Asr,melkote
Vedaanta Vaadavali Vol.2
Front matter
No text on this page.
No text on this page.
No text on this page.
॥श्रीः ॥ आकाशाधिकरणवादः, कलशाब्धिकन्यकायाः पतिं यतीन्द्रं च सादरं नत्वा । आकाशनयविचारं तनुते कुतुकादनन्तार्यः ।। सदेव सोम्येदमग्र आसीदित्यादिकारणवाक्यप्रतिपाद्यमचेतनभिन्नं, ईक्षणवत्त्वात् , चैत्रादिवत् ; तत् जीवभिन्नम् , आनन्दविशेषवत्त्वात् , व्यतिरेकेण जीववत्-इत्यनुमानाभ्यां कारणस्य चिदचिद्वैलक्षण्यमी- शत्यधिकरणानन्दमयाधिकरणयोः स्थाषितम् ॥ यदि च-अन्वयव्यतिरेकिपरामर्शयोः स्वाव्यवहितोत्तरानुमिति प्रति हेतुत्वस्वीकारे गौरवात् सर्वत्रान्वयव्याप्तिज्ञानादेवानुमितिः स्वीक्रियते, पृथिवी इतरेभ्यो भिद्यते, गन्धवत्त्वादित्यादावपि पक्षक- देशे घटादौ साध्यनिरूपितान्वयव्याप्तिग्रहसम्भवात् , गन्धादिलक्षणस्य इतरभेदानुमापकत्वलपव्यावर्तकत्वसम्भवात् । न्यायमतेऽपि विशेषण- ज्ञानाभावेन पृथिव्याभितरभेद इति साध्यविशेष्यकानुमितिस्वीकारेण विशेषणविशेष्यभावव्यत्यासावश्यकत्वादिति यामुनादिसिद्धान्तरी- तिराद्रियते; ; तदा-जीवो जगत्कारणनिष्ठभेदप्रतियोगी, आनन्द- विशेषाभावात्-इत्यनुमानमेवानन्दमयाधिकरणसिद्धम् । सूचित चेदं नेतरोऽनुपपत्तरितिसूत्रेण ।। न्यायपरिशुद्धावपि-ननु यदि केवलव्यतिरेकि न प्रमाणं, लक्षणं किमपि न स्यात् , तस्य तदात्मकत्वात्-इत्याश्य : शरीरमाप्यादिकं न भवति, गन्धवत्त्वात् , बटवदिति-पृथिवीविशषे २ आकाशाधिकरणवादः. , .. इतरभेदसाधनात् लक्षणत्वम् । ननु-अनेकव्यक्तिसङ्ग्राहकलक्षणे तथा स्यात् , एकव्यक्तिलक्षणे तु कथम् ? यथा आकाशादेश्शब्दमात्र- वत्त्वादौ-इति चेन्न ; आकाशादिशब्दानामपि जातिशब्दत्वात् , कल्प- भेदात् वहवो ह्याकाशादयः । ननु-अस्तु तथा तेष्वपि, ईश्वरादिलक्षणं तु कथं न हीश्वरस्य कल्पभेदात् भेदोऽस्तीति ? सत्यं ; ब्रह्मादयो नेश्वराः, :, सकलजगत्सृष्टयाद्यकारणत्वात् , घटवत् ; कालो न प्रकृतिः, महदादिविकाररहितत्वात् , चेतनवत् ; त्रिगुणं कालातिरिक्तं, कालविकाररहितत्वात् , चेतनवत्-इति सर्वत्राप्यन्वयित्वमेव-इति समाहितम् ॥ विस्तुतं चैतत् केवलव्यतिरेकिभङ्गवादे ॥ ततानन्दमयाधिकरणाभिप्रेतानुमानस्य-कारणं जीवः, शरीर- वत्त्वात् , चैत्रादिवदित्यनुमानेन बाधशङ्कायां अप्राकृतसाधारणशरीर- वत्त्वस्य हेतुत्वे भगवति व्यभिचारः, प्राकृतशरीरवत्त्वस्यापि जग- च्छरीरके तस्मिन् व्यभिचारः। स्वजनककर्मवत्तासम्बन्धेन शरीरत्वस्य हेतुत्वे चासिद्धिः। स एष सर्वेभ्यः पाप्मभ्य उदितः' इतिश्रुत्या तत्र कर्मसामान्याभावबोधनात् । तत्रत्यपाप्मशब्दस्य 'न सुकृतं दुष्कृतं सर्व पाप्मानोऽतो निवर्तन्ते' इतिश्रुत्याऽनिष्टफलजनकत्वाव- च्छिन्ने शक्त्या तेन पुष्यपापोभयबोधनात् , स्वर्गादिरूपस्य पुण्य- फलस्य मुमुक्षु प्रति अनिष्टत्वात्-इति परिहाराभिप्रायेणान्तरधिकरणं प्रवृत्तम् । ततश्च प्रथमानुमानस्य ईक्षत्यधिकरणोक्तस्याकाशादि- श्रुत्या बाधः-इत्याशङ्कय परिहरति-आकाशाद्यधिकरणत्रयेण ॥ यद्यपि-प्रथमानुमानबाधनिरासकस्याकाशाद्यधिकरणत्रयस्य प्रथ- मामुमानप्रतिपादकेक्षत्यधिकरणानन्तर्यमेव युक्तम् ; न त्वन्तरधिकर- गानन्तर्यम् । तथाऽपि-ईसत्यधिकरणेनाचेतनसामान्यभेदसाधनानन्तरं चेतनसामान्यभेदसाधनत्य साम्येन बुद्धिस्थतया तदनन्तरमानन्द- मयाधिकरणप्रवृत्तिस्ततश्च चेतनभेदसाधनानुमाने बाधशानिरासका आकाशाधिकरणवादः. न्तरधिकरणप्रवृत्तावनन्तरमचेतनभेदसाधनानुमाने श्रुत्या बाधशङ्का- निरासकस्याकाशाधिकरणादेव धनिरासकत्वसाम्यात् अवतारो युक्तः। नैयायिकनये हेत्वभावतब्याप्यवत्पक्षयोरसिद्धित्वस्येव सिद्धान्ते साध्या भावतव्याप्यवत्पक्षयोरपि वाधत्वस्वीकारेण अन्तरधिकरणपूर्वपक्षोक्तस्य जीवत्वव्याप्यशरीरवत्त्वस्यापि बाधत्वोपपत्तेः; नैयायिकैरपि-बाध- सत्प्रतिपक्षभिन्ना ये हेत्वाभासास्तव्याप्या अपि तन्मध्य एवान्तर्भवन्ति, बाधव्याप्यस्सत्प्रतिपक्षः पृथक्, स्वतन्त्रेच्छेन मुनिना पृथगुपदेशादिति सत्प्रतिपक्षस्य बाधान्त वे युक्तेऽपि मुनिश्चनबलात् पार्थक्यम् -इत्यु- कत्वात् । अन्तरधिकरणस्य बाधनिरासकत्वमेव, बाधत्वं चानुन्नाय- कत्वाघटितमेव । अतस्साध्याभावव्याप्यवत्पक्षस्य बाधत्वोपपत्तिः ॥ नन्वेवमपि-जीवत्वव्याप्यशरीरवत्कारणस्य बाधत्वं नोपपद्यते; सिद्धान्ते तत्तदभावव्याप्यवत्ताज्ञानयोः संवलनदशायां संशयाका- रानुमितेस्स्वीकारेण तदभावव्याप्यवत्ताज्ञानस्य प्रतिवन्धकत्वा- सम्भवात्, वह्नयभावव्याप्यवत्ताज्ञानमात्रकाले वहिपरामर्शाभावा- देव अनुमित्यनुत्पत्त्या तदभावव्याप्यवत्ताज्ञानस्य तदशायामपि प्रति- बन्धकत्वानावश्यकत्वात् । न्यायपरिशुद्धौ साधारणधर्मविप्रतिपत्ति- भ्यामेव संशय इति संशयकारंणं प्रतिज्ञायागृह्यमाणबाधतारतम्य- विरुद्धानेकज्ञापकोपस्थापनमिह विप्रतिपत्तिः । सा च सजातीय- विजातीयाभासरूपद्विचतुरादिज्ञापकभेदात् बहुप्रकारा। प्रत्यक्षतदाभास- विप्रतिपत्तेस्संशयो यथा-चक्षुषा स मुखं प्रतिभाति दर्पणतलं, स्पर्शनेन त्वन्यथा; किमिदं समुखं दुर्मुखं वेति। अनुमानतदाभासविप्रतिपत्ते- संशयो यथा-धूमवत्त्वात् पर्वतो वह्निमान् , निरालोकत्वात् अनग्निः, इत्यत्र साग्निरनग्निर्वेति सत्प्रतिपक्षस्थले संशयाकारानुमितेरुक्तत्वात्- इति चेन । वहयभावव्याप्यवत्पक्षस्य बाधत्वं सत्प्रतिपक्षत्वं च विद्यते ; परामर्शद्वयसंवलनदशायां तद्भावव्याप्यवत्ताज्ञाने' प्रामाण्य- आकाशाधिकरणवादः. ग्रहे वह्नयनुमितिप्रतिबन्धात्तद्दशायां बाधत्वमेव, उभयत्र प्रामाण्य- ग्रहादिरूपतारतम्याभावे संशयाकारानुमित्युत्पत्त्या तद्दशायां सत्प्र- तिपक्षत्वमेवेत्यङ्गीकारात् ॥ अत एव शतपण्यां-सत्यादिवाक्यमखण्डार्य, समानाधि- करणवाक्यत्वात्, लक्षणवाक्यत्वादित्यनुमानयोः- विगीतं वाक्य विशिष्टार्थपरं, वाक्यत्वात् , व्यधिकरणवाक्यवत्---इत्यनुमानेन बाध- स्सत्प्रतिपक्षश्चोक्तः ॥ इदं चानुमानं–“सर्वप्रतीत्यनुगुणत्वात् विशेषण- क्लेशरहितत्वाच्चाधिकबलमवेत्यनेन पूर्वयोर्बाधः प्रतिरोधो वेति समानाधिकरणत्वं लक्षणप्रतिपादकत्वं च अधिकमिति तद्विशेषण- राहित्यमेवाधिकबलम्" इति चण्डमारुते व्याख्यातम् ॥ एवं च-य एषोऽन्तरादित्य इति वाक्ये शरीरवत्त्वसर्वपापो- दितत्वाभ्यां जीवपरलिङ्गाम्यां कारणं जीवस्तद्भिन्नो वेति सन्देहे शरीर- रूपलिङ्गस्यासञ्जातविरोधितया प्राबल्यात्, आनन्दमयो जीवभिन्नः, शतगुणितोत्तरक्रमेणाम्यस्यमाननिरतिशयदशापन्नानन्दवत्त्वात्-इत्य- नुमानस्थहेत्वपेक्षया शरीरवत्त्वस्य लघुत्वेन प्राबल्याच्च जगत्कारणं जीवः, शरीरवत्वादित्यनेन बाधो युक्त इति बाधवारकान्तरधि- करणानन्तर्यमाकाशाधिकरणस्य युक्तम् ॥ आकाशस्तल्लिङ्गात् । छान्दोग्ये श्रूयते- “अस्य लोकस्य कागतिरिति, आकाश इति होवाच, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति, आकाशो ह्येवैभ्यो ज्यायान् , आकाशः परायणं स एप परोवरीयानुद्वीथस्स एषोऽनन्तः परोवरीयो हास्य जीवनं भवति परोवरीयसो ह लोकान् जयति, य एतदेवं विद्वान् परोवरीयांसं उद्गीथमुपास्ते ॥" -इति ॥
आकाशाधिकरणबादः. . अवोत्कृष्टजीवनादिननकोपासनीयोगीथनिष्ठविशेष्यतानिरूपिता- भेदसम्बन्धावच्छिन्नप्रकारताश्रयः परोवरीयस्त्वविशिष्टाकाशः प्रति- पन्नः । परोवरीयांसमुद्रीथमित्यनयोस्समानविभक्तिकत्वेऽपि नामे- दान्वयः ; योग्यताविरहात् , परोवरीयांसमिति द्वितीयाया ऊपासनान्व- य्यभेदसम्बन्धावच्छिन्नप्रकारत्वार्थकत्वात् , प्रकृतेश्च परोवरीयस्त्व- विशिष्टाकाशपरत्वादुद्गीथमिति द्वितीयान्तार्थोद्गीथविशेप्यकत्वस्या- प्युपासनेऽन्वयात्। तत्र भूताकाशनिरूढाकाशश्रुतिजगत्कारणत्वलिङ्गा भ्यामगृहीतबलतारतम्याभ्यां संशयः, श्रुतेः प्राबल्यमङ्गीकृत्य पूर्व- पक्षः, लिङ्गस्य प्राबल्यमादाय सिद्धान्तः---इति विवेकः ॥ संशयस्तु-कारणवाक्यवेद्यं किमचेतनविशेष आकाशः, उत अचेतनभिन्नमिति प्रथमः ; महानसीयवह्निमान् वह्निसामान्याभाववा- निति विशेषधर्मावच्छिन्नसामान्यधर्मावच्छिन्नाभावोभयकोटिकसंशयवत् महानसीयवाहितद्भेदोभयकोटिकसंशयस्यापि सम्मवेन तद्वत् प्रकृतेऽपि. तथा संशयोपपत्तेः । तदर्थमाकाशवाक्यं स्पर्शशून्यत्वे सति शब्दवत्त्व- रूपतन्मात्रसाधारणाकाशत्वस्य सदादिवाक्यप्रतिपाद्यकारणे विधायकं, उत प्राप्यत्वरूपपरायणत्वस्य तद्विशिष्टप्रकाशमानत्वात्मकयोगार्थस्थ या विधायकमिति द्वितीयः॥ न च-आकाशवाक्यस्य उद्गीथविद्याविधिपरत्वात् न रूट्यर्थादि- विधिपरत्वमिति-वाच्यम् ; आकाशवाक्यस्य सद्विद्याप्रतिपन्ने सत्पदार्थे आकाशत्वविधानपूर्वकं कारणीभूताकाशाभेदेन उहीथोपासनविधिपर- त्वेन उक्तसंशयोपपत्तेः। न चैवमपि-योगार्थरूढ्यर्थयोर्भावाभावरूपत्वा- भावेन तदीयविषयितयोः परस्परप्रतिबध्यताप्रतिबन्धकत्वयोरवच्छेद- कत्वासम्भवेन स्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदक- त्वस्वसामानाधिकरण्योभयसम्बन्धन विषयिताविशिष्टविषयितावत्त्वरूपं संशयत्वं उक्तज्ञानस्य नोपपद्यत इति वाच्यम् । तद्वत्ताबुद्धिं प्रति ६ आकासाधिकरणवादः. तदभावयताज्ञानत्य प्रतिबन्यकत्ये अव्याप्यवृत्तित्वग्रहदशायां संयोगा- भाववत्ताज्ञानस्य संयोगवत्ताबुद्धिं प्रति प्रतिबन्धकत्वापत्तिरिति तद्वारणाय संयोगविरुद्धविशेषणतासम्बन्धेन संयोगाभावप्रकारकनिश्च- यत्वेन प्रतिबन्धकत्वमावश्यकम् । एवं च-तदभावतभावव्याप्यतद- भावावच्छेदकग्रहाणां पृथक्पृथगप्रामाण्यज्ञानाभावादिकं निवेश्य प्रतिबन्धकतात्वीकारे गौरवात् तद्वत्ताबुद्धिं प्रति तद्विरुद्धविशेषणता- सम्बन्धावच्छिन्नप्रकारताशालिनिश्चयत्वेन एकमेव प्रतिबन्धकत्वं उक्तत्रिविधनिश्चयानां कल्प्यते । तदभावत्वतदभावव्याप्यत्वांशे अप्रामाण्यज्ञानाभायादिकं प्रतिवन्धकतावच्छेदकगर्भे न निवेश्यते, तथा प्रकारतायां तदभावत्वाद्यवच्छिन्नत्वं च ॥ तथा च-उक्तरूढ्यर्थयोगा- र्थयोरपि तत्तद्विरुद्धसम्बन्धस्य उक्तज्ञाने भानात् निरुक्कसंशयत्क- मुपपन्नम् । अत एव स्थाणुर्वा पुरुषो वेत्यादेस्सर्वानुभवसिद्धस्य संश- यत्वस्य पङ्कनं वा सुधांशुर्वामुखमित्यादेसंशयालङ्कारत्वस्य च नानुपपत्तिः ॥ ननु- सिद्धान्ते उक्तविशिष्टविषयितारूपं संशयत्वमिति परिष्कार एव न सम्भवति, नैयायिकमते समानाकारकज्ञानेषु विषयताभेदे मानाभावेन प्रत्येकनिश्चयीयविषयतयोरेव संशये स्वीकरणीयत्वात्, संशयीयविषयत्वावच्छिन्नप्रतिबन्धकतासम्भवेऽपि सिद्धान्ते संयोगा- त्मकविषयतायाः ज्ञानभेदेन भिन्नतया संशयविषयतायाः प्रतिबन्धक- तानवच्छेदकत्वेन स्वपदेन तदुपादानासम्भवात् । अथ-संशयाका- रानुमितिस्वीकर्तृमते यथा वयभावव्याप्यदत्ताज्ञानस्य वहिमत्ताधी- प्रतिबन्धकतायां वह्निव्याप्यवत्ताज्ञानाभाववैशिष्टयं प्रतिबन्धकताव- च्छेदककोटौ निवेश्यते, तथा वयभाववत्ताज्ञानप्रतिबन्धकतायामपि वहिमत्ताज्ञानाभाववैशिष्टयं निवेशयितुमुचितं ; तुल्यन्यायात् । एवं च आकाशाधिकरणवादः वक्ष्यमाणरीत्या सिद्धान्ते परोक्षसंशयस्वीकारेण पर्वते वह्निमत्ताबुद्धि प्रति वह्निावरुद्धसम्बन्धावच्छिन्नप्रकारताविशिष्टज्ञानत्वेन प्रतिबन्धकत्वं स्वीक्रियते । प्रकारतावैशिष्टयं च स्वनिरूपितपर्वतत्वावच्छिन्नविशे- प्यताकत्व स्वावच्छेदकावच्छिन्नविरुद्धसम्बन्धावच्छिन्नप्रकारतानिरू- पितपर्वतत्वावच्छिन्नविशेप्यताकज्ञानाभावविशिष्टत्वोभयसम्बन्धेन । एवं च वहिव्याप्यवत्ताज्ञानाभावविशिष्टवलयभावव्याप्यवत्ताज्ञाना- देरनुगतरूपेण प्रतिवन्धकतानिर्वाहः । वहव्याप्यवत्ताज्ञाने अप्रा. माण्यग्रहदशायां वह्नयभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकतावत् वाह्न- संशयस्यापि वह्निकोट्यंशे अप्रामाण्यग्रहदशायां वह्नयभावकोट्यंशे प्रामाण्यग्रहदशायां वा वह्निमत्ताधीविरोधित्वमभ्युपगम्यत एव । अत एव बाधग्रन्थे चिन्तामणिकारमते वहयभावांशे प्रामाण्यनिश्चयास्क- न्दितस्य वह्नयभावसंशयस्यापि वह्निधीप्रतिबन्धकत्वमुक्तम् बाधगा- दाधर्यां । तन्निहाय च प्रतिबन्धकविशेषणाभावप्रतियोगिज्ञाने अप्रामाण्यज्ञानानास्कन्दितत्वं निवेश्याप्रामाण्यज्ञानानास्कन्दिततादृश- ज्ञानाभावप्रामाण्यज्ञानान्यतरविशिष्टवयभाववत्ताज्ञानत्वेन वह्निधी- प्रतिबन्धकत्वमङ्गीकार्यम् । तथा च संशयविषयताया अपि प्रति बन्धकतावच्छेदकत्वं निर्वहति-इति चेत् । एवमपि यत्र संशये आमा- ण्यज्ञानादिकं नास्ति तत्राव्याप्तेढुंवारत्वात् । न च-उक्तोभपसम्ब. न्धेन विषयिताविशिष्टविषयितावत्त्वस्य प्रतियोगित्वानुयोगित्वान्यतर- सम्बन्धेत लक्षणत्वाम्नाव्याप्तिः, अप्रामाण्यज्ञानास्कन्दितघटायेकैक- संशयनिष्ठाया उक्तविषयतायास्तौसादृश्यरूपत्वेन अप्रामाण्यज्ञाना- नास्कन्दितसंशयेषु प्रतियोगितासम्बन्धेन सत्त्वात् अयं संशयो घठ- संशयत्वेन घटसंशयान्तरसदृश इति व्यवहारादिति-वाच्यम् । एव- मपि संशयस्थले प्रतिबध्यप्रतिबन्धकतावच्छेदकभावापन्नविषयतयो- रेकज्ञाने असम्भवेन सामानाधिकरण्याभावेन एककोट्यंशे अप्रामाण्य- आकाशाधिकरणवादः. , ज्ञानास्कन्दितसंशयेऽप्युक्तलक्षणासम्भवतादवस्थ्यात् । प्रतिबध्यप्रति- अन्धकतावच्छेदकाभावापन्नयोरपि विषयितयोनिश्चयान्तर्भावेणैव विरो- धित्वं, न तु संशयेऽपीति नैयायिकमतस्य निर्वाजत्वात् । अन्यथा बटतदभावयोरपि अधिकरणविशेषावच्छेदेनाविरोधापत्तेः ॥ अत एवोक्तं न्यायपरिशुद्धौ- "मिथास्फुटविरोधयोः स्थाणुत्वपुरुषत्वयोः स्फुरण, स्थाणुवी पुरुपो वेति संशयः, मिथोविरोधाग्रहणे तयोर्विकल्पो न स्यात् । अत एव डोलावेगवत् अत्र स्फुरणक्रम इत्येके, एकस्मिन्युगपदन्योन्यप्रतिक्षेपकस्य धीविरुद्धत्वात् ॥” इति॥ अयमर्थः । स्फुटविरोधयोः-भासमानविरोधयोः ; परस्परविरोधा- चच्छिन्नससर्गतानिरूपितप्रकारताश्रययोरित्यर्थः । स्फुरणं-ज्ञानं, परस्परविरोधावच्छिन्नसंसर्गतानिरूपितस्थाणुत्वपुरुषत्वनिष्ठपकारताकं ज्ञानं संशय इति यावत्। विकल्पो न स्यात्-संशये वाकारोल्लेखो न स्यात् । अत एव-विरोधभानादेव, परस्परविरोधावच्छिन्नसंसर्गता- निरूपितयोः प्रतिबध्यताप्रतिबन्धकतावच्छेदकभावापन्नयोः प्रकार- तयोरेकज्ञाने असम्भवादेवेति यावत् । स्फुरणक्रमः-ज्ञानक्रमः ; अत्र एकस्यैवेन्द्रियसंयोगस्य एकप्रतिबध्यप्रतिवन्धकतावच्छेदकविषयताक- ज्ञानद्वयजनकत्वं कथमित्याशङ्का डोलावेगवदिति दृष्टान्तेन परिहृता । डोलाप्रसरस्य परस्परोपमर्दकदिग्द्वयसंयोगहेतुवेगद्वयजनकत्ववदिन्द्रिय संयोगस्यैकस्य उक्तज्ञानद्वयजनकत्वमुपपन्नमित्यर्थः । एवं च संशय स्थले ज्ञानद्वयानीकारात् सामानाधिकरण्यघटितोक्तोभयसम्बन्धेन विषयताविशिष्टविषयतावत्त्वरूपं संशयलक्षणं न सम्भवति ॥ --इति चेत् ॥ मैवम् ॥ संशयस्थले ज्ञानद्वयस्वीकारेऽपि ज्ञानद्वयीयविषयतयो- निरूप्यनिरूपकभावस्वीकारेण कोटिद्वयविषयतयोर्निरूपकतासम्बन्ध- आकाशाधिकरणविचार: घटितसामानाधिकरण्याभावेऽपि एककोटिविषयताया निरूपकतासम्ब- न्धेन अपरकोटिविषयतायाश्च स्वनिरूपितविषयतानिरूपकत्वसम्ब- न्धेन एकस्मिन्नेव ज्ञाने सत्त्वोपपत्त्या उक्तलक्षणनिर्वाहात् । यद्वा-स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्व- स्वावच्छेदकावच्छिन्ननिरूपितविरोधसम्बन्धावच्छिन्नसंसर्गतानिरूपित- त्व स्वसामानाधिकरण्यैतत्त्रितयसम्बन्धेन प्रकारताविशिष्टप्रकारताकत्वं संशयत्वम् । उक्तं च न्यायपरिशुद्धौ- "सामान्यधर्मिग्रहणे अप्रतिपन्नतद्विरोधं प्रतिपन्नमिथोविरोधानेक- विरुद्धविशेषणस्फुरणं संशयः॥" -~-इति ॥ अत्र सामान्यधर्मिग्रहण इत्यनेन प्रथमसम्बन्धस्य, प्रतिपन्न- मिथोविरोधेत्यनेन द्वितीयसम्बन्धस्य, अनेकविशेषणस्फुरणं संशय इत्य- नेन तृतीयस्य लाभः ; अप्रतिपन्नतद्विरोधेत्यस्य धर्मितावच्छेदक- विरोधाविषयकत्वमर्थः । इदं चाहार्यसंशयस्यालक्ष्यत्वाभिप्रायेण तद्वा- रणाय तत् , तस्यापि लक्ष्यत्वे तु न देयम् । उक्तं चात्मसिद्धौ यामुनाचार्यैः- "चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः। तस्यैव बहुभि- युगपददृढसंयोगस्संशयः ॥" -इति ॥ अत्र संयोगात्मकविषयताया दृढत्वं स्वावच्छेदकावच्छिन्न- निरूपितविरोधावच्छिन्नसंसर्गतानिरूपितविषयत्वासामानाधिकरण्यं ; सामानाधिकरण्यमपि पूर्ववत् स्वनिरूपितविषयतानिरूपकल्वसम्बन्धेन; तेन संशयस्थले ज्ञानद्वयाङ्गीकारेऽपि नानुपपत्तिः । अत्र युगपदिति पदं शैघ्रयपरमिति न्यायपरिशुद्धावेव व्याख्यातम् ॥ वस्तुतस्तु-स्वनिष्ठानुयोगितावच्छेदकताकत्व-स्वविरोधावच्छिन्न- सम्बन्धावच्छिन्नानुयोगितावच्छेदकताकत्वोभयसम्बन्धेन धर्मविशिष्टसं. योगवज्ज्ञानत्वं संशयत्वमित्यात्मसिद्धिग्रन्थार्थः । सिद्धान्ते द्रव्य- 2 ܘ ܐܼ आकाशाधिकरणविचारः स्थले ज्ञानसंयोगो विशेष्यता, तत्संयोगानुयोगितावच्छेदकता प्रकार- तेत्यादेविषयतावादे स्फुटमुपपादनात् । अयं स्थाणुर्वा पुरुषो वेति संशयीयायपदार्थनिष्ठसंयोगे स्थाणुत्वपुरुषत्वोभयनिष्ठानुयोगितावच्छे- दकताकत्वस्याङ्गीकारात् , नैयायिकमते विषयतायां व्यधिकरणधर्म- स्यावच्छेदकत्वाङ्गीकारवत् ज्ञानीयसंयोगानुयोगितायां पुरुषत्वादे- य॑धिकरणस्याप्यवच्छेदकत्वाङ्गीकारोपपत्तेः। संयोगे अदृढत्वमपि उक्तोमयसम्बन्धेन धर्मविशिष्टत्वमेव। अदृढत्वं च परस्परप्रतिक्षेपका कारविशेष इति न्यायपरिशुद्धिग्रन्थस्यापि अयमेवार्थः ॥ अथ-स्थाणुर्वा पुरुषो वेति संशयः किं चाक्षुषः, उत मानसः? नायः, भूतलं घटवदित्याकारकप्रत्यक्षोत्पत्तिकाले कथंचिदुपस्थित- घटाभावादेर्भूतले प्रकारतया भानवारणाय समानधर्मधर्मितावच्छेदकक- तत्कोटिलौकिकप्रत्यक्षसामग्रचाः विपरीतकोटिभानप्रतिबन्धकत्वस्या- वश्यमङ्गीकरणीयतया लौकिकसन्निकर्षजन्यसंशयस्य क्वाप्यसम्भ- वात् , योगजधर्मातिरिक्तालौकिकसन्निकर्षस्यानङ्गीकारेण तज्जन्य- संशयस्यापि असम्भवात् । न द्वितीयः, योगिनां योगजधर्मसहायेन मनसा अतीन्द्रियपदार्थभानार्थ मानसप्रत्यक्षाङ्गीकारेऽपि अयोगिनां तदनङ्गीकारात् । उक्तं च न्यायपरिशुद्धौ- "मानसप्रत्यक्षमस्मदादीनां नास्त्येवेति वृद्धसम्प्रदायः, आत्म- स्वरूपस्य तद्धर्मभूतज्ञानस्य स्वप्रकाशत्वात् सुखदुःखेच्छा- द्वेषप्रयत्नानां तद्धेतुतया अभिमतज्ञानविशेपानतिरेकस्य वेदार्थ- सङ्ग्रहे समर्थितत्वात् नित्यत्वाणुत्वादिविशिष्टात्माद्यनुभवस्य शास्त्रादिसिद्धत्वात् पूर्वानुभवादिज्ञानस्य स्मृतिरूपत्वात् , आत्ममुखादिव्यतिरिक्तवाहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्ष- प्रवृत्त्यनुपपत्तेरिति शास्त्रयोन्यधिकरणभाप्यस्यान्वारोहेणापि उपपत्तेः ॥"-इति ॥ -~~-इति चेन्न ।
आकाशाधिकरणविचारः. ११ तत्कोटिकलौकिकप्रत्यक्षसामग्रयाः संशयातिरिक्वज्ञानं प्रति प्रतिबन्ध- कतास्वीकारेण लौकिकसन्निकर्षजन्यचाक्षुषादिसंशयस्यापि सम्भवेन संशयात् पूर्व कोट्यंशे लौकिकसन्निकर्षसत्त्वेन संशयस्य उभय- कोट्यंशेऽप्यलौकिकत्वमेवेति नैयायिकशपथस्यायुक्तत्वात् । उक्ताभिप्रायेणैव चण्डमारते द्वितीयस्कन्धे--"संशयत्वं जाति- विशेषः। न च चाक्षुषत्वादिना साङ्कय ; कत्वादिव्याप्यतारत्वा- दिवत् चाक्षुषत्वादिव्याप्यसंशयत्वजात्यभ्युपगमे दोषाभावात् ॥" -इत्युक्तम् । अतस्सन्निकृष्टकोट्यंशे प्रत्यक्षात्मकं असन्निकृष्टकोट्यंशे च स्मरणात्मकं ज्ञानद्वयमेव संशयः । ज्ञानद्वयविषयतयोनिरूप्य- निरूपकभावः प्रागेवोक्तः ॥ नन्वेवमपि-कारणवाक्यप्रतिपाद्यं आकाशः, उत अचेतनभिन्न- मिति संशयः किंरूपः, चाक्षुषत्वमानसत्वयोरसम्भवात्-इति चेत् । अनुमित्यात्मकः शाब्दानुमित्युभयात्मको वेति गृहाण ; 'भूताकाशे प्रप्तियतिशयपरायणत्वाद्यनुपपत्तिभ्यां संशयः' इति टीकोक्त्या उभय- व्याप्यवत्ताज्ञानसम्पादनात् अनुमित्यात्मकत्वप्रतीतेः,आकाशपदरूढ्या आकाशविषयकशाब्दबोधस्य परायणत्वलिङ्गेन चेतनायुमितेश्च सम्भ- वेन निरूप्यनिरूपकभावापन्नविषयताकशाब्दानुमित्युभयात्मकस्य संशयस्योपपत्तेः। अथवा आकाशवाक्यस्य सदादिवाक्येनैकवाक्य- त्वाङ्गीकारेण सदाकाश ईक्षणवच्चेति बोधे जायमाने इक्षणरूपार्थ- सामयेनाचेतनभेदस्यापि भानसम्भवेन सदाकाशः अचेतनभिन्नं वेति शाब्दबोधात्मक एव संशयः । न च-अर्थसामर्थ्येन भानं नाम लिङ्गाधीनविषयता, एवं च शाब्दबोधस्यार्थसामर्थ्यसिद्धपदार्थाशेऽनु- मितित्वमेव, न शाब्दत्वमिति-वाच्यम् ; तदंशे अनुमिनोमीत्यनुभवा- भावेन शाब्दयामीत्यनुभवेन च तदंशेऽपि साव्दत्वाभ्युपगमात् ।।
१२ आकाशाधिकरणविचारः न च-स्थाणुत्वव्याप्यवक्रकोटरादिज्ञानदशायां संशयादर्शनेन विशेषदर्शनस्य संशयविरोधितया अचेतनभेदव्याप्येक्षणादिज्ञान- दशायां न संशय इति-वाच्यम् ; प्रामाण्यनिश्चयास्कन्दितस्यैव विशेषदर्शनस्य संशयविरोधितया विरुद्धोपस्थापकसामग्रीस्थले प्रामा- ण्याग्रहात् उक्तेक्षणवत्ताज्ञानस्य प्रामाण्यनिश्चयानास्कन्दितत्वात् । अनुमितिजनकत्वं तु अप्रामाण्यज्ञानानास्कन्दितत्वमात्रेणोपपद्यते । अत एव न्यायपरिशुद्धौ-अगृह्यमाणबलतारतम्यविरुद्धानेकवत्त्व- ज्ञापकोपस्थापनमिह विप्रतिपत्तिरिति-प्रतिपादितमिति बोध्यम् ॥ एवं च-संशये कोट्योर्विरोधभानस्याङ्गीकारात् कारणवाक्यवेद्यमा- काशः उत अचेतनभिन्नमित्यस्य संशयत्वोपपत्तेः तद्वत्ताबुद्धिं प्रति तद्विरोधावच्छिन्नसंसर्गताकज्ञानस्य प्रतिबन्धकत्वादेव श्रीभाप्यादौ सार्व श्यादिबोधकवाक्यानां निर्गुणवाक्यविरोधित्वाभिधानं, नित्यो नित्यानां द्वासुपर्णेत्यादेरभेदश्रुतिविरोधित्वाभिधानं, अस्मिन्नधिकरणेऽप्यचेतन- भेदसाधकानुमानस्याकाशश्रुत्या बाधाभिधानं च--उपपन्नं ; तार्किका- दिरीत्या गुणसामान्याभावादिधीप्रतिबन्धकज्ञानजनकत्वरूपविरोधा- भावेन यथाश्रुते असझतेः । इत्थं च प्रथमसंशये आकाशरूपाचेतन- त्वाचेतनसामान्यभेदोभयकोटिकत्वाभिधानं तार्किकरीत्या । सिद्धान्ते त्वाकाशत्वाचेतनभेदोभयकोटिकत्वमपि सम्भवतीति बोध्यम् ॥ अत्र आकाशाधिकरणे. पूर्वपक्षः ईक्षणलिङ्गेन कारणवाक्यवेद्यस्या- चेतनभेदसाधनं न सम्भवति, कारणोद्देशेन आकाशत्वविधायकेन आकाशादेवेत्यादिना वाधात् , श्रुतिलिङ्गयोर्मध्ये श्रुतेर्बलवत्त्वेन तज्जन्य- बोधस्य प्रामाण्यनिश्चयारकन्दितत्वेनोक्तानुमितिप्रतिबन्धकत्वसम्भवात् अग्निहोत्रं जुहोतीतिवाक्यविहितस्याग्निहोत्रस्य देवतोद्देशेन द्रव्य- त्यागात्मकयागघटितहोमरूपस्य द्रव्यसामान्यघटितत्वेन सामान्यस्य विशेषाकासासत्त्वेन ना जुहोतीति वाक्यमुक्तहोमघटकद्रव्ये तादात्म्येन आकाशाधिकरणविचार:. १३ दधि समवायेन दधित्वं वा विधत्त इति यथा स्वीक्रियते, तथा सदेव सोम्येदमग्र इत्यादिकारणवाक्यप्रतिपन्नसत्पदार्थस्यापि सामान्यरूपत्वेन विशेषाकाङ्क्षासत्त्वेन कारणोद्देशेन आकाशवाक्यं आकाशं आकाशत्वं वा विधत्त इति स्वीकार्यम् । न च-इदं वाक्यं कारणोद्देशेन प्राप्यत्व- विधिपरं, अस्य लोकस्य का गतिरिति प्राप्यस्यैव पृष्टत्वात् । अन्यथा पञ्चम्यर्थकारणोद्देशेनाकाशत्वविधाने एकप्रसरताभङ्गापत्तेः, एकसुबन्त- घटकपदयोरुद्देश्यविधेयोभयाबोधकत्वरूपैकप्रसरतायास्सिद्धान्तसिद्ध- त्वादिति-वाच्यम् । “का साम्नो गतिरिति, स्वर इति होवाच । स्वरस्य का गतिरिति, प्राण इति होवाच । प्राणस्य का गतिरिति, अन्नमिति होवाच । अन्नस्य का गतिरिति, आप इति होवाच । अपां का गतिरिति, असौ लोक इति होवाच । अमुष्य लोकस्य का गतिरिति, अयं लोक इति होवाच"- इत्यत्र गतिशब्दस्य कारणपरतया तत्प्रायपाठेनास्य लोकस्य का गतिरित्यत्रापि गतिशब्दस्य कारणपरत्वौचित्येन प्राप्यपरत्वासम्भ- वात् ; सान्नः स्वरज्ञानजन्यत्वेन ज्ञायमानस्वरस्यापि तत्र, स्वरस्य शब्दात्मकतया वायुगुणत्वेन तत्र प्राणस्य, प्राणे चान्नस्य, तस्मिंश्च वृष्टेः, तत्र मेधाद्याश्रयो+लोकस्य, मेवादिवृष्टिसामग्रीसम्पत्तेः एतल्लो- कस्थयज्ञादिजन्यत्वेन तादृशसामग्रीसम्पत्तौ यज्ञादिद्वारा एतल्लोकस्य- कारणत्वात्, अस्य लोकस्य का गतिरित्यस्य एतल्लोककारणजिज्ञा- साविषयीभूततादृशकारणत्वव्याप्यधर्मावच्छिन्नमित्यर्थात् - किंपदस्य जिज्ञासाविषयसमभिव्याहृतपदार्थतावच्छेदकव्याप्यधर्मावच्छिन्ने शक्तेः; तादृशजिज्ञासानिवर्तकस्योत्तरस्य कारणत्वव्याप्याकाशत्वविधाय- कत्वोपपत्तेः । "लोहितोप्णीषाः ऋत्विजः प्रचरन्ति, हिरण्यमालिनः प्रचरन्ति, सप्तदशारनिर्वा वाजपेयस्य यूपः" इत्यादौ उष्णीषमाला- रत्नयुद्देशेन लोहितत्वहिरण्यत्वसप्तदशत्वानां विधेः पूर्वत त्रसिद्ध- १४ आकाशाधिकरणविचारः. तया एक सुबन्तबोध्ययोः परस्परमुद्देश्यविधेयभावेनान्वयो नास्तीति नियमासिद्धेः, सति तात्पर्ये तथा बोधाभ्युपगमात् । न च-सदेवेत्यादि- कारणवाक्यवटकसत्पदार्थन्याकाशत्वे तत्रेक्षणाद्यनुपपत्तिः, व्यापकस्य चेतनत्व याभावे व्याप्यत्येक्षगादेरसम्भवादिति-वाच्यम् । तत्र ईक्षति- धातोः गौणत्वाङ्गीकारात् दुःखाभाववति प्रधाने निरतिशयानन्दवत्त्व- रूपानन्दमयत्वस्याप्यौपचारिकत्वात् । न चेक्षत्यादीनां अनेकेषां गौणत्वकल्पनापेक्षया आकाशपदस्य यौगिकत्वमुचितमिति-वाच्यम्। योगा(हिपूर्वकलगायाः बलीयस्त्वस्य प्रोगात्रधिकरणसिद्धतया आकाशपदस्य योगङ्गीकारापेक्षया ईक्षत्यादेलक्षणाया एव युक्तत्वात् ; तस्मिन्नधिकरणे हि "प्रेतु होतुश्चमसः प्र ब्रह्मणः प्रोदातॄणां प्र यजमा- नस्य” इति-मन्ने उदातॄणां चमसः प्रैत्वित्यर्थके उदातृपदशक्यार्थस्य बहुत्वासम्भवात् उच्चैर्गायन्तीत्युद्गातार इति सामगानकर्तृत्वरूपप्रस्तो- त्रादिसाधारणधर्मावच्छिन्ने योगस्य लक्षणाया वा कल्पनस्यावश्यकत्वे तत्र च योगाङ्गीकारे प्रकृतिप्रत्ययजन्योपस्थितिद्वयस्य प्रत्ययार्थ- धर्मकप्रकृत्यर्थबोधे तथाविधप्रकृतिप्रत्ययसमभिव्याहारज्ञानस्य च हेतु- तायाः कल्पनीयतया तदपेक्षया लक्षणापक्षे तजन्यसामगानकत्रुप- स्थितेः एकस्या एव तद्बोधे हेतुत्वकल्पने लाघवात्। एवं भिन्नविषय- कप्रत्यक्षादिकं प्रति शाब्दसामग्रीप्रतिबन्धकतायां योगशक्तिजन्योप- स्थितिद्वयस्य सामग्रीकोटौ निवेशनीयतया तथाविधोपस्थिनित्यस्य योग्यताज्ञानस्य च परस्परं विशेषणविशेष्यभावे विनिगमनाविरहेण यत्र प्रतिबध्यप्रतिबन्धकभावषष्टुं तत्र लक्षणाजन्योपस्थितियोग्यता- ज्ञानयोः विशेष्यविशेषणभावे विनिगमनाविरहेण द्वयमिति रीत्याऽपि- लक्षणापक्षे लाघवमभिप्रेत्य लक्षणापक्षस्सिद्धान्तितः । एवं च-प्रकृते ऽपि आकाशपदस्य योगस्वीकारापेक्षया ईक्षत्यादीनां लक्षणाकल्पन युक्तम् । न चानेकपदलक्षणापेक्षया आकाशपदस्यैकस्य योगाङ्गी- आकाशाधिकरणविचारः १६ कारो युक्त इति वाच्यम् । "आकाश इति होवाच, आकाशादेव समुत्पद्मन्ते, आकाशं प्रत्यस्तं यन्ति, आकाशोह्येवैभ्यो ज्यायान् , आकाशः परायणं, यदेष आकाश आनन्दो ने स्यात् , आकाशो ह वै नामरूपयोर्निर्वहिता प्राणश्च हास्मै तदाकाशं चोचुः” इति वाक्यस्थानां वहूनां चाकाशपदानां योगकल्पनस्य सिद्धान्तेऽपि सत्त्वात् । तथा च - आकाशपदरूढेरावश्यकतया रूढ्यर्थतावच्छेदकाकाशत्वेन याधात् ईक्षणेनाचेतनभेदसाधनं न सम्भवति । उक्तं च टीकायां-- "कारणविशेष आकाशादिपदश्रुत्या अवगते सति लिङ्गात्त- द्विरुद्धनिश्चयोऽनुपपन्नः "॥ -इति ॥ अस्माच्च टीकावाक्यात् बाध इति पूर्वपक्षो युक्तः ॥ वस्तुतस्तु-श्रुतिलिङ्गयोविरोधे श्रुतेर्बलीयस्त्वमिति पूर्वतन्त्रे स्थापितम् । तथा हि-"कदाचन स्तरिरसिनेन्द्रसिश्च सिदाशुषः" इति मन्त्रे इन्द्रप्रकाशनसामर्थ्यरूपमिन्द्राङ्गत्वग्राहकं लिङ्गमस्ति, ऐन्द्रया गार्हपत्यमुपतिष्ठत इति गार्हपत्याङ्गत्वबोधिका श्रुति- श्वास्ति । यद्यप्युदाहृतश्रुतौ मन्त्रविशिष्टोपस्थानरय गार्हपत्याङ्गत्व- बोधने मन्त्रस्य गार्हपत्याङ्गभूतोपस्थानाङ्गत्वमेव प्रतीयते, न तु तस्य गार्हपत्याङ्गत्वम् । तथापि सम्बोधनविभक्तिबलेन समीपस्थिति रूपोपस्थानस्य प्राप्तत्वेन मन्त्रस्य गार्हपत्याङ्गत्वमेव तच्छुत्यभिप्रेत- मिति कल्प्यते। तथा च गार्हपत्याङ्गत्वबोधकश्रुतीन्द्राङ्गत्वबोधक- लिङ्गयोः विरोधे द्वयोस्समबलत्वमिति पूर्वपक्षः । न च-साक्षा- दङ्गत्वबोधकश्रुत्यपेक्षया अयं मन्त्रः इन्द्राङ्गत्वबोधकश्रुतिमान् इन्द्र- प्रकाशनप्तामर्थ्यवत्त्वादिति श्रुत्यनुमानद्वारा अङ्गताबोधकस्य लिङ्गस्य विलम्बितधीजनकत्वेन दौर्बल्यमिति-वाच्यम् । अयं मन्त्रः इन्द्राङ्ग- त्ववान् , उक्तप्तामर्थ्यवत्त्वात्-इति साक्षादेवाङ्गत्वानुमितिजनकत्व- सम्भवे श्रुतिं कलयित्वा तथाङ्गत्वसाधनस्यायुक्तत्वात् । अतः उभयो- आकाशाधिकरणविचारः. " रपि तुल्यबलत्वात् प्रतिप्रधाना गुणावृत्तिरिति न्यायेन गार्हपत्येन्द्रयोः द्वयोरप्ययं मन्त्रस्समुच्चयेनाङ्गम् । अस्तु वा लिङ्गस्य श्रुतिकल्पक्तया प्रबलदुर्बलभावः, शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यत इति न्यायेन मन्त्रस्याङ्गयाकाङ्क्षायाः श्रुत्यैव निरसनीयत्वात् । तथाऽपि अनुमित- श्रुत्यां इन्द्राङ्गत्वमवर्जनीय, पर्वतादौ प्रबलप्रत्यक्षसिद्धरूपादिकत्व- स्येव दुर्बलानुमानसिद्धवह्निमत्त्वस्यापि दुरपह्नवत्त्वात् । न च-कदा- चनेत्यादिमन्त्रस्य ऐन्धेत्यादिप्रत्यक्षविनियोगश्रुतिसत्त्वेन विनियोग- श्रुत्याकाङ्क्षाविरहात् इन्द्राङ्गताबोधकश्रुत्यनुमान न सम्भवति, सिपाध- यिपारूपपक्षताया अभावादिति-वाच्यम् ; मन्त्रस्य विनियोगश्रुत्या- कासाविरहेऽपीन्द्रम्य स्वस्मारकमन्त्राकासासत्त्वेन सिपाधयिषानिर्वा- हात्-इति प्राप्ते ; न तावल्लिङ्गं स्वतः प्रमाणं । वेदोऽखिलो धर्ममूलमिति स्मृत्या वेदस्यैव कृप्तस्यानुमानिकस्य वा धर्मबोधकत्वनियमात् , अङ्ग- त्वत्य च तज्जन्यापूर्वजनकापूर्वजनकतारूपस्य धर्मघटितत्वादङ्गत्ववाचि- पदकल्पनानुकूलायाः श्रुतपदार्थनिष्ठयोग्यताया एव लिङ्गत्वरूपत्वाच्च । यद्यपि-अङ्गत्वकल्पनानुकूलैव सा लिङ्गमिति वक्तुं शक्यत्वा- द्वेदप्रयोज्यबोधविषयश्रेयस्साधनताकत्वं धर्मत्वमिति धर्मलक्षणसम्भ- वाच्च न लिङ्गेन श्रुत्यनुमानमावश्यकम् । तथापि-साक्षादङ्गत्वानु- मिति जनकत्वमपि लिङ्गस्य न सम्भवति ; श्रुत्या गार्हपत्यरूपाङ्गि- बोधनेनाङ्गयाकाङ्क्षाविरहेण पक्षताविरहात् । इन्द्रस्य स्मारकाकासा- सत्त्वेऽपि ध्यानाद्युपायान्तरेणापि तन्निवृत्तिसिद्धरेतन्मन्त्रविषयकत्वे प्रमाणाभावात् एतन्मन्त्रविशेष्यकेन्द्राङ्गत्वानुमितिन सम्भवत्येवेति कदाचनति मन्त्रो गाहपत्यानमेव । न चैवं-मन्त्रगतेन्द्रशब्दस्य यज्ञसाधनसादृश्यादिदिधात्वानुसाराद्वा जघन्यवृत्त्याश्रयणात् गौरव- मिति-वाच्यम् ; श्रुत्या गार्हपत्ये विनियोगसिद्धावस्य गौरवस्य फल- मुखत्वेन अदोषत्वादिति बलाबलाधिकरणतात्पर्यम् ॥
आकाशाधिकरणविचारः. १७ एवं च-सदेवेत्यादिश्रुतौ सत्पदार्थस्य सामान्यस्य विशेषाकाङ्क्षा- सत्त्वेन ब्रह्मणश्शास्त्रयोनित्वेनाचेतनभेदादिरूपविशेषबोधकश्रुति. कल्पनद्वारा साक्षाद्वा ईक्षणादिलिङ्गानां विशेषसाधकत्वं वाच्यम् । आकाशश्रुत्या विशेषाकासानिवृत्तेरुक्तलिङ्गस्य विशेषसाधकत्वं न सम्भवति । सत्पदस्याकाशश्रुत्या विशेषपरत्वे निश्चिते ईक्षत्यादीनां लक्षणाकल्पनं च फलमुखत्वान्न दोषः । तथा च-सिषाधयिपारूपपक्ष- ताविरहात् अचेतनभेदानुमानं न सम्भवतीति शङ्कावारकत्वमेवास्या- धिकरणस्येति पक्षताविरह इति-पूर्वपक्षः। उक्तं च श्रीमति भाष्ये- "यदि हि साधारणशब्दैरेव सदादिभिः कारणमभ्यधायिष्यत, ईक्षणाद्यर्थानुरोधेन चेतनविशेष एव कारणमिति निरचेप्यत। आकाशशब्देन तु विशेष एव निश्चित इति नार्थस्वाभाव्यात् निर्णतव्यमस्ति ॥" -इति ॥ सामान्यशब्देनाभिधाने विशेषाकाङ्क्षया सिषाधयिषारूपपक्षतासत्त्वेन चेतनविशेषानुमितिभवेत् । आकाशशब्देन विशेषनिश्चयसत्त्वेन पक्षताविरहान्नानुमानं युक्तमित्यर्थः ॥ न च-आकाशवाक्येन विशेषविधि स्वीकृत्य ईक्षणादीनां गौणत्व- कल्पनापेक्षया 'आत्मा वा इदमेक एवाग्र आसीत्' इत्यनेन विशेप- विधिस्वीकारो युक्त इति वाच्यम् ; आत्मशब्दस्य जीवेश्वरसाधारणस्य मृदात्मको घट इत्यादिप्रयोगेणाचेतनसाधारणस्य च विशेषसमर्प- कत्वायोगात् । न च-आत्मन आकाशस्सम्भूत इत्याकाशस्य कार्य- त्वोक्त्या आकाशशब्दस्य कारणविशेपसमर्पकत्वं न सम्भवतीति- वाच्यम् ; अत्रत्याकाशपदस्य भूताकाशपरत्वात् , कारणवाक्यघट- काकाशपदस्य च तन्मात्ररूपसूक्ष्माकाशपरत्वेनाविरोधात् । तथा च- आकाशादेवेत्यादिवाक्येन शब्दतन्मात्रमेव विधीयत इति चेतनविशे- घस्य कारणत्वमयुक्तम् । अयमत्र निर्गलितार्थः-आकाशश्रुत्या ईक्षणादिलिङ्गानां बाध इति पूर्वः पक्षः----इति ॥ 3 आकाशाधिकरणविचारः. तथा सति ननु-अत्र श्रुतेलिङ्गबाधकत्वं नाम न तावत् , ईक्षणादिलिङ्ग- जन्यानुमितिप्रतिबन्धकं यत् कारणविशेप्यकाकाशत्वप्रकारकज्ञानं तज्जनकत्वमिति युक्तम् , अचेतनभेदविषयकानुमितिं प्रति आकाश- त्वज्ञानस्य तदभावाद्यनवगाहित्वेन प्रतिबन्धकत्यायोगात् ॥ न च-आकाशत्वज्ञानस्याचेतनभेदविरुद्धसम्बन्धावच्छिन्नाकाशत्वप्रकारक तया तादृशानुमितिप्रतिबन्धकत्वोपपत्तिः-इति वाच्यम् । तथाऽपि आकाशादेवेत्यादेः केवलस्वरूपसम्बन्धेनाकाशत्वप्रकारकबोधजनकत्वे- ऽपि उक्तविरोधावच्छिन्नसंसर्गताकबोधजनकत्वाभावेन बाधकत्वास- म्भवात् विरोधावच्छिन्नसम्बन्धेन तदवच्छिन्ने आकाशपदस्य शक्ति- विरहात् ॥ न च-अयमाकाश इति वाक्यजन्यबोधानन्तरं चेतन- त्वसंशयानुदयेन तादृशसम्बन्धमानावश्यकतया तथाविधसम्बन्धेना- काशत्वावच्छिन्न एव शक्तिरावश्यकीति-वाच्यम् । तद्बोधानन्तरं घटत्वपटत्वकुड्यत्वादिसंशयानामपि अनुदयेन तत्त- द्विरोधघटितसम्बन्धेनाकाशत्वावच्छिन्नेऽपि शक्तिस्वीकारापत्त्या शक्तयानन्त्यापत्तेः ॥ न च-आकाशत्वं चेतनभेदव्याप्यमित्युहृद्ध- संस्कारसत्त्वात् तद्विशिष्टाकाशत्वज्ञानत्वेन तस्य चेतनत्वज्ञानप्रति- बन्धकता, एवं घटत्वादिज्ञानेऽपि तदवच्छिन्नमेदव्याप्यत्वविषयक- संस्कारविशिष्टत्वेन प्रतिवन्धकता ; यद्वा आकाशत्वे यद्यद्धर्मावच्छिन्न- भेदव्याप्यत्वप्रकारकसंस्कारो वर्तते, आकाशत्वसम्बन्धे तत्तद्धर्मविरोधो भासत इति स्वीकृत्य तादृशविरोधावच्छिन्नसंसर्गताकधीत्वेनैव तत्त- द्धर्मप्रकारकज्ञानं प्रति प्रतिबन्धकत्वमुपेयते ; एवं च चेतनभेदविषयकानु- मितिप्रतिबन्धकज्ञानजनकत्वमाकाशश्रुतेरुपपन्नमिति-वाच्यम् । तथा सतीक्षणादिमत्ताज्ञानस्याप्याकाशभेदव्याप्यमीक्षणादिकमिति संस्कार- विशिष्टत्वेनाकाशत्वविरुद्धसंसर्गावगाहिज्ञानत्वेन वाऽऽकाशत्वप्रकारक- धीप्रतिबन्धकतासम्भवेन लिङ्गस्यैव विनिगमनाविरहेण श्रुतिबाधकता- B आकाशाधिकरणविचारः. १९ पत्त्या पूर्वपक्षानुत्थितेः । न च-लिङ्गविरोधेनाकाशश्रुतेर्बोधजनकत्वा- भावे तस्याप्रामाण्यापत्तिदोषः, श्रुतिविरोधेन ईक्षणलिङ्गस्यानुमिति- जनकत्वाभावे च न कश्चिद्दोष इति विनिगमकसत्त्वात् श्रुत्यैव लिङ्ग- बाध इति पूर्वपक्षोदय इति-वाच्यम् । ईक्षणविरुद्धसंसर्गावगाहिनः आकाशत्वज्ञानस्य ईक्षणवत्ताज्ञानप्रतिबन्धकतया श्रुत्या लिङ्गवा- धेऽपि तदैक्षतेति श्रुतर्बोधजनकत्वाभावेनाप्रामाण्यापत्तिसाम्यात् । इयांस्तु विशेषः-लिङ्गेन श्रुतिबाधे एकस्या आकाशश्रुतेरप्रामाण्यं, श्रुत्या लिङ्गबाधे च सार्वश्यसत्यसङ्कल्पत्वानन्दमयत्वायनेकश्रुतीनां अप्रामाण्यमिति महान् दोषः ॥ न च–सार्वश्यादिश्रुतेर्गौणार्थविपय- कबोधजनकत्वसम्मवात् नाप्रामाण्यमिति-वाच्यम् ; आकाशश्रुते- रपि तत्सम्भवात् ॥ एवं च-ईक्षणादिलिङ्गजन्यानुमितिप्रतिबन्धक- ज्ञानजनकत्वरूपं लिङ्गवाधकत्वं अभ्युपगम्य न पूर्वपक्षावतारो युक्तः, नापि तादृशानुमितिजनकसिषाधयिषारूपपक्षताविघटकत्वरू- पलिङ्गबाधकत्वं श्रुतेरभ्युपगम्य तदवतारे घनजितेन मेवानुमि. त्यादिस्थले व्यभिचारेण तस्याः पक्षतात्वायोगात् ॥ न च- तत्रापि फलानुरोधात् सिपाधयिषा कल्प्यते, नैयायिकैरपि लिङ्ग- दर्शनव्याप्तिस्मरणादिना पूर्वानमित्या नाशस्थले फलानुराधेन सिषा- धयिषान्तरं कल्पयित्वैवानुमितिनिर्वाहाङ्गीकारात् : न्यायपरिशुद्धौ-"मिषाधयिपितधर्मविशिष्टधर्मी पक्षः” इति-इति वाच्यम् । श्रुत्या आत्मनिश्चयवतोऽपि अनुमितियतामितीच्छा- वशात् मननात्मकानुमितेरङ्गीकारवत् सामान्यस्य विशेषाकाङ्क्षायाः आकाशश्रुत्या निरासेऽपि श्रुत्यन्तरविषयकानुमितिर्जायतामिती- च्छासम्भवात् एकलिङ्गेनानुमितेऽपि लिङ्गान्तरेणानुमितिजीयतामि- तीच्छया अनुमितेरेकविपयेऽनेकहेतूपन्यासं कुर्वतम्सूत्रकारस्य सम्म- ततया कथं चिद्विषयसिद्धावपि विशेषान्तरमादाय इच्छासम्भवात् , , अत एवोक्त २० आकाशाधिकरणविचारः. न येन पुंसा आकाशश्रुतिर्न दृष्टा तस्याचेतनभेदबोधकश्रुत्यनुमानसम्भ- वाच ॥ अथैवं—विरोधाधिकरणविरोधः, तत्र हि 'औदुम्बरी स्पृष्ट्वा उद्भायेत्' इति श्रुतिविरुद्धाया अपि औदुम्बरी सर्वा वेष्टयितव्येति स्मृतेः प्रामाण्यं दुर्वारं, स्मृतित्वेन श्रुतिमूलकत्वानुमानात् प्रत्यक्षश्रुतिविरोधस्य ग्रहणाग्रहणादिश्रुतिपु बहुशो दर्शनेनानैकान्त्यात् प्रामाण्याभावसाधक- त्वानुपपत्तेरिति-पूर्वपक्षं कृत्वा ; सर्वत्र धूमदर्शनानन्तरं व्याप्तिस्मरणे ऽपि जिज्ञासाविरहेऽनुमित्यनुयात् परोक्षज्ञानमात्रेऽनुमित्यर्थापत्तेरेव वा जिज्ञासायाः कारणत्वमुपेयते । अतः स्पर्शश्रुत्या वेष्टनाभाववत्त्वे- नौदुम्बर्या निश्चितत्वेन वेष्टनविषयकजिज्ञासाविरहेण स्मृत्या मूलश्रुत्यनुमानसम्भव इति स्मृतेरप्रामाण्यमिति भाप्यकारेण शबर- स्वामिना सिद्धान्तितम् । भवदुक्तरीत्या तत्रापि मूलश्रुत्यनु- मानसम्भवेन वेष्टनस्मृतेः प्रामाण्योपपत्तिः-इति चेन्न ॥ तत्र वार्ति- ककारेण भाप्यमतं दूषयित्वा मूलश्रुत्यनुमानमङ्गीकृत्य वेष्टनस्मृतेः प्रत्यक्षश्रुतिविरोधेन यावच्छ्रुतिदर्शनं अननुष्ठानलक्षणमप्रामाण्यमित्यर्थे तदधिकरणतात्पर्योपवर्णनेन तद्विरोधाभावात् । तस्मात् श्रुतेः पक्षता- विघटकत्वमपि न सम्भवति ॥ --इति ।। मैवम् । श्रुतिर्नाम-अप्रामाण्यज्ञानानास्कन्दिततद्धर्मावच्छिन्न- विषयकबोधजनकानुपपत्तिज्ञानाजन्यशक्तिग्रहजन्यतद्धर्मावच्छिन्नविष- यकोपस्थितिजनकः शब्दस्तद्धर्मावच्छिन्ने, गङ्गायां घोष इत्यत्र गङ्गा- पदस्य प्रवाहश्रुतित्ववारणाय जनकान्तमुपस्थितिविशेषणं गवादिशब्द- स्य गच्छतीति व्युत्पत्तिलभ्यगमनाश्रयत्वावच्छिन्नविषयकोपस्थिति- जनकत्वात्तद्धर्मावच्छिन्ने श्रुतित्ववारणायानुपपत्तिज्ञानाजन्येति शक्ति- ग्रहविशेषणम् । रूढ्यर्थबाधानन्तरमेव योगार्थशक्तिज्ञानात् न तत्राति- व्याप्तिः । तद्धर्मावच्छिन्नव्याप्यधर्मप्रतिपादको वेदघटकश्शब्दः, त- त्प्रतिपाद्यतादृशधर्मो वा तद्धर्मावच्छिन्ने लिङ्गम् ; न तु तद्धर्मावच्छिन्न- .
