Library
Shriigand-eshaathara~vashiira~ra~shha Sabhaashhyama~
Front matter
UNIVERSAL
LIBRARY
OU_184472
LIBRARY
UNIVERSAL
No text on this page.
OLP--13--30-1-71-400
OSMANLA UNIVERSITY LIBRARY
$294.53
Accession No.
winis 86
Call No.
5234 53
Author
Title
This book should be returned on or before the date lást marked below.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाः
श्रीगणेशाथर्वशीर्ष सभाष्यम्।
पण्डित वामनशास्त्री इसलामपुरकर इत्येतः
संभाधितम् ।
बी. ए. इत्युपपदधारिणा
विनायक गणेश आपटे
इत्यनन
पुण्याग्ख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरमुद्रयित्व!
प्रकाशितम् ।
शालिवाहनशकाब्दाः १८४२
खिस्तान्दाः १९१२
तृतीयं यमनाचिः ।
( अस्य सर्वेऽधिकार र शासनानुमारण स्वायत्ती कृताः )
मूल्यम् ०६ आणकाः।
No text on this page.
॥ ॐ नमः परमात्मने ॥ भो भोः सहृदया आर्यदेशीयप्राचीनविद्यावैभवमुररीकुर्वन्तो महाशया विदित. मस्तु तत्रभवतां भवताम् । यत्किल पुण्याख्यपत्तने देव्याः सरस्वत्या विलासस्थान- मिष बहुसाहसिकधनव्ययेन आनन्दाश्रम इत्याख्यं भवन निर्मापयता महोदयेन महादेव चिमणाजी आपटे इति सुगृहीतनामधेयेन न केवलं भारतवर्षीयाणामेव अपितु अखिलस्य जगतोऽप्यतीवोपकृतम् । तस्य च उद्देशादिकं पूर्वमेव विज्ञापनपत्रद्वारा सर्वान प्रत्यावेदितम् । बहुना परिश्रमेण संगृहीतानि संग्रहीष्यन्ते च बहूनि प्राचीनसंस्कृतप्रन्थ. पुस्तकानि । मुद्रायन्त्रमपि तत्रैव संस्थापितम् । अप्रसिद्धग्रन्थावल्या मुद्रणमप्यारन्धम् । क्रमशः प्रचयगमना भविष्यन्ति च बहवो प्रन्थाः ॥ तत्र तावत् "आनन्दाश्रमग्रन्थावल्याः" प्रारम्भे अस्य महतः कार्यस्य विघ्नवि- घातोपशमनार्थ गणपतिपृजनमिवेदं गणेशाशीपं सभाष्यं निवेशितम् । अस्य ग्रन्थस्य संशोधन पुण्यापत्तनस्थैर्बहुभिर्विद्वद्वरेरारभ्य निःसारमिदं भाष्यमिति कृत्वोपेक्षितम् । तदनन्तरं मत्सुहृद्वरेणाऽऽनन्दाश्रमाधिपतिनाऽभ्यर्थितेन कार्यान्तरव्याघृतत्वादलब्धबहुलावकाशेनापि मया श्लाघनीयस्यास्य लोकोपकारिकार्यस्य यथाशक्ति किमपि साहाय्यं कर्तव्यमिति कृवाऽस्य ग्रन्थस्य संशोधनं कथंकथमपि प्रारब्धम् । तत्र च पञ्च अादर्शपुस्तकान्युपल. ब्धानि । तानि यथा- क. संज्ञित-शालिवाहनशके १७३८ धातृनामसंवत्सरे मार्गबहुल ५ म्यां लिखितं महादेव चिमणाजी आपटे इत्येतैः संगृहीतमेकम् । ख. संज्ञितम्-इंदूरनिवासिभिः भाऊसाहेब किवे इत्येतैः प्रेपितम् । नास्योपरि शकादिकं किश्चित् । ग. संज्ञितम्-उम्बरगांवनिवासिभिः विनायक भिकाजी पिम्पटकर इत्यभिधैः प्रेषितम् । संवत् १९३८ वृपनामसंवत्सरे कार्तिक शु० द्विती- यायां लिखितम् । घ. संज्ञितं-बटोदरनिवासिभिः वाप्पासाहेब मराळ इत्येतैः प्रेषितं सक- हीनं च । ङ. संज्ञितं-चिंचवडनिवासिना चिंतामणभट्ट कोशे इत्येतेपामेकं शके १७९९ ईश्वरनाम संवत्सरे चैत्र शु० प्रतिपदि लिखितम् ।
[२] एतत्पुस्तकपञ्चकमाकलय्य यथामति यथाविज्ञानं संशोधितं मयेदं गणेशा. शीर्पभाष्यम् । सर्वेष्वप्यादर्शपुस्तकेषु भाष्यकर्तुनीमादिकं कुत्रापि नोपलब्धम् । अनेनैव भाष्यकृता सर्वसारनिर्णयाख्योऽन्यो ग्रन्थः कृत इति ज्ञायते [ अस्यैव २१ पृष्ठे २६ पतौ द्रष्टव्यमेतत् ] । सोऽस्माभिर्न दृष्टः । अत्र बहूनि प्रमादस्थलानीवोपलब्धानि । भाष्यमिदं नातिसमीचीनं तथाऽन्यस्य समीचीनस्योपलभ्यभावात्प्राचीनत्वाचेदभेव संग. हीतम् । अनतिसमीचीनोऽप्ययं- प्रेम्णा सद्भिग्रन्थः सेव्यः शब्दार्थतः सदोषोऽपि । संशोध्य वाऽपि हरिणा सुदाममुनिसतुपपृथुकमुष्टिरिव ॥१॥ मुद्रणकर्मणि नियुक्तानामनवधानेन च यत्र स्वलितं तत् गच्छतः सवनं न दोपाय" इति न्यायेन क्षन्तुमर्हन्ति मुधिय इति साअलिबन्धं प्रार्थयते- भवदीयो वामनशास्त्रिशर्मा।
ॐ तत्सद्ब्रह्मणे नमः। अथ गणेशाथर्वशीर्षम् । सभाष्यम्। प्रणम्य तं गणेशानं सिद्धिबुद्धिप्रदं परम् । अथर्वशीर्षमाप्यं वै कुर्वे वेदान्तबंहितम् ॥ १ ॥ अथाथर्वणो ब्रह्मणां ब्रह्मणश्च स्वस्त्रोपाधिविरहात्मैक्य ज्ञानप्राप्त्यर्थ गणे- शाथर्वशीर्षमवदत् । सर्ववेदोक्तकर्मोपासनेज्ञाननिष्ठनिर्विघ्नसिद्धिबुद्धिप्रकाशकत- तत्फलवेदान्तवेद्यैक्ययोगप्रदतत्त्वमस्यात्मकदेहत्वात् । तत्त्वमसिप्रतिपायब्रह्म- बाह्यान्तरकर्मज्ञानप्राप्त्यर्थोपास्योपासकत्वाभावाच्च । ननु--तत्त्वमस्यादिमहा- वाक्यानुभवयुक्ता योगिनो भवन्ति. किं गणेशोपासनेन ? सावयवब्रह्मण ए- कत्वाभावात्---इति चेन्न । महावाक्यप्रतिपाद्यब्रह्मसंदभेदात्मकत्वादध्यारोपा- पवादसिद्धयर्थ+ गणेशोपासनं मुख्यं, बाह्यान्तरानात्मभावनाशकत्वाच्च । ननु- ब्रह्मक्यभावचिन्तनादध्यारोपापवादसिद्धिर्भविष्यति । अभेदभावनायाभेदनाश- कत्वात्-इति चेन्न । ब्रह्मण ऐक्यभावचिन्तनाभावात् । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [ते. उ० २ । ४ । २८ ] इति श्रुतेः गणे- शचिन्तनस्य ५ संभवाच । " ब्रह्मणां ब्रह्मणस्पते " इति श्रुनिसार्थकत्वात् । * अब मूले चतुर्वप्यादर्शपुस्तकेषु · स्वस्वोपाधिविहारा मैक्य ० ' इति वर्तत तदसङ्गतमिव प्रतिभाति • उपाधिना क्रियते भेदरूपः' इत्यादिश्रुतिभ्यः ब्रह्मणां जीवानां, ब्रह्मणश्च उपाधिक- ल्पित एव भेदः वस्तुतस्त्वभेद एव । अतः जीवन मणोः स्वस्योपाधिभूतयोः विद्याविद्ययोः विरहेण भाग- त्यागलक्षणया पृथक्करणेन यदा मैक्यज्ञानं तस्य प्राप्त्यर्थमथर्वणा गणेशाथर्वशीर्षमवददित्येव साधीयः । स्वस्वोपाधिविहारेणात्मक्यज्ञानप्राप्तरसंभवात् तत्र प्रमाणाभावाच्चेति सुधिया विदाकुर्वन्तु । +" निष्कलं निष्कियं शान्तं " इत्युक्तत्वात् शुद्धस्य ब्रह्मणः " यतो वाचो निवर्तन्ते अप्राप्य मनसा सह '' इति श्रुत्या वाङमनसयारगोचास्य तस्योपासनं न घंटेत । अतः अध्यारो- पापवादाभ्यां निष्यपञ्चं प्रारुच्यते '' इति न्यायेन उपासनसिद्धयर्थं सगुणस्य गणेशत्वस्य तत्राऽऽरोप इति भावः । x बाह्याः पाञ्चभौतिकशरीरतादात्म्यादयः, आभ्यन्तराः अहं सुखी, अहं दुःखी भिनिवेशादयो यऽनात्मभावाः तेषां नाशकत्वादि यर्थः । - साकार वात् गणेशचिन्ननम्य संभव इल्यवधेयम् । १ ख. ननिष्ठ' । २ ग्व विद्यकयो । ३ क, ग्व. ग घ ङ.. ब्रह्मक । ४ ख , सदात्म ५ क. व. “दभावनाशक्त्वा चेन्न । ।
२ गणेशायवंशीपम् । अस्यायमर्थः : । ब्रह्मणामनप्राणादिप्रणवपर्यन्तानां शिवविष्ण्वादिदेवात्मकानां च पतिगणेशः । सोपाधित्वेन नानात्मकत्वात्सदासमानत्वाभावाब्रह्मणामिति बहुवचनम् । अन्यञ्च । ब्रह्मणो निरुपाधिसर्वकारणात्मनः पतिः। अनपवादनिर्वि. कल्पनात्मकत्वात् । एकवचनं जीवात्मपरमात्मनोरक्यत्वात् । तयोः पतिस्त- त्वमस्यात्मकत्वात् । ननु-ब्रह्मणः चिन्तनं संभवति, "श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः" [वृ० उ० ४।४।५] इति श्रुतेः इति चेत् । सत्यम् । तथाऽपि चित्त- वृत्तिनिरोधभावना सुदुर्लभा । सातत्येन ध्यातृध्यानध्येयाभावात् चित्तस्य च- अलत्वेन तत्स्थ भावाच्च । वस्तुतस्तु गणेशचिन्तनं सर्वसिद्धिप्रदम् । तत्त्व- मस्यात्मकत्वात्मुलभार्थतदथर्वशीर्षतात्पर्यात् । ननु--नानाकामप्रदं गणेशचि- न्तनं, सिद्धिप्रदत्वात्---इति चेन्न । ब्रह्मभावसिद्धिप्रदत्वात् । कर्मणव हि संसिद्धिमास्थिता जनकादयः" इति सिद्धानां कपिलो मुनिः" इति । भविष्ये व्यासेन शुकस्य पोशः कृतः " प्राप्स्यसे सिद्धिमत्तमाम् " इत्यादिना- नास्मृतिभ्यः । ननु--शिवचिन्तनं सर्वसिद्धिप्रदम । " ब्रह्माधिपतिब्रह्मणोऽधिपतिः" इति श्रुतेः-इति चेन्न । ईशानस्य विशेष्यत्वात् ब्राधिपत्यादिपदानां तदङ्गविशेष- णत्वात् । ननु -सर्वश्रेष्ठेशानब्रह्माधिपत्यादिपदानां विशेपणत्वमेव-इति चेन्न । ब्रह्मणः परश्रेष्ठाभावात् सर्वश्रुतिस्मृतिविरोधापत्तश्च । " ब्रह्माधिपतिब्रह्मणोऽ- विपतिब्रह्मा " इत्यस्यायमर्थः । तामसम्यांकागत्मकस्य विश्वेश्वरादिद्वादशाश- वावताराणामेकादशरुद्राणां कालभैरवादिशिवावताराणां च स्तवनं ब्रह्मात्मक- तया कृतम्, अंशांशिनारैक्यप्रतिपादनत्वात् । नेपां शिवावतारब्रह्मणामधिपति- रीशानः , तत्तद्रूपधारकत्वात् । अन्यच्च । सर्वावतारसत्तायाः पतिरीशानो ब्रह्म- णोऽधिपतिः । सत्तासदैकजानिमत्त्वादेकवचनम् । अन्यच्च । ब्रह्मा नानाव- वतारसत्तास्रष्टेशानः, विशेष्यात्मकत्वात् । ननु-गणेशोपि तादृश एव. विशेष्यात्मकत्वात्-इति चेन्न । ब्रह्म- णस्पतिविशेष्यत्वाद्गणपत्यादिपदविशेषणत्वाहीक्यभावप्रदब्रह्मणस्पत्याख्याया मुख्यत्वाच्च । ननु-ब्रह्मणस्पतेरपि ब्रह्मोपासना मुख्या. पतिभावनाशकत्वात् महावाक्यस्य ब्रह्मप्रतिपादकत्वाच्च । " प्रज्ञानं मन । सत्यं ज्ञानमनन्तं ब्रह्म । + अत्र सर्वष्यादर्श हस्तकेषु 'ब्रह्मभूतसिद्धि , इति प्रामादिकमिव प्रतिभाति । ‘ब्रह्मभूय- सिद्धि' रथवा 'ब्रह्मभावसिद्धि.' इत्येव सुवचम् । १ ख. °न भेद त्मकत्वात्स' । २ ख. क्यभावात् । ३ ख. 'त्वात् वाक्यव्यक्तादिसृष्टि- प्रपञ्चेषु । ४ क. ख. 'विशेष्येशानत्वात् ब्र' । ५ ख . 'शंषात्म' । ।
