Prakrit Bharati Academy, Jaipur
Mallinath Katha Charitantargat
Front matter
No text on this page.
अर्हम् ॥ श्रीमल्लिनाथचरितान्तर्गतदानादिविषयाः कथाः॥ शान्तमूर्ति श्रीमदमुनिमहाराजश्रीगुलाबविजयशिष्य-तपस्विमुनिमहाराज- श्रीमंगलविजयसदुपदेशतः द्रव्यसहायक:- गांधी गुलाबचंद दलसुख (लुणावाडा) रू. ५०) लुणावाडा-बजारना उपाश्रयना खातामाथी रू. १२५) वि. सं. १९९५ - "श्रीशारदामुद्रणालये" तदधिपतिना श्रावकहर्षचन्द्रात्मजेन पण्डितभगवानदासेन मुद्रितम् , खारुनगेट, भद्र-अमदावाद
No text on this page.
मईम् श्रीमल्लिनाथचरितान्तर्गतदानादिविषया कथाः॥ अथ प्रहृष्टसर्वाङ्गः कृतस्नानादिमङ्गलः। सहस्रवायां शिविकामारुरोह बलो नृपः॥१॥ ददानो विधिवद् दानं भावशुद्धया विशुद्धधीः। उपेत्योपवनं तस्या उत्ततार भवादिव॥२॥ उज्झाञ्चकार निःशेष नेपथ्यादि स्वमोहवत् । श्रीरत्नचन्द्रपादाब्जं ववन्दे मोदमेदुरः॥३॥ सामायिकमहामन्त्रं सत्रं निर्वाणसंपदाम् । राजर्षिर्गु- रुवक्त्रेणोचचार प्रकटाक्षरम् ॥४॥ विविधाभिग्रहग्राही निगृहीतकुवासनः । अनगारः शमागारो निर्निदानत- पापरः ॥५॥ विधिवत् पालयित्वाऽथ सुचिरं संयम यमी। जित्वा कर्माणि राजर्षिलेंभे निर्वाणसंपदम् ॥२॥ (युग्मम्) महावलनरेन्द्रेण सिंहस्वप्नेन सूचितः। कमलश्रीमहादेव्यामुदपादि शरीरजः ॥७॥ भविष्यबलभ- द्रत्वादिति ध्यात्वेव भूभुजा। बलभद्राभिधानेनाऽऽहूतः प्रेम किरा गिरा ॥८॥ अन्यदा बहिरुद्याने चश्चचम्पक चारुणि । वरधर्माभिधः सूरिभगवान् समवासरत् ॥९॥ तदाऽऽगमनमगल्यमाकाऽऽरामपालकात् । यथेच्छं पीतपीयूषगण्डूष इव सोऽहृषत् ॥१०॥तं नमस्कर्तुमुर्वीशश्वचालाञ्चलमानसः । पिदधानो वरच्छत्रैर्दिवं हंसगणै. १ नवच्छतरिति पाठान्तरम् श्रीमल्लि. नाथचरि- तान्तगत दानविषया कया। ॥१॥ रिव ॥१॥ दन्तायलैबलोद्दामैरभ्रमूवल्लभायितैः। तुरङ्गैश्चापि मार्तण्डरथादपहृतैरिव ॥१२॥ रथैः श्रोत्रपथाध्वन्य- चारुचीत्कारयन्धुरैः। अनन्तैर्भक्तसामन्तैः समन्तात् परिवारितः॥१३॥ भूचरस्वर्वधूभ्रान्तिप्रदवारपुरन्धिभिः। चामरै रत्नखचितैर्वीज्यमानः पदे पदे ॥१४॥ बन्दिभोगावलीपाठस्पर्धाप्रसमरैरिव । नादैर्मगलतूर्याणां पिदधत् रोदसीतलम् ॥१५॥ धर्मातन्त्रैवतो मित्रैः षड्भिर्लक्ष्मीविकस्वरैः । पदातिभिश्च पारीन्द्रप्रौढविक्रमविश्रुतैः॥१६॥ गजेन्द्रस्कन्धमारूढः प्रौढप्रसूतभावनः। तदुद्यानमथ प्राप नन्दनं वासवो यथा ॥१७॥ (सप्तभिः कुलकम् ) दूरादे- वाऽवनीनाथः करिस्कन्धाद महादिव । उत्तीर्य राजचिह्नानि पञ्चाऽमुञ्चत् समाहितः॥१८॥ क्रोधान्धकारमार्तण्डं मानाऽचलपविप्रभम् । मायावल्लीतुषाराभं लोभाऽम्भोधिघटोद्भवम् ।।१९।। आरामं साम्यवल्लीनामभिरामं महा- व्रतैः । आत्मारामं महासत्वं मुक्तरामं विरागतः॥२०॥ लब्धिरत्नाकरं श्रीमजिनधर्ममिवाङ्गिनम् । वरधर्माख्य- माचार्यमद्राक्षीत् क्षितिनायकः ॥२१॥ (त्रिभिर्विशेषकम् ) अथ प्रदक्षिणीकृत्य मुनिनाथ जिनेन्द्रवत् । पुलक च्छद्मना बिभ्रद् भक्ति मूर्ता ननाम तम् ॥२२॥ कांश्चित् पद्मासनाऽसीनान् कांश्चिद् वज्रासनस्थितान् कांश्चिद् वीरासनस्थांश्च कांश्चन बर्हणाश्रितान् ॥२३।। कांश्चिद् भद्रासनासीनान् कांश्चिद् दण्डासनाश्रितान्। कायोत्स- र्गस्थितान् कांश्चिद् कांश्चिद् हंसासनश्रितान् । कांश्चन शीलाङ्गरथपरावर्तनतत्परान् । कांश्चिदक्षैर्विनिक्षिप्तैर्भ- गान् गणयतो भृशम् ॥२५॥ कालानुष्ठाननिष्ठांस्तांस्तन्वानान् बहुशोपि कान् । सिद्धान्तवाचिकाः कांश्चित् कु. १ मूनत्यपि।
वाणान् परया मुदा ॥२६॥ पात्रलेपपरान् कांश्चित् कांश्चिदु मौनमुपागतान् । शैक्षान् शिक्षयतः कांश्चित् कांचन पठतः पदः ॥२७॥ कांश्चित् कर्मप्रकृत्यादिविचारग्रन्थनिर्णयम् । कुर्वाणांचूर्णिभाष्यादेः पदव्याख्याप्रकाशनैः॥ ॥२८।। कांश्चित् प्रकरणान्युच्चैनूतनानि प्रकुर्वतः। वन्द्यान् ववन्दे निम्रन्थांस्त्रिविधं काश्यपीपतिः ॥२९॥ (अष्टभिः कुलकम् ) अथोपेत्य वनं सूरिं प्रणम्य प्रमदान्वितः। मित्रैः साकमुपाविक्षत् चक्रे च विनयाञ्जलिम् ॥३०॥ अथो दन्तांशुभिः शुभैयोत्स्नाव्यतिकरैरिव । सोधवच्छुभ्रयन् भव्यानुवाचेदं महामुनिः ॥३१॥ चतुर्गतिकसंसारक्षा. रवारांनिधाविव । पोतोपमानाश्चत्वारो धर्मा दानादिका अमी ॥३२॥ तेषां मध्याद दानधर्मः पृथक्कृत्य वित- न्यते। यः सिषेवे जिनाधीशैरावर्ष हर्षवर्षिभिः ॥३३॥ सर्वेषामपि जीवानां देहः सुकृतसाधनः। पुद्गलैः स तु निष्पन्न आहाररससंभवैः ॥३४॥ आहारैः प्राशुकैये तु दानं ददति साघवे । ते सौख्यभाजिनो राजन् ! भवन्ति जिनदत्तवत्॥३५॥ तथाहि पुष्करद्वीपे पुरी चन्द्रकलाह्वया। अभिधानविधानाभ्यां तत्र राजा परन्तपः ॥३६॥ तस्य सोमायशोवत्यौ हरस्येवाद्रिजह्णजे । अमेयरूपलावण्ये पट्टदेव्यो बभूवतुः ॥३७॥ पद्मशेखर आद्यायाः सोमायाः सूर इत्यपि। विमातृजावपि प्रीत्या तौ पुत्रौ युग्मजातवत् ॥३८॥ युगपज्जाग्रतोस्तुल्यहर्षयोस्तुल्य- शोकयोः। आजन्माज्जायत प्रीतिरेतयोर्नेत्रयोरिव ॥३९॥ अन्येयुः सोमयाऽध्यायि सपत्नीजेऽत्र जीवति । कथं मामकपुत्रस्य राज्यं सूरस्य संभवि ॥४०॥ मापत्नेयश्च रोगश्च नोपेक्ष्यौ हितमिच्छता । मूलादेवं समुच्छेद्यौ विषवृक्षाविवोगतौ ॥४१॥ विचिन्त्येनि महादेवी सोमाऽलीकप्रकोपना। वासागारे निलीयाऽस्थादू मेघच्छन्ने- .
दानविषय
कथा॥
नायचरि-
तान्तगत-
॥२॥
न्दुकान्तिवत् ॥४२॥ प्रमादवशतो भ्रष्टविद्यां विद्याधरीमिव ।सोमां वीक्ष्य नृपोऽप्यूचे प्रेममन्थरया गिरा॥४३॥
उत्तरायणतिग्मांशुविम्बवद् वदनं तव । गततेजः कथं जातं सोमे ! सोमवरानने !? ॥४४॥ तवाज्ञाखण्डनं मो.
हाद् मादृशेन विनिर्मितम् । यदेवं कोपसंस्त्याये मोहभित्तिघने स्थिता ॥४५॥ अथाऽभ्युवाच भूपालं सोमा
श्यामास्यमण्डला । चित्तेन धर्तुं नो वक्तुं शक्यते यत् तदाऽभवत् ॥४६॥ अथो निर्वन्धतः पृष्टा दत्त्वोचैः शप-
थावलीम् । हृतनिःशेषसारेव साऽप्यूचे गद्गदाक्षरम् ॥४७॥ तव वल्लभपुत्रेण पद्माख्येन स्मरान्ध्यतः। अभ्य.
र्थिता कृतस्नेहं प्रदोषे कुलरेणुना ॥४८॥ निशम्येदं महीपालः कोपाटोपं विनिर्ममौ । युक्तियुक्तं वचो नैतदवि-
चार्येति चेतसा ॥४९॥ आह्वय चण्डनामानमङ्गरक्षं निशागमे। मारणीयो नवैर्मारर्भवता पद्मशेखरः ॥५०॥
इत्यादेशं नृपो दत्त्वा त्यक्तोद्गारमिव क्रुधम् । सौख्यभागी बभूवाशु कोपान्धानां कुतो मतिः ? ॥५१॥चण्डा-
गरक्षकः सोऽथ लब्ध्वाऽऽदेशं सुदुन्श्रवम् । विजने कथयामास पद्मस्य पुरतोऽखिलम् ॥५२॥ अश्रद्धेयमिदं श्रुत्वा
कुमारो हृद्यचिन्तयत्। अप्रसादा कुतस्तातपादैर्मम विनिर्ममे १ ॥५३॥ पप्रच्छ चण्डमुर्वीशनन्दनः किमु कार-
णम् ?। भवानाकारभावज्ञो दैवज्ञ इव वर्तते ॥५४॥ चण्डोऽवदद् विमातुस्ते मन्ये कपटनाटकम् । नृपेङ्गितात्,
क्रियातत्त्वं प्रत्ययादिव पण्डितः॥५५॥ ततोऽनया स्फुटं कृत्वा कूटं किञ्चित् कठोरया। व्यामोहितो महीपाल-
श्छाया लेखनया यथा । ५६॥ जगन्मोहनिदानाय दुर्लक्षाय बुधैरपि । विवेकिजनमुक्ताय स्त्रीवृत्ताय नमोनमः
॥५७॥ सुस्नेहपात्रसंस्थायिदीमा दीपशिखा यथा ।मलिनी तनुते लोललोचना निजमाश्रयम् ॥५८॥ एवं विभाव्य
॥२॥
शुद्धात्मा विमुच्य नगरं निजम् । उत्तराशामुत्तराशः प्रतस्थे पशेखरः ।।५९॥ व्याधव्याहतसारङ्गशुन्यनाम्य- न्मृगीकुलाम् । विलोक्यमानपारीन्द्रपादां पांशुलभूमिषु ॥६०॥.नाहलैर्वद्धगोष्ठीकै ज्ज्यमानपशुबजाम् । बंभ्र- म्यमाणनिस्त्रासयोगिनीशतसंकुलाम् ॥६१॥ कापालिकजनारब्धघोरमन्त्रप्रसादनाम् । निशम्यमानशार्दूलकर- फुत्कारदारुणाम् ॥६२॥ भववद् विपुलाकारां प्रेतभर्तुः प्रियामिव । दिनैः कतिपयैः पद्म आपपात महाटवीम् ॥ (चतुर्भिः कलापकम् ) इतश्च पन्नगः कोऽपि नीचैःकृतमहाफणः । देवदग्ध इव श्यामो ददृशे तेन मार्गगः ॥६॥ मन्दं मन्दं जगादाऽसाविति मानुष्यभाषया। कुमारवर ! मां पाथस्तृषार्त पाययाऽधुना ॥६५॥ अन्यथा मम जीवदुः शोषं यास्यति सत्वरम् । खिन्नेषु दुःखितेषूचैर्महात्मानः कृपापराः॥६६॥ पश्चात् तव करिष्यामि परा. मुपकृति सखे!। विस्मरिष्यसि न त्वं मां मनस्याऽऽहितया यया ॥६७।। ततः कुमारः संप्राप्य नीरं तीरवती- भवम् । पन्नगं पाययामास नलिनीनालचर्यया ॥६८॥ अथाभवदसौ वेगाद दिव्यरूपधरो नरः। दधानः कररा- जीवे चारु काश्चनपङ्कजम् ।।६९।। आहत्य करपादेन पद्मोऽसौ वामनीकृतः। अहो! तस्योपकारस्योपकृतं तेन पापिना ॥७॥ अहो ! अस्य कठोरत्वं कुलिशेनेच निर्मितम् । अहो! अस्य द्विजिह्वत्वं यथार्थमिव लक्ष्यते ॥ ॥७१॥ विमृश्येत्यचलत् पद्म उत्तरां प्रति सत्वरम् । इतश्चैक्षिष्ट निश्छिद्रां रजोराजी प्रसर्पिणीम् ॥७२॥ शृणोति स्म तुरङ्गाणां स्फुरत्खुरपुटारवम् । जयश्रीकरकेयूरतारठात्कारसुन्दरम् ॥७३॥ अस्त्राणि दीप्यमानानि दिवाकर- १ नाहल:-म्लेच्छजातिविशेषः । . .
दानाविषय
कथा।
श्रीमल्लि-
नाथचरि-
तान्तर्गत
॥३॥
करोत्करैः। दृष्टवानवनीनाथसूनुः सौर्यगृहा इव ॥७४॥ उपलक्ष्य स्वकीयं तद् बलं बलवदाकुलम् । अपृच्छत्
सादिनं कञ्चिद् नामतः प्रकटाक्षरम् ।।७५॥ अथाऽसौ न्यगदचन्द्रकलायां पुरि भूपतिः। परन्तपः सुतस्तस्य
पद्मशेखरनामकः ॥७६॥ मर्यादास्तम्भमुन्मूल्य महान् मत्त इव द्विपः । देवीं यशोमती कामात् प्रार्थयामास
पद्मकः ।।७७॥ अग्राह्यनामा नष्टः स चण्डकादङ्गरक्षकात्। तस्मादिदं बलं भद्र! प्रेषितं दिक्षु सर्वतः ७८॥
अन्यच मामकं नाम कथं विज्ञातवानसि ?। पझोऽप्युवाच त्वद्वस्त्राञ्चलाऽक्षरविलोकनात् ॥७९॥ ततः पद्मो
महाटव्या निःससार भवादिव । भुजङ्गकृत्तखर्वत्वं चिन्तयन् जीवनौषधम् ॥८॥ तस्या विनिर्गतः पद्मः प्राप
शोभापुरं पुरम् । इतश्च चण्डो मार्तण्डो नभोमध्यं व्यगाहत ॥८१॥ नखम्पचासु धूलीषु दुःसञ्चारेषु वर्त्मसु ।
विभ्राणेष्विव निक्षिप्तकारीषानलविनमम् ।।८२॥ हर्षादध्ययनस्थानाद् गृहीत्वा पुस्तिकावलीम् । बठरच्छात्रवर्गे-
त्तिष्ठत्सु निजकासनात् ॥८३॥ मार्गभ्रमपरिश्रान्तः क्षुधाक्षामकडेवरः। सुष्वाप सहकारस्य च्छायायां पद्म-
शेखरः॥८४॥ इतवागत्य तत्पादाङ्गुष्ठं चञ्चन्नखप्रभम् । अचालयत् कराग्रेण नरः कश्चिद् महामनाः॥८५॥
अथ निद्रां परित्यज्योपाविक्षत् पद्मशेखरः। कस्त्वं भवान् कथं निद्राविद्रावणपरोऽसि मे ? ॥८६॥ सोऽप्युवाच
महाभाग! पुरं शोभापुराभिधम् । अनास्ति भूपतिः सोमः सोमान्वयविभूषणम् ॥८७॥ तस्याहं सचिवाधीशः
सुबुद्धिर्नाम सन्मते !। मम राज्यभरं राजा न्यस्तवान् धुर्यवच्चिरम् ॥४८॥ भद्र ! सोमनृपो देवादाक्रान्तोऽस्ति
रुजा भृशम् । यत्र मन्त्र इवाऽकर्णे निष्फला औषधक्रियाः ॥८९॥ दुश्चिकित्स्यनृपव्याधिवीक्षणाचिन्तयाऽऽ-
-
॥३॥
कुलः । अहं निर्गमयामास दिनं संवत्सरोपमम् ॥९०॥ निशायामद्य निद्राणे मयि काचन देवता। एवमादेश- यामास मा मा चिन्तातुरो भव ॥११॥ यः प्रातः सहकारस्य च्छायायां मार्गखेदतः। शयितं वीक्षसे राज्ये तं भद्र! विनिवेशयेः॥९२॥ पद्मशेखर इत्यस्य नाम स्थाममनोहरम् । यस्माद् राज्यश्रियो वृद्धिः संभविष्यति निश्चितम् ॥९३॥ सत्याकर्तुमहं मन्ये भवदागमनोत्सवः। समायातोऽसि नो भाग्यैः पाहि राज्यमखण्डितम् ॥ ॥९४॥ ततः पो निजं दृष्ट्वा वपुर्नैसर्गिकाकृति । अचिन्तयदहो! कीहक् पुण्योदयविजृम्भितम् ?।।९५॥ अथ राज्येऽसको न्यस्तो भूपोऽभूत् पद्मशेखरः। पुण्यानि सहचारीणि विदेशेऽपि महात्मनाम् ॥९६॥ इतश्च तत्रैव पुरे परकर्मोपजीवकः । महोदराख्यया ख्यातः समभूत् कुलपुत्रकः ॥९७॥ विज्ञातनिष्फलोपायोऽसुकृताद्वैतमा- वहन् । उपवासान् वितन्वानः पद्रदेव्याः पुरोऽपतत्॥९८॥ महाशत्तयोपवासेषु कृतेषु निशि देवता। प्रादुरा- सीत् पुरस्तस्य दीप्यमाना तनुाता ॥९९॥ वरं वृणु महाभाग ! तुष्टाऽहं तव साहसात् । सुस्वप्नेक्षणवद् मोघं नास्माकं दर्शनं यतः॥१००॥ यदि तुष्टाऽसि पद्रेशे! स्वर्णलक्षं प्रयच्छ मे । अन्यथा मम वाञ्छादुर्गतमूल: पतिष्यति ॥१०१॥ स्मित्वा पद्रेश्वरी प्रोचे स्वर्णलक्ष न संनिधौ । ममास्ति भद्र! किन्तूचैरुपायं दर्शयामि ते॥ ॥१०२॥ अथाभ्यधादसौ देवीमुपायं प्रकटीकुरु । न किं कलान्तराकृष्टादू वित्ताद् वित्तमुपायंते १ ॥१०३।। गृहाण पुरुषाकारं नरं मृत्स्नामयं तनु । दारिद्रयमस्य नामेति दुःस्थितादयितान्वितम् ॥१०४॥ स्मिस्वा स्मित्वाऽवददसौ देवि! प्रणतवत्सले । दारिद्रयस्य प्रसादेन प्राप्त एतादृशीं दशाम् ॥१०५॥ अनेन निधनेनेव न मे कार्य कदाचन । -- श्रीमल्लि नाथचरि- तान्तर्गत ॥४॥ यास्यामि निजसंस्त्यायं लाभो मम तपस्यभूत् ॥१०६॥ पुनरप्यवदद् देवी कश्चिदेनं विनिश्चितम् । ग्रहीता स्व- लक्षेण दधानः सत्त्वमद्भुतम् ॥१०७॥ नो चेत् तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् । पुत्रस्येव तवानेन न कुर्वे विप्रतारणम् ॥१०८॥ आदेशप्रमितिर्मेऽस्तु निगद्येति स पूरुषः। दारिद्रयपुरुष मूनि न्यस्याऽस्माद्' निर- गाद् नरः ॥१०९॥ किमिदं लभ्यते भद्र! पृष्टे सति पुरीजने । दारिद्रयं स्वर्णलक्षण प्राप्यते दयितान्वितम्।। ॥११०॥ हा! पाप! पाप ! हा! तापकारणं सुखवारणम्। गृहीतं किमिदं गाढक्रोशायैतत् क्रयाणकम् ॥११॥ इत्थं पौरजनोद्गीण शृण्वानो वाक्यताण्डवम् । पर्यभ्राम्यदसौ पुर्या भूतार्त इव सर्वतः॥११२॥ परिभ्राम्यन् परिभ्राम्यन राजसौधमसौ गतः। इतश्च तं गवाक्षस्थो वीक्षाञ्चक्रे क्षितीश्वरः ॥११३॥ तमाश्वाकारयामास मू- र्तव्यसनचक्रवत् । सोऽप्यागत्य प्रणत्यैनं बभाषे योजिताञ्जलिः ॥११४॥ देवैतदू देवतादत्तं दारिद्रय पुरुषाकृति। न केनापि गृहीतं तद् दधता सत्त्वमद्भुतम् ॥११५॥ अस्मिन् सत्त्वविनिर्मुक्ता वसन्ति पुरवासिनः। असा. त्त्विकं पुरं सर्वमिदं स्वामिन् ! त्वया विना ॥११६।। इत्थं तस्य वचः श्रुत्वा बभाषेनरपुङ्गवः । अपंयाऽमुं गृहाण त्वं स्वर्णलक्षं निजं यथा ॥११७|| गृहीते सति दारिद्रयपुरुषे धरणीभुजा । तद्भयादिव मार्तण्डो ययौ पश्चिमभू- धरम् ॥११८॥ दौर्भाग्यमिव दारिद्रथे प्रससार तमस्ततिः। दूराद् ध्वस्तो दृगालोकः साधुवाद इव द्रुतम् ॥११९॥ इतश्च स्मेरराजीवं दधाना करपद्मयोः। लक्ष्मीः प्रादुरभूदने पुण्यक्षीराम्वुधेः सुता ॥१२०।। देव! यस्मिन्नयं भद्रः सुखं खेलति कौतुकी । अहं तत्र न तिष्ठामि सतीव गणिकौकसि ॥१२१॥ अहो । विदधताङ्गेऽहं सत्य I . ॥४॥ 5ok -SC । आभानकः कृतः। ऊर्णायुः प्रज्वलंस्तार्णपार्णीकसि निविक्षिपन् ॥१२२॥ कार्य किमपि नो कार्यमविचार्य विच- क्षणैः। प्रत्यक्षेणाऽनुमानेन परीक्षा च विधीयते ॥१२३॥ अविचार्य कृते कार्ये पश्चाद् बुद्धिविचारणम् । सेतु बन्धनवद् धिर धिग् गतपाथसि भूयसि ॥१२४॥ इत्थमुक्त्वाऽथ देवी श्रीनिर्ययौ राजवेश्मनः। इतश्चागाद नरः कोऽपि पुरस्तात् पृथिवीपतेः॥१२५।। अथाभ्युवाच भूपालः कस्त्वं कस्मात् समागतः । सोऽप्यूचे देव! दानाख्यं पुरुषं मां विचिन्तये ॥१२६॥ यत्र लक्ष्मीवरस्थानं तनुते सुकृतोदयात् । प्रायशस्तत्र तिष्ठामि मराल इवमानसे।। ॥१२७॥ चिरं स्थितस्तवावासे प्राप्तं लक्ष्मीफलं मया । यास्यामो वयमेतहिं स्वस्ति तुभ्यं महात्मने ॥१२८॥ इत्थं दाननरो भूपं प्रत्युक्त्वाऽथ श्रियं प्रति । चलितो दत्तसंकेत इव राजनिकेतनात् ॥१२९॥ इतश्चागाद् नर- स्तद्वत् पुरतः पृथिवीभुजः । देव ! त्वं विद्धि मां श्लोकनामानं वेगवत्तरम् ॥१३०॥ लक्ष्मीलताफलं यत्र देव ! दानं विजृम्भते । तत्राहं सततं कुर्वेऽवस्थानं गुणवद्धवत् ॥१३१।। तूष्णींभाजि ‘महीनाथे श्लोकनामा नरः क्ष. णात् । तत्पादाभ्यामचलत्(स)तदाहत इवोचकैः॥१३२॥ इतश्च चण्डकोदण्ड दोर्दण्डे कलयन् कलम् । प्रादुर्बभूव मनुजः कोऽपि कार्तस्वराकृतिः ॥१३३॥ कस्त्वं भवसि भूपेन पृष्टे सति महात्मना । सोऽभाषिष्ट वचश्चारु रूप्यघर्घरनिस्वनः ॥१३४॥ भूपते ! सत्त्वनामानं मां विद्धि नररूपिणम् । श्रियं प्रति प्रयाताऽस्मि न स्थास्यामि तवान्तिके ॥१३५।। विहस्येत्यगदद् राजा त्वां समुद्दिश्य चित्तगम् । गृहीतमिदमुद्दामं दारिद्यं दयितान्वितम् ॥१३६॥ श्रीर्यातु यातु दानं च यातु श्लोकोऽपि लोकतः। न ते गमनमाजीवमनुमन्यामहे वयम् ॥१३७॥ सर्वेऽप्य- . .
