Bharti Bhawan Library Allahabad

Bhattchintamani

PDF Proofread

Front matter

gooiborg vawna श्रीः । anno आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुवर्णाङ्कितभव्याभशतपत्तूपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दामोदमोहितम् ॥ २॥ स्तबका२५- linnananana

चौखम्बा-संस्कृत-ग्रन्थमाला
(ग्रन्थ संख्या ६)
भादृचिन्तामणेस्तर्कपादः।
ON
भट्टकुलावतंस महामहोपाध्यायश्रीगागाभट्टेति
प्रसिद्धनामधेयश्रीविश्वेश्वर सुधी
विरचितः।
वाराणसेय राजकीय प्रधान संस्कृतपाठशालायां
व्याकरणशास्त्राध्यापकन पटवर्धनो पाव्हेन
तात्याशास्त्र्यपरनामकेनश्रीरामकृष्ण
शास्त्रिणा सपरिष्कारं परिशोधितः ।
राजराजश्वरी तारायन्त्रालये श्री बाबूहरिशसएप्लेन
मुद्रायित्वा प्रकाशितः ।
सन् १९०० इस्वी।
बैक्रम संवत् १९५७ ।
शुभम् ।

No text on this page.

श्रीगणेशाय नमः ॥ भादृचिन्तामणिः ॥ अधिसरयूतटिनीतटमधिसाकेताङ्गणमाघतदुद्यानम् । खेलन्नीरदनीलो बालो मे मानसे सदा भूयात् ॥ १॥ सारं यच्छतिशिरसामगोचरं यन्मनोवचसाम् । तत्कौशल्यावचसा शिक्षापात्रं महो वन्दे ॥ २ ॥ विश्वामित्रकुलध्वजः समभवद्यो भट्टनारायण- स्तदंशस्य करीरतां दधदयं विश्वेश्वराख्यः कृती । गागाभट्ट इति प्रथां दिनकरात्माप्तः पितुालनाद् मीमांसाम्बुनिधि प्रमथ्य चिनुते श्रीभादृचिन्तामणिम् ॥३॥ गुरोरथ कुमारिलस्य मुरविद्विषोपि श्रम- क्लमो न सफलो ऽवद्भवति तत्र कस्योद्यमः । सं साहसमिति प्रथामवितथा प्रकर्तुं ममो. द्यमोयमिति चिन्तयन् बुधजनः परिक्षाम्यतु ।। ४ ।। अथातो धर्मजिज्ञासा ॥१॥ अनेन सूत्रेण विषयप्रयोजनकथनद्वारा शास्त्रारम्भकर्तव्यता प्रतिपाद्यते । कर्तव्यपदाध्याहारेण जिज्ञासापदे विचारलक्षण- या च वेदाध्ययनानन्तरं वेदाध्ययनहेतुको धर्मज्ञानेच्छाप्रयो- ज्यो धर्मप्रमाफलको विचारः कर्तव्य इति सूत्रार्थः । तेन वि- चारहेतुसूत्रसमुदायरूपशास्त्रस्य धर्मज्ञानप्रयोजनकता धर्मविषय- ता चोक्ता । सम्बन्धोपि प्रतिपाद्यप्रतिपादकभावः । वेदाध्य- २ भादृचिन्तामणे यनहेतुकता चाधीतवेदस्य धर्मेण पापमपनुदतीत्यादिवाक्ये. भ्यः । सामान्यतो धर्मज्ञानस्य विशेषधर्मप्रकारकज्ञानेच्छाहेतु. त्वात् । तथाहि । धर्मेणेति वाक्येन सामान्यतो धर्मज्ञाने तदुत्तरं तदनुव्यवसाये धर्मज्ञानत्वसामान्यप्रत्यासत्त्या सकलधर्मज्ञा- नज्ञानम् । घटत्वसामान्यप्रत्यासत्या नीलघटादिज्ञानवत् । ततस्तद्विषयकेच्छेति क्रमेण सामान्यधर्मभकारकझानस्य वि- शेषधर्मप्रकारकेच्छाप्रयोजलत्वम् । सा चेच्छा सप्रमाण- कधर्मज्ञानं जायतामित्याद्याकारिका, तादृशेष्टसाधनताज्ञानज- न्या च । तादृशज्ञानज्ञानं च धर्मज्ञानत्वसामान्यलक्षणप्रत्या- सन्त्येति। तेन चाधीतवेदोऽधिकारी प्रदर्शितः । इदं च सूत्रं स्मृ- तिरूपं स्वमूचितन्यायानुग्राह्यममाणसापेक्ष चेत्यध्ययनविधिमूल- कम् । तेनापि वेदाध्ययनानन्तरं तदर्थज्ञानाय विचारविधानात् । तथाहि । स्वाध्यायोऽध्येतव्य इत्यत्राध्ययनकरणकभावनायामर्थ- ज्ञानं भाव्यम् । कर्मानुष्ठानौपंयिकत्वेन पुरुषार्थत्वादिति । स्व- र्थित्वमिति चेत् । न । अदृष्टार्थत्वापनेः । नाप्यक्षरग्रहणम् । पुरुषार्याननुबन्धित्वात् । व्याकरणादीनां वेदाङ्गत्वोपपत्ते । अ- ङ्गत्वं कार्यजनने सहकारित्वं, तच्च वेदाध्ययनस्यार्थज्ञानार्थत्वे उपपद्यते । व्याकरणादीनां वेदार्थज्ञानोपयोगित्वात् । स्व- गर्थित्वे वा तदनुपयोगात् । वेदाध्ययनमिष्टजनकदृष्टार्थकम् । अर्थवद्विषयकविहिताध्ययनत्वात् अङ्गाध्ययनवदित्यनुमानात् । अत्र स्तोमाध्ययने व्यभिचारवारणाय अर्थवद्विषयकेति । वि- षमन्त्राध्ययने व्यभिचारवारणाय विहितेति । अतो ऽर्थज्ञानं भाव्यम् । न चार्थज्ञानस्य भाव्यत्वे ऽनध्यायादिनियमानां स्व- रूपकार्ययोरनुपयोगादध्ययनाङ्गत्वानुपपत्तिः । कार्योपयोगाभा- वेपि विघ्ननिवारणार्थत्वेन स्वरूपोषयोगित्वात् । नियमापूर्वे उप- ।

। तर्कपादः । योगाच्च । कर्मार्थकतव्यप्रत्ययस्तु सम्बन्धमात्रे लाक्षणिकः । विषं भुनक्ति सक्तूञ् जुहोतीतिवदनीप्सितकर्मत्वपरो वा । ईप्सि- तकर्मत्वपरत्वेपि स्वाध्यायकर्मकभावनाविशिष्टतत्करणभावनावि- धित्वेनैतस्य विधरर्थज्ञानभाव्यकत्वमिति कश्चित् । अत्र स्वाध्या- यत्वं स्वशाखात्वम् । स्वत्वञ्च परम्परया ऽध्ययनविषयत्वमनु. ष्ठानविषयलं च । तेन वेदत्रयान्तर्गतैकैकशाखापर: स्वाध्याय- शब्दः । तेनाध्ययनानुष्ठानयोः स्वपरम्परापरिगृहीताध्ययनानु- छानविषयत्वोपपत्तिः । तत्रेतिकर्तव्यतापेक्षायां योग्यतया वि- चार इतिकर्तव्यतात्वेन सम्बध्यतइति विचारकर्तव्यतासिद्धिः । एवं च “स्थाणुरयं भारहारः किलाभूदधीत्य देदं न विजाना- ति योर्थम्" "योर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूत- पाप्मे" साभिज्ञतदनभिज्ञनिन्दास्तुती उपपद्यते इति वार्ति- कादयः ।। पिचरणास्तु प्रोक्षणादिविधावपूर्वसाधनत्वेन बीहीणामि- वात्रापि प्रयोजनवदर्थज्ञानजनकत्वेन स्वाध्यायस्यैव भाव्यत्वं, वेदार्थज्ञानस्य द्वन्यप्राप्तिप्रतिष्टापयिकत्ववत्कर्मानुष्ठानौपयिकत्व- मिति लोकसिद्ध पुरुषार्थत्वं, द्रव्यानवत् । अतोय. विधि: प्रतिग्रहादिनियमबदध्ययननियमार्थः । नन्वध्ययननियमस्य नि- षेधेषु नोपयोगः, अध्ययनेनैव विध्यर्थ जानन विधेयानुष्ठानेन फ- कमाप्नुयादितिवदध्यपनेनैव निषेधार्थ जानन निषेध्यानुष्ठानेन प्रत्यवेयादिति कल्पनायां निषेधाध्ययने प्रवृत्त्ययोगादिति चेत्। न । तत्रागत्याऽध्ययनेनैव निषेधार्थमजानन् प्रत्ययादिति क- ल्पनात् । न चैतावता ऽदृष्टार्थकत्वं, नापि विनियोगमङ्गः। य. देव विद्यया करोतीति वाक्यं तु अर्थज्ञानस्य नाङ्गताबोधकं, किं तु श्रद्धोपनिषजन्यज्ञानार्थवादः । अस्तु वा यत्कसेतीति भादृचिन्तामणेः वैदिककर्मसामान्यमुद्दिश्य विद्यापदलक्षितार्थज्ञानाविशेषनियमार्थः सन्नताबोधकः, वाहिविधिवत् । तथापि न क्रत्वपूर्वार्थज्ञानजन- कत्वेनैवोद्देश्यता, येनाध्ययनस्याङ्गता स्यात, स्याच्च प्रकरणापे- क्षा । स्वाध्यायस्योद्देश्यत्वादेव तद्गतकत्वाविवक्षया वेदानधी- सेत्यादिस्मृतरेतन्मूलकत्वे न तन्मूलश्रुत्यन्तरकल्पनागौरवम् । तेनार्जनविधिवद् अर्थज्ञानजनकत्वेनैवोद्देश्यतेति अर्थज्ञानफल- कविधिर्विचारकर्तव्यताक्षेपक-इत्याहुः ।। तेनार्थज्ञानपर्यन्तं गुरुकुलवासो विचारकरणं चाध्ययन विधेः फलम् । क्रत्वर्धिकारनियमाच्च । तथाहि । वसन्त ब्रा. ह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यमित्यादिवाक्यैाह्म- णायङ्गत्वेनोपन्यनं विधीयते । अवर्षे ब्राह्मणमुपनयीतेत्यादि- वाक्येषु ब्राह्मणाझुद्देशेनाष्टवर्षत्वादिविधिः तत्सन्निधिपठितथा- ध्ययनविधिः कर्तृसापेक्षः कार्यापेक्षानुपनीतानेव कर्तृन् गृह्णाति इत्यध्ययनविधियुक्ताध्ययनजन्यार्थज्ञाने त्रैवर्णिकानामेव सिद्धे ऋतुविधयो ऽप्यर्थज्ञानोपायाक्षेपकत्वाभावलाघवसहकृता ब्राह्म- णादिपरा एव भवन्तीति शूद्रादेरुपनीतकर्तृकाध्ययनजन्यार्थज्ञा- नरूपाङ्गसम्पादनासमर्थस्य नाधिकारः । तमध्यापयीतेति सन्नि- घिसिद्धोपनीलकर्तृकत्वानुवादः । यद्वा उपनयनाध्यापनवाक्य- योः प्रयोजकव्यापाराविवक्षया उपगमनाध्ययनविधिः । अ- वर्षों ब्राह्मण उपगच्छेत्सोधीयीतेति शाखान्तरीयत्वेन स्वा- ध्यायविधानर्थक्यम् । कर्मणां नित्यतया उपनयनाध्ययनयोः फलतो नित्यत्वम् । यद्वा ब्रह्मक्षत्रविशां काल औपनायनिकः परः । अत ऊर्ध्व पतन्त्येते इति : वाक्येन. अनधीयाना बात्या भवन्तीति नि- PANESEARRIAAAAAYARI says ५ तर्कपादः । षेधेन च नित्यत्वसिद्धिः । अधीतवेदस्य प्रयोजनववं चेत्थमवसेयम् । विधीनां प्रवृत्तिजनकप्रवर्तनाज्ञानम्, अ. र्थवादानां प्राशस्त्यज्ञानं, मन्त्राणां विशिष्टार्थस्मरणं, ना- नां कर्मभेदो गुणफलोपबन्धः सङ्कल्पलाघवं च, सानामक्षरा- भिव्यक्तिः, स्ताभानां सामकालपूर्तिः, उपनिषदां पारलौकिक- फलककर्मप्रवृत्तिजनकशरीरव्यतिरिक्तजीवात्मज्ञानं, क्रमज्ञानादि- च यथेष्टमूहनीयम् । एवमङ्गानां वेदोपकारकत्वम् । तच्च शिक्षा- या: स्वरादिनिश्चयद्वारा, कल्पस्य शाखान्तरसन्दिग्धविध्युप- संहारद्वारा, न्यायलभ्यार्थतात्पर्यनिर्णयद्वारा च, व्याकरणस्य वैदिकोहविज्ञानद्वारा, छन्दसां वैदिकवाक्यपारमाणद्वारा, ज्यौ- तिषस्य वैदिककर्मप्रयोगोपयोगितिथ्यादिज्ञानद्वारा,, अधीतवेद- जन्यार्थज्ञानोपयोगित्वाद् शास्त्रारम्भसिद्धिवैवी । अधिकरणं च पञ्चाङ्गम् । विषयः संशयश्चैव पूर्वपक्षस्तथोत्तरः। प्रयोजनं च पञ्चाङ्गं शास्त्रे ऽधिकरणं स्मृतम् ।। सङ्गतिश्चेति कचित्पाठः । तच्चेत्थम् । अध्ययनविधिर्विष. यः । वेदाध्ययनोत्तरं धर्माधर्मज्ञानफलकविचारविधायको न वे ति संशयः । अध्ययनस्य गुरुमुखोच्चारणपूर्वकोच्चारणरूपत्वा-' तस्य विश्वजिद्वत्स्वार्थत्वादधीत्य स्नायादिति स्नानविधिना न कर्तव्य इति पूर्वपक्षः । उक्तयुक्तया ऽध्ययनविधेरर्थज्ञानपर्य- न्ततया वस्य विचारमन्तरेणासम्भवात्कर्त्तव्यः । स्मृतिस्त्वध्य- यनकरणकभावनोत्तरकालं स्नानमिति व्याख्येया । श्रुत्यनुरो- धादिति सिद्धान्तः । प्रयोजनं स्पष्टम् । एवमग्रे ऽप्यधिकरणानि द्रष्टव्यानि । तथा च सिद्धं धर्मज्ञानाय शास्त्रमारम्भणीयमिति । तज्ज्ञानं च स्वरूपप्रमाणसाधनप्रयोजनविचारद्वारेणेति तच्चिन्ता। HOUHAN ६ भादृचिन्तामणेः एवं सूत्रे अकारप्रश्लेषणाधर्मचिन्ताया अपि शाखे विषयत्व- मुक्तम् ॥ अत्र जैमिनेर्विधनाभावनिश्चयाद् ग्रन्थादौ न मङ्गलाचरणे प्रवृत्तिरिति जीर्णाः । वस्तुतस्तु अतः पदेन अध्ययनहेतुत्वोक्ते- रानन्तर्यस्याप्यर्थप्राप्तत्वादथशब्दानर्थक्याप त्या अथशब्दो मङ्ग- लार्थकः । तत्त्वं च समाप्तिविघ्नध्वंसान्यतरहेतुत्वेन विहितत्वम् । विधायको वेदस्त्वाचारानुमेयः । न च नास्तिकग्रन्थकादम्बयो- दावन्वयव्यतिरेकव्यभिचारेण मङ्गलस्य तद्धेतुत्वेन विधिन सं. भवतीति वाच्यम् । व्यभिचारस्य हेत्वन्तरमयुक्ततया श्रुतियो- धितहेतुत्वबाधकत्वाभावाद्विघ्नसमसङ्ख्याकमङ्गलत्वेन कारणत्व- कल्पनाद्वेति नीर्णाः । समाप्तेर्बुद्धिप्रतिभादिष्टसामग्रीजन्यतया मङ्गलाजन्यत्वेन विघ्नध्वंसहेतुत्वेन विहितत्वं मङ्गलस्वामिति मणि- कृत् ॥ अत्र चिन्तयन्ति । विघ्नध्वंसस्य न भाव्यता, अपुरुषा- थत्वात् । न च समाप्तिजनकत्वेन तस्य पुरुषार्थता । समाप्तौ विघ्नसंसर्गाभावस्यैव जनकतया ध्वंसस्थाजनकत्वात् । अन्य- था विघ्नात्यन्ताभाववदारब्धस्य समातिर्न स्यात् । इष्टसाधनं- त्वभाव्यत्वयोः समानमकारकत्वनियमात् । न च विघ्नसंसर्गा भावस्यैव भाव्यता । अत्यन्ताभावभागभावयोर्वसवदजन्यत्वेन संसर्गाभावत्वस्य भाव्यतानवच्छेदकत्वात् । अतो ऽदृष्टद्वारा म. ङ्गलस्य बुद्धिप्रतिभादीनां च दृष्टद्वारा समाप्तिजनकत्वम् । यदि चोपचापकर्मत्वेन तुषाणामन्वये तादृशनियमस्य व्यभिचार इति विभाव्यते तदा कीर्णकरमतिपत्तिकर्मत्वातिरिक्तकर्मत्त्वान्वये तादृ- शनियमाद्विघ्नध्वंसत्वस्य मान्यतावच्छेदकत्वानुपपत्तैिरेव । अ- दृष्टकल्पनागौरवं तु विघ्नध्वंसस्य फलस्वेपि मङ्गले पर्वोत्तरका संहृतये तुल्यमिति दिक् ॥

। तर्कपादः । चोदनालक्षणार्थो धर्मः॥ २॥ अनेन सूत्रेण धर्मस्वरूपं तलमाणं चोच्यते । न तावद्या- गापूर्वोभयनिष्ठा धर्मत्वं जातिः । यागस्य क्रियेच्छान्यतररूप- तया क्रियात्वेनेच्छात्वेन च सङ्करात् । अतो ऽपूर्वनिष्ठैव सुख- कारणतावच्छेदिका धर्मत्व जातिरिति नैयायिकाः ॥ अपूर्व- मजानतामपि यागादिकर्तरि धार्मिक इति प्रयोगाद्वदबोधितष्ठ- साधनत्वरूपों यागापूर्वोभयनिष्ठोपाधिरेव धर्मवमिति केचित् ॥ वस्तुतस्तु अलौकिकश्रेयःसाधनत्वेन विहितक्रियात्वं विहि- तत्वं वा धर्मत्वम् । सोमादिष्वङ्गत्वेन विहितेष्वतिव्याप्तिवारणा- य तृतीयान्तम् । अलोकिकत्वं च वेदतदुपजीविप्रमाणातिरिक्त- प्रमाणागम्यत्वे सति प्रमितिविषयत्वम् । वेदत्वं च न मुख्य- वेदप्रयोगविषयत्वं शाखासमुदायत्वं वा, शाखात्वस्य वेदैकदे- शत्वरूपतया आत्माश्रयात । नापि सन्दिग्धकर्तृकवाक्यत्वम् । वादिनोः सन्देहाभावेन मध्यस्थस्य वादिपञ्चावयववाक्यप्रयोग- अन्यतया तत्र पक्षतावच्छेदकज्ञानाभावेनान्योन्याश्रयात् । अतो मन्त्रत्वब्राह्मणत्वव्यापैकजातिविशेषो वेदत्वमिति केचित् । त- दपि पौराणमन्त्रब्राह्मणत्वव्यापकपुराणत्वे ऽतिव्याप्तेर्न युक्त- म । शब्दतदुपजीविषमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थक- खे सति शब्दाजन्यवाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्वमिति चिन्तामणिः । अत्र लौकिकवाक्ये ऽतिव्याप्तिवारणाय सत्य- न्तं, घटादिवारणाय द्वितीयं, स्मृतिपुराणादिवाक्येष्वतिव्याप्ति- वारणाय शब्दाजन्येति । तादृशेश्वरीयज्ञानजन्यत्वाद्वेदस्य ल- क्षणसमन्वयः । अपौरुषेयवाक्यत्वं वेदत्वम् । अपौरुषेयत्वं च पौरुषेयभिन्नत्वम् । पौरुषेयत्वं च न तावत्स्वतन्त्रपुरुषप्रणीतत्त्व- - ८ भादृचिन्तामणेः म् । स्वातन्त्र्यस्य निर्वक्तुमशक्यत्वाद्, व्यर्थविशेषणत्वात्, प- ठ्यमानभारते ऽव्याप्तेश्च । नापि शब्दाजन्यवाक्यार्थगोचरयथार्थ- ज्ञानजन्यजातीयत्वं, पठ्यमानभारते अव्याप्तिवारणाय तज्जा- तीयेति । महाभारतादावसम्भवात् । सर्वस्यैव शब्दजन्यवाक्या- र्थज्ञानजन्यत्वात् । तदुच्चारणेच्छाजन्यवाक्यत्वं, तदर्थधीजन्य- वाक्यत्वं वा, सजातीयोचारणानपेक्षोच्चरितजातीयत्वं वा, स्मृ- तिपुराणादिष्वव्याप्तिवारणाय सजातीयेति । एतादृशपौरुषेय- त्वाभावस्य घेदे सत्त्वात् । तथा च सिद्धमपौरुषेयं वाक्यं नेद इति । उपपादयिष्यते चेदमुपरिष्टात् । अनिष्टसाधनकलजभक्ष- णादौ व्यभिचारवारणाय श्रेयःपदम् । अपूर्वे व्यभिचारवारणाय विहितेति । वत्वं च विधिविषयभावनान्वयित्वम् । तेन फलसा- धनत्वेन विहितक्रियाद्रव्यगुणादीनां धर्मत्वम् । एतेन चिहित- क्रियाजन्यत्वमपूर्वनिष्टमेव धर्मत्वमित्यपास्तम् । धर्मः क्षरति की- तनादित्यादौ तु लाक्षणिकः प्रयोगः । एवं च “यज्ञेन यज्ञमय- जन्त देवास्तानि धर्माणी"ति। "इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मः इति निर्धारणषष्ठयपि सङ्गच्छते न चैकं श्येने धर्मत्वापत्ति, रिष्टत्वात् । प्राणवियोगरूपहि- साया: श्येनफलत्वेन श्येने हिंसात्वाभावानिषेधाभत्तेरधर्मत्वा- योगात् । तदुक्तम् । हिंसा हि फलमेतेषां भिन्ना तेभ्यः स्वरूपतः । सा.हि प्राणवियोगात्मा श्येनस्तत्रासिवत्पृथक् ।। यदि च पाणवियोगानुकूलव्यापारस्य हिंसात्वमुपेयते त- दाप्यदृष्टाद्वारकच्यापारस्य हिंसात्वात श्येने तदभावः सुवचः।. अस्तु वा हिंसात्वं तयाप्यग्नीषोमीयाहसावविधैयतया निषेधाम- ९ । तर्कपादः। वृत्तेधर्मत्वोपपत्तिः । यागे रागादङ्गे वैधी प्रवृत्तिरित्यादि प्रा. भाकरवचनं नियुक्तिकत्वादनादेयम् । यदि च तत्र हिंसात्वा- भावेप्यदृष्टद्वारकमरणानुकूळव्यापारस्याभिचारत्वेन "अभिचारमहीनं च त्रिभिः कृच्छविशुध्यति" इति स्मृत्या ऽभिचारस्य निषिद्धतया तत्राधर्मत्वं विभा- व्यते । तदा बस्यान्यतररूपेण धर्मत्वेपि न क्षतिः । अलौकिक- पर्दैनैव विवाहार्थमिथ्यावादस्य विधेयत्वेपि धर्मत्वं व्यावय॑ते । तस्य विवाहमात्रसाधनतया तदभावात् । अत एव “पञ्चानृता- न्याहुरपातकानी"ति पातकत्वाभावमानं तत्र, न तु धर्मत्वम् । उपनिषज्जन्यात्मज्ञानस्याविद्यानिवृत्तिद्वारी मोक्षजनकस्य प्र- माणान्तरप्राप्तत्वान्नालौकिकत्वमिति न तत्र धर्मत्वम् । अस्तु वा तत्र धर्मत्वम् । निषेधबोधितालौकिकानिष्टसाधनत्वमधर्मत्वम् । इदमप्यवधेयम् । स्वमकृतगङ्गास्नानादीनां मिथ्यात्वेपि श्रेयः- साधनतया धर्मत्वम् ॥ यस्यांयस्यामवस्थायां यद्यत्कर्म करोति यः। तस्यान्तस्यामवस्थायां तत्तत्फलमुपाश्नुते ॥ इति वचनात् । अतः सिद्ध क्रियादीनां धर्मखरूपत्वम् । ए. तत्ममितिकरणं वेदः। तत्रापि प्राधान्येन विधिनिषेधौ । ननु कोयं विधिस्तेन च कथमलौकिकश्रेयःसाधनत्वबोध इति चेत् । अत्र के चित् । लिङादिश्रवणे प्रवृत्तिर्जायतइति लिङादिज्ञानं प्रवृत्तिसामग्रीजनकम् । सा च कृतिसाध्यत्वप्रकारकेच्छारूपा चिकीर्षा,तज्जनकज्ञानं च लिङादिभिर्जन्यते, तच्चेसाधनत्व- बलवदनिष्टाननुबन्धित्त्वज्ञानम् । अन्यतराभावे प्रवृत्त्यजननी- -त् । अतो लिङगदिज्ञानेन त्रितयज्ञानजननात् त्रितयेपि शक्तिः । पुष्पवन्तशब्दवधुगपदर्थत्रयस्य बोधः । अन्वयश्च तेषां विधेय- २ भादृचिन्तामणे धात्वर्थे । एवं च यागादिनिष्ठेष्टसाधनताबोधाद्ध, प्रामाण्यं, निषेधेष्वपि कलञ्जभक्षणादावनिष्टसाधनत्वबोधादधर्मे प्रामाण्य. मिति के चित् ॥ मीमांसकास्तु विधेः प्रवर्तनायां शक्तिः । श. ब्दजन्यप्रवृत्तौ प्रवर्तनाज्ञानस्य हेतुत्वात् । प्रवर्तनाज्ञानस्य प्र- वृश्चिहेतुत्वम्, अहमेनं प्रवर्तयामि आचार्यों मां प्रवयतीत्यनु- भवात् । न च तत्रेष्टसाधनत्वज्ञानमेव प्रवर्तकम् । अनिष्टसाधने- पि आचार्यप्रवर्तितोहं कोमात्यनुभवात् । प्रवर्तनाच पर- निष्ठप्रवृत्तिहेतुः प्रवर्गक धर्मः । प्रवर्तकधर्मत्वं चाहमेनं प्रवर्तथा- माति देवदत्तस्त्वां पर्वतयति नाहमित्यादिमतीतिसाक्षिकं, भो- जनस्य स्वनिष्ठप्रतिहेतुत्वेन प्रवर्तनात्ववारणाय परनिष्ठति, प्रवृ- त्तिविशेषणम् । आचार्यत्वादिवारणाय प्रवृत्तिहेतुरिति । प्रवृत्ति- हेतुलिङादिवारणाय धर्मत्वं समवेतत्वं बोध्यम् । स च धर्मों लोके इच्छादिरूपो वेदे तु तदसम्भवाल्लिङगदिनिष्ठो ऽलौकिकः कल्प्यते । प्रवृत्तिजनकत्वं च प्रवृत्तिविषयेष्टसाधनताज्ञानजनन· द्वारेत्याक्षिप्तेष्ट साधनताबोधकत्वात् सिद्धं विधेः प्रामाण्यम् । एतच्च नियोज्यान्वयवादे स्फुटीकरिष्यते । एवमर्थवादानामपीष्टसा- धनयागविशेष्यकलक्षितमाशस्त्यप्रकारकपमितिजनकत्वेन भाव- नाविशेष्यकथाशस्त्यादिमितिजनकत्वेन वा प्रकारांशे अनधि- गतार्थगन्तृत्वं विशेष्यांशें धर्मप्रमाजनकत्वं चोपपादनीयम् । एवं मन्त्राणां निर्वापाग्न्यादिस्मारकत्वेनानधिगतार्थगन्तृत्वरूप- प्रामाण्यासम्भवेपि अविसंवादिफलकत्वमेव प्रामाण्यमिति जी- र्णाः ॥ अङ्गताविधिकल्पनद्वारेष्टसाधननिर्वापादिविशेष्यकम- न्त्रप्रकारकप्रकाश्यतादिसंसर्गकप्रमाप्रयोजकत्वेनोमयोपपत्तिरित सोमेश्वरः ॥ प्रयाजादिमन्त्रादिविशिष्टेन भावयदिनि प्रयोगवि-- . ध्यर्थे पदार्थे पदार्थविधया प्रामाण्यमिति मिश्राः ॥ वस्तुतस्तु तर्कपादः । मन्त्राणां मन्त्रवाक्यार्थबोधजनकत्वेनैव प्रामाण्यं निर्वापाग्न्यादि- संसर्गस्यानधिगतत्वेनानधिगतार्थगन्तृत्वोपपत्तेः । इष्टसाधननिर्वा- पस्य विशेष्यत्वाद्धर्मप्रामाण्योपपत्तेश्च । यदि च स्वसमाना- धिकरणस्वाव्यवहितपूर्वक्षणवृत्तिज्ञानाविषयविषयकत्वरूपमनधिग- तार्थकत्वं विभाव्यते तदा सुतरां स्मारकत्वे ऽपि प्रामाण्योपप- त्तिः । एवं नाम्नां सप्रकारकप्रमितिजनकत्वेन प्रामाण्यम् ॥ तस्य निमित्तपरीष्टिः ॥ ३॥ धर्मे वेदः प्रमाणमित्युक्तं, तत्सम्भवति नवेति परीक्षा, प्रत्य- क्षार्दानां धर्ममामाण्यासम्भवनिरूपणद्वारा क्रियतइत्यर्थः । किं नाम प्रामाण्यं प्रमाकरणत्वम् । ननु किं प्रमात्वम् । उच्यते । यथार्थानुभवत्वम् । याथार्थ्यञ्च तद्वद्विशेष्यकत्वे सति तत्प्रकार- कज्ञानत्वं, भ्रमवारणाय विशेष्यकान्तम्, रजतविशेष्यकद्रव्यत्व- प्रकारकज्ञाने रजतत्वप्रमात्ववारकं तत्मकारकमिति । न च रङ्गरजतयोरजतरङ्गप्रतीतेः प्रमात्वापत्तिः, ज्ञानक्येन तद्वाविशेष्यक- स्वतत्मकारकत्वयोः सत्वादिति वाच्यम् । तद्वद्विशेष्यकत्वा- वच्छिन्नतत्प्रकारकत्वस्य विवक्षणात् । तत्रापि येन सम्बधेन तद्वत्त्वं तेन तत्प्रकारकत्वं बोध्यम् । अतो न समवायेन लोहितः स्फटिक इति ज्ञाने ऽतिप्रसङ्गः । न चैवं पाकरक्त इदानीं श्या- मरूपवानिति प्रतीतेः प्रमात्वप्रसङ्गः । यदवच्छिन्नेत्यस्य विव- क्षितत्वात् । रूपप्रकारताया वर्तमानकालावच्छिन्नरूपवद्विशेष्य- कत्वानवच्छेदकत्वात् ॥ अन्ये तु अयं विनाशीत्यादौ मतुपो वर्तमानार्थत्वासम्भवेन सम्बन्धार्थकत्ववदत्रापि सम्बन्धार्थ- कत्वादव्याहतमेव प्रमात्वमित्याहुः ॥ निर्विकल्पकस्य तु भूपलमोभयबाहर्भूतत्वमेवाकरे व्यक्तम् । अस्तु वा तस्यापि 2009 sansien AND । । भादृचिन्तामणेः प्रमात्त्रं, विशेष्यावृत्त्यप्रकारकत्वस्यैव प्रमात्वात् । अत्र ज्ञानत्व घटितमेव प्रमात्वं सुवचं, तथापि तस्य स्मृतिसाधारण्येन तत्का रणस्य प्रमाणान्तरतापत्त्यानुभवत्वघाटितमेवानुमन्यन्ते सांप्रदा. यिकाः । अनुभवत्वस्य जातित्वेन ज्ञानत्वाघटितत्वान गौरवमि- त्यन्ये । वस्तुतस्तु ज्ञानत्वघटितमेव त, ल्लाघवात् । न च स्मृतिका- रणस्य प्रमाणान्तरतापत्तिः। इष्टत्वात् । नियुक्तिकमवादस्य हेयत्वा- त् । अत एव मन्त्राणां स्मारकत्वे ऽपि प्रामाण्यम्.। अनुभवत्वं च स्मृतिभिन्नज्ञानत्वं, स्मृतिजनकतावच्छेदकजातिविशेषो वा। न च स्मृतौ निश्चयत्वेन ज्ञानत्वेन चा जनकतेति वाच्यम् । गौ- रवात् । बहुतरानियताजनकवृत्तित्वाच । न च स्मृतितो ऽपि स्मृ. तिजननाचानुभवत्वेन स्मृतिहेतुतेति वाच्यम्.। प्रथमानुभवस्यैव संस्कारद्वारा तत्र हेतुत्वात् । न च स्मरणेनानुभवजन्यसंस्कार- नाशात्स्मरणोत्तरमस्मरणप्रसङ्गः । चरमस्मृतेरेव तन्नाशकत्वक- ल्पनात् । अतो ऽनुभवत्वेन स्मृतिजनकता । संस्कार प्रति तु उ- पेक्षान्यनिश्चयत्वेन । संशयात्संस्काराजननानिश्चयेति । समा- नप्रकारकस्मृतेरेव संस्कारनाशकत्वकल्पनात्समूहालम्बमादितो नैकागोचरक्रमिकस्मरणानुपपत्तिः । उद्बोधकसमवधानस्यैव तत्तत्स्मृतिजनकत्वात् । उपेक्षात्वं च प्रवृत्तिनिवृत्त्यजनकज्ञानत्व- म् । तादृशेन संस्कारानुत्पत्तेः सर्वसम्मतत्वात् । उपेक्षान्यत्वञ्च उपेक्षात्वात्यन्ताभावत्वम् । तेनांशे उपक्षात्मकस्यांशे ऽनुपेक्षात्मक- स्य सुवर्णतणे इति ज्ञानस्याद्याशेन संस्काराजनकत्वमपत्यूहम् । तदंशे उपेक्षात्वाभावसत्त्वात् । इदं रजतामति ज्ञाने प्रकारांशे प्रमात्वाभाववत् । अतो ऽनुभवत्वं जातिः। वस्तुतः संस्कारं प्रति उपेक्षान्यसंशयान्यानुभवत्वेन स्मृति प्रति ज्ञानत्वेन जनकता, ना- तः पण्डसंस्कारकल्पनेति युक्तम् । एवं च संस्कारजनकताव- तर्कपादः । १३ च्छेदकतया ऽनुभवत्वजातिसिद्धिरिति ॥ संस्कारश्च सविषय. कः । अन्यथा पटविषयकानुभवस्य स्वजन्यसंस्कारसम्बन्धेन स्मृतिहेतुत्वे घटत्वप्रकारकानुभवात् तद्विशेष्यकस्मरणापत्तिः। अ. तः समानप्रकारकसमानविशष्यकसंस्कारस्य तादृशस्मृति प्रति हेतुत्वान्नानुपपत्तिः । एवं च स्मृतिजनकतावच्छेदके ऽनुभवत्व- स्याप्रवेशेन लाघवम् । समानविशेष्यकसमानप्रकारकत्वेनैव स्मृ- तिजनकत्वादिति दिक् ॥ स्मृतित्वं च ज्ञातविषयकज्ञानत्वं, सं- स्कारजन्यज्ञानत्वं वा । एवं चाज्ञातविषयकं : बाधकंज्ञानरहित- ज्ञानं प्रमोति फलितम् । अनेनैवाशयेनागृहीतग्राहित्वं प्रामाण्य- मित्याचक्षते । न चैवं गृहीतविषयकधारावाहिकज्ञानस्यामामा- ण्यप्रसङ्गः । कालस्य. षडिन्द्रियवेद्यत्वेन पूर्वक्षणविशिष्टघटस्य वि. षयीकरणेन तादृशस्योत्तरज्ञानाविषयतया ऽनधिगताविषय- कत्वसम्भवात् । मन्त्राणामनुवादवाक्यानां स्मृतीनां च स्व- समानाधिकरणस्वाव्यवाहितपूर्वक्षणवर्तिज्ञानाविषयविषयकत्वस्व- रूपागृहीतग्राहित्वेन प्रामाण्योपपत्तिः ॥ तानि च प्रमा- गानि प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्ध्याख्यानि प- इ लौकिकानि । धर्मप्रमाणानि वियर्थवादमन्त्रनामधेयस्मृति. शिष्टाचाररूपाणि षट् ॥ धर्मभेदकानि शब्दान्तराभ्याससंख्या- नामगुणप्रकरणान्तराणीति षट् । धर्माङ्गताबोधकानि श्रुतिलिङ्ग- वाक्यमकरणस्थानसमाख्यति षट् । श्रुत्यर्थपठनस्थानमुख्यम- त्तिरूपाणि षट् क्रमबोधकानि । वचननामलिङ्गान्यतिदेशप्रमाणा- नि । स्थानापत्तिरूहप्रमाणम् । प्रत्याम्नानप्रतिषेधार्थलोपरूपा- णि बाधप्रमाणानि ॥ एवमेकत्रिंशदलौकिकप्रमाणानि । एषा- -मालोकसंयोगादिवत्सहकारितामातं, विधिरेवात्र मानमित्य- पि केचित् । इदं तु चिन्त्यते । ज्ञानप्रामाण्यं ज्ञानहेतुभिन्नहेतु- Hit SMARCH AN RE १४ भादृचिन्तामणे: जन्यं ज्ञानग्राहकभिन्नज्ञानग्राह्यञ्चो, तरज्ञानसामग्रीजन्यं ज्ञान- ग्राहकसामग्रीग्राह्य वेति ॥ अत्र नैयायिकाः । प्रमात्वं ज्ञानसामा- न्यकारणभिन्न कारणजन्यतावच्छेदकम् । ज्ञानवृत्त्यनित्यधर्म- त्वात् । अप्रमात्ववदित्यनुमानेन प्रमावस्येन्द्रियादिगतगुणजन्य- त्वं सिद्धयति । दोषाभावस्य कारणत्वे गौरवात् । पीतः शङ्ख इति शङ्खममानुत्पत्तिप्रसाच । अन्वयव्यतिरेकाभ्यां तहेतुक- त्वसिद्धेश्च । एवं च प्रमायां गुणः भ्रमे दोषः कारणम् । किं च रङ्गादपि रजतज्ञानोत्पत्तिदर्शनान्न ज्ञानमात्रस्य तत्प्रकारक- त्वावच्छिन्नतद्वादशण्यंकत्वानयमः । अतस्तत्र भिन्ना सामग्री वा- च्या। ज्ञानसामान्यकारणजन्यत्वे जन्यज्ञानमात्रस्य प्रमात्वप्रस- गः । तेन प्रामाण्यमप्रामाण्यं च परत उत्पद्यते । एवं ज्ञानान्तरण गृह्यते । तच्च इदं ज्ञानं प्रमा, गुणवत्कारणजन्यत्वात्, अर्थ- क्रियासंवादात्, बाधाभावाद्, इत्याधनुमानम् । संवादत्वं च त- द्विषयविषयकत्वम् । न चैवं वेदवाक्यजन्ययागस्वर्गसाध्यसाध- नभावज्ञाने ऽर्थक्रियासंवादाभावात् न कदापि प्रामाण्यनिश्चयः स्यादिति वाच्यम् । तेषामीश्वरवाक्यजन्यतया गुणवत्कारणज- न्यत्वेन तदनुमानात् । न चार्थक्रियादिज्ञानेषु कयं प्रामाण्य- निश्चय इति वाच्यम् । अगत्या तत्र स्वतःमामाण्यग्रहाङ्गी- कारात् । तस्मात्परतः प्रामाण्यं निश्चीयतइत्याहुः । सिद्धान्त- स्तु अनन्तगुणानां हेतुत्वमपेक्ष्य ज्ञानसामान्यसामग्रीजन्यत्व- स्यैवोचितत्वात् । दोषवादन्द्रियजन्यस्यापि धयेशे प्रमावी- च । एतेन गुणज्ञानज्ञाप्यत्वं दोषाभावज्ञानज्ञाप्यत्वं चापा- स्तम् । अनेकदोषाभावानामननुगतत्वेन गौरवात् । अतो न ज्ञानोत्पत्तेः परतस्त्वं, नापि ज्ञप्तेः परवस्त्वं सम्भवति । तथा हि । नोदकाहरणरूपार्थक्रिया ज्ञानेनार्थनिश्चयद्वारा पूर्वज्ञाने तर्कपादः । प्रामाण्यनिश्चयः । तस्यापि स्वप्नावस्थायामर्थव्यभिचारेण तेनार्थनिश्चयासम्भवात् । नापि तज्जन्यसुखोत्पत्त्या । अयथा- र्थादपि स्वप्ने चन्दनलेपादिज्ञानात्सुखोत्पत्तेस्तस्याप्यर्थव्यभि- चारात् । किं चोदकाहरणादिरूपार्थक्रियया व्याप्यविधया घ- ट निश्चयः । व्याप्तिश्च सम्बन्धरूपति नागृहीते सम्बन्धिान ग्रहीतुं शक्यते । तत्र सम्बन्धिघटज्ञाने स्वत एव प्रामाण्यनिश्च- यो वाच्यः । एवं गुणज्ञानसंवादानयोरपि । न चैताभ्यां -विषयो निश्चेतुं शक्यते । न च तत्रापि ज्ञानान्तरेण प्रामाण्यनि- श्चयः । अनवस्थापत्तेः । एवं च स्वत एवार्थतथात्वनिश्चयो वाच्यः । एवं तर्हि घटादिज्ञानेपि स्वत एव प्रामाण्यं, तस्यापरा- घाभावात् । तेन ज्ञानग्राहकेणैव तस्य ज्ञानामति सिद्धं प्रामाण्य- ज्ञप्तेः स्वतस्त्वम् । किं च ज्ञानं न प्रत्यक्षम् । तस्य प्रत्यक्षत्वे नि- विकल्पकमल्लक्षवारणाय निष्पकारकत्वनिर्विशेष्यकत्वनिःसंसर्ग- कत्वानां विनिगमकाभावेन त्रयाणामपि प्रतिबन्धकत्वकल्पने गौरवात्। न च विशिष्टवैशिष्टयप्रत्यक्षे विशेषणतावच्छेदकप्रकारक- निश्चयस्य हेतुतया तदभावान निर्विकल्पकप्रत्यक्षतापत्तिरिति वा- च्यम् । विशष्ये विशेषणमिति रीत्या एकत्राभयामति रीत्या वाता- दृशप्रत्यक्षे विशेषणतावच्छेदकप्रकारकनिश्चयस्य हेतुत्वाभावेन तीत्या निर्विकल्पकमत्यक्षापत्तेर्दुवारत्वात् । एवं चावश्यकम- तिबध्यप्रतिबन्धकभावकल्पनमपेक्ष्यात्मनिष्ठगुणप्रत्यक्षे तादात्म्येन ज्ञानस्यव धर्माधर्मभावनानामिव ज्ञानभावनादृष्टसाधारणवजा- त्य कल्पनया तज्जात्यवच्छेदैनव वा प्रतिबन्धकत्वकल्पनमुचित- म् । जानामीत्याउनुभवानामपि अनुभवामीत्युपनीतभानत्वम् । रंवं च विषयनिष्ठज्ञाततया तनिष्ठमेव ज्ञानमनुमीयते । घटो ज्ञाततावत्त्वादिति । तत्र घटलनिष्ठ- भादृचिन्तामणेः प्रकारतानिरूपितविशेष्यतासम्बन्धेन ज्ञानानुमितौ तादृशमकार- तानिरूपितविशेष्यतारूपमामाण्यग्रहः । न च ज्ञाततायाः प्रमा स्वाव्याप्यतया तदनुमापकत्वासम्भव इति वाच्यम् । प्रमात्व- स्याननुमेयत्वात् । ज्ञानानुमाने समानसंविसंवेद्यतया ज्ञानत्वव- त्ममात्वस्य स्वतस्त्वसम्भवात् । न च ज्ञातताया मानाभावः । तस्या विषयज्ञानातिरिक्ताया आवश्यकत्वात् । तथाहि । न न ता- वाद्वषयता ज्ञानस्वरूपा। घटप्रकारकभूतलविशेष्यकज्ञानाद्भूतल. प्रकारकघटविशेष्यकानुव्यवसायापत्तेः । नापि विषयस्वरूपा,. विशिष्टज्ञानसमूहालम्बनयोरवैलक्षण्यापत्तेः । अत उभयातिरिक्ता, सा च नित्या, लाघवीत् । अन्यथा ऽनन्ततत्तद्विषयकज्ञानैरनन्त- तत्तद्विषयत्रोत्पत्तितन्नाशकल्पनात् गौरवापत्तेः । एवं च नष्ट- युधिष्ठिरादिविषयकज्ञानोत्पत्तिरपि सुळभेति युक्तम् । अन्ये तु आत्मघटयोप्प्यतालक्षणः सम्बन्धो मानसप्रत्यक्षः स विषयते- त्याहुः । तेषां भावं नाकळयामः ॥ अन्ये तु तत्तज्ज्ञानज- न्या तत्तद्विषयनिष्ठा ज्ञातता सा च नष्टभाषिविषयनिष्ठा- पि । न चासतोः कथं कार्योत्पत्तिरिति वाच्यम् । द्वित्वादि- वदुत्पत्तौ बाधकाभावात् । न च तत्र नष्टद्वित्वस्य स्मरणामिति वा- च्यम् । अननुभूतद्वित्वस्य स्मरणासम्भवात । न च यावदाश्रय- प्रत्यक्ष विना कथं द्वित्वप्रत्यक्षमिति वाच्यम् । लाघवेन संयो- गप्रत्यक्षे तस्य हेतुत्वाङ्गीकारेण व्यासज्यवृत्तिधर्मप्रत्यक्षे तस्य हेतुत्वाभावेन तत्प्रत्यक्षस्य सुवचत्वान् । न चाश्रयमत्यक्षं विना कथं तनिष्ठगुणप्रत्यक्षमिति वाच्यम् । वायुप्रत्यक्षाभावे अपि त- निष्ठस्पर्शप्रत्यक्षस्य त्वयैवाङ्गीकारात । अतो द्वित्वबहुत्वयोर्भा- विभूतपदार्थनिष्ठत्ववत् तत्तज्ज्ञानोल्पायविषयताया अपि भावि- भूतपदार्थनिष्ठत्वम् । न च द्वित्त्वादेर्गुणस्य समवायिकारणाभावेन BIHARI तर्कपादः। भाविभूतयोः कथमुत्पत्तिरिति वाच्यम् । समवायसम्बन्धेन भा. वकार्योत्पत्तौ तादात्म्यसम्बन्धेन द्रव्यस्य जनकतेतिं समवायि- कारणकार्यकारणभावस्य वक्तव्यत्वेन संख्यायाः पदार्थान्तरत्वेन विषयतावत् समवायनोत्पत्यभावेन समवायिकारणानावश्यक- त्वात् सङ्ख्याया विषयतायाश्चाभावं जानामि, अभावौ द्वौ, चतुर्विशतिर्गुणा इति प्रतीत्या ऽभावगुणादिनिष्ठतया स्वरूप- सम्बन्धेनवोत्पत्यङ्गीकारेण. समवागिंकारणानावश्यकत्वात् । न च .द्वित्वादीनामाकस्मिकत्वप्रसङ्गः । अपेक्षाबुद्धरेच जनकतया नियामकत्वात् । अपेक्षाबुद्धभिव्यञ्जकन्वे तु नित्यतया न तदापत्तिप्रसङ्गोपि । न च कार्यसमवेतगुणत्वेनानित्यत्वा- नुमानांत् कथं नित्यत्वमिति वाच्यम् । एकत्वेनाङ्गीकृतासु अरु- णादिव्यक्तिषु व्यभिचाराद्, अनुकूलताभावेनाप्रयोजकत्वा- च । न चआश्रयाभावे विषयताद्वित्वादेः कावस्थानमिति वा- च्यम् । कपालादिनाशे क्षणमात्र घटादेरिव विषयताया अपि स. वे बाधकाभावात् । अतो नष्टघटादावपि घटो ज्ञात इत्यायनुभ- वाद भूतभाविनिष्ठत्वमिति, दिक । अत एव ज्ञानजन्यज्ञात- तावत्वाद् घटं जानामीति कर्मत्वोपपत्तिः । तस्मादतिरिक्ता विषयता । किं च ज्ञानेच्छाकृतिसंस्काराणां समानविषयक- स्वेनैव कार्यकारणभावे लाघवादपि विषयता ऽतिरिक्ता, सैव च ज्ञातता, तयैव ज्ञानं गृह्यते, तनिष्टप्रमात्वमपीति स्वतस्त्वम् । नन्वेवमिदं ज्ञानं प्रमा नवेति सन्देहो न स्यात्, ज्ञानाग्रहे ध- मिज्ञानाभावात्, तद्रहे तनिष्ठप्रमात्वस्यापि ग्रहादिति चेन्न । नायं ज्ञानविशिष्टममात्वसंशयः, किं तु विषय संशय एवार्य, पुरो- वत्तिनि रजतत्वमास्ति वा नवेति रजतादिज्ञानोत्तरं प्रमावस्मरणे रजतादिज्ञाननाशात्तत्संशयोपपत्तेः । यद्वा धर्मिज्ञानामावपि

PERRENT
१८
भादृचिन्तामणे
धर्मीन्द्रियसन्निकर्षमात्रेण संशयोत्पत्तिः । यद्वा सत्यपि प्रामा-
ण्यज्ञाने दोषवशादेव तदुत्पत्तिः । दोषश्चानभ्यासदशानापन्न-
त्वमिति । तस्माद्युक्तं ज्ञप्तिमामाण्थस्य खतस्त्वमिति ॥गुरवस्तु घ.
टादिमात्रविषयकं न ज्ञानं सर्वज्ञानानां त्रिपुटीविषयकत्वाङ्गीका-
रात् । त्रिपुटी च ज्ञानात्मविषयरूपा, तेन सर्वज्ञानं घट जाना-
मात्याद्यनुव्यवसायाकारमिति । स्वेनैव स्वस्य .घटादिविषय-
कग्रहणात्ततः प्रामाण्यमित्याहुः ॥ मुसरिमिश्रास्तु घयदिज्ञानो-
त्तरं घटं जानामीत्याद्यनुव्यवसायो जायते तेन घटत्ववद्विशेष्य-
कत्वघटत्वप्रकारकरूपप्रामाण्यग्रह इत्याहुः । वस्तुतो जलादिज्ञा-
नोत्तरं प्रवृत्त्या जलादिनिश्चयोत्तरं पूर्वज्ञाने प्रामाण्यं जानाती-
ति कश्चित् । कश्चिन्तु ज्ञात्वा प्रामाण्यं प्रवर्तते इत्यनुभवांज्जातं
ज्ञानं प्रमा न वेत्यादिसंशयानुभवान्नज्ञानमात्रे स्वतः प्रामाण्य-
निश्चयो युक्तः । नापि परतः प्रामाण्यं क्व चित्सिद्धान्तभ-
झापादकम् । किं तु कुत्र चित्स्वतः प्रामाण्यग्रहः । क्व चित्प-
रत इत्यननुगत एव प्रामाण्यग्रहः । शक्तिग्रहवत् । तेन वेदजन्य-
ज्ञाने संशयाभावात्स्वतः प्रामाण्यं, तद्भिन्नज्ञाने तु परतः प्रा-
माण्यं ज्ञायते । अतएव स्मृतिजन्यज्ञाने सन्मूलकत्वगुणज्ञानादेव
प्रामाण्यं सिद्धान्तेप्यङ्गीकृतमिति युक्तमुत्पश्यामः ॥
इति गागाभट्टकृतभाचिन्तामणी
ज्ञानप्रामाण्यविचारः ॥
सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्र-
सक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ॥ ४ ॥

। तर्कपादः । इदानी प्रत्यक्षस्य धर्मप्रामाण्यनिराकरणाय प्रत्यक्षलक्षण- मुक्तं सूत्रकारेण । न तावदिन्द्रियजन्यं ज्ञानं प्रत्यक्षमिति लक्षण- म् । ज्ञानमात्रस्य मनोजन्यत्वात् । अत इन्द्रियार्थसम्बन्धजन्यं. ज्ञानं प्रत्यक्षमिति सूत्रकारः । न चेश्वरप्रत्यक्षे ऽव्याप्तिः। ईश्वर- ज्ञानस्यानुमितिविलक्षणत्ववत् प्रत्यक्षविलक्षणत्वादिति जीर्णाः॥ या ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् । अनुमित्युपमितिशाब्दबोधा- पत्तिस्मृतीनां ज्ञानकरणकत्वात् । न च सविकल्पकप्रत्यक्षे वि. शिष्ट्वैशिष्टयप्रत्यक्षे चाव्याप्तिः, तयोनिर्विकल्पकादिज्ञानकरण कत्वादिति वाच्यम् । व्यापारवदसाधारणकारणस्य करणत- या तज्जन्यत्वे सति तज्जन्यजनकस्य व्यापारतया च निर्विक- ल्पकादेः कारणत्वे ऽप्यकरणत्वात् । जन्यज्ञानजन्यमात्रवृत्तिजा- तिशून्यज्ञानत्वं वा । सर्वत्र प्रत्यक्षे इन्द्रियस्य करणत्वात् । तत्सं- बन्धस्य व्यापारत्वाच्च तादृशानामनुमितित्वादीनां प्रत्यक्ष ऽभावाल्लक्षणसङ्गतिः । सविकल्पकत्वादिकं तु न जातिः। इन्द्रि- यत्वं च संबद्धार्थविशदावभासकत्वम्, अपरोक्षज्ञानजनकद्रव्य त्वं वा, ज्ञानानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वं वा ॥ तच षड्विधम् । घाणरसनचक्षुस्त्वक्श्रोत्रमनोभेदात् ।.त- त्राद्यानि चत्वारि गन्धरसरूपस्पर्शमात्राभिव्यञ्जकतयागन्धादि- मत्त्वानुमानन पृथिव्यप्तेजोवायुप्रकृतीनि । श्रोत्रमपि शब्दमात्र- ग्राहकतया शब्दवत्त्वानुमानेनाकाशात्मकमित्यक्षपादीयाः । अ- ध्रिगुप्रैषान्तर्गतदिशःश्रोत्रमिति लिङ्गादिगात्मकत्वं युक्तम् । मनसि च सुखीति प्रत्यक्षमिन्द्रियजन्यं, प्रत्यक्षत्वा, दित्यनुमान प्रमाणम् । अन्ये तु सुखादीनां नित्यद्रव्यविशेषगुणत्वेन द्रव्या- न्तरसंयोगासमवायिकारणकत्वे सिद्ध तादृशसंयोगाश्रयतया मनःसिद्धिरित्याहुः ॥ तन्न । शरीरसंयोगेन सिद्धसाधनादर्था- भाइचिन्तामणे न्तरत्वाच्च । तच्चान्तरिन्द्रियं स्वातन्त्र्येणात्मतद्योग्यगुणतद्- तजातिमात्रग्राहक, बाह्यविषयेषु तस्य स्वातन्त्र्याभावात् । कुतो न स्वातन्त्र्यमिति चेन्न । तस्याणुपरिमाणस्य देहाहाहर्भावामा- वेन सन्निकर्षासंभवायुगपज्ज्ञानानुत्पत्तिश्च मनसोणुत्वे प्रमा- णम् । येपि तस्य विभुत्वमाहुस्तेषामपि देहावच्छिन्नस्येन्द्रिय- त्वादस्वातन्त्र्याक्षदिः, युगपजज्ञानोत्पत्चिरिष्टैच 1 सनिकर्षश्च संयोगः; संयुक्तसमवायः, संयुक्तसमवेतसमवायश्चेति । द्रव्यं संयोगेन, सद्गतगुणकर्मजातयो द्वितीयेन, गुणकर्मगत जातवस्तृ-. तीयेन। के चिन्तु संपवायरूपप्रत्यासत्त्या द्रव्यगुणकर्मसामान्यग- ता सत्ता गृह्यते । सत्ता च तत्कालसंबन्ध इति तस्य जातिगतत्वं नानुपपन्नमित्याहुः, तेषां भावं नाकलयामः । शब्दस्य च द्रव्य- वात्तत्रापि संयोग एव संबन्धः । ननु बाधेन्द्रियग्राह्यतया शब्दे गुणत्वमिति चेत् । न । वायौ रूपत्वादिसामान्ये च व्यभिचारात् । प्रत्यक्षद्रव्यगुणत्वाभावविशिष्टप्रत्यक्षेण गुणत्वा- भावानुमानाच्च । तत्रापि कर्मवेगवत्त्वेन द्रव्यत्वानुमानम् । नं च तथापि शब्दे श्रोत्रसंयोगासम्भवः, तस्य सर्वत्रोपळे- म्भेन विभुतया दिगात्मकश्रोत्रस्यापि विभुतया संयोगासमवा- यिकारणकर्माभावादिति वाच्यम् । न तावत्संयोगत्वावच्छिन्नं प्रति कर्मणो जनकता, संयोगजसंयोगे व्यभिचारात् । किंतु विजातीयसंयोगे, तत्र वैजात्यकल्पनमपेक्ष्य जन्यसंयोगे कर्मत्वे- न कारणता युक्ता । संयोगजसंयोगानङ्गीकाराच्च न व्य- भिचारः। विभुनी मिथः संयुक्त निरन्तरद्रव्यत्वात, घटाकाशव- दित्यनुमानेन विभुसंयोगसिद्धेश्च ॥ तच्च प्रत्यक्षं निर्विकल्पकं सविकल्पक ञ्चति द्वेषा । प्रका-.. रताविशेष्यतादिविषयतारहितं ज्ञानं निर्विकल्पकं, तद्विशेषण- तर्कपादः । २१ विशेष्यभावानापन्नघटघटत्वादिविषयकम् । इन्द्रियसंयोगान- न्तरमविविक्तसामान्यव्यक्तिभागस्य व्यक्तिमात्रगोचरज्ञानस्य जायमानत्वात् । तच्च प्रत्यक्षं, किं चिद्भासतइति प्रतीतेः, अश्वोप्ययं न तथा पूर्व प्रतीत इति प्रतीतेश्चेति के चित् । विशिष्टज्ञानरूपसविकल्पकस्य विशेषणज्ञानं विनोत्पत्त्यसम्भवा- दलमानगम्यनित्यन्ये ॥ विशेष्यविशेषणेन्द्रियसन्निकर्षस्य विशिष्टज्ञानहेतुतया विशेषणज्ञानस्य विशिष्टज्ञाने न हेनुत्त्वमिति के चित् ॥ तत्सिद्धं घटत्वनीलपीतादिनानाधर्मविषयकं निर्वि- कल्पकम् ॥ सविशेष्यक सप्रकारकं ससंसर्गकंवा ज्ञानं सविक- ल्पकम्. । तच्च जातिद्रव्यगुणक्रियानामविषयकतया पञ्चधा । चाक्षुषादिमेदेन षोढ़ा च । तत्र प्रत्यक्षमात्रे महत्वं हेतुः । तच्च द्रव्यप्रत्यक्ष समवायेन, गुणक्रियाजातिप्रत्यक्षे समवायघटितसा- मानाधिकरण्येन,गुणक्रियागतजातिप्रत्यक्षे त्वेकार्थसमघायसमवा- येन । चाक्षुषे चोद्भूतरूपमुद्भूतानभिभूतरूपालोकंसंयोगश्च । कालादिचाक्षुषे महत्वोद्भू तरूपादीनां न हेतुतेति के चित् । स्पा. शेने चोद्भूतस्पर्शः । न तु रूपमपि । तेन वायुरापत्वाचप्रत्यक्षः। एवं च बहिरिन्द्रियजन्यप्रत्यक्षत्वं नोद्भूतरूपकार्यतावच्छेदक, किं तु चाक्षुषत्वादिजातिरेवेति लाघवम् । मानसेपि महत्त्वं हे- तुरिति के चित् । नेत्यन्ये ॥ केचित्तु क्रिया न प्रत्यक्षा, किं- तु विभागोत्तरसंयोगाभ्यामनुमेया । अतस्तत्प्रत्यक्षे महत्त्वस्य न हेतुत्तेत्याहुः ॥ द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोन्धकार- शब्दरूपाण्येकादश ।गुणा रूपरसगन्धस्पर्शपरिमाणसंयोगविभा- गपरत्वापरत्वगुरुत्वद्रवत्वस्नेहसंस्कारादृष्टबुद्धिसुखदुःखेच्छाद्वेषय- ना इति विंशतिः । कर्म चलनात्मकमेकम् । सामान्यं परा- भाइचिन्तामणे: पररूपं द्वधा । समवायश्चैकः । शक्तिस्त्रिधा । सहजा ऽऽधेया पदशक्तिश्चेति । अभावस्विधा । ध्वंसो ऽत्यन्ताभावो भेदश्चे- ति ॥ एवं च द्रव्यगुणकर्मसामान्यसमवायशक्तथभावाः सप्त पदार्थाः ॥ संख्यापि गुणादिवृत्तित्वात्पदार्थान्तरमित्यन्ये ॥ गुणसमुदाय एव पृथिव्यादिद्रव्यं, नातिरिक्तमिति के चित् । तन्न । पृथिव्यादौ पाकादिना पूर्वरूपनाशस्योत्तररूपोत्पत्ते- श्चानुभवसिद्धत्वात् ॥ अन्य त्ववयवसमुदायमेवानयाविनमाहुः । तदपि न । उत्पन्नः पटो विनष्टः पट इत्यादिप्रतीतः । तेन पटो रूपवान् नीलश्चळति डित्थो ऽयमिति सविकल्प सिं. । ननु नेयं प्रमा । अलीकघटत्वादिजातिविषयकत्वात् । तथा- हि । न तावद्वयक्तिभिन्ना जातिः प्रत्यलक्षत उपलभ्यते । इह गवि- गोत्वमिति प्रतीत्यभावात् । भिन्नापि सा सर्वगता व्यक्तिमात्र- निष्ठा वा । अन्तरालेनुपलब्धेर्नाधः, द्वितीयपि नित्याया उत्प. त्ययोगात् । अमूर्तीया व्यक्तयन्तरादागमनासम्भवाद् भविष्यति घटे सा न स्यात् । न चांशत आगमनम्, निरवयवत्वात एक- मेकस्यां व्यक्तौ कृत्स्नायामंशेन वा न वृत्तिासम्भवतीत्यवगन्त- व्यम् । अतो न व्यक्तितो भिन्ना जातिः सम्भवति । व्यक्तया- त्मकत्वं तु नित्यत्वानित्यत्वाम्यां विरुद्धाभ्यामफ्हास्ततम्, भेदाभेदश्चात्यन्तविरुद्धः । एवं च स्वलक्षणरूपशुद्धविषयकमेव निर्विकल्पकं प्रमति चार्वाकैकदेशिमः । तन्न । काणकूटायसह- शगोव्यक्तिष्वेकाकारप्रत्ययानुपपत्तेः । किं च सामान्यस्या- लीकत्वं वदता वस्तुत्वव्यापकभेदाभेदासम्भवेन सामान्य वस्तुत्वं निराक्रियते । सिद्धं सहि वस्तुत्वसामान्यम् ।.. भेदाभेदाङ्गीकारेण च पूर्वोक्तमत्यक्षापादनादिनिरासः । इयं वर्कपादः । शौरिति पदयोभिन्नप्रवृत्तिनिमित्तकयोः सामानाधिकरण्येनानु- सव्यावृत्ताकारवोधकत्वेन भेदाभेदसिद्धिः । किञ्च जा- तिव्यक्त्योः समवायसम्बन्धाङ्गीकारेण चाभेदसिद्धिः । येन सम्बन्धनाधेयमाधारस्य स्वानुरक्तबुद्धिजनकं स सम्बन्धः सम- वायः न त्वयुतसिद्धसम्बन्धः सः । युतसिद्धर्वक्तुमशक्यत्वात् । पृथकूचलनवत्त्वस्य वृक्षशाखयोः सत्त्वेन तयोः समवायसम्ब- न्धों न स्यात् । अतो भेदाभेदः । एवमवयवांवयविनोर्गुणगु णियोः क्रियाक्रियावतोरपि भेदाभेदोनुसन्धयः । तेन सिद्धं सामान्य जातिरूपं, तद्बाधके तूपाधिरूपम् । सामान्यं च नि- त्यमेकमनेकागुगतम् । तद्धाधकानि च व्यक्तेरभेदस्तुल्यत्वं सङ्कराथानव स्थितिः । रूपहानिर सम्बन्धो ह्यांशिकत्वमपीष्यते ॥ इति । एकज्यक्तिमतं न सामान्यम् । तुल्यव्यक्तिगतं न सामान्यद्वयम् । पथा घटस्वकलशत्वादि । परस्परांत्यन्ताभाव- समानाधिकरणमेकष्यक्तिवृत्ति न सामान्यं द्वयम् । यथा भूत- स्वमूर्तत्वे । अनित्यम् न सामान्यं, यथा पृथुबुध्नोदराकारत्वम् । असमवेतं न सामान्यम् । यथा ऽभावत्वादि । आंशिकं न सा- मान्यम् । यथोपेक्षात्वमिति दिक् । तत्राप्यांशिकत्वं सङ्करान्तर्गत- म् । स्वसधानाधिकरणात्यन्ताभावप्रतियोगित्वस्य जातिनिष्ठ- स्वस्वाभाचोभयसामानाधिकरण्यकत्वस्य भेदाभेदगर्भस्य दूष- कताबीजस्य तुल्यत्वादित्यस्तु प्रसक्तानुप्रसक्तम् । अत:- सविकल्पकपमा सिदा ॥ अत्र निरालम्बनवादिनः । सर्वाणि बाह्यघटादिविषयका- ..णि सविकल्पकज्ञानानि मिथ्यार्थविषयकाणि, बाह्यार्थविषयक- ज्ञानत्वात् । स्वममत्ययवत् । स्वमज्ञानानां हि बाह्यघटायाकारण ।

