The Asiatic Society, Kolkata
Purva-mimamsa-darsana Vol. 1
Front matter
No text on this page.
No text on this page.
No text on this page.
Government Oriental Library Series.
BIBLIOTHECA SANSKRITA-No. 35.
पूर्वमीमांसा दर्शनम्
श्रीखण्डदेवविरचितया भाट्टदीपिकया
श्री कस्तूरि-रंगाचार्य-विरचितया निवीतान्तसूत्रच्या च सहितम्.
१म संपुटम्-आदिनः ३याध्याय ४र्थ पादान्तम्
PÚRVA-MÎMÂMSÂ-DARSANA
WITH KHANDADEVA'S BHÂTTA-DIPIKA
VOL. I.
EDITED BY
A. MAHADEVA SASTRI, B.A.,
Curator, Gorernment Oriental Library, Mysore.
PUBLISHED UNDER THE ACTHORITY OF THE GOVERNMENT ON
His HIGHNESS THE MAHARAJA OF MYSORE.
MYSORE
1908
GOVERNMENT BRANOIL PRE-S, M URI भूमिका. भादीपिकाभिधानोऽयं प्रबन्धः श्रीखण्डदेवविरचितः पूर्वमीमांसाधि- करणार्थप्रकाशकः सुप्रसिद्धः जैमिनीयन्यायसारविविदिषुभिरत्यन्तमपेक्षितोपि काप्यमुद्रितपूर्व इति अत्र ग्रन्थमालायां तस्य प्रकटीकरणमावश्यकमित्युत्प- श्यामः । अस्मिश्च प्रन्थे भट्टकुमारिलस्य वार्तिककारस्य मतमनुसृत्य द्वादशल- क्षण्याः पूर्वमीमांसाया अधिकरणार्यास्सर्वे विविन्य प्रतिपाद्यन्ते पूर्वपक्षसि- द्वान्तरूपेण । अस्या भादीपिकायाः नातिसुग्रहार्थायाः व्याख्यानानि त्रीणि समुपलभ्यन्ते चन्द्रिकाप्रभावळीचिन्तामण्याख्यानानि भास्करराजशम्भुभट्ट- वाहेश्वरप्रणीतानि । • ग्रन्थविस्तरभिया तेषामेकतमस्याप्यत्र मुद्रणं न प्रकान्तम् । यद्यपि . मीमांमादर्शनमत्राणामीपनयनविसहलपरिमितानां प्रत्येकमर्थवि- चारस्यातिदीर्घकालमाध्यतया तत्तदधिकरणार्या एव बुभुत्स्यन्ते शास्त्रान्तग. ध्येतृभिः, तथैव च निबध्यन्ते ग्रन्थकारैस्संग्रहीतृभिः खण्डदेवादिभिः । त- थाऽपि मूलभूतमूत्रार्थजिज्ञासूनामनुग्रहाय भामतानुयायिनी नवीनाऽल्पग्रन्था सारबोधिन्याख्या वृत्तिरप्यत्र संयोजिता श्रीमता तर्कतीर्थपण्डितरत्यादि. विरुदाहितेन कस्तूरीरङ्गाचार्यण विद्वद्वर्येण प्रणीता । आचार्येण श्रीमता खण्डदेवेन आधुनिकफकिया मामांसाशास्त्रप्रवर्त- यितृषु अग्रगण्येन विरचितौ मीमांमाकौस्तुभभावरहम्याभिधों प्रबन्धी व. तेते. सोऽयं खण्डदेवः श्रीरुद्रदेवतनय इति तदीयवाक्येभ्योऽवधार्यते । अव- गम्यते च श्रीजगन्नाथपण्डितराजस्य महाकवेः जनक: पेरुभट्टनामा तन्त्र- चतुष्टयविशारदः काश्यां खण्डदेवसकाशे मीमांसाशाबमध्यगीष्टेति पण्डितराज- विरचितस्यरसगङ्गाधराभिधालकारप्रवन्धम्यादावुपलभ्यमानाभ्यामाभ्यां प. पाभ्याम् -- श्रीमज्ञानेन्द्रभिक्षोरधिगतसकलब्र विद्याप्रपञ्चः। काणादाराक्षणादारपि गइनगिरो यो महेन्द्रावान् ॥
iv देवादेवाध्याष्ट स्मरहरनगरे। शासनं जैमिनीयं शेपाहमाप्तशेषामलफणितिरभूत्सर्वविद्याधरो यः॥ पाषाणादपि पीयूषं स्यन्दते यस्य लीलया । तं वन्दे पेरुभट्ठाख्यं लक्ष्मीकान्तं महागुरुम् ॥ इति ॥ एतेनास्य समयोऽपि सुनिर्णेयो भवति, यतः पण्डितरायः सुप्रसिद्ध- जीवितकालस्य पाजिहान्चक्रवर्तिनः सभामलंचकारेति सुविदितमेव । तथाच तजनकस्य पेरुभहस्य मीमांसाध्यापक आचार्यखण्डदेवः ईषत्रयूनाधिकैः पञ्चा- शद्वत्सरैः पण्डितरायापेक्षया प्राचीन इति संभावयितुं शक्यते ॥ एतत्संपुटगतस्य ग्रन्थभागस्य शोधनार्थमादर्शीकृतानि पुस्तकानि प्रदर्श- यिष्यन्ते:- (1) एतस्यां शालायां संगृहीतं कागदमयं कार्णाटाक्षरमध्यायत्रयप- रिमितमेकम् (A 30) संख्याङ्कितम् (2) तथैव-तालपत्रमयमान्ध्राक्षरं (785) संख्यासमलंकृतमपरम्, (3) श्रीमन्महाराजसदनस्थसरस्वतीभण्डारसंगृहीतं तालपत्रमयमध्या- याष्टकपरिमितमन्यत् (216) संख्यासमलंकृतम्, (4) आस्थानधर्माधिकारिणां श्रीमतां सुन्दरशास्त्रिणां सकाशादानीतं ग्रन्थाक्षरमयमध्यायनवकपरिमितं तुरीयम्. (5) एतच्छालायामेव संगृहीतानि कागदमयानि श्रीशम्भुभप्रणीत- भादीपिकाप्रभावल्याख्यानव्याख्यानपुस्तकानि (A 73 79) सङ्ख्याङ्कितानि पष्ठदशमैकादशैत्रिभिरध्यायैरेव वि- कलानि. ".. (6) अत्रैव सगृहीतं भास्करराजकृतचन्द्रिकाभिधानव्याख्यानपुस्तकं आदितः ये 2यपादसमाप्त्यन्तं (01:201) संख्याङ्गितम्. (7) अत्रैव संगृहीतं वांछेश्वरविरचितचिन्तामण्याख्यानव्याख्यानपु- स्तकं येऽध्याये पादत्रयपरिमितं (C_1202) संख्यासम- लंकृतम्, अ. महादेवशास्त्री. स्मरहरनगरे-काश्याम् । इति . 1" देवादेव-खण्डदेवादेव मागेशभाटीका, भादीपिका प्रथमसम्पुट विषयसूचिका. 5 6 .... 7 .... प्रथमाध्यायस्य प्रथमः पादः, अधिकरणसवथा पुटसवथा १ धर्मजिज्ञासाप्रतिक्षाधिकरणम् २ धर्मलक्षणाधीकरणम् ३ धर्मप्रमाणपरीक्षाधिकरम् धर्मस्य प्रत्यक्षाद्ययोग्यत्वनिरूपणम् ४ धर्मे चोदनाप्रामाण्याधिकरणम् ५ शब्दनित्यताधिकरणम् ६ देवस्यार्थप्रत्यायकत्वाधिकरणम् 10 विधिवैविध्यनिरूपणम् .... 12 परिसङ्ख्याविधिनिरूपणम् .... नियमविधिनिरूपणम् अपूर्वविधिनिरूपणम् ७ वेदापौरुषेयत्वाधिकरणम् प्रथमाध्यायस्य द्वितीयः पादः. १ अर्थवादाधिकरणम् (अर्थवादस्य प्रामाण्याधिकरणम्). 15 लिङाद्यर्थनिरूपणम् शब्दभावानाया अंशत्रयनिरूपणम् २ विधिवभिगदाधिकरणम् . 23 .... " .... ... .... .... .... .... 18 .... .... 20 .... ... ...
vi पुटसहच अधिकरणसजाया ३ हेतुवभिगदाधिकरणम् ४ मन्त्रलिझाधिकरणम् 25 ... 28 36 .... 37 38 ... 3.9 -40 41 42 प्रथमाध्यायस्य तृतीयः पादः १ स्मृत्यधिकरणं (स्मृतिप्रामाण्याधिकरणम्) २ विरोधाधिकरणं (श्रुतिप्राबल्याधिकरणम्) अत्र भाष्यकारसिद्धान्तः वार्तिककारसिद्धान्तः शाक्यादिग्रन्थानामप्रामाण्यव्यवस्थापनं ३ शिष्टाकोपाधिकरणं (पदार्थप्राबल्याधिकरणं) वेदाविरुद्धशाक्यवचनस्यापि प्रामाण्यनिरासः वसन्तोत्सवाद्याचाराणां प्रामाण्यव्यवस्थापन ४ यववराहाधिकरणं (शास्त्रप्रसिद्धपदार्थप्रामाण्या- धिकरणम्) स्मृतिविरुद्धानां मातुलसुतापरिणयादीनामननु- ष्ठानप्रतिपादनम् त्रिवृश्चर्वश्ववालादिशब्दविचारः ५ पिकनेमाधिकरणं (आर्यप्रसिद्धयविरोध म्लेच्छ- प्रसिद्धार्थप्रामाण्याधिकरणम्) ६ कल्पसूत्राधिकरणं (कल्पसूत्रास्वतःप्रामाण्याधिकरणम्. होलाकाधिकरणं (सामान्यश्रुतिकल्पनाधिकरणम्) ८ व्याकरणाधिकरणं (साधुपदप्रयुक्त्यधिकरणम्) ९ लोकवेदाधिकरणं (लोकवेदयोश्शब्दक्याधिकरणम्) १० आकृत्यधिकरणम् . ... 11 ... .. ... " 47 ... 50 52 53 .."
vii पुटसङ्ख्या 57 59 60 61 ... ... 63 .. .زا प्रथमाध्यायस्य चतुर्थः पादः अधिकरणसङ्ख्या १ नामधेयप्रामाण्याधिकरणम् २ उद्भिदधिकरणं (उद्भिदादिशब्दानां यागनामता- धिकरणम् पविधिप्रकारनिरूपणम् ३ चित्राधिकरणम् (चित्रादिशब्दानां यागनामधेय- ताधिकरणम्) ४ तत्व याधिकरणं (अग्निहोत्रादिशब्दानां यागनाम. धेयताधिकरणम् ) ५ तव्यपदेशाधिकरणं (श्येनादिशब्दानां यागनाम- धेयताधिकरणम् ६ वाजपयाधिकरणं (वाजपेयादिशब्दानां नाम- धेयताधिकरणम्) आग्नेयाधिकरणं (आग्नेयादिशब्दानाम् 'यागना- मधेयताधिकरणम्। ८ बर्हिगज्याधिकरणं (बर्हिरादिशब्दानां जातिया- चिताधिकरणम्) ९ प्रोक्षण्यधिकरणं (प्रोक्षण्यादिपदानां यौगिक- ताधिकरणम्) १० निर्मथ्याधिकरणं निर्मन्थ्य शब्दस्य यौगिकत्वा. धिकरणम्) ११ वैश्वदेवाधिकरणं (वैश्वदेवादिशब्दानां नामधे- .यताधिकरणम् । १२ वैश्वानराधिकरणं (वैश्वानरे अतृत्वाद्यर्थवादता धिकरणम्) 66 ... (68 69 ... 70 11 73 viii पुटसङ्ख्या 77 78 79 ... अधिकरणसाचा ११ तत्सित्यधिकरण (यजमानशब्दस्य प्रस्तरस्तु- त्यर्थताधिकरणम्) १४ जात्यधिकरणं (आनयो वै ब्राह्मण इत्यत्र भाग्नेया- दिशब्दानां ब्राह्मणस्तुत्यर्थताधिकरणम्) १५ सारूप्याधिकरणं (यूपादिशब्दानां यजमानस्तु- त्यर्थताधिकरणम्) १६ प्रशंसाधिकरणं (अपश्वादिपदानां गधादिप्रशं- सार्थताधिकरणम्) १. भूमाधिकरणं (बाहुल्येन सृष्टिव्यपदेशाधिकरणम्) १८ लिङ्गसमवायाधिकरणं (प्राणभृदादिशब्दानां स्तुत्यर्थताधिकरणम्) १९ वाक्यशेषाधिकरणं (वाक्यशेषेण सन्दिग्धार्थनि- रूपणाधिकरणम्) २० सामर्थ्याधिकरणं (सामर्थ्यानुसारेण अव्यवस्थि- तानां व्यवस्थाधिकरणम् ) द्वितीयाध्यायस्य प्रथमः पादः. 80 81 ... ... . " 81 .. 85 : : " १ प्रतिपदाधिकरणम् २ भावार्थाधिकरणम् धात्वर्थातिरिक्तभावनाव्यवस्थापनम् भावनायाः मुख्यविशेषष्यत्वप्रतिपादनम् . ३ अपूर्वाधिकरणं (अपूर्वस्यास्तित्वम्) ४ तानि वैधाधिकरणं (कर्मणां गुणप्रधानभावविभा. गाधिकरणम्) 86 . " 89 is 93 98 99 . 100 ... अधिकरणसङ्ख्या पुटसङ्ख्या ६. सम्मार्गाधिकरणं (सम्मार्जनादानामप्रधानताधिकरणम्) 91 ६ स्तुतशस्त्राधिकरणं (स्तोत्रादिप्राधान्याधिकरणम्) ७ मन्त्रविधायकत्वाधेिकरणम् ८ मन्त्रनिर्वचनाधिकरणम् ९ ब्राह्मणनिर्वचनाधिकरणम् १० काहाद्यमन्त्रताधिकरणम् ११ ऋग्लक्षणाधिकरणम् . १२ सामलक्षणाधिकरणम् .... १३ यजुर्लक्षणाधिकरणम् १४ निगदानां यजुष्पाधिकरणम् १९ अर्थैकत्वाधिकरणं । एकवाक्यत्वाधिकरणम्) १६ वाक्यभेदाधिकरणम् १७ अनुषङ्गाधिकरणम् १८ व्यवेताननुषङ्गाधिकरणम् द्वितीयाध्यायस्य द्वितीयः पादः. .... " 101 ... 108 104 105 ... 106 ... 107 ... 109 १ शब्दान्तराधिकरणं (अङ्गापूर्वमेदाधिकरणम् ) २ अभ्यासाधिकरणं (समिदाद्यपूर्वभेदाधिकरणम्) ३ पौर्णमास्याधिकरणं (अधाराबायादीनामङ्गाङ्गि- भावांधिकरणम्) 110 ४. उपांशुयाजाधिकरणं (उपांशुयाजापूर्वताधिकरणम्) ६ आधाराग्निहोत्राधिकरणं (आधाराद्यपूर्वताद्यधिकरणम्) 117 ६ पशुसोमाधिकरणं (पशुलोमापूर्वताधिकरणम् ) 120 ७ सझ्याकृतकर्मभेदाधिकरणम् 115 .... 124 X पुटसङ्ख्या 126 ": 127 129 .... . अधिकरणसहया ८ संआकृतकर्मभेदाधिकरण ९ आमिक्षाधिकरणं (देवताकृतकर्मभेदाधिकरणम् ) १० द्रव्यविशेषानुक्तिकृतकमैक्याधिकरणम् ११ इन्द्रियकामाधिकरणं (दध्यादिद्रव्यसफलत्वाधि- करणम् १२ रेवत्यधिकरणं (वारवन्तीयादीनां कर्मान्तरताधि- करणम् ) १३ सौभराधिकरणं (सौभरनिधनयोः कामैक्याध. करणम्) .... 181 .... .... 1.6 .... .... :... 140 .... .... 142 145 द्वितीयाध्यायस्य तृतीयः पादः १ रथन्तराधिकरणं (प्रहाग्रतायाः ज्योतिष्टोभाङ्गता- धिकरणम्) २ अवेष्टयधिकरणं (अवेष्टेः क्रत्वन्तरताधिकारता- धिकरणत्) ३ आधानाधिकरणं (आधानस्य विधेयत्वाधिकरणम् ) ४ दाक्षायणयज्ञाधिकरणं (दाक्षायणयबादीनां गुण- त्वाधिकरणम् ५ ईषाधिकरणं (द्रव्यदेवतायुक्तानां यागान्तरताधि- करणम्) ६ वत्सालम्बनादीनां संस्कारताधिकरणम् ७ नैव.रचरोराधानार्थताधिकरणम् ८ पालीवताधिकरणं (त्वाष्टपात्नीवतस्य पर्यनिकरण- गुणकत्वाधिकरणम्) 147. .... 150 .... .... .... 152 .... 153 .... .... .... 154 xi .... 157 .... 160 ... .... अधिकरणसङ्ख्या पुटसङ्ख्या ९ अंश्वदाभ्याधिकरणं (अदाभ्यादीनां ग्रहनामताधि- करणम्) 155 १० अग्नयापकरणं (अग्निचयनस्य संस्कार्यताधिकरणम्) ११ प्रकरणान्तराधिकरणं (मासाग्निहोत्रादीनां क्रत्व- न्तरताधिकरणम् ).... १२ आग्नेयांदिकाम्येष्टयधिकरणम् 162 १३ सन्निधौ अनुपादेयगुणानां कर्मान्तरत्वासाधकत्वा. धिकरणम् .... 168 १४ आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणम् द्वितीयाध्यायस्य चतुर्थः पादः १ यावजीविताग्निहोत्राधिकरणम् २ सर्बशाखाप्रत्ययैककर्मताधिकरणम् 161 .... 166 .... 170 .... 181 .... 182 .... .... तृतीयाध्यायस्य प्रथमः पादः. १ अथ प्रतिज्ञाधिकरणम् २ शेषलक्षणाधिकरणम् द्रव्यगुणकर्तृकालदेशादौ यागाङ्गत्वोपपादनम् यागस्य निमित्ताङ्गत्वनिरासः १ शेषलक्ष्याधिकरणम् यागस्य स्वर्गाङ्गत्वव्यवस्थापनम् 184 फलस्य पुरुषाङ्गत्वम् पुरुषस्य कर्तृत्वादिना यागाङ्गत्वम् ४ निर्वापादीनामर्थानुसारेण व्यवस्थितविषयताधिकरणम्.. " 183 .... . .... .... .... " 185 .... ...
xii .... .... अधिकरणसङ्ख्या पुटसञ्जया श्रौतविनियोगनिरूपणम्.... .....186 गौणमुख्यसाधारणश्रुतिविनियोगोपयोग्यङ्गाङ्गित्व- योरवच्छेदकविचारः '.... 187 ५ स्पयाधिकरणं (स्फ्यादीनां संयोगानुसारेण व्यवस्थि- तत्वाधिकरणम् 188 ६ अरुणाधिकरणं (आरुण्यादिगुणानामसंकीर्णताधिक- रणम्)... .... 189 शाब्दबोधे योग्यताज्ञानकारणत्वनिरासपूर्वकायो- ग्यतानिश्चयस्य प्रतिबन्धकत्वव्यवस्थापनम् 190 ऋयाणां गुणाद्भेदप्रतिपादनम् 191 दशभिः क्रीणातीतिवचनस्य यसमुच्चयपरत्वप्रति- पादनम् ७ ग्रहैकत्वाधिकरणं (सर्वेषांग्रहादीनां सम्मार्गाद्यधिकरणम्) भावनायाः एककर्मकत्वनिर्वचनम् 191 ८ चमसादौ सम्मार्गाद्यप्रयोगाधिकरणम् 195 ९ सप्तदशारनितामाः पशुधर्मताधिकरणम् .. .... 196 १० अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणम् 197 अवान्तरप्रकरणस्य वाचनिकाङ्गसन्दंशरूपत्वकथनम्.... 100 ११ उपवीतस्य प्राकरणिकाङ्गताधिकरणम् ... :200 १२ वारणवैकङ्कतादिपात्राणां कृत्स्नयागगुणताधिकरणम् 202 १३ वार्चनयधिकरणम् 204 १४ हस्तावनजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणम् 206 १९ चतुर्धाकरणाधिकरणं (चतुर्धाकरणादर्दानामाग्नेय- मात्राङ्गताधिकरणम्) 207 .... ..... .... .... .... .. ... ...
X111 पुटसलथा 209 211 ... ... 313 तृतीयाध्यायस्य द्वितीयः पादः. अधिकरणसङ्खथा १ मुख्यार्थे मन्त्रविनियोगाधिकरणम् पूषांनुमन्त्रणमन्त्रादेः उत्कर्षप्रतिपादनम् मनोतामन्त्रस्य गौणार्थे विनियोगप्रतिपादनम् जपादिमन्त्रस्य अदृष्टार्थत्वप्रतिपादनम् २ ऐन्द्रयाधिकरणं (ऐन्द्रयाः गार्हपत्ये विनियोगाधि- करणम्) ३ हविष्कृदधिकरणं आह्वानप्रकाशकमन्त्राणां आ. ह्वानविनियोगाधिकरणम्) ४ अग्निविहरणादिप्रकाशकमन्त्राणां तत्रैव विनियो- गाधिकरणम् ६ सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणम् ६ सूक्तंवाकानामर्थानुसारेण विनियोगाधिकरणम् ७ काम्ययाज्यानुवाक्याकाण्डानां काम्यमात्राङ्गताधि- करणम् । ८ आग्नीध्रोपस्थाने प्राकृतानां मन्त्राणां विनियोगा- धिकरणम् ९ भक्षमन्त्राणां यथालिङ्ग ग्रहणादौ विनियोगाधि- करणम् १० मन्द्राभिभूतिरित्यादेर्भक्षयामीत्यन्तस्य एकशलता- 216 ... ६ 216 ... 218 220 ... ... 222 226 ... ... धिकरणम् 228 ११ इन्द्रपीतस्येत्यादिमन्त्राणां सर्वेषु भक्षणेषु ऊहन वि. नियोगाधिकरणम्... १२ अभ्युनीतसोमभक्षणे इन्द्रस्याप्युपलक्षणाधिकरणम् 5229 231 XIV 23 .... 236 .... 238 .... .... 2.10 .... 242 ... अधिकरणसङ्घषा पुटमलपा १३ पानीवतभक्षणे इन्द्रादीनामनुपलक्षणाधिकरणम् १४ पानीवतशेषभक्षणे त्वष्ठुरनुपलक्षणीयताधिकरणम् 234 १५ पानीवतशेषभक्षणे त्रिंशतामनुपलक्षणाधिकरणम् । 235 १६ भक्षणे अनुवषटकारदेवताया अनुपलक्षणाधिकरणम् १७ अनैन्द्राणाममन्त्रकभक्षणाधिकरणम् १८ ऐन्द्रामभक्षस्यामन्त्रकताधिकरणम् :...:37 १९ गायत्रछन्दसा इत्यादिमन्त्राणामनेकछन्दस्के विनि- योगाधिकरणम् २० एकादशाधिकरणोक्तस्योपसंहारः तृतीयाध्यायस्य तृतीयः पादः । १ उचस्त्वादीनां वेदधर्मताधिकरणम् २ गुणमुख्यव्यतिक्रमाधिकरणं (आधाने गानस्योपां- शुताधिकरणम्) ..: 246 ३ ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणम् ... . प्रकरणस्य विनियोजकताधिकरणम् ६ क्रमस्य विनियोजकताधिकरणम् ६ समाख्याया विनियोजकताधिकरणम् 253 ७ श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणम् ८ द्वादशोपसत्तायाः अहीनाङ्गताधिकरणम् ९ कुलायादौ प्रतिपदोरुत्कर्षाधिकरणम् 263 १० जान्या अनुत्कर्षाधिकरणम् ११ सन्तर्दनाधिकरणं (सन्तर्दनस्य संस्थानिवेशाधिकरणम्) 270 १२ प्रवाधिकरणं (प्रवर्ग्यनिषेधस्य प्रथमप्रयोगवि. षयताधिकरणम्) 27.6 .... 248 .. 249 251 .... 254 259 267 .... ....
एं १३ पुटसहया 282 284 287 . জালিয়া ३ पोष्णपेषणस्य विकृती विनियोगाधिकरणम् १४ पौष्णपेषणस्य चरावेव निवेशाधिकरणम् चरुत्वस्वरूपनिरूपणम् भक्तमण्डकादिस्वरूपनिरूपणम् १५ पोष्णरेषणस्यैकदेवत्ये निवेशाधिकरणम् . तृतीयाध्यायस्य चतुर्थः पादः. " . 291 ... 297 १ निवांताधिकरणं (निवोतस्थार्थवादताधिकरणम् ) २ उपव्ययत इति वाक्पविाहतोपवोतस्य दर्शपूर्णमा- समात्राङ्गताधिकरणम् . ३ उपव्ययत इत्यस्य विधित्वाधिकरणम् पूर्वाधिकरणस्य वर्णकान्तरम् ४ ये रोदश्चाः दी इत्यस्यानुवादताधिकरणम् तृतोयाधिकरणवर्णकान्तरोक्तपूर्वपक्षस्य सिद्धा. 299 302 303 ताधिकरणम् 304 305 308 .... 310 .... 315 ५ उपरि हि देवेभ्यो धारयतीत्यस्य विधित्वाधिकरणम् ६ दिग्विभागस्यानुवादताधिकरणम् ७ परुविदितादीनामनुवादताधिकरणम् ८ अनृतवदननिषेधस्य ऋतुधर्मताधिकरणम् ९ जअभ्यमानधर्माणां प्रकरणे निवेशाधिकरणम् १० अवगोरणादीनां पुमर्थताधिकरणं (शंय्वधिकरणम् ) ११ मलवद्वासस्संवादनिषेधस्य पुरुषधर्मताधिकरणम् १२ सुवर्णधारणादीनां पुरुषधर्मताधिकरणम् १३ जयादीनां वैविकहोमानताधिकरणम् 325 328 .... 330 332 .... 335 ...
svi
पटसंखथा
337
..."
3.10
:3-11
अधिकरणसहया
१४ अश्वप्रतिग्रहेष्टाधिकरणं (वैदिकाश्वप्रतिग्रहे इष्टि
कर्तव्यताधिकरणम्)
१५ दातुर्वागणेष्टयधिकरणम्
१६ वैदिकपानव्यापदि सोमेन्द्रचरुविधानाधिकरणम्
१७ सोमन्द्रचरोर्यजमानपानन्यापद्विषयताधिकरणम्
१८ आग्नेयाष्टाकपालचरो चवदानमात्रस्य होतव्यताधि-
करणम्
१९ सर्वशेषैः स्विष्टकृदनुष्ठानाधिकरणम्
२० प्राथमिकशेषात् स्विष्टकदाद्यनुष्ठानाधिकरणम्
२१ पुरोडाशविभागस्य भक्षार्थताधिकरणम् :
342
....
344
347
348
349
अशुद्धशोधनम्। -0- पुढे अशुद्धम् शुदम् 8 2 प्रसाङ्गत् विषयै प्रसमात् विषयों 5 17 15 9 19 भूयत्स्यात् पूर्णाहुति विशेषाया भूयस्त्वात् पूर्णाहुति विषेषस्य 32 2.1 11 तत्सामान्याम् तत्सामान्यात् देवता 22 दवता 25 10 भावना भवना 26 16 . करणत्व करण 28 सत्रा 30 1 प्रषमन्त्र सूत्रा प्रेषमन्त्र अचेतने अर्थ 7 32 18 अचंतनार्थ विद्यायां प्रयोग विद्यायाः प्रयोगा 84 11 35 12 शेष 44 13 स्मृति शषि श्रुति जाले 55 2 56 7 शक्तत्व शक्त्यल व्यापारान्तरेण 58 18 व्यापारान्तरमन्तरेण 64. 19 पागातया याजाझतया 67 1 यषासुरव्यं यवागूवन्ये .
xviii पुटै पर अशुद्धम् शुद्धम् 68 16 शिष्टां शिष्टाः 69 3 72 कपाल कपालं 86 28 फलभावना फलभवना 89 1 न वा पूर्वसिद्धिः अदृष्टस्यवाश्य 90 95 244 22 11 शस्त्र उच्चत् नवापूर्वसिद्धिः अदृष्टस्यावश्य शस्त्र उच्चैर् प्रकाशकस्य इत्युत्तराधन लोकेऽपि -256 प्रकाशस्य 6 इत्युन्तरार्धन लोकपि 269) 8 276 21 एवं एवं स्योप 21 6 स्यांप 289 शास्त्र शाल 1298 2 मनष्य मनुष्य 6 297 18 वचन वचना . 311 15 386 17 पात्रमा पृथिवार्य समाप्तयर्थस्वन मुख्यस्योत 18 पात्रैर्मा पृथिवीयं समाप्तयर्थत्वेन मुख्यस्येति च्छेष इति 849 11 12 20 " हरिः ओम् पूर्व मीमांसा दर्शन म. आहदी पिका सहि तम् विश्वेश्वरं नमस्कृत्य खण्डदेवस्सतां मुदे । तनुते तत्प्रसादेन संक्षिप्तां भादीपिकाम् ॥ इह खलु निखिलंपुमर्थानर्थसाधनो धर्माधर्मों साझोपाङ्ग- वेदाध्ययनसमधिगम्यौ । तच्च विचारमन्तरेण न भान्यायाल- मिति तत्प्रदर्शनाय परमकारुणिको भगवान् जमिनिराचार्यः सकलविद्योपकारिधर्ममीमांसां 'अथातो धर्मजिज्ञासा' इत्या. रभ्य 'विद्यते वाऽन्यकालत्वात् याज्यासम्प्रेषः न्तैस्सूत्रैः बह्वधिकरणगर्भितां षोडशलक्षणी अभ्यर्हिता विद्या प्रकटीचकार । अधिकरणं तु वेदवत् षडङ्गम् । यदाहुः- विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । प्रयोजनं सङ्गतिश्च प्राञ्चोऽधिकरणं विदुः ॥ इति । सङ्गतिस्तु प्रसङ्गादिभेदात् बहुविधा । तत्रेदमाद्यमधिकरणम्- यथा (१)-अथातो धर्मजिज्ञासा ॥१॥ श्रियः पतिं संप्रणम्य खण्डदेवमते पथि । वृत्तिजैमिनिसूत्राणां रगनाथेन तन्यते ॥
2 पूर्वमीमांसादर्शनं [अध्या. १. पा... अथ गुरुकुलवासपुरस्सरं सागवेदाध्ययनानन्तरं अतः वेदाध्यय- नस्य अर्थज्ञानरूपदृष्टफलकत्वाद्धेतोः धर्मजिज्ञासा वेदार्थरूपस्य धर्मस्य विचारः कर्तव्यः॥१॥ अत्र 'स्वाध्यायोऽध्येतव्यः' इत्यंध्ययनविधिवाक्यं वि षयः। वेदाध्ययनानन्तरं वेदार्थविचारः कर्तव्यो वा न वेति सन्देहः। तत्र पूर्वः पक्ष:- अधीत्य सायातू' इति स्मृत्याऽध्ययना- नन्तरमेव गुरुकुलात्परावर्तनविधानविरोधात् न कर्तव्यः । न चाध्ययनविधित एव अर्थशानभाव्यकत्वावगमात् तसिद्धिः । अर्थशानजनकत्वेन अध्ययनस्य लोकसिद्धत्वेन अविधेयत्वात् । तनियमस्य च अर्थक्षाने अनुपयोगात्, अव्यभिचरितक्रतुसम्ब- न्धाभावेन क्रतुं यावदुपयोगकल्पनानुपपत्तेश्च न विधेयत्वम् । अतः स्वर्गाद्यर्थमेव अध्ययनं विधीयते । लोकतः पूर्व प्रवृत्त्य- ङ्गीकारेण यथाश्रुतार्थज्ञानार्थ वा । अध्ययनमेव वा भावनाभा. व्यमस्तु । न चैवमिष्टभाव्यकत्वाभावात् प्रवृत्त्यनुपपत्तिः । 'अन- 'धीयाना व्रात्या भवन्ति इति वचनेन अकरणे प्रत्यवाय. बोधनेनापि प्रवृत्तिसिद्धेः । तस्मानार्थविचारार्थ गुरुकुलेऽव- स्थानमिति ॥ सिद्धान्तस्तु-न स्वाध्यायविधिः स्वर्गाद्यर्थमध्ययनं विधत्ते दृष्टे सम्भवत्यदृष्टस्यान्याय्यत्वात् । नापि यथाश्रुतार्थज्ञानार्थम् । तथात्वे व्रात्यताबोधकवाक्येन अध्ययनस्यावश्यकत्वात् गृहीतप- दपदार्थसङ्गतिकस्य 'स्थाणुरयं भारहारः किलाभूत् अधीत्य वेदं न विजानाति योऽर्थम्' *तै. आ. २-१५. , अधि. २.] A - भादीपिकासहितम्, इत्यादिवचनाञ्च ज्ञानस्याप्यावश्यकत्वेन यथाश्नुतार्थज्ञानस्य आनु- षङ्गिकतयाऽपि सिद्धेः स्वाध्यायविधिवैयर्थ्यप्रसाङ्गत् । एतेन- अध्ययनभाव्यकत्वपक्षोऽपि निरस्तः । अतो वैयर्थ्यपरिहारार्थ प्रयो- जनवदर्थशाबायुद्देशनं स्वाध्यायाध्ययनं तव्यप्रत्ययेन लक्षणया विधीयते । प्रयोजनवदर्थज्ञानादिसाधनीभूतस्वाध्यायोद्देशेन वाऽ- ध्ययनमात्रम् । तव्यप्रत्ययेन स्वाध्यायस्य कर्मत्वाभिधानात् । अतश्च गुरूपसदनाध्ययनाक्षरावाप्तितदर्थज्ञानसाधनीभूतस्वाध्याय- धर्मानुष्ठानपुत्रस्वर्गविविदिषासु उत्तरोत्तरस्य पूर्वपूर्वभाव्यतायाः श्रुत्यादिसिद्धत्वात् न यावदर्थशानं गुरुकुलात्परावृत्तिः । अतः सिद्धोऽर्थविचारः । उक्तं च-"अतो नित्यः ऋतुविचारस्वर्णि- कमात्रस्य” इति । स्मृतौ क्त्वाप्रत्ययस्तूत्तरकालमात्रपर इति ॥ उपोद्घातः सङ्गीतः । प्रयोजनं तु स्पष्टम् । वेदाध्ययना- नन्तरं अर्थविचारो धर्माधर्मशानाय उपनीतैः कर्तव्यः सहका- रित्वादिति:सूत्रार्थवशादनुबन्धचतुष्कसिद्धिः । एवं प्रत्यधिकरण- मङ्गान्युन्नेयाति ॥१॥ (२)-चोदनालक्षणोऽर्थो धर्मः॥२॥ चोदना विधायकवाक्यं लक्षणं प्रमाणं यस्य स चोदनालक्षण: अर्थः पुरुषैरर्थ्यमानः यः सः धर्मः ॥२॥ विचिचारायषितस्य धर्मस्यालौकिकत्वेन प्रत्यक्षविषयत्वायो. गात् तन्मूलकस्यानुमानादेस्तत्र सुतरामप्रवृत्तेः अत एव लक्षण- स्याप्यसम्भवाच धर्मविचारी युक्त इति प्राप्ते-लौकिकप्रमाणा- नामप्रवृत्तावपि अलौकिकानामेकत्रिंशतस्तत्सहकृतविधेरेकस्यैव वा प्रमाणत्वसम्भवात् अप्रामाण्यस्य परतस्त्वेऽपि प्रामाण्यस्य स्वत- स्त्वात् सप्रमाणक एव धर्मः ।
C
.
पूर्वमीमांसादर्शन [अध्या. १. पा...
अन एप-वेदकक्षाप्येष्टानिष्टसाधनताकत्वे धर्माधर्मत्वे
तथावे सति बलवदनिष्ठाननुबन्धित्वं पा धर्मलक्षणम् । बल-
वदनिष्टाननुबन्धित्वे. सति यदृष्टद्वारा फलकरणं. अष्टभिन्नं
च स धर्म इति यावत् । वस्तुतो निषिध्यमानत्वमधर्मत्वं,
विधीयमानत्वमात्रं धर्मत्वम् । तञ्च कृतिव्याप्यकरणेतिकर्त-
व्यताप्रभृतिष्पादेयतापरपर्यायः प्रेरणारूपविधिविषयताविशेषः ।
स चास्त्येवानेयप्रयाजद्रव्यदेवतानीचैस्त्वादिषु । नास्ति च फल-
निमित्तकर्तृकालादिषु । पञ्चमे ब्रह्मवर्चसकामस्य
फलाय विधीयमानस्य कालस्य धर्मत्वाभावेऽपि न क्षतिः, तदा-
श्रयस्योपनयनस्यैव धर्मत्वात् । अभिचारार्थमुपादेयस्य श्येना-
देस्तु धर्मत्वमिष्टमेव, तामसधर्मत्वेन पुराणादिषु तद्णनात् ।
विवाहानृतवदनस्य तु न विधिविषयत्वम् । षोडशिग्रहणस्या-
तिरात्रे तु न निषेधः, तत्रत्यलिङो दोषाभावक्रतुवैगुण्याना-
पादकत्वलक्षकत्वेन प्रवर्तनानिवर्तनयोः अबोधात् । बोधे वा
शुभाशुभफलाक्षेपकविधिनिषेधविषयत्वे धर्माधर्मधे । शुभपदं
ऋतूपकारस्वर्गादिजनकादृष्टसाधारणम् । अशुभपदं दुःखजनका.
इष्टक्रतुवैगुण्यसाधारणम् । अभ्यनुशाविधिविषयस्तु न धर्मों
नाप्यधर्मः ।
अत एव पूर्वसूत्रे धर्मपदेन यावत्षोडशलक्षणीगतवि-
चारविषयो लक्ष्यते । अपौरुषेयवाक्यतात्पर्यविषयीभूतवाक्या-
ान्वयित्वस्य लक्ष्यतावच्छेदकत्वात् । सगुणनिर्गुणोपासनविधि-
शेषत्वादिना ऋतुविध्यपेक्षितसंसार्यात्मस्वरूपवदेव ब्रह्मणोऽपीह
विचार्यत्वमिष्टमेव । लक्ष्यतावच्छेदककोटिनिविष्टवाक्यार्थे संसर्गाः
त्मकत्वं वा विशेषणीयम् ॥२॥
अधि...]
(३)-तस्य निमित्चपरीष्टिः ॥३॥ सत्संप्रयोगे
पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्त
विद्यमानोपलम्भनव्वात् ॥४॥
तस्य धर्मस्य यत् निमित्तं ज्ञानकरणं तस्य परीष्टिः परीक्षा प्रस्तू-
यते ॥ ३॥ इन्द्रियाणां चक्षुरादीनां सति वर्तमाने विषये संप्रयोगे सन्निकर्षे
सति पुरुषाणां बुद्धः 'जन्म ज्ञानोत्पत्तिः यत् भवति तत् तादृशं
प्रत्यक्ष अनिमित्तं न धर्मप्रमितिकारणं, विद्यमानोपलम्भनत्वात्
इन्द्रियाणां वर्तमानवस्तुमात्रप्रत्यायकत्वात् भाविनमपि धर्म प्रमाणेन प्रतीत्य
पुरुषाणां प्रवृत्तेरनुभूयमानत्वादिति भावः ॥ ४ ॥
सायमते वृत्तिविशेषरूपी धर्माधौं । तार्किकमते तु
अष्टरूपी । अतस्तयोश्चाक्षुषाद्यविषयत्वेऽपि अस्मन्मते दध्यादि-
द्रव्यगुणक्रियारूपत्वेन अलौकिकत्वाभावेन संभवति प्रत्यक्षादि-
प्रमाणविषयत्वमिति प्राप्ते न तावहध्यादीनां स्वरूपेण धर्मत्वम् ।
अपि तु फलजनकतावच्छेदकशक्तिमत्त्वेन । तादृशं च रूपं
प्रत्यक्षाद्ययोग्यमेव, प्रत्यक्षस्यन्द्रियसनिकृष्टवर्तमानार्थविषयकत्व.
नियमात् । अत एव-नानुमानादीनामपि तत्र प्रवृत्तिः, तेषां म.
त्यक्षपूर्वकत्वात् । नापि योगिनां प्रत्यक्षे तौ विषय, तेषामन-
ङ्गकारात् । पतेन ईश्वरप्रत्यक्षमपि व्याख्यातम् । इन्द्रियार्थ-
सन्निकर्षाजन्यत्वेन भगवत्पमितेरलौकिकत्वाद्वा । तस्माचोदनैव
धर्माधर्मयोः प्रमाणं, नान्यत् ॥३॥
(४)-औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य
ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं
बादरायणस्यानपेक्षत्वात् ॥ ५॥
पूर्वमीमांसादर्शन [अध्या. १. पा.. शब्दस्य वाचकस्य अर्थेन वाच्येन सह संबन्धः वाच्यवाचक- भावरूपः औत्पत्तिकस्तु स्वाभाविक एव न संकेताद्यधीनः । उपदेशः आप्तोपदेशः तस्य तादृशसंवन्धस्य शानं ज्ञानसाधनम् । आप्तोपदेशः न तादृशसंवन्धस्य कारकः अपि तु ज्ञापक एवेति भावः । यतः अनुप- लब्धे प्रत्यक्षादिप्रमाणानधिगते अर्थे चोदनाप्रतिपाये अव्यतिरेकः व्यतिरेकस्य प्रामाण्यव्यतिरेकहेतोरर्थव्यभिचारस्याभावः वर्तते तत् त- स्मात् चोदना प्रमाणं इति बादरायणस्य अनुमतं, अनपेक्षत्वात् अप्रामाण्यशङ्काहेतुभूतस्य संकेतयित्पुरुषादिसापेक्षत्वस्याप्यभावात् ॥५॥ देहान्तरैकभोग्यफलकानां अग्निहोत्रादीनां करणत्वोपपादक- स्यापूर्वस्य कल्पनेऽपि पश्वादिष्टैकफलकानां चित्रादीनां घटज- नकदण्डादीना मिव व्यापारत्वेन अपूर्वकल्पनाभावाद्यत्र चित्रेष्टय- व्यवहितोत्तरक्षणे पश्वलाभः तत्र प्रबलप्रत्यक्षविसंवादेन चित्रे- ष्टिनिष्ठकारणतायाः व्यभिचारित्वेन तद्विधेरप्रामाण्यम् । न चौ- षधपानादेरिव कालान्तरभाविफलजनकत्वान्न दोष इति वाच्यम्, फले कालान्तरसम्बन्धस्य चित्राविधिप्रामाण्यसिद्धयुत्तरकालिक- त्वेन अन्योन्याश्रयात् । एवं ‘स एष यज्ञायुधी यजमानोऽअसा स्वर्ग लोकमेति' इत्यनेन सशरीरस्वर्गप्राप्तिकथनमपि प्रत्यक्षवि- रोधादप्रमाणम् । ततश्च 'तत्सामान्यादितरेषु तथात्वम्' इति न्यायेन सर्वासां चोदनानामप्रामाण्यमिति प्राप्ते-न्यज्ञायुधशब्द- स्य यज्ञात्मकसाधनपरतया शरीरपरत्वाभावेन यज्ञरूपसाधनस- दापात् स्वर्ग प्रामोतीत्यर्थकेन वाक्येनापूर्वसहितात्मनः परलो- कप्राप्त्यनुवादानाप्रामाण्यम् । चित्रेष्टयादेस्तु 'उत्तराङ्गसाचिन्यो- पपत्तयेऽपूर्वकल्पनावश्यम्भावादव्यवहितकालकालान्तरयोरन्यतर. स्थापि न कार्यतावच्छेदककोटिप्रवेश इति न दोषः । न चा-' म्योन्याभयः । अप्रामाण्यकारणाभावादेव स्वतः प्रमाणत्वात् ।
7
अथि, ५.]
भारदीपिकासहितम.
न च पदपदार्थसम्बन्धस्य पुरुषाधीनत्वेन तज्ज्ञानसापेक्षस्य
वेदवाक्यार्थज्ञानस्य प्रमात्वनियमो न सम्भवतीति वाच्यम्।
सम्बन्धस्याप्यनादित्वेन पौरुषेयत्वाभावात् । तस्य च स्वरूप-
तो न वाक्यार्थज्ञानकारपाता अपि तु ज्ञानस्यैवेति तदवगमाय
व्याकरणादेरिव कचिदाप्तपुरुषस्याप्युपयोग इति न तावन्मात्रेण
सर्वत्रानाश्वासो युक्तः । तस्माञ्चोदना प्रमाणमेव ।
एतत्साधनायैव हि मूले-निरालम्बनवादमाहायानिकवाद-
योनिरासी, अनुमानशब्दोपमानार्थापत्यभावप्रमाणानां सपरिकर
निरूपणम्, स्वरूपनिरूपणाय स्फोटनिरासः, नित्याकृतिसाधनम्,
अपोहनिरासः, वनवादात्मवादी चेत्यादिकं निरूपितम् ॥ ४॥
(५)-कमैके तत्र दर्शनात् ॥६॥ अस्थानात्॥णा
करोतिशब्दात् ॥६॥ सत्त्वान्तरे यौगपद्यात् ॥९॥
प्रकृतिक्कृित्योश्च ॥ १०॥ वृद्धिश्च कर्तृभूनाऽ-
स्य॥११॥ समं तु तत्र दर्शनम् ॥ १२ ॥ सतः
परमदर्शनं विषयानागमात् ॥ १३॥ प्रयोगस्य
परम् ॥ १४ ॥ आदित्यवद्योगपद्यम् ॥ १५॥
शब्दान्तरमविकारः॥१६॥ नादवृद्धिपरा वा॥१७॥
नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् ॥ १८॥ सर्वत्र
योगपद्यात् ॥ १९ ॥ संख्याऽभावात् ॥ २० ॥
अनपेक्षत्वात्॥२१॥ प्रख्याभावाच्च योग्यस्य॥२२॥
लिजन्दर्शनाच्च ॥ २३ ॥
8 पूर्वमीमांसादर्शनं [अध्या. १. पा... एके अक्षपादादयः कर्म कार्य शब्दं मन्वते । कुतः?-तत्र तस्मिन् शब्दे विषये कण्ठताल्वादिव्यापारे सत्येव शब्दस्य दर्शनात् हेतोः ॥ ६ ॥ हेत्वन्तराण्याह-अस्थानात् अस्थिरत्वात् ॥ ७ ॥ करोतिशब्दात् शब्दं करोतीति व्यवहारांत् 'घर्ट' करोति' इति- वत् ॥ ८॥ सत्त्वान्तरे प्राण्यन्तरे शब्दस्य प्राण्यन्तरशब्देन सह योगपद्यात् समानकालिकत्वदर्शनान् । तथाच शब्दस्य. नित्यता- मते एकत्वस्यापि स्वीकारात् नानदिशेषु एकदा अनेकपुरुषैरुच्चार णसमये शब्दस्य साक्षात्कारो विरुद्धयेत. एकस्य नानादेशस्थत्वासंभवा- दिति भावः ॥९॥ प्रकृतिविकृत्योः . प्रकृतिविकारभावापन्नयोः शब्दयोः दध्यत्रेत्यादौ इकारयकारादिरूपयोः शास्त्रे उपदेशाचेत्यर्थः ॥ १० ॥ कर्तृभूना उच्चारयिबाहुल्येन अस्य शब्दस्य वृद्धिः महत्त्वं यतोऽ- नुभूयते अतोऽपि शब्दोऽनित्यः । उच्चारणस्य शब्दजनकत्वमनङ्गी- कृत्य शब्दव्यञ्जकत्वस्वीकारपक्षे व्यक्षकवृद्धौ व्यङ्गन्यवृद्धरसंभवात् ॥११॥ सिद्धान्तमाह-तत्र दर्शनं ताल्वादिव्यापारे सत्येव शब्दस्य दर्शनं समं तु कार्यत्वनित्यत्वपक्षसाधारणमेव, उच्चारणस्य व्यञ्जकतयाऽपि तदुपपत्तेः । तथा च स हेतुरनैकान्तिकः ॥ १२॥ सतः विद्यमानस्यैव शब्दस्य परं अदर्शनं उच्चारणपूर्वोत्तरकालयोः विषयानागमात् वि- षयं शब्दं प्रति व्यञ्जकस्यानागमात् । तथाचास्थिरत्वहेतुस्स्वरूपासिद्धः ॥१३॥ शब्दं करोतीति व्यपदेशः प्रयोगस्य शब्दप्रयोगस्य परं भवति औपचारिकतया शब्दप्रयोगविषयकः. 'गोमयं कुरु' इति यथा गोमयपिण्ड- विषयकः ॥ १४ ॥ आदित्यवत् यथा आदित्यस्य एकस्यापि नाना- देशेषु युगपदुपलब्धिः तथा शब्दस्य एकस्यापि व्यापकतया. नाना- देशेषु नानापुरुषोच्चारणवशात् योगपधं युगपदुपलब्धिरुपपद्यते ॥१५॥ दध्यत्रेत्यादौ इकारस्य यकारो विकृतिरिति नोपदिश्यते शाख्ने । अपि इकारप्रयोगे प्रसके यकारः प्रयोज्य इत्युपदिश्यते, तथा च इकारायकार: तु भषि. ५.] भाहदीपिकासहितम् शब्दान्तरं अविकारः नेकारविकारः ॥ १६॥ उच्चारणकर्तृपुरुष- बाहुल्ये या 'महान् शब्दः' इति प्रतीतिः सा नादवृद्धिपरा संयोग विभागरूपनादवाहुल्यविषयिण्येव ॥ १७॥ एवं शब्दानित्यतासाधकहेतूना- मन्यथासिद्धिभुक्त्वा स्वमवेन शब्दनित्यतां हेतुभिस्साधयति-शब्दः नित्य एव स्यात् दर्शनस्य व्यञ्जकस्य उच्चारणस्य परार्थत्वात् परप्रत्या- यनार्थत्वात् । शब्दस्यानित्यत्वे चार्थप्रतिपत्तिपर्यन्तमनवस्थानात् परस्यार्थ- प्रतीतिरेव न स्यात् ॥ १४॥ सर्वत्र सकलेषु गोशब्देषु यौगपद्यात् स एवायं गकार इति बहूनां अबाधितप्रत्यभिज्ञाया युगपदुत्पत्तेः. न ह्यनेकेषां युगपद्धान्तिकल्पनं युक्तम् ॥ १९ ॥ दशकृत्वः गोशब्द उच्च- रित इत्येव व्यवहारो भवति न तु दशगोशब्दा उच्चरिता इति. अतः संख्याऽभावात् शब्दे द्वित्वादिसंख्याव्यवहाराभावात् शब्दस्य एकतया नित्यत्वम् ॥ २० ॥ अनपेक्षत्वात् अपेक्षा शब्दापगमहेतोरीक्षादर्शनं तद्रहितत्वात् । लोके घटादेरिदं नाशकमित्यनुभूयते. तथा शब्दवि- नाशकारणमिदमिति न किंचिदपि केन चिदनुभूयते. तस्मात् नित्यः शब्दः ॥ २१॥ योग्यस्य श्रोत्रजसाक्षात्कारयोग्यस्य शब्दस्य प्रख्या- भावात् प्रख्यायास्साक्षात्कारस्य सद्भावात् नित्यश्शब्दः. न तु वायुसंयोग- जन्यतया वायुविकारः शिक्षाकृदुक्तरीत्या; तथा सति वायुवत् श्रावण- साक्षात्काराभावप्रसङ्गात् ॥ २२ ॥ " तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम् ।"* इति वाचो नित्यले लिङ्गं दृश्यते । अतोऽपि नित्यशब्दः ॥ २३ ॥ शब्दस्य नित्यत्वे तन्नतः प्रत्यायकत्वात्मा सम्बन्धोऽनादिः स्यात्. । तदेव न संभवति, ताल्वादिव्यापारपूर्वापरकालयो- कारादेरश्रवणेनोत्पादविनाशयोरङ्गीकर्तव्यत्वात् ‘स एवायं ग. *ऋक्सं. ६. अ. ५. अ. २५. P...-2 10 , कारः पूर्वमीमांसादर्शनं.. [अध्या. १. पा.१ इति प्रत्यभिज्ञायास्साहश्यविषयकत्वेन गौणत्वात् । न च ताल्वादिव्यापारस्य अभिव्यञ्जकत्वमात्रं संभवति । तच श्रोत्रशब्दान्यतरनिष्ठग्रहणयोग्यताजनकसंस्कारोत्पादकत्वेन, तब- हणप्रतिबन्धकदोषनिरासेन वा स्यात् । उभयथाऽपि दिगादिरूप- श्रोत्रस्य नित्यव्यापकशब्दस्य वा संस्कृतत्वात्सर्वग्रहणापत्तिः । किञ्च-नित्यत्वपक्षे गकारादिव्यक्तरेकैकत्वान्नानादेशेषूञ्चारणेन देशभेदो नोपलभ्येत । तेन प्रतिदेश भिन्ना एव शब्दा आनि- त्याश्चेति प्राप्ते - व्यक्तिबाहुल्यस्य तत्तत्प्रागभावध्वंसानां च क. ल्पने अतिगौरवापत्त्या उक्तप्रत्यभिज्ञायाः गौणत्वायोगेनावच्छेदक- कर्णशष्कुल्यामेव संस्कारोत्पत्त्यङ्गीकारेण अभिव्यक्तेरपि निर्दो षतया गकारादिव्यक्तय एकैका नित्या विभ्व्यश्च । उत्पादवि. नाशप्रतीतिस्तु ध्वनिविषया । एकस्यैव नानादेशोपलम्भ आदि- त्यस्येवाविरुद्धः । तस्मानित्यः शब्दो वर्णात्मकः । ध्वन्या- त्मकोऽपि रथन्तरादिरूपो नित्य एव । अत एव :सेयं गूर्ज- री' इति प्रत्यभिज्ञाऽपि न गोणीत्यन्यत्र विस्तरः ॥५॥ (६)-उत्पत्तौ वाऽवचनास्स्युरर्थस्यातन्निमित्त- त्वात् ॥ २४ ॥ तद्भूतानां क्रियार्थेन समानायो - र्थस्य तनिमित्तत्वात् ॥ २५॥ लोके सनिय- मात् प्रयोगसन्निकर्षस्स्यात् ॥ २६ ॥ पदपदार्थसंबन्धस्य उत्पत्तौ वा औत्पत्तिकत्वेऽपि चोदनाः अवचनाः अप्रमाणभूतास्स्युः अर्थस्य वाक्यार्थज्ञानस्य अतनिमित्त- स्वात् पदपदार्थसंबन्धातिरिक्तवाक्यवाक्यार्थसंबन्धनिमित्तकत्वात् ताह- भाधि. ६.] भादीपिकासहितम्. 11 शसंवन्धस्य शक्तिरूपले तात्पर्यरूपले वा पुरुषसंपन्धापेक्षाया दुर्निवा- रलात् ॥ २४ ॥ तद्भूतानां तेषु पदार्थेषु भूतानां वर्तमानानां पदानां क्रियार्थेन क्रियावाचकेन पदेन सह समाम्रायः सम्यक् परस्परान्वित. स्वार्थबोधकर्वन उच्चारणः भवति अर्थस्य वाक्यार्थप्रतिपत्तेः तनि- मित्तत्वात् पदार्थप्रतिपत्तिनिमित्तकत्वात् । तथा च वाक्यानां वा- क्याथै शक्तर्ज्ञानं नापेक्ष्यते, तात्पर्य च न पुरुषेच्छाघटितमिति तत्तत्पदस- मभिव्याहृतक्रियापदरूपं वाक्यं पदार्थज्ञानसहकारेण तत्तत्पदार्थान्वितभाव- नारूप वाक्याथै बोधयतीति न चोदनानामप्रामाण्यमिति ॥ २५॥ लो- के सन्नियमात् सतः वर्तमानात् प्रसिद्धपदसमवधानमप्रसिद्धपदा- थमपूर्वमपि बोधयति' इति नियमात् वेदेऽपि प्रयोगसन्निकर्षः अ. प्रसिद्धस्वर्गहेतुभावनावाचिपदघटितस्य अग्निहोत्रं जुहुयात्स्वर्गकाम इत्या- देर्वाक्यस्य प्रयोगादाधुनिकानामपि अर्थावबोधसंवन्धस्पात् ॥ २६ ॥ पदपदार्थसम्बन्धानां नित्यत्वेऽपि वाक्यार्थानां वाक्यैस्सह सम्बन्धस्य सङ्केतितत्वेन तद्हसापेक्षल्या वक्रिच्छाघटिततात्पर्य- ज्ञानसापेक्षतया च पुरुषसम्बन्धेन भ्रमप्रमादसम्भवान्न विधि- वाक्यानामैकान्तिकं प्रामाण्यम् , अनन्तवाक्यार्थसाधारणपदानां वाक्यार्थविशेषे सम्बन्धासम्भवाति प्राप्ते-पदरभिहिता एव पदार्थास्स्वबोध्यसम्बन्धरूपया लक्षणया वाक्यार्थभूतां भावनां समभिव्याहारविशेषवलाविशिष्य बोधयन्ति । तथाच-'यजेत स्वर्गकामः' इत्यादौ स्वर्गकामनिष्ठा यागकरणिका स्वर्गभान्यिका प्रवर्तनाविषयो भावनेत्यादिरीत्या भावनाविशेष्यकबोधस्य सर्व- विधिकरूप्येण न तदानन्त्यप्रयुक्तसम्बन्धाग्रहः । तात्पर्य च शब्दगत एव धर्मविशेषः । तदाहकश्चाध्ययनविध्यादिरेवेति न पुरुषसम्बन्धप्रयुक्तं विधीनामप्रामाण्यम् ॥
" पूर्वमीमांसादर्शनं [अध्या. १.पी., स च विधिस्त्रिविधः-परिसङ्ख्याविधिनियमविधिरपूर्ववि- विश्चेति । शब्दतः फलतो वा यस्य शास्त्रस्यान्यनिवृत्तिर्विष- यस्स परिसङ्ग्याविधिः। यथा-'नानृतं वदेत् '* 'इमामगृभ्णन रशनामृतस्येत्यश्वाभिधानीमादत्ते' इत्यादौ अत्रातवदननिवृ. सर्गर्दभरशनारूपशेषितो मन्त्रनिवृत्तश्च विधेयत्वात् । अत्र चैत- द्विध्यभावे प्रायश औत्सर्गको तत्र चान्यत्र च प्राप्तिः न तु साऽपि लक्षणघटिकेति ध्येयम् । अत एव एकस्मिन् कार्येऽनृतस्य स- त्येन सह पाक्षिकप्राप्तावपि ‘नानृतं वदेत् '* इति परिसङ्गथैवेयं न तु नियमविधिः । अत एव यस्य शब्दतः फलतो वा पा- क्षिकायोगव्यावृत्तिरूपो नियमशास्त्रविषयस्स नियमविधिः । यथा-"सत्यमेव वदेत् श्रीहीनवहन्ति” इत्यादौ । अत्र नियमस्यैवायोगव्यावृत्त्यर्थकेनैवकारेण विधेयत्वात् , आक्षेपतः पूर्वप्रवृत्तस्यावघातविधोर्नियमफलकत्वाश्च । नियमें पाक्षिकायोगध तन्मात्रविध्यप्रवृत्तिनिमित्तको विध्यन्तराप्रवृत्तिसंहितेतद्विध्यप्रवृ. चिनिमित्तकश्चेत्यादिप्रकारेण बोध्यः । “वीहीनवहन्ति' रेऽहन्धिरात्रस्य गृह्यते" इत्यादी आधः, एतद्विध्यभावे आक्षेप- णातिदेशेन वाऽवहननस्य षोडशिग्रहणस्य च पक्षप्राप्तत्वात् । "व्रीहिभिर्यजेत" इत्यादौ द्वितीयः, यवविध्यभावसाहितैतद्विध्य- भावे बीहीणामांक्षेपेण पक्षप्राप्तत्वात् । एवंविधभेदसत्त्वेऽप्य- योगव्यावृत्तिमात्रस्य लक्षणे प्रवेशान कोऽपि दोषः । यत्तु-सधा- यंत्वं नियमविधिलक्षणं कैश्चिदुक्तं-तत् “ उत्तरेऽहन्" इत्यादाव- व्यातत्वादुपेक्षितं, षोडशिग्रहणाभ्यासस्यादृष्टार्थत्वात् । अत एष- नियमपरिसङ्ग्यातिरिक्तफलको विधिरपूर्वविधिः । यथा-"नी. हीत् प्रोक्षति" इत्यादौ । अत्र प्रोक्षणादिप्राप्तेरेव फलत्वात् । तैः सं. २-५-५. ति.सं. ५-१.२. "उत्त- भषि. भाध्दीपिकासहितम्. 13 एतेषां चोपाधीनां कचिदुदाहरणे साङ्कर्येऽपि न दोष इति न विधिरसायनोक्ततत्तल्लक्षणदूषणावकाशः । विस्तरेण चैतदस्मन्मी- मांसाकौस्तुभे द्रष्टव्यम् । उत्पत्तिविध्यादयस्तद्भेदास्तत्रतत्र विवेचयिष्यन्ते.॥६॥ (७)-वेदांश्चैके सन्निकर्षे पुरुषाख्याः ॥ २७ ॥ अनित्यदर्शनाच्च ॥ २८ ॥ उक्तं तु शब्दपूर्वत्वम् ॥ २९ ॥ आख्या प्रवचनात्॥ ३० ॥ परन्तु श्रु- तिसामान्यम् ॥ ३१ ॥ कृते वा विनियोगस्स्या- कर्मणस्संबन्धात् ॥ ३२॥ एके, दार्शनिकाः केचित् वेदान् सन्निकर्ष सनिकृष्टकालतां कृत- का गमयन्ति हेतुभिः. यतस्ते वेदाः पुरुषाख्याः काठकं काला- पकमिति पुरुषेण समाख्यायमाना दृश्यन्ते ॥ २०॥ “तेभ्यस्तेपानेभ्य- नयो वेदा अजायन्त इति वेदानामनित्यत्वदर्शनादपि कृतको वेदः • ॥ २८ ॥ शब्दपूर्वत्वं शब्दे सामान्यतः नित्यत्वं मन्त्रादिरूपेऽपि शब्दे नित्यत्वं च लिङ्गदर्शनाच (१-१-२३) इति सूत्रे उक्तमेवा- स्माभिः । अतो न कृतकत्वमभ्युपगन्तुं युक्तम् ॥ २९ ॥ आख्या काठक कालापकमित्यादि समाख्या तु प्रवचनात् प्रकृष्टाध्ययननिमित्तका आख्येय- नित्यत्वेऽप्युपपन्ना ॥ ३०॥ "त्रयो वेदा अजायन्त इत्यत्र पर श्रुतेः जनिधातुश्रुतेस्तमानलं उत्पत्त्याविर्भावोभयार्थसाधारणत्वम् । तथा च तत्र जनिधातोराविर्भाव एवार्थः, “ अनादिनिधना" इत्यादि स्मृ- त्यनुरोधात् ॥३१॥ " गावो वा एतत्सत्रमासताशृङ्गास्सतीशृङ्गाणि नो जायन्तै "* इत्यादीनामापाततोऽसम्बन्धार्थकतया प्रतीतानामपि कृते क- तै. सं. ७.५.१. " P4 पूर्वमीमांसादर्शनं. [अध्या. पा... मंणि संवत्सरसत्रादिरूपे विनियोगः प्राशस्त्यतात्पर्यकत्वेनान्वयः स्यात्. कर्मणः कर्मप्रतिपादकवाक्यस्य " य एवं विद्वांसस्संवत्सरमुपयन्त्य॒भुवन्त्ये- व"* इत्यादेः सम्बन्धात् सनिधानात् । शक्यते हि प्राशस्त्ये तद्वाक्यस्य तात्पर्य कल्पयितुं-- गावः जूडा अपि एसत्कर्मानुष्ठाय फल- मलभन्त किमुत विद्वांसः इति रीत्या ॥ ३२ ॥ इति जैमिनिसूत्रवृत्ती सारबोधिन्यां प्रथमाध्यायस्य प्रथमः पादः. वेदानां भारतादिवाक्यवत्पौरुषेयत्वमेव वाक्यत्वायुक्त, कर्तुरस्मरणस्य चिरकालिककूपादाविवानादरेणोपपत्तेः; अन्यथा छन्दोगप्रसिद्धोहग्रन्थस्यापि तथात्वापत्तेः; " तेभ्यस्तेपानेभ्य- लयो वेदा अजायन्त" इति श्रुतावेवोत्पत्तिकथनाच काठकादि- समाख्यावशादपि पौरुषेयत्वमेवति प्राप्ते-वाक्यत्वहेतुकानुमान- स्याप्रयोजकत्वेन जन्यज्ञानमूलकत्वेन सोपाधिकत्वाच कर्तु रस्मरणाचापौरुषेयत्वम् । न चानादरात्कर्तुरस्मरणं ; अक्षरशो विस्मरणाभावाय शिक्षाच्छलाक्षरादीबचितवतामृषीणां तदधी- नप्रामाण्यकस्मृतिकर्तृसामान्यमप्यविस्मरतां सर्वज्ञानां वेदकत्रना- दरोक्तरतिसाहसत्वात् । ऊहग्रन्थस्य पौरुषेयत्वं तु नवमे व- श्यते । समाख्या तु प्रवचननिमित्तैव । "तेश्यस्तेपानेभ्यः इति श्रुतिस्तु 'छन्दा सि जझिरे तस्मात् + इति मन्त्रवर्ण- विरोधादन्याथिकैव । अत एव-" अनादिनिधना वेदवागुत्सृष्टा स्वयम्भुषा" इत्यादिस्मृतय उपपद्यन्ते । सृष्टिप्रलयेश्वराघङ्गी- कारे तु फल्पादौ प्रवचननिमित्ता श्रुतिस्सम्भवतीत्यपौरुषेया एव वेदा इति ॥७॥ इति खण्डदेवकृतायां भादीपिकायां प्रथमाध्यायस्य प्रथमः पादः " तै. सं. ७-५-1. ति. आ. ३-१२, भाषि...] भारदीपिकासहितम्. 15. .. (१)-आनायस्य क्रियार्थत्वादानर्थक्यमतदर्था- नां तस्मादनित्यमुच्यते ॥ १॥ शास्त्रदृष्टविरोधा- च॥ २ ॥ लथा फलाभावात् ॥३॥ आनर्थक्या- त् ॥ ४॥ अभागिप्रतिषेधात् ॥ ५॥ अनित्य- संयोगात् ॥ ६ ॥ विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ॥ ७ ॥ तुल्यं च सांप्रदायिकम्।।८॥ अप्राप्ता चानुपपत्तिःप्रयोगे हि विरोधस्स्याच्छब्दा- र्थस्त्वप्रयोगभूतस्तस्मादुपपद्येत ॥९॥ गुणवादस्तु ॥३०॥ रूपात्यायात् ॥११॥ दूरभूयत्स्वात् ॥१२॥ रुयपराधात्कर्तुश्च पुत्रदर्शनम् ॥ १३ ॥ आका- लिकेप्सा:॥१४॥ विद्याप्रशंसा ॥ १५॥ सर्व- त्वमाधिकारिकम् ॥ १६ ॥ फलस्य कर्मनिष्पत्ते- स्तेषां लोकवत्परिमाणतः फलविशेषस्स्यात्॥१७॥ अन्त्ययोर्यथोक्तम् ॥ १८ ॥ .. विधिरूपस्य वेदभागस्य धर्माधर्मयोः प्रामाण्यं पूर्वपादे सिद्धम् । विध्यतिरिक्तवेदवाक्यप्रामाण्यव्यवस्थापनार्थमयं पाद आरभ्यते-अत- दर्यानां इष्टानिष्टसाधनविषयकप्रवृत्तिनिवृत्त्यन्यतररूपक्रियायास्तदन्वयिनी वाऽर्थस्याप्रतिपादकानां “वायुर्वै "* इत्याद्यर्थवादवाक्यानां आनर्थ- क्यं अर्थप्रमितिजनकत्वाभावः अप्रामाण्यमिति यावत् । कुतः?- तै. सं. २.१.१.
" दहशे न धूमः पूर्वमीमांसारनं. [अध्या. १. प्रा. भानायस्य धर्माधर्मप्रमाणभूतस्य वेदस्य क्रियार्थत्वात् इष्टानिष्टसाधन- विषयकप्रवृत्तिनिवृत्त्यन्यतररूपक्रियाप्रतिपादकत्वनैयत्यात् । तस्मात्- अर्थवादानामप्रामाण्यात् आम्नायस्य प्रामाण्यं अनित्यं अनियतं उच्यते पूर्वपक्षिभिः । अप्रामाण्यस्य वेदत्वावच्छेदनासंभवेपि प्रामाण्यमपि वेद- त्वावच्छेदेन न संभवतीति भावः ॥१॥ तदेवं सर्वेषामर्थवादानामप्रा- माण्ये साधारणं हेतुमुक्त्वा अर्थवादविशेषाणामप्रामाण्ये हेतूनाह- इष्टविरोधाश्च शास्त्रं च दृष्टं च ताभ्यां विरोधात् । " स्तेनं मनः " अनृतवादिनी वाक् ” इत्यादीनामर्थवादानां स्तेयं कर्तव्यम्, “ मृषाचं कर्तव्यं" इत्यादिविधिपरताकल्पनया प्रामाण्योपपादने शास्त्रेण " नानृतं वदेत् "* इत्यादिना विरोधः । तस्मान तद्वाक्यस्य धर्माधर्मयोः प्रामा- ण्यम् । एवं “ तस्मादम एवामर्दिवा ददृशे नाचिः । तस्मादचिरेवामेर्नक्तं इत्यस्य वाक्यस्य दिवावहिदर्शनादिरूपं यदृष्टं प्रत्यक्षं तद्विरुखतया न कथंचिदपि स्वार्थे प्रामाण्यम् । एवं-" न चैतद्विग्रो वयं ब्राह्मणा वा स्मोऽब्राह्मणा वा " इत्यादेरपि ब्राह्मण्यानिर्णयप्रतिपादकस्य दृष्टविरोधान्न कथं चिदपि स्वार्थे प्रामाण्यम् । ब्राह्मण्यं हि प्रत्यक्षेण दृश्यते विशुद्धमातापितजन्यत्वव्याकसहकारेण । एवं शास्त्रेण दृष्टं शाखदृष्टमिति व्युत्पत्त्या शास्वसिद्धार्थविरोधोऽप्यत्र विवक्षितः । यथा- "को हि तद्वद ययमुष्मिन् लोकेऽस्ति वा न वेति' वाक्यस्य आमुष्मिक- लोकसद्भावेन “स्वर्गकामो यजेत " इत्यादिशाखदष्टेन विरोधान कथं चिदपि स्वार्थे प्रामाण्यमिति ॥ १॥ तथा इति दूषणान्तरसमु- चायकम् । फलाभावात् गर्गविरात्रब्राह्मणप्रकरणे. 'शोभतेऽस्य मुर्ख य एवं वेद' इति श्रुतस गर्गत्रिरात्रब्राह्मणाध्ययनफलस्य मुखशोभायाः तद्राह्मणाध्यायिन्यपि कुमुखे अदर्शनात् न तद्वाक्यस स्वायें प्रामा- ज्यम् ॥ ३॥ आनर्यक्यात् पूर्णाहुतेरेव सर्वफलावाप्तिसाधनले तदि. त. सं. २.५.५. तै. सं. 6.1.1.
भाषि...]
भारदीपिकासहितम्.
17
तरेषाममिहोत्रादीनामनुष्ठाननैष्फल्यप्रसङ्गात् “ पूर्णाहुत्या सर्वान्कामानवाप्नो-
ति: इत्यादीनां न प्रामाण्यसंभवः । एवं “ पशुबन्धयाजी सर्वान्
लोकानभिजयति " इत्यस्यापि न प्रामाण्यं, इतरेषामानर्थक्यप्रसमात्॥॥
'न पृथिव्यांमर्मिश्चतव्यः नान्तरिक्ष न दिवि'" इत्यादीनां न प्रामाण्यं
अभागिप्रतिबंधात् भागी प्रतिषेधभागी प्रतिषेधार्हः प्रसक्त इति
यावत् स न भवतीत्यभागी अप्रसक्तः तस्य अन्तरिक्षचयनादेः प्रतिषेधस्य
प्रत्यायकत्वात् ॥५॥ 'बबरः प्रावाहणिरकामयत इत्यादीनां न प्रामाण्यं
अनित्यदर्शनात् अनित्यानां जन्मप्रायणवतां प्रवाहणतदपत्यबब-
रादीनां तत्र प्रतीयमानत्वात् तद्वाक्यानां तत्तत्पुरुषानन्तरभावित्वाव-
श्यकतया पौरुषेयत्वेन भ्रमप्रमादादिशङ्काकलङ्कितत्वात् ॥ ६॥ सिद्धा-
न्तमाह-विधीनां विधेयानां स्तुत्यर्थेन स्तुतिरूपार्थेन विधेयान्व-
यिस्तुतिरूपार्थप्रतिपादकत्वेन अर्थवादानां वायुर्वै क्षेपिष्ठा'3 इत्येवमादी-
नां विधिनां 'वायव्यं श्वेतमालभेत'3 इत्यादिना एकवाक्यत्वात्
अर्थवादाः धर्माधर्मयोः प्रमाणानि स्युः । अर्थवादवाक्यानां स्वा-
तन्त्र्येण धर्माधर्मप्रतिपादकताविरहेऽपि विधिवाक्यार्थे शब्दभावनायां
सहकारित्वरूपेतिकर्तव्यतात्वेनान्वयिस्तुत्युपस्थापकतया विधिवाक्यसहकारेण
धर्माधर्मप्रामाण्यं नानुपपन्नमिति भावः
एवं प्रथम
सूत्रोक्तं प्रामाण्यासंभवहेतुं निराकृत्य प्रामाण्यसाधनायाह-विध्यर्थवादयोः
सांप्रदायिकं संप्रदायसिद्धं अध्यायानध्यायगुरुमुखाधिगमादिकं तुल्यं
च समानमेव । तथा च 'तत्सामान्यादितरेषु तथात्वं' इति न्यायेन
विधिसाधर्म्यण. हेतुनाऽर्थवादेषु प्रामाण्यं सिद्धपतीति भावः ॥८॥
द्वितीयसूत्रोक्तानुपपत्ति परिहरति-'शास्त्रदृष्टविरोधात् ' इत्युक्ता अनु-
पंपत्तिः अप्राप्ता च असंबद्धा । प्रयोगे हि 'स्तनं मनः' इत्या-
दितः स्तेयायनुष्ठाने विधीयमाने हि नानृतं
इत्यादिना विरोधः
'त.सं.५.२-७. तै. सं. ७.१.१०. उतै. सं. २-१-१. 'तै. सं. २.५-५.
P.M-3
॥ ७ ॥
18 पूर्वमीमांसादर्शनं. [अध्या. १. पा..२. स्यात् । शब्दार्थस्तु ‘स्तेनं मनः' इत्यादिशब्दप्रतिपाद्यत्वेनाभिम- तार्थस्तु अप्रयोगभूतः न स्तेयाद्यनुष्ठानविधिरूप: किन्तु. स्तुतिनि- न्दाऽन्यतररूप एव । तस्मात् तत्तदर्थवादानां प्रामाण्यं उपपद्येत ॥९॥ क्वचिदर्थवादे 'आपो वै शान्ताः' इत्यादी 'वेतसशाखया चावकाभि. श्चाग्निं विकर्षति' इत्यादिविधिसन्निहिते विधेययोः वेतसशाखावकयो- स्स्तुतेरदर्शनेऽपि विधयाधारभूतानामपां स्तुतिरपि गुणवादस्तु विधेय- गुणबाद एव अभिजनसंस्तवेन अभिजातस्तुतेः पर्यवसानस्य लोकसिद्ध- त्वात् ॥ १० ॥ 'हिरण्यं हस्ते भवति अथ गृह्णाति' इति विधिस- निहिते 'स्तनं मनः' इत्यत्रार्थवादे रूपात् प्रच्छन्नसंचारत्वेन रूपेण स्तेनसारूप्यात् स्तनत्ववादः । तथा तद्विधिसनिहिते 'अनृतवादिनी वाक्' इत्यर्थवादे प्रायात् अनृतवादिलवाहुल्यात अनृतवादित्ववादः । उच्यते हि “प्रायेणानृतवादित्वात्पुंसां " इत्यादि । तथा च विधेयभूतस्य हस्तस्य तदुभयविलक्षणत्वाद्भवति स्तुतिः ॥ ११ ॥ "अग्निज्योतिज्योतिरनिस्स्वा- हेति सायं जुहोति " इत्यादेः मन्त्रनियमविधेः सन्निहिते “तस्मालूम एवानेर्दिवा ददृशे नाचिः 13 इत्याद्यर्थवादे दिवा वहयदर्शनस्य रात्रौ धूमा- दर्शनस्य च प्रतिपादनं दूरभूयस्त्वात् . दूरभूयस्त्वमभिप्रेत्य । अतिदूर- देशस्थत्वे हि दिवाऽपि वह्निर्न दृश्यते धूमः परं दृश्यते । एवं रात्री दूरदेशस्थत्वे अग्निरेव दृश्यते न धूमः इति न दृष्टविरोधप्रसंगः ॥१३॥ " प्रवरे प्रक्रियमाणे देवाः पितर इति ब्रूयात् " इति विधिसन्निहिते न चैतद्वियो वयमब्राह्मणा ब्राह्मणा वा ब्राह्मणा वा" इत्यर्थवादे अज्ञानवचनं दुनित्वे गोणं, दुनिता च यतः स्त्र्यपराधात्कर्तुश्च पुत्रदर्शन दृश्यते हि स्त्र्यपराधात् अब्राह्मणनिरूपितमपि पुत्रत्वं यागकर्तरि । प्रव- रानुमन्त्रणेन चाब्राह्मणोऽपि ब्राह्मणस्संपद्यत इति प्रवरानुमन्त्रणस्य विधे यस्य स्तुतिर्भवति ॥ १३ ॥ "दिश्वतीकाशान्करोति" इत्ययं ज्योति- है. सं. ५-४०४. 'ते. बा.१.१.९. .बा.२.१.२. 'तै. सं. ६.१.१. .
अधि. 1.] भादीपिकासहितम्. 19 आ- ष्टोमे प्राग्वंशशालायाश्चतुर्दिक्षु द्वारकरणविधिः । तत्सन्निधौ " को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ति वा न वेति 11 इत्यानातेऽर्थवादे आमुष्मिकस्य सन्दिग्धतया निन्दनं तात्कालिकधूमव्याप्त्यादिजन्यखेदप्रतिबन्धकस्य द्वार- करणस्य आवश्यकत्वेन स्तुत्यर्थ. यतः आकालिकेप्सा आकालिके तात्कालिके फले ईप्सा उत्कटेच्छा भवति ॥ १४ ॥ गर्गत्रिरात्रविधि- सनिधावानात: 'शोभतेऽस्य मुखं य एवं वेद ' इत्यर्थवादः विद्याप्रशंसा गर्गात्ररात्रविधिवेदनप्रशंसारूपः क्रतोर्वेदनमेवेदृशं किमुत तदनुष्ठानमिति ऋतुं स्तोतुम् । अतो न 'फलाभावात् ' इत्युक्तो दोषः ॥ १५ ॥ धानप्रकरणे पठितस्य 'पूर्णाहुति जुहुयात् ' इत्यस्य विधेस्सनिधावानाते " पूर्णाहुत्या सर्वान्कामानवाप्नोति" इत्यर्थवादे श्रुतं सर्वत्वं आधि- कारिक अधिकारः प्रकरणम् । प्रक्रान्तक्रतुसाध्यफलगतयावत्त्वरूपम् । यथा 'सर्वे ब्राह्मणा भोजयितव्याः' इत्यत्र सर्वत्वं गृहागतब्राह्मणगतयावत्व- रूपम् । अतो नेतरक्रतूनामानर्थक्यम् ॥ १६ ॥ फलस्य स्वर्गादिरूपस्य कर्मनिष्पत्तेः कर्मभिनिष्पत्तेः तेषां कर्मणां परिमाणतः लघुगुरुभावन फलविशेषः फलेऽपि तत्तत्कर्मजन्ये लघुगुरुभावः स्यात् । तथा च " पशुबन्धयाजी सर्वान्लोकानभिजयति " इत्यत्र पशुयागस्य सर्वफल- कत्वानानेऽपि न यागान्तरवैयर्थ्यम् । यागान्तरेण फले गौरवस्य संपाद्यमा- नत्वात् । लोकवत् यथा लोके निष्केण खारीपरिमितान्त्रीहीन्विक्रीय निष्कान्तरेण पुन: क्रये सति परिमाणाधिक्यं भवति ॥१७॥ अन्त्ययोः पश्चमषष्ठसूत्रोक्तयोराक्षेपयोः यथोक्तं उक्तप्रकारेण दूषणं वेदितव्यम् । तत्र न पृथिव्यामग्निश्चेतव्यो नान्तरिक्ष न दिवि इत्यस्यार्थवादस्य "हिरण्य निधाय चेतव्यम्” इति विधिशेषाया तद्विध्याकांक्षितस्तुतिवोधकत्वमिति स्तुत्यर्थेन विधीनां स्युः इति सूत्रोक्त एव परिहारः । बबरः प्रावाहणिरकामयत इत्यत्र प्रावाहाणशब्दस्य प्रवाहणापत्यप्रकृष्ट. " 23 1. सं.६.१-१. तै. सं. ५-२-७. तै. सं. ७-१-९, 20 पूर्वमीमांसादर्शनं. अध्या. १. पा.२. वहनशीलोभयसाधारणतया प्रकृष्टवहनशीलः बबरध्वनियुक्तः वायुरकामयत इत्यर्थस्यैव विवक्षणात् नानित्यसंयोगप्रसंग इति "परन्तु श्रुतिसामान्य इति सूत्रोक्त एव परिहारः ॥ १८ ॥ " वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधा- वति स एवैनं भूतिं गमयति" इत्याद्यर्थवादानां विधिप्रतिष- धवदेव कर्तृस्मरणाभावादपौरुषेयत्वे पूर्वाधिकरणेत सिद्धे स- म्प्रति तद्वदेव धर्माधर्मयोः प्रामाण्यमस्ति न वेति विचार्यते । तत्र विधिप्रतिषेधवाक्याभ्यां स्वशक्त्या साध्यसाधनेतिकर्तव्यता- विशिष्टभावनाविषयकविधिप्रतिषेधयोः प्रतिपादनात् अर्थाश्च वि- धिप्रतिषेधविषययागादेरिष्टानिष्टसाधनत्वाक्षेपायुक्तं तयोरिष्टानिष्ट- साधनरूपधर्माधर्मप्रमाजनकत्वम् । अर्थवादानां तु शक्त्या सद सदूपसिद्धार्थबोधकत्वान्न धर्माधर्मयोः प्रामाण्यसम्मवः । न च शक्त्या तदसम्भवेपि लक्षणाध्याहारादिना तत्प्रतिपादनम् । यथाश्रुतार्थप्रतिपादनेनैव उपपत्तावन्वयानुपपत्त्यभावेन तदसम्भ- वात् । न च तात्पर्यानुपपत्त्या तत्कल्पनं तात्पर्यग्राहकाभावेन तस्या अप्यसम्भवात् । न हि शब्दः प्रमाणमात्रं वा प्रयोजन- वद्विषयमेवेत्येवंनियमे प्रमाणमस्ति, येन स एव तात्पर्यग्राहक- शङ्कायेत । निष्प्रयोजनानामपि बहुशो दर्शनेन व्यभिचारात् । न च "स्वाध्यायोऽध्येतव्यः "2 इति स्वाध्यायविधिरेव अर्थशा- नोडेशेन अध्ययनं विदधत् निष्प्रयोजनस्यार्थज्ञानस्य भाव्यत्वा- उपपत्तेरथस्य प्रयोजनवत्त्वमाक्षिपतीति वाच्यम् । अर्थज्ञान- जनकत्वेनाध्ययनस्य लोकसिद्धत्वेनाविधेयत्वात् ।। तन्नियमस्या- थशानेनुपयोगादव्यभिचरितक्रतुसम्बन्धाभावेन क्रतुं यावदुपयो- तै. सं. २-१-१. तै, आ. २-१५.
अधि. १.] मादीपिकासहितम्. 21 गकल्पनांनुपपत्तेश्च न विधेयत्वम् । अतः स्वाध्यायविधिना स्वर्गाद्यर्थमेवाध्ययनं विधीयते । लोकतः पूर्व प्रवृत्त्यङ्गीकारेण यथावतार्थनानार्थं वा । अध्ययनमेव भावनायां भाव्यमस्तु । न चैवमिष्टभाव्यकत्वाभावात्प्रवृत्त्यनुपपत्तिः । अनधीयाना व्रात्या भवन्ति' इति वचनेनाकरणे प्रत्यवायबोधनेनापि प्रवृत्तिसिद्धः। अतस्तस्य वेदत्वावच्छेदेन प्रयोजनवद्विषयकत्वानाक्षेपकत्वान्नार्थ- वादेषु तद्वलेनं लक्षणासिद्धिरित्यप्रमाणमर्थवादा धर्माधर्मयोरिति प्राप्ते- न स्वाध्यायविधिः स्वर्गाद्यर्थमध्ययनं विधत्ते, दृष्टे सम्भ- वत्यदृष्टकल्पनाया अन्याय्यत्वात् । नापि यथाश्रुतार्थज्ञानार्थम् , तथात्वे व्रात्यत्वबोधकवाक्येन अध्ययनस्यावश्यकत्वाद्गहीतपद- पदार्थसङ्गतिकस्य स्थाणुरंयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थश इत्सकलं भद्रमश्नुते स नाकमेति ज्ञानविधूतपाप्मा ॥ इत्यादिवचनाच ज्ञानस्यावश्यकत्वेन यथाश्रुतार्थशानस्यानु- पङ्गिकतयाऽपि सिद्धेः स्वाध्यायविधिवैयर्थ्यप्रसङ्गात् । एतेनाध्य. यनभाव्यकत्वपक्षोऽपि निरस्तः । अतो वैयर्थ्यपरिहारार्थ प्रयो- जनवदर्थज्ञानायुद्देशेन' स्वाध्यायाध्ययनं विधीयते प्रयोजनवदर्थ- ज्ञानादिसाधनीभूतस्वाध्यायोद्देशेन वाऽध्ययनमात्र ; तव्यप्रत्ययेन स्वाध्यायस्य कर्मत्वाभिधानात् । अतश्च जिज्ञासाधिकरणोत- रीत्या. स्वाध्यायार्थस्य प्रयोजनवत्त्वसिद्धौ तात्पर्यग्राहकवशेन लक्षणासिद्धिरर्थवादेषु । लक्षणीयंश्चार्थस्सनिहितविधिनिषेधापेक्षितत्वात् स्ततिनिन्दा- 22. पूर्वमीमांसादर्शन. [अध्या. १. पा. २. स्वरूपः । तथा हि-लिङाद्यर्थों लोके पुरुषाशयः । वेदे च तद- भावालिङादिनिष्ठ एव कश्चिद्धर्मः । वाच्यतावच्छेदकं चोभय- साधारण व्यापारत्वम् । न तु प्रवृत्तिनिवृत्तिप्रयोजकत्वमपि, त- स्यान्यलभ्यत्वात् । तत्र नोभावे आख्यावार्थप्रवृत्तिप्रयोज- कत्वं तत्सत्त्वे तु तदर्थप्रवृत्यभावप्रयोजकत्वं संसर्ग इति वि- शेषः । प्रयोजकत्वं चात्र प्रवृत्तितदभावकारणीभूतेष्टानिष्टसाध- नताशानजनकज्ञानविषयत्वम् । अभावकारणता च योगक्षेमसा- धारणी । तत्त्वं च प्रवृत्तिसामग्रीविघटकत्वमित्यन्यत्र विस्तरः । स च लिङाद्यर्थों विधिवाक्ये प्रवर्तनाप्रेरणाविध्यपरपर्यायः । निषेधवाक्ये निवर्तनानिवारणानिषेधप्रतिषेधापरपर्यायः । इयं च द्विविधाऽपि शाब्दी भावना । तस्याश्च भाव्ये यथायोगं प्रवृत्ति- निवृत्ती । शब्दभावनाज्ञानं करणम् । करणत्वं चात्र भाव- नामाव्यनिष्पादकत्वम् । इतिकर्तव्यता च यथायोगं स्तुतिनिन्दे । स्तुतिनिन्दाज्ञानस्य हि प्रवृत्तिनिवृत्तिप्रयोजकसहकारित्वं रुच्य- रुच्युत्पादनद्वारा लोकसिद्धम् । स्तुतिनिन्दापदवाच्ये प्राशस्त्या- प्राशस्त्यापरपर्याये बलवदनिष्टाननुबन्धित्वानुबन्धित्वयोग्यत्वरूपे । ते च यथायोगं विधिनिषेधापेक्षितत्वात्तत्तत्समभिव्याहृतार्थवादैर्लक्ष- णया प्रतिपाद्यते । तत्र 'वायु क्षेपिष्ठा" इत्यादौ स्वशक्यपिष्ठ- त्वादिगुणैरेव लक्षणा । 2 इत्यादी गौणीग- म्यस्वकार्यकरत्वादिगुणरित वक्ष्यते । अतस्सिद्धं भावनान्वि- तस्तुतिनिन्दाविषयकप्रमाजनकत्वेन अर्थवादानां धर्माधर्मेयोःप्रा- माण्यमिति । प्रयोजन-पूर्वपक्षे अर्थवादानुपस्थितप्राशस्त्यज्ञानादपि प्रवृत्ती फलसिद्धिः सिद्धान्ते तु मन्त्रवदर्थवादानामेव यजमानः प्रस्तर: 1. सं. २-१-१. तै. सं. १-७.४.
अघि. २.] भादीपिकासहितम्. 23 प्ररोचकत्वनियमात्तदुपस्थितप्राशस्त्यज्ञानादेव प्रवृत्ती सोति द्रष्ट- व्यम् ॥१॥ (२)-विधिर्वा स्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम्॥ १९ ॥ लोकवदिति चेत् ॥ २० ॥ न पूर्वत्वात् ।। २१ ॥ उक्तं तु वाक्यशेषत्वम् ॥ २२ ॥ विधिश्चा- नर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्या- दितरेषु तथात्वम् ॥ २३ ॥ प्रकरणेन संभवत्र- पकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति॥२४॥ विधौ च वाक्यभेदस्स्यात् ॥ २५ ॥ " ऊर्वा नजनकत्वाभावात् ॥१९॥ " औदुम्बरो यूपो भवति " इत्यादिविधिसन्निधावानातः उदुम्बर : ऊर्पशव ऊर्जेवास्मा ऊर्ज पशूनवरुन्धे "| इत्यादिरर्थवादो विधि- वन्निगदः विधिर्वा पश्वादिफलोद्देशेन औदुम्बरत्वादिविधिरूप एव स्यात् वादमात्रं हि अर्थवादमात्ररूपं चेत्तद्वाक्यं प्राशस्त्यलक्षणया स्वार्थपरि- त्यागात् अनर्थकं स्यात् विधेरिव अर्थवादस्य साक्षात्प्रवृत्तिहेतुभूतार्थज्ञा- एवं पूर्वपक्षे सिद्धान्ती शंकते-लोक- वदितिचेत् यथा लोके “ इयं गौः क्रेतव्या वया" इति वाक्यसन्निधौ प्रयुज्यमानं “ इयं किल गौस्संपन्नक्षीरा स्वयपत्या इत्यादि वाक्यं विधिपरत्वाभावेऽपि स्तुतिपरतयैव सफलं तथा वेदेऽप्युपदर्शितो विधिव- निगदः विध्यपेक्षितस्तुतिपरतयैव सार्थको भवतीति चेत् ॥ २० ॥ इमां सिद्धान्तिशङ्कां पूर्वपक्षी निराकरोति-न पूर्वत्वात् न इदं युक्तं पूर्वत्वात् संपन्नक्षीरत्वादेः प्रत्यक्षादिरूपप्रमाणान्तरावगतत्वात् । तथा च तै. सं. २०१-१.
24 पूर्वमीमांसदर्शनं. [अध्या. 1. पा. १. प्रमाणान्तरावगतार्थप्रतिपादकस्यागत्या लक्षणया स्तुतिपरताकल्पनेपि प्रमा- णान्तरानवगतं यत्पश्वादिफलजनकत्वं तत्प्रतिपादकस्य उपदर्शितविधिवनिंग- दस्य स्तुतिपरत्वकल्पनमयुक्तं विधिरूपताया एव संभवादिति भावः ॥२१॥ सिद्धान्तमाह-उक्तं तु वाक्यशेषत्वं विधिना लेकवाक्यत्वात् इत्यत्रोपपादितरीतिकं विधिवाक्यशेषत्वमेव "ऊ 11 इत्यादेः युक्तं विधिरूपत्वसंभवात् । गुणफलविधिलं हि भवतामभिमतं न चैतत्सं- भवति आश्रयाभावात् ॥ २२॥ क्वचित् “ वायव्यं श्वेतमालभेत"" इत्यादिविधिसन्निहित “ वायुर्वै क्षेपिष्ठा" इत्यादिवाक्ये विधिः " वायुः क्षिप्रगामी कर्तव्यः” इत्यादिरीत्या विधित्वस्वीकारः अनर्थकः असंभव- दर्थकः । तस्मात् विध्यसंभवाद्धेतोः स्तुतिः विधेयप्रशंसैव लक्षणया प्रतीयेतातत्सामान्यान् असंभवद्विधित्वेन रूपेण तादृशार्थवादसादृश्यात् इत- रेषु उपदर्शितविधिवनिगदेष्वपि तथात्वं स्तावकतया विधिवाक्यशेषत्वम्॥ २३॥ दर्शपौर्णमासप्रकरणानाते 'यो विदग्धस्स नैरृतो योऽशृतस्स रौद्रो यश्चै- तस्स सदेवस्तस्मादविदहता शृतंकृत्यस्सदेवत्वाय" इत्येतद्वाक्ये 'यो विदग्धस्स नैस्तः' इत्यादेः 'अविदहता' इत्यादिविधिशेषतयाऽर्थवादरूप- श्वेत् प्रकरणे स्वीये दर्शपूर्णमासप्रकरण. एव संभवन् सन् निवि- शेत । अपकर्षः प्रकरणादन्यत्र निवेशश्च न कल्प्येत तया- गानुवादेन विदग्धत्वविधाने हि तत्र स्वीक्रियमाणेऽपकर्षस्स्यादेव! हि यतः तं प्रति प्रकरणसन्निहितं दर्शपूर्णमासयागमुद्दिश्य विध्यानर्थक्यं विदग्धत्वविधैरसंभवदर्थकलं स्यात् प्रकृतयोगे निरतिदेवताविरहेण नै- रतपदेन प्रकृतकर्मानुवादासंभवात् ॥ २४ ॥ विधौ च 'यो विदग्धः' इत्यादिवाक्ये गुणविधौ विदग्धद्रव्यकनिरतिदवताकयागान्तरविधी वा स्वीक्रियमाणे वाक्यभेदस्स्यात् 'तस्मादविदहता' इत्यादिवाक्यात्पूर्व- वाक्ये भेदस्स्यात् । स च न युक्तः तस्मादित्यनेनैकवाक्यत्वावगमात् ॥२५॥ 1. सं. २-१-१. 'तै. सं. २-६-१, भषि..] 25 भारदीपिकासहितम् औदुम्बरो यूपी भवत्यूळ उदुम्बर ऊर्पशव ऊर्जवास्मा ऊर्जे पशूनामोत्यू|ऽवरुद्धयै' इत्याधर्थवादेषु न स्तुतिलक्षणा. शक्त्यैव पशुरूपफलसम्बन्धविधायकत्वेन प्रामाण्यापपत्तेः । पशूनिति द्वितीयया “ ऊर्जाऽवरुद्धथै '' इति चतुर्थ्या वा पशूनां साध्यत्वेऽवगते साधनापेक्षत्वादोदुम्बरत्वं साधनं सन्निधानादूर्जेति तृतीयाश्रवणाञ्च भवतीत्याख्यातेन च लक्षणया शक्त्यैव वा भा. वनाभिधानात् भूधातोश्च यूपोत्पादकच्छेदनानुवादकत्वादप्राप्तार्थ- कत्वेन च लेट्त्वनिश्चयादुभयविशिष्टभावनाविधायकत्वोपपत्ति- रित्याक्षेपे प्राप्ते- यूपकर्तृकभावनाक्षिप्तायां भावनायां यूपस्यैव भाव्यत्वी- चित्यात्सान्निधानाच यूपोद्देशेनैवौदुम्बरत्वविधिः न तु फलो- हेशेन कामशब्दाद्यभावेन फलत्वस्य तथाऽनुपस्थितेः । किञ्च- भवन्मते गुणफलसम्बन्धोऽयम् । न चास सम्भवति, आश्रया- भावात् । 'सोमापौष्णं त्रैतमालभेत पशुकामः यागस्याश्रयत्वे हि यूपग्रहणानर्थक्यम् । यूपस्य त्वप्रकृतत्वादेवाश्र- यत्वानुपत्तिः । अतिदेशेन तस्योपस्थितिस्तु जुह्वादिपात्रान्तर- साधारणीति तेषामप्याश्रयत्वे तथैव यूपग्रहणानर्थक्यम् । वा- क्येनाश्रयदाने च वाक्यभेदः । तस्मात् "ऊगर्दै "! इत्यादिरर्थ- वाद. एवौदुम्बरत्वस्योत सिद्धम् । प्रयोजन यागफलात्फलान्तरकामनायामौदुम्बरो यूपः इतरथा खादिरः पूर्वपक्षे । सिद्धान्ते तु औदुम्बर एवेति ॥२॥ 1 इति प्रकृतस्य (३)-हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ २६ ॥ 1. सं. २.१.१. P.M.-4 26 पूर्वमीमांसा (अध्या. स्तुतिस्तु शब्बपूर्वत्वादचोदना च तस्य ॥ २७ ॥ व्यर्थे स्तुतिरन्याय्येतिचेत् ॥ २८॥ अर्थस्तु विधि- शेषत्वाद्यथालोके ॥ २९ ॥ यदि च हेतुरंवतिष्ठेत निर्देशात् ॥ ३० ॥ सामान्यादितिचेतं ॥३१॥ अव्यवस्था विधीनां स्यात् ॥३२॥ चातुर्मास्ये वरुणप्रघासपर्वणि श्रुतः " शूर्पण जुहोति । इत्यादि- विधिसनिहितः " तेन यन्नं क्रियते' इत्यादिहेतुवनिगदः हेतु हेतुखविधिः हेतुखांशे अज्ञातज्ञापनरूप एंव स्यात् अर्थवत्त्वोपपत्ति- भ्यां भवति हि तदा अर्थवत्त्वं अर्धबोधकत्वरूपं कृमशक्तिलक्षकत्या तेन हि अनं कर्तुं शक्यत इत्येवंरीत्या । लटो वा भूतभविष्यत्काललक्ष- णया कृजो यथाश्रुतार्थकतयैव तद्वाक्यस्यार्थवत्त्वम् । एतेन होमकाले वर्त- मानकालीनान्नकरणहेतुलाभावेन न हेतुलविधिपरतया अर अर्थवत्वसंमष इति शङ्कानिरासः ॥ उपपत्तिश्चान्नकरणवस्य शूर्पे साक्षादनकरणत्वा- भावेऽपि परम्परयाऽनकरणसाधनत्वात्, लागलाद्यपेक्षया साधकतमत्वाच । तथा च "करम्मपात्रणि जुहोति " इत्यनेनैव होमस्य प्राप्तत्वात् भाष्यतया तदन्वितभावनायां अन्नकरणत्वसाधनवहेतुकायारशूर्पनिष्ठकरणताया अन्य दविपिठरादरप्यनकरणसाधनतया होमसाधनत्वं सिथतीत्याशयः ॥२६॥ सिद्धान्तमाह-स्तुतिस्तु स्तुतिपर एव स हेतुवनिगदः कुतः? शादपू- वत्वात् शब्दो विधिशब्दः तेन तद्गता स्तुत्येपेक्षा लक्ष्यते । तब विध्यनमेलि- तहेतुपरत्वकल्पनातो विध्यपेक्षितस्तुतिपरत्वाश्रयणमेव न्याय्यमित्यर्थः। तस्य अभकरणत्वगतहेतुत्वस्य अचोदना च न विधिः दर्विमिठसदेल्सा- धकतमत्वविरहेण तद्रतानकरणत्वस्य हेतुत्वषिधेरसंभवात पाकादेस्सापकतम 1. प्रा. १.६.५.
भाषि...] भाब्दीपिकासहितम्. 27 वेऽपि सद्गतामकरणवस्य होमकरणत्वहेतुत्वासंभवादिति ॥ २७ ॥ पूर्वपक्षी शकते-शूपेऽपि साधकतमत्वाभावेन व्यथै स्तुत्यालम्बनरूपार्थरहिते स्तु- तिः अन्याय्या अनुपपन्ना इति चेत् ॥ २८ ॥ समाधत्ते-अर्यस्त स्तुत्यालम्बनभूतार्थस्तु भवत्येव सिद्धान्ते विधिशेषत्वात् विध्यपेक्षितस्तु. तिप्रतिपादनाय मानान्तरप्राप्तार्थानुवादकत्वात्तद्वाक्यस्य । शूर्पस्य स्था- ल्यपेक्षया साधकतमत्वाभावेऽपि लागलाथपेक्षया यथा साधकतमत्वं लोके दृश्यते तथाविधसाधकतमत्वस्यैव लक्षणया प्रतिपादनेन विधिशेषत्वात् स्तावकतया विध्यकवाक्यत्वात् । हेतुविधिपक्षेतु प्रमाणान्तरसिद्धार्थानुवादकत्व- विरहाद्यथाश्रुतादीषदप्यन्यथात्वकल्पनं दोष एवेति ॥२९॥ तुष्यत्विति न्यायेन हेतुविधित्वमभ्युपेत्याह-यदि च अयं हेतुः हेतुविधिस्स्यात् तदाऽपि शूर्प- गतस्यैवानकरणत्वस्य हेतुत्वं अवतिष्ठेत न दविपिठरादिगतस्यापि शूर्पस्यैव होमसाधनत्वेन निर्देशात् । न हि शूर्पगतहोमसाधनत्वे साध्ये अन्यगतानहेतुलस्य हेतुता संभवति वैयधिकरण्यात् । सनिहितपरा- मर्शिसर्वनामोत्तरतृतीयांश्रवणेन पदश्रुत्या तद्गतस्यैवान्नकरणत्वस्याभिधा. नाच्च ॥ ३० ॥ पूर्वपक्षी शङ्कते-सामान्यादति चेत् तृतीयाश्रुतेः सा- मान्यात् करणसामान्यवाचित्वात् तया च प्रवलया , दुर्बलश्रुतिवाधादन- करणसामान्यस्यैव हेतुत्वं स्यादितिचेत् ॥ ३१ ॥ समाधत्ते-अव्यव- स्था विधीनां स्यात् “ ब्रीहिभिर्यजेत " इत्यादिविधिष्वपि प्रत्यय- श्रुत्या पदश्रुतिबाधप्रसङ्गेन द्रव्यविशेषविधिषु द्रव्यसामान्यस्यैव परिग्रहप्र- सङ्गाइव्यव्यवस्था न स्यात् । तथा च द्रव्यविधीनां वैयर्थ्यमेवान्ततः प्रस- ज्यते । अतश्च आनर्थक्यप्रतिहतन्यायेन तृतीयाश्रुतेर्दुलपदश्रुत्यनुरोधोऽपि न दोषायेति ॥ ३२॥ चातुर्मास्ये "शूर्पण जुहोति" इति शूर्पकरणकहोमं वि- धाबः श्रुते ." तेन हा क्रियते” इत्यर्थवादे न स्तुतिलक्षणा। 'तै, मा.१-६-५, 28 पूर्वमीमांसादर्शन [अध्या. १. पा. १, अपितु होमसाधनत्वे साध्ये अन्नकरणत्वस्य हेतुत्वं विधी यते । न यत्र पूर्ववत् भाव्यत्व इव किञ्चित्कल्पनीयमंस्ति, हि- शब्दश्रुत्यैव हेतुत्वाभिधानात् । हेतुश्च व्याप्तिमन्तरेणानुपपन्नः यद्यदनकरणं तेनतेन होतव्यमिति 'व्याप्तिवचन कल्पयति । ततश्च शूर्पादन्यस्यापि दर्वीपिठरादेोमसाधनंत्वप्रतीतेः विधी शूर्पपदमुपलक्षणम् । अवयुत्यानुवादो वा । यद्वा-तच्छब्देन शूर्पस्यैव परामर्शात् तद्गतमेवानकरणत्वं हेतुः । तेन च विशि- व्यैव व्याप्तिकल्पनात् अन्नकरणासमर्थशूर्पव्यावृत्तावपि न विधि- स्थं शूर्पपदमन्यथा नेयमिति पूर्वः पक्षः । सिद्धान्तस्तु-क्रियत इति लडन्तनिर्देशात् वर्तमानानक- करणत्वस्य हेतुत्वं वाच्यम् । न च होमकाले अन्नकरणत्वं सम्भवति । अतो लटः भूतभविष्यत्कालान्तरलक्षणा विधौ तवाप्यावश्यकी । यद्यपि चेयं प्राशस्त्यलक्षणोपयोगिगुणघटक. तया ममाप्यावश्यकी तथाऽप्यनुवादस्थत्वात् प्राशस्त्योपपादक- त्वाच न दोषः, वर्तमाननिर्देशं विना तदप्रतीतेः । किञ्च-अ- पेक्षितप्राशस्त्यपरत्वे सम्भवति नानपेक्षितंहेतुपरत्वाङ्गीकारो युक्तः। अतस्सिद्धं सर्वेषामर्थवादानां स्तावकत्वेन प्रामाण्यम् ॥३॥ (४)-तदर्थशास्त्राद्वाक्यनियमाझुद्धशास्त्रादवि- द्यमानवचनादचेतनेऽर्थबन्धनादर्थविप्रतिषेधात्स्वा- ध्यायवदवचनादविज्ञेयादनित्यसंयोगान्मन्त्रानर्थ क्यम् ॥ ३३ ॥ अविशिष्टस्तु वाक्यार्थः॥३४ ॥ *" मन्त्रानर्थक्यमित्यन्तस्यैकसूत्रत्वेऽपि व्याख्यासौकर्याथ खण्डशः प्रत्येकं प- चम्यन्तसत्रावयंवोपन्यासः" इति कौस्तुभानुसारादेकसूत्रमेवेदमिह कृतम्, 29 माप...] भादीपिकासहितम्. गुणार्था वा पुनश्श्रुतिः ॥ ३५॥ परिसंख्या ॥ ३६ ॥ अर्थवादो वा ॥ ३७॥ अविरुद्ध परम्॥ ३८ ॥ संप्रेषे कर्मगर्हानुपलम्भसंस्कारत्वात् ॥ ३९ ॥ अभिधानेर्थवादः ॥ ४० ॥ गुणादविप्र- तिषेधस्स्यात् ॥ ४१.॥ विद्यावचनमसंयोगात् ॥ ४२ ॥ सतः परमविज्ञानम् ॥ ४३ ॥ उक्तश्चानि- त्यसंयोगः॥४४॥लिङ्गोपदेशश्च तदर्थवत्॥१५॥ ऊहः॥ १६ ॥ विधिशब्दश्च ॥ १७ ॥ । स्तावकतया विध्येकवाक्यत्वं अर्थवादप्रामाण्यहेतुः पूर्वाधिकरणे । तत्प्रत्युदाहरणसंगत्या मन्त्राणां प्रामाण्यमत्र विचार्यते । मन्त्रानर्थक्यं म- न्सस्याविवक्षितार्थकत्वम् । कुतः तदर्थशास्त्रात् तस्य मन्त्रस्य योऽर्थः अभ्रयादानादिस्तद्विषयक शास्त्रदर्शनात् । “ देवस्य त्वा सवितुः प्रसवेऽश्विनो. बर्बाहुभ्यां पृष्णो हस्ताभ्यां गायत्रण छन्दसाऽऽददे त्रैष्टुभेन जागतेन त्वा छन्द. साऽऽददे पाङ्कन छन्दसाऽऽददे " इतिमन्त्रास्सन्त्यत्रयादानार्थाः । तत्रैवार्थे विधिरपि दृश्यते " तां चतुर्भिरधिमादत्ते" इति । मन्त्रस्य विवक्षितार्थत्वे च लिङ्गेनैव तत्र मन्त्रस्य प्राप्तिसंभवात् तदर्थे मन्त्रविधायकं तच्छावं व्यथै स्यात् अविवक्षितार्थकत्वे तु विधिस्सार्थकः ॥ एवं वाक्यनियमात् अभिर्मर्धा दिवः 13 इत्यादिमन्त्रवाक्यपाठक्रमनियमात् मन्त्रानर्थक्यम् । मन्त्रस्य विवक्षितार्थकत्वे तु 'दिवो मूर्धा' इत्यादिव्युत्क्रमपाठेऽप्यर्थप्रत्यायनसं- भवात्पाठक्रमनियमो विफलस्स्यात् । एवं बुद्धशास्त्रात् आमीण अनिविहर- णादिके स्वकर्तव्यत्वेन अध्ययनकाल एव बुद्धे “ अग्नीदग्नी न्विहर " 'तै.सं. ४-१-१.. "तै.सं. ५-१-१, ते.सं.४.४.४. . *.सं.६.१-१ चत्वारि शृङ्गा पूर्वमीमांसा [अध्या: 4 इत्यादिप्रषमन्त्ररूपस्य शासनस्य सत्त्वात् । तन्मन्सस्य विवक्षितार्थकले बुद्धार्थबोधकत्वप्रसङ्गेन बुद्धार्थयोधकस्य तन्मन्सस्य वैयर्थं स्यात् ॥ एवं अविद्यमानवचनात् क्रतावविद्यमानस्यैव चतुश्शृङ्गत्वायुपेतस्य वस्तुनः प्रयो अस्य पादाः । इति मन्ते वचनात् बोधनात् । ऋत्वसमवेतार्थप्रतिपादकस्य अर्थप्रतिपादनद्वारा ऋत्वर्थत्वासंभवात् अवि- वक्षितार्थ एव स मन्त्रः अदृष्टद्वारैव क्रत्वर्थ इति बोध्यम् ॥ एवं अचेतनार्य बन्धनात् “ शृणोत प्रावाणः "2 ॥ स्वधिते मैनं हिंसीः इत्यादी अचेतनाना प्रावादीनां बन्धनात् संबोधनात् अचेतनस्याभिमुखी. करणासंभवेन तत्संबोधकबाक्यस निरर्थकत्वात् तन्मन्त्रनिरर्थकत्वमेव यु- तम् । एवं अर्थविप्रतिषेधात् ."अदितिचौरदितिरन्तरिक्षं 4 इत्या. दौ प्रतिपाद्यमानयोः अर्थयोः द्युत्वान्तरिक्षल्वयोरेकत्र आदितौ देवतायां विरोधात् । तथा च विरुद्धार्थप्रतिपादकत्वस्वीकारादनर्थकत्वस्वकिार- एव श्रेयान् । एवं स्वाध्यायवदवचनात् अध्ययनकाले स्वाध्या- यस वेदस्य यथाऽभ्यासः तथा अर्थज्ञानस्य अवचनात् अनभ्यासात् । मन्नार्थस्य विवक्षितत्वे हि मन्त्रस्यानुपयोगात् अर्थज्ञानमेवाभ्यस्येत ॥ एवं अविज्ञवात् 'अम्यक्सात इन्द्र. ऋष्टिरस्मे 'सृण्येव जर्फरी तुर्फरी तू' इत्यादी अविज्ञेयार्थकानामभ्यगादिपदानां विद्यमानत्वात् । त. स्मादीदृशपदपठितस्थाविवक्षितार्थकत्वमेव युक्तम् ॥ एवं-अनित्यसंयो. गात् 'किन्ते कृण्वन्ति कोकटेषु गावो नाशिरं दुहे न तपन्ति धर्मम् । मा नो भर प्रमगन्दस्य वेदी चाशाखम्मघवन्धयानः इत्यादौ अनित्य- त्व नैचाशाखरूपनगरस्य प्रमगन्दरूपस्य राज्ञश्च । संयोगात् प्रतिपाद- नात् । तथाच पौरुषेयत्वप्रसन्मकादनित्यार्थबोधकत्वस्वीकारात् तन्मन्ते अविवक्षितार्थकत्वस्वीकार एवं वरम् ॥ तन्मन्सस्य च विश्वामित्र 1. उ. ४.१२. तै. सं. १-३-१३. तै. सं. १.२.१. 1-12 सं. २ ऋपसं. १.१.२.
मी..] 31 । . माषिः तेन विलेन्द्रः प्राधितः । भो मघवन् ! कोकरेषु देशविसषे या गा. वस्ताः ते लव किं कृण्वन्ति यतः आशिरं सोमसंस्कारार्थ पयो न दुहे । न च धर्म तपन्ति । अतः प्रमगन्दस्य राज्ञः नैचाशानं नाम नगरं वेदों धनं च नः अस्माकं आभरेत्येतत्रो मघवन्धय साधयेति हि तन्मन्त्रस्यार्थी वर्णनीयः ॥ ३३ ॥ सिद्धान्तमाह-अविकिस्तुं वाक्यार्थः वाक्यस्यार्थः वेदे लोके चाविशिष्ट एष । तथा व पदा- नामर्थबोधकतायाः लोकसिबत्वेन अर्थज्ञानरूपं दृष्टमेव फलं मन्त्राणां कल्पयितुमुचितं नादृष्टं “ दृष्टे संभवति" इत्यादिन्यायादिति भावः॥ ३४॥ " तदर्थशासात्" इत्यनेनोक्तामनुपति परिहरति-गुणार्थी बा पुनरुभुतिः लिोन प्रातस्याप्यर्थस्य " तां चतुर्भिः" इति पुन. श्श्रुतिः गुणार्था चतुस्संख्यारूपगुणविधानार्या ॥३५॥ परिसंख्या इमामगृभ्णनानामृतस्येत्यश्वाभिधानीमादते" इत्यत्र लिनैव रशनादाने प्राप्तस्य मन्त्रस्य विधानं गईभरशनातः मन्त्रस्य परिसंख्यार्थम् ॥३६॥ गर्थवासे वा " उरुप्रथा उरुमथस्वेति पुरोगशं प्रथयति इति वाक्ये लिगेनैव पुरोडाशप्रथने प्राप्तस्यापि मन्त्रस्योपादानं न लहिचानार्थ अपि तु “ यज्ञमतिमेव तत्प्रजया पशुभिवः प्रथयति " इत्यर्थवापतयश- पतिप्रथनफलकत्वरूपप्रथनस्तुत्याळम्बनस्फुटोमपादनार्थमनुवाफ । मध्वयुहि मन्त्रेण पुरोडाशं प्रथस्वेति बूते । यवैवं प्रथस्वेति ब्रूते स प्रथय- त्येव । यथा. यः कुर्षिति भूते स कारयत्येवेति ॥ ३७॥ पर मन्त्रेषु 'नियतकमानानं मावाणामर्थपरत्वे सति नियमादृष्टकल्पनयापि अधिर- सम् ॥३८॥ सबै " अमीरमीविहर " इत्यादी नहीं बुद्धबोधारपत्यः कर्मणः मन्धकार्यस्य गर्दा दूषणं मनुपालमा अदू- पणमेव. कुतः? संस्कारवान् मुखत्यापि पुनमन्त्रेण बोपन आ. माघ्र संस्कारविशेषं जनयतीति बीहिपोक्षणादिवत् बुद्धस्मरणस्य संस्का- तै.सं. ५.१.२ तै. सं.4-1. " 1 12 इत्यादौ 32 पूर्वमीमांसाहीन. [मध्या... पा.. रकर्मवाङ्गीकारात् ॥ ३९॥ अभिधाने " चत्वारि शृङ्गा इत्यादाव- विद्यमानाभिधायकत्वेन शङ्किते मन्त्रे अर्थवादः अर्थवादवत् गोण्या वृत्त्या देवतास्तुतिः । यद्यपीयमृक् भाष्यकारेण यागस्तुतिपरतया व्या- ख्याता । तथाऽपि वार्तिककृता विषुवत्संज्ञकाहे "आग्नेय्या होता शं. सति" इति विनियोगानुसारेणादित्यरूपेणामिस्स्तूयते इत्युक्तम् । यथा-बखा- रो दिवसयामास्त्रयश्शीतोष्णवर्षाकालाः द्वे अयने शीर्षे सप्त अश्वाः हस्ता यस्य सः त्रिधा सवनत्रये बद्धः वृष्टिहेतुत्वादृषभः रोरवीति गजितेन महो देवः मानुत्साहयनाविवेशेति । एवं शृणोत ग्रावाण: अचेतनसंबोधनमपि चैतन्यारोपेण अचेतनस्तुत्यर्थमेवेति न दोष इति बोध्यम् ॥ ४०॥ अदितिौरदितिरन्तरिक्षं "3 इत्यादौ एकत्रैवादितौ प्रतिपाद्यमानयोर्तुत्वान्तरिक्षत्वरूपयोः अविप्रतिषेधः अविरोधः स्यात् कथं ? गुणात् गुणवृत्त्या स्तुतिविवक्षणात् "त्वमेव माता त्वमेव पिता " इत्यादिवत् ॥४१॥ अध्ययनकाले विद्याऽवचनं विद्यायां अर्थज्ञानस्य अवचनमनभ्यसनं असंयोगात् अभ्यासरूपसंयोगं विनाऽपि कर्मकालिकस्यार्थज्ञानस्य सुकरत्वात् । दुहत्वात्तु अक्षराभ्यास इति भावः ॥ ४२ ॥ अम्यक्सात इन्द्रः 14. इत्यादिमन्त्रेषु सतः विद्य- मानस्यैवार्थस्य परं भविज्ञानं प्रमादालस्यादिनाऽनवबोधः । तत्रतत्र सर्थावधारणं तु निगमनिरुक्तव्याकरणार्थप्रकरणऋषिदेवतास्मरणादिना सं पादनीयम् । तथा च कृतात् भाष्यादितस्तदर्थोऽवगन्तव्यः ॥ ४३ ॥ यश्च भनित्यसंयोगः "किन्ते कृण्वन्ति इत्यादिमन्त्रे उक्तः तत्तत्परी- परन्तु श्रुतिसामान्यं " इत्यत्रोक्त एव अिनित्यसंयोगास्पृष्ट- स्तदर्थस्तु भाष्यादिषु : द्रष्टव्यः ॥४४॥ . एवं मन्त्रार्थविवक्षायां बाधका- न्युवृत्य साधकान्याह-लिझोपदेशश्च " आमेय्याऽऽमाध्रमुपतिष्ठते " इत्यत्र 15 हारोऽपि . उतै. आ. १-१३. 1. भा. ४.१२. 'ऋक्सं..२.४.८. तै.सं.१-३-१३. ऋक्सं. ३.१.३..
मपि. ४.] अग्ने नय भादीपिकासहितम् 38 । इत्यस्या ऋचः अग्निदेवताप्रकाशकत्वेन लिङ्गेनोपदेशः तत् अर्थवत् तन्मन्त्रवाक्यमर्थवदिति गमयति ॥४५॥ ऊहः ऊहदर्शन- मपि मन्त्रवाक्यमर्थवदिति गमयति । यथा प्रकृतौ " अन्वेनं माता मन्यताम पिताऽनुभ्राता 2 इत्ययं पशुविषयको मन्त्रः । एतन्मन्त्रविष- यकं ब्राह्मणमेवमानायते- न माता वर्धते न पिता" इति । तन्मन्त्रे मातापितशब्दयोः द्विवचनबहुवचनान्तत्वेन प्रयोगरूपा शब्दवृद्धिः विकृतौ न भवतीति तदर्थः । तेन विकृतौ पश्वाधिक्ये “ अन्वेनौ माता मन्यता" अन्वेनान्माता मन्यतां" इत्यादिरूहो भवत्येवेति गम्यते । स चोहो मन्त्र. स्थार्थवत्त्वं विना नोपपद्यत इति भावः ॥ ४६॥ विधिशब्दश्च शतं हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति वावैतदाह"3 इत्यादिब्राह्मणरूपः तन्मन्त्रवाक्यमर्थवदिति गमयति । शतं हिमा. इति यद्यजुराह तत् शतं हेमन्तानित्यर्थमेवाह इति तब्राह्मणवाक्यार्थः । तदिदं सर्व मन्त्राणामर्थवत्त्व एवोपपद्यते । एतद्विचारप्रयोजनं तु प्राच्यै- रुक्तं-अमिहोत्रपदं नाम आघारे यागकल्पनम् । मुख्यऽर्थे विनियोगो य आमिक्षा पय एव च । मन्त्रक्रमबलीयस्त्वं छागस्य नियमस्तथा । अग्नौ पृष्ठपदं मन्त्रलक्षणार्थं वदिष्यते । अभिमर्शनमन्त्राणां विकल्प- स्सौर्य इष्यते । ऊहोऽथ नवमे यस्तु आधारे मन्त्रवाधनम् । मन्त्रावृत्ति- दीक्षितस्याभिवृष्टयादिदर्शने । तथा करणमन्त्राणां विकल्पो द्वादशेऽपि यः । सर्वमेतत्तदा सिद्धयेन्मन्त्रार्थश्चद्विवक्षितः ॥ इति ॥ ७ ॥ इति जैमिनिसूत्रवृत्तौ सारबोधिन्यां प्रथमस्य द्वितीयः. 1. सं.१.१.१४. तै. सं. १-२०४. तै. सं. १-५-८. P.-5 84 पूर्वमीमांसादर्शनं. [अध्या. १. पा. २ मन्त्राणां धर्माधर्मयोः प्रामाण्यमस्ति न वेति चिन्तायां न तावद्विधित्वेन प्रामाण्यं, तस्य द्वितीये निराकरिष्यमाणत्वात् । नापि स्तापकत्वेन अर्थवादवत्, तेषां हि सन्निहितेन विधिना पवैकवाक्यत्वात् युक्तं स्वसमर्पितप्राशस्त्यान्वितभावनाविषय- कशाब्दशानजनकत्वम् । मन्त्राणां तु दूरस्थत्वेन पदैकवाक्यत्वा- नुपपत्तेः न तद्विधया प्रामाण्यसम्भवः । नापि प्राशस्त्यं स्वात- व्येण वाक्यार्थः, पदार्थविधयापस्थितंत्वात् । नाप्यर्थस्मारकत्वेन प्रामाण्यं, अनधिगतार्थबोधकत्वाभावेन तदसम्भवात् । सामम- न्त्राणामर्थाभावेन याथार्थ्यस्याप्यनुपपत्तेश्च । न च प्रामाण्याभा- वेऽपि स्मारकत्वादिना प्रयोजनवत्त्वमात्राङ्गीकारः, ध्यानाद्युपाया- न्तरेणापि स्मृतिसिद्धौ नियतमन्त्रानानवैयर्थ्यात् । प्रयोगसम- वेतार्थस्मारकेषु स्मृतिवैयर्थ्याच्च । अतोऽधिकाराख्यप्रकरणादि- नाऽवगतक्रत्वङ्गभावनायां मन्त्राणामुग्धारणमात्रमदृष्टार्थ विधीयते । स्वाध्यायविधिश्वोचारणोपयोगिप्रयोगप्राशुभावफलकतयैव अध्य- यनं विधत्त इति न कश्चिदोषः । इति प्राप्ते- - । सानो अभिधीयते-इष्टे सम्भवत्यद्यष्टकल्पनाऽनुपपत्तेः प्रयोगसम- वेतार्थस्मृतिसेख सम्भवतां मन्त्राणां प्रयोजनम् । असम्भवतां काम भवत्वदृष्टं प्रयोजनम् । शक्यते तु तत्रापि मन्ता अर्थ- प्रकाशनार्थाः प्रकाशनं परमहष्टार्थमिति वक्तुम् तु-ऋगक्षराभिव्यक्तिरेव दृष्टं प्रयोजनमर्थाभावेऽप्यन्याहतम् । अनुक्सानां त्वदृष्टार्थत्वमेवेत्यन्यत्र विस्तरः । न त्वेतावता सर्वत्रवादृष्टार्थत्वम् । न च मन्त्राणां नियमेन पाठवैययें, तदलेन मन्तैरेव स्मर्तव्यमिति नियमकल्पनात् । तस्य चाह- एफलकत्वेऽपि न दोषः । न चैवं सामर्थ्यादेवं तत्रतत्र अषि. ४. भादीपिकासहितम. 35 मन्त्राणां विनियोगसिद्धौ पुनस्तेषां क्वचिद्विनियोगकरणं व्यर्थ- मिति वाच्यम् । गुणपरिसङ्ख्याद्यर्थकत्वेन सार्थक्यान् । तथा हि-अर्थप्रासे अभ्रयादाने विकल्पेन चतुर्णा मन्त्राणां लिङ्गेन प्राप्स्यमानानी प्रापर्कप्रमाणात पूर्वमेव प्रवृत्तेन "तां चतु. भिरभ्रिमादत्ते" इति वचनेन मन्लसङ्खयोभयविशिष्टादानभा. वनायां विहितायां एतद्वचनाभावेऽपि मन्त्राणां आदानस्य च प्रातिसम्भवे एतद्वचनप्रवृत्तिफलजिज्ञासायां समुच्चयफलकचतु- स्सङ्ख्यारूपगुणप्राप्तिरिति निश्चीयते । तथा लिङ्गादेवाग्निच. यनाङ्गभूताश्वरशनादाने प्राप्स्यमानस्य मन्त्रस्य ततः पूर्वप्रवृ. तेन "इमामगृश्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते" इत्यनेन वचनेन मन्त्रविशिष्टादाने अश्वरशनाङ्गत्वेन विहिते पूर्ववत् फ- लजिज्ञासायां गर्दभरशनानिवृत्तिरूपशेषपरिसङ्ख्या फलम् । न च फलतः परिसंख्यायां स्वार्थहानिः परार्थकल्पनं प्राप्तबाध इति दोष्यम् । अश्वाभिधानीसम्बन्धरूपस्वार्थस्यैव विधेयत्वात्, अन्यनिवृत्तिरूपपरार्थस्यार्थसिद्धत्वेन अकल्पनीयत्वात्, प्रापकप्र. माणस्याप्रवृसतया प्राप्तवाधाभावाच । अत एव यत्र प्राप- कप्रमाणप्रवृत्त्युत्तरमेव परिसङ्ख्याशास्त्रस्य प्रवृत्तिः यथा- पञ्च पश्चनखा भक्ष्याः' इत्यादौ रागतः प्राप्तपञ्चनखभक्षणे पञ्चतिरिक्तपरिसङ्ख्याकरणं तत्रैव तत् । यत्रापि च श्रौती परिसङ्ख्या यथा-'नानृतं वदेत्' इत्यादौ तत्रापि न तत्। तदेवं मन्त्राणामर्थस्मारकत्वेऽपि न कचिंद्विनियोगवैयर्थ्यम् । न चैवमपि प्रामाण्यायोगः; याथार्थ्यलक्षणस्याविघातात् । सा- मादिसर्वमन्त्रसाधारण्येन तु पदार्थविधया । यथा हि शाद- वोधं प्रति कारणीभूतज्ञानविषयत्वाच्छब्दः प्रमाणमिति सर्वद- तै. सं. ५.१-१. तै. सं. ५.१.२. 3 तै. सं. २-५-५. .