दानविपये पद्मशेखर कथा। स्त्वयि सति प्राप्यन्ते पाणिपङ्कजे । न नरस्त्वां विना भाति वक्ता निर्लक्षणो यथा ॥१३८॥ अर्थास्तावद् गुणास्तावत् तावत् कीर्तिः समुज्ज्वला यावत् खेलसि सत्त्व! त्वं चित्तपत्तनमध्यगः॥१३९॥ निशम्येदमुवाचाथ सत्त्वनामा महामतिः । देव ! स्थास्यामि यौष्माकगुणसंबन्धबद्धधीः ॥१४०॥ इतोऽभाणि श्रिया देव्या हंहो! दान ! नरोत्तम! । नैवाद्यापि समायाति सत्त्वनामा महाबलः ॥१४१॥ वयमेकाकिनः सर्वे तमेकं पुरुषं विना। लोचनं.हि विना सर्वमङ्गोपाङ्गं हि पङ्गुवत् ॥१४२॥ ततो दाननरोऽचालीदाह्वातुं सत्वपूरुषम् । नृपपार्श्व समागत्य दृष्ट्वाऽमुं तत्र संस्थितः ॥१४३॥ अनायाते. नरे दाने दध्यो लक्ष्मी स्वचेतसि । बन्दिग्राहेण मां कश्चिद् ग्रहीता गतयामिकाम् ॥१४४॥ अथ श्लोकेन सा साकं समागत्य नृपाग्रतः । उवाच देवी भूपालं दीप्यमाना रदद्युता ॥ ॥१४५॥ देवाऽहं पद्रदेव्यस्मि त्वत्पुरद्वारवासिनी। मत्सखी चन्द्रभागाऽस्ति चन्द्रज्योत्स्नेव निर्मला ॥१४॥ तयाऽभाणि विहस्येदं तव नव्यस्य भूपतेः। किं यदस्तितरां सत्त्वं राज्यश्रीप्रतिभूनिभम् ? ॥१४७॥ ततो दा- रियनामाऽयं मया चक्रेतरां नरः। तव सत्त्वपरीक्षायै महासत्त्वशिरोमणेः ॥१४८॥ वरं वृणु महाभाग ! तुष्टाऽह तव साहसात् । अथोवाच नृपो देवि ! हृषितासि यदि स्फुटम् ॥१४९॥ शत्रोरमारकं राज्यलक्ष्मीवृद्धिनिवन्ध- नम् । वरं प्रयच्छ मे देवि ! यदि तुष्टाऽसि सत्यतः ॥१५०॥ अथ तस्मै ददौ देवी दिव्यरत्नं स्फुरत्मभम् । अस्मिन् धनुर्दण्डे निद्रात्यरियलं रणे ॥१५१॥ अथो तिरोदधे देवी तत्सत्त्वालोकविस्मिता। राजापि नितरां दधे परमामोदसंपदम् ॥१५२॥ अथान्येार्यशोनाम दूत एत्य व्यजिज्ञपत् । देव ! चन्द्रकलापुर्या भूमीनाथः परन्तपः ॥५॥ । २०६ ॥१५३॥ तस्य सोमानभूः सुरः पद्मो यशोमतीभवः । भुजाविव समप्राणावभूतां तनुसंभवौ ॥१५॥ कैतवेन विनिक्षिप्तः सो मया पद्मशेखरः। तद्वियोगेन भूपाल: परलोकमुपेयिवान् ॥१५५॥ बभूव तत्पदस्वामी सूरः सोमासमुद्भवः । सोऽपि त्वद्देशभागेषु समागाच युयुत्सया ॥१५६॥ सहज कृत्रिमं वापि यत्तु वैरं समं मया । तदहं वेनि नः स्वामिन् ! गूढमन्त्रः स भूपतिः ॥१५७।। सोऽयं भवानिवाऽऽकृत्या लक्ष्यतेऽलक्ष्यतेजसा । युव. योर्न तिलेनापि भेदः क्षीराम्बुनोरिव ॥१५८॥ तत्क्षणं कणिकागुप्यदुगुर्वादिभिरनेकशः । व्यानशे नगरीवाह्य- प्रदेशोऽङ्गीव कर्मभिः ॥१५९॥ बभूवुर्मण्डलाधीशाः, सर्वसन्नहनोद्यताः। जहषुर्वीरभोगीणबाहवो बाहुसंभवाः ॥१६०॥ विन्ध्याद्रिभूरिवाऽऽभाति निर्यद्भिर्भूर्मतङ्गजैः । हयैश्च सिन्धुवालीकाऽऽकरनिर्मितवद् भृशम् ॥१६१॥ सुषमाकालजातैर्वा पत्तिभिश्च पदे पदे । रथैरनेकनिष्पन्नप्रद्योतनरथैरिव ॥१६२॥ प्रयाणैरुत्प्रयाणैश्च बहुभिः पद्मशेखरः । स्वकीयदेशसीमस्थाः समभूद भूरिसैन्यवान् ॥१६३॥ सूरोऽपि निकटीभूय तस्थिवान् बलमेदुरः। आवाससंस्थयां विभ्रत् सार्वभौमवलश्रियम् ॥१६४॥ संजग्माते क्रमेणाऽथ सेनाम्भोधी महारयो । स्वनत्समर- तूर्यालीगम्भीररवभीषणौ ॥१६५॥ गजा गरयुध्यन्त योषा योधै रथा रथैः। दन्तादन्ति खड्गाखड्गि तुण्डातुण्डि यथाक्रमम् ॥१६६॥ रजोराज्याम्बरे छन्ने घण्टानादैर्महागजाः। सुभटैरन्वमीयन्त प्रोगारैरिव भोजनम् ॥१६७ा मुद्गरैः केऽपि पात्यन्ते पवनैरिव पादपाः। अधावन् केचनोदना उद्दन्ता इव दन्तिनः ॥१६॥ पद्मशेखरभूपालबलं निर्बलतां गतम् । सूरभूमीपतेः सैन्यसनिपातेन सर्पता ॥१६९॥ दत्तं देवतया रत्नं कोदण्डे
दानविपये
पद्मशेखर
कथा।
॥६॥
पद्मशेखरः । ध्वान्ताधायि परबले वंशे ध्वजमिवादधे ॥१७०॥ अथाऽवष्टभ्य कोदण्डे स्वदोर्दण्ड इवार्पिते।
निद्रान्ति स्म. भटाः सौमाश्चिरं भ्रान्ताऽध्वगा इव ॥१७१॥ केचिद् रथेपु रथिनस्तल्पेषु रचितेष्विव । प्रसार्य
चरणद्वन्द्वं शेरते स्म रणाङ्गणे ॥१७२।। केषां पाणितलादत्रं हियेव गलितं ततः। पूर्वाधीतं यथा. शास्त्रमिव
स्मरणवर्जनात् ॥१७३॥ तुरगा अपि निद्रान्ति किञ्चिन्मीलितलोचनाः । ऊर्ध्वस्था नवमुद्गानां स्वेच्छया
खादनादिव ॥१७४॥ अथो पद्ममहीपालो नियम्य निजबान्धवम् । सूरं निजे रथे न्यस्यद् गुम्फेर्थमिव सत्कविः
॥१७५॥ कोदण्डाद् देवतारत्नमुद्दधे पद्मशेखरः। सुप्तोत्थिता इव भटा बभूवुः सूरसेविनः ॥१७६।। जितकाशी
नृपः पद्म आसाय विषयं निजम् । पुरी चन्द्रकलांप्रापप्रतापजितभापतिः ॥१७७॥ परन्तप इव प्राज्यं राज्यं
प्रबलविक्रमः । आससाद पुरं चापि स त्वरितबलान्वितः॥१७८॥ अन्येयुः कोऽपि निर्ग्रन्थो ग्रन्थवद्वर्णभास्वरः।
सत्तत्त्वः सज्जनानन्दी पूर्व हि समवासरत् ॥१७९॥ तं वन्दितुं महीनाथः सनाथा परया मुदा । अगादुपवने
तस्मिन् महामुनिपवित्रिते॥१८०॥ प्रणम्य परया भक्त्या सुखासीने क्षितीश्वरे। महामुनिरुवाचेदं मोहध्वा.
न्तदिवामुखम् ॥१८१॥ अमुष्यां संसृतौ सर्वमस्थैर्यस्य मुखं सुखम् । दाराः कारागृहाणीव जीवितं फेनवचलम् ।।
॥१८॥ श्रुत्वेदं पद्मभूपालो भववैराग्यभावतः। अवोचत प्रभो! कर्मविपाकेभ्यो विभेम्यहम् ॥१८॥ कर्मव
न्धच्छिदं कञ्चिद् मार्ग सन्मार्गदेशक ! | निवेदय परं पूर्वभवं श्रोतुं समुत्सुकः ॥१८४॥ अथाभ्युवाच निग्रंन्य:
पुरातनभवेऽभवः । भाल्लूकनामनि ग्रामे जिनदत्तः कृषीयलः ॥१८५॥ भीष्मे ग्रीष्मे त्वमन्येदुर्गृहीत्वा शक
॥६॥
- टावलीम् । अनेकैः किंकरैः पूर्णामायासी(मकाननम् ॥१८६॥ लङ्कोद्देशमिवोत्तालपलाशशतसंकुलम् । गेयवद् विलसत्तालं सशालं नगरं यथा ॥१८७॥ पाण्डुपुत्रमिव प्रेडदर्जुनेन प्रसाधितम् । हरिवक्ष इव क्रीडद्वनमाला- विभूषितम् ॥१८८॥ (त्रिभिर्विशेषकम् ) कांश्चिदुच्छेदयामास मूलादपि विरोधिवत् । शाखोपशाखविकलांधके कांश्चन भूपपत्॥१८॥ गगनाङ्गणमाध्यस्थ्यं गते गगनदीपके। अगाः समं कर्मकरैः सरो मानसंविभ्रमम् ॥१९०॥ हस्तपादादिकं शौचं विदधुः किंकरास्तव। इतश्चागाद् मुनिः कश्चिद् मार्गभ्रष्टस्तदन्तिके ॥१९१॥ दिष्ट्या दृष्ट्वा मुनि दध्यौ धन्योऽहं यदसौ मुनिः । मया दृष्टो महारण्ये कल्पद्रुम इवाऽङ्गवान् ॥१९॥ तदेव भोजनं शस्यं यद् दत्तं गुरवे भवेत् । सैव प्रज्ञा यया पापं न कुर्याद् विधुरेष्वपि ॥१९३॥ विमृश्येदं विशुद्धात्मा भूरिभावविशे- षतः। द्विः करम्बेण पीयूषशीतेन प्रत्यलाभयत् ॥१९४॥ तवाभ्यर्णचरचण्डो भवन्तं दानतत्परम् । विलोक्य धन्योऽयमिति मुहुस्त्वामन्वमोदत ।।१९५॥ वसन्ती जगतीं प्राप त्वत्सार्थेन महामुनिः। क्रमेण च भवांल्लेमे सौधर्मे त्रिदशश्रियम् ॥१९६॥अथ च्युत्वा भवाजज्ञे नरेन्द्रः पद्मशेखरः। करम्बदानाद् द्विाभोऽभवद् राज्यद्द यस्य ते॥१९७॥ चण्डोऽपि क्रमशो जज्ञे तस्मिन् यक्षो महावने । भवान् यत्र समायातोदेवीकूटप्रयोगतः॥१९८॥ यक्षेण फणिनो रूपं विधाय त्वं च रक्षितः । संहृतं तय खर्वत्वं राज्यलक्ष्मीसमागमे ।।१९९॥ अहो ! सुपात्र- दानस्य यत् फलं जायतेऽङ्गिनाम् । वागीशोऽपि गिरा गुम्फैरतद् वर्णयितुमक्षमः ॥२००॥ यत्त्वयाऽमच्छि भू. नाथ! समुपार्जितकर्मणाम् । विपाको बन्धसत्तात्मा चतुर्गनिनियन्धनम् ॥२०१॥ स विपाकः क्षिते थ !
