Svi-ksri-chennai
Kokasandesha
Front matter
No text on this page.
Visnutrata FARCH INSTITUT
TRIVANDRUM SANSKRIT SERIES.
No. CXXV.
Śri Citrodayamanjari.
No. XIV.
513
THE
KOKASANDESA
OF
CHE KUMPUSWAN SA
WHORAS.
EDITED BY
K. SĀMBASI VA SĀSTRĪ
Curator of the Department for the Publication
of Oriental Manuscripts, Trivandrum.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJA OF TRAVANCORE.
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1937.
(All Rights Reserved.)
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्क: १२५.
श्रीचित्रोदयमञ्जरी।
5113
ग्रन्थाङ्कः १४.
कोकसन्देशः
विष्णुत्रातविरचितः
पौरस्त्यग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधितः ।
अनन्तशयने
महोन्नतमहामहिमश्रीचित्रावतारमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितः।
कोलम्बाब्दाः ११. कैस्ताब्दाः १९३७.
No text on this page.
॥श्रीः॥
श्रीमूलावनिपालमौलिमणिना सङ्कल्पितश्रीरिव
श्रीमूलात्मजनिस्तथा सहजया लक्ष्म्या च सम्भावितः ।
स्वातिज्योतिरिवादितः समुदितश्चित्रावतारः स्वयं
मार्ताण्डाग्रसरो विराजति महाराजः स रामाभिधः ॥
भास्ववर्णमणिः प्रवालमृदुला श्रुत्याधलङ्कारिणी
श्रीमद्वञ्चिवसुन्धरानवयशोराशिप्रकाशात्मिका ।
उत्फुल्लत्सुकृतिप्रसाधनधृतामोदोन्नदड्डिण्डिमा
श्रीचित्रोदयमञ्जरी सुमनसां सर्वस्वमुज्जृम्भताम् ॥
के. साम्बशिवशास्त्री.
उ
No text on this page.
PREFACE, This work namely "Kokasandesa' was composed by one Vişnutrāta, a poet who lived at Väzhappa!ļi (in Malabar) and who was a friend of one Brahmin named Brahmadatta. Its theme is the message sent to his beloved, residing in the village of Kāmārām:1, through a Koka (cuckoo), by the prince of Srivihārapura, who was carried away to a distaut place by the power of some magical talisman. Having procured a context of separation, the imaginative clique of the magical powers utilised in opening the message is a great deviation from all the other reputed Sandesas. Herein are fully des - cribed the various paths leading to the Pūrņānanda temple of Bhutanatha, starting from Vāraṇa and it is singularly magnificent in its delineations of the different places and the presiding deities of the temples there with particular reference to comtemporary importance, चापल्योक्तिर्मम गुणवति स्वय्युपेताभिनन्या सर्वेषां स्यात् खगवर ! जगत्यत्र नूनं नराणाम् । सनिद्वारीकृतमपि सदैवाविलं दोषबुद्ध्या गङ्गासङ्गात् कृतकसरितां वारि पुण्यं न किं स्यात् ॥ (पृ. ५. श्लो. १४.) This Sandeśa abounds in such exquisitely beautiful verses of moral precepts, but this verse ---- तदम्याराविविविविविविक्षुः सरः सुन्दराख्यं मोदं पापं ददददददः सव्यतो याहि तस्मात् । कान्तारूढो रुरुरुरुरुरुवाति यत्तीरमास्ते के गङ्गावानिनिनिनिनिनिन्दाङ्ग यो हि भानाम् ॥ (पृ. ९. श्लो. ४) is but one among the many rough verses that seem to frigh. ten the heroine under the pangs of separation as well as the reader who is held aback by their harsh and unpleasant sounds. भासीद् विप्रो हरिनतिरतः कोऽपि रम्भाविहारे विष्णुनातो द्विजपरिवृढब्रह्मदत्तैकमित्रः । तेनैतस्मिन् सपदि रचिते कोकसन्देशकान्ये पूर्णस्तावत् समजनि रसैश्चाप्यसौ पूर्वभाग: ॥ (प. ११. ओ. ११७.)
2 The author l'ięņutrà ta who-is thus eulogised in such stanzas is claimed to be a close friend of Brahmadattadvija. This Brahmadatta is well known as a contemporary of Sri Narāyaṇa Dhattapada and so the date of this poet also should be somewhere about the 16th century of the Christian Era. The following are the places to be visited by the Koka: 1. The place Váraņa page 1. Verse 33) 2. The lake Sundar: (p. 9. V. 46). 3. The capital Sacandra (p. 12. V. 60) 4. The Santākāra (p. 12. V. 65) 5. The river Ramya (p. 14. V. 72) 6. Lokabhadra the temple of Siva (p. 16. V. 85) 7. Ayodhya (p. 20. V. 104) 8. Parnananda the temple of Bhutanatha. (p. 21. V. 110) The important manuscript of this Sandeśakāvya belongs to Brahmaari Brahmadattan Nambūrippād of Kädallar Mana, and was handed over to be printed by the owner out of his great magnanimity. Expressing our deep gratitude to the owner of the manuscript, we place the Sandeśa before the enlightened public. Trivandrum 10-8-1112. K, SÂMBASIVA SASTRI.
॥ औः॥ निवेदना। कोकसन्देशोऽयं रम्भाविहार (2139, 21) निवासिना केनापि विष्णुवातनाम्ना ब्रह्मदत्ताद्वेजसखेन कविना विरचितः । कस्यापि मान्त्रिकस्य यन्त्रमहिम्ना झटिति दूरदूरं देशान्तरं प्रापिरोन श्रीविहा पुरीयेण राजकुमारेण कामारामनामधेयं पुरं प्रति स्वबस्ने काम सुखन नीयमानः सन्देशोऽस्य प्रमेयः । कथञ्चिदपि विरहिता सम्पाय सन्देश द्वार समुद्घाटयितुं कस्पि- तोऽयं मान्त्रिकयन्त्रप्रयोगोऽत्र सन्देशान्तरच्छायातः सुदूरं व्यत्यस्तः प्रति- भाति । वारणाभिधानायाः स्थल्या पूर्णानदास्यभूतनाथक्षेत्रं यावदनेके पन्थानः सम्यगिह विवृताः, पारशस्त पात्विकपाधा-यपरिचिन्तनया तत्तरक्षेत्र- देवतावर्णनादिना विशिष्यन्ते । चापल्योतिर्मम गुणवति त्वय्युपेताभिनन्या सर्वेषां स्यात् खगवर! जगमन नूनं नराणाम् । सद्भिरीकृतमपि सदैवाविलं दोपबुद्ध्या गङ्गासनात् कृतकसरितां वारि पुष्यं न कि स्यात् ।। (पृ० ५. श्लो० २१.) इत्यादिभिः सदुपदेशपर्यवसायिभिः सरससरसैः पद्यैरनुगुम्फितमपीदं सन्देश काव्य तद्रम्यारविविविविविविक्षुः सरः सुन्दराज्य मोदं पापं ददददददः सव्यतो याहि तस्मात् । कान्तारूढो रुरुरुरुरुरुवाति यत्तीरमास्ते के गङ्गावानिनिनिनिनिनिन्दाङ्ग यो हि भानाम् ॥ (पृ० ९. लो०४६.) इत्याचैरनेकैः शर्करिलैः कर्कशैः पद्येविरहिणी मिव नायिकां भीषयाणं पद. विन्यासाय न सम्मन्यते ।
आसीद विप्रो हरिनतिरतः कोऽपि रम्भाविहारे
विष्णुत्रातो द्विजपरिपृढब्रह्मदत्तैकमित्रः ।
तेनैतस्मिन् सपदि रचिते कोकसन्देशकाव्ये
पूर्णस्तावत् समजनि रसैश्चाप्यसौ पूर्वभागः ॥
(पृ० २२. श्लो० १२०.)
इति दिशा प्रस्तूयमानोऽस्य कर्ता विष्णुवातो ब्रह्मदत्तद्विजवरमित्र इति तत्रै-
वोद्घोषणात श्रीनारायणभट्टपादसमसमयजीवितया ब्रह्मदत्तस्य सुप्रसिद्धेश्च
स्यादस्यापि कवेः क्रिस्स्वब्दीयषोडशशतकं जीवितसमय. । इह च काव्ये
कोकगमनाय निर्दिष्टाः स्थलविशेषा अधस्ताद् दर्शिताः ।
१. वारणाख्यस्थली (पृ० ७ श्लो० ३३)
२. सुन्दराख्यं सरः (पृ० ९. लो०४६)
३. सचन्द्राभिधा राजधानी (पृ० १२. छो० ६०)
४. शान्ताकाराभिषानं पुरम् (पृ० १२. श्लो० ६५)
५. रम्याख्या सरित् (पृ० १४. श्लो० ७२)
६. लोकभवशिवक्षेत्रम् (पृ० १६. श्लो० ८५)
७. अयोध्या (पृ० २०, श्लो० १०४)
८. पूर्णानन्दाख्यभूतनाथक्षेत्रम् (पृ० २१. लो० ११०).
अस्य सन्देशकाव्यस्य प्रसाधनोपयोगिनी मातृका
कूटल्लूर ब्रह्मश्री ब्रह्मदत्तन्नम्पूरिप्पाटुस्वामिका तत्स्वामिना प्रसिद्धी.
करण साहायकदाने महत्या श्रद्धया समर्पिता । तदधुना तेषु ग्रन्थस्वामिषु
कृतज्ञता प्रकाशयन्निमं सन्देश महाजनसमक्षमवतारयामि ।
भनन्तशयनम् ,
के. साम्बशिवशास्त्री.
१०.८-११२.
॥ श्रीः॥
विष्णुत्रातविरचितः
कोकसन्देश
पूर्वभागः
श्रीमान कोऽपि क्षितिपतिसुतो यौवराज्याभिषिन्तः
शश्वद् रम्ये निजपुरवरे सर्वसम्पत्समृद्धे ।
सौधोत्सङ्गे प्रणयविवशस्वान्तया कान्तयामा
रेमे स्वैरं स्मरपरवशोऽक्षीणलावण्यवेण्या ।। १ ।।
काले तस्मिन् निजकुशलता सर्वतो दर्शयिष्णु-
दूरेत्योऽस्मै समुपहृतवान् मान्त्रिकः कोऽपि यन्त्रम
यस्मिन् भक्त्या शिरसि निहिते स्वादधिष्ठीयमानाद्
देशाद् दूरे वयमिति नृणां चित्तदेशेऽवभाति ।। २ ।।
आदायैतत करतलयुगेनाथ सोऽयं कदाचि-
लोलापाझ्या सह दयितया द्रष्टुकामोऽनुभाव
भक्त्या युक्तः शिरसि निधे ताबदारमान स्मिात
सौधोद्देशात् सततसुखदाद् दूरदूरे ददर्श ।। ।।
हा हा कष्टं तदनु स विधेर्वेपरीत्यात् तदानी-
मेताहक्त्वं किमपि न विदन्नेव यन्त्रस्य तस्य ।
खेदान्धोऽभूत् प्रियसहचरीविप्रयोगेन कामी
को वा लोके निजमतिबला भावि देवं श्णा ।।४।।
1. P. T. 10. :)) 16. JE
