Rashtrapati Bhavan Library

श्रीमदभ्गवदगिताया

M M Shriigiridharashammrachaturveden · 2004/12/20

PDF Proofread

Front matter

What
Hirla Central Library
I'LANT (
.ips State)
SIS/47
Acc! Na M2266 B 12
Accession No 34432
LY
IT IS EARNET Y DERED THAT THE
BOOK BE HANDIED WITH CARE AND BE:
NOT MANKED. UNDERLINED DE CISFIGUR
ED IN ANY DIHET VRY. (THER NISE IT
WILL ITAVE TO BE REPLACED OR PAID
FOR BY THE BORROWER IN THE INTEREST
OF THE LIBRARY

No text on this page.

No text on this page.

श्रीमद्भगवद्गीतायाः
विज्ञानभाष्यम
( काण्ड चतुष्टयात्मकम् )
जयराजममा प्रधानपण्डिन-वेदरहस्योद्घाटनप्रवण
महागडोपदशक समीनाचकाति-
विद्यावाचस्पति-श्रीमधन्दनश-प----
थिल-प्रणातम् ।
ननद
द्वितीयं शीर्षककागडापरपर्याय
मुन्नकाण्डम्
जयपुरमहाराजसंस्कृतकालेजाध्यक्ष
म० म० श्रीगिरिधरशर्मचतुर्वेदन
संपादितम् ।
श्रीजयपुरराज्य
की
सहायता
से इलाहाबाद
लॉ जर्नल प्रेस, इलाहाबाद
में छपवा
कर प्रकाशित किया गया।
वि० सं० १९९५

No text on this page.

।। श्रीः ।।
शीर्षककागडापरपर्यायं
मूलकाण्डम्
विपया
५'3-न्या
१
६
६
२१
२४
१-उपोद्घातः
२-विद्याचतुष्टयी
३-उपनिषदां तालिका
४-उपदेशतालिका
५-सशीर्षकमूलपाठः
(१) ऐतिगसिकाः श्लोकाः
(२) चातविद्योपक्रमः
(३) राजषिविद्या
(४) सिद्वविद्या
(५) राजविद्या
(६) आविद्या
(७) विद्यानासुद्धारः
(८) उद्धारोद्धारः
(६) फलश्रुतिः, उपसंहारश्च
७६
१००
१०२

No text on this page.

ओं तत्सत् अथ श्रीमद्भगवद्गीताया विज्ञानभाष्यस्य शीर्षककाण्डापरपर्यायं मूलकाण्डं नाम द्वितीयं काण्डं प्रारभ्यते । तत्र 'उपोद्घातः' प्रथमं प्रकरणम् । (शास्त्रोद्देश्यम्) आत्मसंस्कारार्थानि होमानि सर्वाणि शास्त्राणि लोके प्रवर्तमानानि दृश्यन्ते । दोषमार्जनम्, गुणाधानम्, हीनाङ्गपूर्तिश्चेति त्रिविधाः संस्कारा भवन्ति। यतः स्वस्य परस्य वात्मनि दुःखान्यापद्यन्ते, स दोषः। तत्कारणोच्छेदो दोषमार्जनं संस्कारः। यतस्तु स्वम्य परस्य वा सुखानि संपद्यन्ते, स गुणः । तत्कारणस्थापनं गुणाधानं संस्कारः । अङ्गविकलस्यात्मनः साकल्यसंपादनमङ्गपूर्तिः संस्कारः। तेषु च दोपमार्जनं मुख्यम्। दोपदुष्टे तदितरसंस्कारयोगात्. उत्तरसंस्कारयोर्दोषमार्जनमस्काराधीनत्वात् । न हि मलिने वस्त्रे पीतरक्तादिरञ्जनव्यापाराः साधूपपद्यन्ते। अतश्च दोपमार्जनसंस्कागेपायप्रदर्शनं शास्त्राणां मुख्यो विषयः ।। (विषयविभागः) अस्ति हीयं भगवद्गीतोपनिषत् तावदेकं भगवदुपदिष्टं विज्ञानशास्त्रम् । तत्परिचयाय तावदिमे श्लोका उच्यन्ते-- १--गीताशास्त्रमिदं सप्तशतश्लोकात्मकं मतम् । (७००) ब्रह्मविद्याभिधं शास्त्रं योगशास्त्रं च तद् विदुः ॥१॥ २-गीताशास्त्रप्रकरणं द्वेधा तावद् विभज्यते । ऐतिहासिकमस्त्यन्यदन्यद् वैज्ञानिक प्थक् ॥२॥ चतुःषष्टिमिताः श्लोका इतिहासप्रसङ्गगाः (६४) ॥ वैज्ञानिकास्तु षट्त्रिंशत्-पर-षट्शत-(६३६) संख्यकाः ॥३॥ ३--वैज्ञानिकप्रबन्धस्य मध्ये विद्याचतुष्टयी । उपक्रमोपसंहारौ तस्या आन्तयोः पृथक् ॥४॥ तेषु षट्सु विभागेषु वरोपनिषदः (२४) स्थिताः ॥ एका-ष्टौ-द्वे च-तिस्रश्च-सप्त-तिस्र-इति क्रमात् ॥५॥ (१) (८) (२) (३) (७) (३)