२४ Arena FANAM KARE Bhudai Dalenda sar BAVANATARA H SHAHARI Here भाचिन्तामणेः परिणतं ज्ञानमेव विषयो न घटादि, तदानीमभावात् । मनःप्र- त्यासत्यभावात् । स्वशिरश्छेदादीनामसम्भवाच्च । अतस्तत्र ज्ञानरूपास्मैव विषयः । एवं सर्वज्ञानानामिति दृष्टान्तेन न कि चिदपि ज्ञानं प्रमेत्याहुः ॥ तन्न । स्वमप्रत्ययानामात्मविषयक- स्वासिद्धया दृष्टान्तासिद्धेः । किं च नीलोयमित्यादिसविक- ल्पकानामात्मविषयकत्वे नीलोहमित्याकारत्वापचिः। अत इदं बाह्यविषयकम् । बाधकामावेन ममैवेति ॥ शून्यबादी तु न ज्ञानातिरिक्तो बाह्यो विषयो ऽस्ति, ज्ञान- स्यैवाकारो विषयो ज्ञानस्वरूपात्मक एच, स्वमज्ञानवत्, तेन सविकल्पकं न प्रमी । तथाहि । नीलादेः किं ज्ञानविण- यत्वम् । चं तावत्पदार्थत्वं सत्तावत्वं वा । नीलज्ञाने पीतादेर- पि विषयत्वप्रसङ्गात् । न ज्ञानहेतुत्वम्, इन्द्रियादेरपि तत्त्वप्र- सङ्गात् । नापि ज्ञानजनकसन्निकर्षाश्रयत्वम् ।। रूपज्ञाने स्पर्श- स्य विषयत्वापत्तेः । नापि सादृश्यविशिष्टहेतुत्वं, विशेषणज्ञान- स्य ज्ञानत्वेन सादृश्याद्धेतुत्वाच्च विशिष्टज्ञाने विषयत्वप्रसङ्गात । न चात्यन्तसादृश्यं विवक्षितं, तच्च न ज्ञानत्वेन, तस्य साधार त्वात् । किं त्वेकज्ञानविषयत्वेन । तच्च त्रिपुटीमत्यक्षाङ्गीकारेण ज्ञाननीलमोरेकज्ञानविषयत्वाद्धेतुत्वाच्चोपपनं विषयवामिति वाच्यम् । धारावाहिकज्ञानेषु पूर्वज्ञानस्य सादृश्नोत्तरज्ञाने विषयत्वापत्तेः । ज्ञानस्य स्वस्मिन्स्वस्य हेतुत्वासम्भवेन विषय- स्वानुपपत्तेः । न च ज्ञाने नीलाद्याकारतासमर्पकल्वे सति हेतु- त्वम् । तच्च जपाकुसमस्येव सन्निधिनेति वाच्यम् । विषय- स्य नीलायाकारतासमर्पकत्वे मानाभावात् । ज्ञानवैचित्र्यं मानमिति चेत् । न । अर्थ विनापि स्वमज्ञानवैचित्र्यदर्शनात् .. नापि ज्ञानजन्योपादानहानादिव्यवहारवत्वम् । घटज्ञाने. बट- ।

तकंपादः । २५ ज्यणुकानां विषयत्वापत्तेः । सुखादीनां स्वज्ञानाविषयत्वाप- तेश्च । न च सुखादिषु सुखीत्यादिशब्दप्रयोगो व्यवहार इति वाच्यम् । शब्दप्रयोगस्य ज्ञानविषयनिरूपकत्वाभावात् । ज्ञानवि. षयनिरूपणपूर्वकत्वेन शब्दप्रयोगस्य तेन विषयनिरूपणे इतरे- तराश्रयापत्तिः। नापि ज्ञानजन्यज्ञाततावत्वं तत् । भूतभवि. प्यतोस्तदसम्भवात् । तत्र मानाभावाच्च । अतो ज्ञानात्मकमेव तत् । किं च विषयो ज्ञानात्मको, ज्ञानेन सहोपलभ्यमानत्वा- द,• ज्ञानत्ववत् । सहानुपलभ्यमानयोर्घटपटयोर्मेददर्शनमनु- कूलतः । न च घटोयमिति ज्ञानस्य ज्ञानाविषयत्वेनासिद्धः सहोपलम्भ इति वाच्यम् । उत्तरकालं ज्ञातो घट इति ज्ञान- घटयोः स्मरणदर्शनेन पूर्वानुभवस्यावश्यकतया घटोममिति ज्ञा- नस्य ज्ञानविषयकत्वकल्पनात् । स्वमादिज्ञानानां साकारत्व- मिव सर्वेषां साकारत्वेन ज्ञानातिरिक्तविषयाभाव इति स्वमतं परिष्करोति । तच्चिन्त्यम् । नीलादेानात्मकत्वे ज्ञानस्य स्वविष- याकारत्वे मानाभावात् । उक्तानुमानस्याप्रयोजकत्वात् । समूहा- लंम्बने. सहोपलभ्यमातयोर्घटपटयोरभेदाभावेन व्यभिचारा- च्च । किं च न ज्ञानात्मको विषयः । ज्ञानासावविषयके ज्ञाने ज्ञानाभावस्य ज्ञानात्मकत्वासम्भवात् । तदेवेदमिति स्थायित्व- विषयके शाने स्थायित्वस्य क्षणिकज्ञानात्मकत्वासम्भवात् । • इदं नानाकारमिति चित्रबुद्धावनेकाकारस्यैकस्मिन्नसम्भवाच्च । किं च विषयस्य ज्ञानात्मकत्वे ज्ञानस्यापरोक्षत्वनियमेनानुमिति- विषयवन्द्यादेः परोक्षत्वानुपपत्तिः, किं चातीतकालसम्बन्धानु. मानविषयस्यातीतकालसम्बन्धस्य वर्त्तमानज्ञानात्मकत्वानुपप- -त्तिः । न च तत्रातीतं ज्ञानमेव विषय इति वाच्यम् । अतीतत्व- स्य ज्ञानाकारत्वासम्भवात् । अतोवश्यं ज्ञानभिन्नो विषयो । ४ P भादृचिन्तामणे: वाच्यः । तनिष्ठविषयत्वं ज्ञानजन्यफलभागित्वं नित्यमतिरिक्तं वे- त्युक्तं प्राक् । न च स्वमदृष्टान्तो युज्यते । तस्यापि बाह्यविषयत्वा- त् । तथाहि । स्वमे दिवसानुभूतदेशकालान्तरगताः शिरश्छेदा- दयो विषया अदृष्टोहोधितसंस्कारवशात्स्मर्यमाणा निद्रारूपदोष. वनात्मनिष्ठतया भासन्ते । एवं चान्यसम्बन्धित्वेनावगताना. मन्यसम्बन्धित्वेन भानं शुक्तिरजतज्ञानवत् । इयमेव चान्यथा- ख्यातिः । न च बाह्यविषयेषु मनसस्तदानीमसम्बन्धात्तथं भानमिति वाच्यम् । ज्ञानलक्षणायाः प्रत्यासत्तेरङ्गीकारात् । प्रमुष्टतत्ताकस्मरणाङ्गीकाराद्वा न दोषः । अतः स्वमज्ञानानां बा- ह्यविषयत्वं सिद्धम् । तेनानुभूयमानानां बाह्यार्थानामपलापासम्भ- वात्तद्विषयकज्ञाने न मिथ्यात्वं, किं तु दुष्टकारणजन्यं बाधि तमिति ॥ गुरवस्तु शुक्तिरजतज्ञानादौ न संसर्गग्रहो मानाभावात् । किं तु स्मरणांनुभवविषययो रजतत्त्वशुक्त्योरसंसर्गाग्रहमानं, ना- न्यथाख्यातिः । कि त्वसंसर्गाग्रहरूपेयमख्यातिः । एवं चासं- सर्गाविषयकतत्प्रकारकज्ञानस्य प्रवृत्तौ तस्वहारे च हेतुत्वादति- लाघवमित्याहुः ॥ तन्न । असंसर्गाविषयकत्वरजतत्वप्रका- रकत्वयोनिविशेषणयोर्विशेषणविशेष्यभावे विनिगमकाभा- वेन कार्यकारणभावद्वयकसनागौरवात् । एवं सामान्यतः प्रवृत्तौ कार्यताज्ञानस्य हेतुत्वे यत्र कार्यतानमात्मवृत्तिस्तत्रासं- सर्गाविषयकत्त्वायत्वप्रकारकत्वयोर्विशेषणविशेष्यभावे विनि. गमनाविरहेण हेतुहेतुमद्भावद्वयकल्पनम् । एवमप्रामाण्यज्ञाना- भावविशिष्टकार्यत्वप्रकारकज्ञानस्य हेतुत्वेन यत्राप्रामाण्यग्रहो भू- मरूपस्तत्राप्रमात्वात्संसर्गाविषयकत्वकार्यत्वप्रकारकत्वयोर्विशेष- णविशष्यभावे विनिगमनाविरहेण हेतुहेतुमद्भावद्वयकल्पे RAHAON तर्कपादः । ऽतिगौरवापत्तिः । अतो ऽत्रासंसर्गाग्रहस्य प्रवृत्तिव्यवहारादि- हेतुत्वानुपपत्तेनाख्यातिसम्भवः । तेनान्यथाख्यातिरूपरजतत्व- विशिष्टज्ञानस्यैव ग्रहे प्रवृत्यादिहेतुता युक्तेति । न चैवं चैत्रो र. जतज्ञानवान् कार्यताज्ञानवत्वादिति ज्ञानान्मैत्रस्य प्रवृत्त्यापत्त्या भान्तभान्तिज्ञसंकरापत्तिरिति वाच्यम् । भान्तिज्ञस्य बाधादेव प्रवृत्त्यभावोपपत्तेः । परकीयरजतत्वप्रकारकज्ञानज्ञानवतः क्षण- विलम्बेन रजतत्वप्रकारकज्ञानादेव प्रवृज्यङ्गीकारांत्। ज्ञानाविषय- कज्ञानत्वेन प्रवृत्त्यङ्गीकाराद्वा न दोषः । यद्वा रजतविषयकप्रवृ. त्तित्वावच्छिन्नं प्रति रजतत्वप्रकारतानिरूपित्तरजतनिष्ठमुख्यावशे. ष्यवाशालिज्ञानत्वेन हेतुत्वान्न काप्यनुपपत्तिरिति । किं च सर्व- त प्रवृत्तौ नासंसर्गाग्रहो हेतुः । सर्वदा प्रवृत्त्यापत्तेः । किं तु प्र- माजन्यप्रवृत्तौ तत्प्रकारकनिश्चयो हेतुः । भूमजन्यप्रवृत्तौ चा- संसर्गाग्रह इति कार्यकारणभावद्वयकल्पनागौरवम् । मम तु सर्वत्र प्रवृत्तौ तत्यकारकनिश्चयत्वेनैव हेतुत्वमिति लाघवमिति दिक् ।। तच्च सविकल्पकं द्विविधम् । लौकिकमलौकिकञ्च । उक्त- सनिकर्षजन्यमाद्यम् । सामान्य लक्षणाज्ञानलक्षणाजन्यं द्वितीयम् । सामान्यलक्षणा च सामान्यज्ञान ज्ञायमानं सामान्यं वा । तेन सम्बन्धेनेन्द्रियसम्बद्धानां तत्सामान्याश्रयव्यक्तीनां प्रत्यक्षम् । इदञ्चावश्यकम् । अन्यथा व्यवहारविषये घटे शक्तिग्रहे सर्व व्यक्तीनामप्रत्यक्षतया सर्वत्र शक्तिग्रहो न स्यात् ॥ गङ्गेशस्तु महानसीयधूम व्याप्तिप्रत्यक्षे सति धूमत्वसामान्य- लक्षणप्रत्यासच्या सकलधूमप्रत्यक्षानङ्गीकारे धूमो वन्हिव्याप्यो न वेति संशयो न स्यात् । प्रसिद्धधूमे प्रत्यक्षेण व्याप्तिनिश्चया- त् । अन्यस्य चाज्ञानात्संदेहानुपपत्तिः । किञ्च सुखार्थ कर्मणि प्रवृत्तिर्न स्यात्, सिद्धसुखच्छाविरहात । असिद्धस्य चाज्ञाना- २८ भादृचिन्तामणे: त् । एवं सुखादाविच्छापि न स्यात् । किं च कपालेषु घटन मागभावप्रत्यक्षं न स्यात् । प्राचीनघटानां प्रतियोगित्वानुपपत्त्या प्रागभारविशेषणीभूतस्य प्रतियोगिनो घटस्याज्ञानात् । एवं क- पालाधिकरणको वर्तमानप्रागभावप्रतियोगी घट इति शाब्दबो- घोपि न स्यात् । अत: सामान्यलक्षणा ऽङ्गीकार्येति ।। अत्र शिरोमाणिः । प्रसिद्धधूमे तमत्वन व्याप्तिनिश्चयोपि धूमत्वेन तन्निश्चयाभावात् उक्तसंशयस्य नानुपपत्तिः। समानपका- रकनिश्चयस्यैव संशयादिविरोधित्वात् । धूमत्वेन व्याप्तिनिश्चये.सं- शयाभावस्येष्टत्वात् । एवमिच्छाप्रवृत्योरपि तत्प्रकारकनिश्चयहेतु- कतया नानुपपत्तिः। विशिष्टज्ञाने विशेषमज्ञानस्य हेतुत्वानङ्गीकारे- ण विशिष्टवैशिष्टयबोधे विशेषणतावच्छेदकमकारकनिश्चयस्य हे. तुत्वानङ्गीकारेण च नात्यन्ताभावप्रत्यक्षानुपंपत्तिः । किं च प्राग- भावसत्त्वेप्यत्र घटो भविष्यतीत्यत्र न घटनागभावप्रतीतिः कि- न्तूत्पत्तिमागभावस्य । तस्याश्च कालसम्बन्धरूपाया अपत्य. क्षत्वात् तत्प्रतियोगिकमागभावस्य सुतरामप्रत्यक्षत्वात् तत्पति- योगिप्रत्यक्षार्थ का कथा सामान्य लक्षणायाः। तथाहि । भवि- प्यति भवितेत्यादौ उत्पत्तिर्धात्वर्थः। आख्यातार्थस्तदनुकूलव्या- पारः, तेन वर्तमानकालोत्तरकालीनकपालाधिकरणकोत्पत्त्यनुकू- व्यापारवान् वर्तमानप्रागभावप्रतियोग्युत्पन्त्यनुकूलव्यापारवान् वा घट इति बोधः । उत्पत्त्याश्रय इति वा । एवं नझ्यतीत्यत्र नाशो धात्वर्थः वर्तमानप्रागभावप्रतियोग्युत्पत्तिकत्वरूपं भवि- ष्यत्वं प्रतियोगितासम्बन्धेन धात्वर्थे ऽन्वेति । तेन वर्तमान- प्रागभावप्रतियोग्युत्पत्तिककपालाधिकरणकनाशप्रतियोगी घट इति बोधः । एवं चात्र वर्तमनोत्तरकालीनत्वं न प्रा. गभावेन तत्प्रतियोगिना घटेन चा नाशेन वान्वेति । तदन्वये तर्कपादः । २९ परश्वो भविष्यति परश्वो नझ्यति श्वो नयति वो .भ- विष्यतीति प्रयोगापत्तिः । गृहाङ्गणआगमिष्यति देवदत्ते श्च उ- त्पत्स्यति गृहाङ्गणे भविष्यतीति प्रयोगापत्तिश्च । तेन वर्तमा- नोत्तरकालत्वस्य उत्पत्तावान्वय इति न तदर्थ सामान्यलक्ष- णापेक्षा । वस्तुतः प्रागभावे प्रमाणाभावात् सर्वमिदं गर्भस्रा- वगलितमिति । न च प्रागभावानङ्गीकारे उत्पन्नस्य पुनरुत्पत्ति- प्रसङ्गः । शततन्तुकपटे द्वितन्तुकपटोत्पत्तिमसङ्गश्चति वाच्यम् । तद्वयत्तेरेच प्रतिबन्धकत्वाङ्गीकारात् अक्लुप्तप्रागभावद्धेितुत्वक- ल्पने गौरवात् ॥ के चित्तु प्रागभावो नाशश्च नाभावरूपः । किं त्वाधलक्षणसम्बन्धरूपोत्पत्तिपूर्वकालरूप एव प्रागभावः । एवं चरमक्षणसम्बन्ध, एव नाशः । तस्योत्तरकालमत्र नाशाद- नित्यत्वम् । अत एव घटो भविष्यति नष्टो घट इति प्रतीतिः । न हि नाशोस्ति प्रागभावोस्तीति कश्चित्पत्येति । अतो ना- शप्रागभावौ न स्त इति वदन्ति । वस्तुतः सिद्धमुखविषयक त्यभावादसिद्धसुखज्ञानार्थमरण्यस्थदण्डादौ प्रवृत्तिजनकपटहे- तुतांग्रहार्थ शक्तिग्रहार्थं च सामान्यलक्षणावश्यकीति युक्तम् ॥ एवं ज्ञानलक्षणानङ्गीकारे ज्ञातस्य सुरभिचन्दनखण्डस्य व- क्षुषा सुरभि चन्दनंमिति ज्ञानं न स्यात् । सौरभांशे सौरभ- त्वांशेवा प्रत्यासत्तेरभावात । अतस्तत्र तज्ज्ञानमेव प्रत्यासत्तिः॥ न्यायविदस्तु योगजधर्मप्रत्यासत्तिं तृतीयामाहुः ॥ तद्यो- गिषु मानाभावनामुन्दरम् । न चेतिहासपुराणादि मानम्, त- स्यान्यतात्पर्यकत्वादिति दिक् ॥ इति गागाभट्टकृते भादृचिन्तामणौ प्रत्यक्षपरिच्छेदः ॥

भादृचिन्तामणेः अनुमानं तु "ज्ञानसंबन्धस्यैकदेशदर्शनाद्देशान्तरे ऽसनिकृष्टे व- द्धिः" इति सूत्रेणोक्तम्।सामान्यरूपेण ज्ञातव्याप्तिकस्य व्यक्तिवि- शेषदर्शनजन्यं सन्दिग्धसाध्यवदाधिकरणकमसनिकृष्टसाध्यविष- यकं निश्चयरूपं ज्ञानमनुमितिरित्यर्थः। व्याप्यतावच्छेदकप्रकारक- पक्षधर्मतानिश्चयजन्यं ज्ञानमनुमितिरित्यर्थः । न चैवं पदजन्यप- दार्थस्मरणवद्व्याप्य ज्ञानेन व्यापकस्मृतिरिति वाच्यम् । व्यापकव- त्पक्षस्यानुभवांभावेन व्यापकवत्पक्षस्मृतित्वासम्भवात् । नंचांशे उपेक्षात्वानुपेक्षात्ववत् आंशिकं स्मृतित्वानुभवत्वमिति वाच्यम् । उपेक्षात्वानुपज्ञात्वयोरविरुदयोर्मयोरेकानुभववृत्तित्वेपि वि. रुद्धयोः स्मृतित्वानुभंवत्वयारेकज्ञानवृत्तित्वासम्भवात् । अत एव चाक्षुषत्वमानसत्त्वयोर्विरोधेन वन्यंशे मानसत्त्वमपास्तम् । बहि- विषये तस्यास्वातन्त्र्यात् पक्षचाक्षुषसामग्न्याः प्रतिबन्धकत्वाच्च । न च तथापि व्याप्यतावच्छेदकप्रकारकपक्षधर्मतानिश्चयजन्ये तदनुव्यवसाये ताद्विशिष्टवैशिष्टयप्रत्यक्षे तत्सदृशज्ञानजन्यानुमि- तो विशिष्टशाब्दबोधे तत्स्मरणे चातिव्याप्तिरिति वाच्यम् । ता- दृशनिश्चयत्वेन हेतुत्वस्य विवक्षणात् । उक्तस्थलेषु अनुव्यवसाये- विषयत्वेन विशिष्टवशिष्टयप्रत्यक्षे विशेषणतावच्छेदकप्रकारकनि: श्चयत्वेनोपमितौ सादृश्यज्ञानत्वेन शाब्दबोधे चावान्तरवाक्यार्थ- ज्ञानत्वेन स्मृतावनुभवत्वेन हेतुत्वाताएवं भूमसंशयोत्तरप्रत्यक्षे वि. शेषदर्शनस्य भूमादिविशोधित्वेन हेतुत्वाद्धमसंशयोचरेककोटिक- प्रत्यक्षत्वस्यार्थसमाजसिद्धतया विशेषदर्शनजन्यत्वानङ्गीकारावा नातिव्याप्तिः । न चान्वयव्यतिरेकव्याप्त्योरननुगमनकोपादाने ऽपरत्राव्याप्तिरिति वाच्यम्।व्यभिचारज्ञानविरोधिज्ञानविषयत्वे- न व्याप्तिज्ञान स्यानुगमात् । तेन व्यभिचारीविरोधिधीविषयता--- वच्छेदकधर्मप्रकारकपक्षधर्मताज्ञानजन्यज्ञानमनुमितिरिति तु फ- तकंपादः । लितम् । नैयायिकास्तु लाघवाद व्यभिचारीविरोधिधीवि- षयधर्मप्रकारकपक्षधर्मताज्ञानजन्यज्ञानमनुमितिरिति वदन्ति । तत्परामर्शवादे निराकरिष्यते । यद्वा अनुमतित्वजातिमती अनुमि- तिः । अनुमितित्वजातिस्तु अनुमिनोमीत्यनुभवसिद्धा । त- करणमनुमानं तच्च भूतभाविलिङ्गेनानुमित्यनुत्पत्त्यापत्तेर्ज्ञानमेव, न तु ज्ञायमनों हेतुः । अथ केयं व्याप्तिः । अत्र गौडमथिलसर्व- स्वम् । साध्यवदन्यावृत्तित्वं व्याप्तिः।ह्निमन्महानसान्यहूदावृत्ति- त्वाद् धूमे लक्षणसमन्वयः।धूमवन्महानसान्यायोगोलकवृत्तित्वाद धूमवान्वन्हेरित्यसद्धेतौ च नातिव्याप्तिः। अत्र साध्यतावच्छेदक- सम्बन्धेन साध्यवान् बोध्यः। तेन समवायेन वन्हिमद्वन्ह्यवयवान्य- महानसत्तित्वेपि धूमस्य नाव्याप्तिः । साध्यवदन्यश्च साध्य- वन्त्वावच्छिन्नप्रतियोगिताकभेदवान् बोध्यः । तेन यत्किञ्चिद- न्हिमदन्यवृत्तित्वेपिधूमस्य नाव्याप्तिः । वृत्तित्वाभावश्च वृत्ति- त्वत्वावच्छिन्नप्रतियोगिताकः । तेन धूमवदन्यनलावृत्तित्वपि वन्ही नातिव्याप्तिः । न चैवमीशव्याप्तिज्ञानस्य केवलान्वयि- न्यसम्भवात्कथमनुमितिरिति वाच्यम् । इष्टापत्तेः । केवलान्व- यिव्यतिरेकइयोः पञ्चरूपोफ्पन्नत्वाभावेनानुमापकत्वाभावा- तु । एवं च केवलान्वयिव्यतिरेक्यनुमानमेव नेति । या हेतुस- मानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकसाध्यतावच्छेद- कावच्छिन्नसामानाधिकरण्यं व्याप्तिः । अत्र प्रसिद्धानुमाने घ- टाभावमादाय लक्षणसमन्वयः । व्यभिचारिण्ययोगोलकवृत्तिधू- माभावमादाय नातिव्याप्तिः । अत एव महानसीयवन्ह्यभावं वन्हिघटोभयाभावं वादाय नाव्याप्तिः । तत्र महानसीयवन्हि- वस्य च प्रतियोगितावच्छेदकत्वेन वन्हित्वस्य प्रतियोगि- तानवच्छेदेकत्वात् । दाण्डमान इण्डिसंयोगादित्यादो रूप- ३२ भादृचिन्तामणेः त्वव्याप्यजातिमद्वान् पृथिवीत्वादित्यादौ च स्वाश्रयसंयु- क्तत्वादिसम्बन्धेन दण्डत्वादिकमेव साध्यतावच्छेदकम् तस्य प्रतियोगितानवच्छेदकत्वान्नाव्याप्तिः । हेत्वधिकरणं च तदवच्छेदकसम्बन्धेन हेतुतावच्छेदकविशिष्टाधिकरणं च बोध्यम् । तेन वन्हिमान् धूमादित्यादौ समवायेन धूमावयवत्र- त्यभावप्रतियोगितावच्छेदकत्वेपि वन्हित्वस्य द्रव्यं विशिष्टस. त्वादित्यादौ च शुद्धसत्वाधिकरणगुणादिनिष्ठाभावप्रतियो- गितावछेदकत्वेपि द्रव्यत्वस्य नाव्याप्तिः । अभावश्च हेत्वधि- करणावच्छेदेन प्रतियोगिव्यधिकरणः । प्रतियोगितावच्छेदका- वच्छिन्नप्रतियोगिव्यधिकरणश्च बोध्यः । तेन संयोगी द्रव्यत्वा- कपिसंयोगी एतत्त्वादित्यादौ नाव्याप्तिः । न वा संयोगी सन्त्वाद्विशिष्टसत्तावान् जातरित्यादावतिव्याप्तिः । प्रतियोग्यन- धिकरणत्वं च साध्यतावच्छेदकसम्बन्धेन, तेन ज्ञानवान्सत्त्वा. दित्यादौ संचाधिकरणघटादेविषयतया ज्ञानाधिकरणत्वपि न- शतिः । ननु प्रतियोगितावच्छेदकावच्छिन्नस्य थस्य कस्य चिदनधिकरणत्वं तत्सामान्यस्य यत्किचित्मतियोगितावच्छेद- कावच्छिन्नानधिकरणत्वं वा विवक्षितम् । आधे कापसंयोगी एतदृक्षत्वादित्यत्राव्याप्तिः । कपिसंयोगाभावस्य हि प्रतियो- गितावच्छेदकावच्छिन्नो वृक्षावृत्तिरपि कपिसंयोगो भवति त- दनधिरकणं च वृक्ष इति । द्वितीये प्रतियोगिव्यधिकरणाभा- वाप्रसिद्धिः । सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वा- भावात्मकप्रतियोगिसमानाधिकरणत्वात् न च वन्हिमान् धूमादित्यादौ घटाभावादेः स्वात्मकप्रतियोग्यधिकरणत्वं यद्यपि पर्वतादेस्तथापि साध्यतावच्छेदकसम्बन्धेन तत्प्रतियोग्यन-- धिकरणत्वमस्त्येवोति कथं प्रतियोगिव्याधिकरणाप्रसिद्धिरि । - ति वाच्यम् । घटाभाचे यो वन्ह्यभावस्तस्य घटाभावात्मक- तया घटाभावस्य वन्हिरपि प्रतियोगी तदधिकरणं च पर्वतादि. रिति क्रमेण प्रतियोगिव्याधिकरणस्यामसिद्धत्वात् । गदि. तु घटाभावादौ वन्ह्यभावादिभिन्न इत्युच्यते । तथापि धूमाभाव- वान् वन्ह्यभावादित्यादावव्याप्तिः । तत्र साध्यतावच्छेदकस. म्बन्धः स्वरूपसम्बन्धस्तेन सम्बन्धेन सर्वस्यैवाभावस्य पूर्वक्षण- तित्वविशिष्यस्वाभावात्मकप्रतियोग्यधिकरणत्वं हेत्वधिकरणस्ये- ति । तृतीये तु कपिसंयोगाभाववानात्मवादित्यादौ अन्या- तिः । आत्मवृत्तिकपिसंयोगाभावाभावः कपिसंयोगस्तस्य च गुणत्वात् तत्प्रतियोगितावच्छेदकं गुणसामान्याभावत्वं तदव- च्छिन्नानविकरणत्वं च हेत्वधिकरणस्यात्मन इति चेत् । मैवम् । यादृशप्रतियोगितावच्छेदकावच्छिन्नानाधिकरणत्वं हेतुमतस्ताह. शपतियोगितानवच्छेदकत्वस्य विवक्षितत्वात् । ननु कालो घट. वान् कालपरिमाणादित्यत्र प्रतियोगिव्यधिकरणाभांजापसिद्धिः। हेत्वधिकरणस्य महाकालस्य जगदाधारतया सर्वेषामभावानां सीध्यतावच्छेदकसम्बन्धेन कालिकाविशेषणत्वेन प्रतियोग्यधिकर- णत्वसत्त्वात् । अत्र के चित् । महाकालभेदविशिष्टघटाभाव- स्तत्र प्रतियोगिव्यधिकरणः । महाकालस्य घटाधारत्वेपि महा- काळभेदविशिष्टघटानाधारत्वात् । महाकाले महाकालभेदाभा- वात् । यद्वा प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगितावच्छेद- कावच्छिनानाधिकरणहेत्वधिकरणकृत्यभावप्रतियोगितासामान्ये यद्धर्मावच्छिन्नत्वपत्सम्बन्धावच्छिन्नत्वोभयाभावस्तेन सम्बन्धे- न तदर्मावलिछन्नस्य तदेवव्यापकत्वं व्यापकसामानाधिकरण्य -च व्याप्तिः । अव्याप्यत्तिसाध्य कसदेतावव्याप्तिवारणाया- नधिकरणानतं हेत्वाधिकरणविशेषणम् । यद्वा हेतुसमाना- ५ भाहचिन्तामणेः धिकरणान्योन्याभावमतियोगितानवच्छेदकसाध्यवत्त्वावच्छिन्न- वृत्तित्वं व्याप्तिः, अन्योन्याभावस्य व्याप्यवृत्तिन्वादत्र न प्रतियोगिव्यधिकरणत्वादिनिवेश इति लाघवमिति जीर्णाः । तस्याप्यव्याप्यत्तित्वात्तथैव प्रतीतेरस्त्येव तद्विवक्षेति नव्याः । अत्राचार्याः । व्यापकसामानाधिकरण्यं न व्याप्तिः । किं तु व्यापकसम्बन्धमात्रम् । तेनाधश्छायादेरुपरि सवितरि कृत्ति- कोदयस्य रोहिण्युदये हेतुत्वोपपत्तिरित्याहुः । न चैवं व्यतिरे- कव्याप्तौ कथं व्याप्तिपदप्रयोग इति वाच्यम् । अनुमितिकार- णीभूतज्ञानविषयव्याप्तेर्लक्ष्यतया व्यतिरेकच्याप्ती व्याप्तिपद- प्रयोगाभावेपि बाधकाभावात् । वस्तुतो व्यभिचारधीविरोधिवि- पयधर्मविशिष्टहेतुतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन हेतु तेति युक्तम् । तेनानुमानत्रैविध्यमुपपन्नम् । पञ्चरूपत्वनियमस्त्व- विवक्षित इति ॥ वादृशव्याप्तिग्रहे व्यभिचाराग्रहः सहचारग्रहश्च हेतुः । भूयोदर्शनं तु न हेतुः । व्यभिचारास्मरणे सकुदर्शने- नापि व्याप्तिग्रहात् । भूयोदर्शनं तु कचिद् व्यभिचार- शङ्कानिवर्तकम् । क्व चित्तर्कः । व्याप्यारोपेण व्यापकारो- पद्वारानिष्टप्रसञ्जनं तर्कः । तथा पि वन्हिविरहेपि धूपस्या- दित्याशङ्का कार्यकारणभावप्रतिसन्धानान्निवर्त्तते । तत्राप्यहेतुको भवत्वित्याशङ्का तु धूमार्थं वन्हेनियमत उपादाने प्रवृत्तिर्न स्यादि- ति व्याघातेन निरसनीया । यत्र स्वत एव शङ्का नावतराति न तत्र तोपेक्षेति दिक ॥ व्याप्तिग्रहश्च सकलधूमे सामान्यळक्षण- मत्यासत्त्या, सा च निरूपिता प्राक् । तदङ्गीकारे तु महानसीय- धूमे घूमत्वप्रकारकव्याप्तिग्रहाव पर्वतीयधूमे धूमत्वप्रकारक- व्याप्तिस्मरणोपपत्तिः । उपाधिज्ञानेन च व्याप्तिग्रहमतिबन्धः ।

तपादः । स च यद्धर्मावच्छिन्नसाध्यव्यापकस्तद्धर्मावच्छिन्नसाधनाव्याप- कः । भवति धूमवान् वन्हेरित्यत्र धूमत्वावच्छिन्नव्यापकं तत्सा- धनवन्हेरव्यापकमार्दैन्धनम् । स श्यामो मित्रातनयत्वादित्यत्र मित्रातनयत्वावच्छिन्नश्यामत्वव्यापकं शाकपाकजत्वं मित्रातनय- त्वाव्यापकम् । वायुश्चाक्षुषः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र द्रव्य- त्वावच्छिन्नचाक्षुषत्वव्यापकमुद्भूतरूपवत्वं तदवच्छिन्नहतोरव्या- पकं च । एवं ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वं जन्यत्वाच- च्छिन्नसाध्यव्यापकं साधनाव्यापकं च । एवं यत्र तादृशो धर्मो नास्ति तत्र साध्याधिकरणतदनधिकरणान्यतरत्वरूपधर्मों बोध्य इति । अयञ्च स्वव्यभिचारेण साधने साध्यव्यभिचा- रज्ञापनेन व्याप्तिग्रहमतिबन्धकः । वन्हिरनुष्णः कृतक- वादित्यत्र वन्हीतरत्वमुपाधिः । अयमेव बाघोन्नीत इत्युच्यते प्रसिद्धानुमाने पर्वतेतरत्वं नोपाधिः । साध्यव्यापकत्वाग्राहक- मानाभावात्, अयं च बाधानुन्नीतः । सन्दिग्धपक्षेतरत्वं तु नोपाधिः, सम्प्रदायादिति के चित् । अन्ये तु उपाधेः सत्प्रतिप- क्षोत्थापनेन दूषकता । वन्हिना धूमसाधने आईन्धनाभावेन त- दभावः साध्यते । इत्थं करका पृथिवी कठिनसंयोगवत्त्वादित्य- त्र साधनव्यापकमप्यनुष्णाशीतस्पर्शवत्त्वमुपाधिरित्याहुः ॥ पक्षत्वं च असत्यां सिद्धौ सत्यां वा सत्यामनुमित्सायाम् उभयासचे वा ऽनुमितेरुदयादनुमित्साविरहविशिष्टायाः सिद्धे- रभावः । अनुमिस्सा च यादृशयादृशेच्छासचे ऽनुमितिः सासा विवक्षिता । तेन प्रत्यक्षभिन्न वन्हिज्ञानं जायतामालोकेन वन्हि ज्ञानं जायतामित्यादीच्छासंग्रहः । अत्रायं निष्कर्षः। तत्साध्यता. -वच्छेदकावच्छिन्नसाध्याविशिष्टतत्वक्षतावच्छेदकविशिष्टभिन्नावि- पयिका ऽनुमितित्वभिन्न मितिविभाजकधर्माविषयकतल्लिङ्गता HARITTEN Area FASuicial - aroatias भादृचिन्तामणेः वच्छेदकावच्छिन्नलिङ्गकत्वाप्रकारकत्वे सति तदन्यलिङ्गतावच्छे- दकावच्छिन्नलिङ्गकत्वाप्रकारिका तल्लिङ्गतावच्छेदकावच्छिन्नलि- कानामतित्वावच्छिन्नानुद्देश्यकत्ये सति तल्लिङ्गतावच्छेदकाविरु- धर्मविशिष्टलिङ्गकानुमितित्वावच्छिन्नानुदेश्यिका तद्विशिष्टलिङ्ग- कत्वाप्रकारकत्वे सति तद्विरुद्धधर्मविशिष्टलिङ्गकत्वाप्रकारिका त- ल्लिङ्गकालान्यकालाविषयिणी या तदन्यानुमित्सा नद्विरहविशिष्ट- सिद्धयभावः पक्षतेत्यर्थः । अत्र तत्साध्यतावच्छेदकावच्छिन्नसा' ध्यचिशिष्टतत्पक्षतावच्छेदकविशिष्टभिन्नाविषयिकेतिकारणात्प्रर्वते वन्य नुमितिर्जायता; प्रत्यक्षातिरिक्तं ज्ञानं जायतां, पर्वते वन्हिम त्यक्षं तद्व्याप्यपरामर्शः विषयान्तरे चानुमितिसामग्यभावस्तत्र यत्किञ्चिज्ञ ज्ञानं जायतामितीच्छादीनां संग्रहः । अनुमितित्व- भिन्नप्रमितिविभाजकधर्माविषयकेतिकरणात् अनुमितो प्रत्यक्षत्व. भूमदशायां पर्वतो वन्हिमानिति प्रत्यक्षं जायतामितीच्छायाः न संग्रहः । तल्लिङ्गतावच्छेदकावच्छिन्नलिङ्गकत्वाप्रकारकत्वे सति सदभ्यालिङ्गकतावच्छेद कावाच्छन्नलिङ्गकत्वापकारिकेतिकरणात् धूमत्वावच्छेदेन व्याप्यत्वपरामर्शदशायां द्रव्यत्वावच्छेदेन है- ध्यत्वावच्छिन्नलिङ्गकानुमितीच्छाया न संग्रहः । तल्लिङ्गतावच्छे. दकावच्छिन्नलिङ्गकानुमित्वावच्छिन्नानुद्देश्यकत्वे सति तल्लिङ्ग- तावच्छेदकाविरुद्धधर्मविशिष्टलिङ्गकानुमितित्वावच्छिन्नानुद्देश्यिके- तिकरणात् धूमेनालोकेन च वन्ह्यनुमितिर्जायतामितीच्छाया न संग्रहः । यत्र द्रव्यत्वस्य लिङ्गतावच्छेदकत्वानुल्लेखिनी द्रव्येण - हिमनुमिनुयामितीच्छा तस्याः संग्रहश्च । तद्विशिलिङ्गकत्वापका- रकत्वे सति तद्विरुधर्मविशिष्टलिङ्गकत्त्वापकारिकेति करणाद् यत्र आलोकत्वस्यावच्छेदकत्वानवाहिनी आलोकेन वन्मिनु- मिनुयामितीच्छा तस्या न संग्रहः । तल्लिाकालान्यकालाविष- Meli तपादन । यिणीतिकरणात पूर्वकालीनपर्वतीयधूमेन पन्ह्यनुमितिर्जा- यतामितीच्छायान संग्रहः ।। गौडप्रलापैः स्वकपोलकल्पितेरिच्छासमारब्धमृषार्थकाः । वृथैव कालक्षपणं विचिन्त्य चिन्तामयोपैक्षि खपुष्पतुल्या ॥ परामर्शश्च यदि पक्षविशेष्यकस्तदा तद्विशेष्यिकैवानुमि- तिः । हेतुविशेष्यके तु साध्यविशेष्यिकेति मणिकृत् । उभयवि- धेनापि पक्षविशष्यिकैवेति नव्याः । अत्र धूमलिङ्गकपर्वतपक्षकव- न्हिविधेयकानुमिति प्रतिधूमपरामर्शस्य हेतुत्वं, धूमलिङ्गकत्वं स्वा. व्यवहितोत्तरत्वसम्बन्धन धूमज्ञानवत्त्वम्, अव्यवहितोत्तरत्वं च धूमज्ञानाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसानधिकरणत्वे सति स्वाधिकरणत्वरूपम् । तेनापेक्षाबुद्धयात्मकपरामर्शसंग्रहः । एवं तत्तत्परामर्शानां कारणतति । ननु सर्वेषु परामर्शेष्वनुमितिकारण- तावच्छेदकतया परामर्शत्वं जातिः किमिति नाभ्युपेयते । चा. क्षुषत्वादिना सङ्कर इात चेत्, ताई तस्यां जाती पानसत्वव्या: प्यताङ्गीकार्या, चाक्षुषपरामर्शानन्तरं जायमानायामनुमितौ व्यभिचारवारणस्य मध्ये मानसपरामर्शकल्पनेन सम्भवात् । न च चाक्षुषसामग्या मानसमतिबन्धकत्वेन तदानीं मानसोत्पादा- सम्भव इति वाच्यम् । फलबलेन चक्षुर्योगाभावेन चाक्षुषसामन ग्चभावस्व सत्त्वात् । ननु परामर्शत्वं स्मृतित्वव्याप्यम् । चा. क्षुषादिपरामोत्तरोत्पधमानानुमितिस्थले भवत इव स्मरणरूप- परामर्शकल्पनात्र शतिः। एवं च स्मरणस्य संशयात्मकत्वाभावेन संशयानन्तरमनुमित्युत्पादनासम्भवात् । विशेषतः परामर्शका- रणतायां निश्चयत्त्वस्याप्रवेशेनातिलाघरमिति चेत्, चाक्षुषादिपरा गझेचसेत्पद्यमानानुमितिस्थले स्मरणात्मकपरामर्शकल्पने तज्ज- चकसंस्कारकल्पने चातिगोस्वापनः । अनुमितिजनकतावच्छे.

