणप्रत्याख्याने आह । व्याख्यानाच्चेति । दृद्धिरादैजिति तपर- करणसामर्थ्यरूपादित्यर्थः । गुणानाम्भेदकत्वमिति मते आह । भाष्येइति । उपसः र्गातीति तपरकरणादिति । अनेन च. टाङसीति सूत्रे आदित्येव च्छेद इति ज्ञाप्यते इति बोध्यम् । ध्वनितञ्चेदं रामादित्युदाहरणे. द्वित्वमिति. प्रतीकमादाय पूर्वत्रासिद्धीयमद्वित्वे इत्यादि ग्रन्थेन स्वयमेव । धकारादीति । आदिनादकारपरि- ग्रहः। पूर्वार्थमितिः । अत एवादित्यस्य प्रातिपदिकत्वेन पदत्वाज्जश्त्वं सिध्यतीति भावः । नचादैचामेव सज्ञात्वमिति कुतो नात आह । वृद्धीति । व्याख्यानादि- ति । एकस्यानेकसञ्ज्ञाकरणे प्रयोजनाभावरूपादित्यर्थः । ननु टिघुभादीनां सा- थुत्वं न स्यादनादित्वाभावाद्व्याकरणसंस्कृतत्वाभावाच्चा ऽत आह। आसाञ्चे- ति । अत्रेति । कार्यकालपक्षे इत्यर्थः । भूवादयोधातवः । भूवौ आदी येषामिति विग्रहः । तत्र वाशब्दस्य वानिरूपित इत्यर्थः । आदिशब्दस्य प्रकारोर्थः । एवञ्च वानिरूपितसादृश्यवन्तो धातुसङ्घका इत्यर्थः । पदत्वानापत्तेरिति । ननु निपा- १२ श्रेधयाँ । । । . । तानामनर्थकानामिति वार्निकस्या ऽनर्थकग्रहणस्य फलाभावेन प्रकृतसूत्रे प्रत्या- ख्यानादत्र तेन वार्तिकेन प्रातिपदिकत्वं स्यादेवेति चेन्न । अर्थवत्सूत्रे भाष्ये ऽधि- परीअनर्थकाविति ज्ञापकादनर्थकनिपातानामर्थवत्प्रयुक्त कार्यम्भवतीत्युक्तया तद्वा- र्तिकस्य प्रत्याख्यानात् । आणत्रयति । आज्ञापयति । वठ्ठयति । वर्तयति । इ. त्यादीनामिति । वर्द्धयतीत्यर्थक वड्ढयतीति बोध्यम् । ननूदित्त्वं नुमर्थं स्यादत आह । धात्वधिकारेति । इत्यभिव्याप्येति । रीश्वरादिति ल्यब्लोपे पञ्चमीति भावः । द्योतकत्वमनुभूयत इत्यादौ । वाचकत्वमहंयुरित्यादौ । कार्य्यस्यापि प्रयोगाश्रयत्वादाह। यथाप्रयोगमिति । गतिरनन्तर इति प्रशब्दस्येति भावः । अव्ययपूर्वपदप्रकृतिस्वरस्तु प्रशब्दस्य स्यात् । अत एव निपातद्वयोच्चारणं च- रितार्थम् । अभेदविवक्षयेति । प्रकृतिवदनुकरणमित्यतिदेशेनाव्ययत्वादिति भावः । सुबनुत्पत्तेरिति। प्रत्ययलोपविधायकशास्त्रैः प्रत्ययानुत्पत्तरेवान्वाख्यानेनाव्यया- दाविति लुकेति भावः । यत्विति । उपसर्गस्यायतावित्यादावित्यर्थः । ननु वा- त्तिके कार्यानिर्देशात्तयोः कर्तव्ययोस्तत्प्रतिषेध इति वार्तिकार्थाद्वार्तिकस्योपस र्गसञ्ज्ञासूत्रस्थत्वलाभेन तदृष्ट्या रुत्वस्यासिद्धत्वमत आह । षत्वणत्वयोरित्यस्येति । अनेन वार्तिकस्य तत्तत्सूत्रस्थत्वं सूचयति । नन्वेतादृशेऽर्थे किम्मानमत आह । अतएवेति । स्पष्टमेवेति । अपदु:सुष्विति न्यासकरणेनेति भावः । दुसइति । निसो ऽप्युपलक्षणमिदम् । दुरयतइत्यादाविति । आदिना निरयते इत्यस्य संग्रहः । अनुवादवाक्येइति । हन्तीति पलायत इत्यादौ हेत्वादाविति शब्द इति भावः । व्याख्यानादिति । द्वन्द्वान्ते श्रूयमाणं पदमिति न्यायरूपादिति भावः । नियमार्थ- मिति । अर्थे कार्य्यबाधे उपात्तशब्दबोध्यार्थवाचकसर्वशब्दग्रहणं यत्र प्रसक्तं तत्र तादृशार्थविशिष्टोपात्तशब्दस्यैव ग्रहणमित्येवं नियमार्थमित्यर्थः । नत्वपूर्वविधित्व- म् । गौरवादारम्भप्रत्याख्यानयोः फलभेदापत्तेश्च । अत एवापत्यादिषु न स्वरूप- ग्रहणमिति भावः । इयमिति । अर्थवद्ग्रहण इति गौणमुख्ययोरित्यभियुक्तेति प- रिभाषे इत्यर्थः। अनियमप्रसक्तेश्चेति। चो हेतौ। यतो ऽर्थोपस्थितिरतो ऽनियमप्रस- क्तिरित्यर्थः । नन्वत इजित्यादावत इतिवर्णादप्यर्थोपस्थितिसम्भवो ऽत आह । आकरस्पष्टमिति । इत्यादौचारितार्थनाते । तत्रात इत्यनुवृत्त्या न खरूपग्रहण- मिति भावः । शङ्कानिवारणार्थमिति । अर्थे कार्यबाधादेव नैतत्सूत्रं प्रवर्तते इति संज्ञाप्रकरणम् । १३ । । । । । । भावः । ननु शब्दस्यापि शब्दबोध्यत्वात्सङ्घाविषये उभयगतिज्ञापनाञ्चोपसर्गे घो- रित्यादौ दोषो ऽत आह । षान्तेति । अतएव । अर्थे कार्य्यस्य बाधादेव । अन्य- थेति । सूत्रस्यापूर्वविधायकत्वे इत्यर्थः । स्वरूपग्रहणमिति । ज्ञापकसिद्धस्यासार्वत्रिक- त्वादकशब्दसाहचर्याच्चेति भावः । नदीशब्देन स्वरूपग्रहणमिति । पौर्णमास्या- ग्रहायणीग्रहणसामर्थ्याच्छरदादिषु विपाट्छब्दपाठसामर्थ्याच्च नदीसञकस्य न- दीवाचकस्य च न ग्रहणमिति भावः । अतएव । ज्ञापकसिद्धस्यासार्वत्रिकत्वादेव । सिद्धवचनमिति । अशब्दसझेति वचनमित्यर्थः । कर्मात्रविधेयमिति । प्रदेशवाक्ये- न यद्विधेयन्तदेतद्वाक्यार्थबोधे कर्मेत्यर्थः । अन्येषांवाशब्दानामिति । सर्वनामादि- शब्दानामित्यर्थः । व्यापाराभावादिति । इतरव्यावृतिकरणरूपव्यापाराभावादित्य- र्थ: । अतादृशंशब्दरूपमिति । शब्दानुपस्थितमित्यर्थः । तदन्तविधिरिति । सर्व- नामसञ्जादावित्यर्थः । इनशे । अनथकेनशे । एरजित्यादीति । आदिना टिड्ढा- णजित्यादे रोणीत्यादेश्च संग्रहः । अयइत्यादाविति । आदिनौपगवी रौण इत्यादे- स्सङ्ग्रहः । पाठयमिति । अन्यथा व्यपदेशिवद्भावो ऽप्रातिपदिकेनेति निषेधादौप- गवी रौण इत्यादौ ङोबणादिश्च न स्यादिति भावः । द्वितीयाश्रितेत्यादाविति आदिना पूर्वसदृशेत्यादेस्सङ्ग्रहः । तस्येति । पूर्दादिशब्दस्येत्यर्थः । द्वितीयादौ तु गतिकारकोपपदानामित्यनेन मुबुत्पत्तेः प्राक् कृदन्तेन समासबोधनात्सुपेत्यस्या- न्वयेन लक्षणां विनापि निर्वाह इति भावः । सौत्रनाडिरिति । अत्रानुशतिकादित्वादु- भयपदवृद्धिः । गृह्यमाणेति । प्रातिपदिकत्वव्याप्यधर्मवत्त्वेन गृह्यमरणेत्यर्थः । तेन यशस्वीत्यादावस्मायामधेति विनिस्सिध्यति । नतु स्वरूपेणोच्चाय॑माणेत्यर्थः । तेन प्रियपञ्चन्शब्दात्सङ्ख्याया अंतीति कन्नति भावः । वनोरचेत्यादाविति । आदिना यजिजाश्चेत्यस्य सङ्ग्रहः । विरामोऽवसानम् । ननु रजतिर्दढतो ऽश्व इत्यादावपि पूर्वत्र वर्णाभावसत्त्वादवसाने विद्यमानानां रेफदकाराणां विसर्गचा- नुनासिकास्स्युरत आह । सचेति । तत्र प्रमाणमाह । व्याख्यानादिति । व्याख्या- नमेवाह । अमावस्यापीति । सुप्तिङन्तम् । व्याख्यानादिति । तिङ्साहचर्यात्मुष्प्र- त्याहारो न तु सप्तमी बहुवचनमित्यर्थः । शब्दरूपमिति । प्रत्ययग्रहण इति परिभाषया लब्धन्तदादिरूपमित्यर्थः । स्वप्रकृत्यवयवकेति । स्वश्च प्रकृतिश्चावय- वौ यस्येत्यर्थः । ननु रदाभ्यामित्यादावीदूदेदित्यादौ च सञ्जाविधाविति निषेध- । - अधर्या । स्यावकाशान्न सामर्थ्यमित्याशङ्कते । नचेत्यादिना । अनुवृत्तेरिति । उपस्थितेरि- त्यर्थः । पदसमुदायस्यनपदत्वमिति । तेन देवदत्तः पचति भवतीत्यादेस्तितिक इति निघातो नेति भाव: । नन्वियानित्यादौ सुब्लुगर्थञ्जायमानप्रातिपदिकत्वेनैव सुबुत्पत्तिस्सेत्स्यतीति व्यपदेशिवद्भावस्य तदादितदन्तत्वानयने न प्रयोजनमत आह । अतएवेति । व्यपदेशिवदावाङ्गीकारादेवेत्यर्थः । हलोनन्तराः । तस्येति । आन- न्तर्यस्येत्यर्थः । एवौचित्यादिति । एवेनोपलक्षणस्य व्यावृत्निसम्भवे विशेषणत्वमे-- वोचितमिति भाव: । अनिष्टापत्तेरिति । सङ्ख्येत्यादौ स्कोरिति लोपाद्यापत्तेरिति भावः । ननु बहुवचनाद्बहूनामेव संयोगसंज्ञास्यानद्वयोरत आह । हलइतीति । सौ- त्रमितीति । अनेकत्वार्थकं बहुवचनं न तु बहुत्वार्थकमित्यर्थः । नन्वत्र पक्षे ऽपूर्व- कल्पनापत्या गौरवमत आह । यद्वेति । बहूनामेवेति । समुदाये वाक्यपरिसमाप्तेब- हूनामेव प्राप्तेरिति भावः। चिन्त्यमेवफलभावादिति । एकस्मिन्प्रयोगे द्वयोबहूनां चेति सञ्ज्ञाद्वयस्वीकारे फलाभावादित्यर्थः। एवञ्च बहूनां समवधानपि यत्र द्वयोरसज्ञा- याः प्रयोजनमस्ति तत्र द्वयोरेव सञ्ज्ञा यत्र तु बहूनाम्फलमस्ति तत्र बहूनामेवेत्ये- कयैकसञ्जया सकललक्ष्याणां विर्वाहे एकयोगे निष्फलसञ्ज्ञादयस्वीकारो न युक्त इति भावः । एतेन झलादिप्रत्ययपरकसंयोगाद्योस्सकारककारयोर्लोप इति स्कोरि- त्यस्यार्थान्मक्तेत्यादौ बहूनां संयोगसञ्ज्ञाया अभावात्सकारलोपो न स्यादित्यपा- स्तम् । हलइति । बहुवचनं सौत्रमिति, यवति च पक्षद्वये मानमाह । तत्रतत्रेति । प्लुतस्स्यादिति । प्रत्येकं संयोगसझेति पक्षे इदम् । समुदायसञ्ज्ञापक्षे तु संयो- गान्तलोपस्स्यादिति बोध्यम् । भूतपूर्वलघूपधग्रहणादिति । लघुत्वांशे भूतपूर्वगति- खोकारो न तूपधाशे ऽपि । एतेन कुण्डितेत्यादावपि ज्ञापकेन भूतपूर्वलघूपधाश्रयो गुण स्यादित्यपास्तम् । लघूपधत्वमात्रांशे भूतपूर्वत्वाश्रयणेन क्नोः कित्त्वस्य चारि- तार्थेनोपधांशे ऽपि तत्स्वीकारे मानाभावादिति भावः ॥ इति सज्ञाप्रकरणम् ॥ इकोगुणवृद्धी ॥ व्याख्यानादिति । अन्यस्यासम्भवरूपादित्यर्थः । तथाहि । न सञ्ज्ञा समानाविभक्तयन्तत्वाभावाद् वृद्धिरादैच् इक् च अदेङ् च गुण इति सिद्धे इको गुणसद्धी इत्यारम्भाज्जायो ऽविचिण्णलित्यारम्भाच्च । नापि विधिः । सार्व- धातुकार्द्धधातुकयोरित्यादीनां नियमार्थवे गौरवापत्तेः । नियमोपि न ।अन्येनासिद्धेः । नाप्यतिदेशः । समानविभक्तयन्तत्वाभावात् । अधिकारोपि.न। योगविभागसामर्थ्या- . -- - - परिभाषाप्रकरणम् । दिति । नन्वनुत्तमपि स्वादिष्विति सूत्रे पदपदं सद्भापरमेवात आह । यद्वेति । मुणो गुणोद्धिर्टद्धिरितीति । गुणद्धिपदजन्योपस्थितिविषयौ ये गुणदृद्धी इत्य- र्थः । इतिवार्थादिति । एवञ्च त्यदादीनामित्यदावपि सञ्ज्ञाया उच्चरितत्वादुपस्थि- तिस्स्यादिति भावः । एवञ्चेति । अत्र गुणद्धिग्रहणसामर्थ्यादचश्चेत्यत्राजित्यनु- वृत्तिसामर्थ्याच्चेत्यर्थः । एवञ्चेति । प्रमाणाभावाद्विधीयत इत्यध्याहाराभावे चेत्य- र्थः । इत्यादेरिति । आदिना तस्मादित्युत्तरस्येत्यस्य सङ्ग्रहः । इत्यादाविति । आदिनोदीचामात: स्थाने इत्यत्र यकपूर्वाया इत्यस्य संग्रहः । ननूदीचामिति सूत्र- स्थं स्थाने ग्रहणमेव मानमत आह । उदीचामिति अनितिचानुवर्ततइति । एवञ्चैतदनुवृत्तिसामर्थ्याद्विधीयत इत्यध्याहारादनुवादे ऽप्रवृत्त्या हवस्य पिति च्छेच, दीर्घादित्यादावचस्स्थानिकस्य हूस्वस्य दीर्घस्य तुगित्यादिर्नार्थ इति भावः । इतावितिकिमिति । अर्श आद्यचा टकावित्येवास्त्विति प्रश्नः । मिदचोऽन्त्यात्परः । तृणहइत्यादीति । आदिना बन्धुनि बहुवीहावित्यस्य ग्रहणम् । तस्यैवेत्यर्थइति । न- त्वन्त्यस्याच इत्यर्थः । सुहिन्स्वित्यादौ षत्वापत्तेरिति भावः । प्रसङ्गश्चसतिसम्भवे इति । एवंचारेत्यादावुरदत्वोत्तरं हलादिःशेषदीर्घयोः कर्तव्ययोरनर्थकस्यापि प्रस- गो ऽसंभवाद् ग्राह्य इति भावः । अत्रोरदत्वे कतेऽभ्यासत्त्वन्तु तत्स्थानापन्न इति च्यायेन बोध्यम् । नशब्दनित्यताहानिरिति । आरेत्यादौनित्यत्वाहानिस्तु ऋऋइत्य- स्या ऽर्क इत्यादेशे तत उत्तरस्य गुण इत्यस्य आक्र इत्यस्य स्थाने आअरित्यादे- शे ततस्सवर्णदीपेण आरिति कल्पनया बोध्यम् । नन्वारेत्यादावुरदत्त्वे श्रौतस्था- नित्वेनात आदेरिति दीर्घहलादिःशेषयोरपि श्रौतस्य स्थानित्वे ऽन्यतरस्मिन् कृते ऽभ्यासत्वं लौकिकैकदेशविकतन्यायेन सेत्स्यतीति किमनर्थस्यारित्यस्य स्थानिव- त्वेनेति चेन्न । अर्द्धविकारेणैव ऽलौकिकन्यायस्याप्रवृत्तेः । ननु गणयतीत्यादावचः परस्मिन्निति स्थानिवत्त्वं न स्यादत आह । किञ्चेति । तत्र प्रमाणमाह । अतएवेति । नन्वेषो यन्नित्यादावचः परस्मिन्नित्यस्यावकाशत्वमत आह । आदीति । आदिना नप- दान्तस्येत्यस्य संग्रहः । स्पष्टञ्चेदमिति । सर्वे सर्वपदादेशा इत्यर्थः । त्रिमात्रो नोत । स्थाने ऽन्तरतम इत्यस्यापूर्वविधायकत्वामावादिति भावः । स्थानेग्रहणेइति । स्थाने ग्रहणं यस्मिन्निति बहुव्रीहिणा षष्ठीस्थानेयोगेति सूत्रे इत्यर्थः । एकदेशानु- वृत्त्येति । एकदेशस्य षष्ठीपदस्यानुवृत्तिर्यया स्वरितत्वप्रतिज्ञया तयेत्यर्थः । स्था- ।
अवर्या - नेग्रहणामेति । इदञ्च ताल्वादिस्थानपरमित्यर्थः । तस्मिन्नितिनिर्दिष्टे । व्याख्याना- दिति । शब्दपरत्वे तस्मिन्नणि चेत्यत्रैवास्योपस्थितौ तस्मिन्निर्दिष्टें पूर्वयोर्युष्माका- स्माकयोरणिचेत्येकस्मिन्नेव लाघवात्कर्तव्ये एतदारम्भादेतत्साहचर्यादुत्तरत्रापि श- ब्दपरत्वाभावबोधनाच्चेति भावः । अन्यथा । अर्थपरत्वानङ्गीकारे। इत्यत्रैवेति । इदमु- पलक्षणन्तस्मान्नुड् द्विहल इत्यस्यापि । ननु सप्तमीनिर्दिष्टे इत्येवास्त्वित्यत आह । तद्बो- ध्यार्थस्योते । ननु तच्छब्दस्य सप्तम्यन्तपदवाचकत्वेनेदमसङतमत आह। इतिशब्द इति । तस्य। तच्छब्दस्य । तदर्थपरत्वमिति । सप्तम्यन्तपदार्थपरत्त्वमित्यर्थः । एवञ्च तच्छब्दस्य सप्तम्यन्तार्थपरत्वे च । ननु कर्तृकर्मणोरत्यादावप्येतदुपस्थितिस्स्यादत आह । अत्रसूत्रेइति । तत्र मानमाह। अतएवेति । फलमाह। अतएवेति । विफलइतीति। उत्तरत्रैव निर्दिष्टादिति वक्तव्यामति भावः । उत्तरांशेति । उत्तरस्येत्यंशे इत्य- र्थः । तत्र फलमाह । अतइति । मानमाह । अतएवेति । षष्ठयंशविकलेति । छन्द- सिपरोप, व्यवहिताश्चेत्येव सामान्यापेक्षमंशविकलायाः परिभाषायाः प्रवृत्तौ ज्ञा- पकमिति भावः । अलोन्त्यस्य । षष्ठीनिर्दिष्टेति । निर्दिष्टेत्यध्याहृत्य तद्योगे षष्ठी- पदं तृतीयान्तेन विपरिणम्यते तेनायमर्थलाभ इति भावः । षष्ठयन्तमिति । तेन संयोगान्तस्यलोपः, पादस्यलोप इत्यादौ नाव्याप्तिरिति भावः । अनेकाल् । ननु भूतपूर्वगतिस्वीकारे गौरवमत आह । किञ्चेति । अनन्तरस्यति न्यायेनेति । ध्यविशेषचिन्तायामित्यर्थः । इत्यस्यैव निषेधापत्तारेति । तथा च जरसावित्यादाव- लोन्त्यपरिभाषया ऽन्त्यस्य जरसा देशस्स्यादिति भावः । ननु ङिच्चेत्यस्यारम्भात्सा- मान्यचिन्तामाश्रित्यालोन्त्यस्यापि बाधान्न दोष इति चेन्न निर्दिश्यमानपरिभा- पाया अपि बाधापत्तौ निर्जरसावित्यादावङ्गस्यादेशापत्तेः । नचाल इत्यनुवर्त्य तत्सामर्थ्यादलोऽन्त्यस्येत्यस्यापि बाध इति वाच्यम् । एवमप्यणिोरनार्षयोरि- त्यनेन निर्दिश्यमानपरिभाषया ऽणिोः प्यङ् न स्याद्रिड्रीडोर्डित्त्वस्य कर्तव्यता स्याञ्च । स्वारतेनाधिकारः । ननु स्वरितत्वस्य दोषविशेषरूपत्वे गौरवमत आह । स्वरूपमिति । परमिति । रामेभ्य इत्यादौ पूर्वदीर्घात्परमेत्त्वमित्यर्थः । परान्नित्यं वलवत् तुदतीत्यादौ । तत्र पराद् गुणान्नित्यत्वाच्छप्रत्ययादिर्भवति । परादन्तरङ्गम अयजे इन्द्रम् । परात्सवर्णदीर्घादन्तरङ्ग आद्गुणः । नित्यादन्तरङ्गं ग्रामणिनीति नुमः पूर्वं हूस्व: । एवं परनित्यान्तरङ्गेभ्यः प्रतिपदोक्तं बलवत् । तस्य बलवत्त्वे . बा- - - - - । परिभाषाप्रकरणं स्वर संधिः । १७ बीजं तु शीघ्रोपस्थितिकत्वम् । मयदैतयोरिति सूत्रस्थमेतयोरिति ज्ञापकमप्य- त्र । तथा हि तद्योगविभागेन पुनर्विधानद्वारा बिल्वाद्यबाधनार्थम् । न चार्थद्वय- लाभार्थम् । आधिकारादेव सिद्धेः । अन्यथा परत्वान्मयाट तद्वैयर्थं स्पष्टमेव । तदुक्तं भाष्ये । अधिकारादेवार्थद्वयलाभे एतयोरित्यपवादविषयेपि प्रवृत्त्यर्थं तेन बिल्वमयं बैल्वमिति सिद्धमिति । परात्प्रतिपदोक्तमौपानां चर्म । परमपि चर्मणो- अिति बाधित्वा ऋषभोपानहोW इति ज्यः । नित्यात्प्रतिपदोक्तं स्वाम्पि । नुमं बाधित्वा ऽप्तृन्निति दीर्घः । अन्तरात्प्रतिपदोक्तं सेदुधः । इटं बाधित्वा संप्रसा- रगम् । बलवानिति । परनित्यान्तरङप्रतिपदोक्तभ्य इत्यर्थः । पूर्वादपवादो दुग्धम् । ढत्वं बाधित्वा घत्वम् । परादपवादः पचन्ति । दीर्च बाधित्वा पररूपम् । नित्या- दपवादो रमायाम् । याट बाधित्वा आम् । अन्तरजादयवादो हेगार्गीमात । कपं बाधित्वा मातजादेशः । प्रतिपदोक्तादपवादो ऽमीमृजम् । वृद्धिं बाधित्वा ऋदादेशः । बहिरङ्गापोहनरूपत्वादिति । बहिरङ्गस्यापोहनं दूरीकरणं रूपं यस्य तद्रूपत्वादित्यर्थः ॥ इति परिभाषाप्रकरणम् ॥ इको पगचि ।। मूलोकार्थशब्दानत्यतावादिमते न संभवतीत्यत आह । कार्य- शब्दवादेइति । नित्यशब्दत्वपक्षे इग्घटितस्य प्रसङ्गे यण्घटितं साधु इत्यर्थों बो- ध्यः । एतेनेति । जातिपक्षे यथासंख्याश्रयणेनेत्यर्थः । आन्तरतम्याश्रयणे दोषाभाव- माह । स्थानतइति । ननु सप्तम्यन्तपाठपक्षे दोष एवेत्यत आह । स्थानेऽन्तरतमेइति । चोविध्यर्थइति । अत एवाचः परस्यैव यरो द्वित्वं भवति न यत्र कुत्रेति भावः । तत्र प्रमाणमाह । ध्वनितं चेदमिति । एतेनानचीति निषेधसामर्थ्याद्विध्यनुमानं तस्य च यत्र कुत्रापि विद्यमानस्य यरो द्वित्वं भवतीत्यर्थो, निषेधस्य त्वचः पर- स्य यरो ऽचि परे द्वित्वं नेत्यर्थ इत्यर्थ इत्यपास्तम् । नन्वनचीति पर्युदासेनापि भाष्यं सुयोजमत आह । अवसानइति । प्रसज्यप्रतिषेधइति । हलीति वक्तव्ये ऽनचीति गौरवकरणसामर्थ्यादिति भावः । द्विरुक्तधातुपूर्वभागत्वादिति । तत्स्था- नापन्न इति लौकिकन्यायेनेति भावः । स्थान्यलसाधारणधर्मत्त्वएवेति । स्थान्य- ल्वृत्तिधर्मत्त्व एवेत्यर्थः । नतु स्थान्यवृत्तीत्यर्थः । नायकसिद्धिरिति । अन्यथा स्थानिन्यादेशाभावस्यादेशेप्यभावातिदेशः स्यादिति भावः । भाज्यपीति । तृज्व- सूत्रे इत्यर्थः । तत्र । चिण्वद्भावे । तत्रोत । कार्यातिदेशे इत्यर्थः । अनपेक्षिता- । । नेति भावः १८ अधयों थसंनिधान: । अर्थशब्दः प्रयोजनवाचीति भावः । शास्त्रातिदेशे ऽप्यादेशे स्था- निधर्माभावेपि स्थानिवदादेशे शास्त्रं प्रवर्त्तत इत्येवार्थ इति तत्त्वम् । नन्वत्र पक्षे कार्यातिदेश इत्यक्षरस्वरसभङ्गो ऽत आह। यद्देति । शास्त्रातिदेशे, यद्वेति कार्या- तिदेशे च विशेषमाह । एवमिति । अत्र प्रमाणमाह । अतएवेति । व्यवहार इति अभियुक्तानामित्यर्थः । तत्फलं युष्मदित्यत्रादादेशे एत्वाभावः । सर्वातिदेशेष्विति । निमित्तव्यपदेशेशास्त्रकार्यातिदेशेष्वित्यर्थः । सर्वातिदेशेषु विशेषान्तरमाह । यन्निामेत्तेति । शास्त्रीयमेवेति । तेनादेर्घस्लादेशे व्येजो वयादेशे च तासौ नित्या- निट्वस्याशास्त्रीयत्वाज्जघसिथेत्यत्र विवयिथेत्यत्र चोपदेशे ऽत्वत इतीग्निषेधो लोकसिद्धन्यायेनेति दध्नीत्यादिसिद्धयर्थमवश्याश्रयणीयेनति भावः । अतएवेति । एतन्न्यायस्य लौकिकसिद्धत्वादेवेत्यर्थः । तत्राशास्त्री- यविकाराश्रयणे एतन्मात्राश्रयणे च मानमाह । अतएवेति । अन्तादिवच्चेतीति च । अन्यवन्नेत्यर्थइति । नत्वन्यभिन्नवदित्यर्थः । तथा सत्येकदेशोविकृतो यस्य तद्विकृतावयवं स्वापेक्षया अन्यद्यत्सर्वं तद्भिन्नं खं तेन तुल्यं खं भवतीत्यर्थे खशब्देन विकृतावयवस्यैव पूर्वमन्यत्वे ऽवधित्वेनान्वयात्तदपेक्षयान्यत्वम- विकतस्यापीत्युत्तरत्रापि वशब्देन विकृतस्यैवोपस्थित्या लक्ष्यासिद्धरतिदे- शवैयर्थ्यांपत्तेश्च । स्ववदित्येव सिद्धे नजन्यपदस्य च वैयर्थ्यापत्तेश्च । यत्किं चिदन्यग्रहणे दामलिडित्यत्रेगुपधेति कप्रत्ययान्तप्रकृतिकण्यन्ते स्वभिन्नान्याप भा- वभिन्नबहुव्रीहिधर्मस्य बहुव्रीहित्वस्यातिदेशेन पूर्वपदप्रकृतिस्वरापत्तेश्चेति भावः । अनुपपादनादिति । अतएव वासुदेववाचकादशब्दाद् द्वितीयैकवचने ऽमि पूर्वरूपे ऽमित्यादौ सुपिचेति दीर्घोनेति भावः । नन्वईस्यान्यथात्वे ऽप्येतन्न्यायप्रवृत्तौ न दोषः । अमित्यादौ मुप्संज्ञायाः परिच्छिन्नपरिमाणनिष्ठत्वादत आह । कि- ञ्चेति । न्यूने सोरुकारेत्सञ्ज्ञालोपयो राम इत्यादौ, अधिके ऽवादेशे भवती- त्यदिौ । तदभावादिति । अत एव सजुष्शब्दाण्णिचि तदन्ताक्विपि टिलोपणि- लोपयोः सगित्यस्य ससजुषोरुरिति रुत्वं नेति भावः । ननु राजकीयशब्दाण्णि- चि क्विपि टिलोपे णिलोपे पुनर्णिचि क्विपि टिलोपे णिलोपे बहुशब्दराजकूशब्द- योबहुब्रोही स्त्रिया अन्यपदार्थत्वेन बहुराजगित्यादौ डाप्स्यान्यूनाधिकत्वाभावा- दत आह । न्यूनाधिकत्वंचेति । स्थानिवद्भावेनेति । स्थानिसदृशभावेनान्तादिव- ।
स्वरसंधिः । १९ । । चैत्यनेनैकादेशस्य परादिवत्त्वादित्यर्थः । स्थानिवत्त्वं परादिवत्त्वम् । ननु तिङन्ते षत्वमिष्यत एवेत्यत आह । न्याय्येनचेति । तस्य न्याय्यत्वं च लाघवादिति भावः । शास्त्रीयवदतिदेशबोधनादिति । सामान्यापेक्षज्ञापकमिति भावः । अत एव वासुदेववाचकेनाशब्देनाङो ऽव्ययीभावे एकादेशे नपुंसकहखे अआमित्यत्रानाङिति निषेधो भवति । नन्वेवं परादिवत्त्वेनाभिन्नत्वं तु नाशास्त्रीयत्वादिति निपात एकति सूत्रस्थस्वग्रन्थविरोध इति चेन्न । ज्ञापकेनातिदेशस्य पर्युदासलभ्याशास्त्रीय कार्ये प्रत्- त्तावप्यशास्त्रीयधर्मस्य तेनानतिदेशात् । तस्य । आनिष्ठायामित्यस्य सामर्थ्यात्प्रस- ज्यप्रतिषेध एव तत्र कल्प्यत इति भावः । ननु लक्ष्यानुसारो लक्षणचक्षुषामयुक्तोऽत आह । केचित्त्विति । तेनेति । आग्नः करोतीत्यादौ विसर्गस्य प्रत्ययत्वेन षत्वाभा- वायावश्यकेन तेनेत्यर्थः । एवंच । अस्य न्यायस्य लौकिकवे च । अशास्त्रीय- स्यापिधर्मस्येति । यौष्माकणि इत्यादौ यस्माद्विहितस्तत्त्वस्येत्यर्थः । क्वचिदिति । नायक इत्यादावित्यर्थः । लक्ष्यानुसारेण न्यायानाश्रयणमयुक्तमत आह । नपदा- न्तेतिसूत्रेइति । ननु वरेग्रहणेन यो ऽकारस्य सांभावनिकप्रत्ययत्वाश्रयणेपि यकारस्य तथावे मानाभावाद्वङ् न स्यादत आह । यणिचेति । अतएवेति । अतिदिश्यमानधर्मविरुद्धवाश्रयधर्मस्याभावाल्लौकिकन्यायाश्रयणाच्चैवेत्यर्थः । पूर्वा- न्तत्वनेप्रत्ययान्ताभन्नत्वादिति । तत्स्थानापन्न इति न्यायेनाशास्त्रीयस्याप्यतिदेशा- दित्यर्थः । अमित्यादौ परादिवत्त्वेनाभिन्नत्वं त्वत्र पक्षे ऽनित्यत्वान्नातिदिश्यत इति भावः । नन्वेवं गाङ्कुटादिभ्य इति सूत्रस्थभाष्यविरोधो ऽत आह .। यत्त्विति उपायान्तरमिति । अतिदिश्यमानेत्यपेक्षयोपायान्तरमित्यर्थः । विधिग्रहणादिति । तत्सामर्थ्याद्विशेष्यतया विशेषणतया वा अल आश्रयणं न तु प्रधान्येनैवेत्यर्थ इति भावः । यत्रविधाविति । स्थान्यादेशभावविधावित्यर्थः । शब्दतइति । स्थान्या- देशाविधायके इत्यादः। एवं चार्थतो ऽलाश्रयणे ऽपि न दोष इति भावः । अत्र प्रमाणं "विशिष्टं ह्येषो ऽनलमाश्रयते इटं नामेति" प्रकृतसूत्रस्थं वृक्षस्तत्रेत्यत्राविधित्वं पय- स्वित्यत्रानस्विधित्वमिति वैषम्यप्रतिपादनपरं भोभगो इति सूत्रस्थं च भाष्यमिति बो- ध्यम् । विशेषातिदेशोपीति । तत्फलं तु परिमृज्येत्यत्र ल्यपि कित्त्वाद् गुणद्धिनिषेधः। उपस्थितधर्मैः । शब्दोपस्थितधर्मेरित्यर्थः । तद्व्यापकेति। उपस्थितविशेषधर्मानुमितध- मैंरित्यर्थः । विध्याकाङ्क्षापूरणेसतीति । विधीनां क्त्वातासुन्कसुन इत्यादीनां याका- . ।