36
पूर्वमीमांसादर्शनं. [अध्या. 1. पा. ३.
र्शनमतं तथा पदार्थज्ञानस्यापि कारणत्वात् पदार्थोऽपि तथे-
त्यपि वक्तुं शक्यते । अतश्च मन्त्रविनियोगविधौ मन्त्राणां
पदार्थत्वात् युक्तं प्रामाण्यमिति । अस्तु वा प्रामाण्याभावेऽ-
पि प्रयोजनवत्त्वलाभमात्रेण स्वाध्यायविध्युपपत्तेनं कश्चिदोषः ।
प्रयोजनमर्थवादवदेव स्पष्टम् ॥ ४॥
इति श्रीखण्डदेवकृतायां भादीपिकायां प्रथमस्या
ध्यायस्य द्वितीयः पादः.
(१)-धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात्
॥१॥ अपि वा कर्तृसामान्यात्प्रमाणमनुमानं
स्यात् ॥२॥
वेदातिरिक्तधर्मप्रमाणप्रामाण्यव्यवस्थापनमेतत्पादार्थः । वेदातिरिक्तं
च धर्मप्रमाणं स्मृतिशिशष्टाचारश्च । तत्रादौ स्मृतिप्रामाण्यं परीक्ष्यते।
धर्मस्य शब्दमूलत्वात् अपौरुषेयशब्दप्रमाणकत्वात् अशब्दं अनुप-
लभ्यमानस्वमूलभूतापौरुषेयशब्दकं " अष्टकाः कार्याः " इति स्मृत्यादिकं
अनपेक्षं भ्रान्त्यादिमूलकतयाऽप्युपपत्त्या सन्मूलकल्पनापेक्षारहितं अप्र-
माणं स्यात् । अनपेक्ष्यमिति पाठे अशब्दमनादरणीयं स्यादित्यर्थः ॥१॥
सिद्धान्तमाह-अपि वा इति निपातः पूर्वपक्षव्यावृत्ति द्योतयति ।
अनुमान अनु पश्चात् स्वमूलभूतवेदवाक्यप्रत्यक्षानन्तरप्रवृत्तं अष्टका-
स्मृत्यादिकं प्रमाणं स्यात् एव कर्तृसामान्यात् कत्रोंः .स्मृति-
कर्तृकर्नानुष्ठानकों रेकत्वात् । तथा च धर्मवुद्धथा वैदिककर्मकर्तृभिमन्वा-
दिमिनिबद्धानां स्मृतीनां न प्रान्त्यादिमूलकत्वं संभवतीति वेदमूलक-
तया प्रामाण्यं सिद्धम् ॥२॥
अधि. २.] भादीपिकासहितम्, 37 शिष्टत्रैवर्णिकपरिगृहीतानां मन्वादिस्मृतीनां धर्माधर्मयोः प्रामाण्यमस्ति नवेति सन्देहे सन्मूलकत्वनिश्चायकाभावात् अ- प्रामाण्यम् । न ह्यत्र प्रत्यक्षादि मूलं ; तेषां धर्माधर्मयोः अप्र- वृत्तेः । वेदस्य च प्रत्यक्षपठितस्यानुपलम्भात् । उपलम्भे वा स्मृतिप्रणयनवैयर्थ्यात् । इदानीमुच्छेदस्य च वैदिकैर्यथापरिग- णनं शाखानां मात्रामात्रापरित्यागेन पाल्यमानतया कल्पयितु- मशक्तेः । न च नित्यानुमेयों वेदो मूलम् । स्मृतेर्मूलसामान्य. व्यातत्वेऽपि वेदव्याप्तत्वाभावेन अनुमानानुपपत्तेः । मनोरप्यनु- मेयत्वकल्पने अन्धपरम्परापत्तेश्च । अतश्च सन्मूलत्वासम्भवात् भ्रान्त्यादिमूलत्वेन अप्रामाण्यमिति प्राप्ते- शिष्टानामद्य यावदविगीतपरम्परया ज्योतिष्टोमादिष्विव अ. टकाकळअभक्षणादिष्वपि धर्मत्वेनाधर्मत्वेन च परिग्रहात् मन्वा- दीनां त्रैवर्णिकत्वेन वेददर्शनसम्भवाच्च तन्मूलकत्वमेव युक्तं, न तु भ्रान्त्यांदिमूलकत्वम् । तत्करणस्य अद्य यावत्तदशानस्य च कल्पने गौरवाच्च । श्रुतिश्च प्रत्यक्षपठितव मूलम् । न च स्मृतिप्रणयनवैयर्थ्यम् । शाखान्तरोपसंहारेण अर्थवादार्थोद्धारण न्यायसिद्धार्थकथनेन च स्मृतिप्रणयनस्य सार्थक्यात् । अतो मूलश्रुत्युपस्थापकतयैव धर्माधर्मप्रमाप्रयोजकत्वं स्मृतीनामिति सिद्धम् ॥१॥ (२)-विरोधे त्वनपेक्षं स्यादसति हनुमानम् ॥ ३ ॥ हेतुदर्शनाच्च ॥४॥ औदुम्बरी स्पृष्वोद्गायेत्” इति प्रत्यक्षश्रुत्या औदुम्बरी सर्वा वेष्टयितव्या " इत्यादिस्मृतेः विरोधे सति तु तादृशमनुमानं .
88 अवधारणाच न तत्र पूर्वमीमांसादर्शनं. [अध्या. १. पा... प्रत्यक्षश्रुतिविरुद्धस्मृतिरूपं अनपेक्ष सन्मूलानपेक्षं सदप्रमाणं स्यादेव । असति हि विरोधे अनुमानं स्मृतस्सन्मूलकल्पकमनुमान प्रवर्तेत॥३॥ श्रुतिविरुद्धस्मृतिषु दीर्घवस्त्रलाभलोभादिसमाविष्टपुरुषकर्तृकृत्वरूपस्य दृष्टस्यैव हेतोः दर्शनात् वेदमूलकत्वकल्पनसम्भवः ॥ ४॥ अथवा-वेदविद्वेषरूपे विरोधे सति वेदविद्वषिणां शाक्यादीनां अनुमानं स्मरणं अनपेक्षं सन्मूलानपेक्षं सदप्रमाणम्. असति हि तस्मिन्विरोधे अनुमानं प्रमाणम् ॥ ३॥ हेतुदर्शनाच्च मन्वादिस्मृतिषु वेदमूलकत्वकल्पनाहेतोः शिष्टवैदिकपरिगृहीतत्वस्य दर्शनात् शाक्यादि- निवन्धेषु तददर्शनात् वेदविद्वेषिपरिग्रहमात्रस्यैव दर्शनाच्च न तेषु वेद- मूलकतया प्रामाण्यसंभवः ॥ ४॥ श्रुतिविरुद्धानामपि 'औदुम्बरी सर्वा वेष्टयितव्या' इत्यादि स्मृतीनां श्रुतिमूलकत्वाविशेषात् प्रामाण्यम् । न च 'औदुम्बरी स्पृष्योगायेत्' इति प्रत्यक्षश्रुतिविरोधात् तदनुपपत्तिः । परस्पर- विरुद्धार्थकानामपि ग्रहणाग्रहणादिश्रुतीनां बहुशो दर्शनेन विरोधे सत्यपि तत्कल्पने बाधकाभावात्; तंद्वदेव विकल्पेन विरोधस्य परिहर्तुं शक्यत्वाच । न ह्यत्र प्रत्यक्षश्रुत्या स्मृतेर्मूलाकांक्षा निवर्तते, येन कल्पनामूलोच्छेदनात् विरुद्धप्रत्यक्षश्रुत्या लिङ्ग- स्येव स्मृतेर्वाधः स्यात् । न वा शैत्योष्णत्वयोरिवान विषय- योरत्यन्तविरोधः, येनौष्ण्यप्रत्यक्षेणेव शैत्यानुमानस्य प्रकृते प्रमे यापहारलक्षणबाधः स्यात् । न त्वेतदस्ति, विकल्पेन द्वयोस्स- म्भवात् इति प्राप्ते- भाष्यकारैरेवं सिद्धान्तितम्- सर्वत्रानुमाने अनुमेयजिना- सायाः कारणत्वात् प्रत्यक्षश्रुत्या च स्पर्शविधानेनावेष्टितत्वल-
अधि..]
मादीपिकासहितम्.
89
पेण औदुम्बर्याः परिच्छिन्नत्वात् जिज्ञासाभावेन नौदुम्बरीवेष्टन-
विषयकश्श्रुत्यनुमानसम्भवः । तथा प्रत्यक्षश्रुतिविरोधाभावेऽपि
यत्रलोभादिदर्शनं यथा “वैसर्जनहोमीयं वासोऽध्वर्युः परिगृ-
हाति" इत्यादौ तत्रापि नं श्रुतिकल्पनम्, क्लुप्तहेतोरेव मू.
लतोपपत्तेरिति ॥
वार्तिककारस्तु-न जिशासाया अनुमित्यङ्गत्वं अग्न्याद्यजिला-
सायामपि तदुदयात् सत्यपि वा.तस्याः कारणत्वे अनुमितिविषय-
श्रुतेर्जिशासितत्वाश्च प्रत्यक्षश्रुतीविरोधाभावेऽपि लोभादिमूलकत्वा-
ङ्गीकारे च अष्टकादिस्मृतेरपि तदापत्तेः ॥ अतश्च प्रत्यक्षश्रुतिविरो-
धेऽपि स्मृतेः शिष्टत्रैवर्णिकपरिग्रहाविशेषेण श्रुतिमूलकत्वकल्पनो-
पपत्तेर्युक्तमेव प्रामाण्यम् । परन्तु यावच्छुतिदर्शनं वेष्टनं नानुष्ठेयं,
अर्थवादाचुन्नीतविधिमूलकत्वस्यापि स्मृतिषु दर्शनेन प्रकृतेऽपि
तन्मूलकत्वस्य सम्भावितत्वात् । तस्य चोन्नयनस्य प्रत्यक्षश्रुतिवि.
रोधे आभासत्वसम्भवात् । अतश्च यावच्छुतिदर्शनं अननुष्ठान-
लक्षणमप्रामाण्यमित्यभिप्राय सूत्रमिति प्राह ॥
यद्वा-
शाक्यादीनामपि क्षत्रियत्वप्रसिद्धेवेंददर्शनस-
म्भवेन तत्प्रणीतस्मृतीनामपि वेदमूलकत्वं तन्मूलभूतवेदश्चेदानी
प्रलीन इति प्राप्ते- . शिष्टत्रैवर्णिकानां धर्मत्वेन परिप्रहस्य
पूर्वाधिकरणमुख्यहेतोरभावात् प्रत्युताप्रमाणत्वेनैव तेषां स्मर.
णात् वेदाप्रामाण्यवादिभिरेव च तत्प्रामाण्यस्वीकायत् वेदमू-
लकत्वकल्पनाउनुपपत्तेरप्रामाण्यमिति सूत्रायः ॥२॥
40 पूर्वमीमांसदर्शनं. [अध्या. १. पा.. (३)-शिष्टाकोपेऽविरुद्धमिति चेन्न शास्त्रपरिमा- णत्वात् ॥ ५ ॥ अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥ ६ ॥ शिष्टानां श्रुतिविहितानां वेदवेदिकरणादिरूपाणां पदार्थानामविरोधे सति अविरुद्धं “क्षुत आचामेत् " इत्यादिस्मृतिवचनमपि प्रमाणमे- वेति वेदकरणाद्यनन्तरं कदाचित् क्षुतादिनिमित्तसंपाते आचमनादिकं स्मृति- विहितमपि कार्यमेव । यत्र हि श्रुतिविहितस्य औदुम्बरीस्पर्शादिरूपपदार्थस्य विरोधप्रसक्तिः तत्रैव सर्ववेष्टनस्मृत्यादिवचनमप्रमाणं स्यात् इति चेत् सिद्धान्ती त्वं पश्यसि न इदं युक्तं श्रुतिविहितपदार्थानां शास्त्रपरि- माणत्वात् शास्त्रेण क्रमबोधकश्रुत्यादिना अवगतं यत्परिमाणं का- लादिपरिच्छेदः अव्यवधानादिरूपं तद्वत्वात् । तथा च श्रुतिप्रमितक्रम. बाधप्रसङ्गेन उदाहृतस्मृत्यादिकमप्रमाणमेवेति ॥५॥ सिद्धान्तमाह- आपि वा कारणाग्रहणे अप्रामाण्यकारणानां तत्तत्स्मृतिकारेवदर्शने सति प्रयुक्तानि स्मृतिवचनविहितान्याचमनादीनि पदार्थरूपतया तद्धर्मभूतकमा- पेक्षया प्रबलानीति प्रतीयेरन् ज्ञायरनं नयज्ञैः ॥ ६ ॥ अथवा-शिष्टाकोप इत्यादि सूत्रद्वयमेकमधिकरणम् । शाक्यादीनां यत् वैराग्यध्यानसत्यवचनदमदयाऽहिंसादिवचनं तत् शिष्टाकोपे शिष्ट- त्रैवणिकविरोधाभावे सति आवरुद्धं सत् प्रमाणतया प्रात्यमिति चेत् न इदं युक्तं शास्त्रपरिमाणत्वात् शास्त्राणां धर्मप्रमाणानां इयन्त्येवति परिमाणवत्त्वात् शाक्यादिवचनस्य च तदनन्तःपातित्वात् न प्रामाण्यमिति ॥५॥ तथा-अपिवेतिसूत्रमधिकरणान्तरम्- अनिवन्धनाना पसं- म्तोत्सवाद्याचाराणामप्रामाण्यामत्युत्सूत्रपूर्वपक्षे सिबान्तमाह-अपि वा का.
भाषि..] माहदीपिकासहितम. रणाग्रहणे वसन्तोत्सवाद्यनुष्ठातृणां शिष्टानां विप्रलिप्सादिरूपाप्रामाग्यका- रणादर्शने सति प्रयुक्तानि तदनुष्ठितानि वसन्तोत्सवादीने कर्तव्यानीत्येव प्रतीयेरन् ॥ ६॥ स्मार्तानामाचमनादीनां श्रौतैः क्रमकालपरिमाणादिभिर्विरोधे श्रीतत्वात् क्रमादीनामेव प्राबल्यात् तद्विषयस्मृतीनामप्रामाण्यम् । न हि 'क्षुते आचामेत्' इति विहितस्य स्मार्ताचमनस्य वेद- वेदिकरणमध्येऽनुष्ठाने 'वेदं कृत्वा वेदि करोति' इति श्रुतिवि हितः क्रमः अनुष्ठातुं शक्यते । स्मार्तपदार्थानां च बहुत्वात् पूर्वाह्नादिकालः प्रयोगसिद्धयवगतं च परिमाणं न शक्यते अ- नुगृहीतुम् । न च श्रीतत्वेऽपि क्रमादेः पदार्थधर्मत्वात् पदार्थभू- तेभ्य आचमनादिभ्यः दौर्बल्यम् । प्रमाणपूर्वकत्वात् प्रमेयावगम- स्य प्रथमावगतप्रमाणबलाबलापेक्षया प्रमेयबलाबलस्य दौर्बल्या. दिति प्राते- पदार्थप्राप्त्यपेक्षत्वात् क्रमादेरौत्तरकालिकस्य यावत्प्रमाणग- म्यपदार्थाविरोधेनैव कल्पनीयत्वात् न तावत्पदार्थविरोधित्वम् । परिमाणं तु न कस्य चिच्छास्त्रस्यार्थ इति न तस्य श्रौतत्वम्। विरोधेऽप्याचमनादीनां पदार्थत्वात् प्राबल्यमेव । प्रमाणानां हि न स्वरूपतो विरोधः । अपि तु प्रमेयविरोधनिबन्धनः । तथ. दैव प्रमेयविरोध आलोच्यते तदैव तद्वतेन बलाबलेन निर्णीते शास्त्रार्थे न प्रमाणबलाबलस्य नियामकमिति प्रमाणमेव तत्स्मृतिः॥ यद्वा-यच्छाक्यग्रन्थेषु वेदाविरुद्धं दानादिवचनं तस्य •भवतु प्रामाण्यमिाते. प्राप्ते- "स्वाध्यायोऽध्येतव्यः"* "वेदोऽखिलो धर्ममूलम् । तद्विदां च स्मृतिशीले" *ते. आ. २.१५. गौतमध.. P.M-6 पूर्वमीमांसादर्शनं. [अध्या. १.पा.३. "पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥"* इत्यादिवचनैनियतप्रमाणप्रतिपाद्यानामेव धर्मत्वप्रतीतेः अन्यतः प्रमितस्य फलसाधनत्वाभावात् तेषामप्रामाण्यमिति ॥ अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् । अनिबद्धानां वसन्तोत्सवाद्याचाराणां प्रामाण्यमप्रामाण्यं वेति सन्देहे एतेषां वेदमूलकत्वे अष्टकादिवत् मन्वादिभिर्निबन्धना- पत्तेः सामान्यतः “तद्विदां च स्मृतिशीले” इत्यादिना निबन्ध नेऽपि विशेषतोऽनिबन्धनेन तेषां श्रुतिदर्शनाभावादप्रामाण्यमिति प्राप्ते- धर्मवुद्धया वैदिकैरनुष्ठीयमानत्वात् स्मृतिवदेव वैदिकत्वम् । विशेषतोऽनिवन्धनं तु गौरवभीत्या न दोष इति । व्यतिक्रम- साहसदर्शनं तु धर्मबुद्धय वैदिकैरननुष्ठीयमानत्वान वैदिकम् । न चैतावता सर्वस्याप्यवैदिकत्वम् । अत आचाराणामपि धर्माध- मेयोः प्रामाण्यमिति ॥३॥ (४)-तेष्वदर्शनाविरोधस्य समा विप्रतिपत्ति- स्स्यात् ॥ ७॥ शास्त्रस्था वा तनिमित्तत्वात् ॥८॥ तेषु यवादिशब्दव्यवहारेषु आर्यानार्यकृतेषु विप्रतिपत्तिः विशि- टा प्रतिपत्तिः शक्त्यवगतिः समा तुल्या स्यात् यथा आर्यव्यवहारा- पवादिपदे दीर्घशूकादिरूपेऽर्थे शक्तिग्रहः तथा अनार्यव्यवहारात् यवा- दिपदे कादिरूपेऽर्थेपि शक्तिग्रहस्स्यात् कुतः? विरोधस्य एकतर- बाधहेतुभूतस्य प्रबलदुर्बलभावस्य अदर्शनात् अनुपलम्मात् ॥७॥ व *याज्ञवल्क्यस्मृ-१-३.
भषि..] भादीपिकासहितम्. 13 शास्त्रस्था वा वेदशास्त्रानुसारिणां भार्याणां व्यवहारेषु या अभिधा- नप्रतिपत्तिस्सैव प्रबला. कुतः? धर्मप्रतिपत्तेः तन्निमित्तत्वात् ॥८॥ अथवा-तेषु स्मृतिविरुद्धाचारपरिगृहीतेषु मातुलसुताविवाहादिषु विप्रतिपत्तिः विशिष्टा प्रतिपत्तिः धर्म्यत्वावगतिः समा तुल्या स्यात् स्मृत्या- चारयोरुभयोरपि श्रुतिकल्पकतया प्रामाण्यात् विरोधस्य एकतरबाधहेतुभूतस्य प्रबलदुबलभावस्य अदर्शनात् ॥७॥ शास्त्रस्था वा विधिप्रत्यय- घटितस्मृतिवाक्यानुसारिणी प्रतिपत्तिरेव बलीयसी आचारस्य तन्निमि- त्तत्वात् स्मृतिरूपशास्त्रकल्पनहेतुत्वात् ॥८॥ यद्वा-त्रिवृदादिशब्दषुः वाक्यशेषलोकव्यवहाराभ्यां समा तुल्या विप्रतिपत्तिः शक्त्यवगतिः स्यात् । तयोः विरोधस्य प्रबलदुर्बलभावस्य अदर्शनात् ॥७॥ शास्त्रस्था वा वाक्यशेषाधीनैव शक्तिप्रतिपत्तिः वलीयसी धर्मप्रतिपत्तेः तनिमित्तत्वात् वाक्यशेषसहकृतविधिवाक्यनि- मित्तकत्वेन वाक्यशेषस्य प्रबलत्वात् ॥ ८॥ प्रयोगरूपाचारस्य यत्रार्यम्लेच्छयोः परस्परमर्थविप्रतिपतिः यथा पीलुशब्दस्य वृक्षविशेष आर्याणां अन्येषां हस्तिनि तत्र तुल्यबलत्वम् , व्यवहारे आर्याणामिव म्लेच्छानामप्यभियुक्तत्वा- विशेषात् । अवध्यस्मरणस्योभयत्रापि समानत्वादिति प्राप्ते- अभिधीयते-शक्यतावच्छेदकभेदेनानेकशक्तिकल्पनाप्रसङ्गात् एक. श्रेव शक्तिः नोभयत्र । न च विनिगमनाविरहः; आर्यप्रसि- धेरेव नियामकत्वात् । आर्या हि शब्दैकसमधिगम्यधर्माधर्म- योरविलुतिलिप्सया शब्दार्थतत्त्वं विविज्य परिपालयन्ति म्लेच्छाः । यार्थव्यवहारस्य यथाकथञ्चिदपि सिद्धः । अत. स्तत्प्रसिद्धग वृक्षविशेष एव शाक्तः । गजप्रतीतिस्तु लक्षणया शतिभ्रमावा । यत्र तु नियामकाभावः तत्रागत्या भक्षाविश- न
-
पूर्वमीमांसादर्शनं. [अध्या. पा..
ब्देषु उभयत्रापि शक्तिः, आर्याणामेवोभयत्रापि प्रयोगात् । त-
त्रापे कदाचिद्वाक्यशेषस्य नियामकता ।
यत्रान्या ओषध-
यो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति" इत्यनेनैव यवश-
ब्दस्य दीर्घशूकविशिष्टे शक्तिः, प्रियङ्गुषु तु लक्षणया प्रयोगः॥
एवं वा-यत्र मातुलकन्यापरिणयनादौ स्मृत्याचारयो-
विरोधः तत्रोभयोरपि श्रुतिकल्पकत्वात् तुल्यबलत्वमिति प्राते-
स्पतीनां सप्रत्ययप्रणीतत्वात् स्मृत्तिषु कर्तव्यताबाचिविधिप्रत्यय.
श्रवणाच बलीयस्त्वम् । आचारेषु तु आचरितुणां जनानां
मन्वाद्यपेक्षया तथा प्रत्ययिततत्वाभावात् इतस्ततो विप्रकीर्णपर.
प्रकरणादिगतश्रुत्यवगमस्याशक्यत्वात् परकीयाचारमात्रदर्शनेन
कर्तव्यतावाचिविधिप्रत्ययस्यावश्यकल्पनीयत्वाच्च दौर्बल्यम् । अत
एवेदानींतनाचारदर्शनेन श्रुतिद्रष्टुः स्मृतिकारस्य स्मृति तदुपदे-
स वा कल्पयित्वा स्मृतिकल्पनं ; स्मृतीनां तु साक्षादेवेति विशेषः।
अतश्च स्मृतिविरोधे आचारस्य यावच्छ्रुतिदर्शनं स्मृतिदर्शनं वा
अननुष्ठानम् ॥
एवं वा-विवृश्चर्वश्ववालादिशब्दषु यत्र लोकवाक्यशेषयो-
स्थेविरलिपत्तिः तत्र पदपदार्थसम्बन्धे लोकावेदस्याधिक्ये प्र-
माणाभावात् तुल्यवलत्वमिति प्राप्ले-विषयैक्याभावे विधिस्तु-
त्योरेकवाक्यताऽनुपपत्तेः विधिर्वाक्यशेषस्यैव शक्तिग्राहकत्वमनु-
मन्यते । अतश्च लौकिकप्रमाणावगतेऽर्थे अनेकशक्तिकल्पनाभिया
न शक्तिः अपि तु लक्षणादिनैव वोधः । अत एव यत्र वाक्यशे-
षो नास्ति समापि त्रिवृदादिपदार्थो वैदिक एव ग्रहीतव्य इति
पश्यते । अतश्च मिदृच्छब्दस्य स्तोत्रगतऋड्नवकं शक्यं न तु
बेशुष्यम् । बरुशब्दस्योदनः न तु स्थाली । अश्ववालशब्दस्य
कामाः नाश्वकेशाः । वाक्यशेषास्तु कौस्तुमे द्रष्टव्या॥४॥
भषि...] भावीपिकासहितम 45. (५)-चोदितं तु प्रतीयताविरोधात्प्रमाणेन ॥९॥ यत्र पिकादिशब्देषु आर्याणां न कचिदर्थविशेषे व्यवहारः तत्र चोदितं तु अनायवहृतमेव तत्तत्पदार्थस्वरूपं प्रतीयेत बलवता प्रमाणेन अविरोधात् विरोधबिरहात् ॥९॥ यत्रः पिकनमसततामरसादिशब्दानां नार्याणामर्थविशेष प्रसिद्धिः म्लेच्छेषु तु पिकः कोकिलः नेम अर्ध सतं बृहत् प. रिमण्डलं शतच्छिद्रं दारुपात्रं तामरसं कमलमित्येवं प्रसिद्धिः तत्र तत्प्रसिद्धार्थस्यैव ग्रहणं; न तु निगमनिरुक्तादिना तत्क- ल्पनम् । न च म्लेच्छेषु शब्दार्थयोविलुतिदर्शनात् तत्प्रसिद्ध रविनम्भणीयता; पिकादिशब्दानां वेद एव दृश्यमानत्वेन अ. विप्लुतत्वात् । अतश्च तेषां वाच्याकांक्षायां तत्प्रसिद्धरप क्लप्त- तया शक्तिग्राहकत्वम् । अत एव निगमादिप्रसिद्धरण्यार्यप्र. सिद्धित्वेन प्राबल्येऽपि कल्प्यत्वेन दौर्बल्यम् , म्लेच्छप्रसिद्धेश्व म्लेच्छप्रसिद्धित्वेन दौर्बल्येऽपि तृप्तत्वेन प्राबल्यं ; प्रमाणबलाब- लापेक्षया प्रमेयबलावलबलीयस्त्वस्य स्थापितत्वात् । अत एव नात्र विशेषेण पूर्वः पक्षः कथितः ॥५॥ .(६)-प्रयोगशास्त्रमिति चेत् ॥ १० ॥ नास- नियमात् ॥ ११ ॥ अवाक्यशेषाञ्च ॥ १२ ॥ सर्वत्र प्रयोगात्सविधानशास्त्राच्च ॥ १३ ॥ कल्पसूत्रादिकं प्रयोगशास्त्रं प्रयोगस्य धर्मानुष्ठानस्य साक्षाद्वि- धायकं सत् साक्षादेव वेदवत् प्रमाणं वेदमूलकतया प्रामाण्यकल्पने 46 पूर्वमीमांसारर्शनं. [अध्या. १. पा.. गौरवात इति चेत् ॥ १०॥ न इदं युक्तं असन्नियमात्. पूर्वम- सतामेव माशकबौधायनादिकल्पसूत्रादीनां नियमात् निबन्धनात् तत्र स्पष्टमेव पौरुषेयत्वोपलब्धेः न लाघवमूलकवेदतुल्यप्रमाणत्वकल्पनसंभवः ॥ १॥ अवाक्यशेषाञ्च प्रायशो केदे अर्थवादवाक्यानि दृश्यन्ते तथा कल्पसूत्रादिषु वाक्यशेषस्य अर्थवादादेरदर्शनात् अपि न तेषां वेदवदपौरुषेयतया स्वतःप्रामाण्यकल्पनसंभवः ॥ १२ ॥ कल्पसूत्राणां वेदमूलकत्वेन प्रामाण्यस्य सिद्धान्त्यर्भिमततया वेदमूलकत्वेन प्रामाण्ये स्वतः प्रामाण्ये वा विशेषादर्शनादेतद्विचारस्य वैफल्यमित्याशङ्कायामाह- सर्वत्र वेदविरुद्धेऽप्यर्थे प्रयोगात् कल्पकारैः स्ववाक्यस्य प्रयुक्तत्वात सनिधानशास्त्राच तादृशकल्पकारवाक्यविरुद्धस्य सनिहितस्य प्रत्यक्षस्य ध्रुतिवाक्यरूपस्य शास्त्रस्य सत्त्वाच्च विचारोऽयं सफल इत्यर्थः ॥ कल्पसूत्रादीनां स्वतः प्रामाण्ये प्रत्यक्षश्रुतिविरोधे सति तद्विषये विकल्प- स्स्यात् । वेदमूलकत्वेन प्रामाण्ये तु प्रत्यक्षश्रुतेः प्राबल्यात् यावन्मूल- भूतश्रुतिवाक्यदर्शनमननुष्ठानलक्षणमप्रामाण्यमेवं तादृशकल्पसूत्रवाक्यस्येति भावः ॥१३॥ स्मृतीनां कल्पसूत्राणां वा षडङ्गानामेव वा शाक्यादिग्रन्थानां षा वेदत्वं वेदतुल्यत्वं वा भवतु । न थुत्यादिमूलकत्वं गौर- पात् नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तेश्च । अङ्गानां तु 'षडङ्ग- मेके' इति स्मृतेरपि वेदत्वम् । बुद्धबौधायनशाक्यादिसमाख्या तु काठकादिवत् प्रवचननिमित्तत्वेनाप्युपपद्यत इति प्राप्ते- हढकर्तृस्मरणात् काठकादिवत् प्रवचननिमित्तत्वानुपपत्तेः नैषां वेदत्वं वेदतुल्यत्वं वा । प्रतिमन्वन्तरं च एवंविधानां ग्रन्थानां सत्त्वानित्यब्रह्मयज्ञविधिविषयत्वोपपत्तिः । 'षडङ्गमेके' इति तु परमतोपन्यासः, एकपदश्रवणात् । तस्मादेतेषां स्मृत्यधिकरण.
47 अधि...] भारदीपिकासहितम्. न्यायेत वेदमूलकत्वमेव । शाक्यादिग्रन्थानां तु तदसम्भवावा- भासत्वमेव । प्रयोजन-पूर्वपक्षे कल्पसूत्रादीनां वेदत्वे घेदतुल्यत्वे वा यत्र प्रत्यक्षश्चतिविरोधः तत्र विकल्पः यत्र वा प्रत्यक्ष- श्रुतिविरोधाभावेऽपि न्यायाभासमूलकं वचनं तत्रापि वचनत्वादेव तदनुष्ठानम् । न्यायोपन्यासस्तु हेत्वधिकरणन्यायेनार्थवादः । सिद्धान्ते तु-प्रत्यक्षश्रुतिविरोधे वा न्यायविरोधे वा यावच्छृति दर्शनमननुष्ठानलक्षणमप्रामाण्यम् । श्रुतिदर्शनोत्तरं तु विकल्पादि। यत्र तु न्यायोपन्यासरहितं मीमांसान्यायविरुद्धं च स्मृतिवचनं तत्र श्रुतिमूलत्वसंभवेन वचनविरोधे न्यायस्यैव आभासत्वात् तदर्थ एवानुष्ठेय इति । अत्र सर्वत्रोदाहरणानि मूलोकोदा. हरणदूषणानि चास्मत्कृतकौस्तुभे द्रष्टव्यानि ॥ ६ ॥ (७)-अनुमानव्यवस्थानातत्संयुक्तं प्रमाणं स्यात् ॥ १४ ॥ अपि वा सर्वधर्मस्स्याचन्न्याय- त्वाद्विधानस्य ॥ १५॥ दर्शनाद्विनियोगस्स्यात् ॥ १६ ॥ लिङ्गाभावाच्च नित्यस्य ॥ १७॥ आख्या हि. देशसंयोगात् ॥ १८॥ न स्याद्देशान्तरेष्विति चेत् ॥ १९ ॥ स्याद्योगाख्या हि माधुरवत्॥२०॥ कर्म धर्मो वा प्रवणवत् ॥ २७ ॥ तुल्यं तु कर्तृ- धर्मेण ॥ २२॥ अनुमानव्यवस्थानान् अनुमानस्य स्वमूलभूतप्रमाणानुमापकस्य मौत मधर्मशाखादिरूपस्मरणस्य होलाकाद्याचारस्य व व्यवस्थानाद ब्यक.
पूर्वमीमांसादर्शन अध्या. ... स्थितत्वात् तत्तत्स्मृती छन्दोगादिरूपाध्येत्रध्येयत्वनियमस्य तत्तदाचारे प्राच्योदाच्यादिरूपकत्रनुष्ठेयत्वनियमस्य च दर्शनात् तत्तन्मूलतया कल्प- नीयं प्रमाणं वेदवाक्यमपि तत्संयुक्त छन्दोगप्राच्यादिरूपाधिकारिविशेष- वाचकपदसंबद्धमेव स्यात् ॥ १४ ॥ अपि वा इति पूर्वपक्षो व्यावर्तते तत्तत्स्मृत्याचारावगतोऽर्थः सर्वधर्मः छन्दोगत्वाद्यनादरेण सर्वेषामेव धर्मः स्यात् विधानस्य विधायकस्य तत्तन्मूलप्रमाणस्य तन्न्यायत्वात् सर्वधर्मताग्राहकन्यायवत्त्वात् । विधायकवाक्ये कर्तरि छन्दोगलादिविशेषण- विशिष्टत्वग्राहकप्रमाणाभावे सर्वविषयत्वमेव तद्वाक्यस्येति हि न्यायः॥१५॥ यत्र तु शिखाकर्मादिषु "मुण्डा भृगवः " इत्यादि व्यवस्थापकवचनं दृश्यते तत्र तादृशवचनस्य दर्शनात् विनियोगः भृग्वादिरूपाधि- कारिविशेषान्वय: स्यात् । न चेह गौतमधर्मशास्त्रायवगते सर्वधर्मे विशेषव्यवस्थापकं किंचिद्दश्यत इति ॥ १६ ॥ “लिङ्ग" इत्यविभक्तिको निर्देशस्सौत्रः । नित्यस्य तत्तत्कर्मकर्तृनियतस्य लिङ्गस्य रूपस्य कस्य चिदपि अभावात् च । तादृशरूपसत्त्वे हि तद्विशिष्टस्यैव अधिकारिता विधाने प्रतीयेत । “शुक्लो होता" इत्यादौ तु प्रत्यक्ष भेव श्रुतौ शुक्लत्वादि लिङ्गं श्रूयते । शुक्लत्वश्यामत्वादिकं तु नात्र लिङ्ग कर्तृविशेषणं भवितुमर्हति, अनेवंविधैरपि तत्तत्कर्मानुष्टानात्॥१७॥ भाण्या प्राच्यादिसमाख्या हि देशसंयोगात् प्राच्या भव इत्यादि. ध्युत्पत्त्या प्रागादिदेशसंबन्धप्रवृत्तिनिमित्तका । तथा च प्राग्देशं परित्यज्य दक्षिणापथमागतानां पुत्रपौत्रादिभिरपि प्राच्यत्वायभिमानेन तत्तदाचारा-.. नुष्ठानात् "प्राच्या होलाकोत्सवं कुर्युः" इति श्रुतिकल्पने तदनुपपत्तिः त्यक्तमाग्देशेषु प्राच्यपदवाच्यत्वासंभवात् ॥ १८॥ प्राच्यादिसमाख्यानां प्रागादिदेशसंबन्धनिमित्तकत्वे देशान्तरेषु प्राग्देशादिकं परित्यज्यं दक्षि. णापयादिदेशस्थेषु प्राच्यादिव्यवहारो न स्यात् । अतः प्राच्वत्वादिकं जातिविशेषस्तमिमित्तिका च प्राच्यादिसमाख्येत्याश्रयणीय इति चेत् 49 भाष.७.] भारदीपिकासहितम्. ॥१९॥ नेदं युक्तं योगाख्या प्राच्यादियोगिकसमाख्या हि माधुरषत् मधुरां परित्यज्य नगरान्तरमागते “ तत आगतः " इत्यनुशिष्टाणन्तमाधुर. शब्दवत् प्राचीत आगतः प्राच्य इति योगनिमित्ता उपपन्ना स्यात् तेन जातिकल्पकाभावान जातिप्रवृत्तिनिमित्तकत्वं तत्समाख्यायाः ॥१०॥ कर्तृविशेषवाचिपदघटितश्रुतिकल्पनाया उक्तरीत्या असंभवेऽपि ॥ कृष्णमृ. त्तिकापाये अहीनैबुकापरपर्यायं करञ्जवृक्षपूजनं कुर्युः " इत्यादिरीत्या श्रुतिकल्पनं संभवत्येवेति शङ्कते-"प्राचीनप्रवणे वैश्वदेवेन येजत" इत्यादी प्राचीनप्रवणवत् कृष्णमृत्तिकाप्रायादिदेशविशेषः कर्मधर्मों वा अहीनबुकादिकङ्गिमेव स्यात् ॥ २१ ॥ समाधत्ते-देशविशेषः कर्मधर्म- तयोक्तः कर्तृधर्मेण प्राच्यत्वश्यामत्वादिना तुल्य एव, अन्यूनानतिप्रसक्त- वाभावस्य उभयत्राविशिष्टत्वात् । कृष्णभूमि परित्यज्य रक्तमृत्तिकाप्रायदेश- निवासिभिरपि तदनुष्ठानात् तथा श्रुतिकल्पनं न संभवतीति ॥ २२ ॥ अथ यत्र स्मृतिषु पाठव्यवस्था यथा गौतमीयाः छन्दो- गैरेव तथा आचारेषु कर्तृव्यवस्था यथा होळकादि प्राच्याधाम- मानिभिरेव तत्र तदनुमेयश्रुतिरप्यनुमापकस्य नियतविषयत्वात् नियताधिकारिकैवेति नान्यैस्तदनुष्ठेयमिति प्राप्ते- यद्यप्यनुमापकं नियतविषयक तथाऽपि नानुमेयश्रुतौ विशे- षणं प्राच्यत्वादि दातुं शक्यम् । न हि प्राच्यत्वं नाम सर्वाचरि. अनुगतं, जातिव्यक्तिगुणसंस्थानादिभिनिर्वक्तुं शक्यम् । तत्र तद्देशगतानामप्यनाचरणान् चिरनिर्गतपुत्रपौत्राणामप्याचरणाश्च । अतो. विशेषणाभावात्सर्वविषयत्वम् । गौतमीयादिस्मृतेस्तु न छन्दोगाधिकारस्मरण, · येन श्रुतावपि तत्सम्भाव्येत । पाठमात्र तु तेषां स्मृतिकर्तुस्तच्छाखोयत्वादुपपन्नम् । कर्ता हि छन्दोगः स्वशिष्यान् छन्दोगान् ग्रन्थमध्यापयामास । तेऽप्यन्यानित्येवं पाठः तन्मात्रे व्यवस्थित इति तत्रापि सर्वविषयत्वमेव ॥७॥ P.x-7
50
पूर्वमीमांसादर्शनं. भिध्या. १. पा.-३०
(6)-प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था
स्यात् ॥२३॥शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागि-
त्वम् ॥ २४ ॥ अन्यायश्चानेकशब्दत्वम् ॥ २५॥
तत्र तत्त्वमभियोगविशेषात्स्यात् ॥ २६ ॥ तदश-
क्तिश्च तदनुरूपत्वात् ॥ २७॥ एकदेशत्वाच्च वि-
भक्तिव्यत्यये स्यात् ॥ २८ ॥
व्याकरणस्य प्रयोगोत्पत्त्यशास्त्रत्वात् प्रयोगे साधुशब्दप्रयोगे
उत्पत्ती औत्पत्तिक इत्यादौ उत्पत्तिपदस्य स्वभावपरतया साधुत्वरूपे
स्वभावे च अशास्त्रत्वात् अनियामकत्वात् शब्देषु गोगाव्यादिषु व्य-
वस्था साध्वसाधुविभाग: न स्यात् । साधूनेव प्रयुञ्जीतेति प्रयोग
नियमस्य वा गवादिशब्दा एव साधव इति स्वभावनियमस्य वा साधु-
वनिर्वचनाद्यसंभवेन व्याकरणेन कर्तुमशक्यत्वान्न व्याकरणं प्रमाणमिति
भावः ॥ २३ ॥ समाधत्ते-शब्दे गवादिशब्दे प्रयत्ननिष्पत्तेः कण्ठ-
ताल्वादिप्रयत्नेन निष्पत्तेर्दर्शनात् गाव्यादिशब्दानां अपराधस्य करणा-
पाटवादिजन्यापभ्रंशस्य भागित्वं गम्यते । तथा च गोशब्दोच्चिचार-
यिषया करणापाटवादिना गावीशब्द: केनचिदुच्चरितः प्रयोज्येन च तदभिप्राय
शेन गौरानीता । तद्दष्टा पार्श्वस्थश्च गावीशब्दस्य गवि शक्तिं गृहन् स्वयमपि
व्याजहारेत्येवंरीत्या पाव्यादिशब्दानां गवाद्यपभ्रंशरूपतावगतेः गवादिशब्दा-
नामेव वाचकत्वमनपभ्रष्टत्वं साधुत्वम् । एतज्ज्ञापकं च व्याकरणमिति
भवति व्याकरणं प्रमाणम् ॥ २४ ॥ गोशब्दवत् गावीशब्दस्यापि वाच-
कत्वकल्पने एकस्यार्थस्य गवादेः अनेकशब्दत्वं गोगाव्याघनेकशब्द.
वाच्यत्वं अन्यायश्च न्यायभिन्नं हि अन्याय्यं प्रसज्यते । हस्तादिषु
तु हस्तकरपाण्यायनेकशब्दवाच्यत्वमभियुक्तोपदेशबलात्स्वीक्रियते ॥ २५ ॥
भषि...] भाध्दीपिकासहितम्. 51 तत्र तत्त्वं गवादिशब्देषु साधुत्वं इतरेष्वपभ्रष्टत्वं च अभियोगवि- शेषात् अभियुक्तानां व्याकरणप्रणेतृणां य: अभियोगविशेषः उपदेश- विशेषः सूत्रादिरूपः तस्मादवगन्तुं शक्यं स्यात् ॥ २६ ॥ तदश- क्तिश्च गाव्यादिशब्दानामवाचकत्वं च तेषां गाब्यादिशब्दानां तदनु- रूपत्वात् गवादिशब्दानुरूपत्वात् । तथा च गाव्यादिशब्दानां कथंचि- द्वर्णसाजात्येन वाचकंगवादिशब्दोपस्थापकतयैवार्थबोधोपपत्तेः न वाचकत्व- कल्पनमावश्यकमिति भावः ॥ २७॥ एकदेशविकारेऽपि उपदर्शितरीत्या अर्थप्रत्ययस्वीकारादेव विभक्तिव्यत्यये “ अश्मकेभ्य आगच्छति" इति वक्तव्ये अश्मकैरागच्छत्तति. विभक्तिव्यत्ययप्रयोगेऽपि एकदेशत्वाच विभक्तिरूपैकदेशविकारादेव च अर्थप्रत्यय उपपन्नः स्यात् ॥ २८ ॥ ; स्मृत्यधिकरणन्यायेन सिद्धमपि व्याकरणप्रामाण्यमाक्षिप्यते । नियमद्वयार्थ हि तत् । साधूनेव प्रयुञ्जीत नासाधूनित्येकः । गवादय एव साधवः न गाव्यादय इत्यपरः । न च नियम- यस्य मूलं 'सम्भवति; प्रतिगवादिशब्दमनेकश्रुतिवाक्यपाठास- म्भवात्, साधुत्वस्य पूर्ववनिर्वचनासम्भवेन अनुगतैकश्रुतिकल्प- नानुपपत्तेश्च न हि साधुत्वं नाम अर्थप्रत्यायकत्वं अनादित्वे सति वाचकत्वं वा । गाव्यादिष्वपशब्देष्वपि सत्वात् । अपशब्दानां क- चित् वाचकत्वाभावे गवादिषु गौणत्वस्याप्यसम्भवाच । अतो वाचकत्वाविशेषात् न व्याकरणेन नियमस्सम्भवतीति प्राप्ते- प्रयोगप्रत्यययोस्साधुशब्दापभ्रंशजानां गाव्यादिशब्दानां सा- धुशब्दोपस्थापनद्वारा उपपत्तेः न वाचकत्वकल्पकता, अनेकशक्ति- कल्पनापत्तेः । इदानींतनानां च शक्तिभ्रमात्तौ प्रयोगप्रत्ययौ । न च घटकलशादिपदवद्विनिगमनाविरहः; पाणिन्यादिप्रणीतम्या- करणस्यैव नियामकत्वात् । न चामूलत्वम् ; प्रयोगनियमे सार- 62 पूर्वमीमांसादर्शनं. [अध्या.. पा... नेव प्रयुञ्जीतेत्येवंविधाया एकस्या एव श्रुतेर्मूलत्वात् । सा- धुत्वं चानादिवाचकत्वम्, अनपभ्रष्टत्वं वा. व्याकरणाभ्यासजनित- संस्कारव्यङ्गया जातिवा, प्रमितवृत्त्या अर्थप्रत्यायकत्वं वेति को- स्तुभ एवातिक्षुण्णम् । तदभावश्चासाधुत्वम् । प्रत्यक्षैव श्रुतिः "न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः" इत्या- दि मूलम् । भयं च निषेधः प्रकरणात् ज्योतिष्टोमाङ्गम् । यज्ञमात्रेऽपि च निषेधः, "याशे कर्मणि नियमोऽन्यत्रानियमः” इति महा- भाष्यानुसारात् । साधुप्रयोगनियमात् परं फलोदय इत्यपि “ एक- शब्दस्सम्यग्ज्ञातस्सुष्टु प्रयुक्तः स्वर्गे लोके कामधुग्भवति" शते वचनात् । अत्र हि प्रयोगाश्रितसाधुशब्दनियमः फलोद्देशेन विधीयते । रागप्राप्तस्यापि साधुप्रयोगस्य “ तस्मादियं व्याकृता वागुद्यते"* इति वचनादाश्रयत्वसिद्धिरिति स्पष्ट कौस्तुभे । गवादय एव साधवः न गाव्यादय इति साधुस्वरूपनियमस्य तु अनादिप्रयोगपरम्परैव मुलम् । अतः प्रमाणं व्याकरणम् । यत्तु -न्यायमूलकं स्फोटादि तत्रोच्यते श्रुतिविरुद्धं च तन्न्या- यक्षुतिविरोधे कामं भवत्वप्रमाणम् ॥ ८॥ (९)-प्रयोगचोदनाभावादकत्वमविभागा- स्यात् ॥ २९ ॥ उत्तराधिकरणोपोद्घाततया लोकवेदयोश्शब्दार्थकत्वमिहाभिधीयते- प्रयोगचोदनाभावात् प्रयोगेषु ज्योतिष्टोमादिकर्मप्रयोगेषु याश्चोदनाः "ज्योतिष्टोमेन स्वर्गकामो यजेत""गां दद्यात्" इत्याद्याः तासां भावात्सद्भावात अविभागात् प्रत्यभिज्ञया " त एवामी गवादयश्शब्दाःये लोकेऽस्माभिदृष्टाः" इत्यादिकया अभेदस्य गृह्यमाणत्वाञ्च अर्थैकत्वं अर्यस्य वैदिकगवादिशब्दार्थस्य लौकिक्रगवादिशब्दार्थेन सहाभिन्नत्वं स्यात्।भेदे हि वैदिकशब्दार्थसम्बन्धस्य *तै. सं.६.४-७- .
अधि..] भाहदीपिकासहितम 63 दुरधिगमतया चोदनानां निरर्थकत्वप्रसझेन सद्भाव एव नोपपद्यत । तथा वैदिकलौकिक शब्दार्थाभदावगाहिनी प्रत्यभिज्ञाऽपि नोपपद्येत । अभेदे च लोकावगतशब्दार्थसंवन्धवशादेव वैदिकगवादिपदादिभ्योऽ. प्यर्थप्रत्ययसभवात्सफलाश्चोदनाः । लोकासिद्धानां यूपादिशब्दानां तु प्रसिद्धपदसन्निधानवशादेव शक्तिग्रहस्सुलभ इति ॥ २९ ॥ वाचकशब्दप्रसङ्गाद्वाच्यं किं घटत्वादिजातिः उत व्यक्तिरि- ति चिन्ता । तदर्थ च लोकवेदयोश्शब्दानामन्यत्वमुत नेति चि- न्तनीयम् । अन्यत्वे ह्युपायाभावेन वैदिकशब्दशक्तिग्रहस्याप्यसम्भ- वात् नाद्या चिन्ता आरम्भणीया । एकत्वे तु लोकवृद्ध व्यवहारानुसारेण गृहीता शक्तिर्वेदेऽपि फलिष्यतीति युक्ता आद्या चिन्ता । तत्र वर्णाभेदेऽपि स्वरच्छान्दसवर्णागमलोप- विकाराध्यायानध्यायादिधर्म भेदात सरोरस इत्यादिपदयोरिव लोकवेदयोः पदानामन्यत्वमिति प्राप्ते- -- यत्रार्थभेदप्रतीत्यनुगुणधर्मभेदस्तत्र पदभेदः यथा सरो रस इत्यादी क्रमात् । ब्रह्मव्राह्मणेति न्यूनातिरिक्तत्वात् । स्थूलपृष- तीमित्यत्र कर्मधारयबहुवायोस्स्वरात् अन्तोदात्तायुदात्तत्वरू- पात् । पचते दक्षिणां देहि, भोजनार्थ पचत इत्यत्र व्यधिकर. णपदसन्निधिरूपात् वाक्यात् । यातः पुनरायाति यातो देवदत्त- यज्ञदत्तावित्यत्र समानाधिकरणपदसन्निधिरूपया श्रुत्या । अश्व इत्यगम इत्यर्थे व्याकरणस्मृत्या तदभिशस्य पदभेदानुभवात् । : यत्र तु नार्थभेदप्रतीतिः तत्र सत्यपि धर्मभेदे हढतरप्रत्यभि- ज्ञावलेन एकत्वावधारणात् न पदान्यत्वं लोकवेदयोरिति युक्ता आधा चिन्ता ॥९॥ (१०)-अद्रव्य शब्दत्वात् ॥३०॥ अन्यदर्श- 64 पूर्वमीमांसारर्शनं. [अध्या. 1. पा. ३. नाच ॥ ३१ ॥ आकृतिस्तु क्रियार्थत्वात् ॥ ३२ ॥ न क्रिया स्यादिति चेदान्तरे विधानं न द्रव्यमिति चेत् ॥३३॥ तदर्थत्वात्प्रयोगस्याविभागः ॥३४॥ गवादिपदानां किं ध्यक्ती शक्तिः उत जाती इत्ययं वाचक- शब्दविचारप्रसङ्गायातो वाच्यसंशयः । तत्र जातिवाचकत्वं निराकुर्वन् पूर्वपक्षी आह-प्रयोगचोदनाभावादित्येतत् पूर्वाधिकरणे सिद्धान्तसूत्र- मपोह तन्त्रेण पूर्वपक्षसूत्रमपि । जाती प्रयोगचोदनाभावात् ब्री- हीन्प्रोक्षतीत्यादिप्रोक्षणाद्यनुष्ठानविधेरसंभवात् अविभागात् चिद्वय- क्तिः क्वचिच्च जातिरर्थ इति विभागस्यान्याव्यवाच अर्थकत्वं व्यक्तेरेब पदार्थत्वं न जातेरिति स्यात् । अद्रव्यशब्दत्वात् गवा दिपदानां जातिवाचकत्वे सति द्रव्यवाचकशब्दखाभावात् " एकां गां दद्यात् * इत्यादौ व्यक्तावेव लिङ्गसंख्याकारकान्वयो वाच्यः, स च न घटते द्रव्यस्यैव तद्योगसंभवात् जातेस्तदसंभवात् । तस्माद्वयक्तिरेक पदार्थः ॥३०॥ अन्यदर्शनाच्च यदि पशुरुपाकृतः पलायेतान्यं पशुमुपाकुर्यात् इत्यादौ अन्यपदसमभिव्याहारदर्शनादपि “पदानां न जातिवाचित्वम् । जातेः पशुपदार्थत्वे तत्र प्रक्रान्तपशुपदार्थान्यत्वान्वयायोगात् । व्यक्ति- वाचित्वे तु पदानां उपाकृतपशुव्यक्त्यन्यत्वं पशुव्यक्त्यन्तरे संभवत्येवेति नैषा नुपपत्तिः ॥ ३१॥ सिद्धान्तमाह-आकृतिस्तु जातिरेव गवादि- पदवाच्या न व्यक्तिः; कुतः ? क्रियार्थत्वात् “ पशुना यजेत " इत्यादेः पश्वादिकरणकक्रियाप्रतिपादकत्वसंभवात् । व्यक्तिशक्ती हि पशु- पदस्य किमेकव्यक्तौ शक्तिः उत सकलव्यक्तिषु । नायः, तब्धकिनाशे सति वेदस्यानित्यसंयोगित्वप्रसङ्गात् । व्यक्त्यन्तरकरणकयागस्य शास्त्रार्थत्वानुप- पत्तिप्रसाश्च । न द्वितीयः., गौरवात् भूतभाविसकलव्यक्तिकरणकत्वस्य “ ते,मा.१-४-७ भाषि...] भाइदीपिकासहितम्. 65 - यागक्रियायां संपादायतुमशक्यत्वाच । पशुत्वोपलक्षितव्यक्तिवाचित्वे व लाघवात् पशुत्व एव जातौ शक्तिस्वीकरणमुचितम् । पशुत्वजात यागकरणत्वं व्यक्तिद्वारकमिति नान्वयानुपपत्तिः ॥ कचित्तु व्यक्त- रपि भान लक्षणयोपैपादनीयमिति ॥ ३३॥ पूर्वपक्ष्युक्तानि दूषणान्यु. द्धर्तुमनुवदति-क्रिया प्रोक्षणादिरूपा जातो न स्यादिति चेत्, एवं- 'यदि पशुरुपाकृतः पलायेतान्यं पशुमुपाकुर्यात् ' इति अर्थान्तरे अन्यस्मिन्पशुपदार्थ विधानं उपाकरणविधिः न स्यादिति चेत्, तथा-- द्रव्यं 'एकां गां दद्यात् * इत्यादी लिङ्गसंख्याद्यन्वययोग्यं द्रव्यं च न प्रतीयेत इति चेत् ॥ ३३॥ एवमनूद्य परिहरति-प्रयोगस्य व्रीहीन्प्रोक्षति' इत्याधुपदर्शितप्रयोगस्य तदर्थत्वात् लक्षणया व्यक्ति- रूपार्थपरत्वात् अविभागः न जातिशक्तिवादभङ्गः ॥ ३४ ॥ इति सारबोधिन्यां जैमिनिसूत्रवृत्तौ प्रथमस्य तृतीयः. तत्रावघातादिक्रियाणां लिङ्गकारकसङ्ख्यादीनां च जाताव. योग्यत्वात् गौश्शुक्लेत्यादिसामानाधिकरण्यनिर्देशाच्च व्यक्ति वाचित्वमेव । न चैवं जातियोधानापत्तिः; लक्षणादिना तद्वो. धोपपत्तेः । व्यक्तिशक्तिंग्रहस्यैव वा कार्यतावच्छेदकं जातिवि- शिष्टशाब्दबोधत्वम् । अतो न दोषः। न च विनिगमनाविरहः । लाघवस्यैव नियामकत्वात् । तथा हि-न शक्तिग्रहस्य स्वात- न्त्रयेण कारणत्वम् । अपि तु लाघवात् शक्यत्वादिसम्बन्धेन घटपदवत्ताज्ञानस्यैव । अतश्चास्मन्मते घटत्वं धर्मितावच्छेदकी- कृत्य. शक्यत्वसम्बन्धेन घटपदप्रकारकस्य ज्ञानस्य घटो घटपद. वानित्याकारकस्य विशेष्यतासम्बन्धन विशिष्टशाब्दबुद्धित्वाव- च्छिन्नं प्रति कारणत्वम् । भवन्मते तु-घटत्वत्वं धर्मितावच्छेद- * तै. मा. १.४.७.
56 पूर्वमीमांसादर्शनं [अध्या. १.पा.३. कीकृत्य तद्वाच्यम् । अतश्च घटत्वत्वस्य घठेतरावृत्तित्वादिरूप. स्यानेकपदार्थघटितस्य प्रवेशात् तव कार्यकारणभावे गौरवम् । न च शक्त्यानन्त्यादिदोषः । तस्य फलमुखत्वात् । अतश्च लाघवात् व्यक्तावेव शक्तिः, जातिविशिष्टव्यक्तौ वा; न तु जाता. वेवेति प्राप्ते-- 5 घटत्वं धर्मितावच्छेदकीकृत्य शक्यत्वसम्बन्धेन छठपदव- त्ताज्ञानस्य कारणत्वं पदत्वं धर्मितावच्छेदकीकृत्य शक्त्यत्वस- म्बन्धेन घटवत्ताज्ञानस्य वा घटपदं घटवदित्याकारकस्य कार- णत्वमित्यत्र विनिगमनाविरहण अनन्तकार्यकारणभावप्रसङ्गात् । अस्मन्मते तु-घठपदत्वं धर्मितावच्छेदकोकृत्य शक्तत्वसम्बन्धेन घटत्ववत्तानिश्चयस्यैव घटपदं घटत्ववदित्याकारकस्य कारणत्व- कल्पनाल्लाघवम् । नच ममापि विपरीतमापादयितुं शक्यम् । तथा सति घटत्वस्य धर्मित्वे स्वरूपण तस्य धर्मित्वायोगात् घ- टत्वत्वेन तस्य प्रवेशे गौरवस्य त्वयैवोक्तत्वात् । अतो न घट- त्वत्वावच्छिन्नं घटत्वं शक्यत्वसम्बन्धेन घटपदवदित्याकारकं शानं कारणं, अपि तु घटपदं शक्तत्वसम्बन्धेन घटत्ववदित्या- कारकमेव जातेस्स्वरूपेणैव प्रकारत्वोपपत्तौ घटत्वत्वस्याप्रवे- शात् । न च समवायनान्यप्रकारत्व एव जातेः स्वरूपेण प्र. कारता न सम्बन्धान्तरेणेत्यत्र प्रमाणमस्ति । परैरपि तथाऽनभ्युप- गमाश्च । अतश्च कार्यकारणभावेऽपि लाघवात् घटत्व एव शक्तिः । शक्त्यानन्त्यादि च नास्त्यस्मन्मते । अतः प्रथमोप- स्थितत्वात् जातावेव शक्तिः । एवमरुणादिशब्दानामपि गुण एव गुणत्वे वा न तावशिष्टद्रव्ये । कथं तर्हि व्यक्तिबोधः; अभेदात् । उक्तविधकारणस्य जातिगुणविशिष्टव्यक्तिशाब्दत्व एव कार्यतावच्छेदकत्वस्वीकारावा । वस्तुतस्तु जातिगुणशाब्द- भषि. १.] माहदीपिकासहितम्. 57 . त्वमेव लाघवेन कार्यतावच्छेदकम् । व्यक्तिस्तु तृतीया- दिस्थले 'पशुना यजेत' 'अरणया पिकाच्या क्रीणाति' इत्या- दौ नैव पदाद्भासते; जातिगुणयोरेव व्यक्तिपरिच्छेदद्वारा का- रणत्वोपपत्तेः । लिङ्गसंवययोरपि पाशाधिकरणन्यायेन सामा- नाधिकरण्येन पाष्ठिको जातिगुणसम्बन्धः । अतः सम्बन्धवि- धयैव तत्र व्यक्तिबोधः । द्वितीयादिस्थले तु जातिगुणयोः कर्मत्वाद्यन्वयायोग्यत्वात् व्यक्तलक्षणया बोधः । तस्या एव कर्मत्वाद्यन्वयः । लिङ्गसङ्खयान्वयश्च साक्षात्सम्बन्धेनैव । सा- मानाधिकरण्यं च व्यक्तिद्वारकमिति सधै सुस्थम् । प्रयोजनं पूर्वपक्षे रथन्तरादिशब्दानामृग्वाचित्वात् 'रय- न्तरमुत्तरयोर्गायति' इत्यादौ उत्तरापदोपलक्ष्योत्तराकार्ययोः ऋग्वि- धानम् । सिद्धान्ते तु गीत्यतिदेश उत्तरास्विति वश्यते ॥१०॥ इति भाट्टदीपिकायां प्रथमस्याध्या- यस्य तृतीयः पादः. (१)-उक्तं समानायैदमयं तस्मात्सर्वं तदर्थ स्यात् ॥१॥ समाना- विध्युद्देशगतपदविशेषप्रामाण्यनिरूपणमेतत्पादोपाधिः । यैदमर्थ्य समानायस्य कृत्स्नस्य पदजातस्य ऐदमय क्रियान्वित- स्वार्थबोधकत्वं उक्तं तद्भूतानां' इत्यत्र । तस्मात् सर्व गुणवाचि- खेन नामधेयत्वेन वाऽभिमतं कृत्स्नमेव उद्भित्सोमादिपदं वक्ष्यमाणरीत्या गुणलेन नामलेन वा तदर्थस्य विधावन्वयसंभवात् तदर्थ क्रियान्वित- 1. सं. ६.1.. P.M-8
68
पूर्वमीमांसादर्शनं. [अध्या. १. पा...
स्वार्थ सत् प्रमाणं स्यात् ।
अन्यथा अध्ययनविध्यवगतस्य प्रयो
जनवदर्थज्ञानार्थवस्थासङ्गतः ॥१॥
,
इह गुणविधित्वेन नामधेयत्वेन वा सम्मतानां सर्वेषामेव-
फलपदातिरिक्त सुबन्तानां उद्भित्सोमादिपदानां प्रामाण्यमप्रामा-
ण्यं वेति संशये-प्रकारासम्भवात् अप्रामाण्यम् । तथाहि-'उ-
द्भिदा यजेत पशुकामः
'सोमेन यजेत' इत्यादौ उद्भिदादि-
पदेश्यस्स्तुतिबुद्धेरनुत्पत्तेर्न तावदर्थवादत्वम् । मन्त्रत्वप्रसिद्धय-
भावाच न तत् । एतेषां प्रयोगकाले उच्चारणे च एतत्प्रतिपा-
द्यार्थस्य यागाङ्गताबोधकप्रमाणाभावेन एतेषां प्रयोगसमवेतार्थ-
स्मारकत्वानुपपत्तेश्च । न च विध्यन्तर्भावः । कामशब्दाद्य-
भावेन साध्याद्यनाभिधायकत्वात् । एफपदगतयजिनैव करणप्रति-
पादने सत्येतेषां तत्प्रतिपादकत्वायोगात् । सिद्धरूपाणां सो
मादीनां व्यापारान्तरेण भावनेतिकर्तव्यतात्वानुपपत्तेश्च ।
नामधेयत्वे तु अभिन्नत्वादेव करणानुग्राहकत्वाभावादितिकर्तव्य-
तात्वानुपपत्तेः । न च कथमपि भावनान्वयासम्भवेऽपि याग
एव करणत्वेनान्वयो भवत्विति वाच्यम् । कारकाणां परस्पर-
सम्बन्धाभावात् । अतः कथमपि भावनान्वयासम्भवात् अना-
ख्यातत्वेन विधिभावनयोरनभिधानात् अन्यस्य
वक्तुमशक्यत्वादप्रामाण्यमिति प्राप्ते-
च प्रकारस्य
अध्ययनविध्यध्यापितस्य अप्रामाण्यासम्भवात् प्रकारान्त-
रासम्भवेऽपि विध्यन्तर्भावस्य स्पष्टत्वेन तत्रैव गुणविधित्वेन ना-
मधेयत्वेन वा वक्ष्यमाणरीत्या सर्वानुपपत्तिपरिहारण प्रामाण्य-
मिति सिद्धम् ॥१॥
अधि. मादीपिकासहितम. 59 (२)-अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वम- विधायकत्वात् ॥ २॥ यत् उत्पत्ती उद्भिदा यजेत' इत्यादौ विधिवाक्ये अपूर्व अर्थान्तररूढतया पूर्वमनवधृतं उद्भिदादिपदं अपि वा नामधेयं नाम- धेयमेव स्यात् न त गुणविधिः । कुतः अविधायकत्वात् तद्वा. क्यस्य मत्त्वर्थलक्षणादिप्रसङ्गभयेन विधायकवासंभवात् ॥ २ ॥ अतः परं व गुणविधित्वं क नामधेयत्वमिति कोष्ठशोधनि- कार्थमारम्भः । तदिह गुणे कर्मणि च तुल्यवद्वात्तिकानामुद्भि- दादिपदानां विधेयशुणसमर्पकत्वं कर्मनामधेयत्वं चेति चिन्तायां- 'भिदिर् विदारणे' इति स्मृत्या विदारणसमर्थखनित्रातिवच- नत्वप्रसिद्धः नामधेयत्वे वैयर्थ्यप्रसङ्गाञ्च गुणविधित्वमेव युक्तम् । तत्र गुणविशिष्टं कमैव फलोद्देशेन विधीयत इत्येकः पक्षः । अथ वा प्रकृतसोमयागानुवादेन गुणमात्रविधानमित्यपरः । न च विनिगमनाविरहः । इतिकर्तव्यतासन्निधिविशेषस्यैव कर्म- विधिनियामकत्वात् । न चैवं फलपदानर्थक्यम् । 'सर्वेभ्यो ज्योतिष्टोमः' इति वचनेन तस्य सर्वफलार्थत्वावगतेः यजिपदस्य पशुफलोपधायकयागलक्षणायां तात्पर्यग्राहकत्वात् । अत एव न विशिष्टोद्देशे वाक्यभेदः । न चोत्पत्तिशिष्टसोमप्राबल्यम् । पशुकामप्रयोगपुरस्कारेण विहितस्य च खनित्रादेः सामान्याव- हितसोमादिबाधकत्वात् । वस्तुतस्तु-प्रकृतसोमयागाश्रितः ख- नित्रादिगुण एव फलोद्देशेन विधीयत इति तृतीयः पक्षः। काम्यत्वादेव च नित्यसोमबाध इति प्राप्ते-- नायं गुणविधिः गौरवात् । तथा हि-सर्वत्रैव तावत् शुद्धधात्वर्थकरणकभावनाविधानात् आद्यो विधिप्रकारः । य.
60 पूर्वमीमांसावर्णनं. [अध्या. 1. पा... था-'अग्निहोत्रं जुहोति" इति । अन्योद्देशेन तद्विधिरपरः । यथा 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इति । एतस्य चोद्देश्यवाचकप- दान्तरसापेक्षत्वाहौर्बल्यम् । धात्वर्थोदेशेन अन्यकरणकभावना- विधिस्तृतीयः । यथा-'दधा जुहोति' इति । अत्रं विधेयताया धात्वर्थवृत्तित्वाभावात् पदार्थान्तरवृत्तित्वाच ततापि दौर्बल्यम् । धातोस्साधुत्वार्यकत्वमङ्गीकृत्य अन्योद्देशेन अन्यकरणकभावनावि- धिश्चतुर्थः । यथा-'दनेन्द्रियकामस्य जुहुयात्' इति । अत्र धात्व- थस्योद्देश्यत्वेनाप्यसम्बन्धात् ततोपि दौर्बल्यम् । गुणविशिष्ट- धात्वर्थकरणकभावनाविधानं पञ्चमः ! यथा 'सोमेन यजेत' इति। अत्र विशेषणविधिकल्पनाधिक्यात् ततोपि दौर्बल्यम् । अन्यो- हेशेन पूर्वोक्तष्षष्ठः । यथा 'सौर्य चळं निर्वपेत् ब्रह्मवर्चसकामः इति । अयं तु सर्वदुर्बलः । तदेवमुद्गुिणविशिष्टस्य यागस्य फलोद्देशेन विधाने षष्ठविधिप्रकाराश्रयणात् अतिगौरवम् । गु- णस्य यागेऽनन्वयात् मत्वर्थलक्षणा च । न हि भावनायां समानप- दोपात्तधात्वर्थकरणत्वावरुद्धायां गुणस्य करणत्वं सम्भवति । अत- स्तस्य यागान्वयावश्यकत्वेन यागस्य कारकत्वात् कारकाणां च परस्परसम्बन्धानुपपत्तेः 'सोमेन यजेत' इतिवत् उद्भिद्वता यागेनेति मत्वर्थलक्षणा आवश्यकीति प्राश्वः । वस्तुतस्तु-दृष्टा- न्तेऽपि सोमस्य करणत्वेनैव भावनायामन्वयस्तत्रतत्र वक्ष्यते । युक्तश्च । एककरणत्वावरुद्धपि करणत्वान्तरस्य भिन्ननिरूपि- तस्य प्रकारतया भावनान्वयोपपत्तेः । न हि यागकरणत्वं भा- वनानिरूपितं अपि तु स्वर्गनिरूपितम् । अतश्च यथैवान्यनिरूपि- तमपि तत्करणत्वं प्रकारतया भावनायामन्वति तथैव सोमकर णत्वमपि यागनिरूपितम् । उभयत्र तत्तनिरूपकस्य पाठिकबोध- लभ्यत्वाच न कोऽपि विरोध इति । नास्मिन् पक्षे यद्यपि तै.सं. 1-4. श्तै. ना. १-१.५, इ. सं. २-10
भषि, ३.]
मादीपिकासहितम
61
मत्त्वर्थलक्षणा ; तथापि विशेषणविधिकल्पनादिकृतं गुणयागो.
भयविशिष्टभावनाविधेर्गौरवमापाद्यमानं नापह्रोतुं शक्यम् ।
यथा च प्राथमिकभावनासम्बन्धाङ्गीकारेऽपि द्वितीयबोधवेळायां
मत्त्वर्थलक्षणा तथोक्तं कौस्तुभे । एवं द्वितीयतृतीयपूर्वपक्ष-
योरपि जघन्यविधिप्रकाराङ्गीकरणं दोषाय । अगत्या च दधि-
सोमादावेव तदङ्गीकृतम् । तेषां तत्र अर्थान्तरे बढत्वन नाम-
त्वासम्भवात् । प्रकृते तु येनैव योगेन खनिने प्रवृत्तिः तेनैव
योगेन उद्भिद्यते उत्पाद्यते फलमिति व्युत्पत्त्या कर्मण्यपीति ना-
मत्वसम्भवेन द्वितीयविधिप्रकाराङ्गीकरणालाघवम् । न च भिदो
बिदारण एव स्मृतेश्शक्तिः । भिदि इत्येव धातुपाठात् । विदा-
रण इत्यस्य शक्यार्थमात्रोपलक्षणत्वस्य वैयाकरणसिद्धान्तसि-
द्धत्वात् । अतो विदारण इवोत्पादनेऽपि प्रयोगात्तुल्यवदृत्तिकता।
न च नामधेयानर्थक्यम् । सङ्कल्पादौ सार्थकत्वात् । कचित्फ-
लोपबन्धश्च. यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति।
क्वचिद्गुणोपबन्धश्च यथा 'संस्थाप्य पौर्णमासी वैमृधमनु निर्वप-
ति' इति । प्रकृते च संशया भेदसिद्धिरेव प्रयोजनम् । इतर-
था हि प्रकृत एवकर्मणि गुणफलोपबन्धापत्तेर्न कर्मान्तरत्वम्, न च
योगस्य फलोद्भेदनकारित्वस्यातिप्रसक्तत्वात् अपूर्वे कर्मणि रूढि-
कल्पने सोमादिपदानामपि तदापत्तिः । सर्वत्र योगरूढिस्थले
प्राचीनप्रयोगस्यैव कारणतायाः कृप्तत्वेन प्रकृते तदकल्पनात् ॥
प्रयोजनं स्पष्टम् ॥२॥
(३)-यस्मिन् गुणोपदेशः प्रधानतोऽभि-
संबन्धः॥३॥
अन्वयः - प. 62 पूर्वमीमांसादर्शनं. [अध्या. १. पा.. यस्मिन् 'चित्रया यजेत पशुकामः । इत्यादि वाक्यगे चित्रादि- पदे । गुणविधिखनामधेयत्वकोटिकसंदेहविषये सति गुणोपदेशः तद्वाक्ये गुणान्तरस्याप्युपदेशश्श्रूयते तस्य चित्रादिपदस्य. प्रधानतः क्रियया सह नामधेयतया अभिसम्बन्धः अन्यथा वाक्यभेदप्रसङ्गात् ॥ ३॥ अत्र गुण एव रूढानां 'चित्रया यजेत पशुकामः श्वदशान्याज्यानि' 'सप्तदशानि पृष्ठानि' 'त्रिवृडहिप्पवमान' इत्यादौ चित्राज्यपृष्ठत्रिवृद्धहिष्पवमानशब्दानां गुणविधित्वं कर्मनामधे- यत्वं वेति चिन्तायां दध्यादिवत् रूढेषु कर्मनामधेयत्वासम्भ- .वात् गुणविधित्वमेवैषाम् । तत्र चित्रापदे तावत् प्रातिपदिकेन चित्रत्वं स्त्रीप्रत्ययेन च स्त्रीत्व विधीयते । विधेययोः परस्पर- साहित्यावगतेः विधेयसामर्थ्यानुरोधेन प्राणिद्रव्यकयागस्यैवोहे- श्यत्वावगतेः। प्रकृतानां 'दधि मधु वृतमापो धानास्तण्डुलास्तत्सं. सृष्टं प्राजापत्यं' इत्येतद्वाक्यविहितानां यागानासुद्देश्यत्वासम्म- वेऽपि सर्वप्रकृतिभूताग्नीषोमीययागोदेशेन सर्वपशुयागोदेशेन वा विधीयते । न चानेकगुणविधाने वाक्यभेदः । धेनुदक्षिणा' इति- बत् उभयविशिष्टैककारकविधानेनावाक्यभेदात् । एवमाज्यपदेन घृतं, पृष्ठपदेन शरीरावयवः । स च सङ्ख्याविशिष्टः प्रकरणात् 'आ- ज्यैस्स्तुवते पृष्ठस्स्तुवते' इत्येतद्वाक्यविहितस्तोत्राङ्गतया यथाक्र- में विधीयते । एवं त्रिवृच्छब्दवाच्यं त्रिभिण्डिद्रव्यं पवनाक- याविशिष्टं तथैव तद्वाक्येन विधीयते । सर्वत्र द्रव्याणां स्तो- असमीपदेशेऽदृष्टार्थ स्थापनेनैव स्तोत्रोपकारकता । उत्पत्तिवाक्ये- धु तु आज्यादिपदं गुणवाक्यप्राप्तत्वादनुवादः । स्तोत्रमात्रं तु विधीयत इति प्राप्ते- तै. सं. २-४-६. ते. सं. १-८.७.
अधि...] 63 भादापिकासहितम्, प्राप्तकर्मानुवादेन चित्रत्वस्त्रीत्वरूपानेकगुणविधाने वाक्यमे दात् करणत्वस्यापि पशुगतस्य प्राप्तत्वेन अविधेयतया उभय- विशिष्टैककारकविध्ययोगात् । अतश्च अजोऽग्नीषोमीयः' इति प्राकराणकवचनेन · विहितप्राकरणिकपुंस्त्वावरोधे स्त्रीत्वस्य विध्ययोगाच्च म गुणविधिः । अतः प्रकृतानासेव यागानां वि. चित्रद्रव्यकत्वेन लक्षणात् चित्रापदं नामधेयम् । इष्टयभिप्रायेण च स्त्रीप्रत्ययः । एवमांज्यादिपदेष्वपि । असमस्तत्वेन विशिष्ट- स्याव्युत्पन्नत्वात् प्राप्तस्तोत्रानुवादेन द्रव्यसङ्ख्याधनेकगुणविधी वाक्यभेदः । न चोत्पत्तिवाक्य एव द्रव्यविशिष्टस्तोत्रविधिः अत्र तु सङ्ख्यामात्रविधिरस्त्विति वाच्यम् । घृतादीनां स्तोत्रे करणत्वासम्भवेन विशिष्टविध्ययोगात् पञ्चदशानीत्यादिस्तुति- गतसङ्ख्यारूपस्तोत्रवाचिडप्रत्ययस्य गुणविधित्वे अनुपपत्तेश्च। अत आज्यादिपदं वाक्यद्वयेऽपि शक्त्यैव स्तोत्रनामधेयम् । आज्यादिपदाभिधेयस्तोत्रानुवादेन गुणवाश्ये सर्वत्र सङ्ख्यामात्र- विधिः । आज्योत्पत्तिवाक्ये बा तत्संशकानि चत्वारि स्तोत्राणि गमकसहकृतबहुवचनेन तावत्त्वावगमात् । एवं पृष्ठोत्पत्तिवाक्येऽ- पि षट् । अनुष्ठेयानि तु नियतानि चत्वारि । आद्ययोईयो- हद्रथन्तरयोरन्त्ययोः नौधसश्यैतयोर्वचनेन विकल्पविधानात् । यथा चात्र तत्तदूषणानां निरासो मतान्तरदूषणानि च तानि कौस्तुभे द्रष्टव्यानि ॥३॥ (४)-तत्प्रख्यं चान्यशास्त्रम् ॥४॥ तत्प्रख्यं तस्य विधित्सितगुणस्य अग्नयादिरूपस्य प्रख्या प्राप्तिः यस्मात्तादृशं अन्यशास्त्रं शास्त्रान्तरं 'अग्निज्योतिः" इत्यादिकं 'अ. 1. बा. ३-८-१८. ..
64 पूर्वमीमांसदर्शन.. [अध्या. १, पा.. मिहोत्रं जुहोति'1 इत्यादौ यत्र वर्तते तत्रापि विधित्सितगुणप्रतिपादकत्वे- नाभिमतं अग्निहोत्रादिपदं नामधेयम् । उक्तंच वार्तिके--विधिसि- तगुणप्रापि शास्त्रमन्यद्यतस्त्विह । तस्मात्तत्प्रापणं व्यर्थमिति नामवमिथ्य: ताम् ॥ इति ॥ जुहोति ।। इह रूढानो यौगिकानां वा सम्भवत्प्राप्तिकानां 'अग्निहोत्रं आधारमाघारयति समिधो यजति '3 इत्यादौ अ- मिहोप्रदिपदानां गुणविधित्वं कर्मनामधेयत्वं वेति चिन्तायां प्रसिद्धेर्गुणविधित्वमेव युक्तम् । न च वाक्यभेदः । विधेया- नेकत्वाभावात् । अग्निहोत्रपदे अग्नये. होत्रमस्मिनिति व्युत्पत्या उपसर्जनार्थोऽग्निर्देवता विधीयते । न च 'यदग्नये च प्रजा. पतये च सायं जुहोति' इत्यनेन तस्याः प्राप्तत्वादाविधानम् । तत्र अनेकगुणोपादानेन विशिष्टकर्मान्तरविधेरावश्यकत्वात् एत- द्वाक्यविहितकर्मणि तत्प्राप्तेरभावात् । अतो यंत्र दर्वीहोमादौ आग्नेयो मन्त्रः पठितः तादृश:होमानुवादेन देवतामात्रमनेन विधीयते । न च तेन तत्प्राप्तिसम्भवः । मान्त्रवणिकविधेरक- ल्पनीयत्वात् । विशिष्टकर्मान्तरं वा । आधारपदेऽपि द्वितीया- न्ताधारपदेन क्षरणसाधनाज्यादिद्रवद्रव्यमभिधीयते । धातुना क्ष- रणाख्यसंस्कारः तदुद्देशेन विधीयते अविनियुक्तस्य संस्कारा- योगात् । प्रकरणकल्पितवाक्येन उपांशुयागाङ्गतया द्रवंद्रव्य विधीयते । 'चतुर्गृहीतं वा एतदभूत् । तस्याघारमाधार्य' इत्यनेन प्रयाजाङ्गभूतचतुर्ग्रहीतविशेषसमर्पणम् । सर्वथा आधार- पदं द्रव्यपरं न नामधेयमिति प्राप्ते-- मन्त्रवर्णकल्प्यविधिनैव प्राप्तिसम्भवेऽस्य पूर्वप्रवृत्तविधिवैफ- तै. सं. 1-4. 'ते. बा.३-१-७. . तै. सं. २.६.१.
अघि. ५.] भादीपिकासहितम् . 66 , इत्यत्र. . ल्यापत्तेः अभ्युदयशिरस्कत्वस्य च सम्भवति प्रथमविध्यापा- दकधात्वर्थविधौ अन्याय्यत्वात् न तावद/होमानुवादेन दे- वताविधिः । नापि विशिष्टकर्मान्तरविधिः । ‘अग्निोतियो- तिराग्निस्स्वाहा'* इति वचनेन विनियुक्तमन्त्रवर्णेनैव देवताप्राप्तेः । 'यदग्नये च प्रजापतये च सायं जुहोति । यत्सूर्याय प्रजाप- तये च प्रातः सायंप्रातःकालोनदेवतासमुच्चयविशि- टप्रजापतिमात्रविधानम् । अत एव यथैव केवलदेवत्वमन्त्रलिङ्गे- न केवलयोर्देवतात्वं तथा 'अग्निोतिज्योतिस्सूर्यस्स्वाहेति सायं जुहोति। सूर्यो ज्योतिज्योतिरमिस्स्वाहेतिप्रातः' इति मिश्रलिङ्गक- मन्त्रवर्णात् मिश्राणामपि तत् । ततश्च ‘यदग्नये च' इति वाक्य- स्थानिसूर्यपदं सायप्रातःकालीनदेवतालक्षकम् । सायंप्रातःका- लपदं तात्पर्यग्राहकम् । चशब्दोपस्थितसमुश्चयस्य प्रजापताव- त्वयस्य निपातोपसर्गार्थत्वेन व्युत्पनत्वात् न विधेयानेकता । अतश्चाग्नेर्देवतात्वादिना अग्निहोत्रहोमे प्राप्तत्वात् अग्निहोत्रहोमे अग्नेोम इति व्युत्पत्त्या नामधेयम् । एवमाघारेऽप्युपांशुयाजे सर्वस्मै वा एतद्यज्ञाय मृह्यते । यद्धृवायामाज्यम् ।' इत्यनेनैव द्रवद्रव्यस्य प्राप्तत्वात् प्रयाजाज्योद्देशेन संस्कारविधान द्वितीय- विधिप्रकारापत्तेः लाघवाद्भावव्युत्पन्नमाधारपदं नामधेयं विधे- यश्च धातुलक्ष्यो होम एव । ‘इन्द्र ऊवॉऽध्वर इत्याघारमाघा- रयति' इति मान्नवर्णिकेन्द्रदेवतायाः 'चतुर्गृहीतं वा' इत्य- नेन द्रव्यस्य च. लाभात् । एवं समिदादिष्वपि वक्ष्यते । स- वंत्र द्वितीया करणत्वलक्षणार्थेति न विरोधः ॥४॥ (५)-तद्व्यपदेशं च ॥ ५॥ ते. बा. २.१.१. ति. बा. २.१.२. तै. बा.३.३.५. P. M.-9 . 66 पूर्वमीमांसादर्शनं. [अध्या. १. पा... तस्य विधित्सितगुणस्य श्येनादेः व्यपदेशः उपमानोपमेयभावनिर्देश: यथा वै श्येनः ' इत्यादिः यत्र वाक्ये तादृशं तद्वयपदेशं वाक्यं यत्र दृश्यते तत्रापि 'श्येनेनाभिचरन्यजेत' इत्यादी विधित्सितगुणवाचित्वे- नाभिमतं श्येनादिपदं नामधेयम् ॥ ५॥ 'श्येनेनाभिचरन् यजेत' इत्यादौ पूर्वोक्तयाधकाभावात् प्र- सिद्धेः श्येनादिपदानां गुणविधित्वमेव । प्रकृतसोमयागाश्रितो गुणः फलोद्देशेन विधीयते विशिष्टकर्मान्तरं वा । न चैवं • यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते' इत्यर्थवादे स्वस्यैव स्वोपमानत्वानुपपत्तिः । उप- क्रमनिर्णीतविध्यनुरोधेन उपसंहारस्थार्थवादस्य अन्यथा नेय- त्वात् । 'ते तद्विलासा इव तद्विलासाः' इत्यादिवदनन्वयाल- कारस्याभेदे अनुगुणत्वात् इति प्राप्ते- नायमनन्वयालङ्कारः । तथात्वे सर्वेषामर्थवादपदानां उप- मानान्तराभावलक्षकत्वापत्तेः । तद्वरं भूयोऽनुग्रहस्यैव न्याय्यत्वात् उपक्रमस्थ पवैकस्मिन् पदे रूपकविधया लुप्तोपमानविधया वा गौणी वृत्तिमङ्गीकृत्य नामधेयत्वं द्वितीयविधिप्रकारापादकं यु- क्तमाश्रयितुम् । अर्थवादस्तु रूपकाद्यपेक्षितसादृश्योपपादनार्थ- स्सन् विनैव लक्षणां पूर्णोपमानविधया विधेययागस्तुत्यर्थो न वि- रुध्यते । तत्सिद्धं चतुभिरेव प्रकारैः सर्वत्र नामत्वमिति ॥५॥ (६)-नामधेये गुणश्रुतेस्स्याद्विधानमिति चेत्॥ तुल्यत्वाक्रिययोर्न ॥७॥ ऐकशब्द्ये परार्थवत् ॥८॥ 'वाजपेयेन स्वाराज्यकामो यजेत' इत्यादौ नामधेये नामत्वेनाभिमते पाजपेयादिपदे गुणश्रुतेः गुणस्य यवाग्वादिरूपस्य वाजं अनं पेयं अधि. ६.] भादीपिकासहितम्. 67 यस्मिन्यवासद्रव्ये इति व्युत्पत्त्या प्रतीतेः तादृशगुणस्यैव विधानं स्यात् यागरूपक्रियायां गुणफलयोरुभयोरप्यन्वयसंभवेन मत्त्वर्थलक्षणादेरनावश्य- कत्वात् इति चेत् न इदं युक्तं क्रिययोः इष्टिवाजपेययोः तुल्य. त्वात् अनद्रव्यकतयां तौल्यप्रसङ्गात् । न चेष्टापत्तिः । तथा सति द्रव्य- घटितसादृश्यस्य' बलवत्त्वादष्टिकविध्यन्तप्राप्तौ 'सप्तदशदीक्षो वाजपेयः सप्तदशोपसत्को वाजपेयः' इति सौमिकविध्यन्तानुवादलिङ्गदर्शनानुप- पत्तेः ॥ ६-७ ॥किंच-ऐकशब्द्ये एकस्मिन्नेवाख्यातरूपे शब्दे गुणफ- लोभयान्वितार्थपरे स्वीक्रियमाणे तदाख्यातं फलोद्देशेन यागविधौ वि- धेयतया स्वार्थवत् स्वार्थविधानपरमिव परार्थवत् यागोद्देशेन गुणविधी विधेयतया उपपदार्थवत् उपपदार्थविधानपरमपि स्यात् । तथाच वाक्य- भेदः । विरुद्धत्रिकद्वयसमावेशापत्तिश्च । तस्माद्वाजपेयादयश्शब्दाः प्रागु- पदर्शितनौतिचतुष्टयेन नामधयान्येव ॥ ८ ॥ पूर्व यत्रयत्र विशिष्टविधिपूर्वपक्षे यानियानि दूषणानि मत्त्व- थलक्षणादीनि तानितानीहाक्षिप्यन्ते । यदीह यागस्य कारक- त्वं स्यात् तदा सोमादीनां कारकान्तराणां तदन्वयानुपपत्तेः मत्वर्थलक्षणा भवेत् ; उभयविशिष्टभावनाविधानं वा । न ह्येतद- भ्युपगमे प्रमाणमस्ति । यागस्य क्रियारूपत्वाङ्गीकारात् । अतश्च तस्मिन् सर्वकारकाणां भावनांवदेव विनैव मत्त्वर्थलक्षणां विनैव च वैरूप्यं सम्बन्धोपपत्तिः । यागस्य च क्रियारूपत्वेऽपि सम्ब- न्धसामान्यन भावनान्वयो न विरुद्धः । भावना च वैयाकर- णवदतिरिक्ता नैवाङ्गीक्रियते । अतश्च उद्भिदादिष्वपि सर्वत्र गुणविधित्वमेव युक्तम् । वाजपेयोदाहरणं तु मूले गुणसूत्रानु- रोधेनेति प्राप्ते- पचतीत्यस्य पाकं करोतीति विवरणात् धात्वर्थस्य कर्म- 68. पूर्वमीमांसादर्शनं. अध्या. 1. पा. ४. त्वकरणत्वान्यतरकारकत्वेनैव भावनान्वयः । भाषना च यथा:- तिरिक्ता तथा वक्ष्यते । अतश्चेतरकारकाणां धात्वर्धान्वयानुप पत्तेः अगत्योभयविशिष्टभावनाविधानं सोमादावङ्गीकृतम् । प्रा- चीनरीत्या वा मत्त्वर्थलक्षणा। अन्यथा श्रुत्यैव फलंगुणयोः यागा- न्वये फलान्वयार्थ यागस्य उपादेयत्वविधेयत्वगुणत्वानि गुणा- न्वये चोद्देश्यत्वानुवाद्यत्वप्रधानत्वानीति विरुद्धत्रिकद्वयापत्तेः । उ- पादेयत्वादिनिरुक्त्यादिकं च कौस्तुभे द्रष्टव्यम् । अतो मत्वर्थल- क्षणाभिया विशिष्टविध्यनुपपनेः नामधेयत्वमेवोद्भिदादीनाम् ॥६॥ (७)-तद्गुणास्तु विधीयेरनविभागाद्विधानार्थे न- चेदन्येन शिष्टाः॥ ९ ॥ 'यदानेयोटाकपालोमावास्यायां च पौर्णमास्यां चाच्युतो भवति * इत्यादी आग्नेयादिपदं न नामधेयं अपि तु तद्गुणास्तु स च गुणाश्च तद्गुणाः प्रधानभूतो यागः अग्नयादिरूपा गुणाश्च विधीयेरन् विधेयतया प्रतिपा- घेरन् । विधानार्थे विधेये तत्तद्गुणविशिष्टतत्तत्प्रधानरूपे अविभा- गात् भेदविरहात् विशिष्टस्यैकतया विधेयभेदप्रयुक्तवाक्यभेदाप्रसरात् । ते तद्गुणाः चेत् अन्येन वाक्यान्तरेणा न शिष्टा. विहिताः । विशिष्टघ- टकस्य विशेष्यत्य विशेषणस्य वा यत्रान्यतः प्राप्तिन तत्र विशिष्टवि धानं संमावतीति भावः ॥ ९ ॥ चा- 'यदाग्नेयोष्टाकपालोमावास्यायां च पौर्णमास्यां च्युतो भवति '* इत्यादी आग्नेयशब्दो गुणविधिः कर्मनामधेयं वेति चिन्तायां - अग्नेमन्त्रवर्णाल्लामात् आग्नेयपदं नामंधेयमि- ति प्राप्त- *तै. सं. २.६-३.
अधि, ८.] भादीपिकासहितम. 69 पुरोडाशर्मिकायाः भावनाया मन्त्रापेक्षाऽभावात् मन्त्रस्य च तत्रायोग्यत्वात् नोपांशुयाज इव मन्त्रस्य देवताकल्पकत्वम् । न चाघारवद्वाचनिको विनियोगो मन्त्रस्य । येन तत्कल्पकत्वं सः म्भाव्यत । न च मन्त्रस्याष्टाकपालकर्मकभावनाङ्गत्वे प्रमाणमस्ति । प्रकरणस्य च उपांशुयाजादिषु अविशिष्टत्वात् । नापि क्रमः । ब्राह्मणपाठक्रमापेक्षया मन्त्रपाठक्रमवैपरीत्यस्य पञ्चमे वक्ष्यमाण- त्वात् । अतः तत्प्रख्यन्यायाभावात् नामत्वानुपपत्तेः द्रव्यदेव- तोभयविशिष्टभावनाविधिप्रतीतेः तस्य च यागमन्तरेणानुपपत्तेः भूधातुना तल्लक्षणात् सकलविशेषणविशिष्टयागभावनाविधाने- नार्थात् विशेषणानामपि विधिकल्पनात् गुणविधिरेव आग्नेय- शब्दः ॥ प्रयोजनं : आग्नेयं पयः' इत्यादौ नामातिदेशेन आग्नेयवि- ध्यन्तः पूर्वपक्षे । सिद्धान्ते सानाय्यविध्यन्तः ॥ ७॥ (6)-बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छ- ब्दः ॥ १० ॥ - असंस्कारे संस्कारविरहेऽपि वर्हिराज्ययोः लौकिकयोरपि शब्द- 'लाभात् बर्हिराज्यशब्दप्रयोगस्य 'बर्हिरादाय गावो गताः' ' आज्यं ऋष्यं' इत्यादौ दर्शनात् वर्हिरादिशब्दः अतच्छब्दः संस्कारनिमित्तक- शब्दमिन्नस्सन् जातिवाच्येव स्यात् ॥१०॥ बर्हिराज्यपुरोडाशादिशब्दानां संस्कृतेषु शास्त्रस्थैः प्रयुज्य- मानत्वायूपादिशब्दवत् संस्कारमात्रवाचित्वे संस्कारविशिष्ट- कुशादिवाचित्वे वा प्राप्ते- 70 पूर्वमीमांसादर्शनं. [अध्या. १. पा. ४. जातिं विहाय कैरप्यप्रयुज्यमानत्वात् संस्कारं विनाऽपि लोके 'बर्हिरादाय गावो गताः' 'आज्यं क्रय्यं ' 'पुरोडाशेन मे माता प्रहेळकं ददाति' इत्यादी प्रयुज्यमानत्वात् अव्यभिचारा- ल्लाघवाञ्च कुशादिजातिवाचित्वमेव । प्रयोजनं यूपावटास्तरणार्थबर्हिरादौ पूर्वपक्षे संस्कारकरणं सिद्धान्ते नेति ॥ ८॥ (९)-प्रोक्षणीष्वर्थसंयोगात् ॥ ११ ॥ प्रोक्षणीषु प्रोक्षणार्थास्वप्सु. अर्थसंयोगात् प्रोक्षणीशब्दार्थस्य प्रकृष्टोक्षणसाधनतारूपस्य समवायात् प्रोक्षणीशब्दो यौगिक एव न जा- तिवचनः न वा संस्कारवचनः ॥ ११ ॥ प्रोक्षणीशब्दस्यापि पूर्ववत्संस्कारवाचित्वे 'प्रोक्षणीभिरुद्धे- जिताः स्मः' इति लोके संस्कार विहाय जातिमात्रे प्रयोगदर्शनात् रूढ्या जलत्ववाचित्वे प्राप्ते- क्लृप्तावयवयोगेनोपपत्तौ रूढिकल्पने प्रमाणाभावः । अत एवा- श्वकर्णादिशब्दे योगबाध एव तत्कल्पनम् । न चापामौदासीन्याव- स्थायां प्रकृष्टोक्षणसाधनत्वरूपयोगाभावः । फलोपधानासम्भवऽपि उक्षणस्वरूपयोग्यत्वस्य सम्भवात् । न चैवं रथकारपदेऽपि रथकर्तृत्वयोग्यत्वरूपयोगसम्भवेन जातिविशेषशक्तिकल्पनानुपप- त्तिः । अनुशासनबलेन तत्कल्पनात् । कर्तृत्वस्वरूपयाग्यत्वस्याव्या- वर्तकत्वेन वर्षासु रथकार इत्यस्य वैय्यर्थ्यापत्तेश्च । प्रोक्षणीशब्दे तु रूढिकल्पने प्रमाणाभावात् यौगिकत्वमेव । प्रयोजनं तु विकृतौ । घृतं प्रोक्षणं इत्यादौ 'प्रोक्षणी- रासादय'* इत्यविकृतः प्रयोगः संस्कारवाचित्वपक्षे । घृतमा- *तै, ब्रा. ३-२.९. - अघि. ११.] भाइदीपिकासहितम्. 71 - सादय इति जातिवाचित्वे । प्रोक्षणमा-सादयेति यौगिकत्वे द्रष्टव्यम् ॥९॥ (१०)-तथा निर्मन्थ्ये ॥१२॥ निर्मन्थ्ये निर्मन्थनसाध्ये वही तथा मथनप्रयोज्यत्वरूपार्थसंयो- गात् यौगिक एव निर्मन्थ्यशब्दः ॥ १२॥ 'निर्मन्थ्येनेष्टकाः पचन्ति' इत्यत्र निर्मन्थ्यशब्दस्य पूर्व वत्संस्कारवाचित्वे 'निर्मन्थ्यमानय पक्ष्यामः' इति लौकिकप्र- योगेन निरस्ते मथनकर्मत्वस्य पकिसाधनीभूतानावभावेन म- थनप्रयोज्यत्वस्य पाकनवनीतादावपि सत्त्वेन अतिप्रसङ्गात् अर- णिप्रयोज्याग्नित्वव्याप्यजातिवाचित्वे प्राप्ते- मथनप्रयोज्यत्वयोगेनैवोपपत्तौ रूढिकल्पने प्रमाणाभावात् अतिप्रसङ्गस्य पाकादावपि प्राचीनप्रयोगाभावेनैवाबोधकत्वोप- पत्तेनिराकर्तुं शक्यत्वात् नवनीते वाच्यत्वस्यापि वक्तुं शक्य. त्वाश्च यौगिक एव निर्मन्थ्यशब्दः । एवं च 'निर्मन्थ्येनेष्टकाः पचन्ति' इत्यग्नेः पाकसाम- ादेव प्राप्तत्वात् मथनमात्रविधिरिति तस्यापि प्रयोगमध्ये करणं सिद्धान्ते प्रयोजनम् ॥ १० ॥ (११)-वैश्वदेवे विकल्प इति चेत् ॥ १३ ॥ न प्रकरणात् प्रत्यक्षविधानाञ्च न हि प्रकरणं द्रव्यस्य ॥१४॥ मिथश्वानर्थ संबन्धः॥ १५ ॥ परार्थत्वा- गुणानाम् ॥ १६॥ वैश्वदेवे 'आमेयमष्टाकपालं निर्वपति सौम्यं चरुं सावित्रं द्वादश- 72 पूर्वमीमांसादर्शनं. [अध्या. १.पा. ४. कपाल सारस्वतं चकै पोष्णं चहें मारुतं सप्तकपालं वैश्वदेवीमामिक्षा द्यावापृ- थिव्यमेककपालं'* इति विहितानामष्टानां यागानां सन्निधावानाते 'वैश्वदेवेन यजेत' इत्येतद्वाक्ये इत्येतद्वाक्ये विद्यमाने वैश्वदेवपदे अष्टसु यागेषु विश्वदेवदे- वतारूपगुणविधिपरतया विकल्पः तत्तद्वाक्यगतानिरग्न्यादिदेवताभिस्सह विश्वदेवदेवताया विकल्प इति चेत् न इदं युक्तं स्वस्ववाक्योपात्तदे- वतान्तरावरुद्धेषु प्रकरणात् देवतान्तरविधानानुपपत्तेः । आमिक्षायागे विश्वदेवदेवतायाः प्रत्यक्षविधानात् प्राप्तत्वेन विधानानुपपत्तेः च । न च सर्वनाम्नः स्ववाक्योपात्तद्रव्याभावे प्रकृतानां द्रव्याणां ग्रहणस्य अवश्यकत्वादुत्पत्तिशिष्टदेवतावरोधेऽपि न क्षतिरिति वाच्यं यतो हि सर्वनाम्नः स्ववाक्योपात्तयागग्रहणसंभवे प्रकृतद्रव्य ग्रहणे न प्रकरणं नियामकमिति । अतो वैश्वदेवपदमत्राष्टानां यागानां नामधयम् ॥१३-१४ ॥ यदि ह्ययं आनेयादियागेषु देवताविधिस्स्यात् तदा पक्षे आमेयादि- यागानां मिथः परस्परं संप्रतिपन्नदेवताकत्वेन सहानुष्ठानापत्तेः असम्बन्धः नव प्रयाजाः नवानूयाजा द्वावाघारौ द्वावाज्यभागी अष्टौ हवींषि एमि- स्त्रिंशत्संख्यम्' इति त्रिंशसंख्यासंपत्तिरूपार्थसंवन्धानुपपत्तिः ॥ १५ ॥ ननु संप्रतिपन्नदेवताकत्वेऽपि द्रव्यभेदादेव प्रधानाहुतिभेदः इति चेन्न गुणानां द्रव्यादीनां परार्थत्वात् प्रधानार्थत्वात् प्रधानावृत्त्यापादकत्वानुपपत्तेः । देवताभेद एव हि सर्वो द्देशेन युगपत्त्यक्तुमशक्यत्वात्तद्भेदो न तु सानाय्यवद्दव्यभेदेऽपीति ॥ १६ ॥ चातुर्मास्येषु वैश्वदेवे प्रथमे पर्वणि आग्नेयादीनष्टौ यागा. विधाय 'वैश्वदेवेन यजेत' इति श्रुतम् । तत्र वैश्वदेवशब्दः गुणविधिः कर्मनामधेयं वेति चिन्तायां नामधेयत्वे समस्तवा- क्यस्य वैयर्थ्यप्रसङ्गात् अगत्या आग्नेयादिषु सप्तसु देवतावि- *तै. सं. १-८०१, अधि. १२.] मादीपिकासहितम् 73. धिः । आमिक्षायागे विश्वदेवदेवतायाः प्राप्तत्वात् देवताविशिष्ट यागान्तरविधानं वा, गुणात् । एतस्मिन्नेव वा कर्मणि आमिक्षावा- क्येन द्रव्यमात्रविधानम् । एवं च ' अष्टौ हवींषि'* इति लिङ्गद. र्शनस्याप्युपपत्तिरिति प्राप्त- नाग्नेयादिषु गुणविधिः उत्पत्तिाशष्टदेवतावरोधात् । नापि यागान्तरविधिः भेदबोधकप्रमाणानां नामत्वनोपपत्तौ विधिगौ- रवापादकभेदबोधकत्वामुपपत्तेः । अत एव नामिक्षावाक्यपि द्रव्यमाविधानं 'आग्नेयमष्टाकपालं निर्वपेत्' इत्याग्नेयादिवाक्य- स्थस्य निर्वपेदित्यस्य विशिष्टविधायकस्य आमिक्षावाक्वेऽनुषक्तस्य द्रव्यमात्रविधायकत्वे वैरूप्यापत्तेश्च । अत आग्नेयादीनामष्टानामपि यागानां नामधेयं वैश्वदेवशब्दः उत्पत्तिशिष्टदेवतावरोधसहकृत- तत्प्रख्यन्यायात् । प्रवृत्तिनिमित्तं च विश्वदेवदेवताजन्यामिक्षायाग. घटितसमुदायाश्रयत्वम् । वाक्यं च समुदायसिचचर्थ समुदाय- नामनुवादकम् । तत्प्रयोजनं च अष्टानामपि यागानां 'वसन्त वैश्व- देवेन यजेत' इति वसन्तादिसम्बन्धद्वारा चातुर्मास्यसंक्षकत्व- लाभेन फलसम्बन्धसिद्धिः । इतरथा आमिक्षायागस्त्यैव विश्वदे- वदेवताकत्वात् वसन्तादिसंबन्धद्वारा चातुर्मास्यसंशकत्वलाभेन फलसम्बन्धापत्तेः इतरेषामङ्गत्वापत्तिरिति कौस्तुभे स्पष्टम् ॥११॥ (१२)-पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्य समा- नाये ॥१७॥ गुणस्य तु विधानार्थेऽतद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवत्ताऽस्ति ॥ १८॥ त- च्छेषो नोपपद्यत इति चेत् ॥१९॥ अविभागाद्वि- *तै. बा.१-६-३. P ..-10 74 पूर्वमीमांसादर्शनं. [अध्या. १. पा.. धानार्थे स्तुत्यर्थे नोपपद्येरन् ॥२०॥कारणं स्यादि- ति चेत् ॥२१॥ आनर्थक्यादकारणं कर्तुर्हि कार- णानि गुणार्थे विधीयन्ते ॥२२॥ ये पूर्ववन्तः प्रमाणान्तरेण संभवत्प्राप्तिकास्ते अविधानार्थाः विधानानहींः भवन्तु । यथा -- 'वैश्वदेवेन यजेत' * इत्यादौ वैश्वदेवपदा- ग्रुपात्ता विश्वदेवादयः । 'वैश्वानरं द्वादशकपालं निर्वत्पुत्रे जाते य- दष्टाकपालो भवति गायत्रियेवैनं ब्रह्मवर्चसेन पुनाति' इत्यादौ समा- नाये तु तत्सामर्थ्य अष्टाकपालत्वादीनां विधानसामर्थ्य अस्त्येवेति गुणविधय एव अष्टाकपालादिशब्दाः ॥ १७॥ सिद्धान्तयति-तुश- ब्देन पूर्वपक्षव्यावृत्तिः । गुगस्य विधानार्थे गुणविधानपरे अष्टाक- पालदिपदे स्वीक्रियमाणे सति अतद्गुणाः तस्मिन् 'वैश्वानरं द्वादशकपालं निर्वपेत् । इति वाक्यविहिते यागे उत्पत्तिशिष्टगुणावरु- द्धतया गुणत्वनान्वेतुमनस्सिन्तः अष्टाकपालादिपदार्थाः प्रयोगे अनुष्टाने अनर्थकाः अनुपयुक्ता एव स्युः। अष्टाकपाला- विद्रव्यकयागान्तरविधिस्वीकाो च न हि तं प्रति उपक्रमोपसंहारा- काते कस्मिनर्थे अर्थवत्ता तात्पर्य अस्ति । तस्मात् अष्टाकपालादिवाक्यं अर्थवादविवया विधिशेष एति भावः ॥ १८ ॥ आशङ्कय समाधत्ते- अष्टाकणलादिशाक्यं तच्छेयः अर्थवादतया विधिशेषः नोपपद्यते अष्टत्वा- देशाव पालादेती अविवेयतया तत्स्तुतिपरताया असंभवात् द्वादशकपालकर्म- णश्च अाकपालादिपदेनाभिधानासंभवेन तत्स्तुतिपरताया अप्यसंभवात् इति चेत् म यतः विधानार्थ विधेये द्वादशकपाले अष्टाकषालादीनां अविभागात् अन्तःपातित्वात् अवयुत्यानुवादविधया द्वादशकपालाभि- ते. बा.१-४-१.. तै. सं. २-२-५.
अघि. ११.] भादीपिकासहितम्. 75 धायकास्सन्तः अष्टाकपालादिशब्दाः स्तुत्यर्थेन द्वादशकपालकर्मरूपविधेय- स्तुत्यर्थपरत्वेन उपपद्येरन् ॥ १९-२० ॥ प्रकारान्तरणाशङ्कय स- माधत्ते-अष्टाकपालादिकं वैश्वानरयागाश्रितं ब्रह्मावर्थसादिफले कारणं स्यात् यदष्टाकपाल: ** इत्यादः गुणफलसंबन्धविधित्वसंभवात् इति चेत् नं यतः अष्टाकपालादिः पुत्रगतब्रह्मवर्चसादिफले अ- कारणं कारणत्वेन विधानानर्हः आनर्थक्यात् निष्फलत्वप्रसङ्गात् । कथं ? हि यतः कर्तुः गुणाथै अनुष्टातृसंरन्धिनि गुणजन्यफले पश्वादिरूपे कारणानि गोदोहनादीनि 'गोदोहनेन पशुकामस्य' इत्या- दिना विधीयन्ते । गुणानां कर्तृसमवेतफलजनकताया एवान्यत्र दृष्टत्वात् तादृशफलाभावन अष्टाकपालादिवाक्यस्य गुणफलसंबन्धविधित्व न घटत इति भावः ॥ २१-२२॥ . 'वैश्वानरं द्वादशकपालं निर्वपत्पुत्रे जाते'* इत्यनेन यागं विधाय ‘यदष्टाकपालो भवति गायत्रियैवैन ब्रह्मवर्चसेन पुनाति'* इत्यादिनाऽष्टाकपालनवकपालदशकपालैकादशकपालद्वादशकपा- लाननूद्य 'यस्मिन् जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यबाद इन्द्रियावी पशुमान् भवति'* इति श्रुतम्। तत्र द्वादशत्वे अष्टत्वादेः प्राप्तत्वादष्टाकपालशब्दः वैश्वानरयागनामधेयमित्येकः पक्षः । स्वरूपेण प्राप्तावपि परिच्छेदकत्वेन प्रात्यभावात् गुणविषय एव एते । अष्टत्वमष्टाकपालं द्रव्यं वा पूर्वयागे विधीयते । उपक्रमोपसंहारैक्येन चैकवाक्यत्वप्रतीतेः न द्वादशकपालस्यो- त्पत्तिशिष्टता । अथवा-अस्तु वाक्य नानात्वम् । तथाऽपि 'य- हादशकंपालो भवति'* इत्यनेनैव तद्विधिः । वैश्वानरवाक्ये तत्पदमनुवाद एवेति द्वितीयः पक्षः । ब्रह्मवर्चसादिरूपफलो. *तै. सं. २.३.५० 76 पूर्वमीमांसादर्शनं. अध्या. १. पी. ४. देशेन प्रकृतयागाश्रिता गुणा एव अष्टाकपालादयो विधीय- न्त इति तृतीयः- सिद्धान्ते तु-सम्भवत्येकवाक्यत्वे तद्भेदस्यान्याय्यत्वात् प्रकृतयागस्यैवेयं सर्वा स्तुतिः । यदङ्गभूतद्वादशकपालावयवोs- ष्टाकपालादिरप्येकैकफलसाधनं तत्र सर्वावयवोपेतद्वादशकपाल- स्य सर्वफलप्रयोजकत्वे कस्सन्देह इति यागस्तुतिः । अष्टाक- पालपदं चाग्नेयाष्टाकपाले शक्तं गौण्या वृत्त्याऽष्टत्वाश्रय- कपालाश्रयित्वसादृश्येन द्वादशकपालावयवे गौणम् । तेन च अवयवद्वारा अवयवी द्वादशकपालो लक्ष्यते । तेन लक्षणया यागस्तुतिरिति । इदं चाधिकरणं औदुम्बराधिकरणन्यायेन पुनरुक्तमापि शिष्यशिक्षार्थमुक्तमिति ध्येयम् ॥ १२ ॥ (१३-१८)-तत्सिद्धिजातिसारूप्यप्रशंसाभूमाल- गन्समवाया इति गुणाश्रयः* ॥ २३ ॥ तस्य मख्यार्थस्य संबन्धिनः सिद्धिः जातिः सारूप्यं प्रशंसा भुमा लिङ्गसमवायः इति एते गुणाश्रयः गौणवृत्तिनिमित्तभूताः । सिद्धिः कार्य एककार्यकारित्वम् । जातिः जन्म एकप्रभवत्वम् । सारूप्यं चक्षुर्ग्राह्यगुणवत्वं ; प्रकारीभवत् सादृश्य मेव वा । प्रशंसा बलवदनिष्टाननुवन्धित्तम् । भूमा बाहुल्यम् । लिङ्गसमवायः लिङ्गस्य मुख्यार्थधर्मस्य संबन्धः अल्पलपर्यवतितः भन्नः पृथगुपादानेन गो. बलीवर्दन्यायात् ॥ २३ ॥ *गुणाश्रप इत्यनायकत्वऽपि मन्त्राधिकरणपूर्वपक्षसूत्रवत् प्रत्येक प्रथमान्तसूत्रौपायासो व्याख्यासौकर्थोि न विरुद्धयत इति भाकौस्तुभे, अधि. १३-१८.] भादीपिकासहितम्. 17 तत्सिद्धिः॥ 'यजमानः प्रस्तरः' इत्यादावपि सामानाधिकरण्यात् एक- मितरस्य नामधेयम् । रूढत्वेन तदसम्भवाद्वा जघन्यप्रस्तरपद- लक्षितप्रस्तरकार्यस्त्रुग्धारणोद्देशन यजमानोऽधिकरणत्वेन विधी- यत इति प्राप्ते- प्रत्यक्षविध्यश्रवणात् ‘प्रस्तरमुत्तरं बर्हिषस्सादयति'* इति विध्यन्तरैकवाक्यत्वाश्च तदर्थवादत्वमौदुम्बराधिकरणसिद्धमेव । यजमानपदं तु गौण्या वृत्त्या प्रस्तरस्तावकम् ॥ नन्वध्यारोपितार्थवृत्तित्वं गौणत्वं लोके प्रसिद्धम्, सिंह- त्वस्य देवदत्ते आहार्यारोपात् । न च तत् वेदे सम्भवति । आरोपकपुरुषाभावादिति चेन्न-विनाऽप्यारोपं सिंहशब्दस्य सा- दृश्यमात्रविवक्षया देवदत्ते काव्यलोकयोः प्रयोगदर्शनात् । अतः स्वशक्यगुणसमानजातीयगुणयोगनिमित्तत्वं गौणत्वम् । सिंह- निष्ठक्रूरत्वसमानजातीयक्रूरत्वयोगाञ्च सिंहपदस्य देवदत्ते प्रवृत्तेः 'सिंहो देवदत्तः' इत्यत्र ‘लक्षणसमन्वयः । पुष्पादौ खसम्ब- न्धित्वाद्धयारोपेण चारोपितं खपुष्पशब्दार्थमङ्गीकृत्य तवृत्तिगु- णानामसत्त्वादीनां सिद्धान्ते सत्वाच न 'खपुष्पं भवसिद्धान्तः इत्यादावव्याप्तिः । अतश्चैतादृशगौणत्वस्य वेदेऽप्यस्त्येव सम्भवः । यद्यपि च रूपकादिस्थले सौन्दर्यस्य तरङ्गिणी' इत्यादौ आ- रोपेणापि गौणी दृष्टा । तथापि साहश्यमात्रेणापि उपमालका- रस्थले साऽनुभूयमाना नापोतुं शक्या । अतश्चोभयसाधारण्येन स्वशक्यसमवेतवत्ता गौणी वृत्तिः । समवतवत्त्वं च कचिदारो. पितत्वसम्बन्धेन, क्वचिश्व स्वसमानजातीयगुणवत्तासम्बन्धेनेति *ते. सं. २.१.५.
18 पूर्वमीमांसादर्शनं. [अध्या. १. पा. ४. भेदः । अत्र सिंहपदेन शक्त्या सिंहोपस्थित्यनन्तरं लक्षणया क्रूरत्वोपस्थितिरिति प्राञ्चः । वस्तुतस्तु-एकसम्बन्धिस्मरणेन अपरसम्बन्धिस्मारकविधयेव तदुपस्थितिः । गौणी शानकार्यता- वच्छेदकं च निरुक्तोभयविधसम्बन्धान्यतरसम्बन्धेन स्वशक्य- समवेतधर्मप्रकारकदेवदत्तविशेष्यकशाब्दत्वमिति न क्रूरत्वादी- नामशाब्दत्वप्रसङ्गः । न च गौण्या. लक्षणातो न भेदः । स्व. शक्यवृत्तिगुणानामेव यत्र सम्बन्धत्वेन रूपेण बोधः तत्र लक्ष- णा, क्रूरत्वत्वादिना बोधे तु गौणीति तयोर्भेदात् । ते च गु- णापडिधाः-क्वचित्तत्सिद्धिः तत्कार्यकारित्वम् । यथा यजमा- नपदे यजमानो यथा स्वकार्यकर्ता तथा प्रस्तरोऽपीति । एवं च गौणी गर्भलक्षणया प्रस्तरस्तुतिः । एवमन्येऽपि पञ्च गुणा अनिमसूत्रैः द्रष्टव्याः ॥ १३ ॥ जातिः ॥ अग्निर्वै ब्राह्मणः '* इत्यत्र पूर्ववदेवाग्निशब्दो ब्राह्मणे गौणः द्वयोरप्यग्निब्राह्मणयोरेकब्रह्ममुखप्रभवत्वात् । । अग्निजननस. मानजातीयजननमेवात्र गुणः ॥१४॥ सारूप्यम् ॥ आदित्यो यूपः' इत्यादौ तु सारूप्यं गौणीनिमित्तम् । नच सर्वत्र तदेव निमित्तं, कोऽत्र विशेषः? । चक्षुह्यं तेजस्वित्वाद्यत्र निमित्तमिति प्राश्चः । वस्तुतस्तु-अन्यत्र शक्यनिष्ठगुणस्यैव *तै. सं. ६.२.८. तै. बा. २-१-५: +'प्रजापतिरकामयत प्रजायेयेति स मुखतखिवृतं निरमिमीत तमभिर्देवताऽन्व- सृज्यत गायत्री छन्दो रथन्तरं साम ब्राह्मणी मनुष्याणामज: पशूनां '(तै. सं.७.१-1.) इत्यादिकमिह द्रष्टव्यमा अघि. 11-16.] भादीपिकासहितम्. 79 स्वसमानजातीयगुणवत्तासंसर्गेण प्रकारत्वानिमित्तता। न तु सारूप्यस्य तस्य संसर्गत्वात् । इह तु शक्यनिष्ठगुणसजातीयगु. णवत्त्वरूपस्य सारूप्यस्यैव समवायादिसंसर्गेण प्रकारत्वात् त- देव निमित्तमिति विशेषः ॥ १५ ॥ प्रशंसा ॥ अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वाः '* अजादीनां तत्रतत्र विहितत्वात् पशुकार्य प्रतिषेधस्य पर्युदास- स्य वा अनुपपत्तेरर्थवादत्वम् । अपशुशब्दो घटादौ मुख्यः गवाश्वगतप्राशस्त्याभावरूपगुणयोगादजादौ गौणस्सन् लक्षणया गवाश्वगतस्तुत्यर्थः । प्राचां मते तु नसमासान्तर्गतपशु- पदेन गवाश्वगतप्राशस्त्यं लक्षयित्वा ना तदभावरूपो गुण उपस्थाप्यत इति विशेषः । सर्वथा प्रशंसा गौणीनिमित्तघटिकेति सिद्धम् ॥१६॥ इत्यत्र भूमा ॥ 'सृष्टीरुप दधाति । इत्यत्र विध्यन्तरैकवाक्यत्वाभावात् प्रत्य- क्षविधिश्रवणाच विधित्वम् । तत्रचोपधानमेवेष्टकासंस्कारार्थत्वन विधीयते । यद्यपि चेष्टकानां चयनाङ्गत्वान्यथाऽनुपपत्त्यैव उपधानं प्राप्येत; तथापि ततः पूर्वमेव प्रत्यक्षविधिना विधीयते । तत्फलं च प्रत्येकोपधानसिद्धिः चयनसमानककत्वसिद्धिश्च । अ- न्यथा समुदितोपधानमपि कदाचित्प्रानयान् । आर्थिकत्वाश्व चय नभिन्नकर्तृकत्वमपि । सति त्वस्मिन् इष्टकासंस्कारद्वारा चयनाङ्ग- ताबोधकविधौ प्रतिप्रधानावृत्तिन्यायान् अङ्गप्रधानयोरेककर्तृकत्वाञ्च फलद्वयसिद्धिः । सृष्टिपदं तु लिङ्गप्रकरणप्राप्तवृष्ट्यसृष्टिमन्त्रमात्रस्य गोण्यानुवाद इति भाष्यकारः ॥ *तै. सं. ५-२-९- तै. सं. ५-३-४, [अध्या. पा.४. तथा 80 पूर्वमीमांसादर्शनं. वातिककारस्तु-नोपधानमात्रविधिः सति 'प्रा. णभृत उप दधाति'* - इत्याद्यनेकोपधानविधिवैयोपत्तेः । अतौ मन्त्रमात्रमुपधानानुवादेन मन्त्रविशिष्टं वोपधानमिटकासंस्का गर्थत्वेन विधीयते । तत्रोपधानविधिफलं तु पूर्ववत् । मन्त्र विधिफलं तूपधाने सनियमः । मन्त्रा हीष्टकामात्रप्रकाशका- स्तब्रहणादिष्वपि प्राप्तिसम्भवानोपधाने नियमेन प्राप्नुवन्ति । . भतस्ननियमः (ग्रहणादिपरिसङ्घचवं वा) फलम् । मध्यमचितिस- म्बन्धश्च । 'यां वै काम ब्राह्मणवतीमिष्टकामभिजानीयातां मध्य' मायां चिवावुपदध्यात्' इति वचनेन प्रत्यक्षब्राह्मणवतीनामिष्टकानां मध्यमचितिसम्बन्धस्य विधानात् । अन्यथा तत्तच्चित्यान्तरप्र- करणपाठरहितानां मन्त्राणां चयनमहाप्रकरणेन सर्वचितिषु अ- न्तिमायामेव वा निवेशापत्तेः । अतो मध्यमचितिसम्बन्धार्थ मन्त्र- विधिः । इष्टकानां प्रत्यक्षवाक्षणवत्त्वं च इष्टकावाचिप्रत्यक्षब्राह्मण. पठितपदविधेयमन्त्रकत्वम् । सृष्टिपदं हि सृष्टिप्रकाशकमन्त्रोपधे- येष्टकापरम् । तत्र च विशेषणांशस्य विधेयत्वात्तत्तदिष्ट कानां प्रत्यक्षब्राह्मणवत्त्वसिद्धिः । इतिकरणविनियुक्तलोकंपृणमन्त्र- स्थापि मध्यमचितिमात्रसम्बन्धापनरिष्टकावाचीति पदविशेष- पणम् । अतश्च मन्त्रविशिष्टोपधानमत्र विधीयते । सृष्टिपदं पर गौण्या वृत्त्या सप्तदशसङ्ख्याकसृष्टयसृष्टिमन्त्रपरम् , 'यत्सप्तद- शेटका उपदधाति' इत्यर्थवादानुसारात् । तत्र चतुर्दश सृष्टिमन्त्रा- स्त्रयोऽवष्टिमन्त्रा इति सृष्टिबाहुल्यं गुणो गौणीवृत्तिनिमित्तम् ॥१७॥ लिङ्गसमवायः ॥ 'प्राणभृत उप दधाति'* इत्यादी अल्पत्वं निमित्तम् । शेष पूर्ववत् । एवं षडौणीवृत्तिप्रकाराः ॥ १८ ॥ *तै. सं. ५-२-१.. , आधिः २०.] भादीपिकासहितम्. 81 (१९)-संदिग्धेषु वाक्यशेषात् ॥ २४ ॥ संदिग्धेषु — अक्ताइशर्करा उपदध्यात्' इत्यादिविध्यर्थेषु संदेहविषये- घु सत्सु वाक्यशेषात् 'तेजो घृतम् । सतेजसमेवाग्रि चिनते '* इत्यादिकात् अर्थवादरूपात् कल्पना अर्थवादेन स्तयमानस्यैव विधेयतया निर्णयः । उत्तरसू- त्रात् कल्पनापदस्यानुषङ्गः ॥ २४ ॥ 'अक्ताश्शर्करा उपद्धांति' इत्यत्र अक्ता इत्यनेन अवि. शेषात् यत्किञ्चिदञ्जनसाधनद्रव्यस्य विधिना निर्णतत्वात् उपसं. हारस्थेन 'तेजो वैधृतम्' इत्यनेन सङ्कोचानुपपत्तेर्नार्थवादस्य स. न्दिग्धार्थनिर्णये प्रामाण्यमिति प्राप्ते- विधेरविशेषप्रवृत्तत्वेनैव वृतमात्रग्रहणेनाप्युपपत्तेरितराक्षेपक- त्वेप्रमाणाभावात् उपक्रमस्याविरोधेनवोपपत्तौ उपसंहारस्थस्याप्य- र्थवादस्योपलक्षणत्वे प्रमाणाभावाद्विध्यर्थवादयोरेकवाक्यत्वेनक- विषयकत्वस्यावश्यकत्वाञ्च युक्तं वाक्यशेषस्य सन्दिग्धानिर्ण- येऽपि प्रामाण्यामिति घृतेनैवाञ्जनम् ॥ १९ ॥ (२०)-अर्थाद्वा कल्पनैकदेशत्वात् ॥ २५ ॥ अर्थात् वा सामर्थ्यादेव ' हस्तेनावद्यति । सुवेणावद्यति । स्वधि- तिनाऽवद्यति' इत्यादी कल्पना अबदेयद्रव्यादिनिर्णयः । न च तनिर्णी- तस्यार्थस्यविदिकत्वम् । तत्कल्पितपदम्य एकदेशत्वात् वेदैकदेशत्वात् वैदिकत्वोपपत्तेः ॥ २५॥ इति सारबोधिन्यां जैमिनिसूत्रवृत्ती. प्रथमस्याध्यायस्य चतुर्थः पादः. *त. बा.३-१२-५. P.M,-11 82 . पूर्वमीमांसादर्शनं. [अध्या. १. पा: ४. 'सुवेणावधति स्वधितिनाऽवद्यति हस्तेनायद्यति' इत्यादी विधेरवदेयद्रव्यविषये सन्दिग्धस्य सामर्थ्यानिर्णयः- सुवेण द्रव द्रव्यमेव आज्यादि, स्वधितिना मांसादि, हस्तेन संहतं पुरोडा- शादि । असश्च सामर्थ्यसहकृतावद्यातेपदेनैव लक्षणया द्रवद्रव्या- घवदानस्योदेश्यत्वात् तदनुवादेन्द सुवादिविधी न किञ्चिद्वाध- कम् । एवं 'अञ्जलिना सक्तन् जुहोति' इत्यादावपि न सम्पुटाका- रोऽअलिः अपि तु व्याकोचाकार एव ॥ तदेवं विध्यर्थवादमन्त्रस्कृत्याचारनामधेयवाक्यशेषसामर्थ्य- रूपाण्ययी प्रमाणानि धर्णधर्मयोनिरूपितानि । अतः परं भेदादि- ना तत्स्वरूपं निरूरत ॥२०॥ इति खण्डश्वविरचिनायो माहदीपिकायां प्रथमस्याध्यायस्थ अनुश्रः पादः. अध्यायश्च समाप्त:. अथ द्वितीयोऽध्यायः. (१-२)-भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्र. तीयेतैष घों विधीयते॥१॥सर्वेषां भावोऽर्थ इति चेत् ॥२॥ येषामुत्पत्तौ स्वप्रयोगे रूपोपलब्धिस्ता- नि नामानि तस्मात्तेभ्यः पराऽऽकाला भूतत्वात् येषां तूत्पन्नावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि त- *ते. सं. ३.३.८.