२ कोकसन्देशे मन्दीभृतैर्झटिति करणैः स्पन्दितुं चाप्यशक्तः सोऽयं तत्र क्षणमिव वसन् कृत्यमूढान्तरात्मा । सीताजानिः स्वयमिव हनूमन्तमत्यन्तमाप्त कोकं दृष्ट्वा कमपि ललितं सन्दिदेशैनमेवम् ।। ५ ॥ कारुण्याब्धे ! कुशलमयि! ते किं सकान्तस्य ताव- चारुण्यस्मिन् कुटचविटपे विश्रमायास्स्व किश्चित् । निर्वर्ण्य सामधिकमुदित लोचने सामकीने हरण्याभ दिनकरमिव प्रातरङ्ग ! त्वदीये(?)॥ ६ ॥ श्रीमन् ! कोक ! हिजवर ! सुपर्वागतो वागतोऽसि त्यक्त्या देवान् बिलसदमराक्रीडतः क्रीडतस्त्वम् । स्वास्त्रीस्नानप्रभवदभिरामोदकामोदकान्तात तोयकीडासरससुमनोमानसान्मानसान्नु ॥ ७ ॥ मित्रालोको विनुदति यथा खेदमन्यत तथा नो नणां सम्पद्यपि विपदि वा वस्तु किं वेसि नैतत् । वाच्यो हेतुर्न खलु गुरुता नास्य वीक्ष्यानुभूतिः प्राप्ता यैस्तैर्विदितमिदमत्रापरैः किं विमूढैः ॥ ८ ॥ विश्वासो मे भवति भवति प्राप्तिमात्रेण तस्माद् वक्ष्ये नुन्नो विवर ! विवरप्रेप्सुनालं स्मरण । मत्प्रेयस्या हृदयहृदयन्नाशु पार्श्व सखे ! स्या नूनं चित्तं सरति सरति प्रेष्ठदूतेऽङ्गनानाम् ॥ ९ ॥ रात्रौ रात्रौ ननु विरहजं प्राप्यते दुःखसेवं शश्चत कान्ताप्रसित ! भवता यत्तदस्मिन् ब्रुवे त्वाम् ।
पूर्वभागः। येन ज्ञातं यदिह तदिदं शक्यते तं हि वक्तु प्राप्तं दुःखं यदपि यतते सोऽयमेवास्य शान्तये ॥१०॥ तप्तस्वर्णप्रतिमवपुषो विद्रुमाल्लासिचञ्चो- राशातेन्द्रोपलरुचिमनोहारिकण्ठस्य तेऽध । शुम्भन्मुक्ताविशदयशसः पद्मरागेक्षणस्य प्रेक्षामात्रान्मम करगतं कोक! सर्वार्थजातम् ॥११॥ स्वत्त्यां पुर्यामभिनवसुधाक्षालिते सौधशृङ्गे मोदाद् गुर्वी किमपि वहतोः सन्ततं मन्मथाज्ञाम् । दैवादद्य प्रमदवशयोरावयोर्विप्रयोगो जातोऽसह्यः पतग ! युवयोर्वासरान्तेषु यत् ॥ १२ ॥ प्रेयस्या मे प्रतिनवसुधासोदरः सोऽपि हासो वीणातन्त्रीविरणितधुरीणं तदाभाषणं च ! उद्यानान्ते मृदुमृदुरणन्नूपुरं तच्च यानं तास्ता लीलाः प्रियसख ! दहन्त्यद्य मांचिन्त्यमानाः॥१३॥ अङ्गान्यङ्ग ! स्मर शरशिखिज्वालमालाभियोगाद भस्मीभूय ध्रुवनतिसितान्यद्य दृश्यान्यमूनि । वाण्यश्चमाः परिलघु परिस्पन्दमाना मुखान्मे खेदं कान्ताविरहजनितं तुभ्यमद्य ब्रुवन्ति ॥ १४ ॥ पश्य श्रीमन्नपि च निनदन्मेघमालाविलोल- हातः केकाकलरुतमिलच्चातकालीनिनादः । सारङ्गाङ्गीकृतदरहेसत्केतकीगन्धवन्धुः प्राप्तः कालः स हि विरहिणां हन्त सन्तापदायी॥ १५ ॥ १. 'युज्यते' इति, २. 'हसन्मालती' इति च पाठान्तरम् ।
फोकसन्देशे मद्राभ! द्रागिह दहति मां शीतला वातपोतो धारा धाराधनिपतितास्तापमातन्वते मे । भारो मा रोदयति परितो धागपूगान् विमुञ्चन् कान्ता कान्ताजनपिराहणां प्रीतये कानुवृत्तिः॥ १६ ॥ विद्युल्लेखावलयिजलदा जातिसंसृष्टवात. श्चन्द्रश्चापः कुटचकुसुमभ्रान्तभृङ्गाङ्गनाली । एतत सर्व कथ पि भया कोक ! सोढव्यमवं हाहा कष्टं कथमिव तया सह्यते पेलवाझ्या ॥ १७ ॥ सारासारा विधुरविधुरस्वभ्रमा स्वभ्रनाला श्यामा श्यामामुदितमुदितप्राणवत्प्राणवद्धी (?) । हस्या हत्या तुदति तुदतिभ्रजिता भ्रजिताधि सा तो साता रुचिर ! रुचिरस्वङ्गका स्वङ्गकाम्याम् ॥ १८ ॥ तस्मादस्मात त्वरितमुपगम्यान्तिकं कोक! तस्याः सन्तापं तं शमय बचसा मामकेनामृतेन । स्त्रीणां मोदं नहि वितनुते किं वियोगातुराणां दृतेनोक्तः प्रियतमवचोगुम्फमाधुर्यभूमा ॥ १९ ॥ यो वा रक्षत्युरुतरविपद्वारिधेरात्मशक्त्या जन्तून् नास्मात पर इह पुमानस्ति लोके गरीयान् । आश्वस्तानां लगति हृदय साधु सर्वात्मनास्मि- न्नन्यैः सर्वैरपि सुचरितं वर्ण्यते चैतदीयम् ॥ २० ॥ त्वदश्येषु द्विजवर ! बहुष्वत्र सत्सु त्वमेकः खेदानां मे प्रशमनविधौ हन्त नूनं प्रवीणः ।
पूर्वमणि
अभ्रे दीव्यत्स्वपि बहुविधं ज्योतिषां मण्डलेषु
ध्वान्तौघानां ननु शभयित। नैशिकानां शशाङ्कः ॥ २१ ॥
किञ्चित कार्य तव खलु भवेद् यास्यतो मत्प्रियार्थ
मत्प्रेयस्याः परिसरभुवं पक्षिवंशावतंस ! ।
तस्यास्तावद् विरहरुजया क्षीयमाणाङ्गवल्ल्याः
सातत्योदित्वररुविसुधानन्दिते लोचने यत् ॥ २२ ॥
एको लाभो यदि खलु भवेत क्वापि कार्येषु यत्नः
कार्थः सर्वैरपि बहुफले तत्र किं वर्णनीयम् ।
भावीन्यस्याः किमपि च समाश्वासनं ते यशश्च
स्फीनं मोदो मम च तदितो यातुमभ्युद्यतः स्याः॥ २३ ॥
चापल्योतिर्मम गुणवाते त्वय्युपेताभिनन्द्या
सर्वेषां स्यात् खगवर ! जगत्यत्र नूनं नराणाम् ।
सद्भिर्दूरीकृतमपि सदैवाविलं दोषबुद्ध्या
गङ्गासङ्गात् कृतकसरितां वारि पुण्यं न किं स्यात् ॥२४॥
कामारामाह्वयपुरवर कामिना कामद तद्
'गन्तव्यं ते गगनपथगैः सौधशृङ्गैमनोज्ञम् ।
शृङ्गाराङ्गीकरणसुभगैरानानां कदम्बैः
सङ्गीतादावधिकनिपुणैर्भासमानं समन्तात् ॥ २५ ॥
अन्यत् किञ्चित् तब शृणु हितं गच्छतः स्वच्छवीथ्या
प्राणास्त्वेते नयनविषयाः साधु रक्ष्याः सदैव ।
रम्ये देशे सरसमनया पाक्षिकापायशून्ये
वस्तव्यं ते पतग! दिवसे नाडिकामात्रशिष्टे ॥ २६ ॥
६ कोकसन्देशे घोराकारां जलदनिकुरुम्बातिकालां ग्रसन्ती लोकान् खद्योतकगणमिपादस्थिमालां दधानाम । उद्यद्भीमस्तनितनिनदव्याजचण्डाट्टहासा- मागच्छन्ती कथमपि सहेथा निशायातुधानीम् ॥ २७ ॥ प्रातर्यास्यन्नथ मुररिपोर्धाम गत्वैतभारात् पश्यन्नम्भोरुहदरगदाचक्रदीप्तं स्वरूपम् । तत्पादाब्जे निहितहदयो मोदमानः पुरस्ता- दारस्वादूरे सह दयितया भक्तिभारावनम्रः ॥ २८ ।। लक्ष्मीर्यस्मिन् वसति सरसं कालकान्तालकान्ता यो वा नित्यं महितचरणो भासुराणां सुराणाम् । सम्प्राप्तास्त्वां शरणमनिशं कञ्जनाभाञ्जनाभा- नीलच्छायं नतजनमलं भावयन्तं वयं तम् ॥ २९ ॥ इत्थं नुत्वा मुरभिदममुं श्रीविहाराख्यदेशा- दस्मान्मोदान्मुकुलितकरान् मानयन् सर्वलोकान् । भ्रातर्यायास्तदनु सरसापाङ्गलीला तदीया मार्गे तापक्षपणनिपुणैवानुयास्यत्यपि त्वाम् ॥ ३० ॥ आपादाग्रस्तबकितकदम्बावलीफुल्ललोल- ल्लोलम्बालीकलकलमिषादाशिषं भाषमाणः । प्रातः प्रीत्या मम सहचरीमन्दिरं यास्यतस्ते वातोऽन्वीपो मृदुतरगतिर्यावदावाति नूनम् ॥ ३१ ॥ एतेनान्यैरपि सुशकुनैः शक्यमेवानुमातुं क्षिप्रं सिध्येन्मनसि निहितं कार्यजातं तवेति ।
पूर्वमागः।
शास्त्रोक्तानामिह मुवि सतां वासतां वा फलानां
नावस्थानं व्यभिचरणतो दृश्यते विश्ववन्ध ! ॥ ३२ ॥
आभोगैः स्वैरथ जनमनोनन्दिनी नातिदूरे
द्रष्टव्या स्याज्जगति विदिता वारणाख्यस्थली ते ।
सेयं सेव्या पतग! भवता मङ्गलानामवाप्त्यै
दत्ते सेवा हितमिह सखे ! साधु पुण्यस्थलीनाम् ॥ ३३ ॥
संबिभ्राणं सृणिमतिघृणं वारणास्यं पुराणं
लाक्षाशोणं कमलचरणं विघ्नघातप्रवीणम् ।
बिभ्रद् व्यालं तरलभसलं गण्डयोदनिकालं
तेजोजालं परमविरलं यत्र मकर्णतालम् ॥ ३४ ॥
सम्प्राप्यता भवनमहितैरिन्द्रकदेवसङ्खः
सेवालोलैरधिकनिबिरीसोपशल्यां सदैव ।
शैवं देवं निजपदजुषामन्तरायावसायं
चित्रैः स्तात्रैः प्रियसख ! भवान् दीव्य दीव्यति दीव्येत् ॥
तातोत्सङ्गे मुदितमुदितो देव ! सङ्क्रीडमान
कोटीरान्तर्गतनवसुधाभानुखण्डं विलोक्य ।
शुण्डाग्रेण स्पृशसि कदलीपकशङ्की मुहुर्य-
स्तस्मै तुभ्यं गजमुख! जगन्नाथ! भूयो नमोऽस्तु॥३६॥
इत्थं स्तुत्वा द्विरदवदनं धाम लब्ध्वा तदीयं
कारुण्यं च प्रियसहचरीमानमय्यादरेण ।
पुष्मच्छायाशबलितसमस्ताशमाशु प्रयायाः
कार्य लब्ध्वा निवसति पुनः कोऽनु तत्रैव तूष्णीम्॥ ३७॥
८ कोकसन्देशे स्वल्पं मार्ग तदनु सरतो भूधरस्तुङ्गशृङ्गो दृश्यो दूरादधिकमरुणो धातुधाराद्रवेण ! तस्य प्रस्थे कनकलतिकालिङ्गितैः कल्पवृक्ष- हृद्याकारा लसति नितरां काचिद्द्यानभूमिः ॥ ३८ ॥ तस्यां नित्यं सकलजगतां स्थायुका मङ्गलाय प्रालेयाद्रेः शुभपरिणतिः कापि नीलोत्पलाभा । कामारातेपुषि विमले वामभागीभवन्ती दिष्टया यावत् सफलयति ते लोचने पुण्यभाजः।। ३९ ॥ सासाद्याद्या मम मत ! ततस्वान्तवृत्ते ! त्वयालं पापावावाहहहदददाश्च यस्याः प्रणामः । यां यांतीतीरुरुरुगगगर्भालयस्थां निहन्त्री नानासंसन्नननतितितिक्षावती भाति नृणाम । ४० ॥ पूजान्ते तां कनकरचितैर्भूषणेkषयर मादेवेषु त्वरितमुपगम्यान्तिकं सन्मनः स्याः । काले तावत् तव तनुरुचीमेलनोड्डामरोद्य- झूषाशोभा भवति भविता मोदपूर्णाशया मा ॥ ४१ ॥ गङ्गालोलोऽप्यपगततदीयोपभोगोऽयमामाद गाने नूनं लसति पलितस्येव पाण्डुत्वमस्य । इत्याशङ्का तव हृदि सतीत्याकलय्यापोतुं यस्यै देहं व्यभजत हरो देवि ! नस्यै नमस्ते ।। ४२ ॥ एवं नत्वा गिरिवरसुतां भक्तिनम्रः सकान्त- स्तत्कारुण्यं किमपि समवाप्याय यातुं यतस्त्र ।
पूर्वमागः। तावल्लक्ष्या विहितगिरिजावन्दनाः सुन्दरायः सञ्चारिण्यः स्वयमिव तदीयाज्ञया हेमवल्ल्यः ॥ ४३ ॥ हासेष्वासां प्रतिदिशमलं कन्दलत्सु प्रिया ते सेयं हास्या बिसकिसलयाशङ्कया नो यथा स्यात् । वर्तथास्त्वं निपुणहृदय ! स्त्रीजनो मुग्धबुडी रक्ष्यः कान्तैः सकलविपदोऽतर्कितं सङ्गतायाः॥ ४४ ।। आस्ते पान्थान् धृतफलभरः प्रीणयन् मार्गदेशे क्रोशाः ऽस्मात् खगवर ! गृहीवाग्रतश्चूतशाखी । शाखां काञ्चित् सरणिमनिशं नाकिनां मार्जयन्ती कञ्चित् कालं सह दयितयालङ्कुरुष्वैतदीयाम् ॥ ४५ ॥ तद्रम्याराविविविविविविक्षुः सरः सुन्दराख्यं मोदं पापं ददददददः सव्यतो याहि तस्मात् । कान्तारूढो रुरुरुरुरुरुवाति यत्तीरमास्ते के गङ्गावानिनिनिनिनिनिन्दाङ्गजं यो हि भानाम् ।। यातस्यैतत् तब भृशतरं पजानां विकासात् तोगत्वात् किमपि परितः सूर्यकान्तोपलानाम् । जाड्यस्याल्पप्रशमनवशान्मज्जनादप्यृषीणां प्राप्तं मध्यन्दिनमिति सखे ! शक्यमेवानुभातुम् ॥ ४७ ॥ तावन्मजन्मुनिजनजटाजूटलग्नाम्बुवर्षी मन्दो वातस्त(व) तु दुरितं मार्गखेदं च हन्यात् । किञ्चैतस्य वचन सरसस्तीरदेशे शकुन्तैः क्रीडन् किञ्चित् क्षपय समयं प्रीणयन्नात्मकान्ताम् ॥