आकाशाधिकरणविचार: २१ व्याप्यसामान्यात्मकमनुमानं, तस्य दुर्बलत्वात् । किन्तु श्रुतेलं वाक्याच्च प्रबलं वैदिकं लिङ्गम् । तच्च द्विविधं-एकपदात्मकमनेक- पदात्मकञ्चेति । तत्राद्यं यथा-तल्लिङ्गादित्यादौ परोवरीयस्त्वादिकं, द्वितीयं यथा-तत्रैव सर्वभूतकारणत्वम् । यतु-परोद्देशेन प्रवृत्तपुरुषकृतिकारकत्वेन विहितं यत् तत्त्वं तदङ्गत्वं, स्वर्णोद्देशप्रवृत्तपुरुषकृतौ यागानुकूलायां करणत्वेन विध्यन्व- यात् यागे लक्षणसमन्वयः, प्रधानोद्देशप्रवृत्तपुरुषकृतौ प्रयाजा- द्यनुकूलायां प्रयाजादेः करणत्वेन विध्यन्वयात् प्रयाजादावपि सव्यगुणकर्तृकालदेशादौ प्रयानााद्देश्यकयागानुकूलकृतौ करणत्व- कर्तृत्वाधिकरणत्वादिकारकत्वेन विधेयत्वात्तत्रापि लक्षणोपपत्तिः । निरुक्ताङ्गत्वघटकीभूतोद्देश्यताकृतिकारकत्वयोरन्यतरस्य प्राधान्येन वाचकश्शब्दः श्रुतिः । सा च द्वितीयातृतीयादिविभक्तिरूपा कृदन्तनिष्ठा, तृजादिव्यावृत्त्यर्थं प्राधान्येनेति ; तस्य कारकत्वविशिष्ट- द्रव्यवाचित्वेन प्राधान्येन कारकत्ववाचित्वाभावान्नातिव्याप्तिः । ऐन्द्रया गाईपत्यमुपतिष्ठत इत्यादौ द्वितीयाया उद्देश्यत्वरूपशेषित्व- वाचकत्वात् तृतीयायाश्च कारकत्वरूपशेषत्वबोधकत्वात् लक्षण- सङ्गतिः। लिङ्गं नाम--अङ्गत्वघटकीभूतपरोद्देश्यताकृतिकारकत्ववाचक- पदकल्पनानुकूलयोग्यता ; यथा स्रुवेणावद्यतीत्यत्र खुवनिष्ठाद्रवपद- कल्पनानुकूला, एवं मन्त्रेषु स्वार्थप्रवृत्त्युद्देश्यतावाचिपदकल्पनानुकूला खवृत्तिकारकत्ववाचिपदानुकूला च योग्यता लिङ्गम् । तच्च द्विविधं--वस्तु- सामर्थ्यरूपं शब्दसामर्थ्य रूपं च । तत्र सुवेणेत्यादौ आद्यं, बहिर्देव- सदनं दामीत्यादौ लवनप्रकाशनसामर्थ्यरूपं द्वितीयम्-इति मीमांसकै रुक्तम् ॥ तदपि-अङ्गत्वप्रमाणभूतश्रुत्यादीनामेव लक्षणं, तेषामेव प्रकृतत्वात् ; अस्मदुक्तं तु श्रुत्यादिसामान्यलक्षणमिति न विरोधः। श्रुतेलिङ्गबाधकत्वमपि लिङ्गजन्यानुमितौ अप्रामाण्यग्राहकत्वमेव, २२ आकाशाधिकरणविचार:. कदाचनेत्यादिमन्त्रगतेन्द्रप्रकाशकत्वरूपलिङ्गजन्यानुमितौ ऐन्द्रया गार्हपत्यमिति श्रुतेरप्रामाण्यग्राहकत्वात् । न च-विनिगमनाविरहेण लिङ्गस्यैव श्रुतिजन्यबोधे अप्रामाण्यग्राहकत्वरूपं श्रुतिबाधकत्वमेव लिङ्गस्यास्त्विति-वाच्यम् । अविलम्वेनाङ्गत्वबोधिकायाः श्रुतेविलम्वेद तद्राहकण लिङ्गेन बाधायोगात् अविलम्बितधीजनकस्य बलवत्त्वात् , अन्यथा वहावीण्यपाहिप्रत्यक्षम्यापि तदभावग्राहकेणानुमानेन बाधापत्तेः । उक्तं च पार्थसारथिमित्रैः- "प्रत्यक्षे चानुमाने च यथा लोके बलाबलम् । शीघ्रमन्दरगामित्वात् तथैव श्रुतिलिङ्गयोः " -इति । न च-तदक्षतेत्यादीनामपि तत्तदर्थे श्रुतित्वात् कथमेकया आकाशश्रुत्या बहुश्रुतीनां बाध इति-वाच्यम् । चैत्नम्सर्वज्ञो महा- पण्डितो धार्मिक इत्यादौ धर्मिवाचकचैत्रपदस्य यथाश्रुतार्थपरिक- ल्पनं स्वीकृत्य धर्मवाचकानां यथासम्भव सङ्कोचकल्पनस्य दर्श- नेन आकाशश्रुत्या ईक्षणादिश्रुतीनां बाधोपपत्तेः । एवं लिङ्गजन्या नुमितिजनकसिषाधयिपाविघटकत्वमपि श्रुतेलिङ्गबाधकत्वं ; शाब्दीह्या- काङ्क्षा शब्देनैव प्रपूर्यत इति न्यायेन सदेवेत्यादिसामान्यज्ञानजन्य- विशेषाकाङ्क्षायाः श्रुतिविषयकानूमिती हेतुल्वेऽप्युत्थाप्याकासायाः श्रुत्यनुमितिहेतुत्वाभावात् ; अन्यथा परार्थानुमिता सिद्धसाधनस्यादोप- त्वापत्तेः, तत्राप्येतदुत्तरक्षणवृत्तित्वविशिष्टानुमितिीयतामितीच्छा- सम्भवात् । परानुमितावुत्थिताकासाया एव पक्षतात्वावश्यकत्वात् । उक्तरीत्या श्रुतेलिगवाधकत्वात् कारणस्याचेतनभेदसाधनानुमानम- युक्तमिति-पूर्वपक्षस्सम्भवत्येव ॥ ननु-एवं आत्मन आकाश इति श्रुतो कार्यत्वरूपलिङ्गश्रवणात् कारणत्वं न सम्भवतीत्याशङ्कय सूक्ष्मस्थूलदशाभेदेन परिहाराभि- धानं भाष्ये नोपपद्यते, कारणत्वश्रुतेः कार्यत्वलिङ्गेन बाधायोगात्।
आकांशाधिकरणविचारः प्रत्युत श्रुत्यैव ईक्षणादिलिङ्गबाधवत् कार्यत्वलिङ्गवाधस्थापि वक्त- व्यत्वात्-इति चेन्न। तदैक्षतेत्यादीनां स्वार्थबोधकत्वासम्भवेन गौणार्थ- कत्वेऽपि सम्भूतशब्दस्य गौणार्थकत्वे वाथ्वादावप्युत्पत्त्यसियापत्त्या गौणार्थकत्वमपि न युज्यत इत्यधिकाशङ्कया सम्भूतत्वलिङ्गे पृथक् पूर्वपक्षसिद्धान्तयोरुपपत्तेः । यद्वा-आकाशकारणत्वश्रुत्या एकया कारणविषयात्मश्रुत्याकाशविषयसम्भूतत्वलिङ्गयोः कथं बाध इति शङ्कायाः, आत्मशब्दस्य स्वरूपेऽपि रूढिसत्त्वात् सम्भूत- पदसमानाधिकरणाकाशशब्दस्य स्थूलपरत्वादुभयोरपि न बाध इत्यभिप्रायेण समाधानस्य च सङ्गतेः । न च-आत्मन आकाश इत्ति आत्मपदश्रुतिबाधो दुार एव, अनुपपत्तिज्ञानं विना आत्म- पदजन्योपस्थितिविषयस्य शरीरप्रतिसम्बन्धिरूपार्थस्य त्यागात् स्वरूपाद्यर्थान्तराणां अनुपपत्तिग्रहदशायामेव उपस्थाप्यत्वादिति- वाच्यम् ; अस्मिन् प्रकरणे, अयमात्मा, आकाश आत्मा, आदेश आत्मा, योग आत्मेति आत्मपदेन शरीरभिन्नस्यैव ग्रहणेनानुपपत्तिज्ञानासह- कृतपदजन्योपस्थितिविषयत्वरूपप्रसिद्धत्वस्य जीवादावभावेन तत्त्या- गस्य श्रुतिबाधत्वायोगात् ॥ नन्वेवमपि--'ब्रह्म वा इदमग्र आसीत्', 'आत्मा वा इदमेक एवाग्र आसीत्', 'एको ह वै नारायण आसीत्', 'अथ पुरुषो ह वै नारा- यणोऽकामयत प्रजास्सृजेयेति', 'सोऽध्वनः पारमाप्नोति', 'तद्विष्णोः परमं पदं', 'स उत्तमः पुरुपः', 'सेयं देवतैक्षत', 'तेजः परस्यां देवतायां', 'अपहतपाप्मा दिव्यो देव एको नारायण', 'सकारणं करणाधिपाधिपः', 'नित्यो नित्यानां चेतनश्चेतनानां'–इत्यादिश्रुतीनां कारणस्य चेतन- ताबोधकानां; 'आकाशशरीरं ब्रह्म', 'यावान्वा अयमाकाशस्तावानेषोऽ न्तहृदय आकाशः', 'आकाशवत्सर्वगतश्च नित्यः', 'य आकाशे तिष्ठन्', 'य एपोऽन्तहृदय आकाशः', 'तस्मिन् शेते यस्मिन् पञ्च पञ्च जना १ OG आकाशाधिकरणविचारः आकाशश्च प्राताप्ठतः' इत्यादिश्रुतीनां आकाशभेदवोधकानां, 'यस्सर्व- ज्ञस्सर्ववित्', 'सत्यकामस्सत्यसङ्कल्पः' इत्यादि लिङ्गानां; च पूर्वपक्षे बाधो वक्तव्य इति एकया आकाशश्रुत्या परश्शतश्रुतिसहकृतानां परश्शतलिङ्गानां नारायणकारणताबोधकस्मृतिपुराणानां च वाधम- भ्युपगम्य पूर्वपक्षावतारो न युक्तः॥ न च-उक्तबहुबाधापत्तेस्सिद्धान्त- युक्तित्वात् तदाच्छादनेन पूर्वपक्ष इति-वाच्यम् ; एकैकवाक्यस्या- च्छादनेन पूर्वपक्षस्य क्वचित् कृत्वाचिन्तामङ्गीकृत्य वर्णनेऽपि सर्वा- च्छादनेन कृत्वाचिन्ताश्रयणस्यायोगात् , ईक्षत्यधिकरणे गतिसामान्या- दित्यनेनानेकचेतनत्वग्राहकश्रुतिलिङ्गानां उक्ततया तदधिकरणोपरि पूर्वपक्षं कुर्वता तदाच्छादनायोगाच्च । अत आकाशेऽतिव्याप्तिवारणपर- तया आकाशाद्यधिकरणत्रयव्याख्यानं युक्तम् ; न त्वत्यन्तानुचित- कृत्वाचिन्ताश्रयणेनासम्भववारणपरतया व्याख्यानम्--इति चेत् ॥ मैवम् ।लोकवेदयोश्चेतनविपये तत्प्रीतिसम्पादनाय तत्राविद्यमाने- गुणैहुधा स्तुतिदर्शनेन स्तुतिपरत्वसन्देहविषयत्वरूपान्यथासिद्धत्वस्य चेतनकारणताग्राहकश्रुतिलिङ्गादिषु सत्त्वेनाकाशश्रुतौ तदभावेना- काशश्रुतीनां बाहुल्यस्य प्रदर्शितत्वेनानन्यथासिद्धत्वप्राबल्यवत्या आकाशश्रुत्या बहुश्रुतिलिङ्गानां बाधो युक्त इति पूर्वपक्षिणः आशयात् कृत्वा चिन्तायाः अनाश्रयणादिति ॥ ननु--अस्य लोकस्य कागतिरिति प्रश्नवाक्यस्थस्य सर्व- जगत्कारणत्वरूपसर्वलोकगतित्वलिङ्स्योपक्रमस्थत्वेनाकाशश्रुत्यपेक्ष- या बलवत्त्वम्--इति चेन । प्रश्नस्य पृथिवीलोकगतिमात्रविपयत्वन सर्वलोकगतिविषयत्वासिद्धेः । शालावत्यदाल्भ्यजैवलिभिरारब्धायां कथायां प्रथमं शालावत्यदाल्भ्ययोः । प्रश्नोत्तरपरम्परा प्रसूता-- "का सानो गतिरिति, स्वर इति होवाच, स्वरस्य का गतिरिति, प्राण इति होवाच, प्राणस्य का गतिरिति, अन्नमिति होवाच, , आकाशाधिकरणविचारः. २५ - अन्नस्य का गतिरिति, आप इति होवाच, अपां का गतिरिति, असौ लोक इति होवाच, अमुष्य लोकस्य का गतिरिति, न स्वर्ग लोकमतिनयेदिति होवाच ॥"..- इति दाल्भ्येन स्वर्गलोके सामपरम्पराविश्रान्तिभूमित्वेन स्थापिते तस्य पक्षश्शालावत्येन दूषितः-'अप्रतिष्ठितं वै किल दाल्भ्य साम' इति । वर्गस्य मनुष्यकृतयजनाद्यधीनस्थितिकत्वेनानन्याधीनस्थितिकत्वरूप- प्रतिष्ठात्वं नास्तीत्यर्थः। एवं दूषितस्वपक्षतया शिष्यभावंप्राप्तस्य दाल्भ्य स्य शालावत्यस्य च प्रश्नद्वयं प्रवृत्तं-'अमुष्य लोकस्य का गतिरिति, अयं लोक इति होवाच, अस्य लोकस्य का गतिरिति, न प्रतिष्ठां लोक- मति नयेदिति होवाच'-इति । ततश्शालावत्यपक्षो जैवलिना दूषितः- अन्तवढे किल शालावत्य साम-इति । पृथिलिोकस्य परिच्छिन्नत्वेन तस्यापरिच्छिन्नकारणवत्त्वावश्यकतया तस्यापि कारणपरम्पराविश्रान्ति भूमित्वं न सम्भवतीत्यर्थः । तदनन्तरं प्रवृत्ते जैवलिं प्रति शालावत्यप्रश्ने अस्य लोकस्य का गतिरिति इदंपदस्य पूर्वसन्दर्भानुसारेण पृथिवी- मात्रपरत्वात् पृथिवीकारणत्वरूपस्य उक्तगतित्वस्य प्राथमिकत्वेऽपि नाकाशश्रुतिबाधकत्वसम्भवः॥न च-पृथिवीमात्रकारणत्वस्याषां प्रसि- द्धत्वेन प्रश्नवैयर्थ्यात् , अस्येति सर्वनामश्रुतेः प्रकरणात् बलीयस्याः सर्वकार्यविषयत्वौचित्याच्च अयं प्रश्नः सर्वलोकगतिविषय एवेति- वाच्यम् ; अपां कारणस्य तेजसः प्रसिद्धत्वेऽपि अपां कागतिरिति प्रश्न- वत् प्रकृतेऽपि प्रश्नोपपत्तेः, अन्तवत्त्वदूषणाभिधानेन प्रसिद्धविलक्ष- णमनन्तं कारणमस्तीत्यभिप्रायेण प्रश्नोपपत्तेश्च, प्रत्यक्षविपयतावच्छे- दकत्वोपलक्षितधर्मावच्छिन्नवाचकस्य इदम्पदस्य सर्वलोकविषयत्वा- योगाच ॥ न च-अन्तवत्त्वदोषपरिहाराय प्रश्नस्य प्रवृत्तत्वेन सर्वजग- कारणविपयत्वावश्यकत्वात् अस्येत्यस्य छत्रिन्यायेन सर्वजगल्लक्ष- कत्वमावश्यकमिति-वाच्यम् ; सर्वजगत्कारणस्यापि अपरिच्छिन्नत्व- २६ आकाशाधिकरणविचारः. विशिष्टपृथिवीकारणत्वेन प्रश्नसम्भवात् लक्षणाकल्पनस्यायुक्तत्वात् , पृथिवीरूपकारणस्यान्तवत्त्वदोषकथनानन्तरं प्रवृत्तस्य प्रश्नस्यानन्तृत्व- विशिष्टविषयकत्वावश्यकत्वात् ॥ न च-अपृथक्सिद्धत्वस्वाश्रयापृथक्सिद्धत्वान्यतरसम्बन्धावच्छि- न्नाभावाप्रतियोगित्वरूपस्य देशापरिच्छिन्नत्वस्य ध्वंसाप्रतियोगित्व- रूपकालपरिच्छिन्नत्वस्य वा नित्यविभूतिनिष्ठोक्तसम्बन्धावच्छिन्नाभाव- प्रतियोगिनि ध्वंसप्रतियोगिनि च भूताकाशे असम्भवात् ब्रह्मण्येव सम्भवात् अनन्तत्वलिङ्गस्य निरवकाशत्वेन प्रबलत्वात् तेन तिबाधो युक्तः-इति वाच्यम् प्रतिष्ठात्वलिङ्गवत् अनन्तत्वस्यापि आपोक्षकत्वोपपत्तेः । दाल्भ्याभिमतस्वर्गलोकोद्भाविताप्रतिष्ठितत्वदोष- परिहाराय हि शालावत्येन स्वर्गलोकस्यापि गतित्वेनाभिमते पृथिवीतले प्रतिष्ठात्वमुपन्यस्तम् । न हि प्रतिष्ठात्वं निरपेक्षं ब्रह्म- णोऽन्यत्र सम्भवति, सापेक्षं तु स्वर्गेऽपि सम्भवत्येवेति तत्र स्वर्गव्यावृत्तपृथिव्याकाशसाधारणस्य प्रतिष्ठात्वस्य विवरणवत् अत्रापि अनन्तत्वस्य कालिकसम्बन्धेन पृथिवीव्यापकत्वे सति तदनधिकरण- कालवृत्तित्वात्मकपृथिव्यधिककालवृत्तित्वरूपस्य विवक्षणीयतया तस्याकाशसाधारणस्य निरवकाशत्वाभावात् ॥ न चैवमपि-स्वभिन्ननिष्ठोत्कर्षानवधित्वरूपं स्वभिन्ननिरूपिताप- कर्षानाश्रयत्वरूपं वा परोवरीयस्त्वं, निरवकाशत्वात् सफलत्वाच्च, आकाराश्रुत्यपेक्षया बलवत् , एवं स्वभिन्नकारणानपेक्षसर्वभूतकारणत्व- मपि एवकारार्थघटितं तेजःप्रभृतिसृष्टौ वाय्वादिकारणापेक्षे आकाशे न सम्भवतीति तदपि निरवकाशमिति-वाच्यम् ; 'परोवरीयसो हि लोकान् जयति, परोवरीयसो ह्येवेहास्यास्मिन् लोके जीवनं भवति, तथाऽमुष्मिन् लोके'-इति फलवचनपर्यालोचनया ऐहिकामुष्मिक- जीवनसाधारणस्य परोवरयिस्त्वस्य निरतिशयत्वेन व्यवस्थापयितु- आकाशाधिकरणविचारः. २७ मशक्यतया परोवरीस्त्वमात्रस्य भूताकाशेऽपि सम्भवात् , ब्रह्मणो ऽपि जगत्सृष्टौ अदृष्टादिसापेक्षत्वेनैवकारार्थघटित्सर्वभूतकारणत्वस्य ब्रह्मण्यसम्भवात् , कथञ्चिदेवकारार्थसमर्थनस्य भूताकाशेऽपि सम्भवात्। तथा च-श्रुतेर्जात्या बहुत्वेन च प्राबल्यात्तयैव च लिङ्गानां बाधात् आकाश एव जगत्कारणमिति ईक्षणलिङ्गकानुमानमयुक्तम् ॥ इति पूर्वः पक्षः ॥ सिद्धान्तस्तु-यथाक्रतुन्यायेन ध्येयस्य प्राप्यत्वमवगतं, कारण तु ध्येय इत्यनेन च कारणस्य ध्येयत्वं च । तच्च कारणं किमित्यपेक्षायां यतो वेति सामान्येनोपक्रम्य आनन्दाध्येवेति आनन्द- रूपविशेषे पर्यवसानं कृतम् । तथा च कारणस्यानन्दरूपत्वेऽपि प्रकाशमानत्वापरिच्छिन्नत्वयोः अमावादितरेच्छानधीनेच्छाप्रयोज्य- प्राप्तिकर्मत्वरूपं प्राप्यत्वं न सम्भवति ; 'यत्तद्रेश्य', 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इत्यादिभिः ब्रह्मणो ज्ञानाविषयत्वस्य च चतुष्पात्त्वादिकथनेन परिच्छिन्नत्वस्य चावगमादित्यभिप्रायण अस्य लोकस्य कागतिरिति प्रश्न उपन्यस्तः । तत्र गतिपदस्य उपक्रमानुसारात् कारणपरत्वेऽपि प्राप्यपरत्वं च विद्यत एव। उपक्रमो हि स्वावगतार्थप्रकारतां कल्पयति, न त्वन्यार्थकत्वं वारयति। तथा च-गतिशब्दस्य कारणप्राप्योभयपरत्वात् न कश्चिद्दोषः । अत एव गतिः प्राप्येति व्याख्यातम् । आकाशादेवेत्युत्तरवाक्यं च कारणस्यानन्दरूपस्य प्रकाशमानत्वानन्तत्वोभयविधानपूर्वकं प्राप्यत्वो- पपादनपरं, आकाशः परायणमित्युक्तेः ॥ यद्यपि-आनन्दप्रकरण एव 'यदेष आकाश आनन्दो न स्यात्' इत्यानन्दस्य प्रकाशमानत्वमुक्तमिति न वाक्यान्तरापेक्षा । तथापि तत्रत्याकाशपदस्य देशापरिच्छेदपरत्वान्ननुपपत्तिः। 'को ह्येवान्यात्कः यदेष आकाश आनन्दो न स्यात् , स्यात् , एषह्येवानन्द- २८ आकाशाधिकरणविचार: याति' इति स्वयं पूर्णानन्दत्वाभावे अन्येषामानन्दप्रदत्वायोगस्या- भिप्रेतत्वात् । अलत्यमाकाशत्वं प्रकाशमानत्वरूपम् , आनन्त्यं च सर्व- वस्तुसामानाधिकरण्याहत्वरूपं वस्त्वपरिच्छिन्नत्वम् ; न हीदमनन्तत्वं आपेक्षिकतया योजनं सहते, उपपत्तिरूपतात्पर्यलिङ्गसहितत्वेन सङ्कोचानईत्वात् । जैवलिना पृथिवीलोकमन्तवत्त्वेन दूपितवता किं तएनन्तं वस्तु तस्य कारणमिति पृष्टे, नाकाश इत्युत्तरिते, कथमे- तस्य वस्त्वपरिच्छिन्नत्वं कालापरिच्छिन्नत्वं चेत्याकासायां- सर्वजगदुत्पत्तिलयकारणत्वरूपोपादानत्वप्रतिपादनेन वास्त्वपरिच्छेद- स्यानादिकालप्रवृत्तसकलजगन्मूलकारणत्वोक्तयाऽनादित्वलाभेनानादि- भावस्यनाशासम्भवेन कालापरिच्छेदस्य उपपादानात् ।। ब्रह्मणश्चेतनाचेतनसामानाधिकरण्यं हि द्विविधं-पूर्वोत्तरकालीना- वस्थावच्छिन्नयोरभेदावगाहिबोधजनकत्वं समानकालीनावस्थावच्छिन्न- योस्तादृशबोधजनकत्वं चेति ॥ तत्राधं-उपादानोपादेयभावप्रयुक्तम् ; अन्त्यञ्च-अपृथक्सिद्धिसम्बन्धावच्छिन्नाधाराधयभावरूपशरीर शरीरि- भावप्रयुक्तम् ; लोके मृत् घटः नीलो घट इत्यादी द्विविधस्यापि दर्शनात् ॥ तत्राद्य-तत्त्वपसीत्यादिबद्धावस्थजीवस्तामानाधिकरण्यं, 'सदेव सोम्येदमग्र आसीत्' इत्यादिस्थूलावस्थचेतनसामानाधिकरण्यं च ; 'सन्मूलास्सोम्थेमास्सर्वाः प्रजास्सदायतनाः' इत्यादिना जगद्ब्रह्मणो- रुपादानोपादेयभावं प्रतिपाद्य, ऐतदात्म्यमिदं सर्व' इति सर्वत्र तत्प्रयुक्तसामानाधिकरण्यमुपपाद्य, तत्त्वमसीति विशेष उपसंहरन्त्या श्रुत्या स्थूलावस्थचेतनाचेतनसामानाधिकरण्ये कार्यकारणभावस्थ नियामकताबोधनात् ; 'सर्वं खल्विदं ब्रह्म तज्जलान्' इतिश्रुतौ कार्य- कारणभावस्य सामानाधिकरण्यनियामकतायाः कण्ठोक्तत्वाच्च ।। , आकाशाधिकरणविचार:. २९ द्वितीयं च-शुद्धस्वरूपचेतनसामानाधिकरण्यं, कारणावत्था- चेतनसामानाधिकरण्यं च; 'अन्तर्बहिश्च तत्सर्व व्याप्य नारायण- स्स्थितः' इति शरीरशरीरिभावमुक्त्वा ‘स ब्रह्मा स शिवस्सेन्द्रस्सोऽ क्षरः परमस्स्वराट् इति तत्प्रयुक्तसामानाधिकरप्योपपादनात् , तवाक्षरशब्देन मुक्तस्य ग्रहणात् , 'कूटस्थोऽक्षर उच्यते' इत्यादी मुक्ते अक्षरशब्दप्रयोगात्, तस्य च परमः स्वराडिति विशेषणात् । परमत्वं च यदपेक्षया अतिशयितावस्था नास्ति तादृशावस्थावत्वं, स्वराट्त्वं अकर्मवश्यत्वम्-इति महाचार्यैव्याख्यातम् ; 'तत्तेन ऐक्षत' इत्यस्य तेजश्शरीरकं ब्रह्मेत्यर्थात् ॥ ननु-द्रव्याद्रव्यसाधारणस्य द्रव्यत्वावटितस्यापृथक्सिद्धिसम्बन्धा- वच्छिन्नाधाराधेयभावरूपस्य शरीरशरीरिभावस्यैव सामानाधिकरण्य- नियामकत्वसम्भवात् उपादानोपादेयभावस्य तथात्वकल्पनमनुचितं ; तत्त्वमसीत्यादावपि त्वंपदेन श्वेतकेत्वपृथक्सिद्धत्वेनैव वोधः, न तु द्रव्यत्वघटिततच्छरीरकत्वेन ; आनन्दमयाधिकरणमाप्ये 'विशिष्ट- वाचित्वे शरीरवाचकत्वं न प्रयोजकं, अपि तु अपृथक्सिद्धप्रकारवा- चित्वमेव ; जातिगुणवाचिपदसामानाधिकरण्यानुरोधात्' इत्युक्तत्वात्। अत एव- एतस्मिन् सम्प्रसादोऽन्वाचरित्वा' इत्यादौ सुषुप्त्यवस्थावाच- कस्यापि सम्प्रसादपदस्य 'एष सम्प्रसादोऽस्माच्छरीरात्' इत्यादौ जीव- वाचित्वं, 'रसोऽहमप्सु कौन्तेय', 'पुण्यो ग्रन्धः पृथिव्यां च' इत्यादौ रसगन्धादिपदानां ब्रह्मपर्यन्तत्वं च उपपद्यते ॥ न चैव-रसगन्धादि- शब्दानां तदाश्रयजलपृथिव्यादिवाचकत्वमपि स्यादिति वाच्यम् ; जलादेः मधुरत्वसुरभित्वाद्यवच्छिन्ननिरूपितापृथक्सिद्धिसम्बन्धा- वच्छिन्नाधारतास्वीकारेऽपि रसत्वगन्धत्वाद्यवच्छिन्ननिरूपिताधार- तायाः अस्वीकारात् परमात्मनि तादृशाधारतास्वकिाराच रसोऽह- मित्यादेरुपपत्तिः ॥
आकाशाधिकरणविचार: उतं च टीकायां-- "नियतनिष्कर्षकपदानामपि तथात्वं प्रयोगविशेषापेक्षं, न तु सार्वतिकं, रसोऽहमित्यादिप्रयोगात् ; अतः पृथिव्याद्यपेक्षयैव गन्धादिशब्दानां नियतनिष्कपैकत्वम् ॥" ---इति ॥ तदपेक्षया नियतनिष्कर्षकत्वं च तन्निरूपितापृथक्सिद्धिसम्बन्धाव- च्छिन्नाध्यतानवच्छेदकधर्मावच्छिन्नवाचित्वमेव । तथा च-निरुक्त- शरीरशरीरिभावनैव सर्वत्र सामानाधिकरण्योपपत्तेः कार्यकारणभावस्य तन्नियामकत्वकल्पनमनुचितम्--इति चेन्न । मृदयं घटः, बालो युवा जातः इत्यादी कार्यकारणभावस्यापि सामानाधिकरण्यनियाम- कत्वदर्शनात् , सर्वं खल्विदमिति श्रुतिसिद्धत्वाच्च । इयान् विशेषः- कार्यकारणभावप्रयुक्तसामानाधिकरण्यस्थले सदेव सोम्येदमग्र आसी- दित्यादौ स्थूलचिदचिच्छरीरकं सूक्ष्मचिदचिच्छरीरकाभिन्नमिति बोधे उद्देश्यतावच्छेदकस्थूलशरीरकत्वे विधेयतावच्छेदकसूक्ष्मशरीरकत्वस्य प्रयोज्यतासम्बन्धेन धर्मिपारतन्त्र्येण भानं तत्त्वमसीत्यादिशरीरा- त्मभावनिबन्धनं, सामानाधिकरण्यस्थले चोद्देश्यतावच्छेदकस्य समान- कालीनत्वसम्बन्धेन विधेये भानं । यद्वा-उपादानोपादेयभावस्थले विशिष्टे विशिष्टस्य जन्यत्वाभेदोभयसम्बन्धेनान्वयः । शरीरात्म- भावस्थले च केवलाभेदेनेति विशेषः । एतदभिप्रायेणैव यावद्विकार- मित्यत्र श्रीभाष्यम्-- "ऐतदात्म्यमिदमित्यादिभिः आकाशस्य विकारत्ववचनेन तस्याकाशस्य ब्रह्मणो विभागः उत्पत्तिरुक्तैव ॥"--इति ॥ अत्राकाशस्य विकारत्ववचनेनेत्यस्य-विशिष्टे विशिष्टजन्यत्वस्य संसर्गत्वाद्विशेषणे तज्जन्यत्वं संसर्गः--इत्याकाशस्य तज्जन्यत्वं तद्वाक्यवोध्यमित्यर्थः। एवं च वस्त्वपरिच्छेदरूपानन्तत्वस्योपादानो- पादेयभावरूपोपपत्तिसहितत्वेन बलवत्त्वात् आकाशश्रुत्या । तस्य आकाशाधिकरणविचारः. ३१ सङ्कोचरूपबाधायोगात् श्रुतिबाधकत्वमेव । न च-पृथिव्यां प्रतिष्ठा- त्वमापेक्षिकमिति-वाच्यम् ; निश्चलत्वरूपप्रतिष्ठात्वस्य ज्योतिश्च- क्रान्तर्गतत्वेन भ्रमणशालिस्वर्गव्यावृत्तस्य पृथिव्यामसङ्कचितत्वात् । यदुक्तं-सदेवेतिवाक्यस्थसत्पदार्थस्य विशेषाकासासत्त्वात् आकाश- वाक्यं शब्दतन्मात्रत्वविधायकमिति ; तन्न, सदेवेत्यादिकारणवाक्ये उपादानत्वे सति निमित्तत्वरूपकारणत्वस्यावगतत्वेन तथाविधो- भयकारणत्वस्यापि जिज्ञासया अस्य लोकस्येत्यादेः प्रवृत्तत्वत्य वाच्यतया शब्दतन्मात्रत्वस्य उपादानगोचरापरोक्षज्ञानघटितकर्तृ- त्वव्याप्यत्वाभावेनाकाशादेवेत्यस्य तन्मात्रविधायकत्वे तथाविध- प्रश्नोत्तरत्वानुपपत्तेः । न हि कस्तिष्ठति पचतीीते प्रश्नस्य स्थिति. मत्त्वपाककर्तृत्वोभयव्याप्यधर्मप्रश्नपरस्य घटस्तिष्ठतीत्यनेनैकमात्रवृत्ति- व्याप्यधर्मप्रतिपादकेन उत्तरं सम्भवति । अतस्तद्वाक्यं योगार्थविधि- परमेव, कि चाकाशवाक्यस्य तन्मात्रत्वविधायकत्वे प्रसिद्धिबाधो दुवार एव ; आकाशपदस्य तन्मात्रे प्रसिद्धयभावात् । एवमाकाशवाक्यस्य हवैशब्दोपवन्धेनानुवादित्वात् सदेवेत्यादिकारणवाक्यमेव तत्प्रापकं वक्तव्यम् । तत्र च-ईक्षणादिकं प्रतीतमिति तद्विरुद्धाकाशत्वं नानेन विधातुं शक्यं, उत्पत्तिशिष्टगुणावरुद्धे गुणान्तरानवरोधात् । किंच सकलश्रुतिस्मृतीतिहासपुराणानां भगवतः कारणत्वे यन्महातात्पर्य तद्विरोधेनाकाशवाक्यं कथमचेनविशेषत्वविधायकं ? निर्णीतं हि-महा- वाक्यविरुद्धार्थ अवान्तरवाक्यस्याप्रामाण्यं ; यथा स्वर्गार्थाग्निहोत्रपर- महावाक्यार्थस्य ‘यद्यमुप्मिन् लोकेऽस्ति वा न वा' इत्यादेः तदवान्तर- वाक्यस्य एवमाकाशवाक्परयाचेतनकारणतापरत्वे तद्वाक्यगतानां सर्वभूतकारणत्वसर्वस्माज्जायस्त्वपरायणत्वादीनां लिङ्गानां अनुपपत्तिः, सर्वभूतकारणत्वं चाचित्संसृष्टचेतनसामान्यकारणत्वं ; महच्छब्दपञ्च- शब्दपृथिव्यादिशब्दसमभिव्याहाराभावे भूतशब्दस्याचित्संसृष्टचेतन- ३२ आकाशाधिकरणविचारः. 3 %3 परत्वं स्वतः प्राप्तम् ; 'यतो बा इमानि भूतानि जायन्ते ; येन जातानि जीवन्ति', 'न हिंस्यात्सर्वा भूतानि', 'भूतानां प्राणिनः श्रेष्ठाः' इत्यादिप्रयोगस्वारस्यात् । अचित्संसृष्टचेतनकारणत्वं चाचित्कारणत्वं; चेतनगतधर्मभूतज्ञानकारगत्वं च-चेतनस्य स्वरूपतः कार्यत्वायोगात् स्वभिन्नत्वस्वसामानाधिकरण्योभयसम्बन्धेन परिमाणविशिष्टपरिमाण- वत्त्वरूपं यद्विकारित्वं, तद्व्यापककार्यतानिरूपितकारणत्वपर्यवसितम् ; निरुक्तविकारित्वं चाचेतनचेतनगतधर्मभूतज्ञानोभयमाधारणम् । न ह्यागन्तुकावस्थासामान्यं विकारशब्दाथः ; तथा सति जीवेश्वरा- दीनामपि बायुसंयोगादिसत्त्वेन विकारित्वापत्तेः । अत एव-जीवस्य सङ्कोचविकासरूपपरिमाणद्वयाङ्गीकर्तृजैनमत एव विकारित्वमापादितं 'न च पर्यायादप्यविरोधो विकारादिभ्यः' इति सूत्रे । अन्यथा स्वमते- हो जावेश्वरयोः आगन्तुकापृथक्सिद्धधर्मरूपावस्थावत्त्वात्मकद्रव्य- लक्षणवत्त्वेन विकारित्वापत्तेः । स्वजनकसूक्ष्मावस्थावत्त्वस्वजनकसङ्कल्प वत्त्वाभयसम्बन्धेन स्थूलावस्थासामान्यवत्त्वमेव सर्वभूतनिरूपितो- भयविधकारणत्वमिति फलितम् । सूक्ष्मावस्थावत्त्वं च-स्वाश्रयापृथ- सिद्धिसम्बन्धेन, तथाविधसम्बन्धस्यापि 'बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः', 'काठिन्यवान् यो बिभर्ति'-इत्यादिमहार्प- व्यवहारेण वृत्तिनियामकत्वात् । उपादानत्वं न गौणं, सर्वस्यापि स्वस्वधर्मभूतज्ञानव्यतिरिक्तस्य भगवच्छरीरत्वेनाचेतनजीवीयधर्मभूत- ज्ञानयोरपि अपृथसिद्धिसम्बन्धेन भगवति सत्त्वात् । आकाशे च न स्वजनकसूक्ष्मावस्थावत्त्वसम्बन्धेन स्थूलावस्थासामान्यवत्त्वरूपं सर्वभूतोपादानत्वं, धर्मभूतज्ञानगतसूक्ष्मावस्थायाः उक्तसम्बन्धेनाकाशे ऽभावात् । स्वाश्रयापृथक्सिद्धत्वं च-स्वाश्रयशरीरकत्वं ; तेन शरी- रान्तर्गतस्याकाशस्य स्वाश्रयापृथक्सिद्धिसम्बन्धेन धर्मभूतज्ञानगत- सूक्ष्मावस्थावत्त्वेऽपि न क्षतिः ॥
आकाशाधिकरणविचारः. ३३ उक्तं च श्रीमति भाष्ये- "निखिलजगदेककारणत्वं हि अचिद्वस्तुनः प्रसिद्धाकाशशब्दा- भिधेयस्य नोपपद्यते, चेतनवस्तुनः तत्कार्यत्वासम्भवात् ॥" -इति ॥ वस्तुतस्तु-आकाशस्य उपादानतावादिमते स्वजनकसूक्ष्मावस्था- वत्त्वं अपृथक्सिद्धिसम्बन्धेनैव निवेश्यम् । तत्सम्बन्धेनैवाकाशे अचेतनगतस्थूलावस्थासामाम्यवत्त्वात् । एवं च-जीवीयधर्मभूतज्ञानगत- सूक्ष्मावस्थाया अपृथक्सिद्धिसम्बन्धेन आकाशेऽभावात् चेतनांश प्रति आकाशस्य तन्मतरीत्या उपादानत्वं न सम्भवतीति भाष्याभि- प्रायः । स्वजनकसङ्कल्पवत्तासम्बन्धेन स्थूलावस्थावत्त्वरूपं निमित्तत्वं तु अचेतनगतावस्थां प्रत्यपि आकाशस्य न सम्भवत्येवेति ॥ यद्यपि-आकाशादेवेति वाक्ये सर्वभूतोत्पत्तिकारणत्वमेवाकाशस्य प्रतीयते, उत्पूर्वकपद्धातोः उत्पत्त्यर्थकत्वात् । तथापि सिद्धान्ते स्थूलावस्थायाः उत्पत्तिरूपत्वात् सूक्ष्मावस्थायाश्च लयरूपत्वात् स्वजनकावस्थावत्त्वसम्बन्धेन स्थूलसूक्ष्मोभयविधावस्थासाधारणावस्था- सामान्यवत्त्वं सर्वभूतोत्पत्तिलयकारणत्वमिति नानुपपत्तिः । आका- शस्य कारणत्वे चाकाशत्वावस्थायाः शब्दतन्मात्रत्वावस्थाया वा स्वजनकावस्थावत्त्वसम्बन्धेनाकाशे ह वा इमानि भूतानि' इत्यत्र सर्वपदसङ्कोचश्च दुर्वारः ॥ ननु-यतो वा इमानीत्यत्र इदम्पदस्याकाशभिन्नपरतया न सङ्कोचः । इदं सर्वमसृजतेत्यत्र इदम्पदस्य ब्रह्मभिन्नपरतामङ्गीकृत्य सिद्धान्तेऽपि ब्रह्मणः सृज्यकोटिनिवेशस्य वारणयित्वात् । न च-स एव सृज्यस्स च सर्गकर्ता' इत्यादिना ब्रह्मणोऽपि विशिष्टरूपेण सृज्य- त्वावगमात् ; अत्र नेदं पदस्य ब्रह्मभिन्नपरत्वावश्यकतेति-वाच्यम् ; (१.) (टि) खजनकसूक्ष्मावस्थावत्त्वसम्बन्धेनैवेत्यर्थः ॥ अभावात् , 'सर्वाणि 5 आकाशाधिकरणविचारः. 'जगत्सर्वं शरीरं ते' इत्यादौ जगत्पदस्य ब्रह्मतद्धर्मभूतज्ञानातिरिक्त परत्वावश्यकत्वात् , तयोर्ब्रह्मशरीरत्वाभावात् । तथा च-स्पर्शाभाव- वत्त्वे सति शब्दवत्त्वरूपशव्दतन्मातलाधारणाकाशत्वावच्छिन्नभेद- विशिष्टस्योद्भूतशब्दवत्त्वरूपस्य भूतत्वस्य व्यापकं यत् कार्यत्वं तन्निरूपितकारणत्वं स्पर्शवत्त्वव्यापककार्यतानिरूपितकारणत्वपर्यव- सितं सर्वभूतकारणत्वं आकाशम्य नानुपपन्नं ; विशेप्यवन्निष्ठविशिष्ट- वद्भेदस्य विशेषणाभावरूपतया उद्भूतशब्दवन्निष्ठोक्तभेदस्य स्पर्श- रूपत्वात् । यद्वा इमानीत्यस्य स्पर्शवन्तीत्यर्थः--इति चेन्न । भूत- शब्दस्य महच्छब्दपञ्चशब्दादिसमभिव्याहाराभावे महाभूतपरत्वा- सम्भवस्य उक्तत्वात् । एवं सर्वैः कल्याणगुणैः सर्वस्मान्निरतिशयो- त्कर्षवत्त्वरूपं सर्वज्यायस्त्वमपिआकाशस्य न सम्भवति, सर्वकल्याण- गुणवत्त्वपर्यवसितस्य तस्याकाशे असम्यवात् ॥ न च-नित्यमुक्तादि- निष्ठकल्याणगुणानां ब्रह्मण्यप्यभावात् सर्वकल्याणगुणवत्त्वं ब्रह्मणोऽ प्यसम्भवीति-वाच्यम् ; ब्रह्मणस्सर्वशरीरकत्वेन स्वाश्रयत्वम्वाश्रया- पृथक्सिद्धत्वान्यतरसम्बन्धावच्छिन्नकल्याणगुणत्वव्यापकाधेयतानिरू- पकत्वरूपस्य तस्य मायबाधात् , सर्वगन्धस्सर्वरस इत्यादौ एवमेव उपपादनीयत्वात् ॥ यद्वा-कल्याणगुणवृत्तिजातित्वव्यापकावच्छेदकताकाधेयता- निरूपकत्वं सर्वकल्याणगुणवत्त्वं, ब्रह्मणि कल्याणगुणव्यक्तिसामान्या- भावेऽपि तज्जात्यवच्छिन्नसामान्यस्य सत्त्वात् न बाधः। सिद्धान्ते-अति- रिक्तजातेरभावेऽपि द्रव्ये अवस्थाविशेपात्मकस्य गुणादौ स्वरूपात्म- कस्य सौसादृश्यात्मकजातेः यथावस्तुसंस्थानं अनुसन्धेयमिति श्रीभाष्यसिद्धत्वात् ॥ यद्यपि-सौसादृश्यस्य प्रतिव्यक्तिभिन्नस्यानुगतव्यवहारहेतुत्वं नोपपद्यते; तथाऽपि तस्य सादृश्यरूपत्वेन प्रतियोगित्वानुयोगित्वा- आकाशाधिकरणविचार:. न्यतरसम्बन्धेन प्रत्येकस्यापि सर्वव्यक्तिवृत्तित्वादनुगतव्यवहारोपपत्तेः तहटानष्ठ सादृश्यं तस्मिन् अनुयोगितासम्बन्धेन तदन्यघटेषु प्रति- योगितासम्बन्धेन वर्तते ; अयं घटः इतरवटैः घटत्वेन सदृश इति व्यवहारात् , सादृश्यस्य साधारणधर्मरूपतामते मुखगतकान्तेरपि प्रति- योगितासम्बन्धेन चन्द्रवृत्तित्वस्वीकारात्; तार्किकमते सत्तायास्समवाय स्वसमवायिप्तमवेतत्वरूपसम्बन्धभेदेऽपि घटस्सन् सामान्यं सदिति एकजातीयव्यवहाराङ्गीकारवत् सिद्धान्ते सम्बन्धभेदेऽपि एकविध- व्यवहारोपपत्तिरित्यादि जातिवादे स्पष्टम् ॥ यद्यपि-निरुक्तं सर्वकल्याणगुणवत्त्वं नित्यादिसाधारणं ; तथाऽपि स्वव्याधिकरणसङ्कल्पाप्रयोज्यत्वस्य गुणेषु विशेषणात् नातिव्याप्तिः । अत एव श्रीमति भाप्ये-'सर्वस्माजयायस्त्वं च निरुपाधिकं, सर्वैः कल्याणगुणैः सर्वेभ्यो निरतिशयोत्कर्षः' इत्युक्तम् । निरुपाधिकत्वस्य स्वव्यधिकरणेत्यादिरूपत्वात् उत्कर्ष इति उत्पूर्वककृषिधात्वर्थविशेष- णत्वात् निरुपाधिकमिति द्वितीया, परायणत्वं च इतरप्राप्तीच्छानधीन- मुक्तगतेच्छाजन्यप्राप्तिकर्मत्वम् । प्राप्तिकर्मत्वरूपायनत्वघटकप्राप्तौ इतरप्राप्तीच्छानीनेच्छाजन्यत्वस्य परशब्दार्थत्वात् परविशेषणाच्चा- चिरादिव्यावृत्तिः । मुक्तोपसृप्यव्यपदेशादिति सूत्रेऽपीदृशमुक्तप्राप्य- त्वस्य परमात्मत्वसाधकत्वस्याभिमतत्वादेव नाचिरादौ व्यभिचारः । यद्वा-परायणत्वबटकप्राप्यत्वमेव इतरेच्छानधीनेच्छाप्रयोज्यचेतन- कर्तृकप्राप्तिविषयत्वं, इष्टतमत्वस्य कर्मत्वघटकत्वात् । तत्र परत्वं च उत्कर्षानवधित्वे सति स्थिरत्वम् । अतः उक्तानां गुणानां लिङ्गानां आकाशवाक्य एव विद्यमानत्वात् तद्वाक्यगतं आकाशत्वं स्वप्रकाशत्व- रूपमेवेति बोध्यम् ॥ सुवार्थस्तु-आकाशादेवेति वाक्यगताकाशपदतात्पर्यविषयः आकाशपदरूड्यर्थात् भिन्नः, रूढिवाधकानां लिङ्गानां उक्तवाक्य ३.६ आकाशाधिकरणविचार:. .. एव सत्त्वादिति पूर्वसूत्रादनुकृष्टस्य विधेयवाचकस्य अस्य पदस्याकाश- पदरूढ्यर्थभिन्नपरत्वात् , सूत्रस्थाकाशपदस्य तद्वाक्यगताकाशपदतात्प- यविषये लक्षणास्वीकारात् । अन्यथा-आकाशपदतात्पर्यविषयत्वाव- च्छेदेन उक्तभेदसाधने आत्मन आकाश इति वाक्यप्रतिपन्ने बाधात् ; ब्रह्मपरत्वकोटिकतया संशयिताकाशपदतात्पर्यविषये लक्षणास्वीकारे च आकाशोऽर्थान्तरत्वादिव्यपदेशादित्यस्यानुत्थितिः ; भूतपरत्वब्रह्म- परत्वोभयकोटिकसंशयनिवेशेऽपि दहराधिकरणानुत्थितिरिति उक्त- वाक्यघटकाकाशपदतात्पर्यविषय एव लक्षणा युक्तेति बोध्यम् ॥ यत्तु-आकाशपदस्य योगपक्षे गौरवमभिहितं, तत्तु-सार्वज्ञ्यसत्य- सङ्कल्पत्वाद्यनन्तगुणप्रतिपादकानन्तवेदवाक्यानां लक्षणाप्रयुक्तगौरवा- पेक्षया अल्पीय इति न दोषावहम् । उक्तं च श्रीभाष्ये- "अनेकवाक्यगतिसामान्यं चैकेनानुवादसरूपेणान्यथाकर्तु न शक्यते ॥" -इति ॥ एवं चाचेतनविशेषत्वरूपाकाशत्वाविधानान्न बाधः । नापि पक्षता- विरह आकाशवाक्यस्य प्रकाशमानत्वविधायकत्वेऽपि कारणं चेतनं अचेतनं वेति विशेषानवगमेनाकाङ्क्षासत्त्वेन सिपाधयिपारूपपक्षतासद्भा- वात् , आ काशते स्वस्मै प्रकाशत इति टीकावाक्ये च स्वस्मा इत्यस्य स्वीयाय मुक्तायेत्यर्थः । तेनाकाशवाक्येन न चेतनत्वावगम इति पिषाधयिषोपपत्तिः ; तद्वाक्ये प्राप्यत्वोपयुक्तस्य मुक्तं प्रति भासमानत्व- स्यैव विवक्षितुमुचितत्वात् , अपेक्षितविधेरिति न्यायात् । यद्वा-स्वस्मा इत्यस्य आत्मन इत्येवार्थः ॥ न चैवं-स्वकर्तृकव्यवहारजनकतावच्छेदक- स्वनिरूपितविषयताश्रयत्वरूपचेतनत्वस्याकाशवाक्यादेव लाभात् सिषाधयिषारूपपक्षताविरहः शङ्कयः। ईक्षत्यधिकरणे हि अनुमानेन श्रुत्या च कारणस्याचेतनभेदसाधनमभिप्रेतं, श्रुतत्वाञ्चेति सूत्रेण श्रुत्याऽ प्यचेतनभेदसाधनात्। एवं चाकाशवाक्यस्य स्वप्रकाशत्वरूपयोगार्थता- ..
आकांशाधिकरणविचार: पक्षे अनुमानेन तत्साधनसम्भवेऽप्युक्ताकाशश्रुत्यैवाचेतनभेदसिद्ध्या सर्वधा अचेतनभेदो न सम्भवतीति पूर्वपक्षासम्भवात् । पूर्वपक्षस्तु रूढिपक्षमवलम्ब्यैवावतारित इति बोध्यम् ॥ न च-अस्मिन्नधिकरणे निखिलजगत्कारणत्वादिलिङ्गेनाकाशश्रुतेः रूढ्यर्थबाधाङ्गीकारो न युक्तः, पूर्वतन्त्रे क्वापि तथाऽनङ्गीकारादिति- वाच्यम्। आकाशादेवेत्याकाशप्रतिपादकस्य श्रुत्याभासतया श्रुतित्वाभावात् । तद्धर्मावच्छिन्नविषयकश्रुतित्वं च अप्रामाण्य- ज्ञानानास्कन्दितबोधजनकतद्धर्मावच्छिन्नविषयकनिरुत्तोपस्थितिजनक- त्वम् । एवं च गङ्गायां घोष इत्यत्र गङ्गापदस्य प्रवाहत्वावच्छिन्नो- पस्थितिजनकत्वेऽपि तादृशोपस्थितेरप्रामाण्यज्ञानानास्कन्दितबोध- जनकत्वाभावात् यथा श्रुत्याभासता, तत्र प्रवाहे घोषाधिकरणत्व- बाधेन प्रवाहबोधस्याप्रमाण्यज्ञानास्कन्दितत्वात् ; तथाऽकाशादेवेति वाक्यजन्याकाशत्वबोधस्यापि कारणत्वादिलिङ्गबाधेन अप्रामाण्य- ज्ञानास्कन्दितत्वेनाभासतैव । ततश्च लिङ्गेन बाधेऽपि नानुपपत्तिः ॥ उक्तञ्च टीकायां- “यथा गङ्गाशब्दः स्वार्थसमर्पणक्षमो भूतलधर्मतया प्रत्यक्ष- सिद्धघोषाधिकरणत्वलिङ्गविरोधेनान्वययोग्यस्वार्थप्रतिपादन - क्षमत्वाभावात् श्रुत्याभासः । एवं अकाशशब्दोऽपि योग्यार्थ- श्रुतिमूललिङ्गापेक्षया श्रुत्याभास एव ॥" -इति ॥ एवं श्रुतेः प्राबल्यं हि प्रथमोपस्थितिप्रयुक्तं, लिङ्गानां च बहुत्वप्रयुक्त- मिति प्रथमोपस्थितिप्रयुक्तप्राबल्यादपि बहुत्वप्रयुक्तम् ; तदेव बलवत् । विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् स्वधर्मत्वमिति न्यायात् ; 'अग्नी- पोमीयं पशुमालभेत' इत्युत्पत्तिवाक्ये 'देवतासम्बन्धेनावगतं पशो- हविष्ट्वं हृदयस्याग्रे अवद्यति' इत्यादिहृदयादिहविष्ट्वावगमकाने- आकाशाधिकरणविचारः. कवाक्यविरोधात् सद्वारकं व्यवस्थापितं पूर्वतन्त्रे । किञ्च द्विविधं हि लिङ्ग-शब्दसामर्थ्यमर्थसामर्थ्य चेति । तत्राचं श्रुतिलिङ्गेत्या- दिसूत्रे विवक्षितम् । तद्धि गौणमुख्यसाधारणम् । मुख्यासम्भवे गौणे विश्राम्यति । चरमन्तु वस्तुनो द्वैरूप्यायोगात् श्रुतेरेव बाधकम् । तद्यथा- 'सोमेन यजेत', 'आदित्यो यूपः', 'कृष्णलं श्रपयेत्' 'हस्तेनावयति' इत्यादौ सोमयागाभेदादिस्सामानाधिकरण्येनावगम्यते। न हि श्रौतोऽपि क्रियाद्रव्ययोरभेदः कृष्णलानां मुख्यः पाकः, हस्ता- देरवदानसामान्याङ्गत्वं वाऽङ्गीक्रियते, क्रियात्वस्य द्रव्यभेदव्याप्य- तया कृष्णलत्वादेः पाकाद्यभावव्याप्यतया च तथाविधलिङ्गेन श्रुते- र्बाधात् । न च-तत्र क्रियायां द्रव्याभेदस्य वाक्यार्थतया तबाधेन लिङ्गेन वाक्यस्यैव वाधः, न श्रुतेरिति-वाच्यम् ; तथा सति कारणे आकाशभेदस्यापि वाक्यार्थतया तद्बाधेऽपि श्रुतिबाधकत्वानापत्तेः ॥ ननु-ऐन्द्रया गार्हपत्यमुपतिष्ठत इत्यादावपि कथं श्रुतिलिङ्गयो- विरोधः । द्वितीयातृतीयाभ्यां प्रतियोग्यनुपरक्तशेपशेपिभावमात्र- बोधनात् , तादृशस्य च ऐद्रयाः शेषत्वस्य गार्हपत्यशेपित्वम्य च भिन्नप्रतियोगिसाधारणस्याविरोधात् । ऐन्द्रया इन्द्रं प्रति शेपत्वं गार्हपत्यस्य कां चिदाग्नेयी प्रति शेपित्वं चादाय श्रुतेरुपपत्तेः । द्वितीयान्तगार्हपत्यपदसमभिव्याहृततृतीयान्तैन्द्रीपदबोध्यं गार्हपत्य- निष्ठशोषतानिरूपितैन्द्रीनिष्ठशेषत्वं च वाक्यवेद्यं मन्त्रबोध्येन्द्रनिष्ठ- शेषितानिरूपितशेषत्वविरुद्धमिति वाक्यलिङ्गयोरेव विरोधात् , लिङ्गे- नैव वाक्यबाधापत्तेः॥ यदि च-अत्र न केवलवाक्येन लिङ्गस्य विरोधः, गार्हपत्यपदस्य इन्द्रे द्वितीयाया वा आधारत्वे लक्षणासम्भवात् ; किं तु वाक्यसहितया श्रुत्या । तथा च श्रुतिलिङ्गयोविरोधेऽपि इदमुदाहरणं भवति। अत आकाशाधिकरणविचारः एव पार्थसारथिना- "शेषशेपित्वं हि...श्रुत्यौन्द्रीगार्हपत्ययोः । उक्तमन्योन्यविषयनियमस्त्वेकवाक्यतः॥" इति कारिकया उक्तपूर्वपक्षं कृत्वा- "सत्यं वाक्यविरोधोऽस्ति श्रुतितोऽपि विरुध्यते । सहिते हि विरुध्येते न तु लिङ्गेन केवले ॥" इति समाहितमिति-विभाव्यते । तदा सोमेन यजेतेत्यादावपि श्रुतिलिङ्गविरोधे लिङ्गेन सोमपदश्रुतेः यथाश्रुतार्थ परित्यज्य मतु- बन्तार्थलक्षणास्वीकाररूपो बाधोऽस्त्येवेति, तद्वत् आकाशादेदेत्यादावपि चेतनाचेतनात्मककृत्स्नजगदुपादानताभिन्ननिमित्ततारूपेणार्थसामर्थ्य- रूपलिङ्गेनाकाशश्रुतेर्बाधो युज्यत एव ॥ न च-प्रत्यक्षाधवगतस्यार्थ- सामर्थ्यात्मकलिङ्गस्य श्रुत्या बाधासम्भवेऽपि शब्दैकगग्यस्य तस्य श्रुत्या बाधस्सम्भवत्येव ; 'कदा चन स्तरिरसि' इति मन्त्रे इन्द्र- पदस्येन्द्रप्रकाशनसामर्थ्यबाधवत् ईक्षतिधातोरप्याकाशश्रुत्या सङ्कल्पा- र्थकत्वबाधसम्भवेन निमित्तत्वस्यापि बाधोपपत्तेरिति-वाच्यम् ; पुरोवादानुरोधेनानुवादस्य नेयतायास्सर्वसिद्धत्वेन पुरोवादभूतसद्वि- द्यागतेक्षणस्याकाशश्रुत्या बाधायोगात् ; अन्यथा उत्पत्तिशिष्ट- द्रव्यादेरपि उत्पन्नशिष्टद्रव्यादिना बाधापत्तेः । एवं तत्त्वबुभुत्सया प्रश्नस्थलेऽपि बहुशश्चेतनकारणताग्राहकश्रुतिलिङ्गानां दर्शनेन तेषां स्तुतिपरत्या अन्यथासिद्धचसम्भवेन सत्सहकृतपरश्शतलिङ्गैराकाश- श्रुतेर्बाधो युक्त एव ॥ यद्यपि-अत्राधिकरणद्वयस्य ऐकरूप्येण धर्मशब्देन लिङ्गशब्देन वा हेतूपस्थापनं सम्भवति, अथवा पूर्वाधि- करणे धर्मलिङ्गान्यतरशब्देन हेतुं निर्दिश्य आकशश्चेति वा निर्देष्टुं शक्यम् ; चशब्दमहिम्ना पूर्वहेत्वनुकर्षसिद्धेः। तथाऽपि पूर्वाधिकरणे धर्मशब्दनात्र च लिङ्गशब्देन हेतुं निर्दिशतोऽयं भावोऽवगम्यते ;
आकाशाधिकरणविचारः श्रुत्यवलम्बनपूर्वपक्षस्य लिङ्गमात्रेण निरासासम्भवेऽपि अनन्यथा- सिद्धत्वरूपप्राबल्यवल्लिङ्गेन निरासस्सम्भवतीति लिङ्गपदस्या- नन्यथासिद्धत्वरूपप्राबल्यविशिष्टपरत्वात् । तत्रापि लिङ्गादिति विहाय तल्लिङ्गादित्युक्तिस्तु चेतनत्वग्राहकश्रुतिबोधनायेति बोध्यम् ।। अद्वैतवादिनस्तु--आकाशशब्दस्य 'आत्मन आकाशस्सम्भूतः' इत्यादिश्रुतिषु भूतविशेष इव 'आकाशो ह वै नामरूपयोनिहिता' इत्यादौ ब्रह्मण्यपि प्रयोगदर्शनेन आकाशादेवेतिवाक्यगताकाशपद- तात्पर्यविषयस्य भूतत्वब्रह्मत्वाभ्यां सन्देहे भूतविशेषनिरूढप्रथमानुप- जातविरोध्याकाशपदानुरोधेन बहून्यपि चरमाणि सर्वकारणत्वज्या- यस्त्वानन्तत्वादीनि भताकाशे कथं चिद्योज्यानीति प्राप्ते ; यद्यप्या- काशपदं सर्वाणीत्यादितः प्रथम, तथाऽपि परिहारवाक्यस्थाकाशपदा- दपि प्रथमानुपजातविरोधिप्रश्नानुसारेण उत्तरवाक्यस्य नेयत्वात् , 'अस्य लोकस्य का गतिः' इति प्रश्नस्य च दृश्यमानसर्वप्रपञ्चविषयत्वात् सर्व- लोकगतिरेवाकाशपदेन प्रतिवक्तव्या । न च सर्वलोकान्तर्गतो भूता- काशस्सर्वलोकगतिः, किं च सर्वकारणत्वादिबहनुग्रहार्थमेकमाकाशपदं जघन्यवृत्त्या ब्रह्मपरं, . 'त्यजेदेकं कुलस्यार्थे' इति न्यायात् ; तस्मा- सोपाधिकं ब्रह्मवाकाशपदेन उपास्यत्वेन उपक्षिप्तमिति सिद्धान्तः।। ---इति वदन्ति ॥ तन्न । यतः संशये कोटिद्वयसमानाधिकरणधर्मवत्ताज्ञानस्यैव साधारणधर्मवत्ताज्ञानविधया संशयहेतुत्वं, न तु कोटिद्वयसम्बन्धिधर्म- वत्ताज्ञानस्य तथा, आत्मनि नित्यत्वतदभावसहचरितद्रव्यत्ववत्ता- ज्ञानस्य आत्मा नित्यो न वेति संशयहेतुत्वेऽपि नित्यत्वतदभाव- विषयकज्ञानवत्ताज्ञानस्य तथात्वाभावात् ॥ यद्यपि साधारणधर्मवत्ताजानस्य कोटयुपस्थितिद्वारा संशयहेतुत्वं संशयजनककोट्युपस्थितिजनकत्वरूपं सम्बन्धान्तरेण कोटिद्वयविशिष्ट- आकाशाधिकरणविचारः. ४१ ४ .. धर्मवत्ताज्ञानस्यापि कोटयुपस्थितिहेतुत्वादक्षतं ; सम्बन्धिज्ञानस्य सम्बन्ध्यन्तरस्मारकत्वात् । तथापि-साधारणधर्मवत्ताज्ञानजन्य- कोट्युपस्थितेरेव संशयहेतुत्वात् सम्बन्धान्तरेण कोटिसम्बद्धधर्मवत्ता- ज्ञानजन्योपस्थितेः तद्धेतुत्वाभावात् सम्बन्धान्तरेण कोटिसम्बद्धज्ञानं न संशयहेतुः ॥ एवं च-आकाशपदतात्पर्यविषये आकाशब्रह्मोभयबोधकांकाशपद- बोध्यताज्ञानात् आकाशो भूताकाशो ब्रह्म वेति संशयवर्णनमयुक्तम्। न च-आकाशपदस्य स्वनिरूपितवृत्तिमत्तासम्बन्धेन भूताकाशत्वब्रह्म- त्वोमयसमानाधिकरणतया तेन सम्बन्धेन तद्वत्त्वस्याकाशपदतात्प- यविषये सत्त्वात् उभयत्र आकाशपदप्रयोगज्ञानस्य साधारणधर्म- वत्ताज्ञानविधया हेतुत्वोपपत्तिरिति-वाच्यम् ; अश्रुतवेदान्तस्य ब्रह्मणि आकाशपदवृत्तिज्ञानाभावेन आकाशपदे उभयसाहचर्यज्ञाना- भावेन संशयायोगात् , तेन 'सर्वाणि ह वा इमानि भूतानि' इति वाक्यस्थाकाशशब्दवत् 'आकाशो ह वै नामरूपयोर्निर्वहिता' इति वाक्यस्थाकाशपदस्यापि ब्रह्मविषयत्वानिश्चयात् श्रुतवेदान्तस्या- काशादेवेत्यत्रापि ब्रह्मपरत्वनिश्चयेन संशयासम्भवात् ॥ यद्यपिएकोनसहस्राधिकरणन्यायेन आकाशो ह वा इति वाक्यस्य परमात्मविषयत्वसम्प्रतिपत्तिस्सुवचा । किं च 'यदेष आकाश आनन्दो न स्यात्' इत्यादौ पूर्वाधिकरण एव प्रतिपादित- परब्रह्मप्रतिपादकानन्दवल्लीगताकाशपदस्य ब्रह्मणि प्रयोगात् संश- योपपत्तिः । तथापि-चिदचिद्विलक्षणब्रह्मासम्भवरूपलक्ष्यासम्भवप्र- युक्तलक्षणासम्भवनिरासात्मकायोगव्यवच्छेदस्य प्रथमपादसाध्यत्वेना- तिव्याप्तिपरिहारकत्वरूपान्ययोगव्यवच्छेदपरतयाऽधिकरणयोजनस्या- युक्तत्वेन तथा संशयवर्गनायोगात्॥न च-एतत्पूर्वैरधिकरणैरेव चिद- १. (दि) तेन पुरपेणेत्यर्थः ॥ 6 आकाशाधिकरणपिचार:. चिद्विलक्षणब्रह्मसिद्धया उक्तसंशयोपपत्तिरिति-वाच्यम् ; 'सदेव सो- म्येदमग्र आसीत्', 'ब्रह्मविदाप्नोति परं', 'आत्मन आकाशस्सम्भूतः' इत्यादिसद्ब्रह्मात्मादिशब्दानां साधारणानामाकाशप्राणेन्द्रादिविशेष- पर्यवसाने सति चिदचिद्विलक्षणकारणास्तित्वासिद्धेः ; ईक्षणानन्द- विशेषानुगुणतया नेयत्वे सत्येव तत्सिद्धेश्च । अत उक्तरीत्या साधारणधर्मवत्ताज्ञानात् संशयोपपादनमयुक्तम् ॥ यदपि-मूताकाशः परमेश्वरो वेत्याकाशशब्दलिङ्गाम्यां संशय इति न्यायरक्षामगायुक्तम् ; तदपि न-आकाशश्रुतेरेव सत्त्वेन लिङ्गा- भावात् , अपरिच्छिन्नत्वरूपानन्तत्वस्य शुद्धब्रह्मलिङ्गत्वेन परमेश्वर- लिङ्गत्वाभावात् ॥ न च-परिमाणाधिक्यरूपं गुणाधिक्यरूपं वा ज्यायस्त्वं ईश्वरलिङ्ग अस्तीति-वाच्यम् ; तथा सति आकाशपदतात्पर्यविषयो मताकाशः परमेश्वरः शुद्धं वेति निकोटिकसंशयापत्तेः । न च-विशिष्टशुद्धयो- स्तादात्म्यात् शुद्धलिङ्गमपि स्वाश्रयतादात्म्येन विशिष्टे अस्तीति शुद्धस्य संशयकोटित्वमिति-वाच्यम् ; तथा सति स्वाश्रयतादात्म्य- सम्बन्धेन ब्रह्मधर्माणां भूताकाशेऽपि सत्त्वेन भूताकाशत्वनिब्धयस्यैव युक्तत्वेन संशयानुपपत्तेः । अत एव कार्यगतहिरण्यश्मश्रुत्वादेः कारणे उक्तसम्बन्धेन व्यपदेश इति पूर्वाधिकरणे भवद्भिरङ्गीकृतम् । एवमाकाशशब्दस्य ब्रह्मणि गौणवृत्तिप्रतिपादनमपि न युक्तम् ; शक्तिसम्भवे लक्षणाया एवायुक्तत्वेन गोण्या अत्यन्तायुक्तत्वात् , अपशूद्राधिकरणे जगद्वाचित्वाधिकरणे च शूद्रशब्दस्य कर्मशब्दस्य च शङ्करभाष्येऽपि योगशक्तेरेवाङ्गीकारात् , अन्यथा तत्रापि रूल्य- थबाधेन लक्षणाया एवाङ्गीकारापत्तेः ॥ यत्तु-पद्मान्यविशेप्यकपङ्कजनिकर्तृत्वप्रकारकशाब्दत्वावच्छिन्नं प्रति पङ्कजपदं पझे शक्तमिति रूढिज्ञानत्येन प्रतिबन्धकता, अन्यथा आकाशाधिकरणविचार:. केवलयोगशक्तया कुमुदादिवोधापत्तेः । तत्र शाब्दबोधे पङ्कज- पदजन्यत्वं निवेश्यं; अन्यथा कर्दमजादिपदात् पङ्कजनिकतृत्वेन कुमुदादिबोधस्य अनुदयप्रसङ्गात्। तत्राप्यवयवशक्त्या पङ्कजपदजन्यत्वं निवेश्यम् । तेन समुदायलक्षणया पङ्कजपदात् पङ्कजनिकर्तृत्वेन कुमुदादिबोधस्य उक्तरूटिज्ञानकाले सम्भवेऽपि न क्षतिः । एवं पद्मान्यविशेष्यकत्वं पद्मत्वानवच्छिन्नविशेष्यताकत्वं तेन कुमुदादादेव पद्मत्वेन भ्रमात्मकरूढिज्ञानकाले न ताद्रूप्येण कुमुदादिबोधानुपपत्तिः। एवं च-प्रकृतेऽपि आकाशपदं महाभूतविशेषे रूढमिति रुढिज्ञानस्य आकाशान्यविशेष्यकावयवशक्तिज्ञानजन्यप्रकाशमानत्वरूपयोगार्थबोधं प्रति प्रतिवन्धकत्वावश्यकतया योगेन ब्रह्मबोधासम्भवात् ब्रह्मण्या- काशपदस्य लक्षणा आवश्यकी । शूद्रादिशब्दजन्ययोगार्थबोधे च न जातिविशेपे रूढिज्ञानस्य प्रतिवन्धकत्वम् ; तस्य जातिविशेषा- वच्छिन्ने योगरूढत्वाभावात् , मण्डपपदादेरिव यौगिकरूढताया एव स्वीकारात् । आकाशपदस्य च योगरूढत्वेन तत्र योगेन आकाशा- न्यबोधो न सम्भवति । अत एव-प्रोदात्रधिकरणे उद्गातृपदस्य योगेन प्रस्तोत्रादिबोधकत्वसम्मवेऽपि ऋत्विग्विशेषे रूढिज्ञानस्य प्रतिबन्धकत्वाभिप्रायेणैव लक्षणा समाश्रिता । तस्मात् श्रीभाष्ये आकाशपदस्य ब्रह्मणि योगवर्णनमयुक्तम् ॥ -इति ॥ तन्न । योगरूढत्वं हि-रूढिशक्यतावच्छेदकसमानाधिकरणयोंग- शक्यतावच्छेदककत्वं, न तु रूढिशक्यतावच्छेदकव्यापकतत्कत्वम् ; सथा सति स्थलपद्मनाभीपद्मादिसाधारणपद्मत्वं प्रति पङ्कजनिकर्तृ- त्वस्य व्यापकत्वाभावेन पङ्कजपदस्यापि योगरूढत्वानुपपत्तेः। न च- नाभीगतपद्मतात्पर्येण पङ्कजपदप्रयोगोऽप्रामाणिक इति-वाच्यम् । 'रिरक्षिपोचितजगतीपरम्परापरामिव प्रथयति नाभिपङ्कजम्' इति श्रीरङ्गराजस्तवे अभियुक्ततमानां प्रयोगदर्शनात् ॥
आकाशाधिकरणविचारः. यदि च--तत्र उपमाद्यर्थवर्णनेन नाभीगतपद्मतात्पर्यकत्वं नास्ति इत्युच्यते। तदाऽपि-'हेमाम्भोजैनिविडनिकटै रामसीतोपनीतैः' इति प्रयोगविषयस्वर्णपद्मसाधारणपद्मत्वव्यापकत्वाभावात् योगशक्यताव- च्छेदकस्येति योगरूढत्वानुपपत्तिरम्भोजपदस्य दुर्वारैव । एवं च- शूद्रादिसाधारणशोचितृवाचकशूद्रशब्दस्यापि योगरूढतया तत्रापि केवलयोगार्थबोधानुपपत्त्या उक्तप्रतिवध्यप्रतिबन्धकमावस्यैवाप्रामाणि कत्वात्, चिन्तामणिकृता रूढिज्ञानप्रतिबन्धकताया अस्वीकाराच । अत एव–पङ्कजनिकर्तृत्वनिष्ठप्रकारतानिरूपितविशेप्यतावच्छेदकतास- म्बन्धेन शाब्दं प्रति तादात्म्येन पद्मत्वं हेतुरिति न केवलयोगेन कुमुदादेधिप्रसङ्गः, पद्मत्वं प्रयोगोपाधिरिति प्राचीनप्रवादस्यापि उक्त एवार्थ इति मीमांसकमतमपि निरस्तम् । शूद्रशब्दात् केवल- योगार्थबोधाङ्गीकारस्यापशूद्राधिकरणसिद्धस्यानुपपत्तेः । प्रोगावधि- करणे भाष्यकारादिभिः लक्षणया उद्भातृप्रस्तोतृप्रतिहर्तृरूपऋत्विक्च- तुष्टयपरत्वस्य शास्त्रदीपिकाकृता सुब्रह्मण्यातिरिक्तत्रितयपरत्वस्य चाङ्गीकारेऽपि नवीनर्योगेनैक त्रितयपरत्वस्वीकारादपि नोक्तप्रति- बन्धकतासम्भवः ॥ भाट्टदीपिकायां-"प्रेतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातृणां प्र यजमानस्य" इति मन्त्रे उदातृपदरूढ्यर्थस्य बहुत्वासम्भवात् बहुवचनस्य एकत्वे लक्षणा । न चास्य मन्त्रस्य सर्वतोमुखादा- वुत्कर्षप्रतिपादकस्य वा विलक्षणा योगो वेति वाच्यम् ; गुण- भूतप्रत्ययानुरोधेन प्रधानभूतप्रातिपदिके त्रिविधाया अपि अन्याय्य- कल्पनाया अनुपपत्तेः-इत्याशङ्कय ; उदातृशब्दो यौगिक एव, उत्पूर्वकगाधातोः 'उद्गायतीनामरविन्दलोचनम्' इत्यादौ उत्कृष्टगान- मात्रे प्रयोगेण सामविशेषे रूढिविरहात् , ऋत्विग्विशेषे प्रयोगस्य .