सभाष्यम् । سر तस्तु सः" इति सर्व खल्विदं ब्रह्म । अहं ब्रह्मास्मि । एकमेवाद्वितीयं ब्रह्म । अयमात्मा ब्रह्म" इत्यादिश्रुतिभ्यश्च-इति चेन्न । स्वस्वोपाधियुक्तब्रह्मणां सर्वकारणब्रह्मणश्चोपदे- शार्थ पतिपदं, तदाराधनोपाधिकारणभावनाशकत्वात् । पतिपदं न वास्तवम् । उपाधिहीनब्रह्मणां कारणहीनब्रह्मणश्च पतित्वाभावः, तदैक्यत्वात् । “ पतित्वं कथनात्मकम् " इति स्मृतेः । ननु वाह्याज्ञाननाशको गणेशः, अवयवयुक्तत्वात्-इति चेन्न । आन्त- राज्ञाननाशकोऽपि, बुद्धिपतित्वात् । अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः" इति सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायाम् " [तै० उ० २ अ० १] इत्यादिश्रुतिभ्यः, “ यो बुद्धेः पर- आत्मा बुद्धेः परो मतः" इत्यादिस्मृतिभ्यश्च । ननु-शिव- विष्णुसूर्यशक्तिचिन्तनं ब्रह्मभावप्रद, तत्तदथर्वशीर्षे तत्तह्मप्रतिपादकत्वात् -इति चेन्न । अव्याकृतप्रणवानन्दाद्युपासनवदारण्यकोक्तब्रह्मप्रतिपादक- त्वात् , गणेशाथर्वशीर्ष तत्त्वयस्यात्मकमहावावयप्रतिपाद्यब्रीक्यात् , महावा- क्यात्परं वेदान्ते ब्रह्मप्रतिपादनाभावाच । न चैवं-गजवदनाद्यवयवयुक्तगणेशस्य भिन्नतावच्छेदकावच्छेद्यतया ब्रह्मणि महावाक्यप्रतिपाद्य ऐक्याभावादतिव्याप्तिः । सदा कार्यकारणक्यव्र- ह्मणः सावयवगणेशेऽवच्छेदकावच्छेद्यहीनत्वादव्याप्तिश्च इति वाच्यम् । त्वं तदसिपदस्वस्वोपाधिविधारसामथ्र्यपदसंपूर्णतत्त्वमस्यात्मकदेहभद्गणेशोपासन- प्रयोजनत्वात् , अनन्तकल्पविहारशाश्वतसंतोषस्वस्वोपाधिनाशकगणेशोपी- सनप्रयोजनत्वात् , उपास्योपासकोपासनाया महदज्ञानना सकत्वात् . ब्रह्मण्युपा. स्यत्वाभावात् , सामान्यानुमानतया गणेशब्रह्मणोरक्यप्रतिपादकत्वाच । न चवं-ब्रह्मोपासनं वेदान्तविरुद्धम् , ब्रह्मभूतस्य उपास्योपासकत्वाभा- वात् । “ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इति श्रुतेः-इति वाच्यम् । गणेशोपासनया अज्ञाननाशं कृत्वा ततो योगिनः लोकसंग्रहार्थ गाणेशत्वात् , देहरक्षणार्थ भोजनाच्छादनवत् कायिकवाचिकमानसिकसांसर्गिकगाणेशधर्म- त्वाचति दिक । अथ प्रकृतमनुसरामः । ॐ नमस्ते गणपतये। अथर्वणः स्वानुभवज्ञानं जगढद्धारार्थमवदन् । सुलभकर्मोपासनज्ञानयोग- स्वस्वोपाधिविहार ' इत्यनन शिव विष्वाधाकाररूपापाधि भः लालकिवल्याम- त्यथाऽवगन्तव्यः । १ ग. ब. 'पास्या द्यभा । २ ग. 4. ब्रह्मेति उपामनं। ३ ग. घ. °सकामा' ।
४ गणेशाथर्वशीर्षम् । प्राप्तिकारकत्वात् । ॐ इति मङ्गलाचरणार्थम् * । ग्रन्थादौ मङ्गलाचरणस्य शि- ष्टसंप्रदायप्रवर्तकत्वात् । वेदाय ॐकारः सर्वमङ्गलमयो, वेदोक्तनानाकर्मोपा- सनज्ञानयोगफलप्राप्तिकारकत्वाच्च । “यो वेदादौ स्वरः प्रोक्तः" इति श्रुतेः । स्वर इत्योंकाराख्या छान्दोग्येx | " तस्याऽऽदिस्मरणावश्यत्वात् " इति । न चैवं-सर्वश्रुतिस्मृतिपुराणेतिहासप्रोक्तं सर्वारम्भेष्वादी गणेशपूजनं निरर्थकम् अत्रोंकारस्मरणात् इति वाच्यम् । सगुणगणेशस्योंकारमयत्वात् तदेव कथ्यते मौद्गल । गणेशस्यादिपूजनं चतुर्विधम् , चतुर्मूर्तिधारकत्वात् । तत्र ब्रह्मणश्चतु. भ्र्यो मुखेभ्यः पुराणं निःसृतं अष्टलक्षपरिमितम् । ततो द्वापरान्ते व्यासे- नाष्टादशपुराणान्युपपुराणानि च कृतानि कलिमन्दमतिजनबोधप्रवेशार्थम् । तत्र अष्टादशपुराणेष्वाद्यं ब्राहां निर्गुणगणेशमाहात्म्ययुक्तं, बुद्धिपरात्मप्रति- पादकत्वात् । अन्त्यं ब्रह्माण्डाख्यं सगुणगणेशमाहात्म्ययुक्तं , प्रणवप्रतिपाद- कत्वात् । तद्वदुपपुराणेष्वाचं गाणेशं सगुणनिगुणैक्यभावयुक्तं, गजवदना- द्यवयवमूर्तिधरमाहात्म्ययुक्तत्वात् । अन्त्यं मौद्गलं योगमयं गणेशमाहात्म्य- युक्तं , सर्वपुराणोपनिपौक्यभावप्रदत्वात् । पुराणोपपुराणेषु मध्यस्थपोडश पुराणानि शिवविष्ण्वादिगणेशांशमाहात्म्ययुक्तानि । मध्ये नानांशविहारप्रति- पादकत्वात् । तत्र सर्वदायुक्तं सदारम्भे गणेशस्मरणं चतुर्विधम् , आद्यन्तपु- * अत्र सर्वेऽवादर्शपुस्तकेषु आकारस्य मङ्गलाचरणार्थत्वमुक्तं तन युक्तमिति प्रतिभाति यद्यपि “मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि पथन्ते' इत्यादि वचनैः निष्प्रत्यू- हपरिसमाप्तये ग्रन्थादी मङ्गलाचरणस्य शिष्टसंप्रदायप्रवर्तकत्वं रपष्टं तथाऽपि मङ्गलाचरणत्य विघ्न- विधातनिवारणार्थमेवानुष्ठेयत्वात् अपौरुषेयेषु स्वत एव मङ्गलरूपेषु वेदेषु विनविघातशङ्काया असंभ- वात् अत्र ओंकारस्य मङ्गलाचरणार्थत्वं न युक्तम् । पौरुषेयेष्वेव प्रत्यूहशङ्का, न पुनरपौरुषेयेषु । अत- स्तत्रैव मङ्गलाचरणत्य शिष्टसंपदायः । न हि केषुचिदिकग्रन्थेषु मङ्गलाचरणमनुष्ठितं दृष्टम् । किंच । सर्वकर्मसु आदी निर्विशतासिद्ध्यर्थं स्मरणीयस्य गणेशस्यायथर्वशीर्षारम्भे प्रत्यूहनिवारणार्थ मङ्गला चरणस्याऽऽवश्यकत्वे तस्यापि निर्षिन्नतासिद्ध्यर्थमन्यत् तस्याप्यन्यदित्यनवस्था केन वार्येत । तस्मा- त्सुष्टूक्तमत्र ओंकारस्य मङ्गलार्थत्वनति । अथ तस्य कोऽर्थ इति चेत् शणु । "ओमित्येतद्ब्रह्म" इति श्रुतेः “ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । इति स्मृतेश्च भगवता भाष्यकृता “ओमित्येतदक्षरं परमात्मनोऽभिधानं नदिष्ठम् । तस्मिन् हि प्रयुज्यमाने स प्रसी दति प्रियनामग्रहण इव लोकः इत्युक्तत्वात् “तस्य वाचक: प्रणवः” इति श्रुतेश्च ओंकारस्य ब्रह्मणः वाचक-वं सिद्धमत ओंकारशब्दवाच्यं ब्रह्मैव गणेश इति वक्तुं प्रथममोंकारस्योपदेश इत्येव व्याख्यानं युक्तम् । नचैवं सति ओंकारस्य आरम्भार्थकत्वं कुतो न स्वीक्रियत ? इति वाच्यम् । “अन- न्ता वै वेदाः" इत्यादिश्रुतिविरोधात् । अनाद्यनन्तस्य वेदस्यारम्भादिकल्पनाया असंभवादित्यलं पल्लवितेन। x छान्दोग्योपनिषदि तृतीयाध्यायस्य तृतीयखण्डे " स्वरइतीममाचक्षते" इत्यादौ द्रष्टव्यमेतत् । १ क. ड. °क्तसृष्टय रम्भे । . " सभाष्यम् । . राणोपपुराणेषु गणेशमाहात्म्यप्रकाशकत्वात् । तत्र केचिदादौ बुद्धिस्थगणे- शस्मरणं कृत्वा सत्कर्माणि कुर्वन्ति । तद्वत्पणवस्मरणं केचित् , केचिन्मूर्तिध- रस्मरणं, केचिद्योगमयस्मरणं च, तत्तत्सिद्धिप्रदत्वात् । तत्र कथ्यते- अष्टादशपुराणेषु दशभिर्गीयते शिवः । चतुर्भिर्गीयते विष्णुाभ्यां शक्तिश्च विघ्नपः " ॥ इति स्मृतेः । ननु-उपपुराणेषु महावाक्यप्रतिपाद्यगणेशवर्णनमयुक्तम् । उप- वेदवत्कनिष्ठसंज्ञामयत्वात्-इति चेन्न । तत्रोपपदस्य श्रेष्ठत्वप्रतिपादकत्वात् । इन्द्रोपेन्द्रनिदर्शनत्वात् , उपदेशप्रकरणादौ कनिष्ठान्तश्रेष्ठत्वप्रतिपादकत्वात् , पूर्वमीमांसोत्तरमीमांसावदरण्यवद्हणत्वाच्च । तथाच गणेशगीतायाम्- अष्टादशपुराणोक्तममृतं प्राशितं मया । ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् "॥ इत्यादिस्मृतिभ्यः । देवादिगणानां महत्त वादितत्त्वगणानां निर्गुणसगुणब्रह्मगणानां च पतिर्ग- णपतिः । सर्वादिपूज्यसर्वपूज्यत्वात् । गण्समूहे इति धात्वर्थात् । नचैवं-अशुभ- कारम्भे गणेशपूजनं न दृष्टम् । प्राणप्रयाणसमयपितृयज्ञादावप्रसिद्धत्वात्-इति वाच्यम् । गयास्थगणेशपादस्य पितृमुक्तिप्रदत्वात् , वेदोक्तसत्कारम्भे पितृय- ज्ञसिद्धिप्रदत्वात् , वेदोक्तपितृयज्ञारम्भे गणेशपूजननिषेधाभावात् , तद्वत्प्राणप्रया- णसमये कथितत्वाच । “ज्येष्ठराजम्" इति श्रुतेः पितॄणामपि ज्येष्ठत्वात् । तथा च गाणेशे त्रिपुरवधकाले शिववाक्यं- शैवस्त्वदीयरुत वैष्णवैश्व शाक्तश्च सौरैरपि सर्वकार्ये । शुभाशुभे लौकिकवैदिके च त्वमर्चनीयः प्रथमं प्रयत्नात्" । इति । गणेशगीतायामपि- यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयाऽन्वितः। स यात्यपुनरावृत्ति प्रसादान्मम भूभुज" ॥ " ॐ गणेशो वै ब्रह्म । तद्विद्याद्यदिदं किंच । सर्व भूतं भव्यं जायमानं च । तत्सर्वमित्याचक्षते । अस्मान्नातः परं किंचित् । यो वेद स वेद ब्रह्म । ब्रह्मैवाऽऽग्नोति तत्सर्वमित्याचक्षते " उप ' पदसहित इन्द्रः उपेन्द्र विष्णुः । स यथा उयोपस सहितेन्द्रशब्दवाच्योऽपि इन्द्रादुत्तमः, तथा उपपुराणं पु !णादुत्तमः मिति वधार्थः । वस्तु-स्तु उपेन्द्रः इत्यत्र उगेपसर्गस्य सामीप्यार्थत्वात् अन्यत्र कुवापि तस्योत्तमार्थाभिधायित्वपदर्श भावादिदं व्याख्यानमगंगतमेवेति प्रतिभाति । * ६ गणेशाथर्वशीर्षम् । “ ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह " तद्गणेश" इति तत्परमित्याह यमेतेनाप्नुवन्ति" इति गणेशतापिनी श्रुतेः । तथाचोक्तं मौद्गले- गणशब्दः समूहस्य वाचकः परिकीर्तितः समूहा योगरूपाश्च बाह्यान्तरक्यभावतः ॥ अन्नानां सकलानां वै समूहेऽन्नमयं परम् । कथितं ब्रह्म वेदे तदेवं नानागणाः स्मृताः ॥ तेषां स्वामी गणेशानस्तं ज्ञात्वा योगिनः पुरा । शान्ति प्राप्ता विशेपेण योगशान्तिमयं परम" ॥ इति । अन्यच्च- "कथितं सामवेदे यच्छृणु वेदरहस्यकम । येन त्वं शान्तिसंयुक्तो भविष्यसि न संशयः ॥ मनोवाणीमयं सर्व दृश्यादृश्यस्वरूपकम ! गकारात्मकमेवं तत्तत्र ब्रह्म गकारकः॥ मनोवाणीविहीनं च संयोगायोगसंस्थितम् । णकारात्मकरूपं तण्णकारस्तत्र संस्थितः ॥ विविधानि गकाराच्च प्रसूतानि महामते । ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः॥ णकाराच्च प्रसूनानि ब्रमाणि तानि योगिभिः । निरोधात्मकरूपाणि कषितानि समन्ततः ।। गकारश्च णकारश्च नानि गणपतेः स्थिती। तदा जानीहि यो योगिन् ब्रह्माकारों श्रुतेर्मरवात् ।। तयोः स्वामी गणेशश्च योगरूपेण संस्थितः । तं भज व विधानेन शान्तिमार्गेण पुत्रक ते तुभ्यं नमः । तत्त्वमस्यात्मकब्रह्मनमस्कारसमत्वात् ब्रह्मनमस्कारासंभ. वाचोते नाममन्त्रोऽयमादी वर्णितः । सर्वजनोद्धारसुलभत्वात् ।। ननु-गणेशनमनेन जनस्य कृतकृत्यता कथं ? सावयवत्वात् । तदर्थं महावाक्यप्रतिपाद्यतामाह- त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमिति । त्वमेवेति नान्यः निश्चयार्थ एक्कारः । प्रत्यक्षमिति । ब्रह्म दृष्टि- गोचरम् । नरगजभेदाभिन्नाकृतिमयत्वात् । तेन च महान् हर्षः, साक्षाब्रह्मदर्श- १ क. ख. ग. ब. ङ. या वादेव' । २ क. ख. म. ङ. 'भेदाकृ' । ३ क. ख. ग. ध. ह. °न म°। ॥