ख-
-
-न्म-
---
--ध्या-
२ ]
उपोद्घातः
४--उपदेशांश्च तेष्वेव विभागेषु विभावयेत् ।
र्ग -ध्व-जान् क्लृप्तान् पश्येदुपनिषत्सु तान् ॥६॥
(२)-(५०)-(१९)-(३२)-(४९)-(८)
पञ्चाशदुपदेशास्तु सप्त सप्त च सप्त च । (७७।७।३।३।५।९।९)
अयस्त्रयः पञ्च नव नवेत्यष्टासु ते क्रमात् ।।७।। (५०)
क्रमाद् दश-नवेत्येवं द्वयोस्तत्रोनविंशतिः ।। (१९)
(१०) (९)
तिसृषूपनिषत्स्वेकादश पञ्चदशाथ षट् ।।८।। (३२)
(११)-(१५)-(६)
अथ सप्तोपनिषदां नव-पञ्च च-सप्त च ।।
(९)-(५)-(७)
चत्वारो विरातिी द्वावपदेशाः प्रकीर्तिताः ।।९।। (४९)
(४)-(२०) (२) (२)
चातुर्विद्योपक्रमे तूपदेशो द्वौ प्रतिष्ठितौ ।। (२)
(२)
चातुर्विद्योपसंहारे चतुष्कं च द्विकं द्विकम् ॥१०॥ (८)
(४)-(२)-(२)
५--इत्थं गीतोपदेशानां संख्या षष्टयधिकं शतम् । (१६०) ।
तत्रोपनिषदां संख्या चतुर्विंशतिरिष्यते ॥११॥
विद्याचतुष्टयी गीता बुद्धियोगचतुष्टयी॥
एतावदिह गीताया हृदयं परिदर्शितम् ॥१२॥
-
(शास्त्रान्तरवैलक्षण्यम्)
अपि च-
१--सर्वदुःखक्षयोपाया आत्मविद्याश्चतुर्विधाः ।।
चतुर्विधा बुद्धियोगा-इति गीता प्रवक्ति नः ॥१॥
२-शास्त्रान्तरेषु त्वात्मायं क्षराक्षरविधो धृतः ।।
जायते म्रियते भुक्ते नानाकर्मफलानि सः ॥२॥
आत्मा विद्याकर्ममयस्त्वव्ययः पुरुषः परः ।।
अपूर्वः सर्वशास्त्रेभ्यो गीतायामिह दर्श्यते ॥३॥
३-कर्मयोगो भक्तियोगो ज्ञानयोग--इति त्रयः ।
शास्त्रान्तरेषूपदिष्टा योगा निष्ठाप्रभेदतः ॥४॥
कर्मसंन्यासयोगं तु प्रत्याख्यायैव सर्वथा ।
अपूर्वो बुद्धियोगोऽत्र गीतायामुपदिश्यते ।।५।।
'न कर्मणामनारम्भाग्नैष्कयं पुरुषोऽश्नुते ।।
न च संन्यसनादेव सिद्धिं समधिगच्छति' ॥६॥
'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' ।
कम्मैव कर्मणो बन्धं निवर्तयति मुक्तये ॥७॥