१० कोकसन्देशे वीणावेणुक्कणितमिलितस्त्रैणगानेन भिन्नो (ना)नावाद्यध्वनिरतिघनो भक्तलोकैरुदीर्णैः । स्तोत्राघोषैः प्रियसख! तदा पूरयिष्यत्यलं ते कर्णी धूर्णत्तरजलनिधिध्वानभङ्गप्रदायी ॥ ४९ ॥ तस्मिन्नेव प्रविश समये चन्द्रचूडालयं तं नानाश्चर्यप्रभवभभितस्सश्चरद्भक्तलोकम् । यत्रोपेतः सुखमतितरामन्तरुद्भासमानं ब्रह्मानन्दप्रतिममनिशं निर्विशत्यङ्ग! लोकः ॥ ५० ॥ दानासक्तभ्रमरनिकरं कर्णतालेन दूरे पर्यस्यन्तं कथमपि शनैर्हस्तिपैनीयमानम् । तुङ्गाभोगं करिवरमलंकुर्वदासक्तभूषं गौरीभक्षुबलिमहविधौ तत्र दृश्यं स्वरूपम् ॥५१॥ छत्रे स्थित्वा तदनु भवता लम्बमुक्ताकलाप सेवा कार्या हिमगिरिसुतावल्लभस्यादरेण । तस्मिन् पश्यन् कनकमुकुटाभोगभाजं भवन्तं देवः प्रीतो झटिति भविता चक्रवाकाधिराज! । ५२ ॥ रम्ये तस्मिन् विरमति महे सेवनोद्युक्तचित्तै- लोकैः साई कृतकलकलैर्याति गेहं गिरीशे । पश्चादेव प्रविश निलयाभ्यन्तरं सप्रियस्त्वं सम्मदोऽस्मिन् जगति हे सखे ! सर्वलोकाविषयः । ५३ ।। अम्भोजामां चरणयुगले श्रोणिदेशे च कृत्ति चित्ते तावद् गुरुतरकषां कण्ठकाण्डे गरं च । १. 'चरणतलयोः' इति च पाठान्तरम् ।
पूर्वभागः ।
११
अम्भोजाभां वदनकमले के जटाश्चापि बिभ्रत्
कान्ताकान्तं जयति भवतो रूपमेतत् स्मरारे!॥ ५४॥
स्तुत्वा चेत्थं तदनु सरसः सुन्दराख्यस्य मध्यं
भूयो गत्वा सह दयितया पङ्कजोभनीयम् ।
आतन्वानो नवबिससमास्वादनं प्रीतिमान् स्या
भुक्तेः कालः खलु खगपते ! देवसेवावसाने ॥ ५५ ॥
तस्माद् व्योम्ना पतग ! पततादञ्जसा तावदेतां
तां विश्लेषादिव हि रुदतीं प्रोच्चलभृङ्गनादैः।
रम्याकारां सरसिजवनी पृष्ठतः पश्यतस्ते
किञ्चित् खेदो नियतमुदियान्मानसे दीनबन्धो! ॥ ५६ ॥
सारामारात् तदनु नगरी कापि लक्ष्या पुरस्तात्
सारामारा जगति नितरां भासुराणां पुरीमाम् ।
सारा मारातुरयुवजना सञ्चलद्रत्नकान्त्या
सारामारा जितहरिमुखामर्त्यधामोल्लसन्ती ॥ ५७ ॥
नैवोद्यानं सुरतरुचितं यत्र वृन्दं च यूनां
नैवामात्या ह्यनलसदृशो रत्नभाभिहाश्च
नो योद्धारः परमसिचयोद्भासिताः किञ्च योषा-
स्तल्पौधो नो मृदुलसितगुः किन्तु केलीशुकोऽपि ॥ ५८ ॥
मन्दं यात्यः सततमधिकं श्रोणिदेशे महत्यः
काञ्चीमत्यः पृथुकटितटे कुङ्कुमं लिप्तवत्यः ।
शोभावत्यः प्रतिगलतलं हारजालैः सुदत्यः
सन्मालत्यश्चिकुरनिचये भान्ति यस्यां युवत्यः ॥ ५९ ॥
१२ क कोकसन्देशे तामेवैतां प्रियसख! सचन्द्राभिधां राजधानी जाले जाले विहरदबलावृन्दविद्योतिसौधाम् । कालोन्मीलत्कुवलयदलाभोगका(कैः ?न्तैः) कटाक्ष रेणाक्षीणां क्षपितदिवसां सावधानं समेहि ॥ ६ ॥ वापी वापी परि परिलसत्पङ्कजां कान्तयामा गाहं गाहं बिसमुदरपूरं चरन्नादरेण | प्रत्युद्यानं तरुषु निविशन् मानयन् देवदर्श रम्यानन्यानलमधितट लोकयन् सञ्चर (त? त्व)म् ॥६१॥ आकृष्टात्माप्यधिकमहितैर्वस्तुभिस्तत्र तैस्तै- मद्वैवश्यं मनसि कलयन् निश्चितं यास्यसि द्राक् । लोकानां यद् विधुरितधियां सौम्य ! सन्मार्गयायी मोदं कर्तु वहति हि रति नेन्द्रियाणां निजानाम् ॥ ६२ ॥ यो वा खेदस्तव नयनयोस्तत्र दृश्यान् विशेषां- स्त्यक्त्वा भ्रातनभास पततो मत्प्रियायोद्यतस्य । आरादने भुवनविदितं देवधामातिहृद्यं सर्वोत्कृष्टैनिजगुणगणैस्तं विनेष्यत्यवश्यम् ॥ ६३॥ गोकुल्यालीभरणनिरतो भूधरश्रेष्ठधामा शश्वतीक्षासुहितवसुदेवोऽप्युमाकान्तिदेहः । भक्ताक्रूरः सरसकमलोपाश्रितो भद्रवाहः कृष्णो यस्मिन्नवति सततं प्रोल्लसच्चन्द्रकाभः ॥ १४ ॥ शान्ताकाराभिधपुरवरे तत्र सन्दृश्यमाने तस्योत्कृष्टैः खगवर ! गुणैराहतात्मा ननु स्यात् ।
पूर्वभागः
प्राप्तुं चैतत् कुतुकभरतः सत्वरं गच्छतस्ते
तडामेतस्सरदिति पुरा जायते भ्रान्तिरेका । ६५ ।।
त्वज्जातीयैर्विहगमिथुनैः कृत्रिमैर्हिणायै-
रन्यैश्वापि प्रियसख ! परं भासुरे गोपु(र ? 5)स्य ।
तेषां मध्ये त्वमपि समुपेत्यास्थितश्चेत् त्वदीया
कान्ता तावत् तरलहृदया नूनमीयाकुला स्यात् ॥ ६६ ॥
चाम्पेयाद्यैः कुसुमतरुभिर्भासमानं समन्ताद्
देवोद्यानं लसति सविधे तस्य नैःश्रेयसाभम्
तत्र क्वापि क्षणमयि सखे ! कोक ! विश्रम्य पश्चाद
देवं द्रष्टुं प्रविशतु भवानेतदीयालयान्तम् ॥ ६७ ॥
श्रावं श्रावं श्रवणसुभगं स्तोत्रवाकं जनानां
मन्द मन्दं परिसरभुवं प्राप्य भक्तैकबन्धोः ।
लोलम्बाभं जगति नितरां मोहनं तत्स्वरूपं
दर्श दर्श पुलकिततनुस्तत्र किञ्चिन्निषीद ॥ ६८ ।।
रक्ता गोपीरनुविहरणं सूर्यजान्तेन चकि
निप्रघ्नन्तं समसुरजितां सातयं नेमिपङ्क्तेः ।
नीलाम्भोदात् प्रति परि कचं मेचकं वावहिं त्वा
सेवेऽरूपं कपटपशुपाकार ! कारुण्यशालिन् ! ॥ ६९ ।
एवं तावत् कृतहरिनुतेस्तत्पुरस्तस्थुषस्ते
भक्त्या पूर्ण हृदयकुहरं नेत्रमानन्दबाष्पैः ।
भक्तैरुक्तैः श्रवणयुगली तच्चरित्रैर्विचित्रै-
न सापि स्यात् तदुरसि लसदिव्यमालासुगन्धैः॥ ७० ॥
१५ कोकसन्देशे भ्रातः! श्रीमन्नथ मुररिपौ भक्तिभार वहन्तं निर्गच्छन्तं कथमपि नमत्कन्धरं बन्धुरं त्वाम् । उद्यद्रागा माणिगृहसरत्कान्तिबाहालताभि. दीव्यन्तीभिःक्षणमिव पुरी रोडुकामेव सा स्यात् ॥७१ ।। कालाम्भोदैः शिशिरिततरक्षेत्रभूम्यन्तरालान् कांश्चिद् देशान् बहलकलमश्यामलान् कोमलाभान् । उल्लवयातः किमपि सरतः सम्पतेदीक्षणं ते रम्याख्यायां सरिति हृदयं मोदसिन्धौ च तावत् ॥७२॥ चातुर्वैद्यं पठिति सकलेऽप्यागमे यायजूक धर्म प्राज्ञं बहुविधमलं नित्यमार्च मुकुन्दम् । दीने संरक्षिति सिमजने धारयं सद्विजन्म ब्राह्मण्यं तत्त्वविरतमवाक्तारमास्ते हि यस्याः ॥ ७३ ।। भूदेवानां समयविहितस्नानपुण्याम्बुपूरा तत्सन्तानैरधिकरुचिरैव्या॑प्तवप्रप्रदेशा । पर्यन्तोद्यत्स्फटिकसुषमासङ्गतः शुभ्ररूपा गङ्गादेश्या जयति धरणीमण्डले या नितान्तम् ॥ ७४ ॥ सेयं तावत् कपिशरुचिमत्कर्णिकादीप्रदीप- ज्वालायुक्ता कमलरजतामत्रकं सन्दधाना । लाजोत्क्षेपं जलकणमिषात् कुर्वती चोमिजालै. रुत्तुङ्गैः स्याद् विहग! भवतोऽभ्युद्गमायोद्यतीव ॥ ७५ ॥ सम्भूताया जगति विदिताद् भूधराद् रत्नकूटात सम्प्राप्तायाः पतिमतितरां पावनं वारिराशिम् ।
१५
पूर्वमागः।
क्षोणीदेवैरधिकमहितैः सन्ततं संश्रिताया-
स्तस्यास्तीरे क्वचन वसतिः साधु कार्या भवद्भ्याम् ॥ ७६ ॥
किञ्चिन्मार्ग तव खलु ततः कोक! शक्यं प्रयातुं
प्रागेवास्ताचलगमनतः पद्मिनीनायकस्य ।
स्वैरं वस्तुं तत इह चिरं नैव काङ्क्षा हृदि स्यात्
कार्योत्साही त्रिजगति जनः को नु वा स्वस्थचेताः॥ ७७॥
चक्राकारैः कृततटतरुत्रातभ.नभोगै-
ईहूशब्दैधिरितदिशामण्डलैश्चण्डवातैः ।
अत्यासारैरपि च नितरां दुर्गमं व्योममार्ग
तस्यास्तीरात् प्रविशतु भवान् दक्षिणात् पक्षिराज!॥७८॥
गर्जन्त्युचैर्वनकरिघटावृहितैनीलनीला
तापच्छेदं सकलजगतां कुर्वती सर्वदापि ।
वाताधूता प्रमदनिनदकेकिलोकाभिरामा
सारण्यानी जलदपटलीलोभनीया ततः स्यात् ॥ ७९ ॥
कुम्भित्रातभ्रमणविचलत्कुम्भिनी भूरुहान-
भ्रान्तादभ्रभ्रमरनिवहभ्राजमानाभ्रभागा ।
जृम्भाशुम्भत्ककुभसुरभीभूतदिक्चक्रवाला
गम्भीराम्भःपतननिनदा या विभात्यद्भुताभा ॥ ८० ॥
कुछ कुब्जे ललितलवलीसङ्गदीव्यत्तभाले
नीलाभोगान् निजतनुलसच्छलभूषाविशेषान् ।
ज्ञातुं मूढाः शबरवनिता रन्तुकामाः स्वकान्ता-
नास्पृश्याहो स्मरविकृतिभिः कोको जानन्ति यस्याम्
[॥ ८१॥
कोकसन्देशे माग्यो पतौ शबरसमुदायाः सपत्राकृतायां संस्कुर्वन्ति द्रुतमुपतटं यत्र चादित्सयास्याः । लोकेष्वेषु अहिलहदयं ह्यामिषे पौरुषेयं किश्चासक्तिं किमिह कथये मांसिकानाममीषाम् ॥ ८२ ॥ तत्रात्मानं वनचरकुलात् पाक्षिकात् पातुमस्मा- दूर्व तावन्निपत न पतेद् यावदेतच्छरौघः। लोके धीमानिह तु विपदं भाविनी प्रेक्षमाणः सम्यक् पूर्व नहि वितनुते किं प्रतीकारमस्याः ।। ८३ ॥ क्षोणीपृष्ठे गिरिवरकुलं मौष्टमत्युच्चशृङ्गं तुल्याः पूर्णा अपि च सरितो नूनमेकावलीभिः । वृक्षाकीर्णा भुवमपि तथा श्यामपत्रावलीको दृष्ट्वा तावत् तव तु भविता विस्मयः कोऽपि भूयान् ॥ ८४ ॥ आलेल्याद्यैरधिकरुचिरैगोपुरं रम्यरूपं विख्यातस्य त्रिपुरजयिनो लोकभद्रस्य धाम्नः । पश्यन्तं त्वां धरणिमखिलां यान्तमप्येवमुच्चै- रग्रे रोत्स्यत्यतिगतिपटुः को नु तुङ्गात्मनः स्यात् । ८५ ॥ तस्योपान्तं सरति भवति स्वर्णवर्णाङ्ग! तावत कालस्तु स्याद् दिनपरिगो प्राङ् मुहूर्तावशेषः । तस्मात् क्षिप्र मदनदमन स्तातुमन्तः प्रविष्टो दर्श दर्श भुवनमहितं रूपमस्यास्त्र पार्थे ॥ ८६ ॥ वह्नि सप्तार्चिषमपि तथा वेधसं सप्तसाम- स्वाध्यायातिप्रसितमजितं सप्तलोकैकपालम् ।