२. भैधयों झातिदेशवाक्यस्य तस्याः पूरणे सतीत्यर्थः । विधिशब्दात्कर्माण षष्ठीति भावः । न चोभयप्राप्ताविति नियमात्कतरि षष्ठी न स्यात्कर्मणिचेति निषेधात्षष्ठीसमासोपि न स्यादिति वाच्यम् । स्त्रीप्रत्यययोरकाकारयोर्नियमाभावात् । ननु युष्मदित्यत्रादा- देशे बहुवचने झल्येदित्येत्त्ववारणाय विशेषणतयालाश्रयणे ऽल्विधिसंपादने विधि- ग्रहणं चरितार्थमत आह । हलादीति । लिङ्गादिति । सेट्क्त्वो ऽकित्त्वस्य क्त्वाव्या- प्यत्वेन स्थानिवद्भावप्राप्तरिति भावः । डिहादेशाइति । डितो लस्यादेशा इत्यर्थः । तेन रमायामित्यादावामोङित्त्वाद्याडादिसिद्धिरिति भावः । सानुबन्धकादेशइति । सानुबन्धके आदेशे इत्यर्थः । तेनाचिनवमित्यादौ मिपो निरनुबन्धके ऽमि स्थानि- वत्त्वेन पित्त्वाद् गुणादिसिद्धिः । इत्कार्याभावइति । स्थान्यवयवनिमित्तकं स्थानिवद्भा- वेन यत्कार्यं तस्याभावज्ञापकतेत्यर्थः । तिबाद्यादेशेष्विति । तिप्सिप्मिबादेशेषु णल्थलम्स्वित्यर्थः । सार्वधातुकादेशइति । सार्वधातुकस्यादेशे इत्यर्थः । अन्यथा । अनुबन्धकार्ये ऽनल्विधाविति निषेधस्वीकारे । ननु ज्ञापकान्येतानि भाप्ये दूषितानीति तत्रानल्विधावितिनिषेधो ऽस्त्वित्यत आह । तिबाद्यादेशेष्विति । आदिना ल्यपो ऽपि संग्रहः । पित्त्वादीति । आदिना कित्त्वम् । असिद्धेश्चेति । चेन नल्यपीत्यस्य शिद्ग्रहणस्य च ज्ञापकत्वसंग्रहो बोध्यः । अचःपरस्मि- निति । तदनुरोधादिति । न तु षष्टीस्थाने इत्यस्य प्रवृत्तिगुणानां च परार्थ- त्वादिति न्यायादिति भावः । अतएवेति । नाग्लोपीति सूत्रस्थभाष्यप्रामाण्यादिति भावः । ननु परस्मिन्नित्यस्यापि सूत्रे श्रवणमत आह । व्याख्यानादि- ति । किरतौ लवने इत्यादिनिर्देशादच: पूर्वत्त्वविज्ञानादिति वातिकोक्तेशे- ति भावः । द्वितीयार्थे फलमाह । अतएवेति । प्रमाणमाह । अतएव नपदान्तसूत्रेइति । विधेयस्याभावादिति । पञ्चेन्द्र इत्यत्र यस्येति लोपस्तु न स्थानिवद्भावप्रत्ययलक्षणयोरुभयोरपि नलुमतेति निषेधस्वीकारादिति भावः । उपादानेइति । इदं सप्तम्यन्तम् । मानाभावादिति । उत्तरस्येत्वंशविकला तस्मा- दियुत्तरस्येति तु न प्रवर्तते गुणानां चेति न्यायादिति भावः । ननु गुणः कृता- त्मसंस्कारः प्रधानस्य महते उपकाराय भवतीति न्यायोप्यस्ति । अत एवाङ्गसंज्ञा- सूत्रे तस्मिन्निति परिभाषा प्रवर्तते । एवं चानेन न्यायेन प्रकृतपूर्वत्त्वस्याव्यवहि- तस्यैव ग्रहणं स्यादत आह । स्वरेनिषेधाचेति । हल्वरप्राप्ताविति तु स्वरे स्वरसंधिः। २१ , कर्तव्ये एव न तु स्थानिवद्भावे कर्तव्ये ऽपीति भावः । नपदान्त । वतिघटितान्या- तिदेशानामिति । स्थानिवदादेशो:, ऽन्तादिवच्छ, आद्यन्तवद्, एकदेशविकृतमनन्यव त्,प्रत्ययलोपे, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीत्येतेषामित्यर्थः । ननु प्रत्ययलोपे प्रातिपदिकग्रहणे इत्यनयोर्वतिघटितत्वाभाव इति चेन्न । प्रत्ययलोपे इत्यत्र स्था- निवदित्यनुतेः, प्रातिपदिकग्रहणे इत्यस्य प्रातिपदिकवल्लिङ्गविशिष्टमित्येवं स्व- रूपज्ञापनाञ्च । रामइत्यादाविति । आदिना वस्नसित्यादि । विसर्गादीति । आ- दिना रुत्वादि । उत्वेचनस्थानिवदिति । ननु रोः कथं स्थानिभूतादचः पूर्वत्वम् ? । स्थानिवत्सूत्रदृष्टया रोरसिद्धत्वेनं तद्बुध्या सकार एवोत्त्वप्रवृत्तेस्तत्स्थानापन्नस्त- धर्मामात न्यायाञ्च । परपदस्थेति । तेन भवार्थकाणन्तमाहिषाणिचि क्विपि माहिए ददते इत्यत्र झलांजशोन्ते इति जश्त्वे स्थानिवत्त्वं भवत्येवेति भावः । पदचरमावयवे- ति । अस्य तद्धितनिमित्तकलोपपरकेत्यादिः । तेन पिपठिषतेः क्विपि पिपठीरित्यस्य सिद्धिः कौ लुप्तमिति निषेधाद्वा तत्सिद्धिरिति भावः । अतएवेति । नपदान्तेति, पूर्वत्रासिद्ध इति च निषेधाभावेन स्थानिवत्त्वादेवेत्यर्थः । चर्सनिहितस्यैवेति । चर्सनिहितस्य परनिमित्तकस्यैवेत्यर्थः । औचित्यादिति । साहचर्यानाश्रयणे मा- नाभावादिति भावः । वक्ष्यतइति । वतिघटितत्वाभावाच्च पूर्वोक्तज्ञापकादाप त्रि- पाद्यां न प्रवर्तत इत्यपि बोध्यम् । एवमेव जातिपक्षे ऋलवर्णयोरित्यनेन समानजा- त्यातदेशविधानात्तस्य वतिघटितत्वाभावात् त्रिपाद्यामप्रवृत्तिस्तेन क्लप्तशिखेत्यत्रा- नृत इति निषेधो नेति प्रागुक्तं न विस्मर्त्तव्यम् । अत्रेदमिति । उत्तरपदवे चेत्य- स्य उत्तरपदस्य कार्यित्वे एव प्रवृत्तिरितीत्यत्र, गतिकारकेत्यस्यानित्यत्वे च पदे इत्यस्य पदत्वयोग्योपलक्षणत्वे चेत्यर्थः । इदम्भाष्यमपीति । पदेऽन्त इति सप्तमी- समासपरं प्रकृतसूत्रस्थभाष्यमपीत्यर्थः । अपिना पात्पदान्तात्, नलुमताङस्य, ङमो हखात्, उनि च पदे इति सूत्रस्थभाष्यस्य च ग्रहणम् । साधकः । इन्द्रेचेत्यादाव- वडादिसाधक: । प्रतिबन्धक श्चेति । एषोयन्नित्यादावुत्वादिप्रतिबन्धक श्चेत्यर्थः । अदर्शनं लोप: । ननु प्रासादात्प्रेक्षते इत्यादौ शास्त्रतो ऽप्रसङ्गो ऽत आह। अर्थतो- वेति । प्रत्ययलोपे इति । लिट् गित्यादौ प्रत्ययलोपविषये इत्यर्थः । लोपविधानेनेति । हल्ङयाब्भ्य इत्यादिनेति भावः । तस्येति । स्वादे: प्रत्ययस्येत्यर्थः । व्याख्याना- दिति । लोपनं लोप इत्यर्थसज्ञानरूपादित्यर्थः । तुगापत्तिरिति । हूस्वस्य ।
२२ अधयाँ - पितीति तुगापत्तिरित्यर्थः । ननु प्रत्ययग्रहण इति परिभाषया यस्मात्स विहितस्त- दादेरित्यस्योपस्थित्या न तुगापत्तिरिति चेन्न । त्रपेः विपि सौ हल्ङयादिलोपे जश्त्वे वावसान इति चर्वे तत उ इति निपातयोगे यस्मात्स विहितस्तदादेरपि स- • त्वात् । विषयत्वाञ्चेति । हेतावत्र चशब्द इति भावः । परएवेति । तेन पुत्त्रया- दिनीत्यादौ न निषेध इति भाव: । लुप्तसप्तमीकमिति । सुपां सुलुगित्यनेनेकार- लुप्ता अदृष्टा सप्तमी यस्मात्तदित्यर्थः । एतेनेदूतौचेति प्रगृह्यत्वेन यण् दुर्लभ इत्य- पास्तम् । नन्वेतादृशक्लिष्टकल्पनापेक्षया इन्प्रकृतिकसप्तम्यन्तस्यैव सूत्रे निर्देशो ऽस्तु । एवं च स्त्रियामपि डीप्प्रकृतिभागमादाय भविष्यतीत्यत आह । अतएवेति । पुंसि व्यावृत्त्यर्थं स्त्रीलिङ्गस्य ङीबन्तस्यैव सूत्रे ग्रहणमिति भावः । आदिशब्दप्रक- तिकसप्तम्यन्तस्य सूत्रे निर्देशेपि न पुंस्यतिव्याप्तिरित्याह । ईदृशाक्रोशस्येति । प्रा- प्तद्वित्वस्यैवेति । न त्वच इत्यस्य, नेत्यस्य चाननुवृत्त्या इन्द्रशब्दे दस्य राष्ट्रशब्दे रेफस्य चाप्राप्तद्वित्वस्य विधायकमिति भावः । ननु श्रुतत्वाद्रहाभ्यामित्यचो विशेष- णमच इति यर इत्यस्य इत्येव किं नेत्यत आह । व्याख्यानादिति । श्रुतक्रमरू- पाद्यर इति त्वागन्तूनामन्ते निवेश इति न्यायेन रहाभ्यामित्यस्य विशेष्य- मिति भावः अनुवादे परिभाषानुपस्थितेरत्र परशब्दाध्याहार इति प्रकाशाद्युक्तं खण्डयति । तस्मादितीति । विधौ परिभाषोपतिष्ठते इति न्यायस्त्विको गुणवृद्धी, अचश्चेति परिभाषाद्वयाविषय एवेति भावः । भाष्यसम्मतेति । भाष्ये शश्छोटीत्यु- त्तरमभ्यासे चर्चेत्यस्योपादानादिति भावः । हाय्येति । हय गतौ ऋहलोय॑त् । अवावाविति । मूलमतेनेदम् । स्वमते ओदौतोरिति वार्तिकस्यावश्यकत्वात्स्थानेन्त- तमपरिभाषया वान्त इति यथाश्रुतेपि अदोषादिति भावः । संहतावर्ण इति । भाष्यप्रामाण्यादत्र अ अ इत्यस्य नासिद्धत्वमिति भावः । तदुपरागादिति । तत्सां- निध्यादित्यर्थः । तस्मान्नुडचीत्याद्यर्थमावश्यिकयेति । अनेनात्रानावश्यकत्वं सूचि- तम् । तथा हि । यकाररूपस्य यकारान्तस्य वा प्रत्ययस्यासम्भवात्प्रत्यये विद्य- माने यकारे इत्यर्थेनापीष्टसिद्धिरिति । ननु वकारप्रश्लेषाभावे प्रकते लक्ष्यासिद्धि- रत आह । किञ्चेति । भङ्गापत्तरिति । अध्वपरिमाणे गम्यमाने यूतौ परेगोशब्द- स्यावादेश इति तद्वार्तिकार्थस्तत्र वळोपे ऽध्वपरिमाणस्यागम्यमानत्वात्तत्र वलोपपक्षे ऽवादेशस्यैवाभावेन न लोप इति भाव; । उक्तार्थप्रसिद्धिमाह । यथेति । णत्वस्या- स्वरसंधिः। २३ । भावइति । तत्रापि पूर्वपदस्थानिमित्तात्परस्य नस्य णत्वं स्यात्सञ्ज्ञायां कृत- णत्वेन चेत्सञ्ज्ञायां गम्यमानायामित्यर्थ इति भावः । एवं च संज्ञापदघटि- तसूत्राणामेतादृशार्थकरणेन फलितार्थकथनं तत्रत्यसञ्ज्ञात्वभङ्गापत्तेरिति संस्कृ- तमिति बोध्यम् । एतेन सम्रााडेत्यत्र संज्ञात्वभापत्तेरेवानुस्खाराभावे तद्बाधनार्थ मोराजीति सूत्रं व्यर्थमित्यपास्तम् । अनुखारविधायकसूत्रस्य संज्ञापदघटितत्वाभावा- त्सञ्ज्ञात्वभङ्गापत्तेर्न कार्यमित्यपूर्ववचनाभावाच्च । धातोस्तन्निमित्तस्यैव । नयकीति तु न सूत्रितम् । भुव: क्विबन्तादुगवादिभ्यो यति ओर्गुणे भोयमित्यादौ पूर्वसूत्रे- णावादेशापनः । यथान्यासे तु नायं दोषः । तथा हि धातोस्तन्निमित्तस्यैवेत्यस्या- रम्भाद्वान्तोयीत्यत्राधात्ववयवयोरोदौतोर्ग्रहणमिति भोयमित्यादौ न तत्प्राप्तिः । धातोरित्यस्य तु धातो: कार्यमुच्यमानमिति परिभाषया धातुशब्दमुच्चार्यविहिते यादौ प्रत्यये परे तन्निमित्तयोर्धात्ववयवयोरोदौतोर्वान्तादेश इत्यर्थाद्भोयामित्यादाव- प्राप्तिरिति भावः । ननु वान्त इत्यत्रैतदारम्भाद्धातुशब्दमुच्चार्य विहितयादिप्रत्यय- परकधात्व पयवभिन्नयोरोदौतोरित्येवार्थाद्भोयमित्यादौ तत्प्राप्तिर्दुर्वारेति चेन्न । तत्रा- सति बाधके इति न्यायेन नयकीत्येव सिद्धे धातोस्तन्निमित्तस्येत्यारम्भेण च धा- त्ववयवभिन्नयोरित्येव वान्त इत्यत्रादिति दिक् । बहिरङ्गत्वादिति । पदद्वयाश्र- तत्वेनेति भावः । आडागमेवृद्धिरिति । अत्र वृद्धेरप्येकपदाश्रयत्वेन नावादेशाद्व- हिरङ्गत्वम् । ननु पूर्वोपस्थितनिमित्तकत्वेनावादेशस्यान्तरङ्गत्वं यादिप्रत्ययनिमि- त्तकत्वावृद्धेः पश्चादुपस्थितसंप्रसारणनिमित्तकत्वाद्बहिरङ्गत्वम् । अतएव क्ङि- तिचेति सूत्रे क्वाडीत परे इको गुणवृद्धी नेति तत्सूत्रार्थे ओयते इत्यत्र निषेध- माशझ्याऽन्तरङ्ग:प्रतिषेधो बहिरङ्गा वृद्धिारत्युक्तं संगच्छते इति चेन्न। समकाल- प्राप्तिकान्तरङ्गाविषय एव पूर्वोपस्थितनिमित्तकस्यान्तरङ्गत्वं पश्चादुपस्थितनिमित्तकस्य बहिरङ्गत्वमिति स्वीकारादिति बोध्यम् । व्याख्यानात् । तदर्थे इति विशेषणसाम- र्थ्यरूपात् । तदिति । तच्छब्देनेत्यर्थः । तत्रेति । वृक्षव् करोतीत्यत्रेत्यर्थः । अ- प्रवृत्ती बीजमिति । नपदान्तेति निषेधाप्रवृत्तौ बीजकारणामित्यर्थः । नन्वेवं वेतस्वा- नित्यत्र पदस्य चरमावयवे नेत्यर्थेपि निषेधाप्रवृत्त्येष्टे सिद्धे पदेऽन्त इति सप्तमी- समासाश्रयेण वा निषेधवारणपरस्य नपदान्तसूत्रस्थभाष्यस्यासंगतिरिति चेन्न । पदा- न्तस्य स्थाने विधौ नेत्यर्थे पदान्तस्यानूद्यमानत्वेनान्योन्याश्रयेपि पदचरमावयवे २४ अपर्या । कर्तव्ये नेत्यर्थे पदचरमावयवस्य क्वापि पूर्व सिद्धत्वाभावेन भाविन एव ग्रहणेना- न्योन्याश्रयाभावात् । ज्ञापकस्येति । रण् च इश्च तयोरण्योरित्यादौ साक्षान्ङमु- ट्प्रापकस्य, नौरिव ओ वासुदेवोस्य स नायः स इवाचरन्तौ नावावित्यादौ पदत्व- द्वारालोपप्रापकस्य वेत्यर्थः । प्रतिबन्धकस्यवेति । राज्ञ इत्यादौ साक्षाच् श्चुत्वस्य, हरितमाचष्टे हरिदित्यादौ पदत्वद्वारा जश्त्वस्य च प्रतिबन्धकस्य वेत्यर्थः । वा- र्तिकाच्चेति । चेन क्वावुपसंख्यानमिति वार्तिकं लोपोव्योरिति सूत्रस्थवकारारम्भप्र- त्याख्यानयोरेकवाक्यतया सार्वत्रिकस्य संग्रहो बोध्यः । तस्यलक्षणयेति । स्थान- पदस्य तत्सूत्रे ताल्वादिस्थानपरत्वरयोक्तत्वादिति भावः । भाष्योक्तरीत्योते । तत्र ह्यन्तशब्दस्य समीपवाचित्वं नावयववाचित्वं हल इगवयवत्वाभावादित्युक्त- मिति भाव: । अणमनूद्योते । लक्ष्ये प्रवृत्तमणमनूयेत्यर्थः । न तु तत्तद्विध्येकवा- क्यतया ऽनेन परत्वविधानमिति भावः । अत्रपक्षइति । अणमनूद्य रपरत्वं विधीयत इति पक्षे इत्यर्थः । व्यवस्थासंभवादिति । अचि विभाषेति गिरतेर्विकल्पेन लत्व- विधानाज्ज्ञापकादित्यर्थः । इत्यादाविति । आदिना वृद्विरादैजदेगुण इत्यनयो- भजामिन्मातुरुदित्यस्य च ग्रहणं बोध्यम् । दोषापत्तेारीते । तत्र तत्रादेशद्वयो- धारणस्य गौरवात्सर्वादेशरूपदोषस्य चापत्तरित्यर्थः । भाष्यसंमताष्टाध्यायीपाठे आह । वावसानइत्यतोवोत । इदमिति । लोपवैकल्पिकत्वमित्यर्थः । गुणेन निषे- धानित्यत्वस्य भाष्ये ऽनुक्तत्वात्समासो न स्यादत आह । पृथक्पदमिति । इति कश्चिदिति । अनारुचिबीजं तु बुद्धिमान्द्यमित्यादाावेव शाकपार्थिवादित्वात्संबान्धश- ब्दस्य लोपाषष्ठीसमासेनापि सिद्धिरित दिक् । नन्वत्रोठ्शब्देनोठ चेति धातोरापि ग्रहणं स्यादत आह । आदेशएवोते। व्याख्यानादिति । अल्पाच्तरामिति तस्य पूर्व- निपाताकरणरूपादादेशस्यैव ग्रहणे त्वभ्यर्हितं चेत्येत्येधत्योरेव पूर्वनिपात: । साहचर्य तु कृत्वोर्थग्रहणेनानित्यमिति भावः । ननु आ अवतीत्यौर्जनस्य और्जनौरित्यत्र तत्संभवादाह । एत्येधत्योरितीति । इणेवोते । न तु वांगतीत्यत्र प्रश्लिष्टोपीति भावः । प्रसिद्धत्वादिति । एवं च शीघ्रोपस्थितिकत्वेन प्रतिपदोक्तत्वादिण एव ग्रहणमिति भावः । उपरञ्जकतयोते । स्वरूपबाधायेत्यर्थः । ननु ण्यन्तस्य शब्दा- न्तरत्वात्प्रकृतिभागस्य जहत्स्वार्थिकत्वेनानर्थकत्वाञ्चोपैधयते इत्यादौ वृद्धिर्न स्यादत आह । उपैधयत इत्यादावपीति । एधूपत्वादिति । “जहत्स्वार्था तु तत्रैव । । - स्वरसधिः । २५ । यत्र रूविरोधिनी" इात हयुक्तेरवाजहत्स्वार्थवृत्तरेव सत्त्वादिति भावः । नन्वेवमाप सर्वादेशोऽत्र स्यादत आह । किंचति । नदोषहात । न सर्वादेशरूपदोष इत्यर्थः । ननु पूर्व धातुरुपसर्गेण युज्यते इत्याद्गुणस्य प्राप्तेः पररूपस्य प्राप्तरित्यसंगतमत आह । पूर्वधातुःसाधनेनति । सुखात इत्यारभ्य ध्वनितमिदमित्यन्तो ग्रन्थो न शेखरस्थः । सर्वपुस्तकेष्वदर्शनात् । निर्देशादिति प्रतीकस्थवक्ष्यमाणखोक्तया सह विरोधाच्च । वासुपीति । नवाद्धरित । वा सुपीत्यस्यापवादत्वात् । अत्र सूत्रे अकारादावसुब्धातावित्यर्थस्य तत्राप्राप्तिारीत भावः । व्याख्यानादिति । अचीति अनुवर्तते तस्य ऋतीति विशेषणकरणादित्यर्थः । अन्त्यादयोरिति । अलोन्त्यस्यादेः परस्योत परिभाषाभ्यामित्यर्थः । ननु नाम्रोडेतस्योते निषेधारम्भेणाल इत्येत- द्वटितपरिभाषा पूर्वपरयोरित्याधिकारे न प्रवर्तत इति समान्यापेक्षं ज्ञापकमिति मते सर्वादेशः स्यादत आह । उपसर्गावयवाकाराादीत । अन्तादिवच्च । पृथग- वस्थिताम्यामिति । तृतीयान्तस्य बोध्यहेतुत्वविशिष्टस्य ये व्यवहारा इत्यत्रान्व- यः । ते च व्यवहाराः प्रत्यासत्या पूर्वपरशब्दोपस्थितसमुदायाश्रिता एव गृह्यन्ते तदाह । नन्विति । औइत्यस्यसुप्त्वेइति । द्वित्वरूपार्थतद्वाचकौशब्दयोर्यः समुदायस्तनिष्ठत्वात्तस्येति भावः । दीर्घश्चनेति । दैत्यारिः श्रीश इत्यादिसिध्य- र्थमइडाणत्यादिषु तुल्यास्येति निर्देशेनार्थरहितानामेकारादीनां निर्देशेनाप्यत्वा- देवर्णमात्रवृत्तित्वेनार्थघटितसमुदायधर्मत्वाभावादिति भावः । तत्र मानमाह । अ- तएवेति । ननु स्थानिवत्सूत्रेण सिद्धे इदं व्यर्थमत आह । क्षीरपेपत्यादाविति । मनूत्तरपदत्वमात्र स्थानिवत्त्वेनातिदिश्यते एकाच्वं तु स्वतः सिद्धमेवात आह । किंचैकादेशइति । इतिदिगिति । दिगर्थस्तु स्थानिवदादेश इत्यत्रोभयत आश्र- णे न स्थानिवदिति पठ्यते इति । एवं च तस्यैवायं मध्येऽपवाद इति न्यायेन निषेधो नत्वचः परस्मिन्नित्यस्यापीति अभीयादित्यादौ पञ्चमीसमासस्य सत्त्वेनेत्यर्थः । पूर्वोक्तदूषणमिति बोध्यम् । समानमिति । एवं चान्तरङ्गपरि- भाषया निर्देशस्य प्रार्च्छतीत्यादिप्रयोगाणां चोपपत्तिरिति भावः । ननु गुणवृद्धयोः प्रवृत्तिवेलायां पूर्वोत्तरयोः पदत्वेन तयोः पदद्वयाश्रयत्वेपि विसर्गप्रवृत्तिसमये पूर्वभागस्य विसर्गे कर्त्तव्ये पूर्वान्तवद्भावन पदत्त्वेऽप्युत्तरस्य स्वतः पदत्वाभावात्का- यस्य शास्त्रीयस्याभावेन फलाभावेन चातिदेशेन पदत्वाभावाच्च न विसर्गस्य ४ २६ श्रेषयाँ पदद्वयाश्रितत्वमत आह । किंचेति । ननु प्रगत अश्यः प्रर्य इत्यत्र वृद्धि - वोरैवेत्यत आह । यदर्थेति । धात्वर्थेत्यर्थः । तस्यैवेति । धातुं प्रत्येवेत्यर्थः । एवं च ऋश्यशब्दस्य धातुत्वाभावान्न तस्य कार्ये कर्तव्ये उपसर्गत्वं प्रादीनामिति भावः । एतेन उपसर्गाः क्रिययत्येव सिद्धे योगग्रहण सामात्सिद्धम् । नन्वेव- माप प्रगत ऋद्धः प्रर्ध इत्यादौ वृद्धिारेत्यत आह । प्रकृतेचेति । ननु सुबन्ते धातावित्येवार्थः कुतो नेत्यत आह । तुल्यस्येति । नन्वेवमाप सुबन्तावयवे धाता- वित्येवार्थः कुतो नेत्यत आह । शास्त्रेइति । तेन ऋच्छेः क्विबन्तात्सुपि हल्- ड्यादिलोपे प्राई इति सुबन्ते, ऋषभपुत्रमाचष्टे प्रार्षभपुत्रयतीति सुबन्तावयवके च धातौ पूर्वेण नित्यमेव वृद्धिर्न त्वनेन विकल्प इति भावः । धातावित्यनुत्ते- रिति । उपसर्गादित्यस्य संबन्धात्तेन च धातावित्यस्याक्षेपादिति भावः । गम- कत्वादिति । नित्यसापेक्षत्वादित्यर्थः । इतशब्दस्यलोपइति । तकारस्य जश्त्वं तु न गतिकारकोपपदानां सुबुत्पत्तेः पूर्व समासेन तस्य पदान्तत्वाभावादिति भावः । वातल्लोपइति । अत्र पक्षे सुप्सुपेति समास इति भावः । ननु शकन्ध्वादित्वात्पत- च्छब्दस्य पररूपमेवात्र कुतो नेत्यत आह । गोनर्ददेशे इत्यादिना । तत्र प्रमा- णमाह । ऐविह्यादिति । एवं च नेदमस्य वार्तिकस्योदाहरणमिति भावः । ओत्वोष्ठयोःसमासेवा । ननु समर्थपरिभाषाया अत्रोपस्थित्या समास एवैतस्य प्रवृत्तौ समास इति व्यर्थमत आह । समर्थपरिभाषेति । ननु समासेऽङ्गुलरित्यत्र ऋते च तृतीयासमासे इत्यत्र च समासग्रहणेन सुबन्तेन तद्वयाप्यत्वेन च यत्रो- द्देश्यत्वं तत्रैव समर्थपरिभाषा प्रवर्तते ज्ञापकसाजात्यान्न तु यत्र पदत्वेनोद्देश्यत्वं तत्रापीत्यत आह । पदविधिरितिसूत्रस्वारस्येनेति । पदत्वेनति । उपपदमति कर्मण्याणित्यादौ उपपदमिति महासंज्ञाकरणेन समापोच्चारितं पदमुपपदामित्यर्थात् । सुबन्तत्वेन वेति वाशब्दस्य समुच्चयार्थत्वात्सुबन्तत्वव्याप्येन तिङन्तत्वेन चेत्यर्थः । सुबन्तेन सुप्मुपेत्यादौ तद्व्याप्येन कर्तृकरणेकतेत्यादौ तिङन्तत्वेनाख्यातमाख्याते- नेत्यादौ तिङश्चेत्यादौ च । ननु पदविधिरिति सूत्रस्वरसेन पदत्त्वेन यत्र सात्रादुद्दे- श्यता तत्रैव परिभाषाप्रवृत्तिः स्यान्न तु यत्र सुबन्तत्वादिना तत्रेति चेन्न । पारेमध्ये इत्यत्र वाग्रहणसामर्थेन पदत्वप्रयोजकेनोद्देश्यत्वोप तत्प्रतिज्ञापनात् । पदत्वा- भावादिति । ओत्वोष्ठाङ्गुलिसङ्गादिमात्रस्य पदत्त्वेन सत्प्रयोजकत्वेन सुबन्तत्वा- स्वरसंधिः। दिना वोद्देश्यत्वाभावादित्यर्थः । चस्तु हेताविति भावः । अत एवोपसर्गादतीत्यादौ परिभाषा नापतिष्ठत इति दिक् । ननु लक्षणैकचक्षुषो लक्ष्यानुरोधो ऽनुचितो ऽत ऑह । अन्यत्रेति । मयड्वैतयोरितिसूत्रे भाष्ये स्वाम्पि सेदुष इत्यादिप्रयोगे चेत्यर्थः । तस्याच्छब्दइति । तस्यानुकरणे एवाच्छब्दः संभवति न तु तद्रूपानु: करणे इत्यर्थः । एवं चाव्यक्तस्यानुकरणमिति षष्ठीसमासो न तु कर्मधारय इति भावः । अनुकरणग्रहणं तु भग्नदन्तायुच्चारिताव्यक्तानुकार्ये ऽच्छब्दे पररूप- व्यावृत्त्यर्थमित्यलम् । नन्वत इत्युच्यमाने स्वरूपग्रहणायातोगुणे इत्यनुवर्तमाने पुनरच्छब्दग्रहणरूपज्ञापकाश्रयणे प्रक्रियागौरवाद्रे इत्येव सिद्धौ पृच्छति । अत- इतिकिमिति । इतिव्यर्थमिति । वैचित्र्यार्थम् । प्रियतद्धिता दाक्षिणात्या इति बोधनद्वारा स्पष्टार्थमित्यर्थः । ननु वाक्यभेदेनान्त्यमात्रस्य वटगित्यादीनामपि वि- कसेन पररूपप्रवृत्त्यर्थमित्येव किं नेत्यत आह । फलकल्पनेति । अन्तग्रहणं झ- लीतिनिवृत्त्यर्थामति । दधस्तथोश्चेति सूत्रस्थतथारित्यस्य प्रत्याख्यानाय झषस्तथो- |ध इत्यत्रत्याध इति प्रत्याख्यानाय च भाष्ये दध इति सूत्रे झलां जशोन्त इत्यत्र जश इति योगं विभज्य दध इति झष इति च तत्रानुवर्त्य झष इति स्त्रे चानुव- तितस्य झलीत्यस्य झलामिति सूत्रनिवृत्यर्थमन्तग्रहणमित्यर्थः । ननु कृतेप्यन्तग्रहणे पदस्यान्ते विद्यमानानां झलि परे इत्यर्थः कुतो नेति चेन्न । झलन्तस्य पदस्यत्येव सिद्धेऽन्तग्रहणसामर्थ्याज्झलीत्यस्यासंबन्ध इति भावः । लकारवत्तान्तर्येणेति । लकारो विद्यते यस्मिन् लकारो रेफहरूपघात समुदाये सलकारो ऽर्श आद्यजन्तः स विद्यते यास्मिन्हलात्मके समुदाये लकारवतो भावो लकारवत्ता तया हल्द्वय- वत्तया च यदान्तयं तेनेत्यर्थः । अभितःक्लप्तत्वेनेति । परत्राभक्तिस्वीकारफलं इत्यत्र क्लप्तये इत्यत्र पकारस्य यणोमय इति. द्वित्वं च नेति बोध्यम् । पूर्वसाहचर्यादिति । पूर्वसाढश्यादित्यर्थः । वार्तिकद्वयप्रवृत्तौ विशेषमाह । अत्रेति । अत एव व्यवस्थया साधुत्वस्वीकारादेवेत्यत्र प्रमाणमाह । अतएवेति । ननु तप- रत्वेन ऋग्रहणेन च पस्त्रः व्यवस्थायामापः पूर्वसवर्णदीर्घस्यापि ग्रहणं, स्यादत आह । तुल्यास्यसूत्रेति । ऋतीत्येतहत इतीति । आवृत्त्या ऋत इत्यपीत्यर्थः । सि- द्धाविति । अवयवस्यार्थसिद्धावित्यर्थः । वार्तिकस्य वैयर्थ्यांपत्तरिति । एतयोर- इउणसूत्रानन्तरं पाठबोधकवार्तिकस्य वैयर्थ्यांपत्तेरित्यर्थः । एङःपदान्तादति । म तु कर्ता धर्या पदान्तात्किमिति । उसि सोश्चेत्यस्यापदान्ताच्चेन् उसिङसोरेवेति नियमार्थत्वादेवा स्य पदान्ते एव प्रवृत्त्या पदान्तादिति व्यर्थमिति प्रश्नः । उत्तरमाह । भवतीति । सुपि कसिङसोरेवेत्याप नियमसंभवादत्रातिप्रसङ्गः स्यादिति भावः । अनित्यत्वा- दिति । हलो ऽनन्तरा इति निर्देशाद् गवाक्ष इति भाष्योदाहरणाच्च संनिपातपरि- भाषानित्यत्वपरिगणने एकादेशस्यापि ग्रहणादिति भावः । सामञ्जस्यमिति । प्लुतप्रगृह्या इत्यस्य प्रथमान्तत्वादित्यर्थः । नेति पाठे तु षष्ठ्यर्थे प्रथमेति कल्प्य स्यादिति भावः । भवत्येवेति । नन्वन्तरले सवर्णदीर्धे बहिरङ्गस्य प्रकृतिभावस्या- सिद्धत्वादेवादोषे ऽज्ग्रहणं व्यर्थमिति चेन्न । विष्णो इती त्यादावप्यन्तरङ्गे ऽवा- देशे प्रकृतिभावे च बहिरङ्गप्रगृह्यत्वस्यासिद्धत्वात्प्रकृतिभावानापत्त्या संबुद्धौ शा- कल्यस्येत्यस्य वैयर्थेन प्रतिभावविषये ऽन्तरङपरिभाषाया अप्रवृत्तेः । अत एव पचेते इमावित्यादौ प्रकृतिभावसिद्धिारति दिक् । वार्तिकमिति । एकवचनप्रयो- गेणैकमेवेदं वार्तिकमिति सूचितमिति भावः । व्याख्यानादिति । ज्ञापकपरभाष्य- प्रामाण्यात्सित्साहचर्यादा नसमासे इति पूर्वसूत्रस्यैव निषेध इति व्याख्यानादिति भावः । भवतीति । स्मृत्युक्तं भवतीत्यर्थः । अस्यापीति । एत्यिस्यापीत्यर्थः । स्मृतौ भवेत्यस्यार्थपरत्वाभावादिति भावः । एतेन “आयुष्मान्भव सौम्येति वाच्यो विप्रो ऽभिवादने ॥ अकारश्चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुत" इति मनू- क्रेधीत्यनुचितमित्यपास्तम् । नामत्वात्प्राप्तइति । एवं च सर्वस्य प्लुतस्य वैक- ल्पिकत्वात्तयोग्रहणं स्पष्टार्थमिति भावः । नन्वेवमपि वाक्यस्य टेरित्यधिकारादेव हैहेप्रयोगे हैहेन्तस्य वाक्यस्यटेः प्लुत इत्यर्थे ऽनन्त्ययोस्तयोर्न स्यादत आह । हैहेन्तइति । व्याख्यानाच्चेति । अनन्त्यस्य चेत्येव समुच्चये सिद्धे ऽपि प्रयोगग्रहण- सामर्थ्याद् गुर्वसंबद्धस्यैवान्त्यस्य समुच्चय इति भावः । नन्वनुदात्तं पदमित्येव पर्याये सिद्धे एकैकग्रहणं व्यर्थमत आह । अनुदात्तंपदमितिविति । ननु प्राचा-. मित्यस्य विभागेन सर्वप्लुतस्य वैकल्पिकत्वे पाणिनिः स्वमतात् प्रच्युतः स्यादत आह । भाष्येविति । व्यवस्थितविभाषायां प्रमाणमाह । साचेति । नन्विन्द्रेचेति सूत्रारम्भाद् भाष्यानुक्तानामपि व्यवस्थितविभाषाणामप्रामाणिकत्वमाह । अतएवेति । ननु प्रसज्यप्रतिषेधेन व्याख्याने यथाश्रुतमेवास्त्वित्यत आह । प्रसज्यप्रतिषेधेनेति । गौरवादिति । असमर्थसमासापत्तरित्यर्थः । नन्वङ इत्यादौ संबोधनार्थकशब्दस्य स्वरसंधिः । २९ निपातस्य निपात एकेति प्रगृह्यत्वे दूराद्धृत इति प्लुते ऽनेन पर्युदासपक्षे प्लुतादेश आन्तरतम्यादीर्घः स्यात्प्रसज्यप्रतिषेधपक्षे तु प्लुतनिषेधे हूस्वस्य श्रवणं स्यादिति फलमुखं गौरवं न दोषायेत्यत आह । किंचेति । वदेदिति । एवं चात्र पाठे ऽप्लुतग्रहणसामर्थ्याद्दीर्घस्यैव तत्र साधुत्वं स्यादिति भावः । ननु पर्युदास- पक्षे वद्ग्रहणं व्यर्थ तत्र कते ऽकृते वा परत्वादनेन प्रगृह्याश्रये प्रकृतिभाव- बोधनेन फलेविशेषाभावात्प्रसज्यप्रतिषेधे तु प्लुतस्य प्लुतसादृश्यस्य वा निषेधे प्रगृह्यप्रकृतिभावस्य सत्त्वादस्ति तत्सार्थक्यमत आह । नचेति । बाधित्वापरत्वा- दिति । प्रकृतिभावाप्लुतसादृश्ययोर्विरोधादिति भावः । अप्लुतवद्भावेइति । अप्लुतसादृश्य इत्यर्थः । तथा च सद्गतिन्यायेन प्रकृतिभावो न स्यादिति भावः । सुलभमिति । प्रगृह्याश्रयप्रकृतिभावदृष्टया प्लुतस्यासिद्धत्वादिति भावः । तत्त्वमिति । प्रगृह्यत्वात्प्रकृतिभावरूपं कार्य वेत्यर्थः । निपातग्रहणाभावे ऽप्यना- डिति पर्युदासादर्थवत एवैकाचो ग्रहणात्तद्वयर्थमिति प्रश्नः । निपातइतिकिमिति । नचैकाचोद्धे इत्यादावेकाच्पदे बहुव्रीहेः क्लुप्तत्वमत आह । व्याहरतीति । औ- चित्यादिति । असमर्थसमासवाक्यभेदयोरभावरूपलाघवांदिति भावः । अतएव । वाक्यभेदापत्तेरेव । नन्वा अ इत्यवस्थायां सवर्णदीर्घस्य शब्दान्तरप्राप्तत्वेनानित्य- वात्परनिमित्तत्वेन बहिरङ्गत्वे च नित्यत्वादाङ्गत्वाच्च पूर्वं नपुंसकहूस्वे ततो दीर्षे पुनहूस्वाप्राप्त्या ऽदन्तत्वाभावेनामभावे विभक्ते कि आ इत्येव रूपमिति अमिति रूपस्यैवाभावोत आह । आदाविति । तेन आ इत एत इत्यस्य संग्रह इति बो- ध्यम्। स्पष्टार्थइति । स्पष्टो ऽर्थः प्रयोजनमस्य तदित्यर्थः । तत्र निपातग्रहणं मिथो. इतीत्यादौ प्रगृह्यत्ववारणाय ओदित्युत्तरार्थमेकाग्रहणफलमाह । स्वाङ्गेइत्यादिना। उपस्थितिरिति । गौणमुख्यन्यायश्च साक्षात्संज्ञाद्वारा वा विशिष्टरूपोपादाने एव प्रवर्तत इत्यर्थस्तदाह । गौणमुख्यन्यायेनेति । अव्ययसंज्ञादाविति । आदिना निषाता आदयुदात्ता इत्यस्य संग्रहः । अनित्यत्वादिति । अत्र प्रमाणं वोदिति सूत्रस्थोऽगोभवदिति भाष्यप्रयोग इति बोध्यम् । निपातएवेति । नतु प्रत्याहारस्तथा- सत्यग्रहणमेव कुर्यादित्यर्थः । उन इत्यस्य षष्ठयन्तत्वात्प्रगृह्यसंज्ञासंबन्धो न स्यादत आह । उओवाचकमिति । वैयर्थ्यापचिश्चोते । दीर्घमुच्चारणं यस्यानुना- सिकत्वविशिष्टादेशस्य तद्वैयर्थ्यापत्तिश्चेत्यर्थः । मयधातोहणमत्र कुतो नेत्यत %- अपर्या आह । व्याख्यानादिति । त्रिपाद्या पाठकरणसामर्थ्यादित्यर्थः । सप्तमीतिकिमिति । सुबर्थे इत्येवं वक्तव्यमिति भावः । ननु वैपरीत्यं कुतो नेत्यत आह । उकारांशे- इति । नन्वीकारांशे तत्संभवात्तत्र निषेधो दुर्वार एवेत्यत आह । ययीत्यादिना- मिति । अनभिधानमिति । तत्रापि सरसी यदीति प्रकृतसूत्रस्थभाष्यप्रामाण्या- दिति भावः । क्रियायामेवेति । कर्तृद्वारेति भावः । बोधस्तु गौर्यधिकरणको ऽधि- श्रयणकर्तेति बोध्यम् । ननु संज्ञायामिति समासे प्रगृह्यत्ववारणायार्थग्रहणस्यावश्य कत्वमत आह । संज्ञायामितिवति । अनहत्स्वार्थावृतिस्तु न रूढेराविरोधादिति भावः । व्याख्यानादिति । अप्रगृह्यस्योते पयुदासेनाच एवानुनासिकत्वे सिद्धे ऽण्ग्रहणसामर्थ्यादित्यर्थः । फलत्वादिति । अनुनासिकप्रतिबन्धकरूपकार्यस्य प्रगृ- ह्यत्वे कर्तव्ये ऽसिद्धत्वं तु न कार्यस्याशास्त्रीयत्वादनिष्ठायामिति ज्ञापकपक्षेपि ज्ञापकसिद्धस्यासार्वत्रिकत्वान्नासिद्धत्वामीत भावः । अल्वृत्तिधर्मत्वेनेति । प्रगृह्य- स्वस्येत्यर्थः । अङ्गीकारादिति । वर्णमात्रवृत्तिधर्मस्य तेनानतिदेशेप्यस्यातत्त्वेनैत्तह- मस्य तेनातिदेशाङ्गीकारादित्यर्थः ॥ इति स्वरसन्धिः ॥ स्तोः । सितीत । स्तोरित्यत्रेत्यर्थः । शितिचेति । श्चुरित्यत्रेत्यर्थः । लुप्तवि- भक्तिकेइति । सुपां सुलुग् हल्ङ्यादिलोपाभ्यामित्यर्थः । एवं ष्टुरित्यत्रापीति बोध्यम् । सौत्रपुंस्त्वकल्पनं तु न । उभयत्र तत्कल्पने गौरवाच्छास्त्रबाधापत्ते- चेति भावः । तदर्थइति । विनापि प्रत्ययमिति संशब्दलोपेनेति भावः । अधि- कृतमपीति । यरोनुनासिके इत्येतदर्थमित्यर्थः । नसंबध्यतइति । सामानाधिक- रण्येन विशेष्यतया न संबध्यते किं तु वैयधिकरण्येन विशेषणतया संबध्यते इत्यर्थः । पदस्येत्यपदान्तस्य मूर्धन्य इत्यतः प्रागयमधिकार इत्यस्यायमर्थः । उत्त- रत्रानुवृत्तमाप यत्र बाधकं तत्र वैयविकरण्येनैव संवध्यत इति । एवं ष्टुनाष्टु- रित्यत्रापि नपदान्तादिति ज्ञापकाद्वैयधिकरण्येनैव संबन्ध इति भावः । वैचित्रया- र्थमिति । तयोरकरणोप प्रकते न दोष इति बोधनरूपं वैचित्र्यमर्थो यस्येत्यर्थः । स्पष्टार्थमिति । समर्थपरिभाषा त्वत्र नोपतिष्ठवे यथोद्देशपक्षाङ्गीकारेण त्रिपाद्या असिद्धत्वादनामिति ज्ञापकाच्चेति भावः । षत्वस्येति । इदमुपलक्षणं विसर्गसत्व- योरपि । षण्णवतिरित्यत्रेतरतरयोगद्वन्द्वे समाहारद्वन्द्वे वा द्विवचननपुंसकत्वयोरा- पत्तिरत आह । षडधिकोत । पृथक्पदेइति । समासस्य दिक्संख्ये संज्ञायामेवेति । ।
