S.P College, Srinagar

Shri Amrushataram

Shankar Acharay · 2012

PDF Proofread

Front matter

No text on this page.

COLLEGE
punihil
TAP
RATA
PR
SRI
LIBRARY
Class
891.263
552A
Book No.
Accession No.
4240

No text on this page.

श्री:
अमरुशतकम्।
अमरुराजकायावेशानुभूतशृङ्गारैः
श्रीशंकराचार्यविरचितम् ।
ज्ञानानन्दकृतशृङ्गारशान्तरसहयबोधिन्या
कामदया टीकया सहितम् ।
सटीकघटकपरकाव्यसंयुतंच.
ऐनापुरेउपाख्यवद्यवासुदेवशास्त्रिभिः संशोधितम् ।
तदेतत्पुस्तकं
श्रीकृष्णदासात्मजखेमराजश्रेष्ठिना
मुम्बय्यां
"प्रबोधरत्नाकर' मुद्रायन्त्रालये
अङ्कयित्वा प्रसिद्धिमनायि.
शकान्दाः १८१६ विक्रमसंवत् १९५०
ग
7

No text on this page.

श्रीः। प्रस्तावना. इयमत्र कथोपलभ्यते आसंश्चात्रावनितले स्वधर्माव- नाय नास्तिकमतखण्डनगृहतिमनुजविग्रहाः शंकराचा- र्याः केरलेषु । यदाचेमे पृथिवीतले सर्वनास्तिकजनमतख- ण्डितुकामा व्यचरंस्तदा च पण्डितो मण्डनमिश्रो नाम क- श्वन सर्वशास्त्रविशारदः शारदापतिरिवाभूत्तेन च साकमिमे यदा वादायादरं कृतवन्तस्तदा तस्मिन्वादे मण्डनमिश्रम- धिश्रिता तत्स्त्री सरस्वती तान्कामशास्त्रे पराजितवती तदा तस्या मासत्रयमवधिमाधाय कस्य चिन्मृतस्यामरुनाम्नो राज्ञः शरीरे योगेन प्रविश्य तस्य स्त्रीशतमानन्दमुपभुज्य कामशास्त्रं कामतो विचार्यैनमरुशतकं नाम ग्रन्थमकुर्वन् तथा चोक्तं शंकरदिग्विजये माधवाचार्यैः- मनसिजकलातत्त्वाभिज्ञोमनोज्ञविचेष्टितः सकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः। कृतकुचगुरूपास्त्यात्यन्तं मुनिर्वृतमानसो निधुवनपरब्रह्मानन्दं निरर्गलमन्वभूत् ॥

२ एवमनुभूतानन्दतां कथयित्वा- वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यंचनिरीक्ष्यसम्यक् । स्वयंव्यधत्ताभिनवार्थगर्भ निबंधमेकंनृपवेषधारी॥ सएवायं ग्रन्थोमरुशतकं नामेति वदन्ति अत्र च शृंगारः साक्षात् सम्यक्तया स्वरूपतोऽदर्शि । एतद्रंथोपरि च स्वामिसदानन्दकृता टीका शृंगाररसवै- शारदी विद्यते परमपि वेदान्तानुकूलाऽन्यापि व्याख्या तैः शंकरस्वाम्यनुगामिशृंगाररसानास्वादनशीलानपि भक्त्यु त्पादायकृता । एवं टीकाद्वयोपेतमेतत्काव्यममरुशतकं संशोध्य मुद्रितमत्र ग्राहकैर्ग्रहणेन प्रोत्साहनीयमस्मानेवमे- वान्यपुस्तकमुद्रणे । अग्रे च घटकर्परमपि काव्यं विक्रमार्क- राजसभानवरत्नराजिविराजितकविवरघटकर्परनामधारिणैव प्रणीतं सटीकं मुद्रितमस्तीति साक्षादृष्टभिर्दृश्यत एवेत्यलम्। खेमराज श्रीकृष्णदास. श्रीवेंकटेश्वर छापखाना. मुंबई.

अमरुशतकं कामदया टीकया सहितम्. ॥ श्रीगणेशाय नमः ॥ ज्याकृष्टिबद्धखटकाम खपाणिपृष्ठप्रसन्नखांशुचयसंवलितोऽम्बिकायाः । त्वां पातु मञ्जरितपल्लवकर्णपरलोभभ्रमद्ध- मरविभ्रमभृत्कटाक्षः ॥ १॥ श्रीगणेशाय नमः ॥ विद्या वितरति मुक्तिं भुक्तिमविद्या च तां भजिष्यामः । या च रमा चरमा या शक्तिः सा नः शिवं दिशतु ॥ १ ॥ तंदुभयरसपरिपाटी परिहतवाटीमिमां रम्याम् । कुरुतेऽमरुशतटीका ज्ञानानन्दः कलाधारः ॥ २ ॥ योऽसौ भाग्यवता विभक्तवलितज्ञानामृतानन्दयुर्यो वात्स्या- यनकामतन्त्रविलसत्केलिक्रियाकौशलः । व्याचक्षेऽत्र रस- इयं कविकुलालंकारचूडामणिः श्रीलश्रीरविचन्द्र एष पिशुनां मात्सर्य्यतामुत्सृजन् ॥ ३ ॥ यदि स्यात्परमानन्दे कामान- न्दे च वासना । तदा संसेव्यतां धीराष्टीकेयं कामदा सदा॥ ॥ ४ ॥ क चातिकर्कशः शान्तः क चातिललितः शुचिः। एकत्र वाक्ये व्याख्यातुस्तावहो कौशलं कवेः ॥ ५ ॥ शृङ्गारपक्षः।निर्विनप्रारिप्सितशतकसमाप्तिकामो ग्रन्थ- अनरुशतकं तः मिश्रितः। पुनः किम्भूतः एक कृदिष्टदेवतां कीर्तयन्नाह ॥ ज्येति ॥अम्बिकायाः पार्वत्याः कटाक्षोऽपाङदर्शनं त्वां पातु रक्षतु अत्र संबोधनपदेऽप्य- नुक्ते युष्मच्छब्देनापेक्ष्यते। स किम्भूतः ज्या धनुर्गुणस्तस्याकृ- टिराकर्षणं तत्र बद्धं खटकामुखं नाम अङ्गुलिरचनाविशेषस्ते- न पाणिपृष्ठे प्रेवन् संसक्तीभवन्यो नखांशुचयस्तेन संवलि- । मञ्जरितः पल्लवः मञ्जरीयुक्तः किसलयो यत्र कर्णपूरे तत्र लोभेन भ्रमन्यो भ्रमरस्तस्य वि- भ्रमो विलासस्तदृत् तत्सदृश इत्यर्थः। पल्लवरय नखांशुना भ्रमरस्य कटाक्षेणच साम्यम् । किंवा वास्तवे पार्वतीकर्ण- पूरपल्लवे भ्रमरायमाणः कटाक्ष इति अत्र पक्षे नखांशुचय- संवलितविशेषणमप्रयोजनकं । किंवा आकर्णमाकर्षणं धनुर्गु- णस्येति धन्यते'चक्षुःप्रीतिर्मनःसंगः' इत्यादिषोडशशृङ्गा- राणां मध्ये चक्षुःप्रीतेराद्यत्वात् प्रथमतः कटाक्षवर्णनम् । अथ शान्तिपक्षः ननु शङारशतमिदमित्यस्य प्रसिद्धेः कथं शान्तिरसोऽत्र । तत्र उच्यते । भगवान् शंकराचार्यो दिग्विजयच्छलेन काश्मीरमगमत् । तत्र शृङ्गाररसवर्ण- नार्थ सभ्यैरभ्यर्थितः "शृङ्गारी चेत् कविः काव्यजातं रसमयं जगत्" इति वचनादित्यमरुनाम्नो राज्ञो मृतस्य पर- वपुःप्रवेशविद्यया शरीरे प्रवेशं कृत्वा स्त्रीशतेन सह केलिं विधाय प्रातस्तथा कारयामास । पिशुनैः कापटिकोऽयमा- जन्मब्रह्मचारीत्युपहसितः शान्तिरसमत्र व्याचष्टे इति किंव- ३ । किंवा ज्याकृष्टयः कामदया टीकया सहितम्. दन्त्यतः शान्तिरसमत्र व्याचक्ष्यते शान्तस्य मोक्षसाधनत्वा- त् । विष्णुमायायां प्रसन्नायां लभ्यते। तथा च "सैषा प्रस- न्ना वरदा"इतिव्यासवचनमाश्रित्याह अम्बिकाया महामाया- याः कटाक्षस्त्वां पातु रक्षतु ज्या पृथ्वी माता वा ‘ज्या मौर्वी- मातृभूमिषु' इति विश्वः । तत्राकृष्टिः सम्बदस्तया बहाः सां- मारिकाः तएव खटकामुखपाणिपृष्ठप्रेकन्नखांशुचया इति रू- पकम् अस्थिरत्वात्।तैः संवलितः स्पृष्टः पुराणपण्डिताः सांसारिकास्तेषां बन्धने खटकं व्यापकं यत् आमुखं सन्धिः तस्य पाणिपृष्ठे तेषान्नखांशुचय इव संवलितः संसक्तः। खटकाङ्क्षायाम्' 'धातुः आमुखशब्दो नाटकसन्धौ प्र- सिडःअत्र लाक्षणिकः।पुनःकिंभूतःमञ्जरितो बहुलीकृतःपल्लवः पदनं पत् तस्य लबोव्यवसायलेशः स चासौ कर्णपूरश्चेति कर्ण पूरयति सुखदत्वात् एवंभूतो यो लोभस्तत्र भ्रमन् यो भ्रमरो मिथ्याज्ञानं स एव विभ्रमोन्धकारस्तं बिभतति । भ्रमो मि- थ्याज्ञानं यत्रस चासौरः कामश्चेतिरः स्यात्कामेऽनिले वह्रो' इति। तस्य विभ्रमोऽन्धकारस्तं बिभर्तीति। किंवाभ्रमं राति द- दातितं यो बिभर्तीति एतेनास्थिरः संसारः लोभोऽप्यन्धकार इति ध्वन्यते ॥ १॥ क्षिप्तोहस्तावलग्न प्रसभमभिहतोऽप्याददानोंशु कान्तंगृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षि तः संभ्रमेण ॥ आलिङ्गन्योऽवधूतस्त्रिपुरयुवति ४ अमरुशतकं शृङ्गारपक्षे। पार्वती भिः साश्रुनेत्रोत्पलाभिः कामीवार्दापराधःस दह तु दुरितं शाम्भवो वः शराग्निः॥२॥ रतुत्वा शिवं स्तुवन्नाह ॥क्षिप्त इत्यादि। शाम्भवः शराग्निः वो युष्माकं दुरितं पापं दहतु भस्मीकरोतु। किंभूतः त्रिपुरनाम्नोऽसुरस्य युवतिभिः कान्ताभिः क्षिप्तः स- न हस्तावलग्नः प्रसभं बलात्कारेणाभिहतो वस्त्रान्तं गृह्णन् सन् केशेषु गृह्णन् अपास्तो वारितः । चरणनिपतितः स- न् भ्रमेण न दृष्टः आलिङन् सन् अवधूतः कम्पायितः । किं- भूताभिः साश्रुनेत्रोत्पलाभिः शोकात् त्रिपुरदाहे शम्भोः शराग्निर्यथा त्रीणि पुराणि ददाह तथा त्रिविधं दुरितं दहतु इति ध्वन्यते । कइव आर्द्रापराधः नूतनदोषः कामीव आर्द्रशब्देन लक्षणया तत्तत्कालीन उच्यते । अथ च कामो युवतिभिर्हस्तावलमः सन् क्षिप्तः युवतिभिरित्येकदेशेन । अन्यत्समानार्थ । अत्राग्निरिव दृष्टो नायको मानिन्या क्षि- प्तोऽपि हस्तावलमः अभिहतोऽपि वस्त्रान्तं गृह्णन् । एवम- न्यत्रापि अपिशब्देन योजना साश्रुनेत्रोत्पलाभिरित्यनेन मानाऽतिशयत्वं ध्वन्यते । मानोऽपि कामवईक इति प्रथ- मतो मानिनीवर्णनम् ॥ शान्तपक्षे शान्तानां पारंपाश्रितशान्तरूपं दर्शयति । अवधूतनामा भागवतः पुरुषः वः युष्माकं दुरितं दहतु किं- भूतं कामि अभिलाषयुक्तं कीदृशः क्षिप्त उन्मत्तवेषः आत्म- कामदया टीकया सहितम्. ५ गोपनाय अवधूता उन्मत्तवेषा भवन्तीति अहस्ताऽवलग्नः अहस्ता दिवसत्वं प्रकाशस्तत्रावलग्नः। किंवा अः विष्णुस्तस्य हस्तेऽवलग्नः विष्णुना गृहीत इत्यर्थः । किंवा हस्तं नक्षत्रं अवतीति हस्तावश्चन्द्रस्तत्र लग्नः। योगिनो हि शुक्ररक्षणपरा भवन्तीति । किंवा हस्तावलमः करपात्रः। अभिहतः सम्य- ग्ज्ञानशाली। हन्तेर्गत्यर्थत्वात् । यद्यपि हन्तेर्गमनार्थप्रयो- गाभावः तथापि श्लेष दोषाभावः। अंशुकान्तं कौपीनं गृह्णन्प्र- शस्तोंशुरंशुक इति तस्यान्तं समीपं प्राप्नुवन् तत्तेजः पश्यन्नि- ति वा । कामेन्द्रियं तस्य ईशा विषयास्तेषु रसगन्धादिषु अपा- स्तो वारितः चरणं वेदभागस्तत्र निपतितः प्रसन्नः वैदिका- चारभूषकः आलिङ्गन्रलयारेक्यात् रिगिर्गत्यर्थः । सम्यक्- भ्रमणशाली ज्ञानशाली एवंभूतोऽवधूतश्चेति अतएव त्रिभुव- नयुवतिभिर्भावोदयात् साश्रुभिरपि ईक्षितो विषयेष्वासक्तः पुरुषो भवतीति । कइव शाम्भवः शराग्निरिव दुर्द्धर्षत्वात् का- मीवार्द्रापराधः कानि इन्द्रियाणि तेषां अमीवं पापं तेनार्दी स्निग्धांअपरां शक्तिं धारयतीति। देशक्ती भवतः परा चापरा च अमीवशब्दो दुरितवचनो भारते बहुधा दृष्टः ॥ २ ॥ आलोलामलकावली विल्ललितां बिभ्रचलत्कु- ण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाभसः शीकरेः । तन्व्या यत् सुरतान्ततान्तनयनं वक्र ६ अमरुशतकं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मा दिभिर्देवतैः ॥३॥ शृङ्गारपले सहजशृङाराख्यं मानमुपवर्ण्य विपरीतसुरतं वर्णयन्नाह ॥ आलोलामित्यादि । तन्व्याः क्षीणायाः रतिव्यत्यये विपरीतरतौ यहफ्रं तत् त्वां पातु रक्षतु किं ह- रिहरब्रह्मादिभिर्देवतैरलम्। कीदृशं वक्रं अलकावली विभ्रत आलोलां चञ्चलां बिलुलितां एतेन पुरुषायितत्वं व्यज्यते । चलत्कुण्डलमित्यनेनापि कम्पं व्यज्यते। स्वेदाम्भसो धर्मस्य कणैः किञ्चिदीपत् मृष्टं विशेषकं प्रोञ्छिततिलकं यत्र तनुतरै- रल्पतरै एतेनोत्तमः स्वेदः नायिकासत्तमत्वं व्यज्यते। यदुक्तं। "स्वेदो हि त्रिविधः प्रोक्त उत्तमाधममध्यमः । श्रमे महति योऽत्यल्प उत्तमः सप्रकीर्तितः। ललाटे गण्डयोः क्वापि चिबुके चापि दृश्यते । श्रमानुरूपः स्वेदो यो मध्यमः स प्रकीर्तितः । स ललाटशिरोग्रीवावक्षोदेशेषु जायते । अल्पश्रमे महास्वे- दोऽत्यधमः सर्वदेहगः" ॥ सुरतान्ते क्रीडान्ते तान्तनयनं ग्लाननेत्रं । तनुग्लानौ तान्तमिति । एवंभूतं कामिनीमुखं यदि संमुखीभवति किं देवैः स्वर्गफलदरित्यतिशयत्वं मुखे व्यज्यते॥ शान्तपक्षे तन्व्या मायाया रतिव्यत्यये कीडापगमे सति यन्मुखं तदेव तस्य भवति तत्त्वां पातु रक्षतु किंदेवैः। 'ययेषो- परता देवी माया वैशारदी मतिः । ससंपन्ना एव विदुर्महिम्न कामदया टीकया सहितम्. ७ कुण्डलं स्ते महीयते इति भारतवचनान्मायाव्यपगम एवमोक्षकारणं सूचितं । आलोलामलकावली बिभ्रत्संस्कारहीनत्वात् चल- अवधूताश्चेदकुण्डलिनी भवन्ति धर्मजलेन म्लिष्टपुलकं प्राणायामात् धर्मः स्यादिति योगशास्त्रं सुरता- न्तस्येव तान्तनेत्रं अन्यदृष्टरक्षमत्वात् ॥ ३ ॥ अलसवलितैःप्रेमाादैर्महुर्मुकलीकृतैःक्षणमभि मुखैलजालोलेनिमेषपराङ्मुखैः ॥ हृदयनिहि तंभावाकूतंवमद्भिरिवेक्षणैः कथय सुकृती कोयं मुग्धे त्वयाद्य विलोक्यते ॥४॥ शृङ्गार० पूर्व कटाक्षं वर्णयित्वा संप्रति दृष्टिं वर्णयन्नाह ॥अलसेति॥ हेमुग्धे बाले “ मुग्धानववधूस्तत्र नवयौवनम- ण्डिता। नवालंकारहृष्टा च लज्जाप्राया वृतिर्यथा"इतिरुद्रः। तत्कथय कः सुकृती त्वयाऽद्य विलोक्यते कैरीक्षणैर्दर्शनैः । किंभूतैरलसमालस्यंतेन वलितैःतत्संपृक्तैः प्रेमातिशयस्निग्धै- मुंहुरिवार मुकुलीकृतैः संकुचितैः।क्षणमभिमुखैः लज्जालो- लैश्चञ्चलैःक्षणमित्यनेनान्वयः। एतेन बाला नायिकेति व्य- ज्यते। तथा च कौतुकमस्ति भयमस्ति उत्कण्ठा चात्र उपेक्ष्यते। हृदयनिहितं भावाकूतं वमहिरुद्गिरद्भिरिव कौतुकादालस्य भयात्संकोच उत्कण्ठया निमेषराहित्यम् ॥ शान्तपक्षे कामिनमधिक्षिपति । हेमुग्ध हेमूढ इत्यन्व- यः। इः कामस्तस्य भाव इत्वं तं याति गच्छति अद्य कोऽयं ८ अमरुशतकं ब्रह्माऽयं सुकृती पुण्यवान् शान्तो विलोक्यते । किंभूतः इक्षणैश्चक्षुभिरुपलक्षितः किंभूतैः अरसवलितैः रसः शृङ्गारः मुख्यत्वात्तत्र न संसक्तैः । अथ वा अः विष्णुस्तत्र रसेन वलितैः अन्यत्समानं एतादृग्नयनं अवधूतस्यापि भवती- ति ॥ ४ ॥ दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालि तादेवादद्य किल त्वमेव कृतवानस्यानवंविप्रियाम न्युर्दुस्सह एव यात्युपशमं नो सान्त्ववादैः स्फुटं हे नित्रंशविमुक्तकण्ठ करुणं तावत्सखोरोदितु॥५॥ शृङ्गार बालां मानिनीं वर्णयन्नाह दत्त इत्यादि । चतुरा सखी वदति हे निस्त्रंश हे निःशङ्कतावत्सखी रोदितु विमुक्तकण्ठञ्च तत्करुणञ्चइति यथा स्यात्तथा। कथमित्याह अस्याः प्रणयः प्रेमाश्रयः त्वयैव दत्तः भवतैव इयं चिरं लालिता वड़िता अद्य दैवात् दैवयोगात् अस्याः नवं नूतनं विप्रियं त्वमेव कृतवान् एष मन्युः क्रोधो दुःसहः सान्त्ववादैः प्रीतिवचनैः समं न याति सान्त्ववादाः कोपस्य प्रत्युद्दीप- नहेतवः तत् रोदित्वेव एतेन तस्या रोदनेन लोकप्रचारो भवतु इचि चातुर्य व्यज्यते । बाला केवलमेव रोदिति इति अस्यां बालत्वं व्यज्यते ॥ शान्तपक्षे हे विमुक्त हे निःशङ्क कृतं सत्यत्वं वानसि- गच्छन्नसि यात्युपशमं याति ज्ञानं याप्रापणे- धातोर्गत्यर्थ- कामदया टीकया सहितम. or त्वात् ज्ञानार्थत्वं । तेनोपशमं शान्ति । किंभूतं विप्रियमिष्टमि- त्रादीत्युक्तं । असीत्यस्यान्ते आ इति विषादे । नवं प्रत्यग्रं देवाद्दिव्यं भाग्यमस्तीति दैवात्कर्मविशेषो हि भाग्यमुक्तम्त- कर्मक्षयादेव अस्या मायायाः प्रणयस्त्वया दत्तः चिरं लालिता च इयं अद्य त्वं शान्तोसि एष मन्युर्दुःसहस्त- नोऽस्माकं सखी माया रोदितु किंभूतमुपशमं सान्त्ववादैः प्रियवचनैः स्फुटं व्यक्तकण्ठं करुणं च स्थितदयं । 'सर्वभूतदयायुक्तः प्रियवाक् प्रियदर्शनः' इति भागवतलक्षणं तत् सूचितं तुष्टिपुष्टिलक्ष्मीप्रभृतयो मायासख्यः ॥ ५ ॥ लिखनास्ते भूमि बहिरवनतः प्राणदयितो निरा हारास्सख्यःसततरुदितोच्छूननयनाः ॥ परि त्यक्तं सर्व हसितपठितं पञरशकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ६ ॥ शृंगार० सखीं वर्णयन्नाह लिखन्नित्यादि ॥ मानिनी सखी प्रसादयति। तदुक्तं "विनोदो मण्डनं शिक्षोपालम्भोऽथ प्रसादनं ! सङ्गमो विरहाश्वासः सखीकर्मेति यद्यथा॥" हेक- ठिने अधुना इदानीं मानं त्यज कथमित्याह तव प्राणदयितो बहिरास्ते किंकुर्वन् भूमिं लिखन् अकारणमेव लिखति अवनतोऽधोमुखः सख्योपि निराहारा आहरणमाहारः तेन रहिता भवन्ति तत्कर्षणाक्षमा आहाररहिता वा। निराधारा इतिपाठे आश्रयहीना भवन्तीति । मानिनीप्रियोप्यनतः १० अमरुशतकं कमाश्रित्य स्थास्यतीति सर्वथा क्रन्दने सशोकनयनाः पञ्ज- शुकैः केलिकरैरपि हसितपठितं परित्यक्तं हसितकारि पठि- तं मध्यपदलोपी समासः। तव चेयमवस्था मलिनवस्त्रादिना । कठिने इत्यनेन मानस्य गुरुत्वं । तदुक्तं 'अवेक्ष्य दोषमेतस्य गरीयान्मध्यमो लघुः' इति मानस्य त्रैविध्यमुक्तम् ।। शान्तपक्षे हेकठिन हेसंसारनिस्पृह इमानं कामाहङ्कारं त्यज । कुतस्त्यक्तव्यमित्याह पञ्चरशुकैः सह तव सितपठितं हेति पादपूरणे। सितं वधस्तस्य साधितं पठितं पाठः न केवलं पाठः अवस्थादशा च किंभूतं परिभिः परज्ञानशीलैस्त्यक्तं भर । कथं कामस्त्याज्यः शान्तिरस आश्रयितव्य इत्याह आः कष्टे । हेनिराहार निरन्नपान निराकर्षण वा आः सतत- रुदितोच्छूननयना पुमान् ईश्वर आस्ते । नतो निषेधात् बहिन्निषेधशेषो यत्र तादृश इति । भागवतः पुनः किंभूतः प्राणदयितः अतिप्रेयान्सख्यः ख्यानं ख्यास्तेन सह वर्त्तते इति । लिखन् अर्थात् शुभाशुभकर्मणि स साक्षी सर्व कर्मणामित्यस्ति ईश्वरः सर्व कर्मसाक्षी आस्ते ततः कामं परित्यज्य शान्तो भूत्वा भूमिं उत्पत्ति अव रक्ष मा गा इति संक्षेपः ॥ ६॥ नार्यस्तन्विहठाद्धरन्तिरमणंतिष्टन्तिनोवारिता स्तत्किताम्यसिकिंचरोदिषिमुधातासां प्रियंमा कृथाः । कान्त केलिरुचिर्युवासहृदयस्तादृक्प पुनर्मरणं ३ कामदया टीकया सहितम्, तिः कातरे कित्रोवर्करकर्करःप्रियशतैराकम्यवि क्रीयते ॥ ७॥ शृ०सखीशिक्षाकर्माह नार्य इत्यादि॥ हे तन्वि क्षीणाडि अन्तस्तापान्नार्यः प्राकृतस्त्रियो रमणं कान्तं हरन्ति नय- न्ति वारिता नियन्त्रिता न निष्ठन्ति एतेन प्राकृतत्वं तासां तस्मात्कथं ताम्यसि किञ्च रोदिषि एतेन तासामभिलषितं मा कृथाः। किं कर्त्तव्यमित्याह हे कातरे वाक्प्रदानकृपणे अयं कान्तः कमनीयवेषः केलिरुचिः प्रसन्नहृदयोऽशठ- स्तादृक् अनुपमः पतिः किं न विक्रीयते वर्करकर्करेराकम्य वर्करकर्करेति लोकोक्तार्थानुकरणं । किंभूतैः प्रियशतैः प्रिया- नामभिलषितानां शतं यत्र वर्करस्तरुणः पशुस्तदर्थ कर्कर श्वमरज्जुः प्रियशतैरिति रूपकं वा ॥ शान्तपक्षे ॥ इन्द्रियमुपदिशति हे क हेइन्द्रिय नोऽ स्माकं आतरे तरणोपाये 'आतरस्तरपण्यं स्यात्' इति लक्षण- या संसारतरणोपाये ज्ञाने कथं ताम्यसि ग्लानं भवसि किं च रोदिषि अश्रुोषि इति गौणात् तादृपतिरीश्वरः शास्ता कान्तः को ब्रह्मा तेषामन्तो यत्र इति अनन्तकोटिब्रह्माण्डे- श्वरः कमनीयो वा केलीनां लीलानांरुचियंत्र लीलाया रु- चिर्य्यस्य वा । 'जगदिदमीश्वरलीलाविलसितम्' इति श्रुतेः क्रीडतो बालस्येव चेष्टां तस्य निशामय इत्यस्ति प्रश्नः। प्रसन्नहृदयः स्वपदस्य दाता किंप्रियशतैः आक्रम्य अवस्क- १२ अमरुशतकं न्य विक्रीयते त्यज्यते वर्करस्तरुणः कर्करः शुक्लस्तं एति द. दाति तैस्तथा अश्ववाहनाधभिलाषैः "श्वेताश्वःसर्वकामदः" इति अश्वशास्त्रं कथमुपेक्ष्यते स इत्याह नार्यः कान्तास्त- हस्तु सत्तनुसूक्ष्म इति हठात् कामाहंकारात् हरन्ति दूरीकु- र्वन्ति वारिता निषिद्धा नो तिष्ठन्ति तत्तासां प्रियमभिलषि- तं मा कृथा ब्रह्मोपासनानपेक्ष्य स्त्रीवाहनादिषु सुखं न योज्य- मिति संक्षेपः ॥ ७ ॥ कोपात्कोमललोलबाहुलतिकापाशेनबहादृढ नीत्वाकेलिनिकेतनंदयितयासायंसखीनांपुरः।। भूयोप्येवमितिस्खलन्मृदुगिरासंसूच्यदुश्चेष्टितं धन्योहन्यतएव निलतिपर-प्रेयानरुदत्याहसन्।॥८॥ संप्रति अधीराया मानव्यपमगमाह ॥ कोपादित्यादि ॥ 'अधीरा हन्ति सन्तय॑ दयितम्' इत्युदाहृतंरुद्रेणाधन्यः प्रेया न नियुतिपरो दोषतिरोधानकारी रुदत्या दयितया हन्यते प्रहार्यते किं कृत्वा दुश्चेष्टितं अन्यस्त्रीसंभाषाचिह्नादिकं संसूच्य कथयित्वा कया भूयः पुनरपि एवं न कार्यामिति स्व- लन् कोमलगिरा यस्तु कृतापराधो हन्यते न वड़ा हन्यते। कोपात्कोमललोलबाहुलतिकापाशेन दृढं वड़ा वाहुलति कापाश इति रम्यं रूपकं कृपापराधः पुरुषः लोकानां संमु- खे हन्यते सखीनां पुरः संमुखे केलिनिकेतनं केलिगृहं । अत्र शठो नायकः । तद्यथा "प्रियं वक्ति पुरोऽन्यत्र विप्रियं कु- १३ कामदया टीकया सहितम्. रुते भृशं । मुक्तापराधचेष्टस्तु कुटिलोऽसौ शठो यथा ।" कि श्चिदुपादानत इति । इत्युदाहृतं रुद्रेण । सखीनामिति को- पस्य प्राचुर्य तथा च “दूतो जनस्य पुरतो लघुरपि कोपी गुरुर्यतः प्रायः"॥ शान्तपक्षे अवधूतं वर्णयति को धन्यः श्लाघ्यः दयि- तया मायया कान्तया वा न हन्यते न पात्यते किंभूतः को- पात् कोपं अत्तीति व्युत्पत्त्या निष्कोपः । किंभूतः निकु- तिपर: आत्मगोपनपरः सखीनांकेलिकेतनं क्रीडागृहं उपह- सेन सायं सायः अवसादः तद्योगात् सायंकथमुपहसतीत्याह भूयः एवं न भवतीतिकोमलगिरादुश्चेष्टितंकेलिगृहाणां सं- सूच्य किंभूतः अमललोलदोषैरचञ्चलः कायादिनिरस्पृष्टः योबाहुलतिकापाशस्तेन उपलक्षितः एतेनैतदुक्तं भवति अ- क्रोधः क्रोधादित्यक्तः शान्तो विष्णुमायया हन्यत एव ॥८॥ प्रहरविरतौमध्येवाह्नस्ततोपिपरेथवा किमुतस कलेजातेवाद्विप्रियत्वमिहेष्यसि । इतिदिनशत प्राप्यन्देशंप्रियस्ययियासतो हरति गमनं बाला लापैःसबाष्पगलजलैः ॥९॥ शृङ्गा० भविष्यत्प्रोषितभर्तृकायाबालायामौग्ध्यमाह ॥ प्रहरेति ॥ बालादिनशतप्रेष्यंअनेकदिनगम्यन्देशं यियास- तो गन्तुमिच्छतः प्रियस्य गमनं हरति कैरालापैः किंभूतैः सबाष्पगलज्जलैः साश्रुगलज्जलैः । गलज्झलैरि २