आकाशाधिकरणविचारः. - निरूढलक्षणयाऽप्युपपत्तेः । तस्मादुगातृशब्दो योगेन त्रितयपरः- इति सिद्धन्तितम् ; आकाशपदं च शुद्धयौगिकमेवेति तत्वमार्तण्डे उक्तम् ॥ तथा च-योगजन्यबोधस्य सर्वसिद्धत्वात् शाब्दप्रत्यक्षयोः युगपदु- त्पत्त्यङ्गीकारेण एकसामग्रचा अपरबुद्धिप्रतिबन्धकताविरहाच्च योग- पक्षे न गौरवमिति दिक् ॥ ॥ श्रीः ॥ शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादार्थोऽयं विजृम्भताम् ॥ इति श्रीशेपार्यवंशमुक्ताफलस्य श्रीयादवाद्रिनिवासरसिकस्य श्रीमदनन्तार्यवर्यस्य कृतिपु आकाशाधिकरणविचारः समातः ॥
No text on this page.
॥ श्रीः ॥ ईक्षत्यधिकरणविचारः नत्वा श्रीशपदाब्जे स्तुत्वा पहिं गुरूणां च । ईक्षतिनीतिविचारं तनुतेऽनन्तार्यदासोऽयम् ।। पूर्वोत्तरद्विकभेदभिन्ने शारीरकशास्त्रे प्रथमद्विकेन प्रमेयत्वव्यापक- कार्यतानिरूपितकारणत्वस्य ब्रह्मलक्षणत्वमुपपाद्यत इति तादृशलक्षण- त्वोपपादनपरत्वं पूर्वद्विकस्योपाधिः। तस्य लक्षणत्वोपपादनं च- असम्भवातिव्याप्तिशङ्कावारकतया कार्यतायां प्रमेयत्वव्यापकत्वोप- पादनेन च-इति द्वेधा भवति । तत्रासम्भवातिव्याप्तिशङ्का श्रुति- विप्रतिपत्तिप्रयुक्ता वादिविप्रतिपत्तिप्रयुक्ता चेति द्विविधा । तत्र श्रुति- विप्रतिपत्तिप्रयुक्तासम्भवशङ्का प्रथमपादेन, तादृशातिव्याप्तिशङ्का च त्रिपाद्या; वादिविप्रतिपत्तिप्रयुक्तासम्भवातिव्याप्तिशङ्का च द्वितीया- ध्यायगतेन प्राथमिकेन पादद्वयेन क्रियत इति षट्पाद्यास्तादृश- शङ्कावारकत्वं; अनन्तरपादद्वयस्य च कार्यतायां प्रमेयत्वव्यापक- त्वोपपादनपरत्वमिति अध्यायद्वयस्य उपाध्युपपत्तिः ॥ तत्र श्रुतिविप्रतिपत्तिप्रयुक्तासम्भवातिव्याप्तिशङ्कावारकत्वं प्रथमा- ध्यायस्य, तादृशासम्भवशङ्कावारकत्वं च प्रथमपादत्योपाधिः ॥ यद्यपि-असम्भवशङ्कावारकत्वं प्रथमपादस्य न सम्भवति ; चिद्- चिद्विलक्षणब्रह्मासिद्धिशङ्कामुखेन तादृशब्रह्मसद्भावस्थापनपरत्वात् , %3 २ ईक्षत्यधिकरणविचारः. लक्ष्याभ्युपगमेन लक्षणाभावशङ्काया एवासम्भवशङ्कारूपत्वात् , अत्र च तादृशब्रह्मानभ्युपगमेनैव पूर्वरक्षप्रवृत्तेः । तथाऽपि-तादृशब्रह्म- नास्तित्वशङ्कानिरासकत्वमेवासम्भवशङ्कावारकत्वमित्यनेन विवक्षितं; असम्भवपदस्य लक्ष्यासम्भवप्रयुक्तलक्षणासम्भवपरत्वात् । एवं च- प्रधानादिकमेव जगत्कारणमिति ब्रह्मानभ्युपगमेन प्रवृत्तासम्भवशङ्का- वारकः प्रथमपादः, त्रिपादी च ब्रह्म जगत्कारणमस्तु प्रधानादिकमपि तथा स्यादित्यतिव्याप्तिशङ्कानिरासिकेति विभागः ॥ ननु एतादृशविभागो निर्मूल:---इति चेन्न ; विषयवाक्यस्वारस्या- सूत्रस्वारस्याचोक्तविभागसिद्धेः। तथा हि-सद्विद्या तावत् सर्वेषु कारण- वाक्येषु प्रधानभूता; तदितरकारणवाक्यानां प्रसिद्ध्यर्थकवैपदघटि- तत्वेन तदर्थानुवादकत्वात् , व्यष्टिसमष्टिसृष्टिनिवृत्करणादीनां सृष्टय- पयुक्तानां वहूनामर्थानां प्रतिपादनाच्च । अतस्तस्याः प्रधानपरत्वे सर्वेषां वेदान्तानां तत्परत्वमनिवार्यम् ; एवमानन्दवल्लयाः जीवपरत्वे भृग्वानन्दवल्लयोः समानार्थकत्वात् भृगुवल्लीस्थलक्षणवाक्यस्य जीवपरत्वे सति तदितरेपामपि तत्परत्वमनिवार्यम् । एवमाकाशप्राणज्योति- रिन्द्रादिपदानां विशेषसमर्पकतया तेषां प्रसिद्धाकाशादिपरत्वे वाक्या- न्तराणामपि तत्परत्वमनिवार्यमिति प्राधान्यलक्षणवाक्यैकवाक्यत्व- विशेषसमर्पकत्वादीनां प्रथमपादोदाहरणेषु सत्त्वात् , त्रिपाद्युदाहरणे- प्वसत्त्वात्। उक्तविषयवाक्यगतविशेषात् तादृशविभागस्सिध्यति, एवं सूत्रस्वारस्यादपि विभागस्सिध्यति; त्रिपाद्यां आनुमानिकमप्येकपा- मित्यत्र अपिशव्दप्रयोगेण तादृशविभागसूचनात् ॥ अत एव कल्पतरुपन्थे आनुमानिकाधिकरणे- "पूर्वत्र हि प्रधानायेव जगत्कारणमिति प्रत्यवस्थितं परमात्म- निषेधेन, इह तु तनभ्युपेत्य प्रधानाधपि कारणमिति प्रत्य- इक्षत्यधिकरणविचारः ३ वस्थीयते। सूत्रकारोऽपि अपिशब्दं प्रयुञ्जानो ब्रह्माभ्युपगमेन क्वाचित्कोऽयं विचार इति सूचयामास" -इत्युक्तम् ॥ तदधीनत्वादर्थवदित्यानुमानिकाधिकरणगुणसूत्रे पाराशर्यविजयेऽ- प्युक्तम्- "प्रथमसूत्रे अपिशब्देन समुच्चेतव्यतया प्रकृतत्वात् तच्छब्देन परमपुरुषः परामृश्यते" ---इति ॥ यदि च-आनुमानिकाधिकरणे निरीश्वरसाङ्ख्यस्य पूर्वपक्षित्वात् तेन ब्रह्माभ्युपगमपूर्वकमतिव्याप्तिशङ्काकरणं न युज्यते । न च-तत्र सेश्वरसाङ्ख्य एव पूर्वपक्षी, अत एव प्रकृतिश्चेत्यधिकरणे तदभिमत- निमित्तेश्वरवादनिरासो युज्यत इति-वाच्यम् ; तथा सति भाप्यादौ पुरुषान्न परं किञ्चिदिति पञ्चविंशपुरुषातिरिक्ततत्त्वनिषेधपूर्वकं पूर्व- पक्षवर्णनानुपपत्तेः, आनुमानिकाद्यधिकरणेषु निरीश्वरसाचं प्रति- क्षिप्य प्रकृत्यधिकरणे सेश्वरसाङ्ख्यप्रतिक्षेपसम्भवाच्च, सूत्रस्थापि- शब्देन महदादीनामेव समुच्चयः, न ब्रह्मणः ; शास्त्रमात्रे ब्रह्मणो बुद्धिस्थ- त्वात् , तच्छब्दस्य सर्वनामत्वाच्च। तदधीनत्वादित्यत्र तञ्छब्देन ब्रह्मपरामर्शसम्भवात् अपिशब्देन ब्रह्मणस्समुच्चयविरहेऽपि न क्षतिः । तथा चोक्तापिशब्दस्य निरुक्तविभागसूचकत्वमनुपपन्नम्- इति विभाव्यते॥ तदाऽपि-उक्तविभागो यूज्यत एव । तथा हि- प्रथमपादे प्रथमसूत्रात् प्रधानतया विपरिणतब्रह्मपदस्य द्वितीय- सूत्र इव ईशत्यधिकरणादावन्वयेन सदीक्षतेरिति न्यायेन साध्य- लाभसम्भवेऽपि नाशब्दमिति साध्यं निर्दिष्टम् ॥ अन्तत्तद्धर्मोपदेशा-- दित्यत्र भेदव्यपदेशाच्चान्य इति साध्यं निर्दिष्टम् । अयं च निर्देशो ब्रह्मशब्दस्य अननुवृत्तिज्ञापकः; इतः पूर्वं चिदचिद्विलक्षणब्रह्मणो- ऽप्रसिद्ध्या तस्य तादात्म्येन साध्यत्वे साध्याप्रसिद्धिप्रसङ्गात् । प्रथमपादे तादृशब्रह्मसिद्धौ तस्य त्रिपाद्यां साध्यत्वं सम्भवति । - ५.
ईक्षत्यधिकरणविचारः. ४ न च-प्रथमपादे ब्रह्मपदाननुवृत्तौ त्रिपाद्यामपि तदननुवृत्त्या साध्यलाभो न युक्त इति-वाच्यम् ; द्वितीयपादे 'अत एव च स ब्रह्म' इति ब्रह्मपदस्य, तृतीयपादे 'ईक्षतिकर्मव्यपदेशात्सः' इत्युक्ततच्छब्दस्य, चतुर्थपादे 'प्राज्ञो हि प्रकरणात्' इति प्राज्ञशब्दस्य च साध्यसमर्प- कत्वेन ब्रह्मशब्दाननुवृत्तावपि बाधकविरहात् ॥ वस्तुतस्तु-ब्रह्मपदप्राज्ञपदयोराक्षेपपरिहारार्थत्वेनान्यार्थत्वात् साध्यसमर्पकत्वाभावेऽपि न क्षतिः; स इत्यस्यैव सर्वत्र साध्यसमर्प- कत्वसम्भवादीक्षतिकर्माधिकरणस्य त्रिपादीमध्यमपादमध्यमाधिकरण- त्वेन तद्गतस्य स इत्यस्य मध्यमणिन्यायेन पूर्वोत्तराधिकरणेप्वन्वय- सम्भव.त् , तदुर्यपीत्यावधिकरणत्रयरय प्रासङ्गिकगर्भाधिकरणत्वेना- स्याधिकरणरय पादमध्यत्वोपपत्तेः। स इत्यस्य साध्यसमर्पकत्वाभावे वैयर्थ्य य दुप्परिहरत्वात् ॥ यद्यपि-स इत्यरय वेदान्तवेद्यदेवताविशेषनिर्धारकतया सार्थक्यं सम्भवति ; 'परात्परं पुरिशयं पुरुषमीक्षते' इत्युक्तपुरुपपदार्थस्यैव स इत्यनेन परामर्शात् ; पुरुषपदत्य विष्ण्वसाधारण्यं च स्कान्दे- "यथाशङ्करशब्दोऽयं महादेवेऽवतिष्ठते । तथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते ॥". इत्यनेकाप नसिद्धम् । तथाऽपि-स इत्यस्य सर्वत्रान्वय एव सकल- वेदान्तप्रतिपाद्यत्वं देवताविशेषस्य सिध्यतीति तस्य साध्यसमर्पकत्व- मावश्यकम् । एवं च-प्रथमपादे प्रधानादिभेदत्य साध्यत्वात् त्रिपाद्यां च ब्रह्मणस्साध्यत्वात् निरुक्तविभागसिध्यति ॥ ननु-प्रथमपादस्य ब्रह्मानभ्युपगमेन प्रवृत्तशङ्कानिराप्तकत्वमिति न युक्तं ; ईक्षत्यधिकरणे गतिसामान्यादिति सिद्धान्तहेतोरसङ्गतेः, ब्रह्मकारणत्वपरोपनिषदन्तरसाम्यात् सद्विद्याया अपि ब्रह्मपरत्व- मावश्यकमिति तत्सूत्राभिप्रायात् । एवमानन्दमयाधिकरणस्य जग- ५ आनन्द- ईक्षत्यधिकरणविचारः. कारणं जीव इति पूर्वपक्षनिरासार्थकत्वे जीवासम्भावितधर्मप्रतिपादक. सकलश्रुत्युपन्यासस्यैव युक्ततया आनन्दवल्लीमात्रनिर्णायकन्यायग्रथ- नानुपपत्तिः; श्रुतत्वाचेति पूर्वाधिकरणसूत्रोदातश्रुतिप्रतिपादित वा सम्भावितधमैरेव जीवातिरिक्तब्रह्मसिद्धेः ; 'अधिकोपदेशात्तु बादरा- यणस्यैवं तदर्शनात्', 'अधिकं तु भेदनिर्देशात्'-इत्यादिभिः कृतकर- त्वाच्च उक्ताधिकरणस्यैव वैयर्थ्यापत्तिश्चेति तदधिकरणस्यानन्द- वल्लीप्रतिपाद्यानन्दमयः किं जीवः ब्रह्म वेति विचारपरताया एव युक्त- त्वात् । एवं-'अन्तस्तद्धर्मोपदेशात्', 'आकाशस्तल्लिङ्गात्' इत्यत्र तच्छब्देन ब्रह्मपरामर्शात्तवटितहेतोरसिद्धिश्च-इति चेत् ॥ मैवम् ; गतिसामान्यशब्देन ईक्षणात्मकोपदेशपरोपनिषदन्तर- साम्यस्याचेतनभेदसाधकतया विवक्षितत्वान्नानुपपत्तिः । मयाधिकरणे जीवासम्भावितधर्मप्रतिपादकोपनिषदन्तरैर्जीवभेदसाधने ब्रह्मणो जीवभेदसिद्धावपि आनन्दमयो जीवस्स्यादिति शङ्कानिरासा- सम्भवात् । ब्रह्म जीवाभिन्नं, आनन्दमयो जीवः-इति शङ्काद्वय. निरासायानन्दवल्लीमात्रोदाहरणोपपत्तेः । अधिकोपदेशादित्यादिभिः कृतकरत्वासम्भवश्च वक्ष्यते ॥ सौत्रं तत्पदद्वयमपि न ब्रह्मपरामर्शकं; 'अन्तस्तद्धर्मोप- देशात्', 'आकाशस्तल्लिङ्गात्' इति सूत्रद्वयेऽपि भेदव्यपदेशाच्चान्य इत्य- तोऽन्य इत्यस्यानुवृत्त्या-अन्तरथः प्रसिद्धादित्यादन्यः, तद्धर्मोपदे- शात् , आदित्यान्यासाधारणधर्मोपदेशात् , आदित्यासम्भावितधर्मो- पदेशात् ; आकाशपदार्थः प्रसिद्धाकाशादन्यः, आकाशान्यलिङ्गात् , आकाशासम्भावितलिङ्गादित्यर्थात् , अन्यपदार्थस्यैव तच्छब्देन परा- मर्शात्। न च--तच्छब्दस्य निर्दिष्टपरामर्शकत्वेऽपि अनुवृत्तिलब्धार्थस्य परामर्शो न युक्तः, एवमादित्याद्यसम्भावितधर्मस्य विवक्षितत्वे 'न च स्मार्तमतद्धर्माभिलापात्' 'नानुमानमतच्छब्दात्' इति निर्देशवत् , इक्षत्यधिकरणविचारः अतद्धर्मात् अतल्लिङ्गादिति निर्देशापत्तिश्च ; अतो ब्रह्मपरामर्शकत्वमेव युक्तमिति-वाच्यम् ; स्वघटितग्रन्थघटकशब्दजन्योपस्थितिविषयत्वरूप- निर्दिष्टत्वस्य अनुवृत्तिलब्धार्थेऽपि सत्त्वात् ॥ नचस्मार्तमित्यत्र नञो भेदपरत्वेऽपि तद्विशिष्टवाचकत्वाभावेन नचस्मातमतद्धर्मादि- त्युक्ते भेदस्स्यादित्यर्थस्स्यादित्यगत्या गुरुभूतन्यायानुसरणात् तच्छब्दस्य ब्रह्मपरामर्शकत्वं स्वीकृत्य ब्रह्माभ्युपगमेन पूर्वपक्ष- स्वीकारे च भेदव्यपदेशाच्चान्य इति सूत्रासङ्गतिः। आदित्यमण्ड- लान्तस्स्थात् प्रसिद्धादित्यादन्यः य आदित्ये तिष्ठन्निति भेदव्यपदेशा- दिति हि तत्सूत्रार्थः, ब्रह्मणि आदित्यभेदस्य वाक्यान्तरसिद्धत्वेऽपि तद्वाक्यप्रतिपाद्यस्यादित्यत्वे विरोधाभावात् , ब्रह्मण्यादित्यभेदानङ्गी- कारेण पूर्वपक्षे च तत्सङ्गतेः ॥ यत्नु--अन्तरादित्यवाक्यस्यादित्यादन्तर इति श्रुतिस्वारस्यात् अन्तरादित्यविद्याप्रतिपाद्यादित्यादन्य इति तत्सूत्रार्थ इति अति- व्याप्तिनिरासपक्षेऽपि नासङ्गतिः- इति । तन्न ; तथा सति श्रुति- साम्यादिति निर्देशापत्तेः; किञ्च श्रुतिसाम्यं किं शब्दसाम्यं अर्थसाम्यं वा! नाद्यः-असिद्धेः, यत्किञ्चित्साम्यस्य च व्यभिचारित्वात् ; नान्त्यः-विग्रहविशिष्टस्य मण्डलान्तवृत्तित्वप्रतिपादिकायामन्तरा- दित्यविद्यायां अन्तरात्मत्वमात्रप्रतिपादकान्तर्यामिब्राह्मणसमानार्थ- कत्वासिद्धेः॥ यदपि-परमेश्वरत्वे पूर्वसूत्रेण समर्थिते परमेश्वर एव मण्डलाभि- मान्यस्त्विति शङ्कायां य आदित्ये तिष्ठन्निति भेदव्यपदेशात् पर- १ (पा.) भेदधर्मादित्यर्थस्स्यात. २ पा.) साम्यात्.
, ईक्षत्यधिकरणविचार:. मेश्वरो मण्डलाभिमानिनोऽन्य इत्यर्थः-इति। तदपि न; परस्परानु- पजीविसाम्यद्वयपरत्वेनाधिकरणभेदप्रसङ्गात् , चकारास्वारस्यापत्तेः, तस्य सूत्रद्वयेऽपि साध्यैक्यसूचकत्वात् ; तस्मादादित्यातिरिक्तब्रह्मा- सिद्धिशङ्कावारकत्व एवोक्तसूत्रं सङ्गतमिति असम्भववारकत्वं प्रथम- पादस्येति युक्तम् ॥ न च-उक्तप्रथमपादोपाधेः 'सुषुप्त्युत्क्रान्त्यो देन' 'पत्यादि- शब्देभ्यः' इति तृतीयपादसूत्रयोरतिव्याप्तिः, तयोर्मुक्तातिरिक्तब्रह्म- सद्भावव्यवस्थापकत्वात् ; एवं चतुर्थपादगतकारणत्वेन चाकाशादि- वित्याद्यधिकरणत्रयेऽप्यतिव्याप्तिः, तेषां प्रधानजीवव्यतिरिक्तब्रह्म- सद्भावव्यवस्थापकत्वादिति-वाच्यम् : स्पष्टनीवादिलिङ्गकवाक्यविचा- राभावस्य विशेषत्वात् , तृतीयचर्थपादयोः स्पष्टजीवादिलिङ्गकवाक्य- विचाररूपत्वादतिव्याप्तिविरहादिति दिक् ।। अत्र–प्रमेयत्वव्यापककार्यतानिरूपितकारणता चेतनाचेतनातिरि- क्तद्रव्यवृत्तिः, अचेतनवृत्तित्वाभावे सति चेतनवृत्तित्वाभावे सति उपादानतात्वात् , यत्र यदवृत्तित्वे सति उपादानतात्वं तत्र तद- तिरिक्तद्रव्यवृत्तित्वमिति व्याप्तेः, पटावृत्त्युपादानतायां पटातिरिक्त- मृदादिद्रव्यवृत्तित्वदर्शनात्-इत्यमुनानेन चिदचिद्विलक्षणब्रह्मसिद्धिं मनसि कृत्वा तत्र विशेषणासिद्धिविशेष्यासिद्धिवारकाणि सप्ताधि- करणानि वेदाचार्येण निबद्धानि। तत्र च-विशेषणासिद्धिपरिहारकाणि ईक्षत्यधिकरणाकाशाधिकरणज्योतिरधिकरणानि त्रीणि, आनन्दमया- धिकरणान्तरधिकरणप्राणाधिकरणेन्द्रप्राणाधिकरणानि चत्वारि विशे- प्यासिद्धिवारकाणि-इति विवेकः ।। न च-सूक्ष्मचिदचिच्छरीरकब्रह्मरूपविशिष्टनिष्ठायामुपादानतायां सिद्धान्ते विशेषणीभूतचिदचिन्निष्ठत्वस्यापि स्वीकारात् तद्वृत्तित्वाभाव- घटितहेतोरसिद्धिः, भगवच्छरीरत्वाभाववदचेतनवृत्तित्वाभावादेर्हेतु- ईशत्यधिकरणविचारः. घटकत्वेऽपि तथा, तादृशाचेतनादेसिद्धान्तेऽनङ्गीकारात् , साङ्ख्या- दिभिस्तदङ्गीकारेऽपि भगवत एवानङ्गीकारेण तदुटितहेतोरसिद्धिरिति- वाव्यम् ; यत्किञ्चिच्छरीरत्वाभाववच्चेतनाचेतनवृत्तित्वाभावयोः हेतु- घटकत्वात् । तत्र चेतनपदेन आश्रयत्वतादात्म्यान्यतरसम्बन्धेन युण्यवतो ग्रहणान्नासिद्धिः ; सिद्धान्ते भगवद्धर्मभूतज्ञानरूपनिग्रहानु- ग्रयोस्व पुण्यपापरूपतया तादात्म्येन तद्वतो भगवज्ज्ञानस्य किञ्चि- च्छरीरत्वाभावेन तद्वृत्तित्वाभावमादाय हेतूपपत्तेः, अचेतनपदेनास्वयं- प्रकाशस्य ग्रहणेन शरीरत्वाभाववदचेतनस्य गुणादेरेव प्रसिद्धेः । साध्यमपि तादृशचेतनाचेतनातिरिक्तद्रव्यवृत्तित्वमेवेत्युपादानतायां भगवच्छरीरभूतप्रधानवृत्तित्वस्याबाधात् विशिष्टनिष्ठत्वसिद्धिः ॥ तत्र तादृशाचेतनवृत्तित्वाभावोऽसिद्धः, सद्विद्यायाः स्वतन्त्रस्य प्रधानस्यैव जगत्कारणत्वबोधनादित्याशङ्कय निराकरोति-ईक्ष- ते शब्बमिति ॥ छान्दोग्ये श्रूयते-- “सदेव सोम्येदमग्र आसीत् , एकमेवाद्वितीयं, तदैक्षत बहुस्यां प्रजायेयेति, तत्तेजोऽसृजत, तत्तेज ऐक्षत बहुस्यां प्रजायेयेति, तदपोऽसृजत, ता आप ऐक्षन्त बह्वयस्याम प्रजायेमहीति, ता अन्नमसृजन्त ॥" -इति ॥ अत्र संशयः-सच्छब्दवाच्यं साङयोक्तं स्वतन्त्रं प्रधानं, उत तच्छरीरकं ब्रह्म ?-इति ॥ अत्र पूर्वपक्षः॥ सच्छब्दवाच्यं स्वतन्त्रं प्रधानमेव ; कुतः ? इदमिति त्रिगुणात्मकं प्रसिद्धमचेतनं कार्यं निर्दिश्य तस्य सदासीदेकमेवेति स्थूलावस्थाशून्यसद्रूपाभेदप्रतिपादनात् प्रत्यक्षसिद्धस्थूलावस्थाचेतना- भेदस्य ब्रह्मण्यसम्भवेन सत्पदस्य ब्रह्मपरत्वायोगात् । न च-इदंपद- मपि स्थूलजगच्छरीरकब्रह्मपरमिति नानुपपत्तिरिति-वाच्यम् ; जग- ॥ श्रीः॥ प्रतिज्ञावादः आराध्य वारिधिसुतादयितातियुग्ममानम्य लक्ष्मणयतीश्वरमादरेण। तोषाय सर्वविदुषां कुतुकात्प्रतिज्ञावादं सयुक्तिकमनन्तसुधीविधत्ते॥ इह खलु-प्रतिज्ञाविरोधात प्रतिज्ञाऽहानिरव्यतिरेकादित्यादिषु प्रतिपादिताया एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया विवेचनाय सद्वि- द्याघटकः कश्चिदंशो व्याख्यायते ॥ पिता तावदुद्दालकस्समस्तवेदवेदाङ्गपारीणं कर्ममीमांसोपचितमनसं श्वेतकेतुं प्रति पुत्रस्नेहेन ब्रह्मोपदिदिक्षुस्तस्य ब्रह्मजिज्ञासामुत्पादयितु- माह-'स्तब्धोस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतम- विज्ञातं विज्ञातम्' इति । स्तब्धोऽसि-निर्व्यापारोऽसीत्यर्थः ॥ यद्यपि-व्यापारसामान्याभावरूपं निर्व्यापारत्वं श्वेतकेतौ बाधितम्; तथापि अलौकिकपुरुषार्थप्रयोजकव्यापारशून्यत्वरूपं स्तब्ध त्वमबाधितमिति न दोषः । अलौकिकपुरुषार्थप्रयोजकव्यापारशून्यत्वं च प्रयोज्यतासम्बन्धेन मोक्षसाधनीभूतब्रह्मज्ञानेच्छाविशिष्टव्यापारा- भावरूपं ब्रह्मज्ञानेच्छाभावपर्यवसितं, विशेप्याधिकरणनिष्ठविशिष्टा- भावस्य विशेषणाभावरूपत्वात् । तथा च ब्रह्मज्ञानेच्छाभाववान् स्तब्ध- पदार्थः, असधात्वर्थः प्रमाविषयत्वरूपं सत्त्वं, तदेकदेशप्रमायां ब्रह्म- ज्ञानेच्छाविरहविशिष्टस्याभेदसम्बन्धावच्छिन्नप्रकारतासम्बन्धेनान्वया- दिच्छाविरहविशिष्टनिष्ठाभेदसम्बन्धावच्छिन्नप्रकारताकप्रमाविषयस्त्वं २ प्रतिज्ञावादः. --इति बोधः । तादृशेच्छाभावश्च-किं ब्रह्मज्ञानरूपविषयसिध्या, उत तत्रेष्टसाधनताज्ञानविरहात्?-इति सन्देहेन पृच्छति उत तमादेशम्' -इत्यादिना ॥ यद्यनि-एतस्य ब्रह्मज्ञानं नास्तीत्युद्दालकस्य निश्चयसत्त्वात्प्रश्नप्रयो- जकीभूतसन्देहो नोपपद्यते ; तथाऽपि आहार्यसन्देहेन प्रश्नोपपत्तिः। अत्र-आदेशशब्देन प्रशासिता प्रतिपाद्यते, आपूर्वकदिशधातोः प्रशा- सने प्रसिद्धेः; प्रशासनं-चेष्टाप्रयोजकेच्छा, भृत्यमादिशति नियम यतीत्यादौ भृत्यनिष्ठचेष्टाप्रयोजकेच्छाप्रतीतेः । सङ्कोचकमानाभावेन चेष्टासामान्यप्रयोजकेच्छावत्त्वरूपप्रशासितृत्वस्य स्थितिहेतुत्वरूप- पालकत्वे पर्यवसानेन शब्दात् स्थितिनिरूपितनिमित्तकारणत्वमात्र- लाभेऽपि उक्तादेशशब्दार्थविवरणरूपे उत्तरत्र तत्तेजोऽसृजतेति सृष्टिनिमित्तत्वस्यापि वचनादादेशशब्देन जगत्सृष्टयादिकर्तृत्वरूपं तन्निमित्तत्वमजहत्स्वार्थलक्षणया प्रतिपाद्यते । एतदभिप्रायेणैव प्राचा 'आदेशशब्देन जगन्निमित्तमुच्यते' इति व्याख्यामङ्गतिः। तच्छ- ब्देन प्रमाणप्रसिद्धत्वमुच्यते । तथा च-विश्वस्य कर्तेत्यादिप्रमाणप्रसिद्ध विश्वकर्तारमित्यर्थः । प्रमाणजन्यप्रमितिविषयत्वरूपप्रमाणप्रसिद्धत्वस्य आदेशपदार्थ जगत्कर्तृत्वविशिष्टेऽन्वयात्कर्तृत्वेऽपि प्रमाणसिद्धत्वमन्वे- तीति प्रमाणप्रतिपन्नकर्तृत्वलाभात्-ईश्वरो न जगत्कर्ता, तदुपादा- नत्वात्-इत्यनुमानस्यागमेन बाधस्सूचितः। अथवा-जगत्कर्तृत्वरय नैयायिकादिभिरभ्युपगमात्तदंशे विप्रतिपत्त्यभावसूचनाय तच्छब्दः । 'पृच्छधातोर्द्विकर्मकतया तमाचार्य जगन्निमित्तकारणं पृष्टवानसीत्यर्थः' -इत्यपि केचित् । न तूत्तरयच्छब्दसमानार्थकोयं तच्छब्दः, तथा सति यच्छब्दस्य प्रक्रान्तादेशत्वावच्छिन्नवाचितया तच्छब्दस्यापि तदर्थ- कत्वे आदेशपदार्थे तस्यानन्वयापत्तेः, घटो घट इत्यादाविव निराकास- त्वात ,प्रक्रान्तवाचियच्छब्दस्थले तच्छब्दापेक्षाविरहाच्च ; "साधु चन्द्र- प्रतिज्ञावादः. ३ . मप्ति पुष्करेः कृतं मीलितं यदभिरामताधिके"-इत्यादी तच्छब्दं विनाऽपि कृतपदोपस्थापितव्यापारस्याभेदेन मीलानन्वयितया यच्छ- देन बोधनात् । तदुक्तं सद्विद्याविजये-'तमादेशं प्रसिद्धं नियन्तारं, उतरयच्छब्दस्य तच्छब्दनिरपेक्षत्वात् तच्छब्दः प्रसिद्धपरः' इति । येनाश्रुतमिति ॥ 'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विज्ञातं भवति' इति मैत्रायणीयश्रुत्यनुसारात् उपादानप्रकरणानु- गुण्याच्च ; येन श्रुतेन अश्रुतं श्रुतं भवति, येन मतेनामतं मतं भवति, येन विज्ञातेनाविज्ञातं विज्ञातं भवतीत्यर्थः । श्रुतेन येनेति तृतीयार्थोऽभेदः, श्रुतपदार्थे शाब्दबोधविशेषविषयेऽन्वेति, उक्तश्रुत्य- नुरोधादेव इदं सर्वमित्यप्यध्याहार्य, परिदृश्यमानस्थूलचिदचिच्छरी- रकमिति तस्यार्थः; अश्रुतमित्यस्य स्थूलरूपावच्छिन्नशाब्दज्ञानीय- विपयताशून्यमित्यर्थः ; तस्य सर्वपदार्थेऽन्वयात् स्थूलावस्थावच्छिन्न- शाब्दज्ञानीयविषयताशून्याभिन्नं प्रत्यक्षविषयस्थूलचिदचिच्छरीरकं ब्रह्म शाब्दबोधीयविषयताविशिष्टजगन्निमित्ताभिन्नसूक्ष्मचिदचिद्वैशिष्ट्याव - च्छिन्नशाब्दबोधीयविषयताश्रयो भवतीति वाक्यार्थः ; श्रुतमित्यस्य सूक्ष्मचिदचिद्विशिष्टत्वेन श्रुतमित्यर्थात् ॥ अत्र-अश्रुतं श्रुतमित्यस्य पूर्वमश्रुतमिदानीं श्रुतसिति नार्थः ; विशिष्टवैशिष्टचावगाहिबोधे विधेये उद्देश्यतावच्छेदकसमानकालीनत्वभाननियमस्य तिलकी कर्म कुर्वीत इत्यादाविव औत्सर्गिकत्वेन तद्बाधापत्तेः । तादृशनियमभङ्गभया- देव हि-"वर्षे जपन्निदं स्तोत्रमपुत्रः पुत्रवान् भवेत्"-इत्यादा- वपुत्रपदं पुत्रविरोधिपुत्रेच्छापरं, नञोऽसुर इत्यादाविव विरोध्य- र्थकत्वादिति व्याख्यातं नैयायिकैः। एवं च-स्थूलसूक्ष्मचिचिद्वि- शिष्टब्रह्मरूपकार्यकारणयोरभेदलाभादादेशपदेन कारणत्वघटितनिमित्त- त्वलाभेन कार्याभिन्नत्वे सति कारणत्वरूपमुपादानत्वमुक्तं भवति॥ न च-येन सर्वमिदं भवतीत्यनेनैव कार्यकारणयोरभेदलाभादश्रुतं ४ : प्रतिज्ञावादः- श्रुतमित्यादीनां वैयर्थ्यमिति-वाच्यम् ; कार्याभिन्नत्वे सति कारण- त्वरूपोपादानत्वस्य तन्मात्रेण बोधनेऽपि सूक्ष्मचिदचिद्रूपकारणतावच्छे- दकावच्छिन्नविषयतानवच्छेदकत्वरूपकारणतावच्छेदकभेदस्य कार्य- तावच्छेदके बोधनाय अश्रुतमित्यादिपदानां सार्थक्यात् ; तद्बोधश्च कार्यकारणयोरत्यन्ताभेदे तत्कारकव्यापारवैयमिति नैयायिका- शङ्कापरिहाराय । कारणतावच्छेदककार्यतावच्छेदकयोरुक्तपारि- भाषिकभेदबोधने च कार्यतावच्छेदकविशिष्टस्य पूर्वमभावेन तन्निप्पत्तये कारकव्यापारसार्थक्यमिति समाधानसूचनात् । तयोर्वास्तवभेदस्तु श्रुत्या बोधयितुमशक्यः, सूक्ष्मस्थूलचिदचिद्रूपयोस्तयोरवस्थाभेदेऽपि स्वरूपैक्येन भेदाभावात्; आत्मनि खल्वर इत्यादिमैत्रायणीयश्रुतावपि सप्तम्याः 'दाने कर्णसमः' इत्यादाविव अभेदार्थकत्वात्पूर्वोक्तार्थ एव पर्यवसानम् । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमित्यादि- भाप्यस्याप्येकपदस्य सूक्ष्मचिदचिच्छरीरकब्रह्मपरतया, सर्वपदस्य स्थूलसर्वशरीरकपरतया, तृतीयाया अभेदार्थकतया च, सूक्ष्मचिदचि- च्छरीरकब्रह्मज्ञानाभिन्नस्थूलचिदचिच्छरीरकत्वोपलक्षितब्रह्मज्ञानं प्रति- ज्ञातमित्यर्थः । तथा च स्वावच्छिन्नाभिन्नवृत्तित्वस्वावच्छिन्नाविप- यकप्रतीतिविषयतावच्छेदकत्वस्वावच्छिन्ननिरूपितकारणतावच्छेदक - त्वैतत्त्रितयसम्बन्धेन धर्मविशिष्टधर्मवत्त्वं एकविज्ञानेन सर्वविज्ञान- प्रतिज्ञार्थः । मृत्पिण्डघटादिस्थले घटत्वावच्छिन्नाभिन्नवृत्तित्वस्य घटत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य घटत्वावच्छिन्न- निरूपितकारणतावच्छेदकत्वस्य च मृत्पिण्डत्वे सत्त्वादुक्तत्रितय- सम्बन्धेन घटत्वविशिष्टमृत्पिण्डत्वरूपधर्ममादाय वक्ष्यमाणदृष्टान्त- त्वसङ्गतिः । दार्टान्तिके च इयं प्रतिज्ञा सूक्ष्मसर्वशरीरकत्व- स्थूलसर्वशरीरकत्वरूपधर्मद्वयमादायोपपादन या। सा च सर्वस्य काय- प्रतिज्ञावादः. त्वमन्तरा न निवहतीति वियदादेः कार्यत्वोपपादकतया एतदुपादानं सूत्रभाष्ययोरविरुद्धमिति बोध्यम् ॥ अथवा-येनाश्रुतमित्यादेरयमर्थः ॥ श्रुतेन येनेति तृतीयाथः प्रपो- ज्यत्वं, श्रुतं भवतीत्यस्य सोपादानकत्वेन श्रुतं भवतीत्यर्थः । तथा च-श्रुतत्वविशिष्टयत्प्रयोज्यत्वरूपतृतीयान्तार्थस्य श्रुतपदार्थैकदेशे सोपादानत्वप्रकारकश्रवणे अन्वयाद्विशिष्टनिरूपितप्रयोज्यत्वस्य विशे- षणप्रयोज्यत्वे पर्यवसानस्य 'विशिष्टे विधिनिषेधौ सति विशेप्ये बाधे विशेषणमुपसङ्कामतः' इति न्यायसिद्धत्वेन यच्छ्वणप्रयोज्यं सोपादानकत्वप्रकारकसर्वविशेष्यकश्रवणमित्यर्थः पर्यवस्यति । कार्य- विशेष्यकसोपादानकत्वप्रकारकज्ञानजनकज्ञानविपयत्वमुक्तप्रतिज्ञार्थः; कार्यविशेष्यकसोपादानकत्वप्रकारकज्ञाने उपादानज्ञानस्य कारणत्वं विशेषणज्ञानविधयैव ; ब्रह्मणि सर्वविशेष्यकसोपादानकत्वप्रकारकज्ञान. जनकज्ञानविषयत्वं सर्वस्य ब्रह्मकार्यत्वमन्तरा न निर्वहतीति प्रति- ज्ञाऽहानिरख्यतिरेकादित्याद्युपपत्तिः । अत्र कल्पे सर्वपदं सर्वत्वा- वच्छिन्नपरमेव, न तु सर्वशरीरकपरमिति ॥ एतेन–सर्वपदस्य सर्वशरीरकपरत्वे इदंपदार्थस्य प्रत्यक्षविषय- त्वस्य एकदेशे सर्वस्मन्नन्वयो वाच्यः, स च व्युत्पत्तिविरुद्धः ; संयोगावच्छिन्नक्रियारूपगमनपदार्थकदेशे संयोगे गुणाभेदान्वय- तात्पर्येण गमनं गुण इत्यादेरिणाय अभेदसम्बन्धावच्छिन्नप्रकारता- निरूपितविशेष्यतया शाब्दबोधे मुख्यविशेष्यतया पदजन्योपस्थिते- हेतुत्वात्-इति परास्तम् ॥ सोपादानकत्वं च-स्वापृथक्सिद्धत्वस्वाव्यवहितोत्तरवृत्तित्वोभय- सम्बन्धेन किञ्चिद्विशिष्टत्वं । आत्मनि खल्वरे दृष्ट इत्यादौ 'पाथसि पीते तृष्णा शाम्यति' इत्यादिवत् प्रयोज्यत्वं सप्तम्यर्थः अन्यत्सर्वं पूर्ववत् ॥ an .
وه प्रतिज्ञावादः. . अय-कायविशेष्यकसोपादानकत्वप्रकारकज्ञानजनकज्ञानविषयत्व. रूपा प्रतिज्ञा कार्यकारणयोरभेदमन्तराऽप्यपृथक्सिद्धिसम्बन्धमात्रान्नि- वहतीीते उक्तप्रतिज्ञाया अभेदोपपादकत्वपरारम्भणाधिकरणविरोधः। तथा चा आरम्भणाधिकरणभाप्यं “तस्मात्परमकारणाद्ब्रह्मणोऽनन्यत्वं जगत आरम्भणशब्दादिभ्यस्तदुपपादयद्भयोऽवगम्यते” इति--तस्माद- नातरिक्तद्रव्यतया तज्ज्ञानेन ज्ञाततेत्यर्थः' इति च । तस्मादयं कल्पो भाष्यविरुद्धः-इति चेत्। मैवं । सूक्ष्मचिदचिद्विशिष्टे ब्रह्मणि स्थूलचिद- चिद्विशिष्टाभेदो हि स्थूलचिदचिद्वैशिष्टयरूपः, भेदाभावस्य प्रतियोगि- तावच्छेदकत्वरूपत्वात् ; स चापृथक्सिद्धिरेव, नैयायिकानां विवादो- ऽप्यपृथक्सिद्धावेव, तैर्विशिष्टब्रह्माभेदस्य शुद्धब्रह्मणि स्वीकारेण तदशे विवादायोगात् । तथा चैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानिवाहाय सर्वत्र विशिष्टाभेदापपादनं अपृथक्सिद्धयुपपादनपरमेवेति न कश्चि- द्विरोधः ॥ अत्र कल्पे येनाश्रुतमित्यादौ तृतीया, आत्मनि खल्वर इत्यादौ सप्तमी, एकविज्ञानेन सर्वविज्ञानमिति भाष्यादिकं च स्वरसत एवोपपद्यते ; अश्रुतं श्रुतं भवतीत्यस्य पूर्वमश्रुतमिदानीं श्रुतं भवती- त्यर्थादुद्देश्यतावच्छेदकविवेययोस्समानकालीनत्वाभावात्किञ्चिदस्वरसः परं सोढव्यः ॥ कार्यकारणयोरभेदाभिप्रायमजानानः पृच्छति 'कथं नु भगवस्स आदेशो भवति' इति । सः-उक्तत्रितयसम्बन्धेन धर्मविशिष्टधर्मवान् ; कार्यविशेष्यकसोपादानकत्वप्रकारकज्ञानजनकज्ञान विषयो वा आदेशः, कथं-मदीयजिज्ञासाविषयप्रकारवानित्यर्थः । गुरुराह- "यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्याद्वाचा- रम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं, यथा सोम्यैकेन लोहमणिना सर्व लोहमयं विज्ञातं स्याद्वाचारम्भणं विकारो ..
प्रतिज्ञावादः. -- नामधेयं लोहमित्येव सत्यं, यथा सोम्यैकेन नखनिकृन्तनेन सर्व कार्णायसं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यम् ; एवं सौम्य स आदेशो भवति'' इति ॥ मृत्पिण्डघटादौ उक्तत्रितयसम्बन्धेन धर्मविशिष्टधर्मवत्त्वरूपप्रति- ज्ञोपपत्तिः पूर्वमेवोक्ता । द्वितीयकल्पे मृण्मयमित्यस्य स्वापृथ- क्सिद्धत्वस्वाव्यवहितोत्तरवृत्तित्वोमयसम्बन्धेन मृद्विशिष्टमित्यर्थः तस्याभेदसम्बन्धावच्छिन्नप्रकारतासम्बन्धेन ज्ञातपदाथैकदेशे ज्ञानेऽ न्वयः; सर्वपदं च यावन्मृदपृथक्सिद्धपरम् । तथा च-घटादिविशेप्य- कमृद्विशिष्ट प्रकारकज्ञानजनकज्ञानविषयत्वं मृदि सम्भवतीति भावः । रूपभेदान्नामधेयभेदाच्च कार्यकारणयोर्भेदात् दृष्टान्तेऽपि असम्भव- शङ्कां परिहरति-वाचारम्भणमिति । वाचा-व्यवहारेण जलाहर- णादिकार्येण च, व्यवहारस्य शक्त्या ? जलाहरणादेर्लक्षणयाच बोधात्, युगपाद्वृत्तिद्वयस्य गंगायां घोषमत्स्यावित्यादाविव अविरुद्धत्वात् । तृतीयार्थश्च अध्ययनेन वसतीत्यादाविव प्रयोजकत्वं, घट इत्यादि- व्यवहारार्थं जलाहरणादिकार्यार्थं च पृथुबुध्नोदराकारादिविकारो घटादि- नामधेयं च मृत्पिण्डेनारम्भण आरभ्यते प्राप्यत इत्यर्थः; कर्मणि ल्युट, मृत्तिकाद्रव्यमेव घट इति व्यवहारं घट इति नामधेयं शक्तिसम्बन्धेन, जलाहरणादिरूपकार्याय घटत्वावस्थां च अपृथ- क्सिद्धिसम्बन्धन प्राप्नोतीत्यर्थः । तत्तदर्थव्यवहारं प्रति तत्तदर्थ- शक्तपदज्ञानस्य कारणतया घट इत्यादिव्यवहारजनकतावच्छेदकत्व- रूपं तत्प्रयोजकत्वं घटपदस्याप्यक्षतम् ॥ न च-शुकाधुच्चरित- श्लोकादिव्यवहारे अध्यापकाद्युच्चरितवेदव्यवहारे च व्यभिचारात् तच्छक्तपदज्ञानत्वेन तदर्थव्यवहारं प्रति हेतुत्वं न सम्भवतीति-वाच्यं; तदर्थबुबोधयिषापूर्वकतदर्थव्यवहारं प्रति तच्छक्तपदज्ञानत्वेन हेतुत्वे ? ..
प्रतिज्ञावादः. बाधकाभावात् । एवं जलाहरणादिकं प्रति घटत्वावस्थाविशिष्टद्रव्य- त्वेन कारणतया घटत्वावस्थायाः कारणतावच्छेदकत्वरूपं प्रयोज- कत्वमणमिति बोध्यम् ॥ कार्यकारणयोरभेदे प्रत्यभिज्ञारूपं प्रमाणमाह-मृत्तिकेत्येवेति । प्रातर्या मृत्तिकेहोपलब्धा सैवेदानीं घटादिरभूदित्यबाधितप्रत्यभिज्ञा दृश्यत इत्यर्थः। मृत्तिकोति-मृत्तिकेत्याकारकप्रत्यभिज्ञानं, सत्यमेव- अबाधितमेव । तथा च-कार्यकारणयोरभेदः प्रत्यभिज्ञारूपप्रमाणसिद्ध इति भावः । प्रतिज्ञावाक्ये जगत्कर्तृत्वरूपं तन्निमित्तत्वमुक्तमपि तदंशे विप्रतिपत्त्यभावात्तत्र दृष्टान्तेन समाधानं नोक्तम् ॥ पुन- गुरुकुलप्रस्थापनशङ्कयाऽऽह-'न वै नूनं भगवन्तस्त एतदवेदिषुर्य- ध्येतदवोदिष्यन् कथं मे नावक्ष्यन्निति भगवांस्त्वेव मे तद्वी- त्विति' ॥ ननु-तेषां ब्रह्मोपदेष्टुत्वाभावे तज्ज्ञानाभावः प्रतिपिपादयिपा- विरहो वा निमित्तमिति तदुपदेष्टुत्वाभावेन तज्ज्ञानाभाव एव कथ- मनुर्मायते ? यत्र यदुपदेष्टुत्वाभावस्तत्र तज्ज्ञानाभाव इति सामान्य- व्याप्तौ धर्मादिज्ञानवति पुरुषे प्रतिपिपादायपाविरहेण तदुपदेष्टुत्वा- भावदर्शनेन व्यभिचारादित्यत उक्तं 'मे' इति । स्वीयकुमारेभ्योऽपि निरवधिकव्यामोहविषयाय मे इत्यर्थः । तथा च-ज्ञातार्थे मां प्रति प्रति- पिपादयिपाविरहोऽसिद्ध इति भावः । ब्रवीत्विति-दृष्टान्ते उपादानो- पादेयभावात् ज्ञातता उच्यते, इह तु कथमिति भावः । गुरुराह 'तथा सोम्येति होवाच, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' -इति ॥ अग्रे-सृष्टिपूर्वकाले, प्रलय इति यावत् ; इदं-प्रत्यक्षविपयरथूल कार्यशरीरकं ब्रह्म, अद्वितीयं-जगन्निमित्तकारणभूतकत्रन्तरनिरपेक्ष, स्ववृत्तिभेदप्रतियोगितानवच्छेदकोभयावृत्तिधर्मवत्तासम्बन्धावच्छिन्न- जगन्निमित्तकारणनिष्ठावच्छेदकताकप्रतियोगिताकभेदाभाववदित्यर्थः । १ प्रतिज्ञावादः. ९ स्वपदं जगन्निमित्तकारणपरम् । अब निमित्तत्वं सर्वकार्यकर्तृत्वरूपं विवक्षितं, तेन न सिध्यसिद्धिभ्यां व्यायातः, तेन न कालादृष्टादिकमा- दाय वाक्यार्थबाधः। एक-अविभक्तनामरूपतया कार्यावस्थानिबन्धन- बहुत्वशून्यं, सदासीत्-सूक्ष्मत्रिदचिच्छरीरकाभिन्नमासीदित्यर्थः ; तथा च सूक्ष्मचिदचिद्विशिष्टे ब्रह्मणि स्थूलचिदांचद्विशिष्टाभिन्नत्वे सति तत्पूर्वकालवृत्तित्वलाभात्कार्याभिन्नत्वे सति कार्यपूर्वकालवृत्तित्वरूपो- पादानत्वमुक्तं भवति । अत्र सच्छब्देन निर्देशस्सत्कार्यवादसूचनाय । मिथ्यावादिमतमनूद्य दूषयति-तद्धैक आहुरसदेवेदमत्र आसीदेकमे- वाद्वितीयं तस्मादप्सतस्सज्जायेत, कुतस्तु खलु सोम्यैवं स्यादिति हो- वाच, कथमसतस्सज्जायतेति'। तत्-तत्र, इद-अद्वितीयं कार्यशून्यं, अत एवैकं, सद्विलक्षणं अज्ञानमासीत् ; तस्मात्-असत्रोऽज्ञानात्, प्रातिभासिकात् -व्यावहारिकसत्ताशून्यात्, व्यावहारिकं सजायत इत्यर्थः। कथमसतस्सज्जायतेति-अज्ञानस्यैवासिद्धिः असतस्सदुत्पत्त्य- सम्भवश्च विवक्षिलौ ; सदेव सोम्येदमग्र आसीदिति निगमनगत- सच्छब्देन मिथ्यात्वनिरासोऽभिप्रेतः। असदेनेदमा आसीदित्यावृत्त्या नैयायिकमतानुवादः, कुतस्तु खलु सोम्येति तन्निरासश्चाभिप्रेत इति प्राचां ग्रन्थेषु स्फुटम् ॥ माध्वास्तु—सादृश्यप्राधान्याभ्यां प्रतिज्ञादृष्टान्तौ प्रवृत्तौ । तथा हि-येनाश्रुतं श्रुतं भवतीति । येन-श्रुतेन ब्रह्मणा, अश्रुतं श्रुतं भवति- ब्रह्मणि ज्ञाते तत्सादृश्यात्सर्वं ज्ञातं भवतीत्यर्थः ; ब्रह्मज्ञानेन कृत्स्न- फलसिद्धेः इतरत्सर्वं ज्ञातप्रायमित्यप्यर्थः । प्रथम दृष्टान्तमाह यथेति; अत्रापि सादृश्यात् ज्ञानं विवक्षितम् । द्वितीथे तत्पूर्वपदावृत्तेन 'यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात्' इत्यनेन दृष्टान्तो- पन्यासः ; मृदित्येतस्मिन् पदे ज्ञाते सर्व मृण्मयं मृत्पदापभ्रंशभाषा- टि) तेच-अद्वितीयपदस्य उक्तरीत्या निर्वचनेन ॥ .. 2 १० प्रतिज्ञावादः. , मित्यर्थः ।। पदानि ज्ञातप्रायाणि, भाषापदानि त्वव्यापकानि, संस्कृतं तु सर्वदेश- व्यापकं ; अतस्तत्तद्देशे तेन तेनापभ्रंशेन यो यो व्यवहारो भवति, तस्य सर्वस्यापि संस्कृतेनैव सम्भवादपभ्रंशोऽपि ज्ञातप्राय इत्यर्थः । उक्तार्थमुपपादयति-वाचारम्भणमिति । अपभ्रंशभूतं नामधेयं वाचा आरभ्यते, तस्मादनित्यं, मृत्तिकेति पदं तु नित्यम् । अपभ्रंशः तत्त- त्पुरुषवागुपनत्वान्न व्यापकः, संस्कृतपदं त्वपुरुषोपज्ञत्वाध्यापक- ---इति वदन्ति ॥ अत्र चिन्त्यते---- सादृश्यरूपसम्बन्धेन सर्वज्ञानजनकज्ञानविषयत्वं उक्तप्रतिज्ञार्थ इति प्रथमः पक्षः; सर्वज्ञानजन्यफलजनकज्ञानविषयत्वमिति द्वितीयः॥ तत्राद्यपक्षे--वस्तुत्वादिघटितसादृश्यमादाय सर्वज्ञानजनकज्ञान- विषयत्वमव्यावर्तकमिति 'उत तमादेशमप्राक्ष्यो येनाश्रुतम् -इत्यादिना ब्रह्मासाधारणतया तन्निर्देशानुपपत्तिः । भूयो धर्मघटितं चेत्सादृश्यं ; तादृशसादृश्यमादाय सर्वज्ञानजनकज्ञानविषयत्वं घटादावेव सम्भवति, न ब्रह्मणि ; जगद्ब्रह्मणोरत्यन्तविलक्षणत्वात् ; वैसादृश्यादिरूपसम्बन्धा- न्तरमादायापि सर्वज्ञानजनकज्ञानविषयत्वस्य ब्रह्मणि सम्भवेन सादृश्य- मात्रस्य सम्बन्धतयोपपादने निबन्धाभावाच्च ; एकसम्बन्धिज्ञानस्यापर- सम्बन्धिस्मृति प्रति हेतुत्वेऽपि ब्रह्मश्रवणे तत्सादृश्यमानादन्येषां श्रवणासम्भवाच्च । श्रुतमित्यादिपदानामपि स्मरणमात्रपरत्वे पौन- रुक्त्यम् ॥ द्वितीयपक्षे च-सर्वं श्रुतं भवतीति कोऽर्थः ? श्रुतमित्यस्य श्रुतप्रायमित्यर्थ इति चेत् श्रुतप्रायत्वं किमिदं ? न तावत् स्वीय- श्रवणादिजन्यफलोपधायकब्रह्मज्ञानकत्वं, ब्रह्मज्ञानेन जायमानस्य फलस्य श्रवणादिजन्यत्वासम्भवेन बाधात् ; नापि स्वीयश्रवणादिजन्य- तावच्छेदकावच्छिन्नफलोपधायकब्रह्मज्ञानकत्वं तत् , ब्रह्मज्ञानजगच्छ्र- वणयोरेकधर्मावच्छिन्न प्रति जनकत्वे परस्परं व्यभिचारेण जन्यता- प्रतिज्ञावादः. ११ वच्छेदकभेदावश्यकत्वात्। श्रुतादिपदानामुक्तार्थपरत्वे लक्षणाप्रसङ्गश्च स्पष्टः, मृत्पिण्डादिपदानां स्वपरत्वमपि क्लिष्टम् । एवं मृत्पिण्डमृण्मय मृत्तिकाशब्दानां लोहमणिलोहशब्दयोर्नखनिकृन्तनकार्णायसशब्दयो- श्व परस्परं व्याघातः । एकेन मृत्पिण्डेन सर्वं मृत्पिण्डमयं विज्ञातं स्यात् । मृत्पिण्डमित्येव सत्यमित्युक्तौ हि भवतामविरोधः । किं च-वाचारम्भणं विकारो नामधेयं' 'त्रीणि रूपाणीत्येव सत्यम्' इत्य- त्रैतादृशार्थासम्भवेन तत्रार्थान्तरस्य वक्तव्यत्वात् तद्वैरूप्यमिहानुप- पन्नम् ॥ इति ॥ नैयायिकास्तु-येनाश्रुतं श्रुतमिति। श्रुतेन मतेन निदिध्यासितेन ब्रह्मणा सर्व श्रुतं मतं निदिध्यासितं च स्यादिति शेषः। तथा चात्म- तत्त्वज्ञानेन योगजधर्मे जाते तत्तत्पदार्थवृत्त्यसाधारणधर्माशे निर- वच्छिन्नप्रकारताकतावद्विशेष्यकबोधस्सम्भवतीति भावः । एकज्ञानेन कथमन्यज्ञानं, अतो दृष्टान्तमाह-यथा सोम्येति । एकेन मृत्पिण्डेन ज्ञातेन यथा मृदन्तरमपि ज्ञायते परमाण्वादेरप्रत्यक्षत्वात्पिण्डपदं स्थूल- पृथिव्यर्थकं, मृत्पदं च पृथिवीपरम् । एकपदं येन धर्मेण तद्व्यक्ति- प्रत्यक्षं तद्धर्मप्रकारक एव तद्धर्मावच्छिन्नव्यक्तिमात्रबोधो भवतीति सूचनार्थं, निर्धारणार्थकत्वपर्यवसाने तस्य च सजातीयविषयकत्वेन तथा लाभात् । तेन चक्षुस्संयुक्तघटस्य वस्तुतः पृथिवीत्वेऽपि यदा पृथिवीत्वप्रकारकचाक्षुषं तदा पृथिवीत्वेन सकलपृथिवीग्रहणं, यदा तु घटत्वेन तदा घटत्वेन यावदुटप्रत्यक्षमिति घटत्वप्रकारकचाक्षुष- काले घटाख्यपृथिवीज्ञानस्य यावत्पृथिव्यविषयकत्वेऽपि न क्षतिः । मृण्मयमित्यत्र मृत्पदं पृथिवीपरं पृथिवीत्वतात्पर्यकं, मयटनाचु- Cर्थे। तथा च-पृथिवीत्वजातरैक्येन सजातीयसंवलनरूपप्राचुर्यबाधेन समवायित्वरूपतदर्थकतया समवायेन यत्र पृथिवीत्वं तेषामेव प्रत्यक्ष न तु कालिकेन पृथिवत्विवतोऽपि जलादेरिति भावः । चक्षुस्संयुक्त १२ प्रतिज्ञावादः. , व्यक्तौ येन सम्बन्धेन यत्सामान्यं वर्तते तेनैव सम्बन्धेन तत्सामान्यस्य तदाश्रययावद्विशेष्यकस्वप्रकारकप्रत्यक्षहेतुत्वात् ॥ ननु तत्प्रत्यक्षस्य यावयक्तिविषयकत्वे किं मानमित्यत आह 'वाचारम्भणं विकार:'- इति। वाचा--घटमानयेत्यादिवाक्येन, आरम्भणं-- प्रवृत्तिरूपो विकारो भवति, दृश्यते हि घटमानयेत्यादिवाक्या- त्तदानयने चेष्टा, तया च प्रवृत्तिः, तया च तदानयनेच्छा, तया च तदनुकूलं ज्ञानमालिप्यते । तच्च शाब्दमेव; मानान्तरस्य तदानीमनुपस्थितेः । न च तच्छक्तिग्रहं विना स च तदानीं तदुपाया- भावेन कालान्तरीयशक्तिग्रहकारित एवेति । अत एव विकार इति फलविवक्षणं कार्येण स्वाकासितकारणपरम्पराक्षेपलाभार्थ सङ्गच्छते ।। ननु तत्र शक्तिभ्रमादेव शाब्दबोधस्स्यात् , अत आह-नामधेयं मृत्ति- केत्येव सत्यमिति । मृत्तिकेत्येव नामधेयं सत्यं, न पुनस्तद्विषयक- शक्तिप्रहः प्रमा-इत्यत्र विवादः। तथा च घटत्वादेरविशेषाच्छक्तिग्रह- विपयीभूतव्यक्तिविषयकशाब्दस्येवास्यापि प्रमात्वे बाधकामावाच्छ- क्तिग्रहस्यैतद्विषयकत्वं सिद्धम् । तथा च एतद्भुटविषयकशाव्द- बोधत्स्वविषयविषयकशक्तिग्रहमूलकः, घटविषयकशाब्दत्वात् , तद्गुट- शाब्दवत्-इत्यनुमानेन शक्तिग्रहसिद्धौ च औत्सर्गिकत्वाल्लाघवाच्च प्रमात्वमेव तस्येति । तथा च यथा सामान्यलक्षणया एकघटादि- ज्ञानात्सर्ववटादिज्ञानं, तथा आत्मतत्त्वज्ञानाद्योगजधर्मद्वारा सार्वश्यम् । सामान्यलक्षणानङ्गीकारे एकवटव्यक्तिज्ञानेनापि व्यक्तयन्तरबोध- सम्भवः, समानप्रकारकत्वस्यैव नियामकत्वात् , एकवटज्ञानस्य यावदावेषयकत्वेऽपि संशयनिवृत्त्यादिरूपफलसाम्यात् । एतत्पक्षे मृत्तिकति नामधेयमन्यव्यक्तेरिति । अत एकघटे घटत्वप्रकारेण शक्तिग्रहाचटान्तरबोध उपपन्नः । एवमुत्तरवाक्यद्वयेऽपि लोहमणिपदं सुर्थिकं, नखनिकृन्तनपदमयस्सामान्यपरम्- इत्याहुः ॥
प्रतिज्ञावादः. १३ . तन्न। सामान्यप्रत्यासत्तेर्योगजधर्मस्य च प्रत्यक्ष कारगत्वेऽपि शाब्दबोधानुमितिरूपयोश्श्रवणमननयोरकारणत्वात् , येनाश्रुतमित्या- द्यसङ्गतेः, श्रुतमतादिफ्दानां प्रत्यक्षपरत्वे च पौनरुक्त्यादिति ॥ शाङ्करास्तु येनाश्रुतं श्रुतमिति सामानाधिकरण्यं बाधपरम् । अश्रुतं-अन्यत्सर्व यदभिन्नश्रुतं, सद्रूपव्यतिरेकेण नास्तीत्यर्थः । तथा चैकं सर्वत्याधिष्ठा- नमित्यर्थः प्रतिज्ञातः। तत्र मृत्पिण्डव्यतिरेकेय तद्विकारो यथा नास्तीति दृष्टान्ता यथासोम्येत्यादिना प्रतिपाद्यन्ते । मृत्पिण्डपदं च मुख्यार्थ- कैकपदयोगात् भूमिरूपपिण्डार्थकं, पिण्डपदं च स्थौल्यबोधकं मृण्मय- मात्रेऽप्युपादानत्वयोग्यतालाभाय, मृण्मयपदं च भूमिविकारमात्रार्थकम् । तथा च भूमिविकारस्सर्वो यथा भूमि विना नास्स्तीत्यर्थः । भूमिविकारत्वं च साक्षादेव वृक्षादावक्षतमिति भूमर्विभक्तपिण्डस्य नानाविकारानु- पादानत्वेऽपि न क्षतिः ॥ यद्यपि-भूमि पादानं, वेदान्तिनां ब्रह्मण एवोपादानत्वात् ; तथाऽपि-अधिष्ठानतावच्छेदकशुक्तचादिब्यतिरेकेण. रूप्यादि नास्तीत्यादिव्यवहाराद्भूमिविकारादिरवरूपदशायामाधारताव- च्छेदकभूम्यादिव्यतिरेकेण नास्तीति श्रुत्या तथोक्तं सर्व मृण्मयं एक- मृत्पिण्डाभिन्नविज्ञातस्वरूपमित्यपि बाधायां सामानाधिकरण्यम् । तत्र हेतुम॒त्तिकेत्येव सत्यमिति । मृत्तिका भूमिरिति गृह्यमाणं विदेव सत्यं, मृत्तिकास्वरूपस्य सत्यत्वाभावात् । तदवच्छिन्नचिद्रूपस्य दृष्टान्तत्वधी- दशायां मृदो विविच्याज्ञानामित्वेन ज्ञायमानत्वविरहेण चिद्रूपलाभार्थ- मितिशब्दः, मनो ब्रह्मेत्युपासीतेत्यादौ ज्ञायमानत्वस्येतिशब्दार्थत्वात्। आद्यर्थको वा इतिशब्द., 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इति कोशात् । तथा च भूमिविकारस्य विचारदशायां तत्स्वरूपमिव भूमि- स्वरूपविचारदशायां तत्कारणान्यपञ्चीकृतभूतान्येव सत्यानि ; तेषा- मपि स्वरूपविचारदशायां तान्यपि मिथ्या। तत्कारणान्येव सत्यमित्य- १४ प्रतिज्ञावादः. , , र्थलाभः, नवनिकृन्तनपदं चायस्सामान्यपरं, लोहमणिपदमपि सुवर्णा- र्थक, तद्विशेषणमेकपदं चैकजातीयार्थक, तदुपादानं च सर्वत्र एकजाती- यत्वेन उपादानत्वप्तम्भवलाभाय, इतिशब्दस्तु तत्राप्युक्तरीत्या व्याख्येयः । मृत्तिकेत्येव सत्यमित्यादौ हेतुर्वाचारम्भणं विकारो नामधेय- मिति । आरम्भणं-समवायिकारणजन्यं, उत्पत्तिः ; वाचा वाङ्मात्रं, विचारासहमिति यावत् । तथा चोत्पत्तेस्सदसद्वेति निरूपयितुमश- क्यतया उत्पन्नसामान्यं विचारासहमित्यर्थः । तथाऽप्यनाद्यविद्यादि- साधारण्येन हेत्वलाभादाह-विकारोनामधेयमिति, नाशादिविकृति- युक्तं नाममात्रं विचारासहमिति यावत् । अर्थ नामाभेदासम्भवादम्भक्ष इत्यादाविव मात्रार्थान्तर्भावेन विचारासहत्वलाभः । तथा च-उत्प- त्यादिविकृतेस्तयुक्तस्य संसर्गनिरूपत्वादिना विचारासहत्वान्मिथ्या- त्वमिति निर्विकारं ब्रह्मैव सत्यमिति दृष्टान्तोपपादकत्वेनोक्तमपि दार्टीन्तिकस्याप्युपपादकमिति भावः । एकमेवेति-एकपदेन सजाती- यजीवादिभेदनिषेधः तस्य स्वान्यशून्यत्वरूपकैवल्यार्थकत्वेऽपि भेदनिषेधकपदान्तरोपादानागोबलीवर्दन्यायेन स्वान्येत्यस्य जीवेश्वरादि- रूपस्वान्यपरत्वावधारणात् । एवकारस्यापि प्रकृते शून्यविशेषणीभूत- स्वगतभेदनिषेधबोधकत्वम् ; अद्वितीयपदेन बहुव्रीहिसमासेन विजातीय- द्वित्वावच्छिन्ननिषेधात्तादृशद्वितीयस्य भेदनिषेधः । तदुक्तम्- "वृक्षस्य स्वगतो भेदो यत्र पुष्पफलादितः । वृक्षान्तरात्सजातीयो विजातीयश्शिलादितः ॥ तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । एकावधारणद्वैतप्रतिषेधैत्रिभिः मः क्रमात् ॥" --इति॥ अद्वितीयपदस्यैव सजातीयभेदनिषेधकत्वे इतरपदद्वयं भेदान्तरनिषे- धकम् । अथवा-अद्वितीयपदं भेदत्रयनिषेधकम् , एकादिपदद्वयं सङ्कोचशङ्कापरिहारकम् ॥ -इति वदन्ति ॥ 5 प्रतिज्ञावादः. १५ अत्रेदं चिन्त्यम्- येनाश्रुतं श्रुतमित्यादो ब्रह्मव्यतिरेकेग प्राञ्चाभावबोवनाय वाधा- यां सामानाधिकरण्यं चेद्विवक्षितं, तदा स्थाणुः पुमानित्यादाविवाभेद- बोधमात्रेण कृतकृत्यतया यत्पदोत्तरतृतीयाया अभेदार्थकतया अश्रुतं सर्वं यदभिन्नमित्यर्थसम्भवेन श्रुतपदं व्यर्थम् । सामानाधिकरण्यस्य बाधार्थत्वं च लक्षणां विना न सम्भवति ; नीलो घट इत्यादौ नीलाभेद- बोधेऽपि तव्यतिरेकेण तदभावाप्रतीतेः । एवं मृत्पिण्डव्यतिरेकेण तद्विकारो यथा नास्तीति यथा सोम्येत्यादेरर्थोऽपि न ; सम्प्रतिप- नार्थस्यैव दृष्टान्तत्वाद्भवदुक्तार्थस्य श्वेतकेतुं प्रत्यसिद्धत्वात्। अन्यथा उपदेशवैयर्थ्यात्, दृष्टान्तानुसारेणैव प्रतिज्ञाया नेयत्वात् । मृत्पिण्ड- पदव्याख्यानं चायुक्तम् । भूमिर्हि-महापृथिवी वा तज्जातीयमानं वा? नाद्यः, अन्त्यावयवित्वेन तद्विकाराप्रसिद्धेः ; नान्त्यः, एकशब्दस्य मुख्यार्थत्वविरोधात् , परानुपादानपृथिव्यपेक्षया परोपादानपृथिव्याः मुख्यत्वे मानाभावात् । मृण्मयांशोपादानत्वयोग्यत्वमपि पिण्डपदव्यति- रेकेणापि सिद्धमेव, पृथिवीत्वस्य तद्योग्यतावच्छेदकत्वे अस्थूलपृथिव्या- मपि तत्सत्त्वात् , कपालत्वादेस्तथात्वे अस्थूलपृथिवीत्वावच्छेदेन तदभा- वात्। मयटो विकारार्थत्वमपि न सत्;मयक्रेतयोर्भाषायामित्यत्र भाषाया- मित्युपादानसामर्थ्येन छन्दसि विकारे मयटो दुर्लभत्वात् ; आनन्दमया- धिकरणे विकारे मयडित्यानन्दमयशब्दव्याख्यानस्य शङ्कराचार्य- कृतस्य मनोरमाकृता 'नित्यं वृद्धशरादिभ्यः' इत्यत्र भाषायामित्यनु- वृत्तौ मानाभावाच्छरादित्वात् आनन्दमय इत्यत्र विकारे मयडिति समर्थनात् ॥ किंच-भूमिविकारस्सर्वो यथा भूमिं विना नास्तीति दृष्टान्तस्य सर्वस्यैकाधिष्ठानमिति प्रतिज्ञया कथमुपपत्तिः ? जलादिविकारेषु जलादे- रेवाधिष्ठानत्वपर्यवसानात्, भूमिविकारेषु भूमेरधिष्ठानत्वोक्त्रसव १६ प्रतिज्ञावादः सवाधिष्ठानमिति प्रतिज्ञाविरुद्धत्वाच्च ; भूम्यवच्छिन्नचैतन्यस्य अधिष्ठी- नत्वेऽपि अधिष्ठानज्ञानेन तज्ज्ञानकार्यविल्यापत्तेः ॥ एतेन-बद्यपि भूमिर्नाधिष्ठानमित्यादिकं-निरस्तम् । अधिष्ठानता- बच्छेदकशुक्त्यादिव्यतिरेकेण रूप्यादिविरहस्य कथंचित्प्रसिद्धावपि अधिष्ठानतावच्छेदकभूम्यादिव्यतिरेकेण तद्विकारासत्त्वस्यानिश्चयात्। मृत्तिकति गृह्यमाणं चिदेव सत्यमित्यपि न ; मृत्तिकात्वप्रकारकज्ञान- विषयत्वस्य मृत्तिकायामेव सम्भवेन मृत्तिकास्वरूपस्य सत्यत्वानाक्षे- पात्तादृशरूपेण चिद्रूपं भासत इति भवतां कल्पनस्याप्रामाणिकत्वात् । इतिशब्दो ज्ञायमानत्वार्थक इत्यपि न; ज्ञानार्थकधातुयोगे 'मनो ब्रह्मेत्युपासीत' 'क्रमादमुं नारद इत्यबोधि सः'-इत्यादावितिशब्दस्य वपूर्ववृत्तिपदजन्यबोधप्रकारप्रकारकत्वपरत्वात् , ज्ञायमानत्वार्थकत्वे मानाभावात् ॥ यदपि-मृत्तिकेत्येव सत्यमित्यादौ हेतुर्वाचारम्भणं इत्यादि-इति ; तन्न । हेतुपूर्वमेव साध्यनिर्देशस्यौत्सर्गिकत्वात्प्रथमं हेतुनिर्देशस्या- नाकासितत्वात् ॥ यत्तु-अनादिसाधारण्येन मिथ्यात्वलाभार्थं विकारो नामधेय- मिति-इति; तचिन्त्यम् । तेनैव हेना दृश्यसामान्यमिथ्यात्व- सिद्धौ वाचारम्भणमित्यस्य उत्पत्तिमदृश्यमिथ्यात्वबोधकत्वेन भव- व्याख्यानस्य वैयर्थ्यात्, गोवलीवर्दन्यायस्य च अगतिकगतित्वात् ॥ वाचेत्यत्र 'वष्टि वागुरिः' ; इति टाप्सम्भवेऽपि आकारांशस्य प्रयोजना- भावात् ; अस्मन्मते तृतीयान्ततया सार्थक्यात् ; वाचेत्यादी मात्रा- र्थान्तीवेऽपि लक्षणाप्रसक्तेः । अब्भक्ष इत्यादिवत्तत्कल्पकाभावाच्च ।। एतेन–यो विकारस्सः, वाचारम्भणं-वागालम्बनं, व्यावहारिक- मित्यर्थः ; नामधेयं-नाममात्रं, नाथः-हत्यपि निरस्तम् ।ब्रह्मज्ञाना- न्यज्ञानाबाध्यत्वे सति बाध्यत्वं व्यावहारिकत्वं ; न तु वाग्विषयत्वं प्रतिज्ञावादः. प्रातिभासिकादावपि सत्त्वात् । अतो वाचारम्भणमित्यनेन न व्यावहा- रिकत्वलाभः । अत्र कल्पे नामधेयग्रहणं च व्यर्थं, वाचारम्भणमित्य- नेनैव मिथ्यात्वलाभात् ॥ एकमेवाद्वितीयमिति श्रुत्यर्थवर्णनमपि न सत् ; सजातीयविजातीय- प्रतियोगिकभेदवत्तद्धर्मप्रतियोगिकभेदान्तराणामपि सम्भवेन भेदमात्रे निषेधनिश्चयायोगात्, तद्धर्मभेदानामपि सजातीयभेदादावन्तर्भावे स्वगतभेदस्याप्यन्तर्भावसम्भवात् । किं च एवकारेण भेदनिषेधोऽपि वक्तुमशक्यः; एकशब्दसमभिव्याहृतैवकारस्य विशेषणसङ्गतत्त्वेन शङ्खः पाण्डर एवेत्यादाविव विशेषणायोगव्यवच्छेदकत्वात् , सदे'त्यत्र एवकारसत्त्वेन विशेष्ये एतदन्वयकल्पनासम्भवात् ॥ किं च-स्वान्यशून्यं ब्रह्मेत्युक्तौ कथं तद्भेदनिषेधः ? न च-विशे- षणेऽपि निषेधान्वयात्तल्लाभ इति वाच्यम् । विशेष्यबाधस्थल एवं तथात्वात् ; सविशेषणे हीति न्यायस्य बाधघटितत्वात् । एवं विजा- तीयभेदनिषेधेनैव स्वगतभेदनिपेधस्य स्वस्मिन् सिद्धतया वैयर्थ्याच्च ॥ तस्मादद्वैतमतमसङ्गतमिति-दिक् ।। ॥ श्रीः ॥ शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादार्थोऽयं विजृम्भताम् ॥ इति श्रीशेषार्यवंशमुक्ताफलस्य श्रीयादवाद्रिनिवासरसिकस्य श्रीमदनन्तार्यवर्यस्य कृतिषु प्रतिज्ञावादः समाप्त: ॥
No text on this page.