(शास्त्रान्तरवलक्षण्यम्) [३ ३ ४-इयं गीता ब्रह्मविद्याऽव्ययब्रह्मनिरूपणात् । अपि गीता योगशास्त्रं बुद्धियोगोपदेशतः ॥८॥ शास्त्रान्तरप्रसिद्वानामात्मनां परमात्मनि । अव्ययेऽस्मिन् प्रतिष्ठास्ति शुक्रं ब्रह्मामृतं हि तत् ॥९॥ कर्म-भक्ति-ज्ञान-योगा बुद्धियोगात् पृथक् कृताः । नात्यन्त श्रेयसे शक्ता वैषम्याज्ज्ञानकर्मणोः ॥१०॥ ५-सर्वशोकशमोपाया बुद्धियोगाश्चतुर्विधाः ।। वैराग्यं ज्ञानमैश्वर्यं धर्म--इत्यभिधानतः ॥११॥ एषां चतुर्णा या विद्यास्तासां गीता प्रकाशिका । चतुर्विधास्ता राजर्षि--सिद्ध-राजाप-भेदतः ॥१२॥ पुरायुगे भिन्नभिन्नसमाजेष्वनुवर्तिताः । या आसंस्ताः समाहृत्य गीतायामत्र दर्शिताः ॥१३॥ विद्याचतुष्टयी गीतानाम्ना भगवतोदिता। ब्रह्मविद्यास्ति सा योगशास्त्रं चेदमिति स्थितिः ॥१४॥ तस्य (आत्मसंग्रहः) च गीताशास्त्रस्यात्मनि दुःखोदयहेतुभुताऽविद्यालक्षणमहादोषोपशमनोपायप्रदर्शनं मुख्यो विषयोऽस्तीति विजेयम् । तथा हि-आत्मा तावद् द्विविध:---निर्धर्मकः ,सर्वधर्मोपपन्नश्च । तत्र निर्धर्मकस्तावदयमद्वैतलक्षणो निर्गुणो निविशेष आत्मा शास्त्रानधिकृतो भवति, अवादमनस- गोचरत्वेनानिर्वचनीयत्वात्। अथ सर्वधर्मोपपन्नोऽप्येक एव सन् द्विविधो विवक्ष्यते---सर्वधर्मविशिष्टः, मर्वधर्मयोग्यश्च । तत्र सर्वधर्मविशिष्टः परात्परोऽयमभयो नामात्मा। सोऽपि शास्त्रेऽनधिकृतो भवति--अव्यावृत्तरूपतया विधिनिषेधसमर्पकेऽस्मिन् शास्त्रे तदुपपादनायोगात् । अथ यः सर्वधर्मयोग्यः, स खलु प्रागादिपञ्चप्रकृतिविशिष्टस्त्रिपुरुषः । स च नानाधर्म- योगितया द्वैतलक्षणः मगुणः सविशेषो न आत्मा । तस्मिंश्चायम्-अव्ययः-अक्षरः-क्षरः--इत्येते त्रयः पुरुषा:--एक. पुरुषो गूढोत्मा नामास्माक- मन्तरतमो मुख्य आत्मा। तत्रैव चात्मनि विश्वव्यापीश्वरप्रकृतिरूपब्रह्माश्वत्थसहसंप्रयुक्तकश्वित्थ- निबन्धनाविद्याबुद्धिचतुष्टयाकस्मिकसंसर्गजनिताः पञ्तक्लेशकर्मविपाकाशयप्रभृतयः सर्वे दोषाः संप्रवर्तन्ते, अनुवर्तन्ते, संप्लवन्ते च। तत्र तावदेतस्याव्ययस्य द्वौ धातू रूपे भवत:--विद्या च कम्मं चेति । आनन्दो विज्ञानं मन इति पर्वत्रयी विद्या नाम। अविद्यान्धकारविरोधिनो ज्योतिर्मयस्पैतस्य पर्वणो मुक्ति साक्षित्वात्। अथ मनः प्राणो वागिति पर्वत्रयं कर्म नाम। वीर्य्यरूपस्यैतस्य पर्वणः सृष्टिसाक्षित्वात्। अस्यैव च विद्याकर्मकृतरूपस्य सम्यग्ज्ञानान्यथाज्ञानाज्ञानवतः सुकर्माविकाकर्मवतश्चात्मनः सर्वदोष- निवृत्तिपूर्वकाखिलकल्याणगुणाधानलक्षणसंस्कारोपपत्त्यर्थं भगवद्गीताप्रभृतीनि सर्वाणि शास्त्राणि प्रवर्तन्ते ॥ (बुद्धिभेदाः) अर्थतस्य पुरुषस्य येयं प्राणादिपञ्चलक्षणा प्रकृतिः, तत्र वाङ्मयी तृतीया प्रकृतिर्बुद्धि- र्नाम। अष्टौ च बुद्धिभेदा भवन्ति-चतस्रस्तावद् विद्याबुद्धयः, चतस्रः पुनरविद्याबुद्धयश्चेति । धर्मः', ।