७ यन्न सभाष्यम् । नाभावत् । तत्त्वमसीति । जगत्कारणं तत्पदसंज्ञम् । निर्विकल्पकत्वात् । सन्मूलमन्विच्छ सन्मूलाः सौन्येमाः सर्वाः प्रजाः सदायतनाः सत्पतिष्ठाः " [छा० उ० ६।६] इति श्रुतेः । " भूमानं भगवो विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा " [छा० [छा० उ० ७। २४ ] इति । " ब्रह्मवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चो. त्तरेणेति । स यथा सैन्धवधनोऽनन्तरो बाह्यः कृत्स्ना रसघन एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव" [वृ० उ० ६।५।१३ ] इति श्रुतिभ्यः । सत्यं ज्ञानमनन्तमानन्दं ब्रह्म" । सत्यमविनाशि- नामदेशकालवस्तुनिमित्तेषु विनश्यत्सु विनश्यति तदविनाशि सत्यमित्युच्यते । ज्ञानमित्युत्पत्तिविनाशरहितं चैतन्यं ज्ञानमित्यभिधी- यते । अनन्तं नाम मृद्विकारेषु मृदिव, सुवर्णविकारेषु सुवर्णमिव. तन्तुकार्येषु तन्तुरिवाव्यक्तादिसष्टिप्रपश्चेषु सर्वव्यापकं चतन्यं अनन्तमित्युच्यते । आ. नन्दो नाम सुखचैतन्यस्वरूपापरिमितानन्दसमुद्रे अविशिष्टसुखरूपश्च आनन्द इत्युच्यते । एतद्वस्तुचतुष्टयं यस्य स्वरूपलक्षणं देशकालवस्तुनिमित्तेष्वव्य- भिचारि स तत्पदार्थः। परमात्मा परं ब्रह्मेत्युच्यते " इति सारांपनिपच्छतेः जगन्मयं त्वंपदसंझं, नानाभेदप्रकाशकत्वात् । " अमित्येतदक्षरमुद्गीथमुपासीत । अमित्युद्गायति । तस्योपव्याख्यानम् । एपां भूतानां पृथिवी रसः । पृथिव्या आपो रसः । अपामो- पधयो रसः । ओषधीनां पुरुपो रसः । पुरुषस्य वाक् रसः । वाच ऋक् रसः। ऋचः साम रसः । तस्योद्गीथो रसः । स स एप रसानासतमः । परमः परा- र्योऽष्टमो यदुद्गीथः ३ । कतमा कतमा ऋक् ! कतमत् कतमन्साम ? कतमः कतम उद्गीथ ? इति विमृष्टं भवति ४ । वागेव ऋक । प्राणः साम । अमित्येत- दक्षरमद्गीथः । तद्वा एतन्मिथुनं ओमिति । यद्वाक च प्राणश्चर्चा च साम च । तदेतन्मिथुनमोमित्येतदस्मिन्नारे ससृज्यते । यदा व मिथुनी समागच्छत आपयतो व तावन्योन्यम्य कामम् " ६ । [छा० उ० ३ । १] यथा लोके मिथुनौ यदा समागच्छतस्तदापयतः कामं तथा तदुपासकस्त- धर्मो भवति । आपयिता ह वै कामाना तं यथायथोपासते तदेव भवतीति । "त्रयं वा इदं नामरूपं कर्म" [वृ० उ० ३ । ६ । १ ] | तदेतदमृतरसत्येन छन्नं । प्राणो वा अमृतं । नामरूपे सत्यं । ताभ्यामयं प्राणश्छन्नः"[वृ० उ० ३। ६।३] * अत्र 'जगन्मयं त्वंपदसंज्ञ, नानाभेदरकाशकत्वात्' इत्युका "ओमित्येतदक्षरमुद्गीथम्।" इत्याद्याः श्रुतय उदाहृताः । परं न जानीमः प्रकृते तासां के प योग ? इति ।
गणेशायर्वशीर्षम् । “यथोर्णनाभिस्तन्तुनाचरेत् । स यथाऽनः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्ये- वमेवास्मादात्मनः सर्वे पाणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि * सर्व एव आत्मानो व्युच्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं । तेषामेष सत्यम् " [बृ. उ० ४।१।२०] । “अथ यत्रान्यत्पश्यत्यन्यद्विजानाति बदल्पमिति"। मनआदिश्च प्राणादिश्च सत्त्वादिश्च इच्छादिश्च पुण्यादिश्चैते पञ्च वर्गा इत्येषां पश्चानां वर्गाणां धर्मीभूतात्मज्ञानादृते न विनश्यत्यात्मसंनिधौ नित्यत्वेन प्रती- यमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते । नत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते । ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमेवमाविर्भाव तिरोभावहीनः स्वयंज्योतिः स साक्षीत्युच्यते । ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्रा. णिबुद्धिष्वविशिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते कूटस्थाद्युपहित्तभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूत- त्वेन यदा प्रकाशत आत्मा तदाऽन्तर्यामीत्युच्यते । सर्वोपाधिविनिर्मुक्तः सुवर्णधन- वद्विज्ञानघनश्चिन्मात्रस्वभाव आत्मा यदाऽवभासते तदा त्वंपदार्थः प्रत्यगात्मेत्यु- च्यत इति श्रुतिभ्यः । त्वंपदतत्पदयोरभेदेऽसिपदं, सोपाधिनिरुपाधिही- नसदात्मत्वात् । " भूय एव मा भगवान्विज्ञापयतु यदै मनसा ध्यायति स तद्वाचा वदति । स य एपोऽणिमा एतदात्ममिदसर्व तत्सत्य ५ स आत्मा । तत्त्वमास श्वेतकेतो" [छा० उ० ६ । ८ ] । इति क्रमेण नवधोपदेशस्त- त्वमस्यात्मकमहावाक्यस्य ग्रन्थबाहुल्यभयान लिख्यत इति । त्वंपदार्थादौपाधिकात्तत्पदार्थादोपाधिकाद्विलक्षण आकाशवत्सूक्ष्म एव केव- लसत्तामात्रोऽसिपदार्थः । “ स्वयंज्योतिरात्मेत्युच्यते । त्वंपदार्थतत्पदार्थसाम्यं आत्मेत्युच्यते " इत्यादिश्रुतिभ्यः । अधुना तत्त्वमस्यात्मकगणेशस्वरूपं वर्ण्यते । त्वमेव प्रत्यक्षं तत्त्वमसीति मूलवाक्यप्रतिपादनार्थत्वात् । त्वंपदार्थो नरात्मकस्तत्पदार्थो गजात्मकश्च तयोरभेदेसिपदार्थो गणेशाकृतिमयः । प्रत्यक्षं तत्त्वमसीति प्रत्यक्षवाक्य- प्रामाण्यात् । तद्यथा । नरः प्रणवात्मकः । सोपाविब्रह्मात्मकत्वात् । स एव त्वंपदार्थः। प्रणवपरसोपाध्यभावात् । ओमित्येकाक्षरं ब्रह्मेदं सर्व तस्योपव्याख्यानं सर्व भूतं भव्यं भविष्यदिति सर्वमोंकार एव" इति श्रुतेः । सोपाधिकः स्यात्सर्वत्र " इति स्मृतेः । ' सर्व एघ आत्माने । इत्येतत्कलिकातामुदिनबृहदारण्यकपुस्तके नास्ति । १ ग. °ति गणेशतापिन्यां श्रु।
सभाष्यम् । जन्माद्यस्य यतः" आपो नारा इति प्रोक्ता आपो वै नरसूनवः इति श्रुतेः । अबुपलक्षितानि पञ्च भूतानि ग्राह्याणि । वेदभाष्ये शंकरा- चार्यवचनात् । “ नराजातानि तत्त्वानि " इति स्मृतेः । प्रणवात्तत्त्वोत्पत्तिः । सर्वशास्त्रसंमतत्वात् । नारायणोपनिपदि नारायणनामार्थप्रतिपादने नराज्जाता नाराः ता एवायनं यस्येति नारायणः । प्रणवमयत्वात् । प्रणवोपासकसंन्या- सिनां नारायणसंज्ञात्मकत्वात् । .' दण्डग्रहणमात्रेण नरो नारायणो भवेत् "। इति स्मृतेः । गाणेशे- " यस्मादोंकारसंभूतियतो वेदा यतो जगत् " | इति स्मृतेः । त्वंपदार्थो नरात्मकः । तदैवयसत्तामयत्वात् । अथ गजन- ब्दार्थः कथ्यते । तत्पदैक्यसत्ताप्रतिपादनार्थत्वात् । समाधिना योगिनो यत्र गच्छन्तीति गः । यस्माद्विम्वप्रतिविम्बवत्तया प्रणवात्मकं जगजायत इति जः। गश्चासौ जश्च गजः । विश्वकारणत्वात् । [अ०१ पा० १ सू० २] इति व्याससूत्रात् । यस्मादोंकारसंभूतियतो वेदा यतो जगत इति गाणेशात् । न चैवं-विपरीतो गजपदार्थ आदी लयः पश्चात्सृष्टिः गकारजकारमयत्वान् इति वाच्यम् । आदावेव समाधिना योगिनो यत्र गच्छन्तीति फलं दर्शयित्वा स्वानुकूलं शिष्यं कृत्वा पश्चात्तत्स्वरूपद- शनार्थं तस्मात्सृष्टिरुक्ता शिष्यवोधार्थम् । न चैवं-अन्नं ब्रह्म गजशब्दाख्यं, अन्नं ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्लिमानि भूतानि जायन्ते " [तै० उ० अ० ३ अ० २ ० ३६ ] इतिश्रुतिप्रतिपादितब्रह्मणामपि सर्व- भूतोत्पत्तिलयकारकत्वात्-इति वाच्यम् । प्राणब्रह्मणि अन्नस्योत्पत्तिलयदर्श- नात् । तद्वन्नानारण्यकप्रतिपादितब्रह्मणामप्युत्पत्तिलयकथनान्महावाक्यप्रतिपा- द्यब्रह्मजगत्कारणनिगुणकसंभवत्वात् , तस्मात्परकारणाभावाच्च । तदेव गणे- शतापिन्याम्- अप्राप्यं चापाप्यं च, अज्ञेयं चाज्ञेयं च, विकल्पासहिष्णु तत्स- शक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे” इति श्रुतेः । अस्यायमर्थः । अप्रा- प्यं चाप्राप्यं मनोगतिशून्यं यद्यत्प्राप्यते तत्तन्मनोगनियुक्तत्वात् । अत्र वीप्सा हि आग्रहप्रदर्शिनी । कदापि प्राप्यत्वाभावात् । अज्ञेयं चाज्ञेयं वाण्या च वक्तु- मशक्यं वाण्याऽकथितम् , मनोध्येयत्वात् । पूर्ववद्वीप्सा ज्ञातव्यति । विकल्पा- १ क ख ग. व. इ. थत्वात् । २ १० गणेशायशपम् । . १ सहिष्णु विकल्प शून्यम् , निर्गुणत्वात् । तत्सशक्तिकं, निरुपाधिमायायुक्तत्वात् । "त्वंपदार्थादोपाधिकात्तत्पदार्थादोषाधिकात्" इति