१४
अमरुशतकं
तिवापाठः झलज्झलोद्रवस्तुनामेति झलझलेतिलोको-
क्तानुकरणंवा । किम्मौग्ध्यमाह हेप्रिय प्रहरे गते सति मध्याह्न
वा ततोऽपि परं वा तृतीयप्रहरे वा किमुत सकलेऽह्रि यात
वा त्वमिह वा आगीमष्यसि बहुदिनगम्यं यियासतः प्रियस्य
संध्यावधिकथनान्मौग्ध्यं निशिविहरहासहत्वं वा व्यज्यते॥
शान्तपक्षे कश्चित् अवधूतः किञ्चिदुपदिशति इंकामंह-
न्ति इहानिः कामः पुरुषः प्रियस्य मित्रस्य गमनं ज्ञानं
हरतिआहति कोमलालापैः किंभूतस्य इतिर्ज्ञानं तदेवदिनश-
नं दूरत्वात्तेन गम्यं देशं उपदेशं ज्ञातुमिच्छतः कोऽयमुपदेश
इत्याह सकले याते ज्ञानं प्रहर मारय ज्ञानं हि द्विविधंभवति
सकलंनिष्कलंच अत्रमूर्तिचिन्तनंसकलंज्ञानं निरञ्जनध्यानं
निष्कलंज्ञानं तत्र सकलज्ञानध्वंसः तस्मिन् सतिविरतौवि-
रागेसति मध्येवायज्ञवैराग्येसति ततोऽपि परेऽथवावि
गगाभावेपिवा । एतेनतिसृष्ववस्थासुच निरञ्जनध्यानमौ
पयिकम्भवति किंफलमित्याह अह्नः प्रियत्वंभानुत्वन्ते
जोमयत्वमेष्यसि ॥९॥
याताःकिन्नमिलन्तिसुन्दरिपुनश्चिन्तात्वयाम
स्कृतेनोकार्यानितरांकृशासिकथयत्येवंसवा
पेमयि ॥ लज्जामन्थरतारकेणनिपतद्धाराश्रु
णाचक्षुषादृष्ट्वामांहसितेनभाविमरणोत्साहस्त
यामूचितः ॥ १०॥

१५ कामदया टीकया सहितम्. शृङ्गा० याताइत्यादि ॥ हेसुन्दरि हसितेन हास्येन भाविमरणोत्साहः सूचितः भविष्यन्निधनानन्दः कथितः वि- रहदर्शनान्मरणादप्यानन्दः। कथमित्याह लज्जानिचलतार- केणधारायमागगलदश्रुणाचक्षुया मांदृष्ट्वा आसन्नमरणस्यापि एवं चिह्रभवति । अपरचिह्नमाह मयि एवं कथयति सति त्व मतिशयक्षीणासि किन्तदित्याह याताः प्रस्थिताः किंपनन्न- मिलन्ति तस्मात्कृते मन्निमित्तं त्वया चिन्तानका- अहम- प्यागमिष्यामीतिप्रस्थानवा यामपि कृशाङ्गी तथाभूता नि- चलतारकाच यथामृतेव लक्ष्यते अतः प्रस्थानश्रवणादेव क्षी- णतया निश्चलत्वेन चाष्टमनवमावस्थे सूचिते । तथाचोक्तं "तनुकृततनुव्याधिरप्टमाजायतेयथा । तथा दृष्टिस्तब्धगता नवमी जायते स्मृतिः"इति नरमावस्थालक्षणं । एतेन नायि- कायाश्चोत्तमत्वंव्यज्यते । तयेति पाठः सर्वपूर्ववत्कश्चिन्नाय- कः सखायंसंबोधयन्नाह इति ॥ शान्तपक्षे प्रथमतः कर्म संबोधयति हेमत्कृते ममक्रिये कर्मनहेसुन्दरिहेशोभने त्वमतिक्षीणासिकर्मक्षयादेवमुक्तिः कुत्रमयिमद्विषये किंभूते एवंकथयति किंतत् याताज्ञाताः किंमिलन्तिसंसक्ताभवन्ति एवंनिःशङ्कोनिःपरिग्रह इतिस्मृ- तेः तत्त्वयानोऽस्माक चिन्ताका- किंभूतेमयि सबाप्पेसा- नन्दाश्रौ मामेवश्चक्षुषा उपलक्षितं दृष्ट्वात्वया भाविमरणो- त्साहः सूचितः न कथित. नकिंचिन्ममनिधनंभविष्यतीति १६ अमरुशतकं यस्तुशुभाशुभकर्मक्षयशालीसजितमृत्युर्भवतीति ॥ १० ॥ धीरंवारिधरस्यवारिकरतः श्रुत्वानिशीथेध्वनि दीर्घोच्छासमुदश्रुणाविरहिणींबालांचिरंध्यायता ॥ अध्वन्येनविमुक्तकण्ठमाखिलांरात्रितथाकंदितं ग्रामीणैव्रजतोजनस्यवसतिमिनिषिद्धायथा ॥११ शृङ्गा० संप्रतिप्रोषितंवर्णयन्नाह धीरमित्यादि ॥ अध्व न्येनपथिकेन तथा समस्तांरात्रिंव्याप्य दियथा ग्रामीण ग्रामे व्रजतो जनस्य पथिकस्य वसतिनिषिद्धा क्रियते रात्रिमि ति 'कालाध्वनोः'इत्यादिना द्वितीया बाधिकरणे ध्वनि शब्द श्रुत्वा किंभूतं धीरं यथास्यात्तथा वारि किरतः जलंविमुञ्चतःनि शीथे अर्द्धरात्रे। किंभूतेन विरहिणी बालां ध्यायता ध्यानादु. दश्रुणा उद्गतबाष्पेन दीर्घोच्छासं यथास्यात् विरहिणां श्वास- प्राबल्यमथु च भवतीति ॥ शान्तपक्षे ईश्वरमधिक्षिपति हे इन हेईश्वर अध्वन्य ध्वनिः ख्यातिः तत्रसाधु न्यः नध्वन्योऽध्वन्यः त्वयावा- रिकिरतःसमुद्रस्य बालांलक्ष्मी ध्यायता अखिलारात्रिं सर्व- कालेननंदितं उत्कण्ठितं उद्गलंयथास्यात्तथा समुद्रजलमा- दायवर्षतीति पारम्पर्येणजलवृष्टेः कारणंसमुद्रइति । किंभ- तांविरहिणींवियोगनित्यां चंचलांअस्थिरां कैरिवग्राणैिरिव इवशब्दोऽत्रबोद्धव्यः इतरलोका यथालक्ष्मी वाञ्छन्तः समयं नयन्तीति ब्रजतःपरिव्राजकस्यजनस्य ध्वनि ख्यातिं श्रुत्वा- १७ कामदया टीकया सहितम्. ज्ञात्वापि यदेवंकृतंभवता ततोज्ञातंतवाम्बायाधीवृद्धिरूपा सादीर्घामहती महामाया एकान्तोसि इति अरिश्चक्रतधारय- तीतिव्युत्पत्या चक्रधरस्यविष्णोः ग्रामेवसतिनिषिद्धा त्वय- तियावत् किंभूतेऽनिशीथे निशीथोमोहनिद्राकालोपलक्षणं निर्मोहांधकार इत्यर्थः वैकुण्ठपुरवासोपिनिषिद्धोबोधितइति एतेनसंसारकामनांत्यक्त्वाभागवतंभूत्वा वैकुण्ठपुरंव्रजतीति ध्वन्यते ॥ ११ ॥ कथमपिसखिक्रीडाकोपाद्वजोतमयोदितेकठिन हृदयस्त्यक्त्वाशय्यांवलाद्गतएवसः ॥ इतिसर भसंध्वस्तप्रेम्णिव्यपेतघृणेजनेपुनरपिहतवीडंचे तःप्रयातिकरोमिकिं ॥ १२॥ शृङ्गा० कलहान्तरितांवर्णयन्नाह कथमित्यादि ॥ हे सखि स कठिनहृदयः निष्ठुराशयः शय्यांत्यक्त्वा बलात् ह- ठात् गतएव कथमित्याह ममाक्रीडाकोपात् केलिकल हेन बजेतिउदितेसति कथमपि कष्टसृष्टया संप्रति अहंकिंकरोमि- तस्मिन्नायके व्यपेतघृणेनिईये इत्यनेनप्रकारेण सरभसं स कौतुकं यथास्यात्तथा ध्वस्तप्रेम्णि इव पुनरपि चेतः किंभूतं हतबीडं निर्लज्जं एतेना त्मनः सतीत्वं व्यनक्ति ॥ शान्तपक्षे हे उदिते उत्कृष्टज्ञानमयलक्ष्म्यार एकत्रस्थि- ति केलिंबात्यक्त्वा ब्रजपरिव्राजकोभव किंभूतः सखि लुप्तप्रणये जने इतरलोक प्रयाति १८ अमरुशतकं क्रीडाकोपात मित्र केलिक्रोधमत्रेति निःसंगः निःकामः निःक्रोधः किंभूतः कठिनहृदयः निस्पृहः कठिनेतिसंबोध- नं वा कथंभूतस्त्वं हृदि मनसि अयःशुभावहोविधिर्य्यस्येति- मतथा अधुनासांसारिकमधिक्षिपति ॥ हे इति ज्ञाने ध्वस्त अयनं इत क्विप् । प्रेम्णिपुत्रदारादि स्नेहेतृष्णाबलवती पुनर- पि हे अपिशब्दःसंभावनायां किंभूतं सरभसं सकौतुकं तदा किंकरोषि किमुपदिशसि किंभूतेप्रेम्णि व्यपेतघृणे उपग- नजुगुप्से किंभूतेअजनेचंचले अजगतिक्षेपणयोःएतेनपुत्रदा- गदिस्नेहंत्यक्त्वालक्ष्मींचत्यक्त्वाअवधूतो भवेति सूचितं १२ दम्पत्योर्निशिजल्पतोहशुकेनाकर्णितंयद्वच स्तत्मातर्मुरुसन्निधौनिगदतस्तस्योपहारंवधूः॥ कर्णालंकृतिपद्मरागशकलं विन्यस्यचंचूपुटे वी डार्ताप्रकरोतिदाडिमफलव्याजेनवाग्बन्धन॥१३॥ शृङ्गा० संप्रतिमुग्धामुपवर्णयन्नाह । दंपत्योरिति ॥ वधूर्नववधूः एकदेशलक्षणया । मुग्धानववधूस्तत्र लज्जा- प्रायरतिर्यथा । गृहशुकस्य वाग्बंधनंवचननिरोधप्रकरोति किंभूतात्रीडार्ता लज्जाकुला कर्णालंकृतिं पद्मरागशकलं श्रवणालंकारमाणिक्यखंडं चंचपुटेबिन्यस्य दाडिमफल- व्याजेन फलशब्दोऽत्रबीजवचनः तथाचधरणिः 'फलंसस्ये- च सीराड़ेफलकेव्युष्टिदानयोः । किंभूतं तस्यउपहरणउप- टोकन किंभूतस्य तहचो गुरुसन्निधौ श्वश्वादिनिकटे प्रात- १९ कामदया टाकया सहितम्. निगदतः तकिं यत्दंपत्योर्जल्पतोराकर्णितंश्रुतं एतेन ना- टिकायाश्चातुर्य शुकस्य पटुत्वं व्यज्यते ॥ शान्तपक्षे ईश्वरमधिक्षिपति हे इन हे ईश्वर निर्जीड- निर्लज्ज हे आत मायापीडित हे अप्रकर अपकृष्टकारक हे उतिद उतिउव्याख्यानं उद्यतिखण्डति उतिदः हे आलिम। आलिः सखी तासु मा लक्ष्मीर्यस्य कामुकत्वात् हे फलव्याज फलेज्ञाननिष्पत्ती व्याजः कपटंयस्यसतथा पद्मरागसकलं सख्य मनुरागखंडं स्त्रीपुत्र विषयाविन्यस्य दूरीकुरु विन्यस्य इतिलोट् हि किंभूतं गुरु महत् तत् कि दंपत्यो ल्पतोनिशि यहचआकर्णितं तन्निगदनचिन्तया शुको यथाउपहारंभक्ष्यं- त्यजति तद्वत् त्वमपि रागान त्यजेति ॥ १३ ॥ अज्ञानेनपराङ्मखींपरिभवादाश्लिष्यमांदुःखितां किंलब्धंचटुलत्वयेहनयता सौभाग्यमेतांदशां॥ पश्यैतद्दयितारतिव्यतिकरोन्मृष्टाङ्गरागारुणं वक्ष स्तेमलतैलपङ्कशवलेवेणीपदैरङ्कितं ॥ १४ ॥ शृङ्गा० संप्रतिखंडितां वर्णयन्नाह ॥ अज्ञानेति ॥ हे चटुलचंचल त्वयार्किलब्धं मांदुःखितां परिभवादपमानात पराङ्मुखीमाश्लिष्य अज्ञानेनअवैदग्धेन विदग्धोहिमानिनी संमुखीकृत्य आश्लिष्यति त्वयापराङ्मुखाश्लिष्टति किंभूतेन- त्वया सौभाग्यंसुभगत्वं एतांदशांनयता कथंचटुलइत्याह इदंवक्षःपश्य किंभूतं दयिताकुचव्यतिकरोन्मृष्टं रागारुणं

२०
अमरुशतकं
हे चटुल
प्रियाणांकुचव्यामिश्रेण निक्षिप्तानुलेपनशोणं एवंभूतंवक्षः
वेणीपदैरंकितचिह्नितं पश्य किंभूतैरमलतैलपंकशबलैः
मलयोगात् मलंपकंयत्तेनचित्रैः एतेनाविदग्धेतिसूचितं आ-
त्मनश्चवैदग्ध्यव्यज्यते अभिनवदोषारसवत्वंसूचितं मानस्य-
नवत्वंकथितं अपरवनितासङ्गालग्नविलेपनमितिरुद्रः। 'सा-
धीरावक्तिवक्रोक्त्ये'तिवचनान्नायिकायाश्च धीरात्वंसूचितम्॥
शान्तपक्षे ईश्वरं पुनरधिक्षिपति है इन हे ईश्वर अज्ञा-
नज्ञानशून्य
मांलक्ष्मी आलिंग्य किंत्वयालब्धं
कुत्सालब्धेति किंशब्दः कुत्सायांकथमित्याह दुःखितांदुः
खसंपृक्तां जनयन्ति जने दुःखं पातयन्ति विपत्तिषु मोहयन्ति
'संपृक्तौकथमर्थाःशुभावहा':इतिवचनात् लक्ष्ांदुःखदेव किं-
भूतां परिभवात् यत्किंचितपरिभवं प्राप्य पराङ्मुखी विघटि-
तां परिभवादिति 'ल्यब्लोपे' इति पंचमी किं कर्त्तव्यमिति
उपदिशति हे दयिताकुचव्यतिकरोन्मृष्टांग हे प्रियाकुचा-
लिंगनयुक्तशरीर निःकाम इति यावत् । वशः किंभूतं वेणी-
पदैःगंगायमुनादीनांसंगमो वेणीतिख्यातिः 'वेणी निकटबंधे
स्यानदीनां मेलकेऽपिच'। तस्याः पदैर्व्यवसायश्चिद्वितं
अमलतानिर्मलता ऐलंजलविकारः फलादिः इलाजलं तस्य
विकारऐलं अथवाऐलं पङ्कःपार्थिवकर्दमः इलापृथ्वी तत्रभ-
वः ऐलः तेनशबलैश्वित्रितं एतेनसंसारिकंसुखंत्यक्त्वाप्रया-
गवासीभवेतिध्वन्यते ॥ १४ ॥

२३ कामदया टीकया सहितम्. एकत्रासनसंस्थितिःपरिहताप्रत्युद्गमादूरतस्ता म्यूलानयनच्छलेनरभसा श्लेषोपिसंविनितः ॥ आलापोपिनविश्रुतः परिजनं व्यापारयन्त्या न्तिके कान्तंप्रत्युपचारतश्चतुरया कोपःकृतार्थी कृतः॥ १५॥ शृङ्गा० मानविशेषं वर्णयन्नाह ॥ एकत्रेति चतुरया को पः कृतार्थीकृतः सफलीकृतः कथमित्याह कान्तंप्रति उप- चारतो व्यवहारतः कोऽसावित्याह एकत्रासनसंस्थितिः सहावस्थानं दूरतः प्रत्युद्गमनादेवोत्थानेन परिहता रभ- साश्लेषोपि कौतुकालिंगनमपि संविनितं वारितं ताम्बूलान- यनछलेनपूगपर्णचूर्णादिपुटकं तस्यानयनच्छलेनच्छद्मना अन्तिके निकटे आलापोपि न विश्रुतः विशिष्टं न श्रुतः किंभूतयापरिजनंसखीजनं व्यापारयन्त्या व्यापारयन्त्या कर्मसुनि योजयन्त्या एतेननायिका प्रशस्तधीराइति कथितं तथाच "कृतदोषेपिसाधीरा तस्मिन्नाद्रियतेरुषा।" यहाचः प्रचुरोपरा इत्याधुदाहरणमपि ॥ शान्तपक्षे ईश्वरोपकरणमधिक्षिपति हे आसन सिंहा- सन मयाएकत्रसंस्थितिः संस्थानं परिहृतं विदूरतः प्रत्युद्गमनात् किंवा दूरं प्रत्युद्गमाविशिष्टज्ञानात् ब्रह्मज्ञाना- दित्यर्थः हेताम्बूलपूगपुटक छलेनकपटेन आनय रभसकौतुकतरश्लेषोपि न संविनितः त्यक्तः हेपरिजनप्रति- हे २२ अमरुशतकं व्यापरप्रेषणोन्मुख अत्रालापोऽपि नविश्रुतः एतान्युक्त्या- किकरोषि इत्याह चतुरयामोक्षधियाकान्तंइन्द्रियान्तं यान्त्या अहमन्तिके संप्रति कृतार्थीकृतः किंभूतोऽहं अकोपः निः- क्रोधः एतेनेन्द्रियसुखंत्यक्त्वा अवधूतः कृतार्थो भव- तीति ॥ १५॥ दृष्ट्येकासनसंस्थितेप्रियतमे पश्चादुपेत्यादरादेक स्यानयने पिधायविहितक्रीडानुबन्धच्छलः ॥ ईपद्रक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसा मन्तासलसत्कपोलफलकां धूर्तोऽपरांचम्बति ॥ १६॥ शृङ्गा० नायिकांवर्णयित्वा तस्याएवज्येष्ठादिभेदेनेतर- हैदग्ध्यवर्णयति तथाचोक्तं "एकाज्येष्ठा कनिष्ठान्यानायक प्रणयंप्रति "। उदाहृतंच 'प्रदक्षिणे कुवलयकान्तिनील' इति तदनुसारेणाह दृष्टुति ॥ धर्त्तश्चतुरः अपराज्येष्ठा न विद्यते परा यस्या इति प्रेयसी चुम्बति किं कृत्वा एकासनसंस्थिते प्रियतमे दृष्टा पश्चाद्गत्वा आदरात् सम्भ्रमेण एकस्या नेत्रे आच्छाद्य कृतकेनानुबन्धेच्छया ईषहक्रिमकन्धरः सन् कि- भूतामन्तर्हासलसत्कपोलफलका द्वयोरुभयोरनुरंजनत्वाद्वैद ग्ध्यं तथाच कविकण्ठहारः। “बह्नीनांप्रेयसीनायः कुरुतेचि- त्तरञ्जनं । सविदग्ध इति ख्यातः कलासु कुशलोपि सः" इति स्वभाववर्णना जात्यलंकारोऽयं नायकस्य ॥

कामदया टीकया सहितम्. २३ शान्तपक्षे धूर्तः संसारेणापरित्यक्तः अपरां शक्तिं च- म्बति । संयोजयति चुबिवत्रसंयोगे धातुः लक्षणयासंयो- गार्थः ॥ न विद्यते परा यस्याः सा तथा अविष्णुप्तत्परां श्रेष्ठां आद्यामिति यावत् । अइव परां अपरां इति वा । "अभीतगोचरां वाचां मनसां च विशेषणां । ज्ञानिज्ञानप- रिच्छिन्नां वन्दे चेश्वरतां पराम्" इति विष्णुपुराणे । किंभूतः विहितक्रीडानुबन्धच्छलः विशब्दोविरोधार्थः विरोधयतके- लिप्रकारः ईषहक्रिमकन्धरः आसनविशेषेण भवति । तदु- तं योगशास्त्रे। 'हृदये न्यस्तचिकुरः पादौ चान्योन्यसंहतो। नासासंचारिनयनो भवेद्योगीजितेन्द्रियः' इति सपुलकः प्राणायामविशेषे रोमाञ्चः संभवति प्रेमोल्लसन्मानसां प्रेम्णा उल्लसन्मानसं यत्र तथा अन्तर्हासेन अन्तर्विकाशेन उल्लसत् कपोलफलकं यस्या जातान्तःप्रकाशा हि प्रसन्नवदना अव- धूता भवन्ति किंकृत्वा एकस्या मायाया नयनेआलोचने ज- गतोमायामयत्वात् मायाया एकत्वं एकासनसंस्थिते एका- धारगते हे शक्ती प्रायस्तावद्दष्टा 'अजामेका' मिति श्रुतिः एतेन योऽवधूतो भवति स सांसारिकी मायां त्यक्त्वा परां शक्तिमेव ध्यायतीति मुक्तिसोपानम् ॥ १६ ॥ चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखनिभृत कितवाचारेत्युक्त्वारुषापरुषीकृते ॥ ब्रजतिर मणेनिःश्वस्योच्चैःस्तनस्थितहस्तयानयनसलि २४ अमरुशतक लव्याजादृष्टिःसखीपनिवेशिता ॥१७॥ शृङ्गा० कलहान्तरितां चतुरां वर्णयन्नाह ॥ चरणेति॥ स्तनस्थितहस्तया दृष्टिः सखीषु निवेशिता अर्पिता उच्चैनिः श्वस्य दीर्घश्वासं त्यक्त्वा कस्मिन् सति रमणे व्रजति इति रुषा उक्त्वा परुषीकृते किं तत् हे निभृतकितवाचार हे विरसशठ प्रसादपराङ्मुखे अदृष्टप्रसादे चरणपतनप्रत्या ख्यानात् 'उपेक्षायां चाटुकारमपी' त्यादिकलहान्तरिता- लक्षणं । स्तनस्थितहस्तया इत्यनेन सूक्ष्मालंकारकथनं इ- निताकारलक्ष्यार्थः सौक्ष्म्यात्सूक्ष्मइति । नयनसलिलव्या- जेत्यनेन तथाश्रुभिदृष्टिविरुवा तथा भवतोभिरयं विरुध्यता मिति कथयति दीर्घनिःश्वासेनातीव विरहो व्यज्यते ॥ शान्तपक्षे सकाममधिक्षिपति हे स्तनस्थितहस्त रमणे क्रीडायां या दृष्टिः साश्रुः सखीषु निवेशिता ब्रजति निभृत- कितवाचारे कपटव्यवहारे न पत कामसंयुक्तो न भव है चरण जंगम अवधूता हि जंगमा भवन्ति । किंभूते प्रत्या- ख्यानात् प्रसादपराङ्मुखे खण्डनादप्रसादे कामव्यवहारो हि खंडितो भवति तत्केन रुषा क्रोधेन कर्कशीकृते इत्यु- क्त्वा एतेन कामित्वं त्यक्त्वा परिव्राजको भवेत्यर्थः॥१७॥ काश्यागाढतरावरुद्धवसनप्रान्ताकिमर्थपुनर्मुग्धा क्षीस्वपितीतितत्परिजनंस्वैरप्रियेपृच्छति॥मातः सुप्तमपीहवारयतिमामित्याहितकोधयापर्य्यस्यस्व ह कामदया टीकया सहितम्. २५ पितिच्छलेनशयनेदत्तोऽवकाशस्तया ॥१८॥ शृङ्गा० संप्रति मानिन्याः प्रसादेनोपेक्षाकर्तृत्वं वर्ण- यति । तथा 'साम दानं च भेदश्च स्यादुपंक्षा नतिस्तथा' इ- त्यादि प्रसादेनोपेक्षायाः । “ प्रसादेन विधिं त्यक्त्वा वा- क्यैरन्यार्थसूचकैः । यत्र प्रसादयेद्योषिऽदुपेक्षा सा मता तथा" इति तद्नुसारेणाह । कांच्यति ॥ तया आहितक्रोधया पूर्व विहितमानया पर्य्यस्य स्वप्नच्छलेन शयने शय्यायां अव काशो दत्तः। कस्मिन् सति प्रिये तत्परिजनं तस्याः सखी- जनं एवंपृच्छति किं तत् इयं लोलाक्षी चंचलनयना। मुग्धा- क्षीति पाठः सुगमः।किमर्थ स्वपिति।किंभूतेयंकांच्या मेखलया दृढतरबंधवस्त्रप्रान्ता । एतेन मानो व्यज्यते । लोलाक्षीत्य- नेन कपटनिद्रा व्यज्यते किं कृत्वा अवकाशो दत्तः सुप्त- मपि वारयतीति कृत्वत्यवकाशः । प्रसादच्छलेन नायिकाया अधर्यत्वं व्यज्यते सुखसाध्यत्वादपि उत्तमेति सूचितम् ॥ शान्तपक्षे ॥ अवकाशः प्रकाशः प्रबोधइति यावत् तया मायया दत्तः तत्परिजनं ब्रह्मांपासकं पृच्छति 'तत् सदि' तिश्रुतेः तत्शब्दन ब्रह्माक्तं । किं तदित्याह काञ्ची- नाम नगरी तया आगाढतया सम्यक्सेविता अवबद्धवस नस्य प्रान्ता च कृतनिवासैकदेशा च मुक्तिक्षेत्रत्वात् तस्याः तथा च 'अयोध्या मथुरा माया काशी काञ्ची अवन्तिका। पुरी हारवती चैव सप्तैता मुक्तिदायिकाः।' तथा च किमर्थ ३ २६ अमरुशतकं न किंचिदुद्दिश्य लोलाक्षी माया स्वपिति निद्राति कुत्र प्रिये वस्तुनि या मातः लक्ष्मीहेतोः सुप्तमपि वारयति हे इत्य- ज्ञानेनाहितक्रोध निःक्रोध मां लक्ष्मी पर्य्यस्य परिक्षिप्य छलेन कपटेन सुप्त । एतेन एतदुक्तं भवति सुमुक्तिक्षेत्रवा सी निष्कामः निर्भोगः निप्पटश्च भवतीति ॥ १८ ॥ एकस्मिन्शयनेपराङ्मुखतयावीतोत्तरंताम्यतो रन्योन्यस्यहदिस्थितप्यनुनयेसंरक्षतोगौरवं । दम्पत्योःशनकैरपाङ्गवलनान्मिश्रीभवचक्षुषो- भनोमानकलिःसहासरभसंव्यासक्तकण्ठग्रहः।। १९ शृङ्गा० नायिकाया मानभंगं वर्णयित्वा द्वयोर्मानभई वर्णयन्नाह ॥ एकस्मिन्नित्यादि । दम्पत्योर्जायापत्योर्मानक- लिनिकलहः भग्नः कथमित्याह शनकैर्मन्दं अपांगयोर्व लनात् मिश्रणात् मिश्रीभवच्चक्षुषोरेकीभवन्नयनयोः चक्षुःश- व्दोऽत्र दृष्टिवचनः लक्षणया। अत एव सहासरभसव्या- सक्तकण्ठग्रहत्वं । एकस्मिन् शयने शय्यायां पराङ्मुखत- या वीतोत्तरं विगतोत्तरं यथा स्यातथा ताम्यतोः स्थितयोः । कथमित्याह । अन्योन्यस्य हृदि स्थितेप्यऽनुनये प्रेम्णि स्थितेपि गौरवं संरक्षतोः एतेन द्वयोरप्युत्तमत्वं व्यज्यते ॥ शान्तपक्षे ॥ मुक्तये उपदिशति । हे तया मायया वीत त्यक्त एकस्मिन् शयने पराङ्मुख एकत्रावस्थितमपि दम्प- त्योर्गौरवं न्यस्य दूरीकुरु किंभूतयोः उत्तरं उत्तरकालं ता- - कामदया टीकया सहितम्. २७ म्यतोः किंभूतस्त्वं अन्यः संसारादन्यः ॥ अन्यद्विशेषणं समानम् । तदा कलिः कलियुगव्यवहारो मानभङ्गः भग्न एव । एतेनैव एतदुक्तं भवति । योऽवधूतो भवति । स निर्मायो भवति । एकत्रानवस्थितः निष्कामश्च भवतीति संभोगपूर्वामवस्थां मा पश्येति ॥ १९ ॥ पश्यामोमयिप्रिपद्यतइतिस्थैर्य्यमयालम्वितं किंमामालपतीत्ययंखलुशठकोपस्तयाप्यारे तः ॥ इत्यन्योन्यविलक्षदृष्टिचतुर तस्मिन्नव- स्थान्तरे सव्याजहसितंमयाधृतिहरो वाष्पस्तु मुक्तस्तया ॥२०॥ शृङ्गा० • कश्चिन्नायको नर्मसचिवमाख्याति । मया स- व्याजं सच्छलं हसितं किं कृत्वा वयं पश्यामः मयि महि- षये नायिकया किं प्रपद्यते क्रियते कपटशालिनि मयि त- यापि कोप आश्रितः अयं शठो धूर्तो मामालपति बदतीति कृत्वा शनैरगाढानुरागभरेण दृष्टिबलात् मानभड़े उत्तमत्वं व्यज्यते ॥ शान्तपक्षे॥ सांसारिकमधिक्षिपति । इत्यन्य ज्ञान- बहिष्कृत इति ज्ञानं तस्मादन्यः । शठः कपटी मां लक्ष्मी आलपति संभावयति सेवते इति यावत् मायायाः लदम्याः किं स्थैर्य नालम्बितं एवं न किं कृत्वा मयि मद्विषये असौ प्राप्यते तत् पश्याम इति कृत्वा । कथं लक्ष्मीसेवनमयुक्तमि- २८ अमरुशतकं त्याह । अवस्थान्तरे प्रसङ्गान्तरे सव्याजं सच्छलं मुक्तम्त्य क्तः पुरुषो धृतिहरो भवाति अबाष्पः अनश्रुः सम्भावनात् तस्मिन् पुरुषे तु मया लक्ष्म्या हसितं । किंभूते अन्योन्यवि- लक्षदृष्टिचतुरे परत्वं निरीक्ष्य दर्शनकुशले यदा लक्ष्मीक आसीत्तदा अन्यैः कार्यप्राप्तदर्शनआसीदेतेन योऽवधूती भवति स लक्ष्मी चंचलां प्रति निस्पृहो भवति ॥ २० ॥ परिम्लानेमाने मखशशिनितस्याःकरधृते मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ॥ तयापक्ष्म प्रान्तबजपुटनिरुद्धेनसहसाप्रसादोबाष्पणस्तन नटविशीणेनकथितः॥२१॥ शृङ्गा० मानमार्जनोपाये रतिं वर्णयन्नाह ॥ परिम्लान इत्यादि ॥ तया प्रसादः कथितः केन बाष्पेणाश्रुणा पक्ष्मप्रा न्तव्रजपुटनिरुद्धेन पक्ष्म नेत्रलोम तेषां प्रान्तबजेन अग्रस महेन यः पुटस्तेन रुडेन एतेन धनपक्ष्मत्वात् पद्मिनीत्वं व्यज्यते । स्तनतटविशीर्णेन इत्यनेनानुरागो व्यज्यते । त- थाच कविकण्ठाभरणं । "दोर्मूलोत्तोलनश्चैव स्तनयोः स्पर्शनं छलात् ।" इति । अनुराग इङितलक्षणः कथं प्रसादोभूत् इत्याह माने परिम्लाने सति कथमित्याह मयि प्रणिपतन- मात्रैकशरणे प्रणाममात्रैकशरणे सति केवलं दैन्यमालंव्य पादपातनियते अतः क्षीणोपाये उपायान्तररहिते। "प्रणि- पातः प्रतीकारः संरम्भो हि महात्मनां" इति नायिकाया ॥