हल्सधिः । ३१ नियमादप्राप्तेरिति भावः । उपलक्षणमिदवलयोरपिप्रवृत्तेरिति । दन्तोष्ठस्थानप्र- यत्नतयान्तरतमे वकारे वकारस्य, दन्तस्थानप्रयत्नैक्येनान्तरतमे लकारे लकारस्य चारितार्थ्येन वकारे वकारस्यैव लकारे लकारस्यैव प्रवृत्तेरित्यर्थः । इतिमतेनेद- मिति । यदा तु यवादिगणे ककुदित्यस्यैवं पाठ इति सिद्धान्तमतं, तदा यचिभं त्तसौमत्वर्थे इति तात्पूर्वं दकारप्रश्लेषेण दान्तस्य भत्वात्प्रकृते न दोष इति बोध्य- म् । ननूदः परयोः स्थास्तम्भोरादेरलः स्थाने पूर्वसवर्ण इत्यर्थे ऽनुवादे परिभाषा- नुपस्थितेः परत्वाव्यवाहितयोर्लाभो न स्यादत आह । तस्मादितीति । विधौ परिभा- षेति त्विकोगुणवृद्धी अचश्चेति सूत्रद्वयविषयकमवेति प्रागुक्तमेवेत्यलम् । ननु सत्यपि संभवे बाधनं भवतीति न्यायेन पूर्वसवर्णेन संनिपातपरिभाषया चवस्य बाधात्कथं दथोश्चर्वमत आह । अतएवेति । एवं चे भाष्यप्रामाण्यादत्रतन्न्यायानि- त्यत्वमिति भावः । व्यमिति । सकारलोपे थस्यैव पूर्वसवर्णेनैकतकारकस्यैवोत्थानस्यै- तदसत्वे च रूपस्य सिद्धेरिति भावः । ज्ञापनादिति । एवं चास्य तदपवादत्वे. नापवादशास्त्रारम्भादुत्सर्गशास्त्रसंकोचस्यैवापवादेनोत्सर्गस्य बाधपदार्थत्वात्प्रकृते एतादृशसंकोचस्य ज्ञापनादित्यर्थः । ननु झयो ह इत्यस्य हकारात्परस्य झयः स्थाने झयो हस्य च स्थाने इति वाक्यार्थः कुतो नेत्यत आह । झयइतिपञ्चमीति । होढ इत्यादिना ढादिविधानाद्धकारात्परस्य झयोऽसंभवाद् द्वन्द्वनिर्देश एव कर्तव्ये व्यस्तोच्चारणसामर्थ्यात्कोटिद्वयसम्भवाञ्चेति भावः । ध्वनितञ्चेदमिति । नेत्यु- क्तिरनुस्वारादिबाधनार्थेति तत्रोक्तया ध्वनितमिदमिति भावः । ननु.मश्चासौ पर इति कर्मधारये हे मे इत्येव सिद्धे परग्रहण व्यर्थमत आह । मंपरेइतीति । एवं च कोटिद्वयं नेति भावः । हमोरिति वक्तव्ये हे मे इति व्यस्तोच्चारणं कोटिद्वय- बाधकमिति तु नात्र हे इत्यस्योत्तरार्थत्वादिति दिक् । ननु समाक्षराणां यथासं- ख्यमित्येव किं नेत्यत आह । व्याख्यानाच्चेति । एचोयवायाव इत्यादौ भाष्ये यथा- संख्यकरणरूपादित्यर्थः । परस्मैपदानां णलित्यादौ क्रमेण पदज्ञानाभावादाह । पदादुपस्थितिवेति । ननु स्थानाख्यलौकिकप्रमाणबोधितवाक्ये क्रमश्चासतिबांधके इति न्यायात्साक्षात्परंपरया वा गृह्यत इति इदं सूत्रं व्यर्थमत आह । आद्यन्ता- विति । स्वरितेनेत्यपकृष्यतइति । एवं च स्वरितत्वयुक्तानां समसंख्यकानां यथा- संख्यमित्यर्थः । अत्र स्वरितवं च प्रत्येकमपेक्षते अनुवृत्तौ तु समुदायस्येति उसि श्रेधयों - सोश्चेत्यादौ ङसिङसोरिति समुदायोत्तरं विभक्तिस्थश्च एक इति विभक्तिस्थ- श्वानुवृत्त्यर्थ स्वरितत्वोप न यथासंख्यमिति भावः । तत्रोत । यथासंख्याश्रये वि- धावित्यर्थः । प्रतिपत्तिकालिकमेवेति । अत एव हलोयमामित्यादौ यथासंख्यं प्रवर्तत इति भावः । अत्रत्विति । कुकि टुकि च कित्त्वमित्यर्थः । पूर्वत्रेति शास्त्रबाधे गौरवादाह । यद्वेति । व्याख्यानादिति । उभयनिर्देशे पञ्चमीनिर्देशो बलीयानि- ति न्यायादिति भावः । वैयधिकरण्येनान्वयादिति । आर्द्धधातुकस्यडित्यत्रादिन- हणेन विशेषणविशेष्ययोरुभयोः सप्तम्यन्तत्वे एव सामानाधिकरण्यं भिन्नविभक्ति- कत्वे वैयधिकरण्यमेवोत ज्ञापनात् । अत एवात्र तदादितदन्तविधी नेति भावः । ननु लक्ष्ये लक्षणस्योते न्यायादस्य चत्वं न स्यादत आह । लक्ष्यभेदादिति । खर्प- रझल्त्वावच्छिन्नं ह्यस्य लक्ष्यमत एव न संप्रसारणे संप्रसारणामति चरितार्थमिति भावः । धुटिधस्यचत्वमिति । ननु स्वाविधेयस्य स्वस्मिन्निमित्तत्वाभावाच्चा डस्य दुर्लभमिति चेन्न । संप्रसारणपूर्वत्वे समानाङ्गग्रहणं शकहमिति वार्तिकस्य संप्रसारणस्थानिकस्या- तथात्वादिति तत्प्रत्याख्यानभाष्यस्य च प्रामाण्यात्स्वविधेयस्यापि स्वस्मिन्नाश्रयणे- नादोषात् । ज्ञापकसिद्धस्यासार्वत्रिकत्वादस्य क्वचिदनाश्रयणेन विसर्गद्वित्वे पर- विसर्गस्य न द्वित्वमिति भावः । वैयधिकरण्येनैवेति । अपदान्ते यशांसि इत्यादौ मश्चेत्यनुस्वारप्रवृत्तेर्न दोष इति भावः । स्वरसइति। तत्र हि भिन्नविभक्तित्वाद्वैयधि- करण्यं युक्तमिति । ननु प्रकृतसमानविभक्तित्वाभावाद्वाच्यार्थ एव पदान्तस्य तस्ये- त्यर्थोस्त्वित्यत.आह । नान्तस्यपदस्येतीति । बलादिति । उभयनिर्देशे पञ्चमानिर्देशो बलीयानिति न्यायेनेति भावः । नन्वेवमचीति सप्तमीनिर्देशोव्यर्थोत आह । सप्तमी- निर्देशस्त्विति । लाघवार्थइति । मात्रार्द्धमात्रालाघवार्थ इत्यर्थः । ननु ङम इत्यस्य षष्ठय- न्तत्वमेव एवं चार्थ इति यथाश्रुतं कतोनेत्यत आह । ङमउत्तरस्यति। एतदर्थम् । तदा- दिविधिलाभार्थम् । एवेति । अपीत्यर्थः । एतेन लाघवोत्तरार्थत्वयोराप तस्य सत्त्वादि- त्यसंगतमित्यपास्तम् । ननु पदे इत्यस्य मण्डूकप्लुत्यानुवृत्तौ विभक्तिव्यत्यय- कल्पनापेक्षया न लाघवमत आह । ङमन्तयत्पदमित्यर्थेपीति । निषेधसिद्धयइति । अतद्धित इत्यस्य प्रत्याख्यानाय पदे व्यवाय इति सप्तमीसमासाश्रयणे इत्यर्थः । एतेन पूर्वदण्डिप्रिय इत्यादिसिध्यर्थं मध्यमपदत्वानाक्रान्तोत्तरपदस्येत्यान्माष- कुम्भवापेनेत्यादौ न दोष इत्यपास्तम् । उत्तरपदस्य कार्यित्वं तत्रैवेति । उत्तर- हल्सधिः । ३३ पदत्वप्रयुक्त पदादिभिन्नस्य विधाविति पयुदासाश्रयणादिति भावः । एकदोशन इति । अपदादिविधावित्यस्य प्रसज्यप्रतिषेधाश्रयणे गौरवान्न पदान्त न लुमताङ्गस्योनि च पदे षात्पदान्तात्पदव्यवायेपं त्यादिसूत्रस्थभाष्यविरोधाच्चेति भावः । अयमधि- कारइति । तुग्रहणात् । नन्वेवमत्रग्रहणमाधिकारपक्षे व्यर्थमत आह । अत्रेतित्वि- ति व्याख्यानादिति । अत्रानुस्वारपरानुनासिकः पूर्वस्य तु वेत्येव सिद्धे प्थक्सूत्र- करणरूपादित्यर्थः । मानाभावादिति । फलाभावादित्यर्थः । व्याख्यानादिति । खरवसानयोः सः शपरे विसर्जनीय इत्येव सिद्धे ऽवसाने विसर्जनीयविधानज्ञाप- करूपादुत्तरसाहचर्यरूपादुत्तरत्राधिकारानुरोधरूपाद्वेत्यर्थः । प्रश्चिष्यवेति । सम इत्युत्तरं कानाम्रोडित इति पाठ्यमेवं च तत्सूत्रद्वयपि समः सुटीत्यत एव सका- रानुत्तिरिति भावः । इदमिति । शरः खय इतीदमित्यर्थः । ननु पूर्वत्रासिद्धी- यमद्वित्व इत्यनेन द्वित्वभिन्ने पूर्वत्र परमसिद्धमित्यर्थकेन परस्यासिद्धत्वनिषेधा- द्विरोधाभावेन विप्रतिषेधे परमित्यस्याप्यप्रवृत्तत्वाञ्चोभयोरप्येकवारमेव प्रवृत्त्या एकद्विरुच्चारणस्यैव साधुत्वस्य युक्तत्वेन पुनर्दित्वमशुद्धमत आह । पूर्वत्रासिद्ध- त्वेनेति । पूर्वत्रासिद्धीयमद्वित्वे इति तु नात्र प्रवर्तते तत्प्रवृत्तावन्तरङ्गपरिभाषया यणो मय इत्यस्मिन्नन्तरले बहिरङस्याचोरहाम्यामित्यस्यासिद्धत्वेनाप्रवृत्तौ तु पूर्ववेत्यनेन यणो मय इत्यस्यासिद्धत्वेन रूपस्य तुल्यत्वात्फले विशेषाभावादिति भावः । नन्वम्परे इत्यत्र कर्मधारयाश्रयणेन खय्यमि चेति कोटिद्वयं कुतो नेत्यत आह । अम्परेइतीति बहुव्रीहिरिति । परग्रहणसामर्थ्यादिति भावः । व्यस्तो- ञ्चारणं तु अम्पर इत्यस्य नश्छवीत्यत्रानुवृत्त्यर्थमिति बोध्यम् । ननु क पयो- रिति न्यूनं तद्विधेयो विसर्गोप्यस्तीत्याह । कुप्वोरिति । नन्वीरनि प्ररुते घसेः किच्चेति व्युत्पादित क्षीरशब्दे चर्वस्यासिद्धत्वात्खय्परत्वाभावोत आह । क्षर- धातोरिति । अत एव निरुक्त क्षीरमिति क्षरतेघसेर्वेत्युक्तम् । ईत्वेप्रत्ययइति । बाहुलकादिति भावः । ननु शर्पर इत्यस्याबाधेपि तद्विहितविसर्गस्य कुप्वोरिति कुतो नेति शङ्कते। नचेति । नन्वाधिकारात्खरवसानयोरिति विसर्गस्यैव तत्स्या- दत आह । किञ्चेति । एवं च पूर्वत्रोत शास्त्रबाधकल्पनापेक्षया ऽर्थाधिकार- वाधस्यौचित्यादिति भावः । षत्वापत्तेरिति । इणः ष इत्यनुत्तिपक्षे इदम् । गुणे कृते षत्वसत्वानामेव पाठ इति पक्षे तु कांस्कान् संस्कृतमिति पाठेन तत्र ५ भैधा निर्वाहोप पुंस्कोकिल इत्यादिबहुलक्ष्याणां पाठे गौरवापत्तेरितिबोध्यम् । नन्वतः क इत्यत्र अत इति निर्देशादिण इत्यस्य निवृत्त्या इदमसंगतमित्यत आह । गणेति । ननु माङिति धातोराप ग्रहणे प्रमाच्छेद्य इत्यत्र नित्यतुगापत्तिरत आह । व्याख्यानादिति । ननु सेनासुरा इत्यादावुत्तरसूत्रस्य वैकल्पिकत्वादनु- पपत्तिरत आह । व्याख्यानादिति । व्याख्यानमेवाह । एओडिति । तत्र हि वर्णैकदेशा वर्णग्रहणेन गृह्यन्त इति पक्षे आलूयेत्यादौ इवस्येति तुकमाशङ्क्य छे चेत्येव सिद्धे दीर्घादिति तुग्विधानं ज्ञापयतीति न दीर्घावयवस्य इवत्त्वप्रयुक्त- स्तुग्भवतीत्युक्तम् । ननु प्रकृतसूत्रे इकोयणचीति सूत्रे दीर्घात्पदान्ताद्वेति एकमेवेति लभ्यते ऽत आह । योगविभागइति । असामर्थ्यपिइति । दण्डिच्छात्रा इत्यादा- वित्यर्थः ॥ इति हल्सन्धिः ॥ बहुव्रीहिरिति । न तु कर्मधारयः । परग्रहणादुत्तरसूत्रसामर्थ्याच्चेति भावः । व्याख्यानादिति । अव्ययीभावस्याव्ययत्वे लुङ्मुखस्वरोपचाराः- प्रयोजनमिति परिगणनादित्यर्थः । नन्विण इत्यारम्भात्पूर्वत्र आकारादुत्तरविसर्गस्यैव ग्रहणेन गीःकाम्यतीत्यत्र तदप्राप्त्या काम्यैरोरेवेत्यस्येण इत्यत्रैव पाठे कर्तव्ये पूर्वसूत्रे पाठो व्यर्थोत आह । याःकाम्यतीत्यस्यापीति । अनव्ययस्येत्यादीति । आदिना काम्य इत्यस्य ग्रहणम् । तेन दुष्करोतीति । द्विष्कृतं दुष्कृतमित्यनयोस्तु गतिका- रकोपपदानामिति सुबुत्पत्तेः प्राक्समासादपदादावित्यस्य संबन्धपि न दोष इति भावः । व्याख्यानादिति । क्रियायोगे गतिसंज्ञाविधानेनात्र संभवादुत्तरत्र मण्डू- कानुवृत्तौ मानाभावाच्चेत्यर्थः । नषत्वमिति । अग्निःकरोतीत्यादौ तु व्यपदेशि- वद्भावेन निषेध इति बोध्यम् । षत्वापत्तेरिति । अप्रत्ययस्येति वैयर्थ्यापत्त्या तथा नार्थ इति भावः । गीःकरोतीत । पू: करोतीत्वस्याप्युपलक्षणमिदम् । उचित- मिति । ननु चतुष्करोतीत्यादावेतस्यासिद्धत्वादिदुदुपधस्येति नित्यं षः स्यादिति चेन्न । इदुदुपधस्येत्यनुवृत्त्या इदुदुपधस्य सुजन्तस्येत्यर्थादनेनैव तद्बाधादिति भावः । इत्यादीति । आदिना चतुष्पादोगभिण्या अपाच्चतुष्पादित्यनयोर्ग्रहणम् । नित्यषत्वापत्तरिति । पञ्चकृत्वः करोतीत्यादावतिव्याप्तिवारणेनेदुदुपधस्येत्यनुत- तेरत्र पक्षे चारितार्थ्यादिति भावः । प्रकरणे प्रकरणमसिद्धमिति पक्षे दूषणमाह । किञ्चेति । नन्वव्ययमात्रग्रहणे मानाभावोऽत आह । किञ्चास्योत । नन्वत्र सा- विसर्गसंधिः। मान्यग्रहणे उत्तरत्र एतदन्तर्गतविशेषणग्रहणोप नार्थाधिकारबाधः । किंचार्था- धिकारेण बोधकवाक्ययोरेवेसुसोर्ग्रहणे सामर्थ्य इति स्यादत आह । साहचर्या- च्चेति । ज्ञापकसिद्धस्यासार्वत्रिकत्वादाह । क्वचिदिति । तेन प्यङः संप्रसारण- मित्यादौ नेति भावः । शब्दस्वरूपम् । यस्मात्प्रत्ययविधिस्तदादिरूपम् । ज्ञा- पनेनेति । ननु परमसर्पिः कुण्डिकेत्यादौ सर्पिः शब्दस्य मध्यमत्वान्मध्यमपद- त्वानाक्रान्तोत्तरपदस्य उत्तरपदस्य पदत्वप्रयुक्त कार्ये प्रत्ययलक्षणनिषेधोत्रत्यो- त्तरपदस्य सर्पिः कुण्डिकाशब्दस्य परमशब्देन समासे तत्रत्यसर्पिःशब्दस्यायुः शब्देन समासोत्तरं कामशब्देन समासे आयुः शब्दस्य परादिवत्त्वेनोत्तरपदत्वा- समुदायोत्तरमायुः शब्दस्य च पदत्वात्कथं ज्ञापकमिति चेन्न । समासेन समा- साद्यावयवपूर्वपदाक्षेपेण पदसंज्ञोत्तरपदत्वानीधकरणेप्युसन्तपूर्वपदस्य विसर्गान्तस्य षत्वमित्यर्थाज्ज्ञापकत्वसंभवात् । सर्वत्र । ज्ञापकपरभाष्ये । अतएवेति । उपातं विशे- प्यमादाय तदन्तविधरेवेत्यर्थः । अधात्वभिहितमिति । धातोःप्रत्ययइति । सुप्सु- पति समासे ततो ऽभिहितशब्देन कर्तृकरणे इति समासे शाकपार्थिवादित्वान्म- ध्यमपदलोपे नसमासे च प्रत्यासत्त्या षत्वनिमित्तकपर्वर्गघटितधातुप्रत्ययाभिहित- भिन्नं समानाधिकरणमसमर्थवदिति तदर्थस्तदाह । धातुसहचरितेति । ननु पूर्व- पदाक्षेपेपि तस्य शाब्दे अन्वयप्रतियोगित्वं न स्यात् । वृत्त्यनुपस्थितत्वात् समासा- वयवे रूढौ मानाभावाच्चोपात्तविशेषणत्वे शब्दरूपं विशेष्यमादाय तदन्ताव- धावनुत्तरपदस्थस्येति ज्ञापकासंभवात्पस्मसर्पिष्करोतीत्यादौ षत्वं न स्यादत आह। यदात्विति । ज्ञापकपरभाष्यप्रामाण्यं त्वेकदेश्युक्तिः । अत एव नित्यं समास इति सूत्रभाष्ये अथाव्युत्पन्नं प्रातिपदिकं सपिरादि ततोनित्ये प्राप्ते इसुसोः सामर्थ्य इति विभाषारम्यत इत्युक्तं संगच्छते । व्याख्यानादिति । सामर्थ्य इत्यनुवृत्त्यैव सिद्धे उत्तरसूत्रे समासग्रहणसामर्थ्यादित्यर्थः । कस्कादिपाठस्यव्यपेक्षायामिति । व्यपेक्षायां त्वस्यासिद्धत्वादप्राप्तत्वात्कस्कादिपाठस्य चारितार्थेन व्यपेक्षायां वि- कल्प एवोचित इति तदर्थ इति भावः । नन्वनेन विकल्पोप एतदभावपक्षे व्यपे- क्षायां कस्कादिषु चेति नित्यषत्वं दुर्वारम् । नचैतद्बोधिताभावांशे निषेधाश्चबली- यांस इति न्यायात्तत्प्राप्तषत्वस्यापि बाध इति वाच्यम् । एतद्दृष्टया तत्सूत्रस्या- सिद्धत्वादिति चेन्न । प्रकरणे प्रकरणमसिद्धमिति मते तद्ग्रन्थस्य सत्त्वात् । इत्य- ।
३६ श्रेधयाँ थेत्विति । तुनारुचिर्बोधिता । बाध्यसामान्यचिन्ताश्रयणे प्रमाणाभावात्प्रकरणे प्रकरणमसिद्धमिति पक्षस्य भाष्ये दूषितत्वाच्च व्यपेक्षायामपिनित्यषत्वमेवोचि- तमिति ॥ इति विसर्गसंधिः ॥ रुरेवेति । प्रक्रियालाघवायेति भावः । सर्वत्रसुग्रहणेइति । सौ च सुपिचेत्या- दावित्यर्थः । नन्वेवं राम इत्यादौ सुपि चेति दीर्घापत्तिः । हरयवडितिन्यासेनादोषा- दिति भावः । प्रथमैकवचनेचारतार्थ्यादिति । अप्लुतादत इत्यनयोस्तु आगच्छतु देवदत्त३ अत्र स्नातु तिष्ठतु देवदत्त३ अग्निरित्यादौ चारितार्थ्यामिति भावः । ज- श्त्वापवादइति । सर्वत्र पदान्तसकारे जश्त्वप्राप्त्या रुत्वविधायकस्य वैयर्थ्यापत्त्या रुत्वं जश्त्वापवाद इति भावः । नन्वेव सत्त्वशास्त्रस्य जश्त्वशास्त्रे ऽसिद्धत्वाभावाय रुत्वशास्त्रे पूर्वत्रासिद्धमित्यस्यानुपस्थितौ रुत्वविधायकं प्रत्यसिद्धत्वाभावेन संयोगान्तलोपं परत्वाद्बाधित्वा रुत्वे यणः प्रतिषेधाज्झलन्तत्वाभावाच्च संयोगान्त- लोपाप्राप्त्या श्रेयानित्यादौ दोषोत आह । श्रेयानित्यादौत्विति। अस्य ।रुत्वस्य । असिद्धत्वात् । संयोगान्तलापं प्रत्यसिद्धत्वाद्भुत्वशास्त्र उपस्थितपूर्वत्रासिद्धमित्यत्रत्य- पूर्वपदेन जश्त्वातिरिक्तस्य ग्रहणेनापि उपपत्तौ सर्वथा रुत्वशास्त्रे पूर्वत्रेत्यस्यानु- पस्थितावुत्तरत्र मण्डूकानुवृत्तौ च न मानमिति भावः । व्याख्यानादिति । तस्मा- च्छसो न इति लिङ्गादित्यर्थः । पूर्वस्यादीर्घत्वादिति । रामानित्यादावित्यर्थः । ननु यत्र पूर्वस्य दीर्घत्वं तत्रैवेदं प्रवर्तत इति चेन्न । शसि पूर्व इत्येव सिद्धे प्रथमयोरिति. करणेन दीर्घाज्जसि च नादिचीत्यनयोरारम्भेण ह्रस्वान्तेऽप्यस्य विशिष्यप्रवृत्तिरिति ज्ञापनादिति । स्पष्टंचेदस्वादिष्वितिसूत्रेकैयट इति । तत्रासर्वनामस्थान इति प्रसज्यप्रतिषेधपक्षे वागित्यत्र सुप्तिङन्तमित्यस्य स्वादिष्वित्यनेन परत्त्वाद्वाधे तस्याप्यसर्वनामस्थाने इत्यनेन बाधे पदत्वाभावा- त्कुत्वं न स्यादित्याशङ्क्य नोत्सहते प्रतिषिद्धं सद्बाधितुमिति भाष्यव्याख्यावसरे कैयटे इत्यर्थः । ननु रोग्रहणादित्येव सिद्धे उकारानुबन्धेति व्यर्थमत आह । उकारेत्संज्ञकेति । तत्फलमाह । तेनेति । ननु भो इत्यादिपूर्वकस्य रोरित्यर्थे प्रभोरिदमित्यादावति व्याप्तिः स्याल्लक्षणप्रतिपदोक्तपरिभाषास्वीकारे तु विभाषा- भवदिति निष्पन्नेष्वव्याप्तिः स्यादत आह। इदमिति । वस्तुतइति । दीपेइति । ग्रहो- लिटीत्यत्राच इत्यस्योपस्थितावप्यजन्तस्येट इत्यादिट एव विशेष्यत्वान्न दोष इति .. भावः स्वादिसंधिः । भावः । एवं हल्ङ्यादिसूत्रोप हलन्तमपृक्तसंज्ञकं सुतिसि लुप्यत इत्यर्थः । तेन राजेत्यादौ सर्वनामस्थाने चेति दीर्घोऽचकादित्यादौ तिप्यनस्तेरिति दत्त्वम्, अचका इत्यादौ सिपि धातोरिति रुत्वं च सिध्यतीति बोध्यम् । ननु सुबन्तस्यानयने विशेषणतया अलाश्रयणमतआह । तत्प्रयुक्तवृत्तिधर्मलाभ इति । स्थानिभूता- पप्रत्ययावयववृत्तिधर्मलाभो नेत्यर्थः । ननु स्थानिवत्सूत्रे ऽनल्विधावित्युक्तस्तस्मा- दत्राप्रवृत्तावप्येतस्याप्रवृत्तौ मानाभावोऽत आह । लक्ष्येति । प्रत्यये स्थानिभूता- ल्पत्ययनिमित्तकार्यस्य दीर्घाहो निदाघेत्यादावसुपीति निषेधस्येत्यर्थः । शास्त्राति- देशपक्षे आह । तन्निमित्तव्यवहारस्येवोत । प्रकृते सुप्त्वस्य राजेत्यादौ. सुबन्तस्य चेत्यर्थः । सर्वे सर्वपदादेशा इति पक्षे दीर्घाह इत्यादेर्निर्वाहमाह । एवमिति । अन्यत्रोते । मनोरमायामित्यर्थः । अनेनात्रारुचिर्बोधिता । वार्तिके भवच्छब्दग्रहणस्य नोपयोग इति । व्याख्यानादिति । लोपःशाकल्यस्येत्येव भो इत्याद्यनुवृत्त्येत्यादि वक्ष्यमाणरूपादित्यर्थ इत्याहुः । ननु उ इतीस्यत्रोत्र इति प्रगृह्यत्वविकल्पात्पक्षे याण मिथोवितीत्यादौ धात्वनवयवस्यापि वकारस्य संभवाद्वकारानुत्तिः स्यादे- वेत्यत आह । भाष्यानुसारिणस्त्विति । अनभिधानाञ्चेति । न पदान्ताः परे- ऽणः सन्तीति लणसूत्रस्थभाष्येण लोपोव्योरिति सूत्रे क्वावुपसंख्यानमिति वार्ति- कस्य चारम्भप्रत्याख्यानपरभाष्येण च शास्त्राविधेयवकारान्तादीनामनभिधाना- च्चेत्यर्थः । एतदपीति । अत्रापि पूर्वोक्तमेव मानं बोध्यम् । अस्य । हालसर्वेषा- मित्यस्य । असिद्धत्वादिति । भो इत्यादिपूर्वकसाहचर्येणापूपि लघुप्रयत्ने एव लोपस्यैतस्य प्राप्तत्वेनालघुप्रयत्ने प्राप्तत्वादित्यर्थः । तद्बाधादिति । एतत्सूत्रसाम- या॑त्साहचर्यवाधेन तत्प्रवृत्त्युतरमप्यस्य प्रवृत्त्या तद्बोधिताभावांशबाधादि- त्यर्थः । एवेति । तथा च भो इत्यादीनामोत इत्येव सिद्धत्वादसंभव एव स्यादिति भावः। ननु उश्चेश्च वी न वी अवी तयोरव्योरित्यत्र वलोपार्थमेव वकारानुवृत्तिरत- आह । अव्यपरइत्यादीति । एवं च व्योरित्यत्र लोपोनैवेष्ट इति भावः । आ दिना हयवरट्सूत्रस्थाव्युपधादिति भाष्यप्रयोगस्य ग्रहणम् । कचिदिति । पञ्च म्यन्तात्परः प्रत्ययो यत्र कार्यान्तरविधिना च परि गृह्यते तत्रत्यर्थः । एवं चोत्तमै- काभ्यामित्यादिनिर्देशैर्व्यापकत्वात्प्रत्ययगृहणे चापञ्चम्या इत्येव ज्ञाप्यते न तु सप्त- मीनिर्दिष्ट इत्यादिविशेष इति भावः । ननु "न चोदाहरणमादरणीयमिति" न्यायेन -- अधयों रात्रिशब्दस्य परत्वेऽपि तत्प्रवृत्तौ न बाधकमत आह । नलोपःप्रातिपदिकान्तस्येति। अक्षतरिति । सर्वे सर्वपदादेशा इति न्यायेनोत भावः । नन्वहन् शब्दो रोः सुपीति नित्ये प्राप्ते ऽनेन विकल्पावधानं सार्थकमिति कथं विसर्गबाधोत आह । अनुवाद- इति। ननु तत्पुरुषे रोरीत्यस्यासिद्धत्वादनीयर्येव प्रवृत्तौ शास्त्रस्याल्पविषयता स्या- दत आह । चचारेत्यादौ चेति । आदिना केलिमर्सगृहः । ननु णिजन्तात्कर्मणि वृ. त्तित्रयकल्पनमिति गौरवमत आह । भाष्येत्विति । व्यधिकरणपदबहुव्रीहिरिति । स- प्तमी विशेषग इति सप्तमोग्रहणेन व्यधिकरणेनापि बहुव्रीहिंज्ञापनादिति भावः । व्या- ख्यानादिति । अपरिभाषोपस्थित्याच एंवाणो ग्रहणे तथैव सिद्धे ऽण्ग्रहणसामर्थ्यादित्य- र्थः । सइति । विरोध इत्यर्थः । ननु ङःसीत्यादावुभयनिर्देशान् निर्देशद्वयस्याप्यच- रितार्थत्वेन तन्मूलकपरिभाषाद्वयस्याप्यचारितार्थ्याद्विप्रतिषेधाभावेन विप्रतिषेधे परमि- त्यस्य प्रवृत्तिर्न स्यादत आह । प्रायेणेति । पुनर्भिवत्येवेति । तातङभावपक्षे इत्य- र्थः । ननु कार्यकालपक्षे परिभाषाद्वयस्यापि विधिसूत्रेण कर्षणाद्विप्रतिषेधसूत्रस्या- प्रत्तिरेव स्यादित्यत आह । त्रिपादीस्थेनेति । संज्ञानां तुनारुचिर्बोधिता । कार्यका- लपक्षे संज्ञानां कार्यदेशीयपरत्वे राज्ञ इत्यादौ भपदसञ्ज्ञयोराकडारीयत्वाभावात्स- मावेशापत्त्याल्लोपोन इत्यत्र कार्यकालं सज्ञापरिभाषं भस्येत्युपस्थितमिदं भवति व्यङ: संप्रसारणमिति सूत्रस्थभाष्यविरोधात्मगृह्यसञ्ज्ञाया अन्तरङ्गत्वेन विप्रतिषेधस्यासं- भवादनुपयोगाच्चादसोमादिति सूत्रस्थभाष्यमेकदेश्युक्तिरिति । परिभाषाणां विति। अ- व्ययानामनकार्थत्वात्तुशब्दस्याप्यर्थवत्त्वात्साग्रहणं बोध्यम् । परिभाषेति । एवं च गुणानां च परार्थत्वादिति न्यायेन सज्ञापरिभाषयोर्व्यवस्थापिकेयं न स्यादिति भावः । परिभाषयोरपीति । अपिना सज्ञानां ग्रहणं बोध्यम् । इत्यादयोपीति । आदिना ऽनुदात्तं पदमेकवर्ज, समर्थः पदविधिरित्यनयोग्रहणम् । कैयटादिमतेप्याह । स्थानिक्त्त्वेनेति । अनन्तरइत्यर्थइति । न तु विहित इत्यर्थो ऽनसमास इति ज्ञाप- कादिति भावः । अनन्तर इति व्याख्याने फलमाह । तेनेति । ननु गौणव्यावृत्त्य- थमेतत्तदोस्त्यिस्यार्थपरत्वमाश्रित्यैतदर्थसंबन्धी तदर्थगतसंख्यामिंधायी - यः सुरिति व्याख्येयमेवं चानसमासे इत्यस्य न वैयर्थ्य परमस ददातीत्यास्यापि सिद्धिश्चेत्यत आह । गौणेत्विति । एवं च गौरवात्फलाभावाच्च न तथा व्याख्येयमिति भावः । व्याख्यानात् । उत्तरसूत्रे तस्यैव संभवादित्यर्थः । प्रभृत्यन्त एव पाद इति भ्रमनि- अजन्ताःपुंलिङ्गाः। रासायाह । द्वादशेति । दृद्धेरिति । एवं च मूलकारस्य न तत्संमतमिति सूचितम् । व्यर्थमिति । साअस्माअरमित्यस्यासिद्धेविरोधायेदं व्यर्थमिति तदर्थः । शाकर्थिवा- दित्वाद्रोधशब्दस्य लोपस्तदाह । सर्वमेतदिति ॥ इति स्वादिसंधिः ॥ अर्थवदधातुः । आवर्तिते ऽप्रत्ययपदेइति । आवर्तिते प्रत्यय इति समुदाये वि- द्यमानं यत्प्रत्ययपदं तस्येत्यर्थः । यत्रेति । ईददित्यादावित्यर्थः । तद्विषयइति । विषयशब्दोनन्यभावे ज्ञापकसाजात्यात्तथैव लाभादिति भावः । सोपि निषेधो ज्ञाप- कसाजात्यात्प्रत्यासत्त्या च यत्र प्रत्ययस्य सञ्ज्ञा तत्रेयेव । न च तत्र प्रातिपदिका- दित्यनेनान्वयादेव तदन्तविधिः । प्रातिपदिकविशेषणे तदन्तविधौ तदादिविधेरभावा- त्परमगार्यशब्दात्कगापत्तेरिति दिक् । आवर्तितेप्रत्ययपदेइति । आवर्तिते अप्रत्यय- पदे इति च्छेदः । यद्वा आवर्तिते ऽप्रत्ययपदे विद्यमाने प्रत्ययपदे इति वैयधिकर- ण्येन संबन्धः । यत्रसज्ञेति । येन प्रत्ययेन तदन्तग्रहणं तस्य यत्र विधौ सञ्ज्ञा- विधानं तद्विषय इत्यर्थः । तेन परमगार्यशब्दान्न फगिति भावः । एतत्सङ्क्षाफल- भूतेति । अस्यार्थः । एतत्सञ्ज्ञाफलभूतश्च विभक्तिश्च एतत्सङ्क्षाफलभूतविभक्ती ताभ्यामितरो यः स्वत्तिपदसञ्ज्ञाविशिष्टावयवस्तत्समभिव्याहारानपेक्षया लोके ऽर्थविषयकः शक्तिलक्षणान्यतरसंबन्धेन यो बोधस्तज्जनकत्वमिति । विभक्तिश्चैत- सञ्जाफजभूतसाहचर्याद्यस्य प्रातिपदिकसञ्ज्ञाप्रसङ्गस्तत्प्रकृतिकैव गृह्यते ताभ्या- मितरोपि पर्युदासन्यायेन यस्य प्रातिपदिकसज्ञाप्रसङ्गस्तवृतिषदसञ्जाविशि- ष्टावयव एवं गृह्यते । खट्वा पत्रिममित्यादौ टाप्मप्प्रकृतिभूतखट्पत्रिशब्दयोः प्रातिपदिकत्वायाह एतत्सद्घाफलभूतेति । अर्थवत्सूत्रोक्ता ऽपि काकः श्येना- यते इत्यादौ श्येनसुयेत्यादेरर्थवत्त्वायाह विभक्तीति । केवलप्रत्ययस्य प्रकृतिसम- भिव्याहृतस्य कुम्भकार इत्यादौ कार इत्यादेः पञ्चनावप्रिय इत्यादौ पञ्चना वेत्यादेश्वार्थवत्त्वाभावायाह इतरेत्यारभ्यजनकत्वमित्यन्तम् । मूलकेनोपदंशम्भुङ्- के कारयाञ्चकारेत्यादौ उपदंशमित्यादेः कारयामित्यादेश्चार्थवत्त्वायेतरपदार्थः वत्तिपदसञ्ज्ञा विशिष्टावयवत्वेन विशेषणीयः । देवतोगार्ग्य इत्यादौ देवदत्त- सुगार्य इति समुदायस्य सुप्रत्ययप्राग्वर्तिनोर्थवत्त्वाभावाय बोधः । शक्तिलक्षणान्य- तरसंबन्धेन विशेषणीय इत्यलमतिविस्तरेण । नचेति । न हीत्यर्थः । तत् । पूर्वोक्त- मर्थवत्त्वमप्रत्ययस्य प्रातिपदिकत्त्वे हि पचेरन्नित्यादौ नलोपटाबाद्यापत्तिरिति भावः। - अधों अतएव । सूत्रद्वये एवमर्थवद्ग्रहणादेव । अत एवानुवृत्तिसामर्थ्यादित्येवोक्तम् । न त्वर्थवद्गृहणसामर्थ्यादिति । अतएव । सूत्रद्वये एतादृशार्थवत्त्वस्वीकारादेव । फलाभावेनेति । अस्मिन्पक्षे उत्तरत्र तद्धितगृहणं न कार्यमिति भावः । समासतद्धि- तनियमस्य निषेधमुखेनाह । अनेनेति । विधिमुखेनाह । नापीति । नन्वेवमत्रा- र्थवत्पदव्यावालाभोत आह । दर्शति । अत्रस्वातत्रयेणेति । पूर्वभागे इत्यर्थः । गवित्ययमिति । इदं प्राचामनुरोधेन । वस्तुतस्तत्रापि सुबन्तत्वाद्यत्र पूर्वोभागः सुबन्ततिङन्तकृदन्तान्यतमस्तस्य चेत्यर्थः । उत्तरभागोपि तथैव ग्राह्य इत्याह । यत्रपूर्वइति । तेन परमगाायण इत्यादौ नियमस्याभावः। कंट कृतपूर्वीत्यादौ नियमश्च सिद्धः । इदमेव स्वातत्रयपदेनाभिप्रेतमन्यथा मूलकेनोपदंशं कुम्भकार इत्यादावितरानपेक्षत्वाभावेन यथाश्रुतासङ्गतिः । तत्र पूर्व इत्याक्षिप्तपरेषामपि स्वातत्रयेण प्रयोगार्हवतामेव ग्रहणात्पुत्रकाम्येत्यादौ न दोषः । अत एवाङस- मक्षासूत्रे भाष्ये प्रत्ययगृहणे यस्मात्स विहितस्तदादेस्तदन्तस्य गृहणमिति परि- भाषायाः फलनिरूपणावसरे देवदत्तोगान्येति समुदायस्य यत्र तत्त्वेन प्राप्ता प्रा. तिपदिकसञ्ज्ञाभावफलस्तत्त्वेनोक्तः । यथाश्रुतमूलोक्तनियमे तु नियमेनैव तत्र तदप्राप्त्या भाष्यासङ्गतिः स्पष्टैव । पुत्रकाम्येति । काम्येति समुदायस्य प्रत्ययस्या- प्रत्ययत्वादुत्तरस्तु तत्प्रकृतिकप्रत्ययोनेति उक्तावापि दोष इति भावः । फलनिरू- पणावसरे विशेषगृहणे इत्यर्थः । सामान्यगृहणे फलं तु अर्थवत्सूत्रे प्रत्यय इत्यत्र परिभाषाप्रवृत्या समासस्याप्रत्ययान्तत्वेन सिद्धे प्रातिपदिकत्वे कत्तद्धितेति सूत्रे तद्गृहणस्य नियमार्थत्वान्मूलकेनोपदंशमित्यादौ कृदन्तत्वात्प्राप्तप्रातिपदिकत्वाभाव इति स्पष्टमेव । अत एवोत्तरसूत्रपर्यन्तमनुधावनं भाष्ये सङ्गच्छते । तत्रतत्त्वे- नप्राप्तइति । अर्थवदित्यस्य पूर्वत्र क्लृप्तार्थकस्य कृत्तद्धितयोर्विशेषणसामर्थ्याच्छ- ब्दरूपं विशेष्यमध्याहृत्य तदन्तविधौ कृत्तद्धितान्तेत्यर्थे ऽर्थवदित्यस्य तद्विशे- षणत्वात्तदंशोपि तदन्तविधावर्थवदन्तन्तद्धितान्तमित्यर्थात्तत्प्राप्तिरिति भावः । यत्नु विकारांगमादेशानां देशांशे निराकाङ्क्षत्वात्पर श्चेत्यस्यानुपस्थितौ तत्संनियोग- शिष्टप्रत्ययसञ्ज्ञाया अप्रवृत्तिरिति । तन्न । श्रमकबहुष्वप्रवृत्त्यापत्तेः । किं च लविषीयेत्यत्र विशेषविहितत्वात्परत्वाच्च पूर्वं सीयुटि ततो लादेशे प्रत्ययसंनि- योगेनेटो विधीमानमाद्युदात्तत्वं सीयुट एव स्यादत आह । आगमानुदात्तत्वं वक्त- । । --- ।