४ ]
उपोद्घातः
-
--
ज्ञानम् , वैराग्यम् , ऐश्वर्यम् --इति--विद्याबुद्धयो भगनामानः । अथ मोहनाम्न्यविद्या', अस्मिता,
रागद्वेषो', अभिनिवेशः ---इत्यविद्याबुद्धयः क्लेशनामानः । तत्र धर्मेणाभिनिवेशो, ज्ञानेन मोहो, वैराग्येण
रागद्वेषौ, ऐश्वर्येणास्मिता चेति पुरुषात्मनि प्रयत्नादाहितैविद्याबुद्धिविशेषरविद्याबुद्धिविशेषा बलानु-
साराग्निवर्त्यन्ते, प्रतिद्वन्द्वितया सहावस्थानायोगात् । अविद्याबुद्धयश्चैतस्मिन्नात्मनि-अविज्ञात-
निमित्तोपस्थितिसमयानां कालक्रमोपपन्नानां कर्मविशेषाणां प्रभावात् स्वयमेवोपपद्यन्ते। तथा हि--
कर्मजनितशरीरप्रवत्तितकर्मलक्षणाया जन्ममृत्युपरम्परायाः कश्वित्थतया तत्पारत-
येणाकस्मादिहात्मनि स्वयमविद्याबुद्धयः संक्रमन्ते । तेनावरणाच्चायमात्मनो विद्याभागस्तमश्छन्नो
भवतीत्येष जीवात्मा पुरुष: स्वगतैरविद्यादोषैः क्लेशकर्मविपाकाशयादिभिः पर्याक्रान्तो विषीदति।
तेषामेवाविद्यादोषाणां समूलोच्छेदाय प्रवर्त्तमानमिदं गीताशास्त्रमविद्यासमुत्थापितशोकव्युत्थानार्थ-
मावरणलक्षणाविद्याविनाशोगरायान् प्रदर्शयति । विद्योदयप्रकर्ष एव चाविद्याविनाशहेतुः। तस्मादस्या
गीताया विद्योदयोपायप्रदर्शनमेव मुख्यः शास्त्रार्थः ।
(बुद्धियोगनिष्कर्षः)
ब्रह्मविद्या हीयं गीता प्रतिपत्तव्या। अव्ययपुरुषो हीदं ब्रह्म। तस्य द्विविधा चेयं विद्या
विज्ञायते--अव्ययपुरुषभक्तिरात्मलक्षणा प्रथमा। बुद्धिभक्तिः प्रकृतिलक्षणा द्वितीया।
चाव्ययभक्तावात्मरूपायां विद्यायां बुद्धिभक्तेः प्रकृतिरूपाया विद्याया योगो बुद्धियोगो नामाख्यायते ।
तस्यापीदं शास्त्रं भवति, तस्मादिदं योगशास्त्रं नाम । स चायं बुद्धियोगश्चतुर्विधो भवति,
निवर्तनीयानामविद्यादोषाणां चतुर्विधतया तन्निवृत्त्युपायभूतानां विद्याबुद्धीनामपि चातुर्विध्येनैव
गृहीतत्वात्। तैः पुनरेतैश्चतुर्विधैरपि बुद्धियोगः समष्टया व्यष्टया वा संप्रयुक्तरात्मविद्यायां बुद्धि-
विद्याया अभिव्याप्तेरात्मनि प्रविष्टानामविद्यादोषाणामैकान्तिकी निवृत्तिर्भवति, विद्याबुद्धेरविद्याबुद्धि-
निवर्तकत्वात्। तथा चैतादृशबुद्धियोगचतुष्टयोपपादनमेवेदं भगवद्गीताशास्त्रमस्तीति विज्ञेयम् ।
तथा
(बुद्धियोगभेदाः)
तत्र चेदमित्यं बुद्धियोगचतुष्टयं भवति
(१) रागद्वेषलक्षणक्लेशजनितशोकसमुत्थानप्रतिबन्धहेतुर्वैराग्यबुद्धियोगः । तदुपायविज्ञानं
वैराग्यविद्या। अनासक्तिहि वैराग्यविद्याया रहस्यम्। कामक्रोधनिबन्धनासक्तेर विद्याबुद्धेविद्या-
प्रतिबन्धिकायाः सहसंप्रयोगे तदासक्त्या विषयविशेषसमाकृष्टाया विद्याबुद्धेरात्मविद्यायां योगो
न संभवति।
"यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः"--इत्युक्तेः ।।
तस्मादध्ययविद्यायामञ्जसा बुद्धिविद्याप्रवेशाय विक्षिप्ताविद्याबुद्धिसहयोगजनितबुद्धिविक्षेप-
निवृत्तये तावदियमनासक्तिभरमपेक्ष्यते। अत एवेह वैराग्यविद्यायामनासक्तिशिक्षा विशिष्यादिश्यते ।
वृत्तौ समत्वं च वैराग्यं बुद्धियोगसिद्धिलक्षणं विद्यात् । रागद्वेषयोरात्यन्तिकनिवृत्तिश्चेह समत्वं
नाम। अथवा विद्याकर्मप्रसङ्गजनितोच्चावचभावराहित्यलक्षणं स्थितप्रज्ञत्वं समत्वं भवति ।
"योगस्थः कुरु कर्माणि सङ्ग त्यक्त्वा धनञ्जय ।
सिद्धपसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥२॥४८॥