अधिः १.] भादीपिकासहितम्. 83 स्मातेभ्यः प्रतीयेत॥३॥ आश्रितत्वात्प्रयोगस्य॥४ . भावाः भावः भावना अर्थः स्वान्वय्यों पां ते भावना- विशेपणीभृतार्थाः कर्मशब्दाः क्रियाशब्देन धातुना प्रतिपाद्याः तेभ्यः धावर्थभ्यः एव क्रिया अपूर्वोत्पत्तिरूपा फलोत्पत्तिरूपा वा प्रतीयेत कुतः एष ह्यर्थः धात्वर्थः विधीयते विधेयफलभावनाविशेषणत्वेन संबध्यते न तु द्रव्यगणादिरूपनामार्थाः । तथा च 'सोमेन यजेत इल्यादा फलभावनायां धालस्यैव करणतयाऽन्वयात् तस्यव फलसाधनी. भूतापूर्वसाधनत्वरूपः फलसंवन्धः । सोमादेस्तूपपदार्थस्य धात्वर्थीपका- रकत्वमवेत्याशयः ॥१॥ आशङ्कय समाधत्त-सर्वया पदार्थानां भावः भावनैव अर्थः स्वान्वयर्थः । तथा च धत्व वि उपपदार्थस्यापि भावनान्वयितास्वीकारात् सामापि फल सम्वन्धो युज्यते इति चेत् नेदं युक्तं यतः उत्पत्ती सोमेन यजेत' इत्वायत्यत्तिवाक्ये येषां पदानां स्वायोगे स्त्रोच्चारणसमरे रूपोपलब्धिः स्ववाच्यस्वरूपोप- लब्धियोग्यता स्ववाच्यानां सिद्धपता तानि नामानि । तस्मात् नानां सिद्धरूपाथवोधकत्वात तेश्यः गामान्यः आका जास्पसाधनाका परा दूरे नास्तीति यावत्. कुत: भूतत्वात् ततनामो चारणकाल एव त- तनामार्थस्य मिद्धत्वेन प्रतीतेः । अतः नामार्थस्य सोमादेः फलस- वन्धे स्वीक्रियमाणे यागादेष्टविधया तत्साधनत्यासंभवात अदृष्टद्वौरव त- साधनत्वं कल्प्यं स्यात् । येषां शब्दानां तु उत्पत्ती उच्चारणकाले स्वेऽथ स्वप्रतिपाद्यार्थ प्रयोगः इन्द्रियमंप्रयोगो न विद्यते स्वा- र्थो न सिद्ध इति यावत तान्याख्यातानि । तस्मात आख्यातानां असिद्धार्थबोधकवान तेश्यः तदर्थभ्यः अनिष्पनत्वेन प्रतीयमानेभ्यः सा- धनाकाङ्क्षा झाडिति प्रतीयेत । अतः धात्वर्थ प्रति उपपदार्थस्य दृष्ट- विधयेवोपकारकत्वसंभवात धात्वर्थे यागादौ फलसंबन्धित्वेन स्वाक्रियमाणे
84
पूर्वमीमांसादर्शनं. अध्या. २. पा...
दृष्टद्वारैव सोमादेस्तादृशयागोपकारकत्वं संभवतीति अनेकादृष्टकल्पनाभावा-
द्धात्वर्थादेव फर्लामति ॥२-३ ॥ ननूपपदार्थस्य सोमादेः फलसंवन्धेऽपि
धात्वर्थस्याश्रयतया दृष्टविधयेव तदुपकारकत्वं संभवतीति धात्वर्थादेव फलमि-
त्यत्र विनिगमकं दुर्लभमित्याशङ्कायामाद प्रयोगस्य प्रयुज्यमानावा भाव-
नायाः समानपदोपात्तेन धात्वर्थेनैव अन्वयस्य पूर्व आश्रितत्वात् औत्तर-
कालिकः फलान्वयोऽपि धात्वर्थस्यैव, समानपदश्रुतेरेव नियामकत्वात् ॥ ४ ॥
एवं धर्माधर्मप्रमाणेषु निरूपितेषु अधुना तत्स्वरूपं निरू-
प्यते । यद्यपि च तदप्येतावत्प्रमाणप्रतिपाद्यत्वेन रूपेण बुद्धमेव
तथाऽप्येकत्वानेकवादिरूपेणाबुद्धत्वादिह तेन रूपेण निरूप्य-
ते । अत्र च शब्दान्तरादिषट्माणकभावनाभेद एवाध्यायार्थः ।
धात्वर्थभेदस्तु तसिद्धयर्थः काचित्को निरूप्यत, अपूर्वभेदोऽपि
फलत्वनोत न तावध्यायार्थी ॥
फलीभूतापूर्वभेदोऽप्यपूर्वसाधनभेदाधीन इति तत्साधनजिज्ञा
सायां स्वर्गादिसाधनस्यैवावान्तरव्यापाररूपापूर्व प्रति साधनत्वात्
स्वर्गादिफलं प्रति किं धात्वर्थस्य करणत्वं उत उपपदार्थस्य
सोमादेरपीति चिन्तायां--प्राथमिकभावनान्वयस्य तावत् सि.
द्धान्तिनोऽपि सम्मतत्वात् औत्तरकालिकः फलान्वयोऽपि सर्वेषा-
मेवेति प्राप्ने-
-
सर्वेषां करणत्वेऽनेकादृष्टकल्पनाप्रसङ्गात् एकस्यैव फलनि-
सापिता करणता, अन्येषां तु दृष्टविधयैव करणार्थत्वम् । तदत्र
धात्वर्थस्यैव फलकरणत्वे सोमादीनां तजनकत्वेनैव दृष्टार्थता ।
सोमादीनां करणत्वे च धात्वर्थस्याश्रयविधयैव दृष्टार्थ तेति ना-
नेकाष्टकल्पना ॥१॥
अधि: २.] मादीपिकासहितम्. 85 एवं स्थिते विशेषजिज्ञासायां सोमादेरेव फलकरणत्वं तस्य सिद्धत्वेन योग्यतारूपलिङ्गात् । तृतीयायाः करणत्वे शक्त- त्वेन कारकश्रुतेरेकपदोपात्तत्वरूपपदश्रुत्यपेक्षया बलीयस्त्वाच्च । फलान्वये पदश्रुतेरप्यभावाच.। अत एव यागादिर्धात्वर्थस्सोमा- द्यर्थ एव । न च तदर्थत्वेऽदृष्टकल्पना । अग्निहोत्रहोमेन दधि- निष्ठकरणतासम्पादनवत् यागेनादृष्टमन्तरेणैव सोमनिष्ठकरण- तासम्पादनेन यागस्य सोमाङ्गत्वोपपत्तिरिति प्राप्ते -- पदश्रुत्या यागस्यैव फलकरणत्वम् । यद्यपि च फला- न्वये न सा । तथापि प्राथमिकभावनान्वये यस्य यत् प्रमाणं तद्गतबलवत्त्वस्य तस्यामवस्थायामकिञ्चित्करत्वेऽपि पाष्टिकफ- लान्यये तस्य निर्णायकत्वात् । अतश्च प्राथमिकभावनान्वये विद्यमाना पदश्रुतिः फलान्वये निर्णायिका । न च तस्याः कारकश्रुत्यपेक्षया दौर्बल्यम् । लाक्षणिकत्वेऽपि यागकरणत्वस्य सोमकरणत्वान्वयात् प्राग्भावनायामन्वितत्वेन नदन्वयस्य प्राथ. म्यात् । अन्यथा तिङन्तपदस्य परिपूर्णत्वाभावेन नदुपस्थाप. तभावनायां सोमस्याप्यन्वयानुपपत्तेः 'परिपूर्ण पदं पदान्तरे- णान्वेति' इति न्यायात् । न च प्रथमावगतस्यापि कल्प्यस्यो. त्तरकालिकेन बाधः, उपजीव्यत्वादिति यागः फलसाधन सोमो यागार्थ इति सिद्धम् ॥ प्रयोजनं-सोमापचारे न प्रतिनिध्युपादानं पूर्वपक्षे । सि- द्धान्ते तु तत् ॥ नन्विदं धात्वर्थातिरिक्तभावनासत्त्वे भवेत् । न तु तस्यां प्रमाणमस्ति । धातूनान विक्लित्त्यादिफल इव तत्प्रयोजकव्या- पानमात्रे फूत्कारादौ यत्नादौ च शक्तत्वात् ।। अतो यत्नादि.
वाच्य एव । अत 86 पूर्वमीमांसादर्शनं. [अध्या. २. पा. १. रूपभावनाया अपि धातुवाच्यत्वात् धात्वर्थ एव क्रियारूपे स. कलकारकान्वयः न तु यागस्य पदश्रुत्या फलकरणत्वमिति चेत्- पचति पाकं करोति पाके यतते' इति पाकात्पृथ- ग्विव्रीयमाणयत्नादेः पचत्यर्थत्वानुपपत्तेः । न च घान्तपाकश. ब्दस्य फल एव शक्तत्वात् पृथग्विवरणोपपत्तिः । व्यापारवि- गमेपि फलदशायां 'पाको विद्यते' इति प्रयोगापत्तेः तस्याः व्यापारवाचित्वावश्यंभावात् । अतो भासमानो यत्नादिः ति- एव धातुवाच्यमपि साक्षात्फलजनक्रफू- कारादिव्यापारवृत्तिपाकत्वादिकमेव । तच्च जातिरखण्डोपाधि- वैत्यन्यदेतत् । तजनकयत्नादिकं तु आख्यातवाच्यमेव । तत्र हि शक्ततावच्छेदकं तु करोतिना विव्रीयमाणनिप्पदत्वादिकं ; लाघवात्तिप्त्वादिकमेव वा । न तु स्थानिलत्वम् । तदुपस्थापका. देशविशेषाणां पदज्ञाननिष्ठकारणतावच्छेदककोटी प्रवेश गुरुभू- तकारणतावच्छेदकघटितानन्तकार्यकारणभावकल्पनापत्तेः । अप्र- वेशे यथाकश्चिदुपस्थापितलकारादपि भावनोपस्थित्यापत्तेश्च । शक्यतावच्छेदकं तु फलोद्देश्यकधात्वर्थातिरिक्तव्यापारत्वम् । फलं च कचिद्धात्वर्थः क्वचिच्च स्वर्गदिोरति यथाविवक्षम् । एवं च 'रथो गच्छति' इत्यादौ न लक्षणा । गमनानुकूलव्यापा- रस्यैवाख्यातार्थत्वादिति पार्थसारथिमिश्रः ॥ वस्तुतस्तु-यत्नत्वमेव शक्यतावच्छेदकम् , लाघवात् । तद्वाधे तु सवर्वाश्रयत्वादी लक्षणा । यत्नस्यैव चाख्यातोपात्तस्य नित्यं कर्मसाकांक्षत्वम् , करोतिपर्यायत्वात् एककर्मकत्वम् , फलभावनानुकूलव्यापारत्वाचार्थभावनात्वं द्रष्टव्यम् ॥ इयं चाख्यातोपात्तभावनैव मुख्यविशेष्या तद्वयतिरेकेणेवर- अघि..३. 87 भारदीपिकासहितम्. पदार्थान्वयापर्यवसानात् । तस्यामेव चाख्यातोपात्तायां क्त्वा- प्रत्ययाद्युपात्तायां वा योग्यताद्यनुसारेण निपातोपसर्गप्रातिपदिका- तिरिक्तशब्दगम्यो यस्सुबुपात्तलिङ्गसङ्ख्याव्यतिरिक्तोऽर्थः तस्य सर्वस्यापि प्रकारतया अन्वयः । निपातोपसर्गयोस्तु क्रियास- मभिव्याहारादौ सतिं तयाऽन्वयः । अन्यसमभिव्याहारादौ अ- न्येनापि । प्रातिपदिकार्थोऽपि सुबर्थे करणत्वादी । तद्धितस. मासादिसखण्डप्रातिपदिकावयवार्थानां तु यत्र कारकतासम्ब- न्धेन तद्धितसमासादिवृत्तिः यथा आग्नेय इत्यादौ तत्राग्नेर्देवता- त्वात् भावनायामेवान्वयः न तु तद्धितोपात्ते द्रव्ये । स तु पाष्टिक एव । यत्र कारकतातिरिक्तसम्बन्धेन सा तत्र परस्प- रान्वयोऽपि । यथा 'अश्याभिधानी'* इत्यादौ । एवं सुवुपात्त- लिङ्गसङ्ख्ययोस्समानाभिधानश्रुत्या सुवर्थे करणवादावेवान्वयः । तद्वयतिरिक्तपदार्थमात्रस्य तु सुवर्थकरणत्वादेर्धात्वर्थस्य कर्तुस्त- देकत्वस्य कालादेलडाद्यर्थस्य लिङाद्यर्थस्य च विध्यादेस्सर्व. स्यैव लिङ्गानन्वयिभावनावाचिपदोपस्थाप्यायां भावनायामेवान्वयः। अत एव भावनापदोपस्थापितायां तस्यां नान्वयः आख्यातेन क्त्वादिना वोपस्थितायां तु भवत्येवान्वयः प्रकारतया । प्रकारता- घटकारसम्बन्धाश्च सर्वे यथायथं पाष्ठिकान्वयबोधवेलायामेव ग- म्यमानाः कौस्तुभ एव द्रष्टव्याः । तस्मात्सिद्धा आख्यातवा. च्या आर्थी भावना। तस्यां च स्वर्गादि भाव्यम् । धात्वर्थ- श्च करणम् । सोमादिकं तु करणानुग्राहकत्वादितिकर्तव्यतेति सिद्धम् ॥२॥ (३)-चोदना पुनरारम्भः ॥ ५॥ *ते.सं. ५.१.२.
88 पूर्वमीमांसादर्शनं. अध्या. २. पा... आरभ्यत इति आरम्भः अपूर्व तु पुनः अङ्गीकार्य मेव यतः चोदना यागस्वर्गसाध्यसाधनभावपरं 'ज्योतिष्टोमन स्वर्गकामो यजेत इत्यादिवाक्यमुपलभ्यते ॥५॥ - धात्वर्थादेवापूर्वमिति स्थिते अंपूर्व मेवास्ति न वेति चिन्ता- यां-तृप्तयागध्वंसद्वारेणैव क्षणिकस्यापि यागस्य स्वर्गसाधनत्वो- पपत्तौ नापूर्वकल्पनं गौरवापत्तेः । न च नित्यत्वात् ध्वंसस्य धर्मः क्षरति कीर्तनात् । प्रायश्चित्तेन नश्यन्ति पापानि सुमहान्त्यपि ॥ इति कीर्तनप्रायश्चित्तनाश्यत्वानुपंपात्तः । कीर्तनादेः फलोत्प- त्तिप्रतिबन्धकत्वाङ्गीकारेण तदनाशकत्वात् । कीर्तनात्यन्ताभाववि- शिष्टज्योतिष्टोमव्यक्तित्वेन कारणत्वकल्पनाद्वा न कश्चिद्दोषः । अतो नापूर्वे किंचित्प्रमाणमस्ति इति प्राप्ते- क्षरतिनश्यत्यो शवाचिनोर्भवन्मते लक्षणापत्तेः नाशयो- ग्यमपूर्वमेव कल्प्यते गौरवस्य फलमुखत्वेनादोषत्वात् । अतश्च प्रधानेन स्वर्गादिफले जननीये अपूर्वमवान्तरव्यापारः । अङ्गेन च प्रधानादिनिष्ठफलाद्यनुकूलयोग्यतारूंपे स्वफले जननीये तद- वान्तरव्यापारः । स च फलबलादात्मनिष्ठः। अवान्तरव्यापारत्वादेव च न यागादेरन्यथासिद्धिः । तदत्र यत्रैकमेव प्रधानं तत्र पूर्वो- त्तरागसहितात्तस्मादपूर्वोत्पत्तेः प्रधानाव्यवहितमेकमुत्पत्त्यपूर्व तेन चं सर्वाङ्गान्ते परमापूर्वमपरमिति द्वे अपूर्वे । एवं प्रधानभेदेऽपि प्रतिप्रधानमुत्पत्त्यपूर्वभेदः, परमापूर्व त्वेकमिति क्षेयम् ॥ दर्श- पूर्णमासयोस्तु 'पौर्णमास्यां पौर्णमास्या यजेत अमावास्यायाम- मावास्यया यजेत' इति वाक्यद्वयेन यागत्रयकरणतानां त्रिका- न्तरनिरपेक्षाणां साहित्यावगतः साहित्यस्य चैककार्यनिरूपितत्वं बिना अनुपपत्तेः प्रतिसमुदाय समुदायापूर्वमपरं तेन च पर- भादीपिकासहितम्. ४४ आध:४.] मापूर्वमिति न वा पूर्वसिद्धिः । एवमन्यत्रापि चातुर्मास्यद्वादशाहा- दिषु अपूर्वकल्पना शेया । अङ्गेषु तु सन्निपत्योपकारकाङ्गज. न्यापूर्वाणां प्रधान एवोत्पत्त्यपूर्वजननानुकूलयोग्यताजनने उपयो- गः । अन्तिमप्रधानगतयोग्यतया च नाशः । आरादुपकारक. जन्यानां तु उत्पत्त्यपूर्वनिष्ठतव्यवहितकार्यजननानुकूलयोग्यता- जनने उपयोगः । अव्यवहितं च कार्य समुदायापूर्वसत्त्वे त. देव । तदभावे परमापूर्व स्वर्गाद्येव वा शेयम् । अन्तिम- योग्यतोत्पत्तौ च नाशः । यदि तु परमापूर्वे न तथा किंचि- प्रमाणमस्तीत्याशङ्कयेत ततो मास्तु तत् । अङ्गानां तु आरादुप- कारकाणामुत्पत्यपूर्व एव समुदायापूर्वाभावे फलानुकूलयोग्यता- जननमेव कार्यमस्तु । सर्वथा सिद्धमपूर्वम् ॥ ३॥ (४)-तानि वैधं गुणप्रधानभूतानि ॥ ६ ॥ यैस्तु द्रव्यं न चिकीर्ण्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् ॥ ७ ॥ यैस्तु द्रव्यं चिकीयंते गुण- स्तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् ॥ ८॥ ॥ चोदनासु च तानि धात्वर्थरूपक्रियाप्रतिपादकानि आख्यातान्ता- नि द्विधैव द्वैधं द्विविधानि गुणप्रधानभूतानि द्रव्यं प्रति गुणभूतार्थ- प्रतिपादकानि कानिचित् , कानिचिच द्रव्यं प्रति प्रधानभूतार्थप्रतिपाद- कानि ॥ ६ ॥ यैस्तु कर्मभिः द्रव्यं यागी द्रव्यदेवतादिकं न चि- कोयते न संस्कमिप्यते संस्कर्तुमनह तानि कर्माणि · सोमेन यजत' इत्यादिविहितानि प्रधातभूतानि द्रव्यस्य सोमादेः तत्र श्रुत्यादिना गुणभूतत्वात् ॥ ७ ॥ यैस्तु कर्मभिः द्रव्यं यानीयद्रपदेवतादिक P.अ.-12 90 पूर्वमीमांसादर्शनं. [अध्या. २. पा. १. चिकीर्ण्यते संस्कर्तुमर्ह तत्र "वाहीन्प्रोक्षति" इत्यादौ तानि क. माणि ब्रीहिप्रोक्षणादीनि गुणः गुणभृतानीत्येवं प्रतीयेत तस्य'. त. स्थलीयाख्यातस्य द्रव्यप्रधानत्वात् द्रव्यं प्रधानं यस्य तादृशवात् द्वितीयादिसमभिध्याहारेण तद्वाक्यस्य द्रव्यप्रधानकगुणभूतकर्मबोधकत्वात्॥८॥ वीहीनवहन्ति' इत्यादौ पूर्ववदेव अवघातस्य फलभावना- करणत्वमविवादम् । तच फलं न' बोहयः अजन्यत्वात् । नापि वैतुष्यं तजनकत्वस्य लोकसिद्धत्वेन अविधेयत्वात् । नापि पक्षे दलनादरप्यर्थप्राप्तत्वेन तद्यावृत्तिफलको नियमः तस्यापि वैफल्यात् । न च तस्यादृष्टार्थत्वं अदृष्टस्यवाश्यकल्पनीयत्वे शा- ब्दावघातादेव तत्कल्पनौचित्यात् । अतोऽदृष्टार्थमेव अवघातः । तदपि चादृष्टं न व्रीहिनिष्ठं तत्त्वावच्छिन्नं प्रति आत्मत्वेन स- मवायिकारणत्वात् । अतः पूर्ववदेव ब्राहय एवावघातार्था इति बीहिविशिष्टोऽवधात एवाइष्टार्थमारादुपकारकत्वेन विधायत इति प्राप्ते- दृष्टे सम्भवत्यदृष्टस्यान्याय्बत्वात् वितुषीभाव एव अव- घातफलम् । न च तस्याक्षेपादेव प्राप्तत्वेन विधिवैय्यर्थ्यम् । दलनाद्युपायान्तरल्यावृत्तिफलकनियमस्यैव अवघाताश्रितस्य अ- दृष्टाथै विधेयत्वात् । अत एव कृष्णलचरौ अवघाताभावे तस्य लोपः । वस्तुतस्तु श्रौतस्यावघातस्यैवाक्षेपतः पूर्वप्रवृत्त्या वि. तुषीभावार्थ विधेयत्वम् । अतश्चाक्षेपप्रतिबन्धात् दलनादिव्या- वृत्तिफलको नियमः फलम् । वैतुष्यस्य च दलनेनापि जायमान- त्वात् वैय्यर्थ्यशङ्का 'तु अवधातादेव व्रीहिनिष्ठादृष्टस्याप्युत्प तिकल्पगभिराकर्तव्या । तददृष्टस्य च जन्यत्वमात्रं लाघवात् कल्प्यते, न तु प्रयोजकत्वमपि, हष्टरूपे वैतुष्य एष तत्कल्प- 91 तु आधि: ५.] भादीपिकासहितम्. नात् । अतः कृष्णलचरौ वैतुष्याभावे तल्लोपः । आर्थिकविध्य- न्तरकल्पनात् एकया द्वितीययैव वा जन्यद्वयोक्तानेकोद्देश्यता। तत्तददृष्टस्य च द्वितीयादिमिग्राहकप्रमाणेन नीलादिनिष्ठत्व- स्यैवावगतेस्तत्त्वेनैव समवायिकारणता, नात्मत्वेन । अतश्चाव- घातस्यादृष्टवितुषोभाचोभयद्वारा अपूर्वसाधनीभूतबोयुद्देशेन वि- धानात् सिद्धं संस्कारकर्मत्वम् । प्रयोजनं यागार्थवीपेक्षया ब्रीह्यन्तरमवघातार्थमुपादेयं पू. र्वपक्षे । सिद्धान्ते नेति ॥४॥ (५)-धर्ममात्रे कर्म स्यादनिवृत्तेः प्रयाज- वत् ॥ ९॥ तुल्यश्रुतित्वावेतरैस्सधर्मा स्यात्॥१०॥ द्रव्योपदेश इति चेत् ॥ ११॥ न तदर्थत्वाल्लोकव- तस्य च शेषभूतत्वात् ॥ १२॥ "सुचस्समाटि"* "नीहीन्प्रोक्षति” इत्यादौ दृष्टोपकाराजनके ध.. मैमात्रे तु सम्मार्गप्रोक्षणादिरूपे कृलेल कर्मण्यपि कर्म प्रधानकर्मत्वं स्यात् द्रव्यगतस्योपकारस्य धयाजादिवत् प्रयाजादिभ्य इव तैः अनिवृत्तेः अनिष्पादनात् ॥ ९॥ सिद्धान्तमाह-वा इति पूर्वपक्ष- व्यावृत्ती । इतरैः अवघातादिभिः सधर्मा गुणकर्मत्वेन तुल्यः स्यात् कुतः तुल्यश्रुतित्वात् “व्रीहीनवहन्ति" इत्यादाविव "खुचसमाटि"* इत्यादावपि द्रव्यगतप्राधान्यवाचिन्या द्वितीयाश्रुतेः समानत्वात् · ॥१०॥ सिद्धान्तमिममाशङ्कय समाधत्ते-नीहीनिति द्वितीयान्तेनापि द्रव्योपदेशः द्रव्यस्य गुणतयैवोपदेशः विधान “ सक्तन्जुहोति" इत्यादौं द्वितीयायाः *तै. बा. ३-३-१, 92 पूर्वमीमांसादर्शनं. अध्या. २. पा. १. करणत्ववाचिताया अपि दर्शनात् इति चेत् न लोकवत् “घटं क. रोति " इत्यादिलौकिकप्रयोग इव वेदेऽपि द्वितीयायाः “कर्मणि द्विती- या" इत्यनुशासनानुरोधेन कर्मत्ववाचकत्वात् । तस्य "सक्तून्जुहोति' इत्यादी सक्त्वादेः च शेषभूतत्वात् 'गुणभूतत्वात् भूतभाव्युपयोगासं- भवेन प्राधान्यस्य कथं चिदपि स्वीकारासभेवनागत्या द्वितीयायाः करण- वे लाक्षणिकताऽऽश्रीयत इति ॥ ११-१२ ॥ 'नीहीन प्रोक्षति' तुचस्तम्माष्टि'* इत्यादौ दृष्टोपकार- कत्वासम्मवात् द्वितीयायाश्च साध्यत्ववत्करणत्वेऽपि 'सक्तन् जुहोति' 'बल्बजान् शिखण्डकान् कुरु' इत्यादौ प्रयोगदर्शनात् पूर्वाधिकरणपूर्वपक्षवदर्थकर्मत्वमेव । वल्बजानां हि करोतेर्दिक- मकत्वापत्तेर्न साध्यत्वम् । अतः करणत्वमपि द्वितीयार्थः । अतश्च ब्रीहिकरणकप्रोक्षणमेवादृष्टार्थ विधीयत इति प्राप्ते- कर्मणि द्वितीया' इत्यनुशासनात् 'घटं करोति' इत्या- दिप्रयोगाश्च साध्यत्वमेव द्वितीयार्थः, न करणत्वम् । अनेक. शक्तिकल्पनाप्रसङ्गात् । कर्मत्वं च 'कर्तुरीप्सिततमं कर्म' इति सूत्रात् नेप्सितत्वरूपमेव । अपि तु तथा युक्तं चानीप्सितम्' इति सूत्रादीप्सितानीप्सितसाधारणं साध्यत्वमेव । यथा चैवं सति न सूत्रद्वयवैयर्थ्य तथा कौस्तुभ एव प्रदर्शितम् । अ- तश्च त्रीहीणां द्वितीयया साध्यत्वाभिधानात् यागाइत्वावगमेन चेप्सितत्वप्रतीतस्तदुद्देशेन प्रोक्षणं विधीयते । दृष्टद्वारासम्भ. वेऽपि च अदृष्टमेव द्वारं ब्रीहिनिष्ठं कल्प्यते । अत एव यत्र नोपयोगः क्लुप्तः न वा कल्पयितुं शक्यः यथा सक्तुषु तंत्र द्वि- तोयया करणत्वलक्षणामङ्गीकृत्य सक्तुविशिष्टहोमस्यैवारष्टार्थ *नैब्रा, ३.३.१. 6 .
अधि. ६.] 93 भाहदापिकासहितम्. विधानम् । न चानीप्सितकर्मत्वेनाप्यन्वयोपपत्तन करणत्वलक्ष. णेति वाच्यम् । तथा सति अदृष्टोपकारस्यापि भावनायां कर्म- त्वेन अन्वयावश्यम्भावे तस्य द्विकर्मकत्वापत्त्या उद्देश्यानेकत्व- निमित्तवाक्यभेदापत्तेः । अतस्सक्तुकरणकहोमस्यारादुपकारक- त्वेऽपि प्रोक्षणादेस्सनिपत्योपकारकत्वमेव । प्रयोजनं पूर्ववत् ॥५॥ (६)-स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवता- भिधानत्वात् ॥ १३ ॥ अर्थेन त्वपकृष्येत देवताना- मचोदनार्थस्य गुणभूतत्वात् ॥ १४ ॥ वशावता गु- णार्थ स्यात् ॥ १५॥ न श्रुतिसमवायित्वात्॥१६॥ व्यपदेशाच्च ॥ १७ ॥ गुणश्वानर्थकस्स्यात् ॥१८॥ तथा याज्यापुरोरुचोः ।। १९ ॥ वशायामर्थसंयो- गात् ॥ २०॥ यत्रेति वाऽर्थवत्त्वात्स्यात् ॥२१॥ न त्वाम्नातेषु ॥ २२ ॥ दृश्यते ॥ २३ ॥ अपि वा श्रु- तिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विद- ध्याताम् ॥ २४॥ शब्दपृथक्त्वाच ॥२५॥ अनर्थ- कं च तद्वचनम् ॥२६॥ अन्यश्चार्थः प्रतीयते॥२४॥ अभिधानं च कर्मवत् ॥२८॥फलनिवृत्तेश्च ॥२९॥ याज्यावत् याज्याया इव स्तुतशस्त्रयोः स्तोत्रशस्त्रयोरपि संस्कारः देवतायाः स्मरणेन संस्कार एव फलं देवताभिधानत्वात् 94 पूर्वमीमांसादर्शनं. [अध्या. २. पा. १. देवताबोधकत्वात् ॥ १३ ॥ अस्मिन्पूर्वपक्षे अनुपपत्तिमाशङ्कते-एवं सति माहेन्द्रग्रहयागस्य क्रमे पठितं 'अभि त्वा शूर नो नुमः' इत्येन्द्रऋग्द्वयं अर्थेन तत्प्रतिपाद्यदेवतासंस्काररूपप्रयोजनानुरोधेन अपकृष्येत महेन्द्रयागमप- नीय ऐन्द्रयागे नीयेदेवतानामचोदनार्थस्य देवतानामघटितचोदना- प्रतिपाद्यं इन्द्रादिदेवतारूपार्थ प्रति स्तोत्रशस्त्रीयऋचां गुणभूतत्वात् अङ्ग- भूतत्वात् पूषानुमन्त्रणमन्त्रवत् । यजुर्वेदविहितग्रयागाभ्यासान्तःपातिनो माहेन्दयागस्य क्रमे सामवेदान्तर्गतोतराग्रन्थे तादृशऋग्द्वयमानातमैन्द्रस्तो- त्रार्थ एवं ‘पादं पुनरारभते' इति वचनावगतमाद्यामृच सकृत्पठित्वा त- स्या अन्त्यपादेन सह द्वितीयाया अर्धर्च पठित्वा तदन्त्यपादेन सह द्वितीयान्त्यार्चिपठनरूपं ऋग्द्वयग्रथनं माहेन्द्रग्रहयागसनिधावानातं हौत्रे ॥ १०॥इमामाशङ्का समाधत्ते पूर्वपक्षी-तादृशऋग्द्वयं अगुणार्थ वा महेन्द्रयागे एव महत्त्वरूपगुणविनिर्मुक्तविशेष्यभूतेन्द्रमात्रप्रतीत्यर्थं स्यात् वशा- वत् यथा ‘सा वा एषा सर्व देवत्या यदजा वशा वायव्यामालमेत', इति वशानामचोदितस्यापि पशोः वशात्वगुणविनिर्मोकेण छागत्वेनैवप्र- त्यायकः छागस्य वपाया मेदसः इति मन्त्रस्स्वीक्रियते । तथा च स्तुतशस्त्रयोगुणकर्मत्वपक्षेऽपि प्रदर्शितयोरेन्द्रयोः ऋचोर्नोत्कर्षप्रसङ्ग इति ॥१५॥ एवं पूर्वपक्षिणा समाहिते पुनरपि सिद्धान्ती शङ्कते-न ऋग्मतेनेन्द्रशब्देन प्रकृतमाहेन्द्रग्रहसंवन्धिदेवताभिधानं युज्यते श्रुतिसमवायित्वात् श्रुत्या विधिगतशब्देनैव देवतायाः कर्मणि समवायित्वात् संबन्धात् । प्रकृतग्रहे मा. हेन्द्रमिति तद्धितेन प्रतिपाद्यमानं त्यज्यमानद्रव्योद्देश्यत्वरूपं देवतात्वं महेन्द्रपद एव संगतं नार्थे तत्रोद्देश्यत्वस्योच्चार्यत्वरूपत्वात् । ततश्च महे. न्द्रपदरूपदेवतायाः बृहच्छक्रादिपदेनेव शुद्धेन्द्रपदेनापि प्रत्यायनासंभवात् उ- स्कर्ष एव प्रसज्यत इति ॥ १६ ॥ हेत्वन्तराणि चात्राह-व्यपदेश- भेदाच 'बहु दुग्धीन्द्राय देवेभ्यः बहु दुग्धि महेन्द्राय देवेभ्यः' इति निर्दे- तै. सं. २-४-१४. तैि. सं. ३-४.३. तैि. प्रा. ३.६.८. तैि. ब्रा. ३-२.३. .
अधिः ६.] भाहदीपिकासहितम्. 95 अनर्थकः. शभेदात् इन्द्रमहेन्द्रयोदेवतयो दात् नेन्द्रपदेन महेन्द्राभिधानम् ॥ १७ ॥ गुणश्च इन्द्रमहेन्द्रयोदेवतयारक्ये महत्त्वरूपो गुणो निर्दिश्यमानः निष्फल: स्यात् अतश्च तयोर्भेद · एव ॥१८॥ तयोरैक्ये याज्यापुरोरुचोः इन्द्रमहेन्द्रदेवत्ययोः याज्यायाः पुरोनुवा- क्यायाश्च 'महानिन्द्रो य ओजसा* . 'एन्द्र सानसिं रयिं । इति भेदन पाठः तथा अनर्थकः स्यात् । अतोऽपि तयोर्भेद एव ॥ १९ ॥ वशा- वद्वेत्युक्तो दृष्टान्तो विषम इत्याह-वशायां वशात्वगुणविशिष्टद्रव्यवि- धावपि छागशब्देन मन् विशेष्यमात्रप्रकाशनं युक्तं अर्थसंयोगात् विधिगतशब्दार्थस्यैव द्रव्यस्य कर्मणि संवन्धात् देवतावत् श्रुतिसमवा- यित्वाभावात् ॥ २० ॥ एवं सिद्धान्तिना उत्कर्षप्रसङ्ग स्थापिते इटा. पत्त्या पूर्वपक्षी प्रतिवक्ति-यत्र इन्द्रो देवता तत्रास्या ऋचः उत्कर्षः इति एतत् स्यात् एव अर्थवत्त्वात् पूषानुमन्त्रणमन्त्रवत् अर्थानुसारेणो. त्कर्षस्येष्टत्वात् ॥ २१॥ एवं पूर्वपक्षिणोक्त एकदेशी शङ्कते-ऐन्द्रऋग्द्वयस्य यत्रेन्द्रो देवता तत्रोत्कर्षसंभवेऽपि तत्तद्हाभ्याससनिधौ आनातेषु याम्याश्शंसति शिपिविष्टवतीरशंसति पितृदेवत्याशसति कुसुम्भकसूक्तमन्वाह अक्षिसूक्तं मण्डूकसूक्तं . मूषिकासूक्तमन्वाह' इत्यादिविधिविहितमन्त्रेषु प्रकरणेऽपि यमादिदेवतानामभावात् निवेशानुपपतेः प्रकरणवहिर्भूतयमादि- कर्मणि च सामान्यसंबन्धबोधकप्रमाणाभावेन उत्कषांनुपपत्तेः कुसुम्भकादीनां चान्यत्रापि देवतात्वाभावेन सुतरां तदनुपपत्तेः न अर्थवत्त्वोपपत्तिः ॥२२॥ इयामाशङ्का पूर्वपक्षी परिहरति-वाचस्तोमे 'सर्वा ऋचस्सर्वाणि यजूंषि स- वाणि सामानि पारितवं शंमति' इति विहिते शस्त्रे सर्वेषामेव अर्थवत्त्वं दृ- श्यते । तस्मादुत्कर्षाभ्युपगमे बाधकविरहात् स्तोत्रं शस्त्रं च संस्का- रकमैव ॥ २३ ॥ सिद्धान्तमाह-अपि वा इति पूर्वपक्षव्यावृत्तिः । 'आज्यैस्तुवते.. । प्रउगं शंसति' इत्यादी श्रुतिसंयोगात् गुणिनिष्टगु- *तै. सं. १.४.२०. तै. सं. ३-४-११.
96. पूर्वमामांसादर्शनं. [अध्या. २. पा. १ णाभिधानवाचकस्तौतिशंसतिधातुरूपायाः पश्श्रुतेः समभिव्याहारात् स्तौ- तिशंसती स्तोत्रशस्त्रे कर्मणी प्रकरणे एव क्रियोत्पत्ति देव. तागतगुणप्रकाशनरूपकार्यद्वारा अपूर्वोत्पत्तिं विदध्यातां कुरुतः । लोके स्तौतिशंसत्योः गुणिनिष्टगुणाभिधान एव शक्ततया गुणोपसर्जनक- गुण्यभिधानपरत्वे लक्षणापत्तेः देवताप्रकाशकतया संस्कारकर्मत्वानुपपत्ते: देवतागतगुणानां च कर्मासमवेततया तदभिधानरूपयोस्स्तोत्रशस्त्रयोः आत्मसमवेतापूर्वजनकतया प्रयाजादिवत्प्रधानकर्मत्वमेवेष्टव्यमिति ॥ २४ ॥ हेत्वन्तरमाह-शब्दपृथक्त्वाच 'द्वादशस्तोत्रोऽग्निष्टोमः द्वादशशस्त्रोऽ. मिष्टोमः' इति द्वादशशब्देन स्तोत्राणां शस्त्राणां च भेदावगमादपि ते प्रधानकर्मणी। अपूर्वभेदेन तत्साधनानामपि तेषां भेदे हि तत् युज्यते । देवताप्रकाशनरूपस्य दृष्टसंस्कारस्य फलत्वे च प्रत्यूचं तद्भेदात् प्रकाशनत्वेनैक्ये वा स्तोत्रभेदेऽप्यैश्यावश्यकत्वात् द्वादशत्वं न युज्येत ॥२५॥ प्रकाशनरूपदृष्टार्थत्वपक्षे तद्वचनं अमिष्टुनामके क्रतो 'आग्नेया ग्रहा भवन्ति' इति प्राकृतग्रहानुवादेन अग्निदेवताविधौ कृते प्राकृतदेवता. बाधवत् तत्प्रकाशकमन्त्रबाधेन अग्निप्रकाशकमन्त्रान्तराणामर्थादेव प्राप्तः 'आग्नेयीषु स्तुवते' इति वचनं अनर्थकं च स्यात् । अदृष्टार्थत्वे च प्राकृतीनामेव ऋचां प्रसक्तौ तनिवृत्त्यर्थ तद्वचनं सार्थकम् ॥ २६ ॥ 'संवद्ध वै स्तोत्रं शस्त्रं च' इति श्रुत्या प्रतिपाद्यमानस्य संबन्धस्य भेद निबन्धनत्वात् भेदस्य · च फलत एव स्वीकर्तुं न्याय्यत्वात् अर्थः स्तोत्रशस्त्रयोः फलं अन्यश्च अन्यदेवेति प्रतीयते । तदिदं तयोरपूर्वा- थत्वपक्ष . एव :युज्यते न पुनः देवताप्रकाशनरूपदृष्टार्थत्वे ॥ २७॥ अभिधानं च पृष्ठप्रउगादिरूपं स्तोत्रशस्त्रयोः नामधेयमपि कर्मवत् प्रधानकर्मणामिव दृश्यते संस्कारकर्मणां हि · संस्कार्यैकनिरूपणीयतया न नामधेयापेक्षा ॥ २८ ॥ फलनिर्वृत्तिश्च 'स्तुतस्य स्तुतमस्यूर्जस्व. .
अपि. ६.1 भारदीपिकासहितम. 97 त्पयस्वदामा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्ना वनामहे धुक्षीमहि प्रजा- मिषं सा में सत्याऽऽशीर्यनम्य भूयात् ' इति मन्त्रे भावनिशान्तेन स्तुतपदेन स्तोत्रक्रियोपादानात त्वं स्तोत्रस्य मध्ये स्तोत्रममि तदेवभूतं स्तोत्रम्य मध्ये स्तोत्रमूर्जस्वत्पयस्वद्भूत्वा मां आगम्यात । इन्द्रवन्तः इन्द्रोपलाक्षतदेवतावन्तो वयं त्वां याचाम, प्रजामिष्टं भजेमहीति । सयं यज्ञपदलक्षितस्य स्तोत्रस्याशीः सत्या भूयादित्यर्थक स्तोत्रादेव फलस्य निष्पत्तिः प्रार्थिता न देवतातः । अतोऽपि स्तोत्रशसे प्रधानकर्मणी ॥ २९ ॥ 'आज्यस्स्तुवते 'प्रउगं शंसति' इत्यादिस्तोत्रशस्त्राणां यागीयदेवतादिप्रकाशकतया याज्यामन्त्रवदेव दृष्टार्थत्वात् अव- घातादिवदेव संनिपत्योपकारकत्वमिति प्राप्ने- लोके गुणिनिष्ठगुणतात्पर्यकाभिधानम्यैव स्तुतिपदवाच्यत्वे न प्रसिद्धत्वात् प्रगीताप्रगीतमन्त्रसाध्यगुणिनिष्ठगुणतात्पर्यकाभि- धानस्यैव स्तोत्रशनपदवाच्यत्वात् एषां गुणिप्रकाशनतात्पर्यक- त्वासम्भवेन नैषां मन्त्राणां गुणिप्रकाशनार्थत्वम् । अपि तु गुण- प्रकाशनरूपाणां स्तोत्र शस्त्राणामात्मनिष्ठादृष्टार्थतया आरादुपकार. कत्वात्तन्मन्त्राणां तदर्थत्वमेव । न च प्रयाजशेषाभिधारणन्यायेन दृष्टार्थत्वानुरोधेन लक्षणया गुणिप्रकाशनरूपत्वम् । लिङ्गादेव तादृक्त्वोपपत्तो विधिवैयर्थ्यात् । एवं च माहेन्द्रयागसन्निधौ ऐन्द्री स्तुतिरुपपन्ना भवति । इतरथा शब्दसमवायिनी देवता विधिशब्देनैव निगमेषु वक्तव्येति महेन्द्रो नेन्द्रशब्देन शक्यते प्रकाशयितुम् । अतो यत्रेन्द्र एव देवता तत्रोत्कर्षापत्तिः; सा- मान्यसम्बन्धबोधकप्रमाणाभावेन वा मनोतास्थाग्निशब्दवत् लक्ष- णया इन्द्रपदेन महेन्द्रस्यैव प्रकाशनापत्तिः । तस्मात् प्रधान- कर्मणी स्तोत्रशस्त्रे ॥६॥ *ते. से. ३-२.५. P• M. 13 98 पूर्वमीमांसदर्शनं. [अध्या. २. पा... (७)-विधिमन्त्रयोरैका मैकशब्दात् ॥३०॥ अपि वा प्रयोगसामान्मन्त्रोऽभिधानवाची स्यात् ॥ ३१ ॥ विधिमन्त्रयोः 'यजेा स्वर्गकामः' इत्य दिविधिगताख्यातस्येव 'न ता नशन्ति न दभाति नस्करो नेना अमित्रो व्यथिरादधर्षति । देवां. श्व याभिर्यजते ददाति च ज्योगित्ताभिस्सचते गोपतिस्सह'* इत्यादि. मन्नादिगताख्यातस्यापि ऐकाक्षं विधिरूपैकप्रयोजनकलं ऐकशब्द्यात् विधायकशब्दत्वस्योभयत्र समानत्वात् ॥३०॥ अप वेति पूर्वपक्षव्यावृ- त्तिः । मन्त्रः मन्त्रगतमाख्यातं प्रयोगसामर्थ्यान् स्वसमभिव्याहारण यच्छब्दादिप्रयोगबलात् अनिधाननाची स्वचाभिधेयार्थमात्रप्रति- पादकं स्यात् न विधायकं यच्छन्दादिसममिन्गाहारेण विधिशक्ति- प्रतिबन्धात् ॥३१॥ गुणकर्मप्रधानकर्मविधायकाख्यातद्वये निरूपिते प्रसङ्गादभि- धायकं तृतीयमाख्यातं निरूप्यते सन्त्रगतानां ब्राह्मणगतानां च यच्छब्दादिसमभिव्याहृतानामपि विधायकत्वम् । सत्यामपि च प्रमाणान्तरण प्राप्ती अभ्यासात् कर्मभेद इति प्राप्ते- 'देवांश्च याभिर्यजते'* 'यस्योभयं हविरातिमाईति । इत्यादौ यच्छब्दस्य प्राप्तिद्योतकत्वेन स्वविषये अज्ञातज्ञापनरूपविधिप्र. तिबन्धकत्वं स्पष्टम् । एवं अग्नीद मीन्विहर' : इत्यादी सम्बो. धनविभक्तराभिमुखश्रोतृमात्रविश्याया' अभिमुनिभिसुखसाधार- णविधिविरोधित्वम् । दामीत्यादरुत्तमपुरुषस्य च परमवर्तनरूप- विधिविरोधित्वम् । अतो विधायकत्वासम्भवात् मन्त्रगताना *त. बा. २-४-६. तै, बा. ३-७.१. ति. सं. ६-३-1.
मन्त्राख्या मन्त्रावाच्यत्व- आधि. ...] भाहदीपिकासहितम्. 99 स्मारकत्वम् । ब्राह्मणगतानी निमित्तादिप्रतिपादकत्वं लक्षणयेति द्रष्टव्यम् ॥ ७॥ (८)-तचोदकेषु मन्त्राख्या ॥ ३२ ॥ तच्चोदकेषु मन्त्राध्येटघु या प्रकारिका प्रसिद्धिः सा मन्त्राख्या मन्त्रलक्षणं इति मन्त्राख्यापदा- वृत्त्याऽथों वोध्यः ॥ ३२ ।। मन्त्रप्रसङ्गात् 'अहे बुनिय मन्त्रं मे गोपाय'* इति वेदप्रयु- तमन्त्रशब्दार्थनिर्गयाय तल्लक्षणमुच्यते-यत्राभियुक्तानां मन्त्रप- दवाच्यत्वप्रकारिफा उपस्थितिविषयतासम्बन्धेन स मन्त्रः। वा. व्यतावच्छेदकं च मन्त्रत्वमखण्डोपाधिर्वेदत्ववत् ॥८॥ (९)-शेषे ब्राह्मणशब्दः ॥ ३३ ॥ शेषे मन्त्रातिरिक्तवेदनांगे ब्राह्मणशब्दः वाचकतया वर्तते ॥ एतद्राह्मणान्येव पञ्च हवींषि '' इति वेदप्रयुक्तब्राह्मणशब्दा- र्थपरिज्ञानार्थ तल्लक्षणमपि प्रसङ्गादेव । मन्त्रातिरिक्तवेदत्वमेव ब्राह्मणत्वम् ॥९॥ (१०)-अनानातेष्वमन्त्रत्वमानातेषु हि विभा- गरस्यात् ॥ ३४॥ 'अग्नये जुष्टं निर्वपामि' इत्यादिमन्त्र कार्यवशेन विकृतौ प्रक्षिप्य- माणममयादिपदस्थाने सूर्यादि पदमूहः । 'अग्ने महानसि ब्राह्मणभारत । असावसौ' इत्यादी अदशाब्दस्थाने प्रयुज्यमानः भार्गवच्यावनाप्नवानौ- र्वजामदग्नयेति पदं प्रवरः । 'अदीशष्टायं ब्राह्मणः' इत्येतदनन्तरं प्रयु- ते. बा. १-२-१. गते. बा. १-७-१. तै. सं. १-१.४. तै. बा. ३.५-३. :तै. सं. ६.१.४.
100 पूर्वमीमांसदर्शनं. [मध्या. २ .. ज्यमानं कृष्णशर्मादिपदं नामधेयम् । एषहप्रवरनामधेयेषु अनाना. तेषु पञ्यमानवेदानन्तःपातिषु अमन्त्रत्वं मन्त्रत्वाभाव एव । आ- नातेषु हि प्रत्यक्षपठितेष्वेव हि विभागः मन्त्रब्राह्मणविभाग: स्यात् ॥३४ ॥ ऊहप्रवरनामधेयानां सत्यपि प्रयोगकाले अर्थस्मरणार्थमु- चार्यत्वे मन्त्रपदैकवाक्यत्वे च स्वरूपेण वेदेऽपठितत्वात् अभि- युक्तप्रसिद्धयविषयत्वेन नैषां मन्त्रत्वम् । अतश्च नैषां भ्रषे म न्त्रभ्रेषनिमित्तं प्रायश्रित्तम् । अपि तु अङ्गभ्रेपनिमित्तकमेव ॥ १० ॥ (११)-तेषामृग्यत्रार्थवशेन पाढव्यवस्था ॥३५ तषां मन्त्रागां मध्ये यत्र अर्थवशेन गायत्र्यादिच्छन्दोवशेन पादव्यवस्था वर्त ते सा ऋक् इति व्यवडियते ॥ ३५ ॥ मन्त्रत्वादौ व्यापकधर्म निरूपिते तत्प्रसङ्गादेव तदवान्तर धर्मः ऋक्त्वादिः 'ऋचस्मामानि यषि' इति वेदप्रयुक्त- ऋगादिपदार्थपरिज्ञानार्थ निरूप्यते । पादध्यवस्थावन्मन्नत्वं ऋ- क्त्वम् ॥११॥ (१२)-गीतिषु सामाख्या ॥ ३६ ॥ गीतिषु गानेषु रथन्तरादिषु मामाख्या सामपदव्यवहारः॥ ३६॥ मन्नत्वसमानाधिकरणगीतित्वं सामत्वम् ॥ १२ ॥ (१३)-शेपे यजुदशब्दः ॥ ३७॥ शेपे क्साममिन्ने मन्त्रजाने यजुश्शब्दः यजुःपदं व्यवद्रि- यते ॥३७॥ *ते. बा. १.२.१.
अधि. १४.] भादीपिकासहितम्. 101 .. ? " अक्सामाभन्नमन्त्रत्वं यजुष्टम् । स्तोभाक्षरेष्वपि तत्त्वान्ना- तिव्याप्तिः ॥ १३॥ (१४)-निगदो वा चतुर्थस्स्याद्धर्मविशेषात् ॥ ३८॥ व्यपदेशाच ॥३९॥ यजूंषि वा तद्रूपत्वात्॥ ४० ॥ वचनाद्धर्मविशेषः ॥११॥ अर्थाच्च ॥४२॥ गुणार्थो व्यपदेशः ॥४२॥ सर्वेषामिति चेत् ॥४४॥ न ऋग्व्यपदेशात् ॥४५॥ निगदो नाम वेदे ऋग्यजुस्मामभ्योऽन्यः चतुर्थः प्रबारः स्यात् कुतः ? धर्मविशेषात् उच्चर ऋचा क्रियते । उपांशु यजषा । उच्चै- स्साना । उच्चनिंगदेन" " इत्यनेन निगदस्य यजुर्धर्मादतिरिक्तस्य उ- चस्त्वस्य धर्मविशेषस्योपदेशात् यजुरपेक्षया भेदस्य तत्रावायकत्वात् । पादव्यवस्थाविरहेण ऋक्त्वासंभवात् गीतिरूपत्वाभावेन सामत्वस्याप्यभा- वात् ॥ ३८ ॥ व्यपदेशाच "इमे निगदाः इमं यजूंषि " इति भि- बनाना व्यवहारादपि यजुषोऽन्यो निगदः ॥ ३९॥ सिद्धान्तमाह- यजूंषि वा निगदाः यजूंष्येव । कुतः तद्रूपत्वात् ऋक्साममिनम- न्त्रत्वरूपयजुर्लक्षणवत्त्वात् ॥ ४० ॥ धर्मविशेषादिति हेतुं परिहरति- धर्मविशेषः उच्चैस्त्वं वचनात् "उच्चैनिंगदेन" इति वचनबलादेव यजूरूपलेऽपि निगदस्योपपद्यते । न च उपांशु यजुषा" इत्यनेन वि. रोधः । तत्र यजुःपदस्य यजुर्वेदपरतायाः "वेदो वा प्रायदर्शनात् इत्यत्र वक्ष्यमाणतया यजुर्वेदविहितकाङ्गमन्त्रोद्देशेनैव तद्वचनेन उपां- शुविधानात् “उच्चनिगदेन " इति विशेषशास्त्रानुसारेण विशेषविषया- तिरिक्तविषयताया एव सामान्यशास्त्रस्य सर्वैः स्वीकार्यत्वात् ॥४१॥ *३.३-२.
102 पूर्वमीमांसदर्शनं. [अध्या. २. पा... अर्थाश्च परप्रत्यायनरूपदृष्टार्थत्वानुसारादपि निगदेषूच्चस्त्वरूपो धर्मविशे- पो युक्तः । न हि “अग्नीदग्नीन्विहर"* इत्यादिनिगदानां उपांश- प्रयोगे परप्रत्यायनं घटते ॥ ४२ ॥ व्यपदेशादिति हेतुं परिहरति- यजुषां सतामेव निगद इति व्यपदेशः गुणार्थः नितरां प्रक- षेण गद्यमानत्वरूपगुणयोगनिमित्तकः । भवति · हि ब्राह्मणानां स. तामेव परिव्राजक इति विशेषतो व्यपदेशः ॥४३॥ आशङ्कय समा- धत्ते-निगदपदस्य प्रकर्षण गद्यमानत्वरूपयोगनिमित्तकत्वे ऋचां सा- नामपि उच्चस्त्वरूपप्रकर्षण गद्यमानतया सर्वेषामपि ऋचां साम्रां च निगदव्यवहार्यता स्यादिति चेत् न ऋग्व्यपदेशात् “अयाज्या वै निगदा ऋचव यजति” इति ऋचां निगदभेदव्यपदेशात् गदतरपाद- वद्धाक्षरसमूहवाचकतया उपांशुभिन्न स्वरयुक्तापाइबद्धमन्ताक्षरत्वस्यैव शक्य तावच्छेदकत्वस्वीकारात् ऋगादिषु अतिप्रसङ्गविरहात् । वस्तुतस्तु-- 'नमः प्रवक्त्रे' इत्यादिनिगदेषूपांशुपठ्यमानेष्वव्याप्तिप्रसङ्गात् यजुष्ट्वव्याप्यं निगदत्वं जातिरखण्डोपाधिति स्वीकार्यम् ॥ ४४-४५ ॥ निगदसंज्ञकानां मन्त्राणां संज्ञाभेदात् 'उपांशु यजुषा । उच्चैनिगदेन' इति विप्रतिषिद्धधर्मभेदाच भेदो यजुर्घ्य इति प्राप्ते- 'ऋचस्सामानि यजूंषि'' इति वेदे त्रयाणामेव मन्त्रभेदा- नां सङ्कीर्तनात् “मन्त्र एव खल्वयं निगदभूतो भवति त- स्माद्यजुः": इति च लिङ्गान्निगदानां यजुष्टमेव । संज्ञा तु ब्राह्मणपरिवाजकन्यायेन अभेदेऽप्युपपन्ना । निगदत्वं च यजुष्ट्वा- वान्तरधर्मः । न तु नितरामुपांशुस्वरातिरिक्तस्वरेण गद्यमान- त्वम् । नमः प्रवक्त्रे” इत्यादिनिगदेषु उपांशु पव्यमानेष्व- व्याप्तः । न च धर्मभेदात् भेदः । विशेषविहितेनोश्चैस्त्वेन *तै. सं.६.३-१. +तै, बा. १.२.१. डिशब्राह्मणे, १-२.
अधि. १५.] भादीपिकासहितम्. 103 वश्यकत्वाञ्च सामान्यविहितस्योपांशुत्वस्य अन्यपरत्वावसायात् । 'उपांशु यजुषा' इत्यस्य वेदोपक्रमानुरोधेन यजुर्वेदविहितकर्ममात्रे उ. पांशुत्वविधायकत्वस्य वक्ष्यमाणत्वेन भवन्मतेऽपि सङ्कोचस्या- न चैवमुपक्रमवशेन यजुःपदे वेदलक्षणावत् निगदपदेऽपि यजुर्वेदलक्षणापत्तेः एकस्मिन् कर्मणि धर्मद्वय- विकल्पापत्तिः । ‘वायोर्यजुर्वेदः' इत्युपक्रमस्य यजुःपद एव लक्षणातात्पर्यग्राहकत्वात् । अन्यथा 'वायोर्निगदवेदः' इत्यपि किं नावक्ष्यत् । अतश्च ‘उच्चैर्निगदेन' इति स्वतन्त्र एव निरर्थ- वादकोऽयमुश्चस्त्वनियमविधिः विशेषविहितातिरिक्तनिगदोद्देशेन। तेषु हि परप्रत्यायनरूपकार्यवशेन उयांशुत्वनिवृत्तावपि म- न्द्राद्यनेकस्वरप्राप्ती उच्चैस्त्वनियमो नानुपपन्नः । अतो निगद- भ्रेषेपि यजुर्भेषनिमित्तप्रायश्चित्तम् । आश्विनादौ पारिप्लवशंसनं वा ॥१४॥ (१५)-अथैकत्वादेकं वाक्यं साकार चेद्विभागे स्यात् ॥ ४६ ॥ यत् पदजातं अर्थकत्वात् भिन्नप्रतीतिविषयानेकमुख्यविशेष्य- राहित्यमनुसृत्य एकं वाक्यं इत्युच्यते लोके तत् विभागे अन्वी. यमानयोः पदार्थयोरनन्वये साकाङ्क्ष अनिवृत्ताकाङ्कं स्याञ्चेत् एव एकवाक्यं स्यात् । तादृशे चैकैकवावये पर्याप्तं यजुष्टम् ॥ ४६ ।। यजुष्वं यावत्सु पदेषु वाक्यत्वं पर्याप्तं तावत्सु पर्याप्तम् । न तु वाक्यसमूहे । तस्य विनियोगानहत्वात् । वाक्यत्वं च यत्रार्थकत्वं विभज्यमानपदसाकांक्षत्वं च तावत्सु । अथैकत्वं च भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहित्यम् । अन्यस्य दुर्व- .
104. पूर्वमीमांसदर्शनं. [अध्या. १. पा... चत्वात् । अस्ति च गामानयेत्यादौ मुख्यविशेष्यभूताया भाव- नाया एकत्वात् तत् । दर्शपूर्णमासामनहोमादिवाक्येषु च भा. वनानामनेकासामपि भिन्नप्रतीतिवियत्वाभावात् व्रीहियववा- क्ययोः “भगो वां विभजतु" इत्यादौ च सत्यपि भिन्नप्रती- तिविषयत्वे मुख्यविशेष्यभूताया भावनाया एकत्वादथैकत्वम् । अतस्तत्रैकवाक्यत्वव्यावृत्त्यर्थ द्वितीयमन्धीयमानयोः पदार्थयो- रनन्धयेऽनिवृत्ताकाङ्कत्वरूपं विशेषणम् । 'स्योनं ते सदनं क- रोमि । तस्मिन् सीद'* इत्यत्रानन्वये साकाङ्क्त्वेऽपि भिन्नवा- क्यत्वादाद्य विशेषणम् ॥ १५ ॥ (१६)-समेषु वाक्यभेदस्स्यात् ॥ ४७ ॥ समेषु अन्यान्यनिराकाङ्केषु " इथे त्वोर्जे त्वा ", " भगो वां विभ- जतु । पृषा वां विभजतु" इत्यादी वाक्यभेदः एव स्यात् ॥४७॥ यत्र तु नोक्तविधं विभज्यमानसा साकाङ्गत्वं यथा “इषे त्वा ऊर्जे त्वा"। इत्यनयोः यथा वा 'आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पता इत्यादी तत्र सत्यप्यथैकत्वे 'भगो वां' इत्यादिवन्म- न्त्रभेदः । किमुत यदा विनियोगानुसारेणार्थभेद एव प्रमाण- वान् । तदा मन्त्रैकत्वे प्रमाणाभाव एव । अत्र हि 'इषे त्वे. ति शानां छिनत्ति ऊर्जे त्वेत्युन्मार्टि' इति विनियोगभेदात् इषे त्वेति छिनधि इति क्रियापदाध्याहारेण भिन्नमेव मुख्यवि- शेष्यम् । एवं 'ऊर्जे त्वा उन्मामि' इति । एवं 'क्लृप्तीर्वाच- यति' इति बहुवचनात् तृप्तिभेदावगमेनार्थभेदः । अंतश्चात यजुर्भेद इति पूर्वोक्तप्रत्युदाहरणमात्रम् ॥ १६ ॥ *ते. बा. ३-७-५. +त. सं. १-१-१.. तै. सं. १-७.१.
अधि. १७.] भादीपिकासहितम. 105 (१७)-अनुषङ्गो वाक्यपरिसमाप्तिस्सर्वेषु तु- ल्ययोगित्वात् ।। ४८॥ "या ते मे अंन्याशया तननर्षिष्ठा गहरेष्ठोग्रं वचो अपावधी त्वेषं वची अपावधी स्वाहा"* इत्यतदनन्तरमानातयोः “या ते अग्ने रजाश- या या ते अग्ने हराशया"* इनि मन्त्रयोः वाक्यपरिसमाप्तिः समाप्तवा- क्यतारूपनिराकांक्षताहेतुः अनुपंङ्ग एव" तनुः" इस्यादिशेषस्य सर्वेषु विष्वपि मन्वेषु आकांक्षायोग्यतासन्निधिवलात् तुल्ययोगित्वात् अ- भवन्धपदव्यवधानविरहण तुल्यमेव संवध्यमानत्वात् ॥४८॥ यत्र बहुनां शेषापेक्षिणामाद्यस्यानन्तरं शेषस्समानातः यथा 'या ते अग्ने अयाशया* इत्यस्यानन्तरं तनूर्वर्षिष्ठा'* इत्यादि- शेषः उत्तरी मन्त्रौ ‘या ते अग्ने रजाशया या ते अग्ने हराशया* इति तत्रोत्तरयोशेषापेक्षिणोरयमेव शेषोऽनुषज्यते । न तु लौ- किकोऽध्याह्रियते, अक्लप्तत्वात् । न चासावेकत्र निबद्धोऽन्यत्र नेतुं न शक्यः; सर्वार्थत्वेनानानात् । न चाद्यस्यानन्तरमपेक्षि- तदेशे पठितत्वात्तदर्थमानांनं शङ्कयम् । आकाढायोग्यतयोरवि- शिष्टत्वात् । आसत्तेरपि असम्बन्धिपदाव्यवधानरूपायास्सर्वत्रा- विशिष्टत्वाच्च । न ह्यानन्तर्यमेव सम्बन्धकारणं; तदभावेऽपि शाब्दवधिस्यासम्बन्धिपदव्यवधानाभावे आनुभाविकत्वात् । स. व्यवधानस्य सकृत्पाठे अशक्यतया आकांक्षादित्रयेणैव च मर्थित्वज्ञानोपपत्तेः आवृत्तिपाठस्य सर्वान्तपाठस्य च आपाद- यितुमशक्यत्वात् अपेक्षितदेशपाठस्य च लिजनैव ज्ञातुं शक्य. त्वात् आम्नानस्य सर्वार्थत्वावगरनुपत एव । न चैवमव्यव. तं. सं. १.२-११. P...-14 ससमानातः यथा 106 पूर्वमीमांगादर्शन. [अध्या. २. पर. १. धानस्याकारणत्वे पदश्रुत्या यागस्यैव करणत्वानापत्तिः: तस्या- कारणत्वप सन्देह नियामकत्वमात्राकारात् । प्रकृते तु आकांक्षादिवशेन सर्वार्थत्वस्यैव प्रतीनेः नियामकाकांक्षाऽभावे- नानुषङ्ग एवं युक्तः । अतश्च तड्रेषेऽपि यजुभ्रषप्रायश्चित्तमेव ॥ यत्र निराकाहाणामेव शेपिणां बहुनामन्ते सापेक्षश्शेष- 'चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनातु इत्येतेषामन्ते 'आच्छद्रेण प- वित्रेण इति तत्रापि मनिधियोग्यत्वयोरविशेषात सर्वत्रानुपङ्गः । न चान्था याकामझाया एकसम्बन्धेनैव चरितार्थत्वात् आनन्तर्य- स्य नियामकत्वोपपत्तिः । शेयाकाइयाऽऽकायोत्थापनऽपि प्रधा- नत्वात् शैपिणां विनिगमनाविरहेण संवेषामेव शेषग्राहकत्वाव- गतेगनन्तर्यस्यानियामकत्वात् । अत एवानेकहविष्कविकृतिसन्नि- धिपठितापहामानां सर्वार्थत्यमेव । अतश्च मुखनाभिगुल्फप्रदेश- पावनार्थेषु एतेषु मन्त्रेवु शेषोऽप्यनुपज्यत : प्रतिप्रधानावृत्तिन्या. यात् ॥१७॥ (१०)-व्यवायानानुषज्येत ॥ ४९ ॥ 'संत प्राणी वायुना गच्छता मंत्र जत्रैरङ्गानि संग्रज्ञपतिशिपा इत्यादी व्यवायात् बहुवचनान्तेन असंबन्धिपदेन व्यवाहितत्वात संगच्छ- तामित्येतत् यज्ञपीतारन्यत्र नानुषज्यंत ॥ ४९ ॥ यत्र त्वसम्बन्धिपदव्यवधानं यथा मं ते वायुर्वातेन ग- च्छता सं यजत्रैरङ्गानि सं यशपतिगशिषा इत्यत्र गच्छता- मित्यस्य आशिपेत्यत्र नानुपङ्गः अङ्गानि इत्यत्रकवचनान्तस्या- त. गं. १-२-1. ति.मं. १-३-८.
आधि. १.] भादीपिकासहितम. 107 नन्वयेन बहुवचनान्तस्यैव गच्छन्तामित्यस्याध्याहारावल्यम्भावात्। वस्तुतस्तु-बहुवचनस्यैवाध्याहारेण गमिधातोरनुषङ्ग एवेति एकवचनस्यैवानुषप्रत्युदाहरणमिदम् ॥१८॥ इति खण्डदेवकृती भाट्टदीपिकायां द्वितीयस्याध्यायस्य प्रथमः पादः [१]-शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्॥३॥ प्रकरणान्तरातिरिक्तशब्दांन्तरादिरूपभेदकप्रमाणाधीनभेदनिरूपणमेत- त्पादार्थः ॥ ज्योतिष्टोमायेकप्रकरणस्थेषु "सोमेन यजेत । दाक्षि- णानि जुहोति । हिरण्यमात्रेयाय ददाति" इत्यादिषु शब्दान्तरे अप- यिधातुभेदे सति कर्मभेदः कर्मण: कियायाः भावनाया: भेदः कुतः? कृतानुवन्धत्वात् कृतः अनुबन्धः व्यावर्तनं येन तत्त्वात् । भावनाविशेषणीभूतधात्वर्थभेदेन भावनाया भेदः कार्यकारणयोरेकवै. जात्येनापरवेजात्यस्यावश्यकत्वादिति भावः ॥ १॥ भावनाभेदफलीभूतापूर्वभेदोपयोगिभावार्थाधिकरणरूपोपोद्धा- तप्रसक्तानुप्रसक्तादौ समाते अधुना शब्दान्तराद्भेदोऽभिधीयते । ज्योतिष्टोमादिप्रकरणस्थानां 'सोमेन यजेत हिरण्यमात्रेयाय ददाति दाक्षिणानि जुहोति' इत्यादीनां विभिन्नधात्वर्थानां भावनाभेदबोधकत्वमस्ति न वेति चिन्तायां 'ज्योतिष्टोमेन स्वर्ग- कामो यजेत' इत्यनेन स्वर्गकर्मकभावनामात्रे लाघवाद्विहिते तदनुवादेन सोमादिवाक्यैस्सोमादिविशिष्टयागादिविधानात् । सर्वेषां चोत्पन्नाशिष्टत्वेन गुणन्यायाभावात् न भावनाभेदः । न चानेकधास्वनामेकजातीययत्नजन्यत्वासम्भवः बाघकाभावात् 108 वात् । पूर्वमीमांसादर्शनं. अध्या. २. पा. २. न च प्रकृत्यान्वितस्वार्थाभिधायकत्वात्प्रत्ययानां फलवाक्यस्थे- नाख्यातेन धात्वर्थानवच्छिन्नशुद्धभावनाविधानानुपपत्तिः आख्या- तेन धात्वर्थावच्छिन्नभावनाभिधानेऽपि तदंशे विधिव्यापाराभा- अत एव गुणफलसम्बन्धस्थले धात्वर्थानुवादेनापि भावनामात्रविधानम् । अत एव च फलवाक्ये यजिः प्रकृतस- बंधात्वर्थोपलक्षणः ज्योतिष्टोमपदं च छत्रिन्यायेन सर्वनामधेय. मिति प्राप्ते- कार्यमात्रवृत्तिधर्मस्य विजातीययागत्वादः कश्चित्मति का यतावच्छेदकत्वावश्यकत्वेन तदवच्छिन्नं प्रति उपस्थितस्य यत्न- स्यैव वैजात्यपरिकल्पनया विजातीययत्नत्वेनैव कारणत्वम् । अतश्च प्रतिधात्वर्थजात्याद्भावनावैजात्यसिद्धिः । विभिन्नधा- त्वर्थत्वमेव च शब्दान्तरत्वम् । अत एव 'तिस्र आहुतीर्जु- होति'* इत्यत्र सङ्ख्यया होमभेदे सिद्धे शब्दान्तरादेव उक्त- विधाद्भावनाभेदः न तु मूलोक्तादिति ध्येयम् । किश्च प्राप्तभा. वनानुवादन सोमयागाद्यनेकविधाने वाक्यभेदापत्तेः तत्तद्गुणधा. त्वर्थोभयविशिष्टभावनाविधानमेव तत्तद्वाक्येऽङ्गोकर्तव्यम् । तत्र चं चातुर्थिकन्यायेन ज्योतिष्टोमपदाभिधेयस्य सोमयागस्यैव स्वर्गवाक्येन फलसम्बन्धः अन्येषां तु तदङ्गत्वम । न च स्व. गंवाक्य एव यागभावनोत्पत्तिपूर्वकः फलसम्बन्धः सोमवाक्येन तु सोममात्रविधानमिति वाच्यम् । स्वर्गवाक्ये राजसूयन्यायेन इटिपशुगंगानामेव फलसम्बन्धापत्तौ यागान्तरविधाने प्रमाणा- भावात् ततश्च पवाद्यवरुद्ध सोमविध्यनुपपत्तेः सोमवाक्ये कर्मान्तरविध्यवश्यम्भावः। प्रयोजनं सोमयागमात्रप्राधान्यम् ॥१॥ *तै, प्रा. १.३.१..
अधि, २.] भादीपिकासहितम्. 109 तथा त्यात [२]-एकस्यैवं पुनश्श्रुतिरविशेषादनकं हि स्यात् ॥ २॥ दर्शपर्णमासप्रकरणस्थे “ समिधी यजति तनुनपातं यजति" इत्यादी पकस्य यजिधानोः अविशेषात् गुणविधानतात्पर्यादिविशेषाभोवन या पुनश्शुतिः पुनश्श्रवणं साऽपि एवं कर्मभेदिका अन्यथा पुनश्श्रवणं अनर्थकं हि स्यात् ॥ २ ॥ दर्शपूर्णमासप्रकरणस्थे ‘समिधो यजति । तनूनपातं य- जति । इडो यजति । बहिर्यजति । स्वाहाकारं यजति' * इत्या- दौ यागस्यापि प्रत्यभिज्ञायमानत्वेन अभेदान्न भावनाभेदः । न चाभ्यासानेदो यागस्य । अभ्यासस्यैकत्वसाधकत्वेन विरुद्ध- । न च विधिपुनश्श्रवणरूपस्याभ्यासस्य विधेययागा- दिभेदकत्वम् । ‘दना जुहोति' इतिवत् विधेर्दैवतारूपगुणस- कान्तशक्तिकत्वेन यागविषयत्वाभावात् । न च यागोत्पत्तिवा- क्यस्थगुणावरोधानोत्पन्नवाक्येन गुणविधिः । अगत्या प्राथमिक- वाक्यस्थसमित्पदस्य तत्प्रख्यन्यायेन नामधेयत्वाङ्गीकारात् । वस्तुतस्तु-यदि याज्यामन्त्रवर्णात्समिन्प्राप्तिः तदा सा तनून- पादादीनामप्यविशिष्टा । अत उपांशुयाजानुवादेन विद्वद्वाक्य- विहितकर्मानुवादेन वा पञ्चस्वपि देवताविधिः । न च सम्भ- वत्प्राप्तिकता । याज्यामन्त्रवदनुमन्त्रणमन्त्रेभ्योपि विकल्पेन व- सन्तादिदेवताप्राप्तिसंभवेन एतेषां नियमविधित्वोपपत्तेः । अत- श्वानन्यपरविधिपुनश्श्रवणाभावान कर्मभेद इति प्राप्ते- उभयाकाङ्क्षाबललभ्ययाज्यामन्त्राणामेव देवताकल्पकत्वस्य पुरस्स्फूर्तिकत्वेन अन्यतराकाङ्क्षाबललभ्यानुमन्त्रणमन्त्रेभ्यो देवता- *तै, सं. २-६-१.
110 पूर्वमीमांसादर्शनं. अध्या. २. पा. २. कल्पकत्यानुपपत्तेः न समिदादिपदानां देवतानियामकत्वम् । अतश्चोपपदार्थस्य सम्भवत्प्राप्तिकत्वात् पदश्रुत्यादिना विधेर्धा- त्वर्थभावनाविषयत्वप्रतीतेविहितविधानायोगात् विधेयतावच्छेदक- तया वैजात्यसिद्धिः । न चैवं तत्प्रख्यन्यायन समिदादिपदानां नामधेयत्वात संशयैव भेदसिद्धिः । तत्प्रख्यन्यायेन गुणविधि- त्वनिराकरण नामधेयकार्यस्यैकेनैव एकस्मिन् कर्मणि सिद्धरने- केषां नामधेयानां वैयर्थ्यप्रसङ्गेन समिदादिपदानां गुणानुवाद कत्वेनैव उपपत्तेर्नामत्वानिर्णयात् । सिद्ध त्वभ्यासेन कर्मभेदे ए- कैककर्मणः एकैकं नामधेयं सार्थकमिति नामत्वनिर्णयः॥ प्रयोजनमुत्तराधिकरणप्रयोजनम् । प्रयोजनान्तराणि कौ. स्तुभे स्पष्टानि ॥२॥ [३ प्रकरणं तु पौर्णमास्यां रूपावचनात्॥३॥ विशेषदर्शनाच पूर्वेषां समेषु ह्यप्रवृत्तिस्स्यात्॥४॥ गुणस्तु श्रुतिसंयोगात् ॥५॥ चोदना वा गुणानां युगपच्छासनाचोदिते हि तदर्थत्वात्तस्य तस्योपदि- श्येत ॥ ६ ॥ व्यपदेशश्च तद्वत् ॥ ७॥ लिङ्गदर्श- नाच ॥८॥ सिद्धान्तेनोपक्रमते-पौर्णमास्यां पौर्णमास्युपलक्षिते “य एवं विद्वान्पौर्णमासी यजते...य एवं विद्वानमावास्यां यजते"* इति वाक्ये प्रकरणं तु आग्नेयादीनां षण्णां यागानामनुवाद एव न तु कस्यचि- कर्मणो विधायकं कुतः रूपावचनात् यागस्य हि रूपं द्रव्यं देषता *ते.सं. १-६-९.
अघि...] भादीपिकासहितम. 1j1 प्रयाजा- च तयोरनभिधानात् । न खलु रूपं विना यागस्य कर्तव्यताऽध्यवसातुं शक्यते । आग्नेयासनां अनुवादस्तु युज्यते तेषां रूपवत्त्वात् । पौ- णमास्यादिकालयोगितया श्रुतत्वाच्च । पूर्वत्र हि "यदाग्नयोऽष्टाकपालोऽ- मावास्यायां च पाणमास्यां चाच्युनो भवति"* "तावतामग्नीषोमा- वाज्यस्यैव नावुपांशु पौर्णमास्यां यजन् ताभ्यामेतमग्नीपोमीयमेकादश- कपालं पूर्णमासे प्रायच्छन्"। “ऐन्द्रं दध्यमावास्यायां": ऐन्द्रं पयोऽम:वा. स्यायां' इन्यधु वास्येषु हि आग्नेयापांशुयाजाभायोमीयमानाय्याः कालसंयुक्ततया विहिताः ॥ ३ ॥ इतश्च नत्रानुवाद एवेत्याह-पूर्वपां विशंपदर्शनाच विद्वद्वाक्यपूर्ववाक्यविहितानां आभयादानां ये विशेषाः धर्माः दयः तेषां मर्यादिप विकृतिधु " प्रयाजेप्रयाजे कृष्णलं जहाति " इत्य- त्र दर्शनादपि विद्वद्वाक्ये अनवाई एव । अन्यथा नद्वाक्यस्य विधाय- कत्वे प्रशाजार्द नामप्यांमयादिवत्प्राधान्यापत्तिः । ततश्च प्रधानतया आ- भयादिभिः समेषु तुपा हि नषु प्रयाजादिषु तपां प्रयाजाहीनां विकृतिष अप्रवृत्तिः अतिशः स्यात् प्रधानस्यातिदेशात । त- थाच सति विकृता प्रयाजशनमपशितं विरुध्यन ॥४॥ अस्मिन् द्विानो शङ्कत-" बदामेयः "* इत्यादिवाक्ये विद्वद्वाक्यविहितकानुवा- दन गुणस्तु अभिवतापुगेडाशयादिरूपा गुण विधीयते श्रुतिसंयोगात् श्रुतेः शब्दस्य पार्णमास्यादिरूपस्य विद्वाक्यविहितक- मांनुवादक्षमस्य तत्र विद्यमानत्वात् । तथा च रूपलाभसंभवात् विद्व- द्वाक्य कर्मविधायकमेव । अस्यैव कर्मणः प्रयाजादिकमीमति विकृ. तित्रु प्रयाजादिदर्शनस्यापि नानुपपत्तिः ॥५॥ इमामाशङ्कां परिहर- ति ---" यदाग्नयः "* इत्यादिवाक्यं चोदना वा कर्मचोदनव तथासति गुणानां द्रव्यदेवतादिरूपाणां बहूनां युगपत् शास्त्रात् शासनात् अनेकगुणविशिष्टकर्मविधान गुणानां कर्मणश्च युगपद्विधानसंभवः । ने. सं. २-६-३. ति. सं. २.५-२. ने. सं. २-५-४. इनै. सं. २-३-२. एव 112 पूर्वमीमांसादर्शनं. [अध्या. २. पा. २. प्राप्तकर्मानुवादेन बहनां गुणानां विधानं एकेन वाक्येन युगप- स्कर्तुमशक्यमिति भावः । तदेव स्पध्यति--चोदिते हि वाक्यान्तर- विहिते हि कर्मणि अन्यमान तदर्थत्वात् प्रधानभूतकर्मार्थत्वाद्गुणानां तस्यतस्य गुणस्य विधानार्थं प्रधानं 'कर्म पृथक्पृथगेव उपदिश्येत "मुन्ततमाघारयति । जमाघारयति" इत्यादिवत् । तथा च प्राप्त- कर्मानुवादनानेकगुणविधान वाक्यस्य नोपपद्यत इति भावः ॥ ६ ॥ व्यपदेशश्च “उग्राणि ह वा एतानि हर्वीप्यमावास्यायां संभ्रियन्ते ग्ने- यं प्रथममैन्द्र उत्तरे" इति त्रयाणां उग्रवापरपर्यायप्राधान्यव्यपदे. शॉ.प तद्वत् न युज्यत । यदागेयः । इति वाक्यस्य भवत्पक्ष गुणविधित्वन आमेयस्य प्राधान्यानावात् । तस्माद्विद्वद्वाक्यमामेयादी- नामनुवादकमेव ॥१॥ लिङ्गदर्शनाच “चतुर्दश पौर्णमास्यामाहुतयो हृयन्त त्रयोदशामावास्यायां' इत्येवमाहवनायगतवपटकारा तिपरिग- णनस्य लिङ्गस्य दर्शनादपि “गदाग्नयः इत्यादिवाक्यानि कर्मविधायका- नि । विद्वद्वाक्यं त्वनुवादः । विद्वद्वाक्यस्य कविधायकले पौर्णमा. स्यामाहुतीनां पञ्चदशत्वं अमावास्यायां चतुर्दशत्वं च स्यात् । सिद्धा. न्ते तु पञ्च प्रयाजा द्वावाज्यभागौ स्विष्टकृत् त्रयोऽन्याजाः पौर्णमास्यां प्रधानाइतित्रयम् । अमावास्यायां मानाय्यस्य सहानुष्टानात. प्रधाना- हुनिद्वयमिति चतुर्दशत्वत्रयोदशत्वानुवादो नानुपपन्नः ॥ ८ ॥ तत्रत्य एव ‘य एवं विद्वान् पौर्णमासी यजते यावदुक्थ्ये- नोपामोति तावदुपाप्नोति य एवं विद्वानमावास्यां यजते यावद. तिरात्रण', इत्यादिवाक्येऽन्यभ्यासात्कर्मभेदः। न चायं लट् लेहेऽपि वा यच्छन्देन विधिप्रतिबन्धात् विधिपुनश्श्रुत्यभावः । 'समिधो यजति' इतिवल्लट्यावगतः । यच्छब्दस्य 'यो दीक्षितः' इतिवरे स. २.५-११. +तै. सं. २-६-३. ति, सं. १-६-९, ने. सं. २.६.१. ।
अधि.३.] भादीपिकासहितम्. 113 दनक्रियामात्रविधिप्रतिबन्धकत्वात् । अत एव पौर्णमास्यमावा. स्यापदमपि नामधेयम् । पौर्णमास्यां पौर्णमास्या' इति वाक्यद्वयेन एतद्वाक्यावहितकर्मणोरेव कालविधानात् । न च रूपाभावः ‘वानी पूर्णमासेऽनूच्येते वृधन्वती अमावास्या यास्'* इति वचनेन आज्यभागक्रमानातानामपि मन्त्राणां क्रम बाधित्वा एतद्वाक्यविहितकौमत्वेन विधानात् । मान्त्रवर्णिका- मोषोमदेवतायाः ‘सर्वस्मै वा एतद्यज्ञाय गृह्यते । यद्धवायामा- ज्यम्' + इति वचनेन च द्रव्यस्य प्राप्तत्वात् । अथवा-आग्नेया- दिवाक्यैरेव पौर्णमास्यमावास्यादिपदोपस्थापितैतद्वाक्यविहितक- ानुवादेन द्रव्यदेवताविधानात् रूपलाभापपत्तिः । न चानेक- विधानाहाक्यभेदः । तद्धितेन देवताविशिष्टद्रव्यवाचिमा परस्परा. न्वयस्य व्युत्पन्नत्वेन विशिष्टविध्युपपत्तेः । प्रकारान्तरेण रूपलाभ- स्तु कौस्तुभ एव द्रष्टव्यः । सर्वथा विद्वद्वाक्ये कर्मान्तरवि- धिः । एवं च 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति फल- वाक्येन प्रयाजादिसाधारण्येन सर्वेषामाग्नेयादीनामेतद्वाक्यवि- हितकर्मणोश्च प्रथमपक्षे फल सम्बन्धः । द्वितीये तु तत्साधार- ण्येन तयोरेव दर्शपूर्णमासप्रातिपदिकस्य कालयोगिषु प्रसिद्ध- त्वेऽपि द्विवचनस्याप्रसिद्धत्वात् आज्यभागादिषु तस्य प्रसिद्ध त्वेऽपि प्रातिपदिकस्याप्रसिद्धत्वात् । अतः राजसूयन्यायेन नाम्न- स्सङ्कोचकत्वानुपपत्तेः प्रकरणात् सर्वेषामेव यागानां फलसम्ब. न्धः । पाशाधिकरणन्यायेन द्विवचनस्याप्रसिद्धत्वेऽपि प्रातिपदि- कमात्र प्रसिद्धया कालयोगिनामेव वा अनयोरेव वा द्वित्वस्यापि कथञ्चिदुपपत्तेः फलसम्बन्धः । न तु षण्णामेवाग्नेयादीनामिति प्राप्ते- - * तै, सं. २-५-२, ति. ना. ३.३.५.
114 पूर्वमीमांसादर्शनं. [अध्या. २. पा. २. लिङ्गक्रमाभ्यामाज्यभागाङ्गत्वेन वानीवृधन्वतीमत्राणां प्रा- सानामपेक्षितव्यवस्थाविधायकत्वेन वानोवाक्यस्योपपत्तौ ना- नपेक्षितगौरवापादकविद्वद्वाक्यविहितकर्माङ्गताबोधकत्वम् । अत एव कालद्वारेण फर्मद्वारेण वा व्यवस्थापरमेव तदिति व. क्ष्यते । अतश्च न तावदनेन देवताप्राप्तिः । नाप्याग्नेयादिवाक्येन प्राप्तकर्मानुवादेन अनेकगुणविधाने वाक्यभेदात् । विधिफलस्य हि अज्ञातज्ञापनस्यैकीवषयत्वमेव सर्वत्र क्लृप्तम् । तस्यानेकवि- षयत्वे बाधप्रसङ्गः । न च विशिष्टविधानादवाक्यभेदः । विशि- ष्टस्याव्युत्पन्नत्वात् । उक्तं घेतकारकतासम्बन्धेन यत्र तद्धि- तादिवृत्तिः न तत्र परस्परान्वयः, अपि तु यत्राश्वाभिधानी. मित्यादौ तदतिरिक्तसम्बन्धेन वृत्तिस्तत्रैव स इति । अतश्च प्रकृते देवतात्वस्य सम्प्रदानकारकत्वात् परस्परसम्बन्धानुपपत्तेः उभयविशिष्टकर्मान्तरविधानमेवावश्यकम् । अतश्च स्तदवस्थ एव । अस्तु वा कथश्चिद्रपलाभः । तथापि न वि. द्वाक्ये कर्मविधिः । यच्छब्देन विधिशक्तिप्रतिबन्धेन विधिपुन- श्रवणस्यैवाभावात् । न च तस्य वेदनक्रियामात्रविधिप्रतिब- न्धकत्वम् । यच्छब्दादेस्तच्छब्दावधिकप्रतिबन्धकत्वस्यैव व्युत्प- त्तिसिद्धत्वात् । किञ्च-अन्यपरत्वादपि नाभ्यासस्वरूपसिद्धिः। तथा हि-तत्र विद्वद्वाक्यस्थलडन्तयजिना प्रकृतत्वादानेयादय- स्त्रय एव तत्तत्कालयोगिनस्तत्तनामधेयवशादनूद्यन्ते । तत्प्रयो- जनं च तन्त्रेण यजिना अनेकोपादानात्समुदायसिद्धिः । तस्यापि प्रयोजन फलवाक्ये षण्णामेव फलसम्बन्धसिद्धिः प्रातिपदिक- स्य षट्सु कालयोगेन प्रसिद्धत्वात् द्विवचनस्य च स्वश- क्याश्रयसमुदायघटकसमुदायिवृत्तित्वसम्बन्धेन बहुत्वलक्षणार्थ- स्वात् लक्षणातात्पर्यग्राहकमेव च शक्यसम्बन्धघटकसमुदायसि- रूपाभाव- अधि. ४.] मादीपिकासहितम्. 115 द्धिद्वारा विद्वद्वाक्यद्वयम् । अन्यथा हि विद्वद्वाक्याभावे आ- ग्नेयद्वयस्यैव एकवाक्योपादानावगतद्वित्वयोगिनः कालद्वययुक्त स्य च फलसम्बन्धापत्तिः । यथा च 'यदाग्नेयोऽष्टाकपालः' इत्य- त्राग्नेयद्वयसिद्धिः तथा कौस्तुभ एव प्रपञ्चितम् । अतष्षण्णां फलसम्बन्धसिद्धिरेवोक्तविधया विद्वद्वाक्यप्रयोजनमित्यन्यपरत्वा- दपि न 'वैश्वदेवेन यजेत. इतिवदभ्यासस्वरूपसिद्धिः । न चैवं पौर्णमास्यां पौर्णमास्या' इति वाक्यद्वयवैयापत्तिः । त- स्य समुादेतयागात्रिकप्रयोगविधित्वेन सार्थक्यस्य एकादशे वक्ष्यमाणत्वान् । अन्यथा ह्युत्पत्तिवाक्येषु प्रत्येक कालयोगात्प्रत्ये- कमेव पूर्वोत्तरागसहितैकप्रधानप्रयोगा भवेयुः । एवं चोत्पत्तिवाक्ये कालश्रवणमपि विद्वद्वाक्याधिकारवाक्यस्थयजिपदसङ्कोचार्थमेवे- ति समुदायसिद्धयर्थ समुदायिनामनुवादकावेतौ न कर्मान्तरविधी इति सिद्धम् ॥३॥ (४)-पौर्णमासीवदुपांशुयाजस्स्यात् ॥ ९ ॥ चोदना वाऽप्रकृतत्वात् ॥१०॥ गुणोपबन्धात्॥११॥ प्रायवचनाच्च ॥१२॥ उपांशुयाजः “जामि वा एतद्यज्ञस्य क्रियते यदन्वश्चौ पुरो- डाशावुपांशुयाजमन्तरा यजति विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरु- पांशु यष्टव्योऽजामित्वायानीषोमावुपांशु यष्टव्यावजामित्वाय" । इति दर्श- पूर्णमासप्रकरणाम्नातवाक्यस्थमुपांशुयाजपदं पौर्णमासीवत् पूर्वाधिकर- णोदाहृतवाक्यस्थं आमेयोपांशुयाजाग्नीषोमीयत्रयानुवादकं पौर्णमासीपदमिव "विष्णुरुपांशु” इत्यादिवाक्यविधित्सितयागानां त्रयाणां समुदायसिद्धयर्थमनु. * तै. सं. २-५-३. ति.सं. २-६-६.
116 पूर्वमीमांसादर्शनं. अध्या. २. पा. २. वादः स्यात् ॥५॥ सिद्धान्तमाह-तदुपांशुयाजपदं चोदना वा वि- धिपरमेव नानुवादः. कुत: अप्रकृतत्वात् उपक्रमे कस्यचिदपि कर्मणः प्रकृतताविरहेण तदनुवादकत्वानुपपत्तेः । “विष्णुरुपांशु " इत्यादिवाक्येषु तु नैव कर्मविधिसंभवः, वाक्यभेदप्रसङ्गात् । तस्मात् "उपांशुयाजमन्तरा यजति "1 इत्यत्रैव कर्मविधिः तस्यैवार्थवादः सर्वं पूर्ववाक्यमुत्तरवाक्यं चेति ॥ १०॥ इतश्चान्तरालवाक्ये एव तस्मिन् कर्मविधिः--गुणोपब- न्धात् पुरोडाशनैरन्तयापादिताया जामिताया अन्तरालसंबन्धिना वि. धेयेन निवृत्तिप्रतीतेर्यत्रान्तरालरूपगुणोपबन्धस्तत्र झडिति कर्मचोदना. प्रतीतेः अन्तरालवाक्ये एव तस्मिन् कर्मविधानम् ॥११॥ प्राये प्रधानकर्मवाहुल्ये बहुप्रधानकर्मसमभिव्याहारे "शिरो वा एतद्यज्ञस्य यदा- मेयो हृदयमुपांशुयाजः पादावनीषोमीयः” इत्यर्थवादे वचनाच उपां- शुयाजस्य पठनादपि उपांशुयाजः प्रधानं तस्मादुपांशुयाजविधिरेवान्तरा- लवाक्ये । अन्यथा तस्य वागत्रयानुवादकत्वे ‘तावब्रूताम्” इतिवाक्ये अग्नीषोमपदश्रवणात् श्रुतपौर्णमासकालसंबन्धानीपोमीयरूपापांशुयाजस्यैव फलसम्बन्धोधिकारवाक्ये स्यादितरयोश्च तदङ्गता । तथाच उपांशुयाज. सामान्यस्याविशेषेण प्राधान्यावगमो भज्यतेति ॥ १२॥ तत्रैव 'जामि वा एतद्यज्ञस्य क्रियते यदन्वश्चौ पुरोडाशा- वुपांशुयाजमन्तरा यजति विष्णुरुपांशु यष्टव्योऽजामित्वाय प्र- जापतिरुपांशु यष्टव्योजामित्वायाग्नीषोमावुपांशु यष्टव्यावजा- मित्वाय'1 इति श्रुते अन्तरावाक्ये पूर्ववदेव न कर्मान्तर- विधिः अपि तु तव्यप्रत्ययान्तवाक्यैर्विहितानां देवतोपांशुत्ववि- शिष्टयागानां समुदायसिद्धयर्थमनुवाद एव । तत्प्रयोजनं च अन्तरालकालविधिस्त्रयाणामेषाम् । 'तावबेतामग्नीषोमावाज्यस्यैव पते. सं. २-६-६. तै. सं. २-५-२, अधि. ५.] मादीपिकासहितम्, 117 नावुपांशु पौर्णमास्यां यजन्' इति कालसम्बन्धतात्पर्यग्रहद्वारा फलसम्बन्धसिद्धिर्वा । अन्यथा ह्यग्नीषोमदेवत्वस्यैव कालस- म्बन्धात् फलसम्बन्धस्स्यादिति प्राप्ते- उपक्रमोपसंहारयोरेकविषयत्वेनैकवाक्यत्वप्रतीतेन तव्यप्र. त्ययान्तवाक्यैः कर्मविधिः । अन्तरावाक्य एव तु कालोपांशु- त्वविशिष्ट एककर्मविधिः । तदर्थवादश्चायं पूर्वोत्तरभावेन स- ोपि । अन्यथा वाक्यभेदापत्तेः । अत एव तव्यप्रत्ययान्तैर्दे- वतामात्रविधिरन्तरालवाक्यस्थकर्मणीत्यपास्तम् । न च तत्र देवताऽलाभः । शाखाभेदेन · वैष्णवप्राजापत्याग्नीषोमीययाज्या. नुवाक्यायुगलानां एतद्यागक्रमे समानातानां विकल्पेन तत्तद्दे- वताकल्पकत्वोपपत्तेः । तस्य च 'तावतां'* इत्यनेन कालसम्ब- न्धात्फलसम्बन्धः । न चोत्पत्तिशिष्टकालसम्बन्धानामेवाग्नेया. दीनां झडित्युपस्थितत्वेन उत्पन्नशिष्टकालसम्बन्धस्योपांशुया- जस्य फलसम्बन्धानापत्तिः । अन्यथा पुरोडाशान्तरालकालस- म्बन्धान्यथाऽनुपपत्त्यैव पौर्णमास्यादिकाललाभेन उपांशुयागस्य फलसम्बन्धापत्तौ 'तावधूताम्'* इत्यस्यापि तत्फलत्वानुपपत्तेरिति वाच्यम् । 'तावतां'* इत्येतदनन्तरं 'उपांशुयाजमन्तरा यजति' इति पठितमिति वार्तिकदर्शनादस्यापि कालस्योत्पत्तिवाक्येनैव विधेयतया भिन्नवाक्यत्वाभावेन तुल्यबलत्वात् फलसम्बन्धोप- पत्तेः । अतो नायं समुदायानुवाद इति सिद्धम् ॥ प्रयोजनं स्पष्टम् ॥४॥ (५)-आधाराग्निहोत्रमरूपत्वात् ॥ १३ ॥ सं- * तै. सं. २-५-२. +ते. सं. २-६-६.
-118 पूर्वमीमांसावर्शनं. [अध्या. २. पा. २. ज्ञोपबन्धात् ॥ १४ ॥ अप्रकृतत्वाच्च ॥ १५ ॥ चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्संनिधे- गुणार्थेन पुनश्श्रुतिः ॥ १६ ॥ उपांशुयाजवाक्ये समुदायानुवादकत्वासंभवेऽपि आधाराग्निहोत्रं आधारपदोपलक्षितं "अधारमाघारयति"* इति वाक्यं अग्निहोत्रपदो- पलक्षितं “अग्निहोत्रं जुहोति" इति वाक्यं च समुदायानुवादकमेव स्यात् न विधायकं अरूपत्वात् कर्मस्वरूपभूतयोर्द्रव्यदेवतयोरश्रव- णात् । समुदायश्च “ऋजुमाघारयति"* “सन्ततमाघारयति"* इत्यादिवाक्य- विहितकर्मणां “दधा जुहोति पयसा जुहाति ” इत्यादिवाक्यविहितक- र्मणां चेह विवक्षितः ॥ १३ ॥ संशोपबन्धात् द्वितीयान्तयोः अग्नि- होत्राधारपदयोस्तत्तद्वाक्ये निवन्धनादपि न तत्तद्वाक्यं विधायकं अपूर्व- कर्मविधायकत्वे तत्रतत्र द्वितीयायाः करणत्वलाक्षणिकत्वापत्तेः. अनु. वादकत्वे च अर्थाक्षिप्तसाध्यत्वस्यानुवादकतया द्वितीयाया मुख्यतयैवोप- पत्तिः ॥१४॥ स्ववाक्ये रूपानानानेऽपि प्रकरणाम्रातवाक्यान्तरणैव रूपलाभस्स्यादिति शङ्का निराकरोति-अप्रकृतत्वाश्च द्रव्यदेवतयोः प्रकरणानातवाक्यान्तरेणाप्यनवधृतत्वादपि नात्र विधायकत्वसंभवः ॥१५॥ सिद्धान्तमाह-उक्तममिहोत्रादिवाक्यं चोदना वा अग्निहोत्रादिनामक- कर्मविधायकमेव. शब्दार्थस्य “ अग्निहोत्रं जुहोति । इत्यादिवाक्या, थस्य प्रयोगभूतत्वात् अनुष्ठानापरपर्यायप्रयोगौपयिकत्वसंभवात्- अनुवादकत्वे हि नानुष्ठानोपयिकत्वसंभवः । तत्सन्निधेः जुहोति"| इत्यादिवाक्यविहितकर्मसन्निधानात् पुनःश्रुतिः “दधा जुहोति इत्यादि पुनःश्रवणं गुणार्थेन गुणविध्यर्थतया उपपद्यते ॥ १६ ॥ "अमिहोत्रं " अते.सं. २-५-11. +तै. सं. १-५-१.
आधि.५] मादीपिकासहितम्. 119 तत्रैव 'आधारमाघारयति'* इति श्रुते 'अग्निहोत्रं जुहोति। इत्यत्र च पूर्ववद्वाक्यभेदस्य दूषकस्याभावात् भेदकप्रमाणामा- वाच ऋजुमाघारयति'* 'सन्ततमाधारयति'* • 'दना जुहोति' 'पयसा जुहोति' इत्यादिवाक्यविहितकर्मणां यथायोग समुदा- यानुवादकत्वोपपत्तिः । दध्यादिवाक्यानां निापारे विध्यन्व- यासम्भवेन अवश्यं गुणविशिष्टकर्मविधायकत्वात् । अतश्च रू. पाभावात् भेदकप्रमाणाभावाच आघारवाक्ये अग्निहोत्रवाक्ये वा न कर्मान्तरम् । अपि तु तेषामेव समुदायसिद्धयर्थमनुवादः । तत्प्रयोजनं चाग्निहोत्रवाक्ये सर्वेषामेवाग्निहोत्रसंशकत्वेन फल- सम्बन्धसिद्धिः । इतरथा अग्निदेवत्यस्यैव तदापत्तिः । आघा- रवाक्ये समुदायानुवादप्रयोजन कौस्तुभे द्रष्टव्यम् । दध्यादिहोमेषु देवतायभावः । समुदायानुवादवलेनैकप्रयोगपरि- ग्रहावगतेस्सकृदनुष्ठानेनानयादिहोमागभूतदेवतायाः प्रसङ्गेन द- ध्यादिहोमोपकारकत्वोपपत्तेरिति प्राप्ते-- सर्वत्र गुणमात्रविधानेन तृतीयविधिप्रकारोपपत्तौ पञ्चम- विधिप्रकाराजीकरणस्यान्याय्यत्वात् न दध्यादिवाक्येषु विशिष्ट- कर्मविधानम् । न च गुणे विध्यन्वयानुपपत्तिः । होमकर्मकगु- णकरणकसावनायामेव विध्यन्वयेऽपि प्राप्ताप्राप्तविवेकेन विधि. फलस्याशातज्ञापनरूपस्य भावनायास्स्वरूपेण प्राप्ततया गुणमा. अविषयत्वोपपत्तेः । अत एव सर्वत्र प्रातीतिके विशिष्टभावना- विधानेऽपि फलमादायैव षड्डिधिप्रकाराः तेषां चोत्तरोत्तरस्य *तै. सं. २-५-११. +तै.सं. १-.-९. ऊर्ध्वत्वमन्त्रविशिष्टाघाराणां मन्त्रवर्णकल्पितेन्द्रदेवताकाधारण योगविध्यवगतयोगपद्यसिद्धिद्वारा इन्द्रदेवताकत्वसिद्धिपूर्वकयागरूपतासिद्धिः । इन्द्रदेवताकाधारेण योगपद्यसिद्धिमात्रं वा प्रयोजनमिति कौस्तुभे. सह प्र- .
120 पूर्वमीमांसादर्शनं. [अध्या. २. पा. २. दौर्बल्यं पूर्वमुक्तम् । अतश्च प्राप्तयभावादेव समुदायानुवादत्वास- म्भवेन आद्यविधिविधया कर्मविधी आधाराग्निहोत्रवाक्ये । न च रूपज्ञानाभावात्कर्मविध्यनुपपत्तिः । तस्यानुष्ठानं प्रति कार- णत्वेऽपि शाब्दबोधं प्रत्यकारणत्वात् । अतश्च विजातीयहोम- त्वावच्छिन्नस्य विधाने अवगते वाक्यान्तरेण रूपलामेऽपि न काचित्क्षतिः ॥ प्रयोजनं दध्यादिद्रव्यसमुच्चयविकल्पाभ्यां स्पष्टम् ॥ ५ ॥ (६)-द्रव्यसंयोगाचोदना पशुसोमयोः : प्रकरणे ह्यनर्थको द्रव्यसंयोगोन हि तस्य गुणार्थेन ॥ १७ ॥ अचोदकाश्च संस्काराः॥ १८॥ तद्भेदात्कर्मणोऽ- भ्यासो द्रव्यपृथक्त्वादनर्थकं हि स्यानेदो द्रव्यगु- णीभावात् ॥ १९ ॥ "हृदयस्याग्रेऽवद्यति "* “ऐन्द्रवायवं गृहाति" इत्यादीनि वाक्यानि चोदना कर्मविधिः स्यात्. द्रव्यसंयोगात् अन्यत्रासंभवानिवेशस्य हृदयरसादिद्रव्यस्य संयोगात् । “अग्नीषोमीयं पशुमालभेत "सोमेन यजेत' इत्यनयोर्वाक्य योरुत्पत्तिवाक्यत्वे सति प्रकरणे तत्प्रकरणमाश्रित्य अवतिगृहातिवाक्येषु द्रव्यसंयोगः हृदयरसादिद्रव्यसंस्कारः वेधी यमानः अनर्थकः आपद्येत हि यतः तस्य हृदयादिद्रव्यस्य गुणा- थत्वेन गुणवेन संबन्धो न संभवति उत्पत्तिशिष्टपशुसोमाद्यवरुद्धत्वात् ॥ १७॥ सिद्धान्तमाह-संस्काराः संस्कारविधित्वेनाप्युपपन्नाः शब्दाः अचोदकाः न कर्मविधायकाः । चस्त्वर्थः । तथाच पशुवाक्ये पशोहृदयादिद्वारकसा- " तै. सं. 6.1.१..
अधि...] भारदीपिकासहितम्. 121 धनत्वस्य सोमवाक्ये च सोमस्य रसद्वारकसाधनलस्य च परिग्रहे उत्प- त्तिशिष्टगुणविरोधविरहात् अवदानसंस्कृतानां हृदयादीनां ग्रहणादिसंस्कृ- तस्य रसस्य च गुणत्वेन संबन्धसंभवात् हृदयादिवाक्यानि गुणविधय एंव- ति भावः ॥ १८ ॥ नन्वेवं सोमवाक्ये कर्मण एकत्वात् “ऐन्द्रवायवं गृहाति। 'मैत्रावरुणं गृहाति" इत्यादिक्रमस्य “दशैतानश्वयुः प्रातस्सवने गृहाति" इत्यादिसमुच्चयस्य च दर्शनं नोपपद्यते इत्याशङ्को निराकरोति-तद्भेदात् इन्द्रवावादिदेवतोद्देशभेदात् कर्मणः ग्रहणस्य अभ्यासः भेदः द्रव्य- पृथक्त्वात् प्रकृत्यर्थदेवताभेदादेव द्रव्यस्य संस्कार्यस्य पृथक्त्वाबगमात् । अर्थप्राप्तग्रहणानुवादेन द्रव्यदेवतोभयविधान वाक्यभेदप्रसङ्गाद्हणभेद आवश्यकः । नन्वेवमपि ग्रहणानां दृष्टार्थतया कथं समुच्चयः इत्यत आह- अनर्थकमिति । हि यतः ग्रहणानां दृष्टार्थले तद्विधिजातं अनर्थकं स्यात् । तस्माददृष्टार्थताऽपि ग्रहणानां विधिवलादेष्टव्या। ततश्च समु- चयो युज्यते इति भावः । नन्ववमत्र प्रहणानां समुच्चये "खादिरे पशुं ब- भाति । पालाशे बनाति" इत्यादिवाक्यविहितवन्धनस्याप्यभ्यासः कुतो नाङ्गीक्रियते अविशेषादित्यत आह -भेदः विशेषः ग्रहणापक्षया बन्धने अस्ति. द्रव्यगुणाभावात् द्रव्यस्य खादिरादेः बन्धनवाक्ये बन्धन- क्रियां प्रति गुणभूतत्वात् । तथाच प्रतिप्रधानं गुणावृत्तिन्यायेन द्रव्ये गु- णीभूताया ग्रहणक्रियाया आवृत्तिः. बन्धनक्रियां प्रति गुणभूते तु खादिरा- दिद्रव्ये बन्धनक्रियाया नावृत्तिः प्रतिगुणं प्रधानावृत्तरभावादिति भावः ॥१९* 'अग्नीषोमीयं पशुमालभेत' इति श्रुतम् । तथा 'सोमेन यजेत' इति च । तत्राद्यविधिप्रकारस्यासम्भवान पूर्ववत्क- मविधित्वम् । अपि तु समुदायानुवादत्वमेव । कर्मप्राप्तिस्तु * एतत्सूत्रानन्तर “ संस्कारस्तु न भिद्येत परार्थत्वाद्दव्यस्य गुणभूतत्वात् ' इत्यधिक सूत्रत्वेन प्राक्तनवृत्तौ समुपलभ्यते । वार्तिके कौस्तुभे च नेदं दृश्यते । P.M,-16 . 1.22 पूर्वमीमांसदर्शनं. [अध्या. १. पा. २. पशौ-"हृदयस्याग्रेऽव द्यत्यथ जिह्वायाः'* - इत्यादिभिः । अत्र हि उत्पन्नशिटपशुसाध्ये यागे हृदयादीनां साधनत्वानुपपत्तेन त- दुहेशेनावदानाख्यसंस्कारविधिः । अतो विहितानां हृदयाघ- वदानानां पशुप्रभवद्रव्यवृत्त्यवदानत्वसादृश्यात् सानाय्यावदान प्रकृतिकत्वावगतेस्सान्नाय्यवदेव हृदयादीनां यागसाधनत्वस्य पूतीकवदनुमानात् यावद्धृदयादियागा एव विधीयन्ते । तांश्च लक्षणया आलभंतिना अनूचाग्नीषोमदेवता विधीयते । पशुपदं च हृदयादीनां छागप्रकृतिकत्वस्य मन्त्रवर्णात्प्राप्तत्वात् लक्ष- णया हृदयादिपरम् । अथवा-हृदयादिवाक्यविहितावदानाक्षि- तस्पर्शानेवालभतिना शक्त्याऽनूद्य पशुशब्दलक्षितहृदयादीनां प्रत्येक देवतासम्बन्धे कृते तावन्तो यागा देवतासम्बन्धकल्पि- तास्तेनैव विधिना विधीयन्ते । सर्वथा पशुपदं समुदायानुवादः॥ तथा सोमेपि- ऐन्द्रवायवं गृह्णाति' 'मैत्रावरुणं गृह्णाति' इत्यादिवाक्यद्रव्यदेवतासम्बन्धानुमितयागविधानम् । ग्रहणे देवतान्वयानुपपत्तेः । द्रव्यं च 'अण्व्या धारया गृह्णाति' इति प्रकृतं धारासमर्थ द्रवद्रव्यं तद्धितोपानम् । सोमवाक्ये तु तत्प्रकृतित्वेन सोमलताविधिः व्रीहिवत् । 'सोममभिषुणोति इत्यादिसंस्कारविध्यन्यथाऽनुपपत्त्यैव वा 'अध्वर्यु वृणीते' इति वत् सोमप्राप्तेस्सोमपदं नामधेयम् । सर्वथा यजिस्समुदायानु- वादः । तत्प्रयोजनं चास्मिन् पक्षे सोमद्रव्यकयागमात्रानुवा- दात् अस्तुतशस्त्राणामपि फलसम्बन्धः । ज्योतिष्टोमपदं च वै- श्वदेववद्रोणम् । समुदायानुवादाभावे हि तवशात् सस्तुत- शस्त्राणामेव यागानां फलसम्बन्धापत्तिः । तेषामेव ज्योतीरूप- स्तोमसम्बन्धात् । सिद्धान्ते तु यागस्यैकत्वात् फलवाक्यस्थ- *तैसं. ६-१-१०.
आधि..]
भाहदीपिकासहितम्,
123
यजिना अभ्यासलक्षणापत्तेः विजातीययागत्वावच्छिन्नस्यैव फल-
सम्बन्धः । ज्योतिष्टोमपदे बहुव्रीहर्थस्तु स्वसम्बन्ध्यभ्यासघटि-
तसमुदायाश्रयरूपः । अतस्समुदायानुवादावेताविति प्राप्ते--
पशुपदे हृदया लक्षणायां प्रमाणाभावात् तत्रैव विशिष्ट-
यागविधिः । हृदय. वाक्यैश्च हृदयाद्युद्देशेन संस्कारमात्रम् ।
पशोश्च न साक्षाद्धविष्टेन विधानम् । किंतु विशसनावदाना-
दिविधिरूपतात्पर्यग्राहकानुरोधेन हृदयादिप्रकृतित्वेनैव । करण-
त्वस्य साक्षादिव परम्परयांऽपि तात्पर्यग्राहके सत्युपपत्तेः । अत
एवातिदेश प्राप्तावदानसम्बन्धोपि हृदयादीनां हविष्टसिद्धयर्थं त-
दितराङ्गानः हविष्टपरिसङ्ख्यार्थश्चेति , कौस्तुभे द्रष्टव्यम् । सो-
मेऽपि नैन्द्रवायवादिवाक्ये यागविधिः गौरवात् । किंतु देवता-
विशिष्टग्रहणस्यैव तद्धितोपात्तद्रव्योद्देशेन विधिः । सम्भवति
च देवतात्वस्य निरूपकतासम्बन्धेन ग्रहणे वैशिष्टयायोगेऽपि ग्र-
हणकालीनोचारणकर्मीभूतशब्दवृत्तित्वसम्बन्धेन ग्रहणे वैशिष्टयम्।
अतश्च देवतायाः ग्रहणाङ्गभूताया अपि यागापेक्षायां सोमवा.
क्यविहितयागस्यैव देवतापेक्षस्य उपपादकत्वमात्रकल्पनाल्लाघ-
वम् । सोमपदं तु संस्कारविध्यन्यथाऽनुपपत्त्या सम्भवत्प्राप्तिक-
त्वेऽपि सकुव्यावृत्तिफलकसोमनियमार्थं न विरुध्यते । यथा
चैवं सति ग्रहणानां समुच्चयो यागस्य च प्रतिग्रहणमावृत्तिः
तथा सर्व कौस्तुभ एव निरूपितम् ॥
प्रयोजन पशुविकारे हृदयादियागाद्यन्यतमप्रकृतित्वात् नै-
कादशावदानगणप्राप्तिः पूर्वपक्षे । सिद्धान्ते सेति द्रष्टव्यम् ।
सोमे चाव्यक्तत्वसिद्धिरेव ॥६॥
124 पूर्वमीमांसदर्शनं. [भध्या. २. पा. २. (७)-पृथक्त्वनिवेशासंख्यया कर्मभेद- स्स्यात् ॥२०॥ संख्यया च एकत्वातिरिक्तया कर्मभेदस्स्यात् कुतः तस्याः संख्यायाः पृथक्त्वनिवेशात् पृथक्त्वे स्वाश्रयप्रतियोगिकस्वाश्रयानुयो- गिकभेदे निवेशात् समन्वयात् तेन सहैव स्थितरित्यर्थः ॥ २० ॥ आमनमस्यामनस्य देवा इति तिस्र आहुतीर्जुहोति' 'आ- ज्यभागौ यजति'' इत्यादी एकत्वातिरिक्तसङ्ख्यायास्स्वाश्रयप्रति- योगिकस्वाश्रयवृत्तिभेदव्याप्यत्वेन न तावत्साक्षाद्भावनाभेदबोध- कत्वम् । तस्या उक्तसङ्ख्याश्रयत्वाप्रतीतेः । नापि धात्वर्थ- भेदबोधकत्वं तस्य पूर्वप्रमितैकत्वसङ्ख्यावरुद्धत्वेन 'एकादश प्रयाजान् यजति', 'विराट्सम्पन्नमग्निहोत्रं जुहोति' इत्यादिवत् सङ्ख्यान्तरसम्बन्धानुपपत्तरेतत्सङ्ख्याया अभ्यासविषयत्वप्रतीतेन कर्मान्तरत्वमिति प्राप्ते- नात्र समयान्तरावरोधः । सा हि न तावत्तिापात्ता । तस्याः कर्तृवृत्तित्वात् । न चानवच्छिन्नस्यान्वयानुपपत्तेः प्रथ- मातिक्रमे च कारणाभावात् धात्वर्थे एकत्वसङ्ख्यानुमानमिति वाच्यम् । श्रुतसङ्ख्यासत्त्वे कारणाभावस्यासिद्धत्वेन अनुमा. माप्रसरात् । अत एव प्रयाजैकादशत्वस्थले यत्र प्रकृती अनुमानप्रसरः तत्राभ्यासविषयत्वम् । न चैवं विराट्सम्पत्तिवा- क्यादावपि उत्पत्तिवाक्ये एकत्वानुमानानापत्तिः । ताहशस्थले स्वोपजव्यिोत्पत्तिवाक्यजन्यशाब्दबोधत्वनिर्वाहाथै पूर्वप्रवृत्तस्या- स्यानुमानस्योत्तरकालीनेन सङ्ख्याश्रवणेन बाधायोगात् तस्या- *तैसं. २.३.१० सितं. २.६.१. तसं. 1-1-७.
अधि. ७.] भाहदीपिकासहितम्. 125 भ्यासविषयत्वप्रतीतेः । प्रकृते तु शाब्दबोधात्पूर्वमेव इतरपदा. र्थवत् सङ्ख्याया अपि प्रतीतेः युक्तश्शाब्दवोधोत्तरकालीनानु- मानप्रतिबन्ध इति कौस्तुभे विस्तरः । अतश्च सिद्धमुत्पत्ति- वाक्यगतकर्मसमानाधिकरणविधेयसङ्ख्यायाः कर्मभेदबोधकत्वम् । भावनाभेदस्तु शब्दान्तरादेव ॥ प्रयोजनं-वेदिप्रोक्षणमन्त्रबत् पूर्वपक्षे सन्मन्त्रः; सिद्धा. न्ते तदावृत्तिरिति ॥ भाष्यकारेण तु 'सप्तदश प्राजापत्यान् पशूनालभते'* इति वाक्ये यागभेदाभेदचिन्ता कृता । तत्र यद्यपि देवतात्वविशि- टद्रव्यविशेषवाची तद्धितः, यद्यपि च प्राजापत्यपद एवैक- शेषः । तथापि तदुत्तरविभक्त्युपात्तायास्सङ्ख्यायाः प्रकृत्यर्थ- विशेष्य एवान्वयः । न तु विशिष्टे । द्वौ त्रय इत्यादौ तथैव व्युत्पत्तेरिति तावदविवादम् । सोपि च न द्रव्ये देवतात्वान्व- योत्तरम् । तथा सति देवतात्वप्रतिसम्बन्धिनि द्रव्ये साहित्या- नवगमेन प्रत्येकवृत्तिपशुत्वावच्छिन्न एव तत्सम्बन्धप्रतीतेरनेक- त्वावगमात् सम्बन्धभेदेनानेकयागादिकल्पनागौरवापत्तेः । अ- तो लाघवात् देवतात्वान्वयात्पूर्वमेव सङ्ख्याऽन्वयः । तदा हि बहुत्वावच्छिन्न एवैकदेवतासम्बन्धादेकयागादिकल्पनालाघवम् । न च प्रकृतिप्राप्तकपशुनिष्पनैकादशावदानगणैकत्वानुरोधेन स- यायाः देवतात्वान्वयोत्तरमन्वयः । पशुगतैकत्वस्य श्रुतसप्तद. शत्वेन बाधात् अवदानगणैकत्वस्य च प्रकृतावार्थिकत्वेन इहा- नतिदेशात् । अतो देवतासम्बन्धभेदे प्रमाणाभावात् न याग- भेदः । अस्तु वा-समानाभिधानश्रुत्या बहुत्वान्वयात्प्राक् दे. *ते. बा. १.१.४.
126
पूर्वमीमांसदर्शनं. [अध्या. २. पा..
पतात्वान्वयेन सम्बन्धभेदः । तथापि लाघवाद्यागैकत्वम् । य.
थैव सिद्धान्ते अनेकयागास्सकृदनुष्ठानेनोपपद्यन्ते तथा मन्मतेऽ-
प्येकेन यागेनानेके द्रव्यदेवतासम्बन्धा इति प्राप्ते-
.
समानाभिधानश्रुत्या देवतात्वस्यान्तरङ्गत्वात् सङ्ख्यान्वया
सर्वान्वयित्वम् । पशूनां प्रत्येकं स्वत्वाश्रयत्वेन स्वत्वध्वंसानु-
कूलव्यापारात्मकयागकरणत्वरूपहविष्टस्य प्रत्येकवृत्तितया ‘सूक्त-
हविषोः' इत्यादिस्मृत्यनुसारेण हविष्टावच्छेदकपशुत्वावच्छेदेनैव
देवतासम्बन्धौचित्याश्च । अतश्च बहुत्वानवच्छिन्नस्यैव प्र-
तिसम्बन्धित्वात् प्रतिसम्बन्धिताऽवच्छेदकस्य प्रत्येकवृत्तित्वेन प्र.
तिसम्बन्धिभेदप्रतीतेः तद्भेदेन सम्बन्धभेदसिद्धिः । न च स-
म्बन्धभेदेऽपि यांगैकत्वम् । सम्बन्धानामेकत्वानेकत्वाभ्यामुभयथा:-
प्युपपत्तौ लाघवापेक्षया पश्वेकताप्रापिचोदकस्य शास्त्रतया ब-
लवत्त्वेन नियामकत्वात् । अतस्तदनुरोधेन सर्वत्र याभिदो
भावनाभेदश्चेति सिद्धम् ॥
प्रयोजनं च यागैकत्वे एकपशुविस्मरणेऽपि तस्य जातत्वा-
न पुनर्यागकरणम् । सिद्धान्ते तदिति ॥ ७ ॥
(6)-संज्ञा चोत्पत्तिसंयोगात् ॥२१॥
" अथेष ज्योतिरथैष विश्वज्योतिरथेष सर्वज्योतिरेतेन सह दक्षिणेन
यजेत" इत्यत्र संज्ञा च ज्योतिरादिसंज्ञाऽपि कर्मभेदिका उत्पत्तिसं.