१७ पूर्वभागः । देवं तद्वत् कमलसुहृदं सप्तसप्तिं च दृष्ट्वा गौरीजाने ! त्वमपि सततं सप्तमूर्धासि नूनम् ॥ ८७ ॥ कैकोकोककककककमोकंककृतकंककंकृत् तातन्तत्तत्ततितृतिततं तान्ततान्तन्तु तान्तम् । नूनन्नानाननननृनिनीनानूननुल्न मन्मुन्मूमाममुभमुमिभभामममाभूम (?) ॥ ८८ ॥ संस्तुत्यैवं हरमथ कथं यामिनीदुर्दशेयं नेयेत्यन्तः कलयति भवत्यास्थिते गोपुराग्रम् । यास्यत्यब्धि रविरपि पयोदावृतस्तोयपूरे मां दृष्ट्वा सरसिजवनी खिन्नता इवाहो ॥ ८९ ॥ स्वीयं नीडं प्रति परिपतत्पत्रिनानानिनादै- मी मा मानं मनसि भजतेत्येवमावेदयन्ती । चारुश्रीमन्निजमुखलसन्मालतीमन्दहासा दूतीव स्याद् घटनचतुरा मानिनां सापि सन्ध्या ॥९॥ पौरस्त्यायां तदनु ककुभि प्रोद्गतास्ते क्रमेण प्राप्तोत्कर्षास्तिमिरनिकरा हन्त दृश्या भवेयुः । सूर्य रोर्बु प्रथममुदिता ये घना ब्योम्नि तेषां साहाय्यार्थ पुनरुपगताः कालमेघा इवान्ये ॥ ९१ ।। पश्यन्ती त्वां विरहमचिराद् भाविनं चिन्तयन्ती सन्तापात वपुषि भवतो गाढमालायमाना। सैषा मुग्धा विहग! सहसा वल्लभागोचराक्षणो. स्तावत्तु स्यानिबिडतिमिरवातरोधादिवाहो. ९२।
१८ कोकसन्देशे कालाकारैर्मुदिरशवरैर्मुक्तधाराशरौघैः कीर्णे पूर्णे घनतटतमः माकुञ्जरैरञ्जनाभैः। खद्योतालीकुसुमविलसद्व्योमकुक्षान्तराले तस्मिन् सम्यग वपुरव मखे! यामिनीकाननान्ते ॥१५॥ रात्रि दीर्घामतिगमयता विप्रयोगात् कथाचित प्राध्यां प्रेक्ष्यस्तदनु भवता कापि कान्त्युद्गमः यात् । हर्षोत्कर्षान्निजपरिसरे आन्तगालोकयन्त्या- स्तस्या मन्दो हस इस तदा व्याकुलाम्भोदकेश्याः ॥९॥ भाशास्वम्भोधरमलिनितास्वासु साधु प्रसाद कतुं नालं रविरिह तथाप्यङ्ग! चित्ते त्वदीये । कर्तात्यन्तं खगवर! परं यामिनीषु प्रकाशं क्षीणश्चन्द्रो नतु वितनुते नो त + + रवेहि ॥ ९५ ॥ अभ्यागच्छ द्रुतमिव समालोकय प्रेमगर्भ ब्रूहि श्रोत्रद्वयसुमधुरं श्लिष्य गाढाङ्गसङ्गम् । प्रातर्दृष्टं पतगवृषभ ! प्राणनाथा भवन्तं हर्षोद्रेकादिति सुखयिता विप्रयोगातिखिन्नम् ॥ ९ ॥ एवम्भूतां प्रियसहचरी प्राप्य मोदाकुलात्मा मा मा कालं क्षपय सुचिर गोपुरे तत्र रम्ये । तापः क्षीणो मनसि युवयोर्विप्रयोगेण जातो यावत् तावत् त्वरितमनया साईमस्मात् प्रयाहि ॥९७ ॥ भूयस्तूर्णं नभसि पतता दूरतो दक्षभागे द्रष्टुं शक्यं नियमितधियामाश्रमं तन्मुनीनाम् ।
पूर्वभागः। वक्रेणापि द्विजकुलपते। वर्मना तन्निषेय चित्ते काङ्क्षा भवति यदि ते जन्मसाफल्यमाप्तुम् ॥ ९८ ॥ एतत् सर्व जगदसदिति प्रेक्ष्य सङ्गेन हीना स्तीर्थस्नानैरपगतम काः सन्निषण्णाः सुखेन । मन्दं मन्दं विजितपवना रुद्धसर्वेन्द्रियेहा रम्याकारे भगवति परे मानसं याजयन्तः ॥ ९९ ।। प्रत्यङ्गं तहपुषि मनसः स्थैर्यमापादयन्तो ध्यातृध्येयहितयरहिताः शश्वदानन्दममाः । स्थूणादण्डप्रतिमतनयः पश्यतां सज्जनाना. मत्याश्चर्य हृदि विदधतो यत्र दृश्या मुनीन्द्राः॥१०॥ शान्तानेतानथ मुनिवरान् वन्दितुं काश्रमाण- स्तत्रोपेतः सपदि महतां सङ्गमेनैव तेषाम् । भ्राता भूस्त्वमपि सुतरा नियमो मत्प्रियार्थी सन्तस्तावन्निजपदजुपः कुर्वते मुझसङ्गान् ॥ १.१ ॥ तान्तां तां तां हृदि दध : काहि लम्बा नाना नानाविध भूमी सान् प्रणम्य याया यायावरपरिवृतात् भार्थचन् विश्वनाथ न्मा मा मामादपरांवषये चित्तवृत्तिर्मनि ॥ १०२ ।। मुग्धाक्षीभिर्युतिजिततमालोकन गाभिराम नित्यं शोभामथ जनहितालोकनेऽत्राभिरामम् । क्षत्रारातिं खलु जितवता लोकनेत्राभिराम- क्षेत्रं पातञ्जयति नमतलोकनेत्राभिरामम् (?) ॥ १०३ ।।
२० कोकसन्देशे शान्तस्वान्तः प्रविशतु पुरीमाशु रामाभिरामा नाम्नाप्येतां प्रियसख ! भवान् भूतिभिवह्वयोध्याम् । (स ? स्व)प्रेयस्या पतग! भवता जातिवैरीति रामः सोऽयं सेव्यो नहि न कुपितोऽपि प्रभुः सेवनीयः॥ १०॥ तोतोतोतोददददददस्यावतीर्णस्य ते वै यायायायाजजजजजजल्पास्तपौलस्त्य! भाति । स्यास्यास्यास्याममममममत्वं कृते विस्मृतिमें मामामामानिनिनिनिनिनित्यं सुखस्य त्वदङ्गे॥१०५॥ रामाक्षिप्ताशरभ ! समरक्षारते! भक्तचित्त- ध्वान्तेभालीशरभ ! समरप्रोल्लसबाहुवीर्य! । पूर्णानम्राश ! रभसमरं नाशयन् धैरभाजां राजत्तूणीशर ! भसमरम्याभहारानतोऽस्मि ॥ १.५ ॥ एतादृग्भिः स्तुतिपदसुमैरर्चयित्वा रघूणां नाथं रामं जनकतनयारम्यवामाङ्कभागम् । कांश्चि देशान् बहुलनिभवाल्लवितस्यातिदूराद द्रष्टव्यः स्याद् विततविटपः कश्रिदश्वत्थशाखी ॥१०७॥ नत्वा मूर्त्तित्रयमयम, दूरतो भक्तिपूर्व गत्वोपान्तं द्विजवर! परीयाः पुनः सप्तकृत्वः । मा मा शाखामधिवस सखे! लोभनीयां तदीयां सोऽयं सर्वैरपि शनिदिनेष्वेव संस्पर्शनीयः ॥ १.८॥ सेवामेवं किल हितकरी वृक्षराजस्य कृत्वा किञ्चिन्मार्ग पुनरपि ततो गच्छतस्ते पुरस्तात् ।
पूर्वभागः ।
२१
नीलच्छायः परिणतफलैः कोऽपि जम्बूतरुः स्यात
तस्य स्कन्धं सरसमनयाध्यास्स्व मध्याह्नकाले ॥ १०९ ।।
भास्वाद्यैतत्फलमतितरां स्वादु ताम्बूलवल्ली-
राजत्केरकमुकनिबिडं दीर्घमुल्लङ्घय मार्गम् ।
पूर्णानन्दाभिधमथ भवान् दक्षिणेनोपपद्यं
द्रष्टा भूमीवलयातिलकं भूतनाथस्य धाम ॥ ११ ॥
सम्प्राप्यतन्निलयनमथो सादरं देवमेनं
नत्वैवास्माद् व्रज यदि भवेदप्यहो यानमान्धम् ।
सेव्यासेवा जगति हि परं रोधिनी कार्यसिद्धः
सर्वेषां स्याद् द्विजवर! यथा प्राग् दिलीपस्य राज्ञः
[॥११॥
अम्भोदालीसुभगसुषमं पात्रिकश्रोत्रपाशं
शश्वद्बाणासनशरवरोद्दीप्यमानाग्रहस्तम् ।
वेद्यत्वेन श्रुतिशतगिरामार्य ! निश्चप्रचं तद्
भूयो भूयो मनमि भवतो रूपये रूपरूपम् ॥ ११२ ॥
स्तुत्वा चैवं पुनरवनतस्त्रयञ्जलं तत्र बद्ध्वा
निर्गम्यास्माद् द्रुततरमथो याादपश्चिमां त्वम् ।
तावल्लक्ष्या विटजनमनोनन्दिनी वेशवाटी
थेषं कर्तु वरवधुजनैराश्रितालिन्दभागा ॥ ११३ ॥
कल्याणाझ्यः कलितचिकुराः कज्जलोल्लासिवीक्षा-
कल्माषश्रीकलनविलसत्कर्णिकामातगण्डाः ।
कर्पूराभाकमनहसिताः कल्यवाणीनिगुम्फाः
कम्बुग्रीवाः कनककलशीकल्पवक्षोजभाराः ॥ ११ ॥
२२ काकसन्देशे कञ्जश्रीमस्करतलयुगाः क णोद्यत्प्रकोष्ठाः कक्ष्यादीप्राः कचितचरणाः कर्दमैर्यावकानाम् । कन्दर्पाभैः कमितृभिरमा कल्पितानेकलीलाः कारस्ते कमलनयनाः कम्रभासोऽत्र मोदम् ॥ तत्र स्थित्वा क्षणमनुभवन् वारवामेक्षणानां विद्युल्लेखासुषमवपुषां विभ्रमान् विश्वरम्यान् । विश्रान्तस्त्वं विहग ! विविधाश्चर्यपूर्णा पुरी तां प्राप्तुं तावद् विचल न विशेद् यावदस्तं विवस्त्रान् ॥ ११६ ॥ उद्यानाद्यैरुरुतरगुणैर्भासमानां ततस्तां दूरे दृष्ट्वा नयनसुभगां पत्रिचूडामण ! त्वम् । मोक्ष्यस्यध्वश्रममतिलघुप्रेक्षितप्राप्तिमार्गे प्राप्ये देशे भवति हि सुखी पान्थलोकोऽत्र लोके ॥११७॥ माध्वीमाद्यत्पिकमृदुगिरां विभ्रमैर्मोहनत्वा- दत्यन्तोद्यद्रतिहिततया माधवेनोषितत्वात् । सौराज्येनाप्यनुदिनमहो हीनसान्तापिनत्वात् कामारामाह्वयमभिदधात्यन्वितार्थं जनोऽस्याः ॥ ११८॥ पुस्खीभूतैः कनकवरणोद्दामकान्तिप्ररोहै- रालिप्तत्वाद् द्विगुणिततरस्वीयरूपप्रमेण । एषा तावद् विहग! भवताविश्यतां राजधानी स्वान्तर्धामस्फुरितदनुजारातिधामोज्ज्वलश्रीः ॥ ११९ ॥ आसीद् विप्रो हरिनतिरतः कोऽपि रम्भाविहारे विष्णुत्रातो द्विजपरिवृढ ब्रह्मदत्तैकमित्रः ।
उत्तरभागः। तेनैतस्मिन् सपदि रचिते कोकसन्देशकाव्ये पूर्णस्तावत् समजनि रसैश्चाप्यसौ पूर्वभागः ।। १२० । पूवभागः समाप्तः।। अथोत्तर भागः। श्रीवत्साङ्कः स्वयमिव सदानन्तभोगोपशोभी स्वैरासेव्यः सकलजगतां लोचनानन्ददायी । उत्तुङ्गात्मा विविधसुमनोमण्डलीनन्दनीयो यस्यां पुर्या लसति सुतरा सर्वतः सौधसङ्घः । १ ॥ यत्सौधाग्रे युवजनमनोहारिरूपामृतानां केलीभाजां कुवलयदृशां चारुतावीक्षणेषु । वीलाभारात् त्रिदशवनिताः स्वां तिरस्कारविद्यां करें धात्रे विदधति चिरायाञ्जलिं मौलिदेशे ॥ २ ॥ स्वैः स्वैदीरैः सह विहरतो यत्र यूनः प्रहत्तुं तेषां तावत् सुषमवपुषां सन्निधिं सम्प्रविष्टम् । वेत्तुं तावन्निजपतिमिहापारयन्ती रती या जानात्यहा कथमपि रे कार्मुकं प्रेक्ष्य पौष्पम् ॥ ३ ॥ यत्सौधालीविहरदबलावलीलाबलोका. लज्जानने गतवति मृगे क्वापि चोत्सङ्गलीने रोहिण्याद्यास्तदनु रमणस्याङ्कलीविशेषै. रामोदन्ते प्रतिकल महो प्रेमभाग्प्रणुन्नाः । ४ !! ..
२१ कोकसन्देशे कान्ताकारा निखिलनगरीरप्यधःकृत्य चोर्ध्व तिष्ठन्ती तां सुरवरपुरी सन्ततं शोभमानाम् । दृष्ट्वा यासावुपगतरुषा तज्जयायैव नूनं सौधोत्सेधैर्गगनपदवीं दूरमुल्लवितास्ते ॥ ५ ॥ कन्दपेण प्रगुणधनुषा प्रेरितानां निशायां सङ्केतं प्रत्यधिकनिभृतं कामिनीनां गतानाम् । प्रातःकाले कचभरमिलत्पुष्पसौरभ्यलोभ- भ्रान्ता सम्यग् भ्रमरपटली यत्र मार्ग व्यनक्ति ॥६॥ यस्यां नीलोपलवलभिकारङ्गदेशे नटीनां नृत्यन्तीनां निजपरिजनैश्वालिता चामराली। सान्द्रे तावन्मुरवनिनदे मेघनादभ्रमेण प्रोद्गच्छन्ती प्रतिसुरपथं हंसपालीव भाति ।। ७ ॥ उद्यहीपे नवमणिरुचा रोचिते केलिगेहे नीवीबन्धत्रुटनरसिके प्राणनाथे निशायाम् । लज्जाभाराद् विधुरमनसां यत्र मुग्धाङ्गनानां काञ्चीनीलोपलरुचिरहो किञ्चिदाश्वासहेतुः ॥ ८ ॥ वर्षारम्भेष्वमरसरितं यातुमुड्डीयमाना भूयोऽपि मां शरदुपगमेष्वापतन्तो मरालाः । आकाहो रणितमबलानूपुराणां यदीये सौधोपान्ते निजकुलरवभ्रान्तिमन्तो वलन्ते ॥ ९ ॥ यान्त्यः स्वैरं रमणवसतिं वारयोषा निशायां नारीरूपास्वपि पुरुषरूपासु पाश्चालिकासु ।
..