बुद्धियोगभेदाः [ ५ - इहव तैजितः सर्गों येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥५॥१९॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६।२९।। आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन !। सुखं वा यदि वा दुःखं स योगी परमो मतः॥ (६।३२) इत्यादिव्यवहारदर्शनात् तथैवोपपनेः ॥१॥ (२) अथ अविद्यासंज्ञकमोहलक्षणक्लेशजनितशोकसमुत्थानप्रतिबन्धहेतुर्ज्ञानबुद्धियोगः। तदुपाय- विज्ञानं ज्ञानविद्या । अन्तर्योतिर्हि ज्ञान विद्याया रहस्यम् । ज्ञानान्यथाज्ञानाज्ञानत्रयस्य-कर्माकर्म- विकर्मत्रयस्य च मिथःसघषप्रवगतानिबन्धनो मोहो नामाविद्याबुद्धिजायते, तस्या विद्याप्रतिबन्धिकायाः सहसंप्रयोगे तन्मोहान्य कारग्रस्ताया विद्याबुद्धेरात्मविद्यायां योगो न मंभवति । तस्मादव्यय- विद्याधामञ्जसा बुद्धिविद्याप्रवेशाग गेहान्धकारनिवृत्तये तावदन्तर्योतिर्लक्षणं ज्ञानं विद्याबुद्धेरव्यय- विद्यायां प्रवेशद्वारमपेक्ष्यते । अत एवेह ज्ञानविद्यायां ज्ञानविज्ञानलक्षणान्तज्योतिःशिक्षा विशिष्यादि- श्यते। तुष्टिश्चेह ज्ञानबुद्धियोगसिद्धिलक्षणाि। विद्यात् ॥२॥ (३) अथ अस्मितालक्षणक्लेशजनिलशोकसमुत्थानप्रतिबन्धहेतुरैश्वर्यबुद्धियोगः । तदुपाय- विज्ञानमैश्वर्यविद्या । ईश्वरानन्यभक्तिस्त्वेतस्या ऐश्वर्यविद्याया रहस्यम् । अत्यल्पशक्तेर्जीवात्म- बुद्धरस्मितालक्षणाविद्यारूपतया विकासाभावलक्षणशैथिल्यादप्रवृत्तौ बुद्धिविद्याया अव्ययात्मविद्यायां योगो न संभवति। तस्मादव्ययविद्यायामञ्जसा बद्धिविद्यायाः प्रवेशाय बुद्धेः कुण्ठितत्वनिवृत्तिपूर्वक शक्तिविशेषोद्रेकायानन्तशक्ति वनेश्वरपरानुरक्तिलक्षणा ईश्वरानन्यभक्तिभरमपेक्ष्यते ॥ अत एव चेहैश्वर्य्यविद्यायां ज्ञानविज्ञानपूर्वकोपासनालक्षणाया ईश्वरानन्यभक्तेः शिक्षा विशिष्यादिश्यते । अवरपरा- व्ययतादात्म्यनिबन्धनसर्वकर्माबन्धनसिद्धिरूपं नैष्कर्म्यमैश्वर्यबुद्धियोगसिद्धिलक्षणं वेद्यात् ॥३॥ (४) अथ-अभिनिवेशलक्षणक्लेशजनितशोकसमुत्थानप्रतिबन्धहेतुर्धर्मबुद्धियोगः । तदुपायविज्ञानं धर्मविद्या। तस्याश्च धर्मविद्याया निवृत्तं कर्म रहस्यम् । "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं स्वयि नान्यथतोऽस्ति न कर्म लिप्यते नरे" ॥ (ईशो०) इति श्रुत्यादेशात् । "न कर्मणामनारम्भाग्नैष्कयं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धि समधिगच्छति" ॥ इति स्मृत्युपदेशाच्च कर्मकरणावश्यकत्वे स्थिते ज्ञानपूर्वक-कर्मजनितानां भावनावासनारूपाणां शुभाशुभसंस्काराणामभिनिवेशसंज्ञकानामावरकत्वेना- विद्याबुद्धिविशेषतया तस्मिन्नन्तराये सति विद्याबुद्धरात्मविद्यायां संप्रयोगो न संभवति। तस्मादव्यय- विद्यायामञ्जसा विद्याबुद्धिप्रवेशाय निवृत्तं कर्म द्वारमपेक्ष्यते। "प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्” इति धर्माचार्य-मनूक्तयोः कर्मणोर्मध्ये प्रवृत्तकर्मणां बन्धनात्मकत्वेनाभिनिवेशोत्पादकत्वेऽपि प्रवृत्तकर्मपरित्यागपूर्वकं कृतानां निवृत्तकर्मणामबन्धकत्वात् । "कुर्वन्नेवेह कर्माणि" "न करोति न लिप्यते"-इति सिद्धान्ताच्च निवृत्तकर्मणा अभिनिवेशानुत्पत्ती आत्मविद्या-बुद्धिविद्यासंयोगप्रतिबन्धकान्तरायानुपस्थानात् । अत एवेह धर्मविद्यायां प्रवृत्तकर्मनिवृत्त- कर्मविवेकज्ञानसिद्धयर्थं नानाविधा गुणकर्मपरीक्षा विधीयन्ते। तथा चेहाभिनिवेशलक्षणाविद्याबुद्धि- विनाशादात्मप्रसावो धर्मबुद्धियोगसिद्धिलक्षणमिति विद्यात् ॥४॥ तदित्थं बुद्धियोगचतुष्टयं भवति ।

