Sringeri Sharada Peetham
Bala Manorama Part -iii
Front matter
PART III.]
[तृतीयो भागः।
SRI BÅLA MANORAMA
WITH
SIDDHÂNTA KAUMUDÎ
A NEW EDITION
MAINLY BASED ON THE VARIOL'S READINUS PREVALENT IS SOLTHERX INDIA,
CRITICALLY EXAMINED BY P’UNDITS.
UTTARARDHAM.
श्रीः।
॥बलमन रमा॥
सिद्धान्तकौमुदीसहिता।
दाक्षिणात्यानेकमहनीयकोशस्थपाठानुसारेण विद्वद्भिः सम्यक् परिशोधिता ।
॥ उत्तरार्धम् ॥
EDITED BY
S. Chandrasekhara Sastrigal,
HEADMASTER, GIRIAWAIIDYA DHARNA PATASALA,
TEPPAKULAM, TRICHINOPOLY.
Trichinopoly:
ST. JOSEPH'S COLLEGE PREss.
-
1906.
Price 6 Annas.]
All Rights Reserved.
[Postage Extra..
OPINIONS. Pandit Umapatidatta Sharma Pandeya, B. A., M. R. A.S., (London) Member of The Asiatic Society of Bengal, The Sahitya Sabha, The Banjia Sahitya Parishad, The Imperial Library, The Barabazar Library, The Kanyakubjamanda Pasthakalaya and The Hindi Sahitya Sabha, in Calcutta, The Nagaripracharti Sabha of Benares, The Nagaripracharini Sabha of Arrah; and Examiner, Calcutta University, etc., etc., etc. :~"I have gone through your valuable edition of Paninda Vyakaran in the new garb of Balamandramà. It will indeed be of immense vali to the students when complete, for they will find in a nnt-shell all that is worth knowing in the Vyakaran collected together from Kåshika, Mahabbàshyau, Siddbåntha Kaumudi and other well-known works on the subject. The foot-notes contain sufficient hints to understand the text even without the help of a teacher, provided the student has an elementary knowledge of Sanskrit. Some of the aphorisms (Sutras) of Panini bave been excellently elucidated. I wish this edition erery success. Please send the other parts also when published. Thanking you in anticipation." 1. R. Ry. C. M. Padmanabhacharyar Avl., B.A., B.L., High Court Yakil, Coiambatore :-"I received your cards and Sri Balamandrama Part I per V. P. P. I consider that this edition of Sanskrit Grammar. is a very laudable undertaking and I wish the editor success. The Kaumudi is an invaluable treasury to all lovers of Sanskrit, and the Bålamandrama is the key to the treasury. The Public must therefore be very thankful for a publication of this Commentary in neat Devanagiri characters." X. R. Ry: N. Y. Desikachariar Ayl., M.A., B.L., High Court Yakil, Coiambatore:-“ Students of Panini and Siddhantha Kaumudì usually feel the want of a simple, clear and exhaustive elucidation of the Sutras in their practical application. Such a want is fully supplied by the Bilamandramà, which, as its name implies, will make the study of Sanskrit Grammar a pleasant recreation. It deserves a prominent place in the library of every lover of Sanskrit knowledge." 1. R. Ry. K. S. Ganapathi Aiyar Avl., M. A., M. L., High Court Yakil, Trichinopoly: "I have great pleasure in recommending to the public a Sanskrit. publication undertaken by Brahmasri Chandrasekhara Sastrigal of Trichinopoly. The work to which he is introducing the scholars of Sanskrit literature is a commentary on Siddhanta Kaumudi of Bhattôji Deekshita, the great authority on Sanskrit Grammar. The commentary is the work of Vasudeva Deekshita and is known as Balamanôrama. As its name implies, it is easy of comprehension. Other commentaries on Siddhanta Kaumudi are more pretentious and cause an amount of discussion which seems bewildering to the student. But Bålamanorama is lucid in the highest degree. I have had the advantage of reading parts of it with the help of the learned Pandit who is now engaged in its publication, and I think it is a book which every lover of Sanskrit should have with him." M. R. Ry. A. Y. Gopalachariar Avl., M.A., B. L., High Court Yakil, Trichinopoly : “The Bålamanorama is a full and lucid exposition of the Siddhånta Kaumudi. Other commentaries on the Siddhanta Kaumudi, excepting perhaps the Tatvabodhini, are as difficult as the Kaumudi itself. The Balamanoramâ explains the Kaumudi so fully and easily that any student can, even without a teacher, understand the Kaumudi fully. Only a very small portion of the Balamanôramâ has been printed in Grantha characters. Brahmasri Chandrasekhara Sastrigal is doing a very valuable service by publishing the Balamanorama in Nagari characters. He begins with Tiñanta, as that portion has not been published at all. The get up of the publication is excellent. Mr. Chandrasekhara Sastriar is a gentleman of very ordinary means, and he is devoting all his fortune to the publication of this work. For the success of the work he is entirely dependent upon the liberal support of the generous public. I hope that every lover of Sanskrit will buy at least one cony of the honk " 93 प्रकरणम्] बालमनोरमा । 'दय' 'अय' आम्' एभ्य आम् स्याल्लिटि । अयाञ्चक्रे । अयिता । अयिषीष्ट । २३२५ । विभाषेटः । (८-३-७९) इण: परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यान। अयिषीढ़म्-अयिषीध्वम् । आयिष्ट । आयिढम्-आयिध्वम् । २३२६ । उपसर्गस्यायतौ । (८-२-१९) अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते-पलायते । निस्दुसो रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते। निर्दुरोस्तु निलयते । दुलयते । ' प्रत्ययः' इति त्विणो रूपम् । अथ कथम् ‘उदयति विततोर्ध्वर- श्मिरजौ' इति माघः । इट' : किट' 'कटी' इत्यत्र प्रश्लिष्टस्य एभविष्यति । यद्वा · अनुदात्तत्त्वलक्षणमात्मनेपदमनित्यम् (प ९७)। चक्षिङो उित्करणा- ज्ज्ञापकान् । धादित्वात् ववये । पेये । मेये । चेये। तेये । प्रणयते । नेये । 'दय -- प्रत्ययादित्यतः आम लिटील्यनुवर्तते । तदाह । एभ्य आम् स्याल्लिटि इति । विभाषेटः॥ 'इण: षीध्वं लुङ् लिटान्धः' इत्यनुवर्तते । अपदान्तस्येत्यतो मूर्धन्य इति च । तदाह । इणः परो य इडित्यादि ॥ इण्णन्तादङ्गादित्यर्थः । अयिषीवामिति ॥ आशीलिडो ध्वमः सीयुट। यलोपः । आर्धधातुकत्वान सलोपः। इट्। यकारादिणः परो य इट् ततः परत्वात् धस्य मूर्धन्यो ढः। इटः परभक्तत्वाद्यकारान्तादङ्गात् परस्य इषीध्वमः इण्णन्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पोऽयम् । आयिवमिति ॥ लुङो ध्वमि च्ले: सिचि आटि वृद्धौ सिच इटि धि चेति सलोपः । ध्वम इवर्णान्तादङ्गात्परत्वानित्ये प्राप्ते विकल्प: । अङ्गादिति निवृत्तमिति केचित् । उपसर्गस्यायतौ ॥ अयताविति इितपा निर्देशः । 'कृपोरोल' इत्यतः रोल इत्यनुवर्तते । तदाह । अयतिपरस्येत्यादिना। प्लायत इति ॥ प्र इत्युपसर्गः । पलायत इति ॥ परा इत्या- कारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह । निस् दुसो- रिति ॥ तर्हि निलयते दुलयत इति कथमित्यत आह । निर्दुरोस्त्विति ॥ एतदर्थमेव प्रादिषु मान्तयोरेफान्तयोश्च निर्देश इति भावः । तर्हि प्रत्यय इत्यत्रापि प्रतेरयतिपरत्वात् रस्य लत्वं स्या- दित्यत आह । प्रत्यय इति त्विति ॥ प्रतिपूर्वकादिग्धातोरच्प्रत्यये प्रत्यय इति रूपम् । अयतिपरत्वाभावानलत्वमित्यर्थः । अयधातुमादाय प्लत्यय इति न । अनभिधानादिति कैयटः । कथमुदयतीति ॥ उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तेत्त्वेन लटश्शानच्प्रसङ्गादिति भावः । प्रश्लिष्टस्येति ॥ इधातोरिति शेषः । तस्य अनुदात्तेत्त्वाभावाच्छतृप्रत्ययो निर्वाध इति भावः । ज्ञापकादिति ॥ चक्षिधातौ इकारस्य अनुदात्ततया अनुदात्तेत्त्वादेव आत्मनेपदसिद्धौ ङित्करणं अनुदात्तेत्त्वप्रयुक्तात्मने- पदस्य अनित्यतां ज्ञापयति। तस्य अनित्यत्वेतु नित्यात्मनेपदार्थ डित्करणमर्थवदिति भावः । 13 ९८ सिद्धान्तकौमुदीसहिता भ्वादि ४८१ दानगतिरक्षणहिंसादानेषु' । आदानं ग्रहणम् । दयाञ्चके । 'रय ४८२ गतौ'। 'ऊयी ४८३ तन्तुसन्ताने' । ऊयाञ्चक्रे । 'पूयी ४८४ विशरणे दुर्गन्धे च' । पूयते । पुपूये । 'क्नूयी ४८५ शब्दे उन्दने च' । चुक्नूये । 'क्ष्मायी ४८६ विधूनने' । चक्ष्माये । 'स्फायी ४८७ ओ प्यायी ४८८ वृद्धौ। स्फायते । पस्फाये । प्यायते । २३२७ । लिड्यङोश्च । (६-१-२९) लिटि यडि च प्यायः पीभावः स्यात् । पुनःप्रसङ्गविज्ञानात् पीशब्दस्य द्वित्वम् । ' एरनेकाच:-' (सू २७२) इति यण् । पिप्ये । पिप्याते । पिप्यिरे । । २३२८ । दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् । (३-१-६१).' एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे । २३२९ । चिणो लुक् । (६-४-१०४) चिणः परस्य तशब्दस्य लुक्स्यात् । अप्यायि-अप्यायिष्ट । ताय ४८९ सन्तानपालनयोः' । सन्तानः प्रबन्धः । तायते । तताये । अतायि-अताविष्ट । । इदन्तु भाष्ये न दृश्यते। वादित्वादिति ॥ वयधातोलिटि वादित्वादेत्वाभ्यासलोपयोर- भावे सति ववये इति रूपमित्यर्थः । णयधातुर्णोपदेश इति मत्वा आह । प्रणयत इति ॥ उपसर्गादसमासेऽपीति णत्वमिति भावः। दयाञ्चक इति ॥ 'दयायासश्च' इत्याम् । ऊयाञ्चक इति ॥ इजादित्वादाम्। उन्दने चेति ॥ क्लेदने चेत्यर्थः । स्फायी ओ प्यायीति ॥ ओदित्त्वं 'ओदितश्च' इति निष्ठानत्वार्थम् । ईदित्वन्तु श्वीदितो निष्ठायामिति इविकल्पार्थम् । लिड्यङोश्च ॥ लिट्च यङ्चेति द्वन्द्वात्सप्तमी । 'प्याय: पी' इति सूत्रमनुवर्तते । तदाह । लिटि यङि चेति ॥ ननु प्यायेर्लिटि द्वित्वं बाधित्वा परत्वात् पीभावे 'द्वित्वे एरनेकाचः' इति यणि पिप्ये इति रूपमिष्यते । तत्र द्वित्वम्बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न सम्भवति । 'विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायादित्यत आह । पुनःप्रसङ्गेति ॥ 'पुनःप्रसङ्गविज्ञानात् सिद्धम्' इति परिभाषा। विप्रतिषेधे बाधितस्यापि पुनःप्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः । दीपजन ॥ 'च्ले: सिच्' इत्यतः च्लेरिति, 'चिण् ते पदः' इत्यस्मात् चिण ते इति चानुवर्तते । तदाह । एभ्यश्च्लेरिति। ग्कवचन इति ॥ दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः । चिणो लुक् ॥ चिण इति पञ्चमी । तदाह । चिणः परस्येति ॥ चिण: परश्च अर्थात् तशब्द एव भवति । चिणभावे च्ले: सिचि रूपमाह । अप्यायिष्टेति । ताय सन्तान इति ॥ ‘लुङि दीपजन' इति ग्लेश्चिणि तलोपे रूपमाह । अतायीति ॥ चिणभावे सिचि अतायिष्टेति रूपम् ।
प्रकरणम्] बालमनोरमा। ९९ . - 'शल ४९० चलनसंवरणयोः' । 'वल ४९१ वल्ल ४९२ संवरणे सञ्चरणे च' । ववले । ववल्ले । 'मल ४९३ मल्ल ४९४ धारणे' । मेले ममल्ले । भल ४९५ भल्ल ४९६ परिभाषणहिंसादानेषु' । बभले । बभल्ले । 'कल ४९७ शब्दसङ्घयानयोः' । कलते । चकले । 'कल्ल ४९८ अव्यक्ते शब्दे' । कल्लते । 'अशब्दे' इति स्वामी । अशब्दस्तूष्णीभाव इति च । ' तेवृ ४९९ देवृ ५०० देवने' । तितेवे । दिदेवे । वृ ५०१ गेवृ ५०२ ग्लेवृ ५०३ पेय ५०४ ‘मेवृ ५०५ म्लेवृ ५०६ सेवने' । · परिनिविभ्य:-' (सू २२७५) इति षत्वम् । परिषेवते । सिपवे । अयं सोपदेशोऽपीति न्यासकारादयः । नद्भाप्य- विरुद्धम् । गेवते । जिगेव । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेय' खवृ' 'क्लेवृ' इत्यप्येके। · रेवृ ५०७ प्लवगतौ' । प्लवगति: प्लुतगतिः । रेवते । अथावत्यन्ता: परस्मैपदिनः । ‘मव्य ५०८ बन्धने । ममव्य । सूर्य ५०९ ईj ५१० ईर्घ्य ५११ ईर्ष्यार्थाः' । 'हय ५१२ गतौ' । अहयीन् । यान्त- त्वान्न वृद्धिः । 'शुच्य ५१३ अभिषव । अवयवानां शिथिलीकरणं सुराया: सन्धानं वा अभिषवः। स्नानं च। शुशुच्य । 'चुच्य' इत्येके । 'हर्य ५१४ गति- कान्त्योः' । जर्य । 'अल ५१५ भूषणपर्याप्तिवारणेपु' । अलति । आल । २३३० । अतो ल्रान्तस्य । (७-२-२) 'र' इति लुप्रषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्याता वृद्धिः स्यात्परस्मैपदपरे सिचि । 'नेटि' (सू २२६८) इति निषेधस्य 'अतो शलचलेल्यारभ्य तेथ इल्यतः प्राक् लान्ताः । तेवृ इत्यारभ्य रेवत्यन्ता वकारान्ताः । षेवृधातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्र ‘सात्पदाद्योः' इति निषेधे प्राप्ते आह । परिनिविभ्य इति । सिषेवे इति ॥ आदेशसकारत्वात् षत्वमिति भावः । अयं सोपदेशोऽपीति ॥ वृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति ॥ सेक मृप् म स्तृ सृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेव प्लवगताविति ॥ प्लवेति न धात्वन्तरमिति सूचयन्नाह । प्लवगतिः प्लुतगतिरिति ॥ अयपयेत्यादिरेवल्यन्ता गताः । अवत्यन्ता इति ॥ अव रक्षणे इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अल भूषणेल्यतः प्राक् यकारान्ताः । अल भूषणेत्यारभ्य खोर प्रतीघात इत्यतः प्राक् लकारान्ताः । अतोलान्त- स्य 'सिचि वृद्धिः परस्मैपदेषु' इत्यनुवृत्तम् । अङ्गस्येत्यधिकृतम् । तद्विशेषणत्वात्तदन्त- विधिनैव सिद्ध अन्तग्रहणं व्यर्थम् । तत्राह । लेतिलुप्तषष्ठीकमिति ॥ र अन्तस्य इति छेदः। ल् च रश्चेति समाहारद्वन्द्वात् षष्ठ्येकवचनं लुप्तम् । लस्यान्तस्येति सामानाधिकरण्येनान्वयः ।
सिद्धान्तकौमुदीसहिता [भ्वादि हलादेः' (सू २२८४) इति विकल्पस्य चापवादः । मा भवानलीत् । अयं स्वरितेदित्येके । तन्मते अलते इत्याद्यपि। 'बि फला ५१६) विशरणे' । 'तृफल-' (सू २३०१) इत्येत्वम् । फेलतुः फेलुः । अफालीत् । ‘मील ५१७ श्मील ५१८ स्मील ५१९ मील ५२० निमेषणे' । निमेषणं सङ्कोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः । 'पील ५२१ प्रतिष्टम्भे' प्रतिष्टम्भो. रोधनम् । 'णील ५२२ वर्णे'। निनील । 'शील ५२३ समाधौ' । शीलति । 'कील ५२४ बन्धने'। 'कूल ५२५ आवरणे'। 'शूल ५२६ रुजायां सङ्घोषे च'। तूल ५२७ निष्कर्षे' । निष्कर्षों निष्कोषणम् । तच्चान्तर्गतस्य बहिनिस्सारणम् । तुतूल । 'पूल ५२८ सङ्घाते' । मूल ५२९ प्रतिष्ठायाम् । * फल ५३० निष्पत्तौ' । फेलतुः । फेलुः । 'चुल्ल ५३१ भावकरणे' । भाव- करणमभिप्रायाविष्कारः । 'फुल्ल ५३२ विकसने' । 'चिल्ल ५३३ शैथिल्ये भावकरणे च'। तिल ५३४ गतौ' । तेलति । तिल्ल' इत्येके । तिल्लति । वेल. ५३५ चेल. ५३६ केल ५३७ खेल ५३८ क्ष्वेल ५३९ वेल्ल ५४० चलने' । पञ्च ऋदितः । षष्ठो लोपधः । पेल. ५४१ फेल ५४२ शेल ५४३ गतौ' । पेल' इत्येके । स्खल ५४४ सञ्चलने' । चस्खाल । अस्खालीत् । 'खल ५४५ सञ्चये' । ‘गल ५४६ अदने' । गलति । अगालीत् । 'पल ५४७ गतौ' । सलति । 'दल ५४८ विशरणे' । 'श्वल ५४९ श्वल्ल ५५० , -- . । अत इति व्यधिकरणषष्ठ्यन्तम् अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथाच अतः समीपवर्तिनो लस्येति लभ्यते । रस्येत्यङ्गाविशेषणत्वात्तदन्तविधिः । ततश्च अत्समीपवर्तिरफ- लकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते। अत इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति । तदाह । अतस्समीपावित्यादिना ॥ अतः समीप इति किम् । अखोरीत् । अमौलत् । लरान्त- स्यति किम् । मा भवानीत् । अतो बृद्धिरित्युक्त्वा अतः समीपावित्यनुक्तौ तु अवधीत् अश्वलादित्यत्रातिव्याप्तिः । अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः । नचात्र अतः भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः । आलीदित्यादौ एकव्यवधाने चरिता थत्वादिति वाच्यम् । सिचि परे यदङ्गन्तदकारस्य वृद्धिरित्याश्रयणे अतिव्याप्तिवारणार्थत्वात् । त्रि फलेति ॥ विदारणं शिथिलीभावः । 'आदिर्मिटुडवः' इति जिरित् । ‘जीतः क्तः' इति प्रयोजनम् । 'आदितश्च' इति इडिकल्पार्थमादित्वम् । लिण्णिमित्तादेशादित्वादप्राप्ते आह । तृफलेति। मील श्मीलेति ॥ निमेषणं नेत्रसङ्कोचः । सङ्कोच इति पाठेऽप्ययमेवार्थः। नील- वर्ण इति ॥ वर्णक्रियायामित्यर्थः । फलनिष्पत्ताविति ॥ त्रि फलेति पूर्व पठितम् । अनु- • प्रकरणम्] बालमनोरमा। . . आशुगमने' । शश्वाल । अश्वालीत् । शश्वल्ल । अश्वीत् । खाल ५५१ खोर्ज ५५२ गतिप्रतिघाते' । खोलति । खोरति । 'धोत्रं ५५३ गतिचातुर्ये' । धोरति । · सर ५५४ छद्मगतौ' । तत्सार । अत्सारीत। क्मर ५५५ हूर्छने । चक्मार । 'अभ्र ५५६ वभ्र ५५७ मध्र ५५८ चर ५५९ गत्यर्थाः' । चरतिभक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीन् । अङ्गान्त्यरेफस्यात: समीपत्वाभावान्न वृद्धि: । 'ठिवु ५६० निरसने । ष्ठिवुक्लमु- (सू २३२०) इति दीर्घः । प्ठीवति । अस्य द्वितीयो वर्णष्ठकारो वेति वृत्तिः । निष्ठव । तिष्ठि- वतुः । तिष्ठिवुः । टिठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि च' (मू ३५४) इति दीर्घः । ठीव्यान । जि ५६१ जये । अयमजन्तेषु पठितुं युक्तः । जयः उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति । २३३१ । सन्लिटोर्जेः । (७-३-५७) जयते: सन्लिण्णिमित्तो योऽभ्यासम्ततः परस्य कुत्वं स्यात । जिगाय । जिग्यतुः जिग्युः । जिगयिथ-जिगेथ । जिगाय-जिगय । जिग्यिव । जिग्यिम । बन्धभेदात्पुनः पाठः । खोल खोक्र इति ॥ द्वितीयो रेफान्तः । ऋदित् । इन आरभ्य प्टिवेः प्राक् रेफान्ताः । धोक्र गतिचातुर्य इति ॥ अश्वगतिविशेष इत्यर्थः । रेफान्तोऽयम् । ऋदित् । त्सर छद्मगताविति ॥ कपटगतावित्यर्थः । क्मर हर्छन इति ॥ कुटिलीभवन इत्यर्थ: । ष्ठिवु निरसन इति ॥ इदुपधः । उदित् । इत आरभ्य ऊष्मान्तेभ्यः प्राक वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह । ष्ठिवुक्लम्वितीति ॥ ल्युटि तु शित्परकत्वाभावात् दीर्घाभावे लघूपधगुणः । टीवनमिति तु पृषोदरादित्वात् समाधेयम् । अस्यति ॥ टिवुधातोः द्वितीयो वर्णः थकार इत्यर्थः । कृततृत्वस्य निर्देश इति भावः । पोपदेशोऽयम् । केवलदन्त्यथकारपरकसादित्वात्योपदेशत्वेऽपि न सत्वम् । 'सुब्धातुष्टिवु' इति निषेधात् । लिटि तु ‘शपूर्वाः खयः' इति षकारवकारयोनिवृत्त्या षत्वनिवृत्तौ रूपमाह । तिष्ठेवेति ॥ ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति ॥ जिधानुरानिटकः । सन्लिटोजैः॥ ‘अभ्यासाच' इति सूत्रात् अभ्यासादित्यनुवर्तते। 'चजोः कुधिण्यताः' इत्य- स्मात् कु इति च । सन्लिटोरिति निमित्तसप्तमी अभ्यासे अन्वेति । तदाह-सन्लिण्णिमित्तो. योऽभ्यास इत्यादि ॥ सनि लिटि च अभ्यासात् परस्य कुत्वमिति व्याख्याने तु यङ्लुगन्तात् सनि जेजयिषति इत्यत्र कुत्वं स्यात् । अतः सन्लिणिमित्तो योऽभ्यास इति व्याख्येयमिति माधवः । जिगायेति ॥ णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः। जिग्यतुरिति ॥ कित्त्वा- द्गुणाभावः । लिटि एकाच इति इण्णिषेपं बाधित्वा क्रादिनियमादिटि प्राप्ते थलि 'अचस्तास्वत्' इति तनिषेधस्य भारद्वाजनियमाद्विकल्पः । तदाह । जिगयिथ । जिगेथेति ॥ जिग्यथुः ।