उत्तरभागः।
२५
सत्यभ्रान्त्या तरलितधियो राजमार्गेषु यस्यां
नुन्नात्मानः स्मरशरशतैराप्रभातं नमन्ति ॥ १० ॥
दग्धे पूर्व त्रिपुरजयिना मन्मथे तस्य ताव-
चापो मौर्वी नलिकयुगली सायकाश्च क्रमेण ।
यत्रत्यानां सरसिजदृशां भूलता रोमराजि-
र्नासा वीक्षाविलसितमितिच्छद्मनाङ्गेषु लीनाः ॥ ११ ॥
यत्सौधाग्रे मुरवनिनदं नृत्तबेलासमुत्थं
श्रुत्वाकाण्डे सुरपुरनदीसुस्थिता सपाली ।
अम्भोदालीघनरवधिया जातसन्तापभारा
हा हन्तास्ते चकितचकितं प्रेक्षमाणा दिगन्तम् ॥१२॥
यत्र क्रीडामृगशिशुमुपादाय नारीस्तदीयां
बीक्षाभङ्गी नयनसविधं प्रापयित्वेक्षमाणाः ।
पश्यन्निन्दुर्वदनकमले सोऽयमासां लगेच्चेद्
वक्रौपम्यं त्वहमिह लभेयेति वाञ्छां दधाति ॥ १३ ॥
पत्रस्याभिः किल युवतिभिर्यानभङ्ग्या निरस्ता
हस्यो वर्षास्वमरसरितं सङ्गताः सम्यगेताम् ।
अभ्यस्याथो शरदुपगमे प्राप्य भूयोऽपि भग्ना
योग्यां कर्तुं ध्रुवमथ नभोमासि तामेव यान्ति ॥ १४ ॥
यहापीषु स्फुरितकमलैरुज्ज्वलास्वङ्गनानां
खेलन्तीनां विमलसलिले बिम्बितान्याननानि ।
मूलोच्छेदं युगपदखिलाम्भोरुहाणां विधातुं
बिम्बानि स्वान्यमृतरुचिना कल्पितानीव भान्ति ॥१५॥
२१ कोकसन्देशे यस्यो सङ्केतितकुसुमवाटीसदेशं समेताः सारङ्गाक्ष्यस्तदुदरसमासीनहंसीनिनादम् । श्रुत्वा कस्याश्वन चलदृशो मञ्जुमञ्जीरशिजे. त्याशङ्कयेाजडिमपरितापाभिभूता भवन्ति ॥ ११ ॥ यस्यां केलीशुकवरशिशुं मञ्जुवाणीषु सौक्ष्मी वाचोभङ्गीमधिककुतुकं शिक्षयन्तीषु तावत् । एतत् स्त्रीणामिदमिह शुकस्येति सम्यग् विविष्य ज्ञातुं वाक्यं नहि निपुणता शृण्वतो जायते हि ॥ १७ ॥ यत्रत्यायां स्फटिकधरणौ विम्बितः शीतभानुः क्रीडन्तीनामिह मृगहशां निर्जितो वक्रबिम्बैः । भूयोऽप्येतत्परिभवसमाशङ्कया नूनमासां पादाम्भोजे प्रणमनविधि वीतगर्वः करोति ॥ १८ ॥ यस्यामास्याम्बुजपरिसरं कीरमादाय नीत्वा तन्वानानां गिरि कुशलताशिक्षणं कामिनीनाम् । बिम्बभ्रान्त्या सरसमधरं चञ्चुना संस्पृशन्तं पश्यन्तस्तं जननमदसीयं विटाः कामयन्ते ॥ १९ ॥ यस्यामिन्द्रोपलविरचितां नर्तकीनां मुखेन्दु- ज्योत्स्नायोगाद् विगलदमलाम्भोभिरिन्दूपलौधैः । दीव्यन्नीप्रां मुरजमुखरां नृत्तशालां समेत्य प्रावृड्भ्रान्त्या भवनशिखिनस्तन्वते ताण्डवानि ॥ २०॥ लावण्यं तद् वपुषि सुदृशां यत्र कान्तानुवृत्तौ प्रावीण्यं वा बहुविधकलास्वद्भुतं कौशलं च ।
उत्तरमागः।
२७
इत्येकैक त्रिवशवनिता यद्यहो लक्षयेयुः
स्वीयं सर्व गुणगणमहोदीपवत् कल्पयेयुः ॥ २१ ॥
यत्र त्रैवर्णिकसमुदयः स्वर्गलोकाभिलाषी
यज्वा (प)श्चादधितद(?)मुपागम्य भोगानुभूतौ ।
सांस्तानस्यास्तदतिशयितान् सार्वकालं गुणौघान्
स्मृत्वा स्मृत्वा स्पृहयति पुनर्जन्मनेऽत्रैव नूनम् ॥ २२ ॥
नानारत्नप्रवररचितारामसोपानवेदी-
सालक्रीडाशिखरितलिमालिन्दकुड्यावलीका ।
यासौ चामीकरमयसदोगोंपुराट्टालहा
यक्षेशं तं गतधनपतित्वाभिमानं तनोति ॥ २३ ॥
मध्येव्योम ग्रसितुमुडुपं संप्रवृत्ते तु राही
यत्सौधाने विहरदबलावऋबिम्बानि दृष्ट्वा ।
तद्विज्ञाने परमकुशले तत्र बम्भ्रम्यमाणे
प्रासाभावाद् गणकनिवहा हन्त हास्या भवन्ति ॥ २४॥
यस्यामिन्दुः प्रसृमररुचिश्चन्द्रशालासु यातो
चांलैः केलीतरलहृदयैः कन्दुकक्रीडनाय ।
आत्तो नूनं गगनपदवीमध्यमध्यासितोऽसौ
नित्यं तावत् किमपि गमने मन्दतामभ्युपैति ॥ २५ ॥
ज्योत्स्नावत्यां स्फटिकरचिते राजमार्गे निशाया-
मुघद्रागं विहितसमया गौरवासोविभूषाः ।
तामस्यां वा हरिमणिमये नीलगाश्च तद्वत्
सारङ्गाक्ष्यः सह युवजनैयंत्र नित्यं रमन्ते ॥ २६ ॥
२८ कोकसन्देशे यस्यां चित्रस्थितवरवधूः प्रेक्ष्य सत्यभ्रमेण प्राप्योपान्तं प्रकृतिसरसं भाषमाणा वचांसि । प्रत्युक्तीनामनुदयवशात् तासु तावद् विलक्षा बोभूयन्ते बत विटजनाः शिल्पिलोकापहास्याः॥ २७॥ उत्तुङ्गानामधिकमहसा रत्नसौधावलीनां *मध्यं ग्रीष्मे समुपगतवान् यत्र मध्यन्दिनेऽपि । एतत्तेजःप्रमुषितरुचीसञ्चयत्वेन तावत् खद्योताभामहिमकिरणो नूनमूरीकरोति ॥ २८ ॥ यो वा खेदो हृदि खलु नृणां रूपलावण्यभूम्ना विख्यातानां त्रिदशसुदृशां लोचनागाचरत्वात् । यद्वास्तव्यास्तदधिकगुणाः पश्यतां पङ्कजाक्षी- स्तेषां तावत् स खलु तरसा हन्त दूरं प्रयाति ॥ २९ ॥ विश्वोत्कृष्टो विविधरचनाभङ्गिभेदो यदीयः सम्पद्भूमापि च सुरपतेः किन्नराणां च नेतुः । पुर्या या वा बहुमतिरिह प्रौढवाक्यप्ररूढा नृणामेतामधिकविरलामादधाते बतै(ते ? तौ) ॥ ३० ॥ प्रत्यग्राम्भोरुहसुरभिलं सर्वलोकाभिरामं स्निग्धापाङ्गं विलसदलकं सद्दिजालोकनीयम् । यस्यां तावत् कमलवदनावक्त्रबिम्बं सरो वा तुल्याभोगं भृशपरिलसचन्द्रकान्तं विभाति ॥ ३१ ॥ * 'यत्रत्यानां परिसरगतः शारदे वासरेऽपि ।' इत्यपि पाठः.
उत्तरमागः। वातोद्भूतः कपिरिव सदारामसेवानुरागी दैवः पन्था इव बहुलसत्तारकालोकरभ्यः । कंसारातः कच इव कलापालिविद्योतमानी योषित्सङ्घः सुमहितरुचिर्भासतेऽलीव यस्याम् ॥ १२ ॥ यस्यां चञ्चत्कुवलयदृशां कामिनीनां कदम्बं घोराकारं वनमिव परं सर्वदारूपशोभि मम्भोजन्मद्विषदुपलसत्कान्तिपूरानुषक्तं वापीतीर्थ मन इव चकोराङ्गनानां च भाति ॥ ३३ ॥ यस्यां राजा सुविहितविपक्षासनः कृष्णतुल्यो वक्राङ्गाभीष्टदनिजगुणो वापिकौघश्च तहत् । स्वर्णस्तोमद्युतिभरजुषो निम्नगाभाश्च साला लीलाशैला भपि बत तथासारसानूज्ज्वलाभाः ॥ ३४ ॥ यस्यां केलीगृहपरिसरस्थायिनी पुष्पवाटी लङ्केवाहो बहुविधपलाशावली सञ्चकास्ति । धर्मशानां जयति नितरां सज्जनानां समाजो गीर्वाणानां पतिरिव सदालोचनोद्भासितात्मा ॥ ३५ ॥ रथ्या यस्यां गगनसदृशश्रीः सदालोककान्ता पृथ्वीपालः सुरपतिसमश्चामराश्लिष्टपार्थः । सर्वे लोकास्त्रिदिवसमिताश्चारुसन्तानरम्याः स्त्रीणां वक्त्रं रघुपतिनिभं ध्वस्ततारेशगर्वम् ॥ ३६ । यस्यां नार्या रुचिरतिलकालोकनीयालिकान्ता मुक्ताहारैरधिकविमलैः सद्भिरुयोतमानाः ।
कोकसन्देशे माद्यदन्तिप्रवरगमनाः कम्रपत्रावलीकाः श्यामाः शश्वढिपिनधरणीतुल्यकुल्या लसन्ति ॥ ३७ ॥ यस्यां नित्यं रतिरिव रमेवाद्रिकन्येव मूर्ति- मल्लाक्षीणां विलसतितरां कामदेहानुरक्ता । तासां किञ्च स्मरकृदलिकालोकनं शम्भुरूप- प्रख्यं वक्रं विविधविलसत्कुण्डलं चन्द्रकान्तम् ॥ ३८॥ यस्यां वेश्यागृहपरिसरो भासते वृत्तजाति- प्रख्यः पातालवदपि भुजङ्गप्रयातानुषक्तः । क्षोणीपालोऽपि च विजयते नन्दपुत्रोपमानो नित्यं गोत्राहितकृतरुचिः किन्तु शच्यापि तुल्यः ॥३९॥ यस्यां लोको हलधरनिभः श्वेतवाहोपमानो भूभृत्कन्यारमणसदृशो वा सुभद्रानुषङ्गी । स्त्रीणां नेत्रं निगमसदृशं देवसेनानदेश्य वीताब्दाकाशवदपि विभात्युल्लसत्तारकान्तम् ॥ ४०॥ यस्यां वेदीवरणवलभीकुट्टिमारोहमार्ग- प्रासादाद्या व्यजननिवहाः कामिनीवक्रविम्बाः । माध्वीभेदाश्चषकभरिताश्चन्द्रशालोपकण्ठाः पर्यङ्कौघा अपि च नितरामुल्लसञ्चन्द्रकान्ताः ॥४१॥ सर्वाशोकोदयसुमधुरा भूमिपालप्रताप. व्याप्ता प्रोद्भासितबहुलजातिर्लसत्पद्मिनीका । विश्वक्षोणीतलगमहिमा चन्द्रकान्तालयोद्य- छैत्या यासौ लसति किल सर्व *धर्माभिरामा॥४२॥ * 'धर्मातिया' इत्यपि पाठः ।
उत्तरभागः। ३१ यासावाशाप्रसृमरयशोराशिभूमीमहेन्द्रा (गेहे) गेहे विनिहितमहाहेमकूटा नितान्तम् । भास्वत्कार्तस्वरमयधरा कामुकानन्दियोषा- लोकालोकापि च विजयते हन्त गोत्राभिरामा ॥४३॥ वीर्योदग्रप्रतिभटमहीपालसङ्घरयोध्या पुम्भिः साकं विहरणविधेारवत्यङ्गनानाम् । यासावक्ष्णामपि च मधुरा सर्वतोऽलं विशाला चित्रं चित्रं जगति नगरी लोभनीया विभाति ॥४॥ कुत्राप्युधबहुपरिमलैनन्दनीया मरुद्भिः शश्वद्विश्वैरहह विबुधैः कुत्रचिद् भासमाना । स्फायत्कान्तिः कचन वसुभिः क्वापि विद्योतमाना भास्वद्भिर्या जयति हि महाधामभिर्दिव्यभूमिम ॥४५॥ लीलावापीसरसिजवने सन्ततं दीप्रहंसा भुक्त्यावासे सततविलसत्साधुवृत्तद्विजेन्द्रा । कुड्यनाते मणिगणरुचीजालकैश्चारुरक्ता संसंदेशे विलसितबुधा भासितार्था विपण्याम् ॥ १६ ॥ स्वच्छा सौधावलिषु सुधया नित्यरोचिष्णुकृष्णा देवक्षेत्रे विविधरचनाभासुरे स्वान्तरस्थे । वारस्त्रीणां वसति(षु) विलोलद्भुजङ्गा प्रतोल्या. मुद्यत्केतुर्ग्रहनवकयुक्तेव या सश्चकास्ति ॥ ४७ ॥ (युगलकम् ।) प्रासादानां विततिषु सुखं संविशद्भोगिलोका वैडूर्यार्कोपलमुखमणीमण्डलीशुभ्रभूमिः ।
कोकसन्देशे शिक्षाकल्पप्रभृतिकषडङ्गीसमेतत्रिविद्या- पाठोपुष्यद्विबुधवसतिर्या (ति ? त्रि)लोकीमनोहा॥४८॥ भूत्या देवेश्वरपुरपराभूतिदक्षा महेला- बाहासंलालितमृदुवचोगुप्तशुम्भच्छुका च । गेहे गेहे विविधमणिसङ्घातलोलन्मरीचि- यो वा नित्यं मुनिजनमनोहारिणी लालसीति ॥ ४९ ॥ लोकोत्कृष्टक्रतुविलसिता साधुवागञ्चिता वा शश्वद्दीव्यविजपरिवृढा किन्तु लक्ष्मीयुता च । सर्वत्रालं समुदितशिवा नित्यमुद्यवृषा वा यासौ मूर्तित्रितयनगरीतुल्यरूपा विभाति ॥ ५० ॥ तस्यां तावत् पुरुसुकृतिभिः प्राणिभिः प्रापणीयं हेमाम्भोजप्रभृतिसुमनस्सौरभीवासिताशम् । सेवालोलासुरसुरमुनिव्रातपूर्णान्तरिक्षं धाम श्रीमन्निखिलजगतीमण्डनं भाति विष्णोः ॥५१॥ निवेदान्तैरपिच नितरां हन्त वेदान्तसक्तैः सन्त्यक्ताशैरपि निजयशःपूर्यमाणाखिलाशैः । कारण्याात्मभिरपि तपःकर्मणा शुष्कदेहैः स्वच्छस्वान्तै(रपि) लसति यत् कृष्णचित्तैर्जनौधैः॥ ५२ ।। दिव्यस्त्रीणां करतललसबल्लकीयनादो गन्धर्वालीगलपरिगलचारुसङ्गीतकं च । स(त्त ?)द्वावा(वि ? भी)नयपटुनटीनाटकं चापि यस्मि- नासीनानां नहि मदयितुं मानसं शक्नुवन्ति । ५३ ॥
उत्तरभागः। ३३ दिक्पालानामपि तदितरेषां च तत्पार्षदानां प्रह्लादोऽपि प्रभवति बलियंत्र सन्ध्यासु नित्यम् । वीणावादप्रभृतिषु परं दक्षिणाश्चापि वामाः सेवां कुर्वन्ति च भगवतः सादरं चक्रपाणे ॥ ५४ ॥ मीलन्नेत्रोऽप्यहह सकलं सन्ततं वीक्षमाणो नित्यं मुक्तोऽपिच मुरजितः सेवनेऽत्यन्तसक्तः । पूर्णानन्दोऽप्यधिकरुगलं लातलं संश्रितोऽपि प्राप्तो विष्णोः (पद)मधियई (?) योगिसार्थो विभाति॥५५ ।। सच्चिद्रूपस्मरणविधये सम्प्रवृत्तनिवृत्तैः पादाम्भोजश्रितरुचितदाने सुरागैरसगैः । वेदव्यासप्रभृतिमुनिवर्यः समानामागे सद्भिनित्यं लसति नितरां यत्सभार्यरभायैः ॥ ५६ ॥ फ्रीडत्पारावतशिखिशुकाधैर्विजातैः सुजातै- यन्नियूहः स्फुरति फलकैर्वा विचित्रैः सचित्रैः । यत्पर्यन्तोऽपि च सुरवराणां विभाभिः समाभि- विनश्रेष्ठेरपि जनिमृतिभ्यां वियुक्तैः सुयुक्तः ॥ ५७ ॥ लक्ष्मीनाथश्चिरमिह पुरे सुस्थिरां प्रेक्ष्य लक्ष्मी हित्वा क्षीराम्बुधिनिलयनं यत् समासाद्य धाम । तस्या लीलाकलितहदयः स्वैरलन्यत्र यात्रा- वार्ताशून्यो निवसति जनान् मोदयन्नित्यवैभि ॥ ५८ ॥ स्थानं त्वेतद् भुवनमहनीयोदयं चक्रपाणे- चक्राह्वाधीश्वर ! भवभवस्फीततापापहारि। F
कोकसन्देशे
सम्प्राप्य त्वं बहुमतियुतो मानयन साधुलोका-
नत्रासीनानुपसर जगन्मूलकन्दं मुकुन्दम् ॥ ५९ ॥
नागारातिस्थितिकृदपि यो नासुरेन्द्रो न दुर्गा
सूर्यालोकाधिकतररुचिों न शक्रो न चक्रः ।
श्रीकण्ठालिङ्गनकृतरुचिर्यः सती नो न सर्प-
स्तस्मै लक्ष्मीसहचर! नमस्ते नमस्ते नमस्ते ॥ ६ ॥
संस्तुत्यैवं हरिमवनमन्नादरादेतदीयं
भक्तोद्गीतं चरितमुभयाकर्णि चाकणयंस्त्वम् ।
पश्यन् दृश्यानपि च निखिलानत्र किञ्चिचरित्वा
सन्तुष्टात्मा सफलय सखे ! जन्म जायासमेतः ॥ ६१ ॥
निर्गम्यास्मादुदगवसरापेक्षिनिश्शेषपृथ्वी-
पालप्रौढ + ++ परिपूर्णोल्लसद्वारदेशम् ।
बन्दिवाताननपरिगलत्स्तोत्रघोषानुविद्ध-
प्रान्तं कान्तं तदनु नृपतेर्मन्दिरं द्रक्ष्यसि त्वम् ॥ ६२ ॥
तावद् राजा मुरहरपदाम्भोजसेवानुषक्त-
स्वान्तो मत्तद्विरदविपुलस्कन्धदेशाधिरूढः ।
निर्गच्छेच्चेद् बिहसितशशाङ्कांशुभिश्चामरौधै-
श्छत्रबातैरपि विलसितस्तत्र दृश्यस्त्वया स्यात् ॥ ६३ ॥
तस्मात् प्राचीमुपगतवता पक्षिवंशावतंस !