शीलविषये वनमालिका कथा। ||७|| सर्वकर्मलतायनः । जिनभर्तुविना दीक्षां वध्यमानो न रक्ष्यते ॥२०२॥ यतः-प्रव्रज्या भवपाथोधिनिस्तारण- तरीनिभा । प्रव्रज्या साम्यमाकन्दवसन्तसमयोपमा ॥२०३॥ श्रुत्वेदं पद्मभूपालो राज्यसौस्थ्यं विधाय च । प्रवज्यामाददे राजपुत्रैः साकं तदन्तिके ॥२०॥ परिपाल्य चिरं चारु चारित्रं राजसंयमी। एकावतारः समः भूद्' पैजयन्ते स नाकसत् ॥२०५॥ तस्माच्च्युत्वा विदेहेऽसौ प्राप्य तीर्थकरव्रतम् । अक्षयं नीरज कान्तं निर्वा- णपदमेष्यति ॥२०६॥ श्रुत्वेदं हन्त! सत्पात्रं फलं न विकलं श्रिया। उवाच विस्मितो राजा राजमानो महाबलः॥ साम्प्रतं श्रोतुमिच्छामि गुरोः शीलनिदर्शनम् । उत्सुकोऽस्मीति गदिते बभापे संयमीश्वरः ॥२०८॥ सर्वेषामपि धर्माणां दुष्करं शीलपालनम् । इदं वशंवदं सर्व भुवनं पुष्पधन्विनः ॥२०९॥ शीलं भावलतामूलं शील कीर्तिनदीगिरिशीलं धर्माब्दपाथोधिः शीलं पापगिरेः पविः ॥२१०॥ यथा महीपतिर्नीत्या यथा रात्रिः शशिद्युता । यथा च दयया धर्मों यथा पूर्वप्रसंपदा ॥२११॥ यथा क्षान्त्या च निम्रन्थो यथा ग्रन्थः सदाख्यया। यथा ज्ञानं क्रिययाऽङ्गी तथा शीलेन भूष्यते ॥२१२॥ (युग्मम् ) इलथसद्भावनाधर्मः स्त्रीविलासशिलीमुखैः। सुनयोद्वाहतोऽधस्ताद निपतेच्छीलकुञ्जरात् ॥२१३॥ अकीर्ते कारणं योषिद् योषिद् वैरस्य कारणम्। संसार- कारणं योषिद् योषितं परिवर्जयेत् ॥२१४।। सुशीला पावना काचित् स्तूयते विबुधैरपि । यथा पौतिकवृत्तान्ते श्रूयते वनमालिका ।।२१५॥ तथाहि पुष्करद्वीपे कालाम्भोधिमनोहरे । पुरं विभूषणं नाम भूतधात्रीविभूषणम् ॥२१६॥ निरालम्बपरिभ्रान्तो यत्र प्रान्तो दिवाकरः । अधलिहगृहेष्वस्थात् प्रदत्तेष्वासनेष्विव ॥२१७॥ सौध- REAL ॥७॥ २० जालकनिर्गच्छधूपधूमं घनोपमम् । विलोक्य केकिनः केका कुर्वते यत्र वेश्मगाः ॥२१८॥ तस्मिन् पभूव भूपालो विमलो विमलाशयः। मूर्त्या सोमोऽपि यः सूरः प्रतापेन प्रकाशते ॥२१९॥ नाम्ना चम्पकमालेति पुष्पमालेव सद्गुणा । तस्यासीत् प्रेयसी प्रेमरत्नरोहणधूलिका ॥२२०॥ अन्थेद्युमंगयाऽऽसक्तो महावनमंगाद् नृपः । पीतवस्त्रपरीधानः साकं व्याधैर्धणोज्झितैः ॥२२१॥ ततो हेरम्बवत् केपि समुद्यतपरश्वधाः। केचित् प्राकारवद् भूरिन्यस्तयन्त्राः पदे पदे॥२२२॥जधान निशितैः कुन्तैः कश्चिदाहूय शूकरम् । कश्चिच्छशग्रहव्यग्रो निलीनोऽस्थालतान्तरे ॥२२३॥ उड्डीनपक्षिपक्षोत्थविरावैः करुणाकरैः । अहो! अन्यायवाक्यं तु व्याजहारेव काननम् ॥२२४॥ एतन्मरन्ददम्भेन रुदत्स्विव वनेष्विव । भयेन कम्पमानासु वल्लरीषु भुजास्विव ॥२२५।। केषुचित् पादहीनेषु धार्यमाणेषु केषुचित् । केचित् प्रोथहीनेषु पुच्छहीनेषु केपुचित् ॥२२६॥ केषुचिद् वध्यमा- नेपु मार्यमाणेपु केपुचित् । केषुचिद् नश्यमानेषु श्वापदौधेषु सर्वतः।।२२७॥ इतश्च कश्चिदागत्य प्रणम्य परया मुदा व्यजिज्ञपद्महीपालं कालं काननचारिणाम् ॥२२८॥ (चतुभिः कलापकम् ) देव ! ऋक्षाध्वचारेण गच्छता दूरतो मया । एका निरीक्षिता वाला कामसंजीवनौषधम् ॥२२९।। तस्या रूपप्रतिच्छन्दो दर्पणे यदि वीक्ष्यते। सुधारसस्य किं तुल्यं त्रिजगत्यपि वर्तते ? ॥२३०॥ तद्रूपं चीक्षमाणोऽहं निर्निमेषविलोचनः। कोऽहं कुतश्च किं नाम न जानामीति मत्तयत् ? ॥२३१॥ सर्वाश्चर्यनिधानाया यदि तस्या भवान् पतिः ।.पुरुषार्थस्तृतीयोऽपि ततः प्रथमतां गतः ॥२३२॥ निशम्येदं महीपालो विमलश्चित्रिताशयः। तन्मार्ग दर्शयाऽस्माकमकारणसुहृत्तमः ॥
वनमालिका कथा। शीलविपये ॥८॥ ॥२३३॥ तस्याध्वदर्शनेनाऽथ ध्रुवस्य गुरुपोतवत् । संचेरे धरिणीनाथस्तत्काननमहोदधौ ॥२३४॥ दूरादेव समा- यान्तमवलोक्य तपोधनाः । उत्तस्थुरुदयाहार्योदिततिग्मांशुविम्ववत् ॥२३५॥ षडंशभागिने तस्मै पाद्यमर्थ्य यथाविधि । दत्त्वे कुशाऽऽसने राजा महर्षिभिनिवेशितः।।२३६॥ तेषां मुख्यो जगादैवं चन्द्रः कुलंपतिस्ततः। धन्या वयं यतो दिष्ट्या दृष्टस्त्वमसि तत्त्ववित् ॥२३७॥ भवते तत्रभवते सपर्या काञ्चनाऽधुना। करिष्यामोऽति- थिभ्यो हि प्रदत्तं श्रेयसे किल ॥२३८॥ अथाह धरिणीनाथः पाथोनाथपृथुध्वनिः। युष्माकमिदमातिथ्यं यदाशी- दिमङ्गलम् ॥२३९॥ अथ प्रोवाच स ऋषिविहस्य जगतीपतेः। यदाशीर्वाददुष्पापं तद् मया दास्यतेऽधुना। ॥२४०॥ ततः पुरस्थितां कन्यां धृतवल्कलवाससम् । साक्षात्सिद्धिमिवात्मीयामदीदृशंदसौ ऋषिः ॥२४॥ उक्तिप्रत्युक्तिकालोऽयं नैवाऽस्माकं गुणानघ!। परमेकां वरां कन्यां कृतार्थय करग्रहात् ॥२४२।। अथो बभापे भूपालः केयं किं नाम कन्यका । कमलंकुरुते वंशं किमर्थमिह संस्थिता ॥२४३॥ इत्युक्त धरिणीभ; जगाद- पिमहातपाः। शुभाख्ये पत्तने भूमान समभूद् मेघवाहनः ॥२४४॥ निजनाथमनःपान्धविश्रामप्रान्तरमपा । तस्य लक्ष्मीवती देवी लक्ष्मीर्लक्ष्मीपतेरिव ॥२४५॥ वार्धकोत्पन्नवैराग्यो लक्ष्मीवत्या समन्वितः । गिरिगर्भाश्रमे रम्ये तापसव्रतवानभूत् ॥२४६॥ देव्या पूर्वभवोगर्भः पूर्व राज्ञोऽप्रकाशितः। अवर्धिष्टाऽऽश्रमस्थाया वल्ल्या फल. मिवोच्चकैः ॥२४७॥ सुषुवे सा सुतां कान्तां गङ्गेव स्वर्णपदमिनीम् । वनमालेति नामाऽभूदस्या दत्तं महर्षिभिः ॥२४८॥ याल्यावस्थां व्यतीत्याऽसौ वल्कलाम्बरधारिणी। रूपसौन्दर्यराजिष्णुयौवनं समुपाययौ ॥२४९॥ ॥८॥ -- अस्याः प्रियो भवानेव ज्ञानाज्ज्ञातो महीपते ।। दिनाधिपं विना नान्यः कमलिन्या यतो वरः ॥२५०॥ अर्थिनां कामधुकल्पः कल्पद्रुरिव जङ्गमः । लावण्यजलपाथोधिशां विश्रामपळूवः ॥२५१॥ कलानामेक आधारः क्षत्र- वंशसमुद्भवः । एवं विमृशतामत्रभवानत्र समाययौ ॥२५२॥ (युग्मम् ) वल्ली निभालिता यैव सैव लग्ना पदाम्बुजे। एक हरि परं गेहमायात इति सत्यगीः ॥२५३।। इत्युक्त्वा कुलपो भूपं सुमुहूर्ते शुभे दिने। लक्ष्मीमिवाऽम्बुधिः कृष्णं पर्यणाययदङ्गजाम् ॥२५४॥ प्रणत्य मुनिमुर्वीशो निवृत्तः खपुरं प्रति। ऊचे परिजन सर्व गिरा मेघगभीरया ॥२५५॥ यः कश्चिद् मोहतो लोभाद् यद्वा कलहकौतुकात् । इमां चम्पकमालायाः पुरतः कथयिष्यति ॥२५६॥ स्वयं गतदयं हन्त ! हनिष्याम्यहितं हि तम् । इत्युक्ते तज्जनोऽयादीद् नाथ ! शोश्रूयतां वचः ॥२५७॥ युष्मत्प्रसादपात्रं स नर्मकेलिर्विदूषकः । रक्षणीयः प्रयत्नेन शपथैरपि सर्वथा ॥२५८॥ नर्मकेलिरथाऽवादीद् मुक्त्वा व्यतिकरं त्वमुम् । नान्यदु भो ! कथयिष्यामि यतः सत्ययुधिष्ठिरः ॥२५९॥ हहो ग्रहिल ! मा ग्राम ज्वालयेति निवारिते । स्मारितोऽहं शुभमिति लोकोक्तिः सत्यवाक् कृता ।।२६०॥ इत्थं निर्भय॑ भूपालो नर्मकेलिं विदूषकम् । न्यक्षेपयत क्षणात कारागारे नरकसन्निभे ॥२६१॥ योगीन्द्रो भैरवा- नन्दी खट्वाङ्गीह समागमत् । तमुपासिंतुमेतर्हि गच्छामि मृगलोचने ! ॥२६२॥ व्यपदिश्येति भूपालो देवीं चम्पकमालिकाम् । वनमालां मवावासवासिनीमभ्यपद्यत ॥२६३॥ कियत्यपि गते काले देवी चम्पकमालिका। ब्राह्म मुहूर्त विदुषी चिन्तयामास चेतसि ॥२६४॥ योगीन्द्रव्यपदेशेन निपिध्य स्वपरिच्छदम् । नवोढां योषितं R RROR CSS शीलविषये वनमालिक कथा। ॥९॥ काञ्चिद् यात्यसौ कपटे पटुः ॥२६५॥ विमृश्यति सहाऽस्तोकलोका चम्पकमालिका। यावत् कारागृहाभ्यर्णे संप्रापत् कोपनाऽशया ॥२६६॥ तावदेक्ष्यत सा देवी तत्क्षणं नर्मकेलिना । मेघवृष्टिरिव शुष्यच्छस्यौघेन कुटुम्बिना ॥२६७। करमूर्ध्व वितन्वानः शाखोद्धारमिवाऽऽयतम् । उवाच देवि ! त्वत्कार्ये मम जातं निबन्ध- नम् ॥२६८॥ श्रुत्वेदं विस्मिता देवी तत्रागत्येत्युवाच सा। किमर्थ तव संजाता मम कार्ये हि दुःखता ! ॥२६९॥ देवि ! श्रीविमलो राजा मृगयायामुपागतः । वनमालां परिणिन्ये प्रदत्तां तापसैजनैः ॥२७०॥ भयपूर्व 'निषि- द्वेऽथ समस्ते स्वपरिच्छदे । मया संलपितं देव्याः कथयिष्यामि निश्चितम् ॥२७१॥ तां चित्ते विभ्रता भस्माकुरां राज्ञा ममोपरि। प्रीतिं विमुच्य मयुच्चैरीदृशी विदधे दशा ॥२७२।। प्रदीप्यमाना कोपेन कारागारादमुं ततः । आकृष्य नर्मकेलिं च वभाषे बान्धवोऽसि नः ॥२४॥ जगाम वनमालायाः सौधं चम्पकमालिका। विदूषक- प्रणीतेन सा मार्गेण निरर्गला ॥२७४॥ अवस्कन्दमिवायान्तीं तां दृष्ट्वा सौधरक्षकाः । पलायाञ्चक्रिरे भीतिश्ल- थमूर्धजबन्धनाः ॥२७५॥ असुनथ समादाय वनमाला भयद्रुता । सौधोत्सङ्गाद् ददौ झम्पां भयार्ताः किं न कुर्वते ? ॥२७६॥ निपतन्तीं द्विजः कश्चित् स्वामिदत्तप्रसत्तिवत् । वनमालां गृहीत्वाऽऽशु न्यक्षिपद् गर्भ- वेश्मनि ॥२७७॥ बिभ्राणाः सुभटाः केचिद् रोमाञ्चान् कवचानिव । कौक्षेयकान् समाकर्षन् यमजिह्वाभय- करान् ॥२७८।। केचिद् दृढतरं दत्त्वा भीत्या द्वारं स्तन्धयान् । रुदतोऽपि निषेधन्ति दत्त्वा पाणिं मुखाग्रतः १ निपिद्धे तु इत्यपि पाठ.। ॥९॥ २ साक्षेपमिति च।
॥२७९।। अक्रियन्त प्रतोल्योऽपि दत्तद्वार। महाभटैः। निषिद्धलोकसंचारा महतीषु निशास्विव ॥२८॥ नृपः कृत्वा समागच्छन् वाहाल्यो वाहवाहनम् । श्रुत्वा तुमुलमनाक्षीत् किमेतदिति रक्षकान् ? ॥२८।। ततः कल- कलं राजा निशम्योचे स्वरक्षकान् । किमागात् परचक्रं भो! किं वाकाण्डयुगक्षयः ? ॥२८२।। उवाच रक्षको ज्ञात्वा समुद्भूतं तदद्भुतम् । तच्छ्रुत्वा शून्यचेतस्कः सोऽभवद् गतवित्तवत् ॥२८३॥ अथ चम्पकमालापि भूपतेः पार्श्वमेत्य च । अभाषिष्ट मृषावादी त्वत्तो नान्यो जगत्यपि ॥२८४॥ योगिनं भैरवं नन्तुं प्रयामीत्युपदिश्य माम् । भैरवीं तां मुहुर्यासि सेवितुं निजवल्लभाम् ॥२८५॥ इत्युक्त्वा कोपना देवी कोपागारमुपेत्य च । उबन्धनं व्यधादाऽऽशु नास्ति कोपवतां मतिः ॥३८६॥ अन्वेषिताऽपि शतशो महीशेन जनैरपि । न दृष्टा वनमाला सा हस्तभ्रष्टाणुरत्नवत् ॥२८७॥ यः कश्चिद् वनमालाया उदन्तं कथयिष्यति । तस्मै लक्षं प्रदास्यामि दीनाराणां विनिश्चितम् ।।२८८॥ इति घोषणया राजा ताडयामास डिण्डिमम् । शुद्धिस्तथापि न क्वापि लेभे दुःखी ततो नृपः ॥२८९॥ निवृत्ते सर्वथाऽमुष्या उदन्ते विक्षु विस्तृते। समातृको द्विजस्तस्मात्तया माकं विनिर्ययौ ॥२९॥ किञ्चिागमतिक्रान्तो द्विजःप्रोवाच तां निशि । दुःखाद' रक्षितपञ्चत्वे ! साम्प्रतं बल्लभा भव ॥२९१॥ आकर्येत्यवदद् देवी द्विजोऽसि मतिमानसि । क्षत्रियाण्या समं कामं संगमं किं विधित्ससि ॥२९२॥ प्रता. पाक्रान्तलोकोऽपि परासक्तो दिवाकरः । अपराधीय देवेन पात्यते वाधिपाथसि ॥२९३॥ पुराणवेदिनो यूयं २ अभाषतेति पाठान्तरम् ।
स
शीलविषये
वनमालिक
कथा।
॥१०॥
यद्यन्यायं करिष्यथ ? । तदा सत्येति गीरासीत् समुद्राद पूलिरुत्थिता ॥२९४॥ आपातरम्यैर्विषयैः किम्पाकद्रु-
फलैरिव । कथं स्वकुलमर्यादां त्यजसि क्षयवाधिवत् ॥२९५|| दिवा न वीक्षते घूकः काको नक्तं न वीक्षते ।
कामातः कोऽपि पापीयान् दिवा नक्तं न वीक्षते ॥२९६॥ जीवितं शीलमेवैकं कुलीनस्य क्षमातले । आयुर्मृता-
दभ्यधिको यतः शीलमृतोऽशुभः ॥२९७॥ गुरुस्त्वं प्राणदातृत्वाद् महीशस्तव नन्दनः । अहं पुत्री स्नुषेवाऽथ
कथमन्यद् विभाषसे १ ॥२९८।। एष प्रोवाच कोपेन विदुष्यसि दुरात्मिके ! । अतस्त्वां मारयिष्यामि मारैर्नव-
नवैरहम् ॥२९९॥ त्वदर्थे विषयस्त्यक्तः सेवितोऽपि हि पूर्वजैः। परं तवेशी चेष्टा निकृष्टे! दुष्टचेष्टिते ! ॥३०॥
त्यक्तं राज्यं त्वदर्थेन देशो बन्धुः कुलं गृहम् । वित्तं मित्रं निजा भूमिः परं ते चेष्टितं ह्यदः ॥३०१॥ वनमाला-
ऽप्यथोवाच रक्षताद मां महापदः । जनकोऽसि सदाचारपरोपकृतिसुन्दरः ॥३०२॥ अथाकर्षद् द्विजश्चर्मकोशा-
दस्त्री भृशं सिताम् । कामान्धा इव कोपान्धाः कृत्याकृत्यपराङ्मुखाः ॥३०३।। ब्राह्मणस्य ततो माता बभाषे
प्रेमबन्धुरम् । जीवन प्राणी सुते ! भद्रशतं पश्यति निश्चितम् ॥३०४॥ वनमालाऽगदद् मातः! पञ्चत्वं मम
जायताम् । तथापि शीलविध्वंसो मा मे भवतु जातुचित् ॥३०५॥ ज्ञात्वेति निधनत्वेऽपि सस्पृहां शीलपालनात्।
सहस्रेण सुवर्णस्य विक्रीणीते स्म स द्विजः॥३०६॥ कायकेणापि तेनाशु प्रार्थिता द्विजवदु भृशम् । तद्वत् प्रोवाच
सा साध्वी शेकरूपा सती यतः ॥३०७॥ ततो बर्बरदेशे सा विक्रीता तेन विप्रवत् । एकत्रापि हि दुर्दैवादं भवे
भवशतं भवेत् ॥३०८॥ कंदन्नभोजिनी कामं मलाविलकलेवरा । वनमालाऽभजद नूनं शुष्कमालेव हेयताम् ॥
॥१०॥
. ॥३०९॥ अन्येद्युस्तृणकाष्ठौघमानेतुं काननं गता। ततः सामूर्च्छयाऽभ्रश्यत् पृथिव्यां छिन्नवृक्षवत् ॥३१०॥ मृतेव गतनिश्वासा मौनिनी योगिनीव सा। अलब्धसंज्ञा सुचिरं स्थिता ही! विधिजृम्भितम् ॥३११॥ मृतकल्पा- मिमां चञ्च्वा ततो भारण्डपक्षिराट् । जगृहे नीरघेरन्तद्वीप चन्द्रकलाह्वये ॥३१२॥ अम्भोधिवीचिभिलब्धसं- ज्ञाऽभूदु वनमालिका । संशुष्यदल्लरीवोचैः प्रथमाम्भोदवृष्टिभिः ॥३१३॥ किञ्चिचलत्तनूं दृष्ट्वा तां मुक्त्वा च नभस्तले । दयाधर्मपरायत्तश्चलंति स्म स पक्षिराट् ॥३१४॥ स्वस्था सा हृदये दध्यौ तद् वृत्तं स्वप्नदृष्टिवत् । क्व चाश्रमो महर्षीणां क्व च राज्यपरिक्रिया ? ॥३१५॥ क्व चाऽयमन्तरद्वीपे निवासो जनवजिते। क्व च मूर्छागमोऽरण्ये क्व चाऽयं वीचिसङ्गमः १॥३१६॥ अथवा दुःखसंदोहो ममाऽन्योऽपि प्रसर्पताम् । पश्चादपि हि यद् देयं तत्पूर्व किं न दीयते ॥३१७।। इति मीमांसमानायां तस्यां कश्चन पूरुषः । समभ्येत्याऽभ्यधादेवं प्रेममन्थरया गिरा ॥३१॥ कासि विस्मेरपद्माक्षि ! कस्मादिह समागता। इत्युक्ते तेन सा कामं मौनमुद्रा- मशिश्रियत् ॥३१९॥ सोऽथाऽभाषिष्ट वृत्तं मे शृणु शोभनदर्शने!। कासारनगरावासी भग्नपोतो महोदधौ। ॥३२०॥ दैवात् फलकमासाद्याऽन्तरीपं प्राप्य सुन्दरि ।। एकाकिनोद्वितीया मे द्वितीया त्वं भविष्यसि ॥३२१॥ श्रुत्वाऽथ दध्यावित्येषा हा! दूरक्षमिदं व्रतम् । यत्र वा तत्र वा यातु कर्पासो लोठयते जनैः॥३२२॥ उवाच व- नमालेदं मा बान्धव ! वदेदृशम् । लोकद्वयविरुद्धं हि किं कुर्वन्ति विवेकिनः १ ॥३२३॥ अथ यौहित्थिकस्तस्याः १ तस्थुपः इत्यपि पाठः ।
शीलविषये.
वनमालिका
कथा।
॥११॥
कण्ठपाशं ददौ दृढम् । एवं सौधर्मकल्पस्य पश्यन्ति स्म सुधाभुजः ॥३२४॥ तां पञ्चत्वदशां प्राप्तामपि पालि-
तसव्रताम् । वनमालां विलोक्यैते प्रादुरासन् सुधाशनाः ॥३२५॥ रे पौतिक ! परस्त्रैणसङ्गलालसमानस !।
कथमेतां सती हंसि शौनिको बकरीमिव ? ॥३२६॥ शीलवतप्रभावेण वयमस्याः पदातयः। तवैतत्प्राणघातेन
कृतान्ताऽनुचरा इव ॥३२७॥ ततः पोतवणिग् भुञ्जन्निवाऽऽस्येक्षिपदंगुलीः। सर्वासामपि भीतीनां मरणं हि
महद् मयम् ॥३२८॥ अथैतैः करुणासान्द्रैस्तं विमुच्य नृपप्रिया। विज्ञायाऽवधिना नीता विभूषणपुरेपुरे॥३२९॥
आवासमध्यमासीनां तां निरीक्ष्य क्षितीश्वरः। विस्मयस्मेरहृदयो यावद् ध्यायति किञ्चन ॥३३०।। अथोचुस्ते
सुपर्वाणो देव! धन्या वयं ननु। सतीचूडामणेरस्थाः प्रणतं यत् पदद्वयम् ॥३३१॥ अमुष्याः शीलमाहात्म्य
वागीशो वक्तुमक्षमः। मन्ये शून्यपदभ्रान्ति नित्यं नित्यं दधात्यलम् ॥३३२॥ ततः पौतिकवृत्तान्तमनल्पं
कल्पवासिनः । प्रजल्पन्ति स्म विस्मेरवदनाम्भोजराजिताः॥३३३॥ अस्याः शीलमनश्लीलं हरेर्वर्णयितुं पुरः।
गच्छामो वयमित्युक्त्वा प्रचेलुः कल्पवासिनः ॥३३४॥ सस्नेहमगदद् देवी देव ! कस्मात् कृशाङ्गकाः। भवन्तः
श्वेतवसनाः संप्राप्तदर्शना इव ? ॥३३५।। देवि ! त्वद्विरहे प्राप्ते क्षमिणः साम्यभाजिनः। जैनाचार्याः समाज-
ग्मुर्विहरन्तः कृपालवः ॥३३६॥ तेषामन्तेऽर्हतो धर्म श्रुत्वा न्यगदमञ्जसा। दीक्षां दत्त भवाम्भोधौ मङ्गिनीम-
गिनीमिव ॥३३७॥ राजन् ! भोगफलं कर्म तवाद्यापि हि वर्तते । ततोऽहं न्यगदं तूर्णमपूर्णस्वमनोरथः ॥३३८॥
वनमालां विना स्वामिन् ! सर्वस्त्रीनियमो मम । तस्याः शुद्धिर्मया लब्धा न चरैरपि भूरिभिः॥३३९॥ अख-
Hamala
॥११॥
ण्डशीलालङ्काराऽरुन्धतीव महासती । राजन् । द्वादशवर्षान्ते मिलिष्यति तव प्रिया ॥३४०॥ स्वामिन् ! मम कथं दुःखं जातं द्वादशवार्षिकम् । अथोचे भगवानेवं ज्ञानज्ञातजगत्त्रयः ॥३४१॥ अनेकगोधनस्वामी भद्रसंज्ञः कृषीवलः। शालिग्रामे पुराऽऽसीस्त्वं दीनदानपरायणः॥३४२॥ शरत्काले समायाते केदारे शालिशालिनि । गतस्त्वं हंसमिथुनमपश्यः काममोहितम् ॥३४३॥ गृहीत्वा वारलां पाशैर्वृषस्यन्तीमथैकदा । आलिम्पस्त्वं कुङ्कु- मेनात्मानं चाशुभकर्मणा ॥३४४॥ तद्वियोगातुरो हंसः परिभ्रमन्नितस्ततः। नैवाऽऽद बिशखण्डानि नैवाऽऽप सलिले रनिम् ॥३४५॥ अथ तं तादृशं वीक्ष्य वारलां जलधारया । अन्ते द्वादश नाडीनां प्रक्षाल्य दययाऽमुचः॥ ॥३४६॥ दीनदानप्रभावेण त्वमभूद् धरणीश्वरः । दानेन परमा भोगा भवन्ति भववर्तिनाम् ॥३४७॥ त्वया द्वादशनाडीभिर्यत् कर्म समुपार्जितम् । वादशभिढिं तदशेष सहिष्यते ॥३४८॥ यतः-अदीर्घदर्शिभिः क्रूरैर्मूदैरिन्द्रियवाजिभिः । हसद्भिः क्रियते कर्म रुदगिरनुभूयते ॥३४९॥ तव प्राग्भवपत्नीयं त्वत्कृतमन्वमो. दत । ततोऽस्या अपहारोऽभूत् कृतं कर्मैव नान्यथा ॥३५०॥ श्रुत्वेदं सुगुरून् नत्वा प्राप्य श्राद्धव्रतावलीम् । अतिष्ठं पौषधग्राही चतुष्पा निजौकसि ॥३५१॥ देवैरसि त्वमानीता मम भाग्यैरिव द्रुतम् । न प्राप्नोति किमु प्राणी धर्मकर्मणि कर्मठ: १॥३५२॥ अथ भूमिपतिः साकं तया वैषयिकं सुखम् । भुञ्जानो न्यगमत् कालं सुधाभुगिव भूचरः॥३५३॥ पर्यन्तेऽनशनं कृत्वा द्रव्यभावविभेदतः। जगाम लान्तकं कल्पं क्रमाद् निर्वाणमे ष्यति ॥३५४ । वनमालापि संप्राप्तद्वादशश्रावकव्रती । इतवत्यच्युतं कल्पं तस्माद् मोक्षमवाप्स्यति ॥३५५॥ यथा- तपसि विद्याविला- स नृपति कथा। ॥१२॥ ऽनया निष्कलङ्क सुशीलं परिपालितम् । तथान्यैरपि भूपाल ! पालनीयं महाबल ! ॥३५६॥ स्वामिन् ! शीलव- तीमध्ये धन्यैका वनमालिका । त्वरते ब्रह्मचर्याय यच्चरित्रेण मन्मनः ॥३५७।। मूढो विषयसेवाभिर्विधत्ते जन्म निष्फलम् । विक्रीणीते न किं बालो रत्नं स्वल्पैः कपर्दकः ? ॥३५८॥ नरकाय प्रजायन्ते विषया हन्त ! सेविताः। तेषां त्यागस्तु भावेनापवर्गपथदर्शकः ॥३५९॥ यथोद्देशं हि निर्देश इति ध्यायन महामुनिः। उपाक्रमत माहात्म्यं तपसो वक्तुमप्यथ ॥३६०॥ तपो विजयतामेकं कार्मणं भुवनश्रियः। धर्मरोहणमाणिक्यं कर्मकक्षाऽऽशुशुक्षणिः ॥३६१॥ विधिवद्विहितादस्मात् कर्ममर्मविभेदकात् । सुगतिं लभते विद्याविलासो नृपतिर्यथा ॥३६२॥ तथाहि-अस्ति स्त्रीस्पर्शवत् सर्वविषये- वादिम पुरम् । काञ्चनाख्यं लसद्भद्रशालं काञ्चनशैलवत् ॥३६३।। तत्रासीत् पृथिवीपालः सूरसेनो महारथः। धरणीधारिणीनाम्नी तस्य देव्यौ बभूवतुः ॥३६॥ विज्ञातजीवाजीवादिनवतत्त्वः सदाऽऽस्तिकः । तस्मिन्नेव पुरे श्रेष्ठी श्रीपालः परमार्हतः ॥३६५॥ सुशीललालसा धर्मे दानशौण्डा दयावती। श्रीमती तस्य जायाऽभूद् धीमती परमाहती ॥३६६॥ चत्वारो नन्दनास्तस्य लक्ष्मीभर्तुभुजा इव । श्रीधरः श्रीपतिश्च श्रीदत्तः श्रीवत्स इत्यपि ॥३६७।। अन्येयुः कौतुकाच्छ्रेष्ठी तल्पस्थः सर्वनन्दनान् । पप्रच्छ केन केन स्वमुपायेनार्जयिष्यथ ?॥ ॥३६८॥ तन्मध्यात् प्रथमोऽवादीत् तात! चिन्तातुरः कथम् । वित्तार्जनं करिष्यामि नानारत्नपरीक्षया ॥३६९।। १. 'स्वर्यते' इत्यपि। २ 'महामतिः' इति पाठान्तरम् । ३ 'सूरसेनोऽभिधानतः' इति च। न ॥१२॥ . .