॥ श्रीः॥
शरीरवादः
श्रीमन्महीशूरमहाराजाधिराजमहास्थानसभाभूषणैः
शेषार्यवंशमुक्ताफलैः श्रीयादवादिनिवासरसिकैः
पण्डितमण्डलीसार्वभौमैः
श्री। उ॥ म. अ. अनन्तार्यवः
विरचितः।
श्रीयादवाद्रिनिवासि-
पण्डितवर्य-श्री ॥ उ ॥ स्था. कुप्पनैयङ्गार्यविरचितया
श्रीकाञ्चीपुरवासि-
विद्वद्वरेण्य-श्री ॥उ ॥ ति. अ. कु. श्रीनिवासार्यसंशोधितया
तात्पर्यदीपिकाख्यया टिप्पण्या
समेतः ।
म. अ. अनन्तार्येण
प्र. भ. तो. नरसिंहार्येण च
कल्याणपुर-विचारदर्पण-मुद्राक्षरशालायामङ्कयित्वा
प्राकाश्यं नीतः ॥
१८९८.
मूल्यं रू. ०-५-०
(.dll Rights Reserved.)
(Registered according to Act XXV of 1867.»)
श्री शरीरवादः श्रीकान्तकान्तपदपङ्कजसौरभश्री- पारीणचित्तनिभषटुरणः प्रवीणः । श्रीलक्ष्मणार्यमभिवन्ध शरीरवाद सारार्थसङ्गतमनन्तसुधीविधत्ते । इह तावच्छरीरशब्दप्रवृत्तिनिमित्तं विचार्यते ।। शरीरपदप्रवृत्तिनिमित्तभूतं शरीरत्वं हि न तावजातिः, तत्साधक- प्रमाणाभावात् ॥ न च-इदं शरीरमिदं शरीरमित्यनुगतप्रतीतिरेवं तत्साधिका, अनुगतंप्रतीतेर्वाधकविरहे जातिसाधकत्वात्-इति वाच्यम् । सिद्धान्ते अनुगतप्रतीतेः संस्थानविषयकत्वेन तदतिरिक्तजातिसाधकत्वा- सम्भवात् ॥ न च-संस्थानस्यावयवसयोगादिरूपत्वेन प्रतिव्यक्तिभिन्नत्वात्कथ- मनुगतप्रतीतिविषयत्वमिति-वाच्यम् । नैयायिकादिमते सुवर्णरजत- ताम्रमृदुटादिभेदेन भिन्नस्य घठत्वस्य घटोऽयं घटोऽयमित्याद्यनुगत- प्रतीतिविषयत्ववत्संस्थानस्यापि तदुपपत्तेः, सुवर्णरजतादिघटेषु घटत्व- स्यैक्ये साङ्कर्यापत्तेः ॥ किं च-गोत्वादिजातिरूपत्वेनाभिमतं संस्थामं हि नावयवसंयोग- स्वरूपं; रूपरसादिषु गुणेष्वात्मादिद्रव्येषु चोक्तसंस्थानाभावेन शरीरवादः. तत्रातिरिक्तजातिकल्पनापत्तेः ; किं तु विषयतासम्बन्धेन यविद्गो- व्यक्तिषु सम्बद्धं तावद्विषयकज्ञानमेव । तदेव च इयं गौरित्यादि प्रतीतौ स्वरूपतः प्रकारतया भासत इति न व्यक्तिभेदेन संस्थानस्य भेदोऽपि, याबद्भुटादिविषयकज्ञानमेव यावदूटव्यक्तिप्वनुगतमनतिप्रसक्तं घटत्वादिजातिरिति तदेव दण्डादिजन्यतावच्छेदकं घटपदशक्यताव- च्छेदकं चेति-वादान्तरे स्पष्टम् । तदिदमभिप्रेत्योक्तं जिज्ञासाधिकरणभाष्ये---- "संस्थानं नाम स्वासाधारणरूपमिति यथावस्तुसंस्थानमनु- सन्धेयम्" ---इति ॥ उक्तं च न्यायसिद्धाञ्जने--- "एकजातीयमिति व्यवहारस्य तत्तदुपाधिविशेषेणोपपत्तेः, राशि- सैन्यपरिषदादिष्वैक्यव्यवहारवत् । उपाधिश्चायमनेकेषामेक- स्मृतिसमारोहः” -इति ॥ तथा च-तावद्विषयकज्ञानमेव सिद्धान्ते जातिः, तस्य स्वरूपतो भानं चेष्टमिति प्रकृतेऽपि इदं शरीरमिदं शरीरमित्यादिप्रतीतेः तावद्विषयकज्ञानरूपजातिविषयकत्वाङ्गीकारेण तस्यैव शररिपदप्रवृत्ति- निमित्तत्वस्वीकारे शरीरशब्दस्य घटादिशब्दवत्ससम्बन्धिकत्वानुप- पत्तिः । ससम्बन्धिकत्वं हि सम्बन्धिविषयकाकासोत्थापकत्वं । तच्च जातिप्रवृत्तिनिमित्तकत्वे न घटते, गवादिशब्दवत् । अतस्तदतिरिक्तं प्रवृत्तिनिमित्तं वाच्यमित्यभिप्रेत्योक्तं न तु दृष्टान्तभावादित्यत्र श्रीभाष्ये-- “यस्य चेतनस्य यद्दव्यं सर्वात्मना स्वार्थ नियन्तुं धारयितुं शक्यं, तच्छेषतैकस्वरूपं च, तत्तस्य शरीरमिति शरीरलक्षण- मास्थेयम्" -इति ॥ , शरीरवादः. ३ अत्र श्रुतप्रकाशिकानुसारिणः 'यस्य चेतनस्य यव्यं सर्वात्मना स्वार्थे नियन्तुं शक्यं तत्तस्य शरीरम्'--इति प्रथमलक्षणं। राजनियाम्यो भृत्य इत्यादौ राजकृतिप्रयुक्त चेष्टाश्रयत्वस्य भृत्यादौ बोधात्कृतिप्रयुक्तस्वीयचेष्टासामान्यकत्वरूप- नियाम्यत्वं शरीरपदप्रवृत्तिनिमित्तमित्यर्थः । एतज्जीवस्य इदं शरीर- मित्यादौ षष्ठ्यर्थ आधेयत्वं । तस्य शरीरपदार्थैकदेशकृतावन्वयादे- तज्जीवनिष्ठकृतिप्रयुक्तस्वीयचेष्टासामान्यकमिदमिति बोधः । उक्त- रीत्यैव च 'यस्यात्मा शरीरं, यस्य पृथिवी शरीरम्' इत्यादौ बोध उद्यः । अत्र भृत्यो राजशरीरमिति व्यवहारवारणाय सामान्यपद्- निवेशनं । भृत्यनिष्ठचेष्टाविशेषस्य राजकृतिप्रयुक्तत्वेऽपि तत्सामा- न्यस्य तत्प्रयुक्तत्वविरहात् । एवं च परकायप्राणेन्द्रियादीनामपि न तज्जीवं प्रति शरीरव्यवहारविषयत्वं ; परकायगतचेष्टासामान्यस्य तज्जविकृतिप्रयुक्तत्वाभावात् ,प्राणेन्द्रियाणामेतज्जीवमोक्षानन्तरमप्या प्रलयमवस्थानेन तदीयचेष्टासामान्यस्य तत्कृतिप्रयुक्तत्वाभावात् । धर्मभूतज्ञानस्य जीवकृतिप्रयुक्तचेष्टासामान्यकत्वाङ्गीकारे ज्ञानमेतस्य शरीरमित्यादिव्यवहारवारणाय ज्ञानावच्छिन्नानुयोगिताकसम्बन्धप्रति- योगित्वमप्युक्तलक्षणे प्रवेश्यम् । ज्ञानप्रतियोगिकसम्बन्धश्च न ज्ञाना- वच्छिन्नानुयोगिताकः ॥ इत्थं च ज्ञानावच्छिन्नानुयोगिताकसम्बन्धप्रतियोगित्वे सति कृति- प्रयुक्तस्वीयचेष्टासामान्यकत्वं शरीरपदप्रवृत्तिनिमित्तमिति फलितम् ।। एतज्जीवस्य इदं शरीरमित्यादौ षष्ठ्यर्थाधेयत्वस्य शरीरपदार्थंक- देशे अनुयोगितायां कृतौ चान्वयं स्वीकृत्य बोध उद्यः ॥ जीव- शरीरे वृक्षादावीश्वरशरीरे पर्वतादौ च सूक्ष्मस्य तत्तत्कृतिप्रयुक्तचेष्टा- विशेषस्याङ्गीकारान्न शरीरव्यवहारविषयत्वानुपपत्तिः ॥
शरीरवादः. उक्तं च न्यायसिद्धाञ्जने–“स्थावरादावतिसूक्ष्मस्य नियमन विशेषस्यास्मदादिभिबृहत्वात्" इति ॥ यदि च-स्थावरादौ पर्वतादौ च सूक्ष्मतया चेष्टाविशेषसद्भावे मानाभावादुक्तलक्षणाव्याप्तिरित्युच्यते, तदा-एतदस्वरसेनैव लक्षणा- न्तरमुक्तं श्रीभाष्ये- “यस्य चेतनस्य यद्दव्यं सर्वात्मना धारयितुं शक्यम् , तत्तस्य शरीरम्" —इति ॥ कृतिप्रयुक्तस्वप्रतियोगिकपतनप्रतिबन्धकसंयोगसामान्यकत्वं शरीर- पदप्रवृत्तिनिमित्तमित्यर्थः । एतज्जीवस्येदं शरीरमित्यादौ षष्ठ्यर्था- धेयत्वस्य कृतावन्वयादेतज्जीवनिष्ठकृतिप्रयुक्तस्वप्रतियोगिकपततप्रति- बन्धकसंयोगसामान्यकमिदमिति बोधः । अत्र सामान्यपदोपादातान्न पुत्रः पितुश्शरीरमिति व्यवहारापत्तिः । पुत्रप्रतियोगिकपतनप्रतिबन्धक- संयोगविशेषस्य पितृकृतिप्रयुक्तत्वेऽपि तत्सामान्यस्य तत्प्रयुक्तत्वा- भावात् ॥ न च-यादृशयूकादिकं कस्य चिच्छिरस्येवोत्पन्नं तत्रैव नष्टं, तादृश- यूकादौ तच्छरीरव्यवहारापत्तिरेवमपि दुर्वारेति वाच्यम् ॥ यूकादि- शरीरप्रतियोगिकसंयोगः तदीयजीवानुयोगिकः, एतदीयशिरोऽनुयो- गिकश्च । तत्रैतच्छिरोऽनुयोगिकयूकादिशरीरादिप्रतियोगिकसंयोगस्य एतत्कृतिप्रयुक्तत्वेऽपि तदीयजीवानुयोगिकसंयोगस्य एतत्कृतिप्रयुक्त- त्वाभावेनोक्तदोषविरहात् ॥ न चैवं-चैत्रस्येदं शरीरमिति व्यवहारा- नुपपत्तिः । एतच्छरीरप्रतियोगिकात्मानुयोगिकसंयोगस्य चैत्रकृति- प्रयुक्तत्वेऽपि भूतलानुयोगिकसंयोगस्य चैत्रकृतिप्रयुक्तत्वाभावादिति- वाच्यम्। भूतलानुयोगिकसंयोगस्यापि चैत्रशरीरक्रियाजन्यत्वेन चैत्र- कृतिप्रयुक्तत्वानपायात् । स्वप्रतियोगिकत्वानिवेशे चैत्रस्येदं शरीर- शरीरवादः. मित्याद्यनुपपत्तिः, शरीरक्रियां विनाऽपि जाते शरीरानुयोगिक- पटादिप्रतियोगिकसंयोगे चैत्रकृतिप्रयुक्तत्वाभावात् । अतस्तन्निवेशः ॥ अथ-गुरुत्ववत्सु द्रव्येषु पतनस्य प्रसक्ततया तत्प्रतियोगिकसंयोगे पतनप्रतिबन्धकत्वस्वीकारेऽपि गुरुत्वशून्यजीवादिप्रतियोगिकसंयोगग्य पतनप्रतिबन्धकत्वासम्भवात् 'यस्यात्मा शरीरम्' इत्यादिश्रौतव्यव- हारानुफ्पत्तिः-इति चेन ॥ जगदाधारत्वादिबोधकश्रुतिबलादेव जीवा- दिप्रतियोगिकेश्वरानुयोगिकसंयोगस्यापि पतनप्रतिबन्धकत्वान्युप- गमात् ,आधारतायाः पतनप्रतिबन्धकसंयोगानुयोगित्वरूपत्वात् । पतन- प्रतिबन्धकत्वं परित्यज्य कृतिप्रयुक्तस्वप्रतियोगिकसंयोगसामान्यस्य शरीरपदप्रवृत्तिनिमित्तत्वस्वीकारेऽपि क्षतिविरहाच । सौभरिप्रभृति- योगिनां यान्येकदाऽनेकशरीराणि, यानि च मुक्तस्य ‘स एकधा भवति, द्विधा भवति' इत्यादिश्रुतिसिद्धान्यनेकशरीराणि, तत्र सर्व- शरीरेषु जीवानुयोगिकसंयोगप्रतियोगित्वाभावेऽपि तादृशशरीरप्रति- योगिकसंयोगसामान्ये तत्तदात्मकृतिप्रयुक्तत्वानपायान्न दोषः ॥ अत्र निरुक्त शरीरलक्षणस्य कालादिविभुद्रव्येप्वव्याप्तिः । विभूनां मिथो नित्यसंयोगस्य सिद्धान्तेऽङ्गीकारेण कालादिप्रतियोगिक- संयोगसामान्यस्येश्वरकृतिप्रयुक्तत्वासम्भवात् । कृतिप्रयुक्तस्वप्रति- योगिकजन्यसंयोगसामान्यकत्वस्य शरीरपदप्रवृत्तिनिमित्तत्वे जन्य- त्वस्य ध्वसंप्रतियोगित्वत्वप्रागभावप्रतियोगित्वत्वादिरूपविकल्पग्रासेन प्रवृत्तिनिमित्तभेदापत्त्या शरीरपदस्य नानार्थत्वापत्तिः । अनो लक्षणान्तरमुक्तम्- “यस्य चेतनस्य यव्यं सर्वात्मना शेषतैकस्वरूपं, तत्तस्य शरीरम्" , -इति॥ तच्छेषत्वं हि तन्निष्ठातिशयाधायकत्वं । प्रकृते च तन्निष्ठाति- शयः कार्यत्वकारणत्वान्यतररूपः । तदाधायकत्वं च तदवच्छेदकत्वं ।
शरीरवादः. तथा च-ज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्धावच्छिन्नकार्य- त्वकारणत्वान्यतरावच्छेदकत्वं शरीरपदप्रवृत्तिनिमित्तमित्यर्थः । सूक्ष्मचिदचिद्विशिष्टब्रह्मणः कारणत्वात् स्थूलचिदचिद्विशिष्टस्य च तस्य कार्यत्वात् ब्रह्मनिष्ठकार्यत्वकारणत्वान्यतरावच्छेदकत्वस्य प्रपञ्चसामान्ये सत्त्वात् प्रपञ्चस्य शरीरत्वोपपत्तिरिति ‘यस्यात्मा शरीरं, यस्य पृथिवी शरीरं' 'जगत्सर्वं शरीरं ते' इत्यादिव्यवहारोपपत्तिः ॥ तत्र षष्ठ्याधेयत्वस्य कार्यत्वकारणत्वान्यतरस्मिन्नन्वयाद्ब्रह्म- निष्ठकारणत्वकार्यत्वान्यतरावच्छेदिका पृथिवीत्यादिरित्यादिबोधः । जोवस्यापि शरीरविशिष्टस्यैव सुखदुःखादिकार्यकारित्वात्तच्छरीरस्य तन्निष्ठकारणत्वावच्छेदकत्वात् एतज्जीवस्येदं शरीरमित्यादिव्यवहार- निर्वाहः ॥ यद्यपि-जीवस्य सुखादिकार्य प्रति शरीरविशिष्टत्वेन न कारणत्वं, शरीरविशिष्टात्मत्वेनात्मविशिष्टशरीरत्वेन वा कारणतेत्यत्र विनिगमना विरहेण गुरुतरकार्यकारणभावद्वयापत्तेः; किं तु दण्डचक्रादिन्यायेन शरीरस्यात्मनश्च प्रत्येकमेव कारणताद्वयमिति ‘एतजीवस्येदं शरीरम् इत्यादिकं नोपपद्यते। तथाऽपि-उक्तलक्षणे कारणतायाः प्रयोजकता- साधारणरूपेणैव निवेशेन शरीरात्मनोः प्रत्येकं कारणत्वेऽपि एक- विशिष्टापरत्वरूत्पसामग्रीत्वेन कार्योत्पत्तिप्रयोजकत्वाक्षतेः जीवनिष्ठ- प्रयोजकतावच्छेदकत्वमादायैव उक्तव्यवहारोपपत्तिः । उक्तावच्छेदक- तायामपृथक्सिद्धसम्बन्धावच्छिन्नत्वनिवेशाच्च भृत्यविशिष्टराजादेः कार्यकारित्वेऽपि न भृत्योराजशरीरमिति व्यवहारापत्तिः । राजनिष्ठ- कार्योत्पादकतायां भृत्यस्य स्वस्वामिभावसम्बन्धेनावच्छेदकत्वेऽप्य- पृथक्सिद्धिसम्बन्धावच्छिन्नावच्छेदकत्वविरहात् । ज्ञानमेतस्य शरीर- मिति व्यवहारवारणाय च ज्ञानावच्छिन्नानुयोगिताकत्वनिवेशः ॥
शरीरवादः. एतेन-विनिगमनाविरहेण जीवविशिष्टशरीरस्यापि कार्योत्पत्ति- अयोजकत्वेन, जीवश्शरीरस्य शरीरमिति व्यवहारापत्तिः, शरीर- निष्ठकार्योत्पादकतायां अपृथक्सिद्धिसम्बन्धेन जीवस्यावच्छेदकत्वा- दिति-निरस्तम् ॥ शरीरनिष्ठकार्योत्पादकतायां स्वानुयोगिकापृथ- क्सिद्धिसम्बन्धप्रतियोगित्वरूपाधेयतासम्बन्धेन जीवस्यावच्छेदकत्वेऽपि ज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्धेन अतथात्वात् । मुक्तादे- रपि शरीरविशिष्टत्वेनैव विहारादिकार्यजनकत्त्वान्न तच्छरीरादाव- प्यव्याप्तिः ॥ एतल्लक्षणत्रयफलितं चतुर्थमपि लक्षणं न्यायसिद्धाञ्जने प्रतिपादितम्-- "यस्य चेतनस्य यदवस्थमपृथक्सिद्धविशेणद्रव्यं तत्तस्य शरीरम्" --इति ॥ ज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्धनिरूपितद्रव्यत्वसमाना - धिकरणप्रतियोगित्वं शररिपदप्रवृत्तिनिमित्तमित्यर्थः । एतज्जीवस्येदे शरीरमित्यादौ ज्ञानावच्छिन्नानुयोगिकापृथसिद्धिसम्बन्धनिरूपित- द्रव्यत्वसमानाधिकरणप्रतियोगितावच्छिन्नं शरीरपदार्थः । तदेक- देशज्ञानावच्छिन्नानुयोगितायां षष्ठचन्तार्थस्यैतज्जीवनिष्ठत्वस्या- न्वयात् ज्ञानावच्छिन्नतज्जीवनिष्ठानुयोगिताकापृथसिद्धिसम्बन्ध- निरूपितद्रव्यत्वसमानाधिकरणप्रतियोगित्वावच्छिन्नमिदमिति बोधः ॥ सिद्धान्ते धर्मभूतज्ञानस्य द्रव्यत्वेन शरीरात्मनोरिव ज्ञानात्मनोरपि अपृथसिद्धिसम्बन्धसत्त्वेन द्रव्यत्वसमानाधिकरणतादृशप्रतियोगिताव- त्त्वात् ज्ञानमेतस्य शरीरमिति व्यवहारवारणाय ज्ञानावच्छिन्नानु- योगिताकत्वनिवेशः । ज्ञानावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्ध- प्रतियोगित्वस्यात्मंगतपरिमाणादौ सत्त्वात्परिमाणमेतस्य शरीरमिति व्यवहारंवारणाय प्रतियोगित्वे द्रव्यत्वसामानाधिकरण्यप्रवेशः॥
शरीरवादः. में च-एतल्लक्षणस्य सौभरिशरीरादावव्याप्तिः, तत्रैकस्मिन् शरीरे जीवापृथाक्सद्धत्वसत्त्वेऽपि शरीरान्तरें तदसम्भवादिति-वाच्यम् । यतश्शरीरपदर्शक्यतावच्छेदकमपृथक्सिद्धिनिरूपितद्रव्यत्वसमानाधि- करणप्रतियोगित्वमेव । एतज्जीवस्येदं शरीरमित्यादौ स्वनिष्ठज्ञानाव- च्छिन्नानुयोगिताकत्वस्वीयज्ञानानुयोगिकत्वान्यतरसम्बन्धस्य षष्ठ्यर्थ- तया विशिष्टार्थलाभः । जीवापृथक्सिद्धिरहिते सौभरिप्रभृति- शरीरेऽपि ज्ञानापृथसिद्धिंसम्बन्धस्य प्रदीपवदावेश इति न्याय- सिद्धत्वेन स्वीर्यज्ञानानुयोगिकापृथक्सिद्धिसम्बन्धप्रतियोगित्वमादाय तत्रं शरीरव्यवहारनिर्वाहात्. ॥ ननु-शरीरत्मिनोरपृथक्सिद्धिसम्बन्धो न सम्भवति, यावत्सत्तम- सम्बन्धानहयोरेपृथक्सिद्धिसम्बन्धाभ्युपगमात् ; मृतशरीरस्य जीव- सम्बन्धरहिततयाऽप्यवस्थानदर्शनेन तयोर्यावत्सत्तमसम्बन्धानहत्व- विरहात्-इति चेन्न ॥ पूर्वं शरीरतया स्थितस्य द्रव्यस्य चेतन- वियोगानन्तरक्षण एवं नाशाभ्युपगमेनानुपपत्तिविरहात् ॥ तथा च न तु दृष्टान्तभावादित्यत्र श्रीभाष्यम् "मृतशरीरं तु चेतनवियोगक्षण एवं विंशरीतुमारब्धं क्षणा- न्तरे विशीर्यते । पूर्वशरीरतया परितृप्तसघातैकदेशत्वेन तत्र शरीरत्वव्यवहारः ।। -इति ॥ एवमेव पूर्वलक्षणेवष्यव्याप्तिपरिहार ऊसाः ।। -इत्याहुः॥ अन्ये तु- यस्य चेतनस्येत्यादिभाष्यमैकलक्षणपरमेंव, न तु लक्षणत्रयपरम् । तत्सूचकवाकाराद्यभावात् ; आधेयत्व-विधेयत्व शेषत्वानि प्रवृत्ति- निमित्तमिति भाष्यविरोधाच्च । तत्र प्रत्येकंधर्मस्य शक्यतावच्छेदक- त्वेऽतिप्रसक्तिविरहेऽपि समुदायस्य तथात्वस्वीकारस्तु शरीरपदादाधे- यत्वविधेयत्वशेषत्वानां बोधानुभवादेवः ॥
शरीरवादः. न च-एतज्जीवस्येदं शरीरमिति वाक्यजन्यबोधानन्तरमिदंपदार्थ- विशेष्यकजीवाधेयत्वादिसंशयः कस्यापि जायते । अत्र आधेयत्वादि- त्रयस्य शरीरपदजन्यबोधविषयत्वावश्यकतया समुदायस्य तच्छ- क्यतावच्छेदकत्वमावश्यकं । यथा पद्मत्वस्यानतिप्रसक्तत्वेऽपि पङ्कजनि- कर्तृत्वस्य बोधानुरोधेन पङ्कजादिपदशक्यतावच्छेदकत्वस्वीकारः॥ ननु-एतज्जीवस्येदं शरीरमिति वाक्यादाधेयत्वादित्रितयस्य बोधेऽपि न त्रितयस्य शक्यतावच्छेदकत्वावश्यकता, तत्राधेयत्वमात्रस्य शक्यतावच्छेदकत्वेऽपि विधेयत्वशेषत्वयोरापत्तिवशेन भानसम्भ- वात् । सिद्धान्ते पदजन्यपदार्थोपस्थितिविषयस्येव अर्थापत्तिविषयस्यापि शाब्दबोधे भानाङ्गीकारात् , शरीरत्वमाधेयत्वशेषत्वाभ्यां विना अनुपपन्नमित्यर्थापत्तेः प्रकृतेऽपि सम्भवात् । अत एव हि घटेनजल- माहरेत्यादौ छिद्रेतरत्वं विना जलाहरणमनुपपन्नमित्यर्थापत्तिविषयी- कृतस्य छिद्रेतरत्वस्य शाब्दबोधभानमानुभाविकम्-इति चेन्न ॥ "आक्षेपतः प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात्" इति भाष्यानुरोधेन अर्थापत्तिविषयस्य शाब्दबोधे भानस्य शक्त्यसम्भवस्थल एव स्वीकारात् ॥ —इति वदन्ति ॥ 'यस्य वेदाश्शरीरं, यस्य यज्ञाश्शरीरम्' इत्यादौ वेदयज्ञपदयो- स्तदभिमानिदेवतापरत्वस्य श्रुतप्रकाशिकायामुक्तत्वात् उक्तशरीर- लक्षणस्य वेदयज्ञयोरसत्त्वेऽपिन क्षतिः॥यद्यपि देवतोद्देश्यकद्रव्यत्याग- रूपयज्ञपदार्थैकदेशद्रव्ये शरीरपदार्थस्याभेदान्वयसम्भवात् वेदयन्तीति वेदाः- इति व्युत्पत्तिसिद्धज्ञानसाधनत्वरूपयौगिकार्थघटकज्ञाने च तत्सम्भवाद्वेदयज्ञपदयोर्लक्षणाभ्युपगमो व्यर्थः। तथाऽपि संयोगानुकूल- क्रियारूपगमनपदार्थैकदेशसंयोगे गुणाभेदान्वयतात्पर्येण गमनं गुण इत्यादिव्यवहारवारणाय अभेदसम्बन्धावच्छिन्नप्रकारतानिरूपित- १. जिज्ञासाधिकरण-श्रीभाष्ये. 2 १० शरीरवादः. विशेष्यतासम्बन्धेन शाब्दबोधं प्रति पदजन्योपस्थितेर्मुख्यविशेष्यता- सम्बन्धेन हेतुत्वावश्यकतया प्रकृतेऽप्येकदेशे अभेदान्वयबोधासम्भव- मभिप्रेत्य वेदयज्ञपदयोर्लक्षणास्वीकारान्नानुपपत्तिः ॥ ‘परमसुन्दरः परमात्मा' इत्यादौ परमपदार्थस्य सुन्दरपदार्थैकदेशे सौन्दर्ये आत्मपदार्थ- कदेशज्ञाने चाभेदान्वयबोधप्रतिपादनं गदाधरादीनां गत्यन्तरविरहे- णैव । तथाऽन्वयं विना तादृशतात्पर्यानिर्वाहादिति ध्येयम् ॥ तार्किकास्तु-' 'चेष्टेन्द्रियार्थाश्रयश्शरीरम्' इतिसूत्रानुरोधादन्त्यावय- वित्वे सति चेष्टावत्त्वं, अन्त्यावयवित्वे सति इन्द्रियाश्रयत्वं, अन्त्यावय- वित्वे सति भोगावच्छेदकत्वं वा शरीरपदप्रवृत्तिनिमित्तं ॥ तत्र प्रथम एतज्जीवस्येदं शरीरमित्यादौ कृतिप्रयोज्यत्वस्य षष्ठ्यर्थस्य शरीर- पदार्थैकदेशचेष्टायामन्वयादन्त्यावयवित्वसमानाधिकरणैतज्जीवनिष्ठकृ- तिप्रयोज्यचेष्टावदिदमिति बोधः ॥ द्वितीये षष्ठयर्थस्य ज्ञानजनकत्वस्य शरीरपदार्थैकदेशे इन्द्रिये अन्वयादन्त्यावयवित्वसमानाधिकरणैतज्जीव- निष्ठज्ञानजनकेन्द्रियाश्रय इदमिति बोधः ॥ तृतीये पष्ठ्यर्थाधेयत्वस्य सुखादिसाक्षात्काररूपभोगेऽन्वयादेतज्जीवनिष्ठभोगनिरूपितान्त्यावय- वित्वसमानाधिकरणावच्छेदकतावदिदमिति बोधः ॥ हस्तः एतस्य शरीरमिति व्यवहारवारणाय सर्वत्र सत्यन्तम्-इत्याहुः॥ तच्चिन्त्यं ॥प्रथमकल्पे चेष्टाशब्देन क्रियामात्रविवक्षायां घटोदेव- दत्तशररिमितिव्यवहारापत्तिः ; देवदत्तकृतिजन्यक्रियावत्त्वस्य अन्त्या- वयवित्वसमानाधिकरणस्य घटे सत्त्वात् । हिताहितप्राप्तिपरिहारानु- कूलक्रियाया विजातीयाया वा चेष्टाशब्देन विवक्षणे देवदत्त ईश्वरस्य शरीरमिति व्यवहारस्य भवदनभिमतस्य प्रसङ्गः ; ईश्वरकृतिप्रयुक्त- १. न्यायसूत्रम् (१-११) २. (टि.) अत्र अर्थशब्दः भोगरूपप्रयोजन- परः । सूत्रस्थाश्रयपदस्य अधिकरणमवच्छेदकं चार्थः । आये लक्षणद्वयं प्राथमिक, द्वितीये चरमलक्षणमभिप्रेतम् ॥
शरीरवादः. ११ चेष्टावत्त्वस्य देवदत्ते सत्त्वात्। कृत्यसाधारणकारणकत्वस्य षष्ठ्यर्थता- स्वीकारेणोक्तातिप्रसङ्गवारणेऽपि अहल्यादिशरिभूतशिलादावुक्त- लक्षणाव्याप्तिर्दुवारा॥ द्वितीथे समवायेन इन्द्रियवत्त्वविवक्षणे असम्भवः इन्द्रियावयवेष्वतिव्याप्तिश्च । संयोगेन तद्विवक्षणे घटादावतिप्रसङ्गः, स्वजन्यज्ञानावच्छेदकत्वसम्बन्धेन तद्विवक्षणे च रामादिशरीरेप्वव्याप्तिः; ईश्वरज्ञानस्य नित्यत्वात् , व्याप्यवृत्तित्वेनावच्छेदकनिरपेक्षत्वाच्च; शिलाकाष्ठादिरूपाहल्यादिशरीरेऽव्याप्तिश्च ॥ तृतीये वेश्मादावति- व्याप्तिः ; वने सिंहनाद इत्यादौ सिंहकण्ठावच्छेदेन जायमानशब्दं प्रति वनस्येव देहावच्छेदेन जायमानभोगं प्रति वेश्मादेरवच्छेदकत्वसम्भवात् , वेश्मन्यस्य भोग इति व्यवहाराच ॥ न च स्वावयवातिरिक्तदेशानवच्छिन्नत्वस्य भोगनिरूपितावच्छेदक- तायां निवेशान्न दोषः ; वेश्मनश्च देहावच्छिन्नस्यैवावच्छेदकत्वात्, स्वावयवातिरिक्तदेशानवच्छिन्नावच्छेदकत्वविरहात् स्वावयवातिरिक्त- त्वस्य देशविशेषणत्वाच नासम्भवः ; शरीरनिष्ठावच्छेदकतायाः पादे सुखमित्यनुरोधेन स्वावयवावच्छिन्नत्वेऽपि तदतिरिक्तदेशानवच्छिन्न- त्वात् -इति वाच्यम् । परकायस्य प्रविष्टं प्रति शरीरत्वापत्तेः ; ईश्वरभोगस्य व्याप्यवृत्तित्वेन तदवच्छेदकाप्रसिद्धचा रामशरीरादा वव्याप्तेश्च ॥ तथा च अपीतौ तत्पसङ्गादसमञ्जसमित्यत्र श्रीभाष्यम्- "न च भोगायतनत्वं शरीरत्वमिति शरीरत्वसम्भवः, भोगा- यतनेषु वेश्मादिपु शरीरत्वाप्रसिद्धेः । यत्र वर्तमानस्यैव सुख- दुःखोपभोगस्तदेव भोगायतनम् इति चेन्न, परकायप्रवेशar - १. अत्र-खावयवातिरिक्तदेशः स्वानाधारत्वेन विवक्षणीयः । तेन वेश्मनः शरीराधारस्य शरीरातिरिक्तस्य तदवयवातिरिक्तस्य च देशविधया शरीरावच्छेदेन जायमानभोगं प्रति उक्तरीत्या अघन्छेदकत्वेऽपि नासम्भवः ।।
१२ शरीरवादः. जन्यसुखदुःखभोगायतनस्य परकायस्य प्रविष्टं प्रति शरीरत्वा- प्रसिद्धेः। ईश्वरस्य तु स्वतस्सिद्धनित्यनिरतिशयानन्दस्य भोगं प्रति चिदचिद्वस्तुनोरायतनत्वनियमो न सम्भवति ॥" इति॥ आयतनत्वमवच्छेदकत्वं शङ्कते-यत्र वर्तमानस्यैवेति । वर्तमा- नस्य यस्य यत्रैव सुखदुःखोपभोग इत्यन्वयेन यन्निष्ठनिरवच्छिन्ना- वच्छेदकताकः सुखादिसाक्षात्कार इत्यर्थः । त्रलर्थावच्छेदकतायाम- वकारार्थस्य स्वावयवातिरिक्तदेशानवच्छिन्नत्वस्यान्वयेन नचेत्याद्यस्मदु- क्तशङ्कायामेव भाष्यतात्पर्यात् ॥ आनन्दे निरतिशयत्वं च व्याप्यवृत्तित्वं बोध्यम् । तस्माच्छ्रीमा- प्योक्तलक्षणमेव लोकवेदप्रयोगानुगुणम् । तथा च अचिद्वस्तूनामिव चिद्वस्तूनामपि परमात्मशरीरत्वाच्छरोरवाचिशब्दानां शरीरिपर्यन्त- त्वात् , 'सर्वं खल्विदं ब्रह्म', 'अयमात्मा ब्रह्म', 'तत्त्वमसि'- इत्यादिसमानाधिकरणव्यवहारोपपत्तिः। अत एव-'अनेन जीवेनात्म- नाऽनुप्रविश्य नामरूपे व्याकरवाणि'- इत्यनुप्रवेशपूर्वकनामरूप- व्याकरणं परमात्मन उपपद्यते । जीवेनात्मनेत्यत्र जीवशरीरकण मयेत्य- र्थात् । अन्यथा यथाश्रुतानुरोधाज्जीवात्मन एवानुप्रवेशकर्तृत्व- स्वीकारे-'तदेवानुप्राविशत् , तदनुप्रविश्य, सच्च त्यच्चाभवत्' इति पर- मात्मनोऽनुप्रवेशकर्तृत्वप्रतिपादकश्रुत्यन्तरविरोधापत्तिः ॥ नन्वेवम् —आत्मनेति तृतीयाऽनुपपत्तिः, व्याकरवाणीति तिङा कर्तुरभिधानात् , अनभिहिते कर्तरीति विधानात् , स्वोत्तरप्रत्ययभिन्न- स्वसमभिव्याहृतपदसामान्यवृत्तिकर्तृत्वादिबोधतात्पर्याभावकं यत्स्वं तस्मात्तृतीयादिर्भवतीति हि तृतीयेत्याद्यनुशासनार्थः। स्वं-तृतीयादि- १. यनिष्ठनिस्वच्छिन्नेत्यत्र-निरवच्छिन्नत्वं एवकारार्थतयाऽभिमतं, स्वावय- वातिरिक्तदेशानवच्छिन्नत्वरूपं त्रलर्थावच्छेदकताविशेषणं वक्ष्यमाणमिहाभिप्रेतम्॥ , शरीरवादः. १३ प्रकृतिः । 'चैत्रेण पच्यते तण्डुलः' इत्यादौ स्वं-चैत्रपदं, तत्समभि- व्याहृततदुत्तरप्रत्ययभिन्नपदसामान्ये कर्तृत्वबोधतात्पर्यकत्वाभाव- सत्त्वात्तस्मात् तृतीयोपपत्तिः। प्रकृते च तादृशं स्वं नात्मपदं, तत्समभि- व्याहृततदुत्तरप्रत्ययभिन्नपदसामान्यान्तर्गततिङादी कतृत्वतात्पर्यक- त्वस्यैव सत्त्वात् ॥ न च-व्याकरणकर्तृत्वतात्पर्यकत्वस्य तिङादी सत्त्वेष्यनुप्रवेशकर्तृत्वतात्पर्यकत्वविरहस्य स्वोत्तरप्रत्ययभिन्नस्वसमभि- व्याहृतपदप्तामान्ये सत्त्वादात्मपदात्तृतीयोपपत्तिः ; स्वतात्पर्यविषयी- भूतानिष्ठस्वसमभिव्याहृतयत्किञ्चित्क्रियानिरूपितकर्तृत्वतात्पर्यकत्वा भाववत् स्वसमभिव्याहृतस्वोत्तरप्रत्ययभिन्नपदसामान्यकं यत्स्वं तरमा- तृतीयादिरित्यनुशासनार्थाङ्गीकारात्-इति वाच्यम्। तथा सति ‘पक्वानि भुङ्क्ते चैत्रः' इत्यादौ चैत्रपदात्तृतीयापत्तेः । स्वं-चैत्रपदं तत्तात्पर्य- विषयीभूतचैत्रादिरूपार्थनिष्ठं यत् यत्किञ्चित्स्वसमभिव्याहृतपाक- कर्तृत्वं तत्तात्पर्यकत्वाभावस्य स्वसमभिव्याहृतपदसामान्ये सत्त्वात् । अतः स्वतात्पर्यविषयीभूतार्थनिष्ठप्रधानक्रियानिरूपितकवृत्वतात्पर्य- कत्वाभाववत् स्वसमभिव्याहृतपदसामान्यकं यत्स्वं तस्मात्तृतीयादि- रित्येवानुशासनार्थो वाच्यः । पक्वानि भुङ्क्ते चैत्र इत्यादौ चैत्रनिष्ठ यत्प्रधानक्रियाकर्तृत्वं भोजनकर्तृत्वरूपं तत्तात्पर्यकत्वस्यैव स्वस्समभि- व्याहतपदसामान्यान्तर्गततिङादौ सत्त्वान्नानुपपत्तिः । प्रकृते चात्म- पदतात्पर्यविषयीभूतार्थनिष्ठं यत्प्रधानभूतव्याकरणक्रियाकर्तृत्वं तत्ता- त्पर्यकत्वस्यैव स्वसमभिव्याहृतपदसामान्यान्तर्गततिडादौ सत्त्वेन न तादृशं स्वमात्मपदमिति तस्मातृतीयानुपपत्तिः इति चेत् ॥ अत्र ब्रूमः-समानाकारकज्ञानेषु विषयताभेदानङ्गकिर्तृनैयायिकादि- मते-'चैत्रेण दृश्यमानं घटं मैत्रः पश्यति'-इत्यादौ द्वितीया- नुपपत्तिः। चैत्रदर्शनमैत्रदर्शनोभयनिरूपितं विषयत्वरूपं कर्मत्वमेक- मिति घटनिष्ठं यत्प्रधानक्रियानिरूपितविषयत्वादिरूपं कर्तृत्वं १४ शरीरवादः. तत्तात्पर्यकत्वत्यैव स्वसमभिव्याहृतपदसामान्यान्तर्गतकृत्प्रत्यये सत्वान्न तादृशं स्वं घटपदमिति 'अनभिहिते कर्तरि' इत्यादेः कर्तृत्वादि- विशेष्यतया प्रातिपदिकार्थे अविवक्षिते सति तृतीयेत्येवार्थः । प्रातिपदिकार्थविशेषणतयैव कर्तृत्वे अविवक्षिते इति यावत् । अवधारणपरतया प्रातिपदिकार्थविशेप्यतया कर्तृत्वे विवक्षिते तद्भुत्तरं तृतीयेतिपर्यवसितार्थः स्वीकार्यः । चैत्रेण दृश्यमानं घटं मैनः पश्यतीत्यादौ प्रातिपदिकार्थविशेष्यतया कर्मत्वस्य विवक्ष- णाहितीयोपपात्तः । एवं च अनेन जीवेनात्मनाऽनुप्रविश्य इत्यादी प्रातिपदिकार्थविशेष्यतया कर्तृत्वस्य विवक्षणाच्च तृतीयोपपत्तिः ॥ अथैव-चैत्रादिकर्तृत्वविशेषितपाकादितात्पर्येण चैत्रेण पचतीति प्रयोगापत्तिः । एवं चैत्रमैत्रोभयकर्तृकपाकस्थले चैत्रकर्तृकपाककर्ता मैत्र इत्यन्वयतात्पर्येण 'चैत्रेण पचति मैत्रः' इति प्रयोगापत्तिश्च । कर्तृत्वविशेषणताऽनापन्नक्रियायां तृतीयार्थकर्तृत्वान्वयव्युत्पत्तिमङ्गी- कृत्य उक्तापात्तवारणे च 'चैत्रेण पाचयति मैत्रः' इत्यादौ ण्यर्थकर्तृत्व- विशेषणतापन्नपाकादौ तृतीयार्थकर्तृत्वान्वयानुपपत्ति:-इति चेन्न । आश्रयातिरिक्तविशेषणताऽनापन्नकर्तृत्वविशेषणताऽनापन्नक्रियायामेव तृतीयार्थकर्तृत्वान्वय इति व्युत्पत्तिस्वीकारेणोक्तदोषाभावात् , चैत्रेण पाचयातीत्यादी कर्तृत्वनिर्वाहकव्यापारो णिजर्थः । तत्राश्रयातिरिक्ते व्यापारे कर्तृत्वं विशेषणमिति तद्विशेषणतापन्नक्रियायां तृतीयार्थकर्तृ- त्वस्य विशेषणत्वे न किं चिद्बाधकं । चैतेण पचति मैत्र इत्यादयश्च न प्रयोग्राः । तत्राश्रय एव कृतेविशेषणतया तद्विशेषणतापन्नक्रियायां तृतीयार्थकर्तृत्वस्य बोधनासम्भवात् कृतिविशेष्यकबोधाभिप्रायेण चैत्रेण पचतीति वारणायाश्रयविशेषणत्वमुपक्ष्य तदतिरिक्तविशेषणत्वनिवेशः। -इति ॥ प्रधानतया.
शरीरवाद. १५ ज्ञानरत्नप्रकाशिकाकृतस्तु-'अनभिहिते कर्तरि तृतीया' इत्यादे. स्वतात्पर्यविषयीभूतार्थनिष्ठस्वसमभिव्याहृतयत्किञ्चित्वियानिरूपित- कर्तृत्वतात्पर्यकत्वाभाववत् स्वसमभिव्याहृतसामान्यक यत्व तस्मा- तृतीयादिरित्येवार्थ ॥ न चैव-पक्वानि भुक्ते चैत्र इत्यादौ चैत्रपदा- तृतीयापत्ति , चैत्रनिष्ठ यत्पाकादिकर्तृत्व तत्तात्पर्यकत्वाभावस्य स्व- समभिव्याहृतपदसामान्ये सत्त्वात् -इति वाच्यम् । स्वसमभिव्याहृत- पदाभिहितप्रधामक्रियानिरूपितकर्तृत्वादिनिष्ठविषयतानिरूपितविषय- ताप्रयोजकभिन्नत्वस्य स्वपदार्थे विशेषणत्वेनानुपपत्त्यभावात् , पक्वानि भुङ्क्ते चैत्र इत्यादौ चैलपदस्याख्याताभिहितप्रधानक्रियाकर्तृत्वनिष्ठ- विषयतानिरूपितविपयताप्रयोजकतया तदभिन्नत्वाभावात् । अनेन जीवनात्मनेत्यादौ चाख्याताभिहितप्रधानभूतव्याकरणक्रियाकर्तृत्व- निष्ठविषयतानिरूपितविषयताप्रयोजक यदहमादिपद तद्भिन्नत्वस्या- त्मपदे सत्त्वात् आत्मपदतात्पर्यविषयीभूतार्थनिष्ठानुप्रवेशकर्तृत्वतात्पर्य- कत्वविरहस्य स्वसमभिव्याहृतपदसामान्ये सत्त्वाच्चात्मपदात्तृतीयोप- पत्ति. ॥ -इति वदन्ति ॥ अत्र यद्यपि चैत्रेण दृश्यमान घट मैत्रः पश्यतीत्यादौ घटपदस्य शानच्प्रत्ययाभिहितप्रधानक्रियाकर्मत्वनिष्ठविषयतानिरूपितविषयता- प्रयोजकत्वेन तद्भिन्नत्वाभावात् द्वितीयानुपपत्ति ॥ न च-सिद्धान्ते ज्ञानभेदेन ज्ञानसंयोगात्मकविषयताया भेदान्ना- नुपपत्तिः, सिद्धान्ते ज्ञानस्य द्रव्यत्वेन प्रसरणवत्त्वेन च तत्संयोग- स्यैव विपयतारूपत्वात्-इति वाच्यम् । एवमपि धारावाहिकज्ञानस्य घटसम्बद्धस्थिरद्रव्यात्मकस्य ऐक्ये तत्स्थले तादृशज्ञानस्य गृहीत- ग्राहित्वतात्पर्येण ज्ञातमेव जानातीति व्यवहारानुपपत्ति । तत्र प्रधाना- प्रधानक्रिययोरैक्ये तत्सयोगस्याप्यैक्येन क्तप्रत्ययेन प्रधानक्रिया- कर्मत्वस्यैवाभिधानात् । तथाऽपि धारावाहिकज्ञानस्थले निरन्तरज्ञान- सन्ततिरेव, न त्वेकज्ञानमिति-तेपामाशयः॥
- १६ शरीरवादः यदि च-धारावाहिकज्ञानस्थले ज्ञानैक्यमानुभाविकं सिद्धान्तसिद्धं च तदाऽस्मदुक्तरीत्या तत्रापि नानुपपत्तिः । तथा च-अनुप्रवेश- पूर्वकं नामरूपव्याकरणं परमात्मन एवेति सिद्धम् ॥ नविदमनुपपन्नम्-परमात्मनो विभुत्वाङ्गीकारात् । अनुप्रवेशो हि-अन्तस्संयोगावच्छिन्नक्रियारूपो गतिविशेषः । गतिश्च-विभु- त्वाभावसाधकतया सूत्रकारेणैव निर्दिष्टा 'उत्क्रान्तिगत्या गतनिाम्' इति । तस्मादणोर्जीवस्यैवानुप्रवेशो युक्तः---इति चेत् ॥ उच्यते- अनुप्रवेशस्य गतिविशेषरूपत्वेऽपि तस्य जीवनिष्ठत्वात् , परमात्म- कृतिजन्यत्वेन तत्कर्तृकत्वाच्च नानुपपत्तिः । यथा हि-नैयायिकादि- नये देवदत्तो ग्रामं गच्छतीत्यत्र जीवस्य विभुत्वेऽपि शरीर- निष्ठा या संयोगानुकूलक्रिया तदनुकूलकृतिमत्त्वमेव देवदत्तशरराि- वच्छिन्नात्मनि प्रतीयते, न तु गमनादिरूपक्रियावत्त्वं । सर्वत्र शरीरनिष्ठक्रियानुकूलकृतेरेवात्मनि भानाङ्गीकारात् । तथा 'अनुप्रविश्य नामरूपे व्याकरवाणि' इत्यत्र अनुप्रवेशरूपधात्वर्थोत्तरकालीनत्वस्य ख्यवन्तार्थस्य स्वप्रकृत्यर्थसमानकर्तृकत्वविशिष्टाश्रयतासम्बन्धेन नाम- रूपव्याकरणेऽन्वयाङ्गीकारात् परमात्मनि जीवरूपशरीरनिष्ठानुप्रवेशा- नुकूलकृतिमत्त्वं भासते, न त्वनुप्रवेशवत्त्वमिति नानुपपत्तिः ॥ न च-एवं जीवस्य विभुत्वेऽपि गत्यादिकर्तृत्वमुपपद्यते, शरीरनिष्ठ- गमनादिरूपक्रियां प्रति कर्तृत्वसम्भवात् , ग्रामं गच्छतीत्यादिवत्- इति वाच्यम् । यत उत्क्रान्त्यादिसूत्रं नैयायिकमतनिराकरणपरं ; तथाहि-जीवो विभुत्वाभाववान्, क्रियावत्त्वात्-इत्यनुमानमभि- प्रेत्य तत्र स्वरूपासिद्धिशङ्कानिरासतया उत्क्रान्तीत्यादिसूत्र प्रवृत्तम् ॥ तथा च-उत्क्रान्त्यादिना श्रुतिसिद्धत्वान्न स्वरूपासिद्धत्वमिति- भावः । ऊर्ध्वदेशसंयोगावच्छिन्नक्रियात्वादिरूपोत्क्रान्तित्वादिना च हेतुत्वं न सम्भवति, नीलधूमादिवद्वैयर्थ्यात् ॥ - शरीरवादः. १७ अथ-'तेन प्रद्योतेनैष आत्मा निष्क्रामति, चक्षुषो वा मूर्भो वाऽ न्येभ्यो वा शरीरदेशेभ्यः' इत्युत्क्रान्तिप्रतिपादकश्रुत्या, 'ये वैके चा- स्माल्लोकात्प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति' 'तस्माल्लोकात्पुन- रेत्यस्मै लोकाय कर्मणे' इति गत्यागतिप्रतिपादकश्रुतिभ्यां च शरीरनिष्ठोत्क्रान्त्यादिरूपक्रियानुकूलकृतेरेव आत्मनि बोधेऽपि क्रिया. वत्त्वस्याबोधात् स्वरूपासिद्धिः-इति चेन्न ॥ नैयायिकादिनये उत्क्रान्त्यादिकाले शरीराभावेन निष्क्रामतीत्यादिना रथोगच्छतीत्या- दिवत् क्रियाश्रयत्वस्यैव बोधावश्यकतया क्रियावत्त्वरूपहेतोरात्मनि सिद्धेरिति सूत्रामिप्रायात् । अधिकमन्यत्र विवेचितम् ॥ शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादार्थोऽयं विजृम्भताम् ॥ इति श्रीशेषार्यवंशमुक्ताफलस्य श्रीयादवादिनिवासरसिकस्य श्रीमदनन्तार्यवर्यस्य कृतिषु शरीरवादः समाप्तः। ॥ श्रीः॥
१८ श्रीभाप्यभावाङ्करः ननु-अप्पदस्य त्रिवृत्कृताप्परतया प्रश्नप्रतिवघनाभ्यां त्रिवृ- त्कृतभूतसूक्ष्मसम्बन्धसिद्धावपि न सूक्ष्मशरीरसम्बन्धसिद्धिः; अग्नि- होत्राहुल्यन्तर्गतजलसम्बन्धपरतयाऽपि तच्छुतेरन्यथासिद्धेरित्यतआह- ॥सू॥ प्राणगतेश्च ॥३॥१॥३॥ तदन्तरप्रतिपत्तौ इष्टादिकारी सम्परिप्वक्त इति च बर्तते । तथा च-देहादेहान्तरगमनकालावच्छिन्चो जीवः सूक्ष्मशरीर- सम्बन्धवान् , इन्द्रियवत्त्वात् , कालान्तरावच्छिन्ननीववत्-इत्यनुमान- सहकृतया पञ्चाग्निविद्यया तत्सिद्धिरिति भावः । न चासिद्धिः, बमुत्क्रामन्तमिति श्रुत्या तत्सिद्धेः; एतज्ज्ञापनायैव सूत्रे गतिग्रहणम् ॥ ननु-तादृशश्रुतेदेहत्यागमात्रपरत्वात् न गमनकालावच्छेदनेन्द्रिय- वत्त्वसिद्धिः, ग्रामाझिप्क्रामन्तं देवदत्तमनुनिष्क्रान्तो यज्ञदत्त इत्यादी देवदत्तस्य ग्रामत्यागानन्तरं यज्ञदत्तस्य तत्प्रतीतावपि देवदत्तस्य यत्र यत्र गमनं यज्ञदत्तस्य तत्र तत्रेत्यप्रतीतेः । अत आह श्रीभाप्ये स्मयते चेति । प्राणगतिरिति प्रथमान्तमनुपज्यते ; चकारात् श्रूयत इत्यस्य समुच्चयः । तथा च- "शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥" इत्यादिस्मृत्युपबृंहितया तादृशश्रुत्या तत्सिद्धिरिति भावः ॥ ननु-उक्तोपबृंहणमप्रमाणं, अग्निं वागप्येतीत्यादिश्रुतिविरुद्ध. त्वात्, श्रुतिविरुद्धस्मृतेरप्रामाण्यस्य विरोधाधिकरणसिद्धत्वात् ; तथा चोत्क्रमणश्रुतेः देहत्यागमात्रपरत्वात् असिद्धितादवस्थ्यमित्याशङ्कय परिहरति- ॥ ॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥३॥ १॥४॥ अन नञः इतिशब्दस्य चावृत्तिः । तथा चाप्ययश्रुतेरिति नेति ..