प्राप्या नानाजनजनितसम्मर्दतो दुष्प्रवेशा ।
विक्रेतव्यैः क्वचन कनकैः क्वापि पट्टांशुकौघैः
कुत्राप्युद्यद्रुचिमणिगणैर्योतमाना निषद्या ॥ ६४ ॥
उत्तरभागः । ३५ अन्ते तस्या विविधविकिरवातनीडाभिरामैः शाखाजालैर्विलसति वटः कोऽपि नीलाचलाभः। आदायैतत्फलमतितरां स्वादु दत्त्वा प्रियायै भुक्त्वा चापि क्षपयतु भवानत्र रात्रि कथञ्चित् ॥६५॥ अम्भो(जा)न्तर्विरहविधुरा ये निलीना निशादौ भृङ्गास्तेऽमी निजसहचरीर्यावदासादयेयुः । तावन्मत्कं निलयनमतः प्रागुदीची प्रयातो दृष्ट्वा तैस्तैर्नयनसुभगैर्लक्षणैर्ज्ञास्यासि त्वम् ॥ ६६ ॥ कश्चित् केतुर्लसति निकषा गोपुरं लम्बमान- हारैर्बाष्पं मुहुरिव वमन् मत्प्रियां प्रेक्ष्य खिन्नाम् । किञ्चोधूतैर्मृदुलमरुता सन्ततं सत्पताका- जालैीजन्निव च कृपया सौधवातायनस्थाम् ॥ ६७ ॥ अन्तस्तापे सति विरहजे मेदुरेऽपि त्वयात्मा रक्ष्यस्तावत् तव सहचरो यावदायास्यतीह । इत्याद्यालीगिरि पठितिनीनां शुकीनां वचांसि श्रोत्रद्वन्द्वं तव सुखयितुं तत्र नूनं भवेयुः ॥ ६८ ॥ मत्प्रेयस्या विरहजपरीतापशान्ति विधातुं शीता मृद्दीरिह समुचिताः पल्लवालीम॑णालीः । नेतुं सौधादुपगतवतीरालिकास्तत्प्रवृत्तीः संपृच्छन्तः कतिचन नरास्तत्र दृश्या मदीयाः ॥ ६९ ॥ भूरिक्लान्तां मम सहचरी सन्ततं वीक्ष्य खिन्ना रोदारावानिव विदधती कूजितच्छद्मना सा ।
३६
कोकसन्देशे
संलक्ष्या स्यात् तव तत इतः सञ्चरन्ती कपोती-
पाली तत्र स्फटिकवलभीकान्तनियूहिकासु ॥ ७० ॥
विज्ञायतैरिदमिति ततो भ्रातरन्तर्गतेन
प्रेक्ष्या पूर्व विकचकमला दक्षतः कापि वापी ।
नित्यं स्नानोपगमसमये मत्प्रियागात्रवल्ली-
संसर्गोदित्वरपरिमलोद्रेकधन्याम्बुपूरा ॥ ७१ ॥
यस्या वीचीभ्रमकरमहाब्रह्मसूत्रानुषक्तै-
वैर्याख्यैर्मणिभिरुपवहासु पर्यन्तभूषु ।
ग्रीष्मे लीलाहरिणशिशवो भूरितर्षाः समेता
बम्भ्रम्यन्ते बहुलसलिलभ्रान्तिमन्तः समन्तात् ॥ ७२ ॥
यत्रत्यानां विकचसरसीजन्मनामूलभागे
पर्यन्तोप्तस्फटिकरुचिपु व्याप्तिमासेदुषीषु ।
मनान्यन्तस्सलिलममुकानीति भत्वा सखेदं
तत्रैवाहो वलति दयितासंयुतो भृङ्गसार्थः ॥ ७३ ॥
पूर्व यत्र प्रियसहचरीमन्तरस्थां प्रतीक्ष्य
प्रातः स्नेहप्रसरविधुरं पद्मकोशाग्रलीनम् ।
भृङ्गं दृष्ट्वा सकुतुकमहं कान्तया तावदुक्तो
दृष्टं कीटेष्वपि हि दयिताप्रेम हन्त त्वयेति ॥ ७४ ॥
नायाता सा कमलनयना स्नातुमधात्र किंवा
जातं तस्या इति हि कलयन्ती तदालोकनाय ।
भूयो भूयस्तटमुपगतैः स्थूलकल्लोलजालै-
र्या यान्तीव स्फुरति दयितावाससौधाग्रदेशम् ॥ ७५ ॥
उत्तरमागः । यस्यां वातः सरसिजरजोगन्धबन्धुर्विलोल- कल्लोलालीसलिलकणिकासङ्गतः शीतलात्मा । तापश्रान्त्यै समजनि पुरा साम्प्रतं विप्रयोगे मत्प्रेयस्या बत वितनुते तापमेवेति मन्ये ॥ ७६ ॥ प्राग्भागेऽस्या विपुलरुचिभिर्जात्यमाणिक्यरत्नैः सम्यग्बद्धः स्फुरति रुचिरः कोऽपि सोपानमार्गः। स्नानाद् धौतेऽपि च पदतले यस्तु लाक्षारसोत्यां कान्ति धत्ते बत निजमयूखोद्गमर्मत्प्रियायाः ॥ ७७ ॥ तत्रोपेते भवति मृदुलेनानिलेनोपनीता माध्वीलोभात् तरलमधुपत्रातदत्तानुयात्रा । जातीनूत्नप्रसवविसरोद्गत्वरी सौरभी सा नासानालं विकिरवर! ते मोदयिष्यत्यवश्यम् ॥ ७८ ॥ तामेवैनामनुसृतवता प्रेक्षणीयं त्वयास्या लीलोद्यानं कुसुमितकदम्बावलीलोभनीयम् । माध्वीमाद्यभ्रमरघनझङ्कारवाचालिताशं नानावल्लीतरुकिसलयोल्लोचिताभ्यन्तरालम् ॥ ७९ ॥ मृनन्नन्तः कुवलयदृशां मानवल्ली प्ररूढां भूयो भूयः पथिकहृदये वप्रलीलां च तन्वन् । स्वच्छन्दात्मा चरति परितो यत्र कु(जा)न्तरेषु प्रोदामोदित्वरमदभरः पुष्पबाणदिपेन्द्रः ॥ ८ ॥ माध्वीलुब्धैर्मधुपतरुणैरञ्चितान्यग्रभागे मालत्यादिवततिविततेः पुष्पजातानि यस्मिन् ।
३८
कोकसन्देशे
वेधुं यूनो बहलगरलाक्तान्यलं दुस्सहानि
प्रत्यक्षाणि स्मरशरशतानीव शश्वद् विभान्ति ॥ ८१ ॥
आग्रं मूलात् प्रभृति परितश्वश्चलीकानुषक्ताः
शाखाचनाद् भुवमुपगता नीपपालीगुलुच्छाः ।
प्रत्येकं ते कुसुमधनुषो मौविकावेष्टयमानं
न्यस्तं बाणासनमिव जगज्जैत्रमाभान्ति यस्मिन् ॥ ८२ ॥
बस्नेहं विहरणकलासक्तयोरावयोः प्रा.
गाकास्याः पिकमृदुगिरो मञ्जुला यत्र वाचः ।
स्वीयारावभ्रमयुतधियः पुष्पकालानपेक्षं
कुर्वन्ति स्म प्रतिकलमहो कोकिलाः कूजितानि॥ ८३ ॥
तस्य द्वारे विलसति (रु ? त)रुः कोऽपि नाम्ना नमेरुः
सम्प्रत्यम्भःपरिचयवशात् कम्रपर्णोधपूर्णः ।
शङ्के सोऽसौ मम खलु वियोगातुरायाः प्रियाया
हासालाभादुचितसमयेऽप्यैषमो नैव पुष्प्येत् ॥ ८४ ॥
यस्य स्निग्धा मरतकमणीवेदिका भाति तत्र
प्रोत्कीर्णायां कृतिषु कुशलैः कारुभिः पार्श्वदेशे ।
जातीवल्ल्यां मुकुलपदविन्यस्तमुक्तासु चित्रं
माध्वीलोभाद् भ्रमरपटली सन्ततं बम्भ्रमीति ॥ ८५ ॥
तस्योपान्ते स्फुरति महती केतकीवाटिकैका
शुभ्राकारस्फटिकवरणभ्राजिताभ्याशभागा ।
यस्यां वेधुं पथिकहदयं कुड्मलालीमिषेण
न्यस्तां मन्ये कुसुमधनुषा शातनाराचपङ्क्तिम् ॥५॥
उत्तरभागः । ३१ यत्रत्याना नवसुमनसां सौरभीवासिताशो गाङ्गेयश्रीदलपुटधृतः शोभते रेणुपूरः । सोऽयं तावन्मनसिजमहामान्त्रिकेण प्रयत्नात् सृष्टो नूनं युवजनमनःक्षोभणश्चूर्णभेदः ॥ ८७ ॥ तस्याः प्राच्यां दिशि युगमिते भूप्रदेशे प्रियालो भाति स्फायटिपविसरोल्लोचिताभ्रान्तरालः । वेदीदेशेऽपि च शिखरचूडासु चोद्यत्प्रवालो नूनं यूनामहह दयिताविप्रयोगे करालः ॥ ८८ ॥ प्राप्ते पूर्व सुरभिसमये गीतमस्मत्प्रियायाः श्रावं श्रावं श्रवणसुभगं पुष्पिताशेषशाखः । योऽयं भ्राम्यभ्रमरविरुतच्छद्मना (ता)नदानं तत्रातन्वन्निव समुद्भूत् तद्रसज्ञानशाली ॥ ८९ ।। सोऽसावेव प्रतिनवपयःशीकरान् मेघमुक्तान धृत्वा पत्रैर्मुहुरपि वमन् साम्प्रतं दृश्यते यत् । तस्मादस्या विरहविधुरस्वान्तवृत्तेताहो तादृग्गानश्रवणविगमाद् रोदितीवातिमात्रम् ॥ ९ ॥ पालाशाभाप्रतिफलनसम्भृतपालाशशोभै- रच्छच्छायस्फटिकमणिभिः क्लुप्तवेदीप्रदेशः । तोयासादधिकमधुना स्फीतशाखोपशाखो बीजापूरः स्फुरति सुमहान् कोऽपि तत्पार्श्वभागे ॥११॥ मत्प्राणानामधरसुषमा विद्रुमोल्लासिपुप्पै- वैक्षोजाभां कनककलशीतुल्यरूपैः फलौधैः
कोकसन्देशे
दन्तच्छायां रुचिरशिखरस्पर्दिभिर्बीजजातै-
धत्ते चित्रं भुवि सुकृतिनामग्रगण्यो य एषः ॥ ९२ ॥
तस्यादूरे सुरभिकुसुमापायतः शोचनीयः
सम्प्रत्यास्ते विपुलविटपः कोऽपि चाम्पेयशाखी ।
योऽस्मत्कान्तातनुरुचिसमानप्रभैः पुष्पपूरैः
पूर्व तावत् समजनि मया त्वादरादीक्ष्यमाणः ॥ ९३ ॥
मूले तस्य स्फुरति पथिकवातदुर्दर्शनीया
जाती काचिद् विकचकुसुमा भृङ्गपालीनिगूढा ।
मामीहक्षामिह हि समये वीक्ष्य मत्पोषयित्री
खिन्ना मा भूदियमिति शितिच्छायवस्त्रावृतेव ॥ ९४ ॥
रुद्धो मेधैरनुदितकरो मत्सखस्योपकार
कामस्याहं कथमिह करोमीति सश्चिन्त्य बुद्धया ।
निश्चित्याथो तुहिनकिरणो मौक्तिकच्छायमस्यां
पुष्पव्याजात् किरणनिकरं नूनमाविष्करोति ॥ ९५ ॥
उक्तैरन्यैः कुसुमतरुभिः केसराधैमनोज्ञै-
वल्लीजालैरपि बहुविधैर्भासमानस्य तस्य ।
आरामस्य प्रतिकलमनोहारिणो भाति मध्ये
क्रीडाशैलः कनकरचितो नूत्नरत्नौघदीप्तः ॥ ९ ॥
यत्रस्थं मामुपगतवती पूर्वमेषा कदाचि-
ल्लाक्षाबुद्ध्या बहलविसरत्पद्मरागप्रभासु ।
हा हन्तेाकलुषहृदया बोधिता यत्नभेदै-
स्तावत् तत्त्वं तद्नु सुमुखी कण्ठलग्ना ममाभूत् ॥९७ ॥
उत्तरभागः। अस्मत्कान्तां विजितसुमनोमानिनी द्रष्टुमाराद् देवाधीशः कुतुकभरतः प्राप्य यद्रूपधारी । अत्रामुक्तस्वमणिनिवहव्याजनेत्रावलीभिः पश्यन्नेतां निवसति मुदा निश्चलात्मेति मन्ये ॥९८ ।। यः प्रत्युप्तस्फुरितसुरराजोपलाली च्छलेन प्रेयस्या मे रुचिरतनुवल्लीसमालोकनाय । तप्तेन प्राग्विविधतपसा दैवतोपादवाप्ता- मुन्मील्यालं नयनविततिं साम्प्रतं तिष्ठतीव ॥ ९९ ॥ नानारत्नप्रकरविलसच्चारुपर्यन्तभागः स्वर्णा(त्मा) यः स्फुरति हि महामेरुणा तुल्यरूपः । किञ्चाधिक्यं यदि सुरवधूवासभूरित्यमुष्य प्रास्यत्यद्धा तदपि दयितानित्यसान्निध्यशाली ॥ १०॥ तेनात्यन्तं विहृतिगिरिणा भासमानादसुष्मात् पुष्पोद्यानाद् बहिरूपगृहं काञ्चनोद्भासिताया । मूले नीलोपलपटलिकाबद्धवेदिप्रदेशा दृश्यानारा लसति शिखिनो वैद्रुमी वासयष्टिः ।। १०१ ॥ हाग्रस्थां मम सहचरी विद्यु हुल्लासिका(यां) नीलाम्भोदप्रतिमचिकुरां वीक्ष्य वर्षानपेक्षम् । कीडाकेकी प्रमदपरिपूर्णान्तरङ्गः कलापं चक्रीकुर्वन् नयनसुभगं यत्र नृत्तं तनोति ॥१०२॥ यत्र स्थित्वा सकलजनताकर्णपीयूषयूषैः केकारावैः पथिकहृदयोद्वेजकैबर्हिणोऽयम् । G
४१६
कोकसन्देश:
आलीवगैः शिशिरविधिना किञ्चिदाश्वास्यमानां
सम्प्रत्येनां प्रियसहचरी बाधते हन्त नूनम् ॥१०३ ॥
यस्यां सोऽयं सुललितकलापावलीदर्शनाय
प्रत्यक्षं यद् विहरति सदा मत्प्रियायाः सुकेश्याः ।
मन्ये तस्मादिह भुवि विशेषावबोधप्रहीणे
तिर्यग्यूथेऽपि च भवति हि स्वीयचारुत्वबुद्धिः ॥ १०४ ॥
तत्रादुरे कनकसुषमाहारिकान्त्या हरिण्याः
सर्वाङ्गीणैर्विशदरुचिभिविन्दुभिः प्रोल्लसन्त्याः ।
बस्नेहं प्रतिकलमलं मत्प्रियालालिताया
वस्तुं वेदी भवति खचिता वज्ररत्नैरुदारैः ॥ १०५ ॥
स्वाही मृद्दीमधिकहरितां यत्र वेदीधरण्यां
तृण्या तृण्वत्यपि विदधती चापि रोमन्थचेष्टाम् ।
सेयं क्रीडाहरिणतरुणी (वृ? विस्मृ)तारण्यदेश-
स्वैरावासा निवसति सुखं प्रेमपात्री प्रियायाः ॥१०६ ॥
मत्प्रेयस्याः प्रस्मरकटाक्षाञ्चलैनिर्जिताभिः
प्राप्तारण्यक्षितिभिरुदितोद्वेगमेणाङ्गनाभिः ।
सश्चिन्त्याथो सरलमतिभिः प्रेषिता चैतदाप्त्यै
नूनं तस्या वसति सविध सन्ततं सा सुशीला || १०७ ॥
मुग्धापाझ्या मुखसरसिजे सादरं दत्तदृष्टिः
सैषा लीला बत विवलते सन्ततं सन्निधौ यत् ।
तस्मादेव प्रकृतिमधुरापाङ्गभङ्गीस्तदीयाः
सम्पश्यन्ती हृदि समुदयविस्मयेतीह शङ्के ॥१०८॥
उत्तरभागः । ४३ तस्यां तावद् विरहरुजया निर्भर पीडिताया- मालीवर्गे तदनुसरणव्याहृतौ च प्रवृत्ते । तृण्यादानस्वतनुनिपतदंशरोधादिकानां क्लिश्येदेषा नियतमधुना लालनानामभावात् ॥१०९॥ प्रत्यग्राकृरितसिततरच्छायगुच्छावलीको द्राधिष्ठाभिः शिखरततिभी रुडरोदोन्तरालः । माध्वीतृष्णातरलभसलवातदेदीप्यमानः संलक्ष्यः स्यात् कुटजविटपी प्रागतो वेदिकायाः॥११०॥ कन्दर्पण प्रसितमनसा वेधुमस्मानिदानी विन्यस्तानामिह दृढतरं हन्त बाणोत्कराणाम् । अग्राणीमान्यधिकनिशितान्युज्ज्वलानीति नूनं मन्यन्ते यन्मुकुलनिवहान् प्रेक्षणैर्विप्रयुक्ताः ॥१११॥ आशास्यानां भुवनजननीदृग्विलासाश्चलानां लीलारामः सकलजनतानेत्रपीयूषधारा । भूषाभूता निखिलधरणीमण्डलस्यातिहृद्या तस्य प्राच्यां दिशि विजयते ह्यावयोर्वासतेयी ॥ ११२॥ सोपानेषु प्रघणनिवहेष्वङ्कणक्षणातलेषु स्थूणादण्डेश्वररततिषु खच्छकुड्यान्तरेषु । निर्वृहेष्वप्यधिकरुचिरैः शिल्पभेदैरलं या देवत्वष्टुः करकुशलतागर्वसर्वस्वहन्त्री ॥११३॥ कक्ष्याभूमिष्वधिकरमणीयासु नित्यं कलाभिः .. प्रोद्यद्रागं सह युवतिभिर्य(ब) संक्रीडमानाः । .