१०२ सिद्धान्तकौमुदीसहिता [भ्वादि । । जेता। जीयात् । अजैषीत् । 'जीव ५६२ प्राणधारणे'। जिजीव । 'पीव ५६३ मीव ५६४ तीव ५६५ णीव ५६६ स्थौल्ये' । पिपीव । मिमीध :- तितीव । निनीव । 'क्षीबु ५६७ क्षेवु ५६८ निरसने' । 'उर्वी ५६९ तुर्वी ५७० थुर्वी ५७१ दुर्वी ५७२ धुर्वी ५७३ हिंसाः' । ऊर्वाञ्चकार। 'उपधायां च' (सू २२६५) इति दीर्घः । तुतू । 'गुर्वी ५७४ उद्यमने'। गूर्वति । जुगूर्व । 'मुर्वी ५७५ बन्धने' । 'पुर्व ५७६ पर्व ५७७ मर्व ५७८ पूरणे 'चर्व ५७९ अदने' । 'भर्व ५८० हिंसायाम्' । 'कर्व ५८१ खर्व ५८२ गर्व ५८३ दर्प'। 'अर्व ५८४ शर्व ५८५ पर्व ५८६ हिंसायाम्'। आनर्व । शर्वति । सर्वति । 'इवि ५८७ व्याप्तौ'। इन्वति । इन्वां चकार । 'पिवि ५८८ मिवि ५८९ णिवि ५९० सेचने'। तृतीयो मूर्धन्योष्मादि- रित्येके । 'सेवने' इति तरङ्गिण्याम् । पिन्वति । पिपिन्व । 'हिवि ५९१ दिवि ५९२ धिवि ५९३ जिवि ५९४ प्रीणनार्थाः' । हिन्वति दिन्वति । २३३२ । धिन्विकृण्व्योर च । (३-१-८०) अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । 'अतो लोप:' (सू २३०८)। तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वन्ति । जिग्य । 'णलुत्तमो वा' इति मत्वा आह। जिगाय। जिगयेति ॥कादिनियमादिटं मत्वा आह। जिग्यिव। जिग्यिमेति । जेतेति ॥जेष्यति। जयतु । अजयत् । आशीर्लिडि अकृत्सार्वधातुक- योः' इति दीर्घ मत्वा आह । जीयादिति । अजैषीदिति ॥ 'सिचि वृद्धिः' इति वृद्धिरिति भावः । अजेष्यत् । षर्वधातुष्योपदेशः। इविधातोरिदित्त्वान्नुम् । तदाह । इन्वतीति। इन्वाञ्च- कारेति ॥ नुमि इजादिगुरुमत्त्वादामिति भावः। पिविमिवीत्यादय इदितः । धिन्विकृण्व्योः॥ अ इति लुप्तप्रथमाकम् । धिविकृव्योः कृतनुमोः धिन्विकृण्वीति निर्देशः । 'तनादिकृञ्भ्य उ:' इत्यतः उरिति चकारादनुकृष्यते। कतरि कृत्' इत्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति च । तदाह । अनयोरित्यादिना ॥ वकारस्याकारः धिन उ ति इति स्थितम् । अतो लोप इति ॥ युगपत्सन्नियोगशिष्टतया उप्रत्ययाकारयोरार्धधातुकथोरुपदेशकाले धिन इत्यस्या- दन्तत्वमिति भावः । नन्वन वकारस्य लोप एव विधीयतां, किमकारविधिनेत्यत आह । तस्येति ॥ वकारस्य लोपविधौ तु अजादेशत्वाभावात् स्थानिवत्त्वं न स्यादिति भावः । तथा च, धिनु ति इति स्थिते आह । उप्रत्ययस्येति । धिनुत इति ॥ धिविधातोर्नुमि तसि उप्र त्यये बकारस्य अकारादेशे अतो लोपे तसो डित्वादुकारस्य न गुणः। धिन्वन्तीति॥धिन्व इत्य- प्रकरणम्] बालमनोरमा । १०३ २३३३ । लोपश्चास्यान्यतरस्यां म्वोः । (६-४-१०७) असंयोगपूर्वो य: प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वो: परयोः । धिन्व:-धिनुवः । धिन्म:-धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि । २३३४ । उतश्च प्रत्ययादसंयोगपूर्वात् । (६-४-१०६) असंयोगपूर्वो य: प्रत्ययोकारस्तदन्तादङ्गात्परस्य हेर्लुक्स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट । धिनवाव । धिनवाम । जिन्वतीत्यादि । रिवि ५९५ रवि ५९६ धवि ५९७ गत्यर्थाः' । रिण्वति । रण्वति । धन्वति । 'कृवि ५९८ हिंसाकरणयोश्च'। चकाराद्गतौ । · कृणोति इत्यादि धिनोतिवत् । अयं स्वादौ च । 'मव ५९९ बन्धने' । मवति । मेवतुः । मेवुः । अमवीन्- अमावीत् । अव ६०० रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थया- चनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु'। अवति । आव । मा म्मात् झिः। झोऽन्तः । उ प्रत्ययः । वकारस्य अकारः। अतो लोपः। उकारस्य यणिति भावः । अत्र वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट् । उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्वि- धाविति निषेधात् । तदिदम्भो भगो इति सूत्रभाष्ये स्पष्टम् । धिनोषि। धिनुथः । धिनुथ। धिनोमि । लोपश्च ॥ 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति पूर्वसूत्रोक्त उकारः अस्येत्यनेन परामृश्यते। प्रत्यय- शब्दः प्रत्ययसम्बन्धिनि वर्तते । असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति । स च अङ्गस्य विशेषणम् । तदन्तविधिः । तदाह । असंयोगेति । प्रत्ययोकार इति ॥ प्रत्ययसम्बन्धी उकार इत्यर्थः । प्रत्यय उकार इति व्याख्याने तु सुनुवः सुनुमः इत्यत न स्यात् । तत्र श्नोरेव प्रत्ययत्वात् । प्रत्ययेति किम् । युवः । युमः। असंयोगपूर्वादिति किम् । शक्नुवः । शक्नुमः । धिन्वः, धिनुवः, इति ॥ अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदशिवत्त्वेन बोध्यम् । नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह । मिपित्विति ॥ दिधिन्व । धिन्विता । धिन्विष्यति । धिनोतु । उतश्च । हेर्लुक्स्यादिति ॥ चिणो लुगि- त्यतः अतोहेरित्यतश्च तदनुवृत्तेरिति भावः । लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेनिभावे लोडुत्तमस्येत्यडागमञ्च बाधित्वा परत्वादुकारस्य 'लोपश्चास्या- न्यतरस्याम्' इति लोपमाशङ्कयाह । नित्यत्वादुकारलोपात् पूर्वमाडिति ॥ निभावस्या- प्युपलक्षणम् । उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकार- लोपात्पूर्वमेव निभावाडागमयोः कृतयोः उकारलोपस्य प्रसक्तौ आटः पित्त्वेन डित्त्वाभावादुका- रस्य गुणे अवादेशे च धिनवानीति रूपमिति भावः । अधिनोत् । धिनुयात् । धिन्व्यात् । अधिन्वीत् । अधिन्विष्यत् । कृणोतीत्यादीति ॥ धिविवद्रूपाणीति भावः । अयं खादौ चेति ॥ कृविरित्यर्थः । अव रक्षणेति ॥ स्वाम्यर्थः ऐश्वर्यम् । मा भवानवीदिति ॥
१०४ सिद्धान्तकौमुदीसहिता [भ्वादि . - . - भवानवीत् । धावु : ६०१ गतिशुद्धयोः' । स्वरितेत् । धावति-धावते दधाव-दधावे। अथोष्मान्ता आत्मनेपदिनः । 'धुक्ष ६०२ धिक्ष' ६०३ सन्दीपनक्ले- शनजीवनेषु । धुक्षते । दुधुझे । धिक्षते । दिधिक्षे । 'वृक्ष ६०४ वरणे'। वृक्षते । ववृक्षे। ‘शिक्ष ६०५ विद्योपादाने'। शिक्षते । 'भिक्ष ६०६ भिक्षायामलाभे लाभे च'। भिक्षते । ‘क्लेश ६०७ अव्यक्तायां वाचि'। 'बाधने' इति दुर्गः । क्लेशते । चिक्लेशे । 'दक्ष ६०८ वृद्धौ शीघ्रार्थे च' दक्षते । ददक्षे । 'दीक्ष ६०९ मौण्ड्येज्योपनयननियमव्रतादेशेषु' । दीक्षते । दिदीक्षे । ईक्ष ६१० दर्शने' । ईक्षाञ्चक्रे । 'ईष ६११ गतिहिंसादर्शनेषु'। ईषाञ्चक्रे । 'भाष ६१२ व्यक्तायां वाचि' । भाषते । 'वर्ष ६१३ स्नेहने'। दन्त्योष्ठ यादिः । ववर्षे । गेषु ६१४ अन्विच्छायाम्' । ग्लेष' इत्येके । अन्वि- च्छा अन्वेषणम् । जिगेषे । 'पेष ६१५ प्रयत्ने' । पेषते । 'जेषु ६१६ णेष ६१७ एष ६१८ प्रेष ३१९ गतौ' । जेषते । नेषते । एषाञ्चक्रे । पिप्रेषे । रेष हेषु ६२१ द्वेष ६२२ अव्यक्ते शब्दे' । आद्यो वृकशब्दे, ततो द्वौ अश्व- शब्दे । रेषते । हेषते । द्वेषते । 'कासृ ६२३ शब्दकुत्सायाम्' । कासाञ्चक्रे । 'भामृ ६२४ दीप्तौ । बभासे । 'णामृ ६२५ राह ६२६ शब्दे' । नासते प्रणासते । णस ६२७ कौटिल्ये' । नसते । 'भ्यस ६२८ भये'। भ्यसते । बभ्यसे । 'आङः शसि ६२९ इच्छायाम्' । आशंसते । आशशंसे । 'ग्रसु ६३० ग्लसु ६३१ अदने' । जनसे । जग्लसे। 'ईह ६३२ चेष्टायाम्'। ईहा- ञ्चक्रे । 'बहि ६३३ महि ६३४ वृद्धौ' । वंहते । ववंहे । मंहते । 'अहि . ६३५ गतौ' । अंहते । आनंहे । गर्ह ६३६ गल्ह ६३७ कुत्सायाम्' । जगहें । जगल्हे । 'बह ६३८ बल्ह ६३९ प्राधान्ये' । ओष्ठ्यादी । वह । , । १ . नेटीति न वृद्धिः । मव्यादयोऽवत्यन्ताः परस्मैपदिनो गताः। धाबुगतीति ॥ उदिदयम् । स्वरितेदिति ॥ ततश्च कर्तृगामिनि फले आत्मनेपदम् । अन्यथा परस्मैपदमिति भावः । अथोष्मान्ता इति ॥ तत्र धुक्षेत्यारभ्य कासधातोः प्राक् षकारान्ताः । तत्र क्लेशधातुरेकः शकारान्तः। दीक्ष मौण्ड्येति ॥ पञ्चार्थाः । णेधातुर्णोपदेशः। कासृधातुमारभ्य ईहधातोः प्राक् सकारान्ताः । कासाञ्चक इति ॥ कास्प्रत्ययादित्याम् । णासृधातुर्णसधातुश्च णोपदेशः । आङः शसीति ॥ आङः परः शसिधातुरिच्छायामित्यर्थः । ईहेत्यारभ्य काशृधातुवर्ज प्रकरणम्] बालमनोरमा । ६४० वल्ह ६४१ परिभाषणहिंसाच्छादनेषु' । दन्त्योष्ठयादी । कोचित्तु पूर्व- योर्दन्त्योष्ठयादितामनयोरोष्ठयादितां चाहुः । ‘प्लिह ६४२ गतौ'। पिप्लिहे । 'वेह ६४३ जेह ६४४ बाह ६४५ प्रयत्ने' । आद्यो दन्त्योष्ठयादिः। अन्त्यः केवलोष्ठयादिः । ' उभावप्योष्ठयादी' इत्येके । 'दन्त्योष्ठयादी' इत्यपरे । जेह- तिर्गत्यथोऽपि बबाहे । 'द्राह ६४६ निद्राक्षये , । निक्षेपे'। इत्येके । 'का ६४७ दीप्तौ' । चकाशे। 'उह ६४८ वितर्के' उहाञ्चक्रे' । 'गाहू ६४९ विलोडने' । गाहते । जगाहे । जगाहिपे । जघाझे । जगाहि-जगाहिध्वे- जघाढ़े । गाहिता । २३३५ । ढो ढे लोपः । (८-३-१३) ढस्य लोप: स्याड्ढे परे । गाढा । गाहिष्यते-घाक्ष्यते । गाहिषीष्ट- घाक्षीष्ट । अगाहिष्ट-अगाढ । अघाक्षाताम । अघाक्षत । अगाढा: । अघाड्वम । घुषिकान्तीत्यतः प्राक् हकारान्ताः । काश्धातुस्तु शकारान्तः । प्लिहधातुरिदुपधः । ऊह वितर्के इति ॥ युक्त्या अर्थनिर्णयो वितर्कः । 'अनुक्तमप्यूहति पण्डितो जनः ।' इत्यत्र तु अनुदाने. त्वलक्षणात्मनेपदमनित्यमिति बोध्यम् । गाधानुरूदित्त्वाद्वेट् । तदाह । जगाहिषे । जघाक्षे इति ॥ इडभावे जगाह से इति स्थिते होढः एकाच इति भष्भावेन गस्य घः षढोरिति ढस्य कः सस्य षः। जगाहिटे, जगाहिध्वे इति ॥ इट्पक्षे 'विभाषेटः' इति ढत्ववि- कल्पः । इडभावे त्वाह । जघाड् इति ॥ जगाह वे इति स्थिते हस्य ढः धस्य ष्टुत्वेन ढः गस्य भध्यकारः पूर्वस्य ढस्य 'ढो ढे लोपः' इति वक्ष्यमाणो लोपः । ठूलोप इति सूत्रं त्विहेव पठितुं युक्तम् । गाहितेति ॥ इट्पक्ष रूपम् । इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे ' झषस्तथो|ऽधः' इति तकारस्य धत्वे ष्टुत्वेन धस्य ढत्वे गाड् ढा इति स्थिते । ढोढे । ढः इति षष्ठ्यन्तम् । तदाह । ढस्येति ॥ ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे गाढा इति रूपम् । ढलोपे टुत्वस्यासिद्धत्वन्तु न । तथा सति ढलोपविधिवैयर्थ्यात् । घाक्ष्यते इति ॥ इडभावे हस्य ढ: गस्य भष्पकारः ढस्य कः सस्य ष इति भावः । धाक्षी- ऐति ॥ आशीलिंङि सीयुटि इडभावपक्षे हस्य ढ: गस्य भष् धकारः ढस्य कः सस्य ष इति भावः । अगाहिष्टेति ॥ सिच इट् । सस्य षः तकारस्य टुत्वेन टः । इडभावे त्वाह। अगा- देति ॥ अगाड् स् त इति स्थिते सिच इडभावे झलो झलीति लोपः ढत्वधत्वष्टुत्वढलोपाः । सलोपात्पूर्व भष्भावस्तु न । भष्भावस्यासिद्धतया झलो झलीति सलोपस्य पूर्व प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्कयम् । वर्णाश्रये प्रत्यय- लक्षणाभावादिति भावः । अघाक्षातामिति ॥ इडभावपक्षे ढघकषाः । अघाक्षतेति । अगाढा इति ॥ थास् सिच् इडभावे सलोपः ढत्वधत्वष्टुत्वढलोपाः । अघावमिति ॥ ध्वमि ।
१०६ सिद्धान्तकौमुदीसहिता [भ्वादि अघाक्षि । 'गृहू ६५० ग्रहणे' । गर्हते । जगृहे । 'ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन' (वा ५९३)। जगृहिषे–जघृक्षे। जघृट्वे । गर्हिता-गर्दा गर्हिष्यते-घयते । गहिषीष्ट-घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे । २३३६ । शल इगुपधादनिटः क्सः। (३-१-४५) इगुपधो यः शलन्तस्तस्मादनिटश्च्ले: क्सादेशः स्यात् । अघृक्षत । २३३७ । सस्याचि । (७-३-७२) अजादौ तङि क्सस्य लोपः स्यात् । 'अलोऽन्त्यस्य' (सू ४२)। अघृक्षाताम् । अघृक्षन्त । 'ग्लह ६५१ च' । ग्लहते । 'घुषि ६५२ कान्ति- करणे' । घुषते । जुधुषे । केचित् 'घष' इत्यदुपधं पठन्ति । इडभावपक्षे सलोपः। ढत्वघत्वष्ठत्वढलोपाः । ध्वममाश्रित्य ढलोपात्पूर्व भष्भावः । अघाक्षीति॥ इडभावे हस्य ढः । भष्भावः ढस्य कः सस्य षत्वमिति भावः । अघावहि। अगाहि. ध्यत । अघाक्ष्यत । गृहूधातुः ऊदित् । ऋदुपधः । गर्हते इति ॥ लटस्तिपि लघूपधगुणे शपि रपरत्वम्। जगृहे इति ॥ असंयोगादिति कित्त्वाद्गुणाभावः । न च कित्त्वात् परत्वाद्गुणः शङ्कयः ऋदुपधेभ्यो लिटः कित्त्वं गुणात् पूर्वविप्रतिषेधेन' इति वार्तिकादिति भावः । ऊदित्त्वादिविकल्पं मत्वा आह । जगृहिषे । जघृक्षे इति ॥ अभ्यासे उरदत्वं हलादिशेषः जश्त्वम् इट् षत्वम्। इडभावे तु ढत्वभभावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह । जघृवे इति ॥ हस्य ढ: भष्भावः ढलोपः । गति ॥ इडभावे गुणे रपरत्वे ढत्वधत्व- तृत्वढलोपाः । घर्श्यते इति ॥ गुणः रपरत्वं हस्य ढ: भष्भावः ढस्य कः षत्वम् । घृक्षी- ऐति ॥ आशीलिङः सीयुटि इडभावे लिङ्सिचाविति कित्त्वाद्गुणाभावे हस्य ढः भष्भावः ढस्य कः षत्वम् । अगर्हिष्टेति ॥ सिच इटि गुणे रपरत्वे षत्वे रूपम् । शल इगुपधा ॥ शलन्त इति ॥ 'धातोरेकाचः' इत्यतोऽनुवृत्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सिचोऽ पवादः क्सादेशः अदन्तः । ककार इत् । अघृक्षतेति ॥ च्ले: क्सः । तस्य कित्त्वाटकारस्य न गुणः । हस्य ढः भष्भावः ढस्य कः षत्वमिति भावः । 'अघृक्ष आताम्' इति स्थिते 'आतो डिन्तः' इति इयादेशे प्राप्ते। क्सस्य ॥ अचीत्यस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदन्तविधिः। 'घो- र्लोपो लेटिवा' इत्यतः लोप इत्यनुवर्तते । तदाह। अजादावित्यादिना। अलोऽन्त्यस्येति ॥ अन्त्यस्याकारस्य लोप इति भावः । वस्तुतस्तु लुग्वा दुहदिह' इत्युत्तरसूत्रादात्मनेपदे इत्यनुवृत्ते- स्तद्विशेषणत्वादचीति तदादिविधिः । तेन शेः क्सप्रत्यये तादृक्ष इत्यादौ नाय लोपः। अजादौ तडीत्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति ॥ 'अघृक्ष आताम्' इति स्थिते क्साकारस्य लोपे अतः परत्वाभावात् 'आतो डितः' इति इय् नेति भावः । अघृक्षन्तेति॥झस्य अजादित्वाभावात्त- स्मिन्परे क्सस्य अकारलोपाभावादतः परत्वादात्मनेपदेष्वनत इत्यदादेशो न । कृते तु झोऽन्ता- प्रकरणम्] बालमनोरमा । -- अथाहत्यन्ता: परस्मैपदिनः । ·घुषिर् ६५३ अविशब्दने विशब्दनं प्रतिज्ञानं, ततोऽन्यस्मिन्नर्थ इत्येके । 'शब्दे' इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादना । अधुषत्-अघोषीत् । अक्षु ६५४ व्याप्तौ' । २३३८ । अक्षोऽन्यतरस्याम् । (३-१-७५) अक्षो वा इनुप्रत्यय: स्यात्कञर्थे सार्वधातुके परे । पझे शप । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्ति । अक्षति । अक्षत: । अक्षन्ति । आनन । आनक्षिथ-आनष्ठ । अक्षिता-अष्टा । अक्षिष्यति । · स्को:' (सू ३८०) इनि कलोपः । पढोः कः सि' (सू २९५)। अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । आक्ष्णोन् । आक्ष्णवम् । अक्ष्णुयात् । अणुयुः । अक्ष्यान् । । . देशे क्सस्याकारलोपः पररूपं वा । ग्लह चेति ॥ ग्लहधातुरपि ग्रहणे वर्तत इत्यर्थः । अदु- पधाऽयम् । घुषि कान्तीति ॥ उदुपधोऽयम् । इदित्त्वान्नुम् । नश्चेत्यनुस्वारः। यय्परकत्वा- भावान्न परसवर्णः । तदाह । धुंषत इति ॥ सेट्कोऽयम् । अदुपधपक्षे तु घषते। जघषे । ऊष्मान्ता आत्मनेपदिनो गताः। अथाहत्यन्ताः परस्मैपदिन इति ॥ ऊष्मान्ता इति शेषः । तत्र तुस हसेत्यतः प्राक् षान्ताः । घुषिर् इति ॥ इर् इत् । प्रतिज्ञानमिति ॥ वेदाः प्रमाणमित्याद्यभ्युपगम इत्यर्थः । ततोऽन्यस्मिन्निति ॥ विशब्दनात् अन्यत् अविशब्दनं तस्मिन्नित्यर्थः । इरित्त्वादङ्वेति ॥ इरितो वेत्यनेनेति शेषः। अघुषदिति ॥ अर डित्त्वान्न लघूपधगुणः । अघोषीदिति ॥ अङभावपक्षे लघूपधमुणे ‘इट ईटि' इति सिज्लोपः । हलन्तलक्षणवृद्धेः 'नेटि' इति निषेधः । अक्षधातुः कादत्त्वाद्वेट्कः । अक्षोऽन्यतरस्याम् ॥ • अक्ष इति पञ्चमी। स्वादिभ्यः इनुरित्यतः श्नुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति, चानुवर्त्तते । तदाह । अक्षो वेति ॥ इनुप्रत्ययस्य शित्त्वं सार्व- धातुकत्वार्थम् । तत्फलन्तु 'स्वादिभ्यः इनुः' इत्यत्र वक्ष्यते । अक्षणोतीति ॥ तिपि इनुः तस्य तिपः पित्त्वेन ङित्त्वाभावात् सार्वधातुकेति श्नो गुण: णत्वम् । अक्ष्णुत इति ॥ तसः अपित्त्वेन डिन्त्वात् नो न गुणः । अणुवन्तीति ॥ डित्त्वाद्गुणाभावे उवङ् । अक्ष्णोषि । अक्ष्णुथः । अणुथ । अक्ष्णोमि । अणुवः । अक्ष्णुमः । अक्षतीति शप्पक्ष रूपम् । आनक्षेति ॥ णलि द्विहल्त्वान्नुट् । आनक्षतुः । आनक्षुः । ऊदित्त्वादिट्पक्षे आह । आनक्षिथेति ॥ इडभावे आह । आनष्ठेति ॥ आनस् थ् इति स्थिते स्कोरिति कलोपः थस्य टुत्वेन ठः । अष्टेति ॥ लुटि तासि इडभावपक्षे स्कोरिति कलोपे तकारस्य चैत्त्वेन टः। अक्ष् स्य इति स्थिते प्रक्रियान्दर्शयति । स्कोरिति कलोपः । षढोः कस्सीति ॥ कात्परत्वात् सस्य षत्वञ्च । अक्ष्णोत्विति ॥ अक्ष्णोतु । अक्ष्णुतात् । अक्ष्णुताम् अक्ष्णुवन्तु । अणुहीति ॥ संयोगपूर्वत्वादुतश्चेति हेर्लुक् न । हेरपित्त्वेन डित्वात् नोन गुणः । अक्ष्णुतात् । अक्ष्णुतम् । अक्ष्णुत । अक्षणवानीति ॥ आटः पित्त्वेन डित्त्वाभावान गुणनिषेधः।