श्रुतेस्तत्पदार्थसशक्तिकात्म- कत्वसंभवात् । गजवक्त्रं तत्पदार्थभयगणेशवक्त्रमात्रत्वाइज इब वक्त्रमिति व्युत्पत्तिसंभवाच्च । गजाकारं जगत् ओंकारात्मक जगत्सोपाधि ब्रह्म जगन्म- यत्वात् । तदेव गणेशतापिन्यां- लतयोमिति ध्वनिरभूत्तत्स वै गजाकार अनिर्वचनीया सेन माया जगद्वी जमित्याह । सैव प्रकृतिरिति गणेश इति प्रधान मिति च मायाशवलमिति च " इति श्रुतेः । गजाकारोंकारप्रतिपादनातदेव जग- न्मयत्वाशिम्बप्रतिविम्बवद्गजशब्दायब्रह्मणो गजाकारोंकारोत्पत्तिदर्शनाद्ज- स्याऽऽकार इवाऽऽकारो यस्येति व्युत्पत्तिसंभवात्साक्षागजमयाभावात् गजाकार- श्रुतिप्रतिपादनाच्च । एवावरुन्धे गजाकारं जगधन्वनमादौ यदाधारं मध्येऽन्ते यन्मयमित्यर्थः, अवरोधनार्थलं भवात् । इति गजशब्दाख्यतत्पदार्थक्यप्रतिपा- दनं, श्रुतिप्रमाणत्वात् । नरमजयोरभेदेऽसिपदात्मको गणेशदेहः । संपूर्णस्तत्त्व मस्यात्मकः. प्रत्यक्षमधुनाऽपि सावयवत्वात् । सोश्निरस्त्वंपदार्यात्मको गणेश- देहः, पादादिष्टपर्यन्तं नरा तिमयगणेशदेहदात् । सोपाधिनिकृष्टत्वादधमाङ्ग- मित्यर्थः । निरुपाधिजस्तल्पदानिमको गणशदेहः, कण्ठादिमस्तकपर्यन्तगजा- कृतिमयगणेशदेहत्त्वान् । निम्याधिसस्कृिष्टत्वादुत्तमाङ्गमित्यर्थः । तयोोंगेऽ. सिपदार्थमयो गणेशदेहः, संपूर्णपादादिमस्तकपर्यन्तप्रतिपाइनत्वात् । ब्रह्मगणे- शयोरभेदः कृतः तत्रातिब्दात्यच्यातिदोषासंभवः, सामान्यानुमानभवात् । तद्वत्सर्वदोपनिराकारणमामादन अन्य सर्वत्र दोषासंभवात् । अत्र सिद्धि- बुद्धियुक्तोऽपि प्रतिपादितः । पञ्चचित्तवृतिमयी बुद्धिस्त विधादादिमोहनदा सिद्धिः, “ योगश्चित्तवृत्तिनिरोधः” [पा० १ सू० २ ] इति पानजलसूत्रात् । एवं संपूर्णतत्त्वमस्वात्मकं गणेशं प्रतिपाद्य अधुना त्वंपदतन्पदासिपदाभि- नभावशोधनार्थ ग्रन्थारम्भः क्रियते । तत्र त्वंपदशोधनार्थमाह- त्वमेव केवलं कर्ताऽसि । त्वमिति । त्वमेव तत्त्वमसिमयः सन् त्वंपदार्थव्यवहारसत्तामधारकः, प्रणवांशमयत्वात् । केवलं कर्ताऽसि । केवलं यथातथाऽव्यक्तादिस्थूलदेहपर्यन्तं जगन्निर्माणकारकः, ओंकारातत्त्वोत्पत्तिदर्शनात् । तथापि तद्भावशून्यो बिम्ब- प्रतिविम्बबदोंकारमयः, केवलपदग्रहणात् । तद्वत्- १ क ग व ड'हत्वात् ।
सभाप्यम् । त्वमेव केवलं धर्ताऽसि । जगत्पालकोऽसि, नामरूपकर्मभेदतया स्वस्वकर्मानुसाराकृतिभोगप्रदत्वात् । तद्वत्- खमेव केवलं हर्ताऽसि । प्राकृतलयप्रवर्तकत्वात् । एवं त्वंपदार्थ केवलमिति पदेन तनुपाधिहीनतया शोधयित्वा तत्पदार्थशो- धनार्थमाह त्वमेव सवं खल्विदं ब्रह्मासि । सन तत्पदार्थव्यवहार सत्ताधारकः . नशेषाधिवर्जितांशमयत्वात् । सर्व खल्विदं ब्रह्मासीति । सर्वमिदनाकारण जगत् बलु नानोपाधिसंशयहीनम् । त्वमिति त्वमेव तत्वमसिनमः, २.देव प्रक्यभावप्रतिपादनस्यात् । ब्रह्मासि तत्पदार्थमयत्वात् । “सर्व खल्विदं ब्रा । तज्जलानिति शान्त उपासीत" इति श्रुतेः । अत्र शान्त उपासीननि लपवाधिधावानात्व ब्रह्मक्यभावप्रतिपादन- त्वात् । तत्पदायप्रतिपादकमिदं महाकाव्यं. तजलानिति सर्वधारणप्रतिपाद. कत्वात् । एवं तन्पदार्थ ब्रह्मासीति वचनसामाच्छोधशित्वाऽसिपदशोधनार्थमाह- त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥ त्वमिति । साक्षादात्माऽसि नित्यमिनि कार्यकारणवयभावत्वादात्मनः सातत्य- गमनं नित्यम् , सर्वाभेदमयत्वात् । न्दंपदार्थात्मा. तदाभिन्नत्वात् । तत्पदार्थात्मा, तदमिन्नत्वात् । एवं यद्यन्मनोवाणीयं तदीनं च तत्र तत्तभिन्नतया तदात्मा तदाऽपि तत्तदुपाधिभावहीनत्यानित्यमिति पदं न कार्य न कारणम् , आत्मनि सर्वाख्याभावात् ।। इति अधिदेवतप्रतिपादकः प्रथमः खण्डः ॥ १ ॥ एवं त्वंपदार्थ तत्पदाथमलिपदार्थं च शोधायिन्या तत्तपदार्थमयं गणेशं प्रतिपाद्य एतत्प्रयाणार्थ स्थमनिता प्रदर्शयनार- ऋतं वच्मि । सत्यं वच्मि ॥ २ ॥ ऋतमिति । तमन्नान्मकारभावाभियान शून्यं, यथार्थगणेशभक्त्यभिमान- हीनभाषणत्वात् यथावेदानुभवप्रतिपादनलाच । इति कथयाति । सत्य- मिति । सदा देशकालवस्तुनिमित्तषु विनश्यल्स यदनिनाशि तत्सत्यं १२ गणेशाथर्वशीर्षम् । सर्वबाधहीनत्वात् । शिवविष्ण्वादिनानाब्रह्मप्रतिपादनात्मकदेहेषु गणेशदेहः संपूर्णब्रह्मैक्यभावभयः , महावाक्यमयनरगजाभेदाकृतिधारकत्वात् । इदं सत्य- मविनाशीति वच्मि कथयामि ॥ इति स्वप्रतिज्ञात्मको द्वितीयः खण्डः ।। २ ॥ एवं स्वप्रतिज्ञां सत्यभापणात्मिकां प्रदर्य ऋतसत्यभापिणं गणेशो रक्षति सदा, यथार्थस्वभक्तिलुब्धत्वात् तदधीनो भवति । तदेव प्रकटयन्नाह- अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अब पंश्चातात । अब पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अब चोर्धात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥ अवेति । त्वं साक्षात्प्रत्यक्षं तत्त्वमस्यात्मकः, अतो मामव । ऋतसत्यभा- पिणं धर्मार्थकाममोक्षब्रह्मभावाथिनं मां नानाविघ्नसमुदायाद्रक्षेति म्वप्रति- ज्ञापालको भव. भक्ताधीनत्वात् । अवेति । अत्र अव त्वं माम् अव वक्तारम् इत्यादिपदेष्वसंधिरापः । एवं सर्वत्र ज्ञातव्यम् । वेदेच्छायाः प्रमाणत्वात् । वक्तारं मां त्वद्रूपप्रतिपादकं तदनुष्ठानफलवक्तारं च यथार्थप्रदो भव. मदीयकृ- तफलश्रुतिभोगप्रदत्वात् । श्रोतारं मां मत्कृताथर्वशीर्षादित्वत्स्तुतियथार्थपाठ- कनानाजनपरीक्षार्थं तच्छवणकतारमव, यथार्थश्रोतृप्रियत्वात् । दातारं अथर्व- शीर्षादित्ववपासनदातारं मामव . यथाऽथर्वशीपपरंपरासंप्रदायप्रवर्तकप्रिय- त्वात् । धातारं त्वप्रियकर्मोपासनज्ञानयोगसाधनस्रष्टारं मामव , यथार्थसाधन- प्रियत्वात् । अनूचानं त्वत्प्रियान्यर्पियोक्तमार्गभक्तं कदाचित् भ्रान्ततया संश- ययुक्तं तत्संशयनाशकारकं मामव , स्वभक्तभ्रान्तिनाशकप्रियत्वात् । शिप्यम् , मदद्धिस्थेन त्वयोपदिष्टत्वात् । ज्ञानशिक्षाशीलं मामव, स्वशिष्यप्रियत्वात् । पश्चात्तात् त्वद्भक्तिशीलनाशकनानाविनेभ्यो मत्पृष्ठभागदिकस्थितेभ्यो मामव, स्वभक्ताज्ञातविघ्ननाशकत्वात् । तद्वत्पुरम्ताद्विघ्नेभ्यो मामव इति तद्वदुत्तरदक्षि- गोवाधरा ज्ञातव्याः । दशदिग्रक्षणप्रार्थनाप्रतिपादकन्वादकार्थः । सर्वतो विदि- गान्तरवाह्यादिनानास्थानस्थितविघ्नेभ्यो मां पाहि पाहि । आदराद्वीप्सा । सम- न्ताहह्माण्डान्तरगतभयात्पाहीति भावः ॥ इति तृतीयः खण्डः ॥ ३ ॥ १ ख० पुस्तके — पश्चात् ' मूले पाठान्तरं दृश्यते परं नैतत्साधु । २ सर्वेष्वादर्शपुस्तषुकेषु भूतार्थित ' इति वर्तते तत्यामादिकमवति प्रतिभाति ।
सभाष्यम् । १३ " एवं ऋतसत्यशीलरक्षणात्मकप्रार्थनां विधाय हृदिस्थं बुद्धिपरबुद्धिचालक नानासिद्धिप्रदायकं च गणेशं प्रार्थयन्नाह- त्वं वाङ्मयस्त्वं चिन्मयस्त्वमानन्दमयस्त्वं ब्रह्ममयस्त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञा- नमयो विज्ञानमयोऽसि ॥ ४ ॥ त्वमिति । अत्र “सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन्" [ तै० व० २ अ० १] इतिमहावाक्यप्रतिपादकश्रुत्यर्थं प्रतिपादयति । निहितं गुहायामिति, हृयवस्थितब्रह्मत्वात् । वाङ्मयः, वाणीकथितनामरूपमय- त्वात् । “ एपां पृथिवी रसः। पृथिव्या आपोऽपामोपधयस्तासां पुरुषस्तस्य वाक् " इति श्रुतेः । त्वं चिन्मयः, नामरूपाहंकृतियुक्तो जीवः. तद्भोगकृतत्वात् । एव इह प्रविष्ट आनखाग्रेभ्यो यथाऽक्षुरः क्षुरेऽवहितः स्याद्विश्वंभरो वा विश्वं- भरकुलाये । तं न पश्यत्यकृत्स्नो हि सः । प्राणमेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकै- कमुपास्ते न स वेदाकृत्स्नो ह्येपोऽत एककेन भवति आत्मेत्येवोपासीत । अत्र ह्येते सर्व एकं भवति तदेतत्पदनीयमस्य सर्वस्य यदयमान्माऽनेन ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेवं कीर्ति श्लोकं विन्दते य एवं वंद" इति “ तत्सृष्वा तदेवानु- प्राविशत्" इत्यादिश्रुतिभ्यः न्वमान दमयवाङ्मयप्रकृतिमयचिन्मय पुरुपम- यस्ताभ्यां सृष्ट आनन्दः सुपुप्त्यवस्थात्मकस्त्वन्मयः. पञ्चकोशवीजत्वात् । आनन्दो ब्रह्मेति व्यजानात्" [त० व० ३ अ०६] इति श्रुतः । त्वं ब्रह्म मयः, वाङ्मयचिन्मयानन्दमयक्यात्मकत्वात् सदा सत्यपदात्मकत्वाच्च । एतेषां समुदायार्थैक्यभावप्रतिपादनार्थवान्महावाक्यात्मकमाह-त्वं सच्चिदानन्दाद्वि- तीयोऽसि इति । सत् प्रकृतिभावदोपहीनत्वात्, चित् चैतन्यात्मकत्वात्, आनन्द आसमन्ताभ्यवस्थानन्दात्मकत्वात्, अद्वितीयः सच्चिदानन्दभेदशून्यत्वादिति । इदं महावाक्यं गौणं पोडशमहावाक्यप्रामाण्यात् । चत्वरि महावाक्यानि मुख्यानि, तत्त्वमस्यादीनि केवलयोगप्रतिपादनवेदान्तसीमाभूतन्वात् । अ- नन्तं ब्रह्मेति प्रतिपादयन्नाह । त्वमिति । देहलीदीपन्यायवत्सत्यज्ञानोभया- भेदमयमुभयप्रकाशकतन्मध्यप्रतिपादनन्वात् । त्वं प्रत्यक्षं ब्रह्मासि, चि- न्तामणिनामा, चित्तप्रकाशकत्वात् । प्रत्यक्षं हृद्यस्थितं त्वां पश्यामीति स्वानु- १ ख, ग, घ, ङ, दायिन च । २ घ. ङ. भवन्ति ।