कामदया टीकया सहितम. २९ महत्त्वं व्यज्यते । मानचिह्नमाह । तस्या मखशशिनि मुख- चन्द्र करधृते सति हस्तन्यस्तकपाले सतीति मानलक्षण नायिका च मध्यमा ॥ तथाह रुद्रः 'प्रयाति कारणाद्रागं मध्यमा सा मता थथा। शान्तपक्षे शृंगारभावमधिक्षिपति ॥ तस्या नायिकायाः करधृते काले मन्त्रध्वनो धृतिर्यस्याः सा तथा मयि मद्विषये प्रणिपाते मयि किंभूते प्रणिपतनमात्रैकशरणे न निषधस्त न्मात्रप्राय 'यत् किञ्चिज्जल्पने तु देवनं भवतीति श्रुतेः। माने अहंकार परिम्लाने मुखं उपायं संसारतरणस्यति शंसितुं शीलं यस्य शश प्लुतगतौ । कथमित्याह तया मायया प्र- सादः कथितः कथं ज्ञायत इत्याह बाप्पेण । जात प्रसादा हि आनन्दाधुशालिनो भवंतीति ।। २१ ॥ तस्याःसान्दविलेपनस्तनतटप्रश्लेपमद्राङ्कितंकि वक्षश्चरणानतिव्यतिकरव्याजेनगोपाय्यते ।। इ त्युक्तेक्वतदित्यदीर्यसहसातत्संप्रमा?मयासा श्लिटारभसेनतत्सुखवशात्तन्यापितद्विस्मृतं ॥२२ शृङ्गा निःशङ्कनायकवायन्नाह ॥ तस्या इति ॥ सा मया आश्लिष्टा किमर्थे तत् संप्रमाष्टुं क तदित्युक्त्वा किमित्याह वक्षः किंगोपाय्यते संवियते किंभूतं तस्याः अ- न्यनायिकायाः सांद्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं धन- मनुलेपनं यत्र एवम्भूतो यस्तनतटस्तस्य या प्रश्लेषणमुद्रा ३० अमरुशतकं आलिङ्गनपरिपाकः तेनाङ्कितं चिह्नितं अनुलेपनस्य अन- ल्पत्वेन तस्या अवैदग्धं व्यज्यते चरणप्रणिपातच्छलेन आलिङ्गनसुखवशात् तन्व्यापि नायिकयापि तन्मानादिचि- हूं विस्मतं 'निःशङ्कः कृतदोषोपि' इत्यादिरुद्रवचनान्निःश- ऋत्वं नायकस्य ॥ शान्तपक्षे ईश्वरमधिक्षिपति । हेइन हे ईश्वर चरणान- तिकरव्याज पादप्रतिपन्नेषु व्याजःकपटं यस्य स तथा वक्षो हृदयं किं गोपाय्यते संत्रियते तस्या मायाया सान्द्रविले- पनं निबिडानुभवः सएव स्तनतटस्तस्य प्रश्लेषमुद्रा तया अङ्कितं व तदित्यज्ञानप्रबले किंकृत्वा वतद्ब्रह्म कुत्रेत्युक्त्वा किमर्थं मया लक्ष्म्या तत् प्रमाटुंम्प्रोझितुं किंभूतया तन्व्या अल्पया ततसुखवशाब्रह्म विस्मृतं एतेनैतदुक्तं भवति 'तव- मायानुभावेन मुग्धेन ब्रह्ममानयेति ॥ २२ ॥ त्वं मुग्धाक्षिविनैवक चुलिकयाधत्सेमनोहारि- णीलक्ष्मीमित्यभिधाथिानेप्रियतमेतद्वीटिकांसं- स्पृशि । शय्योपान्तनिविष्टसस्मितमुखीनेत्रो- त्सवानन्दितोनिया॑नःशनकैरलीकवचनोपन्या समालीजनः ॥ २३॥ शृङ्गा० उपेक्षानाममानिन्याः प्रसादं वर्णायन्नाह ॥ त्वंमुग्धाक्षीति ॥ आलीजनः सखीजनः निर्यातः शनकै- मन्दम्मन्दं अलीकवचनोपन्यासं यथा स्यात्कपटवचनो- ३६ कामदया टीकया सहितम्. पन्याप्तं यथास्यात् एतेन सखीनां चातुर्य । किंभूतः शय्यो- पान्तनिविष्टा या सस्मितमुखी अर्थान्मुख्या नायिका तस्या ने त्रोत्सवेनानन्दितो नयनप्रसादेन हर्षितः । कस्मिन्सति प्रि- यतमे इत्यभिधायिनि सति कथयति सति किंतत् हेमुग्धाक्षि सुन्दरनयने कञ्चलिकया विना किं मनोहारिणी शोभा नध- से अपितु धत्स एव किंभूते ताटिकां संस्पृशि कंचुलिकाव- न्धनप्रबन्धो वीटिका तत्संस्पृशि बन्धनमोचनकामे सती- तियावत् । 'प्रसाधनविधिं त्यक्त्वा वाक्यैरन्यार्थसूचकैः। यत्र प्रसाद्यते योपिदुपेक्षा सा मता यथा' इतिवचनादुपेक्षेयं ॥ शान्तपक्षे मानसमधिक्षिपति ॥ हे मनः त्वं लक्ष्मी धत्से. अभिलपसि किंभूतां हारिणी हरणं हारः तद्योगाडारिणी लक्ष्म्याचञ्चलत्वात् अतएव मुग्धाक्षि मृढदर्शनं अक्षिशब्देन लक्षणया अक्षमिन्द्रियं तद्योगात् वीटिकाशब्दोऽत्रवन्धनव- चने लक्षणया प्रकरणात् संसारबन्धनमोचने मित्रजनसामा- न्योपि निर्यातःपरिव्राजको बभूव किंभूतःअलीकवचनोपन्या- समाली कपटवचनबन्धमनोयुक्तः अवधृतोहि बहिः कपटप्र- बन्धेनात्मानं संवृणुते किंभूतो नेत्रोत्सवान न्दितः नयनाक्षि- सेन गुरुणा उत्साहेननान्दितः आनन्दमयीकृतः सस्मितमुखी सहासवदनयुक्तः शय्योपान्तनिविष्टइति मनोविशेषणं निद्रा- मायायुक्तेतियावत्। एतेनैतदुक्तं भवति मनसो लक्ष्मीलिप्सां दूरीकृत्य सद्गुरूपदेशेनानन्दोभूत्वा अवधूतेनभवितव्यम् २३ ३२ अमरुशतकं धूभङ्गइति भ्रूभङ्गेरचितेपिदृष्टिरधिकंसोत्कण्ठमुदीक्षतेका कश्यङ्गमितपिचेतसितनूरोमाञ्चमालम्बते ॥रु द्धायामपिवाचिसस्मितमिदंदग्धाननंजायतेदृष्टे निर्वणंभविष्यतिकथंमानस्यतस्मिन्नन।॥२४॥ शृङ्गा अनुरागविशेषमाह सख्या मा नार्थ शिक्षिता काचिदनुरागभावमाह हेसखि तस्मिन् जने दृ- प्टे सति कर्थमानस्य निर्वहणं निर्वाहो भविष्यतीति । कथमि- त्याह भ्रूभंगे भ्रुकुठ्यादौरचितेपि दृष्टिःसोत्कण्ठं यथास्यात्तथा अधिकमीक्षते। वाचिरुद्धायामपि इदं दग्धाननं सस्मितंजाय. ते । दग्धमिति धिक्कारोक्तौ चेतसि मनसि कर्कशतांगमिते- प्रापितेपि स्वतःकर्कशं नभवति किंतु कर्कशतांगतमेव तनूरो- माञ्चमालम्बते । एतेनान्तरानुरागः प्रकाशितोभवतीति ॥ शान्तपक्षे अहंकारिणमधिक्षिपति। तस्मिन् ब्रह्मणि दृष्टे साक्षात्कृतेसति अहंकारस्य कथं निर्वाहोभविष्यति । यतः "कामादयो विनश्यन्ति तस्मिन्दृष्टे परात्परे" । हेदग्ध सा- दृष्टिः भ्रूभंगे ध्रुवोरेवभंगिस्तस्या अधिकं वीक्षते । 'ध्रुवोर- न्तर्गता दृष्टिर्भवत्यत्यन्तयोगिनामिति' । किंभूता दृष्टिः अचिते अन्वये । घटपटादिवस्तुज्ञानेच मानाभिभवे उत्क- ण्ठामहती मुत् यस्याः सा तथा पुनः किमिह वाचि रुद्धायां मौने प्रारब्ध आननं जीवनं सस्मितं सहर्ष जायते जीव. नोत्साहो भवतीति । चेतसि कार्कश्यं गमिते स्त्रीपुत्रादिसं- कामदया टीकया सहितम्. ३३ मोहं त्यक्तवति तनुः सपुलका भवतीति आनन्दतो रोमा- वः स्यादतनैतदुक्तंभवतीति । मोहान्मनोनिबिडीकृत्य बाचं- संयम्य भ्रुवोरन्तर्गतां दृष्टिं कृत्वा अहंकारं त्यक्त्वा ब्रह्म सेव्यामित्युपायः ॥ २४ ॥ कान्तेकत्यपिवासराणिगमयत्वंमीलयित्वादशी स्वस्तिस्वस्तिनिमीलयामिनयनेयावन्नशून्या दिशः । आयाताक्यमागमिष्यतिसुहृद्वर्गल्य भाग्योदयैः सन्देशोवदकस्तवाभिलषिततीर्थे पुतोयांजलिः ॥ २५ ॥ शृङा० भविष्यत्प्रोपितभर्तृकायाआच्छन्नमाह ॥ का- न्तति ॥ कश्चिन्नायको बदति हेकान्ते त्वं दृशौ मीलयित्वा कतिचित्वासराणि गमय चक्षुर्निमेष इव कतिचिहिनानि न- य। नायिकावदति स्वस्तिस्वस्तीत्यंगीकारे नयने निमीलयामि तावत् यावत शून्या दिशो नभवन्तीति भवन्तो यावन्नगच्छति किंवा दिशो मण्डलाकारदर्शनतया यावत् शन्या न भवन्ति तावदेव चक्षुर्निमीलयामि । अन्यथामनस्तापभावादिकष्टं मण्डलाकारमितिकामशास्त्रं । कान्तः पुनराह आयाता वयं । कान्ताह सुहृद्वर्गस्य मित्रसमूहस्य भाग्योदयरागमिष्यति । नममेतिभावः । कान्तः पुनराह तवाभिलषितो वांछितः कः सन्देशः । कान्ताह तीर्थेषु तोयांजलिः । एतेनाहं प्राणां- स्त्यश्यामीत्याक्षेपेण गमनं निरुद्यते इत्याक्षेपालंकारः ॥ ॥

३१ अमरुशतकं शान्तपक्षे मित्रजनमुपक्षिपति । हेसुहृत हमित्र का- न्तेकमनीये स्त्रीपुत्रादौ वस्तुनि त्वं दृशौ नीलयित्वा तन्नष्टः कतिचिवासराणि गमय तव नयने अहंनिमीलयामि मुद्र- यामि यावत् दिशः उत्कृष्टनायिकाः शून्या नभवन्ति विशि- टास्त्रीशन्या इति ज्ञानं यावन्नोत्पद्यते 'दिशोऽलंकारिताः स्त्रि. यः'इतिधरणिः। स्वस्तिस्वस्तीति प्रारम्भे ततःकिंफलमित्याह। आयातौ सत्यां यस्यज्ञाने सति अयंशुभावहं किं या आगमि प्यति लिप्सते वर्गस्यकुलस्य उदयैः भाक् भाजतेः कर्त्तरिक्विप् 'एकोज्ञानीवंशमेव तारयती'तिश्रुतेः। तीर्थेषु तोयांजलिवंश- स्तारणीय इतिचेत्तत्राह।आभिरायातिभिस्तत्वज्ञानवासतश्च- बन्धः कस्तीर्थेषु तोयाज्जलिःसन् प्रादेशः अपितु सर्वएवब न्धः तीथेषु यःपरंब्रह्मविन्दती तिश्रुतेः एतेनैतदुक्तं भवति । संसारवासनादृष्टिं निरस्य तत्वज्ञानं जायते तस्मिंश्च सति वंशोद्धारणं सर्वतीर्थपर्यटनफलञ्च जायते इति ॥ २५ ॥ सापत्युःप्रथमापराधसमयेसख्योपदेशविनानो जानातिसविभ्रमाङवलनावक्रोक्तिसंसूचनं॥स्व च्छेरच्छकपोलमलगलितैःपर्यस्तनेत्रोत्पलाबा लाकेवलमेवरोदितिलुठल्लोलालकैरश्रृभिः ॥२६॥ शृङ्गा० संप्रतिबालायामानंवर्णयन्नाह ॥ सेति ॥ सा बाला सविभ्रमाङ्वलनावकोक्तिसंसूचनं न जानाति कस्मि- सस्त्रातःसर्वत ३५ कामदया टीकया सहितम्. नसमये पत्यःप्रथमापराधसमये सख्योपदेशं विना इति किंकु- रुते केवलमेवरोदिति कैरश्रुभिः किंभूतैः स्वच्छैः निर्मल: निर्मल कपोलमूलगलितैः कोपकृतवदनवक्रत्वादिरहि- तत्वात्कपोलमूलाद्गलितैः मुखवक्रादिकमंगभंगविकारो- बालयाकर्तुमशक्यः । कथंभूतापर्य्यरतनेत्रोत्पला परिक्षिप्त- नयनपक्ष्म एतेनाश्रुबाहुल्यमुक्तं । लुठल्लोलालकैः लुठन्तो गलिता लोलाचंचला अलका येषु तैः तथा तदुक्तं । 'अन्या निषधमानेपि यदि सा कुप्यति प्रिये । रोदित्यस्याग्रतः स्वल्पमनुनीता च तुप्यती' ति ॥ शान्तपक्षे मैत्रीमाक्षिपति । अयेसख्योपदे सख्यं उप- दा उपढोकनमितिरूपकं । 'उपदातूपढोकनमितिकोषः। हेप- त्युः प्रथमा सात्वं विभ्रम दूरंगच्छ। कथमित्याह सजनः अंग- वलनावक्रोक्तिसंसूचनं नो जानातिशं विना कल्याणंविना किं भूतं अपराधसंदोषान्तकरं अपराधं स्यतीति व्युत्पत्त्या नात्म- नो जानातीत्यतः कथं तंलोभयतीतिभावः। कल्याणं मोक्षप- दार्थः। संप्रति कामशरणमाक्षिपति हेइबल कामबल कुच- चन्दनादे आइतिसम्बोधने आवराक बराकोऽधमः तस्येदं- वाराकं हेनेत्राश्रुणापर्य्यस्तपरिक्षिप्त हे अवर अधम विषये त्वं उत्पल उद्गच्छ । पलसंख्याने । मे मम किंभूतरय अश्रु- भिरुपलक्षितस्य किंभूतस्य उदितिरुत्कृष्टज्ञानं तेन लोला अलका यत्र तस्य स्वच्छकपोलमूलगलितैः शरीरनैर्मा- ३६ अमरुशतकं ल्यात् । एतनैतदुक्तं भवति निःसङ्गो निफलः निष्काम- श्रसनबजेति ॥ २६ ॥ भवतुविदितंभव्यालापेरलंखलुगम्यतांतनुरपि- नतेदोषोस्माकंविधिस्तुपराङ्मखः । तवयदि तथाभूतंप्रेमप्रपन्नमिमांदशांप्रकृतितरलेकानः पीडागतेहतजीविते ॥ २७ ॥ शृङ्गा० संप्रति मध्यमानं वर्णयन्नाह ॥ भवत्विति ॥ हप्रिय त्वयागम्यतां हे भव्य कार्यकुशल इति विदितंख्यातं भवतु । आलापरलं व्यर्थ तवेत्युचितपदं सानुनयत्वात् । तनु- रपि अल्पोपि न तव दोषः । अस्माकं विधिदैवं । पराङ्मुखः तस्मिन् पराङ्मुखे सति निधनं जायते। तकिमर्थमित्याह । तव तथाभूतं अनिर्वचनीयं प्रेम यदिइमां दशां प्रपन्नं तदा- स्माकं हतजीविते गते कापीडा अपितु न कापीत्यर्थः ॥ शान्तपक्षे बान्धवमुपदिशति । हेप्रिय गम्यतां परित्रा- जको भव भव्यालापरलं सांसारिकालापैरलं मौनंकुरु वाग्य- तो भव भवाय कल्प्यते भव्यं कथमेवं कर्तव्यमित्याह वित् विज्ञानं इतंज्ञातं भवतु तववचनंकथंकर्तव्यमित्याह।अस्माकं नते नम्रे पुरुषे दोषो विधिः दोषजनकत्वात् दोषोपि तनुरपि- अल्पोपि पराङ्मुखः किंपुनर्महान् यदि तव प्रेम सांसारिक- स्नेह इमां दशां परिव्राजकतां प्रतिपन्नं हेप्रकृतिचपल हेइ- हत कामहत जीविते इकानःपीडागता इकोविवेकः सए कामदया टीकया सहितम्. ३७ व अनः शकटं तस्य पीडा गता । एतेनैतदुक्तं भवति वाग्यतेपरिव्राजके कामपीडा नास्ति इति उच्यते ॥ २७ ॥ उरसि निहितस्तारोहारः कृताजघने घने कलक लवती काञ्ची पादौ क्वणन्मणिनपुरी। प्रियम भिसरसि मुग्धे वं समाहतडिण्डिमायदि किम धिकवासोत्कम्पं दिशः समदीक्षसे ॥२८॥ शृङ्गा० वेश्यामभिसारिकां वर्णयन्नाह ॥ उरसीति ॥ हेमुग्धे त्वं आहतडिण्डिमासती शब्दायितडिण्डिमासती प्रियमभिसरसियदि किं दिशःप्रेक्षसे समधिकत्रासोत्कम्पं य- थास्यात्कथमाहतडिण्डिमा प्रगल्भा इत्याह उरसि तरो- हारः चाकचिक्यादियुक्तो हारस्त्वया दत्तः जघने कलक- लवती शब्दायमाना कांची कृता पादौ रणन्मणिनपुरौ कृती 'सशब्दाभरणं कामं वेश्या सरति नायकं । सखीयुक्ता यदा- धिक्यात् स्फारिताक्षीत्वशङ्किता, इति विशिष्टानायिका ॥ शान्तपक्षे सांसारिकमधिक्षिपति । हेमुग्ध हेमढ यदि इत्वं कामत्वं अभिसरसि किंभूतं प्रियं अनेनैव त्वदुरसि हा- रोदत्तः किंभूतः स्तारः। स्तृआच्छादने स्तृणातीतिस्तारः । जघने अकलकलवतीशब्दहीना काञ्चीकृता पादौ रणन्म- णिनूपुरौ कृतौ इत्यर्थः । कथंज्ञातमित्याह दिशः प्रशस्त- कान्ताः समुत्सहर्षःसन् ईक्षसे किंभूता आहतडिण्डिमाः प्रगल्भाः हेऽधिकत्रास हेमहासंसारभय त्वंकिंभूतं उत्कम्प ३८ अमरुशतकं उत्कृष्टः कम्पोयस्मात् एतेनैतदुक्तं भवति विरुद्धभूषणोयथा- उपहास्यते जनः तथाउपहसनीयोभविष्यतीत्यर्थः ॥ २८ ॥ प्रातःप्रातरुपागतेनजनितानिनिद्रताचक्षुषोर्म न्दायांमयिगौरवव्यपगमादुत्पादितंलाघवं । किं मुग्धेनमयाकृतंरमणधीर्मुक्तात्वयागम्यतांदुःस्थति ष्ठसियच्चपथ्यमधुनाकत्तास्मितच्छ्रोष्यसि॥२९॥ शृङ्गा खण्डितांवर्णयन्नाह ॥ प्रातरिति ॥ काचिद्व- दति त्वया प्रातःप्रातरुपागतेन चक्षुषोनिनिद्रताजनिता प्रतिरात्रौअन्यत्रस्थित्वाप्रातरेवागम्यते अतएव मन्दायांम- यि लाघवमुत्पादितं कस्मात् गौरवव्यपगमाद्धेतोः । कान्तः प्राह किं मूढेन मया कृतं । कान्ताऽऽह रमणाधीः प्रियवुद्धि- मुक्ता अतस्त्वया गम्यतां । कान्तः प्राह दुःखं यथास्यात्तथा तिष्ठसि । कान्ताऽऽह अधुना यत्पथ्यं कर्त्तव्यं करिष्यामि तत्श्रोष्यसि जीवं त्यक्ष्यामीति भावः ॥ शान्तपक्षे राजानमधिक्षिपति । हे इन हे ईश्वर हेमुग्ध मूढ हेरमणक्रीडासक्त मया लक्ष्म्या किंकृतं नकिमपीत्यर्थः । धीर्ज्ञानं त्यक्तं त्वया गम्यतां परिव्राजकोभव अत्रदुःस्थंस्था- स्यसि यत्पथ्यकर्तास्मि उपदेक्ष्यामि तत्श्रोतव्यमित्याह । मयिइनजनितागौर्वाणीमन्दा ईश्वरजनितं वचनं मन्दमि- त्यर्थः। चक्षुषोर्लाघवं सूक्ष्मदर्शनमुत्पादितं किंभूतं व्यपगमात् व्यपगमोमृत्युः तमत्तीतिव्यपगमात् मरणहरं यानिनिंद्रता कामदया टीकया सहितम्. ३९ ॥ उपागता तांअवरक्ष आं इतिसम्बोधने। प्रातःप्रातः प्रत्यह पालय एतेनैतदुक्तंभवति ऐश्वर्य्यपरित्यज्यनिर्निद्रोभूत्वा परिव्राजको भवइत्यर्थः ॥ २९ । साबालावयमप्रगल्भमनसःसास्त्रीवयंकातराःसा पीनोन्नतिमत्पयोधरयुगंधत्तेसखेदावयं । साका न्ताजघनस्थलेनगुरुणागन्तुंनशक्तावयंदोषैरन्य जनाश्रितैरपटवोजाताःस्मइत्यद्भुतम् ॥ ३०॥ शृङ्गा० नृविरहंवर्णयन्नाह ॥ साबालेति । कश्चिदाह साबाला अप्रगल्भा वयंअप्रगल्भमनसः कामक्रान्तत्वात् ॥ अतोविरोधः । एवंसर्वत्र । सास्त्रीवयंकातराःकृपणाः । सा- नायिका पीनोन्नतिविशिष्टस्तनयुगंधत्तं वयंसखेदाः खेदा- न्विताः । सागुरुणाजघनस्थलेनआक्रान्तापीडिता वयंगन्यूँ नशक्ताः वयंअन्यजनाश्रितैःदोषैःकारणकैः अपटवोऽदक्षा याताःस्म इतिकिं अद्भुतं अतिशयविरहत्वात् ॥ शान्तपक्षे इतरमधिक्षिपति हेअन्यजन वयमपटवो- जाताःस्म पटबोजाताइत्यर्थः किंभूताः गुरुणाइत्यहुतंज्ञा- नेषु भूतं ज्ञातुं गन्तुंशक्ताः समर्थीकृता । अन्तर्भावितोण्यर्थः। गुरुणाकिंभूतेन साक्रान्ताजघनस्थलेन एन विष्णुनास- हवर्त्ततेसाः साश्चासौक्रान्तजघनस्थलश्चेतितेनतथा क्रान्त अजस्यब्रह्मणोघनस्थलंनिबिडस्थलंयेनतथा किंभूतावयं अ- श्रितैरसेवितैर्दोषैरुपलक्षिता अदोषाइत्यर्थः किंभूतावयं ..

अमरुशतकं ए माएनसहवर्त्तन्तेसाइत्यद्भुतं किम्भूतं बालावयं वाविकल्प- स्तस्यलावश्छदनंतद्यातीति निर्विकल्पकंज्ञानमित्यर्थः । कि- म्भूतावयं ए विष्णौ प्रगल्भमनोयेषांते अप्रगल्भमनसः किं- म्भूनंज्ञानं सास्त्रीवयंस्त्रियवातिगच्छतीतिस्त्रीवः कामुकः नस्त्रीवोअस्त्रीवस्तस्ययाः गमनन्तेनसहवर्त्तते अकामुकज्ञा- नसहितं । वयंकिम्भूताः कातराःकमिन्द्रियंआतरन्तिकात- जितेन्द्रियाः । कथंगुरूपदेशोधारणीयइत्याह । सगुरुःअ- धरयुगंओष्ठाधरंधत्ते किम्भूतं उन्नतिमत्पयोमहत्वयुक्तमृतं पुनः किम्भूतं खेदावयं खेदानत्रिकालदुःखानि अवयति निन्दति खेदावयं आपीनलक्ष्म्यावृइतिजनविशेषणं एते- नैतदुक्तंभवति वयंसद्गुरुकृपयामुक्तियोग्याभूताज्ञानप्राप्य यू- यं नभूताइत्यर्थः ॥ ३०॥ प्रस्थानंवलयै कृतंप्रियसखैरौरजस्रंगतंधृत्यान क्षणमासितंव्यवसितंचित्तेनगन्तुंपुरः॥ यातनि श्चितचेतसिप्रियतमेसर्वेसमंस्थिता गन्तव्येस तिजीवितप्रियसुहृत्सार्थःकिमुत्यज्यते ॥३१॥ शृङ्गा प्रोषितभर्तृकं वर्णयन्नाह ॥ प्रस्थानमित्या- दि ॥ हेजीवितप्रिय सुत्दृत्सार्थोऽतिबान्धवसंहतिः कि- मुत्यज्ज्यते कस्मिन्सतिगन्तव्येसतियदिगन्तव्यमस्तितदा- गम्यतां । कोऽयंप्रियसुत्हत्सार्थइत्याह । वलयैः प्रस्थान- कृतं अौरश्रुभिः अजस्रंसर्वदागतं प्रियसखैरित्युचितं पदं ४१ कामदया टीकया सहितम्. अनवरतगलनत्वात्बाहुल्यमश्रुणः धृत्याधैर्येण क्षणंनस्थि- तं चित्तेनपुरोगन्तुंव्यवसितं एतेनसर्वेवलयादयः प्रियतमे ग- न्तुं निश्चितचेतसिसति समंसह प्रस्थिताः त्वयाकथनगम्यत- इत्याशयः एतेनकार्यक्रन्दनास्थैर्योद्धेजिताःसूचिताः ॥ शान्तपक्षे मित्रमुपदिशति । हेमित्र हेसुदृत् जीवितप्रि- य प्राणप्रिय गन्तव्ये सति परिव्राजकेसति सार्थःसंघस्त्य- ज्यते किंप्रश्ने उसम्बोधने एकाकीबजेदिति। कथंसंघस्त्याज्य इत्याह । सर्वेअसमंअसङ्गतंख्यातं प्रस्थिताःगताः कस्मिन् सतिएविष्णौनिश्चितचेतसिसति किमर्थप्रस्थितं यातुंज्ञातुं प्रि- यतिपुनःसम्बोधनमनुकम्पायाम् । ज्ञानक्रममाह लयैःसाध्य विकल्पज्ञाने मनसोनिवृत्तिरेवेति । प्रस्थानंगमनंकृतं वइवा- थे लयैःकथंज्ञानं कृतमित्याह सखैरनैः सेन्द्रियैरश्रुभिः सततंगतंच्युतं लयेहिजाते आनन्दाक्षरतीति तदेवोत्प्रेक्षते बालेन्द्रियकज्ञानमपि तेनसहक्षरतइत्यर्थः। ततः किंभवती- त्याह धृत्यासांसारिकप्रीत्या क्षणमपि नस्थितं अतएव चित्ते- न पूर्वमेवगन्तुंव्यवसितं । एतेनैतदुक्तंभवति । लयंबद्धाऐ- न्द्रियकंज्ञानविहाय संसारवासनांत्यक्त्वा विष्णौमनोनिवेश्य निःसङ्गःप्रव्रजेदित्यर्थः ॥ ३१ ॥ सन्दष्टाधरपल्लवासचकितंहस्ताग्रमाधुन्वती मामामुञ्चशठेतिकोपवचनैरानतितधूलता ॥ शीत्काराञ्चितलोचनासरभसयैश्चम्बितामानिनीः ४२ अमरुशतकं प्राप्ततैरमृतंमुधेवमथितोमूढैःसुरैःसागरः॥३२॥ शृङ्गा० शठनायकंवर्णयन्नाह ॥ सन्दष्टेति ॥ सरभ- संसकौतुकंयथास्यात्तथायैर्मानिनीचुम्बिता तैःस्मृतंलब्धं मू- टैमखैः सुरैर्देवैः सागरोयत्मथितः तन्मुधैवतद्व्यर्थमेव । मुधा- शब्दोऽव्ययंव्यर्थार्थकं । किम्भूता मानिनी संदष्टाधरपल्लवा सम्यक्प्रकारेणदंशितकृतो अधरपल्लवीयस्याः सा अतएव सचकितं सकोपं यथास्यात्तथा हस्ताग्रमाधुम्वती ईषदुत्क्षेप यन्ती इतिकोपवचनैरानतितभ्रलता अलीकभ्रुकुटियुक्ता । किंतद्वचनं नामामुञ्चशठेति हेशठ मांआमुञ्च । शीत्कारेणा ञ्चितंकुटिलीकृतं लोचनं यस्याःसातथा । वदनेशीत्काराति- शयेननयनोपान्तंकुञ्चितंभवतीति तस्या अनुकूलदक्षिणशठ- धृष्टा इति चत्वारो नायकाः ॥ शान्तपक्षे लक्ष्मीमधिक्षिपति यैः पुरुषैर्मा लक्ष्मीर्माचुम्बि- ता नस्पृष्टा तैरमृतं मोक्षः प्राप्तं । किम्भूतालक्ष्मीर्मूढैः संदष्टाध- रपल्लवा मूढजनोपभुक्ता अतएवाह शठ मुञ्च इतिकोपवचनै रिव हस्ताग्रमाधुन्वती परोपभुक्तास्मीति निषेधं कुर्वन्त्याहेत्य- र्थोगम्यमानः। किम्भूता मानिनी अहंकारयुक्ता लक्ष्मी सा- हङ्कारा भवतीति । शेषं समानं । एतेन लक्ष्मी मोहं त्यत्का मोक्षः प्राप्यते इत्यर्थः ॥ ३२ ॥ सप्तोयंसखिसुप्यतामितिगताःसख्यस्ततोनन्त रं प्रेमावासितयामयासरलयान्यस्तंमुखंतन्मुखे ॥