श्रीमाष्यभावाङ्कुरः चेन्न-इन्द्रियवत्त्वसिद्धिर्न सम्भवतीति चेन्न ; अप्ययश्रुतेक्तापक्रमण- रूपगौणार्थपरत्वादित्यर्थः । एवं च-श्रुतिविरोधाभावेन स्मृतेः प्रामा घ्यात् तदुपबृंहितयोत्क्रमणश्रुत्या तत्कालावच्छेदेन इन्द्रियवत्वा- सिध्या तद्धेतुकानुमानसहकृताभ्यां प्रश्नप्रतिवचनाभ्यां बल्काला- वच्छेदेन जीवस्य सूक्ष्मशरीरसिद्धिरिति भावः ।। ननु-जीवस्यान्तरालकालावच्छेदेन सूक्ष्मशरीरवत्वं नोक्तानुभानेनक सिद्ध्यति, अतीन्द्रियार्थे अनुमानस्य स्वातन्त्र्येण प्रामाण्यभावस्य शास्त्रयोन्यधिकरणसिद्धत्वात् ; नापि तत्सहकृतया पञ्चाग्निविद्यया, तत्र पञ्चमाहुतौ जीवस्याप्सम्बन्धोक्तावपि प्रथमाद्याहुतिषु तदनुस्त्या तत्कालावच्छेदेन जीवस्य तत्सम्बन्धासिद्धेरित्याशङ्कय परिहरति- ॥ सू ॥ प्रथमेऽश्रवणादिति चेन्न ता एव झुपपत्तेः ॥३॥ १ ॥ ५ अत्रापि नभितिशब्दयोरावृत्तिः, विषयवाक्याढपामित्यनुवर्तते। प्रथमें होमे अपां कमतया अश्रवणांत्, इति नेति चेन्न-शरीरविशिष्टस्य गमनं नेति चेन्न । हिशब्दः-श्रद्धा वा आप इति श्रुतौ श्रद्धाशब्द- वाच्यत्वप्रसिद्धिषरः ; हि-श्रद्धाशब्दवाच्यत्वेन प्रसिद्धा आप एव, प्रथमे श्रुता इति शेषः। उपपत्तेः-प्रश्नप्रतिवचनोपपत्तेः, 'वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति प्रश्ने यथाशब्दार्थस्य निज्ञासाविषयकारणजन्यत्वस्य पञ्चमाहुतौ, इति तु पञ्चम्यामाहुतावाप इति प्रतिवचने इतिशब्दार्थस्याहुतिचतुष्टयरूपकारणजन्यत्वस्य च पञ्चमाहुतौ बोधात् , समानाधिकरणयोरेव जन्यजनकभावात् । अप्सु पञ्चमाहुतेः कर्मतासम्बन्धेन सत्त्वेन प्रथमाहुतेरपि तेन सम्बन्धेन तत्र सत्त्वमावश्यकम् । तथा च-प्रथमाद्याहुतिकर्मभृताः आपः, पञ्चमाहुति- कर्मत्वात् , पञ्चमाहुतिहोम्पवत्-इत्यनुमानात् प्रथमाहुतिकर्मणामपि अप्त्वसिद्धिः ।।
श्रीभाप्यभावाङ्कुरः 4. न च-प्रथमाहुतिकर्मसु पञ्चमाहुतिकर्मत्वमसिद्धं ; प्रथमाद्याहुतिः पञ्चमाद्याहुतिसमानाधिकरणा, तज्जनकत्वात् , यत यजनकत्वं तत्र तत्सामानाधिकरण्यामिति व्याप्तेः। उपपत्तेरित्यस्य उक्तार्थश्च प्रश्न- प्रतिवचनोपपत्तेरिति भाप्येणोक्तः ।। यद्वा-उपपत्तेरित्यम्य उत्तरोत्तराहुतिकर्मोपादानत्वोपपत्तेरित्यर्थः सोमाकारेण परिणामश्च अमेवोपपद्यत इति भाष्ये सूचितत्वात् । प्रथमाहुतिकर्मभूता आपः, सोमात्मकाबुपादानत्वात् । सोमस्याप्त्वं च वर्षोपादानत्वादिभिरिसद्धमिति ।। ननु-उक्तश्रुतियुक्तिभिभूतसूक्ष्मस्य गमनसिद्धावपि न तद्विशिष्ट- जीवस्य गमनं सिद्ध्यति ; प्रथमाद्याहुतिषु श्रद्धादीनामचेतनानामेव होम्यत्वात् श्रद्धादिशब्दस्य विशिष्टपरत्वकल्पने मानाभावात् , पुरुषवचसो भवन्तीत्यस्य सप्तमे मासे गर्भे जीवस्य प्रवेशादेवोपपत्ते- रुत्क्रान्तिश्रुतेरपि प्रत्येकगमनादेवोपपत्तेरित्यशङ्कय परिहरति- ॥ ॥ अश्रुततत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ३ ॥ १ ॥ ६ ॥ अत्रापि नभितिशब्दयोरावृत्तिः, इष्टादिकारिणामिल्यस्याश्रुतत्वा- दित्यत्राप्यन्वयः । तथा च-इष्टादिकारिणां पञ्चाग्निविद्यायामश्रुत- त्वात् तस्य विशिष्टस्य गमनं न सिध्यतीति चेन्न, पितृयाण वाक्यघटकेन एष सोमो राजेत्यनेन पञ्चाग्निविद्याघटकसोमराजपद- विवक्षिततयेष्टादिकारिणां प्रतीतेरित्यर्थः ॥ ननु---एष सोमो राजेत्यस्य पञ्चाग्निविद्योक्तसोमराजः इष्टादि- कारीत्यर्थपरत्वे तं देवा भक्षयन्तीत्यस्यानुपपत्तिः ; जीवस्यानदनीय- त्वादित्यत आह- ॥सू॥ भाक्तं वाऽनात्मवित्वात्तथा हि दर्शयति ॥३॥१॥७॥ अश्रुतत्वादिति चेत्यतः इष्टादिकारिण इति प्रथमान्तमनुवर्तते, -- श्रीभाप्यभावाङ्करः. २१ १ कृतात्यय इत्यतो दृष्ट इति सप्तम्यन्तं, अनिष्टादिकारिणामपि च श्रुत- मित्यतः श्रुतमिति भावक्तान्तम् ; तथेत्यस्य चावृत्तिः, वाशब्दः उक्तशङ्कान्यावृत्त्यर्थः । श्रुतं-भक्ष्यत्वश्रवणं, दृष्टे--देवतृप्तिहेतुभूतदर्शन- विषयत्वरूपभोगोपकरणत्वावच्छिन्ने, भाक्तं-लाक्षणिकम् ।। ननु--तृप्तिहेतुभूतदर्शनविषयत्वमपि असिद्धमित्यत आह- अनात्मवित्त्वादिति । इष्टादिकारिणः, तथा-निरुक्तदेवभोगोपकणं, अनात्मवित्त्वात्-यागाद्युपकारकत्वे सति ब्रह्मज्ञानविधुरत्वात् , यथा पशुरित्यनुमानात् तसिद्धिरित्यर्थः । अत्र दंशमशकादिरूपतृतीय- स्थाने व्यभिचारवारणाय सत्यन्तं, यागादिकर्तरि ब्रह्मने व्यभिचार- वारणाय विशेप्यम् । एवमनुमानेन तत्सिद्धिमुक्त्वा श्रुत्याऽपि तस्सिद्धिमाह-"तथा हि दर्शयति"। यथा पशुरेवं स देवानामिति श्रुतिरनात्मविदां देवभोगोपकरणत्वं दर्शयतीत्यर्थः ॥ ॥म्।। कृतात्ययेऽजुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ३ ॥ १ ॥ ८ ॥ पूर्वाधिकरणे संसारकालसामान्यावच्छेदेन प्रकृतिसम्बन्धोऽवर्जनीय इत्युक्तम् । अस्मिन्नधिकरणे तादृशकालसामान्यावच्छेदेन तद्धभूत- कर्मसम्बन्धस्साध्यत इति सङ्गतिः। भाप्ये तु- "केवलेष्टापूर्तदत्तकारिणां धूमादिना पितृयाणेन पथा गमनं कर्मफलावसाने पुनरावर्तनं चाम्नातं, यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते ॥"-- इत्युक्तम् । अत्र गमनमित्यनन्तरं भूतपरिप्वङ्गादियुक्तं चिन्तितमिति- शेषः । तेन तादृशगमनस्य यावत्सम्पातमिति श्रुत्याऽनाम्नानेऽपि न दोषः। एवं च-सङ्गतिसूचनायैव भाष्ये गमनमित्यन्तोपादानं, चिन्तितपदाध्याहाराभिप्रायेणैव टीकायां 'विषयशुद्ध्यर्थं अवान्तरसङ्ग- त्यर्थं चाह केवलेति' इति तद्भाप्यस्य सङ्गतिप्रतिपादकत्वमुक्तम् ॥
२२ , श्रीभाप्यभावाङ्कुरः. कोच तु–य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भव- न्तीत्यारभ्येत्यध्याहृत्य यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निव- न्ति इत्याम्नातमित्यन्वयात् नानुपपतिः-इति वदन्ति ॥ अत्र संशयः। देवदेहध्वंसाधिकरणं मनुप्यादिदेहप्रागभावाधि- करणं च यः कालः तदवच्छिन्नरूपः स्वर्गादवरोहन् नीवः पुण्यादि- कर्मवान वेति ॥ अत्र पूर्वः पक्षः ॥ तादृशकालावच्छिन्नो जीवः कर्माभाववा- नेव, यावत्कर्मसत्त्वं स्वर्ग वासस्य कृत्स्नकर्मनाशानन्तरमेव स्वर्गादव- रोहणस्य च 'यायत्सम्पातमुषित्वा अथेतमेवाध्वानं पुनर्निवर्तन्ते' इति श्रुनिसिद्धत्वेनावरोहणकालावच्छेदेन कर्मासम्भवात् , यावत्सम्पात- मित्यस्य पतनपर्यन्तं स्वर्ग उषित्वेत्यर्थाङ्गीकारे यावन्मरणं जीवतीति वास्यस्येव वैयर्थ्यांपत्त्या यावत्कर्मसत्त्वमुषित्वेत्यर्थम्यैव युक्तत्वात् ; सम्पतत्यनेन स्वर्गमिति योगवृत्त्या सम्पातशब्दम्य कर्मपरत्वात् ।। न च-यावत्सम्पातमित्यस्य यावच्छरीरपातमित्यर्थपरत्वात् तद्वा- क्यस्य साफल्यं, स्वगं एकशरीरनाशानन्तरं शरीरान्तरारम्भो न सम्भवतीत्येतादृशार्थज्ञापकत्वादिति-वाच्यम् ; "प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कमणे ॥"- इति वाजसनेयकश्रुत्या एतलोकसम्पादितकर्म सामान्यनाशानन्तरमेवा- वरोहणोक्त्या तदनुरोधेन यावत्सम्पातमिति श्रुतेरपि यावत्कर्मसत्त्व- मित्यर्थत्यैव युक्तत्यात् ।। न च-“य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापधेरन् , ब्राह्मणयोनि क्षत्रिययोनि वैश्ययोनि वा; अथ य इह कपूयचरणा अभ्याशो ह यत्ते कप्यां योनिमा- प परन् , श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा” इतिश्रुत्या अव- सेहगढ़शायामपि पुण्यपापसम्बन्धस्सिध्यति; अभ्याश इतिपदस्य श्रीभाप्यभावाङ्कुरः. दिश इतिवत् प्रथमात्रहुवचनान्तस्य अभ्यापूर्वादशव्यासाविति धातो- निष्पन्नस्याभ्यागन्तार इत्यर्थपरत्वात् ; एवं च उक्तश्रुत्यनुरोधात् यावत्सम्पातमिति श्रुतौ सम्पातपदस्य प्राप्यान्तमिति श्रुतनै कर्मपदस्य च स्वर्गजनककर्मत्वरूपविशेषधर्मावच्छिन्ने लक्षणा स्वीक्रियत इति- वाच्यम् ; उक्तश्रुतौ रमणीयचरणा इत्यस्य स्मृतिविहितसन्ध्या- वन्दनादिरूपशुभाचारपरत्वात् कपूयचरणा इत्यस्य दुरागमविहिता- शुभाचारपरत्वात् पुण्यपापपरत्वासिद्धेः, सदाचारदुराचारयोरेव शुभा- शुभयोनिहेतुत्वसिद्धेः ; अन्यथा सन्ध्यावन्दनादेरानर्थक्यापत्तः, चरण- माचारश्शीलमिति नित्यकर्मपर्यायत्वेन प्रयोगात् ; वेदेऽपि 'यान्य- नवद्यानि कर्माणि, तानि सेवितव्यानि; यान्यस्माकं सुचरितानि, तानि त्वयोपास्यानि' इति कर्माचारयोर्भेदेन व्यपदेशात् , 'न वायुक्रिये पृथगुपदेशात्' इतिसूत्रे पृथगुपदेशस्य भेदसाधकतयोपन्यासात् आचारकर्मणोर्भेदसिद्धेः । तथा चोक्तश्रुत्या अवरोहणदशायां बोधितस्याचारस्य साक्षात्सम्बन्धेन बाधेऽपि स्वजन्यापूर्ववत्तासम्बन्धे- नावाधात् तेन सम्बन्धेन श्रुतेराचारसत्त्वपरतया तद्दशायामा- चारजन्यापूर्वसिद्धावपि न पुण्यपापलक्षणकर्मसिद्धिः ; आचारजन्यापूर्व च ब्रीह्यादिनिष्ठापूर्वचत् पुण्यपापविलक्षणमेव । यद्वा-सन्ध्यावन्द- नादेराचारस्य स्वविषयकानुभवजन्यसंस्कारसम्बन्धेन शुभयोनिहेतुत्वं स्वीक्रियत इति तद्दशायां तेन सम्बन्धनाचारसिद्धावपि न कर्मसिद्धिः; किञ्च यावत्सम्पातमित्यस्य उपक्रमगततया रमणीय- चरणा इत्यादेरुपसंहारगततया उपसंहारानुरोधेन उपक्रमे लक्षणा न युक्ता ; वेदोपक्रमाधिकरणे उपक्रमगतवेदपदानुरोधेन उपसं- हारगतऋगादिपदानामेव लक्षणास्वीकारात् । तस्मात्कर्मसामान्य- नाशानन्तरमेव स्वर्गादवरोहणात् तद्दशायां जीवः कर्मसामान्या- माववानेव ॥ -इति ॥
२४ श्रीभाप्यभावाङ्कुरः. राद्धान्तस्तु-अवरोहणकालावच्छिन्नो जीवः कर्मवानेव, याव- सम्पातमित्यादौ सम्पातपदादेः रमणीयचरणा इत्याद्यनुरोधेन स्वर्ग- जनककर्मलाक्षणिकत्वात् । न च-चरणशब्दः आचारपरः, “वर्णा आश्रमाश्च स्वकर्मणि निष्ठाः प्रेत्य कर्मफलमनुभूय ततश्शेषेण विशिष्टदेशजातिकुलरूपायुश्श्रुतवित्तवृत्तमुखमेधसो हि जन्म प्रति- पद्यन्ते, विष्वञ्चो विपरीता नश्यन्ति" इति गौतमस्मृत्या, “ततः परिवृत्तौ कर्मफलशेषेण जाति रूपं वर्ण बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यन्ते" इति आपस्तम्बस्मृत्या चावरोहणदशायां कर्म शेषप्रतिपादनेन तादृशस्मृत्युपबृंहितायाः रमणीयचरणा इति श्रुतेः कर्मपरत्वस्य युक्तत्वात् ॥ न चैवं चरणपदस्य लक्षणाप्रसङ्गः ; चर्यतेऽनुष्ठीयत इति चरण- मिति व्युत्पत्त्या चरणपदस्य कर्मवाचकत्वोपपत्तेः, श्रुतौ पृथकिर्देशस्य च गोबलीवदन्यायनोपपत्तेः अनवद्यानि कर्माणीत्यस्य प्रत्यक्षश्रुति- सिद्धश्रौतकर्मपरत्वात् , अस्माकं सुचरितानीत्यस्याचारानुमितश्रुति- सिद्धस्मातकर्मपरत्वात् । न चोक्तरीत्या कर्मण एव जन्मादिहेतुत्वे आचारस्य वैफल्यापत्तिरिति वाच्यम् ; 'सन्ध्याहीनोऽशुचिनित्य- मनहस्सर्वकर्मसु', 'आचारहीनं न पुनन्ति वेदाः'-इत्यादिवचनेनानु- मितश्रुतिसिद्धसन्ध्यावन्दनादेः पुण्यजनककर्मस्वधिकारापादकत्वेन सार्थक्यात् , आचारहीनमित्यत्राचारपदस्याचारानुभितश्रुतिसिद्ध- सन्ध्यावन्दनादिपरत्वात् ॥ न च-कृत्स्नस्य स्मार्तकर्मणः कथमाचारानुमितश्रुतिसिद्धत्वं, केषु चित् स्मृत्यनुमितश्रुतिविहितत्वस्य सन्ध्यावन्दनादौ चाहरहस्सन्ध्या- मुपासीतेति प्रत्यक्षश्रुतिविहितत्वस्य च दर्शनात् ; किं च सिद्धान्ते विप्रकीर्णशाखाया एव स्मृत्याचारमूलत्वाभ्युपगमात् नित्यानुमेय. वेदानङ्गीकारात् सर्वेषामेव प्रत्यक्षसिद्धत्वमेव ; एवं च प्रत्यक्षश्रुति- . ..
श्रीभाष्यभावाङ्कुरः. सिद्धानां श्रौतानामग्निहोत्रादीनामङ्गित्वं आचारानुमितशृतिसिद्ध- तया आचारशब्दवाच्यानां स्मार्तानामङ्गत्वमिति व्यवस्थानुपपत्ति- रिति-वाच्यम् । श्रुतिमुख्यतात्पर्यविषयविधानकत्वं श्रौतत्वं, तदवा- न्तरतात्पर्यविपयविधानकत्वं स्मार्तत्वं ; वेदस्य श्रौतकर्मविधानाय प्रवृत्तेस्तन्मध्ये प्रसङ्गादेव स्मार्तकर्मविधानात् मुख्यत्तापर्यविषय- स्याङ्गित्वमवान्तरतात्पर्यविषयस्याङ्गत्वमिति विभागोपपत्तेः। आचारा- नुमितश्रुतिविहितसन्ध्यावन्दनादेरिति भाष्ये आदिशब्दगृहीतस्मात- कर्मत्वसामानाधिकरण्येनाचारानुमितश्रुतिविहितत्वं विवक्षितम्।श्रुता- वाचारानुमितत्वमपि न नित्यानुमितत्वं, किन्नु देशकालभेदेनानुमि- तत्वरूपं बोध्यमिति नानुपपत्तिः ; तथा च चरणशब्दस्याचारे कमणि च शक्तावपि रमणीयचरणा इत्यत्र उदाहृतस्मृत्यनुरोधेन कर्मपरत्वात् यावत्सम्पातमित्यत्र सम्पातपदादेर्लक्षणा आवश्यकी॥ न च-उपसंहारानुरोधेन उपक्रमे लक्षणा न युक्तेत्युक्तम्-इति. वाच्यम् ; अकृतप्रायश्चित्तानां अभुक्तफलानां नानाविधदेवमनुष्य- पक्षिसरीसृपादिनानाविधदेहभोगार्थानां कर्मणां एकेन स्वर्गशरीरेण भोगासम्भवेन स्वर्गभोगेन नाशासम्भवात् उतार्थे तात्पर्यायोगेन तात्पर्यानुपपत्त्यैव तत्र लक्षणाङ्गीकारात् ; ब्रह्मविद्यायाश्च प्रायश्चित्त. रूपत्वात् कर्मनाशकत्वमङ्गीक्रियते, पुण्यस्यापि मुमुक्ष्वपेक्षया पाप- त्वेन तन्नाशकत्वोपपत्तेः। अथवा उपसंहारगतबहुवाक्यानुरोधात् उपक्रमेऽपि लक्षणा युज्यते, 'अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्' इत्युपक्रमे यथागतमित्यर्थकेन यथेतमित्यनेनैवकारेण च पूर्वोक्त- धूमादिमार्गे अवरोहणदशायां प्रातिलोम्येन क्रमप्रतीतावपि आकाशा- द्वायुमित्युपसंहारगतबहुवाक्यानुरोधात् यथेतमितीतपदस्याकाशादि- गमने यथा लक्षणा स्वीक्रियते तथा प्रकृतेऽपि सम्भवात् ; उक्ताभिप्रायसूचनायैव सूत्रे यथेतमनेवश्चेत्युपादानात् । अन्यथा 4 २६ श्रीधाप्यभावाङ्कुरः. यथेतमाकाशं आकाशाद्वायुमिति श्रुत्यैव क्रमस्य स्फुटं प्रतिपन्नत्वेन सन्दिग्धार्थनिश्चायकत्वरूपन्यायनिबन्धनत्वाश्रये सूखे तादृशक्रम- प्रतिपादनाय यथेतमनेवञ्चेत्युक्तिवैयपित्तेः । तस्मादवरोहन् जीवः कर्मवानेव-इति ॥ सूत्रार्थस्तु ॥ अत्र अश्रुतत्वादिति सूत्रादिष्टादिकारीत्यनुवर्तते, अथैतमेवाध्वानं पुनर्निवर्तन्त इति विषयवाक्यात् निवर्तत इत्येक वचनान्तं, निवर्तत इत्यनुवृत्त्यभिप्रायेणैव दीपे भुक्तशिष्टकर्मवा- निवर्तत इत्युक्तं, कृतस्य पुण्यकर्मणः अत्यये नाशे तन्नाशकाला- वच्छिन्नः इष्टादिकारी अनुशयवान् भुक्तशिष्टकर्मवान् निवर्तते ; रमणीयचरणा इत्यादिश्रुत्या वर्णा आश्रमाश्चेत्यादिस्मृत्या च तथाऽवगमादित्यर्थः । अथ-अत्रानुशयशब्देन स्वर्गजनककर्मण एकदेशो विवक्षितः, उत कर्मान्तरम् ? नाद्यः, कर्मणः अद्रव्यत्वेन तस्यैकदेशायोगात् ; न च-अयं स्वर्गभोगमनुभूय तदनन्तरं विशिष्टयोनि गच्छत्विति भगवत्सङ्कष एव यागजन्यं पुण्यरूपं कर्म, तत्र स्वर्गभोगमनुभूये- स्यंशस्य फले जातेऽपि अंशान्तरस्य फलानुत्पत्त्या तदेवांशान्तर- मनुशय इति-वाच्यम् ; तादृशसङ्कल्पस्य एकज्ञानरूपस्य स्वर्ग- भोगेन नाशावश्यकतया तदंशस्यावस्थानानुपपत्तेः । न द्वितीयः, अनुशयो युपभुक्तशिष्टं कर्मेति भाष्यस्य ततश्शेषेणेत्यादिस्मृतेश्चा- स्वारस्यापत्तेः, कर्मान्तरस्योपभुक्तशेषत्वाभावात्-इति चेत् । उच्यते । ज्ञानं हि द्रव्यं, तत्तत्पदार्थविषयकत्वमवस्था ; तत्रायं स्वर्ग भंजतु तदनुभवानन्तरं शुभयोनि गच्छत्विति-अवस्थाद्वयविशिष्टं ज्ञानमेव यागादिना जायते; तल स्वर्गभोगेनैकावस्थाया नाशेऽपि अवस्थान्तरविशिष्टस्य सत्त्वाविरोधात् तस्यैवानुशयपदेन ग्रहणम् ॥ ..
श्रीभाप्यभाबाङ्कुरः. वस्तुतस्तु-कर्मान्तरमेवानुशयः; तस्य भुक्तशिष्टत्वव्यवहारश्च- भोक्तव्यकर्मसमुदायप्रविष्टत्वे सति भुक्तत्वाभावपरः; यादृशधर्मस्वरूप योग्यसमुदायप्रविष्टत्वे सति तादृशधर्माभाववत्त्वं यत्र तत्र ताशधर्म- वच्छिष्टत्वेन व्यवहारस्य नियतत्वात् , 'हतशेषा निशाचराः' इत्यादौ तथा दर्शनात् उक्तं च टीकायाम्-"कर्मान्तरमनुशयः, न तु स्वर्गार्थ- कर्मण एकदेशः” इति । सूत्रे यथेतमनेवमिति उभयमपि विभागजनक- व्यापाररूपे निवर्तत इति धात्वर्थे विशेषणं ; यथेतमिति गमनसादृश्यं, तच्च स्वजन्यसंयोगानुयोगिकसंयोगजनकत्वरूपं विवक्षितं ; अनेवमित्य- नेन च स्वजन्य संयोगानुयोगिभिन्नानुयोगिकसंयोगजनकत्वस्वजन्य- संयोगानुयोगिसंयोगजनकत्वाभावोभयंरूपं विवक्षितम्, वाय्वादि प्राप्तेः पितृलोकाद्यप्राप्तेश्चानेवमिति भाष्यात्, तत्र विभागजनक- क्रियासमुदायरूपनिवर्तने आकाशपर्यन्तावच्छेदेन जातक्रियासु सादृश्यं तदनन्तरजातक्रियासु वैधर्म्यमिति विवेकः ॥ ॥ ॥ चरणादिति चेन्न तदुपलक्षणार्थेति कार्णाजिनिः॥३॥ १॥९॥ अत्र अश्रुतत्वादित्यत इष्टादिकारिण इति विषयवाक्याच्च योनि- मापोरन्नित्यनुवर्तते । अग्न्थादिगतिश्रुतेरित्यतः श्रुतिरिति प्रथमान्तम् । इत्थं च-इष्टादिकारिणः चरणात् योनिमापद्येरनिति चेन्न; श्रुतिः-- रमणीयचरणा इत्यादिश्रुतिः, तदुपलक्षणार्था-अनुशये लाक्षणिकी, इति कार्णाजिनिराचार्यों मन्यत इत्यर्थः ॥ म् ॥ आनर्थक्यमिति चेन तदपक्षत्वात् ॥३॥१॥१०॥ पूर्वसूत्रात् चरणस्येति, उत्तराच्च सुकृतस्यत्यनुषज्यते । चरणस्य स्मार्ताचारस्यानर्थक्यमिति चेन्न ; सुकृतस्य तदपेक्षत्वात्-तदङ्गक- यागाद्यनुष्ठानजन्यत्वादित्यर्थः॥
२८ श्रीभाष्यभाषाङ्कुरः. ॥ ॥ सुकृतदुष्कृते एवेनि तु बादरिः ॥३॥१॥११॥ चरणे इति वर्तते । सुकृतदुष्कृते चरणपदवाच्ये इत्यर्थः । अत्र बादरिणा लक्षणाया एव खण्डनात् स्मार्ताचारस्याङ्गत्वं स्वीकृतमेव, उत्तर- पक्षत्वाद्वादरिपक्ष एवाचार्यसम्मत इति बोध्यम् ॥ ॥ म्॥ अनिष्टादिकारिणामपि च श्रुतम् ॥३॥१॥१२॥ पूर्वाधिकरणे सूक्ष्मदेहस्यापि कारणभूतस्सकलसांसारिकदुःखनिदानभूतः कर्मसम्बन्धः मुक्तिपर्यन्तमनुवर्तत इत्युक्तम् । तत्रैव स्वर्गभोगस्य क्षयिष्णुत्वं च कृतात्यय इति भागेन सूचितम् ॥ एवं क्षयिष्णुत्वादि- दोषदुष्टस्य स्वर्गसुखस्य जनकं यागादिकमपि यावज्जीवकर्तव्यस्नान- सन्ध्यावन्दनादिविहितानुष्ठाननिषिद्धपरिहाररूपस्मार्ताचार सापेक्षत्वा- दतिदुष्करमितिचरणादिति सूत्रेण प्रकटीकृतम् । इदानीमनिष्टादि- कारिणां अत्यल्पभूतं क्षयिष्णुत्वादिदोषदूषितमपि स्वर्गसुखम् "काकमांसं शुनोच्छिष्टं स्वल्पं तदपि दुर्लभम्" इति न्यायेन दुर्लभ- मिति सूचयितुं ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीति न्यायेनापि स्वर्गलोकप्राप्तिास्ति प्रत्युत यमसदने रौरवादिषु च भूयान् यातनानुभवः कीटजन्मप्राप्तिश्चेति निरूप्यते ॥ अथवा-यावत्सम्पातमिति अविशेषश्रवणस्य स्वतस्सङ्कोचसा- काङ्क्षस्य रमणीयचरणा इति औपसंहारिकवचनानुसारेण सङ्कोचा- अयणेऽपि इह चन्द्रमसमेव ते सर्वे गच्छन्तीति श्रुतौ न सङ्कोचसम्भव इत्याक्षेपे-अनिष्टादिकारिणः चन्द्रप्राप्तिशून्याः, तत्कारणविद्याकर्म- रहितत्वात् , कारणाभावे कार्याभाव इति व्याप्तेः-इत्यनुमानसहकृतया तेनासौ लोको न सम्पूर्यत इति श्रुत्या सङ्कोच आवश्यक इति निरू- प्यते ; साधुकर्मसम्बन्धनियमो नास्तीत्युच्यत इति टीकायाः साधु- कर्मनियाम्यस्वर्गलोको नास्तीत्युच्यत इत्यर्थः । तेनास्याधिकरणस्य साधुकर्मसम्बन्धरहितेषु धुलोकप्राप्तयभावप्रतिपादकत्वेन साधुकर्म- श्रीभाप्यभावाङ्कुरः. २९ सम्बन्धाभावप्रतिपादकत्वाभावेऽपि न क्षतिः । यद्वा-टीकावाक्यं यथाश्रुतमेव, अनिष्टादिकारिणामित्यनेन यागादिनन्यपुण्यरूपसाधु- कर्माभावप्रतिपादनात् , अनिष्टादिकारिपदस्य इष्टादिकारिणो न भव- न्तीति अनिष्टादिकारिण · इति व्युत्पत्त्या यागादिकर्तृभिन्नपरत्वे नरकादिगन्तॄणामपि पूर्वोत्तरजन्मसु यागादिकृतिसम्भवेन तद्वद्भिन्न- त्वाभावात् , भेदस्य व्याप्यवृत्तित्वात् । अनिष्टादिकारिणामित्यनेन ग्रहणानुपपत्तिः । भेदस्याव्याप्यवृत्तित्वे च यागादिकर्तृणामपि तेन पदेन सङ्ग्रहापत्तिः । तेष्वपि यागाद्यनुष्ठानानन्तरं कृतिमद्भेदसत्त्वात् अनिष्टादिकारिपदस्य यागादिजन्यापूर्ववद्भिन्नपरत्वावश्यकत्वात् ॥ न चैवमपि-तद्दोषतावस्थ्यं, नरकादिगन्तृषु पूर्वोत्तरजन्मसु कदाचित्तादृशापूर्वसम्भवेन तद्वद्भदायोगात् भेदस्याव्याप्यवृत्तित्वे यागाद्यनुष्ठातृष्वपि तत्पूर्वं तादृशंभेदसम्भवादिति-वाच्यम् ; अनिष्टादि- कारिपदस्य तादृशापूर्ववत् भेदविशिष्टपरत्वेनादोषात् , तादृशयागादि- कर्तृषु पूर्व तद्भेदसत्त्वेऽपि गमनदशायां तद्भेदाभावेन वैशिष्टयायोगात् , निरुक्तभेदवैशिष्टयस्य यागादिरूपविहितानुष्ठातृषु निषिद्धानुष्ठातृषु च सत्त्वादुभयविधानामपि अनिष्टादिकारिपदेन ग्रहणमुपपन्नम् । उक्तं च भाष्ये-"ये विहितं न कुर्वन्ति निषिद्धं च कुर्वन्ति ते उभयेऽपि पापकर्माणोऽनिष्टादिकारिणः" ---इति ॥ न च-नञ इष्टादिकारिपदे- नान्वये सुकृतं न कुर्वन्तीत्यर्थस्य इष्टपदेनान्वये निषिद्धं कुर्वन्ती- त्यर्थस्य बोधसम्भवात् समासद्वयं भाष्याभिप्रेतमिति-वाच्यम् ; तन्त्रा- वृत्त्येकशेषाणामन्यतमेन समासद्वयाश्रयणस्य क्लिष्टत्वात् , 'उभये- अपि पापकर्माणः' इति अनुगतरूपेण उभयोरनिष्टादिकारिपदेन ग्रहणपरभाष्यासङ्गतेश्च ; अस्माकन्तु पुण्यवद्भेदस्य पापरूपत्वात् तथाऽभिधानोपपत्तिः ॥
श्रीभाष्यमावाकरः- अत्र संशयः । यागादिजन्यापूर्ववझेदवतां तादृशभेदकालाव- च्छेदेन चन्द्रगमनमस्ति न वेति । अस्तीति पूर्वः पक्षः ; 'ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति' इति कौषीतकी- श्रुत्या चन्द्रगमने लोकान्तरगन्तृत्वव्यापकत्वप्रतीतेः ॥ न च-पापकर्मणां नरकानुभवानन्तरं चन्द्रगमनाभावेऽप्युक्तव्या- पकत्वमुपपद्यते, तेषामेव कदाचित् स्वर्गगमनसम्मवेन प्रतियोगिवैय- धिकरण्यघटितस्य भेदघटितस्य वा तस्य सम्भवादिति-वाच्यम् ; विद्यानिष्ठानां यागादिकर्तृणां चन्द्रगमनस्य श्रुत्यन्तरसिद्धस्यानुवा- दित्वे उक्तश्रुतेर्वैयर्थ्यापत्त्या यदा यदा लोकान्तरगमनं तादृशकाल- सामान्यावच्छेदेन चन्द्रप्राप्तिरिति अपूर्वार्थे तात्पर्याङ्गीकारस्य युक्त- त्वात् ; नरकादिगन्तॄणामपि चन्द्रप्राप्ति?र्वारा ॥ न च-चन्द्रप्राप्तिर्युलोकप्राप्तिरूपैव, पञ्चाग्निविद्यायां देवशरीर- प्राप्तिहेतुत्वेनोक्ताया धुलोकप्राप्तेरेव पितृयाणवाक्ये तद्धेनुभूतचन्द्र- प्राप्तित्वेनाभिधानात् ; एवं च यागादिफलत्वेनाभिहितस्वर्गप्राप्तेश्व यागाधननुष्ठातृषु न सम्भवः, तथा सति यागादेरेव वैफल्यापत्ते- रिति-वाच्यम् ; स्वर्गपदार्थदुःखासम्भिन्नसुखस्य यागादिफलत्वेऽपि मार्गबटकतया तल्लोकगमनमात्रस्य तत्फलत्वाभावेन तस्य यागाद्य- कर्तृप्वपि सम्भवाविरोधात् , तादृशसुखानुभवस्यैव तेप्वसम्भवात् ॥ न च-इष्टादिकारिणाममृतमयदेहप्राप्त्यर्थं चन्द्रगमनस्यावश्य- कत्वेऽपि यमसदनगन्तॄणां चन्द्रगमनेन न किञ्चित्प्रयोजनामिति- बाच्यम् ; "एतद्वै स्वर्गस्य लोकस्य द्वारं यश्च द्रमाः तं यत् प्रत्याह- तमतिसृजते, य एनं प्रत्याहत इह वृष्टिर्भूत्वा वर्षति त इह कीटो वा पतङ्गो वा शनिर्वा"-इत्यादिकौषीतकीश्रुत्या चन्द्रस्य पुण्य- पापपरीक्षकतया उक्तत्वेनायं स्वर्गसुखयोग्यः अयं तदयोग्य इति निश्चयार्थमेव तहमनस्यावश्यकत्वात् , यमसदनस्य पितृलोकैकदेश.
श्रीभाप्यभावाङ्गुरः. ३१ स्यात्, पितृलोकप्राप्त्यन्यथानुपपत्त्या धूमादिमार्गावश्यकत्वे सिद्धे चन्द्रगमनस्यावर्जनीयत्वात् ॥ न च-गन्तव्यस्थलैक्येऽपि गन्तृभेदात् मागानियमसम्मवः, विदुषां देवयानेन अविदुषां पितृयाणेन चन्द्रगमनदर्शनात् , तथा पितृ- लोकप्राप्तिः पुण्यकृतां धूमादिना अपुण्यकृतां सु मार्गान्तरेणेति न चन्द्रप्राप्त्यावश्यकतेति वाच्यम् ; 'द्वे सृती अशृणवं पितृणामहं देवानां उत मानां ताम्यामिदं विश्वमेजत् समेति' इति बृहदारण्य- श्रुत्या विश्वशब्दासङ्कोचेन देवयानपितृयाणव्यतिरिक्तमामन्तरे कस्यापि लोकान्तरगमनं नास्तीत्यर्थस्य प्रतीतेः।। न च-'केनासौ लोको न सम्पूर्यते' इति प्रश्नस्य स्वर्गलोकः केन न प्राप्यत इत्यर्थकस्योत्तरतया- "अथैतयोः पथोः न कतरेण च तानीमानि क्षुद्राण्यसकृदाव- त्तीनि भूतानि भवन्ति, जायस्वम्रियस्वेत्येतत् तृतीयं स्थानं, तेनासौ लोको न सम्पूर्यते" -इति श्रूयते ॥ उत्तरस्यायमर्थः ; यानि भूतानि उक्तयोर्देवयानपितृयाणयोः पथो- मध्ये, न कतरेण-न केनापि मार्गेण, गच्छन्ति ; तानीमानि क्षुद्राणि- दंशमशककीटादीनि, असकृदावृत्तीनि सन्ति ; जायस्व म्रियस्वेति भवन्ति, जननमरणाभिन्नासाधारणधर्माश्रयाः; एतत्-एतादृशाः पापकर्माणः, तृतीयस्थान-स्थानशब्दानुरोधात् एकत्वान्नपुंसकत्वं च, तेन-बादृशतृतीयस्थानशब्दितेन पापकर्मणा, असौ लोकः-स्वर्ग- लोकः, स प्राप्यत इति । तथा च-उक्तश्रुत्या ये देवयानेन पितृ- याणेन वा न गच्छन्ति तेषां संसारावर्तनजननमरणादिकं स्वर्ग- लोकाप्राप्तिश्चेत्युक्त्या मार्गान्तरासत्त्वसूचनात् बृहदारण्यश्रुतिगत- विश्वशब्दस्य विद्यानिष्ठकर्मनिरतसाकल्यपरतया सङ्कोचावश्यकतया , - श्रीभाष्यभावाङ्कुरः. यमसदनगन्तॄणां न पितृयाणावश्यकतेति वाच्यम् । यदभावस्या- निष्टप्रयोजकत्वं शास्त्रोक्तं तस्य विधेयत्वमिति नियमस्य-- “यो वा एतदक्षरं गार्य विदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य . तद्भवति" इत्यादौ दर्शनेन प्रकृते मार्गद्वयगमनाभावे अनिष्टकथनेन मार्गद्वयस्थ विधेयत्वावश्यकतया एतयोः पथोरित्यस्य मार्गगतिहेतुभूतविद्याकर्म- परत्वावश्यकत्वात् , मार्गद्वयगमनस्य पुरुषव्यापारसाध्यत्वाभावेन विधानायोगात् , तदभावस्यानिष्टप्रयोजकत्वोक्तेर्व्यर्थतापत्तेः । तथा च-तादृशश्रुतेः विद्याकर्मरहितानां स्वर्गसुखाप्राप्तिः जननमरणादि- प्राप्तिश्चेत्यर्थपरतया मार्गघटकतया स्वर्गप्राप्तिास्तीत्यर्थपरत्वाभावेन बृहदारण्यगतविश्वशब्दस्य सङ्कोचायोगात् ॥ न च-उक्तश्रुतेः सुखानुभवार्थ स्वर्गप्राप्त्यभावपरत्वे विद्याराहित्यो- क्तियों, विद्यासत्त्वेऽपि तादृशस्वर्गप्राप्तेरभावात् विद्यावतामानु- घङ्गिकतयैव चन्द्रप्राप्तिरूपस्वर्गप्राप्तेस्सत्त्वात् तच्छुतेरानुषङ्गिकतयाऽपि स्वर्गप्राप्त्यभावपरत्वमावश्यकमिति-वाच्यम् ; तेषां सर्वथा चन्द्र- प्राप्त्यभावे देहारम्भानुपपत्तेः, देहारम्भस्य पञ्चमाहुतिसाध्यत्वात् , “अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सा- युज्यं गच्छति" इति श्रुत्या विद्यानिष्ठामा चन्द्रप्राप्तेरपि तात्कालिक- सुखार्थत्वात् , चन्द्रस्यातिवाहिकत्वेन मुक्तानां तत्कृतोपचारस्वीकारा- वश्यकत्वाच ॥ वस्तुतः-"वेत्थ यथा केनासौ लोको न सम्पूर्यता" इति प्रश्नस्य प्रयतां सर्वेषां चन्द्रप्राप्तिसत्त्वात् बहुभिः प्रयद्भिरपि येन केन कार- णेन चन्द्रलोको न सम्पूर्यते न निबिडीक्रियत इत्यर्थः, न तु केन पुंसा चन्द्रलोको न प्राप्यत इति ; तथा सति यथाशब्दवैयर्थ्यांपत्तेः, धातोर्लक्षणाप्रसशाच्च ; विनाकर्मरहितानां क्षुद्रजन्नां देहारम्भाय . श्रीभाज्यभावाङ्करः. चन्द्रलोके असकृद्मनागमनवत्त्वेऽपि तेषां चन्द्रलोके अवस्थानाभा- वात् । तल्लोकस्य निबिडतेत्युत्तरस्यार्थः, असकृदावृत्तीनीति गमना- गमनमभिधाय न सम्पूर्यत इति पूर्त्यभावमात्रप्रतिपादनात् । तस्माद- निष्टादिकारिणां मार्गघटकतया चन्द्रप्राप्तिरावश्यकीति ॥ सिद्धान्तस्तु-अनिष्टादिकारिणामानुषङ्गिकतयाऽपि सत्प्राप्ति- नास्ति, 'य इमे इष्टापूर्ते दत्तमित्युपासते ते धममभिसम्भवन्ति' इति- पितृयाणोत्पत्तिवाक्ये इष्टादिकारिणामधिकारित्वेन बोधनादुत्पत्तिशि- ष्टाधिकार्यवरुद्धेऽधिकार्यन्तरस्य विधानायोगात्, उक्तकौषीतकी- वाक्यस्य इष्टादिकारिगतकार्म्यपरत्वस्य युक्तत्वात् , गुणविशिष्टे ज्ञाते गुणान्तराकाङ्खानुदयवदधिकारिविशिष्टे ज्ञातेऽपि अधिकार्यन्तरा- काङ्खानुदयस्य समत्वेनोत्पत्तिशिष्टगुणावरुद्ध इति न्यायवदुत्पत्ति- शिष्टाधिकार्यवरुद्ध इत्यपि न्यायस्यावश्यकल्पनीयत्वात् । उक्तकौ- पीतकीवाक्यगतविश्वशब्दस्य सङ्कोचानङ्गीकारे चन्द्रगमनान्यथानुप- पत्त्या अनिष्टादिकारिणां देवयानं पितृयाणं वा करप्यत इत्यत्र विनिगमनाविरहादुमयकल्पनाप्रसङ्गः । तथा सति चाचिरादिगति- प्रयोजकज्ञानविषयतायाः परमात्मसाधकत्वस्य 'श्रुतोपनिषत्कगत्यभि- धानात्' इतिसूत्राभिप्रेतस्यानुपपत्तिः ॥ ननु--देवयानस्य उत्पत्तिवाक्येन विद्यावदधिकारिकत्वावगमात् विद्याविरहिणां तदसम्भवः-इति चेत् । तुल्यं प्रकृतेऽपि ; अन्नि- ष्टादिकारिणां प्रयोजनाभावादपि न चन्द्रप्राप्तिसम्भवः, 'एतद्वै स्वमस्य लोकस्य द्वारं यश्चन्द्रमाः' इत्यादिश्रुतिश्च विद्यानिष्ठकर्मनिष्ठोमय- विषया, यथाकर्म यथाविद्यमिति तत्रैवोक्तेः। ततश्च न परीक्षार्थ. तयाऽपि चन्द्रप्राप्तिसम्मबः, नापि देहारम्भकीभूतपञ्चमाहुत्यर्थतयाऽपि चन्द्रप्राप्तिरावश्यकी, 'तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजंजीवजमुद्भिजं च' इति श्रुतौ-उद्भिज्जशब्दविवक्षितयोः स्वेदजो- 06 श्रीभाष्यभावाङ्करः द्भिज्जयोः पञ्चमाहुतिनिरपेक्षं देहारम्भप्रतीत्या, स्मृतावपि-द्रौपदी- धृष्टद्युम्नादीनां पुण्यकर्मणामपि तथा प्रतीतेश्चानिष्टादिकारिणामपि पञ्चमाहुतिं विनैव देहरम्भसम्भवात् । किञ्च-अर्थतयोरिति श्रुत्या तृतीयस्थानशब्दितानां पापकर्मणां धुलोकाप्राप्तेः कण्ठोक्तत्वादपि न तेषां देहारम्भाय चन्द्रप्राप्तिकल्पनसम्भवः । न च-पापकर्मणां घुलो- कादौ गमनागमनवत्त्वेऽपि चिरावस्थानाभावात् अनिबिडत्वमेव प्रती यते, न तु धुलोकामाप्तिरिति-वाच्यम् ; तथा सति जुगुप्साहेतु- ज्ञानविषयार्थप्रतिपादकत्वानुपपत्तेः, तेनासौ लोको न सम्पूर्यत इत्युक्त्वा तस्माज्जुगुप्सेवेत्युक्त्या पूर्वोक्तार्थस्य जुगुप्साहेतुज्ञानविषय- त्वलाभात्, न सम्पूर्यत इत्यस्य न प्राप्यत इत्यर्थकत्वे च काकमांसमिति न्यायेन स्वल्पसुखस्यापि दुर्लभत्वसूचनेन जुगुप्साहेतु- ज्ञानविषयत्वसम्पत्तेः ॥ न च-न सम्पूर्यत इत्यस्य न निबिडीक्रियत इत्यर्थाङ्गीकारेऽपि चिरावस्थानाभावलाभात् तत्सुखस्य दुर्लभत्वमवगम्यत इति वाच्यम् ; तत्र गमनाङ्गीकारे तदर्शनादिजन्यसुखस्यावर्जनीयत्वेन सुखसामा- न्यस्य दुर्लभत्वालाभात् तल्लाभाय न प्राप्यत इत्यर्थस्यैव युक्तत्वात् प्रकृतार्थापोषकशक्त्यपेक्षया प्रकृतार्थपोषकलक्षणायाः अदोषत्वेन धातोर्लक्षणाङ्गीकारे क्षतिविरहात् ; 'वेत्थ यथा केनासौ लोकः' इति प्रश्नवाक्ये तल्लोकप्राप्त्यभावे कारणाभावप्रयुक्तत्वप्रतिबन्धकप्रयुक्त- त्वादिप्रकारकजिज्ञासया यथेत्यस्योपादानात् , अथैतयोः पथोरित्युत्त- रवाक्ये च देवयानपितृयाणरूपकारणाभावप्रयुक्तत्वबोधनात् । पथिन्- शब्दस्य देवयानपितृयाणरूपमुख्यार्थाङ्गीकारे बाधकविरहेण लक्षणया विद्याकर्मपरत्वाश्रयणमयुक्तं, विद्याकर्मफलभूतमार्गद्वयभ्रष्टानां दुर्गति- कथनस्य विद्याकर्मविधानौपयिकतया सार्थक्यसम्भवात् , सादेन विना न मोक्ष इत्यादौ भगवत्प्रसादाभावस्यानिष्टजनकत्वो- भगवत्प्र- श्रीभाष्यमावाङ्कुरः. क्तावपि भगवत्प्रसादस्य विधेयत्वाभावेन व्यभिचारेण यदमावस्या- निष्टप्रयोजकत्वं शास्त्रोक्तं तत्तत्साधनान्यतरस्य विधेयत्वमित्येक नियमावश्यकत्वात् ; तथा च-यानि भूतानि देवयानपितृयाणयोरन्य- तरेण न गच्छन्ति, तानि जायस्व म्रियस्वेति ईश्वरशासनेनासकृ- दावृत्तीनि भवन्तीत्यथैतयोरिति श्रुतेरथः ; जायस्व म्रियस्वेतीत्यनन्तर- मीश्वरशासनेनेत्यध्याहारात् । यद्वा; असकृदावृत्तीनि भवन्ति- गमनागमनवन्ति भवन्ति, जायन्ते म्रियन्ते चेत्यर्थः; पुरुषादिव्य- त्ययश्छान्दसः। अथवा-असकृदावृत्तीनि भवन्तीति वर्तमानकालाव- च्छेदेन जननमरणपरं, जायस्व म्रियस्वेति भूतकालावच्छेदेन तत्पर जज्ञिरे मम्रिरे घेत्यर्थः ॥ - - वस्तुतस्तु- "पुरमिवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चके" इत्यादौ अस्वास्थ्यकर्मककृधात्वर्थव्यापारे यथा पुरीकर्मकावस्कन्द- नादीनां अभेदान्वयः तथा जायस्व म्रियस्वेति जननमरणादीनामपि भूधात्वर्थासाधारणधर्मे अभेदेनान्वयः ; इतिशब्दश्चाभेदान्वयतात्पर्य ग्राहकः; जायस्व म्रियस्वेति च न मध्यमपुरुषैकवचनं ; समुच्चयेऽ न्यतरस्यामित्यनेन एककर्जन्वयित्वे सति अनेकक्रियात्वरूपसमु- चयाश्रयक्रियावाचिधातोः लोडस्तस्य च सकलपुरुषवचनविषये परस्मैपदिभ्यः कर्तरि ह्यादेशस्य आत्मनेपदिभ्यो भावकर्मकर्तृषु स्वादेशस्य च विकल्पेन विधानात् ; सङ्ख्याकालपुरुषाद्यभिव्यक्तिश्चा- नुप्रयोगाधीना, समुच्चये सामान्यवचनस्येत्यनेन समुच्चये लोड्विधौ, समुच्चीयमानधात्वर्थतावच्छेदकव्यापकधर्मावच्छिन्नवाचित्वरूपसामान्य- श्रीभाष्यभावाङ्कुरः. वचनत्वाश्रयधातोरनुप्रयोगस्य विधानात्। अत्रापि जननत्क्मरणत्वादि- न्यापकधर्मावच्छिन्नवाचिभूधातोरनुप्रयोगात् सङ्ख्याकालादेर्बोधः । एतेन जायस्व म्रियस्वेति श्रुतावनुप्रयोगाभावेऽपि समुच्चये लोड़वति; क्रियामात्रविवक्षणेन सङ्ख्याकालाधनभिव्यक्त्यनपेक्षणेनानुप्रयोगाभा- वोपपत्तेः, अनुप्रयोगविधायकसूनभाष्ये प्रत्याख्यानाच्च । अत एव- एतच्छ्रुतिसमानार्थके “आ च सत्यलोकादा धावीचेर्जायस्व म्रियस्व" इति विपरिवर्तमानमात्मानं जीवलोकं चावलोक्यति वाचस्पति प्रयो- गेऽपि अनुप्रयोगाभावोपपत्तिरिति शेखरकृतां प्रयासो नोपादेयः; भवन्तीत्यनुप्रयोगस्य सत्त्वात् , वर्तमानकालस्याविवक्षणे प्रायशस्स- वेषामपि जीवानां यदा कदाचित् असकृदावर्तनजननमरणादिसत्त्वेन तृतीयस्थानत्ववारणाय तद्विवक्षणस्यावश्यकत्वाच्च, तद्विवक्षणे च वर्त- मानकालावच्छिन्नासकृदावर्तनादिविशिष्टस्य तृतीयस्थानत्वबोधेन तादृशकालावच्छेदेनैव तृतीयस्थानत्वमिति पर्यवसानात् । वाचस्पति- बचनेऽपि अनुप्रयोगाभावोऽसिद्धः, विपरितमानमिति सामान्य- वचनानुप्रयोगस्य सत्त्वात् श्रुतौ वर्तमानकालस्य विवक्षासम्भवसूचना- यैव शानचः प्रयोगात् ॥ जायस्व म्रियस्वेति श्रुतौ उक्तार्थचतुष्टयं च टीकायामेवोक्तं- "जायस्व म्रियस्वेतीवरशासनानुवर्तीनीत्यर्थः, जायन्ते म्रियन्त इति वाऽय. ; वेद वातन्त्र्यात्। जज्ञे मम्र इति भूतार्थता का, पुरीमवस्कन्द लुनीहि नन्दनमित्यादिवत्" इति ॥ वेदस्वातन्त्र्यादिति व्यत्ययो बहुलमित्याद्यनुशासनादिति भावः; एतच्च भूतार्थता वेत्युत्तरत्रापि काकाक्षिन्यायेनान्वेति। पुरीमवस्कन्द लुनीहि नन्दनमित्यादिवदित्यत्र भूतार्थता वेत्यतो वेत्यस्यानुवृत्त्या कल्पान्तरत्वलामः । अत्र वाकारान्तरानुक्तिः तादृशदृष्टान्तस्य प्रथम- कल्पेऽप्यन्वयसूचनाय, द्वितीयतृतीयकल्पयोश्च वेदस्वातन्ब्यादि श्रीभाप्यभावाङ्कुरः. त्युक्त्या लौकिकदृष्टान्तानन्वयप्रतीतेः । एवं च-अवस्कन्देत्यादीनि विधिलोडन्तान्येव, पुरमिवस्कन्देत्यादिरूपभृत्यप्रेषणद्वारा अस्वास्थ्य चक्र इत्यर्थः। तत्र पुरीमवस्कन्देत्यादिकं यथा भृत्यान्प्रति शासनाकारः तथाऽत्रापि जायस्व म्रियस्वेतीश्वरशासनाकार इति प्रथमकरूपार्थः ॥ वाकारानुपङ्गेश चतुर्थकल्पानुरोधेनार्थश्च पूर्वमेवोक्तः । एतत्तृतीय स्थान- मिति एतच्छब्देन जननमरणाभिन्नासाधारणधर्माश्रयाणां ग्रहणं; क्षुद्राणि भूतानि जायस्व म्रियस्वेति भवन्तीति पूर्व बाक्ये क्षद्रभूताभिन्नाः जननमरणाभिन्नासाधारणधर्माश्रया इत्याख्यातार्थमुख्यविशेष्यकबोधेन मुख्यविशेष्यस्यैव सर्वनाम्ना परामर्शपिपत्तेः ।। सूत्रार्थस्तु-चरणादित्यतः चरणामिति प्रथमान्तं , चन्द्रमसं गच्छन्तीति श्रुतिवाक्यात् चन्द्रमस इति षष्ठ्यन्तं, 'न तृतीये तथोपलब्धेः' इत्यतः तथेति च । एवं चानिष्टादिकारिणामपि चन्द्रमस. श्चरणं गमनं अस्तीति शेषः। चशब्दो हेत्वर्थः, यतः यथाश्रुतं चन्द्र- मसमेव ते सर्वे गच्छन्तीति सर्वेषां चन्द्रगमनं श्रुतमित्यर्थः ॥ ननु पापिनामपि चन्द्रगमने तेषां स्वर्गसुखानुभवस्यैव प्रसङ्गेन दुःखानुभवासम्भवेन पापस्य निष्फलत्वापत्तिरित्यत आह- ॥ सू॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तदतिदर्श- नाव ॥ ३ ॥ १ ॥ १३ ॥ तुशब्दः उक्तशङ्कानिरासार्थः। अत्रापि श्रुतिवाक्यात् चन्द्रम- सीति सप्तम्यन्तं, सुकृतदुष्कृते इत्यतो दुष्कृतमिति चानुवर्तते । वैवस्वतं सङ्गमनमिति श्रुतिबाक्याच्च वैवस्वतस्येति षष्ठ्यन्तं, जात इति चाध्याहार्य ; वैवस्वतस्य संयमने शासने जाते सतीत्यन्वयः । संयमन इति सतिसप्तमी ; तदर्थश्व जननमेव, समभिव्याहृतक्रियाया एव सतिसप्तम्यर्थत्वात् , गोषु दुग्धासु गत इत्यादौ दोहनकर्मीभूत- गोकर्मकदोहनोत्तरकालीनगमनवानिति बोधात् , तत्र गोपदोत्तरसप्त- श्रीभाप्यभावाङ्कुरः: म्यर्थदोहनस्योत्तरकालीनत्वसंसर्गेण गमनेऽन्वयात् ; गोषु दुह्यमानासु आगत इत्यादिवर्तमानार्थककृत्समभिव्याहारे समानकालीनत्वस्ये- वातीतार्थकृत्समभिव्याहारे उत्तरकालीनत्वस्य संसर्गत्वात् ; प्रकृ- तेऽपि संयमनपदोत्तरसप्तम्यर्थस्य जननस्य उत्तरकालीनत्वसम्बन्धे- नेव जन्यत्वसम्बन्धेनापि अनुपूर्वकभूधात्वर्थानुभवे अन्वयः। एवञ्च- यभाशाजन्यदुप्कृतानुभवानन्तरकालीनावितरेषाञ्चारोहावरोहौ भवत इत्यर्थः। 'संयमन इति निमित्तसप्तमी, यमाज्ञयेत्यर्थः' - इति टीका । तत्र निमित्तसप्तमीत्यस्य निमित्तत्वसंसर्गकबोधजनिका सतिसप्तमीत्यर्थः, न तु निमित्तात्कर्मयोग इति सूत्रविहिता सप्तमीत्यर्थः ; तत्र संयोग- समवायान्यतरात्मककर्मयोगस्य यमशासनेऽभावात् , तस्य दुष्कृतानु- भवफलत्वाभावाच्च, फलस्यैवात्र निमित्तपदेन ग्रहणात् , चर्मणि द्वीपिनं हन्तीत्यादौ विनियोज्यत्वप्रकारकेच्छाजन्यत्वस्य सप्तम्यर्थतया चर्म- विशेष्यकतादृशेच्छाजन्यद्वीपिहननवानिति बोधात् ; शासनविशेष्यक- तादृशेच्छाजन्यत्वस्य दुष्कृतानुभवे बाधात् ॥ उक्तं च कैयटे- "क्रियाफलमिह निमित्तत्वेन विवक्षितं, यत्क्रियाप्रयोजकं यदर्थः क्रियारम्भः ततो हेताविति तृतीयायां प्राप्तायां सप्तमी विधीयते, तस्य निमित्तस्य कर्मणा यदि संयो- गस्सम्बन्धः; तेन वेतनेन धान्यं लुनाति' इत्यत्र सप्तमी न भवति, वेतनस्य धान्येन संयोगाभावात् ॥" -इति ॥ यद्वा-संयमन इति निमित्तात्कर्मयोग इत्यनेनैव सप्तमी, यम- शासनस्य फलत्वाभावेऽपि तत्परिपालनस्य फलत्वाक्षतेः ॥ "चमणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । वालेषु चमरी हन्ति सीम्नि पुष्कलको हतः ॥"--- श्रीभाष्यभावाकरः. ३९ इत्यत्रापि चर्मादेः फलत्वाभावेन तल्लाभस्यैव फलत्वात् । चर्मलाभे- च्छाजन्यत्वस्य सप्तम्यन्तार्थत्ववत् शासनपरिपालनेच्छाजन्यत्वस्यापि तथात्वसम्भवात् । अयं दुष्कृतमनुभववित्याकारकधर्मभूतज्ञानात्म- कस्य यमशासनस्य विषयतायाः दुष्कृते सत्त्वेन कर्मयोगस्यापि सत्त्वात् , ज्ञानस्य द्रव्यत्वेन विषयतायाश्च संयोगरूपत्वेन संयो- गात्मककर्मयोगस्यैव सम्भवात् ॥ के चित्तु- संयमन इत्यस्य यमशासनविषये तत्पुर इत्यर्थः : अधि- करणे सप्तमी । 'संयमने यमशासने तत्प्रयुक्तयातना अनुभूय' इति भाष्यस्यापि-यमशासन इति शास्त्यस्मिन्नित्यधिकरणे ल्युट् , यमा- ज्ञाविषये संयमनीपत्तने यमप्रयुक्तयातना अनुभ्येति व्याख्यानसम्भ- वान्न विरोधः ॥ न च-यमपत्तने अनुभूयेत्य उक्त्वा यमशासनविषय- त्वेन पत्तनस्याभिधाने प्रयोजनाभाव इति-वाच्यम् ; संयमनीपदस्य यमपत्तनेरूढिसत्त्वेऽप्यकारान्तसंयमनपदस्य तत्र रूाढीवरहात्तथा व्या- ख्यानोपपत्तेः, 'प्रभवति संयमने ममापि विष्णुः' इत्यादौ संयमनपदस्य शासने प्रयोगेण तत्र रूढिसद्भावात् । किं च नरकेषु दुप्कृतमनुभूय येषामारोहावरोहौ तत्र पत्तनाधिकरणकानुभवानन्तरकालीनत्वस्य बाधेनानिष्टादिकारिकर्तृकारोहावरोहत्वावच्छेदेन तादृशानुभवानन्तर- कालीनत्वस्यान्वयोपपत्तये यमशासनविषयत्वेन पत्तननरकोभय- साधारणरूपेणाभिधानमुचितम् । एवमभिधानस्योक्तप्रयोजनञ्च तत्रापि तद्व्यापारादविरोध इति सूत्रकृतैव वक्ष्यते। किञ्च यमपत्तने अनुभूये- त्युक्ते तादृशानुभवे यमाज्ञाजन्यत्वं न लभ्यते, यमाज्ञाविषये अनुभ्ये- त्युक्तौ च यमशासनस्य धर्मिपारतन्व्येण जन्यतासम्बन्धेनानुभवे भानात्तजन्यत्वं लभ्यते, अतस्तल्लाभाय च तथाऽभिधानम्। एवञ्च- संयमन इति निमित्तसप्तमीति टीकायां निमित्तसप्तमीत्यस्य निमि श्रीभाप्यभावाङ्करः. - तत्यसंसर्गकस्वप्रकृत्यर्थतावच्छेदकप्रकारकबोधजनिका अधिकरण- सप्तमीत्यर्थः ॥ न च-यमशासनविषयत्वरूपयोगार्थतावच्छेदकरूपतत्पत्तनत्वरूप- रुढ्यर्थतावच्छेदकरूपाभ्यां पत्तनस्याधिकरणतया बोधेऽपि धर्मिपार- तन्व्येण शासनस्य जन्यतासम्बन्धेनानुभवे मानसम्भवात् रूट्यर्थ- तावच्छेदकपरित्यागो भाप्ये किमर्थ कृतः- इति वाच्यम् ; रूढ्यर्थता- वच्छेदकस्यापि भानाङ्गीकारे तादृशपत्तनाधिकरणकानुभवानन्तर- कालीनत्वस्यावच्छेदकावच्छेदेनान्वयस्य विवक्षितस्य बाधापत्तेः । तथा च तत्रापि तद्व्यापारादविरोधः' इति सूत्रावतरणिकामाप्यम्- "ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्तिरत आह-तत्रापी- त्यादि' इति । तथा च-रूढ्यर्थताऽवच्छेदकस्य घटकत्वाभिप्रायेण शङ्का, अघटकत्वाभिप्रायेण समाधानमिति बोध्यम् ॥ न चैवं-यमसदन- प्राप्तिवचनानि पुराणादिषु पठ्यन्ते, तन्निबन्धनेयमाशङ्केति टीका- विरोधः-इति वाच्यम् ; तादृशपुराणवचनानां सत्त्वात् रून्यथस्य घटकत्वमावश्यकमिति शङ्कोपष्टम्भवर्णनपरत्वात् ।। -इति वदन्ति । ननु चन्द्रमसमेव ते सर्वे गच्छन्तीति श्रुत्या अनिष्टादिकारिणां चन्द्रारोहावरोहयोस्सिद्धावपि यमाज्ञाधीनदुःखानुभववत्त्वमसिद्धमिति शङ्कायामुक्तं- 'तहतिदर्शनात्' इति। तच्छब्देन यमाज्ञाधीनदुष्क- तानुभवस्य परामर्शः, 'अयं लोको नास्ति न पर इति मानी पुनः पुनर्व- शमापद्यते मे', 'वैवस्वतं सङ्गमनं जनानाम्' इत्यादिश्रुत्या तादृशानु- भवप्राप्तेस्सिद्धत्वात्; अयं लोको नास्ति न पर इति मानी-इहामुत्र चाह- टजन्यं सुखं नास्तीति मननशीलः, तादृशसुखार्थ विहितं कर्माकुर्वाण इति यावत् ; पुनःपुनर्वशमापद्यते मे-पुनःपुनर्जन्मजरामरणादिप्राप्त्या मदाज्ञाविषयतां प्राप्नोतीत्यर्थात् ; जनानां सङ्गमनं प्राप्यमित्यर्थः ।
श्रीभाप्यभावाङ्करः. अत्र यद्यपि-अयमेव लोकः स्व्यन्नपानादिरूपोऽस्ति न परलोक इति मानीत्यर्थः एकनघटितपाठमङ्गीकृत्य एवकारमध्याहृत्य परैर्व्या- ख्यातः, तथाऽपि नद्वयघटितपाठस्यैव सर्वत्र सत्त्वेन प्रामाणिक- त्वात् चकारमध्याहृत्य व्याख्यानमेव युक्तमित्यभिप्रेत्य टीकायामित्थं व्याख्यातम् ॥ ननु-उक्तश्रुत्या यमाज्ञाविषयत्वसिद्धावपि न तादृशानुभववत्त्व- सिद्धिः। न च-यमाज्ञाविषयत्वस्य तज्जन्यदुःखानुभवव्याप्यत्वाद्धमो. ऽस्तीति वाक्यावहेरिव मे वशमापद्यत इत्यनेनापि दुःखानुभववत्त्व- स्याऽऽनुमानिकी सिद्धिस्सम्भवतीति-वाच्यम् ; दुःखानुभवशून्येषु यमभटेष्वपि यमाज्ञाविषयत्वस्य सत्त्वेन व्यभिचारात्-इत्याशङ्कय; अयं लोको नास्तीति दुरभिमानस्यानिष्टफलकथनाय प्रवृत्ते तद्वाक्ये कीर्त्यमानं यमवश्यत्वं दुःखानुभवोपधायकयमाज्ञाविषयत्वरूपमेव वक्तव्यं ; केवलाज्ञाविषयत्वस्यानिष्टत्वाभावात् । तथा च-श्रुति- घटकवशपदस्य तादृशयमाज्ञाविषयत्वे लक्षणा समाश्रयणीयेति समाधानं मनसि निधाय तादृशलक्षणायास्त गस्तात्पर्यानुपपत्तिमूलिकाया- स्तादृशवशपदस्य तादृशानुभवोपधायकयमाज्ञाविषयत्वे तात्पर्यग्रहा- धीनत्वात्तादृशतात्पर्यग्राहकमुपबृंहणमुदाहरति- ॥ सू॥ स्मरन्ति च ॥३॥ १ ॥ १४ ॥ अनिष्टादिकारिणामित्यनुवर्तते, पूर्वसूत्रात्तद्रतिमिति द्वितीयान्तं, पराशरादय इत्यध्याहार्यम् । अनिष्टादिकारिणां तादृशानुभवप्राप्ति पराशरादयः स्मरन्तीत्यर्थः । "अङ्गुलन्याष्टभागोऽपि न सोऽस्ति द्विजसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥"- इति प्रकृत्य, .. dure 6
20
श्रीमाप्यभावाङ्करः.