अजन्ताः पुंलिङ्गाः। व्यमित्याद्युदात्तश्चेति सूत्रस्थभाष्यकैयटासङ्गतिः । तत्र बहुचः प्रत्ययत्वमीपन्न्यू- न उर्बहूस्तस्मात्क्याच सर्वप्रातिपदिकम्य इति सुकि बहूष्यति इत्यत्र षत्वम् । आगमानुदात्तत्वं वक्तव्यमिति । यदागमपरिभाषानित्यत्वबोधनद्वाराऽनुदात्तं पद- मित्यनेन सिद्धानुदात्तत्वानुवादकमिदम् । एवं सतीट आधुदात्तत्वंः सिद्धम् । लिङ्ग- विशिष्टेति । इतश्च प्रातिपदिकसामान्यग्रहणे विशेषग्रहणे च अनया परिभाषया ड्याग्रहणवैयर्थ्यस्य भाष्ये शङ्कितत्वाद्विशेषविषये बहुतरोदाहरणदानाच्च । ननु प्रातिपदिकग्रहणे तत्प्रकतिकलिङबोधकप्रत्ययावशिष्टस्यापि ग्रहणमिति तद- र्थाद्वहुव्रीहेरूधस इति सूत्रस्थभाष्यासङ्गतिरत आह । स्त्रोप्रत्ययसमभिव्याहारेति । प्रातिपदिकं गृह्यते यस्मिन् कार्ये तत्र कर्तव्ये स्त्रीप्रत्ययसमभिव्याहारे तत्प्रकृतौ दृष्टाः प्रातिपदिकत्वतद्व्याप्यधर्मा विशिष्टे यस्माद्विहितस्त्रीप्रत्ययस्तदादितदन्ते ऽनेनातिदिश्यन्ते इत्यर्थ इति भावः । तस्यापि सुबन्तादुत्पत्तौ तु पुर्व सुपीनुणन्त- त्वरूपाधिकसापेक्षत्वेनेति पूर्वं सुपि समाप्साय संशब्दस्य प्रयोगे सति कृद्ग्रहण- परिभाषया गतिकारकसमभिव्याहारे तहिशिष्टे एव कृदन्तत्वबोधनेन संशब्दविशि- ष्टे एवेनुणन्तत्वादिनुणन्तत्वं रूपं यस्मिन्प्रातिपदिके न द्वयाधिकसापेक्षत्वेनेत्यर्थः । बहिरङ्गतयेति । समासात्पूर्व संशब्दविशिष्टे प्रातिपदिकत्वाभावेनाप्राप्त्या बहिरङ्गतंये- त्यर्थः । प्राक् सुबुत्पत्तेः प्रत्यये तु सुपः पूर्व समासाप्राप्त्या संशब्दाप्रयोगात्कू- टिन्नित्यस्यैवेनुणन्तत्वेनाण्विभक्तयोः प्राप्तयोः स्वार्थिकत्वेनान्तरङ्गत्वादणि ततः सुपि ततः समः प्रयोगे समासे कूटशब्दोकारस्यैव दृद्धिः स्यादिति भावः । प्राक् सुबु- त्पत्तेः समासे तूक्तरीत्यैव सुपः पूर्वं समासप्राप्त्या समःप्रयोगे उक्तरीत्या संविशि- ष्टे एवेनुणन्तत्वेन तस्य च प्रातिपदिकत्वादणोप्राप्त्यान्तरङ्गत्वात्पूर्वं समासे ततो विशिष्टादेवाणिति सिद्धमिष्टमिति भावः । अन्यथौनसोः पूर्वत्येव वदेदिति । ज्ञान- मित्यादावामे पूर्व इत्यनेन प्रतिपदोक्तत्वाद्वाधेन कतरामित्यत्र डिवाटिलोपेन च सावसं- भव इत्यर्थः । एतीत्यादौ सुपिचेति दीर्घापत्तेरिति । हरयवडिति न्यासे तु सर्वदेत्या- दौ सर्वस्य सुपीत्याद्युदात्तत्वापत्तेः । तत्र भुक्तमित्यादौ सुपोधात्विति लुगापत्तश्चे- ति बोध्यम् । रुत्वे एकदेशविकृतन्यायेन सुबन्ततया परत्वाद्विसर्ग इति । एकदेशविकृतन्यायेनेत्यस्य पदत्वादित्यत्रान्वयः । एवञ्च रुत्वे कृते सति रामरित्यस्य सुबन्ताप्रयोज्यादेकदेशविकतन्यायेन पदत्वे सिद्धे विसर्ग इत्य- ४२ धर्या र्थः । अत एव विभक्तयन्तानामेकशेष इति पक्षे द्वन्द्वप्रतिषेधो वक्तव्य इत्या- शङ्यानवकाश एकशेषो द्वन्द्वं बाधिष्यत इति भाष्ये उक्तमिति । नन्वनेन भाप्येण वाध्यसामान्यचिन्तया द्वन्द्वबाधोस्तु । एवं च सहविवक्षायामेव प्रहते ब्राह्मणाभ्यां कृतं देहि पयोजरयतीत्यादौ एकशेष इत्यत्र न मानमत आह । किंचेति । सारवसारवोमिजइति । अस्मिन्प्रयोगे आरम्भप्रत्याख्यानयोः फलभेदाय पूर्वोक्तकल्पनमेव युक्तमिति भावः । न चैकशेषस्य सहविवक्षायामेव स्वीकारे इदित इति गुरुनिर्देशात्तस्यापि सहविवक्षायामेव प्रवृत्तेाह्मणाभ्यां कृतं देहि पयो जरयतीत्याद्यनिष्टमेव स्यादत आह । असहेति । नन्वसहाविवक्षायां तन्त्रं क्व दृष्टं तत्राह । नीलोत्पलस्पर्धिनी नेत्रे तनुर्वेति । इष्टमेवेति । एवं चैतत्साधनार्थमेकशेषस्या- सहविवक्षायां स्वीकारो न कार्यः । सारवसारवोर्मिन इत्याद्यसिद्धरिति भावः । गौरवमिति । एवं चेदित इत्यपेक्षया लाघवाभावान्न ज्ञापकमिति भावः । तत्रप- रइति । एकशेषारम्भवादिनामप्येवं व्याख्येयं सहविवक्षायामेवैकशेषप्रवृत्तेः । ननु तत्रस्य सारूप्ये एव प्रवृत्तत्वादेकशेषारम्भे त्वेकविभक्तावित्यत्रैकग्रहणादेकस्यां कस्यां चिद्व्यक्तौ सरूपाणां सर्वत्रैकशेष इत्यर्थान्मातृमातरावित्यादावप्येकशेषप्र- वृत्तिामादौ सारूप्यादत आह । एकविभक्तावित्यत्रेति । एवापकर्षसामर्थ्यान- ध्वनयन्नाह । एकस्यामपीति । नन्वत्र प्रमाणाभावोऽत आह । ध्वनितंचेदमिति । एवं च सूत्रकारेणैवैकपदवैयर्थ्यबोधनद्वारा सूत्रवैयर्थ्य बोधितमिति भावः । द्विव- घोरपीति । सरूपसूत्रगतद्वित्वबहुत्वयोरपीत्यर्थः । तच्छेषस्याश्रयं विना ऽसंभवा- त्तदाश्रयोपीति फलतीति भावः । वाचाटे नेत्त्वमिति । अत्र टस्येत्त्वे स्त्रियां ङीप् फलं वोध्यम् । अतएवदानीमइति । प्राग्दिशीयत्वेन विभक्तित्वादेवेत्यर्थः । सुःसं- बुद्धिरित्युचितमिति । एवं च मात्राकृतं पदळतं सुप इति सूत्राज्ञानकृतं च अ- स्मिन्न्यासे लाघवमिति भावः । सप्तमीबहुवचनेइति । इदमुपलक्षणं प्रथमैकवचन- स्यापि । नन्वस्मिन्न्यासे सामन्त्रितमितिवन्महासङ्घया सज्ञाविधावाप तदन्त- विधिः स्यादेकवचनग्रहणे तु तत्सामर्थ्यात्प्रत्ययस्यैव सञ्ज्ञा सिद्धयतीत्यत्राह । संबुद्धावस्येति । तदादीत्यंशोपस्थितिरिति । तदादीत्यत्र बहुव्रीहावप्येङन्तांशे व्यपदेशिवद्भावात्तदादिपदेन यस्माद्विहितस्यैव ग्रहणात्फलाविशेषेण लाघवात्क मधारय एवाश्रीयते तत्साहचर्याद्धत्वांशोपे कर्मधारय एवेति कतरदित्यादौ न दाषे अजन्ताः पुंलिङ्गाः । ४३ इति भावः । ननु प्रकृति विना प्रत्ययस्यानुत्पत्तेस्तदनुपपत्तिस्तदाक्षेपपि कस्मादेवेत्यत आह । किञ्चप्रत्ययस्येति । ज्ञाने तदपेक्षत्वाभावेनेति । उत्पादकशास्त्रे तदाक्षे- पेपि शास्त्रान्तरे तहाक्षेपे न मानमिति भावः । अतएवेयन्मात्रमित्यादौ वत्वन्ता- स्वार्थे मात्रसिद्धिः । संबुद्धेरवयवस्यहलोलोपइति । अत्रपक्षेहल्पदानुवृत्तेः कु- लेत्यादेः सिद्धिः । अन्यथाकारलोपे मश्रवणापत्तिः । न च पञ्चमीसमासेन कतर- दित्यत्रापि लोपापत्तिः । पञ्चमीसमासानित्यत्वेनादोषात् । ननूभयत आश्रयणे इत्यस्य भाष्ये प्रत्याख्यानमत आह । तत्स्वीकारेपीति.। ननु पौर्वापर्यघटितविशि- ष्टधर्मस्य स्थानिवत्सूत्रेणातिदेशोऽस्त्वित्यत आह । ताद्रूप्येति । ताप्यस्य इखा- न्ताङ्गात्परसंबुद्धित्वस्यानतिदेशात् । अशास्त्रीयत्वेन न तस्य धर्मस्य स्थानिवत्वेन प्राप्तिरिति भावः । अन्याक्षिप्तस्यान्यत्रान्वयइतिभावइति । इदानी हवसंबुद्धयोः पौर्वापर्यानाश्रयणादुभयत आश्रयणेप्यन्तादिवत्त्वप्रवृत्तेः कुलेत्यादिसिद्धिरिति. भावः । नन्वर्द्धविकारे एकदेशन्यायाप्रवृत्तौ फलाभावो भाष्यकता क्लुप्त इत्यादौ ऋकारान्तर्गतरेफस्य लवे द्वित्वाद्यर्थमेकदेशविकृतन्यायेनाच्वमिति वदतार्द्धवि- कारे ऋलक् सूत्रे स्वीकृतश्चातः आह । एकवचनसञ्ज्ञासंबुद्धिसञ्जयोरिति । तत्रैतन्न्यायाप्रवृत्तिस्तु सजुषमाचष्टे सगित्यादौ रुत्वाभावार्थमवश्यमङ्गीकार्येति. भावः । भाष्ये स्वीकार चैकदेशिन इति तत्त्वम् । सामर्थ्यादेवात्रोते । प्रत्याहार- हणसामर्थ्यादेवेत्यर्थः । ननु सेप्रभृतीनामित्यत्रः प्रभृतिपदग्राह्यार्थं प्रत्याहारग्रहणमेत आह । गुणादिति । अस्यापीति । एङ्हखादिति लोपस्यापीत्यर्थः । एवं च प्राप्तस्य लोपस्य लुका बाधेन लोपाप्राप्तियोग्यगुणस्याचरितार्थत्वादिति भावः । ननु प्रथ- मयोरित्येव सिद्धे इदं सूत्रं व्यर्थमित्याह । राममित्यादाविति । आदिना तुभ्य- मित्यादेः संग्रहः । द्विमात्रेति । इदमुपलक्षणं रमामित्यादौ त्रिमात्रस्यापि । कि- वफलं त्वादिद्धिःस्यादिति । ननु आदिवृद्धेः फलवे ऽप्रत्यये नित्वेन वृद्धि- स्वरयोः सिद्धौ ककारोच्चारणं व्यर्थमिति चेन्न । कित्स्वरनित्स्वरयोः पर्यायापाद- नस्यापि वक्तुं शक्यत्वात् । एतान्गाः पश्येति । ननु शसो नुम् नुग्वास्तु अकइत्य- नुवर्तते अकःपरस्य नुग्नुम्वा स्यादित्यर्थः । सकारस्य संयोगान्तलोपः संयोगादि- लोपो वा भविष्यति पूर्वसवर्णदीर्घानन्तरमिति चेन्न । तितऊनित्यत्रैकादेशोत्तरं परादिवत्त्वेन शस एकदेशविकतन्यायेन प्रकृतित्वस्य च सत्त्वात्सर्वत्राचः परस्मिन्नि- ४४ भैधयाँ : ति स्थानिवत्त्वेनोभयस्य सत्त्वाच्च सत्यपि संभव इति न्यायेन पूर्वसवर्णदीर्घस्य बाध एव स्यादिति तस्मादिति वक्तव्यमेवेति दिक् । वार्तिकमतमिति । एतच्च वार्तिक- मते एव णत्वार्थे अयोग वाहानामट्सु पाठस्य प्रयोजनमिति भावस्तद्ध्वनयन्नाह । भाष्येविति । ननु वाक्यसंस्कारपक्षे स्त्री इयतीत्यवस्थायां स्त्री इत्यस्य इयतीशब्दे परतो ऽसञ्ज्ञायां यस्येति लोपे तस्याभीयत्वेनासिद्धत्वान्नेयङ् न तदा यस्येति चेत्यपेक्षया स्त्रिया इति सूत्रे अधिकस्यापेक्षा लोपस्यापि स्त्रीशब्दापेक्षत्वादत आह । विधिग्रहणादेवभनक्तीत्यादाविति । ननु तदादिग्रहणं विनाप्यतो दीर्घ इत्यत्रारम्भसा- मादङ्गस्येत्यसंबन्धे मूलोक्तं भवामि भविष्यामि इत्यादि सिध्यतीत्यत आह । तदा- दिग्रहणमिति । सार्वधातुकार्द्धधातुकयोरिति तु भवतीत्यादौ सावकाशमिति भावः। न च तदादिग्रहणविधिग्रहणाभावे वैयर्थ्याद्विधिशब्दाध्याहारे सिद्धे विधिग्रहणं व्यर्थ- मितिवाच्यम् । तदभावे व्याप्तिन्यायाद्यः प्रत्ययो यस्माक्रियते तदादि यस्मि- न्कस्मिंश्चित्प्रत्यये परतोङ्गसंज्ञामित्यर्थे देवदत्त ओदनमपाक्षीदित्यादौ देवदतोत्तरं सुपोविधानाद्देवदत्तादेः पच्छब्दान्तस्य लुङ्मङ्गसंज्ञायां देवदत्तात्पूर्वमप्यडापत्तिः । पुनर्विधिग्रहणे तु सामर्थ्यात्प्रत्यासत्त्या यस्माद्यः प्रत्ययः क्रियते तदादि तस्मिन्नेव प्रत्ययेऽङ्गसमित्यर्थेनादोषात् । ननु संप्रसारण इत्यत्र सामर्थ्यात्संप्रसारणमित्यस्य तदाश्रयं पूर्वरूपमित्यर्थः । एवं च वव्रश्चेत्यत्रोभयोरपि यणोः संप्रसारणे पूर्वस्य पूर्वरूपे निषिद्धे यणि लक्ष्ये लक्षणस्येति न्यायेन पुनः संप्रसारणाप्राप्तौ । किंचराजपुरुषइत्यादाविति । एषामङ्गाधिकारेपाठोव्यर्थ इति । एवं चैषामङ्गाधिकारे पाठसामर्थ्यात्प्रत्ययाप्रत्यययोरिति परिभाषाया अत्र शास्त्रे ऽनाश्रयणमर्थवत्परिभाषाया अनित्यत्वं च ज्ञाप्यते तत्फलं तु आनिनस्म- न्ग्रहणे वर्णग्रहणे चानयोः परिभाषयोरप्रवृत्तिरिति । तेन प्रत्ययाप्रत्य- ययोरिति अर्थवत्परिभाषयाचौपगवैरित्यत्र स्यात् । न तु मध्यमैरित्यत्राकारस्या- प्रत्ययत्वादनर्थकत्वाच्चेति न चोदनीयमित्यलम् । चतुर्येकवचनस्यग्रहणंव्याख्या- नादिति । अवयवे च प्राणीति निर्देशात्प्रतिपदोक्तत्वात्सर्वनाम्नः स्मा इत्यत्रार्था- धिकारानुरोधाच्चेत्यर्थः । कार्यस्यनिमित्तमिति । वाचि इस्वश्चेत्येव सिद्धे वामि ङिति हूस्वश्चेति सूत्रद्वयारम्भेणास्या ज्ञापितत्वात् । ज्ञापकस्य सजातीयाविषय- त्वादित्यर्थः । न च वाचि हस्तश्चेत्यत्रोभयोरनुपादानात्कथं साजात्यादेतदर्थलाभ व्यर्थमत आह अनन्ताः पुंलिङ्गाः । इति वाच्यम् । सर्वानुवर्तकचकारोपादानात् । तन्मते इकोचि विभक्तौ अतोभिस ऐस् बहूनि त्रीणि अजरैरित्युदाहरणानि । नाग्रहइति । अस्या उपजीव्यविरो- धन्यायमूलकत्वाज्जापकस्य भाष्यानुक्तत्वाच्चेति भावः । अकृत्सार्वेति दीणोप- पत्तरिति । न यासयोरिति ज्ञापकात्संनिपातलक्षणविधावुपात्तरूपस्य तद्विघात- कविधावुपादाने एव परिभाषायाः प्रवृत्तेरकत्सार्वेत्यत्र तदभावान्नपरिभाषाप्रवृ- त्तिरिति तदाशयः । तन्मते परिभाषाया उदाहरणं तु निकुचित इति । तत्र हि कित्त्वनिमित्ते नलोपे उदुपधादिति कित्त्वप्रतिषेधाभावाद् गुणाभावः । तस्यापीति । कृन्मेजन्तइति । कृन्मेजन्त इति सूत्रे भाष्ये परिभाषाप्रयोजनकथनावसरे शतानी- त्यादेरप्युदाहृतत्वेन तादृशानुगमस्याप्रामाणिकत्वान्न यासयोरिति तु तदनित्य- तामात्रज्ञापकमिति भावः । असुप्येवेति । तेनोरुयेत्यादौ न दीर्घ इति भावः । नुमापत्तरिति । वार्णपरिभाषया परत्वेन वेत्यर्थः । न च वार्णपरिभाषायाः समान- स्थानिकत्वे एव प्रवृत्तेरन्तरङ्गत्वाद् गुण एव भविष्यति इति न दोष इति वाच्यम् । एवं हि गुणेन्तरले बहिरङ्गस्येगागमस्यैवासिद्धत्वापत्तेः । चोत्तरंद्वित्वमिति । टाङसीति सूत्रे आदिति च्छेदः । तेनाद्गुण इत्यादौ तपरसूत्रं न प्रवर्तते । अत्रार्थे एवोपसर्गाढतीति तपरत्वं लिङ्गमिति भावः । ननु हवनद्याप इति पञ्चमी कुतः षष्ठी नेत्यत आह । नामीतिलिङ्गादिति । सामान्येन नुविधेय इति । आमीत्यस्य पठ्या विपरिणामस्तु नामीति लिङ्गादिति भावः । षट्चतुर्थ्यश्चेत्यत्र चतुःसाहचर्या- षट्संज्ञको ऽकृत्रिमसंख्यावाच्येव गृह्यते तत्साहचर्याच्चतुःशब्दोपि हलन्त एव गृह्यते इत्यत आह । हलन्ताच्चेदिति । अङ्गस्येतिकिं चर्मणामिति । अङ्गाधिकारे ऽतो भिस इत्यादेः पाठादर्थवद्ग्रहणे इत्यस्या अनित्यत्वादित्यर्थः । नामाचष्टे प्रनामित्यपि प्रत्युदाहरणं बोध्यम् । षट्चतुर्म्य इति सिद्धमिति । अत्र पक्षे त्रि- साहचर्याच्चतुःशब्दो ऽजन्तोपि गृह्यते एतदर्थमेव षडित्यत्र रित्यनुवृत्तिरुक्ता न तु हस्वनद्याप इत्यत्रेति भावः । ननु कष्टायेति निर्देशात्सुपिचेति दीर्घे कर्तव्ये परिभाषाया अनित्यत्वमस्तीत्यत आह । कताकतप्रसङ्गित्वादिति । ष्णान्ता पडिति । रेफ प्रश्लिष्य षट्चतुर्ग्यश्च षट्त्रीत्यनयाश्चतुर्ग्रहणं न कर्तव्यं षड्भ्यो लुगर इति न्यासात्तु चत्वार इत्यादौ न लुगित्येवं वादी शङ्कते । यत्त्विति । साहचर्यस्य प्रयोजकाभावादजन्तयोरापि षटशब्देन कतिचतुरोस्तत्र ग्रहणादिति भावः ।
अधर्या अग्रवृत्तेरिति । लौकिकैकदेशविकृतन्यायेन ऊतदीपि षट्वस्य सत्त्वात्संनिपात- विधाताभावेनेत्यर्थः । एतन्न्यायस्याशास्त्रीयेपि प्रवृत्तिरिति भावः । न तिसृचत- मित्यकरणेनेति । यद्यापि यथान्यासेपि तिसृणामित्यत्र संनिपातपरिभाषया दीर्घा- प्राप्ते स्तिसृ इत्यस्यकरण तथापि नग्रहणचतसृग्रहणयोरकरणेनेत्यर्थः । दिगिति । दिगर्थस्त्वनश्वइत्यादौ दोषाज्ज्ञापकमेवेति । सूक्ष्वित्याद्यर्थमिति । आदिना माछु प्राङ्क्षु इत्यस्य संग्रहः । लिङ्गाच्चेति । चो हेतौ न तु समुच्चये । अनु- वृत्ताविति । न तु षवाभावे । महाविभाषासंबन्धस्यावश्यकत्वेनेति । तयादेशे उभयप्रतिवेव इति वार्तिकमते तयादेशस्यायचः सत्त्वात्तद्विधौ तत्संबन्धे बाधका- भावेन विग्रहस्य सत्त्वादत्र मतेपि फलाभेदाय तत्संबन्धस्यावश्यकत्वेनोति भावः । रूपवादेरस्मादनभिधानमेवेति । के द्विवचनपरता वक्तव्येति मतेपि रूपवादिप्वयचः प्राप्तेस्तत्प्रत्याख्याने प्राप्तरिति भावः । कथमिति । कस्याज्ञाताद्यर्थमात्रबाधक- वेन द्वित्वसंख्याप्रकारकसंख्येयविशेष्यकबोधविषयार्थानुवादकत्वरूपाद्विवचनाभा- वादिति भावः । प्रकृतितोविशिष्टाभवन्तीति । अज्ञाताद्यर्थानां प्रकृत्याविशेषण- तयैव बोधादज्ञाताद्यर्थविशिष्टेर्थे वर्तमानात्प्रातिपदिकात्कादयः प्रत्यया भवन्ती- त्यर्थे विनिगमनाविरहात्सर्वार्थानुवादकत्वेनोक्तरूपद्विवचनलमिति भावः । ननु सादीनीत्यस्यैव महासंज्ञयां सर्वार्थबोधकत्वनिमित्तता । अस्य तु तत्साहचर्यान्न संज्ञोपसर्जनयोः प्रवृत्तिः । एवं चैतस्य नानिमित्ततात आह । अर्थकृतेति । ननु निषेधाश्च बलीयांस इत्यस्य सामर्थ्यमूलकत्वं, प्रकते तु न सामर्थ्यं द्वितयादों सार्थक्यात्तदाह । किंचनान्तरकुंबलीयइत्यस्येति । बहुशस्तथादृष्टत्वादिति । ग्राम- णीरित्यादावित्यर्थः । ननु प्रथमें इत्यादौ सर्वनाम्नो विहितत्वसिद्धये प्रकोप जसोति विषयसप्तमी । एवं चोभयोः समकाले एव प्रवृत्तिरत आह । जसीतिविषय- सप्तमीतिपक्षेपीति । ननु जस्विषये उपप्लुताया नित्यसंज्ञाया वैयर्थ्यमिति चेत्त- ह्यत्रापि तुल्यमित्यत आह । स्थानिवदिति । नन्वन्तरङ्गविषये बहिरङ्गमसिद्धमि- स्येव परिभाषार्थः । एवं च तथा प्रापितया स्थानिवद्भावप्रापितायाः परत्वाद्वाध एवेति न दोषोत आह । प्रत्यक्षस्येति । एवं चोभयोस्तुल्यबलविरोध एव नेति भावः । ननु कार्यकालपक्षे जमुत्पत्त्यनन्तरमेव नित्यसञ्ज्ञायाः प्रवृत्त्योभयोः सम- कालत्वमेवेति न दोषोऽत आह । सर्वनामसंज्ञायामिति । उक्तयुक्तयेति । सर्व- अजन्ताः पुंलिङ्गाः। नाम्नो विहितत्वेन शीभावरूपसिद्धये इत्यर्थः । अयच्प्रत्ययान्तरमिति भाष्यस्य द्वित्रिभ्यां तयस्येति सूत्रे एव तयस्येति न वक्तव्यमित्याशयं मन्वान आह । द्वित्रिशब्दप्रकातकायजन्तस्येति । तदाशयइति । केन चिदुक्त इति शेषः । अत्रारुचिबीजं तु कर्तृकर्मणोः कृतीति सूत्रस्थस्य धातोश्च द्वये प्रत्यया इति भाष्य- स्य विरोधतेति । तस्मादुभादुदात्त इतिसूत्रे तयस्येति नानुवर्तत इत्येव भाष्याशय इति तत्त्वम् । नामपदस्वारस्येनेति । नमयन्त्यन्याय विशेषणीकुर्वन्तीति व्युत्पत्त्येति भावः । अभिव्यक्ततिन्यायमूलकमिति । अभिव्यक्तेति न्याय इव मूलं यस्य तदित्यर्थः । सर्वनामसंज्ञायाः संज्ञाभूतेषु सर्वादिष्वप्रवृत्तिस्तु सर्वार्थबोधकत्वाभावा- देवेति भावः । एतेन परिभाषेन्दुशेखरेण सहास्यग्रन्थस्य विरोध इत्यपास्तम् । ननु लोहितोष्णीषा इत्यादौ एकपदोपस्थाप्ययोराप तथान्वयदर्शनादिदमयुक्तमत आह । रूढयर्थयोगार्थयोरिति । एतेनेति । वक्ष्यमाणेनेत्यर्थः । ननु महासंज्ञाया अनुपपत्तिरत आह। आक्षिप्तस्येति । इतरविशेषणत्वेनार्थोपस्थापकत्वमिति । न तु शास्त्रीयमेवेति भावः । प्ररुतसूत्रेइति। न बहुव्रीहाविति सूत्रे इत्यर्थः । तत्र ह्युपसर्जनप्रतिषेधेन गतार्थत्वं स्वीकृत्य बहुव्रीहिपदस्य तदर्थे वाक्ये लक्षणाया आश्रयणात्प्रतिषेधे भूतपूर्वस्योपसंख्यानमित्यस्य प्रत्याख्यानाच्च । शास्त्रीयोपसर्ज- नग्रहणे ह्येकद्वा इत्यर्थं सूत्रस्यान्यपूर्वार्थं वार्तिकस्य चावश्यकत्वात्तदसंगतिरिति दिक् । ननु न बहुव्रीहाइत्यत्रोक्तायाःस्मृत्याः प्रकरणविषयत्वेन मानमत आह । किंचेति । एतेनेति । अकच्स्वरावित्यस्य प्रकरणविषये स्वीकारेणेत्यर्थः । ननु सा स्मृतिर्न बहुव्रीहावित्येतद्विषयिकैवास्तु, एवं च द्वन्द्वे चिकीर्षिते इत्यर्थेफलमस्तीत्यत आह । जसाधारेशीभावेएवेति । एषा तु संनिपातक्षणविधिविनेति । वामि डिति इस्वश्चेति ज्ञापकसाजात्यादिति भावः । मानाभावादिति । असतिबाधके प्रमा- णानां सामान्ये पक्षपाताज्ज्ञापकस्य भाष्यानुक्तत्वाद्वक्ष्यमाणभाष्य, टाडसीतिसूत्रस्थ- कैयटविरोधाच्च तादृशनियमे मानाभावादिति भावः । अतएव । इस्वनद्याप- इत्यनेन जराणामित्यत्र पूर्वविप्रतिषेधात्पूर्व नुटि जरसोभावादेव । ड्याग्रहणे ऽदीर्वइति । अधिकरणे ल्युट् । ड्याब्घाटते कार्ये दीर्घभिन्नस्तादृशो ह्रस्वादेशो न स्थानिवदिति तदर्थान्न तेन जरसोग्रहणमिति भावः । व्याख्यानादौटष्टकारेणेति । स्वादिष्विति सूत्रे ऽसर्वनामोत पर्युदासान्नागमः । नापि टाटकारेण औट- श्रेधों . ष्टकारवैयादति भावः । प्रथमैकवचनमिति । असर्वनामेति पर्युदासान्नसप्तमीब- हुवचनमिति भावः । व्याख्यानादिति । आदिग्रहणरूपात् । अन्यथा सुपीत्ये- व वदेदिति भावः । तेनव्यवस्थेति । परत्वादिनेत्यर्थः । अयं भावः । एकेनेत्यनेन विरोधे बोधिते तत्तत्सूत्रादिनैव बाधसिद्धिरिति । तत्कार्ययो- रिति । सुप्तिड्विभक्तयोरित्यर्थः । एवं च गां दोग्धीत्यत्र परत्वात्पञ्चमी, गौर्दु- ह्यत इत्यत्र कर्माण लकारयोः पर्यायापत्तिरिति भावः । नलोपापपत्तिरिति । अल्लोपोन इत्यत्राद्ग्रहणं त्वान इत्यत्र लोपाभावायेति भावः । बाधसामान्येति । अत्र प्रमाणं तु प्रकृत्या के राजन्येति निर्देश इति भावः । यथोद्देशपक्षे एवेति । आकडारेत्यारम्भादित्यर्थः । नपर्यायइति । न च पर्याय इत्यसङ्गतं भपदसञ्ज्ञा- म्यां नित्यमेव बाधादिति वाच्यम् । नामीत्यारम्भसामर्थ्येन ‘पर्यायबोधनोपपादना- दित्यलम् । तेनोभयत्रेति । तेनेति पञ्चमीसमासे नेत्यनेन समानाधिकरणम् । व्याख्यानेतुनमानमिति । प्रविगणय्येति न मानमित्यर्थः । भवतेर इत्यादि निर्दे- शोपि तदुनित्यत्वे एव मानमिति बोध्यम् । अन्यथा न धात्वित्यस्य प्रत्याख्याने लोलुव इत्यस्याप्यसिद्धिः स्यादिति भावः । इत्याहुरिति । अत्रारुचिबीजं तु गुणानां च परार्थत्वादिति न्यायेनाव्यवहितादित्यर्थालाभः प्रत्यैषिषन्नित्यस्यासि- द्धिर्भवतेर इति तदनित्यत्वे मानं चेति । अतिदेशान्तराणामिति । स्थानिवदादेशः, अन्तादिवञ्च, एकदेशविकृतमनन्यवत्, स्थानिवदित्यनुवृत्त्याप्रत्ययलोपे इत्यादीना- मित्यर्थः । वतिघटितानामिति । तेन वत्यघटितस्यासिद्धं बहिरङ्गमित्यस्य, समानजा- तित्वातिदेशवोधकस्य ऋलवर्णयोरित्यस्य चाप्रवृत्तिरिति भावः । न लोपः प्रातिप- देकान्तस्य । प्रातिपदिकान्तस्य सतःपदान्तस्य नस्य लोप इति सूत्रार्थस्तेन बहुदण्डि- केत्यादौ नलोपसिद्धिरिति बोध्यम् । वार्तिकस्यवैयर्थ्यापत्तेश्चेति । शब्दत्वेन साढ- श्यग्रहणे पद्दन्निति सिद्धे यत्तस्क्षुद्रेषु नस् शब्दस्यैव प्रयोग इत्यर्थेनैवास्य सार्थ- क्यान्नित्ये सिद्धे नासिकाया इत्येतद्घटितवार्तिकस्य वैयर्थ्यापत्तेरिति भावः । अ- न्यत्र । सुटि । अतएव । प्रयोगस्य क्वाचित्कत्वादेव । तस्याअसम्भवेनेति । प्रकृत्यै- काजिति सूत्रस्थभाष्येणैकाच्केभ्यो णिचो नुट्सूत्रस्थभाष्येण हलन्तेभ्य आचार- क्विपश्चानभिधानात्तत्राप्रयोगार्थं तन्नेति भावः । तत्त्वेपीति । अनादेशत्वेपीत्यर्थः । चेनविजिति। आतोमनिन्नित्यत्र चेनानुवृत्तोऽन्येभ्योपि दृश्यन्त इत्यनेनात्रेति भावः । , अजन्ताः पुंलिङ्गाः । ४९ ननु वावुपसंख्यानमिति तत्प्रत्याख्यानभाष्याभ्यां