कामदया टीकया सहितम्. ४३ ज्ञातेलीकनिमीलनेनयनयोधूर्तस्यरोमाञ्चतो लजासीन्ममतेनसाप्यपहृतातत्कालयोग्यैः क्रमः॥३३॥ शृङ्गा० ॥ धूर्त्तनायकंवर्णयन्नाह ॥ सुप्तोऽयमिति ॥ काचिद्वालावदति हेसखि मम या लज्जा आसीत् सापि तेन धूर्तेनापहृता खण्डिता तत्कालयोग्यैः सुरतादिभिः । कथं लज्जासीदित्याह । धूर्तस्य रोमाञ्चतः पुलकतः अलीकनि- मीलने कपटनिमीलने कपटशयने ज्ञाते सति कथं रोमाञ्च इत्याह । मया सरलया ऋजुबुद्धया तन्मुखे मुखं न्यरतं प्रेमावासितया प्रेमयुक्तया कथमेवं कृतमित्याह । हेसखि अयं सुप्तः त्वया सुप्यताम् इति कृत्वा गताः सख्यः तदन- न्तरं तन्मुखे मुखं न्यस्तम इति ॥'अलीकनिद्रां गत्वा वा प्रबोधवचनात् क्वचित् । बालाचेष्टान्तु यो वित्ति स धूर्त इति गम्यते ॥ शान्तपक्षे हेममते हेममत्व ममशब्दोऽव्ययोऽपि धूर्त स्य या लज्जासीत् सा तत्कालयोग्यैः क्रमैः तद्ब्रह्म तस्य काल- स्तत्कालः तत्रयोग्यैः क्रमैः प्राणायामप्रत्याहारादिभिर्न अप- हृता अपितु अपहतैव । शिरश्चालनेनञ् । कथंलज्जेत्याह । तया ख्यातया मया लक्ष्म्या प्रेमा सौहार्द अवासि किंभूतया- सरलया रं धनं लाति रलस्तयुक्तया तन्मुखे तस्या उपाये सम्पदर्जने मुखं न्यस्तं किम्भूतः अयं प्रेमा। सुप्तः मुद्रितः १ ४४ अमरुशतकं ॥ तदनन्तरं सख्यादीति सम्बन्धः । कस्मिन्सम्बन्धे सति लज्जा इत्याह । नयनयोरीकेन कपटेन निमीलने नेत्रमु. द्रायां सत्यां । एतेनैतदुक्तं भवति । निर्ममः प्रत्याहारादि- शाली अवधूतो भवतीति ॥ ३३ ॥ कोपोयत्रभ्रकटिरचनानिग्रहोयत्रमौनं यत्रान्यो न्यस्मितमननयोयत्रदृष्टिःप्रसादः । तस्यप्रेम्ण स्तदिदमधुनावैषमंपश्यजातंत्वंपादान्तेलुठसि नहिमेमन्युमोक्षःखलायाः ॥ ३४॥ शृङ्गा० मानमाह ॥ कोपइति ॥ यत्रप्रेम्णि कोपो भ्र- कुटिरचना मौननिग्रहः अन्योन्यस्मितं हास्यमनुनयः दृष्टि- दर्शनं प्रसादः तस्य प्रेम्णः संप्रतिवैषमं वैषम्यं जातं त्वंपश्य। किन्तदित्याह। त्वं पादान्ते लुठसि मम खलाया मन्युमोक्षः क्रोधत्यागो न भवतीति । एतेनापराधबाहुल्यं सूचितम् ॥ शान्तपक्षे माया भगवन्तमाचष्टे । पादाः प्रत्यन्तपर्वताः तेषामन्ते निकटे त्वं लुठसि तथा मम खलायामन्युमोक्षोनभ- वतीति त्वां न जानामीत्यर्थः। किंवा त्वं पादान्ते लुठसि मम खलायामोक्षस्त्यागोन अपितुभतएव । अमन्युयथास्यात् अ- न्यःक्रुद्धःसन्त्यजति अक्रोधोपित्वंत्यक्तवानसि इतिअतएव तस्यप्रेम्णः वैषम्यं पश्य । यत्रकोपइत्यादिसुगमं । भगवान पूर्वमनिष्ठुरहृदय आसीत् अधुनापि निस्पृहोऽभवदिति॥३४॥ सुतनुजहिहिकोपंपश्यपादानतमानखलुतव कामदया टीकया सहितम्. ४५ कदाचित्कोपएवंविधोभूत् ॥ इतिनिगदति नाथेतिय॑गामीलिताक्ष्यानयनजलमनल्पमुक्त मुक्तंनकिञ्चित् ॥ ३५॥ शृङ्गा • बालाया मानमाह ॥ मुतन्विति ॥ कश्चिदाह हेसुतनु त्वंकोपं जहिहि त्यज पादानतं मां पश्य कस्मिन्नपि- काले तव एवंविधः एवंप्रकारःकोपोमाभूत् इति नाथे निग- दति सति तिर्यगामीलिताक्ष्या अनल्पंनयनजलंमुक्तंत्यक्त किञ्चिन्नोक्तं । एतेन केवलरोदनेन बालात्वमुक्तम् ॥ शान्तपक्षे हेसुतनु माये मां जहिहि त्यज पादानतं पर्व- तैकदेशाश्रितं वानप्रस्थामितियावत् । मांपश्य कोपंक्रोधशा- लिनं खलुप्रश्ने । तवअपःनपातीत्यपोऽरक्षक इतियावत् । कदाकस्मिन् कालेचित्कोऽभूचिदिति चिद्विषयेकायति- चित्कः ज्ञानशाली नकदाचित् तत्त्वज्ञानशाली तवप्रियो- बभूवेति नाथेप्रियेअवधूते इतिज्ञानविषये निगदतिसति त- या मुक्तं प्रतिकिश्चिन्नोक्तं किम्भूतं नयनजलं नयने दर्शन- कर्मणि जडंबहिईर्शनमूद अनल्पमहान्तं किम्भूतया तिर्य आसम्यक्मीलिताक्ष्यामुद्रितनयनयेत्यर्थः । एतेनैतदुक्तं- भवति । योवानप्रस्थोभवति सलक्ष्म्या मुच्यते इति ॥ ३५॥ गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्मा सान्द्रस्नेहरसातिरेकविगलतश्रीमनितम्बाम्बरा ।। मामामानदमातिमामलमितिक्षामाक्षरोल्लापिनी ४६ अमरुशतकं सुप्ताकिन्नमृतानुकिंमनसिमेलीनाविलीनानुकिम्।। शृङ्गा० प्रगल्भायाः सुरतमाह ॥ गाढेति ॥ गाढालि- ङ्गनेनवाननीकृतौ खर्वीकृतौ यो कुचौ ततःप्रोद्भिन्नउद्गतोरो माञ्चोयस्याः सातथा । कुचयोर्वामनीकृतत्वेनातिशयालिङ्ग- नत्वमुक्तं । सान्द्रस्नेहरसातिरेकेणविगलत्श्रीमन्नितम्बाम्ब रं यस्याः सा तथा । अत्यन्तभावोदयेवस्त्रभ्रंशोभवति । इति क्षामाक्षरोल्लापिनी इति मन्दाक्षरंजल्पंती । किंतदि त्याह । हेमानदमानंददातीति मानदः तस्यसंबोधने अलं अत्यर्थ मां अतिमा मा मा पीडय इतिन्यूनपदत्वेन गुणः किंम्भता सुप्ता निश्चला मनसीति यावत् । मृता निश्चला इष्टत्वात् किं मम मनसि लीना मनस्येवान्तर्भूता नु किं मम मनसि विलीना द्रवीभूता वा इति ॥ शान्तपक्षे गुरुमाह । हेमानद मानंअहंकारं द्यति ख- ण्डयतीति मानदः अहंकारशमक मामानिषेधे मालक्ष्मीः सर्वमिदं सांसारिकं न च भवति । सम्पदितिज्ञाने सति मांअलं अत्यर्थ माति मानयति श्रयतीति यावत् इतं गतं तत्- क्षामाक्षरोल्लापिनी क्षामं कल्याणं तेषु यदक्षरं अचञ्चलं तत्त्वज्ञानं तहल्लपितुंशीलं यस्याः सा तथा मे मनसि ब्रीडात- द्वत् प्रेक्षते सुप्तानुकिं विलीनाकिनु । एतेनातिशयनीयत्वंसू- चितं । गाढालिङनवामनीकृतकुचप्रोभिन्नरोमोद्गमेऽसान्द्रः अनिबिडो यो रसातिरेकस्तेन विगलन्ती यान्ती श्रीस्तयुक्त कामदया टीकया सहितम्. ४७ इति मानदविशेषणं किम्भूतावाम्बरावाविकल्पः सएवाम्बरं शून्यंयत्रनिर्विकल्पेत्यर्थः। एतेनैतदुक्तं भवति। हेगुरो तवप्र सादात् उत्पन्नतत्त्वज्ञानोऽहंजातइति ॥ ३६ ॥ पटालग्नेपत्यौनमयतिमुखंजातविनयाहठाश्ले पंवाञ्छत्यपहरतिगात्राणिनिभृतं । नशकोत्या ख्यातुस्मितमुखसखोदत्तनयनाह्रियाताम्यत्यंतः प्रथमपरिहासेनववधूः ॥ ३७॥ भ्रूभङ्ग बालांवर्णयन्नाह ॥ पटालनेति ॥ नववधूर- स्यनायकस्य प्रथमपरिहासे हिया लज्जया अन्तस्ताम्यति- ग्लायति कथमित्याह किश्चिदाख्यातुं नशक्नोति कथंस्मित- मुख्यः याः सख्यः तासु दत्तनयना अतएवलज्जातिशयत्वं किंकरोतीत्याह पत्यौ मुखं नमयति सति जातविनया। इवा- र्थोगम्यमानः पत्यौ हठाश्लेषंवाञ्छतिसति नायिकागात्राणि निभृतं अपहरति सम्बन्धादपनयति। सकम्पाचुम्बनेवक्त्रं इत्याद्युदाहृतं रुद्रेण ॥ शान्तपक्षे राजानं सम्बोधयति हेइन् हेईश्वर अलग्ने- पत्यौ असंलग्ने ईश्वरे पटगच्छयःसर्वभूतोनचसर्वभूतइत्यस्ति किंमुखमुपायं नमयति माययेत्यर्थः हेजातविनयेति सम्बन्धः आहठाश्लेषवाम्छति सस्वयंनभजते यदिचिन्त्यते तदैवल- भ्यते गात्राण्यपहरति अशरीरंमोक्षं दातरि यद्यपि सर्वेषामन्त- वसति तथाप्यन्तःकरणकर्मख्यातुं कथयितुं न शक्नोति ४८ अमरुशतकं ॥ आह्रिया सम्यक्लज्जयावाताम्यति केवप्रथमपरिहासावधूरि- व इवार्थे व शब्दःस्मितमुखसखीदत्तनयनइश्वरविशेषणएते- नैतदुक्तं भवति सर्वमिदं परित्यज्य जगदीश्वरं चिन्तयेति ३७ गते प्रेमावन्धेप्रणयबहुमाने विगलिते निवृत्ते स द्रावेजनइवजनेगच्छतिपुरः । तदुत्प्रेक्ष्योत्प्रे क्ष्यप्रियसखिगतांस्तांश्चदिवसान्नजानेकोहेतु ईलतिशतधायन्नहृदयम् ॥ ३८ ॥ शृङ्गा प्रोषितभर्तृकामाह ॥ गतेप्रेमेति ॥ काचिदाह हेप्रियसखि गतान दिवसानुत्प्रेक्ष्यविभाव्य अहंतन्नजाने हृदयंयत्शतधानदलति तत्रकोहेतुःकिंकारणं कस्मिन्सति गृहीतनाम्नि तस्मिन्जने नायके गच्छतिसतिजनइवसामा- न्यलोकइव प्रेमाबन्धे स्नेहस्य सम्यग्बन्धे गते सतिप्रणय- बहुमाने प्रेम्णोबहुत्वे विगलितेसति सहावे सौहार्द निवृत्ते- सति एतेनहृदयस्य कार्कश्यं प्रथयति ॥ शान्तपक्षे बान्धवमाह हेतद्ब्रह्म उत्प्रेक्ष्यदृष्टा जने अयं शुभावहविधि गछति सति अजनइव वैष्णवइवय तो मनो नदलति तन्नजाने कथंबजतीत्याहप्रेमाबन्धे स्त्रीपुत्रादिमो- हबन्धेगतेसति कथमेतत्स्यादित्यतआह प्रणयबहुमाने वि- ष्णुविषयस्नेहस्य बहुमाने विगलितेअदृष्टेसति सहावेसद- ह्मतत्रभावः अन्तःकरणसौहार्द्रतस्मिन् अप्रवृत्चेसति कथं- हृदयंदलतीत्साह सखिगतान मित्राश्रितान् दिवसान उत्प्रे- ४९ कामदया टीकया सहितम्. क्ष्य मम सख्युरेवंदिवसागताः मम कथं नु यान्तीतिभावः॥३८ चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयोर्नव मिवजगजातंभूयश्चिरादभिनन्दतोः ॥ कथम पिदिनेदीयातेनिशामधिरूढयोःप्रसरतिक थाबहीयूनोर्यथानतथारतिः ॥ ३९ ॥ शृङ्गा. विप्रलम्भान्तेआलापमाह ॥ चिरविरहिणो- रिति ॥ यूनोः स्त्रीपुंसयोर्यथा कथा बह्वी बहुतरा प्रसरति प्रकाशते तथा न रतिः किम्भूतयोश्विरविरहिणोःउत्कण्ठया- याआत्तिःपीडातयाश्लथीकृतगात्रयोः जगन्नवमिव नूतनमि- वजातं चिरकालानन्तरं पुनरपिचिरादभिनन्दतोः शीलयतोः दिनेदीर्घ कथमपिकष्टसष्टयायातेसति निशांरात्रि- मारूढयोःस्थितयोः । 'अनुभूतः प्रकाशः स्यादालापः प्रथमं- तयोरि' तिरसप्रदीपः॥ शान्तपक्षे अवधूतयोःसङ्गतिमाह दीर्घज्ञाने धारावाहि- कज्ञानेकथमपिनन्दतोः जगदभि भयशून्यंजातं नविद्यते भी र्य्यत्रतत् किम्भूते ज्ञाने दिनइवदिनेप्रकाशकत्वात् किम्भू- तयोश्विरविरहिणोः चिरंत्यक्तसंसारयोः ठं शून्यं तद्विषये याआत्तिर्वासनाविशेषः तेनश्लथीकृतगात्रयोः अनिष्ठुरशरी- रयोः जगत् किंभूतंउत्कं उत् उत्कृष्टानि कानि सुखानि यत्र अतएवनवमिव प्रत्यग्रमिव । किंभूतयोः निशायामधिरूढयोः निशान्तेतयोः कथाख्यातिः प्रसरति यथा यूनो रतिः। एतेनै भूयः ५ ५० अमरुशतकं तदुक्तंभवति सम्यक्ज्ञानशाली नित्यसुखो निर्भयः ख्याति- माँश्चभवति ॥ ३९॥ दीर्घावन्दनमालिकाविरचितादृष्ट्यैवनेन्दीवरैः पुष्पाणांप्रकरःस्मितेनरचितोनोकुन्दजात्यादि भिः ॥ दत्तःस्वेदमुचापयोधरयगेना?नकु म्भाम्भसास्वैरेवावयवैःप्रियस्यविशतस्तन्व्या कृतंमङ्गलं ॥४॥ शृङ्गा० • आगते प्रिये प्रियायाःचेष्टामाह ॥ दीर्घावन्द- नेति ॥ तन्व्यास्वैरेवावयवैनिजैरङ्गैर्मङ्गलं कृतं कस्य वि. शतः प्रियस्य मन्दिरमित्यर्थः किन्तदित्याह दीर्घावन्दनमा- लिका दृष्टयाविरचितानेन्दीवरैः न नीलोत्पलैः एतेन दृष्टेदर्दी- र्घत्वं सूचितं अवयवत्वंच स्मितेन हास्येन पुष्पाणां प्रकरो विक्षेपो रचितः कुन्दजातीप्रभृतिभिर्न । एतेनहास्यस्य वि- शदत्वमुक्तं । पयोधरयुगेन स्तनद्वयेन धर्मजलंत्यजता अ- यॊदत्तः नघटजलेन एतेनस्वेदस्यप्राचुर्य्यमुक्तं । चेष्टाचद्वि- विधा प्रोक्ता आङ्गिकी बाह्यकी तथा, तत्राङ्गिकी चेप्टेयं ॥ शान्तपक्षे मित्रमाह हे प्रिय तन्व्या कान्तया कृतंमङ्ग- लंस्य अन्तं कुरु-षोन्तकणिलोट् हि भसा दीप्त्या स्वैरेव वि- शतः पुरुषस्य मङ्गलं यवैगैःअवरक्ष कथमित्याह हेदीर्घा वन्दन दीर्घअवन्दनं विष्णुवन्दनं यस्य स तथा हेमालिका विरचित मालक्ष्मीः सैवालिका कुत्सितासखी तयाआविर- कामदया टीकया सहितम्. चितआघटित । नापुरुषः अदृष्टयाविष्णुध्यानादिनापश्यति मएवना अन्यथानभवतीत्यर्थः तत्रदृष्टान्तमाह स्मिते हास्ये विषये पुष्पाणां प्रकरः कुन्दजात्यादिभी रचितः इन्दीवरैन रचितः अयमर्थः कुन्दादिभिरेवहास्यसाम्यं ननीलोत्पलै: विष्णुभक्तएवनाअन्योन नित्यंसुखंकथमित्याह अधरयुगेना- यः कलियुगेन अर्घोदत्तः कुम्पृथ्वी भांदृष्टिं च योनआप नप्राप यतोनकेवलं स्वेदप्राप्यश्रमजनकत्वात्। एतेनैतदुक्तंभ वति स्त्रीकृतविलासादिकंत्यक्त्वाविष्णध्यानशोलोभवेतिक कान्तेसागसिशायितेप्रियसखीवेशंविधायागते भ्रान्त्यालिङ्यमयारहस्यमुदितंतत्संगमाकांक्ष या ॥ मुग्धेदुष्करमेतदित्यतितरामुक्त्वासहासं बलादालियच्छलितास्मितेनकितवेनाद्यप दोपागमे ॥४१॥ शृङ्गा० शठनायकं वर्णयन्नाह ॥ कान्तेति अद्य प्रदो- पागमे रजनीमुखे आयाते धूर्तेन अहं छलितास्मि किंकृत्वा सहासं यथास्यात्तथा बलादालिङ्गय किमुक्त्वा हेमुग्धे एतत अतितरं दुष्करं इत्युक्त्वा कथमेतदित्याह मयातत्संगमाकां- क्षया किञ्चिद्रहस्यं गोपनवचनं उदितं कथितं सखीभ्रान्त्या आलिङ्गय कथमित्याह कान्ते सागसि सापराधे सति सखीवेशं विधायागतेसति किम्भूते शायिते 'स्वार्थेणिच' अतएव भ्रान्तिरिति । अपराधस्य शान्त्यर्थ कृतरूपान्तर- ५२ अमरुशतकं ग्रहः । नायिकामुपगच्छेद्यः स ज्ञेयः शठनायक" इति ४१ आशङ्कयप्रणतिपटान्तपिहितोपादौकरोत्यादरा त्व्याजेनागतमावृणोतिहसितंनस्पष्टमुदीक्षते । मय्यालापवतिप्रतीपवचनंसख्यासहाभाषतेत स्यास्तिष्टतुनिर्भरप्रणयितामानोपिरम्योदयः४२ থা • धीराया मानं वर्णयन्नाह ॥ आशंक्येति ॥ तस्यास्तन्व्या निर्भरप्रणयिता तिष्ठतु अतिशयप्रणयोस्तु मानोदयापि रम्यः । कथमित्याह । आशंक्य प्रणतिं तर्क- यित्वा पटान्तपिहिती वस्त्रान्तेनाच्छादितौ पादौ करोति आगतं हास्यं व्याजेन कपटेन आवृणोति स्पष्टं नोहीक्षते मयि आलापवति सति प्रतीपवचनं विरुद्धवचनं यथा स्यात्तथा सख्या सहाभाषते ॥ शान्तपक्षे अवधूतं पश्यन् कश्रिदाह आःकष्टे तस्यर- म्योदयः मधुरतत्वज्ञानं तिष्ठतु किंभूतः अमानः अतीतमानः कथमेतदाह प्रणाममाशंक्य पादौ कौपीनछन्नौ करोति किंभूतःआदरात् सम्यक्भयात् व्याजे कपटे आगतं आग. मनं न करोति हसितं आवृणोति व्यक्तं न प्रेक्षते मयि आ- लापवति विरुद्धमाभाषते किंभूतः सख्यासहा सखीनामासः क्षेपणं तद्धन्तीति । एतेनैतदुक्तं भवति ज्ञानी भवेति ॥ ४२ ॥ सायावन्तिपदान्यलीकवचनैरालीजनैःशिक्षिता तावन्त्येवकृतागसोद्रुततरव्याहृत्यपत्युःपुरः ॥