सुवर्णस्य तथा वस्त्रसमूहानां च विक्रयैः। वित्तोत्पत्ति विधास्याव इत्यन्यौ प्रोचतुः सुतौ ॥३७०॥ श्रीवत्सोऽथ जजल्पोचैर्गेयदत्तमना मनाक् । लक्षपाकादितैलेन कृताभ्यङ्गाङ्गमर्दकैः ॥३७१॥ विहितस्त्रानमङ्गल्यः पञ्चतूर्य- लयान्वितम् । सौवर्णरत्नप्रतिमाः पूजयन् लास्यवन्धुरम् ॥३७२॥ नानाप्रसादपानौधैः पत्तिभिः परिवारितः। कुर्वाणो भोजनं भोज्यलेह्यपेयसुपेशलम् ॥३७॥ सुश्लिष्टशाटकमान्तनिधरितकरद्वयः। शलाकाऽवसरस्फूर्ज- द्गेयदत्तश्रवोयुगः॥३७४॥ शय्यायां पुलिनाभायां निविष्टस्त्रिदशेशवत् । एकस्यां मूर्धिन बध्नत्यां धम्मिलं नवभाङ्गिभिः ॥३७५॥ निक्षिपन्त्यां द्वितीयस्यां तालवृन्तानिलं मृदु । तृतीयस्यां ददत्यां तु ताम्बूलं प्रेमगर्भि- तम् ॥३७६॥ चतुर्था दयितायां तु मर्दयन्त्यां क्रमाम्बुजे । एवंभूतः करिष्यामि राज्यं श्रीसूरसेनवत् ॥३७७॥ (सप्तभिः कुलकम्) अरे रे ! वक्षि वाचाटाऽसंबद्धं किमिदं वचः। मामकं त्यज धामेदममुं श्रेष्ठीत्यतर्ज- यत् ॥३७८॥ तेजः संगृह्य चण्डांशुर्वारिधेरिव रंहसा । क्षीरकण्ठोऽपि तद्गेहाद निर्ययौ श्रेष्ठिनन्दनः ॥३७९॥ अपमानेन तातस्य प्रेरितः प्राप सुन्दरम् । पुरं रत्नपुरं नाम सश्रीकं स्मेरपद्मवत् ॥३८०॥ तत्र श्रीरत्नकेत्वाख्यो हरिवंशान्वयी नृपः। सुदक्षिणा प्रिया तस्य क्रतोरिव सुदक्षिणा ॥३८॥ चारुसौभाग्यसौधायपताकाकाञ्च नच्छविः । सौभाग्यमञ्जरी तस्य नन्दनी नेत्रनन्दनी ॥३८२॥ नयसारो यथार्थाख्यो मन्त्रिपुत्रः पवित्रधीः। अपाठीद् विमलाख्यस्योपाध्यायस्यान्तिके तथा ॥३८३॥ अधीयानश्छात्रवगैः सेवितक्रमपङ्कजम् । श्रीवत्सो नगरस्यान्तस्तमुपाध्यायमैक्षत ॥३८॥ तं प्रणम्याऽवदत् पूज्य ! मह्यं विद्याप्रदो भव । इत्युक्तेऽपाठयदसौ । तपसि विद्याविला. सनृपति- कथा। ॥१३॥ सुतवच्छ्रेष्ठिनः सुतम् ॥३८५॥ पुरातनभवोपात्तज्ञानावरणकर्मणा । पठन्नपि न जानीते किञ्चनाऽसंज्ञिजीव- वत् ।।३८६॥ मूर्खचट्ट इति स्फीतं गुणनिष्पन्नमीदृशम् । तस्य नाम ददुश्छात्रा यतस्ते केलिवृत्तयः॥३८७॥ अने- नाहूयमानोऽसौ दूयते म्म क्षणे क्षणे । प्रनप्टेनेव शल्येन घनाघनघनोदये॥ ॥३८८॥ निहोतव्यमिदं केनाप्यु पायेन मया कथम् । विमृश्येति मुहुश्चक्रे छात्राणां भक्तिमद्भुताम् ॥३८९॥ उत्तितेज कपर्दैन पट्टिकाः प्रतिवास- रम् । पर्यपूर्यन्त पात्राणि विधाय खटिनीद्रवम् ॥३९०॥ छात्राणामासनान्येष विन्यस्यति दिवानिशम् । पदसं. वाहनादीनि कर्माणि विदधेतराम् ॥३९१॥ नाम च्छात्रैर्ददेऽथास्य विनयचट्ट इत्यपि । दुर्भिक्षं नाम तेषां हि किमाख्यासु विजृम्भते ? ॥३९२॥ अमुष्य भक्तिचदृस्य पाठकुण्ठस्य सर्वथा । एवं द्वादश वर्षाणि हर्षोत्कर्षजु- षोऽवजन् ॥३९३॥ तस्यां तु लेखशालायां पठन्ती राजकन्यका। सौभाग्यमञ्जरी नाम्ना जज्ञे यौवनपावना ॥ ॥३९॥ कस्मैचिद् गतविद्यायाऽवद्यवाक्यवराय माम् । दास्यते जगतीनाथः कन्याओं मत्यगोचरः ॥३९५।। नयसारः पुनरसौ मन्त्रिपुत्रो निधिर्धियाम् । वीरः शूरो नयी शान्तः सुदाक्षिण्यः प्रियंवदः ॥३९६॥ यद्येष मम जीवेशो जायते पुण्ययोगतः। तुष्टा मे देवताः कुल्याः सत्याश्चाशीःपरम्पराः ॥३९७॥ इत्थं विचिन्त्य सप्रेमप्र- पञ्चवचनं च सा। नयसारं प्रति प्रीत्या वभापे रहसि स्थिता ॥३९८॥ नयसारोऽप्युवाचेदं कैतवेन कृतस्मयः। युक्तमुक्तं त्वया भद्रे ! शृङ्गारद्रुघनावलि ! ॥३९९॥ देवानामर्थनीया त्वं यदि प्रार्थयसे च माम् । तद् मे सभाग्य १ 'खटिकाद्रवम्' इत्यपि । ॥१३॥ . - सौभाग्यं किन्तु किश्चन वच्म्यहम् ॥४०॥ त्वं कन्यकाऽसि भूमीन्दोस्तत्पत्तेरस्मि नन्दनः। मृगद्विपेन संबन्धः किं भद्रायाः प्रशस्यते ?॥४०१॥अथोचे भूपतेः पुत्री सत्यमेव त्वयोदितम् । परं विद्यागुणैः कोऽन्यस्तव तुल्यो ज- गत्यपि ॥४०२॥ कस्यापि गुणहीनस्य किं करिष्यामि पाणिगा ? । ककुमतो गले बद्धाऽनड्वाहीव वराकिका ॥४०३॥ नयसारोऽदधाचित्तेऽनुरक्तं मयि मानसम् । रक्षितुं शक्यते नैव निषिद्धमपि युक्तिभिः॥४०४॥ यतः- अपि चण्डानिलो ततरङ्गस्य महोदधेः। शक्येत प्रसरो रोद्धं नानुरक्तस्य चेतसः॥४०५॥ उवाच राजपुत्री च यदि त्वं सदयो मयि । तदा सत्यं कुरु वचोऽपरथाऽग्निर्वरो मम ॥४०६॥ ओमित्युक्ते नयेनाऽथ दाक्षिण्येन क्षणादपि । अन्येयुः प्रेषयामास तदन्ते चेटिकां च सा ॥४०७॥ अस्मिन्नेव दिने लग्नं परमोचग्रहान्वितम् । आ. कृष्टमावयोः पौण्यैरंशैरिव पुरःसरम् ॥४०८॥ करभ्यो वायुवेगिन्यो गोणी पूर्णा मणीगणैः। प्रगुणीकारिताः सन्ति प्रच्छन्नं मन्त्रिनन्दनः ॥४०९॥ आमेत्युक्त्वेति कापव्यादसौ विनयचट्टकम् । रहस्युवाच भोः! राजकन्यकां दापयामि ते ॥४१०॥ अश्रद्धेयमिदं श्रुत्वा व्योमपुष्पमिवाऽवदत् । नयसार ! कथं दैवहतं हससि केलिना | ॥४११॥ अयुक्तं वक्तुमन्याय्यं हन्त ! युष्मादृशां विशाम् । न भाति चरणे बद्धं करभस्य हि नूपुरम् ॥४१२॥ हहो! विनय ! जल्पामि वचनं सत्यमीदृशम् । नात्र हास्याऽऽस्पदं किश्चिद्भवता सह तन्यते ॥४१३॥ कृत्वा सौ. भाग्यकन्दल्या पाणिग्रहमहोत्सवम् । उष्ट्रीमारुह्य गन्तव्यमुज्जयिन्यां त्वया द्रुतम् ॥४१४॥ अथप्रमाणमेवास्तु जजल्प श्रेष्टिनन्दनः। सक्तुमध्ये घृतक्षेपो हर्षोत्कर्षाय कस्य न १॥४१५॥ प्रदोषेऽध्यापकं नत्वाऽवादीद् विनय- S
तपसि
विद्याविला-
सनृपति-
कथा।
॥१४॥
चट्टकः। तात! प्रातर्गमिष्यामि पितृपादनमस्यया ॥४१६॥ हहो! वत्स! ममाभ्यणे स्थितोऽपि नयभृचिरम् ।
परं विद्यालयो ज्ञातो न त्वया पूर्वकर्मतः॥४१७॥ गुरूणां क्रमसेवा हि निष्फला.न प्रजायते । एष प्रवादो मा
भूयादसत्य इति चिन्तयन् ॥४१८॥ अभिमन्त्र्य पवित्रात्मा श्रीसारस्वतविद्यया। अपाययद घर्षयित्वा चन्दनं
श्रेष्ठिनन्दनम् ॥४१९।। प्रणिपत्य गुरोः पादौ नयसारनिवेदिते । तस्मिन् स्थाने गतौ रात्रौ हृष्टो विनयचट्टकः।।
॥४२०॥ तस्य साहायकं कर्तुमिव ध्वान्तं जगत्यपि। प्रसृतं पुण्यपात्राणां सहायः को न संभवेत् १ ॥४२१॥
नयसाराम्बरं प्रीत्या परिधाय वणिक्सुतः। तामायातां परिणीयाऽध्यासामास क्रमेलकीम् ।।४२२॥ गतवत्यथ
भूयस्यां काश्यप्यां राजकन्यका। अद्राक्षीद विनयं सर्वपाठकानां विदूषकम् ॥४२३॥ तप्तग्रावतलक्षिप्तविमुग्ध-
शफरीयिता । सर्वाङ्गतप्ता समभूद् नितरां राजकन्यका ॥४२४॥ अविचार्य कृतं कार्यं यत्तत् स्फुट निरीक्षितम् ।
गुरुद्रोहपराया मे सर्वमल्पमिदं पुनः॥४२५॥ अन्यासामपि स्वच्छन्दचारिणीनां जगत्यपि । भग्नो मार्गों मया-
ऽवश्यं नयसारप्रयोगतः॥४२६॥ आत्मकुलक्षयत्रासाद् नयसारेण बुद्धितः । उद्वाहितो धिया न्यूनो नूनं विन-
यचकः ।।४२७॥ इत्थं चिन्तातुरा दूरं तरुणं तरणिं यथा । दृशा संभावयामास तं न श्रेष्ठितनूद्भवम् ।।४२८॥
अथोजयिन्यां संप्राप्तो गृहीतोत्तुङ्गमन्दिरः। जनगोष्ठीषु विचरन् रञ्जयन जनमानसम् ।।४२९॥ नव्यैः काव्यैः
शुभैः श्राव्यैः सरसाथैः स्वयंकृतैः । विद्याविलास इत्याख्यां लेभे पुर्यां मनोहराम् ॥४३०॥ (युग्मम् ) गृहापव-
॥१४॥
TES रकासीना रुदती करुणस्वरैः। वासरान् गमयामास कृछात् सौभाग्यकन्दली ॥४३१॥ अन्येधुरवदद् धात्री देव्यसौ श्रेष्ठिनन्दनः । शास्त्राम्भोनिधिपारीणो धुरीणः सत्क्रियावताम् ॥४३२॥ यौवनोद्यानदहनं मानं मु तवा मनस्विनि !| प्रेमामृतरसापूर्ण तूर्ण ब्रूहि खवल्लभम् ॥४३॥ प्रत्युवाच सुताराज्ञो यादृशोऽस्त्येष धात्रिके!। जानामि तादृशं दृष्टो मया द्वादशवत्सरीम् ॥४३४॥ कलानां कौशलाद् देवि! रञ्जितो नागरो जनः। विद्यावि- लास इत्याख्यां ततो नामास्य निर्ममे ॥४३५॥ कथञ्चित्तेन खङ्गित्वाद् रञ्जितो धात्रिके! जनः। जानाति कन- कमध्यं स्वर्णकारः, परो नहि ॥४३६॥ इतश्च-काश्मीरमण्डलाधीशभीमनाम्ना महीभुजा। लेखः श्रीरत्नकेतोश्च प्रेषितः सन्धिविग्रहे ॥४३७॥ सलिप्यन्तरसंपूर्णो लेखः केनापि नैव सः।वाचितो गुरुणा नूनं दत्तमुद्र इवोचकैः॥ ॥४३८॥ जगाद सचिवः स्वामिन् ! वाच्यते केवलं धिया । यदि विद्याविलासेन शास्त्राम्भोधिहिमाता ॥४३९॥ नृपादेशात् समाहूतः पूर्व पठितवत्सुखम् । तं लेखं वाचयामास निःशेषलिपिकोविदः॥४४०॥ तत्क्षणं परितुः प्टेन महीनाथेन सन्मतिः । स्थापितः सचिवत्वेऽसौ न श्रद्धालुर्गुणेषु का? ॥४४१॥ नृपप्रदत्तसाम्राज्यभारः सुम- तिहेतिभिः । दुःसाध्यान साधयामास सचिवः शुचिभूषणः ॥४४२॥ कदाचित् कथयामास कोऽपि क्षोणीपते: पुरः। जगत्प्रियोऽपि देवायं न प्रियो निजयोषितः॥४४३॥ कथं वेत्सि नृपोक्तोऽसौ बभाषे हन्त ! होरया। देव ! जानामि कामिन्या निजाया वल्लभो न यः॥४४४॥ श्रुत्वेदं कौतुकादेष सेवावसरमागतम् । उवाच सचिवं १ 'मजरी' इति च। २ 'भाषस्व निजवल्लभम्' इत्यपि ।
। विद्याविला- सनृपति- कथा। तपसि ॥१५॥ . चारु समक्ष निजपर्षदः॥४४५॥ मन्त्रिन्नभिनयो मन्त्री राज्ञो भोजनदायकः। इत्यस्माकं सदाचारः कर्तव्यः सत्वरं त्वया ॥४४६॥ आमेत्युक्त्वा गतो गेहं विमनस्को गतस्ववत् । उवाच धात्रिका मन्त्रिश्रेष्ठं श्रेष्ठगिरा तया ॥४४७॥ अपमानं महीभा किं ते वत्स! प्रकाशितम्। किंवा धीविषयेऽप्युचैः कश्चिदर्थस्त्वगोचरः? ॥४४८॥ न मे मातर्महीभा मानम्लानिः प्रकाशिता । कश्चिदर्थो न मे धात्रि! मत्यगोचरतां गतः॥४४९॥ परं क्रूरनि- देशोऽयं दत्तः क्षोणीभुजा स्वयम् । यत्तचौकसि भोक्तव्यं कल्पोऽस्माकं कुले त्ययम् ॥४५०॥ गृहाऽऽगते मही. नाथे मन्त्रिण्याः किल चेष्टितम् । प्रकट भविता सर्व तदर्थ खेद एप मे ॥४५१।। मन्त्रीश! चिन्तया चित्तं खेदा. क्रान्तं करोषि किम् । भोजने सजयिष्यामि राज्ञः सौभाग्यकन्दलीम् ॥४५२॥ तद्वचःश्रवणादेव सुधासिक्त इवाभवत् । हस्तावलम्बनं पुंसां पततां कि मुदे नहि ? ॥४५३॥ उवाच धात्रिका मन्त्रिगेहिनी धीरया गिरा। एकाग्रहाऽसि हे वत्से ! कृत्याकृत्यबहिर्मुखि !॥४५४॥ मामकं वचनं वेगादेकं कुर्वभिमानिनि। जनन्या इव नाज्ञा मे लंचितुं युज्यते क्वचित् ॥४५५|| सचिवो जगतीपालं त्वद्गृहे भोजयिष्यते। अभ्यधादिति ते भर्ता मन्मुखेन तवाग्रतः॥४५६॥ मातः! केनापि भूपालो ज्ञापितश्चरितं मम । बुभुक्षुर्मा दिक्षुश्च तद् मन्ये तेन हे- तुना ॥४५७॥ मातस्तहि मदाकारा मद्यामय इवाऽपराः। समानवस्त्रालङ्कारास्तिस्रस्तूर्ण समानय ॥४५८॥ भो. जयन्ती महीपालं ताभिः साकमलक्षिता। यथा भवाम्यहं मातस्तथा कुरु गुणाकरे ! ॥४५९॥ तस्या वचसि १ हस्तावलम्बद इत्यपि । २ लधिताऽहनिदेशवत् । ॥१५॥ amanna-
सत्यार्थे प्रगुणे विहिते चिरात् । भूपमामन्त्रयामास सचिवो भक्तिमेदुरम् ॥४६०॥ आवासे मन्त्रिणोऽथास्य
विमानसदृशे श्रिया। राजाऽगात् कृतशृंगारः परीवारपरिवृतः॥४६॥ भोजनायाऽऽसनासीने भूपाले सपरि-
च्छदे । एका मुमोच सौवर्ण विशालं स्थालमुत्तमम् ॥४६२॥ पीयूषरसनिष्यन्दिसंपूर्णानीव तत्क्षणम् । एका
चिक्षेप पकानि फलान्यविकलान्यपि ॥४६३॥ अपरा कापि हृद्यानि पकान्नानि समन्ततः। द्राक्परिवेषयामास
क्वणत्कङ्कणपाणिना ॥४६४॥ एका परिमलोद्गारहृद्यमोदनमभुता । अक्षिपद् भूपतेः स्थाले विशाले साधुचि.