"सर्वे चैते वशं यान्ति यमस्य भगवन् किल ।
आयुषोऽन्ते तदा यान्ति यातनास्तत्र चोदिताः ॥"---
इत्यादिना तादृशानुभवोपधायकाज्ञाविषयतास्मरणात् । एवञ्च--
उक्तोपबृंहणानुरोधात् श्रुतिघटकवशपदम्यापि तादृशार्थपरत्व-
मावश्यकमिति भावः । यमवश्यतां स्मरन्तीति भाप्ये वश्यतापदमपि
तादृशानुभवोपधायकवश्यतापरमिति न तद्विरोधः ॥ अत्र यद्यपि-
सर्वे चैत इत्यादेरनिष्टादिकारिमात्रविषयत्वं न प्रतीयते, सर्वसा-
धारण्येन प्रवृत्तत्वात् , तथाऽप्युत्तरत्र भगवद्भक्तानां यमविषयगमना-
भावस्य प्रतिपादनात् तद्वचनस्यानिष्टादिकारिमात्रविपयत्वमावश्य-
कमित्याशयः॥
॥सू॥ अपि सप्त॥३॥ १ ॥१५॥
अत्राप्यनिष्टादिकारिणामिति स्मरन्तीति तद्गतय इति चतुर्थ्यन्तं
चानुवर्तते । अनिष्टादिकारिणां तादृशानुभवप्राप्तये सप्तनरकानपि
स्मरन्तीत्यर्थः ॥
ननु-नरकादिप्राप्तिप्रतिपादकपुराणवचनानुसारात् वशमापद्यत
इति श्रुतिघटकवशपदस्य तादृशानुभवप्रयोजकाज्ञाविषयत्वे लक्षणेति
न युक्तं, यमसदनप्राप्तिप्रतिपादकवचनानुसारेण तत्सदनप्राप्तिफलित-
तद्धृत्यताप्रयोजकाजाविषयत्वे लक्षणायाः विनिगमनाविरहेणापत्तेः,
माक्तं वा नात्मवित्त्वादिति सूत्रोक्तन्यायेन देवसदनं प्राप्तानां देव-
गृत्यत्ववत् यमसदनं प्राप्तानां तद्भूत्यत्वस्यावर्जनीयत्वात् , द्वयोरपि
पुराणवचनयोः साङ्ख्यस्मृतिमन्वादिस्मृतिवत् न्यूनाधिकमावविरहेण
वेदोपबृंहणत्वात्---इत्याशङ्कय ; तयोविरोधं परिहरति---
॥म् ॥ तत्रापि तव्यापारादाविरोधः ॥ ३ ॥ १ ॥ १६ ॥
४३ - श्रीभाप्यभावाङ्कुरः अनानिष्टादिकारिणामिति चरणादिति चानुवर्तते ; तत्रापि-सप्त- नरकेप्वपि, अपिना यमसदनस्य समुच्चयः, तद्व्यापारात्-यमशास- नात्; अनिष्टादिकारिणां चरणात्-गमनात् , अविरोधः-यमसदन- नरकप्राप्तयोः क्रमादविरोध इत्यर्थः । तथा च-तद्वचनयोरपि न. विरोध इति भावः ॥ उक्तपूर्वपक्षे सिद्धान्तमाह- ॥ मू॥विद्याकर्मणोरिति तु प्रकृतत्वात् ॥३॥१॥१७|| अत्र उत्तरसूत्रात् तथा नेत्यनुवर्तते, देवयानपितृयाणे इत्यध्याहार्य; तुशब्दसिद्धान्तद्योतनार्थः। तथा न-अनिष्टादिकारिणां चन्द्रगमनं नेत्यर्थः ; इतिशब्दो हेत्वर्थे, यतो देवयानपितृयाणे विद्याकर्मणोः विद्याकर्मफलानुभवार्थे, फलानुभवार्थत्वरूपसम्बन्धस्य षष्ठ्यर्थत्वात् । उक्तं च टीकायाम्--"सम्बन्धसामान्यविषया षष्ठी तादर्थ्यपर्यवसा- यिनी, तादर्थ्यं च तत्कलभोगार्थत्वम्"-इति । न च-षष्ठ्या जन्य- त्वार्थकत्वमभ्युपगम्य विद्याकर्मजन्ये देवयानपितृयाणे इत्यर्थः कुतो नोक्तः इति वाच्यम् ; देवयानपितृयाणयोः विद्याकर्मजन्यत्वविरहात्, तद्गमनयोस्तजन्यत्वसम्भवेऽपि षष्ठ्यास्सम्बन्धसामान्यविषयत्वावश्य- कत्वात् , देवयानपितृयाणगमनस्य विद्याकर्मव्यापारत्वबोधनाय फल- भोगार्थत्वरूपसम्बन्धस्यैव षष्ठ्यर्थत्वस्य युक्तत्वात् । एवं च- पितृयाणगमनं अनिष्टादिकार्यवृत्ति, कर्मनन्यत्वात् , यस्य यजन्यत्वं तस्य तच्छून्यावृत्तित्वमिति व्याप्तौ-विद्याशून्यावृत्तिविद्याजन्यदेवयान- गमनस्य दृष्टान्तत्वमित्युक्तानुमानेनानिष्टादिकारिणां पितृयाणगमना- भावसिद्ध्या तदुटकचन्द्रगमनाभावसिद्धिः ॥ ननु देवयानपितृयागमनयोः विद्याकर्मजन्यत्वासिध्या साधन- वैकल्यासियोर्वरितेत्यत उक्तं प्रकृतत्वादिति ; 'तद्य इत्थं विदुः ये ४४ श्रीभाष्यभावाङ्करः- १ चमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति' इति देव- यानवाक्ये विद्याविशिष्टस्य, ‘य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति' इति वाक्ये कर्मविशिष्टस्य च प्रकृतत्वादित्यर्थः ; विशिष्टस्य प्रकृतत्वे च तस्यैव तच्छब्देन परामर्शात्, धनवान् सुखीत्यादाविव उद्देश्यतावच्छेदकीभूतविद्याकर्मणोर्मार्गप्राप्तौ जन्यता- सम्बन्धेन भानात् देवयानपितृयाणगमनयोर्विद्याकर्मजन्यत्वसिद्धिरिति भावः । 'प्रकृता हि देवयाने विद्या पितृयाणे च कर्म' इति भाष्यं च विशेषणतया प्रकृतत्वपरमिति न तद्विरोधः ॥ ननु-उक्तरीत्या अनिष्टादिकारिणां पितृयाणगमनाभावसिद्धावपि न चन्द्रगमनाभावसिद्धिः, मार्गान्तरेण चन्द्रगमनसम्भवात् ; अन्यथा तेषां देहारम्भस्य पञ्चमाहुतिसापेक्षस्यानुपपत्तेरित्यत आह- ॥सू॥ न तृतीये तथोपलब्धेः ॥ ३॥ १ ॥ १८ ॥ अत्र तथेत्यस्यावृत्तिः, तृतीये--अनिष्टादिकारिणि, तथा न-इष्टादि- कारिसादृश्यं न ; ताशसादृश्यं च देहारम्भाय पञ्चमाहुतिसापेक्षत्वं, कुतः-तथोपलब्धेः; अर्थतयोः पथोरिति श्रुत्या तृतीयस्थानशब्दि- तस्यानिष्टादिकारिणः स्वर्गाप्राप्तिवचनेन पञ्चमाहुत्यभावप्रतीतेरित्यर्थः । न चैव-देहत्वावस्थां प्रति पञ्चमाहुतेः कारणत्वस्य इतितुपञ्चम्या- माहुताविति श्रुतिसिद्धस्यानुपपत्तिः, व्यभिचारादिति-वाच्यम् ; अव्यवहितोत्तरत्वस्य कार्यतावच्छेदकगर्भे निवेशात् ॥ ननु-अव्यवहितोत्तरत्वनिवेशे गौरवं, पुरुषवचस इत्यत्र पुरुप- पदस्य पञ्चमाहुत्यव्यवहितोत्तरदेहपरत्वे लक्षणाप्रसङ्गश्च ; इति तु पञ्चम्यामित्यादिश्रुतेदेहत्वावस्थात्वावच्छिन्नं प्रति पञ्चमाहुतेः कारणत्वपरत्वमेव युक्तं, अर्थतयोरिति श्रुतौ च पापकर्मणां मुसानुभवा- र्थस्वर्गप्राप्त्यभाव एवोच्यतां-इत्याशङ्कय , पुरुपपदलक्षणायाः अव्यव- हितोत्तरत्वनिवेशस्य चावश्यकतां सूचयितुमाह-- ७ .. अतः श्रीभाप्यभावाङ्कुरः. ।। स ॥ स्मयतेऽपि च लोके ॥३॥ १ ॥ १९ ॥ अत्रापि तथेति वर्तते, संयमने त्वनुभूयेत्यतः इतरेषामिति च पुण्य- कर्मणामित्यर्थक ; इतरेषां पुण्यकर्मणां द्रौपदीधृष्टद्युम्नप्रभृतीनां, लोके- पुण्यफलभूतदेहे, लोकशब्दस्य तद्यथेह कर्मचितो लोक इत्यादाविव फलपरत्वात् ; तथा स्मयते-पञ्चमाहुत्यनपेक्षा स्मर्यत इत्यर्थः । अवापिशब्द इतरेषामित्यस्यानुषक्तस्य पुण्यकर्मार्थत्वतात्पर्यग्राहकः । देहस्य लोकशब्देनाभिधानं प्रसिध्यतिशयद्योतनार्थम् ; 'शनि रशनिश्च तमुनिहन्ति कुप्यसि नरेन्द्र यस्मै त्वम्' इत्यादावश- निपदस्य वज्रायुधपरस्यापि शनिविरुद्धार्थव्यञ्जकत्ववदनापि लोकशब्दस्य पुण्यफलार्थकस्यापि प्रसिद्ध्यतिशयव्यञ्जकत्वसम्भवात् । देहान्वितस्य प्रसिद्ध्यतिशयरूपव्यङ्गयार्थस्य धर्मिपारतन्त्र्येण तथा- शब्दार्थे पञ्चमाहुत्यनपेक्षायां भानमभिहितम् । उक्तञ्च टीकायाम् – 'लोकशब्दः प्रसिद्ध्यतिशयघ्योतनाथः' इति । वस्तुतः-इतरेषां पञ्चमान हुत्यनपेक्षा लोके स्मर्यत इत्यन्वयात् प्रसिद्धत्वसम्बन्धेन लोक- वृत्तित्वस्य सप्तम्यन्तार्थस्य स्मृतावन्वय इति बोध्यम्। तथा च-अव्यव- हितोत्तरत्वनिवेशनं लक्षणाकल्पनं चावश्यकमिति भावः। एतेन- पञ्चाग्निविद्यायाः इष्टादिकारिविषयत्वस्य 'अश्रुतत्वादिति चेन्न' इति सूत्रसिद्धत्वात् पुण्यजन्यदेहत्वावस्थां प्रत्येव पञ्चमाहुतेः कारणत्व- बोधनात् तत्र व्यभिचाराभावात् अव्यवहितोत्तरत्वनिवेशनं लक्षणा- कल्पनं चानावश्यकमिति-निरस्तम् ॥ ननु श्रुतिसिद्धार्थस्यातिप्रसिद्धयाऽपि स्मृत्या सङ्कोचो न युक्त इत्यत आह- ॥ सू॥ दर्शनाच्च ॥ ३॥ १ ॥२०॥ अत्राप्यनिष्टादिकारिणामिति तथेति च वर्तते, तेषां खल्वेतेपा भूतानां त्रीण्येव बीजानि भवन्ति' इति श्रुत्या केषां चिनिष्टादि- ४ -- , ४६ श्रीभाप्यभावाङ्कुरः. कारिणां पञ्चमाहुत्यभावबोधनादित्यर्थः । यद्यपि तादृशश्रुतौ पञ्चमा- हुत्यभावस्य न बोधः; तथाऽपि स्वेदजसनहायोद्भिज्जपदस्यायो- निजत्वावच्छिन्ने लक्षणाया आवश्यकत्वेन रेतोजन्यत्वाभावलाभात्पञ्च- माहुत्यभावस्य मानसो बोधो भवतीति भावः। तदेतदाह-- ॥ स्मू ॥ तृतीयशब्दावरोधस्संशोकजस्य ॥ ३ ॥ १ ॥ २१ ॥ संशोक नस्य-स्वेदनस्य, तृतीयेनोद्भिजशब्देन अयोनिजत्वावच्छिन्ने अजहत्स्वार्थलक्षणया ग्रहणमित्यर्थः । तथा च केवलपापकर्मणां चन्द्र- गमनं नेति सिद्धम् ॥ ॥ सू ।। तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ३॥ १॥ २२ ॥ पूर्वाधिकरणे देवयानपितृयाणयोर्विद्याकर्मफलार्थत्वादनिष्टादिकारिणां विद्याकर्मफलाभावात् देवयानाभाववत् पितृयाणमपि नास्तीत्युक्तं, अस्मिन्नधिकरणे शरीरस्य सुखदुःखभोगार्थत्वात् आकाशादिशरीरेणा- नुभोक्तव्यमुखाद्यभावात् आकाशादिशरीरकत्वं नास्तीति निरूप्यते । यद्वा-यथेतमनेवं चेति पितृयाणमार्गविषयविचारे प्रस्तुते प्रसङ्गा- तादृशमार्गस्यानिष्टादिकारिविषयत्वाभावं व्यवस्थाप्य पूर्वप्रस्तुतमार्ग- घटकाकाशादिभावो विचार्यत इति कृतात्यय इत्यधिकरणेन सङ्गतिः, पूर्वाधिकरणं तु प्रासङ्गिकमिति-बोध्यम् । अवरोहणप्रकार- स्तावच्छ्यते-- "अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशं, आकाशाद्वायुं, वायुर्भूत्वा धूमो भवति, धूमो भूत्वा अभं भवति, अभ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति, त इह ब्रीहियवा ओषधि- वनस्पतयस्तिलमाषा जायन्ते" -इति॥ अत्राकाशवायुपदयास्तद्वृत्त्यसाधारणधर्मलाक्षणिकत्वमावश्यकं, वायु- भूत्वा धूमो भवति धूमो भूत्वा अभं भवतीत्याद्युपरितनस्फुट- तरभूयोवाक्यानुसारात् , तत्र वायुभूत्वेत्यादौ वाय्वादिवृत्त्य- श्रीभाप्यभावाङ्गुरः. - साधारणधर्मवत्त्वरूपवाय्वाद्यभेदस्य जीवे असम्भवात् । वाय्वादि. पदस्य तच्छरीरार्थकत्वं स्वीकृत्य तच्छरीरकाभेदपरत्वमुपगम्यते वा, उत तत्सदृशपरत्वं स्वीकृत्य तत्सदृशाभेदपरत्वमुपगम्यत इति सन्देहः ॥ तत्र पूर्वः पक्ष:--वाय्वादिषदस्य तच्छरीरकार्थकत्वमेव युक्तं, तत्सदृशार्थकत्वे लक्षणाप्रसङ्गात् । एवं च-यथेतमाकाशमित्य- त्राकाशमदमपि तच्छरीरकत्वे लाक्षणिकमित्यभ्युपगन्तव्यम्। न च- मेवो भूत्वा प्रवर्षतीति क्विबन्तने वर्षसादृश्यस्य बोधसम्भवेऽपि तच्छ- रीरकत्वस्यात्रोधात् तदनुरोधेन वाय्वादिपदस्यापि तत्सदृशार्थकत्व- मेव युक्तमिति-वाच्यम्; जीवस्य वर्षशरीरकत्वेऽपि वर्षशरीरक- जीवान्तरसादृश्यस्यैव प्रवर्षतीत्यनेन बोधनसम्भवात् । जीवस्याकाशादिशरीरानुभाव्यमुखदुःखाद्यभावात् तद्वाक्यस्याकाशा- दिशरीरकत्वप्राप्तिपरत्वं न सम्भवतीति-वाच्यम् ; श्रुतार्थोपपत्तये प्रयोजनस्यापि कल्पनीयत्वात् , अन्यथा भूतानां सर्वत्र सुलभत्वात् , प्रयोजनाभावात् भूतपरिप्वक्तगमनत्यापि अकल्पनप्रसङ्गात् ; एवं 'तानि परे तथा ह्याह' इत्यत्र प्रयतां परमात्मसम्पत्तौ प्रयोजनाभावात् तेजः परस्यां देवतायामिति श्रुतौ परमात्मसम्पत्तिर्न सम्भवतीति पूर्वपक्षे प्रमाणानुरोधेन प्रयोजनस्य कल्पनीयत्वात् न प्रमाणप्रतिपन्नार्थ- त्याग इति सिद्धान्तस्याप्यसङ्गतिप्रसङ्गात् ; तस्मात् श्रुत्यनुरोधादा- काशादिशरीरकत्वे सिद्धे तत्फलभूतसुखभोगादिकमपि कल्प- नीयमिति ॥ राद्धान्तस्तु- आकाशादिभावस्तत्सादृश्यापत्तिरेव, न तु तच्छरीरकत्वम् ; प्रयोजनाभावात् , आकाशायभिमानिदेवतानामेवाकाशादिशरीरजन्य- मुखादिभोगवत्त्वेनावरोहतामनुशायनां तज्जयभोगासम्भवेन प्रयो- जनकल्पनाया असम्भवात्। न च--अवरोहतामेव तदभिमानिदेवतात्व- श्रीभाष्यभावाङ्करः- . मपि कल्पनीयमिति-वाच्यम् ; सर्गाद्यकालमारभ्याप्रलयं अनुश- विभ्योऽन्यासामाकाशाद्यभिमानिदेवतानां कृप्तत्वेन प्रतिक्षणमवरो- हतामनुशयिनां तथात्वकल्पनायोगात् , एकस्मिन् शरीरे युगपद्धो- क्तद्वयसमावेशाङ्गीकारे यदैकस्य भोजनादाविच्छा तद्दशाया- मन्यस्य शयनादीच्छासम्भवेन परस्परविरोधेन भोगानुत्पादस्यैव प्रसङ्गात् ; तस्मात्प्रयोजनकल्पनासम्भवान तच्छरीरकत्वसम्भवः । किञ्च-वर्षशरीरकस्यापि वर्षशरीरकनीयान्तरसादृश्यपरत्वं प्रवर्ष- तीत्यस्य न सम्भवति, हंसेऽषि हंसान्तरकर्तृकाचारसदृशाचारमादाय हंतो हंसतीत्यस्यापत्तेः। अतः आचारे भेदधर्मवत्त्वैतदुभयरूपसादृश्ये आचारे च खण्डशः विप्प्रत्ययस्य शक्तिः। तत्र प्रथमाचारे हंसस्य कर्तृतासम्बन्धेनान्वयः, हंसान्विताचारस्य भेदे हंसकर्तृकाचारत्वाव- च्छिन्नप्रतियोगितासम्बन्धेन आधेयतासम्बन्धेन च धर्मेऽन्वयात्तयोश्च द्वितीयाचारेऽन्वयाडूंसकर्तृकाचारत्वावच्छिन्नभिनतद्वत्तिधर्मवदाचारा- श्रयत्वस्य हंसे बाधात् हंसो हंसतीत्यादिप्रयोगाभाववत् वर्षशरीर- केऽपि वर्षशरीरककर्तृकाचारत्यावच्छिन्नभेदघटितस्य वर्षशरीरककर्तृ- काचारसदृशाचारस्य वर्पशरीरके बाधादवरोहतां वर्षशरीरकत्वे प्रवर्षतीत्यस्यानुपपत्तिः। अतोऽवरोहतामाकाशादिशरीरकत्वासम्भ- वादाकाशादिभावत्तत्सादृश्यापत्तिरेव ॥ तथा च-अथैतमेवाध्वान- मित्यादेरयमर्थः। अथ-अनन्तरं, एतमेव-धूममार्ग, यथेतं-यथा- गतं, पुनर्निवर्तन्ते ; धूमराव्यपरपक्षदक्षिणायनषण्मासपितृलोका. काशक्रमेण गमनात्तेनैव क्रमेणावरोहणे प्राप्ते तत्र विशेषमाह- आकाशं, आकाशाद्वायुम् ; यथा आकाशाच्चन्द्रमसमाभिसम्भवन्ति, एवं चन्द्रमस आकाशमभिसम्भवन्तीत्यारोहावरोहयोराकाशाभि. सम्भवोऽविशिष्ट इत्यर्थः। आकाशाभिसम्भवो हि आकाशसादृश्यं, या आपश्चन्द्रमण्डले शरीरमारब्धवत्यः तासां कर्मक्षये द्रवीभूताना- श्रीभाप्यभावाङ्कुरः. .. . माकाशगतानां भेदकोकारप्रहाणेनाकाशसादृश्ये तच्छरीरकाणां जीवानामप्याकाशशरीरकसादृश्यसम्भवात्तासां चापां इतश्चामुतश्च नीयमानानां वायुसादृश्ये तच्छरीरकजीवानामपि वायुशरिकजीव- सादृश्यापत्तेः ; इत्थं च-वायुर्भवतीत्यस्थ तादृशसूक्ष्मशरीरको जीवो वायुंशरीरकसदृशो भवतीत्यर्थः । अपो विभीत्यभ्रमिति व्युत्पत्त्या अभ्रशब्देन जलधारणावस्थस्य मिहसेचन इति धातुनिप्पन्नेन मेघशब्देन वर्षोन्मुखत्वावस्थापन्नस्य प्रतिपादनान्न पोनरुक्तयं ; पौन- रुक्तयं हि न पूर्वप्रतिपन्नार्थप्रतिपादकत्वं, तथा सति ‘इन्द्रो महेन्द्र- स्सुरनायको वा' इत्यादौ रूढ्यर्थमादाय तदापत्तैः ; किन्तु पूर्वाप्रति- पन्नार्थाप्रतिपादकत्वं तद्वाच्यमिति पूर्वाप्रतिपन्नस्य योगार्थस्याधिकरय बोधात्तदापत्त्यसम्भव इति ॥ मूत्रार्थस्तु -अत्र कृतात्ययेऽनुशयवानित्यतं अनुशयवत इति षष्ठ्यन्त, संयमन इत्यतस्तद्गतिरिति प्रथमान्तमनुवर्तते ; अनुशयवतः- जीवस्य, तद्गतिः-आकाशादिप्राप्तिः, तत्स्वाभाव्यापत्तिरूपैव-आका- शादिसादृश्यापत्तिरूपैव, न तु तच्छरीरकत्वरूपेत्यर्थः; उपपत्तेः- आकाशादिजन्यसुखदुःखभोगाभावोपपत्तेः। तथा चावरोहन् जीवः आकाशादिशरीरकत्वाभाववान् , आकाशादिजन्यभोगाभाववत्त्वे सति कर्मवत्त्वात् , यत्र यजन्यभोगाभाववत्त्वे सति कर्मवत्त्वं तत्र तच्छरीर- कत्वाभाव इति व्याप्तेः। अत्र घटादिजन्यभोगाभाववति तच्छरीरके परमात्मनि व्यभिचारवारणाय कर्मवत्त्वनिवेशः ।। ॥म् । नातिचिरेण विशेषात् ॥ ३॥ १ ॥ २३ ॥ ब्रीह्यादिप्राप्तिप्रागभावकालावच्छिन्ना आकाशादिसादृश्यापत्तिरूपा आकाशादिप्राप्तिः किमतिचिरकालावच्छिन्ना नेति संशयः । अत्र- विधिकोटिम्सामानाधिकरण्येन, निषेधकोटिरवच्छेदकावच्छेदेन ।। अत्र पर्वपक्षः--आकाशादिप्राप्तिः अतिचिरकालावच्छिन्नापि सम्भवति, .. 7 श्रीभाप्यभावारः. नियमहेत्वभावात् । न च-अतो वै खलु दुनिष्प्रपतरमिति ब्रीह्यादि भावविषयश्रुत्या ब्रीह्यादिविभागजनकनिप्क्रमणे दुरित्यनेन चिरकाली- नत्वरूपकृत्वस्याभिधानात् , तत्पूर्वकालीनाकाशादिप्राप्तौ चिर- कालावच्छिन्नत्वाभावः प्रतीयते-इति वाच्यम् ; अतो व खल्वित्या- दिवाक्यं हि व्रीह्यादिषु न चिरावस्थानविधायकं, आकाशादि- प्राप्ताविवानियमतश्चिरकालीनत्वस्य ब्रीह्यादिप्राप्तावपि प्राप्तत्वात् ; किन्तु व्रीह्यादिप्राप्तः चिरकालावच्छिन्नत्वनियमविधायकं तद्वाक्यमभ्युप- गन्तव्यम् । तथा च ब्रीह्यादिप्राप्तौ चिरावच्छिन्नत्वनियमबलात् आकाशादिप्राप्तौ तादृशनियमव्यावृत्तिप्रतीतावपि आकाशादिप्राप्तौ सामानाधिकरण्येनानियमतः प्राप्तस्य चिरकालावच्छिन्नत्वस्य न व्यावृत्तिसिद्धिः; किञ्च निरप्रेत्युपसर्गद्वयपूर्वकपतृधातोः भावल्युड- न्तम्य सिद्धे दुर्निप्प्रपतनमिति रूपे तत्र च छान्दसे नकारस्य रेफादेशे दुनिष्प्रपतरमिति सिद्ध्यति ; तदर्थे च उत्तरदेशसंयोगानु- कूलव्यापमरे दुरित्यनेन दुःखजनकत्वरूपस्य चिरकालीनत्वरूपस्य वा कृळूत्वस्य बोधेऽपि ब्रीह्यादिप्राप्तौ तदबोधात् तत्पूर्वाकाशादि- प्राप्तावचिरकालीनत्वस्य प्रतीतिस्सुतरां न सम्भवति ; उत्तरदेशस्यापि धात्वर्थप्रविष्टत्वाच्च न गम्यादेरिव सकर्मकता । एतेन-दुर्निप्रपतरमिति शब्दो न ल्युडन्तो वर्णविकारवान् , अपि तु खलन्ताहुनिष्प्रपतशब्दादातिशायिनिके तरप्रत्यये छान्दसे तशब्दलोपे दुनिष्प्रपतरमिति रूपं, ततश्चातिशयस्य प्रतियोग्याका- सायां प्रागनुक्रान्ताकाशादीनां बुद्धिसन्निधानात् प्रतियोगित्वेनान्वयः स्यात् । ततश्च ब्रीह्यादिप्वाकाशाद्यपेक्षया चिरावस्थानोक्त्या आका- शादिप्ववस्थानस्य तदेपक्षया अल्पकालत्वपर्यवसानात् समीहित- सिद्धिरिति--निरस्तम् । व्रीह्यादिविभागजनकनिष्क्रमणे तरपा अति- शयस्य प्रतीतावथि व्रीह्याद्यवस्थाने तदप्रतीत्या अवस्थानस्य चिर- श्रीभाप्य भावाङ्कुरः. च्च ॥ कालीनत्वासिंद्धेः; बलवत्तर इत्यादौ तरपा बले अतिशयप्रतीतावपि बलतरमित्यादौ तदप्रतीत्या तरपो विशेषणगतातिशयबोधकत्व- स्वाभाव्येन दुनिष्प्रपतरमित्यादौ निष्क्रमणस्य विशेप्यत्वेन तत्रा- तिशयबोधानिर्वाहाच्च न च-दुरुपपदात् पतृधातोः कर्थे डप्रत्यये सति दुनिष्प्रपत- मिति रूपसिद्धौ ततस्तरप्प्रत्यये दुनिष्प्रपततरमिति रूपसिद्धिः, तथा च विशेषणीभूतनिष्क्रमणे तरपा अतिशयबोधसम्भवः, धूमो भवतीत्या- धुपक्रमानुरोधात् , पुंस्त्वस्यावश्यकत्वेऽपि तद्भूय एव भवतीत्युत्तर- वाक्ये स इत्यध्याहृततच्छब्दार्थे इष्टादिकारिणि नपुंसकतच्छब्देन रेत- स्सिग्योगी भवतीत्यर्थप्रतीतेः, तथाऽतापि नपुंसकलिङ्गोपपत्तिरिति- वाच्यम् ; जनेरुपपदान्तरयोगे डप्रत्ययविधानसत्त्वेऽपि पतधातोस्तदः नुशासनविरहात् । न च-डप्रत्ययविधायकसूत्रे अन्येभ्योऽपि दृश्यत इति वक्तव्यधात्वन्तरेभ्योऽपि डप्रत्ययस्यानुशिष्टत्वात् दृशिग्रहणं सर्वोपाधिव्यभिचारार्थमिति वृत्तावुक्तत्वात् पतधातोरपि तत्सिद्धि- सम्भव इति--वाच्यम् ; क्लिष्ट कल्पनाप्रसङ्गात् । तस्मादाकाशादि- प्राप्तिरनियमेन चिरकालावच्छिन्नाऽपि सम्भवतीति ॥ राद्धान्तस्तु-आकाशादिप्राप्तिः नातिचिरकालावच्छिन्ना : 'अतो वै खलु दुनिष्प्रपतरम्' इत्यनेन तथा बोधनात् , निप्प्रपतर- मित्यनेनातिकृनिष्क्रमणप्रतीतेः, खलन्ताद्दर्निप्नपतशब्दात्तर- प्प्रत्यये तकारलोपेनोक्तरूपसिद्धेः, तरवातिशयस्य विशेषणीभूत- कृत्वे बोधादतिकृळूत्वसिद्धेः । अत इति पञ्चम्यन्तार्थव्रीह्यादि- विभागननकत्वान्विते उत्तरदेशसंयोगानुकूलव्यापाररूपनिष्क्रमणे अति- कृळूत्वं हि चिरावस्थानोत्तरकालीनत्वमेव, नरकान्निर्गमनमतिसङ्कट- मित्यादौ चिरावस्थानोत्तरकालीनत्वरूपसङ्कटत्वस्यैव बोधात्, वै- शब्दस्यैवकारसमानार्थकत्वेन चैत्रस्यैवेदं धनमित्यादौ धने चैत्रान्य- ६२ श्रीभाष्यभावाङ्कुरः. , निरूपितम्वत्वाभावचैत्रनिरूपितस्वत्वयोर्बोधवत् अतिकनिष्क्रमणे ब्रीह्यादिविभागजनकत्वतदन्यविभागजनकत्वाभावयोधात् , चिरा- वस्थानोत्तरकालीननिर्गमने आकाशादिविभागजनकत्वाभावसिद्ध्या आकाशादिप्राप्तौ चिस्कालावच्छिन्नत्वाभावलाभात् ॥ मूत्रार्थस्तु-अत्रेष्टादिकारिणामिति तत्स्वाभाव्यापत्तिरिति च वर्तते, इष्टादिकारिणां आकाशादिसादृश्यापत्तिरूपतत्प्राप्तिश्चिरकाला- वच्छिन्नभिन्ना, अतो वै खल्वितिश्रुत्या ब्राह्मादिप्राप्तौ चिरकालावच्छि- नत्वस्याकाशादिप्राप्तौ तदभावरूपविशेषम्य च सिद्धेरिति । ॥ सू ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ३ ॥ १ ॥ २४ ॥ अवरोहतां जीवानां ब्रीह्मादिभावस्तावच्छ्रयते--'मेघो भूत्वा प्रवर्षति, त इह व्रीहियवा ओषधिवनम्पतयस्तिलमापा जायन्ते' - इति ॥ अत्र संशयः--कि व्रीह्यादिभावो व्रीह्यादिशरिकत्वं, उत जीवान्तराधिष्ठितेषु व्रीह्यादिषु संश्लेषमात्रमिति । अत्र पूर्वपक्षः-व्रीह्या- दिशरीरकत्वमेव व्रीह्यादिभावः, त इह व्रीहियवा जायन्त इति ब्रीह्या- दिशरीरकत्वविशिष्टनिलोत्पत्तिमत्त्वश्रवणात्, विशिष्टनिष्ठोत्पत्तिश्च विशिष्टाधिकर गक्ष मानधिकरणक्षणसम्बन्ध एव इष्टादिका न्यादिशरीरप्राप्तिप्रयोजककर्माभावात् न तच्छरीर- कत्वसम्भव., । इत्यादिश्रुवौ च ब्रीह्यादिपदं तत्संश्लिष्टपगमिति- वाच्यम् ; तथा मति लक्षणाप्रमङ्गात् , देवताद्देश्यकद्रव्यत्यागरूप- यागम्य हिंसाङ्गकत्वेन यागात्पुण्योत्पत्तिवद्धिसया पायम्याप्यवर्जनीय- तया तादृशपापस्यैव ब्रीह्यादिभावहेतुत्वाञ्च, 'शरीरजैः कर्मदापैर्याति स्थावरतां नरः' इति मृत्या कायिकव्यापारजन्यपापस्य स्थावर- भावहेतुतामिद्धेश्च । न च-मरणावच्छिन्नव्यापाररूपहिमायाः स्वानु- लकृतिमत्त्यसम्बन्धेन पापजनकतया तेन सम्बन्धेन हिंसायाश्शमितृ- - श्रीभाप्यभावाङ्कुरः. निष्ठत्वेऽपि यजमाननिष्ठत्वाभावादिष्टादिकारिणां न पापसम्भव इति- वाच्यम् ; ऋत्विकर्तृकक्रियाणां यजमाने पुण्यजनकत्वापपत्तये स्वानु-- कूलकृतिमत्त्वस्वानुकूलकृतिप्रयोजकात्विज्यवरण कर्तृत्वान्यतरसम्बन्धेन विहितनिषिद्धाक्रेययोः पुण्यपापहेतुत्वस्यावश्यकतया शमितृकर्तृक- हिंसायाः शमितरीव यजमानेऽपि पापजनकत्वस्य दुर्वारत्वात् ॥ न च-न हिंस्यात्सर्वा भूतानीति निषेधस्य हिंसात्वावच्छेदेन वल- वदनिष्टाननुबन्धित्वाभावरूपबलवदनिष्टानुबन्धित्वबोधकत्वे 'अग्नीपो- मीयं पशुमालभेत' इति श्रुतिबोधितस्याग्नीषोमीय हिंसायां बलवद्- निटाननुबन्धित्वस्य बाधापत्तिः, अतो न हिम्यादित्यादेविहितहिंसा- तिरिक्तहिंसात्वावच्छेदेनैव बलवदनिष्टानुवन्धित्वबोधकत्वं वाच्यम् , उत्सर्गापवादन्यायात् ; तथा च यागीयहिंसातिरिक्तहिंसाया एक पापजनकतया नेष्टादिकारिषु पापसम्भव इति - वाच्यम् ; अग्नीपोमीयं पशुमालभेतेत्यस्य यागविधायकत्वेन हिमाविधायकत्वाभावात - आयूर्वकलभधातोर्यागे लाक्षणिकत्वात् , उत्सर्गापवादन्यायाप्रवृत्तेः, व्याप्यधर्मावच्छिन्नविधिव्यापकधर्मावच्छिन्ननिषेधसत्त्वाथल एव तत्प्रवृत्तेः ॥ न च-आलभेतेत्यग्य हिमापूर्वकत्वविशिष्टयागे लक्षणाङ्गीकारेण विशिष्टविधिवीकारात् हिमाया अपि विधेयत्वमुपपद्यत इति वाच्यम् ; तथा सति अग्नीपानीयपशुकर्मकत्वस्य धात्वर्थेकदेशहिमायामन्वया- सम्भवेन याग एवात्वयम्य वाच्यतया हिसामामान्यस्यैव विधाना- पत्त्या विहितहिसातिरिक्तहिंसाया एवाप्रमिध्यापत्तेः, हिंसायामेव कथञ्चिदन्वयाभ्युपगमे चाग्नीषोमीयपशुकर्मकयागम्यालाभापत्तेः, विशिष्टे लक्षणाया असम्भवात् । अत एव मीमांसकैरालभेतेत्यस्य केवलयागे लक्षणा स्वीकृता ।।
-- श्रीभाप्यभावाङ्कुरः. उक्तञ्च भाट्टरहस्ये- "धात्वर्थश्च क्वचिच्छक्यार्थ एव भावनायां प्रकारः, यथा यजे. तेत्यादौ; कचित्तु लक्ष्यार्थः, यथा अग्नीषोमीयं पशुमालभते. त्यादी। यागो लक्ष्यार्थोऽपि क्वचिच्छक्यार्थयुक्तः, यथा प्रष्ठेरुपतिष्ठत इत्यादावात्मनेपदानुरोधेन समीपस्थितिरूप- शक्यार्थविशिष्टमभिधानम् ॥" - इति ॥ न च -हिंसापूर्वकयाग एव लक्षणाऽस्तु । अग्नीषोमीयं पशुमि- त्यम्य चोभयत्रान्वयान्नानुपपत्तिरिति- वाच्यम् । आलभेतेत्यस्य विशिष्टे लक्षणामुपगम्य विशिष्टम्य विधेयत्वाङ्गीकारे माहिस्यादित्यत्र हिंगिधातोः विहितहिंसातिरिक्तहिंसायां लक्षणापत्त्या गौरवात्तद- पक्षया आलभेतेत्यग्य केवलयागे लक्षणाङ्गीकारस्यैव युक्तत्वात् , तत्कल्पे हिंसिधातोर्लक्षणाविरहात् । कि च--विशिष्टे विशेषणान्वयो हि विशेप्यविशेषणयोरन्वयावाधस्थल एव, न तु विशेषणे तद्बाधे, अनित्यो घट इत्यादौ विशेषणे अनित्यत्वानन्वयात् । प्रकृते हिंसा- यां बलवदनिष्टाननुबन्धित्वरूपविध्यर्थस्य नान्वयसम्भवः, न हिंस्या- दिति निषेधेनैतदभाववोधनेन बाधात् । न च--न हिंस्यादित्यस्य विहितहिंसातिरिक्तहिंसाया अनिष्ट माधनत्वबोधकत्वान्न दोप इति- वाच्यम्; तथा मत्यन्योन्याश्रयापत्तेः, अग्नीपोमीयं पशुमालभते- त्यस्य विशिष्टविधित्वे न हिम्यादित्यस्य विहितातिरिक्त विषयत्व- सिद्धिः। तस्य विहितातिरिक्तविषयत्वसिद्धौ विशेषणान्वयाबाधेन विशिष्टविषयत्वसिद्धिरिति ।। इति श्रीशेषार्यवंशमुक्ताफलम्य श्रीयादवाद्रिनिवासरसिकस्य श्रीमदनन्तार्यवर्यस्य कृतिषु यावत्संपादितः श्रीभाप्यभावाङ्करः ॥ ॥ श्रीः ॥
॥ श्रीः॥
सुदर्शनसुरद्रुमः
श्रीमन्महीशूरमहाराजाधिराजमहास्थानसभाभूषणैः
शेषार्यवंशमुक्ताफलैः श्रीयादवादिनिवासरसिकैः
पण्डितमण्डलीसार्वभौमैः
श्री ॥ उ॥ म. अ. अनन्तार्यवयः
विरचितः ।
विद्वद्वरैः परिशोध्य
म. अ. अनन्तायैण
प्र. भ. तो. नरसिंहार्येण च
कल्याणपुर-विचारदर्पण-मुद्राक्षरशालायामङ्कयित्वा
प्राकाश्यं नीतः॥
१८९९.
मूल्यं रू. २
.
(All Rights Reserved)
(Registered according to act XXV of 1867.)
॥ श्रीः॥
सुदर्शनसुरद्रुमः.
भव्योल्लासाय भूयाद्विनमदमरराडिव्यकोटीरकोटी-
रत्नाग्रयसनमुक्तामणिगणविलसत्कान्तिकिजल्कजुष्टम् ।
पादाब्ज श्रव्यनव्येतरफणितिसतीदिव्यसीमन्तसीमा-
सन्धार्य श्रीपतेश्श्रीयदुशिखरिशिखारत्नदीपस्य विष्णोः॥१॥
चिरन्तनसरस्वतीचिकुरमल्लिकातल्लज-
प्रफुल्लनवमञ्जरीप्रविगलन्मधूलीझरी ।
कला कलयतां मुदं कमलनेत्रवक्षस्थली-
कपोपलतटीकनत्कनकरेखिका काचन ॥२॥
पूर्वाचार्यपरम्परां प्रतिपदं वन्दे मुकुन्दे रतां
यस्याः प्राथमिको रमाप्रियसखो नाथादयो मध्यमाः ।
श्रीमच्छिङ्गलदेशिकस्तु चरमो येनाहमध्यापितः
शास्त्रं यत्पदसंश्रयात्प्रकथनो यदैवतो यत्सुतः ॥३॥
जयन्तु जगतां श्लाव्या जराजन्मनिरासकाः ।
पुरन्दरत्य यमिनां पदपङ्कजरेणवः
शेषायवंशवार्थीन्दुरनन्ताचार्यकोविदः ।
करोति विदुषां प्रीत्यै सुदर्शनसुरद्रुमम् ॥५॥
२ सुदर्शनसुरद्रुमः. रङ्गाचार्यमनीषिणां निवसतां गोवर्धने वर्धने प्राज्ञानां करुणावशाद्विलसितामाज्ञां पुरस्कुर्वता । मन्दोदीरितफल्गुदूषणवचोनिर्मूलनेच्छावता ग्रन्थोऽयं रचितः फलं च गमितः श्रीपार्थसूतार्पणात् ॥६॥ इह तावत्प्रत्यक्षानुमानशब्दैस्तप्तमुद्राधारणस्य धर्मत्वं व्यवस्थाप्यते॥ तत्र तप्तमुद्राधारणस्य धर्मत्वग्राहकं प्रत्यक्षं नेन्द्रियजन्यं, तादृशस्य प्रत्यक्षस्य धर्मत्वाविषयकत्वात् । किन्त्वीश्वरयोगिप्रभृतीनां प्रत्यक्ष, अस्मदादीनामपि तप्तमुद्राधारणांशे लौकिकं धर्मत्वांशेऽलोकिकं प्रत्यक्ष च, तबाहकम् ॥ न च-तादृशालौकिकप्रत्यक्षस्य श्रुतिस्मृत्यादिजन्यशाब्दबोध- गृहीतग्राहितया न प्रामाण्यसम्भवः, अज्ञाताबाधितार्थग्राहिताया एव प्रामाण्यरूपत्वादिति-वाच्यम् ; तथा सति स्मृत्यादीनामप्य- प्रामाण्यापत्तेः। एवं-तप्तमुद्राधारणं धर्मः, अलौकिकाविगीतशिष्टाचार- विषयत्वात् , दर्शादिवत् --इत्यनुमानं च तद्ब्राहकम् ॥ यत्तु-तप्तचक्रादिधारणं धर्म इत्यत्र न प्रत्यक्ष प्रमाणं, धर्मस्य प्रत्यक्षागोचरत्वात् ; नाप्यनुमानं, श्रुत्यनुपजीविनोऽनुमानस्य धर्म- प्रमाणत्वायोगात्-इति ॥ अत्रोच्यते॥ तप्तचक्रादिधारणविशेप्यकधर्मत्वप्रकारकप्रत्यक्षत्वा- वच्छेदेन प्रमात्वाभावस्साध्यते, उत प्रमात्मकप्रत्यक्षसामान्ये तद्विशे- प्यकतत्प्रकारकत्वाभावः, प्रत्यक्षत्वावच्छेदेन चक्रादिधारणनिष्ठ- विशष्यतानिरूपितधर्मत्वनिष्ठभ्रमान्यनिरूपितप्रकारताकत्वाभावो वा?
सुदर्शनसुरद्रुमः. ३ नाव:--तादृशप्रत्यक्षस्य भवन्मतेऽसिद्धत्वेन पक्षस्योभयवाद्य- सिद्धत्वापत्तेः । भ्रमात्मकतादृशप्रत्यक्षस्य प्रसिद्धावपि न निस्तारः; तादृशप्रत्यक्षस्यापि धर्मितावच्छेदकायंशे प्रमात्वसम्भवेन प्रमात्व- सामान्याभावसाधने बाधात्, धर्मत्ववन्निष्ठविशेष्यतानिरूपितधर्मत्व- प्रकारताकत्वाभावसाधनेऽपि तप्तमुद्राधारणं सन्ध्यावन्दनं च धर्म इति समूहालम्बनप्रत्यक्षे बाधात् । सामानाधिकरण्येन साध्यता- स्वीकारे च तादृशप्रत्यक्षसामान्यस्य प्रामाण्यानिराकरणादसङ्गतिः; सामानाधिकरण्येन प्रमात्वाभावसिद्धावपि प्रत्यक्षविशेषस्य प्रामाण्य- सम्भवाविरोधात् , धर्मस्य प्रत्यक्षागोचरत्वादिति हेत्वसङ्गतेश्च, तप्त- चक्रादिधारणनिष्ठधर्मत्वस्य प्रमात्मकप्रत्यक्षागोचरत्वादितिहेत्वर्थत्वे च साध्याविशेषात् ॥ न द्वितीयः-अन्यांशे प्रमात्मकप्रत्यक्षे बाधात् तदंशे प्रमात्मक- प्रत्यक्षस्य चाप्रसिद्धेः, महानसीयवह्निमति वह्नयभावसाधनवत्त- दंशे प्रमात्मकप्रत्यक्षे तद्विशेष्यकतत्प्रकारकत्वाभावसाधनासम्भवात् भ्रमान्यप्रत्यक्षत्वावच्छेदेन तत्साधनेऽप्यन्यांशे भ्रमात्मकप्रत्यक्षस्य प्रामाण्यानिराकरणादसङ्गतिः ॥ नापि तृतीयः-ईश्वरयोगिप्रत्यक्षादौ बाधात् , इन्द्रियजन्य- प्रत्यक्षत्वावच्छेदेन तत्साधनेऽप्यन्यांशे लौकिकप्रत्यक्षमादाय बाधात् अलौकिकान्यप्रत्यक्षत्वावच्छेदेन तत्साधनेऽन्यांशेऽलौकिकप्रत्यक्षस्य प्रामाण्यानिराकरणादसङ्गतिः । तदंशे अलौकिकान्यत्वनिवेशेऽपि न निस्तारः, तदंशे लौकिकालौकिकोभयात्मकप्रत्यक्षस्य प्रामाण्या- निराकरणात् ॥ न च-ईश्वरयोगिप्रत्यक्षादेस्तप्तमुद्राधारणांशे धर्मत्वावगाहित्वस्य अस्माभिरनभ्युपगमान्न दोषः । प्रतिवादिरीत्या बाधस्य दोपत्वे अनुमानमात्रोच्छेदादिति - वाच्यम् । एवमपि साध्याप्रसिद्धेदुर्वार- सुदर्शनसुरद्रुमः. त्वात्, तादृशभ्रमान्यनिरूपितप्रकारताया अप्रसिद्धत्वात् ; प्रत्यक्षत्वसामानाधिकरण्येन तत्साधने च सिद्धसाधनं ; धर्मस्य प्रत्यक्षा- गोचरत्वादिति हेतुरप्ययुक्तः, व्यधिकरणत्वात् । धर्मत्वाविषयकत्वा- दिति हेतुकरणेऽपि प्रतिवादिरीत्या असिद्धिः ; तप्तमुद्राधारणगत- धर्मत्वं प्रत्यक्षग्राह्यमिति वदन्तं प्रत्येवानुमानप्रयोगात् तादृशधर्म- त्वस्य प्रत्यक्षग्राह्यतामनभ्युपगच्छन्तं प्रत्यनुमानप्रयोगे त्वनुमान- वैफल्यात् सिपाधयिषया न्यायप्रयोगस्य चासाम्प्रदायिकत्वात् । नापीत्याद्यप्ययुक्तं ; अनुमानप्रामाण्यस्य पूर्वमुक्तत्वात्, अनुमानविशे- षस्य प्रमाणत्वाभावेन तत्सामान्यस्य प्रमाणत्वाभावसाधनायोगाच ॥ न च-श्रुतेरभावस्य वक्ष्यमाणतया तदुपजीव्यनुमानस्यासम्भवात् , तदनुपजीव्यनुमानस्य च प्रमाणत्वायोगादनुमानसामान्यस्य तदंशे- प्रामाण्यं युक्तमिति-वाच्यम् ; वक्ष्यमाणरीत्या श्रुतेरभावस्यासिद्धेः ॥ न च श्रुतिसद्भावेऽपि तदुपजीव्यनुमानस्यानुवादित्वादप्रामाण्यमिति वाच्यम् ; तथा सति स्मृत्यादेरप्यप्रामाण्यापत्तेः॥ -इति ॥ एवमेव प्रत्यक्षानुमानादिपदानां कारणपरत्वेऽप्युक्तरीत्यैव दोषो बाध्य इति दिक् ॥ तत्र प्रमाणभूतशब्दस्तावत् श्रुतिस्मृतिपुराणपाञ्चरात्राणि । तत्र श्रुतिरपि पठ्यमानश्रुतिः खिलश्रुतिश्चेति द्विविधा । तत्र पठ्यमान- श्रुतिः प्रथममुदाहियते ॥ शतपथे तावत्- “अथ कात्यायनः पप्रच्छ । याज्ञवल्क्य इति होवाच- परं ब्रह्मेत्येको देवो विश्वतश्चक्षुरुत विश्वात्मा विश्वतोबाहुरुत एष पुरुषोऽन्तामोऽन्तर्यामस्स विश्वतोमुखस्सर्वात्मा विश्वतस्पादिति । नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायत इति । सं बाहुभ्यां नमति सं पतत्रैावाभूमी जनयन्देव एकः । पुरुषोऽन्तर्यामोऽ ६ सुदर्शनसुरद्रुमः. न्तर्यामः । स आदित्यतेजो भवति, स आदित्यलोको भवति, स विष्णुरेव भवति, स विष्णुलोको भवति । तप्तं चक्रं द्विभुजे धार्य- मित्यग्निहोत्रमेव लोको भवत्यूर्ध्वपुण्ड्मालिखेत्तस्माविरेखं भवति । भूःस्वयम्भूब्रह्मणस्सायुज्यं सलोकतां जयति य एवं वेद ॥ “अथ कात्यायनः पप्रच्छ । याज्ञवल्क्य इति होवाच-ज्ञानं वे पुरुपो ब्रह्मणो जायते ब्राह्मणो भवनि, वसिष्ठः कश्यपोऽत्रिजमदग्नि- विश्वामित्रोऽयं व्यासः पाराशयस्सनकादयो देवास्स ब्रह्मलोको भवति, तप्तं चक्रं द्विभुजे धार्यमिति स विष्णुलोको भवति सोऽनन्तलोको भवति स पुण्यलोको भवति स वै पुण्यो भवति य एवं वेद ॥ “अथ कात्यायनः पप्रच्छ । याज्ञवल्क्य इति होवाच-आदित्यः पुरुषस्स आदित्यः कस्मिन् प्रतिष्ठितश्चाध्यात्मं च प्रतिष्ठितं वेद प्रति तिष्ठति, प्रजया पशुभिरस्मिन् लोकेऽमृतत्वमेति पापं हरति, सुदर्शनं धार्यमित्यूर्ध्वपुण्डू द्विरेखं भवति, ब्रह्मणस्सायुज्यं सलोकतां जयति य एवं वेद ॥ "अथ कात्यायनः पप्रच्छ। याज्ञवल्क्य इति होवाच-आप एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं नारायणं पुरुषं सर्वस्यात्मनः परायणं विष्णुरेव भवति तप्तं चक्रं द्विभुजे धार्यमिति ब्रह्मणस्सायुज्यं सलोकतां जयति य एवं वेद ॥ “अथ कात्यायनःपप्रच्छ । याज्ञवल्क्य इति होवाच-इदं वै तत्पुरुषस्य परायणो भवति तप्तं चक्रं द्विभुजे धार्यमिति, इमावेव गौतमभरद्वाजावयमेव गौतमोऽयं वै भरद्वाजः, इमावेव विश्वामित्र- जमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निः । इमावव वसिष्ठकाश्यपा वयमेव वसिष्ठोऽयं काश्यपो वामदेवोऽत्रिर्वाचा ह्यन्नमद्यते तद्यदत्ति ६ सुदर्शनसुरद्रुमः. तस्यैतस्य सर्वस्यात्ता भवति सर्वमस्यान्नं भवति स विष्णुरेव भवति य एवं वेद ॥ “अथ कात्यायनःपप्रच्छ । याज्ञवल्क्य इति होवाच-पृच्छामि न्वा परमं तं पृथिव्याः पृच्छामि यत्र पुरुषस्य नाभिः, ब्रह्मणो जायत इति । देवासः पितरो येन विधृतेन बाहुना सुदर्शनेन प्रयतास्वर्ग लोकमायन् । येनाङ्किता मनवो लोकसृष्टिं वितन्वन्ति ब्राह्मणा- स्तद्वहन्त्यग्निना वै होत्रा तप्तं चक्रं द्विभुजे धार्यमित्यूर्ध्वपुण्डूमालिखे- त्तस्मात् द्विरेखं भवति पुनरागमनं न याति ब्रह्मणस्सायुज्यं सलोकतां जयति य एवं वेद ॥ * ॥ "अथ कात्यायनेति होवाच-विष्णुरिन्द्रो वै देवा इन्द्रो वै नारा- यणान्नु जायते, किंदैवतोऽस्यां विष्णुदैवत इति, स विष्णुः कस्मिन् प्रतिष्ठित इति....रूपाणि पश्यति, कस्मिन् रूपाणि प्रतिष्ठितानीति, हृदय इति होवाच, तप्तं चक्रं द्विभुजे धार्यमिति, ब्रह्मणस्सायुज्यं सलोकतां जयति य एवं वेद ॥ अथ कात्यायनेति होवाच-परमपुरुषो वै देवा मनो वै ब्रह्म मनोऽनन्तानन्तलोके निवसति तप्तं चक्रं द्विभुजेधार्यमिति ब्राह्मणा- स्तद्वहन्त्यग्निना वै होत्रा तप्तं तनुरित्यापोऽन्तरिक्षं समुद्रं गच्छन्त्य- थापो देवास्समुद्रं गच्छन्ति यथाह वै देवा ब्राह्मणाः केशवं प्रति गच्छन्ति ॥ "अथ कात्यायनेति होवाच-पुरुषश्चन्द्रमस्यादित्यः कस्मिन् प्रति- ष्ठित इत्यादित्यान्तःपुरुषस्य देवस्य देवनादिगुणयुक्तस्य हिरण्यगर्भो- पाध्यवच्छिन्नेति ब्राह्मणा भगवन्तो यो वः कामयते मनो वै कामं मनो- ऽनन्ता मनो वै ब्रह्म मनो वै विष्णुरिति ब्राह्मणा धारयन्त्यूर्ध्वपुण्डू द्विरेखं भवति ब्रह्मणस्सायुज्यं सलोकतां जयति य एवं वेद ॥
शत ॥" सुदर्शनसुरद्रुमः. "अथ कात्यायनेति होवाच-सर्व तदिदं सर्वात्मनः परायणं नारायणं महाज्ञेयं विश्वात्मानं परायणमिति देवो भूत्वा देवासः पितरो विदुरित्यात्मा गुहायां निहितोस्य इत्यन्तामो मघवन् मादयस्व स्वाहोर्वन्तरिक्षमन्वेमि स्वां कृतोऽसीति ब्रह्मणेति होवाच, तप्तं चक्रं द्विभुजे धार्यमिति, ब्रह्मणस्सायुज्यं सलोकतां जयति य एवं वेद ॥" -इति ॥ त्रिष्वपि वेदेषु-“पवित्रं ते विततं ब्रह्मणस्पते, प्रभुर्गात्राणि पर्येषि विश्वतः, अतप्ततनून तदामो अश्नुते, श्रृतास इद्वहन्तस्तत्समा- इति ॥ यजुषि काठके-“चरणं पवित्रं विततं पुराणं, येन पूतस्तरति दुष्कृतानि, तेन पवित्रेण शुद्धेन पूताः, अति पाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् , ज्योतिष्मद्भाजमानं महस्वत् , अमृतस्य धारा बहुधा दोहमानं, चरणं नो लोके सुधितां दधातु ॥” इति ॥ ऋचि सान्नि च-"चमूषच्छ्येनश्शकुनो भिभृत्वा गोविन्दुईप्स- आयुधानि बिभ्रत् । अपामूमि स च मानस्समुद्रं तुरीयं धाम महिषो विवक्ति ॥ -इति॥ तत्र पवित्रं त इतिश्रुतेरयमर्थः॥ ब्रह्मणः-चतुर्मुखस्य। पते-निया- मक; चेष्टासामान्यप्रयोजकसङ्कल्पवत्त्वं तन्निष्ठस्वत्वनिरूपकत्वं वा तत्प- तित्वं। प्रभुः-चेष्टासामान्यप्रयोजकसङ्कल्पाश्रयस्त्वं। विश्वतः-विश्वस्य, सार्वविभक्तिकस्तसिः। सर्वेषां गात्राणि पर्येषि–व्याप्नोषि, अन्तर्यामि- रूपेण वर्तसे; गात्रत्वव्यापकसंयोगानुकूलव्यापाराश्रय इति यावत् । ते-व्यापकस्य तव ; पवित्रं विततं-अग्निसन्तप्तस्वसंयोगजन्यकिणवत्त्व- सम्बन्धेनाऽऽस्तिकजनसामान्यनिष्ठं ॥ तथा च–स्वीयान्तर्यामिरूपवत्ता- सम्बन्धेन गात्रत्वव्यापकस्य तव चक्रं उक्तसम्बन्धेन योगाप्रयोज्यास्तिक जनगात्रत्वव्यापकामित्यर्थः । गात्रे योगाप्रयोज्यत्वनिवेशाच्च चक्रा- , ८ सुदर्शनसुरद्रुमः. कितानामपि योगिनां योगप्रयोज्यशरीरे चक्राङ्कनविरहेऽपि न- व्यापकत्वानुपपतिः । पवित्रशब्दस्य परिशुद्धिवाणकर्तृत्वावच्छिन्ने योगशक्तेस्सुदर्शनत्वावच्छिन्ने रूढेश्च सत्त्वाद्योगरूढता, 'पुनाति त्रायते चेत्यतः पवित्रं इति- एकायनब्रह्मणे निरुक्तत्वात् ॥ 'सुदर्शने च दर्भे च पवित्रं चणसूत्रके ।' इति वेदनिघण्टुवचनात्- 'सुदर्शनं सहस्रारं पवित्रं चरणं पविः।' 'सुदर्शनं हरेश्चक्रं पवित्रं चरणं पविः।' इति निघण्टुवचनाच ॥ पाझे च-- 'पवित्रं चरणं नेमी रथचक्र सुदर्शनं । सहस्रारं प्राकृतघ्नं लोकद्वारं महोजसं । नामानि विष्णुचक्रस्य पर्यायेण निबोधम॥' - इति॥ श्रीशास्त्रेऽपि- 'पवित्रं चरणं चक्र लोकद्वारं सुदर्शनं । पर्यायवाचका ह्येते चक्रस्य परमात्मनः॥ इति ॥ योगशक्यतावच्छेदकघटकपरिशुद्धिश्च-प्रत्यवायाभावप्रकारकभग- वत्सङ्कल्पः ; विशेष्यतासम्बन्धेन तादृशसङ्कल्पं प्रति वह्निसन्तप्तस्वसं- युक्तभुजघटितदेहवत्तासम्बन्धेन सुदर्शनस्य हेतुत्वात्तस्य परिशुद्धिकर- त्वोपपत्तेः । वाणं च-मोक्षादिरूपं फलम् । तद्धेतुत्वमप्युक्तसम्बन्धेन सुदर्शनस्य बोध्यम् । तेनातप्ततनूः--तज्जन्यरूपपरावृत्त्याश्रयभुजवद्भिन्नः, तापस्य करणसाकाङ्क्षत्वात् पवित्रशब्दस्य प्रथमान्ततया क्रियासाका- सत्वाच्च तेनेत्यध्याहारेण योजनाया युक्तत्वात् । तप्ता तनूर्यस्य स न भवतीत्यतप्ततनूरिति विग्रहाङ्गीकारेण तपधातो रूपपरावृत्त्यर्थक- तया क्तप्रत्ययस्याश्रयार्थकतया तनुपदस्य भुजार्थकतया चोक्तार्थ- लाभात् । आमः-अदग्धपापः, अविनष्टमोक्षहेतुभूतोपासनादिप्रति- , सुदर्शनसुरद्रुमः. बन्धकपापवानिति यावत् । तत् -ब्रह्म, नाश्ते न प्राप्नोति । तच्छब्दस्य ब्रह्मनामत्वं तदिति वा एतस्य महतो भूतस्य नाम भवति' 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति प्रमाणसिद्धम् । मोक्षहेतुभूतोपासनप्रतिबन्धकपापनिष्ठप्रतियोगितासम्बन्धेन नाशं प्रति स्वजन्यरूपपरावृत्त्याश्रयभुजघटितदेहावच्छिन्नत्वसम्बन्धेन सुदर्शनस्य हेतुतया तत्सम्बन्धावच्छिन्नतन्निष्ठावच्छेदकताकप्रतियोगिताकभेदस्य मोक्षाभावप्रयोजकत्वोपपत्तेः, तापामावविशिष्टतन्वाः मोक्षाभावप्रयोजक- त्वस्याप्रामाणिकत्वात् । योगिनां चक्राङ्कितानामपि तापाभावविशिष्ट- देहान्तरसत्त्वेन मोक्षानापत्त्या च अतप्ता तनूर्यस्येति विग्रहोपेक्षा । इत् -इदं, तप्तमुदर्शनं ; वहन्तः-उक्तसम्बन्धप्रयोजकव्यापारवन्तः । शृतासः-दग्धपापाः ; तत्समाशत-ब्रह्म प्राप्तवन्तः-इत्यर्थः ॥ अत्र मोक्षहेतुत्वप्रतिपादनेनैवेष्टसाधनताशनाधीनप्रवृत्त्युपपत्तावपि सद्विद्या- दहरविद्यादिवद्विकल्पेन हेतुत्वे सर्वेषां प्रवृत्तिनै स्यादित्यतो मोक्षा- भावप्रयोजकभेदप्रतियोगितावच्छेदकत्वाभिधानम् ॥ यत्तु-पवित्रं त इत्यादिश्रुतिर्न चक्रधारणे प्रमाणं, तस्यापात- प्रतीतत्वात् । न हि शब्दस्यापातप्रतीत एवार्थः; 'चित्रया यजेत' 'आज्यैर्जुषते' 'आकाशादेव समुत्पद्यन्ते' इत्यादेरपि चित्राज्याका- शायधिकरणपूर्वपक्षरीत्या चित्रद्रव्यघृतगगनाद्यर्थकत्वस्य 'अन्धो मणि- मविन्दत्' इत्यादेरपि प्रतीतार्थपरत्वस्य प्रसङ्गेन मीमांसावैयर्थ्यात् , 'बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति' इति स्मृतेश्च, 'यश्छ- न्दसां योगमावेद धीरः' इति श्रुत्यैव स्वार्थस्य गहनत्वोक्तेश्च ; किं मीमांसितः । न च-आपातप्रतीतार्थत्यागे स्वार्थपरि- त्यागप्रसङ्गेन शब्द एव बाधितस्स्यादिति-वाच्यम् । आपातप्रतीता- र्थमात्रपरित्यागेऽपि मीमांसितस्य स्वार्थस्यात्यागात् । आपातप्रती- तार्थत्यागे पुरुषभ्रान्तिरेव त्यक्ता भवति । तथा च-पवित्रं त इत्यादि , तु 2 तव - १० सुदर्शनसुरद्रुमः. श्रुतिरन्वयव्यतिरेकाभ्यां कृच्छ्रचान्द्रायणादितपसो मोक्षसाधनत्वप्रति- पादनपरा ॥ तथा हि-ब्रह्मणश्चतुर्मुखस्य पते हे विष्णो प्रभुस्त्वं विश्वेषां गात्राणि पर्येषि-व्याप्नोषि अन्तर्यामिरूपेण वर्तते । तादृशस्य ते पवित्रं 'पूतं पवित्रं मेध्यम्' इत्यमरकोशात् –परिशुद्धं विततं विस्तृतं तत् प्रसिद्धं मोक्षरूपं सुखम् । अतप्ततनूः-तप्तं तपः, भावे निष्ठा ; तद्रहिता तनू यस्येति स तथोक्तः ; यद्वा- कतरिक्तप्रत्ययः। अत एव आमः-अपक्कः, अक्षीणपाप इति यावत् ; एवंविधः पुमान् नाश्नुते- न प्राप्नोति ; तत्तपः, इद्वहन्तः-वहन्त एव, चरन्त एवेत्यर्थः । अत एव शृतासः-दग्धपापाः ; समाशत्- मोक्ष प्राप्तवन्तः ॥ तथा च-अन्वयव्यतिरेकाभ्यां तपसो मोक्ष- साधनत्वपरत्वान्नेयं श्रुतिस्तप्तचक्रादिधारणे प्रमाणम् ॥ -इति ॥ तन्न । तथा सति पवित्रविततशब्दयोस्सन्निकृष्टेन अतप्ततनूरि- त्यनेनोक्तरीत्या अन्वयसम्भवेऽपि विप्रकृष्टेन तच्छब्देनान्वये व्यव- हितयोजनाप्रसङ्गात् ॥ न च-यत्पवित्रं विततं तेनाग्निदग्धेनातप्ततनूरिति त्वदाययोज- नायां यत्तेनाग्निदग्धेनेत्यध्याहारप्रसङ्गेन तदपेक्षया व्यवहितान्वय एव युक्त इति वाच्यम् । “पश्य मृगो धावति' इत्यादौ वाक्या- र्थभूतस्य धावनानुकूलकृतिविशिष्टमृगस्य कर्मतासम्बन्धेन दर्शनेऽ न्वयवत् प्रकृतेऽपि त्वत्सम्बन्धिविततत्वविशिष्टस्य सुदर्शनस्य वाक्यार्थभूतस्य करणतासम्बन्धेन तपधात्वर्थेऽन्वयाङ्गीकारेणाध्याहार- विरहात् ; सम्भवत्येकवाक्यत्वे तत्त्यागायोगात् ॥ न च-विततत्वविशिष्टस्य सुदर्शनस्य नामार्थस्य धात्वर्थे कथं भेदेनान्वयः, अन्यथा काष्ठं पचतीत्यादौ काष्ठादेरपि करणतासम्ब. न्धेन पाकेऽन्वयापत्तिरिति-वाच्यम् । केवलनामार्थस्य धात्वर्थे भेदे- कारणत्वकल्पनान्न सुदर्शनसुरद्रुमः. ११ नान्वयानङ्गीकारात् वाक्यार्थस्य धात्वर्थे भेदेनान्वयाङ्गीकारे क्षति- विरहात् । अत एव "श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयश्शुभाः । पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥" इत्यत्र प्रथमान्तपदोपस्थितानां शुभत्वविशिष्टोत्पत्तीनां भेदेन श्रवणेऽ न्वयस्सङ्गच्छते। विशेष्यतासम्बन्धेन भेदसम्बन्धावच्छिन्ननामानिष्ठ- प्रकारताशालिशाब्दबोधे विभक्तिजन्योपस्थितिप्रथमान्तपदसमभिव्या- हृतप्रथमान्तपदोत्तरधातुजन्योपस्थित्यन्यतरस्य विभक्तिजन्योपस्थितिं विना वाक्यार्थस्य भेदान्क्यानुपपत्तिः । स्पष्टं चेदमाख्यातवादगादार्या ॥ तथा च-अध्याहारविरहान्नानुपपत्तिः । अस्तु वाऽध्याहारः; तथाऽपि न दोषः, एतन्मन्त्रार्थविशकिरणार्थप्रवृत्तया "पवित्रमित्यग्निः अग्निर्वै सहस्रारस्सहस्रारो नेमिर्नेमिना तप्ततनुब्रह्मणस्सायुज्यं सलोक- तामाप्नोति" इति सामवेदमैत्रायणीयशाखागतश्रुत्या अध्याहारस्य दर्शितत्वेनाध्याहारस्य प्रामाणिकत्वात् । अथवा पवित्रं विततमित्युभ- यमपि सम्बुध्यन्तब्रह्मणस्पत इत्यनेन समानाधिकरणम् । त इति तृतीयार्थे षष्ठी । विततं पवित्रं ब्रह्मणस्पते ते त्वया अतप्ततनूरिति सम्बन्धः । प्रभुरिति षष्ठयर्थे प्रथमा । प्रभोस्सवेश्वरस्य गात्राणि विश्वतः विश्वानि, पषि परिवारयसि--इत्यर्थः ॥ यद्वा-प्रभुस्त्वं विश्वेषामाश्रितानां गात्राणि पर्येषि, लाञ्छितानि कृत्वा स्वीकरोषि-इत्यर्थः ॥ एवं च-तेनेत्यध्याहारविरहे वाक्यार्थस्य करणतासम्बन्धेनान्वय- विरहेऽपि च न क्षतिः । न च-तृतीयार्थे षष्ठीस्वीकारे लक्षणाप्रसङ्ग इति-वाच्यम् । सम्बन्धत्वेन करणत्वार्थकत्वे लक्षणाविरहात् ; विशेषरूपेणाभिमतसम्बन्धबोधाङ्गीकारे भवतामपि लक्षणाया दुवा- १२ सुदर्शनसुरद्रुमः. रत्वात् । एवं-अतप्ततनूरित्यत्र भावेनिष्ठामङ्गीकृत्य तपोरहित- तनूरित्यर्थकरणमपि न सत् ; तथा सति तपोरहिततनुमत्त्वस्य मोक्षाभावप्रयोजकत्वलाभेन तपश्शालिनामपि योगिनां मोक्षाभाव- प्रसङ्गात् , तेषां योगजन्यतपोरहितशरीरान्तरस्य सम्भवात् । तनुत्वावच्छेदेन तपोराहित्यस्य च न बोधसम्भवः, बाधात् । स्वीयतनुत्वावच्छेदेन तद्बोधस्याबाधेऽप्यतप्ततनूरित्यतो न तादृश- बोधसम्भवः ; स्वीयतनुत्वेनोपस्थापकपदाभावात् । तनुशब्दस्य स्वीय- तनुत्वावच्छिन्ने लक्षणास्वीकारेण तथा बोधोपपादनमपि न सत्; स्वत्वस्याननुगतत्वेन देवदत्तादितनुत्वावच्छिन्न एव लक्षणाया वाच्यतया शास्त्रस्य सर्वसाधारण्येन प्रवृत्त्यनुपपत्तेः । कर्तरिक्तप्रत्ययपक्षोऽपि न युक्तः, तन्वां कर्तृत्वस्य बाधात् , अन्यथा शरीरस्य फलभोक्तृत्वापत्तेः, शास्त्रफलं प्रयोक्तरीति न्यायात् ; कर्ताशास्त्रार्थवत्त्वादित्यधिकरणविरो- धाच्च ; गौणकर्तृत्वपरत्वे च क्तप्रत्ययस्य लक्षणाप्रसङ्गात् ; अतप्ततनू- रित्यत्र तनूपदवैयर्थ्याच्च, अतप्त इत्यनेनैव तपोरहितस्य न मोक्ष इत्यर्थलाभात् ; अस्मत्पक्षे तु अवयविवाचकस्य तनुशब्दस्य मूले बाह्वोरिति सिद्धबाहुमूलाद्यवयवोपलक्षकतया सार्थकत्वात् ॥ यदपि-वाचिकवेदानुवचनमानसिकध्यानकायिकासनादिलक्षण- तपसां सत्त्वेऽपि “यदाऽस्य त्वचाऽस्थि संक्षीयते, अथ मोक्षो भवति यदाऽस्य कृष्णं चक्षुषोन्नेष्यति अथ मेध्यो भवति" इत्यादिशास्त्रान्तर- सिद्धस्य कायशोषणपर्यन्तस्य कायिकस्य तपस आवश्यकत्वसूचनाय तनूपदमावश्यकम् । तथा च केशानां सङ्घातश्चूडा यस्य स केशचूडः इत्यादिवत् तप्तेन तपसा शोषिता तनूर्यस्येति बहुव्रीहिसमासः, ततो नसमासः न तप्ततनूरतप्ततनूरिति ; एवं च तनूपदस्य मुख्यार्थलाभः ।। त्वत्पक्षे तु--अप्रकृततान्त्रिकवचनानुसारेणावयविवाचिनस्तनूपदस्य बाहुमूलाद्यवयवलक्षकत्वे श्रुतिबाधः-इति । तन्न ; मध्यमपदलोपि- समासे तप्तपदस्य तपश्शोषिते लक्षणाप्रसङ्गात् ॥ ..
सुदर्शनसुरद्रुमः. १३ उदाहृतश्रुत्यनुरोधेन तनूपदस्याप्यस्थ्यादिपरत्वावश्यकतया लक्षणाया दुर्वारत्वात् मध्यमपदलोपिसमासस्य साधुतानिर्वाहाय तप्ततनूपदस्य साकपार्थिवादिगणे पाठकल्पनाप्रसङ्गात् , तप्तेत्यस्य भावक्तान्तत्वे क्तप्र. त्ययस्य निरर्थकत्वापत्तेश्च ; सम्भवति सार्थकत्वे निरर्थकत्वस्यान्या- य्यत्वात् । एतेन तनूशब्दः कृशबचनः, तनूरिति दीर्घश्छान्दसः, तप्तेन तपसा ननूः कृशः तप्ततनूः, ततो नसमासः, अतप्ततनूः- इति निरस्तम् ॥ छान्दसदीर्घस्य कल्पनीयत्वाच्च । एवं-वहन्त इत्यस्य आचरन्त इत्यर्थकत्वे लक्षणाप्रसङ्गश्च ।। यत्तु-त्वन्मतेऽपि मुख्यपवित्रशब्दवाच्यस्य विष्णुचक्रस्य वहना- नुपपत्त्या लोहादिमयसुदर्शनप्रतिकृतिसमकिणे पवित्रशब्दस्य अत्यन्त जघन्यलक्षणा समाश्रयणीयेति तदपेक्षया वहन्त इत्यस्य आचार- लक्षणैव युक्ता-इति। तन्न ; पवित्रशब्दस्य परिशुद्धिवाणकर्तृत्वाव- च्छिन्ने योगशक्तेस्सुदर्शनत्वावच्छिन्ने रूढिशक्तेश्च स्वीकारात् , परि- शुद्धिवाणकर्तृत्वरूपयोगशक्यतावच्छेदकस्य लोहमयमुद्रासाधारणस्यो तत्वात् ; रूढिशक्यतावच्छेदकस्य भगवन्मूर्तिभेदभिन्नसकलसुदर्शन- साधारणजातिरूपस्य देवताविशेषाधिष्ठिताकृतिविशेषाश्रययावद्वरतु- निष्ठस्य सुदर्शनत्वस्यापि लोहमुद्रावृत्तित्वे बाधकविरहात् , लोहमुद्राया अपि तादृशाकृत्याश्रयत्वाद्देवताविशेषाधिष्ठितत्वाच्च। एवं च-पवित्र- पदस्य मुद्रापरत्वेऽपि न लक्षणा। न च-रूढिशक्यतावच्छेदकस्य जाति- विशेषस्य न मुद्रासाधारण्यम् , चित्रगवादौ गोत्वादिजातिवदसम्भवात् ; अत एव पिष्टमय्यो गाव इत्यादौ केवलाकृतिविशिष्टे गोपदस्य लक्षणे- त्युक्तं शक्तिवादगादाधर्यां-इति वाच्यम् । एवमपि केवलयोगशक्य- तावच्छेदकरूपेण मुद्राया बोधे लक्षणाया अप्रसक्तेः, शक्यतावच्छेदक- भिन्नरूपेण उपस्थितावेव तत्स्वीकारात् । अत एव-पङ्कजपदात् केवलपङ्कजनिकर्तृत्वेन कुमुदादेोधे लक्षणा नास्तीत्युक्तं नैयायिकैः।
१४ सुदर्शनसुरद्रुमः. आलङ्कारिकैपि-विष्णोर्नाभसिरोरुहादित्यत्र सरोरुहपदात् केवल- रूढ्ययतावच्छेदकपद्मत्वेनैव बोधः, योगार्थतावच्छेदकस्य बाधात् ; "कुर्या हरम्यापि पिनाकपाणेः' इत्यादौ पिनाकपाणिपदात् केवलयो- गार्थतावच्छेदकरूपेणैव बोधः, रूढ्यर्थतावच्छेदकस्याबाधेऽपि तात्प. याविषयत्वात्---इत्युक्तम् । अस्तु वा-आकृतिविशेषावच्छिन्ने पवित्र- शब्दस्य लक्षणा, तस्याः निरूढलक्षणात्वेन दोषताविरहात् ; अन्यथा धूमादित्यादिहेत्ववयवे धूमपदस्य ज्ञाने लक्षणाया अपि दोपताप्रसङ्गात् ॥ यदपि---तप्तशब्दो न तपोवचनः, किन्तु औदर्यरूपसन्तापवचनः; आमशब्दोऽपि सन्तापजनितावयवसंशोषणराहित्यवचनः ; तथा च-हे ब्रह्मणस्पते त्वं प्रभुनियन्ता सन् विश्वेषां गात्राणि पर्येषि; तस्य ते पवित्रं परिशुद्धं विततं तत्परम्पदं, तद्विष्णोः परमं पदमिति श्रुत्यन्तरे तच्छ- ब्दस्य परमपदे प्रयोगदर्शनात् ; अतप्ततनूः कृळूचान्द्रायणादिभिरसन्तप्त- गात्रः अनुप्णीकृतगात्र इति यावत् । कृळूचान्द्रायणाद्युपवासक्लेशस्यापि जाठराग्निसशोभणद्वारा शरीरसन्तापहेतुत्वात् । अत एव-आमः असं. शोपितावयवः, नाश्ते-न प्राप्नोति, श्रृतासः-कृळूचान्द्रायणादिभि- स्सन्ततगात्राः, श्राधातोः कृष्णलं अपयेदित्यादौ सन्तापवाचित्व- दर्शनात् । अत एव-इत् इदं सन्तापजनितशरीरसंशोषणं वहन्तः सर्वनाम्नां तेन रक्तं रागादित्यादौ योग्यवस्तुपरामार्शत्वदर्शनेन आमपदप्रतिसम्बन्धित्या निर्दिष्टस्य इद्वहन्त इत्येतद्तस्य इदंशब्दस्य सन्तापजनितशरीरसंशोपणवांचित्वौचित्यात्। यद्वा-इच्छब्दो नावयव- संशोपणवचनः, किं तु परमपदवचन एव ; तथा च-इत् इदं परम- पदं, वहन्तः साधनानुष्ठानेन सम्पादयन्तः, समानत प्राप्तवन्त इत्यर्थः- इति । तदपि न ; पवित्रविततशब्दयोस्सन्निकृष्टेन अतप्ततनूरित्यनेन अन्वयं विना विप्रकृष्टेन तच्छब्देनान्वये व्यवहितयोजनाप्रसङ्गात् ; ..