कामदया टीकया सहितम्. ५३ प्रारब्धापुरतोयथामनसिजस्याज्ञातथावत्तितुंप्रे म्णोमोग्ध्यविभूषणस्यसहजःकोप्येषकान्तःकमः४३ शृङ्गा० कृत्रिममानं वर्णयन्नाह || सायावन्तीति ॥ सा नायिका आलीजनैः सखीजनैः यावन्ति पदानि सुप्तिङ. न्तानीत्युपलक्षणानि शिक्षिता किंभूतैरलीकवचनैः कपट- वचनैः तावन्त्येव पदानि कृतागसः पत्युःपुरः अग्रे द्रुततरं यथास्यात्तथा व्यात्दृत्यउक्त्वा तथा वर्तितुंचेष्टितुं पुरतोऽग्रे प्रारब्धा यथामनसिजस्याज्ञा कथनमिति अर्थान्तरन्यास- माह मौग्ध्यविभूषणस्य प्रेम्णः सहजः कोप्येषकान्तः कमनीयः क्रमः 'मानोहि द्विविधः प्रोक्तः सहजः कृत्रिम- स्तथा । स्वयं कृतस्तु सहजः कृत्रिमोऽन्यनियोजित ' इतिर सप्रदीपः ॥ शान्तपक्षे कामिनं प्राह यथा मनसिजस्याज्ञा तथा- वर्तितुं प्रारब्धा । कर्मकर्तृविवक्षायां कतरिक्तः।मौग्ध्यविभू- षणस्य मौग्ध्यं मुग्धता सा एव विभूषणं यस्य चातुर्याभू- पणस्येति यावत् । एवंभूतस्य प्रेम्णः कोपि क्रमः कान्तः सहजः स्वभावकमनीयः उपक्रमः । कथमित्याह आली माया यावन्ति पदानि कपटोक्तिभिः जनैः शठैः शिक्षिता अभ्यस्ता पदानि पत्युरीश्वरस्य विभोः पुरः सम्मुखं कृत्वा प्रारब्धा अर्थाजना आप्लुत्याप्लुवन्ति ।। एते- नै तदुक्तं भवति अकिश्चित्कृत्वा द्रुततरं संलप्यसां तावन्त्येव ५४ अमरुशतकं . प्र सारिकालापमुक्त्वा क्रान्तकामो भव इत्यर्थः ॥ ४३ ॥ दूरादुत्सुकमागतेविवलितंसम्भाषिणिस्फारितं संश्लिष्यत्यरुणंगृहीतवसनेकिञ्चिन्नतभूलतं ।मा निन्याश्चरणानतिव्यतिकरेवाष्पाम्बपूर्णेक्षणंचक्षु र्जातमहोप्रपञ्चचतुरंजातागसिप्रेयसि ॥ ४४ ॥ शृङ्गा० मध्यमानं धूर्त्तनायकं वर्णयन्नाह ॥ दूरादिति॥ मानिन्याश्चक्षुः प्रपञ्चचतुरं जातं व्यवहारनिपुणं जातं अहो आश्चर्य कस्मिन्सति प्रेयसि जातागसि जातापराधे । कथमित्याह । दूरादत्सुकमुत्कण्ठितं दर्शनार्थ प्रिये आगते मति विवलितं अपराधचिन्हं दृष्टा प्रिये सम्भाषिणि सति स्फारितं विकसितं अयं कृतापराधोपि सम्भाषत इत्यर्थः पण्डितज्ञानात्संश्लिष्यति हठादालिङ्गति सति अरुणं। निवा- रयितुं प्रिये गृहीतवसने सति कोपात्किञ्चिन्नतभूलतं भ्रूकुटीयुतं चरणानतिव्यतिकरेसति अश्रुपूर्णदर्शनं अतएव प्रपञ्चचातुर्य एकमेव चक्षुरनेकावस्थं जातं इत्यहुतत्वं ॥ शान्तपक्षे पापिष्ठं प्राह हेअगसि पापे मानिनि अहं- कारिणि जात आगत आः कष्टे प्रेयसि जगदुत्पत्तौ सम्य ज्ञाते चक्षुरेवं जातं दूरातदूरमतीति दूरानिकटमिति उत्सु अत्युत्कृष्टं कं सुखं यत्र विवलितं निष्कृतं सम्माषिणि साक्षात्कृते सति स्फारितं विकसितं संश्लिष्यति सति अति- शयेन दृष्टे सति अरुणं गृहीतवसने कृताच्छादने कोपाश्चित ५५ कामदया टीकया सहितम्. भूलतं चरणानतिव्यतिकरे सति आनमनेषु आनम्रतायां सत्यां आनन्दाथपूर्ण अतएवप्रपञ्च संसारप्रपञ्चे चतुरंधर्त । एतेनैतदुक्तं भवति बाह्यज्ञानविरोधिनि प्रभौदृष्टे निष्पापो भवति तत्साक्षात्करणं नते चक्षुर्भवति ॥ १४ ॥ अङ्गानामतितानवकथमिदंकम्पश्चकस्मात्कतो मुग्धेपाण्डकपोलमाननमितिप्राणेश्वरेपृच्छति । तन्व्यासर्वमिदंस्वभावजमितिव्याहृत्यपक्ष्मा न्तरव्यापीबाष्पभरस्तयाचलितयानिःश्वरयम तोन्यतः॥४५॥ शृङ्गा० विप्रलब्धांवर्णयन्नाह ॥ अङ्गानामिति॥ प्राणे- श्वरेइतिपृच्छति सति तया चलितया तन्व्या निःश्वस्य निःश्वा सं त्यक्त्वा वाप्पभरः अन्यतः अन्यप्रकारेणत्यक्तः। किम्भूतः पक्ष्मान्तरव्यापी एतेनाश्रूणामतीवोत्तमत्वमुक्तं पक्ष्मणांस- श्चयेन पद्मिनीस्यादितिकिमित्याह । तव अङ्गानां तानवं तनुत्वं कथमिदं अज्ञानहेतोश्च अहं न जानामीत्यर्थः करमा त् कम्पः कम्पनं कस्मात् मुग्धे सुन्दार आननं पाण्डुक- पोलं । प्रियाह । इदंतानवादिकं सर्व स्वभावजं निसर्गजं । अथवा सुअतिशयेनयोऽभावः तवभावाभावः प्रेमाभावः तज्जनितमितिव्यात्दृत्य उक्त्वा तवविरहादित्यर्थः ॥ शान्तपक्षे यातया मायया चलितया निःश्वस्य भुक्त- रत्यक्तः तस्य कथंतानवंतनुताकस्मात्कम्पःआननंआपाण्डु- ५६ अमरुशतकं कपोलं कस्मिन्सति इतिप्राणेश्वरेपछति किंभूतःवाष्पभरः वाष्पान्अश्रूणिबिभर्तीति अस्य विष्णोः पक्ष्मान्तरं व्याप्त शीलं यस्यस विष्णुर्व्याप्तिदर्शनः तत्कथमित्याह सर्वमिदंअः विष्णुस्तस्यभावः सत्तातजनितमतिशयेनइतिज्ञाने व्याह तिःव्यहरणं । सर्वविष्णुमयंजगदित्यादिभौतिकज्ञानात् मु. क्तियोगोभवतीतिभावः ॥ ४५ ॥ पुरस्तन्व्यागोत्रस्खलनचकितोऽहंनतमुखःप्रवृ त्तोवैलक्ष्यात्किमपिलिखितुंदैवहतकः । स्फटो रेखान्यासःकथमपिसताहपरिणतोगतायेन व्यक्तंपुनरवयवैःसैवतरुणी ॥४६॥ शृङ्गा• शठनायकंवर्णयन्नाह ॥ पुरइति ॥ तन्व्याःक्षी- णायाः पुरःसम्मुखे गोत्रस्खलनचकितोऽहंनतमुखःसन् वैलक्ष्यात् किमपिलिखितुं प्रवृत्तः दैवहतकइत्याक्षेपे कथं- दैवहतकइत्याह । स रेखान्यासःलिखनविन्यासः तादृक्प. रिणतः सन् फुटोऽभवत् येन सैवतरुणी व्यक्ततां गता यस्यानामग्रहणे त्रासः सैवलिखिता इति आधिकत्रासहेतो देवहतकत्वं सैव दृदिस्था इत्यपि सूचितं ॥ शान्तपक्षे ईश्वरंप्राह रे इन हे ईश्वर हेगताय गतःअयः शुभावहोविधिर्यस्य स तथाखान्यासःखस्य शून्यस्य अन्यासः स्थूलबूद्धिःस्फुटःप्रकटो येन सैवतरुणी अवयवैरङ्गैर्व्यक्तं प्रकाशंपरिणता उसम्बोधने तादृक्स्थूलबुद्धिरसियथासैवत ५७ वैलक्ष्यं ल- कामदया टीकया सहितम्. रुणी अवयवैरङ्गैर्व्यक्तं विकाशं परिणता किंकृतवानसि अइतिखेदे दैवहतक हे तस्याःतन्व्याअल्पायाः अस्तुमहान्- त्रासः । अल्पादेवनिर्यातोऽहंगोत्रस्खलनेपूर्वचकितः किं- वा गोत्रेषु वंशेषु स्खलनं यत् तस्माच्चकितः किमपि अनिर्वच नीयं लिखितुं प्रस्थापयितुं नतमुखः नम्राननः ज्जा तामत्तीति वैलक्ष्यान्निर्लज्जः । एतेनैतदुक्तं भवति ईश्वरः स्थूलबुद्धिः प्रमदामयं जगत्पश्यति ज्ञानीतुनेति ॥ ४६ ॥ कठिनहृदयेमञ्चभ्रान्तिव्यलीककथाश्रितांपिशु नवचनैर्दुःखेनेतुनयुक्तमिमंजनं । किमिदमथ वासत्यमुग्धेत्वयासुविनिश्चितंयदभिरुचितंतन्मे कृत्वाप्रियेसुखमास्यतां ॥ ४७ ॥ शृङ्गा० शठनायकं वर्णयन् मानिनीमाह ॥ कठिनेति हेकठिनहृदये व्यलीककथाश्रितांभ्रान्ति अप्रियकथाभ्रमं- मुश्च अथवा व्यलीकःषिडःसामान्यस्त्रीपतिरितियावत् तथा चायमन्यस्त्रीगन्तेति भ्रमं मुञ्च ‘षिङ्गोव्यलीकः षट्प्रज्ञःकाम- केलिबिदृषक' इति त्रिकाण्डशेषः । इमं जनं मादृशलोकं ख- लवचनैर्दुःखं नेतु प्रापयितुं त्वया न युक्तं न शक्तं अथवा- हे मुग्धे त्वया अद्य इदं सत्यं निश्चितं ज्ञातं अर्थात्तदा तव यत् अभिरुचितं तत् मेममसम्बन्धि कृत्वा त्वया सुखं यथास्यात्तथा आस्यतां स्थीयता इति संक्षेपार्थः।। शान्तपक्षे मनो मायां सम्बोधयति हेहत् हे मनः ॥ हे प्रिये च ५८ अमरुशतकं - कठिन 'स्वान्तं दृन्मानसं मन' इत्यमरः व्यलोककथाश्रितां भ्रान्तिं मुंच मिथ्याज्ञानं त्यज इदं जगत् किं सत्यं अपि तु अनित्यमेव अथवा इमं जनं मादृशं दुःखं नेतुं न युक्तं नशक्तं पिशुनवचनैःदुष्टालापैः । मायामाह अये मुग्धेमाये अप्रिये अस्य विष्णो:प्रिया अप्रियातस्याःसंबोधने त्वया विनिश्चितं यथा स्यात्तथा यत् अभिरुचितं इच्छाविषयं तत् मे मम कृत्वा अर्थात् अन्यत्र सुखमास्यतां स्थीयतामित्यर्थः ४७॥ मन्दमद्रितपांशवःपरिपतज्झङ्कारझंझामरुद्वेग ध्वस्तकुटीरकान्तरगतच्छिद्रेपलब्धान्तराः। क मव्यग्रकटुम्बिनीकुचतटस्वेदच्छिदःप्रावृषः प्रार म्भेनिपतान्तकन्दलदलोल्लासाःपयोविन्दवः॥४८॥ शृङ्गा० प्रावृषकालस्य जलातिशयत्वात्तदा रम्भमाह ॥ मन्दमिति ॥ प्रावृषः वर्षायाःप्रारम्भे पयोविन्दवोनि- पतन्ति किंभूताःकन्दलदलोल्लासाः कन्दलं वार्षिकलता- विशेषः नवांकुरोवा । 'कंदलं त्रिषु कलापेप्युपरागेनवां- कुरे । कलध्वनाकंदलीतुमृगगुल्मप्रभेदयोरिति मेदिनी। तस्य दलान्युल्लासयन्तीति मन्दं यथास्यात्तथा बिलुलितपांशवः किंभूताःयाकर्मव्यग्रकुटुम्बिनीतस्याःकुचतटस्वेदच्छिदः क थमित्याह परिपतन्झंकारोयत्र एवंभूतोयोझंझामरुत्वार्षिक- वायुः तस्य यो वेगः तेन ध्वस्तंयत्कुटीरकं कुत्सार्थेकः तत्रान्तर्गतानि यानि छिद्राणि तेषु लब्धान्तरा लब्धाव- ५९ कामदया टीकया सहितम्. काशा: अतएव कुटीराभ्यन्तरे कुटुम्बिनीस्तनंस्पृशतापयो बिन्दूनामचेतनानामपि वर्षासु स्तने पतनं अन्येषामपिका- कथतिध्वनिः ॥४८॥ पीतस्तुपारकिरणोमधुनैवसाईमन्तःप्रविश्य चषकेप्रतिविम्बवर्ती । मानान्धकारमपिमान वतीजनस्यनूनविभेदयदसौप्रससादसद्यः॥ ४९ ॥ शृङ्गा० मानभङ्गमाह ॥ पीतस्तुषारइति ॥ नूनमुत्प्रेक्षे तुषारकिरणःपीतः मधुनासह किंभूतः चषके पानपात्रे अन्तःप्रविश्य प्रतिबिम्बवर्तीप्रतिबिम्बागतः मानवती जनस्य मानान्धकारं बिभेद । चन्द्रकथंज्ञातइत्याह यत् असौ मानवती सद्यस्तत्क्षणात् पानमात्रात् प्रससाद प्रसन्नाबभूवेति पानं मानविलोपकृदिति ॥ शान्तपक्षे मधुनापुष्परसेनसाई तुषारकिरणःसोमः सो- मलते तियावत् चषकेपानपात्रेकृत्वापीतः । मानवतीजनस्य कामुकस्येतियावत् अन्तःप्रविश्य मानान्धकारं बिभेद यत् यस्मात् असौ सद्यःतत्कालं प्रससाद प्रसन्नतां प्राप यथा प्रतिबिम्बवर्तीसूर्यादिरेतेनैतदुक्तं भवति । योगिभिरवश्य कामदमनार्थ सोमलतापानं कर्त्तव्यमिति ॥ ४९ ॥ नभसिजलदलक्ष्मीसंभृतांवीक्ष्यदिष्टयाप्रसरसि यदिकान्तेत्यर्द्धमुक्त्वाकथञ्चित् । ममपटमवलं ६. अमरुशतकं ॥ व्यप्रोल्लिखन्तीधरित्रीतदनुकृतवतीसायत्रवाचो निवृत्साः ॥५०॥ शृङ्गा० • प्रोषितभर्तृकायाः पूर्वरूपं वर्णयन्नाह ॥ नभसी- ति ॥ कश्चिदाह अनुपश्चात् सातत्कृतवती यत्रवाचोनिवृ- त्ता निरुद्धा बभूवुः किंकृत्वा ममपटमवलंब्य पृथ्वीमुल्लि- खन्ती अकारणमेवभूमिलिखन्ती इत्यई उक्त्वा किन्तत्- नभसि आकाशे जलदलक्ष्मी दृष्ट्वा दिष्टयायदिप्रसरसीत्या- क्षेपोक्तिः ॥ शान्तपक्षे शिष्यप्राह हे जलदपुत्र हे नभसि शून्ये संसारे संभृतां लक्ष्मी मायां वीक्ष्य प्रसरसि किंकरोषि इयंपूर्वकथंचित् ममपटमवलंब्य अर्थान्मामभिव्याप्य ध. रित्रीं भूलोकं मम चित्ते प्रोल्लिखन्ती पश्चात् तत्कृतवती- यत्रवाचो निवृत्ताः अर्थात् ईश्वरभजनात् किंकृत्वा कान्त- इत्यर्द्धाक्षरमुक्त्वा एतेनैतदुक्तंभवति सांसारिकीमायां त्य- क्त्वा ब्रह्मभजनं कर्त्तव्यमिति ॥ ५० ॥ इयमसौतरलायतलोचनागुरुसमुन्नतपीनपयो धरा । पृथुनितम्बभरालसगामिनीप्रियतमामम जीवितहारिणी ॥५१॥ शृङ्गा. परकीयां वर्णयन्नाह ॥ इयमित्यादि । इयमसौ- प्रियतमा मम जीवितहारिणी प्राणहरा किंभूता तरले चञ्चले अथ च आयते दीर्घ लोचने यस्याःसा पुनःकिंभूतागुरूम- ६१ कामदया टीकया सहितम्. हान्तौ अथच समुन्नतौ अत्युच्चौ अथच पीनौ स्थलौ पयोधरी म्तनौ यस्याः सा पुनः किंभूता पृथर्महान्नितम्बस्तस्य यो भग भारस्तेन अलसगामिनी मन्दगामिनी एतेन भारशालित्वं तस्या व्यज्यते ॥ शान्तपक्षे ॥ जीवं सम्बोधयति आजीवितप्रिय तं जरसं आस्वादयेत्यध्याहारः कथमित्याह इयं माया मनोहारिणी तरला चञ्चला आयतं लोचनं संयतं लोचनं दर्शनं यस्याः सा तथा शेषं समानम् ॥ ५१ ॥ सालक्तकेननवपल्लवकोमलेनपादेननूपुरवताम दनालसेन । यस्ताज्यतेदयितयाप्रणयापराधा सोऽङ्गीकृतोभगवतामकरध्वजेन ॥५२॥ शृङ्गा० धृष्टनायकमाह सालक्तकेति ॥ प्रणयापराधात् यो दयितया पादेन ताड्यते स मकरध्वजेनाङ्गीकृतः ममायमितिकृत्वास्वीकृतः किम्भूतेन किम्भूतेन आलक्तसहितेन अन्यत्सुबोधम् ॥ शान्तपक्षे ॥ राजानंप्राह । हेइन प्रभो मदनालस हेम करध्वजेन मकरध्वजः कन्दर्पः इनः श्रेष्ठो यस्यस तथा तस्य- संबोधने एतत्संबोधनत्रयेण कामातिशयत्वं व्यज्यते यः जनः दयितया पादेन प्रणयापराधात् ताड्यते प्रहार्यते स भगवता ईश्वरेण किं ममायमितिकृत्वा अङ्गीकृतः अपितु ने- त्यर्थः किंभूतेन सालक्तकेन शेषं स्फुटं । एतेनैतदुक्तंभ- ६ ६२ अमरुशतकम् वति स्त्रीसुखादिकं त्यक्त्वा ब्रह्मणि लीनोभवेति ॥ ५२ ॥ बालेनाथविमुञ्चमानिनिरुषंरोषान्मयाकिंकृतं खेदोस्मासनमेपराध्यतिभवान्सर्वेऽपराधामयि । तत्किंरोदिषिगद्देनवचसाकस्याग्रतोरुद्यतेनन्वत न्ममकातवास्मिदयितानास्मीत्यतोरुद्यते॥५३॥ शृङ्गा० सम्प्रत्यनयो कोवाकमाह ॥ बालइत्यादि । हे बाले कोमलाङ्गि किं हे नाथ हे भानिनि रुषं मुञ्च रो- षान्मया किं कृतं खेदोस्मासु भवान् मे मम न अपराध्यति सर्वे अपराधामयि मम यदि नापराधः तस्माद्गद्गदेन वचसा किं रोदिषि कस्याग्रतो रुद्यते ननु भोएतन्ममाग्रतः तवाहं- कास्मि । दयिता । नास्मीत्यतो रुद्यते । एतेन मानाति- शयत्वं व्यज्यते । धीराया मानमिदं उक्तिप्रत्युक्तं अच्छिद्रं धीराया मन्दं जल्पितमिति बाला षोडशवर्षीया ॥ शान्तपक्षे उत्पन्नतत्त्वसाक्षात्कारस्य मायाया वाकोवाकं हेमानिनि अहंकारिणि प्राह नाथ किं इत्यादि सुगमम॥५३॥ नीत्वोच्चैविक्षिपन्तःकृततुहिनकणासारसङ्गान्परा गान्कौन्दानानन्दितालीनतितरसुरभीनभूरिशो दिङ्मुखेषु । एतेतेकुडमाक्तस्तनकलशभरा स्फालनादुच्छलन्तःपीत्वाशीत्कारिवकंशिशुह रिणदृशांहेमनावान्तिवाताः ॥ ५४॥ शृङ्गा. हिमकालस्य कामजनकातिशयत्वात् तवायु- कामदया टीकया सहितम्. ६३ ॥ वर्णयन्नाह ॥ नीत्वेति ॥ हैमना वाता वान्ति किं कृत्या शिशुहरिणदृशां वकंपीत्वा शीत्कारि हिमात्कामाच्च कुङ्कम- नाक्तं स्पृष्टं यत् स्तनतट तस्मिन्नतिशयेन यत् आस्फालनमा- घातस्तस्मादुत्पतन्तः तं स्पृष्ट्वा ऊई गच्छन्तः हिमकालेकुंकु- मालेपनं प्रशस्तमिति सूचितं । किं कुर्वन्तः भूरिशः कौन्दान- परागान् कुन्दपुष्पसम्बन्धिनोरेणून् नीत्वा दिङ्मंडलेषु उच्चै- विक्षिपन्तः किंभूतान् आनन्दिता आकृष्टा अलयो भ्रमरा यत्र तान्तथा कृताहिमकणासारसङ्गा यैः तान्तथा । शुक- त्वात् अन्यो हि कामी दिङ्मुखेषु प्रौढास्त्रीमुखेषु विक्षिप्य वालावत्रं पिबतीतिवाक्यार्थध्वनिः ॥ ५४ ॥ शुत्वातन्व्यानिशीथेनवधनरसितंविशथाङ्गंपति वाशय्यायां भूमिपृष्टेकरतलधृतयादुःखिताली जनेन । सोत्कटमुक्तकंठकठिनकुचतटापा तशीश्रुविन्दुस्मृत्वास्मृत्वाप्रियस्यस्खलित मृदुवचोद्यतेपान्यवध्वा ॥५५॥ शृंगा. प्रोषितभर्तृकांवर्णयन्नाह ॥ श्रुत्वेति ॥ पान्थ- युवत्या रुद्यते क्रंद्यते तन्व्या क्षीणाझ्या किंकृत्वा निशीथे। ईरात्रे नवमेघशब्दं श्रुत्वा शय्यायां विश्लथाङ्गं यथातथा भू- मिपृष्ठे पतित्वा दुःखितालीजनेन करतलधृतया सोत्कंठं य- थास्यात्तथा मुक्तकंठं । कठिनकुचतटे यःआघातःपतनं तेन शीर्णा अश्रुबिन्दवोयत्र इतिक्रियाविशेषणं किंकृत्वा मि ॥ ६४ अमरुशतकम् यस्यस्मृत्वा प्रियंस्मारंस्मारंस्मृत्यर्थस्यचेति कर्मणिषष्ठी स्व- लितकोमलवाक्यंयथास्यात् एतेनविरहातिशयत्वं सूचितं ॥ शान्तपक्षे ॥ मुक्तंवर्णयति मुक्तिविशिष्टंमुक्तकं प्रशंसा. यांकः ठंशून्यं निर्वाणंयस्य स्मारंस्मारं मायया युवत्या रुद्यते किम्भूतया दुःखितालीजनेन तुष्टिपष्टिमधेत्यादिभिः कर- तल धृतया अतन्व्या महत्या शेषसमानम् ॥ ५५ ॥ शिष्टःकण्ठकिभितिनमयामूढयाप्राणनाथश्चुम्ब त्यस्मिन्वदनविधुतिःकिंकृताकिन्नदृष्टः । नोक्तः कस्मादितिनववधूचेष्टितंचिन्तयन्तीपश्चात्तापंव हतितरुणीप्रेम्णिजातेरसज्ञा ॥५६॥ शृङ्गा ० आरुढयौवनां विरहिणीं वर्णयन्नाह ॥ कलहा- न्तरितांवा । श्लिष्टेति ॥ तरुणी पश्चात्तापं वहति प्रेम्णि जाते माते किंभूतारसज्ञा रसः शृंगारादिस्तज्जानातीति । नववधू- चेष्टितं बालचेष्टां चिन्तयन्तीध्यायन्ती किंतदित्याह मया- कण्डे प्राणनाथः किनश्लिष्टः ततएवमूढया अस्मिन् चुम्ब तिसति वदनविधुतिः मुखकम्पनंकिंकृतं किंवानदृष्टः किं. वानोक्तःइतिचिन्ताबाहुल्यात्तापबाहुल्यसूचितम् ॥ शान्तपक्षे॥उत्पन्नात्मसाक्षात्कारं पुरुषं दृष्टा मायाविल- पति । अन्यतसर्वसमानम् ॥ ५६ ॥ श्रुत्वानामापियस्यस्फटघनपुलकंजायतेड्सम न्तात्दृष्ट्रायस्याननेन्द्भवतिवपुरिदंचन्द्रकान्ता कामदया टीकया सहितम्. ६५ नुकारि । तस्मिन्नागत्यकण्ठग्रहणसरभसंस्था यिनिप्राणनाभग्नामानस्यचिन्ताभवतिममपन वज्रमय्याःकदानु ॥ ५७॥ शृङ्गा० उत्कण्ठिताविशेषवर्णयन्नाह ॥ श्रुत्वेति ॥ यस्यप्रियस्यनामश्रुत्वा इदमङ्गसमन्तात्चतुर्दिक्षतः स्फुट- धनपुलकंजायते । यस्यमुखचन्द्रंदृष्टा इदंवपुश्चन्द्रकान्ता- नुकारिजायते चन्द्रकान्तमणिसदृशंभवति स्रवतधर्मजल- भितियावत् । एतेनरोमाञ्चस्वेदौव्याख्याती। आगत्यतस्मिन् कण्ठग्रहणसरभतस्थायिनिकण्ठश्लेषंकुर्वति वज्रमय्यामम- मानस्य चिन्ता कदाचिद्भग्ना भविष्यति मानस्य कदाभेदा भविष्यति तस्मिन्कण्ठलग्नेसति सर्वान्यङ्गानिसुखेमायां- त्येव तदीक्षणतच्छ्रवणतधरपानादिभविष्यतीति ध्वन्यते एतेनोत्कण्ठातिशयत्वं व्यज्यते ॥ शान्तपक्षे ॥प्रारब्धयोगोमनोरथमाह । तस्मिनप्राणना- थेआत्मनिदृष्टेकदामम मानस्य अंहकारस्यीचन्ताभग्नाभीव- प्यति किंभूतावज्रमयी आः कष्टे स कः यन्नामश्रुत्वारोमाञ्चः यंदृष्ट्वानिर्मलंवपुर्भवति कथंभूते कण्ठग्रहणसरभसस्थायि निइत्यर्थः ॥ ५७ ॥ रामाणांरमणीयवक्रशशिनःस्वेदोदविन्दुपूतोव्या लोलालकवल्लरींप्रचलयन्धुन्वन्नितम्बाम्बरं । प्राततिमोप्रकामविकसदाजीवराजीरजोजा ॥ ६६ अमरुशतकम् लामोदमनोहरोरतिरसग्लानिंहरन्मारुतः॥१८॥ शृङ्गा० सुखदायकत्वात् प्रातर्वायुवर्णयन्नाह॥ रामाणा- मिति ॥ प्रातस्त्योबायर्वहति किंकुर्वन् रामाणां रतिरसग्ला- निहरन् कथमित्याह । वायोः सौगंध्यं शैत्यं मान्द्यश्च वर्ण- यति प्रकामातिशयेन लसन्ती राजीवराजी पद्मश्रेणी तस्या यत्रजस्तस्य यः पुञ्जस्तस्य आमोदेन सौगंध्येन मनोहरः एतेनसौगंध्यं । रमणीयमुखचन्द्रस्य धर्मजलबि- न्दुनाप्लुतोव्याप्तः एतेनशैत्यमुक्तं व्यालोला या अलकवल्लरी नां प्रचलयन् चञ्चीकुर्वन् । नितम्बाम्बरं नितम्बवस्त्रं धुन्वन कम्पयन् । एतेनमांद्यमुक्तं अथ च कामुकोपि कामिन्याः सर्वमिदंअलकरचनादिकं करोतीति काव्यार्थध्वनिः॥ ५८ ॥ अङ्गचन्दनपाण्डुपल्लवमृदुस्तामूलताम्राघरोधा रायन्त्रजलाभिषेककलषेधोताञ्जनेलोचने । अ न्तःपुष्पसुगन्धिराईकबरीसङ्गिलग्राम्बरंरामाणां रमणीयतांविदधतिग्रीष्मापराह्नागमे ॥ ५९॥ शृङ्गा० • प्रीप्मोपचरितंवर्णयन्नाह ॥ अङ्गमिति ॥ रा- माणां नारीणां इमेरमणीयतांविदधति कुत्र ग्रीष्मापराह्ना- गर्म निदाघसंध्यासमये अपंचन्दनपाण्डु अधरस्ताम्बूलता- म्रः पल्लवइबमृदुः लोचनेधौताञ्जने धारायन्त्रजलाभिषेक णकलुषे अव्यक्तरागे स्वर्णरूप्यादिमुद्रितंसुगन्धिजलपूरितं धारायन्त्रमिति कामिनांभुदे आईकवरी स्निग्धःकेशवेशः अ- कामदया टीकया सहितम्. ६७ न्तः पुष्पेणसुगन्धिः सौगंध्यनीलांशुकमितिपाठोवा । एता- निग्रीष्मागमे सुखदानीतिव्यज्यते ॥ शान्तपक्षे ॥ रामाणांभागवतानां सतांगच्छता इमेकं- मुखंअभ्यन्तरविदधति नेतियावत् काकुकृतोनिषेधः कुत्र ग्रीष्मापराह्ने संसारतापत्यागे केतेइत्याह सौगन्ध्यनीलांशु अपंचन्दनपा डुशेष समानम् ॥ ५९ ॥ वरमसोदिवसोनपुननिशाननुनिशैववरंनपुनदि वा । उभयमेतदुत्वथवाक्षयंप्रियजनेननयत्रस मागमः ॥ ६॥ शृङ्गा. विरहिणींवर्णयन्नाह ॥ वरमिति ॥ असौदिव- सो बरं न पुननिशा वरं ननु निशैव वरं न पुनर्दिवा वरं एतदुभयमपिक्षयंयातुयत्रप्रियजनेनकान्तनसहस मोनभवति वरमित्यजहल्लिडं ॥ शान्तपक्षे ॥हे प्रियजन हेइन यत्रसमागमोनसम्यक्- ज्ञानोत्पत्ति तदुभयमेवक्षयं उपैतु यत्रज्ञानोत्पत्तिः सदिवा- ॥ अथवा वरमितिशेषसमानम् ॥ ६० ॥ लोललोचनवारिभिःसशपथैःपादप्रणाम प्रियैर न्यास्ताविनिवारयन्तिकृपणाःप्राणेश्वरंपस्थितं । पुण्याहंबजमङ्गलंसुदिवसंप्रातःप्रयातस्यतेयत्ने होचितमीहितंप्रियतमत्वनिर्गतःश्रोष्यसि ॥ ६१॥ शृङ्गा. धीरायाभविष्यत्प्रोषितभर्तृकायाउक्तिवर्णयन्ना- ६८ अमरुशतकम् निर्गतःसन् ह ॥ लोलैरिति ॥ अन्याःस्त्रियः प्रस्थितं प्रस्थानोन्मुखं प्रियं वारयन्ति कैलोचनवारिभिरश्रुभिः किंभूतैर्लोलैः अस्थिरैः पादप्रणामैः शपथसहितैः प्रियैर्मधुरैः कृपणाःकातराः अ- हन्तुवदामि हे प्रियतमव्रजेति प्रातःप्रयातस्यतवपुण्याह- मस्तु सुदिवसोस्तु तेतव यत्स्नेहोचितमीहितंचेष्टितं हेप्रिय- तम त्वं निर्गतःसन्थोप्यसि एतेनजीवितंत्यक्षामीतिस्नेहोचि- तध्वनिः ॥ शान्तपक्षे ॥ हेप्रिय त्वंबजपरिव्राजकोभव प्रयातस्य प्रकृष्टज्ञानस्यतवपुण्याहमस्तु सुदिवसोस्तु अचितं असंचितं । इतितं श्रोष्यसि हेत्वत्स्नेहत्वय्यवस्नेहोय स्वइति कथमेवंकर्तव्यमित्याह अन्यास्ताअन्यैरस्ताःक्षिप्ताः प्राणेश्वरंप्रभुंनित्यंप्रस्थितंविनिवारयन्ति नास्तिकाएव प्रभु न मानयन्ति अश्रुभिरुपलक्षिताः शोकाक्रान्ताः पादप्रणामै रुपलक्षिताः प्रियैःप्रणताः प्रियैःप्रियकर्मभिः एतेनैतदुक्तं- भरते नास्तिकाएव प्रभुं नमानयंति भवन्तः परिव्राजका- भवान्त्वति ॥ ६१ ॥ लमानांशुकपल्लवेभुजलतानद्वारदेशेपितानोवा पादतलेतयानिपतितंतिष्ठेतिनोक्तंवचः । काले केवलमम्बुदालिमलिनेगन्तुंप्रवृत्तःशठस्तन्व्यावा पजलोषकल्पितनदीपूरेणवद्धःप्रियः ॥ ६२ ॥ शृङ्गा• बालायाभविष्यत्प्रोषितभर्तृकायाश्चेष्टामाह॥ल- ६९ कामदया टीकया सहितम्. मेति ॥ तन्व्याप्रियोरुद्धः वाष्पजलौघकल्पितनदीपूरण कस्मिन्काले अम्बुदालिमलिनेमेघमालाश्यामलेसमये किं. भूतःप्रियः शठः पुनः केवलं गन्तुं प्रवृत्तः। अंशकपल्लवेन- लग्ना द्वारदेशे जलतानापिता तया तन्व्या पादतलेननिप- तितं तिष्ठेतिवचोनोक्तं एतत्सर्वप्रगल्भाचरितं बालातुकेव- लं रोदनोपायशालिनीति ॥ शान्तपक्षे॥ परिव्राजकार्थगंतुंप्रवृत्तःप्रियः तन्व्यानब- दुःननिरुद्धःतत्रहेतुमाह कथंभूतः प्रपंचचतुरः तथाचप्रा- तरेवागमिष्यामीत्युक्त्वागतइत्यर्थःकालेकथंभूते अबाप्प- जलसमूहनदीपूरे शेषंसमानम् ॥ ६२ ॥ नजानेसंमुखायातप्रियाणिवदतिप्रिये । सर्वाण्य ङ्गानिमेयान्तिश्रोत्रतांकिमुनेत्रताम् ॥ ६३ ॥ शृङ्गा. प्रेमातिशयं वर्णयन्नाह ॥ न जान इति ॥ अहं न जाने संमुग्वायाते प्रिये सति मे मम सर्वाण्यङ्गानि नेत्रतां यान्ति तंद्रष्टुमित्यर्थः प्रिये प्रियाणि वदति साते सर्वाण्यङ्गानिश्रोत्रतां यान्ति तच्छोतुमित्यर्थः नेत्राभ्यां श्री- त्राभ्याञ्च द्रष्टुंश्रोतुं न समर्थास्मीत्यनुरागातिशयो व्यज्यते।। शान्तपक्षे ॥ हेमेलक्ष्मि तव सर्वाण्यङ्गानि अवयवानि श्रोत्रतां यान्ति नेत्रतां वा तन्नजाने त्वमतिशयेन पश्य श्रृणु वाकस्मिन्सति प्रिये बन्धौ संमुखायाते प्रत्यक्षमायःतं सम्यक्ज्ञानं यस्य तस्मिन् तथा एवंभूते प्रियाणि वदति अमरुशतकंम् सति त्वमुदासीनाभूत्वा पश्य शृणु इत्यर्थः ॥ ६३ ॥ विरहविपमःकामोवामस्तनुंकुरुतेतनुंदिवसगण नादक्षश्चासोव्यपेतघृणोयमः । त्वमपिवशगोमा नव्याधेविचिन्तयनाथहेकिसलयमृदु वदेवंक थंप्रमदाजनः ।। ६४॥ शृङ्गा पुरुषमानं वर्णयन्नाह ॥ विरहेति ॥ हेनाथ चि- न्तय भावय एवंसति प्रमदाजनः कथं जिवेत् किम्भूतः किस- लय इव मृदुःकथमित्याह कामः तनुं शरीरं तनुं क्षाणां कुरुते किम्भूतः विरहेषु विषमः असौयमश्च व्यपेतघृणः निर्दयः दिवसगणनादक्षः अद्य कल्य वा वामा मरिष्यति इति- दिवसं गणयति त्वमपिमानव्याधेश्यः आयत्तःएतेन मानं त्यजेतिध्वनिः ॥ शान्तपक्षे ॥ कश्चित् योगी राजानं प्रत्युपदेशमाह हे- नाथ हेराजन् चिन्तय ध्यानं कुरु अर्थात् ईश्वरस्य प्रमदा- जनः प्रमदायाजनः स्त्रीप्रियइतिभावः कथंजीवेत कामःवि- रहविषमः क्षीणशरीर कुरुते सतिसंगमेऽधिकश्वासचलनात आयुःक्षयः अतएवयमः निईयः दिवसगणनादक्षः त्वमपि अहंकारवशः पुनः गरः एतेनैतदुक्तंभवति स्त्रीसुखादिकंत्यक्त्वा ब्रह्मध्यानपरो भवेति ॥ ६४ ॥ पादासक्ते सुचिरमिहतेवामताकैवकान्तेसन्मार्ग किंभूतः किसलयमृदुः कोमलश- ७१ कामदया टीकया सहितम्. स्थेप्रणयिनिजनेकोपनेकोपराधः । इत्थंतस्याःप रिजनकथाकोपवेगोपशान्तौवाप्पोद्भदेस्तदनुस हसानस्थितनण्यातम् ॥ ६५॥ शृङ्गा. धीरायामानिन्याःस्तम्भंवर्णयन्नाह ॥ पादास क्तइति ॥ तस्या बाप्पो दैरशूद्गमैन स्थितं न प्रयातं कस्यां सत्यांइत्याह इत्थंपरिजनकथयाकोपवेगोपशान्त्यां । केयंकथा इत्याह हेकोपने मानिनि सुचिरं पादासक्ते प्रणयिनिजने कोऽपराधः इहवसन्ते पुष्पसमये वामस्वभावा का हेकान्ते तववामप्रकृतिः सन्मार्गस्थे सत्पथस्थेसतीत्यर्थः । मानादश्रु भवति सखिवचनात्तत्नपतति नवातिष्ठतीतिस्थितत्वं प्रया तत्वं इयमपिनभूतम् ॥ शान्तपक्षे ॥ आःकोपनप्रचण्डहे प्रणयिनिजने पादा सक्तसति तपसे पर्वताश्रितेसति पादाःप्रत्यन्तपर्वताइत्यमरः कथंभूतेसन्मार्गस्थे कान्तेपरब्रह्मणि कस्यब्रह्मणोऽन्तोयत्र तस्मिन् तेतवकाइववामता त्वंकथंभूतः इकःकामचर्चापर: पुनः किंभूतः अपराधःमत्व अच्अपराधीत्यर्थःयेन संसारे प्रकारेण तस्य परिजनकथाकोपवेगोप- शान्तौ तदनुपश्चात् तैःस्थितन किंतुप्रयातं कथंभूतैः बा- पोद्भेदैः वाष्पस्यउद्भेदोयेषुतैरित्यर्थः ॥ ६५ ॥ पुराभूदस्माकंनियतमविभिन्नातनुरियंततोनुत्वं प्रेयान्वयमपिहताशा-प्रियतमाः । इदानीनाथ तिष्ठसि इत्थंअमुना ७२ अमरुशतकम् स्त्वंवयमपिकलकिमपरंमयाप्तप्राणानांकुलि शकठिनानांफलमिदम् ॥ ६६ ।। शृङ्गा० धीरायामानमाह ॥ पुरेति ॥ यूयश्चवयश्चवयं- तेषामस्माकं इयंतनुःपुराअभिन्ना आसीत् ततोनुवंप्रेयान् अतिशयन प्रियोपि वयश्चप्रियतमा नियतं निश्चितं । इदा. नीं त्वं नाथ ईश्वरः कर्मकर्तृत्वात् नानावल्लभागमनात् वयञ्चकलत्रं अन्यत्किंवाच्यं वज्रकठिनानां प्राणानां फलं मयाप्तं प्राणानस्फुटयन्तीतिध्वनिः । शान्तपक्षे ॥ उत्पन्नतत्त्वज्ञानंपुरुषं दृष्ट्रामायावदति ।इदं त्यागरूपं फलं शेष समानम् ॥ ६६ ॥ मुग्धेमुग्धतयैवनेतुमखिलःकाल फिमारभ्यतेमा नंधत्स्वधृतिवधानऋजुतांदूरकरुप्रेयसि । सख्येवं प्रतिबोधिताप्रतिवचस्तामाहभीताननानीचैःशं सहदिस्थितोननुसमेप्राणेश्वरःश्रोष्यति ॥ ६७॥ शृङ्गा. उत्तमांवर्णयन्नाह ॥ मुग्धेति ॥ एवमनेनप्रका रेण सख्याप्रतिबोधितासतीभीताननाप्रत्युत्तरं प्राह नीचैः शंस कथय ननुभो स प्राणेश्वरः हृदिस्थितः सन्श्रोष्यतीति एतेनोत्तमत्वं सूचितं मत्वं सूचितं । किंप्रतिबोधिताइत्याह । मुग्धेअज्ञे अखिलः कालःसर्वःसमयोमुग्धतयैवनेतुमारभ्यते मानधत्स्व धृतिधैर्यबधानबंधय ऋजुतां अवक्रतां दूरे कुरु प्रियतमे ॥ सखीवाचा प्रिया मानं नधत्ते सोत्तमा मता ॥