RAJ NISHRA BHOPA R HARE PLENDRA Simpal NE PARAN PHORNER THER भाइचिन्तामणेः दकजातेः संशयात्मकमानसव्यात्तत्वकल्पनेन' संशयात्मकपरा- मदिनुमित्यापादनासम्भवेन विशेषहेतुतायां निश्चयत्वाप्रवेश- स्य तुल्यत्वात् । समूहालम्बनात्मकपरामर्शत्तरमेकानुमितौ तद्वया- प्यवत्तापरामर्शान्तरकल्पनेन समूहालंम्बनात्मकपरामर्श : ऽनुमि- तिजनकतावच्छेदकजातिन कल्प्यते । अतो न तत्र द्वितीयानु- मितिः । तस्मात् परामर्शत्वं जातिरिति चेत् । अन के चित् । उक्तनयेनेष्टहेतुाज्ञानादौ • प्रवृत्तिजनकतावच्छेदकवजात्यस्यापि मानसत्वव्याप्यत्वेन सिद्धयेकृसाधनत्वादिपरामर्शविशेषे प्रवृ. त्तिजनकतावच्छेदकजात्येन सङ्करप्रसङ्गात् । न च प्रवृत्तिजन- कतावच्छेदकवैजात्यं 'चाक्षुषत्वव्याप्यत्वमिति वाच्यम्। परामर्शत्वस्य चाक्षुषत्वादिव्याप्यत्वेन' विनिगमनाविरहात् । अतो न परामर्शत्वं जातिरित्याहुः ।। अत्र गौतमीयाः । वन्ह्याद्यनुमिता वन्हिव्याप्यालोकत्रान्प- बत इत्यादिविशिष्परामर्शस्यैव हेतुत्वं, न त्वालोको वन्हिव्या. प्य आलोकवान्पर्वत इति ज्ञानद्वयस्य, गौरचात् । यत्र च ज्ञान- द्वयादनुमितिस्तत्र विशिष्टज्ञानकल्पनात्र व्यभिचार इत्याहुः ।। मीमांसकास्तु वन्दिन्यांष्यधूमवान् पर्वत इति विशिष्टपरा- मर्शस्य हेतुत्ववादिनये व्याप्त्यंशे निश्चयत्वं निवेश्य धूमशिपि निश्चयत्वं निवेशनीयम् । तथा च निश्चयत्वस्य तदभावा- प्रकारकत्वरूपबहुतरपदार्थघटितत्वेन तेषां परस्परविशेषणवि- शेष्यभावे विनिगमनाविरहेण कार्यकारणभाववाहुल्यम् । ज्ञान द्वयवादिनये तुं ज्ञानस्य भिन्नतया निश्चयत्वप्रवेशेपि न मिथो विनिगमनाविरहस्तत्र लाघवामित्याहुः ॥ न च परामर्शचादिनये व्याप्त्यवच्छिन्ना या हेतुनिष्ठप्रका-- रता तनिरूपितपर्वतत्त्वावच्छिन्नविशेष्यतालिनिश्चयत्वेन हे- तपादः । तुत्वकल्पनेन व्याप्त्यशे निश्चयत्त्वानिवेशेन नोपदर्शितगौरवृमिति वाच्यम् । बन्हिव्याप्त्यंशे निश्चयत्वानिवेशे वन्हिव्याप्यो धूम इति विशेषणतावच्छेदकप्रकारकनिर्णयकाले व्याप्त्यभाव- प्रकारकं ज्ञानं जायतामितीच्छासत्त्वे व्याप्त्यंशे संशयात्मकतथा. विधविशिष्टवैशिष्टयबोधोत्पत्तौ बाधकाभावः । तथा च तादृश ज्ञाने व्याप्त्यो निश्चयत्वनिवेशेन गौरवतादवस्थ्यात् । न च ताशज्ञान स्याहायवेन न तस्मादनुमित्यापत्तिः । आहार्यपरा- मर्शदनमित्यापनिवारणार्थमनाहार्यत्वनिवेशस्यावश्यकत्वादिति वाच्यम् । अनुमितिजनकताच्छेदककोटावनाहार्यत्वस्यानुगतस्या शक्यनिर्वचनत्वेन तद्वयक्तिविश्रान्ततया तथाविधतद्व्यक्तित्वा- वच्छिन्नभेदकूटस्यानुमितिजनकतावच्छेदककोटी : निवेशमपेक्ष्य व्याप्त्यशे निश्चयत्वस्यैन तर्कसहत्वाक, तथा च गौरवं तदवस्थ- मिति दिक् ॥ जायमानं लिङ्गमनुमानमिति केचित् । भूतभाचिलिङ्गाभ्या- मनुमित्यजननापत्तेस्तज्ज्ञानमिति युक्तम् । तच्चानुमानं द्विविध, स्वार्थ परार्थ च । परामर्शन स्वस्यैव साध्यज्ञानजनकं स्वार्थम् । प्रतिज्ञाद्यवयवप्रयोगेण परस्य साध्यज्ञानजनकं परार्थम् । अवय- वत्वं चानुमानवाक्यैकदेशत्वम् । ते च प्रतिज्ञाहेतूदाहरणोपनय- निगमनरूपाः पञ्च । साध्यविशिष्टपक्षप्रतिपादकवाक्यत्वं प्रति- ज्ञात्वं, यथा पर्वतो वन्हिमा' निति । तृतीयान्तपञ्चम्या न्तान्यतरानुमितिप्रयोजकवाक्यत्वं हेतुत्वं, यथा 'धू मवत्त्वा' दिति । सदृष्टान्तव्याप्तिपतिपादकवाक्यत्वमुदाहरणत्वं, यथा 'यो धूमवान् सो ऽग्निमान्' 'यथा महानस' इति । व्या- -प्तिविशिष्टौशिष्टयागादिपक्षप्रतिपादकवाक्यत्वमुपनयत्वं, यथा तथा चाय मिति । व्याप्तिविशिष्टवैशिष्टय हेतुकसाध्यविशि- भादृचिन्तामणेः पक्षप्रतिपादकवाक्यत्वं निगमनत्वं, चथा 'वन्हिव्याप्यधूमक- त्वाद् वन्हिमा निति । उदाहरणं साधम्र्योदाहरणं वैधयोंदाह- रणं चेति द्विविधम् । हेतुमदुद्देशेन साध्यबदुपादानमाद्यम् । सा- ध्याभाववदुद्देशेन हेत्वभाववदुपादानं द्वितीयम् । ततैकैनैव ग- तार्थत्वान्न द्वयोरावश्यकतेति । एत्रं चावयावाक्यैरवान्तरवा- क्यार्थज्ञाने जनिते धूमज्ञानज्ञाप्यवन्हिमदभिन्नः पर्वतो, धूम- व्यापकवान्दिमन्महानससडशो वन्हिव्याप्यघूमबत्त्वहेतुकन्हि- मदभिन्न इति महावाक्यार्थज्ञानात्परः साध्य बुध्यते इत्यक्षपा- दीयाः ॥ प्रतिज्ञाहेतूदाहरणैरेव धूमज्ञानज्ञाप्यवन्हिमदमिन्नः प- वतो वन्दिव्याप्यधूमवन्महानससदृश इति वाक्यार्थज्ञानादनुमि. तिजननादुमनयनिगमने व्यर्थे । न च पर्वते धूमवैशिष्टयज्ञाना- यमुनयः । मतिज्ञाहेतुभ्यामेव सिद्धेः । निगमनप्रयोगस्तु सर्व- थैव व्यर्थः । एवं चोपनयविगमने नावयवाविति ॥ यद्वोदाहर- गमभृतिभिरेव साध्यसिद्धेः प्रतिज्ञाहेत्वोर्न किं चित्प्रयोजन- मिति दिक ॥ अनुमितिकारणीभूताभावमातियोणियथार्थज्ञानप्रकारों हेतु- निष्टदोषो हेत्वाभासः । भवति चासिद्धत्वानकान्तिकत्वबाध- कत्वादिज्ञानामावः प्रतिबन्धकाभावविधया ऽनुमितिकारणीभूत- स्तत्प्रतियोगिममानकास्त्वमसिद्धवादीनां तेन हेतुनिष्ठो दोषो हेत्वाभासः । यादृशविशिष्टविषयत्वेन यथार्थज्ञानस्यानुमिति- प्रतिबन्धकत्वं तत्त्वमिति यावत् । यद्वा तादृशप्रमाविषयत्वम् । तेन दुधो हेतुत्वाभासः । धूमो वन्हिव्याभिचारीत्यादिभूमवार- णाय यथार्थति । उपाधिवारणाय कारणति । उपाधिज्ञानस्य साक्षात्प्रतिवन्धकल्याभावेन तदभावस्थानुमितिषयोजकतया है-- तुत्वाभावात । ते त्रयो सिद्धानकान्तिकवाधकाः । तत्रासिदिः, तकंपादः । स्वरूपासिद्धिः सम्बन्धासिद्धियतिरेकासिदिराश्रयासिद्धिा- प्यत्वासिद्धिश्चोते पञ्चधा । हेत्वप्रसिद्धिः स्वरूपासिद्धिः। बुद्धो धर्माधर्मवेदी सर्वज्ञत्वादिति । अत्र सर्वज्ञत्वं हेतु रप्रसिद्धः । पक्ष व्याप्यत्वेनाभिमतस्याभावः स्वरूपासिद्धिरित्यक्षपादीयमते त्वी- श्वरे प्रसिद्धिसत्त्वे बुदे तदभावादक्षतिः । पक्षे व्याप्यत्वा- भिमतस्य हेतुतावच्छेदकसम्बन्धेनाभावः सम्बन्धासिद्धिः । व- 'निहरदाहकः शीतत्वादिति । पक्षतावच्छेदकहेत्वोरभेदे व्याति- रेकासिद्धिः। गोशब्दः सास्नादिमद्वचनो गोशब्दत्वात् । अय- मसाधारणानकान्तिक इत्यक्षपादीयाः । इदमेव पक्षमात्रवृत्ति- त्वमसाधारणस्य । अत्र साध्यवत्साध्याभावसाधकतया ऽनुमिति- प्रतिबधो दूषकताबीजम् । पक्षामसिद्धिराश्रयासिद्धिः। आकाशो नित्यो निरवयवद्रव्यत्वादिति । सौत्रान्तिकमाकाशाभाववादिनं प्रत्याश्रयासिद्धिः । पक्षतावच्छेदकाप्रसिद्धिरपि सा। काञ्चनम- यपर्वतो वन्हिमानिति । पढेकदेश हेतोरवृत्तित्वं व्याप्यत्वासि- दिः । यथा वायुराकाशश्चानित्यो मूर्तत्वादिति । साध्ये सा- ध्यतावच्छेदकस्य, हेतौं हेतुतावच्छेदकस्याप्रसिद्धिाप्यत्वा- सिद्धिः । काञ्चनमयवन्हिमान् काञ्चनमयधूमादिति । एवं नीलधूमादित्यादावपि नीलधूमत्वस्य गुरुतया हेतुतानवच्छेद- कत्वेन सापि व्याप्यत्वासिद्धिरित्यक्षपादीयाः । साध्यसन्देहज- नको हेतुस्नैकान्तिकः । सन्देहजनकत्वं च साध्यतदभावस- म्बन्धित्वज्ञानेन मत्ातिपक्षितत्वेन च । यथा नित्यः शब्दो ऽमू- तत्वादिति । अत्रासूर्तत्वमनित्यक्रियादिसाधारणत्वात्. साध्य सन्देहं जनयति । एवं वायुरप्रत्यक्षो ऽरूपिद्रव्यत्वात् । वायुः प्रत्य- सो महत्त्वे सत्त्युद्भूतस्पर्शवत्त्वात् । अत्रोभयोः समबलत्वात्साय- सन्देइजनकतेति । अत्र साध्यतदभावव्याप्यताज्ञानात्परस्परा- भादृचिन्तामणे नुमितिप्रतिबन्धो न संशयाकारानुमितिरित्यक्षपादीयाः । अत्रा- हुः । स्थाणुत्वपुरुषत्वव्याप्यचत्ताज्ञाने प्रत्यक्षरूपसंशयवत्स- मतिपक्षस्थलेपि संशयाकारानुमितिरस्तु । यत्रैककोटिव्याप्यदर्श- नं प्रबलं तत्राधिकबलतया द्वितीयकोटिभानप्रतिबधान संशयः। फलबलेन चाधिकसमबलभावः कल्प्य इति । अत्र नव्य: । तदभाववत्ताज्ञानस्येव तदभावव्याप्यवत्ताज्ञानस्यापि लौकिकस- त्रिकर्षाजन्यज्ञानत्वमेव प्रतिवध्यतावच्छेदकं तेन न संशया- कारानुमितिरित्याहुः ॥ बाधकस्तु साध्याभावसाधकः । अयं विरुद्ध इत्यक्षपादीयाः । यथा शब्दो नित्यः कृतकत्वादिति । अत्र कृतकत्वमनित्यर्वव्याप्यं नित्यत्वं बाधते । अयं साध्य- सामान्यविपर्ययसाधक इत्युच्यते इति दिक् ॥ तदिदमनुमानं न धर्मप्रमितिजनकं व्याप्याभावेन व्याप्त्य- ग्रहादिति ॥ अत्र नैयायिकाः । एवमनुमाननिरूपणस्य जगन्निर्मान्तृपु. रुपधारेयसिद्धिः प्रयोजनम् । तथाहि । सिद्धसाधनभिया ज- न्यकृल्पजन्य द्वयणुकं पक्षीकृत्य सकतकं कार्यत्वादित्यनुमानेन तसिद्धिरित्याहुः । तदापातरमणीयम् । धर्मवद्वेदमात्रगम्यत्वेन तदावेदकानुमानासम्भवात् । तथाहि । उक्तानुमानस्याकर्तृक- वसाधकेन शरीराजन्यत्वेन सत्पतिपक्षितत्वात् । यदि चात्र शरीरविशेषणस्य स्वरूपासिद्धिवारकतया व्यर्विशेषणत्वेन नित्यत्वोपाधिकतया व्यभिचारित्वेन सत्पतिपक्षासम्भव इति विभाज्यते, तदा भवत्पक्षमेव पक्षीकृत्य शरीरमात्रकर्तृकत्वाभाव- वद्वस्तुत्वादिति सत्पतिपक्षः । न चात्रापि नित्यत्वमुपाधिः । देहाकुरादावेवाशरीरमात्रकर्तृकत्वसन्देहेन घटादौ तदभाव-- स्यासन्दिग्यतया साध्यव्यापकत्वाभावात् । कार्यत्वहेतोश्वाश- तपादः । रीरमात्रकर्तृकत्वाभाव साधकत्तया साधारणानकान्तिकत्वं च यो- ध्यम् । अतो वेद एवेश्वरसिद्धौं प्रमाणं नान्यदिति दिक् ॥ इति श्रीगागाभट्टकृतभादृचिन्तामणी ईश्वरवादः॥ नन्वेवं चन्हिहानुकूलातीन्द्रियधर्मसमवायी, दाहजनकत्वा- द्, 'आत्मवादित्यनुमानस्यानुकूलतकोभावेनाप्रयोजकत्वादुत्तेज- कामावविशिष्टमण्यादिप्रतिबन्धकामावस्यैव दाहजनकलया मण्या- दिसमधाननाश्यतया ऽपि शक्तिकल्पनस्यानुमपत्तेस्तद्धोधकवे- दाभावाच्च शक्तिरपि न सिध्येदिति चेन्न । तणारणिमणीनां व्यभिचारेण वन्हित्वावच्छिनजनकत्वग्रहानुपपत्त्या कार्यनिष्ठवै जात्यकल्पनापूर्वकहेतुहेतुमद्भावत्रयकल्पनमपेक्ष्य तृणादिनिष्ठजन- कत्वावच्छेदकसहजशक्त्यङ्गीकारेणैकहेतुहेतुमद्भावकल्पनालापत्र तर्कसहकृततृणादिपक्षकपतिजनकत्वहेतुकतादृशधर्मानुमानस्य तत्र मानत्वात् । एवं वैकल्पिकवीहियवयोरपि हेतुताग्रहे लाघवं, व्यभिचारवारणं च । न च प्रदेयप्रकृतित्वेनोभयातुत्वाज्जनक- तावच्छेदकशक्त्यभावेपि न व्यभिचार इति वाच्यम् । वीहिनि- कारणताग्रहे प्रदेयप्रकृतित्वग्रहस्तहे च तद्भह इत्यन्योन्याय- यात् । नायाग्नेयत्वव्याप्यवैज्ञात्यस्य कार्यतावच्छेदकत्वकल्पमेन व्यभिचारपंरिहारः । तादृशजातौ मानाभावात् । वीहिजन्यता- वच्छेदकतयैव तत्कल्पने विकल्पो दत्तजलाञ्जलि: स्यात् । शक्तेश्च प्रत्येक पर्याप्ततया न समुच्चयापत्तिः । अन्यथा ऽन्यत- राभावविशिष्टान्यतरस्योभयाभावविशिष्टवीह्यादेर्वा हेतुत्वंकल्पने गौरवापतिः व्यभिचारथ । अतो जनकतावच्छेदकतया स. हजशाक्तिस्वावदावश्यकी । एचमाधेयशक्तिरापि प्रोक्षणादिजन्या SHAI भादृचिन्तामणेः वीहिनिष्ठा । अन्यथा प्रोक्षणादिजन्यापूर्वस्यात्मनिष्ठतया वीही. णां प्रोक्षणकर्मत्वानुपपत्तिः । अदृष्टवदात्मसंयोगेनादृष्टवत्तया क- मत्वोपपत्तौ घटादीनामपि तत्कर्मत्वापत्तिः । तेन नीहिजन्यापू- र्वजनिकाधेयशक्तिरप्यावश्यकी। तयोश्चायमेव भेदो यत्सहज शक्तिर्जनकतावच्छेदिका, आधेयशक्ति निकाजन्या चेति । न च प्रोक्षणजन्यशक्तिमीहित्वेनापूर्वजनकतया हेतुतावच्छेदक- त्वं सम्भवति । तादृशशक्तिमअवजन्यतदपूर्व व्यभिचारात् । शक्तिवीहिंन्वयोविशेषणविशेष्यभावे चिनिगमनाविरहेण हेतुहेतु- मद्भावद्वयकल्पने, तथा यवत्वे ऽपीति तच्चतुष्ककल्पने ऽतिगौर- वापत्तिः । एवं सर्पविषमन्त्रोच्चारणजन्यपरशरीरनिष्ठाधेया श. तिर्जीवनज़ीनका विषबाधापहारजनिका वा, प्रतिष्ठादिजन्या च पाषाणनिष्ठा पूजाहेतुश्चाण्डालादिस्पर्शनाश्या ऽप्यावश्यकी- ति । पदशक्तिस्तूभयसिद्धा । तच्छाब्दबोधजनकपदत्वहेतुका- नुमानगम्या, वृद्धस्तत्र प्रयुज्यमानत्वहेतुकानुमानगम्या वा । परं तु सेश्वरेच्छारूपा अतिरिक्ता वेत्याचयोर्विवादः । तत्रेश्वरः च्छावदीश्वरसंयोगस्य गुणरूपपदे ऽसम्भवात्तत्तत्स्वरूपाणां सम्बन्धत्वकल्पनमपेक्ष्यैकसमवायस्योचितत्वात पदानामा- नामनित्यत्वेपि नानुपपत्तिः । वस्तुतस्तु पदानां नित्यत्वा; जात्यादिरूपाणामर्थानां च तथात्वाच्छक्तिरपि निखेति तत्सम्ब- न्धस्य सुतरां नित्यतेति नानुपपत्तिलेश इति दिक् ।। इति श्रीगागाभट्टकृतभाहचिन्ताम- णो शक्तिवादः॥ नन्वेवं कारणता ऽप्यतिरिक्ता स्यात् । तन्न तावत्कार्या भावव्यापकाभावप्रतियोगित्वम् । ईश्वरतज्ज्ञानेच्छादावव्याः वर्कपादः । • ४५ । सेः । अत एव न कार्यव्यापकत्वम् । व्याप्तेरेनन्तपदार्थग तया गौरवात् । नापि कार्योत्पत्तिंप्रतिबन्धकाभावप्रतियोगित्वम् । उत्तेजके ऽन्यालेरिति चेन्न। तस्यानन्यथासिद्धनियतपूर्ववर्तित्व- रूपतया तदभिव्यज्यधर्मान्तरकल्पने मानाभावात् । अत्र देवा. दागते हेतुत्ववारणाय नियतेति । तद्घटे तद्रासभस्य हेतुत्ववा- रणायानन्यथासिद्धति ॥ वस्तुतस्तु नियनपदं व्यर्थम् । तच्चा- न्यथासिनैविध्यराहित्यम्। गृहीतस्थतन्त्रान्वयव्यतिरेकाननुवि- धानयवच्छेदकधर्मत्वमाद्यम् । अन्यनिरूपितपूर्ववार्त्तित्वग्रहहेतुक- कार्यपूर्ववर्तित्वग्रहविषयत्वं द्वितीयम् । क्लप्तान्वयव्यतिरेका- नुविधानसाहित्यं तृतीयम् । अत्राक्लप्तान्वयेव्यतिरेकानुविधायि- न इति विवक्षणीयम् । तेन न कारणान्तरस्यान्यथासिाद्धः । ईश्वरज्ञानादिसंग्रहश्च । तस्योपादानप्रत्यक्षतया स्वतन्त्रान्वयव्य- तिरेकानुविधानात् । तच्च कारणं द्विविधं, स्वरूपयोग्यं फलो- पहितं चेति । सहकार्यन्तराभावावच्छिन्नजनकत्वाभाववैशिष्टयः माद्यम् । सहकार्यन्तरसाहित्यं द्वितीयम् । अत एव नित्यस्य स्वरूपयोग्यस्य फलावश्यम्भावनियम इति प्रसिद्धिः । एवं च क्लप्तकार्यपूर्वकालदेशसम्बन्धस्यच कारणतया नाक्लुप्त- कारणत्वरूपपदार्थान्तरतत्मागभावध्वंसादिकल्पनम् ॥ प्रयोज- कत्वं : चान्वयव्यतिरेकवत्त्वे सति नियतपूर्वचिवमात्रमि- तिदिक ॥ प्रसङ्गात्सृष्टिपलयो चिन्त्यते ॥ अत्र नैयायिकवैशेषिको । त्रिविध वस्तुजातं, संप्रतिपन्न- चेतनकतकं यथा घटाद, संप्रतिपन्नचेतनाकर्तृकं व्योमादि, वि. प्रतिपन्नचेतनकर्तृक महारुहाङ्करादि । तत्र तृतीयं सावयवत्वेन सिद्धकायत्त्वकं पक्षांकृत्य बुद्धिमत्कतकं कार्यत्वात्पटवदिति ईश्व- HARASHTRA SARANA A BHARATSANA GHASAN SHANKAR AAELTERNA HENNATHA ALBUPRON PAHARAN RANA भादृचिन्तामणे: रं करिमनुमापयति । तस्य च परमाणवः समवायिकारणं, तत्संयोगश्चासमवायिकारणं, क्षेत्रज्ञपदवाच्या जीवात्मानो धर्मा- धौ च निमित्तकारणम् । सर्गकाले पुनरीश्वरेच्छामदृष्टं च निमित्तमासाद्य परमाणुष कर्माण्युत्पद्यन्ते । ततो मिथा संयुक्त परमाणुभिर्घणुकादिक्रमेण. पृथिव्यायश्यविचतुष्टयमारभ्यते । न च परमाणूनां निरवयवत्वादन्याप्यवृत्तिः परमाणुसंयोगो न सम्भवति वाच्यम् । तत्र व्याप्यत्तिसंयोगस्याङ्गीकारीत। तत्तद्देशस्यावच्छेदकत्वसम्भवेनाव्याप्तिसंयोगस्यापि परमाणौ नानुपपत्तिः । निमित्तभूतादृष्टवैचित्र्यादीश्वरेच्छाजन्याक्रिया- वैचित्र्यवशाच्च जरायुजाण्डजोद्भिज्जस्वेदजभेदं शरीरमार- भन्ते, इत्यूचतुः ॥ इदमेव युक्तमस्मन्मतं च । परं त्वेतावान् विशेषः । इच्छाया: त्पादनं विनेच्छायाः कार्यजनकत्वम् । अचेतननिष्ठक्रियादि- जनकत्वं च नानुभूतपूर्वम् । अतस्तादृशहेतृहेतुमद्रावकल्पनेनात्य- तगौरवापतिः । आवश्यकादृष्टहेतुकतथा उन्यथासिद्धिश्च । अतो धर्माधर्मयोरेच विजातीयक्रियाजनकत्व, नेश्वरेच्छाश्य- लादीनामिति । तेनेश्वरेच्छायान्तस्याः कार्यजनकत्वे च"स ऐ- क्षत बहु स्यां प्रजायेये" ति श्रुतिरेव मानम् । तत्रचा "स्मन आकाशः सम्भूत" इत्यादाविवेक्षतिरदृष्टे लाक्षणिक इत्सलं पल्लवितेन ॥ ननु प्रलये किं मानमिति चेत् । न । कोलकपालान्धवृत्ति- पागभावः, कार्यव्यानाधारकार्याधिकरणद्वतिः, अभावत्वाद, आत्मादृत्यन्यान्याभाववत्, इत्खनुपानेन घटा, कार्यद्रव्याना- करणकाधिकरणवृत्तिध्वंसप्रतियोगी, मावकार्यत्वात बन्द न तपादः । ४७ बद इत्यनुमानेन खण्डमलयस्य, , अदृष्टासमानकालीन- ध्वंसप्रतियोगी, भावकार्यत्वाद्, मुक्तपत्र्यवाहितप्राक्कालीन ज्ञानवद्, बुद्धिा, प्रागभावासमानकालीनध्वंसप्रतियोगिनी, भा- चकार्यत्वाद्, मुक्तघव्यवहितप्राक्कालीनादृष्टवत, सुखं, गन्धा- नाधारसमयत्तिध्वंसप्रतियोगि, जन्यगणत्वात्, संस्काराजन कानुभवब्द, आकाशवदिति व्यतिरेकिणा, एककालीनाः सर्वे परमाणवः; समग्रोपादेयप्रवन्धशून्यां:, आरम्भकत्वाद्, नष्ट- पवनारम्भकपरमाणुवद् दुःखसन्ततिरत्यन्तमुच्छिद्यते, सन्त, तित्वात्, प्रदीपसन्ततिवद, इत्याचार्योपदर्शितानुमानन च महा- मलयस्य.च सिद्धः। एवं च नन्दान्तं क्षत्रियकुलमित्यादिपौ• राणव्यवहारोपपत्तिरित्याहुः ।। अत्र जैमिनीयाः । उक्तानुमानेन “धाता बंधापूर्वमक- ल्पय"दित्यादिमन्त्रलिङ्गेनावान्तरप्रलयसिद्धावपि महाप्रलये ना- स्ति प्रमाणम् । उक्तानुमानानामुपाधिग्रस्तत्वात् । तथाहि । अ- मूर्त्तमात्रन्त्यभावत्वस्योपाधिस्वात् । उक्तः पक्षः, कायद्रव्या- धाराधार!, मूतमात्रवृत्यिभावत्वात, तन्तुनिष्ठपटनागभाववदि- ति सत्प्रतिपक्षाच । एवं द्वितीयतृतीययोरमूतमात्रवृत्तिभाक्ष- मुणाधिः । एवं महामळयानुमाने, उक्ताः परमाणवः,समग्रोपा- देयप्रबन्धवन्ता, प्रागभाववत्वात्, कपालवदिति सत्पतिपक्षः । आचार्यानुपानं तु धाता यथापूर्वमकरपय"दिति श्रुतिवि- रोधात् ॥ अचन्द्राग्रहा भूमिः कदाचिन्तु भविष्यति । अपौरचा तु पृथिवी कदापि न भविष्यति" ॥ इति हरिवंशरूपन्यासस्मृतिविरुद्धत्वाद्, यावरीलं तावदया- ख्यानमिति दृष्टान्तप्रसिद्ध तैलाभावादिरूपीपाधिविस्मरणाच्चा- ४८ भादृचिन्तामणेः नाचार्यानुमानमेव । अन्यथा नरशिरकपालं, शुचि, पाय- ङ्गत्वात्, शङ्खवदित्यनुमानस्यापि प्रामाण्यापत्तेः । एवमन्येष्वप्य- नुमानेषु दूषणान्यूह्यानीति दिक ॥ वेदान्तिनस्तु "सर्वं खल्विदं ब्रह्मा, नेह नानास्ति किं चने"त्य- द्वैतवादश्रुतिभिरा,, त्मको जगदादावासी, तस्माद्वाएतस्मादा- त्मन आकाशः सम्मूत" इत्यादिब्रह्मोपादानत्वावैदकश्रुते "रि- न्द्रो मायाभिः पुरुरूप ईयत" इति भेदाक्गमस्य मायारूपावि- द्यानिबन्धनत्वश्रुतेश्च सैव व्योमादिरूपेण परिणतमिति चिदेक- रसस्य च ब्रह्मणो जडरूपेण परिणामो ऽनेकत्वं च न वास्तवं, किं त्वविद्योपाधिकं, स्वमप्रपञ्चवत्मत्यक्षविरोधिश्चतिजन्यं ज्ञानं चन्द्रतारकापारमाणबोधकवाक्यवत प्रत्यक्षबाधेनोपपन्नम् । एवं च "लोकास्तं परादुरन्यत्रात्मनो लोकान् पश्यति, मृत्योः स मृत्युमामोति य इंह नानेव पश्यती" त्यादयो भेदज्ञानान- दार्थवादा उपपद्यन्ते तेन प्रपञ्चो ऽविद्योपाधिको भारमा- थिकः। अत एव सदसद्विलक्षण इत्याहुः ।। तत्र किमिदमपारमार्थिकत्वं, मिथ्यात्वमिति चेत्, किमिदं मिथ्यात्वम् । न तावच्छशशृङ्गादिवदत्यन्तासत्वन्तत् । अबाधि- तप्रत्यक्षादिविषयमपञ्चे तदभावात् । नापि ज्ञानबाध्यत्वमज्ञा- नजन्यत्वं वा । घटादेर्शानबाध्यत्वाभावाद् अज्ञानस्य जनक- त्वे बाधितमानाभावेनाज्ञानजन्यत्वासम्भवाच । न वागमेन तद्बोधः । मिथ्याभूतप्रपञ्चान्तर्गतागमेन प्रत्यक्षदृष्टप्रपञ्चे मि- ध्यात्वबोधासम्भवात् । अन्यथा वेदबोध्ययागस्वर्गसाध्यसाधन- भावज्ञाने मिथ्यात्वबोधप्रसङ्गात् । इष्टापत्तौ । स्वर्गसाध्यसाधन- भावज्ञानेन ब्रह्मज्ञाने मिथ्यात्वबोधापत्तिः । आगमजन्यत्वा- विशेषात् । नाप्यनिर्वाच्यत्वं तत् । अनिवाच्यपदार्थस्य लोके ।

तपादः । लक्षणा ऽसम्भवात् प्रपञ्चस्यापि निर्वचनीयत्वेनानिवचनायत्वाभावा- च्च । किं चैवं श्रुतिबोध्यमपञ्चमिथ्यात्वपि मिथ्यात्वप्रसङ्गः । तदङ्गीकारे सिद्धं प्रपञ्चस्यामिथ्यात्वमिति दिक् ॥ इदमत्र वेदान्तिनामाकूतम् । चैत्रस्य शुक्त्यज्ञानमित्यादी चैत्रनिष्ठभुक्तिज्ञानस्याभाव इति न बोधः, प्रतियोग्यप्रसिद्धः, किं तु त्रनिष्ठं शुक्तिज्ञानमिति तदर्थः । तेनाज्ञानं भावरूपः पदा- र्थः । तस्य च शुक्तिरजते हेतुत्वं लाघनद्, न तु तज्ज्ञाने, गौर. वात् । किं च तत्र रजतं पश्यामीति लौकिकसाक्षात्कारोऽनुभव- सिद्धः। तत्र लौकिकसनिकर्षस्य विषयस्यं च हेतुतेति तत्र रजन्तोत्पत्तिरावश्यकी । एतेन तत्र रजतत्वमेव विषयः, ज्ञान- चालौकिकसनिकर्ष इत्यपास्तम् । अज्ञानं ,च- जीवानां न ब्रह्मणः । एवं चाधिष्ठानाज्ञानस्य शुक्तिरजतादौ हेतुत्ववन्नि- पपञ्चब्रह्माज्ञानस्य जीवसम्बन्धिनः प्रपञ्चहेतुत्वमिति ।। इदमेव मिथ्यात्वं सदसद्विलक्षणत्वं चेति पूर्वमतोपपत्तिरिति, नेदमपि युक्तम् । अधिष्ठानज्ञानेपि शंखपीतिमोत्पत्तेरधिष्ठाना- ज्ञानस्योत्पादकत्वायोगात् । न च तत्र दोषस्य हेतुत्वेन दोषा- जन्यरजताद्युत्पत्तावधिष्ठानाज्ञानस्य हेतुत्वमिति वाच्यम् । बर्हि परमाणवाद्युपादानाजन्य स्वामादिप्रपञ्चएवाधिष्ठानाज्ञानस्य हे- तृत्वमस्तु, न प्रपञ्चना । किं च चन्द्रतारकापरिमाणशङ्खपीतिमा- दीनामधिष्ठानज्ञाने सत्यपि कथमुत्पत्तिः । भवतां विशेषदर्शने सत्यपि भान्तेरिव दोषवशादिति चेत् । त_विद्यातिरिक्तस्यापि प्रपञ्चहेतुत्वापत्या गतमज्ञानकारणत्वनियमेन ॥ यन्तु रजतं पश्यामीति लौकिकसाक्षात्कारे विषयस्य लौकिकसनिकर्षस्य च हेतुत्वसिद्धये रजतोत्पत्यङ्गीकार इति, तदपि पुरोवत्य लौकि- कत्वेन रजतत्वांशे अलौकिकत्वेन दोषजन्यत्वाङ्गीकारेण परा- भादृचिन्तामणेः स्तम् । यत्तु रजतज्ञानत्वस्य कार्यतावच्छेदकत्वमपेक्ष्य रजतत्व- स्यैव कार्यतावच्छेदकत्वे लाघवमिति, तदपि अज्ञानस्य कारण- त्वकल्पनमपेक्ष्य लघुभूतमेव । न चैवमधिष्ठानज्ञानेपि भूमाप- त्तिः । लौकिकतदभावसाक्षात्कारस्य तद्वत्ताज्ञानं प्रति प्रतिबन्ध- कत्वात् । “मायां तु प्रकृति विद्या"दित्यादिश्रुतेरपि स्वाममृ- ष्टिविषयत्वेन मायामदस्य दोषपरत्वेन वा व्याख्यानादिति संक्षेपः ॥ के चिन्तु परमात्मैव स्वेच्छया परमार्थत एव व्योमादि-ज. नयति । "सदेव सौम्येदमग्रआसीत्, तदैच्छत, बहुस्यां प्रजा- येय"इति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति, पुरुष- एवेदं, नेह नानास्ति किं चनेत्यादिश्रुतयोमुमवार्थ प्रकटयन्ति अत्र ह्याद्यश्रुतिद्वयेनात्मनस्तद्रूपत्वेन प्रागवस्थितस्य बीजस्येव हेतुत्वं व्योमादीनां च वृक्षस्येव तत्कार्यत्वमुक्तम् । अपरश्रुति- द्वयेन धर्मिभेदाभाव उक्तः । नानाशाखस्य वृक्षस्यानेकत्वेन ज्ञातस्यैकबोधवत् ॥ यानि तु "आत्मैवैकः सत्यः, इन्द्रो मा- याभिः पुरुरूप इयत" इत्यादिनिष्पपञ्चस्य मिथ्यात्ववादा- सत्यत्ववादभान्तिवादमायावादबोधकानि, तान्यस्यानित्यत्वमेव प्रतिपादयन्ति । अपशवो वा अन्ये गोअश्वेभ्य इतिवत् । एते. षामपि मुमुक्षूणामुत्साहजननार्थतया वैराग्यजननार्थतया च प्र. पञ्चासत्यत्वात्मपरमार्थसत्त्वप्रतिपादकतयार्थवादत्वस्य तुल्य त्वात् । विस्पष्टं चैत"द्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य तथेद"मित्ति श्रुतौ । मृत्पिण्डभावेन सकलताद्विकारश राघ- टादिज्ञानमिवात्मज्ञानेन तज्जन्यसकलप्रपञ्चज्ञानमित्यर्थः । यद्य पि व्यासरूपेण न ज्ञानं तथापि समासरूपेणेत्युपपत्तिः । तच्च अपञ्चस्य सत्यत्वे उपपद्यते । नहि सद्रूपज्ञानेनासत्यस्य ज्ञान, श.

तर्कपादः । शविषाणादिज्ञानप्रसङ्गात् । अतः सत्यत्वमेव प्रपञ्चस्य युक्त- मित्याहुः॥ निरीश्वरसाङ्ख्यास्तु प्रकृतिरचेतना सत्त्वरजस्तमोगुणात्मि- का प्रधानशब्दवाच्या चेतनात्मनामुपभोगाय महदादिविशेषण- पञ्चरूपेण परिणमतीत्याहुः ॥ सेश्वरसाङ्ख्यास्तु प्रकृतिरेवाविद्यास्मितारागद्वषाभिनिवेश- क्लेशकर्मविपाकाशयरपरामृष्टं सर्वव्यापिनं पुरुषशब्दवाच्यमीश्वर- मधिष्ठाय महदहङ्कारपञ्चतन्मात्रादिक्रमेण जगत्सृजति । बीजमे- व संस्कृतं क्षेत्रमधिष्ठायाङ्कुरादिक्रमेण वृक्षादि । तस्मात्मकृत्यु. पादाना सृष्टिरीश्वरभिन्नक्षेत्रज्ञपदवाच्यजीवभोग्या । प्रकृतरेक्ये- पि भोक्तृणां भेदात्मपञ्चवैचित्र्योपपत्तिः । औपनिषदास्त्वैका त्म्यवादाः सादृश्यपरत्वेन व्याख्येयाः। एवं नानात्वनिषेधाथ। एतदभिप्रायेणैव ।। "विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः" ॥ इति । “इन्द्रो मायाभिः पुरुरूप इयत" इति च । मुक्तात्मनामीश्वरेण सहकत्ववादास्तप्यत्यन्तसाम्येन वैलक्षण्या- भावेन वोपपादनीयाः ॥ "यदा पश्यः पश्यति रूकमवणं करिमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" ॥ इति श्रुत्या परमसाम्योतः। "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । स्वर्गोपि नोपजायन्ते प्रलये न व्यथन्ति च ॥

भादृचिन्तामणेः इति भगवद्वाक्येनापि साम्योक्तः । न च "ममैवांशो जीवलोके जीवभूतः सनातन" इति भगवद्वचनस्य "भेदस्य जनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति" इति पुराणवचनस्य चानुपपत्तिः। तयोः स्वामिभृत्यभाव- बोधकत्वेनोपपत्तेः । एवं च "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः" "उपद्रष्टा ऽनुमन्ता च कर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेस्मिन्पुरुषः परः"॥ इति भेददर्शनमुपपद्यते । तस्मात्मकृत्युपादानोयं प्रपञ्च इलाहुः॥ तदपि न । प्रकृतेरेकरूपतया हेतुवैलक्षण्याभावेन नरप- श्वादिरूपकार्यवैलक्षण्यानुपपत्तेः । क्षेत्रज्ञादृष्टवशाद्वैलक्षण्यमित्य- प्यदृष्टस्य कार्यवर्गान्तःपातितया प्रकृतौ विलीनत्वेनाकारणत्वा- द्वक्तुमशक्यम् । कुतो वा प्रकृत्या महदादिविकारारम्भः । ईश्वरे- च्येति चेत्, तस्थापास्तसमस्त कामस्येच्छाभावात् । किं च प्रलये प्रकृतिमात्रस्यात्मनां च निर्विशेषाणामवास्थितत्वाधर्मा- धर्मयोश्चान्तःकरणधर्मतया तदानीमभावात् पूर्वजन्मनि कृता- श्वमेधानां कृतमहापातकानां च विशेषो न स्यात् । न चासतः शशविषाणादेरुत्पत्तिनाशयोरदर्शनानियतोत्पचिदर्शनाच्चोत्प- तिनाशयोराविर्भावतिरोभावरूपतया शक्तयात्मनावस्थितधर्मा- धर्मवशेन वैचित्र्योपपत्तिरिति वाच्यम् । मात्पिण्डकपाळावस्थयो- घंटसत्त्वस्यानुपलब्धिबाधितत्त्वात् "नासतो विद्यते भाव" इति तु “न त्वेवाहं जातु नास" मिति नित्यत्वमातिपादनोपकमादा- तर्कपादः । ५३ त्ममात्रस्यानुत्पत्तिविनाशधर्मत्वप्रतिपादक, न सर्वस्य कार्यजा तस्य । अस्तु वा कारणात्मना ऽवस्थानं तथा मृदात्मना ऽव. स्थितघटादिनोदकाहरणासम्भववत्प्रकृत्यात्मना ऽवस्थितधर्मा- धर्माभ्यामपि न वैचित्र्यसम्भवः । यदि तु सृष्टिमलयपरम्परया .ऽनादित्वं शब्दानामनाद्यर्थसम्बद्धानां वेदानां नित्यतां चाश्रित्य "सर्वेषां चैव नामानि कर्माणि च पृथक्पृथक् ॥ 'वेदशब्देभ्य एवादौ पृथगाश्च निर्ममे" इति वचनानुरोधादेककर्तृका तुल्यनामव्यवहारकवस्तूत्पत्ति- रङ्गीक्रियते ॥ "अष्टाशीतिसहस्राणि संप्रदायप्रवर्तकाः" इतिवचनानुरोधेन वा ऽनेककर्तृका तादृशमृष्टिरङ्गीक्रियते । तत्रापि प्रकृतेरुपादानत्वासम्भवाद् अनुपादाननिर्माणासम्भ- वात्सोपादानत्वसिद्धिरिति संक्षेपः। इति श्रीगागाभट्टकृतभादृचिन्तामणौ सृष्टिप्रलयाविचारः॥ सर्वमिदं शरीरोन्द्रयमनतिरिक्तजीवात्मसद्भावे स्या, तत्रैच मानं न पश्यामः । न चाहं जानामीति प्रत्यक्ष तत्र मानं, तस्याहं गौर । इत्यादिवच्छरीरादिविषयकत्वेनाप्युपपत्तेरिति चेत् । अब जीर्णाः । शरीरान्तर्गतवायोरूर्वाधोगमनानुकूलपय- नाश्रयतया सुखाद्याश्रयतया वा तसिद्धिः । तेषामयावच्छरी. 'रभावित्वेन तद्धर्मत्वासम्भवात् । कार्यद्रव्यवृत्तिविशेषगुणानां पाकादिना विरोधिगुणान्तरोत्पच्या द्रव्यनोशन वा नाश्यत्व- मिति नियमः । उक्तयत्नस्य सुखांदीनां च मृतावस्थायामुक्तना- शस्त्रयाभावन नाशानुपपत्तेन शरीरगुणलं सम्भवति । एवं ।

IMAL ANNEL NROE PARAN LAHAL NIRMANE Toled PARAN N ६४ भादृचिन्तामणेः ज्ञानेच्छादीनामप्ययावच्छरीरभावित्वेन न शररिगुणत्वम् । किं चावयविविशेषगुणानामवयवगुणपूर्वकत्वनियमेन ज्ञानादीनां शरीरावयवगुणत्वाभावेन न तदुत्पत्तिसम्भवः । अतः सुखा- दिगुणितया शरीरादिभिन्नात्मसिद्धिः। न च तेषामिन्द्रियगुण- त्वम् । इन्द्रियनाशन संस्कारनाशे स्मरणानुपपत्तेः । नापि म- नोगुणत्वं, तस्याणुतया तद्गुणप्रत्यक्षानुपपत्त्या ज्ञानादीनामप्र- त्यक्षत्वमसङ्गात् । मनसो विभुत्वनये तु तद्गुणत्वे ज्ञानादीनी क- रणाभावात्मत्यक्षानुपपत्तिस्तुल्या । तस्मात्तदाश्रयतया ऽऽत्म- सिद्धिः। किञ्च स्वर्गकामादिश्रुत्यापि देहातिरिक्तात्मसिद्धिः। तथाहि । स्वर्गकामादिश्रुतयः कर्मजन्यफलभोक्तारं शरीराति- रिक्तं कारमाक्षिपन्ति । "अविनाशी वाअरे ऽयमात्मे"त्यादय उपनिषदोपि तमेवार्थन्द्रढयन्ति । अतो ऽहंप्रत्ययवेधः शरी- रातिरिक्त आत्मेति । न च तस्याहंप्रत्ययगम्यत्त्वमनुपपन्न, ज्ञा- तृत्वज्ञेयत्वयोर्विरोधात्, एकस्यां क्रियायामेकस्य कर्तृत्वकर्म- स्वानुपपत्तरिति वाच्यम् । स्वात्मनि क्रियाविरोधस्य दूषकता- बीजाभावेनापकत्वात् । न च परसमवेतक्रियाजन्यफलभा- मित्वस्य कर्मत्वतया कर्मसंज्ञायास्तद्विभक्तेश्चासाधुतापतिर्दूषक- ताबीजमिति वाच्यम् । तानकर्मत्वाभावेपि तद्विभक्त "रात्मा ज्ञातव्य, आत्मानं वेद, आत्मानमुपासीते"त्यादि-गौकिकवैदिकम- योगेणैव साधुत्वात् । यथा चलतिगच्छत्योरेकार्थत्वपि सकर्म- त्वाकर्मत्वे एवं ज्ञातुर्मानजन्यमाकव्यरूपफलवत्तया ज्ञानकर्मत्वे. बाधकाभावात् । “स मानसीन आत्मा जनांना" मित्यादिश्रुति- वशाच्च मानसाहंमत्ययवेद्य आत्मा सिद्ध इत्याहुः ॥ वेदान्तिनस्तु सुखेच्छादीनां मनोगुणत्वस्य श्रुतिसिद्धतया निर्गुणज्ञानस्वरूप एवात्मा, तस्य च निष्पकारकमेवोपनिषज्ज- ५५ । तपादः । न्यप्रत्यक्षं मोक्षसाधनमित्याहुः ।। कः पुनर्मोक्षः । अत्र के चित् । संस्काराजनकानुभवध्वंसो मुक्तिः। के चित्त दुःखप्रागभावासहवृत्तिदुःखसाधनध्वंसो मुक्तिः ।। दुःखमयसंसारबीजामिथ्याज्ञानध्वंसो मुक्तिरित्यपरे ॥ शरीरोन्द्रयबुद्धयादितन्निदानधर्माधर्मध्वंस इत्यन्ये ।। आत्यान्तकदुःखपागभावो मोक्ष' इति गुरवः ।। संस्काराजनकभोगविषयदुःखध्वंस इति के चित् ॥ समानाधिकरणदुःखमागभावासहवृत्तिदुःखध्वंसो मुक्ति- रिति मणिकृत् ॥ प्रपञ्चसम्बन्धविलयो मुक्तिरिति वेदान्तिनः । प्रपञ्चस- म्बन्धो बन्धः । तस्यात्यन्तिको विलयो मोक्षः । तथाहि । भो- गायतनभोगसाधनभोगविषयाणां शरीरेद्रियाणां सम्बन्धादा- स्मा बद्ध इत्युच्यते । एतत्कारणधर्माधर्मपरिक्षयादेतेषामात्यन्ति- को विलयः पूर्वनाशपरानुत्पादस्वरूपः । न चैवमपुरुषार्थत्वा- पत्तिः। सुखवद् दुःखानुत्पादस्यापि पुरुषार्थत्वात् । तत्सम्बन्ध. विलयपूर्वकनित्यानन्दरूपात्माभिव्यक्तेर्मुक्तित्वाङ्गीकाराद्वा । त- स्य सुखस्य नित्यतया धर्मजन्यत्वाभावात् । आत्मनश्च सुखा- त्मकत्वे मुक्तावस्थायां तन्नित्यत्वे चा "नन्दं ब्रह्मणो रूपं, न स पुनरावर्तत" इत्यादिश्रुतयो मानम् । यत्व"शरीरं वावसन्तं प्रियापिये न स्पृशत" इति मुक्तस्य सुखाभाववत्ववचनं, तत्मपञ्च. सुखाभिप्रायम् । ननु मनःशरीराधभावात्कथं तत्रानन्दानुभ- वः । न च तस्यानन्दस्य स्वप्रकाशत्वम् । संसारावस्थायां ता- दृशस्याननुभवात् । न च तदानीमभिभवान्न तादृगनुभव इति वाच्यम् । स्वप्रकाशस्याभिभवासम्भवादिति चेत् । तस्यानन्द- SHEPHALA NA H THA HUN 2NDER भादृचिन्तामणेः स्या त्रायं पुरुषः स्वयंज्योति"रिति श्रुतिांसद्धस्वप्रकाशतया ऽऽत्मरूपानन्दानुभवस्य लोकसिद्धकारणान्तरानपेक्षत्वात् । तदुक्तम् ॥ निजं यच्चात्मचैतन्यमानन्दश्चेष्यते च यः॥ यच्च नित्यविभुत्वादि तेनात्मा नैवमुच्यते ॥ इति । अतो नित्यमुखाभिर्व्यक्तिर्मुक्तिरित्याहुः॥ तन्न । "विज्ञातारं केन विजानीयाद्, अस्य सर्वमात्मैवा. भूकेन के पश्ये"दिति च मोक्षकाले ज्ञानाभावप्रतिपादकश्रुति- विरुद्धत्वात् । आत्मनश्च न विज्ञानसुखादिरूपत्वम् । “आनदं ब्र. ह्मणो विद्वान्, स एको ब्रह्मण आनदः" इति श्रुत्या भेदप्रती- तेः। मम न किमपि सुखं, केवलं दुःखमेवेत्यनुभवात् । “ता एताः मजा अहरहब्रह्मलोकं यन्ति, अहरहरागच्छन्ती" ति सुषुप्तिमु- कयोः सादृश्यप्रतिपादकश्रुत्या ऽऽनन्दात्मकत्वनिषेधाच्च । सु- घुप्त्यवस्थायामानन्दानुभवाभावात् । अतो न नित्यसुखाभिव्य- क्तिर्मुक्तिः । तस्मात्प्रपञ्चस्य सर्वथा विलयो मुक्तिः । स च दु:- खाभावरूपत्वात् पुरुषार्थः । तेन सुखदुःखोपभोगाभावो मोक्ष इति फलितम् । तथा च श्रुतिः । “प्रियाप्रियेन स्पृशत" इति । न चैवमानन्दश्रुतिविरोधः । “मन आनन्द,मितिश्रुतेर्मनसआ- नन्दधर्मत्वात्तदानीं त्वमनस्क"मिति श्रुत्या मनोभावेन "विज्ञा- तारं केन विजानीया"दिति श्रुत्या च तदानीमानन्दानुभवनिषे- धात् । “अलं वा अरे इदं विज्ञाना" इति तु शक्तिमात्रपरम् । किंचानन्दप्रियाभाववचनयोर्विरोधे प्रमाणान्तरोपपत्तिभ्यामान- न्दवचसो दुःखाभावपरत्वं परिकल्प्य तत्परिहास । उभयत्रापि सामान्योपादानात् । अत उक्तरीत्यैव विरोधपरिहार इत्या- त्यन्तिकदुःखाभाव एव मोक्ष इति । न चैवं सुखस्यापि ना.

HAMRPAN । तर्कपादः । नुपादेयत्वमिति पुमर्थत्वम् । मधुविषभोजनदुःखवत्सुखस्यापि बहुतरदुःखानुबद्धत्वेन हेयत्वात् । न चैवमपि वर्तमानदुःखानां स्वभावेन विरोधिगुणान्तरोत्पत्त्या वा नाशादागन्तूनां प्रतियो- ग्यभावादतीतानामतीतत्वादेव नाशासम्भवान्न मोक्षः साध्यः स्यादिति वाच्यम् । दुःखहेतुधर्माधर्माच्छेदस्य 'व्यापारसाध्य त्वात् । तथाहि । सञ्चितानों प्रारब्धानां चादृष्टानां भोगात्मज्ञा. ननैमित्तिकमायश्चित्तानुष्ठानेल नाशात्काम्यानुष्ठानजन्यानां तद- ननुष्ठानेनानुत्पादाद्विहितानुष्ठाननिषिद्धाकरणाभ्यां प्रत्यवाया. परिहाराच्च । सुखदुःखजनकधर्माधर्मनाशात्पूर्वशरीरनाशे मुक्तो भवति । अत एव ज्ञानकर्मणोः समुच्चयेन जनकता । ज्ञानेन सञ्चितानामुत्पन्नधर्माधर्माणां नाशः। नित्यकर्मभिश्च. तदनुत्प- त्तिः । अन्यथा नित्याकरणजन्यप्रत्यवायेन शरीरोत्पत्तिप्रसङ्गा- व । तस्मादुभयोरपि शरीरोत्पत्त्यभावसम्पादकतया मोक्षजनक- ता। प्रारब्धकर्मणां तु न कर्मभिन ज्ञानेन नाशः । किं तु भो- गेनेति । न च "ज्ञानानिः सर्वकर्माणि भस्मसात्कुरुतेजन" इति ज्ञानस्यैव शरीरात्पत्त्यभावसम्पादकतया मोक्षजनक- त्वमस्तु, किं कर्मणति वाच्यम् । ज्ञानवतोपि विहिताननुष्ठानान- षिद्धाचरणाभ्यां प्रत्यवायोत्पत्तेः । तेन ज्ञानकर्मणोः समुच्चयेन जटकत्वम् । तत्राप्युपनिषज्जन्यात्मज्ञानं दृष्टोपयोगित्वात् क्रत्वर्थ- म् । उपासनात्मकं तु दृष्टोपयोगाभावा"त्सर्वान्कामानवामोति, न स पुनरावर्त्तत" इत्यादिवाक्यशेषाच्चाभ्युदयफलकं निश्रेयस फलकं चेति विवेकः । अतः सिद्धो ज्ञानकर्मसमुच्चय इति सं- क्षेपः ॥ तदुक्तम् "सत्येन लभ्यस्तपसा होष आत्मा ।

Noves DAANATAMI SHRESTHA H HARTI SONOTE PRANAMAN FANARAN AAMKHET Ritik RPORTAL STARAN MALE ५८ HERE NEW STARTER HD MARAT PARAN W Karness SHARANAS Hal, SELETER SAMRATE EHAT PRIORA ALS NARY ADAR AAR SCAMERA HAN HAHARI ARE EMA FANARDASHA RANGO MORN NAMAVAL R S PARABAR M भादृचिन्तामणेः सम्यग् ज्ञानेन ब्रह्मचर्येण वे"ति ॥ "स्नेस्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ।। तमभ्यर्य, तं ज्ञात्वेत्यर्थः ॥ तस्मात्तत्माप्तये यत्नः कर्त्तव्यः पण्डितैनरैः । सत्माप्तिहेतुर्विज्ञानं कर्म चोक्तं महामते ॥. उभाभ्यामिव पक्षाभ्यां यथा खे पक्षिणां गतिः। तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम्" । इति ब्रह्मप्रीप्तिर्मुक्तिरिति जीर्णाः ।। नव्यास्तु "तमेव विदित्वा ऽतिमृत्युमेति, नान्यः पन्था विद्यते अपनाये"ति श्रुत्या "न कर्मणा.न प्रजये" ति श्रुत्सा च मोक्षे ज्ञानातिरिक्तसाधननिषेधात् तीर्थस्नानमहादानकाशी- मरणादिकर्मणां ज्ञानद्वारैव मोक्षजनकत्वाच्च ज्ञानमेव साक्षान्मो- क्षजनकम्। कर्म तु ज्ञानजनकान्तःकरणश्रुद्धिजनकम् । न च त- मेवेत्यात्मातिरिक्तविषयकज्ञानस्य मोक्षजनकत्वपरिसंख्योत वा- च्यम् । ज्ञानस्य मोक्षजनकत्वेन नियंतप्राप्त्यभावात्परिसंख्यानुपप- चेः । वाक्यान्तरमाप्तपरिसंख्यायां तत्तद्वाक्यानां नान्यः पन्थे- ति निषेधस्य चानुपपत्तिः । एतेनोपनिषज्जन्यज्ञानातिरिक्त- भाषाग्रन्थादिजन्यज्ञानपरिसंख्येति परास्तम् । अध्ययनविधि- नैव तन्सिद्धेः । न चैवमुपनिषदध्ययनजन्यतत्त्वज्ञानस्य त्रैव- णिकेष्वेव सम्भवाच्छूद्रादीनां मुक्तिन स्यादिवि वाच्यम् । ते- षामपि "श्रावयेच्चतुरो वर्णानि" ति पुराणश्रवणविधिना त- ज्जन्यार्थज्ञानसत्वान्मुक्तिसिद्धेः । अतो ऽयं ज्ञानस्य मोक्षसाध- नत्वविधिः । नान्यः पन्थेति तदतिरिक्तकर्मणः साक्षात्साधन- त्वनिषेधः । “न चतुर्विंशदिति ब्रूयात् पविंशतिरित्यव ब्रूया" तर्कपादः । दितिवत् । एतनिषेधवशादेव कर्मणां मोक्षसाधनत्ववोधकश्रुतयः परंपरासाधनत्वपराः । अत एव "अविद्यया मृत्यु तीवा विद्य- या ऽमृतमश्नुते" इति श्रुतेरविद्यारूपकर्मणो मृत्युतरणशब्दल- क्षिताज्ञाननाशस्यात्मज्ञानद्वारकत्वबोधकश्रुतिरपि सङ्गच्छते । न कर्मणेत्यादिश्रुतिरपि परंपरया मोक्षसाधने संन्याससादृश्यनिषे. धनद्वारा संन्यासमाशस्त्यबोधिका कर्मणां. परंपरया साधनत्वं बोधयति । न साक्षात् । एवं त"मेवं • वेदानुवचनेन ब्राह्मणां विविदिषन्ति यज्ञेन दानेन तपसा नाशकेने"ति श्रुतिरपि कर्म- णां ज्ञानार्थत्वमेव बोधयति न साक्षान्योक्षार्थत्वमिति । न चैवं ज्ञानेन सञ्चितकर्मविनाशेपि शरीरजनकनित्याकरणजन्या- धर्मविनाशायोगान्मोक्षो न स्यादिति वाच्यम् । तस्य सञ्चित- विनाशकत्ववदधर्मानुत्पादकत्वस्याप्यङ्गीकारात् । उत्पन्ननाशा- ङ्गीकाराद्वा । न चैवं वेदान्ताध्ययनजन्यतत्त्वज्ञानोचरं मुक्तिः स्यादिति वाच्यम् । मारब्धस्य प्रतिबन्धकत्वात् । न चैवं सं- ञ्चितानां प्रायश्चित्तेन प्रारब्धानां भोगेन नाशान्नित्यकर्मभिश्चा- नुत्पादात्तत्त्वज्ञानस्यानुपयोग इति वाच्यम् । सुखभोगयोग्य. देहजनकधर्मविनाशद्वारा तस्य मोक्षोपयोगित्वादिति जीर्णाः ।। अन्ये तु तत्त्वज्ञानस्य सञ्चितनाशकत्ववत्प्रारब्धनाशकत्व- मापे । तत्त्वज्ञानव्यक्तिविशेषस्यैव मोक्षजनकतया तदुत्तरमेव मु- क्तिः । जीवन्मुक्तादिव्यवहारस्तु शरीररूपदुःखसत्त्वेन बाधा- द भात इत्याहुः॥ इति मीमांसकश्रीगागाभट्टकृतभादृचि- न्तामणावनुमाननिरूपणम् ॥

S ६० भादृचिन्तामणेः । अथोपमानं निरूप्यते ॥ उपमानं पूर्वदृष्टे ऽर्थे स्मर्यमाणे दृश्यमानार्थसादृश्यज्ञानम् । दृश्यमानगवयनिरूपितसादृश्यप्रकारकगोविशेष्यकप्रमोपमितिः । तत्करणं गवयापण्डदर्शनमित्यर्थः । एवं चारण्यकवाक्यार्थज्ञान- वतोऽरण्ये गवयदर्शनं तत्करणं, तत्सादृश्यविशिष्टो गौरिति ज्ञानं प्रमा, वाक्यार्थस्मरणमघान्तरव्यापार इति । न घेद सादृश्यमत्य- क्षम् । अर्थान्तरयोगिनिधैरर्थान्तरस्य तादृशयोगरूपसादृश्यस्य व्यासज्यवृत्तितया यावदाश्रयप्रत्यक्षाभावेन तदयोगात् । नानु- मानम् । उपमिनोमीत्यनुव्यवसायेनानुमितिवैलक्षण्यप्रतीतेः । नापि शाब्दम् । पदज्ञानाद्यभावादिति । अत इदं मानान्तरम्। एवं च प्रत्यक्षसौर्यविधिसादृश्यस्याग्नेत्रिधावुपमित्योपस्थिता- ग्नेयविधिविहिततिकर्तव्यताया अपेक्षितायाः सौर्याङ्गत्वबोधः फलमिति जीर्णाः ॥ नव्यांस्तु नैतनियतम् । उपमानस्य शक्तिग्राहकत्वानापत्तेः। एतादृशसादृश्य ज्ञानस्यातिदेशवाक्यार्थज्ञानाजन्यत्वाच्च । अतो गोसादृश्यविशिष्टपिण्डदर्शनं करणम् । अतिदेशवाक्यार्थस्मरण- मवान्तरव्यापारः । अयं गवयपदवाच्यः, गवयो गवयपदवाच्य इति वा संज्ञासंज्ञिसम्वन्धज्ञानं प्रमेत्याहुः ॥ इत्युपमानम् ॥ अथार्थापत्तिः ॥ अर्थापतिः प्रत्यक्षेण शब्देन वा प्रमितस्यार्थस्योपपादका- थान्तरकल्पनम् । यथा देवदत्तनिष्ठं दिने भोजनामावः पानत्वं च प्रत्यक्षदृष्टं स्वोपपादकं रात्रिभोजनं कल्पयति । तथा विश्व- जिद्यागकरणकभावनाविषयकप्रवर्तना विधिप्रमितेष्टोद्देश्यकत्वं वि- ना ऽनुपपद्यमाना स्वर्गाद्युद्देश्यकत्वं कल्पयति । अत्र दिनभोज- स । तर्कपादः । नाभावविशिष्टपीनत्वज्ञानं न करणं, येनानुमानान्तर्भावः शङ्कथे. त । किं तु भोजनाभावपीनत्वयोः सामानाधिकरण्यरूपसम्ब• न्धानुपपत्तिज्ञानम् । रात्रिभोजनज्ञानं प्रमा । उपपादकत्वज्ञानम- वान्तरव्यापारः । एवं जीवतो देवदत्तस्य गृहे ऽदर्शनेनादृष्टब- हिर्भावकल्पना । तेन नानुमानान्तर्गतिरिति जीर्णाः ॥ वस्तुत- स्तु नानुमिनोमि नोपमिनोमि न शाब्दयामि कि त्वर्थापयामीत्य- नुभवादेक मानान्तरत्वं युक्तम् । इदमेत्र सहजशक्तावाधेयशक्तौ च मानम् । तथाहि । बीजत्वावच्छेदेनाङ्कुरजनकत्वे गृहीते मूषि- काघातषु तददर्शनेन कारणत्वसन्देहे मूपिकाघाणनाश्या वी- हिनिष्ठा कारणशक्तिः कल्प्यते । एवं यांगजन्यं स्वर्गजनकम- पूर्व करप्यतइति जीर्णाः ॥ इत्यर्थापत्तिः॥ एवमनुपलब्धिरभावग्राहकं मानान्तरम् । नचाभावस्य केव- लाधिकरणात्मतया प्रत्यक्षेण ग्रह इति वाच्यम् । तस्याधिकर- णात्मकत्वे. भूतले घटाभाव इत्याधाराधेयभावपतीत्यनुपपत्तेः । किं च घटो नास्ति नायं पट इत्यादिव्यवहारस्य सघटे प्रसङ्गान भूतलमात्रं विषयः । घटविविक्तस्य विषयत्वे ऽभावातिरिक्तस्य विवेकस्यासम्भवात्सिद्धमभावेन । तद्राहकं च योग्यानुपलब्धि- मानान्तरम् । तथाहि । अभावो नेन्द्रियग्राह्यः । सन्निकर्षाभी- वात् । न च विशेषणत्वादिः सत्रिकर्षः । तस्य प्रत्येकवृत्तितयोभ- यनिष्ठत्वाभावेन सन्निकर्षत्वायोगात् । न च तत्राभावस्मरण- म् । पूर्व तदनुभवाभावात् । एवं च तस्यानुपलब्धिरूपप्रमाणान्त- रवेद्यत्वम् । योग्यानुपलब्धिश्च दर्शनयोग्यस्यादर्शनं दर्शनाभाव इति यावत् । तेन घटाभावादिज्ञानं. दर्शनाभावेन प्रतियोगिस- त्वप्रसञ्जनपसञ्जितप्रतियोगिकेन याद घटा स्यात्तदा दृश्य- ARCH WIKIMAN भादृचिन्तामणे तेत्याकारकेण घटाभावो ज्ञायते । योग्यता च योग्यपतियोगिक- त्वयोग्याधिकरणकत्वादिरूपा तत्तदभावग्रहे नानव । अतः सिद्धमभावग्राहकमनुपलब्धिरूपं मानान्तरम् । अत्र प्रतियोगि:- त्यक्षाभावः करणम् । अनुमितिरवान्तरव्यापारः । अमाव- ज्ञानं फलम् । अर्थापत्तौ तु ज्ञानं करणमनुपपत्तिज्ञानमवान्तर- व्यापारः । उपपादकाज्ञानं फलमित्यनयोर्भेदमाहुः । अतः षट् प्रमाणानि । वस्तुतस्त्वर्थापत्त्यनुपलब्धपोरन्योन्यभेदमनुमानाच्च भेदं नाकलयामः। यन्तु सहस्रसङ्ख्यान्तर्गतशतसंख्याप्रमाकरणं सम्भवाख्यम्पमाणं सदनुमानान्तर्गतं, वटे वैश्रवणमिति चतिचं न मितिकरणं, तत्त्वे ऽप्यागमान्तर्गतम् । श्वो मे भाता ऽऽगन्ते- ति प्रतिभाख्यमनिश्चायकत्वान्न मानम् । तेनर्षीणां प्रतिभया धर्मा- धर्मप्रमेति परास्तम् । लोकमसिद्धिः प्रत्यक्षान्तर्गतैव । अतः प- डेव प्रमाणानि । राम पड युक्तयो लोके याभिः सर्वो ऽनुदृश्यत- इचि रामायणाच्चेति संक्षेपः ।। इत्यभाववादः॥ अथ शब्दः ॥ "शब्दं शब्दविज्ञानादसनिकृष्टे ऽर्थे विज्ञानम्" ॥ इति सूत्रम् । शब्दज्ञानजन्यमसनिकृष्टार्थविषयकं यथार्थ- ज्ञानं शाब्दममा, तत्करणीभूतशब्दः प्रमाणमित्यर्थः 1 शब्दा- नुव्यवसाये ऽतिव्याप्तिवारणाय द्वितीयम् । अनुमित्यादाव- तिव्यानिवारणायाद्यम् । एवं वाक्यश्रवणानन्तरं पदोपस्थि- तपदार्थानां संसर्गविषयिणी प्रमितिः प्रत्यक्षादिविलक्षणा जाय- ते, तत्करणं शब्दरतज्ज्ञानं वा प्रमाणान्तरम् । जन्यपदधी- जन्यत्व व्यभिचार्यनुभवत्वाव्यापकजातिशून्यत्वे सति पदविष- यकत्वाच्यभिचारिजातिगुम्बधी शब्दममा तत्करणं शब्द:

. तर्कपादः । प्रमाणमिति जानकीनाथः । प्रत्यक्षानुमितिस्मृतीनां वारणाय सत्यन्तम् । असम्भववारणाय अनुभवत्वाव्यापकेति जातिवि- शेषणम् । उपमितिवारणाय शून्यान्तम् । घटादिवारणाय धी- पदम् । स्वकरणकशाब्दधीप्रकारप्रकारकममाजन्यः शब्दः प्र- माणशब्द इति मणिकृत् । वाक्यं चैकार्यकपदसमूहः। एकार्थत्वं चानेकमुख्यविशेष्यराहित्यम् । न त्वेकाख्यातवत्त्वम् । तेनाख्यात. भेदेऽपि यत्रैकाख्यातार्थे ऽन्याख्यानार्थः प्रकारो पथा पश्य मृगो धावतीत्यादौ तत्रैकवाक्यत्वम् । नन्विदं पदोपस्थितपदा- र्थानां संसर्गावगाहि मानसप्रत्यक्षमास्त्वति चेत् । न । तत्र मनासनिक भावात् । उपनीतभानेपि ज्ञातस्यैव विषयतया ऽज्ञातसम्बन्धस्योपनीतभानासम्भवाच्च । किं च शाब्दसामग्री चाक्षुषादिप्रतिबन्धिका । मानसे तु चाक्षुषादिसामग्री प्रतिबन्धि- केति सर्वसम्मतम् । एवं च शाब्दत्वस्य मानसत्वव्याप्यताङ्गी- कारे भिन्नविषयकचाक्षुषसामग्रीकाले शाब्दवोधो न स्यात् तत्र चाक्षुषसामग्रीमानसयोः प्रतिबध्यप्रतिबन्धकभावेष्वनन्तेषु शान्दान्यत्वप्रवेशे गौरवं स्यात् ॥ वैशेषिकास्तु शब्दो ऽनुमानान्तर्गतः । घटमानयेत्यादिप- दानि तात्पर्यविषयभूतपदार्थनिरूपिततात्पर्यविषयसंसर्गपमापूर्व काणि । परस्परान्वयतात्पर्यकत्वे सति योग्यत्वात् । पदान्त- रचत् । आकाङ्क्षासत्त्योस्तु तात्पर्य ज्ञानार्थमेवापेक्षा । यद्वा पदै- रुपस्थितेषु घटादिपदार्येषु । कर्मत्वमाधेयतासंसर्गेण घटवत् । तेन संसर्गेण घटे बाधाभावरूपयोग्यतावत्त्वात् । एते पदार्थास्ता- पर्यविषयसंसर्गवन्तः । आकाङ्क्षादिमत्पदस्मारितत्वात् । इदं वाक्यं संसृष्टार्थज्ञापकम् । आप्तवाक्यत्वात् । इत्याद्यनुमानमु- द्रयैव शब्दस्यार्थप्रत्यायकत्वसम्भवेन पृथक् प्रामाण्यकल्पना ऽयु- HTTA भादृचिन्तामणेः क्ता । न चैतादृशसंसर्गज्ञानात्कथं प्रवृत्तिः । इष्टतावच्छेदकप्रका- रकप्रवृत्तिविषयविशेष्यकज्ञानस्य प्रवृचिहेतुत्वादुक्तस्य तथाविध- त्वाभावादिति वाच्यम् । इष्टतावच्छेदकप्रकारकप्रतिविषयवै- शिष्टयावगाहिज्ञानस्यैव प्रवृत्ति हेतुत्त्वात् । इष्टतावच्छेदकसंसर्गम- कारकस्यापि वैशिष्टयावगाहिज्ञानत्वात् । अस्मिन् गृहे सुवर्ण- सर्पसम्बन्धोस्तीति ज्ञानादपि प्रवृत्तिनिवृत्त्यनुभवाच्चार्थपक्षका- नुमाने दोषीभावाच्चेत्याहुः ॥ अत्र के चित् । पदपक्षकानुमानस्य संसर्गप्रकारकत्वनियमादजतत्वप्रकारकज्ञानार्थ शब्दप्रामाण्या- ङ्गीकार आवश्यकः । नहि रजतवद्भूतलमिति शब्दश्रवणो- त्तरं संसर्गमकारकमेव ज्ञानं जायतइति नियमः । रजतादिन- कारकानुभवस्यापि सत्वात् । अर्थपक्षकानुमाने च योग्यता- याहेतुतया लिङ्गस्य निश्चितस्यैव निश्चायकतया योग्यता- संशये ऽनुमानानुपपत्त्या प्रवृत्त्यायनुपपत्तिः । शाब्दबोधे तु संशयसाधारणयोग्यताज्ञानस्य हेतुत्वाद् नानुपपत्तिरित्याहुः । वस्तुतो वक्तुः प्रतारकत्वादिशङ्कायां शाब्दबोधवारणायं योग्य- तानिश्चयस्यैव शाब्दबोधे हेतुतति नोभयोः पक्षयोविशेषः । पक्षधरास्तु घटमानय घटः कर्मत्वमानयनमित्यादिस्वरूपयोग्यतद- योग्ययोर्विशेषो न स्यात् । अनुमानस्योभयत्र सम्भवात् । अतो व्याप्त्यादिज्ञानसापेक्षत्वतदनपेक्षत्वकृतबोधविलम्बाविलम्बाभ्यां विभक्त्यादिसमाभिव्याहृतशब्दस्य मानान्तरत्वम् । किं च ए- कपदार्थप्रकारकापरदार्थविशेष्यकभानं शब्दादेव नानुमानात् । अयं पदार्थो ऽपरपदार्थवानित्यनुमानपि विपरीतक्रियाकर्मभाव- मादायान्तरवापतेः । तात्पर्यविषयसंसर्गवानित्यनुमाने तु सं. सर्गस्य प्रकारतापत्तिः । न च तादृशज्ञानस्य मानसत्वम् । शब्दातिरिक्तस्य मनःसहकारिणो ऽभावात् । किं चौदनं पच- ।

तर्कपादः । त्योदनः पच्यतइत्यत्र पाकौदनयोर्विशेष्यत्वनियमः शब्दप्रापा- ण्यं विनानुपपन्नः । तस्माच्छब्दः प्रमाणमित्याहुः ॥ एवं शाब्दयामीत्यनुभवोपि सङ्गच्छते । न चानुमितिमातः शा. ब्दप्रमाया भेदे यत्रैकस्मिन्विषये ऽनुमितिसामग्री शाब्दसामग्री च तत्रानुमितिवारणाय शाब्दसामग्याः प्रतिबन्धकत्वकल्पने गौरवमिति वाच्यम् । फलमुखत्वेनादोषत्वात् । किं च शाब्दप्र- माया अनुमितित्वे सिद्धिसत्त्वे शाब्दबोथो न स्यात् । शान्दा न्यानुमितित्वस्य सिद्धिप्रतिबध्यतावच्छेदकत्वकल्पने गौरवम् । किं चानुमितिशाब्दसामग्रीसत्त्वे सिद्धयभावदशायमिनुमितिका- रणीभूतस्य सिध्यभावस्य सत्त्वेन तत्र शान्दानुमित्युभयापत्ति- स्तद्वारणाय शाब्दान्यानुमिता शाब्दसामग्याः प्रतिबन्धकलं वाच्यं तत्र शाब्दान्यत्वनिवेशे गौरवमिति दिक् । तत्सिद्धं शब्दस्य विजातीयप्रमितिजनकतया प्रामाण्यं, तत्र वाक्येनान्वयानुभव- जनने आकाङ्क्षायोग्यतासत्तिज्ञानं सहकारि । घटो.कर्मवामि- त्यादेनिराकाङ्क्षतया स्वरूपायोग्याद् अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यादेर्जनितान्वयबोधेन निराकाङ्क्षाद् वन्हिना सिञ्चतीत्यादेरयोग्याद् गिरि(क्तमाग्नमान् देवदत्तेनेत्यादेरना- सन्नाच्च शाब्दबोधानुदयात् । आकाङ्क्षा च पदनिष्ठा तत्प- दव्यतिरेकप्रयुक्तान्वयाननुभावकत्वरूपा। अयमेति पुत्रो राज्ञः पुरुटो ऽपसार्यतामित्यत्र राजपदस्य पुत्रेण सह जनितान्वयबोध- स्य न पुरुषसाकाङ्क्षत्वम् । घटः कर्मत्वमित्यादरभेदान्वयवो. धे साकाङ्क्षत्वेपि भेदान्क्यबाये न साकाङ्क्षत्वम्, लाक्षणि- कगङ्गादिपदस्याप्यनुभावकत्वस्वीकारात् । तत्रापि साकाङ्क्ष- त्वम् । यदि च लाक्षणिकस्य नानुभावकत्वं तदा तीरोपस्थापक- पदव्यतिरेकमयुक्तान्वयाननुभावकत्वरूपाकाक्षात्राप्यङ्गीकार्या।