कोकसन्देशे
ब्रह्मानन्दः सकलविषयोद्भूतसौख्यातिशायी
नूनं लोकेष्विति हि निगमोक्तेषु नो विश्वसन्ति ॥ ११४॥
स्वीये पापे क्षयमुपगते पुण्यशेषांस्तु भोक्तुं
जायन्ते ये जगति मनुजाः स्वैरवासाय तेषाम् ।
एषा नूनं कमलजनुषा कल्पिता विश्वरम्या
नोचेदेवं कथमिह भवेत् सौख्यमस्तान्तरालम् ॥ ११५ ।।
तस्यास्तन्व्याः सुललिततनूकल्पवल्लीसनाथा
नित्यं तहागमृतलहरीपानमाद्यज्जनौघा ।
किश्चामुष्या नयनयुगलीकामधेनूदितश्री-
रन्या धन्या क्षितितलगता काप्यसौ देवभूमिः ॥ ११६ ॥
अत्यच्छानामभिनवसुधारोचिषां कन्दलीभिः
शश्वद्विश्वान्यपि विशदयन् साधु दिङ्मण्डलानि ।
न्यूनीभावं निजगुणगणैर्वैजयन्तेऽपि कुर्वन्
प्रासादोऽस्यां खलु सुखकरो राजते राजयोग्यः ॥११७॥
वाम्भोजं मृदुलहसिताङ्करमालोकयन्तौ
भूयो भूयो नहि परमलम्भावमासेदिवांसौ ।
लीलापाङ्गप्रसरणकलाव्यजिताकृतभेदी
लोलात्मानौ चिरमिव पुराकुर्व यत्राधिवासम् ॥ ११८ ॥
अस्योपान्ते नयनसुभगाभोगभागाम्रवृक्षो
भाति श्रीमान् विविधविटपारुद्धवातायनाध्वा ।
पाण्डुश्रीभिः परिणतफलैरञ्चिताशेषशाखः
स्वोत्सेधेन स्थगितगगनप्राङ्गणो माननीयः ॥ ११९ ॥
उत्तरमागः। सोऽयं तावत् कनककपिशैः पक्कजालैरसङ्ख्यै- रस्मिन् काले भवति नितरां नम्रशाखाप्रपञ्चः । एनामस्मद्विरहविधुरागात्मनः पोपयित्री- मालक्ष्यालं व्यसनभरतोऽवाङ्मुखस्तिष्ठतीव ॥ १२०॥ जालोपान्तं गतवति तदीये तु वीताम्बुपाते कम्राकारे शिखरशिखरे प्राणनाथासमेतः । आरस्व स्वैरं प्रियसख! तथा वीक्षणीयं यथा स्या- दन्त(व ? )त्तं निखिलमपि ते मत्प्रियावासभूमेः॥१२१॥ तावत् तस्याः शिशिरविधिषु व्यापूतानां सखीनां गच्छन्तीनां द्रुतमत इतो हन्त सन्तापगर्भम् । अन्योन्यस्य प्रचुरकरुणं व्याहृतं मन्दमन्दं श्रुत्वा भ्रातस्तदनु नयने प्रेरयान्तनिशान्तः ॥ १२२ ॥ नासानालोपरिपरिमिलतर्जनीका नितान्तं दीधैः श्वासैस्तरलितकुचा म्लानबिम्बाधरोष्ठ्यः । मानम्रास्याश्चलितधृतयस्तावदस्मप्रियायाः 'केलीसख्यस्तदनु भवता तत्र दृश्या भवेयुः ॥ १२३ ॥ तत्रैव स्यात् कचन मृदुलैः पछवैरात्तवैर्वा तस्यास्तापं लघु शमयितुं कल्पितः कोऽपि तल्पः । पूर्णाभ्यर्णस्तुहिनसलिलाभिश्रपाटीरपङ्क- प्राणैः पात्रैसिकिसलयैस्तालवृन्तादिभिश्व ॥ १२४ ॥ तल्पे तस्मिन्नधिकमलसाङ्गी शयाना लुठन्ती पाण्डुच्छाया कृशतनुलता नेत्रपीयूषधारा ।
कोकसन्देशे
द्रष्टव्या सा मम सहचरी दीनबन्धो! तव स्यात
तोयोन्मुक्ता मृदुबिसलतेवातपक्लिष्टरूपा ॥ १२५ ॥
तस्याः स्निग्धा जितहरिमणीकान्तयः केशपाशा
। ये वा पूर्व प्रणयसरसं शीलिता मत्कराभ्याम् ।
वणीभूता विरहजरुजा साम्प्रतं वीतशिक्षा-
स्तेऽमी भूमीतलविलुठनाद् धूसरा हन्त जाताः ॥ १२६ ॥
नानाभङ्गीरुचिररचनाचातुरीदूरशून्या
रुद्धापाङ्गप्रसरमधुना गण्डयोलम्बमाना ।
हा हा कष्टं कुवलयदृशस्तादृशी सालकाली
यायान्नूनं परिजनदृशां शोचनीयामवस्थाम् ॥ १२७॥
तन्व्यास्तस्या गतमृगमदस्थासकं तल्ललाटं
रम्याकारं सुचिरविरलीभूतमालयलेपम् ।
धूम्रच्छायं नभसि तमसा ग्रस्तशिष्टं त्रिभागं
प्रालेयांशोरनुसरति हा नूनमस्यां दशायाम् ॥ १२८ ॥
धात्रा लोके मदनधनुषो नित्यमुज्जृम्भमाणं
गर्वोद्रेकं शमयितुमिव प्रागुभे निर्मिते ये ।
कुर्वाते ते हहह शिथिलीभूतलीले तदीये
चिल्लीवल्ल्यौ हृदयमधुना मामकं भूरितापम् ॥ १२९ ॥
निर्यद्वाष्पं विरहरुजया मीलितं सार्वकालं
निद्राभावात् किमपि कलुषं नेत्रयुग्मं तदीयम् ।
नक्तं पाथोरुहमिव तुषाराम्बुभिः सिच्यमानं
सञ्चिन्त्याहो हृदयमधिकं दूयते मामकीनम् ॥ १३ ॥
उत्तरमामः। तत्तञ्चिन्ताभरसमुदयस्विन्नगण्डानुषङ्गा- दीषन्म्लायत्किसलयमयोल्लासिकर्णावतंसौ शोच्याकारावपगतमणीकुण्डलावेतदीयौ कर्णी स्मृत्वा कथमपि मया जीवितं धारणीयम् ॥१३१॥ अन्तस्तापादविरलगलवाष्पधार। निपाते. निश्शेषेण क्षपितविलसत्पत्रलेखौ तदीयौ । गण्डोद्देशौ बदनपवनासङ्गवैवर्ण्यभाजौ रत्नादर्शाविव नयनयोः खेदमापादयेताम् ॥ १३२ ॥ आकृत्यैव प्रथमममुकैर्वज्रपुष्पैरुदारै- स्तस्यास्तावत् सरसिजदृशो नासिकासाम्यमाप्तम् । पाण्डिन्न्यस्मिन्ननुदिनमवस्थान्तरे जृम्भमाणे सर्वाङ्गीणे मनसि कलये कान्तिभूम्नापि चेति ॥ १३३ ॥ आरक्तेन स्फुटमिह तुलां येन सम्प्राप्तुकामो मग्नो नूनं जलधिषु तपस्तप्यतेऽलं प्रवालः । मुग्धापाङ्ग्याः श्वसितपवनैदीर्घदीधैरिदानी वैवयं हा भजति नियतं सोऽपि बिम्बाधरोष्ठः ॥ १३ ॥ भास्वन्मुक्तामणिगणरुचीभारचोरात्मभासा ये वा कुन्दप्रसवसुषमाकन्दलीबाल नख्या । हासाभाया व्यदधत पुरा पौनरुक्त्यं बतास्या- स्तेऽमी दन्तास्तदपगमतः साम्प्रतं शोचनीयाः ॥ १३५ ॥ आलीपालीहृदयविवशीभावमापादयन्त्यः शश्वद्वाष्पाकुलगलतया दूरमस्पष्टवर्णाः ।
१८
कोकसन्देश
सारङ्गाक्ष्या विगलितदशादेशकालावबोधाः
कष्टं कष्टं कथमपि गिरो निस्सरन्त्यद्य नूनम् ॥ १३६ ॥
यत्सौन्दर्य परमियदिति ज्ञापनायात्र वाचा
नैपुण्यं नो जगति विगमात् तुल्यवरत्वन्तराणाम् ।
ताहग वक्र विगतहसितं विच्युतभ्रूविलासं
जातं सम्प्रत्यपगतकटाक्षाञ्चलं चञ्चलाक्ष्याः ॥ १३७ ॥
आकारण स्फुटमिह जिता येन शङ्खाः सलज्जाः
सर्वे नूनं जलधिकुहरे सन्ततं संविशन्ति ।
हारावल्या बत विरहितः साम्प्रतं सोऽपि कण्ठ.
स्तन्व्यास्तस्यास्तनुरतनु मे तान्ततामातनोति । १३८ ॥
मा मा पीडा भवतु नितरां क्षीणसर्वाङ्गयष्टे.