कामदया टीकया सहितम्. ७३ शान्तपक्षे॥ कृतयोगाभ्यासां सखी सांसारिकीत्वभ्रा- न्त्या काचित् वदति प्रेयसि विष्णौ मानं प्रमाणं धत्स्वइति- पूर्वार्द्धनप्रश्नः उत्तरार्दुनोत्तरं तत्रप्राणेश्वरः आत्मा श्रोष्यति इदमुपलक्षणं पश्यतीति तथा च सर्वेषां कर्मसाक्षी स एवेतिभावः ॥ ६७॥ पीतोयतःप्रभृतिकामपिपासितेनतस्यामयाऽधरर सम्प्रचुर प्रियायाः। तृष्णाततःप्रभृतिमेद्विगुणत्व मेतिलावण्यमस्तिबहुतत्रकिमत्रचित्रम् ॥६८॥ शृङ्गा. परकीयांवर्णयन्नाह ॥ पीतइति ॥ तस्याः यतः प्रभृति मया कामपिपासितेन अधररसः पीतः ततः प्रभृति तृष्णावा छाद्विगुणमितियावत् तावत् वासजले पीते सति तृ- ष्णाशान्ति भवतीति इहद्विगुणत्वमेतीति चित्रं तत्र अधर- रसे बहुलावण्यमस्ति यतः पीयते तन्नीरसं न भवतीति एतत्तु बहुलावण्यं सलिलमिति किंवालवणस्य भावो ला- वण्यं तद्यत्रास्तिलवणरसे पीते तृष्णावृद्धिर्भवति किमत्रचित्र। शान्तपक्षे ॥ तस्यगुरोः आसमन्तात् अधररसओष्ठपु. टविभागात् योरसःउपदेशरूपः मया.पीतः अर्थात्श्रुतः ततः प्रभृति तृष्णान अतः हेमे लक्ष्मीत्वं याःगच्छ कथंभूताकामपि पासितेप्रिया तत्रउपदेशे लावण्यं द्विगुणत्वमेति अत्रसंसारे- बहुचित्रं किमस्ति अपितुकिमपि नहींतिभावः ॥ ६८ ॥ कास्थितासिकरभोरुघनेनिशीथेप्राणाधिकोव ७४ अमरुशतकम् सतियत्रजनःप्रियोमे। एकाकिनीवदकर्थनबिभे षिवालेनन्वस्तिपुखितशरोमदनःसहायः ॥ ६९ ॥ शृङ्गा० ० अभिसारिकां वर्णयतिवाकोवाक्येन ॥ कप्र- स्थितेति ॥ हेकरभोरु करभः करिशावकस्तस्यहस्तेन सह- शौ ऊरु यस्याः सातथा करभशब्देन गौणीवृत्याहस्तिशाव- कहस्तउच्यते किंवाकरभस्तु कराद्वहिः एतेनादौस्थूलः पश्चातक्षीणऊर्यस्याइतिवा त्वं घने निशीथे निबिडाईरात्रे परिणतेकुत्र चलितासि साप्राह यत्र मम प्राणाधिकः प्रियो- वसति एकाकिनीकर्थनबिभेषि ननु भोपुंखितशरोमदनः सहायोऽस्ति एतेन कामाधिक्यं व्यज्यते ॥ शान्तपक्षे ॥ गुरुसमीपे वजन्ती परिब्राजिकां कश्चि- द्वदति । वेति । प्राणाधिकः गुरुः । नुवितर्के पुंखितशरोम- दनः नमेसहायः इदमुपलक्षणं क्रोधादयोपि न तथाचयेषां कामक्रोधादिकमस्ति तेषामेवभयोत्पत्ति न्येषामिति पर्यव सितोऽर्थः ॥ ६९॥ लीलातामरसाहतोन्यवनितानिःशङ्कष्टाधरःकश्चि केसरदूषितेक्षणइवव्यामील्यनेत्रेस्थितः। मुग्धा कुड्मलिताननेनदधतीवायुंस्थितातस्यसाभ्रान्त्या धूर्ततयाचवेपथुमतीतेनानिशंचुम्बिता ॥ ७० ॥ शृङ्गा० धृष्टनायकंवर्णयन्नाह ॥ लीलेति ॥ कश्चित्ली- लापद्माहतः अर्थादयितया अन्यस्त्री निर्भयदष्टाधरः धूर्तत- कामदया टीकया सहितम्. ७५ यातदनुतत्पद्मकेसरदूषितेक्षणे इवनेत्रे व्यामिल्य मुद्रयित्वा- स्थितः अथचमुग्धा तत्तथेतिभ्रान्त्याकुड्मलिताननेन मुद्रितमुखेन वायुं दधतीस्थिता अथच भावोदयेनवेपथु- मतीसकम्पा तेन अनिशं चुम्बिता ॥ शान्तपक्षे ॥ कश्चिद्योगीकार्पटिकंकृतस्त्रीसंगं शिप्यं भर्ल्सयन्नाह लीलेति कुड्मलिताननेन मौनस्थितेनवेपथु- मतीतेन कंपरहितेन त्वया सामुग्धाचुंबिता सा तस्यम- मशिष्यान्तरस्य भ्रान्त्या वायुदधती तवाग्रेस्थिता शेषपू- र्ववत् किमिदंकृतंदूरेगच्छेतिभावः ॥ ७० ॥ स्फुटतुहृदयंकामःकरोतुतनुंतनुनसखिचटुलप्रे म्णाकार्यपुनर्दयितेनमे इतिसरभसंमानोद्रे कादुदीर्य्यवचस्तयारमणपदवीशारङ्गाक्ष्याससं भ्रममुदीक्षिता ॥ ७१ ॥ शृङ्गा० चतुरायामानमाह ॥ स्फुटविति ॥ हेसखि हृदयं स्फुटतुकामः तनुशरीरं तनुं क्षीणां करोतु प्रकामं यथास्यात्तेनदयितेन मम कार्य नास्ति किम्भूतेन चटुल- प्रेम्णा चञ्चलप्रेम्णा मानोद्रेकात्सरभसंवचः उदीर्य्य तया. हरिणाक्ष्यारमणपदवीप्रियपथः उदीक्षिता सशक्यथास्यात् एतेनान्तर्गतस्नेहो व्यज्यते ॥ शान्तपक्षे॥ मानोद्रेकात् प्रमाणाधिक्यात् इतिवचः उदीर्यसरभसं यथास्यात्तथा तयारमणपदवी सन्मार्गः प- अमरुशतकम् रिव्राजिकामार्गइतियावत् वीक्षितादृष्टा शयंपूर्ववत्तथाच प्रियंअनित्यप्रेमाणांदृष्टा संसारंचानित्यं दृष्ट्या परिव्राजिका- जातेत्यर्थः ॥ ७१ ॥ पश्याश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियंश य्यासंपतिकोमलाङ्गिकठिनेत्यारोप्यमांवक्षसि । गाढौष्टग्रहपीडनाकुलतयापादायसंदंशकेनाक प्याम्बरमात्मनोयदुचितंधूतनतत्प्रस्तुतम् ॥७२॥ शृंगा० मानव्यपगमोपायमाह ॥ पश्यति ॥ धूर्तेनयत्- प्रस्तुतंतदुचितं किन्तदित्याह ॥ हेकोमलाङ्गिपश्य इदानीं आलिंगनच्युतचन्दनरजःपुञ्जप्रकर्षादियंशय्याकठिनाकर्क- शाइति मांवक्षसिआरोप्य पादाग्रसंदंशकन पादाग्रंयन्त्रवि- शेषः तेनाम्बरं वस्त्रं आकृष्य गाढं यत्ओष्ठग्रहपीडनं तेनयाआकुलतातयाउपलक्षितांमामित्यर्थः किंचियपदेशे- नमानिन्यामानभंजनमपेक्षितमिति ॥ शान्तपक्षे ॥ आहेधूर्त्तइनहेश्लेषविशीर्ण ततपश्यब्रह्म पश्य किंभूतंप्रस्तुतंयदुचितं यत्किं देहात्मनःशरीरस्य अ- म्बरंशून्यं आकृष्यआनीयशून्ये शरीरंनिधायेत्यर्थः जी- वात्मानंवा केन पादाग्रसंदंशकेन यन्त्रभेदेन इयंशय्या- चन्दनरजःपुञ्जप्रकर्ष प्राप्यकोमला तया माययाभां लक्ष्मी वक्षसि आरोप्य लक्ष्मीमायामयीतिज्ञात्वा किंभूताअङ्गिनः अवयविनः कर्कशाइतिज्ञानंयत्रसा गाढाष्ठग्रहपीडंनाकुलेति कॉमदया टीकया सहितम्. ७७ सम्बोधनंगाढमुखोयोग्रहः शनैश्चरादिस्तस्यपीडनेनाकुल- ग्रहपीडमाकुर्वति ॥ ७२ ॥ कथमपिप्रत्यावृत्तेप्रियेस्खलितोत्तरेविरहकृशया कृत्वाव्याप्रकल्पितमश्रुतत् । असहनसखी श्रोत्रप्रातिप्रमादससंभ्रमंप्रचलितदृशाशून्येगेहे समच्छसितंपुनः ॥ ७३ ॥ शृङ्गा० कलहान्तरितांधीरांवर्णयन्नाह ॥ कथमपीति ॥ हेप्रिये स्खलितोत्तरे गोत्रस्खलनेनयुक्ते प्रत्यावृत्ते कान्त प्रत्यागमनेसति विरहकृशयामयाव्याजं कृत्वा अश्रुक- ल्पितं ऋन्दितं । पुनरपिगेहे समुच्छसितंकिम्भूतया प्रच- लितदृशा प्रचलितादृक्यस्याः साकथमित्याह असहमाना याःसख्यातासांश्रोत्रप्राप्तिप्रमादः तेनससंभ्रमं यथास्यात्तथा- सख्यःसर्वज्ञास्यन्तोतिसंभ्रमत्वं ॥ शान्तपक्षे ॥ उत्पन्नतत्त्वज्ञानंपुरुषंदृष्टामायारोदिति । प्रत्यावृत्ते प्राणस्यप्रत्यावृत्तिराकर्षणं यत्र तस्मिप्रियेसति कथंभूते अस्खलितोत्तरे भ्रमरहिते असहमानाः याः सख्यः धृत्यादयःतासांस्वश्रोत्रे याप्राप्तिः तया प्रमादने ससंभ्रम- यथास्यात्तथामायया उच्छ्रसितं शेषतुल्यम् ॥ ७३ ॥ आदृष्टिप्रसरांप्रियस्यपदवीमुदीक्ष्यनिविस्मया विच्छिन्नेषुपथिष्वहःपरिणतौध्वान्तेसमुन्मीलति दत्त्वैकंसशुचागृहप्रतिपदंपान्थस्त्रियास्मिन्क्षणे ७८ अमरुशतकम् ॥ सोभूदागतइत्यमन्दवलितग्रीवंपुनीक्षितः॥७४ ॥ शृङ्गा० बालांप्रोषितभर्तृकां वर्णयन्नाह । आदृष्टीति ॥ पान्थस्त्रियाअमन्दवलितग्रीवं यथास्यात्तथापुनर्वीक्षितः अ. स्मिन्क्षणेपि आगतोसौ अभूतइतिउक्त्वा गृहं प्रतिएकं पदं दत्त्वाकस्मिन्सति अहःपरिणतौदिवसावसाने ध्वान्तेअन्ध- कारे समुन्मीलतिसति किंभूतया निर्विस्मयाविशीर्णयाकथ मित्याहप्रियस्यपन्थानमादृष्टिप्रसरं दृष्टिप्रसरपर्यन्तं उद्दी- क्ष्य पथिषु विच्छिन्नेषु दृष्टिः सप्तविधातत्रदीर्घवक्रेत्यादि । शान्तपक्षे ॥ परिव्राजकं कश्चित् संबोधयति ॥ हे- पान्थ हेपरिव्राजक सकश्चित् परिव्राजकार्थआगतोभूत अस्मिन्क्षणेएतत्काले विशीर्णयास्त्रियामाययादृष्टः शेषं- तुल्यं एतेनैतदुक्तंभवति यातेचपरिव्राजकत्वे मायानाशो भवतीति ॥ ७४ ॥ आयातेदयितेमनोरथशतैर्नीत्वाकथंचिदिनवैद ग्ध्यापगमाजडेपरिजनेदीर्घाकथांकुर्वति । दृष्टा स्मीत्यभिधायसत्वरतरंव्याधूयचीनांशुकंतव्य नयारतिकातरेणमनसानीतःप्रदीपःशमम्।। ७५ । शृङ्गा० आगतप्रियायाउत्कण्ठामाह ॥ आयातइति ॥ तन्वङ्गयादीपः शमं क्षयं नीतः रतिकातरेण क्रीडाप्रार्थकेन मनसा किंकृत्वा चीनांशुकं व्याधूय तद्व्याजमाह । केनरि दहंदृष्टास्मीत्यभिधाय कथमित्याह परिजने दीर्घा त्या ७९ कामदया टीकया सहितम्. कुर्वति कस्माद्वैदग्ध्यापगमाद्धेतोः अतएवजडे कार्या- नभिज्ञे किंकृत्वा दयिते आयातसति मनोरथशतैः एवं- विलासोरात्रौ कर्त्तव्यइत्यादिकैदिनकथमपि कष्टसृष्टया नी- त्वा एतेनोत्कण्ठातिशयोऽस्याव्यज्यते ॥ शान्तपक्षे॥ मनसाप्रदीपःतत्वज्ञानं आनीतः कथंभूते- न तन्वङ्ग्यारतिकातरेण तन्वङ्यासह यारतिस्तस्याः कारते- ण स्त्रीरतिभीतेनेत्यर्थःदिनमितिजातावेकवचनं कस्मात् वैद- ग्ध्यापगमात् कस्मिन्सति दयितेउपदेशके आगतेसति कथं भूते जडे विषयाज्ञानरहिते पुनःकिंभूते अपरिजनेचीनाशुकं व्याधूय परित्यज्य हेदृष्टअहमस्मीत्यभिधायआगतेइत्यर्थः७५ अनालोच्यप्रेम्णःपरिणतिमनाहत्यसुहृदस्त्व यामुग्धेमानःकिमितिसरलेप्रेयसिकृतः । समा कृष्टाह्येतेप्रलयदहनोद्भासुरशिखाःस्वहस्तेनाङ्गा रास्तदलमधुनारण्यरुदितैः ॥ ७६ ॥ शृङ्गा० कलहान्तरितां धीरां वर्णयन्नाह ॥ अनालो- च्यइति । हेमुग्धे त्वयाएतेप्रलयदहनोहासुरशिखादीप्ता अङ्गाराः स्वहस्तेनसमाकृष्टाः तदरण्यरुदितैरलंव्यर्थ दी- साङ्गाराकर्षणं हितापाय भवति। कथमित्याह प्रेम्णःपरिणाम- अनालोक्य नदृष्ट्रासुहृदः अनादृत्य सरलेअवक्रे प्रेयसि मानः कृतः कथमधुना रोदिषीति सख्युपालम्भः ॥ शान्तपक्षे॥हेमुग्ध ईमानःकाममानः कृतःस्वहस्तेनअं-

अमरुशतकम्
गाराःकृष्टाः किम्भूता उहासुरशिखादीप्ताः इप्रेयसिसंसारे-
हेसरलतदधुनारोदनैरलपश्चादतीबरोदितव्यमिति ॥ ७६ ॥
शून्यंवासगृहविलोक्यशयनादुत्थायकिञ्चिच्छनै
निद्राव्याजमुपागतस्यसुचिरंनिर्वर्ण्यपत्युर्मुखं ।
विश्रब्धंपरिचुंन्यजातपुलकामालोक्यगण्डस्थलील
जानम्रमुखीप्रियेणहसताबालाचिरंचुम्बिता॥७७॥
शृङ्गा० बालायाश्चतुरनायकं धर्णयन्नाह ॥ शून्यमिति ॥
बाला हसताप्रियेणचिरंचुम्बिता लज्जानम्रमुखीकथंलज्जे-
त्याहवासगृहंशून्यं सखीरहितंविलोक्य शय्यायाउत्थाय-
पत्युर्मुखं निर्वर्ण्य निद्राकपटिनस्तस्यमुखं विश्रब्धजात-
विश्वासं यथास्यात्तथापरिचुंब्य गण्डस्थली जातपुलकां
आलोक्य अयंजागरणशील इतिबुद्ध्यालज्जा अतःप्रियस्य-
हासः अत्रचशून्यवासगृहमित्यादिपदैरतिशयोव्यज्यते ना-
नाजातीयप्रवन्धकारीयः सचतुरोनायकः ।।
शान्तपक्षे ॥ कार्पटिकंशिष्यंभळे यन्नाह हे उपागतपरि-
व्राजक त्वयाबालाचिरंचुम्बिता किंकृतं वासगृहशून्यंअनि-
त्यंविलोक्य निद्राव्याजस्य नाशयेत्यर्थः शेषतुल्यम् ।। ७७ ॥
जातानोत्कलिकास्तनौनलुलितौगात्रंनरोमाञ्चि
तंवकंवेदकणाञ्चितंनसहसायावच्छठेनामुना।
दृष्टेनैवमनोहृतंधृतिमुषाप्राणेश्वरेणाद्यमेतत्केना
पिनिरुप्यमाननिपुणोमानःसमाधीयताम् ॥७८॥

कामदया टीकया सहितम्.
॥
शृङ्गा
परकीयामुत्तमांमानिनीमाह ॥ जातेति
तत्तस्मादद्यकेनप्रकारेणमानःसमाधीयतां मानः कथंस-
म्यग्वहनीयइत्याह तेनशठेनप्राणेश्वरेण धृतिमुषाधैर्यहा-
रंण मममनोहतनेत्युपलक्षणं शिरश्चालनत्वादाह उत्क-
लिका उत्कंठा नजाता अपितुजातैवस्तनौ नलुलितो मृदूभू-
तौआलिंगनार्थमितियावत् गात्रं नरोमाञ्चितं अतिशयेन-
रोमाञ्चितं वत्नंस्वेदकणाश्चितंव्याप्तं किम्भूतोमाननिपुणः
अहंकारेण निपुणः एतेनयस्मिन्दृष्ट एवभावोदयस्तस्मि-
न कथंमानोवहनीयइत्यर्थः ॥ ७८ ॥
दृष्टःकातरनेत्रयाचिरतरंबध्यानलिंयाचितः प
श्वादंशुकपल्लवेनविधृतोनिर्व्याजमालिंगितः ।
इत्याक्षिप्ययदासमस्तमघृणोगन्तंप्रवृत्तःशठःपूर्व
प्राणपरिग्रहोदयितयामुक्तस्ततोवल्लभः॥७९॥
शृङ्गा० प्रोषितभर्तृकायादशमींदशामाह ॥ दृष्टइति ॥
दयितयापूर्वप्राणपरिग्रहस्त्यक्तः ततोवल्लभामुक्तः आदौका-
तरनत्रयादृष्टः पश्चादञ्जलिंबध्वायाचितः पश्चादंशुकपल्लवन-
विधृतः निर्व्याजमालिङ्गितइति सर्वमाक्षिप्य यदानिर्दयः श-
टःगन्तुं प्रवृत्तःतदाप्राणास्त्याज्याइतिदशमीदशा ॥
शान्तपक्षे ॥ सर्वत्यक्त्वायदागन्तुं प्रव्रजितुं शटी-
धृतःप्रवृत्तः तदादयितया मायया प्राणपरिग्रहो मुक्तः
मृताइव मायाभूत् ततोवल्लभस्त्यक्तइतिशेषतुल्यम् ॥ ७९ ॥

८२
अमरुशतकम्
अडुल्यग्रनखेनबाष्पसलिलंनिक्षिप्यनिक्षिप्यकि
तूष्णींरोदिषिकोपनेबहुतरंफूत्कृत्यरोदिष्यसि ।
यस्यास्तपिशुनोपदेशवचनैर्मानेऽतिभूमिगतेनिर्वि
प्णोऽनुनयंप्रतिप्रियतमोमध्यस्थतामेष्यति॥८॥
शृङ्गा. गुरुमानवत्यामानापनोदनार्थ काचित्सखी-
प्राह ॥ अङ्गुल्यग्रेति ॥ हेकोपने अङ्गुल्यग्रनखेन बाष्पस-
लिलंअश्रुजलं निक्षिप्यनिक्षिप्यतूष्णींकिंरोदिषि फूत्कृत्य-
फूत्कारध्वनिंकृत्वा बहुतरंरोदिष्यसि तत्रहेतुमाह यस्यास्ते
पिशुनोपदेशवचनैः खलोपदेशवचनैः माने अतिभूमिंगते
उत्कर्षतांगतेसति प्रियतमोनिविण्णःसन् विरक्तःसन् अनु-
नयंप्रतिमध्यस्थतां अनुनयेमध्यस्थत्वं गमिष्यति पूर्ववत्प्रि-
योनभवतीतिभावः॥
शान्तपक्षे ॥ नूतनशिष्यंप्रति कश्चिदुपदेशमाह यस्य-
तब मानेअहंकारे अतिभूभिंगते प्रियतमःगुरुः निर्विण्णः
आस्ते अनुपश्चात्नयं नीति प्रतिकोपने त्वयि मध्यस्थतां
एष्यति उदासीनो भविष्यतीति भावः शेषस्फुटम् एतेनैतदु-
तं भवति रोदनादिकं परित्यज्य गुरूपदेशरतो भवेति ॥८॥
तत्काभिमुखसुखंविनमितंदृष्टिःकृतापादयोःत
स्यालापकुतूहलाकुलतरेश्रोत्रनिरुद्धमया। पाणि
भ्यांचतिरस्कृतःसपुलकःस्वेदोद्मोगण्डयोःसख्यः
किंकरवाणियान्तिशतधायकंचुकेसंधयः॥८॥