HIAADHAR ASH TA HERA SHANT BHARAT hi RA HRDASTI Bi भादृचिन्तामणे एवं श्रुतपदे ऽध्याहृतपदनिरूपिताकाङ्क्षापि बोध्या । यत्र स. र्वाणि पदानि लाक्षणिकानि तादृशवाक्या न बोधः । अन्ये तु यत्पदोपस्थाप्यस्य येन विना नान्वयबोधविषयत्वं तस्य तेनाकाङ्क्षा सा चार्थनिष्ठा. तेन लाक्षणिके ऽध्याहा- रस्थले च नानुपपत्तिरित्याहुः । वाक्यैकवाक्यतास्थळे तु तद्वय- तिरेकमत्युक्तकार्याजनकत्वमाकाङ्क्षा । एवं चार्थवादविधिवा. स्वयोरन्यतरव्यतिरेकमदुक्तमवन्त्यजनकत्वेनाकाला। एवै प्र- धानविध्यर्थप्रधानस्याङ्गाविध्यर्थाङ्ग चिना फलाजनकत्वरूपाका- एक्षा । अन्ये तु पदव्यतिरेकप्रयुक्तो क्क्तुस्तात्पर्यविषयसंस- गावगममागभाव आकाक्षा । घटः कर्मत्वमानयनं कृतिरित्यादा- वयमेति पुत्रो राज्ञः पुरुषोपसार्यतामित्यादिजनितान्वयबोधे च संसर्गाचगमामसिद्ध्या तत्मागभावाभावानिराकाङ्क्षत्वमित्याहुः। न चैवं सर्वत्राकाङ्क्षाया अभावरूपतया स्वरूपसत्या एव जनक- त्वादाकाङ्क्षाभूमेण शाब्दबोध इति व्यवहारोच्छेदापत्तिरिति वाच्यम् । अन्वयानुभवाभावे तत्पदन्यतिरेकायुक्तत्वभूमसम्भ वात् । घटः कर्मस्वमित्यादौ तत्पदव्यतिरेकाभावभूमेण शाब्द- बोधसम्भवः । जनितान्वयबोधे त्वजनितबोधत्वभूम इति दिक। योग्यता च अन्वपप्रयोजकधर्मवत्त्वम् । अस्ति च पयसा सिञ्चतीत्यत्र सेकान्वयप्रयोजकधर्मजलत्वस्य पयसि सत्त्वायो- म्यता, न तु वन्हिना सिञ्चतीत्यत्र । के चिन्तु बाधाभावो योग्यता, सा च तात्पर्यविषयीभूतपदार्थसंसर्गे ऽपरपदार्थनिष्ठा- सन्ताभावप्रतियोगित्वाभावः । वर्तते चैतद् घटपदार्थसंसर्गे नि: एत्त्वे कर्मत्वनिष्ठात्यन्ताभावप्रतियोगित्वाभावः । अपस्पदार्थ- निष्ठासन्ताभावश्च प्रतियोगिव्याधिकरणो बोध्यः । तेन घटव- तमित्यत्र घटसंयोगे भूतलनिष्ठाभावप्रतियोगित्वे ऽपि न ।

तर्कपादः । क्षतिः । एकपदार्थतावच्छेदके तात्पर्यविषयापरपदार्थनिष्ठात्य- न्ताभावप्रतियोगितावच्छेदकत्वाभावो वा योग्यता। तेन समुद्रज- लनिष्ठाभावप्रतियोगितावच्छेदकत्वस्य सेककरणतात्वे सन्त्वेपि योन्तरस्य तात्पर्यविषयत्वान योग्यताहानि:, समुद्रजलाभि- माये त्वयोग्यमेव । एवं शक्ततावच्छेदकभेदेनैकपदवोध्ययोप- चतीत्यादौ कृतिवर्त्तमानत्वयोर्योग्यता । पदार्थपि स्थितौ क्व- चिसशंयरूपस्य क्व चिनिश्चयरूपस्य सम्भवात् । अत्र च व- न्हिना सिञ्चतीत्यादौ शाब्दबोधवारणाय योग्यता हेतुः । सा च न स्वरूपसती हेतुः, तद्भमेण शाब्दबोचोदयात, अतस्त- ज्ज्ञानं हेतुः । तच्च संशयनिश्चयसाधारणम् । न चात्यन्तान्यो- न्याभावगर्भयोग्यतयौनकरूपेण हेतुत्वं सम्भवतीति वाच्यम् अयोग्यताग्रहविरोधित्वेन हेतुत्वात् । होतव्यमग्निहोत्रं न हो- तव्यमिति शब्दो नित्यो न वेति वाक्यायोग्यतासंशयादपि शा- ब्दबोध इष्ट एव । यद्वा तदभावशाब्दसामग्यास्तद्वत्ताशाब्दे पति- बन्धकत्वं कल्प्यते, अवस्तत्र पदार्थस्मृतिमात्रं न शाब्दबोध इति दिक्॥ वस्तुतस्तु न योग्यताज्ञानस्य कारणता किं तु वन्हिना सि. उचेदित्यादौ बोधादर्शनेनायोग्यतानिश्चयः प्रतिवन्धकः । सा चानुमित्यादिसाधारण्येनैव क्लुप्तप्रतिबन्धकीभूतबाधज्ञानत्वादि- नैव शाब्दबोधे ऽपि प्रतिबन्धकम् । किं च योग्यताया:- सर्वत्रै- क्यासम्भवाद्विशिष्य हेतुत्वे तत्तद्वाक्यजन्यशाब्दबोधापासिया हेतुत्वकल्पनं न सम्भवति । अवो न योग्यताज्ञान कारणं किंव- गृहीताप्रामाण्यकतर्मिताचच्छेदककतावाच्छन्नतदभावनिश्च- यत्वेन प्रतिवन्धकता, तद्धर्मावच्छिन्नांशे दोषविशेषाजन्यतल्लो- किकप्रत्यक्षनिश्चयान्याहोयतरतमितावच्छेदककतदर्मावच्छि, 4 SHAR Viane Sonal ANTAN AL भादृचिन्तामणेः नविशिष्टबुद्धित्वेन प्रतिबध्यतेतिरीत्या अयोग्यतानिश्चयः प्रति- वन्धकस्तदभावः कारणमित्याहुः ॥ आलङ्कारिकास्तु । न शा. ब्दबोधे योग्यताज्ञानं हेतुः नाप्ययोग्यतानिश्चयः प्रतिबन्धकस्त- सत्त्वेपि चन्द्रो मुखमित्यादिरूपकादिबोधोदयादेष वन्ध्यासुतो याति खपुष्पकृतशेखर इत्यादिश्लोकार्थशाब्दबोधेन चमत्कारा- तिशयानुभवाच्च । न च तत्र पदार्थस्मरणमात्रं न शाब्दबोध इति वाच्यम् । घटमानयेत्यादावपिं तथा वक्तुं शक्मतया शा- ब्दबोधमात्रोच्छेदापत्तिः, किं तु बाधनिश्चयस्य शाब्दभिन्नमेव प्रतिबध्यम् । न चैवं प्रवृत्त्याद्यापत्तिः । प्राक्तनवाधन प्रामाण्य- शङ्काया एव जायमानज्ञाने जननादमामाण्यशङ्काशून्यज्ञानस्य प्रवृत्ति प्रति हेतुतया तदभावेन प्रत्त्यापादनासम्भवात् । तदुक्तं खण्डने 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति ही' त्याहुः ॥ वस्तुतस्तु एवं सत्ययोग्यवाक्याच्छदापत्तेः । चन्द्रो मुखमि- त्यादिवाक्येन पामराणां बोधानुत्पादादालङ्कारिकाणामेव बो- घोदयाच्च वासनाविशेष एवोत्तेजको वाच्या, एवं चोत्तेजका- भावविशिष्टवाघनिश्चयाभावस्य शाब्दबोधे हेतुत्वं युक्तमित्ययो- ग्यतानिश्चयस्य प्रतिबन्धकत्वं युक्तमुत्पश्यामः ॥ आसत्तिस्तु अव्यवधानेनान्वयपतियोग्युपस्थितिः । अव्य- क्यानं च. प्रकृतान्वयावोधाननुकूलक्षणेन । अननुकूलत्वं च प्रकृतान्वयबोधाननुकूलोपस्थित्याधिकरणत्वं, तेन गिरि क्तम- मिमान् देवदत्तेनेत्यादौ नासत्तिः। अत एवान्तरालिकानुकूळपदा- योपस्थितेने व्यवधायकत्वम् । श्लोकादौ त्वासत्तिभ्रमेण शा- ब्दबोध इति के चित् । अन्ये तु अन्वयपप्रतियोग्युपस्थापकपदा- व्यवधानमासत्तिः श्लोकादौ तु योजनावाक्यादेव शाब्दबोध इत्याहुः ॥

तर्कपादः । ६९ तात्पर्य तु तत्पतीतीच्छया चक्रानुसंहितत्वम् । तत्र पदार्थ- तात्पर्यानिश्चयः संगितात्पर्यनिश्चयश्च तादृशशान्दबोधे हेतुः । तत्सन्देहे शाब्दबोधानुदयात् । तात्पर्यभ्रमे चाहार्यशाब्दबोधाद- यात् । शुकवाक्ये वेदवाक्ये चेश्वरतात्पर्यग्रहेण शाब्दबोधो ऽध्या- पकतात्पर्यग्रहेण वा । न च प्रकरणादिकमेव तत्तच्छाब्दबोधे हेतुर्न तु तात्पर्यज्ञानमिति वाच्यम् । अननुगतप्रकरणादिवाना- नां हेतुले गौरवात् । के चित्तु तात्पर्यशान लाक्षणिकनानार्थ- स्थलीयशाब्दे हेतुर्न तु शाब्दबोधमाने, गौरवात् । एवं च सै- न्धवपदजन्यनानार्थोपस्थितिकालीनतत्पदजन्य लवणादिशाब्द- बोधे तात्पर्यज्ञानं कारणम् । न चैवं गौरवं, सर्वशान्दे तत्तच्छा- ब्दत्वावच्छिन्ने तत्चात्पर्यज्ञानानामनन्त कार्यकारणभावापे- क्षया लघुत्वादित्याहुः ॥ परे तु तात्पर्यज्ञानस्य न हेतुत्वं सम्भ- वति । तज्ज्ञानासम्भवात् । आवश्यकमकरणसमभिव्याहारादि- ना तज्ज्ञानसम्भवे तदेनोरिति न्यायेन तस्य वैयर्थ्यातू । अतो वेदवाक्यार्थबोधे लौकिकलाक्षणिकनानार्थस्थलीयशाब्दबोधे च न तात्पर्यज्ञान हेतुरित्याहुः ॥ अत्रेदं बोध्यम् । पदार्थोप-' स्थितिमात्रं न हेतुः पचतीत्यादौ प्रत्यक्षदृष्टकलापादेरपि शाब्द- बोधापत्तः । नापि पदजन्यपदार्थोपस्थितिः, पदोपस्थितस्वाश्र- याकाशादेरापि शाब्दबोधापत्तेः। अतो वृत्त्या पदजन्यपदार्थोपस्थि- तिहेतुः । अन्ये तु न पदजन्यपदार्थोपस्थितिहेतुः, किं तु पदा- र्थोपस्थितिमात्रम् । आकाशादेः शाब्दबोधस्याकाङ्क्षायोग्यत्वा- भावेनैव वारणात् । न च तथापि प्रत्यक्षगम्यकलापादेरपि प- चतीत्यादौ शाब्दबोधापत्तिः । तात्पर्याभावात् । तत्सत्त्वे शा- ब्दबोधस्येष्टत्वात् । न चैवं घटः कर्मत्वमित्यादिपदजन्यपदार्थो- पस्थितौ शाब्दबोधापत्तिः । तादृशसमभिव्याहारविशिष्टपदजन्य- ७० मादृचिन्तामणेः पदार्थोपस्थितेरेव हेतुत्वाङ्गीकारात् । अत एष वाचकपदानुप: स्थित्तस्यापि क्रमस्य विधानमुपपद्यतइत्याहुः । नन्वस्तु शाब्दबा- धे आकाङ्क्षादिज्ञानानां कारणता तथापि युगपत् तावत्पदज्ञान नानां तावत्पदार्थस्मृतीनां चासम्भवात् कथं वाक्यार्थबोध इति चे,न्न । क्रमोच्चारितपदजन्यपदार्थक्रमिकोपस्थित्युत्तरं सर्वेषां पदानां समुहालम्बनरूपमानसोपस्थितिः ततः समूहालम्बनरूप- तत्पदार्थोपस्थितौ तदन्तयबोधोत्पत्तिः । न च पदसमूहालम्बन विनार्थोपस्थितिर कल्यतामिति वाच्यम् । तस्याः पदजन्य- वाभावेन क्लुप्तकायकारणभावबाधापत्तेः । अतः पदसमूहाल- म्बनमावश्यकम् । वस्तुतस्तु जन्यत्वापेक्षया अनन्यथासिद्धत्व- स्याप्रवेशेन प्रयोज्यत्वस्य लघुतया पदजन्यपदार्थोपस्थितेर्न हेतुत्वं किन्तु पदप्रयोज्यपदार्थोपस्थितेरेव । तथा सति पदस- मूहालम्बनं नावश्यकर्मिति युक्तम् । पदार्थानां च खळे कपोतन्या- येनात्वयबोधः। तदुक्तम् वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ।। क चित्त राजपुरप्रवेशन्यायेनान्वयबोधः । यत्र खण्डबा- क्यार्थबोधोचरं महावाक्यार्थबोधः । यत्र वा दण्डी कुण्डली छ- श्री चैत्र इत्यादी विशिष्टस्य वैशिष्टयबोधे तात्पर्य, तत्र । तदु- क्तम् यद्यदाकाक्षितं योग्यं सनिधानं प्रपद्यते । तेनतेनान्वितः स्वार्थः पदैरेवावगम्यते ॥ इति संप्रदायः । खण्डचाक्यार्थबोधोत्तरं चरमपदस्मृतिसत पदार्थस्मृतिस्तत्रार्थस्मृतिकाले खण्डवाक्यार्यबोधनाचाच्चस्म- पदस्मृतिरेव तावत्पदविषायणी। चरमावस्मृति सावदवि तपादः । षयिणी ततो ऽन्वयबोध इति नव्याः । ननु पदजन्यपदार्थो- पस्थितिः शान्दवोघहेतुः, अन्यथा पचतीत्यादितः प्रत्यक्षदृष्टक- लापादेरप्यन्वयबोधापत्ते, रित्युक्तम् । एवं सति द्वारमित्यादौ शाब्दयोयो न स्यात क्रियावाचकपदाभावादिति चे,न्न । अनु- षङ्गाध्याहारादिनान्वयबोधात् । एतेन विश्वजिता यजेतेत्यत्र स्वर्गकाम इति वा स्वार्थमिति वा सौर्य चकै निर्वब्रह्मवर्चस- काम इत्यादौ प्राकृताग्न्यन्वाधानादीतिकर्तव्यतावाचकस्याग्ने- यवदितिपदस्य प्रतितिष्ठन्तीह वा य एतारात्रीरुपयन्ति सर्वेभ्यो दर्शपूर्णमासावित्यादौ विविपदस्य सौयोदिविकृतावातिदेशिक- मन्त्रे ऽर्थलोपेन निवृत्ताग्निपदके सूर्यादिपदस्य चाध्याहारादिति व्याख्यातम् । स्वस्थानस्थितस्य पुनरनुसन्धानमावृत्तिः । ने- दीयस्थानान्तरस्थस्यानुसन्धानमनुषः । दवीयस्थानान्तरस्थ- स्यानुसन्धानमनुतिः । सा च सिंहावलोकितमण्डूकप्लुतिगङ्गा- स्रोतोचदिति त्रिधा | आवृत्त्यनुषानुवृत्त्यसाधारणलक्षणं श्रुत- पदस्यानुसन्धानम् । अश्रुतपदस्यानुसन्धानमध्याहारः । स च सर्वापेक्षया जघन्य इति । गुरवस्तु तद्विषयकशाब्दे पदजन्यतदुप- स्थितेने हेतुत्वं किं तु तत्तदन्वयबोधे पदजन्यतत्तदन्वयप्रतियो. ग्युपस्थितित्वेन हेतुत्वम् । उक्तस्थले त्वर्याध्याहारेणैवान्वयबोध इत्याहुः । तेषामयमाशयः । कार्यवाचकपदासमभिव्याहृतवाक्या- नां मूकत्वाच्छाब्दबोधमाने कार्यवाचकपदज्ञानमर्थोपस्थितिश्च हेतुः । आकाङ्क्षाभावानोपस्थिवस्याकाशादेवोधः । उपस्थि- तकलापादेराकाङ्क्षायां बोधस्त्विष्ट एव । एवं च तत्तच्छाब्दबोधे तत्तत्पदार्थोपस्थितित्वेन हेतुतति लाघवम् । मतान्तरे तु तत्वत्पदज्ञानस्य तत्तत्पदजन्योपस्थितेश्च हेतुत्वकल्पने हेतु- हेतुमद्भाचकल्पनागौरवमिति । अताहुः । असाधुपदेनार्थप्रत्यया- ७२ भादृचिन्तामणेः भावात्साधुपदज्ञानमपि शाब्दबोधे हेतुः । साधुत्वं चानादि- त्तिप्रमाप्रयोज्यार्थप्रतिपादकत्वम् । तेन भाषाशब्देष्वनादिश: क्त्यभावाच्छक्त्यार्थाभावेन लक्षणाया असम्भवान्न साधुत्वम् । लाक्षणिकगङ्गापदे च न क्षतिः । आधुनिकसङ्केतितडित्यादिपदेषु पाणिनिसङ्केतितद्धिटिघुभादिपदेषु च पिता नाम कुर्यादिति विधिना पुत्रत्वनामत्वोपाधिना व्याकृता वागुद्यत इति विधिना व्याकरणोपाधिना चानादिवृत्तिप्रमासम्भवात्साधुत्वम् । वृत्ति- भ्रमेणार्थप्रत्यायकत्वमसाधुत्वम् । तद्यथा । भाषाशब्दानां प्र- योगप्रमयोः करणापाटवशक्तिभूपाभ्यामुपंपत्तेः शक्त्यभावादे- व वृत्त्यन्तरस्य चासम्भवान्न वृत्तिप्रमेति न साधुत्वम् । राणक- स्तु पौरुषेयसङ्केतविरहविशिष्टत्वं साधुत्वम् । व्याकरणस- ङ्केतितानामसाधुत्वमिष्टमेवेत्याह । तन्न । टिपदोत्तरं विभक्त्यनु. त्पत्तिप्रसङ्गात् । टिघुभादिशब्दानामुभयवहिर्भूतत्त्वमिति के चित् । अदृष्टजनकतावच्छेदको व्याकरणाभिव्यज्यो जातिविशेष एवं साधुत्वामित्यापि कश्चित् । तदुक्तम् । अनवभूष्टतानादियद्वाभ्युदययोग्यता । व्याक्रिया व्यञ्जनीया सा जातिः कापीह साधुता ।। यास्त्वेताः खेच्छया संज्ञाः क्रियन्ते टिघुभादयः । कथं नु तासां साधुत्वं नैव ताः साधवो मताः ॥ अनपभ्रंशरूपत्वान्नाप्यासामपशब्दता । हस्तचेष्टा यथा लोके तथा सङ्केतिता इमाः ॥ ततश्चासां नाभ्युदयः प्रत्यवायो पि वा भवेत् । लाघवेनार्थबोधार्थ प्रयुज्यन्ते तु केवलम् ॥ वस्तुतः साधुत्वज्ञानं न कारणं नाप्य साधुत्वज्ञान प्रतिबन्ध- कं, किं तु तादृशसमभिव्याहारस्य तादृशाकाङ्क्षाया चा हेतु- - , तर्कपादः । त्वात्, नोक्तातिप्रसङ्ग इति युक्तम् । पदज्ञानस्य च द्वैधीकरण- ता चरमपदस्य सर्वपदस्मृतिहेतुसंस्कारोबोधकतया लाक्षणि- कस्य च शक्तपदस्मृतिहेतुसंस्कारोबोधकतया स्वार्थोपस्थितिद्वा- रा च । अन्यषां तु खार्थोपस्थितिद्वारैवेति, तत्रोद्बोधकविघया यत्पदज्ञानजन्यत्वं पदार्थोपस्थितिद्वारा च यत्पदज्ञानजन्यत्वं शाब्दबोधनिष्ठं सदन्यतरसम्बन्धेन पदज्ञाननिशिघटोपस्थिति- स्वादिना चटादिशाब्दे हेतृत्वम् । लाक्षणिकपदस्यानुभावकत्वा- भावात् । तत्स्मृतशक्तपदस्यैव शाब्दबोधहेतुत्वादिति के चित् । पदं चानुपूर्वीविशिष्टतद्वर्णसमुदाय / आनुपूर्वी च शक्ततावच्छे- दिका । सा च टपागभावविशिष्टयत्वरूपा घनाशविशिष्टटत्वरू- पावा। वर्णानां नित्यत्वे तु अव्यवहितोत्तरत्वसम्बन्धेन घज्ञा- नविशिष्टज्ञानविषयटत्वादिरूपा । सुप्तिङन्तं पदमिति वैयाकर- णाः । शक्तं पदमिति तु युक्तम् । इदं तु बोध्यम् । पदज्ञानस्य घटशाब्दे केन रूपेण हेतुत्वम् । न तावत्पदज्ञानलेन, व्य. भिचारात् । नापि घटपदज्ञानत्वेन, कलशपदादपि घटशाब्दे व्यभिचारात् । किं तु घटशक्तपदज्ञानत्वेन । न तु वृत्तिमत्प- दज्ञानत्वेन, वृत्तित्वस्य शक्तिलक्षणान्यतरगर्भतया गौरवात् । तेन लाक्षणिकस्याननुभावकत्वम् । अत एव यत्र सर्वाणि लाक्ष- णिकानि तद्वाक्यं मूकमेव । गङ्गायां घोष इत्यादौ तु यत्कि- ञ्चिच्छक्तपदमादायान्वयानुभव इति सम्प्रदायः । वस्तुतो वृ- त्तिमत्पदज्ञानत्वेन घटपदज्ञानत्वेनं घटस्मारकपदज्ञानत्वेनान्त. त: शाब्दत्वावच्छिन्ने पदज्ञानत्वेनैव वा हेतुत्वं, तत्पदजन्यप- दार्थोपस्थितिरूपव्यापाराभावेन न व्यभिचारः । तेन लाक्ष- णिकस्याप्यनुभावकत्वं युक्तमिति दिक् ॥ ननु शक्तपदज्ञानत्वे- ने हेतुतेत्युक्तं, तत्र केयं शक्ति रिति चेत् । अव्यवधानेन शब्द- १० ७४ भादृचिन्तामणेः जन्यप्रतीत्यनुकूला वृत्तिः शक्तिः। अव्यवहितत्वञ्चार्थान्तरमती- त्यद्वारकत्वम् । इदं च लक्षणावारणाय तादृशचेष्टावारणाय चाव- शिष्टम् .। सा चास्मात्पदादयमों बोद्धा इत्याकारिकेश्वरे- च्छेति न्यायविदः । पदार्थान्तरमिति मीमांसकाः । अस्या एव सङ्केत इति व्यवहारः । साक्षाच्छब्दजन्यार्थमितिसहकारि. ज्ञानविषयत्वं वा । वैयाकरणास्तु बोधकत्वमेव शक्तिः । एवं लाक्षणिकाद्यर्थे ऽपि शक्तिरेव । अत एव सर्वे समर्थवाचका इत्याहुः ॥ शक्तिग्रहश्च व्याकरणादिना । तदुक्तम् शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृत्तेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।। अनुमानोपमानशब्दा एव शक्तिग्राहकाः । व्यवहारप्र- सिद्धसामानाधिकरण्यविवरणानामनुमानान्तर्भावः । व्याकर- णवाक्यशेषकोशानां शाब्दान्तर्भाव इति नव्याः । व्याकरणात तृतीयादेः करणत्वकर्तृत्वादी शक्तिग्रहः । उपमानेन उपमितिरू- पः शक्तिग्रहः । कोशो वैजयन्त्यादिः । आप्तवाक्यं घटो घटपद- वाच्य इत्यादि । अत्र च आप्तवाक्यत्वेन न शक्तिग्रहहेतुतां कि तु वाक्यत्वेन, लाघवात्, एवं च यन दुःखन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्व:पदास्पदम् ।। इत्यादिवाक्येन शक्तिग्रहः । व्यवहारः प्रयोज्यवृ- दप्रयोजकवृद्धव्यवहारः । तथाहि । प्रयोजकवाक्यश्रर्व- णानन्तरं प्रयोज्यवृद्धभवृत्तिमुपलभमानो बालः प्रयोज्यवृ. दस्य तज्ज्ञानं ज्ञाने च शब्दस्यैव हेतुता तदन्यथानुपपत्त्या त्र शक्ति परिकल्पयन्नावापोद्वापाभ्यां तत्तत्पदस्य तत्रतत्रार्थे शक्तिमवधारयति । तदनन्तरं व्याकरणोपमानकोशाप्तवाक्यविध- ७५ । तपादः । रणवाक्यशेषप्रसिद्धपदसामानाधिकरण्यैर्यथायोगं शक्तिमचधार- यतीति दिक् ॥ लक्षणा, गौणी च अपरा पदवृत्तिः । तत्र सा- दृश्यान्यशक्यसम्बन्धेनाशक्योपस्थितिलक्षणा । सादृश्यरूप- शक्यसम्बन्धेनाशक्योपस्थितिौणीति के चित् । तन्न । वृत्ते- रूपस्थितिहेतुत्वेनोपस्थितिरूपत्वानुपपत्तेः । अतः स्वशक्यसम्ब- म्धवत्त्वं लक्षणा । तस्याश्च पदनिष्ठत्वं स्वाश्रयसम्बन्धिवाचक- त्वसम्बन्झेन । यथा गङ्गायां घोष इत्यादौ गङ्गापदशंक्यप्रवाह- सम्बन्धो लक्षणां तज्ज्ञानकार्यतावच्छेदकं च गङ्गासम्बन्धवत्तीर- स्वप्रकारकतीरविशेष्यकशाब्दत्वम् । गङ्गासम्बन्धस्य सम्बन्धत्वे- न भान संयोगत्वादिना वा, गङ्गासम्बन्धितीरे घोषो गङ्गासं- युक्ततीरे घोष इत्युभयविधानुभवात् । एवं सिंहो देवदत्त इत्य- त्रापि परंपरासम्बन्धेन सिंहसम्बन्धी देवदत्त इति बोधे लक्ष- गैव । आभिधेयाविनामूतइत्यस्याप्यभिधेयसम्बन्धत्वेन यत्र :- कारः, तत्र वृत्तिलक्षणेत्यर्थः । यदा तु सिंहनिष्टक्रौर्यसजातीय- क्रौर्यवत्त्वेन देवदत्तप्रतीतिस्तदा गौणीति वक्ष्यते । न चैवं ती- रत्वमात्रप्रकारको बोधः कथं स्यादिति वाच्यम् । नदीतीरे समु- द्रतीरे वेति सन्देहाप-त्या तादृशबोधस्यालीकत्वात् । न चैवं सर्वत्र गङ्गासम्बाधिनीति बोधादजहल्लक्षणापत्तिः । शक्यलक्ष्यो- भयस्य क्रियान्वयित्वे ऽजहल्लक्षणाङ्गीकारादिति सम्प्रदायः। वस्तुतो गङ्गापदातीरत्वमात्रप्रकारको बोधः । तीरत्वनिष्ठप्रकार- तानिरूपितविशेष्यतासम्बन्धेन गङ्गापदजन्यशाब्दे समवायेन ग- ङ्गासयोगवन्त्वज्ञानस्य हेतुत्वकल्पनया न संशयाद्यापत्तिरिति यु- क्तम् । सा च लक्षणा द्वेषा, ऽजहत्स्वार्था, जहत्स्वार्था च । स्वशक्या- थविशेष्यकान्वयबोधप्रयोजिका, अजहत्स्वार्था । यथा यष्टीः प्रवे- शयेत्यादौ। अत्र शक्यार्थस्यापि क्रियान्वयात् । इयमेवोपादानल- ।

। मादृचिन्तामणेः क्षणेत्यालङ्कारिकाः। स्वशक्यार्थाविशेष्यकान्वयप्रयोजिका जह- स्वार्था, गङ्गायां घोष इत्यादौ । लक्षितलक्षणाया अप्यत्रैवान्तर्भा- वः । स्ववाच्यपदघटकवर्णद्वयघाटितपदवाच्यत्वरूपसम्बन्धस्यैव द्विरेफादिपदे लक्षितलक्षणात्वात् । एतेन द्विरेफपदेन भूमस्पदं लक्ष्यते । तेन शक्त्या भूमरबोध इत्यपास्तम् । द्विरेफपदोत्तर- विभक्त्यर्थस्यानन्वयापत्तेः । तत्त्वमसीत्यादौ जहदजहल्लक्षणा च तृतीयति वेदान्तिनः । लक्ष्यतावच्छेदके च लक्षणति प्राञ्चः । मोत्वविशिष्टशाब्दे गोत्वविशिष्टशक्तिंग्रहस्य हेतुत्वव- व, तद्विशिष्टशाब्दे तद्विशिष्टवृत्तिज्ञानस्य हेतृत्वा,त्तत्रापि लक्षणा युक्तोति नव्याः ॥ लक्षणाबीजं शक्यार्थान्वयानुपपत्ति, ने तात्पर्यानुपपत्तिः। वेदे तदसम्भवात् । यधीः प्रवेशयेत्यादौ तु प्रवेशनपदस्य भोजनप्रयोजनकप्रवेशनपरत्वग्रहादवयानुषप- तिरेव । वस्तुतो मुख्यार्थानुपपत्तिज्ञानं मुख्यार्थबोधे प्रतिबन्धक न लक्ष्यार्थबोधकारणं, लाक्षणिकस्थले गङ्गापदेन तीरपदस्मृ- तिस्तेन तीरस्मृतिरिति माञ्चः । तत्र । गङ्गापदात्तौरानुपस्थि- तौ तत्र विभक्त्यर्यान्वयो न स्यात् । अतस्तीरोपस्थापकत्वेपि नानुभावकत्वं, तीरावयबोधे तारान्वयप्रतियोगिशक्तपदज्ञान- वेन हेतृताङ्गीकरणात् । शक्तपदान्तरादेव तीरान्वयानु- भवस्य युक्तत्वात् । सर्वलाक्षणिकस्थले तु न बोध इति दिक् ।। अथ केयं मौणी नाम | सादृश्यरूपशक्यसम्बन्धो गोणी, तेन लक्षणान्तर्गतिरित्ति नैयायिकाः । के चित्तु लक्ष्यमाणगुणयो- मानिमित्तवृत्तित्वं मौणत्वम् । सिंहो देवदत्त इत्यत्र सिंहपदाल- क्षिता सिंहमुणकौर्यदिसम्बन्धनिमित्ता अपरात्र वृत्तिरित्याहुः । बन्न । सिंहनिष्ठनोर्यादीनां देवदत्ते असम्भवात् । प्रसिद्धार्थ- त्यागेनामासिदगुणवाचित्वं तत्त्वम् । सिंपदेन प्रसिद्भासिह- । ।

७७ । तपादः । खत्यामेन देवदत्तनिष्ठ कार्यादि शक्त्योच्यते । सामानाधिकरण्यं च मत्वर्थलक्षणयोपश्यतइति । तदपि न । प्रसिद्धार्थत्यागस्य तात्पर्यग्रहाधीनत्या वेदे तदसम्भवात् । एतेन समुदायकाचिन एकदेशे वृत्तिौणी सिंहशब्दो न जातिमात्रवाचकः किं तु जातिव्यक्त्याकृतिक्रौर्यादिगुणसमुदायवाचकः । अन्यथा शक्त सिंहादिशब्दे देवदत्तपदसामानाधिकरण्यानुपपत्तेः । एवं च समृदाजिन एकदेशार्थलक्षणया देवदत्तपदसामानाधिकरुण्य- मित्यपास्तम् । तात्पर्यग्रहं विना तज्ज्ञानस्यासम्भवात् । आ- रोपितार्थचित्वं गौणत्वं, सिंहो देवदत्त इति प्रयोक्ता सिंह- त्वादि देवदत्ते आसेप्य वाक्यं प्रयुके, बोद्धा च तथैव प्रतिष- यते । आरोपश्चाहार्यो बोध्यः । एवं चालङ्कारिकाणां चन्द्रो मुखमित्यदाकारोफेण गौणबोधः । परं लयमारोप आलङ्का- विकासनाविशेषजन्यखात्मेक्षित आहार्य इत्युच्यते । अत एवं भुक्तिरजते न गौणत्वं, तदारोषस्य कारणोषजन्य त्वेन आहा- यत्वाभावादित्यपरे । न । आरोपकपुरुषाभावेन वेदे तदसम्भ- वात् । किं च सपुष्पं भवसिद्धान्त इत्यादावननुभूतपूर्वतया- रोषासम्भवान् गौणत्वानुपपत्तिः । अथ चत्र विशकलितप- सिद्धवदाकाशाधिकरणत्त्वरूपसंसर्गस्यारोपेणाकाशाधिकरणक- वृक्षादौ वर्तमाचं पुष्पं खपुष्पयदार्थमङ्गीकृत्य तत्तादा- स्म्यारोपेण सिद्धान्ते गौणतेत्युच्यते । तदा आरोपितसं. सर्गरूषार्थचितसा खपुष्पे खपुष्पशब्दस्य गौणत्वापत्तिः ।। अतो मौणत्वनिरुक्तिरशक्येति चेत्,न । स्वशक्यसम्बन्धि- गुणसजातीयगुणत्रवृत्त्विं गौणत्वं, शक्यसम्बन्धश्च एकार्थव- तितसमवेतत्वादिः । एवं सिंहो माणवक इत्यादिवाक्यजन्य सिंहलेकार्थसामवेत मर्यादिसजातीयगुणवत्प्रकारके गुणप्रकारके ७८ भादृचिन्तामणेः वा माणवकादिविशेष्यके शाब्दे सिंहपदजन्यगुणवदुपस्थितेर्गु- णोपस्थितेर्वा हेतुत्वम् । तत्र च सिंहपदेनकसम्बन्धिज्ञानादपर- सम्बन्धिस्मरणमिति रित्या सिंहगुणतत्सजातीयगुणानां लक्षण- योपस्थितिः । एवं योषावावगौतमानिरित्यादावनिशन्दो यो- पायां गौणः, एवं खपुष्पं सिद्धान्त इत्यादौ खपुष्पसमासार्थ- स्यालीकत्वस्य सिद्धान्ते संम्बन्धाद्रौणता । खपुष्पं नास्तीत्यत्र तु नास्तिपदमनुवादः । अतः स्वशक्यसम्बन्धिगुणसजातीय- गुणवदुपस्थितिहेतुवृत्तिर्गौणीति सिद्धम् । एवंविधगौणत्वाङ्गीका- रे च शक्यार्थत्यागाभावेन न वेदापामाण्यापत्तिलेशो ऽपि । अत एव यजमानः प्रस्तर इत्यादौ यजमानप्रस्तरयोगकारण- त्वरूपगुणयोगेन यजमानपदं प्रस्तरे गौणमतो भिन्ना लक्षणातो गौणी । उपपादयिष्यते च तन्निमित्तानि तसिद्धयादीनीति दिक् ॥ तच्च पदं चतुर्विधम् । रूदं, यौगिकं, योगरूढं, यौगिक- रूढं, च । समुदायशक्तया ऽर्थप्रत्यायकत्वं रूढत्वम् । अवयव- शक्तथार्थप्रत्यायकत्वं यौगिकत्वम् । समुदायशक्तचा अवयव- शक्तथा चैकार्थप्रत्यायकत्वं योगरूढत्वम् । तथैव भिन्नार्थप्रत्या- यकत्वं यौगिकरूढत्वम् । यथा घटा,चित्रगुः, पङ्कज, मण्डप, इत्या- दिशब्देषुः । पङ्कजपदात् पङ्कजनिकर्तृत्वपनत्वोभयप्रकारको पस्थित्तरानुभविकत्वात् । अन्यथा पकजपदात् मेकादिबोधो ऽपि स्यात् । अतो योगरूढिरावश्यकी । अत्र के चित् । पक- जादिपदानां यौगिकत्वमेव पंकजपदादवयवशक्तया पद्मवि- शेष्यकपङ्कजनिकतत्वमात्रप्रकारकबोधेन पनत्वप्रकारकबोधाभा. वात् । न चैत्र पङ्कजपदात् कुमुदभेकादिविशेष्यकपङ्कजनिकर्तृत्व- प्रकारकचाधापत्तिरिति वाच्यम् । पूर्वतरपयोगत्वप्रकारकज्ञानस्य तत्पदजन्यशाब्दबोधे हेतुत्वाङ्गीकारात् । यद्वा पङ्कजानकर्तृत्वाने ७९ तपादः । ठप्रकारतानिरूपित्तशिष्यतासम्बन्धेन पङ्कजपदाचयवशक्तिमहज़- न्यशान्दबोधं प्रति समवायसम्बन्धन पनत्वस्य पद्ममात्रवृत्ति- विषयताया वा पद्ममात्रवृत्तिविषयता सम्बन्धन ज्ञानस्यैव वा हेतुतानीकारानोक्तातिप्रसङ्गो न वा भूतभाविपद्मबोधानुपपत्ति- रित्याहुः ॥ क चित् कुमुदादौ प्रयोगस्तु लाक्षणिकः । यद्यपि योगरूढयङ्गीकारे. ऽपि इयं लक्षणा तुल्या तथापि शक्यतावच्छे- दकाननुपविष्टधर्मेण लक्षणापेक्षया तदनुपविष्टधर्मेण लक्षणा लघी- यसी।घालवं च तेन रूपेणान्वयमात्रकल्पनं न तु स्मरणमपीति । ऐवं यौगिकरूढं पण्डपादिपदम् । योगेन रूढ्या च भिन्नार्थप्रत्या- यकत्वात् । योगापेक्षया रूढेः प्राबल्यमप्येतद्विषयमेव । अत एव रथकारादिवाक्ये सौधन्वनापरपर्यायऋभुरूपजात्यन्तरग्रहणमेव सिद्धान्तयिष्यतइति दिक् ॥ उक्तरूपपदज्ञानकरणको वाक्या- र्थो द्विविधः । भेदरूपः, संसर्गरूपश्च । राज्ञः पुरुष इत्यादावराज- सम्बन्धिभिन्नः पुरुष इति बोधादिति के चित । सर्वत्र सम्बन्ध- एव वाक्याथै, उक्तरूपापोहस्य माचुर्येण भानाभावात् । अपो- हस्याप्रसिद्धेश्च । अतः संसर्ग एव वाक्यार्थः । स च घटमानये- त्यादौ घटकर्मकत्वादिरूपविशेषणविशिष्टं विशिष्यमेव वाक्यार्थ इत्याचार्याः । तस्य च विशिष्टवैशिष्टयरूपवाक्यार्थस्य भानं चतुर्विधम् ।। "भावनैव हि वाक्यार्थः स्वकारकविशेषिता । विधित्वं श्रौतमार्थ वा भावनाकारकाश्रयम्" ।। इति वातिकात् । विशिष्टस्य वैशिष्टयरूपमेकं, विशेष्ये विशेषणं तत्र च विशेषणान्तरमित्यपरं, यथा नीळदण्डवान् पु- रुष इति । एकविशिष्टे अपरवैशिष्टयमिति तृतीयम् । दण्डी देवदत्तः कुण्डलीति, एकत्र द्वयमिति चतुर्थम् । यथा दण्डी ८० भाचिन्तामणेः कुण्डली देवदत्त इति । चतुर्विधेपि वाक्या वाक्यस्थ शक्ति- रिति वैयाकरणाः । कार्यान्विताभिधानाडीकारेण कार्यान्वयरू- पेण वाक्याथै शक्तिरिति गुरकः । इतरान्विताभिधानाङ्गीकारे गान्वयरूपे वाक्याथै शक्तिरिति बेदानिनः । वैयाकरणानां वाक्यार्थो विशेष्या इत्तरयोस्तु विशेषणभूत इति भेद' । संसर्ग- मर्यादया वाक्यार्थभानमिति गौतमीयाः । वाक्याथै लक्षणेति सिद्धान्तः । तत्र वैयाकरणास्तावत् । भवति भूपात बभूव रामः रामानित्यादौ श्रूयमाणतिकारविसर्गादीनां वाचकता ने तु भूधातुलकारसुवायुपस्थापनद्वारा ऽर्थप्रत्यायकत्वम् । आ- देशिनों वाचकवकल्पने आदेशानां तदुपस्थापकत्वकल्पने गौ- स्वात् । व्याकरणभेदेनादेशिनामननुगमाच्च । अन्यथा ऋषभो वृष इत्यादावप्यन्यतरेणान्यतरस्मरणे मैकत्रैच शक्त्यापत्तेः । अतः श्रूयमाणानुपूर्वी विशिष्टा वर्णा वाचका ने तु धात्वाद्युप- स्थापका इंति वर्णस्फोटः । एवं हरिणा हरये रामात् हरेरित्या- दौ पदादेशविभागाभावात्कस्य चिदेशस्य द्रव्यवाचकत्वं कस्य चित्करणेवादिवाचकस्वमिति नियन्तुमशक्यत्वात् । सम्पूर्ण स्यैव करणत्वादिविशिष्टहरिवाचितति पदस्फोटः । एवं कृष्णेहि रौनमित्यादौ वाक्येशविभागाभावादेकारघटितामुपूर्वीकस्याग मनवाचकस्यात्र सत्वे मानाभावाद्वाक्यस्यैव विशिष्टा शक्तिरि- ति वाक्यस्फोटः । स द्विविधः सखण्डवाक्यस्फोटो, ऽखण्डवा- क्यस्फोटश्च । आयो द्विधा । पदरूपखण्डवाक्यस्फोटो, वर्णरूप- खण्डवाक्यस्फोटश्च । तथाहि । विष्णोवेत्यादिवाक्येषु आका इक्षादिसहकृततत्तत्पदस्मारितपदार्थानां सैसर्गरूपवाक्याविण- मेपि तस्य शाब्दत्वसिद्धये वाक्यस्य शक्तिः कल्प्यते । सव वा- क्वस्फोटः । सां चीज्ञातव स्वरूपेणं हेतुः । अन्धितयक्तिवादि- ८१ तपादः । मते अन्वयांशशक्तिवत् । हरिद्रायां नद्यां घोष इति वाक्यडूवा- न्वयाव्यवहितपूर्वक्षणे तदवगमो वा कल्प्यते । यद्वा हरे ऽवेत्या- दौ पदविभागानिर्णधापूर्णत्रयात्मकवाक्यस्य सम्बोध्यहरिकत करक्षणे शक्तिरूपः स्फोटः । तदा वर्णरूपः खण्डवाक्यस्फो- दः । अस्याश्च व्यवहारकाले ग्रहः । न चैवं वाक्यस्य पदव- स्मारकत्वापत्त्या ऽननुभावकत्वापत्तिः । अनुभवत्वस्य प्रत्य. समाऋचितयेष्टत्वात् । यथार्थज्ञानजनकत्वस्यैव वाक्यप्रमाण- त्वात् । आकाङ्क्षादिसहकृतपदार्थस्मरणजन्यार्थज्ञानजनकत्व- स्यैवानधिगतार्थगमकतया प्रामाण्याविघातः । यद्वा वाक्ये बोधकत्वातिरिक्तः सम्बन्धो न शक्तिः, मीनाभावात् । हस्ति- पकादौ तु तस्य मानान्तरगम्यत्वाद्युक्तं तेन तत्स्मरणम् । अतों न स्मारकत्वापत्तिलेशोपि । एवं चाकाङ्क्षादिज्ञानस्य हेतुत्वाभावातात्पर्यज्ञानस्यैव हेतुतया कार्यकारणभावकल्पना- लाघवम् । यद्वा घटमानयेत्यादिवाक्येषु ध्वनिधर्मंस्तारत्वमन्द- त्वादिभिरिव घटत्वादिध्वनिधमैरेव एकशब्दो वर्णरूपो ऽभिव्य- ज्यते । स एव वाक्यस्फोटः । एवं पदस्फोटेपि द्वैविध्यमुन्नेय- म् । एवं च एकं पदमेकं वाक्यं महत्पदं महद्वाक्यं शब्दात् प्र- त्येमीत्याद्यनुभवोपपत्तिः । वर्णानामनेकत्वेन महत्वाभावेन च सदनुपपत्तरित्याहुः ॥ परे तु यथा बलवता प्रेरित इषुरेकेनैव वेगाख्यव्यापारेण वर्मच्छेदमुरोभेदं पाणहरणं शत्रोः करोत्येवं शब्द एकेनाभिधान्यापारेण पदार्थस्मृति वाक्याथानुभवं च करोतीति यत्परः शब्दः स शब्दार्थ इति वाक्याथै शक्तिमा- हुः । तदयुक्तम् । पूर्वो धावतीत्यत्र परस्य पुत्रस्ते जात इत्यादि- षु हर्षादीनां,गच्छसि चेदित्यादौ मा गा इति निषेधस्य वाक्यार्थ: तापत्तेः। अत एव तादृशार्थप्रत्ययाय व्यञ्जनवाङ्गीकृता। तच्च भाइचिन्तामणे व्यजनानिरूपणे स्पष्टामति दिक् ॥ के चिन्तु वाक्यार्थे तात्प- याख्यं वाक्यस्य वृत्त्यन्तरमाहुः ॥ प्राभाकरास्तु । कार्यान्विते पदानां शक्तिः । तथाहि । पदेषु स्मारिका ऽनुभाविका, चेति शक्तिद्वयम् । तत्र स्मारि- का जातौ । अनुभाविका कार्यान्विते । एवं च घटादिपदानि घटत्वादिजातिस्मरणद्वारा घटादेः कार्यान्वयानुभवजनकानि । तथाहि । सर्वत्र व्यवहारेणैव शक्तिग्रहः, प्रयोज्यदृद्धस्य प्रयो- जकवाक्यश्रवणानन्तरं गोकर्मकानयनचेष्टया तांदृशकृतीच्छानु- मानद्वारा स्वप्रवृत्तौ कार्यताज्ञानस्य हेतुत्वदर्शनात्कार्यताज्ञान- मनुमाय कार्यताज्ञानहेतुत्वमवधार्य तस्यासति वृत्त्यन्तरे तदर्थश- क्तिं विनानुपपन्नतया कार्यान्वये अनुभाविकां शक्तिमवधारय- ति । कार्य चापूर्वमेवति यत्र कार्यवाचकपदाभावस्तत्र न वा- क्यार्थबोध: किन्तु पदार्थस्मरणमात्रम् । लिङादियुक्तलौकिकवा- क्यस्य च लक्षणया ऽऽनयनादिरूपकार्यान्वितबोधकत्वमित्याहुः । वेदान्तिनस्तु इतरान्वित एव शक्तिग्रहो न तु कार्यान्विते । तथाहि । भयोजकं वाक्यस्य आनयनकर्मत्वविशिष्टगोरूपेर्थे शक्तिमव- धार्यावापाद्वापाभ्यां गवादिपदस्य गोत्वादौ शक्तिमवधारयन्ना- चव्युत्पत्चिगृहीतान्वयांशे शक्तिमत्यजन्नानयनान्विते एव शक्तिम- वधारयति । एवं चान्वयेपि शक्तिरित्याहुः । नैयायिकास्तु समभिव्याहारेण वाक्यार्थबोध इति घटानयनविशिष्टसंसर्गज्ञाने सादृशानुपूर्वीज्ञानस्य हेतुवामात्रकल्पने लाघवात् । शाब्दत्वं च न शब्दवृत्तिविषयत्वं किं तु शब्दजन्यमतीतिविषयत्वम् । तेन वृत्यविषयस्याप्यन्वयस्य शाब्दत्वोपपत्तिरित्याहुः । सिद्धान्त- स्तु वाक्यस्य वाक्यार्थे लक्षणा । न च शक्याभावात् कथं ल- क्षणेति वाच्यम् । बोध्यसम्बन्धस्यैव लक्षणाल्वात् । घटमानये- ARIA । तर्कपादः । ८३ त्यादिवाक्ये घटानयनसामान्यबोधेपि तद्विशेषबोधस्य लक्षणां विनानुपपत्तेः । नहि घटानयनसामान्यं वाक्यार्थः । ज्ञानेच्छा- प्रवृत्तीनां समानप्रकारकत्वसमानविशेष्यकत्वेन हेतुहेतुमद्भावा- द्विशेषविषयकेच्छाप्रवृत्त्यनुपपत्तेः । अतस्तद्विशेषरूपवाक्यार्थस्प लाक्षणिकत्वं युक्तमिति स्फुटीकरिष्यते चैतत्तद्भूताधिकरणे । अवलोक्य जरानिबन्धजातमणिमन्यानि तदीयटिप्पणानि। अवाप्य मुदं ततो मुदर्थे लिखितो ऽयं निजकल्पितो विशेषः॥१॥ अथ प्रवर्तकज्ञानं विचार्यते ॥ ननु किमत्र विचार्यते, इष्टसाधनत्वकृतिसाध्यत्वबलवद- निष्टाननुबन्धित्वज्ञानानां प्रवृत्तिहेतुत्वस्य क्लुप्तत्वादिति चेत् । अत्र गुरवः । स्वविशेषणवत्तामतिसन्धानजन्यकार्यताज्ञानस्यैव चिकीर्षाद्वारा प्रवृत्तिहेतुत्वं नेपृसाधनत्वबलवदनिष्टाननुबन्धित्व: ज्ञानयोरपि । अन्यथा हेतुहेतुमद्भावत्रयकल्पनागौरवात् । तथा हि । कार्यताज्ञानं द्विविध, मयेदं कर्तुं शक्यतइत्येवं रूपमेकं, ममेदमवश्यं कार्यमित्येवंरूपं द्वितीयम् । तत्राद्य पदार्थनिष्ठयो- ग्यतागम्यमिति न प्रवृत्ति प्रति हेतुः । द्वितीयं तु स्वेष्टसाधन- त्वबलवदनिष्टाननुबन्धित्वज्ञानजन्यमिति चिकीर्षाद्वारा प्रवृत्ति प्र- ति हेतुः । इदमेव स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वं, स्वं नि- योज्यः, तद्विशेषणं काम्ये फलकामना, नित्ये शुचितत्काळजी. वित्वादीति नेष्टसाधनत्वबलवदनिष्टाननुबन्धित्वज्ञानजन्यकार्य- ताज्ञानस्य चिकीर्षाद्वारा प्रवर्तकत्वं सिद्धं भवति । अत एवे. साधनत्वेनाज्ञाते मध्वनभोजने निष्टसाधानत्वेन ज्ञाते विष- भोजने बळवदनिष्टानुबन्धित्वेन ज्ञाते मधुविषसम्पृक्तानभोज न प्रवृत्त्यापतिः । न च तत्र मध्वनभोजनजन्यं सुखं भवति- । भाचिन्तामणे तीच्छया तदापत्तिः । विषासम्पृक्तमध्वनभोजनसुखत्वेनैवेच्छा- गोचरीभावात् । नापि जीवकर्तृकत्वलिङ्गककार्यताज्ञानेन विष- भक्षणे प्रवृत्त्यापत्तिः । न वा काम्ये शौचादिलिङ्गककार्यताज्ञाना- त्प्रवृत्त्यापत्तिः । एतेन भावियौवराज्ये तृप्तस्य भोजने च प्रवृत्त्या- पत्तिनिरस्ता। के चिन्तु इदानीन्तनमत्कृतिसाध्यताज्ञानं हेतु- स्तच्चेदानीन्तनमदिष्टसाधनत्वज्ञानाधानमिति तदभावान प्रव- त्तिरित्याहुः ॥ तन्न । तदनुकूलकृत्यभावे ऽपि याद मा क्रिय- ते तदेदं भविष्यतीवेताशकृतिसाध्यत्वज्ञानस्य तदानीमपि स. स्वात् । एवं चेष्टसाधनत्वबळवदनिष्टाननुवन्धित्वशुचितत्का- लजीवित्वज्ञानजन्यानां कार्यताज्ञानानां कार्यताज्ञानत्वेनानुगता- नां प्रवृत्ती हेतुत्वमिति लाघवम् । इष्टसाधनत्वज्ञानादीनां प्र. त्तिं प्रति हेतुत्वे तु हेतुहेतुमद्भावत्रयकल्पनागौरवम् । न चेष्टसाध- नत्वादिज्ञानानां कार्यताज्ञानहेतुत्वकल्पने तद्धेतोरेवास्त्विति न्यायात् प्रवृत्ति प्रति तेषामेव कारणत्वं युक्तम् । शाब्दबोधे तात्पर्यज्ञानस्येव प्रवृत्तौ कार्यताज्ञानस्य लाघवेन हेतुत्वात्, त- देतृप्रकरणादीनां शाब्दबोधहेतृत्वाभाववत् कार्यताज्ञानजनके- ष्टसाधनत्वज्ञानादीनामपि तद्धेतृत्वकल्पनायोगात् । तस्मात्का- यंताज्ञानभेव प्रवर्तकं कार्यत्वमेव विध्यर्थः ॥ अथ कार्यत्वं विध्यर्थमङ्गीकृत्य तन्मते वाक्यार्थबोधप्रकारः। लोके तृप्तिकामः पचेदित्यादौ प्रत्ययार्थकार्यत्वस्य प्रकृत्यर्थ- पाके ऽन्वयवत्स्वर्गकामो यजेत श्रुचिः सन्ध्यामुपासीतेत्यादिवदि- कविधौ प्रत्ययार्थकार्यत्वस्य न प्रकृत्यर्थयागाद्यन्वयः सम्भवति। प्रकृत्याप्रतीतयोग्यताकत्वात् । तथाहि । यागादिक्रियायां का- यत्वान्वये नियोज्यान्वयो हेतुः । नियोज्यविशिष्टायामेव पा- कादिक्रियायां कार्यवान्वयदर्शनात् । अन्वयप्रयोजकरूपवत्त्व- ८५ तर्कपादः । स्य तन्मते योग्यत्वात् । नियोज्यस्य च प्रकृते स्वर्गकामस्य नि- योज्यत्वेन स्वफलकामनाप्रयुक्तकार्यताज्ञानविषयत्वेन सम्बन्धे. न यागादिक्रियायामन्वये स्वर्गसाधनत्वेन ज्ञायमानत्वं वा योग्यता । तच्च न सम्भवति । साक्षात्स्वर्गसाधनत्वस्य बाधात्, परम्परया तत्साधनत्वस्य परम्पराघटकापूर्वज्ञानं विना दुईयत्वात् । तथा च यागे नियोज्यान्वयासम्भवाभ कार्यकाचय इति । अथ शुचिः सन्ध्यामुपासीतेत्यादौ नित्ये यथेष्ठसाधनत्वज्ञानं विनापि शुचिनियोज्यकं सन्ध्यावन्दनविषय- के कार्यमिति बोधस्तथा स्वर्गकामनियोज्यको यागः कार्य इति बोध: स्यादिति चेन्न । प्रकृते कामनाविशिष्टस्य नियोज्यत्वेन नित्यविधितो विशेषात् । न च कामनोपलक्षणमस्त्वात्ममात्रमे- घोपलक्ष्यं, काम्यसाधनतालिङ्गककार्यताज्ञानस्य प्रवर्तकत्वेन नातिप्रसङ्ग इति वाच्यम् । तर्हि स्वर्गकाम इत्यस्य वैफल्यापत्तेः । कामनाया उपलक्षणत्वे नित्य इव वेदाधीनकार्यताज्ञांनानिष्का- मस्यापि प्रत्त्यापत्तेः । इष्टसम्बन्धे मानाभावादप्रवृत्त्यापत्तेश्च । नहि नित्यविधितः प्रकृत स्वर्गकामपदसमभिव्याहारादन्यो विशे- पः । विशेषणत्वे हि विशिष्टस्य स्वप्रयोज्यकार्यताज्ञानवत्त्वरूप- नियोज्यत्वेनान्वये तत्कामनाविषयसाधनत्वस्य योग्यतात्वात् स्वर्गकामपंदेकवाक्यतानिर्वाहकमतीत्यनुपपत्त्या वाच्यमपूर्व का- मनाविशिष्टान्वयि सिद्धयति । अत एव प्रधानविधावेवापूर्वा- काङ्क्षा न नित्यविधावानेयादिविधौ च । ममेदं कार्यामिति बो- धवत्त्वरूपनियोज्यत्वे च कामनाया विशेषणतया प्रयोजकत्वं कामिनो जनकत्वमिति विशिष्टप्रयोज्यत्वम् । सम्बद्धत्वं च कर्तृ- त्वाधिकारित्वाभ्याम् । बोधे तूपलक्षणता ऽनन्यगत्या न क्षति- करी । प्राथमिकनियोज्यान्वये विशेषणतयैवेष्टसिः । एतेन ८५ भाइचिन्तामणः राजा स्वाराज्यकाम.इत्यादौ राजत्वादिवद्विधमानत्वे सति व्या- वकत्वेन विशेषणत्वमप्यपास्तम् । कामनायामेव तत्कृतेरुदया- त् । यदा कामना तदा तत्कृतिरिति रीत्या व्यावतकत्वसम्म वाच्च । अतो यागे कार्यत्वान्वये नियोज्यान्वयो योग्यता । तत्र चेष्टसाधनत्वेन ज्ञायमानत्वम् । स्वर्गसाधनत्वस्य योग्यतात्वाभा- पादिति गुरुमतनिगर्वः ॥ अत्र काम्यसाधनन्वेपि तत्त्वेनाज्ञायमाने नियोज्यानन्वया- र काम्यसाधनत्वेन ज्ञायमानस्वमुक्तम् । यन्नु काम्यासाधनेपि तत्साधनत्वभ्रमाभियोज्यान्वयादु- पस्थितकाम्यसाधनस्वागृहीतासंसर्गकत्वमेव योग्यता, उपस्थि- त्यर्थमेवापूर्ववाच्यतासिद्धिरिति । तन्त्र । स्वन्मते योग्यताविशि- ष्टज्ञानस्यैव शान्दबोधे हेतुत्वादन्यथाख्यात्यापत्तेः । एतेन तार- शज्ञानवतोपि नियोज्यस्य चिकीर्षाशून्यस्य न यागकतिरिति न नियोज्यत्वं योग्यता, न पा चिकीर्षा, तद्वतो ऽप्युपादानम- त्यक्षाविरहिणो ऽसत्त्वादित्ति परास्तम् । अन्वयप्रयोजकत्वं ना- वितवृत्तित्वेन गृहीतत्वं, किंत्वनन्वितवृत्तित्वेनागृहीतत्वम् । त- त्वं च यदा यस्य तत्त्वं तदा तस्य न योग्यतात्वं, किं तु वि. शिष्ठनिष्टतयोक्तानियोज्यत्वमेव, प्रयोजकतया तस्य विशिष्टनिष्ठ- त्वात् । चिकीर्षावत्त्वमपि तयेति चेत् । सत्यम् । किं तु तत्मयो- जकत्वं तस्योक्तनियोज्यत्वद्वारकत्वेन गुर्विति तत्यागः । अव एव कृतिप्रयोजकत्वरूपकर्तृत्व त्यागः । कृतिसमवायित्वरूपं कर्तृत्वं फळभावित्वरूपं चाधिकारित्वं नकामनायामिति न तयोविशि- धनिष्ठत्वमिति मागेवोक्तम् । वस्तुतस्तम्मते ऽन्यथाख्यात्यभावा- चायो मत्कृत्ति साध्य इति ज्ञानं कृतिशन्यस्य नास्त्यति न कि ञ्चिदेतत् । मनु योग्यचान्वये योग्यतान्तसपेक्षायायनवस्था- तर्कपादः । पत्तनियोज्यान्वयरूपयोग्यवान्वये न योग्यतान्तरापेक्षति चेत् । सत्यम् । नियोज्यत्वस्य योग्यतारूपस्य स्वर्गकामेन्वये योग्य- तान्तरानपेक्षायामपि नियोज्यत्वेन रूपेण स्वर्गकामस्य पदार्थ- स्य धात्वर्थे यागे ऽन्वये योग्यतान्तरस्यावश्यकत्वात् । घटे छि. देतरत्वस्यान्वये योग्यतान्तरानपेक्षायामच्छिद्रतरत्वेन घटस्था- न्वये योग्याहरणत्वस्याहरणे योग्यजलत्वस्य जले योग्यतावात् । तथाहि पिया घटादिमात्रेणाहरणाघसम्भवात् घटे छिद्रतरत्व- माहरणे योग्याहरंणत्वं जले च योग्यजलत्वं योग्यता, तथा ख- मादिमात्रस्य मसेदं कार्यमिति ज्ञानशून्यस्य यागाधन्वषसम्भ- वात्स्वर्गकामे नियोज्यत्वं क्रियायां काम्यसाधनत्वेन ज्ञायमान- त्वं योग्यता, नित्ये तु शौचादिमत्त्वमेव योग्यतति बोध्यम् ।। अथापूर्वरूपकार्येपि न नियोज्यान्वयसम्भवः । अपूर्वस्य मागनुपस्थित्या तत्र काम्यसाधनत्वरूपयोग्यताज्ञानासम्भवा- दिति चेन । विशिष्यापूर्वत्वेन ज्ञानासम्भवषि:कार्यत्वेन तक्ष्य काम्यसाधनत्वज्ञानसम्भवेन नियोज्यान्वयसम्भवात् । ओदनत्वेन तृप्तिसाधनतया ज्ञाते ओदने तृप्तिकामान्वयवत् समा- नमकारकत्वेनैव योग्यताधियो नियोज्यान्वये हेतु बात् । अपू. लाभस्तु योग्यतावलात् । यागजन्यं कार्य स्थायि प्रकृत्तका- म्यसाधनमित्यत्रापूर्वस्यैव विषयत्वाद, यागजन्यस्य कार्यान्तर- स्यातथात्वात् ॥ एतेन साक्षात्साधनवान्वययोग्यतारूपं स्था- यित्वं पागपूर्वानुपस्थित्या ऽसम्भवीत्यपास्तम् । कार्यत्वावच्छिन्ने क चित स्थायित्वज्ञानसम्भवात् । साक्षात्साधनत्वस्य नियोज्या- न्वययोग्यतारूपस्य योग्यतावेनैवोपस्थितस्तत्र योग्यतान्तरान- पेक्षणाच्च । स्वर्गकायो यजेतेत्यादिवाक्यश्रवणे स्वर्गसाधनं स्था- वि कार्य सम्भवति स्वर्गकामान्वययोग्यं, यागस्वस्थानीत्यनु- । ।