. सुदर्शनसुरद्रुमः. १५ क्रियासाकासस्य पवित्रं विततमित्यस्य करणसाकाझे तपधात्वर्थे अन्वयमनङ्गीकृत्य तच्छब्दार्थे उत्थाप्याकाझ्या अन्वयमुपगम्य करणा- काभानिवृत्त्यर्थं कृछ्चान्द्रायणादिभिरित्यध्याहारकल्पनस्यायुक्तत्वात्; "तद्विष्णोः परमं पदम्" इति श्रुतिघटकतच्छब्दाय परमपदत्वावच्छिन्न- परत्वे तस्य घटो घट इतिवत् परमम्पदमित्यवानन्ववप्रसङ्गेन तम्य प्रमाणसिद्धपरताया एव वक्तव्यत्वात्तादृशश्रुत्यनुरोधेन अत्रत्यतच्छ- ब्दस्य परमपदपरताया असिद्धमसिद्धेनेति न्यायेनानुपादेयत्वात् ; गन्ता देवदत्तः, अयं गुण इत्यादौ संयोगानुकूलव्यापाररूपमामिधात्वर्थंकदेश- रूपस्य संयोगस्य इदंशब्देन परामर्शादर्शनेन असंशोषितावयवरूपाम- पदार्थैकदेशस्य संशोषणस्य इच्छब्देन परामर्शायोगात् ; तेन रक्तं रागादित्यत्र रज्यते अनेनेति राग इति व्युत्पत्त्या रञ्जकद्रव्यस्य राग- शब्दार्थतया तस्यैव तेनेत्यनेन परामर्शात्पदार्थैकदेशस्य परामर्शा- दर्शनेन तदुदाहरणस्य प्रकृते असङ्गतत्वात् ॥ न च-रागादित्यस्य रञ्जकद्रव्यवाचिपदपरतया तदेकदेशरञ्जकद्रव्यस्य परामर्शो दृश्यत इति-वाच्यम् । 'दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः' इत्यादाविव लक्ष्यार्थैकदेशशक्यार्थस्य परामर्शसम्भवेऽपि शक्यार्थैकदेशस्य क्वापि परामर्शादर्शनात् । इच्छब्देन परमपदपरामर्शोऽपि न युक्तः । परमपद- प्राप्तिपूर्वकालीनस्य तद्वहनस्यानुपपत्तेः॥न च-तद्वहनं तत्प्राप्त्यनुकूल- व्यापारः, स च तत्साधनानुष्ठानात्मक इति-वाच्यम् । तथा सति मोक्ष- साधनानुष्ठानस्य मोक्षप्राप्तिहेतुतालाभेऽपि कृचान्द्रायणादितपसस्त- द्धेतुत्वालाभादसङ्गतः ॥ न च-इद्वहन्त इत्यत्र शृतास इत्यस्योद्देश्य- तावच्छेदकतया धनवान् सुखीत्यादाविव साधनानुष्ठानं प्रति हेतु- त्वलाभात्परम्परया मोक्षहेतुत्वं लभ्यत इति-वाव्यम् । यदभावस्य मोक्षा- भावप्रयोजकत्वं पूर्वमभिहितं तस्य मोक्षहेतुताया वत्तव्यत्वावश्य- कत्वेऽपि तत्साधनानुष्ठानस्य तद्धेतुतायास्सिद्धत्वेन वहन्त इत्यस्य वैयर्थ्यांपत्तेः। 'शृतासस्तत्समाशत' इत्यनेनैवोपपत्तेः ॥
१६ सुदर्शनसुरद्रुमः. यत्तु-त इति न षष्ठयेकवचनम् , अपि तु चतुर्थंकवचनमेव पवित्रशब्दोऽपि न तच्छन्दनिर्दिष्टपरमपदविशेषणं, अपि तु कृळूचा- न्द्रायणादितपःपर एव । तथा च-हे ब्रह्मणस्पते विष्णो ते त्वदर्थ त्वदाराधनार्थं यत्पवित्रं परिशुद्धिकरं कृचान्द्रायणादितपः तेन अतप्ततनूरसन्तप्तगात्रः, अत एव आमः असंशोषितावयवः तत्परमपदं नाश्नुते । शृतास इत्युत्तरार्धस्य व्याख्या पूर्ववदेव । "यज्ञायाचरितं कर्म कर्मग्रन्थिविलीयते । यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ॥"- इत्यादिस्मृतिषु भगवदाराधनार्थस्य कर्मणो मोक्षसाधनत्वप्रतिपाद- नात् । एवं च-अवयविवाचिनः तनूशब्दस्य बाहुमूलाद्यवयवपरतया सङ्कोचो न कल्पितो भवति, तप्तपदस्य सन्तापवाचित्वेऽपि तप्तपद- सादृश्यात्सन्तापं प्रति करणकारकतया हृदयमागतस्य कृळूचान्द्राय- णादितपसः परित्यागश्च न कृतो भवति । तस्मादस्य मन्त्रस्य कृचा- न्द्रायणादिविधिपरत्वान्न सुदर्शनात्तापविधिपरत्वम्-इति । तन्न ; त इति चतुर्थ्यन्तार्थस्य भगवत्प्रीतीच्छाधीनेच्छाविषयत्वस्य पवित्रं विततमिति विशेषणद्वयस्य चान्वयार्थे कृळूचान्द्रायणादितप इत्यध्या- हारस्य कल्पनीयतया गौरवात् , उदाहृतभगवद्गीतावचनद्वयस्य भगवत्प्रीत्युद्देश्यकस्य कर्मणो बन्धकत्वाभावप्रतिपादनपरत्वेऽपि मोक्षहेतुत्वप्रतिपादनपरत्वाभावात् । तथा च शाङ्करभाष्यम्- "बन्धार्थत्वात् कर्म न कर्तव्यमिति, तदप्यसत् , कथं यज्ञार्था- दिति ; यज्ञो वै विष्णुरिति श्रुतेः । यज्ञ ईश्वरः, तदर्थं यत् कियते तद्यज्ञार्थ कर्म, तस्मात् कर्मणोऽन्यत्र, अन्येन कर्मणा लोकोऽयमधिकृतः कर्मकृत् कर्मबन्धनः, कर्मैव बन्धनं यस्य सोऽयं कर्मवन्धनो लोकः, न तु यज्ञार्थात्" ---- इत्यादि ।।
, सुदर्शनसुरद्रुमः. तस्मात्तद्वचनस्य मोक्षसाधनत्वप्रतिषादनपरतया उपादानं स्वसिद्धान्ता- ज्ञानविजृम्भितम् ॥ यदपि-"उद्वातारो द्रोणकलशं प्रतिष्ठाप्य तस्मिन्नुदीचीनदिशं पवित्रं वितन्वन्ति, पवित्रं ते विततं ब्रह्मणस्पत इति वितन्यमान- मभिमन्त्रयते यजमानः" इत्यापस्तम्बसूत्रेण उद्गातृप्रभृतिभिः द्रोण- कलशोपरि वितन्यमानपवित्रानुमन्त्रणे विनियोगाद्युक्तमस्थाश्श्रुते- स्तत्परत्वम् । तथा हि-ब्रह्मणः-बृहकस्य, द्रोणादिवर्धकस्य ओषधि- कनस्पतिलक्षणस्यान्नस्य ; पते-हे सोम, 'सोमो वा ओषधीनां राजा' इति श्रुतेः । यद्वा-ब्रह्मणः ब्राह्मणस्य ; पते, 'तस्मात्सोमरानानो ब्राह्मणाः' इति श्रुतेः । ते त्वदर्थं त्वत्पवनाथ, ईदृशं पवित्रं विततं विस्तृतं; प्रभुर्गावाणि पर्येषि विश्वतः अनेन पवित्रेण तत्स्वरूपतिरोधा- यकऋजीषाधपगमेन प्रभुस्समर्थो भूत्वा रोगाद्यपगमेन तरुणादिस्वरूप- मिव गात्राणि स्वरूपाणि विश्वतः पर्येषि प्राप्नोषि विस्तारयसीत्यर्थः ॥ ऋजीषाद्यपगमनार्थस्य पवनस्यान्वयव्यतिरेकाभ्यां फलं दर्शयति-अत- प्ततनून तदामो अश्नुते । आनः-दशापवित्रेणासंस्कृतः, अत एव अतप्त- तनूः-असमर्थतनूः, तपऐश्वर्य इति धातोः तप्तशब्दस्य निष्पत्तेः । तत्- स्वकार्य होम, नाश्नुते । न चात्र तनूपदवैयर्थ्यं, तनूपदस्याशुचित्वाभि- प्रायगर्भत्वात्। तथा च यतोऽयमसंस्कृतः, अतएवाशुचिस्सन् स्वकार्य प्रत्यसमर्थ इत्यर्थः फलति। नन्वसंस्कृतस्यापि स्वकार्ये सामर्थ्यमस्तु,तत्राह शृतास इद्वहन्तस्तत्रापाशतति ।शृतासः-संकृता एव यागीयपदार्थाः, तं शृतं भूतमजुहोदित्यादौ संस्कृतमात्रेऽप्यग्निपक्वे शृतशब्दप्रयोगदर्श- नात् । अत एक-संस्कृतत्वादेव । वहन्तः-तत्कार्यनिर्वहणविचक्षणा- स्सन्तः। तत्-स्वकार्य, समाशत-प्राप्तवन्तः; अशू व्याप्तावित्यस्माद्धातो- लष्टि व्यत्ययेन शपि तस्य बहुलं छन्दसीति लुकि कृते बहुवचने रूपम्। तस्मात्पवित्रमन्त्रस्य द्रोणकलशोपरि वितन्यमानदशापवित्रानुमन्त्रणे विनियोगानुसारेण सोमपरत्वमेव युक्तम् इति ॥
१८ सुदर्शनसुरद्रुमः. तन्न-एवं सति सर्वेषां पदानामस्वारस्यस्यावर्जनीयत्वात् । तथा हि-तत्रास्मिन्नर्थे प्रथमोपात्तः पवित्रशब्दस्तावदस्वरसः, संज्ञात्वाभावेन पुरस्संज्ञायामित्यनेन प्रत्ययालाभात्, ऋषिदेवताभिन्नत्वेन कर्तरिच पिदेवतयोरित्यनेनापि तदलाभात् । दशापवित्रादौ लक्षणेति वाच्यम् ; अतः प्रथमोपात्तपदे लक्षणा दोषः। एवं ब्रह्मशब्दस्य रूढ्या चतुर्मुख- परत्वसम्भवे योगेन वर्धकत्वावच्छिन्नपरत्वकल्पनमनुचितम् , योगाढूँढे- बलीयस्त्वस्य रथकाराधिकरणन्यायसिद्धत्वात् । पतिशब्दस्य नियाम- कत्वावच्छिन्ने स्वत्वनिरूपकत्वरूपस्वामित्वावच्छिन्ने वा शक्तस्य श्रेष्ठत्वावच्छिन्ने लक्षणा समाश्रयणीया ; 'सोमो वा ओषधीनां राजा' इति श्रुतावपि राजपदस्य श्रेष्ठत्वावच्छिन्ने लाक्षणिकत्वात् ॥ एतेन-ब्रह्मणः ब्राह्मणस्य पते-इत्यर्थोऽपि निरस्तः; निरुक्तस्य ब्राह्मणनिरूपितपतित्वस्य सोमे बाधात् , पतिशब्दस्य तत्कर्तृक- क्रियाङ्गत्वावच्छिन्ने लक्षणावश्यकत्वात् । पते-इति सम्बोधन- विभक्त्यर्थस्य प्रकृतवाक्यजन्यबोधाश्रयत्वेनेच्छाविषयत्वस्याचेतने सोमे बाधश्च । एवं प्रभुशब्दस्य समर्थपरत्वमप्यस्वरसम् ॥ न च-तत्कार्ये प्रभुरित्यादौ प्रभुशब्दस्य समर्थपरत्वमपि दृश्यत इति-वाच्यम्; सप्तम्यन्तपदासमभिव्याहृतस्य प्रभुशब्दस्य समर्थ- परत्वादर्शनात् , समर्थपरत्वेऽपि तस्य चेतनैकान्तत्वेनाचेतने लक्षणाया अवर्जनीयत्वाच्च । तथा गात्रपदस्य स्वरूपार्थकता, पर्येषीत्यस्य विस्ता- रार्थकता च लक्षणाधीना ; स्वर्गादिवाचकस्यापि गोशब्दस्य पशौ धर्मपुत्रादिसाधारणस्यापि पार्थशब्दस्यार्जुने अधिकाराद्यर्थान्तरसाधा- रणस्याप्यथशब्दस्यानन्तर्ये प्रसिद्धिप्राचुर्यवत् तप ऐश्वर्य इति धात्वनु- सारेणार्थान्तरसाधारणस्यापि तप्तशब्दस्य दाहार्थकत्व एव प्रसिद्धि- प्राचुर्यात् समर्थपरत्वेऽस्वारस्यं दुष्परिहरम् । तनूशब्दस्याशुचित्वा- सुदर्शनसुरद्रुमः. वच्छिन्ने लक्षणा, निरनुपसृष्टस्य वहेर्निर्वहणार्थकत्वं, तच्छब्दस्या- नुपस्थितहोमाद्यर्थकत्वं चायुक्तमिति ॥ न च-उक्तार्थपरत्वाभावे द्रोणकलशोपरि वितन्यमानपवित्रानु- मन्त्रणे विनियोगानुपपत्तिः, मन्त्रस्य यस्मिन्नर्थे विनियोगस्तत्परत्व- नियमादिति-वाच्यम् ; तादृशनियमासिद्धेः, अनुमन्त्रणे विनियुक्त- स्यास्य मन्त्रस्यानुमन्त्रणपरत्वाभावात् ॥ न च-यस्य मन्त्रस्य याशार्थे विनियोगस्तस्य तादृशार्थघटकार्थपरत्वमित्येव नियमः, तादृशार्थघट- कत्वं च तादृशार्थविषयिताव्यापकविषयितानिरूपकत्वं तादृशार्थकोटि- प्रविष्टविशेष्यविशेषणोभयसाधारणम् ; तथा च पवित्रमन्त्रस्य वितन्य- मानपवित्रानुमन्त्रणे विनियुक्तस्य तद्रुटकपवितपरत्वानपायान्न दोष इति-वाच्यम् । "अग्निर्मूर्धा दिव इति मन्त्रं भौमाय कीर्तयेत् । उद्बुध्यस्वाग्न इत्येवं मन्त्रं सोमसुताय वै ॥ अन्नात्परिसृतो रसश्शुक्रस्य तु निगद्यते । शनैश्चराय विभवे शन्नोदेवीति होमयेत् । कयानश्चित्र आभुवदिति राहोरुदीरयेत् ॥"- इत्यादिभिर्विनियुक्तानां अग्निर्मूर्धादिवःककुदित्यादिमन्त्राणां तत्तद्- र्थघटकार्थपरत्वस्याप्यभावेन व्यभिचारात् ॥ न च-अग्निमूर्धेत्यत्र अग्निपदस्य योगवृत्त्या गौण्या वा भौमबोधकत्व- स्य, उहुध्यस्वेत्यस्य बुधेतिवर्णसत्त्वेन बुधस्मारकतायाः, 'अन्नात्परि- सृतो रसरशुक्रं ज्योतिरजायत' इत्यत्र शुक्रपदस्य नपुंसकत्वेऽपि नाम- साम्यात्तत्स्मारकत्वस्य, कयानश्वित्र इत्यत्र चित्रपदस्य चित्रात्मकराहु- शिरोलक्षकत्वात्तत्स्मारकत्वस्य, शन्नइत्यस्य वर्णद्वयसादृश्येन शनि- नामस्मारकत्वस्य सत्त्वाच तत्रतत्र विनियोगोपपत्तिः, यादृशार्थे यस्य मन्त्रस्य विनियोगः तस्य तादृशार्थस्मारकत्वमित्येव नियमादिति- २० सुदर्शनसुरद्रुमः. वाच्यम् । तथा सति पवित्रमन्त्रस्य दशोपवित्रतात्पर्यकत्वाभावेऽपि यथाकथञ्चित्स्मारकत्वमात्रण विनियोगोपपत्तेः, स्वारसिकप्रतीतिरहिते दशापवित्ररूपार्थे तात्पर्यासिद्धेः । किं च-यस्य मन्त्रस्य यादृशार्थे विनियोगस्तस्य मन्त्रस्य तादृशार्थपरत्वमिति नियमेऽपि न क्षतिः, दशापवित्रानुमन्त्रणे विनियुक्तस्यास्य मन्त्रस्य तप्तमुद्राधारणपरत्वाभावे ऽप्यारुणकेतुकेऽग्नौ प्रकरणादिना करणतया विनियुक्तस्यास्य मन्त्रस्य आरुणकेतुकाग्निस्तुतिपरत्वावश्यकतया तथा भूताग्निस्तुतौ द्वारतयैव देवताविग्रहादिवत् तप्तसुद्राधारणसिद्धेः ॥ तथा हि-पवित्रमिति मन्त्रस्ताबदारुणकेतुकेऽग्नौ विनियुज्यते । अत्र ब्रह्मणस्पते ब्राह्मणानां स्वामिन्नित्यग्निसंबोधनं, हे ब्रह्मणस्पते त्वं सर्वाणि शरशिणि वैश्वानराग्निरूपेण व्याप्नोषि, ते त्वत्सम्बन्धि सर्वतस्त्वत्संसृष्ठं; विततं-विस्तीर्णं सुदर्शनं, तेनातप्ततनूः अनङ्कित- भुजः, आमः अपक्वपापः, तत् ब्रह्म, नाश्नुते । इत् इदं सुदर्श- नाङ्कन, वहन्तः, शृतमसः पक्कपापाः ; अर्शआद्यजन्तत्वाश्रयणात् । तद्ब्रह्म समाशस्त असेवन्त-इत्यग्निः स्तूयते । अग्निसम्बन्धिसुदर्शन- धारणतदभावयोर्मोक्षतदभावप्रयोजकत्वाभिधानेनाग्रुत्कर्षसिद्धेः ॥ न च-चित्याग्नेः स्तूयमानत्वे तस्य वैश्वानराग्निरूपेण सर्वशरीर- व्याषित्वं सुदर्शनतापार्थत्वं च न सम्भवति इति वाच्यम् । चित्या- ग्नेरचेतनस्य सम्बोध्यत्वासम्भवेन स्तुतिजन्यप्रीत्याश्रयत्वासम्भवेन स्तुतेर्निष्फलत्वापत्त्या च तादृशाग्नयधिष्ठातृदेवताया एव स्तुत्यङ्गी- कारेण तादृशदेवतायाश्च स्वाधिष्ठितवैश्वानराग्निरूपेण व्यापित्वस्य खाधिष्ठितवह्निसन्तप्तेन सुदर्शनेन तापार्थतायाश्चोपपत्तेः ॥ यत्तु-हे ब्रह्मणस्पते अग्ने, ते तव, पवित्रं मेध्यं, विततं बहुभि- मन्त्रैर्बहुना च प्रयोगेण चीर्णं, तत् प्रकृतमारुणकेतुकचयनं,अंतप्ततनूः- 'त्रिषवणमुदकोपस्पर्शी, चतुर्थकालपानभक्तःस्यात् , अहरहर्वा भैक्षमश्नी- सुदर्शनसुरद्रुमः. २१ यात् , संवत्सत्सरमेतद्रतं चरेत्' इत्याद्यारुणकेतुकप्रश्नान्त्यानुवाकोक्त- तपोभिरशोषिततनूः, नाश्नुते न प्राप्नोति; इत् इदं तप्तं, इदमर्थे इच्छब्दः, वहन्तः आचरन्तः, शृतासः दग्धपापाः, तत् चयनं, पूर्वे ऋषयः, समाशत प्राप्तवन्तः—इत्यर्थः ॥ यद्वा हे ब्रह्मणस्पते अग्ने, ते विततं पवित्रं तत् स्थानं 'अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भाति' इति मन्त्रवर्णादिषु प्रसिद्धम् । अतप्ततनू:-अकृतारुणकेतुकच्यनः, नाश्नुते न प्राप्नोति ; तपश्शब्दस्य धर्ममात्रेऽपि 'तपःश्रुतं च योनिश्चेत्येत- ड्राह्मणकारकम्' इत्यादौ प्रयोगदर्शनात् । तस्मादारुणकेतुकाग्निस्तुति- द्वारतयाऽपि अस्य मन्त्रस्य न चक्रधारणप्रतिपादनपरत्वं सिध्यति ॥ -इति ॥ वन्न । संवत्सरमेतद्रतं चरेदित्यायुक्ततपसामारुणकेतुकचयनाङ्ग- तया तज्जन्यकलिकापूर्वस्य आरुणकेतुकचयनजन्यपरमापूर्वहेतुतया तदभावस्य तदभावे प्रयोजकत्वसम्भवेऽपि उक्ततपसामभावेऽप्यारुण- केतुकचयनोत्पत्तिसम्भवेन तदहेतुतया तदभावस्य तदभावे प्रयोजकत्वा- सम्भवात् । तच्छब्दस्य तजन्यपरमापूर्वपरत्वन्तु न सम्भवति, तस्य प्रक्रान्तताविरहात्, अतप्ततनूरित्यत्र उक्ततपोभिरित्यध्याहारस्य तप्तपदस्य शोषिते लक्षणायाः वहन्त इत्यस्याचारे लक्षणायाश्च कल्प- नीयत्वाच्च । एतेन यद्वेत्यादिकमपि निरस्तम् ॥ किं च-अस्य मन्त्रस्य चित्याग्निस्तुतिद्वारतयाऽपि चक्रधारणप्रति- पादनपरत्वाभावे- "विष्णोर्नुकेन मन्त्रेण तापयित्वा सुदर्शनम् । चरणं पवित्रमिति द्वाभ्यां तदभिमन्त्रयेत् ॥ पवित्रं ते विततमिति मुद्रयेद्दक्षिणे भुने । ज्ञानं वैराग्यमास्तिक्यं श्रद्धाचास्याभिवर्धते ॥" इति महर्षेस्सनकस्य सौदर्शने कर्मणि विनियोगानुपपत्तिः ॥
, .. २२ सुदर्शनसुरद्रुमः. यदपि-सनकस्मृतेः स्मृतिषु परिगणनाभावाद्धर्मशास्त्रव्याख्यातृभिः मेधातिथिविज्ञानेश्वरादिभिरनुदाहृतत्वाच्च तस्याः स्मृतित्वे प्रमाणाभावः । अस्तु वा स्मृतित्वं, अथापि सौदर्शने कर्मणि विनियोगानुसारेण अस्य मन्त्रस्य सुदर्शनपरत्वेऽपि तप्तपदम्य दाहपरत्वं करणपदाध्याहा- रदुष्टमनाश्रयणीयं, येन अस्य मन्त्रस्य मुद्राधारणविधिपरत्वं भवेत्। तथा हि-ब्रह्मणस्पते, यज्ञविघ्नकरासुरादिसंहरणेन ब्राह्मणानां रक्षकेति सुदर्शनस्य सम्बोधनम् ; प्रभुशब्देन विष्णुरुच्यते; त्वं विष्णुरूपी भूत्वा सर्वाणि गात्राणि व्याप्नोषि, तस्य ते पवित्रं तत् स्थानं तपोरहितो नाश्नुते ; इदं तपश्चरन्तो दग्धपापाः तत्स्थानं प्राप्तवन्तः-इत्यर्थ- परत्वात् ॥ इति ॥ तन्नपूर्वकाण्डार्थविशदीकरणार्थप्रवृत्तत्वे सत्यार्पत्वरूपस्मृतित्वस्य सनकस्मृतिसाधारण्यात् , तद्व्यावृत्तस्मृतित्वस्य दुर्वचत्वात् ; स्मृतिप्व- परिगणनात् सनकस्मृतेः स्मृतित्वाभावे भगवद्गीताया अपि स्मृतित्वा- भावापत्तेः; न चेष्टापत्तिः; स्मरन्तिचेत्यादिसूत्रभाष्ये शङ्करा- दिभिर्गीतायास्स्मृतित्वेनोदाहरणात् तदनुपपत्तेः। पवित्नमित्यस्यैव करण- तासम्बन्धेनान्वयाङ्गीकारेण करणवाचिपदाध्याहाराभावस्य दर्शिततया तप्तपदस्य दाहपरत्वे बाधकाभावात् । “पवित्रमित्यग्निः, अग्नि सहस्त्रा- रस्सहस्रारो नेमिः, नेमिना तप्ततनूः, ब्रह्मणस्सायुज्यं सलोकतामाप्नोति" इति सामवेदमैत्रायणीयशाखागतश्रुत्यैव अस्य मन्त्रस्य दाहपरतायाः करणपदाध्याहारस्य च दर्शितत्वेनाध्याहारकल्पनेऽपि दोषाभावात् । 'अक्ताश्शर्करा उपदधाति, तेजो वै घृतम्' इत्यत्रोपस्थितघृतवाचितेने- त्यध्याहारस्य पूर्वतन्त्रानुमतत्वात्। उपस्थितार्थकपदाध्याहारस्यादोष- त्वात् । अन्यथा तत्राप्यध्याहारदोषपरिहाराय अक्ता इत्यत्वार्थान्तर- कल्पनाप्रसङ्गात् । तप्तपदस्य तपःपरत्वे क्तप्रत्ययवैयर्थ्यस्य तनूपदवैयर्थ्यस्य च बाधकस्योक्तत्वात् ॥
२३ सुदर्शनसुरद्रुमः. त्वं विष्णुरूपी भूत्वेत्यादिव्याख्यानमप्यनुचितम् , सुदर्शनस्य जीवस्य परमात्मना विष्णुना ऐक्यायोगात् । न च-विष्णुरूपी भूत्वेत्यस्य विष्णुशरीरं भूत्वेत्यर्थ इति-वाच्यम् ; तथा सति विष्णुशरीरतायाः सर्वदा सिद्धत्वेन साध्यत्वायोगात् , तस्य सर्वगात्रव्याप्त्यसाधकत्वाच्च । किं चास्य मन्त्रस्य दाहप्रकाशकत्वाभावे दाहे विनियोगस्यानिर्वाहा- पत्तिः॥ न च-'अग्निमूर्धा दिवः ककुत्', 'भुवो यज्ञस्य', 'इदं विष्णु- विचक्रमे', 'निर्देवःपृथिवीमेष एताम्' इत्यादिमन्त्राणां आग्नेयवैष्णवादि- यागेषु याज्यानुवाक्यात्वेन विनियुक्तानां यागवाचकपदाभावेन याग- वाचकत्वाभावेऽपि तत्साधनाग्निविष्ण्वादिप्रकाशकत्वमात्रेण यागे विनियोगनिर्वाहवत्, अवैव सौदर्शने कर्मणि "विष्णोर्नुकेन मन्त्रेण ताप- यित्वा सुदर्शनम्” इति विनियुक्तस्य विष्णोर्नुकमन्त्रस्य तापप्रकाशक- त्वाभावेऽपि तापसाधनविष्णुप्रकाशकत्वमात्रेण तापविनियोगनिर्वाहवच्च पवित्रमन्त्रस्य दाहे विनियुक्तस्य दाहप्रकाशकत्वाभावेऽपि दाहसाधन- सुदर्शनप्रकाशकत्वमात्रेण दाहे विनियोगोपपत्तिः-इति वाच्यम्; अग्नि- मूर्धेत्यादिमन्त्रेषु यागवाचकपदाभावेनागत्या तचटकदेवताप्रकाशकत्व- मात्रेण विनियोगनिर्वाहेऽपि प्रकृते तापवाचिपदसत्त्वेन तत्प्रकाशकत्वे- नैव स्वरसनिर्वाहसम्भवे तत्त्यागायोगात्, अनुष्ठेयार्थप्रकाशकत्वरूपमन्त्र त्वस्य तापाबोधकत्वेऽनुपपत्तेः ।। न च-'नाङ्कयन्न दहद्विप्रम्' इत्यादौ दहनस्याङ्कनशब्दवाच्य- मुद्रणस्य च भेदावगमात् इह 'मुद्रयेद्दक्षिणे भुजे' इति मुद्रण एवास्य मन्त्रस्य विनियोगेन दाहविनियोगासिध्या दाहपरत्वं न कल्पनी- यम्-इति वाच्यम् ; लेखनादिसाधारणमुद्राप्रयोजकव्यापारसामान्य- स्याङ्कनशब्दार्थत्वात् , मुद्राप्रयोजकाग्निसंयोगस्य दाहशब्दार्थत्वात्, मुद्राप्रयोजकव्यापारत्वेन दाहस्याङ्कनशब्दार्थे क्रोडीकारेऽपि नानृतं- वदेदित्यादौ भेदाभावेऽपि प्रत्यवायाधिक्यसूचनाय विशेषनिषेध- १ २४ सुदर्शनसुरद्रुमः. वदत्रापि मुद्राप्रयोजकविलेखनाद्यपेक्षया तत्प्रयोजकदाहस्य प्रत्यवा- याधिक्यमूचनार्थं विशिष्य निषेधोपपत्तेः ; तावता मुद्रणभेदस्य तापेऽ सम्भवात् ; 'विष्णोर्नुकेन मन्त्रेण तापयित्वा सुदर्शनम्' इत्युक्त- तापानन्तरकालीनमुद्रणस्य लेखनादिव्यावृत्तमुद्रानुकूलाग्निसंयोगरूपत्व- स्यैव प्रतीतेः ; तत्र विनियुक्तस्यास्य मन्त्रस्य दाहपरत्वावश्यकत्वात् ॥ यदपि-वस्तुतोऽम्य मन्त्रस्य दाहपरत्वेऽपि मन्त्रगततत्पद- द्वयेन 'पवित्रं ते विततमिति मुद्रयेद्दक्षिणे भुजे' इत्यावश्यकान्तरङ्ग- विनियोजकवाक्यसन्निहितस्य मुद्रणस्यैव परामर्शो युक्तः, न तु बहिरङ्गवचनान्तरसन्निहितमोक्षादिरूपफलस्य । तथा च-दाहस्य किणरूपमुद्राहेतुत्वं लोकसिद्धं विनियोजकवचनसिद्धं वा मन्त्रेणानूद्यत इति न दाहस्य मुद्रणस्य वा वैदिकत्वसिद्धिः । यथा-'तस्माद्गायत्रं स्त्रियः कामयन्ते' इत्यादिवाक्यानूदितगानादेर्लोकसिद्धतया न वैदि- कत्वं तद्वत्-इति ॥ तन्न । मूलवाक्योपस्थापितार्थस्य व्याख्यानगततच्छब्देन कदाचित्परामर्शदर्शनेऽपि व्याख्यानोपस्थापितार्थस्य मूलस्थतच्छब्देन परामर्शायोगात् , व्याख्यानसजातीयविनियोजकवाक्योपस्थापितार्थस्य मन्त्रगततच्छब्देन परामर्शासम्भवेन तच्छब्दद्वयस्य मुद्रणेपरत्वा- नुपपत्तेः ; अतप्ततनूरित्यत्र तपधातूत्तरक्तप्रत्ययेन कर्मार्थकेन ताप- जन्याङ्कनरूपफलाश्रयस्य बोधात् ; इद्वहन्त इत्यत्रापि तापजन्यफलस्य मुद्रणस्यैव इच्छब्देन परामर्शेन मुद्रणं वहन्तस्तत्समाशत, मुद्रणं इत्यस्य वक्तव्यतया तादृशार्थे च गन्ता गच्छती- त्यादिवद्वाक्यस्य निराकासत्वाद्वाक्यस्य तप्तमुद्राधारणनिष्ठमोक्ष- साधनत्वरूपापूर्वार्थपरत्वसम्भवे तद्विहाय वैयर्थ्यापरपर्यायस्य लोक- सिद्धार्थानुवादकत्वस्यायोगात् ; तस्मागायत्रमित्यादौ चागत्या वैयर्थ्या भ्युपगमात् । अस्तु वा मन्त्रस्य लोकमिद्धार्थानुवादित्वं ; अथापि प्राप्तवन्तं .
" सुदर्शनसुरद्रुमः. न दाहस्य मुद्रणस्य वा वैदिकत्वहानिः । वैदिकत्वं हि-न वेदजन्येष्टसाधनत्वप्रकारकधीविषयत्वं, स्मृतिप्राप्तकर्मणां वैदिकत्वाना- पत्तेः ; किं तु वेदतदुपजीविप्रमाणान्यतरजन्येष्टसाधनत्वप्रकारक- धीविषयत्वम् । तच्च-“पवित्रमिति मन्त्रेण मुद्रयेदक्षिणे भुजे” इति स्मृतिजन्येष्टसाधनत्वप्रकारकधीविषयत्वान्मुद्रणस्याक्षुण्णम् । न च तादृशस्मृतेर्देवलकादिविषयत्वं, सर्वसाधारण्यस्य वक्ष्यमाणत्वात् ॥ यदपि-अस्य मन्त्रस्य सुदर्शनपरत्वं तद्धारणपरत्वं वा न युक्तम् । हे ब्रह्मणस्पते अग्ने ते विततं पवित्रं स्वरूपं रश्मिजालं वा, तेनादग्ध- तनूरित्यर्थाश्रयणेन अस्य मन्त्रस्य दाहप्रकाशकत्वसम्भवेन दाहे विनि- योगनिर्वाहात्-इति। तन्न; भेदनियतसम्बन्धस्यैव षष्ठ्यर्थत्वेन पवित्र- शब्दस्य स्वरूपार्थकत्वे राहोशिशर इत्यादिवत् षष्ठ्या लक्षणाप्रस- ङ्गात् , पवित्रमित्यनिरित्युदाहृतश्रुतिविरोधेन अस्यार्थस्यायुक्तत्वाच्च ॥ यदपि-तत्त्वतस्तु त्वदभिमतस्य विनियोजकवचनस्य मूलगवे- घणायां पवित्रमन्त्रगतदाहप्रकाशनसामर्थ्यरूपलिङ्गस्यैव तन्मूलत्वं कल्पनीयम् ; न तु विनियोजकसनकस्मृतिसमानविषयं श्रुत्यन्तरं परि- कल्प्य तन्मूलत्वंकल्पनीयम् । तथा सति श्रुतिस्वरूपं तस्य विनियोजक- स्मृतिमूलत्वं च कल्पनीयमिति गौरवापत्तेः। किं तु सिद्धस्यैव मन्त्रगत- दाहप्रकाशनसामर्थ्यरूपालिङ्गस्य धर्मकल्पनातो धर्मिकल्पना लघीयसी- इति न्यायेन स्मृतिमूलत्वमानं कल्पनीयम् । तच्च दाहप्रकाशन- सामर्थ्यरूपं लिङ्गं पूर्वोक्तन्यायेनापातप्रतीतिसिद्धमिति तन्मूलकवचनस्य न प्रामाण्यम् । अत एवामु धर्मकल्पनान्यायमाश्रित्यैव पूर्वतन्त्रे "स्योनं ते सदनं करोमि, घृतस्य धारया सुशेवं कल्पयामि, तस्मिन्त्सीदामृते प्रतितिष्ठ, व्रीहीणाम्मेध सुमनस्यमानः" इति मन्त्रस्य दलद्वयसमभि- व्याहारात्मक्तवाक्यप्रमाणाबलीयसा लिङ्गेन यथाई विभज्य सदन- करणे पुरोडाशप्रतिष्ठापने च न्यायविनियोगस्य समभिव्याहारा- , 4 २६ सुदर्शनसुरद्रुमः. मकैकवाक्यताबलात् पुरोडाशप्रतिष्ठापनविशिष्टसदनप्रकाशनसामर्थ्य- रूपं लिङ्गं परिकल्प्य कृत्स्नं मन्त्रं सदनकरणे विनियोजयतो बोधायनस्य वचनं लिङ्गामासमूलत्वेन न प्रमाणमित्युक्तम् ; न तु तस्य विनियोजककल्पसूत्रस्य स्वसमानविषयकश्रुत्यन्तरकल्पनेन प्रामाण्यं समर्थितम् । एवमन्यान्यपि लिङ्गाभासमूलकानि कल्पसूत्रादि- वचनानि कल्पसूत्राधिकरणे भट्टपादैरप्रमाणत्वेनोदाहृातानि द्रष्टव्यानि । यदा पुनरपि गानेन महाजनपरिगृहीतानां वचनानामप्रामाण्यं, तदा कैव कथा शिष्टापरिग्रहदूषितस्य क्वाप्यनुपलब्धकोशस्य सनक- वचनस्याप्रामाण्ये । तथा च सनकवचनस्य प्रामाण्यसिद्धौ तहलेन पवित्रमन्त्रस्य दाहपरत्वसिद्धिः, दाहपरत्वसिद्धौ च दाहप्रकाशन- सामर्थ्यरूपलिङ्गमुपजीव्य प्रवर्तमानस्य सनकवचनस्य प्रामाण्यसिद्धि- रिति परस्पराश्रयोऽप्यनुसन्धेयः ॥ तस्माद्विनियोगानुसारेणास्य मन्त्रस्यं दाहपरत्वाश्रयणमयुक्तमेव-इति ॥ तन्न-उक्तमन्त्रगतस्य दाहप्रकाशनसामर्थ्यरूपलिङ्गस्य 'पवित्र- मित्यग्निः, अग्निः सहस्रारः' इति श्रुतिसिद्धत्वेनापातप्रतीतिसिद्धत्वा- भावात् , सनकस्मृतिवचनस्योक्तलिङ्गमूलकत्वेऽपि प्रामाण्योपपत्तेः ; तादृशस्मृतिवचनोपजीव्यस्य दाहप्रकाशनसामर्थ्यलिङ्गस्य श्रुति- सिद्धत्वेन स्वप्रामाण्याधीनसिद्धिकत्वाभावेनान्योन्याश्रयविरहाच्च । यत्तु-परमार्थतस्त्वस्य मन्त्रस्य विनियोगानुसारेण दाहपरत्व- कल्पने प्राप्तार्थतया विधिशक्तिविलोप एव स्यात् ; तथा हि पवित्रं ते विततमिति मुद्रयेदित्यस्य विनियोजकस्मृतिवचनस्य पवित्रमन्त्र- विशिष्टचक्रधारणविधिपरत्वे तेनैव स्मृतिवचनेन चक्रधारणस्य प्राप्त- तया पवित्रमन्त्रस्य चक्रधारणविधिपरत्वायोगात् अस्य स्मृतिवचनस्य चक्रधारणानुवादेन मन्त्रविनियोगविधिपरत्वेऽनुवादस्य प्राप्तिसापेक्ष- तया चक्रधारणस्यान्यतः प्राप्तिर्वक्तव्या। तत्र पवित्रमन्त्रादेव चक्र- सुदर्शनसुरद्रुमः. धारणप्राप्तयभ्युपगमे पवित्रमन्त्रस्य विधायकत्वसिद्धौ तत्प्राप्तचक्रधार- णानुवादेन स्मृतिवचनस्य पवित्रमन्त्रविनियोजकत्वसिद्धिः; स्मृतिवच- नस्य विनियोजकत्वसिद्धौ च स्मृतिविनियोगवत्त्वेन मन्त्रस्य विधा- यकत्वसिद्धिरित्यन्योन्याश्रयापत्तेः । वचनान्तरप्राप्तं चक्रधारणमनूद्य स्मृतिवचनस्य विनियोगविधिपरत्वे तस्मादेव वचनान्तरान्मुद्राधार- णस्य प्राप्ततया न पवित्रमन्त्रस्य विधायकत्वसिद्धिः-इति ॥ तन्न। न हि प्रमाणान्तरप्राप्तत्वं विधायकत्वविरोधि तथा सति विधा- यकश्रुतिसमानार्थकस्मृतिसद्भावस्थले श्रुतर्विधायकत्वानापत्तेः, तद्विधे- यत्वेनाभिमतस्य स्मृतिप्राप्तत्वात् किं तु स्वानुपजीविमानान्तरप्राप्तत्वम् । तथा च स्मृतेस्स्वोपजीवित्वात्तत्प्राप्तस्यापि श्रुत्या विधेयत्वमुपपद्यत इति । पवित्रं ते विततमिति मुद्रयेदित्यस्य तादृशमन्त्रविशिष्टचक्र- धारणविधिपरत्वेऽपि न दोषः । एवमस्य मन्त्रस्य चक्रधारणानुवादेन मन्त्रविनियोगविधिपरत्वमप्युपपद्यते। तल पवित्रमन्त्रादेव चक्रधारणस्य प्राप्तयभ्युपगमेऽपि नान्योन्याश्रयः; ऋषिसमवेतस्यैव पवित्रमन्त्र- विशेष्यकविधिपरत्वप्रकारकज्ञानस्य विनियोगजनकत्वात् , तस्य चाचार्योपदेशयोगजधर्मादिजन्यत्वेन विनियोगजन्यत्वाभावात् , अस्म. दादिगतस्य तादृशज्ञानस्य विनियोगाधीनत्वेऽपि विनियोगजनकत्वा- भावात् । वचनान्तरप्राप्तं चक्रधारणमनूद्य स्मृतिवचनस्य विनियोग- विधिपरत्वमपि युक्तमेव ; वचनान्तरान्मुद्राधारणस्य प्राप्तत्वेऽपि वचनान्तरं येन न श्रुतं तं प्रति पवित्रमन्त्रस्य विधायकत्वसम्भवात् , नानाशाखागतानां अग्निहोत्रं जुहोतीति वाक्यानां तत्तच्छाखाध्यायिन प्रत्यग्निहोत्रविधायकतायाश्शास्त्रसिद्धत्वात् , स्वबोधनीयपुरुषगताज्ञान- विरोधिस्वानुपजीविमानान्तरप्राप्तार्थत्वस्यैव विधायकत्वकुण्ठकत्वात् । एवमुपबृंहणबलादप्यस्य मन्त्रस्य चक्रधारणविधायकत्वं सिद्धयति । N ..
२८ सुदर्शनसुरद्रुमः- तथा हि पाने- "चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम् । तेन चक्रेण संतप्तास्तरेयुः पातकाम्बुधिम् ॥ पवित्रं ब्राह्मणस्पत्यं जगद्व्याप्तं हरेस्सदा । तेनातप्ता तनूर्येषां ते न यान्ति हरेः पदम् ॥ तेन तप्ता तनूर्येषां ते प्रयान्ति परंपदम् । शुद्धेन तेन तप्तेन ब्रह्म तेन पुनीहि नः ॥ येन देवाः पवित्रेण आत्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु नः ॥ प्राजापत्यं पवित्र शतोद्यामं हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमहे ॥ सनेमि चक्रमजरं चक्षुरस्य महात्मनः । तस्मिन् हि विधृते देवा महोन्नतपदं ययुः ।। यत्ते पवित्रमचिपि अग्ने तेन पुनीहि नः । इत्येवं श्रुतयस्सर्वाः कथयन्ति वरानने । तस्माद्वै विधिवदार्याश्शङ्खचक्रादिहेतयः।" इत्यादिना तप्तचक्रधारणे पवित्रश्रुतिचरणश्रुतिगतपदानां श्रुत्यन्तरगत- पदानां च समन्वयप्रदर्शनेन पवित्रचरणश्रुत्यो श्रुत्यन्तराणां च चक्र- धारणपरत्वमाश्रयणयिम् ॥ यत्-'देवा वै यज्ञाद्रुद्रमन्तरायन्' इत्यादिप्रत्यक्षसिद्धार्थप्रतिपादनपर वेदभागोपबृंहणस्य पुराणादेः प्रत्यक्षमूलकत्वसम्भवेऽपि मानान्तरानधि- गतार्थप्रतिपादनपरविधिवाक्योपबृंहणपुराणादेः प्रत्यक्षमूलकत्वासम्भ- वेन पवित्रमन्त्रस्य शक्तितात्पर्यनिर्णयानुकूलस्य बुद्धिपरिकल्पित- न्यायमूलत्वस्यैव वक्तव्यतया न्याय एव शरणीकरणीयः- इति॥ तदपि न। मानान्तरानधिगतार्थप्रतिपादनपरविधिवाक्योपबृंहणस्यापि प्रत्यक्षमूलकत्वसम्भवात् , न्यायमूलकत्वमेव इति नियमानुपत्तेः ; इतरेषां २९ - , न ते सुदर्शनसुरद्रुमः. चानुपलब्धेरिति स्मृत्यधिकरणगुणसूत्रे अतीन्द्रियार्थप्रतिपादनपरोप- बृहणस्यापि प्रत्यक्षमूलकत्वस्यैवोक्तत्वेन तद्विरोधापत्तेश्च । अत एव अतीतानागतादिगोचरचतुर्मुखप्रसादादिलब्धसाक्षात्कारमूलकत्व- मुपबृंहणस्योक्तं श्रीरामायणे- "मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती।' इत्यारभ्य, "रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः । रामस्य सह सौमित्रे राक्षसानां तथैव च ॥ वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः । तच्चाप्यकथितं सर्व विदितं ते भविष्यति ॥ वागनृता काव्ये का चिदत्र भविष्यति । कुरु रामकथां दिव्यां श्लोकबद्धां मनोरमाम् ॥” ---इति ॥ न च-रामायणस्योक्तवचनेन भगवञ्चरितवर्णन एव चतुर्मुखप्रसादजन्य- साक्षात्कारमूलकत्वं प्रतीयते, न तु मानान्तरानधिगतार्थवेदवाक्योप- बृहष्ण इति-वाच्यम् ; तस्योपलक्षणत्वात् । अत एव श्रीमद्रामायणे- "वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ।”—इत्युक्तम् । तथा विष्णुपुराणे- 'संप्राप्तश्च तदा तत्र वसिष्ठो ग्रह्मणस्सुतः ।'-- इत्यारभ्य, "पुराणसंहिताकर्ता भवान् वत्स भविप्यति । देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ॥ प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः । मत्प्रसादादसन्दिग्धा तव वत्स भविष्यति ॥ ततश्च प्राह भगवान् वसिष्ठो मे पितामहः । पुलस्त्येन यदुक्तं. ते सत्यमेतद्भविष्यति ॥" -इति ।। - ३० सुदर्शनमुरद्रुमः. तथा श्रीमहाभारते आदिपर्वणि- 'तपसा ब्रह्मचर्येण व्यस्य वेदान् महामतिः । संस्कारोपगतं गुह्यं नानाशास्त्रोपबृंहितम् ॥ पुण्ये हिमवतः पार्थे मध्ये गिरिगुहालये । विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ॥ शुचिस्मुनियमोपेतश्शान्तात्मा तपसि स्थितः । भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् ॥ प्रविश्य योगज्ञानेन सोऽपश्यत्सर्वमन्ततः । निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसाऽवृते ॥" --इत्यादि । तत्रैव मोक्षधर्मे भगवतो बादरायणस्य नारायणप्रसादलब्धं प्रत्यक्ष- मुपबृंहणमूलमित्युक्तम्- "पराशरसुतश्श्रीमान् व्यासो वाक्यमुवाच ह । मया हि सुमहत्तप्तं तपः परमदारुणम् ॥ भूतं मव्यं भविष्यच्च जानीयामिति सत्तमाः । तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च ॥ नारायणप्रसादेन क्षीरोदस्यानुकूलतः । प्रकाशकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् ॥ तच्छृणुध्वं यथा ज्ञानं वक्ष्येऽसंशयमुत्तमम् । यथावृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ॥ परमात्मेति यं प्राहुस्साङ्ख्ययोगविदो जनाः । महापुरुषसंज्ञां स लभते स्वेन कर्मणा ॥" ---इति ॥ तव मोक्षधर्मे भगवान्-- "भूतभव्यभविष्याणां ज्ञानानां वेत्स्यसे गतिम् । ये ह्यतिक्रान्तगाः पूर्वं सहस्रयुगपर्ययाः ॥ तांश्च सर्वान्मयादिष्टो द्रक्ष्यसे नात्र संशयः।
सुदर्शनसुरद्रुमः. ३१ पुनश्यसि चानेकान् सहस्रयुगपर्ययान् ॥ अपि ध्यानान्मम मुने नैतद्वचनमन्यथा ।" -इति ॥ तस्मात्प्रत्यक्षमूलकतयैवोपबृहणस्य प्रामाण्यमित्युपबृंहणानुरोधात्पवित्र- श्रुतेश्चक्रधारणविधायकत्वमङ्गीकर्तव्यं ; न्यायमूलकतया प्रामाण्येऽपि न्यायदायस्य पूर्वमुपपादितत्वात्तन्मूलकोपबृंहणानुरोधाच्च तथाऽङ्गी- कर्तव्यम् । अतीन्द्रियार्थेषूपबृंहणस्याप्रामाण्ये अपिस्मर्यतइत्यादिशारी- रकसूत्रे ह्यतीन्द्रियार्थव्यवस्थापकतयोपबृंहणोदाहरणानुपपत्तिः । एवं प्रमाणलक्षणे प्रतिपादितस्योपबृंहणस्यानर्थक्यापत्तिश्च ॥ यच्चोक्तं-अविवक्षितार्थेऽपि मन्त्रस्य पुराणेषूपबृंहणं दृश्यते ; यथा- "सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः, जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः"- इति मन्त्रस्य सोमलतायां विष्ण्वादिजनयितृत्वासम्भवेन तज्जनयितृ- त्वांशे विवक्षारहितस्यापि, "सोमं ससर्ज यज्ञार्थं सोमाद्दयौरसमजायत । धरा वह्निश्च सूर्यश्च वज्रपाणिश्शचीपतिः ॥ विष्णुारायणश्श्रीमान् सर्व सोममयं जगत् ।"- इति वायुसंहितायामुपबृंहणदर्शनात् ; तस्मान्नोपबृंहणानुसारेण पवित्र मन्त्रस्य चक्रधारणपरत्वसिद्धिः-इति॥तन्न उपबृंहणविशेषस्याप्रामा- ग्यदर्शनमात्रेणोपबृंहणत्वावच्छेदेन तथात्वसाधने ‘स प्रजापतिरात्मनो वपामुदक्षिदत्' इत्यादिवेदवाक्यविशेषस्य बाधितार्थकत्वदर्शनेन वेदत्वा वच्छेदेन तथात्वापत्तेः ; इदं रजतमिति ज्ञानस्याप्रामाण्यदर्शनमात्रेण ज्ञानत्वावच्छेदेन तथात्वसिद्धौ शून्यवादापत्तेः। एवं मन्त्रादिगतसोम- पदस्य तच्छरीरकपरमात्मपरत्वेन तादृशपरमात्मनश्च द्यावापृथिव्यादि- जनयितृत्वसम्भवादवतारविष्णुजनयितृत्वसम्भवाच्च । तथा सोमपदस्य परमात्मपर्यन्तत्वाभावेऽपि न क्षतिः, सूर्यादीनां कर्मद्वारा सोमसाध्य- -इति ॥ सुदर्शनसुरद्रुमः. स्वात् , यज्ञैराराधितो भगवानपि लीलयाऽवतरतीति पुराणादिसिद्ध त्वाच्च । तदाह पराशर:- "देह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम् । हविषां परिणामोऽयं यदेतदखिलं जगत् ॥" तथा चोपबृंहणानुसारेण पवित्रमन्त्रस्य चक्रधारणपरतया वेदमन्त्र- करणकविधिविषयतया च चक्रधारणस्य वैदिकत्वसिद्धिः । न च- प्रवाणाय स्वाहेति वेदमन्त्रान्विते प्रथमकबलभक्षणे व्यभिचाराद्वेदमन्त्रा- न्वितत्वं न वैदिकत्वसाधकमिति-वाच्यम् ; प्रथमकवलभक्षणेऽपि वेदजन्येष्टसाधनत्वादिप्रकारकबोधविषयत्वादिरूपवैदिकत्वसत्त्वात्॥ यदपि-पद्मपुराणवचनं 'शूर्पण जुहोति, तेन ह्यन्नं क्रियते' इत्यादिवत् , 'इत्येवं श्रुतयस्सर्वाः कथयन्ति वरानने' इत्यनेन कथ- चिन्मन्त्रपदप्रकाश्यत्वं हेतुवनिमय, "तस्माद्वै विधिवद्धार्याश्शङ्ख- चक्रादिहेतयः' इत्यनेन मन्त्रसिद्धं चक्रादिधारणं स्तौतीति न पाद्मो- पबृंहणवलाच्चक्रादिधारणस्य वैदिकत्वसिद्धिः-इति ॥ तन्न ; कथयन्ती- त्यस्य बोधयन्तीत्यर्थकतया मन्त्रजन्यबोधविषयत्वस्यैव प्रतीतेः, कथ- ञ्चिन्मन्त्रपदप्रकाश्यत्वं निगद्यत इत्यस्याग्रहमूलकत्वात् , वेदोपबृहणार्थ प्रवृत्तस्य पुराणस्य मन्त्रपदप्रकाश्यत्वे तात्पर्यासम्भवात् , 'तस्माद्वै विधिवद्धार्याः' इत्यनेन चक्रधारणे प्रत्यवायप्रयोजकीभूताभाव- प्रतियोगित्वप्रतीतेः, चक्रधारणविधानस्यैव बोधनेन स्तावकत्वकथना- योगाच्च । किञ्च-स्तावकत्वं नाम प्रत्यवायप्रयोजकीभूताभावप्रतियोगि- त्वाभाववति चक्रधारणे तबोधकत्वं वा विशिष्टवाक्यस्य प्रतीयमानार्थ- परित्यागेन बलवदनिष्टाननुबन्धित्वलाक्षणिकत्वं वा ? नाद्यः-अप्रा- माण्यापत्तेः, प्रमाणान्तरबाधाभावे वृधा तत्कल्पनस्यानुचितत्वात् ।अत एव न द्वितीयः, स्तावकत्वेऽपि नाविहितस्य स्तुतिरिति न्यायेन विध्युन्नयनववश्यंभावाच ॥ , . सुदर्शनसुरद्रुमः. यदप्युक्तं-वस्तुतस्तु न पुराणकर्तृसमुत्प्रेक्षितन्यायाभाससिद्धार्थ- कथनपरमिदं वचनं ; किन्तु वैशेषिकसाङ्खयशैवागमप्रक्रियानुवादिपुराण- भागेषु वैशेषिकादिसमुत्प्रेक्षितहेत्वाभासानुवादकवचनवत्पाञ्चरात्रप्रक्रि- यानुवादिपुराणभागेषु स्वमताभिनिवेशपिहिततत्त्वदृष्टिपाञ्चरात्रिकमत- आन्तिविप्रलिप्सादिसमुत्प्रेक्षितन्यायामाससिद्धस्वमतानुगुणश्रुतियोजना प्रकारानुवादकान्येतादृशोपबृंहणवचनानि तन्मताभिमानिपुरुषसंवाद. प्रदर्शनपूर्वकं निबद्धानीति नैतेषां तत्र तात्पर्यम् ; शुक्तिका रजतमभा- दिति भ्रान्तिसिद्धरजतानुवादिवाक्यवत्परभ्रमसिद्धस्यैवार्थस्यानुवादात् । अत एव प्राचीनैः-'वहवः पुरुषा राजन् साङ्ख्ययोगविधायिनाम्' इति महाभारतवचनादात्मनानात्वमाशङ्कय साङ्ख्यमतप्रक्रियानुवा- दित्वादात्मनानात्वपरत्वं नास्तीत्युक्तम्--इति ॥ तदयुक्तं ; यस्यार्थस्योत्तरत्र दूषणं प्रतिपाद्यते तदर्थप्रतिपादन- परश्रुतिपुराणान्तिसिद्धार्थानुवादपरत्वं, यथा सद्विद्यायां-तबैक आहुरसदेवेदमग्र आसीदिति वाक्यस्य तथात्वं, कथमसतस्सज्जायते- त्युत्तरवाक्येन तन्निराकरणात्, दूषणाभावेऽपि तथात्वकल्पने च सर्वत्रापि तथात्वकल्पनसम्भवेन सर्वस्मृतीतिहासपुराणादीनामप्रामा- ण्यापत्तेः ॥ एतेन-बहवः पुरुपा रामन्नित्यस्यापि साङ्ख्यप्रकियानुवादित्वं प्राचीनोक्तमयुक्तं ; 'नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्' इत्यादिश्रुतिसिद्धात्मनानात्वप्रतिपादनपरत्वाच्च ।। यच्चोक्तं-पाद्मोपबृंहणबलादिव शैवपुराणोपबृंहणबलात्पवित्र- चरणश्रुत्योस्तप्तलिङ्गमुद्राधारणपरत्वप्रसङ्गः । तथा हि- "ब्रह्मेति लिङ्गमाख्यातं ब्रह्मणस्पतिरीश्वरः । पवित्रं तद्धि विख्यातं तत्सम्पर्कात्तनुश्शुचिः ॥ ऋगित्याह पवितं ते विततं ब्रह्मणस्पते ।
सुदर्शनसुरद्रुमः. तस्मात्पवित्रं लिङ्गाख्यं धार्य शैवमनामयम् ॥ तेभातप्ततनूरज्ञः-- इत्यादिना, 'दीक्षया सहितस्साक्षादाप्नुयाल्लिङ्गमुत्तमम् । इत्यन्तेन अगस्त्यं प्रति रेणुकेन पवित्रश्रुतेर्लिङ्गधारणपरतया व्याख्यात- त्वात्-इति । तत्तुच्छम् ; शैवपुराणस्य तामसत्वेन पाद्मपुराणस्य च सात्त्विकत्वेन तयोर्विरोधे पाद्मवचनस्यैव ग्राह्यत्वात् , भगवच्छास्त्रे च पवित्रश्रुतेस्सौदर्शनत्वाभिधानेन तद्विरोधाच्च; भगवच्छास्त्रमूलक- मनुस्मृत्तिविरोधे स्मृत्यन्तराणामनादरणीयतायाः ‘मन्वर्थविपरीता तु या स्मृतिस्सा न शस्यते' इत्यादिवचनसिद्धत्वेन साक्षाद्भगवच्छास्त्र- विरोधेऽनादरणीयत्तायाः कैमुतिकन्यायसिद्धत्वात् ॥ ननु--शैवपुराणस्य तामसत्वे पाद्मपुराणस्य च सात्त्विकत्वे किं मानं, किं वा मानं तामसानामनादरणीयत्वे-इति चेत् । उच्यते-- "वैष्णवं नारदीयं च तथा भागवतं परम् । गारुडं च तथा पानं वाराहं शोभनं स्मृतम् । सात्त्विकानि पुराणानि शोभनानि शुभानने । ब्रह्माण्डं ब्रह्मकैवत मार्कण्डेयं तथैव च भविष्यद्वामनं ब्राह्मं राजसानि निबोध मे। शैवमाग्नेयकं चैव लैङ्ग स्कान्दं तथैव च कौम चैव तथा मात्स्यं तामसानि प्रचक्षते ।" इति पाद्मपुराणवचनैस्सात्त्विकराजसतामसविभागस्य, "नाद्रियेत पुराणादीन् राजसांस्तामसांस्तथा । अनीशानां परेशत्वं वृधा यत्रोपवर्ण्यते ॥" इति भारद्वाजवचनेन तामसानामनुपादेयत्वस्य च सिद्धेः; किं चान- न्यथासिद्धमेवोपबृंहणं श्रुत्यर्थनिर्णयाय प्रभवति ; 'ब्रह्मेति लिङ्गमा- ॥