१०८ सिद्धान्तकौमुदीसहिता [भ्वादि उदित्त्वाद्वेट् । 'नेटि' (सू २२६८) । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः । 'तक्षु ६५५ त्वक्षु ६५६ तनूकरणे'। २३३९ । तनूकरणे तक्षः। (३-१-७६) उनुः स्याद्वा शब्विषये। तक्ष्णोति-तक्षति वा काष्ठम् । ततक्षिथ-ततष्ठ। अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । 'तनूकरणे' किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः । उक्ष ६५७ सेचने' । उक्षां चकार । ' रक्ष ६५८ गुणे अवादेशः । अक्ष्णवाव । अक्ष्णवाम । शपि तु अक्षत्वित्यादि। आक्ष्णोदिति ॥ लङ- स्तिप् नोर्गुण: आट् वृद्धिः । आक्ष्णुताम् । आक्ष्णुवन् । आक्ष्णोः । आक्ष्णुतम् । आक्ष्णुत । आश्णवमिति ॥ मिपः अम् नोर्गुणः अवादेशः । आक्ष्णुव । आक्ष्णुम । अणुयादिति ॥ विधिलिङि यासुटो ङित्त्वात् श्रोन गुणः । अणुयुरिति ॥ अक्ष्णुयाः । अक्ष्णुयातम् । अणुयात । अक्ष्णुयाम् । अणुयाव । अणुयाम । शप्पक्षे आक्षदित्यादि । अक्ष्यादिति ॥ आशीलिङः आर्धधातुकत्वान इनुः, नापि शप् । लुङि सिचि विशेषमाह । ऊदित्त्वाद्वेडिति ॥ तत्र इट्पक्षे आह । नेटीति ॥ हलन्तलक्षणा वृद्धिर्नेत्यर्थः । नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धेश्चरितार्थत्वादत्र न तत्प्रसक्तिरिति शङ्कयम् । रजेः अरांक्षीदि. दित्यत्र बुद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाध्यादौ प्रपञ्चितत्वादिति भावः । मा भवानक्षीदिति ॥ आटि सति हलन्तलक्षणवृद्धौ सत्यामसत्याञ्च रूपे भेदाभावात् मा भवानित्युपात्तम् । अक्षिष्टाम् । अक्षिषुरिति ॥ अत्रापि मा भवानिति सम्बध्यते । इडभावे त्विति ॥ लुङस्तिपि अश् स् ईदिति स्थिते इडभावानेटीति निषेधाप्रसक्त्या हल. न्तलक्षणवृद्धौ झलो झलीति सिज्लोपे स्कोरिति कलोपे तकारस्य टुत्वम् । आक्षु रिति ॥ अक्ष् स् उस् इति स्थिते हलन्तलक्षणवृद्धौ स्कोरिति कलोपे षस्य कत्वे सस्य षत्वमिति भावः । आक्षीः । आष्टम् । आष्ट । आक्षम् । आक्ष्व । आक्ष्म । आक्षिष्यत् । आक्ष्यत् । आक्ष्यताम् । आक्ष्यन् । आक्ष्यः । आक्ष्यतम् । आक्ष्यत । आक्ष्यम् । आक्ष्याव । आक्ष्याम । तथू त्वक्षु इति ॥ स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणन्तनूकरणम् । तनूकरणे ॥ शेषपूरणेन सूत्रं व्याचष्टे। इनुः स्याद्वा शब्विषये इति ॥ खादिभ्यः इनुरित्यतः इनुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगियतः सार्वधातुक, इति चानु- बर्तते । तनूकरणेऽर्थे विद्यमानात् तक्ष्धातोः इनुः स्यात्कर्थे सार्वधातुके इति फलितम् । नच तक्षुधातोस्तनूकरणार्थकत्वाव्याभिचारात् अनुविधौ तनूकरणग्रहणं व्यर्थमिति वाच्यम् । अतएव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् । तक्ष्णोतीत्यादि ॥ अक्षवद्रूपाणि । लुङि सिचि इट्पक्षे नेटीति वृद्धिनिषेधे अतक्षीदिति रूपम् । इडभावे तु अताक्षीदिति च प्रकरणम्] बालमनोरमा । १०९ .. -- .. . पालने । “णिक्ष ६५९ चुम्बने' । प्रणिक्षति । वक्ष ६६० प्रक्ष ६६१ णक्ष ६६२ गतौ' । क्षति । स्त्रक्षति । नक्षति । वन ६६३ रोपे'। सङ्घाते इत्येके । 'मृक्ष ६६४ सङ्घाते'। म्रक्ष' इत्येके । तक्ष ६६५ त्वचने' । त्वचनं संवरणं त्वचो ग्रहणं च । • पक्ष परिग्रहे' इत्येके । ' सूर्भ ६६६ आदरे'। सुपूर्वा । 'अनादरे' इति तु काचित्कोऽपपाठः । अवज्ञावहे- कनमसूक्षणम्' इत्यमरः । 'काक्षि ६६७ वाक्षि ६६८ माक्षि ६६९ काङ्क्षा- याम्'। 'द्राक्षि ६७० प्राक्षि ६७१ ध्वाक्षि ६७२ घोरवाशिते च'। चूष ६७३ पाने'। चुचूष । 'तूष ६७४ तुष्टौ'। 'पूष ६७५ वृद्धौ' । · मूष ६७६ स्तेये' । लूष ६७७ रूष ६७८ भूषायाम्' । 'शूष ६७९ प्रसवे' । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः । ‘यूष ६८० हिंसायाम्' । 'जूष ६८१ भूष ६८२ अलङ्कारे' । भूषति । 'ऊष ६८३ रुजायाम्'। ऊषां चकार 'ईष ६८४ उञ्छे'। 'कष ६८५ खष ६८६ शिष ६८७ जष ३८८ झप ६८९ शष ६९० वष ६९१ मष ६९२ रुष ६९३ रिष ६९४ हिंसार्थाः' । तृतीयषष्ठौ तालव्योस्मादी । सप्तमो दन्त्योष्ठयादिः । चकाष । चखाप । शिशेष । शिशेषिथ । शेष्टा । क्स: अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः । . . । अक्षवत् । एवं त्वक्षधातुरपि। णिक्षधातुर्णोपदेशः । प्रणिक्षतीति ॥ 'उपसर्गादसमासेऽपि' इति णत्वम् । ऋक्ष ष्ट्रक्ष णक्ष गताविति ॥ त्रयोऽप्यकारमध्याः । द्वितीयष्षोपदेशः । तदाह । त्रक्षतीति ॥ षस्य सत्वे टुत्वनिवृत्तिरिति भावः । णक्षधातुर्णोपदेशः । सिचि नीति हलन्त- लक्षणवृद्धिनिषेधः । वक्ष रोष इति ॥ दन्त्योष्ट्यादिः । म्रक्षधातुरकारमध्यः । संवरणशब्दस्य विवरणं त्वचो ग्रहणमिति। सूक्षधातुः रेफमध्यः । अपपाठत्वे हेतुमाह । अवशेति । सूक्षधातो- रनादरार्थकत्वे असूक्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः। घोरवाशिते चेति ॥ चात् कांक्षायामपि । घोरवाशितंक्रूरशब्दः । चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः। ईष उञ्छ इति ॥ ईदुपधः । कषेत्यारभ्य दश धातवः । तत्र तृतीयो दशमश्च इदुपधः । शिषधातुरनिटकः । क्रादिनियमात्थलि वसि मसि च नित्यमिट् । अजन्ताकारवत्त्वाभावेन थलि सेट्कत्वाभावात् शिशेषिथ । शिशिषिव । शिशिषिम । अशिक्ष- दिति ॥ ‘शल इगुपधात्' इति च्ले: क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः । ववषतुरिति ॥ 'न शसदद' इति निषेधादेत्वाभ्यासलोपौ न। रुषधातुस्सेटकः । रोषति । रुरोष । रुरुषतुः । रुरुषुः । रुरोषिथ । रुरुषथुः । रुरुष । रुरोष । रुरुषिव । रुरुषिम। ।
११० सिद्धान्तकौमुदीसहिता [भ्वादि २३४० । तीषसहलुभरुषरिषः । (७-२-४८) इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्डा स्यात् । रोषिता-रोष्टा । रोषि- प्यति । रेषिता-रेष्टा । रेषिष्यति 'भष। ६९५ भर्त्सने' । इह भर्त्सनं श्वरवः । भषति । बभाष । 'उष ६९६ दाहे । ओषति । २३४१ । उषविदजागृभ्योऽन्यतरस्याम् । (३-१-३८) एभ्यो लिट्याम्वा स्यात् । ओषां चकार । उवोष । ऊषतुः । उवोषिथ । जिषु ६९७ विषु ६९८ मिषु ६९९ सेचने' । जिजेष । क्रादिनियमादिद। विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् । 'पुष ७०० पुष्टौ'। पोषति। पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु 'पुष्य' इति श्यना निर्देशादयं सेट अतो न क्सः । अधिौ देवादिकस्य ग्रहणान्नाङ् । श्रिषु ७०१ श्लिषु ७०२ पुषु ७०३ प्लुषु ७०४ दाहे' । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । 'अनिट्सु देवादिकस्यैव ग्रहणम्' इति कैयटादयः । । । तीषस॥ आर्धधातुकस्येत्यतः इडित्यनुवर्तते। 'स्वरतिसूति' इत्यतो वेति च । तीतिसप्तम्युपादा- नात्तदादिविधिः। इष सह लुभ रुष रिष एषान्द्वन्द्वात्पञ्चम्येकवचनम् । तदाह । इच्छत्यादे- रिति ॥ इच्छतीति इषेः तिपा निर्देशः । इषधातुर्विवक्षितः । इषु इच्छायां तुदादिश्शविकरणः । इष गौ दिवादिः श्यान्विकरणः । इष आभीक्ष्ण्ये कयादिः नाविकरण: । तत्र 'इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः' इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् । रोषिता, रोष्टेति ॥ इडभावे टुत्वेन तकारस्य टकारः । रिषेस्तादाविड्विकल्पम्मत्वा आह । रेषिता, रेष्टेति ॥ उष दाह इति ॥ सेटकोऽयम् उखधातुवत् । उषविद ॥ कास्प्रत्ययादित्यतः आम् लिटीत्यनुवर्तते । तदाह । एभ्यो लिटीति ॥ आमभावपक्षे आह । उवोषति ॥ ' अभ्यास- स्यासवर्णे' इति उवादेशः । जिषु विषु मिषु सेचन इति ॥ द्वितीयो दन्त्योष्ठ्यादिः । थलि वसि मसि च विशेषमाह । क्रादिनियमादिडिति । विवेषिथेति ॥ अजन्ताकारवत्त्वाभावेन भारद्वाजनियमाप्रवृत्तेस्थल्यपि क्रादिनियमानित्यमिट् । वेष्टेति ॥ तासि ष्टुत्वेन तकारस्य ट: । वेश्यतीति ॥ षढोरिति षस्य कः सस्य षः । अविक्षदिति ॥ ‘शल इगुपधात् इति क्सः । षस्य कः सस्य षः कित्त्वान्नगुणः । पुषधातुः सेडिति मत्वा आह । पोषितेति । अपोषीदिति ॥ नेटीति वृद्धिनिषेधः। नन्वनिट्सु पुषेः पाठात् कथं सेट्कत्वमित्यत आह । अनिट्केष्विति । अत इति ॥ सेटकत्वात् क्सो नेत्यर्थः । ननु पुषादित्वलक्षणः अङ् कुतो नेत्यत आह । अविधाविति ॥ एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टी- भविष्यति । अयमपीति ॥ पुषधातुवत् श्लिषधातुरपि भौवादिकः सेडित्यर्थः । कैयटादय इति ॥ 'श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः - प्रकरणम्] बालमनोरमा । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं, तत्स्वोक्तिविरोधाद्न्थान्तरविरोधाञ्चो- पेक्ष्यम् । पुप्रोष । पुप्लोष । 'पृषु ७०५ वृषु ७०६ मृषु ७०७ सेचने' । 'मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् । 'घृषु ७०८ सङ्घर्षे'। 'हृषु ७०९ अळीके'। 'तुस ७१० ह्रस ७११ ह्रस ७१२ रस ७१३ शब्द । तुतोस । जहास । जहास । ररास । · लस ७१४ श्लेषणक्रीडनयो:' 'घस्ल ७१५ अदने' । अयं न सार्वत्रिकः । 'लिट्यन्यतरस्याम्' (सू २४२४) इत्यदेर्घस्लादेशविधानात् । ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लदित्करणमङि । अनिद्कारिकासु पाठो वलाद्यार्धधातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता । २३४२ । सः स्यार्धधातुके । (७-४-४९) सस्य तः स्यात्सादावार्धधातुके। घत्स्यति । घसतु । अधसत् । घसेत् । लिङ्गाद्यभावादाशिष्यस्याप्रयोगः । । द्वयोर्ग्रहणमिति ॥ भौवादिकदेवादिकयोरित्यर्थः । स्वोक्तीति ॥ ‘श्लिष आलिङ्गने' इति सूत्रे देवादिकश्लिषेरनिटक्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्वोक्तत्वादिति भावः। पृषु वृषु इत्यारभ्य हृषुपर्यन्ता ऋदुपधाः। अलीकं मिथ्याभवनं मिथ्योक्तिर्वा । तुसद्सेत्यारभ्य णशगतावित्यतः प्राक् सकारान्ताः। घस्टधातुरनिटकः । अयमिति ॥ घस्लधातुः सर्वेषु न प्रयोज्य इत्यर्थः। कुत इत्यत आह । लिटीति ॥ यद्ययं सार्वत्रिकस्स्यात् तदा लिट्यपि प्रयुज्येत । ततश्च 'अद भक्षणे' इति धातोर्लिप्यन्यतरस्यामिति घस्लभावविधिर्व्यर्थः स्यादिति भावः । असार्वत्रिकत्वे सति व प्रयोगः क नेत्यत आह । ततश्चेति ॥ यत्र घस्लधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः। तत्र तावलिङ्गन्दर्शयति । अत्रैवेति ॥ भ्वादिगणे अत्रैव कमेः परस्मैपदे अस्य पाठश्शपि प्रयोगे लिङ्गमित्यर्थः । नच धातुसंज्ञार्थः पाठ इति शङ्कयम् । द्युतदीप्तावित्युक्तरीत्याऽस्य पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयादिति भावः । लदित्करणमङीति ॥ प्रयोगे लिङ्गमिति शेषः । अनिद्कारिकास्विति ॥ अनुदात्तोपदेशेषु घस्लधातोः पाठः वलाद्यार्धधातुके प्रयोगे लिङ्गमित्यर्थः । अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनन्दर्शयति । कमरचीति ॥ 'सृघ- स्यदः क्मरच् , इत्यत्र विशिष्य घसेरुपादानात्क्मरचि प्रयोगे प्रमाणमित्यर्थः। घसतीति ।। लुटि तसाधुपलक्षणमिदम् । लिटि अस्य प्रयोगाभावाल्लुटयुदाहरति । घस्तेति । सस्सि ॥ सः इति छेदः । सः इति षष्ठ्यन्तम् । सि इति सप्तम्यन्तम् आर्धधातुक- विशेषणम् । तदादिविधिः । 'अच उपसर्गात्तः' इत्यतः त इत्यनुवर्तते । उच्चारणार्थः । तदाह । सस्य तः स्यादिति ॥ आदेशे अकारस्य उच्चारणार्थत्वात्तकारः अकार ११२ सिद्धान्तकौमुदीसहिता [भ्वादि . . २३४३ । पुषादिद्युतासदितः परस्मैपदेषु । (३-१-५५) श्यन्विकरणपुषादेर्युतादेर्लदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । अघ- सत् । 'जर्ज ७१६ चर्च ७१७ झर्झ ७१८ परिभाषणहिंसातर्जनेषु' । पिस ७१९ पेस ७२० गतौ' । पिपिसतुः । पिपेसतुः । 'हसे ७२१ हसने' । एदि- त्त्वान्न वृद्धिः । अहसीत् । णिश ७२२ समाधौ' तालव्योष्मान्तः । प्रणेशति । 'मिश ७५३ मश ७२४ शब्दे रोषकृते च' । तालव्योष्मान्तौ। शिव ७२५ गतौ' दन्त्योष्ठयान्तस्तालव्योष्मादिः । शवति । अशवीत्-अशावीत् । 'शश ७२६ प्लुतगतौ' । तालव्योष्याद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ । 'शसु ७२७ हिंसायाम्'। दन्त्योष्मान्त: । 'न शसदद-' (सू २२६३) इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ । 'शंसु ७२८ स्तुतौ' । अयं दुर्गनावपीति दुर्गः । 'नृशंसो घातुकः क्रूरः' इत्यमरः ।। शशंस । आशिषि नलोपः शस्यात् । 'चह ७२९ परिकल्कने'। कल्कनं शाठ्यम् । अचहीत् । ' मह ७३० पूजायाम्' । अमहीत् । ‘रह ७३१ त्यागे'। रहि ७३२ गतौ'। रंहति । रंह्यात् । 'दृह ७३३ दृहि ७३४ बृह ७३५ बृहि ७३६ वृद्धौ' । दहति । ददर्ह । ददृहतुः । दृहति । बर्हति । बृंहति । 'बृहि' शब्दे च । 'बृंहितं करिगर्जितम्' इत्यमरः । 'बृहिर्' इत्येके । । स्यादित्यर्थः । लुङि च्ले: सिचि प्राप्ते । पुषादि ॥'च्ले: सिच्' इत्यतः च्लेरिति ‘अस्यतिवक्ति- रव्यातिभ्यः' इत्यतः आङिति चानुवर्तते । पुषादिद्यदादिटदित एषां समाहारद्वन्द्वात्पञ्चमी । तत्र पुषधातुस्तु भ्वादौ क्रयादौ चुरादौ दिवादी चास्ति । तत्र यदि भैवादिकः पुषादिगणो गृह्येत । तर्हि द्युतादिग्रहणमनर्थकं स्यात् । पुषादिगणोत्तरमेवात्र द्वयुतादिगणपाठात् । नापि याद्यन्तर्गणः । 'मुष स्तये' 'खच भूतप्रादुर्भावे' 'हेट च' 'ग्रह उपादाने' इति च त्वार एव पठ्यन्ते । यदि त एवात्र पुषादयो विवक्षितास्स्युः तर्हि लाघवात् लदित एव ते क्रियेरन् । नाप्यत्र चौरादिकपुषादिर्गृह्यते । णिचा च्लेर्व्यवहितत्वात् । अतः परिशेषात् दिवादय एव गृह्यन्ते । तदाह । श्यन्विकरणेति । जर्ज चर्च झोति ॥ एतेषां चवर्गीयान्तेष्वेव पाठ उचितः। हसे हसन इति ॥ एदिदयम् । न वृद्धिरिति ॥ मयन्तेत्यनेनेति शेषः। णिश समाधाविति ॥ णोपदेशत्वादुपसर्गादसमासे- ऽपीति नस्य णत्वम् । तदाह । प्रणेशतीति ॥ ‘शसु हिंसायाम्' इत्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः। शंस्विति॥ नो विकृतानुस्वारस्य निर्देशः । 'चह परिकल्कने' इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः। रह त्यागे इति ॥ नायमिदित् । रहि गताविति ॥ अय- प्रकरणम्] बालमनोरमा। अबृहन्-अबहीन् । तुहिर् ७३७ दुहिर् ७३८ उहिर् ७३९ अर्दने । तोहति । तुतोह। अतुहत्-अतोहीत्। दोहति । अदुहत् । अदोहीत्। अनिद्कारि- कास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । उहतुः । ओहिता। मा भवानुहन् । औहीत् । अर्ह ७४० पूजायाम् । आनह । अथ कृपूपर्यन्ता अनुदात्तेतः । 'द्युत ७४१ दीप्तौ' । द्योतते । २३४४ । द्युतिस्वाप्योः सम्प्रसारणम् । (७-४-६७) अनयोरभ्यासस्य सम्प्रसारणं स्यात् । दिद्युते । दिद्युताते । द्योतिता। २३४५ । धुझ्यो लुङि । (१-३-९१) गुतादिभ्यो लुङ: परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदे अङ्ग । अद्युतत्-अद्योतिष्ट । श्विता ७४२ वर्णे । श्वेतते । शिश्विते । अश्वितन-अश्वे- तिष्ट । त्रि मिदा ७४३ स्नेहने । मेदते । २३४६ । मिर्गुणः । (७-३-८२) मिदित् । दृहहीति ॥ ऋदुपधा एते । द्वितीयचतुर्थाविदिती। अबृहत् । अब दिति ॥ इरित्त्वादविकल्प इति भावः । उनोहेति ॥ उहिर्धातोलिटि द्वित्वे हलादिशेष पुगन्तलक्षणे गुणे 'अभ्यासस्यासवर्णे' इत्युवङ् । मा भवानुहदिति ॥ इरित्त्वादङि रूपम् । औहीदिति ॥ अभावपक्षे लेस्सिचि तस्य इटि ' अस्तिसिचः' इति तकारस्य ईटि 'इट ईटि इति सिचो लोपे 'आडजादीनाम्' इति आटि वृद्धिः । माङयोगे तु मा भवानुहीत् । आनर्हेति ॥ 'अत आदेः' इति दीर्घे नुट् । कृपूपर्यन्ता अनुदात्तेत इति ॥ द्युतेत्यारभ्य कृपूपर्यन्ता इत्यर्थः । युति- स्वाप्योः । अभ्यासस्येति ॥ 'अत्र लोपोऽभ्यासस्य' इत्यतः तदनुवृत्तेरिति भावः । दिद्युते इति ॥ द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेन 'द्युतिस्वाप्योः' इति सम्प्रसारणे, 'सम्प्रसारणाच' इति उकारस्य पूर्वरूप रूपम् । युद्भयो लुङि॥ बहुवचनात् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी । 'तस्मादित्युत्तरस्य' इति परिभाषया परस्ये. न्युपतिष्ठते । ‘शेषात्कर्तरि' इत्यतः परस्मैपदमित्यनुवर्तते । तदाह-द्युतादिभ्यः इति । परस्मैपदे अङिति ॥ आत्मनेपदपक्षे सिजेव नत्वङ् । पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह । अद्योतिष्टेति । श्विता वर्ण इति ॥ श्वेतवर्णकरणे श्वतीभवने वेत्यर्थः । अश्वितदिति । द्युतादित्वादङ् । अश्वेतिष्टेत्यात्मनेपदपक्षे रूपम् । एवमग्रेऽपि । द्युतादौ लुङि रूपभेदो ज्ञेयः । जिमिदा स्नेहने इति ॥ त्रिरित् ‘जीतः क्तः' इत्येतदर्थः । मिमिदे इत्यत्र लिट: असंयोगादिति कित्त्वेऽपि गुणं शङ्कितुमाह । मिर्गुणः ॥ मिदेरित्यवयवषष्टी । गुणश्रुत्या 'इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते । ‘ष्टिवुलमुचमां शिति' इत्यतः . 16 ११४ सिद्धान्तकौमुदीसहिता [भ्वादि । मिदेरिको गुणः स्यादित्संज्ञकशकारादौ । एशः आदिशित्त्वाभावान्नानेन गुणः । मिमिदे । अमिदत्--अमेदिष्ट । 'बि विदा ७४४ स्नेहनमोचनयोः'। मोहनयोः' इत्येके । स्वेदते । सिध्विदे । अस्विदत्-अस्वेदिष्ट । बि क्ष्विदा च' इत्येके । अश्विदत्-अक्ष्वेदिष्ट । 'रुच ७४५ दीप्तावभिप्रीतौ च । रोचते सूर्यः । 'हरये रोचते भक्तिः' । अरुचत्-अरोचिष्ट । घुट ७४६ परिवर्तने । घोटते । जुघुटे । अघुटत्-अघोटिष्ट । रुट ७४७ लुट ७४८ लुठ ७४९ प्रतिघाते । अरुटत्-अरोटिष्ट । शुभ ७५० दीप्तौ । क्षुभ ७५१ सञ्च- लने । णभ ७५२ तुभ ७५३ हिंसायाम् । आद्योऽभावे च । नभन्तामन्यके समे' । 'मा भूवन्नन्यके सर्वे' इति निरुक्तम् । अनभत्-अनभिष्ट । अतुभत्- अतोभिष्ट । इमौ दिवादी क्रथादी च । स्रंसु ७५४ ध्वंसु ७५५ भ्रंसु ७५६ अवस्रंसने । ' ध्वंसु गतौ च । अङि न लोपः । अस्रसत्-असंसिष्ट । 'नास्रस- करिणां ग्रैवम्' इति रघुवंशे । 'भ्रंशु' इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । • भ्रशु भ्रंशु अधःपतने' इति दिवादौ । सम्भु ६५७ . ॥ शीत्यनुवर्तते। श्चासाविच्चेति कर्मधारयः । तेन च अधिकृताङ्गाक्षिप्तः प्रत्ययो विशेष्यते। तदा- दिविधिः। इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते। तदाह । मिदेरित्यादिना॥ देवादिकमिदे: इयनि मेद्यते इत्याद्युदाहरणम् । श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिकोगुण इत्येव कुतो न व्याख्यायत इत्याशङ्कय मिमिदे इत्यत्र गुणाभावार्थमित्संज्ञकशकारादाविति व्याख्येयमित्यभिप्रेत्याह । एशः आदिशित्त्वाभावादिति । जि विदेति ॥ षोपदेशो- ऽयम् । अनिट्स स्विद्येति श्यन्विकरणस्यैव महणादयं सेट् । रुच दीप्तावभिप्रीती चेति ॥ अभिप्रीतिः प्रीतिविषयीभवनम् । दीप्तौ उदाहरति । रोचते सूर्यः इति ॥ प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति । हरये रोचते भक्तिरिति ॥ भक्तिः हर्याश्रितप्रीतिविषयो भवतीत्यर्थः । 'रुच्यानाम्' इति सम्प्रदानत्वाच्चतुर्थी । क्षुभ सञ्चलने इति ॥ क्षोभते । क्षुभ्यतीति दिवादौ । क्षुभ्नातीति ऋयादौ । णभधातुः णोपदेशः। नभते । आद्योऽभावे चेति ॥ चात्सञ्चलनेऽपि । तत्र अभावार्थकस्य प्रयोगन्दर्शयति । नभन्तामन्यके समे इति ॥ मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेहिँसार्थकत्वमेव कुतो न स्यादित्यत आह । मा भूवन्नन्यके सर्वे इति ॥ नभन्तामित्यस्य विवरणं मा भूवन्निति। न भवन्ती- त्यर्थः । समे इत्यस्य विवरणं सर्वे इति । निरुक्तमिति ॥ वेदव्याख्यानात्मको यास्क- प्रणीतो ग्रन्थविशेषो निरुक्तम् । स्रंसुध्वंसुभ्रंसु इति ॥ त्रयो नोपधाः कृतानुस्वार- निर्देशाः। ध्वंसु गतौ चेति ॥ चादवलंसनेऽपि । अस्रसदिति ॥ द्युतादित्वात्परस्मैपदे अडि नलोप इति भावः । नास्त्रसदिति ॥ नास्रंसदित्यपपाठः । नचासंसदिति लङो प्रकरणम्] बालमनोरमा। ११५ विश्वासे । अस्रभत-अम्रम्भिष्ट । दन्त्यादिरयम । तालव्यादिस्तु प्रमादे गतः । वृतु ७५८ वर्तने । वर्तते । ववृते । २३४७ । वृद्भ्यः स्यसनोः। (१-३-९२) वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च । २३४८ । न वृद्भ्यश्चतुर्थ्यः। (७-१-५९) एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वय॑ति । वर्ति- प्यते । अवृतत् । अवर्तिष्ट । अवय॑त् । अवतिष्यत । वृधु ७५९ वृद्धौ । शृधु ७६० शब्दकुत्सायाम् । इमौ वृतुवत् । स्यन्दू ७६१ प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिपे-सस्यन्त्से । सस्यन्दिध्वे-सस्यन्द्धे । स्यन्दिता-स्यन्ता । रूपमिति भ्रमितव्यम् । तत्र परस्मैपदासम्भवात् । स्रम्भुधातुरकारमध्यः । वृतु वर्तने इति ॥ उदित् ऋदुपधः सेटकः । वर्तते इति ॥ शपि गुण रपरत्वम् । ववृते इति ॥ अगं. योगादिति कित्त्वाद्गुणाभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेष रूपम् । लुटि वर्तिता । वृद्भयः॥ बहुवचनाद्वृतादिभ्य इति गम्यते । शेषात्कर्तरीयतः परस्मैपदमित्यनुवर्तते। तदाह् । वृतादिभ्य इति । न वृद्भयः ॥ सेऽसिचीति सूत्रात् से इति आर्द्धधातुकम्येडिति चानु- वर्तते । तदाह । एभ्यः सकारादेरिति । तङानयोरभावे इति ॥ गमेरिडिल्यतः परस्मैपदेध्वित्यनुवृत्तम् । तेन च तङानयोरभावो लक्ष्यते । व्याख्यानादिति भावः । तेन जिग- मिषिता इत्यत्र गमेस्तृचि इट् सिद्ध्यति । वृतेस्सन्नन्तात् हे कि विवृत्सेत्यत्र इण्निपेधश्च सिद्ध्यति । वय॑तीति ॥ लुटि म्यः । 'वृद्भ्यः स्यसनोः' इति परस्मैपदविकल्पः । 'न वृद्भ्यः' इति इनिषेधः । गुणः रपरत्वं चत्वम् । परस्मैपदाभावेत्वाह । वर्तिष्यते इति ॥ तानयोरभाव इत्युक्तेः न वृद्भ्य इति इनिषेधो न । अवर्तिष्टेति ॥ परस्मैपदस्य अडश्चाभावे रूपम् । अवयं- दिति ॥ लङि स्यः । 'वृद्भ्यः स्यसनोः' इति परस्मैपदम् । 'न वृद्भ्यः' इति इग्निषेधः । गुणः । रपरत्वमिति भावः । अवर्तिष्यतेति ॥ परस्मैपदस्याभावे न वृश्य इति इनिषेधो ऽपि ननि भावः । वृधु शृधु इति द्वौ ऋदुपधौ । तत्रापि 'द्युझ्यो लुद्धिः' इति परस्मैपदपक्षे युतादिलक्षण: अङ् । लट्लडोः 'वृद्ध्यः स्यसनोः' इति परस्मैपदपक्षे 'न वृद्ध्यः' इति इनिषेधश्च । तदाह । इमौ वृतुवदिति ॥ वय॑ति । वर्धिष्यते । अवृधत् । अवर्धिष्ट । अवय॑त् । अवर्धिष्यत । शय॑ति । शर्धिष्यते । अशृधत् । अशर्धिष्ट । अशय॑त् । अशर्धिष्यत । स्यन्दूधातुः ऊदित् नकारोपधः कृतानुस्वारपरसवर्णनिर्देशः। सस्यन्दिषे, सस्यन्त्से इति ॥ इडभावे दम्य चर्चेन तः । सस्यन्दिद्धे, सस्यन्द्वे इति ॥ इडभावे धकारात् प्राक् दकारः । खर्परकत्वा- भावानचवम् । स्यन्दिता, स्यन्तेति ॥ इडभावे दस्य चत्वम् । ननु लुटि स्ये सति 'वृद्भ्यः स्यसनोः' इति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्पम्बाधित्वा ‘न वृद्भ्यश्चतुभ्यः' इनि ११६ सिद्धान्तकौमुदीसहिता [भ्वादि 'वृद्धयः स्यसनोः' (मू २३४७) इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् 'न वृद्भयः-' (सू २३४८) इति निषेधः। स्यन्त्स्यति-स्यन्दिष्यते-स्यन्त्स्यते । स्यन्दिषीष्ट-स्यन्त्सीष्ट । 'द्युझ्यो लुङि' (सू २३४५) इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट-अस्य- न्त । अस्यन्त्साताम् । अस्यन्त्सत । अस्यन्त्स्यत् । अस्यन्दिष्यत-अस्यन्त्स्यत। २३४९ । अनुविपर्यभिनिम्यः स्यन्दतेरप्राणिषु । (८-३-७२) एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते- अनुस्यन्दते वा जलम् । 'अप्राणिषु' किम् । अनुस्यन्दते हस्ती । 'अप्राणिषु' इनिषेधे स्यन्स्यतीत्येव रूपमिष्यते । नतु स्यन्दिष्यत इति । तदयुक्तम्--अन्तरङ्गतया ऊदि- लक्षणस्यैव इड्डिकल्पस्य उचितत्वात् सकारादिविशेषापेक्षतया तडानाभावनिमित्तापेक्षतया च 'न वृद्भ्यः' इति निषेधस्य बहिरङ्गत्वादित्याशय निराकरोति । वृद्भय इति । 'वृद्भ्यस्स्यस- नोः' इति परस्मैपदे कृते अन्तरङ्गमपि विकल्पं बाधित्वा न वृन्य इति निषेध इत्यन्वयः कुत इत्यत आह । चतुर्ग्रहणसामर्थ्यादिति ॥ यदिह्यत्र ऊदिल्लक्षण इड्विकल्प एव स्यात् नतु 'न वृद्भ्यश्चतुर्व्यः' इति निषेधः तर्हि चतुर्यः इति व्यर्थ स्यात् । नच कृपूव्यावृत्तिस्त- स्फलमिति शङ्कयम् । 'तासि च क्लप' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिनिषेध- प्रवृत्तेर्वक्ष्यमाणत्वात् । भाष्ये तु 'निषेधाश्च बलीयांसः' इति न्यायेन अन्तरङ्गस्यापि ऊदि- लक्षणेडिकल्पस्य ‘न वृद्भ्यः' इति निषेधेन बाधसिद्धेश्चतुर्ग्रहणं प्रत्याख्यातम् । तथा च लुटि परस्मैपदपक्षे ऊदिल्लक्षणमिड्डिकल्पं बाधित्वा 'न वृद्भ्यः' इति नित्यमिनिषेधे स्यन्त्स्यतीत्येक- मेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिडिकल्पं मत्वा आह । स्यन्दिष्यते, स्यन्त्स्यते इति ॥ इडभावे दस्य चर्वम् । आशीर्लिङि सीयुटि ऊदित्त्वादिविकल्पं मत्वा आह । स्यन्दिषीष्ट, स्यन्त्सीष्टेति ॥ 'न वृद्ध्य' इति निषेधस्तु न । तङानयोरभाव एव तत्प्रवृत्तेरिति भावः । लुङि विशेषमाह । युद्भयो लुङीत्यादिना । अङिति ॥ द्युतादिलक्षण इति शेषः । नलोप इति ॥ अनिदितामित्यनेनेति शेषः । आत्मनेपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह । अस्यन्दिष्ट, अस्यन्तेति ॥ तत्र इडभावपक्ष अस्यन्दस्त इतिस्थिते 'झलो झलि' इति सलोपे दस्य चर्वम् । नचापित्त्वेन डित्त्वात् 'अनिदिताम्' इति नलोपः शयः । सिज्लोपस्यासिद्धत्वेनानुपधात्वादिति भावः । अस्यन्त्साताम् । अस्य- न्त्सतेति ॥ अस्यन्त्थाः । अस्यन्त्साथाम् । अस्यन्दुम् । अस्यन्त्सि । अस्यन्त्स्वहि । अस्य- न्स्महि । अस्यन्त्स्यत् । अस्यन्त्स्यत । अस्यन्दिष्यत । अनुविपर्यभिनि । एभ्य इति ॥ अनु परि आभि नि वि इत्येतेभ्य इत्यर्थः। सस्येति ॥ ‘सहेः साढस्सः' इत्यतः स इति षष्ट्यन्तस्यानुवृत्तेरिति भावः। षो वा स्यादिति ॥ 'अपदान्तस्य मूर्धन्यः' इत्यधिकारादिति भावः । ननु मत्स्योदके अनुष्यन्देते इत्यत्र कथं षत्वं प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत .
प्रकरणम्] बालमनोरमा । . इति पर्युदासान् • मत्स्योदकं अनुष्यन्देते' इत्यत्रापि पक्ष षत्वं भवत्येव । 'प्राणिषु न' इत्युक्तौ तु न स्यात् । कृपू ७६२ सामर्थ्य । २३५० । कृपो रो लः । (८-२-१८) कृप उ: रः ल: इति छेदः । · कृप इति लुप्रषष्ठीकम् । तञ्चावर्तते । कृपो यो रेफस्तस्य ल: स्यात् । कृपर्ककारस्यावयवा यो रो रंफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चक्लपे । चक्लपिष-चक्लास । इत्यादि स्यन्दिवत् । २३५१ । लुटि च क्लुपः। (१-३-८३) .. आह । अप्राणिप्विति । पर्युदासादिति ॥ प्राणिकर्तृकम्य नेति न प्रतिषेधः यनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात पत्वं न स्यात् । किन्तु प्राणिभिन्नकर्तृकस्यनि पर्युदाम आधीयते । एव प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकन्वानपायादिह षत्वं निर्बाधमिति भावः । कृपू सामर्थ्य इति ॥ सामर्थ्य कार्यक्षमीभवनम् । ऊदित्वाद्वेट्कोऽयम् । ऋदुपधः । तडि प्रथमपुरुषकवचनस्य टेरेत्वे शपि लघूपधगुण रपरत्व कर्पत इति स्थिते । कृपो रो लः ॥ कृप इति लुप्तविभक्तिकम् । षष्ठ्यकवचने उः इति ऋकारस्य रूपम् । अवयवषष्ठी । कृप इरिति स्थिते आद्गुणे कृपारिति भवति । रः इति षष्ठ्यन्तम् । कृपार रः इति स्थिते रो रि' इनि रेफलाप कृपोरः इति भवति । लः इति प्रथमान्तम् । अकार उच्चारणार्थः । तदाह । कृप उः रः लः इति छेदः इति ॥ एतच्च ऋलकसूत्रभाष्य स्थितम् । ननु कृपेत्यत्र का विभक्तिलुप्तत्यत आह । कृप इति लुप्तषष्ठीकमिति ॥ पकारादकार उच्चारणार्थः । कृप्धातारिति लभ्यते। तच्चावर्तते इति ॥ कृपः रः ल: इति पदत्रयमावर्तते इत्यर्थः । तथाच । वाक्यद्वयं सम्पद्यते । कृपः रः ल: इत्येकं वाक्यम् । तदाह । कृपो यो रेफस्तस्य लः स्यादिति ॥ तथाच कल्पते इति भवति । कृपः उ: र: ल: इति द्वितीयं वाक्यम् । तत्र कृपेल्यवयवषष्ठ्यन्तम् । उरित्यत्रान्वति । उरित्यवयवषष्ठ्यन्तं रेफे अन्वेति । तथाच कृप्धातोरवयवः यः ऋकारः । तस्य यो रेफः तस्य लकारस्स्यादिति लभ्यत । तत्र ऋकारावयवत्वं रेफस्य न सम्भवाति रेफशब्दो रेफसदृशे ऋकारांश लाक्षणिकः । ल इत्यपि लकारसदृशे लकारांशे लाक्षणिकः । तदाह । कृपे-कारस्यावयव इत्यादिना ॥ एवञ्च लिटि चकृप् ए इति स्थिते कित्त्वाद्गुणाभावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति चक्लपे इति रूपम् । कृपः रः लः इति छेदमभ्युपगम्य कृपधातो: रेफस्य लकार इति व्याख्याने तु चक्लपे इति न सिद्ध्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह । कल्पते । चक्लप इति ॥ ऊदित्त्वादिड्विकल्पं मत्वा आह । चक्लूपिणे, चक्लप्से इति । स्यन्दिवदिति ॥ चक्लपाथे चक्टपिध्वे चक्लप्ध्वे । चक्टपे चक्लपिवहे चक्लप्वहे चक्टपिमहे चक्लप्महे । लुटि च क्लपः॥ चकारात् 'वृद्ध्यः स्यसनोः' इत्यतः स्यसनोरित्यनुकृष्यते । 'शेषात्कर्तरि .
११८ सिद्धान्तकौमुदीसहिता [भ्वादि लुटि स्यसनोश्च क्लपेः परस्मैपदं वा स्यात् । २३५२ । तासि च क्लपः । (७-२-३०) क्लपेः परस्य तासे: सकारादेरार्धधातुकस्य चेन स्यात्तङानयोरभावे कल्तासि । कल्सास्थ । कल्पितासे । कल्लासे । कल्प्स्यति । कल्पिष्यते कल्प्स्यते । कल्पिषीष्ट-क्लप्सीष्ट । अक्लपत् । अकल्पिष्ट-अक्लप्त । अक- ल्प्स्यत् । अकल्पिष्यत-अकल्प्स्यत । वृन् । वृत्तः सम्पूर्णो द्युतादिवृतादिश्चेत्यर्थः । अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । घट ७६३ चेष्टायाम् । घटते । जघटे । 'घटादयो मितः' इति वक्ष्यमाणेन मित्संज्ञा । तत्फलन्तु णौ 'मितां ह्रस्वः' (सू १५६८) इति 'चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' (सू २७६२) , इत्यतः परस्मैपदमिति । 'वा क्यषः' इत्यतो वेति च। तदाह । लुटि स्यसनोरित्यादिना ॥ तासि च ॥ चकारात्सकाराद्यार्धधातुकं गृह्यते । 'सेऽसिचि कृत' इत्यतः से इति 'आर्धधातुकस्य' इत्यतः आर्धधातुकस्योडिति चानुवर्तते । 'न वृद्भ्यश्चतुर्व्यः' इत्यतो नेति च । गमेरिडित्यतः परस्मैपदमिति च । तदाह । क्लपेः परस्येत्यादिना । कल्तासीति ॥ 'लुटि च क्लृपः इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्डिकल्पम्बाधित्वा 'तासि च क्लप' इति इनिषेधे गुणे रपरत्वे लत्वे रूपम् । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्डिकल्प मत्वा आह । कल्पितासे, कल्तासे इति ॥ लुटि तु 'लुटि च क्ल्पः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पम्बाधित्वा 'तासि च क्लपः' इति इग्निषधं मत्वा आह । कल्प्स्यतीति ॥ परस्मैपदाभावे तु जादत्त्वादि- ड्किल्पं मत्वा आह । कल्पिष्यते इति ॥ कल्पताम् । अकल्पत । कल्पेत । आशीर्लिङि ऊदि- लक्षणामीडकल्पं मत्वा आह । कल्पिषीष्टेति । क्लप्सीष्टेति च ॥ इडभावे ‘लिङ्सिचा- वात्मनेपदेषु' इति कित्त्वान्न गुण: । अक्लपदिति ॥ ‘द्युयो लुडिः' इति परस्मैपदपक्षे ातादिलक्षणे अङि सति ङित्त्वान्न गुणः । अङभावे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह । अकल्पिष्टेति, अक्लप्तेति च । अकल्पस्यदिति ॥ लुङि स्ये 'लुटि च क्लपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च क्टपः' इति इनिषेभ इति भावः । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्डिलल्पं मत्वा आह । अकल्पिष्यत, अकल्प्स्यतेति । वृदिति ॥ वृतेः समाप्तयर्थकात् कर्तरि क्विम् । तदाह । वृत्तः इति ॥ ‘गत्यर्थाकर्मक' इति कर्तरि क्तः । वृत्तशब्दस्य विवरणं सम्पूर्णः इति ॥ द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः । अथ त्वरत्यन्ताः इति ॥ 'भि त्वरा सम्भ्रमे ' इत्यन्ता इत्यर्थः । षितश्चेति ॥ पित्संज्ञका इत्यर्थः । षित्कार्यभाज इति वा । 'मि त्वरा सम्भ्रमे' इत्युक्त्वा ‘घटादयः षित' इति वक्ष्यमाणत्वादिति भावः। षित्फलन्तु स्त्रियामित्यधिकारे 'षिद्भिदादिभ्यः' इत्यङ् । घटा व्यथा, इत्यादि रूपम् । घटते इति ॥ चेष्टते इत्यर्थः । तत्फलन्त्विति ॥ मित्त्वफलन्तु 'मितां ह्रस्वः' इति णौ हस्वः । 'चिण्णमुलोर्दीर्घः' इति दीर्घश्च बक्ष्यते। धातुपाठे अर्थनिर्देशः उपलक्षणमि- . - प्रकरणम्] बालमनोरमा। ११९ इति च वक्ष्यते । घटयति । विघटयति । कथं ताई कमलवनोद्घाटनं कुर्वते ये' प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव' इत्यादि । शृणु । • घट सङ्घाते' इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽय- मिति वाच्यम् । 'नान्ये मितोऽहेतौ' इति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः । व्यथ ७६४ भयसञ्चलन- योः । व्यथते । , न्युक्तम् । ततश्चार्थान्तरवृत्तेरपि घटधातोर्घटादिकार्यम्भवत्येव । तदाह । घटयति । विघट- यतीति ॥ संश्लेपयति विश्लेषयतीत्यर्थः । णो इस्वोदाहरणमिदम् । अघटि अघाटीति, चिण्यु- दाहरणम् । घाट घाटम् । घटं घटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् । 'नित्यवी. प्सयोः' इति द्विवचनम् । ननु यद्यर्थान्तरवृत्तेरपि घट धातोमित्त्वन्तदा उद्घाटनं प्रविघाटायतेत्यत्र विकसनार्थकस्यापि घट धातोणी मित्त्वाद्रखः स्यादित्याक्षिपति । कथन्तीति । शृण्विति ॥ समाधानमिति शेषः । चौरादिकस्येति ॥ चुरादा ‘घट सङ्घाते' इति पठितम् । नदिदचाटादिकात् घटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाभावात् । हस्वाभावे उद्घाटन प्रवि- घाटयितेति निर्बाधमेव । अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसम्भवादिति भावः । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानान्धातूनामिह घटादिगणे पाठः घटादिगणनिर्दिष्ट एवार्थे मित्त्वार्थोऽनुवाद एव नतु धातुभेदः । अन्यथा घटादिकत्वं गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापनेः । ये तु धातवो घटादिगण एव पूर्व पठिताः नतु गणान्तरे तेषान्त्वन्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु घट सङ्घाते इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वा- र्थोऽनुवाद इति लब्धम् । एवञ्च विघटयति इत्यादावर्थान्तरवृत्तो ण्यन्तस्य मित्त्वमित्याशङ्कय निराकरोति । नचेति ॥ तस्यैव चौरादिकस्यैव घटधातोः चेष्टात्मके अर्थविशेषे वृत्ती मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह । नान्ये मितोऽहेताविति॥ चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि 'ज्ञप मिच' ‘यम च परिवेषणे' 'वह परिकल्कने' रह त्यागे' ' 'बल प्राणने' । 'चिञ् चयने' इति पञ्च धातून् पठित्वा 'नाऽन्ये मितोऽहेतो' इति पठितम् । तत्र चह परिकल्कने इत्यस्य स्थाने चपेति केचित् पठन्ति । तथाच पञ्चत्वस्य न विरोधः । एषु पञ्चस्वपि मिदित्यनुवर्तते । अहेताविति च्छेदः। कस्मादन्ये इत्यपेक्षायां सन्नि- हितत्वात् ज्ञपादिपञ्चभ्य इति लभ्यते । हेतुशब्देन ‘हेतुमति च' इति सूत्रविहितो णिच् लभ्यते तद्भिन्नो णिच् स्वार्थिकः अहेतुः तदाह । अहेतौ स्वार्थ णिचीति ॥ ज्ञपः आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः । ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयः ते मितो नेति फलितम् । एवञ्च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाभावात् 'घट चेष्टायाम्' इति निर्देशश्चौरादिकस्य 'घट सङ्खाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते । ।