८८ भादृचिन्तामणे पपतिज्ञानादपूर्व वाच्यं सिध्यतीत्यनुफ्पत्तिज्ञानमेव योग्यताज्ञान- मित्यन्ये ॥ लिव फलकरणत्वान्वितं स्वार्थमाहेति न्यायप्रदीपः ॥ प्रवृत्तिजनकशान्दबोधक्रमस्तु नियोज्यस्वर्गकामीयं यागवि. षयकं स्वर्गसाधनं स्थायि कार्य ममेति प्रथमो बोधः। स्वर्गकामे नि- योज्यत्वं संसर्गतया प्रकारतयावा भासते । नियोज्यस्वर्गकामीयो यागः कार्य इति द्वितीयः । अन्यथा ऽतीन्द्रियस्याफलस्स स्वतन्त्र- कृत्यसाध्यतया यागकतिसाध्यस्य यागे कार्यत्वान्वयबोधं विना ऽनुपपत्तेः । नियोज्यस्वर्गकामः स्वनियोज्यकस्वर्गसाधनत्वेन ज्ञा- यमानकार्यों यागानुकूलकृतिमानिति व्यापारवानिति वा तृतीयः । अन्यथा पूर्वप्रतीतकृतेराश्रयान्वयं विना अनुपपत्तेः । आख्यात. बाच्यव्यापारसामान्यस्य कर्तृसाकाङ्क्षत्वात्प्रथमान्तपदोपस्था- प्ये ऽन्वयबोधनियमाच तदन्वयं विना ऽनुपपत्तेर्वा स्वर्गकामो यागजन्यफलभागिति चतुर्थो बोधः । अन्यथा ऽनधिकारि- गः कर्तृत्वानुपपत्तेः । मत्कृतिसाध्यो यागः अहं च कर्ता ऽधि- कारी चेति पञ्चम इति के चित् ॥ विवरणकारस्तु अत्र बोधत्रयमेवावश्यकं तावतैव प्रवृत्तिसि- द्धरित्याई ॥ निबन्धकारस्तु भाद्यबोधद्वयोत्तरमहं स्वर्गकामः कर्ता भोक्ता चति विरोधात्प्रवृत्तिमाह । इदं गुरुमतं तु मद्विहितसूत्रवृत्तौ मया विचार्य कुसुमाञ्जली बहु च दूषितं भूषितम् । अपेक्षितमथाप्युपेक्षितामदकठोरत्वतः शिशुपतिविबोधनार्थकृतभादृचिन्तामणौ ॥ नैयायिकास्तु इटसाधनत्ववतिसाध्यत्वचलबदनिष्टाननुब- तर्कपादः। न्धित्वज्ञानानामन्यतराभावे चिकीर्षाऽजननात्सर्वेषां तज्जनक- स्वमविवादम् । अन्यथा चन्द्रमण्डलादावपि चिकीर्षापत्तेः । एवं च प्रवृत्तिजनकलिङादीनां विनिगमनाविरहेण त्रितयेपि शक्तिा, पुष्पवन्तशब्दवच्च युगपदर्थत्रयबोधेनैका शक्तिः । शक्तित्रयेण वा युगपद्धोषः । अन्वयश्च तेषां धात्वर्थे । अतस्त्रित- यमित्याहुः ।। अमवधेयम् । कृतिसाध्यत्वं न विधिवाच्यम् । कृतौ या- गानुकूलत्वबोधेनं समानसंविसंवेद्यतया यागे कृतिसाध्यत्वस्यापि भानात् । एवमिष्टसाधनत्वमपि न वाच्यम् । तस्यापि यागस्व- गयोः साध्यसाधनभावबोधेनैव भानात् । अनन्यलभ्यस्य च शब्दार्थत्वात् । न च तत्र तत्पकारकबोधार्थ शक्तिकल्पनम् । इष्ट- त्वावच्छिन्नसाध्यतानिरूपितसाधनताज्ञानस्यैव प्रवर्तकत्वादिति वाच्यम् । स्वर्गकापपदेन तत्रेच्छाविषयत्वबोधाद् यागे तत्सा- धनत्वबोधेनैवेष्टसाधनत्वस्यापि बोधात् । स्वर्गो निष्टं यागो वा ऽसाधनमिति बोधे स्वर्गकामादिपदार्थबोधाभावेनैव तद्वाक्य- जन्यप्रवृत्त्यभावोपपत्तेः । एवं बलवदनिष्टाननुबन्धित्वमपि न वाच्यम् । अर्थवादेनैव तरोधात् । क्लमायासादिरूपानिष्टे इष्टो- त्पत्तिनान्तरीयकदुःखाधिकत्वाभावबोधनेनैव बलवदनिष्टाननुव- धित्वस्य छाभात् । किं चेष्टसाधनकृतिसाध्यबलवदनिष्टान- नुबन्धिज्योतिष्टोमाभिनयागानुकूलकतिमान् स्वर्गकाम इति बोधे आख्यातार्थकृतविशेष्यतया प्रकारतया च भाने वैरूप्यापत्ति- रित्यादि दिक्॥ अत्राभिधीयते ॥ अभिधैव शब्दनिष्ठा प्रवर्तनारूपा विध्यर्थः। तथाहि । प्रवृत्तिर्द्वधा स्वेच्छाधीना पराधीना च । तत्राद्यायामि- ष्टसाधनत्वादिधीः कारणम् । अन्यायां राजगुर्वादेराज्ञापेर- भादृचिन्तामणेः णादिधीः । अनिच्छन्तमपि राजा मां प्रवर्तयतीत्यनुभवान् । तेषां च प्रवृत्तौ प्रत्येकरूपेण न हेतुत्वं, व्यभिचाराद् गौरवाच्च । किं तु इच्छादिनिष्ठप्रवर्तनात्वप्रकारकंज्ञानं हेतुः । तच्चायं मां प्रवर्तयति विधिर्मी प्रवर्तयतीत्याकारकम् । प्रवर्तना च प्रवर्त- पितुः परमवृत्त्यनुकूलब्यापारविशेषः । स च चेतनस्य राजादे- राज्ञादिः । वेदे वक्तुरभावादचेतनस्य वेदस्याभिधानामकः क- श्चिच्छब्दसमवेतो ऽलौकिकः । तथा च राजाज्ञादिज्ञानावथा प्र. वृत्तिस्तथा विधेराभिधाज्ञानादिति सैव लिङर्थः । सा च श. ब्दाश्रितत्वाच्छब्द शक्तिः । शब्दव्यापारत्वाच्च शाब्दभावने- त्युच्यते । भावनापदस्य व्यापारवाचकत्वात् । अत एवाख्या- सार्थो भावनापि व्यापार एन । ननूक्तयुक्त्या ऽभिधादिप- दाभिधेयत्वादिना ज्ञानादप्रवृत्तेश्च • प्रवर्तनात्वेनवाभिधाज्ञानं प्रवृत्तिहेतुस्तेन तज्ज्ञानं च कथं स्यात् । किं चाभिधाया अचे- सेनवेदरूपकर्तृशक्तित्वेन तस्यां व्युत्पत्त्यसम्भवश्वेति चेन्न । प्र- पर्तनात्वविशिष्टे लिङ्त्वावच्छिन्नशक्तिस्वीकाराचत एव तज्ज्ञा- मात्तथैव व्युत्पत्तेः । तथाहि । स्तनपानार्य रुदन्तं स्वं पश्यन्त्या मानुस्तन्यदानार्थ प्रवृत्तिमुपलभ्य तज्जनकं ज्ञान जिज्ञासुः स्व- रोदनेन स्वाभिप्रायरूपप्रवर्त्तनानुमानमेव मातुः परिशेषात्तथेति प्रतिसन्धत्ते, ततश्च प्रयोजकवृद्धवचनश्रवणजन्म प्रयोज्यवृद्धस्य प्रवृत्तिं दृष्ट्वा तस्य. तद्वाक्यजं प्रवर्तनाज्ञानमनुमिनोति । तत- स्तस्य किं हेतुरिति जिज्ञासायां वाक्यमेव तथा त्रधारयति । तत आवापोद्वापाभ्यां लिङस्तत्र शक्तिं गृह्णाति । तदुक्तम् । अभिधाभावनामाहुरन्यामेव लिङादयः। अर्थात्मभावना त्वन्या सर्वाख्यातस्य गोचरः॥ इति । अर्थात्मत्वमर्थविषयकत्वमश्रितत्वं वा। तथा चा- तपादः । थनिष्ठत्वादर्थभावना फलोत्पत्त्यनुकूलकृतिनोदनादिव्यापाररू- पा ऽऽख्यातत्वावच्छिन्नशक्त्या चेतनाचेतनकर्वसाधारणी क. र्तृशक्तिः। द्विविधापि भावना नियमतः कर्मकरणेतिकर्तव्यता- रूषांशत्रयसाकाङ्क्षा तन्त्रितयसाकाङ्क्षत्वमेवोभयानुगतं भा- वनापदप्रवृचिनिमित्तम् । तत्र शब्दभावनाया अंशत्रयमाहुः । लिङो ऽभिधा सैव शब्दभावना, भाव्या च तस्याः पुरुषप्रवृत्तिः, सम्बन्धकोषः करणं, तदीयमरोचना चाङ्गवयोपयुज्यते । अस्यार्थः। लिङो ऽभिधानांमकस्ववृत्तिः स्वशक्तिरवश्यं वाच्या । न च तत्र मानाभावः । व्यापारभिन्नस्य परनिष्ठव्यापारजनकत्वं स्व- निष्टव्यापारद्वारैवेति व्याप्तेः। चक्रभ्रमिजनकत्वस्य दण्डादौ स्व- निष्ठस्पन्दादिद्वारैच दृष्टत्वात् । तथा च लिङ्पदेनापि प्रवृत्त्यनु- कूलेन स्वनिष्ठव्यापारो ऽवश्यं जननीय इति स एवाभिधात्म- का । व्यापारस्य व्यापारापेक्षायामनवस्था स्यादिति व्यापा- रभिन्नस्येति । व्यापारिणः स्वनिष्ठव्यापारार्जनेपि व्यापारापे- क्षायामनवस्थापत्तेः परनिष्ठति। शब्द ज्ञानद्वारा प्रवृत्तिहेतुत्वात् सिद्धसाधनं स्यादिति शब्दनिष्ठाभिधासिद्धयर्थ स्वनिष्ठति । किमित्याकाङ्क्षायां भाव्यमाह, भाव्या चेति । अर्थभावनेच शब्दभावनाभावयेत्यर्थः । केनेत्याकाङ्क्षायां करणमाह । सः म्बन्धबोध इति । अगृहीतलिशक्तिकस्याप्रवृत्त्या सङ्केत्तग्रहस्य तत्सहकारित्वमित्यांशयः । सङ्केतश्च तद्वाक्यघटकपदानां ततः दर्थे, लिङश्च प्रवर्तनात्वादिविशिष्टे बोध्यः ॥ नन्विष्टसाधना बाज्ञानं प्रवृत्तिमात्रे हेतुस्तथा च तद्विना प्रवर्तनामात्रज्ञानेपि कथं प्रवृत्तिरिति चेत् । सत्यम् । स्वर्गकामो यजेतेत्यादौ प्रथमतो लि- पदार्थयोरर्थभावनाशब्दावनयोरन्वयबोधः प्रवर्तनाविषयः कृतिरित्याकारको जायते । एकपदोपात्ततया धात्वर्थापेक्षया ९२ भादृचिन्तामणेः प्रत्यासत्तितारतम्यात् । तदुक्तम् ।। विधिभावनयोः श्रुत्या सङ्गतिः पूर्वमिष्यते ॥ इति । प्रवर्तनात्वविशिष्टस्य च विषयतया ऽर्थभावनाया- मन्वये इष्टभावनात्वमिष्टं भावयति उत्पादयतीति व्युत्पत्त्येष्टसा- धनत्वरूपं, योग्यता तस्य विध्यर्थेपि, क्रियागतमिष्टसाधनत्वं न विध्यर्थे इत्यतन्मते विशेषः । अर्थभावनाया इष्टसाधनत्वं क्रिया: गतेष्टसाधनवं विना नेत्याक्षिप्तक्रियष्टसाधनत्वधीरपीति प्रवृत्ति- नानुपपन्नेति । तत्र आख्यातोपस्थितार्थभावना कि केन कथापि- संशत्रयं क्रमेणापेक्षमाणा किमिष्टं कुर्यादित्याकाङ्क्षायां याग- स्य कष्टत्वेन करणत्वेन चासाध्यतया यागेनान्यद्भावयेदिति । ततः किमिदन्तदन्यदित्याकाङ्क्षायां स्वर्गक्रामपदसमार्पतमसि- द्धतया साधनापेक्षं स्वर्गमेवार्थभावनाभाव्यत्वेन स्वीकरोति । श्रुतिवृत्त्या हि पदार्थभूतस्य स्वर्गकामस्य भाव्यत्वमुच्यमानं वि- शेष्यबोधे विशेषणे स्वर्गे पर्यवस्यति । तथा च यागेन स्वर्ग भाव- योदति फलितं, यागकरणिका स्वर्गफलिका प्रवृत्तिः प्रवर्तना- विषय इति बोधः । यत्र च समभिव्याहृतानुपस्थितं फलं तत्र प्रकरणादीना, तेषामध्यभाव ऽर्थवादेन विधिसापेक्षेण, तस्या- प्यभावे विश्वजिन्न्यायन फलविशेषः कल्प्यते। यद्यपि पुरुषप्र- त्तिरूपभावनानिष्याधो यागस्तत्र न करणं तथापि फलावृच्छि- नभावनायां विशेषणे. करणत्वे करणत्वोपचार इति फलोद्देश्य- कप्रवर्तक कृतिविषयत्वमेवात्र करणत्वं, दण्डेन घटं करोतीत्यादौ लोकोपि हि तथैव करणत्वम् । केनेत्यस्यापि किंविषयिणी कृतिः स्वर्गसाधनमित्यर्थ इत्यन्ये । अत्र यागकरणकत्वविशिष्ट लक्षणे- ति माञ्चः । वस्तुतः करणत्वं यागस्य सम्बन्यो वाक्यार्थ एक ज्योतिष्टोमादेस्तत्राभेदेनान्वयो निराजाधः । इत्थं च कथं विन:

तर्कपादः । ष्टेन यागेन स्वोभाव्य इति प्रतीत्यवसानन्तरापूर्वकृत्येति सम्ब- ध्यते, ततः कथमपूर्व यागेन कर्तव्यमित्यपूर्वभावनायामित्यंभा- वेन संयुज्यमानमितिकर्तव्यताजातमपूर्वप्रयुक्तमुच्यते । ततः प्र. कारापेक्षायां समिधो यजतीत्यादिवाक्यरिष्टविशेषापेक्षैः स्वाधि- कारवाक्यैकवाक्यतया दर्शपूर्णमासभावना प्रयाजादिभावनो- पेता ऽपूर्व साधयतीत्यवगते प्रयाजादीनां तादर्थेन समन्वये पश्चादुपकारत्वं कल्प्यते । तदेयं भट्टमते बोधक्रमः । स्वर्गकाम- निष्ठा यागकरणिका स्वर्गफलिता प्रयाजादीतिकर्तव्यताका- भावनेत्यर्थभावनाबोधः। विधिनिष्ठा शक्तिग्रहकरणिका स्तुत्य- र्थवादोपकृता प्रवत्तनेति शब्दभावनाघोषः शक्तिकल्पनेन लक्ष- गया वोपपद्यते । ततो विरुद्धार्थभावना निरुक्तपवनाविषय- इत्येकवाक्यतया महापराक्यार्थबोधः । अत एव विध्युपरक्ता भा- वना लिडर्थ इति भट्टसिद्धान्तः। विधिः प्रवर्तना तदुपरक्ता त- विशिष्टार्थभावना लिङ्मतिपाद्येत्यर्थः । अर्थभावंताविशेषः णत्वेनैव शब्दभावनाया अन्वयः । राजादिकृताज्ञादेस्तथैवान्व- यात्, तदन्वयेन योग्यत्वेन प्रवर्तनायामपि बलवदनिष्टाननुब- न्धीष्टसाधनत्वं लभ्यते । न सुरां पिबेदित्यादौ प्रतिषेधवाक्या- यापीत्यमेवोन्नेयः । एवमन्ये ऽप्यन्वयबोधाः स्वयमूह्या इति ॥ अथ विधर्भेदः । तत्र विधिविविधः । अपूर्वविधिनियम- विधिः परिसंख्याविधिश्च ॥ विधिरत्यन्तमप्राप्तो नियमः पाक्षिके सति ।। तत चान्यत्र च प्राप्ता परिसंख्यति गीयते ।। अत्यन्तापाप्तविषयमापको विधिरपूर्वविधिः । यथा ब्राही- मोक्षति । अत्र प्रोक्षणमत्यन्तामाप्तम् । पक्षे प्राप्तस्याप्राप्तांश- पूरणफलो विधिनियमविधिः । यथा वीहीनवहन्तीति वीहीणां भाहचिन्तामणे पुरोडाशद्वारा यागसाधनत्वस्य तुषविमोकसाधनीभूसावधातन- खविदलनान्यतराक्षेपकतया ऽवघातस्य पक्षपातत्वात् । एक- स्मिन्मधाने नियतप्राप्तस्याद्वयस्यैकस्मिन्नड़े नियतप्राप्तस्य - धानद्वयसम्बन्धस्यान्यतरनिवृत्तिफलको विधिः परिसङ्ख्याविन धिः । यथा गृहयेधीये आज्यभागौ यजतीति । इमामगृभ्णन् र- शनामृतस्ये,त्यश्वाभिधानीमादत्त इति च । अत्रातिदेशेनाज्यभा- गतादतराङ्गयोहमेधीरे मन्त्रे च मन्त्रालिङ्गेनाधगर्दभरशनादान- सम्बन्धयोर्नियतप्राप्ततया तद्विधेरितरनिवृत्तिफलकत्वात् ।। न च विधीनामाक्षपातिदेशलिङ्गानपेक्षपत्तिकतया इमाप्तावघा- तादिमापकत्वेनापूर्वविधित्वमिति वाच्यम् । विधानबेलायां वि. धिमात्रस्यापूर्वविधित्वे ऽपि फलतो नियमादिव्यपदेशात् । न चैत्रमपि नियमपरिसख्याविध्योरितरनिवृत्तिफलकत्वस्यैत्रका- रेण विवरणस्य च तुल्यतया भेदो न स्यादिति वाच्यम् । अ. प्राप्तांशमाप्तर्विधेयावघातनिष्ठतया शीघ्रोपस्थितत्वेन लाघवेन च कलत्वसम्भवे लिङ्गोपस्थितिकाया निष्पादिन्याश्च निवः तेः फलत्वायोगात् । मन्त्रविधौ तु नियमस्य फलत्वासम्मवार द्वितरानिवृत्तेरेच फलस्वमिति । नन्वेवमप्यपूर्वविधिलक्षणमग्निहोत्रं जुहुयात्स्वर्गकामः, अथातोऽग्निमनिष्टोमेनानुयजतीतिविध्योरव्या- पतम् । एतविधिविषययोरामिहोत्रचयनयोरुत्पत्तिविधिमाप्तत्त्वात् । न चोद्देश्यसम्बन्धित्वेनेत्यप्राप्तर्विशेषणामिति वाच्यम् । तथा- पि तमुक्थ्येनेत्यादिविधावव्याप्तेः । उद्देश्योकथ्यादिसम्बन्धे- नातिदेशतश्चयनादिप्राप्तः । न चायं प्रकृताबुत्तरवेचा सह विकल्पितस्य उक्थ्ये ऽतिदिष्टस्य नियमोजान्वरपरिसंख्या- वा मोरवाद । ऊपपादितं चाप्राकरणकस्थापि चयनस्य चार येन प्रकृति भूतज्योतिधोमात्वामियोध्यावा, तस्य चयना- तपादः । श्रितगुणकामप्राप्तिः फलमिति दशम । न चोदेश्यसम्बन्धित्तेन विधिविषयान्ययत्किंचिन्मानिफलको विधिरपूर्वानीधारति लक्षण- म् । द्वादशाहिकगावामयनिकत्र्यनीकादिविध्यन्तर्गतयोरेन्द्रनाय- वाग्रं प्रथममहर्भवति अथ श्रुक्राणमिति विध्योरव्याप्तेः । रथन्त- रबृहत्पृष्ठत्वेनेन्द्रवायचाग्रत्वादिप्राप्तेः सम्वादनैमित्तिकत्ववोधन- द्वारा तत्तद्विकृतौ वामदेव्यपृष्ठवति तत्प्राप्तिफलकत्वेनापूर्वविधि- स्वात् । न च यत्किंचित्संबन्धित्वेन यस्य कस्य चिदमाप्तस्य प्राप्तिफलको विधिपूर्वविधिरिति वाच्यम् । अवघातनियमस्याः पि विकृता वाज्यधर्ममाप्तिफलकत्वेनातिव्याप्तेः । तावतामा ग्नीषोमावाज्यस्यैव नावुपांशु याज पौर्णमास्यामन्तरा यजतीत्यु- पांशुयाजे कालविधावमाप्तस्वर्गसम्बन्धप्राप्तिफलके - ऽव्या- प्नश्च । तत्रोदेश्यान्यसम्बन्धित्वेन यत्किचित्प्राप्तिफलकत्वा- भावात् ! आपराग्निकहोमाविधिसंदंशपठिते द्वे आहवनी- ये जुहोतीति विधी गार्हपत्यान्वाहार्यपचनाधिकरणकच- तुःसङ्ख्याकहोमान्तरत्वतदङ्गत्वव्यावृत्तप्राप्ताग्निहोत्रहोमाभ्यास- स्वसिद्ध्या तेषामभ्यासानामप्राप्तफलसम्बन्धमाप्तिफलकत्वाः च विधेयसम्बन्धित्वेन यत्किञ्चित्माप्तिफलक- सं विचक्षणीयम् । वैश्वदेवी सांग्रहणी निवपद् प्रामकाम इति विधौ सचिच्याम्नातानामामनहोमानामार्थवादिकग्रामफा लसम्बन्धव्यावृत्त्याङ्गत्वसिद्धिफलके ऽव्याप्तेः । दर्शपूर्णमासा- भ्यां स्वर्गकामो यजेतेति विधौ सर्वथा ऽव्याप्तेश्चेति चेत् ।। अत्र पितृचरणाः । उद्देश्यविधेयफलान्यतराणामनिर्धारि- तस्वविरोधिप्राप्तिप्रयुक्तस्वाप्राप्तांशमापको विधिनियमः । अस्ति चेदं वाहीनवहन्तीत्युपायनियमे नियम्यावघातस्यानिश्चितस्ववि- रोधिनखाविदलनपतिप्रयुक्तात्रघातान्त्यंशपूरकत्वात् । यज्नुन्हां व । न ९६ भादृचिन्तामणे गृह्णाति प्रयाजेभ्यस्तत्, यदुपभृति,पयाजानूयाजेभ्यस्तत् इत्यु- भयनियमे पुरोडाशं प्रथयतीति नियमे च । अत्र चोद्देश्यविधि- विषययोः पाक्षिकत्वे सतीत्युक्तौ तमुक्थ्येनति विधौ रथन्तरे प्रस्तूयमाने सम्मीलयेदित्यत्र चातिव्याप्तिः । तद्वारणार्थमप्रा- प्वंशपूरणफलकेति । एवमपि सर्वेभ्यो दर्शपूर्णमासाविति वि- धेरप्राप्तस्वर्गान्यफलांशपूरणफलकत्वादतिव्याप्तिवारणाय स्व- विरोधिप्राप्तिप्रयुक्तत्वं अप्राप्तिविशेषणं, स्वर्गान्यफलफाप्तेः प्रा- पकप्रमाणाभावप्रयुक्तत्वेन विरोधिप्राप्तिप्रयुक्तत्वाभावात् । एक- मपि पृष्ठयः षडहो बृहद्रथन्तरसामा कार्य इति विधौ षडहांश- तृतीयादिदिचसेषु वृहद्रथन्तरविरोधिवैरूपादिप्राप्तिप्रयुक्तस्त्रापा- प्तिपूरणफलकत्वादतिव्याप्तिवारणाय निर्धारितत्वं स्वविरोधि- प्राप्तर्विशेषणम् । अत्र विरोधिप्राप्तेरनिर्धारितत्वान्नातिव्याप्तिः। न च हिरण्यगर्भः समवर्तताग्रइत्याघारमावास्यतीति नियमे ऽव्याप्तिः । अत्र पक्षप्राप्त्यभावादिति वाच्यम् । तस्यापूर्ववि- धित्वेनेष्टापत्तेः । न च नियमापूर्वस्य नियम्यजन्यत्वात्तत्र दृष्टा- र्थत्वानियमादृष्टकल्पनावश्यम्भावनियमापूर्वस्य हिरण्यगर्भमन्त्र- स्य जनकतानवच्छेदकत्वानियमापूर्वजनकत्वाभावात् । एवमस- मर्थमन्त्रविनियोगेषु उत्करे वाजिनमासादयति परिधौ पशुं नियुञ्जीतेत्यादिष्वपूर्वविधित्वं द्रष्टव्यमिति दिक् ॥ • परिसङ्ख्यात्वं च वैदिकप्रमाणेन केन चित्सम्बन्धेन द्वयो- रेकसम्बन्धत्वे लिङ्गादिप्रमाणप्रकृतविध्यनुपपच्यन्तरेण समुच्चि- त्य नित्यप्राप्तयोरनुयोगितासम्बन्धेन इतरानिवृत्तिफलकनवाय. समभिव्याहृतविधित्वम् । वर्तते चेदमश्वाभिधानीमादले इति शेषिपरिसङ्ख्यायाम् । शेषित्वसम्बन्धेनाश्वाभिधानीगर्दभाभि- धान्यद्योमन्त्रसम्बन्धित्वेन प्राप्तयोरितरनितिफलकत्वात् ।

तपादः । १७ इडान्ता प्रायणीया सन्तिष्ठतइति शेषपरिसंख्यायां च यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान्गृह्णीयादिति निय- मान्तरपरिसंख्यायाञ्च । अस्य प्रकृतिविकृतिभूतानां रथन्तरसा- म्नामरथन्तरसानां चैन्द्रवायवाग्रतासम्बन्धित्वेन प्राप्तस्थन्तरसा- मनिवृत्तिफलकत्वात् । वाग्वा एषा यदैन्द्रवायव इत्याश्रयान्तर- परिसंख्यायां च। अत्र हावावपति ह्यत एवोद्वपतीति पांवमान- गायत्रीबृहत्यनुवभिन्नऋपरिसंख्यायां गायत्र्यादिषु तद्भित्र- ऋक्समागमस्यैतद्विधितः मागसिद्धत्वेन प्राप्त्य भावादव्याप्ति- वारणाय प्रकृतविध्य नुपपत्तीति । अत्र चैवकारोक्तपरिसंख्याबो- धानन्तरमर्थप्राप्तिबोधः प्राप्तिसामयनाचार्पस्य ऋग्विषयत्व- परित्यागः सामविषयत्वं कल्प्यतइति । एवमप्यप्राप्तपरिसंख्ये- ति नाव्याप्तिः । चत्वारो भवन्ति षडहा भवन्तीत्यपूर्वविधिषु प- त्रिंशद्रात्रिक्रममयोगसम्बन्धितया प्राप्तषडहच्छन्दोमधर्माणां मध्ये छन्दोमधर्मनिवृत्तिषडहेष्वतिव्याप्तिवारणाय समुच्चित्यति प्राप्तिविशेषणम् । नहि षडहच्छन्दोमधर्माणामेकत्र समुचित्य प्राप्तिः । सप्तमादिषु छन्दोमधर्माणां प्राप्तेः । यदि चैककर्तृपयो- गसम्बन्धित्वेन प्राप्तिरस्तीति विभाव्यते तदास्त्येव परिसंख्या- विधिरिति नातिव्याप्तिसम्भावनापि । एतेन सर्व ब्रह्मणे परिह- रति सप्रियाय सगोत्राय ब्रह्मणे देयः । आग्नया ग्रहा भवन्तीति विधिष्वतिव्याप्तिसम्भावना परास्ता । सर्वविजां स्वस्वभागस- म्बन्धितया प्राप्तिसत्त्वनैकत्र समुच्चित्य प्राप्त्यभावात् । सकल. नियमविधिव्यावृत्त्यर्थ नित्यति । यावज्जीवमाग्नहोत्रं जुहोतीत्य- करणनिवृत्तिफलके विधावतिव्याप्तिवारणायानुयोगितासम्बन्धे- नेति निवृत्तिविशेषणम् । अकरणनिवृत्तेः करणत्वरूपाया अ- नुपयोगितासम्बन्धेन तदभावात् । अत एवाभावाभावस्य भाव- । भादृचिन्तामणेः रूपत्वम् । ननु तथापि क्रत्वर्थनिषेधेषु दीक्षितो न ददाति न जुहोति न पचतीत्यादिष्वविव्याप्ति- 1 दीक्षितस्य ऋत्वर्थपुरुषा- थहोमादीनां समुच्चित्य प्राशिसस्त्वेनैतस्य पुमर्थहोमनिवृत्तिफ- लकत्वाद् इति चेत् । निषेधेषु विधित्वाभावाद्विधिपदेनैव तव्या- वृत्तिरिति के चित् । नबाद्यसमभित्र्याहृवेति वा विशेषणीयं, तेन न कुत्राप्यव्याप्त्यतिव्याप्त्यवकाश इति दिक् ॥ उभयभिन्नो चिधिरपूर्वविधिः । प्राप्तिफलको विधिरिति . लक्षणं तु नियमपरिसङ्ख्ययोः फलवाभावे प्राप्तिरेव पालत्वे. न पर्यवस्यतीत्यभिप्रायेणेल्याहुः ॥ के चिन्तु अयोगान्ययोगव्यावृत्तिभिन्नफलको विधिरपूर्ववि- धिः, अयोगव्यावृत्तिमात्रफलको नियमो,ऽन्ययोगव्यावृत्तिमात्र- फलको विधिः परिसंख्यति लक्षणान्याहुः ।। परे तु तात्पर्यविषयतापर्याप्त्यवच्छेदकमाप्तिमद्विधित्वमपूर्व- विधित्वम् । एवं तात्पर्यविषयतापर्याप्त्यवच्छेदकनिवृत्तिमद्विधि- त्वं परिसंख्यात्वम् । तात्पर्यविषयतापर्याप्त्यवच्छेदकायोगव्य- पच्छेदकत्ववाद्विधित्वं नियमत्वम् । विषयताया अपि पर्याप्त्यङ्गी- कारात् । यत्र त्वेकस्यैव विधरुभयत्र तात्पर्य तत्र सङ्करोपीष्ट एने- त्याहुः । वर्तते चैतमोक्षणविधौ । प्रोक्षणप्राप्तिफलकत्वात् । नन्वग्नये वो जुष्टं प्रोक्षामीति पन्त्रस्य देवतार्थद्रव्यप्रीक्षणलिङ्ग- बलादविमोक्षणद्वारा कथित्वावगमात्तत एव प्रोक्षणमाप्तिा । यथा प्रकृतौ दीक्षाहुती होतीति विहिवासु दीक्षाहुतिष्वाकूर मयुजे ऽग्नये स्वाहेत्यादिषु षट्मु मन्त्रेषु लिङ्गक्रममावेष्वग्नि- प्रयोगे पुनराकृतिमग्निमित्यादिषु षट्सु मन्त्रेषु पठितेषु पइमिर्दी- सयतीति वचनेन विनियुक्तेषु स्वाहालिङ्गबलादोमद्वारा दीक्षा- थत्वे प्राप्ते लिझादोमप्राप्तिः । न च वाच्यं तत्र द्वादश जुहो- । तर्कवादा। तीति वाक्यं होमविधायकमिति । प्रकृतितः प्राप्तत्वेन विध्य- नुवादकृत्वैरूप्यप्रसङ्गेनानुवादत्वात् । न च वाच्यमेकादशपयाजा. न्यजतीतिवदभ्यासावधिरयामिति । षभिर्दाक्षयतीति विधेरान -र्थक्यापत्तेः । एतत्कृतदीक्षासम्बन्धानुपपस्या होमद्वारकमाप्त्या माकृतमन्त्रबाधापत्तेश्च । अस्तु वा मन्त्रगतद्वादशत्वं विधिः । हो- मप्राप्तस्तु मन्त्रलिङ्गादेव । एकस्य वाक्यस्य सर्वथानक्यापे- क्षया गुणनिधित्वस्य न्याय्यत्वादीत चैन्न । तार्किकमाप्त्यनव- धानदशायामेवापूर्वविधित्वात् । तार्किकमाप्त्यालोचनेभ्युदयाशि- रस्कत्त्वप्रायश्चित्तप्राप्त्यध्वर्युकढकत्वायनेकप्रयोजनासिद्धेः । वि. धिना मोक्षणामाप्तौ मन्त्रस्य लिलेनाग्निप्रोक्षणादावुत्कर्षापत्तेः। न च ग्रहणावेक्षणवन्मन्त्रालिङ्गेन प्राप्तिरिति वाच्यम् । तयोर- पि भक्षविधिनैव विध्यङ्गीकारात् । अतः पदार्थविध्यभारे में- त्रस्यानङ्गलया तेन न पदार्थप्राप्तिसम्भावनापि । दीक्षाहुतीना- मपि द्वादश जुहोतीत्यभ्यासविध्यङ्गीकारालिङ्गान होममाप्तिः। तेन युक्तमुदाहरणमिति दिक् ॥ तत्रापूर्वविधिरत्पचिविधिविनियोगविध्यधिकारविधिप्रयो- गविधिभेदेन चतुर्धा । कर्मस्वरूपबोधको विधिरुत्पत्तिविधिः, यथाग्निहोत्रं जुहोतीति । अङ्गताबोधको विधिनियोगविधिः, यथा दना जुहोतीति । फलसम्बन्धबोधको विधिराधिकारविधिः, यथा ऽग्निहोत्रं जुहुयात्स्वर्गकाम इति । स्वाङ्गानुष्ठानबोधको विधिः प्रयोगविधिः । स च नित्यकल्पो भिन्न उत्पत्तिविनियो- गविध्युपजीवकश्च । न च किमर्थं तत्कल्पनामिति वाच्यम् । स- मानदेशकालकर्तृताया अन्येनालाभात् । तल्लाभाय तस्यावश्यक- त्वात् । अङ्गप्रधानविध्येकवाक्यताबोध एव प्रयोगविधिरित्य- नथे । नियमपरिसख्याविधी प्रायेण विनियोगविषयावे.

भादृचिन्तामणेः ति. दिक् ॥ सोपि विधिविषयभेदादविधः । शुद्धधात्वर्थविधिः । अ- न्योदेशेन धात्वर्थविधिः । विशिष्टधात्वविधिः । अन्योद्देशेन विशिष्टधात्वर्थविधिः । धात्वर्थोद्देशेनान्यविधिः । धात्वर्थोहे- शेन विशिष्टान्यविधिः । धात्वर्थोद्देशनान्ययोः सम्बन्धविधिः । मुक्त्वा धात्वर्थमन्ययोः सम्बन्धविधिः ॥ उदाहरणानि । अग्नि- होतं जुहोति । अग्निहोत्रं जुहुयात्स्वर्गकामः । सोमेन यजेत । दशापवित्रेण ग्रहं सम्माटि । दध्ना जुहोति । य इष्टया पशुमा सोमेन वा यजेत सोमावास्यायां वा। अत्र यागोद्देशेन पौर्णमास्य- मावास्याविशिष्टविकल्पविधानात् । विकल्पितपौणयास्यमावास्या- विधानाद्वा । प्राकाशावध्वर्यवे ददाति । अत्र प्रकृतदानोद्देशेन प्राकाशाध्वर्युसम्बन्धविधानात् । दध्नेन्द्रियकामस्य जुहुयात् । अत्र मुक्त्वा धात्वर्थमन्यसम्बन्धविधानादित्यष्टौ प्रकाराइति जीर्णाः ॥. धात्वथाद्देशेनान्यसम्बन्धविधेरुद्देशेन विशिष्टविधित्तो भेदाभावात्सप्तविधत्वं युक्तम् । अत्र च पूर्वापेक्षया उत्तरोत्तर. दौर्बल्यम्पत्ययानां प्रकृत्यान्वितस्वार्थाभिधायकत्वव्युत्पत्तित- नाभ्यां द्रष्टव्यम् ॥ इति मीमांसकश्रीगागाभट्टकृतभादृचिन्तामणी तर्कचरणे विधिभेदतत्पकारनिरूपणम् ॥ म ननु धातोः किं वाच्यमिति चेत् । अत्र वैयाकरणाः । भूवादिधातूनामुत्पत्यादिरूपं फलं संद- नुकलो व्यापारश्च वाच्यः । उत्पत्तिः माकटघम् सफल श- किग्राहकश्च भूसत्तायामित्यादिः सर्कोपि पानुपान व्यापार शक्तिग्राहकं च भूत्रादयो धातन इति सत्र न्तच्च वामकारेषा भना- । तर्कपादः। दिषु धातुसंज्ञां विधत्तइति वाधातुवाच्यार्थवाचितां सर्वधातृनां सूचयति । बाधातोश्च गतिरूपव्यापार एव वाच्य इति सर्वधा- तूनां व्यापारवाचित्वम् । न चैबीजमरीकरोतीति प्रयोगाप- त्तिः । इष्टापत्तिः । अत्र फलानुकूले व्यापारे व्यापारजन्ये फले ऽनुकूलत्वनन्यत्वयोः संसर्गमर्यादया लभ्यतया फले व्या- पारे च शक्तिः । प्रत्ययार्थस्तु व्यापाराश्रयः फलांश्रयश्चे- त्याहुः । कश्निन्तु भूवादय इति सूत्रं कृतैकशेषादिशब्दत्रयकं सत्तादि- रूपफलवाचकभूमकारा गतिवाचकवाप्रकारा भ्वादिगणपठिता- श्च धातच इत्येतदर्थकं सत्फलवाचितां सर्वधीतूनामाहेत्याहुः ॥ अत्र मण्डनः। फलमेव धात्वर्थः। पचिगमित्यजिपतत्यादीनांवि- क्लित्त्युत्तरदेशसंयोगपूर्वदेशविभागाधोदेशसंयोगादय एवार्थाः । अनुकूलव्यापारस्तु प्रत्ययार्थः । लडाबर्थवर्तमानत्वादिकं व्या- पारे ऽन्वेति, समानपदोपात्तत्त्वात् । तेन व्यापारविरमे न पच- तीतिप्रयोगः, फलानुत्पाददशायां व्यापारमात्रकाले पचतीति प्रयोगश्च । व्यापारविरमे पाको विद्यते पच्यर्थों विद्यतइति प्रयो- गस्तु विक्लित्तिर्वत इतिवादिष्ट एच । अत एष पाकं करो- ति पाके व्याप्रियतइति पाकात्पृथक् करणेन व्यापारविवरण- म् । न च ग्रामो गमनवानिति प्रयोगापत्तिः, उत्तरदेशसंयो- गरूपफलस्योभयनिष्ठत्वादिति वाच्यम् । तथापि निरूपक- स्वादिसम्बन्धविशेषेण वर्तमानस्यैव फलस्य वाच्यत्वाङ्गीकारा. व । अन्यथाभिमुख्यसम्बन्धेन संयोगानुकूलक्रियाया ग्रामपि सत्त्वायापारवाचित्वपि तुल्यो दोषः । एवं विध्यर्थ कृतिसाध्य. वेष्टसाधनत्वादीनामपि व्यापारएचान्वयः । तेनौदनकामः पचेदित्यादावोदनसाधनत्वस्य कृतिसाध्यत्वस्य च व्यापार- HD भादृचिन्तामणे एवान्वयः । एतेन फलस्योपायगोचरकृतिसाध्यतया उपायस्य स्वगोचरकृत्यसाध्यत्वेन विधिवाच्येष्टसाधनत्वकृतिसाध्यत्वयो। पाके ऽन्वयात्तत्रत्त्यनुपपत्तिरिति मणिकुदुक्तदूषणमपास्तम् । तदनुकूलव्यापार प्रवृत्तेरिष्टत्वात् । न चैवं यजेत्दद्याञ्जुहुया. दित्यादिषु पर्याय त्वमसः । स्वत्वध्वंसरूपफलस्वैककादिति वाच्यम् । यजते! स्वत्त्वध्वंसरूपफलवाचित्वात् । ददात: परस्वत्वमात्ररूपफलवाचित्वात् । जुहोतेः प्रक्षेपरूपफलबाकि खात् । एतेन स्वत्वध्वंसरूपफलोपलक्षितदेवतोद्देश्यकद्रव्यत्यागो यजिवाच्यः, सङ्कल्पित्तस्वीकरणपूर्वकपरस्वत्वापत्तिस्वस्वच्चध्वं- सफलकद्रव्यत्यामो ददातिपदवाच्या, देवतोद्देश्यकमक्षेत्रफलको द्रव्यत्यागो जुहोतिपदवाच्य इति भेदः । न च देवतायैः दान- स्थले यजतीतिप्रयोगापतिरिति वाच्यम् । देवताया असम्पदा नत्वेन तत्र ददातेलाक्षणिकत्वात् । एवं चास्तिभवतिविधत इत्यादः फलमात्रप्रतीतिरुपपद्यते । करोतेश्चोत्पत्तिरूपफलधा चित्वं, तदनुकूलव्यापारो यत्नरूपः प्रत्ययवाच्यः । एवं च न करोतियतत्योः समानार्थकत्वं, न वा यततेः सकर्मकन्चाप- तिरनुप्रयोगश्च । एवं जानातीत्यत्र विजातीयविषयता, इच्छ- सादावपि विजातीयविषयता, नश्यतीत्यत्रदर्शनामावरूषाफल मेव वाच्यम् । अतः सर्वधातूनां फलएष शक्तिरित्याई ॥ अन्ये तु व्यापार एव धात्वर्थः । न चोक्तदोषः । तत्तद्धा तुसमाविल्याहृतद्वितीयाया एवं संघोगादिरूपकलविशेषवोधका- स्वाहीकासदिल्याहुः के चिन्न पचनीत्यादौ फलजनकतावच्छेदकतया व्यापार समुदायनिष्ठोक्तिमव्यापागनिष्ठोवा बैजात्यमखण्डोपाधिर्वा सिद्धा पच्यावर्थः । एवं च धातपाजव्यापाराश्रयस्य कर्तृतयाः साह- STREAMINAL तपादः । १०३ शव्यापारविवक्षायां चैत्रः पचति काष्ठं पचतीत्यादिप्रयोगः । एवं करायापारवाचिकम् । न च पत्नजन्यत्वाजन्य त्वमति- सन्धानात्पठारयोः कृतालव्यवहारेण रोगेण स्पन्दमानोप चैत्रे स्पन्दं करोतीत्यप्रयोगेण च करोतेयत्नवाचित्वमिति बा- च्यम् । करोचर्यनार्थकच्चे तस्याकर्मकत्वेन करोतेरकर्मकत्वाप- तेः, फलसमानाधिकरणव्यापारवाचित्वात् । उत्पत्तिकंपफल- व्यधिकरणन्यापारबाचित्वेन ज्ञानादाविज्ञास्यकर्मकत्वे तुं यततेर- पि सकर्मकत्वापत्तिः । एधाञ्चक्रइत्यादिवद्यततेरनुप्रयोगापत्ति- श्च । अनः करोतेोषारसामान्ययाचित्वामिति वदन्ति ।। अन्ये तु करोतेयत्नवाचित्त्वम् । न चोक्तदोषः । विवक्षावि- कक्षाभ्यां सकर्मक्यकर्मकघावोः पच्यास्योरपि पचति मासमास्य- 'तइत्यादावतिषसङ्गेन नोक्तं सकर्मकत्वम् । किं त्वविवक्षाविर- हविशिष्टकर्माकाक्षधातुत्वम् । तेन सकर्मके विशेषणाभावेना- कर्मकत्वस्याकर्मकावविवक्षाऽसत्त्वेन सकर्मकत्वस्य चाक्षतिः । आकाङ्क्षाया शब्दवैचित्र्यनवादकस्य धातोरथभेदेन सकर्म- कलाकर्मकत्वे । एवं पर्यायाणामपि तदव्याहतम् । एवमविवक्षा- विरहविशिष्टकमद्वयाकाङ्क्षपातुत्वं, द्विकर्मकत्वम् । तस्यापि एक कर्मविवक्षणेन निशां निनायेत्यादिप्रयोगे न क्षतिः। अत: प्रयत्न एव करोत्यर्थ इत्याहुः ॥ यान जानातिनश्यतीत्यादौ व्यापार एवं प्रत्ययार्थः, तस्य च धात्व उभेदेनान्वयः, तेन ज्ञानाभिन्नो व्यापारो नाशामि- नो व्यापार इत्याह । तत्यकृतिप्रत्ययार्थयोरभेदान्वयस्थाव्युत्प- बत्वेन मूर्खदाम्भिकलिखितत्वेनोपेक्षणीयम् ।। इति धात्वर्थवादः ॥ एवमाख्यातस्य व्यापाररूपभावनायां शक्तिः । ननु या.

१०४ भादृचिन्तामणेः तोरेव व्यापारवाचितया धात्वातिरिक्तभावनाय मानाभावः। न चास्तिभवत्यादिधातुतः फलस्यैव प्रतीतेापाराऽप्रतीतेश्च तत्सामान्येन पच्यादीनामपि फलएच शक्तिः, न व्यापारइति वाच्यम् । तत्रापि । अस्त्यादावपि कत्रंशे भाव्ये ऽस्त्येव हि भावना । इत्यादिवैयाकरणोक्तरीत्या कपालावस्थो घट आत्मानं भा- वयताति वाकाक्तरीत्या च तद्वाचित्वात् । नापि फलमात्रे तस्य शक्तिः सम्भवति, व्यापारोपरमे पाको विद्यते इति. पती- सेनामो गमनवानिति प्रयोगस्य चापत्तेः। घयादिसमभिव्याहार- स्य व्यापारप्रत्यायकत्वकल्पने फलप्रत्ययप्रतिबन्धकल्पने वागौ- रवम् । पच्यर्थो विद्यतइति प्रयोगापत्तिश्च । घादेयापारवाचि- त्वकल्पना तु सर्वभावप्रत्ययानां धात्वयतिरिक्तवाच्याभावनि- यमेन निरस्ता । अतो न फलमात्रं धात्वर्थः । नापि व्यापार- मात्र, त्यजिगम्योः पर्यायतापत्तेः । अतः फलव्यापारौ धात्व- यः। पच्यादिधातोषिक्लित्यादिफले ऽनुकूलव्यापारे च प्रत्ये- के शक्तिर्न विशिष्टे व्यापारस्यैकदेशत्वापत्त्या कारकानन्वयाप- तेः । व्यापारश्चात्मनिष्ठः प्रयत्नः फूत्कारादिशरीरगता चेष्टा च । अनुकूलत्वस्य संसर्गमर्यादालभ्यत्वान्न तत्र शक्तिः । याव- न्सु च व्यापारेषु पचनीति प्रयोगस्तावत्सु प्रत्येकं शक्तिः, श- क्यतावच्छेदकं च तावदन्यतमत्त्वम् । फलानुकूलत्वं तन्त्वं वा । एतेन प्रत्यत्नस्यान्यथासिद्धत्वेनाजनकत्वात् प्रयोजकन्या- पारस्य तत्त्वे व्यवहितकृष्यादीनामपि संग्रहापत्तिरिति परास्त- म् । न च धातूपात्तव्यापाराश्रयत्वस्य कर्तृत या सर्वेषां कारकाणां कर्तृत्वापन्त्या तृतीयाद्यापत्तिारीति वाच्यम् । विवक्षाया एवं नियामकत्वात् । अत एव तत्तत्कारकव्यापारस्य पच्यर्थत्वविव- तर्कपादः। १०५ क्षायां काष्ठं पचति स्थाली पचतीत्यादिप्रयोगोपपत्तिः । न चैवं प्रत्ययवैयर्थं, प्रकृत्युपात्तफलव्यापारान्यतराश्रयस्याख्यातत्त्वेन तित्वादिना वा एकवचनत्वादिना चैकत्वादिसङ्ख्याया लट्- त्वादिना वर्तमानत्वादेस्तदर्थत्वात् । तत्रापि लाघवेनाश्रयत्व- स्यैव शक्यतावच्छेदकत्वम् । यत्ननिरूपकत्वादीनां संसर्गत्वा- त् । अत एव फलव्यापाराश्रयस्य तिर्थत्वादनभिहिताधिकारे कर्मणि द्वितीयेत्यादिशास्त्रबोधिततृतीयाद्वितीयान्तत्वं कर्तृकर्मणो- युज्यते । अन्यथा तिडां कर्तृकर्मानभिधायकत्वेन सर्वदा द्वितीया- तृतीयाद्युत्पत्तिप्रसङ्गेन देवदत्तः पचतीत्यादीनामबोधकत्वप्र- सङ्गः। तत्रापि धात्वर्थव्यापारस्य मुख्यविशेष्यत्वं, सर्वकारका- णां फलस्यं वर्तमानत्वादिकालस्य च व्यापारविशेषणत्वम् । एकत्वादिसङ्ख्यायाश्च कर्तृकर्मणोः, कर्मणश्च फले । एवं च काख्याते तण्डुलनिष्ठविक्लित्तिजनक एकाश्रयको व्यापार इति, कर्माख्याते चैकाश्रयकफलजनको व्यापार इति बोधः। प्रथमान्त. पदोपस्थाप्यस्याख्यातोपस्थाप्यकर्तृकर्मभ्यामभेदेनान्वयः, स्थी- यतइत्यादौ भावाख्याते सङ्ख्यानन्वितैव धात्वान्विता वा । अनुशासनाच द्विवचनादीनामसाधुत्वम् । न च प्रत्ययार्थाश्र- यस्य धात्वर्थव्यापारविशेषणत्वे प्रकृतिप्रत्ययौ सहाथै ब्रूतस्तयोः प्रत्ययार्थस्य प्राधान्यमिति प्रत्ययार्थप्राधान्यबोधकस्मृतिविरो- धः । तस्या भावप्रधानमाख्यातमिति विशेषस्मृत्या बाधात् । किं च नात्र प्रत्ययार्थोद्देशेन प्राधान्यविधिः । लिङ्गसङ्ख्य- योर्व्यभिचारेण विधेयस्योद्देश्याव्यापकत्वात् । नापि प्रधानोद्दे- शेन प्रत्ययार्थत्वविधिः । नामसु प्रातिपदिकार्थप्राधान्येन व्य- भिचारात् । अत एव तस्याः प्रमाणान्तरसिद्धप्राधान्यानुवादक त्वमिति वैयाकरणाः ॥ १४ १०६ भादृचिन्तामणे: अत्र गौतमीयाः । आख्यातस्य यत्नो वाच्यः। यत्नार्थ- ककरोतिना विवरणात् । किं करोतीति यत्नप्रश्ने पचतीत्युत्त- रस्य यत्नार्थकत्वं विनानुपपत्तेः । कुत्रश्च यत्नाभिधायक- त्वम् । पटाङ्कुरयोः कृत्यकृतिव्यवहारात् । तृजन्तकर्तृपदस्य कु- त्याश्रयवाचकत्वम् । अन्यथा क्रियाश्रयवाचित्वापत्त्या कार- कमात्रं कर्तृपदार्थः स्यात् । अतः कृताकृितविभागेन कुतरूपव्यवस्थया । यत्न एवाकृतिः पूर्वापरास्मिन् सैव भावना ॥ इति यत्न एवाख्यातार्थः । रथो गच्छतीत्यत्रानुकूलव्या- पारे जानाति इच्छति यतते करोतीत्यादावाश्रयत्वे ऽपक्षीयते नश्यति भविष्यतीत्यादौ प्रतियोगित्वे सर्वत्रानुकूलव्यापारे वा निरूढा लक्षणा । अत्र शक्यतावच्छेदकं च जीवनयोनिनिवृ.' त्तिजनकयत्नभिन्नयत्नत्वम् । यतते करोतीत्यव्यवहारात् । श- क्ततावच्छेदकं च लत्वं तित्वादिकं वा । तस्य प्रत्ययार्थत्वा- द्धात्वर्थानरूपितं विशेष्यत्वं, प्रत्ययार्थप्राधान्यबोधकस्मृतः । आख्याताभिहितसङ्ख्या च आख्यातार्थविशेष्ये आख्यातता. पर्यविषयविशेष्ये वा ऽन्वति । स च प्रथमान्तपदोपस्थाप्यः । चैत्रः पचतीति कर्ताख्याते तण्डुला पच्यते इति कर्माख्याते पच्यते ओदनः स्वयमेवेति कर्तृकर्माख्याते प्रथमान्तविशेष्यकशाब्दबोधा- नुभवात् । आख्यातार्थयत्नस्य समवायेन चैत्रे स्वजन्यव्यापार- जन्यफलवत्त्वसम्बन्धेन प्रथमान्तपदोपस्थाप्ये तण्डुलादौ वा प्रका- रत्वात् । एतेनानभिहिताधिकारकत्वानुपपत्तिकृततण्डुलं पच्यते- इत्यादिप्रयोगापत्तिरपास्ता। कर्तृकर्मनिष्ठसङ्ख्यानभिधानस्यैवा- नभिहिताधिकारार्थत्वात् । न च व्यापार एवाख्यातार्थ इति वाच्यम् । व्यापारत्वस्योपाधितया यत्नत्वजातेवाच्यतावच्छेदक- । - तर्कपादः। वे लाघवात् । अत एव न कर्ता वाच्यः । आक्षेपलभ्यत्वाच । तदुक्तम् । आक्षेप्यलम्ये सङ्ख्येये नाभिधानस्य कल्पना । सख्येयमात्रलाभेपि साकाङ्क्षण व्यवस्थितिः ।। अतो यत्न एवाख्यातार्थः । अयं च शाब्दवोधप्रकारः । प्रथमान्तपदोपस्थाप्यस्यैव मुख्यविशेष्यत्वम् । काख्याते फलं व्यापारे विशेषणं, कर्माख्यातेपि व्यापारः फले,जन्यत्वादि च संसर्गः। यत्नश्च प्रत्ययार्थः । तेन तण्डुलनिष्ठविक्लित्तिजनक- यत्नवान् देवदत्त इति काख्याते, देवदत्तनिष्ठकृतिजन्यव्यापा- रजन्यफलशाली तण्डुल इति कमाख्याते बोधः । फलमात्मनेप- दार्थः । निष्ठत्वं कृतिश्च द्वितीयातृतीयाद्यर्थः, संसर्गोवा, तेन स्मृतिरप्युपपन्नेत्याहुः ।। रत्नकोशकारस्तु व्यापारोधात्वर्थः । उत्पादनमाख्याता- थः । तेन रथो गच्छति जानाति नश्यतीत्यादौ न लक्षणा । उत्पादयतीत्यत्र प्रत्ययार्थोनुवादकः । अनुत्पादवाचिधातूत्तरमत्य- यस्य चोत्पादवाचित्वमित्याह । सिद्धान्तस्तु कृयो न यत्नार्थकत्वम् । बोजनाङ्कुरः कृतः स्वर्गादिना मुखं कृतमिति यत्न विनापि व्यवहारात् । कर्तृपद- स्य कर्मादिपदबबूढत्वात् । रुढिश्च कृत्याश्रये व्यापाराश्रये वा। अन्यथा भकृतिप्रत्ययार्थयोः कृति कृत्याश्रययोरनन्क्यापत्तिः । अतः कुवा विवरणेनाख्यातस्य यत्नार्थत्वं गर्भस्रावगलितम् । किं च यतते करोतीत्यत्र प्रकृतिप्रत्ययार्थयोरनन्वयापत्तिः पौन- रुक्तचं च । एषिष्यति द्वौ त्रय इत्यादाविच प्रत्ययस्यानुवादक- त्वं वा । अयत्नार्थकधातूत्तराख्यातप्रत्ययानां यत्नार्थत्वं वा । रथो गच्छनील्सादावचेतने जानाति इच्छतात्यादौ कृत्यजन्ये ..