सुदर्शनसुरद्रुमः- ३६ ख्यातं' इत्याधुपबृंहणं च तप्तलिङ्गमुद्राधारणांशे नानन्यथासिद्धं; तस्योपबृंहणस्य सुदर्शनपरत्वेनाप्युपपत्तेः । तथा हि-ब्रह्मति लिङ्ग- माख्यातमित्यस्यायमर्थः-ब्रह्मेतिशब्देन लिङ्गं भमवच्चिहं सुदर्शन- माख्यातं, एवम्भूतस्य मुदर्शनस्य ईश्वरो नारायणः पतिनियन्ताऽपि 'पतिं विश्वस्यात्मेश्वरं शाश्वतम्', 'निरुपाधीश्वरत्वं तु वासुदेवे प्रतिष्ठित- म्' इत्यादिश्रुतिस्मृतिष्वश्विरशब्दस्य नारायणे प्रयोगदर्शनात् ; तत् प्रसिद्ध मुदर्शनं पवित्रं, तत्सम्पर्कात्तनुश्शुचिः, पवित्रं ते विनतमिति ऋगाहेति योजना । तस्माल्लिङ्गाख्यं चिह्नाख्यं । शैवं-शिवस्य नाराय- णस्येदमिति शैवं, 'शाश्वतं शिवमच्युतं' इत्यादौ नारायणेऽपि शिव- शब्दप्रयोगदर्शनात् ; यद्वा-शिवेन रुद्रेण धार्यमाणत्वाच्छैवं, वैष्णवा- नामहं यथेति भागवतादौ शिवस्थ वैष्णवोत्तमत्वोक्तेस्तस्यापि चक्र- धारणसिद्धेः। तेन विष्णुचक्रेणातप्ततनूरज्ञः; तप्ततनूर्विशेषज्ञ इत्यर्थः । दीक्षया-तापादिसंस्काररूपया; सहितोऽधिकारी-उत्तमं भगवच्चक्रादि- चिह्न, तत्सारूप्यमिति यावत् ; आप्नुयात्-प्राप्नोति । यदि लिङ्ग- शब्दश्शिवलिङ्गपरस्स्यात् तदोपबृहणानुसारेण तप्तलिङ्गधारणं श्रुति- विहितमिति तप्तलिङ्गं वैदिकार्यं स्यात् । न हि वैदिकेषु केनापि तद्धार्यते । न च–पाशुपतव्रतादिशिवधर्मतत्फलकैलासादिप्राप्तिप्रति- पादकपूर्वापरवाक्यसन्दर्भमध्यगतलिङ्गपदस्य शिवलिङ्गचरत्वमुचितं, नतु विष्णुचिह्नभूतचक्रादिपरत्वं, प्रकरणविरोकादिति-वाच्यम् ; शिव- लिङ्गपरत्वे सात्त्विकपुराणविरोधेनोपभ्रूणस्यैवाप्रामाण्यापत्तेः, शिवस्व चक्रादिधारणेन वैष्णवोत्तमत्वरूपपरमोत्कर्षप्रतिपादकतया प्रकरण- विरोधाभावाच्च ॥ यदपि-तस्मात्पवित्रं लिङ्गाख्यं शैवं धार्यमनामयम्'- इत्यत्र शिवलिङ्गशब्दयोः क्रमेण नारायणतच्चक्रवाचित्वाश्रयणं न सम्भवति ; सुरभयस्सुमनसः, रामार्जुनावित्यादौ यत्रोभयपदं नानाथकं, सुदर्शनसुरद्रुमः तत्र परस्परसमभिव्याहारेण तत्तदर्थविशेषरूढिसमुन्मेषवत् शिवलिङ्ग- पदयोः परस्परसमभिव्याहारेण शशाङ्कशेखरतत्प्रतिकृतिरूढ्योरेव समुन्मेषात्--इति । तन्न ; यत्र पदद्वयं नानार्थकं तत्र परस्परसमभि- व्याहारस्य तात्पर्यग्राहकत्वेऽन्योन्याश्रयात्, शिवपदस्य रुद्रपरत्व- निश्चयं विना लिङ्गपदस्य तत्प्रतिकृतिपरत्वनिश्चयासम्भवात् लिङ्ग- पदस्य तत्प्रतिकुतिपरत्वनिश्चयं विना शिवपदस्य रुद्रपरत्वनिश्चया- योगादिति ॥ यदपि-“यत्ते गात्रादग्निना पच्यमानादभिशूलं नहतस्यावधावति, मा तद्भूम्या माश्लिषन्मा तृणेषु देवेभ्यस्तदुशद्भयो रातम्" इति मन्त्रेण तप्तशूलधारणमपि प्रसञ्जनीयम्-इति । तन्न; इष्टसाधन- त्वानिष्टनिरासकत्वान्यतरप्रकारकवेदजन्यबोधविषयत्वस्यैव धर्मस्वव्या- म्यत्वेन धर्मत्वापादकत्वेऽपि केवलवेदजन्यबोधविषयत्वस्य धर्मत्वा- नापादकत्वात् ; अन्यथा न कलङ्गं भक्षयेदिति वेदजन्यबोधविषयस्य कलञ्जभक्षणादेरपि धर्मत्वापत्तेः । न च-अनिष्टसाधनत्वाप्रकारकवेद- जन्यबोधविषयत्वस्व धर्मत्वव्याप्यत्वाङ्गीकारान्नोक्तदोष इति-वाच्यम्; तथाऽपि 'इन्द्रो यतीन् सालावृकम्यः प्रायच्छत्' इत्युक्तयतिहननादे- रपि धर्मत्वप्रसङ्गात् ; तथा चोक्तान्यतरप्रकारकवेदजन्यबोधविषय- त्वस्य त्रिशूलधारणेऽभावाद्धर्मत्वापादनं न युक्तम् ॥ न च-अभिशूलमग्निना शूलसंसृष्टेनामिना, पच्यमानात् तज्जन्यवर्त- मानकालीनकिणाश्रयात्, ते गात्रात् , यदल्पमप्यवधावति चित्याग्निदाह- काले अज्ञातं सत् पतति ; तदङ्गं भूम्यां माश्लिपत् मा लग्नं भूत् , उश- यः कामयमानेभ्यः, रातं दत्तमस्त्वित्यर्थात् अग्नितप्तशूलजन्यकिणस्य देवप्रीतिरूपेष्टसाधनत्वबोधनाद्धर्मत्वापादनं युज्यत इति वाच्यम् ; पच्यमानादित्यनेन पाकस्य वर्तमानत्वबोधेऽपि निणस्य तदबोधात्- लडाद्यर्थवर्तमानत्वादेर्धात्वर्थेऽन्वयेऽपि तज्जन्यफलेऽन्वयासम्भवात् , . सुदर्शनसुरद्रुमः ३७ अन्यथा मध्यमार्गगन्तरि काशीं गच्छतीत्यादिप्रयोगानुपपत्तेः, विक्लित्त्य- नुकूलव्यापारस्य पचधात्वर्थत्वेन किणस्य फलत्वाभावाच्च । न च- अभिशूलं शूलसंसृष्टात् अग्निना पच्यमानात् चित्याग्निना पच्यमा- नादित्याङ्गीकारान्न विरोधः, निहतस्येत्यनेन मरणानन्तरकालीनत्व- बोधादिति-वाच्यम् ; तथा सति शूलसंसृष्टत्वमात्रप्रतीतावपि तप्तभूल- धारणाप्रतीतेरापादकासिद्धेः॥ वस्तुतस्तु-अश्वमेधे श्रूयमाणस्यास्य मन्त्रस्याश्वपरत्वमेव युक्तं ; तथैव भट्टभास्करादिभिर्व्याख्यातत्वात् ; “हे अश्व अग्निना पच्यमानात्ते गात्रात्, यदल्पमप्यवधावति अज्ञातं सत् पतति, पृथिव्यां निहतस्य निहन्यमानस्य तव अभिशूलं शूले सक्तमङ्गं वा अवधावति, तदङ्गं भूम्यां मा श्लिषत् मा लग्नं भूत् , उशद्भयः कामयमानेभ्यो रातं दत्तमस्तु" इति तद्भाप्यात् ; तस्मादस्य मन्त्रस्य तप्तशूलधारणे धर्मत्वापादकत्व- कथनमसङ्गतमेव ॥ यदपि स्मृतिपुराणतन्त्रादिषु यानि तापरूपाणि कर्माण्युपदिष्टानि तद्विषयतयैवायं मन्त्रो योजनीयः ; तथा हि-सन्ति बहवस्तापाः, 'ग्रीष्मे पञ्चाग्निमध्यस्थस्सूर्याभिमुखमास्थितः'---इत्यादिस्मृतिप्रतिपन्न- वैखानसधर्मभूतपञ्चाग्निसूर्यादितापः, तथा योगशास्त्रविहितप्राणायाम- सङ्खभितजाठराग्निसन्तापः, सुरापानमरणान्तिकप्रायश्चित्तभूततप्तसुरागो- मूत्रादिपानसम्पादितसकलदेहतापः, मृतशरीरदाहात्मकचित्याग्निदाहः, अग्निवैद्यमतःपरमिति वैद्यशास्त्रप्रतिपन्नसन्निपातादिरोगनिवर्तकाग्निवै- द्यदाहः, श्रोत्रियस्य पारलौकिकज्ञानवतस्सम्पातायातपापानुष्ठानसम्पन्न- पश्चात्तापः, ब्रह्महत्यादिपातकिनां देशान्तरगमनेऽपि तत्कृतपापपरि- ज्ञानाय तप्तकबन्धभगमुद्रादितापश्च । सम्भाव्यते च तेषां सर्वेषां तापानां तप्तपदेन प्रत्ययः । युज्यते च पवित्रमन्त्रोत्तरार्धगतेन तत्पदद्वयेन तेनरक्तं रागात्', 'तत्र भवः', तत्र जातः', 'तस्यापत्यम्' सुदर्शनसुरद्रुमः. इत्यादिव्याकरणसूत्रगततत्पदवत् शब्दासन्निहितस्यापि योग्यताबलेन बुद्धिमागतस्य तत्तत्तापविशेषसाध्यफलस्य परामर्शः । तथा च-अग्नि- साध्यतापानुष्ठानसमये ब्रह्मणस्पतिशब्देन अग्नेस्सम्बोधनं कार्य ; एवं सूर्यादिसाध्यतापानुष्ठानसमये सूर्यादीनां साधनतया तत्सम्बोधनं कार्यम् । यद्वा-अग्निसाध्यतापानुष्ठानसमयेऽपि सूर्यादीनां सर्व- कर्मसाक्षितया ब्रह्मणस्पतिशब्देन तेषामन्यतमस्य सम्बोधनं युज्यते; 'अग्निर्वाग्भूत्वा मुखं प्राविशत्', 'अग्निमें वाचि श्रितः' इत्यादिश्रवणात्। यद्वा-सुषुम्नस्सूर्यरश्मिरित्यादिश्रुत्या सुषुम्नानाडीरूपेणादित्यस्य जठ- रवृत्तिवैश्वानररूपेणाग्नेः प्राणपञ्चकरूपेण वायोरन्तर्यामिरूपेण पर- मेश्वरस्य सर्वगातव्याप्तिवचनमुपपद्यते । पवित्रशब्दश्च–पूतं पवित्रं मेध्यं च' इत्यमरकोशाभिधानात् , 'अग्निः पवित्नं स मा पुनातु, सूर्यः पवित्रं स मा पुनातु', 'असौ वा आदित्योऽच्छिद्रं पवित्रं', 'यत्ते पवित्र- मर्चिषि, अग्ने विततमन्तरा, बह्म तेन पुनीमहे, उभाभ्यां देव सवितः, पवित्रेण सवेन च', 'पाणिलिङ्गं पवित्रम्' इत्यादिवैदिकप्रयोगाच्च सूर्या- निस्वरूपतद्रश्मिनालशिवलिङ्गादिषु यथायोगं वर्तनीयः। तथा च पवित्र- शब्दस्य सूर्यादिस्वरूपपरत्वे-हे ब्रह्मणस्पते हे अग्ने यत् त्वत्स्वरूपं तेनादग्धतनूस्तत्तदुचितं फलं नाश्नुते-इल्यर्थो ग्राह्यः ; पवित्रशब्दस्य रश्मिजालपरत्वे-मेध्यं यद्रश्मिजालं तेनादग्धतनूस्तद्योग्यं फलं नाश्भुत इत्यादियोजनाभेदा यथासम्भवमूहनीयाः ॥ -इति॥ अनोच्यते-तत्र हि पञ्चाग्निसूर्यादितापपरत्वं तावदयुक्तं, चतुर्मुखनियामकत्वस्य सूर्ये बाधेन ब्रह्मणस्पत इत्यनेन सम्बोध्यत्वा- नुपपत्तेः, सूर्यस्य वेदस्वरूपतायाः 'सैषा त्रय्येव विद्या तपति' इत्यादि- श्रुतिसिद्धत्वेऽपि तन्नियामकत्वेन प्रसिद्ध्यभावाद्ब्रह्मशब्देन वेदस्य ग्रहणेऽप्यनिस्तारात्, सूर्यस्वरूपस्य तद्विग्रहस्य वा विभुत्वाभावेन गात्राणि पर्येषीत्यस्यानुपपत्तेः । न च-'आदित्यश्चक्षुर्भूत्वाऽक्षिणी -- सुदर्शनसुरद्रुमः. प्राविशत्' 'सुषुम्नस्सूर्यरश्मिः' इत्यादिश्रुतिभिरिन्द्रियाभिमानिदेवतात्वेन सुषुम्नानाडीरूपरश्मिद्वारेण च व्याप्तिरादित्यस्याप्युपपद्यत इति- वाच्यम् प्रतियोगिवैयधिकरण्याघटितगात्रत्वव्यापकत्वस्य तावताऽपि बाधात्, नेत्राद्यवच्छेदेन सतोऽप्यादित्यस्यान्यदेशावच्छेदेनाभाव- सत्त्वात् , विश्वतश्शब्दपरीत्युपसर्गाभ्यां तादृशव्यापकत्वस्यैव बोधनात्, पदान्तरासमभिव्याहृतस्य प्रभुशब्दस्य निरुपाधिकप्रभुत्वावच्छिन्न- वाचकत्वस्याप्यनुपपत्तेश्च ॥ पवित्रं विततमित्यस्य मेध्यं यद्रश्मिजालमित्यर्थोऽपि न युक्तः, रश्मिजालपदस्याध्याहारप्रसङ्गात् । तच्छब्दद्वयस्य बुद्धिस्थतत्तत्साध्य- फलपरत्वमपि न युक्तं ; अनिर्दिष्टपरामर्शकत्वायोगात् , सेन रक्तं रागादित्यत्र रागादित्यस्य रञ्जकद्रव्यवाचिपदादित्यर्थकतया निर्दिष्ट- स्यैव रञ्जकद्रव्यस्य तच्छब्देन परामर्शात् ; 'तत्र जातः' 'तस्यापत्यं इत्यादावपि ड्याप्प्रातिपदिकादित्यतः प्रातिपदिकादित्यनुवृत्त्या प्राति- पदिकशब्दस्य च अर्थवदधातुरित्यनेनार्थविशिष्टशब्दस्वरूपे परिभाषि- तत्वेन तत्परतया तटकप्रातिपदिकार्थस्य तच्छब्देन परामर्शाद- निर्दिष्टपरामर्शायोगात् । अस्तु वा तत्रागत्याऽनिर्दिष्टपरामर्शः, तथाऽपि प्रकृते गत्यन्तरस्योपपादितत्वेन तदयोगात् ॥ एतेन योगशास्त्रविहितप्राणायामादिस भितजाठराग्निसन्तापादि- परत्वमपि निरस्तम्; "अग्निः पवित्रं स मा पुनातु, सूर्यः पवित्रम्' इत्यादौ सूर्यशब्दस्याग्नित्वाद्यवच्छिन्नपरत्वे घटो घट इतिवन्निराकासत्वप्रसङ्गेन सहप्रयोगस्य तद्धर्मावच्छिन्ने शक्तिकुण्ठकस्य तद्धर्मावच्छिन्नशक्ति- साधकतयोपन्यासस्याज्ञानमूलकत्वात् , ते पवित्रमित्यस्य त्वत्स्वरूप- मित्यर्थे अभेदे षष्ठ्या अस्वारस्यात् , अतप्ततनूरित्यत्र प्राणायामसङ्खभित- जाठराग्निनेत्यध्याहारापत्तेश्च ॥
सुदर्शनसुरद्रुमः. पाणिलिङ्ग पवित्रमिति लिङ्गे पवित्रशब्दप्रयोगोऽप्यसिद्धः । पाणिलिङ्गं पवित्रमिति वाक्यस्यान्धैर्यजुर्वेदारण्यके पाठेऽपि विद्यारण्यभट्टभास्करादिभिरव्याख्यातत्वेन तादृशपाठस्याप्रामाणि- कत्वात् , द्राविडानों शिष्टानां पाठाभावात् , पाणिमन्तं पवित्रमिति पाठाच्च । किञ्च पवित्रश्रुतेः परमात्मपरतया सूर्यादिपरत्वासम्भवः । तदाह भगवान् शौनक "आध्यात्मिकं पवित्रं ते सूक्तं जप्त्वाऽऽप्लुतश्शुचिः । गतिमिष्टामवाप्नोति विन्दते चेह वृद्धताम् ॥” इति ॥ एतदेव शौनकवचनमनुरुध्य सामवेदभाष्यकृता भरतस्वामिना पवित्र- श्रुतिः परमात्मपरतया व्याख्याता। न चैवं-सौदर्शनत्वविरोध इति- चाच्यम् ; परमात्मपरस्यापि तदायुधत्वेन सुदर्शनपरत्वाविरोधात् । अपि च पवित्रमित्यग्निरिति श्रुत्या पवित्र श्रुतेस्सुदर्शनधारणपरतया, व्याख्यातत्वेन अर्थान्तरपरत्वकथनमत्यन्तमप्रामाणिकम् ॥ यत्तु-"नाङ्कयन्न दहेद्देहं दहेच्चत्कामकारतः । नाधिकुर्वन्ति दग्धाङ्गाश्श्रौतस्मार्तेषु कर्मसु ॥"- इत्यादिस्मार्तनिषेधवचनमूलत्वेनायं मन्त्रो योजनीयः। तथा हि-हे ब्रह्मणस्पते ब्राह्मणोत्तम, त्वं प्रभुः स्वतन्त्रोऽसि, पवित्रं पवित्राणि पूतानि, सुपां सुलुगित्यनुशासनाद्विभक्तिव्यत्ययः ; विश्वतो गात्राणि करचरणादीनि सर्वाङ्गानि, विस्तीर्णं यथा भवति तथा पर्येषि धारयस्मि सदङ्गानां पवित्रत्वं च 'यावती देवतास्तास्सर्वा वेदविदि ब्राह्मणे वसन्ति' इतिश्रुतेः । तस्मात्तप्तमुद्रा न धार्येत्यभिप्रेत्य परमकारुणिकी श्रुतिराह अतप्तेति ; आय विष्णवे, तप्ता तनूर्येन तथोक्तः, अत एवामः-अपक्वान्तःकरणः, तत्-प्रसिद्धं, नाचते-न भजते ; एवं- विष्णुरूपेण चक्रेण तप्ता तनूर्यस्य स तथोक्त इति वा विग्रहः। न केवलं तप्ताङ्गानामिष्टाभावमात्रं; अनिष्टमप्यस्तीत्याह-शृतास ज सुदर्शनसुरद्रुमः. ४१ इति । शृंतोः पक्वाः, इत् तप्तचक्रमुद्रासन्तापं, वहन्तः समाशत । अर्थात्पाक एव कर्मत्वेन सम्बध्यते, स च योग्यत्वात्कुम्भीपाकादि- रूपः । यद्वा-अतप्तेति तपसन्ताप इत्यस्य लङात्मनेपदप्रथमपुरुषैक- वचनं, छान्दसमेकपदत्वं, कवभावार्थ त्वयाऽपि तदनुसरणात् । अस्तु वा द्वैपद्यं, तथाऽपि न दोषः ; तेनायमर्थः-यस्य तनूरङ्गानि, नातप्त न दग्धवान् , स आमः ; अत एव ब्राह्मणोत्तमस्तत्पदमश्नुते । एवमतप्ताङ्गानां फलमुक्त्वा तप्ताङ्गानामनिष्टमाह शृतास इति । तच्छ- ब्देन पूर्ववदेवे कुम्भीपाकस्य परामर्शः, तथा च ब्राह्मणोत्तमैस्तप्तमुद्रा न धाति फलितोऽर्थः---इति ॥ तदयुक्तम् ; पतिशब्दस्य स्वामित्वनियामकत्वावच्छिन्नशक्त- स्योत्तमपरत्वे शरीरत्वावच्छिन्नशक्तस्य गानशब्दस्य करचरणादि- परत्वे व्यप्तियर्थकस्य पर्येषीत्यस्य धारणपरत्वे च लक्षणाप्रसङ्गात् । भिन्नवचनान्तयोः पवित्रगात्रशब्दयोस्सामानाधिकरण्यायोगात्; विभक्ति व्यत्ययकल्पनस्य चागतिकत्वात् ; गात्राणि त्वं धारयसीत्यनेनैव गात्रेषु त्वत्सम्बन्धित्वसिद्ध्या तव गात्राणि त्वं धारयसीत्यस्यावक्त- व्यत्वेन त इत्यस्यानन्वयात् ;कर्मपारतन्त्र्यशास्त्रपारतन्त्र्यभगवत्पार- तन्व्याद्याश्रये ब्राह्मणे स्वातन्त्र्यस्य बाधेन प्रभुशब्दस्य बाधितार्थ- कत्वात् ; विततमित्यस्य पर्येषीत्यनेनान्वये व्यंबहितान्वयप्रसङ्गात् ; अनेकदेशसम्बन्धरूपविततत्वस्य पतनप्रतिबन्धकसंयोगानुकूलव्यापार- रूपधात्वर्थे बाधेनान्वयासम्भवात् ; गात्रत्वव्यापकपतनप्रतिवन्धक- संयोगानुकूलव्यापारस्य स्वीयावयवमात्रधारके ब्राह्मणे बाधेन विश्वतो गात्राणि पर्येषीत्यस्यानुपपत्तेश्च ॥ न च ते विश्वलोगात्राणि पर्येषीत्यनेन त्वत्सम्बन्धिगात्रत्वव्यापक- संयोगानुकूलव्यापारबोधनान्नानुपपत्तिः, अत एव त इत्यस्यापि सार्थ- क्यमिति-वाच्यम् ; तथाऽपि त्वत्सम्बन्धिगात्राणि त्वं धारयसीत्यस्या- 6 सुदर्शनसुरद्रुमः. नावश्यकतया पर्येषत्यिस्य वैयर्थ्यप्रसङ्गात् । आय विष्णवे, तप्ता तनूरित्यर्थोऽपि न युक्तः ; तप्तपदस्य करणसाकासत्वेन चक्रेणेत्य- ध्याहारावश्यकतया वृत्त्यघटकपदार्थानन्वितस्वार्थकत्वाभावेनासामर्थ्या तप्तपदस्य समासानुपपत्तेः॥ न च-इयमनुपपत्तिर्भवन्मतेऽपि समाना, शरैश्शातितपत्र इत्यादाविव वृस्यघटकपदार्थानन्वितेत्यत्राभेदान्वयं निवेश्य सामोपपादनं चास्माकमपि तुल्यमिति-वाच्यम् ; तथाऽपि तप्तपदयोगे चतुर्थीसमासस्यानुशासनाभावेनासाधुत्वात् ॥ एवं-एन विष्णुरूपेण 'चक्रेण तप्ता तनूरित्यर्थोऽपि न युक्तः ; चक्रस्य विष्णुशरीरत्वेऽपि विष्ण्वभिन्नत्वाभावात् , अशब्दस्य विष्णु- शरीरत्वावच्छिन्नपरत्वे च लक्षणाप्रसङ्गात् । अतप्ततनून तदामो अश्नुत इत्यनेन दग्धाङ्गस्येष्टाभावमुक्त्वाऽनिष्टप्राप्तिप्रतिपादनाय शृतास इत्यादिकमित्यपि न सत् ; तथा सति शृतास इद्वहन्त इति कर्तृ- वाचकपदवैयर्थ्यात् , अतप्तनून तदामोऽभुते तत्कुम्भीपाकमश्नुत इत्येव वक्तव्यत्वात् , तच्छब्दस्यानिर्दिष्टकुम्भीपाकपरत्वायोगाच्च । अतप्तेति पदच्छेदमङ्गीकृत्य व्याख्याऽपि न साधीयसी ; यस्य तनू तप्तेत्यनेन यत्सम्बन्ध्यवयवकर्मकतप्तचक्रकरणकदाहाभावः स ब्राह्मणोत्तमस्तत्पदमश्नुत इत्यर्थस्य प्रतीयमानस्य बाधात् , यस्य चक्राङ्कनं नासीत्तत्पुरुषस्य तत्पदेनोपादाने तदवयत्रकर्मकतादृशदाहा- प्रसिद्ध्या तदभावस्य सुतरामप्रसिद्धेः, यत्पदेन चक्राङ्कितोपादाने तदी- यावयवकर्मकतादृशदाहस्य प्रसिद्ध्या तदभावस्यान्यन प्रसिद्धत्वेऽपि तस्य मोक्षप्राप्तिरित्यर्थप्रसङ्गेन भवतामनिष्टापत्तेः ॥ न च-यत्पदेना- नङ्कित एवोपादेयः तथाऽपि नाप्रसिद्धिः, तादृशदाहत्वावच्छेदेन तदीयतनुकर्मकत्वाभावबोधादिति-वाच्यम् ; रूपपरावृत्त्यनुकूलव्यापार- रूपतपधात्वर्थघष्टकरूपपरावृत्तित्वावच्छेदेन तरिति द्वितीयान्तार्थ- तनुवृत्तित्वाभावस्य हि बोधो वाच्यः ; स च-बाधितः, सूर्यकिरणादि- ट सुदर्शनसुरद्रुमः- जन्यपरावृत्तेस्सर्वसाधारण्यात् ; तप्तचक्रसंयोगात्मकव्यापारजन्यरूप- परावृत्तित्वावच्छेदेन तदभावस्याबाधेऽपि तेन रूपेण रूपपरावृत्ते- र्धातोरनुपस्थित्या तथा बोधासम्भवात् । तादृशरूपपरावृत्त्यनुकूलव्यापा- रलाक्षणिकत्वे च धातोर्लक्षणैव दोषः । एवमतप्तेत्यस्य क्रियापदत्वे यत्तच्छब्दाध्याहारप्रसङ्गः; अतप्ततनूरित्यस्य बद्दचैरेकपदत्वेन पाठात् ; शाखान्तरे पदकाराप्रवृत्तावपि एकत्र निर्णीतश्शास्त्रार्थोऽपस्त्रापीति न्यायात् बचपाठानुरोधेनैकपदत्वस्यैवौचित्याच्च ।। यदपि-स्वतोऽध्ययनसिद्धपदविभागाभावेनान्तरङ्गस्ववाक्यार्थपर्या- लोचनया पदव्यवस्थायां सम्भवन्त्यांबहिरङ्गशाखान्तरीयपदाध्ययनानु- सारेण पदव्यवस्थाया अयुक्तत्वात्-इति । तन्न; पदद्वयकल्पने पूर्वोक्त- रीत्या वाक्यार्थस्य बाधेन तवाधनिर्वाहायाप्यैकपद्यकल्पनाया एव युक्तत्वात् । किं च-प्रत्यक्षशतपथश्रुतिविहितस्य सुदर्शनधारणस्य निषेधासम्भवादनुपपत्तेश्चोक्तार्थोऽनुपपन्नः । तथा हि-किं प्राप्तस्य निषेधः, उताप्राप्तस्य ? आयेऽपि रागाच्छास्त्राद्वा ? रागोऽपि किं भोज- नादाविव सुखसाधनत्वज्ञानात् , उत ख्यातिलाभाद्यर्थत्वज्ञानात् ? नाद्यः-असिद्धेः, तस्य दुःखहेतुतयैवानुभूयमानत्वात् । न द्वितीयः- यद्रूपावच्छिन्नस्य रागात्प्राप्तिस्तद्पावच्छिन्नस्य निषेऽपि ख्यात्याद्य- प्रयोजनकस्य चक्रधारणस्य निषेधायोगात् । नान्त्यः-शास्त्रप्राप्तस्य निषेधासम्भवान् , अन्यथा शास्त्राप्रामाण्यापत्तेः । न चरमः-शश- शृङ्गं नास्तीतिवदप्रसक्तनिषेधस्याशक्यत्वादप्रयोजकत्वाच्च ॥ न च- उक्तरीत्या स्वात्महननकेशोल्लुञ्छनादेरपि निषेधोऽनुपपन्नस्स्यादिति- वाच्यम् । तत्रासच्छास्त्रात्प्राप्तस्यैव निषेधाङ्गीकारादिति ॥ इति पवित्र श्रुतिविचार. - सुदर्शनसुरद्रुमः- एवं चरणश्रुतिरपि सुदर्शनधारणे प्रमाणम् ।। चरणश्रुनेस्तावदयमर्थः ॥ चरणं-परगतिसाधनं सुदर्शनं, चरण- शब्दस्य परगतिसाधनत्वावच्छिन्ने योगशक्तेस्सुदर्शनल्वावच्छिन्ने रूढि- शक्तेश्च सत्त्वात् , 'चरणं प्राङ्गणे चक्रे' इतिकोशात् । पवित्रं-परि- शुद्धिकरं, परिशुद्धिश्च प्रत्यवायाभावप्रकारकभगवत्सङ्कल्पः, विशेष्य- तासम्बन्धेन तादृशसङ्कल्पं प्रति स्वाश्रयवह्निसन्तप्तमुद्रासंयुक्तभुजबटित- देहवत्तासम्बन्धेन सुदर्शनस्य हेतुत्वात्तस्य परिशुद्धिकरत्वोपपत्तेः । यद्यपि-पवित्रशब्दस्यापि सुदर्शनत्वावच्छिन्ने रूढिरस्ति, तथाऽपि- विशिष्टवाचकानां पदानां पृथग्विशेप्यवाचकपदसमवधाने विशेषण- मानपरत्ववत् धर्मद्वयावच्छिन्नवाचकपदानामप्येकधर्मावच्छिन्नवाचक- पदान्तरसमवधाने तदितरधर्मावच्छिन्नमात्रपरत्वस्य 'कुर्या हरस्यापि पिनाकपाणेः' इत्यादाविव वक्तव्यतया सुदर्शनत्वावच्छिन्नवाचक- चरणपदसमभिव्याहारात्पवित्रशब्दस्य योगार्थमात्रपरत्कं बोध्यम् । न च-विनिगमनाविरहाच्चरणशब्दस्यैव योगार्थमात्रपरत्वमिति- वाच्यम् ; 'चरणं नो लोके' इत्याद्यत्तरवाक्यानुरोधेन. चरणशब्दस्य विशेष्यवाचकत्वेन विनिगमकसत्त्वात् । विततं-संस्कृतमुद्रात्वव्यापकं, संस्कृतमुद्रासामान्ये समाश्रितानुग्रहार्थ सन्निहितमास्त. इति वितत- पदार्थविधेयको बोधः। येन पूतः-यजन्यपापाभावप्रकारकभगवत्सङ्कल्प- विषयीकृतः ; दुष्कृतानि तरति-दुष्कृतनाशानुकूलव्यापाराश्रयः, तादृशव्यपारश्चक्रधारणरूप एव, नाशानुकूलव्यापारार्थकतरतिधात्वर्थ- तावच्छेदकनाशरूपफलम्य प्रतियोगितासम्बन्धेन दुष्कृतेषु सत्त्वात् ; घदं नाशयदित्यादौ घटादेरिव तेषां कर्मता बोध्या । न च पति- सुदर्शनसुरद्रुमः. योगितासम्बन्धेन पापनाशं प्रति स्वाश्रयभुजघटितदेहावच्छिन्नत्व- कालिकविशेषणत्वोभयसम्बन्धेन तप्तचक्रसंयोगस्य कारणत्वे प्रायश्चित्ता- दीनां वैयामेति-वाच्यम् ; स्वप्तमानकालीनपापानां चक्रधारणेन नाशेऽप्यनन्तरकालीनपापनिरासकतया तेषां सार्थक्यात् । अन्यथा- "सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥” इत्यादिशास्त्रात् सन्ध्यावन्दनादीनामपि पापनिवर्तकत्वोक्तया तेषां वैयर्थ्यप्रसङ्गस्य दुवारतापातात् ।। यदि च-केषां चिदेव पापानां सन्ध्यावन्दनादिभिनाश इति न तद्वैयर्थ्य; अथवा विधूतपापा इत्यनेन तदकरणप्रयुक्तप्रत्यवाय- परिहार एव विवक्षित इति नोक्तदोषः-इति विभाव्यते । तदा प्रकृतेऽपि तुल्यं ; तरति दुष्कृतानोत्यत्र तरतेरभावप्रयोजक- धर्मार्थकत्वेन दुष्कृतानीत्यस्य प्रत्यवायार्थकत्वेन तथैवार्थसम्भवात् , येन पूत इत्यस्य यज्जन्यप्रत्ययायाभावप्रकारकसङ्कल्पावषय इत्यर्थात् । पवित्रेण-परिशुद्धिकरण, शुद्धेन-निरस्तसमस्तदोषगन्धेन, तेन-सुदर्श नेन, धृतेनेति शेषः ; फूताः वयं, अरातिं-शत्रु, भगवत्साक्षात्कार- प्रतिबन्धकमिति यावत् ; पाप्मानं-पापं प्रत्यवायं वा, अतितरेम- नाशानुकूलव्यापाराश्रयाः अभावप्रयोजकर्माश्रया वा, लोकस्य द्वारं- भगवल्लोकप्राप्त्युपायभूतं, अचिर्कोतिर्महश्शब्दैालाकिरणप्रकाश- भेदस्य विवक्षितत्वान्न पोनरुक्त्य; भ्राजमानं-शोभमानं, अमृतस्य- परमपुरुषार्थस्य मोक्षस्य, धारा:-अनुभवप्रकारान् , दोहमानं-दुहानं, मुक्तिप्रदमित्यर्थः ; लोकस्य द्वारमित्यनेन स्वरूपयोग्यत्वरूपकारणत्वस्य दोहमानमित्यनेन च फलोपधायकत्वस्य च विवक्षणान्न पौनरुक्त्यं; एतादृशं चरणं-सुदर्शनं, नः-अस्मान् , लोके परमपदे, सुधितान् सुप्रतिष्ठितान् , धातु करोतु । मोक्षकामो नरस्सुदर्शनधारणं कुर्यात् ;
४६ सुदर्शनसुरद्रुमः. यद्वा पापनिवृत्तिकामस्सुदर्शनधारणं कुर्यादिति विधिरत्र द्रष्टव्य इति प्राञ्चः । अत्र विधिप्रत्ययार्थो न तावदिष्टसाधनत्वं, लोकस्य द्वार- मित्यादिभिरेव तदवगमात् ; नापि कृतिसाध्यत्वं, धृतेनेत्यध्याहृतपदेन तदवगमात् , नित्यत्वालाभाच्च ; किं तु प्रत्यवायप्रयोजकीभूताभावप्रति- योगित्वम् । तथा च--मोक्षकामादिनिष्ठतद्धारणाभावस्य प्रत्यवायप्रयोन- कत्वलाभान्नित्यतासिद्धिः । न च-मोक्षकामनाया अधिकारिविशेषणत्वे तच्छून्ये तदकरणे प्रत्यवायानुपपत्तिरिति-वाच्यम् ; मोक्षकामइत्यस्य सम्भवाभिप्रायेण स्वरूपकीर्तनमानपरत्वादधिकारघटकत्वाभावात्, नरत्वत्यैवाधिकारत्वात् ॥ अत्र भास्करः--चरणश्रुतिरपि न सुदर्शनधारणे प्रमाण, तस्या अपि प्रकरणार्थपर्यालोचनायामर्थान्तरपरत्वावगमात् । तथा हि- 'देवेभ्यो वै स्वर्गो लोकस्तिरोऽभवत्' इत्युपक्रम्य, 'तं तपोऽब्रवीत्तं श्रद्धा- ऽब्रवीत्तं सत्यमब्रवीत्तं मनोऽब्रवीत्तं चरणमब्रवीत्' इत्यादिवाक्यसमुदायेन चातुर्होत्रचयनाङ्गभूताः अपाघाख्याः पञ्चेष्टीविधाय "ता वा एताः पञ्च स्वर्गस्य लोकस्य द्वारः, अपाघा अनुवित्तपो नाम, तपः प्रथमां रक्षति, श्रद्धा द्वितीयां, सत्यं तृतीयां, मनश्चतुर्थी, चरणं पञ्चमीम्" इत्युक्त्वा, 'अनु ह वै स्वर्ग लोकं विन्दति, कामचारोऽस्य स्वर्गे लोके भवति' इत्युप- संहृतम्। तत्र मनसा प्रायपाठान्मनोवदिन्द्रियमेव चरणशब्देन गृह्यते, नान्यत् ; 'विशये प्रायदर्शनात्' इत्यत्र प्रायदर्शनस्यैव नियामकत्वोक्तेः। तथा च-चरणं पञ्चमीमिति ब्राह्मणवाक्योपात्तं चरणेन्द्रियमेव तस्मिन् चरणयागे पुरोऽनुवाक्यायाज्यात्वेन विनियुक्ताभ्यां 'चरणं पवित्रं', 'लोकस्य द्वारं' इतिमन्त्राभ्यामभिधीयते मन्त्रब्राह्मणयोरैकार्थ्यात् । इति ॥ अत्रोच्यते-चरणशब्दः इन्द्रियत्वव्याप्यधर्मावच्छिन्नतात्पर्यकः, तादृशधर्मावच्छिन्नतात्पर्यकानेकपदसमभिव्याहृतत्वात् , यत यादृश- सुदर्शनसुरद्रुमः. धर्मावच्छिन्नवाचकानेकपदसमभिव्याहृतत्वं तत्र तादृशधर्मावच्छिन्न- वाचकत्वमिति सामान्यव्याप्तेरित्यनुमानात् चरणशब्दस्येन्द्रिय- परत्वसाधनं हि भवतामभिप्रेतं ; तत्तु म सम्भवति ; मनस एकस्ये न्द्रियत्वेऽपि श्रद्धादीनामिन्द्रियस्वाभावनेन्द्रियत्वव्याप्यधर्मावच्छिन्न- परानेकपदसमभिव्याहाररूपतत्प्रायपाठरूपस्य हेतोरसिद्धेः, हेतु- कोटावनेकत्वमनिवेश्यासिद्धिवारणेऽपि श्रद्धादिपदे व्यभिचारात् । न च-तद्धर्मावच्छिन्नपरत्वेन सन्दिह्यमानत्वस्य तादृशसन्देहस्वरूप- योग्यत्वरूपस्य तद्धर्मावच्छिन्नवाचकत्त्वपर्यवसितस्य हेतुविशेषणत्वा- नोक्तव्यभिचारः; अत एव विशये प्रायदर्शनादित्यत्र विशय इत्यु- क्तमिति-वाच्यम् ; वक्ष्यमाणरीत्या मनश्शब्दस्य 'सङ्कर्षणाच्च प्रद्यु- म्नो मनोभूतस्स उच्यते' इति मोक्षधर्मवचनानुसारेण प्रद्युम्नपरतया इन्द्रियत्वव्याप्यधर्मावच्छिन्नपरपदसमभिव्याहारस्यैवासिद्धेः॥ एतेन- चरणशब्द आचारवचनः, रमणीयचरणा रमणीयां योनिमापद्यन्ते' इति श्रुतौ चरणशब्दस्याचारे प्रयोगदर्शनात् ; अनुष्ठेयतपश्श्रद्धासाह- चर्याच ; न च-मनसा प्रायपाठबाधः अनुष्ठेयैकप्रवणसङ्गल्प- विकल्पात्मकमनस एवं मनश्शब्देनाभिधानात् , एवं च-प्रायपाठानुरो- धाच्चरणशब्दस्यानुष्ठेयाचारपरत्वमेव युक्तं, न त्वननुष्ठेयसुदर्शनपर- स्वम्-इति निरस्तम् । चरणशब्दस्यानुष्ठेयपरानेकपदसाहचर्यरूपा- नुष्ठेयप्रायपाठासिद्धेः, अनत्यतपश्श्रद्धादिशब्दानामनुष्ठेयपरत्वाभावात् 'तपश्श्रद्धे येापवसन्त्यरण्ये' इत्यत्र तपश्शब्दस्य ब्रह्मपरत्ववदनत्य- तपश्शब्दस्यापि ब्रह्मपरत्वात्। "येनेदं विश्वं परिभूतं यदस्ति प्रथमजं देषं हविषा विधेम, स्वयंभु ब्रह्म परमं तपो यत्, स एव पुत्रस्स पिता स माता, तपो. ह विश्वं प्रथमं सम्बभूव ।" - ४८ . सुदर्शनसुरद्रुमः. इत्येतत्प्रकरणगततपोविषयमन्त्रे ब्रह्मलिङ्गदर्शनात् ; 'मेधा श्रद्धा सरस्वती' इति श्रीविष्णुपुराणे, 'अहं श्रद्धा च मेधा च' इति महा- भारते च श्रद्धाशब्दस्य लक्ष्मीवाचकत्वदर्शनेनात्रत्यश्रद्धाशब्द- स्यापि तत्परत्वात् ; "श्रद्धया देवो देवत्वमश्नुते, श्रद्धा प्रतिष्ठा लोकस्य देवी, सा नो जुषाणोपयज्ञमागात् , कामवत्साऽमृतं दुहाना, श्रद्धा देवी मथमजा ऋतस्य, विश्वस्य भी जगंतःप्रतिष्ठा, तो श्रद्धां हविषा यजामहे, सा नो लोकममृतं दधातु, ईशानां देवी भुवनस्याधिपत्नी ॥". इत्येतत्प्रकरणस्थश्रद्धाविषयमन्त्र लक्ष्मीलिङ्गदर्शनात् ; "आगात्सत्यं हविरिद जुषाणं, यस्मादेवा जज्ञिरे भुवनं च विश्वे, तस्मै विधेम हविषा घृतेन, यथा देवैस्सथमादम्मदेम, यस्य प्रतिष्ठावन्तरिक्षं, यस्माद्देवा जज्ञिरे भुवनं च सर्वे " इत्याइमन्त्रलिङ्गात्सत्यशब्दस्यापि ब्रह्मपरत्वात् ; एतस्य ब्रह्मणो नौम सत्यम्' इति सत्यशब्दस्य छान्दोग्ये ब्रह्म- नामत्वाभिधानात्; "मनसो वशे सर्वमिदं बभूव, नान्यस्य मनो वंशमन्वियाय, भीष्मो हि देवस्सहसस्सहीयान् , स नो जुषाण उपयज्ञमागात् , आकृतीनामधिपतिं चेतसां च, सङ्कल्पजूतिं देवं विपश्चितं, मनो राजानमिह वर्धयन्ते"- इत्यादिमन्त्रालङ्गेन मनश्शब्दस्य सङ्कर्षणपरत्वावगमात् । तथा चानुष्ठेयपरशब्दसाहचर्यासिद्धेश्वरणशब्दस्याचारपरत्वं न सम्भवति अन्यथा अचिमदित्यादिविशेषणानामनुपपत्तेः ॥ महाभारते हरिवंशे ब्यधिकद्विशततमाध्याये- "एवं वदत्सु चक्रं वै ज्वालामालासमावृतम् । ज्वालामालादिदुप्प्रेक्ष्यमादित्यायुततेजसम् ॥"- 'तस्य ह वा सुदर्शनसुरद्रुमः. इत्यादिना ज्वालादीनां प्रतिपादितत्वेन सुदर्शनपरत्वे तादृश- विशेषणानामुपपत्तेः । न च–अत्र तपस्सत्यशब्दाभ्यां ब्रह्मणोऽभिधाने यागाभेदानुपपत्तिः, देवताभेदविरहात् , व्रीहियवयोरन्यतरस्य चोदक- प्राप्तस्य द्रव्यस्यापि भेदाभावादिति-वाच्यम् ; तपस्सत्यशब्दयोः रूढिशक्यतावच्छेदकस्य ब्रह्मत्वस्यैक्येऽपि योगार्थतावच्छेदकयोर्भेदेन तत्तद्धर्मपर्याप्तावच्छेदकताकयोस्त्यज्यमानहविरुद्देश्यत्वरूपदेवतात्वयो भेदेन यागभेदोपपत्तेः; 'इन्द्रियकामो वीर्यकामस्स्यात्तमेतया सर्व. प्रष्ठया याजयेत्' इति विहितायों सर्वप्रष्ठायामिव ब्रह्मत्वस्य विशेष्य- स्यैक्येऽपि रथन्तरेष्वित्यादिविशेषणभेदमात्रेण यागभेददर्शनात् ॥ यत्तु-तपश्श्रद्धादिशब्दानां पुरुषधर्मपरत्वमेवोचितं, न तु भगव- लक्ष्म्यादिरूपधर्मिपरत्वं;अस्मिन्प्रकरणे तपश्श्रद्धासत्यमनश्चरणदेवता- केषु यागेषु कृतेषु-“अथ ते सत्यं तपो भविष्यति, श्रद्धा भविष्यति, अथ ते सत्यं सत्यं भविष्यति, अथ ते सत्यं मनो भविष्यति, अथ ते सत्यं चरणं भविष्यति"-इति वाक्यैः प्रजा- पतिसम्बन्धितपःप्रभृतीनां यथायोगं सत्यत्वादिरूपं फलं प्रतिपाद्यते; तत्तद्यागे कृते 'ततो वै तस्य सत्यं तपोऽभवत्' इत्यादिभिस्तस्य तपस्सत्यत्वादिरूपं फलं जातमिति परकृतिन्यायेनोक्त्वा प्ररोचनया तत्तद्यष्टुरपि तत्तत्फलसम्बन्धः 'सत्यं ह वाऽस्य तपो भवति, अनु स्वर्ग लोकं विन्दति, य एतेन हविषा यजते' इति प्रतिपाद्यते । तथा च-तपश्श्रद्धादिशब्दानां भगवदादिपरत्वे भगवत्प्रभृतीनां सत्यत्वादेः प्रजापतिसम्बन्धयष्टुसम्बन्धयोश्चासम्भवात्पुरुषधर्मपरत्व- मेव वक्तव्यम्-इति ॥ तन्न। पुरुषधर्मपरत्वे 'तं तपोऽब्रवीत् , तं श्रद्धा ऽब्रवीत्' इत्यादेरनुपपत्तेः । न च-सत्यत्वं फलजनकत्वमेव, अत एव 'अनु स्वर्ग लोकं वेत्स्यसि, अनु स्वर्ग लोकं विन्दति' इति सत्यत्वाविर्भावानन्तरं स्वर्गलोकप्राप्तिश्श्रूयते; षष्ठ्यर्थसम्बन्धश्च तपो- अथ ते सत्या 7 सुदर्शनसुरद्रुमः. ऽधिष्ठानदेवतारूपतपःपदार्थैकदेशतपआदावन्वेतीति नानुपपत्तिरिति- वाच्यं ; सिद्धान्तेऽपि षष्ठ्यर्थसम्बन्धस्य सत्यपदार्थघटकफल एवान्वयः; न तु व्यवहिततपश्शब्दादिप्रतिपन्नाथैरित्यङ्गीकारेशानुपपत्तिविरहात् ; उक्ताभिप्रायेणैव धानुष्कयज्वना त्रिवेदीभाष्यकारेण चरण- शब्दस्सुदर्शनाभिधायीति व्याख्यानात् ; भट्टभास्करेण च ज्ञानयज्ञे चरणशब्दो देवताविशेषपर इत्यभिधानाच्च । यदपि-चरगतिभक्षणयोरिति धातोः करणवाचिल्युडन्तश्चरण- शब्दस्सोमसूर्याग्नयादितेजसा 'देव सवितुः प्रसुव', 'यज्ञं प्रसुव यज्ञ- पति', 'अग्ने नय सुपथा राये अस्मान्', 'इमं नो देवसवितर्यज्ञं प्रसुव'-इत्यादिमन्त्रप्रतिपन्नसदाचारप्रवर्तकतया सुगतिसाधनतया वा तमसि सञ्चरतः स्खलनदर्शनादस्खलितसञ्चरणहेतुतया वा तेषामग्न्या- दीनामन्यतममाभिधत्ते ; पवित्रशब्दोऽपि परिशुद्धिकरत्वेन प्रवृत्तिानमि- तेन तेषामन्यतमपरामर्शकः-इति। तदपि न ; योगाद्र्ढेबलीयस्त्वस्य रथकाराधिकरणसिद्धतया योगेन चरणशब्दस्य सोमसूर्यादिपरत्वा- पेक्षया रूढ्या सुदर्शनपरत्वस्य युक्तत्वात् ॥ न च-सुदर्शनस्य रूड्य- र्थत्वेऽपि तस्य वाक्याथै समन्वयाभावात्तत्समन्वयनिर्वाहाय रूढ्यर्थ- प्रतिकृतिलोहमुद्रायां लक्षणा वक्तव्या, तथा च लक्ष्यार्थबोधाङ्गी- कारापेक्षया योगार्थस्य बोधोपगम एव युक्त इति-वाच्यम् ; भगवच्छास्त्रादौ सुदर्शनधारणप्रकरणे तदावाहनादिविधानेन स्वाश्रय- मुद्रासंयोगसम्बन्धेन धृतत्वस्य तत्र सम्भवे वाक्यार्थे समन्वयसम्भ- वेन लक्षणानावश्यकत्वात् , लक्षणायामपि योगार्थबोधाङ्गीकारापेक्षया लक्ष्यार्थबोधस्यैव युक्तत्वात् , योगाद्रूढिपूर्वकलक्षणाया बलीयस्त्वात्। अत एवोदाहरिष्यमाणप्रोगावधिकरणे तथा सिद्धान्तितम् ॥ यत्त-चरणपवित्रादिशब्दानां सुदर्शने क्वापि वैदिकप्रयोगस्य व्याकरणानुमतेर्वाऽनुपलम्भाढिन सिध्यति-इति । तन्न ; 'पवित्र- " सुदर्शनसुरद्रुमः. मित्यग्निः, प्र ते विष्णो अब्जचके पवित्रे' इत्यादिवैदिकप्रयोगस्य दर्शनात् ; पुवस्संज्ञायां कर्तरि चर्षिदेवतयोरिति व्याकरणेन देवतायां पवित्रशब्दव्युत्पादनेन देवताविशेषे सुदर्शने पवित्रशब्दशक्ते- व्याकरणानुमतत्वात् ; भूसत्तायां, वर्तमाने लट्-इत्यादिव्याकरणानां शक्तिग्राहकत्वदर्शनेन व्याकरणस्यापि तत्सम्भवात् ; "शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याब्यवहारतश्च । वावयस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतस्सिद्धपदस्य वृद्धाः॥" इतिप्राचीनकारिकायां व्याकरणस्यापि शक्तिग्राहकमध्ये परिगण- नात् ; 'चरणं प्राङ्गणे चक्रे' इतिकोशेन, 'पवित्रं चरणं चक्र' इति श्री- शास्त्रेण च चरणशब्दस्यापि सुदर्शने शक्तिसिद्धेः वैदिकप्रयोगाभावेऽपि शक्तिग्राहकप्रमाणबलाच्छक्तिसिद्धेरप्रत्यूहत्वाच्च । अन्यथा हर्यादि- नानार्थकशब्दानामपि वैदिकप्रयोगाविषयेष्वर्थेषु शक्तयपलापापत्तेः । किं च भगवच्छास्त्रे परमेश्वरसंहितायां- "दक्षिणे तु भुजे विप्र इति प्राक्संस्थितेन तु । निचिक्षेप सुषणमिति वह्निगतेन तु ॥ प्रते विष्णो अब्जचक्रे इति याम्यगतेन तु । एभिर्वयमुरुक्रमस्येति यातुधानीगतेन तु ॥ धृतोर्ध्वपुण्ड्र:कृतचक्रेति पश्चिमगतेन पवित्रमित्यग्निरिति ततो वायुगतेन तु ॥ चरणं पवित्रं विततमिति सोमगतेन तु । लोकस्य द्वारमचिमत्पवित्रमिति रुद्गतेन तु ॥ एतैर्मन्त्रैस्तु चाष्टाभिरन्यैस्सौदर्शनैस्तथा । संस्नाप्य मन्त्रकुम्भेन शुद्धोदैरभिषिच्य च ॥" इत्यमीषां मन्त्राणां सौदर्शनत्वाभिधानेन चरणश्रुतेरपि सौदर्शन- त्वावगमात्, तु सुदर्शनसुरद्रुमः. "चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम् । तेन चक्रेण सन्तप्तास्तरेयुः पातकाम्बुधिम् ॥" इति पाद्मोपबृंहणवलाच चरणश्रुतेस्सौदर्शनत्वसिद्धिः ॥ एतेन-उक्तश्रुतौ येन पूत इत्यत्र येनस्मृतेनार्चितेनेत्यादिबह्वर्थ- सम्भवान्नियमतो धृतपदाध्याहारे प्रमाणामावान्न चरणश्रुतेस्सुदर्शन- धारणपरत्वसिद्धिः-इति निरस्तम् । चरणश्रुतिसमानार्थके 'देवासः पितरो येन विधृतेन बाहुना सुदर्शनेन प्रयतास्स्वर्ग लोकमायन्' इति शतपथवाक्ये पूतार्थकप्रयतपदयुक्ते यच्छब्द- युक्ते विधृतपदस्य श्रवणात्तदनुरोधेन धृतेनेत्यध्याहारस्यैव युक्त- त्वात् ; प्रयतौ पूतसंस्कृताविति वैजयन्त्युक्तया प्रयतशब्दस्य पूतार्थकत्वसिद्धेः उदाहृतपाद्मवचनबलेन तच्छ्रुतेस्सुदर्शनधारण- परत्वावगमाच्च । न च एतादृशोपबृंहणानां लिङ्गाभासमूलतया- ऽनाश्वसनीयत्वात्तद्धारणपरत्वं चरणश्रुतेरनुपपन्नं, पुराणादिषु पर- प्रलोभनार्थानां शब्दसाम्यमात्रोपजीवनेन प्रवृत्तानामुपबृंहणानां बहूनां दर्शनादिति-वाच्यम् ; कस्य चिदुपबृंहणस्याप्रामाणिकत्वमात्रेण सर्वेषामुपबृंहणानां तथात्वे ‘स प्रजापतिरात्मनो वपामुदाक्खिदत्' इत्याद्यर्थवादानां स्वार्थेऽप्रामाण्यदर्शनादर्थवादसामान्यस्य तथात्वापत्तेः; एवं 'औदुम्बरी सर्वा वेष्टयितव्या' इति स्मृतेरप्रामाण्यदर्शनात्स्मृति- मात्रस्याप्रामाण्यापत्तेः शुक्ताविदं रजतमिति प्रत्यक्षस्य ह्रदो वह्निमा- नित्यनुमितेश्चाप्रामाण्यदर्शनात्प्रत्यक्षानुमित्योरप्यप्रामाण्यापत्तेः।नच- प्रमाणान्तरबाधितविषयकाणां प्रत्यक्षादीनामप्रामाण्येऽप्यबाधितविष- याणां प्रामाण्यापलापो न युक्त इति-वाच्यम् ; एवं सत्युपबृंहणानामपि प्रमाणान्तर्राविरुद्धार्थकानामप्रामाण्यायोगादुक्तोपबृंहणवलेन चरणश्रुते- स्सुदर्शनधारणपरत्वसिद्धेरप्रत्यूहत्वात् ॥
५३ . सर्वेषां स्वस्वानुरूप- सुदर्शनसुरद्रुमः. यदपि-न ह्यनेन प्रकारेणायं मन्त्रो योजनीय इति काचन श्रुति- रस्ति, येनास्योपबृंहणस्य श्रुतिमूलत्वं कल्प्येत, तथा चेतादृशपुराण- वचनानां मन्त्रलिङ्गमूलतया स्वातन्त्र्यायोगादप्रयोजकत्वे स्थिते चरणमन्त्रस्य मन्त्रलिङ्गवलेन तप्तलिङ्गमुद्राधारणपरत्वमव्याहतप्रसरम् । तथा हि-चरत्यनेनेति चरणं, करणे ल्युट् , चरणसाधनमित्यर्थः, पवित्रं लिङ्ग-इत्यादि ॥ तदपि न : तादृश- प्रत्यक्षश्रुत्यभावेऽप्यनुमितश्रुतिमूलत्वसम्भवात् , पुराणकर्नृणां स्व- योगमहिमसाक्षात्कृतवेदार्थतया तन्मूलत्वप्तम्भवात्, मन्त्रलिङ्गमूलत्वेऽपि तदुन्नीतसाधकबाधकामावयोरस्माभिरल्पज्ञैरवगन्तुमशक्यतया तदु- नीतार्थत्यागायोगाच्चरणपवित्रशब्दयोलिङ्गे रूढ्यभावेन तळूतेलिङ्ग- मुद्राधारणपरत्वाभावाच्च ॥ न च-'ब्रह्मेति लिङ्गमाख्यातं ब्रह्मणस्पतिरी- श्वरः, पवित्रं तद्धि विख्यातं' इतिशैवपुराणवचनात्पवित्रशब्दस्य लिङ्गे रूढिरस्तीति-वाच्यम् ; शैवपुराणस्य तामसतया तदुक्ता- र्थस्याग्राह्यत्वात् ॥ यदाह व्यासः "सात्त्विकानि पुराणानि ग्राह्याणि द्विजसत्तमैः । तेषूक्तानाचरेद्धर्मान् श्रुतिमूलानि तानि वै ॥ राजसानि पुराणानि तामसानि तथैव च । न ग्राह्याणि द्विजश्रेष्ठैरत्र मे नास्ति संशयः ॥" -इति ॥ पाझे पुराणविभागप्रकरणे- "सात्त्विका मोक्षदाः प्रोक्ता राजसास्स्वर्गदाश्शुभाः । तथैव तामसा देवि निरयप्राप्तिहेतवः ॥ सात्त्विकानेव गृह्णीयान्मोक्षार्थी नैव राजसान् । स्वर्गदास्तामसान् देवि तथैव निरयप्रदान् ॥" तस्माचरणश्रुतेस्सुदर्शनधारणपरत्वमव्याहतमिति दिक् ॥ इति चरणश्रुतिविचारः॥ -इति ॥
सुदर्शनसुरद्रुमः. अथ चमूषच्छुतिविचारः॥ ऋचि सम्नि च श्रूयते-“चमूषच्छयेनश्शकुनो भिभृत्वा गोवि- न्दुर्द्रप्स आयुधानि बिभ्रत् , अपामूमि सचमानस्समुद्रं तुरीयं धाम महिषो विवक्ति"-इति ॥ अयमर्थः । अपा मूर्मि-भूतानां विकारभूतं, अप्छब्दस्य भूत- त्वावच्छिन्ने लाक्षणिकत्वात् । तद्विकारत्वं च तदभिन्नत्वे सति तत्कार्यत्वं, शरीरत्वावस्थाविशिष्टस्य भूताभिन्नत्वे सति भूतकार्य- त्वात् । समुद्र--संसारसागरं, शरीरमिति यावत् । सचमानः- अपृथक्सियात्मकसंयोगानुकूलव्यापाराश्रयः । 'ष च समवाये' इति धातुपाठेन तद्धातोरुक्तार्थकत्वावसायात् , द्रप्सः-ईश्वरांशभूतो जीवः; जीवस्य तदंशत्वं चापृथक्सिद्धिसम्बन्धेनेश्वरविशेषणत्वं, विशिष्टवस्तुनि विशेषणांशोऽयं विशेष्यांशोऽयमिति विशेषणस्यांशत्वव्यवहारात् । गाः विन्दतीति गोविन्दः, तृज्वद्भावश्छान्दसः, गोविन्दुरिति षष्ठी। एतेन-गोविन्दस्य तृवद्भावाश्रयणे तृजन्तस्य विदेर्यद्रूपं तद्रूप- स्यैव प्राप्त!वेदितुरिति रूपं प्राप्नोतीति-निरस्तं; छान्दसत्वेन सर्वदोषपरिहारात् । न च-स्वेच्छया छान्दसत्वाश्रयणमयुक्तमिति- वाच्यम् । "गोविन्दस्यायुधान्यङ्गे बिभ्रत् सुश्रोणि वै द्विजः । तुरीयं धाम तद्विष्णोर्महिष्ठःप्राप्नुयादिति ॥ चमूषच्छयेनश्शकुनो बिभृत्वेति ऋगब्रवीत् ॥" इति स्कान्दवचनेनास्याः श्रुतेस्सुदर्शनपरताया गोविन्दुरित्यस्य षष्ठयन्ततायाश्च प्रतीतेः । गोविन्दस्येति षष्ठयों न स्वत्वं, पदार्थसामान्यस्य भगवत्स्वामिकत्वेन भगवन्निरूपितस्वत्वाश्रयत्वस्य सुदर्शनसुरद्रुमः. शिवाद्यायुधसाधारण्येनाव्यावर्तकत्वापत्तेः ; किं तु नित्यसङ्कल्पाधी- ननित्यविग्रहवत्त्वं, तस्य च शूलाद्यायुधसाधारण्यविरहात् । आयुधानि. चक्रशङ्खगदाखगशार्ङ्गरूपाणि पञ्चायुधानि । न च-शत्रुहिंसानु- कूलव्यापाराश्रयस्यैवायुधत्वाच्छङ्खस्य तत्त्वमसम्भवीति-वाच्यम् , शत्रुनाशानुकूलशब्दाश्रयत्वेन तस्याप्यायुधत्वात्। बिभ्रत्--सम्बन्ध- प्रयोजकव्यापाराश्रयः, स च सम्बन्धः स्वसंयुक्तभुजादिघटितदेहवत्त्व- मेव । चमूषदित्यादिना फलनिर्देशः । न च-चक्रधारणस्याङ्गत्वेन फल- वत्त्वं न सम्भवति, फलवत्सन्निधावफलं तदङ्गमिति न्यायादिति - वाच्यम् ; अङ्गिभूतोपासनद्वारा तस्यापि फलवत्त्वसम्भवात् । अत्र चमूशब्देन नित्यसूरिपरिषद्विवक्षिता, तस्यां सीदतीति चमूषत् , नित्यसू- रिभिरनुगम्यमान इति यावत् । श्येनः-प्रशस्ततमभगवत्समीपदेशसं- योगानुकूलव्यापाराश्रयः, शंसनीयं गच्छतीति श्येन इति निरुक्तात्। शकुनः-आत्मानं संसारादुद्धर्तुं शक्त इत्यर्थः, शक्नोत्यात्मानमुन्नेतु- मिति निरुक्तात् ; भक्तिप्रपत्त्यन्यतरजन्यसंसारनिवृत्त्युपधायकभगवत्प्र- सादविषय इति फलितार्थः; शक्तेः प्रकृते भगवत्प्रसादरूपत्वात् । बिभृत्वा--भरणसमर्थः, स्वसम्बन्धिनामपि भरणसमर्थ इति यावत् । तादृशसामर्थ्य च-मुक्त्युपधायकस्वसमाश्रयणको भूयादित्याकारक- प्रसादविशेषविषयत्वम् । एवंविधस्सन् , तुरीयं-श्रेष्ठं, धाम -स्थानं, परमपदमिति यावत् । महिषः-महनीयस्सन् , विवक्ति-प्राप्नोति ॥ -इत्यर्थः ॥ -गोविन्दुरायुधानि बिभ्रत् शकुनो बिभृत्वा चमूषच्छयेनो महि- षस्तुरीयं धाम विवक्तीति योजनाङ्गीकारात् धनवान् सुखीत्यादि- वदुद्देश्यतावच्छेदकस्य विधेये प्रयोज्यतासम्बन्धेन भानाद्भगवदायुध- धारणस्य शकुनपदार्थ प्रति, तस्य च बिभ्रत्पदार्थ प्रति, तदुभयस्य च चमूषत्त्वविशिष्टश्येनत्वं प्रति, तस्य च महिषत्वविशिष्टतुरीय- . अत्र- १६ सुदर्शनसुरद्रुमः. धामप्राप्ति प्रति, प्रयोजकत्वं लभ्यते । तथा च चक्रधारणस्य स्वन- न्यप्रसादद्वारा मोक्षोपधायकभक्तिप्रपत्त्यन्यतरजन्यप्रसादे, ताशप्रसा- दस्य च सम्बन्धिमोक्षप्रयोजकप्रसादान्तरे, तादृशप्रसादद्वयस्य च नित्यसरिपरिषदनुगम्यमानत्वविशिष्टाचिरादिगमनरूपे चमूषच्छयेन इत्यस्यार्थे, तादृशगमनस्य च तं ब्रह्मालङ्कारेणालङ्कुर्वन्ति' इति श्रुति- सिद्धब्रह्मालङ्कारविशिष्ट भगवत्समीपगमनरूपे 'महिषस्तुरीयं धाम प्राप्नोति' इत्यस्यार्थे प्रयोजकत्वलाभादलौकिकश्रेयस्साधनत्वरूपं धर्मत्वं चक्रधारणस्योक्तश्रुत्या सिद्ध्यति ।। अत्र भास्कर:- चमूषन्मन्त्रस्यापि न चक्रधारणपरत्वं, तस्य सोमप्रशंसापरत्वात् ; तथा चानुक्रम्यते-'प्रसेनानीश्चतुर्विशतिर्दैवोदासिः प्रतर्दनः' इति । तस्यायमर्थः-प्रसेनानीरिति चतुर्विशऋचं सूक्तं दिवोदास त्रस्य प्रत- र्दनस्य राजरिदं त्रेषुभं पवमानसोमदेवताकमिति । तथा चायमर्थः- चमूषत्-चमन्ति भक्षयन्त्यनेति चम्वः चमसाः, तेषु सीदन् ; श्येनः- शंसनीयः, शकुनः शक्तः, बिभृत्वा-पात्रेषु विमरणशीलः, गोविन्दुः- गवां लम्भकः, विन्दुरिच्छुरित्युप्रत्ययान्तो निपातितः; द्रप्सः-द्रवण- शीलः, आयुधानि-स्फ्यकपालादीनि, “स्फ्यश्च कपालानि चाग्नि- होत्रहवणी च शूर्प च कृष्णाजिनं च शम्या चोलूखलं च दृषच्चो- पला चैतानि वै दश यज्ञायधानि" इति श्रुतौ स्फ्यादीनामायुधः शब्देनोपादानात् ; विभ्रत्-धारयत्, अपामुदकानां, ऊर्मि प्रेरकं समु- द्रमिति यावत्, अन्तरिक्षलोकं वा । सचमानः, महिषो महान् । एवंविधस्सोमः, तुरीयं धाम-पृथिव्यन्तरिक्षधुलोकापेक्षया तुरीयं चान्द्रमसस्थानं, चान्द्रमसलोकस्य तुरीयत्वं च-'यमः पृथिव्या वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणाम्' इत्यादिभिर्मन्त्रैरव- गम्यते । एतादृशस्थानं विवक्ति-सेवते ॥ -इति ॥
द सुदर्शनसुरद्रुमः. तदेसत् । यस्य मन्त्रस्य यद्देवताकत्वेनाभिधीयमानत्वं, तस्य तत्परत्वमिति न व्याप्तिः ! इन्द्रदेवताकत्वेनाभिधीयमाने 'निवेशन- स्संगमनो वसूनाम्' इतिमन्ने गार्हपत्यपरे इन्द्रपरत्वाभावेन व्यभि- चारात् , ऐन्द्रया मार्हपत्यमिति विनियोगेन तस्य मन्त्रम्य बाई- पत्यपरत्वस्य तार्तीयोकाधिकरणसिद्धत्वात् ; किं तु यस्य मन्त्रस्य यद्दे- वताकत्वेनाभिधीयमानत्वे सति यदुद्देश्यककर्मकरणलया विनियु- क्तत्वं, तस्य मन्त्रस्य तत्परत्वमित्येव व्याप्तिः, “पाठयेद्बह्वचान्पश्चा- च्छाकुनं सूक्तमेव च” इति पारमेश्वरसंहितायां चक्रप्रतिष्ठायां विनि- युक्तस्य शाकुनसूक्तस्य सुदर्शनपरत्वाभावेम व्यभिचारवारणाय सत्यन्तम् , तथा चमूषन्मन्त्रस्य सोमदेवताकत्वेऽपि तदुद्देश्यककर्मविनि- युक्तत्वाभावान्न सोमपरत्वसम्भवः । न च-सोमदेवताकत्वाभिधानं तत्कर्मणि विनियोगार्थमेवेति तद्देवताकत्वे सति तत्कर्मविनियुक्तत्व- सत्त्वात्सोमपरत्वं दुर्वारमिति-वाच्यम् ; तथासत्युक्तव्याप्तिबलात्सोम- 'परत्ववत्सुदर्शनपरत्वस्यापि दुर्वारत्वात् ; तथा हि-भगवच्छास्त्रे पारमेश्वरसंहितायां चक्रप्रतिष्ठां प्रस्तुत्योक्तम्-- "तत्तत्स्थापनकाले तु तत्तत्संज्ञान् मर्नून् जपेत् । विद्यां गदामित्याचं यत्पाठयेत्तद्विदो जनान् ।। चमूषच्छ्येन इति च प्र ते विष्णो इति त्वृचौ । पाठयेद्बह्ववान्पश्चाच्छाकुन सूक्तमेव च ॥ धृतोर्ध्वपुण्ड्रः कृतचक्रेति मन्त्र कठान् परम् । पवित्रं ते विततमित्येतन्मन्त्रं यजुर्मयान् ॥ क्षुरो हरेति सामज्ञान् पवित्रमित्यग्निरित्यपि । एभिर्वयमुरुक्रमस्येत्याथर्वणविदो जनान् ॥ एवं संस्थाप्य विधिवन्नवभिः कलशैस्तत्तः । स्नापयेब्रह्मसूक्तस्र्थमन्त्रैरष्टाभिरेव च ॥" --- इति ॥
सुदर्शनसुरद्रुमः. अत्र-तत्तत्स्थापनकाले तु तत्तत्संज्ञान मनून् जपेत्' इत्यत मनूनित्यस्य मनुपदप्रतिपाद्यानित्यर्थः ; तत्तत्संज्ञानित्यस्य तत्तत्संज्ञाव्यवहितोत्तर- वृत्तीनित्यर्थः । तेषां संज्ञा येषां त इत्यनेनाव्यवहितोत्तरत्वसम्बन्धेन सुदर्शनादिसंज्ञाविशिष्टस्य लामात् ; तस्य च मनुपदार्थैकदेशे मनुपदे- ऽन्वयः, 'हिरण्यपूर्व कशिपुं प्रचक्षते' इत्यादिवत् । न च-केवलमनु- पदप्रतिपाद्यत्वस्य तादृशमनुपदे सुदर्शनसंज्ञाव्यवहितोत्तरत्वस्य लाभे- ऽपि सुदर्शनपदोत्तरत्वविशिष्टं यन्मनुपदं सुदर्शनमनुरिति समुदायरूपं तत्प्रतिपाद्यत्वस्यालाभादिति-वाच्यम् ; मनूनित्यस्य मनुपदे प्रति- पाद्यत्वे च खण्डशो लक्षणायास्स्वीकारात् ; सुदर्शनपदोत्तरत्वस्य प्रथमतो मनुपदेऽन्वयं स्वीकृत्य तादृशमनुपदस्य प्रतिपाद्यत्वरूपा- परपदार्थेऽन्वयाङ्गीकारेण समुदायप्रतिपाद्यत्वस्य लाभात् । ततश्च सुदर्शनदेवताकत्वेनाभिधीयमानत्वे सति तदुद्देश्यककर्मणि विनि- युक्तत्वाच्च चमूषन्मन्त्रस्य तद्धारणपरत्वसिद्धिः ; सुदर्शनधारण- विषयकमन्त्रान्तरविनियोगावसरे विनियुज्यमानत्वेन प्रायदर्शनस्यापि सत्त्वाच्च । न च-अस्य मन्त्रस्य सुदर्शनधारणपरत्वे गोविन्दुरित्यत्र छान्दसत्वकल्पनं दोष इति-वाच्यम् ; भगवच्छास्त्रस्कान्दपुराणाद्यनु- रोधेन छान्दसत्वकल्पनेन तस्य दोषताविरहात् ; अन्यथा अदितिः पाशानित्यत्र बहुवचनस्य छान्दसताया नवमाधिकरणसिद्धाया अपि दोषताप्रसङ्गात् । एवं प्रशसाऽस्यभिधानमित्यधिकरणे-'प्रशसा बाहू कृणुतात्' इति श्रुतौ प्रशसेति तृतीयान्तमसिवाचकं, असिना बाहूच्छेत्त- व्यावित्यर्थः--इति पूर्वपक्षं प्रापय्य ; प्रशसेति द्वितीयाद्विवचनस्या- कारादेशे छान्दसे तकारलोपे च कृते प्रशंसावचनोऽयमिति प्रशस्तौ बाहू कृणुतादविकलावित्यर्थ इति सिद्धान्तस्याप्यसङ्गतिप्रसङ्गः भवन्मते सोमपरत्वेऽपि सोमपदाध्याहारस्य दोषत्वापत्तिश्च ॥ ..
५९ सुदर्शनसुरद्रुमः यत्तु—'चमूषच्छयेन इति प्र ते विष्णो इति त्वृचौ', 'पाठये- त्तद्विदो जनान्'-इति चक्रप्रतिष्ठापकाचार्यादन्येषामेव तत्तन्मन्त्र- विदां केवलमुच्चारणमात्रविधानात् करणमन्त्रत्वाभावात् ; 'तत्तत्संज्ञा- न्मनून् जपेत्' इति जपशब्दसमभिव्याहारेण जपमन्त्रतासिद्धेश्चमूष- च्छयेन इत्यादीनामदृष्टार्थतया समवेतार्थाभिधायित्वाभावान्न चक्र- धारणपरत्वं कल्पनीयम् ; जपमन्त्राणामदृष्टार्थतायाः पूर्वतन्त्रसिद्धत्वात्; अन्यथाऽवैव जपार्थतया विनियुक्तस्य शाकुनसूक्तस्यापि सुदर्शन- इति ॥ तन्न-तदुद्देश्यककर्मणि जपार्थतया यद्विनियक्तत्वं, यच्च करण- तया विनियुक्तत्वं, तदुभयसाधारणस्य तदुद्देश्यककर्मणि विनियुक्त- त्वस्य तद्देवताकत्वविशिष्टस्य तत्परत्वव्याप्यत्वाङ्गीकारेणास्य मन्त्रस्य तत्परत्वावश्यम्भावात् । व्याप्यकोटौ तदेवताकत्ववैशिष्टयनिवेशाच्च शाकुनसूक्ते न व्यभिचारः ; पूर्वतन्त्रेऽपि जपार्थतया विनियुक्तानामपि मन्त्राणां दृष्टार्थत्वासम्भव एवादृष्टार्थत्वस्याङ्गीकारात्, चमूषन्मन्ते तत्परत्वरूपदृष्टार्थत्वस्य सम्भवेन तत्परित्यागायोगात् , 'गोविन्दस्या- युधान्यङ्गे' इति स्कान्दोपबृंहणबलेन सुदर्शनधारणपरत्वस्यावर्जनी- - परत्वप्रसङ्ग:- यत्वाच्च ॥ यदपि-चमूषच्छयेन इत्यस्यार्जवेनैव चक्रप्रतिष्ठाविनियोगानु- सारिसुदर्शनपरत्वसम्भवे किमिति सुदर्शनधारणपरत्वमाश्रियते? तथा हि-चमू: असुरचमूः, सीदतीति चमूषत् , हिनस्तीति यावत् ; श्येनः-शंसनीयः, यतोऽयं शकुनः शक्तः; अत एव लोककण्टको- द्धरणेन ; भिभृत्वा-जगद्भरणशीलः, जगद्रक्षक इति यावत् ; क्वनिबन्तो भृञ्धातुनिष्पन्नोऽयं शब्दः । गोविन्दुः-गोविन्दस्य ;द्रप्सः-अंशभूतः, सुदर्शनस्य विष्ण्वंशत्वं च पुराणादिसिद्धम् । एवम्भूतसुदर्शनदेवः आयुधानि-स्वानि षोडशायुधानि, बिभ्रत् ; अपामूर्मि-रसभूतं, आम-
No text on this page.