१२० सिद्धान्तकौमुदीसहिता [भ्वादि २३५३ । व्यथो लिटि । (७-३-६८) व्यथोऽभ्यासस्य सम्प्रसारणं स्यालिटि । हलादिशेषापवादः । थस्य हलादिशेषेण निवृत्तिः । विव्यथे । प्रथ ७६५ प्रख्याने । पप्रथे । प्रस ७६६ विस्तारे । पप्रसे । मृद ७६७ मर्दने । स्खद ७३८ स्खदने । स्वदनं विद्रा- वणम् । क्षजि ७३९ गतिदानयोः । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलो:-' (सू २७६२) इति दीर्घविकल्पः । अक्षञ्जि-अक्षाजि । क्षजं क्षञ्जम् । क्षा क्षाञ्जम् । दक्ष ७७० गतिहिंसनयोः । योऽयं वृद्धिशैघ्रथयोरनुदात्तेत्सु पठित- म्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः । क्रप ७७१ कृपायां गतौ च । कदि ७७२ ऋदि ७७३ क्लदि ७७४ वैक्लव्ये । 'वैकल्ये इत्येके । 'बयोऽप्यनिदितः' इति नन्दी । 'इदितः' इति स्वामी । 'कदि क्रदी' इदितौ ऋद क्लद' इति चानि- । दिताविति मैत्रेयः । 'कदि ऋदि लदीनामाह्वानरोदनयोः' परस्मैपदिषूक्तानां किन्तु इहैव घटादिगणे ‘घट चेष्टायाम्' इत्यपूर्वोऽयन्धातुः तस्य चाथान्तरवृत्तावपि मित्त्व- मस्त्येवेति विघटयतीत्यादौ मित्त्वाद्रस्वो निर्वाधः । व्यथधातुर्द्वितीयान्तः । व्यथो लिटि ॥ 'अत्र लोपः' इत्यतः अभ्यासस्येति 'द्युतिस्वाप्योः' इत्यतः सम्प्रसारणमिति चानुवर्तते । तदाह व्यथोऽभ्यासस्येत्यादिना । हलादिशेषापवाद इति ॥ व्यथ् व्यथ् ए इति स्थिते हलादिशेषलभ्यं यकारस्य लोपम्बाधित्वा सम्प्रसारणमित्यर्थः । तथाच यका. रस्य इकारे पूर्वरूपे विव्यथे इति रूपम् । वकारस्य तु न सम्प्रसारणम् 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् । ननु सम्प्रसारणेन हलादिशेषबाधे थकार. स्यापि निवृत्तिनस्यादित्यत आह । थस्यति ॥ यकारलोपस्य बाधं विना सम्प्रसारणस्य प्रवृत्त्यनुपपत्तेस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाभावादिति भावः । मृद मर्दने इति ॥ ऋदुपधोऽयम् । मदते । ममृदे। क्षजिधातुरिदित् । क्षञ्जते । चक्षजे । ननु घटादिगणे अस्य पाठो व्यर्थः । क्षञ्चयतीत्यत्र णो नुमि कृते अकारस्यानुपधात्वे उपधादीर्घ- स्याप्रसक्त्या 'मितां ह्रस्वः' इत्यस्याप्रवृत्तावपि विशेषाभावात् अनुपधात्वेन 'मितां ह्रस्वः' इत्यस्य प्रसत्यभावाच । अतएव अक्षति क्षजंक्षामित्यत्रापि 'चिण्णमुलोः' इति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह । मित्त्वसामर्थ्यादिति । दक्ष गतीति ॥ ननु ‘दक्ष वृद्धौ- शीघ्रार्थे च' इत्यनुदात्तेत्सु पाठादेव सिद्धे किमर्थमिह पाठः । अर्थनिर्देशस्योपलक्षणत्वादेव गति हिंसार्थकत्वस्यापि सम्भवादित्यत आह । वृद्धिशैघ्रत्ययोरिति ॥ मित्त्वसामर्थ्यादनुपधात्वे- ऽपि चिण्णमुलोर्दीर्घविकल्पः । अदक्षि अदाक्षि। दक्षन्दक्षम् । दाक्षन्दाक्षम् । क्रप कृपा- ताविति ॥ अदुपधोऽयम् । कृपायां गतौ वेत्यर्थः । कदि ऋदि क्लदेति नन्दिमते । क्षीर- स्वामिमते च सय एव धातवः । मैत्रेयमते चत्वार इति बोध्यम् । तत्र इदितान्त्रयाणां' प्रकरणम्] बालमनोरमा । १२१ पुनरिह. पाठो मित्त्वार्थ आत्मनेपदार्थश्च । त्रि त्वरा ७७५ सम्भ्रमे | • घटादयः षित:' (ग सू १८६)। षित्त्वादङ् कृत्सु वक्ष्यते । अथ फणान्ताः परस्मैपदिनः । ज्वर ७७६ रोगे । वरति । जज्वार । गड ७७७ सेचने । गडति । जगाड । हेड ७७८ वेष्टने । 'हेड अनादरे ' इत्या- त्मनेपदिपु गतः । स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेष मित्त्वार्थम् । परस्मै- पदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मद्ध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि-अहीडि । अनादरे तु हेडयति । वट ७७९ भट ७८० परिभाषणे । वट वेष्टन 'भट भृतौ' इति पठितयोः परिभाषणे मित्त्वार्थोऽनुवादः । णट ७८१ नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्व पठितस्य नाट्यमर्थः । यत्कारिपु नटव्यपदेशः । पौनरुक्त्यं परिहरति । कदि ऋदि क्लदीनामित्यादिना । जि त्वरेति ॥ त्रिरित् । 'मीतः क्तः' इति प्रयोजनम् । आदित्त्वन्तु 'आदितश्च' इति निष्ठायामिनिषेधार्थम् । वस्तुतस्तु आदि- त्वं व्यर्थम् । इस्वेऽप्यात्मनेपदसिद्धेः 'रुष्यमत्वरसंधुषास्वनाम्' इति निष्टायामिड्विकल्पसिद्धेश्च । घटादयः पिन इति ॥ त्वरत्यन्ता इति शेषः । गणसूत्रमिदम् । तत्प्रयोजनमाह । त्त्विादिति । वक्ष्यते इति ॥ ‘षिद्रिदादिभ्योऽङ्' इत्यनेनेति शेषः । घटादिषु त्रयो- दशानुदात्तेतो गताः । ‘युत दीप्तौं' इत्यतः प्राक् घटादिसमाप्तिरिति वक्ष्यते। अथ फणान्ता इति ॥ फण गतावित्येतत्पर्यन्ता इत्यर्थः । ज्वर रोगे इति ॥ णी ज्वरयति । चिणि तु अज्वरि अज्वारि । णमुलि तु ज्वरं ज्वरम् , ज्वारं ज्वारम् । एवमग्रेऽपि ज्ञेयम् । हेड वेष्टने इति ॥ डकारादकार उच्चारणार्थः । ततश्च 'नाग्लोपिशास्वृदिताम्' इति निषेधो न भवति । स एवेति ॥ हेड्धातुरेव ऋकारानुबन्धमुत्सृज्य वेष्टनरूपे अर्थविशेषे मित्त्वार्थमनूद्यते इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । नन्वात्मनेपदिन एवा- त्रानुवादे परस्मैपदन्न स्यादित्यत आह । परस्मैपदिभ्य इति ॥ यदित्वात्मनेपदमिष्टं तर्हि. घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पश्येतेति भावः। हेडतीति ॥ वेष्टते इत्यर्थः । हिडयतीति ॥ वेष्टयतीत्यर्थः । ‘हेतुमति' इति णिचि 'मितां ह्रस्वः' इति इस्व इति भावः । अहिडि अहीडीति ॥ 'चिण्णमुलोः' इति दीर्घविकल्पः । अनादरे तु हेडयतीति ॥ वेष्टनरूपार्थ एव मित्त्वान ह्रस्व इति भावः । ‘वट परिभाषणे' इति नापूर्वो धातुरित्याह । वट वेष्टने इत्यादि । अनुवाद इति ॥ धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्या- दिति भावः । ‘णट नृत्तौ' इत्यस्य पौनरुक्त्यमाक्षिपति । इत्थमेव पूर्वमपि पठितमिति ॥ टवर्गान्तेष्विति शेषः । तथा च उभयोरप्यथैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यते इति परि- हारस्य सम्भवानपौनरुक्त्यमिति भावः । परिहर्तुमुपक्षिपति । तत्रायं विवेक इति ॥ तत्र तयोः धात्वोः अयं वक्ष्यमाणः विवेकः अर्थभेदः प्रत्येतव्य इत्यर्थः । पूर्वम्पठितस्येति ॥ 18 १२२ सिद्धान्तकौमुदीसहिता [भ्वादि वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्तं नृत्यं चार्थः । यत्कारिषु नर्तक- व्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ 'णट नतौ' इति पठन्ति । गतौ' इत्यन्ये । णोपदेशपर्युदासवाक्ये भाष्यकृता 'नाटि' इति दीर्घपाठा(टादिर्णोपदेश एव । ष्टक ७८२ प्रतीपाते । स्तकति । चक ७८३ तृप्तौ । तृप्तिप्रतीघातयोः पूर्व पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् । कखे ७८४ हसने । एदित्त्वान्न वृद्धिः । अकखीत् । रगे ७८५ शङ्कायाम् । लगे ७८६ सङ्गे। ह्रगे ७८७ हगे ७८८ पगे ७८९ ष्टगे ७९० संवरणे । कगे ७९१ नोच्यते । अस्यायमर्थः' इति विशिष्य नोच्यते । क्रियासामान्यार्थवाचित्वात् । अनेकार्थत्वादित्यन्ये । अक ७९२ अग ७९३ कुटिलायां गतौ । कण ७९४ रण ७९५ गतौ । चकाण । रराण । चण ७९६ शण ७९७ श्रण ७९८ दाने च । 'शण गतौ' इत्यन्ये । श्रथ ७९९ कथ ८०० ऋथ ८०१ क्लथ टवर्गान्तेषु पठितस्येत्यर्थः । यत्कारिष्विति ॥ यस्य कर्तृषु नटव्यवहारः तन्नाव्यं पूर्व- म्पठितस्य नटधातोरर्थ इत्यर्थः । किन्तनाट्यमित्यत आह । वाक्यार्थेति । घटादौ त्विति ॥ यस्य कर्तृषु नर्तकव्यपदेशः तत् नृत्यं नृत्तञ्च घटादौ पठितस्य नटेरर्थ इत्यर्थः । नृत्यनृत्तयोः को भेद इत्यत आह । पदार्थेति ॥ एवञ्च टवर्गान्तेषु पठितस्य घटादिगतस्य चार्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यत इति भावः । हेत्व- मरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यात् । अथ नटधातोरस्य णोपदेशपर्युदासभ्रमं वारयति । णोपदेशेति ॥ अननाटील्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणबृद्धिनिर्देशेन 'नट अवस्प- न्दन' इति चौरादिकस्यैव प्रहणादयं णोपदेश एवेत्यर्थः । ष्टकधातुष्षोपदेशः । कृतष्टुत्वस्य निर्देशः । स्तकतीति ॥ धात्वादेः' इति षस्य सत्वे ष्टुत्वनिवृत्तिः । चक तृप्तौ । तृप्तीति ॥ 'चक तृप्ती प्रतीघाते च' इत्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्रानुवाद इत्यर्थः । एवञ्च धान्वन्तरत्वाभावानमित्त्वतदभावविकल्पः। ननु आत्मनेपदिषु पठितस्यानानुवादादात्मनेपदं स्यादित्यत आह । आत्मनेपदेष्विति । षगे टगे इति ॥ षोपदेशौ । टगे इति कृतष्टुत्वनिर्देशः। कगे नोच्यते इति ॥ ननु कगे इत्यनेन यदि किमपि नोच्येत, तर्हि कामस्य धातुत्वमित्यत आह । अस्यायमिति ॥ क्रियाविशेषो नास्यार्थ इति भावः। ननु यदि न कोपि क्रियाविशेषोऽस्यार्थः तर्हि कथमयं धातुरित्यत आह । क्रियासामान्यार्थवा- चित्वादिति ॥ धातुपाठपठितस्य क्रियाविशेषार्थकत्वाभावे सति क्रियासामान्यवाचित्वम्परिशे- पलभ्यमिति भावः । अनेकेति ॥ कलिः कामधेनुरिति न्यायेन कलधातुवदपरिमितार्थ- कत्वमिति भावः । 'श्रथ कथ क्रथ क्लथ' इति ॥ चत्वारोऽपि द्वितीयान्ताः। आद्यतृतीयौ रेफमध्यौ। द्वितीयो नकारमध्यः । चतुर्थस्तु लकारमध्यः । आद्यस्तु शकारादिः। इतरे प्रकरणम्] बालमनोरमा । . ८०२ हिंसाः। जासिनिप्रहण-' (सू ६१७) इति सूत्र क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते । क्राथयति । मित्त्वन्तु निपातनात्परत्वात् । चिण्णमुलोः (सू २७६२) इति दीर्घ चरितार्थम् । अक्रथि-अक्राथि । ऋथं क्रथम । क्राथं क्राथम् । वन ८०३ च । हिंसायामिति शेषः । वनु च नोच्यते । 'वनु' इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसा- मर्थ्यात्। तेन क्रियासामान्ये वनतीत्यादि। प्रवनयति । अनुपमृष्टस्य तु मित्त्व- विकल्पो वक्ष्यते । ज्वल ८०४ दीप्तौ । णप्रत्ययार्थ पठिप्यमाण एवायं मित्त्वा- र्थमनूद्यते। प्रज्वलयति । ह्वल ८०५ ह्मल ८०६ चलने । प्रह्वलयति । प्रह्मलयति । ककारादयः। ननु क्रथधातोर्घटादित्वेन मित्त्वात् णो उपधावृद्धिसम्पन्नस्य आकारस्य 'मितां इस्वः' इति इस्वत्वे कथयतीति स्यात् , नतु काथयाति । तत्राह ! जासिनीति ॥ 'जामि- निप्रहणनाटकाथपिषां हिंसायां' इति षष्टीविधौ णो मित्त्वेऽपि काथेति वृद्धिनिपाल्यत इत्यर्थः । नन्वेवं सति घटादी क्रथधातोः पाठों व्यर्थ इत्यत आह । मित्त्वं त्विति ॥ चिण्णमुलोर्दीर्घपक्षे चरितार्थमित्यन्वयः। ननु तत्रापि क्राथति निपातनादृद्धिरित्यत आह । निपातनात्परत्वादिति ॥ काथेति निपातनापेक्षया चिण्णमुलोरित्यस्य परत्वादित्यर्थः । यद्यपि 'मितां ह्रस्वः' इत्यपि परम् । तथापि पुरस्तादपवादन्यायेन क्रानि वृद्धिनिपातनं 'मितां इस्वः' इत्यस्यैवाव्यवहितस्य बाधकं, नतु चिण्णमुलोरित्यस्यापि । तस्य व्यवहित- त्वादिति योज्यम् । अऋथि-अक्राथीति ॥ कर्ण्यन्ताचिणि दीर्घविकल्पः । कथं ऋथम् । काथं काथमिति ॥ णमुलि दीर्घविकल्पः । वन चेति ॥ चकारो हिंसानुकर्षकः। तदाह । हिंसायामितीति । शेष इति ॥ वन शब्दे, वन सम्भक्ताविति पठितस्य हिंसायां मित्त्वार्थी- ऽत्रानुवादः । वनति । णौ तु वनयति । णमुलि तु वनं वनम् । वानं वानम् । वनु च नोच्यते इति ॥ कंग नोच्यते इति वद्वयाख्येयम् । नन्वन्यत्र पठितस्य घटादौ मित्त्वा- थोऽनुवाद इति सिद्धान्तात्तनादौ ‘वनु याचने' इति पठितस्य अनुदात्ततोऽत्रानुवादात् क्रिया- सामान्येऽर्थे वनुते इत्यात्मनेपदम् उप्रत्ययश्च स्यादित्यत आह् । अपूर्व एवायमिति । उदि- करणेति ॥ यदि तानादिकस्यैव अत्रानुवादः स्यात् , तर्हि तनादिगणे वनु इति कृतेन उदि- करणे व ‘उदितो वा' इत्याद्युदित्कार्यस्य सिद्धरिह गणे पुनरुदित्करणमनर्थकं स्यात् । अतस्ता- नादिकस्य नात्रानुवादः। किंत्वपूर्व एवायं वनुधातुः । तथा च वनतीति परस्मैपदं शब्विकरण- श्चत्याह । तेन क्रियासामान्ये वनतीत्यादीति ॥ आदिना वनतः वनन्तीत्यादिसङ्ग्रहः । प्रवनयतीति ॥ घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाद्रस्वः । वक्ष्यते इति ॥ 'ग्लानावनुवमाञ्च' इत्यनेनेति शेषः। तानादिकात्तु वनु याचने इत्यस्माणिचि उपधादीर्घ वानयती- त्येव भवति । ज्वल दीप्तौ।णप्रत्ययार्थमिति ॥ 'ज्वलितिकसन्तभ्यो णः' इति णप्रत्ययार्थज्व- लादिगणे पठिष्यमाणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः । ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य गो हूस्वम्प्रयोजनमाह । प्रज्वलयति इति ॥ धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति .
१२४ सिद्धान्तकौमुदीसहिता [भ्वादि स्मृ ८०७ आद्ध्याने । चिन्तायां पठिष्यमाणस्य आद्ध्याने मित्त्वार्थोऽ- नुवादः। आध्यानमुत्कण्ठापूर्वकं स्मरणम् । दृ ८०८ भये । 'दृ विदारणे' इति क्रयादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्घटादौ अत्स्मृदृत्वर-(सू २५६६) इति सूत्रे च 'दृ' इति दीर्घस्थाने ह्रस्वं पठन्ति। तन्नेति माधवः । नृ ८०९ नये । क्रयादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति । श्रा ८१० पाके । त्रै इति कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । 'लुग्विकरणालुग्वि करणयोरलुग्विकरणस्य' (प ९१) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' बोध्यम् । स्मृ आध्याने । चिन्तायामिति ॥ स्मृ चिन्तायामिति पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवाद इत्यर्थः । चिन्ताया आध्यानमन्यदिति दर्शयितुमाह । आध्यानमुत्कण्ठेति । दृ भये इति ॥ अस्य दृणातीति रूपं नतु शप् । तदाह । ऋयादेरयं मित्त्वार्थोऽनुवाद इति ॥ भयेऽर्थे मित्त्वामिति शेषः । अर्थनिर्देशस्य उपलक्षणत्वात् भये वृत्तिः । तथाच क्रया- दित्वात् श्राविकरण एवायमिति भावः। मित्त्वप्रयोजनन्दर्शयति। दृणन्तम्प्रेरयति दरयती- ति॥ भीषयतीत्यर्थः । भयादन्यत्र दारयतीति॥भेदयतीत्यर्थः । धात्वन्तरमेवेति ॥ नतु क्रयादग्नुवाद इत्यर्थः । अस्मिन्मते भौवादिकत्वात् शववेत्याह। दरतीत्यादीति।सूत्रे चेति ॥ 'अस्मृदृत्वरप्रथम्रदस्तृस्पशाम्' इति अत्वविधावित्यर्थः । ह्रस्वम्पठन्तीति ॥ तन्मते यादे- रनुवादग्रसक्तिरेव नास्तीति भावः। तन्नेतीति । यदि ह्ययवटादौ इस्वान्तः क्रयादौ तु दीर्घान्तो भवन् तर्हि 'शूदृप्रां ह्रस्वो वा' इत्यत्र दृग्रहणमनर्थकं स्यात् । हूस्वदीर्घान्तघातुभ्यामेव तत्फल- सिद्धरिनि भावः । न नये इति ॥ नयः नयनम् । ऋयादिष्विति ॥ नृ नये इत्येव क्रयादिषु पठ्यते । तत्रानिर्देशा न विवक्षितः । क्रयादिषु पठिष्यमाणस्य नृधातोर्नयादन्यत्र विद्यमा- नस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । तथाच नाविकरण एवायम् । नृणातेर्धात्वन्तरत्वा- भावानमित्त्वतदभावी । अपि तु नित्यमेव मित्त्वम् । श्रापाके इति ॥ नन्वत्र भ्वादौ पट्यमान:- च्छ्रायतेः, उत्तरत्र अदादा पठिष्यमाणाच श्रातरन्य एव यदि कश्चन स्वतन्त्रो धातुघटादी निर्दिश्यत तदा प्रकृते लटि शपि श्रातीति रूपम्पत्त्या लुग्विकरणस्थेन श्रापाके इत्यनेन पो- नरुक्त्यमित्यत आह । इतीति ॥ अग्रे भ्वादिगणे थै पाके इति पठिष्यते । तस्य कृता- वस्यानुकरणमित्यन्वयः। तथाच तस्यैव धैधातोरनेकार्थकतया पाके वृत्तस्य मित्त्वार्थोऽता- नुवादात् । शपि श्रायतीत्यादि रूपम् । एतच्च 'शृतम्पाके' इति सूत्रे भाष्यकैयटयौः स्थितम् । एवञ्च सति सम्भवे अन्यत्र पठितानामिह मित्त्वार्थोऽनुवाद इति सिद्धान्तादने भ्वादौ | पाके इत्यस्य पोनरुक्त्यं न शक्यम् । नन्वेवं सति ') पाके' इत्येवात्र कुतो न पटितमित्यत आह । श्रा इत्यादादिकस्य चेति ॥ ननु लाक्षणिकत्वात् 'त्रै पाके' इति भौवादि- कस्य कृतात्वस्याप्यनुवाद इति न युज्यते इत्यत आह । लुग्विकरणेत्यादि । परि.
प्रकरणम्] बालमनोरमा। (प ११४) इति परिभाषाभ्याम । श्रपति विक्लेदयतीत्यर्थः । पाकादन्यत्र श्राप- यति । स्वेदयतीत्यर्थः । मारणतोषणनिशामनेषु ज्ञा ८११ । निशामनं' चाक्षुष- ज्ञानम्' इति माधवः । ज्ञापनमात्रम् इत्यन्ये । 'निशानेयु' इति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एवेवार्थेषु जानातिर्मित । 'ज्ञप मिञ्च' इनि चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं विज्ञापना भर्तृपु सिद्धिमेति इति तज्ज्ञाप- यत्याचार्यः' इति च । शृणु । माधवमत अचाक्षुपज्ञाने मिन्वाभावात्। ज्ञापनमात्र मित्त्वमिति मते तु •ज्ञा नियोगे' इति चौरादिकम्य । धातृनामनेकार्थत्वात् । भाषाभ्यामित्यन्तम् ॥ परिभाषाभ्यामुभयोरनुकरणमिलन्वयः । श्रपयतीति ॥ धे धाताणिचि ‘आदेच उपदेश' इत्यात्व ‘अनिहा' इनि पुकि मितां दृस्वः। श्रा धानोस्तु स्वत एवाऽऽदन्तवाणिचि पुकि इस्वः । पाकादन्यत्रेति ॥ अर्थनिर्देशस्योपलक्षणत्वादिनि भावः 'स्वरति सूति सूयति' इति सूत्र सू इति पटिनेऽपि द्वयाग्रहण सिद्ध मूनिसूयत्याः पृथ- ग्रहणं 'लुग्विकरण' इति परिभाषां ज्ञापयतील्याहुः । प्रतिपदोक्तपरिभाषा तु न्यायसिद्धत्युक्तमेव । मारणेति ॥ मारणे तोपण निशामने च ज्ञा धानुवर्तत इत्यर्थः । अक्षतस्य मारणे सम्पूर्वक स्यैव ज्ञाधातोः प्रयोगः। चाक्षुषज्ञानमिति ॥ निपूर्वकान् ‘शम आलोचने' इत्यस्मान् चौरादि- कण्यन्तात् ल्युटि निशामनशब्दस्य निष्पत्तरिति भावः । ज्ञापनमात्रमिति ॥ उपसर्गवशा- दिह ज्ञापन वृत्तिः । चाक्षुपत्वञ्च ज्ञानस्य न विवक्षितमिति भावः । निशानेप्वितीति । मागणतोषनिशानेषु ज्ञा' इति पाठान्तरमित्यर्थः । ननु ज्ञाधानोरम्माडादी शपि 'ज्ञाजनोजी' दति जादश जाति जातः इत्यादि स्यादित्यत आह । एप्वेवेति ॥ ज्ञा अवबोधन इति भाविकरणस्यव मारणादिवर्धेषु णो मित्त्वामहानुवादान् भाविकरण एवायमिति भावः । जानातः मित्वफलन्तु णो दृस्वः । पशु संज्ञपयति अक्षत मारयनात्यर्थः । हरि ज्ञपयति। गन्तापयताल्यर्थः । रूपं ज्ञपयति माधवमत दर्शयतीत्यर्थः । मतान्तर तु बोधयात्यर्थः । साः ज्ञापयति ताक्षणीकरातात्यर्थः । ननु माधवमते बोधयनात्यर्थे ज्ञपयनीति कथं मित्वम् । मन्मने चाशुपज्ञानस्यैव निशामनशब्दार्थत्वादियन आह । ज्ञप मिच्चेति चुरादाविति ॥ एवम चौरादिकं ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयाति इस्वस्सङ्गच्छते इति भावः । ननु चौरादिकस्यापि ज्ञपेारणतोषणनिशामनेष्वेवार्थेषु मित्त्वमस्तु । तत्रार्थान्तरनिर्देशाभावात् । नथाच माधवमते कथं वोधनेऽर्थे मित्त्वमित्यत आह । ज्ञापनं मारणादिकञ्च तस्यार्थ इति ॥ ज्ञापन मारणं तोषणं निशामनञ्च तस्य चौरादिकस्य ज्ञपधातोरथों माधवमत इत्यर्थः । कथमिति ॥ ज्ञाधातोईपधातोश्च णी मित्त्वाद्रस्वप्रसङ्गादिति भावः । शृण्विति ॥ उत्तर- मिति शेषः । मित्त्वाभावादिति ॥ इस्वो नेति शेषः । विज्ञापनत्यत्र तत् ज्ञापयतीत्यत्र च अचाक्षुपमेवाऽऽत्मज्ञानं विवक्षितमिति भावः । ननु ज्ञापनमाले मित्त्वमिति मते विज्ञापनेत्यत्र नन् ज्ञापयतीत्यत्र च मिल्वं दुर्वारमित्यत आह । ज्ञापनमात्रे इति । चौरादिकस्येति ॥