लोपोव्योरिति वकारप्रत्याख्यानाच विचो ऽसार्वत्रिकत्वबोधनादत्र विजयुक्तो ऽत आह । सचेति । तादृशभाष्याद्य- कारवकारान्तेभ्यो धातुभ्य एव विचो ऽनभिधानमिति भावः । संकोचे प्रमाणमाह । कीलालपआगतमिति । ननु स भाष्यप्रयोगः विपि सिध्यतीत्यत्राह । क्विपस्त्विति । ननु धीरित्येतत्सिद्धये भाष्ये ध्यायतेः किबङ्गीकारो ऽत आह । भाष्यानुक्त- किम्यइति । अतएव । आदन्तेभ्यः क्विपो ऽनभिधानादेव । अतएवेति । आद- न्तेभ्यः विपोऽभावादेवेत्यर्थः । केचिदिति । भाष्यतत्त्वविद इत्यर्थः । आहुरिति । अत्रारुचिबीजं त्वीत्वप्रसक्तिरिति । अत्रेति । गोयावित्यादाविति भावः । इचि- पूर्वेण गतार्थत्वादाह । जसीति । लोपेननुड्बाधकेनेति । रामाणामित्यादौ त्वन्तरङ्ग- परिभाषया वा न लोप इति भावः । आचारक्विबन्तादिति । एवं च योगविभागो व्यर्थ इति तदाशयः । नन्वाचारक्विवन्तात्कर्तृक्विपो भाष्येऽनुपन्यासोप तदविरो- धाच्छास्त्रप्रवृत्तेरवाधकत्वान्नानभिधाने मानमत आह । लाभाच्चेति । आतो धातोरनाप इति सूत्रवार्तिकन्यासाभ्यां ज्ञापितत्वादिति भावः । स्पष्टतयेति । गवांपत्यै इत्यादौ नदीसञ्ज्ञायाः सावकाशत्त्वेप्युकारसाहचर्यादिकारान्तस्याप्य- नदीसञ्ज्ञकस्यैव ग्रहणमिति भावः । तात्पर्यग्राहकमिति । तेन पित्रेत्यादौ नेति भावः । एतेन प्रमाणफलोभयविषयकप्रश्नस्यापि समाधानमिति दिक् । अत्यन्तज्ञा- नगौरवमिति भावः । तात्पर्यग्राहकमिति । अमुष्मै इत्यादौ तु न दोषः । नासा- हचर्येण टानिमित्तकनकारस्यैव ग्रहणमिति भावः । ननु हरिणेत्यत्र सत्यपि संभवें इति न्यायेन नादेशेन गुणवाधान्न दोषोत आह । मत्येत्यादाविति । वार्तिकमतेपोति । तस्मिन्नेवात्र सत्यपीति भावः । मते इत्यस्य एवात्र सतीति शेषो बोध्यः। अनापत्तेरिति । डामिति न्यासे तु ङस्येत्सञ्ज्ञालोपयोः स्वीकारेण डस्योच्चारणेनार्द्धमात्राधिक्येन सर्वत्र भूतपूर्वगत्या ङादित्वस्वीकारेण च गौरवापत्तिः स्यादिति भावः । ङसिङ- सोश्च । जितश्चेति नासूत्रि । ऋत उदित्यत्र ऋदन्तान्डितो ऽति परे इत्यर्थे जाग्र तीत्यादी दोषापत्तेः । ध्वनितस्तदभावइति । नान्नलोप इति न्यासे नन्दिता नन्दक इत्यादौ दोषोद्भावनमिति भावः । शेतिसमुदायस्येति । अलोन्त्यस्येति परिभाषा तु नानर्थक इति निषेधान्न प्रवर्तत इति भावः । मञ्चम्यन्ताल्ग्रहणादिति । लाघवा- दलनन्त्य उपधेत्येव सिद्धे इत्यादिः । शस्यनेति । अनन्त्यविकारे ऽन्त्यसदेशस्येति अधर्या परिभाषया प्रकृते ऽकारस्यैवेत्वं भविष्यतीति न दोष इति चेद् गणयतीत्यादौ ग- काराकारस्य वृद्धिवारणाय पञ्चम्यन्तालग्रहणमिति बोध्यम् । नोपधाया इति उपधा- ग्रहणानुत्तिफलं तु कृत्स्नमाचक्षते इति ण्यन्तात्क्वौ णिचि णिलोपे कृत्स्नावित्यादौ दीर्घाभावः । पृथक्पदमिति । न तु सुतिसीत्यस्याप्टक्तपदेन कर्मधारयः । तथा सत्य- एक्तपदस्य विशेषणत्वेन पूर्वनिपातापत्तेः । प्रतिपदोक्तपरिभाषानाश्रयणेनैवेति । लिङ्गविशिष्टपरिभाषयातिदिष्टसखिशब्दवं तु प्रकते न, विभक्तौ लिङ्गविशिष्टाग्र- हणमिति निषेधात् । ननु शदन्तपर्युदासेन संख्याया अतीति सूत्रे एव कृत्रिमा- कृत्रिमन्यायाप्रवृत्तिःस्यान्न तु सर्वत्रेत्यत आह । किंचेति । अतएव । संख्या- प्रदेशे उभयगतेरेव । एतन्न्यायेति । कृत्रिमाकृत्रिमन्यायेत्यर्थः । एवं वत्वन्तेपीति । परिभाषार्थवाचकतयेत्यर्थः । ननु नियतविषयपरिच्छेदहेतुत्वस्यैव संख्यात्वमिति नियमाभावे इदं संख्यासज्ञासूत्रं व्यर्थं स्यादत आह । यद्वेति । सूर्यादीनामिति । आदिना स्फिरभूयसोर्ग्रहणम् । नियमशरीरे लाघवायाह । यद्वेति । नन्वेवमनन्त- वाचिशतशब्दस्य संख्याकार्यं न स्यादिष्टापत्तिस्तदाह । अनन्तशब्दादिति । ननु सञ्ज्ञाविधाविति निषेधात्संख्यासञ्ज्ञाया डतेरेव सत्त्वेन डत्यन्तेत्यसङ्गतमत आह। अतएवेति । संख्यासज्ञायां तदन्तविधेरेवेत्यर्थः । डडनुवादेनेति । अन्यथा तस्य- पूरणे इत्यत्र प्रातिपदिकाधिकारात्प्रातिपदिकसङ्घकात्संख्यावाचकाड्डडित्यर्थे ऽत्र तदप्राप्त्या ऽसङ्गतिः स्पष्टैवति भावः । ननु संख्यासञ्ज्ञायां तदन्तविधावपि षट्स- ज्ञायां कथं बदन्तविधिरत आह । अतएवेति । संख्यासञ्ज्ञायां तदन्तविध्याश्र- यणेन संख्येत्यस्य प्रकृते ऽनुवर्तनादेवेत्यर्थः । द्वित्वंनेति । इदमुपलक्षणं जुहोती- त्यादौ उतो वृद्धिरिति वृद्धि,हरीतक्याः फलानि हरीतक्य इत्यादौ लुक्तद्धितेति स्त्रीप्रत्ययस्य लुक् , श्रविष्ठासु जातः श्रविष्ठ इत्यादौ लुपि युक्तवदिति लिङ्गवचने इत्यस्यापि । वार्तिककारमतेनाह । प्रत्ययस्येत्यनुवृत्त्येत्यादिना । भाष्यकारमते- नाह । स्थानिवत्सूत्रेणेत्यारभ्य विस्तर इत्यन्तेन । इहापीति । कार्यातिदेशेपीत्यर्थः । ननु राजपुरुष भसञ्ज्ञा वार्तिकमते प्रत्ययलक्षणेन प्राप्तापि भाष्यमते ऽल्विधित्वाद- प्राप्तिरत आह । आदाविति । आदिना यशस्विनमाचष्टे यशा इत्यादिसंग्रहः । तृज्व- दितिसूत्रे । तृज्वत्त्वविधायके स्त्रियां चेति सूत्रे इत्यर्थः । अर्थन उरदत्त्वस्य परनिमित्त वं साक्षाच्छब्दतस्तु अङ्गसञ्ज्ञाद्वारा परम्परयेत्यर्थः । तत्रार्थः साक्षादुरदत्त्वस्य पर- अजन्ताः पुंलिङ्गाः । निमित्तत्वमाह । नियमतःपरबुद्धरिति । पूर्वकालवृत्तितयेत्यर्थः । अतएवेति । आक्षेपेण प्रत्यय इत्यस्योरदत्त्वे साक्षात्परनिमित्तत्वाङ्गीकारादेवेत्यर्थः । लिव्यभ्या- सस्येति सूत्रस्थभाष्ये स्थानिवत्त्वे एव कर्तव्ये शब्दतः परम्परयार्थतः साक्षाद्वा परनिमित्तकविधेरैवाश्रयणमिति भावः । ननु कार्यकालपक्षे ऽङ्गसञ्ज्ञासूत्रस्याङ्गा- धिकारे उपस्थित्या प्रत्यय इत्यस्यावृत्त्या चोरदत्त्वस्याचि श्नु इत्यस्य चापि प्रत्य- यनिमित्तत्वं स्त्रियां चेति सूत्रे त्वावृत्ति श्रीयते उरदत्त्वे न लुमतेति निषेधस्या- नित्यत्वं चाश्रीयते इत्येव भाष्यतात्पर्यमस्त्वित्यत आह । आकडारेति । ननु न लु- मतेत्यस्यानित्यत्वं न युक्तं प्रकारान्तरेण निर्वाहादत आह । अङ्गाक्षिप्तेति । ननु त्रेरयङिति न्यासे ङस्येत्सञ्ज्ञालोपयोः कल्पनेन त्रयादेशे ऽधिकैकमात्रोच्चारणेन समत्वेपि त्रयादेशेऽत्रत्ये सान्तत्वाभावे निर्देशाश्रयणेन गौरवारयङित्येव न्यासः कर्तव्य इत्यत आह । त्रेरयङ्नकतइति । शङ्कावारणायेति । एवं चायङ्पक्षोपि निर्देशाश्रयणमावश्यकमिति न त्रयादेशापेक्षया लाघवमिति भावः । अप्रसिद्धत्व- गौणलाक्षणिकत्वान्यतररूपेति । परिभाषायामीढशगौणत्वस्यैव ग्रहणं तेन णिज- न्तात्विपि टिणिक्विलोपे शृङ्गशब्दाच्छृङ्गन्दाभ्यामारकन्भवति । पदकार्य एवतत्प्र- वृत्तेश्चेति । प्रातिपदिकप्रकृतिकसुप्त्वसमानाधिकरणधर्मावच्छिन्नानिमित्तकपदस्य कार्य एव गौणमुख्यन्यायप्रवृत्तेश्चेत्यर्थः । आत्वयत्त्वलोपै धादिति । जातस्यापि परत्वेनात्वस्य पुनः प्रसङ्गविज्ञानेन प्राप्तैस्तैरपहारादित्यर्थः । अभ्युच्चयायेति । अधिकोपन्यासेन समाधानस्य व्यापकत्वबोधनेन स्पष्टप्रतिपत्तये इत्यर्थः । भाष्य- प्रामाण्येनेति । इकारान्तसप्तम्या असंभवप्रतिपादनपरभाष्यप्रामाण्येनेत्यर्थः । आव- श्यकमिति । अन्यथा प्रत्याख्यानपक्षे वार्णादाङ्गमिति न्यायेनाप्टक्तलोपात्पूर्वमीत्वं स्यादिति भावः । ननु स्थः क चेति चेन क्विपो विधानाच्छंस्था इति भाष्ये उदाहृतत्वाच्च वार्णपरिभाषाया अनित्यत्वमेव वार्तिकपत्त्याख्यानपक्षे प्रतीयते न तु अनभिधानमित्यत आह । शंस्थाइत्यत्रावनेवेति । चेन विजेव विधीयत इति सूत्र- भाष्याभ्यां परिभाषानित्यत्वं न युक्तमिति भावः । नन्वेवं वातप्रमीशब्दस्य किब- न्तस्यासिद्धिरेव स्यादत आह । मीङ्मानइति । एके इति । मुख्या इत्यर्थः । व्या- ख्यानादिति । भाष्ये वा च्छन्दसीयनेनात्र पूर्वसवर्ण इत्युक्तरूपादित्यर्थः । यूकि- मिति । स्त्रयाख्यौ नदी नेयवस्थानावस्त्री वामि ङिति इखश्चेति यत्तु वक्तव्यं ५२ अधर्या डिति हवइतीति ङित्येव हस्खो नदीति नियमार्थं विपरीतनियमस्त्वाणनद्या इति निर्दे. शान्न, हवनद्याप इत्याग्रहणज्ञापकादाकारान्तेषु नदीत्वं नेति ज्ञापनादाबन्तेषु, स्त्रीत्वाभावाददन्तेषु, नियमादिदुदन्तयोश्च न दोष इति प्रश्नः । केचिदिति । अत्रारु चिबीनं तु अवयवस्त्रीविषयत्वात्सिद्धमिति प्रकृतसूत्रस्थभाष्यष्यङःसंप्रसारणमितिसू- वस्थभाष्याच्चाकडारीयसञ्ज्ञानां कार्यकालत्वेपि न स्वदेशत्याग इति न बाध्यबाधक- भावांशे ऽनुपपत्तिरिति । अम्बेत्यादावनापत्तिरिति । एवं च डलकवतां इखो नेति वच- नारम्भादत्रेक्परिभाषानुपस्थितिारेति भावः । सप्तम्येकवचनंव्याख्यानादिति। स्त्रियामि- ति निर्देशादित्यर्थः । ननूङ् च गमादीनामिति निष्पन्नस्य भ्रूशब्दस्य धातुत्वादेव सिद्धिरत आह । भ्रूशब्दइति । यनिषेधारम्भेणेति । यण इको यणिति यणोनिषेधो वाधस्तस्य कर्तेयङ् तस्यारम्भेण प्रवर्तमानेनेत्यर्थः । शाकपार्थिवादित्वात्कर्तृशब्दस्य लोपः। ननु या चासौ क्रियेति विग्रहे तं प्रतीत्यत्र तच्छब्दस्य तवाचके लक्षणेति गौरवमत आह । यद्वेति । किञ्चेति । किं वित्यर्थः । आरम्भेपीति । अपिना प्रत्याख्याने । अभ्युच्चयेन । समुच्चयेन । न तु मतभेदेन समाधानद्वयमिति बोध्यम् । सामान्यापेक्षेति । क्ये सुबन्तं यदोत्याकारकत्यर्थः । न तु हलन्तं यदीति विशे- पापेक्षेति भावः । अस्यापवादत्वादिति । अन्यथा सुत्यावित्यादाविकोसवर्ण इति शाकलं स्यादिति भावः । ननु पदान्तस्य स्थाने विधौ नेत्यर्थेऽत्र पदत्वाभावा- निषेधाभावेपि पदान्ते विधातव्ये नेत्यर्थे निषेधो दुवारः। संप्रति पदत्वाभावपि जाय- मानस्य यणः पदचरमावयवत्वादत आह । पर पदस्थेति । आनित्यत्वादिति । यलोपे कते ऽकते च यणो ऽप्राप्तत्वादित्यर्थः । एवं च समकालप्राप्त्यभावेन पूर्वोपस्थितिकमन्तरङ्गभित्यस्य विषयाभावादिति भावः । गोमानितिभाष्योक्तोरीत । अन्यथा रुतदीर्घस्य तत्स्थानापन्न इति न्यायेन स्थान्यचः पूर्वत्वात्क्यचो ऽकार- स्य स्थानिवत्त्वेन नुम् न स्यादिति भावः । गौणमुख्यन्यायवदिति । अभिव्यक्त- पदार्था इति न्यायस्य गौणमुख्यन्याय एवान्तर्भाव इति भावः । व्याख्यानादिति । कार्यशास्त्रनिमित्तव्यवहारातिदेशेषु प्रतिपदोक्तस्य तृच्छब्दमुच्चार्य विहितकार्य- स्यैव ग्रहणापत्तौ स्त्रियां चेत्यस्य वैयर्थ्यादर्थतादात्म्यातिदेशयोरसंभवरूपादित्य- थः । ननु प्रतिपदोक्तपरिभाषाबाधेनापि स्त्रियां चेत्यस्य सार्थक्यमत आह । प्रा- धान्याचाते । ननु रूपातिदेशे वरातिदेशो न स्यादत आह । तच्चेति । उदात्त- अजन्ताः पुंलिङ्गाः। विशिष्टातिदेशे प्रमाणमाह । चकारोच्चारणादिति । तत्सामर्थ्यादित्यर्थः । तेनक्रो- प्रोत्यादाविति । क्रोष्ट्रेत्यादौ तु न दोषः । प्रतिपदोक्तपरिभाषाया अप्रवृत्त्या शास्त्रकार्यव्यपदेशातिदेशेष्वपि चित इत्यस्य प्रवृत्तेः । क्रोष्ट्रेत्यादौ तु शास्त्राद्य- तिदेशेषु विभाषातृतीयादिष्वचीत्यत्र तृतीयादिष्वचीत्युक्तत्वात्प्रत्यासत्त्या तृतीयादि- विभक्तयनन्तरनिमित्तककार्यस्यैव तेनातिदेशापत्त्या चित इति स्वरस्यानापत्त्या दोष इति भावः । इत्यन्येइति । एवं च नेष्ट्रादिग्रहणमत्र मते सूत्रे न कार्यमिति भावः । तेइति । हरिदीक्षिता इत्यर्थः । अन्यप्रयोगस्येति । होतृपोतनेष्टोद्गातार इत्यस्येत्यर्थः । अस्य । उद्गातारावित्यत्य । भाव्यमानस्यापीति । उकारस्येति शेषः । क्वचिदिति । अदसोसरित्यत्रेत्यर्थः । तेन सनाशंसेत्यत्र तनादिकृञ्भ्य इत्यत्र च न सवर्णग्रहणमिति भावः । पुमान् स्त्रियेतिनिर्देशादिति । खपरे शरी- त्यनेन विसर्गस्य झरो झरीत्यनेन सस्य वा लोपोप तस्यासिद्धत्वान्नस्यापदान्तत्वा- दनुस्वारः स्यात्संयोगान्तलोपे तु तस्य सिद्धत्वात्पदान्तत्वान्नस्यानुस्खाराभावे निर्दे- शसंगतिरिति भावः । वाचकसादृश्यादिति । एकदेशविकृतस्यानन्यत्वादित्यर्थः । अत्र । मतौ च्छ इत्यत्र । भुवोवुगित्यादौ विभक्तिकरणादाह । कदाचिदिति । वि- भक्तयभावेपीति । सुपां सुलुगिति लुकेति भावः । सचसूत्रेष्वेवेति । न तु लौकि- कप्रयोगश्वित्यर्थः । छन्दोवत्सूत्राणीत्यनेन सूत्रेष्वेव छान्दसत्वातिदेशेन सुपां सुलुगित्यस्य प्रवृतेरिति भावः । प्रामाणिकाइति । केचित्तु भू सत्तायामिति नि- देशादेव लौकिकप्रयोगेपि कृचिदनुकरणाद्विभक्तयभावं कुर्वन्ति । तदयुक्तम् । निर्देशस्यान्यथोपपत्त्या तादृशार्थे प्रमाणाभावादिति भावः । तदाह । गवित्य- यमाहेतीति । उत्त्वमप्यतएवनेति । तपरकरणादेवोत्त्वमपि नेत्यर्थः । अतएवे- ति । प्रकृतिवदित्यतिदेशस्य वैकल्पिकत्वेन पक्षे इत्वस्यभावादेवेत्यर्थः । ननु कारांशे फलाभावेपि साहचर्यभड्रेन लकारांशे प्रवृत्त्यर्थमेव ऋकारेपि प्रवृत्तिर- स्त्वित्यत आह । वस्तुतइति । ननु योगविभागेन द्वितीयसूत्रसामर्थ्येन पूर्वसूत्र- स्पान्यत्र काचित्कत्त्वेष्यत्र तथात्वे मानाभावो ऽत आह । सावप्रयोगएवेति । ननु योगविभामेन सिद्धावपि वार्तिकपक्षे कथं सिद्धिरत आह । उत्तरपदत्वचेति । ननु तेनोत्तरपदत्वे निषेधेपि पूर्वपदस्य पूर्वान्तवत्वेनातरपदविशिष्टस्य वा पदत्वे नि- षेधाभावो ऽत आह । उतरपदस्यतद्घटितस्यवेति । वार्तिकस्येदृशेर्थे प्रमाणमाह ।
अधयाँ अत इति । इतिकेचिदिति । अत्रारुचिबीजं तु भाष्ये एव तादृशार्थस्याक- रणादप्रामाण्येन सेशब्दस्यानभिधानमिति । अयवायावादिष्विति । वृक्षयिद, कुमार्यायिदं, वृक्षावेतावित्यादिष्वित्यर्थः । नन्वोश्चेति वक्तव्ये द्योश्चेति गु- रुनिर्देशं कुर्वतो वार्तिककारस्य उपलक्षणतया व्याख्यानं नाभिप्रेतमत आह । परेविति । ईदृशानामिति । गोद्योशब्दातिरिक्तौकारान्तानामित्यर्थः ॥ इत्यज- न्ताः पुलिङ्गाः ॥ एकादेशस्य पूर्वान्तवत्त्वेनेति । न तु लिङ्गविशिष्टपरिभाषया लिङबो धकप्रत्ययज्ञानाय परादित्वस्याश्रयणेनातिदेशद्वयस्वीकारे गौरवमिति भावः । वाचत्यत्राप एवाभावादाह । आदाविति । आदिना दामेत्यादिडाबन्तसंग्रहः । अङ्गस्येति । यस्मात्प्रत्ययावधिस्तदादीत्यर्थः । प्रतिपदोक्तत्वेनेति । निरवकाश- त्वरूपेणेत्यर्थः । अनित्यत्वादिति । गुणात्संबुद्धेरिति वक्तव्ये एहूस्वग्रहणसा- मात्संबुद्धिलोपे तस्या अनित्यत्वादित्यर्थः । व्याख्यानादिति । ङित इत्यस्याग- मापेक्षया ऽवयवषष्ठ्यन्तत्वेन स्थानषष्ठ्यन्तत्वासंभवरूपादित्यर्थः । सोर्लोपउक्तइति । अन्तादिवच्चेति सूत्रे भाष्यकारैः । एकदेश्युक्तित्वेपीति । व्यपवर्गाऽव्यपवर्गसाधारणे ऽन्तवद्भावस्यैकदेश्युक्तित्वे ऽपत्यिर्थः । सिद्धान्तिसंमतत्वाभावादिति । अव्यपवर्गे पळते तदभावस्य सिद्धान्तिसंमतत्वाभावादित्यर्थः । एकदोशमतोप प्रकृतेनिर्वाह- माह । परेत्विति । सर्वनामत्वमिति । लिङ्गविशिष्टपारीभाषया सर्वादित्वातिदेशा- सर्वादीनत्यनेनेत्यर्थः । यथाश्रुतं तु न युक्तं विभक्तौ लिङ्गविशिष्टागृहणमिति निषेधादिति भावः । अत्रमानमन्वेष्यमिति । "न सोस्ति प्रत्ययो लोके यः शब्दा- नुगमादृते । अनुविद्धमिव ज्ञाने सर्व शब्देन भासते" इति । पू:शब्दसंबद्धार्थस्य विशेष्यत्वेनेत्येवार्थो युक्त इति भावः । प्रश्लेषादिति । याडापः, हल्ङ्याब्म्य इत्यनयोरेव प्रश्लेष इति वक्ष्यमाणरीत्या तु इस्वेन बाधान्नैत्वमिति बोध्यम् । निर्जरशब्देउक्तमिति । याडामेत्वानां परत्वान्नुट्श्योर्भाष्यप्रामाण्येन पूर्वविप्रतिषे- धेनेष्ठत्वात्तेषु कृतेषु क्व चिदजादित्वाभावात्क्व चित्संनिपातपरिभाषया जरसो- ऽप्राप्तिरेव चतुर्षु प्रश्लेषफलं त्वतिखट्वशब्दे, ह्रस्वनद्याप इत्यत्र प्रश्लेषस्य न फलं नापि मानमित्युक्तं तत्रेत्यर्थः । पदादयस्तु स्वतन्त्रा एव नादेशा इति पद्दन्निति सूत्रत्यभाष्यस्वरसादिति न तदर्थमपि इस्वनद्याप इत्यत्र प्रश्लेष आवश्यक इति ५५ अजन्ताः स्त्रीलिङ्गाः । तदाशयः । ननु ड्यागृहणे आदेशो न स्थानिवदित्युक्तेः खट्वादिशब्दे सवर्ण- दीर्घत्यापि स्थानिवत्त्वनिषेधः स्यादत आह । अदीर्घइति । दीर्घभिन्नइति । खट्वाशब्दे सवर्णदीर्घः क्यजन्तकुमारीशब्दे क्यजन्तखट्वाशब्दे चाकत्सार्वेति दीर्घभिन्न इत्यर्थः । याडादिविधायकसूत्राणि तु डाबन्ते चारतार्थानीति भावः । ननु लक्षणप्रतिपदोक्तपरिभाषास्वीकारे याडाप इत्यादि सूत्रं व्यर्थं स्यादित्यत आह । सूत्रंतुनिशेति । अत्र हि हलन्ताट्टाबिति भावः । ननु हलन्ताट्टाब् नास्त्येव ङ्या- प्प्रातिपदिकादिति सूत्रस्थभाष्यस्वरसादित्यत आह । आदाविति । आदिना डाब- न्तदामाशब्दसंग्रहः । अतएव । अङ्गस्य विशेष्यत्वादेव । नन्वतिखट्वायेत्यत्रोपाया- कथनेनाङ्गस्य विशेषणत्वमेवास्तु तत्र न किं चिद्वाधकमत आह । किञ्चेति । ननु अविष्ठाशब्दाज्जातार्थे ऽणि तस्य लुकि श्रविष्ठाशब्दावयवस्य लुक्तद्धितलुकीति टापो लुकि फल्गुनीशब्दादणो लुकि लुक्ताद्धतेति फल्गुन्यवयवस्य डीपो लुकि श्रवि- ष्ठाफल्गुनयोहल्ङयादिलोपादिवारणाय वार्तिकस्य तत्प्रत्याख्यानायाकारादिप्रश्लेषस्य चावश्यकत्वेन वैयर्थाभावो ऽत आहे। किञ्चेति। ननु हावामश्चेति ज्ञापकादाकारग्र- हणे लक्षणप्रतिपदोक्तपरिभाषाया अप्रवृत्तिः । अत एव कृतात्वेभ्य आतोनुपसर्ग इति के आतोलोप इटि चेति लोपस्तेषां क्विवन्तानामातो धातोरिति लोपश्च सिध्यति । एवं चातिखट्वायेत्यत्र याट् दुर्वारोत आह । किञ्चेति । परम्परया कार्यमादाय स्थानिवत्त्वप्रवृत्ताविति । अतिखट्वायेत्यत्रेत्यर्थः । मानाभावादिति । मानस्य वा- तिकारम्भतत्प्रत्याख्यानयोः फलभेदात्तथा कल्पनेपि मानाभावात् । अस्य विशेष्यत्वे प्रमाणमाह । याडापइतिसूत्रेभाष्येपीति । सुधीभिर्विचार्यमिति । उपलक्षणत्वे स्थानिवत्सूत्रे एव याडाप इत्येताद्वषये शङ्कासमाधानाम्यां सिद्धौ पुनाडाप इति सूत्र एव शङ्कासमाधानाकरणेनेतरसूत्रोदाहरणानभिधानमेव युक्तमिति भावः । फणादिरेवेति । ननु भ्राशतेरेव शान्तत्वेन षत्वे वि- भाडिति रूपसिद्धौ भाजगृहणं व्यर्थमिति चेन्न । भ्राजतेः क्विापि सुपरमशब्देन समासे ततो णिटिलोपे ऽवशिष्टस्यः षत्वार्थं तत्सत्त्वादित्यर्थः । अत्रमते । केचि- न्मते । भाष्यानुगृहः । भाष्यसंमतिः। विचार्यः । ज्ञेयइत्यर्थः । एकाच इति सूत्रे धातुपदसंबन्धे मानाभावादिति भावः । नन्वेकदेशस्य स्वरितत्वे क्लेशो ऽत आह। यद्वेति । श्रियैवाह्मण्यैइति । श्रीशब्दादिवाथै कन् । तस्य लुम्मनुष्ये इति लुप् । - ५६ अधयों यद्वा क्यजन्तात्किए । एवं श्रिये ब्राह्मणयेत्यत्रापि क्यजन्तात्क्विबिति बोध्यम् । तदाक्षिप्तस्येति । इयडाद्याक्षिप्तस्याङ्गस्येत्यर्थः । न्यायसिद्धे ऽर्थे लिङ्गमप्याह । यस्याङ्गस्येति । नन्वङ्गस्येत्यस्येयडादिविशेषणत्वेपि . स्त्रयाख्यावित्यस्याङ्गविशे- षणत्वं स्यादेवेत्यत आह । स्त्रयाख्यावित्यस्येति । ननूभयातिदेशे गौरवं स्यादत आह । यद्दति । नन्वतावतापि नित्यस्त्रीत्वाभावाद्विकल्पो न स्यादत आह । अत्रइति । यूकिमिति । पूर्ववाक्ये इयडुवस्थानावित्यनेनेकारोकारयोरेव संभवा- दन्त्ये इस्वाकारस्य स्त्रियामवर्तनात्प्रश्नः । एतत्सर्वमिति । स्त्रयाख्यावित्यङ्गस्या- मीत्यनेनाक्षिप्तस्य विशेषणं तच्च स्त्रीवाचकावित्येतन्मात्रार्थकमित्यर्थः । नन्वौदित्य- स्यानदीसक्रकेष्वेव प्रवृत्तौ न मानमेवं चेदुभ्याम्, औदित्यनयोः पर्याय एव स्यादत आह । नदीग्रहणानुटत्तेश्चेति । न्याययोरत्रासंभवादेकदेशनदीग्रहणानु- वृत्तरिति भावः । परिभाषायाअनित्यत्वादिति । वर्णाश्रयः प्रत्ययो वर्णविचाल- स्यानिमित्तं स्यादिति दोषेषु परिगणितत्वादिति भावः । तत्र प्रत्ययस्यातिदेशि- कस्यापि ग्रहणं स्त्रियामिाते निर्देशादिति बोध्यम् । ननु त्रिभार्य इत्यत्र सत्यपि तित्रादेशे बहुव्रीहिसमासे पुंवद्भावेन तन्नित्तिः सिद्धति विभक्तावित्यनुवृत्तेन फलमत आह । तृतीयान्तेनसमासइति । तिसृचतसृइत्यस्येति । तस्य पूर्वसूत्रे विधेयत्वोपे ऋत इत्येतत्सामर्थ्यादत्रानुवृत्त्योद्देश्यतापि संभवतीति भावस्तद्ध्वनय- नाह । अन्यथोते । अमित्यादीति । आदिनानामः संग्रहः । त्रयाद्यादेशइति । आदिना नामीति दीर्घसंग्रहः । एवमेव तुल्ययुक्तया नुटोपे तिस्रादेशात्पूर्वमेव प्रवृत्तिर्बोध्या । न च त्रयादेशे नुटो बाधः शङ्ग्यः । निजां त्रयाणामिति निर्देशे- नाबाधकत्वज्ञापनात् । तदसंगतिरिति । तिस्त्रादेशोत्तरं लक्ष्ये लक्षणस्येति न्यायेन पुनर्दी_प्रवृत्तौ न तित्रितिसूत्रे तिसृगृहणं व्यर्थं स्यादित्यर्थः । ननु तिस्त्रादेशस्य संज्ञापेक्षत्वेन बहिरङ्गत्वपि त्रयादेशादेरपि विशेषापेक्षत्वेन बहिरङ्गत्वादुभयोः समत्वेन परत्वात्तिस्रादेशे न तित्रित्यस्य सार्थक्येन संज्ञार्थकृतबहिरङ्गत्वानाश्रयणे मानविनातिस्त्रिणे इत्यत्र नुमपेक्षयान्तरङ्गत्वादियङापत्तिरत आह । वस्तुतइति । एवं चैतन्निषेधसामर्थ्य सुस्थमिति भावः । नन्वेवमप्यतिस्त्रिणे इत्यत्र विभक्तिविशे- पापेक्षनुमपेक्षया प्रत्ययसामान्यापेक्षस्येयङोन्तरङ्गत्वं दुर्वारमत आह । विशषा- पेक्षस्यबहिरङ्गत्वमेवनतिचेति । एवं च तन्निषेधसामर्थ्यात्परिभाषायामङ्गशब्देन १७ अनन्ताः स्त्रीलिङ्गा नपुंसकलिङ्गाश्च । शब्दरूपमेव निमित्तं गृह्यत इति भावः । तत्रेति । त्रेस्त्रय इत्यत्रेत्यर्थः । डेरा- मीति । प्रियवयामित्यत्रेत्यर्थः । अन्तरले कार्ये कर्तव्ये बहिरङ्गस्य तित्राद्यादेश- स्यासिद्धत्वेनान्तरङबहिरङ्गभावानाक्रान्ते विषये एव कपः प्रवृत्त्यान्तरङबहिर- नवानाक्रान्तविषयश्चालौकिकवाक्ये ऋकारान्तोत्तरपदे एव संभवतात्याह । लौकिकेत्यारभ्याभावादित्यन्तेन । न तिस्त्रिति ज्ञापकस्य सामान्यापेक्षस्यासति बाधके इति न्यायेन सिद्धत्वोप लिङ्गमप्याह । प्रत्ययोत्तरेतिसूत्रेचेति । इमौ प्रियतिसृणी प्रियतिस णीत्येतौ । ननु युवोरित्यत्र पाठेऽपि ङ्याप्सूत्रे भाष्ये लिङ्गविशिष्टपरिभाषाया दोषाः खल्वपि साकल्येन परिगणिता इत्युक्तेस्तत्पाठ- स्याप्रामाणिकत्वमत आह । ड्याप्सूत्रेइति । उपसजने पुंसीति । पुंस्युपसजनं यो- थस्तत्र विद्यमानस्येत्यर्थः । ननु प्रसज्यप्रतिषेधेन व्याख्याने तत्संबद्धत्वमेव नेति हखवाक्यप्राप्तस्याप्यस्त्रीति निषेधः स्यादेवेत्यत आह । प्रसज्यप्रतिषेधस्त्विति । तत्रेति । पूर्ववाक्ये इत्यर्थः । साचति । अस्त्रोति पयुदासादिदं लब्धमिति भावः । व्याख्यानादिति । नेयङवङोरस्त्रीत्येव सिद्धे स्थानग्रहणसामर्थ्यरूपादित्यर्थः । अङ्गरूपग्रहणादिति । अङ्गे यद्रूपमङ्गरूपमियादिघटितं तस्य ग्रहणादित्यर्थः । वदाह । यस्याङ्गस्येति । आमोतिच्छेदइति । नत्त्वमीति फलाभावादिति भावः । अकारसाहचर्येणेति । बहिरङ्गस्य तित्रादेरासिद्धत्वेन ऋकारस्य कविषये तादृशस्यैव संभवात्तत्साहचर्येणेत्यर्थः । सुष्ठुध्यायतीति विग्रहे सुष्ठुधीर्यस्या इति विग्रहे च सुधीशब्दस्य भाष्यमते कैयटमते च श्रीवद्रूपस्यैव सत्त्वान्मतान्तरे च पुंवदिति मूलमप्तङ्गतमतः पूर्वोक्तम् । यत्तुदीवाक्येइति । मतरीत्या व्याचष्टे । पुंवदित्यारभ्य- विकल्प इति बोध्यमित्यन्तेन । ननूत्तरपदेसनेनाक्षिप्तस्य समासे इत्यस्य शाब्द- बोवे ऽन्वयाभावात्समास इत्यर्थालाभो ऽत आह । उत्तरपदेत्यनेनास्येति । अनु- मानादिति । एकदेशानुमानादेकाजुत्तरपदे इत्यस्यैकाजुत्तरपदे समासे इत्यर्थे लक्ष- णेति भावः । प्रियपञ्चानन्द्रौपदीमित्यादौ डाबानषेधायाह । स्त्रियामिति । डाम्- डीपोरनुवृत्त्येदं लब्धमिति भावः । भाष्यस्वरसइति । तत्र हि संनिपातपरिभाषाप्र- योजनावसरे तिस्त्रस्तिष्ठन्ति चतस्रस्तिष्ठन्तीत्युदाहृतमिति ॥ इत्यजन्ताः स्त्रीलिङ्गाः ॥ दोर्खापत्तरिति । कष्टायेति निर्देशात्सुपि चेति दीविषये संनिपातपरिभाषाया अप्रहत्तेरिति भावः । ननु निर्देशस्य चतुर्येकवचने परिभाषाया अप्रवृत्त्योपप- ५८ अधयाँ तेरौत्सर्गिकप्रवृत्तेरिष्टसिद्धिरत आह । संनिपातेति । संबुद्धिलोपानापत्तिरिति । गुणात्संबुद्धरिति सिद्धे एङ्हरग्रहणं तु प्रत्ययनिमित्तकप्रकृत्यादेशे एव संनि- पातपरिभाषायाः संबुद्धिलोपे प्रवृत्तिज्ञापकं स्यादिति भावः । इत्यर्थइति । न तु यकारस्येत्यर्थः । व्याख्यानादिति । सूर्यतिष्येति सूत्रे पुनर्यग्रहणरूपादित्यर्थः । व्याख्यानात् । जस्साहचर्यात् । अतएव । श्रुतेबलवत्त्वादेव । कर्मणिपजिति । भावे घनि अर्थासङ्गतेरिति भावः । नन्वेवमप्यङ्गस्येत्यस्य निमित्तनिमित्तिभावबोध- कषष्ठयन्तत्वाड्डतरादिभ्य इत्यस्यार्थपरत्वाद्विरुद्धार्थकत्वेन विरुद्धविभक्तिकत्वादिति भाप्यस्य नासंगतिरत आह । विधानस्यसर्वथानाश्रयणेनेति । परमकतरदित्या- दिसिद्धयर्थं विहितविशेषणस्य त्वया त्यक्तत्वेन डतराद्यर्थसंवन्धिनोः वमोरित्य- र्थकरणादिति भावः । निजरशब्देउक्तमिति । अजरांसीत्यत्र नुम्जरसोः प्राप्तयोः परत्वाज्जरसिति भाष्ये विभक्तयादेशा जरसपेक्षया पूर्वविप्रतिषेधेन भवन्तीति तत्रोक्तमिति भावः । अङ्गाश प्रत्ययस्योत्थिताकाङ्क्षतयाह । यद्वेति । नदोषइति । अत्र पक्षे नसंबन्धिसान्तसंयोगान्ताङ्गस्य सर्वनामस्थाने परे दीर्घ इति सूत्रार्थाद- त्यवर्णान्त्यसदेशवणयोरितराव्यवधाने एवानन्त्यावकार इति परिभाषा प्रवर्तत इति न संप्रसारणे इत्यनेन ज्ञापिते ऽर्थे इतरस्य ज्ञापकसाजात्यादन्त्यवर्णनिष्टत्वह- ल्त्वझल्त्वान्यतरत्वानाक्रान्तस्यैव ग्रहणांच्चति भावः । अभिमानइति । सिद्धान्ते तु न लुमतेत्यस्यानित्यत्वादत्र शसादिपरत्वमेवेति भावः । क्लीबवदर्थइति । सूत्रे नपुंसक इत्यर्शआद्यजन्तमिति भावः । नइखात । लक्ष्ये लक्षणस्येति न्यायेन तु न निर्वाहः । नाग्निर्दग्धं दहतीति न्यायेन पूर्व हवाप्रत्तेरिति भावः । तस्याःप्राधान्यमिति । शक्तेःप्राधान्यमित्यर्थः । तस्य । क्रियाकारकभावस्य । प्रद्यु- शब्दे ऽतिप्रसङवारणायाह । समानानुपूयेति । निमित्तमादाय पीलुशब्देऽति- प्रसङ्गवारणायाह । समानार्थश्चेति । ग्लोबत्वरूपार्थवृत्तरिति । तादृशार्थक- शद्धस्येत्यर्थः । तत्प्रयुक्तेति । नपुंसकत्वप्रयुक्तेत्यर्थः । सर्वकार्याप्रहत्तेरिति । नेति वक्तव्ये पुंवद्वचनसामर्थ्यादनन्तरस्येति न्यायाप्रवृत्त्या नुम्हस्वयोरुभयोरे- प्रत्तेरिति भावः । ननु हन्तेरन्तोदात्तत्वाभावाद्वधादेशस्यान्तोदात्तोच्चारणम- सङ्गतमत आह । अनुदात्तोवेति । लिङ्गसिद्धेति । गाव इति विशेष्यभूतचिह्नसि- द्वेत्यर्थः । एचइहवादेशइति । द्वादेशविधायके एच इगित्यस्योपस्थित्यैच ५९ अजन्ताः नपुंसकलिङ्गाः। इन्द्रस्वो भवतीति वाक्यार्थो यथा स्यात् । अन्यथानेनापूर्व एचः स्थाने इग्वि- धीयेत एचोयवायाव इत्यादिज्ञापकादस्य परिभाषात्वमेवेति चेप्लुतविधायकेष्व- स्योपस्थितिः स्यात् । नन्वेवमपि हूस्वे इत्येव सिद्धे आदेशग्रहणं व्यर्थमिति चेन्न । इस्वविधायके एच इगित्यस्योपस्थितिरित्यस्यार्थे इस्वो नपुंसके इत्यत्रैच इगित्य- स्योपस्थित्या एजन्तस्य नपुंसके विद्यमानस्य प्रातिपदिकस्य ह्रस्व इग्भवतीत्येव तस्यार्थः स्यात्तथा च श्रीपमित्यादौ हूस्वो न स्याद्यथासंख्यं च स्यात् । आदेश- ग्रहणे तु केन चिद्विधीयमानेषु इस्वेष्वेच इगित्यस्योपस्थितिरित्येतस्यार्थे तत्र तत्र एचइगित्यस्योपस्थितौ वाक्यभेदेनाजन्तस्य प्रातिपदिकस्य नपुंसके वर्तमानस्य इस्वो भवति एजन्तस्य तु इग्घ्रस्वो भवतीति नियम्यते । गोस्त्रियोरित्यत्र तु स्त्रोप्रत्ययान्तप्रातिपदिकस्य ह्रस्वो भवति । गोशब्दस्य विग्घ्रस्वो भवतीति च नियम्यते तदेतदाह । एचां पूर्वोभाग इत्यारभ्य न यथासंख्यमित्यन्तेन । नन्वौपश्ले- षिकाधिकरणे एव निर्दिष्टपरिभाषायाः प्रहत्तेर्वैषयिकाधिकरणे तस्या अप्राप्त्या न बाधो ऽत आह । आत्वकृतइति । विषयएवनेति । नामीत्यारम्भसामर्थ्यात्सा- मान्यत एव नुविषये संनिपातपरिभाषा न प्रवर्तत इति ज्ञाप्यते इति भावः । माधवाशयमाहुरिति । अत्रारुचिबीजं तु इनान्नलोप इति सूत्रे नमःशकारोच्चा- रणाभावे नान्नलोप इति न्यासे यज्ञानामित्यत्र दीर्घनलोपयोः प्राप्तौ परत्वान्नलोप इत्युक्तं भाष्ये तदसंगतिरिति सामान्यापक्षत्वे नलोपापेक्षया सुपि चेति दीर्घस्य परत्वात्तस्मान्नामीत्यनेन दोर्चे कर्तव्ये एव नुड्डिषये संनिपातपरिभाषाया अनित्यत्वं नान्यत्रेत्यलम् । समुदितपातिपदिकापेक्षेति । पदद्वयात्मकसमुदितप्रातिपदिकापे-- क्षेत्यर्थः । वर्णमात्राश्रयेति । ह्रस्ववर्णमात्रं विद्यते यस्मिस्तद्वर्णमात्रमेकपदाश्रयो यस्येत्यर्थः । यथाश्रुतं तु न युक्तं प्रत्ययग्रहणे यस्मात्प्रत्ययविधिस्तदादीत्वस्यो- पस्थितेः । कृतितुग्ग्रहणाच्चेति । चेन नयति लत्कुलं. नीत्यत्रान्तरङ्गत्वादित्यस्य संग्रहो बोध्यः । वदन्तीति । तत्रारुचिबीजं तु ताभ्यां परिभाषाया अनित्यत्वमेव ज्ञाप्यते । तेन शिर्वोच॑ इत्यत्राद्गुणसिद्धिरिति । नन्वेवं संनिपातपरिभाषायां सन्निपातः पूर्वापरसंबन्धो लक्षणं निमित्तं यस्योपजीवकस्य तस्यैवात्राभ्युपगमा- त्मकते तद्विरहान्न तुग्वारणं स्यादत आह । किंचेति । तस्याअपीति । संनि- पातपरिभाषाया अपत्यर्थः । सएवार्थइति । संनिपातः संवन्धमात्रं लक्षणं ६० अधयाँ यस्योपजीवकस्येति यथाश्रुत एवार्थ इत्यर्थः । ननु संनिपातपरिभाषया तुग्वारणे कृन्मेजन्त इति सूत्रस्थभाष्यविरोधो ऽत आह । ग्रामणिपुत्रइति ॥ इत्यजन्तान- पुंसकलिङ्गाः ॥ न्यायस्य । सामर्थ्य-पयुक्तेः । अन्यत्रापीति । दादेरियादावित्यर्थः । वक्तुंयुक्तमिति । यथासंख्यं त्वस्वरितत्वान्नेति भावः । कथामात । धातुशब्दमु- चार्य विहितप्रत्ययपरत्वाभावादिति भावः । अत्र । धुगित्यत्र । घत्वादि । आदिना भष्भावः । एवं चाधोगित्यादावेव तदुभयप्रवृत्तिः स्यादिति भावः । तत्प्रवृत्ताविति । परिभाषाप्रवृत्तावित्यर्थः । नत्वानापत्त्येति । मो नो धातोरित्यत्रापि तथार्थे ऽजङ्गन्नित्यादौ यङ्लुगन्ते तस्य चारितार्थ्येन नत्वानापत्तेरित्यर्थः । ननु यङ्लुकश्च्छान्दसत्वादत्र पदस्येत्यनुवृत्तस्य सामानाधिकरण्यासंभवाद्वैयधिकरण्यन पदावयवमान्तस्य धातोर्नकारो भवति धातुशब्दमुच्चार्यविहितप्रत्यये परे इत्यर्था- त्प्रत्यासत्तित्यागाच्च प्रकतेः क्विप्परत्वान्नत्वे तत्संगतिः । अन्यथा सूत्रमेव व्यर्थं स्यादितिचेन्न । सूत्रवैयर्सेनाप्येतदर्थस्यैव ज्ञापनादित्यलम् । भाष्यविरोधादिति । स्थानेन्तरतम इति सूत्रे इकोयणचीत्युदाहृत्य यथासंख्येनापि सिद्धिरित्युक्तिस्तु लकारस्थापनकर्तृसिद्धान्तिनः। पूर्वपक्षिमते तु स्थानेन्तरतम इत्यनेन सिद्धिरिति भावः । ननु दयुभ्यामित्यादौ दिवउदिति तपरकरणसामर्थ्यादेव न दीर्घो ऽत आह । अतएवेति । वचनप्रामाण्यादिति । हल इति सूत्रारम्भसामर्थ्यादित्यर्थः । वचन- प्रामाण्यागिति । वचनस्याचः परस्मिन्निति स्थानिवत्त्वातिदेशिकस्य प्रामाण्या- त्सत्त्वादित्यर्थः । अनित्यत्वेनेति । पञ्चमीसमासानङ्गीकर्तृमतेनेदम् । तदङ्गीकारे तु दीर्घोत्तरमचः परस्मिन्नित्यनेन सिद्धेः परिभाषाया अनित्यत्वं नोपयुक्तमिति बोध्यम् । ननु यून इत्यादौ पूर्वसवर्णदीधै ततो ऽल्लोपो ऽन इत्यकारलोपे पूर्वरूपा- भावेपि इष्टसिद्धिरिति चेन्न । विभक्तरुदात्तनित्तिस्वरापेपत्तेः। अल्लोपस्य स्थानि- वत्त्वेन यणापत्तेः । सप्तम्येकवचने लोपाभावपक्षे ऽकारस्य श्रवणापत्तेश्च । णिलो- पस्य स्थानिवत्त्वेप्यङ्गभसंज्ञकावयवस्य वाहेरित्यर्थात्स्यादेव प्रकृते संप्रसारणमिति कन चिदुक्तं तन्मते ऽप्याह । अङभसंज्ञेति । अत एव तन्मते प्रष्ठवाड्प्याये- त्यादौ न संप्रसारणमिति बोध्यम् । विचो ऽसार्वत्रिकत्वादाह । विग्रहणमिति । अचः परस्मिन्नित्यत्रकाम्यसूत्रेचभाष्येउक्तत्वेनेति । आये स्थानिवद्भावप्रयोजन हलन्ताः पुंलिङ्गाः । खण्डनावसरे याज्यते इत्यादी संप्रसारणाभावाय च भाष्ये उक्तत्वनेत्यर्थः । ननु वचिस्वपीत्यत्र विहितविशेषणपक्षकवाक्यतया. कौलुप्तमित्यस्यानाश्रयणेपि वाह ऊसूत्रे तदनाश्रयणे मानाभावेन णिजन्तात्किपि विश्ववाट्शब्दस्य संप्रसारणं स्यादेवेत्यत आह । प्रतिपदोक्ततयेति । तदितरेति । काम्यजिति चकारादित्वमा- श्रित्योपयट्काम्यतीत्यादौ संप्रसारणरूपतदितरेत्यर्थः । नफलभेदइति । ण्यन्ता- द्याजेः क्विपि न फलभेद इत्यर्थः । अप्रत्तेश्चेति । चोहेतौ । नुमुपजीवकत्वेन । ततः प्राक् । अमः प्राक् । तस्याप्रवत्तेनुमो ऽप्रवृत्तेर्हेताविरोधाभावादमा नुम् न बाध्यत इत्यर्थः । ननु ङ्यापासोरिति न्यासे राजेत्यादौ सोसंयोगान्तलोपे तस्या- सिद्धत्वान्नलोपाभावमाशङ्य न डिसंबुद्ध्योरेति संबुद्धिग्रहणेन नलोपे कर्त्तव्ये संयोगान्तलोपस्यासिद्धत्वाभावकल्पनेनैतादृग्लक्ष्याणामनभिधानेन च संयोगान्त- लोपस्यासिद्धत्वादिति मूलमसंगतमत आह । हस्थानिकस्येति । न डिसंबुद्धयोरिति ज्ञापकेन विभक्तिस्थानिकसंयोगान्तलोपस्यैवासिद्धत्वाभावो ज्ञाप्यते । न तु सामान्यत इति भावः । ध्वनितं चेदमिति । तत्र हि भाष्ये हे अनड्डन्निति प्रत्ययलक्षणस्यो- दाहरणं दत्तम् । तत्र कैयटः । पूर्व संबुद्धिलोपमाश्रित्यैतदुक्तं यदि तु. विशेषविहित- त्वादसंबुद्धाविति पूर्व प्रवर्तत तदा संबुद्धिलोपो न स्यादिति । एवमेव । प्रत्ययानुत्पत्तरेव । ननु श्नमः परत्वात्तिलोपे ततः इनमि तत इमिति न भाष्यासं- गतिरत आह । अनड्वानिति । उपपद्यते इति । अन्यथा सुलोपात्परत्वादामि विशेषविहितत्वान्नुमि सुलोपाप्राप्त्या भाष्यासंगतिः स्पष्टैवेति भावः । दिगिति । दिगर्थस्तु यः, सः, द्यौः, पन्था इत्यादौ प्रत्ययलक्षणेनाकाराद्यादेशोत्तरं सोरुत्प- त्तिर्बोध्या तदा हलन्तत्वाभावेनानुत्पत्तिनिमित्ताभावात् । विषयसप्तम्या तु न निर्वाहः । एतदित्यादौ नपुंसके पूर्वमत्वे लुकं बाधित्वा मादेशे यं सं तमित्यस्या- पत्तरित्यलम् । उच्चारणार्थानां हलामित्संज्ञायां युक्तिमाह । किंचेति । तत्र भाष्य- संमतिमाह । अतएवेति । तित्स्वरितमितिचेति । ननु तद्वार्तिकं प्रत्याख्यातमत आह । दित्त्वमाश्रित्येति । वार्तिकसंमतिमप्याह । किंचेति । ननूच्चारणार्थायामि- त्संज्ञायामदड्सूत्रस्थं भाष्यं न प्रमाणं हे कतरदित्यत्र संबुद्धिलोपाभावार्थं डित्त्व- स्यावश्यकत्वनाकारस्यापि श्रवणार्थमावश्यक्तत्वात्तत्रेत्संज्ञकस्यैवाभावादत आह । अतएववेरिति । अतएवेदित इतिच । ननूच्चारणार्थानामित्संज्ञायां भवतितरेत्यादावु- १२ भैधयां गितश्चेति हस्वविकल्पस्य पाचिकेत्यादौ उगितश्चेतिङीपश्चापत्तिरत आह । ल्युडादाविति । उकारस्येत्त्वाभावे प्रमाणमाह । अतएवेति । ननु हयवरेत्यादावु- ञ्चारणार्थीकारस्येत्त्वाडीकारे ऽचपदार्थबोधात्पूर्व इल्प्रत्याहारे ऽकारमहणापत्तिरत आह । अनुवादइति । ननु प्रातिपदिकत्वेन व्यवसितान्त्यत्वमत आह । फला- भावेनचेति । इकस्तत्त्वादिति । गमेरिडिति । तत्राज्झनेति सूत्रस्थभाष्यप्रामाण्या- निरनुबन्धकपरिभाषाया अप्रवृत्तेर्गच्छतेरिसिद्धेश्चादोषादिति भावः । नापधालोप- इति । प्रकृतिवदनुकरणमित्यस्य वैकल्पिकत्वेन प्रकते ऽभावाङ्गीकारादिति भावः । अतएव । इगन्तस्य प्रातिपदिकत्वादेव । अन्यथा । इगभावे । सानस्यादिति । धातुत्वेनाप्रातिपदिकत्वादिति भावः । इतिकेचिदिति । अत्रारुचिस्तु प्रकृतिवदनु- करणं न भवतीत्यर्थेनाधातुत्वात्सविसर्गपाठोपि साधुरेवेति । ननु विमला द्यौरिति बहुव्रीहौ न सिद्धिरत आह । तितीति । निपात्यतइति । ननु तिति प्रत्ययग्रहणं कर्तव्यमिति वार्तिकस्य द्युभ्यामित्यादौ तदभावः फलमिति तित्स्वरितमिति सूत्रे भाष्ये उक्तं तद्विरुद्धं निपातितान्तोदात्तत्वे सामर्थ्येनैव स्वरितत्वाप्रवृत्तेरिति चेन्न । जातेपि स्वरितत्वे तत्स्थानापन्नस्तद्धर्म लभते इति न्यायेनोदात्तत्वनिमि त्तकोदात्तादनुदात्तस्य स्वरित इत्यनेन विभक्तेः स्वरितस्य प्रवृत्त्योदात्तत्वस्य सार्थक्यात् । तथोक्तमिति । संप्रसारणसंज्ञायां तद्भावितग्रहणं नास्याः संप्रसारणादि- त्युक्तमिति भावः । ज्ञापनार्थमिति । तत्फलं त्वदसोसेरित्यत्रेति भावः । ज्ञापिते तकारस्य चारितार्थ्यं तु दिवो णिचि ततः किप्यूठि धुभ्यामित्यादौ बोध्यम् । ननु विमला अहारत्यत्र चरितार्थस्य दिव उदित्यस्य द्युभ्यामित्यादौ स्वादिप्विति पदत्वं बाधित्वा परत्वादूठि सदतिन्यायेन पदत्वानापत्त्योत्वं न स्यादत आह । धुभ्यामिति । एतेन । ज्ञापकपरतित्स्वरितमिति सूत्रस्थभाष्येण । ननु तपरत्वसाम- झंडल इति दीर्घाभाव एव कल्प्यते न तु भाव्यमानोप्युकार इति कुतो नात आह । दीर्घस्येति । बहिरङ्गतयेति। संज्ञात्रयसापेक्षतयोकारविधानकाले उपस्थि- तत्वेन चेत्यर्थः । अत उदित्यत्र तपरत्वेन कुरुत इत्यादौ त्वनुपस्थितस्यापि गुणस्यागत्या बाध इति भावः । अतएव । बहिरङ्गत्वेन त्रैपादिकत्वेन च दीर्घस्या- सिद्धत्वादेव । दीर्घसिद्धिरिति । तन्मन्ने बहिरङपरिभाषाया अपि वाधेन दी| न स्यादौरवं च स्यादिति भावः । परत्वस्येति । निरूपकतासंबन्धेन षट्संज्ञकचतु - ।
. हलन्ताः पुंलिङाः । शब्दयोः स्थितस्येत्यर्थः । परम्परासंबन्धेनेति । स्ववाचकत्तिसंबन्धेनेत्यर्थः । द्वित्वंयुक्तमिति । समानपदाश्रयणत्वापेक्षयान्तर्भूतवर्णमात्रापेक्षद्वित्वस्यान्तरङ्गत्वात् । तथा च पूर्वद्वित्वे पूर्व नस्य णत्वेपि बहिरङ्गणत्वस्यासिद्धतया परनस्य प्टुत्वाभावेन नस्य श्रवणं युक्तमिति भावः । गश्रवणापत्तिारेति । चत्वस्य जश्त्वापवादत्वं तु न, चवस्य वैयर्थ्याभावात् । चवंशास्त्रैकवाक्यतापन्नपूर्वत्रासिद्धमित्यत्र पूर्वग्रहणेन जश्त्व- शास्त्रस्यापि ग्रहणेन जश्त्त्वशास्त्रे चत्वशास्त्राविषयकरूपसंकोचे मानाभावात् । अत एव ष्णान्तापडिति निर्देशः संगच्छते । अनाचंचेत्यादिद्वित्वविषये त्वपवादस्यासि- -द्धत्वाद्रेफविषयत्वरूपसंकोच इति तदाशय इति दिक् । नदोषइति । शब्दान्तरस्य च प्राप्नुवन्विधिनित्य इति द्वित्वस्य नित्यत्वात्पूर्व कुत्वजश्त्त्वचर्वेषु कृतेषु द्वित्वा- दिति भावः । त्रियकारकत्वार्थमितोति । अत्र यद्वक्तव्यं तत्पूर्वत्रासिद्धमित्यत्रोक्तम् । अनुवादरूपत्वादिति । अनुवादफलं त्वन्तरङ्गपरिभाषाप्राप्तासिद्धत्वस्यापि बाध इति भावः । नामीत्यत्रोक्तमिति । षट्चतुभ्य इत्यस्य गौणपि प्रत्तिरिति हि तत्रोक्तमिति भावः । ननु प्रधानाप्रधानन्यायो यत्रार्थस्य ग्रहणं स्त्रियामित्यादौ न तु यथाकथञ्चिदर्थोपसजनकशब्दग्रहणपि । स्थिदधीत्यादीनां गौणापि प्रतिरुक्ता भाष्य-ऽत आह । यद्वेति । अन्व- र्थसंज्ञेति । षडिवाचरति षडित्याचारविबन्तप्रकृतिककर्तृक्किबन्ता संज्ञा सा च षडर्थसदृशाचरणकर्तृत्वेनेतरपरिच्छेदकत्वमात्र स्वरूपेणार्थनानुगतेत्यर्थः । प्रियप- चाद्रौपदीति । द्रौपदीवाचको यः प्रियपञ्चाशब्दस्तत्रेत्यर्थः । निषेधोदा- हरणं तु प्रियपञ्चानामिति बोध्यम् । नन्वेवं तात्पर्येन्वर्थत्वाभावे न मानमत आह । आकडारसूत्रेभाष्यइति । ननु सर्वनामपर्यायशिदशब्दवत्षट्पर्यायो डुश- ब्दो ऽस्त्वित्यत आह । सर्वनामसज्ञावदिति । नन्वन्वर्थत्वादेव सिद्धे उपसर्जनप्र- तिषेधानारम्भपि न क्षतिरत आह । सर्वनामसञ्ज्ञासूत्रस्थेनेति । नन्ववसानपरकस्यैव पराणन्तस्यानभिधानमस्तु । एवं हि भोभगो इति सूत्रस्थभाष्यस्यैकदेश्युक्तित्व- कल्पनमाप न । एवं चौजसादिपरकयान्तस्याप्युदाहरणं युक्तमित्यभ्युपेत्याप्याह । यान्तास्त्विति । क्विपीति । वस्तुतो लोगोव्योरिति सूत्रभाष्यस्य वकारस्य क्काबु- पसंख्यानमिति तत्सूत्रस्थवार्तिकस्य च प्रत्याख्यानारम्भाभ्यां वयलोपयोग्येभ्यो- ऽनभिधानमिति भावः । ननु ण्यन्तात्विाप विचि णिलोपस्य स्थानिवत्वान्नं यलो- अत एवा- श्रेधा । पप्राप्तिरत आह । णिलोपस्येति । अङ्गानपेक्षत्वेनेति । अङसंबन्ध्यनपेक्षत्वनेति मध्यमपदलोपिसमासः । एवं चाङनिमित्तप्रत्ययानपेक्षत्वेनेत्यर्थः । कैयटइति । अत्रा- रुचिस्तु कादेशविधानसामर्थ्यादेव निर्दिश्यमानपरिभाषाया अकज्विषये ऽप्रवृत्ति- रिति सामान्यत एव ज्ञाप्यते । अन्यथेम इत्येव वदेदिति । ननु पूर्वत्रानुरत्तस्य सोरप्यत्रानुवृत्तिः स्यात्तथा च सौ विभक्तावेवैतस्य प्रवृत्तिः स्यादत आह । सा- विति । साविदमोदस्येति । नन्वककारस्येदम इदो लोपो हलादौ विभक्तावित्यर्थे इत इत्यादाविशाद्यादेशस्य साकच्के चरितार्थस्य परत्वादनन बाधे सकद्धतिन्याये- नेशाद्यादेशो नुसत्तेन स्यादत थाह । आपीति । वर्ततइति । इदानी विभक्तावि- त्यस्या न फलमिति भावः। नन्विदमाचष्टे इद् । ततोभ्याम्यशादेशे आभ्यामिति लोपे इभ्यामिति स्यादत आह । अकइति । ननु यस्मात्परो नास्ति सोऽन्त्य इत्यका- रस्यान्यत्वे ऽर्थसहितस्यान्यपदार्थत्त्वे चेष्टसिद्धाविदं व्यर्थमत आह । आदि- रिति । ननूडिदमित्यादिना विभक्तरुदात्तत्वे शेषनिघातेनेदमो ऽनुदात्तत्वे सिद्धे ऽनुदात्त इति व्यर्थमत आह । अनुदात्तत्वंत्विति । अन्यार्थतापत्तरिति । मोराजी- तिवदेभिरित्यादौ विकाराभावार्थतापत्तरित्यर्थः । परत्वादुपधादी? हल्ङ्यादिलोप- -स्ततो नलोप इति मूलस्य ततोदीर्घानन्तरन्नलोपो हल्ङ्यादिलोपो यः प्राप्तस्सलोप- स्सकद्दतिन्यायान्नेति भ्रमवारणाय नलोप इत्यस्यार्थमाह । नकारेति । नलोप इति षष्ठीसमासो न तु निषेधार्थो नञ् । तत इत्यस्य पुनः प्रसङ्गविज्ञानाद्धल्ङयादिलो- पानन्तरमित्यर्थ इति भावः । न ङिसंबुद्ध्योः । अधिचर्मेत्यादौ त्विदं न प्रवर्तते प्र- त्यासत्त्या डिनिमित्तकपदत्ववत्प्रातिपदिकान्तं यच्छब्दस्वरूपं तदन्तस्य नस्य डौ परतो लोपो नेत्यर्थात्तद्ध्वनयन् वक्ष्यति । एतल्लन्धमेवेति । अन्यत्रासंभवः । चर्म- तिलादौ च डावुत्तरपदे इति निषेध इत्येतल्लब्धमेवेत्यर्थः । सर्वविभक्तयन्तावयव- कइति । सर्वविभक्तयन्तार्थवाचकषष्ठयन्तावयवक इत्यर्थः । एकदेशे ऽन्वयासंभवादा- ह । सामर्थ्यादिति । तुकएवेति । अन्यत्रासंभवादिति भावः। ग्रहणमिति । स्वरसा- हुचर्यादिति भावः । ननु विधिनियमसंभवे लाघवाद्विधेरेव ज्यायस्त्वेन साहचर्यस्य सर्वत्रानाश्रयणेन च दण्डिष्वित्यादौ नलोपस्यासिद्धत्वं स्यादेवेत्यत आह । वैरू प्या- पत्तरिति । नलोपस्सुबिति सूत्रे पूर्वक्रासिद्धमित्यस्य संबन्धेन स्वरादिषु पूर्वत्रेत्यस्य संबन्धः सुविधिविषये ऽसंबन्ध इत्येव वैरूप्यापत्तेरित्यर्थः। सूत्रार्थादिति । सञ्ज्ञायां हलन्ताः पुंलिङ्गाः। ६५ दत्तदण्डिनौ दण्डिदत्ताविति भाष्ये उदाहृतत्वेनैतादशसूत्रार्थादित्यर्थः । एताह- शार्थस्य फलं तु सुद्युबटावित्यादि बोध्यम् । सञ्ज्ञाकृतमिति । अतिस्त्रये इत्यर्थे इयङपेक्षया घेडितीति गुणस्येत्यर्थः । बहिर्भूतसञ्जानिमित्तकृतश्चेति । क्रोष्ट्री- त्यादौ ङोबपेक्षया तृज्वत्त्वस्य बहिर्भूतसुम्निमित्तकाङसञ्ज्ञातं चेत्यर्थः । इदम् । तुग्ग्रहणम् । तदभावे । तुगभावे । ननु पदस्येत्यस्याप्यत्र संबन्धेन हलि परे रेफ- वान्तस्य धातोरुपधा य इक्तदन्तस्य पदस्य दीर्घो भवतीत्यर्थे दधिशब्दपूर्वकरैश- ब्दाद्विशब्दाच्च णिचि टिलोपे ण्यन्तादचोयति दधीर्यो दधीव्य इत्यादावेव स्यान्न तु प्रतिदीनो गीयते इत्यादावत आह । पदस्येतीति । अत एव नभेति निषेधो न न पदान्तसूत्रे प्रतिदीन इति भाष्योदाहरणं च सङ्गच्छते । हननीयतेरिति । हननप्रकृतिकक्यजन्ताद्धनधातुप्रकृतिकाचारक्किबन्ताद्वेत्यर्थः । ननु नकारे परे कुवं विधीयमानमव्यवहितनकारासंभवाद्येन नाव्यवधानन्यायेन हननमित्यादा- वपि स्यादत आह । नत्वितीत्यारभ्य स्पष्टं भाष्ये इत्यन्तेन । असञ्जातविरोध- न्यायेन परिभाषासहकारेण वाक्यार्थे वृत्ते लक्ष्यसंस्कारवेलायामव्यवधानासंभवेन सामर्थ्यात्स्थानिवत्त्वस्याप्रवृत्तिरिति तदाशयः । कुव्यवायेहादेशेष्विति । हादेशेषु सत्सु कवर्गव्यवाये इत्यर्थे प्रत्यासत्या हकारस्थानिककवर्गव्यवाये इत्यर्थः । त्रु- नइति । त्रुचा हन्यते यत्रोत घञर्थे कविधानमिति कः । अञ्चधातोरिति । नत्वच अचीत्यस्य, नाप्यच्प्रत्याहारस्येत्यर्थः । व्याख्यानादिति । ऋत्विक्सूत्रे ऽञ्चेरेव प्रसिद्धत्वान्नपुंसकस्येति पुनरग्रहणाच्चेत्यर्थः । अकारलोपाकरणपूर्वकेति । अकारलोपकरणे ह्यकारलोपकरणवन्नकारलोपस्याप्यीववक्षा स्यादिति भावः । व्या- ख्यानादिति । झल्ग्रहणापकर्षणादञ्चेः साहचर्यादेत्यर्थः । नियतविषयाइति । घृधात्वादिवदिति भावः । ननु मघवा बहुलमित्यत्राङ्गाधिकारान्मघवतीत्यत्र पुंयो- गेन स्त्रियां वृत्तौ नान्तलक्षणे डीप ततस्त्रादेशेन नान्तत्वरूपनिमित्तस्य विना- शादकृतव्यूहा इति परिभाषया नान्तलक्षणो ङीबेव न स्यादत आह । उगितश्चे तीति । एवं पूर्व सुपि पञ्चभिः क्रोष्ट्रीभिरिति तृज्वत्सूत्रस्थभाष्यप्रयोगादस- ज्ञामात्राश्रयविधौ संनिपातपरिभाषाया अप्रत्तेस्त्रादेशोत्तरमुगितश्चेति डीबिति भावः । इदं प्राचामनुरोधेन । वस्तुतो ऽकृतव्यूहपरिभाषाया भाष्यानुक्तत्वादभावेन नान्तलक्षणे डोपि वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तमिति संनिपातपरि- अधर्या । भाषाया भाप्ये ऽनित्यत्वेषु परिगणनाच्चादेश इति तत्त्वम् । न केवलः स्वरकतो विशेषः किं त्वन्यकृतोपीति तदेवाह । किञ्चेति । यण्प्रसङइति । मघोन इत्यत्र त्रादेशस्याप्युपलक्षणमिदम् । इत्यादिनिर्देशैरिति । आदिना यूनस्तिः श्वयुवम- घोनामित्यनयोर्ग्रहणम् । इङ्गितेन अभिप्रायसूचकशरीरभवव्यापारेण रोमाञ्चेन निमिषितेन अक्षिव्यापारेण चेष्टितेन कायपरिस्पन्देन । प्रथमैकवचनमिति । एतदाप वाजमर्वस्विति प्रयोगादेव ज्ञाप्यत इति भावः । व्यावर्त्यइत्यर्थइति । एवं च प्रत्युदाहरणं त्वनर्वाणावित्यादिबोध्यम् । एतेनानति व्यङ्गविकलमि- सपास्तम् । ननु प्रश्लेषत्य सर्वाकारविधानेन चारितार्थ्यान्न तेनानुकरणं भवि- प्यतीत्यत आह । भाष्येत्विति । अष्टन आ इति सूत्रस्थे भाष्ये वित्यर्थः । कचित्त्विति । कैयटादय इत्यर्थः । इदंसर्वमिति । अकारप्रश्लेषनिरनुनासिका- कारोच्चारणसामर्थ्याभ्यां वारणमित्यर्थः । तत्प्राप्तस्यापीति । जात्यभेदकत्वप्राप्तस्या- पीत्यर्थः । अपिना त्यदादीनामित्यादावणुदित्सूत्रप्राप्तस्य संग्रहः । अतएव । अप्रत्ययग्रहणेन जात्यभेदकत्वयोनिषेधादेव । प्राप्नोतीति । तपरसूत्रस्य नाप- त्यय इत्यनेन निषेधस्तपरसूत्रस्य परत्वात्तेनैव निषेधस्य बाधसंभवात् । गुणाभे- दका इत्यस्य तु अजुदित्येव सिद्धे ऽण्ग्रहणादेकदेशानुवादादिति भावः । नन्वणुदित्सूत्रसंबद्धमप्रत्ययग्रहणं कथं सर्वनिषेधकमत आह । अप्रत्ययइतिच वाक्यभेदेनेति । सर्वेति । अणुदित्सूत्रजात्यभेदकत्वप्राप्तसर्वेत्यर्थः । तत्र । निषेधे । अतएन । निषेधे ण्ग्रहणसंबन्धादेव । तेन । अण्ग्रहणासंबन्धेन । तस्याः। परिभाषायाः। व्यापकत्वम् । सर्वनिषेधकत्वरूपम् । मदुक्तरीत्याव्याख्यानं चेति । प्रतीयते विधीयते इति व्याख्यानं चेत्यर्थः । सिद्धान्तमाह । वस्तुतइति । ततः । इतोपिअस्मात् । लाघवाभावादिति । फलाभावेन तपरसूत्राप्रवृत्त्योकारादिमात्रस्य शक्तयभावात्प्रक्रियाकृतस्य नपुंसके नुममोः प्रवृत्त्या प्रमाणकृतस्य च लाघवस्या- भावादित्यर्थः । अन्यथा । अन्यतरकृते तपरकरणाभावे लायवे । कुरुतइत्यादाविति । अत उत्सार्वधातुके इत्यत्रोदिति तपरत्वाभावे नपुंसकत्वात्सो कार्धमात्रालाघवेनो- च्चारणे कर्तव्ये तपरत्वसामर्थ्याद् गुणाभावस्तत्रेति भावः । उपधाग्रहणमिति । नन्वनन्त्यविकारे ऽन्त्यसदेशस्येति परिभाषया यकाराकारस्य दीर्घो न भविष्यती- त्युपधाग्रहणं व्यर्थमिति चेन्न । तदनित्यत्वस्याप्यनेन ज्ञापनात् । तेन तदोः सः हलन्ताः पुंलिङ्गाः । सौ, धात्वादेः षः सः, णो न इत्यादौ न तत्परिभाषायाः प्रवृत्तिरिति भावः । संनिपातपरिभाषाविरोधइति । पञ्चानामिति लिङ्गात्संनिपातलक्षणो विधिस्तद्वि- घातस्य साक्षादेवानिमित्तं न परम्परया ऽनिमित्तमित्यर्थः । नन्वेवं कृन्मेजन्त इति सूत्रस्थकुम्भकारभ्य इत्यादौ संनिपातपरिभाषायाः प्रवृत्तिपरभाष्यस्य विरोध इति चेन्न । भाष्यप्रामाण्येन संनिपातलक्षणविधेः संनिपातजन्यस्य संनिपातजन्य- जन्यस्य वा ग्रहणेपि संनिपातजन्यजन्यजन्यग्रहणे मानाभावादिति भावः । नानुना- सिकइति । अणुदित्सूत्रेणेति भावः। अन्यत्रापीति । पथिमथीत्यत्रापीत्यर्थः । असिद्धयापत्तरिति । ननु प्रक्रियालाघवाय उशियेव वक्तव्ये उविधानसामा-- दन्तरङपरिभाषाया अप्रवृत्तौ नित्यत्वात्पूर्वं गुणे ततो वृद्धौ रूपसिद्धिरिति चेन्न । एवमाप शसि आतो धातोरित्यत्रात इति योगविभागेनाकारलोपे ऽष्टावित्याद्य- सिद्ध्यापत्तेः । लाघवादिति । मात्रिकाकारोच्चारणेनः प्रकृतिवदनुकरणं भवतीत्य- तिदेशानाश्रयणेन चेति भावः । पर्यायशब्देषु लाघवगौरवचर्चा नायित इति वैकल्पिकेष्वपि भावानुष्ठानस्यौचित्यं क्लेशाधिक्याद्धर्माधिक्यायेति चार्थबोधनाय यत्र प्रयोगः प्रक्रियाभावश्च तदिषयकमिति तत्त्वम् । ननु पूर्वत्रेत्यस्य वाचिंका- दिसिध्यर्थं विषयसप्तमीत्वावश्यकत्वेनेदमसंगतमतः आह । संनिपातस्येति । ननु संनिपातपरिभाषाया ङिति हखश्च वामीति सूत्रद्वयकरणेनः ज्ञापितत्वान्नुडेक- वाक्यतापन्नत्वाच्च सपादसप्ताध्यायीस्थत्वात्परिभाषादृष्टयैव नलोपस्यासिद्धत्वमत आह । आरोपितासिद्धत्वेपीति । परिभाषायाअनित्यत्वेनेति । पञ्चानामिति नि- र्देशान्नुड्विषये परिभाषाया अनित्यत्वेनेत्यर्थः । तदनित्यत्वेन । शमामष्टानामिति निर्देशात्तदनित्यत्वेन । नन्वात्वे तदनित्यत्वस्य भाष्योक्ता ऽनित्यत्वपरिगणने ऽभावादात्वं तदनित्यत्वे न युक्तं किं तु नोपधाया इति दोघे नलोप एव युक्तः । नलोपे तु सा प्रवर्तते षट्त्वत्य संनिपातजन्यत्वे नुट: संनिपातजन्यजन्यत्वेपि न तयोः साक्षात्संनिपातनाशकनलोपे निमित्तत्वम् । पदत्वस्य नलोपे साक्षानिमित्त- वेपि तस्य संनिपातजन्यत्वं सन्निपातजन्यजन्यानन्तर्भावादत आह । किञ्चेति । नलोपोवेति । इवार्थे वाशब्दो नलोप इवेत्यर्थः । स्थानिवद्भावेनेति । स्थानिस- दृशो लौकिकनैकदेशविकतन्यायेन तत्स्थानापन्न इति. न्यायेन वा भावस्तेनेत्यर्थः । स्थानिवत्सूत्रस्य वंशास्त्रीयकार्यत्वान्न प्राप्तिरिति भावः । नन्वकारान्तस्य. षड्त्वे अधों . हलीत्यस्यापकर्ष एव मास्तु कते आत्वे ऽन्तरङ्गत्वाज्जातस्य षट्त्वस्य स्थानिवद्भावे- नाकारान्ते आश्रयणेन लुटि सिद्धरत आह । कार्यकालपक्षे इति । बहिरङ्गतयेति । प्रतिपदोक्तत्वापेक्षयेत्यर्थः । आत्वेकतइति । शीघ्रोपस्थिकत्वेन प्रतिपदोक्तत्वरू- पान्तरङ्गवेनेत्यादिः । अकारान्तस्यषट्सञ्ज्ञाश्रयणेइति । भौतपूर्विकनान्तसंख्या- वाचककत्वमादायेत्यर्थः । पूर्वषट्त्वेइति । भविष्यति किं चिदनेन प्रयोजनमित्य- भिसंधिमात्रेणेत्यर्थः । समाहितमिति । भाष्ये इति शेषः । व्याख्यानान्तरमुक्त- मिति । कैयट इति शेषः । विनिक्तिपिचेति । चो भिन्नक्रमः सोपपदे किनि विपि विशेषाभावे चेत्यर्थः ।