योगात् अथे.यनेन पूर्वतनज्योतिटोमप्रकरणविच्छेदप्रत्यायनात कर्मोत्पत्तिवा-
क्यत्वेनैव संमन्तव्येऽस्मिन्दाक्ये ज्योतिरादिसंझाया विद्यमानत्वात् ॥१॥
अधि. ९] मादीपिकासहितम्, 127 ज्योतिष्टोमं प्रकृत्य 'अथैष ज्योतिरथैष विश्वज्योतिरथेष स- र्वज्योतिरेतेन सहस्रदक्षिणेन यजेत' इति श्रुतेषु ज्योतिरादिप- दानां गुणविशेषे प्रसिद्धयभावात् द्योतनात्मकत्वेन प्रसिद्धयुप- पादने फर्मण्यपि तदापत्तः । एतच्छब्देन च तद्विधाने वाक्य. भेदा पत्तेस्तेषां नामत्वं तावदविवादम्।तश्च न प्रकृतस्य यागस्य । ज्योतिष्टोमसंशावरोधात् संज्ञाकार्यस्य व्यवहारस्यैकेनैव सिद्धेरिलरवैयर्थ्याच्च । न च विनिगमकाभावाद्विकल्पः । अथ शब्दस्य पूर्वाधिकारविच्छेदकस्व नियामकत्वात् । अत एव 'व- सन्तेबसन्ते ज्योतिषा यजेत' इतिवत् नाल्याविकारत्वाशङ्का । तस्याविच्छिन्नेऽधिकारे समानानेन तथाऽङ्गीकारात् । न चैव- मधिकारविच्छेदाभावे उद्भिदादिसंशातो भेदानापत्तिः । ज्यो- तिष्टोमसंज्ञाया उत्पत्तिशिष्टत्वाभावेन द्वयोरपि विकल्पो वैपरी- त्यं वा किं न स्यादिति वाच्यम् । सोमयागे कृप्तप्रवृत्तिनि- मित्तकज्योतिष्टोमसंशावरुद्ध उद्भित्संज्ञायाः कथमपि निवेशा- नुपपतेः तस्या भेदकत्वात् । अत एव यत्र न किञ्चिनिया. मकमस्ति तत्र सङ्कल्पादौ संशयोर्विकल्प एव । प्रकृते त्वथ- शब्देन विच्छेदात् भेदकत्वमेव संशायाः । ' सहस्रदक्षिणेन यजेत इत्येतावतैव प्रकृतयागानुपादेन गुणविध्युपपत्तौ एतच्छब्दान्त- स्य ज्योतिरादिवाक्यस्य वैयर्थ्यप्रसङ्गाच्च । अतः द्योतनादियो- गेने ज्योतिरादिसंशं कर्मत्रयं सोमयागप्रकृतिक तत्तद्वाक्यैरुत्पन्न सहस्रदक्षिणाकं "एतेन ऋद्धिकामो यजेत" इति वाक्येन फले विधीयत इति सिद्धस्संशया कर्मभेदः ॥ ८ ॥ (९)-गुणश्वापूर्वसंयोगाद्वाक्ययोस्तमत्वात्॥२२ तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनं इत्यत्र- वाजिनवाक्ये श्रुतो गुणश्च वाजिनगुणोपि कर्मभेदकः कुतः 128 पूर्वमीमांसदर्शनं. [अध्या. २. पा... अपूर्वसंयोगात् तस्य गुणस्य पूर्वस्मिनामिक्षावाक्ये निवेशासंभवात् । वाक्ययोः आमिक्षावाक्यवाजिनवाक्ययोः समत्वात् तुल्यत्वात् एकस्यापरार्थानुवादकत्वासंभवेन ""वैश्वदेवेन यजेत" इत्यादेरिवानुवादकत्व- स्यापि वाजिनवाक्ये आश्रयितुमशक्यत्वात् ॥ २२ ॥ 'वैश्वदेव्यामिक्षा' इत्यत्र द्रव्यदेवताविशिष्टे यागे विहिते तदनुवादेन 'वाजिभ्यो वाजिनं'. इत्यत्र न गुणमात्रविधिः । प्राप्तकर्मानुवादेनानेकगुणविधाने वाक्यभेदापत्तेः । न च वाज अन्नं आमिक्षारूपं विद्यतें येषामिति व्युत्पत्त्या विश्वान् देवान् तद्विशिष्टयागं वा उद्दिश्य वाजिनमात्रस्य समुच्चयेन विकल्पेन वा विधिरस्त्विति वाच्यम् । वाजिशब्दस्य रूढत्वेन विश्वदे- वानुवादानुपपत्तेः । उत्पत्तिशिष्टद्रव्यावरोधे द्रव्यान्तरस्य नि- वेशानुपपत्तेश्च । एतेम आमिक्षानुनिष्पन्नवाजिनसम्बन्धप्राप्त्या वाजिनपदमामिक्षायागनामधेयमङ्गीकृत्य तदुद्देशेन वाजिदेवता- विधिरित्यपास्तम् । उत्पत्तिशिष्टदेवतावरोधे देवतान्तरस्य नि- वेशानुपपत्तेः । किञ्च-आमिक्षायाः पाटिको देवतासम्बन्धः पदश्रुत्या. वाजिनस्य तु वाक्येनेति दौर्बल्यम् । तद्धितस्य हि देवतात्वावशिष्टे द्रव्यविशेषे शक्तिः आमिक्षापदं च तात्पर्यग्रा. हकमिति प्राञ्चः । आमिक्षादौ द्रव्ये देवतात्वे च भिन्ना श- तिः, निरूपकत्वं तु संसर्गः । देवतात्व एव वा शक्तिः, द्रव्ये लक्षणा । द्रव्यविशेष एव वा शक्तिः, देवतात्वे लक्षणा द्रव्यसामान्य एव वा शक्तिः, आमिक्षापदेन विशेषनिर्णय इत्ये ते पक्षास्तु कौस्तुभ एवोपपादिताः । सर्वथा आमिक्षाद्रव्यस्य देवतासम्बन्धः पदश्रुत्यतिं सिद्धम् । किञ्च-विश्वेषां देवानां तद्धितेन देवतात्वं शक्त्योक्तम् अनुशासनसत्त्वात् । वाजिनां तु सम्प्रदानत्ववाचिन्या चतुर्थ्या सांप्रतिकलक्षणया । त्य- अधि. १०.] 129 भादीपिकासहितम. ज्यमानद्रव्योद्देश्यत्वविशिष्टप्रतिगृहातृत्वरूपसम्प्रदानत्वैकदेशत्वात् देवतात्वस्य । तस्याः प्रतिगृहीतृत्वाभावात् । निरुरुधर्मसमनि- यतसम्प्रदानत्वव्याप्यदेवतात्वरूपाखण्डोपाधिस्वीकारे तु सुतरां लक्षणा । अतोपि दुर्बलत्वम् । तस्माद्वाजिनवाक्येऽपि गुणात् द्रव्यदेवताविशिष्टं कर्मान्तरमेव वाजिनप्रतिपत्त्यर्थमामिक्षायागा- गत्वेन विधीयते । गुणस्य च सर्वत्रानिविशमानत्वेन भेदकता । सा च कचिद्वाक्यभेदापत्त्या क्वचित्प्रबलगुणावरोधात् कचिदेक- प्रसरताभङ्गादित्यनेकप्रकारिकेति ध्येयम् ॥ ९ ॥ (१०)-अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत॥२३॥ कर्मशब्दे “अग्निहोत्रं जुहोति"* इत्यादौ कर्मोत्पत्तिवाक्ये अगुणे गुणश्रवगरहिते सति तत्र अग्निहोत्रादिकर्मणि तस्मिन् “ दध्ना जुहो. ति” इत्यादिना गुणः द-यादिः विधीयत इति प्रतीयेत ॥ २३ ॥ यत्र तु नोत्पत्तौ गुणश्रवणं यथा-'आग्नहोत्रं जुहोति'* इति तत्र तदनुवादेन 'दना जुहोति' 'पयसा जुहोति" इत्या- दिभिस्सर्वैरेव गुणविधानं विकल्पेन । तत्र खलेकपोतन्यायेन सर्वेषामेव युगपत्प्रवृत्तेरेकावरुद्धत्वाभावादिति प्रत्युदाहरणमा- त्रम् ॥१०॥ (११)-फलश्रुतेस्तु कर्म स्यात्फलस्य कर्म- योगित्वात् ॥ २४ ॥ अतुल्यत्वात्तु वाक्ययोर्गुणे तस्य प्रतीयेत ॥ २५॥ अग्निहोत्रप्रकरणानाते “दनेन्द्रियकामस्य जुहुयात्" इति वाक्ये फलश्रुतेः इन्द्रियरूपफलस्य श्रवणात् कर्म तु अमिहोत्ररूपं प्रकृतं तैसं. ५-४-१. P.M,-17 *तैसं. १-५.९, 180 पूर्वमीमांसादर्शनं. [अध्या. २. पा. २. कमैव दध्यादिगुणविशिष्टं फलाय विधेयं स्यात, न तु दधिरूपो गुणः । फलस्य इन्द्रियादिरूपस्य कर्मयोगिचात् कर्भमात्रान्वयित्वेन दध्यादिरूप- सिद्धपदार्थान्वयित्वासंभवात् । अन्यथा दध्यादिरूपाद्गुणात्सिद्धात्सर्वदेव सर्वेषामेव फलोदयप्रसङ्गात् ॥२४॥ समाधत्ते.- वाक्ययोः “अग्नि- होत्रं जुहुयात्स्वर्गकामः' " दधेन्द्रियकामस्य जुहुयात्" इत्यनयोः अतुल्यत्वात् असमत्वात् तस्य अग्निहोत्रहोमस्य गुणे दधिरूपे प्रतीयेत फलसम्बन्धः । स्वर्गकामवाक्ये वा विधेयान्तराविन कर्म- णः फलसंबन्धो युक्तः । इन्द्रियकामवाक्ये तु कर्माश्रितगुणे एव फ- लान्वयसंभवात् फलोद्देशेन गुणविधिरेव युक्तः ॥ २५ ॥ . अग्निहोत्रं प्रकृत्य 'दभेन्द्रियकामस्य जुहुयात्' इति तत्र स एव होमो दधिविशिष्टः फलोद्देशेन विधीयते । न च प्राप्त कर्मानुवादेन गुणसम्बन्धः पलसम्बन्धश्चेति वाक्यभेदः । प्राप्ता. नामापे कर्मणां राजकर्तृत्वविशिष्टानां फलोद्देशेन राजसूयवाक्ये विधा नवदिहापि तदुपपत्तरिति प्रथमः पक्षः । द्वितीयस्तु- नात्र राजसूयन्यायः । कर्तुर्हि प्रयोगान्वयित्वात् फलस्य च विनियोगा. न्वरित्वात् उत्पन्नस्यापि कर्मणः प्रयोगविधः फलविशिष्टविनि- योगस्य कर्तुश्च वैशिष्टयोपपत्तेः । प्रकृते तु दन उत्पत्त्यन्वाय त्वेन प्राप्तोत्पत्त्यनुवादेन गुणविधिः फलांवशिटविनियोगविधिश्चति वैशिष्टयाभावाद्वाक्यभेदः । अतो गुणात् कर्मभेदः। दधिवि. शिष्टं च तत्फलोद्देशन विधीयते । न दधि । भावार्थाधिकर- णविरोधापत्तेः । सत्यपि दर्वीहीमत्वे दधिद्रव्यकहोमत्वसाह- श्याचाग्रिहोत्रहोमातिदेशेन रूपलाभः ॥ सिद्धान्तस्तु-यत्र द्वयोरपि धात्वर्थगुणयोरप्राप्तिः सम्भ- पत्याधिः प्राप्तिरेख पा धात्वर्थस्यैव वाऽप्राप्तिः यथा-'सोमेन अधि. १२.] भाहंदीपिकासहितम्, 131 'उरुप्रथा उरुप्रथस्वति पुरोडाशं प्रथयति' 'ऐन्द्रवा- यवाग्रान् गृह्णीयात् यः कामयेत यथापूर्व प्रजाः कल्परे- निति' 'अग्निहोत्रं नुहोति प्रत्यादी तत्र भावार्थाधिकरणन्यायः। यत्र तु गुणस्यैवाप्राप्तत्वाद्विधेयत्वं तत्र तस्यैव फलसम्बन्धः। न च दन्नोपि नियता प्राप्तिः अपि तु विकल्येन । अतः पाक्षि- कानुवादत्वपरिहाराय तस्यैव विधेयत्वात्फलसम्बन्धः । कारणी भूतगुणसत्त्वेन वचन विनाऽपि फलोत्पत्तिसम्भवात् वचनवैपर्थ्य- प्रसङ्गेन स्वकृतिसाव्यधात्वर्थस्य दृष्टविधया गुणसम्बन्धिन आ- श्रयस्यापेक्षायां प्रकरणात् होमस्याश्रयत्वलाभात् जुहोतिस्सा. धुत्वार्थमनुवादः । दधिकरणकभावनान्तरमेवं तु फलोइंशेन विधीयते । प्राप्तभावनानुवादेन उभयकरणे वाक्यभेदात् । के- चित्तु-करणत्वविशिष्टं दधिं दधिकरणत्वं वा तृतीयोपात्तं फ- लकरणत्वेन विधीयते । तृतीयार्थकरणत्वस्य निरूपकापेक्षवाश्र- यापेक्षा इत्याहुः । तन्न; यागवैषम्ये प्रमाणाभावात् । सर्वधा सिद्धो गुणफलसम्वन्धः ॥ प्रयोजनं दधो न प्रतिनिधिरुल्लेखविशेषो वा सिद्धान्त द्र- ष्टव्यम् ॥ ११ ॥ (१२)-समेषु कर्मयुक्तं स्यात् ॥ २६ ॥ ताण्ड्यबाहणे-“योऽपूत इव स्यादमिष्टुता यजेतानिनवास्य पा- प्मानमपहत्य त्रिवृता तेजो ब्रह्मवर्चसं दधाति" इत्येकं त्रिवृदमिष्टुतं विधाय' तत्र त्रिवृत्त्वे दोषं संकीर्त्य चतुष्टोमममिष्टुयागान्तरं वि. धाय "त्रिवृदभिष्टुदमिष्टोमस्तस्य वायव्यास्वकविंशमग्निष्टोमसाम कृत्वा बावर्चसकामो ह्यतेन यजेत" इति पठिला "एतस्यैव रेवतीषु तिसं. १-५-१, *तैसं. ७-९.६.
अत 132 पूर्वमीमांसादर्शनं. [अध्या. २. पा. १. वारवन्तीयममिष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत" इत्यानातम्। तत्र यद्यपि “त्रिवृदमिष्टुत्" इति वाक्ये प्रथमान्तपदत्रयं यजेतेत्यनेन नान्वययोग्यं तथाऽपि कर्तव्य इनि पदाध्याहारेण त्रिवृदादिगुणद्वय वे. शिष्टामिष्टुत्संज्ञकयागविधानमुपेयम् । एतेषां चाग्निष्टुतां निकायित्वेन पूर्वस्यो- त्तरेष्वतिदेशस्याष्टमे प्रथमे प्रसाधनात् पूर्वयागात्तिवृत्त्पश्चदशसप्तदर्शक- विंशरूपचतुष्टोमकत्वस्य प्राप्तस्य बाधेन · सर्वस्तोत्रेष्वपि त्रिवृत्त्वविधानम् । एव तस्मादेवामिष्टोमसंस्थाकत्वस्यापि प्राप्तेः यद्यप्यग्निष्टोमसंस्था- विधायकमग्निष्टोमपदमिति न शक्यते वक्तम् । तथाऽपि राजन्यनिमि- त्तकामिष्टोमसंस्थाविकारभूतात्यग्निष्टोमताव्यावृत्तिफलकत्वेन अग्निष्टोमसंस्था- विधानपरं द्रष्टव्यम् । यत्त कौस्तुभे एतत्पूर्वभावियागस्योक्थ्यसंस्था- कस्य निकायलेनैतद्यागप्रकृतित्यावसायात्तत उक्थ्यसंस्थाया एव प्राण्य- मानत्वेन अग्निष्टोमसंस्थायाः प्रतिप्रसवार्थतया विधानपरमिति पक्षा-त. रमुक्तं तत् ताण्ड्ये पूर्व चतुटोमाग्निष्टुयागस्य विधानऽपि तस्योक्ट'सं- स्थात्वेनानाम्नानात्किं मूलामति चिन्त्यम् । अनिष्टुत्पदं चाग्निदेवलम- न्त्रसाध्यस्तोत्रानानात्तत्प्रख्यन्यायेन नामधेयम् । तस्य वायव्यास्विति- वाक्येन " उप खा जामयो गिरः"* इत्यादिवायन्याऋगधिकरण ककविशस्तोमकत्वविशिष्टाग्निष्टोमस्तोत्रभावनोत्तरकालविशिष्टयागप्रयोगस्य फ. लार्थ विधानम् । तत्रामिष्टोमस्तोत्रे पूर्वातिदेशेन प्राप्तस्य एकविंश. स्तोमस्य त्रिवृत्त्वेन बाधितस्य प्रतिप्रसवः । एवमतिदेशप्राप्तानां 'यज्ञा. यज्ञा वो अग्नयः' इति मन्त्राणां बाधेन वायव्यामन्त्राणां विधान रेवतीवाक्ये.. "रेवतीर्नस्सधमादः" इत्यादिरेवतीऋगधिकरणकवारवन्तीय- सामकाविष्टोमस्तोत्रभावनोत्तरकालविशिष्टयागमावनायाः फले विधानम् । तेन रेवतीमिरवन्तीयाधारभूतायाः अश्वं नला वारवन्तं दध्याः" इति *तैबा. १.४.१. तैि. सं. 1-0.11.
अंधि. १२.] भादीपिकासहितम्. 133 योनेस्तदुत्तरयोश्च बाधः । यद्यप्यमिष्टोमस्तोत्रस्य तृतीयसवने आर्भवपवमा. नोत्तरं यज्ञायज्ञीयसामसाध्यस्य सर्वान्त्यत्वेन तद्भावनाया यागप्रयोगपूर्वका- लत्वं संभदति । तथाऽपि सर्वाङ्गानुष्टानसौकर्यार्थमादितोऽवधारणादमि टोमस्तोत्रस्यापि तत्सिद्धेः “वाचा करोति मनसा करोति" इत्यादी अध्यवसानेऽपि करोतेः प्रयोगादध्यवसानापरपर्यायप्रतिपत्तिपूर्वकालकत्वन व्यादाय स्वपिति इत्यादाविव लाक्षणिक समका' लत्वेन बा क्त्वाप्रत्ययोपपत्तिईष्टव्या इति स्थितिः । तत्र रेवतीवाक्ये पूर्वाधिकरणन्यायेन रेवत्यधिकरणकवारवन्तीयस्य रेवतीनामेव पशुरूपफलाम विधानमिति पूर्वपक्षे सिद्धान्तमाह-समेषु आश्रयतया परस्परानन्व यात् तुल्येषु वाक्येषु सत्सु फलं कर्मयुक्तं कर्मान्वितमेव स्यात् ताह. शवाक्येय एकस्य कर्मविधायकवं अपरस्य तत्कर्माश्रिते गुणे फलसंब- न्धविधायकत्वीमति वैलक्षग्याश्रयणासंभवात् । तथा हि-रेवतीवाक्ये गुणफलसंवन्धविधी सक्रियमाणे आश्रयाकांक्षायां अमिष्टुत्प्रकरणातद्वा- क्यविहितस्यानिटुत आश्रयतयाऽन्वय इति वक्तव्यं तत्त न घटते अग्निष्टोमसामेत्यनिष्टोमस्तोत्रानुवादानुपपत्तेः. अस्मादेव वाक्यादमिष्टोम. स्तोत्रस्याश्रयतयाऽन्वये तु वाक्यभेदः । प्रकरणे तु अतिदेशप्राप्तस्य अनिष्टोमस्तोत्रस्य स्तोत्रान्तरसाधारण्येनोपस्थितत्वेऽपि विशि योपस्थित्य- भावन प्रकरणस्यानिष्टोमस्तोत्ररूपायसमर्पकत्वासंभवः । तस्मादाश्रयां- लाभात् अग्निष्टद्विकारतया अग्निष्टोमस्तोत्रस्य अग्निश्रुत्प्रकरणानातेन “वा- रवन्तीयमनिष्टोमसाम कार्य" इति वाक्येन अमिष्टोमस्तोत्रे वारवन्ती- यस्यापि च प्राप्तत्वाच्च तत्तदनुवादेन रेवताविशिष्टस्तोत्रभावनोत्तरकाल- विशिष्टोवतीकरणकयागान्तरभावनैव पशुरूपफलोद्देशेन विधीयत इत्यत्र स्वीकार्यमिति । प्रयोजनं च पूर्वपक्षे पूर्वाग्निटुन्येव काम्यगुणानुष्ठानम् “निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिस्स्यात्" इत्याष्टीमक- न्यायादतिदिष्टपूर्वामिष्टुबर्मकयागान्तरस्य पश्वर्थमनुष्ठानमिति बोध्यम् ॥२६॥ सिद्धान्ते तु 134 " पूर्वमीमांसादर्शनं. [अध्या. २. पा. २. त्रिवृदमिष्टुदग्निष्टोमः इत्यनेन विहितस्य अनिष्टद्या- गस्य फलसम्बन्धे “तस्य वायव्यास्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो हतेन यंत" इत्यनेन कृते पश्चादानातं "एत- स्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो छेतेन यजेत" इति । तत्रापि पूर्ववदाद्यः पूर्वपक्षः-राजसूयन्यायेन स्वकारकविशिष्टानिष्टोमस्तोत्रभावनाविशिष्टक्त्वाप्रत्ययार्थभतका- लकादिरूपप्रयोगान्बयिगुणसत्त्वेन विनियोगविशिष्टप्रयोगविधि- सम्भवात् । इष्यते चायमेव प्रकारो वायव्यावाक्ये सिद्धा- न्तिनाऽपि । द्वितीयस्तु नात्र राजसूयन्यायः प्रयोगस्यानिष्टोम- स्तोत्रोत्तरकालत्वस्य च वायव्यावाक्येनैव प्राप्ततया तदनुवादेन रेवतीविधिः फलोद्देशेनानिष्ठुद्विधिश्चेति वाक्यभेदात् । वायव्या. वाक्ये हतिदेशेन सम्भवत्प्राप्तिकमप्यनिष्टोमस्तोत्रोत्तरकालतादि ततः पूर्वप्रवृत्त्यगीकारेण प्रयोगविशेषणतया विहितम् । न त्वत्र वायव्यावाक्यस्यापि क्लृप्तत्वेन अस्य पूर्वप्रवृत्त्यङ्गीकारानुपपत्तेः। न च विनिगमनाविरहः. प्राथम्यस्यैव नियामकत्वात् । अतो ला- घवात् गुण एव रेवत्यधिकरणकवारवंन्तीयाख्यः रेवत्याख्य एव वा अप्राप्तत्वात् फलोद्देशेन विधीयते । वारवन्तीयमग्निष्टोम- सामकार्यमिति प्राकरणिकवाक्येन वारवन्तीयस्यापि प्राप्तत्वात् । न चान्त्यपक्षे तृतीयान्तेनैतच्छन्देन विलिङ्गसङ्ख्यत्वात् रेवती- मात्रनिर्देशानुपपत्तिः।तेन रेवतीविशिष्टवारवन्तीयनिर्देशेऽपिदाक्षा- यणयक्षन्यायेनाप्राप्तरेवतीमात्रस्यैव फलसम्बन्धोपपत्तेः । अतो दधिन्यायेन गुणफलसम्बन्ध एव युक्तः ॥ सिद्धान्तस्तु-नात्राश्रयलाभश्शक्यते वक्तुम् । यागस्य तावत् प्रकृतत्वेऽपि “अग्निष्ठोमसाम" इत्यनुवादानुपपत्तेः न साक्षादाश्र- पत्वम् । अग्निधोमस्तोत्रद्वारा यागस्यैव वा साक्षादाश्रयत्वं तु .
अधिः १२.] भादीपिकासहितम्, 135 अग्निष्टोमस्तोत्रस्यातिदेशतस्स्तोत्रान्तरसाधारण्येनोपस्थितत्वादना- शङ्कयम् । न च वायव्यावाक्येन तस्यौपदेशिकी विशिष्यो- पस्थितिः। आतिदेशिकऋग्वाधसम्भवे औपदेशिकतद्वाधस्यान्या- य्यत्वेन विशिष्योपस्थितेराश्रयत्वासाधकत्वात् । न च सानो गायतिधातुवाच्यत्वेन क्रियारूपत्वादाश्रयालामेऽपि न क्षतिः । सा- स्रो ध्वन्यात्मकस्वरसमाहाररूपत्वेन वाक्यशेषादी प्रसिद्धस्य सिद्धरूपतया धातुवाच्यत्वस्याप्रयोजकत्वात् । अन्यथा-सौभ- रस्यामि स्तोत्राश्रयत्वानुपपत्तेः वारवन्तीयसानः आश्रयानपेक्षणे " अग्निष्टोमसाम” इत्याद्यनुवादानुपपत्तेश्च । अतः साम्न आश्र- यसापेक्षत्वान्न तावत्प्रकरणेनाश्रयलाभः । न च " वारवन्तीयमग्नि- टोमसाम कार्य" इति प्राकरणिकेन वाक्येनैव गौरवाभिया अ- ङ्गत्वानभिधानात् आश्रयसमर्पणमिति वाच्यम् । सानो गुणत्व- पक्षे तल्लाभोपपत्तावपि रेवतीमात्रस्य गुणत्वे तदयोगात् । सा- नो गुणत्वं तु विधेरप्राप्तरेवतीमात्रसङ्कमादेवासम्भवि । फलप- दाभावे हि विधिर्यद्विषये अप्राप्ततया व्याप्रियते तस्यैव प्रयोजनाका- तया फलसम्बन्धः यथा- गोदोहनादेः। तदत्र पशुपदाभावे वारव- न्तीयस्य प्राकरणिकवाक्येनैव प्राप्तत्वात् विधिरप्राप्तरेवतीमात्रवि- षयः सम्पद्यत इति तस्यैव फलसम्बन्धी वाच्यः । न चास्याश्रयः केनापि प्रकारेण लब्धुं शक्यः । न च प्रकारान्तरेणालाभेपि प्रनेनैव वाक्येन आश्रयविशिष्टगुणविधानाद्वा तल्लाभोपपत्तिः । क्लुप्तप्रयोजनत्वान् लाघवेनाश्रयतासम्बन्धेनैव वैशिष्ट्याङ्गीका- राश्च न गुणाङ्गताऽऽपत्तिरिति वाच्यम् । आश्रयस्य गुणान्वया- व्युत्पत्तः । कर्मत्वातिरिक्तस्याश्रयत्वस्य दुर्वचत्वेन भावनायाः फलाश्रयरूपोभयकर्मत्वाङ्गीकारे एककर्मकत्वभङ्गापत्तेश्च । न च कृत्वाशब्दोक्तायामाश्रयस्यानिष्टोमस्तोत्रस्य फर्मत्वात् तदुत्तरका.
196
पूर्वमीमांसादर्शनं. [अध्या. २. पा. २.
लताविशिष्टगुणभावनायाः आख्यातोपात्तायाः पशुकर्मत्वान्नैकस्याः
भावनाया द्विकर्मकत्वापत्तिरिति वाच्यम् । गुणभावनाया अव-
च्छेदकीभूतधात्वर्थापेक्षायां यागस्यावच्छेदकत्वाङ्गीकारे रेवतीनां
यागकरणत्वापत्त्या स्तोत्रं प्रति करणत्वानापत्तेः । स्तोत्रस्यैवा.
वच्छेदकत्वाङ्गीकारे तु धात्वर्थद्वयावच्छिन्नभावनाद्वयाभावात् क्त्वा-
प्रत्ययानुपपत्तिः । न च रेवतीविशिष्टाग्निष्टोमस्तोत्रभावनोत्तर-
कालविशिष्टरेवतीकरणकयागाश्रयकभावनैव फलोद्देशन विधीय.
तामिति वाच्यम् । आख्यातोपात्तभावनाया द्विकर्मकत्वापत्तेस्त-
दवस्थत्वात् । न च प्रकरणाद्यागस्य आश्रयत्वोपपत्तेः न द्विक.
मैकत्वम् । तथात्वेऽपि तृतीयान्तैतच्छब्दस्य. धातुपारार्थ्यभयेन
यागपरामर्शित्वस्यैवोपपत्तौ रेवत्यादिपरामर्शकत्व एव प्रमाणा-
भावात् । अतस्तदपेक्षया लघुभूतकर्मान्तरविधानमेव ज्यायः ।
तदा हि निकायित्वेनाग्निष्टयागविकारत्वात् वारवन्तीयं प्राप्तमे-
वानूद्यते केवलं रेवतीविशिष्टस्तोत्रभावनोत्तरकालविशिष्टरेवती-
करणकयागान्तरभावनैव फलोद्देशेन विधीयते । षष्ठ्यन्तैत-
च्छब्दः प्रकृतिविकारभावानुवादकः । नृतीयान्तैतच्छब्दः प्र.
स्तोष्यमाणकर्मवचनो न दुष्यति । उत्तरकाललक्षणो गुणश्च
प्रयोगान्वयित्वात् अवेष्टिवद्यद्यपि तद्भेदमेवापादयेत् । तथापि
कालस्यात्र सम्भवत्प्राप्तिकतया वाक्यभेदपरिहारार्थ विधेयत्वेऽपि
तात्पर्यगत्या यागे परंपरासम्बन्धन विधेयस्य रेवत्याख्यस्य गु.
णस्य उत्पत्त्यन्वयित्वात् कर्मभेदबोधकत्वाविघातः ॥ १२ ॥
(१३)-सौभरे पुरुषश्रुतेनिधने कामसंयोगः
॥ २७ ॥ सर्वस्य वोक्तकामत्वातस्मिन्कामश्रुति-
स्स्यानिधनार्था पुनश्श्रुतिः ॥२८॥
आधि. १३.] माहदीपिकासहितम्. 187 ताण्ड्यब्राह्मणे षोडीशसंस्थावान्तरप्रकरणे-'सौभरमुक्थानां ब्रह्म- साम भवति' इत्यनेन षोडश्यपूर्वसाधनीभूतब्रह्मसामस्तोत्रोद्दशेन समा. मायावगतं सौभरं साम नित्यतया विहितम् । तस्य च स्तोत्रस्य वस्तुत उक्थाख्यस्तोत्रत्रयमध्यमत्वादुक्थानामित्यनुवादः । नैमित्तिकतया तु अतिरात्रसंस्थावान्तरप्रकरणे तद्विहितम् । तथा ब्रह्मसामस्तोत्रं प्र. कृत्य “यो वृष्टिकामो योऽन्नाद्यकामो यस्स्वर्गकामस्स सौभरेण स्तुवीत इत्यानाते वाक्ये उक्तस्तोत्राश्रितं सौभरं साम प्रत्येकं फलत्रयार्थ वि. धीयते । तस्य च साम्नस्समाम्नानकाले उद्गीथप्रस्तावप्रतिहारोपद्रवनिध- नाख्यानां सामावयवानामन्तिमे निधने 'हीष् ऊ ऊ' इत्यादीनि स्तो- भाक्षराणि शाखाभेदेनाम्नातानि । तदेतादृशं सौभरं प्रकृत्य "हीषिति वृष्टिकामाय निधनं कुर्यानित्यन्नाद्यकामाय ऊ इति स्वर्गकामाय" इ. त्यानाते वाक्ये किं रेवत्यधिकरणन्यायेन हीषादिविशिष्टनिधनान्तरं फ- लार्थ विधीयते ? किं वा इन्द्रियकामन्यायेन हीषादिस्तोभाक्षराणि प्रकृ- तसौभराश्रितानि वृष्ट्याद्यर्थत्वेन विधीयन्ते? उत वृष्ट्याद्यर्थसौभर एवा- नियमेन प्राप्तानि तानि नियम्यन्ते? इति सन्देहे पूर्वपक्षमाह-सौभरे निधने सौभरसम्बन्धिनिधने कामसंयोगः फलसम्बन्धः कुतः पुरु- षश्रुतेः दृष्टिकामपुरुषस्य वृष्टिकामपदेन श्रवणात् रेवतीवाक्यवत् वृष्टिफलकस्य हीषादिविशिष्टनिधनान्तरस्य विधानौचित्यात् । यदि तु प्रकरणादिह सौभरस्याश्रयतयाऽन्वयसम्भवात् रेवत्यधिकरणनयाप्रवृत्तिः । च रेवतीवाक्ये अग्निष्टोमस्तोत्रस्येवैतद्वाक्ये निधनस्यानुवादानुपष- त्तिरिति वाच्यं तत्त छाखासु निधन एव हीषादिपाठात् निधनस्य हीषाद्याधारतायाः प्राप्तत्वेनेह तदनुवादसम्भवात् इत्युच्यते तथेन्द्रिय- कामाधिकरणनयेन सौभरे निधने सौभरसम्बन्धिनिधनसम्बन्धि- हीषादेः कामसंयोगः आस्तां पुरुषश्रुतेः वृष्टिकामपुरुषपरपदश्रवणात्. त- दर्थफलस्य हीषादिनाऽन्वेतुमुचितत्वादिति ॥२७॥ सिद्धान्तमाह-वा इति न P.M,-18 " 188 पूर्वमिमांसापर्श, अध्या.१.पा.२ पूर्वपक्षव्यावृत्तिः । सर्वस्य निखिलस्यापि सौभरस्य उक्तकामत्वात् "यो वृष्टिकामः" इत्यादिवाक्येन प्रतिपनफलत्वात् तत्फलस्यैवेह प्रत्य- भिज्ञायमानाया तस्मिन् सौभर एव कामश्रुतिः फलसम्बन्धप्रति- पादनपरमिदं वाक्यं स्यात् । ननु सौभो फलसम्बन्धस्य “यो वृ- टिकामः इति वाक्येनैव प्राप्तत्वादिदं व्यमित्यत आह-पुनश्श्रु: तिः सौभरफलपुनश्श्रवणरूपमिदं वाक्यम् निधनार्था वृष्टिसाधनाभूत- विजातीयसीमरवृत्तिनिधनलाक्षणिकर्तया तत्र वृष्टिपदस्य तादृशनिधन एव हीषित्यादिरीत्या निधननियमाथै नियमविधिलाघवानुरोधेनाश्रीयते । वस्तुतस्तु-वृष्ट्यादिफले स्वसाधनविजातीयसीभरवृत्तिनिधनाधारत्वसम्ब- न्धेन हीषादनियमस्स्वीक्रियते इति न लक्षणाऽपि । तथा च न वैय- र्थ्यमिनि भावः । प्रयोजनं पूर्वपक्षे सौभरफलादृष्ट्यादेरतिरिक्त हीषा- दिफलं वृष्ट्यादिकम् । सिद्धान्ते तु नातिरिक्तमिति ध्येयम् ॥ २८ ॥ इति सारबोधिन्यां द्वितीयस्य द्वितीयः. . ब्रह्मसामाख्यं स्तोत्रं प्रकृत्य समानातैः “यो वृष्टिकामो योऽनाधकामो यस्स्वर्गकामस्स सौभरेण स्तुवीत " इत्येतैरुक्त. स्तोत्राश्रितं सौभरं साम फलत्रयोद्देशेन विधीयते । उद्देश्या- नेकत्वेन स्तुवीत इत्यस्यानुषङ्गेण बाक्यभेदप्रतीतेः । सौभरे च शाखाभेदेन निधनाख्यान्तिमसामावयवाधारतया 'हीए ऊ ऊर्क' इत्यादीन्यक्षराण्यानातानि तदेव सौभर प्रकृत्य "हीषिति वृ- ष्टिकामाय निधनं कुर्यादू इति स्वर्गकामाय नित्यनाद्यकामा- य" इति श्रुतम् । तत्र वृष्टिकामादिशब्दानां फलपरत्वात् त- दुहेशेनैव हीषादयो गुणा विधीयन्ते । सोमरं च प्रकृतत्वा- धूपादिवदाश्रयः निधनाधारतया हीषादिपाठस्यैव नियामकत्वात 138 अधि. १३.] भादीपिकासहितम् भागान्तरे स्तोमाद्यक्षरान्तरबाधापत्तेश्च न निधनातिरिक्तभाग- स्याश्रयत्वापत्तिः । न च लाघवादृष्टिसाधनसौभरीयनिधने अ- नियमेन प्राप्तानां हीषादीनां नियममात्रकरणात् व्यवस्थार्थत्वं शङ्कयम् । तथात्वे कृष्टिकामादिपदैस्तत्तत्साधनीभूतसौभरल- क्षणाद्यापत्तेः । तस्य च निधनविशेषणत्वे विशिष्टोद्देशापत्तेश्च । अतस्सौभरफलात् फलान्तरार्थानि हीषादीनीति प्राप्ते- नियमायधिलाघवानुरोधेन दृष्टिकामादिपदैर्वृष्टिसाधनसौभ- रलक्षणामङ्गीकृत्यापि होपादिनियमविधिरेवाश्रीपते पक्षप्राप्तिश्च पाठानिधनस्थान एनेति नियमस्यापि तत्स्थानकत्वलाभः । व- स्तुतस्तु-नियमविधिलाघवानुरोधेन हीषादेवृष्ट्याद्यर्थव स्व- साधनसौभराधारत्वसम्बन्धेनाश्रीयत इति न लक्षणाऽपि । स- म्बन्धघटकीभूतं च सौभरं न सौभरत्वावच्छिन्नं अपि तु सौ- भरविशेष एव । शाखाभेदेन हि वचिद्विजातीयानि सौभराणि निधनान्तरयुक्तानि समानातानि । तत्र हीषः पक्षेऽप्यप्राप्तत्वात् न तस्य सौभरस्य सम्बन्धघटकत्वम् । अपि तु यजातीयसौ- भरे हीषादीन्यनियमेन समानातानि तजातीयस्यैव तत् । अ. तश्च वृष्ट्यर्थ निरुक्तसम्बन्धेन हीषेवेति नियभकरणात् सम्ब- न्धघटकीभूतसौभरे निधनान्तरल्यावृत्तिवत् विजातीयसौभरा. न्तरस्यापि वृष्ट्याद्यर्थत्वव्यावृत्तिसिद्धिः । अतश्च तनित्यप्रयो- गविषयमेव सम्पद्यत इति विवेकः ॥ १३॥ इति खण्डदेवकृतायां भाकीपिकायां द्वितीयस्य द्वितीयः पादः 140 पूर्वमीमांसादर्शनं. [अध्या. २. पा. ३. (१)-गुणस्तु ऋतुसंयोगे कर्मान्तरं प्रयोजये- संयोगस्याशेषभूतत्वात् ॥ १॥ एकस्य तु लिङ्ग- भेदात्प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात् ॥२॥ कृतिसाध्यत्वेनानिश्चितविधेयताकगुणप्रयोज्यभेदनिरूपणमेतत्पादार्थः । पूर्वपादे हि वाजिनादयो गुणाः पक्षद्वये निश्चितविधेयताका एव भेद- कत्वेन विचारिताः । अत्र तु रथन्तरसामकत्वादिः पूर्वपक्षे विधेयो गुणः सिद्धान्ते त्वविघेय इत्यनिश्चितविधेयताक इति रत्यिा द्रष्टव्यम् । ज्योतिष्टोमे-“थदि रथन्तरसामा सोमस्स्यादन्द्रवायवानान्ग्रहान्गृह्णीयात् यदि बृहत्सामा शुक्रानान्गृहीयात्" इत्याम्नातम् । येषु दारुपात्रेषु त- त्तद्देवताभेदेन सोमरसो गृह्यते ते ग्रहा ऐन्द्रवायवमत्रावरुणाश्विनादयः प्रातस्सवने गृह्यन्ते । तत्र रथन्तरसामत्वपक्षे ऐन्द्रवायवमादितः कृत्वा ते ग्रहा ग्राह्याः । बृहत्सामत्वपक्ष तु शुक्रमादितः कृत्वेति तदर्थः । तत्र गुणस्तु रथन्तरं साम यस्येति बहुव्रीही वर्तिपदार्थरूपो रथन्तरसा- मात्मको गुण अन्यपदार्थतयाऽवगतसोमक्रतुरूपविशेष्यसम्बन्धे सति क- र्मान्तरं प्रकृतज्योतिष्टोमाद्भिन्नमव कर्म प्रयोजयेत् गमयेत् कुतः संयोगस्य विशेपणसम्बन्धस्य अशेषभूतत्वात् विशेष्यभूताशेषवस्तु- व्याप्तत्वात् । तथा च 'शङ्खः पाण्डुरः' इत्यादी पाण्डुरत्वादेश्शङ्खत्वादि. रूपविशेष्यतावच्छेदकावच्छेदेन स्वायोगव्यावृत्त्या विशेषणत्वदर्शनात् प्रकृते च ज्योतिष्टोमे गायत्रादिसामान्तराणामपि सत्त्वेन अवच्छेदकावच्छेदेन रथन्तरसामान्वयस्याप्राप्ततया निमित्तत्वासम्भवात् केवलरथन्तरसाम्नः ऐ- न्द्रवायवाप्रतायाश्च विधाने वाक्यभेदात् तदुभयविशिष्टं क्रत्वन्तरमेवात्र विधीयते । प्राप्तिद्योतकस्याप्यत्र यदिशब्दस्य "यंदाग्नयः"* इत्यादौ य- . *तै. सं. २.१-१, अधि. १.] भाहदीपिकासहितम्. 141 दादिपदस्येव प्रमाणान्तरप्राप्त्यसम्भवादविवक्षितार्थकतेति भावः ॥१॥ सिद्धान्तमाह-तुश्शङ्काव्यावृत्त्यर्थः । एकस्य प्रकृतस्यैव ज्योतिष्टोमस्य क्रतोः लिङ्गभेदात् रथन्तरबृहदादिरूपाङ्गभेदेन ग्रहाग्रताविशेषरूपप्रयोजनभेद- सिद्धयर्थ “ यदि रथन्तरसामा" इत्यादिवाक्यं यदिशब्दघटितं उच्यत आरभ्येत । अतोऽस्मिन्वाक्ये अन्यपदार्थभूतस्य क्रतोः एकत्वं प्रकृ- तज्योतिष्टोमापेक्षया अभिन्नत्वमेव । गुणवाक्यत्वात् पूर्वकर्मणि स- म्भवनिवेशगुणवाक्यत्वात् । न च कृतकतावन्यपदार्थे रथन्तरसाम्नः गुणस्य विशेषणस्य विशेष्यतावच्छेदकव्यापकतया अन्वयासम्भवादसम्भव- निवेशतेति वाच्यं स्वावान्तरकार्यपृष्ठस्तोत्रावच्छेदन विशेष्यतावच्छेदक- व्यापकताया अपि सम्भवात् । क्रत्वन्तरविधिपक्षऽपि प्रोक्षणावघातादौ रथन्तरसामाद्यभावेन स्तोत्रावच्छेदेनैव विशेष्यतावच्छेदकव्यापकताया उ- पपादनीयत्वात् इति । प्रयोजनं तु पूर्वपक्षे ज्योतिष्टोमाङ्गभृतं सोप- यागान्तरं बृहन्मात्रसामकं रथन्तरमात्रसामकं च कार्यम् । सिद्धान्ते नेतिं । तथा ज्योतिष्टोमे रथन्तरसामत्वाभावेऽपि पाठप्राप्तन्द्रवायवाग्रतैव पूर्वपक्षे । सिद्धान्ते नेति ॥ २ ॥ ज्योतिष्टोमे “यदि रथन्तरसामा सोमस्स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद्यदि बृहत्सामा शुक्राग्रान्” इति श्रुतम् । तत्र यदिशब्दोपात्तस्य निमित्तत्वस्य न तावद्रथन्तरे बृहति वाऽन्व- यः तस्य विशेषणत्वेन वृत्त्यनहत्वात् । नाप्यन्यपदार्थे तस्य कादाचित्कत्वाभावात् । नापि विशिष्टे ज्योतिष्टोमे सामान्तरा- णामपि नियतत्वेनं बृहद्रथन्तरयोरन्ययोगव्यावृत्त्या विशेषणत्वा- सम्भवात् । ज्योतिष्टोमत्वावच्छेदेनायोगस्यापि व्यावर्तयितुम- शक्यत्वाच्च । अतस्समासार्थस्य केवलरथन्तरसामकत्वस्य प्र- कृते कर्मणि महाग्रतानिमित्तत्वेन निवेशायोगात् उभयविशिष्टं कर्मान्तरमेष विधीयते । यदिशध्वस्त्वविवक्षितार्थ इति प्राप्ते- 142 पूर्वमीमांसादर्शनं. [अध्या. २. पा.३. बृहद्रथन्तरयोयोतिष्टोमे पाक्षिकत्वात् स्वायोगव्यावृत्त्या परस्परायोगव्यावृत्त्या वा विशेषणत्वोपपत्तिः । न च ज्योति- टोमत्वावच्छेदेन तदभावः स्वावान्तरकार्यपृष्ठस्तोगत्वावच्छेदेन तदुपपत्तेः । अन्यथा तवापि साक्षाधागे मोक्षणाघातादौ तद- सम्भवावश्यम्भावात् । अतो युक्तैव रथन्तरयुक्तस्य फतोनि- मित्तता । वस्तुतस्तु-न क्रतोनिमित्तान्तर्भावः । प्रयोजनाभा- वात् । प्रकरणावगतकत्वङ्गत्वबलेनान्यपदार्थसम्बन्धस्यानुवाद- त्वात् अन्यथा ज्योतिष्टोमरूपान्यपदार्थस्य विकृतावभावेन शु. काग्रतादेरनापत्तेः । अतो लक्षणयाऽपि रथन्तरमेव निमित्त नै- मित्तिकं त्वग्रताविशेषः प्रकृतापूर्बसाधनीभूतग्रहोदेशेन यते च पाठादेवेन्द्रवायवाग्रत्वनियमस्य प्रास्तद्विधियर्थ्यम् । ततः पूर्वमेव नैमित्तिकतया विधानात् । तत्त्रयोजनं च निमि- ताभावे प्रकृतौ विकृती च लोपः । यद्यपि च सर्वत्र निमि- त्तस्य स्वसत्त्वे नैमित्तिकावश्यकत्वमानं प्रमेयं तथाऽपि तस्यात्र पाठादेव सिद्धस्तदभावे तदभाव एव प्रमेयं बोध्यम् । तस्मान्न कर्मान्तरविधिः ॥ १॥ (२)-अवेष्टौ यज्ञसंयोगात्ऋतुप्रधानमुच्यते॥३॥ राजसूयप्रकरण-" आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिण- न्मेकादशकपालमृपभो दक्षिणा वैश्वदेवं चरुं पिशङ्गो पष्ठाही द. क्षिणा मैत्रावरुणीमामिक्षां वशा दक्षिणा बाहस्पत्यं चरुं शितिपृ. टो दक्षिणा"* इति वायरवष्टिसंज्ञकेष्टयः पञ्च विहिताः । अत्रैका- वेष्टिसंज्ञायोगेऽपि उत्पत्तिवाक्ये प्रत्येकं दक्षिणाऽऽनानाद्दक्षिणायाश्च कर्नान त्यर्थत्वात्तद्भेदेन कर्तभेदप्रतीतेस्तद्भेदने च प्रयोगभेदावगतेरेकैकं कर्मा- *तै. सं. १-८-१९, अधि. २.] भादीपिकासहितम्. 143 प्रयन्वाधानादिवाह्मणतर्पणान्ताङ्गविशिष्टं भेदेनाजुष्ठेयमित्येकादश चतुर्थे 'अ- वेष्टौ चकतव्यं स्थालिङ्गदर्शनात इत्यत्र वक्ष्यते । तदेतदवेष्टयवा- न्तरप्रकरणे "यदि ब्राह्मणो यजेत चार्हस्पत्यं मध्ये निधायाहुतिमाहुति हुत्वा तमाभिधारयेद्यदि राजन्य ऐन्द्र यदि वैश्यो वैश्वदेवं " इत्याम्ना- यते । ब्राह्मणो यदि यजेत तदा पचानामप्येतेषां हविषां वद्यामासा- दने पञ्चमस्थांन पठितस्य , बार्हस्पत्यस्य तृतीयस्थान मध्यमे आसादनं कृत्वाऽवशिष्टहविषां प्रत्येक क्रमेणाहवनीये प्रक्षेपानन्तरं तबिम्संस्का- यपिस्तरणाभिघारणाज्यशेषेण जुहस्थेन बार्हस्पत्यस्य मध्ये · आसादित- स्थाभिघारणं कृत्वाऽन्ते तस्य होमः कर्तव्य इति ब्राह्मणवाक्यस्यार्थः। एवमितरयोरप्पी बोध्यः । वैश्यवाक्ये स्वत एव वैश्वदेवस्य तृती- यस्थाने पठितत्वात्तेनव मध्ये निधानप्राप्तः मध्ये निधानविधिनित्यानुवादः । तदत्र पूर्वाधिकरणन्यायेन यदिशब्दबलात् ब्राह्मणकर्तका निमित्ते नैमित्तिकं मध्ये निधानं विधीयते इति वहिः पूर्वपक्षे सिद्धान्तमाह- अवेष्टौ अवेष्टिसन्निवौ पठितमुदाहृतं वाक्यं क्रतुप्रधानं ब्राह्मणा. दिकर्तविशिष्टापूर्वक्रतुप्रयोगविधिपरं उच्यते न्यायविद्भिः कुतः यशसं- योगात् यज्ञे राजसूयाख्ये क्षत्रियस्याधिकारितया सम्बन्धात् “राजा राजसूयेन स्वाराज्यकामो यजेत " इरान राजपदस्य क्षत्रियरूढस्य श्रुतेः । तथा च राजसूयाङ्ग भृतायाणवेष्टौ ब्राह्मणवैश्ययोः कर्वतयाऽप्रा- तलान् निमित्ततया तदनुवा दायोगेन विधेयत्वावश्यकत्वात्प्राप्तयागानुवादेन बामणादिकर्तृत्वरूपानेकगुणविधौ वाक्यभेदापतेाह्मणादिकर्तृत्वरूपात्पूर्वत्रा- निविशमानात्प्रयोगान्वयिगुणात्प्रयोगदः "एतयाऽन्नाद्यकामं याजयेत् " इति विनियोगावगतफलार्थ पहिःक्रतु विधीयत इति स्वीकार्यमिति भावः ॥ ३ ॥ राजसूये राजकर्तृके प्रत्येकदक्षिणाम्नानात् अवोष्टसंशकाः पञ्चे- पृयः पृथक्प्रयोगास्समानाताः । तदवान्तरप्रकरणे 'यदि ब्राह्म- 144 पूर्वमीमांसादर्शनं. [अध्या. २. पा. ३. णो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुति हुत्वाभिघार- येत् यदि राजन्य ऐन्द्रं यदि वैश्यो वैश्वदेवं' इति श्रुतम् तत्रापि पूर्ववत् ब्राह्मणकर्तृकत्वादि निमित्तमेव प्रदिशब्दश्रुतेः । राजसूयस्य त्रैवर्णिकर्कर्तृकत्वेन ब्राह्मणादेः प्राप्तत्वाच्च । राज- शब्दस्य प्रजापालनकर्तरि सर्वलोकप्रसिद्धः क्षत्रियमात्रे द्र- विडप्रसिद्धस्तु म्लेच्छप्रसिद्धत्वेनासाधकत्वात् । व्याकरणप्रसिद्ध- स्तन्मूलकत्वेनानियामकत्वाच । सर्वलोकप्रसिद्धेश्श्रीतयादिश- ब्दमूलकत्वाच्च । अतो ब्राह्मणादिकर्तृकत्वे निमित्ते मध्ये निधान- पूर्वकप्रत्याहुत्यभिधारणविशिष्टपञ्चहविष्कैकोष्टप्रयोगो राजसू. यान्तर्गतो विधीयते प्रत्येकप्रयोगाश्च पञ्चानुलोमविषया इति बो. ध्यम् । एतयाऽन्नाद्यकामं याजयेत्' इत्यनेन चोभयोरपि नित्यनैमि. त्तिकप्रयोगयोः फलार्थ बहिःकत्वनुष्ठानमिति न ब्राह्मणादिगु- णस्य भेदकत्वमिति प्राप्ते- 'राजानमभिषिश्चेत्' इति श्रुतौ राजोद्देशेनाभिषेकविधाना- दभिषिक्ताधिकारिकराज्ययोगात्पूर्वमेव राजशब्दस्य क्षत्रियत्ववा- चित्वप्रतीतेः 'तस्य कर्मणि' इत्यधिकृत्य ‘पत्यन्तपुरोहितादिभ्यो यक् इति स्मृत्या पुरोहितादिगणपठितात् राजशब्दात् यगादिविधा- नेन च राजशब्दस्य राजशब्दप्रसिद्धिपूर्वकत्वावगतेविडप्रयो- गानुसारेण राजशब्दः क्षत्रियवचन एव । अतश्चावेष्टौ ब्राह्मणा- दीनां प्राप्त्यभावात् विधेयत्वावगतेः कर्तृरूपाद्गुणात् अवेष्टिप्रयो- गान्तरमेव पञ्चहविष्कैकेष्टिरूपं समस्तगुणविशिष्टं बहिःक्रतु वि- धीयते । तस्य चोक्तवचनेनान्नाद्यं फलम् ।. अन्तःक्रतो प्रत्येक पञ्च प्रयोगा एव । यद्यपि च पूर्वपक्षसिद्धान्तयोः पञ्चहविष्कैके- ष्टिप्रयोगस्तुल्यः । तथाऽपि ब्राह्मणादिगुणस्य पूर्वपक्षे न भेदकत्वं तु आधि.३.] भादीपिकासहितम्. 145 सिद्धान्ते तु तदिति विशेषः । तत्प्रयोजनं पक्षद्वयोपपादनेनै- वोक्तम् । न चैवं राजन्यवाक्ये तस्य प्राप्तत्वात् विधेयत्वाभावेन भेदकत्वानापनिः । राजन्यपदस्याभिषिक्तानभिाषक्तक्षत्रियमात्रवा- चित्वेन राजसूयेप्राप्तस्यैव तस्य विधेयतया भेदकत्वोपपत्तेः । राजसूये हि राजपदस्य क्षत्रियमात्रशक्तस्यापि राजेत्येतानभिषिक्ता- नाचक्षते' इति निरूढलक्षणातात्पर्यग्राहकाल्लिङ्गादभिषिक्तक्षत्रियस्यै- वाधिकारः । अतस्सिद्धं त्रिष्वपि वाक्येषु कर्तृरूपस्य गुणस्य प्रयोगभेदकत्वम् । यदिशब्दश्च 'अभिघारयेत् ' इति लिङः प्रयो- ज्यत्वापरपर्यायहेतुमदर्थकत्वे आख्यातद्वयैकवाक्यत्वे च तात्पर्य- ग्राहकः । तेन मध्ये निधानपूर्वकप्रत्याहुत्यभिधारणप्रयोजकीभूतै- ाह्मणादिकर्तृकैर्यागैरिष्टं भावयेदिति वाक्यार्थो बोध्यः ॥ २ ॥ (३)-आधाने सर्वशेषत्वात् ॥ ४ ॥ "वन्ते ब्राह्मणोऽमानादधात ग्रीष्मे राजन्यः शरदि वैश्यः " इति वाक्ये ब्राह्मणादिषु निमित्तेषु वसन्तादिकालस्य आधाने विधिः । पूर्वाधिकरणीयावेष्टिवाक्ये ब्राह्मणादेः प्राप्त्यसम्भवेन निमित्ते नैमित्तिक- विधानासम्भवेऽपि सर्ववर्णसाधारणस्वर्गकामनावदाधकारिकक्रत्वङ्गभूताग्निसा- धनभूते आधाने सर्वेषामपि वर्णानामर्थप्राप्ततया निमित्ततया तदनुवादन नैमित्तिकविधानसम्भवादिति बहिःपूर्वपक्षे सिद्धान्तमाह-आधाने आधानविषयक “वसन्ते” इत्यादिवाक्यमपि ब्राह्मणादिवर्णवसन्तादिका- लोभय विशिष्टाधानादिपरमेव ; न गुणप्रधान असर्वशेषत्वात् सर्वस्य ब्राह्मणादिवर्णवसन्तादिकालतदुभयस्य शेषतया विधानासम्भवात् । कि ब्राह्मणादिवर्णे निमित्ते कालविधानं किं वा काले निमित्ते ब्राह्मणादिकर्तृ- विधानमिति विनिगमनाविरहादुभयोः प्रत्येक विधानासम्भव इति भावः ॥४॥ P.M-19 146 , पूर्वमिमांसादर्शनं. अध्या. २. पा. ३. "वसन्ते ब्राह्मणोऽनीनादधीत । ग्रीष्मे राजन्यः। शरदि वैश्यः” इति श्रुतम् । तथा-"वसन्ते ब्राह्मणमुपनयीत । ग्रीष्मे राजन्यम् । शरदि वैश्यम्" इति च । तत्र सर्ववर्णसाधारणानां क्रतूनामग्निविद्यासाध्यत्वात् अग्नेश्च उपायभूतस्याधानस्य “य एवं विद्वानग्निमाधत्ते" इत्यनेनानन्याक्षिप्तशक्तिकेन अग्न्युद्देशेनाधान- विधायिना प्राप्तत्वादाधाने ब्राह्मणादीनां प्राप्तेनिमित्तार्थ श्रवणम् । ब्राह्मणकर्तृकत्वे निमित्त वसन्तः काल आधानाङ्गत्वेन विधीयते। अथवाऽस्त्वेतस्य ' अथ सम्भारान् सम्भरति' इति विध्यन्त- रशेषस्य वर्तमानापदेशता । तथाऽपि सम्भारेष्वनिमादधाति इत्ययमाधानप्रापको विधिः । अत्र हि न सम्भारा विधेयाः, प्रमाणान्तरप्राप्तत्वात् । नापि तदधिकरणत्वं तस्मिन्नाधीयता- मयम्' इति मन्त्रवर्णादेव प्राप्तत्वात् । अत आधानमात्रविधि- परम् । अथवा - प्राप्ताधानानुवादेन कालविधेः आत्मनेपदार्थस्य अनाधातुराहवनीयत्वाभावरूपस्य च विधिरिति वाक्यभेदापत्तेः 'जातपुत्रः कृष्णकेशोऽग्रीनादधीत' इत्ययमाधानप्रापको विधिः। उक्तवाक्ये तु अभ्युदयशिरस्कतया मन्त्रवर्णात्पूर्वमेवाधिकरण- त्वविधिः । एवं च-जातपुत्रवाक्ये वयोवस्थाविशेषलक्षणापि नापद्यते । सर्वथा आधानमानिमित्तार्थानि ब्राह्मणादिश्रवणानि न भेदकानि । तथा विद्यासाधनतया अध्ययन तत्साधनत्वेनी. पनयन चार्थासम् । अध्ययनस्य तु "स्वाध्यायोऽध्येतव्यः"* इत्यनेन नियमोऽपि । अतस्सर्वसाधारण्येन प्राप्तोपनयनोद्देशेन ब्राह्मणकर्तृकत्वे निमित्ते वसन्तः कालो विधीयते इति प्राप्ते- सर्वकर्तृत्ववत् सर्वकालकत्वस्याप्याधानादौ प्राप्तिसम्भवेन प्राह्मणककत्वे निमित्ते कालविधिः काले वा निमित्ते कर्तृवि- * ते. भा. १.१५. .
अधि. ४.] मादीपिकासहितम्, 147 धिरित्यत्र बिनिगमनाविरहात् उभयविशिष्टाधानविधिरेव । उप- नयनस्य च पक्षेऽप्यसम्भवत्प्राप्तिकत्वेन सुतरां विध्युपपत्तिः । अत एव-विनिगमनाविरहात् कर्तृकालादिरूपस्य प्रयोगान्वयिगुणस्य प्रयोगविध्यापादकत्वावश्यम्भावे एतद्विधिविहितप्रयोगानुवादेनैव जातपुत्रादिवाक्येषु वयोऽवस्थाविशिष्टकर्तृविधिः । आत्मनेपदा- र्थस्य चोत्पत्त्यायन्वयिनो गुणस्य श्रवणात् उत्पत्त्यादिकमप्य- त्रैव; न तु जातपुत्रादिवाक्ये वाक्यभेदापत्तेः । प्राथम्यादा ब्राह्मणवाक्य एवोत्पत्त्यादि । इतरयोस्तु प्रयोगमात्रम् । तेन सिद्धोऽत्रापि गुणात्प्रयोगभेदः । एतयोश्चाधानापनयनयोराग्निवि- द्याफलकत्वेपि अकरणे प्रत्यवायादिश्रवणान्नित्यत्वमपि । एवं च स्वविधिप्रयुक्ताधानोपनयनजन्याग्निविद्यालाभे क्रतुविधयः नाग्नि- विद्ये तदुपायान्वा प्रयुञ्जत इति न तद्रहितम्य शूदादेरधि- कार इति प्रयोजनं षष्ठे वक्ष्यते ॥३॥ (४)-अयनेषु चोदनान्तरं संज्ञोपबन्धात् ॥५॥ अगुणा च कर्मचोदना ॥६॥ समाप्तं च फले वाक्थम् ॥ ७ ॥ विकारो वा प्रकरणात् ॥८॥ लिङ्गदर्शनाच ॥ ९॥ गुणात्संज्ञोपबन्धः॥१०॥ समाप्तिरविशिष्टा ॥११॥ " साकंप्रस्था- अयनेषु “दाक्षायणयज्ञेन यजेत प्रजाकाम: यीयेन यजेत पशुकामः सङ्कमयज्ञेन यजेतानाद्यकामः" इत्यादिषु दर्शपौर्णमासप्रकरणानातवाक्येष्वपि अयनपदोपलक्षितेषु पूर्वाधिकरणनयेन "* तै. सं. २-५-४.
" 148 पूर्वमामासादर्शनं. [अध्या. २. पा... चोदनान्तरं प्रकृतात्कर्मणोऽन्यस्य कर्मणो विधायकं स्यात् न गुणस्य कुतः संशोपबन्धात् दाक्षायणयज्ञ दिसंज्ञानां कर्मसमानाधिकरणानां तत्तद्वाक्ये आनान.त् । तत्तत्पदानां गुणे अप्रसिद्धलेन तत्तत्पदानां गुणविधिपरत्वानुपपत्तेः ॥ ६॥ अगुणा अगुणा ' असम्भवद्गुणचोदनारूपा च चोदना कर्मचोदना एव । अयंभावः-दाक्षायणपदार्थस्व लाक- कगुणस्याप्रसिद्धत्वेऽपि दक्षस्य यजमानस्यमे दाक्षाः ऋत्विजस्तेषामयनं प्रयोगावृत्तिः दाक्षायण इत्येवमवयवव्युत्पत्त्यवगतः आवृत्तिरूपो गुण एव फलाय विधीयत इति न वाच्यम् । "द्वे पौर्णमास्यौ द्वे अमावास्ये इत्यादितस्तादृशगुणस्यापि प्रकृतकर्मणि प्राप्तिसम्भवेन गुणधात्वर्थयोरुभयो- रपि प्राप्ती भावार्थाधिकरणन्यायेन विशिष्टधावर्थस्यैव फलसम्बन्धोपपत्ते- रिति ॥६॥ फले प्रकृतकर्मण: फलसम्बन्धबोधकमपि वाक्यं "सर्नेभ्यो दर्शपूर्णमासौ" इत्यादिकं समाप्तं च अवगतमेव ततश्च दाक्षायगवाक्यस्थ प्रकृते कर्मणि फलसम्बन्धपरताया अप्यसम्भवादनन्य- परपुनश्श्रवणरूपादभ्यासादपि कर्मभेदोऽत्र सुलभ इति ॥ ७॥ सिद्धा- न्तमाह - उक्तवाक्येषु दाक्षायणादिपदवाच्यः आवृत्त्यादिर्गुणः विकारो वा नित्यगुणविकार एव फलार्थ विधीयते प्रकरणात् अधिकाराख्य- प्रकरणानुग्रहात् । अपूर्वकर्मविधा दर्शपूर्णमासाधिकारबाधापत्तेः ॥ ८ ॥ लिङ्गदर्शनाच "त्रिंशद्वर्षाणि जीर्णो दर्शपूर्णमासाभ्यां यजेत यदि दाक्षायणयाजी स्यात् अथोपि पञ्चदशैव वर्षाणि यजेतात्रव ह्येषा स- म्पत्सम्पद्यते द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत" इत्यत्र यावजीव- पक्षानुकल्पतया त्रिंशद्वर्षपक्षमुक्त्वा तदनुकल्पत्वेनापि दाक्षायणयाजिनः पञ्चदशवर्षपक्षमुपदिश्य तदर्थवादे तावतव या त्रिंशद्वर्षसाध्यप्रयोगाप्ति- रुच्यते तादृशस्य लिङ्गस्य दर्शनादपि दाक्षायणयज्ञवाक्ये फलायगुणवि- धानं स्वीकार्यम् । तथा च सति "द्वे पौर्णमास्या" इत्यादी गुण- वाक्ये पौर्णमास्यादिप्रधानसम्बन्धितया श्रुताऽपि द्विरावृत्तिः फलवाक्ये आधि.४.] मादीपिकासहितम्, 149 दक्षयजमानसम्बन्धिऋत्विक्सम्बन्धिलेन श्रवणात् दर्शपूर्णमासप्रयोगा. श्रिोति विज्ञायते । अतश्च फलार्थमपि सन्ततफलकामेन काकताळी- यन्यायेन पञ्चदशवर्षपर्यन्तं द्विरावृत्ति दर्शपूर्णमासप्रयोगानुष्टाने तावतैव त्रिंशद्वर्षसाध्यप्रयोगसङ्खयांसम्पत्तेः पञ्चदशवर्षपक्षस्तुतिरुपपन्ना भवति । अपूर्वकर्मविधानस्वीकारे तु तस्याऽऽवृत्तत्वेन ज्योतिष्टोमविकारलात् दर्शपू- र्णमासविकारत्वेऽपि वा पञ्चदशवर्षपर्यन्तमावृत्तावेव प्रमाणाभावात्तदसङ्ग- तिस्स्पष्टवीत ॥ ९ ॥ गुणांत् दक्षयजमानसम्बन्धिकलिकर्तकावृत्ति- रूपगुणनिमित्तकः संशोपबन्धः दाक्षायणयज्ञसंज्ञानिवन्धः तत्पदस्य क. मणि योगरूढतया संज्ञात्वेऽपि तद्बोध्यावृत्तेः फले विधी न किञ्जिद्वा- धकम् । एवं साकंप्रस्थायः सप्रस्थानं तत्सम्बन्धी यागः साकंप्रस्था- यीयः इति व्युत्पत्त्या सहत्वमेव फलाय विधीयते । तस्य चाश्रयाकां- क्षायां “आज्यभागाभ्यां प्रचर्याग्नयेन च पुरोडाशेनाग्नीधे खुची प्रदाय सह कुम्भाभिरभिकामेत् " इति वाक्यान्तरणाभिक्रमण सानाय्यहोमाङ्गभू- तमाश्रयत्वेन सम्बध्यते । एवं सङ्कमवाक्येऽपि लोकप्रसिद्धथैव सङ्कमणे फलार्थ विहिते किमर्थ केत्यपेक्षायां भवेदेव निनोनतवचनवशेन आह. वनीयदेश इत्यवगम्यते इति ॥ १० ॥ समाप्तिः फलप्राप्तिः प्रधाना- दिव गुणादपि दध्यादिरूपात् अविशिष्टा दृश्यत इति फलायगुण- विधावत्र न किश्चिद्वाधकमिति ॥ ११ ॥ दर्शपूर्णमासयोः “दाक्षायणयज्ञेन स्वर्गकामो यजेत"* इति श्रुतम् । तथा “साकंप्रस्थायीयेन यजेत पशुकामः" इति च । तत्र दाक्षायणादिपदवाच्यस्य गुणस्य लोके अप्रसिद्धत्वात् उद्भिदा. दिवन्नामधेयत्वावगतेस्संज्ञया अभ्यासाद्वा कर्मान्तरं विधीयते फलसम्बन्धस्यापि सार्वकाम्यवाक्यवशादेव प्राप्तत्वेनान्यपरत्वा- भावादिति प्राप्ते- *ते. सं. २.५-५. तै. सं. २-५-४.
160 पूर्वमीमांसादर्शनं. अध्या. २. पा. अभिधीयते-यद्यपि लोके गुणो न प्रसिद्धः तथापि द- क्षस्य यजमानस्य इमे दाक्षाः ऋत्विजः तत्कर्तृकं अयनं प्रयो- गावृत्तिर्यस्य यशस्येति व्युत्पत्या आवृत्तिपरत्वावगतेः सह प्रस्थानं यत्रेति व्युत्पत्या च सहत्वपरत्वावगते तिरिक्तशक्ति- कल्पनया नामधेयत्वाध्यवसानम् । अतोऽप्राप्तावृत्तिरूपः सह- त्वरूपश्च गुण पत्र फलोद्देशेन विधीयते । आवृत्तिश्च किय- तीत्यपेक्षायां 'दू पौर्णमास्यौ द्वे अमावास्ये यजेत' इति वाक्येन विशेषविधानात् द्विरावृत्तिरेव । सहत्वं च प्रस्थाने केनेत्यपे क्षायां ‘सह कुम्भीभिरभिक्रामेत्' इति वचनात् कुम्भीभ्याम् । अनेनैव च वचनेन सहत्वाश्रयत्वमभिक्रमणस्य विदधता अवा- न्तरप्रकरणाभावेपि तस्याश्रयत्वसिद्धिः । आवृत्तेस्तु प्रकरणादर्श- पूर्णमासावेवाश्रयः । अतोऽत्र संज्ञात्वाभाषात् शुणफलसम्बन्धप- रत्वेन चाभ्यासाभावान कर्मान्तरम् । वस्तुतस्तु-'पूर्वपदात्सं- शायामगः' इति स्मृत्या संशात्वाभावे णत्वानापत्तेक्षायणयश. पदे संशात्वावश्यम्भावेऽपि अषयवार्थप्रतीत्या योगरूढिस्वीका. रादवयवार्थरूपावृत्तिरप्राप्तत्वात् फलोद्देशेन विधीयत इति न विरोधः ॥४॥ (५)-संस्कारश्चाप्रकरणेऽकर्मशब्दत्वात् ॥ १२ ॥ यावदुक्तं वा कर्मणश्श्रुतिमूलत्वात् ॥ १३ ॥ यजतिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्मस- म्बन्धात् ॥ १४॥ लिङ्गदर्शनाच्च ॥ १५॥ अप्रकरणे प्रकरणविशेषे अपठिते 'अनारभ्याधीते "वायव्यं श्वेतमालभेत"* इति वाक्ये “ सौर्य चरु निर्वपेत् ब्रह्मवर्चसकामः *ते. सं. २-१-१, .
अघि. ५.] भाहदीपिकासहितम्. 151 इति वाक्ये च संस्कारश्च च संस्कारश्च “ ईषामालभेत " चतुरो मुष्ट निर्व- पति " इति दार्शपौर्णमासिकप्रकरणपठितेषालम्भचतुर्मुष्टिनिर्वापादि- रूपसंस्कार, एव अद्यते श्वेतत्वादिगुणविधानाय । न त्वत्र यागाख्यं कर्म विधीयते । कुतः अकर्मशब्दत्वात् यागरूपकर्मबोधकशब्दरहि- तत्वात्तद्वाक्यस्यं ॥ १२ ॥ पक्षान्तरमाह पूर्वपक्षी-चावदुक्तं वा श्वेतद्रव्यालम्भरूपं धातूक्तमेव विधीयतेऽत्रेति स्वीकर्तुमुचितम् । कुतः क- भणः आलम्भादिरूपस्य श्रुतिभूलत्वात् पदश्रुतिमूलकविधिशक्तिसङ्का- न्तिकत्वात् । पदश्रुला हि विधिशक्तिर्धात्वर्थ एव सङ्कामति । उप- पदार्थे श्वेतत्वादौ विधिसङ्कमे च पदश्रुतियाधस्स्यादिति ॥ १३ ॥ सि. द्धान्तमाह-यजतिस्तु आलभत्यादिलक्षितो याग एवात्र अर्थकर्मतया विधीयते । कुतः? द्रव्यफलभोक्तृसंयोगात् तद्वितोपाराव्यस्य भो- तुर्देवतायाः तद्वितप्रकृत्युपात्तायाः फलस्य भूतिकामादिपदोपात्तस्य च संयोगात् सम्बन्धात् । एतेषां द्रव्यफलभोक्तृणां कर्मसम्बन्धात् कर्मण्येव सम्बन्धसम्भवात् । तथा च वायव्यमित्यादि तद्धितोपात्तद्र- व्यदेवतासम्बन्धस्य यागमन्तरा असम्भवात् याग एवात्र लक्षितो वि- धीयते नालम्ममात्रम् । भूतिकामादिफलपदश्रवणाच न श्वेतत्वादिगुणविधिः प्रथमपक्षोक्त इति ॥ १४ ॥ लिङ्गदर्शनाच्च “सोमारौद्रं घृते चहें निर्वपेत् "* इति प्रक्रम्य "परिश्रिते याजयेत् "* इति गुणविधिपरे वाक्ये यजिश्रवणरूपस्य लिङ्गस्य दर्शनादपि यजिरहितेऽपि निर्वपत्यादिवाक्ये लक्षितो यागो विधीयत इत्यवगम्यते अन्यथा गुणवाक्ये यागानुवादानुपप- त्तरिति ॥ १५॥ 'ईषामालभेत" चतुरो मुष्टीनिर्वपति" इत्येताभ्यां वि. हितयोदर्शिपूर्णमासिकयोरीषा लम्भचतुर्मुष्टिनिर्वापयोरनुवादेन अ- नारभ्याधीताभ्यां वायव्यं श्वेतमालभेत भूतिकामः' 'सौर्य च *तै. सं. २.२.१०. +तै. सं. २-१-१, 152 पूर्वमीमांसादर्शनं. [अध्या. २. पा... निर्वपेत् ब्रह्मवर्चसकामः' इत्येताभ्यां श्वेतचरुगुणौ विधीयेते- आलम्बकर्मीभूता ईषा श्वेता कर्तव्येति निर्वापः चरुशब्दलण्य- स्थाल्या कर्तव्य इति । सर्ववृक्षाणां च वायुसम्बन्धात् वाय. व्यमित्यनुवादः । सौर्यमिति चाग्नेयस्यैव तेजोदेवत्यत्वसामान्यात् । न तु देवताविधिः । यागाश्रवणात् । उभयत्रापि फलपदं सा. काम्यवाक्यप्राप्तफलप्रयोजकत्वानुवाद इति प्रथमः पक्षः। द्वि- तीयस्तु फलपदवैयर्थ्यप्रसङ्गात् प्राकरणिकाश्रयालाभेन च गुण- फलसम्बन्धानुपपत्तेर्गुणविशिष्टं यावदुक्तमालम्भनिर्वापाख्यं कर्मा- न्तरमेव फलोद्देशेन विधीयत इति ॥ सिद्धान्तस्तु-वायव्यं सौर्य इत्यादितद्धितान्तपदवैयाप- त्तेः द्रव्यदेवतासम्बन्धानुमितो याग एवालभतिनिर्वपतिधा- तुलक्षितो द्रव्यदेवताविशिष्टः फलोद्देशेन विधीयत इति । अति. देशप्राप्तौ चालम्भनिर्वापो न विधीयते ॥५॥ (६)-विशये प्रायदर्शनात् ॥ १६ ॥ अर्थवादोप- पत्तेश्च ॥ १७॥ विशये अग्निहोत्रप्रकरणानाते "वत्सभालभेत"* इत्यादी याग- विधिपरत्वालम्भरूपसंस्कारविधिपरत्वाभ्यां सन्देहे सति प्रायदर्शनात् संस्कारविधिबहुले सन्दर्भ पाठदर्शनात् संस्कारविधिरित्येव निीयते यथा अप्रयप्राये लिखितोऽप्रय इति निर्धार्यते । इदमुपलक्षणं-द्रव्यदेवतास. म्बन्धपरतद्धिताद्यभावादित्यपि बोध्यम् ॥ १६॥ अर्थवादोपपत्तेच वत्सनिकान्ता हि पशवः” इत्येतस्य वसे नितरां कान्ताः अ- भिलाषिणः पशव इत्यर्थपास्य तदुत्तरपठितार्थवादस्योपपत्तेरप्ययं संस्कार " सं....
153 आधि...] भादीपिकासहितम. विधिः । पशूनां वत्सप्रियत्वात्समीपधारणफलस्पर्शेन अग्निहोत्रदोहनाङ्गभू- ताया गोः प्रस्रवणं जायत इति स्तुतिरर्थवादोपात्ता आलम्भविधित्वे सत्युपपद्यते. न यागविधित्वे । तदानीं तु वत्सविशसनात् पशूनां वत्सप्रि. यत्वोक्तिरनुपयोगिन्येवेति ॥ १७ ॥ यत्र तु न देवताश्रवणं तत्र न यागकल्पना अपितु संस्का- रमात्रविधानम् । यथा-अग्निहोत्रे 'वत्समालभेत' इत्यत्र आल. म्भमात्र वत्ससंस्कारकत्वेन विधीयते । आलभतेः स्मर्शमात्र- वाचित्वात् ॥६॥ (७)-संयुक्तस्त्वर्थशब्देन तदर्थवश्रुतिसंयोगात् ॥ अग्निचयनप्रकरणे “नैवारश्वरुभवति । बृहस्पतेर्वा एतदन्नम् । यत्री- वाराः "" इत्यनन्तरं “चरुमुपदधाति " इत्यान्नात वाक्ये अर्थशब्देन स्थलनिष्पत्तिरूपार्थोन्नायकन शब्देन उपदधातिना संयुक्तस्तु चरुः त. दर्थः स्थलनिष्पत्त्यर्थ एव न यागार्थः । कुतः? श्रुतिसंयोगात् तादृशप्रयोजनोनायकशब्दसंयोगस्य श्रौतत्वात् । यागपरशब्दस्याभूयमाण- त्वादिति ॥१८॥ अग्नौ श्रूयते 'चरुमुपदधाति बृहस्पतेर्वा एतदनं यन्नीवाराः' इत्यत्र यजमानस्यान्नं बृहस्पतेः कथं स्यात् यदि न बृहस्पति- देवता इत्यर्थात् बृहस्पतेर्देवतात्वावगतेः । तैत्तिरीयशाखायां 'बार्हस्पत्यो भवति' इति तद्धितपदयुक्तवाक्यशेषश्रवणाञ्च द्रव्यदे- पतासम्बन्धानुमितयागविधानमेवेदम् । तस्य चौषधद्रव्यकत्वेन आनेयातिदेशतस्स्विष्टंकृदादिप्रतिपत्तिप्राप्तौ 'चरुमुपदधाति' इत्य- नेनोपधानं प्रतिपत्तित्वेन विधीयत इति प्राप्ते- तै, मा. १.१-७ ४-20 - 1. सं. ६-६६ .
164 पूर्वमीमांसादर्शनं. [अध्या. २. पा... यद्यपि तैत्तरीयशाखायां तद्धितश्रवणं तथापि विध्यभावात् विध्यन्तरैकवाक्यत्वभङ्गापत्तश्च नायं देवतातद्धितः । 'चरुमु- पदधाति' इत्यनेन च स्थण्डिलनिष्पादकचरुसंस्कारकतयोपधा- नविधानाइवतानाकाङ्कतया नार्थवादोन्नीतस्यापि देवताविधेः कल्पनम् । अत एव चर्वपेक्षितप्रकृतिद्रव्यस्यैव नीवाररूपस्य विधिकल्पनम् । अतश्च बृहस्पतेाह्मणस्यान्नं नीवार इत्येवं स्तुत्युपपत्तेः न बृहस्पतेर्वा इत्ययं देवताकल्पनद्वारा यागकल्प- क इति सिद्धम् ॥७॥ (6)-पानीवते तु पूर्वत्वादवच्छेदः ॥ १९ ॥ पानीवते तु "वाष्ट्रं पानीवतमालभेत" इत्येतदनन्तरमानाते "पर्यनिकृतं पानीवतमुत्सृजति "" इति वाक्ये तु पूर्वत्वात् त्वाष्ट्रया- गस्य पूर्ववाक्यावगततयाऽत्रापि प्रत्यभिज्ञायमानत्वात् तदनुवादेन पर्यग्नि- कृतपदार्थपर्यमिकरणान्ताङ्गकलापस्य गुणस्यैव विधिरिति पर्यनिकरणोत्तरा- झानां अवच्छेदः व्यवच्छेदो निवृत्तिः । न तु पुनरत्र वाक्ये पत्नीवदेवताकगुणेन पत्नीवद्देवताकयागान्तरविधानमिति ॥ १९ ॥ 'त्वाष्टं पानीवतमालभेत' इत्यनेन द्रव्यदेवताविशिष्टं यागं विधाय 'पग्मिकृतं पानीवतमुत्सृजति* इति श्रुतम् । तत्रोभय- देवत्यस्य पूर्वयागस्य ' आग्नेयं चतुर्धा करोति' इतिवत् केवल. पानीवतपदेनानुवादायोगात् पर्यनिकरणादेश्च विधेयस्य गुण स्थ अतिदेशेनैव प्राप्तत्वात् इतराङ्गपरिसङ्ख्यायां च त्रैदोष्याप- सेः पर्यधिकृतपदस्यानुवादत्वमङ्गीकृत्य कर्मान्तरविधिरेवायमिति माते- * तै. सं. ...
156 भाष...] भावीपिकासहितम्. प्रत्यभिज्ञानात्न कर्मान्तरम्। न चानुवादानुपपत्तिःसत्यप्यनीषो- मादिवत्त्वष्टपत्रीवतोर्व्यासज्यवृत्तिदेवतात्वे मनोतास्थानिशब्दवत् लक्षणयाभिधानोपपत्तेः। वस्तुतस्तु-पृथक्तद्धितश्रवणात् देवता- यमेवेदम् । एकवाक्योपादानाञ्च समुच्चयः । अतो डित्थडपित्थयो- माताडित्थमाता इतिवत् शक्यत एव केवलेन पानीवतपदेनानुवादः। अतः पूर्वकर्मानुवादेन गुण एव विधीयते । न च विधेया- भावः । वृत्तपयनिकरणत्वस्यैव क्तप्रत्ययान्तार्थस्य विधेयत्वात् । तस्य च गृहमेधीयाज्यभागन्यायेन प्राकृतस्यैवातिदेशतः पूर्वप्र- वृत्या विधेयत्वात् क्लुप्तोपकारकत्वेन च तेनैव नैराकाङ्यात् अतिदेशाकल्पननोत्तराङ्गानामर्थादेव निवृत्तौ त्रैदोष्यानापत्तेः । वृत्तपर्यग्निकरणत्वस्य च पूर्वाङ्गेष्वकृतेष्वसम्भवात्तान्याक्षिप्यन्ते। न च क्तप्रत्ययबलेन प्रमाणान्तरप्रमितत्वावगमात् अतिदेशा- प्रतिबन्धकत्वम् । 'प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति' इत्यादी प्रमाणान्तराभावेप्येतद्विधिविधेयस्यापि क्तप्रत्ययेनोपात्तत्वेन बाध- काभावात् ॥८॥ (९)-अद्रव्यत्वात्केवले कर्मशेषस्स्यात् ॥ २० ॥ केवले प्रकरणविशषरहिते अनारभ्याधीते "एष ह वै हविषा हविर्यजति योऽदाभ्यं गृहीत्वा सोमाय जुहोति परा वा एतस्यायुः प्राण एति योऽशं गृह्णाति" इति वाक्ये अद्रव्यत्वात् द्रव्यस्य त- दुपलक्षितदेवताया वा ग्रहण एवान्वयेन यागे तदन्वयाभावात् ग्रहण- मेव विधीयमानं कर्मशेषः कर्मणो ज्योतिष्टोमस्य अङ्गभूतं स्यात् न पुनस्तत्र यागस्य ज्योतिष्टोमाजभूतस्य विधिः । तत्रादाभ्यग्रहणस्य तै, स. ३.३.४, तै. सं. ६-६.१ तै.सं. ६-६.१०.
. 106 पूर्वमीमांसादर्शनं. [अध्या..१. पा... अंशुग्रहणस्य च ज्योतिष्टोमाङ्गत्वं ज्योतिष्टोमप्रकरणानातेन "देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा अदाभ्ये छन्दांसि सवनानि समस्थापयन्ततो देवा अभवन्परासुरा यस्यैवं विदुषोऽदाभ्यो गृह्यते" * इत्यादिगक्येन "देवा वै प्रबाहुग्ग्रहानगृह्णत स एतं प्रजापतिरंशुम- पश्यत् तमगृहीत "+ इति वाक्येन च बोध्यम् ॥ २०॥ अनारभ्य श्रुतं "एष ह वै हविषा हविर्यजति योऽदाभ्यं गृहीत्वा सोमाय जुहोति परा वा एतस्यायुः प्राण एति योऽशुं गृह्णाति" इति । अत्र हावः सोमः स एव देवता स एव द्रव्यामिति प्रथमस्यार्थवादस्यार्थः । प्राणो आयुर्मर्यादामभिवर्धत इति द्वितीयस्यार्थः । तत्र न तावद्हणमेव ज्योतिष्टोमे विधी यते । संस्काररूपस्य ग्रहणस्य अवघातादिवत् अश्वदाभ्यनाम- कत्वानुपपत्तेः द्वितीयान्तयोस्तयोस्संस्कार्यद्रव्यनामत्वानीकारे तु अव्यभिचरितक्रतुसम्बन्धाभावात् न द्रव्यमानोहेशेन ग्रहणविधि- सम्भवः । अतो द्रव्यदेवताविशिष्टयागान्तरविधानमेवेदम् । अ- दाभ्यपदेन हिंसानहसोमाख्यद्रव्यस्य अंशुपदेन च निर्यासद्रव्य- स्थाभिधानात् । द्वितीया चोभयत्र सक्तुन्यायेन । देवता तु एकत्र सोमः अन्यत्र प्रजापतये स्वाहा" इति मन्त्रवर्णात् प्रजापतिः । गृह्णातिश्चाऽनुवादः द्वितीये यागलक्षकः । तयोश्च यागयोः प्राकरणिकैतत्समानजातीयतैत्तिरीयशाखास्थवाक्याज्यो- तिष्टोमातत्वमितिमाते- गृहाती यागलक्षणायां प्रमाणाभावात् आद्यवाक्ये गुणस- शान्तशतिना विधिना ग्रहणस्यैव विधेयत्वावगमाञ्चोभयत्रापि *ते. सं. ६-६-९ तै. सं. ६-६-१० ते. सं. ३-३.४. तै. प्रा. ३-1-1, भषि. १.] भाहदीपिकासहितम्, 157 प्रहणमेवोक्तसंज्ञकं उक्तसंक्षकद्रव्यसंस्कारकत्वेन वा विधीयते । एवं च-विनियोगमङ्गोपि द्वितीयाया न कल्पितो भवति । देव- ता तु सोमरूपा आघवाक्ये ग्रहण एवान्वेतीति देवताविशिष्ट ग्रहणमेव तत्र विधीयते । द्वितीये तु-" उपयामगृहीतोसि प्रजापतये त्वा जुष्टं गृहामि "* इति मन्त्रवर्णात् ग्रहणागतया देवताप्राप्तिर्दष्टव्या । होममन्त्रस्तूत्तरभावियागोपकारकत्वमादाय नेयः । देवताविशिष्टग्रहणद्वये च प्राकरणिकवाक्येन ज्योतिष्टोमा- ङ्गत्वस्य तदुपपाद्यत्वस्व च बोधोपपत्तेः न कश्चिद्विरोधः ॥ प्रयोजनं पूर्वपक्षे यागस्याङ्गत्वाद्यथाशक्तिन्यायविषयत्वम् । सिद्धान्ते प्रधानत्वान्नति ॥९॥ (१०)-अग्निस्तु लिङ्गदर्शनात्क्रतुशब्दः प्रतीयेत ॥ द्रव्यं वा स्यान्चोदनायास्तदर्थत्वात् ॥२२॥ तत्संयोगात्क्रतुस्तदाख्यस्स्यानेन धर्मविधाना- नि ॥२३॥ अग्निस्तु 'य एवं विद्वानग्निं चिनुते। इत्यत्र अग्निशब्दस्तु चिनोति लक्षितक्रतुसमानाधिकरणः क्रतुशब्दः यागवाची प्रतीयेत कुतः लिगदर्शतात् 'अमेस्स्तोत्रमनश्शस्त्रम् ' 'चित्यस्यामेष्षडुपसदः' इत्यादौ अमिशब्दार्थस्य स्तोत्रशस्त्रोपसत्सम्बन्धिताया यागलिङ्गस्य द. शनात् । न खलु स्तोत्रादिसम्बन्धोऽयागे सम्भवति । तथा चोत्त. रवाक्ये “अथातोऽग्निममिष्टोमेनानुयजन्ति तमुक्थ्येन तमतिरात्रेण तं द्विरात्रेण' इत्यादी अनुयजनप्रतियोगित्वरूपस्य गुणस्य यागमन्तरेणानुप- * तै.सं. १-७-१२, +त. सं. ५-६-३, 168 पूर्वमीमांसादर्शन [मध्या. १. पा... पद्यमानस्य श्रवणात्तदनुरोधेन चिनोतेरपि लक्षणया यागपरत्वनिश्चयात्त- समानाधिकरणोऽमिशब्दः क्रतुपर इति ॥ २१ ॥ एवं पूर्वपक्षे सिद्धा. न्तमाह --अग्निशब्दार्थः द्रव्यं वा ज्वलनरूपं आहवनीयपर्यवसितमेव स्यात् चोदनायाः “अग्निं चिनुते "" इति विधेः तदर्थत्वात् तादृशद्रव्योद्देशेन स्वनिष्पादितस्थण्डिलाधारत्वसम्बन्धन चयनरूपसंस्कार- विधिपरत्वात् । तथा च चिनोतेन. यागलक्षकत्वमाश्रयणीयम् । उत्त- रवाक्ये अनुशब्दस्य “ पाकमनुभङ्के' इत्यादाविव चयनानन्तर्यपरतयाऽ प्युपपतेः । चयनसंस्कृतस्य चामेरग्निशब्दलक्षितचयनस्य वा उत्तर- वाक्येन ज्योतिष्टोमाङ्गतया विनियोग इति ॥ २२ ॥ पूर्वपक्षोक्तस्य लि- गदर्शनस्यान्यथासिद्धिमाह-- अमेस्स्तोत्रं' इत्याही क्रतुः सोमयागः त- त्संयोगात् अग्निसम्बन्धात् चयनसम्पादितस्थण्डिलस्थापितामिसम्पादित- यागत्वेन तदाख्यः अनयाख्यः अग्निपदलक्ष्यः स्यात् तेन ' अमेस्तो- नं' इत्यादीनि यागोद्देशेन धर्मविधानानि स्तोत्रादिरूपधर्मविधायका- नि उपपद्यन्ते इति ॥ २३ ॥ अनारभ्यैव श्रुतं ‘य एवं विद्वानगिं चिनुते * इति । तत्र चिनोतिना नाग्निसंस्कारार्थत्वेन चयनविधिः अपि तु अग्निसं- सकस्य यागस्यैव विधिः । 'अथातोऽग्निमनिष्टोमेनानुयजन्ति त. मुक्थ्येन तमतिरानेण तं द्विरात्रेण' इत्याद्युत्तरवाक्येषु अनिष्टो- मादियज्ञानामनयनुयजनत्वरूपगुणानानात् । न यनयनुयजनत्व मग्नेरयागत्वेऽवकल्पते; देवदत्तमनुगच्छति यज्ञदत्त इत्यादौ तु ल्यक्रियायोग एवानुशब्ददर्शनात् । अतश्चाग्निसंज्ञकस्य यागस्य तस्मिन्नेव विधौ गौरवात् विद्वाक्य एव चिनोतिना लक्षण- या तद्विधानम् । स चाव्यक्तत्वाज्योतिष्टोमविकारः। उत्तरवा- *तै. सं. ५.६-१..
भाषि.11.1 भादीपिकासहितम्. 159 क्यैश्च तस्य त्वङ्गत्वसिद्धिः। 'इष्टकाभिरनि चिनोति* इत्यनेन च चयनस्य प्राप्तत्वात् चिनोतिर्निर्वपतिवत् अनुवादश्चयनस्येति प्राप्ते- । पाकमनुभुङ्क्ते'. इत्यादौ तुल्यक्रियायोगाभावेऽप्यनुशब्द- दर्शनात् न तदनुराधेनाग्निशब्दस्य चयनशब्दस्य च यागपरत्वक- ल्पना युक्ता । अतो विद्वद्वाक्ये चयनमेवाग्निसंस्कारार्थ विधीयते। अग्निशब्देन च यद्यपि शक्त्या ज्वलन एवाभिधीयते तथापि तदर्थ- त्वे वैयापत्तनिरूढलक्षणया आहवनीयादिपरत्वावसायात् तदु- हेशेनैव चयन संस्कारकतया विधीयते । संस्कारश्च सामर्थ्या- चयननिष्पादितस्थण्डिलस्थापनरूपः । स्थापितस्याग्नेरुपयोगापेक्षा- यां 'अथातः' इति वाक्येन तस्य ज्योतिष्टोमाङ्गत्वेन विधानम् । तत्र ह्यग्निशब्देन चयननिष्पादितस्थण्डिलस्थापितोऽग्निः चयनमे- व वा लक्षणयाऽभिधीयते । अग्निष्टोमशब्दश्च जातिन्यायेन सं- स्थावचनोपि व्यक्तिन्यायेन ज्योतिष्टोममेव प्रचुरप्रयोगादभिधत्ते पार्थशब्द इवार्जुनम् । अतश्च ज्योतिष्टोमत्वमेव लांघवादुद्देश्यता- वच्छदेकं न त्वग्निष्टोमसंस्थाकत्वमपि । यद्यपि चयनस्य ज्यो- तिष्टोमप्रयोगसंवलितत्वादनुष्ठानसादेश्यादेव तदङ्गत्वसिद्धिः। त- थापि 'पशुकामश्चिन्वीत'' इति वाक्यैः अग्नेः काम्यत्वावगमात् क- त्वङ्गत्वप्रतिप्रसवार्थ तन्त्र विरुध्यते । अयं चाग्निः प्रकृती 'अ- निस्सोमानं वेच्छता' इत्यादिवचनाद्वैकल्पिकः। अग्निपक्षे च 'उत्तरवेद्यां ह्यग्निश्चीयते ॥ इति वचनादुत्तरवेद्या समुच्चयः । त- दभावे चोत्तरवेदिमात्रं 'उत्तरवेद्यामनिं निदधाति' इति वच- मात् । अतश्च 'तमुक्थ्येन' इत्यादिवाक्यानि वैकल्पिकत्वात् वि- , .00000000000mmomopan .. . ५... +त. भा...
160 पूर्वमीमांसासन अध्या. १. पा.. कृतिविशेष तनियमानि चयनाभितश्येनाकारताविफलार्थगुणा: नां प्राप्त्यर्थकानि चेति दशमे वक्ष्यते ॥१०॥ (११)-प्रकरणान्तरे प्रयोजनान्यत्वम् ॥२४॥ कुण्डपायिनामयनप्रकरणानाते 'उपसद्भिश्चरित्वा मासमग्निहोत्रं जु. हति मासं दर्शपूर्णमासाभ्यां' इति . वाक्ये प्रकरणान्तरे अनुपादेय- गुणसहकृतानुपस्थितिरूपे सति प्रयोजनान्यत्वं प्रयोजनस्य उपादेयस्य विधेयस्य कर्मणः अन्यत्वं भेदः । तथा च तत्र मासरूपानुपादेयगु- णसत्त्वात् प्रसिद्धामिहोत्रादेश्व प्रकरणाभावनानुपस्थितत्वात् तदुद्देशेन मा- सादिगुणविधानासम्भवात् विधेयतायाश्च प्रकृते उपादेयताब्यधिकरणत्वे प्र- माणाभावात् मासादिगुणविशिष्टमग्निहोत्रादिनामकं प्रसिद्धामिहोत्रादन्यदेव कर्म विधीयते । भवति चैवं सत्यंत्र उपादेयत्वविधेयतयोस्सामानाधि- करण्यमिति । एवं कालरूपानुपादेयगुणयोग इव 'सरस्वत्या दक्षिणेन . तारणानेयोऽष्टाकपालः' इत्यत्र देशरूपानुपादेयगुणयोगेऽपि प्रसिद्धामयानु. पस्थितः विशिष्टकर्मान्तविधिः । ‘सनायागूर्य विश्वजिता यजेत' इ- त्यत सत्रसंकल्पस्य निमित्तरूपानुपादेयगुणस्य योगेऽपि सत्रमकुर्वतः प्र. सिबविश्वजिदन्यकर्मविधिर्वोध्यः ॥ २४ ॥ कुण्डपायिनामयने 'उपसद्भिश्चरित्वा मासमग्निहोत्रं जु- ति मासं दर्शपूर्णमासाभ्यां' इत्यादि श्रुतम् । तत्र जुहोतिना अग्निहोत्रादिपदैश्च दूरस्थस्यापि कर्मण उपस्थितत्वात्तदनुवादेन 'यदाहवनीये जुहोति' इतिवत् मासादिरूपगुणविधिः उपादेयवाद नुपादेयस्यापि दूरस्थकर्मानुवादेन विधाने बाधकाभावात् । कर्तृबहुत्वकालादिरूपानेकगुणविशिष्टप्रयोगविधानाथ न वाक्यमे छ । मतो न कर्मान्तर विधिरिति माते- मालिकासहितमः 161 सर्वत्र प्रवर्तकस्य विधः कृतिविषयस्वापरपर्यायमुपादेयत्वं प्रमाणत्वाचाक्षातज्ञाप्यत्वाख्यं विधेयत्वं च प्रमेयम् । तदुभय- मप्येकवृत्ति समानाभिधानश्रुत्यादिना च धात्वर्थभावनावृत्तीत्यु- त्सर्गः । योग्योपपदसत्त्वे तु विशिष्टविधिगौरवभियां तन्मात्रवृत्ति । यथा-'यदाहवनीये जुहोति' इत्यत्राहवनीयस्योपादेयत्वविधेयत्वो. भयाश्रयत्वाद्योग्यत्त्वम् । अत एव तत्र धात्वर्थानुवादापेक्षायां दूरस्थानामपि सर्वहोमानां कथंचिदनुवादः । प्रकृते तु मास- स्यानुपादेयत्वादुपादेयत्वं धात्वर्थ एव वाच्यम् । अतस्तत्सामा- नाधिकरण्येन विधेयत्वमपि तत्रैवेति विहितस्य विधानायोगा. केंदः । एवं सत्यपि यदि 'यत्सायं जुहोति'* इत्यादिवत् प्रत्य- भिक्षापंकं सन्निध्यादि प्रमाणं भवेत् ततोऽगल्या कालादौ विधे- यत्वं कर्मणि च प्राप्तेऽप्युपादेयत्वमिति वैयधिकरण्यमप्याश्रीयेत । न त्वेतदस्ति । न च सन्निध्यभावेऽपि नाम्न एव पूर्वकर्मोपस्था- पकता । 'अग्निहोत्रं जुहोति । इत्यनेन जुहोतिना हि यादृशी विजातीयहोमत्वकारिका होमोपस्थितिस्तादृश्येव सन्निधिनोप- मीता युक्तं यत् 'सायं जुहोति' * इत्येतद्वाक्यस्थजुहोतेरपि स्वविषयविषयत्वमापादयन्ती भवति तद्तविधेयार्थकत्वप्रतिब- न्धिका । अग्निहोत्रादिनाम त्वग्निदेवताकहोमत्वप्रकारकहोमविशे- स्यकवोध जनयत् जुहोतेर्न पूर्वकर्मोपस्थापकत्वमापादयितुं क्षमम् । न घनिदेवताकं पूर्व कमैवेत्यत्र प्रमाणमस्ति । विजातीयहोम- त्वस्य नामाऽनुपस्थितेः । अन्यथा पर्यायत्वेन सहप्रयोगानापत्तेः। अतिप्रसङ्गनिराकरणस्य प्राचीनप्रयोगाभावेनवोद्भिदधिकरणे स्था- पितत्वेन योगरूत्यनङ्गीकाराच्च । अन्यथा मत्वर्थलक्षणादिभियाs- तिवसामनार्थमपि रूज्यनीकारे सोमादावपि तदापत्तेः। अतो न *तै. बा. २.१.२. +ते. सं. १-५-९. P.M-21 182 पूर्वमान मच्या..पा. माना सदुपस्थितिः । अत एव यत्र नामैवानुपादेयगुणयागन भूतं न तु धातुः यथा 'सर्वेभ्यो दर्शपूर्णमासौ' इत्यादौ तत्र नामार्थस्यैवोपादेयत्वसामानाधिकरण्येन विधेयत्वासको नामज. म्योपस्थित्या तत्प्रतिबन्धान कर्मान्तरं अस्तु वा तवाक्यस्य प्राकरणिकत्वादकान्तरत्वम् । अतो नाना प्रकृते जुहोतेषिधे- यार्यत्वप्रतिबन्धायोगादनुपादेयगुणयुक्तानुपस्थितिरूपप्रकरणान्त रात् सिद्धं कर्मान्तरत्वम् । अत्र चानुपादेयगुणयागस्य. स्व. स्युपादेयत्वापनयद्वारा पारिशेष्याद्धात्वर्थवृत्त्युपादेयत्वापादनं व्या- पारः । अनुपस्थितेः उपादेयत्वसामानाधिकरण्येन विधेयत्वाप्र- तिबन्धस्तः । अत एव न प्राचीनरीत्यानुपादेयगुणयोग एव प्रयोजकः अपि तु उपादेयगुणसामान्याभाव एवेति ध्येयम् । अतस्सिचं कालविशिष्टकर्मान्तरविधानमेवेदम् ॥ एवं 'सरस्वत्या दक्षिणेन तीरेण आग्नेयोऽष्टाकपालः' इति देशरूपानुपादेयस्याग्नेयपदस्य साधारणत्वेन पूर्षकर्मोपस्थापक- वाभावात् । निमित्तस्य तु 'सत्रायार्य विश्वजिता यजेत' इति आगरण साल्पः तदुत्तरं सत्रमकुर्वतोऽयं 'विश्वजिता यजेत' इत्यस्मात् कर्मान्तरम् । न चानेन विनियुक्तस्य प्रयुक्तस्य वा तेनोत्पत्तिः। विनियोगादिसामानाधिकरण्येनावगताया उत्पत्तेस्स- निर्षि विना बाधे प्रमाणाभावात् ॥ ११॥ (१२)-फलं चाकर्मसन्निधौ ॥२५॥ अकर्मसनिधी प्रसिद्धकर्मा :पस्थिती " नियमाकपालं निर्व- पेयुकामः" इत्यादौ श्रूयमाणं फलं रुगादिरूपं चकारावं औद- अपि. ११.] भारदीपिकासहितम्. 163 म्बरी प्रोक्षति" इत्यादी श्रुतं औदुम्बर्यादिरूपं संस्कार्य च प्रसिद्धा- दामेयत्रीहिप्रोक्षणादिकर्मतो भेदकं भवति । फलसंस्कार्ययोरङ्गित्वाद्विनि- योगविधिविषयत्वापरपायाङ्गत्वमात्रस्य धात्वर्थवृत्तितयाऽऽक्षेपात्तत्सामा- नाधिकरण्यनोत्पत्तिविधिविषयत्वापरपर्यायविधेयत्वाक्षेपकवेऽपि उपादेय- त्वानाक्षेपकवान प्रकरणान्तरविधया भेदकत्वम् । कादेशनिमित्तानां तु अनुष्ठापकत्वेन प्रयोगविशेषणत्वाद्धात्वर्थे अनुष्ठाप्यत्वापरपर्यायोपादेयताक्षेप- कत्वाधुक्तं तद्विधया भेदकत्वमित्यधिकाशङ्कया फलसंस्कार्ययोः पृथकर- णम् । फलसंस्कार्ययोस्सत्यप्यावे अनुष्ठापकत्वस्यापि कामनाविषयलेन सत्त्वादुपादेयत्वाक्षेपकत्वोपपत्तेरकर्मसन्निधौ युक्तं तद्विधया भेदकत्वमिति तदाशङ्कानिरासो बोध्य इति कौस्तुभे । २६ ॥ फलस्य 'आग्नेयमष्टाकपालं निर्वपेगुकामः' इति । संस्कार्य- स्य तु 'औदुम्बरी प्रोक्षति' इति ब्रीहिमोक्षणात् कर्मान्तरम् । पञ्चैव यथाऽनुपादेयानि तथा वाजपेयाधिकरणे कौस्तुभे प्रप. श्वितम् ॥१२॥ .. -KC (१३)-सन्निधौ त्वविभागात्फलार्थेन पुनश्श्रुतिः ॥ अनुपादेयगुणसत्त्वेऽपि सन्निधौ कर्मण उपस्थिती सत्या तु धातोस्सन्निहितकर्मपरामर्शकत्वस्यैव युक्ततया तदर्थस्य अविभागात सन्निहितकर्मापेक्षया मेदासम्भवात् फलार्थेन अनुपादेयगुणसम्बन्धरूप- प्रयोजनानुरोधेन पुनश्श्रुतिः सन्निहितस्य कर्मण एव पुनश्श्रवणं न पुनस्तदतिरिक्तकर्मविधानार्थमिति । फलपदमत्रानुपादेयमात्रोपलक्षकं बो- ध्यम् ॥ २६॥ पञ्चानामप्यनुपादेयानां सनिधौ प्रत्युदाहरणानि-दर्शपूर्ण मासप्रकरणे ‘पौर्णमास्यां पौर्णमास्या यजेत' ‘समे दर्थपूर्ण- मातान्यो पजेत' 'पावजी पूर्णनालाभ्यां पजेत' पर्व 164 पूर्वमीमांसादर्शनं. [अध्या. २. पा.... पूर्णमासाभ्यां स्वर्गकामो यजेत' इति चतुर्णी ; स्विष्टकृतं प्रक- त्य 'शेषात्स्विष्टकृतं यजति' इति शेषरूपसंस्कार्यस्य । अत्र सर्वत्र सन्निधानात्स्वविषयवृत्तिविधेयत्वप्रतिबन्धात् प्राप्तस्यैव कर्मणः कालदेशविशिष्टप्रयोगमात्र विधिलाघवायानुमन्यते न तु कर्मोत्पत्तिमपि विधत्ते । यत्र तु प्रयोगोपि प्राप्तः 'य दृष्ट्या इत्यादौ तत्र प्राप्तप्रयोगानुवादेन कालादिमात्रविधिस्सम्भवाते । देशकालयोरुपादेयत्वासम्भवेऽपि यागाङ्गत्वेन विनियोगविधिः । निमित्तस्थले तु मिथो निमित्तनैमित्तिकयोरजाङ्गित्वासम्भवात् प्राप्तस्यापि कर्मणो निमित्तसम्बन्धानुमितपापक्षयार्थत्वेन विनि- योगविधिरिति वक्ष्यते । फलसंस्कार्ययोस्तु तदुहेशेन प्राप्तकर्म- विनियोगविधिस्स्पष्ट एव । अतो न सन्निधिसत्त्वेऽनुपादेयगुण- योगेऽपि कर्मान्तरम् ॥ १३ ॥ 10 (१४)-आग्नेयस्तूक्तहेतुत्वादभ्यासेन प्रतीयेत॥२७ अविभागात्तु कर्मणो द्विरुक्तेन विधीयेत॥२८॥ अन्यार्था वा पुनश्श्रुतिः ॥२९॥ "यदामेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भ- वति"* इत्यामेयं विधाय तत्रैव प्रदेशान्तरे समानाते “आमेयोऽय- कपालोऽमावास्यायां भवति" इति वाक्ये श्रूयमाणः आग्नेयः आमे- ययागः तु अभ्यासेन अभ्यासयुक्तः प्रतीयेत अमावास्यायां द्विरा- मेयोऽभ्यस्य इति यावत् । कुतः? उक्तहेतुत्वात् उक्तहेतुकत्वात् अभ्यासरूपस्य उक्तस्य भेदकहतोस्सत्त्वात ॥ २७॥ एवं पूर्वपक्षे सि- दान्त्येकदेशी समाधत्ते-द्विरुक्तन उपर्दाशतवाक्यद्वयेन एकमेव कर्म गौ. सं. २...
अधि. १४.] भादीपिकासहितम्, 165 विधीयेत कुतः? कर्मणः अविभागात् कर्मभेदकप्रमाणाभावात् । न चैकेन वाक्येनैव विधौ प्रवृत्त्युपपत्तेर्वाक्यान्तरेण विधौ फलाभाव रति वाच्यम् । द्विरानानबलाद्वाक्यद्वयविहितस्यैवाभ्युदयकारित्वकल्पनया पूर्वकर्मण एव विधिफलविषयत्वोपपत्तेः ॥ २८ ॥ सिद्धान्तमाह-पु- नश्श्रुतिः “आमेयोऽष्टाकपालः" इति पुनश्श्रवणं अन्यार्था वा ऐन्द्रामविध्यर्थमेव अर्थवादरूपं ऐन्द्राग्नविध्येकवाक्यत्वात् । सम्भवति चातिप्रशस्तामयसाहित्ये सत्यैन्द्रामस्यातिप्रशस्ततरत्वमिति स्तुतिः । त- स्मौदस्य वाक्यस्य विधित्वस्यैवाभावात् न यागान्तरविधायकत्वशङ्का । न वा अभ्युदयशिरस्कत्वकल्पनाप्रयास इति ध्येयम् ॥ २९ ॥ इति सारबोधिन्यां जैमिनिसूत्रवृत्ती द्वितीयस्य तृतीयः. कालद्वययोगेनाग्नेयं विधाय आनेयोऽष्टाकपालोऽमावा- स्यायां भवति' इति श्रुतम् । तत्र कालद्वययुक्तादाग्नेयात्कर्मा- न्तरमिदं. प्रकरणान्तरादभ्यासाद्वा भेदोपपत्तेः । अनेनैव विहि- तस्येतरेण पौर्णमासीमात्रविधिस्तु उत्पत्तिशिष्टकालावरोधानि- राकर्तव्यः । न चैकस्यैव कर्मणोऽभ्युदयशिरस्कतया विधिद्ध- येन विधानं पिकाल्यैकहायनीशब्दाभ्यामिव द्रव्यविशेषस्येति वाच्यम् । पिङ्गाक्ष्यैकहायनीशब्दाभ्यामुपस्थितस्याप्येकेन विधि- ना विधाने बाघकाभावात् । प्रकृते त्वेकेन विहितस्य नेतरण विधिसम्भव ति कर्मान्तरमेव । अत एवामावास्यायामाग्नेय- द्वयकरणं पूर्वपक्षे प्रयोजनमिति प्राप्ते- एतस्येन्द्रामविधिशेषत्वान स्वातन्त्र्येण विधायकत्वम् । प्र- शस्ताग्नेयसाहित्येन चैन्द्रामप्रशंसा । अतो न कर्मान्तरम् ॥१४॥ इति श्रीखण्डदेवकतौ भादीपिकायां द्वितीयस्याभ्यायस्य तृतीयः पादः - 166 पूर्वमीमांसादर्शन [अध्या. २. पो ४. (१)-यावजीविकोऽभ्यासः कर्मधर्मः प्रकरणात् ॥ कर्तुर्वा श्रुतिसंयोगात् ॥ २॥ लिङ्गदर्श- नाच कर्मधर्मो हि प्रक्रमेण नियम्येत तत्रा- नर्थकमन्यत्स्यात् ॥३॥ व्यपवर्ग च द- यति कालश्चत्कर्मभेदस्स्यात् ॥ ४॥ अ- नैवं स्यात् ॥ ५॥ विरोधश्चा- पि पूर्ववत् ॥ ६॥ कर्तुस्तु धर्मनियमात्का- लशास्त्रं निमित्तं स्यात् ॥ ७ ॥ नित्यत्वात्तु विनियोगभेदनिरूपणं चैतत्पादार्थः ॥ ' यावजीवं दर्शपूर्णमासाभ्यां यजेत' इत्यादौ कि दर्शपूर्णमासादिकर्मणि स्वर्गाद्यर्थे जीवनपर्या- सकालविधिः किं वा क्ल्प्तफलात्फलान्तरार्थ जीवनाख्यनिमित्तरूपगुणवशन दर्शादेविनियोगान्तरविधिरिति संशयः । यावजीविका यावजीवपदन 'यावद्दोहं तिष्ठति' इत्यादौ यावदोहप्रदेनेव निरूढलक्षणया प्रतिपाद्यः अभ्यासः प्रयोगपीनःपुन्यरूपस्याभ्यासस्यापादकः कालः कर्मधर्मः कर्मणो दर्शादेग्मं विधीयते. कुतः? प्रकरणात् स्वर्गाद्यर्थस्य दर्शी देरिति- कर्तव्यताकांक्षालक्षणप्रकरणसत्त्वात् । प्रकरणं हीत्थमनुगृहीतं भवति ॥१॥ सिद्धान्तमाह-उपदर्शितवाक्ये दर्शादिः कर्तुः वा कर्तुरेव पुरुषस्य निमित्तवतः धर्मः पुरुषार्थतया विधीयते कुतः श्रुतिसंयोगात् यावजीवमिति पदश्रुतेस्समन्वयसंभवात् । याव- छब्दो हि जीवनान्वयिसामस्त्यवाची । धातुश्च जीवनवाची । 'धातुसंबन्धे प्रत्ययाः' इत्यधिकारविहितश्च णमुल् स्वप्रकृत्यर्थस्य जी- बनस्य यजत्यर्थे संपन्धमवगमयति । तत्र संवन्धविशेषजिज्ञासायां १ . भाषि. १.] भावीपिकासहितम. 167 सम्बन्धान्तरासंभवात् यावच्छब्दस्य च तात्पर्यग्राहकस्य सत्त्वात् निमित्तत्वरूपमेव ब्यक्तिन्यायनाश्रीयते इति ॥ कालविधिपरत्वे च त- द्वाक्यस्य यावजीवपदे काललक्षणा स्यात् । सा च श्रुत्यर्थे संभवति न 'युक्ता ॥२॥ लिङ्गदर्शनाच 'अव वा एष सुवर्गालोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासी वाऽतिपादयेत्' ।* इति दर्शपूर्णमासातिपातरूपलिङ्गदर्शनादपि यावजीववाक्ये जीवने नि- मित्ते दर्शादिः पुरुषार्थतया विधीयते इत्येव युक्तम् । कर्मधर्मो हि काले विधीयमाने जीवनकालव्यापकस्यै वैकप्रयोगस्यैकफलसाधनत्वात् द- शपूर्णमासयाजिपदस्य कृतदर्शपूर्णमासकरणकभावनाकपरत्वानुपपत्तेः त- त्पदं प्रक्रमेण प्रक्रान्तदर्शपूर्णमासकरूपप्रक्रमघटितार्थपरतया निय- म्येत व्याख्यायेत । संभावनायां लिङ् । न चेष्टापत्तिश्शडक्या। तथा सति दर्शपूर्णमासयाजिनः 'अतिपातयेत्' इत्यनुपक्रमदर्शनविरो- धात् । यदि तु अतिपातयदित्यपि न समापयेदित्यर्थपरतया व्याख्या- येत तथाऽपि तत्र दर्शपूर्णमासातिपति निमित्ते अन्यत् 'सोऽनये पथिकृतेऽष्टाकपालं निर्वपेत्' इति प्रायश्चित्तविधानरूपमर्थान्तरं अनर्थ- कं स्यात् समापनकाले जीवनान्त्यक्षणरूपेऽतीते हि मृतावस्थायां तव मते अतिपत्तिस्यात् । तदा च नैमित्तिकप्रायश्चित्तानुष्टानासंभवात् तद्विधानं विफलमेव । अस्मन्मते तु माससाध्यस्थकप्रयोगस्यकफलसा- धनत्वात् एकस्मिन्मासे कृतदर्शपूर्णमासकरणकभावनाकत्वं मासान्तरे च तदकरणरूपमतिपातनं चेति द्वयमपि संभवति । ननु मन्मतेऽपि त- तत्कालकव्याप्यप्रयोगाभ्यासानां भेदात्तदुभयोपपत्तिरिति चेन तत्तदभ्या. सानां मुख्यस्वर्गादिफलकत्वाभावेन प्रहयागाभ्यासव्यक्तिषु सोमयाग- पदवाच्यत्वस्येव दर्शपूर्णमासपदवाच्यत्वस्यासंभवेन दर्शपूर्णमासयाजिपद- स्यौपचारिकत्वापत्तरिति । तस्माद्विनियोगभेद एवेहाश्रयणीयः ॥ ३ ॥ 'द- -- *तै.सं. २-२-१.
168
पूर्वमीमांसादर्शनं. [अध्या. २. पा...
शपूर्णमासाभ्यामिष्ठा सोमेन यजेत इत्यत्र इष्टुति पदं दर्शपूर्णमास-
करणकभावनायाः व्यपवर्ग च समाप्तिमपि दर्शयति उत्तरकालत्व-
प्रतियोगितया प्रतिपादयति । अत्रापि हेतोः उत्तरकालानुग्रहार्थ या-
वजीववाक्ये दर्शादिकर्मणां विनियोगभेद एवाश्रयणीयः । पूर्वपक्षरीत्या
कालश्चेत् जीवनकालो यदि विधीयेत तदा जीवनकालव्यापक-
स्य दर्शपूर्णमासप्रयोगस्य मध्ये कर्मभेदः सोमयागादिकं कर्मान्तरं
अनुष्ठेयं स्यात् । तथा च 'विवा एतद्यज्ञस्य छिद्यते यदन्यस्य
तन्त्र विततेऽन्यस्य तन्त्रं प्रताय्यते' इति श्रुतिविरोधः । न चानन्यग-
तिकत्वं दर्शप्रयोगवृत्तिपिण्डपितृयज्ञप्रयोगवदिति वाच्यम् । सिद्धान्तरी-
त्याऽप्युपपत्तेः ॥ ४ ॥ किंच-दर्शादिनित्यविनियोगविधिपक्षे सिद्धान्ते.
जरामयं वा एतत्सत्रं यदग्निहोत्रं जरया वा एताभ्यां मुन् यते मृत्यु-
ना वा' इति जरामरणाभ्यां निर्मोकावधारणमुपपन्नं स्यात् । काम्य एव
दर्शादौ कालविधिपक्षे तु दर्शदेः अनित्यत्वात् नैवं स्यात् ।
तदा ह्यप्रयोगादपि मुच्येतैव । न च सत्रसादृश्यं प्रयोगभेदे नोपपद्यत
इति वाच्यं तस्य दीर्घकालिकैककर्मरूपतयाऽप्युपपत्तेः ॥ ५॥ अङ्गत्वे-
न जीवनकालविधिपक्षे तस्य सौर्यादिविकृतिध्वप्यतिदेशावश्यकतया काम-
नावशेनारब्धानामनेकासां विकृतीनां यावजीविकाभ्यासे अशक्यार्थता.
रूपो विरोधश्चापि स्यात् पूर्ववत् पूर्वसत्रोक्तजरामर्थवादविरोधवत् ।
जीवनस्य निमित्तत्वसिद्धान्त तु निमित्तस्यानङ्गतया अनतिदेशान्नासौ
विरोधः ॥ ६ ॥ एवं-कालशास्त्रं वसन्तादिकालविधिपरतयाऽऽपाततः
प्रतीयमानं यावजीवश्रुतिरहितं
" वसन्तेवसन्ते ज्योतिषा यजेत” इत्या-
दिवाक्यमपि निमित्तं वसन्तादेनिमित्ततापरभेव स्यात्, कुतः, कर्तुस्तु
कर्तुरेव पुरुषस्य धर्मनियमात् धर्मनियमाङ्गीकारे लाघवात् । वस-
न्तस्य निमित्तत्वे हि वीप्सार्थस्यार्थसिद्धलात् न विधेयता । अङ्गले तु वी-
प्सार्थोपि विधेयस्स्यादिति गौरवामिति ॥७॥
अधि. १.J. मादीपिकासहितम्. 169 'यावजीवं दर्शपूर्णमासाभ्यां यजेत' इत्यत्र काम्य एव स्वर्गाद्यर्थे दर्शपूर्णमासकर्मणि जीवनपर्याप्तकालविधिः । न च पौ- र्णमास्यादिकालविरोधः । व्याप्यव्यापकभावेनामावास्यापराहा. दिवदुपपत्तेः । अत एवं विनेगमनाविरहात् कालद्वयविधावपि प्रयोगद्वयविधिः । जीवनपर्याप्तकालविधिसामर्थ्यादेव च प्रतिपौ- र्णमास्यार्थादर्शपूर्णमासावृत्तिः । अतश्च तावड्याप्यप्रयोगव्या- सक्तव्यापकप्रयोगादेव स्वर्गादिफलमिति प्राप्ते- काललक्षणापत्तेर्नायं कालविधिः । अतो धातुसम्बन्धाधि- कारविहितणमुल्प्रत्ययेन जीवनस्य कर्मसम्बन्धावगतेस्स्वावच्छि- अकालकत्वादिरूपसम्बन्धाश्रयणे च गुणभूतकालानुरोधेन प्रधा- नावृत्तायलभ्यत्वाभावेन यावच्छब्दार्थस्यापि विधेयत्वापत्ते - घवानिमित्तत्वमेव सम्बन्धः प्रतीयते । तदा हि प्रतिनिमित्तं नैमित्तिकावृत्तेायलभ्यत्वाद्यावच्छब्दार्थोऽनुषादः । निमित्तत्वं च स्वान्वयव्यतिरेकानुविधाय्यवश्यानुष्ठानवत्त्वं यथा राहूपरागान्व- '. यव्यतिरेकानुविधाय्यवश्यानुष्ठानं यस्य स्नानस्य तद्वत्त्वं राहूप- रागे । अत्र च व्यतिरेकानुविधानस्य सर्वत्र प्रापकप्रमाणाभा. वादेव सिद्धरन्वयानुविधान एव विधेस्तात्पर्यम् । अतश्च नि- मित्तसत्त्वे नैमित्तिकस्यावश्यानुष्ठानबोधनादकरणे प्रत्यवायोऽनुमी- यते । करणे च 'धर्मेण पापमपनुदति'* इत्यादिवाक्यशेषात् रात्रिसत्रन्यायेन पापक्षय एवानुषङ्गिको नित्यनैमित्तिकस्थले फलम् । यत्र तु रथन्तरसामत्वादिनिमित्तसत्त्वे नैमित्तिकस्य पाठादेव प्राप्तिसम्भवेनान्वयानुविधानस्य प्रमाणान्तरेण प्राप्ति- स्तत्र व्यतिरेकानुविधान एव विधेस्तात्पर्यम् । अत एव रथ. न्तराभावे ऐन्द्रवायवाप्रत्वस्याभावः । अतश्च यावजीवपदे मासिकी ७८ P.M-22 170 पूर्वमिमांसादर्शनं. अध्या. २.पा.४. लाघवाचनुरोधेन जीवनस्य निमित्तत्वावगतेस्तदनुरोधेन पाप- क्षयाथै विनियोगान्तरमेवेदमिति सिद्धम् ॥ १॥ (२) नामरूपधर्मविशेषपुनरुक्तिनिन्दाऽशक्ति- समाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखा- न्तरेषु कर्मभेदस्स्यात् ॥ ८॥ एक वा सं- योगरूपचोदनाख्याविशेषात् ॥ ९॥ न ना- ना स्यादचोदितत्वात् ॥ १० ॥ सर्वेषां चैककात् ॥११॥ कृतकं चाभिधानम् ॥ १२ ॥ एकत्वेऽपि परम् ॥ १३ ॥ विद्या- यां धर्मशास्त्रम् ॥ १४ ॥ आग्नेयवत्पुनर्व- चनम् ॥ १५ ॥ अद्विर्वचनं वा श्रुतिसंयो- गाविशेषात् ॥ १६ ॥ वाक्यासमवायात् ॥ १७ ॥ अर्थासनिधेश्च ॥ १८॥ न चैक प्रतिशिष्यते ॥ १९॥ समाप्तिवञ्च सम्प्रेक्षा ॥२०॥ एकत्वेऽपि पराणि निन्दाऽशक्तिस- माप्तिवचनानि ॥ २१ ॥ प्रायश्चितं वा निमित्तेन ॥२२॥ प्रक्रमाद्वा नियोगेन ॥२३ समाप्तिश्च पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत ॥२४ * वार्तिक कौस्तुभ चेदं सूत्रं दृश्यते ।
171 अधि. २.] मादीपिकासहितम्, लिङ्गमविशिष्टं सर्वशेषत्वान्न हि तत्र कर्मचो- दना तस्माद्वादशाहारव्यपदेशस्स्यात् ॥२५ द्रव्ये चाचोदितत्वाद्विधीनामव्यवस्था स्या- निर्देशाद्व्यवतिष्ठेत तस्मानित्यानुवादस्स्यात् ॥२६॥ विहितप्रतिषेधात्पक्षेऽतिरेकस्स्यात् ॥२७॥ सारस्वते विप्रतिषेधाद्यदेति स्यात् ॥ २८ ॥ उपहव्ये प्रतिप्रसवः ॥ २९ ॥ गुणार्था वा पुनश्श्रुतिः ॥ ३० ॥ प्रत्ययं चापि दर्शयति ॥ ३१ ॥ अपि वा क्रमसं- योगाद्विधिपृथक्त्वमेकस्यां शाखायां व्यव- तिष्ठेत ॥ ३२ ॥ विरोधिनां त्वसंयोगादेक- कर्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्यय- स्स्यात् ॥ ३३ ॥ एकवेदगतनानाशाखासु श्रुतानामनिहोत्रादीनामुत्पत्तिप्रयोगविनि- योगभेदा पवादोऽत्र क्रियते । नानाशाखासु श्रुता अमिहोत्रादयो भियन्ते न वेति सन्देहः । तत्र पूर्वपक्षमाह-एकस्यां शाखायामीमहोत्रादिवि- धिपरायां सत्यां शाखान्तरेषु तद्भिन्नशाखास्वपि तद्विधिपरासु सतीषु कर्मभेदः अग्निहोत्रादिकर्मणां तत्तत्प्रतिपाद्यानां भेदः स्यात्। कुतः? नामरूपधर्मविशेषपुनरुक्तिनिन्दा शक्तिसमाप्तिवचन- प्रायश्चित्तान्यार्थदर्शनात् । तावत् काठकं कालापक- मित्यादिकं कर्मणि वैदिकैः प्रयुज्यमानम् । तच्च संज्ञाविधयैव भेदग्राह- नाम धया 172 पूर्वमीमांसादर्शनं. अध्या. २.पा. कम् ।. रूपं द्रव्यदेवताख्यं तद्रूपाद्गुणाद्भेदः । यथा-कस्यां चिच्छा- खायामग्नीषोमीय एकादशकपालः शाखान्तरे तु द्वादशकपाल इति । एवं धर्मविशेषेऽपि गुणो भेदकः । यथा-कारीरीवाक्यान्यधीयानास्तै- त्तिरीया भूमौ भोजनमाचरन्ति अन्ये नैति । तदिदं भूमिभोजनरूप. मध्ययनाङ्गमुपकारकत्वात् कारीरीभेदं गमयति । पुनरुक्तिः एकशाखा- यां श्रुतस्य शाखान्तरे पुनश्श्रवणरूपोऽभ्यामः ".अग्रिहोत्रं जुहोति"* इत्यादौ अमिहोत्रादेर्भेदकः । निन्दाऽपि अमिहोत्रादिकर्मभेदिका गुणवि- प्रातःप्रातरनृतं ते वदन्ति वदन्ति पुरोदयाजुह्वति येऽग्निहोत्रम् । दिवाकीर्त्यमपि वा कीर्तयन्तस्सूर्यो ज्योतिर्म तदा ज्योतिरेषाम् ॥" इत्येषा. उदितहोमसन्निधौ । अनुदितहोमविधिसन्निधौ च "यथाऽति- थये प्रद्रुतायान्नं हरेयुस्ताहगेव तद्यदुदिते जुह्वति" इत्येवंरुपा । अ: शक्तिः कर्मण एकत्वे सर्वशाखास्थानोपसंहारस्य । तथा चैकशाखा- विहिते अग्निहोत्रादिकर्मण्यंसम्भवनिवेशाच्छाखान्तरीयाङ्गरूपाद्गुणाद्भदः । समाप्तिवचनं “अस्माकं मैत्रायणीयानां योऽग्निस्सोऽन्वारीहेषु स- माप्यते अन्येषामन्यत्र इत्यादिकं अग्निचयनादिसमाप्तिभेदत्र्यवहरणं याज्ञिकानां गुणविधया अग्निचयनादिकर्मभेदकम् । अन्वारोहा नाम स्थ- लारोहणमन्त्राः । प्रायश्चित्तं उदितहोमिनामनुदितहोमिनां च तत्त. द्धोमव्यतिक्रमे विधीयमानं अनिषिद्धप्रायश्चित्तासम्भवानिन्दावद्गुणविध- या अग्निहोत्रकर्मभेदकम् । निन्दा हि आनषिद्वेऽपि कथं चित्स- म्भवेत्स्तुत्यर्थ न तु प्रायश्चित्तमिति पृथगुक्तिः । अन्यार्थदर्शनं नाम रूपायुक्तार्थातिरिकस्याप्यर्थस्य कालादिरूपस्यानुपादेयगुणस्य दर्शनमपि प्रकरणान्तरविधया भेदकम् । तदिदं परिहारसूत्रवशात्पश्चसु स्थलेषु प्रदर्यते । यथा क्वचिच्छाखाय प्रायणीयं द्वादशाहान्तर्गतं प्रक्रम्य श्रुतं "यदि पुरा दिदीक्षाणास्स्युस्तत्र तमेव बृहत्सामानमतिरात्रमुपेयुरु- *ते. से. १.६.१. " अधि, २.] भारदीपिकासहितम, 178 पेतमेषां रथन्तरमथ यद्यदिदीक्षाणास्ततो रथन्तरसामानमेव" इति । यदि पुरा. दीक्षितवन्तस्ततो बृहत्सामानमतिरात्रमुपेयुः पूर्वदीक्षायां रथन्तरस्य प्रयुक्तत्वात् । अथ न दीक्षितवन्तस्ततो रथन्तरसामानमेवोपेयुरित्येवं प्रागदीक्षितानामपि द्वादशाहे दर्शनं शाखाभेदेन द्वादशाहकर्मणो भेदे सत्येवोपपद्यते । एकत्वे हि "एष वाव प्रथमो यज्ञो यज्ञानां यज्यो। तिष्टोमो य एतेनानिष्टाऽथान्येन यजते गर्तपत्यमेव. तद्भवति" इति ताण्डकशाखास्थवचनेन विकृत्यन्तराणामिव सर्वशाखास्थस्यापि द्वादशाहस्य ज्योतिष्टोमपश्चाद्भावनियमात् तत्रादीक्षीतदर्शनानुपपत्तिः । भेदे तु ताण्ड. कशाखास्थयज्ञानामेवोपस्थितत्वादन्यपदेनीपादानात्तच्छाखास्थद्वादशाहस्यैव ज्योतिष्ठोमपश्चाद्भावनियमादेतच्छाखास्थद्वादशाहस्य तन्नियामकप्रमाणाभा- वेन पक्षे अदीक्षितार्थदर्शनोपपत्तिः । तथा यूपैकादशिन्याम् “यत्पक्षसम्मिता मिनुयात्कनीयांसं यज्ञक्रतुमुपेयात्...वेदिसम्मितां मिनोति"* इति लिङ्गम- नियमेनार्थप्राप्तयोश्श्येनाख्यपक्ष्याकारस्थलावयवभूतपक्षद्वयसम्मितत्ववेदिसम्मि- तत्वपक्षयोमध्ये एकं निन्दित्वा इतरविधिरूपं भेदपक्षे उपपद्यते । कमैकत्वपक्षे तु शाखान्तरीयस्य "रयाक्षमात्राणि यूपान्तरालानि भवन्ति" इति विधि- विहितस्य रथाक्षमात्रान्तरालस्याप्युपसंहारान्न वेदिसंमानं विधातुं शक्यम्- वेदेरल्पपरिमाणत्वात्सुतरां च पक्षसम्मानं निन्दितुं अप्रसक्तत्वात् । तथा शाखाभेदेन ज्योतिष्टोमातिराने “तिखस्संस्तुतानां विराजमतिरिच्यन्ते" इति “द्वे संस्तुतानां विराजमतिरिच्यते” इति च श्रूयते । तत्र संस्तुतपदवाच्यानां स्तोत्रीयाणां मध्ये विराट्दवाच्येन दशकेन भागं दवा द्वयोस्तिसृणां चावशेषषचनं कमैकत्वनोपपद्यते । तथा सारस्वत- सत्रे- ये पुरोडाशिनस्त उपवसन्ति ये सान्नाय्यिनस्ते वत्सान् धा- स्यन्ति । इत्यसोमयाज्यधिकारिफैन्द्रामाभिप्रायेण पुरोडाशिन इति व- चनमनिष्टप्रथनयज्ञत्वज्ञापकमदीक्षितदर्शनवत्कर्मभेदे उपपद्यते प- *तै.सं.५.६.८.