१२६ सिद्धान्तकौमुदीसहिता [भ्वादि । निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः । कम्पने चलिः ८१२ । चल कम्पने इति ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । 'हरतीत्यर्थः' इति स्वामी । सूत्रं चालयति । क्षिपती- त्यर्थः। छदिर्८१३ ऊर्जने। 'छद अपवारणे' इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्क्ते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति प्राणीभवति अपवारयति वेत्यर्थः । जिह्वोन्मथने लडिः ८१४ । लड विलासे' इति पठितस्य मित्त्वार्थो- ऽनुवादः । उन्मथनं क्षोभणम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् । । . विज्ञापनति, ज्ञापयतीति च रूपमिति शेषः । नान्ये मितोऽहेतौ' इति निषेधान तस्य मित्त्व- मिनि भावः । ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह । धातूनामिति । न कापीति ॥ विज्ञापनेत्यत्र ज्ञापयतील्यत्र च ज्ञापनार्थवृत्तित्वात् ज्ञापनस्य च मारणतोषणतीक्ष्णा- करणान्यत्वान्न तस्मिनर्थे ज्ञाधातोमित्त्वप्रसक्तिरिति भावः । एवञ्च माधवमते बोधने ज्ञाधातोः ज्ञापयतीत्युपधादीर्घः । ज्ञपधातोस्तु ज्ञपयतीत्युपधाह्रस्व इति रूपद्वयमपि साध्विति स्थितम् । कम्पने चलिरिति ॥ इका निर्देशोऽयम् । 'चलधातुः कम्पने' मिदित्यर्थः । ज्वलादि- रिति ॥ तस्य चल: कम्पने मित्त्वार्थोऽत्रानुवाद इति भावः । शीलञ्चालयतीति ॥ अत्र कम्पनार्थकत्वाभावान्न मित्त्वमिति भावः । तदाह । अन्यथा करोतीत्यर्थ इति ॥ धातनामनेकार्थन्वादिति भावः। छदिर् ऊर्जने इति ॥ इका निर्देशोऽयम् 'छद धातुरूर्जन' मिदिल्यर्थः । ऊर्जनं बलवकरणं प्राणनं वा । ऊर्ज बलप्राणनयोरित्युक्तेः। अन्यत्र पठित- स्यानाविशेष णो नित्त्वार्थोऽनुवाद इति सिद्धान्तः। छदधातुस्त्वयञ्चुराद्यन्तर्गणे युजादौ पठितः । तस्यात्रानुवादी व्यर्थः । नान्ये मितोऽहेताविति ज्ञपादिपञ्चकव्यतिरिक्तस्य चुरादौ मित्वनिषेधादित्यत आह । छद अपवारणे इति ॥ चुराद्यन्तर्गणयुजादिपठितस्य 'आ धृपाद्वा' इति स्वार्थिकणिजभावपक्षे ऊर्जनेऽथ मित्त्वार्थोऽनुवाद इत्यर्थः । स्वार्थिकाणचि सत्येव नान्ये मित इति निषेधप्रवृत्तेरिति भावः । नन्वपवारणार्थकस्य छदेः कथमूर्जने वृत्तिरित्यत आह । अनेकार्थत्वादिति ॥ ननु स्वार्थणिजभावे सति मित्त्वकिमर्थमित्यत आह । छदन्तं प्रयुङ्क्ते छदयतीति ॥ अत्र हेतुमण्णिचि इस्वः । नान्ये मित इति निषेधस्य हेतुमण्णिचि निषेधः स्यादिति भावः । अन्यत्रेति ॥ ऊर्जनादन्यत्र अपवारणे इत्यर्थः । स्वार्थे णिचि त्विति ॥ 'नान्ये मितः' इति निषेधस्य तत्र प्रवृत्तेरिति भावः । जिह्वोन्मथने लडिरिति ॥ इका निर्देशोऽयम् । लडधातुर्जिबोन्मथने मिदित्यर्थः । लडेति ॥ 'लड विलासे' इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वोन्मथनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । एवञ्च धातुभेदाभावात् सर्वथैव मित्त्वकार्यम्फलति। गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । लड़यति प्रकरणम्] बालमनोरमा । १२७ तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारी लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाड- यति पुत्रम् । मदी ८१५ हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । देवादिकस्य मित्त्वा- र्थोऽयमनुवादः । मदयति हर्षयति ग्लेपयति वेत्यर्थः । अन्यत्र मादयति चित्तविकारमुत्पादयतीत्यर्थः । ध्वन ८१६ शब्दे । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोज: 'दलिवलिस्खलिरणिध्वनित्रपिक्षपयश्च' इति पपाठ । तत्र 'ध्वनिरणी' उदाहृतौ । 'दल विशरणे' । 'वल संवरणे' · स्खल सञ्चलने' ‘त्रपूष् लजायाम इति गताः । तेषां णौ दलयति । वलयति । स्खलयति । त्रपयति । 'लौ आये' इति वक्ष्यमाणस्य कृतात्वस्य पुका निर्देशः । क्षपयति । स्वन ८१७ अवतंसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । 'घटादयो , ' - - जिह्वामिति ॥ रसनां रसान् ज्ञापयतीत्यर्थः । ‘गतिबुद्धि' इति द्विकर्मकोऽयम् । लड़यति जिह्वयेति॥ देवदत्तो रसान् जानाति तजिह्वया ज्ञापयतीत्यर्थः । तद्यापार इति ॥ शब्दप्रयोगा- दिजिह्वाव्यापार इत्यर्थः । समाहारेति ॥ जिह्वाच उन्मथनश्चेति समाहारद्वन्द्वः । जिह्वाव्यापारे उदाहरति । लडयति शत्रुमिति ॥ गेहे शूर इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः । उन्मथनं लोडनं इत्यभिप्रेत्योदाहरति । लडयति दधीति ॥ विलोडयतीत्यर्थः । अन्यत्रेति ॥ जिह्वो- न्मथनादन्यत्रेत्यर्थः । लाडयति पुत्रमिति ॥ क्रीडयतीत्यर्थः । ग्लेपनन्दैन्यमिति ॥ दीनीभवनमित्यर्थः । ननु लडादौ शपि मदतीत्यादि स्यादित्यत आह । देवादिकस्येति ॥ तथाच श्यन्विकरण एवायमिति भावः । ध्वन शब्दे इति ॥ पूर्वमनुनासिकान्तेषु अणरणे. त्यत्र ध्वणधातुर्मूर्धन्यान्तः पठितः । अयन्तु दन्त्यान्त इति भेदः । भावीति ॥ ज्वलादौ 'ध्वन शब्दे' इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः । धातुभेदे तु मित्त्वतदभावा स्यातामिति भावः । ध्वनयति घण्टामिति ॥ शब्दायमानाङ्करोतीत्यर्थः । अन्यत्रेति ॥ अस्पष्टोच्चारणात्मके शब्दने इत्यर्थः । अनेति ॥ घटादावित्यर्थः । तत्रेति ॥ दलिवल्यादिष्वित्यर्थः । उदाहृताविति ॥ घटादाविति शेषः । तत्र ध्वनिरनुपदमेवोदाहृतः। कणिस्तु कणरणगतावित्योति बोध्यम् । भोजमते प्रागनयोः पाठो नेति न पौनरुक्त्यम् । गता इति ॥ भ्वादौ पठिता इत्यर्थः । इह मित्त्वार्थमनूद्यन्त इति शेषः । धात्वन्तरत्वे मित्त्वतदभावौ स्यातामिति भावः । ननु क्षपेरत्र पाठान्मित्त्वे णौ हस्वे क्षपयतीति वक्ष्यति । अस्त्वेवम् । तथापि : क्षये इति भ्वादौ पठिष्यमाणस्य णौ आत्वे पुकि क्षापयतीत्यपि स्यात् । क्ष धातोः क्षपीत्यनुवादासम्भवात् । तत्राह । क्षै इत्यादि । णौ आत्वे पुकि मित्त्वाद्रस्वे सति क्षपीति : इत्यस्यानुवादसम्भव इति भावः । स्वन अव- तंसने इति ॥ अवतंसनं अलङ्कृतिः। पठिष्यमाणस्येति ॥ घटादिगणादूर्ध्वं स्वनशब्दे ।
१२८ सिद्धान्तकौमुदीसहिता [भ्वादि मित:' (ग सू १८७) मित्संज्ञका इत्यर्थः । ‘जनीजृष्कसुरखोऽमन्ताश्च' (ग सू १८८) - मित:' इत्यनुवर्तते । 'जृष्' इति षित्त्वनिर्देशाज्जीर्यतेस्रहणम् । जृणातेस्तु जारयति । केचित्तु ‘जनी जृ ष्णसु-' इति पठित्वा ष्णसु निरसने' इति देवादिकमुदाहरन्ति । 'ज्वलबलमलनमामनुपसर्गाद्वा' (ग सू १८९) एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति-ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति उन्नामयतीति । धजन्तात् 'तत्करोति-' इति णौ । कथं संक्रामयतीति । 'मितां ह्रस्वः' (सू २५६८) इति सूत्रे • वा चित्तविरागे' (सू २६०५) इत्यतो 'वा' इत्यनुवर्त्य व्यवस्थितवि. भाषाश्रयणादिति वृत्तिकृत् । एतेन ‘रजो विश्रामयन् राज्ञां' 'धुर्यान्विश्रामयेति , इति पठिष्यमाणस्य स्वनेरवतंसनेऽर्थे णौ मित्त्वार्थोऽत्रानुवाद इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । स्वनयतीति ॥ भूषयतीत्यर्थः । अन्यत्रेति ॥ अवतं- नादन्यत्र शब्देऽर्थे णी मित्त्वाभावान ह्रस्व इति भावः । घटादयो मित इति ॥ गणमूत्रम् । ननु घटादिषु मकारानुबन्धादर्शनात्कथं मितस्ते स्युरित्यत आह । मित्संज्ञका इति ॥ मित्कार्यभाज इत्यर्थः । जनीषिति ॥ गणसूत्रम् । जनी जृप् लसु रञ्ज् एषान्द्वन्द्वा- प्रथमाबहुवचनम् । अम् अन्ते येषान्ते अमन्ताः । क्रमिगम्यादयः । एते अघटादित्वेऽपि मित इत्यर्थः । जीर्यतेरिति ॥ 'जृष वयोहाना' इति श्यन्विकरणस्येत्यर्थः । ऋणातेस्त्विति ॥ 'जु वयोहाना' इति श्राविकरणस्य पित्त्वाभावेनात्र ग्रहणाभावान मित्त्वमिति भावः । उदाहर- न्तीति ॥ नन्मने जणानेर्गप मित्त्वमिति भावः । ज्वलह्वल ॥ इत्यपि गणसूत्रम् । प्राप्तवि- भाषेयमिति ॥ ज्वलद्दलमलावटादित्वान्नमन्तित्वाञ्च मित्त्वस्य प्राप्तेरिति भावः । उपसृष्टे विति ॥ सोपसर्ग स्वित्यर्थः । कथं ताँति ॥ अनुपसर्गादिति विशेषणे सति ज्वलेन- मेश्च णो मित्त्वविकल्पाभावाजनाजृषिति मित्त्वाद्रस्वो नित्यः स्यादित्याक्षेपः । समाधत्ते । घनन्तादिति । तत्करोतीति ॥ णाविल्यनन्तरं समाधेयमिति शेषः । प्रज्वलनं प्रज्वालः । उनमनम् उन्नामः । भावे घञ् । उपधाबृद्धिः । प्रज्वालङ्करोतीति उन्नामङ्करोतीति चार्थे 'तत्करोति तदाचष्टे' इति णिचि ‘णाविष्टवत्' इति इष्टवत्त्वात् टिलोपे सति तस्य स्थानिवत्त्वात् मित्त्वप्रयुक्तहस्वाभावे प्रज्वालि उन्नामि इत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयताति रूपे इनि भावः । ननु सम्पूर्वात् क्रमो सङ्कामयतीति रूपमिष्यते। तत्र अमन्तत्वे मित्त्वाभस्वप्रमङ्गः। नच क्रमणलाम इति धजन्तात्तत्करोतीति णायुक्तरीत्या ह्रस्वाभाव इति समाधानं सम्भवति । क्रमेघनिहि 'नोदात्तोपदेशस्य' इति वृद्धिप्रतिषेधे सति क्रम इत्येव भवति । नतु काम इति कृत्वा उक्तसमाधानासम्भवादित्यभिप्रेत्याक्षिपति । कथमिति ॥ समाधत्ते। मितामिति ॥ 'मिता हूस्वः' इति सूत्र वेत्यनुवर्त्य मित्त्वाभावे संक्रामयतीति रूपमित्यन्वयः । ननु कदाचिद्रस्वो दुरि इत्यत आह । व्यवस्थितेति ॥ तथाचान इस्वाभाव एवाश्रीयत इति .
प्रकरणम् ] बालमनोरमा । १२९ सः' इत्यादि व्याख्यातम् । पलानावनुवमां च' (ग सू १९०)। अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । 'न कम्यमिचमाम' (ग सू १९१) । अमन्तत्वात्प्राप्तं मित्त्वमेषां न स्यात् । कामयते । आमयति । चामयति । शमो ८१८ दर्शने (ग सू १९२) । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम । अन्यत्र तु 'प्रणयिनो निशमय्य वधूकथा:' कथं तर्हि 'निशामय तदुत्पत्तिं विस्तराद्गदतो मम' इति । 'शम आलोचने' इति चौरा- दिकस्य । धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः । शाम्यतिवत् । यमो ८१९ ऽप- रिवेषणे (ग सू १९३) । यच्छतिभॊजनतोऽन्यत्र मिन्न स्यात् । आयामयति । द्राधयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान । भोजय- भावः । वृत्तिकदिति ॥ भाष्ये तु नैतदृश्यत इति भावः । एतेनेति ॥ व्यवस्थितविभाषा- श्रयणेनेत्यर्थः । 'ग्लास्नावनुवमाञ्च' इत्यपि गणसूत्रम् । प्रथमार्थे षष्टी । अनुपसर्गादिति मित इति वेति चानुवर्तते । फलितमाह । अनुपसर्गादिति । आद्ययोरिति ॥ ग्लाम्ना इत्य- नयोरघटादित्वादप्राप्ते मित्त्वे इतरयोर्वनुवमोः प्राप्ते मित्त्वे विभापेत्यर्थः । तत्र 'वनु च नोच्यते इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम् । 'न कम्यमिचमाम्' इति शमो दर्शने इति च गणसूत्रम् । दर्शनं चाक्षुषज्ञानम् । ‘शम उपशमे' इति देवादिकः श्यन्विकरण एवात्र गृह्यते । नतु 'शम आलोचने' इति चौरादिकः । नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् । तदाह । शाम्यतिरिति । निशामयति रूपमिति ॥ पश्यतीत्यर्थः। उपशमार्थकस्यापि अनेकार्थकत्वात् दर्शने वृत्तिः । अन्यत्रेति ॥ दर्शनादन्यत्रेत्यर्थः । निशमय्येति ॥ श्रावयित्वे- त्यर्थः । शमेय॑न्तात् वो ल्यपि कृते 'ल्यपि लघुपूर्वात्' इति णेरयादेशः। कथमिति ॥ तर्हि दर्शनार्थकस्यैव शर्मित्त्वनिषेधे सति शृणु इत्यर्थे मित्त्वाभस्वप्रसङ्गानिशामयेति कथमि- त्याक्षेपः । समाधत्ते । शम आलोचने इति चौरादिकस्येति ॥ निशामयेति रूपमिति शेषः । नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् नहूस्व इति भावः । ननु चौरादिकस्य शमेरालोचनार्थकत्वात् कथं श्रवणे वृत्तिरित्यत आह। धातूनामिति । शाम्यतिवदिति ॥ श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शने वृत्तिस्तद्वदित्यर्थः । 'यमोऽपरिवेषणे' इत्यपि गणसूत्रम् । भोजनपात्रे ओदनापूपादिभोज्यद्रव्याणां स्थापनम्परिवेषणम् । तदाह । भोजन- तोऽन्यत्रेति ॥ भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः । ‘यम उपरमे' इत्यस्य उपसर्गवशात् परिवेषणे ततोऽन्यस्मिन्नप्यर्थे वृत्तिः सम्भवति । तत्र अपरिवेषणे वृत्तौ मित्त्वनेत्यर्थः आयामयतीति ॥ अत्रापरिवेषणे वृत्तेनमित्त्वमिति भावः । तदाह । द्राघयतीति ॥ दीर्घा- करोतीत्यर्थ: । व्यापारयतीति ॥ प्रवर्तयतीत्यर्थः। यमयति ब्राह्मणानिति ॥ परि- वेषणार्थकत्वान्मित्त्वमिति भावः । तदाह । भोजयतीति ॥ भुञ्जते ब्राह्मणाः तान्परि- वेषणेन प्रवर्तयतीत्यर्थः । ननु पर्यवसितं नियमयन्नित्यत्र अपरिवेषणार्थकतया मित्त्वाभावात्कथं । 17 १३० सिद्धान्तकौमुदीसहिता [भ्वादि . तीत्यर्थः। पर्यवसितं नियमयन्' इत्यादि तु नियमवच्छब्दात्तत्करोतीति णौ बोध्यम् । स्खदिर् ८२० अवपरिभ्यां च' (ग सू १९४) । मिन्नेत्येव । अवस्खादयति । परिस्खादयति । अपावपरिभ्यः' इति न्यासकारः । स्वामी तु 'न कमि-इति नामुत्तरविसूत्र्यामननुवर्त्य ‘शमः अदर्शने' इति चि- च्छेद । यमस्तु 'अपरिवेषणे' मित्त्वमाह । तन्मते 'पर्यवसितं नियमयन्' इत्यादि सम्यगेव । · उपमृष्टस्य स्वदेश्वेदवादिपूर्वस्य' इति नियमात्प्रस्खाद- यतीत्याह । तस्मात्सूत्रद्वये उदाहरणप्रत्युदाहरणयोय॑त्यासः फलितः । इदञ्च इस्व इत्यत आह । पर्यवसितमित्यादि ॥ नियमननियमः। यमः समुपनिविषु च' इति भावे कप्रत्ययः । तस्मान्मतुप् । नियमवच्छब्दात्तत्करोतीति णिचि ‘विन्मतोलक्' इति मतुपो लुकि ण्यन्तालटइशतरि गुणायादेशयोर्नियमयच्छब्द इति भावः । वस्तुतस्तु मतुपो लुकि टिलोपस्याप्राप्त्या 'अचो णिति' इति वृद्धौ पुगागमापत्तिः । ततश्च नियमवदित्यर्थकात् अर्श आद्यजन्तात् नियमशब्दात् 'तत्करोति' इति णिचि इष्टवत्त्वाहिलोपे तस्य स्थानिवत्त्वादुपधावृद्ध्य- भावे नियमयन्निति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् । 'स्खदिरवपरिभ्याञ्च' इत्यपि गणसूत्रम् । स्खदिरिति इका निर्देशः । अव परि आभ्याम्परः स्खदधातुर्मिनेत्यर्थः । 'स्खद स्खदने' इति घटादौ पाठान्मित्त्वप्राप्तिः । परिस्खादयतीति ॥ अषोपदेशत्वेन आदेश सकारत्वाभावान ष इति भावः । अपावेति ॥ 'स्खदिरपावपरिभ्यः' इति न्यासकारः । पपाठत्यर्थः । तन्मते अपस्खादयतीत्यत्रापि मित्त्वाभावान ह्रस्वः । स्वामी त्विति ॥ 'न कम्यमिचमाम्' इत्यत्र श्रुतः नञ् ‘शमो दर्शने' 'यमोऽपरिवेषणे' 'स्खदिरवपरिभ्याञ्च' इति त्रिषु सूत्रेषु नानुवर्तते । शमः अदर्शने इति च्छेदः । शमधातुः अदर्शने मित्स्यादित्यर्थः । अमन्तत्वादेव सिद्ध नियमार्थमिदम् । अदर्शन एव शमधातुर्मित्स्यात् नतु दर्शभे इति स्वामिमतम् । इदञ्च पर्यवसानगत्या पूर्वमतान्नातिरिच्यते । यमस्त्विति ॥ यमधा- तोस्तु अपरिवेषण एव मित्त्वमाहेत्यर्थः । अमन्तत्वादेव सिद्धेरपरिवेषण एव यमधा- तुर्मित् नतु परिवेषण इति फलति । एवञ्च द्राघयति व्यापारयति वेत्यर्थे मित्त्वाद्रस्वे आय- मयतीत्येव रूपम् । परिवेषणे तु मित्त्वाभावाभस्वाभावे यामयति ब्राह्मणानिति भवतीति पूर्व- मताद्विपरीतम्फलति। एवञ्च पर्यवसितन्नियमयनित्यत्र चमेरपरिवेषणार्थत्वान्मित्त्वे इस्वो निर्बाधः तदाह । तन्मते इति ॥ स्खदेर्घटादित्वादेव मित्त्वसिद्धेः स्खदिरवपरिभ्याञ्चेति सूत्रमपि नियमार्थम् । सोपसर्गस्य चेत् स्खदेर्मित्त्वं तर्हि अवपरिभ्यां परस्यैव मित्त्वं न तूप- सर्गान्तरादिति । एवञ्च प्रस्खादयतीत्यत्र मित्त्वाभावान इस्वः। अवस्खदयति परिस्खदयति इत्यत्र तु मित्त्वाद्रस्व इति फलति । तदाह । उपसृष्टस्येति ॥ सोपसर्गस्येत्यर्थः । पूर्वमते तु अवपरिभ्याम्परस्य मित्त्वनिषेधादवस्खादयति परिस्खादयतीति न ह्रस्वः । प्रस्खदयतीत्यत्र तु अवपरिपूर्वकत्वाभावेन मित्त्वनिषेधाभावाद्रस्व इति विपरीतम् । तस्मादिति ॥ यमोऽपरि- प्रकरणम्] बालमनोरमा । १३१ मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् । फण ८२१ गतौ । 'न' इति निवृत्त- मसम्भवात् । निषेधात्पूर्वमसौ न पठितः । फणादिकार्यानुरोधात् । २३५४ । फणां च सप्तानाम् । (६-४-१२५) एषां वा एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च। फेणतुः । फेणुः । पफणतुः । पफणुः। फेणिथ । पफणिथ। फणयति । 'वृत्' घटादिः समाप्तः । फणेः प्रागेव वृदित्येके। तन्मते फाणयतीत्येव । राजु ८२२ दीप्तौ । 'स्वरितेत्' । राजति-राजते । रेजतुः-रराजतुः । रेजे-रराजे । अतः' इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्त्वम् । टु भ्राजु ८२३ टु भ्रागृ ८२४ टु भ्लागृ ८२५ दीप्तौ । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्व पाठस्तु व्रश्चा- वेषणे । स्खदिरवपरिभ्याञ्चेति सूत्रद्वये उक्तरीत्या मित्त्वनियमविद्ध्याश्रयणादुदाहरणप्रत्युदाहरण- योरुक्तरीत्या व्यत्यासः फलित इत्यर्थः । उपेक्ष्यमिति ॥ 'न पादमाङ्' इति सूत्रव्याख्यावसरे यमोऽपरिवेषणे इति मित्त्वम्प्रतिषिध्यत इति वृत्तिन्यासयोरुक्तत्वादिति भावः । केचित्तु स्वामि- मते पर्यवसितनियमयनित्यादिसामञ्जस्यात्तावेवोपेक्ष्यावित्याहुः । फण गताविति ॥ ननु घटा- दित्वेऽपि नायं मित् । इतः प्राक् 'स्वन अवतंसने' इति उत्तरमेव घटादयो मित इत्युक्तेः । तत्राह। न इति निवृत्तमसम्भवादिति ॥ प्राप्तिं विना मित्त्वस्य निषेधासम्भवादिह नेति नानुवर्तते, किन्तु मिदित्येवानुवर्तत इत्यर्थः । ननु फण गतावित्यत्र मिनेति यदि नानुवर्तते तर्हि 'न कम्य- मिचमाम्' इति निषेधकाण्डात् प्रागेवायङ्कुतो न पठितः । तदाह । निषेधात्पूर्वमतौ न पठित. इति ॥ कुत इत्यत आह । फणादिकार्यानुरोधादिति ॥ निषेधकाण्डात्प्रागेव फणे: पाठे कम्यमिचीनामपि फणादिष्वन्तर्भावः स्यादिति भावः। फणाञ्च ॥ 'अत एकहल्मध्ये' इत्यतो लिटीति थलिच सेटि' इति चानुवर्तते । 'ध्वसोः' इत्यतः एदिति, गमहनेत्यतः कितीति ‘वा ज़ुभ्र- मुत्रसाम्' इत्यतो वेति च । तदाह । एषामिति ॥ फणादीनामित्यर्थः । फणामिति बहुवचनात् तदादिलाभः । 'फग गतो' इत्यत्र मिदित्येवानुवर्तते नेति तु नानुवर्तते इत्यस्य प्रयोजनमाह । फणयतीति । वृदिति ॥ कर्तरि क्विबन्तम् । वृतुधातुरिह समाप्त्यर्थकः । तदाह । घटादिः समाप्त इति। फणेः प्रागेवेति ॥ एवं सति फणेरघटादित्वान मित्त्वमिति भावः । तदाह । तन्मते फणयतीत्येवेति ॥ इति घटादयः । राजु दीप्ताविति ॥ इत आरभ्य षण्णामेत्त्वा- भ्यासलोपौ फणादित्वात्पक्षे भवतः । तदाह । रेजतुरित्यादि ॥ ननु 'फणाञ्च सप्तानाम्' इत्यत्र अत इत्यनुवृत्तेः कथमिह एत्त्वाभ्यासलोपावित्यत आह । अत इत्यनुवृत्तावपीति ॥ अत इति नानुवर्तते । तदनुवृत्तावपि फणादिसप्तानामपि वचनसामर्थ्यात् राजधातोराकारस्याप्ये- त्वाभ्यासलोपस्य विकल्पः स्यादेवेत्यर्थः । अत इति राजादिधातौ न सम्बद्ध्यते, असम्भवादिति यावत् । टुभ्रान टु भ्रा टु भ्ला दीप्ताविति ॥ टुरित् । ट्वितोऽथुजित्येतदर्थः । अनुदात्तेत इति ॥ एते त्रय इति शेषः। ननु टु भ्राज इत्येव सिद्धौ पूर्वञ्चवर्गान्तेष्वनुदात्तत्सु :