उपोद्घातः विद्याचतुष्टयी मेयं विद्याचतुष्टयी महाभारतयुद्धकालादप्यतिप्राचीना पुरा देवयुगे भिन्ने भिन्ने विदुषां समाजे पृथक्त्वेन प्रचरति स्म। तथा हि-- (१)-प्रथमा तावद् वैवस्वतमनुवंशजातानां राजर्षीणां कुले विशिष्य प्रचरितासीत्। राज- र्षय एव चैतां वैराग्यविद्यां पुरात्वे विशिष्यातिष्ठन्ते स्म । तस्मादियं राजर्षिविद्या नाम । अथ योगशास्त्रे त्वेष बुद्धियोगो नाम योगो निष्ठीयते--इति भाव्यम् ॥१॥ (२)-अथ द्वितीया कपिलादिसिद्धवंशजातानां ज्ञानयोगाभिमानिनां कुले भूयसा संप्रथिता- सीत् । सिद्धा एव चैतां कर्मसंन्यासलक्षणां सांख्यापरपर्यायां ज्ञानयोगविद्यामातिष्ठन्ते स्म। तस्मादियं सिद्धविद्या नाम ॥ अथ योगशास्त्रे पुनरयं ज्ञानयोगो नाम योगो निष्ठीयते ॥२॥ (३)-अय तृतीया पुनरनृषीणामेव राज्ञामीश्वरोपासनाभिमानिनां निकाये समधिकं प्रचार- मागतासीत्। राजन्या एव च पुरात्वे विशेषतस्तामैश्वर्यविद्यामातिष्ठन्ते स्म। तस्मादियं राजविद्या नाम ॥ अथ योगशास्त्रे पुनरयमुपासनायोगो वा भक्तियोगो वा नाम्ना योगो निष्ठीयते ॥३॥ (४)---अथ चतुर्थी तु ब्राह्मणानां कर्मयोगाभिमानिनामृषीणां धर्मेणैव सर्वार्थसिद्धि परि- पश्यतां समाजे प्रसिद्धासीत् । ब्राह्मणा एव च ऋषयः पुरात्वे तामेतां धर्मविद्यामातिष्ठन्ते स्म । तस्मादिय- मार्षविधा नाम ।। अथ योगशास्त्रे पुनरयं कर्मयोगो नाम योगो निष्ठीयते ॥४॥ (श्रेष्ठा विद्या) तत्र तावदियं राषिविद्यानाम्नी वैराग्यविद्या वैराग्यविद्या सर्वाभ्योऽप्यन्ताभ्यो ज्येष्ठा भवति, श्रेष्ठा च । अतिप्राचीने देवयुगे देवकुलजातेन विवस्वता प्रचारितत्वादतिप्राचीनत्वात्। राजर्षीणां मूलपुरुषाय तस्मै विवस्वते भगवतैव सर्वतः पूर्वमुपदिष्टतया तस्या भगवदुपज्ञत्वाच्च। अपि च उत्तरासु तिसृषु विद्यासु भगवतोऽनुमतिमात्रं न्यूनाधिकं दृश्यते। प्रथमा तु भगवतव सर्वतः पूर्वं विवस्वते मनो. पित्रे समुपदिष्टासीदिति भगवत: स्वमतमेवेदं भवति । "ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३॥३१॥ ये त्वेतवभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥ ३॥३२॥ इत्येवं स्वमतत्वाभिमानात् । तस्मात् सर्वापेक्षयतस्याः श्रेष्ठत्वमुपपद्यते । अत एव चेयं राजर्षि विद्या भगवद्विद्या चाख्यायते सनातनविया च । एतद्वैपरीत्येन तु द्वितीयस्यां सिद्धविद्यायामत्यल्पा भगवतो- ऽनुमतिर्विज्ञायते- "यततामपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः" इत्येवं तत्र स्वानभिरुचेः स्पष्टं प्रदर्शितत्वात् ।। अर्थतासां तिसृणामुत्तरविद्यानामतिप्राचीनत्वेऽपि पूर्वकाले तास्वासन्नेव केचिदनुपादेया अप्यंशाः । अवश्यं च तत्तदनुपादेयांशपरित्यागपूर्वकं तासामुपादेयत्वमादेष्टुमेतस्यां गीतायां तदुल्लेखपूर्वकं भगव- तैतास्तिस्रो विद्याः स्वाभिमतोपादेयांशानुसारेण व्याख्याता इति विज्ञेयम् । तथा च तासां तत्तदनुपा- देयांशान् परित्यज्य यावदिह गीतायामुपात्तं तत्रावश्यं भगवतः पूर्णा संमतिरस्तीति कृत्वा ता अप्येता- स्तिस्रो विद्या अवश्यमुपादेयाः सन्तीति सुनिभृतं प्रत्येतव्यम् ।।