१०४ भादृचिन्तामणे: चाख्यातप्रयोगस्य गौणत्वम् ! अनुकूलत्वमात्रे वा लाक्षणिकत्वं ब्राह्मणे श्रोत्रियपदस्येव कल्पयितुं युक्तम् । एवं मध्यमोत्तमपुरु- षयोयुष्मदस्मदोश्चेतनार्थकतया ऽचेतनार्थे ऽनुपपत्तिः । अतः मओ व्यापारो ऽर्थस्तेन विवरणाच्चाख्यातप्रत्ययानां तत्रैव श- क्तिः । एवं सति फलानुकूलव्यापारस्य धात्वर्थत्वेपि न यत्न- स्य तदर्थत्वम् । पाके यतते पाकं करोति पाकं भावयतीत्यादि- घु पाकात्पृथकरणेन यत्नभानानुपपत्तेः । अतो विवरणवेलायां भासमानस्य यत्नस्य धातुवाच्यत्वासम्भवात्फलजनकव्यापार- स्योक्तरीत्या वा व्यापारस्यैव धातुवाच्यत्वम् । न चान्ते त्य- जिगम्योः पर्यायता । तत्तद्धातुसमभिव्याहृतद्वितीयाया एव सं- योगादिरूपफलविशेषबोधकत्वाङ्गीकारात् । सर्वत्र फलानां द्विती- याद्यर्थत्वस्याश्रयत्वजन्यत्वादीनां च संसर्गलम्यत्वस्याङ्गीका- रात् ॥ के चित्तु विक्लित्यादिफलजनकतावच्छेदकतया व्यापार समुदायनिष्ठोन्तिमव्यापारनिष्ठो वा वैनात्यमखण्डोपाधिर्वा प- च्यर्थः । कर्मत्वकर्तृत्वादिकमपि जातिरूपमखण्डोपाधिरूपं वा । अत एव तस्य व्यासज्यवृत्तित्वं सङ्गच्छते । एवं देवतात्वम- पि । अतः प्रयोज्यव्यापारवाचिषु भवतिविक्लियतीत्यादिषु प्रयोज्यव्यापारजन्यत्वस्य प्रयोजकव्यापारवाचिषु पच्यादिषु विक्लिन्त्यनुकूलत्वादेराक्षेपेण भानाद्यन्नभिन्नफलानुकूलव्यापा- राणां तत्तद्वृत्तिजातेरखण्डोपाधेर्वा धातुवाच्यत्वम् । यत्नस्य तू- क्तरीत्या धात्वर्थत्वासम्भवात् पारिशेप्यात्प्रत्ययवाच्यत्त्वम् । त- त्रापि न यत्नत्वेन वाच्यता, किं तु अनुकूलव्यापारवाचिक- रोतिना विवरणाद्रथो गच्छत्तीत्यादिसाधारण्यायानुकूलव्यापार- त्वेन वाच्यता । करोनेश्च भवत्यर्थकर्तृकर्मकत्वाणिजन्तभव- ।

तर्कपादः। तिसमानार्थकत्वम् । तादृशकरोलिना विवरणेनान्योत्पादानुकू- लत्वेन यत्नएव शक्तिः सैव भावनेति ॥ के चिन्तु लघुभूतशक्यतावच्छेदके सम्भवति तद्गौरवस्या- न्याय्यत्वाद्यनार्थककृया विवरणाच यत्नत्वमेव वाच्यतावच्छे- दकम् । नन्वेवं करोतेर्यततिसमानार्थकत्वे फलसमानाधिकरण- व्यापारवाचितयाऽकर्मकत्वापत्तिः । उत्पत्तिरूपफलव्यधिकरण- व्यापारवामित्वेन ज्ञानादिवत्सकर्मकत्वे. तु यततेरपि सकर्मः कत्वापत्तिः। एधांञ्चक्रे इत्यादिवदनुपयोगापत्तिश्च । न च कृत्र चानुप्रयुज्यते लिटीति कृधातोरेवानुप्रयोगविधानान्न त- दापत्तिरिति वाच्यम् । अनेन प्रत्याहारान्त पातिव्यापारसामा- न्यवाचिधांतूनामनुप्रयोगविधानात् । अत एव प्रत्याहारान्तःम- विष्टसंपदो नानुप्रयोग इति चेत् । विवक्षाविवक्षाभ्यांधात्वोः स- कर्मकाकर्मकत्वे पच्यास्योरपि पचति मासमास्यतइत्यादापति- प्रसङ्गात्रोक्तं सकर्मकत्वम् । किं त्वविवक्षाविरहविशिष्टकर्माका- झधातुत्वं, तेन सकर्मके विशेषणाभावेनाकर्मकत्वस्य विवक्षा- सत्त्वेन सकर्मकत्वस्य चाक्षतिः । आकाङ्क्षायाः शब्दवैचित्र्यक- तत्वादेकस्य धातोरर्थभेदेन सकर्मकत्वाकर्मकत्ववत्पर्यायाणामपि तदव्याहतम् । एवमविवक्षाविरहविशिष्टकर्मद्वयाकाक्षधातुत्वं द्विकर्मकत्वमिति द्विकर्मकस्याप्येककर्मत्वे निनायेत्यादौन क्षतिः। अनुप्रयोगस्तु शब्दसामर्थ्यकृतव्यापारसामान्यवाचकव्यादिधा- तोरिवोपपादनीय इत्यस्तु प्रसक्तानुप्रसक्तम् । एवं च यततिप- योयत्वेपि कृनः सकर्मकत्वोपपत्त्या तदर्थयागादिरिध्युपपत्तेः क्रियते घटः स्वयमेवेत्यादिप्रयोगोपपत्तिः। अतो यत्नत्वमेवं वा- च्यतावच्छेदकमित्याहुः ॥ जानाति इच्छति यतते करोति भवति नश्यतीत्यादावा- ११० भाहचिन्तामणे श्रयत्वप्रतियोगित्वादौ निरूढलक्षणा । न चाश्रयत्वं संसर्ग इति वाच्यम् । नामार्थधात्वर्थयोरभेदातिरिक्तसम्बन्धेनान्वयस्याव्यु- त्पन्नत्वात् । अन्यथा तण्डुलः पचति चैत्रः पच्यते तण्डुल इत्या- दावन्वयबोधापत्तेः । शक्ततावच्छेदकं लत्वादिकं स्थानिवृत्ति । तिवादिप्रत्ययादर्थप्रत्ययस्त्वादेशिस्मरणादिति के चित् ॥ , अन्येतु स्थानिभूतलादिकमजानतोप्यर्थप्रत्ययाच्छवादीनां साधुत्वार्थ कल्पितत्वेन प्रतिव्याकरणं भिन्नत्वेन च तत्र शक्ति- ग्रहासम्भवाद् ओदशवृत्तितिप्त्वादिकमेव शक्ततावच्छेदकं, गं च्छेत्यादौ शबादिविकरणवृत्ति तदित्याहुः ।। तत्सिद्धं व्यापारत्वेन यत्नतेन वा प्रत्ययवाच्यो यत्नो भावनेति । स च नित्यं सकर्मकः । नित्यसकर्मकेन कृमा णि- जन्तभवतिना च विवरणात् । एवं च स्वास्थ्यकामः स्वपेदित्या- धकर्मकघातूनामपि स्वास्थ्यादिभाव्यकत्वोपपत्तिः । तस्य भाव- नायां कर्मलेनान्वयात् । तस्याश्च मुख्यविशेष्यत्वेनैवान्वयः । न च चैत्रः पचतीत्यादौ तस्याः प्रथमान्तपदोपस्थाप्ये चैत्रा- दौ मकारतयान्वयानुभवाद् न मुख्याविशेष्यत्वं सम्भवतीति वा- च्यम् । स्थाल्यो पचति काष्ठैः पचति खादिरं वीर्यकामस्य यूपं कु- योदित्यादौ प्रथमान्तपदाभावेपि शाब्दबोधानुभवेन भावनामका. रकशाब्दवोधे प्रथामान्तपदोपस्थितेर्हेतुत्वस्य वक्तुमशक्यत्वात् । न च तत्र मथमान्तकवाचिपदाध्याहारः । प्रत्ययवाच्यसंख्यायाः समानपदोपस्थाप्यकर्ज़न्वयसम्भवेनाध्याहारापेक्षया लक्षणाया ल- घुत्वेन चाख्याते कर्तृलक्षणाया एव युक्तत्वात् । एतेनाख्यातार्थ- विशेष्ये आख्यात तात्पर्यविषयविशेष्ये वा प्रथमान्तपदोपस्थाप्ये वा संख्यान्वयः । गगनेन स्थीयतइत्यत्र प्रथमान्वपदाभावात्संख्या नन्वितैवेत्यपास्तम् । काष्ठैः पचतीत्यत्राम्यनन्वयापत्तेः पचतीत्यत्र तकंपादः । कृतिविशेष्यकबोधस्वीकार ऽननुगमाच । आख्यातार्थविशेष्यत्वा- दिना हेतुत्वस्याख्यातजन्योपस्थितेहेतुत्वापेक्षया गुरुत्वाच्चांएवं च यत्र प्रथमान्तपदोपस्थाप्योस्ति तत्राप्याख्यातार्थकर्यभेदेन तस्यान्वयो, न तु भावनाविशेष्यत्वं, न च कारकाणानां भावनायां प्रकारकत्वेनान्वयो भावनायाश्च प्रथमान्तपदोप- स्थाप्यइत्यनेकव्युत्पत्तिकल्पनापत्तिः । एतेन कारकाणां धात्वर्थे तस्य वर्तमानत्वादीनां च भावनायां तस्याश्च प्रथमान्तपदो. पस्थाप्ये प्रकारकत्वेनान्वय इति परास्तम् । किं च पश्य मृगो धावतीत्यत्र दर्शनभावनायां धावनभावनाया एव कर्मवेनान्व- यः मृगस्य प्रथमान्तत्वेन तदनुपपत्तेः । अध्याहारे वाक्यभेदात् । सा चान्यविशेषणीभूता न सम्भवतीत्यतोपि मुख्याविशेष्य- त्वम् । न च मृगनिष्ठयत्नस्यानुमेयत्वेन साक्षाद्भावनाकर्मत्वं न सम्भवतीति वाच्यम् । ज्ञानकर्मत्वसम्भवात् । भावनाश्रयत्वस्थ तत्सम्भवाच्च । अत एकवाक्यत्वस्यानुपपत्त्यापि विशेष्यत्वम् । न चैवं पाकंभावना जायतइत्यस्मिन्नर्थे पचति भवतीति प्रयोगा. पत्ति, रिष्टापत्तेः । किं च भावप्रधानमाख्यातमिति स्मृतेर्भाव- नामाधान्यबोधिकायाः सार्थकत्व,मन्यथानर्थक्यापत्तिः । न च नेयं भावना प्राधान्यबोधिका, किंतु धात्वर्थः केवलः शुद्धो भावनेति वैयाकरणपरिभाषितधात्वर्थमाधान्यबोधिकेति वाच्य- म् । लिङ्प्रत्ययवाच्याख्यातशब्दसामानाधिकरण्यानुपपत्तेः । न च सर्वमाख्यातनं नामेति स्मृतेराख्यातपदेन धातुरेवोच्यत- इति वाच्यम् । पाक इत्यादावाख्यातपदाप्रयोगात् । नामान- र्वचने तु आख्यातपदन्तत्यकृतौ लाक्षणिकम् । तेनाख्या- तशब्दस्य धातुवाचित्वाभावात्मत्ययवाच्याख्यातपदसामानाधि- करण्यानुपपत्तिः । अतोऽत्र षष्टिस्त्रिष्टुभो माध्यन्दिनं सवनमिति- 1 भादृचिन्तामणेः वदनेकाख्यातार्थोद्देशेन भावनाप्रधानविधिः । तेनाख्यातवाच्य- लक्ष्यकालसङ्ख्याभावनाकर्तृकर्मसु भावनापाधान्यं विधत्ते । अन्यथा धात्वर्थनिरूपितप्राधान्यविधौ प्रकृतिप्रत्ययाविति स्मृ. तिप्राप्तत्वेनानुवादे आनर्थक्यापत्तिः । वैयाकरणपरिभाषणं तु न. पुंसके भावे क्त इत्यादौ धात्वर्थग्रहणमेव न स्वतलाद्यर्थग्रहणामि- त्येतदर्य; न तु भावपदशक्तिग्राहकम् । एवं सत्त्वप्रधानानि नामानीत्यत्रापि पावको लावक इत्याद्यनेकार्थनामसु लिङ्गसंख्या- न्वययोगिनः प्राधान्यबोधनम् । घटादिपदेपि- जातिव्यक्त्योरु- भयोरपि प्राधान्यम् । अत एव चाकृत्यधिकरणे जातिव्य. क्योर्बोधयमित्याहुः ॥ अतो ऽनेकार्थप्रतिपादकेष्वाख्यातेषु भावनाप्राधान्यनियमो भावप्रधानमाख्यातमित्यनयाँ स्मृत्या क्रियते । सत्त्वप्रधानानि नामानीति स्मृत्या ऽनेकार्थप्रतिपादकसु- बादिषु क्रियापदं विनान्वयबोधाजननात् । क्रियान्वयं विना कारकत्वव्याघाताच्च । प्रधानभूतक्रियान्वयित्वेन कर्तृत्वादिका- रकपाधान्यनियमः । कारकाणामेव प्राधान्यं संख्यादीनां प्रातिप- दिकार्थस्यापि प्रत्ययार्थप्राधान्यबोधकस्मृत्या कारकान्वयः । सं. ख्यादीनां तु समानाभिधानश्रुत्या तत्परिच्छेदद्वारा कारके एवा- न्वय इति चतुर्थे स्फुटम् । अतः सर्वकारकाणां भावनान्वयात् सिद्धं भावनाया मुख्याविशेष्यत्वम् ।। कारकाणां भावनान्वयश्च साक्षादसम्भवादात्वर्थपरिच्छे. दद्वारकः, तत्राभिहितकर्तृकर्मवाचिनी प्रथमेति मते प्रथमार्थकर्तृ- स्वादेर्भावनान्वयः । प्रातिपदिकार्थे प्रथमेति मते कर्तृत्वादिसंस- र्गेण चैत्रादेरेव तत्रान्वय इति के चित् । वस्तुतो लक्षणव युक्ता, निपातातिरिक्तनामार्थाख्यातार्थयोर्भेदान्वयासम्भवादिति । तत्र चाधिकारित्वमपि संसंग इति के चित् । एवं सम्बोधनविभक्ते- तर्कपादः। रपि प्रथमासमानार्थकत्वात्तदर्थोपि भावनान्वयी। एवं क्त्वाणमु- कृत्वसुजनघनाद्यर्थानां कालावृप्त्यभावादीनामपि भावनाया- मन्वयः । एवं निमित्तस्य कारकत्वाभावे ऽप्यनुष्ठापकत्वसत्त्वा- द्भावनान्वयः । षष्ठयास्तु कारकविभक्तित्वाभावात्तदर्थस्योपप- दार्थेनान्वय इति संप्रदायः ॥ अन्ये तु साक्षात्परंपरासम्बन्धेन भावनायामेव प्राधान्येना- न्वयो युक्त इत्यप्याहुः॥ एवं वर्तमानत्वादिकमपि । विध्यर्थोपि प्रवर्तना जनकता- सम्बन्धेन भावनान्वयी, संख्यायास्तु भावनाक्षिप्ताखण्डोपाधि- रूपकर्तृत्वकर्मत्वान्वयो, न तु तदाक्षिप्ततदाश्रयान्वयः। एवं च य- जेते त्यादावाश्रयभेदेपि एकवचनोपपत्तिः। वसानावित्यादौ प्रमा- 'णान्तरानुरोधाल्लक्षिताश्रये तदन्वयः । तत्र शब्धिकरणस्थळे क- तलान्वयो यगाादविकरणे कर्मत्वान्वय इति व्यवस्थेति सं- भदाय: ॥ के चिन्तु स्थीयते सुप्यतामित्यादौ भावनायामेव संख्या- न्वया । प्रधानान्वयस्य युक्तत्वात् । न चैवं कृतौ संख्यान्वये त. स्थाः सत्त्वतापत्तिः । इष्टत्वात् । तत्रापि स्मृतिवोधितप्राधान्या- क्षतेः । न हाय स्मृतिरसत्त्वभूतस्य प्राधान्यबोधिका, संख्यायाः प्राधान्यप्रसङ्गात । न च भावनाद्वये द्विवचनापत्तिः । एकवचन स्यैव साधुत्वात् । अतो युक्तः परंपरया भावनान्वयः । गगनेन स्थीयतइत्यादावाख्यातलक्ष्ये आश्रयत्वे संख्यान्वयो ऽनन्वितैव वा संख्येत्यप्याहुः ॥ कर्तृत्वकर्मत्वयोरपि भावनायामन्वयः, तत्र काख्या- ते आख्यातलक्षितकर्तृत्वस्य सामानाधिकरण्येन कर्माख्याते तद्वाच्यप्रयत्नप्रयोज्यतया लक्षितफलस्य सामानाधिक रण्येना- Dai PATRA sani JANAMAT S १५ १ भादृचिन्तामणेः त्वयः । तदाक्षिप्ताश्रयाभेदेन प्रथमान्तोपस्थाप्यान्वयः। एवञ्च तण्डुलाभिन्नाश्रितत्वकर्मत्त्वसमानाधिकरणफलपयोजको व्या- पार इति कर्माख्याते, काख्याते देवदत्तनिष्ठकर्तृत्वसमानाधि- करणः पाकानुकूलो यत्न इति बोधः । कर्तृत्वं च तृतीयार्थः । एवमोदनः पच्यत स्वयमेवेति कर्तृकर्माख्याते मोदननिष्ठयोः कर्तृत्वकर्मत्वयोविवक्षणादोदननिष्ठकर्मत्वसमानाधिकरणफलप्र- योजकांदननिष्टकर्तुत्वसमानाधिकरणपाकानुकूलभाक्नेति बोध:- सत्र कृतेर्वाधावयापारे लक्षणा । न चैवमोदनः स्वं पचतीति प्रयो- गापत्तिः । कर्मवत्कर्मणा तुल्यक्रिय इति यगादिविधानेन ता- शस्यासाधुत्वात् । अत एव तत्र चैत्रे न प्रथमा न तृतीया, किं तु षष्ठीति सम्पदायः । तस्माद्भावप्रधानमाख्यातमिति स्मृत्यैव सर्वकारककर्तृत्वादिनिरूपितं च प्राधान्यं भावनाया इति सिद्ध- म् । किं चानयैव स्मृत्या प्राधान्ये भावनाया बोधिते प्रधानस्य गुणाक्षेपकत्वनियमेन भावनाया एव कर्तृत्वकर्मत्वाक्षेपकत्वं युक्तं न वैपरीत्यम् । अनन्यलभ्यस्य शब्दार्थत्वाच नाक्षेपलभ्ये कर्तृ- त्वादौ शक्तिः। किं त्वाक्षेपककृतावेव । अत एव यत्र नाक्षेपक- त्वं, तत्र नानव शक्ति, यथा संख्यादौ । न चैवं पक्ता पचमानः पक्क इत्यादिकर्तृकर्मकृतामपि भावनाबाचित्वं लाघवादिति वा- व्यम् । नामार्थयोभैदान्वयानुपपत्ते, रतस्तत्र कर्तरि कृदित्याध. नुशासनिकी आश्रये शक्तिः । न चाक्षेपेण तद्बोधो लक्षणया वा, शक्तथा क चिदप्यप्रयोगे शक्तयज्ञानेन लक्षणाया असिद्धः । अत- स्तत्र नामत्वेन सत्त्वप्राधान्यबोधकस्मृत्या लिङ्गसंख्यान्वययोग्य- स्य प्रधानमतस्य कृत्याक्षिपकत्वबोधनम् । न च कृतौ लक्षणा कर्तरि शक्तिः । लाघवस्यापि प्राधान्यविरोधित्वेनामयोजकत्वात् । त- सिद्धं कर्तृकर्मकृतां कृतिबोधशक्तिरिति ॥

PANCE । तर्कपादः । भावकृतां तु पाको बाग इत्यादौ जायतेक्रियतइत्यादिक- तिवाचिपदाध्याहारेण बोधोऽन्यथा धात्वर्थमात्रप्रतीतेस्तत्र का. रकान्वयानुपपत्तेः । अतस्तत्र धात्वर्थमात्रे शक्तिः । कृतेस्त्वाक्षे- प एवेति सिद्धम् । अतो धात्वर्थातिरिक्ता कृतिरूपा भावना ऽऽख्यातार्थः । आश्रयस्त्वाक्षेपलभ्यः।आक्षेपलभ्यत्वादेव वैया. करणोक्तं कर्तृकर्मवाचित्वमपास्तम् । लः कर्मणि च भावे याकर्म- केभ्य इति.स्मृतिरपि ल इति षष्ठयन्तमाश्रित्य द्वयेकयोर्द्विवचनै- कवचने बहुषु बहुपचनमित्यनुशासनैकवाक्यतया लादेशतिवा- दीनां कर्तृकर्मगतैकत्वादिविवक्षायामेकवचनादिविधानपरा व्या. ख्येया। अनभिहिताधिकारस्मृतिरपि कर्मादिमतसंख्यानभिधाने द्वितीयातृतीयादिविधानपरा । कर्तरिकृदिति स्मृतिस्तु नामा. र्थयोर्भेदान्वयानुपपातिभयेन न कृत्यभिधानपरा । किं तु कत्रभि. धानपरवति दिक् । यागाद्यसत्त्वमचिरस्थितिकं च यस्याः सम्बन्धतः फलभुवः फलदायि जातम् । दध्यादिसत्त्वमपि यत्करणत्वतो ऽत: सा भावना रघुपतेः पदयोर्मम स्यात् ।। इति गागाभदृकृतभादृचिन्तामणौ. आख्यातवादः समाप्तः॥ लटो वर्तमानत्वे शक्तिः । वर्तमाने लडित्यनुशासनात् । तच वर्तमानत्वं लट्मयोगाधिलरणकालसम्बन्धित्वं लट्शब्दप्रयो- गाधिकरणकालोपाधित्तित्वं वा । अतीतभविष्यत्कालातिरिक्त- कालसम्बन्धित्वं वा । एवं च तक्रियाप्रयोगप्रयोज्यशाब्दा- धिकरणतत्तत्काल एव वर्तमानकालः । तत्तत्कालकृतिषु वर्त- RERAKHPTrian । भादृचिन्तामणे: मानत्वव्यवहारः । अननुगतस्यापि शब्दैक्यमात्रेणेवानुगम इति। यी तदादिसर्वनामार्थो ऽननुगत एक, बुद्धिस्थत्वेनानुगमे बु. देरप्यननुगमस्तबुद्धेश्वाननुगम इति । एवं यत्र न प्रयोगाधिक- रणकालस्तत्रापि लिप्यादिजन्यप्रयोगज्ञानसत्त्वात्तत्कालज्ञानम. व्याहतम् । परे तु वर्त्तमानत्वादिकं क्व चिदुत्पत्तौ क्व चिदेक- देश क्व चित्कृतौ क्व चिदाश्रयत्वे क्व चिदभावे ऽन्वति । तेन आदिपर्वणि युधिष्ठिरोस्ति इह कुमाराः क्रीडन्ति पचति जानाति क्वास्ति देवदत्त इत्यादिप्रयोगः । ईश्वरो जानाती- त्यादौ वर्तमानत्वमनन्वाय, दैवतैः स्थीयतइति प्रत्ययार्थैकत्ववत् आहार्यशाब्दबोधो चा । संग्रहश्च । अप्रवृत्तौ परश्चैव वृत्तौ विरत एव च ॥ नित्या प्रवृत्तः सामीप्ये वर्तमानश्चतुर्विधः ॥ इति । अस्यार्थः । लडों वर्तमानत्वं प्रवृत्त्यभावे ऽन्वति । यथा मांसं न भुङ्क्ते, मांस भोजने निवृत्त इति । इह कुमाराः क्रीड- न्तीत्यत्र क्रियाया धारावाहिकत्वे, तिष्ठन्ति पर्वता इत्यादौ क्रि- याया नित्यनिवृत्तत्वे । तच्च बहुकालव्यापित्वात् । सामीप्ये तु कदा त्वमागमिष्यसि गमिष्यसि वेति पृष्टे एष आगच्छामि गच्छामीति वोत्तरे बोध्यम् । अत्र सर्वत्र शक्तिलक्षणा वा । तथा मन्यतेरुत्तमपुरुषकवचनस्य प्रहासे शक्तिः । अतादृशत्वेन जानत- स्ताहशत्वकथनं प्रहासः। तथा पुरापदयोगे भविष्यदर्थे लटः। पहा- सादिकं व्यञ्जनागम्यमित्यालङ्कारिकाः ।। अनद्यतनभूतपरोक्ष- त्वं लिडर्थः । अनद्यतने भूते इत्यनुवृत्तौ परोक्षेलिडिति पाणिनी- यसूत्रात् । वर्तमानाहोरात्रवृत्तिमागभावध्वंसान्यतराप्रतियोग्यु- त्पत्तिकत्वमद्यतनत्वम् । तद्भिन्नत्वमनद्यतनत्वम् । भूतत्वं वर्तमान नध्वंसप्रतियोगित्वम् । साक्षात्करोमीत्येतादृशाविषयताशालि- ।

तर्कपादः। • ११७ ज्ञानाविषयत्वं परोक्षत्वम् । तच्च क्रियानिष्ठं क्रियाविशिष्टकार- कनिष्ठं वा । क्रियायाश्च पिण्डीभूतायास्तादृशप्रतीतिविषयत्वासं. भवेप्यवयवशस्तत्संभवात् । अत एव पश्य मृगोधावतीत्यत्र धाव- नस्य धावनाश्रय कारकस्य वा तादृशज्ञानविषयत्वान लिट्पयो- गः । व्यातेने किरणावलीमिति भूतत्वारोपेणोपपादनीयम् ॥ अनद्यतनभविष्यत्वं लुडर्थः । भविष्यतीत्यनुवृत्तौ अनद्यतने लुडितिपाणिनीयमूत्रात् । यथा श्वो भवितेति । भविष्यत्सामान्य लूटोर्थः । यथाद्य वो वा घटो भविष्यतीति । एवं च दर्शपूर्ण- मासावारप्स्यमानोबारम्भणीयां निर्वोत् सोमेन यक्ष्यमाण आदधीतेत्यादौ लडादेशशानचः साधारण्ये जपे लट् शेषे चेति सूत्रेण वाक्यसार्थक्याय चाद्यतनभविष्यत्परत्वम् ।। लिङर्थे ले- डिति सूत्रात् विध्यादय आशीश्च लेडर्थः । यथा भवाति प- तातीति । अयं तु छन्दोमात्रगोचरः ॥ विध्यादय आशीश्च लो- डर्थः । लोट् च अशिपिलिङ्लोटाविति पाणिनीयसूत्रात् । यथा मा भवतु भवतादिति । तुह्योस्तातङ्ङाशिष्यन्यतरस्यामिति सू- त्रेण आशिषि तातविधानात् ।। अनद्यतनभूतत्वं लङो ऽर्थः । अनद्यतने लङिति पाणिनीयसूत्रात् । यथा घटो ऽभवत् ।। विध्यादिकं लिङाः । विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नपार्थ- नेषु लिङिति सूत्रात् । भृत्यादेनिकृष्टस्य प्रवर्त्तनं प्रेरणं विधिः । निमन्त्रणमावश्यके श्राद्धादौ नियोगकरणम् । आमन्त्रणं काम- चारानुज्ञा । अधीष्टः सत्कारपुरस्सरं प्रवर्तनम् । अत्र तत्तत्वेन न शक्तिः । नानाशक्तिकल्पनापत्तेः । किं त्वेतच्चतुष्टयत्तिप्रव- तैनात्वेन, प्रवर्तनात्वं च परनिष्ठपत्तिजनकज्ञानविषयप्रवर्तक- धर्मत्वम् । एतेष्टसाधनत्वकृतिसाध्यत्वबलवदनिष्टाननुबन्धि- खानां प्रवर्तनात्वाभावेन रिध्यर्थत्वं वदन्तः परास्ताः । मण्डन.

११८ भादृचिन्तामणे स्तु यागादौ कृतिसाध्यताज्ञानस्य लोकत एव सिदेरन्थलभ्य- त्वान्न तत्र लिङः शक्तिः । बलवदनिष्टाननुबन्धिज्ञानं च द्वे- पाभावजननेनान्यथासिद्धत्वान्न प्रवृत्ती हेतुः । अत एव कामु. कस्य नरकसाधनताज्ञानदशायां प्रवृत्तिार्निराबाधा । अत इष्टसाधनत्वमेव प्रवर्तनेत्याह । कार्य लिङर्थ इति गुरवः । इष्टसाधनवादीनामाक्षेपतो लाभात्पदार्थान्तरं प्रवर्तना, तत्र लिङः शक्तिरिति भट्टाः । अर्थभावनाभिधानुकूला शक्ति- रेव प्रवर्त्तनेति पितृचरणाः । कार्यकारणभावश्च लियः । हेतुहेतुमतोलिङिति सूत्रात् । यथा यो ब्रामणायावगु- रेतं शतेन यातयादिति ॥ भूतसामान्यं लुङमः । भू. तइत्साधिकारे लुङिति सूत्रात् । यथा घटोभूदिति ॥ अनिष्यत्रयोः क्रिययोहेतुहेतुमद्भावो लुङर्थः लिनिमित्ते लुङ्क्रियातिपत्ताविति सूत्रात् । लिको निमित्तं हेतुहेतुमद्भावः । यथा मुष्टिश्चेदभाव- ष्यत्सुभिक्षमप्यभविष्यत् । यदिघटो ऽभविष्यत्तदाद्रक्ष्यदिति । इति गागाभट्टकृते भादृचिन्ता मणौ लकारवादः समाप्तः ॥ अथ प्रातिपदिकार्थों निरूप्यते । घातुप्रत्ययतदन्तभिन्नत्वे सति अर्थवच्छब्दत्वं प्रातिपदिकत्वम् । अर्थवदधातुरमत्ययः प्रातिपदिकामेति सूत्रात् । विभक्तयन्तानां तत्संज्ञावारणाय प्र. स्ययान्तेति । एवं च पूर्वनिपातितेषदसमाप्त्यर्थकबहुमत्यययुक्त- बहुपटुशब्दस्य प्रातिपदिकसंज्ञा । तत्र तद्धितान्तत्वाभावेन त- संज्ञायाः कृत्तद्धितेति सूत्रेणालाभात् । तद्धितयोगमात्रविवक्षायां पचतकी त्यत्राकचमत्यययुक्तेपि तदापत्तेः । न चैव कृत्तद्धितान्ते- षु अनर्थकश शश्रृङ्गादिसपासेषु प्रातिपदिकत्वं न स्यादिति HAR - तपादः । वाच्यम् । कृत्तद्धितसमासाश्चेति सूत्रेण तत्र संज्ञाविधानात् ।। अन्ये तु अर्थवत्सूत्रेण वाक्यसमासयोरपि संज्ञामाप्तौ कृत्सू- त्रेण समासेषु पुनः संज्ञाकरणं वाक्यपरिसंख्यार्थमित्याहुः॥ तच्च प्रातिपदिकं चतुर्धा पूर्वमुक्तं, रूढं यौगिकं योगरूढं यौगिकरूढं चेति । तच्चतुर्विधमपि जातिगुणक्रियायदृच्छाशब्द- भेदाच्चतुर्विधमिति महाभाष्यकाराः । वस्तुनिर्देशशब्दावधिका- पिति चन्द्रालोककारः। सर्वेषु द्रव्यवाचकघटादिपदेषुजातिरेव वा- च्या, वाच्यतावच्छेदिका वा । इदं चाग्रे स्फुटीकरिष्यते । नी- लशुक्लादिपदेषु गुणपदसमानाधिकरणेषु गुणिवाचिसमानाधि- करणेष्वपि गुण एव वाच्यो न नीलत्वत्वादिजातिर्गणिनि तद- भावात् । नापि गुणी, गौरवात् । लक्षणया सामानाधिकरण्या- धुपपत्तेश्च । वाच्यतावच्छेदको वा गुणः । एवं पाचकादिपदे पाकक्रियैव वाच्या, तस्या एव प्रतीतेः । तस्याश्चैकत्वाद्वाच्यत्वं वाच्यतावच्छेदकत्वं वा । एवं दण्डीत्यादौ दण्डसम्बन्धो वा- च्यो वाच्यतावच्छेदको वा । पाचकादिपदे पचनस्य विशेष- णत्वेन भानादिह बण्डसम्बन्धस्य विशेषणत्वेन भानाद्भदः । डित्यादियदृच्छाशब्देषु शब्द एव वाच्यो वाच्यतावच्छेदको वा । एवं कंसपरिक्षितचामुण्डादिपदेषु निर्देश एव वाच्यः श- क्यतावच्छेदको वा, निर्देशश्च वाचकवर्णानां स्वपरत्वम् । यथा कंस इत्यत्र कङ्कारसकारावेव कंसपदे प्रतीयते। तत्र नरक. पदान्तर्गतसानुस्वारककारण नरकमतीतिः समाश्रितपदान्तर्ग- तसकारेण च समाश्रितप्रतीतिः । तेन स्वोपस्थाप्यसानुस्वारक- कारसकारवत्पदवत्त्वसम्बन्धेन ककारसकारोवेव वाच्यौ वा- च्यबावच्छेदको वेति । एवं चामुण्डादिपदेषि चण्डमुण्डानयन- वन्त्वादिसम्बन्धेन वर्ण त्रयमेव शक्यं शक्यतावच्छेदकं वा । एवं HALI -- HARYANA S १२० । भादृचिन्तामणे परिक्षितादिपदे परिक्षीणे कुले जात इत्यादिसम्बन्धन तत्तद्वर्ण- चन्त्वं बोध्यम् । एतेषु च जातिगुणाक्रियासम्बन्धासिद्धर्न जा- त्यादिशब्दत्वं, नापि यदृच्छाशब्दत्वं सम्बन्धप्रदर्शनात् । नापि यौगिकत्वं, पिण्डान्तिःप्राविधार्थवाचकावयवारब्धत्वासम्भ- वात् । नापि लक्षणा, सम्बन्धाग्रहात् । द्विरेफपदस्य भ्रमरपदादौ रेफद्वयसम्बन्धज्ञानसन्त्वाद्युक्ता लक्षणा । नापि लक्षितलक्षणा, लक्षणाया अभावात् । अतस्ते वर्णा एव शक्यतावच्छेदकाः श- क्या वति ॥ अत्र के चित् । व्यक्तिसंकेतपक्षे सर्वासु व्यक्तिषु सङ्केत एको नाना वा । माद्यः । आनन्त्यात् । नान्यो, व्यभिचारा- पत्तेः । गौः शुक्लश्चल इत्यादिपदानां व्यक्तथैक्येनार्थ भेदाभा- वात्सहप्रयोगानुपपत्तेश्च । अतो धर्मएव शक्तिः । हेतुता ऽपिश क्तिग्रहस्य तत्तत्पदत्वधर्मितावच्छेदककगोत्वप्रकारकनिश्चयत्वे. न । नत्र जातौ च निरवच्छिन्नैव प्रकारतति लाघवम् । अन्य. था गोत्वधर्मितावच्छेदकतत्तत्पदप्रकारकनिश्चयत्वेनं हेतुतायां तत्तत्पदत्वस्य प्रकारतावच्छेकतया गौरवामिति जातादेव शक्ति. युक्ता । आकाशादिपदे अनन्तशक्तिकल्पनाभावेन न धर्मे शक्तिः। एवं च सर्वत्र नानानीलपीतरूपव्यक्तिषु वर्तमाना नीलत्वपीत- त्वादिजाति लपीतादिपदवाच्या। चलनेत्यत्रापि चलनक्रिया- निष्ठा जातिरेव । डिस्थादिशब्दानामपि बालाद्यवस्थापरिणते नानाविरुद्धधर्माध्यासाद्भिनडित्याद्यर्थनिष्ठा डित्थत्वजातिरेव वाच्येति वालवृद्धशुकोदीरितशब्दभेदेन शब्दनिष्ठेच जाति- च्येत्यपि के चित् ॥ तत्राप्येवं विभागः । जातिरेव नामार्थ उक्त युक्त्या आक्षे. पाच्च व्यक्तिलाभः । अर्थापत्तिः समानवित्तिवेद्यत्वं वा ऽऽक्षे- तर्कपादः। १२१ पः निरूढलक्षणा वा । तेन वृत्त्या प्रकृत्युपस्थाप्यत्वस्प प्रकृत्य- र्थत्वान्न प्रत्ययार्थान्वयाउनुपपत्तिः ॥ "शक्यादन्येन रूपेण भाने भवति लक्षणा" इति नियमस्याप्रयोजकत्वादिति । एवं च घटशाब्दबोधे घटत्वशक्तिज्ञानत्वेन कारणतायां लाघवम् ।। अन्ये तु सर्वत्र व्यक्तिरेव पदार्थः । अशक्याया अपि जातेरुपलक्षणतया तदुपलक्षितव्यक्तिशक्त्यङ्गीकारेण न व्यभि- चारानन्तशक्तिकल्पनादिर्दोषः । तदुक्तम् । आनन्येऽपि हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति ॥ इति ॥ परे तु जातिविशिष्टा व्यक्तिर्वाच्या । अन्यथा घटत्वांशे शक्तयभावेन घटत्वादेर शाब्दविषयत्वासम्भवात् । न च घटविशेष्यकघटत्वप्रकारकबोधे जातिशक्तिज्ञानत्वेन व्य- क्तिशक्तिज्ञानत्वेन वा हेतुत्वान्नायं दोष इति वाच्यम् ।'द्रव्यादिप- दानामप्येवमापत्तौ घटादिपदाद व्यत्वप्रकारकबोधापत्तेः।नच पदज्ञानस्य सम्बन्धिज्ञानविधया हेतुत्वेन येन रूपेणोपस्थितयोः स- म्बन्धस्तेन रूपेणोपस्थापकत्वनियमः। एवं च घटत्वांशे शक्त्यग्रहे- पि तेनैव रूपेणोपस्थितिरिति वाच्यम् । उपस्थितस्याकाशादेरपि अन्वयापत्तरिति । एवं च द्विकं प्रातिपदिकार्थ इति । यद्वा जातिव्य- क्तिलिङ्गानीति त्रिकमर्थः । लिङ्गं द्वेषा, शास्त्रीयव्यवहारहेतुलौकिक च । अवयवसंस्थानविशेषकत्वमन्त्यं तत्तद्वयक्तिविशेषनिष्ठं व्यव- स्थितम् । इयं व्यक्तिरयं पदार्थ इदं वस्त्विति सर्वत्र व्यवहारादव्यव- स्थितंलिङ्गात्रतयनिबन्धनकार्योपयुक्तमाद्यम् ।तच्च सत्त्वरजस्तमो- गुणानां वृदयपचयस्थितिरूपमिति पतञ्जलिस्वामिनः । स्त्रीत्व- पुंस्त्वनपुंसकत्वादि जातिरेवेत्यन्ये । तत्र लौकिके लिङ्गे शक्तिः। THEIRAL RAMINS HTRA SHARMA . Rekha TATCOM JANA HARVA --- HAREL RANIER Hindi RASNA १६ १२२ भादृचिन्तामणे अलौकिके गौण्या प्रयोग आसेपात् । पशुना यजेतेत्यादौ मु- ख्यपुंस्त्वविवक्षणान स्त्रीपशुना यागमसङ्ग इत्याहुः ॥ अन्ये तु पशुशब्दस्य लिङ्गत्रयसाधारण्येन प्रयोगपि मान्त्रवर्णिकच्छाग पदस्य व्यवस्थितप्रयोगेन लौकिकपुंस्त्वे शक्तिमादाय दोषो. द्वार इत्याहुः ।। यद्वा शास्त्रीय लिङ्ग शब्दनिष्ठमेव, लौकिकं त्व थनिष्ठं, तत्रानिष्ठे शक्तिः । कुमारब्राह्मणपदानां तत्रैव प्रयो- गात् । अत एव प्रास्मा अमिं भरतेत्यत्रोपस्थितव्यक्तिगतपुंस्त्वे शक्तिस्वीकारात्केवलमेष्यामूहः । शब्दगते लक्षणति । अत्र टा. बादीनां ङीवादीनां शीप्रभृतीनां द्योतकत्वमस्मिन्मते । ङीवा- दीनामेव वाचकत्वमित्यपि के चित् । यद्वा जातिव्यक्तिलिङ्गसं- ख्या इति चतुष्कं प्रातिपदिकार्थः । दधि पश्येत्यादौ प्रातिप- दिकादेव तत्प्रत्ययात् । एवं च विभक्तोतकत्वमात्रम् । तेनैव च नामार्थप्रकारकशाब्दबोधे सुवादिजन्योपस्थितेहेतुत्वनिर्वाह इति दिक.॥ एतत् सर्व महाभाष्ये सरूपाणामेकशेष इति सूत्रे स्पष्टम् ॥ आलङ्कारिकास्तु "विषयत्वमनादृत्य शब्देनार्थः प्रकाश्यते" इतिमतावष्टम्भेन पञ्चकं प्रातिपदिकार्थः ॥ परे तु शब्दस्यापि प्रातिपदिकार्थत्वात्षट्क प्रातिपदिका- थः । तथाहि । गामुच्चारयेत्यादिलौकिकप्रयोगे शिपिविष्टवती. पु स्थन्तरं गायतीत्यादिवैदिकपयोगे च शब्दोपि भासतइति निर्विवादम् । वृत्तिविषय एव शाब्दबोधे विषय इति नियमः । तथा च शब्दस्यापि शब्दशक्तिविषयतया भानमङ्गीकार्यम् । तत्र घटादिपदे शब्दनिरूपितापि शक्तिभिन्ना कल्प्यतइति के चित् ॥ MAHARAULIFLORAM । तर्कपादः। अन्ये तु शक्तिविषयो ऽर्थों भासते, शक्तिविषयत्वं चा- श्रयतानिरूपकतान्यतरसम्बन्धेन शक्तिमत्त्वम् । तथा चार्थशक्ति- ज्ञानेनैव पदस्यापि भानम् । तेन घटादिपदानां शक्तिसम्बन्धेन घटत्वादिवत्पदमापि शक्यम् । एतावांस्तु विशेषो यत्सम्बन्ध. स्योभयनिरूप्यत्वेन सम्बन्धिद्वयोपस्थापकत्वाविशेषाद् घटत्वा- बरच्छिन्नशक्तथैव घटादिवच्छब्दस्यापि तथैव वृत्त्योपस्थिती सत्यामर्थबोधे तात्पर्य सति तत्र विशेषणतया स शब्दो भासते । तत्रापि घटत्वादिरूपेण विशिष्य शक्तिग्रहवां पदर्जात्युभयम. कारकबोधः । नलयुधिष्ठिरादिपदवद्विशिष्य शक्तिमहाभावे तु व्यक्तिविशेष्यकः केवलपदप्रकारको नलपदाच्यः काचिदित्या- द्याकारको बोधः । यत्र तूतोदाहरणेषु शब्दमात्रे तात्पर्य तदा • तत्र शक्तया शब्दस्वरूपस्य.माधान्येन भानमिति । एवं च क्व चित्तात्पर्यवशाच्छन्द एव प्राधान्येन भासते क्व चित्तदभा. वे ऽर्थविशेषणत्वेनेति सिद्धम् । अत एवानिहोत्रं जुहोतीत्यादौ तस्य विशेषणत्वेनान्वयादाग्नहोत्रनामकेनेति बोधः । एतेनाग्नि- होत्रनामके निरूढलक्षणेति निरस्तम्, अनुपपत्त्यभावात्, मत्वर्थ- लक्षणातौल्पेन सिद्धान्तानुबन्धाच, अतः शब्दोपि वाच्यः । एवं च उदेति सविता तामूस्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥ इत्यादौ रक्त एवास्तमेतीति यदा क्रियते तदा पदान्तर- प्रतिपादितः स एवार्थार्थान्तरतयैव प्रतिभासतइति काव्यप्रका- शोक्तिः सङ्गच्छते । अतः षटकं मातिपदिकार्थ इति । तदुक्तम्। "ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते' इति दिक । FAS SALMAAN HEAL ANCE SHATSACH भाचिन्तामणेः इति मातिपदिकार्थनिरुक्तिः॥ अथ सुविभक्तयों निरूप्यते । तत्र प्रथमाषष्टीवर्ज स. विभक्तयःकारकाणि । तत्र "प्रातिपदिकार्थलिङ्गपरिमाणवचन मात्रे प्रथमा" लिङ्गपरिमाणवचनानां लिङ्गत्वपरिमाणत्वसंख्यात्व. मकारकशक्तयालिङ्गादिषु प्रथमायाः शक्तिः । मातिपदिकार्थ इ- ति व चित्पथमाया अर्थो नास्तीति सूचनाय। पुमान् देवदत्तः द्रोणो वीहिः एको घट इत्यादौ पुंस्त्वद्रोणत्वैकत्वानां प्रातिपदि- कार्थानां देवदत्तादौ न समवायसम्बन्धेनान्वयः सम्भवति । नामार्थयोर्भेदान्वयस्याव्युत्पत्तेः । अतो लिङ्गादिकं प्रथमार्थः । तत्र च प्रातिपदिकार्थानां पुंस्त्वादीनामभेदेनान्वयः, विभक्तय- र्थश्च देवदत्तादौ प्रकारतयान्वेति । एवं च पुंस्वाभिन्नलिङ्गवा- न् देवदत्तः । द्रोणाभिन्नपरिमाणवान् व्रीहिः । एकत्वाभिन्नसं. ख्यावान् घट इत्यादिबोधोपपत्तिरिति वैयाकरणाः ॥ अत्राहुः । नामार्थयोरभेदान्वयव्युत्पत्तिरक्षणाय विभक्तच. थमातिपदिकार्थयोरभेदान्वयव्युत्पत्तिकल्पनं न युक्तम्, किं चैवं सति नामार्थयोरभेदान्वयः क्वापि न स्यात् । प्रातिपदिकार्थ- खेन प्रातिपदिकार्थे प्रथमायाः शक्त्या नीलो घट इत्यादावपि नीलाभिन्नप्रातिपदिकार्थस्य समवायसम्बन्धेन घटे ऽन्वयात् । न चेष्टापत्तिः । प्रातिपदिकार्थत्वस्य शक्यतावच्छेदकत्वे गौरवात् । किं च तण्डुलः पचतीत्यादावपि प्रातिपदिकार्थरूपविभक्त्यर्थ- स्य कर्मत्वसंसर्गेण पाके ऽन्वयापत्त्या ततो ऽपि बोधाप- त्तिः। नहि विभक्त्यर्थस्यापि धात्वर्थान्वये निरूपितत्वादिवत्क- मत्वस्य संसर्गतया भाने किं चिद्वाधकमास्त । अतः प्रातिप- दिकार्थेन विभक्त्यर्थस्याभेदातिरिक्तसम्बन्धेनान्वयबोधो ना- स्तीति व्युत्पत्त्यन्तरकल्पने गौरवम्, अतो नेदं शक्तिग्राहकं क । वर्कपादः। १२५ तु प्रथमोचारणे ऽन्यायस्याभावाद् नेयं कारकविभक्तिरिति मू- त्राशयः । एवं च मात्रपदं सङ्गच्छते । शक्तिग्राहकत्वे मात्रपदवै- यीप्रसङ्गः । एवं सम्बोधनेचेत्यत्रापि सम्बोध्यत्वे प्रथमाया न शक्तिरुच्यते । हे देवदत्त पचेत्यत्रापि सम्बोध्यस्य विभक्त्य- र्थस्य धात्वर्थ कर्तृत्वेनान्वयापत्तेः । तेनामन्त्रितादिसंज्ञान्तरमयु. तकार्यप्राप्त्यर्थ सम्बोधने चेति सूत्रम् । संबोधने या प्रथमा सा आमन्त्रितमिति सूत्रार्थः । अतो न प्रथमायाः किं चिद्वाच्यं, किं त्वाख्यातायुक्तार्थानुवाद इति दिक ॥ एवं षष्ठयपि षष्ठीशेषे इति सूत्रेण विहिता न कारकवि- भक्तिः। शेषे उक्तकर्मत्वादिद्वितीयाद्यर्थभिन्ने सम्बन्धमात्रे प- ष्ठीति सूत्रार्थः । एवं च सम्बन्धे षष्ठयाः शक्तिः। सम्बन्धत्वं 'शक्यतावच्छेदकं, चैत्रस्य धनमित्यादौ सम्बन्धप्रकारक एव बोधः । स्वत्वस्वामित्वविषयत्वसाध्यत्वजनकत्वादिविशेषे तु लक्षणा । एवं सर्पिषो जानीते मातुः स्मरतीत्यादौ सम्बन्धत्व- प्रकारक एवं बोधः । तात्पर्यग्रहाच्च विशेषबोधो लक्षणया मानसो वेति जीर्णाः ॥ नव्यास्तु षष्ठयाः स्वत्वादौ शक्तिः । चैत्रस्य धनमित्यत्र निरूपितत्वस्वत्वादिप्रकारक एव बोधः । एवं चैत्रस्य न धन- मित्यत्रं चैत्रनिरूपितस्वत्वामाश्चद्धनमिति बोधः । स्वामित्वं वा षष्ठ्यर्थः । चैत्रनिष्ठस्वामित्वनिरूपकं धनमिति बोधः, चैत्रस्य न धनमित्यादौ चैत्रनिष्ठस्वामित्वनिरूपकत्वाभाववद्धनमिति बोधः । एवं घरस्थाभाव इत्यादौ प्रतियोगित्वादिकं, घटपति- योगिको ऽभाव इति बोधः । एवं स्वत्वादिविशेषे आनुशासनि- की शक्तिमाहुः ।। तन्न । नानाशक्तिकल्पने गौरवात् । अनुशा- सनानां लाक्षणिकत्वेनाप्युपपत्तेः । समभिव्याहारविशेष लक्षणा: ।

- - १२१ भाहचिन्तामः नियमार्थानि चानुशासनानि । सेनान्यत्र लक्षणया ऽपि न प्रयोगः । यथा। "सोविदर्यस्य करणे" । ज्ञानभित्रार्थकजानातिसमभिव्या- हारे करणत्वे षष्ठी । सर्पिषो जानीते, सर्पिषोपायेन भक्षय- तीत्यर्थः ॥ "अधीगर्थदयेशां कर्मणि" । स्मृत्यर्थकदयेशधातुसमभि- व्याहारे । मातुः स्मरति, सुवर्णानां दयते, दिशामीष्टे । "कृषः प्रतियत्ने"। सतो गुणान्तराधानं प्रतियत्नः। क- पूरेणोदकस्योपस्कुरुते ॥ "रुजार्थानां भाववचनानामधरेः" । पीडार्थकज्वरभिन्न- धात्वर्थकर्तृवाचकपदसमभिव्याहारे । दुष्कर्मणो रोगस्य रुजा ।। "आशिषि नाथ:" । आशीरर्थकनाथधातुसमभिव्याहारे कर्मणि । राज्ञो नायते ॥ "जासिनिग्रहणनाटकाथपिषां हिंसायाम्"हिंसार्थकस्य जा- सधाताय॑स्तसमस्तनिप्रपूर्वकहन्धातोः नाटकायास्वोश्च सम- भिव्याहारे कर्मत्वे । चौरस्थोज्जासते, चौरस्य निहन्ति प्रह- न्ति प्रणिहन्ति, नाटयाति, काथयाति, पिनष्टि । "व्यवहपणोः समर्थयोः" । समानद्रव्यकव्यवहारपणार्थ- कयोर्धात्वोः समभिव्याहारे करणे । शतस्य व्यवहरति, शत- स्य पणते, व्यवहार ऋणादानं, पणो द्यूतम् ॥ "दिवस्तदर्थस्य" । व्यवहारपणार्थकदीव्यतेः समभिव्या- हारे । शतस्य दीव्यति ॥ प्रेष्यबुवाई विषो देवतासम्पदाने"। मेष्यपदहिपदसम- भिव्याहतहचिर्वाचकपदे कर्मत्वे । मेदसः प्रेष्य, मेदसो ऽनुहि । हविषः प्रेष्य, हविषो ऽनुब्रूहि ॥ ।

NANGLA MAN HARE ANNNN RS Singe SHARMA ANOR Cast -- MEAN ARMANSAR SHE walNAA सर्वपादः । "यजेश्च करणे" । यजिसमाभिव्याहतहविर्वाचकपदें । सो. मस्य यजति । "कृत्वोर्यप्रयोगे कालेधिकरणे" । सुचकृत्वसुचपत्ययान्त- संख्यावाचकपदसमाभिव्याहृतक्रियापदसमाभिव्याहृतकालवाचक- पदे अधिकरणत्वे । द्विरहो भूक्ते । द्विसंख्याकमहरधिकरण- के भोजनमित्यर्थः॥ "कर्तृकर्मणोः कृति"। कृदन्तपदसमाभिव्याहृतककर्मवा- चकयोः। कृष्णस्यं कृतिः, भारतस्य श्रवणम् ॥ 'उभयप्राप्तौ कमाण,, । कृत्समभिव्याहृतयोः कर्तृकर्म- णोः कर्मण्येव । गवां दोहो गोपेन ॥ "नलोकाव्ययानष्ठाखलर्थतनाम्" । लादेशयोः शशान- 'चो उप्रत्ययोकमत्ययाव्ययनिष्ठाप्रत्ययखलपत्ययसमानार्थप्रत्यया- नां तन्मत्याहारोक्तशानचादीनां समभिव्याहारे कर्तृकर्मणोः ष- ष्ठी न । भरि जिगीषन् जिगीषमाणः, पापवान्, सोम, पपिश्च सोमं चिकीर्षः, दैत्यान् घातुको हरिः, अरि जित्वा, सोमं भ- क्षितवान् । "अकेनोभविष्यदाधममेयो"। भोजका ओदनं गच्छन्ति ।। "कृत्यानां कर्तरि वा" । कृत्संयोगानित्यप्राप्तषष्ठयाः कतरि विकल्पः । भवतः कर्तव्यं भवता कर्तव्यम् । इदं सूत्र तृतीयापतिप्रसवफलम् ॥ "तुल्यौँथरतुलोपमाभ्यां तृतीयान्यतरस्याम्" । तुलापमाभि- असदृशार्थकपदसमभिव्याहारे उपमानत्वादिसम्बन्धे उपमेयो- तरमाप्तषष्ठया सृतीयाविधिः । यथा मुखस्य तुल्यश्चन्द्रः मुखेन वेति । अत्र तृतीयाया उपमानत्वादी लक्षणेति के चित् । आनु- शसनिकी शक्तिरित्यन्ये ।। HARA --- १२८ भादृचिन्तामणेः " चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः आयुष्यादिपदकरणकाशीरर्थकालिडादिसमभिव्याहारे सम्बन्ध- प्राप्तषष्ठी चतुर्थ्यपि कल्पते । देवदत्तस्थायुष्ये देवदत्तायायुष्यं भूयादित्यादि । सर्वत्र षष्ठयाः सम्बन्धमात्रवाचकतया सम्बन्ध- प्रकारको योधः । कर्तृत्वकर्मत्वादिबोधस्तु लक्षणयैवानुशासन वशात् । अन्यत्र लक्षणापि नास्तीति तत्त्वम् ।। इति गागाभट्टकृते कारकवादे प्रथमाषष्ठ्यर्थनिरूपणम् ॥ एतद्वर्जे द्वितीयादिविभक्तयः कारकाणि । ननु किमिदं कारकत्वम् । न तावक्रियाप्रयोजकत्वम् । देवदत्तस्य तण्डुलं पचतीत्यत्रानुमतिद्वारा क्रियामयोजके देवदत्ते ऽतिप्रसङ्गात् । नापि क्रियाजनकत्वम् । यथाज्ञानं पचतीति ज्ञाने ऽतिप्रसक्तेः। अथ धात्वर्थान्वितविभक्त्यर्थान्वयित्वं कारकत्वम् । धनाय ग- च्छति स्वर्गाय यतते इत्यादावकारकयोधनस्वर्गयोरतिव्याप्तः।- न पचतीत्यादौ नार्थेतिव्याप्तेश्च । तस्य पाकान्विताख्यातविभ. क्त्यर्थान्वयात् । निपातातिरिक्तत्वेन विशेषणे नक्त्वं पचती- त्यादौ अधिकरणे नक्तादात्रव्याप्तेः ॥ तस्मात्कर्तृकर्माद्यन्यत- मत्वं कारकत्वमिति नैयायिकाः ॥ सामान्यतः सम्वेतासमवेत- स्य द्वैविध्यात्कारकत्वं कर्तृत्वादिकं चानुगतव्यवहारसिद्धमखण्डो- पाधिरूपं सामान्यमिति रत्नकोशकृतः । सिद्धान्तस्त्वाख्याता- ान्वितविभक्त्यर्थान्वयित्वं कारकत्वम् । लिङ्गसंख्यादीनां का- रकत्वमिष्टमेव । आज्यस्य यजतीत्यादौ लाक्षणिकषष्टयर्थस्या- प्याख्यातार्यान्वयादाज्यादेः कारकत्वम् । उपपदविभक्त्यर्था- नां तु कल्पितधात्वर्थान्तरे ऽन्वयात् श्रुतभावनानन्वयित्वेन न तर्कपादः। १२९ कारकत्वम् । अत एव तस्याः, कारकविभक्त्यपेक्षया दुर्बल- त्वमिति सम्प्रदायः । तत्र द्वितीयायाः कर्मत्वमर्थः । तच्च कि- याजन्यफलशालित्वम् । घटं पश्यतीत्यत्र दर्शनजन्यज्ञातताया घट- निष्ठत्वाल्लक्षणसमन्वयः। नन्वेवं चैत्रो ग्रामं गच्छतीत्यादौ चैत्रस्य कर्मत्वापत्तिः । क्रियाजन्यसंयोगशालित्वात् । किञ्च त्यजति- गच्छत्योः पर्यायत्वापत्तिरिति चेत् । अत्र नैयायिकाः । परसम- वेतत्वं क्रियाविशेषणं धात्वर्थतावच्छेदकत्वं फलविशेषणं, परत्वं च द्वितीयामकृत्यर्थापेक्षया । एवं चैत्रो ग्रामं गच्छतीत्यादौ चैत्रसमवेतव्यापारजन्यधात्वर्थतावच्छेदकसंयोगशालितया ग्राम- स्य कर्मता | शाब्दबोधोपि. ग्रामसमवेतधात्वर्थतावच्छेदकसंयो- गानुकूलनामान्यसमवेतव्यापारजनककृतिमांश्चत्र इति । त्यजते. विभागफलकव्यापारे शक्विरिति नोक्तदोष इत्याहुः ।। तच्च कर्म द्विविधम् । “कर्तुरीप्सिततमं कर्म" "तथायुक्तं चानीप्सितम्" इति व्याकरणात् । तत्राद्यं.चतुर्धा। उत्पाद्य- प्राप्यविकार्यसंस्कार्यभेदात् । उत्पत्तिर्नाम येनाकारेण कारकम- भिधानोपात्तं तस्यासत एवोत्पादनम् । तस्यैव सतो ऽमाप्तस्य प्रापणं प्राप्तिः । तद्गतदृष्टातिशयोत्पादनं विकृतिः। तस्यैवादृष्टा- तिशयोत्पानं संस्कार इति । यथा यूपं छिनत्ति, घटं कुरुते, पयो दोग्धि, वाहीनवहन्ति, वीहीन्मोक्षतीति । एतदुक्तं वाक्यपदीये। यदसज्जायते सदा जन्मना यत्प्रकाशते । तन्निव विकार्य तु द्वेषा कर्म व्यवस्थितम् ॥ प्रकृत्युच्छेदसम्भूतं किंचित्काष्ठादिभस्मवत् । किं चिद गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ।। क्रियाकृतविशेषाणां सिद्धिर्यत्र न लभ्यते । दर्शनादनुमानाद्वा तात्विकं तत्तु कथ्यते ॥ १७ Media irani HER SAR SHTRIAN SHTRA ना HAPA PARAN W भादृचिन्तामणे इति । अनीप्सितमपि चतुर्विधम् | उदासीनं द्वेष्यं संज्ञान्त. रैरनाख्यातमन्यपूर्वकं च। यथा तृणं स्पृशति । विषं भुङ्क्ते । गां दोग्धि । विषमनुकुध्यतीति, अग्निमनुजपतीति च । अत्र ईप्सि- सत्वानीप्सितत्वयोः शक्तिद्धयमिति सोमेश्वरः । ईप्सितानीप्सि. तानुवृत्तिसाध्यत्वं न द्वितीयार्थो गौरवात् । न च सूत्रद्वयानर्थ- क्यम् । वारणार्थानामीप्सित इति यवेभ्यो गां बारयतीत्यत्र यवानामीप्सितत्वेनापादानतया ईप्सिततमे मवि द्वितीयाप्राप्त्य- थत्वादावस्य, विषं भक्षयतीत्यादौ द्वितीयस्यापि सार्थक्यात् ॥ "अकथितं च"। दुह्याच्यादिद्विकर्मकघातूनामपादानत्वादि- कारकैरसम्भदन्वयं धात्वर्थतावच्छेदकफलशालि व्याप्यमानं द्वितीयंकर्म। गां पयो दोन्धि, राजानं याचते वसुधाम, अजां ग्राम नयति । गोकर्मकदोहेन पयो भावयतांति बोधः । विपरीतं वा । अत्र धात्वर्थव्याप्यमानमेकं कर्म व्याप्यव्याप्यमानं द्वितीयम् । अत एव तप्ते पयास दध्यानयतीत्यत्र द्वितीयकर्मापेक्षया पयसः कर्मत्वेनैवान्चयः॥ "गतिबुद्धिमत्यवसानार्थशब्दकर्याकर्मकाणामाणि कर्ता स गौ" । मर्यकबुद्धयर्थकप्रत्यवसानार्थकानां शब्दकर्मकाणामकर्म- काणां च शयनाद्यर्थकघातूनामण्यन्तानां समभिव्याहारे या का स तेषां ण्यन्तानां समभिव्याहारे कर्म ।। गुरुं ग्रामं गमय- ति, शिष्यं शास्त्रं बोधयति, मन्त्रं यजमानं वाचयति, विष्णुं शा. ययति । अतापि व्याप्यमानत्वम् । "हक्रोरन्यतरस्याम्"। हरणार्थकानां करणार्थकानाश्च सम- भिव्याहारे द्वितीया तृतीया च । शिष्येण शिष्यं वा भारं हार- ति कारयति च । तस्मात्साध्यत्वं द्वितीयार्थ इति पार्थसारथिः ।। यत्र च द्वितीयाथस्य न साक्षाक्रियान्वयस्तत्रोपपदविभक्ति- तर्कपादः। त्वम् । यथा "अन्तरान्तरेण युक्ते" त्वां मां चान्तरा ऽन्तरेण वा हरि- रस्ति । अत्र सम्बन्धे द्वितीयाया लक्षणा । उभयसम्बन्ध्यन्तरा- लवी हरिरिति बोधः॥ "कालाध्वनोरत्यन्तसंयोगे"। कालाववाचिपदसममिव्या. हृतद्वितीयाया अत्यन्तसंयोगो व्याप्तिरर्थः। मासमधीते, कोशंप- वैतस्तिष्ठति । मासाभिव्याप्तिविशिष्टमध्ययनं क्रोशाभिव्याप्तिवि- शिष्टपर्वतस्थितिरिति बोधः। अभिव्याप्तेः पर्वतसम्बन्धित्वादुपपद- विभक्तित्वम् ॥ "अपवर्ग तृतीया" । क्रियासम्बन्धोपवर्गः। मासेनानुवा- कोऽधीत इति । द्वितीयापवादः ॥ "सप्तमीपञ्चम्यौ कारकमध्ये" । कृतिशक्तिद्वयमध्ये यो कालाचानौ ताम्यां सप्तमपिञ्चम्यौ । अद्य भूक्त्वा द्वयहे यहाद्वा भोक्ता ॥ "कर्मप्रवचनीययुक्त द्वितीया"। उपलक्षणाचर्यकानुपतिपर्या- दिसमामेव्याहृतकमर्मवचनयिसंज्ञकानां योगे द्वितीया । जपमनु- प्रावर्षत् । नदमिन्ववासिता सेना । अनु हरिं सुराः । उप हरि मुराः । वृक्षं प्रति परि अनु वा विद्योतते विद्युत् । भक्तो विष्णु प्रति परि अनु वा । लक्ष्मीहार प्रति परि अनु वा । संवृक्ष मति परि अनु वा सिञ्चति । हरिमभि वर्तते ॥ "यस्मादाधकं यस्य चेश्वरवचनं तत्र सप्तमी" । अत्र कर्म प्रवचनीययुक्त सप्तमी । उप परार्धे हरेर्गुणाः । अघि मुवि रामः । अघि रामे भूः। "पञ्चम्यपाङ्परिभिः"। एतैः कर्मप्रवचनीयोंगे पञ्चमी। अपहरेः संसारः ॥