१३२ सिद्धान्तकौमुदीसहिता [भ्वादि - - , दिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात्फणादेरेव ग्रहणम् । भ्रजे-बभ्राजे । वा भ्राश-' (२३२१) इति श्यन्वा । भ्राश्यते-भ्राशते । भ्रशे-बभ्राशे। भलाशते भ्लाश्यते । भ्लेशे-बलाशे । द्वावपीमौ तालव्यान्तौ । स्यमु ८२६ स्वन ८२७ ध्वन ८२८ शब्दे । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः-सस्यमतुः । अस्यमीत् । स्बेनतुः-सस्वनतुः । सस्वनुः । अस्वनीत्- अस्वानीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्त इत्यर्थः । वेश्च स्वनः- (सू २२७४) इति षत्वम् । फणादयो गताः । दध्वनतुः । षम ७२९ष्टम ८३० अवैकल्ये । ससाम । तस्ताम । ज्वल ८३१ दीप्तौ ‘अतो ल्रान्तस्य' (सू- २३३०)। अज्वालीन् । चल ८३२ कम्पने । जल ८३३ घातने। घातनं तैक्ष्ण्यम् । टल ८३४ टूल ८३५ वैक्लव्ये । ष्ठल ८३६ स्थाने । हल ८३७ विले- खने । णल ८३८ गन्धे । 'बन्धने' इत्येके । पल ८३९ गतौ । पलति । बल ८४० प्राणने, धान्यावरोधने च । बलति। बेलतुः । बेलुः । 'पुल ८४१ महत्त्वे । पोलति । कुल ८४२ संस्त्याने बन्धुषु च। संस्त्यानं सङ्घात: । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल । शल ८४३ हुल ८४४ पत्न. ८४५ गतौ । शशाल । जुहोल। पपात । पेततुः । पतिता । २३५५ । पतः पुम् । (७-४-१९) 'एज ब्रेज़ भ्राज़ दीप्ता' इनि भ्राजेः पाठो व्यर्थ इत्यत आह । भ्राजतेरिति । षत्वा- भावार्थ इति ॥ तश्चभ्रस्जेति षत्वविधौ भ्राजेर्ग्रहणाभावार्थ इत्यर्थः । ननु पूर्व पठितस्यापि पत्वविधौ कुतो न ग्रहणमित्यत आह । तत्र हीति ॥ षत्वविधौ हीत्यर्थः । एत्त्वाभ्यासलोपयोः पाक्षिकत्वादाह । भेजे वभ्राजे इति । द्वावपीमाविति ॥ द्वितीयतृतीयावित्यर्थः । ननु विध्वणीत्यत्र कथं षत्वम् । केवलदन्त्याजन्तसादित्वाभावेन अषोपदेशतया आदेशसकारत्वा- भावात् । तथा अवष्वणात्यत्र इण्कवर्गाभ्याम्परत्वाभावान षत्वस्य प्रसक्तिः । सात्पदाद्योरिति निषेधाच्चत्यत आह । वेश्च स्वन इतीति ॥ तत्र चकारेण अवाच्चेत्यपि लभ्यत इति भावः। फणादयो गता इति ॥ ध्वनतेः प्रागिति शेषः। ततश्च ध्वनेर्न फणादिकार्यमिति भावः । नदाह । दध्वनतुरिति । षम ष्टमेति ॥ षोपदेशौ । तस्तामेति ॥ सत्वे सति ष्टुत्व- निवृत्तिरिति भावः । तैक्ष्ण्यमिति ॥ तीक्ष्णीभवनमित्यर्थः । टल वल वैक्लब्ये इति ॥ वैक्लव्यम्भयादिजनितो व्यग्रीभावः । णल गन्धे इति ॥ णोपदेशोऽयम् । गन्धः गन्धक्रिया। तद्व्यापार इति ॥ बन्धुतानुकूलो विवाहादिव्यापार इत्यर्थः। पल्लधातुस्तवर्गप्रथमान्तः संटकः । लुङि लूदित्त्वात् च्लेरङि कृते अपत् अत् इति स्थिते । पतः पुम् ॥ शेषपूरणेन ॥
---- प्रकरणम् बालमनोरमा । १३३ अङि परे । अपप्तत् । ‘नेर्गद-' (सू २२८५) इति णत्वम् । प्रण्यपप्तत् । कथे ८४६ निष्पाके । कथति । चक्काथ । अकथीत् । पथे ८४७ गतौ । अपथीत् । मथे ८४८ विलोडने । मेथतुः । अमथीत् । टु वम् ८४९ उद्भिरणे । इहैव निपातनात् ऋतः इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्वादेत्त्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतम् । तद्भाष्यादौ न दृष्टम् । भ्रमु ८५० चलने । ‘वा भ्राश-' (सू २६२१) इति श्यन्वा भ्रम्यति । भ्रमति । भ्राम्यति इति तु दिवादौ वक्ष्यते । २३५६ वा भ्रमुत्रसाम् । (६-४-१२४) एषामेत्त्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रमतुः- बभ्रमतुः । अभ्रमीत् । क्षर ८५१ संचलने । अक्षारीत् । अथ द्वावनुदात्तेतौ । षह ८५२ मर्षणे । 'परिनिविभ्य:-' (सू- २२७५) इति षत्वम् । परिषहते । सेहे । सहिता । ' तीषसह-'(सू २३४०) इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपा: । २३५७ । सहिवहोरोदवर्णस्य । (६-३-११५) 'अनयोरवर्णस्य ओत्स्याड्डलोपे सति । सूत्रं व्याचष्टे । अङि परे इंति ॥ 'ऋदृशोऽङि' इत्यतः तदनुवृत्तेरिति भावः। पतेः पुम् स्यादङि परे इति फलितम् । पुमि मकार इत् उकार उच्चारणार्थः मित्त्वादन्त्यादचः परः । तदाह । अपप्तदिति । क्वथे निष्पाके इति ॥ जलक्षीरभृतादीनाम्पादभागादिशोषणपर्यन्तः पाको निष्पाकः । अक्वथीदिति ॥ एदित्त्वान वृद्धिः । एवं अमीत् । टु वम् उद्गिरणे इति ॥ टुरित् । नायमुदित् । तेन 'उदितो वा' इति त्वायामिविकल्पो न। 'गृ निगरणे' इति दीर्घान्तोऽयम् । नन्वस्माद्धातोल्युटि 'ऋत इद्धातोः' इति इत्त्वम्बाभित्वा परत्वात् ‘सार्वधातुक' इति गुणे सति उद्गरण इत्येव निर्देशो युज्यत इत्यत आह । इहैवेति ॥ उद्गिरण इत्यर्थनिर्देशः पाणिनीय इति सुधाकरो मन्यते। भ्रमु चलने इति ॥ वक्रमार्गसञ्चारे इत्यर्थः । अयथार्थज्ञानेऽप्ययम् । उदितो वेति वायामिड्विकल्पार्थमुदित्त्वम् । वा भ्रमु ॥ ‘अत एकहल्मध्ये' इत्यतो लिटि इति ‘थलि च सेटि' इति चानुवर्तते। 'ध्वसोरेद्धौ' इत्यतः एदिति 'गमहनेत्यतः' कितीति च । तदाह । एषामिति । अभ्रमीदिति ॥ ह्ययन्तति न वृद्धिः । अक्षारीदिति । 'अतो ल्रान्त- स्य' इति वृद्धिः । षह मर्षणे इति ॥ अपराधे सत्यपि कोपानाविष्करणं मर्षणम् । इड- भावे इति ॥ सह ता इति स्थिते होढ इति ढत्वं 'झषस्तथोः' इति तकारस्य धत्वम् । धस्य छुत्वेन ढः। 'ढोढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः । सढा इति स्थितम् । सहिवहोः। ढलोपे इति ॥ ठूलोप इत्यतः तदनुवृत्तेरिति भावः । रलोप इति तु नानुवर्तते ।
सिद्धान्तकौमुदीसहिता [भ्वादि २३५८ । सोढः । (८-३-११५) सोड्पस्य सहे: सस्य षत्वं न स्यात् । परिसोढा । २३५९ । सिवादीनां वाड्व्यवायेऽपि । (८-३-७१) परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यषहत । पर्यसहत । रमु ८५३ क्रीडायाम् । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त । अथ कसन्ता: परस्मैपदिनः । षद्ल ८५४ विशरणगत्यवसादनेषु । २३६० । प्राघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः । (७-३-७८) पादीनां पिवादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे । सीदति । ससाद ।सेदतुः । सेदिथ-ससत्थ । सत्ता। सत्स्यति । लदित्त्वादङ् । असदत् । ‘सदिरप्रते:' (सू २२७१) निषीदति । न्यषीदत् । । असम्भवात् । तथाच सकारादाकारस्य ओत्वे सोढेति रूपम् । परिसोढेत्यत्र परिनिकिम्य इति पन्य प्राप्त । सोढः ॥ सोढ इति सहेरोत्वसम्पन्नस्य षष्ठ्यन्तत्वम् । 'सहेः साढस्सः' इत्यतः स इति पश्यन्तमनुवर्तते । 'न रपर' इत्यतो नेति । मूर्धन्य इत्यधिकृतम् । तदाह । सोपस्ये. त्यादिना । सिवादीनाम् ॥ ‘परिनिविभ्यः' इति सूत्रादुत्तरमिदं सूत्रम् । तदाह । परि- निविभ्यः परेपामिति ॥ सिवुसहसुट्स्तुस्वञ्जामिति शेषः । रमु क्रीडायामिति ॥ नायमुदिदिति माधवः । केचित्तु उदितं मत्वा ‘उदितो वा' इति त्वायामिविकल्पमिच्छन्ति । अनिटकोऽयम् । लिटि क्रादिनियमादिट् । तदाह । रेमिषे इति । अथ कसन्ता इति ॥ 'कम गतो' इत्येतत्पर्यन्ता इत्यर्थः । षद्लुधातुः षोपदेशः अनिट्कश्च । लटि शपि सद् अ इति स्थिते। पाघ्राध्मा ॥ पा घ्रा ध्मा स्था ना दाण् दृशि अर्ति सर्ति शद् सद् एषाद्वन्द्वात् षष्ठी- बहुवचनम् । पिब जिघ्र धम तिष्ट मन यच्छ पश्य ऋच्छ धौ शीय सीद एषान्द्वन्द्वात् प्रथमा- बहुवचनम् । यथासङ्ख्यमादेशाः । ष्टिवुक्लमु इत्यतः शितीत्यनुवर्तते। श्चासौ इन्चेति कर्मधारयः। अङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदादिविधिः । तदाह । इत्संज्ञकेति । ससादेति ॥ इत्संज्ञकशकारादिप्रत्ययाभावात् न सीदादेशः । श् इत् यस्यसः शित् शितीति बहुव्रीह्याश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे पपे इत्यत्रापि पिबादेशः स्यादिति बोध्यम् । थलि क्रादिनियमप्राप्तस्य इट: 'उपदेशे अत्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेट् । तत्र इट्पक्षे थलि च सेटीत्येत्त्वाभ्यासलोपौ । तदाह । सेदिथ, ससत्थेति ॥ सेदिव । सेदिम। क्रादि- नियमादिट्। न्यषीददिति ॥ 'प्राक्सिताद्वयवायेऽपि' इति षत्वम् । निषसादेत्यत्र अभ्यासात् प्रकरणम्] बालमनोरमा । १३५ २३६१ । सदेः परस्य लिटि । (८-६-११८) सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि। निषसाद । निषेदतुः। शदल ८५५ शातने। विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते । २३६२ । शदेः शितः । (१-३-६०) शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ। शशत्थ । शत्ता । अशदत् । क्रुश ८५६ आह्वाने रोदने च । क्रोशति । क्रोष्टा । च्लेः क्सः। अक्रुक्षत् । कुच ८५७ सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कोचति । चुकोच । बुध ८५८ अवगमने । बोधति । बोधिता । बोधिष्यति । परस्य 'स्थादिष्वभ्यासेन' इति षत्वे प्राप्ते। सदेः परस्य ॥ 'न रपर' इत्यतः नेत्यनुवर्तते। मूर्धन्य इत्यधिकृतम् । सदेरित्यवयवषष्ठी । परशब्द उत्तरखण्डपरः । सदेरुत्तरखण्डस्य षत्वन्नेति लभ्यते । फलितमाह। सदेरभ्यासात्परस्येति । शद्ल शातने इति ॥ ननु शद्धातो- रस्मात् हेतुमण्ण्यन्तात् ल्युटि 'शदेरगतौ तः' इति दकारस्य तकारे शातनशब्दः । तथाच शातनं शीर्णतानुकूलक्रियेति फलति । एवञ्च सकर्मकत्वापत्तौ विशीर्यतीत्यर्थे शीर्यत इति वक्ष्यमाणमुदाहरणं कथमित्यत आह । विशीर्णतायामिति ॥ विशरणे इत्यर्थः। तर्हि कथं शातनमिति हेतुमणिजित्यत आह। शातनन्तु विषयतयेति ॥ विपूर्वात् “षिञ् बन्धने' इत्यस्मात् विषयशब्दः । अविनाभावेनेत्यर्थः । प्रयोजकव्यापारं विना विशरणस्या- सम्भवात् शातननिर्देशः । ण्यर्थस्याविवक्षितत्वात् विशरणमेव शद्धात्वर्थ इति यावत् । शदेः शितः ॥ ‘अनुदात्तडितः' इत्यस्मादात्मनेपदमित्यनुवर्तते । श् इत् यस्य सः शित् । शप् विवक्षितः। शिति विवक्षिते सतीत्यर्थः । तिङ्कुत्पत्तेः पूर्व सार्वधातुकाश्रयस्य शपो- ऽसम्भवात् । तदाह । शिद्भाविन इति ॥ शिद्भावी भविष्यन् यस्मात्स शिद्भावी तस्मा- दित्यर्थः । शीयते इति ॥ शपि सदेः शीयादेशः। विशीर्यतीत्यर्थः । शीयेते । शीयन्ते । इत्यादि । शिद्विषयादित्युक्तेलिटि नात्मनेपदम् । इत्संज्ञकशकारादावित्युक्तेर्न शीयादेशः । तदाह । शशादेति ॥ अनिटकोऽयम् । क्रादिनियमप्राप्तस्य इटः 'उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमात् वेट् । तदाह । शेदिथ। शशत्थेति च ॥ इट्पक्षे 'थलि च सेटि' इत्येत्त्वा. भ्यासलोपाविति भावः । शेदिव । शेदिम । क्रादिनियमादिट् । अशददिति ॥ लूदित्वा- दङिति भावः । क्रुश धातुरनिटकः । चुक्रोशिथ । कादिनियमात्थलि नित्यमिट् । अजन्ताकार- वत्त्वाभावान भारद्वाजनियमः । चुक्रुशिव । चुकुशिम । क्रोष्टेति ॥ व्रश्चादिना शस्य षत्वे छुत्वेन तकारस्य टः। च्ले क्स इति ॥ इगुपधशलन्तत्वादिति भावः। अनुक्षदिति ॥ व्रश्चादिना शस्य षः। 'षढोः' इति षस्य कः । सस्य षत्वम् । कित्त्वान्न गुणः । नापि हलन्तलक्षणा वृद्धिः । कुच सम्पर्चने इति ॥ 'कुच शब्दे' इति पठितस्य पुनरिह पाठः सम्पर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देशः क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् । बुध .
सिद्धान्तकौमुदीसहिता [भ्वादि रुह ८५९ बीजजन्मनि प्रादुर्भावे च । रोहति । रुरोह । रुरोहिथ । रोढा रोक्ष्यति । अरुक्षत् । कस ८६० गतौ । अकासीत्-अकसीत् । वृत्! ज्वलादिगणः समाप्तः । अथ गूहत्यन्ताः स्वरितेतः । हिक्क ८६१ अव्यक्ते शब्दे। हिक्कति- हिक्कते। अञ्चु ८६२ गतौ याचने च । अञ्चति-अञ्चते । अचु इत्येके । अचि इत्यपरे । टु याच ८६३ याच्मायाम्। याचति-याचते । रेदृ ८३४ परिभाषणे । रेटति। रेटते । चते ८६५ चदे ८६६ याचने । चचात । चेते। अचतीत् । चचाद । चेदे। अचदीत् । प्रोथ ८३७ पर्याप्तौ । पुप्रोथ । पुप्रोथे । मिदृ ८६८ मेदृ ८६९ मेधाहिंसनयोः । मिमेद । मिमेदे। 'थान्ताविमौ' इति स्वामी। मिमेथ । 'धान्तौ' इति न्यासः । मेधृ ८७० सङ्गमे च। मेधति मिमेधे। णिह ८७१ णेदृ ८७२ कुत्सासन्निकर्षयोः । निनेद । निनिदतुः । निनेदे । शृधु ८७३ मृधु ८७४ उन्दने । उन्दनं क्लेदनम् । शर्धति-शर्धते । शर्धीता । मर्धति-मर्धते । बुधिर् ८७५ अवबोधने । बोधति- बोधते। इरित्त्वादका । अबुधत-अबोधीत्-अबोधिष्ट । 'दीपजन- (सू २३२८) इति चिण्तु न भवति । पूर्वोत्तरसाहचर्येण देवादिकस्यैव तत्र ग्रहणात् । उ बुन्दिर ८७६ निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अवगमने इति ॥ सेट्कोऽयम् । अनिट्सु श्यन्विकरणसव बुधग्रहणात् । तदाह । बोधितेति ॥ अबोधीत् । रुहधातुरनिटकः । क्रादिनियमात्थल्यपि नित्यमिट । अजन्ताकार- वत्त्वाभावात् न भारद्वाजनियमः । रोढोत ॥ लुटि तासि ढत्व धत्व टुत्व ढलोपाः । रोक्ष्यतीति ॥ लुटि स्ये ढकषाः । अरुक्षदिति ॥ इगुपधशलन्तत्वात् ढकषाः । कित्त्वान्न वृद्धिगुणौ । वृदिति ॥ 'ज्वलितिकसन्तेभ्यः' इति उत्तरावधेरिति कसेर्ग्रहणादेव सिद्धेः वृत्करणं स्पष्टार्थमित्याहुः । इति ज्वलादयः । गृहत्यन्ता इति ॥ 'गुहू संवरणे' इत्ये- तत्पर्यन्ता इत्यर्थः । चते चदे याचने। अचतीदिति ॥ एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर् अवबोधने इति ॥ 'बुध अवगमने' इति केवलपरस्मैपदी गतः। स तु ज्वलादिकार्यार्थः अयन्तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट । अबुधदिति ॥ इर- इत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येकं मित्त्वाभावान्न नुम् । स्वरितेत्त्वप्रयुक्तमात्मनेपदन्तु भव- त्येव । स्वरितेत्सु पाठसामर्थ्यात् । वस्तुतस्तु इकारस्य प्रत्येकमित्वेऽपि न नुम् । इदितो नुमित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्बिधेः । पूर्वोत्तरेति ॥ जनपूरिसाह- चर्येणेत्यर्थः । उ बुन्दिरिति ॥ आद्य उकार इत् । उदितो वेति वायामिरिकल्पार्थः । अबुदिति ॥ इरित्त्वादङि अनिदितामिति नलोपः । इर इकारस्य प्रत्येकमित्संज्ञाविरहात् । - प्रकरणम्] बालमनोरमा । अबुन्दीत् । वेण ८७७ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणति-वेणते । नान्तोऽप्ययम् । खनु ८७८ अवदारणे । खनति-खनते। २३६३ । गमहनजनखनघसां लोपः क्ङित्यनङि। (६-४-९८) एषामुपधाया लोप: स्यादजादौ विङति न त्वङि । चख्नतुः । ये विभाषा' (सू २३१९)। खायात्-खन्यात् । चीवृ ८७९ आदानसंवरणयोः । चिचीव-चिचीवे । चाय ८८० पूजानिशामनयोः । व्यय ८८१ गतौ । अव्ययीत् । दाशु ८८२ दाने । ददाश-ददाशे । भेष ८८३ भये । 'गतौ' इत्येके । भेषति-भेषते । भ्रष ८८४ भ्लेषु ८८५ गतौ । अस ८८६ गतिदीप्त्यादानेषु । असति-असते । आस-आसे । अयं षान्तोऽपि । स्पश ८८७ बाधनस्पर्शनयोः। स्पर्शनं ग्रथनम् । स्पशति-पशते । लष ८८८ कान्तौ । ‘वा भ्राश-' (सू २३२१) इति श्यन्वा । लष्यति-लषति । लेषे । चष ८८९ भक्षणे । छष ८९० हिंसायाम् । चच्छषतुः । चच्छषे । झष ८९१ आदानसंवरणयोः । भ्रक्ष ८९२ भ्लक्ष ८९३ अदने । 'भक्ष' इति मैत्रेयः । दास ८९४ दाने । माहृ ८९५ माने । गुहूं ८९६ संवरणे । २३६४ । ऊदुपधाया गोहः । (६-४-८९) गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गृहति–गूहते । ऊदित्वा- अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाचेति शब्देन्दुशेखरे स्थितम् । वेण. गतीति ॥ वाद्यभाण्डस्य वादनार्थङ्ग्रहणं वादित्रग्रहणम् । खनुधातुरुदित् । क्त्वायामिड्किल्पः । गमहन । उपधाया इति ॥ 'ऊदुपधायाः' इत्यतः तदनुवृत्तेरिति भावः । अजादाविति ॥ अचि श्नुधात्वित्यतः अनुवृत्तस्य अचि इत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ इति भावः। विडतीत्युक्तेः चखानेत्यत्र नोपधालोपः । अनङीति किम् । अगमत् । चख्ने चख्नाते इत्यादि। व्यय गताविति ॥ अयं वित्तत्यागेऽपि । अर्थनिर्देशस्योपलक्षणत्वात् । अव्ययीदिति ॥ मयन्तेति न वृद्धिः। चष भक्षणे इति ॥ चचाष । चेषतुः । छष हिंसायामिति ॥ वैरूप्यसम्पादकादेशादित्वादेत्त्वाभ्यासलोपौ न । तदाह । चच्छषतुः इति । गुहू संवरणे इति ॥ उदुपधोऽयम् । ऊदित् । ऊदुपधायाः ॥ गोह इति कृतलघूपध- गुणस्य गुहेनिर्देशः । ततश्च गुणविषय एवेदम्भवति। अचि श्नुधात्वित्यतः अनुवृत्तस्य अची- त्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । तदाह । गुह उपधायाः इत्यादिना । गुणहेताविति ॥ गुणम्प्रति परनिमित्तभूत इत्यर्थः । गुणापवादः । जुगूह । गुणहेताविति किम् । जुगुहतुः। जुगुहुः । जुगुहे । जुगुहाते । जुगुहिरे। जुगूहिथ । जुगोढ । ढत्वधत्व 18 १३८ सिद्धान्तकौमुदीसहिता [भ्वादि दिड्डा । गृहिता-गोढा । गूहिष्यति-घोक्ष्यति । गृहेत् । गुह्यात् । अगृहीत् । इडभावे क्सः। अघुक्षत् । २३६५ । लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । (७-३-७३) एषां क्सस्य लुग्वा स्यादन्त्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । 'क्सस्याचिं' (सू २३३७) इत्यन्तलोप: । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि-अघुझावहि । अघुक्षामहि । अथाजन्ता उभयपदिनः । श्रि ८९७ सेवायाम् । श्रयति-श्रयते शिश्रियतुः । श्रयिता। ‘णिश्रि-' (सू २३१२) इति चङ् । अशिश्रियत्। टुत्वढलोपाः । जुगुहथुः । जुगुह । जुगुहिषे। जुघुक्षे । ढत्वभष्भावकत्वषत्वानि । जुगुहाथे । जुगुहिये । जुघुट्वे । जुगूह । जुगुहिव । जुगुह्व । जुगुहिम । जुगुह्म । जुगुहे । जुगुहिवहे । जुगुह्वहे । जुगुहिमहे । जुगुह्महे । इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह । गृहितेति ॥ इडभावे अजादिप्रत्ययाभावात् ऊत्त्वाभावे गुणे ढत्वधत्वष्टुत्वढलोपेषु रूपमाह । गोढेति ॥ लुटि स्ये इट्पक्षे ऊत्त्वे रूपमाह । गूहिष्यतीति ॥ इडभावे तु गुणढत्व- भभावकत्वषत्वेषु रूपमाह । घोक्ष्यतीति ॥ गूहिष्यते, घोक्ष्यते, इत्यप्युदाहार्यम् । गृहतु । गृहनाम् । अगृहत् । अगूहत । गृहेदिति ॥ गूहेतेत्यपि ज्ञेयम् । गुह्यादिति ॥ आशीलिङि अजादिप्रत्ययाभावादूत्वन । कित्त्वान्न गुणः । लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह । अगूही- दिति ॥ अगूहिष्टाम् । अगूहिषुरित्यादि । इडभावे क्सः इति ॥ इगुपधशलन्तादिति भावः । अघुक्षदिति ॥ ढत्वभष्भावकत्वषत्वानि । अघुक्षताम् । अधुक्षन्नित्यादि । लुङस्तडि विशेषमाह । लुग्वादुह । दन्त्ये तङीति ॥ दन्त्यादौ तडीत्यर्थः । प्रत्ययादर्शनात्सर्वा- देशोऽयं लुक् । अगूढेति ॥ अगुह् स त इति स्थिते क्सस्य कित्त्वेन गुणहेतुत्वाभावादजादि- त्वाभावाच्च ऊत्त्वाभावे क्सलुकि अगुह् त इति स्थिते प्रक्रियान्दर्शयति । ढत्वधत्वष्टुत्वढलो- पदीर्घाः इति । अघुक्षतेति ॥ सलुगभावे ढत्वभभावकत्वषत्वानीति भावः। अधुक्षा- तामिति ॥ च्ले: क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाभावादूत्त्वाभावे ढत्वभभावकत्वषत्वेषु कृतेषु क्मस्याचीत्यन्त्यलोपे अतः परत्वाभावादातो ङित इति न भवतीति भावः । अघुक्ष न्तेति ॥ झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अन्त्यलोपाभावादतः परत्वाभावादात्मने- पदेष्वनत इत्यदादेशो न भवति । कृते तु झोऽन्तादेशे क्सस्यान्तलोप इति भावः । अघुक्षथाः । अधुक्षाथाम् । अधुक्षध्वम् । अधुक्षि । इति रूपाणि सिद्धवत्कृत्याह । अगुह्व- हीति ॥ दन्त्यादिप्रत्ययपरत्वात् क्सस्य लुकि अजादिप्रत्ययाभावात् ऊत्त्वाभावे रूपम् । अघुक्षावहीति ॥ क्सलुगभावे ढत्वभभावकत्वषत्वानि । अतो दीर्घश्च । अधुक्षामहीति ॥ दन्त्यादिप्रत्ययपरत्वाभावान्न क्सलुक् । इति गृहत्यन्ताः स्वरितेतः। उभयपदिनः इति ॥ नित्त्वादिति भावः । श्रिञ् धातुः सेट । शिश्रियतुरिति ॥ कित्त्वान्न गुणः । इयङ् ।