त्तवत् ॥४६॥ इयं त्वियमियं मन्त्रिगेहिनीति विचिन्वता । न सम्यग् विचिदे राज्ञा सादृश्यं भ्रमकारि हि ।।
॥४६६॥ कृतभुक्तिर्महीपालोऽशक्नुवन् प्रष्टुमञ्जसा। समीपे मन्त्रिणो मौनमाधत्ते स्म सविस्मयः॥४६७॥
सपर्या मन्त्रिणः प्राप्य गतवान् मन्दिरं नृपः। खानुवाच नरानेवं न ज्ञाता सचिवागना ।।४६८॥ तस्या निरी-
क्षणे कायः कोऽप्युपायो विशारदाः। ते प्रोचुर्दैव! नगरवाद्येऽस्ति पुरदेवता॥४६९॥ कार्य नृत्यं मन्त्रिपन्या
मन्त्रिण्याऽऽतोयवादके । पुरो देव्याः पुरः पौरैर्देवेन ज्ञायते यथा ॥४७०॥ भवत्वेवं नृपः प्रोच्य द्वितीयेऽति मं-
हीपतिः । पुरतः कथयामास तमादेशं मनोगतम् ॥४७१॥ क्षुद्राऽऽदेशमिमं श्रुत्वा गत्वौकसि सविस्मयः। अशेत
मन्दिरस्यान्तश्चिन्तासन्तानतापितः॥४७२।। मन्त्री खेदपरोधाच्या पृष्टः प्रोचे महत्तमः । क्षुद्राऽऽदेशस्य पृथ्वीशो
धात्रि! पात्रीचकार माम् ॥४७३॥ जगाद भूपतेः पुत्रीं धात्री पावनया गिरा । समादेशं महीभर्तुर्दुःश्रवं धीम-
तामपि ॥४७॥ पटहे पटुपादं च वाद्यमानेऽमुना मुदा। अहं नृत्यं विधास्यामि हसन्तीति जगाद सा॥४७५॥
तपसि विद्याविला- सनृपति- कथा। ॥१६॥ वादयितुममुं पुत्रि! चेदसौ ज्ञास्यते नहि । लप्स्यते हास्यतां मन्त्री समक्षं नृपपर्षदः ॥४७॥ तदाऽभाषिष्ट हृष्टा सा पुरतः सचिवेशितुः। दुष्प्रापार्थस्य लाभे हि हों याति प्रकर्षताम् ॥४७७॥ अथ देवीगृहस्यान्तर्मञ्चविन्या- ससुन्दरम् । साकं पौरजनैः सर्वैरुपविष्टे महीभुजि ॥४७८॥ मन्द्रमध्यादिभेदेन तत्तेतिध्वनिनादतः। मन्त्रिणा वाद्यमानेऽपि पटहे पटुनिःस्वने ॥४७९॥ विहितोद्दामशृङ्गारा रम्भेव क्षितिगोचरी। हरन्ती पौरचेतांसि समा- गाद् मन्त्रिगेहिनी ॥४८०॥ (त्रिभिर्विशेषकम् ) ध्वनिमाकर्णयत्येषा पटहस्य यथा यथा । तथा तथाऽङ्गे रोमा ञ्चोऽङ्करपूरमपूरयत् ॥४८१॥ अहो! ईदृक् कुतोऽनेन ज्ञातं पटहवादनम् ? । चित्रीयमाणा हृदये ननत्ति स्म लयो- त्तरम् ।।४८२॥ नृणां निरीक्षमाणानां दम्पत्योस्तं कलाक्रमम् । शेषेन्द्रियभवा वृत्तिर्लोचनेषु लयं ययौ ॥४८३।। मूर्धानं भूपतिर्धन्वन् विस्मयस्मरतां गतः। सर्वतत्त्वप्रवीणोऽसि व्याजहारेति मन्त्रिणम् ॥४८४॥ तामपूर्वा कलां दृष्ट्वा पमिनीप्राणवल्लभः। प्राप द्वीपं परं द्रष्टुमिवान्यत्रापि तादृशीम् ॥४८५।। परिस्पन्दैः समं राजा प्रतस्थे नगरी प्रति । ऊचेऽथ मन्त्रिणी नाथ! करमुद्रा ममापत्तत्॥४८॥ सान्वया सुभगाऽऽनेया सस्नेह मिति वादिनी । प्राविक्षद् नगरस्यान्तहष्टा सौभाग्यकन्दली ॥४८७॥ तदाऽऽदेशवशादेष प्रमोदोन्मादमासदत् । धन्योऽहमध सद्गाच्या भाषितो गारवोत्तरम् ॥४८८॥ विजने तत्र तां वीक्ष्य लब्ध्वा च करमुद्रिकाम् । अचालीदुज्जयिन्यां हिं बहिःस्थानां भवेद् मृतिः ॥४८९॥ शीघ्रमायन् पुरी दत्तकपाट गोपुरं पुरः निरीक्ष्य वसविस्तीर्णपयोमार्ग- मुपाययौ ॥४९०॥ विश्रान्तोऽन्तर्भुजङ्गेन दष्टः स्पष्टमथो करे। हाहेति न्यगदद् मन्त्री मृत्योः पटहविभ्रमम् ॥ ॥१६॥ tok ।
॥४९१॥ इतश्च सौधमासीना वारवेश्याऽवनीशितुः । तं सुश्राव महानादं कर्णयोर्विषसेचनम् ॥४९२॥ अद्राक्षीत् पतितं क्षोण्यां सचिवं प्रसरदूगरम् । अक्षालयच पाणिस्थं मणिं नीरेण भूरिणा॥४९॥ अपाययदमुं तच्च परोप- कृतितत्परा । सोऽभूदपविषो यस्मादचिन्त्यं मणिवैभवम् ।।४९४॥ पुनर्जातमिवात्मानं मन्यमानः कृतज्ञराट् । सचिवस्तामुवाचेदं किं कुर्वे तव वाञ्छितम् ॥४९५॥ चेदु नाथ ! वरदोसि त्वं मत्तोऽन्यत्र त्वया ततः। भवेनेव भवानीतो न गन्तव्यं कदाचन ॥४९६॥ तया साकं चतुर्यामीमतिवाट घटीमिय । प्रातःकृत्यानि कृत्वाऽसौ निषसाद महासने ॥४९७॥ केनचिद् योगिना दत्तं प्रभावौषधिकण्डकम् । अबध्नात् पणपद्माक्षी चरणे सचि- वेशितुः ॥४९॥ तत्मभावादसौ जज्ञे चन्द्रकी वरचन्द्रकः । एकस्मिन् जन्मनि प्राप्तजन्मान्तर इव क्षणात् ॥४९९॥ उड्डीय बर्हिणो भ्राम्यन् गतनासं पुरेऽखिले। सन्ध्यायां तत्र पण्यस्त्रीगेहं याति स्म सर्वदा ॥५००॥ कण्डकन्य. त्ययादेष यवनिकान्तरादिव । प्राप्तपुंस्त्वो नट इव वाहयामास शर्वरीम् ।।५०१॥ रमयित्वा निशां सर्वा पण- स्त्रीणां करण्डकात् । प्रत्यहं विदधे मन्त्रिपुङ्गवं बर्हिणाकृतिम् ॥५०२॥ इतस्ततोऽपि गेहेषु भ्राम्यन्नेष दिने दिने। रात्रौ पणाङ्गनागेहमागच्छति वशीकृतः॥५०३॥ इतो मन्त्रिण्यनायाते मन्त्रिण्यधृतिकारिणी । रतिं न क्वापि सा प्राप ग्रीष्मे हंसी मराविव ॥५०४॥ सोऽन्येार्बर्हिरूपेण भ्राम्यन् खगृहतोरणम् । आच्छाद्य पिच्छसंभारे वितेने तोरणश्रियम् ॥५०५॥ पत्युचिरहतप्ताया मातरेष कलापवान् । प्रियागमनवत्प्रीति प्रदत्ते मम नेत्रयोः । १ मुहूर्तवदिति च पाठः। . .
तपसि विद्याविला- सनृपति- कथा। ॥१७॥ ॥५०६॥ अज्ञानतो मया पूर्व दृष्टः प्राणप्रियोऽप्रियः । इदानीं पूर्वदुष्कर्मविपाकाद् दुरतो गतः ॥५०७॥ छद्म श्रीसद्मनस्तस्य प्रियस्याहमजानती। पुराऽपि रोदनं चक्रेऽधुनापि चिरशिक्षितम् ॥५०८॥ भोगिभोगविष- ज्वालालीढं दहतु चन्दनम् । कथं दहतु मे देहं निःसन्देहं हिमद्युतिः १ ॥५०९॥ इत्थं विलापं कुर्वाणा मुहु सौभाग्यकन्दली । निपपात महीपीठे हृतजीवेव केनचित् ॥५१०॥ धात्र्या परिजनेनापि प्रतीकारे कृते सति । अतुच्छमूर्छाऽपगमात् स्वस्था तस्थौ कथञ्चन ॥५११॥ एवं च भाषमाणायां तस्या गेहादथो शिखी। अन्येद्यु. रगमद्भूपपुत्र्याः सौधे मनोहरे ॥५१२॥ तत्सख्या कौतुकादेष विधृतो गृहिजातवत् । अर्पितो मदनावल्या वि- श्राम इव चेतसः ॥५१३॥ कण्डकं त्रोटयामास वीक्षमाणा शिखण्डिनम् । नररूपिणमद्राक्षीदमुं सा सचिवोत्त- मम् ॥५१४॥ किमेतदिति विस्मेरनयना मदनावली । रोमाञ्चकण्टकभयादिवासनमथामुचत् ।।५१५।। सत्य- स्मिन्नासनासीने किमेतदिति साऽवदत् ? । अथोचे सचिवः सर्वमेतस्याः पुरतो मुदा ॥५१६॥ मन्त्रिन् । त्वद्विरहे राजा निखिला नागरा अपि । विमूढमनसोऽभूवन दिग्मूढाः पथिका इव ॥५१७॥ मन्त्रिन् ! निष्ठुरचित्तो- ऽसि रूपं संगोपयन्निजम् । कुरुते लेख्यमेकोज्यो लेखामपि ददाति न ॥५१८॥ यत्प्रजल्पसि तत्सत्यं वाचा बद्धोऽस्मि निश्चितम् । मुञ्च मां बहिणं कृत्वा बद्ध्वा च क्रमकण्डकम् ॥५१९॥ इत्युक्ते केकिरूपेऽस्मि- ननया विहिंते गते। इतश्वाभाणि तद्धाच्या नरशब्दो मया श्रुतः ॥५२०॥ उपमातः ! कथं पुंसः संचारः संभवेदिह ?। यदीहरभाषसे नूनमसंबद्धमिवाधुना ॥५२१॥ पौनःपुन्येन धात्री सा तामूचे शपथान्वितम् । अथ ॥१७॥ - २० USE सा कथयामास तत्सर्व सचिवोदितम् ॥५२२।। द्वितीयेऽहथेष स भ्राम्यन् कृतसंकेतशब्दवत् । समागात् तत्र धात्री साऽवर्द्धयजगतीपतिम् ॥५२३॥ ज्ञातवृत्तः समेत्यासौ कर्तित्वा करकण्डकम् । मुख्यरूपधरं चक्रे धरणी- शोऽथ मन्त्रिणम् ॥५२४॥ सानन्देनाथ राज्ञोचे मम पुत्रीं समुदह । वेश्यावृत्तं च तेनास्य समस्तं विनिवेदितम् ॥५२५॥ साकूतमथ साहूता क्षोणीशेन पणाङ्गना । स्वामिन् ! प्रसादमाघेहि ममाऽऽदेशनिदेशतः॥५२६॥ वाचा बद्धममुं मुञ्च सचिवं दत्तजीवितम् । यथाऽङ्गजाया मे पाणिं गृह्णाति शुभवासरे ॥५२७॥ आमेत्युक्ते नृपस्तस्याः प्रसादं बह्वकारयत्। उचितानुचितज्ञानं वारवेश्यास्ववस्थितम् ॥५२८॥ सुन्दरप्रेष्ठिनः पुत्र्या सहितां मदनावलीम् । पर्यणाययदुर्वीशो मन्त्रीशं शुभवासरे ॥५२९॥ स्थापितो युवराजत्वे दत्त्वा देशान् महत्तमः । न पुण्यं देहिनां मातुं शक्यतेऽम्भोऽम्बुधेरिव ॥५३०॥ तिमृभिः परिणीताभिर्वेश्यया सह मन्त्रिराट् । बुभुजे विषयान् मर्त्यजन्मचूतफलोपमान् ॥५३१॥ कालेन कियता रत्नकेतुः क्षितिपतिर्भृशम् । भवोद्विग्नोऽग्रही दीक्षां तापसानां यथाविधि ॥५३२।। विद्याविलासः ममभूद् भूपाला पालयन् प्रजाम् । प्रचण्डशासन: पाक- शासनः स्वरिवाऽऽगतः ॥५३३॥ अन्येद्युः श्रेष्ठिसू राजा चतुरङ्गचमूवृतः। रुरोध काञ्चनपुरं जम्बूद्वीपमिवा- ऽम्बुधिः ॥५३४॥ तेजोऽधिगम्य दुःसह्यं तस्य व्योममणेरिव । उलूक इव वाग्मूकः सूरसेनो ननाश च ॥५३५॥ नीलपत्रावलीकीर्णे बद्धकाञ्चनतोरणे । तत्राविक्षत् पुरे राजा सविद्युद्वारिदोपमे ॥५३६।। स्वर्णपात्राणि संभृत्य रत्नैः पौरा डुढौकिरे । प्रसादं तेषु चक्रेऽसौ वाञ्छितार्थसमर्थकम् ॥५३७॥ श्रेष्ठयागाद नगरीमुख्यः श्रीपाल: 1 E तपसि विद्याविला- सनृपति- कथा। ॥१८॥ सूनुभिः सह । श्रेष्ठिन् ! मामभिजानासि भाषते स्मेति भूपतिः॥५३८॥ सोऽप्यूचे सूर्यवत् ख्यातं राजानं त्वां न वेत्ति कः । वस्तुतस्तु यथावस्थं नो वेद्मि त्वां महीपते ! ॥५३९।। समक्षं सर्वलोकानां ततः श्रीवत्सभूपतिः।- चरित्रं मूलतः- सम्यग् संक्षेपेणेत्यवोचत ॥५४०॥ तव सूनुरहं श्रेष्ठिन् ! श्रीवत्स इति विश्रुतः। रामाचतुष्टयी- योगप्रभृतेर्वचनात् पुरा ॥५४१॥ कोपाटोपोत्कटं स्पष्टं विज्ञाय त्वां विनिर्गतः । इमाश्चतस्रः संप्राप्तास्तव पादप सादतः ॥५४२॥ (युग्मम् ) सच्चक्रे पृथिवीपालः श्रीपालश्रेष्ठिनं ततः। वध्वः सर्वांश्च हृष्टाङ्गयो ह्याचारः कुलयो. षिताम् ॥५४३।। यौवराज्ये पदे न्यस्य श्रीधरं प्रथमाङ्गजम् । राज्ययुग्ममथ प्राज्यं नयवृत्त्या शशास सः॥५४४॥ अन्यदोपवनस्यान्तः सूरिः श्रीमतिसागरः। सवितेव तपोदीप्त्या पूर्बहिः समवासरत् ॥५४५।। तं वन्दितुं महीपालः पालयन पावनी क्रियाम् । जगाम भक्तितस्तत्र पौरवृन्दपरिवृतः॥५४६॥ देशनान्ते महिपाला पृष्टवा- निति तान् गुरुन् । पुरा कथं ममाज्ञानं सर्वत्रोल्लसितं प्रभो!? ॥५४७॥ कथं पश्चादु मुने ! ज्ञानं प्रसृतं मम कोवि. दात् ? ! इत्युक्ते न्यगदच्छ्रीमान् सूरिभूरिगुणोत्तरः ॥५४८॥ पुरा जन्मनि पठतां महाविघ्नस्त्वया कृतः। अत: स्तत्कर्मबन्धेन ज्ञानोल्लासोऽभवद् न ते ॥५४९।। गुरुणा केनचित् पश्चात सद्वाक्यैः प्रतिवोधितः। भक्तिं चक्रे धिया तेषु प्रत्यहं पुस्तकादिभिः॥५५०॥ सत्कर्मबन्धतोऽभूस्वमुपाध्यायविशारदः । ज्ञानविघ्नाच मूर्खत्वं पूर्व संप्राप्तवानसि॥५५१॥ श्रुत्वेदमवदद् राजा कर्मबन्धो महान् कृतः।कथं श्लथीभवेद नाथ! ततः प्रोवाच संयमी ॥५५२॥ वद्धस्पृष्टनिधत्ताख्यास्त्रयो भेदा महीपते!। मिथ्यादुष्कृतभणनादिभिर्जेयाः सुहेतिभिः॥५५३॥ तदन्यः ॥१८॥ । HOUR h कर्मवन्धो यो निकाचित इति स्मृतः। भूयसा तपसा सोऽपि विजेतव्यो मुमुक्षुभिः॥५५४॥ यथा तुषारपातेन दह्यतेऽनोकहब्रजः। यथाऽऽम्लरसविष्टब्धं लङ्घनेनापदिश्यते ॥५५५॥ यथा दवाग्निाहरण्यं दद्यतेऽसयतेजसा । तथा सर्वाणि कर्माणि जीयन्ते तपसा चिरात् ॥५५६॥ (युग्मम् ) कीर्तेर्गाद भयाद् वापि सुदेयं दानमङ्गि- नाम् । कुललज्जाभराभ्यां च सुकरं शीलपालनम् ॥५५७॥ मृषाऽन्यरञ्जनादु वाऽपि सुकरा हन्त ! भावना। दुष्करंतु तपस्तप्तुं देहधातुक्षयावहम् ॥५५८॥ श्रुत्वेति नन्दनं राज्ये मदनावलिसंभवम् । संस्थाप्य सूरिपादान्ते श्रीवत्सो जगृहे व्रतम् ॥५५९॥ सोऽभ्यस्य द्विविधां शिक्षा दक्षः कक्षीकृतक्रियः। विशेषतस्तपस्तप्तुं त्रैविध्येन प्रचक्रमे ॥५६०॥ यथा यथा तपो देहतनुतां तनुते तनौ । तथा तथाऽस्य सदभावमहिमा नहि हीयते ॥५६१॥ परितक्ष्य तपष्टकैः शिलामिव निजां तनूम् । उच्चकार तथा सोऽभूद् यथा जङ्गमदैवतम् ॥५६२॥ आयुगक्षये स राजर्षिगृहीत्वाऽनशनं चिरात् । एकावतारस्त्रिदशो जज्ञे तस्माच्च सेत्स्यति ॥५६३॥ विद्यावि- लासराजर्षिर्यथा तेपेतरां तपः। तथाऽन्यैरपि भावेन पालनीयं महावल ! ॥५६४॥ ततो महाबलो राजा जगादेति कृतस्मितम् । करिष्यामि तपः शुद्धं खामिन् ! विद्यानरेन्द्रवत् ॥५६५॥ दानशीलतपोधर्मा अमी भावं विना त्रयः। न फलन्ति महीपाल! शाला इव ऋतुं विना ॥५६६।। यद्वद् रूपं दृशा यद्वदलङ्कृत्या कवेर्वचः । यद्वचन्द्रो द्युता तद्वद् धर्मों भावेन भूष्यते ॥५६७॥ भविनो भावनैवैका मुक्तिसङ्ग- मदूतिका । भवे भवेदिहैवाऽऽशु दृढप्रहारिसाधुवत् ॥५६८॥ तथाटासीत् पुरे कश्चिद् महाकोपी द्विजात्मजः।
भावना
विषये
दृढप्रहारि
कथा ।
॥१९॥
अन्यायकारिणामाद्यो यौवनं चाप्युपाययौ ॥५६९॥ ग्रन्थिभेदं व्यधत्तोचैः स कदाचन भव्यवत् । क्वचिच खान-
खात्राणि लोल कोल इवानिशम् ॥५७०॥ अवध्यत्वादसौ राजनृभिनिर्वासितः पुरात् । अथाऽगाचौरभूपल्लीं चौ.