कामदया टीकया सहितम्. शृङ्गा० मानार्थ शिक्षयन्तीं सखीं नायकेप्रेमातिशयवती मानकरणासमर्थाकाचित्प्रत्युत्तरमाह ॥ तद्वत्तेति ॥ तह- काभिमुखंमुखं विनमितंविशेषेणनम्रीकृतं दृष्टिःपादयोः कृता तस्यनायकस्य आलापकुतूहलाकुलतरे श्रोत्रेमयानि- रुद्ध गण्डयोः सपुलकः स्वेदोद्गमः पाणिभ्यांतिरस्कृतः आ- च्छादितः हेसख्यः यत्कंचुके कूर्पासके संधयः सीवनानि शतधा यान्ति विदीर्णाभवन्ति तकिकरवाणि एतेन प्रेमातिशयोव्यज्यते ॥ शान्तपक्षे॥ उत्पन्नतत्त्वज्ञानं पुरुषं दृष्ट्वा मायाधृत्यादि- सखीर्वदति हेसख्यः यत्कंचुकेत्वचि संधयःशतधा यान्तित- किकरवाणि कथंधैर्यकर्त्तव्यमितिभावः शेषपूर्ववत् ॥ ८१॥ कृतोदूरादेवस्मितमधुरमभ्यद्गमविधिःशिरस्या ज्ञान्यस्ताप्रतिवचनमुच्चैःप्रणमितम् । नदृष्टेःशे थिल्यंमिलनइतिचेतोदहतिमेनिगूढान्तःकोपा कठिनहृदयेसंवृतिरियम् ॥ ८२ ॥ शृङ्गा अन्तर्मानवतींकश्चिन्नायकःप्राह ॥ कृतो. दूरादेवेति ॥ हेकठिनहृदयेनिगूढान्तःकोपात् प्रच्छन्नको- पतः इयंसंवृत्तिः सम्यगावरणं इतिहेतोः मेमम चेतोमनः दहतिउत्तप्तंभवति तथाचतवान्तःकोपोमाभूदित्यर्थः मिल. नेसंगमेसति दूरादेव स्मितमधुरंयथास्यात्तथा अभ्युद्गमवि- धिः उत्थानविधिः त्वयाकृतः आज्ञाशिरसि न्यस्ता प्रतिव- ८४ अमरुशतकम् चनंउच्चैः प्रणमितं दत्तंदृष्टेः शैथिल्यंन इदंतु सर्वमुचित- मेवपरंतु संवरणं नकर्त्तव्यमितिपर्य्यवसितोऽर्थः ।। शान्तपक्षे ॥ कश्चित् योगी लक्ष्मीमाह हेमे हे लक्ष्मि कठिनहृदये हे मिलने अर्थात्तवसंगमे चेतोदहतिकथं- भूतं निगूढान्तःकोपात् निगूढान्तःकोपमत्तीतितत्तथा य- तस्त्वत्संगमात् स्मितपधुरं यथास्यात्तथा इयंसंवृतिर्ज्ञान- प्रतिबन्धकं मयाअभ्युद्गमविधिः परिव्राजकविधिःकृतः गु- रोराज्ञाशिरसिन्यस्ता प्रतिवचनं प्रतिवाक्यं प्रणमितं मम- दृष्टेः शैथिल्यंन अतस्स्वयागन्तव्यमितिभावः ॥ ८२ ॥ एकस्मिन्शयनेविपक्षरमणीनामाहेमुग्धयासद्यः कोपपराङ्मुखंशयितयाचादूनिकुर्वन्नपि । आ वेगादवधीरितःप्रियतमस्तूष्णीस्थितस्तत्क्षणा न्माभूत्सुप्तइवेषमन्दवलिनग्रीवंपुनर्वीक्षितः॥८३॥ शृङ्गा० औत्सुक्यरूपभावस्योदयमाह ॥ एकस्मिन्निति॥ विपक्षरमणीनामग्रहे अन्यस्त्रीनामत्रहणे मुग्धयानायिकया. प्रियतमः आवेगात्अवधीरितः अवज्ञातःसन् तुष्णींस्थितः चाटूनि प्रियवाक्यानि कुर्वन् अपिएकस्यां शय्यायां सद्य- स्तत्क्षणात् कोपपराङ्मुखं . यथास्यात्तथा शयितयाप्रियया एषप्रियतमः सुप्तइवमाभूदिति अमन्दवलितग्रीवंयथास्यात्त- था पुनर्वीक्षितः पुनर्वीक्षणेन औत्सुक्यरूपभावस्यउदयोजात इत्यवगम्यते चटुचाटुप्रियप्रायमितिवचनप्रक्रमेहेमचन्द्रः८३ ८५ कामदया टीकया सहितम्. मलयमरुतांवातागताविकासितमल्लिकापरिमल भरोभनोग्रीष्मस्त्वमत्सहसेयदि । घनघटयितं निःस्नेहंयएवनिवर्त्तनेप्रभवतिगवांकिनश्छिन्नंस एवधनञ्जयः॥८४॥ शृङ्गा० विरहिण्या उत्कण्ठातिशयमाह ॥ मलयमरु- तामिति ॥ हेघन हेमेघ मलयमरुतां मलयानिलानां वाताः समूहाः गताः वसन्तकालोऽतीतइत्यर्थः ग्रीष्मोपि भन्नः व्यतीतः कथंभूतः विकसितमल्लिकानां परिमलस्य विमर्दो- स्थजनमनोहरगन्धस्य भरोऽतिशयो यत्र स तथा निःस्नेह तं नायकं मयासह घटयितुं यदि त्वमुत्सहसे तदा गवां वि. निवर्त्तने यः प्रभवति स एव धनंजयोऽर्जुनो भवति नो अ- स्माकं किं छिन्नं गवामितिछलतः पशुत्वोत्कीर्त्तनेन नायक- स्यावैदग्ध्यमुक्तम् 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः ॥ ८४ ॥ स्वंदृष्टाकरजक्षतंमधुमदक्षीबाविचायर्षयाग च्छन्तीकनुगच्छसीतिविधृतावालापटान्तेमया । प्रत्यावृत्तमुखीसबाष्पनयनामांमुंचमुचेतिसाको पात्प्रस्फुरिताधरायदवदत्तत्केनविस्मर्य्यते ॥८॥ शृङ्गा • कधिन्नायको गच्छन्ती बालां मानिनीं विधृत्य तत्सखामुपलक्ष्याह ॥स्वंदृष्टुति ।। स्वं स्वकीयं करजक्षतं न- खक्षतं दृष्ट्वा मधुमदक्षीबामधुमदेन मचा इवमचा अविचार्य ८ ८६ अमरुशतकम् ईर्षया गच्छन्ती बाला ननु भो क गच्छसि इति कृत्वा पटान्ते मया विधृता सती मां मुंच मां मुञ्च इति यत् अव- दत् तत् केन विस्मर्य्यते अपितु केनापि न किंभूता प्रत्या- वृत्तमुखी विमुखी पुनःकिम्भूता कोपात् प्रस्फुरिताधरा अतिक्रुद्धा पुनः किम्भूता सबाप्पनयना साश्रुनयना पटं मञ्च इति नोत्वा मां मुञ्च इति यदवदत्तत् केन विस्म- र्यते एतेन प्रेमातिशयत्वं व्यज्यते ॥ ८५ ॥ सालक्तकंशतदलाधिककान्तिरम्यरत्नौषधाम निकरारुणनूपरंच ॥ क्षिप्तंभृशंकुपितयातरलो त्पलाक्ष्यासौभाग्यचिह्नमिवमूर्ध्निपदंविरेजे ॥ ८६॥ शृङ्गा. अधीराया धृष्टनायकमाह ॥ सालक्तकमिति ॥ कस्यचिन्नायकस्य मूर्ध्नि कुपितया क्षिप्तं पदं विरेजे कथंभूतं सालक्तकं आलक्तकेन सह वर्त्तमानं पुनः किम्भूतंशतदला धिककान्तिरम्यं कमलाधिककान्त्या किम्भूतं र- नौघस्य रत्नसमूहस्य धामनिकरेण दीप्तिसमूहेन अरुणं यन्न तद्युक्तम् शुचिमरीचिदीप्तयो धाम केतुघृणिर श्मिपृष्णय' इतिहेमचन्द्रः कथंभूतया तरलोत्पलाक्ष्या तरले चंचले उत्पले इव अक्षिणी यस्याः तया कमिव सौभाग्य चिह्नमिव एतेन नायकस्य धृष्टत्वं व्यज्यते ॥ शान्तपक्षे॥ध्यानस्थितस्य मूभिंगुरोः पदं विरेजे सा- लक्तकं आरक्तवर्णसहितं शतदलाधिककान्तिरम्यं सहस्र- रम्यं पुनः पुरं 'प्रग्रहः कामदया टीकया सहितम्. ८७ पत्रकमलमध्यस्थं रत्नौषधामनिकरारुणनूपुरं शिवरूपं तरलोत्पलाक्ष्या मायया कुपितया क्षिप्तं त्यक्तमित्यर्थः॥८६॥ कपोलेपत्रालीकरतलनिरोधेनमृदितानिपीतो निःश्वासैरयममृतहृयोऽधररसः ॥ मुहुःकण्ठे लग्नस्तरलयतिवाष्पःस्तनतटप्रियोमन्युर्जातस्त वनिरनुरोधेनतुवयं ॥ ८७॥ शृङ्गा० अधीरां मानिनी कश्चिच्चतुरनायकः प्राह ॥ कपोल इति ॥ हेनिरनुरोधे निर्गतोऽनुरोधो यस्याः सा तथा तत्संबोधने मन्युः क्रोधः तव प्रियो जातः न तु वयं विभक्ति- विपरिणामेनान्वयः मन्युप्रिययोः साम्यमाह कपोले पत्राली करतलनिरोधेन मृदिता आश्लिष्टा अयं अमृतादपि हृद्योऽ धररसः निःश्वासैनिपीतः मुहुर्वारंवारं कण्ठे लग्नोवाप्प- स्तनतटं तरलयति सर्वमेतन्नायककार्य तत्कारित्वात् म- न्युरेवप्रियो जातः इत्यर्थः 'मन्युः पुमान् क्रुधि दैत्य शोक च यज्ञेचे तिमेदिनीकारः ॥ ८७ ॥ लाक्षालक्ष्मललाटपट्टमभित केयूरमद्रागलेवळे कजलकालिमानयनयोस्ताम्बूलरागोदयः॥ दृष्ट्वाकोपविधायिमण्डनमिदंप्रातश्चिरंप्रेयसोली लातामरसोदरेमृगदृशःश्वासाःसमाप्तिंगताः॥८८॥ शृङ्गा० धीराखण्डितांवर्णयन्नाह ॥ लाक्षालक्ष्मेति ॥ मृगदृशो वामायाः प्रातः काले लीलातामरसोदरे लीला- ८८ अमरुशतकम् पद्ममध्ये श्वासाः समाप्तिं गताः तत्रैव शान्ता एतेनश्वास- स्य उत्तमत्वं व्यज्यते किंकृत्वा प्रेयसः प्रियतमस्य इदं मण्डनं कोपविधायि दृष्ट्वा । किन्तदित्याह ललाटपाचे लाक्षाचिह्न एतेन बन्धविशेष तस्याश्चरणमरय ललाटे लग्नं गले केयूरमुद्राचिह्न एतेन गाढकण्ठग्रह उक्तः वक्रे क- जलकालिमा एतेन तस्या नयनचुम्बनमिति व्यज्यते नयनयोस्ताम्बूलरागोदयः इत्यनेन तया अस्य नयनचु- म्बनं कृतं इति व्यज्यते किन्तु नयनानुरागातिशयो जाग रणान्मुखे श्यामिका श्रमातिशयात् गलागलभावः संभ्रमा- गमनेन लाक्षाचिह्नं सहावश्च व्यज्यते किन्तु ललाटे लाक्षा गले केयूरं वक्रे कज्जलं नयने तस्याश्च वैदग्ध्यमिति ध्वनीनां प्राचुर्य्यादतीवोत्तमत्वं का- व्यस्येति ॥ ८८ ॥ तप्तेमहाविरहवह्निशिखावलीभिरापाण्डुरस्तन तटेहृदयप्रियायाः ॥ रथ्यालिवीक्षणनिवेशित लोलष्टर्ननंछनच्छनितिवाष्पकणाःपतन्ति ८९॥ शृङ्गा० विरहिण्यास्तापातिशयं वर्णयन्नाह ॥ तप्त इति ॥ प्रियाया दृदये वाष्पकणाः पतन्ति छनच्छनितिशब्द कृत्वा छनच्छनिति लोकोक्तानुकरणं कथंभूते महाविरह- वह्निशिखावलीभिः महाविरहाग्निशिखासहस्रेस्तप्ते आपा ण्डुरस्तनतटे वन्हिशिखातप्तस्य वैवर्ण्य भवति विरहाच्च किं- ताम्बूलमतिचित्रं मण्डनं कामदया टीकया सहितम्. ८९ भूताया रथ्या प्रतोली तहीक्षणे निवेशिता लोलदृष्टिर्यस्या- तप्तेवस्तुनिजलकणापाते छनछनीति शब्दो भवत्येव ।। शान्तपक्षे ॥ उत्पन्नतत्वज्ञानं दृष्ट्वा मायायास्तापातिश यमाह सर्व पूर्ववत् ॥ ८९ ॥ चिन्तामोहविनिश्चलेनमनसामानेनपादानतःप्र त्याख्यानपराङ्मुखःप्रियतमोगन्तुंप्रवृत्तीधुना। सबीडैरसैनिरन्तरलुठद्वाष्पाकुलेल्लोचनैःश्वा सोत्कम्पकचंनिरीक्ष्यसुचिरंजीवाशयावारितः। ९०। शृङ्गा० कलहान्तरिताया धीराया दृष्टिं वर्णयन्नाह ।। चिन्तति ॥ प्रियतमः कयाचित् जीवाशया जीवप्रत्याशया वारितः लोचनैनिरीक्ष्य किंतत् श्वासोत्कम्पकुचं किम्भूतैः सबीडैः अधुना मानं कृत्वा उपेक्षितः अधुनैव कथं वि- लोकनीयः इति व्रीडा लज्जा तत्सहितैः अलसैरतिभावात् निरन्तरगतं यद्वाप्पं तेनाकुलैः एतेन विरहिणो रोदनञ्च किम्भूतः गन्तुंप्रवृत्तः । कथमित्याह प्रत्याख्यानेन खण्ड- नेन पराङ्मुखः मौनेन प्रत्याख्यात इत्यर्थः किंभूतः पा- दानतः केन मनसा किम्भूतेन चिन्तामोहविनिश्चलेन मानचिन्ताविशेषेणालोलत्वं अत्र लेशालंङ्कारः ॥ ९० ॥ तन्वयागुरुसन्निधोनयनजयद्वारिसंस्तम्भितं तेनान्तर्गलितेनमन्मथशिखीसिक्तोनुषङ्गोद्भवः।। मन्येतस्यनिरस्यमानकिरणस्यैषामुखेनोद्गताश्वा ९० अमरुशतकम् ॥ तन्वङ्गया सामोदसमाकुलालिनिकरव्याजेनधूमावलिः॥११॥ शृङ्गा० धीराया विरहिण्याः श्वासादिकं वर्णयन्नाह ॥ तन्वङ्गया इति ॥ अहं मन्ये शङ्के मन्मथशिखो कामाग्निस्तेन वारिणान्तर्गतेन सिक्तः कथंभूतः अनुषङ्गोह- वः प्रियस्मरणादुत्पन्नः तेन केन यत् नयनजं वारि अश्रु स्तम्भितं गुरुसन्निधौ एतेन धैर्य्यमुक्तं तस्य कामाग्नेः निर स्यमानकिरणस्य निवार्यमाणस्य मुखेन धूमावलिनिर्गता कथमित्याह श्वासामोदसमाकुला ये अलयः भ्रमराः तेषां यो निकरः समूहः तद्व्याजेन एतेन पद्मिनीत्वं व्यज्यते अश्रुणोऽतीवोत्तमत्वं सूचितं धूमावलिरित्यनेन च नायि- काया उत्कण्ठातिशयत्वं च व्यज्यते ध्वनीनाम् बाहुल्यादुत्तम काव्यत्वं ॥ ९१ ॥ भ्रूभेदोरचितश्चिरंनयनयोरभ्यस्तमामीलनंरोद्धं शिक्षितमादरेणहसितंमौनेभियोगःकृतः ॥ धैर्य ङ्कर्त्तमपिस्थिरीकृतमिदंचेतःकथञ्चिन्मयावद्धो मानपरिग्रहेपरिकरःसिद्धिस्तुदैवेस्थिता ॥ ९२ ॥ शृङ्गा० मानङ्का शिक्षयन्ती काञ्चित्सखींप्रति स्वकी या धीरा वदति ॥ भ्रूभेद इति ॥ मया मानपरिग्रहे परिकरो बद्धः परिकर इति कर्त्तव्यता 'भवेत्परिकरः संघे पर्य्य कप- रिवारयोः। प्रगाढगात्रिकाबन्धेसमारम्भविवेकयोरि' तिमे- दिनी किन्तदित्याह भ्रूभेदो भृकुटिरचितः कृतः नयनयो- कामदया टीकया सहितम्. ९१ रभ्यस्तमामीलनं कृतं हसितं रोड आदरेण शिक्षितं मौने अभियोग उद्यमातिशयः कृतः धैर्य्यमपि कर्तुं चेतः स्थिरी कृतं एतत्सर्व मानचिन्हं किन्तु सिद्धिदैवे स्थिता न जाने तस्मिन् दृष्टेसति तिष्ठति नवेति उत्तमात्वं तस्याः ॥ ९२ ॥ देशैरन्तरिताशतेश्चसरितामुर्वीभृतांकाननैर्य त्नेनापिनयातिलोचनपथंकान्तेतिजानन्नपि ॥ उद्वीवश्चरणार्द्धरुद्धवसुधःकृत्वाश्रुपूर्णेदृशौतामा शांपथिकस्तथापिकिमपिध्यायन्मुहुःक्षीयते॥९३॥ शृङ्गा प्रवासे दक्षिणनायकं वर्णयन्नाह ॥ देशैरिति ॥ पथिकः क्षीयते क्षीणो भवति तां आशां दिशं प्रत्याशां वा चिरंध्यायन् अश्रुपूर्णे दृशौ कृत्वा श्रीवः चरणाईरुद्धवसुधः चरणान रुहा वसुधा येन एतेन तावदुत्कण्ठितत्वं सूचितं तत्किमित्याह सा आशादे शैः शतैरन्तरिता आच्छादिता सरितां शतैः पर्वतैामैन- गरैः परं सुवोधं अतिदूरे पथि कस्य एतेनोत्कण्ठा मौग्ध्यं च येनाङ्गुष्ठमात्रेण भूमिं स्पृशन्नाशां पश्यतीति ध्वन्यते ॥ ९३॥ कोपस्त्वयादिकृतोयदिपङ्कजाक्षिसोस्तुप्रिय स्तवकिमत्रविधेयमन्यत् ॥ आश्लेषमर्पयमद पितपूर्वमुच्चैमासमर्पयमदर्पितचुम्बनञ्च॥ ९४ ॥ शृङ्गा० मध्यमायाश्चतुरनायकं वर्णयन्नाह ॥ कोप इति ॥ हे पङ्कजाक्षि कमलनयने यदि कोपस्त्वया कृतः ना- लक्षीकृत्य किम्भूतः उ.

९२ अमरुशतकम् अन्यत् हं हृद्यः तदा स एवं प्रियोऽस्तु किमत्र - विधेय- मस्ति मदपितं मया दत्तमाश्लेषं अर्पय मय्येतियावत् किं- या मदपितचुम्बनं मय्येवापय । वक्रोक्तिकुशलः कान्त श्चतुरः परिकीर्तितः॥ शान्तपक्षे ॥ जाततत्त्वज्ञानः कश्चित् मायां वदति ॥ हे पंकजाक्षि त्वयाकोपः कृतः अर्थात् मयि स सांसारिकः तव प्रियोऽस्तु मया अन्यत् किं विधेयं किं कर्त्तव्यं अपितु किमपि न मया अपितं मां महीसम्बन्धि चुम्बनादिकं अत्र सांसारिके निजप्रिये अर्पय मामिति मह्यां भवः "दिगादिभ्यो" यदिति यत् आश्लेषणमपि तत्रैवार्पयत्यर्थः।। उरुद्वयंमृगदृशःकदलस्यकाण्डौमध्यञ्चवेणिर तुलंस्तनयुग्ममस्याः॥ लावण्यवारिपरिपूरित शातकुम्भकुम्भौमनोजनृपतेरभिपेचनाय ॥१५॥ शृङ्गा० • प्रथमोढायौवनं वर्णयन्नाह ॥ ऊरुद्वयभिति ॥ मृगदृशः ऊरुद्वयं कदलकाण्डौ कदलिकावृक्षौ अस्या रो- मावली रम्या स्तनयुगं भातीत्यर्थः उत्प्रेक्षे मनोजनृपतेर- भिषेचनाय लावण्यवारिपूर्णसुवर्णकुम्भाविति अभिषेककाले मङ्गलकदलीरोपणबडा माला अभिषेकघटा उत्प्रेक्ष्याः ॥ शान्तपक्षे आः हे मनः अजनपतेः न जायते इति अजं ब्रह्म तदेव नृपतिस्तस्य सेचनाय अवगाहनाय शात- कुम्भःऔ महादेवे लावण्यवारिपरिपरित ऊर्महादेवः चिन्तक कामदया टीकया सहितम्. ९३ मृगदृश ऊरुद्वयं अस्य दूरीकुरु कथं कन्दलस्य काण्डाविय जाती मध्यरोमबहुलं स्तनयुग्मं त्यजेदितिभावः ॥ ९५ ॥ चपलहृदयेकिंस्वातन्त्र्यात्तथागृहमागतश्चरणप तितःप्रेमाःप्रियःसमपेक्षितः॥ तदिदमधुना यावजीवंनिरस्तसुखोदयारुदितशरणादुर्जाती नांसहस्वरुपांफलम् ॥ ९६ ॥ शृङ्गा०काचित् सखी असाध्यमानरूपरसा भासवती- माह ॥ चपलत्दृदयइति हे चपलत्दृदये किंकुतः स्वातं- त्र्यात् त्वया अद्य गृहागतः प्रियः समुपेक्षितः किंभूतः प्रेमााः प्रेमातिशयेन स्निग्धः अतएव चरणपतितः मा- नोपनोदनार्थ कृतप्रणामः एतादृशः प्रियो यस्मादुपेक्षितः तत् तस्मात् अधुना इदानीं यावज्जीवं रुदितशरणा रुदितमेव शरणं यस्याः तथासती दुर्जातीनो दुष्टानां रुषां क्रोधानां फलं सहस्व कथंभूता निरस्तसुखोदया निरस्तः सुखस्य उदयो यस्याः सा तथा सुखविहीनेत्यर्थः ।। शान्तपक्षे ॥ तथा गृहमागतः ध्यानेन दृष्टः प्रियः ईश्वरः किं समुपेक्षितः अये त्दृत् मनः आसंबोधने हेनिर- म्तमुखोदय हेरुदितशरण आसमन्ताहावेन दुर्जातीनां चरणपतितः सन् रुषां फलं सहस्वेत्यर्थः शेषं सुबोधम्॥१६॥ रात्रौवारिभरालसाम्बूदरवोद्विग्नेनजाताश्रुणापा न्थेनात्ममनोजदुःखपिशुनंगीतंतथोत्कंठया ।

९४ अमरुशतकम् आस्तांजीवितहारिणःप्रवसनालापस्यसंकीर्तनंमा नस्यापिजलाञ्जलिःसरभसंलोकनदत्तोयथा॥९॥ शृङ्गा० वर्षासमये मानिनी नायकप्रयत्नविनापि स्वयं मानभङ्गमाह ॥ रात्राविति ॥ पान्थेन आत्ममनोजदुःखपि शनं सूचकं यथास्यात्तथा गीतं किंभूतेन जाताश्रुणा पुनः किंमतेन रात्रौ बारिभरेण आलस्ययुक्तायेऽम्बुदास्तेषां र- वेण उहिग्नेन वारिभरालसेत्यनेन मेघानां स्थिरत्वं सू- चितं अतो हेसखि प्रवसनालापस्य प्रवसनं विदेशगमनं तस्य आलापः अहं विदेशं यास्यामीति कथनं यस्य तस्य अतएव जीवितहारिणः संकीर्तनं आस्तां सरभसं यथा- स्यात्तथा मानस्यापि जलाञ्जलिः दत्तः जलाञ्जलिः अञ्ज- लिस्थजलं कृभिहितोभावोद्रव्यवत्प्रकाशते इतिन्यायात् यथा अन्यलोकेन दत्तस्तथातेन प्रकारेणेत्यर्थः एतेन ना- यकदर्शनतत्कथाश्रवणौत्सुक्यं व्यज्यते तेन च तमानये. त्यपि व्यज्यते ।। ९७ ॥ हारोजलाईवसनंनलनीदलानिप्रालेयशीकरमु चस्तुहिनांशभासः ॥ यस्येन्धनानिसरसानिच चन्दनानिनिर्वाणमेष्यतिकथंसमनोभवाग्निः॥१८॥ शृङ्गा० विरहिणश्चिन्तां ब्रुवन्नाह हार इति समनोभवाग्निः कामाग्निः कथं निर्वाणमेष्यति शान्तो भविष्यति यस्य एतानि इन्धनानि काठानि दीपकानि वा तानि कानि हारः पुष्पर- कामदया टीकया सहितम्. ९५ चितः जलार्द्रवसनं जलेनावसनं वस्त्रं नलनीदलानि पुट- किनीपत्राणि प्रालेयशीकरमुचः हिमकणवर्षिणः तुहिनांशु भासः चन्द्ररश्मयः सरसानि द्रवीभूतानि चन्दनानिइत्यर्थः शान्तपक्षे ॥ हेमनः सभवाग्निः संसाराग्निः कथं निर्वाणं एष्यति गमिप्यति यस्य भवामः हारादीनि इन्ध- नानि एतेनैतदुक्तं भवति सर्वमिदं परित्यज्य मोक्षपथप्रवृत्तं भवेति ॥ ९८ ॥ तन्वीशरत्रिपथगापलिनेकपोलौलोलेदृशौरुचि रचञ्चलखंजरीटौ ॥ तद्वन्धनायसुचिराप्तिसुभ्र चापचाण्डालपाशयुगलाविवशून्यकर्णौ ॥ ९९ ॥ शृङ्गा० सामान्यतः सर्वासां सहजरूपं वर्णयति ॥ त न्वीति ॥ इयं तन्वी शरत् त्रिपथगा शरत्कालस्य गङ्गाइ वेति रूपकमिदं कपोलौ पुलिने तोयोत्थिततटे लोले चञ्चले दशौ नयने चञ्चलखंजरीटौ चश्चलखंजनौ तद्वन्धनार्थ- मिव सुचिरापितो भ्रूरूपपुष्पचापो येन तस्य चाण्डालस्य पाशयुगलाविव शून्यकर्णी शून्ययुक्तकौँ अत्र चाण्डा- लपदेन कामदेवो ज्ञेयः एतेन नयनदैर्घ्यनिरोधनमवेक्षत इत्युत्प्रेक्षा व्यज्यते ध्रुवोर्दैर्घ्य सूचितं॥ ९९॥ हारोयंहरिणाक्षीणांलठतिस्तनमण्डले ॥ मुक्ता नामप्यवस्थेयकेवयंस्मरकिङ्कराः॥ १० ॥ इत्यमरूशतकं परिपूर्णम् ॥ कुटिलत्वं च ९६ अमरुशतकम् शृङ्गा० कामुकानां श्लाघामाह ॥ हारोयमिति ॥हरिणा क्षीणां स्तनमण्डले हरीयं लुठति मुक्ताकृत एव हारः एते- न मुक्तानां मौक्तिकानामपि अथ च निर्वाणपदप्रपन्नानाम- पि एषावस्था वयं स्मरकिङ्कराः कामशायकशिरस्का एतेना चेतनानामियमवस्था सचेतनानामस्माकं स्तनमण्डलमुपा सितुमुचितमेव किश्च मण्डलस्यातिमनोहरत्वं मुक्ताश्रितत्वात् हरिणाक्षीत्यनेन चक्षुषोः सौन्दर्यमुक्तं कामिनोस्तनन यनयोरतिशयमनोहरत्वाच्च ग्रंथसमापने उभयमुपवर्णितं ॥ शान्तपक्षे ॥ मण्डलेश्वरराजानं कभित् योगी वदति- आः संबोधने हेस्मर किंकर कामुक हे मण्डले द्वादशराज धान्यां लुठति सति दयं इति स्तन शब्दं कुरु अहंकार- वान् भवेति यावत् सुक्तानां अवस्था तिः के ब्रह्मणि नतु मण्डले यत्र हरिणाक्षीणां मायानां हारो हरणं भवति एतेनैतदुक्तं भवति स्त्रीराज्यसुखादिकं त्यक्त्वा ब्रह्मणि लीनो भवेति ॥ १०॥ ॥ इत्यमरूशतकटीका समाप्ता॥ तु इयं शाश्वती स्थि- खेमराज श्रीकृष्णदास श्रीवेंकटेश्वर छापखाना मुंबई.

घटकर्परं काव्यम् ॥ सटीकम् श्रीगणेशाय नमः ॥ निचितं खमुपेत्य नीरदेः प्रियहीनाहृदयावनीरदैः॥ सलिलैनिहितं रजः क्षिती रविचन्द्रावपि नोपलक्षितौ ॥१॥ श्रीगणेशायनमः ॥ यस्याः पतिर्देशान्तरं गतस्तां ना. यिकां पञ्चभिः श्लोकैरभिधत्ते ॥ निचितेत्यादि ॥ हे कुन्द- समानदन्ति । नीरदैः उपेत्य खं निचितं ॥ कुन्दानां पुष्पाणि कुन्दानि तैः समाना दन्ताः ताम्बूलाभावाद्विरहिण्याः । आगत्य गगनं व्याप्तं । सरसैमघैः खमिव तव नायकः सरसस्त्वामाश्वासयिष्यतीतिभावः ॥ भर्तृहीनानां हृदय- लक्षणापृथ्वीतद्रदैः । रदविलेखने। विदारकैर्मेधैः ॥ किंच। सलिलैजलैः क्षितौ रजः निहितं स्थापितं क्षिते रजइत्यर्थः ।। रजसः पूर्वविस्तृतत्वादिदानी तत्स्थापने सुखमागमि- प्यतीति ध्वनितं ॥ किंच रविचन्द्रौ न दृष्टौ जनैरितिशे- पः ॥ अपिना तेजसित्वबोधः ॥ मेघैराच्छादितत्वान्नभस्त- योश्च ॥ अनेन सर्वथा पथिकयोस्तयोरपि निजप्रेयसी समाश्वासनाय गमनं प्रतीयते । तद्वत्तवाश्वासनाय सोप्या- गमिष्यति शीघं चिरपथिक इति ध्वनिः॥तयोश्रोदयास्ता- ॥ ९ ९८ सटीकम् ज्ञाने रतासक्तकामिनां रात्रिदिनाज्ञानमित्यपिध्वनिः ॥ अ. न्यसुरतदर्शनं स्वस्येच्छोत्पादकमतस्तयोस्तदर्थगमनं ज्ञा- त्वा तवापि पतिरचिरमागमिष्यतीतिध्वनिः ॥ षडिषमेष्टौस- भेकलां इतिलक्षणाद्वैतालीयंछन्दः ॥ १ ॥ हंसा नदन्मेषभयाद्रवन्ति निशामुखान्यद्य न च न्द्रवन्ति ॥ नवाभ्युमत्ताः शिखिनो नदन्ति मे घागमे कुन्दसमानदन्ति ॥२॥ मेघावृतं नि शिन भाति नभो वितारं निद्राभ्युपैति च हरि सुखसेवितारं ॥सेन्द्रायुधश्च जलदोधरसन्निभा नां संरंभमावहति भूधरसन्निभानाम् ॥३॥ किंच अद्यमेघागमे हंसा नदन्मेघः गर्जन्घनः तद्भ- याद्रवन्ति पलायंति मानससरसि अनेन तिर्यंचोपि का- न्तासंङ्गाय गच्छन्ति किं त्वदीयो मनुष्य इति ध्वनिः॥ अद्य रात्रेर्मुखानि प्रदोषा न सचन्द्राः सोऽपि कान्तावा- सनाय गतः किंच मयूराः नवजलमत्ता हृष्टाः शब्दायन्ति। नच मयूराः स्वकान्ता आकारयन्ति त्वदीयोऽप्याकारयि- प्यतीति ध्वनिः । तेन मम गमनासामर्थ्य किमाधिक्यमिति वाच्यं ॥ ते वयमागच्छाम इति वदन्तीति ध्वनेः॥ इन्द्रव- ब्रेयं ॥ २॥ हेकुन्दसमानदन्ति । रात्रौ मेधैर्व्याप्तं खं न शोभते तारारहितत्वात् । अचेतनं गगनमपि ताराभावाद्यथा तथा त्वदीयोपि त्वां विना न शोभते ॥ किंच निद्रा हरिमाप्नोति - घटकपरं काव्यम् वर्षाणां तच्छयनकालत्वात् । सुखसेवितारं । सुखस्य सेविता मुखसेविता तं जनपालनादिव्यासंगं विमुच्य सोपि लक्ष्मी- सहितरसुखी तथा तवापि रसिकः ॥ अन्यच्च मेघोऽधः असन् जलं स्रवन् इभानां गजानां क्रोधं जनयति । सेन्द्रायुधः सधनुः भूधरसन्निभानां तेन प्रोषितेभानां मध्ये सकोपोपि सविरहः सन्नागमिष्यतीति ध्वनिः ॥ प्रतिदन्ति गर्जनभ्रान्त्या वा । वसन्ततिलकेयं ॥ ३ ॥ सतडिजलदार्पितं नगेषु स्वनदम्भोधरभीतपन्न गेषु॥परिधीरवं जलं दरीपु प्रपतत्यद्भुतरूपसु न्दरीषु ॥ ४॥ क्षिप्रं प्रसादयति सम्प्रति कोपि तानि कान्तामुखानि रतिविग्रहकोपितानि ॥ उत्कंठयन्ति पथिकान जलदास्स्वनन्तः शोक स्समद्भवति तद्वनितास्वनन्तः॥५॥ हेकुन्दसमानदन्ति । सतडिजलदार्पितं जलं परिधीररवं परितः गम्भीरशब्दं यथास्यात्तथा क्रियाविशेषणं वा दरीषु प्रपतति वहति ।यहा तडिहिस्सह विद्यमाना ये मेघास्तैरर्पितं मुक्तं जलं नगेषु दरीषु चाअनेन जलदानां नायकत्वं व्यज्यते- विद्युल्लतानां नायिकात्वं च अतस्सोऽपि तानेवमवलोक्याग- मिष्यतीति ध्वनिः॥वसन्तमालिकेयं ॥औपच्छन्दसिकमिति- वा ॥४॥हेकुन्दसमानदन्ति। सम्प्रति वर्षों कोपीति जात्येकव चनं तानि रतिविग्रहकोपनत्वेन सौन्दर्यातिशयशालित्वे