१४ गणेशाथर्वशीर्षम् । भवप्रदर्शनात् । 'चिति स्मृती" इति धातुपाठात् । . इदितो नुम्" इति पाणिनिसूत्राचिन्तायां स्मृत्यां मणिरिव तत्प्रकाशकः । सर्वहृयवस्थितं ब्रह्म त्वमेवेति भावः । एवं सत्यं ब्रह्म गुहायां निहितं प्रतिपादितम् । " द्वे वाव ब्र- ह्मणो रूपे मूर्त चैवामूर्त च मत्थं चामृतं च स्थितं च यच्च सञ्च त्यञ्च " इति श्रुतेः। "सच त्यञ्च तयोर्योगे सत्त्यं ब्रहर" इति श्रुतेश्च । एवं ज्ञानं ब्रह्मेति प्रतिपादय- नाह । त्वं ज्ञानमयः । सचिदानन्दाद्वितीयात्मकसत्य ब्रह्मणोऽभिन्नः सदा निर्वि- कल्पात्मकत्वात्सदेकमयत्वात्सत्य ब्रह्मणि सच्चिदानन्दाद्वितीयेषु स्वस्वरूपज्ञान- प्रदत्वात् । ‘ज्ञा' अवबोधन इति धातुपाठात्स्वयं सर्वज्ञः, स्वस्य ज्ञात्रभावात् । ज्ञानेन ज्ञायते सर्व ज्ञान केन न ज्ञायते ज्ञानात्वरज्ञानायावादिति । विज्ञानमयोऽसि सर्व. ज्ञभावं त्यक्त्या स्वमहिनि स्थितोऽसि. केवल हान ब्रह्ममयन्वात् । न हि विज्ञातु- विज्ञातेविपरिलोपो विद्यते. अविनाशिल्वात् । “न तत्र सूर्यो भाति न चन्द्रता- रकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति" इनि श्रुनेः । अनन्तं ब्रह्म । सत्यज्ञानक्या-मकमात्यस्वरूपं हृदि तत्त्वमस्यात्मकार्थप्रतिपादकमहामाश्यात्मत्यं, त्वंपदाथर्मयत्वात् तज्ज्ञानं तत्पदार्थमयत्वादनन्तमभिपदार्थमयतिनिधपदार्थक्यात्मकब्रह्मप्रतिपादनार्थत्वात्। निहितं गुहायां गुहा बुद्धिमतस्यां निहिनम् , हृयवस्थितबुद्धिपतित्वात् । पञ्च- चित्तव्यापारपंधिपादसमभावयुक्तननन्यापारसिद्धिप्रदसिद्धिपतित्वागणेशो हृद्य- वस्थितः । “ सत्यं ज्ञानमनन्तं ब्रह्म" इति श्रुन्यनुभवक्यात्मगणेशन्वात् । परमे व्योमन्निति दहरोपासनार्थ तदेव कथ्यते । “अथ यदिदमम्मिन्ब्रह्मपुरे दहरं पुण्ड. रीकं वेश्म दरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम् । तद्वाय विनिज्ञा- सितव्यं स ब्रूयाद्यावान्या अधमाकाशम्नावानेपोऽन्नईदय आकाश उभे अ- स्मिन्यावापृथिवी अन्तरेव समाहिने । एप आत्मा अपडतपाप्मा विजरो विमृत्यु- विशोको विनिधन्साऽपिपालः सत्यकामः सत्यसंकल्पः स वा अयं पुरुषः सवा- सु पूर्षु पुरिशयः” इत्यादिश्रुतिभ्यः स्वयाकाशस्थितत्वात् । अत्र त्वं प्रत्यक्ष ब्रह्मासीति प्रतिपादनात् हृयवस्थितगणेशो ग्रायः । प्रत्यक्षं तत्त्वमसीनि प्रथम प्रतिपाद्य पुनः प्रत्यक्षं ब्रह्मासीति पुनरुक्तिनिवारणत्वात् । न चएवं सहमादि- वर्णनं पूर्णब्रह्मप्रतिपादक “ सदेव सोन्येदमग्र आसीत् " इत्यादिश्रुतिमामा- ण्यात् इति वाच्यम् । प्रत्यक्षं तत्वमतीत्यत्र गगटप्रत्ययाभावात्संपूर्ण ब्रह्मात्र प्रतिपाद्य पुनस्त्वं वामयादिमयटनन्याययुक्त त्यागीणब्रह्मवर्णनमव मयट्ठीनयु- क्तप्रतिपादनन्वात् ॥ इत्यध्यात्मप्रतिपादकश्चतुर्थः खण्डः ॥ ४ ॥ १६. त्सकम । २ ख० ग० ६० ८ ० 'त् शान । ३ ग • इ . स्वब्रह्मा ।
समाप्यम् । - - एवं हृयवस्थितं गणेशं प्रतिपाद्याच्याकृतब्रह्मात्मकं प्रतिपादयन्नाह सर्व जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्यत्तस्तिष्ठ- ति । सर्व जगदिदं त्वयि लयमेष्यति । स जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नमः । त्वं चत्वारि वामदानि ॥ ५ ॥ सर्वमिति । सर्वं जगदिदं त्वत्तो जायन इनि । त्वत्तोऽव्याकृनात्मन इदं जग- ज्जायते । व्यवस्थामयव्याकृतत्वात् । तदवोंकागन्यकगणेशप्रतिपादनत्वात् । गणेशतापिन्याम् । " ततश्वामिति ध्वनिग्भूत् स वै गजाकारोऽनिर्वचनीया संव माया जगदीजमित्याह । सैव प्रकृतिरिनि गणना इति प्रधानमिति च मायाशव- लमिति च" इति श्रुतेः । “आमित्येकाक्षरं ब्रह्मेदं सर्व ब्रह्म” इति श्रुतेः । गाणशे पार्वत्या तपः कृतं तस्य वरदानार्थमागतो गणेशश्चांकारान्मकः नटूपधा- रकत्वात् । तद्यथा- · मध्ये नारायणमुग्यो दक्षिण च शिवाननः । वामे ब्रह्ममुखोऽनन्ते पहासनगतो विभुः" इति स्मृतेः । ब्रह्मविष्णुरुद्रान्मानोऽकाकारमकाराः. कण्ठाधनदक्यभावमयत्वात् । शिवेन शिरच्छेदः कृतः शक्तिपुत्रस्य, जीवात्मकन्वान गणेशाविर्भावहीनत्वाच । सत्र पुनर्गजमस्तकमानीय सजीवकरण ब्रह्मविष्णुमहशरोकारवाहनं यदा कृतं नदा गणेशाविर्भावदर्शनात् । देवीभागवत यवं वनस्वागणेशस्य ओंकार जगदा- त्मकत्वात् । शिवपुराणेऽपि गणेशावतारवर्णन आवाहनदर्शनाच्छिक्यप्रतिपाद- नपुराणप्रतिज्ञारक्षणाञ्च । न चवं शिवविष्ण्वादय ओकारात्मकास्ततमाहात्म्य- श्रुतिस्मृतिप्रतिपादनत्वादिति वाच्यम् । तामससास्विकादिस्वबैकगुणामयदेहम- चुरत्वात् । सर्वसारनिर्णयग्रन्थे मया प्रतिपादितमत्र न लिख्यते, ग्रन्यवाहुल्यम- यात् । तद्वन्सर्वं जगदिदं त्वत्तस्तिष्ठति. स्वस्वकर्मानुकूलपालनभावधारकन्यात् । तद्वत्पलये त्वाय लयमेष्यति, कल्पान्तमयत्वात् । तद्वत्सर्वं जगदिदं त्वयि प्रत्ये- ति, प्राकृतलये गुणसान्यमयत्वात् । त्वय्येत्य सदेव अग्र आसीत् । इति श्रुतिप्रामाण्यात् । त्वं भूमिरापोऽनलोऽनिलो नभः, स्थूलसूक्ष्मसमपश्चभूतमय- प्रणवत्वात् । अस्यात्मन आकाशः संभूतः" इति श्रुतेः । प्रणवविशिष्टात्मनः पञ्चभूतोत्पत्तिप्रतिपादनत्वात् । त्वं चत्वारि वाक्पदानि । परापश्यन्तीमध्यमा १२, ग. प. उ. समिति । २ ख. ग. ध इ. पर्णित आ'।
१६ गणेशाथर्वशीर्षम् । वैखर्यश्चतस्रो वाचस्त्वच्छाससंभवधर्माधर्म समज्ञानबोधमयत्वात् । “ स यथाऽऽर्दै- न्धनाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्व- सितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनि- पदः श्लोकाः सूत्राण्यनुव्याख्यातान्यस्यैवैतानि सर्वाणि निःश्वसितानि" इति श्रुतेः प्रणवनिःश्वासमयवेदादित्वात् । आंकारप्रभवा वेदाः” इति स्मृतेः ।। इत्यधिदेवतवर्णनात्मकः पञ्चमः खण्डः ॥ ५ ॥ एवमव्याकृतमयं गणेशं प्रतिपाद्य सर्वजनमूलाधारस्थिति प्रतिपादयन्नाह- त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म अर्भुवःस्वरोम् ॥ ६ ॥ त्वमिति । त्वं गुणत्रयातीतनानाजनदेहमूलाधारः स्थितः संस्त्रिगुणदोप- प्रवृत्तिप्रकाशाज्ञानवर्जितो लिङ्गचक्रस्थराजसनाभिचक्रस्थसात्त्विकदृक्चक्रस्थ- तामसभावहीनत्वात्रिगुणमूलाधारमयः, प्रणवमयत्वात् । त्वमवस्थात्रयातीतः जाग्रत्स्वमसुषुप्त्यवस्थाभावहीनत्वात् । त्वं देहत्रयातीतः, स्थूलसूक्ष्मानन्ददेह- षड्भावहीनत्वात् । त्वं कालत्रयातीतः, उत्पत्तिस्थितिलयकालावहीनत्वात् । त्वं मूलधारस्थितोऽसि नित्यम् । गुदचक्रं प्रणवमयं तत्र स्थितः, सर्वचक्र- मूलाधारमयत्वात् । मूलधारसंज्ञाख्यं. सदाखण्डस्वानन्दघनत्वात् । नित्यं, त्रिगु- णभाववर्जितत्वाच्च । त्वं शक्तित्रयात्मकः । जगदुत्पत्तिस्थितिलयत्रिविधश- तयाधारात्मकत्वात् । त्वां योगिनो ध्यायन्ति नित्यम् । स्वात्मानन्दब्रह्मक्यं समाधिना कृत्वा जीवन्मुक्ततया देहप्रारब्धभोगप्रतीक्षका योगिनस्त्रगुण्या- त्मकं त्वां नित्यममृतात्मकत्वाद्ध्यायन्ति, स्वदेहमूलाधारचक्रस्थध्यानमुलभ- त्वात् । त्वं ब्रह्मा जगत्सृष्टिनिर्माणकर्ता, रजोविशिष्टप्रवणत्वात् । त्वं विष्णु- जगत्पालकः, सत्त्वविशिष्टत्वात् । त्वं रुद्रो जगत्संहारकः, तमोविशिष्टत्वात् , त्वमिन्द्रस्त्रिभुवनश्वर्यभोक्ता, परमैश्वर्यविशिष्टत्वात् । त्वमग्निः सर्वयज्ञभोक्ता, , १ ख. ग. घ ङ. °क हृञ्चक। २ क ख ग घ ङ. 'त्मानं ।
इत्यध्यात्मप्रकाशक: सभाष्यम् । १७ सर्वदेवमुखतृप्तिकारकविशिष्टत्वात्। त्वं वायुः सर्वप्राणभूतः, सर्वजनप्राणप्रवेशस्था- पनोत्क्रमणविशिष्टत्वात् । त्वं सूर्य उदयास्तदिवसरात्रिप्रकाशकः, सर्वजनकर्म- प्रवर्तकविशिष्टत्वात् । त्वं चन्द्रमाः सर्वोपधिजीवनात्मकः, जगदन्नमयविशिष्ट- त्वात् । ब्रह्मादिचन्द्रपर्यन्तानामष्टानां स्वस्वव्यापारप्रवर्तकान्मकः। श्रुतयो न लिख्यन्ते, सर्वप्रसिद्धत्वात । एतदन्तर्गतदेवदेवेश्वरा ज्ञातव्या अष्टविशिष्टगणेश. प्रतिपादनत्वाद्विचारतदन्तर्गतसंभवाच्च । त्वं ब्रह्म सर्वजनवुद्धिस्थजीवमयः, नानास्वभावप्रकृतिभोक्तृविशिष्टत्वात् । भूः भूलॊकस्त्वमेव, तद्विशिष्टत्वात् । भुवः भुवलॊकस्त्वमेव, तद्विशिष्टत्वात् । स्वः स्वलॊकस्त्वमेव, तद्विशिष्टत्वात् । ॐ प्रणवस्त्वमेव, सर्वमूलाधारचक्रस्थितविश्वचालकत्वात् ॥ षष्ठः खण्डः ॥६॥ एवं साधिदेवताध्यान्मप्रकारयुक्ततत्त्वमस्यात्मकं प्रणवात्मकं च गणेशं प्रति- पाद्य तदनुभवप्रकाशकगणेशविद्यां प्रकटयचाह- गणादिं पूर्वमुच्चार्य वर्णादीस्तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । तारेण रुद्धम् । एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् । नादः संधानम् । महिता संधिः । सैषा गणेशविद्या । गणक ऋषिः । निवृद्गायत्री छन्दः । गणपतिर्देवता । ॐ गं ॥ ७ ॥ गणादिमिति । पूर्व प्रथमं गणादिं गकारं गणशब्दादिभूतत्वात् । उच्चार्य स्वमुखेनोच्चारणं कृत्वेति । तदनन्तरं वर्णादिः । वर्णा *अक्षराणि नदादिग्का- रः, तस्य आदी कथितत्वात् । तस्मादकारात्परनरोऽनुम्बारः । गकार आदिस्त- स्मात्परोऽकारस्तस्मात्परोऽनुस्वारः परतरः । कीदृशोऽनुस्वारः अर्धेन्दुलसितः, सानुनासिकत्वात् । एवमेकाक्षरमन्त्रात्मिकां विद्या प्रतिपाद्य सशक्तिकमन्त्रं प्र- * अब ‘वर्णा अक्षरसादादिरकारोकारादिवर्णकथिन्यात् ' इति मर्वष्वादर्श गुस्तकेषु दृश्यते तत्यामादिकमिति प्रतिभात । ग. श्चान्तरू। ३ १८ गणेशग्यवंशीपम् । कटयनाह-तारेणेति । तारेण प्रणवेन *ऋद्धं युक्तम् । प्रणवयुक्तकाक्षरमन्त्र- त्वात् । तत्राऽऽदौ प्रणवमुच्चार्य पश्चादेकाक्षरोच्चारणम् । “ आदो प्रकृतिमुच्चार्य पश्चात्पुरुप उच्यते" इति स्मृतेः । रुद्रयामले एकाक्षरगणेशकवचे मन्त्रोद्धारः कृतः । तत्र प्रणवस्य शक्तित्वप्रतिपादनात् । तद्यथा-"गं वीजं शक्तिरों कारः सर्वकामार्थसिद्धये" । इति । सन गणेशस्य मनुस्वरूपं मन्त्रस्वरूपमेतत् , सर्वसिद्धिप्रदगणेशानुभवप्रकाशकसाम युक्तत्वात् । एवं ' गणादिं पूर्वमुच्चार्य इत्यादि 'तारेण ऋद्धम् ' इत्यन्तेन संकेतश्रुनिवाक्यप्रतिपादितमन्नं जना न ज्ञास्यन्ति, मन्दबुद्धित्वात् । तदर्थ स्वयमेव सुलभतया तदेवाऽऽह-गकार इति । पूर्वरूपं आदिप्रोक्तरूपं गकारः, मध्यमरूपमकारः, अन्त्यरूपमनुस्वारः, उत्त- ररूपमनुस्वारोत्तररूपं विन्दुः, सानुनासिकात्मकन्वान् । तारशब्दस्तु न वर्ण्यते, स्फुटत्वात् । एतेपां भिन्नानां गकारादिचतुर्णां संधानमकीकर- णसाधनं नादः, नादप्रेरितकभावोच्चारणयोग्यसामर्थ्यात् । एतेपां नादप्रेरिता- नां संधिः संमीलनं संहिता, यथाक्रमोच्चारणयोग्यसामर्थ्यात् । या 'गणादि पूर्वमुच्चार्य ' इत्यादि ‘तारेण ऋद्धम् ' इन्यन्तेन पूर्व प्रतिपादिना सैपाऽ- धुना — गकारः पूर्वरूपम् ' इत्यादि ‘संहिता संधिः' इत्यन्तेन प्रतिपादित- त्वात् गणेशविद्या गणेशज्ञानप्रदा, मन्त्रात्मकगणेशमूर्तिमयजपस्य गणेशसंतु- ष्टिकारकत्वात् । विद् झाने इति धातुसामर्थ्यात् एकाक्षरमन्त्रस्तत्त्वमस्यात्मक- गणेशमयः प्रतिपादितः । यन्त्रस्थमन्त्रपूजनस्य सर्वसिद्धिप्रदत्वान्मन्त्रमयमूर्तेः सर्वशास्त्रप्रतिपादितत्वाच्च । तत्रोंकारयुक्त ओंकारशक्तिविहारजगन्मयप्रतिपादि. तत्वात् पूर्वोक्ततत्त्वमस्यात्मकोंकारात्मकद्विविधसामर्थ्ययुक्तत्वं मन्त्रस्य प्रति. पादितम् , तदुपासनस्य प्रत्यक्षगणेशसमत्वात् । गणक ऋषिः । अत्रादिन्या- सा मन्त्रशास्त्रोक्ता ग्राह्याः, तस्य वेदोपाङ्गत्यात् । तद्यथा-ॐ अस्यैकाक्षरगणप- तिमन्त्रस्य, गणक ऋषिः, निगायत्री छन्दः, गणपतिर्देवता, गं बीजम् , शक्तिः, गणपतिप्रीत्यर्थे सकलाभीष्टसिद्धयर्थं च जपे विनियोगः । गणकऋषये नमः शिरसि । निगायत्रीछन्दसे नमो मुखे । गणपतिदेवतायै नमो हृदये । गंवीजाय नमो गुह्ये । ॐ शक्तये नमः पादयोः। अथ पडङ्गन्यासः । ॐ गाम् अङ्गुष्ठाभ्यां नमः । ॐ गी तर्जनीभ्यां नमः । ॐ गं मध्यमाभ्यां नमः । ॐ गम अनामिकाभ्यां नमः । ॐ गौ कनिष्ठिकाभ्यां नमः । गः करतलकरपृष्ठाभ्यां - * अत्र सर्वचापि सद्धम् ' इति इदानींतनानां कषांचित वैदिकानां पाठः । अर्थस्त्येक एव । १ ग. ड. तिक्त्वा ।
सभाप्यमा १९ - नमः । एवं हृदयादिन्यासः कर्तव्य इति । वक्ष्यमाणं ध्यानं कृत्वा मानसैः पञ्चोपचारैः पूजयेत् । तद्यथा-ॐ लं पृथिव्यात्मने गणेशाय गन्धं *समप. यामि । ॐ हम् आकाशात्मने गणेशाय पुष्पं स० । ॐ यं वाय्वात्मने गणेशाय धूपं स० । ॐ रं *तेजात्मने गणेशाय दीपं स० । ॐ वम् अमृतात्मने गणेशाय नैवेद्यं समर्पयामि । इति पञ्चभूतवीजात्मकपञ्चोपचारार्पणं मानसी पूजा कथ्यत इति संक्षेपः । सर्व मन्त्रशास्त्रोक्तविधिवत्कार्यम् , शीघ्रसिद्धिप्रदत्वात् ।। इति गणेशविद्यात्मकार्थप्रतिपादकः सप्तमः खण्डः ॥ ७ ॥ एवं गणेशविद्या प्रतिपाद्य गणेशगायत्रीमन्त्रं प्रकटयम्माह- एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥ ८ ॥ एकदन्तायेति । एकदन्ताय एकशब्दाख्या माया । दन्त शब्दाख्यो मायि- कः तयोर्योग एकदन्तः तस्मै । विद्महे जानीमहे । सदा सर्वप्रदत्वात् । तदेव मौद्गले- एकशब्दात्मिका माया तस्याः सर्व समुद्भवम् । भ्रान्तिदं मोहदं पूर्ण नानावलात्मकं किल ।। दन्तः सत्ताधरस्तत्र मायाचालक उच्यते । विम्वेन मोहयुक्तश्च स्वयं स्वानन्दगो भवेत् ॥ माया भ्रान्तिमयी प्रोक्ता सत्ता चालक उच्यते । तयोोंगे गणेशोऽयमेकदन्तः प्रकीर्तितः ॥” इति ॥ वक्रतुण्डाय । जगत्सर्वजनसाधारणं, मनोवाणीमयत्वात् । तस्माद्वक्रमात्म- रूपं मनोवाणीहीनत्वात्तदेव मुखं यस्य स वक्रतुण्डो जगन्मयंकण्ठाध आत्मा- त्मकमस्तकत्वात्तस्मै । तद्यथा मौद्गले- * अत्र कल्पयामीति युक्तमिति प्रतिभाति । समर्पणं । प्रत्यक्षतया अर्यमाणस्योपचारस्यैव भवति न मानसस्य अतः कल्पयामीत्येव युक्तम् । अन्यत्रापि मानसपूजायां “स्ट पृथिव्यात्मने गन्ध कल्पयामि इति दृश्यते ॥ इति दिक । * अब तेजआत्मने ' इति पाठः साधीयानिति भाति । १ ग. ॐ ‘सं सर्वात्मने गणेशाय सर्वोपचारान् ताम्बूल दहिणां मन्यदुष्पं समर्पयामि ' इति अधिकम् ; ड. सर्वोपचारनिति न.स्ति. २. ग. म. ङ. पण त्या मान' ३ क. स. ग. घ. ड. दन्ति: प ४ ख. न्मयः क २० गणेशाथर्वशीर्षम् । " बिम्बं मायायुतं वक्रं माहितं सिद्धिबुद्धिगम् । सद्भावं हन्ति तुण्डेन तेनायं वक्रतुण्डकः ।। माया मुखं मोहयुतं तम्माद्वक्रमिति स्मृतम् । परं ब्रह्म तयोोंगे वक्रतुण्डोऽयमुच्यते ॥ कण्ठाधो मायया युक्तो मस्तकं ब्रह्मवाचकम् । वक्राख्यं तस्य विप्रेश तेनायं वक्रतुण्डकः ॥” इति ॥ धीमहि ध्यायेम इति । तन्नो दन्ती प्रचोदयात् । तद्ब्रह्मात्मको दन्ती द- न्तोऽस्यास्तीति सर्वसत्तात्मकत्वात् । स्वभक्त्यै प्रचोदयात् प्रेरयतु, बुद्धिपति- त्वात् । अयं गायत्रीमन्त्रोऽपि सर्वसिद्धिप्रदायकः । गणेशः गायकं त्रायतीति व्युत्पत्तिबलात् ।। इति गायत्रीमन्त्रप्रतिपादनात्मकोऽष्टमः खण्डः ॥ ८ ॥ एवमादो नाममन्त्रं मध्य एकाक्षरमन्त्रमन्ते गायत्रीमन्त्रं च इति त्रिविधं मन्त्रं प्रतिपाद्य तद्धयानार्थमाह- एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । ग्दं च वरदं हस्तर्षित्राणं मूषकध्वजम् ॥ रक्तं लश्योदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिपाङ्गं रक्तपुष्पः सुपूजितम् ॥ भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आवितं च सृष्ट्यादा प्रकृतेः पुरुषात्परम् ।। एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥ एकदन्तमिनि । एकदन्तं पूर्वोक्तार्थात्मकदक्षिणदन्तयुक्तस् । " भग्न वामरदै" इति स्मृतेः । चतुहम्नं, चतुर्भुज युक्तत्वात् । " स्वर्गेपु देवताश्चायं पृथ्व्यां नरांस्तथाऽतले । असुरान्नागमुख्यांश्च स्थापयिष्यति बालकः ।। तत्त्वानि चालयन्विप्रास्तस्मान्नाम्ना चतुर्भुजः । चतुर्णा विविधानां च स्थापकोऽयं प्रकीर्तितः " इति स्मृतेः । दक्षिणोर्ध्वहस्तादारभ्य दक्षिणाधोहस्तपर्यन्तं पाशाङ्कुशदन्त- घरदानि धारयति, स्वभक्तरक्षणार्थत्वात् । ॥ १ ख. ग. प. ङ. ध्यायामः। २ क. ख. ग. घ. ङ. त्मकं । ३ ख. दं. ।
सभाज्यम् । २१ " पाशं मोहमयं तस्य स्वभक्तमोहनाशनम् । नियन्त्राख्यं तथा ब्रह्म अशश्च महात्मनः ॥ दुष्टनाशकरं ब्रह्म दन्तः सर्वारिनाशकृत् । वरं सकामिकानां च कामदं ब्रह्म तत्स्मृतम् " ॥ इति स्मृतेः । मूषकध्वजम् । सर्वान्तर्यामी सर्वजन्तुहृद्गतः सन् सर्वजन्तुकृद्भो- गभोक्ता चोरो जन्त्वज्ञातसर्वस्वहारकत्वात् जन्तुकृतपापपुण्यविवर्जितत्वात् (च)। स एव गणेशसेवार्थ मूपको बभूव । मुप स्तेये इति धात्वर्थात् । तद्यथा-- मूपकं व्यापकाख्यं च पश्यन्ति वाहनं परम् । तेन मूपकवाहोऽयं वेदपु कथितोऽभवत् ।। मुपस्तये तथा धातुज्ञातव्यस्नेयब्रह्मधक् । नामरूपात्मकं सर्व तत्रामब्रह्म वर्तते ।। नामरूपेषु ये भोगास्तेषां भोक्तृतया स्थितः । भोगेषु भागभोक्ता च ब्रह्माकारेण वर्तते ।। अहंकारयुतास्तं वै न जानन्ति विमोहिताः । वयं भाक्तार एवं त मानयन्ति विशेषतः ।। ईश्वरः सर्वभोक्ता च चोरवत्तत्र संस्थितः । तदेवं मूषकः प्रोक्तो मनुजानां प्रचालकः ।। मायया गूढरूपः स भोगान्भुते हि चोरवत् " ॥ इति स्मृतिभ्यः। रक्तम् , रक्तवर्णशरीरन्वात् । लन्बोदरम् , म्बोदरे सर्वस्यापि प्रतिष्ठितत्वात् , स्वस्य न कस्याप्युदरस्थन्वात , म्बोदरोद्भवसर्वजगत्त्वात् , स्वस्य न कस्याप्युदरभवत्वाच । तथा च- " लम्बोदराऽयमेकश्च वेदे संकथितोऽभवत् । न वयं तादृशा बदे लम्बोदरप्रवाचकाः ।। तस्योदगत्समुत्पन्नं नानाविध्वं न संशयः । नानाब्रह्म तथेशश्च अन्ते तत्र स्थितोऽभवत् ।। मध्ये कलांशरूपेण क्रीडत गणनायकः । अतः सर्वादिपूज्यश्च सर्वपूज्यो वधूव ह ।। सर्वेषां जनको माता तथा सर्वप्रदायकः । तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पती॥ इति स्मृतिभ्यः । शूर्पकर्णकम् । गणेशो योगिमुग्योद्गतजनकर्णमार्गहृद्गतः सन् शूर्पवत्पापपुण्यरजो दूरी करोति ब्रह्मप्राप्तिकारकत्वात् । तद्यथा- २२ गणेशाथर्वशीर्षम् । रजोयुक्तं यथा धान्यं रजाहीनं करोति च । शूर्प सर्वनराणां वै योग्यं भोजनकाम्यया ॥ तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते । त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सन्दरि ॥ शूर्पकर्ण समानित्य त्यक्त्वा मलविकारकम् । ब्रह्मैव नरजातिस्थो भवेत्तेन तथा स्मृतः ॥ तेनायं शूर्पकर्णश्च वेदेषु कथितोऽभवत् । तं भजस्व विधानेन शान्तियुक्ता भविष्यसि " ॥ स्मृतिभ्यः । रक्तवाससम् , सदा रक्तवस्त्रभियत्वात् । रक्तगन्धानुलि- साङ्ग रक्तपुष्पैः सुपूजितमिति, रक्तवर्णप्रियत्वात् । मौद्गले पश्चवर्णवरप्रदो गणेशो बभूव । तत्र रक्तरङ्गेण पुनस्तपः कृत्वा रक्तरङ्गप्रियः सदा कृतः, स्ववरदान- रक्षणार्थत्वात् रक्तवर्णप्रिय इति । भक्तानुकम्पिनम् । तत्र भक्तिर्गणेशैकतत्परा इहलोकपरलोकविषयेच्छाहीनात्मिका, कायिकवाचिकमानसिकसांसर्गिकतदे- करसयुक्तत्वात् । उद्यथा संक्षेपतः- " इत्येवं नवधा भक्ती रसयुक्ता कृता मयि । क्षणमात्रं न सहते चित्तं मद्रसवर्जितम् ।। सेदा संपूर्णभक्तश्च जातो वै नात्र संशयः । अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा ॥ इति स्मृतेः । देवम् , सर्वत्र तत्तद्रूषेण क्रीडाकारकत्वात् । दिवु क्रीडायाम् इति धात्वर्थात् । जगत्कारणमनादित्वात्सर्वधूज्यादिपूज्यत्वात् । “ ज्येष्ठराजम्” इति श्रुतेस्तज्ज्येष्ठाभावात् । न चवं नानावेदशाखापाठेपु कुत्रान्यदेवो ज्येष्ठराजस्तत्प- रज्येष्ठाभावादिति वाच्यम्,सर्वपूज्यादिपूज्यगणेशान्यहीनत्वात्,ज्येष्ठादिपूज्यसर्व- पूज्यसंप्रदायदर्शनात् अन्यत्र लिङ्गन्दैवतवगौणत्वाच्च । अच्युतम् , स्वानन्दवा- सित्वात्कैलासवैकुण्टादिलोकगुणमयनाशात्मकत्वाच्च । सर्वसारनिर्णयग्रन्थे मया लोकनिर्णये कथितमत्र न लिख्यते,ग्रन्थबाहुल्यभयात् । आवितं च सृष्टयादौ प्रकृतेः पुरुषात्परम् । प्रकृतिः सर्वमयी, प्रकृष्टसर्वाकलित्वात् । पुरुषः सदैकः । प्रकृतिमयपरिशयत्वात्ताभ्यां परं, प्रकृतिपुरुषैकात्मकत्वात् । सृष्टयादौ प्रकृति- पुरुषसृष्टेरादावाविर्भूतं, तत्त्वमस्यात्मकशरीरत्वात् । एवं नरगजाभेदैकदन्तादि- १ 'म्पितम् । २६.दा सदा । ३ ख. संयुक्त भकश्च ।
सभाप्यम् । २३ . चिह्नयुक्तं यो नित्यं ध्यायति स योगी, ब्रह्मकात्मकत्वात् । योगश्चित्तवृत्तिनिरोधः [पा० यो०पा०१० २] चित्तं पञ्चविधम् । क्षिप्तं मूढ़ विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयः, ध्यासकृतभाप्पे प्रतिपादितत्वात् । तत्र नरेण यत्र चित्तं क्षिप्तं तत्र तदनुभवयुक्तं भवनि तत्क्षिप्तम् , सर्वमायामोहयुक्तजनहत्स्थत्वात् । यत्र नरेण चित्तं क्षिप्तं तज्ज्ञानतया नानाज्ञानभ्रमधारकत्वान्मूढम्, पिशाचतुल्यनरहृत्स्थत्वात्। मुमुक्षूणां चित्तं विक्षिप्तं संसारविषयांस्तिरस्कृत्य ब्रह्मपरं तदपि ब्रह्मानुभवहीनं, विषयासक्तत्वाब्रह्मानुभवलुग्वहीनत्वान्नानातपःपरत्वाच्च । अन्नप्राणाद्यव्याकृत- पर्यन्तानुभवयुक्तमेकाग्रं चित्तं, सवैक्यसमाधिमुखयुक्तत्वात् । सत्यं ज्ञानमनन्तं ब्रह्मानुभवमुखयुक्तं निरुद्धाख्यं, सर्वैक्यभावहीनत्वाब्रह्मपरत्वाच्च । मनसो वृत्तिहीनस्य ब्रह्माकारेण या स्थितिः । असंप्रज्ञातनामाऽसौ समाधिरभिधीयते " ॥ इति स्मृतः । ततस्तत्त्वमस्यनुभवसुखयुक्तं निरोधभूमिहीनत्वाच्चित्तवृत्तिनि- रोधात्मकं पञ्चभूमिवर्जितं ब्रह्मभूतप्रकाशकत्वात त्वंपदतत्पदासिपदविभा- गशून्यत्वाच्च । एवं चित्तं जित्वा योगी भवतीति ब्रमकात्मकत्वात् । योगिनां शुकवामदेवादीनां वरो गणेशभक्तिपरायणन्वात् प्रत्यक्षतत्त्वमसिशरीरभृन्नवधा- चित्तप्रवेशकायिकवाचिकमानसिकसांसर्गिकसदाब्रह्मतत्परचेष्टात्मकत्वात् वेदा- दिहगतज्ञानजनोद्धारकत्वाच्च । न चैवं योगी दर्शनस्पर्शनादिजनोद्धारकत्वात् प्रारब्धक्षयब्रह्मकत्वात् श्रेष्ठतम इति वाच्यम् । नवधा चित्तशून्यवद्धारकत्वा- द्वेदादिहृद्गतनानोपदेशहीनत्वात्प्रारब्धक्षये स्वयमेव ब्रह्मैकत्वाजनोद्धारकृत- त्वाद्योगी श्रेष्ठः ! गाणेशयोगी तु श्रेष्ठतमः, पूर्वोक्त ब्रह्मचेष्टापरत्वाजनोद्धारक- त्वाच्च । न चैवं शिवविष्ण्वादिध्यानयुक्तोऽपि योगिनां वरः, तत्तद्भक्तिपरायण- त्वादिति वाच्यम् । तेपामथर्वशिरः तत्त्वमस्यादिमहावाक्यात्मकशरीराभावा- योगिपदाभावाच्च । तत्र परमहंसा योगिनो गाणेशा भवन्ति, योगिपदस्य पर- महंसपरत्वात् एकगणेशाथर्वशीर्षप्रतिपादनन्वात् अन्यदेवाधिकारशून्यत्वाच्च । दण्डहीनाः परमहंसा ब्रह्मभूनास्तद्वन्दनं ब्रह्मशब्दाभिधं, नारायगात्मकभा- वात् । “ दण्डग्रहणमात्रेण नरो नारायणो भवेत् " इति स्मृतः । गाणेशयो- गिवन्दनं गणेशशब्दाभिधं च, परमहंसानां वरत्वात् ॥ इति ध्यानात्मको नवमः खण्डः ॥ ९॥ एवं ध्यानं प्रतिपाद्य स्तुत्यर्थमाह पातञ्जलयोगसूत्रेषु प्रथमपादस्य प्रथमसूत्र भाष्य द्रष्टव्यमेतत् । १ क. रतत्वा' । २ ग. चित्तं पश्य कायिक° ३ ग. प. . °ता इन ब्रह्म, वंदन ब्रह्म।
गणेशाथर्वशीर्षम् । नमो व्रातपतये नमो गणपतये नमः प्रथमप. तये नमस्तेऽस्तु लम्बोदगयैकदन्ताय विनना- निने भि सुताय वरदमूर्तये नमः ॥ १० ॥ नम इनि । व्रातपतये देवादिबातानां जीवानां पतित्वात्ते तुभ्यं नमः । गण- पतये ब्रह्मविष्णुमहेशादिगणानां पतित्वात् ईश्वरत्वात् ते नमः । “ ब्रह्मविष्ण्वा- दिगणानामीशभूनमित्याह । तद्गणेश इति । तत्परमित्याह । यमेतेनाप्नुवन्तीति" इति श्रोः ।* प्रथमपतये वणानां ब्राह्मणः प्रथमो मुख्यस्त्रिवर्ग गुरुत्वात् । ब्राह्म- णेषु योगी प्रथमो, महावाक्यानुभवयुक्तत्वात् । एवं जनानामीश्वराणां ब्राह्मणा- ना च प्रथमाः श्रेष्ठास्तेषां पस्तिदादिपूज्यतत्पूज्यत्वात नमः । लम्बोदराय ते नमोऽस्तु । एकदन्ताय नमः । विजनाशिने कालात्मकभयहारिणे नमः, अमृता- त्मकपदप्रदत्वात् । तदेव कथ्यते । अभिनन्दनराज्ञेन्द्रभागहीनयज्ञारम्भः कृतः । तज्ज्ञात्वा कुपिनेन्द्रेण कालमाहूय तयज्ञभङ्गायाऽऽज्ञापितः । स कालपुरुषस्त- द्धर्म ज्ञात्वा विनामुरो बभूव । जन्ममृत्युभयं जगत्कालीनं. त्रिलोकभ्रमणत्वात् । ब्रह्मानुभवयुक्तजनः कालं जित्वाऽमृतमयो भवति तज्ज्ञानकारणं सत्कर्मसाधने- नान्तःकरणशुद्धिस्ततो ब्रह्मानुभवपात्रत्वासद्धर्म ज्ञात्वा सत्कर्मनाशनार्थं विघ्नो वभूव । सत्कर्महीनं जगत् कालाधीनं सदा मलिनान्तःकरणयुक्तत्वात् । ततोऽ- भिनन्दनं हत्वा यत्र तत्र दृश्यादृश्यम्वरूपकालः सत्कर्मखण्डनं चकार । काला- ज्ञानभावात्ततो भ्रान्ता वसिष्ठादयो ब्रह्माणं शरणं ययुः । तेनाऽऽज्ञप्ताः पाचपुत्रं गणेशं तुष्टुवुः, गणेशान्यदेवस्य कालनाशसामर्थ्याभावात् । ततो गणेशेन विना- सुरः पराजितः । स शरणं यया । तदा स्वाज्ञावशवर्तिनं विघ्नं चकार । विघ्नेन प्रार्थितो विघ्नराजाख्यो वभूव । तदादि गणेशादिपूजनहीनं तत्स्मरणहीनं यत्स- कर्म तत्र विनप्रादुर्भावः । एवं नियमं कृत्वा तं स्वसमीपे स्थापयामास । एवं स्कान्दे विनायकमाहाल्ये मौद्गले च प्रतिपादितत्वात् । वेदादिप विन्नो भगवानिति कथ्यते, * अब ममथपतये' इति इदानीन्त रानां सर्ववां वदिकानां पाटः । अयमपि साधीयानेव । प्रम्य : तीति प्रमथः । शभ: पारिबहाः यमयांशकः । तदु कालिका राणे एकोनविंशाध्याये- ध्यानस्थं परिचर्यन्ति सलिलादिभिश्वम् । मानाशस्त्रधराः शंभोगणाः प्रमथ : स्मताः ॥ मथ न्ति च य द्वेष यु-यमानान्महा बलान् । ते वै मह बलाः शूरा : संख्यामा बसुकोटयः ॥ १ ॥ इति शिवसुतत्वात् प्रमथसंज्ञकानां शिवगणानां पतिः इति यथासभव योजनीयम् । १ ग. घ. ७. ब्रमणां च. २ क. ख. ग.. ड.. जनोऽमालमितिप.ठः. ३ क. ख. ग. प. ह. तदादिमारभ्य गणेशादि. 7 - सभाप्यम् । २५ - - कालमयत्वात् कालाधीनसृष्टिस्थितिलयत्वाच्च । ब्रह्मविष्णुमहेशा वयं ब्रह्माण इति मदयुक्ताः सन्तो वेदमार्ग त्यक्त्वा स्वेच्छाविहारिणो यदा भवन्ति, तदा सविना असुरैः पराजिताः स्वेच्छाविहारभङ्गा भवन्ति । पुनर्ब्रह्माभिमानं त्य- क्त्वा गणेश एक एव स्वेच्छाचारी ब्रह्मशरीरत्वात् , एवं ज्ञात्वा शरणं गच्छ- न्ति तदा स्वस्वसामर्थ्ययुक्ता असुरान्विजित्य स्वपदस्था ईश्वरा भवन्ति, विघ्ना- धीनत्वात् । विशेषेण जगत्सामर्थ्य हन्तीति विघ्न इति व्युत्पत्तिबलाद्विन्नसमं न किंचिदिति संक्षेपार्थः । तद्यथा भगवन्तौ विघ्नविनायको प्रीयेताम्" इति पुण्याहवाचनवचनत्वात् । स्कान्दे- उक्त्वैवमाह्वयत्स्कन्दः शक्रस्तं कालरूपिणम् । य इदं माययाऽऽमोह्य कलयत्यखिलं जगत् " ॥ इति ॥ "विघ्नरूपेण घोरेण स कालपुरुपो भुवि । गर्जनादखिलाल्लोकान्कम्पयामास वेगवान् " ॥ इति ॥ योगवासिष्ठे भृगु प्रति कालवाक्यं तद्यथा- मा नपः क्षपयाबुद्धे कल्पकालमहानलेः । यो न दग्धोऽस्मि मे तम्य किं त्वं शापन धक्ष्यसि ॥ ब्रह्माण्डावलयो प्रस्ता निगीणी रुद्रकोटयः । भुक्तानि विष्णुन्दानि क न शक्ता वयं मुने" ॥ इति स्मृतिभिः । विघ्नं महाकालं हरति तस्मै नमः । " अथ ह आन्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय एष सर्वेश्वर एष भूताधिपतिरेप भूतपाल एप सेतुर्विधारण एपां लोकानामसंभेदाय " इति श्रुतेः । लोकानामसंभेदाय विघ्नभयस्वमर्यादायुक्तलोकत्वात् । शिवनुताय । तद्यथा--गणेशेन सृष्टाः शिवा- दयस्तपश्चक्रुः । तत्राऽऽदौ शिवहृदि ब्रह्मानुभवो बभूव, समाधिक्रियाधिक्यात् । ततो हृदि गणेशं ददर्श संस्तुत्य प्रार्थनां चकार । ' त्वं मे पुनो भव ' त्वत्पितृ- तारकत्वात् । तदहं मायामोहभयहीनश्चशमि ' गणेशजनकत्वादिति । तदेव विनायकसंहितायां मयूरेशक्षेत्रमाहात्म्ये- "ध्याने मनसि मे जातः पुत्रत्वं पालय प्रभो । मम पुत्र इति ख्यातो लोकेऽस्मिन्भगवन्भव " ॥ इत्यादिस्मृतिभ्यः । त्रिगुणावतारब्रह्मविष्णुशिवाख्यरवध्यासुरनाशनार्थं कलां शगणेशावतरणं सर्वत्र प्रसिद्धम् । तदवतारचरित्रज्ञापनार्थत्वादत्र शिव- मुन इति कथिन, वेदप्रामाण्येषु पुराणेषु नानावतारप्रतिपादनात् । न १ . ते विन मुगः - , २६ गणेशाथर्वशीर्षम् । चैवं तपःप्रार्थितगणेशः शिवसुतः, तत्र शिवः श्रेष्ठो गणेशजनकत्यादिाते वाच्यम् । एवं शिवविष्ण्वाद्यवतारचरित्रत्वादनादिसंप्रदायत्वाच । विष्ण्वथर्व- शीर्षे “ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः" इति श्रुतेः । देवकीपुत्र- त्वेन विष्णोर्न कनिष्ठत्वापत्तिः, भक्तवाञ्छितकृतत्वाद्भक्ताधीनदेवेशत्वाच्च । ते नमः वरदमूर्तये, सर्वेश्वरजनवरदत्वात् प्रत्यक्षं वरदमूर्तिः स्ववरदाभावाच्च । न चैवं शिवविष्ण्वादयो वरदमूर्तयः, स्वस्वभक्तवरदत्वादिति वाच्यम् । शिव- विष्ण्वादिवरदगणेशत्वाद्गणेशवरदाभावात् । ननु शिवपुराणे गणेशवरदः शिवः कथितः, 'सर्वादिपूज्यो भव' इति वचनादिति चेन्न। शिवपुत्रभावरक्षणार्थत्वात् पितृदत्ताधिकारपरायणपुत्रत्वात् दशरथदत्तयुवराजाधिकारयुक्तरामचन्द्रवत्पुरा- तनसंप्रदायत्वात् (च)। ते नमः। व्रातपतये' इत्यारभ्य 'वरदमूर्तये नमः' इतिपर्य- न्तमष्टनामनमनं, तदन्तर्गतसर्वनामत्वात् । नाममन्त्रतत्त्वमस्यात्मकसत्यवादिभ. करक्षणात्मकोंकारात्मककाक्षरविद्यागायत्रीध्यानस्तुतिप्रतिपादकमष्टमार्गप्रकाश- कत्वादष्टाङ्गमिति ॥ इति स्तुतिप्रतिपादको दशमः खण्डः ॥ १० ॥ इति अथर्वणऋषिप्रोक्तं गणेशाथर्वशीर्ष समाप्तम् । ॥ अथ फलश्रुतिः ॥ एवं स्तुतिं प्रतिपाद्य गणेशाथर्वशीर्षफलश्रुतिं प्रतिपादयन् ग्रन्थमाह । तत्राऽऽदौ गणेशाथर्वशीर्षाध्ययनफलप्रतिपादनार्थमाह- एतदथर्वशीर्ष योऽधीते स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्न बाध्यते । स सर्वत्र सुखमेधते । स पञ्चमहापापात्प्रमुच्यते । सायमधीयानो दिवस- कृतं पापं नाशयति । पातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुआनो अपापो भवति । सर्वत्राधीयानोऽपविघ्नो भवति। धर्ममर्थ कामं मोक्षं च विन्दति। इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाहास्यति स पापी. यान्भवति । सहस्रावर्तनायं यं काममधीते तं तमनेन साधयेत् ॥११॥ १ सर्वतः इति लोके पाठः । २ धर्मार्थकाममाक्षं च इति लोके पाटः। ३ साधयति इति लोके पाठः।
सभाप्यम् । एतदिति । एतदथर्वशीर्ष योऽधीते स ब्रह्मभूयाय कल्पते, देहभृदापि ब्रह्मैव स्यात्तत्त्वमस्यात्मकगणेशाधीनसामर्थ्यात्तद्विश्वामयुक्तत्वात् । अन्यद्योऽनुभवक- सोऽप्यधीत इति कथ्यते । स देहभृड्रह्मव, योगित्वाच्च । स सर्वविघ्नैर्न बाध्यते । धर्मार्थकाममोक्षसाधनान्तरायात्मकविघ्नैर्न वाध्यते. साधनशीलाधीनत्वात् । स सर्वत्र मुखमेधते, नानालोकस्थाधीनत्वान्नानाकार्यसुखयुक्तत्वाच्च । स पञ्च- महापापात्प्रमुच्यते । पापं पञ्चविधम् । हिंसाभक्ष्यभक्षणपरस्त्रीगमनस्तेयत- संसर्गात्मकत्वात् । तत्र पञ्चमहापापादिति जानित्वादेकवचनम् । ब्रह्महत्यासु- रापानगुरुतल्पगमनसुवर्णस्तेयतत्संसर्गयुक्तन्वात् । आदावेव सायमधीयान इति, गुरुमुखोद्नं स्वकण्ठगं कृत्वाऽध्ययनकाल आदी सायंकालप्राप्तत्वात् । तद्वत्मातरेव । सायं प्रातरधीयानः सर्वदिवसरात्रिपापवर्जितत्वादपापो भवतीति । सर्वत्राधीयानोऽपविघ्नो भवति । नानाकार्यकृत्तत्तत्कार्याद्यधीतत्वात् । धर्ममर्थं कामं मोक्षं च विन्दतीति । इहलोकमनात्य परलोकार्थसत्कर्मपरायणत्वात् धर्मार्थी । इहलोकश्रेष्ठार्थसत्कर्मपरायणत्वात् अर्थाथीं । इहलोकपरलोकोद्भवभो. गार्थसत्कर्मपरायणत्वात् कामार्थी । इहलोकपरलोकविरागयुक्तात्मप्राप्त्यर्थसत्क- र्मपरायणत्वात् मोक्षार्थी च । एकैकपुरुषार्थी चतुप्पुरुषार्थी वा य इदमधीते स तत्तल्लभते, गणेशस्य इच्छापूरकत्वात् । अशिप्याय यथार्थाथर्वशीर्पशिक्षा- हीनाय न देयमिदम्, ऋतसत्यवादिरक्षकगणेशत्वात् । यो यदि मोहादास्यति । द्रव्यलोभाच्छुश्रूपालोभाविद्याविनिमयलोभादित्यादिना नामोहादिति सोऽति- पापी, यथार्थाथर्वशीर्षशुश्रूषणानुरभावगणशपीडितलान् । अस्प सहस्रावर्त- नायं यं काममिच्छति तं तं प्राप्नुयात् । वीप्साया आदरार्थत्वात् ॥ इत्यध्यय- नफलश्रुत्यात्मक एकादशः खण्डः ॥ ११ ॥ एवमध्ययनफलश्रुति प्रतिपाद्य नानाप्रयोगार्थमाह- अनेन गणपतिमतिपिश्चति स वाग्मी भवति । चतुर्यामनश्नापति स विद्यावानायनि । इत्य- थर्वणवाक्यम् । ब्रह्मायावरणं विद्यान्न बिभेति कदाचनेति ॥ १२ ॥ अनेनेति । प्रशस्तवागर्थ्यभिपेकं कुर्यादिति। चतुर्थ्यामनश्नञ्जपति यः स वि- द्यावान्भवति, प्रातरारभ्य सायंपर्यन्तं जपानुष्ठानपरत्वात् । इत्यथर्वणवचनत्वा- १च. तत्वात्.
२८ गणेशाथर्वशीर्षम् । यथार्थफलप्राप्तिरिति । ब्रह्मादीनां मायावरणं विद्यात् अत एव न विभति, ज्ञातावरणतन्मोहहीनत्वात् ॥ इति नानाप्रयोगफलश्रुत्यात्मको द्वादशः खण्डः ॥ १२ ॥ एवं भयहीनता प्रतिपाद्य यजनार्थमाह- यो दुर्वाङकरर्यजति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान्भवति स मेधावान्भव- ति। यो मोदकसहस्रेण यजति । स वाञ्छितमवा- मोति । यः साज्यसमिद्भिर्यजति स सर्व लभते स सर्व लभते ॥ १३ ॥ य इति । दूर्वाङ्कुरैर्यजति स कुवेरसमो भवति, कनकप्रियत्वात् । लाजै- होमो यशःप्रदो मेधाप्रदश्च. तत्तत्प्रयोगप्रमाणत्वात् । यो मोदकसहस्रेण यजति, प्रतिखण्डं जुहुयात्प्रत्यर्चवत्प्रमाणत्वात् , स वाञ्छितफलमवाप्नोति, नानाकार्य- सिद्धिप्रदत्वात् । यः साग्यसमिद्भिर्यजति मन्त्रशास्त्रोक्तनानाकार्यप्रदनानासमि- द्धोमप्रमाणत्वात् , स सर्व लभते स सर्व लभते । अत्र वीप्साऽऽदरप्रदर्शिनी । नानासमिद्धोमप्रियत्वात् । अत्र कुण्डवेदिदेवतास्थापनादिकं वैदिकतान्त्रिक- मार्गोक्तवग्राह्यम् । आहुतिगणनानियमः सर्वसाधारणत्वात् । अत्र जपानुष्ठानं मुख्यम् । यं यं काममधीते तं तमनेन साधयेत्, एकानुष्ठानस्य सर्वकार्यप्रदत्वा- द्वीप्साया आदरार्थत्वाश्च । न चैवं मोदकसहस्रहोमसाज्यसमिद्धोमो मुख्यौ, वाञ्छितपदे सर्व लभते ' इतिवीप्सादरप्रमाणत्वादिति वाच्यम् । मोद- कहोमस्य वीप्साहीनत्वात् । साज्यसमिद्धोमः वीप्सादरयुक्तोऽपि नानाकार्य- प्रदनानासमिद्धोमानुष्ठानपरत्वात् । अत्र सहस्रावर्तनात्मकं पुरश्चरणम् । सह- स्रावर्तनाद्यं यं काममधीत इति मोदकसहस्रेण यजतीति प्रमाणात् ॥ इति होमात्मकत्रयोदशः खण्डः ॥ १३ ॥ अथान्यप्रयोगार्थमाह- अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सर्यवर्चस्वी भवति । सूर्यग्रहे महानयां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति । महाविनात्प्रमुच्यते । महादो- Amita... १ ग. ह. 'तफलमवा'. २ ख० व. ततममवा.
सभाप्यम् । २ ९ पात्प्रमुच्यते । महाप्रत्यवायात्प्रमुच्यते । स सर्ववि- द्भवति स सर्वविद्भवति य एवं वदै॥ १४ ॥ इत्यथ- वणवेदोपनिषत्सु गणेशाथर्वशीर्ष समाप्तम् ॥ अष्टाविति । सम्यक् ग्राहयित्वा, यथार्थाथर्वशीपंगणेशैकतत्परकारयितृत्वात् । सूर्यवर्चस्वी भवति, सूर्यवन्सर्वज्ञानप्रकाशयुक्तत्वात् गणेशज्ञानान्तर्गतनानावेदा- न्तप्रतिपाद्यज्ञानत्वाच । सूर्यग्रहे महानद्यां ब्रह्मकमण्डलुभागीरथीयमुनासर- स्वतीनर्मदादीनां कस्याश्चिन्नधास्तीरे महाघनाशकत्वादनन्तगुणाधिकसत्कर्म- फलप्राप्तिकारकत्वात् । प्रतिमासंनिधौ मयूरेश्वरादिमहाक्षेत्रस्थगणेशप्रतिमासं- निधौ वा जप्त्वा सिद्धमन्त्रो भवति । मन्त्रोक्तसिद्धिसामर्थ्ययुक्तत्वात् । अथर्व- शीर्षात्मकमन्त्रजपो मालामन्त्रप्रमाणत्वात् तज्जप्त्वाऽथर्वशीर्पोक्तज्ञानवानेकाक्ष- रविद्यासिद्धसामर्थ्यवान्भवतीति । महाविघ्नात्कालभयात्प्रमुच्यते, अथर्वशीर्णो- पासनाया अमृतमयत्वात् । महादोषान्मायाविकारात्मकदोषात् , मायाविकार- परदोषाभावात् । महापत्यवायाज्जीवन्मुक्तविषयासक्तयुक्तप्रत्यवायात् , योग- स्थित्यभावात् । स सर्वविद्भवति, गणेशज्ञानान्तर्गतसर्वज्ञानत्वात् । " आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेद ५ सर्व विदितं भवति " इति श्रुतेः । अथर्वशीर्षसमाप्तिज्ञापनार्थं वीप्सा वेदसंप्रदायत्वात् । य एवं वेद पूर्वोक्तयथा- र्थज्ञानयुक्तत्वात् ॥ इत्यथर्वणवेदोपनिषत्सु अन्यप्रयोगात्मकश्चतुर्दशः खण्डः ॥१४॥ ॥ इति गणेशाथर्वशीर्पभाष्यं समाप्तम् ।। १ इत्युपनिषत् इति लोकपाठेऽधिक म्. २ ख, ग, य. ह. गाणेश'. ३ ग. घ. ङ. गाणेश'. ॥ श्रीगजाननार्पणमस्तु ॥
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.