रीहल्लीसकाकुलाम् ॥५७१।। चौरसेनापति शश्वत् सेवते स्म द्विजात्मजः। स्थानलाभात् कृतार्थ स्वं मन्यमानो
मनोऽन्तरे ॥५७२॥ तैस्तैरुदनचरितैरात्मतुल्यं विलोक्य तम् । अमन्यत सुतत्वेन चौरसेनापतिः स्वयम् ॥५७३||
दस्युस्वामिनि पञ्चत्वमुपेयुषि स दस्युभिः। तत्पदे स्थापितश्चण्डकर्माजनि विशेपतः॥५७४॥ सुदृढं प्रहरत्येष
प्राणिनो निष्कृपं यतः।ततो दृढपहारीति सान्वयं नाम निर्ममे ॥५७५॥ वभञ्ज नगराण्येष जग्राह पथिकव्रजान् ।
ग्रामान् प्रज्वालयामास पञ्जिकार्थं कृताग्रहः ॥५७६॥ अन्येद्युस्तस्करैः साकं स्वांशैरिव पृथग्गतैः। भक्तुंकुश-
स्थलं ग्राममगादेष महाभुजः॥५७७॥ तत्रास्ति देवशर्मेति ब्राह्मणः शर्मवर्जितः । स्वाङ्गवत् सहज यस्य दौर्गत्यं
प्रसृतं चिरम् ॥५७८॥ तदैव बालकैरेष क्षीरानं याचितो द्विजः। बालका न हि जानन्ति सदसत्त्वं निजौकसि ॥
५७९।। यतः-दस्यवो डिम्मरूपाणि राजानश्च द्विजा अपि। परपीडां न जानन्ति गृह्णते च यथा तथा ॥५८०॥
परिभ्रम्याऽखिलं ग्रामं याचित्वा च क्वचित् पयः। क्वचिच तन्दुलान् स्त्यानीभूतेन्दुकिरणानिव ॥५८१॥ कापि
क्वापि गुडं हृद्यमभ्यर्थ्य स्वस्तिभाषणात् । क्षैरेयी पाचयामास लातुं चागाद् नदीरये ॥५८२।। इतश्चोग्रहशो
गेहमागच्छंस्तस्य तस्कराः। तेषामेकतमोऽनश्यत् क्षैरेयीं प्राप्य रङ्कवत् ॥५८३॥ अथोर्डिम्भरूपाणि चक्रन्दु-
१ निर्मितमित्यपि पाठः । २ पृथूनतैरिति च ।
॥१९॥
विरसस्वरम् । उदित रुदितं वस्त्रं बालानां योषितामिव ॥५८४॥ रुदन्तस्ते नदीं गत्वा तूर्ण जनकमूचिरे । केन- चित् पश्यतां तात! जहे नः पायसं गृहात् ॥५८५॥ तदाकाऽदधाञ्चित्ते दैवं दुर्बलघातकम् । अन्येषु वेश्मसु ग्रामे दुभिक्षं किं विजृम्भते ॥५८६॥ क्रुध्यन्नथ द्विजस्ताम्रवदनो ग्राममीयिवान् । भुजाभ्यां परिघं प्रेतभर्तुर्द- एडमिवायतम् ॥५८७॥ आदाय गेहमागत्य स भूत इव नूतनः। समुल्लासितदोर्दण्डो जघान स्तेनमण्डलम् ॥ ॥५८८॥ (युग्मम् ) दृष्ट्वा वित्रस्यतश्चौरास्तेन वातेन तूलवत् । दधावे तस्कराधीशो यमदूत इव स्वयम् ॥५८९।। सत्वरं धावमानस्य प्रवाहस्य शिला यथा। अन्तराले बभूवाऽस्य सौरभेयी गतिच्छिदे ॥५९०॥ प्रेरित इव दुर्ग- त्याधिष्ठित इव रक्षसा। निष्कृपस्तां कृपाणेन निजघान निषादवत् ॥५९१॥ तस्कराणामधीशस्थ संमुखीनोऽ- भवद् द्विजः । मृगो मृगाधिपस्येव शिशुपालनतत्परः ॥५९२॥ रे! रे! तस्कर ! मद्वेश्म विशन् मूर्ख ! मुमूर्षसि। शापेनापि ममाऽनन्ताः क्षयं नीता वधं विना ॥५९३॥ तदाकाथ चौरेशो मण्डलाग्रेण चोग्रधीः। फलवत् पातयामास शिरो रोरद्विजन्मनः ॥५९४॥ आ पाप ! पापिनामाद्य ! ब्रह्महत्याविधायक ! एवमुत्तवाऽभ्यगादस्य वेलामासवती वधूः ॥५९५॥ दुर्गतेः सङ्गदूतेन धौतेन तरवारिणा । विददारोदरंतस्याश्चण्डः कूष्माण्डखण्डवत् ॥ ॥५९६।। गर्भ जरायुमध्यस्थं कम्पमानं भयादिव । निरीक्ष्य पुरस्तस्य करुणा तरुणायते ॥५९७॥ हा मातस्तात ! हा! मातर्विलपन्त इति स्फुटम् । एते स्तनन्धया मोहाद् मयैव निहताः खलु ॥५९८॥ पितृमातृपरित्यक्ताः १ -नस्ताम्रपौत्रवदित्यपि पाठः । २ -रानमुष्मात्तूलपूलवदिति च ।
भावना विषये दृढप्रहारि कथा। ॥२०॥ किमु जीवन्ति बालकाः । कठोरेण कुठारेण विलूनाः पल्लवा इव ॥५९९॥ गोब्रह्मवनिताभ्रूणहत्यामित्यादधद् भृशम् । पातकं पातकं जन्तोर्धिगार्जयमनार्यवत् ॥६००॥ स्वयं स्वं हन्मि किंशस्च्या कूपे झम्पांददामि किम् ।। विशामि ज्वलने किंवा विषादाद् विषमझिकिम् ?॥६०१॥ एवं विचिन्तयन्नेष जातवैराग्यभावनः। व्यावर्तमान उद्याने स्थितान् साधूनवैक्षत ॥६०२॥ प्रणिपत्येति तानूचे पापात्माऽहं दुराशयः। शाऽप्यदृश्यो वचनैरभाष्यो- हं भवादशैः॥६०३॥ नास्ति मत्तः क्वचित् पापी नास्ति मत्तोऽपि निधणः । नास्ति मत्तोऽपि निर्धर्मा नास्ति मत्तोऽधमाधमः ॥६०४॥ ईदृक्षमपि मां बातुं यूयमर्हत सांप्रतम् । प्रायश्चित्तरहस्यज्ञाः सर्वधारणा यतः॥६०५॥ ततस्ते साधवः साधुधर्मतत्त्वमुपादिशन् । श्रामण्यमेष जग्राह पापपङ्कनदीरयम् ॥६०६॥ यस्मिन्ननि खतोऽन्य स्मादपि स्मर्तास्मि पातकम् । तत्र तत्रैव नो भोक्ष्ये कृतपर्वतपा इव ॥६०७॥ कर्ताऽस्मि क्षान्तिमक्षूणामित्यभि- ग्रहयोयुगम् । अग्रहीदेष शुद्धात्मा भववैराग्यरङ्गितः॥६०८॥ अथावस्कन्दिते ग्रामे तस्मिन्नेव कुशस्थले । विज: हार महासत्त्वः कर्मक्षयकृताग्रहः॥६०९॥ विधायैष महापापी नटवद्वेषमोचनम् । पुनर्खण्टयितुं ग्राममाययो हेरिकोपमः ॥६१०॥ रे भ्रूणादिमहापापकारकोऽपि न मारितः। दर्शनव्याजतोऽस्माभिरित्यतज्यंत तैर्जनैः॥ ॥६११॥ भिक्षार्थ प्रविशन्नेष ग्रामवेश्मसु संयमी । कीटकैक्षितश्चैव लोष्टखण्डैरताडयत ॥६१२॥ विशेषतस्ता: डथमानस्तत्पापं संस्मरन्नसौ। नाभुङ्क्त किमुत क्षान्ति विधत्ते स्म दिवानिशम् ॥६१३॥ यष्टिभिस्ताडयामा- १. -मनार्जवः इति च! ॥२०॥ - -- सुस्तं दुर्दान्तमहोक्षवत् । जघ्नुश्च मुष्टिभिः कामं वपुर्णल्मविधायकम् ॥६१४॥ कायोत्सर्गस्थित ग्राम्याः पिदधुः पांशुवृष्टिभिः । देशारिष्टसमुद्भूता उत्पाता इव पत्तनम् ॥६१५॥ इत्थंकदर्थ्यमानोऽसौ ग्रामीणैः प्रनिवासरम् । एवं विभावयामास मुच्यमानरजोगुणः ॥६१६॥ दूयसे किमु रे! जीवाऽनर्गलैः खलु जल्पितैः । प्रदत्तं लभ्यते नैवाऽप्रदत्तं हि कदाचन ॥६१७॥ शुभेतरपरीणामाकृष्टमेतत् तवाऽऽगतम् । तेनाजितं स्वयं भोक्ता हेतुमानं परः पुमान् ॥६१८॥ यदुपात्तं त्वया पापं भोग्यं जननकोटिभिः। तदिहैव शुभस्वान्तो भोक्ष्यसे क्षणमात्रतः॥६१९॥ यता-अज्ञानी यत् कृतं कर्म क्षिपेद् वत्सरकोटिभिः । तज्ज्ञानी गुप्तिसंपूर्णः क्षिपेदुच्छ्वासमात्रतः॥६२०॥ जात्य- रत्नमिवाऽप्राप्तं प्राप्य चारित्रमद्भुतम् । शमेन जय कर्माणि शर्माण्यपि तथाऽर्जय ॥६२१॥ प्रथमं कटुकं पश्चात् पीयूषति यथौषधम् । तथा ग्राम्यवचो जीव ! विचिन्तय सचेतनः ॥६२२॥ कर्मक्षयसखा तेऽसौ जीव !मा क्लीवतां भज । एतत्साहाय्यतः सर्वकर्मनिर्मूलकोऽसि यत् ॥६२३॥ चिरं सहित्वा दुःखानि त्वं चेद् नेदं सहिष्यसे । तद् वृथा प्राक्तनं सर्व मतिर्याऽन्ते हि सा गतिः॥६२४॥ यादृक् कर्म कृतं जीव ! भज ताहगवेदनम् । न शालिलूयते कापि वपने कोद्रवस्य यत् ॥६२५॥ वदनच्छायया कर्म यया जीव ! त्वयाऽर्जितम् । तामेव बिभृहीदानीमेकरूपा महत्तराः॥६२६॥ एवं भावयतस्तस्य भावनाशुद्धचेतसः। उत्पन्नं केवलज्ञानं लोकालोकप्रकाशकम् ॥६२७|| नि:- शेपक्षीणकर्माशोऽयोगिस्थो योगिनां वरः। दृढप्रहारी भगवान् प्रपेदे परमं पदम् ॥६२८।। भावनायाः फलं राजन् ! १ भव तादृगवेदने इति पाठान्तरम् । Jil R RAM । भावना विषये भावना दृढप्रहारि कथा। ॥२१॥ न सम्यग् वक्तुमीश्वरः। यदीशोऽपि तमसः परं पदमवाप्तवान् ॥६२९॥ इत्यादितीर्थकृद्धर्म श्रावं श्रावं महाबलः। रोमाञ्चैरश्चितो देहे भावनाऽम्भोदबिन्दुभिः ॥६३०॥ अथाऽचलादयोऽप्यूचुनूपमित्रा मुनीश्वरम् । व्रतं वयमपि प्रीत्या अहिष्यामो नरेन्द्रवत् ॥६३१॥ यावद् राज्येऽङ्गजं न्यस्य समागच्छामि सत्वरम् । भवद्भिस्तावदत्रैत्र स्थेयं मयि कृपापरैः ॥६३२॥ अथ प्रोवाच भगवान् वरधर्मा मुनीश्वरः। देवानुप्रिय ! मा कार्षीः प्रमादं श्रेयसः कृते ॥६३३॥ प्रभो! प्रमादः सुतरां तदैव तत्यजे मया। यदैव भवतां वाणी सुश्रुबे तत्त्वमारिणी ॥६३४॥ अथ नत्वा गुरुं गन्वा पर्षदं जगतीपतिः। बलभद्रकुमारस्याभिषेकार्थ कृतोद्यमः॥६३५।। पप्रच्छाऽष्टाङ्गनिमित्ततत्त्वज्ञं गणकोत्तमम् । ब्रूहि लग्नं यथा शुद्धं राज्यलक्ष्मीप्रवर्धकम् ॥६३६|| अथो विचार्य संस्थाप्य लग्नं धरणिमण्डले। नैमित्तिक उवाचोचैोतिशास्त्रमहोदधिः ॥६३७॥ पातेन लत्तया वेधो प्रग्रहैकार्गलादिभिः। दोषैरेभिर्विनि मुंक्त रोगैरिव कलेवरम् ॥६३८॥ त्यक्तक्रूरग्रहग्रामं क्रूरालिङ्गितमेव च । वारस्य जन्मभं यत्तु तस्माच्च दशमं प- रम् ॥६३९॥ अष्टादशं तथैकोनविंशैकविंशमेव च । वर्जनीयं मया प्रोक्तं नक्षत्रं क्षितिवासव ! ॥६४०॥ (त्रिभिः विशेषकम् ) सक्रूरा जन्मभूर्दग्धा तारा साम्यवती तथा। त्रिदिनस्पर्शिनी चापि रिक्ता भद्रान्विता तथा ।। ॥६४१॥ संक्रान्तिग्रहणाभ्यां च हीनकालमुखी तिथिः। अद्यानेकगुणा राजन् ! पुण्या तिथिरिचागता ॥६४२॥ राहुकेतुयमच्छाया क्रूरवारस्तथैव च । दिनवारारिहोराच क्रूरवारस्य सा पुनः ॥६४३॥ यमघण्टकर्कयोगावुत्पातो / ॥२॥ १ रिवाजनेति च पाठः।
मृत्युकाणको । संवर्तक इति दोषा वारेऽस्मिन् सन्ति न क्वचित् ॥६४४॥ विष्कम्भगण्डशूलाश्चातिगण्डो वज्र- वैधृती। व्याघातः परिघश्चापि व्यतीपातयुता नव ॥६४५॥ एतैर्योगैः परित्यक्तं शुभयोगैः परावृतम् । कुनाम: कालदण्डाद्युपयोगैरुज्झितं दिनम् ॥६४६॥ मुहूर्त पावनं राजन् ! बवबालवकौलवैः। त्रिसंख्यैः करणैहृद्यस्त्रिलो. कीशत्वसूचकैः ॥६४७॥ अजन्ममासि निर्मुक्तधनुर्मीनस्थभास्करम् । असिंहस्थसुराचार्य लग्नमेतद् मनोहरम् ॥ मघा पुनर्वसुः पुष्यो हस्तः स्वातिश्च रेवती । रोहिणी श्रवणं चैव धनिष्ठा चोत्तरात्रयम् ॥६४९॥ मृगशीर्ष तथा मूलमनुराधा नराधिप !। पञ्चदशापि ऋक्षाणि प्रतिष्ठायां शुभान्यहो ! ॥३५०॥शन्यर्कक्षितिजाः षष्ठतृतीयस्थाः शुभावहाः। द्वित्रिस्थश्चन्द्रमाः श्रेष्ठः सर्वकार्यप्रसाधकः ॥६५१॥ एकद्वित्रिचतुष्पञ्चदशमस्थो बुधो मतः । एक- द्वित्रिचतुष्पञ्चनवसप्तदशस्थितः ॥६५२॥ गुरुः शुभतरः प्रोक्त एकपञ्चचतुःस्थितः । नवचतुर्दशस्थश्च शुक्रः प्रीतिकरः सताम् ॥६५३॥ केतुविधुन्तुदो नूनमेकादशगतौ शुभौ। प्रतिष्ठायां ग्रहा एते लग्नस्यातिशयप्रदाः ॥ ॥५४॥ श्रुत्वेदमुचितं दत्त्वा तेभ्यः स्वं क्षितिवासवः । लग्नेऽस्मिन्नेव राज्ये श्रीबलभद्रं न्यवीविशत् । ६५५॥ अ- थाधिरूढशिबिको नरेन्द्रः श्रीमहाबलः । मुनिपादरजःपूतं महोद्यानमुपेयिवान् ॥६५६॥ स्वपदन्यस्तसत्पुत्रोऽथा- ऽचलो निश्चलाशयः। गुणैः स्थैर्यादिकैर्वर्यैधेरणो धरिणीयितः॥६५७|| सप्तक्षेत्र्यां धनं न्यस्य पूरणोऽप्यनृणो नृ- णाम्। वसुभिः पूरयन् विश्वं वसुर्वसुरिव श्रिया ॥६५८॥ वैश्रमणः श्रमणत्वे बद्धकक्षो महामतिः। अभिचन्द्रस्तु निस्तन्द्रो गुरुशुश्रूषणाशया ॥६५९॥ सर्वेऽप्यमी यथा वित्तं ददाना भावनोद्धताः। शिबिकास्था गुरोः पार्थे दृढमा भावना विषये कथ ॥२२॥ व्रतमाप्तुमुपागमन् ॥६६०॥ (चतुर्भिः कलापकम्) अथाऽवामान वामपार्श्वे कृत्वैतान विधिपूर्वकम् । धर्मध्व- जादि तत् सर्वमदादथ मुनीश्वरः ॥६६१।। पञ्चभिर्मुष्टिभिः केशान् मूर्तिमद्विषयानिव । स्वयमुत्पाटयामासुरेते गुरुनिदेशतः॥६६२॥ सामायिकमहामन्त्रं पात्रं निःश्रेयसश्रियाम् । गुरोरुचारयामासुस्ते पीयूषकिरा गिरा॥ ॥६६३॥ तत्कालमाप्तसाधुत्वलिनिनोऽपि तपोधनाः । संवृताङ्गाः समाधिस्थाश्चिरंदीक्षितवद् बभुः ॥६६४॥ प्रद क्षिणात्रयीं दत्त्वा प्रणिपत्य गुरुक्रमौ । उपाविक्षन् पुरस्तात् ते विनयाऽऽनम्रकन्धराः ॥६६५॥ अथोपश्लोकयामास गुरुस्तभाववृद्धये । असारेऽपि भवे प्राप्तं श्रामण्यं मुक्तिपूरथः ॥६६६॥ चक्रित्वं त्रिदशत्वं च नृपत्वमहमि न्द्रता। विदन्तु सुलभ चैतद् दुर्लभं तु जिनव्रतम् ॥६६७॥ यतः-एकाहमपि निर्मोहः प्रव्रज्यापरिपालकः। न चेद् मोक्षमवाप्नोति तथापि स्वर्गभाग् भवेत् ॥६६८॥ किं पुनस्ते महाभागास्त्यक्त्वा तृणमिव श्रियम् । आद्रिः यन्ते परिव्रज्यां सुचिरं पालयन्त्यपि ॥६६९॥ इति विनयविनम्रा देशनां पावनां तां कुमततिमिरवीथीभाख- दंशुप्रकाराम् । श्रुतिपथमुपनीय प्रीतिभाजो मुनीन्द्रा विदधति मुदमेते सप्त साम्यैकतानाः ॥६७०॥ इति श्रीविनयचन्द्रसरिविरचिते श्रीमल्लिखामिचरिते विनयाङ्के महाकाव्ये दान-शील-तपो-भावनासु जिनदत्त. वनमाला-श्रीविद्याविलासक्षितिपति-श्रीदृढमहारिमहर्षिकथागभितः श्रीमहाबलराजर्षि-अचल-धरण- पूरण-वसु-वैश्रमणा-ऽभिचन्द्रव्रतमहोत्सवव्यावर्णनो नाम द्वितीयः सर्गः । and ॥२२॥ 45 तृतीयः सर्गः॥ अथ स्वगुरुणा साकमवियुक्ता गुणा इव । सत्त्वराशिहितोत्कृष्टा विजहुस्ते. तपोधनाः॥१॥ गुर्वाज्ञा- मिव समिती रक्षन्तस्ते यथाविधि। अभजन्ततरां साम्यं निःसीमाचरणप्रियाः ॥२॥ कायोत्सर्गजुषामेषां स्कन्धकण्डूयनं मृगाः । विदधुनिशितैः शृङ्गैस्तीक्ष्णैर्वासीमयैरिव ॥३॥ क्षुधार्ता अप्यमी धीराः कुर्वाणा दुस्त तपः । एषणा न व्यलवन्त निजच्छाया इवाङ्गिनः॥४॥ अरण्यानीपथि भ्रान्ता बाढं पिपासिता अपि। नो ववाञ्छुर्जलं शीतं स्फीतं पीतामृता इव ॥५॥ शीतेन बाध्यमानास्ते तुषारकणवाहिना । ईषु? ज्वलनज्वालां ग्रीष्मसन्तापिता इव ॥६॥ उष्णेन दह्यमानाङ्गा न च्छायां फलिनस्य ते। अस्मरन् कायमानस्थाः सुस्था इभ्यजना इव ॥७॥ मशकैरपि संदष्टा अयाशूचीमयैरिव। नोद्वेगं विदधुः क्वापि न द्वेषं च मनागपि॥८॥ इत्थं परीषहच जयन्तस्ते तपोधनाः। वीतशोकां पुरी जग्मुर्गु देशवशंवदाः॥९॥ तदागमनकल्याणमुद्यानतरुर- क्षकः । तत्क्षणात् कथयामास जयेत्याशीःपुरःसरम् ॥१०॥ ततः प्रकृतिभद्रोऽसौ बलभद्रः क्षितीश्वरः। तान् वन्दितुमगाद् भक्त्या पौरलोकैरलकृतः ॥११॥ वन्दित्वा स्वोचिते स्थाने निषण्णे पृथिवीभुजि । तेषां मुख्यो. ऽवदद् वाग्मी महायलमहामुनिः॥१२॥ अनादिमूलपर्यन्तः संसारो नाम पत्तनम् । विना केवलिनं यस्य स्वरूपं १ -धुक्ता इति च।
महाबल
मुने
भवप्रपञ्च-
विषये
उपदेशः।
4
॥२३॥
न निगद्यते ॥१३॥ यस्मिन् देवकुलायन्ते सौधर्माद्याः सुरालयाः। पण्याकुलापणायन्ते कर्माऽकर्मभुवोऽखिलाः
॥१४॥ शैवा वैशेषिका बौद्धाः कपिला नास्तिका अमी। वाणिज्यकारकायन्ते यत्र चाटुविक्षक्षणाः ॥१५॥
मोहो वप्रायते यत्र तृष्णोचैः परिखायते । विशालविशिखायन्ते सुखासुखसमागमाः ॥१६॥ शब्दाद्या विषया
यत्र पश्चामी पद्रदेवताः। विशालकाननायन्ते जन्तुदेहाः समन्ततः॥१७॥ तत्र कर्मपरीणामो नाम भूपो महा
बलः । यदाज्ञा माल्यवत् सर्वैरुह्यते सुरैरपि ॥१८॥ सर्वत्राऽलद्ध्यरचना वचनाऽगोचरोद्यमा। तस्याग्रमहिषी
कालसङ्गतिर्गतिशोभना ॥१९॥ देवपूजापरः शान्तः शोभनः स्वप्न सूचितः । अल्पक्रोधोऽल्पमानोऽल्पमायोऽ-
ऽल्पाहङ्कृतिः कृती॥२०॥ आस्तिकः सात्त्विकः प्राज्ञः शुभमार्गप्ररूपकः । भव्यो नाम तयो पुत्रः पवित्राच-
रणप्रियः ॥२१॥ (युग्मम् ) कलही क्लिष्टकर्मज्ञो महामोहसखः खलु । निगोदपृथ्वीकायादिस्थितितत्त्वकृतो.