तालिका [७ (तालिका) तत्र चैतासु भगवद्गीताप्रदर्शितासु चतुर्विधबुद्धियोगविद्यासु शास्त्र विद्या:--विद्याया- मुपनिषदः-उपनिषदि चोपदेशा:-इत्येवं प्रकरणविभागा द्रष्टव्याः । तथा च गीताशास्त्रे चतस्रो विद्याः, चतुर्विशतिरुपनिषदः, षष्टिशतं चोपदेशाः सन्तीति विज्ञेयम्। भगवतैव ताः सर्वा उपनिषदो (४) (२४) (१६०) विभज्योपदिष्टाः सन्तीति कृत्वा शास्त्रप्रकरणान्ते--"भगवद्गीतासूपनिषत्सु"---इत्येवं व्यपदेशा दृष्यन्ते । अथ गीतायामष्टौ प्रकरणविभागा भवन्ति। तेषु श्लोकैविभक्तेषु प्रकरणेषु भगवद्गीतानामुप- निषदां तदन्तःसंनिविष्टानामुपदेशानां च तालिका यथा-- (गीतासप्तशती-प्रकरणतालिका) -- विद्याया- प्रकरणानि श्लोकाः मुपनिषदः उपनिषत्सूपदेशा. १९) १ २ ऐतिहासिकसन्दर्भ चातुर्विद्यापक्रमे ६४ ३ रागद्वेषक्लेशनिवर्तिकायां वैराग्यबुद्धि- योगलक्षणायां राजर्षिविद्यायाम् । ५०(७७१७ ।। ५।९।९) २ मोहकलेशनिवर्तिकायां ज्ञानबुद्धियोग- लक्षणानां सिद्धविद्यायाम्। १९ (१०१९) ५८ .६१४ ५ ३ अस्मिताक्लेशनिवर्तिकायामैश्वर्यबुद्धि- योगलक्षणायां राजविद्यायाम् । ३२(११।१५।६) १५१ w अभिनिवेशक्लेशनिवर्तिकापां धर्मबुद्धि- योगलक्षणायामार्षविद्यायाम् । १८९ ४९ (९।५।७।४। २०१२।२) चातुर्विद्योपसंहारे ८(४।२।२) १७ अ० श्लो १८-(५७-७३) ५ अ० श्लो . ८ । ऐतिहासिकसदर्भ X X १८-(७४-७८) (७००) (२४) (१६०) तत्र तावद् वैज्ञानिकोपनिषदः पृथक्कृत्य संगृह्यन्ते (उपनिषदां तालिका) विद्याचतुष्टयी गीता तत्रोपनिषदः स्मृताः ।। एकाऽष्टौ द्वे च-तिस्रश्च-सप्त-तिस्र-इति क्रमात् ।।०॥ १-८-२ ता एताश्चतुर्विंशतिरुपनिषदः पृथक्कृत्योपपादनीयाः । तद् यथा- *ऐतिहासिकसंदर्भ तावदुपनिषदो न सन्ति । ino ७ r -- ८ ] उपोद्घातः १. अथ चातुर्विद्योपक्रमे तावदेका उपनिषत, द्वावुपदेशी (२) १ उत्थानिका (लोकवृत्तोपनिषत्) [विश्वप्रकृतिसिद्धशोकसमुत्थान-प्रसङ्गोदाहरणरूपो बन्धुयुद्धप्रसङ्गः] २. अप राजर्षिविद्यायाम् अष्टौ उपनिषदः, पञ्चाशदुपदेशाः (५०) १-लोकप्रसिद्धयोः सांख्ययोगनिष्ठयोनियोगिनां सांख्यनिष्ठायां तावदनुशोकानौचित्यम् । [कर्मसंन्यासलक्षणसांख्यनिष्ठायां ज्ञानयोगपक्षेऽपि कर्मत्यागानौचित्यम् ] [सप्तोपदेशी ७] २-बुद्धियोगिनामपि कर्मफलकामासक्तिपरित्यागौचित्यम् । [योगापरपर्याय-कर्मयोगपक्षे