, लाघवान्निरुपपदे एव किन्विधीयत इति भावः । गुणप्रतिषेधाद्यर्थइति । आदिना यजेः प्रसंसारणस्य प्राचा इत्यादौ नलोपस्य च संग्रहः । सञ्ज्ञाभावाइति । तेन कर्तृकरणे इति णिजन्तादिभिः समासो न यगा- दिष्वकत्सार्वेति दीर्घसिद्धिश्च भवतीति भावः । ननु रुरुदिवेत्यत्र क्रादिनियमेन न दोषो ऽत आह । आदाविति । आदिना रुरुदिव इत्यादेः संग्रहः । चस्यकु- स्वापत्तिरिति । निर्देश्यमानपरिभाषया विवादिषु सावकाशं वेरप्टक्तस्येति लोपं विशेषविहितत्वाद्वाधित्वेत्यर्थः । यइत्येवेति । एवं च कुग्रहणसामर्थ्यान्निर्दिश्यमा- नपरिभाषाया अप्रवृत्त्या क्विन इत्यस्यासिद्धत्वेन च न कुत्वेन वलोपबाध इति भावः । व्याख्यानात् । प्रतिपदोक्तत्वरूपात् । कुत्वंनेति । तादृशभाष्यप्रयो- गादव्ययपूर्वपदभिन्नस्य कुत्वं नेत्यर्थः । मते इति । मतान्तरे तु परौ बजेः कि- प्दी! षस्तु पदान्त इति पाव्यमिति बोध्यम् । व्याख्यानादिति । श्रुतानुमित- योरिति परिभाषणादसान्निध्यादेत्यर्थः । षेणैवेति । श्रुतत्वात्सान्निध्याद्वेत्यर्थः । झलःपरयोरिति । झलः परयोझलि पदान्ते च संयोगाद्योः स्कोरित्यर्थः । अत्रार्थे सूत्रोदाहरणं तु ऋमिस्त्रिव्योः क्विवन्तयो स्तच्छब्दोपपदयोः समासे ततो णिचि टिलोपे विपि णिलो। सुपि तत्तच् इत्यत्र पदान्ते संयोगस्य सत्त्वात्तत्तत्स्श- ब्दादाचारक्विबन्तात् क्तिचि ततिः तत्तिरित्यत्र झल्परसंयोगस्य सत्त्वात्स्को- रिति लोपे तन्तिस्तन्तिरिति चेति । यदितु यणः प्रतिषेध इति पकवाक्यतया ऽत्र पक्षे एतादृशानामनभिधानमेव ने त्युच्यते तर्हि तदुपपदाभ्यां क्षमिस्कमिभ्यां किवादिषु पूर्वोक्तप्रकरणसिद्धन्तत्र तत्क् इति ततःक्तिरिति चेति बोध्यम् । पदान्ते संयोगान्तलोपस्त्वेतदारम्भान्नेति भावः । नार्थइति । तथा सति भृडित्यादौ - हलन्ताः पुंलिङ्गाः । ६९ भ्रष्टेत्यादौ च लोपो न स्यात् तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तम् रगित्यादिसि- ध्यर्थं तस्य दोष इति स्थानिवत्त्वारम्भे पूर्वोक्तोदाहणयोः स्थानिवत्त्वादेतदप्राप्त्या संयोगान्तलोप एव पदान्ते झलि परतस्त्वजव्यवहितस्य हल्समुदायस्य शास्त्रबो- धितस्यासाधुत्वबोधनात्सुट् तिथोरित्यत्रेकारोच्चारणेनेत्यप्रयोग एवेति बोध्यम् । ननु भूयास्ताभित्यादौ प्रत्ययस्य सङोभावादेकस्यं सस्य लोपानापत्तिरिति चेदिष्टाप- त्तिरित्याह । भूयास्तामित्यादाविति । व्यञ्जनपरस्येतिन्यायेनेति । व्यञ्जनं परं यस्य तस्य व्यञ्जनात्परस्य नाव्यञ्जनस्य सजातीयस्यैकस्यानेकस्य वोच्चारणे विशे- षाभाव इति न्यायेनेत्यर्थः । ननु झलादौ प्रत्यये इत्यस्य सङीति वार्तिकस्य च प्रत्याख्याने घनाघनः क्षोभण इत्यादौ लोपापत्तिरत आह । प्रत्याख्यानमिति । विधानसामर्थ्यादिति । क्विन्विधानसामर्थ्यादित्यर्थः । नस्याप्यापत्तरिति । तस्य निर्दिश्यमानावयवत्वादित्यर्थः । ननु तस्मान्नुडचीत्यत्र तस्य नुगचीत्येवास्तु तस्य लुप्तनकारस्य नो नुगजादौ उत्तरपदे इत्यर्थः । न च नलोपापत्तिर्नुको बहिरङ- तयासिद्धत्वाद्विधानसामर्थ्याच्चेत्यर्थः । एवं चात्र तोरिति न्यासे अनेष इत्यादौ न दोष इति चेन्न । अनेष इत्यादौ ङमुडापत्तेः । न च संनिपातपरिभाषया ङमुडभावः । यदागमपरिभाषया शास्त्रीयस्याप्यतिदेशादजाद्युत्तरपदानन्तर्यरूपसं- निपातस्य सत्त्वात् । अत एव साम आकमिति ससुटकनिर्देशः सङ्गच्छते । न ओ ऽनस्तमाचष्टे इति णिजन्ताक्विपि णिटिलोपे, अन् मित्रं यस्य अमित्र इत्यादौ नो जरमरेति खरापत्तेश्चेति दिक् । भाष्येध्वनितमिति । तत्र हि तदो- रिति सूत्रे तवर्गनिर्देशे एतत्प्रयोजनमिह माभूदनेषकः करोतीत्युक्तम् । नन्वका- रस्य विवक्षितत्वे ऽतो गुण इत्येकस्यैव शास्त्रस्य प्रवृत्तिः । अविवक्षितत्वे इत्स- ज्ञालोपविधायकशास्त्रद्वयस्येत्युच्चारणार्थत्वे एव गौरवमत आह । इत्सझालोपयो- रिति । न प्रयोगस्य साधकत्वेगौरवमिति । अनन्तप्रयोगेषु परस्परप्रवृत्तिकल्पनापेक्ष- या सूत्रे शास्त्रद्वयप्रवृत्तौ न गौरवमित्यर्थः । किं तु ततो लाघवमेवेति भावः । ननु णिजन्तात् क्विपि युष्म् अस्म् इति प्रातिपदिकयोस्त्वादेशे ऽकारोच्चारणस्य क्वचि- द्विभक्तयुदात्ता) क्वचिच्छूवणार्थत्वं चेति कथमुच्चारणार्थत्वमत आह। णिजन्तात्वि- पीति । व्याख्यानात् । भाष्यप्रामाण्यरूपात्तदाह । भाष्यप्रामाण्याच्चेति । चो हेतौ। युष्मदस्मदोरेव विशेषणमिति । श्रुतानुमितयोरिति परिभाषयेति भावः । अन्तरङ्ग- ।
अँधयाँ स्वादिति । अकच्याप सुबन्तस्य प्रकृतविषये उद्देश्यत्वेन स्वार्थे परिपूर्णमिति न्या- येन युवाद्यादेशात्पूर्व कुत्सादिविवक्षाया अभावेन चादेशानामन्तरङ्गत्वादित्यर्थः । ननूक्तरीत्या ऽकचो बहिरङ्गत्वेनात्राप्यादेशोत्तरमेव प्रवृत्त्या न दोष इत्याशयेनाह। हलन्ताएवादेशाइतिपक्षेत्विति । भाष्योक्तरिति । आदिरन्त्येनेत्यत्रेत्यर्थः । अतएव । यदागमपरिभाषया संनिपातविघाताभावादेव । अतएव । मकारान्तरप्रश्लेषाभावादेव अतएव । संनिपातपरिभाषया पुसि श्यप्राप्तेरेव । तस्या असंबन्धिकार्यविषय- त्वादिति । तस्याः परिभाषायाः पुनःप्रसङसंबन्धिकार्याविषयत्वादित्यर्थः । अतएक ज्यादादीयस इति सूत्रस्थज्ञापकपरभाष्यप्रामाण्येन न विरोधस्तदाह । सूत्रभाष्य- स्वरसोपीति । ज्ञापकसाजात्यात्तादृशविषय एव तत्र तत्र भाष्ये संचाराच्चेत्यर्थः । त्वमावेकवचने । प्रत्ययोत्तरपदयोस्त्वमावेकवचने इत्येकेन सूत्रेणैव सिद्धे योगविभागो व्यर्थ इति न वाच्यम् । एकसूत्रत्वे उत्तरपदसाहचर्येण प्रत्ययस्यापि वृत्ति घटकस्यैव ग्रहणापत्त्या विभक्तावादेशानापत्तेः । व्याख्यानादिति । भाष्ये ऽमादेशनिषेधकमिदं कुतो नेति शङ्काकरणरूपादित्यर्थः । अत्रयद्वक्तव्यंतदुक्त- मिति । अभ्यमित्येवेत्यारभ्य संगच्छते इत्यन्तेनति भावः । सामःस्थानित्वोक्तयेति । आमि सान्त्वारोपेणेत्यर्थः । सामत्वमेवेति । सकारोच्चारणसामादित्यर्थः । अत एव । गौणमुख्यासाधारण्येनामि साम्त्वारोपेणसामःस्थानित्वेनोक्तत्वादेव । ननु सुटः प्राधान्ये एव प्रवृत्त्या गौणे आरोपे न मानमत आह । प्रत्ययोत्तरपदयो- रितीति । आम्त्वाभावाच्चेति । सकारोच्चारणसामर्थ्येन स्थानिवद्भावेनापि आम्त्वा- भावादित्यर्थः । तत्रैवायमिति । तत्र वाम साम्त्वारोपेणाकमित्यर्थः । सामइति । सामितिशब्दरूपस्येत्यर्थः । सर्वथादुरुपपादत्वादिति । भाविसाम्त्वस्य शास्त्रीय- कार्यत्वाभावेन स्थानिवत्त्वरूपातिदेशालभ्यत्वात्सर्वप्रकारेण दुरुपपादत्वादित्यर्थः । ननु सामर्थ्येन शास्त्रीयस्याप्यतिदेशेन भाविसाम्त्वस्य संभवो ऽत आह । भाष्यवि- रुद्धकल्पनेति । प्रत्ययोत्तरपदयोरितिसूत्रस्थभाष्यविरुद्धकल्पनेत्यर्थः । ननु होढ इत्यत्र वाक्यभेदायान्ते पदानुवृत्तेरवयवषष्ठयवेत्यत आह । आदाविति । आदिना मो नो धातोरित्यादेः संग्रहः । अन्यथेति । स्थानषष्ठयङ्गीकारेत्यर्थः । नस्यादिति । मत्वन्तपदस्य स्थाने मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च परस्य निर्दिश्यमानस्य वो भवतीत्यर्थे वृक्षवन्तावित्यादौ न स्यात् । वृक्षवानित्यादावेव स्यादिति भावः । ।
हलन्ताः पुंलिङ्गा । अतएव । पदस्येत्यस्य क्वचिद्वैयधिकरण्यस्वीकारादेव । भाष्येइति । एतेनान्तग्रहण- सामर्थ्यान्मुख्यप्रातिपदिकान्ते एव नलोपप्रवृत्तिर्न तु व्यपदेशिवद्भावलब्धान्ते । अत एव द्रः संख्याया इति निर्देशसंगतिरित्यपास्तम् । ननु सर्वग्रहणं किमर्थमि- त्याङ्काक्षायामाह । सर्वग्रहणंत्विति । नन्वपदादाविति पर्युदासेन पदादिभिन्नस्य पदघटकस्यैव ग्रहणं स्यान्न तु वाक्यस्यापीत्यत आह । अपदादिशब्देनेति । छन्दोहीनेति । जगत्यादिच्छन्दोहीनेत्यर्थः। ननु संधौ सत्यक्तपरिमाणे एकदेशविक- तन्यायाभावान्न तेन न्यायेनास्मच्छब्दत्वमत. आह । आदेशेसतीति । अन्ये इति । भाष्यतत्त्वविद इत्यर्थः । परेइति । केचिदित्यर्थः । अत्रारुचिबीजं तु व्यपवर्गाभावा- नोभयत आश्रयणप्रवृत्तिरिति । इत्यर्थकमिति । इति प्रयोजनकमित्यर्थः । इत्येत- न्मात्रस्यनवाक्यत्वमिति । एवं च देवदत्तः पचतीत्यस्य कर्मधारयत्वे वाक्यत्वे न स्यादेकग्रहणवैयर्थ्य च स्यादिति भावः । तत्प्रवृत्तेरिति । युष्मदस्मदोः षष्ठीति सूत्रे स्थग्रहणादत्र पदाधिकारानेकार्थीभावकल्पनेति भावः । स्वार्थइति । चार्थ- समुच्चयाश्रयहारहरान्वयिस्वामित्वान्वयित्वादीत्यर्थः । नन्वनालोचन इति पर्यु- दासेन बहिरिन्द्रियजन्यज्ञानार्थकधातुयोगे एवेदं सूत्रं प्रवर्तत इति चेत्तस्येत्ययुक्त- मित्यत आह । अनालोचनारित्येवेति । अत एव । युक्तग्रहणाभावेपि साक्षात्सं- बन्ध एव प्रवर्तमानादेव । ननु प्रातिपदिकार्थेति सूत्रेण प्रथमायां कर्तव्यायां प्रातिपदिकोक्तत्वस्य व्यावर्तकत्वेपि संबोधनेचेत्येतत्प्रवृत्ती व्यावर्तकत्वं स्यादेवेत्यत आह । तिङिति । ननु भो इत्यस्य विभाषाभवदिति सिद्धभो इत्यनेनार्थतः प्रतिरूपकत्वान्निपाताङ्गीकारस्य भाष्ये कृतत्वान्न संबोधनद्योतकत्वं किं तु वाचकत्वमत आह । देवदत्तस्यैवेति । नन्वनन्तरस्येति न्यायेनाष्टमिकसूत्रेण विहि- तकार्ये एवाविद्यमानवत्त्वप्रवृत्या षष्ठ्याद्युदात्तो भविष्यत्येव पूर्वग्रहणाभावपीति शङ्कते । पूर्वकिमिति । आमन्त्रितस्वरइति । आमन्त्रितनिघात इत्यर्थः । नामन्त्रिते समानाधिकरणे सामान्यवचनम् । समानाधिकरणेकिम् । देवदत्त भोः । नन्वत्रभो इत्यस्य विशेषणत्वादेवदत्तेत्यस्य विशेष्यत्वात्सामानाधिकरण्यमस्त्ये- वेति चेन्न । समानाधिकरणग्रहणसामर्थ्यादसमानार्थकत्वरूपसामानाधिकरण्यस्य विवक्षितत्वात् । अत्र तु भो इत्यस्य लिङ्गवाचकत्वाभावाद्देवदत्तेत्यस्य पुंस्त्ववाच- कत्वादन्त्यन्तसामानाधिकरण्याभावान्निषेधाप्राप्त्या देवदत्तेत्यस्याविद्यमानत्वं भव- ७२ धर्या त्येव । देवकरोषी ते । करोषीत्यस्य ण्वुलर्थोपदर्शकत्वेन लिङ्गादिविशिष्टविशेषणा- र्थकत्वादिति वदन्ति । अनन्त्यविकारेति परिभाषयेति भावः । अञ्चतेरिति । न स्वच्प्रत्याहारस्य नाच गतावित्यस्य नाच्प्रत्ययस्येत्यर्थः । व्याख्यानादिति । थुप्राग- पागुदप्रतीचो यदिति निर्देशादित्यर्थः । नेदंवर्गग्रहणव्याख्यानादिति । चजोरिति निर्देशादिति भावः । अनभिधानमिति । हल. इति सूत्रस्थभाष्यप्रामाण्यादित्यर्थः । तदेतत्कैयटेन स्पष्टीकतं तदाह । एवं चेत्यारभ्याकरे स्पष्टमित्यन्तन । सएव । विवादिरेव । अन्यथा । यथाश्रुतार्थाङीकारे । नन्वपूर्वपरिभाषास्वीकारे गौरवमत आह । किंचेति । ननु भत्त्वेनानवकाशत्वादेव पदत्वस्य बाधोस्त्वित्यत आह । राज्ञइत्यादाविति । बाधायोगादितिः । नलोपैकवाक्यतापन्नभसंज्ञासूत्रदृष्टया ऽसि- द्धत्वेनेति भावः । ननु कार्यकालपक्षोपे परिभाषाशास्त्रवत्संज्ञाशास्त्रस्यापि स्वदेश- त्यागायोगस्य युक्तिसिद्धत्वम् । अदसामादिति सूत्रस्थमायादिभ्यः परैव प्रगृह्य- संज्ञेति भाष्यस्य त्वयमर्थः । परैव प्रगृह्यसंज्ञा उत्कृष्टैव प्रगृह्यसंज्ञेति । अन्यथा प्रगृह्यसंज्ञाया अन्तरङ्गत्वादप्रगृह्यादस इत्येव सिद्वे संज्ञाविधानसामर्थनापवादत्वा- त्तत्प्रयुक्त कार्यस्यापवादत्वाच्चायादीनो बहिरङ्गत्वात्सावकाशत्वाच्च विप्रतिषेधाप्राप्त्या तदसंगातः स्पष्टैव । एवं च. कार्यकालपक्षेपि यादिस्वादिपरो योनित्यर्थस्य लाभेन परिभाषानारम्भेण च लाघवमत आह । यनादिप्रत्ययस्येति । वेत्यनेन कार्यकालपक्षेपि संज्ञाशास्त्रस्य वाक्यैकवाक्यतया विधिनान्वयाद्यचीत्यादेरावृत्त्यैव तदविधावन्वयेन गौरवादमुमुयङित्यादि सिध्यर्थं परिभाषाया आवश्यकत्वाच्चेत्यपि बोध्यम् । अतएव । परिभाषानारम्भे गौरवादारम्भस्यावश्यकत्वाच्चैव । सर्वफला- नामिति । अदमुयङित्यादिव्यतिरिक्तसर्वफलानामित्यर्थः । तस्मात् । अदमुयङि- त्यादेरसिद्धत्वेनचारम्भगौरवाच्च । यानीति । अन्यथासिद्धानि ष्यङ इत्यत्रो- तानि । अन्यथासिद्धानि । अदमुयडित्यादीनि चेत्यर्थः । अतएव । अन्त्यसदेश- स्यान्येन व्यवधानादेव । तत्र मानमाह । सूत्रसार्थक्यमिति । ननु परिभाषास्त्री- कारेण न संप्रप्तारणे इति सूत्रस्थभाष्यविरोधोत आह । नैतस्याइति । अत्ववि- षयेइति । अकारस्याकारस्य च. विषय इत्यर्थः । अतएव । अदमुयङित्यस्य न्या- ययुक्तत्वादेव । तत्रासम्मतिरिति । अयशब्दे ऽसंमतिरित्यर्थः । इत्युक्तया चतत्रशब्देऽप्रयुक्तत्वमिति । चो भिन्नक्रमः । इत्युक्तया तत्र शब्दे ऽदयः हलन्ताः पुंलिङ्गाः । अमुमुयशब्दे ऽप्रयुक्तत्वं च सूचितमित्यर्थः । परिभाषाज्ञानरुतगौरवापत्तेरिति । साकचः सामः आदेशार्थं साम्ग्रहणं तु न समो द्योतकत्वेन कुत्साविशिष्टवाच- कत्वाभावेनाकच एवाप्राप्तेरिति भावः । अस्यालोपइति । अस्य लोपो ऽलोपो ना- लोपो यस्मिन्निति न विग्रहो नुडापत्तेरिति भावः । अलुप्ताकारेतीति । तेन नलो- पेप्यदोष इति भावः । तन्निषेधादिति । नपदान्तेति पूर्वत्रासिद्धेनेति वा तन्निषे- धादित्यर्थः । यद्यपि वेतस्थानित्यत्र न पदान्तेति निषेधवारणाय पदे ऽन्त इति समासाश्रयणपरभाष्यप्रामाण्येन पूर्ववेत्यत्र पूर्वत्रासिद्धशब्देन पदचरमावयवविधा- यकातिरिक्तस्यैव ग्रहणं प्रतीयते तथापि शमशब्दाद्घान्ताणिचि क्विप्यनुना- सिकस्येति दीर्चे शानित्यत्र मो नो धातोरिति नादेशसिद्धये वार्तिके लोपनिमित्त- तद्धितपरकपदचरमावयवविधायकातिरिक्तस्यैव पूर्वत्रासिद्धस्य ग्रहणेनात्र वार्तिकस्या- प्रत्तिारेति भावः । स्पष्टमिति । एतेनाञ्चु गतौ च पूजायामित्येव सिद्धे ना ञ्चेः पूजायामञ्चेः पूजायामिति सूत्रद्वयं व्यर्थमित्यपास्तम् । ननु प्राच इत्यादौ पूजासत्त्वान्न लोपो न स्यादित्यत आह । प्राचइत्यादीति । रूढस्येति । एवं च पूजायां गम्यमानत्वाभावान्नलोपसिद्धिरिति भावः । एतेनेति । प्राच इत्यादौ नलोपासंपादनेनेति भावः । ओपधवेति । तत्कलं तु क्रुच्यादित्यादौ अश्रवणं नलोपाभावस्तु किन्संनियोगेनैव स्यादिति भावः । भाष्येइति । तत्र हि क्रुञ्चे- त्यत्र चोः कुरिति कुत्वमाशङ्क्य ऋत्विगादिसूत्रे क्रुञ्चामिति निपातनान्नेति समाहितम् । तेन जोपधत्वं स्पष्टमिति भावः । ननु जोपधत्वस्वीकारे कुत्वस्य नकारजावित्यभियुक्तवचनस्य चाभावकल्पने गौरवान्न लोपाभावनिपातने तु तन्मा- त्रस्याभावकल्पने लाघवमत आह । सङीतिवचनादिति । पयःस्थितिरित्यादौ झलो झलीत्यादेनिवृत्त्यर्थं तत्र वार्तिकादत्रानुवर्तमानादित्यर्थः । एवं च तवैव सा- क्षाच्छास्त्रबाधकल्पने गौरवं क्रुञ्चादित्यादिलक्ष्यासिद्धेश्चेति भावः । अल्लोपक- रणपूर्वकमिति । अल्लोपकरणे ह्यल्लोपवन्नलोपस्याप्यविवक्षा स्यादिति भावः । नस्थानिवदिति । दीर्घविधौ न स्थानिवदित्यर्थः । विलुप्तत्वादिति । न पदान्तेति सूत्रस्थदीर्वग्रहणप्रत्याख्यानवादिनये इदम् । सिद्धान्तिनये तु दीर्घविधित्वादित्यपि बोध्यम् । ननु झेर्नुसित्यत्र झसहितस्य एर्जुसित्यर्थे ऽन्तादेशोत्तरं न जुस्प्राप्तिरत. आह । किंचेति । एकादेशे । सनकारस्य शबकारेणैकादेशे । एकादेशइति ।
अधों पूर्वोक्तैकादेशे इत्यर्थः । पूर्वसमुदायेप्रवृत्तसंज्ञयाइति । अस्य भविष्यति किं चिदनेन प्रयोजनमिसभिसंधिमात्रेणेत्यादिः । स्थानिवद्भावेनेति । एकदेशविकृतन्यायेन स्थानिसदृशभावेनेत्यर्थः । ननु यथोदेशपक्षेऽपि कार्यंकवाक्यताया एव संज्ञायाः परिभाषाणां भाष्यादितो लाभात्पूर्वं फलाभावेनैसन्नित्यत्राभ्यस्तसंज्ञाया एवाभावेन पञ्चमीसमासानाश्रयणेपि न दोषो ऽत आह । अतएवेति । पंञ्चमीसमासाश्रयणा- देवेत्यर्थः । उदकस्पर्शइति । अनुदके इति निषेधसामादत्र क्विबपि नेति भावः । तन्निषेधादिति । क्वौलुप्तमिति पूर्वत्रासिद्धे इति वा तन्निषेधादित्यर्थः । अधिकारइति । एवं चादेशप्रत्यययोरित्येव षत्वं नुमादिब्यवधाने इति भावः । अव्यवधानेपोति । रामेष्वित्यादावित्यर्थः । योग्यतायां त्रिपादीस्थस्याप्रवृत्तेरिति । वाचिकादिव्यवधाने सिद्धयर्थं पूर्ववेत्वस्य विषयसप्तमीत्वादिति भावः । वसोः- संप्रसारणम् ॥ वसुरत्र प्रत्यय एव न तु वसु स्तम्भे इति धातुर्विदेः शतुर्वसुरित्यादा- वष्टाध्याय्यां व्यवहृतत्वेन प्रत्ययस्य प्रतिपदोक्तत्वात्तदेतदाह । प्रत्ययग्रहणेइति । नतुलिडादेशक्कसोरिति । उकारोच्चारणसामर्थेन तु न निर्वाहः । वसतेरष्टाध्याय्यां वसतिक्षुधोरित्यादौ व्यवहृतत्वेन ग्रहणापत्तेरिति भावः । शीघ्रोपस्थितिकत्वात् पूर्व संप्रसारणे इति । वस्वेकेतीटस्तु न शीघोपस्थितिकत्वं तस्य नियमार्थत्वेनान्यसंधान- स्पावश्यकत्वेन विलम्बोपस्थितिकत्वात् । वलादित्वाभावादिति । वस्वकेत्यत्रापि वलादेरित्यनुवर्तत इत्यर्थः । इदम् । वृत्त्युक्तं माधवोक्तं च । असावित्यत्रादिलोपे- कतेइति । कारमात्रादेशे कर्तव्ये डित्वकरणसामर्थ्येन सर्वतो बलवत्त्वात्पूर्वमेव टिलोपे कृते इत्यर्थः । सत्त्वंबाधित्वेति । अनन्त्ययोरत्यस्य भाष्ये प्रत्याख्यातत्वाहि- लोपोत्तरं सत्त्वप्राप्तिरित्यर्थः । तत्सत्त्वे त्वसिद्धिः सुतराम् । न मु ने । मुग्रहणफलं तु न विषयपरं व्याप्तिन्यायाद्यल्कि चित्पूर्वमसिद्ध नेत्यर्थे फ्य उ च्छन्नममुने त्यादौ छे चेति तुकि उकारस्य न सिद्धत्त्वं मग्रहणस्याप्येतदेव फलं बोध्यम् । समाहार- द्वन्द्वइति । मकारसाहचर्यादुकारोऽपि मकारविधायक एव गृह्यत इति भावः ॥ इति हलन्ताः पुंलिङ्गाः॥ नप्रत्ययोव्याख्यानादिति । अद्भिः संस्कृतमिति निर्देशादित्यर्थः ॥ इति हलन्ताः स्त्रीलिङ्गाः ॥ तत्प्रयुक्तेइति । पदत्वयुक्ते इत्यर्थः । पदत्वेत्यस्य फलं तु बहुपरिव्राजकेत्यादा- ७६ । हलन्ता नपुंसक पुंलिङ्गाः। वसुप इति निषेधस्य प्रत्ययलक्षणेन सिद्धिः । असुप इत्यस्य तु न वैयर्थ्य बहु- परिव्राजकैः क्रीतेत्यर्थे ठको लुकि टापि बहुपरिव्राजकेत्यादौ चारितार्थ्यात् । उत्तरस्येति निषेधस्य तु न तत्र प्राप्तिः सुर्मेत्यादौ न लोपादिसिद्ध्यर्थं प्रत्यास- त्योत्तरप्रकतिके लुका लुप्ते सुपि प्रत्ययलक्षणं नेति तदर्थादिति भावः । इत्यर्थ- इति । फलितार्थ इत्यर्थः । पर्युदासस्यौचित्यात् । अनभिधानमिति । अषदादिविधा इत्येतत्सामादित्यर्थः । अन्यथा तदर्थ सापदाद्योरित्यत्र पदादादिरिति पञ्चमी- समासस्यावश्यकत्वेन निरुपपदाद्विचि दनः सेचाविति षष्ठीसमासेऽपि षत्वनिषेधस्य सिद्धत्वात्तद्वैयर्थ्यं स्पष्टमेवेति भावः । कैयट इति । अत्रारुचिबीजं तु सुस्रोता दधिसेचक इत्यादीनां गतिकारकघटितानां वहुलक्ष्याणां संग्रहाय वार्तिकप्रत्या- ख्यानाय दधिषेचावित्यादौ निरुपपदे षष्ठीसमासेपि. निषेधाय पञ्चमीसमासस्यावश्य- कत्वादनभिधाने न मानमिति । अपदादिविधाविति बहुसेचावित्याद्यर्थे साल्पदा- द्योरित्यत्र पठीसमासस्यावश्यकत्वात्तत्पक्षे उपायान्तरपरं बोध्यमिति भावः । विची ऽसार्वत्रिकत्वादाह । सेचयतेः किबिति । ननु कर्णो वर्णलक्षणादित्यादेर्वर्णलक्षण- वाचकात्परस्योत्तरपदसंज्ञकस्यादिरुदात्त इत्यादुत्तरपदादिरिति शब्दोच्चारणोपि पदादित्येतन्मात्ररूपप्रतिपदोक्तस्याभावाच्छुक्कः कर्ण इत्यादौ वाक्ये स्यान्न तु शुक्लकर्ण इति समासे प्रत्ययलक्षणप्रतिषेधादत आह । उत्तरपदादिरिति । कार्यित्वे एवेति । अपदादिविधाविति पहुंदासादिति भावः । मध्यमपदेति । मध्यमपदं च प्रत्याख्यानैकवाक्यतयोत्तरपदाव्यवहितमेव । तेन पञ्चगवधन इत्यादौ ट्रचा व्यवहि- तगोशब्दादेः प्रत्ययलक्षमप्रतिषेधात्पदत्वाभावेनावकादिर्नेति भावः । भाष्यप्रामाण्या- ञ्चेति । नलोपवारणायैतज्ज्ञापकपरभाष्यप्रामाण्याञ्चेत्यर्थः । भाष्येण । “रुरत्रबाधको भविष्यतीति" भाव्येण । पूर्वमेवबोध्यइति । एवं च तव राज्ञेत्यत्रत्येन ग्रन्थेन विरोध इति भावः । वस्तुतस्त प्रत्ययलोपविधायकशास्त्रैः प्रत्ययानुत्पत्तेरेवान्वा- ख्यानेनात्रत्यग्रन्थ एव युक्त इति बोध्यम् । अनर्थकस्यापिग्रणादिति । इन्हन्न इत्यत्रेत्यर्थः । दीर्घइति । सर्वनामस्थानेचेति सूत्रेण तु न सिद्धिः । स्त्रग्विणावित्यादौ दीर्घवारणायानर्थकस्यापि इनस्तत्र पयुदासादिति भावः । अत्रोति । बहुत्रहाणी- त्यत्र णत्वविषये इत्यर्थः । तदुक्तमिति । अत्पूर्वस्येन्यत्रेत्यर्थः । अनेनेति । इदमुपल- णमुपपयट्काम्यतीति काम्यच्सूत्रस्थभाष्यप्रयोगस्यापि । अनव्ययपूर्वपदेइति । ।
७६ भैधाँ अव्ययपूर्वपदाभिन्ने सृजि यजि चेत्यर्थः । अतएव । अव्ययपूर्वपदभिन्नत्वात्पत्वस्य कुत्वापबादत्त्वाद्वा । एवमुपयटकाम्यतीत्यत्रोपेत्यस्य पृथग्भावात् । यजेरव्ययपूर्व- पदभिन्नत्वे बोध्ये । निपातनादेवेतीति । पक्षद्वये ऽपीत्यर्थः । इदमेवन्याय्यमिति । अपवादत्वपक्षे ऽसृगित्यत्र कुत्वानापत्ते रुधिरे ऽसक्छब्दस्य रूढत्वेन नअर्थसृजर्थ- योरपतीतेश्चेत्यर्थः । अनुवृत्तिसामर्थ्यादिति । अस्य वाक्यभेदेनेत्यनेनान्वयः । चेति । समुच्चये च शब्द इति भावस्तत्फलितमाह । अजन्तस्येति । क्लीवस्येति शेषः । तत्र सर्वनामस्थाने इत्यस्य सुटीति व्याख्यातृमते ऽप्याह । सोलुंकेति । तत्र तथा व्याख्याने पूर्वत्रोगिदचामित्यत्रोत्तरत्र न पुंसकस्य झलित्यत्रापि तथैवौचि- त्यादिति भावः । स्वमते तु सर्वनामस्थानत्वाभावादित्यपि बोध्यम् । व्यपवर्गाला- भेनेति । एतस्योभयत आश्रयणे ऽन्तादिवद्भावाभावे हेतुत्वं बोध्यम् । चेति । चेन स्थानिभूतादचः पूर्वस्य परस्य वा कार्याभावेनाचः परस्मिन्नित्यस्याप्रवृत्त्येत्यपि बोध्यम् । बाधकाभावेनेति । अत्राधिकारादेवार्थद्वयलाभे सिद्धे एतयोरिति बाधकबाधनार्थं तेन बैल्वं विल्वमथमिति सिद्धम् । मयक्रेतयोरिति सूत्रस्थभाष्यं तत्सूत्रस्थमेनयोरिति च प्रमाणमपि बोध्यम् । पुनः प्रसंगविज्ञानपक्षे ऽप्याह । किंचेति । ननु मिदचो ऽन्त्यादित्यस्यान्त्यादचः परो मिद्भवतीति एवार्थो न तु प्रयोगपर्यन्तमत आह । किंचेति । इदं सर्वं बहूर्जि नुम्प्रतिषेध इति वार्तिकमते । तत्प्रत्याख्यानकर्तृभाष्यकारमते तु नित्यत्वादुगिल्लक्षणे पूर्व नुमि नपुंसकस्येत्यस्य प्राप्तिरेव नेति बोध्यम् ॥ इति हलन्ता नपुंसकलिङ्गाः ॥ भाष्यप्रामाण्यादिति । तत्र हि चिरशब्दस्य ट्युट्युल्संनियोगेन मान्तत्वं निपात्यत इत्युक्तम् । चिरमित्यस्याव्ययत्वे तत्राव्ययत्वादेव प्रत्ययसिद्धेः सूत्रे चिरग्रहणस्य भाष्यस्य चासङ्गतिः स्पष्टैव । अपो ग्रहणं तु भाष्ये प्रत्याख्यात- मेव । न च चिरशब्दस्य कालाट् ठञ्बाधनार्थ ग्रहणं चिरपरुदिति नप्रत्ययेन ठो बाधादिति तत्त्वम् । ननु प्रतानित्यस्यार्थभेदेन सार्थक्यमत आह । अपदा- न्तत्वाच्चेति । रुत्यादिवदिति । अपदान्तत्वादित्यर्थः । आदिना विसर्गजश्त्वे । ननु शान तेजने इत्यस्य प्रशानित्येव गणे पव्यते इत्यत आह । कन्मेजन्तइतीति । भाष्यस्वरसोप्येवमेव । तत्र हि कृदन्तम्मान्तमित्यर्थे प्रतामौ प्रातम इत्यादावति- व्याप्तिमाशङ्ग्य यदयं स्वरादिषु प्रशाम् शब्दं पठति तज्ज्ञापयत्याचार्यो न प्रत्य- अव्ययानि । यलक्षणेन कदन्तत्वमादायाव्ययत्वं भवतीति समाहितमिति भावः । अप्रामाणि- कइति । चादिषु पाठादिति भावः । ननु नत्रश्चादिषु पाठे अव्यये नकुनि- पातानामित्यत्र नग्रहणं व्यर्थमत आह । अध्ययेइतीति । प्रत्यक्षिइति । नश्मा- डो?तकत्वेन चादिष्वेव युक्तः पाठ इति भावः । विभक्तयन्तेति । युवामिती- त्यर्थः । एवं चार्थतत्सादृश्यमेव मुख्यम् । शब्दतस्तु सति संभव इति भावः । अत एव भोसित्यस्य विभाषा भवदिति वार्तिकनिष्पन्नभोरित्यनेन प्रतिरूपकत्वा- निपातत्वमिति भाष्योक्तं संगच्छते । असंभवादिति । स्वरग्रहणसामर्थ्यात्तत्र शब्द- तः प्रतिरूपकत्वं गृह्यते । एवं चोपसर्गविभक्तयन्तयोर्विषये ऽर्थतः स्वरांशे शब्दत इति व्यवस्थेति भावः । एतेनार्थतः प्रति रूपकत्वस्य विभक्तयन्तांशे स्वीकारेण शब्दतोपि संभवादाह । उसेति । वस्तुतस्तत्संभवे न क्षतिरिति बोध्यम् । अतएव । तदित्यस्य सत्त्वादेव । नैकशेषइति । त्यदादिग्रहणे तु साहचर्यादनव्ययस्यैव ग्रहणमिति भावः । ननु गौणमुख्यन्यायेन च्च्यन्ते स्वरादिनिपातमित्यस्य प्रवृत्ति- नैव स्यादत आह । स्वरादिनिपातमित्यत्रेति । अनित्यत्त्वादिति । अव्ययत्वस्य पदकार्यत्वाभावेन प्रकते ऽसमर्थत्वादिति भावः । अन्यथा । अपदकार्येपि न्याय- प्रवृत्तौ । प्रगृह्यत्वमिवेति । पदकार्यप्रगृह्यत्वमिवेत्यर्थः । ननु विहितानां नियम इति पक्षे ऽस्य सूत्रस्योपपत्तिरत आह । किञ्चेति । अत्र । अस्यां शङ्कायाम् । नन्वेवमपि कर्माद्यभावात्कथमव्ययेभ्य एकवचनस्यापि प्राप्तिरत आह । द्वित्वब- हुत्वयोरिति । अतएव । अव्ययेभ्यः सर्वविभक्तयेकवचनस्य सत्त्वादेव । नन्वव्य- येभ्योपि प्रथमायाः प्राप्तेरप्राप्तप्रापणाभावो ऽत आह । प्रथमायामपीति । ननु चतिकल्पमित्यादावनेन सर्वविभक्तयेकवचनापत्तिरत आह । पचतिकल्पमित्या- दौत्विति । नन्वव्ययेषु कर्माद्यभावाकमणि द्वितीयेत्यादेरनुपस्थित्या न तत्प्राथ- म्यमत्रोपयुक्तमत आह । निजामिति । ननु निजां त्रयाणामित्यनेनात्र शास्त्रे बहुवचनलभ्यबहुत्वविषये एतन्न्यायाप्रत्तिरित्येव ज्ञाप्यते । तेन प्लुतप्रगृह्या इत्या- दौ युद्भ्य इत्यादौ च न त्रयाणामेव ग्रहणम् । न च तत्र वृत्करणेसामर्थ्या- न्यायबाधः । वृत्करणेनापि एतदर्थस्यैव ज्ञापनात् । एवं च. प्रकृते न दोषोत -आह । आधुदात्तश्चेतिसूत्रेति । चेति । चेनाव्ययादिति सूत्रे प्रत्याहारस्य तृती- यासतम्योर्बहुलमिति सूत्रे तृतीयासतम्योश्च ग्रहणादित्यपि बोध्यम् । अचेति ।