प्रकरणम् बालमनोरमा । १३९ भृग् ८९८ भरणे । भरति । बभार । भरति । बभार । बभ्रतुः । बभर्थ । बभूव । बभूषे । भर्ता । २३६६ । ऋद्धनोः स्ये। (७-२-७०) ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति । २३६७ । रिङ् शयग्लिक्षु । (७-४-२८) शे यकि यादावार्धधातुके लिङि च ऋतो रिङादेशः स्यात् । रीडि प्रकृते रिविधिसामर्थ्याद्दीक़ न । भ्रियात् । शिश्रियुः । शिश्रयिथ । शिश्रियथुः । शिश्रिय । शिश्राय । शिश्रय । शिश्रियिव । शिश्रियिम । शिश्रिये । शिश्रियाते । शिश्रियिरे। शिश्रियिषे । शिश्रियाथे। शिश्रियिट्वे। शिश्रियिध्वे । शिश्रिये । शिश्रियिवहे । शिश्रियिमहे । श्रयितेति ॥ श्रयिष्यति। श्रयिष्यते । श्रयतु । श्रयताम् । अश्रयत् । अश्रयत । श्रयेत् । श्रयेत । श्रीयात् । श्रयिषीष्ट । लुङि विशेषमाह । णिश्रीति । अशिश्रियदिति ॥ चङीति द्वित्वम् । अशिश्रियत। अश्रयिष्यत् । अश्रयिष्यत । भृधातुरनिट् । भरतीति ॥ भरते इत्यपि ज्ञेयम् । बभ्रतुरिति ॥ कित्त्वान्न गुणः । यण् । बभ्रुः । थलादौ “एकाचः' इति नेट् । कृसभृवृस्तुद्रुसुश्रुषु लिट्यपि तनिषेधस्य प्रवृत्तेः । थलि अचस्तास्वदिति निषेधाच । ऋदन्तत्वेन भारद्वाजमतेऽपि थलि निषेधाच्च । तदाह । बभर्थेति ॥ बभ्रथुः । बभ्र । बभार । बभर । इति सिद्धवत्कृत्याह । बभृवेति ॥ बभ्रम । बभ्रे । बभ्राते। बभ्रिरे । इति सिद्धवत्कृत्याह । बभृषे इति ॥ बभ्राथे । बभूवे । बभ्रे । बभूवहे । बभृमहे । लुटि स्ये इग्निषेधे प्राप्ते । ऋद्धनोः ॥ ऋत् हन् अनयोर्द्वन्द्वात् पञ्चम्यर्थे षष्ठीद्विवचनम् । स्ये इति षष्ठ्यर्थे सप्तमी । आर्धधातुकस्येडियतः इडित्यनुवर्तते । तदाह । ऋत इत्यादिना ॥ एकाच इति इनिषेधस्यापवादः । भरिष्यतीति ॥ भरिष्यते । भरतु । भरताम् । अभरत् । अभरत । भरेत् । भरेत । आशीर्लिङि परस्मैपदे भृ यात् इति स्थिते । रिङ् शय॥ श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् । अयङ यि ङितीत्यतो यीति सप्तम्यन्तमनुवृत्तं लिडो विशेषणम् । तदादिविधिः । शे तु यीति नान्वेति । असम्भवात् । नापि यकि अव्यभिचारात् । अत एव अकृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणम् । तदाह । शे यकीत्यादिना । ऋत इति ॥ ‘रीकृत' इत्यतः तदनुवृत्त- रिति भावः । अङ्गस्येत्यधिकृतम् । ऋत इति तद्विशेषणम् । तदन्तविधिः । ऋदन्तस्याङ्गस्यति लभ्यते । आदेशे डकार इत् । डित्त्वात् अन्तादेशः । निर्दिश्यमानपरिभाषयैव सिद्ध डकारोच्चारणं, इडागमेनैव सिद्धे रेफोच्चारणञ्च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाहरणम- युक्तम् । कृते रिङि अकृत्सार्वधातुकयोरिति दीर्घप्रसङ्गादित्यत आह । रीङि प्रकृते इति ॥ कृते रिडि यदि दीर्घः स्यात्तर्हि रिविधिर्व्यर्थः स्यात् । रीत इत्येव सिद्धेः । अतो रिद्धि कृते सति न दीर्घ इत्यर्थः । नियादिति॥ भ्रियास्तामित्यादि सुगमम् । आशीर्लिङि भृषीष्टेत्यत्र १४० सिद्धान्तकौमुदीसहिता [भ्वादि २३६८ । उश्च । (१-२-१२) ऋवर्णात्परौ झलादी लिङ्तङ्परः सिच्चेत्येतौ कितौ स्तः। भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अमाष्टम् । अभाषुः । २३६९ । हस्वादङ्गात् । (८-२-२७) सिचो लोप: स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् । हृञ् ८९९ हरणे । हरणं प्रापणं स्वीकारः स्तेयं नाशनं च । जहर्थ । जह्रिव । जहिषे । हर्ता । हरिष्यति । धृञ् ९०० धारणे । धरति । अधार्षीत् । अधृत । णी ९०१ प्रापणे । निनयिथ । निनेथ । निन्यिषे । अथाजन्ताः परस्मैपदिनः । धेट् ९०२ पाने । धयति । गुणे प्राप्ते। उश्च ॥ ‘लिङ्सिचावात्मनेपदेषु' इति सूत्रमनुवर्तते । 'इको झल्' इत्यतो झलिति च । तदाह । ऋवर्णादिति । भृषीष्टेति ॥ कित्त्वान्न गुणः । अभार्षीदिति ॥ पर- स्मैपदे सिचि वृद्धौ रपरत्वम् । तङि तु अभृ स् त इति स्थिते । ह्रस्वादङ्गात् ॥ हूस्वान्तादि- त्यर्थः । सिच इति भाष्यम् । 'झलो झलि' इत्यतो झलीति 'संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे। सिचो लोपः स्याज्झलीति ॥ इस्वात्किम् । अच्योष्ट । अङ्गात्किम् । अलाविष्टाम् । सिचः किम् । द्विष्टराम् । द्विष्टमाम् । मुजन्तात्तरप्तमपौ । अभृतेति ॥ 'उश्च' इति सिचः कित्त्वान्न गुणः । झलीत्युक्तेः अभृषाताम् । अभृषतेत्यत्र न सिज्लोपः । अनतः परत्वात् झस्य अदादेशः । अभृथाः । अभृषाथाम् । अभृट्वम् । अभृषि । अभृष्वहि । अभृष्महि । हृधातुरनिट् । हरणञ्चतुर्विधमित्याह । प्रापणमि- त्यादि ॥ तद्यथा-भारं हरति । प्रापयतीत्यर्थः। अंशं हरति। स्वीकरोतीत्यर्थः। परस्वं हरति । चोरयतीत्यर्थः। पापं हरति हरते वा । नाशयतीत्यर्थः । जहार । जहतुः । जह्रुः । 'एकाचः' इति इनिषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्ते 'अच- स्तास्वत्' इति तनिषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि इनिषेध एव । तदाह । जहथेति ॥ जहथुः । जहू । जहार । जहर । इति सिद्धवत्कृत्याह । जह्रिवेति ॥ कादिनियमादिट् । जटिम । जहिये । कादिनियमादिट् । जहाथे । जहिढ्वे । जहिध्वे । जहे । जहिवहे । जहिमहे । लुादिषु भृञ इव रूपाणि। धृञ् धातुरनिट् । हृन इव रूपाणि । णीञ् धातुरनिट् णोपदेशः । नयति । नयते । निनाय । निन्यतुः। निन्युः। क्रादिनियमाल्लिटि इट् । थलि तु 'अचस्तास्वत्' इति इनिषेधस्य भारद्वाजनियमादिटमभिप्रेत्याह । निन्यिषे निन्याथे निन्यिट्वे निन्यिध्वे । निन्ये । निन्यिवहे । निन्यिमहे । नेता । नेष्यति। नेष्यते । नयतु । नयताम् । अनयत् । अनयत । नयेत् । नयेत। नीयात् । नेषीष्ट । अनैषीत् । अनेष्ट । अनेष्यत् अनेष्यत । इत्यजन्ता उभयपदिनो गताः। परस्मैपदिन इति ॥ 'जि, ख्रि' अभिभवे । इत्येतर्पयन्ता इति शेषः । धेट पाने इति ॥ स्तनन्धयीत्यादौ डीबर्थ प्रकरणम्] . बालमनोरमा । २३७० । आदेच उपदेशेऽशिति । (६-१-४९) उपदेशे एजन्तस्य धातोरात्त्वं स्यान्न तु शिति । २३७१ । आत औ णलः । (७-१-३४) आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ। २३७२ । आतो लोप इटि च । (६-४-६४) अजाद्योरार्धधातुकयोः विङदिटोः परयोरातो लोप: स्यात् । द्वित्वा- टित्त्वम् । अवयवे टित्त्वस्य व्यर्थतया समुदायार्थत्वादिति हरदत्तः । आदेचः। एजन्त- स्य धातोरिति ॥ 'लिटि धातोः' इत्यतः धातोरित्यनुवृत्तं एचा विशेष्यते । तदन्तविधिरिति भावः । न तु शितीति ॥ श् चासौ इच्चेति कर्मधारयात्सप्तमी । प्रत्ययविशेषणत्वात्तदा- दिविधिः । इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । 'ल्यपिच' 'नव्यो लिटि' इत्यादिपूर्वो- तरसूत्राणाम्प्रत्ययेष्वेव प्रवृत्त्या प्रत्यये इति विशेष्यलाभः । अशितीति न पर्युदासः । तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः । ततश्च सुग्लः इत्यत्र ग्लैधातोः ‘आतश्चोपसर्गे' इति कप्रत्ययो न स्यात् । कप्रत्ययनिमित्तमात्त्वम् आदन्तात्प्रत्यय इत्यन्योन्याश्रयात् । शिति नेति प्रसज्यप्र- तिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाभावात् प्रथममात्त्वे कृते कप्रत्ययः सूपपादः । शितीति बहुव्रीह्याश्रयणे ग्लैधातो वे लिटि ‘भावकर्मणोः' इति तङि एशि आत्त्वे आतो लोपे जग्ले इति न सिद्ध्येत् । एशशित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात् । अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः। एवञ्च पर्युदासेऽपि न क्षतिः । इत्संज्ञकशकारादिप्रत्यये विवक्षिते इत्याश्रयणेन सुग्ल इत्यत्र कप्रत्ययात्प्रागेव आत्त्वो. पपत्तेः । उपदेशे किम् । चेता, स्तोता। धातोः किम् । गोभ्याम् । ‘गमे?ः' इति डोप्रत्ययो- पदेशादप्राप्तिः । उपदेशे यः एच् तदन्तत्वाभावाद्गमः । न च मेङादीनामुपदेशे एजन्तत्वा- भावात् कथमात्त्वमिति न शङ्कयम् । 'उदीचाम्माङः' इति निर्देशेन नानुबन्धकृतमनेजन्त- त्वमिति ज्ञापनादित्यास्तान्तावत् । तथाच प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते । आत औ ॥ औ इति लुप्तप्रथमाकम् । अङ्गस्येत्यधिकृतम्पञ्चम्या विपरिणम्यते । आत इति तद्विशेषणम् । तदन्तविधिः । तदाह । आदन्ताद्धातोरिति ॥ णल्प्रकृ. तिश्च धातुरेवेति धातुग्रहणम् । तथाच णल औत्वे वृद्धौ रूपमाह । दधाविति ॥ दधा अतुसिति स्थिते । आतो लोपः ॥ आर्धधातुके इत्यधिकृतम् । दीडो युडित्यतः अचि क्डिन्तीतिचानुवर्तते । अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः। डिति अजाद्यार्धधातुके इटि च आतो लोपः इति लभ्यते । फलितमाह । अजाद्योरिति ॥ इट: आर्धधातुकत्वन्तु तदवयवत्वाद्बोध्यम् । क्डितीति च इटो न विशेषणम् । इड्ग्रहणसामर्थ्यात् । इडित्यनेन उत्तमपुरुषैकवचनम् इडागमश्च गृह्यते। अजाद्योः किम् । ग्लैधातोः कर्मणि लटि यकि ग्लायते । आर्धधातुकयोः किम् । यान्ति । वान्ति। दधौ इत्यत्र तु क्डित्वाभावान्नाल्लोपः ।
१४२ सिद्धान्तकौमुदीसहिता [भ्वादि त्परत्वाल्लोपे प्राप्ते 'द्विवचनेऽचि' (सू २२४३) इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ-दधाथ । दधिव । दधिम । धाता । २३७३ । दाधा घ्वदाप् । (१-१-२०) दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना । २३७४ । एलिङि । (६-४-६७) घुसंज्ञानां मास्थादीनां चैत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः । २३७५ । विभाषा धेट्रव्योः। (३-१-४९) आभ्यां च्लेश्चका स्यात्कर्तृवाचिनि लुङि परे । 'चङि' (सू २३१५) इति द्वित्वम् । अदधत् । अदधताम् । २३७६ । विभाषा घ्राधेट्शाच्छासः । (२-४-७८) सति तस्मिन् औत्वन्न स्यात् । ननु धा अतुस् इति स्थिते द्वित्वात्परत्वादाल्लोपे सति एकाच्वाभावात् द्वित्वन्न स्यादित्याशङ्कय परिहरति। द्वित्वादित्यादिना ॥ धेटधातुरनिट् । भारद्वाजनियमात् थलि वेडित्याह । दधिथ । दधाथेति ॥ इट्पक्षे आलोपः। दधथुः । दध । दधौ इति सिद्धवत्कृत्याह । दधिवेति ॥ वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः । दधिमेत्यपि ज्ञेयम् । धातेति ॥ लुटि आत्त्वे ता इति भावः । धास्यति । धयतु । अधयत् । धयेत् । आशीलिंङि घुसंज्ञाकार्य वक्ष्यन् · धुसंज्ञां दर्शयति । दाधा- ध्वदाप् ॥ दा धा घु एषां समाहारद्वन्द्वात्प्रथमैकवचनम् । दाधेत्यनेन स्वाभाविकाकारान्तयोः दाण् दाने' 'डुधाञ् धारणपोषणयोः' इत्यनयोः कृतात्त्वानाञ्च दोदे टां लाक्षणिकानामपि ग्रहणम् । 'गामादाग्रहणेष्वविशेषः' इति परिभाषाबलात् । तत्र दाग्रहणेन धारूपस्यापि प्रहणात् । अतएव 'दो दद् घोः' इत्यत्र धेनिवृत्त्यर्थन्दाग्रहणमर्थवत् । दधातेहिंभावविधानादेव निवृत्तिसिद्धेः। तदाह । दारूपाः धारूपाश्चेति ॥ शब्दा इति शेषः । एर्लिङि ॥ एरिति प्रथमान्तम् । आर्धधातुके इत्यधिकृतम् । तदाह । घुसंज्ञानां मास्थादीनामिति ॥ मा स्था जहाति सा एषान्द्वन्द्वात् षष्ठीबहुवचनम् । किति लिङीति ॥ दीडो युडित्यतः कितीत्यनुवृत्तेरिति भावः । ङितीति नानुवर्तते । लिङार्धधातुकस्य ङित्त्वासम्भवात् । लुङि च्ले: सिचि प्राप्ते । विभाषा धेट् ॥ च्लि लुडीत्यनुवर्तते । ‘णिश्रिद्रुसुभ्यः' इत्यतः कर्तरि चङिति च । तदाह । आभ्यामिति ॥ धेट् श्वि आभ्यामित्यर्थः । अदधदिति ॥ चडि द्वित्वे आल्लोप इति भावः । अद्धताम् । अदधन् । अदधः । अदधतम् । अदधत । अदधम् । अदधाव । अदधाम। चङभावपक्षे विशेषमाह । विभाषा घ्रा ॥ ‘ण्यक्षत्रियार्ष' इत्यतः प्रकरणम्] . बालमनोरमा । १४३ एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः। २३७७ । यमरमनमातांसक्च । (७-२-७३) एषां सक्स्यादेभ्यः सिच इट् च परस्मैपदेषु । अधासीत् । अधा- सिष्टाम् । अधासिषुः । ग्लै ९०३ म्लै ९०४ हर्षक्षये । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ-जग्लाथ । २३७८ । वाऽन्यस्य संयोगादेः । (६-४-६८) . लुङित्यनुवर्तते । 'गातिस्था' इत्यतः सिच: परस्मैपदेष्विति । तदाह । एभ्यः इति ॥ 'धेट पाने' 'घ्रा गन्धोपादाने' 'शो तनूकरणे' 'छो छेदने' 'षो अन्तकर्मणि' एषां समाहार- द्वन्द्वात्पञ्चम्येकवचनम् । शोप्रभृतीनाङ्कृतात्वानां निर्देशः । धेट: ‘गातिस्थाघुपा' इति नित्यं प्राप्ते अन्येषामप्राप्ते वचनम् । अधुरिति ॥ 'उस्यपदान्तात्' इति पररूपम् । अधाः। अधातम् । अधात । अधाम् । अधाव । अधाम। सिचो लुगभावपक्षे आह। यमरम ॥ यम, रम, नम, आत् , एषां समाहारद्वन्द्वात्षष्ठीबहुवचम् । आदित्यनेन आदन्तगृह्यते । तदाह । एषां सक् स्यादिति ॥ सकि ककार इत् अकार उच्चारणार्थः । कित्त्वादन्ता- वयवः । चकारेण 'इडत्त्यति' इत्यतः इडिति स्तुसुधूभ्यः इत्यतः परस्मैपदेचिति चानुकृष्यते । अञ्जेस्सिचीत्यतः सिचीति च । तच्च षष्ठया विपरिणम्यते । तदाह । एभ्यस्सिचः इट् चेति । अधासीदिति ॥ धातोस्सगागमः । सिच इट् । 'इट ईटि ' इति सिज्लोपः । अधासिष्टामिति ॥ अपृक्तत्वाभावादीडभावान सिज्लोपः । सस्य षत्वे तकारस्य टुत्वेन रः । अधासिषुरिति ॥ अधासीः। अधासिष्टम् । अधासिष्ट । अधासिषम् । अधा- सिष्व । अधासिष्म । यद्यपि अधासीदित्यत्र सगिटोविधिय॑र्थ एव । तथापि अधासिष्टा- मित्याद्यर्थे आतः सगिविधानम् । यमादीनान्तु अयंसीदित्यादौ हलन्तलक्षणबुद्धेरभावार्थम् अयंसिष्टामित्याद्यर्थञ्च । तदेतत् तत्तद्धातुषु स्पष्टीभविष्यति । अधास्यत् । ‘ग्लै म्लै हर्षक्षये' धातुक्षयः इति ॥ बलक्षय इत्यर्थः । अनिटाविमौ । ग्लायतीति शपि आयादेशः । शिद्विषयत्वादात्त्वन्न । जग्लाविति ॥ गलि आत्त्वे 'आत औ णल:' इति औभावे वृद्धिरिति भावः । अतुसादौ द्वित्वे कृते आतो लोपः। जग्लतुः । जग्लुः । भारद्वाजनिय- मात्थलि वेडित्याह । जग्लिथ । जग्लाथेति ॥ इट्पक्षे आल्लोपः। जग्लथुः । जग्ल । जग्लौ। जग्लिव । जग्लिम । ग्लाता । ग्लास्यति । ग्लायपु । अग्लायत् । ग्लायेत् । आशीलिङ आत्त्वे कृते ग्ला यात् इति स्थिते । वाऽन्यस्य ॥ आर्धधातुक इत्यधि- कृतम् । “ऐलिङि' इत्यनुवर्तते । एरिति प्रथमान्तम् । 'आतो लोप इटि च' इत्यतः आत इत्यनुवर्तते कस्मादन्यस्येत्यपेक्षायां घुमास्थागापाजहातिसां हलीति प्रकृतत्वाल्ल- १४४ सिद्धान्तकौमुदीसहिता [भ्वादि घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्त्वं वा स्यादार्धधातुके किति लिङि । ग्लायात्-लेयात् । अग्लासीत् । म्लायति । ये ९०५ न्यक्करणे। न्यक्करणं तिरस्कारः। ९०६ स्वप्ने । धै ९०७ तृप्तौ । ध्यै ९०८ चिन्ता- याम् ।रै ९०९ शब्दे । स्त्यै ९१० ष्टयै ९११ शब्दसङ्घातयोः । स्त्या- यति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट-थासति अतिष्टयपदित्यत्र षत्वम् । ९१२ खेदने । १ ९१३ जै ९१४ । ९१५ क्षये । क्षायति जजौ । ससौ । साता । 'घुमास्था-' (सू २४६२) इत्यत्र 'विभाषा घ्राधेट-' (सू २३७६) इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य । खै षै भ्यते । तदाह । घुमास्थादेरित्यादिना । कितीति ॥ अनुदात्तोपदेशवनती- त्यत: तदनुवृत्तेरिति भावः । डितीति तु नानुवर्तते । लिडार्धधातुकस्य डित्त्वास- म्भवात् । अग्लासीदिति ॥ यमरमेत्यादन्तत्वात् सगिटौ । अग्लासिष्टाम् । अग्ला- सिषुरित्यादि। अग्लास्यत् । म्लायतीति ॥ ग्लैधातोरिव रूपाणीति भावः । चै न्य- करणे इति ॥ यकारमध्योऽयम् । इत आरभ्य ऐकारान्तानां संयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि । 'रै शब्दे' इत्यादीनान्तु असंयोगादीनाम् आशीर्लिङि 'वाऽन्य. स्य संयोगादेः' इत्येत्त्वं न भवति । रायादित्यादिरूपमिति विशेषः । स्त्यै ट्यै इति ॥ घोपदेशेषु स्त्याधातोः पर्युदासादाद्यो न षोपदेशः । द्वितीयस्तु षोपदेशः । तकारस्य ष्टुत्व- सम्पन्नटकारनिर्देशः । सत्वे कृते इति ॥ धात्वादेरिति षस्य सकारे सति निमित्तापायात् टुत्वनिवृत्तिरिति भावः । तिष्टयासतीति ॥ ष्ट्यैधातोः कृतसत्वात् सनि आत्त्वे स्त्या स इति सनन्ताल्लटि तिपि शपि 'सन्योः' इति द्वित्वे 'शपूर्वाः खयः' इति सकारयकार- निवृत्तौ तास्त्यासति इति स्थिते अभ्यासहूस्वे सन्यत इति इत्वे सकारस्य इणः परत्वादादेश- सकारत्वाच षत्वे तिष्ट्यासतीति रूपम् । स्वाभाविकसकारादित्वे त्वादेशसकारादित्वाभावात् षत्वं न स्यादिति भावः । अतिष्ट्यपदिति ॥ ट्यैधातोः कृतसत्वात् णौ आत्त्वे 'अर्तिही' इति पुकि स्त्यापि इति ण्यन्तात् लुङि अडागमे तिपि इतश्च इति इकारलोपे 'णिश्रिद्रुसुभ्यः' इति 'च्लेश्वडि' 'जेरनिटि' इति णिलोपे ‘णौ चङयुपधायाः' इति इस्वे 'चङि' इति स्त्यप् इत्यस्य द्वित्त्वे शपूर्वा इति सकारयकारपकाराणां निवृत्तौ सत्यां 'सन्यतः' इति इत्वे इणः परत्वादादेशसकार- त्वाच्च सस्य षत्वे तस्य टुत्वे अतिष्ट्यपदिति रूपम् । स्वाभाविकसकारत्वे त्वादेशसकारत्वा- भावात् षत्वन स्यादिति भावः । जजौ। ससाविति ॥ जैधातोः षैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः । ननु ‘एलिङि' इत्यत्र 'घुमास्थागापाजहातिसाम्' इत्यनुवृत्त्या सैधा- तोराशीर्लिङि सायादित्यत्र एत्त्वं स्यात् । तथा लुङि सगिटोः असासीत् असासिष्टामि- त्येव इष्यते । तत्र ‘विभाषा घ्राधेट्शाच्छामः' इति सिचः पाक्षिके लुकि असात् असाता- मित्यपि प्रसज्येतेत्यत आह । घुमास्थेत्यत्रेत्यादि । स्यतेरिति ॥ षो अन्तकर्मणि
VÂSAVADATTÂ
Edited with an exhaustive Commentary
BY
T. V. SREENIVASACHARIAR,
Senior Sanskrit Pandit, St. Joseph's College, Trichinopoly.
PRICE RUPEE 1-4.
Harsbacharitra sâra Sangraba,
BY THE SAME AUTHOR.
Price Annas Twelve (As. 12.)
Those who buy the “Vasavadatta' are given this at the reduced price of
Annas Eight (As. 8.)
N. B. Those who purchase: Vasavadatta are given
a copy of Hamsisandesa or Nakshatram alikasthava
gratis.
For copies apply to:-
T. V. SREENIVASACHARIAR,
Senior Sanskrit Landit,
ST. JOSEPH'S COLLEGE,
Trichinopoly.