१००
सटीकम्
न प्रसिद्धानि । कान्तामुखानि मानिनीवदनानि क्षिप्रं शीघ्र
प्रसादयति प्रसन्नीकरोति ।अस्मिन्वर्षौ मानिनीकोपमुत्पा-
द्यानुनयतीति यावत् । अतस्सोपि त्वत्प्रसादनार्थमागंतेति
व्यज्यते ॥ कथंभूतानि रतिविग्रहकोपितानि सुरते प्रीतिक-
लहेन कोपःसंयातो येषां तानि किञ्च स्वनन्तो गर्जन्तो
मेघाः पांथानुत्कंठयन्ति उत्कंठावतः कुर्वन्तीत्यर्थःतेन
नायको हि त्वदर्शनोत्कंठित आगन्तेति ध्वनिः॥ किञ्च
तहनितासु अनन्तः महान् शोकः विरहदुःखं समुद्भवति
उत्पद्यते अनेनत्वन्नायकस्त्वहिरहमसहमान आगंतेतिध्व-
निः । वसन्ततिलका ॥ ५ ॥
छादिते दिनकरस्य भावने खाजले पतति शो
कभावने ॥ मन्मथे च हृदि हन्तुमद्यते प्रोषित
प्रमदयेदमुद्यते ॥६॥ सर्वकालमवलंध्यतोय
दा आगतास्थ दयितो गतो यदा ॥ निघृणेन प
रदेशसेविना मारयिष्यथ ह तेन मां विना ॥७॥
एवं सहचर्याश्वासिता नायिका मेघानाह । छादित इति।
दिनकरस्य भावने दीप्तिवने वृक्षसमुदायवाचिनो वनपद-
स्य समूहे लक्षणा ॥ छादिते सति मेधैरितिशेषः । गगना-
हारिणि पतति सति शोकस्य भावने उत्पादके कामे हृदि
हंतुं पीडयितुमुद्युक्ते सति देशांतरगतभर्तृकया इदं वक्ष्य-
माणं उद्यते उच्यते । मेघान्प्रतीति शेषः॥ रथोडता ॥६॥

घटकपरं काव्यम् १०१ किमुवाच । हेमेंघा यूयं सर्वकालमवलंघ्य दयितगमनव्यति- रिक्तं अतिक्रम्य यदा प्रेयान् प्राषितस्तदा आगतास्थ प्राप्ता- स्थ । मध्यमपुरुषबलाद्ययमित्यध्याहार्य ईदृशाः परोपका- रनिरता भवन्तोऽधुना मयि निघृणेन निर्दयेन निर्लज्जेन वो अतएव परदेशसेधिना विना मां मारयिष्यथ । ह इति कष्टे अयमप्यपकारस्तस्य कर्तव्यापकारकारित्वात् ॥ मार- यिष्यथ नतेनेतिपाठे काक! न मारयिष्यथ किं अपितु मारथिप्यथैव ॥ इयं रथोडता ॥ ७ ॥ ब्रूत तं पथिक पांशुलं घना यूयमेव पथि शी प्रलंबनाः॥ अन्यदेशरतिरद्य मुच्यतां साथ वा तव वधः किमच्यतां ॥ ८॥ हंसपंक्तिरपि नाथ सम्प्रति प्रस्थिता वियति मानसम्प्रति ॥ चातकोपि तृषितोंऽवु याचते दुःखिता पथिक सा प्रिया च ते ॥९॥ हे घनाः युयमेव तं कान्तं ब्रूत उपदिशत । पथिकेषु पांशुलं पांशन्दोषान् लाति अङ्गीकरोतीति पांशुलः मलिनः अधम इतियावत् । तं पांथाधममित्यर्थः । एतादृशंप्रति उपदेश आवश्यकः । अस्मास्वेववहूक्तः प्रार्थनादरः कि- मिति चेत् । किंभूता यूयं पथि शीघ्रलंघनाः। लंघनं गमनं येषांते । अन्यस्य स्थिरतया गमनकालविलम्बेन भवतः प्रेषणमुचितत्वाद्युक्तः प्रार्थनादरः। तत्र गत्वा किं वक्त- ॥ १.२ सटीकम् व्यमिति चेत्तत्राह । भोपथिक अद्य वर्षौं अन्यदेशप्रीति- र्मुच्यतां त्यज्यतां शीघ्र स्वदेशं गन्तव्यमित्यर्थः अथवा तव वधू अस्माभिः किमुच्यतां वक्तुं न शक्येत्यर्थः । अ- निर्वाच्यां दशां प्राप्तेति भावः। यहा सा किं वदतु अस्म- दुक्तमेव कर्त्तव्यं ॥ रथोडता ॥ ८ ॥ भोनाथेति सम्बोध- नं । सम्प्रति वर्षौ हंससमुदाया मानसं सरः प्रति आ- काशे प्रस्थिताः। तिर्यंचोऽपिकान्ताश्वासनाय गच्छंती- तिभावः ॥ किंच चातकः पक्षी अपि तृषितो जलं याचते जलधारामित्यार्थिकद्वितीयं कर्म ज्ञेयं ॥ यहा अम्बु अमृतं चातकः कान्ताधरामृतपानं याचते । प्रियां प्रतीतिशेषः त्वन्तु अधरपानार्थप्रेरितोऽपि न गच्छसि महती शृङ्गारान- भिज्ञा न तेत्युपहास्योऽपि । किंच भो पथिक सा ते प्रिया दुःखिता च यदि सा तर्हि प्रिया आश्वासनीयेत्यनेन मन्म- थपीडया दशमीदशामाप्तकामा दुःखकारणं तिर्यंचोपि प्रियामाश्वासयति ॥ मनुपित्रा अनभिज्ञाय सस्नेहत्वं दत्तं अ- भिज्ञाय निःस्नेहत्वभिति स्मर्यमाणा दुःखिता ॥ रथोडता ९ नीलशष्पमभिभाति कोमलं वारि विन्दति च चातकोमलं॥ अम्बुदैः शिखिगणो विनाद्यते का रतिर्दयितया विनाऽद्य ते ॥१०॥ किंच भो पथिक कोमलं सुन्दरं हरितबालतृणं अभि- भाति समन्ताच्छोमते । भूमावितिशेषः ॥ नन्वत्र बालतृण - घटकर्पर काव्यम् १०३ शब्देन नीलस्यैव बोधादन्यद्वैयर्थ्य तथापि नीलपदं वर्ष- ज्ञापनाय । अचेतनतृणकोमलत्वेन च कठिनत्वेन हीन- ता तेन मार्गमंजुलत्वं च सूचितं । किंच चातक उदकं अमलं मलहीनं विन्दति लभते चातका धनमुक्तमुदकम- न्तरीक्ष एवाददते । अतस्तत्र भूमिसम्बन्धाभावान्निर्मल- त्वं चातका अरमानिच्छंति उदकन्तदर्थ वयमागताः ॥ त्वदागमनपरीक्षिणीं त्वं न गच्छसीत्यतोऽधमत्वं तवेति ध्वनिः । किंच अम्बुदैर्मेधैर्मयूरसमुदायो निनाद्यते शब्दं कु- विति प्रेर्यते अस्मद्गर्जने मयूरा नृत्यंतीति मेघानां कारण- ता नादे । मयूराणां मंजुलनादोत्सादकैरस्माभिरेव प्रेर्यमा- णो गच्छ नोचन्मयूरभादोत्तरं दुःखितो भूत्वा यास्यसीति विभीषिकोक्तिः । किंचाद्य कान्तया विना तव का रतिः सुखं न कापीति भावः ॥ एवं दुःखी भूत्वा तिष्ठसि चेदति धैर्यगुणस्त्वयि । रथोद्धता ॥ १० ॥ मेघशब्दमुदिताः कलापिनः प्रोषिताहृदयशो कलापिनः ॥ तोयदागमकृशापि साद्य ते दुई रेण मदनेन साद्यते ॥ ११॥ किं कृपापि तव नास्ति कान्तया पाण्डगण्डपतितालकान्तया ॥ शोकसागरजलेऽद्य पातितां त्वगुणस्मरणमे व पातितां ॥ १२॥ किंचाद्य कलापिनो नृत्यन्मयूरामेघशब्दमुदिता घनग सटीकम् र्जितसंतुष्टाः प्रोषितानां हृदये शोकलापिनः देशांतरगत भर्तृकाणां नायिकानां हृदयेषु संतापकारका ये मयूराः ॥ यद्वा हृदयशोकं लपंति भाषन्ते अतस्तदवस्थां ज्ञात्वा ग- न्तव्यं । भोपथिक ते सा विरहानलव्याकुला प्रिया मेघा- गमकृशापि दुःखेन धर्तुमशक्येन मदनेन पीयते यहा तोयदागमे वर्षौं कृशापि एतादृशीमपि मदनः पीडयति तत्परिहारार्थ त्वं व्रज । देवो दुर्बलघातक इति मदमस्या- पि दयाभावः ॥ त्वं तथा मा भवेति सामोपायः । रथोडता ॥११॥ भो पथिक तव कान्तायां कान्तयेति विवक्षातः कारकाणि कारक इति वचनादधिकरणाविवक्षया तृतीया- न्तेन कान्तायामित्यर्थः । करुणापि नास्ति निर्दयस्य ते द- याभावात् । सदयेन तु गतमेव स्यात् । यमकभंगभया- कान्तयेति केचित् । तन्न । कवेरसामर्थ्यापत्तेः ॥ कथंभू- तया पाण्डू विरहेण गण्डौ तयोः पतिता इतस्ततो विस्तृ- ताः साधनाभावात् केशांता यस्याः एतादृशि प्रेम्णि वि- रहावस्थायां जीवने हेतुमाह । अद्य त्वद्गुणानां स्मरणम- पि सदयो मयि प्रीतिसान्द्रोऽधुनागमिष्यत्येवेति स्मरणं तां रक्षति । शोकसागरजले निपातितां शोकसमुद्रस्तज्जल- मिवेत्युपमानांतत्वावहिरहेणेतिशेषः । समुद्रमपि गुणेन रज्ज्वा तरति । रथोद्धता ॥ १२ ॥ कुसुमितकुटनेषु काननेष प्रियरहितेषु समुत्सु घटकपरं काव्यम् १.५ काननेषु ॥ वहति च कलषे जले नदीनां किमि ति च मां समवेक्षसे न दीनां ॥ १३ ॥ पुनरपि तं मत्संदेशं ब्रूतेत्याह ॥ हेकान्त त्वं मां किमिति कस्मात्कारणान्न समवेक्षसे संपश्यसि केषु सत्सु काननेषु वनेषु । कुसुमानि संयतानि येषां ते तादृशाः कुटजाः वृक्ष- विशेषाः॥ कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरिति प्रकाशः। येषुतानि तादृशेषु सत्सु । पुनः केषु सत्सु काननेषु वनेषु प्रियरहितेषु । कामिनीजनेष्वितिशेषः ॥ किंभूतेषु कामिनी जनेषु समुत्सुकाननेषु समत्सुकानि निजकान्तेषत्कंठितानि आननानि येषां तेषु इदमपि स्वाभिप्रायेण तस्मात्कामिनी- मुखस्य यथानुत्कंठितत्वं भवति तथा विधेयं ॥ यद्वा प्रिये- ति भर्तृपदेन सम्बोधनं । अत्र पक्षे पूर्ववत्कुसुमिते इति सप्तम्यंतं लापयित्वा अग्रिमपदानि काननविशेषणानि । किं- भूतेषु काननेषु कस्य जलस्य । कं शिरो जलमाख्यात- मित्येकाक्षरनिघंटुः । आननानि आधारत्वात् स्था- नानि इति यावत् । तेषु काननेषु सजलेष्वित्यर्थः । पुनः किम्भूतेषु काननेषु समुत्सु मुदा प्रीत्या घटितेषु । पुष्पाणां विकसनेन हास्यनिवेदकत्वं । पुनः किंभूतेषु काननेषु र- हितेषु वियुक्तेषु । कामिनीजनैरितिशेषः । अनेन बनानां जलाधनेकगुणशोभितत्वात्कामिन्यादिजनराहित्यमात्रेण शोभा माभूदिति त्वदागमनेन च तहने क्रीडावशादस्म- मुखानि ०६ सटीकम् सान्निध्येनं सर्वापि शोभा सम्पत्स्यते इत्यवश्यमागन्तव्य मिति स्फुट एवाशयोऽभिव्यज्यते । यहा केषु सत्सु कामि- नी जनेषु काननेषु अधिकरणसप्तमीयं । समुत्सु मुदासह- वर्त्तमानेषु सत्सु अनेन यथा स्वभर्तृभिः सहिताः कामि- न्यः काननादौ क्रीडन्ति तथाऽहमपि त्वदागमने भविष्या- मीति सत्वरमागन्तव्यमित्याशयोपि व्यंग्यः । किंभूतेषु काननेषु कुसुमितकुटजेषु । अनेन काननानां भोगयोग्य- त्वं सुचितं । किंभूतेषु कामिनीजनेषु काननेषु केन सुखेन युक्तानि आननानि येषां तेषु । मध्यमपदलोपिसमासात् । वियोगाभावात्सुखितानीत्यर्थः । यद्वा केन जलेन युक्ता- न्याननानि येषां तेषु विपरीतसुरतश्रमस्वेदबिन्दुयुक्तानि । पावके च मयूरे च सुखे शीर्षे जले च कं । पुनः किम्भू- तेषु कामिनीजनेषु प्रियरहितेषु सर्वेषु सुन्दरत्वात्सर्वेषां प्रियः कामरतज्जोरः अग्निस्तत्र हितेषु सुखरूपेषु मदन- जनिततापशान्त्यर्थ कामिनीजन एव सुखावह इत्यर्थः । यहा प्रियाणां भर्तृणां रः संतापः अर्थान्मदनजन्य इत्यर्थः । तत्र हितोभर्तृणां संतापशान्त्यर्थ कामिनीजन एव हितः सुखकारी समर्थः । यहा प्रियाणां रः कामः तत्र हितो भर्तृणां शरीरालिङ्गने सुखावह इत्यर्थः । ‘रश्व कामेऽनले मय्यं' इति निघंटुः । पुनः कस्मिन्सति नदीनां कलुष आविले बहुले जले वहति सति यथा नदीभिः स्वकांतं प्रति ह

घटकर्परं काव्यम्
०७
अहं
गम्यते तथा त्वमपि गच्छेत्याशंक्याह । किंभूतां मां दीनां
सर्वेषां सुखवशात् स्वस्य विरहात्॥ पुष्पिताग्रावृत्तिः॥१३॥
मार्गेष मेघसलिलेन विनाशितेषु कामे धनुः स्पृ
शति तेन विना शितेषु ॥ गम्भीरमेघरसितव्यथि
ता कदाहं जयां सखि प्रियवियोगजशोकदाहं ११
साम्प्रतं काचित्सखीमाहानंगवाणाकुलांगी । हे सखि
प्रियवियोगाज्जातं शोकानि कदा जह्यां त्यजेयं । केषु
सत्सु जलदमुक्ततोयेन मार्गेषु एथेषु विनाशितेषु रुद्वेषु ।
अनेन एतावत्कालं तदागमनाशयास्थितमधुना तु नदी-
पूर्णत्वात्पंकाकुलत्वाच्च मार्गाणां विषमत्वे तदागमनाभावबो-
धात्कथं शोकनाशः । तदभावे दशमदशाप्राप्तितिध्वनिः ।
कस्मिन्सति तेनेत्यनेन निर्दयत्वबोधः भर्चा विना कामो
धनुः स्पृशति सज्यं कुर्वति । मां लक्षीकृत्येतिशेषः किम्भूतं
धनुः शितेषु शितः तीक्ष्ण इषुर्यस्मिन् तथा । किम्भूताह
गम्भीरं यन्मेघस्य रसितं घनगर्जितं तेन व्यथिता व्यथा
संजाता यस्याः सा दुःखितेत्यर्थः ! वसंततिलकेयं ॥ १४ ॥
सुसुगंधतयावनेजितानां सनदम्भोधरवायुवीजि
तानां ॥ यदनस्य कृते निकेतकानांप्रतिभान्त्यद्य
वनानि केतकानां ॥१५॥ तत्साधु यत्त्वां सुतरुः
ससर्ज प्रजापतिःकामनिवास सर्जरीत्वं मंजरीभिः
प्रवरो पनानां नेत्रोत्सवश्वासि सग्रोवनानां॥१६॥

१०८ सटीकम् पुनरपि सखीं मेघसमक्षमाह ॥ हे सखि अद्य केतकाना केतकीपुष्पाणि केतकानि तेषां वनानि समूहाः प्रतिभांति शोभन्ते । संप्रति भानिवाभवंति । परपीडाकरणे धृष्टानि । कीदृशानां केतकानां सुतरां सुगंधीनि तेषां भावस्तत्तथा तया अवनेजितानां व्याप्तानां वने अजितानामिति पदच्छे- दे बने अजितानां सर्वोत्कृष्टत्वादन्यपुष्पैरपराजितानां पुनः किंभूतानां स्वनन्तो गर्जन्तो ये मेघास्तत्संबंधिवायुना वी- जितानां । ईषत्कंपितानां । पुनः किंभूतानां मदनस्य कृते कामार्थ निकेतकानां गृहाणामित्यर्थः । कितनिवासे निके- तयंति निकेतनानि मदनस्ते शरीरशीतलगृहेषु स्थित्वा परा- न्पीडयति अतस्तवेयं कात्तिः। वसन्तमालिकेयं वृत्तिः॥१५॥ इदानीं प्रस्तुतं विहायाप्रस्तुतं तरुं कामव्यामोहात् प्रार्थयते। भोकामनिवास कन्दर्पनिलय सर्ज शालसालेतुसर्जके।प्रजा- पतिर्वेधाः सुतरं त्वां ससर्ज सृष्टवान् तत्साधु युक्तं । सुतरु- त्वंदर्शयति । यतः कारणात् त्वं मंजरीभिर्वल्लरीभिर्वनानां प्रवरः श्रेष्ठोसि । चेत्यपरं सयौवनानां अनेन पुंस्त्रीग्रहणं । नेत्रोत्सवः आनन्दजनकत्वात् । नेत्राणामुत्सवः उद्धवः ईदृशस्य तव मत्पीडाजनकत्वमनुचितमिति भावः। यहा श्रेष्ठस्य तब न स्वतो मत्पीडाजनकत्वं किंतु कामसंगत्येति ध्वनिः॥ उपजातिछन्दः॥ १६ ॥ नवकदम्ब शिरोऽवनतास्मि ते वसति यन्मदनः घटकपरं काव्यम् कुसुमस्मिते ॥ कुटज किं कुसुमैरुपहस्यते निप तितास्मि सुदुःप्रसहस्य ते ॥ १७ ॥ तरुवर वि नतास्मि ते सदाऽहं हृदयं मे प्रकरोषि किं स दाहं ॥ तव कुसुमनिरीक्षणे पदेहं विसृजेयं सह सैव नीप देहं ॥ १९॥ हे नवकदम्ब अहं तुभ्यं शिरोऽवनतास्मि कृतनम- स्कारेत्यर्थः । यद्यस्मात्कारणात्ते पदमत्रापि योज्यं तव कुसु मस्मिते पुष्पैविकसिते त्वयि मदनस्तिष्ठति दुष्टसंगान्मम पीडा माऽदाः । अथवा नवस्य बालस्य परपीडाजननेऽवि. वेकिनः कदम्बस्य कुमातृकस्य दुष्टसंगिनो दुःखजननं सु- युक्तमेव । हे कुटज कुसुमं कृत्वा किं उपहस्यते त्वया मा- मेव दुःखं दत्त्वा मामेवोपहससीति महदौचित्यमित्याशयः । अतः सुदुःप्रसहस्य सुतरां सोढुमशक्यतेति पतितास्मि । कृतनमस्कारास्मि अतो मा यच्छ दुःखं । द्रुतविलंबितं छ- न्दः ॥ १७ ॥ इदानीं नायिका निर्दयं प्रार्थयते । हे तरुवर अहं ते तुभ्यं सदा निरंतरं विनतास्मि एवं सत्यपि मे हृ- दयं किमिति संदाहं सतापं करोषि । अत्यन्तकृतनस्त्वमि- ति भावः ॥ भो नीप कदम्ब अहं तव कुसुमनिरीक्षणे पदे त्वत्पुष्पदर्शनपदे स्थाने सहसाऽकस्मादेव देहं विसृजेयं । यहा त्वत्पुष्पनिरीक्षणे स्थाने एव देहं त्यजेयमत अनुचि- तमिति भावः। अत्रानुक्तगाथाछन्दः ॥ १८ ॥ ॥

११० सटीकम् कुसुमेरुपशोभितां सितैर्घनमुक्तांबुलवप्रकाशितः ॥ मधुनस्समवेक्ष्य कालतां भ्रमरश्चम्पति यू थिकालतां ॥ १९॥ तासामृतुः सफल एव हि या दिनेषु सेन्द्रायधाम्बुधरगर्जितदुर्दिनेषु ॥ र त्यत्सवं प्रियतमः सह मानयंति मेघागमे प्रिय सखीश्च समानयंति ॥ २०॥ स्वयं पुनर्विलपति ॥ यहा सखी वदति । भ्रमरो भृङ्गो युथिकाना लतां चुम्बति तत्रैवासक्तो भवतीत्यर्थः । किं कृत्वा मधुनः पुष्परसस्य कालतां समयतां समवेक्ष्य ज्ञात्वा अनेन भ्रमरोपि मधुपानसमयमिति ज्ञात्वा सक्तो मन्नायि- कापेक्षयाभिज्ञ इत्यर्थध्वनिः। सितैः श्वेतैः पुष्पैरुपशोभितां अनेन भ्रमररूपप्रियचुंबनादेतस्याः पुष्पच्छलाहास्य व्यं- ग्यं । घनैर्मुक्ता ये अम्बुलवा जलकणास्तैर्विकासितैरन्योऽपि कश्चिद्रसिको भूषणादिभिरलंकृतां कान्तां चुम्बतीति ध्व- निः। वेतालीसुन्दरी छन्दः ॥ १९ ॥ पुनरपि सखिं वदति ॥ ऋतुः अर्थाद्वर्षर्तुः तासां सुन्दरीणां हि निश्चये सफलस्ससार्थक एव तासां कासां या इन्द्रायुधेन वर्तमाना- ये मेघास्तेषां गर्जितानि तैईदिनेषु मेघच्छन्नवाचकं दुर्दिन- पदं छन्नमात्रेलाक्षणिकं प्रियतमैः कामिभिः सह रत्युत्सवं मानयंति पूजयंति अनुभवन्ति । किञ्च मेवागमे प्रियास्ताः सख्यश्च तास्ताः समानयंति आत्मतुल्याः कुर्वति आत्मबहू- घटक.परं काव्यम् १११ षणादिभिर्भूषयंतीत्यर्थः । यहा मानेन आदरेण सह वर्त- न्ते यास्तादृशाः कुर्वन्तीत्यर्थः । अभिमानिकामिनोर.न- यने संतोषात् स्वभूषणदानमुचितमेवेति भावः । अनेन प्रियानयनं सखीकार्य भवत्यतः सभूषणरत्वया स आने यस्त्वामलंकरिष्यामीत्यर्थध्वनिः ॥ २० ॥ एतन्निशम्य विरहानलपीडितायास्तस्या वचः खलु दयालुरपीडितायाः॥ स्वं स्वारवेण कथि तं जलदैरमोघैः प्रत्याययौ स गृहमनदिनैरमो घैः ॥२१॥आलम्ब्य चाम्बु तृपितः करकोप पेयं भावानुरक्तवनितासुरतैः शपेयम् ॥ जीयेय येन कविनायमकैः परेण तस्मै वहेयमुदकं घ टकपरेण ॥ २२॥ एवं विलपत्यां तस्यां स नायकः ऊनदिनैरल्पदिवसै. गुहं निजमितिशेषः। प्रत्याययौ आजगाम । किं कृत्वा एतत्पूर्वोक्तं विरहानलेन पीडितायास्तस्याः प्रियायाः जलदेन स्वारवेण स्वशब्देन स्वं आत्मानं प्रति कथितं उक्तं वचस्सन्देशं निशम्य श्रुत्वा दिभूतायास्तस्याः अपी डितायास्तत्प्राप्तावितिशेषः किं सः दयालुः मेघवचनेन तत्कालमागमनात् । किंभूतैः ऊनदिनैर्मोधैरमोघैश्च तद- नागमनागमनाभ्यां निष्फलैः सार्थकैश्च । केचिदिदं पद्यं क- वेर्मेति वदंति ॥ २१ ॥ इदानी काव्यकर्ता स्वकाव्ये भूतः ११२ सटीकम् यमकनिपुणतामाकलय्य प्रतिज्ञां दर्शयितुमाह ॥ भो शिष्य अहं येन परेण द्वितीयेन कविना नत्वन्येन यमकैः जीये- य पराजयं प्राप्स्यामि शब्दालंकारैः तस्मैं कवये ध्वस्तकु- म्भकपालेन उदकं वहेयं प्रापयेयं दुष्करमपि करिष्यामि । ननु त्वं जितोपि तथा न करिष्यसीतिचेच्छपथमाह । यदि न वहेयं तर्हि भावेन चित्ताभिप्रायेणानुरक्ता याः कांतास्ता- सां सुरतैः शपथं कुर्य्याम्। किं कृत्वा तृषितः सन् करकोश- कुडलोऽञ्जलिः तेन पेयं पातुं योग्यं जलं आलंब्य स्पृष्ट्वा अन्योऽपि जलं स्पृष्दैव शपथं करोतीति भावः। यो हि यत्प्रियो भवति स तच्छपथं करोतीति स्वस्यातिरसिकत्वेन तत्प्रियत्वात्तच्छपथे इत्यादरः । नच तव यमकाख्यकाव्ये ज्ञानमेवेति न्यूनता वाच्या कविनेत्युक्तत्वात् । यः कवि- स्तेन तु यमकादौ जेतव्योस्मि शास्त्रेतु शास्त्रज्ञैरित्यलं विस्तरेण ॥ २२ ॥ इति घटकर्परं समाप्तम् ॥ संपूर्णम्. .

श्रीः। श्रीवेंकटेश्वर छापखानेके- विक्रयार्थ पुस्तके- स् नाम. ट.म. रु. आ. १०-० -३ वेदान्तग्रंथाः। की. रु. आ. १ शारीरक (शांकरभाष्य) रत्नप्रभाटीका व्यासाधिक रणमाला और भक्तिसूत्र सभाष्य अक्षर बड़ा २ ब्रह्मसूत्र(शारीरक)भाषाटीका १-८ ३ वेदांतसार संस्कृतमूल और संस्कृतटीका तथा भाषाटी- कासहीत ०-१२ ४ गीता चिद्धनानंदस्वामिकृत गूढार्थदीपिका मूल अन्वय पदच्छेदके सहित भाषाटीका ५ गीता आनंदगिरिकृतभाषा- टीका ६ श्रीमद्भगवद्गीता सान्वयव्रज- भाषा दोहासहित ७ गीता अमृततरंगिणी भा- •-२ ८-० ३-० -६ -३ २ खेमराज श्रीकृष्णदास. नाम. ट. म. रु. आ. -३ ०-४ ९ १० -॥ 0-॥ -॥ .-1 -२ ०-॥ की. रु. आ. पाटीका( रघुनाथप्रसादकृत) १-४ ८ पंचदशीसटीक .... २-८ प्रश्नोत्तररत्नमाला ०-२ अध्यात्मप्रदीपिका ०-४ ११ निर्वाणाष्टकंसटीकम् ०-२ १२ सिद्धांतचंद्रिका सटीक वे- दांत .... १३ प्रश्नोत्तरप्रकाश .... ०-४ १४ हरिमीडेस्तोत्रसटीक ०-१४ १५ द्वादशमहावाक्यविवरण १६ त्रोटक सटीक .... ०-१० १७ शांकरदिग्विजय सटीक... १८ हठयोगप्रदीपिकाभाषा औ- र संस्कृतटीकासह १९ शिवस्वरोदय भाषाटीका २० शिवसंहिता भाषाटीका सह ( योगशास्त्र) .... २१ वेदांतरामायण भाषाटीकासह १-८ २२ अष्टावकगीता भाषाटीकासह १-४ २३ श्रीरामगीता भाषाटीका पद प्रकाशिका अनुवादसमुच्चय ०-१ ३-० २-० ०-१० -२ १-० ०-२ ०-६ ०-२ श्रीवेंकटेश्वर छापखाना-सूचीपत्र । ३ नाम. ट. म. रु. आ. ०-८ ०-१ ०-८ ०-१ ०-८ ०-१ की. रु. आ. और विषमपदीके सहित २४ अपरोक्षानुभुति संस्कृत टी- का भाषाटीका सहित .... ०-१० २५ वेदांतग्रंथपंचकम् ( वाक्यप्र- दीपः वाक्यसुधारसः हस्ताम- लकःनिर्वाणपंचकं मनीषापं- चकं ) सटीक २६ वेदस्तुति भाषाटीका सह २७ रामगीता मूल ०-२ २८ श्रीमद्भगवद्गीतापंचरत्नअक्ष- रमोटागुटकारेश. २९ "पंचरत्न अक्षरबडा खुला- पाना छोटीसंची ३. " पंचरत्न अक्षरबडा लंबी- संची खुला ३१ गीता श्रीधरीटीका सहित ३२ गीता बडे अक्षरकी १६ 0-1 १-४ १-८ ०-३ १-० ०-३ ०-३ पेजी गुटका १-० ०-२ ३३ "पंचरत्न बुक्फासन सप्तरत्न ३४ गीता बडेअक्षरकी खुली.... ०-१२ ०-१२ •-२ .-२ खेमराज श्रीकृष्णदास. 20 नाम. ट. म. रु. आ. ०-१ की. रु. आ. ३५ गीता गुटका विष्णुसहस्रना- म सहित ३६ गीता गुटका ३२ पेजी बडा अक्षरका ०-१२ ३७ "पंचरत्न और एकादशरत्न ०-१२ ३८ "पंचरत्न द्वादशरत्न ३९ गीतापंचरत्न नवरत्न पा- -१॥ -॥ ०-२ ०-१॥ किट बुक ०-१ .-६ ४० गाता गुटका पाकिट बुक ०-६ •-॥ ४१ पाण्डवगीता भाषाटीका सह ०-३ -|| ४२ पांडवगीतादि रत्न ४ अक्षर बडा .-३ -॥ ४३ शिवगीता ०-१ ४४ गणेशगीता ०-६ ४५ आत्मबोध, तत्त्वबोध, वेद- स्तुति भाषा •-॥ ४६ शांडिल्यसूत्र सभाष्य ४७ नारदगीता ०-१ इत्यादि पहोत पुस्तक तथा महाभारत, भागवत, रामायण इत्यादि बडे बडे ग्रंथ तथा भाषाटीकासहितभी भागवत रामायण मिलते है. और तुलशीकृत रामायणादि भाषाग्रंथभी मिलते है. -॥

No text on this page.

Shri Amrushataram

Author
Shankar Acharay
Title
Shri Amrushataram
File name
Shri Amrushataram
Text
OCR done
Citation
1950
Published
2012
Publisher
Shri Krishan Dasatmakham Raj Shrishontni Mumbai
Language
Sanskrit
Pages
124
Library
S.P College, Srinagar
Classification
Language. Linguistics. Literature
DLI number
242349
Barcode
99999990879747.00
Scanning centre
Allama Iqbal Library, University of Kashmir
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
Hyae0gLSh3l
Download PDF

Shri Amrushataram