अधर्या -- असीविधायके छन्दसीत्यनुवृत्तौ चेत्यर्थः । इष्टसिद्धिरितीति । कुत्सादिविशेषणस्य न छुपाघेरुपाधिर्भवतीति न्यायेनानुप्रयुज्यमानप्रथाने एवान्वयेनाकचो ऽप्राप्तेन तदर्थमपि कारयाभित्यामन्ते ऽव्ययत्वमुपयुक्तमिति भावः । लवमाचक्षाणोलौरिति । ऋदोरबित्यप्प्रत्ययान्तलवशब्दाण्णिचि विप्यल्लोपणिलोपयोर्वा ऊव्येत्येधत्यूठिति वृद्ध्यसिद्धे लौरित्यर्थः । कृतएजन्तत्वेनेति । एजादेशे कृते पञ्चमीसमासेन स्थानिवत्त्वात्पुनः रुदतिङित्यस्य प्रवृत्त्या कृत्त्वमिति भावः । एतेन । संनिपात- परिभाषया ऽव्ययत्वाभावेन । आदिना ऽव्ययानां भमात्रे टिलोप इत्यस्य, न लोकेत्यस्य च संग्रहः । कृन्मेजन्त इति सूत्रस्थभाष्योक्तकुम्भकारेभ्य इत्यादौ लुको ऽप्राप्तेराह । अङ्गसञ्ज्ञायामिति । नन्वत्राङपदाभावादेतादृशार्थालाभो ऽत आह । आविति । ननू वैरावित्यादौ लुग्वारणाय तत्फलमस्तीत्यत आह । उच्चैरौ, उच्चैराभ्यामिति । अशब्दादौविभक्तिः । इदं शब्दादौ । अत्रेत्यर्थः । अतएव । तदनभिधानादेव । तन्नोक्तमिति । अङ्गाक्षेपो विहितविशेषणं चेत्यर्थः । इदं सर्वं प्रत्ययग्रहणं चापञ्चम्या इत्यनेनं तदन्तत्वनिषेधे तदादेरित्यस्याप्यनुप- स्थितिमते । वस्तुतस्तदन्तत्वनिषेधेपि तदाद्यन्तांशानुपस्थितौ न मानम् । अत एव हेकतरदित्यादावेहवादित्यादिनेति सिद्धान्तिमते ऽव्ययाद्यस्मात्प्रत्ययविधि- स्तदादेः परस्यापस्सुपश्च लुगित्यर्थादत्युच्चैसावित्यादौ एतदप्राप्त्योञ्चैरावित्यादौ विधानपि न दोष इत्यलम् । अन्त्येकप्रत्ययइति । देवविशामित्यत्रेत्यर्थः ॥ इत्य- व्ययानि ।। अजाद्यतष्टाएँ । अज़ादीति लुप्तषष्ठीकं पृथक्पदम् । अत इति च पञ्चम्यन्तं बोध्यम् । अतइतिवर्णग्रहणादिति । उगिद्वर्णग्रहणवर्जमित्युक्तेः समासप्रत्ययवि- धाविति निषेधाप्राप्तेः प्रातिपदिकविशेषणात्तदन्तविधिरिति भावः । अदन्तात्प्राति- पदिकास्त्रीत्वे द्योत्ये टाबित्यर्थे सत्याकारान्तवाच्य इति फलति तदाह । अका- रान्तस्य चेति ।। तद्वाच्यार्थगतमिति । स्त्रीत्वशब्दाहाब्वारणायेदमिति भावः । दारशब्ने ऽतिप्रसङ्गवारणायाह । यत्तद्वाच्यमिति । विशेष्यत्वापत्तिरिति । प्रक- तिप्रत्ययौ सहाथ ब्रूतस्तत्र प्रत्ययार्थप्राधान्यमिति व्युत्पत्तेरित्यर्थः । पचतीत्यादौ तिवादयोपि द्योतका एवेति भावः । ननु स्त्रीत्वस्य विशेष्यत्वासंभवादेव व्युत्प- त्तिबाधः स्यादत आह । वागादिष्विति । अतएव । टाबादीनां द्योतकत्वादेव ।
स्त्रीप्रत्ययाः। ननु द्योतकविषयेप्युक्तार्थानामिति न्यायप्रवृत्त्या समावेशो दुर्लभो ऽत आह । व्यतीति । समुच्चयत्येति । द्योतकानामित्यर्थः । एतत् । अजादीत्येतत् । षष्ठी- कमिति । लुप्तषष्ठयन्तमित्यर्थः । व्याख्यानादेवेति । न तूपसर्जनाधिकारसामर्थ्या- देवेत्यर्थः । सामर्थेनोत । अनादीत्यस्य लुप्तषष्ठयन्तसामर्थ्येनेत्यर्थः । अत्रेति अनादिगणे इत्यर्थः । मातृजातिवृत्तित्वादिति । मातृजातेत्तिरावरणं येषां तेषां भावादित्यर्थः । अतएव । अनुलोमसंकरे मातृजात्यारोपादेव । केचिदिति । अत्रारुचिबीजं तु छागीति प्रयोगानापत्तेः । भाष्याद्युक्तत्वाचसोऽसाधुरेवेति । वर्जमित्युक्तेरिति । अनुपसर्जनाधिकारेण तदन्तविधेापितत्वाञ्चेत्याप बोध्यम् । अन्तादिति । अन्तशब्दआदिर्थेषां तद्विषयः । तेन पूर्वशब्दसंग्रहः । एवेति । येनविधिरिति तदन्तीवविविषये तु न प्रवर्तते स्वस्यचेत्यनेन बाधादिति भावः । निर्यवमतीत्यादौनदोषइति । ननूगिदन्तादित्यर्थेनापि न दोष इति चेन्न । व्यपदे- शिवद्भावेनेयदिति प्रत्ययस्योगिदन्तत्वस्यापि सत्त्वादिति भावः । विषयोनेतीति । तत्परिभाषाया अन्यतरसंबद्धोच्चारणे एक प्रवृरिति भावः । एतसिद्धयर्थमिति । एतस्यापि सिद्धयर्थमित्यर्थः । एवं चावावेत्यपि सिद्धमिति भावः । ननु. डीपो- पवाद इत्यस्य डीपः परत्वाद्वाधक इत्यर्थोस्तु एवं च न भाष्यविरोधो ऽत आह । अतएवेति । टापो बाधकत्वादेवेत्यर्थः । नन्वतावतापि सूत्रकारमते कथं सिद्धिरत आह । एवञ्चेति । भाष्यमते रूपस्यसिद्धत्वे चेत्यर्थः । एकपागित्यस्य सिद्ध- यइति । ऋगनपेक्षत्वेनान्तरङ्गत्वात्स्त्रीसामान्यविवक्षायां डीबन्तप्रयोगस्यग्ाचक- स्थान्यतरस्यां ग्रहणानुत्ति विनापि सिद्धिरिति भावः । इष्टस्य । उक्तरीत्या सिद्धत्वेनेष्टस्य । ननु पादयतेः क्विपि स्त्रियां संभवो ऽत आहा ऋचिवेति । अत्र तदन्तविधिरिति । अत्र तदन्तस्यैव विधिरित्यर्थः । बलात् । अनुरोधात् । भूतपूर्वषट्वाश्रयोनिषेधइति । डीनिषेधाय भूतं मातः यत्षट्वं स्थानिवद्भविनै- कदेशविकृतन्यायेन वा नलोपे आश्रयो यस्य स निषेध इत्यर्थः । बहुव्रीहौ वेति वार्तिककारमते. आह । वचनसामर्थ्यादिति । वार्तिकप्रत्याख्यानकर्तृमते आह । भाष्येत्विति । ननु गृह्यमाणस्यानो ऽन्नन्तबहुव्रीहावनुपसर्जनत्वासंभवेष्यनेन बहुव्रीह्यन्तादुपधालोपिनः प्रातिपदिकादित्यर्थ इति अतिबहुदामा ब्राह्मणीत्यादा- वनो बहुब्रीहेरिति निषेधवदनेन डीब्वारणाय बहुव्रीहिविशेषणमेवानुपसर्जना- अधर्या दिति स्यादत आह । ध्वनितमिति । एवं चात्र प्रातिपदिकादित्यस्य विशेषण- त्वमेवेति तदन्तविधेरेव प्राप्त्यातिदामेत्यादौ न दोष इति भावः । इत्यनन्तरमिति । एवं च डाबुभाभ्यामित्यत्रत्यमन्यतरस्यां ग्रहणं भाष्यमते स्पष्टार्थमेवेति बोध्यम् । अन्यतरस्यांग्रहणंत्विति । उपधालोपिनो वेत्यत्र वा ग्रहणं वित्यर्थः । समुदा- यवादी शङ्कते। नचेति । इत्येवज्ञाप्यतेइति । अपूर्वत्वविधायकवचनकल्पने गौरव- मिति भावः । ननु तवापि कादित्यत्र कशब्दे इत्सालोपयोः कशब्दस्य ककारमात्रे लक्षणाया वा स्वीकारे गौरवमत आह । तावतापीति । एवं च तवा- पूर्ववचनकल्पने ऽतिगौरवमिति भावः । इत्वाप्राप्तिरिति । एवं च तव मते न या- सयोरिति ज्ञापकादाप्परकाङ्गावयवाकजवयवककारात्पूर्वस्यात इत्वमिति । मम- त्वाप्परकाङ्गावयवाकजवयवककारघटितकशब्दात्पूर्वस्यात इत्वमिति वचनं कल्प्य- ते । लक्षणाश्रयणं तु तव सूत्रे मम ज्ञाप्यकोटिप्रविष्टमिति भावः । अतएव । लक्ष्ये लक्षणस्य सकदेव प्रवर्तनादेव । सार्थक्यमिति । एवं च वर्णग्रहणपक्षे नापूर्ववचनकल्पनेति भावः । प्रत्ययस्याभावादिति । समुदायग्रहणपक्षे कारिके- त्यादिसिद्धये ऽर्थवत्परिभाषाबाधाय स्थग्रहणमावश्यकमित्यापि गौरवमिति बोध्यम् । इत्वभूतनिर्देशेनेति । कण्ठव्यापारमात्रेणाकारोच्चारणे कर्तव्ये कण्ठतालूभयव्यापारे- णोच्चारितेत्वभूतनिर्देशेनेत्यर्थः । प्रक्रियागौरवापेक्षया व्यापाराधिक्येनोच्चारणे ऽधिकं गौरवमिति भावः । भाष्यकारइति। "त्यकः प्रतिषेधो न वक्तव्यः, यदयं मृदस्तिक- नितीत्वभूतनिर्देशं करोति तज्ज्ञापयत्याचार्यो नैवं जातीयस्येत्वं भवतीति' तैरुक्तम् । तत्र कैयटः । अनेकाचो व्यञ्जनादेः सञ्जाविषयस्य प्रत्ययस्य नेत्वमित्यर्थ इति । शूद्रविकेत्यत्र निषेधवारणायानेकाच इति कारिकेत्यत्र तद्वारणाय व्यञ्जनादेरिति पुत्रकाम्यिकेत्यत्र तद्वारणाय सञ्जाविषयस्येतीति तद्भावः । अत्र त्यिकन्नितिकर्तव्ये इति । प्रक्रियालाघवायेत्यादिः । अत्र यकारोच्चारणायापि तालुव्यापारस्यावश्य- कत्वेन नेकारोच्चारणे तस्याधिक्यमिति भावः । स्थानिवत्त्वचेति । स्थानिवदादेश इति स्थानिवत्वं चेत्यर्थः । अचः परस्मिन्निति तु पञ्चेन्द्र इत्यत्रावश्यकत्वेन लुकि न स्थानिवदित्यनेनापि निषिद्धम् । वार्तिकमते न लुमतेत्युभयोनिषेधकं भाष्यमते तु प्रत्ययलक्षणसूत्रस्य नियमार्थत्वान्न स्थानिवत्त्वप्राप्तिस्तदाह । अतएवेति । प्रत्ययलक्षणसूत्रस्य विधायकत्वादेवेत्यर्थः । मुख्यवाचीत्रिलिङइति ।
स्त्रीप्रत्ययाः। ८१ देववाची तु पुलिङ इति भावः । धात्वन्तयकोरित्यत्र समीपे ऽवयवत्वारोपे अत्रानु- पसर्जनाधिकारवैयर्थ्यमित्यर्थः । पूर्वोक्तसमाधाने भाष्यसंमतिमाह । एतदेवेति । अवयवात् । कारशब्दात् । उत्पत्तौ । डीबुत्पत्तौ । ननु तद्धितार्थेत्युत्तरपदे समासविधानस्य विशेषापेक्षत्वेनापि कौम्भकारेय इत्यस्यैव सिद्धावत्रानुपसर्जना- धिकारो व्यर्थ एवेत्यत आह । येनविधिरितिसूत्रेचेति । ननु सर्वादिसूत्रे भाष्ये ऽनुपसर्जनाधिकारः प्रत्याख्यात एवेत्यत आह । यत्त्विति । नन्वेवमपि वक्ष्यमा- त्यत्र पाक्षिको दोष एवेत्यत आह । उतऔदिति । डिच्चपिन्नेति । बूतादि- त्यत्रेडभावस्तेनेति भावः । पिञ्चडिन्नेति । तेनाब्रवीदित्यत्र गुण इति भावः । नङिदादेशानामिति । लकारो यो ङित्तदादेशानामित्यर्थः । तेन रमायामित्यादौ न दोष इति भावः । सानुबन्धकादेशानामिति । सानुबन्धकस्थानिकादेशाना- मित्यर्थः । इत्यादिना । आदिनाऽचिनवमित्यादौ दूषणसंग्रहः । गाङादेशस्य स्कारस्तु गाङ्कुटेत्यत्र विशेषणार्थ इति ज्ञापकाभावश्च लिसिचाविति झलादि- लिङःकित्त्वं तु सृजिढशोरियमभावायेति न ज्ञापकमुक्ते ऽर्थे इति तत्त्वम् । नन्वेवं गर्हिषीष्टौशिष्टेत्यादौ स्थानिवद्भावेन ङित्वाद् गुणो न स्यादिति चेन्न । उश्चेति झलादिलिङः कित्त्वविधानसामर्थ्याद्यदागम इति परिभाषाया अनित्य- वज्ञापनेन ङित्त्वस्य सीयुड्विशिष्टे ऽभावेन निषेधाप्रवृत्तेरदोषात् । स्पष्टं चेदमिति । निरनुबन्धकठस्य स्त्रियामसंभवात्सानुबन्धकठस्य ग्रहणमित्यर्थः । पुनरत्रग्रहणमिलि । ननु बादिष्वनयोः पाठेन ङीषो विकल्पात्पक्षे, वयसीत्यनेन कोप्सिद्धावत्र तयोर्ग्रहणं व्यर्थमिति चेन्न । पुंयोगविवक्षायामाप पक्षे डीबर्थ तद्ग्रहणसार्थक्यादिति भावः । नन्वनपत्याधिकाराभावादनपत्याधिकारस्थादित्य- युक्तमत आह । अपत्येति । उपरञ्जकतयेति । प्रत्ययषकारस्य मध्यमस्यासंभ- वादनुवादकतयेत्यर्थः । तत्साहचर्यात् । तद्विधायकसूत्रोपात्तत्वात् । नेत्त्वमिति । फिनो नित्करणसामर्थ्यात्तदादेशविधायकसूत्रोपात्तानामादेशानामित्सझेति - सामा- न्यापेक्षज्ञापनादिति भावः । नन्वेतल्लिादादेशैरिसञ्ज्ञा न बाध्यते लोपस्तु बाध्यते एवेति दोष एवेत्यत आह । आदीति । आदिना ऋतेरीयङित्यस्य संग्रहः । तत्र हि छङियेव सिद्धे ईयङ्करणं धातुप्रकातिकप्रत्ययानां नैते आदेशा इति ज्ञापनार्थमिति भावः । नन्वेवं ज्ञापकाल्पाणिन्युच्चारितप्रत्ययानां नादेशा इत्येव । .
८२ श्रेधयों स्यादत आह । उणादीनामिति । अन्यथा।आदेशानामुपदेशसंन्नियोगशिष्टकार्या- त्पूर्व प्रवृत्त्यभावे । तद्वाधकत्वमेव । कीवबाधकत्वमेव । नन्वत इत्यस्य चाब्विधा- यके ऽत इत्यधिकाराच्चाबन्तान्डीपो ऽप्राप्तेस्तस्य निरवकाशत्वेन बाधाञ्चा- मन्तात्फो भविष्यतीति सर्वत्र ग्रहणं व्यर्थमेवेत्यत आह । चापितुकतेइति । प्रामादिकइति । परत्वान्ङीषा बाधादिति भावः । त्रीणिवयांसीति । "पिता रक्षति कौमारे मो रक्षति यौवने । पुत्रस्तु स्थविरे भावे न स्त्री स्वातन्त्रयमहतो" त्युक्ते- रिति भावः । चत्वारिवेति । "आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यसी" त्युक्तरिति भावः। आदेशत्वमिति । न तु प्रत्ययत्वमित्यर्थः । नन्वनो ऽनर्थकत्वात्कथमन उपधालोपन इत्यस्य प्रा- प्तिरत आह । अन्ग्रहणेइति । भैषजशब्दोपितत्रेति । औषधे इत्यर्थः । सपूर्वायाः । प्रत्ययस्थाद्यकपूर्वाया इत्यादौ पूर्वशब्दस्य पूर्ववृत्तिवाचिनोऽपि दर्शनादाह । अवयववाचीति । व्याख्यानादिति । पूर्वशब्दस्य प्रथमावयवे रूढर्भाष्ये कथं तुषजकस्य पनीति व्यस्ते प्रश्नात् । अतएव । पूर्वाभ्यासः शपूर्वा इत्यादाववयव- वाचित्वं तस्य सपूर्वाया इत्यादौ त्वसंभवात्पूर्ववृत्तिवाचित्वं पूर्वशब्दस्येति भावः । ननु व्यपदेशिवद्भावेन संभवो ऽत आह । अव्यभिचाराच्चेति । एवं चात्रस्थपूर्व- ग्रहणसामर्थ्याद व्यपदेशिवद्भावाप्रवृत्तिरिति भावः । प्रौढ्येति । अनुपसर्जनाधि- कारेणाचारक्विबन्तप्रकृतिककर्तृक्विपो ऽनभिधानादिति भावः । ननु तज्ज्ञापका- स्त्रीप्रत्ययप्रत्तियोग्यानां तादृशानामनभिधानेपि अस्याभिधाने न बाधकमत आह । दृढतरमानाभावादिति । तादृशविशेषापेक्षत्वे मानाभावादित्यर्थः । अत एव भाष्ये तुषजकस्य पत्नीत्यत्रोपचारमात्रमुक्तन्नत्वेतदिति भावः । ननु प्राति- पदिकादित्यनुत्तस्य षष्ठयन्ततया विपरिणामेन पतिशब्दस्य तद्विशेषत्वात्तदन्त- विधावप्यनुपसजनादिति गृह्यमाणपतिशब्दविशेषणमेव स्यादिति दृढपत्नीत्यादौ नादेशो न स्यादिति सपूर्वस्येति किमिति प्रश्नो ऽनुपपन्नो ऽत आह । अवय- ववाचीति । प्रश्नइति । सपूर्वाया इत्यादाविव पूर्ववृत्तिवाच्येवास्त्विति भावः । गवांपतिरितीति । विद्यमानपूर्वपत्तिकपतिशब्दान्तप्रातिपदिकस्यानुपसर्जनस्य नादेश इत्यर्थे ऽत्रापि गवामित्यस्य पूर्वस्य सत्त्वात्पतिशब्दस्य व्यपदेशिवदावेन पतिशब्दान्तप्रातिपदिकत्वाच नादेशप्रसङ्गः स्यादिति भावः । तेनचेति । निपा- स्त्रीप्रत्ययाः। नेन चेत्यर्थः । ननु नित्यं सपत्न्यादिष्वित्येवार्द्धमात्रालाघवेन सिद्धे नकारडीब्बि- शिष्टोच्चारणं व्यर्थमत आह । किञ्चेति । अतएव । विशिष्टोच्चारणेन रूट्यर्थक- स्यैव नादेशविधानादेव । सपतिरित्येवेति । विशिष्टोच्चारणेन रूढिविशेषे एव सप- नीशब्दस्य साधुत्वबोधनात्पूर्वसूत्रेणाप्राप्तस्तत्र नादेशो नेति भावः । नतथाप्रयो- गइष्यतइति । विशिष्टोच्चारणेन रूढिविशेषे एव सपत्नीशब्दस्य साधुत्वाद् व्या- ख्यानादिति भावः । सौत्रइति । एवं च तथा पाठो न युक्त इति भावः । बोध्यमिति । इदम् । असंभवे एवापवादत्वमिति वार्तिकमते । सत्यपि संभवे वा- धकत्वमिति भाष्यमते तु ङोब्नकारयोरत्राप्यनुवृत्तिर्बोध्या । संनिधानाव्या- ख्यानाच्चेति । अभेदान्वयः । चो हेतौ उत्तरार्थमिति । सौरीति । ड्यन्ताच्छे सौरीय इत्यादौ रेफलोपाभावार्थं तु नाणो लोपस्य स्थानिवत्त्वेन रेफस्योपधात्वा भावादिति भावः । ड्यामिति निर्देशादिति । अन्यथा मात्रालाघवेन डावित्येव वददिति भावः । नक्षत्रेति । नक्षत्रग्रहणफलं तिष्यपुष्यशब्दाभ्यां माणवकाचका- भ्यां भवार्थे ऽणि तैष्यः पौष्य इत्येवेत्यवधेयम् । नीलेत्येवेति । लाक्षणिकत्वा- दस्य न डीबिति भावः । नरूपादीनां ग्रहणमिति । एतेन विस्पष्टरूपमित्यादौ विस्पष्टादीनि गुणवचनेष्विति पूर्वपदप्रकृतिस्वरो नेति भावः । ननु जातिवाच- कत्वादेव रूपादीनां व्यावृत्तिरत आह । जातिशब्देनेति । एवंतत्रग्रहणादिति । गुणवचनपर्युदासे इत्यर्थः । तेन शुक्लादीनां गुणवचनशब्देन ग्रहणाच्छुक्लत्वमित्या- दौ त्वतलोरति पुंवत्वं, विस्पष्टशुक्ल इत्यादौ पूर्वपदप्रकृतिस्वरश्च भवतीति भावः । नन्वेवं कठादिशब्दानां गुणवचनसंज्ञा स्यादेवं च कठीत्वमित्यादौ पुत्रत्वाद्या- पत्तिरत आह । कठादीति । बहुविशेषणानांवैयादिति । सत्त्वे निविशते ऽपैती- त्यनेन पृथग्जातिषु दृश्यत इत्यनेन वा जातेारणे सिद्धे उभयोरपि वैयर्थ्यमपि च गुणजातिमत्त्वमित्येव सिद्धे इतरत्सर्वं व्यर्थं चेत्यलम् । ननु यावदपेक्षितं तावदेवास्तु इतरस्य सर्वस्य प्रपञ्चार्थत्वात्संख्यागुणवचनत्वमिष्टमेवेत्यत आह । भाष्यकृतेति । अभिमानइति । सर्वतो ऽक्तिन्नादित्यस्य प्राप्तेरिदं प्रत्युदाहरणं न युक्तमिति. भावस्तदाह । शुक्लेति । नन्वत्र संयोगोपधत्वादेव ङीषभावो. ऽत आहः । आदीति । आदिना श्वेतादिसंग्रहः । डीबिति । ट्युटयुलन्तत्वात्प्राप्त इत्यादिः । पुंस्येवेति । न तु स्त्रियामित्यर्थः । प्रसिद्धइति । वाचकत्वेन स्थित इत्यर्थः । ।
अधों केचिदिति । भाष्यतत्त्वविद इत्यर्थः । ननु तादृशस्य पालकशब्दस्यानर्थक्यमत आह । वस्तुतइति । अत्रत्यभाष्यादिति। गोपालिक इत्युदाहरणपरभाष्यादित्यर्थः । उपपदमतिङिति सूत्रभाष्याच्चेति । तत्र हि कुम्भकार इत्यत्र षष्ठीसमासादुपपदसमासो विप्रतिषेधेनेत्युक्तम् । नन्वेतद्भाष्येण यथाकथं चित्कारकग्रहणे परिभाषाप्रवृत्तावपि यथाकथंचित्प्रवृत्तिमादाय प्रवृत्तौ न मानं, कच्छे पिवतत्यिर्थकस्य कच्छस्य पिबतीति कच्छपीत्यस्य अधिकरणस्य शेषत्वविवक्षयोपपदोदाहरणत्वपरभाष्यविरो- धश्चेत्यत आह । यद्वेति । अनित्यत्वादिति । गोपालिकेति प्रकृतसूत्रस्थभाष्याज्ज- निकर्तुरिति निर्देशाच्चैत्यर्थः । तद्योगएवेति । महत्वदोषशिल्पियोगे एव लक्षणया तत्तद्वाचकत्वे एवेत्यर्थः । एषाम् । हिमारण्ययवयवनानाम् । बहवइति । लक्षणया यवनसंबन्धिलिप्यर्थकाद्यवनशब्दात्स्त्रीत्वे डीबित्यन्ये । हिमारण्ययवेभ्यस्तु महत्व- दोषविशिष्टार्थकेभ्यः स्त्रीत्वे द्योत्ये डीबिति विशेषः । नियमार्थमिति । पूर्वपदात्परस्य यदि षत्वं तर्हि गवादिभ्यः परस्यैवेति नियमार्थामत्यर्थः । विशेषइति । विशेषश्च तत्रैव दर्शितः । पाणिगृहीतीति भार्यायां चेत् । यस्याश्च यथाकथञ्चित्पाणिगृहीतः पाणिगृहीता सा भवतीति प्रयोगात् । आदिना करगृहीतीत्यादिसंग्रहः। नत्वावश्यकेति। णिनिनापि पुत्रादिनीत्यस्य सिद्धिरत आह । आकृतीति । स्पष्टार्थमिति । अनिष्ट- वारणरूपस्स्पष्टार्थो यस्य तदित्यर्थः । किं तदनिष्टमिति शङ्कते । किंचेति । उत्तरमाह । तदभावेइति । स्वाङ्गात् । ननूत्तरत्रौष्ठादेःसंयोगोपधे नियमार्थत्वादत्रा- संयोगोपधादिति व्यर्थमिति चेन्न । संयोगोपधविषयकनियमस्यापि संभवेन सुजिवेत्यादावतिव्याप्तेः सुमुखीत्यादावव्याप्तश्च । तदन्तादितीति । एतदन्ता- देवेतीत्यर्थः । उपसर्जनोत । कृत्रिमोपसर्जनेत्यर्थः । इदमेवेति । इदमस्वाङपूर्वपदा- दित्यस्य प्रसज्यप्रतिषेधपक्षे पर्युदासे तु सुभुजेति प्रत्युदाहरणं बोध्यम् । तत्र हि भुजेर्घअर्थे के सुशब्देन गतिसमासे इति भावः । एतेन । भाष्यविरोधेन । तेन तु तेनावयवेन तत्प्राणिरूपं वस्तु तथा यथा प्रसिद्धं युतं चेत्तदेव स्वाक्षं न तु वैप- रीन योगे तेन पृष्टकरायां गवि सुकरीति प्रयोगो नेत्येवं नियमार्थमेवेदं कि नेत्यत आह । अतएवेति । अप्राण्यवयवे एतस्य स्वाङ्गत्वविधायकत्वादेवेत्यर्थः । एवं च गवि सुकरीतीष्यत एवेति भावः । भाष्ये तस्येत्यनेन तज्जातीयवस्तुनो ग्रहणं साहित्यस्य संवन्धत्वेन विवक्षायां तस्येति षष्ठीति बोध्यम् । अत एव भापाया- स्त्रीप्रत्ययाः । मितीत्यस्य भाषायां चेत्येतदर्थकस्यावश्यकत्वादेव । उपदेशादीति । आदिना- वयवदर्शनसंग्रहः । अतएव । समानत्वाभावादेव । अपीति । अपिना कल्पभेदेन दुर्गादिशरिभेदेपि समानकालिकशरीरभेदेपि शरीरभेदे सर्वशरिसंस्थानस्यैकत्वे मानाभावेन च जातिवाचकत्वाभावादित्यस्य संग्रहः । अतएव । वयोवाचकस्य जातित्वविकल्पादेव सर्वलिङत्वादेव । सर्वलिङ्गत्वाञ्चेति । स्त्रीपुंसयोरपत्यान्ता इत्यपत्यविषये स्त्रीपुंसयोरिति नपुंसकस्याप्युपलक्षणम् । अतएवनाडायनमिति नपुंसकं दृश्यत इति भावः । चति । तेन गोत्रचरणयोजातिकार्यस्य नित्यत्वा- यास्य वचनस्यावश्यकत्वादित्याप बोध्यम् । अतएव । शास्त्रीयगोत्रस्य जातिलक्षणे ग्रहणादेव । नन्ववयवदर्शनेन ग्राह्यत्वे जातित्वं न स्यादत आह । यद्वेति । अपीति । अपिनावयवदर्शनसंग्रहः । अतएव । जातेरसर्वलिङ्गत्वादेव । नियतलिङ्ग- त्वमिति । नियमेनैकलिङ्गत्वंद्विलित्वं न तु त्रिलिङ्गत्वमिति भावः । प्राग्वदेव । अप्राप्तप्रापणार्थमेव । अतएव । आकृतिग्रहणेत्यस्य लिङ्गानां च न सर्वभाक् सल- दाख्यातनि ।त्यस्य चैकवाक्यतयााङ्गीकारादेव । भाष्योक्तलक्षणान्तरार्थकैयट आह । सत्त्वस्येति । ताविति । आविर्भावतिरोभावावित्यर्थः । बहुर्थपदार्थमाह । यावदिति । गुणैरिति । सहार्थेतृतीया । द्रव्येणेति । कतार तृतीया । उपालम्भः ।प्रत्य- क्षम् ।तदाहा गुणैरित्यादि। अतएव। आकृतिग्रहणेत्यारभ्यनिह्येत्यन्तस्यैव लक्षणत्वा- देव ।अतएव । लिङ्गानामित्यादर्जातिस्वरूपानुवादकत्वादेव । अत एव । स्त्रीविषयादि- त्यस्य पूर्वोक्तार्थस्याङ्गीकारादेव।स्त्रीविषयादपीति । सूत्रारम्भसामर्थ्यादिति भावः । ननु सूत्रारम्भसामर्थ्यात्स्त्रीविषयादजातिवाचकान्डोषित्येव कुतो नेत्यत आह । अजात्यर्थंत्विति । इत्यादिनिषेधादिति । इत्यादिङीमानषेधादित्यर्थः । ननु पुनर्जातिग्रहणादस्त्रीविषयादित्यस्यैव संबन्धो ऽस्तु तेनावन्तीत्यादेःसिद्धिरत आह। स्त्रीति । पूर्वसूत्रेण । पाककर्णेति सूत्रेण । विच्छिन्नमिति । एवं च तस्य स्वरित- त्वमेव नेति भावः । ननु तित्तिरिः ककुभो लाव इति साहचर्यात्पुंस्त्वेनास्य स्त्रीत्वाभावोत आह । स्त्रीपुंसयोरिति । द्विचतुरीित । द्विपदचतुष्पदषट्पंदौरंगा- जातिविशेषवाचिन इत्यर्थः । पुनर्जातिग्रहणेनायोपधादिति वदत इत्यस्याप्य- संबन्धादित इति व्यर्थमिति शङ्कते । इतःकिमिति । परकनिवृत्त्यर्थमिति । परस्य कपो ऽन्तरङ्गत्वात्प्राप्तस्य निवृत्त्यर्थमित्यर्थः । अतः । पूर्वपरस्योपमानवा- ८८ औषयों विति । संख्याधिक्येइति । अस्य प्रातिपदिकार्थापेक्षयेत्यादिः । इत्येवमपीति । अपिना तदाधिक्ये इत्यस्यापि व्यावृत्तौ सिद्धायां मात्रग्रहणसामर्थ्यात्प्रथमया अन्ययोगव्यवच्छेद एव कल्प्यते न तु प्रातिपदिकार्थायोगो व्यवच्छिद्यत इति भावस्तदाह । इदमेव मात्रग्रहणमिति । तत्त्वसंभवादिति । प्रवृत्तिनिवृत्त्योरभि- मुखीकरणस्य चासंभवादित्यर्थः । अतएव । अभिमुखीकरणस्य प्रवृत्तिनिवृत्तिरू- पफलादेव । एवेति । न तु व्रजानीत्यादिक्रियान्तरे इत्यर्थः । एतदर्थस्य । रामे- स्याद्यर्थस्य संबोध्यस्य । अतएव । संबोध्यताघच्छेदकरूपेण संबोध्यस्यानुवाद्यत्वे संबोधनविभक्तेः साधुत्वादेव । ननु संबोध्यस्योद्देश्यविधेयतया विधेयभूतक्रिया- यामेवान्वये वनानि देवदत्तेत्यादेः सिद्धिर्न स्यादत आह । व्रजानीति । ननु तत्र व्रजनस्यानन्वितत्वाद्देवदत्तस्य निघातो न स्यादत आह । तत्रेति । कर्मत्वादुद्देश्य- त्वाञ्चेति। विधेयभूतज्ञानं प्रतीत्यर्थः। नन्वेकतिङ् वाक्यमित्युक्तेम्रजानि देवदत्तेत्यस्या- समानवाक्यत्वं न स्यादत आह। एकतिङिति । अत एव संबोध्यस्य क्रियायामन्वयादेव। इतिप्रथमा॥ .. अतएव । क्रियाजनकत्वादेव । एषाम् । कारकाणाम् । सर्वेषाम् । क- तिरिक्तानाम् । नन्वेवमप्यसंनिहितसंप्रदानस्य क्रियाजनकत्वाभावात्कारकत्वं न स्यादत आह ॥ असंनिहितेति ॥ स्वज्ञानस्येति । संप्रदानविषयकदातृज्ञानस्येत्यर्थः। एवं फलविषककर्तृज्ञानस्य पूर्वकालत्वेन क्रियाजनकत्वम् । नन्वेवमपि कारकस्य कार्याव्यवहित पूर्ववृत्तित्त्वनियमात्स्तोकमित्यादौफलस्य घटंकरोतीत्यादौ घटादेश्च खव्यापारात्पूर्ववृत्तित्वाभावात्कारकत्वं न स्यादत आह । बौद्धघटादेरिति ॥ तुरी । क्रियापरइति । संबन्धविषयकेच्छाविषय इत्यर्थः। कर्ताप्तुमिष्यमाणमिति । कर्तृकर्तृकसंबन्धविषयः संबन्धनियतत्वात्संबन्धाश्रयः फलं तदाश्रयः संबन्ध इत्यर्थः । स च किङ्करणक इत्याकाक्षायामाह । सचेति । व्यापारोत । फलेन संबन्ध- मिति । इदमुपलक्षणं फलाश्रयेण संबन्धुमित्यस्यापि । आद्योदाहरणमाह । पयइति । अन्त्योदाहरणमाह । फलस्यापीति । ब्यपदेशिवदावेनेति । साढश्यस्य भेदघटितत्वाद्यपदोशन एव व्यपदेशिसहशभावनेत्यर्थः । यथाश्रुतंतु न युक्तम् । ससहायव्यपदेशिवद्भावाप्रवृत्तेः । अत एव व्यापारस्य व्यापाराश्रयत्वेन
विभक्तयर्थाः ।
कर्तृत्वम् । फलसंबन्धित्वादिति । मध्यमपदलोपित्वात्कलाश्रय संवन्धित्वादित्यर्थः ।
अतएव । फलस्य कर्मत्वादेव । *
इतिश्रीमत्पुण्यग्रामस्थ पण्डितवरश्रीमच्छ्रोधरशर्मविरचितशब्देन्दुशेखरव्याख्यायां
प्रथमाकारकान्तं समाप्तम् ॥
शुभं भवतु ।