रस्या ह्यस्मद्वहनवशतो नूनभित्याकलय्य ।
बाहानालाद् विलुलितमृणालीलतालोभनीया-
न्मन्दं मन्दं कनकवलयैः प्रस्थितं मञ्जुशिजैः ॥ १३९ ॥
औन्नत्येन क्षितिधरकुल मत्त कुम्मीन्द्रकुम्भा-
नुवृत्तत्वात् कमलमुकुलांश्चापि रम्याकृतित्वात् ।
न्यक्कुर्वाणी शिथिलघुगणालेपकौ बारिजाक्ष्या
वक्षोजौ तौ नियतमधुना हन्न काठिन्यशून्यौ ।। १४० ॥
यस्या नैसर्गिककृशतया ह्यस्ति नास्तीति वादे
जाते सत्ता परमनुमिता पूर्वकायावलोकात् ।
सर्वेष्वङ्गेष्विह हि समये वर्धमाने तनुत्त्रे
तन्व्यास्तस्याः कथमिव दशां मध्यवल्ल्या वदामि ॥११॥
उत्तरभागः। ४९ आनीलश्रीरधिकमृदुला नीलपङ्केरुहाक्ष्या- स्तस्याः सैषा बत तनुतरा राजते रोमराजिः । कन्दर्पस्य स्वपुरनिकटाद् यातुमारादुरोज- क्रीडाशैलं हरिमणिशिलानिर्मिता पद्धतीव ॥ १४२ ॥ नागस्त्रैणं नरवधुजनं नाकनारीनिकायं निर्जित्यालं निजगुणगणैर्नित्यमुज्जम्भमाणैः । बद्धं लक्ष्मत्रयमिव जयख्यापनायात्र तन्व्या. स्तादृमध्ये त्रिवलि नितरां भासते निम्नरूपम् ॥ १४३ ॥ सारङ्गाक्ष्याः सकलसरसीसैकताभोगचोरः श्रोणीभारः स हि घनतरो रम्यरूपोऽतिमात्रम् । तादृक्काचीगुणविरहितः साम्प्रतं शोचनीयो जातो नूनं मलिनवसनोऽपीति खेदाकुलोऽस्मि ॥ १७४ । तस्याः कोष्णं शिशिरसमये शीतलं यच्च धर्म- ऽप्यूरुहन्हें कनककदलीकाण्डपाण्डित्यहारि । सम्प्रत्येतद् बिरहजनिते जृम्भमाणेऽङ्गकानां तापोद्रेके भवति नियतं नित्यमत्युष्णमेव ॥ १४५ ॥ तस्या जानुहयसुभगतामीक्षमाणाः समुद्गाः स्वीयं रूपं जननयनयोर्गोचरे संविधातुम् । लज्जावन्तः स्फुटमतितरां गूढमन्तर्निशान्तं पेटीजाले विधति सदा हन्त वासं कथञ्चित् ॥ १४६ ॥ नालं दीर्धे नच लघुतरे ते क्रमाद् वृत्तरूपे तस्या जङ्घ चिरमिव विजेतुं प्रयत्नानकुर्वन ।
५०
कोकसन्देशे
तद्वैफल्याज्जनितरुजया केवलं मेचकाभा
वर्तन्ते ते नियतमखिलाः केकिनां कण्ठकाण्डाः॥१४७॥
पादद्वन्दं मृदुलमरुणं पल्लवेभ्योऽप्यमुष्या-
स्तन्व्यास्तन्वन्नखिलजगतां जङ्गमाम्भोजशङ्काम् ।
कष्टं सम्प्रत्यपगततुलाकोटिलाक्षारसत्वाद्
धत्ते चित्ते किमपि विकृति मामकेऽजातपूर्वाम् ॥ १४८ ॥
यत्सौभाग्यं नयनसुभगं नान्यसिद्धं स्वकानां
लब्धुं नूनं द्रुहिणमनिशं सेवते हंसराजः ।
सम्प्रत्यस्या विरहरुजया पुष्पशय्यां गतायाः
कीदृश्यासीदिति न कलये तादृशी यानभङ्गी ॥ १४९॥
इत्थं ताम्यत्सकलकरणस्वाङ्गका साम्प्रतं सा
नीलाम्भोदान् नभसि निबिडान् वर्षणायावरूढान् ।
वातावाप्त्यै विघटितकवाटेन वातायनेन
प्रेक्षं प्रेक्षं क्षणमतितगं व्याकुला वा शयाना ॥ १५ ॥
अन्तस्सौधं स्वभुजलिखिते मय्यमौ सत्यबुद्ध्या
रोषस्नेहादिकविवशधीरथुपर्याकुलाक्षी ।
एतावन्तं समयमनुक ! कासि यातोऽतिरक्ता-
मेतां त्यक्त्वेत्यवनतमुखी भाषमाणा स्थिता वा ॥ १५१ ।।
उत्थायातः शयनतलतो वेगतो यातुकामा
पृष्टा सख्या किमिदमिति सा यामि कान्तोपशल्यम् ।
इत्थं वादिन्यधिकविधुरत्वात् पतन्ती तयैव
स्नेहात् + + करसरसिजेनालमालम्बिता वा ॥ १५२॥
उत्तरभागः । आलीवगैधिरमिव पुरा पाठितं नाम मत्कं भूयो भूयः स्फुटतरमभिव्याहरन्तीं शुकीं ताम् । शारि! त्वं चाप्यहमिव सदा तं पतिं स्नेहतः किं ध्यायस्यद्धेत्यधिककरुणं प्रोच्य खेदाकुला वा ॥१५३॥ विश्लेषार्तिप्रसरणवशाद् दूरमामीलिताक्षी म्लायहका विरहितपरिस्पन्दनाशेषगात्रा आहूतापि प्रियपरिजनैरात्मबोधं न यान्ती जातातङ्कं बत कृतमिथोवीक्षणैरीक्षिता वा ॥१५४ ॥ देहं वोढुं विरहविवशा नाहमद्यास्मि शक्ता कामः कामं दहतु भवतीनामलं व्यापृतेन । इत्थं वाक्यैरनुचिततरैः खेदयन्ती नितान्त कुर्वाणा वा परिसरगताः कृत्यमूढा वयस्याः ॥१५५ ।। तुल्यावस्थस्तव हि दयितः क्षिप्रमायास्यति त्वा तस्मादेतां तनुमतितर्नु रक्ष तावन्मनोज्ञाम् । आलीमित्थं समभिदधती भन्दभाग्यामिमां मां मा मा संरोचय सखि ! मुधेत्यालपन्ती नु बाला ॥१५६ ॥ हंहो निद्रे! भगवति ! यया हन्त कारुण्यपूरा- देतावन्तं समयमनुकेनात्र संयोजिताहम् । सा त्वं रुष्टा कुत इह जने को नु वास्यापराधः सञ्जातोऽयेत्यधिककृपणं व्याहरन्ती नु सैषा ॥ १५७ ॥ एते सर्वे शिशिरविधयो वार्षवाताश्च शीताः सन्तापौघं मम हि नितरां वर्धयन्त्यद्य कष्टम् ।
कोकसन्देशे तस्मादेतत्पशमनविधौ प्राणनाथानुचिन्ता नाना नान्या गतिरिति मम ध्यानमातन्वती वा ॥१५८॥ एषा मोहं किमु गतवती निद्रया मुद्रिताक्षी किं वा नालं गदितुमिति वा मौनमुद्रां भजन्ती। इत्थंकारं क्षणमनु मिथः साधु सन्दिह्य दृष्टा स्वालीवृन्दैः कुसुमशयने सा शयाना नु खिन्ना ॥ १५९॥ एवं तस्याः पतग! भवता वीक्षितायास्तदानी- मात्मोत्थानि क्षितितलगतान्यभ्रमार्गोद्भवानि । वैविध्येन स्फुटमिति भवेयुनिमित्तानि तानि स्त्रीणां यानि ह्यविकलमुदर्क सुखं सूचयन्ति ॥१६० ॥ दृष्टे तावद् बहु सुशकुने बोधितालीजनैः स्वै- रेतादृश्या मम कथमिदं जातमित्युत्थिताशा । सेयं नेत्रद्वयमथ समुन्मील्य सञ्चारयन्ती दृष्टिं दिक्षु प्रियसख ! पुरस्त्वां समीक्षेत नूनम् ॥ १६१॥ भ्रातर्नृणामिह सुदिनतासूचकात् तावकीना- दालोकादप्यधिकपरितुष्टान्तरङ्गों तदानीम् । कोकः सोऽयं निरुपमरुचिः को नु वेत्यात्तचिन्तां कान्तामेतामिति निगदितुं सादरं प्रारभेथाः ॥ १६२ ॥ मां जानीयाः कुशलिनि! तव प्राणनाथेन तावत् सायं सायं विदितदयिताविप्रयोगव्यथोऽयम् । ईदृग्दौत्ये समुचिततरो नूनमित्याकलय्य प्रोच्य स्वार्थान् प्रणयसरसं प्रेषितं चक्रवाकम् ॥ १६३ ।।
उत्तरभागः। इत्थं, वाक्ये श्रुतिपथगते सम्मदाविष्टचित्ता- मुद्यत्स्नेहस्तिमितनयनं प्रेक्षमाणां भवन्तम् । अस्मद्वृत्तं सकलमचिरादादितो वर्णयैनां विश्वासोऽस्याः पतग! भवति प्रागदृष्टे यथा स्यात् ॥ १६४॥ मा मा खिन्ना भवतु भवती मानिनीमौलिमाले! कामेनालं दलितहृदयो दुस्सहे त्वद्वियोगे । त्वामेवैतां मनसि सततं चिन्तयन् वल्लभस्ते सम्प्रत्यास्ते जगति विदिते श्रीविहाराख्यदेशे ॥ १६५ ।। सोऽयं पश्यन् दिशि दिशि सतीं बर्हिणां नृत्तलीलां जातीजाते तरलमधुपश्रेणिकां चाभिरामाम् । धम्मिल्लं ते रतिविगलितं मञ्जुलं वा कटाक्ष स्मारं स्मारं हहह बहुशो मूर्छनामभ्युपैति ॥ १६६ ॥ आपूर्णेन्दुप्रतिमवदनां नीलजीमूतकैश्यां राजन्मुक्ताफलनिभरदां सत्प्रवालाधरोष्ठीम् । कान्तामेतां हृदि कलयतोऽपीह मे चित्ततापो भूयानास्ते किमिदमधुनेत्येष चिन्तां च याति ॥ ११७ ॥ माद्यहन्तावलवरशिरोभासुरश्रोणिदेशां पीनोत्तुङ्गस्तनभरयुगां त्वां वहन् मानसेन । पान्थः सोऽसावधिकसुभगे! दीर्घदीर्घ कवोष्णं श्वासान् मुञ्चन्ननिशमयति स्विन्नगात्रोऽनुतापम् ।। १६८ ॥ तान्तेनैवं द्रुततरमिहागन्तुमप्रौढिभाजा कान्तेनोद्यत्प्रणयमनसा साहसाशङ्कया ते । E2 कोकसन्देशे रम्या वाचो मयि विनिहिता गूढसन्देशयुक्ताः सम्प्रत्येताः शृणु सुवदने! मन्मुखादादरेण ॥ १६९ ॥ प्रारब्धोऽहं प्रणयिनि ! परं विप्रयोगातुरात्मा मन्दं मन्दं तव तु सविधं यावदायातुमासम् । तावल्लोलज्जलदपटलोल्लोचिताकाशदेशः कालोऽप्यासीदधिकविकसत्केतकीवासिताशः ॥ १७० ॥ तावन्नीडे कृतविहरणं चातकद्वन्दमारात् क्रीडावापीतटपरिसरोद्यानवृक्षान्तरेषु । आलोक्यालं सति! रतिकलामावयोरद्य तान्ता- मालोच्याहं कमलवदने ! दुर्दशां निर्विशामि ॥ १७१ ॥ तोयाममं कमलमुकुलं कान्तिजालावृतं ते वक्षोजातद्वयमपि तथैवोच्चलन्मीनजातम् । नेत्रहन्द जलविलुलितं गैरिकं पादलाक्षा चास्मान् संस्मारयदतितरां तापभारं तनोति ॥ १७२ ॥ विद्युल्लेखां मुहुरपि समुद्दीक्ष्य विद्योतमानां सद्यः खिद्यन्नयि ! सहचरीत्यालपन्नुत्थितोऽहम् । त्वबुद्ध्या तां किमपि गदितुं सम्प्रवृत्तस्तदानी तत्रादृष्ट्वा कमलनयने! भूरिबाष्पं वमामि ॥ १७३ ॥ श्रोत्रयां स्तनितनिनदो नेत्रयोर्वर्षलक्ष्मी- ोणे जातीविकचकुसुमोद्भूतसौरभ्यभूमा । गाने तावज्जलदपटलोल्लोलमन्दानिलश्च क्लेशं धत्ते भृशमिह वयं वल्लभे! किन्नु कुर्मः ॥ १७४ ।।
उत्तरमागः । ५५ वर्षास् त्वां प्रणयिनि ! पुरा कुङ्कुमालिप्तगात्री- माश्लिष्यन्तं मुदितमनसं मां व्यधुस्तद्गुणा ये। तेऽमी केकारवजलधरारावविद्युल्लताद्या विश्लेषे ते सहचरि ! परं खेदयन्त्यद्य कष्टम् ॥ १७५ ॥ लोलापाङ्गि ! स्मरशरमिषादिन्धनं योजयित्वा भूयो भूयो जलदपवनेनाशु सन्धुक्षितस्य । विश्लेषामेर्मम तनुमिमां दग्धुमत्युत्सुकस्य त्वत्कध्यानामृतविकिरणैः स्तोकतामातनोमि ॥ १७६ ॥ एवं तान्ता वयमिह तथाप्यद्य धैर्यावलम्बा- दायास्यामः सविधमयि! ते मन्दपाद*प्रचारैः । तत् तावन्तं क्षपय समयं त्वद्विनोदैकहेतो- रालीवृन्दैरविरतकृतैश्चारुलीलाविशेषैः ॥ १७७ ॥ प्राप्ते भूयः प्रणयिनि मयि प्रेयसि ! त्वत्समीपं प्रीतावावां द्विगुणिततरप्रेमभाजौ तदानीम् । कीडिष्यावः सहचरि! यथाकाममुत्तुङ्गशृङ्गे सौधोत्सङ्गे विगतविरहक्लेशभाजौ चिरेण ॥ १७८ ॥ भूयो वच्मि प्रणयिनि ! पुरा प्रापिता कामपी| मिथ्यारूपां मम परवधूसङ्गमावेद्य सख्या । तावत् प्राप्तं परमविरलालेपदोरन्तरालं मामालक्ष्य त्वमपि मुदिताश्लिष्टवत्यञ्जसाभूः ॥ १७९ ॥ बाले! पूर्व खलु मणिमये नौ निशान्ते निशायां प्राप्ता स्वीयां तनुमपि ममोपान्तभित्तौ स्फुरन्तीम् । * 'प्रचाराः' इत्यपि पाठः. । 'व्यपहतरुषाश्लिष्ट' इत्यपि पाठः,
कोकसन्देशे
दृष्ट्वा रोषाद् वलितबदनाभूस्तदाभ्येत्य तूर्ण
गाढाश्लिष्टा कथमपि मया बोधितारं यथार्थम् ॥ १८० ।।
मानेन प्रागसितनयने ! मालतीकुञ्जगूढा-
मन्विष्य त्वामतिचिरमनालोकनेनाकुलं माम् ।
दृष्ट्वा वातप्रचलितदलाम्यन्तरेणाथ वेगा
निर्यातेा द्रुततरमुपागम्य चामोदयस्त्वम् ॥ १८१ ॥
कार्यव्याजान्निजपरिजनं तावदौचित्यहीनं
दूरीकृत्य स्मरपरवशा केलिगेहे निशायाम् ।
तल्पं प्राप्ता परिणतशरच्चन्द्रकल्पं सरागा
किञ्चापागान मयि कृतवती तस्थुषी पूर्वमासीः॥१८२ ॥
एतत् सर्वं सहचरि ! भया भाषितं पूर्ववृत्तं
श्रुत्वा तावत् समुदितकृतप्रत्यभिज्ञानयोगात् ।
आज्ञायास्मानपि कुशलिनो यावदायाम तावत्
प्राणान् प्राणेश्वरि ! जिगमिषून् कण्ठनाले निरुन्धि
[॥ १८३ ॥
एवं प्रोक्तैरभिनवसुधासोरैमहचोभिः
सन्तापाता मम सहचरौं भ्रातरामोदयेथाः ।
अत्युग्रोष्मागमरविकरक्लिष्टरूपां मनोज्ञा
जातीवल्लीमिव जलधरो नूतनैरम्बुवर्षेः ॥ १८४ ॥
विश्वासाद्यैस्त्वयि तु विवराशोकसत्तायुतोऽलं-
भूष्णुद्देष्याम्यरकममरोकोमुकुन्देऽन्विवाहम् ।
आचैत्रायां व्रज च विगदं बध्नदत्ताशबुद्धे
पद्यामेतद्विरदयदिताजिमददिकाव्यम् ॥ १८५ ॥
५७ उत्तरभागः। इत्थं प्रोक्तं सकलमपि मे वाक्यमुक्त्वा प्रियां तां ब्ध्वा तस्याः पुनरनुमति सप्रियस्त्वं यथेष्टम् । इष्टान् देशान् भुवनमहितान् प्राप्य तत्रेक्षकाणां मोदं तन्वन् विचर विहगश्रेष्ठ ! विवाधिकश्रीः ॥ १८६॥ इंति कोकसन्देशे उत्तरमागः ॥ कोकसन्देशः समाप्तः ।। शुभं भूयात
No text on this page.