" आख्या तथा पूर्वमीमांसादर्शनं. [अध्या. २. पा ४. रिहारभेदातु पृथगुपन्यासः । तथा उपहव्ये ऋतौ शाखाभेदेन “ उप. हव्योऽनिरुक्तोऽमिष्टोमो रथन्तरं सामाश्वश्श्यावो दक्षिणा" " उपहव्योऽ- निरुक्त उक्थ्यो बृहत्सामाश्वइश्वेतो दक्षिणा इत्येताभ्यां वाक्याभ्यां बृहद्रथन्तरसामनी विहिते । तत् कमैकत्वपक्ष विकल्पापत्तर्विकल्पस्य चातिदेशेनैव प्रारुत्वादनर्थकम् । भेदपक्षे तुं विकल्पेन प्राप्तयोर्नयमा- र्थमिति भेदपक्ष एव न्याय्य इति ॥ ८ ॥ सिद्धान्तमाह-सर्वशाखा अमिहोत्रादि कर्म एकं वा एकमेव संयोगरूपचोदनाख्याविशे- षात् संयोगः स्वर्गादिफलसम्बन्धः रूपं द्रव्यदेवतालक्षणं चोदन. धात्वर्थावच्छिन्नभावनाविषयकंविधिरूपा अग्निहोत्रादिनामधेयं- एतेषां प्रतिशाखमविशेषात् अवेलक्षण्यात् । च तदेवेद- मिति प्रत्यभिज्ञायते ॥९॥ पूर्वपक्ष्युक्तान् हेतून् क्रमेण निरस्यति । नाना काठकादिकेन अग्निहोत्रादीनां न भेदः काठकादिनानः अचोद- नाऽभिधानत्वात् चोदनायां विद्यमानं यदभिधानं नामधेयं तत्त्वाभावात् । तद्धि ग्रन्थाभिधानम् । विधिगता च संज्ञा कर्मभेदहेतुरिति ॥१० ॥ ग्रन्थसंज्ञाभेदस्यापि कर्मभेदकत्वमिति तु न युक्तं तथा सति तुल्ययु- क्त्या ग्रन्थसंक्यस्यापि कमैक्यहेतुत्वमवश्याश्रयणीयमिति प्राय: सर्वे- षां च सर्वेषामपि कर्मणां ऐककात् एककर्मत्वप्रसङ्गात् । अस्ति हि तैत्तिरीयमित्यादि संज्ञक्यम् ॥११॥ इतश्च काठकादिसंज्ञाभेदो न कर्म- भेदहेतुः यतः अभिधानं कांठकादिकं कृतकं च वैशम्पायनान्ते- वासिपुरुषविशेषवाचिकठशब्दघटितत्वात्तस्य च सादित्वात्ततः परमेव प्रवृत्ततया अनित्यमपि । न खल्वनित्यसंज्ञया नित्यचोदनाविहितकर्म- भेदो युज्यते यत्तु एकादशकपालवद्वादशकपालवा रूपमैदाख्या परं अग्नीपोमीयस्य भेदकारंणमुक्तं तत्तु तस्य एक- त्वेऽपि व्रीहियवन्यायेन विकल्मेनोपपत्तेर्न भेदकम् ॥ १३ ॥ यत्पुनः भूमिभोजनादिपरं धर्मशास्त्रं तत् कारीरीवाक्यायध्ययनसाध्यायां वि- आधि. २.] भाहदीपिकासहितम्. 176 द्यायां विघ्ननिवृत्तिद्वारा उपयोगिनमर्थ विधत्ते न पुनः कारादि- कर्माङ्गम् । वक्ष्यते चायमों द्वादशे । अतो न ततः कारीयोदिक. मभेदः ॥ १४ ॥ यत्तु शाखाभेदेनाग्निहोत्रादेः पुनर्वचनं भेदकमुक्त तत् आग्नेयवत् आग्नेयस्य “यदानेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति "* इत्येतदनन्तरश्रते “आनेयोऽष्टाकपा- लोऽमावास्यांयां भवति"* इति वाक्ये पुनर्वचनमिव न भेदकं भवि- तुमर्हति । स्पष्टं चेदमाग्नयाधिकरणे प्राक् ॥ १५॥ अथवा नानाशा- खासु अग्निहोत्रादेश्श्रवणं अद्विवचनं अनन्यपरपुनश्श्रवणरूपोऽभ्यास एव न भवति श्रुतिसंयोगाविशेषात् अपूर्वश्रुतिसंयोगाख्याज्ञातज्ञा- मकत्वस्य सर्वत्राविशेषात् । तत्तच्छाखावाक्यस्य तत्तच्छाखाध्येतृपुरुषान् प्रत्यज्ञातज्ञापकत्वात् ॥१६॥ ननु यश्शाखाद्वया येता तं प्रति ताह- शशाखाद्वयगतवाक्यद्वयस्याज्ञातज्ञापकता न सम्भवतीति चेन्न वाक्या- समवायात् एकशाखावाक्यस्य शाखान्तराध्येता नियमेन अध्ययन तत्सम्बन्धासम्भवात् ये खल्वेकैकमात्रशाखाध्यायन: तान्प्रत्य- ज्ञातज्ञापकत्वं सर्वेषां वाक्यानामस्त्येवेति ॥ १७ ॥ अर्थासन्निधेश्च शा- खाभेदनाग्निहोत्रादेः अद्विवचनमपानरुक्त्यमवगन्तव्यम् । तत्र नाम पुन- रुक्तता भवति यत्र पूर्वोक्तोऽर्थस्तस्यैव पुंसस्सन्निहितो भवति । न लिह शाखान्तरगतस्य सन्निधानमित्यपुनरुक्तता ॥ १८॥ शाखाभेदे- नामिहोत्रादिभेदे हि तत्तत्कर्मसु अधिकारिविशेषव्यवस्था न कल्पयि- तुं शक्यते न च न हि एकं प्रति क्वचिदपि शाखायां शिष्यते विधीयते । आर्थिमात्रोद्देशेन विधेरेव स्वर्गकामादिपदैरवगमात् ॥ १९ ॥ " अस्माकं मैत्रायणीयानां योऽग्निस्सोऽन्वारोहेषु समाप्यतेऽन्येषामन्यत्र इति समाप्तिव्यपदेशः समाप्तिवञ्च सम्प्रेक्षा असमाप्तावपि स्वशाखा- धीताङ्गसमाप्तिमभिप्रेत्य समाप्तिवदुत्प्रेक्षामात्रमेव । अचन्द्रेऽपि मुखे *तै. सं. २-६-३.
116 पूर्वमीमांसादर्शनं. [संध्या. २. पा.. आहादकत्वाभिप्रायेण चन्द्रत्वात्प्रेक्षावत् । तथा च योऽमिस्सोऽस्माक- मत्र समाप्यते अन्येषामन्यत्रेत्यन्वयाङ्गीकारेण तद्वयपदेशेनाप्यभेद एव प्रतीयते इत्याशयः ॥ २० ॥ यानि पुनः पुनर्वचनात् पराणि नि- न्दाशक्तिसमाप्तिवचनानि तानि एकत्वेपि न प्रतिकूलानि । उदितानुदितकालयोहे एकत्र कर्मणि विकल्प एवेतीतरेतरनिन्दयोन हि निन्दान्यायेनेतरेतरस्तुत्यर्थतयोपपत्तेः । सर्वाङ्गोपसंहारेऽपि च तत्तच्छा- खागताङ्गानां बाहुल्येन समानत्वात्केषां चिदेव त्वाधिक्येन न अशक्तिः प्रसञ्जनीया । समाप्तिवचनं च स्वशाखाधीताङ्गापेक्षयेत्युक्तमेव [१९] सूत्रे ॥२१॥ शङ्कते-निमित्तेन उदिनानुदितहोमयोस्स्वस्वकालाति- क्रमरूपनिमित्तेन अनुष्ठेयतया आनातं प्रायश्चित्तं कथं सङ्गच्छताम् ।। २२ ॥ समाधत्ते-प्रक्रमाद्वा प्रथमप्रयोगमारभ्यैव नियोगेन काला. दिनियमस्वीकारेण स्वीकृतकालाद्यतिक्रमे प्रायश्चित्तानानं युज्यत एव । तथा च छन्दोगपरिशिष्टे- रूपं कालोऽनुनिर्वापाचवणं देवतास्तथा । य आदौ विधृताः प- क्षास्त इमे सर्वदा स्मृताः ॥ इति ॥ २३ ॥ समाप्तिः समाप्तिव्यवहारः पूर्ववत्त्वात् पूर्वोपपादितकर्मा भेद- प्राहकयुक्तिसहकृतत्वात् यथाज्ञाते यथादर्शितंयोजनावगते कर्माभेद एव तात्पर्यवानिति प्रतीयेत निर्धार्येत । अतस्समाप्तिव्यवहारस्य आपात- प्रतीयमाना कर्मभेदपरता न स्वीकार्योति भावः ॥ २४ ॥ लिङ्ग अ- दीक्षितदर्शनरूपं यदुक्तं तत् तवापि अविशिष्टं “एष वाव प्रथमो इत्यनेन ताण्डकवाक्येनानारभ्याधीतेन ज्योतिष्टोमविकारेषु. यज्ञा- न्तरेष्विव द्वादशाहसामान्येऽप्यमिष्टोमोत्तरवस्थ विधानात् न हि तत्र ताण्डकवाक्ये कर्मचोदना द्वादशाहरूपकर्मणचोदना प्रकृताऽस्ति । अपि तत्र यहांशे . ताण्डकशाखागतवमप्युपश्यतावोदककौटिनिविष्ट यज्ञः बाषि. २. मादीपिकासहितम्. 177 मानाभावात् । शाखान्तरगते ज्योतिष्टोमविकारेऽपि ज्योतिष्टोमपश्चाद्भा- वावश्यकत्वाच्च । तस्मात् “ यदि दीक्षितः" इति वाक्ये द्वादशाहस्य आहारव्यपदेशः प्रयोगभेदतात्पर्यकः दीक्षितादीक्षिताधिकारव्यपदेश: स्यात् तथा च द्वादशाहैक्येऽपि. नास्माक तल्लिङ्गदर्शनानुपपत्तिरिति ॥ २५ ॥ द्रव्ये अमयाख्यद्रव्यप्रकरणे अन्तरालस्य अचोदितत्वात् विधीनां अन्तरालविध्यदेः अव्यवस्था प्रकरणे व्यवस्थितिविरहः स्यात् वेदिसम्मानमेव तु प्रकरणे निशात् व्यवतिष्ठेत । तस्मात् पक्षसम्मि. तिनिन्दा नित्यानुवादः स्यात् वेदिसम्मानं तु शाखान्तरे यूपैकादशिन्या अपि चयनप्रकरणे समानानात् ज्योतिष्टोमापूर्वसाधनीभूतामपङ्गयूप- कादशिन्युद्देशेनैव विधीयत इत्यङ्गीक्रियते । अनारभ्याधीतो रथाक्षमा- त्रान्तरालताविधिस्तु यास्वग्निरहितासु विकृतिषु यूपैकादशिनी विहिताऽ- स्ति तासु गमिष्यतीति वार्तिककाराशयः । भाष्यकारपक्षे तु द्रव्ये अग्नयाख्ये यूपकादशिन्या. अचोदितत्वात् विधीनां वेदिसम्मानविधि- रथाक्षमात्रान्तरालविधिपक्षसम्मानविधीनां अव्यवस्था स्यात् सति यमौ यूपैकादशिनीनिर्देशे तस्मात् निर्देशात् व्यवतिष्ठेत विरुद्धानां मानविधीनां व्यवस्था अपक्ष्येत तस्मात् तादृशीनर्देशाभा- वात् पक्षसम्माननिन्दा नितानुवादः सन् वैदिसम्मानस्तुत्यर्थः स्यात् । स्तुतिपूर्वकस्तद्विधिरपि च न विधानार्थः । अपि तु ज- तिलयवागून्यायेन पश्वेकादशिनीवृत्तियूपैक्यविधिस्तुत्यर्थः एकवाक्यताला- भात् । पक्षसम्मानापेक्षया प्रशस्तमपि वेदिसम्मानं पैक्यापेक्षया अ- प्रशस्तभेवेत्येवं स्तुतिः । एवं च रथाक्षमात्रान्तराखता यत्र वाचस्तो- मादौ यूपैकादशिनी विहिता तद्विषयेत्यवधेयमिति ॥ २६ ॥ ‘तिम- संस्तुतानां विराजमतिरिच्यन्ते द्वे संस्तुतानां विराजमतिरिच्येत ' इति लिङ्गमपि कमैंक्यपक्षेऽप्युपपद्यते विहितप्रतिषेधात् “अतिरात्रे षोडशिनं गुहाति नातिराने षोडशिनं याति" इति विहितस्यैव घोडशिनः प्रतिषेधात ५-28 178 पूर्वमीमांसादर्शनं. [अध्या. २. पा... वैकल्पिकलावगतेः । करणपक्षे हि वहिष्पवमाने नव । आज्येषु चतुषु माध्यं- दिनपवमाने च पञ्चदशस्तोमकत्वात् मिलिला पञ्चसप्ततिः पृष्ठेषु चतुर्दा आर्भवे च सप्तदशस्तोमकलात् तथैव पश्चाशीतिः अग्निष्टोमस्तोत्रे त्रिष्- क्थ्यपर्यायेषु षोडशिनि चैकविंशस्तोमकत्वात् तथैव पश्चोत्तरं शतम् । द्वादशस्वतिरात्रस्तोत्रेषु पञ्चदशस्तोमकलादशीत्युत्तरं शतम् । रथन्तरे नव । तत्र सर्वेषां मेलने कृते त्रिषष्टयुत्तरशतचतुष्टयोपजननाद्दश- केन भागे दत्ते तिस्रोऽवशिष्यन्त इति तिसृणां अतिरेकस्स्यात् भकरणपक्षे तु एकस्या एकविंशतेरगणने द्विचत्वारिंशदुत्तरचतुश्शत्युप- जननाद्दशकेन भागदाने द्वेऽवशिष्यते इति द्वयोरंतिरेकस्स्यादिति ॥२७॥ सारस्वते मित्रावरुणयोरयनाख्ये सारस्वतसत्रे विप्रतिषेधात् सर्वे- षामेव क्रतूनां ज्योतिष्टोमविकाराणामग्निष्टोमपूर्वकत्वेन . 'ये पुरोडाशिनः' इति पुरोडाशदर्शनविरोधस्य कर्मभेदवादिमतेऽपि दुर्वारलात् । सर्वै रेव तद्विरोधवारणाय यदेति पदमध्याहरणीयं स्यात् तथा च सारस्वत- सत्रे प्रतिपक्षममावास्यापौर्णमास्याख्यकर्मविधानात् ये अदा पुरोडाशिनः पुरो- डाशसाध्यकर्मकर्तारः ते. तदा उपासन्ति । ये यदा ' सान्नाय्यिनः सानाय्यसाध्यकर्मकर्तारस्ते तदा वत्सं धारयन्तीति कालभेदमात्रपर्यव- सितं तद्वाक्यं न तु कर्मभेदपरमिति ध्येयम् ॥ २८ ॥ उपहव्ये क्रतुविशेषे वृहद्रथन्तरयोवैकल्पिकयोः प्रकृतित एव प्राप्तयोश्शाखाभेदेन पुनविधानरूपः प्रतिप्रसवः कथं सङ्गच्छत इति शङ्कापरमिदं सू- त्रम् ॥ २९ ॥ समाधत्ते-प्राप्तयोरपि बृहद्रथन्तरयोः पुनश्श्रुतिः पुनश्चवणं गुणार्था वा संस्थाव्यवस्थार्थ दक्षिणाव्यवस्थार्थ चोपपद्यते । 'उपहव्योऽग्निष्टोमो रथन्तरसामाऽश्वश्श्यावो दक्षिणा' इत्यत्र रथन्तर- साम्नि निनित्ते अमिष्टोमसंस्थाश्यावाश्वदक्षिणोभयविशिष्टस्य उपहव्य- नामकस्य कर्मणो विधानाङ्गीकारात् संस्थादक्षिणयोर्गु गयोर्व्यवस्था भवति । एवं ' उपहन्य उक्थ्यो यहो बृहत्सामावश्येतो दक्षिणा' :ति शाखा- भषि, २.] माहदीपिकासहितम 179 न्तरवाक्येऽपि बोध्यमिति ॥ ३० ॥ एवं कर्मैक्यवाधकानि लिङ्गा- नि परिहत्य तत्साधकमपि लिङ्गमाह-मैत्रायणीयशाखायां 'ऋतवो वै प्रयाजाः'. इत्यनेन दैत्तिरीयशाखाविहितान् प्रयाजाननूद्य 'समाना प्रतिष्ठा होतव्या' इत्येषः पश्चानां तेषां सहहोमाख्यं गुणं विदधत् सन्दर्भः प्रत्ययं चापि सर्वशाखाप्रत्ययमकं कर्मेत्यपि दर्शयति । मैत्रायणीयशाखायां प्रयाजानामभिधानेन स्वशाखाविहितानुवादासम्भ- वात् । अत्रैव विशिष्टप्रयाजान्तरविधाने विशिष्टविधिनिमित्तगौरवाप- तैरिति ॥३१॥ शङ्कते-अपि वेति शङ्काद्योतकम् । एकस्यां शाखायां विधिपृथक्त्वं विधेः विधीयमानस्याग्निहोत्रादेः कर्मणः पृथक्त्वं शाखान्तरविहितादमिहोत्रादिति । व्यवतिष्ठेत निर्णीयेत क्रमसंयोगात् पाठक्रमाद्यवगतक्रमादेस्तथैव समन्वयात् । अपृथक्त्वे हि क्रमकालपरिमाणभेदापत्तिः । तथा हि दर्शपूर्णमासयोस्स्विष्टकृदुत्तरं प्राशित्रदानं पठितं तत इडावदानमकस्यां शाखायां पठितम् । अन्य. स्यां तु तद्विपरीतम् । ततश्च कर्मैक्ये पाठक्रमेण क्रमनियमो न स्यात् । एवं शाखान्तरावगताङ्गोपसंहारे कालाधिक्यप्रसङ्गेन पूर्वाह्नादिकाल: त. था प्रयोगविष्यवगतं परिमाणमपि च नोपपद्यते ॥ ३२॥ समांधत्ते- ऐककर्ये पूर्वोतयक्तिभिस्सर्वशाखाप्रत्ययकमैक्ये तु न किश्चिद्वाधकम- स्ति विरोधिनां क्रमाणां एकस्मिन् प्रयोगे असंयोगात् अनन्वयात्। प्रयोगभेदेन विरोधिनोः क्रमयोस्सम्बन्धो नानुपपनः । ततश्च विधी- नां अङ्गविधीनां सर्वेषां तत्संयोगात् तेनैव कर्मणा प्रधानेन सम्ब- न्धात् सर्वप्रत्ययः नानाशाखावगतसर्वाङ्गोपसंहारः स्यात् एव । सर्वाङ्गोपसंहारेणैव प्रयोगविधिप्रवृत्तेः परिमाणभेदस्थापि नावसरः । क- तिपयपदार्थमात्राधिक्येऽपि पूर्वाहादिकालातिक्रमोपि नाशङ्कनीय इति भावः ॥३३॥ इति सरबोधिन्यां द्वितीयस्य चतुर्थः.
180 अध्या. २.पा.४. पूर्वमिमांसादर्शन, अग्निहोत्रादौ सत्स्वपि भेदकप्रमाणेषु न कर्मभेदः । भे- दकप्रमाणैहि स्ववाक्यस्य कर्मोत्पत्तिपरत्वावगतरुत्पन्नस्योत्पत्त्य- योगात्कर्मान्तरत्वसिदिः । प्रकृते रातप्रमाणैरुत्पत्तिपरत्वावग- मेऽपि पुरुषभेदात्तत्तच्छाखाध्यापिपुरुषान् प्रत्येकस्यैव कर्मण- स्सर्वत्रोत्पत्तिसम्भवान कर्मभेदः । न हि सर्वशाखास्सर्व- पुरुषैरध्येयाः स्वाध्यायविधौ ‘अध्वर्यु वृणीते' इतिवत्स्वीय- त्वैकत्वयोर्विवक्षितत्वेनानेकशाखाध्ययनानुपपत्तेः । न चैवं वे- दान्तरस्थशाखाध्ययनस्याप्यनापत्तिः । 'वेदानधीत्य' इत्यादि- वचनान्तरानुरोधेन वेदत्रयगतैकैकशासाध्ययनस्यैवावश्यकत्वाव- गतेः । अत एव वेदभेदे पुरुषाभेदादेकत्रैवोत्पत्तिरपरत्र गुणार्थ श्रवणमित्यत्र नियामकं वक्ष्यते । वेदैकत्वे तु प्रतिशाखं पुरुषभे- दात् सत्यपि सर्वेषामुत्पत्तिपरत्वे न कर्मभेदः । अत एवै- कस्मिन् कर्मणि विरुद्धानां नानाशाखागसाङ्गानां विकल्पः। स च न तत्तत्पुरुषभेदेन व्यवस्थितः । तत्तदङ्गानां तत्तदध्येत्रर्थ- त्वे प्रमाणाभावेन प्रकरणाच्छुद्धत्वर्थत्वावगतेः । अविरुद्धाङ्गेषु तु समुच्चयः । शाखान्तरीयाङ्गज्ञानं च कल्पसूत्रादिभिस्सुल- भम् । यत्तु 'बह्वल्पं वा स्वगृह्योक्तं' इत्यादिवचनं, तत् सा वाजोपसंहारासम्भवेऽनुकल्पविधानार्थमिति कौस्तुभे द्रष्टव्यम् । तदेवं शब्दान्तराभ्याससङ्ख्यासंक्षागुणप्रकरणान्तरैर्निरूपितः कर्मणां भेदः । अतःपरं तेषां विनियोगो निरूपयिष्यते ॥२॥ इति श्रीखण्डदेवविरचितायां भाङ्दीपिकायां द्वितीयस्याध्यायस्य चतुर्थः: पादः. अध्यायश्च समाप्तः अधि...] मादीपिकासहितम्. 181 (१)-अथातशेषलक्षणम् ॥१॥ अथ. षट्माणककर्मभेदनिरूपणानन्तरं अतः तादृशभेदनिरूपण- "निष्ठहेतुताया निरूपकं शेषलक्षणं भावप्रधाननिर्देशाद शेषत्वनिरूपणं सानुबन्धिकं आरभ्यते । कर्मणां परस्परं भेदे सत्येव तत्र केपां- चिदानेयादीनां शेषित्वं केषांचिच्च प्रयाजादीनां शेषत्वमिति स्यात् नान्यथा। अतश्शेषत्वनिरूपणस्य भेदनिरूपणहेतुकलं . वोध्यम् ॥१॥ षट्रमाणके भेदे निरूपिते सम्प्रति शेषिनिरूपितं शेषत्वा- परपर्यायमङ्गत्वं निखप्यते । भिन्नानां च तत्सम्भवति नाभि- नानामिति तन्निरूपणस्य तत्र हेतुत्वम् । यद्यपि च द्रव्यकर्म- णोमिथोऽभविभावे न पूर्वोतनिरूपणस्य हेतुता । तथाऽप्यङ्गत्वसा- मानाधिकरण्येन हेतुतामादायैव सङ्गत्युपपत्ताववच्छेदकावच्छेदे- न' तदसत्त्वेऽपि न कश्चिद्विरोधः । अंश एव हेतुत्वं अंशान्तर- स्य तु तत्प्रसङ्गानिरूपणमित्यपि वा बोध्यम् । अङ्गत्वमेव चा- ध्यायार्थः । अङ्गित्वं त्वर्थात् । तदपि च श्रुत्यादिषट्माणकं अतिदेशप्रमाणकस्येहाविचार्यत्वात् । तच्चानेकप्रकारं विचार्यते । अङ्गत्वलक्षणं, शेषपदशक्यतावच्छेदकं, अङ्गाङ्गितयोरवच्छेदकं, श्रुत्यादीनि षडङ्गत्वे प्रमाणानि, तयोविरोधे बलाबलं, विरोधश्च कास्ति क नास्ति इत्यादि ॥ ९ ॥ (२)-शेषः परार्थत्वात् ॥ २ ॥ परार्थत्वात परः अन्यः अर्थः प्रवृत्त्युद्देश्यः यस्येति बहुव्रीहौ यदीयविधिविहितकारकताकप्रवृत्त्युद्देश्यः स परार्थः इति लभ्यते तत्वाद 182 पूर्वमामासादर्शन, अध्या. ३.पा १. भन्योद्देश्यकपरप्रवृत्तिकारकत्वेन विहितत्वात् हेतोः ब्रीयादिः शेषः शेषव्यवहारविषयः व्यवहार्यतायां च व्यवहर्तव्यतावच्छेदकस्यैव निया- मकत्वेन निरुक्तं पारायें शेषपदप्रवृत्तिनिमित्तमिति लभ्यते ॥ २॥ इहायं प्रकारद्धयं निरूप्यते । यदेव ह्यात्वलक्षणं तदेव शेषपदशक्यतावच्छेदकं नान्यत् । तत्राङ्गत्वं नाम पारायें ; तच यदुद्देशप्रवृत्तकृतिकारकत्वेन विहितं यत् तत्त्वं तदङ्गत्वम् । स्वर्गों हेशप्रवृत्तपुरुषकृतौ यागानुकूलायां यागस्य कारकत्वेन विध्य- न्वयाद्यागे लक्षणसमन्वयः । प्रधानोद्देशप्रवृत्तपुरुषकृतौ प्रया-. जाद्यनुकूलायां प्रयाजादेः कारकत्वेन विध्यन्वयात्प्रयाजादावपि । द्रव्यगुणकर्तृकालदेशादौ च यागायुद्देश्यकयागानु- कूलकृतौ करणत्वकर्तृत्वाधिकरणत्वादिकारकत्वेन विधेयत्वा- द्यागाङ्गत्वाविघातः । षष्ठीस्थले च सम्बन्धसामान्याभिधानेऽपि कारकत्व एव पर्यवसानान्नाब्याप्तिः । निमित्तस्य च क्रियान्व यिनोपि कारकत्वाभावात्राङ्गत्वापत्तिः निमित्तस्यानुष्ठापकत्वा-' ख्योद्देश्यत्वेऽपि ईप्सितत्वाख्योहेश्यत्वाभावाच न यामस्य नि- मित्ताङ्गत्वम् । लक्षणे तादृश्या एवोद्देश्यताया विवक्षितत्वात् । उद्देश्यतापदेनैव च कर्मकारकलाभात् कारकपदं तदतिरिक्तप- रम् । कृष्यादेरपि यागकृतिकारकत्वात् अङ्गत्वप्रसक्तौ विधेय- त्वान्तम् । यथा चास्य न क्वाप्यव्याप्त्यतिव्याप्ती तथा कौस्तु- भे विस्तरः । एवं च यत्रेदं न लक्षणं यथा यागादेर्भावना- दिकं प्रति तत्र भाक्तोऽङ्गत्वव्यवहारश्शास्त्रे । यद्यपि च नेश- मङ्गत्वं श्रुत्यादिप्रमाणकं कारकत्वमात्राभिधायित्वात्तृतीयादेः त- थापि यत्पदार्थस्स्वर्गादिपदात् तदुद्देश्यकत्वं संसर्गादिना । कृतियख्याता कारकत्वं तृतीयादेः विध्यन्वयित्वं विधिपद- समभिव्याहाराद । विधिर्हि विशिष्टभावनां विदधदर्थाविशे- अधि. ३.] भांहदीपिकासहितम्. 188 ध्यन्वयः षणान्यपि विधत्ते इति सर्वेषामुद्देश्यत्वेन विधेयत्वेन वा वि- अत एवाङ्गत्वघटकीभूतपदार्थान्तराणां प्रमाणा- न्तरेण प्रसिद्भावपि तद्धटककारकत्वस्य श्रुत्यादिगम्यत्वात्तेषा- मङ्गत्वप्रामाण्यव्यवहारः॥ २ ॥ (३)-द्रव्यगुणसंस्कारेषु बादरिः॥३॥कर्माण्यपि जैमिनिः फलार्थत्वात् ॥ ४ ॥ फलं च पु. रुषार्थत्वात् ॥ ५॥ पुरुषश्च कर्मार्थत्वात्॥ यागप्रयाजादीनां कर्मणां स्वर्गक्रत्वादिकं प्रति शेषवं नास्ति उत अस्तीति संशये पूर्वपक्षमाह-द्रव्यगुणसंस्कारेषु द्रव्यं व्रीह्या- दि गुणः आरुण्यादिः संस्कारः अवघातादिः एतेष्वेव तृतीयाद्वितीया- दिश्रुतितो लिङ्गाच. शेषत्वं न तु यागप्रयाजादीनां कर्मणामिति बाद- रिः नामाचार्यों मन्यते ॥३॥ सिद्धान्तमाह-कर्माण्यपि यागप्र- याजादीन्यपि शेषभूतानि फलार्थत्वात् स्वर्गक्रतूपकारादिरूपफलोद्देश्य- ककृतिकारकताया वाक्यप्रकरणादिभिः प्रमाणैरवगमात् । इति जै- मिनिः सिद्धान्तं मन्यते ॥ ४ ॥ फलं च स्वर्गादिकमपि पुरुषा- र्थत्वात् भोक्तृपुरुषोपसर्जनत्वात् पुरुषं प्रति गौण्या शेषव्यवहारवि- षयः मुख्यस्य परोद्देश्यककृतिकारकत्वस्य विरहात् ॥६॥ पुरुषश्च स्वर्गकामादिः कर्मार्थत्वात् यागायुद्देश्यककृती कर्तृकारकत्वात् शेषभूत इत्युभयवादिसम्प्रतिपन्नमेवः । पुरुषस्य द्रव्यान्तर्गतत्वात् । प्रयाजादीनां शेषत्वे अतिदेशस्सिद्धान्ते फलमिति बोध्यम् ॥ ६ ॥ यद्यपि पारार्थ्यमात्वं तथापि न यागादेलक्ष्यता समान- पदभुत्या यागादेरेष भावनाभाव्यत्वेन तस्य स्वर्णोद्देशेन विहि.
184 पूर्वमीमांसादर्शनं. अध्या. ३. पा. १. तत्वाभावात् । विधेः प्रवृत्तिस्वरूपयोग्यत्वेनैव लिङयतया इष्ट- साधनत्वानाक्षेपकत्वात् । आक्षेपकत्वेऽपि वा भ्रमप्रमासाधार- ण्येनेष्टसाधनत्वज्ञानस्यैव कारणतया इष्टसाधनत्वसिद्धौ प्रमा. णाभावाच । स्वर्गकामपदस्य तु परस्त्रीकामः प्रायश्चित्तं कुर्या- दितिवत् कर्तृपरत्वादिनाऽप्युपपत्तेर्न भाव्यपरत्वावश्यकता । अतो न यागादेर्लक्ष्यत्वम् । वस्तुतस्तु-उपकारकत्वमेष शेषत्वम् । तदर्थेऽप्यपकारके शेषत्वब्यवहाराभावात् । तच्च श्रुतिलिङ्गवा- क्यरूपप्रमाणत्रयगम्यमेव । अत एव बीह्यादेव्यस्य आरुण्या- देर्गुणस्य अवघातादेस्संस्कारस्य चोपकारकत्वदर्शनाच्छेषत्वम् । प्रोक्षणादिसंस्कारस्य तु लिङ्गेनाङ्गत्वासम्भवेऽपि श्रुतिवाक्या- भ्यामङ्गत्वप्रतीतेस्तदलेनैवोपकारकत्वकल्पनया शेषत्वोपपत्तिरिति तेषामेव लक्ष्यत्वमिति प्राप्त नोपकारकत्वं शेषत्वं गोदोहनदध्यानयनादेरपि प्रणयनवा- जिनयागाङ्गत्वापत्तेः । अपि तु पारार्थ्यमेव । अपकारकस्थले तुं तदपकारस्यैवेष्टत्वेन उद्देश्यता न तु तस्येति न तदर्थेऽ- प्यपकारके शेषत्वव्यवहारः । तदपि श्रुत्यादिषट्माणगम्यमि- ति वक्ष्यते । अतश्च वाक्याद्यागोऽपि फलाङ्गम् । तथा हि यद्यपि विधेस्स्वरूपयोग्यतयैव प्रवृत्त्यनुकूलत्वं लिङावगम्यते तथाऽपि कदाचिदपि प्रवृत्त्यभावे विधिवैयापत्तेः अवश्यं क- दाचित्तया भवितव्यम् । तथा चेष्टसाधनताशानं विना तदस- म्भवात् तस्य च बाधकाभावे भ्रमत्वायोगात् इष्टसाधनत्वं तावद्यागस्य विधिबलादवगम्यते । इष्टविशेषसाधनत्वं च स्व- गेकामादिपदसमभिव्याहारादिति यागस्य स्वर्गाङ्गत्वसिद्धिः । एवं फलस्यापि भोक्तूपुरुषाङ्गत्वम् । भोका च उत्सर्गतो वि- विषयात् कामनापद्यात् मात्मनेपदपथावतच । प्रमाणस- अधिः :४] मादीपिकासहितम्. 185 त्वे त्वन्यः । अत्राङ्गत्वव्यवहारो भाक्त इति तु ध्येयम् । पु. रुषः पुनः कर्तृत्वादिना यांगायुहेश्यककृतिकारकत्वात् वाक्या-. देव तदङ्गमित्यविवादमेव ॥ ३ ॥ (४)-तेषामर्थेन सम्बन्धः ॥७॥ विहितस्तु सर्वध- मस्स्यात्संयोगतोऽविशेषात् प्रकरणाविशे- पाच ॥८॥ अर्थलोपादकर्म स्यात् ॥९॥ फलं तु सह चेष्टया शब्दार्थोऽभावाद्विप्रयो- गे स्यात् ॥ १०॥ - . श्रुतिप्रमाणकविनियोगोपयोगि निरूपणमेतत्पादार्थः । ‘ब्रीहीनवह- न्ति आज्यमुत्पुनाति' इत्यादी तेषां अवघातादीनां अर्थेन त्री- ह्यादिपदार्थेन सह सम्बन्धः अन्वयः । न तु प्रकरणदृष्टराज्यादि- भिरपि ॥७॥ एवं सिद्धान्ते शङ्कने-विहितस्तु 'ब्रीहीनवहन्ति' इत्या- दिविधिविहितोऽवधातादिः सर्वधर्मः सर्वेषामेव नीहाणामाज्यादीनां- च शेषः स्यात्. संयोगतः प्रकृतापूर्वसम्बन्धितायास्तत्रतत्र व्रीया- दिपदविवक्षणीयायाः अविशेषात् अविशिष्टत्वात् । प्रकरणाविशेषात् . दर्शपूर्णमासप्रकरणस्याप्यविशिष्टत्वात् च. सामान्यधर्मावच्छिन्नबोधकस्यापि ब्रीह्यादिपदस्य प्रकरणक्शात्सङ्कोचोऽप्यत्र नाशङ्कयः, प्रकरणस्याप्यविशे- पादिति । तथा च आज्यादावप्यवहननादिकं व्रीह्यादावुत्पवनादिकं च सङ्कीर्ण स्यात् ॥ ८ ॥ समाधत्त-अवघातादेः अर्थलोपात् अर्थस्य दृष्टरूपस्य वितुषीभावादेः लोपात् अदर्शनात् अकर्म अकरणमेव स्थात् आज्यादिष्ववंधातादेः ॥॥ दृष्टार्थासम्भवेऽपि अदृष्टार्थीयैवा- P,M,-24 186 पूर्वमीमांसादर्शन. [अध्या. ३.पा. १. ज्यादिष्ववधातादिकं स्यादित्याशङ्कायामाह-चेष्टया अवघातादिरूपया तु सह दृश्यमानं फलं वैतुष्यादिरूपं , सम्भवेत् । स एव व्रीह्या- दिः ब्रीह्यादिपदार्थः । नाज्यादिः व्रीह्यादिपदेन .अतिप्रसक्तलक्षणायां प्रमाणाभावेन प्रदेयप्रकृतिभूततण्डुलफलकवैतुभ्यादिद्वारिकायाः प्रकृतापूर्वसा- धनताया एव विवक्षणात् आज्यादौ च तस्या अभावात् । विप्र- योगे दृष्टफलासम्भव तु 'सर्वोषधीनवहन्ति' इत्यादी अदृष्टफलद्वार- कापूर्वसाधनतावानप्यगत्या उद्देश्यपरशब्दार्थः स्यात् ॥ ११ ॥ - । तदेवमङ्गत्वे निरूपिते श्रुत्यादीनि पद प्रमाणानीत्युक्तम् । तत्र श्रुति म अङ्गत्वघटकीभूतोद्देश्यत्वकृतिकारकत्वयोरन्यतरस्य प्राधान्येन वाचकश्शब्दः । स च द्वितीयातृतीयाविभक्तिरूपः । कृदन्तस्थले निष्ठातृजादिव्यावृत्त्यर्थं प्राधान्येनेति । तस्य कार- कत्वविशिष्टद्रव्यवाचित्वेन प्राधान्येन कारकत्ववाचित्वाभावान् । अत एव 'प्रोक्षताभ्यामुलूखलमुसलाभ्यामवहन्ति' 'वारणो यज्ञावचरः' इत्यादी वाक्यीय एव विनियोगः न श्रोतः। अत्र द्वितीया उद्देश्यत्वपरा सती प्रोक्षणादेरङ्गत्वे हेतुः । वस्तुतस्तु- ईप्सितत्वाख्याया उद्देश्यतायास्साध्यतामात्रवाचिद्वितीयावाच्य- त्वाभावात् तत्रापि न मुख्या श्रुतिः । अपितु भाक्त एव तत्र श्रुतिव्यवहारः । ईप्सितत्वांशे लक्षणाङ्गीकारात् । अतश्चोद्देश्य- तापदमपि नैव लक्षणे देयम् । एवं षष्ठयादावपि कारकत्व- शक्तत्वाभावाच्छुतित्वव्यवहारो भाक्त एव । एवं यत्रापि विभ- क्त्या लक्षणयैव कारकान्तरप्रतिपादनं तत्रापि वाक्याय एव विनियोगः न श्रौतः। एवं समानपदश्रुत्यादिष्वपि द्रष्टव्यम् ॥ तदेवं श्रुतेर्विनियोजकत्वे तद्भूताधिकरणेनैव सिद्धे अधुना अधि...] माहदीपिकासहितम्, 187 गौणमुख्यसाधारणश्रुतिविनियोगोपयोग्यङ्गाङ्गित्वयोरवच्छेदकविचा- रः क्रियते- दर्शपूर्णमांसयोः ‘ब्रीहीनवहन्ति' आज्यमुत्पुनाति' इत्या- दयः आज्यौषधसामाग्यसम्बनिनस्संस्काराश्रुताः । तेषु किं सर्वसाधारणमवघातविधाबुद्देश्यतावच्छेदकं उताज्यादिव्यावृत्तम् ? एवमन्यत्रापीति विचारः। तत्र न तावच्छ्रुतं बोहित्वादिकमेवो- द्देश्यतावच्छेदकं आनर्थक्यापत्तेः । अवघातप्रोक्षणादिव्यतिरेके- णापि ब्रीहित्वावच्छिन्नादेर्जायमानत्वात् यवेष्वनापत्तेश्च । अतो नवमाद्याधिकरणन्यायेन बोहित्वाविवक्षया अपूर्वसाधनत्वलक्ष- णाया आवश्यकत्वात् तत्र फलप्रत्यासन्नत्वादेकत्वादारादुपका- रकेषु क्लुप्तप्रयोजकशक्तिमत्वाच्च परमापूर्वस्य तत्साधनत्वमेव प्र. देयघटकबासम्बन्धेन लक्ष्यते । अस्ति चानेयादेस्तत्प्रत्यपि साधनता । अत एव न वानियमन्यायोपि । अतश्चाद्देश्यता- वच्छेदकस्य सर्वसाधारणत्वात् आज्यादिश्वप्यवघातादेस्सङ्करः । न च प्रतिनियतनिर्देशात् व्यवस्था । तथात्वे ब्रीहित्वादिविवक्षाया आवश्यकत्वेन नीवारादिष्वनापत्तरिति प्राप्ते- यद्यपि विधिरविशेषप्रवृत्तस्स्यात् तथापि दृष्टार्थत्वे नियम- विधिलाघवाद्यनुरोधेन विशेष व्यवस्थाप्यते किमुत यदा सोपि विशेषप्रवृत्त एव । बीमादिपदे प्रत्यासत्या आग्नेयायुत्पत्त्य- पूर्वसाधनत्वस्यैव लक्ष्यत्वात् । तस्याप्यनितिप्रकारत्वेन धर्म- प्रयोजकत्वोपपत्तेः आनर्थक्याभावेन तदतिक्रमकारणाभावात्, प. रम्परया फलवत्वाच्च । अतो व्रीहिपदेन व्रीहिसाध्यानि यान्या- ग्नेयाग्नीषोमीयैन्द्राग्नोत्पत्त्यपूर्वाणि तनिष्टकार्यतानिरूपितयागादि- निष्ठकारणतासमानाधिकरणकार्यतानिरूपितप्रदेयप्रकृतिभूततण्दुल- - । 188 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. १. रूपव्यापारकसाधनतासामान्याश्रयत्वस्यैवोद्देश्यतावच्छेदकत्वेन वि वक्षितत्वान्नाज्यादिवतिप्रसङ्गः अत्र चापूर्वत्रयस्यैकानु- गमकाभावेऽप्येकपदोपादानादवाक्यभेदः । तत्तद्व्यापारकसाधन ता एव च विवश्यन्ते न तु साधनतावच्छेदकादीन्यापे । तेन यागत्वपुरोडाशत्वबोहित्वाद्यभावेऽपि न क्षतिः । यथा च बीहियवयोः कारणताभेदेऽपि यवसाधारण्यं तथा कौस्तुभे विस्तरः । तत्रतत्र नवमादौ चोपपादयिष्यते ॥ ४ ॥ (५)-द्रव्यं चोत्पत्तिसंयोगानदर्थमेव चोयेत ॥११॥ अ. 'स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्प च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषचोपला चैतानि वै दश यज्ञायुधानि सम्भार्याणीत्याहुः'* इत्यत्र श्रुतं द्रव्यं स्फ्यादिद्रव्यदशकं च उत्प- त्तिसंयोगात् 'स्फ्यनोद्धन्ति । कपालेषु पुरोडाशं श्रपयति । निहोत्रहवण्या हवींषि निर्वपति । शूर्पण तण्डुलान्विविनक्ति । कृ- 'ष्णाजिनमुलुखलस्याधस्तादवस्तणाति । शम्यायां दृषदमादधाति । उ- लूखलमुसलाभ्यामवहन्ति । दृषदुपलाभ्यां पिनष्टि' इत्युत्पत्तिवाक्ये उद्धननादिक्रियासम्बन्धावगमात् तदर्थमेव श्रुतोद्धननादिक्रियार्थमेव चो घेत विधीयेत । न तु सामान्यवाचिना यज्ञायुधशब्देन यज्ञसाधन वाचिना यज्ञसम्बन्धिशक्यक्रियासामान्यार्थम् । सामान्यशब्दस्यापि वा- क्यान्तरश्रुतविशेषमात्रपरतयैवोपपत्तेः न तद्बलेनोद्धननादिवाक्ये उद्धन्त्या- दिना उद्देश्यपरेण शक्यक्रियामात्रलक्षणा शङ्कनीया ॥ ११ ॥ दर्शपूर्णमासयोः “स्फ्यश्च कपालानि च"* इति दश द्रव्या ण्यनुक्रम्य "एतानि वै दश यज्ञायुधानि " इतिश्रुतेन वाक्येन * तै. सं. १-६-७.
अधि. ६.] 189 भाहदीपिकासहितम्. दशानामपि द्रव्याणां यज्ञसाधनत्वेन विधानात् उत्पत्तिशिष्टपु- रोडाशाद्यवरोधेन च साक्षाद्यागसाधनत्वायोगादनेष्ववतारात् प्रकृतापूर्वसाधनीभूतद्रव्यसाकाङ्कशक्यक्रियात्वावच्छिन्नोद्देशेन द्र- व्याणि विधायन्ते “स्फ्येनोद्धन्ति" इत्यादिविशेषविनियोगास्त्व- वयुत्यानुवादा इति प्राप्ते- तेनतेन प्रत्यक्षाविधिना तृतीयाश्रुतिसहकृतेन स्फ्यादीनां विशिष्यावनियोगात् यज्ञायुधवाक्यमेवैकमश्रुतविधिकं वंशब्दोप- बद्धमनुवादकम् । बहूनामनुवादानां वैयर्थ्यात् । अस्य च “ यज्ञा- युधानि सम्भरात"* इत्येतद्विध्यर्थवादत्वेन सार्थ अन्यात । नस्मा. दुद्धननमात्रजन्यव्यापारकप्रकृतापूर्वसाधनत्वाश्रयत्वमेव उद्धनन- पदेन लक्षयित्वा तदुद्देशेनैव न्फ्यादिविधिः ॥ ५ ॥ (६)-अर्धेकत्वे द्रव्यगुणयोरैककान्नियमस्स्यात्।। अरुणया पिङ्गाक्ष्यकहायन्या सोमं क्रीणाति । इत्यादी द्रव्यगु णयोः एकहायन्यादिरूपद्रव्यस्य आरुण्यादिरूपगुणस्य च अर्थकत्वे अर्थस्य विशेष्यभूतस्य क्रियारूपस्य एकत्वे अर्थात् तदुभयस्य एक- क्रियान्वयित्वे सम्भवति तयोः नियमः परिच्छेद्यपरिच्छेदकभावेन अ- न्वयनियमः स्यात् ऐककात् एकं कर्म कार्य क्रियारूपं यस्य त- त्त्वात् एकक्रयसाधनत्वसम्भवेन एकवाक्यत्वस्य सम्भवात् । न त्वे. कहायन्या क्रयं भावयेत् आरुण्येन प्रकृतक्रयसम्बद्धं वस्त्रादिकं कृत्स्नं द्रव्यं भावयेदिति द्रव्यंगुणयोः पृथगन्वयः वाक्यभेदप्रसङ्गादिति ॥ १२ ।। ज्योतिष्टोमे-'अरुणया पकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति। इति श्रुतम् । तत्रारुणशब्दोऽरुणगुणवचनः, अरुणत्वजातिवचनो तै. सं. ६-१-६,१०. *तै. सं. १-६-७.
190 पूर्वमीमांसादर्शनं. [अध्या, ३. पा. १. वा । न तु विशिष्टव्यक्तिवचनः । तृतीयया च शक्यस्यैव कर णत्वमुच्यते । न तु तदर्थ द्रव्यलक्षणा । टाबाद्यर्थोऽपि तत्रैव सामानाधिकरण्यनान्चीयते । न तु तदर्थमपि व्यक्तिलक्षणा । अव्युत्पत्यापत्तेः। यथा चैवं सति “गुणवचनानामाश्रयतो लि- ङ्गवचनानि भवन्ति" इत्याधनुशासनोपपत्तिस्तथा कौस्तुभे द्रष्ट- व्यम् । एकहायन्यादिपदानां तु बहुव्रीहित्वादवयवार्थावशिष्टा- न्यपदार्थरूपे द्रव्य एव शक्तिरिति प्राञ्चः । अन्यपदार्थे पदव- यस्य लक्षणेति तु बहवः । न च द्रव्यस्यैकेनैव पदेन विधि- सम्भवे इतरेण विधानानुपपत्तिः वैयर्थ्य चोत वाच्यम् । उभ- योर्युगपत्प्रवृत्तोर्वहितविधानाभावात् गुणान्तरपरत्वेन सार्थक्याञ्च। शक्यते त्वत्रापि अरुणान्यायेन लक्षणापि नेति वक्तुम् । समा- सानुशासनस्य मतुबाद्यनुशासनवदुपपत्तेः । द्रव्ये पाष्ठिकगुण- सम्बन्धोपपादनं च प्रमाणान्तरप्रमितद्रव्यमादायोपपादनीयामिति न कश्चिद्विरोधः॥ तदिहारुण्यस्य योग्यत्वेऽपि कारकत्वेनाव्युत्पन्नस्य वाक्यी- यद्रव्यान्वयायोगात् व्युत्पन्नत्वेऽपि वा अमूर्तत्वेनायोग्यस्य वा- .कीयक्रियान्वयायोगांत ततो विच्छिन्नस्य प्रकरणकल्पितश्रुता- नुमितैकदेशनिष्पन्नेन वाक्येन अरुणया प्रकृतापूर्वसाधनीभूतद्र- व्यपरिच्छेदं भावयेदित्याकारकेण. प्राकरणिकसर्वद्रव्याङ्गत्वमिति प्राप्ते- न योग्यताशानं शाब्दबोधहेतुः अपितु अयोग्यतानिश्चयस्य प्रतिबन्धकतामात्रम् । अतश्च प्रतिबन्धकामांवसत्त्वे आरुण्यस्यापि क्रियान्वयबोधोपपत्तेः पश्चाच्च योग्यतागवेषणायामारुण्यस्य पार्टि- कद्रव्यसम्बन्धबोधोपपत्तेर्न ततो विच्छेदाशङ्का । अत एव प्र- . अधि. ६.] भादीपिकासहितम्. 191 थमतस्सोमयारुण्यादिसकलकारकविशिष्टभावनाविधानोत्तरं - यस्य सोमसम्बन्धवेळायामारुण्यादित्रिकस्य मत्त्वर्थलक्षणया क्रय- सम्बन्धावगतौ पश्चाद्विशेषणविधित्रयकल्पनया तेषां क्रयाङ्गत्वाव- गमे जाते पश्चात्परिच्छेदकीभूतद्रव्याद्यपेक्षायां पाष्टिकोऽरुणैक- हायन्योः परस्परं विशेषणावशेष्यभावमात्रेण सम्बन्धो द्रव्यवि- शेषसम्बन्धश्चेति द्रष्टव्यम् । अतश्च युक्तः क्रमसाधनीभूतैकहा- यन्यामेव निवेश आरुण्यस्य; न तु वासःप्रभृतिषु क्रयद्रव्यान्तरेषु । न च यवेष्विव सोमप्राप्तिसाधनक्रयद्रव्यत्वाविशेषात्प्राप्त्याश- का । तेषां क्रयान्तरद्रव्यत्वात् । भिन्ना हि गुणादत्र क्रयाः । न च विक्रेत्रानतिवशादुत्पत्तिशिष्टद्रव्यावरोधेऽपि द्रव्यान्तरनिवेशस- म्भवः । एकद्रव्यानतस्यैव विक्रेतुस्सम्पादनायत्वात् । अन्यथा दक्षिणानामपि प्रसङ्गबाधाद्यनापत्तेः । न च 'दशभिः क्रीणा- ति' इति वचनमेव निवेशतात्पर्यग्राहकम् तस्य ऋयसमुच्चयप- रत्वेनाप्युपपत्तौ गुणन्यायसिद्धभेदापवादकत्वायोगात् । च क्रयभेदेपि एकसोमप्राप्त्यर्थत्वाविशेषात् क्रयान्तरद्रव्येऽपि आरुण्यस्य निवेशाशङ्का । आरुण्यविशिष्टविजातीयक्रयविध्यन्थ- थानुपपत्तिकल्पितस्य विशेषणविधः पाष्टिकान्वयस्य वाऽनति- प्रसक्तस्यैव कल्पनीयतया विजातीयक्रयजन्यानतिविशेषस्य वि. जातीयक्रयत्वस्यैव वा विवक्षितत्वेनातिप्रसङ्गशङ्कानुपपत्तेः । य- था चैवं सति त्रिवत्से सर्वक्रयद्रव्यस्थानापन्ने निवेशस्तथा कौस्तुभे द्रष्टव्यम् ॥ ६॥ - न (७)एकत्वयुक्तंमेकस्य श्रुतिसंयोगात् ॥ १३ ॥ 'सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम्॥ * तै.. सं. १.८.१०.
192. पूर्वमीमांसादर्शनं. [अध्या. ३. पा १. चोदिते तु परार्थत्वाद्यथाश्रुति प्रतीयेत ॥१५ "दशापवित्रेण ग्रहं सम्माष्टि” इत्यादी एकत्वयुक्तं एकत्व- विशिष्टं ग्रहद्रव्यं सम्मार्गविध्युद्देश्यम् स्यात् । कुतः एकस्य एकत्वसङ्ख्या- युक्तस्य श्रुतिसंयोगात् ग्रहमित्येकवचनश्रुत्या प्रतिपादनात् ॥ १३ ॥ समाधत्ते-सर्वेषां वा ग्रहाणां सर्वेषामेव सम्मार्गविध्युद्देश्यता । ग्रहत्वस्य' लक्षणत्वात् उद्देश्यानुगमकविशेषणत्वात् । लक्षणं उद्देश्यानुगमकवि- शेषणरूपं ग्रहत्वं सर्वेष्वेव ग्रहेषु अविशिष्टं हि । एकत्वस्याप्युद्देश्य विशेषणत्वाङ्गीकारे वाक्यभेदप्रसंगः । अत: प्रतिप्रधानगुणावृत्तिन्यायेन प्रत्येकमुद्देश्येषु अर्थसिद्धस्यैकत्वस्यानुवादकमेकवचनम् ॥ १४॥ चोदिते पशुना यजेन" इत्यादिस्थले विधेयतया उपादये तु पश्वादौ यथा- श्रुति एकवचनश्रुत्यनुसारात् एकत्वं विधेविशेषणतया प्रतीयत पशोः परार्थत्वात् यागाङ्गत्वात प्रत्यङ्गं प्रधानाधृन्त्यभावेन उपादयसङ्ख्याका- शानुसारेण एकत्वविवक्षा आवश्यक्येवेति वक्ष्यते पश्वकत्वाधिकरणे । उद्देश्यगता सङया तु न विवक्षणीयत्येतदधिकरणे प्रतिपाद्यत इत्याशयः ॥ १५ ज्योतिष्टोमादिषु ‘ग्रहं सम्मार्टि' इति श्रुतम् । तत्रं स- मार्गादि प्रति ग्रहत्ववदेकत्वस्यापि उद्देश्यतावच्छेदकता, उत तस्यैव सा एकत्वं तु कथमपि, विध्यन्वयासंम्भवादविवक्षित- मिति चिन्तायां पश्वेकत्ववत् अंहकत्वस्याप्यविवक्षाकारणाभा- वादुद्देश्यतावच्छेदकता । अतश्चैकस्यैव ग्रहस्य सम्मार्ग इति प्राप्ते- यत्र हि समासादी परस्परान्वयो व्युत्पन्नः यथा-'अश्वा भिधानी' 'यत्किञ्चित्सोमलितम्' इत्यादौ तत्र भवत्येव विशिष्टो इंशः । यत्र तु स न व्युत्पन्नस्तत्र परस्परान्वयेन विशिष्टो- देशे अव्युत्पन्नान्वयनिवन्धनवाक्यभेदापनेनं विशिष्टोदेशः । यथा *त. सं.६.१.१ भाष...] भावीपिकासहितम. 198 'यस्योभयं हविरातिमार्छत् * 'ग्रहम् ' इति च योस्सुबन्तयोभी. वनान्वयस्यैव व्युत्पन्नत्वन परस्परान्वयस्याव्युत्पन्नत्वात् । अन्य- था ‘पञ्चदशान्याज्यानि' इत्यत्रापि विशिष्टविधानापत्तिः। एक- वचनाद्युपात्तसङ्ख्यादेस्तु समानाभिधानश्रुत्या करणत्वकर्मत्वादि- रूपे प्रत्ययार्थ एवान्विंतस्य पदश्रुत्या प्रातिपदिकार्थान्वयो नैव व्युत्पन्नः । एवं 'सर्वेभ्यो . दर्शपूर्णमासौ' इत्यादौ एकपदाद यत्रानेकार्थप्रतीत्युत्तरं लक्षणया प्रातिपदिकादेव साहित्यप्रतीति- स्तत्रापि साहित्यस्य प्रत्ययार्थ एवान्वयः न प्रातिपदिकार्थ इति कौस्तुभे स्पष्टम् । अतश्च नैतादृशस्थले विशिष्टोद्देशसम्भवः । अथ विशिष्टोद्देशासम्भवेऽपि उभयोरपि प्रातिपदिकवचनार्थयोः प्रत्ययाथै कर्मत्वादावन्वयेन तद्दारा भावनान्वयोपपत्तेस्सम्मार्ग- स्य पाष्टिकोद्देश्यद्वयसम्बन्धे बाधकाभावः । न चोद्देश्यानेका त्वे वाक्यभेदः । भावनायामनेककारकसम्बन्धवदनेकोद्देश्यस- म्बन्धे बाधकाभावात् । न च तस्यामेकोद्देश्यतावच्छेदकक- त्वनियमः । 'सर्वेभ्यो दर्शपूर्णमासौ' इत्यादौ पुत्रत्वपशुत्वादेरने- कस्यापि तस्य दर्शनात् । विधेस्तु अनेकोद्देश्यकत्वे नैव काचि. क्षतिः । न चैकत्वावच्छिन्नस्य विनियोगाभावादसंस्कार्यता। पशुत्वेन विनियुक्तस्यापि लोहितादेस्संस्कार्यत्ववत् बहुत्वावच्छे- देन विनियुक्तस्यापि ग्रहस्यैकत्वावच्छेदेन संस्कार्यत्वोपपतेः। न चैवमपि योरुहेश्ययोरेकप्रधानक्रियया वशीकाराभावात् कयं परस्परनियम इति वाच्यम् । वैकृतागवद्गुणानुरोधेनापि पदश्च- त्यैव वा प्रधानयोरप्याकास प्रकल्प्य तदुपपत्तेः । इष्यते च यत्र भिन्नवाक्यस्थलेपि 'आग्नेयं चतुर्धा करोति पुरोडाशं चतुर्धा करोति' इत्यादौ गुणानुरोधेन प्रधानयोरभेदान्वयस्त- *ते. ३-७-१. 26 194 पूर्वमीमांसापर्शनं. [अध्या. ३. पा... त्रैकवाक्यस्थले सुतरां शाब्दबोधे मुख्यविशेष्यभूतया क्रिय- या वशीकारः । एकत्वाविवक्षापेक्षया च वशीकारकल्पनायां न कोप दोषः । अत एकत्वादेरपि स्वातन्त्र्येणोद्देश्यतावच्छेद- कत्वोपपत्तिरिति चेत्-भावनायाः करोतिपर्यायत्वेनैककर्मकत्वा- वसायादुद्देश्यानेकत्वे तद्भङ्गनिबन्धनवाक्यभेदापत्तिः । एककर्म- कत्वं च एकबोधविषयकर्मत्वपर्याप्त्यधिकरणतावच्छेदकधर्मव- त्वम् । अत्र च 'सर्वेभ्यो दर्शपूर्णमासौ' इत्यादौ सत्यपि पु- त्रत्वपशुत्वादीनां कर्मत्वपर्याप्त्यधिकरणतावच्छेदकधर्माणां भेदे एकेनैव सर्वपदेन युगपदोधान्नैककर्मत्वहानिरिति आद्यं विषये- त्यन्तम् । पर्याप्तिपदकृत्यं तु कौस्तुभे द्रष्टव्यम् । अतश्च फल- द्वये संस्कार्यद्वये फलसंस्कार्यद्वये वा तावद्वाक्यभेदापत्तिस्स्प- ष्टा । निमित्तद्वयस्थलेऽपि यावजीवाधिकरणन्यायेन निमित्तस्य फलद्वयाक्षेपकत्वाद्वाक्यभेदापत्तिद्रष्टव्या । यथा च निमित्त- द्वयन नैकस्यैव फलस्याक्षेपस्तथा कौस्तुभे स्पष्टम् । अत एव निमित्तफलस्थले निमित्तसंस्कार्यस्थले वा एककर्मकत्वभङ्गा- भावान वाक्यभेदः । न वा कालदेशायुद्देश्यानेकत्वे सः । यथाऽत्र फलादिसाहित्यस्य नैकबोधविषयता तथा कौस्तुभे स्पष्टम् । अतश्च तत्साहित्यविवक्षायां वाक्यभेदो दुष्परिहर एवेत्यन्यत्र विस्तरः॥ ननु तथाऽपि नैकत्वादीनामविवक्षा सम्मार्गभावनायां गुणत्वेन विवक्षोपपत्तेः । न चैवमेकत्वांशे द्वितीयया करणत्वलक्षणात ग्रहांशे च प्राधान्याभिधानाद्वैरुप्यापत्तिः युगपत् वृत्तिद्वयविरोधापत्तिश्चेति वाच्यम् । ईप्सितानीप्सि. तसाधारणकर्मत्वमात्रे द्वितीयायाश्शक्तत्वन प्रमाणान्तराद्विशेषाव- अधि. ८.] मादीपिकासहितम्. 196 गमेऽपि ऐकरूप्येण उभयोरप्यन्वयोपपत्तेः। न चैवमपि सम्मार्गा- गभूतस्यैकत्वस्य तदनङ्गभूतग्रहद्वारकत्वासम्भवः । अङ्गत्वाद्य- भावेऽपि सम्बन्धितामात्रेण 'अगन्म'* इति मन्त्रे स्वर्गस्येव ग्र- हस्यापि द्वारत्वोपपत्तेः। अतश्च विवक्षितमेकत्वमिति चेंत्-गुण- भूतैकवचनाद्यनुरोधेनं प्रत्यये करणत्वलक्षणाङ्गीकारस्य युग- पद्वृत्तिद्वयविरोधवरूप्यादेश्वान्याय्यत्वात् । तद्वरमनुवादके तस्मि- नेव पाशाधिकरणन्यायेन लक्षणामात्रम् । न चेप्सितानीप्सित- साधारणकर्मत्वमात्राभिधानानोक्तदोषप्रसङ्गः । तथात्वे निरु- तैककर्मकत्वभङ्गप्रसङ्गेन वाक्यभेदापत्तः । अतश्च गुणत्वसि- द्धयर्थ लक्षणाश्रयणे पूर्वोक्तदोषापत्तेरेकवचनं बहुत्वलक्षणार्थ सत्साधुत्वार्थमनुवादोऽविवक्षितः । यथा चैवं सति 'अष्टवर्ष ब्राह्मणमुपनयीत' इत्यादौ अष्टवर्षत्वादेविवक्षा तथा कौस्तुभ एवापपादितम् ॥ ७॥ (८)-संस्कारादा गुणानामव्यवस्था स्यात् ॥१६॥ व्यवस्थावाऽर्थस्य श्रुतिसंयोगात्तस्य शब्दप्रमा- णत्वात् ॥ १७ ॥ पूर्वोदाहृत एव 'ग्रहं सम्माष्टि' इत्यत्र वाक्ये विधीयमानानां गुणानां सम्मार्गादिरूपाणां अव्यवस्था वा ग्रहेष्वेवायं न चमसे- षु इत्यादिरूपनियमविरह एव स्यात्. कुतः संस्कारात् सम्मा- पुदीनां संस्काररूपत्वात् संस्कारोद्देश्यतावच्छेदकतया स्थापितस्य प्रकृ- तापूर्वसाधनत्वस्य ग्रहचमसादिसाधारणत्वात् ॥१६॥ सिद्धान्तमाह- * तै. सं. १.६.६.
196 पूर्वमीमांसादर्शनं. अध्या. ३. पा. १. व्यवस्था वा सम्मार्गादिसंस्काराणां व्यवस्थैव नाव्यवस्था । कुतः ? अर्थस्य प्रहादिरूपस्य श्रुतिसंयोगात् शब्दशक्तिबोध्यत्वात् । तस्यां ग्रहापूर्वसाधनत्वस्यैव उद्देश्यतावच्छेदकत्वेन शब्दप्रमाणत्वात् ग्रहपद- घटितशब्दप्रमाणप्रमितत्वात् । एकत्वादिविवक्षायामिव ग्रहत्वविवक्षायां- वाक्यभेदप्रसङ्गरूपबाधकविरहादिति ॥१७॥ एकत्ववत् ग्रहत्वस्याप्यविवक्षा लिङ्गादेव सम्मार्गस्य सो. मावसेकनिर्हरणप्रयोजनत्वावगमेन सोमपात्रमात्रस्य संस्कार्यत्वा- घगतेः--उभयोरपि ग्रहचमसयोरेकज्योतिष्टोमापूर्वसाधनत्वेन यवे- विव चमसेष्वपि सम्मार्गापत्तश्चेति प्राप्ते- ग्रहत्वविवक्षायां वाक्यभेदाधभावात् सत्यपि ज्योतिष्टोमै- क्ये तत्तदभ्यासापूर्वाणां भेदात् ‘पयसा मैत्रावरुणं श्रीणाति* इतिवत् ग्रहजन्यापूर्वसाधनत्वस्यैव लक्षणोपपत्तन चमसेषु स- मार्गः ॥८॥ - (९)-आनर्थक्याचदङ्गेषु ॥१८॥ 'सप्तदशारनिर्वाजपेयस्य यूपो भवति' इत्यत्र वाजपेयसम्वन्धः षष्ठयन्तप्रतिपाद्यः यूपस्य वाजपेये आनर्थक्यात् साक्षाद्वाजपेयापूर्व- रूपप्रयोजनकत्वासम्भवात् तदनेषु वाजपेयाङ्गेषु पशुयागेषु अवतरन् वाजपेयाङ्गपशुयागसम्बन्धरूपः परंपरासम्बन्धात्मकः पर्यवस्यति । अतश्च सप्तदशारनिता वाजपेयाजपशुयागाङ्गयूप एव निविशते । न तु वाज- पेयाने ऊर्ध्वपात्रे । यूपपदस्य ऊर्ध्वपात्रे लक्षणाप्रसङ्गादिति भावः॥१८ 'सप्तदशारनिर्वाजपेयस्य यूपः' इत्यंत्राव्यवहितत्वात् प्र- धानत्वात् प्रकरणानुग्रहाच्च सप्तदशारनित्वं वाजपेयोद्देशेन प- *.सं. 01- अधि. १०.] भाहदीपिकासहितम्. 197 ठीश्रुत्या विधीयते न यूपोद्देशेन अतिप्रसङ्गापत्तेः । वाजपेयेन विशेषणे विशिष्टोद्देशाश्च । अतस्सप्तदशारनित्वं वाजपेयोद्देशेन विधीयमानं तदीयोर्ध्वपात्रद्वारेण निविशते यूपपदं सादृश्यावौ. णमिति प्राप्ते- यूपपदस्य गौणत्वे प्रमाणाभावात् यूपपदेन स्वकार्य लक्ष- यित्वा तदुद्देशेन सप्तदशारनिर्विधीयते । यद्यपि च द्रव्यमरलि- परिमाणं चातिदेशतस्सम्भवत्प्राप्तिकं तथाऽपि तदनुवादेन स- वयाविधाने एकप्रसरताभङ्गापत्तेः ततः पूर्वप्रवृत्त्यङ्गीकारण विशिष्टद्रव्यमेव सङ्ख्याविधिफलकं 'लोहितोष्णीषा' इत्यादिव. विधीयते । यूपकार्यस्वरूपे चानर्थयात् प्रकरणाद्वाजपेयापूर्व- साधनत्वलक्षणया वाजपेयापूर्वसम्बन्धियूपलाभान् ‘वाजपेयस्य' इत्यनुवादः । षष्ठी च परम्परासम्बन्धेऽप्युपपन्ना नप्तरि देव- दत्तस्यायमितिवत् । व्यवहितत्वादि च गौणत्वापेक्षया न दोषः॥९॥ (१०)-कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः॥१९॥ साकार्ड्स त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण।।२ अभिकामं जुहोति'* इत्यादौ कर्तृगुणे अभिक्रमणरूपे तु कर्मासमवायात् कर्मणि प्रयाजरूपे सन्निहितेऽपि साक्षानिवेशासम्भ- वात् कर्तरूपस्य द्वारभूतद्रव्यस्येहानुपादानाच्च तद्दाराऽन्वयानुपपत्तेः वा- क्यभेदः तद्वाक्योपस्थितप्रयाजेभ्यो विच्छेदः । ततश्चाभिक्रमणस्य प्राकरणिकदर्शपूर्णमाससम्बन्धिसर्वहोमेष्वन्वयः ॥१९॥ सिद्धान्तमाह- अभिक्रमणं साका साकाङ्गं अभिव्यक्तप्रयाजभावनयेतिकर्तव्यताकाङ्क्षाकं ए- *तै.सं. २-६-१. - 198 पूर्वमीमांसादर्शनं. अध्या. ३. पा... कवाक्यं तु प्रयाजभावनान्वयितया प्रयाजैकवाक्यमेव स्यात्. हि यतः पूर्वेण पूर्वश्रुतेन समानयनरूपेणाङ्गेन प्रयाजवाक्यं असमाप्तं न निवृत्तेतिकर्तव्यताकाङ्कम् । महाप्रकरणेन प्रतिबद्भा हि अङ्गभावना- या इतिकर्तव्यताकांक्षा 'समानयते जुह्वामीपभृतम्' इति वाचनिकप्र- याजानुवादपुरस्सरविधीयमानाङ्गेन समभिव्यक्ता सती समनन्तरश्रुतेऽ. प्यस्मिन् 'अभिक्रामं जुहोति * इत्यभिक्रमणवाक्येऽनुवर्तत एव । एत. दनन्तरश्रुते 'प्रयाजशेषेण हवींष्यभिधारयति* इतिवाक्ये प्रयाजाद्देशे- नाभिधारणविध्यनुरोधेन तदनुवृत्तेरवश्यस्वीकार्यत्वात् । अयमेव च स- न्दंशन्यायः यत् वाचनिकप्रयाजादिरूपाङ्गोद्देश्यकाङ्गविधिद्वयमध्यपातित्वम् । सन्दंशस्थले आयेनैव विधिना अङ्गभावनेतिकर्तव्यताकांक्षायाः महाप्र- करणप्रतिबद्धाया अन्तिमेनाङ्गविधिना च विनाश . इत्येव लाघवात्स्वी- क्रियते इत्यवधेयम् ॥१९॥ दर्शपूर्णमासयोः प्रयाजसमीपे श्रुतं 'अभिक्रामं जुहोति'* इति । तत्राभिक्रमणस्यामूर्तत्वाज्जुहोत्युपाते प्रयाजहोमे अन्व- यानुपपत्तेरारुण्यवञ्चेह कर्तृरूपस्य द्रव्यस्यानुपात्तत्वात् तद्दाराऽ- प्यन्वयानुपपत्तेः ततो विच्छिन्नस्य प्राकरणिकसर्वहोमाङ्गत्वं त- दीयकर्तुराहवनीयप्रत्यासत्तिरूपदृष्टकार्यद्वारोत प्राप्ते- अनुपात्तस्याप्याख्यातगम्यस्य सद्भावात् तबारैव जुहोत्य- न्वयोपपत्तेः प्रयाजहोमाङ्गत्वमेवेति भाष्यकारेण सिद्धान्तितम् ॥ तत् तु णमुलन्तस्यास्य पूर्वकालतादिसम्बन्धन जुहोत्य- नन्वये नैराकाङ्याभावाज्जुहोतेश्च प्रयाजहोममात्रवाचित्वे प्रमा- णाभावात् अरुणाधिकरणेन गतप्रायत्वाञ्च वातिककारेणान्यथा व्याख्यातम् ॥ *तै. सं. २-६-१.
199 अधि. १..] भादीपिकासहितम्. सत्यपि वाक्यीयहोमसम्बन्धे सङ्कोचे प्रमाणाभावात् 'वे- द्यां हवींषि' इतिवत् प्राकरणिकसर्वहोमाङ्गत्वम् । वाचनिका. गसन्दंशरूपावान्तराधिकारस्य वाक्यसङ्कोचकत्वानुपपत्तेः । यदि हि ताहशसन्दंशमध्ये अभिक्रामति इत्येव श्रूयत ततोऽवान्तर- प्रकरणेन स्यादपि प्रयाजाङ्गत्वम् । वस्तुतस्तु-नाङ्गेषु इतिक- र्तव्यताकाङालक्षणं प्रकरणं फलाभावात् । अन्यथा प्रयाजाभि- क्रमणादीनामप्यनूयाजाद्यङ्गत्वापत्तेः । वाचनिकाङ्गसम्बन्धसिद्धय- थं च कल्पिताया आकाङायास्तन्मात्रग्राहकत्वेनाभिक्रमणग्राह- कत्वानुपपत्तेरिति प्राप्ते- क्ष क्ष क्ष क्ष भावनास्वाभाव्येन अङ्गभावनास्वपि क्रतूपकारभाव्यकासु इतिकर्तव्यताकाडोपपत्तेरङ्गानामप्यस्त्येव सा । सा परं प्रधानगतब- लवत्त्वेन प्रतिबध्यते सन्निध्याम्नानविषये । अतो न परस्पराङ्ग- त्वप्रसङ्गः । तदा तन्निवृत्तिरतिदेशेन आक्षेपलभ्यस्वसम्पादनेन साधारणैर्वा आचमनादिभिः । यत्र तु वाचनिकाङ्गसन्दंशस्त- आयेनाकाङोजीवनमन्तिमेन च तनाशः । न तु मण्यादाविव वाचनिकाङ्गानां प्रत्येकमुत्तेजकता । तावदभावकूटप्रवेशे गौरवा- त् । तद्वदिह व्यभिचाराभावाच । अतो वाचनिकसन्दंशे श्रु- तानामवान्तरप्रकरणेन बलवताऽङ्गाङ्गत्वमेव । प्रकृते तु होमानु- वादेन विहितेऽभिक्रमणे होमस्वरूपे आनर्यक्यप्रसक्तौ अपूर्वसा- धनत्वलक्षणातात्पर्यग्राहकतया वाचनिकाङ्गसन्दंशरूपावान्तराधि- कार एव तत्त्वेनाश्रीयते । न तु प्रधानाधिकारः अङ्गप्रधानाधि- कारो वा 'वेद्यां' इतिवत् । अस्ति चात्र ‘समानयते जुह्वामापभृतम्' इत्याद्युपक्रम्य मध्येऽभिक्रमणं विधाय अन्ते 'प्रयाजशेषेण ह- वींच्यभिधारयति' इति श्रवणात्सः । अतोऽभिक्रमणं प्रयाजहो- 200 पूर्वमीमांसादर्शन. अध्या. ३. पा.१. मानमेव । न च प्रयाजेषु होमाभावः । प्रक्षेपाङ्गकस्यैव त्यागस्य वृद्धव्यवहारेण यजिपदार्थत्वावसायात् आक्षेपेण श्रूयमाणयजि- मात्रे होमप्राप्त्युपपत्तेः ॥ १० ॥ (११)-सन्दिग्धे तु व्यवायाद्वाक्यभेदस्स्यात्॥२१॥ सन्दिग्धे अवान्तरप्रकरणसन्देहविषये तु 'उपव्ययते देवल- क्ष्ममेव तत्कुरुते'* इत्यादिवाक्ये वाक्यभेदः सामिधेनीवाक्याद्विच्छेद एव स्यात् । कुतः ? व्यवायात् सामिधेन्यवान्तरप्रकरणस्य बहुलै: निविन्मन्तैर्विच्छेदात् । तैत्तिरीयसंहितायां हि द्वितीयकाण्डे पञ्चमे प्र- पाठके सप्तमाष्टमानुवाकयोस्सामिधेनीब्राह्मणमानातम् । नवमेऽनुवाके नि- वित्संज्ञिकानां 'अमे महां असि, इत्यादिमन्त्राणां ब्राह्मणम् । दशमे काम्यास्सामिधेनीकल्पाः 'एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य '' इत्यादयः । एकादशे 'निवोतं मनुष्याणां* इत्यादिना उपवीतविधिः । तदनन्तरं 'तिष्ठन्नन्वाह * इत्यादिना सामिधेनीधर्माः कतिपये विहिताः। इति स्थितिः॥ दर्शपूर्णमासयोः ‘पञ्चदश सामिधेनीरनुयात्' इत्यनेन समिधेनाविधाय तासां वाचनिका गुणा विहिताः । ततो नि- विदोनाम मन्त्राः 'देवेद्धो मन्विद्धः' इत्यादयः। ततः 'एकविंशति- मनुब्रूयात्प्रतिष्ठाकामस्य'' इत्यादयः काम्यास्सामिधेनीकल्पाः। तत उपवीतं ' उवव्ययते देवलक्ष्ममेव तत्कुरुते* इति । ततः पुनरपि सामिधनीगुणाः ‘अन्तराऽनूच्यं सदेवत्वायं'* इत्यादयः । तत्रो- पवीतं सामिधेन्यङ्गं तदवान्तरप्रकरणात् । न च तदवान्तरप्र- *तै. सं. २-५-११. ति. बा. ३-६-३. तै.सं. २-५-१०.
अधि. ११] भाहदीपिकासाहेतम्. 201 करणस्य काम्यकल्पैर्निविन्मन्त्रैर्वा विच्छेदः । गोदोहनादीनां दर्शपूर्णमासप्रकरणाविच्छेदकत्ववत् काम्यानामपि तद्विच्छेदक- त्वानुपपत्तेः । पूषानुमन्त्रणमन्त्रवन्निविन्मन्त्रस्यापि तदनुपपत्ते- श्च । वस्तुतस्तु-लिङ्गादग्निसमिद्धत्वरूपसामधेन फलप्रकाशका- नामप्यवान्तरप्रकरणात्लामिधेन्यङ्गत्वोपपत्तन विच्छेदकत्वशङ्का । इष्यत एव हि 'अन्मि'* इति खस्य यागजन्यफलप्रकाशक- त्वेन यागाङ्गत्वमिति प्राप्ते- निविद्भिर्व्यवधानानोपवीतस्य सामिधेन्यङ्गता । न च पू. षानुमन्त्रणमन्त्रन्यायः । यत्र हत्तरकालं बहूनि वाचनिकाङ्गानि तत्रैकस्य पूषानुमन्त्रणमन्त्रादेः परप्रकरणस्थत्यकल्पना । यत्र तु विच्छेदकानि बहूनि उत्तरकालं च वाचनिकाझं स्वल्पं तत्र वाचनिकाङ्गस्यैवानारभ्याधीतन्यायेनाङ्गत्वोपपत्तेन प्रकरणानुवृत्ति- कल्पना । अन्यथा विश्वजिदादेरपि दङ्गित्वापत्तेः । प्रकृते च निविन्मन्त्राणां बहुत्वात् वाचनिकोत्तराङ्गानां स्वल्पत्वेन न प्र- करणानुवृत्तिकल्पना । वस्तुतस्तु-न 'अन्तराऽनूच्यम्' इत्यादी- नां सामिधेनीमात्रोद्देशेन विधानं प्रमाणाभावात् । आपे तु अनुवचनसामान्योद्देशेन । अतश्च सामिधेनीनां विशिष्योपस्थि- त्यभावात् न प्रकरणानुवृत्तिः । यत्तु अन्ते 'देशा वै सा- मिधेनारनूच्य' इत्यादि सङ्कीर्तनं तदाधारार्थवादत्वादसाधकम् । अत एवान्ते वाचनिकाङ्गाभावादेव न निविदां सामिधेन्यङ्गत्व- शङ्का । सन्निधिमात्रेण तदङ्गत्वशङ्का तु परस्पराङ्गत्वापत्तेः प्र- । न चैवमाश्रयाभावात्काम्येषु गुणफलस- म्बन्धानुपपत्तिः । तत्रानुवचनान्तरस्यैव फलोद्देशेन वाहेत- तै, सं. २-५-११. P.M.-26 करणेन बाधाश्चायुक्ता. * तै. सं. १.६.६.
202 पूर्वमीमांसादर्शन, [अध्या. ३ पा. १. त्वात् तस्य च सङ्ख्यायुक्तानुवचनत्वसामान्यात् पञ्चदशस- ख्याकनित्यानुवचनप्रकृतिकत्वावगतेस्तदीयधर्माणां त्रिरभ्यासा- दीनां तदीयऋचां प्राप्ते धर्मकत्वम् । न च ऋचामनुव- चनं प्रति प्राधान्यात्कथमतिदेशः । प्रकृते त्रिरभ्यासयुक्तपाठा- देव तावत्सङ्ग्याकऋचामर्थाश्चानुवचनस्य प्राप्त्युपपत्तेः । 'प- ञ्चदश सामिधेनीरटुब्रगत् '* इति वचनवैयर्थ्यापत्तेरगत्या सक्त न्यायेन विनियोगभङ्गं प्रकल्प्य मन्त्रविशिष्टानुवचनस्यैव विधेय- त्वेन तदङ्गभूतानामुचां प्राप्त्युपपत्तेः । गुणत्वमपि च ऋचा नानुवचनफलप्रकाशकतयैव । अपि त्वनुवचनजनकतया लाय- वात् । अतश्च न द्वारलोपाद्वाध ऊहो वा । अनुशब्देन च दर्शपूर्णमासानभूतपूर्वपदार्थानन्तर्यस्योक्तत्वात्तस्य च परप्रयुक्त- त्वेन बहिःकनुप्रयोगेऽनुष्ठातुमशक्तः क्रतुमध्यप्रयोगसिद्धिः । वै- कृतानुवचनेनैव च प्रसङ्गात्प्राकृतानुवचनकार्यसिद्धेन तस्य पृथ- गनुष्ठानम् । अतस्तेष्वपि न सामिधेनीप्रकरणानुवृत्तिः । न च तर्हि तदङ्गत्वमेवोपवीतस्य किं न स्यात् । तेषां विकृतित्वेन प्राकृताङ्गनिराकांक्षाणां प्रकरणाभावाद्वाचनिकाङ्गसन्दंशाभावाच्च । अतो महाप्रकरणादर्शपूर्णमासानमुपवीतं तत्कर्तृसंस्कारकतया तत्कर्तृमिस्सर्वप्ररोगारम्भे कार्यसिति सिद्धम् ॥ ११ ॥ - (१२)-गुणानां च परार्थत्वादसम्बन्धस्समत्वा- त्स्यात् ॥ २२ ॥ आधानप्रकरणस्थे "वारणो वै यज्ञावचरस्स्यान त्वेतेन जुहुया- द्वैकङ्कतो यज्ञावचरल्स्याज्जाहुयादेवतेन " इत्यादिवाक्ये गुणानां वार- *त. सं. २-५-१०.
अधि. १२.] भाहदीपिकासहितम्. 208 णवैकङ्कतजात्यादिरूपाणां आधाने अयज्ञरूपेऽनिविशमानानां परार्थत्वात् आधानभिनयज्ञार्थत्वात् स्ववाक्यश्रुतयज्ञपदार्थेनान्वितानां आधानाङ्गेष्वप्य- वतारासम्भवात् आधानाङ्गभूतपवमानेष्टानां च स्वतस्सनिधानाभावेन यज्ञान्तरैः समत्वात् चं आधाने तदङ्गेषु अवज्ञरूपेषु यज्ञरूपे पवमा- नेष्टिमात्रे वा असम्बन्धः अनन्वयः स्यात् स्ववाक्योपात्तयज्ञपदोप. स्थितेषु सर्वेष्वेव यज्ञेषु सम्बन्धस्स्यात् ॥ २१ ॥ . आधाने पवमानेष्टितः प्रदेशान्तरे वारणो यज्ञावचरो वैकङ्कतो यज्ञावचरः' इति श्रुतम् । तत्र यज्ञसाधनत्वेन श्रुता- नां वारणादीनां साक्षादयतरूपाधाने निवेशासम्भवात् आनर्थ- क्यतदङ्गन्यायन पवमानेष्टिरूपे यज्ञ एव निवेश इति प्राप्ते- -- भाष्यकारण तावदेवं सिद्धान्तितम् । आधानप्रकरणे प- ठितेन ‘यदाहवनीये जुहोति'* इति वाक्येन पवमानहविषाम- प्रयङ्गत्वावगतेराधानाङ्गत्वाभावेन आनर्थक्यतदङ्गन्यायासम्भवात् स्वरूपेण पवमानेष्टीनामसन्निहितत्वाद्वारणवेकडतादीनां सर्वप्रकृतियज्ञानत्वं सर्वयज्ञानत्वं वेति ॥ वार्तिककारस्तु न तावदनारभ्यवाक्येन पवमानहविषाम- प्रयङ्गत्वम् । तेन सर्वहोमानुवादेनाहवनीयविधानात् पवमा- नेष्टीनामेव विशिष्योपस्थित्यभावे सप्तम्या प्राधान्यलक्षणायां प्र- माणाभावात् । नापि पवमानेष्टिप्रकरणे वाक्यान्तरकल्पना । तद- भावेऽपि वारणादीनां सर्वयशार्थत्वोपपत्तेः । अस्तु वा आधान- प्रकरणे तत् । तथापि तेनाधानाङ्गभूतहोमानामेवाहवनीयाधि- करणकत्वसिद्धिरेव न त्वग्नयङ्गत्वसिद्धिः सप्तम्या लाक्षणिकत्वा- *तै. बा. १-६.५.
204 पूर्वमीमांसादर्शनं. [अध्या. ३. पा.१. पत्तेः । अत एव तत्रत्यमाहवनीयपदमाधानजन्योत्पत्त्यपूर्वविशि- ष्टानिलक्षकमेव । परमापूर्वविशिष्टानिरूपमुख्याहवनीयस्य तदा- नीमसत्त्वात् । न चैवं पवमानेष्टिहविश्नपणादौ गार्हपत्यादिप्रा- पकाभावः । तत्र मुणगार्हपत्याधिकरणत्वबाधेपि सति स. म्भवे प्रकृतिदृष्टगौणगार्हपत्यादिबाधे प्रमाणाभावात् । अतश्च स- त्यपि वचनान्तरे पवमानेष्टीनामनयङ्गत्वे प्रमाणाभावादाधाना- ङ्गत्वेषपे वारणादीनां सर्वयज्ञार्थतैव सूपपादनीया । सर्वत्र स्वोहेश्यस्यापूर्वव्यभिचारे अपूर्वसाधनत्वलक्षणार्थ प्रकरणानुप्र- वेशः । यथा 'वीहीन्' इत्यादी । अत एव ताशस्थले आ- नर्थक्यतदङ्गन्यायः । प्रकृते तु यशपदेनैवाव्याभिचरितापूर्वसा- धनत्वोपस्थितौ तदर्थ प्रकरणानुप्रवेशाभावात् प्रधानसम्बन्धस्यै. वाप्रसक्तो क तदवावतारः । एवं सत्यपि यदि पवमानोटिस- निधौ पात्राणि श्रयेरन् तदा अनुवादस्य सति सम्भवे सन्नि- हितगामित्वात् ‘ाहिभिर्यजेत' इत्यादिवद्भवेत्प्रकृतमात्रविषयत्वं न त्वेतदस्ति । पवमानेष्टीनां प्रदेशान्तरस्थ वात् । अतो धारणा- दीनां सर्वयज्ञार्थत्वमेव ॥ प्रयोजनं पवमानेष्टयनन्तरं पात्राणां नाशे दर्शायर्थमनिया तानामुत्पत्तिः । सिद्धान्ते वारणादीनामेवेति ॥ १२ ॥ (१३)-मिथश्वानर्थसम्बन्धः ॥ २३ ॥ तैत्तिरीयब्राह्मणे तृतीये काण्डे पञ्चमे प्रपाठके प्रयाजमन्त्रानुवा- कानन्तरे आज्यभागक्रमे 'अग्निवृत्राणि जङ्गनत् । द्रविणस्यविपन्यया। समिद्धश्शुक्र आहुतः । जुषाणो अग्निराज्यस्य वेतु । त्वं सोमासि सत्पतिः। वं राजोत वृत्रहा । त्वं भद्रो असि क्रतुः । जुषाणस्सोम अधि. १३.] भाहदीपिकासहितम्. 205 a आज्यस्य हविषो वेतु'* इति वार्चनीयुगलं ‘अग्निः प्रत्नेन जन्मना । शुम्भानस्तनुवं स्वाम् । कविविप्रेण वावृधे । जुषाणो अग्निराज्यस्य वेत । सोमगीर्भिष्टा वयम् । वर्धयामो वचोविदः । सुमृडाको न आविश | जुषाणस्सोम आज्यस्य हविषो वेत* इति वृधन्वतीयुगलं च समानातम् । तयोरनुवाक्यायुगलयोः प्रधानयोर्दर्शपूर्णमासयोश्च मि- थश्च परस्पर 'वानी पूर्णमासेऽनच्येते. वृधन्वती अमावास्या- याम् । इति वाक्याभ्यां सप्तमीप्रकृत्या कर्मलक्षणया सप्तम्योद्देश्यत्वलक्ष- णया च अनर्थसम्बन्धः । प्रयोजनप्रयोजनिभावरूपसम्बन्धो न सम्भ- वति । तथा सति अमीषामदेवताकवरूपलिङ्गस्य आज्यभागक्रमस्य च प्रयाजानन्तर्वरूपस्य बाधापत्तेः । तस्मात्तयोरनुवाक्यायुगलयोराज्यभागा- गतवेति ॥ २३॥ आज्यभागक्रमे श्रुतानां वानीवृधन्वतीमन्त्राणां लिङ्गक्रमौ बाधित्वा 'वाघ्नी पूर्णमासेऽनूच्येते वृधन्वती अमावास्यायाम्। इति वाक्याभ्यां प्रधानाङ्गत्वम् । इष्यते च लिङ्गस्यापि मन्त्र- गतस्य वाक्येनापि ब्राह्मणगतन बाधः 'यद्यप्यन्यदेव यः' इत्या- दिनेति प्राप्ते- अबाधेनोपपत्तौ बाधायोगान् न प्रधानाङ्गत्वम् । न हि सोमदेवत्यस्य मन्त्रस्य लिङ्गाविरोधस्सम्भवति । सोमस्य देव- तात्वाभावात् अमावास्यायामधिष्ठानत्वस्याप्यसम्भवाश्च । वस्तु- तस्तु-वाक्यस्यापि व्यवस्थामात्रकरणे लाघवान्न प्रधानाङ्गता. बोधकत्वम् । व्यवस्था च पौर्णमास्यां यौ आज्यभागौ तत्र वानी इत्यादिरूपेण कालकृता पौर्णमासीसंशिकप्रधानाङ्ग- भूताज्यभागयोर्वामी इत्येवं कर्मकृता वेत्यादिविशेषः कौस्तुभे द्रष्टव्यः॥१३॥ "त. ना. ३-५-६. +तै. सं. २-५-२, 206 पूर्वमीमांसादर्शनं. अध्या. ३. पा. १. (१४)-आनन्तर्यमचोदना ॥२४॥ वाक्यानां च समाप्तत्वात् ॥ २५॥ दर्शपूर्णमासप्रकरणे 'उलपराजि 'स्तृणाति' इत्यस्य यत् आन- न्तर्य 'हस्ताववनेनित * इति वाक्याव्यवहितोत्तरत्वं तत् हस्तावनेज. नस्य अचोदना .उलपराजिस्तरणमात्राइताया ग्राहकं न भवति पहु- षु पदार्थेषु वक्तव्येषु कस्मिंश्चिदेकस्मिन्नानन्तर्यस्यावर्जनीयत्वात् । स्मात् हस्तक्षाळनं योग्यतया करिध्यमाणकर्मार्थ सत् करिष्यमाणप्रकृत सर्वकर्मार्थमित्येव प्रकरणवशात्प्रतीयते । सनिधिस्तु प्रकरणादुर्बल ए- वेति ॥ २४ ॥ एवमपि यद्यत्रानयोर्वाक्ययोः ‘पश्य मृगो धावति' त्यादिवाक्ययोरिव एकवाक्यता स्यात् तदा स्यादपि वाक्यप्रमाणेन पू. वाक्यार्थस्याव्यवहितोत्तरवाक्यार्थाङ्गता । परन्तु सैवैकवाक्यता नात्र सम्भवति कुतः? वाक्यानां हस्तावनेजनादिपरपूर्ववाक्यानां च स- माप्तत्वात् स्वार्थबोधसमाप्ततया निराकाङ्कत्वात् विभज्यमानसाकाइत्वा- भावनैकवाक्यत्वानुपपत्तेः ॥ २५ ॥ दर्शपूर्णमासयोः 'हस्ताववनेनिक्ते* 'उलपराजीस्तृणाति' इति तथा ज्योतिष्टोमे 'मुष्टीकरोति वाचं यच्छति', 'दीक्षितमावेदय- ति' इति श्रुतम् । तत्र हस्तावनेजनं हस्तसंस्कारार्थ मुष्टीक- रणवाग्यमौ च मनःप्रणिधानार्थी अतस्तत्तूयमपि तावत्करि- ध्यमाणकर्मार्थमित्यसंदिग्धम् । तत्र करिष्यमाणकर्म आनन्तर्या- देकवाक्यत्वाद्वा उलपराजिस्तरणदीक्षितावेदनरूपमेवेति प्राप्ते- आनन्तर्यस्यावर्जनीयत्वादङ्गताप्राहकलानुपपत्तेः ग्राहकत्वे- ऽपि वा प्रकरणेन बाधात् ‘पश्य मृगो धावति' इतिवत् आ. *ते. बा.३-२-१०. है. स. ५-२-१.
207 अधि. १५.] भाब्दीपिकासहितम. कामाविरहेण चाख्यातद्वयस्य यच्छब्दाधुपबन्धाभावे एकवाक्य- त्वानुपपत्तेः कर्तृसंस्कारकस्यास्य प्रकरणादङ्गप्रधानसाधारण- स्वोत्तरपदार्थाङ्गत्वं हस्तावनेजने । मुष्टीकरणवाग्यमयोस्तु अङ्गु- दिवाग्विसर्गप्राकालीनपदार्थमात्राङ्गत्वम् ॥ १४ ॥ (१५)-शेषस्तु गुणसंयुक्तस्साधारणः प्रतीयेत मि- थस्तेषामसम्बन्धात् ॥ २६ ॥ व्यवस्था- वाऽर्थस्य श्रुतिसंयोगाल्लिङ्गस्यार्थेन स- म्बन्धाल्लक्षणार्था :॥२७॥ गुणश्रुतिः दर्शपूर्णमासप्रकरणस्थे 'आग्नेयं चतुर्धा करोति । पुरोडाशं. चतु. र्धा करोति' इत्यत्र गुणसंयुक्तस्तु गुणेन उद्देश्यविशेषणपरेण आ- अयादिपदेन समवहितः शेषः चतुर्धाकरणरूप: साधारणः आमेयानी- षोमीयपुरोडाशसाधारण एवं प्रतीयेत । तेषां उद्देश्यीवशेषणानां आ- मेयादीनां मिथः परस्पर असम्बन्धात् अनन्वयात् चतुर्धाकरणस्यो- द्देश्याकाक्षायां तद्रितेन आमेयशब्दगतेन हविष उपस्थितौ प्रकरणेन प्रकृत- हविर्मात्रस्यैवोद्देश्यत्वोपपत्तेः आमेयत्वस्योद्देश्यतावच्छेदकत्वनाविवक्षणा- दिति ॥२६ ॥ सिद्धान्तमाह-व्यवस्था वा आमेये चतु र्धाकरणस्य व्यवस्थव कुतः? अर्थस्य अग्निपर्याप्तदेवतात्वकत्वरूप- स्यार्थस्य श्रुतिसंयोगात् तद्धितश्रुत्यैव प्रतिपादनात् । लिङ्गस्य अपूर्वसाधनीभूतामिपर्याप्तदेवतात्वकत्वरूपस्योद्देश्यविशेषणस्याशक्यपरित्यागस्य अर्थेन आमेयेनैव सम्बन्धात् अमीषोमीयेनासम्बन्धात् । 'आमेय- 208 पूर्वमामासादर्शन [अध्या. ३. पा. स्थ मस्तकं विरुज्य प्राशित्रमवद्यति' इत्यत्र तु गुणश्रुतिः आमेय- त्वरूपविशेषणश्नुतिः लक्षणार्था मस्तकावशेषणार्था न त्ववदानविशेषणा- र्था । तथा च 'प्राशत्रमवद्यति' इति सामान्यवाक्येन सर्वहविषां प्राशित्रावदानप्राप्तौ प्रदेशविशेषाका यां. 'आग्नेयस्य आग्नेयस्य' इत्युक्तवाक्येन मस्तकप्रदेशनियममात्रकरणात् हविरन्तरे प्रदेशनियमाप्राप्तावपि प्राशित्राव- दानप्राप्ती बाधकामावः । आग्नेयपदार्थस्य प्राशिवावदानेऽन्वयाभावात् । प्रकृते तु चतुर्धाकरणेनाप्नेयपदार्थान्वयान्नानीषोमीयादेश्चतुर्धाकरणमिति ।। इति सारबोधिन्यां तृतीयस्य प्रथमः. दर्शपूर्णमासयोः ‘आग्नेयं चतुर्धा करोति' इत्यत्र नाग्निदे- वताकहविष्ठमुद्देश्यतावच्छदेकं विशिष्टं हेरो वाक्यभेदापत्तः । अपि तु तद्धितोपात्तं हविष्टमेव । कथं चिद्वाऽग्निसम्बन्धिह- विष्टं तथा । अस्ति चाग्निसम्बन्धोऽग्नीषोमीयादावपि । अथवा 'पुरोडाश चतुर्धा करोति, इत्यनेनोपसंहारादग्निसम्बन्धिपुरोडा- शस्यैव तत् न त्वाज्यस्यापीति । अस्तु वा देवतात्वस्यापि कथञ्चिद्विवक्षा तथाऽपि विदेवर रेऽप्य रस्त्येव देवतात्वम् । द्वन्द्वान्ते श्रूयमाणस्य तद्धितस्य प्रत्येकमभिसम्बन्धात् । अतस्स वैषां चतुर्धाकरणमिति प्राप्ते- प्रचुरप्रयोगात्तद्धितस्य देवतात्व एव शक्तस्य सम्बन्धमात्र- लक्षकत्वानुपपत्तेर्न तावदग्निसम्बन्धित्वस्य विवक्षा । न च देवतात्वं द्विदेवत्ये प्रत्येकवृत्ति इतरेतरयोगरूपचार्थविहितद्वन्दन साहित्यस्य विवक्षितत्वात् सहितयोरेव व्यासज्यवृत्त्यखण्डो- प्राधिरूपदेवतात्वाङ्गीकारात् अत एव द्वन्द्वान्त इत्यादिप्रवा- दस्तु यत्रोहेश्यत्वेन साहित्याविवक्षा तत्रेति ध्येयम् । अतः अधि. १.] भावीपिकासहितम्. 209 केवलादप्रिपदादुत्पन्नस्तरितः नान्यसापेक्षस्य देवतात्वमभिव- दितुं क्षमः । सामर्थ्य विधातापत्तेः । यत्त्वमिदेवताकत्वमवि- वक्षितमिति । सन्न । तथात्वे न तावत् प्रकृतद्रव्यत्वमात्रमपू. साधनत्वलक्षकं तस्य देवतातद्धितेनानुक्तः । नापि हविष्टं तत्परत्वस्य देवतावाचित्यप्रतीति विनाऽनुपपत्तेः। न हि हवि- षि वाच्ये देवतातद्धित एवेति स्मृत्या नियम्यते तद्वाचित्वेऽ- पि सम्बन्धसामान्ये तद्धितस्य सत्त्वात् । अतः प्रथमावगतस्य देवतात्वस्यैवोद्देश्यतावच्छेदकत्वम् । तस्य त्वनुयोगिप्रतियोगिसा- पेक्षत्वात् हविरातिन्यायेन 'अर्धमन्तर्वेदि' इतिवत् अग्निदेवता. कहविष्टस्यैव लक्षणयोद्देश्यतावच्छेदकत्वसिद्धिः । तेन च 'पु- रोडाशं चतुर्धा करोति' इति सामान्यवचनस्योपसंहारः । त- स्मादामेयस्यैव पुरोडाशस्य चतुर्धाकरणम् ॥ १५ ॥ इति श्रीखण्डदेवविरचितायां भाइदीपिकायां तृतीयस्याध्यायस्य प्रथमः पादः, : अथ तृतीयाध्यायस्य द्वितीयः पादः. (१)-अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावस्स्यान- स्मादुत्पत्तिसम्बन्धोऽर्थेन नित्यसंयोगात्॥ संस्कारकत्वादचोदिते न स्यात् ॥२॥ लिङ्गविनियोगोपयोगिचिन्तनमेतत्पादार्थः । तत्र ‘बहिर्देवसदनं दामि' इत्यादिमन्त्राणां लिऑन मुख्यलक्ष्ययोरुभयोरपि विनियोगस्स्यात् उत बहिरादिपदमुख्यार्थ एवेति संदेहे सिद्धान्तमेवाह-मन्त्रेषु 'बहिर्देवसदनं दामि' P.M-27 210 पूर्वमीमांसादर्शनं. अध्या. ३.पा.१. इत्यादिषु गौणार्थे प्रति शेषभावः अङ्गवं अर्थाभिधानसंयोगात् अर्थशक्तिसम्बन्धात् शक्यार्थसम्बन्धग्रहात् स्यात् न साक्षात् । त. स्मात् उत्पत्तिसम्बन्धः प्रथमावगतशयोथैनैव शेषतया सम्बन्धी युक्तः । तेनैव अर्थन शक्यसम्बन्धग्राहकप्रमाणान्तरानपेक्षतया म- न्त्राणां नित्यसंयोगात् निलं सम्बन्धात् । गौणार्थे हि श- क्यार्थप्रतीत्यनन्तरं तत्सम्बन्धप्रतीतिद्वारा सम्बन्धो वाच्यः स च वि- लम्बित इति ॥१॥ नन्वेवं सति दर्शपूर्णमासप्रकरणपठितानां पूषा- नुमन्तणमन्त्रादीनां अप्रकृतें पूषदेवत्ययागे उत्कर्षकल्पनेन प्रकरणबाध- स्स्यात् प्रकृतयागीयदेवतायां पूषपदस्य मुख्यवृत्तरभावेन भवदुक्तरीत्या शेषभावासम्भवादित्याशङ्कायां तद्बाधकल्पनस्य गुणतया इष्टापत्तिमाह- प्रकरणे पूषादिपदमुख्यार्थे अचोदिते अविहिते सति तद्विरोधिनि अ- मयादी विहिते सतीति यावत् प्रकृतयागं प्रति शेषभावो न स्यात् लिङ्गेन सामान्यसम्बन्धबोधकप्रमाणसहकृतेन संस्का- रकत्वात् मुख्यार्थसंस्कारकत्वस्यैवावधारणात् । लिङ्गेन प्रकरणवाधनं गुण एव न दोष इति ॥२॥ एवं श्रुत्युपयोगिविचारे वृत्ते अधुना लिङ्गोपयोगिविंचारः प्रस्तूयते । तत्र लिहं नाम अङ्गत्वघटकोभूतपरोद्देश्यत्वकृतिका. रकत्ववाचकपदकल्पनानुकूला क्लृप्तपदपदार्थनिष्ठा योग्यता । यथा ' वेणावधति" इत्यत्र सुवनिष्ठा द्रवद्रव्यपदकल्पनानु- कूला । एवं मन्त्रेषु स्वार्थवृत्त्युहेश्यतावाचिपदकल्पनानुकूला स्ववृत्तिकारकत्ववाचिपदकल्पनानुकूला च योग्यता लिङ्गम् । सा च पदरूपश्रुतिकल्पकत्वात्तहारा तदर्थविनियोगे प्रमाणम् । तत्र वस्तुसामर्थ्यरूपस्य लिास्य विशेषविचारासम्भवान्मन्त्रसा- मर्यरूपस्य किं शक्य एवार्ये विनियोजकत्वं उत जघन्यवृत्ति प्रतिपाद्येऽपीतिसंदेह ऋतुप्रकरणानातमन्त्रस्य 'बहिर्देवसदनं तन्मन्त्रस्य अधि. २.] मादीपिकासहितम्. 211 दामि' इत्यादेर्मुख्य इव जघन्येऽप्युलपराज्यादौ स्मारकाकांक्षा- दिलंपसामप्रयविशेषात्तत्साधारण्येनैव विनियोगः । “यष्टीः प्रवे- शय” इत्यादिवदाकांक्षादिरूपतात्पर्यग्राहकसत्त्वे मुख्याबाध- स्याकिश्चित्करत्वादिति प्राप्ते- शक्यसम्बन्धग्रहसापेक्षत्वन जघन्यार्थप्रतीतेविलम्वितत्वात् प्रथमप्रतीतमुख्यविनियोगेन चरितार्थस्य मन्त्रादेजघन्यार्थविनि- योजकत्वानुपपत्तेः । अत एव तत्स्मारकाकांक्षाया ध्यानायुपाया- न्तरेणैव निवृत्तिः । अत एव यत्र प्रकरणे मुख्यार्थोपयोगो न कृप्तः तत्र मन्त्रानानवलादेव तत्कल्पना । यत्र तु विरोधिगुणान्तरा- वरोधः प्रकरणे तत्र सामान्यसम्बन्धबोधकप्रमाणसत्त्वे उत्कर्षः यथा दर्शपूर्णमासप्रकरणानातपूषानुमन्त्रणमन्त्रादेः यागानुमन्त्र- णसमाख्याया एव सामान्यसम्बन्धबोधकत्वात् । उत्कर्षस्याप्य सम्भवे प्रकरण एव जघन्याथै विनियोगः यथा मनोतादौ । अप्र- युक्तलक्षणादिना तस्याप्यसम्भवे तदर्थाभिधानस्यैवारष्टार्थत्वं यथा जपादौ ॥१॥ (२)-वचनात्त्वयथार्थमैन्द्री स्यात् ॥३॥ गुणा- द्वाऽप्यभिधानं स्यात्सम्बन्धस्याशास्त्रहे- तुत्वात् ॥४॥ 'कदा चन स्तरीरसि नेन्द्र सश्चति दाशुषे । उपोपेनु मघवन्भूय हुनु ते दानं देवस्य पृच्यते* इति ऋगरि लिोन मुख्य एवार्य इस विनियुज्यत *.सं. १.४.२१० 212. पूर्वमीमांसादर्शनं. [अध्या. ३. पा. २. इत्याशङ्कायामुच्यते-वचनाव 'कदा चन स्तरीरसात्यैन्द्रया गार्हपत्यमुपति- ष्ठते' इत्याकारकात् तृतीयाश्रुतिघटिताद्वचनात् ऐन्द्री इन्द्रपदघटिता उक्ता ऋक् अयथार्य स्यात् मुख्यार्थमतिक्रम्य गौणार्थशेषभूता भ- वेत् । लिङ्गाद्धि श्रुतिबलीयसीति वक्ष्यते ॥ ३॥ ननु वचनबलात् गार्हपत्ये इन्द्रपदस्य शक्तिरेव कल्प्यतामित्यांशङ्कायामाह-गुणाद्वाऽपि गौणवृत्त्याऽपि च इन्द्रपदेन गाईपत्यस्य अभिधानं प्रतिपादनं स्यात् । न तु शक्त्या । सम्बन्धस्य वाच्यवाचकभावस्य अनादितया अशा- नहेतुत्वात् शास्त्रकार्यत्वासम्भवात् । लोकसिद्धगौणवृत्त्याश्रयणेनैवोपप- तौ शाखस्योक्तस्य तज्ञापकत्वकल्पनाया अप्यसम्भवादिति ॥४॥ यत्र तु गौणार्थे तात्पर्यप्राहकं वचन विद्यते यथा अग्नौ कदा चन स्तरीरसीत्यैन्द्रया गार्हपत्यमुपतिष्ठते" इत्यादौ तत्र गौण एव गार्हपत्ये विनियोगः । अथ ऐन्द्रयेत्युपक्रमस्य तद्धि. तश्रुत्या मुख्यसामर्थोज्जीवनात् जघन्यद्वितीयाया एव तदनुरो- धेन प्रतियोगित्वे लक्षणा गार्हपत्यसमीपे स्थित्वेति । गुणभूत- प्रातिपदिक एव वा यज्ञसाधनत्वसादृश्यादाण्या, गृहपतिम- स्वयोगेन, वा इन्द्रप्रकाशकत्वम् । अस्तु वा रूढत्वादग्नेरेव धातुवाच्यसमीपंस्थितिं प्रति कर्मत्वं न तु मन्त्रसाध्याभिधानं प्रति तस्याशाब्दत्वात् । न च उपान्त्रकरणे” इति स्मृ- त्या आत्मनेपदविधानेन धातोर्मन्त्रकरणार्थकत्वावगतेस्तस्याभि- धानलक्षकत्वावगतिः आत्मनेपदबलेन समीपस्थितेरभिधानप्रयो- जकत्वावगतेः मन्त्रस्य स्वसाध्याभिधानाङ्गत्वसम्बन्धेन समीप- स्थितिविशेषणत्वोपपत्तेरभिधानलक्षणायां .प्रमाणाभावात् । तच शक्यार्थ एव समीपस्थितौ गार्हपत्यस्य कर्मत्वं इन्द्रस्य त्वापिकेऽभिधाने इति न विरोधः यथा चास्य धातोस्सकर्म- “ अ- अघि. ३.] भादीपिकासहितम्. 213 कत्वं तथा कौस्तुभ एव प्रपञ्चितम् । भतः कयं मन्त्रस्य गौणेऽर्थे विनियोग इति चेत्- न ऐन्द्रयेति तद्धितेन एकपदेन विशेष्यतया प्रतिपाद्य- मानस्य मन्त्रस्य चयनानुपयोगीन्द्राइत्वबोधानुपपत्तेः । अतस्त- स्य शक्यबोधकालीनेन्द्रप्रकाशकत्वानुवादत्वेनाप्युपपत्तन द्विती- यादौ तदलेन लक्षणाश्रयणं रूढित्यागो वा । न च समीपस्थिति प्रत्यग्नेः कर्मत्वम् । तथात्वे तस्या अभिधानं प्रत्यप्यङ्गत्वे उद्दे- श्यानकत्वकृतवाक्यभेदापत्तेः । आत्मनेपदविरोधेन धातुनैव स्वशक्यार्थविशिष्टाभिधानलक्षणावश्यम्भावाद्विशेष्यभूताभिधान । एव मन्त्रस्य करणत्वप्रतीतेः गार्हपत्यस्व च चयनसस्कार्यस्य कर्मत्वप्रतीतेः अर्थाश्च सामीप्यप्रतियोगित्वेन तस्यैव ग्रहणोपप- तेः । तात्पर्यग्राहकब्राह्मणानुरोधेन मन्त्रस्यैव गौण्या वृत्त्या गाई- पत्ये विनियोग इति सिद्धम् ॥२॥ (३)-तथाऽऽह्वानमपीति चेत् ॥ ५॥ न कालवि. विश्वोदितत्वात् ॥६॥ गुणाभावात् ॥७॥ इतश्च तथा लिङ्गात् ॥ ८॥ विधिकोप- श्वोपदेशे स्यात् ॥ ९॥ आह्वानं अपि भालानप्रकाशकः " हविष्कृदेहि "* इत्ययं दर्शपूर्ण- मासप्रकरणपठिनो मन्त्रोपि तथा ऐन्द्रमन्त्रवद्गौण एव " हविकृदेहीति त्रिरवनभाह्वयति"* इतिवाक्येन इतिकरणेन अवघाते विनियोगात्, म. तै. बा. ३.३-५.
. 214 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. २. न्त्रस्य चायमर्थ:-हे हविष्कृत! हविस्सम्पादक! अवघात! त्वमेहि सम्प. भो भव इति, इतिचेत् न अवघाते मन्त्रविनियोजको विधिरयं अपि तु कालविधिः कालानुवादपूर्वकस्खिरभ्यासविधिः कालस्य मन्त्रस्य च चोदितत्वात् अर्थत एव प्राप्तत्वात् ॥५-६ ॥ गुणाभावात् मुख्यार्थसादृश्यरूपगुणाभावादपि नात्रावहनने मन्त्रस्य विनियोगः ॥ ७ ॥ लिङ्गाच “वाग्वा हविष्कृत्" इत्यस्मालिङ्गादपि आह्वान एवास्य मन्त्रस्य विनियोगः । स्त्रीलिङ्गवाक्सादृश्यं हि हविष्कृत्पदस्य अवहन- नकर्तवीपरले उपपद्यते न त्ववघातपरत्वे ॥८॥ अध्वर्युकतकावघा- मन्त्रस्यास्य उपदेशे सति पत्नीकर्तृकस्य “अव रक्षो दिवस्सपत्नं वध्यासम् इति मन्त्रसाध्यस्यावघातस्य भिन्नत्वापत्त्या विधिकोपः तद्विधेः विरोधः अष्टदोषदुष्टविकल्पप्रसङ्घात् स्यात् ॥९॥ ताणतया दर्शपूर्णमासयोः “हविष्कृदेहीति त्रिरवघ्नन्नाह्वयति" *इति श्रुतम् तत्र नायं मन्त्र आह्वानाङ्गं, तस्य “पत्न्येव हविष्कृदुपोत्तिष्ठति सा देवानभिद्रुत्यावहन्ति" इति वचनानुसारेणाभावप्रतीतेः । अत इतिकरणेमावघातामेव । अतश्चास्मिन्वाक्ये त्रिरभ्यासपुं- स्त्वमन्त्रविशिष्टावधातविधिरेव । पत्नीवाक्ये च गुणादेव कर्मा- म्तरविधिः । तयोश्चावघातयोः “व्रीहीनवहन्ति" इत्यनेन सं- स्कार्यसम्बन्धेऽपि दृष्टार्थत्वाद्विकल्पः । पत्नीकर्तृकावधाते च "अवरक्षो दिवः" इति मन्त्रः । अतश्चानन वाक्येनाषघाते गौण एवायं मन्त्री विनियुज्यते । गौणत्वोपपादनं कौस्तुभे द्रष्टव्यम् । आह्वयतिश्च “तदाचष्टे" इत्येवं शक्यार्थबोधकालीनाह्वानप्रकाश- - नानुवाद इति प्राप्ते- मुख्य एवाह्वाने विनियोगसम्भवे मन्त्रस्य आह्वयतिपदस्य च गौणत्वकल्पनायां प्रमाणाभावात् । मान्त्रवार्णकविनियोगवि. *ते, ना. ३.२.५० अधि...] भादीपिकासहितम. 215 धिकल्पनया “सख्यासम् इत्यादिना प्रहणादेरिवाह्वानस्यापि नियमेन प्राप्तत्वात् । “पत्न्येव" इत्यस्य तु नायमर्थः यत्स्वयमे- वोत्तिष्ठति न त्वाह्वयतीति ; अपि तु पत्न्येव नान्यति । अतो नेदमपि तदभावबोधकम् । अतश्चाहाने मन्त्रस्य लिङ्गादेव प्रा- सत्वादाह्वानस्य च सहायार्थत्वेनावघातकाल एव प्राप्तेः अव- प्रन्" इत्यस्याप्यनुवादत्वात्केवलं त्रिरभ्यासमात्रं विधीयत इति न गौणेऽवघाते विनियोगः ॥३॥ "व्रतं कृणु- (8)-तथोत्थानविसर्जने ॥१०॥ उत्थानविसर्जने “ उत्तिष्ठन्नन्वाहानीदग्नीन्विहर "* "व्रतं कृणुतेति वाचं विसृजति "+ इत्यनयोरुत्थानविसर्जनपरयोर्वाक्ययोश्श्रुतौ मन्त्री तथा पूर्ववत् मुख्यार्थ एवाग्निविहरणे व्रतकरणे च विनियुज्यते । न तु गौण उत्थाने वाग्विसर्गे च तत्रतत्र शतप्रत्ययेतिकरणयोः काल- विधिपरतयाऽप्युपपत्तमन्त्रगौणत्वे प्रमाणाभावात् ॥ १० ॥ सोमे “उत्तिष्ठन्नन्वाहानीदनीविहर"* तथा तेति वाचं विसृजति"। दर्शपूर्णमासयोः “प्रणीताः प्रणेष्यन्वाचं यच्छति तां सहविष्कृता विसृजति" इति श्रुतम् । तत्रापि पूर्ववदेव मन्त्राणां मुख्येऽर्थे विनियोगः न तु गौणयोरुत्थान- वाग्विसर्गयोः प्रबलस्यापि ब्राह्मणवाक्यस्य कालविधायित्वेना- प्युपपत्तौ गौणत्वतात्पर्यग्राहकत्वाभावात् । न च लक्षणा । शतृप्रत्ययस्य कालिकसम्बन्धेन उपलक्षणार्थत्वमङ्गीकृत्य श्रुत्यैवा- न्वयोपपत्तेः । अतश्चोत्थानकाले विहरणमन्त्रः पठनीय इति कालविधिरेवायम् । “व्रतं कृणुत" इत्यत्र इतिकरणस्यापि म. * ते,सं. ६-३-१. ति,सं. ६-१-४.
216 पूर्वमीमांसादर्शनम् [अध्या. ३. पा. १. बखरूपमात्रपरत्वात् कालिकसम्बन्धस्यैव संसर्गविधया भानो- पपत्तेर्न लक्षणा । हविष्कृवाक्ये तृतीयायास्तु वाग्यमापेक्षिता. वधिसमर्पकत्वेन तदेकवाक्यतोपपत्ती वाक्यभेदे प्रमाणाभावात् इत्थम्भूतलक्षणार्थतामङ्गीकृत्य कालविधिपरत्वम् । अतश्च तद्वा. क्ययोः पाठक्रमावगततत्तन्मन्त्रपाठकाले वाग्विसर्गः कर्तव्य इति सोपि तत्र कालविधिरेव ॥४॥ (५)-सूक्तवाके च कालविधिः परार्थत्वात् ॥११ उपदेशो वा याज्याशब्दो हि नाकस्मात् ॥ १२॥ स देवतार्थस्तत्संयोगात् ॥ १३ ॥ प्रतिपत्तिरिति चेत् ॥ १४॥ स्विष्टकवदुभ- यसंस्कारस्स्यात् * ॥ १५॥ सूक्तवाके "सूक्तवाकेन प्रस्तरं प्रहरति " इत्यस्मिन् सूक्तवा- कपदघटिते वाक्ये च कालविधिः प्रस्तरप्रहरणोद्देशेन सूक्तवाकका- लस्यैव विधि: न तु सूक्तवाकमन्त्रकरणकयागविधिः । सूक्तवाकस्य परा- र्थत्वात् इष्टदेवताप्रकाशनार्थतया कृतार्थत्वात् । सूक्तवाकेनेति तृती- या गमकत्वरूपलक्षणत्वपरा “इत्थंभूतलक्षणे" इत्यनुशासनादिति ह. दयम् ॥ ११ ॥ एवं पूर्वपक्षे सिद्धान्तमाह - उपदेशो वा सूकवाक- स्य करणत्ववाचकद्वतीयाभुतिबलात् प्रहरणाजतया उपदेशो विधिरेव हि यतः "सूक्तवाक एव याज्या प्रस्तरो हविः" इति तदर्थवादे *"कथमप्रधानकर्मणस्सूक्तवाकोऽप्रयादयो वायमित्यत उत्तरसूत्रं पठति' इति वार्तिकेऽक्तरणदर्शनादिदं पृथगेव सूत्रं द्रष्टव्यम् ॥ ..