त्सवः ॥२२॥ पुद्गलानां परावर्ताक्षयसेवधिरक्षकः। अभव्यनामा समभूद् द्वितीयश्च तयोः सुतः॥२३॥
(युग्मम् ) क्रमादुद्यौवनं भव्येतरं पुत्रं विलोक्य सा। चिन्तासन्तानविधुरा समजायत जातुचित्॥२४॥ ता-
मालोक्य महीपालो बभाषे सुभगोत्तमे ! । कथं चिन्तापराऽसि त्वं ब्रूहि वर्णैः सुकोमलैः १ ॥२५॥ देवाऽभव्य-
सुतः प्राप्तयौवनोऽपि कथं त्वया । उत्तमकुलनन्दिन्या साकं नो परिणाय्यते ? ॥२६॥ अथोवाच नृपः सुष्टु
स्मारितोऽस्मि सुलोचने ! । अनेककार्यनिघ्नस्य विस्मृतिम गरीयसी ॥२७॥ ततः क्लिष्टाशयं नाम दैवज्ञं कर्म-
भूपतिः । आजूहवत् प्रतीहारप्रेषणात् सर्वकार्यवित् ॥२८॥ तस्मिन्नुपागते राजा बभाषे वदतां वरः । ज्ञानाद-
॥२३॥
भव्यपुत्रस्य स्नुषां योग्यां निवेदय ॥२९॥ ज्ञानात् सम्यग् विचार्योचैःक्षणं स्थित्वा जगाद सः। अस्ति काल- प्रतिष्ठाख्यमव्यवहारपत्तनम् ॥३०॥ तत्रानादिवनस्पतिनामा राजति राजराट् । अनन्तकालचक्राख्या तस्य प्राणप्रिया प्रिया ॥३१॥ तीव्रमोहोदितिर्नाम तयोरेका तनूद्भवा । यस्या रूपमतिशायि न द्रष्टुमपि पार्यते ॥ ॥३२॥ अमुं भव्यतरं पुत्रं तया योजयसे यदि । स्वर्ण सुरभि जायेत रत्नं स्वर्णेन योज्यते ॥३३॥ श्रुत्वेदं नास्ति' को नाम दूतो भूमीभुजा स्वयम् । प्रेषितस्तस्य सामीप्ये स प्रणत्येत्यवोचत ॥३४॥ मन्मुखेन मम स्वामी स्वा. मिन् ! व्याहरते वचः। निजांमोहोदितिं पुत्रीं मत्पुत्राय प्रयच्छत ॥३५॥ युवयोर्यद्यपि स्नेहः कुलक्रमसमागतः। तथापि तं स्थिरीकर्तु संबन्धः क्रियतेऽधुना ॥३६॥ वनस्पतिरथोवाच विस्मिताननपङ्कजः । लुलोठ स्वधुनीमध्ये नालस्योपहतस्य मे ॥३७॥ असंभाव्यमभाग्यानां मनोरथशतेऽपि यत् । तदेतन्मम संपन्नं पात्रजामातृलाभतः ॥३८॥ श्रीमत्कर्ममहीपालसमादेशः सुदुर्लभः। सुचिरं विधृतो मौलौ हरिचन्दनदामवत् ॥३९॥ ताम्बूलवस्त्र पात्राद्यैः पूजयित्वा समुच्चकैः । मुख्य संख्यावतां मध्ये आत्मानं मन्यते स्म सः॥४०॥ नास्तिकोऽथ समागत्य निःशेष कर्मभूभुजः। तदुक्तं कथयामास संयोज्य करकुड्मलम् ॥४१॥ तद्वचाश्रवणादेव जातरोमाञ्चकञ्चुकः। आजूहवन्निमित्तज्ञं क्लिष्टं क्लिष्टाशयाभिधम् ॥४२॥ दैवज्ञ ! वद सल्लग्नं परमोचग्रहान्विनम् । यत्प्रभावेण मत्पुत्रो जायतेऽनन्तसन्ततिः॥४३॥ दैवज्ञः पट्टके न्यस्य ग्रहचक्रं यथाविधि । देवामुष्मादिनाल्लग्नं पञ्चमेति विमृश्यताम् ॥४४॥ ततः शुभतरं लग्नं वत्मरान्ते महीपते !। विलम्बः पुण्यकार्याणां न क्षोणीश ! विधीयते
-
महाबल
मुने
भवप्रपश्च-
विषये
उपदेशः।
॥२४॥
॥४५॥ मिथ्यादर्शननामान मन्त्रिणं पृथिवीश्वरः। तत्क्षणं प्रेषयामास समीपे श्रीवनस्पतेः ॥४६॥ वनस्पति-
महीभर्तुः पुरतः
कर्ममन्त्रिराट् । नैकटयं कथयामास लग्नस्योत्तमताजुषः ॥४७॥ वनस्पतिरथ प्रोचे प्रमाणमि:
दमस्तु भोः । सत्वरं कारयिष्यामि विवाहोस्योचितं विधिम् ॥४८॥ यतः-देवानां मनसा साकं पार्थिवानां
गिरा समम् । धनिनामर्थदानेन कार्यस्यात् क्षणमात्रतः॥४९॥ अथादिक्षद् नृपो भृत्यान् निगोदान बादरानसौ।
क्रियन्तामिन्दुविशदाः पक्कानस्य हि पर्वताः ॥५०॥ आज्यैः प्राज्यैः प्रपूर्यन्तां महावाप्या पदे पदे । वररूपैः
सुचित्राढयैर्मण्डपा अपि वेश्मनाम् ॥५१॥ भवितव्यताप्रभृतिः सर्वः सुवासिनीजनः । पर्पटादिकृते भूयात्
लोलूलस्वरोत्तरम् ॥५२॥ लेख्यतां गोत्रिणां लेखा विवाहाऽहोनिवेदिनः । कुंकुमैः क्षुल्लकभवग्रहणाभिधलेखकः
॥५३॥ अथ संप्रेषितो राज्ञा मन्त्री प्राप्य पुरं, निजम् । विवाहप्रगुणः स्वामिन् ! जज्ञेऽनन्तवनस्पतिः॥५४॥
उन्मार्गदेशकाभिख्या वराकृष्टिविधायिनः। संसारपत्तनं प्रापुर्वनस्पतिनिदेशतः ॥५५॥ प्रवेशिता महोत्साह-
पूर्वकं कर्मभूभुजा । नृत्वाऽभिधानमावासमास्थिताः समदेक्षणाः ॥५६॥ मर्मोद्घनया वध्वा कृतस्नानमहो
सवाः । क्षारसूपकृता नीता दुर्वाक्रसवतीगृहे ॥५७॥ विन्यस्तमत्सरस्थाला अनार्याचरणादिजाः । द्राक् परि-
वेषयामासुः कुरङ्गार्भकलोचनाः ॥५८॥ भोजनान्ते नृपस्यान्ते संस्थायोन्मार्गदेशिनः। अमुमामन्त्रयामासुः
करग्रहणपर्वणि ॥५९॥ वस्त्राधैस्तान् स संपूज्य जन्ययात्राकृतोद्यमः । स्वावासान् दापयामास निधत्तस्तम्भ-
१ महोपाल इत्यपि
॥२४॥
वेश्मनि ॥६॥ अभिग्रहीतप्रभृतिभ्रातरः पञ्च दुर्जयाः। तत्राऽऽगच्छन् सशृङ्गारा भ्रातृव्यकरमङ्गले ॥६१॥ वावशारकनामानः कालसङ्गतिसोदराः। उपाजग्मुगृहीत्वोचैर्मातृशालाविधिक्षणम् ॥६२॥ रतिप्रियरतिप्रीतिगी- गमानोकमङ्गलः । परो भव्येतरोऽधारीद रजाकालीकृताम्बरः ॥६॥ आपतन्तं वरं श्रुत्वा वनस्पतिमहीपतिः । पुरं गभापयत् केतुलोलमालासमाकुलम् ॥६४॥ वनस्पतिसमादिष्टं रागाख्यं जन्यमन्दिरम् । हंसः सरोजव. नववलमकेतरां वरः ॥६५॥ कुवासनामयं तत्र धूलीभक्तं वनस्पतिः। सोत्साहं प्रेषयामास कामेच्छाधवलोत्तरम् ॥६६॥ निकाषिताहये थारुवर्णके कर्मनन्दनः । विन्यस्ता स्वस्तिवचनरचनाभिः पुरन्धिभिः॥६॥ नीरङ्गीपूर्वक तपोतमावृतविग्रहः । उन्मादाख्यं बरो नागमारोह यथाविधि ॥६८॥ द्रव्यक्षेत्रकालभावस्थूलसूक्ष्मविमे- विभिः । भवले। पुदूगलपरावतः संगीतविक्रमः ॥२९॥ द्वित्रीन्द्रियादिभिर्जीवैर्वन्दिवृन्दैरिवोचकैः । पुरःस्थैर्व- णिताशेषगुणग्रामः पदे पदे ॥७०॥ कौतुकागारसामीप्यं प्राप्य भव्येतरो वरः। उत्ततार द्विपादस्मात् प्रबोधा. विव दुर्मतिः ॥७१॥ (त्रिभिर्विशेषकम् ) अनन्तकालचक्राख्धस्वस्राकृष्टः स्ववाससा । संव्यानसंपुटस्फोटं चके पावमहारतः ॥७२॥ गधामवृत्तिनामाख्या कुलदेवीं प्रणम्य सः। मोहोदयवधूतारामेलकं विदधे तदा ॥७॥ अनाविभवरूपेण कृतज्ञेन द्विजन्मना ।कारितः करसंयोगोऽनयोर्मन्त्रपुरःसरम् ॥७४॥ वनस्पतिमहीपाला कर- मोपनपर्वणि । भववेगाभिषां वियां वदावक्षयकारिणीम् ॥७५॥ वृत्ते विवाहमङ्गल्ये दशाऽहानि महो- सनात् । स्थित्वा नरः सगागच्छदूनिज संसारपत्तनम् ॥७६॥ भुजानः पञ्चधा भोगान् तया साकं नरेन्द्रजः। -- महाबल मुने भवप्रपञ्च विषये उपदेशः। ॥२५॥ असूत नन्दनान् पञ्च विकारान् विदितान् भुवि ॥७७॥ आसन्नदूरसिद्धिकवेश्मान्येष दिवानिशम् । उपाद्रौषीत् सुतैः साकं पञ्चभिर्वामचेष्टितैः ।।७८॥ आसन्नदुरभव्याद्या मिलित्वा तैरुपद्रुताः। आगमन् कर्मभूमीशसमीपे प्राभृतोत्तराः ॥७९॥ प्रणम्य कर्म भूपालं तत्सर्व ते व्यजिज्ञपन् । परैहिं परिभूतानां सर्वेषां पार्थिवो गतिः ॥८०॥ यदूचे-दुर्बलानामनाथानांबालवृद्धतपस्विनाम् । अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥८१॥तं निशम्या:- वदद् भूमान् रे रे नगरवासिनः ।। मबल्लभसुतस्यायमन्यायः पूत्कृतः कथम् १ ॥८२॥ यद्यन्ममाङ्गभूर्लोकान् गृह्णाति गृहमध्यतः। तत्तस्य शेषमन्यस्य प्रसाद इति यत्कृतः ॥८३॥ यद्यत्र स्थातुमीशा न ततो गच्छत मे पुरात्। नगरस्य न कोणेऽपि ममायं कूणयिष्यति ।।८४॥ ततः कलि प्रतीहारः संज्ञितो नेत्रसंज्ञया। तानई चन्द्रयामासानाथानिव नृपाग्रतः॥८५।। ते खिन्नमानसा दीनवदना भ्रष्टवुद्धयः। विमृश्य सुचिरं चित्ते भव्यः प्रासादमासदन् ॥८६॥ तानायातश्चिरं दृष्ट्वा मुहुः स्नेहलचेतसा । अभ्युत्थानमलश्चक्रे सर्वस्याभ्यागतो गुरुः ॥ ॥८७॥ किञ्चिदुच्छसितास्तेऽथ प्रदत्तद्रविणा इव । प्राणमन् कर्मभूपालकुमारं परया मुदा ||८८॥ कर्मणा विहितं यच तेऽजल्पन्नपमाननम् । सुहृदां कथित दुःखं लघूभवति निश्चितम् ॥८९॥ समीपवर्ती तन्मित्रं सदागम इति श्रुतः। द्वितीयं मानसमिव भव्यस्य नृपजन्मनः ॥९०॥ विदध्यौ तन्मुखं भव्यः सोऽप्यूचे देव! मद्वचः । शृण्वमीषां यथा वाणसामर्थ्य तवं जायते ॥९१।। अमुष्मिन् भवपाथोधौ द्विघ्नसप्तकरज्जुके। ग्रन्थिभेदाभिः ॥२५॥ . १ ममेति पाठान्तरम् । ।
धो द्वीपोऽप्राप्तोऽभव्येतरैर्नहि ॥९२॥ अपूर्वानिवृत्तिसंज्ञकरणारक्षकान्वितः । कोहः सास्वादनो नामाऽतिक्रम्यो यः षडावलिः ॥९३॥ सम्यग्दृष्टिरिति ख्यातं तस्मिन्नस्ति महापुरम् । सुबोधो यत्र भूपालस्तंभार्या बुद्धिसुन्दरी ॥९४॥ त्रिपुञ्जीकरणो नाम तस्य बन्दी महामतिः । यः सदा वीतरागस्य पठेदु भोगावली किल ॥९५॥ ततः परमविरतिनामाऽस्ति नगरी शुभा। त्रयस्त्रिंशदन्धिमानाऽनुत्तरसुरभासुरा ॥९६।। तस्या देशविरत्याख्यो महाग्रामो विराजते। यस्मिन्नुपासको भव्यसंज्ञा खेलति धार्मिकः ॥९७॥ ततः सर्वविरत्याख्यं नामाऽस्ति नगरं महत् । यस्मिंश्चारित्रभूपालः पराक्रममहानिधिः ॥९८॥ तस्य क्षमाभिधा पट्टदेवी कोमलगीः सुधीः । मुनीन्द्रे- रपि यद्रूपं गीयते ज्ञानगीतिभिः॥९९॥ अस्ति तस्य महामात्यः सम्यग्दर्शनसंज्ञकः । मिश्राख्यः प्रणिधि. यस्य सर्वगः पवनो यथा ॥१००॥ समीपे तस्य चेद् भव्यमहाभाग्येन गस्यते । अवश्यं कर्तुमस्योचैरपमानं हि शक्यते॥१०१॥निःसहायैर्महाभाग! न किश्चिदपि शक्यते । वायुना कृतसान्निध्यो दहेत् कक्षं हुताशनः ॥१०२॥ यता-असहायः समर्थोऽपि तेजस्वी किं करिष्यति ? । निर्वाते ज्वलितो वह्निः खयमेव प्रशाम्यति ॥१०३।। श्रुत्वे- वं निशितैः सर्वैः समित्रः कर्मनन्दनः । चचाल शकुनैश्चारु प्रेरितः सुकृतैरिव ॥१०४॥ प्रातस्तेषां गृहाण्येष शू- न्यान्यालोक्य सर्वतः । लोको विज्ञपयामास राजानं कोपनाऽऽशयम् ॥१०॥ तन्निशम्य वचोराजा कोपवति प्रभञ्जनम् । आजूहवद् महामात्य मिथ्यात्वं बहुसंमतम् ॥१०६॥ अथावादीद् महाभाग! सनीरजलदस्वरः । ममाग्रे मिश्रदूतेन जगदे जगदेकधीः ॥१०७।। भव्यो भव्यसमूहेन साकं स्वामिन् ! निशीथतः। उच्चल्य सर्व- A महावल मुनेः भवप्रपञ्च- विषये उपदेशः। ॥२६॥ विरतौ नगरे गतवान् खलु ॥१०८॥ स च चारित्रभूपेन कृतसंमानपूर्वकम् । समीपे स्थापितः पुत्रवद् दृष्टश्च दिवानिशम् ॥१०९॥ चारित्रभूपतेः साधु धर्मपुत्रेण सङ्गतम् । नीलीरक्ताम्बरमिव जज्ञे तस्याविनश्वरम् ॥११॥ सन्मार्गदेशनानाम्नी वारवेश्या सुलक्षणा । तस्या गेहे स्थितो भव्यो विरागी भवतः प्रति ॥१११॥ क्रमशः क्रमशस्तेन तत्पुरं कर्मभूपते ।। उदासितं सुबोधेन स्तोकलोकं भविष्यति ॥११२॥ श्रुत्वेति कर्मभूपाला क्रोधेनौ- ष्टदलं दशन् । ऊचे चारित्रभूपालं हनिष्यामि शृगालवत् ॥११३॥ मया चारित्रनामापि श्रुतमद्य महत्तम!। मां मुक्त्वाऽन्यो महीपालो न क्वापि श्रूयते क्षितौ ॥११४॥ अथवा कल्पवृक्षेऽपि विद्यमानेऽर्थिनां प्रिये । स्नु हीमहावृक्ष इति किं मूढेनों निगद्यते ? ॥११५।। यस्तायपक्षः पक्षालीचिकीर्मक्षु स्वसायके । दिग्दन्तिदन्तः प्रेयस्या सत्कङ्कणचिकीर्नरः ॥११६॥ सिंहस्य केशरैर्लाक्षारसदिग्धैरिवारुणैः । वेणीबन्धचिकीर्यश्च स मे पितृ- सपत्नति ॥११७॥ (युग्मम् ).दुर्नयस्य फलं सद्यो दर्शयामि रणाङ्गणे । मद्विक्रमकथाः सभ्याः ! वीक्षन्तां पौनरुक्त्यतः॥११८॥ अथ कर्ममहीपाल प्रज्वलन् क्रोधवह्निना। कुवासनाभिधां बाढ़ जैत्रढक्कामवीवदत् ॥११९॥ तस्या नादं समाकर्ण्य शौर्यद्रुमघनांधनम् । कामाद्या मण्डलाधीशाः सर्वे संनहनं व्यधुः ॥१२०॥ आहारभय- संज्ञाश्च चतस्रो यानकाहलाः । चतुर्दिक्षु जयायेव ताडिताः कर्मभूभुजा ॥१२॥ कदाग्रहमयास्तंत्र निःस्वानाः सस्वनुस्तराम् । पञ्चेन्द्रियविकाराश्च पश्च तूर्याण्यपि स्फुटम् ॥१२२॥ अथ कर्ममहीपालः कृतप्रस्थानमङ्गलः । आरुरोहाभिमानाख्यं नाग नगमिवोन्नतम् ॥१.२३॥ अभव्यैर्मण्डलाधीशैश्चलत्कर्मगुणैरिव । दूरभव्यैस्तथा . ॥२६॥ -- वर्गपत्तिभिा परिवारितः॥१२४॥ प्रभञ्जन इचोहामो नस्खलत्पौरुषोत्तरः । ददौ योजनमानेन प्रयाणं कर्मभूपतिः ॥१२५।। इत्थं प्रयाणकं कुर्वन् सर्वगः कर्मभूपतिः । ग्रन्धिभेदाभिधे द्वीपे कृतवासो व्यराजत ।।१२६।। मिश्रनामा महादूतः प्रेरितः कर्मभूभुजा । सम्यक्त्वमन्त्रिणो गेहमभ्यगाचित्तवद् द्रुतम् ॥१२७|| स्वामिन् ! कर्ममहीपालो मन्मुखेन तवाग्रतः । ईदृशं कथयामासाऽवधार्य तन्मयोदितम् ॥१२८॥ भव्यसान्वितो भव्यकुमारो यत्त्वया धृतः। तत् प्रसुप्तो मृगाधीशो हतो हन्त ! चपेटया ॥१२९॥ एतावताऽपि नो नष्टं किमप्यस्ति महीपते।। गत्वा क्षमय निःशेष नतिमाथा हि साधवः ॥१३०।। इति ब्रुवाणं तं दूतं श्रुत्वा चारित्रभूपतिः। सहास्यमवदत् पाथ पूर्णपाथोदनिःस्वनः॥१३१॥ त्वन्नाथनगरीलोकैः सदागमविमोचितैः । मदीयं नगरं भद्र ! वसदस्ति निर- न्तरम् ॥१३२॥ अमुमर्थ तव स्वामी जानन्नपि निजे हृदि । कथमद्योद्यतो जज्ञे विग्रहाय समं मया ? ॥१३३॥ अथवा विग्रहं मत्वा सर्वोऽपि परमण्डले । प्रवेशं कुरुते धीमान कीतिहासोऽन्यथा भवेत् ॥१३४॥ न न्यूनं तव नाथेन तोलनीयं ममाधुना । इत्युक्त्वा व्यसृजदु दूतं ततश्चारित्रभूपतिः ॥१३५॥ अथ प्रभावनां जैत्रढकां चा- रित्रभूपतिः । तत्क्षणात् ताडयामास वैरिगर्वगिरेः पविः ॥१३६।। शमसंवेगनिर्वेदप्रमुखास्तस्य भूपतेः । सर्वा- भिसारप्रयता बभूवुर्मण्डलेश्वराः ॥१३७॥ ज्ञानमौनक्रियाशीलसंपदो यानकाहलाः। समताडयन्त भव्येन अव. णप्रमदप्रदाः ॥१३८॥ अथ चारुमुहर्तेऽहि कृतप्रस्थानभङ्गाला । आरुरोह व्रतक्ष्माभूत संयमाभिधकृञ्जरम् ।। १ वर्ग इति च पाठः ।। R - 15 महाबल मुनेः भवप्रपञ्च- विषये उपदेशः। ॥२७॥ . ॥१३९।। जैनधर्माभिधो बन्दी भावनातुरगीस्थितः । एवं वचोऽगदत् काममाशीर्वादपुरस्सरम् ॥१४०॥ जय चा- रित्रभूपाल ! प्रलीनाशेषकल्मष।। जय भव्यजनारामवसन्तसमयायित ! ॥१४१॥ जय त्रैलोक्यमाणिक्य ! जय साम्यमहानिधे।।जय दुर्जयदर्पोग्रकन्दर्पपवनाशन ! ॥१४२॥ अहिंसाध्यानयोगश्च रागादीनां विनिर्जयः। साधर्मिकानुरागश्च सारमेतत् तवाऽऽगमे ॥१४३॥ अर्हन् देवो गुरुः साधुस्तत्त्वं तीर्थकरोदितम् । इति यस्य स्फुरत्यन्तः संसारोऽस्य करोति किम् ? ॥१४४॥ इत्याद्यैर्वचनैः पुरयन् रोदसीतलम् । चारित्रभूपतेरो प्रासर बन्दिसुन्दरः ॥१४५॥ शुक्लध्याननरो दधे मूर्ध्नि च्छत्रं समुज्ज्वलम् । केवलज्ञाननामाऽस्य लोकालो कप्रकाशकम् ॥१४६॥ आरोहकः समत्वाख्यः कुम्भिकुम्भे व्यवस्थितः । अन्येऽपि बलिनो योधाः संतोषशम- संज्ञकाः ॥१४७॥ प्रयाणकशतैर्मिश्रकोहदुर्गसमीपगः । बभूव व्रतभूपालो विहितावाससंहतिः ॥१४८॥ शमस्य मार्दवस्याऽप्यार्जवसंतोषयोरपि । रणपहा अबध्यन्त श्रीमचारित्रभूभुजा ॥१४९॥ क्रोधाहङ्कारयोर्मायालोभयो- रपि तत्क्षणम् । कर्मक्षोणीभुजा भालेऽबध्यन्त रणपट्टकाः ॥१५०॥ अथ सैन्यद्वयं तत्र डुढौके रणरणतः । ब्रियन्ते सुभटा यन्त्र साभिज्ञानपुरस्सरम् ॥१५१॥ रणतूर्यैर्वाद्यमानैर्वन्दिकोलाहलैस्तथा । वीराणां सिंहनादैश्च शब्दाद्वैतमभूत्तदा ॥१५२॥ शरच्छन्नपतद्दण्डैरुच्छलद्भिर्महुर्मुहुः । तदा जज्ञे सितच्छत्रैः शतचन्द्र नभस्तलम् ।। ॥१५३॥ रणकृत्तशिरोभिश्च हुङ्काररवभीषणैः । परिव्याप्तं नभो भाति वाचालैरिव राहुभिः ॥१५४॥ नास्त्या- Pos ॥२७॥ १ ग्रहवस्मर इति च पाठ. । 05 त्मा नास्ति देवोऽपि नास्ति काचन निवृतिः । नास्ति पुण्यं तथा पापं किन्तु भूतमयं जगत् ॥१५५॥ एकस्मिन् दृषदि न्यस्य पादद्वन्द्वमुपासकैः । अभ्यर्च्यते शिला त्वन्या शवमण्डनलीलया ॥१५६।। किं तया विहितं पापं यस्था उपरि संस्थितम् । स्थाप्यन्ते चरणा अन्याः पूज्यास्तत्कि कृतं शुभम् ? ॥१५७।। यद् बुद्धयते न तत्वं तद् यत्तत्वं तन्न बुद्धयते । अतत्त्वलोलुपो लोको धिग्मूखैविप्रतार्यते ॥१५८।। इत्थं वचनवीथीभिर्भल्लीभिरिव ताडिताः। द्रव्यश्राद्धा अभव्यस्तैः क्षणादेव विनिर्जिताः ॥१५९॥ ( चतुर्भिः कलापकम् ) अत्र चारित्रभूपालं प्रणम्य परमार्हताः । अभव्यस्तैः योद्धं प्रवृत्ता रणरङ्गिणः ॥१६०॥ यदुच्यते भवद्भिश्च नास्तीति वचनं भृशम् । अस्तीत्यपेक्षया तच घटाकोदिमुपैति भो! ॥१६१॥ चरणस्थापनं भक्तिपूजनं यच्छिलास्वलम् । तत्प्रतिष्ठाफलं नाऽऽभिः पुण्यापुण्यमुपार्जितम् ॥१६२।। इत्थं वाक्यैः सर्वलोहमयैरत्नरियोचकैः । पलायाञ्चक्रिरे वेगादभव्या. स्ताडितास्ततः॥१६शासार्क संचारिभीराजपुत्रैः क्रमागतैरिव । सात्त्विकैरनुभावैश्च शान्तैः प्रहरणैरिव ॥१६॥ लीलाविलासविच्छित्तिविब्बोकादिमविभ्रमः। इत्याधैः सहजैर्युक्ता रागवादिहिमांशुभिः ॥१६५॥ मण्डलाधि- पकन्दर्पनिदेशाद् विषया भटाः । स्थायिभिमूर्ततेजोभिरिव योडढौकिरे ॥१६६।। (त्रिभिर्विशेषकम् ) तेषां दर्शनतः श्रीमद्भतराट्पक्षवर्तिनः। द्रव्यतो यतयो नेशुः किंकर्तव्यविमोहिताः ॥१६७॥ स्वबलं भग्नमुद्रीक्ष्य बलात्कर्ममहीभुजः । अशिक्षतेति निर्ग्रन्थान् श्रीमचारित्रभूपतिः ॥१६८।। यूयं धन्या महासत्त्वा आजन्मनल- चारिणः । यथाख्यातव्रतास्तीर्णघोरसंसारसागराः ॥१६९॥ युष्मदीयं व्रतं भद्रा ! पालित सफलं तदा। यदा-
महाबल
मुनेः
CRORESAR
भवप्रपञ्च-
विषये
उपदेशः।
॥२८॥
ऽमून विषयान् घोरान् जेतारो ब्रह्मविक्रमः ॥१७०॥ अन्यथा विषयैरेभिब्रह्मचर्यमहानिधिः। अवश्यं गृह्यते
सर्वो भवतां जीवतामपि ॥१७१॥ अमुष्मिन् दुर्घहे दुर्गे निर्जिते विषयाभिधे । भवादृशैनिजं गोत्रमद्यैवाऽलं
विभूष्यते ॥१७२॥ एषामपि पतिः कामः प्रकामबलदुर्धरः। ब्रह्माद्यास्त्रिदशा येन लीलयैव वशीकृताः ।।१७३।।
एतज्जयो विधातव्यः शुचिब्रह्मनिषेवणैः । वसतिस्त्रैणवार्तादिनवगुप्तिविशेषितः ॥१७४।। इत्युपवृंद्य भूपालो
विजितेन्द्रियसंज्ञकम् । ताम्बूलं प्रददौ तेषां स्वहस्तेन प्रसादवत् ॥१७५।। अथ चारित्रभूपेन समादिष्टाः
समन्ततः । सर्वाङ्गमलसन्नाहा ब्रह्मगुप्त्यस्त्रभासुराः॥१७६॥ निरीहतातुरङ्गस्था निशातशमसेल्लकाः। योv
ताभिः समं विष्वग् ढोकन्ते स्म प्रहर्षिताः ॥१७७॥ (युग्मम् ) तेषां दर्शनमात्रेण प्रणेशुर्विषया भटाः । उदये
तेजसा भर्तुः किमु खेलन्ति कौशिकाः ॥१७८॥ शमः कोपमयो मानं मृदुता रणपभृत् । मायामार्जवीरेशो
लोभं तोषस्ततोऽजयत् ॥१७९॥ अथ कर्मलहीपालः साकं चारित्रभूभुजा। योढुं प्रववृतेऽत्यन्तं बन्धसत्तांऽऽ.
दिवर्मभृत् ।।१८०॥ मतिश्रुताऽवधिमना केवलावरणैः समम् । ज्ञानावरणकर्माज्थाऽचलत् कर्मद्विपानुगम् ।।१८।।
चक्षुरचक्षुरवधिकेवलदर्शनावृतिः। आद्या निद्रा निद्रानिद्रा प्रचला च तृतीयका ॥१८२।। प्रचलाप्रचला स्त्या.
नर्धिरेवं नवभिस्ततः। दर्शनावरणं कर्म पाणिभागेऽभवत्तराम् ॥१८३॥ सातासातभिदाभ्यां तु वेदनीयं
तदग्रतः। तिर्यग्नारक-स्वर्गिभेदादायुश्चतुर्विधम् ॥१८४॥ गतिजातितनूपाङ्गबन्धनादिविशेषतः। व्युत्तरशतेन
नाम संना प्रगुणं स्थितम् ॥१८५॥ उच्चर्नीचैविधा भिन्नं गोत्रं तस्य पुरस्सरम् । अन्तरायो दानलाभवीर्यभो.
।
॥२८॥
ह गोपभोगयुक् ॥१८६॥ कषायै!कषायैश्च योधैरिव महाबलैः। रणकामी भवत्स्वामी रणक्षेत्रममण्डयत् ॥१८॥ ततो व्रतमहीपाल सक्रियाकवचोत्तरः । अवर्षदू धर्मचापेन देशनानिर्मितः खगैः॥१८॥ पात्रस्यानुपघाते. नानिहवेन गुरोरपि । जिगाय ज्ञानावरणदर्शनावरणे नृपः॥१८९॥ जिनेन्द्रसिद्धचैत्यौघसंघस्य द्वेषवर्जनैः। अनन्तदुःखसंभारं सोऽजयद् दृष्टिमोहनम् ।।१९०॥ तीवक्रोधपरीहारैर्भवभ्रमणवारणैः। चारित्रमोहं चारित्रभू- पालो जितवांस्तदा ॥१९१।। महारम्भपरित्यागैस्तीव्ररागविवर्जनैः । ब्रतेशो नरकायुष्कं समूलमुदपाटयत् ॥१९२॥ सन्मार्गदेशकत्वेन तिर्यगायुस्ततः परम्। विजयेन कषायाणां मनुष्यायुरथाऽजयत् ॥१९३॥ तपोभिर्नि मैले कामं निर्जराभिः पदे पदे । देवायुष्कं लीलयैव जितवान् संयमाधिपः ॥१९४॥ गारवाणां परित्यागाद् नीचैर्गोत्रमधिक्षिपत् । उच्चैर्गोत्रं तु चारित्रव्रतायुःपरिपूरणैः ॥१९५।। अन्तरायं पराजिग्ये दानलाभानिवारणैः। इत्थं कर्ममहीपालो मूलादुन्मूलितस्तदा ॥१९६।। जितकाशी ततः श्रीमच्चारित्रक्षितिनायकः। निर्वाणनगरी प्राप भासुरां शाश्वतैः सुखैः॥१९७॥ तदाऽऽदेशेन भव्यानां प्रतियो बोधपरायणः । बलभद्रमहीपाल ! बंभ्रमीमि यथा- विधि ॥१९८॥ तत्त्वार्थरसिकामेनां देशनां कर्मनाशिनीम् । श्रुत्वा संसारभीतः सन् उवाच बलभद्रराट् ॥१९९।। तावदभवस्तापो यावच्छत्रं न सन्यते । तावदुभवस्य भीर्यावद् न श्रुता धर्मदेशना ॥२००॥ प्रभो! देशवि- रत्याख्ये यथा पुरि वसाम्यहम् । तथा कुरु गुरूपास्तेः सर्वमल्पमिदं मम ॥२०१॥ क्रमात्तत्रोषितेनेशश्चारित्रो द्रक्ष्यते मया । तस्मादभीष्टसिद्धिर्मे भवितवं महामते ! ॥२०२॥ ततो देशविरत्याख्यगुणान् देहि महामुने !। * * महावल मुने भवप्रपञ्च- विषये उपदेशः। ॥२९॥ ततोऽप्युवाच निर्ग्रन्थः क्षमादिपुरुपोपमः ॥२०३॥ सम्यक्त्वपूर्वकं पश्चाऽणुव्रतानि गुणास्त्रयः। शिक्षाबतानि चत्वारि व्रतान्येतानि गेहिनाम् ॥२०४॥ श्रुत्वेदं स सम्यक्त्वेन पूर्वकं गृहमेधिनाम् । व्रतानि द्वादशाऽगृह्णाद् महा- बलनिदेशतः ॥२०५॥ तद्वदन्येऽपि भावेन जगृहुदशवतीम् । सम्यक्श्रद्धानसंशुद्धा यथा राजा तथा प्रजा ।। ॥२०६॥ प्रतिज्ञेयमभूत् तेषां सप्तानामपि धीमताम् । अन्यैरपि हि तत्कार्य यद्येकः कुरुते तपः ॥२०७॥ ते सर्वेऽथ चतुर्थादि कर्मग्रन्थविभेदकृत् । चतुर्थपुरुषार्थस्य कारणं तेपिरेतपः ॥२०८॥ अद्य दुष्यति मे मूर्धा दुष्य- त्यद्य ममोदरम् । वर्ततेऽद्यारुचिः प्राज्यरसवीर्यविपाकतः ॥२०९॥ अद्याहारस्य नामापि सर्वथा न सुखायते । अथोद्गारमुखं वाऽपि कटुकैः कटुकैरिव ॥२१०॥ व्यपदिश्येति राजर्षिः स्वस्वाऽधिकफलेच्छया । पारणाहेऽपि नाऽभुङ्क्त मायया तान् ववञ्च सः॥२११॥ भूयसा तपसा शश्वदु मायामिश्रेण सर्वतः। स्त्रीवेदकर्म सोऽय. ध्नात् महाबलमहामुनिः ॥२१२॥ अर्हद्भक्त्यादिभिः स्थानविंशत्या नृपसंयमी। तीर्थकृन्नामकर्मोचैर्धीमान- जिंतवानिति ॥२१३॥अर्हतां प्रतिमाऽऽर्चाभिरहतां स्तवनादिभिः । एकमर्जितवान् स्थानमवर्णादिनिवारणैः ।। ॥२१४॥ सिद्धिस्थानेषु सिद्धानामुत्सवैः प्रतिजागरैः । एकत्रिंशत्सिद्धगुणकीर्तनैश्च द्वितीयकम् ॥२१५॥ प्रवचनो- नतेः सम्यग् ग्लानबालादिसाधुषु । अनुग्रहमनोज्ञायाः स्थानमेतत् तृतीयकम् ॥२१६॥ गुरूणामञ्जलेबन्धाद- स्वाहारादिदानतः। असमाधिनिषेधेन स्थानमेतत् तुरीयकम् ॥२१७॥ स्थविरा द्विविधा प्रोक्ता पयसा सुगुणे- रपि । तेषां भक्तिविधानेन पञ्चमं स्थानकं विदुः ॥२१८॥ बहुश्रुतानां ग्रन्थाऽर्थवेदिनां तत्वशालिनाम् । मासु. ॥२९॥ ।
काऽन्नादिदानेन षष्ठं स्थानमुदीरितम् ॥२१९॥ तपस्विनां सदोत्कृष्टतपाकर्मस्थिरात्मनाम् । विश्रामणाविवात्स- ल्यात् सप्तमं स्थानमिष्यते ॥२२०॥ ज्ञानोपयोगसातत्यं द्वादशाङ्गाऽऽगमस्य च । सूत्रार्थोभयमेदेन स्थानं मनु तदष्टमम् ॥२२१॥ शङ्काविहीनं स्थैर्यादिसहित दर्शनं स्मृतम् । शमादिलक्षणं यत्तु स्थानकं नवमं मतम् ।।२२२॥ विनयो यश्चतुर्भेदो ज्ञानाद् दर्शनतोऽपि च । चारित्रादुपचाराच स्थानं तद् दशमं मतम् ॥२२३॥ आवश्यक भवेत् स्थानमेकादशमिदं पुनः । इच्छादिदशधा या सा सामाचारी जिनोदिता ॥२२४॥ शीलवतं विशुद्धं यद नवगुप्तिनियन्त्रितम् । तत्पाल्यं निरतीचारं स्थानं तद् द्वादशं भवेत् ॥२२५॥ त्रयोदशमिदं स्थानं क्षणे क्षणे लवे लवे । शुभध्यानस्य करणं प्रमादपरिवर्जनात् ॥२२६॥ तपो विधीयते शक्त्या वाह्याभ्यन्तरभेदतः। अस- माधिपरित्यागात् स्थानमुक्तं चतुर्दशम् ॥२२७॥ त्यागोऽतिथिसंविभागः शुद्धानोदकदानतः । तपस्विनां स्वयं शक्त्या स्थानं पञ्चदशं तु तत् ॥२२८॥ वैयावृत्यं तु गच्छस्य बालादिदशभेदतः। भक्तविश्रामणाथैः स्यात स्थानं षोडशकं किल ।।२२९।। समाधिः सर्वलोकस्य पीडादिकनिवारणात् । मनासमाधिजननं स्थानं सप्तदशं भवेत् ॥२३०॥ अपूर्वज्ञानग्रहणात् सूत्रार्थोभयभेदतः। अष्टादशमिदं स्थानं सर्वज्ञैः परिभाषितम् ॥२३१॥ श्रुतभक्तिः पुस्तकानां लेखनादिषु कर्मसु । व्याख्याव्याख्यापनैरेकोनविंशं स्थानकं भवेत् ॥२३२॥ प्रभावना प्रवचने विद्यावादनिमित्ततः । शासनस्योन्नतेर्या स्यात् स्थानं विंशतिसंज्ञकम् ।।२३३॥ एकैकं तीर्थकृनामकर्म 25 १ 'मेदिनः' इत्यपि। 13
-
महाबल
मुने
भवप्रपञ्च-
विषये
उपदेशः।
॥३०॥
.
बन्धस्य कारणम् । सर्वैराराधितैरेभिस्तद् बबन्ध स संयमी ॥२३४॥ पूर्वलक्षचतुरशीत्यायुष्को नृपसंयमी।
पर्यन्तमात्मनो ज्ञात्वा व्यधादाराधनामिति ॥२३५॥ अकालविनयाधैर्यो ज्ञानाचारेऽष्टरूपिणि । अतीचारः
कृतस्तत्र स्याद् मिथ्यादुष्कृतं मम ॥२३६॥ अष्टधा दर्शनाऽऽचारे भेदैनिःशङ्कितादिभिः। योऽतीचारसं कृतस्तंत्र
भूयाद मे दुष्कृतं खलु ॥२३७।। समितिभिः पञ्चभिश्च गुप्तिभिस्तिमृभिवृतम् । पालितं यद् न चारित्रं तत्र
मे दुष्कृतं तथा ॥२३८॥ तपसि द्वादशभेदे बाह्याभ्यन्तरभेदतः। योऽतीचारः कृतस्तत्र मिथ्या में दुष्कृतं भवेत्
॥२३९॥ निहितं बलं यच धर्मानुष्ठानकर्मसु । तमहं भावतो वीर्याचारं निन्दामि सर्वतः ॥२४०॥ सानां
स्थावराणां च या हिंसा प्राणिनां कृता । क्रोधादिभिः कषायैश्च यदलीकं मयोदितम् ॥२४१॥ यत् क्वापि भूरि
वाऽल्पं च परद्रविणमाहतम् । तैरश्चं दिव्यमानुष्ये यन्मैथुनमकारि च ॥२४२॥ लोभोद्रेकाद् मयाकारि
बहुः
भेदपरिग्रहः । प्रत्यक्षं सर्वसिद्धानां सर्व निन्दामि तत् त्रिधा ॥२४३।। (युग्मम्) प्राणिघातो मृवावादोऽदत्ता-
दानं च मैथुनम् । परिग्रहस्तथा कोपो मानो माया च लोभकः ॥२४४॥ रागो द्वेषो रत्यरत्यभ्याख्यानं कलह-
स्तथा । पैशुन्यं परिवादश्च माया सूनृतमेव च ॥२४५॥ मिथ्यादर्शनशल्यं च भवसन्ततिकारणम् । अमून्य-
ष्टादशाऽवद्यस्थानानि व्युत्सृजाम्यहम् ।।२४६॥ एकेन्द्रियादिका जीवा ये केचन भवाम्बुधौ। भ्रमता पीडिता
स्वैधं तान् क्षमयामि शुद्धहृत् ॥२४७॥ यचक्रे पापशस्त्रादि तद् निन्दामि समाहितः । शीलं यत् पालितं शुद्धं
तदभिष्टौमि तत्वतः ॥२४८॥ ग्लानानां यत्समाचीर्ण वैयावृत्त्योदिकं मया। षड्विधावश्यक शुद्धं यचके तत्
.
॥३०॥
स्तवीम्यहम्॥२४९॥शरणं मम तीर्थेशाः सिद्धाश्च शरणं मम । साधवः शरणं सर्वे धर्मः शरणमाईतः॥२५०॥ उपधि देहमाहारमुच्चासेनान्तिमेन च । त्रिविधं व्युत्सृजाम्युचैनिममत्वविभूषितः॥२५१॥ ये जानन्ति जिनाः सम्यगपराधान् मया कृतान् । तान् भूरिभावतः सर्वान् गहेऽहं सिद्धसाक्षिकम् ॥२५२॥ एष जीवः कियत् पापं छद्मस्थः स्मरति स्वयम् । यदहं न स्मराम्यत्र मिथ्या दुष्कृतमस्तु तत् ॥२५३॥ वर्तमानजिनेन्द्राणां सिद्धानां च पुरस्सरम् । प्राक् कृतं दुष्कृत सर्व निन्दामि व्युत्सृजामि च॥२५४॥शुभध्यानपरो मृत्वा नमस्कारपरायणः । भासुरे वैजयन्त्याख्ये विमाने जातवान् सुरः ॥२५५॥ अन्येऽपि मुनयः कृत्वाऽऽराधनां पावनाशयाः।तस्मिन्नेव विमानेऽगुः पूर्व सङ्केतिता इव ॥२५६॥ षडपि मुनय एते. भावनापावनान्त:-करणकमलभाजो ज्ञातसिद्धान्त- तत्त्वाः । सुगुरुचरणसेवालन्धकीर्तिप्रचाराः सुरसदनमगच्छन् वैजयन्ताभिधानम् ॥२५७॥ * इत्याचार्यश्रीविनयचन्द्रसरिविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये विनयाऽन्तरणदेशनागर्भिता प्रथम- द्वितीयभवव्यावर्णनो नाम तृतीयः सर्गः॥
श्रीमल्लिनाथचरितान्तर्गतदानादि-
विषयाः कथाः समाप्ताः।
INTERRITATE
RRRRE
No text on this page.