। । भादृचिन्तामणे: "प्रतिनिधिप्रतिदाने च • यस्मात्" । अत्र कर्मप्रवचनीय. योगे पञ्चमी । प्रद्युम्नः कृष्णात्मति । तिलेभ्यः प्रतियच्छ. ति माषान् । “गत्यर्थकमर्माण द्वितीयाचतुथ्यौँ चेष्टायामनध्वनि" । अ. ध्वभिन्ने गत्यर्थानां कर्मणि एते स्तः चेष्टायां गम्यमानायाम् । ग्रामं ग्रामाय वा गच्छति ।। इति कारकवादे द्वितीया ॥ अथ कर्तृत्व करणत्वं च तृतीयार्थः । "कर्तृकरणयोस्तृती- या" इति सूत्रात् । कर्तृत्वं च स्वातन्त्र्यं स्वतन्त्रः कर्तेति सूत्रा- ॥ स स्वतन्त्रस्त्रिांवेधः । शुद्धः प्रयोजकः कर्मकर्ता चेति । तदनु- कूलव्यापारफलाश्रयः शुद्ध: । व्यापारानाश्रयत्वे सति फलाश्र. यो द्वितीयः । फलानाश्रयत्वे सति अनुकूलव्यापाराश्रयस्तृती- यः ॥ कर्तृत्वं न तावद्यत्नाश्रयत्वं, तदुपादानविषयकापरोक्षज्ञा- नचिकीर्षाकृतिमत्वं वा, कूलं पिपतिषति रथो गच्छतीत्यादा. वभावात् । नापि कारकान्तराप्रयोज्यत्वे सति कार्रकान्तरप्रयो- जकत्वम् । उक्तदूषणापरिहारात् । किं तु धात्वर्थव्यापारा- अयत्वं तत् । बद्धातूत्तराख्यातेन यगाद्यसमाभिव्याहृतेन यद्धा- त्वन्वितधर्मवत्त्वं बोध्यते तद्वत्त्वं तक्रियाकर्तृत्वम् । चैत्रः पचति जानाति नश्यतीत्यादौ पाकानुकूळव्यापारवत्त्वाश्रयत्व- प्रतियोगित्वादिकमेव तत्तत्क्रियाकर्तृत्वम् । पच्यते तण्डुल इत्यादौ कर्मण्यतिमसङ्गवारणाय यगाद्यसमाभव्याहृतेति । तेन स्थाली पचति काष्ठानि पचन्तीत्यत्र स्थालीकाष्ठादावपि क- र्तृत्वमविरुद्धम् ॥ करणत्वं तु साधकतमत्वम् । “साधकतमं करणम्" इति सूत्रात् । साधकतमत्वं चाव्यवधानेन फलजनकव्यापारवत्कार- ।

। तर्कपादः। णत्वम् । फलायोगव्यवच्छिन्नत्वं वा । तेनात्मना जानातीत्या- दावात्मनोपि करणत्वमविरुद्धम् । फलोद्देशप्रवृत्तकर्तृव्यापारो- पकार्यत्वं वा । अस्ति चेदं कुठारादौ । एवं च कुठारेण छिन- त्ति दर्शपूर्णमासाभ्यां स्वर्गमित्याद्युपपत्तिः । अत्र कर्तृत्वकरण त्वयोः साक्षाद्भावनायां सम्बन्धात्तदर्थकतृतीया कारकविभ- क्तिः । भावनाभिन्नपदार्थान्वयर्थिकोषपदविभक्तिः । यथा "सहयुक्तेऽप्रधाने"। साहित्ययुक्ताप्रधानवाचकशब्दसमभि- व्याहृततृतीयाया निरूपितत्वमर्थः । शिष्येण सहागतो गुरुः । शिष्यनिरूपितसाहित्यविशिष्टगुरुकर्तृकमागमनामिति बोधः । एवं च तृतीयार्थस्य भावनान्वयाभावादुपपदविभक्तिः ॥ "येनागावकारू" । विकारयुक्ताङ्गवाचकपदसमभिव्याहृत- तृतीया सम्बन्धे । यथा अक्ष्णा काण इत्यत्र अक्षिसम्बन्धिकाण- त्वविशिष्ट इत्यर्थः । अत्र च अक्षिनिष्ठकाणत्वस्य परंपरासम्बन्धे. ने चैत्रे प्रकारता ॥ "इत्थंभूतलक्षण" । इत्थंभूतलक्षणे तृतीया । इत्थंभूतलक्षणं ज्ञापकत्वम् । जयभिस्तापस इत्यत्र जटाज्ञाप्यतपोवानित्यर्थः । अत्र ज्ञाप्यत्वस्य तपोविशिष्टे ऽन्वयः । अन्यथा एकदेशे ऽन्वयापत्तेः ॥ "संज्ञोन्यतरस्यां कर्मणि" ॥ संपूर्वस्य ज्ञाधातोः कर्मणि तृतीया द्वितीया वा स्तः । मात्रा मातरं वा संजानीते । मातृ- विषयकपूज्यत्वादिप्रकारकज्ञानवानित्यर्थः । अत्र मातृपदार्थस्य पूज्यत्वप्रकारकज्ञानक्रियायामन्वयात् । पूज्यत्वरूपक्रियान्वय आर्थिकः । फलजनकज्ञानान्वयो वा । तेनात्रोपपदविभक्तित्वम् ।। "हेतौ” । हेत्वर्थ तृतीया । पुण्येन दृष्टो हरिः । अत्र तृ तीपार्थस्य सहकारित्वस्य दर्शने ऽन्वयः । पुण्यसहकृतेन्द्रियजन्यं Da TARA भाइचिन्तामणेः दर्शनम् ॥ "अकर्तणे पञ्चमी" । शतेन बद्धः शताहृदः । अत्र शत- स्य ऋणक्रियाद्वारा बन्धनक्रियायामन्वयादुपपदविभक्तित्वम् । शताभिन्नऋणजन्यबन्धनवान् इति बोधः ॥ “षष्टी हेनुपयोगे” ॥ हेतौ धोये षष्ठयेव न तृतीया । अ- ध्ययनस्य हेतोवसति । अध्ययनाभिन्नहेतुको निवासः ।। "सर्वनाम्नस्तृतीया च" । कस्य हेतोः, केन हेतुना वसति ॥ इति तृतीयार्थः ॥ सम्पदानं चतुर्थ्यर्थः । “चतुर्थी सम्पदाने" इति सूत्रा- त् । सम्पदानत्वं च धात्वर्थकर्मणा व्याप्यमानत्वम् । व्या- प्यमानत्वमभिप्रेयमानत्वम् । धात्वर्थकर्मजन्यव्यापाराद्देश्यत्व- मिति यावत् । यथा विप्राय गां ददाति दानकर्मीभूतगोजन्य- पयोदोहनादिव्यापारांद्देश्यत्वाद्विपस्य सम्पदानत्वम् । रजका- य वस्त्रं ददातीत्यल तु ददातेलाक्षणिकत्वात् चतुर्थ्यपि सम्ब- म्धमात्रे लाक्षणिकी । एवं च दानकर्मीभूतगवादिप्रतिग्रहीतृत्वं सम्पदानत्वम् । “कर्मणा यमभिप्रति स सम्पदानमि" ति सू. त्रस्याप्ययमर्थः । दानकर्मणा गवादिना यमभिव्यामोतीति जीर्णाः । अभिनवास्तु दृष्टद्वारकधात्वर्थोद्देश्यत्वं सम्पदानत्व- म् । धात्वर्थजन्यदृष्टफलशालित्वमिति यावत् । तत्फलं सकर्मके- पु धात्वर्थतावच्छेदकमकर्मकेषु धात्वर्थजन्यमात्रम् । सूत्रस्यापि कर्मणा धात्वर्थेनेत्यर्थः । तेन विप्राय गां ददाति पये शेते कु- ष्णाय रोचते भक्तिरित्यादौ मुख्यः प्रयोगः । अत्र विमनिष्ठ- स्वत्त्वोत्यच्याधुद्देश्यको दानानुकूलो व्यापरः । पर्तिनिष्ठसुखो- देश्यकायनानुकूलो व्यापार इत्यादिबोधः । एवं च कर्मका- रकापेक्षया सम्पदानस्य प्राधान्यम् । अत एव मेत्रावरुणाय तर्कपादः । दण्डं प्रयच्छतीत्यत्र न दानस्य दण्डप्रतिपन्त्यर्थत्वं किं तूपयो- क्ष्यमाणसंस्कारत्वं सिद्धान्तितम् । आत्रेयाय हिरण्यं ददाती- त्यत्र तु आतेयस्य सम्पदानत्वेपि न भावनोद्देश्यत्वं, भूतमा- व्युपयोगाभावेनेष्टत्वाभावादिति दिक् ॥ "रुच्यर्थानां प्रीयमाणः" । रुच्यादिशतुसमभिव्याहारे तु प्रीयमाणस्यैव सम्पदानत्वम् । देवदत्ताय बने रोचन्ते फला- नीति । रुचिमत्त्वस्यावच्छेदकतासम्बन्धेन वननिष्ठत्वेपि न सम्मंदानत्वम् ॥ "श्लाघन्हुङ्स्थाशपाशीप्स्यमानः" ।झाप्स्यमानस्य सम्पदा- नत्वम् । गोपी स्मरात्कृष्णाय श्लाघते, निन्हुते, तिष्ठते, शपते वेति । स्मरहेतुकगोपीकर्तृक श्लाघनादिज्ञापनवत्वात् कृष्णस्या 'सम्प्रदानत्वम् । इतीव पान्थं शपतः पिकान् द्विजानित्यत्र पान्थस्य शापज्ञापनाभावान सम्प्रदानत्वम् । श्लाघनं स्तवनं, निन्हवो ऽयनयः । "धारेरुत्तमर्णः" । धारयतिसमभिव्याहारे उत्तमर्णस्य स. म्पदानत्वम् । मह्यं सुवर्णशतं धारयति देवदत्तः । देवदत्तक- र्तृकधारणकमीभूतसुवर्णशतव्याप्यमानत्वात्सुवर्णशवधारणजन्य- दुःखवन्त्वाद्वा । अत एव वने धास्वतीत्यत्र वनस्य न तत् । उत्तमर्णत्वं च गृहीतधनवृद्धिभागित्वं वृद्धिजन्यमुखभामित्वं वा । एतेन भक्ताय धास्यति मोक्षं कृष्ण इत्युदाहरणं सूत्र- विरुद्धम् ।। "स्पृहेरीप्सिता" | स्पृहयतिसमभिव्याहारे इच्छासामा- न्यविषयस्य सम्पदानत्वम् । प्रकृष्टेच्छाविषयस्य कर्मत्वम् पुष्पेभ्यः स्पृहयति, पुष्पाणि स्पृहयाति । क्ने स्पृहयतीति वने तदभावः ।। FirstNKAR । - भादृचिन्तामणे "क्रुधदुहेा सूयार्थानां यं प्रति कोपः" । "क्रुधदुहोरुपम- टयोः कर्म" । अरये क्रुध्यति द्रुह्यति ईयति असूयति । उपस- गैरहितक्रोधाद्यर्थकधातुसमभिव्याहारे कोपकर्मणो हरेः सम्पदा- नत्वम् । वने क्रुध्यतीत्यादौ वनस्य न तत् । शिष्यमभिक्रुध्यती- त्यादावपि न । क्रोधो ऽमर्षः । द्रोहो ऽपकारः । ईष्या ऽक्षमा । असूया गुणेषु दोषाविष्करणम् । एते क्रोधविशेषा एवं ॥ "राधीक्ष्योर्यस्य विप्रश्नः" । राधीक्ष्योः समभिव्याहारे विविधप्रश्नविषयशुभाशुभाधिकरणस्य सम्पदानत्वम् । कृष्णाय राध्याति ईक्षते वा । गर्गकर्तृकगोपीकृतविविधप्रश्नविषयशु- भाशुभपर्यालोचनाधिकरणहरिसम्पदानकं राधनमीक्षणं वेति बोधः ॥ "प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' । आङ्मतिपूर्वकश्रुधा- तुसमाभिव्याहारे धात्वर्थप्रतिज्ञाजनकयाचनकर्तुः सम्प्रदानत्व- म् । देवदत्ताय भामाशृणोति प्रतिशृणोति वा । प्रतिश्रवणादि- धात्वर्थेन व्याप्यमानत्वाधाचकस्य । "अनुमतिगृणश्च । प्रत्यनुपूर्वकगृणातेः समभिव्याहारे पूर्वशंसनादिकर्तु)तुः सम्प्रदानत्वम् । अध्वर्युहोत्रेनुगृणाति, प्र- तिगृणातीति, धातुलक्ष्यप्रोत्साहनव्याप्यमानत्वात् । एवञ्च मुख्यैव चतुर्थी ॥ यत्र तु धात्वर्थकमव्याप्यमानस्यासम्भवेनान्यत्रान्वयस्तत्रो. पदविभक्तिस्तादादिलक्षणया । उपपदार्थे ऽन्वयेन प्रधान- क्रियायामनन्वयात् । मुक्तये हरिंभजति, भक्तिमा॑नाय कल्पते इत्यादौ । अत्र कल्पितप्राप्तिक्रियान्वयेन श्रुतभजनादिक्रियायां कारकत्वेन साक्षादनन्वयात् । साध्यत्वमात्रे. लाक्षणिकत्त्वाच्चे- ति वैयाकरणाः ॥ अन्ये त्वत्र चतुा नोपपदविभक्तित्वं, किं । ।

तर्कपादः। तु साध्यत्वलक्षणया कारकविभक्तित्वमेव । अत एव सर्वेभ्यः कामे भ्यो दर्शपूर्णमासावित्यादौ साध्यत्वेन भावनान्वयो ऽङ्गीक्रियत- इत्याहुः॥ परे तु तत्रापि सर्वान्कामानित्यादुपपदविभक्तित्वमेवे त्याहु, स्तदग्निमाधत्तइत्यादौ द्वितीयाया अपि उपपदविभक्तित्वाप- त्योपेक्षणीयमेव ॥ एवं वाताय कपिला विद्युदित्यत्र कल्पितज्ञान- क्रियान्वयेनं, फलेभ्यो यातीत्यादौ अपयुज्यमानतुमुन्नन्तकर्तृक- काल्पताहरणक्रियान्वयेनोपपदविभक्तिः॥ "तुमर्थाच्च भाववचनात्' । यागाय यात त्यादौ कल्पि- तदर्शनादिक्रियान्वयनोपपदविभक्तित्वम् । यागसाध्यकं यान- मित्यर्थे तु पूर्ववत्कारकविभक्तित्वमेव । जनादनायामित्यत्रा- प्युपपदविभक्तित्वम् । पक्षे कारकत्वं च । "नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च" इति विहिता नमःपदादियोगे चतुर्युपपदविभक्तिः । यथा हरये नमः, स्व- यम्भुवे नमस्कृत्य, हरिमनुकूलायतमित्यर्थः । नारायणं नमस्क- येत्यत्र तु छान्दसःमयोगः। प्रजाभ्यः स्वस्ति । स्वास्तिपदं कल्या- णवाचकमिदं, द्वितीयं सुबन्तं, "स्वास्तिन इन्द्रो वृद्धश्रवाः" "वै- श्वानरो सुरमिः स्वस्त्रये" इत्युभयथा प्रयोगात् । उभयत्रापि मङ्गलवाचकमेव । अग्नये स्वाहा । पितृभ्यः स्वधा । इन्द्राय व. षट् । स्वाहापदं स्वधापदं वषट्पदं च प्रदानार्थकम् । अलमिति पर्याप्त्यर्थसमर्थादिपदान्तरोपलक्षणम् । अत एव स्वामिवाच. कप्रभुपदसमाभिव्याहारे षष्टयेव साधुन चतुर्थी ॥ "इभ्य आढ्यो धनी स्वामी स्वीश्वरः पतिरीशिता । अधिभर्नायको नेता प्रभूः परिवृढो ऽधिपः" ॥ इत्यायनुशासनात्मभुपदस्य स्वामिनि शक्तिग्रहात् म बुभूषु- भुवनत्रयस्योत प्रयोगाच्च । तस्मै प्रभवतीति त्वलंपदार्थकप्रभु- HEALTH Hardiolence BALAN भादृचिन्तामणे: पदसमभिव्याहाराच्चतुर्येव साधुः । सापि जनयितुं पालायितुं वे. ति कल्पितक्रियान्तरान्वयादुपपदविभक्तिरेव । प्रभ्वादियोगे षष्ठयपि साधुरिति वार्तिकस्य तु भावं नाकलयामः । "मन्यकर्मण्यनादरे विभाषा ऽमाणिषु' । मन्यधातुसमाभि- व्याहारे तद्धात्वर्थकर्मणि विकल्पिता चतुर्युपपदविभक्तिः । न त्वां तृणाय तृणं वा मन्ये । अत्र विकल्पितानादरक्रियान्वया- दुपपदविभाक्तित्वम् । एवं ग्रामं ग्रामाय वा गच्छतांति विकल्पिता चतुर्थी कल्पितचेष्टाध्वादिपदार्थान्तरान्वयादुपपद- विभक्तिः । मनसा हरिं व्रजात्यत्र चेष्टाध्वाभावाद् द्वितीयैव सा- धुरिति दिक् ॥ अत्र मीमांसकाः । चतुर्थ्या देवतात्वे शक्तिः। "तदितेन चतुर्था वा मन्त्रवर्णेन वा पुनः । देवतासङ्गतिस्तत्र दुर्बलं तु परंपरम्" ॥ इति वार्तिकात् । तथाहि । सूक्तहविषोरिति वार्त्तिकादाग्ने- यं सूक्तमाग्नेयोष्टाकपाल इत्यादिप्रयोगाच्च सूक्तप्रकाश्यत्वं त्य- ज्यमानहविःसम्बन्धित्वरूपं च देवतात्वं द्विविधं तद्धितवाच्यं, सास्य देवतेत्यनुशासनेन देवताधिकारे अग्नेगित्यादिभिः सूत्र- रनेकढमादिप्रत्ययविधानात् । सास्य देवतेत्यत्र मुक्तहविषोः षष्ठयन्तनिर्दिष्टत्वेन विशेषणत्वप्रतीतावपि उक्तमयोगेषु सामाना- धिकरण्येनाग्न्यादिपदार्थविशेष्यत्वेन प्रतीतस्तत्पदनिर्दिष्टाग्न्या- दीनां देवतात्वमात्रबोधकत्वात् । तेन तद्वितस्य देवतात्वविशिष्टा- ग्न्यादिविशिधसूक्तहविर्वाचकत्वे सिद्धे “ना गृहीतविशेषणा-" न्यायेन देवतात्वे शक्तिः । एवमग्नये स्वाहेत्यादावपि स्वा- हाशब्दार्थहविस्त्यागे अग्नश्च विशेषणत्वेन प्रतीतेः सम्बन्धा- न्तरत्वाभावेन देवतात्वेनैव विशेषणतोते तत्र चतुर्थ्याः शक्तिः।

तर्कपादः। एवं मन्त्रवर्णस्यापीति जीर्णाः ॥ अत्र पितृचरणाः । नेदं वार्तिकं चतुर्थ्या देवतात्वे शक्तिबो- धकं, किं तु देवताप्रतिपादकान्तरोपलक्षणं सच्चतुर्थीमन्त्रवर्णा- दौ देवतालाक्षणिकत्वपरं, दुर्बलं तु परंपरमित्यभिधानात् । त- थाहि । देवताशब्दतद्धितचतुर्थीद्वितीयामन्त्रा देवतात्वबोधकाः। तत्राग्निदेवता वातो देवतेत्यादावग्न्यादीनां देवतात्वप्रकारकभा- नात् उभयरूपे देवतात्वे शक्तिः । सूक्तभकाश्यो ऽग्निद्रव्यत्या- गसम्बन्धी वेति बोधः । तद्धितस्य तु हविषो ऽग्न्यादिनिष्ठत्वबो- धानन्तरं त्यागादिकल्पनात् ततो दुर्बलत्वं । चतुर्थ्यास्तु त्यज्यमान- द्रव्योद्देश्यत्वविशिष्टप्रतिग्रहीतृत्वरूपसंप्रदानत्वचाचिन्याः प्रतिग्र- हीतृत्वत्यागेनैकदेशलक्षणया ततो ऽपि दुर्बलत्वम् । विष्णुं यज- 'तीत्यादौ द्वितीयायास्तूद्देश्यत्वमात्रवाचिन्याः विशिष्टे लाक्षणिक- त्वाद् दुर्बलत्वम् । मन्त्रकर्मसम्बन्धज्ञानानुपपत्तिकल्प्यमन्त्रप्रका- श्यकर्मसम्बन्धज्ञानानुपपचिक देवतात्त्वमित्यत्यन्त दुर्बलत्वम् । ते- न सम्मदानत्वे एव चतुर्थ्याः शक्तिर्न देवतात्वे इत्याहुः ॥ अत्र तद्धितादियुक्तवाक्येषु देवताविधिरपूर्व इति के चित्ाया- गावधिनैव द्रव्यसामान्यस्येव देवतासामान्यस्याप्याक्षेपादिन्द्रादि- देवताविशेषनियमपरतया नियमविधिरित्याहुः । तद्धितचतुर्थ्या- दिभिरुक्तव्युत्पत्त्या स्वप्रकृत्यर्थस्य देवतात्वं प्रतिपाद्यते । अत एव इन्द्राग्नीतिप्रातिपदिकोत्तरतद्धितेनेन्द्राग्निरूपप्रातिपदिकार्थद्वय- निष्ठमेकं व्यासज्यवृत्ति देवतात्वं प्रतिपाद्यते । एवं महेन्द्रपदोत्तरत- द्धितेन महेन्द्रस्यैव देवतात्वामिति तत्र नेन्द्रस्य देवतात्वमिति । उद्देश्यत्वं च त्यागाव्यवहितपूर्वकालीनस्ववाचकवैधपदोच्चा- रणवत्त्वं तेन देवतायाः प्रयोगसम्बन्धित्वमिति प्रकृतिविकृति- सम्बन्धिनिगमेष्वणि वैधपदसिद्धिरिति दिक ।। POS HEREIN- RANI PRABHA १४० भादृचिन्तामणेः अधिक मत्कृतकुसुमान्जलाववधेयम् ॥ ॥ इति कारकवादे चतुर्थ्यनिरूपणम् ॥ अपादानत्वं पञ्चम्यर्थः । “अपादाने पञ्चमी"ति सूत्रात् । अपादानत्वं च परसमवेतक्रियाजन्यविभागाश्रयत्वं, विभागहेतु- क्रियानाश्रयत्वे सति विभागाश्रयत्वमिति तदर्थः। "रुवमपाये. पादान"मिति सूत्रात् । अपायो विश्लेषः विभागवियोगादिशब्द- वाच्यः । अन्यस्य विभागवियोगादिक्रियाश्रयस्य विभागादौ सति विभागवियोगाश्रयत्वेन ध्रुवं स्थिरं विभागवियोगादिनि- रूपकमिति यावत्, तदपादानमिति सूत्रार्थः । यथा वृक्षात्पर्ण पतति,अधःसंयोगानुकूलक्रिया पतरर्थः । अधासंयोगप्रयोजक- विभागानुकूलक्रिया वा । एवं चाधासंयोगानुकूलक्रियानाश्रय-- त्वे सति तादृशक्रियाजन्यविभागाश्रयत्वात् वृक्षस्यापादानत्वम् । इत्थं च तत्तद्धात्वर्थतावच्छेदकफलजनकक्रियानाश्रयत्वे सति तादृशक्रियाजन्यफलनिरूपकत्वं तादृशक्रियानिरूषकत्वं चेति निष्कर्षः । एवं चौराद्वयाघाद्विभति, चौरात्रायते, अध्ययना- त्पराजयते, यवेभ्यो गां वारयति, मातुनिलीयते, उपाध्यायाद- धीते, ब्रह्मणः प्रजाः प्रजायन्ते, हिमवतो गङ्गा प्रभवति, इत्यादी भयादिहेतुचौरव्याघ्रादीनां “भीत्रार्थानां भयहेतु" । "पराजेर- सोढः" । "वारणार्थानामीप्सितः" । “अन्तौं येनादर्शनमि. च्छति" । "आख्यातोपयोगे” “जनिकः प्रकृतिः" । भुवः प्र- भवः" । इत्याद्यानुशासनिकं मुख्यमेवापादानत्वम् । अत्र चाप- न्हवानुकूलक्रिया विभेतेरर्थः । तदनुकूलरक्षणं त्रायतेः। ग्लानिज- नकक्रिया पराजयतेः । दूरदेशसंयोगानुकुलकिया वारयतेः । दर्शनाभावानुकूलक्रिया निलीयतेः । गुरुमुखोच्चारणानुकूळक्रिया तर्कपादः। ऽधीतेः । उत्पत्त्यनुकूलक्रिया जायुत्तेः। प्रकाशननकद्धयादि- क्रिया प्रपूर्वकभवतेरर्थः । तदनाश्रयत्वे सति तत्तक्रियानि- रूपकत्वात्, भीत्रार्थानां भयहेतुरित्याद्यनुशासनानामपादा- नत्वबोधकता, न तु पञ्चम्या उपपदविभक्तित्वबोधकतेति वैयाकरणाः ॥ मीमांसकाचारण्यादर्निरूपकत्वाभावानापादानत्वम् । अत एव अरण्याद्विभेति इति न प्रयोगः । यदि वनाविभेतीति प्र- योगः तदा वनपदस्य वनस्थितव्याघ्रादौ लक्षणा। मध्यादवद्य, तीत्यादौ विभागप्रयोजकक्रियानाश्रयस्य तनिरूपकस्याधोभा- गस्यापादानत्वम् ॥ नैयायिकास्तु विभागाश्रयत्वमेवापादानत्वमिच्छन्तो व्या- घादिभेतीत्यादौ लक्षणया प्रयोग क्रियान्तरकल्पनेन वा उपप- दविभक्तित्वमिच्छन्ति । एवं धावतो ऽश्वात्पतति इत्यत्राश्वस्यो. तक्रियाश्रयत्वेपि तस्य विभागहेतुत्वाभावादपादानत्वोपपत्तिः । न चैवं मेषान्भेषो ऽपसरति इत्यत्र मेषस्य कथमपादानत्वम्, उभयकर्मजविभागस्यैक्येन तज्जनकक्रियानाश्रयत्वाभावादिति वाच्यम् । विभागजनकक्रियाभेदादेकक्रियामादायापादानत्वम् । अन्योन्यस्मादपसरत इत्यत्रोभयकर्मजविभागस्यैक्यपि तत्तज्ज- नकक्रियामादाय परस्परस्य वदनाश्रयत्वोपपादनात् । वृक्षाद्वस्त्रं पततीत्यत्र पतन कियाधात्वर्थमादाय सङ्गमनीयम् । न चैवं वृक्षा- स्पन्दतइत्यापत्तिः। गृहाच्चलितो राज्याच्चलित इत्यादिवदिष्ट- स्वात् ।। केचितु पञ्चमीजन्यापादानत्वबोधेन द्वितीयाया असा- धुत्वादित्याहुः ॥ बलाहकाद्विाद्विद्योतते इत्यत्र निसृत्येत्यध्या हारेणोपपदविभक्तिः । एवमन्यादिपदसममिव्याहारे तु पञ्च- म्युपपदविभक्तिः। अन्यारादिवरतेदिकशब्दाञ्चत्तरपदानीइयु- १४२ भादृचिन्तामणे ते" इति सूत्रात् । अन्यपदेन अन्यार्थकेतरादिपदग्रहणम् । कु. ष्णादन्यस्तिष्ठति, आरावनात्, कृष्णादितर:, ऋते कृष्णात् । कालदेशसमभिव्याहारे ग्रामात्पूर्वश्चैत्रात्पूर्वः । अञ्चूत्तरपदं प्रा- कप्रत्यगादिपदं तत्समभिव्याहारे ग्रामात्माक् । आमत्ययान्तद- क्षिणासमाभिव्याहारे दक्षिणा ग्रामात् । दूरवाचकाहिपदसमभि- व्याहारे दक्षिणाहि ग्रामात् । अत्र पञ्चम्यर्थस्य उपपदार्थान्व- यः । इदं चप्रभृत्यादिपदानामुपलक्षणम् । भवात्मभृति आरभ्य। ग्रामावहिः । एवं विनापृथगित्यादिपदसमभिव्याहारे द्विती- यातृतीयाभ्यां विकल्पिता पञ्चम्युपपदविभक्तिः । एवं दूरा- न्तिकार्थकपदसमभिव्याहारे द्वितीयाषष्ठीभ्यां विकल्पिता पञ्च- म्युपपदविभक्तिः । ग्रामस्य ग्रामाद् ग्रामं दूरेणान्तिकनेति ॥ ॥ इति कारकवादे पञ्चम्यर्थनिरूपणम् ॥ सप्तम्या अधिकरणत्वमर्थः । “सप्तम्यधिकरणेचे"ति सूत्रा- त् । अंधिकरणत्वं चाधारत्वम् । “आधारोधिकरणाम"- ति सूत्रात् । तच्चाश्रयत्वं, तच्च साक्षात्परम्परासाधा- रणम् । परम्परा कर्तृकर्माद्याश्रयत्वद्वारा । तेन स्थाल्यां पचति भूमौ वसति कटे शेते इत्यादिप्रयोगः । अधिकरणं च त्रिविधम्, औपश्लेषिकं वैषयिकमभिव्यापकं चेति, तेन गुरौ वसति घटे ज्ञानं तिलेषु तैलामित्यादिप्रयोगः । चर्मणि द्वीपिनं हन्ति इत्यत्र निमित्तत्वे लक्षणा । चर्मनिमित्तं हन्तीत्य- थः । निमित्तत्वं च धात्वर्थजनकेच्छादिविषयत्वम् । गोषु दुह्य- मानास्वागत इति सतिसप्तमी । “यस्य च भावेन भावलक्षण". मिति सूत्रात् । क्रियान्तरोपलक्षणं यत्रान्या क्रिया तद्वाचक प्रदोत्तरं सप्तमीति तदर्थः । तेन क्रियान्तरोपलक्षणत्वं सप्त- तर्कपादः । म्यर्थः । उपलक्षणत्वं च क्रियाकालान्तरव्यावर्त्तकत्वम् । एवं मुख्यक्रियापतिबन्धकक्रियानादरे लक्षणा । यथा. रु. दति प्रावाजीदिति । रोदनमनाहत्येत्यर्थः । अत्र षष्ठया अपि लक्षणाः। “षष्ठी चानादरे" इति सूत्रात् । एवं गोषु गवां वा स्वामी, ईश्वरः, अधिपतिः । वैश्वामित्राणां विश्वामित्रेषु वादायादो देवरात इत्यादिषु च । साक्षी चैत्रस्य धने वा प्रतिभूः गवां गोषु वां प्रसूत इत्यादौ षष्ठीसप्तम्योरुपपदविभक्तित्वं, श्रूयमाणस्वामित्वादिकि- यासंम्बन्धेन मुख्यक्रियासम्बन्धित्वात् । गोषु प्रसूत इत्यत्र क- ल्पितज्ञानक्रियायामन्वयाच्च । गोज्ञानार्थ प्रसूतइत्यर्थः । एवं हरि- पूजने आयुक्तः आसक्तः कुशल इत्यत्रापि । एवं निर्धारणमपि ष- ष्ठीसप्तम्यर्थः । जातिगुणाक्रियाणामेभिरभिव्यज्यमानभेदनिरूपक- त्वं निर्दारणत्वम् । अत्र भेदााधिकरणभेदानिरूपकयोाप्यव्या- पकरूपावच्छिन्नत्वं बोध्यम् । तेन नराणां नरेषु वाक्षत्रियः शुरः, गोषु कृष्णा सम्पन्नक्षीरा, गच्छत्सु धावन् शीघ्रः) छात्रेषु मैत्रः प्रिय इति प्रयोगो न तु विप्रेषु क्षत्रियः शूर इत्यादिप्रयोगः। नर- त्वावच्छिन्नानिरूपितभेदानधिकरणत्वे सति क्षत्रियत्वावच्छिन्न- निष्ठमन्यनरभेदसमानाधिकरणं शूरत्वमिति बोधः । न चैवं इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ इत्यत्र मणिमुक्तामवालानां सर्वस्यैव पिता प्रभुः। स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ इत्यत्र च निर्धारणषष्ठी न स्यादभेदभानादिति वाच्यम् । कर्मभेदस्य आत्मदर्शने निर्धारणसम्भवात, द्वितीये तु सर्वस्यति षष्ठया निर्धारणत्वसम्भवात् । अत एव माथुराः पाटलिपुत्रके- १४४ भादृचिन्तामणेः भ्य आन्यतरा इत्यत्र निर्धारणकदेश पञ्चम्या लक्षणा।अभेदभा- नाभावात् । एवं मातारि साधुनिपुणो वेत्यत्रापि । हरि हरौ वा उत्सुकः मसितः । मूलेनाबाहयेदित्यत्रापि लक्षणेति दिक् ॥ अत्रचोपपदविभक्तितः कारकविभक्तेर्बलीयस्त्वम् । कारकविभ- क्तयर्थस्य श्रुतक्रियान्वयित्वात् । उपपदविभक्तयर्थस्य कल्पित- क्रियान्वयित्वादिति दिक ॥ इति गागाभट्टकृते भादृचिन्ता- मणौ कारकवादः॥ समासश्चतुर्विधः। अव्ययीभावतत्पुरुषद्वन्दबहुव्रीहि भेदात् । तत्र पूर्वपदार्थप्रधानो ऽव्ययीभावः । यद्वा अव्ययार्थप्रधानो ऽव्य- यीभावः तेन सूपपतीत्याद्यव्ययीभावे नाव्याप्तिः । उत्तरपदार्थ- प्रधानस्तत्पुरुषः । उभयपदार्थप्रधानो द्वन्द्वः। अन्यपदार्थप्रधानो बहुव्रीहिः । इति लक्षणानि । उपकुम्भं, राजपुरुषः, धवखदि- रो, चित्रगु, रित्याधुदाहरणानि । नीलोत्पलमिति कर्मधारयः पञ्चमूलीति द्विगुश्च तत्पुरुषस्यैव भेदौ । ननून्मत्तगङ्गामत्यव्य- योभावे तल्लक्षणमव्याप्तमतिव्याप्तं च बहुव्रीहिलक्षणम् । एवं सू. पप्रतीत्यादावव्ययीभावे सुमतिना मात्रार्थे इति सूत्रविहिते त- त्पुरुषलक्षणातिव्याप्तिः । उत्तरपदार्थप्राधान्यात् । एवमर्द्ध नपु- सकम् इत्यादिसूत्रविहिते ऽर्धपिप्पली पूर्वकाय इत्यादितत्पुरुष ऽव्ययीभावलक्षणातिव्याप्तिः । एवं द्वित्रा इति बहुवीहौ तल्ल- क्षणाव्याप्तिः द्वन्द्वलक्षणातिव्याप्तश्च । एवं शशकुशपलाशमि- ति समाहारद्वन्द्वे समाहारमाधान्याद् द्वन्द्वलक्षणस्याव्याप्तिः । बहुव्रीहिलक्षणस्य चातिव्याप्तिीरति चेन्न । तेषां मायिकत्वेन लक्षणत्वाभावात् । तत्तदाधिकारपठितत्वमेव तत्तलक्षणमिति वै.

तर्कपादः। १४५ याकरणाः ॥ वस्तुतो ऽव्ययार्थप्रधानत्वाविद्यमानावयवार्थत्वविशिष्टा- त्यपदार्थप्रधानत्वान्यतरत्वमव्ययीभावत्वं, तेनोन्मत्तगङ्गं सूपपती- त्यायव्ययीभावे नाव्याप्ति, न वा तत्पुरुषलक्षणातिप्रसङ्गः । समस्यमानान्यतरपदार्थप्रधानत्वे सति सुबलोपाभाववत्पदान्तत्वं तत्पुरुषत्वं, तेन राजपुरुषोऽपिप्पलीत्यादितत्पुरुषे न लक्षणा- व्याप्तिन वा ऽव्ययीभावलक्षणातिप्रसङ्गः। एवमन्यपदार्थप्रधानत्वं बहुव्रीहित्वम् । द्वित्रा इत्यत्रापि समस्यमानपदार्थसङ्ख्यामाधा. न्येन द्वन्द्वत्वे ऽप्यन्यपदार्थसङ्ख्येयप्राधान्येन बहुव्रीहित्वमन्यप. दार्थतारच्छेदकं चात्राल्पत्वम् । एवं च सङ्ख्ययाव्ययेति सूत्रं सङ्ख्येयप्राधान्यगमकं सङ्ख्यावाचकाव्ययादिपदानां बहुव्रीहि- विधायकमिति सङ्गच्छते । एवं दिङ्नामान्यन्तरालइत्यादिसूत्रा- ण्यन्यपदार्थप्राधान्येन बहुव्रीहिविधायकानि भवन्ति । यथा उत्त- रपूर्ण केशाकोश भुजाभुजि सपुत्र इति । अत्रांशे तुल्यसम्बन्धित्व मन्यपदार्थतावच्छेदकम् । अत एव एकद्वैरथ वा द्वित्रैर्भमरा मधुसीकरैः। कुक्षिम्भराः परं तेपि न सन्ति खलु केतके ॥ इत्यादावल्पत्वपरिच्छिन्नव्यक्तीनांबोधः । एवमुपदशा इत्य- त्रान्यपदार्थकादशव्यक्तीनां बोधः । अतो ऽत्राप्यन्यपदार्थप्रा- धान्यमव्याहतम् । एवं तेन सहेति तुल्ययोगे इति सूत्रविहिते सपु. त्र इति बहुव्रीही तुल्यक्रियान्वयी पिता ऽन्यपदार्थ इति बहुव्रीहि त्वं सुस्थम् । समाहारद्वन्द्वे तु समाव्हियमाणानामेव क्रियान्व- यित्वेन समाहारस्याप्राधान्यान द्वन्द्वलक्षणाव्याप्तिबहुव्रीहिलक्ष. णातिव्याप्तिश्चेति युक्तम् ॥ अन्ये तु उन्मत्तगङ्गमित्यादीनां बहुव्रीहित्वं द्वित्रा इत्यादी - १९ १४६ भादृचिन्तामणे द्वन्द्वत्वादिकमेव । अव्ययीभावबहुव्रीह्यधिकारपाठस्तु तद्धर्म- नपुंसकत्वस्वरादिप्राप्त्यर्थः । अन्यथाधिकारसूत्रविरोधापत्तेः । न च तवापि प्रकरणविरोधापत्तिः । अधिकारसूत्रश्रुत्यनुरोधेन प्रकरणबाघस्य न्याय्यत्वात् । अन्यपदार्थे च संज्ञायामित्यव्य. यीभावस्य समभिव्याहारविशेषे ऽन्वर्थताबाधवत् तेन प्रकरण- बाधाच्च । अत उक्तान्येव लक्षणानीत्याहुः ॥ अत्र वैयाकरणाः । राजपुरुष इत्यादितत्पुरुषादीनां राज- विशिष्टपुरुषादौ शक्तिः । न तु समासान्तर्गतसजादिपदशक्त्या राजादिबोधः । समर्थः पदविधिरिति महाधिकारेण एकार्थाभा- वलक्षणे सामर्थ्य समासादिसकलवृत्तिविधानात् । पदोदेशेन विधीयमानः समासादिः समर्थः विग्रहवाक्यार्थाभिधाने शक्ति प्राप्त इति सूत्रार्थः । एकार्थीभावश्च समस्यमानपदद्वयस्य स्वा. थपरित्यागैनकार्थप्रतिपादकत्वम् । स चार्थों ऽराजकीयभिन्नो राजसम्बन्धवांश्चायमिति भेदरूपः संसर्गरूपश्च । न च क्ले- सराज्ञादिर्पदशक्तित एव तादृशापस्थितिसम्भवे किं समासश. क्तिकल्पनेनेति वाच्यम् । राजपुरुषादिपदे उक्तरूपेणोपस्थितये चित्रग्वादिपदे स्वामित्वोपस्थितये च तत्कल्पनात् । अन्यथा प- ङ्कजादिपदोप पद्मत्वेनोपस्थितये ऽतिरिक्तशक्तिकल्पनं न स्या- छ । किं च समासगतराजपदेन राज्ञः स्वतन्त्रोपस्थिते राजा पु- रुष इत्यत्रेव विशेषणान्वयापत्तिः । न च सविशेषणानां वृत्तिन वृत्तस्य च विशेषणयोगो नेति निषेधेन तदनापत्तिः । तस्य वि- शिशक्तिसिद्धपदार्थैकदेशत्वकृतानन्वयानुवादकत्वात् । अपि चैवं वायसमासयोस्तुल्यार्थत्वेन विभाषावचनस्य समासनिय- मनिवारणार्थत्वं कल्प्यामति गौरवम् । किं च कृतविश्वः प्राप्तो- दक उद्धृतोदन इत्यादिबहुव्रीहिषु विश्वजनककृतिमान उदकक- ।

तर्कपादः। १४७ तकमाप्तिकर्म ओदनोद्धरणावधिरित्याद्यर्थकेषु कृतादिपदानां लक्षणासम्भवात् । चित्रग्वादिपदे च चिनिगमनाविरहेण चित्र- पदे गोपदे वा लक्षणासम्भवादुभयत्र लक्षणायां बोधावृत्तिप्रस- क्तेः । न च प्रत्ययार्थान्वयानुरोधेन चरमपदे लक्षणेति वाच्यम् । अनेकपदानामन्यपदार्थप्रतिपादकत्वाभावेन बहुव्रीहित्वभङ्गापत्तेः। न च तात्पर्यग्राहकतया ऽन्येषां तत्प्रतिपादकत्वम् । घटादिप- देष्वप्यायवर्णानां तात्पर्य ग्राहकतयान्यवणे शक्तयाफ्तः । किं च शिवो नाम गायको यस्येति शिवनामगायक इति बहुव्रीही शिवकतकगानकर्मीभूतनामवानिति बोधस्य शक्तिकल्पनं विना सुतरामनुपपत्तिः । अतः समासेषु विशिष्टशक्तिरङ्गीक्रियते । किं चं तत्र शक्तयनङ्गीकारे ऽर्थवत्त्वाभावेन प्रातिपदिकसंज्ञा न स्यात् । न च चित्रगुमानयेत्यादिषु कर्मत्वाद्यर्थबोधकत्वं समस्यमानोत्तर- पदार्थगतस्वार्थबोधकत्वं वा समासोत्तरविभक्तीनापिति वाच्यम्। अर्थपिप्पलीत्यादौ व्यभिचारात् । क्लुप्तव्युत्पत्तिभकापचेश्च । किं च समासस्य प्रातिपदिकतया तदेकदेशपुरुषादिपदार्थस्य पुरुषादेः प्रातिपदिकार्थत्वाभावेन तत्प्रकारकबोधो न स्यात् । न स्याच्च समस्यमानपदार्थयोः परस्परान्वयः। विभक्तिजन्यो- पस्थित्यभावेन राजपदार्थप्रकारकबोधायोगात् । अभेदातिरिक्त- सम्बन्धेन नामार्थप्रकारकबोधे विभक्तिजन्योपस्थितेर्हेतुत्वात् । किं च राजपदस्य सम्बन्धिान सम्बन्धे वा लक्षणा । नायः । राज्ञः पुरुष इति वाक्यस्य समासभिन्नार्थकतया तेन विवरणवि. रोधात् । नान्यः, विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभेदान्व- यव्युत्पत्त्या राजसम्बन्धरूपः पुरुष इति बोधापत्तेः । अतः समा- सेषु शक्तिरङ्गीकार्येत्याहुः ॥ अत्र गौतमीयाः। समासेषु क्लुप्तराजपदादेरेव सम्बन्धि- १४८. भादृचिन्तामणेः लक्षणया राजसम्बन्ध्यभिन्नः पुरुष इति बोधसम्भवेन शक्तिक- ल्पनं युक्तम् । महाधिकारस्याप्यजहत्स्वार्थलक्षणव्यपेक्षारूपसाम- र्थ सामासादविधाननापेपत्तेः । पदोद्देशेन विधीयमानः समासा- दिः समर्थः स्वार्थवाचकादनिष्ठ इति सूतार्थः । एतेन राजप- दार्थे शोभनादिविशेषणान्वयापत्तिः, निष्कौशम्बिः गोरथ इत्या- दौ कान्तयुक्ताादपदकल्पनापत्तिश्च परास्ता । राज्ञः पदार्थंक- देशतया तत्र विशेषणानन्वयात् । लक्षणया क्रान्ताशुपस्थिति सम्भवाच्च । लक्षणाशक्तिभ्यां बोधेच्छायां समासविग्रहनिय. मेन विभाषासूत्रोपपत्तेः। राजादिपदशक्त्यग्रहे राजपुरुषश्चित्रगु- रित्यादौ बोधाभावेन तत्र शक्तिग्रहस्यावश्यकतया पङ्कजादिप- देष्ववयवशक्तयग्रहोप बोधोदयेन तच्छक्तिग्रहस्यानावश्यकतया पङ्कजादिपदवलक्षण्यस्य स्पष्टत्वात् । किं च चित्रगुरिति समासस्य न स्वामित्वादी शक्तिः सम्भवति, तत्तत्पदेन सेवकदेशादिपती- त्या नियमेन तदप्रतीतेः तत्रतत्र शक्तिकल्पनायां नानार्थतापात्तः, पद्मत्वस्य तु नियतप्रतीत्या तत्र शक्तिरिति वैलक्षयम् । किं च प्राप्तोदक इत्यादावपि उदकपदे लक्षणा, प्राप्तादिपदस्य धातु- प्रत्ययतदर्थज्ञानविलम्बन तत्र लक्षणाया विलम्बितत्वात् । प्र- त्ययार्थस्य सन्निहितपदार्थगतत्वानुरोधाच्च । अत एव चित्र- ग्वादिपदेपि गोपदे लक्षणा । विरुद्धविभक्तिरहितप्रातिपदिका- र्थयोरभेदान्वयव्युत्पत्त्यङ्गीकाराच्च चित्रराजादिपदार्थान्वयास- दिः। न चैकलभणायामनेकमन्यपदार्थइति व्याकरणविरोधः तेनानेकस्यान्यपदार्थे वर्तमानस्य समासानुशासनादिति वाच्यम् । सर्वपदस्यापि तात्पर्यग्राहकतया परंपरया अन्यपदार्थबोधकत्वा- त् । अतोन्यपदे लक्षणा । घटादिपदशक्तिस्तु विशिष्टस्य सङ्के- तितत्वाद्विशिष्टे कल्प्यते । अस्तु, वान्त्यवर्णे शक्तिः । अत्र वर्कपादः। १४९ क्लप्तराजादिपदादेव लक्षणया नाशार्थबोधसम्भवे शक्तिक- ल्पनमन्याय्यम् । यत्तु समासे ऽर्थवत्त्वाभावात् प्रातिपदिकसंज्ञा न स्यादिति । तन्न । कृत्तद्धितसमासाश्चेति तद्विधानात् शश. शृङ्गमित्यायनर्थकेषु तद्विधानप्रयोजनकत्वात् । एतेन तत्र कर्म- त्वानन्वयदूषणमपास्तम् । समस्यमानपदलक्ष्यार्थगत स्वार्थबोध. कत्वव्युत्पत्त्यङ्गीकारात् । विशिष्टशक्तिस्वीकारे उक्तरीत्या उक्त- स्मृतिविरोधः। विशिष्टस्यातिरिक्ततयानकत्वासम्भवातू । अतो लक्षणैव युक्तेत्याहुः॥ आचार्यादयस्तु बहुदीही शक्तिरेच, तस्य मतुवर्थसमाना र्थकत्वात्, मतुपो गोमांश्चैत्र इत्यादावभेदान्वयाय सम्बन्धिवा- चित्वनिश्चयात् । अत एवेन्द्रपीताधिकरणे तत्पुरुषाबहुव्रीही लाघवमङ्गीकृतमित्याहुः ॥ अत्र मीमांसकैकदेशिनः ॥ "सर्वत्र यौगिकैः शन्दैव्य- मेवाभिधीयत" इति वातिकात् सर्वेषां कृतदिनसमासरूपयो- गिकशब्दानी द्रव्ये शक्तिमाहुः ॥ परे तु अनितिशक्तिकैकदेशयोगिकपदपरमिदं वार्तिकं तेन पा. चको गोमानित्यादिकृत्तद्धितानां द्रव्यवाचित्वेपि बहुव्रीहेर्न तद्वा- चित्वं तत्रापि विशेष्ये द्रव्याविनाभूतगुणवाचकपदबहुव्रीहेरेकहाय- नी पिङ्गाक्षीत्यादेव्यवाचित्वे द्रव्याक्षेपकत्वे वा चित्रगुरित्यादी तदसम्भवेन द्रव्यलक्षणाया आवश्यकत्वात् । अतः क्व चिर- हुवीही लक्षणा ॥ न चैवामिन्द्रपीताधिकरणाविरोधः । इन्द्रपीत- पदे तत्पुरुषेपि पूर्वपदलक्षणया पीतपदे ताइतषलक्षणया लक्षणाद्वयापत्त्या लाक्षणिकबहुव्रीह्यपेक्षया तत्पुरुषस्य ढर्बलत्वा- सिद्धान्तसिद्धिः । अत एव निषादस्थपत्यधिकरणे लक्षणा- पत्त्या तत्पुरुषापेक्षया कर्मधारयस्य प्रावल्यमुक्तम् । अन्यथा SHIVAMANAS ISRO PARAN Aaw PARAN MER htra - HIMANER ACTRE SHARMA BHENNAL Hawa MANOHAR SARAN - १५०. भादृचिन्तामणे तत्र ज्ञानोपायाक्षेपलाघवेन , बहुव्रीह्यापत्तेढुंरुद्धरत्वात् । अत: क्व चिबहुवीही लक्षणेत्याहुः ॥ ये तु सर्वत्र बहुव्रीहौ शक्तिं मन्यन्ते तेषां भावं नाकलयामः॥ अन्ये तु मतुपोपि सम्बन्धो वाच्यः । तस्य चैत्रे प्रकारतया ऽन्वयः । सम्बन्धिनि वा लक्षणा । तेन बहुवीहेर्न मतुबर्थकत्व- मित्याहुः ॥ अहं तु ब्रुवे। समासेषु न शक्तिर्न पा लक्षणा, किं तु समा- सोपस्थितविग्रहवाक्यादेव बोधः । श्लोकादावन्वयवाक्यादिवत् । अत एव रामेश्वर इत्यादौ । रामस्तत्पुरुषं प्राह बहुव्रीहिं महेश्वरः । अन्ये तु ऋषयः सर्वे कर्मधारयमूचिरे ॥ इत्यादौ तादृशविग्रहवाक्योपस्थित्यैव बोधः । एवं च विग्रहसंदेहे बोधसंदेहो ऽप्युपपद्यते । अतः समासवा- क्यस्य क्ग्रिहवाक्योपस्थित्या बोधजनकत्वं युक्तम् । न च बहु- वीही विग्रहवाक्यात्पुरुषप्रकारको बोधः समासे तु पुरुषस्य विशे. प्यत्वेन भानामति कथं वैषम्यमिति वाच्यम् । चित्राणां गवां यः प्राप्तस्योदकस्य यः कृतस्य विश्वस्य य इति विग्रहवाक्य- स्यापि तादृशस्याङ्गीकारात् । न चैवं सर्वत्र षष्ठीबहुव्रीह्यापच्या शेषो बहुव्रीहिरिति सूत्रानुपपत्तिरिति वाच्यम् । तस्योक्ताव्य- यीभावादिसंज्ञसमासभिन्नपरत्वात् । अत एव निषादस्थपति- मित्यादौ व्यधिकरणतत्पुरुषात् समानाधिकरणतत्पुरुषस्य ज्या- यस्त्वं सङ्गच्छते । सामानाधिकरण्यवैयधिकरण्ययोर्विग्रहवाक्या- धीनत्वादिति । विशेषणपदे सामानाधिकरण्यं च विशेष्य- समानलिङ्गरूपत्वानुरोधकृतसमानविभक्तिविशेषकत्वम् । तेन देवदत्तस्य पत्न्या इत्यत्र विशेषलिङ्गकत्वाभावाद्देवदत्तः पचतीत्या- । तर्कपादः । १५१ दौ समानविभक्तिकत्वाभावान्नातिप्रसङ्गः । सामानाधिकरण्यं च भिन्नप्रवृत्तिनिमित्तकानामेकत्र प्रवृत्तिः । अत्र लिनियमाननु- शिष्टविभक्तचन्तत्वं विवक्षणीयम् । तेन देवदत्तो मित्रमित्यादौ न व्यभिचार इति दिक् ॥ अथ राजपुरुष इति तत्पुरुषे पूर्वपदे लक्षणा । न च तत्र लुप्तषष्ठयैव सम्बन्धवाधान शक्तिर्न वा लक्ष- णेति वाच्यम् । षष्ठीलोपमजानतोप्यर्थप्रत्ययात् । किं चैवं साधु- शब्दस्मारकत्वेनापदंशोपयोगवद्विग्रहस्मारकत्वमात्रेण समासो- पयोगः स्यात् । न च सम्बन्धस्य संसर्गतया भानोपपत्न लक्षणति वाच्यम् । विग्रहसमासयभिन्नार्थत्वापत्तेः । विग्रह- वाक्ये सम्बन्धस्य प्रकारतया समासे संसर्गत्वायोगात् । अतो लक्षणावश्यकी ।। अत्र पक्षधरः । राजपदेन राजसम्बन्धी लक्ष्यते । राजसम्बन्धी पुरुष इत्यनुभवात् । विरुद्धार्थकविभक्तय- वरुदयोः प्रातिपदिकार्थयोमैदान्वयस्य व्युत्पत्तिसिद्धत्वात् । एवं घटो नेत्यत्रापि घटपदेन घटप्रतियोगिकलक्षणया घटप्रति- योगिकाभावयोरभेदान्वयानुभवः । अतो राजपदेन सम्बन्धी लक्ष्यत इत्याह । अन्ये तु राजपदेन सम्बन्ध एव लक्ष्यते, लाघवा. त् । न चात्राभेदस्य नियमतः प्रतीतिः । नीलोत्प- लमित्यादिसमानाधिकरणतत्पुरुषे ऽपि नीलस्यैव समवाये- न प्रकारत्वाद्भेदान्वयः । नीलमुत्पलमिति वाक्ये तु समान- विभक्तयवरुद्धत्वस्य विरुद्धविभक्तचनवरुद्धत्वापेक्षया लघुतया तन्त्रत्वादस्त्वभेदान्वयः । एवं च भिन्नप्रतिनिमित्तकत्वे .सति एकधर्मयुपस्थापकत्वरूपं सामानाधिकरण्यं नीलघटयोरभेद इ- त्यादिव्यवहारश्च युज्यते । नीलरूपघटत्वयोराश्रयाभेद इति Baba RANA Swati RAI ANNAREERTHD THANIACTS RFEMINE BANSHA HAPPINA SHRESTHA ARMER YAMAMATA PANNA । - १५२. भादृचिन्तामणे: वाक्यार्थः । तेन समासे समानविभक्तिकत्वाभावादभेदप्रत्यया- योगेने सम्बन्धमात्र लक्ष्यते । अर्धपिप्पलीत्यत्रापि पिप्पलीपदेन सम्बन्ध एव लक्ष्यतइत्याहुः ॥ परे तु नीलोत्पलामति कर्मधारये नीलपदस्य नील- वति लक्षणा । अभेदश्वोत्पले प्रकारतया भासते व्यास- समासयोः समानप्रकारकभानजनकत्वनियमात् । यदि च व्यासेपि कर्मत्वार्थकद्वितीयाया अभिन्ने लक्षणा तस्य चोत्पले ऽभेदेनान्वयस्तदा समासे ऽप्यभिन्ने लक्षणेति समानार्थकत्लो- पपत्तिरित्याहुः ॥ अन्ये तु विशेषणविभक्तेः साधुत्वार्थत्वादभेदस्य व्या- से समासेपि संसर्गतयैव भानम् । अन्यथा ऽभिन्नलक्षणा- यां नीलाभिन्नाभिन्नमुत्पलमिति बोधः स्यात् । अभेदलक्षणा.' यामपि लक्षणैव दोषः । अतः कर्मधारये न लक्षणा । अत एव निषादस्थपातशब्दे तत्पुरुषबहुव्रीह्यपेक्षया लक्षणाभावलाघवेन कर्मधारयोङ्गीकृतः । अङ्गीकृतं च फलमुखमध्ययनयुक्तं गौरव- मित्याहुः ॥ चार्थे इन्द्र इति विहिते द्वन्द्वे पदद्वये लक्षणा । तथा- हि । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चत्वारश्चार्थाः । तु. ल्यवदुभयोः क्रियाप्रयोजकत्वे समुच्चयः । अन्यतरस्थापयोजक- त्वेन्वाचयः । चकारसमाभिव्याहार एवैतद्वोधक इति न तयोः समासः ।चार्थे द्वन्द्व इति सूत्रेण चकारमात्रबोधितेथे द्वन्द्ववि- घानादनयोश्चकार विना अपिशब्देनाप बोधाच्च । इतरेतरयो- गसमाहारयोस्तु तकारमात्रार्थत्वात्तत्रैव समासः। यथा धवख- दिरौ छिन्धि कुशपलाशमानयेति । अत्रेतरेतरयोगद्वन्द्वस्थपदो- पस्थितयोर्धवखादेरयोश्छिादाक्रयान्वयेन द्वित्वान्वयेन च कुत्रा- तर्कपादः। पि न शक्तिलक्षणा वा, घटी घटा इत्यादिस्वरूपैकशेषेपि न ल. लणा, घटपदाच्च शक्तथैव युगपनानाघटोपस्थितौ द्वित्वबहुत्वा. न्वयसम्भवात, पितरावित्यादिविरूपैकशेषेषु पिकृपदेन जनक दांपत्ये लक्षिते द्वित्वान्वये लक्षणैव, पाणिपादमित्यादौ समाहा. रद्वन्दप्येकत्वान्वयानुरोधेन तावत्पदावृतिरेकबुद्धिविषग्ररूपः समाहारो लक्षणयोपस्थाप्यते इति सिद्धान्तः । अत्र के चित् । इतरेतरयोगे विभक्त्युपस्थिते द्वित्वादिसंख्यायो घवे खदिरे चान्वयः । तत्र च न धवत्तायन्वयितावच्छेदकं द्वित्वपर्याप्त्य. धिकरणत्वानवच्छेदकत्वाद्, विभक्तेः प्रकृत्यर्थतावच्छेदकव्याप्य. संख्याभिधायकत्वनियमात् । अतो धरपदं साहित्याश्रयतया ध. वखदिरौ लखे गयोपस्थापयतीति साहित्यावच्छि ने द्वित्वान्वयः। नचैवं खदिरपदवैयर्थ्यम् । साहित्याश्रयविशेषलाभतात्पर्यक- त्वात् । वृत्तिद्वयविरोधापत्त्या घवेपि लक्षणैक, अत इतरेतरयो- गद्वन्दै लक्षणा आवश्यकी । एवं च मित्रावरुणपदे मित्रयोर्वरुण- योरिति विग्रहोपर्दर्शकं वाक्यमुपपद्यते । अन्यथा द्विवचनानुप- पत्तेः। एवं समाहारद्वन्द्वेप्येकत्वान्वयार्थ साहित्ये लक्षणावश्यकी। परं वितरेतरयोगद्वन्द्वे साहित्याश्रये लक्षणा, एवं च विभक्तः प्रकुत्यर्थगतस्वार्थबोधकत्वव्युत्पचिरपरित्यक्ता भवति । एवं स- रूपैकशेषस्थलेपि साहित्योपस्थित्या द्वित्वान्वय्यर्थे लक्षणेत्याहुः ॥ तन, प्रत्यक्षेणेव पदद्वयेनोपस्थिते ऽर्थद्वये द्वित्वान्वयसम्भवात् । योग्यतावच्छेदकप्रकारकज्ञानस्य शाब्दबोधहेतुत्ने मानाभावात् विभक्तेः पदार्थतावच्छेदकधर्मसमानाधिकरणसंख्याभिधायक- स्वाच्च । अत एव घटेन जलमाहरतीत्य सच्छिद्रेतरत्वेन न घटो- पस्थितिः किं तु घटत्वेनैव, घटश्च पटश्च स्त इति द्वित्वान्वयश्च । एतेन सुप्तिोरेकसंख्याभिधायकत्व लक्षणसामानाधिकरण्यनिय- HTRA STMini-A admi-AANIFE E Sanily २.