अधि. ५.] मादीपिकासहितम्. 217 याज्याशब्दः अकस्मात् कारणं विना न युज्यते यागाङ्गत्वे हि याज्यात्वमिति ॥१२॥ सः मूक्तवाकः देवतार्थः प्रस्तरहविष्के यागे देवताकल्पकः । तत्संयोगात् अङ्गत्वेन रूपेण प्रहरणं प्रति सम्बन्धात् आघारोपांशुयाजादिमन्त्रवत् । अत: प्रहरणे देवताविरहात् कथं तदङ्गत्वमिति नाशङ्कनीयम् ॥१३॥ आशङ्कय समाधत्ते प्रहरणं प्रस्तरस्य प्रतिपत्तिरिति । द्वितीययाऽवगम्यते । अतस्सूक्तवाकस्य कालार्थ एव संयोग इति चेत् उच्यते प्रहरतिलक्षितोऽत्र होमः स्वि- ष्टकृद्धत् स्विष्टकृद्याग इव उभयसंस्कारः प्रक्षेपांशेन प्रस्तरस्य उद्देशांशेन उपयुक्तदेवतायाश्च संस्कारः स्यात् । स्विष्टकृद्यागोपि हि प्रक्षेपां- शेन उपयुक्तहविस्संस्कारार्थः । “अयाडमिरमेः प्रिया धामानि"* इत्यादिमन्त्रांशेन इष्टेज्यमानदेवतासंस्कारः । प्रस्तरमिति द्वितीया तु प्रतिपत्तिसंस्कार्यत्वानुवादपरैवेति ॥ प्रयोजनं पूर्वपक्षे सूक्तवाकपाठकाले प्रहरणं सिद्धान्ते वन्त इ. त्यायुधम् ॥१४-१५॥ दर्शपूर्णमासयोः “सूक्तवाकेन प्रस्तरं प्रहरति" इति श्रु. तम् । तत्र सूक्तवाकपदवाच्यस्य मन्त्रस्य इष्टदेवताप्रकाशनेन कृतार्थत्वात्प्रस्तरप्रहरणस्य चोपयुक्तप्रस्तरप्रतिपत्तित्वेन कृतार्थ- त्वात् “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत” इतिवत्काला- थेस्सम्बन्धः । तृतीया चेत्थम्भूतलक्षणत्वपरा सती सूक्तवाक- स्य कालेकसम्बन्धेन प्रहरणोपलक्षणत्वेनान्वयं बोधयन्ती ना- नुपपन्ना । न चैवं लक्षणा तस्याप्यानुशासनिकत्वेन शक्य- त्वात् । अतश्चानूयाजोत्तरं सूक्तवाकपाठात् तत्कालविशिष्टं प्र- स्तरोद्देशेन प्रहरणमेव विधीयते । न तु सूक्तवाकस्य प्रहर. णाङ्गत्वमिति प्राप्ते- *तै. ब्रा. ३-५-७. PM-28 218 पूर्वमीमांसादर्शनम्, [अध्या. ३. पा. २. प्रचुरप्रयोगाल्लाघवाच करणत्व एव तृतीयायाश्शक्तिः न तु इत्थम्भूतलक्षणे तस्यानुशासनिकत्वेऽपि लाक्षणिकत्वेनाप्युप- पत्तेः अतश्च श्रुत्या प्रहरणागत्वस्याप्यवगतेः प्रहरतिर्मान्तवर्णिक- देवताकल्पनया आश्रयिकर्मरूपहोमलक्षको न विरुध्यते अत एव "सूक्तवाक एव याज्या" इति यागलिङ्गमपि सङ्गच्छते । यद्य. पि च नास्य मन्त्रत्वादिवदभियुकप्रसिद्धिविषयत्वाख्यं याज्या- त्वं सम्भवति एवकारोपबद्धत्वेनैतल्लिङ्गस्य याज्यात्वासाधक- त्वात् । तथापि यागसाधनत्वमात्रेण याज्यात्वव्यपदेशात् या- गलिङ्गत्वम् । अतश्च श्रुत्या मन्त्रस्य प्रहरणाङ्गत्वेऽपि मुख्यसा- मर्यस्य नात्र बाधः प्रहरणेऽपि तदुपपत्तेः॥५॥ (६)-कृत्लोपदेशादुभयत्र सर्ववचनम् ॥ १६ ॥ यथार्थं वा शेषभूतसंस्कारात् ॥ १७ ॥ वचनादितिचेत् ॥१०॥ प्रकरणाविभागा- दुभे प्रति कृत्स्नशब्दः ॥ १९ ॥ "सूक्तवाकेन प्रस्तरं प्रहरति" इत्यत्र कृत्स्नोपदेशात् कृत्स्नस्य सू- कवाकस्याङ्गतया विधामात् उभयत्र दर्शे पूर्णमासे च सर्ववचनं समग्रस्यैव सूक्तवाकस्य पठनं कार्यम् ॥ १६ ॥ एवंपूर्वपक्षे सिद्धान्त- माह-यथार्थ वा यथालिङ्गमेव विभज्य विनियोगो दर्शपूर्णमासयो- स्सूतवाकस्य, शेषभूतसंस्कारात् यागे शेषभूताया देवतायाः सू- कवाकेन स्मृतिद्वारा संस्कारकरणात् । उभयत्र कृत्नपाठे हि अनुप. युक्तदेवतांशे आरादुपकारकत्वप्रसङ्गः ॥ १७॥ शङ्कते-सूक्तवाकेनेति प्रातिपदिकश्रुत्या कुलस्यैव सूक्तवाकस्य वचनात् रूठ्या प्रहरतिलक्षित.
मादीपिकासहितम. 219 होमागतया विनियोगचोदनात् न युक्तो लिङ्गेन विभज्य विनियोग इति चेत् उच्यते-प्रकरणाविभागात् प्रकरणस्य प्रकृष्टकरणस्य सुष्टु उक्त वक्तीति व्युत्पत्त्या इष्टदेवताप्रकाशकमन्त्रे अवयवशक्तिरूपस्य अ- विभागात् प्रत्यभिज्ञानात् समुदायरूढिकल्पनानुपपत्तेः उभे दर्शपूर्णमासक- र्मणी प्रति अवयवशः प्रयोगेऽपि कृत्स्नशब्दः कृत्स्नस्सूक्तवाकशब्दा- र्थो नानुपपन्न इति लैङ्गिकविनियोगेऽपि न श्रुतिविरोधः ॥ १८-१९ ॥ श्रुत्या लिङ्गोपष्टब्धया प्रहरणाङ्गत्वावगमात् न लिङ्गमात्रेण सूक्तवाकस्य इष्टदेवतास्मरणार्थत्वम् । न चात्राविरोधोऽपि अ- ध्येतृप्रसिद्धया समस्तानुवाके सूक्तवाकशब्दस्य रूढत्वेनावयवशो विभज्य विनियोगेऽवयवलक्षणापत्त्या श्रुतिविरोधापत्तेः । न चा- सौ सुष्टुक्तं वक्तीति व्युत्पत्त्या इष्टदेवतावाचिपदसमुदाये यौ गिकः । पारायणाध्ययनादौ कतिपयपदप्रयोगेणापि सूक्तवाक- पदार्थसम्पत्तिप्रसङ्गेन समस्तानुवाके रूढेरवश्यम्भावात् । अस्तु चेष्टदेवताप्रकाशनमानुषङ्गिकं फलं प्रहरणमेव तु श्रुतिविनियो- गात्सर्वानुवाकप्रयोजकमिति दर्शे पौर्णमासे च सर्वः प्रयोक्तव्य इति प्राप्ते- प्रबलयाऽपि श्रुत्या लिङ्गस्य बाधे प्रहरहिटश्यहोमान्त- र्गतदेवतोद्देशस्यारादुपकारकत्वापत्तेः दृष्टविधया सन्निपत्यो- पकारकत्वलाभार्थ श्रुतिरेव लैङ्गिकेष्टदेवताप्रकाशनार्थत्वं मन्त्र- स्यानुमन्यते । अत एव श्रुतिबलीयस्त्वात् प्रहरणप्रयुक्तस्सू- क्तवाकः प्रहरणाभावेऽननुष्ठीयमानोऽपि विभज्य विनियोगांशे इ- एदेवताप्रकाशनरूपलङ्गिकार्यस्यैव प्रयोजकत्वमनुमन्यते । न चैवं सूक्तवाकशब्दस्यावयवलक्षणार्थत्वापत्तिः सूक्तवाकपदस्य सुष्ठक्तं वक्तीति व्युत्पत्त्या इष्टदेवताप्रकाशकमन्त्रविशेषे योगरू- 220 पूर्वमीमांसादर्शनं. [अध्या. ३. पा ढत्वात् । तेन यत्र यावत्यो देवता इष्टाः प्राकृत्यो वैकृत्यो वा तत्र तावानेव सूक्तवाकः । अतश्च सूक्तवाकप्रातिपदिकश्रु- त्यनुरोधेनापि लिङ्गाबाधः । न चाध्ययनादौ योगबाधाद्रूढिमा- प्रकल्पना । तत्र तदानीन्तनवैदिकप्रसिद्धचनुरोधेन दार्शपूर्ण- मासिकदेवतापदसमुदाययुक्त एव मन्त्रे निरूढलक्षणाङ्गीकारात्। अश्वकर्णादौ शक्यसम्बन्धप्रतीत्यभावात् क्लप्तावयवशक्तिबाधेना- प्यतिरिक्तशक्तिकल्पनामति विशेषः॥ प्रयोजनं विभज्य विनियोगः ॥६॥ 0- (७)-लिङ्गक्रमसमाख्यानात्काम्ययुक्तं समानानम् ॥२०॥ काम्ययाज्याकाण्डसमाख्याते काण्डे "इन्दाग्नी रोचना दिवः "* इत्यादिमन्त्राणां समानानं लिङ्गक्रमसमाख्यानात् लिङ्गक्रमसमा- ध्यारूपप्रमाणत्रयानुरोधात् काम्ययुक्तं काम्येष्टिकाण्डसमाख्याते काण्डे पठितेषु काम्यकर्मस्वेवाङ्गतया सम्बद्धं न तु लिङ्गमात्रानुसारात् इन्द्रा- प्रयादिदेवताकर्ममात्राङ्गम् ॥ २० ॥ काम्येष्टिकाण्डे इन्द्रानयादिदेवस्याः काम्येष्टयस्समामाताः तेनैव क्रमेण मन्त्रकाण्डे तत्तलिङ्गा एव काम्ययाज्यानुवाक्या- काण्डमित्येवं समाख्याता याज्यानुवाक्यामन्त्रास्समानाताः। ते लिङ्गादिन्द्रामयादिदेवत्यकर्ममात्राङ्गन तु दुर्बलक्रमसमाख्यानुरोधेन काम्यष्टिमात्राङ्गम् । न च सामान्यसम्बन्धबोधकप्रमाणाभावे * तै. सं. ४-२-११.
भधि..] मादीपिकासहितम. 221 लिङ्गमात्रेण विनियोगायोगः मन्त्रगतप्रयोजनाकाहासहकृतलिङ्गेन सामान्यसम्बन्धबाधकप्रमाणाभावेऽपि इन्द्राग्नयोदिदेवताप्रकाशने मन्त्रावनियोगोपपत्तेः । न चेन्द्राग्नीस्वरूपे आनर्थक्यादपूर्वसाध- नत्वलक्षणार्थ क्रमाद्यपेक्षते वाच्यम् । इन्द्राग्मयादिदेवतानां जुहूवत्क्रत्वव्यभिचारित्वेन लक्षणोपपत्ते. । व्यभिचारित्वेपि वा लौकिकस्यानयादेवैयादेव निवारणोपपत्तौ परिशेषादेवापूर्वीय- त्वोपस्थितेः । अतो लिङ्गमात्रेण क्रमसमाख्ययोर्वाधात् सर्वार्थ- त्वामति प्राप्ते- आकासाभावे योग्यतारूपस्य लिङ्गस्य विनियोजकत्वानुपप- त्तेर्मन्त्रगतप्रयोजनाकाकायाश्च सर्वमन्त्राणां वाचस्तोमे विनियो- गेन निराकाङ्कतया अभावान्न लिगमात्रात्सर्वार्थत्वोपपत्तिः । अतश्च वाक्यप्रकरणक्रमादिना सामान्यसम्बन्धबोधकप्रमाणेन तत्त दाकाहोत्थापनात्तत्तक्रतुसम्बन्धेश्वगते द्वारविशेष एव लिङ्गादव- गम्यते । न च वाचस्तोमीयवाक्येन प्रकरणादिबाधः मन्त्रवि- शेषविषयाणां तेषां मन्त्रपाठकालोत्पन्नमन्त्रप्रयोजनाकाङ्क्षावेळाया- मनुपत्थितेन तेन वाक्येन बाधायोगात् । न चैवं प्रबलेन विनि- युक्तस्यापि दुर्बलेन विनियोगे उत्कृष्टस्यापि पूषानुमन्त्रणमस्त्रस्य प्रकरणेन गौणेऽर्थे विनियोगापत्तिः। प्रमाणद्वयस्याप्येकविषय- त्वात् मन्त्रप्रयोजनाकाङ्कावेळायां प्रबलप्रमाणस्योपस्थितत्वाञ्च बाधकत्वोपपत्तेः । अतश्च प्रकृते बाधायोगात् क्रमसमाख्यानु- रोधात् काम्यष्टिविषयत्वमेवं मन्त्राणाम् । न चान्यत्राकाङ्कोत्था- पकं किश्चिदस्ति अव्यभिचरितक्रतुसम्बन्धादेराकाडोत्थापकत्ये प्रमाणाभावात् । वस्तुतस्तु-नात्राव्यभिचारोपि जुह्वादीनां हि 222 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. १. न तत्वेनान्यत्र कारणतेति तस्या युक्तः क्रतुना अव्यभिचरित- स्सम्बन्धः । देवतारूपस्यानचादिशब्दस्य तु आनुपूर्वीविशिष्ट- वर्णत्वेन क्रतुं प्रतीव स्वार्थप्रतिपादनं प्रत्यपि कारणत्वान्नाव्य- भिचरितः ऋतुसम्बन्ध इति वैषम्यम् । अतश्च ब्यभिचारात् अन्यभिचारेऽपि वा आकांक्षोत्थापकत्वानुपपत्तेर्नान्यत्र विनियोगः । अत एव स्वारतिको आकाडा यत्र न निवर्तते यथा अर्थज्ञाने उपनिषजन्यात्मज्ञाने वा तत्राकाडोत्थापनप्रयोजनाभावात् सामा- न्यसम्बन्धबोधकप्रमाणं विनापे भवत्येव लिङ्गमात्राद्विनियोगः। प्रकृते तु स्वारसिकाकासानिवृत्तेराकाोत्थापकसामान्यसम्बन्ध- बोधकप्रमाणापेक्षेति वैषम्यम् । न चैवं प्रबलक्रममात्रेणैव तदु- पपत्तेस्समाख्यावैयर्थ्यम् । यत्र साप्तदश्यवत् अग्निदेवत्यकर्म- क्रमे आग्नेयमन्त्रद्वयानानं तत्र प्रथमातिक्रमे कारणाभावात् क्रमा- विरोधाश्च सामिधेनीषु निवेशे प्राप्ते समाख्यया याज्यानुवाक्या- कार्य निवेशः । सामिधेनीषु त्वन्यासामागमः । न चैवं क्रमो पन्यासवैयर्थ्य यत्रान्यदेवत्यपूर्वेष्टियाज्यानानानन्तरमुत्तरेष्टियाज्या- तः पूर्वमाग्नेय्यः ऋचः पाठेताः तत्र तत्तल्लिङ्गकमन्त्रेण याज्या- कार्ये निवेशासम्भवात्समाख्याबाधेपे क्रममात्रेणोत्तरोष्टसामिधे- नीकार्य निवेशः तत्सामिधेनीस्थानपठितत्वात् । अतस्सिद्धं का- म्येष्टिष्वेव विनियोग इति ॥७॥ (6)-अधिकारे च अन्त्रविधिरतदाख्येषु शिष्ट- त्वात् ॥ २१ ॥ तदाख्यो वा प्रकरणोपपत्ति- भ्याम् ॥ २२ ॥ अनर्थकश्चोपदेशस्स्यादस- अधि...] भादीपिकासहितम्. 223 म्बन्धात्फलवता न घुपस्थानं फलवत्॥२३ सर्वेषां चोपदिष्टत्वात् ॥२४॥ ज्योतिष्टोमप्रकरणपठिते “आग्नेय्याऽऽग्नीध्रमुपतिष्ठते इत्यादौ म न्त्रविधिः आग्नेयीऋगादिमन्त्रविधिः अधिकार अधिकृतमन्त्रवि- षये अतदाख्यषु अप्रकृतषु च अमयादिलिङ्गकेषु अविशेषेण प्रव- तते शिष्टत्वात् आग्नेयीपदेन प्रकृताप्रकृताविशेषेणैव अङ्गतया विहि- तत्वात् ॥ २१॥ एवं पूर्वपक्षे सिद्धान्तमाह—तदाख्यो वा अधि- कृत एव मन्त्रः तत्र आग्नेयीपदेन विधीयेत प्रकरणोपपत्तिभ्यां उपस्थानोद्देशेन आग्नेयोऋग्विधौ उपस्थानस्वरूपे आनर्थक्यशङ्कापरिहा- रायापूर्वसाधनलक्षणार्थमवश्याश्रयणीयं प्रकरणम् । तच्च प्रकृतानामानेय्या ग्रहणे अनुगृहीतं भवति । तासां प्रकरणपाठेन हि अपूर्वसाधनवं क्ल- प्तमिति ॥ ब्रह्मोदनप्राशनादौ " चतुरो ब्राह्मणान् भोजयेत्" इत्यादी प्रकृतानामेव चतुर्णा ग्रहणे लाघवरूपा उपपत्तिश्च भवतीति ॥ २२॥ अपूर्वसाधनलक्षणाया आवश्यकत्वमेवाह--यदि उपस्थानस्वरूपो देशेनैव मन्त्रविधिस्स्यादत्र तदा उपदेशः स विधिः अनर्थकश्च विफल एवं स्यात् फलवता उद्देश्येन असम्बन्धात् अनन्वयात् । न हि उपस्थानं फलवत् क्रत्वपूर्वातिरिक्तेन अदृष्टेन फलेन युक्तम् । येन प्रोक्षणमन्त्रवत् उपस्थानमन्नस्यापि तददृष्टार्थतयवोपपत्तेः न प्रकृतक्रत्व- पूर्वलक्षणाऽऽवश्यकी भवेत् । तथा सति गौरवापत्तेः । उपस्थानम- न्त्रस्य त्यभिधानफलकस्य करिष्यमाणमण्डपवृत्तिपदार्थानुष्ठानोपयोगितया अवघातमन्त्रवत् दृष्टार्थत्वे लाघवम् । अतः प्रकृतापूर्वलक्षणार्थ प्रकर- णपाठोपजीवनावश्यंभावात् प्रकृतग्रहणमेव युक्तम् ॥२३॥ ननु प्रक- रणपठितानामामयीनां स्तोत्रादिप्रयोजनान्तरसम्बन्धेन निगकाङ्कत्वात्प्रयोज- नसाकाहाणामप्रकृतानामेव ग्रहणं युक्तमित्याशङ्कायामाह-सर्वेषां च 224 पूर्वमीमांसादर्शनं. अध्या. ३. पा. २. निखिलानामेव मन्त्राणां वाचस्तोमादौ " सर्वा ऋचः सर्वाणि यजूंषि" इत्यादिना उपदिष्टत्वात् प्रयोजनान्तरसम्बन्धन निराकाङ्कत्वमवि- शिष्टं प्रकृतानामप्रकृतानां च । अतः पूर्वोक्तलाघवात् प्रकृतग्रहणमेव युक्तमिति ॥२४॥ ज्योतिष्टोमे “आग्नेय्याऽग्नीध्रमुपतिष्ठते" इत्यत्र प्रकृताप्र- कृतसाधारण्येन ऋमात्रमाग्नीध्रोपस्थानाङ्गं उत प्रकृता एव या स्स्तोत्रादावपि विनियुक्तास्ता एवंति चिन्तायां-आग्नेयीपदस्या- विशेषेण सर्वपरत्वात् प्रकरणस्य तत्सङ्कोचकत्वानुपपत्तेः अग्नि- देवत्यऋध्यात्रस्यैव विशिष्टविध्युत्तरकालीनविशेषणविधिना आ- मोधोपस्थानाङ्गत्वेन विधानम् । न ह्यत्राग्नेयो उद्देश्या येनान- र्थक्यभिया व्रीहिवत्प्रकरणेन सङ्कोच्येत तृतीयया उपादेयत्वा- वगमात् । यत्र चोपस्थानस्वरूपे आनर्थक्याशङ्का तत्र प्रकर- णानुप्रवेशेऽपि नाग्नेयीपदस्य प्रकृतपरत्वापत्तिः । न चाग्नेयी- पदस्य यौमिकत्वात् तद्धितान्तत्वाद्वा सन्निहितपरत्वं यौगिका- नामवयवार्थविशिष्टव्यक्तिमात्रवाचित्वेन सन्निहितवाचित्वे प्रमा- णाभावात् । तद्धितस्य तद्वाचित्वेऽपि प्रकृतानामृचामेकप्रकरण- स्थत्वेऽपि प्रदेशान्तरस्थत्वेन सन्निहितत्वाभावात् । अस्तु वा प्रकरणसन्निहितस्यैव तद्धितेन ग्रहणं तथापि यत्र न तद्धितश्र- वणं यथा ब्रह्लादनप्राशनादौ “चतुरो ब्राह्मणान्भोजयेत्” इत्या- दौ तत्र प्रकृतऋत्विग्ग्रहणे प्रमाणाभावः । न च प्रकृतानाम- पूर्वार्थत्वस्य क्लसत्वात्केवलं द्वाररूपाग्नीध्रोपस्थानसम्बन्धकरणे लाघवादप्रकृतानामुभयकरणे गौरवापत्तेः . प्रकृतनियम इति वा- च्यम् । प्रकृतग्रहणेऽपि उपस्थानस्वरूपस्य द्वारत्वे तत्कार्यापन्ने ऊहाद्यनापत्तेः अपूर्वसाधनत्वलक्षणाया आवश्यकत्वात् । नहि मकृतविषयेऽपि प्रकरणेन वाक्यान्तरकल्पनयापूर्वार्थत्वबोधः त- तावता अंधि..] माहदीपिकासहितम. 225. थात्वे व्रीहीणां स्वरूपेण द्वारत्वापत्ती यवानां तदनापत्तेः। अतो . लाघवादपूर्वसाधनीभूतस्तोत्रत्वेनैवोद्देश्यता । चापूर्वसाधनोभूतोपस्यानार्थत्वस्यालाभारस्येव प्रकृतग्रहणेऽपि तद्विधावपूर्वसाधनलक्षणा । अपि च स्तोत्रापूर्वसाधनत्वक्लप्ता वपि . .नोपस्थानजन्यज्योतिष्यामापूर्वसाधनत्वलाभः प्रकृतानाम् अतस्सर्वासामेव ग्रहणं अप्रकतानामेव वा कार्यसाकाङ्कत्वादिति प्राप्ते- अप्रकृतग्रहणे तासामपूर्वसाधनीभूतोपस्थानार्थत्वान्यथानुप- पत्त्या अपूर्वार्थत्वस्यापि ब्रीह्यादिवत् कल्पनीयत्वापत्तेः प्रकृतानां च कार्यान्तरसम्बन्धबोधकविधावेवापूर्वार्थत्वस्य क्लप्तत्वात् लाघ. वोपजीविना प्रकृतनियमः । सम्भवति च प्रकृतानामप्याग्नेयीनां चाङ्यिमन्यायेन स्तोत्रद्वारा ज्योतिष्टोमापूर्वसम्बन्धासम्भवेऽपि कार्यान्तरद्वारा सः । आग्नेयीनां स्तोत्रादौ विनियोगेऽपि पार्थ- क्येन ज्योतिष्टोमप्रकरणे पाठादेव तावदपूर्वसम्बन्धावगमः । अ- यमेव च ब्रह्मोदनप्राशने ऋत्विक्त्वनियामकन्यायः । न चैवं "आत्रेयाय हिरण्यं ददाति" इत्यत्रापि तन्नियमापत्तिः । ऋ- त्विक्त्ववदात्रेयत्वस्य नियमेनाप्राप्तेः । अत एव च "अग्निमुप- निधाय स्तुवीत" इत्यादावाक्षेपणीयस्तोत्रापूर्वसम्बन्धस्याहवनी- यादावप्राप्तत्वान्न तनियमः अपि तु विना वचनमायतनबाहि- र्भावायोगाल्लौकिकस्यैवेति वक्ष्यते । अतस्सिद्धं लाघवानुरोधेन प्रकृतस्यैव ग्रहणम् ॥ ८॥ P.M-29 226 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. २. (९)-लिङ्गसमाख्यानाभ्यां अक्षार्थताऽनुवाकस्य ॥ २५॥ तस्य रूपोपदेशाभ्यामपकर्षोऽर्थ- स्य चोदितत्वात् ॥२६॥ "* ज्योतिष्टोमप्रकरणे भक्षानुवाकसमाख्यया आनातस्य "भक्षेहि मा विश दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदोस्यश्विनोस्त्वा बाहुभ्यां सध्यातं नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम् "* इत्यादेः “ उपळूतस्योपहतो भक्षयामि इत्यन्तस्य अनुवाकस्य कृत्स्नस्य भक्षार्थता सोमभक्षाङ्गता कुतः लिङ्गसमाख्यानाभ्यां लिङ्गं तावत् भक्षणप्रकाशकत्वरूपम् “ उपहूतो भक्षयामि"* इत्यन्ते स्पष्टम् । भक्षानुवाक इति समाख्या च वैदि- कप्रसिद्धैव । तदिदमुभयं भक्षार्थतां विनाऽनुपपन्नमिति ॥ २६॥ एवं पूर्वपक्षे सिद्धान्तमाह-न कृत्नस्यास्यानुवाकस्य भक्षणाङ्गता किन्तु-ग्रहणावेक्षणादिषु तस्य तदनुवाकस्थस्य तत्तदंशस्य अपकर्षः भक्षादुत्कृष्य निवेश एव । ननु ग्रहणादेरविहितत्वात् कथं तत्र तत्त- मन्तनिवेश इत्यत आह-अर्थस्य ग्रहणादिरूपस्य चोदितत्वात् ग्रहणादेर्भक्षणविध्याक्षपेण नित्यप्राप्त्यभावेऽपि तत्तन्मन्त्राणां समाख्यास- हकृतावान्तरप्रकरणेन भक्षाङ्गखेऽवगते तदङ्गलेन मान्त्रवाणकक्रियाविधि- कल्पनोपपत्तेः । तथाकल्पितविधित एव प्राप्तखात् . ग्रहणादौ लिङ्गन तत्तन्मन्नस्य निवेश एवं युक्तः । भक्षानुवाकसमाख्या तु भक्षसम्ब- न्ध्यनुवाक इति साक्षात्परंपरासाधारण्येनाप्युपपन्ना । अन्यथा समाख्यया लियाधापत्तेरिति ॥ तथा च 'सध्यासम्" इत्यन्तो ग्रहणे । 'नृचक्षसम्'* इत्यादिः 'अवख्येषम् * इत्यन्तोऽवेक्षणे । 'हिन्व '* इत्यादिः 'अतिगा' * *तै.सं. १.२.१.
अधि. ९.] मादीपिकासहितम. 227 इत्यन्तश्च सम्यग्जरणे इति बोध्यम् ॥ प्रयोजनं पूर्वपक्षे ग्रहणादे यत्या. भावः । पाठक्रमेण च मन्त्रपाठान्ते भक्षणम् । सिद्धान्ते तु ग्रहणादेनॆयत्वेन तत्तन्मन्त्रान्तेऽनुष्ठानम् । 'हिन्व इत्यस्य च भक्षणान्ते अर्थक्रमानुसारंण पाठ इति बोध्यम् ॥ २६ ॥ सोमे-"भक्षेहि मा विश"* इत्यादिभक्षानुवाक इत्येवं समाख्यातो मन्त्रश्श्रुतः । तंत्र यस्तावदस्यांशो भक्षणमेव प्रति- पादयति स तत्रैव विनियुज्यते । ग्रहणावेक्षणसम्यग्जरणप्रतिपाद- कानां त्वंशानां किं ग्रहणादावेव विनियोगः अथवा भक्षणम- न्त्रैकवाक्यतया भक्षण एवति चिन्तायां ग्रहणादेरविहितत्वेना- पूर्व प्रत्यङ्गत्ववजनकत्वस्याप्यभावात् ग्रहणस्यार्थाद्भक्षसाधकत्वेन पक्षप्राप्तावपि “वाहुभ्यां सध्यासम्"* इत्यनेनोक्तस्य बाहुद्वयकर- णकस्य ग्रहणस्य कथमप्यप्राप्तः अवेक्षणस्य च भक्षाजनकत्वेनै- वाप्राप्तेः सम्यग्जरणस्य तदनुकूलव्यापारस्य वा भक्षोत्तरभावि- तया भक्षाजनकत्वेन तेषामपूर्वप्रयोजकत्वस्याप्यभावात् : ग्रहणा- द्यर्थत्वे आनर्थक्यापत्तेर्भक्षमन्त्रैकवाक्यतया भक्षार्थत्वमेवैषाम् । एवं च समाख्याऽप्युपपन्ना भवतीति प्राप्त- ग्रहणादिप्रत्यक्षविध्यभावेऽपि समाख्यासहकृतावान्तरप्रकर- णेन भक्षसम्बन्धे तत्तन्मन्त्राणामवगते लिङ्गवलेन मान्त्रवर्णिक- ग्रहणादिविधिकल्पनयां तत्प्राप्त्युपपत्तेस्तदर्थत्वेनैव मन्त्रबिनियो. गोपपत्तौ न स्वतो निराकांक्षयोईयोराख्यातपदयोः कथञ्चिदेकवा क्यतां परिकल्प्य गौण्या भक्षार्थत्वकल्पनं शक्त्यैव वा भक्षवि- शेषणत्वेन ग्रहणादिप्रकाशकत्वकल्पनमुपपत्तिमत् । न चैवमपि सम्यग्जरणस्य कृत्यसाध्यत्वान्न विधिसंभवः । सम्यग्जरणानुकू- * तै.सं. ३-२-५..
228 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. १. लव्यापारस्यासनविशेषस्यैवानुष्ठेयस्य विधेयत्वात् । वमनविरेक- निमित्तप्रायश्चित्तानानाञ्च सम्यग्जरणपर्यन्तमेव भक्षणे प्रतिपत्ति रिति तस्य भक्षोपयोगिता ॥९॥ (१०)-गुणाभिधानान्मन्द्रादिरेकमन्त्रस्स्यात्तयोरे- कार्थसंयोगात् ॥ २७॥ पूर्वाधिकरणनीत्या “मन्द्राऽभिभूतिः केतुर्यज्ञानां वाग्जुषाणा सोम- स्य तृप्यतु "* इत्ययं मन्त्रस्तदनुवाकगतः तृप्तौ लिङ्गेन विनियुज्यता- मिति पूर्वपक्षे सिद्धान्तमाह-तृप्तेरविहितत्वेन " अल्पं भक्षयति" इत्या- दिविधिविरोधेन तद्विधिकल्पनाया असभ्भवेन च तत्र लिन विमियो गासम्भवात् मन्द्रादिः 'सन्द्राऽभिभूति:* इत्यादिः भक्षयामि'* इत्यन्तः भक्षाङ्गतया एकमन्त्रः एव स्यात् गुणाभिधानात् गुणस्य ताप्तिरूपस्य विशेषणस्य प्राशस्त्यस्य वा : तृप्यतु"* इत्यन्तेन भक्षयत्येकवाक्यताप- बेन अभिधानात् तयोः. “ तृप्यतु "* " भक्षयामि"* इत्यन्तयोर्वाक्ययोः एकार्थसंयोगात् विशिष्टैकार्थवृत्तित्वोपपत्तेः ॥ २७ ॥ तस्मिन्नेवानुवाके 'मन्द्राभिभूतिः' तृप्यतु इत्यन्तः तृप्तौ विनियोक्तव्यः ग्रहणादाविवेति प्राप्ते- ग्रहणादिवदनुष्ठेयत्वाभावात्तृप्तेरप्रकाश्यत्वम् । न च सम्य- ग्जरणवत् . तृप्त्यनुकूलव्यापाररूपभक्षणबाहुळ्याक्षेपकत्वं ." अल्पं भक्षयति" इति वचनविरोधेन तत्कल्पनार्नुपपत्तेः । अत एव तृप्तेर्भक्षणेनाजननान तस्यास्स्वर्गवजन्यत्वमात्रेण प्रकाश्यत्वोपप- ? * इत्यादिः . * तै. सं. ३-२-१० अधि. ११.] भाहदीपिकासहितम. 229 त्तिः । अतश्च लिङ्गविनियोगासम्भवात्सत्यप्याख्यातव्यस्य स्वतो निराकाश्त्वे इतिकरणाध्याहारेण नृप्यत्वित्येतदर्थ भक्षयामी- त्येवं भक्षमन्त्रैकवाक्यता प्रकल्प्य · स्वार्थविशिष्टभक्षणप्रकाश- कत्वमेवाङ्गीकर्तव्यम् । स्वार्थश्च श्रुत्या तृप्तिरेव तत्प्रकाशनांशे. चादृष्टार्थत्वम् । अथ वा लक्षणया भक्षणस्तुतिः । सर्वथा न लिङ्गाद्विनियोगः ॥ १०॥ (११)-लिङ्गविशेषनिर्देशात्समानविधानेष्वनन्द्रा- णाममन्त्रत्वम् ॥ २८ ॥ यथादैवतं च त- प्रकतित्वं हि दर्शयति ॥ २९ ॥ तस्मिन्नेव मन्ते 'इन्द्रपीतस्य' इति लिङ्गविशेषनिर्देशात् समा- नविधानेषु तुल्यभ्रमाणप्रापिताङ्गकलापेषु अत एवं प्रकृतिविकारभावरहितेषु ऐन्द्रानेन्द्रग्रहयागाभ्यासषु मध्ये अनैन्द्राणां ऐन्द्रातिरिक्तानां मैत्रावरु- णादिग्रहयागाभ्यासानां सम्बन्धिनि भक्षणे अमन्त्रत्वं निरुक्तमन्त्रान- ङ्गकत्वं कुतः लिङ्गविशेषनिर्देशात् ‘इन्द्रपीतस्य ' इति सोमविश. षणस्य निर्देशात् तस्य चानन्द्रेऽनन्वयात् । इत्येकः पूर्वः प्रक्षः ॥२८ अन्यं पूर्वपक्षमाह - अनैन्द्रेष्वपि यथादैवतं मित्रावरुणपीतस्येत्यादिरीत्या ऊहं कृत्वा भक्षणं कार्यम् । हि यतः अनेन्द्राणां यागाभ्यासानां तत्प्रकृतित्वं ऐन्द्रयागाभ्यासप्रकृतिकत्वं दर्शयति सूचयति “इन्द्राय त्वा वसुनते सोमं मिनोमि" इत्यादिमन्त्रः । तस्य हि मन्त्रस्य लिङ्गदिन्द्रप्रदानीयसोममानायङ्गत्वं ' स्फुटं तदनुरोधेन च तत्प्रकाश्यस्य नानादेस्तादृशमानादिसंस्कार्यस्य सोमस्य च ऐन्द्रप्रदानमात्राङ्गत्वम् । तथा 1" यथादैवतं वा" इत्यपि पाठः. 2. सं.३-२-५.
280 पूर्वमीमांसादर्शनम्, [अध्या. ३. पा.२. च सोमधर्माणामभिषवादीनां तत्संवलितानां दीक्षणीयादीनां च तन्मा- त्रार्थत्वमिति अनेन्द्रप्रदानानां द्रव्यादिधर्मसाकाङ्काणामव्यक्तत्वंसामान्यादैन्द्र- प्रदानविकृतित्वोपपत्तरनिदेशप्राप्तस्य भक्षमन्त्रस्य समवेतार्थत्वादूहन्यायेनो- हितस्य तत्र प्रयोगो युक्त एवेति ॥ एवं पूर्वपक्षे स्थित एवं विचारान्तराणि प्रवर्त्यन्ते एतत्पादीयोपान्त्यसूत्र यावत् । अन्तिमसूत्रं तु एतदधिकरणीयसिद्धान्तपरमिति वेदितव्यम् ॥ २९ ॥ भक्षमन्त्रः किं इन्द्रदेवत्याभ्यास एवाङ्गं तद्भिन्नाभ्यालेष्व- मन्त्रकं भक्षणं उत तेषु ऊहेन उतानूहेन वेति चिन्तायां- प्रकरणात् भक्षमन्त्रस्य सर्वप्रदानार्थत्वावगमेऽपि 'इन्द्रपीतस्य'* इति लिङ्गेन इन्द्रदेवत्यप्रदानमात्राङ्गत्वम् । न चेन्द्रेण यस्मि- सवने पीत इति बहुव्रीहिस्वीकारेण सर्वसोमसम्बन्धिसवनवि- शेषणत्वाङ्गीकारात् लिङ्गाविरोध इति वाच्यम् । पदद्वयलक्ष- णापादकलक्षणाननुगतव्यधिकरणबहुव्रीह्यपेक्षया पूर्वपद एव सम्बन्धिलक्षणापादकस्य लक्षणानुगतस्य इन्द्रेण पीतः स्वीकृत इत्येवं तत्पुरुषस्यैव लघुभूतत्वात् । विद्यते च देवतायाः प्र- तिग्रहाभावेऽपि “देवस्वं न गृह्णीयात्" इत्यादिवचनबलेन स- म्बन्धविशेषरूपस्स्वीकारः । न च स्थूलपृषतीपदवत् :स्वरादेव बहुव्रीहित्वनिर्णयः तद्वदिह समासस्य लक्षणानुगतत्वाभावेन स्वरस्यैव बाध्यत्वात् । यथा च तत्पुरुषपक्षेपि स्वराविरोध-. स्तथा कौस्तुभ एवोपपादितम् । अतश्च । लिङ्गादिन्द्रदेवत्यप्र- दान एव मन्त्रस्याङ्गत्वावगमात् अनैन्द्राणां च कर्मण एकत्वेन प्रकृतिविकारभावासम्भवादूहानुपपत्तेः वीहीणां .मेध' इति वदनैन्द्राणाममन्त्रकं भक्षणमित्याद्यः : पक्षः ॥ . * ते..सं.३-२-५. ति. वा. ३-७-५.
231 अधि. १२] भादीपिकासहितम्. द्वितीयस्तु-सत्यपि कमैकत्वे प्रदानानां भिन्नत्वादविरुद्धः प्रकृतिविकारभावः । 'इन्द्राय त्वा वसुमते' इत्यादिमानग्रहण- मन्त्राणां च लिजादैन्द्रमात्रविषयत्वात्तदनुरोधेन च तत्प्रकाश्य- योनिग्रहणयोस्तत्संस्कार्यस्य सोमस्य तत्संस्काराणां चाभिष- वादीनां तन्मिश्राणां चाङ्गान्तंराणामैन्द्रमात्रविषयत्वप्रतीतेः इत- रेषामधर्मकाणां युक्तोऽतिदेशः । भवति चाङ्गवशेनापि प्रधान- सङ्कोचः अग्नयाद्यनुरोधेन ऋतूनामाहिताग्निविषयत्वात् । अतश्च प्रकृतावपूर्यायदेवताप्रकाशकस्य भक्षमन्त्रस्य कार्यमुखेन विक- तावागतस्य भवत्येव यथादेवतमूह इति ॥ ११ ॥ एवं स्थिते अन्तरा चिन्ता- - (१२)-पुनरभ्युनीतेषु सर्वेषामुपलक्षणं विशेष- त्वात् ॥ ३० ॥ अपनयादा पूर्वस्यांनुपल- क्षणम् ॥३१॥ अग्रहणादाऽनपायस्स्यात्॥ अवस्थिते ऊहपूर्वपक्षे एव कृत्वाचिन्तया ऊहितमन्त्रविषयको विशेषो विचार्यते । तत्र प्रातस्सवने तृतीयसवने च सवनमुखीयेषु स- वैषु चमसेषु, इन्द्राथै सकृद्भुतेषु ये तावद्धोटब्रह्मोद्गातृयजमानानां वै- कल्पिकसदस्ययुक्तानां मध्यतःकारिणां चमसास्तेषु अनुवषटारेऽपि हुतेषु 'पश्चाद्धोटकाणां मैत्रावरुणब्राह्मणाच्छंसिपोतनेष्ट्रच्छ वाकानीध्राणां ये चम- सास्तेषु द्रोणकलशात्सोमान्तरं सशेषेष्वेवाभ्युन्नीय, तैमित्रावरुणादिदेवता- न्तरेभ्यो हुत्वा भक्ष्यते । तत्र हुतेषु चमसेषु सशेषेष्वेवाभ्युनीतास्सो- माः पुनरभ्युभीतां. इत्युच्यन्ते । तेषु पुनरभ्युनीतेषु विशेषत्वात् -- 232 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. १. पूर्वहोमशेषस्यैन्द्रतया उत्तरस्य च मित्रावरुणादिदेवत्यतया देवताद्वयशेष- त्वात् सर्वेषां पूर्वदेवताया उत्तरदेवतायाश्च उपलक्षणं इन्द्रमित्राव- रुगपीतस्येत्यादिरीत्या कार्यम् ॥ ३०॥ एवं सिद्धान्ते पूर्वपक्षी तावदाह पूर्वस्य पूर्वप्रदानाङ्गस्येन्द्रस्य अनुपलक्षणं वा. मित्रावरुणपीतस्यत्या- दिरीत्योहेन अनुपलक्षणमेव अनपायात् होमकाले तावत्संसृष्टत्वादुभयोर- प्याश्रावणप्रत्याश्रावणादिभिरुत्तरदेवतासम्बन्धावसायेन पूर्वदेवतासम्बन्धाप- गमावगमात् ॥३१॥ अनपायो वा शेषस्य पूर्वदेवतासम्पन्धानपगम एव स्यात् तस्योत्तरदेवताथै अग्रहाणात् शेषे स्थिते सत्येव हि "ऐन्द्रे समाश्लेषयेत् "* इत्युत्तरदेवतार्थ द्रोणकलशात्सोमरसग्रहणं विधी. यते । एवं सति शेषस्योत्तरदेवतासम्बन्धानवगमान तन्मूलकः पूर्वदे-. वतापमय इतीन्द्रोप्युपलक्षणीय एवेति ॥ ३२ ॥ सवनमुखीयेषु चमसेषु ऐन्द्रेषु सर्वेषु हुतेषु ये होतृका- णां मैत्रावरुणादीनां चमसास्तेष्वभक्षितेष्वेव पुनस्सोमोऽभ्युन्नी- न्य देवतान्तरेभ्यो मित्रावरुणादिभ्यो हुत्वा भक्ष्यते । तत्र पूर्व- प्रदानदेवताभूत इन्द्रोप्युपलक्षणीयो न वेति चिन्तायां-उन्नय- नकाले न देवतान्तरोद्देशः येनोनीतस्यैव . तत्सम्बन्धात्पूर्वशेष- स्य पूर्वदेवतासम्बन्धो नापेयात् । प्रदानकाले तु संसृष्टस्यैव देवतान्तरसम्बन्धात् . पूर्वदेवतासम्बन्धापनयप्रतीतेोंपलक्षणमिति प्राप्त - उन्नयनकाले देवतासङ्कल्पाभावेऽपि सामर्थ्यादेवोन्नयनस्य करिष्यमाणकर्मार्थत्वप्रतीतेः पूर्वशेषस्य संसृष्टत्वेऽप्येतदर्थत्वें'प्र. माणाभावादनपनीतसम्बन्धा पूर्वदेवताऽप्युपलक्षणीया ॥१२॥ *तै, सं. २.१.१..
288 अधि. १३.] भादीपिकासहितम्, (१३)-पानीवते तु पूर्ववत् ॥ ३३ ॥ ग्रहणाद्वाऽप- नीतं स्यात् ॥ ३४ ॥ ऐन्द्रवायवादिद्विदेवत्यशेषार्धमादित्यस्थालीस्थसोमे प्रातस्सवने सम- वनीय तृतीयसवने संसृष्टादित्यस्थालीस्थसोमेन सह पूर्वगृहीताप्रयणस्था- लीस्थस्सोमः पात्रान्तरे कृत्वा पुनराग्रयणस्थाल्यां गृह्यते । पश्चाच्च 'उपांशुपात्रेण पानीवतमाग्रयणागृह्णाति'* इति . श्रूयते । तस्मिन् पा- नीवते पत्नीवद्देवताके आग्रयणाद्गृहीते सोमे संसृष्टतया विद्यमानस्य द्विदेवत्यशेषार्धस्य पूर्ववत् पूर्वाधिकरणनीत्या पूर्वदेवतासम्बन्धानपायात् इन्द्रवाय्वादीनामप्युपलक्षणं कार्यम् ॥ ३३ ॥ एवं पूर्वपक्षे सिद्धान्तमाह- ग्रहणात् आग्रयणापादानकग्रहणस्य पनावद्देवतार्थतया विधानात् आ- प्रयणात्प्रच्युतस्य सर्वस्यैव पत्नीवद्देवतासम्बन्धप्रतीतेः पूर्व दैवतं अप- नीतं एव स्यात् ततश्च पूर्वदेवता नोपलक्षणीयेति ॥ ३४ ॥ द्विदेवत्यानामैन्द्रवायवादीनां शेषा आदित्यस्थाल्यामागत्य ततोऽप्याग्रयणस्थालीमागच्छन्ति । पानीवतश्चाप्रयणागृह्यते त- स्मिन् भक्ष्यमाणे द्विदेवत्या अप्युपलक्षणीयाः पूर्ववदाप्रयणस्यैव पत्नीवहवतासम्बन्धादिति प्राप्ते- पानीवतमाग्रयणागृह्वाति "* इत्यपादानत्वश्रवणात्तस्मादपे- तस्य पानीवतत्वम् । न त्वाग्रयणस्यैव आग्रयणवञ्चानाग्रयणमपि संसृष्टत्वात् तस्मादपेतमिति द्विदेवत्यस्यापि देवतान्तरसम्बन्धा- पनयात् भूतपूर्वगत्या .च प्रकृतावनुपलक्षणानोपलक्षणीयाः ॥१३॥ • . * तै, सं. ६.५:८. P.M-30 284 पूर्वमीमांसादर्शन: [अध्या. ३. पा. २. (१४) त्वष्टारं तूपलक्षयेत्पानात् ॥३५॥ अतु- ल्यत्वात्तु नैवं स्यात् ॥ ३६॥ तस्मिन्नेव प्रानीवतयागाङ्गभूतभक्षमन्ते त्वष्टारं तूपलक्षयेत् त्वष्टदेवतां त्वष्टपीतस्यत्यादिरीत्या उपलक्षयेदेव पानात् “ अग्ना इ पत्नीवास्सजूदेवेन त्वष्ट्रा सोमं पिव स्वाहा"* इत्याध्वर्यवमन्त्रे अग्नेरिव त्वष्टुरपि पानावंगमेन देवतात्वनिर्धारणात् ॥ ३५॥ सिद्धान्तमाह-एवं त्वष्टुरुपलक्षणं न तु नैव स्यात् अतुल्यत्वात् त्वष्टुः अग्निना तौल्यविरहात् । उपदर्शिते ह्यनेः पातत्वं श्रुत्या निर्दिश्यते इति युक्तं देवतात्वम् । त्वष्टुस्तु सहभावमात्रमवगम्यमानं " सहैव दशभिः पुत्रैः" इत्यादाविव पानक्रियान्वयमन्तरा समीपस्थितिमात्रेणाप्युपद्यत इति न तस्य देवताले किश्चित्प्रमाणमिति न त्वष्टुरुपलक्षणं कार्यमिति ॥ ३६॥ - पानीवत एव अग्ना इ पत्नीवास्सजूदेवेन त्वष्टा सों: म पिष" इति मन्त्रात्त्वष्णुरपि देवतात्वम् । अतस्सोऽप्यमिवदु- पलक्षणीय इति प्राप्त युक्तमग्नी पत्नीवच्छब्दस्य यौगिकत्वेन विशेष्यसाकाङ्क्षस्य सामानाधिकरण्येन विशेष्यग्राहकत्वं त्वष्टस्तु तृतीयया सहभा वमानं प्रतीयते । न चासौ पानक्रियान्वयाव्यभिचारी "सहैव दशभिः पुत्रैर्भार वहति गर्दभी" इत्यादौ व्यभिचारात् । स - त्यपि पाने देवतात्वस्याप्रामाणिकत्वाश्च । अतः ‘पानीवतम् । इति निरपेक्षतद्धितेन पत्नीवतोऽनेरेव देवतात्वमिति स एवोप- लक्षणीयः न त्वष्टा ॥१४॥ *तै. सं. १-४-२५... ति.सं. ६-५-८..
" अघि, १६.] भाईदीपिकासहितम्. 235 (१५)-त्रिंशच्च परार्थत्वात् ॥३७॥ तस्मिन्नेव पानीवतयागाणभक्षमन्ते त्रिशब प्रयस्त्रिंशदेवता अपि नोपलक्षणीयाः एभिरमे सरथं यापर्वाताना रथं वा विभवो यश्वाः। पनीवतस्त्रिंशतं त्रीश्च देवाननुष्वधमावह मादयस्व इति मन्त्रवर्णे : यस्त्रिंशद्देवानां माद्यलोक्तेः परार्थत्वात्ः अन्यार्थतया देवतात्वकल्पकला- भावात् । तत्र हि यजमानकर्तकमादनकर्मलं न तेषामुच्यते किन्तु अग्निकर्तकमादनकर्मत्वमेव । तदपि च यजमानमादितोऽमिस्स्वामित्वाद- न्यानपि मादयतीत्यग्नेरेव स्वामित्वख्यापनेन देवतात्वदाव्य भवतीति ॥ तस्मिन्नेव याज्यामन्त्रे " एभिरग्ने स रथं .याह्याङ्गाना. रथं वा विभवो ह्यश्वाः । पत्नीवतस्त्रिंशतं श्रींश्च देवाननु- प्वधमावह मादयस्व" इत्यत्र त्रयस्त्रिंशतां देवतानां पत्नीवच्छ- ब्दसामानाधिकरण्यादग्निवद्विशेष्यत्वोपपत्तेर्मदश्रवणाच पानोपप- त्तेवतात्वावगमात्तेषामप्युपलक्षणं मन्यते । अग्नेर्मादयितृत्वश्रव- णात्तेऽग्निदत्तेन कामं माद्यन्तु यजमानस्त्वनय एव ददातीत्यव- गमात्तस्यैव देवतात्वं न त्रयस्त्रिंशानाम् । एवं चं 'पानीवतम्" इति तद्धिंतोऽप्यसति बहुवचनग्राहकप्रमाणे एकवचनेनैव विगृ- हीतो भवतीत्यपि लाघवम् । अतो नोपलक्षणीयास्तें ॥१५॥ (१६)-वषट्कारश्च कर्तृवत् ॥३८॥ अमयेऽनुयजति इति • विहितेऽनुवषट्कारयागे “सोमस्यामे वीहीत्यनुयजति" इत्यनेन मन्त्रविधिना मान्नवर्णिकसोमाख्यद्रव्ये सम- *त. सं. 1-4..
286 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. २. पिते धर्मान्तराकांक्षायां प्रकरणात् ज्योतिष्टोमाङ्गभूतेऽप्यस्मिन् यागे वैमृध- वत् सोमध्यकत्वसादृश्यातदीयविध्यन्तप्राप्तरीतदेशेन यागीयसोमभक्षणे त. न्मन्त्रे च प्राप्ते अनेन्द्रप्रदानान्तरवत्तदीयदेवताभूताग्न्युपलक्षणमप्यावश्य- कमिति बहिः पूर्वपक्षे सिद्धान्तमाह -वष द्वारश्च अनुवषट्कारयागीयदे- वताभूतामिरपि नोपलक्षणीयः अनुवषारयागस्य पूर्वयागीयसोमप्रतिपत्ति- भूतस्य कृत्स्नविंधानतया अतिदेशाभावात् । तद्देवतायास्त्वयागागभूतद्रव्यपात- त्वसत्त्वेऽपि प्राकृतकार्यापल्यभावेनोहासम्भवात् । कर्तृवत् यथा अध्वर्युणा पाने क्रियमाणे पूर्व होत्रा पीतोपि न होतपीतस्येत्येवमुपलक्ष्यते तथेहापीति ॥ अनुवषटारयागदेवताया अग्नेर्देवतात्वस्य निस्सन्दिग्धत्वा- दुपलक्षणत्वं मन्यन्ते । प्रकृतौ त्वसौ विद्यमानाऽपि नोपलक्षिता अनुवषारयागस्य सोमयागात्कर्मान्तररूपस्य पूर्वयागीयसोमप्र- तिपत्तिभूतस्य कृत्स्नविधानत्वेनातिदेशाकल्पकत्वात् उपदेशेन कथंचिद्भक्षणप्राप्तावपि "ब्रीहीणां मेध"* इत्यादिवंदैन्द्रमन्त्रस्य प्राप्तयनुपपत्तेश्च । अतश्च विकृतावपि प्रधानदेवतैव तत्कार्यापनो- पलक्षणीया नानुवषटारदेवता ॥ १६ ॥ (१७)-छन्दःप्रतिषेधस्तु सर्वगामित्वात् ॥ ३९ ॥ इन्द्रपीताधिकरणे य आद्यपूर्वपक्षवादी स द्वितीयपूर्वपक्षवादिनोक्त- मूहपक्षमधुना दूषयति-य: •खलु षोडशिन्यतिरात्रे च पितृदेवत्ये "तृतीयस्य सवनस्य जगतीछन्दसः" इति मन्ते "अनुष्टुप्छन्दस इति भक्षमन्त्रं सन्नमति इति छन्दःप्रतिषेधः अनुष्टुप्छन्दःपदोहरू- प: जगतीछन्दःपदप्रतिषेधः ऊहपक्षसाधकतयाऽभिमतः सः तु अ- " तै. सा. ३.७.५ है.सं. ३-२-५० तत्र अधि. १८.] भाहदीपिकासहितम्. 237 नन्द्रेषहाभावेऽप्युपपन्नः अप्राप्तस्यवानुष्टुप्छन्दःपदविशिष्टस्योहस्य विधानोपपत्तेः । अतोऽभिषवादीनां धर्माणां सर्वगामित्वात् ऐन्द्रा- नैन्द्रसाधारणत्वात्प्रकृतिविकारभावाभावेनानन्द्रेष्वनूहादमन्त्रकमेव भक्षणम् ॥ एवमूहं विचार्याधुनाऽऽद्यपूर्वपक्षवादी पुनस्तं दूषयति । न ह्यहः कर्मण एकत्वात् अभ्यासानामपि फलचमसवदसमानवि- धानत्वे प्रमाणाभावाच । न हि मानग्रहणमन्त्रानुरोधेन तदुइशा. नां सङ्कोचो युक्तः। अग्निविद्ययोस्तु स्वस्वविधिप्रयुक्तत्वेन ऋतु- विधिप्रयुक्तत्वाभावाद्युक्तः परप्रयुक्ताग्निविद्योपजीवकतया क्रत्व- धिकारसङ्कोचः । अतो मानग्रहणमन्त्रावेव काममैन्द्रमात्रप्रदान- विषयौ भवेतां न तु मानाद्यपि । वस्तुतस्तु-'वसुमतः'* इत्यनेन देवतान्तरस्याप्यभिधानात्तयोरपि सर्वार्थत्वमेव । अतो भक्षम- न्त्रस्यैव ऐन्द्रप्रदानमात्रविषयत्वात् अनैन्द्राणाममन्तकं भक्षणम्॥ (१८)-ऐन्द्राग्ने तु.लिङ्गभावात्स्यात् ॥ ४० ॥ ए- कंस्मिन्वा देवतान्तराद्विभागवत् ॥४१॥ ऐन्द्राग्ने “ऐन्द्राममृतुपात्रेण गृहाति" इत्यानातस्य ऐन्द्राग्नया- गाभ्यासस्य शेषभक्षणे तु लिङ्गभावात् द्वाभ्यामिन्द्राग्निभ्यां पीतेऽपि सोमे. इन्द्रपीतत्वरूपस्य लिङ्गस्य सद्भावात् मन्त्रस्स्यादेव ॥४०॥ एवं पूर्वपक्षे सिद्धान्तमाह-एकस्मिन् वा एकमात्रदेवताकयागीयशेषभक्षण एव स मन्त्रः न स्वैन्द्राग्ने तत्र देवतान्तरात् अग्निरूपस्य देवता- न्तरस्यापि सत्त्वात् । विभागवत् आग्नेयं चतुर्धा करोति" इत्या. नातचतुर्धाकरणवत् । यथा हि तत्र तद्धितान्तेन आमेयपदेनामिपर्याप्त- *तै. सं. १-२-६० 1
.
238
पूर्वमीमांसादर्शनम् [अध्या. ३. पा.२.
.देवतात्वकत्वस्य प्रतिपादनात् व्यासज्यवृत्तिदेवतात्वके अग्नीषोमीयादौ चतु-
धीकरणं न-प्रवर्तते तथाऽत्राप्यविग्रहाया देवताया मुख्यस्य पानादेर-
सम्भवादिनंपीतपदे देवस्वादिपदानुसारेण पीतपदेन स्वीकारं लक्षयित्वा
इन्द्रपर्याप्तनिरूपकताकस्वीकारस्यैव प्रतिपादनात् व्यासज्यवृत्तिदेवतास्थले
च व्यासज्यवृत्तिनिरूपकताकस्यैव स्वीकारस्य कल्पनात् ऐन्द्राने . इन्द्र-
पीतपदार्थायोगेन न शेषभक्षणे- मन्त्रः प्रयोज्य इति ॥४१॥
एवं स्थिते पुनश्चिन्ता -ऐन्द्राग्नेऽप्यभ्यासे “इन्द्रपीतस्य" *
इत्येवं समन्त्रकं भक्षणम् । त्यागस्य व्यासज्यवृत्तित्वेऽपि पा-
नस्य पीतपदलक्षितस्वीकारस्य वा प्रत्येकवृत्तित्वेन डित्थमातृव-
देकेन व्यपदेष्टुं शक्यत्वात त्यागस्य हुताहुतसमुदायविषयत्वेन
भक्ष्यमाणाहुतावयवमात्रविषयत्वाभावात् न पीबपदेन त्यक्तत्व-
लक्षणा । अतश्चतुर्धाकरणाधिकरणविषयत्वाभावात्तस्यापि सम-
न्त्रकं भक्षणमिति प्राप्ते-
सत्यं पीतपदेन स्वीकारलक्षणा पानस्य नवमे निषेत्स्यमा-
नत्वात् त्यांगस्य त्वदुक्तरीत्या लक्षयितुमशक्यत्वाश्च । स्वीका-
रस्य तु देवस्वादिपदावलम्बनतया कल्प्यमानस्य हुतावशिष्ट एव
कल्पनीयत्वाद्युक्ता लक्षणा । तथापि तस्य लाघवेन व्यास-
ज्यवृत्तिन एव कल्पनात्. प्रत्येकवृत्तित्वे प्रमाणाभावात् चतुर्धाक-
रणाधिकरणविषयत्वोपपत्तेर्न तस्य समन्त्रक भक्षणम् ॥ १८ ॥
(१.९)-छन्दश्च देवतावत् ॥ १२॥ सर्वेषु वाऽभा-
वादेकच्छन्दसः ॥ ४३ ॥
भधि. १९.] भाटदीपिकासहितम्. 289 छन्दश्च “गायत्रछन्दसः"* इत्यादिपदमपि यत्र स्तोत्रशस्त्रादौ केवलगायत्रछन्दस्कैब ऋक् तत्रैव केवलगायत्रछन्दस्के यागे समन्वेति देवतावत् यथा केवलेन्द्रदेवताक एव यागे इन्दपीतपदं . समन्वेति नान्यसहितेन्द्रदेवताके । तथा च भक्षमन्त्रः केवलंगायत्रछन्दस्क एव यागे स्यात् न त्वन्यत्रेति ॥ ४२ ॥ एवं पूर्वपक्षे सिद्धान्तमाह- सर्वेषु वा सर्वेष्वेव छन्द्रोन्तरसहितगायत्रछन्दस्केष्वपि यागेषु भक्ष मन्त्रः प्रवर्तते .एकच्छन्दसः एकमात्रछन्दस्कस्य क्रतोः अभावात् तथा च अप्रसिद्भया गायत्रछन्दःपदेन छन्दोन्तरव्या- वृत्तेर्योधनासम्भवेन गायत्रछन्दस्सम्बन्धमात्रस्यैव बोधनीयतया नामाच्छ- न्दस्केऽपि योगे युक्त एव भक्षमन्त्र इति ॥ ४३ ॥ असत्त्वात् तत्रैव मन्त्रे “गायत्रछन्दसः"* इति श्रुतम् । तञ्चेदं सोम- विशेषणमेवास्मिन्पूर्वपक्षे । अतश्च केवलमेव यत्रैन्द्रप्रदाने गाय- त्रीछन्दो यथा बृहस्पतिसवादौ “गायत्रमेतदहभवति" इति श्रुतः तत्रैवास्योत्कर्षः न तु ज्योतिष्टोमे निवेशः केवलगायत्रीछन्दस्क- प्रदानाभावात् । न च सामान्यसम्बन्धबोधकप्रमाणाभावः इन्द्र- देवत्यत्वप्रातस्सवनादीनामन्यत्र लोके अभावेन पारिशेण्यादेव बृह- स्पतिसवोपस्थितिसम्भवादिति प्राप्ते- बृहस्पतिसवेऽपि सवनमुखीये ऋगन्तरस्य पठितत्वात् गायत्रतत्" इत्यादेश्च भूनापि व्याख्यानोपपत्तेः प्रकृती विकृती वा केवलगायत्रछन्दस्कत्वाभावान्नित्यसापेक्षत्वेन समा- सोपपत्तेः प्रतावेव निवेशः । वस्तुतस्तु-गायत्रयाः प्रत्येक- मेव साधनत्वात्सत्यपि ऋगन्तरे न समासभङ्गाशङ्कांऽपि ॥१९॥ *तै. सं. ३-२-५.
240 पूर्वमीमांसादर्शनम् [अध्या.३. पा... (२०)-सर्वेषां त्वैकमन्त्रयमैतिशायनस्य भक्तिपा- नत्वात्सवनाधिकारो हि ॥ १४ ॥ साम्प्रतं प्रागुपक्रान्तस्येन्द्रपीताधिकरणस्प सिद्धान्तमाह-सर्वेषां ऐन्द्राणामनैन्द्राणां च यागानां ऐकमन्त्रचं तु एकरूपोऽविकृतो यो भक्षमन्त्रः तद्वत्त्वमेव ऐतिशायनस्य महापेरनुमतम् । न तूहेन अमन्त्रकं वा भक्षणम् ॥ हि यतः इन्द्रपीतशब्दः सवनाधिकार: इन्द्रेण पातं यस्मिन् इन्द्रः पीतो वा यस्मिन् सवने इत्येवं बहुवी- हिस्सन् गायत्रछन्दस इत्यादिवत् सवनबोधकः अन्यथा इन्द्रेण पीत इति तत्पुरुषस्य स्वीकारे भक्तिपानत्वात् भक्तिः लक्षणा पाने यत्र तत्त्वात् पानस्य भाक्तत्वप्रसङ्गात् । तथा च इन्द्रकर्तृकपानकर्मत्वं भक्ष्य- माणसोमस्यासम्भवीति पाधातुना त्यागं लक्षयित्वा इन्द्राय त्यक्तत्वमि- न्द्रपीतपदार्थो वाच्य इति पानस्य लाक्षणिकतादोषः । इन्द्रेण पीतं यस्मिन् सवन इत्यादिबहुबाही तु इन्द्रकर्तृकपानाधिकरणलं सवने तत्सम्वन्धित्वं च भक्ष्यमाणसोमे भासमानं यथाश्रुतमेवोपपद्यते इति अनन्द्राभ्यासीयसोमेऽपि लिङ्गस्याबाधात्समन्त्रकमेव भक्षणं कार्यमिति दिक् ॥ ४४ ॥ इति सारबोधिन्यां जैमिनिसूत्रवृत्ती. तृतीयस्य द्वितीयः, स्थितादुत्तरं-नेन्द्र शीतपदे तत्पुरुषः अपितु बहुव्रीहिरेव । तत्पुरुषेऽपि पूर्वपदे सम्बन्धिलक्षणा पीतपदे च स्वीकृतावयव- लक्षणा । यद्यपि. चेयं सिद्धान्तिनोपि तुल्या तथाऽप्यवयवस्वी- कारस्यावयविस्वीकारसापेक्षितत्वेन विलम्बोपस्थितिकत्वान्न तु- ल्यत्वम् । अतश्च पीतपदे अर्शाद्यच्प्रत्ययं मत्वर्थीयं कृत्वा पा- भधि, २०.] भारदीपिकासहितम्. 241 धातुना चावयवगतमेव तत्सम्बन्धिस्वीकारं लक्षयित्वा इन्द्रः पीतः स्वीकारकर्ता. यस्मिन् सवने इति व्युत्पत्त्या समानाधिकरणब- हुव्रीहिरङ्गीक्रियते । प्रकरणविशेषाच्च निर्णयः । अतस्सर्वस्यैव सो. मस्योक्तविधप्रातस्सवनादिसम्बन्धित्वादनैन्द्राणामपि . समन्त्रकमे- वाविकारेण भक्षणम् । यदि तु पीतपदस्य पूर्वनिपातापत्तिमा- शङ्कयत तदाऽस्तु इन्द्रे पीतं पानमस्मिन्निति सप्तमीबहुव्रीहिः । यदि तु निष्ठान्तत्वेन पूर्वनिपातापत्तिरवशिष्टेति विभाव्यते तदा पी- तपदस्याकृति गणत्वेन आहितानचादिगणान्तःपातमङ्गीकृत्य "वाऽऽ. हितामयादिषु" इति सूत्रेणेन्द्रशब्दस्य पूर्वनिपातः । अथ वाऽस्तु अयं तत्पुरुष एव तदाऽपि तु लक्षणया सोमसम्बन्धिसवनप- रत्वम् । न च तस्यां प्रमाणाभावः; तैत्तिरीयशाखायां प्रातस्स- वनादिभेदेन इन्द्रपीतनराशंसपीतपितृपीतपदानां त्रिवारं पाठ- स्यैव प्रमाणत्वात् । सोममात्रपरत्वे हि तत्तत्पदानेषु लिङ्गादेवे. न्द्रपीतादिपदानां सकृत्पठितानामेव पाठोपपत्तौ तत्र योग्यतयैव प्रातस्सवनादिषदानां विभागेन विशेषणत्वोपपत्तिः । अतस्तेषां प्रातस्सवनादिभेदेन त्रिवार पाठ एव वैयर्थ्य भिया सवनपरत्व- लक्षणातात्पर्यग्राहकः । अतश्चेन्द्रपीतादिविशेषणत्रययुक्तस्य तत्त. त्सवनस्य सम्बन्धिनं सोममन्यदेवत्यमपि भक्षयामीति मन्त्रा- विगतेः सर्वत्रैकमन्त्रयम् । विभागोऽपि च तैनिरीयशाखाना- तक्रमेणैव बोध्यः । कल्पसूत्रकारास्तु ऊहमेवामनन्ति ॥ २० ॥ इति भादृदीपिकायां तृतीयरय,ध्यायस्य द्वितीयः पादः P. M.-31 242 पूर्वमीमांसावर्शनम्, [अध्या. ३. पा.. अथ तृतीयः पादः (9)-श्रुतेर्जाताधिकारस्स्यात् ॥१॥ वेदो वा प्राय- दर्शनात् ॥ २॥ लिङ्गाच ॥३॥ त्रयीविद्याख्या च तहिदि ॥ ४॥ व्यतिक्रमे यथा श्रुतीति चेत् ॥ ॥५॥न सर्वस्मिनिवेशात् ॥ ६ ॥ संयोगान्न प्रक- रणेन बाध्यते ॥ ७ ॥ धर्मोपदेशाच न हि द्रव्येण सम्बन्धः ॥८॥ अत्र च लिङ्गकल्पकप्रमाणगम्यविनियोगोपयोगि चिन्तनं पादार्थः । तानि च प्रमाणानि वाक्यप्रकरणस्थानसमाख्यारूपाणीति ध्येयम् । तत्र ज्योतिष्टोमप्रकरणे "प्रजापतिरकामयत प्रजास्मृजेयेति स तपोऽ. तप्यत तस्मात्तेपानात्त्यो देवा अजायन्त अनिर्वायुरादित्यस्ते तपोऽतप्य- न्त तेभ्यस्तेपानभ्यस्त्रयो वेदा असृज्यन्तामेर, ऋग्वेदो वायोर्यजुर्वेद आदि- त्यात्सामवेदः" इत्युपक्रम्य “ उच्चैर्. ऋचा क्रियते उपांशु यजुषा उच्चैस्साना उच्चनिगदेन” इत्यानाते वाक्ये जाताधिकारः जातस्य ऋक्त्वादेरेव अधिकारः उद्देश्यतयां अधिकृतिः परिग्रहः स्यात् श्रुतेः ऋगादिपदानां ऋक्त्वादिजातावेव शक्तत्वात् । सूत्रितं हि " तेषामृग्यत्रार्थवशेन पा- दब्यवस्था" इत्यादि ॥१॥ एवं पूर्वपक्षे सिद्धान्तमाह-वेदो वा ऋग्वेदयजुर्वेदादिरंव उद्धेश्यतयेहाधिकृतो वेदितव्यः । कुतः प्रायद- र्शनात् प्राये उपक्रमे वेदशब्दस्य दर्शनात् “त्रयो वेदा ३.जायन्त इत्युपक्रमे । हि वेदशब्दो दृश्यते. उपक्रमाविरोधार्य च उपसंहारे विधिस्थ ऋगादिशब्दः ऋग्वेदादिपर एवास्थेयः ॥ २॥ लिङ्गाश्च लिङ्गा- दपि गादिशब्दों ऋग्वेदादिपर इत्यवगम्यते यथा “ऋग्भिः पूर्वाह दिवि देव ईयते । यजुर्वे दे तिष्ठति मध्ये अहः । सामवेदेनास्तमये अधि. १.] भाहदीपिकासहितम्. 243 महीयते । वेदैरशून्यस्त्रिभिरेति. सूर्यः"* इत्यत्र उपसंहारे वेदैरिति बहुवचनश्रवणालिङ्गादुपक्रमस्थमृक्पदमृग्वेदपरमेवं । तथाचान्यत्र ऋक्पदस्य ऋग्वेदे प्रयुक्तवादिहापि ऋगादयश्शब्दाः । ऋग्वेदादिपरा इति ॥ ३ ॥ तद्विदिः वेदत्रयीवेत्तरि' प्रयीविद्याख्या च त्रयीविद्यसमाख्याऽपि ऋगादिशब्दनां वेदपरत्वं गमयति। यथा-त्रयी विद्या अस्येत्येवं व्यु- त्पन्नस्त्रयाविद्यशब्दो वेदत्रयाध्यायिनि प्रयुज्यते न ऋगादिजातित्रयविदि छन्दोगेऽपीति त्रयीविद्यशब्दे त्रयीशब्दो वेदेषु प्रयुक्त. इति त्रयीशब्दस- मानाधिकरण ऋगादिशब्दो वेदपर इति ज्ञायत इति ॥ ४ ॥ नन्वेवं यत्रैकमेव कर्म वेदत्रयेऽपि समाम्नातं तत्र तदङ्गभूते मन्त्रे वन्मते उच्चैस्त्वादीनां विकल्पापत्तिः मम तु ऋचां यजुर्वेदपाठनिवन्धने व्यति- क्रमे सत्यपि ऋक्त्वानपायात् यथाश्रुति स्वरानुष्ठानान्न बाध इति- चेत् न ऋचा ऋग्वेदेन क्रियते विधीयत इति कृतो विधानपरला- जीकारेण सर्वस्मिन् ऋग्वेदादिविहितकर्माङ्गभूते कृत्स्नमन्त्र एव उच्चैः स्त्वादिस्वरस्य॑ निवेशात् सम्बन्धात् । कर्मणो विधानं च भूयस्त्वा- दिना एकस्मिन्नेव वेद इति नैकत्रानेकस्वरप्राप्तिरिति ॥ यत्र तु कर्मणि अत्रैव वेदे विधानमिति निर्णायकान्तरं नास्ति तत्रागत्या स्वरविकल्पेऽ- पिं नं क्षतिरिति ॥ ५-६ ॥ नन्त्रस्य ज्योतिष्टोमप्रकरणे पाठात् वेदधर्मत्वपक्षे प्रकरणबाधः प्रसज्येत । ऋगादिधर्मत्वपक्षे हि ऋक्त्वा- दिधर्माणां प्रत्येकवृत्तित्वात् ज्योतिष्टोमेऽपि अक्त्वावच्छिन्नजन्यकार्यस्य सत्त्वाद्युक्त: प्रकरणानुप्रवेश इत्याशङ्कायामाह-वेदसंयोगात् वेदवाचि- पदसमवधानरूपाद्वाक्यात् तत्तद्वंदविहिते सर्वस्मिन् • क्रतौ स्वरनिवेशः प्राप्तः प्रकरणेन ज्योतिष्टोमप्रकरणेन न बाध्यते बाधितुं शक्यते वाक्यापेक्षया प्रकरणस्य दुर्वलत्वात् प्रकरणबाधो न दोषायेति भावः । बाधेतेति पाठे 'वेदसंयोगात् सर्यस्मिन् ऋतौ प्राप्तं निवेशं उच्चस्त्वा- तु ते, प्रा. ३.१२.१.
सम्बन्धः । तथा सति . 244 पूर्वमीमांसादर्शनम्. [अध्या. ३. पा.. दिधर्मः प्रकरणेन प्रकरणानरोधेन बायतेति न युक्तं प्रकरणस्य दुर्बललादित्यर्थः ॥ ७॥ " उच्चैस्सान।" इति सानो धर्मोपदेशाच उच्चस्त्वरूपधर्मीवधानादपि द्रव्येण ऋन्त्रादिना स्वरस्य ऋच्यध्यूढं साम गीयते इति ऋच्यव साम्रां गेयलेन ऋचामुच्चैस्त्वविधानेनैव सानामपि तत्प्राप्तेः पृथक्सानस्स्वरविधानं व्यर्थ स्यात् । न हि कश्चित्सामाधारभूतामृचमुचैरुच्चारयन् सामान्यन्यथोच्चा- रयितुं प्रभवतीति ॥ तस्मान्न जाताधिकारः ॥ ८ ॥ एवं लिङ्गविनियोंगे निरूपिते इह वाक्यादिविनियोगो निरू- प्यते । तत्र वाक्यं नाम अङ्गत्वघटकीभूतपरोद्देश्यताकृतिकारक- ताऽन्यतरपदार्थकल्पनानुकूलश्चतपदसन्निधिः । अस्ति चेदं 'धेनुर्दक्षिणा"* " उच्चैत् ऋचा क्रियते” “प्रयाजशेषेण" इत्या- दौ । अत्र च कल्पनाशब्देन कर्मत्वकरणत्वादिविषयकसंसर्ग- विधांलक्षणादिसाधारण्येन शक्तिजन्यपदार्थोपस्थितिभिन्नबोधमात्र विवक्षितम् । तेन 'धेनुर्दक्षिणा'* इत्यादौ संसर्गविधया भासमान- करणताके नाव्याप्तिः । वस्तुतस्तु-सुबन्तयोः परस्परान्वयस्या- व्युत्पन्नत्वावश्यकल्प्यभावनान्वयानुरोधेन धेनुरिति प्रथमया क. रणत्वलक्षणा दक्षिणापदेन तत्कार्यवृत्तिकर्मत्वलक्षणा । कल्पनाप- देन लक्षणाजन्योपस्थितिरेवाभिप्रेता । 'उच्चैः' इत्यादौ लुप्त- विभक्तयर्थस्य करणत्वस्य प्रातिपदिकेनैव लक्षणानाव्याप्तिः । अथवा 'उच्चैः' इत्यादौ करणत्वस्य संसर्गविधयैव भानोप- पत्तेः कल्पनापदेनोभयं विवक्षितम् । 'प्रयाजशेषेण' इत्यादी तृतीयया कर्मत्वस्य धातुना करणत्वस्य लक्षणात्कल्पना स्फुदैव । श्रुतपदसन्निधेश्च योग्यताज्ञानं विना कर्मत्वादिकल्पकत्वानुपपत्ते- योग्यतारूपलिङ्गानुमापकत्वम् । श्रुतस्यैव पदस्य कर्मत्वादिलक्षक- * तै. सं. १-८.१. .
त्रि.१] भादीपिकासाहितम्. 245 अजायन्त त्वङ्गीकारेण तद्वाचकपदरूपश्रुतिकल्पकत्वाभावेऽपि श्रुतपदस्य तत्तात्पर्यकत्वरूपधर्मवैशिष्टयरूपेण कल्पनाच्छुतिकल्पकत्वोपप- त्तिः। अतश्च वाक्यं लिङ्गं श्रुतिं च कल्पयित्वाऽङ्गत्वे प्रमाणम् । तदिह ज्योतिष्टोमे श्रुतेन " उच्चैर् केचा क्रियते" . इत्यादिना वा- क्येन विधीयमानस्योच्चैस्त्वादेरुद्देश्यसमर्पकैन ऋगादिपदेन किं ऋगादीनां मन्त्राणामेवोद्देश्यत्वं प्रतिपाद्यते उत “त्रयो वेदा " इत्याधुपक्रमस्थार्थवादवशेन लक्षणया ऋग्वेदादि- विहितकाङ्गभूतमन्त्रमात्रस्येति चिन्तायां उपक्रमस्थस्यापि वेद- पदस्य गुणभूतान्यपरार्थवादस्थत्वेन प्रधानभूतविध्युद्देशस्थऋ. गादिपदे निस्सन्दिग्धे अङ्गगुणविरोधन्यायेन लक्षणातात्पर्यप्राह- कत्वादिपद एव तदेकदेशऋगादिलक्षणां । वस्तुतस्तु-वेद- शब्दस्यावयवेपि न लक्षणा वेदत्वस्य प्रत्येकवृत्तित्वात् । इत- रथा शूद्रस्यैकवाक्यश्रवणे दोषानापत्तेरिति प्राप्ते- उपक्रमे वेदपदश्रवणेनैतावदवगम्यते नूनमत्र वेदस्य स्तू- यमानत्वादुद्देश्यत्वं विधेयत्वं वा तस्यावश्य वाक्ये विवक्षित- मिति । तंत्र च विधेयस्योच्चस्त्वादेर्लाभात्परिशेषादेव तस्योद्दे- श्यत्वावगतेः । वस्तुतस्तु-ऋगादिपदमनुवाद एव सदुद्देश्यप- रम् । अतश्चासातविरोधिनः उपक्रमस्थस्य वेदपदस्यैव तात्पर्यग्राहकस्य सत्वात् ऋगादिपदे तत्प्रचुरत्वेन ऋग्वेदादि- विहितकर्माङ्गभूतमन्त्रलक्षणा । न चोपक्रमावगतस्यापि अपच्छे- दाधिकरणन्यायेन परेण. बाधः तस्य हि विधेयस्तुतिसापेक्षत्वेन अर्थवादैकवाक्यताया आवश्यकत्वात्पूर्वविरोधे परस्यानुत्पन्नत्वा- देवाप्रवृत्तेः । न च वेदत्वस्य ऋगादिष्वपि पर्याप्तत्वादुपक्रमावि- रोधः । वेदत्वस्य मन्त्रब्राह्मणसमुदायात्मके ग्रन्थविशेष एंक पर्याप्तत्वेन भवयवपर्याप्तत्वाभावात् । इतरथा एकवाक्याध्य.
246 पूर्वमीमांसादर्शनम्. [अध्या. ३. पा. ३. यनेनाप्यध्ययनविध्यर्थसम्पत्त्यापत्तेः । शूद्रस्यैकपदश्रवणनिषेध- स्तु वृन्ताकावयवादिनिषेधवन्नानुपपन्नः । यथा चैतादृशविषये निधस्प विध्यपेक्षया वैलक्षण्यं तथा कौस्तुभे द्रष्टव्यम् । तस्मादुपक्रमानुसारेण ऋग्वेदविहितकाङ्गभूतमन्त्राङ्गत्वमेवोच्चै स्त्वादीनाम् । एवं च वेदत्वस्य प्रकरणस्थवाक्यमात्रेष्वपर्या- तत्वात्प्रकरणेन वाक्यस्य स्वविषये उपसंहारानुपपत्तेर्वेदत्वाव- छिन्नविहितकर्ममात्रोद्देशेनं वाक्येन स्वरविधानावगतेः प्रकर- णबाधेऽपि न क्षतिः॥१॥ (२)-गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसं- योगः ॥ ९ ॥ गुणमुख्यव्यतिक्रमे गुणमुख्ययोः अङ्गप्रधानयोः विधायकवेद- प्रयुक्तं विरोधे सति यथा आधान वसन्ते गह्मणोऽग्निमादधीत "* इत्यादिना यजुर्वेदे विहितं तदभूतं तु वारवन्तीयादि सामवेद पाठा- दुत्पत्तिविधिविषयः तत्र वारवन्तीयादिसाम्नि प्रधानविधायकयजुर्वदनिव- न्धनः उपांशुस्वरः उत स्वविधिपरसामवेदनिबन्धनः उच्चस्स्वरः इति विरोधेन विशये सति मुख्येन मुख्यानुसारेणैव वेदसंयोगः वेद- निबन्धनस्वरसम्बन्धस्स्वीकार्यः कुतः तदर्थत्वात् मुख्यार्थत्वात् अङ्ग- स्य प्रधानविधायको हि विधिस्साङ्गमेव प्रधानं विधत्ते । ततश्च आघान- विधायकयाजुर्वेदिक उपांशुस्वर एवाधानाङ्गे वारवन्तीयादिसाम्नि अनुष्ठेयः इति भाष्यकृतो मतम् ॥ वार्तिककारमते तु गुणमुख्यव्यतिक्रमे गुणः उत्पत्तिविधिः मुख्यं विनियोगविधिः तत्रैच प्रयोज्यत्वावगतेः ताभ्यां व्यतिक्रमे विरोधे सति यथा वारवन्तीयादिसाम्नस्सामवेदे पाठादुत्पत्ति- * ते. प्रा. १-१-२.
अधि. २.] भारदीपिकासहितम्. 247 विधिः यजुर्वेदे तु "वारवन्तीयं गायति" इति विनियोगविविः तत्र वारवन्तीयादिसानि विभिन्नवेदनिबन्धनविभिन्न स्वरयोः प्राप्तयोविरोधः तत्र मुख्येन विनियोगविभ्यनुसारेणैव वेदसंयोगः वेदनिबन्धनस्वरसम्ब- न्धः तदर्थत्वात् मुख्यभूतविनियोगार्थवादुत्पत्तेरिति ॥ ९ ॥ याजुर्वेदिके आधाने सामवेदपठितानि वारवन्तीयादीनि सामान्यङ्गत्वेन श्रुतानि । तेषु सामवेदिकस्स्वरः स्ववेदनिब- न्धनत्वाच्छीघ्रमुपस्थितः न तु. प्रधाननिबन्धनो याजुर्वेदिकः प्रधानकवाक्यतापक्षितत्वेन विलम्बोपस्थितिकत्वादिति प्राप्ते- साङ्गस्यैवाधानस्य यजुर्वेदेन विधानात् अङ्गेषु विलम्बोप- स्थितिरप्ययं प्रधानानितत्वाइलीयान् । अतस्तेषु याजुर्वेदिक एव स्वर उपांशुत्वमिति भाष्यकारः ॥ वार्तिककारस्तु-प्रयोगविध्याश्रितस्य स्वरस्य प्रधाने श्रुत- स्याप्यङ्गे कल्प्यत्वेन दौर्बल्यमेव । इतरथा ज्योतिष्टोमाङ्गभूत- हौत्रादेरप्यध्वर्युकर्तृकत्वापत्तेः । वारवतीयस्या ियजुर्वेदे “वार- रवन्तीयं गायति" इति विनियोगविधेराम्नानाच्च । अत एवं चिन्तनीयम् । यत्र वेदान्तरे उत्पत्तिः वेदान्तरे च विनियोगः तत्र चारवतीयादौ कस्स्वरः इति बिन्तायां उत्पत्तेः पूर्वभा- वित्वान असांतविरोधित्वेन तनिबन्धन एव स्वरो बलीयान् । अतश्च ऋचा ऋग्वेदेन क्रियते उत्पाद्यत इति श्रुत्यर्थ इति प्राप्ते- आम्नानमात्रेण मन्त्रस्य प्रयोजनानवगमन प्रयोज्यत्वानवगतेः स्वरानपेक्षत्वाद्विनियोगोत्तरकालमेव स्वरसम्बन्धात् क्रियत इत्य- स्य प्रयुज्यत इत्यर्थावगतेः प्रयोगस्य च विनियोगाधीनत्वेन 248 पूर्वमीमांसादर्शनम. [अध्या. ३. पा.३. विनियोगस्यैवाव्यवहितपूर्व पुरस्स्फूर्तिकत्वात् । तस्माद्विनियोग- निवन्धन एव स्वरोऽसति बाधकेऽनुष्ठेय इत्याह ॥ २ ॥ (३)-भूयस्त्वेनोभयश्रुति ॥ १० ॥ उभयचति उभयत्र वेदद्वये श्रुनिः श्रवणं यस्य कर्मणः तत्कर्म भूयस्त्वेन अङ्गानानबाहुल्यानुरोधेन एकत्रोत्पन्नं अनानानबाहु- ल्यरहिने तु वेदं कतिपयगुणविधानार्थमेव केवलं श्रुतमित्यवधेयम् । तथा च उत्पत्तिविध्यनुसारेणैव तादृशकर्मणि स्वरनिर्णयः ॥ तथा च ज्योतिष्टोमस्य यजुर्वेद सामवेदे च श्रवणेऽपि याजुर्वेदिक एव स्वर इति रीत्या बोध्यम् ॥ १० ॥ यत्रैकमेव कर्मानेकेषु वेदेषु श्रुतं तत्र क्वोत्पत्तिः क च तदनुवादेन गुणार्थ श्रवणमिति जिज्ञासायां यत्राङ्गबाहुल्य तत्रोत्पत्तिः सेवकबाहुल्येन राजावस्थाननिर्णयवत् । वस्तुतस्तु -कर्मस्वरूपपरिचायकद्रव्यदेवतादिसाकल्यस्यैव निर्णायकत्वम् । तत्रापि दैविध्ये बहिरङ्गत्वेऽप्यव्यभिचारादेवताया एव न तु द्रव्यस्येत्यागृह्यम् । अतश्चैवंविधनिश्चायकसत्वे तत्रैवोत्पत्तिः अन्यत्र . तदनुवादेनाविरोधिगुणान्तरविधानम् । विरोधिनि तु गुणाद्भेद एव । एवं यत्र कस्य चिदपि नियामकस्याभावस्त- त्राप्यभ्यासादिः । न ह्यत्र शाखान्तरन्यायेन सत्यपि सर्वेषा- मुत्पत्तिपरत्वे कर्मकत्वं तद्वदिहाध्येतृभेदाभावात् । अतो निया- मकबलेन यत्रैवोत्पत्तिस्तद्वेद निवन्धन एव स्वर इति सिद्धम् ॥ (३) भधि..] भारदीपिकासहितम् 249 . (४) असंयुक्त प्रकरणादितिकर्तव्यतार्थत्वात् ॥११॥ प्राविपितैश्श्रुतिलिङ्गवाक्यैः प्रमाणः असंयुक्तं असम्बद्धं अन- वगतागभनवं अतएव प्रयोजनाकाडासहितं " समिधो यजति"* इत्यादि- विहितं प्रयाजादिकं प्रकरणात् तन्नामकात्प्रमाणात् दर्शादेरङ्गं स्यात् । दर्शादेः इतिकर्तव्यतार्थत्वात् आकाङ्किततिकर्तव्यताकत्वात् । उभया- काङ्गाप्रकरणमिति प्राचीनाः । वस्तुतस्तु-अवगतफलसम्बन्धसन्निहि- तवाक्यप्रमितपदार्थवृत्ति यत्पूर्वप्रमाणानवगताङ्गताकविषये इतिकर्तव्यतात्व - प्रकारकापेक्षणं तत्प्रकरणमिति कौस्तुभनिरुक्तं बोध्यम् । तथा च- "स्वार्थबोधे समाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनस्संहत्य जायते ॥" इत्युक्तादिशा प्रयाजादिवाक्यानां दर्शादिवाक्यानां चैकवाक्यताकल्पनया समिद्यागादिभिरुपकृताभ्यां दर्शपूर्णमासाभ्यां स्वर्ग भावयेदित्यर्थोऽवग- न्तव्यः ॥ ११ ॥ एवं वाक्ये निरूपिते प्रकरणमिदानी निरूप्यते । ननु कि- मिदं प्रकरणं नाम ? न तावत्सन्निधिमात्रं गोदोहनादेरापि दर्शा- ङ्गत्वापत्तेः । अथ साकाङ्कत्वमात्र, विकृतेरापि प्राकृताविषये तदापत्तेः । नापि साकाङ्कत्वे सति सन्निधिपाठितत्वं, उपहोमादा- वपि तदापत्तेः । अथोभयाकासत्वविशिष्टं तत् । सिद्धरूपाणां मन्त्रादीनामपि तदापत्तेः । प्रयाजादीनामनाकासितत्वेन तदना- पत्तश्च । अथ दर्शपूर्णमासयोः प्रकारान्तरेण प्रयाजानाकाङ्क- त्वेऽपि इतिकर्तव्यतात्वेन तदाकाङ्कोपपत्तेर्युक्तं प्रकरणमिति चेत् । किमिदं इतिकर्तव्यतात्वं नाम? न तावत्फले अपूर्वे वा सहका- रित्वं, प्राधान्यापत्तेः। प्रयाजादिवदाग्नेयस्यापि विकृतावतिदेशा. *तै. सं. २-६-६. PM-32 250 पूर्वमीमांसादर्शनं. [अध्या, ३. पा... पत्तेश्च । नापि करणजनकत्वं, प्रयाजादिषु बाधादिति चेन्न । सनि- हितस्य फलवतोऽनवगवाङ्गताकपदार्थविषये इतिकर्तव्यतात्वे- नापेक्षणस्यैव प्रकरणपदार्थत्वात् । अत्रासन्निहितज्योतष्टोमाङ्ग- त्वस्य प्रयाजादौ वारणायाद्यं विशेषणम् । अनुयाजाद्यङ्गत्ववा- रणाय फलवत इति द्वितीयम् । प्रोक्षणादेशश्रुत्यादित्रयविनियु- तस्य प्रकरणविषयत्ववारणाय तृतीयम् । सिद्धरूपस्य लिङ्गा- विनियुक्तमन्त्राः प्रकरणाविषयत्वासद्धयर्थ इतिकर्तव्यतात्वेनति चतुर्थम् । सर्वत्र ह्यशक्तस्य करणत्वायोगाच्छक्तिः करणानिष्ठा समस्तीति निर्विवादम् । स च कारणतावच्छेदिका कारणता- रूपा वेत्यन्यदेतत् । तस्याश्च जन्यवृत्तित्वेन जन्यत्वमेवेत्युत्सर्गः । सामग्रचलाभे परमनादितेत्यविवादः । तदत्र तत्मामग्रयपेक्षवात- कर्तव्यतापेक्षा । तया च सन्निहितप्रयाजादेरणत्वबोधः प्रयाजा देस्तत्सामग्रीत्वात् । सिद्धरूपस्य च द्रव्याापारावेशं विना तत्सामग्रीत्वासम्भवात् तया अग्रहणम् । अत्र च प्रधानगतेति- कर्तव्यताकाङ्क्षायाः प्रयाजादिगतप्रयोजनाकामासहकृतायास्तत्तद्वा- क्यस्य स्वस्वावान्तरवाक्याथै समाप्तम्यापि महावाक्यैकदेशत्व- रूपपारिभाषिकपदसन्निध्याख्यवाक्यकल्पनया निरुक्तपदानांच स्था- र्थोपस्थितिद्वारा तनिष्ठाश्रुतपदान्तरकल्पनानुकूलयोग्यतारूपालि- ङ्गकल्पनया च समिधो यजति इत्थं दर्शपूर्णमासाभ्यां स्वर्ग: कामो यजेतेत्यश्रुतेतिकर्तव्यतात्ववाचिपदरूपश्रुतिकल्पनया च इति- कर्तव्यतात्वरूपकृतिकारकत्वे प्रामाण्यम् । सम्भवति हि प्रयाजा- दीनामप्युक्तशक्तिजनकत्वेन भावनायामन्वयः । तस्मात्सिद्धं प्रकरणं नाम चतुर्थ प्रमाणम् ॥ यत्त्वत्र पार्थसारथिना अननुगृहीतस्यापि कर्मादेस्संयोग- विभागारम्भकत्वदर्शनानेदं प्रकरणम् । अपि तु व्यापारसा.
251 आधि. ५.] भाहदीपिकासहितम. मान्यस्याख्यातार्थत्वमङ्गीकृत्य तद्विशेषापेक्षवेतिकर्तव्यतापेक्षा । तयैव च प्रयाजादोनां तत्त्वेनान्वय इति तदेव च प्रकरणमित्यु- कम् । तन्न । तथात्वे निरुक्तप्रकरणस्य तदघटिताङ्गत्वबोधक. त्वानुपपत्तः । प्रयाजादेर्भावनात्वे तस्यैव फलसम्बन्धापत्तेश्च । अस्मन्मत तु यत्नस्यैव भावनात्वात्तस्य च यागजनकत्वेनैव कृतार्थत्वान्न तदापत्तिारेति. वैषम्यम । किञ्चैवं प्रधानस्य स्वतो निराकाङ्कस्यान्यतराकायैव प्रकृतौ प्रयाजाद्यङ्गत्वापत्तिः विकृतौ च भावनाया विशेषापेक्षायामक्लुप्तोकारैरपिसन्निहितैरु- पहोमेरेव निगकात्वोपपत्तेातिदेशकल्पनापत्तिरित्यादि कौस्तुभे विस्तरः॥४॥ (५) क्रमश्च देशसामान्यात् ॥ १२ ॥ क्रमश्च सनिधिपि सन्निहितयोरङ्गाङ्गिभावे प्रमाणं देशसामा. न्यात् समानस्थानत्वात् । यथा-दर्शपूर्णमासप्रकरणे--अनुमन्त्रणमन्त्र प्रथमं "अग्नेरहम्" इति ततो “दधिरसि"* इति मन्त्रो द्वितीय- स्थाने यनव क्रमेण पव्यते तेनैव क्रमेण ब्राह्मणे प्रथममाग्नेययागोऽन- न्तरमुपांशुयाजो द्वितीयस्थाने पश्यते । ततश्च सन्निधिपाठवलादेव आ. कायारूपं प्रकरणं समभिव्याहाररूपं वाक्यं लिङ्गं च कल्पयित्वा क- ल्पितया श्रुत्या उपांशुयाजे “दधिरसि"* इति मन्त्रस्याङ्गतया विनि- योगः ॥१२॥ स्थानं चाङ्गत्वे 'पञ्चमं प्रमाणम् ॥ तच्चेतिकर्तव्यतात्वेनायो- ग्यसम्बन्धयोर्वाक्यार्थयोस्सन्निधिः । इति कर्तव्यतात्वेनायोग्यत्वं *तै. सं. १.६२.
262 पूर्वमीमांसादर्शनम् [अध्या.३. पा.३ वेधा कचिदाकाङ्क्षाविरहात् यथा विकृतेरुपहोमादिविषये क्लृप्तो- पकारप्राकृताङ्गैरेव निराकाङ्क्षत्वात् । कचिदव्यापारात्मकत्वात् यथा जपादिमन्त्रादौ । अत्र चैकवाक्योपात्तव्रीहियागादिसन्नि- धेरप तथात्वापत्तर्वाक्यार्थेत्युक्तम् । प्रयाजादीनां स्थानविषय- त्वापत्तिनिरासार्थमाद्यं विशेषणम् ॥ तञ्च सादेश्यापरपर्याय द्विविधं पाठसादेश्यमनुष्ठानसादेश्यं च । आद्यं द्विविधं यथा- क्रमपाठस्सन्निधिपाठश्चति । त्रयमपीदं द्विविधं उभयाकाक्ष- याऽन्यतराकाङ्क्षया चेति। अत्रोभयाकाङ्क्षाघटकप्रधानाकाङ्क्षा चतिकर्तव्यताकाङ्क्षाभिन्ना द्रष्टव्या । तत्र पाठक्रमात्काम्यया- ज्यानुवाक्यामन्त्राणां काम्येष्टयङ्गत्वम् । सन्निधेस्तु सान्नाय्यपा- अशुन्धनविधिसन्निधौ समानातस्य “शुन्धध्वम् "* इति मन्त्रस्य तदङ्गत्वम् । अनुष्ठानसादेश्यस्य तु पशुधर्माणां दैक्षपश्वङ्गत्वम् । यद्यपि चैषां लिङ्गादिप्रमाणान्तरेणैव विनियोगात्क्रमादीनां च क- चिदपूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्वमात्रत्वान्नाङ्गत्वे प्रामाण्यम्। तथाऽपि पडिधस्यापि क्रमस्यासङ्कीर्णोदाहरणानि कौस्तुभोक्तरी- त्योहनीयानि । अत्र पड्डिधेऽपि क्रमे आरादुपकारकस्थले तावदितिकर्तव्यताकाङ्क्षायाः कल्पनीयत्वात्प्रकरणकल्पकत्वम् । मन्त्रादिरूपसानिपत्योपकारकस्थलेऽपि मन्त्रादेस्स्वरूपेण यागज. नकत्वेऽपि तनियमादृष्टोपहितस्य तदजनकत्वात्करणनिष्ठयोग्यता- जनकत्वरूपेतिकर्तव्यतात्मकप्रकरणकल्पनाऽऽवश्यक्येव । एव तदपेक्षया तस्य दौर्बल्यम् । षड्विधे तु क्रमे उभयाका- क्षालक्षणादन्यतराकाङ्क्षालक्षणस्य तत्रापि पाठक्रमादनुष्ठान- सादेश्यस्य विधिसभिधानस्य पुरस्स्फूर्तिकत्वात् तयोस्तु मध्ये सन्निधानस्य प्राबल्यम् । एकग्रन्थस्थत्वादित्यादि कौस्तुभे द्रष्टव्यम् ॥ । अत *तै. सं. १-१-३.
अंधि. ६] भाहदीपिकासहित 258 (६) आख्या चैवं तदर्थत्वात् ॥ १३॥ आख्या च आध्वर्यवमित्यादियौगिकशब्दरूपा समाख्याऽपि एवं अङ्गत्वे प्रमाणं तस्यास्समाख्यायाः तदर्थत्वात् सः क्रियाकर्तसम्ब. न्धः अर्थः प्रतिपाद्यो यस्यास्तथाभूतत्वात् । तथाहि-अवॉरिदं इति योगेन हि आध्वर्यवमिति समाख्या काण्डे प्रवर्तते रूढिकल्पने गौरवात्। काण्ड चाध्वर्युसम्बन्धो न प्रणीतवरूपः वेदस्यानादित्वात् । अतः अ- ध्वर्युकर्तव्यपदार्थप्रतिपादकत्वमेव स वाच्यः । तथा च सिद्धमध्वयों- स्तत्काण्डपठितपदार्थेषु कर्तृतथा शेषत्वमिति ॥ १३ ॥ ऋग्वेदादिविहितपदार्थेषु हौत्राध्वर्यवादिसमाख्या वेदे याझि- कैश्च प्रयुज्यते । साऽप्यङ्गत्वे प्रमाणम् । तथा हि-सर्वत्र क्लृप्तावयवशक्तिकं द्विविधं पदं प्रकृतविधौ वाक्यार्थान्वय्यर्थक तद्भिनं चेति । तत्राद्यं “निर्मन्थ्येनेष्टकाः पचन्ति" "प्रोक्षि- ताभ्यामुलूखलमुसलाभ्यामवहन्ति" इत्यादौ निर्मन्थ्यादिपदम् । तत्र वाक्येनैव मन्थनादीनां पाकाद्यङ्गत्वान्न सामाख्यानिको विनियोगः। द्वितीयं तु “आध्वर्यवमधीते" “प्रैतु होतुश्चमसः" इत्यादौ । तत्र विशेष्यस्य काण्डस्यैव प्रकृतविधौ अन्वये जाते विशेषणस्याध्वर्युकर्तृकत्वादेस्सिद्धवनिर्देशान्यथाऽनुपपत्त्या विनि- योगः कल्प्यत इति तत्र समाख्यया विनियोगः । अत्र समा- ख्ययाऽवयवार्थयोस्सम्बन्धे संसर्गमर्यादया बुद्धे न तन्निर्देशा- न्यथाऽनुपपत्त्या स्वतन्त्रविधिकल्पना गौरवापत्तेः । किन्तु अ- न्वाधानादिवाक्यस्य “अध्वर्यु वृणीते" इति वाक्यस्य चैकवा- क्यतासम्पादकपदमात्रं “यमध्वर्यु वृणीते सोऽनीनन्वादधाति" इति तद्योर्विध्योः कथंश्चिदस्त्वेकबुद्धिस्थतेत्येवंविधस्थानकल्प- नापूर्वकमध्वयैरितिकर्तव्यताकाकारूपप्रकरणकल्पनया तद्विध्योर्म- हावाक्यैकदेशत्वाख्यपदसन्निधिरूपं वाक्यं प्रकल्प्यते । तेन चा- 254 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ३. वयुमात्रनिष्ठयोग्यतारूपालङ्गकल्पनया एकवाक्यतासम्पादकपद- रूपश्चतिकल्पनायुक्तं तस्याष्षष्ठप्रमाणत्वम् ॥ ६॥ (७) श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् ॥१४॥ श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां प्रमाणानां सम- वाये एकत्र द्रुयोस्त्रयाणां वेति रीत्या यथासम्भवं समावेशे पारदौ- बल्यं परस्य दोबल्यं परदौर्बल्य तदेव पारदौर्बल्यं पूर्वपूर्वस्य प्राबल्यं परस्यपरस्य दौर्बल्यमित्यर्थः । कुतः अर्थविप्रकर्षात् अर्थस्य उ. त्तरप्रमाणावसेयस्य विप्रकर्षात् पूर्वप्रमाणकल्पनामूलकाद्वयवधानात् । या- वद्धि उत्तरं प्रमाणं स्वपूर्वप्रमाणकल्पनाद्वारा कचिदर्थे विनियोक्तुं प्रक्र- मते ततः पूर्वमेव प्रवृत्तं पूर्व प्रमाणं उत्तरानपेक्षं अन्यत्र विनियोगम- वगमयतीत्युत्तरस्याप्रवृत्तिरेवेति ॥१४॥ तदेवं षट्प्रमाणेषु निरूपितेष्वधुना विरोधे बलाबलं निरू- प्यते-विरोधश्चैकस्य शेषस्य शेषिद्वये प्रमाणद्वयसत्वे यथैः न्द्रीमन्त्रस्य श्रुत्या गार्हपत्याङ्गत्वे लिङ्गाञ्चन्द्राङ्गत्वे । यथा वा एकस्मिन् शोषिणि शेषद्वयविनियोजकप्रमाणद्वये यथा गार्हपत्ये श्रुत्या ऐन्द्रीमन्त्रः लिङ्गादाग्नेयः । अयं च शेषद्वयविनियोगो द्वारैक्य सत्येव बलाबलप्रयोजको न तु तद्भेदेऽपि वाक्यप्रक- रणाभ्यां वैमृधप्रयाजादीनामेकशेष्यर्थत्वेऽपि तदभावात् । यत्र वेकस्य शेषस्यैकस्मिन्नेव शेषिणि प्रमाणवयं तत्र वैषम्ये प्रब- लस्यैव प्रयोजनार्थ विनियोजकत्वम् । साम्ये तु एकस्य वि- नियोजकत्वं इतरस्य पुनश्श्रुतित्वेन प्रयोजनान्तरकल्पनम् । नि- अधि. ..] भारदीपिकासहितम्. 256 यामकाभावे द्वयोरभ्युदयशिरस्कत्वकल्पनं कर्मान्तरबोधकत्वं वा। एवं यत्र " अरुणया कोणाति"* इत्यादी आरुण्यस्यापूर्वसाध- नोभूतक्रयार्थत्वे प्रमाणत्रयं तत्रापि श्रुतेरेव विनियोजकत्वं नत्व- न्यस्य वाक्यस्योद्देश्यसमर्पकत्वमात्रत्वात् । अत एव न “ऐ. न्द्रया"' इत्यत्र लिङ्गवाक्यावरोधः । वाक्यस्योद्देश्यमात्रसमर्पक- त्वन श्रुतिसहकारित्वेऽपि कृतिकारकत्वबोधकत्वरूपविनियोजक- त्वाभावात् । प्रकरणं त्वपूर्वसाधनत्यलक्षणातात्पर्यग्राहकमात्रम् । न तु तदपि विनियोजकं गौरवात् । अत एव विनियोजक- प्रमाणवलाबलमपि निरूप्यमेव । तदिह श्रुत्योर्विरोधे ऐन्द्रीम- न्त्रस्य तृतीयया गार्हपत्याङ्गत्वमेव न तु तद्धितश्रुत्या इन्द्राङ्ग- त्वम् । तस्य सूक्ततद्धितत्वन प्राधान्येन कृतिकारकत्ववाचि- त्वाभावात् । अतश्च तस्य मुख्यश्रुतित्वाभावाहुर्बलत्वम् । एवं च तस्यैन मन्त्रस्य लिङ्गादिन्द्राङ्गत्वमिति लिङ्गबिरोधेऽप्ये- तदेवोदाहरणम् । अत्र हि सर्वत्र उत्तरोत्तरस्य पूर्वपूर्वकल्पक- त्वेन प्रामाण्यस्य तत्तन्निरूपणावसरे स्थापितत्वादुत्तरोत्तरस्य श्रुतिकल्पनं यावदवगतस्यैव पूर्वपूर्वेण शेषशेषिणोर्निराकाङ्क्ष- त्वापादनेन बाधः । न चाङ्गानां प्रकृत्यर्थत्वेन निराकाङ्क्षाणा- मपि वित्याकाङ्क्षयैवीतेदशकल्पनवीदन्द्राद्याकाङ्क्षयैव लि- ङ्गस्य श्रुतिकल्पकत्वोपपत्तिः । तस्य ध्यानाद्युपायान्तरेणापि स्मृतिसिद्धनियमेन विकृतिवदनाकाङ्क्षत्वात् । अतः श्रुत्या गार्ह- पत्याङ्गत्वमेव । न च श्रुतेः करणत्वमात्राभिधायकत्वेन गार्हप- त्यनिरुपितत्वस्यं वाक्याधीनत्वान्नाय श्रुतिलिङ्गविरोध इति वा- ज्यम् । तथात्वेऽपि ब्राह्मणवाक्यत्वेन मन्त्रलिङ्गापेक्षया 'यद्यप्य- न्यदेवत्यः पशुः' इतिवत्प्रबलत्वोपपत्तेः । वस्तुतस्तु यथा न * तै. सं.६.१.६. तैि. सं. ५-५-७.
मन्त्रस्य 266 पूर्वमीमांसादर्शन. अध्या... पा.. केवलया श्रुत्या विरोधी नैवं वाक्येनापि तस्यापि गार्हपत्यस- मीप इत्येवमुपपत्तेः । अतश्चोभयविरोधसत्त्वेऽपि 'प्रधानेन व्य- पदेशा भवन्ति' इति न्यायेन श्रुतिलिङ्गविरोधोदाहरणत्वम् । लिङ्गयोविरोधे मुख्यसामर्थ्येन गौणस्य बाधः । लिङ्गवाक्ययो- स्तु स्योनं ते"* इति सदनकरणप्रकाशस्य पूर्वार्धस्य 'तस्मिन् साद'* इत्युन्तरार्धेन सादनप्रकाशकेन 'तस्मिन्'* इति विभागे साकाङ्क्षणैकवाक्यत्वात्सकलस्य सदन- सादनयोरन्यतरत्रोभयत्र वा प्रतिष्ठापन एव ‘तस्मिन् '* इति पदसत्रिधिरूपेण वाक्येन विनियोगे प्रारिप्सिते ततः पूर्वप्रवृ त्तेन लिङ्गेन तत्तदाख्यातस्य मुख्यविशेष्यकत्वेन स्वार्थबोधकस्य परोपसर्जनत्वकल्पने प्रमाणामावात्तच्छब्दस्य च “सा वैश्वदेवी' इतेवद्वाक्यान्तरोपस्थितार्थपरामर्शकत्वेनापि चरितार्थत्वात्प्रत्ये- कमेव विनियोग इति । वाक्ययोर्विरोधे उपांशुत्वस्य वा एषा यशस्य' इति वाक्येन यज्ञपदैकवाक्यत्वात् यज्ञभाग- धर्मत्वं “ तस्माद्यत्किञ्चित्याचीनमग्नीषोमीयात्तेनापांशु चरन्ति इत्यनेन सन्निहितयत्किञ्चित्पदैकवाक्यतयाऽवगतपदार्थधर्मत्वेन- बाध्यते । वाक्यप्रकरणविरोधे च वैमृधस्य वाक्यावगतेन पौ- र्णमास्यङ्गत्वेन प्रकरणावगतदर्शाङ्गत्ववाधः । यत्त-अग्नीषोमादिपदैकवाक्यतापन्नानां “इदं हविः । इत्यादि पदानाममावास्याङ्गदेवताप्रकाशनार्थत्वं प्राकरणिकं वाक्येन वाध्यत इत्युदाहरणमुक्तं मूले । तत् श्रुतिालगावनियुक्तस्य सिद्धरूपत्वेन प्रकरणाविषयस्यच सूक्तवाकस्य मुख्यप्रकरणविनियोज्यत्वप्रसपत्य- भावेऽप्यधिकाराख्यगौणप्रकरणस्यापूर्वसाधंनत्वलक्षणातात्पर्यग्राह- कत्वस्य प्रसकत्वात्तद्वाधाभिप्रायेण द्रष्टव्यम् । प्रकरणयोर्वि *तै. बा. ३-७-६० तै. बा. ३-५-१०. त्सरा भाषि...] भारदीपिकासहितम्. 267 राधे महाप्रकरणमवान्तरप्रकरणेन । प्रकरणकमयोर्विरोधे “अ- सैर्दीव्यति" इत्यादिविदेवनादीनां सविधानादभिषेचनीयाख्यसो मयागाङ्गत्वप्रसती प्रकरणाद्राजसूयाङ्गत्वम् । न चामिषेचनी- यस्यापि फलवस्थेन प्रकरणाशङ्का । तस्य विकृतित्वेन क्लप्तोपका- रप्राकृतानिराकांक्षस्य तदभावात् । न च विकृतावपि यत्या- कृतामानुवादेन वैकृतमहं वाचनिक विधीयते यथा पृषत्तादि तस्यापि विकृतिगतामाकांक्षायामनिवृत्त.यामेव विधयत्वात्तत्सं- दष्टस्य तत्पूर्वभावित्वे सति प्रधानोतरभाधिनः अपूर्णस्य वा प्रकरणेनैव ग्रहणोपपत्तर्विदेवनादीनां चाभिषेचनीयोत्तरमुक्तविधा- भिषेकपूर्वभावित्वेन पाठात्प्रकरणग्रहणोपपत्तिरिति वाच्यं प्राकृता- जानुवादेन विहितस्याप्यपूर्वाङ्गस्योपहोमवत् विकृत्याकाङ्क्षायां नि- वृत्तायामेव विधानात् । यस्य हि प्राकृतकार्यापन्नतया वैस्ता- अस्व विधानं यथा औदुम्बरत्वशरादेस्तर वानिवृत्ताकालायां विधानं तत्संदष्टस्यैव च तत्पूर्वभाविनो वा प्रधानोत्तरागस्य विकृतिप्रकरणन ग्रहणम् ।अभिषेकस्य तु प्राकृतकार्यापनत्वाभावान तत्पूर्वपठितानां विदेवनादीनामभिषेचनीयप्रकरणमाहत्वे.पपत्तिः। वस्तुतस्तु-अभिषेकस्यापि स्वतन्त्रोत्पन्नस्य प्रकरणाद्राजस्या- अत्वावगतेः “माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते" इत्यत्र प्रतिश- ब्दयोगेन कालार्थसंयोग इति वश्यते । अतो विदेवनाधभिषे- कान्तानां सर्वेषामेव सविधानादभिषेचनीयाङ्गत्वप्रसक्ती प्रकरणेन तद्वाधः। न च राजसूयस्यापि प्रत्येकं विकृतित्वात्प्रकरणाभाव: पवित्रादारभ्य सत्रस्य धृति याचद्राजसूयत्वधर्मपुरस्कारेण वाच- निकाहानानात्तत्संदविदेवनादीनां प्रकरणमाहत्वोपपत्तेः । एवं प्रकरणस्य क्रमान्तरैरपि उदाहरणान्यूषानि । एवं क्रमयोर्विरोधे सविधानेन याज्यायस्य काम्येन्द्रामद्वयात्वे अनियमेन प्रसके .-38 258 पूर्वमीमांसादर्शनं. अध्या. ३.पा. ३. यथाक्रमं पाठादावस्याद्यानत्वम् । क्रमसमास्ययोर्विरोधे पौरो। रोडाशिकसमाख्याते काण्डे समानातस्य 'शुन्धध्वम् । इति मन्त्रा- देस्सन्निधानासानाय्याइत्वम् । न च महाधिकारेण सन्निधिबाधः। तस्यापि वाचनिकासंदष्टत्वेन बलवत्त्वात् । न चैवं तस्य प्रक- रणत्वापत्तिः । मन्त्रस्य सिद्धरूपत्वेन लिङ्गविनियोज्यत्वेन च प्रकरणाविषयत्वात् । सभिधानस्यापि समास्यावदपूर्वसाधनत्व- लक्षणातात्पर्यग्राहकत्व एव बलाबलं न तु विनियोगे । तत्र तूदा- हरणान्तरं मृग्यम् । एवं समाख्ययोर्विरोधे आध्वर्यवमितिसामा- न्यसमाख्याया याजमानमितिविशेषसमाख्यया बाधः । एवं यन्तरितत्रयन्तीरतादिप्रमाणस्य पूर्वैस्सह विरोधे शेषानेकत्वे चोदाहरणानि कौस्तुभे द्रष्टव्यानि ॥ स चायं श्रुतिलिङ्गादिबाघोप्राप्तबाधः । तत्त्वं च अङ्गता- बोधकलिङ्गादिकल्प्यप्रमाणप्रतिबन्धकत्वम् । पूर्वपूर्वप्रमाणेन ह्यङ्ग- त्वेऽवधारिते निराकांक्षत्वादुत्तरोत्तरतः पूर्वपूर्वप्रमाणकल्पनैव नो- देतीति सोऽयमप्राप्तबाधः । एवं गृहमेधीये “आज्यभागौ यजति" इत्यादावपि । अन्यत्न तु सामान्यविशेषनित्यनैमित्तिकभावादौ प्राप्तवावः । तत्त्वं च क्लृप्तस्य बोधकस्य विशेषविषयताप्रति- बन्धकत्वम् । सामान्यशास्त्रादेहि विशेषशास्त्रादिना पदहोमा- दिविषयतामात्र प्रतिबध्यते न तु सामान्यशास्त्रमपि। तस्य क्लू सत्वेनाकल्पनीयत्वात्, होमान्तरेग्वप्याहवनीया भावापत्त्या मि- थ्यात्वस्यापि कल्पयितुमशक्यत्वाच । अत एव येन सामान्य शास्त्रमेव पूर्वमालोचितं तस्य विशेषादर्शनजनितम्रम एव वि- शेषविषयताविषयको विशेषशास्त्रेण बाध्यते । एवं यत्रापि न तो पशौ करोति' इत्यादौ शास्त्रप्राप्तस्य निषेधस्तत्रापि प्राप- कशास्त्रस्य यद्यपि निषेधस्य प्राप्तिसापेक्षत्वेनोपजीव्यत्वादत्य- ते.सं. १.१.३. 'ते.सं. २-६-२, इत्यत्र ज्योतिष्टो- भाष..] भारदीपिकासहितम्, 269 न्तबाधानुपपत्तेविशेषविषयत्वमावश्यकं तथाऽपि तत्र विकल्पा- गीकारादभावपक्षे विशेषविषयत्वप्रतिबन्धानोक्तलक्षणाव्यातिः । यथा च तत्र रागप्राप्तनिषेधवद्धान्तिप्राप्तस्य बाधमङ्गीकृत्य न वि- कल्पस्तथा कौस्तुभे द्रष्टव्यम् । वक्ष्यते चानापि दशमे । अत- स्सिद्धं बाधस्य द्वैविध्यम् ॥ ७॥ *00-- (८)-अहीनो वा प्रकरणागौणः ॥ १५॥ असं- योगातु मुख्यस्य तस्मादपकृष्येत ॥१६॥ "तिस्त्र एव साहस्योपसदो द्वादशाहीनस्य ! मप्रकरणानाते वाक्ये अहीनः अहीनशब्दः गुणो वा गोण्या वृत्त्या बहुादेवसकत्वसादृश्येनाहस्साध्यक्रतुसमूहत्वरूपावयवयोगात्मकगौणतया वा या- गाभ्याससमुदायात्मकज्योतिष्टोमपर एव । कुतः प्रकरणात् ज्योतिष्टोमप्र- करणाबाधात् । अन्यथा अहीनपदस्याप्रकृताहीनक्रतुपरत्वे तदुद्देशेन द्वा- दशोपसत्त्वविधौ ज्योतिष्टोमप्रकरणवाधापत्तेः ॥ १५॥ एवं पूर्वपक्षे सि- द्धान्तमाह-मुख्यस्य अहीनपदरूढपर्थस्य ऋतुविशेषस्य ज्योतिष्टोमप्रक- रणे असंयोगात्तु अविद्यमानत्वात् तस्मात् प्रकृतात् ज्योतिष्ठोमात् अ- पकृष्येत अपकृष्य विच्छिय अहीनपदमुख्यार्थे ऋतुविशेषे निवेश्येत । भहीनपदस्य सत्रज्योतिष्टोमादी वैदिकैरप्रयुज्यमानतया क्रतुविशेष एव प्रयुज्यमानतया च यजतिचोदनाचोदितसुत्यासमुदायत्वावच्छिन्ने पति- रवश्यस्वीकार्या । रूढिबाधापेक्षया च प्रकरणवाध एव वरमिति भावः॥१६॥ एवं विरोधे बलाबलं निरूप्याधुना विरोध एव कास्ति क नास्तीति चिन्तार्थमुत्तरः प्रपञ्चो यावदध्यायसमाप्ति ॥ तै. सं. ६-२-५. अक्ष चतुर्थपादे तृतीयादेरधिकरणषटस्य विध्यनुवादचिन्तारूपतया प्रासङ्गि- कखेऽपि न क्षतिरिति प्रपत्रपदेन सूचितम् ॥
260 पूर्वमीमांसादर्शनम् [अध्या.३. पा.३ ज्योतिष्टोमे उपसदो विधाय “तिम एव सहस्योपसदो द्वा- दशाहीनस्य"1 इति श्रुतम् । तत्र. द्वादशत्वं किं. द्वादशाहे निविशते प्रकरण एव वेति चिन्तायां त्रित्वस्य तावदुपसद. नुवादेन विहितस्य वाड्डियमन्यायेन' स्वापूर्वसाधनीभूतोपसदर्य- त्वादुपसदां च प्रकरणात् ज्योतिष्टोममात्राङ्गत्वावगतेः साह्रपदं अह्ना समाप्यमानत्वात्तदनुवादमात्रं न तूहेश्यविशेषणं वाक्यमे- दात् वैयर्थ्याच्च । अतश्च तहदेव द्वादशत्वमपि तदनुवादेन विधीयमानमुपसदर्थमेव । न च तस्याहीनोहेशेन विधिः। उ- पसदुपसर्जनत्वेन श्रुतस्य तस्याहीनसम्बन्धानुपपत्तेः, तस्याव- त्या द्वादशत्वापत्तेश्च । छादशाहप्रकरणपठितवाक्यान्तरेण तत्र तस्य प्राप्तत्वाश्च । अतोऽस्यापि त्रित्वेन विकल्पः । अहीनपर्द च न हीयत' इति व्युत्पत्त्या नसमासमङ्गीकृत्य ज्योतिष्टोमा- नुवादकम् । सर्वे ह्यन्ये फतवो विकृतित्वादनमपेक्षमाणा न जहति ॥ 1. सं. ६-२-५. तैत्तिरीयसंहितायापछे काण्डे द्वितीयप्रपाठकस्य तृतीयानुवाके • “यदुपसद उपसद्यन्ते मातव्यपराणुत्यै" इति प्रथममुपसद्धिधिः । ततः “तिस उपसद उपैति" इति तत्र लिखविधिः । ततः "द्वादशाहीने सोम उपैति इति द्वादशवविधिश्श्रूयते ॥ ३ सिद्धान्तकोटेः प्रथममुलखः सूत्रे वाशब्दसूचितायास्सिान्तोपक्रमताया झाप- नायेति शम्भुभट्टीयम् । तचिन्त्यं अग्रिमाधिकरण एव व्यभिचारात्॥ *नवमप्रथमपादे द्वितीयाधिकरणस्य द्वितीयवर्णकेन ॥ 5"तं सहैवाहा संस्थापयन्ति" इत्यर्थवादवाक्यमिह द्रष्टव्यम् ॥ 6न हीयते न त्यज्यत इति अहीनः कर्मणि निष्ठा । एतदेव विवृतं 'सर्वे हिं' इत्यादिना ॥ षष्ठपन्तस्य नामार्थान्वये व्युत्पन्नतायाः प्राचीनैरङ्गीकारान वाक्यभेदप्रसक्तिरित वैगर्घ्यदोषकथनम् ॥ 7 माप...] भारदीपिकासहितम. 281 तस्यस अथ नायं ममलमासः तयात्वे तस्य तत्पुरुषत्वात स्पुरुष तुल्यार्थतृतीयासप्तम्युपमानाव्ययाद्वितीयाकृत्याः" इति स्ट त्या “प्रकृन्या.पूर्वपदम्" इत्यनुवृत्तिसहितयाऽन्यवास्यस्य मन- पूर्वपदस्योदात्तास्यप्रकृतिस्वरत्वविधानादायुदात्तत्वापत्तेः । अपि तु मध्योदात्तत्वात् “ अहः खः क्रतो" इति स्मृत्या मूहः” इत्यनुवृत्तिसहितया अहशब्दस्य ऋतुसमूहवाचिनप्र- त्ययान्तत्वविधानात्तस्य च "आयनेयीनीयियः फटस घां प्रत्ययादीनाम्" इति स्मृत्या ईनादेशविधानादयं शब्दः सप्रत्य- यान्तः । तथात्वे हि “आधुदात्तश्च" इति सूत्रात्प्रत्ययादेरी- कारस्योदात्तस्वरसिद्धिःनि च ईकारस्येनादेशावयवत्वात्कथं प्रत्य- यावयवत्वमिति वाच्यं "आयनादिष्पदेशिषचनं स्वरसिद्धयर्थम्" इति स्मृत्या प्रत्ययस्वरसिद्धयर्थ ईनादेशस्यापि प्रत्ययोपदेश- कालकत्वरूपोपदेशिवद्भाषस्य विहितत्वात् । अतो नायं नन्- समास इति चेत्-तथाऽपि प्रकरणानुरोधादहीनशब्दस्य बहु- दिवसकत्वसारश्येन गौणतपैवोपपत्तेः । वस्तुतस्तु-महस्सा. ध्यक्रतुसमूहत्वस्य शक्यतापच्छेदकस्य ज्योतिरोमेऽप्यन्यासस मूहात्मके सत्त्वादहीनशब्दस्य मुल्यवृत्त्यैवानुवादत्वोपपत्तिरिति प्राप्ते- भास्तां तावदहीमपदम् । एवकार एव तावविवातिरिक्त सझ्यायास्साधनत्वाभावमनुवदन् न द्वादशत्वेन विकल्प सहते। 1 भाष्याधुका सिद्धान्तयुक्तिमाशय निराकरोति-अति ॥ रथकाराधिकरणे तु प्रकरणबापाप्रसक्तेः रूढिनं त्यज्यत इति भावः । भ- हीनपदस्य रूढतैवं नास्ति येन रथकाराधिकरणविरोपरशयेतेत्याह- वस्तुतस्त्विति ॥
262 पूर्वमीमांसादर्शन, [भध्या, ३. पा.. किवं प्रकरणादेव त्रित्वद्वादशत्वयोज्योतिष्टोमसम्बन्धोपपत्तेस्सा- हाहीनशब्दयोईयोरपि वैयर्थ्यप्रसङ्गः । अस्मन्मते तु एकनाहा समाप्यमानत्वेन स्वल्पस्य कर्मणस्स्वल्पैव समयोचितेति औचि- त्येन स्तुतिपरतया साह्नशब्दस्य न वैयर्थ्यम् । समययोरेका- र्थत्वेन विधौ शब्दभेदो न युज्यते । अतोऽहीनपदं साह्रादर्था- न्तरपरमित्यप्यविवादम् । युक्तं चैतत् । "तस्य समूहः" इत्यनुवृत्तिसहितया “ अह्नः खः ऋतौ” इति स्मृत्या वैदिकप्र- योगाश्च अहस्समूहसाध्यक्रतुविशेषत्वस्यैव सत्रादिव्यावृत्तस्य यजतिचोदनाचोदितसुत्यासमुदायात्मकत्वस्यैव योगरूढया'ऽही. नपदशक्यतावच्छेदकत्वप्रतीतेन द्वादशत्वस्य ज्योतिष्टोमे निवेश- । अतश्चाहीनसम्बन्ध्युपसदुद्देशेन द्वादशत्वविधिः । षष्ठीस्थले च परस्परसम्बन्धस्य प्राचीनमते व्युत्पन्नत्वान्न विशि- ष्टोद्देशे वाक्यभेदः । वस्तुतस्तु-अहीनोद्देशेनातिदेशप्राप्तेः पूर्व- प्रवृत्त्या द्वादशोपसत्त्वमेवानेन वाक्येन द्वादशत्वप्राप्तिफलक "तां चतुर्भिः '3 इतिवद्विधीयते । द्वादशाहप्रकरणस्थवाक्यान्तरं तु शाखान्तरपरतया वा सत्रमात्रपरतया वा न विरुध्यते इति सम्भवः 1 अहीनपदे अहःपदार्थस्य दिनस्य समूहसाध्यक्रतुरूपखप्रत्ययार्थैकदेशे समू- हेऽन्वये दिनसमुदायसाध्यक्रतुत्वावच्छिन्नं योगार्थः । सत्रादिविलक्षणे ऋतुविशेष एव वैदिकप्रयोगवलात् यजतिचोदनाचोदितसुत्यासमुदाय- त्वावच्छिन्न रूढयर्थ इति योगरूढताहीनपदस्य ॥ 2 द्वादशपदार्थोपसत्पदार्थाभ्यां विशिष्टाया भावनाया अहीनोदेशेन विधौ प- श्वादरुणेकहायनीन्यायेन तयोः परस्परान्वयः । अतो न विधेयाने- कता। न वा सुबन्तयोः परस्परान्वयापत्तिरिति ध्येयम् ॥ ३१-२.४, अधिकरणे इदं द्रष्टव्यम् ॥
अपि. ९] भारदीपिकासहितम्. 263 भाष्यकाराभिप्रायः । वस्तुतस्तु'-द्वादशाहप्रकरणस्थवाक्यस्य सत्राहीनोभयसाधारणत्वादेवाहीनेऽपि द्वादशत्वप्राप्त्युपपत्तेरेकवा- क्यतालाभाय प्रकरणपाठार्यवत्त्वाय चौचित्येन त्रित्वविधेरेवाय- मर्थवादः । महतः कर्मणो महती सक्योचिता न तु प्रकृत इति च स्तुतिः । अतो वाक्येन प्रकरणं बाधित्वा द्वादशत्वस्याहीन- सम्बन्धावगतेः न तेन ज्योतिष्टोमे द्वादशत्वम् । मूले तु षष्ठया भाक्तश्रुतित्वमादाय श्रुतिप्रकरणविरोधोपन्यास इति द्रष्टव्यम् ॥८॥ . -- (९)-द्वित्वबहुत्वयुक्तं वाऽचोदनात्तस्य ॥ १७ ॥ पक्षणार्थकृतस्येति चेत् ॥१८॥ न प्रकृतेरेक- संयोगात् ॥ १९ ॥ " तस्मादपकृष्यते" इति पूर्वसूत्रादनुवर्तते । द्वित्वबहुत्वयुक्तं वा द्विवचनबहुवचनयुक्तौ "युवं हिस्थस्स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात् । एते असममिन्दव इति बहुभ्यो यजमानेभ्यः” इत्यत्र ज्योतिष्टोमप्रकरणानातवाक्ये विधीयमानौ मन्त्रौ तस्मात् प्रकृ- ताज्ज्योतिष्टोमात् अपकृष्येते भपकृष्य एतेन राजपुरोहितौ सायुज्य- कामौ यजेयाताम्" "एको द्वौ बहवो वाऽहीनेन यजेरन्" इति वि- हिते द्विवहुयजमानके कुलायाहीनादावेव निवेश्येते । कुतः तस्य द्वि- बहुयजमानकत्वस्य प्रकृते ज्योतिष्टोमे अचोदनात् अविधानात् इति 1वार्तिककारीयस्सिद्धान्तोऽयम् ॥ * प्राचीनप्रन्थपर्यायं मूलपदमिह शास्त्रदीपिकादिप्रन्थपरम् । न तु भाज्य- परम् । भाष्ये पूर्वपक्षिणा वाक्यैनैव प्रकरणवाधस्य शङ्कितत्वात् ॥
264 पूर्वमीमांसादर्शन [मध्या. ३. पा.. सिद्धान्तोपक्रममधिकरणसूत्रम् ॥१७॥ अस्मिन् सिद्धान्ते आशङ्कते- पक्षेण पाक्षिकेणासामध्येन एकस्य यजमानस्य कदाचित् दक्षिणादि- सम्पादनपुरस्सरमशक्तौ सत्यां अर्थकृतस्य यथाशक्तिन्यायानुसारेणैक- त्ववानाप्यात्प्राप्तस्य द्विवहुयजमानकत्वस्य प्रकृने ज्योतिष्टोमे सम्भव एव इति चेत् न प्रकृतेः निखिलसोमप्रकृतेः ज्योतिष्टोमस्य एक- संयोगात् एकेनैव कर्चा सम्बन्धात् “सोमेन यजेत" इत्युत्पत्तिवि- धौ कर्तुरेकत्वस्यौपदेशिकतयाऽन्तरणतया च प्रयोगविभ्यन्वयितया बहि- रगदक्षिणापरिमाणाद्यनुरोधेन बाधनं न युक्तम् । एकत्वस्याननुष्ठंयत- याऽनुष्ठेयमात्रविषयकयथाशक्तिन्यायविषयताऽपि नास्तीति भावः ॥१८-१९ ज्योतिष्टोम एव "उपास्मै गायता नरः" इति नित्यां प्र- तिपदंषधाय “युवं हि स्थस्स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात् । एते असृग्रमिन्दवः इति बहुभ्यो यजमाने- भवः" इति श्रुतम् । तत्रायवाक्ये "इयोर्यजमानयोः” शते यदि सप्तमी तदा सा निमित्त्वपरा । यद्यपि च पृथग्विम- किभवणं तथापि हविरा|धिकरणन्यायेन' पाक्षिकत्वाभावेन प्रत्येकं निमित्तत्वापर्यवसानात् प्रधानभूतनिमित्तत्वानुरोधेन मि- ळितयोरेव द्वित्वावच्छिन्नयजमानत्वावच्छिायोनिमित्तत्वं प्रति- पाचते । यदि तु षष्ठी तदाधिकारित्वास्यसम्बन्धानुवादिका- सती स्वयय॑परिहाराय पदइयेपि लक्षणामङ्गीकृत्य लाघवात पते. बा. १-५.९. प्रतिपद नाम स्तोत्रीया भाया कर। बचतुर्षस्य पष्ठाधिकरणेन । मन्त्रविषिपरेऽत्र वाक्येऽधिकारविष्यसम्मवाद वाक्यान्तरसिद्धस्याधिकारस्ये- हानुवाद एवाश्रयणीयः तस्य चानुवादस्य न किविदिह प्रयोजनम् ।
अधि..] भादीपिकासहितम्. 286 द्वित्वयजमानत्वयोरेकं व्यासज्यवृत्तिनिमित्तत्वं प्रतिपादयति । विशेषणविशेष्यभावेऽपि विनिगमनाविरहात् । एवं “बहुभ्यो यजमानेभ्यः” इति तादर्थ्यचतुर्थ्याऽप्यधिकारित्वसम्बन्धानुवा- दिकया उक्तविधनिमित्तत्वे लक्षणा । अतः । नान्यतराविवक्षा- प्रसङ्गः । निमित्ते च प्रतिपदुद्देशेन मन्ला वधानेऽपि विजाती- यत्वा'नानेकोहेश्यता । प्रकरणाझा प्रतिपत्सम्बन्धलाभ इति पक्षद्वयेऽप्यविवादम् ॥ तदिहेमौ मन्त्री ज्योतिष्टोम एव निशिशेते उत द्विवय- जमानके कुलायाहीना दाथिति चिन्ताय करणावरोधात्प्रकृत एव निवेशः । न च तत्र निमित्ताभावः । अ.सातेन "वस- न्तेवसन्ते ज्योतिषा यजेत" इत्यादिना उपादेयकर्तृविशेष- णत्वेनोक्तस्यैकत्वस्य विवक्षायामपि नित्यत्वेन ज्योतिष्टोमे यथा. शक्त्युपरन्धस्य वक्ष्यमाणत्वाद्यधेको न शक्रयात्तदा द्विबहुय- जमानकत्वमातेः प्रतिपद्विधानसम्भवात् । अथवा-यजमानश- ब्दस्य यागकर्तृमात्रवचनस्य पलयामपि सम्भवादाद्यवाक्ये ता. द्वित्वविशिष्टयजमानाधिकारिकत्वविशिष्टप्रतिपद उद्देश्यत्वे तु वाक्यमेदः । तादृशविशिष्टप्रतिपदि वाक्यलक्षणाङ्गीकारे तु सप्तम्या अधिकारितासम्ब- न्धावच्छिन्ननिमित्तले लक्षणैव लघीयसीति भावः । ईप्सितत्वानीप्सितत्वाभ्यां भाव्यनिमित्तयोर्वैधात् एकेनेतराकाहाशान्तेरस- म्भवात् । सजातीयोद्देश्यभेद एव वावयभेद इति भावः । तथा च वाक्येन प्रतिपद्रूपभाव्यसम्बन्धानपेक्षणानकवाक्येऽनेकोद्देश्यताSS- शङ्काऽपि । कुलायाहीनयोविधिपरं वाक्यमत्रैव सिद्धान्ते वक्ष्यते । 4" सोमेन यजेत" इत्युत्पत्तिवाक्यमुपेक्ष्यैतदुपादानं वक्ष्यमाणस नित्यत्वस्य वीप्सया प्रतिपत्त्यर्थम् । षष्ठतृतीयादिमाधिकरणे इति शेषः । P. -34 268 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ३. वत् स्त्रीलिङ्गत्वे बाधकाभावात् पत्नीवित्वे स मन्त्रः । द्वितीय- वाक्येऽपि पाशाधिकरणन्यायेन' लिङ्गानुरोधेन प्रकरणबाधानुप- पत्तेः व्यत्ययानुशासनेन पुल्लिङ्गस्य स्रोत्वपरत्वावगतेः प. नीबहुत्वे द्वितीयो मन्त्रः । नित्या तुं प्रतिपत् पत्नयेकत्व इ. ति प्राप्ते- नित्यत्वेऽपि ज्योतिष्टोमस्य नैकत्वे यथाशक्तिन्याय विषयता उत्पत्त्यादिवाक्येषु समानाभिधानश्रुत्या भावनायामन्वितस्य त स्यान्तरङ्गत्वेनाशक्तौ दक्षिणापरिमाणा'पङ्गान्तरबाधेनास्यैवानुग्रा. ह्यत्वात् । किञ्च यत् कृतिसाध्यत्वेनानुष्ठयतया प्रसक्तं तत्रैव यथाशक्त्युपबन्धो न त्वननुष्ठेये कालादौ अतश्च तहदेवास्यापि न तनयायविषयतेति न प्रकृते यागे द्वित्वबहुत्वे । न च य- जमानशब्दः पत्नीपरः । पुंस्येव प्रचुरणयोगेण शक्त्यवगमेन लक्षणायां प्रमाणाभावात् । यजमानेभ्य इति पुल्लिङ्गस्य 'प्रास्मै नवमतृतीयस्य पश्चमेऽधिकरणे प्रकरणसहकृतपाशप्रातिपदिकानुरोधेन बहुव- चनस्यैवैकत्वे लक्षणा स्वीकृता । 2" व्यत्ययो बहुलम्” (३-१-८५) इति पाणिनिसूत्रस्थेन "सुप्तिकुपग्रहलि- गनराणां कालहलस्वरकर्तृयडां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोपि च सिद्धयति बाहुलकेन" इति भाष्येण । ३६-३-१. "कृष्णानां 'दक्षिणापरिमाणादिकं कीनत्यर्थतया कन्वयिनि प्रयोगविधविवान्वेतीति बहिरङ्गम् । अनुष्टेयतया अनुष्ठयविशेषणतया वा प्रसक्तमित्यर्थः । अतः बीहीणाम्” (तै, सं. १-८-९) इत्यादौ कृष्णत्वादिगुणस्य यथाशक्ति न्यायीव- षयत्वेऽपि न क्षतिः । कृष्णत्वं हि तत्र विहारदेश नयनादिरूपानुष्ठानविषयत्रीहि- विशेषणम् । कर्तृविशेषणमेकत्वं तु न तथा कर्तुरनुष्ठायमानत्वाभावात् । 6. बा. ३-६-६.