भादृचिन्तामणेः मादेकत्वेनोपस्थिते द्वित्वान्वयासम्भवाचैत्रो मैत्रश्च गच्छत इ. त्यादौ चकारोपात्तसाहित्यान्वयिनि द्वित्वान्वयेन क्रियायां वा द्वित्वान्वयेन बोधः । अन्यथा एकत्वेनोपस्थिते द्वित्वान्वये एको द्वाविति प्रतीत्यापत्तिरिति परास्तम् । वस्तुतो यत्र सुबुपस्थाप्यसं. ख्या तिकुपस्थाप्यसंख्याविरोधिनी तत्र सामानाधिकरण्यानुपप- त्तिः । सुबद्वयोपस्थाप्यैकत्वद्वयस्य तिङपस्थाप्यद्वित्वेन विरोधा- भावाद् घटश्च पटश्च स्त इति प्रयोगो युक्तो न त्वेको द्वाविति तत्रैकत्वस्य विरोधित्वादिति। न च समाहारलक्षणायां पाण्यादीनां क्रियान्वयो न स्यादिति वाच्यम् । परंपरासम्बन्धेन पाण्यादी क्रियान्वयाङ्गीकारात् । के चित्तु एवं नयतत्पुरुषे ऽप्यघटः पट इत्यादौ घटप्रतियोगिकान्योन्याभावे नबो लक्षणा, तत्राप्यन्वयि- तावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य व्युत्पत्तिलभ्यत्वाद न्योन्याभावमात्रे लक्षणा । एवं च घटप्रतियोगिकान्योन्याभाव- पान् पट इति बोधः । एवं न घट इति वाक्ये ऽपि लक्षणैव । नना संसर्गाभावे शक्तत्वादिति दिक् ।। इति श्रीगागाभहकृते भादृचिन्तामणौ समासवादः ॥ अथ नबर्थो विचायते । घटो नास्तीत्यादौ घडपदस्य घट- प्रतियोगिकाभावे लक्षणा, ना तूपसर्गवल्लक्षणातात्पर्यग्राहक इति नास्त्येव नबर्थ इति के चित् ।। तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्य विरोधश्च नगर्थाः षट प्रकीर्तिताः ॥ इत्युक्तेः षट्स शक्तिरित्यन्ये । संसर्गाभाव एव नअर्थो न भेदः। घटो न पट इत्यादौ नमर्थभेदस्याभेदातिरिक्तसम्बन्धेन ।

PER नबर्थः तपादः। पटे ऽन्वयासम्भवात्तद्देदवति लक्षणाया मावश्यकत्वात् । असा संसर्गाभाव एव नअर्थ इत्यन्ये । संसर्गाभावो ऽन्योन्याभावश्च : । तदात्म्यसंसर्गाव- 'च्छिन्नप्रतियोगिताकाभावत्वं तादात्म्यारोपजन्यमतीतिविषया- भावत्वं प्रतियोग्यवच्छेदकदेशकालावच्छेदेन प्रतियोगिसमाना- धिकरणाभावत्वं वा अन्योन्याभावत्वम् । तदन्याभावत्वं संसर्गाभावत्वम् । आरोपश्च प्रत्यक्ष इव शाब्दोपि ग्राह्यः । तेनातीन्द्रियप्रतियोगिकाभाचे नाव्याप्तिः । अभावबुद्धौ प्रति- योग्यारोप एच नियामको न तु तदारोपसम्बन्धो नियामकः । तत्संसर्गे गौरवाद्, घटो भविष्यति नष्ट इत्यादौ प्रतीतिविषय. योः प्रगभावध्वंसयोनवर्थत्वायोगाकपाले घटो नेत्यादी अ- त्यन्ताभावस्यैव प्रतीतेः । अत्यन्ताभावान्योन्याभावावेव नवौँ न संसर्गाभावत्वेन तस्य शक्तिरिति पितृचरणाः । एतेन पीतघटवाति नीलघटो नास्तीति प्रयोगप्रत्ययौ न वा घटवति नीलो घटो नास्तीति प्रयोगः । तत्र च नवर्यान्वयितावच्छेदकस्य प्रतियोगितावच्छेदकत्वनियमः । घटो नास्तीत्यत्र घटत्वस्योभ- यरूपत्वात् । कम्बुग्रीवादिमानास्तीत्यत्र कम्बुग्रीवादिमत्त्वमेक तथा । न च तस्यान्वयितावच्छेदकत्वेपि गौरवान्न प्रतियोगि- तावच्छेदकत्वमिति वाच्यम् । उपस्थितस्यैव प्रतियोगिताब- च्छेदकत्वे लाघवात् । अननुप्रविष्टत्वेन गौरवाभावात् । अन्व- यितावच्छेदकता च पर्याप्तिसम्बन्धेन बोध्या तेन घटवाति घर- पटौ. न स्त इति प्रत्ययप्रयोगो घटत्वपटत्वयोरन्वयिताव. च्छेदकत्वोप तत्पर्याप्त्यनाधिकरणत्वात् । द्वित्वस्यैव तादृशत्वेन प्रतियोगितावच्छेदकत्वाद् इति के चित् ॥ मन्ये कम्युग्रीवादिमाश्चास्तीत्यत्रान्वयितावच्छेदकं नमतियो- । FR RATORS भाइचिन्तामणेः गितावच्छेदकं गौरवात् । घटपटौ न स्त इत्यत्रान्वयितानव- च्छेदकमपि प्रतियोगितावच्छेदकं प्रतीतिबलादित्याहुः ॥ अत्र चाभावाधिकरणभूतलादिप्रकारकामावविशेष्यकबो- धे ऽधिकरणप्रकारकमतियोगिविशेष्यकबोधसामग्रीहेतुः । सा च सप्तम्यन्तभूतलादिपदसमाभिव्याहारः । एवमभावप्रका- रकाधिकरणविशेष्यकबोधे ऽपि तेन भूतलं घटे भूतले न घटः चैत्रः पचति न पचति चैत्र इत्यादिप्रयोगपत्य- याः । अन्यथा भूतलं न घटः चैत्रो न पाककृतिरित्यत्राधिकर- गवाचिसप्तम्यन्तपदाभावप्यत्यन्ताभावबोधः स्यात् । अत एव पृथिव्यां गन्धो न जलइत्यादौ गन्धविशेष्यक एव बोधः ।। अन्ये तु नो ऽभावमात्रे शक्तिः। शक्यतावच्छेदकं च लाघ- बादभावत्वम् । अतो नान्योन्याभावे लक्षणा। न चैवमपि घटप- दानीलघटत्वप्रकारकप्रतीतो घटपदलक्षणे वान्योन्याभावप्रकार- कमतीत्यर्थ नबो लक्षणावश्यकी । अन्यथा न घट इत्यत्राभावाप्र. कारकमतीतो घटः पटो नेति प्रतीत्यनन्तरं घटा पटो न वेति संशयः स्यात्, भिन्नप्रकारकत्वेनाभावनिश्चयस्यामतिबन्धकत्वा- छ । एवं वाक्ये प्रतिषेधस्थले ऽपि संसर्गाभावभतीत्यर्थ लक्षणाव- श्यकीति वाच्यम् । प्रतियोग्यधिकरणवाचकपदयोः समानविभ- क्तिकत्वस्यान्योन्याभावबोधहेतुत्वस्य तयोः प्रथमादिविभक्तिक- त्वस्यात्यन्ताभावबोधे हेतुत्वस्य च कल्पनया लक्षणाया अभावात् । यद्वा नसमभिव्याहारे यत्पदार्थयोराधाराधेयभावसंसर्गेणान्वयः। सत्रात्यन्ताभावप्रत्ययः । यत्राभेदसंसर्गेणान्वयस्तत्रान्योन्याभाव- भानषिति व्युत्पत्तिः । तेन न पचति चैत्र इत्यत्रात्यन्ताभावबो- धः मुवचः । किं चात्रात्यन्ताभावबोधो न नियतः । कदा चिद- स्मादेव वाक्याल्पाकानुकूलकृतिमानिनक्षेत्र इत्सन्योन्याभाव- तर्कपादः। '१५७ स्यापि बोधात्, अतस्तादृशतात्वर्यज्ञानात्तादृशो बोध इति न लक्षणावश्यकीति । न चैवं प्रतिषेधपर्युदासयोस्तुल्यत्वापत्तिः । इष्टापत्तेः । नानुयाजेषु न होतारं वृणीतइत्यत्र वाक्यभेदक- रोत्यनुषङ्गविकल्पपरिहाराणां पर्युदासबीजत्वात् । न तौ प. शावित्यत्र पशुपकरणाभावस्य निषेधचीजत्वात् । एवं च समासे वाक्ये वा कापि न लक्षणति के चित् ।। दीधितिकारास्तु संसर्गाभावत्वमन्योन्याभावत्वं च नमः शक्य. तावच्छेदकामिति नमो नानार्थत्वं, तथाप्यघट इति समासे ऽन्यो- न्याभाववदुपस्थित्यर्थ नबो लक्षणा । अत एव प्रतिषेधापेक्षया पर्युदासो दुर्बलत्वेन गीयते । नानुयाजेष्वित्यत्र प्रतिषेधेपि न विंकल्पापत्तिः।अन्वयितावच्छेदकावच्छिन्नमतियोगिताकत्वस्या- पि विशेषविधिनिषेधयोविशेषनिषेधाभ्यनुज्ञाफळकत्वनियमस्य ध्यपत्तिासिद्धतया विधिप्रतिषेधयोरुद्देश्यतावच्छेदकैक्ये विधेय प्रतिषेध्यतावच्छेदकैक्ये च विकल्पस्य युक्तत्वात् । यथातिराने षोडशिनं गृहाति नातिरात्रे षोडशिनं गृहातीत्यादौ न तो प- शौ करोतीत्यत्र च । तत्राप्यतिदेशशास्त्रस्य पशूद्देश्योनाज्यभा- गजन्योपकारविशेषविधिपरत्वेन विधिनिषेधयोरेकविषयत्वात् । नानुयाजेष्वित्यत्र तदभावेन वैषम्यात् । अतो ऽत्र पूर्वोक्तयुक्त्यै- व पर्युदाससिद्धिरित्याहुः ।। के चिन्तु निषेधस्य प्रसक्तिपूर्वकतया इष्टसाधनत्वेन प्र- मितस्य निषेधविषयत्वनियमः । एवं च . विध्यार्थव्यतिरे- कबोधकनिषेधेनानिष्टसाधनत्वं निष्फलत्वं वा निषेधस्य बो- ध्यतइत्युभयोः मापाण्यायोगात् ब्रीडिशास्त्रयवशास्त्रयोरिवा- शतः पाक्षिकप्रामाण्याङ्गीकारेण विकल्पापत्या सामान्यविधे- विशेषविधिसममिव्याहारेण तदितरपरत्वरूपपदासाङ्गीकार- १५८. भादृचिन्तामणे इत्याहुः ।। अत्रेदमाभाति । सर्वत्र नमर्थस्यान्वयितावच्छेदकावच्छि- अप्रतियोगिताकत्वव्युत्पत्तिः । अन्यथा नीलघटवति नेह घट इत्यत्यन्ताभावव्यवहारस्य, नीलघटो न घट इत्यन्योन्याभावव्य- वहारस्य चापत्तिः । न च पदार्थैकदेशस्य घटत्वस्य कथम- भावान्वयः । अभावस्यैव घटेन सममन्वये घटत्वावच्छिन्नपति- योगितायाः संसर्गत्वात् । सा च विलक्षणप्रतियोगिताविशेष इति के चित् । यत्रानुयोगिवाचकपदे सप्तमी तत्रात्यन्ताभाव- बोधः, यत्र प्रथमा तत्रान्योन्याभावबोध इति व्युत्पत्तिमाहुः॥ परे तु तादृशव्युत्पत्तेर्न पचति चैत्र इत्यादावत्यन्ताभावम- खये व्यभिचारादेवं वाच्यं, नवसमभिव्याहाराभावे यत्पदार्थयो- राधाराधेयभावसंसर्गेणान्बयस्तत्रात्यन्ताभावप्रत्ययः । यत्राभे- दसंसर्गेणान्वयस्तत्रान्योन्याभावभानामति । एवं च चैत्रः पच- नीत्यादावाख्यासार्थयत्नस्य समवायेन चैत्र भानम् । न पचती- त्यत्र यत्नाभावः । तत्सम्बन्धावच्छिन्न एवाधाराधेयभावनियाम- कस्वरूपसम्बन्धेन चैत्रे भासतइति । एवं चैत्रस्य धनामित्यत्रापि षष्ठयर्थ स्वामित्वस्य धने निरूपकत्वसम्बन्धावच्छिन्नमतियोगिता- काभावो विशेषणतया भासते । यदि तु स्वत्त्वं षष्ठय- थस्तदा चैत्रनिरूपितस्वत्त्वाभाव आश्रयतासम्बन्धेन भासतइति। एवं नअसमभिव्याहाराभावे यादृशप्रतियोग्यनुयोगिवाचकप- दयोर्विरुदावभक्तयर्थानवरुद्धयोरभेदान्वयव्युत्पत्तिः । तत्समाभि- व्याहृतनया ऽन्योन्याभावबोधः । अत एव समानविभक्ति- कप्रतियोग्यनुयोगिवाचकसमाभिव्याहृतनापदजन्यबुदिविषयत्व- मन्यान्यामावलक्षणापत्याहुः ।। अन्ये तु भूतले न घटा, पटोन पट इत्यत्र. भूत- CHANN FANARTH १५९ सकपादः । लाधिकरणको घटप्रतियोगिको भावः पटभातयोगिकभेदवान् घट इति बोधः । यत्र तु घटो नास्ति घटपटौ न स्त इति क्रियासमाभिव्याहारस्तत्र लडर्थवर्तमानत्वेन नअान्वयः, सत्रैव च भूतलाघयत्वान्वयः, एकत्वान्वयस्तु प्रथमान्त; घटपदार्थे, तथा च भूतलवृत्तिवर्तमानत्वाभावाश्रय एकस्वाश्रयो घटः, भूतलवृत्तिवर्तमानत्वाभाववन्तौ द्वित्वावच्छिन्नौ घटपटावि- ति बोधः । एवं जाती सत्ता नास्तीत्यत्र सत्ताभावो जाता- विति बोधो जात्याधेय इति वा बोध इत्याहुः ।। अत्र च सर्वत्र प्रातिपदिकार्थे नगर्थे घटपटादीनामभेदाति- रिक्तेन प्रतियोगित्वसम्बन्धनान्वयः । निपातेषु भिन्नव्युत्पत्ति- स्वीकारादिति के चित् । घटपदस्य घटप्रतियोगिके लक्षणाङ्गी- कारे न कोपि दोष इति दिक । इति श्रीगागाभट्टकृते भादृचिन्तामणौ नर्थवादः। उपसर्गरूपा निपातरूपाश्चोपशन्दाः । म, परा, अप, सम्, अनु, अब, निस, निर्, दुस, दुर्, वि, भा, नि, अधि, अपि, अति, सु, उद्, अभि, प्रति, परि, उप, इत्युपसर्गा द्वाविंशतिः । एतद्भिन्ना नयादयो निपाताः । प्रादीनां च धातुसमभिव्याहारएवोपसर्गत्वं निपातत्वं च । त- त्रापि कश्चिद्धात्वर्थमतिक्रम्य वर्तते । कश्चित्तमेव विशिनष्टि । यथा प्रस्थानं पराजयः प्रवेशो विजय इति । अत्र गमनजयाभा- वावुपसर्गार्थों, प्रविशतीत्यादौ तन्निष्ठः प्रकर्षः विजयतइत्यादौज- यत्यर्थे विशेषः । चादिनिपातानों केषां चित्केवलप्रयोज्यत्वोपि सहमयुज्यमानपदार्यान्वयित्वं तदर्थानाम् । यया । Hani Eainik ANTARNAME RAHIRE भादृचिन्तामणे तटस्थः स्वानर्थान्घटयति च मौनं च भजते विकारः कोप्यन्त डयति च तापञ्च कुरुते इत्यादी लोके मैत्रीवरुणः प्रेष्यति चान्वाहेत्यादौ वेदे स. मुच्चयः । चार्थो भावनान्वयी, घटं च पटं चानयेत्यादौ लोके यदग्नये चेत्यादिवेदे चोपपदार्थान्वयित्वं, तेनामिनिरूपितसमुच्च- यस्य प्रजापती विशेषणत्वेन समुच्चयस्य भावनान्वयाभावेन न विधिः, किं तु समुच्चयविशिष्टप्रजापतिविधिः । न चैवं गौश्चा- श्व इत्यत्र दक्षिणोद्देशेन समुच्चयविधिन स्थात् । इष्टापत्तेः । विशिष्टदक्षिणाविध्यङ्गीकारात् । तत्याश्च ऋत्विग्भ्यो ददातीति विनियोगश्चमसाध्वर्युव्यावृत्त्यर्थः । एतच्च दशमे स्फुटम् ॥ तत्रोपसर्गा-योतका न बाचकाः । प्रजयतीत्यादौ प्रकृष्ट- जयादौ जिधात्वादेर्लक्षणयेवोपपत्तेः, तत्र शक्तिकल्पने गौरवा- त् । प्रतितिष्ठतइत्यत्र गमने प्रशब्दार्थे विभक्तयर्थानन्वयमस- जात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वात् । न चैवं न. मोप्यभावे शक्तिर्न स्यादिति वाच्यम् । भूतलं न घुट इत्यत्र घट- पदलक्षितभेदस्य नामार्थयोभैदान्वयाव्युत्पत्त्या भूतले ऽनन्वया- पत्तेः । भेदस्य नअर्थत्वे तु निपातार्थांतिरिक्त तन्नियमान भे- दान्वयानुपपत्तिः । न च घटपदस्य घटभिन्ने लक्षणया भूतले. नान्वयोस्त्विति वाच्यम् । भेदप्रकारकबोधस्यानुभावकत्वादि- ति के चित् ॥ अन्ये तु धातौ शक्तिलक्षणयोरुपसर्गसमभिव्याहारतदमा- वहेतुकत्वस्य उपसर्गाणां द्योतकत्वशक्तेश्च कल्पनायां गौरवाट् वाचकतैव युक्ता । एवं चैवकारादावन्ययोगव्यवच्छेदायोगव्य- वच्छेदयोरिवकारादीनां सादृश्यादीनां शक्तिप्रदर्शनमुपपन्नम् । अत एवात्र होचावपन्त्यत एवोदपन्तीति वैदिकायोगस्य, तत्र- ।

। तर्कपादः। वायाति इत एवाभिवर्तत इति लौकिकपयोगस्य, चोपपत्तिः । अतो वाचकत्वमित्याहुः ॥ त्वतलादिभावप्रत्ययानां घटत्वं पीत्वमित्यादौ घटत्वत्वेन घटत्वादिकमर्थः । घटत्वत्वं च घटेतरासमवेतत्वे सति घटनिष्ठा. न्योन्याभावप्रतियोगितानवच्छेदकत्वे सति समवेतत्वम् । अ. प्रेतरसमवेताभावनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वाभा- वसमवेतत्वे षट् शक्तयः । संसर्गः समभिव्याहारलभ्यः । सत्त्व- मित्यादावकदेशे लक्षणा । तत्र सदितरासमवेतत्वस्याप्रसिद्धः । एवं प्रमेयत्वमित्यत्रापि । एवमन्यत्राप्यूह्यम् ॥ के चित्तु भावप्रत्ययस्य धर्मत्वेन धर्म शक्तिः । धर्मत्वमा- धेयत्वं शक्यतावच्छेदकं, शक्ततावच्छेदकं तु स्वतळत्वादिकं न भावप्रत्ययत्त्वम् । घटत्वमित्यादौ घटधर्म इति बोधः। पटे घटत्वं नास्तीत्यत्र तु नबर्थस्य घटमात्रवृत्तित्वविशिष्टभावप्रत्ययार्थे धर्म ऽन्वयः। भावप्रत्ययसमभिव्याहृतनबः प्रकृत्यर्थमात्रवृत्तित्वविशि- धूप्रतियोगिताकाभावबोधकत्वव्युत्पत्तेः । एवं समासांद्युत्तरभा. वप्रत्ययपि नीलोत्पलत्वमित्यत्र नीलोत्पलधर्म इति बोधः । समा- सोत्तरभावप्रत्ययस्य प्रकृत्यर्थवृत्तित्वावशिष्टधर्मबोधकत्त्वव्युत्पत्त्या न रक्तोत्पले नीलोत्पलत्वमिति बोध इत्याहुः ॥ अन्ये तु कृत्तद्धितसमासोत्तरभावप्रत्ययस्य पदार्थतावच्छे- दकद्वयसामानाधिकरण्ये शक्तिः, लोके पाचकत्वमौपगवत्वं नी- लोत्पलत्वमित्यादौ वेदे च वैश्वदेवीत्वं निषादस्थपातत्वमित्यादौ पाककृतिपुरुषत्वयारुपगुसम्बन्धत्वापत्यत्वयो लत्वोत्पलत्वयो- विश्वदेवदेवताकत्वामिक्षात्वयोनिषादत्वस्थपतित्वयोः सामाना- धिकरण्यस्य विशेषणतया भानादिति ॥ अन्ये तु सामानाधिकरण्यस्योत्तरपदार्थतावच्छेदकविशेष- २१ भादृचिन्तामणे णतया भानम् । सामानाधिकरण्यमात्रे शक्तिः । प्रत्ययानां प्रक. स्पान्वितस्वार्थबोधकत्यनियमात् । प्रत्ययार्थप्राधान्यनियमस्य भावप्रत्ययार्थातिरिक्तसमासायतिरिक्तपरत्वात्तेन नीलत्वसमा. नाधिकरणमुत्पलत्वमिति बोध इत्याहुः ।। परे तु नीलादिपदस्य तत्समवायिनि लक्षणा । अभेदःसं- सर्गः। नीलत्वसमाय्याभिन्नसमवेतोत्पलत्वमिति बोध इत्याहुः ।। वैश्वदेवीत्यादितद्धितस्य देवतात्वविशिष्टे सर्वनामार्थे शक्तिः, सर्वनामार्थश्च बुद्धिस्थप्रकारविशेषावच्छिन्न पयस्त्वादि, एवं च प्रातिपदिकाविश्वदेवानां देवतात्वे देवतात्वस्य च निरूपकत्वे. न सर्वनामाव्यविशेषणत्वेनान्वयः । ससंवन्धिकत्वादेकदे- शान्वयेपि न दोषः । आमिक्षापदे तु प्रकाराविशेषोपस्थापने त. द्वितस्य तात्पर्यग्राहकत्वमिति माञ्चः ॥ के चित्तु तद्धितस्य सर्वनामार्थे शक्तिर्देवतात्वे तु निरूढ- लक्षणा, कृत्प्रत्ययानामाश्रयवाचिनां कृताविच विश्वदेवमातिष- पदिकार्थस्य लाक्षतदेवतात्वे ऽन्वयो व्युत्पत्तिवैचित्र्योंदित्याहुः ।। अन्ये तु तद्धितार्थो द्रव्याविशेष एव, देवतात्वंतुं प्रातिपदि- कार्यतद्धितार्ययोः संसर्ग इत्याहुः ।। परे तु देवतात्वमेव तदितार्थः, सर्वनामार्थस्य व्यक्तिन्या- येन बाध इत्याहुः ॥ अपरे तु तद्धितेनानिर्धारितविशेषद्रव्यसामान्यमतीतेन द्र- व्याविशेषवाचित्वं, किं त्वामिक्षापदादेव विशेषनिर्णय इत्याहुः ।। देवतात्वबोधकानि च देवताशब्दस्तद्धितश्चतुर्थी द्वितीया मन्त्रवर्णश्चेति, देवतास्तर्पयति मजापतिर्ब्रह्मा देवता इत्यादी रात्रिदेवतामेके नक्षत्रदेवतामेके इत्यादौ च द्रव्यत्यागोहे. श्यत्वरूपदेवतात्वस्य देवतापदवाच्यस्याम्चयः । धात्वर्थ- तर्कपादः। त्यागांशेनुगदः । एबमाग्नेय इत्यादिवदितस्य देवतात्वविशि- ष्टद्रव्यविशेषवाचित्वम् । न च द्रव्यविशेषवाचित्वमसिद्धमिति वाच्यम् । बुद्धिस्थप्रकारावाच्छन्नबाधकसर्वनामार्थे सास्यदेवतेति तदितविधेः । एवं च तद्धितस्य देवताखविशिष्टे बुद्धिस्थप्रकारे ऽष्टाकपालस्वादौ तव्यक्तित्वादौ वा शक्तिस्तदवाच्छिन्नस्य तु व्यक्तिन्यायेन लाभः । बुद्धिस्थत्वेन भानाभावात्तु न बुदिस्थवे शक्तिः । तेषां प्रकाराणां नानात्वेपि बुद्धिस्थत्वस्योपलक्षणत्वेन शक्तिग्रहसम्भवः, शक्तिग्रहोपलक्षणस्य न शक्यतावच्छेदकत्व- मिति दिक ॥ तदादिपदानां बुद्धिस्थित्वेन बुद्धिस्थे शक्तिमन च बुद्धिस्थमानये ति बोधापत्तिः, पदार्थस्मरणशाब्दबोधयोः समानमकारकत्वादिति वाच्यम् । पदान्तरें तादृशानियमे ऽपि तदादिपदेषु घटत्वादिरूपे. जैव पदार्थोपस्थिते शाब्दबोधस्य च कल्पनं फलानुरोधादिति के चित ॥ अन्ये तु तदादेर्घटत्वादिनैव शक्तिरिति नानार्यतेवेत्याहुः ।। त्वंपदस्य तत्कालीनसम्बोध्यत्वविशिष्टचैत्रादावस्मत्पदस्य तत्कालीनस्वतन्त्रोचारायतृत्वविशिष्टचैत्रादौ शक्तिः । स्वातन्त्र्य चान्यबोधतात्पर्येणानुबारयितृत्वं, तेनान्यतात्पर्येणोचारिते वा- ध्यस्त्वया मदचनात्स राजेत्यादौ लक्षणया सीताप्रतीतिर्न कवि- प्रतीतिरुचारयिमतीतिर्वा । अत्रापि संबाध्यत्वादिकं न भासते भासते चेति । वयं याम इत्यत्र स चाहं च त्वं च वयमिलेको पादन्यतात्पर्य केपि सर्वेष्वारोपितस्वातन्त्र्यप्रतीतिः । एवमिदमवच्छिन्न ऽदः पदस्य शक्तिः ।। यत्किचिच्छन्दस्य पर्याप्तिसम्बन्धेन बुद्धिविषयत्वावशिष्ट- घटत्वाधच्छिन्ने शक्ति। यत्किञ्चित्प्राचीनमग्रीषोमीयाद यकि भादृचिन्तामणे: श्चित्सोमलिप्तमित्यादौ तथैव बोधात् । अत एव शक्यताच्छेद- कतावच्छेदकस्य विषयत्वस्यैक्यान वाक्यभेदः, यत्किञ्चिदा- नयेत्यादौ तु पर्याप्तिसम्बन्धनोपेतबुद्धिविषयत्वविशिष्टे लक्षणा॥ केवलकिञ्चित्पदस्याज्ञातप्रकारावच्छिन्ने शक्तिः ॥ एवं सर्वपदस्य पर्याप्तिसम्बन्धेन बुद्धचवच्छिन्ने शक्तिः । सर्वेषु घटेषु द्रव्यत्वमित्यत्र घटपर्याप्तिभानं, सर्वेषु घटेषु रूपमि- त्यत्र व्यापकत्वे लक्षणा । कस्यापि रूपस्य सर्वघटवृत्तित्वाभावा- त् । सर्वेष सत्त्वं प्रमेयत्वमित्यादौ भेदप्रतियोगितानवच्छेदकत्वे लक्षणा । एवं सर्वेभ्यो दर्शपूर्णमासौ सर्व ब्रह्मणे परिहरतीत्या- दावपीति दिक् ॥ क्त्वाप्रत्ययस्य समानकर्तृकत्वे पूर्वकालत्वे च शक्तिरिति पै- याकरणाः ॥ नैयायिकास्तु भुक्त्वा वूजतीत्यादौ भोजनोत्तरकालीनं व्रज- नमिति बोधादुत्तरकालत्वे समानकर्तृकत्वे च शक्तिः । समान- कर्तृकत्वं समभिव्याहृतधात्वर्थजनकव्यापारयोरेकनिष्ठत्वं, तेन रथो गत्वा तिष्ठतीत्यादिप्रयोगः । उत्तरकालत्वं च तात्पर्य- विषयीभूताव्यवधानविशिष्टं बोध्यम् । तेनाय गत्वा स्वस्तिष्ठ- तीत्यादिप्रयोगः । मुखं व्यादाय स्वपितीत्यादौ समानकर्तृकत्व- मात्र सामानाधिकरण्ये वा लक्षणा । मुखं व्यादत्तइति वैपरी- सेन बोध इति कश्चित् । दर्शपूर्णमासाभ्याभिष्ट्वा सोमेन य- जेतेत्यादौ त्वव्यवहितत्वभानमिति दिक ॥ आयुधपदस्य यु- द्धसाधनत्वे शक्तिः । साधनत्वमात्रे लक्षणा । स्तोमपदस्य स्तो- त्रसधिनऋक्समुदाये शक्तिः । त्रिदादिपदानामभ्याससाध्यन- वस्त्वविशिष्टऋक्समुदाये शक्तिः । त्रिवृद्धहिष्ववमानमित्यत्रान- भ्यस्ते लक्षणा । एवं पञ्चदशादिपदानां संस्थापदस्य तद्विषय- ।

तर्कपादः। १६५ कव्यापारोपरमे शक्तिः । आरम्भपदस्याद्यपदार्थे शक्तिरिति के चित् । आद्यप्रवृत्तौ शक्तिरित्यन्ये । आद्यत्वं तत्समानविषयकप्र. वृत्तिध्वंसव्यधिकरणत्वम् । एवमन्याम् ।। इति श्रीगागाभट्टकृतभादृचिन्तामणौ शब्दखडः ॥ "औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तृस्य ज्ञा- नमुपदेशो व्यतिरेकश्चार्थे ऽनुपलब्धे तत्प्रमाणं वा- दरायणश्चानपेक्षत्वात्"। एवं प्रत्यक्षादिलक्षणकथनेन तेषां धर्माधर्मप्रमायामकारण- त्वमित्युक्तम् । इदानीं चोदनासूत्रप्रतिज्ञातस्य विधिप्रामाण्यस्य परीक्षा क्रियते । कारणदोषबाधकज्ञानरहितमगृहीतग्राहिज्ञानं प्र- मेति पूर्वयुक्तम् । विधिजन्यज्ञाने तथात्वमस्ति न वेति चिन्ता । तत्र पूर्व पक्षः । नैतादृशममाजनकत्वं विधीनां सम्भवति, स्व. यामुष्मिकलकर्मबोधकानामपूर्वकल्पकार्थापतिरूपप्रमाणसा- पेक्षतया निरपेक्षतज्जनकत्वरूपप्रामाण्यासम्भवात् । ऐहिकफ- लचित्रादिकर्मबोधकानामपि प्रत्यक्षादिप्रमाणान्तरेण बाधात् । नहि तत्रापि द्वारभूतादृष्टकल्पनं, मानाभावात् । कारीर्यादौ ता. स्कालिकफलदर्शनात् हिरण्यधारणस्य भ्रातृव्यदुर्वर्णत्वजनने दृष्टद्वारत्वसम्भवे तत्कल्पनायोगाच्च । अतो न बाधकराहित्य- म् । स एष यज्ञायुधी यजमानो ऽजसा स्वर्ग लोकं यातीत यज्ञायुधपदवाच्यस्यादिसंयोगविशिष्टस्य यजमानशरीरस्य दाहेन भस्मीभूतस्य स्वर्गलोकगमनवादस्याशक्यपरिहारः प्रमाणान्तरवि- रोषः। किं चात्र कारणदोषो.ऽप्यस्ति । तथाहि । विधिस्थलो- ।

१६६ भादृचिन्तामणे मादिपदानां स्वार्थेन संयोगतादात्म्यादिसम्बन्धासम्भवात् प्र. त्यायकत्व सम्बन्धः । तचायं शब्दो ऽस्य वाचक इति पुरुषा- न्तरापदेशाधनिमवार्थज्ञानम् । एवं च विधिवाक्यार्थज्ञानस्य पु. रुषोपदेशाधीनत्वेन पुरुषाणां च भान्त्यादिसम्भवेन कारण- दोषवत्वम् । न च पदपदार्थयार्नित्यः स्वाभाविकः सम्ब- न्धः सम्भवति । प्रथमश्रवणे ऽप्यर्थप्रत्ययप्रसङ्गात् । आधु- निकैः पुरुषैरिदं पदमत्र शक्तमिति व्यवहारकरणाच्च । न चा- धुनिकैः पुरुषैनित्यस्य सम्बन्धस्योपदर्शने ऽपि न तत्कल्पनाम- ति वाच्यम् । आधुनिकैरकल्पनपि सर्गाचकालिकपुरुषे न त. कल्पनासम्भवः । न च सर्गादौ मानाभावः । “स ऐक्षत बहु- स्यां मनायेय"मिति "नासदासीनो सदासी" दिति श्रुतेरेव मानत्वात् । तथा च । सर्गादौ भगवता स्थावरं जामं जग- द्धर्माधर्मों च सृष्ट्वा व्यवहाराय तत्तच्छन्दानां तेनतेनार्थेन स- म्बन्धं कल्पयित्वा धर्माधर्मप्रतिपादकपदे वेदान्कल्पयित्वा हि- रण्यगर्भादिभ्यः प्रतिपादितास्तरन्येभ्य इत्येवमुत्तरोत्तरं शब्दा- र्थप्रतीतिरिति ॥ सिद्धान्तस्तु प्रथमे श्रवणेऽर्थप्रत्ययाभावस्य नित्यसम्बन्धान- बगममूलकत्वेनोपपत्तेरीदृशार्थकल्पने मानाभावात् । सर्गत एक- रूपस्यानुभवसिद्धत्वेन सर्गादौ नाशाभावान्मन्त्रार्थवादेतिहा- सपुराणानामपि पौरुषेयसम्बन्धापेक्षितया पौरुषेयतया च शा- क्यग्रन्यवदतीन्द्रियार्थे प्रामाण्यासम्भवेनाप्रमाणपतिपादितसर्गा- देचुरातत्वात् । अतो न सर्गादिकाले पदपदार्थसम्बन्धकारक सम्भवानि । किं च सर्वपदानामर्थानां च सम्बन्धसिद्धौ वाक्येन तत्सम्बन्धकरणं स्यात् । अज्ञातार्थसम्बन्धकपदघटितवाक्येन तदसम्भवात् । न चैनं श्रोतृणामप्रसिदसम्बन्धत्वात्सम्बन्धवि- - तर्कपादः । शेषकथनमध्यनुपपत्रमिति वाच्यम् । सतः सम्बन्धस्योपाया- भावाददातस्य वाक्येन ज्ञापनसम्भवात् । वृद्धव्यवहारेणैत्र सम्बन्धझानसम्भवे तज्ज्ञापकवाक्यकथनस्थानावश्यकत्वाच्च । तस्मान पौरुषेयः सम्बन्ध इति सम्बन्धस्य नित्यतया पुरुषापे- क्षा नास्तांति सिद्धं चोदनापामाण्यम् । न च तथापि चित्रादी- नामनन्तरफलादर्शनेन विसंवादादमामाध्यमिति वाच्यम् । शंन्दो- क्तसाधानत्वमात्रस्यापूर्वद्वारेण कालान्तरेपि तैलपानवसम्भवे- नाविसंवादात् । अपूर्वद्वारकत्वस्याङ्गप्रधानमेलनान्यथानुपपत्या वाक्यार्थबोधे संसर्गलभ्यत्वात् । पशूत्पत्तिमात्रस्याफलतया तदु. पयोगस्य फलत्वेन तत्पर्यन्तस्यापि द्वारकल्पनावश्यम्भावनापू- वबोधाच्च । अतो न विसंबादः । न च तथापि स एष यज्ञा- युधीत्यत्र दृष्टविरोधादप्रामाण्यमिति वाच्यम् । शरीरशरीरिणाम- त्यन्तभेदाभावेनैव तत्पदव्यपदेश्यस्य शरीरस्य यज्ञायुधैः परम्प रया यज्ञायुधबत आत्मनः स्वर्गगमनलिप्सितभोगोत्पादाविरोधा- भावात् । फलाचकफलभोक्तृवाचकपदयोः सामानाधिकरण्य- स्या "नि चिनुत ऋभ्नोत्येव" "द्विरात्रेण यजते स्वर्गमेव लोक- मेवे" त्यादौ बहुशो दर्शनात् । एवमत्रापि यजमानः स्वर्ग यातीत्युपपनम् । एवं सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीति सङ्कल्पनिहारतकर्तृत्वबोधकषष्ठया ऽऽत्मनः सङ्कल्प प्रति कर्तृत्व- म् । न च व्यापकस्य स्पन्दोन सम्भवतीति वाच्यम् । प्रयत्नद्वारा प्रयोजकत्वसम्भवात् । सर्वधात्वर्थस्य क्रियात्वेन तत्र कर्तृत्वस- म्भवाच्चेति । तस्मात्कारणदोषबाधकज्ञानरहितागृहीतग्राहित्वेन वेदमामाण्यम् । बादरायणग्रहणं पूजार्थम् ॥ नित्यस्तु स्यादर्शनस्य परार्थत्वात् ।।

. । १६८ भादृचिन्तामणेः ननु कथं पदार्थसम्बन्धस्य नित्यत्वम् । वर्णानामनित्यत्वे- न पदानामप्यनित्यत्वात् । तथाहि । वर्णा अनित्या, यत्नान- भिव्यगचन्वे सति प्रयत्नोत्तरमुपलभ्यमानत्वाद्, घटाादवदित्य- नुमानेनानित्यत्वम् । न च स एवायं गकार इति प्रत्यक्षरूपमत्य' भिक्षाबलेनाभिव्यङ्गयत्वकल्पनमिति वाच्यम् । उत्पन्नो गकारो विनष्टो गकार इति प्रतीत्या प्रत्यभिज्ञाया एव जातिविषयत्व- स्य कल्पनात् । अत एव कदा चित्तज्जातीयोयमिति प्रत्यभिज्ञो- पपद्यते । अन्यथकव्यक्तिकत्वेन तज्जातेरभावात्ताशप्रत्यंभि- ज्ञानुपपात्तः । स्वरूपेण जात्युपस्थिती सोयमिति प्रत्यभिज्ञा जातित्वेन जात्युपस्थितौ तज्जातीयो ऽयमितीति विशेषः । किं च जात्यतिरिक्तस्यैकस्य मूर्तस्य युगपन्नानादेशोपलंम्भो नास्ती- त्यनुभवः । एवं च वर्णानां युगपन्नानादेशोपलम्भाद्भदसिद्धिः। तस्मात्मत्यभिज्ञाबाधेनानित्यत्वसिद्धिारीत चेन्न । अनभि: व्यङ्गयत्वस्यासिद्धतया हेतोरसिद्धः । प्रयत्नाभिव्यङ्गयत्वस्यै- वाङ्गीकारात् । न च श्रोत्रनिष्ठग्रहणयोग्यताजनकसंस्कारोत्पाद- कत्वेन तनिष्ठग्रहणप्रतिबन्धकदोषनिराकरणेन चाभिव्यञ्जक- स्वे श्रोत्रस्याकाशाहंकारदिगन्यतमरूपस्य नित्यव्यागकशब्दस्य वा संस्कृतत्वात्सर्वग्रहणापत्तिरिति वाच्यम् । अवच्छेदककर्ण- शष्कुल्यामेव संस्कारोत्पत्त्यङ्गीकारात् । उत्पत्त्यादिप्रतीतेरभि व्यञ्जकध्वनिस्वरादिविषयत्वेन प्रत्यभिज्ञाया जातिविषयकत्वा- योगाच्च । न चानेकोत्पादादिप्रत्ययानां विषयभेदकल्पनमपक्ष्य- कस्याः प्रत्यभिज्ञाया एव विषयभेदकल्पनमुचितमिति वाच्यम्। उत्पादविनाशप्रत्ययवद्भेदाभेदप्रत्ययस्यापि मानात्वात् । भेदस्या- न्योन्याभावव्यावर्तकधर्मादिरूपतया नानात्वेन तदभावप्रत्यय- स्यापि नानात्वात् । धनीनां भेदस्योभयसिद्धत्वेन गकारादि.

तर्कपादः। व्यक्तिकल्पनाधिक्याच्च । के चित्तूत्पादाविनाशप्रत्यययोर्धान्तित्वकल्पने व्यञ्जकध्व- निनिष्ठयोस्तयोः परंपरासम्बन्धेन वर्णानष्ठं भानमभ्युपेयम् । तथा च परंपराघटकवायोरपि विषयतापच्या गौरवम् । प्रत्यभि- ज्ञाया गत्वगकारभेदविषयिण्या जातिविषयत्वकल्पनेपि नाति- रिक्तविषयताकल्पनामिति लाघवमाहुः ।। तदपि . गकारादिव्यक्तितत्मागभावध्वंसकल्पनागौरवेण निरस्तम् ॥ चिन्तामणिस्तु तारत्वमन्द्रत्वविरुद्धधर्माध्यासेन प्रत्यभिज्ञा- यान प्रामाण्यं सम्भवतीति जातिविषयत्वं तस्याः। तथाहि । सजा- तीयसाक्षात्कारप्रतिबन्धकतावच्छेदकतया तत्पतिबध्यतावच्छे- दकतया वा गत्वादिव्याप्यनानातारत्वमन्द्रत्वादिजातिसिद्धौ पूर्वगकारापेक्षयोत्तरगकारो मन्द्र इत्यनुभवः पूर्वापरगकारयोरैक्ये न सम्भवति । अतो ऽस्ति गकारयोर्भेदः । एवं गकारनिष्ठशु- कपुरुषजन्यतावच्छेदकवैजात्यभेदेनापि तद्भेदः । अन्यथा त- च्छ्रवणे शुकायनुमितिर्न स्यात् । अतः प्रत्यभिज्ञाया एच जा- तिविषयकत्वकल्पनमित्याह ।। तदपि "मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम्" इत्यक्षरशिक्षायों मन्द्रत्वादिधर्मस्य स्वरनिष्ठत्वोक्तरकिंचि- त्करम् ॥ अन्ये तु वर्णो ऽनित्यः । स्वाधिकरणनिष्ठाधेयतानिरूपक- त्वसम्बन्धावच्छिन्नव्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताका- भावप्रतियोगिगुणत्वात् । संयोगसंम्बन्धावच्छिन्नमतियोगिताक- गगनपरिमाणाभावमातियोगिनि व्यभिचारवारणायांधेयतानिरू- २२ १७० भादृचिन्तामणेः पकत्वसम्बन्धावच्छिन्नेति । उभयाभावप्रतियोगिनि तत्रैव. व्य. भिचारवारणाय व्यासज्येति । ईश्वरज्ञानस्य नाव्याप्यवृत्तित्वम् । संयोगाभावस्य न गुणत्वमिति । संयोगदृष्टान्तेनानित्यत्वमाहुः ॥ तदपि गुणत्वाभावेन हेत्वसिद्धया प्रत्युक्तम् । वर्णात्मकशब्द.. स्याकाशवव्यापकत्वेन द्रव्यत्वाङ्गीकारात् । सामान्यवत्त्वे सति म. नोभिन्नेन्द्रियजन्यलौकिकपत्यक्षविषयत्वादिति हेतुस्त्वाकाशका- लदिशां षडिन्द्रियजन्यप्रत्यक्षविषयत्वेनानैकान्तिकः । इष्यते हि विशेषगुणसम्बन्धित्वेनात्मन इच बाह्यविषयसम्बन्धित्वेन काला- दिप्रत्यक्षम् । इदानीं घटो ज्ञातो घटाकाशे ध्वनिरुत्पन्न इत्याध. नुभवात् । अतो नानित्यत्वम् ।। यत्तु वर्णानां नित्यत्वे युगपन्नानादेशोपलम्भो न स्यादि. त्युक्तम् । तन्न । आदित्योपलम्भवत्तदुपपत्तेः । एकस्यैवादि: त्यस्य दूरस्थतया सर्वैः स्वसांमुख्येन ग्रहणम् । एवं व्यापकव- र्णानामपि तत्तद्ध्वनिभिस्तद्देशाभिव्यक्तानां स्वसामीप्योन्मुखा- दिक्रमेण च ग्रहणमुपपन्नम् । तस्मानित्यः शब्दः । अनुमानं च नित्यः शब्दः, ध्वनिभिन्नत्वे सति श्रावणत्वात, शब्दत्ववत् । अ- नेनैवानुमानेन वर्णानां द्रव्यत्वसिद्धिः । न चैवं संश्यं गुर्जरीति प्रत्याभज्ञानाद् ध्वनीनामपि नित्यत्वं स्यादिति वाच्यम् । रथ- न्तरादिगीतीनां नित्यताङ्गीकारेणेष्टापत्तेः । वर्णाभिव्यञ्जकध्व- नीनामेवानित्यत्वाङ्गीकारात् । गुर्जयादीनां तु वर्णाभावेपि प्रती- यमानानां रथंतरादिवत्र गीतिरूपता । अतस्तेषामपि न बा- धकम् । दर्शनस्य, उत्पत्त्यादिदर्शनस्य, परार्थत्वाद्, ध्वनिविषय- वादित्यर्थः । उत्पत्तौ वा वचनाः स्युरर्थस्यातन्निमित्तत्वात् ।।

तपादः। १७१ तद्भूतानां क्रियार्थेन समाम्नायोर्थस्य तन्निमित्तत्वात् ।। नन्वस्तु पदपदार्थयोस्तत्सबन्धस्य च नित्यत्वम् । तथापि वाक्यस्य वाक्यार्थप्रतिपादकत्वासम्भवान्न प्रामाण्यं सम्भवति । तथाहि । न तावद् घटादिपदानां प्रत्येकं घटादिकर्मकत्वरूपवा. क्यार्थप्रतिपादकत्वं सम्भवति । अनन्तवाक्यार्थसाधारणपदानां वाक्यार्थविशेषसम्बन्धसम्भवात् । एतेन पदसंघातरूपवाक्यस्य प्रत्यायकत्वमपास्तम् ।तर्हि वाक्यस्य वाक्यार्थप्रतिपादकत्वासम्भ- वान्न प्रामाण्यं सम्भवतीति चेद्, अत्र वैयाकरणाः । कृष्णैहि रक्षेनमित्यादौ वाक्ये पदरूपा- वयंवविभागे मानाभावादेकारघटितानुपकिस्यागमनवाचकस्या. त्र सत्वे मानाभावाच्च न पदसमुदायस्य वाक्यत्वं, किं त्व- वयविरूपं तस्यैव विशिष्टार्थशक्तिः, स एव वाक्यस्फोटः । एवं च एक वाक्यं सूक्ष्मं वाक्यं महद्वाक्यामित्याद्यबाधितसंख्यापरि- माणा प्रतीतिरुपपद्यते । अन्यथा पदसमुदायस्य वाक्यत्वे समुदा. यस्य समुदाय्यपेक्षया भेदाभावात्तत्प्रतीत्यनुपपत्तिः । अतो वाक्ये शक्तिः । एवं घटेनेत्यादिपदे प्रकृतिप्रत्ययावभागे तदंशे च श- क्तिकल्पने मानाभावादवयविरूपपदस्यैव शक्तिरूपः स्फोटः । एवं भवतिपर्चतीत्यादौ भूधातुलडाद्युपस्थितौ मानाभावादानुष- वविशिष्टवर्णानां शक्तिरिति वर्णस्फोट इत्याहुः ॥ तन्मन्दम् । विस्मृतपूर्ववर्णस्यान्तिमवर्णस्मृतिमतः पदार्थप्रत्य- याभाववत्पदार्थस्मृतिमतो विस्मृतपूर्वपदस्य वाक्यार्थप्रत्ययाभावा- पत्तेस्तत्तत्पदार्थस्मृतिवशेन पदानुमानावलम्बे मानाभावाच्च । कि चैत्र पदार्थवद्वाक्योंपि निर्भागः स्यात् । तदा BASANA Hity SARATHI NET HASTRI SAMA Khana १॥ RE SHARANASALES Anthan SEARRANIK MANANDH INS ARMAP ANA Hal ANTARA SHAKIRTANTRA (avana pur R Rawat १७२ भादृचिन्तामणे । प्रसङ्गो बाधतन्त्रोहप्रदेशाधिक्रियागमाः। प्रयुक्तशेषभेदाश्च न कल्पेरनिति स्थितिः ॥ इति।वाक्यस्य निरवयवत्वं तु पठ्यमानश्लोकार्थानवबोधे सति तदवयवपदार्थप्रदर्शनेन जायमानेन श्लोकार्थानुभवेन विरुद्ध- त्वात् मत्युक्तम् । पूर्वमज्ञाताया वाक्यशक्तेर्वाक्यार्थानुभवजनक- त्वायोगात्पूर्व ज्ञानकल्पने स्मारकत्वापत्तिः। वाक्यशक्तिज्ञानं तद्धे. तुकवाक्यार्थानुभवश्चैकदा विरुद्धौ। एवं पदानामपि निरवयवत्वं प्रत्युक्तम् (धातुप्रत्ययविभागानभिज्ञस्य बोधापत्तेः । एवं वर्णस्फो- टोपि स्फोटवणेषु शक्तिकल्पनगारैवमपेक्ष्य धातुप्रत्ययोपस्थापक- त्वकल्पनालाघवेन निरसनीयः। धातुप्रत्ययानभिज्ञस्य यङन्तपदैः पदार्थानुपस्थितेश्च । एकत्वमहत्वपतीतिस्तु एको महान्धान्यरा- शिरितिवदौपाधिकी। अतो न वाक्यस्फोटरूपा वाक्यशक्तिरिति ।। के चिन्तु पदानामितरपदान्विते शक्तिः । इतरपदार्थश्च तत्समाभिव्याहारेण विशषितो ऽननुगत एव । एवञ्चाकामाक्षेत- योग्यसन्निहितार्थाभिधायकानां पदानां वाक्यार्थप्रतीपादकत्व- मित्याहुः॥ गुरवस्तु कार्यान्वयस्य वाक्यार्थतया पदानामेव कार्यान्विते अनुमाविका शक्तिः । स्मारिका च जातिगुणादौ । अनुभाव. शक्तिग्रहे च स्मारकशक्तिज्ञानस्य हेतुता, तेनोपपत्न वाक्यार्थे श- क्तिः । तथाहि । प्रयोज्यवृद्धप्रयोजकवृद्धव्यवहारेण शक्तिं गृ- हुन् बालः प्रयोज्यवृद्धप्रवृत्तेश्र्च मातृस्तन्यप्रवृत्तिदृष्टान्तेन कार्य- ताज्ञानजन्यत्वमनुमाय तज्जनकापेक्षायां प्रयोजकवृद्धवाक्यान- न्तर्यात्तस्यैव हेतुत्तां ज्ञात्वा तत्रत्यपदानां कार्यान्विते शक्तिं जा- नाति, तत आवापाद्वापाभ्यां तत्तत्पदार्थे शक्तिं जाननपि पूर्वा- वधृतां कायान्वितशाक्तं न बाधते । एवं च पदानां कार्यान्वित- तकंपादः। १७३ वाचकत्वादन्वयेपि शक्तिरित्याहुः ।। एतन्मतद्वयमपि इतरान्विते कार्यान्विते वा तस्यापि शक्ति- ग्रहस्य गौरवप्रतिसन्धानदशायां चन्द्रतारकापरिमाणज्ञानवद् 'बाधसम्भवात्कार्यवाचकपदसमभिव्याहाराभावे शाब्दबोधानुद- यप्रसङ्गाच्च न युक्तम् ॥ नैयायिकास्तु घटत्वपकारकघटविशेष्यकप्रत्यक्षादौ समवा. यादेवि घटकर्मप्रकारकानयनविशेष्यकशाब्दवधेिपि निष्ठत्वादेः संसर्गतया भानं सम्भवति । प्रकारविशेष्ययोरेव शाब्दत्वात्संस- गस्योभयसमभिव्याहारगम्यत्वात्संसर्गमर्यादालभ्य इत्याहुः ।। सिद्धान्तस्तु घटमानयेत्यादौ घटपदोपस्थित घटसामान्य- स्यानयनान्वयबाधासम्भवाद् घटानयनविशेष एव वाक्यार्थः, स च लाक्षणिकः, अतो लाक्षणिक एव वाक्यार्थः । तत्र च नामसु कारकविशेष्यता सर्वत्र च भावनाविशेष्यतति नियमः स्मृतिगम्यः । एतेनाख्यातसमभिव्याहारे प्रथमान्तार्थविशेष्यक- बोधनियमं वदन्तस्तादृशनियमे मानाभावेन परास्ताः । नहि प्रथमान्त पदार्थस्य प्राधान्यबोधकं स्मृत्यादि मानमास्ति । वा. क्यार्थसंसर्गस्योभयाविधत्वेन विनिगमनायोगात् । तथा च ला- क्षणिकवाक्यार्थे पदसमुदायरूपवाक्यस्य पदजन्यपदार्थोपस्थि- तिद्वारा जनकत्वमिति वाक्यस्य वाक्यार्थबोधे प्रामाण्य मिति युक्त विधीनां धर्मे मामाण्यम् ॥ वेदांश्चैके सन्निकर्ष पुरुषाख्याः ॥ उक्तं तु शब्दपूर्वत्वम् ॥ नन्वस्तु पदानां पदपदार्थसम्बन्धस्य च नित्यत्वं, वाक्या- १७४ भादृचिन्तामणेः र्थप्रमितेश्च वाक्यजन्यतया विधीनां प्रामाण्यं, तथाप्यानुपूर्सि- पवेदानां नित्यत्वासम्भवात्काठकादिसमाख्यया तत्कर्तृकत्वनि- श्चयाच्च पौरुषेयत्वं सम्भवति । पुरुषे च दोषसम्बन्धसम्भाव- नया न प्रामाण्यं सम्भवति । तथाहि । वेदः प्रागभावप्रतियो- गितावच्छेदकधर्मवान् वाक्यत्वाद्, भारतवदित्यनुमानेन पौरुषे. यत्वम् । न च सामान्यधर्मस्य प्रागभावप्रतियोगितानवच्छेदकत्वे. न वेदत्वस्यातथात्वादसिद्धिरिति वाच्यम् । वेदत्वस्यातादृश. स्वेपि इदानीन्तनवेदत्वादीनां तदवच्छेदकतया नासिद्धिः । अन्यथा घटादीनामपौरुषत्वप्रसङ्गः । वस्तुतो वेदत्वं प्रागभावप्र- तियोगितावच्छेदकं कार्यवृत्तिधर्मत्वात् । तद्धस्त्ववादत्यनुमाने- न वेदत्वस्यापि तथात्वात् । अतो वेदानां पौरुषेयत्वम् । एवं च काठककालापकादिसमाख्या बवरः मावाहाणरकामयतत्याद्य- नित्यसंयोगोप्युपपद्यते । तदुक्तं, सन्निकृष्टकाला वेदा इदानी- न्तना इति । तत्र चास्मदादीनां कर्तृत्वासम्भवाव्यासादिवदी- श्वर एवं कर्ता।एवं च त्रयो "वेदा अजायन्तेत्यग्नेक्रनवेदो वायोर्य- जुर्वेद" इत्यादिदर्शनमुपपद्यते अतो न स्वतः प्रामाण्यमिति चे- द, न । उक्तानुमानस्य वेदत्वं न प्रागभावप्रतियोगताच्छेदक सामान्यधर्मत्वादित्यनुमानेन सत्प्रतिपक्षितत्वात् । प्रतियोगिता वच्छेदकभेदाभावेन सकलघटप्रागभावैक्ये प्रतियोग्युत्पत्तिनाश- त्वासम्भवेन च नित्यत्वापत्तेः । इष्टापत्तौ तूत्पन्नस्य पुनरुत्पत्ति प्रसङ्गः, प्रागभावनाशस्वीकारे घटानुत्पत्तिप्रसङ्गः । अवयवंश- स्तनाशस्वीकारों निरवयवत्वादेवायुक्तः । प्रतियोगिभेदेनाभा- वनात्विकल्पने संसर्गाभावान्यान्याभावयारेक्यप्रसङ्गः । अतो न सामान्यधर्मस्य प्रामभावप्रतियोगिताच्छेदकत्वम् । प्रथमा- नुमानमापि वेदाः पागभावप्रतियोगितावच्छेदकधर्माभाववन्तो, - - तर्कपादः । उस्मर्यमाणकर्तृकत्वाइ, आत्मवदित्यन्वपिना अस्मयमाणकर्तृक वाक्यत्वादिति व्यतिरोकिणा च सत्प्रतिपक्षितम् । वेदशून्यका- लाभावेन वेदमागभावासिद्धेश्च । तथाहि । पूर्वकालो न वेदश- न्यः कालत्वाद्, वर्तमानकालवत् । पूर्वकालीनं वेदाध्ययनं गु. ध्ययनपूर्वकं, वेदाध्ययनत्वाइ, इदानीन्तनवेदाध्ययनवम् । वे- दान पौरुषेया, अस्मर्यमाणकर्तृकत्वादत्यनुमाननापारुषेयत्वास- द्वेश्च । नन्वस्मर्यमाणकर्तृककूपादौ व्यभिचारः । तत्रापि सा- मान्यतः कर्तृस्मरणात् । अतः पौरुषेयत्वासम्भवादपौरुषेयत्व- म् । एवं “वाचा विरूपनित्यये" ति श्रुतिः ॥ स्वयंभूरेष भगवान् वेदो गीतस्त्वया पुरा । शिवाद्या ऋषिपर्यन्ताः स्मारो ऽस्य न कारकाः ॥, इति स्मृतिश्चोपपद्यते। काठकादिसमाख्या तु श्रुतिस्मृतिवि- रोशात्प्रवचनानिमित्तत्वेनोपपादनीया । अग्नेक्रग्वेद इत्यादिश्रु- तिरपि अग्निना ज्ञापितइति व्याख्येया । अनित्यसंयोगोऽपि प्रवाह नित्यतामादायोपपादनीयः ॥ प्रवाहनित्यत्वं च सजातीय- प्रागभावसमव्याप्तसजातीयध्वंसकत्वरूपम् । यद्वा बहुक्षीरादिवा- क्यवदसत्यकथादिना विधेयस्तुतिपरत्वेनोपपादनीया । अतोऽपौ- रुषेया वेदा इति सिद्धं वेदप्रामाण्यम् ॥ विश्वामित्रकुलध्वजः समभवद्यो भट्टनारायण- स्तद्वंशस्य करितां दधदयं विश्वेश्वराख्यः कृती ।। गागाभट्ट इति प्रथान्दिनकरात्माप्तः पितुालनात् तद्ग्रन्थे प्रथमादिमोइघिरभवच्छ्रीभादृचिन्तामणौ ॥ १ ॥ अहो बहु परीक्षितुं निकषणीयमेतन्निजे न मत्सरकदृष्णिते कपशिलानिभे चेतसि ॥

१७६ भादृचिन्तामणेः परं तु हृदयालुभिः खलु दयालुभिः स्थाप्यतां महाद्भुतरसाम्बुधौ निजकृपानिधौ मद्वचः ॥ २ ॥ इति भट्टकुलावतंसमीमांसकमहामहोपाध्याय श्रीगागाभदृकृतभाट्टचिन्तामणौ प्रथमाध्यायस्य प्रथमः पादः ॥ ॥ संपूर्णोयं भाट्टचिन्तामणेस्तकंचरणः ॥

Bhattchintamani

Title
Bhattchintamani
File name
Bhattchintamani
Text
OCR done
Citation
1900
Language
Sanskrit
Pages
179
Library
Bharti Bhawan Library Allahabad
DLI number
272988
Barcode
5990010894109.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
IJ7fK6xL4H9
Download PDF

Bhattchintamani