अधि. १०.] भादीपिकासहितम्. 267 इत्यस्य मेष्यामिव निषिद्धत्वेनागतिकव्यत्ययानुशासनाङ्गीकारा- नुपपत्तेश्च । अतश्च वाक्येन प्रकरणबाधात् यत्र एतेन रा- जपुरोहितौ सायुज्यकामौ यजेयाताम्" "एको द्वौ बहवो वा यजेरन्" इत्याहत्यैव' कुलायाहीनादिषु द्वित्वबहुत्वविधानं तत्रै- वास्योत्कर्षः । न चात्र तत्तूपस्थापकाभावः । प्रतिपत्सम्ब. न्धेनैव सामान्यतः फतुसम्बन्धेऽवगते निमित्तचलेन तद्विशेषोप- स्थितौ बाधकाभावात् ॥ ९ ॥ Co- (१०)-जाघनी चैकदेशत्वात् ॥२०॥ चोदना वाऽ- पूर्वत्वात् ॥ २१॥ एकदेश इति चेत्. ॥ २२ ॥ न प्रकृतेरशास्त्रनिष्पत्तेः ॥२३ जाघनी च “जान्या पत्नीसंयाजयन्ति" इति दर्शपूर्ण- मासप्रकरणाम्नातं वाक्यं प्रकरणादुत्कृष्यते जाघनीशब्दस्य एकदेश- त्वात् उत्तरार्धादिशब्दवदेकदेशद्रव्यवाचित्वेन जाधन्याः परप्रयुक्ततया प्रयाजशेषवदुद्देश्यत्वावगत्या जाघन्युद्देशेन पत्नीसंयाजविधानस्यैवाश्रयणी- यतया प्रकरणे च जाघन्या विरहेण पशुयाग एवोत्कर्षावश्यकत्वात् ॥२०॥ एवं पूर्वपक्षे. सिद्धान्तमाह-उक्त जाधन वाक्ये जाघन्या गुणतया चोदना वा विधिरेव अपूर्वत्वात् प्रकरणे जाघन्या अप्राप्तत्वेनो- द्देश्यत्वासम्भवात् । पतीसयाजानां च प्राप्ततयोद्देश्यत्वसम्भवात् । त- स्मानोत्कर्षः ॥ २१ ॥ पूर्वपक्ष्युक्तहेतुमनूद्य निराकरोति-एकदेशः नवमाधस्य पञ्चदशेऽधिकरणे अधिगुप्रैषे पुंपशुमादायापि निवेशसम्भवान लक्षणाऽऽविता । इह तु यजमानद्वित्वस्य प्रकृतौ सर्वथा निवेशास- म्भवात्पाशाधिकरणन्यायेन लक्षणैव युक्तेत्यभ्युच्चयमात्रमिदम् ।
268 पूर्वमामासादर्शनम्. [अध्या.३. पा. ३ अवयवभूता जाधनी अवयविनं पशुमन्तरा कथं प्रकरणे उपपद्यता इति चेत् न प्रकृतेः जाघन्यवयविनः पशोः अशास्त्रनिष्पत्तेः शास्त्रप्राप्तत्वानावश्यकलात् तथाच पशोर्दर्शपूर्णमासप्रकरणेऽविहितत्वेऽ- पि लोककपशुसम्बन्धिजाघन्याः क्रयादिनाऽप्यानीतायाः पत्नीसंयाजे गुणत्वोपपतिः । जाधनीपदं च वस्तुतः च वस्तुतः पश्ववयवरूपैक्रदेशवाचकमपि पशुपुच्छरूढतया नोत्तरार्धादिपदवत्ससम्बन्धिक, येन प्रकृतैकदेशस्यैव ग्रहणं "उत्तरार्धात्स्विष्टदृते समवद्यति"* इत्यादाविवाशङ्कपैतेति ॥ २२-२३ ॥ दर्शपूर्णमासयोः पत्नीसंयाजावान्तरप्रकरणे "जाघन्या पत्नस्सिंयाजयन्ति" इति श्रुतम् । तत्र किमनेन वाक्येन अग्नी- षोमीयपश्चनिष्टन्नजाघन्युदेशेन पत्नीसंयाजा विधीयन्ते ततश्चैत- स्य विधानस्य प्रकर गादुत्कर्षः, उत पतीसंयाजोद्देशेन जापनी द्र- व्यत्वेन विधीवत चिन्तायां जाघनीशब्दस्योत्तरार्धादिशब्दवदे- कदेशद्रव्यवाचित्वेन जाधन्याः परमयुक्तत्वावगमात् प्रयोजन- वत्त्वावगमेन प्रयाजशेषवत् उद्देश्यत्वावगतेः तृतीयायाः द्विती- यार्थलक्षणामङ्गीकृत्य पत्नीसंयाजा एव तदुद्देशेन विधीयन्ते । एवं द्वितीयविधिप्रकाराङ्गीकरणालाघवं, इतरथा तृतीयविधिप्र- कारापत्तेः । एवं च वाक्पेन प्रकरणबाधात् पत्नीसंयाजानां पश्वङ्गत्वमात्रप्रसक्ता अपि "आज्येन पत्नीस्संयाजयन्ति" इति वचनस्य निविषयत्वापत्तेः प्रकरणबाधायोगात् तेन' चारादुप- २-६-६. ति. सं. २-६-१.. अवान्तारप्रकरणकातनफलं सिद्धान्ते व्यक्तम्. *तै.सं. जापनी पशोः पुच्छम्. 3४-१-१३ अधिकरणे उत्तरार्धशब्दविचारो द्रष्टव्यः । ५-१-१४ आधिकरणे प्रयाजशेषन्यायो द्रष्टव्यः।। 5१-४-२ अधिकरणे विधिप्रकारपर्दू प्राक् निरूपित्तम् ॥ .
भाध. १०.] माहदीपिकासहितम्. 269 कारकतया दर्शपूर्णमासाङ्गत्वावगमेऽन्यनेन वचनेन संनिपत्योपका- रकतयाऽग्नीषोमीयपशुवागाङ्गतयाँ विधिर्नानुपपन्नः । न च जाधन्याः परप्रयुक्तपश्वनुनिष्पन्नत्यस्य लोकऽपि सम्भवादव्य- भिचरितक्रतुसम्बन्धाभावेन कथं यागीयत्वोपस्थितिः । अग्नी- षोमीयप्रकरणे श्रुतेन “जान्या पत्नीस्संयाजयन्ति" इति वा- क्यान्तरेण प्रतापूर्वसाधनीभूतजाघन्युद्धेशेन पनीसंयाजविधा- यकेन यागसम्बन्धोपस्थितौ “अशुं गृह्णाति"* इतिवद'नार- भ्याधीतेऽप्यस्मिन् ऋतुसम्बन्धावामोपपत्तेः ॥ यत्तु'-कश्चिदतिदेशादेव पलोसंयाजानां पशुयागसम्बन्धा- वगमात् प्राकरणिकवाक्यं तदर्यककर्मान्तरविधायकं पूर्वपक्ष इत्युक्तम् तत् अतिदेशेन पत्रोसंयाजानामारादुपकारकत्वविधया पशुयागसम्बन्धावगमेऽपि तात्पर्यग्राहकाभावे अनारभ्याधीतवा- क्ये जायन्यास्तदीयत्वोपस्थितौ प्रमाणाभावात् अतिदेशेन सनि. धाने प्रकरणान्तरासम्भवेन कर्मान्तरत्वानुपपत्तेश्योपेक्षितम् । तस्माद्वाक्येन प्रकरणं बाधित्वा इदं विधानमग्नीषोमीये उत्क- ध्यत इति प्राप्ते- - ‘जाघनीशब्दस्य पश्ववयववाचित्वेऽपि उत्तरार्धादिशब्दवत् स- सम्बन्धिकत्वाभावात् लोकसिद्धहस्थजान्या एवाज्यवत्पत्नी- सयाजोद्देशन विधिसम्भवे तृतीया या लक्षणाङ्गीकरणे प्रमाणा- भावः । अतिदेशात्प्राप्तानां पत्नीसंयाजानामारादुपकारकत्वबाधेन *तै. सं. ३-३-४. 1३-६-११ अधिकरणे वाक्यमिदं चिन्तितम्. दर्शपूर्णमासप्रकरपानातस्यापि “जान्या" इति वाक्यस्यानारभ्याधीतलं अपेक्षितपशुप्रकारणभिन्नाप्रकरणस्थत्वसाम्येन ज्ञेयम् । शास्त्रदीपिकामकाशोतमिदम् ।
270 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ३. पशुप्रकरणस्थवाक्येनैव सभिपत्योपकारकत्वलाभे दर्शपूर्णमास. प्रकरणस्थवाक्यवैयापत्तिश्च । अतः पत्नीसंयाजोद्देशेनैव जाघ- नीविधिः । न च प्राप्तकर्मानुवादेन पत्नीनामपि विधाने देव- तात्वेन प्राप्त्युद्भावनेऽपि च विशिष्टोद्देशे वाक्यभेदापत्तिरिति वाच्यं अवान्तरप्रकरणादेव कर्मविशेषोद्देशसम्भवेनावाक्यभेदात्। अतो नास्य प्रकरणादुत्कर्षः । अग्नीषोमीयप्रकरणस्थवाक्यं तु विकल्पेन प्राप्ताया नियमामति वक्ष्यते । न चैवं तत्र हट्ट स्थजापन्या एव नियमसम्भवेन पश्वनुनिष्पन्नाया ग्रहणे प्रमा- णाभावः । प्रतिपत्त्यन्तराभावनोपस्थितायास्तस्यास्त्यागे प्रमाणा- भावादिति तत्रैव वक्ष्यमाणत्वात् ॥१०॥ (११)-संतर्दनं प्रकृतौ क्रयणवदनर्थलोपात्स्यात् ॥२४॥ उत्कर्षों वा ग्रहणाद्विशेषस्य ॥ २५॥कर्तृतो वा विशेषस्य तन्निमित्तत्वात् ॥२६॥ कतुतो वाऽर्थवादानुपपत्तेस्स्यात् ॥२७॥ संस्थासु कर्तृवद्वारणार्थाविशे- षात् ॥२८॥ उक्थ्यादिषु वाऽर्थस्य विद्यमानत्वात् ॥२९॥ अविशेषात् स्तु- तिथेति चेत् ॥३०॥ स्यादनित्य- त्वात् ॥ ३० ॥ १२-४.६ अधिकरणे, भषि. ११] भारदीपिकासहितम. 271 वा उत्कर्ष "" ज्योतिष्टोमे आधषवणफलके प्रकृत्यानाते "न सन्तणत्यसन्तण्णे हि हनू अथो खलु दीर्घसोमे सन्तये धृत्यै "1 इत्यत्र श्रुतं सन्तर्दन प्रकृती ज्योतिष्टोमप्रकरण एव निविष्टं स्यात् अनर्थलोपात् दीर्घ- श्वासौ सोमश्चेति कर्मधारये इष्टयाद्यपेक्षया दीर्घत्वस्य सोमवत्त्वस्य च ज्योतिष्टोम एव सम्भवेन दीर्घसोमपदार्थवाधविरहात् । क्रयणवत् यथा “गवा क्रीणाति 'वाससा क्रीणाति" इत्यानाताः क्रियाः विकल्पेन प्रकृतौ निविशन्ते तथा असन्तर्दनं सन्तर्दनं च प्रकरण एव विकल्पेन निविशते । यसमुच्चयस्य द्वादशे स्थापयिष्यमाणत्वेऽपि तत्र- त्यपूर्वपक्षाभिप्रायेणेह पूर्वपक्षिणा क्रयदृष्टान्तोऽभिहित इति बोध्यम् ॥२४॥ एवं पूर्वपक्षे सिद्धान्तमाह-प्रकरणात् उत्कर्षों एव सन्तर्दनस्य विकृतिषु विशेषस्य दीर्घसोमे इत्यंशस्य ग्रहणात् उपादानात् प्रकरण एव तस्य निवेशे ताहशविशे- षग्रहणं व्यर्थ स्यात् । दीर्घत्वं च सजातीयसोमयागापेक्षयैव अडित्यु- पतिष्ठते, न तु विजातीयेष्टयाद्यपेक्षया । 'तथा । 'तथा च ज्योतिष्टोमा- पेक्षया दीर्धे विकृतिभूते सोमयागे एव तस्मिन्नेवोत्कर्षेण निवेशस्सन्त- र्दनस्येति ॥ २५ ॥ अत्र पूर्वपक्षी शङ्कते -विशेषस्य 'दीर्घसोमे" इत्यस्य कर्तृतो वा दीर्घस्य सोम इत्येवं कर्तपरतयैवोपपत्तेः तनिमित्तत्वात तस्य कर्तदैर्घ्यस्य कादाचित्कत्वेन निमित्तत्वसम्भवात् सन्तर्दनस्य नै- मित्तिकतया प्रकरण एव निवेशोपपत्तिः ॥ २६ ॥ अत्र सिद्धान्ती समा- धत्ते क्रतुतो वा दीर्घसोमे'' इत्यस्य दीर्घश्वासौ सोमश्चेति क्रतुपरत- यैवोपपत्तिः स्यात् । अन्यथा “धृत्यै "1 इति अर्थवादानुपपत्तेः यजमानदर्येण फलाविदारणाप्रसक्तेः सोमविवृद्धयेव च तत्प्रसक्तया सन्त- र्दनस्य धृतिफलकत्वप्रतिपादनपरस्यार्थवादस्योपपत्तिः ॥ २७ ॥ ननु अग्नि- टोमादन्यत्र संस्थासु सन्तर्दनस्य निवेशो वाच्यस्त च न सम्भवति 1.सं. ६-२-११. तै.सं. ६-१-१..
272 पूर्वमीमांसादर्शनं. अध्या. ३. पा. ३. कर्तृवत् कर्तभूतयजमानदैर्घ्य परत्व इव संस्थापरत्वेऽपि धारणावि- शेषात् “धृत्यै "1 इत्यर्थवादानुपपत्तेरविशेषात् । दश मुष्टीमिमीते इति वचनेन तत्रापि सोमपरिमाणैक्येन सोमदासम्भवादिति चेत् न उक्थ्यादिषु वा संस्थासु निवेशः तत्र प्रदानविवृद्धया सोमविवृद्धि- रूपस्य अर्थस्य दीर्घसोमपदार्थस्य विद्यमानत्वात् ॥ २८-२९ ॥ दशमुष्टीमिमीते" इति वचनेन तदधिकसोममानासम्भवात् प्रदेयविव- द्वेश्च प्रकारान्तरेणापि सम्न्वात् कर्तृदर्घ्यपरत्व इव संस्थापरत्वेऽपि अविशेषात् “धृत्यै "1 इति स्तुतिः व्यर्था अनुपपन्नार्था इति चेत् न संस्थासु निवेशः स्यात् सन्तर्दनस्य । सोमपरिमाणस्य अनित्य- त्वात् अनियतत्वात् “प्रज भ्यस्त्वा इत्यवशिष्ठानंशनुपसमूहति" इत्य- नेनोपसमूहनविधानेन यावदपेक्षितसोमग्रहणप्रतीतेः । तदेवं सोमद्रव्यत एव प्रदेयविवृद्धिसम्भवे द्रव्यान्तरेग तद्विवृद्धिर्न युक्ता समाश्रयितुम् । त- स्मात् संस्थास्वेव निवेश इनि भाष्यकृतां पक्ष: । वार्तिककाराणां तु संस्थास्ववेति न नियमः किन्तु विकृतिमात्रे सोमविवृद्धस्तत्रापि सत्वा- दिति मतम् ॥ ३०-३१॥ ज्योतिष्टोमे अधिषवणफलके प्रकृत्य "न सन्तृणत्ति" इत्यनेनासन्तर्दनं विधाय “अथो खलु दीर्घसोमे सन्तृये धृत्यै " इत्यनेन सन्तर्दनं विहितम् । सन्तर्दनं नाम द्वयोः फलकयो- स्संश्लेषप्रदेशतनूकरणनैकोपर्यपरस्य संश्लेषः । तदेवं सन्तर्दनं प्रकरण एव निविशते उत अग्नेष्टोमादन्यत्रोत्कृप्यत इति चि. न्तायां-प्रकरणानुग्रहादनुत्कर्षः । न च वाक्यविरोधः । ज्यो- 1. सं. ६-२-११. अभिषवाधारकाष्ठफलक इत्यर्थः. लोहकीलेनेतिशेष:.
भषि. ११. भारदीपिकासहितम्. 273 तिष्टोमस्यापीष्टयाधपेक्षया दीर्घत्वात्सोमद्रव्यकत्वाच दीर्घसोमत्वो- पपत्ते । अतश्च व्रीहियवादिवत् सन्तर्दनासन्तर्दनयर्विकल्पः । यस्त्वत्र सूत्र क्रयणवादति क्रयदृष्टान्तो विकल्पे दत्तः स द्वादशे दशभिः क्रीणाति" इति वचनेन समुदयस्य वक्ष्यमाणत्वात् वचनाभावं कृत्वा बोध्यः । अस्तु वा इष्टयादेरिहानुपादानात् तदपेक्षया दीर्घत्वस्य च नित्यत्वेन दीर्घसोमपदवैयापत्तेरष्टदोष दुष्टविकल्पस्य चान्याय्यत्वात् दीर्घस्य यजमानस्य सोमो दीर्घ- सोम इत्येवं षष्ठीतत्पुरुषमपि प्रकरणानुरोधेनाङ्गीकृत्य यजमानदै- 'घर्चे निमित्ते सन्तर्दनविधानम् । यदि तु निषादस्थपत्यधिकरण- न्यायेन' कर्मधारयस्यैव न्याय्यत्वात् यजमानदैर्धेयण च फलकवि- वारणाप्रसक्तेस्तहारकत्वेन सन्तर्दनस्तुतेरसम्भवेन धृत्या इत्यर्थ- वादानुपपत्तेः दीर्घश्चासौ सोमश्चति कर्मधारय एवाङ्गीक्रियते । त- दाऽपि ज्योतिष्ठोम एवोक्थ्यादिसंस्थान्तरयुक्त प्रदानविवृद्धया प्रदेयसोमाविवृद्धरावश्यकत्वात दीर्घसोमत्वोपपत्तेर्वाक्यप्रकरणयो- रविरोधाग्निवेशः । न च प्रदानविवृद्धस्तोयादिना सम्पादनम् । सोमद्रव्यकस्य यागस्य विना वचनं द्रव्यान्तरसंसृष्टेन सोमेन करणायोगात् । न च त्रिपर्वदशमुष्टित्वरूपसोमपरिमाणबाधः। स्थू- लदीर्घपर्वसोमग्रहणेन तद्वाधाभावात् । अत एव सोमपदेन या- गलक्षणायां प्रमाणाभावात् सोमदीर्घपर्वत्वमेव सन्तर्दने निमि- त्तमित्यपि शक्यं वक्तुम् । 1 सोमेन यजेत इत्यादौ मत्वर्थलक्षणया सोमपदस्य सोमद्रव्यकयागपरत्वदर्श- नादिहापि सोमपदं सोमद्रव्यकयागपरं, दीर्घश्चासौ सोमवेति कर्मधारय इति भावः, ११२-३-४, १२-४-३. 86 274 पूर्वमीमांसादर्शनं. [अध्या, ३. पा. ३. वस्तुतस्तु-त्रिपर्वदशमुष्टिपरिमितसोमग्रहणोत्तरं “अपशि- ष्टानंशनुपसमूहति" इत्युपसमूहनविधानात्तत्र चार्थवादे "यदै तावानेव लोमस्स्याद्यावन्तं मिमीत यजमानस्यैव स्यान्नापि सद- स्यानां प्रजाभ्यस्त्वेत्यवशिष्टानशूनुपसमूहति" इति पूर्वोक्त- माननिन्दयोत्तरादोहनवद्यावदपेक्षितपरत्वप्रतीतेः कपिञ्जलाधि- करणन्यायस्याप्यप्रवृत्तया परिमाणाभावात्प्रदेयविवृद्धिस्सुलभैव । न चैवमपि अग्निष्टोमसंस्थाया अङ्गत्वादन्यासां काम्यानां तिसृणां संस्थानां च विकृतित्वेन सर्वतः प्रकरणाभावाज्ज्योतियोमे च प्रदानवृद्धचभावेन प्रदेयवृद्धयभावात् कथं वाक्यप्रकरणयोरवि- रोध इति वाच्यं काम्यसंस्थासु ग्रहणविवृद्धया आश्रयभूतज्यो- तिष्टोमाभ्यासविवृद्धरावश्यकत्वात् संस्थानां च तिसृणामपि स्वतः प्रकरणाभावे च ज्योतिष्टोमस्य सर्वत्रानुस्यूतत्वात् का- म्यसंस्थाकज्योतिष्टोमप्रयोगे सन्तर्दनविधानेन प्रकरणानुग्रहोप- पत्तेः । अत एवाग्निष्टोमसंस्थाकज्योतिष्टोमप्रयोगे असन्तर्दन, प्रदानविवृद्धचभावान्न विकल्पोऽपि । अत एव च दीर्वत्वस्या- नुयोगिनः काम्यसंस्थाकज्योतिष्टोमस्य प्रतियोगिनश्च नित्यसं- स्थाकज्योतिष्टोमम्य प्रकरणादेव लाभादिनि लाघवम् । न चैव- मितरसंस्थाकज्योतिष्टोमस्यापि प्रकरणेऽङ्गीक्रियमाणे "एष वाव प्रथमो यज्ञा यज्ञानां यज्ज्योतिष्टोमः य एतेनानिष्टा अथान्येन यजते गर्तपत्यमेव तद्भवति" इत्यत्रापि एतच्छब्देनेतरसंस्थाक- ज्योतिष्टोमस्य ग्रहणापत्तेः अग्निष्टोमसंस्थाकस्यैव प्रकरणाहणं वक्ष्यमाणं विरुध्येतेति वाच्यं ज्योतिष्टोमत्वावच्छेदेनैव फलव- रत्वेन प्रकरणाङ्गीकारात् । अनिष्टोमसंस्थाया अङ्गत्वेनेतरागाव- प्रकरणविच्छेदकत्वानुपपत्तेश्च । एतच्छब्देन तु ज्योतिष्टोमत्वा- पछिमस्योक्तावपि अन्यशब्देन तनिकृतिमात्रषाचकेन संस्था.
अधि. ११.]
भारदीपिकासहितम्,
276
नामप्युक्तत्वात्तासामपि ज्योतिष्टोमोत्तरकालविधिप्रतीतेरादग्नि-
टोमसंस्थाकस्यैव प्रथमकरणोपपत्तेः । अती वाक्यप्रकरणयोर-
विरोधात्प्रकरण एव सन्तर्दनस्य निवेश इति प्राप्ते-
भाष्यकारेण तावदिष्टापत्त्यैव सिद्धान्तितम् । पूर्वपक्षश्च
प्रकारद्वयेनैव कृतः ॥
वार्तिककारेण तु विकृतिमात्रे अग्निष्टोमातिरिक्तविवृद्धस्तो.
मके निवेश इत्युक्तम् । तस्यायमाशयः । दीर्घत्वं तावद्रहण-
विवृद्धिप्रयुक्तसोमविवृद्धिकृतमिति भवतोऽप्यविवादम् । वि-
वृद्धग्रहणानि च संस्थाङ्गानि वचनात् न तु ज्योतिष्टोमाङ्गानि ।
अतश्च दीर्घसोमत्वस्य ज्योतिष्टोमसम्बन्धाभावाद्विकृतिमात्रपरत्व-
मिति। न चोक्तग्रहणानां ज्योतिष्टोमाङ्गत्वाभावेऽपि संस्थाद्वारा
तत्सम्बन्धसत्त्वात्तस्य दीर्घसोमत्वोपपत्तिः । सर्वतोमुखादौ पू-
दिदिक्षु अग्निष्टोमादिनानासंस्थाके दिगन्तरे दीर्घसोमवस्य
सत्त्वादग्निष्टोमसंस्थाकेऽपि सन्तर्दनापत्तेः । यदङ्गग्रहणविवृद्धि-
प्रयुक्तविवृद्धप्रदेयकत्वं यत्प्रयुक्तविवृद्धप्रदेयकत्वमेव वा यत्र तत्र
तदपूर्वसाधनीभूतफलकसंस्कारकतया सन्तर्दनविध्यवगमादुक्तवि-
वृद्धश्च संस्थाप्रयुक्तत्वेन ज्योतिष्टोमप्रयुक्तत्वाभावात्तदङ्गत्वेन स-
न्तर्दनविध्यनुपपत्तेर्वाक्येन प्रकरणं बाधित्वा उक्तविधसर्वविक-
तावेव निवेशः । न तु संस्थास्वव तासां विकृतित्वेनं प्रकर-
णाभावादिति । अत एव सन्तृयादिति धातोस्सकर्मकत्वादनु-
षक्तद्वितीयान्तपदेन फलकस्यैव संस्कार्यत्वावगमाहीर्घसोमत्व-
स्योद्देश्यत्वबाद्विशेषणत्वयोरसम्भवेन निमित्तत्वमेव । अत एव
नायं बहुव्रीहिः । न वा सोमपदेन यागलक्षणया स्वराक्रान्तोऽपि
तत्पुरुषः । अग्नि तु तेन लतामेवोक्त्वा तत्पुरुषः । समास-
त्वाचन निमित्तेऽपि विशिष्टोद्देशे वाक्यभेदः॥११॥
278 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ३. (१२)-सङ्ग्यायुक्तं तोः ': प्रकरणात्स्यात् ॥३२॥ नैमित्तिकं वा कर्तृसंयोगाल्लिङ्गस्य तन्निमित्त- त्वात् ॥३३॥ ज्योतिष्टोमप्रकरणे समानाते "न प्रथमयज्ञे प्रवृअयात् " इति वाक्ये सङ्ख्यायुक्तं सङ्ख्यापरप्रथमपदघटितं प्रथमयज्ञपदं प्रकरणात् ज्योतिष्टोमप्रकरणानुसारात् क्रतोः प्रकृतज्योतिष्टोमसामान्यस्य बोधकं स्यात् । तथा च ज्योतिष्टोममात्र प्रवर्यस्य निषेध इति ॥३२॥ एवं पूर्वपक्षे सिद्धान्तमाह-तत्र प्रथमयज्ञपदं नैमिनिकं वा प्रथ- मप्रवृत्तिविषयत्वरूपप्रवृत्तिनिमित्तकमेव कर्तृसंयोगात् कर्तव्यापारत एव प्रथमद्वितीयादिपदव्यवहारात् । लिङ्गस्य "एष वाव प्रथमो यज्ञो यज्ञानां यजयोतिष्टोमो य एतनानिष्ट्वाऽथान्येन यजते गर्तपत्यमेवापद्यते" इति वाक्यशेषलिङ्गस्यापि तन्निमित्तत्वात् अन्यपदेन विकृतिमात्रा- भिधानात् प्रथमपदे सोमान्तरनिरूपितप्राथम्यवत्प्रयोगविषयत्वनिमित्तकतयै- वोपपत्तेः । तस्मात् ज्योतिष्टोमप्रथमप्रयोग एव प्रवर्ग्यनिषेधः ॥ ३३॥ अनारभ्याधीतः प्रवर्यः1 यत्प्रवर्य प्रवृणक्ति "2 इति श्रुतः। तस्य च "पुरस्तादुपसदां प्रवऱ्या प्रवृणक्ति '3 इति ज्योति. टोमाङ्गत्वेन विनियोगः । अव्यभिचरितक्रतुसम्बन्धसहकृतद्विरु- क्तत्वन्यायेन तदुपस्थितेः। न चोपसदङ्गत्वमेव किं न स्या ति वाच्यं उपसत्पदस्य पुरस्तात्कालप्रतियोगित्वेन स्वार्थोपस्था- पकस्योद्देश्यसमर्पकत्वाभावात् । उपस्थितत्वात्तद्वाचकपदान्तर- 1 तप्ते घृते पयःप्रक्षेपः प्रवृञ्जनम् । तद्यस्मिन् कर्मविशेषे विद्यते सोऽ. यं प्रवर्यः । स कर्मविशेषो यथा संपद्यत तथा प्रवृञ्जनं कुर्या- दित्यर्थः॥ तै. भा. ८-१. ३ ते. आ. ८-६. ३.६-१.
आध. १२.] भारदीपिकासहितम. 277 कल्पनयोद्देश्यत्वाङ्गीकारे'तु उपसदां फलवत्त्वज्ञानार्थ ज्योतिष्टोमो- पस्वितेरावश्यकत्वात् लाघवेन तदर्थत्त्वोपपत्तेः । कौषीतकि- ब्राह्मणे प्रकरण एव प्रवगर्यान्नानाच । तत्र च “न प्रथम- यज्ञे प्रवृञ्जयात्" इति श्रृंतम् । प्रथमयज्ञपदेन सर्वसंस्थस्सर्वा- वस्थश्च ज्योतिष्टोमोऽभिधीयते उत तदीयप्रथमप्रयोगमात्रमिति चिन्तायां- प्रथमयज्ञशब्दो ज्योतिष्टोमनामैव " एष वाव प्रथमो यज्ञो यज्ञानां यजयोतिष्टोमः" इति सामानाधिकरण्यात् तस्य प्रथम प्रयुज्यमानत्वेन प्रवृत्तिनिमित्तसत्त्वाच । यद्यपि चान्यसंस्थाना मन्यपदेनाभिधानात् तासु ज्योतिष्टोमोत्तरकालत्वविधानान सर्व- संस्थाकज्योतिष्टोमस्य प्रथमं प्रयुज्यमानत्वम् । तथाऽपि ज्योतिष्टो- मत्वसामानाधिकरण्येन तावत्तदस्तीति प्रवृत्तिनिमित्ताविघातः । 1 चतुर्थतृतीयचतुर्दशाधिकरणस्थेन वैमृधन्यायेनेति भावः । 2 पौर्णमास्या अपि फलवत्त्वात उपस्थिततद्वाचकपदान्तरकल्पनया वैमृधस्य त. दङ्गत्वोपपत्तिरिति न बैमृधन्यायविरोधः । दीक्षणीयावातियमन्यायेनापि न विरोधः । तत्र दीक्षणीयापदस्य श्रृंतत्वात् कल्पनीयताविरहात् । ननु-स्थावाहुतिं जुहोतीत्यत्र उपस्थितस्थाणुवाचकपदान्तर- कल्पनया यूपरूपादृष्टाश्रयकाष्ठप्रकृतिस्थाणुसंस्कारकत्वमेव स्थाण्याहुतेः दशमप्रथमषष्ठाधिकरणे स्थापितमिति तादृशस्थाण्वाहुतिन्यायविरोधः । न च प्रवर्गानुवादेन उपसत्पूर्वकालस्य उपसदन्तायाश्चेह विधाने वाक्यभेदप्रसङ्गानोपसत्पदकल्पनं युक्तमत्रेति वाच्यं ज्योतिष्टोमान- ताविधावपि तद्दोषतौल्यात् । वाक्यान्तरकल्पनया तद्वारणं तु प्रकृतेऽ. पि तुल्यमित्याशङ्कायामाह-कौषीतकीति ॥ 3 अनारभ्याधीतप्रवर्यविध्यनन्तरं कौषीतकिब्राह्मणस्थमाकरणिकतद्विध्यन- न्तरं चेत्यर्थः ।
278 पूर्वमामासादर्शनं. [अध्या. ३. पा... अतो वाक्यात्प्रकरणाच ज्योतिष्टोमत्वावच्छेदेनैवार्य प्रतिषेधः । पर्युदासो वा ज्योतिष्टोमभिन्ने प्रवृणक्तीति । अन्यथा विकल्पा- पत्तेः । यत्तु-“अग्निष्टोमे प्रवृणक्ति" इति वचनं तत्पर्यु- दासप्रतिप्रसवार्थम् । तदपि च "कामं तु योऽमूचानश्श्रोत्रिय- स्स्यात्तस्य प्रवृञ्जयात्" इत्यनेनोपसंहियते । तेनानूचानस्य श्री- त्रियस्याग्निष्टोमसंस्थाकज्योतिष्टोमे नित्यं करणं, अन्यज्योतिष्टोमे नित्यमकरणं, विकृतिषु च नित्यं करणमिति प्राप्ते- -- प्रत्येकशक्तथैवार्थबोधोपपत्तावतिरिक्तशक्तिकल्पनायां प्रमा- णाभावात् प्रथमशब्दस्य चाप्रवृत्तप्रवर्तनविषयवाचित्वादाद्यप्रयो- गपरत्वावगतेः यशशब्दस्य च लक्षणया प्रयोगपरत्वं प्रकरणात् ज्योतिष्टोमरूपयज्ञपरत्वमेव वाङ्गीकृत्य प्रथमयज्ञपदेन ज्योतिष्टोम- प्रथमप्रयोगोऽभिधीयते । स चाग्निष्टोमसंस्थाकज्योतिष्टोमस्य, पाश्चमिकन्यायात् । प्रथमं यजमानोऽतिरात्रेण यजेत" इति वचनादतिरात्रसंस्थाकस्य च । अतः उभयत्राप्यनेन वचनेन प्रवय॑स्य प्रतिषेधः पर्युदासो वा । न तु विकृत्यन्तरे । तत्रो- पदेशातिदेशाभ्यां तदप्राप्तेः । न च ज्योतिष्टोमे द्वितीयादि- प्रयोगापेक्षया प्राथम्यस्य विवक्षितत्वाद्विकृतावपि तद्वितीयादि- प्रयोगापेक्षया प्रयोगवृत्तिप्राथम्यस्य सत्वात् कथं न तत्प्राप्ति- रिति वाच्यं प्राथम्यस्य निरूपकापेक्षायां द्वितीयादिप्रयोगस्य निक- पकत्वाकल्पानात् । “एष घाव प्रथमो यज्ञो यज्ञानाम्" इति धच- नेन ज्योतिष्टोमविकृतिमात्रस्यैव तदवधारणात् । अत एवम् प्र. थमप्रयोगविषयोऽपि ज्योतिष्टोम एव बोध्यः । तथा च प्रथ- मयशशब्दो वाक्यशेषाद्वैदिकप्रयोगाश्च निरूढ लक्षणया सोमान्तर- 1. आ. ८-६. २५-३-१३. प्रथमयज्ञपदप्रवृत्तिनिमित्ताभावादिति शेष:, उक्तवचनेनैव.
अधि. १२.] भट्टदीपिकासहितम्. 279 निरूपितप्राथम्यवत्प्रयोगविषयज्योतिष्टोममेवाभिधत्ते । स्वस्वद्धितीयादिप्रयोगनिरूपितप्राथम्यवत्प्रयोगविषययज्ञमात्राभिधा- ने “ आहिताग्नय इष्टप्रथमयज्ञा गृहपतिसप्तदशास्सत्रमासी- रन्" इत्यादौ सत्रे यज्ञमात्रोत्तरकालतापत्तेः । अत एवोक्तद्धि- विधज्योतिष्टोमप्रथमप्रयोगे एव प्रवर्यप्रतिषेधः ॥ वस्तुतस्तु-नायं प्रतिषेधः तथात्वे “न तौ पशौ करो- ति' इतिवत्' अतिरात्रप्रथमाहारेऽपि विकल्पापत्तेः । न च' 1१०-८-२. अधिकरणे एतद्वाक्यविचारो द्रष्टव्यः । पयसि" विधिनिषेधयोस्सर्वत्र कर्मवाचकपदे सप्तमी श्रूयमाणा क्वचिदधिकरण- त्वपरा क्वचिल्लक्षणयोद्देश्यत्वपरोत व्यवस्थायां तावदिदं नियामकम् । तत्र विधिषु यत्र विधेयस्याङ्गत्वं प्रमाणान्तरप्रमितमधिकरणत्वस्य चास्ति प्रयोजनं यथा-'मन्द्रं प्रातस्सवने' इत्येवमादिषु मन्द्र- स्वरस्य प्रकरणप्रतीत ज्योतिटोमाङ्गत्वं सवनान्तरव्यावृत्तिश्च अधिक- रणत्वप्रयोजनं तत्र सवने इत्यत्राधिकरणत्वपरत्वम् । यत्र तु अगलं विधेयस्य नान्यतः प्रमितं प्रयोजनं च नास्त्य- धिकरणत्वस्य यथा- तत्र जयान् जुहुयात् 'तप्ते तावत्या दीक्षणीयायाम् इत्यादिषु तत्रोद्देश्य- त्वपरत्वमेव लक्षणया भवति । वैधक्रियानिषेधेषु तु विद्यमान- कर्मवाचकपदोत्तरसप्तम्यास्तु यत्राङ्गत्वमन्यतोऽवगतं प्रयोजनं चा- स्त्यधिकरणत्वस्य तस्य मध्ये प्रत्यभिज्ञानमपीत्येवं त्रितयमस्ति तत्रैवाधिकरणत्वपरत्वं यथाऽत्रैव क्रत्वव्यभिचार्युपसहारा प्रकरणेन वा प्रवर्गास्य ऋत्वङ्गत्वात्तदाश्रितस्य प्रथमप्रयोगरूपाधिकरणनिषेधस्य ज्योतिष्टोमाङ्गत्वं अधिकरणताप्रतिपादनस्य अधिकरणताप्रतिपादनस्य चास्ति प्रयोजनम् अधिकरणत्वे व्यक्ते तस्यैव निषेधात्क्रियानिषेधाभावेन विकल्पा- नापत्तौ अतिरात्रेऽपि तदतिदेशानित्याधिकरणसिद्धिरूपम् । “पुर- स्तादुपसदा प्रवङ्गर्येण चरन्ति" इति प्रत्यक्षतो विशेषतः क्रतु- मध्ये विधामारमयभिशायमानं कतोरधिकरणलमेवेति पूोजहेतु- " 280 पूर्वमीमोसादर्शनं. अध्या. ३. पा. ३. क्रियायास्स्वरूपेणोद्देश्यसम्बन्धित्वेन वा निषेध एव विकल्पो यथोक्तस्थले यत्र तु कारकनिषेधः यथा-"रात्रौ श्राद्धं न कुर्वीत इत्यादौ तत्र निषेधस्य कारकमात्रविषयत्वेन क्रिया- विषयत्वाभावात् क्रियाविषयविधिविकल्पापादकत्वांनुपपत्तिः । प्रकृते च प्रथमयज्ञशब्दस्य नोहेश्यपरत्वं, अपि तु “मन्द्रं प्रात- स्सवने" इतिवदधिकरणकारकपरत्वम्. अतश्च न विकल्पा- पत्तिरिति केषांचिदुक्तं युक्तमिति वाच्यम् । कारकस्यापि प्रयोगाधि- करणत्वस्य विधितः प्राप्तौ न्यायतौल्येन प्रथमप्रयोगाधिकरणत्व- स्यैव विकल्पापत्तेरावश्यकत्वात् । अत एवाक्षेपेण यत्किञ्चि- कालप्राप्तौ रात्र्युपादानस्यैच्छिकत्वेन रागप्राप्तया वैधत्वाभावान्न तनिषेधस्य विकल्पापादकत्वम् । प्रकृते तु प्रथमप्रयोगाधिकरण- त्वं नैच्छिकं, प्रतिप्रधानं गुणान्वयस्य वैधत्वात् । अतस्तनिषे. धोपि विकल्पापादक एव । वस्तुतस्तु-प्रथमप्रयोगस्योद्देश्य- त्वमेव शास्त्रदीपिकायामुक्तमिति न किञ्चिदेतत् । अतो “ नानू- याजेषु"। इतिवत् पर्युदास एवायमनारभ्यवाक्यशेष उक्तवि- धप्रथमप्रयोगभिन्ने प्रवृञ्जयादिति ॥ त्रयसत्त्वादधिकरणत्वे निर्णते तस्यैव कारकस्य निषेधात्किया- निषेधाभावेन विधिनिषेधयोरेकविषयत्वाभावेन न विकल्पः । एवं दीक्षितकर्तृकहोमे प्रदाननिषेधै सङ्कान्त्यधिकरणकपिण्डदाननिषेधे- प्वपि द्रष्टव्यम् । “न तौ पशौ" इत्यादौ तु पशुयागगताधिकरणत्वस्य पुनः प्रत्यभिज्ञानाभावेन हेतुत्रयाभावेन नाधिकरणलपरत्वमिति- क्रियानिषेध एवेति विकल्प एव । न होतारम्"(तै. बा. १-६-९) इत्यत्रापि द्वितीयाश्रुतित एव होतुस्साध्यत्वावरणैकपरो निषेधः श्रुतिबलादेव जात इति प्रकाशकाराणां पक्षं शङ्कते ॥ 18....
अधि. १२.] भादीपिकासहितम्. 281 ततश्च प्रापकप्रमाणाभावात्प्रथमप्रयोगे अकरणप्रसक्तौ "अग्नि- टोमे प्रवृणक्ति"* इति वचनं वस्तुतोऽत्यन्ताप्राप्तप्रापकमपि प्रति- प्रसवफलकं' सदग्निष्टोमसंस्थाकत्वे निमित्त प्रथमप्रयोगेऽपि नित्यं प्रवयंविधानार्थम् । न तु विकल्पेन । विकल्प प्रमाणाभावात् । अस्य नान्यविषयता सामान्यविधित एव सर्वत्र प्राप्तत्वादिति प्रथमप्रयोगविषयतैव । अनेन च काममित्यनूचानवाक्यस्यापे- संहारः । तेनाग्निष्टोमसंस्थाकप्रयोगे अनूचानस्य नित्यं करणम्। तथा श्रोत्रियस्यापि । अनूचानो वेदाध्यापकः । तेन क्षत्रियवै- श्ययोनिवृत्तिः । श्रोत्रियः प्रकर्षण वेदतदर्थशः । कामपदेन प्रकर्षाभिधानात् । तस्य इत्येकपदेनोभयोः कोंविधानाच न विधेयानेकत्वम् । तदन्येषामग्निष्टोमप्रथमाहारेऽपि नित्यमकरणम् ॥ यत्तु- वार्तिके अनूचानादेर्विकल्पोऽन्येषां तु नित्यमकरण- मित्युकं तन् प्रौढिमात्रम् । अत एव पार्थसारथिना अनूचानादेः नित्यमेव प्रयोग इत्युक्तम् । यदि तु तदव समर्थनीयमित्याग्रह- स्तदा कामपदेन विकल्पाभिधानादमिष्टोमवाक्यस्य च तेनोप- संहारादनूचानादेर्विकल्प इत्येवं समर्थनीयम् ॥ सर्वथा अतिरात्रप्रथमाहार प्रतिप्रसवाभावानित्यमेवाप्रयोगः। विकृतौ तु प्रथमप्रयोगेऽपि नित्यं करणमिति स्थितम् ॥ १२ ॥ प्रतिप्रसवलक्षणं एकान्तरे एतदुत्तराधिकरणे व्यक्तम् ॥ 2"कामं कामयेतां तस्मै दद्याताम्" इत्यापस्तम्बसूत्रे काममित्यस्य विक- ल्पपरत्वमाश्रितं धूर्तस्वाम्यादिभिः ॥ *ते. आ. ६-६. 36 282 पूर्वमीमांसादर्शन. [अध्या. ३. पा. ३ (१३)-पौष्णं पेषणं विकृतौ प्रतीयेताचोदना- प्रकृतौ॥३४॥ दर्शपूर्णमासप्रकरणानाते "पृषा प्रपिष्ठभागोऽदन्तको हि सः", इति वाक्ये पोष्णं पेषणं पूषदेवतासम्बन्धितया प्रतीयमानं प्रदेयद्रव्यपेषणं प्रक- रणाद्विच्छिद्य विकृतौ पूषदेवत्यतया प्रसिद्धायां प्रतीयेत कुतः प्रकृती दर्शपूर्णमासप्रकरणे पूषदेवताकस्य कर्मण अचोदनात् अविधानेन प्रकरणे निवेशायोगादिति ॥ सिद्धान्तसूत्रमेवेदम् ॥ ३४ ॥ दर्शपूर्णमासप्रकरणे "पूषा प्रपिष्टभागोऽदन्तको हि सः इति श्रुतम् । तत्र' किं दर्शपूर्णमासयोरवाङ्गत्वेन कर्मान्तरविधिः उत पूषदेवत्ययागे पेषणमात्रविधिरिति चिन्तायां-न तावद्भा- गशब्दलक्षितयागोदेशेन पेषणावधिः एकप्रसरताभङ्गापत्तेः । पूषपदन विशेषणे वाक्यभेदाच्च । क्तप्रत्ययार्थद्रव्योपसर्जनस्य पेषणस्य यागान्वयानुपपत्तेश्च । अत एव न पूषपदमेव श- अत्र भाष्यकारादिभिर्दीर्घसोमपदाहीनपदार्थयोः प्रकृतावनिविशमानत्वात्प्रक- रणबाधनोत्कर्षस्य पूर्व साधितत्वात्तेनैव न्यायेन पूषदेवतायां रूढस्य पूषपदस्य प्रकरणानिवेशित्वादुत्कर्षस्थव सिद्धेन त्रापूर्व पूर्वपक्षसिद्धान्त- रचनं कार्यमित्युत्तरविवक्षार्थ सूत्रकृता स्मार्यत इत्युक्तम् । तत्र वक्ष्य- माणयुक्तिभिविकृतावुत्कर्षेऽपि वाक्यार्थानुपपत्तेर्न तत्र प्रकरणबाधेन नि वंशः । किन्तु तदविरोधेन कथंचित्पूषपदस्य गोणीमनाश्रित्यापि प्रकरणे निवेश युक्तः इत्यधिकाशङ्कया क्लशेन परिहार्यया शक्यत एव अधिकरणारम्भ इत्याशयेनाधिकरणरचनामाह---तत्रेति । अयमेव चा- स्वरसः प्राश्च इत्यनेनाधिकरणान्ते सूचितः ।. २३.५.१०. अधिकरणे अयं दोषो द्रष्टव्यः । *सं. २-६-८.
अधि. १३.] भादीपिकासहितम्. 283 क्यार्थस्य लक्षितपूषदेवत्ययागस्य वोद्देश्यतापरम् । पूष्णोऽव्य- भिचरितक्रतुसम्बन्धाभावेन ऋतूपस्थिती प्रमाणाभावाश्च । अतो गुणात् द्रव्यदेवताविशिष्टकर्मान्तरविधिरेवायमिति प्राप्ते- प्रापेष्टभागदेन तावत् भागो भजनीयं सेव्यमस्येति व्युत्पत्त्या सेवनासम्भवेऽपि सम्बन्धमात्रं देवस्वादिव्यवहारप्रमाणकं प्रपि- ष्टपूष्णोः प्रतीयते । तच्च यागं विनाऽनुपपन्नामांत यागमनुमा- पयतीत्येतावदुभयोरविवादम् । तत्र च विशेषणमात्रविधिस- म्भवे विशिष्टविध्यादिकल्पनस्यान्याय्यत्वात् प्रमाणाभावेन नापू- वयागान्तरानुमिातेरित्यपि प्रथमतोऽवगतमेव । अतश्चानुमीयमाने यागे अनुमापकपूषसम्बन्धेन प्रसिद्धपूषदेवत्ययागत्वोपस्थिति रपि सुलभव । अंतश्च यागविशेषानुमितेरेव तात्पर्यग्राहकत्वा- त्पूषपदं विजातीयापूर्वसाधनीभूतपूषदेवतागरं; तदुहेशेनैव च स्वजन्ययागप्रदेयचरु प्रकृतित्वसम्बन्धेन प्रापष्टद्रव्यकत्वं प्रपिष्ट- भागसमासार्थो विधीयते । सम्भवति च द्रव्योद्देशेन 'देव- ताविधिवहेवतोद्देशेनापि निरुक्तसम्बन्धेन द्रव्यविधिर्विशेषणमात्र- विधिफलकः । यद्यपि च प्रकृतिद्रव्यस्याप्यतिदेशेन सम्भवत्प्राप्ति- कता तथाऽपि ततः पूर्व विधानाङ्गीकारानैकप्रसरताभङ्गाद्यापत्तिः । 5 पेषणमात्रविधिश्च फलमिति गुणादिप्रमाणाभावान्न कर्मान्तरता। पूष्ण: शब्दरूपत्वादिति भावः । 2 सरस्वत्याज्य भागा स्यात्' । (ने. सं. २-२-५.) इत्यादाविवेति शेषः । उत्तराधिकरणसिद्धान्तपर्यालोचनया चरुपदमिह निवेशितम् । 'अभ्युदितेष्टिवाक्ये षष्ठपश्चमाद्याधिकरणविचारिते इति शेषः । "लोहितोष्णषिा ऋत्विजः इत्यत्र लोहितोष्णीषपदनोपात्तानां विशिष्टाना. मृत्विजामतिदेशप्रवृत्तेः पूर्वप्रवृत्त्यङ्गीकारेण विधिविशेषणीभूतलोहितो- ष्णीषविधानफलकस्स्वीकृत इति भावः । 1 " 284 पूर्वमीमांसादर्शनं. [अध्या, १. पा. ३. एतेन पूषपदेन तदेवत्यकर्मलक्षणया सदुद्देशेन प्रपिष्टभागवदल- लितपेषणविधिरिति प्रकारोपि निषादस्थपत्यधिकरणन्यायेन ल. क्षणापेक्षया कर्मान्तरविधेरेव न्याय्यत्वात् “वषट्कर्तुः प्रथमम- क्षः" इत्यादावतिप्रसङ्गापत्तेश्वोपेक्षितः । तत्रास्मयुक्तप्रकारस्तु भक्षस्य प्रत्यक्षविधिनैव प्राप्तत्वेन ततः पूर्वप्रवृत्त्यङ्गीकारानुप- पत्तेरसम्भवी । तदेतत्सर्व' सिद्धमेवोत्तरविवक्षया स्मार्यत इति प्राश्वः॥१३॥ -1000 (१४)-तत्सर्वार्थमविशेषात् ॥३५॥ चरौ वाऽ- थोक्तं पुरोडाशेऽर्थविप्रतिषेधात्पशौ न स्या- त् ॥३६ ॥ चरावपीति चेत् ॥३७॥न पक्तिनामत्वात् ॥३८॥ तत् पूर्वाधिकरणोदाहृतवाक्यस्थं पेषणं सर्वार्थ चरुपशुपुरोडाशरू- पसकलपोष्णद्रव्याथै अविशेषात् तद्वाक्ये चर्वादिविशेषमात्राश्रवणात् ॥३५ एवं पूर्वपक्षे सिद्धान्तमाह-चरौ वा चरा पाणे पेषणमुक्तवाको वि- षष्टाचान्तिमाधिकरणम् । १३-५-१.. यद्भक्षोदेशेन प्राथम्यं विधित्सितं भवता तस्य नैमितिकरूपस्य तत्त- त्प्रत्यक्षविधिनैव प्राप्तत्वादिति भावः । *भाष्यकारादिप्राचीनमतमुपहसभिवानुवदति-तदेतदिति ॥ प्राच इति सूचितोऽस्वरसः प्रथममेवास्मामिस्सूचितः ।
अधि. १४]] भादीपिकासहितम्. 286 धीयते । यतः पुरोडाशे पेषणं अर्थोक्तं अर्थसिद्धम् । पुरोडाशवसिवपर्थ मेषगस्थादेव सिबेः पुरोडाशं पेषणविधेर्न किश्चित्प्रयोजनम् । पशी तु प्रदेयस्य पेषणे सति अर्थविप्रतिषेधात् हृदयायाकाररूपार्थस्य विनाशप्रस- झात् पेषण न स्यात् ॥ ३६ ॥ अत्राशङ्कय समाधत्ते -चरावपि अर्थवि- प्रतिषेधोऽस्ति चरुशब्दस्य ओदने प्रयोगात् पेषणे च सति ओदनत्वल अन्योन्यासलमत्वलक्षणविशदपाकनिमित्तकस्य भङ्गात् इति चेत् न चरु- शब्दस्य पक्तिनामत्वात् तण्डुलप्रकृतिकवानवस्रावितत्वोभयविशिष्टान्तरूष्म- पक्कलमात्रनिमित्तकलात् ओदनलस्य तत्प्रवृत्तिनिमित्तेऽनिवेशेन पेषणेऽपि तदर्यमाविरहात् ॥ ३७-- ३८ ॥ तत् पेषणं पूषदेवत्ये चरौ पशौ पुरोडाशे च स्यात् उत चरावेवोत चिन्तायां आवेशेषाददन्तकत्वहेतुवशाच सर्वत्रेति प्राप्ते- पुरोडाशे तावत्पाकात्पूर्व पेषणस्य प्राप्तत्वादेव विधानं व्यर्थ तदुत्तरं तु पुरोडाशपदवाच्याकृतिविनाशापत्तिः। एवं पशुहृद- यादावपि । तेषामप्याकारविशेषविशिष्टमांसवाचित्वात् । न चो- भयत्रावदानोत्तरकालं पेषणावधिः अत्यन्ताप्राप्तपेषणविधौ गौ- रवापत्तः । चरावतिदेशेन प्रसक्तस्य प्रयोजनाभावेन निवर्तमा- नस्य प्रतिप्रसवमात्रकरणे तु लाघवम् । प्रकृती हि प्रदेयपुरो- डाशसिरन्यथोपपादयितुमशक्यत्वादर्थप्राप्तमपि पेषणमध्वर्युक- कर्तृकत्वादिप्रयोजनासिद्धार्थ सधर्मकं विहितम् । तत् चरौ प्र. 1 “पौष्णं चरुमनुनिर्वपेत्" तै. सं. २-२-१. । “पोष्णं श्याममालमे- तामकामः तै. सं. २-१... " पशुमालभ्य पुरोडाशं निर्वपति" तै. सं. ६.३-1.. इत्यादिमिरवगताश्चरुपयपुरोडाशाः पोष्णाः ।
286 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ३. देयासिद्धस्तद्वयतिरेकेण जायमानतया चरुत्वावच्छिन्नं प्रति पेष- णस्याकारणत्वानिवर्तमानं प्रतिप्रसूयते । अत एव प्रसक्तप्राधिक- स्य कारणान्तरेण निवृत्तिप्रसक्तौ विधिः प्रतिप्रसवः । तत्र चोत्प- त्तिविनियोगाङ्गसम्बन्धादौ यथासम्भवं विधेापाराभावालाघवम्। अत एव पेषणस्य प्रदेयासिद्धिरूपप्राकृतप्रयोजनलोपेनात्र अदृष्ट- प्रयोजनान्तरकल्पनेऽपि न प्रतिप्रसवत्वविघातः । धर्माणां तु पेषण- स्य कर्मान्तरत्वाभावेन "प्रधानं नीयमानं हि तत्राङ्गान्यपकर्षति' इति न्यायेन प्राकृतपेषणाङ्गतया प्राप्तानामत्रवादृष्टरूपकार्यान्तरप्रयु. तत्वकल्पनं न दोषाय । इष्यते चायमर्थोऽग्निसंस्कारकमन्थनादेः पशुप्रकरणानातस्य वचनाचातुर्मास्याङ्गत्वेन विनियोगे तधर्माणां कार्यान्तरप्रयुक्तत्वकल्पनादौ । वस्तुतस्तु अत्र पेषणस्य न का वाधिकरणे न्यायसुधोक्तं " कर्तव्यत्वोक्तयर्थनिषेधविषयीकृतस्य कर्त- व्यतोक्तिरूपः प्रतिप्रसवः" इति लक्षणं अत्रैव पेषणप्रतिप्रसवे अव्याप्तमिति भावः। 2 अयं च प्रतिप्रसवविधिरपूर्वविधिरेव निवृत्तम्य पुनःकरणप्राप्तावेव ब्या- पारात् । .. 3 दशमप्रथमदशमे “याज्ञिकाश्चानवस्रावितान्तरूष्मपक्कौदने चरुशब्दमुपचा- न्ति" इति शास्त्रदीपिकायां न्यायमालायां चोक्तेः अन्योन्यासं- लमत्वलक्षणविशदपाकनिमित्तमोदनत्वं चरुशब्दप्रवृत्तिनिमित्तघट- कमित्यभ्युपेत्य पेषणस्याप्राकृतकार्यकारित्वमगल्याऽङ्गीकृतम् । चरुश- ब्दप्रवृत्तिनिमित्तशरीरे ओदनत्वस्य घटकत्वमेव. नास्तीति न्यायसु. धाकृन्मतं स्वमतत्वेन स्वीकुर्वनाह-वस्तुतस्विति ।
अधि. १६] भाहदीपिकासहितम्. 287 र्यान्तरकल्पनाऽपि, प्रदेयसिद्धयर्थत्वादेव । यद्यपि हि चरुत्वाव- च्छिन्नं प्राते पेषणस्याकारणत्वं तथाऽपि पिष्टकचरावपि चरुशब्दप्र- योगात्पेषणविधिबलेन च "पोष्णं चरुम्" इत्यत्र सामान्यवाचिनो- पिचरुशब्दस्य पिष्टकचरुविशेषपरत्वनिश्चयात् तस्य च प्रदेयस्य पेषणमन्तरेणासिद्धर्न पेषणस्य कार्यान्तरकल्पनाऽपि । अत एव चरुत्व नाम अनवनावितान्तरूणापक्वतण्डुलप्रकृतिकत्वम् । अत्र भक्त च्यावृत्त्यै अनवनावितेति । मण्डकव्यावृत्त्यै अन्तरिति । सू- पशाकादिब्यावृत्त्यै तण्डुलेति । अत एव पिष्टकचरावपि तत्सम्भवा. नपेषणस्य विघातकत्वमिति तत्रैव पेषणम् ॥ १४ ॥ । ४.० (१५)-एकस्मिन्नेकसयोगात् ।। ३९ ॥ धर्मवि- प्रतिषेधाच ॥ ४० ॥ अपि वा सद्वितीये स्याद्देवतानिमित्तत्वात् ॥ ४२ ॥ लिङ्गदर्श- नाच ॥ ४२ ॥ वचनात्सर्वपेषणं तं प्रति शास्त्रवत्त्वादर्थाभावाद्धि चरावपेषणं भ- वति ॥ १३ ॥ एकस्मिन् वाऽर्थधर्मत्वादै- 1. सं. २-२-१ भक्तं अवस्रावणसाध्यं अन्योन्यासलमत्वरूपवैशद्यविशिष्टं ओदनापरपर्यायम्। मण्डकं तण्डुलप्रकृतिकापूपविशेषः पात्रादहिरूष्मणाऽपि पच्यत । न- ण्डुलपदं चात्र यवमुद्गादिचरुसाधारण्येन यवादिसाधारणं बोध्यम् । अनवस्त्रावितान्तरूमपक्कत्वं चरुत्वमिति वार्तिकादौ तण्डुलप्रकृति- कत्वमुपलक्षणीयमिति भावः ।
288 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ३. न्द्रानवदुभयोर्न स्यादचोंदितत्वात् ॥१४॥ हेतुमात्रमदन्तत्वम् ॥ १५॥ वचनं परम्।। " तत्पेषणं एकस्मिम् पूषकदेवताके एव हविषि स्यात् । एकसं. योगात् "पूषा प्रपिष्टभागः"" इत्यत्र एकेनैव पूष्णा सम्बन्धावगमात् इति सिद्धान्तोपक्रमामेदमधिकरणसूत्रम् ॥३९॥ धर्मविप्रातिषेधाच पूष्णः पेषणं तदन्यस्यापेषणमिति धर्मयोर्विरोधादपि द्विदेवत्ये ऐन्द्रापोष्णादौ चरौ पेषणासम्भवात्पूषमात्रदेवताक एव पेषणम् ॥ ४० ॥ अत्र सिद्धान्ते पूर्वपक्षी शकते आपवा इाते पक्षान्तरं द्योत्यते । सद्वितीये अन्यसहितपू- षदेवताकेऽपि तत्पेषणं स्यात् । पेषणस्य देवतानिमित्तत्वम् पूषदेवता- सद्भावमात्रनिमित्तत्वावगमात् द्विदेवत्ये च घटकतया पूषदेवतासद्भावां- व्याहतेः । “आग्नेयं चतुर्धा करोति “इन्द्रपीतस्य 12 इत्यादी तु सापेक्षे तद्धितसमासयोरसम्भवाद्युक्ता केवलयोरेवानीन्द्रयोर्देवतात्वप्रतीतिः । न विह इतरसहितगृष्णोपि देवतावप्रत्यये किश्चिद्वाधकमस्तीति ॥ ४१ ॥ " अदन्तको हि सः 1 इति लिङ्गदर्शनाच अन्यसाहितेऽपि पेषणम् । न ह्यन्यसहितस्य पूष्णो दन्ता जायन्ते । एवं “सौमापौष्णं चरुं निर्वपेने- मापिष्टं पशुकामः' इति लिादर्शनाच इतरसहितपूषदेवत्येऽपि पेषणं गम्यते। तत्र हि सोमांशेऽपेषणेऽपि “नेमपिष्टं " इत्यनेन पूषनिमित्तकमर्धपिष्टलम- नूयते ॥ ४२ ॥ ननु नेमपिष्टत्वमुत्तरवाक्ये विधीयत इति नेदं लिङ्गमन्यसहि- तपूषदेवताकहविस्सामान्ये पेषणस्येति चेन्न तथा सति सोमापौष्णय चरुशब्देन विशेषणे वाक्यभदापत्तस्सोमापोषणमात्रोद्देशन पेषणविधी च ताहशविधिपरात् वचनात् सर्वपेषणं सर्वेषु चरुषु पशुशु पुरोडाशेषु च सीमापौष्णेषु पेष- ण प्रसज्यते । तं प्रति वर्वादिकं सर्वमुद्दिश्यांपि हि शास्रवत्त्वात् ताह- 1. सं. २-६.८. तै.... ३-२-५.
अधि. १५.] भाहदीपिकासहितम. 289 शशास्रप्रवृत्तिसद्भावात् । एतद्विध्यभावे हि चरौ उपलक्षणत्वात् पशौ च अर्थाभावात् हविनिम्पत्तिरूपप्रयोजनाभावात् प्रकृतिप्राप्त पणनिवृत्तेः अपेषणं भवति तथा च तत्र पंषणविध्यङ्गीकार सोमापोष्णमात्रे पंषणंविधानप्रसझे चरुशब्दोपादानवैयर्थम् । नेमापष्ट- खानुवादाङ्गीकारे तु नायं दोष इति ॥४३॥ एवं पुर्वपक्षिशकायां सिद्धान्ती समाधानमाह-एकस्मिन्वा पूषरूपकदेवताक एव पेषगं पूषा प्रपिष्टभाग: " इत्यत्र अर्थधर्मत्वात् पूषपदार्थोद्देशेन- पेषणरूपध- मस्य विधीयमानत्वात् । तत्र च पूषस्वरूपे आनर्थक्यशङ्कायां स्वपर्याप्तदेवता- त्वप्रयोज्यापूर्वसाधनत्वस्य पूषपदेनोद्देश्यपरेण लक्षणात् उभयोः देवतात्व. स्थले च उभयोरेव चौदनाविषयतया देवतात्वात् पूषादेरेकमात्रय देवताले- नाचोदितत्वात् उद्देश्यतावच्छेदकरूपानाक्रान्ततया पेषणं न स्यात् । ऐन्द्रामवत् यथा आमेयं चतुर्धा करोति" इति विहितं चतुर्धा- करणं ऐन्द्रामे न भवति चोदनायां हि यावान् श्रूयते तावानेव देवतात्वेन परि- गृह्यते । “पूषा प्रपिष्टभाग:" इत्यत्र च पूषमानं श्रूयते तावत एव देवतात्वं युक्तम् ॥ ४४ ॥ अदन्तत्वं "अदन्तको हि" इत्यदन्तत्वाम्नानं हेतु- मात्रं हतुवनिगहरूपार्थवादमात्र यागधर्मपेषणप्रशंसार्थमिति न तस्य किजि- दर्थसाधकता ॥ ४६॥ " नेमपिष्टं" इत्येतत्तु वचनं परं विधायकमेव कंवलम् । आमेयादिवाक्यवञ्च देवताद्रव्यतद्धर्मविशिष्टकयागभावनाविधानान वाक्यभेदः न पश्वादो पेषणप्रसक्तिरिति ॥६॥ इति सारबोधिन्या जमिनिसूत्रवृत्ती तृतीयस्य तृतीय: -:0:- यत्राम्यसहितः पूषा देवता यथा राजसूये “ऐन्द्रापौष्ण- स्वरुः" इति तत्रापे पेषणं उत यत्र केवल एव देवता तत्रै. वेति चिन्ता "आदन्तको हि सः” इत्यर्थवादानुसारात्पेषणस्य पूषस्वरूपप्रयुक्तत्वावगतेस्तत्स्वरूपस्य चान्यसहितेऽपि सत्त्वाद्युक्त- 37 290. पूर्वमीमांसादर्शनं. . अिध्या. ३. पा.३ मेव पेषणम् । अत एव “सामापोष्णं चरु निर्वपेन्नेमपिष्टं पशुकामः" हाते नेमपदवाच्यार्धपिष्टत्वानुवादोऽाप सङ्गच्छते । यदि तु नवमाद्यन्यायेन पूषस्वरूपे आनर्थक्यादपूर्वसाधनत्वलक्षणाया आवश्यकत्वमाशङ्कयत तदाऽस्तु पूर्वोक्तविधया पूषप्रपिष्टस- म्बन्धमानजन्ययागानुमितेरेव तात्पर्यग्राहिकायास्सत्वात् साऽपि पूषपदे । परं त्वर्थवादाद्यनुरोधात्पूषाधिष्ठानकदेवताप्रयो- ज्यापूर्वीयत्वलक्षणाया एवाङ्गीकारात् द्विदेवत्येऽपि पेषणमर्धस्य । यथा चैवं सति पाकसम्पत्तिस्तथा यतितव्यं अन्तरायकरणेन का क्रमिकनिक्षेपेण वा पात्रभेदेन वेति प्राप्ते- आनर्थक्यपरिहारायापूर्वसाधनत्वलक्षणाया आवश्यकत्वाद- धिष्ठानद्वारकत्वकल्पनस्य च पूष्णो देवतात्वोपस्थितिमन्तरेणानु- पपत्तेः तदुपस्थिती च तहारकत्वमात्रकल्पनयवानर्थक्यपरिहारात् द्विदेवत्ये च चतुर्धाकरणाद्यधिकरण न्यायेन केवलस्य पूष्णो देवतात्वाभावात् यत्र केवल एव पूषा तत्रैव पेषणम् । चापू. र्वसाधनीभू देवतात्वस्यैव प्रकारतया पूषपदेन लक्षणेऽपि तस्य पूषापार भान स्वरूपसम्बन्धस्यैव संसर्गविधया विवक्षणेन पर्या- सिद्धान्त त नेमपिष्टवांशपि विधिस्स्वीकार्य इति गौरवं खादिति भावः ॥ पूषपदस्यैवात्रोद्देश्यसमर्पकतायाः पूर्वाधिकरण स्थपितत्वादुद्देश्यवाचकपद एव अपूर्वसाधनत्वलक्षणाया अन्यत्र दृष्टत्वादितिभावः । एतेन पेषणस्य द्वाराकांक्षायां भागशब्देन पृषोपलक्षितयागसाधनहविषो लक्षणादाविषो द्वारवं द्विदेवत्यहवियोपि पूषोपलक्षितत्वमस्तीति पूर्वपक्षं वर्णयतां प्रकाशकारादीनां मत कटाक्षित।। चतुर्धाधिकरणं तृतीयप्रथमान्त्याधिकरणम् । 'आदिपदनं इन्द्रपीताद्यधिक- रणपरिग्रहः ॥
अधि. १५.] भा-दीपिकासहितम्, 291 मेरविवक्षणात्तस्य च द्विदेवत्येपि एकास्मन् पूष्णि सत्त्वेन तस्याप्यु. द्देश्यत्वोपपत्तः कथं न पेषणमिति वाच्य, व्यासज्यवृत्तिधर्मप्र- कारतायामेकमात्रवृत्तिसम्बन्धस्य संसर्गत्वानुपपत्तेः। अन्यथा एको द्वित्वसमघांयवान् इतिवत् "एको द्वित्ववान् " "एको हो" इत्यादिशाब्दबाधापत्तेः । अतो व्यासज्यवृत्तिदेवतात्वस्य पर्या- प्तिसम्बन्धेनैव प्रकारत्वात्तस्य च पूष्णि कंवले बाधात् पूषमा- त्रवृत्तिदेवतात्वस्यैव प्रकारत्वेन तत्रैव पेषणााद । अदन्तकत्वं त्वर्थवादमात्रत्वान्न विरुध्यते । नेमपिष्टत्वस्यापि च तत्रैव विधे- यत्वाङ्गीकाराद्विशिष्टभावनाविधानेनावाक्यभेदा'दगमकत्वम् ॥१५॥ इति श्रीखण्डदेवविरचितायां भादीपि. कायां तृतीयस्याध्यायस्य तृतीयः पादः :: अथ तृतीयाध्यायस्य चतुर्थः पादः (१) निवीतमिति मनुष्यधर्मशब्दस्य तत्प्रधा- नत्वात् ॥१॥ अपदेशो वाऽर्थस्य विद्यमा- नत्वात् ॥२॥ विधिस्त्वपूर्वत्वात्स्यात् ॥३॥ स प्रायात्कर्मधर्मस्सयात् ॥४॥ वाक्यस्य शेषवत्त्वात् ॥५॥ तत्प्रकरणे यत्तत्संयुक्तम- विप्रतिषेधात् ॥६॥ तत्प्रधाने वा तुल्यवत्प्र- "यदामेयोऽधकपालः" इत्यादाविवेतिभावः ॥
292 पूष्मीमांसदर्षनं. [अध्या. ३. पा. ४ सयानादितरस्य तदर्थत्वात् ॥७॥ अर्थवा- दो वाऽप्रकरणात् ॥॥ विधिना चैकवा- क्यत्वात् ॥९॥ अनिर्धारितक्रत्वर्थपुरुषार्थान्यतररूपताककर्मविषयकश्श्रुन्यादित्रयस्य प्रक ग्णेन सः विरोधाविगंधाविचार: एतत्पादार्थः । पूर्वपाद अहीनायधिकरणे द्वादशोप पत्त्वादेः कवर्थतायासिद्धत्वानिर्धारिततादृशान्यतरकविषयक एव विरोधाविरोधविचार इति नातिप्रसङ्गः । दर्शपूर्णमासप्रकरणाम्नाते “निवीतं मनुष्याणां प्राचीनावीतं पितणामपवीतं देवानामपव्ययते" इति वाक्ये निीतविधिं कृत्वाचिन्त्यते । तत्र विधीयमानं निवातमिति एतत् मंनुयधर्मः शुद्धमनुष्यधर्मः शब्दस्य "मनुष्याणां" इति षष्टयाः तत्म- धानत्वात् “दःन्द्रियकामस्य" इत्यादाविव स्वप्रकृत्यर्थाभिलषितफल- जनकत्वप्रत्यायकनया मनुष्यप्राधान्यवोधकत्वात् इत्येवं प्रथमः पूर्वः पक्षः॥१ अत्र शङ्कते तटस्थः निर्वतवाक्यं अपदशो वा उपदेशप्रतिद्वन्धन- वाद एव अर्थस्य निवीतरूपस्य विद्यमानत्वात् कर्मसोकर्यार्थ परि- करबन्धरूपस्य तस्य विधिमन्तराऽपि प्राप्तवात् ॥ २॥ समाधत्ते पूर्व- पक्षी--निवीतव.क्यं विधिस्तु विधिोव स्यात् अपूर्वत्वात् कर्मसौ- कर्ययोपायान्तरेणापि मा वेन निवीतस्य नियमेनाप्राप्तथा विधेयस्य निवी- तनियमस्य प्रमाणान्तराप्राप्तत्वात् ॥ ३ ॥ एवं शुद्धमनुष्यधर्मत्वपक्षमसहमा- नश्शुद्धक्रतुधर्मत्ववादी स्वपक्षमाह-सः निवीतं विधेयधर्मपदानुरोधात् पुंस्त्वम् । कर्मधर्मः दर्शपूर्णमासरूपप्राकरणिककर्मधर्मः स्यात् प्रायात् दर्शपूर्णमासधर्मप्राये दर्शपूर्णमासप्रकरणे पाठात् ॥४॥ एवं शुवक्रतुधर्मत्व- पक्षमसहमानः क्रतुयुक्तपुरुषधर्मत्ववादी स्वपक्षमाह-निवीतं ऋतुयुक्तपुर- षधर्मः वाक्यस्य निवीतवाक्यस्य शेषवस्वात् आवर्यवकाण्डसमा- ख्यारूपविशेषवत्वात् । तथा च प्रकरस्येव समापाया अप्यविरोधाय अधि. १.] मादीपिकासहितम्. 293 दर्शपूर्णमासकर्तुरध्वर्योधर्मः निवातमिति ॥ ५॥ एवं ऋतयुक्तमनुध्यधर्मत्व- पक्षमसहमानः प्राकरणिकमनष्यप्रधानककर्मधर्मलवादी स्वपक्षमाह तत्प्र- करणे दर्शपूर्णमासप्रकरणे यत् मनुष्योद्देश्यकमन्वाहार्यदक्षिणादानतदङ्ग- पाकादिकं तत्सयुक्तं तदङ्गं निवीतं तथा सति मनुष्यप्राधान्यपराया: "मनुष्याणां" इति षष्ठीश्रुतेः प्रकरणसमाख्याभ्यां सह अविप्रतिषेधात् अविरोधात् । तथा च श्रतिप्रकरणसमाख्यानामैकरस्यन प्राकरणिकमनष्य- प्रधानककर्मधर्मत्वमेव निवीतस्य युक्तमिति ॥ ॥ एतमपि पक्षमसहमानः निवीतविधिपक्षीयसिद्वान्ती स्वपक्षमाह -तत्प्रधाने वा मनुष्यप्रधानके कर्मण्यातिथ्यादावेव निवीतं विधीयते "निवीतं मनुष्याणां" ही निवीतवाक्यस्य “प्राचीनावीतं पितृणां" इति प्राचीनावीतवाक्येन "उप- वीतं देवानां" इत्युपवीतवाक्येन च तुल्यवत् तुल्यतयैव प्रसङ्गया. नात् आनानात् इतरस्थ प्राचीनावीतस्य उपवीतस्य च तदर्थत्वात् पितृदेवत्यदेवदेवत्यकर्मार्थत्वात् निवीतस्यापि सनकऋष्यादि मनुष्यदेवत्या- तिथ्यतर्पणादिकर्मार्थताया एवोचितत्वात् । प्राचं नावीतपदसमभिव्याहाररूप- वाक्येन प्रकरणसमाख्ययोर्बाधस्यैव युक्तत्वात् ॥ ८॥ परमसिद्धान्ती कृत्वा- चिन्तामुदाश्यति–निवीतमित्यादिः अर्थवादोवा अर्थवाद एव न विधिः अप्रकरणात् मनुष्यप्रधान कातिथ्यादेरप्रकृतत्वात् उपस्थित्यभावेन तदुहे- शेन विधेरयोगात् ॥ ८॥ विधिना "उपव्ययते" इत्युपवीतविधिना च एकवाक्यत्वात् उपवीतस्तावकतया तदेकवाक्यत्वसम्भवाच्च निवी- तवाक्यं न विधिः अन्यथा वाक्यभेदप्रसङ्गात् । यथा तत्र तत्र प्राची- नावीतनिकीते प्रशस्ते औचित्यात् एवं देवे उपवीतमेव प्रशस्तमित्यादि- रीत्या तु स्तुतिरवगन्तध्या ॥९॥ -:0:
294 पूर्वमीमांसादर्शनं. [अध्या ३. पा.४ अथं नृतीयाध्यायस्य चतुर्थः पादः दर्शपूर्णमासयोः “निवीतं 'मनुष्याणां प्राचीनावीतं पितृणा- मुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत" इति श्रुतम् । तत्र सर्वोऽप्ययम् “ उपव्ययते" इत्यस्योपवीतविधेश्शेषो न तु स्वतन्त्रो विधिरित्यौदुम्बराधिकरणेनैव "स्थितम् । यदा विधिस्तदा कृत्वाचिन्तया निवोतवाक्य' विचारः ॥ तत्र प्रकरणाच्छुद्धक्रतुधर्मः, मनुष्यग्रहणं तु सम्बन्धसामा- न्यवाचिन्या षष्ठयाऽर्थप्राप्त कर्तृत्वाख्यसम्बन्धानुवादादविरुद्धाम- त्याधः पक्षः । मनुष्यग्रहणस्य वैयर्थ्यांपत्तेः षष्ठया अङ्गानेभाव- सम्बन्धपरत्वावमायात् निवीतस्य मनुष्याभिलाषतफलजनकत्वा- झोकाराच्छुद्धमनुष्यधर्मः षष्ठीश्रुत्या" प्रकरणबाधादिति द्वितीयः । अबाधेनोपपत्ती बाधायोगात् फलकल्पनापनेश्च सन्निपत्योपकार- कत्वलाभाच प्रकरणसहकृतया तया' जअभ्यमानमन्त्रवत् क्रतुयु- । निर्वात परिकरबन्ध इति वार्तिकं । परिकावन् उत्तरयिस्य मध्यदेशे पन्धनं निीतमिति चूडामणिदीक्षितः ॥ 2....२ उपवीतप्राचीनावीतवाश्ययोस्तु वक्षमाणायाः पूर्वपक्षकोटित्रयोपादनरीतेग्म- म्भवात् न विचार इति भावः ॥ 'मर्वस्यापि कर्मणो मनुष्याधिकारित्वादर्थप्राप्तं मनुष्याणां कर्तृत्वं ॥ 5"दधेन्द्रियकामस्य जुहुयात्" "द्वादशाहीनस्य" इत्यादाविव पष्ठया कर्म- जन्यफलभागित्वरूपमङ्गित्वं षष्ठीप्रकृत्यर्थय, नदाभिलषितफलजनकत्व- रूपमङ्गत्वं कर्मणः प्रतिपाद्यते इति भावः ॥ षष्ठंयाः श्रुतित्वं प्राचीनानुमतं ॥ षष्ठीश्रुत्या ॥ 83-४-९.
भधि. १.] भादीपिकासहितम् 295 तपुरुषधर्म इत्यपरः ॥ अत्रु पूर्वपक्षत्रयक्रमो मूलेऽन्यथाकृतोप्य. नुक्तिसहत्वादुपेक्षितः। सिद्धान्तस्तु-प्राचीनावीतवैषम्यापत्तेः' त- समाभव्याहारात्मकवाक्यनुरोधात् षष्ठयाः मनुष्यसम्प्रदानकप्राक- रणिकान्वाहार्यदानपाकादिपदार्थोपकारकत्वरूपसम्बन्धपरत्वावसा- यादुक्तविधसम्बन्धेन मनुष्यार्थत्वम् । सम्भवति हि प्राचीनावीतस्या- पिपितृदेवत्यप्राकरणिकप्रोक्षणांशेषनिनयनाङ्गत्वात् पित्रुद्देश्यकमाकर णिककाङ्गत्वम् । अतस्तत्समभिव्याहादस्यापि तत् । एवं चाध्व- यवसमाख्याऽप्यनुगृहीता भवति । इतरथा तस्या गुणभूतकर्तृप्रा सावेव नियामकत्वस्य वक्ष्यमाणत्वात् ऋतुयुक्तपुरुषधर्मत्वे तद- नुपपत्तेः । न च भवन्मतेऽपि दानस्य याजमानत्वात् 'कथं समा- . भाष्यादा शुबमनुष्यधर्मः क्रतुयुक्त सद्धर्मः शुद्भक्रतुधर्मः पाकरणिकमनु- यप्रधानककर्मधर्मः इतिपूर्वपक्षचतुष्टयं सूत्रक्रमानुरोधेन प्रदर्य सन- कादिमनुष्यप्रधानसर्वकर्मधर्म इति सिद्धान्तः प्रदर्शितः । तत्र पूर्व- पूर्वास्वरसेनैवोत्ता पक्षाणामुपपादनस्य युक्तत्वात् पूर्वपक्षस्य प्रबल- स्यैव प्रथमत: करण उत्तरपक्षानुत्यितिः । कथंचिदत्थानेऽपि वा बहुत. रक्लेशोपपादनीयलापत्तिः । तत्र सिद्धान्तपक्षत्वंनोक्तश्च इहाग्रे “यत्तु, इत्यादिना दयिष्यते । अतः प्रकरणाच्छद्भक्रतधर्मत्वपक्षे प्रथममुक्ते ततोपि वाक्यप्राबल्याच्छुद्धमनुध्यधर्मत्वपक्ष द्वितीये प्रसक्ते वाक्य. सहकृतप्रकरगेन क्रतुयुक्तपुरुषधर्मत्वपक्षस्तृतीयः पदमादधातत्येिवं क्रमेण पूर्वपक्षत्रय प्रदर्शनीयं प्राकरणिकमनुष्यप्रधानककर्मधर्मत्वप- क्षश्च सिद्धान्तत्वेन प्रदर्शनीय इत्याशयः ॥ प्राचीनावीतवाक्ये पितृणामित्येतदनुरोधात् शुद्धपितृधर्मत्वं ऋतुयुक्तपित- धर्मत्वं. वा असम्भवि कर्मणां मनुष्याधिकारवादीत भावः ॥ ३३-८-३. ५३-८-1. अधिकरणे दानस्य याजमानत्वं स्थितं ॥
296 पूर्वमीमांसादर्शनं. अध्या.३.पा.४ स्योपपत्तिः, निवीतस्यारादुपकारकत्वेना'ध्वर्युकर्नुकेनापि तेन दानो- पकारसिद्धः । पाकाद्यर्थत्वमेव वाङ्गीक्रियतामिति न दोषः। अतस्स- प्रमाणाबाधात्माकरणिकमनुष्योद्देश्यककर्माङ्गमित्येव सिद्धान्तः ॥ यत्तु मूले पक्षान्तरं सिद्धान्तत्वेनोपन्यस्तं तथा हि--वाक्या- दयं शुखमनुष्यप्रधानकातिथ्यादिकर्मागतया विधिः । न च तदु पसापकाभावः मनुष्यपदस्य लक्षणया 'सनकादि*मनुष्यपरत्वेन तत्प्रधानकस्य हन्तकारातिथ्यादेरुपस्थितिसम्भवात् । अत एव न १०-१-१ अधिकरणं ऋविग्गनिवीतापवीतयोरदृष्टार्थत्वभाषणात्तद्रीत्येति भावः॥ इह पितमनुपाजुद्देश्यककर्मण एवोद्देशवं वक्तव्यं तच्च तदुद्देश्यककर्म- प्रयोगान्तःपात्यङ्गप्रधानसाधारणं ग्राह्यामिति दक्षिणामौ क्रियमाण- स्थाध्वर्युकर्तृकान्वाहार्यपाकखान्वाहायौदनकरणकदानसिबिद्वारा ऋ- विगुद्देश्यकत्वमिति तादृशपाकेऽध्वर्थणाकतव्ये निवीतं कार्यमिति न्याय. सुधाकृतः पक्षमाह पाकादीति ॥ "प्राचीनावीतं पितृणां" इति सम भव्याहाररूपवाक्यादित्यर्थः ॥ त्कारः "सनकादिभ्यो हन्त न मम” इत्यादिमन्त्रपुरस्स क्रियमाणोतिथिस. हन्तकारातिथ्यं “भिक्षां च याचतां दद्यात्पारब्राह्म- चारिणां । ग्रासप्रमाणं क्षिा सादग्रं ग्रासचतुष्टय । अग्रं चतुर्गुणं प्राहु- हन्तकारं द्विजोत्तमाः । भोजनं हन्तकारं वा अग्रं मिक्षामथापि वा। अदत्वा तु न भोक्तव्यं यथाविभवमात्मनः" इति मार्कण्डेय राणा- दिकमिहानुसंधेयम् ॥ *स्नातकादि इत्यपिपाठः आधि. १.] भादीपिकासहितम. 297 फलकल्पना ऽपोति तत् वाक्याबाधस्यास्मन्मतेऽप्युपपादितत्वात्, सनकादि परत्वस्य तेन चातिथ्याशुपस्थितेरव्यभिचरितत्वाभावेन वक्तुमशक्यत्वात् , प्रकरणसमाख्ययोर्बाधे प्रमाणाभावात् , कृत्वा चिन्तात्वेन च सिद्धान्तनियमस्यानावश्यकत्वात् अस्य पक्षस्य वार्तिककृता क्लिष्टत्वाभिधानाच्चापेक्षितम् । अतः प्राकराणिक- मनुष्यप्रधानककाङ्गत्वमेव सिद्धान्तः ॥ वस्तुतस्तु नायं विधिः वाक्यभेदापत्त. अपितु उपवीत- विधेरेव शेषः प्राचीनावीतवत् । यथा च निदीतप्राचीनावीते तत्तत्प्रधानकत्वसम्बन्धेन मनुष्यपितृसम्बन्धिनी उचिते तथोपवी- तमपि देवसम्बन्धितया; अतस्तदेव दर्शपूर्णमासयोः प्रशस्तमिति स्तुतिः। अथ वा ते तत्रतत्र वक्ष्यमाणवचनात्प्रशस्त, अत्र तु देव- त्वादुपवीतमेवेति स्तुतिः ॥ १॥ -:0: (२)-उपवीतं लिङ्गदर्शनात्सर्वधर्मस्यात्॥१०॥ न वा प्रकरणातस्य दर्शनम् ॥११॥ उपवीतं पूर्वाधिकरणोदाहावाक्यावहितं सर्वधर्मः प्रकृता-कृत- सर्वदेवकर्मणामङ्गं स्यात् लिङ्गदर्शनात् मृताग्रिहोत्रप्रयोगप्रकरणाम्नाते भावः ॥ अध्वनीनोऽतिथि यश्श्रोत्रियो वेदपारगः । मान्यावेतो गृहस्थस्य ब्रह्मलोक- मभीप्सतः ॥१॥ इति याज्ञवल्क्यवचन दितः फलस्य क्लप्सत्वादिति स्नातकादि इत्यपि पाठः कृत्वा चिन्तालमेवोदाटयति ... वस्तुतस्त्विति॥ 'एतदुत्तराधिकरणे "प्राचीनावीती" इत्यादिवचनं वक्ष्यते ॥ "ते न देवये ग्ये इदं तूपवीतं तद्योग्यमिति व्यतिरेकेण स्तुतिरिति भावः ॥
298 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ४ "प्राचीनावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयति" इति वाक्ये दर्श- पूर्णमासातिरिक्तकर्मसम्बन्धितयाऽपि उपवीता वादरूपस्य लिङ्कस्य दर्शनात् । तत्र हि देवेभ्य इति बहुवचनान दर्शाङ्गदोहनमनूयते किन्तु अग्निहोत्रायङ्गदो- हनमेवेति ॥ १० ॥ एवंपूर्वपक्षे सिद्धान्तमाह-न वा नैवं. उपवीतं सर्व- धर्मः प्रकरणात् दर्शपूर्णमासप्रकरणान्मात्राङ्गत्वस्यैव युक्तत्वात् । दर्शनं उपदर्शितं तु तस्य दर्शपूर्णमासस्थस्यैव देवेभ्य इति बहुवच- नस्य त्वनुवादगतस्य प्रकृतिभूतसानाय्यविकृतिभूतपयसाधु-याभिप्रायेणोप- पत्तेः । यथाप्राप्तथैव ह्यनूदितत्वम् ॥ ११ ॥ तदिदमुपवीतं सर्वकर्माङ्गम् । मृताग्निहोत्रे "प्राचीनावीती दोहयेत् यज्ञोपवीती हि देवेभ्यो दोहयति" इति जीवदवस्थायां यज्ञोपवीतानुवादलिङ्गस्य प्राप्तयभावेन सर्वार्थतागमकत्वात् । विप्र. कृष्टत्वेन दर्शपूर्णमासस्थस्यानुवादानुपपत्तेश्च वैकल्पिकेन्द्रमहेन्द्र- देवत्यदार्शिकदोहने देवताबहुत्वाभावेन तदनुवादानुपपत्तेश्च । स- र्वार्थत्वे तु कर्तृसंस्कारकस्यो पवीतस्य बहुदेवत्या ग्निहोत्रप्रयोगाङ्ग- त्वेन तहोहनेऽपि प्राप्तेरनुवादोपपत्तिारति प्राप्ते- सन्निकृष्टासम्भवे विप्रकृष्टानुवादस्यापि' न्याय्यत्वात्प्रकृति- 'मृताग्निहोत्रे मृतस्य यजमानस्याग्निहोत्रं तदानीमन्येन क्रियमाणे तत्प्रयोगे ॥ 'कर्तसंस्काग्वं च ३-१-११अधिकरणे स्थितमुपवीतस कर्तुश्च प्रयोगाङ्गस्य साङ्गप्रधानप्रयोगाङ्गतया अङ्गभूतहविदहिऽपि प्राप्तो तद्धमत्यापि प्राप्ति- रिति भावः ॥ सायंप्रयोगे अग्निप्रजापत्योः प्रातःप्रयोगे सूर्यप्रजापत्योर्द्वयोर्द्वयोवैतात्वेऽ- प्यग्निहोत्रप्रयोग सर्वासामेव देवतानामनिसूर्यप्रजापतिरूपाणां समुच्चयाद्बहुवचनोपपत्तिरिति भावः ॥ 'भाश्रीयते च निवीतप्राचीनावीतविषये "निधीतं मनध्याणम्" तै. सं. २-५-११, इत्यादी ॥ -- अधि. २.] वीय भादीपिकासहितम्. 299 विकृत्यभिप्रायेण च सानाय्येऽपि देवताबहुत्वसत्त्वादनुवादोप- पत्तेः' प्रकरणादर्शपूर्णमासाङ्गमेवोपवीतम् । वस्तुतस्तु-वक्ष्यमा- ण वचनानुसारादाग्नहोत्रेऽपि यज्ञोपवीतसत्त्वेन तत्रत्यम्यवायम- नुवादः" ॥२॥ (३)-विधिर्वा स्यादपूर्वत्वात् ॥ १२ ॥ पूर्वाधिकरणोदाहृतवाक्ये "उपव्ययते " इत्यंशी विधिर्वा विधि- रेव स्यात् अपूर्वत्वात् वासोविन्यासविशेषरूपोपवीतनियमस्य दर्शपूर्ण- भासाङ्गतया अप्राप्तत्वात् । “यज्ञस्य प्रसत्या अजिनं वासो वा दक्षिणत उप- इत्यनेन हि फलाधिक्यजनकगुणाधिक्यद्वारा हि वासोविन्यासः सर्यक्रतुषु विधीयमानः फलकामनायामसत्यां न प्रवर्तेत । अतोत्र दर्शपूर्णमास- योस्तनियमविधियुक्त एवेति ॥१२॥ "उपव्ययते' इति विधिरनुवादो वेति चिन्तायां "नित्यो- सानाय्यस्य विकृतिरिह पयस्या दाह्यः ॥ प्राप्तिकालवैषम्यापत्तिारुक्तत्वं वा तत्र पाशमन्त्रगतबहुत्वस्य न विकृत्यभिप्रायेण गतिरित्येकत्वलक्षणयाऽपि प्रकृतावेव निवेश इष्यते । इह तु अनुवादत्वात्प्रकृतिविकृत्यभिप्रायेण तदुपपात्तर्युक्तैवेति भावः ॥ एव वार्तिकमतेनाधिकरणं व्य ख्याय भाष्यकारकृतस्यैतदाधकरणोपेक्षणस्य बीजं सूचयानिवाधिकरणावेचारमाक्षिपति - वस्तुतस्त्विति ।। 'उत्तराधिकरणवक्ष्यमाणस्मृतिकाठकवचनाभ्यामित्यर्थः । तथा चोक्तरीत्या पूर्वपक्षोद्भावनादेरसम्भव युक्तं भाष्यकारकृतमुपेक्षणम् ॥ प्रयोजनं तु पूर्वपक्षे दर्शपूर्णमासातिरिक्तकर्मसु उपवीतभ्रंशे यजुर्भेषप्राय- चित्तम् । मिन्दान्ते तु स्मार्त हरिस्मरणमेवेति लिङ्गप्रकरणविरोधश्चायम् ॥ तं. स. २-५-११. तै. आ. २-१. 8 . 'उपव्ययते".त: सं. २-५-११ इत्यस विधिले सति प्राक्तनाधिकरणद्वयसि- दान्ता घटते। तदेव त्वयुक्तमित्याक्षेपेणेदमधिकरणमारभ्यते। सूत्रे सि- बान्तेनैवोपक्रमादिह सिद्धान्तकोटिरेव प्रथममुपात्ता ॥ तु अध्या. ३.पा.४ 300 पूर्वमीमांसादर्शनं. दकी नित्ययज्ञोपवीती" इति गौतमस्मृत्या प्राप्तत्वादनुवादः । यदि तु अनेन पुरुषार्थतया प्राप्तिराशङ्कथेत तथापि “यज्ञोपवीतिना कर्तव्यम्" इति स्मृत्यनुसारात्कत्वर्थत्वेनापि प्रासिरुद्भावनीया।यदि तूक्तवचनेनाङ्गत्वे तशेष स्मार्तप्रायश्चित्तापत्तेर्यजुर्मेषप्रायश्चित्तमा प्त्यर्थ दर्शपूर्णमासयोस्तद्विधानमित्याशङ्कयेत ततो "यज्ञोपवीत्ये- वाधीयीत याजयेद्यजेत वा''इत्यादितैत्तिरीयकश्रुत्या सर्वयज्ञार्थत्वेन यज्ञोपवीतविधानात्तत्प्रायश्चित्तस्यापि प्राप्त्युपपत्तेः विधानानर्थ- क्यम् । यदि त्वेतेषां सर्वेषां बचनानां नवतन्तुकत्रिसूत्ररूपमुख्य- यज्ञोपवीतविषयत्वाद्रासोविन्यासरूपगौणोपवीतस्यैवाप्राप्तस्य दर्श पूर्णमासाङ्गत्वेन विधिराशङ्कयत ततो "यज्ञस्य प्रसृत्या अजिनं वासो वा दक्षिणत उपवीय दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावांतं संवातं मानुषम्" इति वच- नेन तस्यापि सर्वयज्ञार्थत्वन प्राप्तत्वादनुवाद एवायं दर्शपूर्णमास. स्तुत्यर्थ इति प्राप्ते -- "यज्ञस्य प्रसृत्यै" इत्यनेन फलाधिक्यजनकगुणाधिक्यद्वार- तै. आ. २.१. यज्ञोपवीतोपर्वातशब्दयोः नवतन्तुकत्रिसूत्ररूपब्रह्मसूत्र एव प्रचुरप्रयोगात्त- त्रैव शक्तिः। शूद्रादीनां तु मुख्ययज्ञोपवीताभावाद्वानाविन्यास एव त- स्थानीय इति यज्ञोपवीतकार्यकर्तृत्वेन यज्ञोपवीतोपवीतशब्दयोर्गौणः प्र- योगः । अत एव यज्ञोपवीतमन्त्रे गौणमुख्यन्यायेन मुख्यमेव यज्ञोपवीतशब्देनोच्यत झते न वासोविन्यासे तन्मन्त्रप्राप्तिः। उपव्ययते" तै. सं. २-६ १६.इति विहितोपवीतन सह श्येने “निवीता ऋत्विजः प्रचरन्ति" इति विहितस्य ब्रह्मसूत्राश्रितनिवीतस्य समुच्चयभाषणमपि दशमचतुर्थाद्याधिकरणगतं तद्वाक्यविहितस्योपवीतस्य वासोविन्यास- रूपतामवगमयतीति ॥ प्रशतिः फलाधिक्यजनकखाधानं इत्याशयः ॥
अधि.३] भाट्टदीपिकासहितम्. 301 कत्वेनास्य जयादिहोमवत्सर्वयज्ञाङ्गत्वावगत्याऽनावश्यकत्वप्रतीते. रावश्यकत्वार्थ दर्शपूर्णमासयोर्वासोविन्यासविध्युपपत्तिः । अत एव शिष्टा अपि वासोविन्यासं विनाऽपि कर्मान्तराण्याचरन्ति । यद्यपि च 'यज्ञस्य हातेवाक्यं “यज्ञोपवीत्येव" इत्यस्य वाक्यस्य शेषः सन्निधानादिष्येत, तथाऽपि समस्तेन तेन वासोविन्यास एव फला धिक्याथै विधीयत इति न दोषः। मुख्यब्रह्मसूत्ररूपयज्ञोपवीतं तु सदा स्मृत्यैव सर्वयज्ञार्थत्वेन विधीयते । एवं च श्रौतप्रायश्चित्त- सिद्धचर्थमिदमपि दर्शपूर्णमासाङ्गत्वेन उपव्ययते " इत्यनेन विधीयत इत्यपि केचित् । निवीतादिसमभिव्याहारस्योभयत्र प्रत्य- भिशापकस्य तुल्यत्वानु वासोविन्यास एवात्र नियम्यत इति युक्तमुत्पश्यामः । सर्वथा “ उपव्ययते" हात विधिः दर्शपूर्णमा- " 1३-४-१३. अधिकरणे जयादिहोमविचागे द्रष्टग: ॥ तै. आ. २-१. तै सं २-६-११ 5 +कचित् शास्त्रदीपिकाप्रकाशकारादयः ॥ दर्शपूर्णमासप्रकरणाम्नाते उपवीतवाक्ये "निवीतं मनुष्याणम्" (सं.१-५-११) इत्यादिनिवीतादिपरवाक्यसमभिव्याहारदर्शनेन सादृश्यात्काठकवाक्यशे- षस्य “एतदव विपरीतं प्राचीनावीतं संवीतं मानुषम्" (आ. २-१.) इत्यस्य उपस्थितौ सत्यां ब्रह्मसूत्रापेक्षया काठकवाक्यविहितवासोविन्या- सस्यैव अडित्युपस्थितस्य विधानं युक्तं न ब्रह्मसूत्रस्य “यज्ञस्य प्रसत्ये" (आ. २-१) इत्यस्यार्थवादमात्रतामङ्गीकृत्य फलपरवानगीकाऽपि वैकल्पिकस्याजिनस निवृत्त्यर्थ-- " यज्ञोपवीते द्वे धार्य श्रौते स्मार्ते च कर्मणि । तृतीयमुत्तरीयार्थे वस्त्राभावे तदिष्यते ॥" इति स्मृतितः पक्षे प्राप्तस्य वासोविन्यासविरहस्य वाधनार्थं वा दर्शपू र्णमासाङ्गतया वासोविन्यासोत्र नियम्यत इति भावः ।।
302 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ४. साविधि'व्यवहितत्वात् तत्स्तावकत्वानुपपत्तेरिति सिद्धम् ॥ ३ ॥ अथवा --- "विधिना चैकवाक्यत्वात्" इत्यादित एवोपवीतवाक्यस्य वि. धितायास्मिद्धत्वात्पुनरिह तद्विचारे न किंचित्प्रयोजनम् । अतो विचारान्तरस्येदं पूर्वपक्षसूत्रमित्यास्थेयं । तथाहि (३)-विधिर्वा स्यादपूर्वत्वात् ॥१२॥ 'प्राचीनावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयति स्मिन् दिटगतामिहात्रप्रकरणाम्नाते वाक्ये यज्ञोपवीतस्यापि विधिर्वा विधिरेव स्यात् अपूर्यत्वात् तत्र यज्ञोपवीतपदस्य ब्रह्मसूत्रपरत्वे नस्य स्मृतितः प्राप्तत्वेऽपि श्रीतप्रायश्चित्तप्राप्तिफलकतया अप्राप्तत्वात् । तत्पदन्य वासाविन्यासपरत्वे च अजिनवैकल्पिकतया तय काठकश्रुतितः प्राप्त- वेऽपि तनियमस्यात्र विधिसितम्याप्राप्तत्वादिति । पूर्वपक्षेऽस्मिन् स्थित एव विचारान्तरमारभ्यते ॥१२॥ एवं वा-यावजीववाक्य नानिहोत्रे जीवनस्य निमित्तत्वावग मेऽपि वचनेन दाहावधि सायंप्रातःकाले मरणोत्तर नित्यत्वेन वि- हिताग्निहोत्रप्रयोगो मृताग्निहोत्रम् । तस्मिन् मृताग्निहोत्रे "प्राची- नावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयात" इत्यनेन श्रुतेन देवाग्निहोत्रं किं यज्ञापवीतस्य विधिरनुवादो वति चिन्तायां- 'दर्शपूर्णमासविवेरतिदरस्थत्वेन तत्स्तावकतया तदेकवाक्यत्व निर्माताद्युप. वीतान्तवाक्यस्याशक्याभ्युपगमम्। तस्मादुपवीतविविस्वीकारे आवश्य के तच्छेषतया निवीतादिवाक्यं सङ्गच्छते इति भावः ।। २३-४-१. अधिकरणे एतद्वाक्यविचारो द्रष्टव्यः ॥ दिटगतामिहोत्राविधिपरेण वचनान्तरेण ॥
अधि: ४.] भादीपिकासहितम्. 303 स्वरूपेण प्राप्तस्यापि ब्रह्मसूत्रस्य श्रौत प्रायश्चित्तप्राप्तिफल- कतया विधिः वासोविन्य सरूपस्य वा नियमार्थ विधिरिति प्राप्ते- स्थितं तावदपर्यवसितं मध्ये चिन्तान्तरारम्भः ॥३॥ (४)-उदक्त्वं चापूर्वत्वात् ॥१३॥ सतो वा लिङ्गदर्शनम् ॥१४॥ दिष्टगतानिहोत्रप्रकरण एवाम्नाते “ग पुगेदञ्चो दास्तान् दक्षिणामां- स्तुणीयात्" इति वाक्ये ये पुरा जीवदमिहोत्रे दी: त उदनः कार्या इत्येवं विधिवाचकपदाध्याहारेण उदक्त्वं च विधिरिति पूर्वसूत्रादनुवर्तते । विधि- विषय इत्यर्थः । कुतः अपूर्वत्वात् अप्राप्तत्वात् स्मृतिप्राप्तत्वेऽपि श्रौत- प्रायश्चित्तप्राप्तिफलकत.। अप्राप्तत्वात् ॥13॥ एवं पूर्वपक्ष सिद्धान्तमाह- सतो वा “अग्रवन्ति प्रागग्राण्णुदगग्राणि वा” इत्यादिस्मृतितः प्राप्तस्यैवात्र उदक्त्वयानुवाद: यतोत्र लिङ्गदर्शनम् अनुवादलिङ्गयोः यच्छब्दयोगवि- धिप्रत्ययविरहयोर्दर्शनमस्ति । न खल्वेवं लिङ्गदर्शने सति स्मृति प्राप्तस्य विधिना अभ्युपगम उचित इति भावः ॥१४॥ तत्रैव “ये पुरोदश्वो दर्भास्तान दक्षिणानांस्तृणीयात्" इात 1विधित्वपक्षे यजुर्वेदविहितत्वात्तद्धेषे "यदि यजष्टो भुव इति दक्षिणाना जुहुयात् " इति श्रौतं प्रायश्चित्तं भवति । स्मृतिप्राप्तकर्माङ्गत्वेनानु- वादत्वपक्षे तु एतदव्यवहितोत्तराधिकरणे वक्ष्यमाणरीत्या प्रायश्चिता- न्तरप्राप्तिस्स्यादिति प्रयोजनभदाद्विधित्वं युक्तमित्याशयः । पूर्वाधिक- रणोक्तरीत्याऽत्र यज्ञोपवीतपदस्य काठकवाक्यप्रत्यभिज्ञानेन वासोवि. न्यासविशेषपरत्वाङ्गीकारपक्षमाश्रित्याह -वासोविन्यासेति ।। * नियमोत्र पूर्वाधिकरणप्रदर्शितरीत्या बोध्यः ॥
304 पूर्वमीमांसादर्शनं. अध्या. ३. पा. ४ श्रुतेऽपि ये पुरा दर्भास्ते उदञ्चः'कार्याः इत्येवं विधिवाचकपदा- ध्याहारेणापि पूर्ववद्विधिः । न च पुराशब्दस्य विशेषणत्वे विशि- ष्टोद्देशः । दक्षिणानत्वस्य मृताग्निहोत्रे विधावर्थादेवोदक्त्वस्य जीवदवस्थायामेव प्राप्तत्वेनाविशेषणत्वात् । निपातत्वन पुराश- म्दान्वयस्य व्युत्पन्नत्वाश्च । न च “अग्रवन्ति प्रागग्राण्युदगग्राणि वा" इति सामान्यस्मृत्यै वोदगग्रत्वप्रातर्विध्यानर्थक्यामेति वाच्यं यजुर्भेषप्रायश्चित्तसिद्धयर्थं तद्विधानोपपत्तेः । अन्यथा स्मृतिमूल- भूतश्रुतेरविज्ञातवेदत्वात यद्यविज्ञाते भूर्भुवस्सुवरित्याहवनीये जुहुयात्" इत्येतत्प्राप्यतेति प्राप्ते-- यच्छब्दश्रवणात्प्रत्यक्षविध्यभावाद्विध्यन्तरैकवाक्यत्वाच नायं विधिः, अपि तु प्राप्तत्वात्तन्छन्दापेक्षितोद्देश्यविशेषसमर्पक एवं- त्यनुवादः ॥४॥ " - . ० द्वादशसूत्रे कृतस्य पूर्वपक्षस्यापि चतुर्दशं सूत्रमिदमेव सिद्धान्तपरम् ॥ (४)-सतो वा लिङ्ग-दर्शनम् ॥१४॥ सतो वा स्मृति-प्तिस्यैव वा श्रुतितो नियमेन प्राप्तय वा यज्ञो- पवीतपदार्थस्य दिष्टगतामिहोत्र प्राचीनावीतविधिशेषतयाऽनुवादः यतोऽत्र लिङ्गदर्शनं अनुवादलिङ्गयोः हिशब्दयोगसम्भवद्विध्यन्तरैकवाक्यत्वयार्द- र्शनमस्ति ॥१४॥ पुरा यजमानस जीवदवस्थायामित्यर्थः । उदश्चः उदगमाः “दक्षिणामान्" इत्यु त्तरत्र श्रवणात् ॥ विशिष्टोद्देशकृतवाक्यभेदशङ्कव नात्रावतरतीत्याशयेनाह-निपातेति ॥ २-१-२. अधिकरणे निपातस्य नामान्वयव्युत्पनत्वं दर्शितं द्रष्टव्यम् ॥ 3 अग्रवन्ति दर्भसमित्युगादीनि यानि तानि प्रागप्राण्युदरामाणि वा कार्या- णीति स्मृत्यर्थः ॥
अधि. १] भाहदीपिकासहितम्. 305 स्थितादुत्तरम्- हिशब्दोपबन्धाद्विध्यन्तरैकवाक्यत्वाचायमपि निवीतादिव. प्राचांनावीतस्तुत्यर्थः । अत एव ' उपव्ययते '* इतिवदानर्थक्या- भावादपि विधिकल्पनं निरस्तम् । यज्ञोपवीतपदवाच्यब्रह्मसूत्रस्य च स्मृत्यैव 'जीवदग्निहोत्रे प्राप्तत्वादौचित्यादिना स्तुत्युपपत्तिः । वासोविन्यासरूपस्यापि वा अनियमेनोक्त'विधया जीवदग्निहोत्रे प्राप्तत्वान् स्तुत्युपपत्तिः । यदि तु नियमेन तत्प्राप्तिस्स्तुतावाव. श्यकी अपेक्ष्येत, ततस्सन्निकृष्टासम्भवाद्विप्रकृष्टदर्शपूर्णमासादि- स्थस्यैवायमनुवादः स्तुत्यर्थ नानुपपन्नः । बहुवचनं तु प्रकृतिवि- कृत्यभिप्रायमित्युक्तमेव ॥ ४ ॥ -1000 (५)-विधिस्तु धारणेऽपूर्वत्वात् ॥१५॥ "अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति" इति दिष्टगताग्निहोत्रप्रकरणाम्नातवाक्ये हिशब्दयुक्तेऽपि मुग्धारणस्योपरि स- मिधः धारणे विधिस्तु विधिरेव अपूर्वत्वात् वाक्यान्तरेणाप्राप्तला- त् । न खल्वर्थस्य कथञ्चिदप्यप्राप्तत्वेऽनुवादस्सम्भवति । तस्मात् इह हि- शब्दस्यानुवादलिङ्गवासम्भवादर्थान्तरपरलमेव स्वीकार्यम् । तस्य प्रसिद्धय र्थकत्वे वा सिद्धवदनुवादान्यथाऽनुपपत्त्या उपग्धिारणविधिः कल्पनीय इत्या- श्रयणीयमिति ॥१५॥ मृताग्निहोत्र एव 'अधस्तात्समिधं धारयन्ननुद्रवेत् उपरि 1३-४-३. अधिकरणे द्रष्टव्यम् ॥ 2३-४-२. अधिकरणे ॥ * तै. सं. २-५-११. 39 306 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ४- हि देवेभ्यो धारयति" इति श्रुतेन किं उपरिधारणं देवाग्नि- होत्रे विधीयते उतायमप्यनुवाद इति चिन्तायां- हिशब्दश्रवणाद्विध्यन्तरैकवाक्यत्वाच 'उपरि हि' इत्यनुवादः पूर्वस्तुत्यर्थः। न च प्राप्त्यभावः "झुग्दण्डे सामेधमुपसङ्घयांनुद्रवति" हात वचनेन सुग्दण्डस्याधिकरणत्वप्रतीतरुपरिधारणाभावे पत- नप्रतिबन्धकत्वरूपतदयोगादुपरिभावस्य प्राप्तेः । न च समित्व. ग्दण्डयोरुभयोरपि कृतार्थत्वात् उत यत्सुन्वन्ति सामिधेनी- स्तदन्वाहुः" इतिवद्देशार्थत्वावधारणात् सप्तम्या सामीप्यमा- त्रलक्षणोते कषां चिदुक्तं युक्तम् । कृतार्थयोरङ्गाङ्गिभावाभावेऽप्य धिकरणत्वेनैव दृष्टान्त इव सग्दण्डस्य देशत्वोपपत्तेः । अताऽ त्राप्यनुवाद हाते प्राप्ते- सचि गृहीतं पित्र्यं हविहोतं यदा गाईपत्यादाहवनीयं प्रति गच्छेत् तदा सुग्दण्डत्याधस्तान् समिधं धारयेत् । देवाग्निहोत्रे दैवं हवि- होतुं यदा गार्हपत्याहाहवनीय गच्छेत् तदा नुग्दण्डसोपरि समिधं धारयति हि इत्यर्थः, “मुग्दण्डे समिधमुपसङ्गय" इत्युदाहरे य- माणवचनानुगेधात् । अत एव हविनिरूपितोपरिभावपरतामस्य वचः नयाश्रित्य पूर्वपक्षप्रवर्तनं शास्त्रदीपिकाकृतामनुचि समित्याशयः ।। 2 समिधो होमार्थतया, सूचो हविर्धारणार्थतया, कतार्थत्वम् ॥ ३-७-७. अधिकरणे द्रष्टव्यम् ॥ 4 शास्त्रदीपिकाप्रकाशकाराणाम् ॥ "उत यत्सुन्वन्ति" इत्यादिवाक्ये देशलक्षणायामपि लक्षितदेशस्यैव सामि- धेन्यनुवचनाधिकरणत्वमाश्रितं सप्तम्यश्रवणेऽपि । इह तु सप्तमी- श्रुतिसमधिगतमधिकरणलं देशरूपत्यापि, मुग्दण्डस दुरपलपमिति भावः॥
भधि. ५.] भा:दीपिकासहितम्. 307 सुग्दण्डस्य न ताङ्ग्रहणेऽधिकरणत्वम् , हस्तादेरेव तदधि- करणत्वात् उपशब्दवैयर्थ्याश्च । नाप्युपशब्दार्थे सामीप्ये, सुग्द- ण्डस्य 'सामीप्यप्रतियोगित्वेनाधिकरणत्वानुपपत्तेः । अतस्सप्तमी सामीप्यप्रतियोगित्वलक्षणार्थी 1 कथञ्चित्सामाप्याधिकरणत्वस- म्भवेपि' वा समिदधिकरणत्वस्याप्राप्तत्वान्नोपरिभावानुबादः । अतो हिशब्दपरित्यागनैकवाक्यतामपि भवा दैवाग्निहोत्रे उप रिभावनियमावधिः। वस्तुतस्तु:--अनियतप्राप्तयाऽप्येकवाक्यत्वसम्भवे हविरु- भयत्वादिव द्वाक्यभेदाङ्गाकारस्यायुक्तत्वादस्यार्थवादत्वमेवाङ्गीकृत्य समिधः स्रुग्दण्डप्रतियोगिकसामीप्यानुयोगित्वे समित्प्रतियोगिकसामीप्या- नुयोगित्वमपि सुग्दण्डेऽक्षतमिति तद्विवक्षायां सामीप्याधिकरणत्वं स्नुग्दण्डस्याबाधितं अनुयो।गत्वस्यवाधिकरणतारूपत्वादिति भावः । मुख्यं तनिरूपितमधिकरणत्वं तत्पतनप्रतिबन्धकवरूपमेव । अन्य- विधं तु गौणम् । उपेत्युपसर्गेण च समभिव्याहृतपदार्थे सामी- प्यप्रतियोगिलमेव च प्रत्याय्यते इत्याशयेन कथश्चिदिति ।। "सुग्दण्डे समिधमुपसङ्गय" इत्यनेन सुग्दण्डस उपेत्युपसर्गार्थख्य समि- त्प्रतियोगिकसामीप्यनिरूपिताधिकरणत्वस्य प्राप्तत्वेऽपि स्रुग्दण्डस- मोपे उपर्यधाभावरूपनियमालाभात् स्रग्दण्डस्य समिनिष्ठाधेयता- निरूपिताधिकरणत्वनियमोऽप्राप्तत्वात् 'उपरि हि" इति वाक्येन विधीयते । हिशब्दे च यथाश्रुतप्रसिद्धयर्थकता परित्यज्य अ. 'व्ययानामनेकार्थलेन चकारसमानार्थकत्वमप्याश्रयितव्यमिति भाव. ॥ 3 हिशब्दयथाश्रुतार्थकत्वानुरोधेनाः-वस्तुतस्विति ॥ 'कादाचित्कमभयहविनाशमादायाप्युभयत्वानुवादो विशिष्टोद्देशप्रयुक्तवाक्य- भेदपरिहारायाश्रितः ६.४.६ अधिकरणे ॥ 2.
308 पूर्वमीमांसादर्शनं. [अध्या, ३. पा. ४. सिद्धवनिर्देशान्यथानुपपत्त्या विध्यन्तरस्यैवाप्राप्तनियमफलकस्य कल्पनेति युक्तम् ॥ वस्तुतस्तु' “मुग्दण्डे निधाय सामेधमनुद्रवति" इति न्या- यसुधाकृाल्लाखतवचनेनोपरिभावस्यापि लक्षणातात्पर्य ग्राहकप्रमा- णाभावेन प्राप्तत्वादेतद्वचनाभाव कृत्वा चिन्तयेदमधिकरण मिति ध्येयम् ॥५॥ पान- (६)-दिग्विभागश्च तद्वत्सम्बन्धस्यार्थहेतुत्वात्॥ सोमप्रकरणाम्नातस्य "प्राचीनवंशं करोति देवमनुष्या दिशो व्यभ- जन्त प्राची देवा दक्षिणा पितरः प्रतीची मनुष्या उदीची रुद्राः"* इत्यस वाक्य यकदेशभूनो दिग्विभागश्च "प्रतीची मनु याः"* इति दिग्विभागवाक्यमपि तद्वत् निवीतवाक्यवत् न विधिः किन्तु प्राची- नवंशविधेरर्थवादः सम्बन्धस्य मनुष्यप्रतीचीसम्बन्धस्य यादृच्छिकस्यैव अर्थहेतुत्वात् अर्थवादार्थभूतस्तुतावालम्बनतया हेतुलोपपत्तेः । व्यापच्च तद्वत्" (३-४.३८) इत्य दाविव अत्र उत्तराधिकरणे च तत्पदं व्यवहितेऽपि निवीताधिकरणे प्रक्रान्तस्यार्थस्य परामर्शकं बोध्य- मिति वार्तिकानुसारिणः । भाष्ये तु निवीताधिकरणानन्तर "उपवीतम्" इत्यादि सूत्रषट मुज्झित्वव दिग्विभागाधिकरणमारब्धम् ॥१६॥ सोमे "प्राचीनवंशं करोति"* इत्येतद्विधिशेषः "अभजन्त प्राची देवा दक्षिणा पितरः प्रतीची मनुष्या उदीची रुद्राः" • इत्य- भाष्यकारकृतैतदधिकरणोपेक्षामूलमुदाटयति-वस्ततस्त्विति ॥ 'प्रयोजनं खेतदधिकरणे--सिद्धान्ते उपरिधारणप्रेषे श्रीतप्रायश्चित्तम् । पूर्वपक्षेतु तदभाव इति बोध्यम् ॥ • * ते. सं६.१-१. 3 प्राचीनाः प्रागमाः उपरिवंशाः यस्यासौ प्राचीनवंशः पत्नीशालामण्डपः ।।
अधि: ६.] भादीपिकासहितम्. 309 यं श्रुतः । तत्र मनुष्यसंयुक्ते निवीताधिकरणश्वदौदुम्बराधिक- रणवञ्च विधित्वं निरस्तमपि' पूर्वाधिकरण वन्मनुष्यकर्तव्यवै. दिककर्मणि तावहिगन्तरस्यैव सामान्यावशेषादि वचनेन प्राप्त- तया प्रतीच्या अप्राप्तेलौकिके च कर्मणि प्रतीच्या नित्यप्राप्त्य- भावात् विधित्वं विधिकल्पकत्वं वेति प्राप्ते- इह प्रतीच्या मनुष्यसम्बन्धमात्रोपादानेज कर्मविशेषानु- पादानात्सर्वत्र' विधानस्य त्वयैव निरस्तत्वाद्यस्यामेव क्रियाव्य- तो प्रतीचीदिगभिमुखत्वं लोके यदृच्छया सिद्धम् तादृशकि- यागतमेव मनुष्यप्रती चीसम्बन्धं गृहीत्वा स्तुत्युपपत्तेर्नातिरिक्तः विध्यन्तरकल्पनं प्रमाणवत् । 'उपरि हि' इत्यत्र तु देवाग्निहोत्र- 6. देवपितरुद्राणां मनुष्यातरिक्ततया कर्मानधिकारत्वात्तत्तत्संयुक्तवाक्येषु वि- धित्वशङ्काय. असम्भवात् मनुष्यसंयुक्ते इत्युक्तम् ॥ ३-४-१ 3 १-२-२. "विधित्वं निरस्तं । अथापि' इत्यर्थमङ्गीकृत्य वाक्यभेदेन योजना कार्या । एकवाक्यत्वे तु विधित्वे निरस्तेऽपि इत्येवं भाव्यम् । पूर्वाधिकरणवदित्यस्य “विधत्वं विधिकल्पकत्वं वा” इत्यनेनान्वयः ॥ यत्र दियिमो न स्याजपहोमादि कर्मसु । त्रिस्रस्तत्र दिशः प्रोक्ता- ऐन्द्री सौम्याऽपराजिता" इति सामान्यवचनम् । “प्रागपवर्गाण्यु- दगपवर्गाणि वा" इत्यादिकं विशेषवचनम् ॥ सर्वत्र वैदिककर्मसामान्ये ।। पर्वाद हि प्राणिनः पृष्टत आदित्यं कृत्वा व्याप्रियमाणाः आतपेन न बाध्यन्ते 'इति यहच्छा विधिनिरपेक्षेच्छा । उपलक्षणमिदं सायंका- लीनापर्यादौ विध्यन्तरप्राप्तस्यापि मनुष्यप्रतीचीसम्बन्धस्य । 9 सम्बन्धपदेन सूत्रगतं सम्बन्धपदादिकं विवृतम् ।। ४ 310 पूर्वमीमांसादर्शनं. [अध्या. ३.पा. ४ त्वावच्छेदेनोपरिभावश्रवणात्तस्य चाप्राप्तत्वेन विध्यन्तरकल्पनया देवाग्निहोत्रागसमिद्धारणानुवादेनोपरिभावविधिः । अनुमित वी- क्यत्वाच न विशिष्टोद्देश इति वैषम्यम् ॥ ६ ॥ (७)-परुषिदि पूर्णघृतविदग्धं च तद्वत् ॥१७॥ परुषिदितादिपदमन्ना स्वरूपपरम् । परुषिदितं च पूर्ण च धृतं च विदग्धं चैषां समाहारः परुषिदितपूर्णघृतविदग्धं च तत्तद्वयक्ति- वाक्यान्यपि तद्वत् दिग्विभागवाक्यवत् न विधिः किन्तु अर्थवाद एव "यत्परुषि दि (तम् ) नम् । तद्देवानाम् । यदन्तरा । तन्मनुष्याणाम् । यत्स- मूलम् । तत्पितणाम् "* इतै वाक्यं यादृच्छिकं अन्तरालवनक्रियायां मनु- ध्यसम्बन्धं प्रतिपादयत् "पर्व प्रति लुनाति" इति विधेस विकतया, "यत्पूर्ण तन्मनुष्याणां यदुपर्य धस्तद्देवानां अधः पितृणाम्" इति वाक्य- मपि “उपरि पिलाद्गृह्णाति" इति विधेस्स्तावकतया, "धृतं देवानां मस्तु पितृणां निष्पक्वं मनुष्याण " + इत्येतदपि “नवनीतनाभ्यडक्ते" । इति विधेस्स्तावकतया, “यो विदग्धस्स नैऋत:" इत्येतदपि ", विदहता (श्रपयितव्यः, शृतंकृत्यः" इति विधेस्स्तावकतया शेषः । बर्हिषः पर्वमूला- न्तरालदेशलवनं मूलग्रहणं च पात्रसमामतं पात्राथोभागमितं । घृतम- स्तुनी च हविर्विदाहादिकं चान्यत्रोचितं प्रकृते त पर्वलवनं मानपात्रा- धिकग्रहणं नवनीतं हविरविदाहनं चोचितमिति तत्र तत्र स्तुतिर्बोध्या । दिग्विभागवाक्ये विधिशक्तिप्रतिबन्धकभूतलकारः पुराकल्परूपता च स्तः। अत्र तु तदभावादधिकाशङ्का दिग्वि-गाधिकरणातिदेशबीजमवीयम् ॥१७॥ 164 श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने । लक्षणा वाक्यभेदादिदोषो नानमिते बसौ" इति वार्तिकादिति भावः ।। *ते. बा.१-६-८. +ते. सं. ६-१-१. ते. सं.-६-३.
अधि...] भाट्टदीपिकासहितम्. 311 । दर्शपूर्णमासयोः "पर्व प्रति लुनाति" इत्यादिविधेः “यत्परु- पि.दि(त)नम् । तद्देवानाम् । यदन्तरा। तन्मनुष्याणाम् । यत्समूलम्। तत्पितॄणाम"* इति शेषः तथा सोमे “यत्पूर्ण सन्मनुष्याणां यदुप- र्यधस्तदेवानाम इशत “उपरि बिलाद्गृह्णाति” 'इत्यस्य विधेः । तथा तत्रैव “नवनोतेनाभ्यक्त" इत्यस्य "घृतं देवानां मस्तु स्तृिणां निष्पक्वं मनुष्याणाम्" इति । तथा दर्शपूर्णमासयोः ‘अविदहता श्रपयितव्यः) शृतंकृत्यः' : इति विधेः “यो विदग्धस्स नैर्ऋतः" : इति । तत्रमनुष्यसंयुक्त क्रियाविशेषस्य लवनादेरुपादानात् तत्र च -- B 1बर्हिर्लवनकाले पर्वस्थाने लवनं कार्यमित्यर्थः ॥ परुषि पर्वणि दितं लूनं बर्हिरादि । अन्तरा मूलपर्वणोर्मध्ये ॥ पूण प्रस्थादिभिर्मानदशायां मानपात्रादधिकोभूयवर्तमानं ब्रीहयवधृतादिकं मनुष्याणाम् । उपर्यध: मानपात्रस्य समतया वर्तमानं देवानाम् । देवानामित्येतदनन्तरं "अध: पितृणाम्" इत्येतद्वाक्यं श्रूयते । यत्तु मानपात्रस्याध एवं वर्तते तद्दव्यं पितृणाम् । मनुष्यादिस- म्बन्धि द्रव्यं मानदश यां थातथा मानपात्रौतव्यमिति भावः ॥ + यहा व्रीहियवादिकं प्रस्थादिभिर्निमाय ऋत्विग्मयो दक्षिणात्वेन दीय- ते तदा प्रस्थादिमानपात्रस्य बिलादपर्यप्यधिकतया यथा ब्रह्मिादिक- मवतिष्ठेत् तथा निमाय ग्राह्यमित्यर्थ इति कमलाकरादयः॥ भस्तु दधिमवं मण्डम् । निष्पक्व ईषद्विलीनं नवनीतम् ॥ 8 “यो विदग्धस्स नैरतो योऽशतस्स रोद्रो शृतस्स सदेवस्तस्मादविद- हता शृतंकृत्य (श्रपयितव्य) स्सदेवत्वाय" (ते. सं. २-६-३.) इत्या. म्नायते । विदग्धः अत्यन्तपक्कः । अशृत अपक्कः । शृतः पक्कः॥ 'मनुष्यसंयुक्ते इत्यस्य तात्पर्य पूर्वाधिकरण टिप्पण्या द्रष्टव्यम् ।। 8 उपादानात् 'अनुषजनात् ॥ तै. बा. १-६-८, तैि. सं. ६-१-१. तै. सं. २-६-३.
312 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. .. लवनत्वाद्यवच्छेदनान्तरात्वादिगुणानां नित्यप्राप्त्यभावा'द्विध्यन्तर- कल्पनया तत्र तावधानं । न च फलकल्पना । “तद्यथैवादोमनु- ष्यराज आगते" इत्यादौ “नयनं दक्षिणं दीक्षितः पूर्वमा- कुङ्क्ते : " इत्यादी च शतशस्तस्था अङ्गीकारात् । अन्यथा तत्त- स्मृतीनां तत्तदर्थवादोनोनविधिमूलकत्वानुपपत्तेः । “यो वि दग्धः" * इत्यत्र तु" विदग्धनिर्ऋतिदेवतोभयसम्बन्धस्याप्राप्तत्वाद्वि ध्यन्तरकल्पनायां नैव किश्चिद्वाधकमिति प्राप्ते- + .. । अनेन उपरिधारणाधिकरण [३-४ ५] सिद्धान्तयुक्तिः प्रशिंता ॥ "अन्यस्मिनुक्षाणं वहतं वा क्षदन्ते" इति वाक्यमस्य शेषः । अत्र च विशिष्टवाक्ये सिद्धवदनुवादान्यथानुपपत्त्या विशिष्ठपुरुषागमे मधुप- विधिः पुरुषार्थ. कल्प्यते ॥ 3 " सव्यं हि पूर्व मनुष्य आऽञ्जते" (तै. सं. ३-१.१.) इति वाक्यमस्य शेषः । अत्र शेषभूते वाक्ये सिद्धवदनुवादान्यथानुपपत्त्या दीक्षाबहिर्भू- तमनुष्यकर्तृकाजने गव्यपूर्बकवविधिः पुरुषार्थः कल्प्यते ॥ 4 "महोक्ष वा महाजं वा श्रोत्रियायोपकल्पयंत्" इत्यादीनां मधुपर्क सव्यपूर्वाञ्जनस्मृतीनाम् ॥ i; था च एतादृशस्मृतीनां प्रत्यक्षश्रुतिविधिमूलकत्वं नास्त्येव तादृशविधी- नामनुपलम्भात् । उपदर्शितार्थवादोनीत विधिमूलकत्वस्याप्यभावे स्मृती नां सर्वामां श्रुतिमूलकत्वसिद्धान्तः स्मृत्यधिकरण (१-३.१) सिद्धो भज्येतेति भावः ॥ तुशब्देनामेयादिवाक्यतुल्यत्वमस्य वाक्यस्य पूर्वोदाहृतवाक्यापेक्षया वि. शेषो दर्शितः॥ A तै. सं. २.६-३० अधिः ..] मादीपिकासहितम. 313 "परुष दि तं) नम्" इत्यत्र दितपदस्य वैदिकलवनपरस्य' 'अन्तरा'' इत्यत्रानुषङ्गेण तदर्थपरत्वे विकल्प प्रसङ्गात् अर्थान्त- परत्वे वैरुप्यापनेरनुषङ्गायागेन अध्याहारा वश्यंभावात्, यदन्तरां" इति यच्छब्दयोगेन च लोकप्राप्तयादृच्छिकान्तराल- वनव्यक्तिमुद्दिश्यैव मनुष्यसम्बन्धस्य स्तुत्यर्थमुपदेशप्रतोतेौकिक लवनत्वावच्छिन्ने अन्तरात्वस्याप्रतीतेस्तस्य च तद्वयक्तौ नित्य- प्राप्त्या न विध्यन्तरकल्पनम् । “नयनं दक्षिणं दीक्षितः पूर्व- माऽङ्क्ते सव्यं हि मनुष्या आञ्जते" इत्यत्र तु मनुष्यनेत्राञ्जनत्वा- च्छेदेनैव सव्यपूर्वकत्वस्य स्तुत्यर्थमुपादानात्ताहशस्य च नित्य- प्राप्त्यभावेन विधिकल्पकत्वमिति विशेषः । यादृशस्य हि स्तुत्य- थमुपादानं तादृशस्य नित्यवदप्राप्तौ विधिकल्पनं नान्यत्र । 1ते. बा.१-६-८. देवानामिति वाक्यशेषे देवानां कर्तृत्वाभावेन यादृच्छिकदेवकर्तकलव- नानुवादासम्भवादगत्या देवप्रधानककर्मपरत्वावगतेस्तदनुरोधेन दित- पदस्य तत्रत्यस्य वैदिकलवनपरत्वमावश्यकमिति भावः ॥ पर्वान्तरादेशयोः वैदिकलवने विकल्पः प्रसज्येत ॥ *अर्थान्तरं वैदिकातिरिक्तं लौकिकलवनम् ॥ श्रुतानुषक्तयोरेकार्थकत्वरूपमवैरूप्यं अनुषङ्गाधिकरण (२-१-१७) सिद्धम्॥ लौकिमलवनमात्रपरस्य लौकिकल्याध्याहारः ॥ इदमुपलक्षणं पूर्णनिष्पकवाक्ययोरध्याहारयच्छब्दद्वयाभावेऽपि सौक- न्मिाने पूर्णत्वस्य शिरसि निहितनिष्पक्कस्य सुखकरत्वाच स्सिद्धयादृच्छिकप्राप्तिमादायवानुवादत्वं वक्तव्यमिति ॥ 8. सं. ६-१-१ अन्तरवाक्ये यत्तच्छब्दयोरुपादानात् यच्छब्दस्य तच्छब्दावधिप्रसिद्धा- कत्वद्योतनेन बदन्तरा प्रसिद्धं सौकर्येण लवनं तन्मनुष्याणां १७ . स्वत- ॥
314 पूर्वमीमांसादर्शनं. अध्या.३.पा.४ अत एव-“यो विदग्धः" इत्यादौ विदग्धत्वनिन्दाथै तस्य कर्मानहत्वफलकनितिसम्बन्धमात्रस्योत्प्रेक्षाविधया सङ्कीर्तनात् नितिसम्बन्धस्य "तं यहं निर्ऋतिहाति" इत्यादौ कर्मान- हत्वप्रयोजनकत्वावगतरुत्प्रेक्षायां चोत्प्रेक्षितार्थस्य प्राप्त्यभावेऽपि क्षतिविरहात् निर्ऋते रक्षोधिपतित्वेन देवानहमक्षकत्वस्य प्रमा- णान्तरप्राप्तत्वाच न विधिकल्पकत्वम् । न खयं देवतातद्धितः । येन तस्या' अप्राप्तत्वाद्विधिः कल्प्येत । निन्दायै सम्बन्धसामा- न्येनापे तदुपपत्तेः । अता नैते विध्यन्तरकल्पका ॥७॥ मलिनानामित्येवं निन्दोत्रीतव्यतिरेकेण पर्वलवनस्तुत्यर्थ मनु'यसम्ब. न्धोऽन्द्यते । तद्वयक्तौ चान्तरात्वं नित्यप्राप्तमेव भवति इह तु यत्सव्यमञ्जते तन्मनुष्या इत्येवं यत्तच्छब्दयोरभावाद्दीक्षितस्यापि मनुष्यत्वेन व्यतिरेकविधया मनुष्यसम्बन्धस्तुत्यर्थत्वेनोपादानायोगात् मनु यनेत्राजनं लोके यतस्सव्यपूर्व प्रसिद्धमतो दीक्षितस्य नेत्रा- अनं वैदिककर्मकर्तृत्वादक्षिणपूर्वकमेवेत्येवं व्यतिरकविधयैव वामा- भिधेयसव्यपूर्वकत्वस्य स्तुत्यर्थमुपादानान्मनुष्यनेत्राञ्जनमात्रे सव्यपू- र्वकत्वस नित्यप्राप्तयभाव इत्यर्थः ॥ 1ते. सं २-६.३. अविद्यमानस्यैवाहार्यारोपणेत्यर्थ इति न युक्तं वेदे आरोपकपुरुषामा- वात् । तस्मात् उत्प्रेक्षाविधया इत्यस्य गोण्या वृत्या इत्यर्थः ॥ यस पुगंडाशः क्षायति तं यज्ञं निर्ऋतिहाति तत्संस्थाप्यान्यद्धवि- स्तंद्देवत्यं निर्वपेत्" इत्यादिसामान्यवचने ॥ +तस्याः देवारायाः ॥ तद्धितस्पोपपत्तेः ॥ 6 अत्राधिकार प्रयोजनं कृत्वा चिन्तात्वात् ने वाच्यमिति व्याख्यातारः॥
अधि..८.] भादीपिकासहितम्. 315 (6)-अकर्म ऋतुसंयुक्तं संयोगान्नित्यानुवाद- स्स्यात् ॥१०॥ विधिर्वा संयोगान्त- रात् ॥१६॥ ऋतुसंयुक्तं दर्शपूर्णमासप्रकरणाम्नातं अकर्म " नानृतं वदेत् "" इति निषेधः पुरुषार्थः संयोगात् पुरुषरूपकर्तवाचकाख्यातसमभिव्या- हागत् । कर्तुश्रुत्या उपस्थितौ तत्फलजनकताया एव कल्पयितुं युक्त- वात् । यदि तु “नानृतं वदेत्" इति स्मृत्यैव पुरुषार्थतया अनृतवदन- निषेधत्य प्राप्तिराशङ्कयत तदा श्रौतो निषेधोऽयं नित्यानुवादस्त्यात् ॥ १८ एवं पूर्वपक्षे सिद्धान्तमाह -श्रौतोऽयं निषेधः विधिर्वा विधिरेव ना. नुवादः संयोगान्तरात् विनियोगान्तररूपत्वात् । पुरुषार्थसंयोगपरात् स्मार्तनिषेधात् अन्य एव हि त्वर्थमयोगपरोऽयं निषेधः । अस्ति च पुरुषार्थमपि निषेधमतिक्रम्यानृतवदनेनापि क्रतुं साधयितुं प्रवृत्तख ऋतु- मध्येऽप्यनृतप्रसक्तिः । तस्मात् प्रकरणात् कवर्थ एवायं निषेध इति ॥१९॥ तत्तत्क्रतुप्रकरणस्था विधिप्रतिषेधविशेषाः “समिधो यज- 'नानृतं वदेत" इत्यादयः कि शुद्धपुरुषधर्माः उत क्रतुयुः तपुरुषधर्माः उत शुक्रतुधर्मा इति विचारः । । तै. सं २.५-५. भाष्ये प्राकरणिकं प्रतिषेधमात्रमुदाहरणतयोपात्तम् । अर्वाचीनस्तु कै- श्चित् प्राकरणिकानां प्रतिषेधानां प्राधान्येन चिन्ताविषयत्वं प्राकर- णिकानां विधीनां तु तदर्थचिन्ताविषयत्वमित्याहुः । तदिदं कटा- क्षयन्, विधीनामप्यत्र प्राधान्येन चिन्ताविषयत्वमविप्रतिपन्न प्रतिषेधानामेव विहोदाहरणत्वं “ यद्यपि" इत्यादिनाऽनुपदमाक्षि- प्य समाधेयमित्याशयेन विधीन् प्रथम प्रतिषेधाननन्तरं चोदाह- रति-विधीति । प्रकरणश्रुतिविरोधाविरोधविचारत्वेन सङ्गत्युपपत्तये तत्तत्क्रतुप्रकरणस्था इति विशेषणम् । तै. सं. २.६-१, ति" ..
316 पुवामासादर्शनं. अध्या ३. पा ४ यद्यपि च प्रतिषेधस्य परोहेशप्रवृत्तकृतिकारकत्वेन विधेयत्व- रूपमङ्गत्वमेव दुर्वचम् । प्रतिषेधपदार्थस्य निवर्तनाथा वदनानुकू- लकृत्यभावस्य वा सम्बन्धान्तरेण कृत्यन्वयित्वेऽपि निमित्तादि. वत् कृतिकारकत्वाभावात् । उपकारकत्वव्याप्यस्याङ्गत्वस्य "व्यापकाभावेऽसम्भवाच्च । 'प्रतिषेध्यवदनादेस्तु क्रत्वङ्गत्वपुरुषा- ङ्गत्वेऽविहितत्वादेव कृष्यादिवत् दूरापास्त । अताऽङ्गत्वासम्भवा- देव तद्विशेषविचारासम्भवः । तथाऽपि प्रतिषेधस्य पुरुषार्थत्वं "नाम पुरुषनिष्ठप्रत्यवायजन- कक्रियाविषयत्वम् । ऋतुसम्बन्धिपुरुषगतायाग्यतासम्पादकक्रिया- विषयत्वं च क्रतुयुक्तपुरुषधर्मत्वम् । क्रतुगतवैगुण्यापादकक्रियाविष- यत्वं शुद्धक्रतुधर्मत्वम्, इदं च यत्र न प्रतिषेध्याया विशिष्य शास्त्रे ण विहिता, यथा प्रकृतोदाहरणे । यत्र तु सा विशिष्य विहिता यथा षोडशिप्रहणादो तत्र प्रतिषेध्यषोडशिग्रहणाभावेऽपि तोः फल- स्वविषयकज्ञानजन्यानुमितिप्रयोज्याभावप्रतियोगत्वसंबन्धन । (१-२-१) अधिकरणे स्पष्टमिदम् । * निमित्तस्य कृतिनिरूपितमनुष्ठापकत्वमेव । आदिपदेन क्वाप्रत्ययाद्यर्थ सङ्गहः। 3 (३-१-२) अधिकरणे स्पष्टमिदम् । + यदर्था प्रतिषेध्यक्रिया तदर्थः प्रतिषेध इति वाद निरस्यति-प्रति- ध्येति । 5 चतुर्थाद्यद्वितीये वक्ष्यमाणं " 'स्व प्रार्थितवृत्त्युद्देश्यतानिरूपितविधेयताकत्वं पुरुषार्थत्वम् । स्वयंप्रार्थितभिन्नवृत्युइश्यतानिरूपितविधेयताकत्वं क्र- त्वर्थत्वम्” इति लक्षणे तु नेहोक्ते । इह निषेध्यक्रियागतपुरुषार्थत्व- द्वाराऽपि समर्थनाये निषेधगतपुरुषार्थवादी तथोरनुपयोगात् ।
अधि. ८.] भादीपिकासहितम्. 317 जनकत्वमित्यस्यैव निषेधेनाक्षेपा' दुक्तविधार्थानुमापकत्वेनैव प्रति- वेधस्य त्वङ्गताते ध्येयम्' अत एव-गौणमुख्यसाधारण्येनान- त्वमेवाध्यायार्थ इति म लक्षणासङ्गतिः । प्रतीते, तत्र सत्यपि भावार्थाधिकरणोक्तन्यायेन भावनावाचित्वे आख्यातस्य कर्ताऽपि वाच्यः; एकत्वादिवत् ततस्तस्यापि कतारें कृत्" इत्येतत्सूत्रस्थकर्तरीत्येतदनुकर्षणार्थ- चकारयुक्तेन “लः कर्मणि च भावे चाकर्मकेभ्यः" इत्यनेन' कर्तृ- कर्मभावानामप्याख्यातार्थत्वस्मृतेश्च । चैत्रः पचतीति चैत्रादिप- दसामानाधिकरण्या चैवम् । स च "भावप्रधानमाख्यातम्" इति स्पष्टमिदं चतुर्थाद्वितीयेऽधिकरणे । 'तथा च घोडशिग्रहणनिषेधेन कलर्थत्वस्य ऋतपकारजनकस्वाभावसहिते- तराङ्गकक्रियाविषयत्वरूपस्य सम्भवेऽपि तस्य त्वङ्गताऽनिश्चयादि- होदाहरणत्वासम्भवेऽपि अनृतवदननिषेधादीनां क्रतुगतवैगुण्यापाद- कक्रियाविषयत्वरूपस्य क्रत्वङ्गत्वस्य गौणस्य निश्चितखाद्भवत्येव तेषामिहोदाहरणतति भावः । ३२-१-२. 4 । अकर्मकेभ्यो भावे लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्यः कर्तरि च इति तत्सून.र्थ. । "थमः" "युष्मयुपपदे ममानाधिकरणे स्थानिन्यपि मध्यमः । अस्मद्युत्तमः । शेधे । इत्यनेनाख्यातस्य उपपदसामानाधिकरण्यं बोध्यते । तत्पदसामानाधिकरण्य च अभेदसम्बन्धेन तत्पदान्वितस्वार्थबोध- कत्वरूपं नीलो घट इत्यादौ दृष्टमिति सिद्धमाख्यातस्य कर्तवाच- कत्वमिति मावः ।
318 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ४ स्मृत्या एकत्वादिवदेव यद्यपि भावनां प्रति विशेषणत्वेना- न्वीयते, तथाऽप्युपस्थितत्वात्तवाचकपदान्तरमात्रकल्पनया' तदु. पकारस्यैव भावनायां भाव्यत्वेनान्वयो न तु कर्मणः विलम्बित- प्रतीतिकत्वात् । इष्यते च गुणत्वेन प्रतीतस्यापि प्रयोजनाका- ङ्क्षायां प्राधान्यं, यथा पशुपुरोडाशादौ देवतादेः । विधिनि- षेधाभ्यामपि स्वविषये तद्गतेष्टानिष्टसाधनत्वाक्षेपाचैवमेव युक्तम् । अतश्च विधिस्थले खर्गो निषेधस्थले च प्रत्यवाय एव क्रिया- फलं समानाभिधानविधिश्रुतिभ्याम् । न तु ऋतूपकारः प्रकर- णात् । एवं च यद्यप्याख्यातेन कर्ता नाभिधीयते तथापि भावनयाऽऽक्षिप्तस्याख्यातेन लक्षितस्य च तस्यैदोपस्थितत्वात्त- दर्थत्वकल्पनं न दोषः । अतश्च वैमृधवत् प्रकरणबाधेन शुगपु. रुषधर्मत्वावगतः । तदा च अनृतवदनप्रतिषेधस्योपनयनप्रभृति' प्रवृत्तेस्स्मार्तानृतवदनप्रतिषेधस्या पादमेव मूलमिति प्रथमः पक्षः। 'भावो भावना प्रधान प्राधान्येन मुख्यविशेष्यतया प्रतिपाद्यं यस्य ता- दृशमाख्यातमिति यास्कवचनस्यार्थः । 'वैधाधिकरणे उपस्थितत्वात्पदान्तरकल्पनं स्थितम् । १०-१-१ अधिकरणे स्पष्टमिदम् । + श्रुतिनः प्रकरणस्य दौर्बल्यं ३-३-७ अधिकरणे स्थितम् । 5 कर्तुराख्यातवाच्यत्वपक्षेऽपि उपस्थितकर्तृवाचकपदकल्पनालाघवस्यैव पुरु- पार्थतासाधकमूलयुक्तिवे चेत्यर्थः । ४-३-११. अधिकरणे स्पष्टमिदम् । प्रागुपनयनात्कामचारकामवादकाममक्षाः” इति स्मृतेः सर्वेषां श्रीतस्मा- तनिषेधानामुपनयनप्रभृत्येव प्रवृत्तेः न प्रवृत्तिकालवैषम्यमूलिका मूल- मलिभावानुपपत्तिश्शाया। "नानृतं वदेत्" इत्यादिस्मार्तोपि निषेधः । 8 :
अधि.८] भाहदीपिकासहितम्. 319 'द्वितीयस्तु-सत्यपि पुरुषप्राधान्यावगमे स्वर्गप्रत्यवायादि- कल्पनापेक्षया ऋतुगतफलाधानयोग्यत्वायोग्यत्वरूपसंस्कारस्यै- व प्रकरणावगतस्य श्रुत्यपेक्षितस्य कल्पनं युक्तम् । अतश्व जजभ्यमांनमन्त्रवत् एषां ऋतुयुक्तपुरुषधर्मत्वम् । तदा च "प्रियं च नानृतं ब्रयादेष धर्मस्सनातनः इति स्मृते सनातनग्रहणेन सार्वकालिकविषयत्वावगते- रेतन्मूलकत्वासम्भवेन मूलान्तरस्यावश्यकत्वात्सर्वदा चानृतं वर्ज- यतः क्रतावनृतप्रसक्त्यभावादनुवाद एवायम् । अस्तु वा-पुरु- षार्थप्रतिषेधेन पुरुषस्यानृतवदने प्रत्यवायबोधनेऽपि ऋतुवैगु- ण्याद्यापत्तौ प्रमाणाभावात् यः प्रत्यवायं सोद्वाऽपि ऋतुं सगुणं कर्तुमिच्छेत् तस्य 'बीहिभिर्यक्ष्ये' इत्युक्ता सम्भवत्येव यवै- योगेऽनृतप्रसक्तिरिते क्रतुप्रकरणगतस्यापे निषेधस्य विधायक- त्वम् । अतश्चैतदतिक्रमे श्रौतप्रायश्चित्तप्राप्तिश्च फलमिति प्राप्ते- सत्यं नानुवादः । क्रतुयुक्तपुरुषधर्मत्वे तु न किञ्चित्प्रमा- णमस्ति । यद्यपि तावत्कर्ता वाच्यस्सयात् तथापि तस्य 1 सूत्रस्थनित्यानुवादपदानुरोधेन पक्षान्तरमाह। 2 अग्रिमाधिकरण एवेदं स्पष्टम् । 3 “सत्यं ब्रूयाप्रियं ब्रूयान ब्रूयात्सत्यमप्रियम्" । इत्यस्याः पूर्वार्धम् । *सर्वपदेनोपनयनपूर्वकालोपि गृहीतः । एतत्स्मृत्युदाहरणं च "न संशयं प्रप- घेत नाकस्मादप्रियं वदेत् । नाहितं नानृतं चैव न स्तेनस्स्यान वा- घुषिः" इत्यादिस्मृतीनामप्युपलक्षणम् । । इदं च ऋतुबुकंपुरुषधर्मवपक्षमाश्रित्य । शुबपुरुषधर्मले विधित्वस्य प्रथ- ममेवोक्तत्वात्। ४३-४-३. अधिकरणे टिप्पण्यामिद द्रष्टव्यम् ।
820 पूर्वमामासादर्शनं. [अध्या. ३. पा. ४ वक्ष्यमाणरीत्या गुणत्वेनैवोपादानान तावच्छब्दत एव प्राधान्यम् । नापि पदान्तरकल्पनया वैमृधादिवत् । कर्तुः प्रयोजनवत्व सिद्धार्थमवश्यं प्रकरणालोचने क्रियमाणे तोरुपस्थितस्वेन तत्सा- द्रुण्यवैगुण्यपरिहारयोरेव प्रवर्गयन्यायेन कल्पयितुं युक्तत्वात् । अत एव-यत्र पशुपुरोडाशादौ उद्देशांशस्य दृष्टविधया देव- तासंस्कारकत्वानादृष्टोपकारकल्पना तत्र सन्निपत्योपकारकत्व- लाभाय परम्परागीकरणमप्यदोषः । जञ्जन्यमानमन्त्रे तु वक्ष्यते । प्रकृते तु समिदादेः प्रकृतापूर्वसाधनीभूतपुरुषोद्देशेन प्रकृतक्रतु- फलाधानयोग्यतासम्पादकतया विधाने गौरवापत्ताघवा प्रकृ. तापूर्वसाधनकतुगतसाद्गुण्यसम्पादकत्वमेव समिदादीनाम् । अनु- तवचनस्य च तद्वतवैगुण्यसम्पादकत्वम् । अतः शुद्धक्रतुधर्मत्वमेव कर्तुर्वाच्यत्वपक्षेऽपि युक्तम् । वस्तुतस्तु-न तस्य वाच्यत्वम् । प्रतीतेरन्यथाऽप्युपपत्तेः । तथाहि-आख्यातात्तावत् कर्ता कृतिरेकत्वादिकं प्रतीयत इत्य- विवादम् । तत्रानेकार्थबोधकपदे सर्वत्रैव एकत्र शक्तिरपरत्रा- क्षेपादीत्यपि तथैव । इतरथाऽनेकशक्तिकल्पनापत्तेः । तत्र च नियामकापेक्षायां प्रधानेन गुणभूतस्य लोके आक्षेपदर्शनात् प्रा. 1४-३-११. 2३-३.१२. "पुरस्तादुपसदां प्रवर्येण प्रवृणक्ति” (तै. आ ८.६.) इत्यत्र उपसदा स्ववक्ये श्रुतत्वेऽपि तासां फलवस्वाय प्रकरणपर्यालोचनेनोप- स्थितक्रत्वर्थत्वमेव प्रवर्यस्थेति स्थितम् । ३१०-१-९. प्रकृतापूर्वसाधनीभूतपुरुषगतप्रकृतऋतुफलाधानयोग्यतापेक्षया प्रकृतकतूपका- रस्य लघुशरीरत्वादस्यैव फलस्वमिति भावः ।
अधि. - ८.] भादीपिकासहितम्. 321 धान्यं तावनियामकम् । तच यथा सत्त्वप्रधानानि नामानि" इत्यनया स्मृत्या कृदन्तादिनामसु सत्त्वरूपस्य कर्तुरेव प्राधान्या- वगमावाच्यत्वं; न कृतेः लक्षणादिनापि तत्प्रतीत्युपपत्तेः, एवं - माख्यातें, "भावप्रधानमाख्यातम्" इति स्मृत्या भावनाया एव प्राधान्यावाच्यत्वं; नाश्रयस्य कर्तृकर्मादेः लक्षणयाऽपि तत्प्र- तीतेः । अत एव यत्र न किश्चित्प्राधान्यनियामकं तत्रैव घटत्वादौ नागृहीतविशेषणान्याय इत्यादि कौस्तुभे* स्पष्टम् । यत्र तु नैक- वादौ व्यभिचारा दाक्षेपः तत्रातिरिक्तैव शक्तिः, न तु कादौ । या तु स्मृतिस्तत्र प्राञ्चः-“चकयोर्द्विवचनैकवचने, बहुषु बहुवचनम्" इति सङ्ख्याशास्त्रण "लः कर्मणि' इत्यादरकवाक्यता। अत्र हि “येकयोः" इत्यत्र भावप्रधानो निर्देशः, द्वित्वैकत्व- योरित्यर्थः । अन्यथा द्वयेष्विति बहुवचनापत्तेः । तथा च कर्नादौ वर्तमानेषु एकत्वादिषु लकारादशभूततिबाघेकवच- नादीनि भवन्तीति सूत्रद्वयार्थः ; न तु कादौ लकारश्शक्त इति । न चैवं कर्नादेरनभिहितत्वात्तत्र तृतीयाद्यापत्तिः ; शक्तयाऽनभि- धानेपि लक्षणयाऽभिधानादिति । ~. 1तच .तश्चेत्यर्थः । प्राधान्यस्य॑व वाच्यतानियामकत्वादिति यावत् । सत्त्वं द्रव्यं प्रधानं विशेष्यतया प्रतिपाद्यं येषां तानि सत्त्वप्रधानानि । एवं तथेत्यर्थः । “तच्च यथा" इत्युपक्रमानुसारात् । भावार्थाधिकरणे २.१-२. भावनाया एकाद्ववहुकर्तृसाधारण्यादिति भावः । तथा च लक्ष्यं कर्तकर्मादिकमादायवाल्यातसामानाधिकरण्योपपत्तिरिति न सामानाधिकरण्यस्य कर्तवाचकतायां साधकत्वम् । प्राश्वः भाष्यकारप्रभृतयः पार्थसारथिमिश्रपर्यन्ताः । 41 322 "पाचकेन पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ४ अत्रानभिहितत्वं अभिहितत्वाभावः । तश्चाभिहितत्वं न तिकादिवाच्यत्वं तत्प्रतिपाद्यत्वमात्रं वा-तथात्वे गम्यते” “चैत्रेण भुक्ता गम्यते” इत्यादौ तृतीयाद्यनापत्तेः; कृत्प्रत्ययन कर्तुरुपात्तत्वात्, तापत्ययेन समानकर्तृकत्वोक्तया कर्तुरुपादानाञ्च । नाप्याभिहितसङ्ग्याकत्वम्-चैत्रेण पंक्व इतिवत् चेत्रेण पाचक इति प्रयोगापत्तेः । सूत्रे लक्षणापत्तेश्च । विषवृक्षोपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् । इति निपातेन युज्यत इति क्रियाभिधायकेन सहयानभि- धानात् वृक्षमिति द्वितीयापत्तेश्च । अपि तु-यवृत्तिकारकत्वं स्वा- न्वयिक्रियाप्रतिपादकेन पदेन वृत्त्या प्रतिपाद्यते तत्त्वम् । अस्ति चेदं “चैत्रः पचति" ओदनः पच्यते” इत्यादी, चैत्रादि- वृत्तिकर्तृत्वकर्मत्वादेनिरुतपदेन प्रतिपादनात् । "पाचकेन गम्यते” इत्यादौ च कृदुपात्तस्य पुरुषस्य गमनक्रियैवान्वयिनी, न तु पाकक्रिया, तस्या एव तास्मन्नन्वयात्, तद्वत्ति च कारकत्वं न कर्माख्यातेनाभिहितमिति युक्तंव तत्र तृतीया । एवं चैत्रे- त्यस्य भुजिक्रियायामनन्वयात् गमनक्रियायामेवान्वयाङ्गीकारात्त. तीयोपपत्तिः । " मयैव पक्ता मयैव भुज्यते” इत्यत्र तु पक्ता ' एवं प्राचां मतनुपन्यस्य तत्र प्रसक्तमनभिहितवं स्वयं निष्कर्षयति॥ पाचकादगतेन ज्वला । 'कृता सङ्गयाऽनमिधायकवादिति भावः । । कर्तृकरणयोस्तृतीया" इत्यादावनभिहितायां कर्तसङ्ग्यायामित्याद्यर्थाङ्गी- कारे कळदिपदस्य कर्तगतसङ्ग्यादिपरत्वं लक्षणयैव वाच्यमिति 'कर्तकर्मणोः चैत्रौदनयोरिति शेषः ।
भधि ८.] भादीपिकासहितम्. 328 अपितु इत्यनेन कर्तुरुपात्तत्वान कर्तरि मया इत्यादितृतीया । आत्मानमात्मना वेत्ति "अनेन जीवेनात्मनाऽनु- प्रविश्य नामरूपे व्याकरवाणि" इत्यादिवत् करणे इति न काचि- दनुपपत्तिः । पक्तौदनो भुज्यत इत्यादौ तु पचधातोः कर्माका- क्षायां द्वितीयान्तौदनपदाध्याहारेण वाक्यपूरणम् । न हि प्रधान- क्रियायामुक्तस्य कारकस्य गुणभूतक्रियायामप्युक्तिरिति नियमे प्रमाणमस्ति, येनाध्याहारं विनाऽपि वाक्य समयत । तथात्वे ओदनं भुक्ता शास्त्रं पठ्यते." श्रुत्वाऽप्यर्थ नानुमतस्तेन सोऽर्थः कुबुद्धिना । इत्यादिद्वितीयाप्रयोगानुपपत्तेः । यदि तु-उक्त प्रयोगेष्वना- श्वासः । मयैव पक्ता मयैव भुज्यते” इत्यत्र च कर्तर्येवा- था तृतीया । पक्तौदनो भुज्यत इत्यत्र नाध्याहाराङ्गीकरणम् । तथा- उक्तनियममङ्गीकृत्य काप्रत्ययस्यापि च भाव एव शक्ति- मङ्गीकृत्य तदर्थस्य भावस्य पूर्वकालत्वसमानकर्तृकत्वसंसर्गेणो- त्तरक्रियायामन्वयोऽङ्गीक्रियते । तदाऽस्तु यत्तिकारकत्वं स्वान्व- यिप्रधानक्रियाप्रतिपादकेन पदेन वृत्त्या प्रतिपाद्यते तत्त्वमाभ- हितत्वं तदभावोऽनभिहितत्वं, तत्र तृतीया इति संक्षेपः ॥ 1 तथाचाध्याहृतोदनपदार्थस्यैव पक्तेत्यत्रान्वयात्प्रथमान्तौदनपदप्रतिपाद्यौद- नवृत्तिकर्मत्वस्य भुजिक्रियायामेवान्वयान पचिक्रिया स्वान्वयिनी- लाशयः । 2 पक्तौदन इत्यादिकम् । प्रधानगुणनिरूपितक्रिययोरेकवस्तुगतत्व एवोक्तनियम इत्युक्तावप्युदाहरणा- न्तरेऽनुपपात्तिमाह-श्रुखेति ।
324 पूर्वर्मामांसादर्शनं. [अध्या. ३. पा. ४ अत्र वदन्ति-एवं सति ल इति षष्ठ्यन्तं तिवाचन्वितं वाच्यं प्रथमान्तस्यानन्वयात् । अतश्च लस्य" इति सूत्रवैयर्थ्यापत्तिः । लादेशभूतशानजादेः कादिवाचित्वानुपपत्तिश्च । न च : कर्तरि कृत्" इत्यनेन तद्वाचित्वम् । तथात्वेऽपि कर्मणि भावे चाकर्म- केभ्यस्तत्प्राप्तस्सूत्रान्तराविषयत्वात् । अत एवं परिहर्तव्यम्- इति प्रथमान्तं कर्नादावेवान्वेति । न त्वेतावता, तस्य वाच्यत्वम् । लाघवेन वृत्त्या तद्गम्यत्वस्यैव शास्त्रतात्पर्यविषयत्वेन शक्तंचशे तद्वयापाराकल्पनात् । सा तु प्राधान्यं विनैव सिद्धयतीति सिद्ध. माख्याते कर्नादेरवाच्यत्वम्, शानजादौ च वाच्यत्वमिति, 'लस्य इति सूत्रस्य च तिबादीनां लादेशत्वविधायकस्य न वैयथर्थम् । अतः कर्तुरवाच्यत्वाद्वाच्यत्वेऽपि वा प्राधान्यस्य दूरभ्रष्ट- त्वान्न ऋतुयुक्तपुरुषधर्मत्वम् । एतेन लक्षणया तस्योपस्थितत्वा- देव तत्कल्पनेति निरस्तम् ॥ प्रयोजनं त्वाद्यपक्षे स्मार्त प्रायश्चित्तम् । क्रतुयुक्तपुरुषधर्मत्वे फलिसंस्कारकत्वाद्यजमानेनैव विधिप्रतिषेधार्थसम्पादनं ; न तु समाश्ययाऽध्वर्युनियमः । शुद्धक्रतुधर्मत्वे तु विधिषु सति स- म्भवे तया नियमः । निषेधेषु तु तस्या नियामकत्वासम्भवा- कर्तृमात्रेण वर्जयितव्यमिति ॥ ८॥ एवं प्राचीनमीमांसकोक्ते “लः कर्मणि" इति सूत्रार्थे मनोरमाकारादिन- वीनवैयाकरणोक्तदूषणमुपन्यस्य स्वयं प्रकारान्तरेण तत्सूत्रार्थ- माह-अत्र वदन्तीत्यादिना । फलिसंस्काराणां याजमानत्वं ३-८-२. आधिकरणे द्रष्टव्यम् । तत्तयजमानादिमापकसमाख्यादिप्रमाणान्तरसत्त्वे तु सत्यप्याध्वर्यवकाण्डपठि- तले नाध्वर्युनियम. । तदभावे तु तया समाख्ययाऽध्वयुनियम इत्यर्थः । 'निषेधस्यानुष्ठेयत्वाभावात् गुणभूतत्वेन कनपेक्षणात् समाख्याया निया- 0 अधि.] भाहदीपिकासहितम्. 325 तद्युक्तस्य (९)-अहीनवत्पुरुषधर्मस्तदर्थत्वात् ॥ २० ॥ प्रकरणविशेषाहा संस्कारो द्रव्य. वत् ॥ २१ ॥ व्यपदेशादपकृष्येत ॥२२ "जञ्जभ्यमानोऽनु)ब्रूयान्मयि दक्षक्रतू इति" इति वाक्ये दर्शपूर्णमा- सप्रकरणानाते. विधीयमानो मन्त्रपाठः पुरुषधर्मः पुरुषार्थः जञ्जभ्य- मान इति शान : तदर्थत्वात् पुरुषवाचकत्वात् । अहीनवत् यथा द्वादशाहीनस्य" इति वाक्ये विधीयमानं द्वादशोपसत्त्वं अहीनवाचिपद- श्रवणात् प्रकरणमपि बाधित्वा अहीनार्थमित्यवगम्यते तथा इहापि पुरुष- वाचकशानचश्श्रवणात् प्रकरणं बाधित्वा पुरुषार्थ एव मन्त्रपाठ इति युक्तमाश्रयितामिति ॥ २० ॥ एवं पूर्वपक्षे सिद्धान्तमाह--तद्युक्तस्य वा प्रकृतदर्शपूर्णमासरूपक्रतुयुक्तस्य पुरुषस्य संस्कार एव स मन्त्रपाठः न तु केवलपुरुषधर्मः कुतः प्रकरणावशेषात् प्रकरणविशेषानुग्रहात् । द्रव्यवत् यथा व्रीहीन् प्रोक्षति" इत्यत्र प्रकृतक्रतुसम्बन्धितीहीणामे- व ग्रहणं न पुनव्रीहिसामान्यस्य प्रकरणानुग्रहानुरोधात् तद्वत् । अन्यथा हि प्रकरणबाधस्स्यात् । न चैतद्युक्तं अबाधे सभ्मवति बाधकल्पनायोगात् ॥ २१॥ यत्र तु प्रकरणस्य अबाधोऽसम्भवी तत्र तस्य बाधोऽप्यगत्याऽङ्गीकि- यत इत्याह-व्यपदेशात् “तिस्र एव साहस्योपसदो द्वादशाहीनस्य" इत्यत्र अप्रकृतस्य अहीनकतोः अहीनशब्दनोपादानात् द्वादशोपसत्त्वं ज्योतिष्टो- मप्रकरणात् अपकृष्येत विच्छिद्य अहीने अप्रकृते निवेश्येत । अही- नशब्दस्य प्रकृतज्योतिष्टोमपरत्वाङ्गीका गौणत्वापत्तिः । अतोऽत्र प्रक- रणस्याबाधायोगात् बाध एवागत्या स्वीक्रियते । प्रकृते तु न तथेति ॥२२॥ मकत्वानुपपत्तेर्यत्रैव प्राप्तिः क्रतावनृतस्य तत्रैव निषेधकरणाद्यजमानस्य ऋत्विजां चं तत्माप्तेस्सर्वैः ऋतुसंबन्धिभिः कर्तृभिनिषेधपरिपालन कर्तव्यमित्याशयः । तै. सं. २-५-२, तै. सं. ६-२-५. ।
326 ३ पूर्वमीमांसादर्शनं. [अध्या. ३. पा.. ज्योतिष्टोमे "तीर्थे स्नाति तीर्थमेव समाना(जाता)नां भवति" इत्यत्र तीर्थस्नानस्य प्रकरणादेव पूर्व'वदारादुपकारकत्वं प्राप्त पशुपुराडाशन्यायेन' दृष्टरूपमलापाकरणार्थत्वलिङ्गेन बाधित्वा ऋतुयुक्तपुरुषधर्मत्वम् । अप्सु दीक्षातपसी प्रावेशयन्" इत्य- र्थवादे अप्सु दीक्षावत्त्वसङ्कीर्तनात् दीक्षायाश्च यमनियमपरिग्र- हरूपायाः पुरुषसंस्कारकत्वस्य " गृहपतिं दीक्षयंति" इत्यादिना स्पष्टत्वादपि स्नानस्य ऋतुयुक्तपुरुषधर्मत्वम् । अत एव-कर्तृ- त्वांशे वैय•दनुपयोगेऽपि फलाधानांशे उपयोगकल्पनादस्य याजमानत्वमिति । स्पष्टत्वादेवेदं मूले उदाहृतमपि न विचार्यते । दर्शपूर्णमासयोस्तु "जअभ्यमानो(ऽनु)बूयात् मयि दक्षऋतू इति प्राणापानावेवात्मन्धत्ते" इति श्रुतो मन्त्रपाठः किं शुद्धक्रतुधर्मः ? उत शुद्धपुरुषधर्मः? आहोस्वित् ऋतुयुक्तपुरुषधर्म इति चिन्ता- यां-पूर्वग्त्पुरुषस्य शानजुपात्तस्यापि सर्वप्रधानभूतायां भावनायां चैत्रादिवद्विशेषणत्वेनोपादानात्प्रवर्यन्यायन नुपपत्तेः “लक्षणहेत्वोः क्रियायाः" इत्यनेनानुवचनक्रियायां लक्ष- णत्वेनावगतस्य जृम्भणस्य भाव्यत्वादिना लक्षणत्वायोगाग्निमि- त्तत्वप्रतीतेर्तृभ्भाशं निमित्तेऽनुवचनं भेदनहोमवदारादुपकारकम् । शानजुपात्तकर्ता तु अर्थप्राप्तत्वादनुवादः । वस्तुतस्तु-अनुव- चनस्यारादुपकारकत्वे समाख्यया आध्वर्यवत्वापत्तेर्यजमानान्य- पुरुषजृम्भायामपि तत्कर्तृकमन्त्रपाठापत्तेः कर्तृकमन्त्रपाठापत्तेः शानजुक्तजृम्भाकर्तृ- कर्तृकत्वानुवादानुपपत्तेरवश्यं जृम्भाषाः पुरुषविशेषणत्वमङ्गीकृत्य जअभ्यमानकर्तृविशिष्टमनुवचनमेवाध्वर्यवं विधीयते आरादुपका- 1. सं. ६.१.१. १(३-४-८) अधिकरणे स्पष्टम्. *(१०.१-९) अधिकरणे स्पष्टम्. 'तै. सं. २-५-२. (३-३-१२) अधिकरणे स्पष्टम्. प्राधान्यकल्पना- अधि. ९.] भा:दीपिकासहितम्. 327 . रकत्वेन । ततश्च जृम्भायाः क्रियां प्रात निमित्तत्वेनान्वयायोगादा- थिकमेवास्याः वषट्रारादिवनिमित्तत्वमिति प्रथमः पक्षः ॥ द्वितीयस्तु-जञ्जभ्यमानस्य कर्तृत्वेनानुवचनं प्रति गुणत्वाङ्गी- कारें गुणानुरोधेन प्रधानभूतानुवचनस्य ऋतौ पाक्षिकत्वापत्तेः जञ्जभ्यमांनस्य क्रियां प्रति शब्दतो विशेषणस्यापि स्वर्गादिवदेव प्राधान्यम् । तदा हि-प्रधानानुरोधेन पाक्षिकत्वेऽपि न दोषः । यद्यपि च तिङभिहितकारकत्वमेव प्रथमार्थः न तु संस्कार्यत्वम् । तथाप कर्तृत्वस्य . फलसमानाधिकरणत्वतद्वयधिकरणत्ववैशिष्टयभेदेन भिन्नत्वात् उक्तयुक्तयेह फलसमानाधिकरणकर्तृत्वस्यैव प्रथमार्थ- त्वात् फलभोक्तृत्वरूपसंस्कार्यत्वसिद्धिरविकलैव । एतदभिप्रा- येणैव कौस्तुभे अधिकारित्वस्य प्रथमार्थत्वोक्तिरिति ध्येयम् । अतो जञ्जभ्यमानोडेशेनानुवचनविधानात्प्रकरणानुरोधेन च वाक्य- सङ्कोचे प्रमाणाभावाच्छुद्धपुरुषधर्मत्वम् । न च फलकल्पना । प्राणा पानधारणरूपस्य फलस्य स्ववाक्य एव क्लुप्तत्वेन तदभावात् । यद्यपि चायमर्थवादस्सयात् । तथाऽपि प्रकरणावगतक्रतूपकारा- पेक्षयाऽस्यैव स्ववाक्योपस्थितस्य तद्वाचकपदान्तरकल्पनया फलत्वस्यौचित्याश्च । अतश्शुद्धपुरुषधर्मत्वामति प्राप्ते-- न तावत् फलं क्लुप्तम् । धत्त इति वर्तमानत्वनिर्देशेन योग्यानु- पलब्धिबाधितत्वात् । अतोऽस्य स्तुत्यर्थत्वेनैवान्वयमङ्गीकृत्य फलापेक्षायां कामपदयुक्तपदान्तरकल्पनयाऽस्यैव वा भविष्यदर्थ- कत्वकल्पनया फलपरत्वं परिकल्प्य तस्य कथञ्चिजअभ्यमान- कर्तृभोग्यत्वं वाच्यं, तथा सात फलं तजनकत्वं तद्वयापाररूपा- पूर्वकल्पनं चेत्यनेककल्पनातो वर प्रकरणानुरोधेन क्लुप्तऋतुफ- लाधानयोग्यताजनकत्वमात्र क्रत्वपेक्षितत्वात्कल्पयितुमुचितमिति क्रतुयुक्तपुरुषधर्म एवायम् । फलाधावयोग्यतासम्पादकत्वाञ्च याजमान इति प्रयोजनम् ॥९ अत्र 328 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ४. (१०)-शंयौ च सर्वपरिदानात् ॥ २३ ॥ अहीनवत्" इति पूर्वसूत्राध्याहृतस्य अपकृष्यतेति पदस्या- नुषङ्गः । मण्डूकप्लुत्या च व्यवहितस्यापि कर्प्रधिकरणपूर्वपक्षसूत्रस्थस्य अक- मपदस्यानुषङ्गः । तथा च शंयौ च “दवा वै शंयु बार्हस्पत्यमनुवन् हव्यं नो वहेति सोऽब्रवीत् वरं वृणै कि मे प्रजाया इति तेऽ ब्रुवन् यो ब्राह्मणायावगुरेत् तं शतेन यातयात्तस्मान ब्राह्मणायावगुरेत् ॥ इत्यस्मिन् शंयूपक्रम दर्शपूर्णमासप्रकरणाम्नाते वाक्ये यत् अकर्म निषे- धकं दण्डोद्यमनादिरूपावगूरणादिप्रतिषेधात्मकं तत्तु शुद्धपुरुषधर्मः प्रकर- णादपकृष्येत कुतः सर्वपरिदानात् सर्वावस्थस्य दर्शपूर्णमासकर्तृलाव- स्थानपेक्षस्य पुंसो नरकपरिहारार्थ ब्राह्मणावगूरणादीनां दानात् खण्डनात् प्रतिषेधबोधनात् । अथवा-प्रजात्लेन सङ्कीर्तितब्राह्मणमात्रस्यैव परिपा- लनं यच्छंयुन। प्रार्थितं तव देवैर्दानात् सर्वब्राह्मणविषयकावगोरणनि- षेधस्य प्रकरणेन सङ्कोचायोगादिति ॥ २३॥ अत एव दर्शपूर्णमासयोः “देवा वै शंयुं बार्हस्पत्यमब- वन् हव्यं ना वहेति सोऽब्रवीत् वरं वृणे किं मे प्रजाया इति तेऽब्रुवन् यो ब्राह्मणायावगुरेत् तं शतेन यातयात् तस्मान्न ब्राह्मणायावगुरेत् इति श्रुतो दण्डोद्यमनादिरूपावगोरणप्रति. धोपि शुद्धपुरुषार्थ एव यातनारूपस्य फलस्य क्लृप्तत्वेन प्रकर- णेन वाक्यसकोचायोगात् । अत्र ह्याशिषिलिप्रवर्तनाया बाधात् । आख्यातार्थोऽपि लक्षणया भोगरूपानुभवो निस्तारो वा । तमिति द्वितीयार्थो विषयत्वम् । तथाचावगोरणकर्तृविषये शत- गुणं यातनानुभवः शतसंवत्सरेण वा तनिस्तारो भवत्वित्यर्थः । 1. सं. २-६-१०. 2 पूर्वाधिकरणप्रत्युदाहरणत्वमयाधिकरणय स्पष्टयितुं . पूर्वपक्षमनुपन्य स्यैव सिद्धान्तमाह-अत एवात फलश्रवणस्य लप्सत्वादेवेत्यर्थः ॥
329 अधि. १०.] भाहदीपिकासहितम्. वस्तुतस्तु --आख्यातार्थोऽनुभावनादि, लिङर्थोऽनुकूलव्यापार ए. व! तथा च तं प्रति भवान् शंयुरनुभावयेदित्यर्थः । अत्र च लिडुपादानेन पूर्ववर्तमानत्वाप्रतातर्यातनायास्साध्यत्वावगमानि- षेध्यफलं कामपदाद्यभावेऽपि क्लुप्तम् । अतश्शुद्धपुरुषधर्म इति प्रत्युदाहरणमात्रम् । अत एव सामान्येन शंयोर्वरदानमपि स. गच्छते । पुरुषधर्मत्वं च पुरुषनिष्ठफलजनकक्रियाविषयत्वमानं; न तु पुरुषस्य संस्कार्यतया शेषित्वं प्रमाणाभावादिति ध्येयम् । न च ऋताववरणप्राप्त्यभावादेवास्योत्कर्षसिद्धेर्न प्रत्युदाहरण- त्वमिति वाच्यं, अन्वाहार्येणानत्यसम्भवे तस्यापि तदर्थ प्राप्तः । तूपकारकतया प्राप्त्यभावेऽपि “न स्त्रियमुपेयात्"* इतिवत् ऋतुमध्यप्रसक्तंप्रतिषेधस्यापि क्रत्वङ्गत्वोपपत्तेश्च । अतश्च फलस्य क्लप्तत्वादेव पुरुषधर्मत्वम् । अत्र चार्थवादोत्रीतस्य पदान्त- रस्य फलपरत्वं अस्यैव स्वर्गादिवद्वा तत्परत्वमित्यादि तु स्व.. यमूह्यम् ॥ १०॥ -:08 * तै. सं. २-६-६. यातनानुभवजनक यातना योगादरूपमनुभावनमवगोरणकर्तुनिष्ठं आख्या- तार्थः तदनुकूलव्यापारश्शंयुनिष्ठे लिङर्थ इत्यर्थः ॥ क्रतुयक्तपुरुषापेक्षितभोक्तृत्वयोग्यताधानाख्यफलनिगसेन पुरुषमात्रापेक्षि :- नरकपरिहाराख्यफलोक्त्यर्थवादवेत्यर्थः ।। * सम्पूर्णय पूर्वतनभागस्यावगोरणादिनिन्दार्थत्वेन फलप्रतिपादनाशक्तरुपस्थि- तख यो य तनामनुभवितुमिच्छेत्स ब्राह्मणमवगुरेत हन्याद्वा इत्येवं- रूपपदान्तरकल्पनया तस्यास्तत्फलस्वम् । अथवा - आशीरर्थलिङा- श्रयणेनान्यवधानादेवैतदेव वाक्यं निषध्यफलयातनाधिक अन्यतु तदुपष्टम्भकामिति । आदिपदेन प्राप्तं प्रयोजनं च स्वयमह्यमित्यर्थः । प्रयोजनं च तत् पूर्वपक्षे ऋत्विज: अनुत्विजो वा ब्राह्मणमात्रस्य 42 330 पूर्वमामांसादर्शनं. [अध्या. ३. पा. " . (११)-प्रागपरोधान्मलवद्वाससः ॥ २४ ॥ अन्नप्रतिषेधाच ॥२५॥ मलवद्वाससः “मलवद्वाससा न संवदेत"* इत्वत्र दर्शपूर्ण- मासप्रकरणे श्रुतः मलवद्वाससा रजस्वलया सह संवादस्य प्रतिषेधः पुरुषार्थ एव न क्रत्वर्थः । कुतः रजस्वलायाः प्रागपरोधात् “यवं व्रत्येऽहन्पल्पनालम्भुका स्यात्तामपरुध्य यजेत" इत्यनेन क्रतुप्रयोगात्प्रागेव क्रतुप्रयोगबहिष्करणरूपस्यापरोधस्य विधानात् । ऋतुप्रयोगमध्ये तया सह संवादसाप्रसक्ततया तनिषेधस क्रत्वर्थत्वायोगात् ॥ ४ ॥ अन्नप्रतिषेधाश्च नास्या अन्नमद्यात्, अभ्यञ्जनं वाव खिया अन्नम्"* इत्यनेन तत्प्रकरणस्थेन वाक्येन रजस्वलाया मिथुनी वापरपर्यायखानस निषेधादपि संवादप्रति- षेधोऽयं पुरुषार्थः । लाटानां हि अभ्यञ्जनापरपर्यायान्तरवाच्यलक्षणं मि- थुनभवनं प्रसिद्धम् । तच्च न कदाचिच्छब्दादर्थाद्वा क्रत्वर्थ प्रसक्तम् । पुरुषार्थ तु सर्वप्राणिसिद्धम् । अतस्तनिषेधोऽपि पुरुषार्थ इति तत्सा- हचर्यात् संवादप्रतिषेधोप्ययं पुरुषार्थः ॥ २५ ॥ दर्शपूर्णमासयोरेव “मलवद्वाससा न संवदेत” *इति श्रुतम् । मलवद्वासाः रजस्वला । अस्य प्रतिषेधस्य फलाश्रवणात् क्र- त्वङ्गत्वे नानुपपत्तिः । न च “यस्य प्रत्यऽहन्पन्त्यनालम्भुका स्यात्तामपरुध्य यजेत" इति वचनेनैवानालम्भुकापदवाच्यरजस्व लापरोधोत्तरं क्वाप्रत्ययेन यागप्रयोगकर्तव्यताावधानात्मत्वङ्ग- भूतस्य लौकिकस्य च याजमानस्याविज्यस्य वा रजस्वलासंवा- ऋतुमध्येऽवगोरगे सति 'यदि थजुष्टो भवः' इति श्रीतं निषेधा- तिक्रमप्रायश्चित्तं स्मार्तमपि तदन्ते । सिद्धान्ते तु स्मार्तावगोरणा- दिनिषेधस्थतच्छतिमूलकलाभ्युपगमन स्वयज्ञात्वभावान श्रौतम्, अ. पि तु “विप्रदण्डोद्यमे कृच्छ्रः" इति स्मृत्युक्तमेव ऋत्वते इति ज्ञेयम्॥ तै. सं. २.५-१. ते. ब्रा. ३-७.१.
381 अधि...] भादीपिकासहितम्. दस्याप्रसक्तेः कथं प्रतिषेध इति वाच्यं अन्यस्याप्रसक्तावपि साधारणद्रव्यतया बीह्याद्यंशेऽनुमतिरूपस्य तस्य प्रसक्तः । अनु- मतेरपि परंपरया ज्ञातुं शक्यत्वेन संवादाप्रसक्तौ तु पत्नयाते- रिक्तरजस्वलान्तरसंवादस्य ऋतुमध्ये रागतः प्राप्तस्यापरोधवाक्या- विषयस्य स्मृती निषिद्धस्यापि क्रत्वर्थतया प्रतिषेधो ऽनृतवद- नप्रतिषेधवदिति प्राप्ते- मनुना "रजस्वला च षण्डश्च" इत्यादि प्रक्रम्य होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते । दैवे हविषि पित्र्ये वा तदच्छत्ययथायथम् ॥ इत्युक्ता “तानप्यपनयेत्ततः" इत्यनेन रजस्वलामात्रस्य दैवक- ममात्रे वाक्येन श्राद्धप्रकरणं बाधित्वाऽपनयविधानात्तया सह संवादाप्रसक्तेर्न क्रत्वर्थत्वम् । न चेयमेव शुतिस्तस्या मूलम् । स्मृते. दैवकर्ममात्रावषयत्वेन सामान्यरूपत्वात् । न च रजस्वलामात्र- स्थापनयेऽपरोधवाक्यवैयथर्य अपरोधवाक्यस्य पत्नया सहैव पत्युराधिकारात् रजस्वलायाश्चानाधकारेण तां विना यागाकरण- प्रसक्तौ दर्शपूर्णमासकरणविध्यर्थत्वात्() । अत एव(') तत्रत्यमप- रुध्येत्यनुवादः । अतश्चाप्रसक्तत्वात्पुरुषार्थ एवार्य (1) निषेधः (१)॥११ ऋतूपकारकत्वेन तदनुपकारकत्वेन वा कथंचित्प्रसक्तस्यापि निषेधः क्रत्वों भवितुमर्हतीति सूचयितुं क्रतुमध्ये इत्युक्तम् । (१) 'यस्य व्रत्येऽहन्' (ते. ब्रा. ३-५-१.) इति वाश्यं कर्मदिने पत्नयां रजस्वलायां तदपरोधविशिष्टयागप्रयोगविधायकमिति तात्पर्यम् ॥ (३) यस्मात् स्मार्तवाक्येन दैवहविनिरीक्षणादिनिषेधपूर्वापनयविधानद्वारा कत्वगत्वेनापरोधः प्राप्तोऽत एवेत्यर्थः ॥ (1) अतश्च “नोदक्ययाऽभिभाषेत" इति स्मृतेरियमेव श्रुतिमूलमिति भावः॥ (5)कलिकातामुद्रितकोशे "श्रीतप्रायश्चित्तप्राप्तपर्थ इति तु शक्यते वक्तु- .
332 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ४ (१२)-अप्रकरणे तु तद्धर्मस्ततो विशेषात् ।। अद्रव्यत्वातु शेषस्स्यात् ॥ २७ ॥ वेदसंयो- गात् ॥ २८॥ द्रव्यसंयोमाञ्च ॥२९॥ स्या- द्वा संयोगवत्फलेन सम्बन्धस्तस्मात्कमैं- तिशायनः ॥ ३०॥ अप्रकरणे तु किश्चित्कतृप्रकरणरहिते सन्दर्भ "सुवर्ण हिरण्यं भार्थम् । दुर्वर्णोऽस्य भ्रातृव्यो भवनि" * इत्यादौ श्रुतः सुवर्णधारणादिस्तु तद्धर्मः पुरुषार्थः न तु ऋतुप्रकरणाम्नातवत् कवर्थः । कुतः ततः ऋतुप्रकरणाम्नातात् अस्य अनारभ्याधीतय विशेषात् वैलक्षण्यात् । अन्यथा केषांचित्क्रतुप्रकरणे आम्नानं केषाञ्चिदनारभ्य म्नानमिति बैल. क्षण्यमेव न स्यात् ॥ २६ ॥ अस्मिन् सिद्धान्त शकते . पुरुषार्थत्वपक्ष हि सुवर्णत्वविशिष्टय हिरण्यरूपद्रव्यस्य स्वर्गादिफलार्थ विधिगस्थेयः । स च न युज्यते विशिष्टविधिगौरवात् । अतः अद्रव्यत्वात पुरुषगतफलार्थ द्रव्यविधेरसम्भवात् क्रतोः शेषः स्यात् तथा च सति ऋतुगतहिर- ण्यानुवादेन सुवर्णत्वरूपगुणमात्रविधानालाघवमिति ॥२७॥ इतश्च क्रत्वर्थ ए. वायं वदसंयोगात् तादृशवेदवाक्यातायाः आश्वर्यवमिति वैदिकसमा ख्याया विनियोजकतय. समन्वयात् । क्रत्वर्थो हि समाख्यावशादध्वर्युणाऽ- नुष्ठीयेत ॥ २८ ॥ इतश्च क्रत्वर्थ एवायं - द्रव्यसंयोगाश्च सुवर्ण भार्य- मिति द्रव्यप्राधान्यपदसमाभिव्याहारात् भार्यमिति कृत्प्रत्ययबोधितं कर्मत्वं मिति ध्येयम्' इत्यधिकं दृश्यते ॥ प्रयोजनं तु दर्शपूर्णमासयोस्त- निषेधातिक्रमे याजुर्वेदिकं प्रायश्चित्तं पूर्वपक्षे । सिद्धान्ते तु मनु- वाक्येन क्रत्वस्यापि निषेधबोधनात् दर्शपूर्णमासमिहोत्रादिसर्व. कर्मसु अविज्ञातप्रायश्चित्तमेवेतीदं स्पष्टम् ॥ सत. बा. २-२-४- अधि..१२.] भादीपिकासहितम्. 333 हि द्रव्यस ऋतुगत हिरण्यय संस्कार्यत्वे युज्यते, न तु हिरण्यस्य वा तद्धारणस्य वा पुरुषार्थत्वे, तहानी हिरण्यस्य गुणभूतत्वप्रसङ्गादिति ॥२९॥ एवं शङ्कायां समाधत्ते । संयोगवत् प्रजापतिव्रतादीनां एतावता हैनसा. विमुक्तो भवति" * इत्याद्यार्थवादिकफलसम्बन्धवत् हिरण्यधारणा- देम्स्यापि "दुर्वर्णोऽख भ्रातव्यो भवति" । इत्याद्यार्थवादिकेन फलेन सम्बन्धः स्याद्वा स्वादेव । हिरण्योद्देशेन विधिस्तु नात्र सम्भवति, हिरण्यस्वरूपे आनर्थक्यात् । ऋतुगताहरण्यस्य चोपस्थापकं न विद्यते । तस्मात् सुवर्णहिरण्यधारणादिकं कर्म पुरुषार्थकर्म इति ऐतिशायनः सिद्धान्तयतीति ॥ ३० ॥ अनारभ्य सुवर्ण हिरण्यं भार्यम् । दुर्वर्णोऽस्य भातृव्यो भवति" + इति श्रुते न तावत् क्रतुगताहरण्योद्देशेन सुवर्णत्व- विधिः धारणप्राप्तयभावेनानुवादानुपपत्तेः । नापि “हिरण्यं हस्ते सम्प्रदाय षोडशिनस्स्तोत्रमुपाकरोति" इति विहितक्रतु. हिरण्यधारणानुवादेन- सुवर्णत्वविधिः । विशिष्टोदेशापत्तेः । अतो भार्यमिति कृत्प्रत्ययेन सुवर्णस्य कर्मत्वाभिधानात्तदुहेशे- नैव धारणाख्यसंस्कारविधिः । हिरण्यपदस्य तु सुवर्णरजतसा- धारणवाचिनोऽनुवादत्वम् । न चैवमपि ऋतुगतसुवर्णोपस्थिता- वेव प्रमाणाभावः । सुवर्णस्वरूपे आनर्थक्याल्लौकिकक्रियासाध- नीभूतग्रहणेऽपि च तत्तादवस्थयात् । सुवर्णस्यैव श्रुतकर्मत्वा- न्यथाऽनुपपत्त्या स्वर्गार्थवादिकफलकल्पनस्य च आश्रयाभावा- 'भार्यमित्येतदनन्तरं "सुवर्ण एव भवति" (तै. बा. २-२-४) इत्येतदधिक जैमिनीयन्यायमालायाम् ॥ हस्तपदवैयर्होनुपपत्त्या संप्रदायोति काप्रत्ययोपात्तसमानकर्तकत्वस्य प्रयो- • जककर्तृतया नेयत्वेऽपि दानस दानपूर्वकधारणपर्यन्तत्वावगतर्धारणप्रा- प्तिरिति भावः ॥ *तै. सं. २-६-१०, । तै. बा. २.२-४, 334 पूर्वमीमांसादर्शनं. अध्या. ३.पा. ४ दनुपपत्तेः परिशेषादेव क्रतुगतसुवर्णोपस्थितिलाभोपपत्तरिति प्राप्ते- न तावत् प्रकरणात्कतुसम्बन्धोपस्थितिः, अनाराधीत- त्वात् । नापि जुलादिवदव्यभिचरितत्वात्, लोकेऽपि सुवर्ण- सत्त्वेन व्यभिचारात् । न वा पारिशेष्यात्, श्रुतकर्मत्वान्यथा- नुपपत्त्या सुवर्णस्यार्थवादिकफलसाधनत्वकल्पनाया एव प्रसक्तः परिशेषाभावात् । धारणस्य संस्कारकस्याप्याश्रयापेक्षायां तत्त्वेना- प्यादन्वये बाधकाभावात् । न चेष्टापत्तिः । तथात्वे धारणसुव- ोभयकरणकयोईयोर्भावनयोरपूर्वयोस्तत्पदयोश्च कल्पने गौरवा- पत्तेः, सुवर्णांशेऽप्यपूर्वविधित्वप्रसङ्गाश्च । “अध्वर्यु वृणोते" "स्वाध्यायोऽध्येतव्यः" इत्यादौ तूभयोरपि दृष्टार्थत्वादुक्तगौरवा. भावेन संस्कारविध्यन्यथानुपपत्या विनियोगकल्पनेपि न दोषः । प्रकृते तु धारणेन सुवर्ण संस्कुर्यात् तेन च तदाश्रितेन फलं भावयेदिति कल्पने गौरवम् । अतः कृत्यप्रत्ययलक्ष्या एकैवात्र भावना । तस्यां चावश्यकत्वादार्थवादिकस्य फलस्यैव भाव्यत्वं न तु सुवर्णस्य, उद्देश्यानेकत्वप्रसङ्गात् । अतस्सक्तुन्यायेन(विनि- योगभङ्गात्सुवर्णहिरण्यावशिष्टधारणमेवार्थकर्मतया विधीयते । कि- श्व-सुवर्णस्वरूपे आनर्थक्यात् यथैव तत्कार्य क्रतुः एवं लौकिक्यापि क्रिया । तस्यामपि नैवानर्थक्यं क्षेत्रकर्मणि बलिहरणादिवत् निर्वि- नपरिसमाप्तयर्थत्वेन धारणाख्यसंस्कारोपपत्तेः । अतः परिशे- पाभावात् न त्वर्थत्वम् । न चोभयार्थत्वम्, एकस्यैव विधेः अशे प्रयोजकत्वमंशान्तरे च प्रधानप्रयुक्तत्वादप्रयोजकतेति वैरप्यापत्तेः। अतस्सक्तुवद्विनियोगभङ्गमङ्गीकृत्य धारणस्यार्थकर्मतैव युक्ता । न च तस्यापि वैदिकक्रियात्वसामान्यात् त्वगत्वं, सादृश्येन ऋतूप- 1 ते. आ. २-१६. २२-१-५. अधिकरणेऽयं न्यायो द्रष्टव्यः.
अधि. १३.] भादीपिकासहितम्. 335 स्थितौ धर्मातिदेशस्येवाङ्गत्वेऽपिबाधकामावादिति वाच्य विधिबले- नोपस्थितेषु अनियमेन सर्वेष्विष्टेषु तद्गतीनरतिशयत्वस्यापि सर्वपु- रुषाभिलषितत्वेन शोघ्रापस्थितिकतया स्वर्गस्यैव कल्पनीयत्वात्, आर्थवादिकफलस्य स्ववाक्योपात्तत्वेन ततोपि शीघ्रोपस्थितिक- त्वाच । क्रत्वर्थत्वे तु स्वगतेन वैदिकक्रियात्वेन क्रतुगतस्य तस्योपस्थितौ तोरुपस्थित्या तदङ्गत्वकल्पने गौरवम् । अत एव विश्वजिद्रात्रिसत्रादौ न तत्कल्पनम् । प्रकृते तु विशिष्टधारण- स्यार्थवादिकमेव फलमिति पुरूषार्थता । तत्त्वं तु-सुवर्णस्य कर्मत्वमेव ( तस्यैव त्वार्थवादिकं फलम्। तेनात पदाध्याहारस्य स्तुतिपक्षेऽपि समानत्वात् । न चात्राश्र- यापेक्षा, विधिवैयथर्यस्य संस्कारविधिनैव परिहारात् । “दुर्व- र्णोऽस्य भ्रातृव्यो भवति इत्यत्र भविष्यदर्थकत्वमात्रलक्षणा तु प्राचीनमतेऽप्यविशिष्टा। स्तुतिलक्षणा सुवर्णपदे अपूर्वसाधनत्व- लक्षणा च तबाधिकाते ममैव लाघवमिति ॥१२॥ (१३)-शेषोऽप्रकरणेऽविशेषात्सर्वकर्मणाम्।३१ होमास्तु व्यवतिष्ठेरनाहवनीयसंयोगात्।३२ शेषश्च समाख्यानात् ॥ ३३ ॥ अप्रकरणे प्रकरणविशेषरहिते अनारभ्याधीताः “ येन कर्मणोत्तत्र जयान्जुहुयात् " । इति जयहोमादयः सर्वकर्मणां शेषः तात्कालिकानां कृया- दीनामपि अविशेषात् वैदिकपेव कर्मणः इमे शेषभूताः नान्यस्येति भूप्रस्सकर्मकत्वात् डीप्सितकर्मत्वमेव कृत्प्रत्ययार्थः । तथा च प्रथमवाक्ये सुवर्णसंस्कारकधारणविधिः । उत्तरवाक्ये च सुवर्ण परामृश्य तस्य भ्रातृव्यदुर्वर्ण- भवने विनियोगः क्रियते । इति भावः ।। * तै. बा. २ २-४. +ते. सं. ३.४ ६. 1 336 पूर्वमीमांसादर्शनं. [अध्या ३.पा ४ विशेषनियामकाभावात् ॥ ३१ ॥ अस्मिन् पूर्वपक्षे सिद्धान्तमाह -- एते जय- होमादयः होमास्तु होमात्मान: वैदिकेष्वेव कर्मसु व्यवतिष्ठेरन् शेष- तया सम्बध्येरन् कुतः होमानां सर्वेषां “ यदाहवनीये जुह्वति । तेन सायाभीष्टः प्रीता भवति" * इति आहवनीयसंयोगात् आहवनीया. धिकरणकत्वात् । कृष्यादिकर्मसु च आहवनीयामयभावात् । जयादिहो- मानां च लाघवात्परप्रयुक्तामयुपजीवित्वात् । अतः यत्राहवनीयः तत्रैव वैदिककर्मसु जयादयः ॥ ३२ ॥ जयादिहोमानां समाख्यानाच आवर्यवमित्यदिसमाख्याबलादपि वैदिककर्मणामेव ते शेषाः । कृष्यादिलों- किककर्मार्थत्वे तु तत्र अध्वादरभावन सा समाख्या बाध्येत ॥ ३३ ॥ अनारम्यैवाधीतं “येन कर्मणेर्सेत्तत्र जयान् जुहुयात.' इति । कर्मणा ऋछि खफलाधिक्यं प्राप्तमिच्छेदित्यर्थः । अतश्च यथावस्थितफलार्थ विनैव जयादीन् कर्माणि । कर्मभ्यः फलाधि- क्येच्छायां तु जयादयः कर्माङ्गम् । तत्र च कर्मत्वस्य क्रतुव्यभि- चरितत्वात् न तावज्जुह्वादिवत्तदुपस्थितिः । न च लौकिकस्य कर्मणः कृषिभोजनादेईष्टार्थत्वेनादृष्टार्थजयादिग्राहकत्वायोगः । "रोहिण्यां कृषिकर्माणि कारयेत्” “पुरस्तात्कृषिकर्मणां प्राच्या क्षेत्रमर्यादायां द्यावापृथिवार्य बलि हरेत्" इत्यादिवदस्थापि निर्विघ्नपरिसमाप्त्यर्थत्वन फलोपचयार्थत्वेन वा ग्रहणोपपत्तेः । न च तथाऽपि जयादेराहवनीयसाध्यत्वात्कृष्यादौ तदभावाद- नङ्गत्वं जयादेरेव होमत्वेनाहवनीयप्रणयनप्रयोजकत्वोपपत्तेः । प्रधानसादेश्यासम्भवादनङ्गत्वं अजगुणविरोधन्यायेन तदसम्भवेऽप्यङ्गत्वोपपत्तेः । कृषिदेशेऽग्निनयनेन समानदेश- सम्भवाश्च । वस्तुतस्तु-कृष्यादेईष्टार्थतया विधेयत्वाभावेन प्रयो- गविध्यभावादङ्गप्रधानयोरेकदेशत्व एव प्रमाणाभावः । अस्तु वा * तै. वा. १-१.१०. + तै. सं. ३-४-६. १२-२-९.
आधि. १४.] भारदीपिकासहितम्, 397 तत् । तथापि तस्य लिङ्गादिरूपप्रमाणत्वाभावेन वाक्यसङ्कोच- कत्वानुपपत्तेलौकिकवैदिकसाधारणसर्वकर्मार्थत्वमेव जयादीना- मिति, प्राप्ते-. 'अनिमवैदिककर्मीशे तस्य परप्रयुक्ताग्नितत्प्रणयनोपजीवित्वं तदन्यकर्मीशे च तत्प्रयोजकत्वकल्पनमिति गौरववैरूप्यादिभिया कामश्रुतीनामाहितामयादिमात्र विषयत्ववत् जयादिविधिनैव ख- लाधवार्थमाग्निमत्कर्मार्थतयैव जयादिविधानान्नेतरकर्मार्थत्वम् ॥१३॥ (१४)-दोषात्त्विष्टिलौकिके स्याच्छास्त्राद्धि वैदि- केन दोषस्यात् ॥ ३४ ॥ अर्थवादो वाऽनु- पपातात्तस्माद्यज्ञे प्रतीयेत ॥ ३५ ॥ “ यावतोऽश्वान् प्रतिगृहीयात्तावतो वारुणाञ्चतुष्कपालानिर्वपेत् इत्यत्र अश्वकर्मके प्रतिगृह्णातिशब्दिते दाने निमित्ते विधीयमाना इष्टिः लौकिके अविहिते मित्रादिसम्प्रदानके स्वेच्छया क्रियमाणे स्यात् दोषात् तत्रैव लौकिके अश्वदाने "वरुणो वा एतं गृहाति योऽश्वं प्रतिगृह्णाति "2 इति पूर्वप्रस्तुतार्थवादोक्तस्य दोषस्य प्रसरात् । वैदिके पण्डिरीकाङ्ग- भूते "अश्वसहस्रं ददाति" "गौश्चाश्वश्च" इत्यादिके शास्त्रविहिते पौ- ण्डरीकज्योतष्टोमाद्यङ्गभूते अश्वदाने हि दोषः उपदर्शितार्थवादोक्तः शास्त्रात् उपदार्शततत्तदश्वदानविधानपरशास्त्रबलादेव न स्यात् ॥३४॥ वरुणो वा एतम् इत्यादिः अर्थवादो वा अर्थवाद एव अनुप- पातात् मुख्यस्योपपातस्य वरुणग्रहप्रहणादिरूपस्यासम्भवात् । न खलु वैद्यके लौक्रिके वा अश्वप्रतिग्रहेण रोगनिदानादि श्रूयते, नापि प्रत्य- क्षानुमानाभ्यां तथाऽवगम्यते । तथा च वरुणग्रहव्याधिगृहीतेनैव तेन 1६-१-.. 43 "2 . तै. सं. २-६-१९.
. 338 पूर्वमीमांसादर्शनं, [अध्या, ३. पा. ४. तद्विमोचनार्थमवश्यं कर्तव्येष्टिरित्येतावानेवार्थो . विवक्षितः । तथा च वा: क्योपात्तफलाभावादध्याहारेण वा स्वर्ग: कल्पयितव्यः .. कर्माङ्गभावो वा। तत्र स्वर्गसनिधिकारणाभावात् वैदिकक्रियात्वसामान्येनाश्वप्रतिग्रहेण च सानिधापनात् ऋतुसम्बन्धस्सुकल्पः । वैदिको ह्यश्वप्रतिग्रहः 'कर्मान्तःपा- तीति निमित्तत्वेन प्रतीयमानस्तद्देशवार्तिकथंभावापन्नमङ्गिनमुपनयन्नुभयो- स्साकाङ्कवादङ्गाङ्गिसम्बन्धं कल्पयति । तस्मात् यज्ञे शास्त्रीयकर्माङ्गे शास्त्रविहिते अश्वप्रतिग्रह एव वारुणेष्टिरियं स्यात् ॥ ३५ ॥ अनारभ्य "प्रजापतिर्वरूणायाश्वमनयत्स स्वां देवतामाईत्स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत्तं निरवपत्ततो वैसवरु- णपाशादमुच्यत वरुणो वा एतं गृह्णाति योऽश्व प्रतिगृह्णाति यावतो- श्वान् प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालाभिर्वपेत्” इति श्रुतम्। प्रतिग्रहशब्दोऽत्र दानपर इत्युत्तराधिकरणे वक्ष्यते । ततश्च यान्म- प्रदायादादिभ्यो लौकिकं दानं तत्सम्बन्धिनीयमिष्टिः किं वा ऽश्व- दानमात्रसम्बन्धिनी किं वाऽग्निमत्कर्माङ्गभूताश्वदानसम्बन्धिनीति चिन्तायां--अर्थवादानुरोधेन दानविषयत्ववदस्या इष्टेर्दोषनिर्घाता- र्थत्वस्याप्यवगमात् दोषस्य च “न केसरिणो ददाति" इत्य- नेनाविहितलौकिकविषयत्वात् तदनुरोधेनास्या अपि लौकिकदा विषयत्वम् । इदं हि वचनं यत्रानियमेन सामान्यतो विहितेऽश्य- विषये इच्छया प्रवृत्तिः यत्र वा नैव विहित यथा मित्रदायादादि- भ्यस्तद्विषयम् । अत एव यत्र विश्वजिदादौ सर्वस्वदानेऽश्वान नियतं तत्र तत्प्रकरणस्थेन वाक्यान्तरेणैव तस्य पर्युदासेऽप्यरय शाखान्तरीयवचनस्योक्तविषये निषेधत्वमेव । अतस्तत्र निषेधबलेन दोषावगतेस्तनिर्घातार्थाया इष्टेरपि तद्विषयत्वं भेदनहोमस्येव भेदन- वहर्शपूर्णमासविषयत्वम् । अत एव दोषनिर्घातः फलं, अश्वदानं च * तै. सं. २-३-१२.
अधि: 1] भावीपिकासहितम्. 339 निमित्तं, न तु शेषि । तथात्वे उक्तफलत्वानुपपत्तेः अव्यभिच- रितक्रतुसम्बन्धाभावाच । यदि त्वस्था दोषनिर्घातार्थत्वं नाभ्यु- पगम्यते ततो यावच्छब्दसमभिव्याहारणाश्वदानस्योद्देश्यत्वावग- तेस्तावच्छब्दसमामेव्याहृताप्राप्तेष्टेस्तदहत्वापातानिमित्तत्वानुपप- त्तिः । न हि यावच्छब्दो निमित्तत्ववाची, अपि तु साकल्यवाची। मच यावत्तावच्छब्दाभ्यां क्रियाद्वयस्य सम्बन्धमात्रावगतौ शेषि- त्वपक्षे आरादुपकारकत्वेन तन्त्रत्वापत्तेस्तावच्छब्दार्थप्राप्तयभावेन विधेयत्वप्रसङ्गात् निमित्तत्वपक्षे च प्रतिनिमित्तं नैमित्तिकावृत्ति- न्यायेन तावच्छब्दार्थस्य प्राप्तत्वेनाविधेयत्वाद्विधिलाघवानुरोधेन निमित्तत्वावगतिस्सिद्धान्तेऽपि सुलभोत वाच्यं पक्षद्वयेऽपि निमिनानुरोधेन प्रधानानुरोधेन वाऽऽवृत्तिप्रसक्तौ कालैक्येन तन्त्रत्वप्राप्तेस्तावच्छब्दस्य प्रतिप्रसवविधित्वावश्यंभावात् । अत एष “गृह्णीयात्" इति लिङः प्रयोजकत्वापरपर्यायहेतुत्वार्थकत्वेऽपि तदुपपत्तेनिमित्तत्वनिश्चयो दुर्लभः । प्रत्युतापेक्षितत्वाच्छेषित्वमेव सिद्धान्ते स्यात् । मम तु दोषनिर्घातार्थत्वात्तनिश्चय दिति वैष- म्यम् । अतश्च तद्वलन लौकिक एवाश्वदाने आहिताग्नेस्स्या- दिति प्रथमः पक्षः॥ द्वितीयस्तु-यस्तावदर्थवादे जलोदरापरपर्यायो वरुणग्रहाख्यो दोषः स नैव प्रत्यक्षादिना वैद्यकसंहिताभिर्वाऽश्वदानजन्यतया- ऽवगम्यते । अथ-- मुख्यार्थबाधेऽपि पापमेव वृणातीति व्युत्पत्तया- ऽवयवयोगेन वरुणग्रहशब्देनोच्येत ततो वैदिकदानेऽपि कश्चित्त्या- गाडुःखदर्शनात्तदेव वरुणग्रहशब्देनोच्यताम् । इष्टयाडम्बरावनोदेन च तदुःखशमनात् “स एवैनम्' इत्यस्याप्युपपत्तेरस्या दोषनिर्धता- थत्वे प्रमाणाभावाल्लौकिकमात्रविषयत्वानुपपत्तेर्वाक्यसकोचायो- तै. सं. २-३-१२.
340 पूर्वामांसादर्शनं. [अध्या. ३. पा.. गेन सर्वविषयत्वम् । न च गृह्णीयादिति लिङा विहितत्वेनोक्तत्वा- द्विहितस्योपस्थितिः । उद्देश्यस्य विहितत्वेन विशेषणायोगात्। अतस्सर्वविषयत्वमिति प्राप्ते- जयादिन्याये नैव लौकिके फलकल्पना वैदिके नेत्येवं, विहि- तेऽप्यग्निरहिते तत्प्रणयनादिप्रयोजकत्वमितरत्र नेत्येवं च वैरू- प्यापत्तेविधिलाघवानुरोधेनैव स्वसङ्कोचं कामश्रुतिवदेवानुमन्यते । अतधानिमत्कर्मसम्बन्ध्यवदानमेवोद्देश्यम् । तदपि च न शेषितया प्रवर्दीन्याये नाश्वदानगतप्रयोजनवत्त्वजिज्ञासायामवश्योपस्थितक . तोरेव शेषित्वकल्पनौचित्यात् । अतश्चापसद्वदेव नाश्वदानस्य हेतुत्वं शेषितया । अपि तु निमित्ततयैव । अस्तु वा तत् । तथा- ऽप्यग्निमत्कर्मसम्बन्ध्यवदान एवेयमिाष्टेः ॥ १४ ॥ (१५)-अचोदितं च कर्मभेदात् ॥ ३६ ॥ सा लिङ्गादाविजे स्यात् ॥३७॥ इयमिष्टिः दातुः प्रतिग्रहीतुर्वेतिसंशये पूर्वपक्षमाह-अचोदितमिति॥ कर्मणोः ददातिप्रतिगृहात्यर्थयोः भेदात् प्रकृते प्रतिगृह्णीयादिति श्रवणेन दाने निमित्ते अचोदेतं अविहितमिदं कर्म अतः प्रतिगृहीतुििष्टरित भावः ॥ ३६ ॥ सिद्धान्तमाह -- सेति । सा इष्ठ्यधिकृतिः आत्विजे ऋत्विक्प्रेरके यजमाने दातरीति फलितं स्यात् । लिगात् "प्रजापति- वरुणायाश्वमनयत् "3 इत्युपक्रमे दातुः पीडाश्रवणलिङ्गात् । उपक्रमानुसा- रेण “यावतोऽश्वान् प्रतिगृहीयात् ॥3 इत्यस्य प्रतिप्राहयेदित्यर्थकरणमावश्य- कमिति भावः ॥ ३७ ॥.. सेयमिष्टिन प्रतिग्रहीतुः अपि तु दातुरेव उपक्रमलार्थवादे प्रजापतेर्दातुरेव प्रधानभूतस्य स इत्यनेन परामर्शात् प्रजापति 18.४.१३. 23.३.१२. २-३.१२. 3 तै. सं.
341 भधि.१६. भादीपिकासहितम्. रेव वरुणायाश्वं दत्वा स्वां देवतां सम्प्रदानरूपां वरुणं जलो- दररूपेण प्राप्त इत्यर्थावगमात्तस्यैव तनिर्मोकार्थमिष्टिकर्तृत्वावग- तेरुच्चस्त्वादिवदेवोपसंहारस्थप्रतिग्रहीतृपदस्य दातृलक्षणार्थत्वात्। अथवाऽस्यातेन साक्षात्प्रयोजकसाधारण्येन कर्तृमात्राक्षेपात्सा- क्षात्सम्भवें प्रयोजककत्रनाक्षेपेऽपि इहोपक्रमानुरोधेन तदाक्षेपा. त्प्रतिग्रहं यः कारयेदित्यर्थावगतेर्विनैव लक्षणां दातुरिष्टिः । न चैवं तेन गतार्थत्वं मैत्रायणीयशाखायां “स एषोऽश्वः प्रति- गृह्यते" इत्येवं प्रतिग्रहोपक्रमाया एवास्या आम्नानात् तदशेनो. पक्रमस्थेऽप्यर्थवाद एव लक्षणेत्यधिकाशङ्कायास्सत्त्वात् । तनिवृ- त्तिस्तु-शाखान्तरे प्रतिग्रहीतुरिष्टयवगमेऽप्यस्यां शाखायां प्रब- लोपक्रमे प्रमाणाभावेन लक्षणाऽनुपपत्तेरेतद्वचनेन दातुरिष्टौ बा- .धकाभावात् । दूरस्थकर्मानुवादेनोद्देश्यसम्बन्धानुपपत्तेरस्य कर्मा- न्तरविधायकत्वाच । नामादीनामुपस्थापकानामभावन शाखान्तर'. न्यायाभावाच । दातुरुपक्रमानुरोधेन वा मैत्रायणीयशाखास्थो- पक्रमस्यापि प्रयोजकर्तृत्वाभिप्रायेण व्याख्यातुं शक्यत्वाच ॥१५॥ -40000 (१६)-पानव्यापञ्च तहत् ॥३८॥ दोषातु वैदिके स्यादर्थाडि लौकिके न दोषस्स्यात् ॥३९॥ यस्सोमं वमिति यस्सोमवामी स्यात् तस्मा एतं सोमेन्द्रं श्या- माकं चरुं निर्वपेत्" इति । इयमिष्टि: वैदिकसोमपानोत्तरवमने उत लौकिकोत्तरे इति संशये पूर्वपक्षमाह-पानेति । पानस्य सोमपानस्य व्यापत् वमनं तद्वत् अश्वप्रतिग्रहेष्टिपूर्वपक्षवत् । लौकिकपानवमन- मित्यर्थः । तस्माद्विशेषस्तु तत्र दानं लौकिकं वैदिकं च सम्भवति अत्र वमनं लौकिकमेव न वैदिकमिति ॥ ३८ ॥ सिद्धान्तमाह-दोषादिति। 1ते.सं. २०३-२ १२.४.२.
342 पूर्वमीमांसादर्शनं. [अध्या. ३. पा... वैदिके वमने दोषात् दोषश्रवणात् “विवा एष इन्द्रियेण वीर्येणद्धर्यते (सोमपीथेनद्यते) यस्सोमं वमिति "1 इति । अर्थात् वमने धातुसाम्यमिति वैद्यशाबप्रसिद्धफलात् हि यतः लौकिके न दोषः स्यात् अतः इय- मिष्टिवैदिकसोमपान एव ॥ ३९ ॥ अनारम्यैव "वि वा एष इन्द्रियेण (सोमपीथेनद्धर्थते) वीर्येणध्यते यस्सोमं वमिति यस्सोमवामी स्यात्तस्मा एतं सोमेन्द्र श्यामाकं चरं निर्वपेत् । हाते श्रुतेष्टिरपि वैदिकस्यैव सोमस्य वमने भवेत् न तु लौकिकस्य वैरूप्यगौरवादिभयेन जयादिहोमव- देवोभयार्थत्वस्य तावदनुपपत्तेः । न चाश्वप्रतिग्रहेष्टिवदोषनि. _तार्थत्वकल्पनया लौकिकमात्रविषयत्वशङ्का वमनजन्यस्यार्थ- वादिकस्यन्द्रियवीर्यनाशाख्ययर्द्धिरूपस्य दोषस्य वैदिकसोमवम- नेऽपि जायमानत्वात् । तानिर्घातार्थत्वस्य प्रत्यक्षबाधितत्वाच । वैद्यके वमनार्थतयैव सोमपानविधानात्तस्येन्द्रियादिनाशकत्वानु- पपत्तेश्च । अत इन्द्रियवीर्यव्यार्द्धपदेन लक्षणया ऋतुवैगुण्यस्यै- वोपादानात् तनिर्घातार्थत्वमेवास्या इष्टेर्युक्तम् । जायते च "मा मेऽवाभिमति गाः" इत्यादिमन्त्रवर्णात्सम्यग्जरणान्तस्यैव भक्षणस्य शेषप्रतिपत्त्यर्थत्वावगतेर्वमने ऋतुवैगुण्यम् । अतश्चा- श्वदानवत् वमनस्य वैधत्वाभावेऽपीष्टेरग्निमत्क्रतुविशेषाङ्गत्वम- विरुखम् ॥ १६ ॥ (१७)-तत्सर्वत्राविशेषात् ॥४०॥ स्वामिनो वा तदर्थत्वात् ॥ ११॥ लिङ्गदर्शनाच ॥१२॥ पूर्वोदाहृतवाक्ये वमनकर्तविशेषाश्रवणात् ऋखिजा वमनेऽपि इय- मिटिरिति पूर्वपक्षसूत्रमाह--तदिति । नत् वमनं . सर्वेषामृत्विजा 1. सं. २-३-२. तै. सं. ३-३-५.
343 अधि..१७.] भादीपिकासहितम्. यजमानस्य च इष्टिनिमित्तं अविशेषात् ॥४०॥ सिद्धान्तमाह- स्वामिन इति । स्वामिनो वमने इयमिष्टिः क्रतोः तदर्थत्वात् ऋतुजन्यफलभोक्तृत्वस्य यजमान एव सत्त्वात् । वमने क्रतुवैगुण्यं इष्टया तत्परिहार एव फलम् । यः वमति स स्वक्रतुवैगुण्यदोषपरिहारार्थ निर्वदिति वमनकर्तुः निर्वापकर्तुश्च ऐक्यं श्रूयते अतो यष्टुरेवेति ॥४१ सोमपानेनात्मनस्संस्कारो भवति स च यजमानस्यैव न ऋविजां ऋयक्रांतत्वात्तेषां संस्कारो वमने जाते न भवतीति कथ्यते “सोम- पाथनयंते यस्सोमं वमिति" इति वाक्येन, इदं लिङ्गं यजमानवमन एवेत्याह-लिङ्गेति ॥ ४२ ॥ सैव किं याजमान एव वमने स्यादुत ऋत्विजोऽपीति चिन्तायां-ऋत्विग्वमनेऽपि प्रतिपत्तिविलोपादिना वैगुण्यस्याव- श्यकत्वात्तत्समाधानार्थामेयमिष्टिस्स्यादेवेति प्राप्ते- इष्टिस्तावदियं क्रत्वङ्गत्वाद्यजमानेन कार्या ऋत्विग्भिर्यज- मानद्रव्यस्य त्यक्तमशक्यत्वात्, स्वद्रव्येण स्वाग्निषु करणे पुनः ऋत्वर्थत्वानुपपत्तेः, यजमानकर्तृकायां च न ऋत्विग्वमनस्य निमित्तता, "यस्सोमं वमिति" इति यच्छब्दबलेनेष्टेः वमनस- मानकर्तृकत्वावगतेः तस्य चोपादेयविशेषणत्वेन विवक्षितत्वात् । अतश्च समानकर्तृकत्वबलाद्यद्यपीयमिष्टिनैमित्तिकी ऋतूपकारिका, यदि वा नैमित्तिक्येवार्थवादवशात्क्रतुवैगुण्यसमाधानार्था सती आरादुपकारिका, यदि वा वमनस्य जृम्भावदेवार्थिकं निमित्त त्वमङ्गीकृत्य तद्वदेवेयमिष्टिष्षष्ठया ऋतुयुक्तपुरुषसंस्कारिका, स. था यजमानवमन एव स्यात् । ऋत्विग्वमने तु सामान्यवि- हितं यजुर्भेषनिमित्तम् ॥ १७ ॥ -:0:- 1ते, 'सं. २-३-१ 844 पूर्वमीमांसादर्शनं. [अध्या. ३. पा.. (१८)-सर्वप्रदानं हविषस्तदर्थत्वात् ॥ १३ ॥ निरवदानात्तु शेषस्स्यात् ॥४४॥ उपायो वा तदर्थत्वात् ॥ १५॥ कृतत्वात्तु कर्मणस्सक- त्स्याव्यस्य गुणभूत्त्वात् ॥४६॥ शेषदर्श- नाच॥४७॥ यदानेयः * इत्यनेन विहितः पुरोडाशः कृत्स्नः अभये देयः उतैकदेश इति संशये पूर्वपक्षमाह सर्वेति । सर्वस्य पुरोडाशस्य प्रदान 'अमये जुष्टं निर्वपामि'' इति ग्रहणेन निखिलस्य तदर्थत्वात्॥४३॥ सिद्धान्तमाह-निरित। निष्कृष्य अवदानं निग्वदानं "द्विहविषोऽ. वद्यति इति विधानात् न सर्वहोमः । किन्तु शेषस्स्यात् ॥ ४ ॥ पूर्वपक्ष्याशङ्कते-उपाय इति । द्विरवदानं उपायः हविषस्संस्कारः कल्प्यते । तथा च कृत्स्नहोमः कृत्स्नस्य तदर्थत्वात् अमथर्थत्वात् । अयं भावः अनेकवारं द्विविरवदाय होतव्यं कृत्स्नं, तावता न कस्यापि वाक्यस्य विरोध इति ॥ १५ ॥ सिद्धान्ती स्वमतं व्यवस्थापयति- कृतत्वादिति । कर्मणः होमस्य सकृत् कृतत्वात् नावृत्तिः स्यात् । ननु द्रव्यस्य शिष्टत्वात् तदनुसारेण यागाभ्यास इत्यत्राह-द्रव्यस्य यागं प्रति गुणभूतत्वात न गुणानुसारेण प्रधानावृत्तिरिति भावः ॥४६॥ साधकान्तरमाह -शेषदर्शनादिति । शेषकार्यस्य “शेषात्स्विष्टकृतेऽ- वद्यति" इति विधिदर्शनाच्छेष आवश्यकः ॥ ४७ ॥ शेषभूतसोमवमनप्रसङ्गार किमाग्नेयादौ कृत्स्नस्य पुरोडा. शादेोगसाधनता होमश्च उत व्यवदानादेरेव. वत् पुरोडाशा दिस्तु वत्प्रकृतिका उत कृतमः पुरोडाशादियांगसाधनं होमस्तु * तै. सं. २-६-३. +तै, सं. १-२..
आधि. १८.] 345 भादीपिकासहितम्. द्वयवदानस्यैवेति चिन्तायां-उत्पत्तिवाक्ये कृत्स्नस्यैव साधन- त्वप्रतीतेर्न तावत् व्यवदानस्यैव यागसाधनत्वम् । चतुरवत्तं (भवति) जुहोति '' इत्येतदुत्पत्तिवाक्यं, तथात्वे आग्नेयादिवाक्ये द्रव्यदेवताद्यनेकगुणविधाने वाक्यभेदापत्तेः । अतश्चोत्पन्नशिष्टत्वेन पुरोडाशावरुद्ध यागे चतुरवत्तविधानानु- पपत्तेश्चतुरवत्तवाक्ये जुहोतिना यागमनूद्य अवदानाख्यस्संस्कार एव “निर्मन्थ्येनेष्टकाः पचन्ति" इतिवत् विधीयते । न हि या- गाद्धोमो भिद्यते येन जुहोतिना नानुवाद इत्याशङ्केयत । जुहोतिचोदितानामपि “स एष यज्ञः पञ्चविधः" इत्यादौ यजि- नाऽनुवादात् । यजतिचोदितानां च प्रयाजादीनां “अभिकामं जुहोति" इति जुहोतिनाऽनुवादाश्च । यागहोमयोभदे प्रयाजानू- याजगृहमेधीययागादौ प्रक्षेपे प्रमाणाभावाच्च । अतो यागहोमयो- रभेदात् युक्तो जुहोतिना यागमनूद्य प्रदेयपुरोडाशसंस्कारकतया. अवदानविधिः । अतश्च कृत्स्नस्यैव पुरोडाशस्यावदानेन संस्का- र्यत्वात् पुनःपुनरवदाय याग इति ज्योतिष्टोमवद्यागाभ्यासेपि न दोषः । वस्तुतस्तु सर्व पुरोडाश पुनःपुनरवदाय सकृदेव हृद- यादिवत् याग इत्यपि शक्यं वक्तम् । शेषकार्याणि स्विष्टकदा- दीनि तु प्रकृते विद्यमानशेषाभावाद्धविरन्तराक्षपकाणि । तद्वाक्य- स्थशेषशब्दस्तु अवशिष्टवचनत्वासम्भवात् 'आज्येन शेषं संस्था- पयति' इतिवत् अन्यपरः । दृष्टश्च शेषशब्दोऽन्यत्रापि 'तत- श्शेषेण विशिष्टदेशजात्यादिमन्तो जन्म प्रतिपद्यन्ते' इति गौत. मस्मृती स्वर्गारम्भकसुकृतातिरिक्तसुकृतपरः । न हि स्वर्गा- रम्भकसुकृतशेषेण देहान्तरप्राप्तिः, · अन्यत्रान्यस्य व्यापारायो- गात् । अतस्तत्र शेषशब्दोऽन्यधाच्येवेति प्रकृतेऽपि हवि- । तै. सं.:२.६-८. 2१.४.१०. तं.सं. २-६-१.
- 3-16 पूर्वमोमासादर्शनं. [अध्या. ३, पा. ४ रन्तरमेव पूर्वसदृशं शेषशब्दवाच्यं भवति । अस्तु वा शेष- कार्यानुरोधात् यस्यकस्यचित्प्रकृतस्यैकस्य हविषश्शेषस्थापन, इत- रेषां तु सर्वहोम एव । तथा च तद्विषयमेव मध्यपूर्वार्धवाक्य- मिति प्राप्ते- न चतुरवत्तवाक्येनावदानविधिः “द्विर्हविषोऽवद्यति" इत्य- नेनैव प्राप्तः । अनेनैव विधानेऽपि वा निष्ठाप्रत्ययोपादानवैयर्थ्य- प्रसङ्गनावदानसंस्कृतस्यैव द्रव्यस्य विधेयत्वाश्च । अतश्च यागा- नुवादेनावत्तस्यैव हविष्टन विधेयत्वादुत्पत्तिवाक्येऽष्टाकपालपदं पशुसोमवत् प्रकृतिद्रव्यविधायकम् । अतश्च द्वयवदानस्यैव यागसाधनत्वादवशिष्टस्यानुनिष्पन्न प्रतिपत्तिश्शेषकार्याणीति भा- ध्यकारः। वार्तिककारस्तु-न यागहोमयोरभेदः याशिकानां देवतोदेशपू- कद्रव्यत्यागे प्रक्षेपाङ्गके यजिपदप्रयोगात्, देवतोद्देशद्रव्यत्यागप्रक्षे- पेषु समप्रधानेषु जुहोतिपदप्रयोगात्, प्रक्षेपाङ्गकक्रियावयवृत्तिजा- तिर्यागत्वं क्रियात्रयवृत्तिजातिश्च होमत्वमिति तयोर्भेदात् । अत एव न यजिना अङ्गभूतोऽपे प्रक्षेपः शक्तयोच्यते । अपि तु प्रमाणान्तरलभ्य एव । तदत्राग्नेयादिवाक्ये यागमात्रानुमानेऽप्यन- भूतस्य प्रक्षेपस्याप्राप्तत्वाश्चतुरवत्तवाक्येनैवावत्तोद्देशेन तद्विधानम्। अत एव तत्र द्वितीयाऽप्युपपद्यते । यागे त्वष्टाकपालः कृत्स्न एव हविः, प्रक्षेपस्तु त्यागसमकालनिस्तदुत्तरकालीनो वा द्वयवदानस्य प्रतिपत्तिः । अत एवात्रत्यजुहोतिना उद्देशत्यागयोरुत्पत्तिवाक्या. देव प्राप्तेर्लक्षणया प्रक्षेप एव प्रतिपाद्यते । एवं च यत्र प्रकृती विकृती वा प्रत्यक्षवचननातिदेशेन वा प्रक्षेपप्राप्तिस्तत्र नाक्षेपः प्रक्षेपस्य । अन्यत्र तु प्रयाजादौ प्रमाणान्तराभावाद्यत्र न प्राप्तिस्तत्र यजिनेवाक्षेपः, तदङ्गक एव शक्तिमहात् । पानीवतादी १ अधि.१९.] भादीपिकासहितम्. 347 तु देवतासम्बन्धेनोद्देशत्यागयोरेव कल्पनात् पर्यग्निकरणान्तागरी- तिविधानेन च प्रक्षेपानतिदेशान्न प्रक्षेपः । गृहमेधीयादौ तु आज्य- भागपुनश्श्रवणाजिश्रवणाद्वा तत्करणामति विशेषः । अतश्च कृत्स्नंस्यैव पुरोडाशस्य देवतायै त्यागादुपयुक्तस्य च द्वयवदानस्य प्रक्षेपेण प्रतिपत्तिः । उत्तरार्धादेश्च स्विष्टकृदिडादिना । न च त्यक्त- स्य स्विष्टकृते पुनस्त्यागानुपपत्तिः । वचनवशेन त्यक्तस्यापि पुन- स्स्वीकारेण त्यागोपपत्तेः । अतोऽस्ति शेष इति सिद्धम् ॥१८॥ (१९)-अप्रयोजकत्वादेकस्मात् क्रियेरन शेषस्य गुणभूतत्वात् ॥४८॥ संस्कृतत्वाच ॥४९॥ सर्वेभ्यो वा कारणाविशेषात्संस्कारस्य तद- र्थत्वात् ॥ ५० ॥ लिङ्गदर्शनाच ॥ ५१ ॥ दर्शपूर्णमासे शेषकार्याणि स्विष्टकृदिडाप्राशिवावदानरूपाणि । तानि यावद्धविषः कार्याणि किं वैकस्मादिति संशये पूर्वपक्षमाह-अप्रयोज- कत्वादिति । अप्रयोजकत्वात् शेषकार्य प्रति हविषः अप्रयोजकत्वात् प्रधानयागप्रयुक्तवादविषः “शेषात् स्विष्टकृतेऽवद्यति" इति शास्त्रमेकस्मा. दवदानेऽपि चरितार्थ, अत एकस्मात् अवदानम् । यदि शेषकार्याणां हविः प्रधानं स्यात् तदा प्रतिप्रधानमिति न्यायप्राप्तिः । तदेव न । शेषकार्य प्रत्यङ्गं हविः । अतः एकस्मादवदानेऽपि कृतार्थमित्याह- शेषस्य गुणभूतत्वात् ॥ ४८ ॥ सकृञ्चैवजातीयकेन शेषकार्येण संस्कृ- तं प्रधानमिति नापरस्मादपि कर्तव्यमित्याह-समिति ॥ ४९॥ स्वि- टकृदाद्यवदानं हविषः प्रतिपत्तिसंस्कार इति चतुर्थे वक्ष्यमाणमर्थ सिद्ध- वत्कृत्य सिद्धान्तमाह-सर्वेभ्य इति । संस्कारस्य संस्काररूपस्य स्विष्टकृदवदानस्य तदर्थत्वात् हविरर्थत्वात् । तथा च हविषः प्रधानखेन पेणैव इति पाठान्तरम्.
348 पूर्वमीमांसादर्शनं. [अध्या. ३. पा. ४ संस्काररूपकारणस्य अविशेषात् सर्वेभ्योऽवदानं प्रतिप्रधानमङ्गावृत्तिरिति न्या: यात् ॥५०॥ 'सकृत्सकृदवद्यति । इति वीप्सा सर्वेम्यः अवदाने लिङ्गमित्याह- लिङ्गेति ॥५१॥ अत्र भाष्यकारेण शेषकार्याणामर्थकर्मत्वादेकस्मादेव हविष- श्शेषकार्याणि कर्तव्यानीति पूर्वपक्षयित्वा प्रतिपत्तित्वं प्रसाध्यसर्वे- भ्य इति सिद्धान्तितम् । तत् "चतुर्थ एव ताहग्विषये प्रतिपत्तित्वस्थ साधयिष्यमाणत्वात्पुनरुक्तत्वापत्तेः पूर्वाधिकरणप्रयोजनकथनार्था- न्येतानि सूत्राणीति वार्तिककारो व्याचल्यो । यादे पूर्वाधिकरणे शेषकार्याणां हविरन्तराक्षेपकत्वं पूर्वपक्षे तदा स्पष्टमेव प्रयोज- नम् । यदा तु शेषकार्यानुरोधेन शेषस्थापनं तदा तेषां परप्रयु- क्तद्रव्योपजीवित्वेनाप्रयोजकत्वेऽप्यर्थकर्मत्वेन तुषोपवापकपालव- च्छेषस्य गुणभूतत्वाद्गुणानुरोधेन प्रधानावृत्तेरन्याय्यत्वादुपादेव- विशेषणत्वेन तद्तसङ्ख्याया विवक्षितत्वाश्चैकस्मादेव करणं शेष- कार्याणाम् । “ सकृत्सकृत् ॥ इति विशेषश्रवणं तु “चतुर्थे चतु- थेऽहन्यहीनस्य" इतिवत् प्रयोगान्तरविषयम् । सिद्धान्ते तु विद्य- मानशेषत्वात् चातुर्थिकन्यायेन प्रतिपत्तिकर्मत्वादविवक्षितस- यशेषाख्यसंस्कार्यानुरोधेन सर्वेभ्यः करणम् । वीप्सा चोपप- नतरा ॥१९॥ (२०)-एकस्माञ्चेत् याथाकाम्यमविशेषात् ॥५२ मुख्याता पूर्वकालत्वात् ॥ ५३ ॥ S त एकस्मादवदानमिति कृत्वाचिन्तयेदमधिकरणम् । एकस्मादवदानपक्षे इच्छैव नियामिका उत अन्यत्किञ्चन नियामकुमस्तीति • संशये पूर्वपक्ष- तै. सं. ३-६.६. २४-१-१३. वीप्साश्र, इति पाठान्तरम्.
अधि. २०.] भारदीपिकासहितम्. 349 माह - एकस्मादिति । स्पष्टम् ॥ २२ ॥ सिद्धान्तमाह-मुख्यादि- ति । मुख्यात् प्रथमात् अवदानं प्रथमोपस्थितेः सर्वपूर्वकालखात् । प्रथमोपस्थितपरित्यागे मानाभावादिति भावः ॥ १३ ॥ परप्रयुक्तद्रव्योपजीविनोऽर्थकर्मणश्च तुषोपवापादेरर्थेऽनेकपु. रोडाशोयकपालानां मध्ये एकस्मिन् कपाले गृह्यमाणेऽनियमप्रा. सावानेयस्य . मुख्यत्वेन प्रथमोपस्थि त्वात्तदतिक्रमकारणाभावेन नदीयकपालस्यैव ग्रहणम् । ग्राह्यतावच्छेदकं च प्रथमोपस्थितत्वं न त्वाग्नेयत्वम् । अतो विकृतावन्यावकारस्य तत्त्वेन तदीयमेव कपालं ग्राह्यम् । यत्त्वत्र मूले सङ्गतिलोभेन कृत्वाचिन्तया यदा शेषकार्यानुरोधेन यस्यकस्यचित्स्थापन तदा कस्येत्यपेक्षायां मुख्यस्यात सिद्धान्तितम् । तदाग्नेयवेलायां शेषकार्याणामबुद्धि सात्वाच्छषस्थापनाक्षेपानुपपत्तेश्शेषकार्यानुष्ठानवेलायां चान्त्यस्यै- वोपस्थितत्वेन तस्यैव स्थापनापत्तरुपेक्षितम् । तत्रत्यमुख्यपदं वा प्रथमोपस्थितपरं, ततश्च यस्यैव यत्र प्रथमोपस्थितिराद्यस्या- न्त्यस्य वा तस्यैव तत्र ग्रहणमिति न्यायशरारार्थः ॥२०॥ (२१)-भक्षाश्रवणादानशब्दः परिक्रये ॥५४॥ त- संस्तवाच ॥५५॥ भक्षार्थो वा द्रव्ये सम- त्वात् ॥५६॥व्यादेशादानसंस्तुतिः ॥५५॥ दर्शपूर्णमासयो. श्रूयते चतुर्धाकरणे “इदं ब्रह्मणः । इदं होतुः । इदमध्वर्योः । इदमनीध:"। इ । इदं दानमृविपरिक्रयार्थ उत भक्षार्थमिति संशये पूर्वपक्षमाह - भक्षेति ॥ वाक्ये भक्षपदाश्रवणात् दानशब्दः चतु- थर्थन्तदानशब्देन निर्देशः परिक्रयार्थः ॥ ५४ ॥ उक्तार्थे साधकान्तरमाह- 1 तै. बा. ३-३-८. - " 350 पूर्वमीमांसादर्शनं. [अध्या. ३. पा.४ तदिति । तस्य चतुर्थीनिर्देशस्य संस्तवात् एषा वै दर्शपूर्णमा: सयोदक्षिण इति दक्षिणालेन स्तुतेः दक्षिणायाः परिक्रयार्थत्वं सिंध, तथाऽस्यापीति भावः ॥ ५ ॥ सिद्धान्तमाह---भक्षति । भक्षार्थ एष वि. भागः, द्रव्ये इत्यनन्तरं स्वत्वाभावस्य द्वयोरिति शेषः, समत्वात् 'तुल्य- त्वात् । अयं भावः। देवतार्थ परिगृहीतद्रव्यस्य देवतायै निवेदितत्वेन स्वत्वाभावस्य द्रव्ये ऋत्विग्यजमानयोस्तुल्यत्वात् । न च स्वत्वाभावे निर्देशाऽपि न सम्भवतीत शक्यते वक्तम् । तुलापुरुषंदानादौ त्यक्त- स्यापि द्रव्यस। परस्परं कलहनिवृत्त्यर्थ यजमानकर्तकविभागस्य दृष्टत्वेन तथाऽत्रापि सम्भवादिति ॥ ५ ॥ दक्षिणात्वेन संस्तवादिति. हेतुं निर स्यति–व्यादेशादिति । व्यादेशोत् चतुर्थ्या सम्प्रदाननिर्देशसाम्यात् निर्देशस्य दक्षिणात्वन स्तुतिः, '' एष व दर्शपूर्णमासयोरवभृथः " इतिवत् । 'नेतावता परिक्रयस्मिातीति भावः ॥ ५५ ॥ इति श्रीमद्वाधूलकुल जलधिकौस्तुमंशषाचार्यवर्यतनयभ्य सन्ततसमुपासितस- दाचार्यस्य श्रीमतः पण्डितरत्नतर्कतीर्थकस्तृरिरगाचार्यम्य कृतिष जैमिनिसूत्रवृत्ती सारबोधिन्यां तृतीयस्याध्यायस्य चतुर्थः पादः. आग्नेयस्य पुरोडाशस्य चतुर्धाकृतस्य “इदं ब्रह्मण होतुः" इत्यादिमत्रवर्णकल्पितो विभागरूपो व्यादेशश्श्रुतः स किं दक्षि- णारूपतया परिक्रयार्थस्सन् ऋत्विक्संस्कारार्थः उत भक्षणरूप. तया प्रतिपत्त्यर्थस्सन् शेषसंस्कारार्थ इति चिन्तायां-भक्षस्या- श्रवणात् 'ब्रह्मणः' इत्यादिषष्ठीश्रुत्या च वासिष्ठादिवत् ब्रह्मा- दीनां स्वामित्वावगमात्तस्य च दानमन्तरेणानुपपत्तेस्तस्य च त्व- त्पक्षेपि' पुरोडाशे स्विष्टकवदेव स्वीकारकल्पकत्वोपपस्सोमच- 1. सं. १-७.५. तै. बा. ३-३-८. । त्यक्तेऽपि इति पाठान्तरम्, 2 अधि. २१.] भादीपिकासहितम्. 351 - मसव ऋत्विक्संस्कारार्थ दक्षिणादानावीधरेवात्र कल्पयते । अत एव “एषा वै दर्शपूर्णमासयोर्दक्षिणा" इत्यपि लिङ्गमुपप- द्यते । अतः पारेक्रयार्थ इति प्राप्ते- सकलस्यैव पुरोडाशस्याग्नये त्यक्तत्वादनीशो यजमानो न शक्नोत्यन्यांस्तेन पारेक्रेतुम् । अतस्तव मते पुनस्स्वीकारो दान- मानतिश्चत्यनेककल्पना । स्विष्टकृति तु यागस्य श्रुतत्वात् स्वीका- रकल्पनेऽपि नदोषः । अतो वरं भक्षणकर्तृत्वमेव सम्बन्धसा- मान्यवाचिषष्ठयाँ अर्थ पारेकल्प्यापेक्षितशेषप्रातपत्तिरूपं भक्षणमेव सादिकर्तृकं मान्नवर्णिकविधिना विधीयत । अवश्यं चानतिरप्यनेन भक्षणोपयोगत्वेनावर्जनीया न तु गृहसुवर्णादिवक्रियान्तरोपयो- गिनी अयोग्यत्वात् । अतश्चावश्यकत्वाद्भक्षणमंव सम्बन्धघटकत्वेन कल्प्यते न क्रियान्तरं मर्पणादिगौरवात् । सम्बन्धिसमर्पणभव शेषप्रतिपत्तिः । तेन तु गृहीत्वा स्वयमन्य: द्वारा वा भक्षणं सम्पादनीयमियप्यपास्तम् । आवश्यकभक्षण- स्यैव तत्कर्तृकस्य प्रतिपत्तित्वोपपत्ती क्रियान्तरकल्पने गौरवान् । दक्षिणाश्रुतिस्त्वानुषङ्गिकानतिसीधनत्वादर्थवादः ॥२१॥ अतश्च ब्रह्म- इति श्रीखण्डदेवविरचितायां भादीपिकायां तृतीयस्थाध्या- यस्य चतुर्थः पादः. -R:00-
No text on this page.
No text on this page.