कर्मत्यागानौचित्यम् ] [ सप्तोपदेशी ७] ३-बुद्धियोगिनः कर्मणामबन्धनत्वात् परित्यागानौचित्यम् । [कर्मसंन्यासाभ्युपगमपक्षेऽपि नित्यकर्मत्यागानौचित्यम् ] [ सप्तोपदेशी ७ ] ४-बुद्धियोगप्रतिबन्धकदोषपरित्यागौचित्यम् । [कारम्भाभ्युपगमपक्षेऽपि बुद्धियोगविरोधिकर्मत्यागौचित्यम् ] [श्युपदेशी ३] ५-बुद्धियोगस्य भगवन्मतसिद्धसनातनत्वम् । [त्र्युपदेशी ३] ६-बुद्धियोगाविरोधिकर्मयोग-ज्ञानयोगोभयनिष्ठोपादेयत्वम् । [पञ्चोपदेशी ५] ७-बुद्धियोगस्य कामासक्तिसंन्यासोपलक्षितकारम्भलक्षणत्वात् कर्मयोग-ज्ञानयोगोभयात्म- कत्त्वम् । [नवोपदेशी-९] ८-बुद्धियोगसाधनकर्मयोगोपादेयत्वम् [नवोपदेशी--९] अथ सिद्धविद्यायाम् द्वे उपनिषदौ, जनविंशतिरुपदेशाः । (१९) १-प्रकृतिपुरुषयोविवेकज्ञानम् । [दशोपदेशी--१०] २-ब्रह्मकर्मणी', चतुरधिकरणम्", अहोरात्री, सर्गप्रलयौर, भक्तियोगः', आत्मगतिरिति द्वादश विज्ञानानि । [नवोपदेशी-९] . . अथ राजविद्यायाम् तिस्त्र उपनिषदः, द्वात्रिंशदुपदेशाः । (३२) १-- ईश्वरस्वरूपज्ञानम्। [एकादशोपदेशी-११] २–ईश्वरीय-योगविभूतिलक्षणविज्ञानद्वयम् । [पञ्चदशोपदेशी-१५] ३-ईश्वरोपासना। [षडुपदेशी-६] अथ पार्षविद्यायाम् सप्त उपनिषदः, ऊनपञ्चाशदुपदेशाः (४९) १--प्रकृति-पुरुषार, क्षेत्र-क्षेत्रज्ञौ', ज्ञान-ज्ञेयो -इति षड्विज्ञानोपनिषत् । [नवोपदेशी ९] २--सत्त्वरजस्तमोलक्षणगुण्योपनिषत् । [पञ्चोपदेशी ५] ३--अश्वत्थोपनिषत् । [सप्तोपदेशी ७] ४---दैवासुरसंपत्तियुक्तभूतसर्गोपनिषत् । [चतुरुपदेशी ४] ५--गुणकर्मप्रचयोपनिषत् । [विंशत्युपदेशी २०] कर्म ६---अत्याज्यकर्मोपनिषत् ॥ [द्वघुपदेशी २ - ग०।

उपनिषदां तालिका
-अनावरणकर्मोपनिषत्, सैव च ब्रह्मभूतविदेहोपनिषत् [द्वथुपदेशी २]
अथ चातुर्विद्योपसंहारे तिस्र उपनिषदः, अष्टोपदेशाः-[-]
१--चातुर्विद्यसारोद्धारः ।
[चतुरुपदेशी ४]
२--उद्धारोद्धारः।
[द्वयुपदेशो २ ]
३--गीताफलश्रुतिः ।
[द्वयुपदेशी २]
इति क्रमेण गीतायां चातुविद्यविभागतः ।
विद्योपनिषदो भिन्नाश्चतुर्विंशतिधेरिताः ।।१।।
आसां विशिष्य व्याख्यानमत्तरत्र भविष्यति ।
काण्डे तृतीये गीताया हृदये तत्र दृश्यताम् ॥२॥
(उपदेशतालिका)
अव्ययपुरुषलक्षणे जीवात्मनि चतुर्धा संभवतां बुद्धियोगानां चतुर्विधा विद्या उपदिश्यन्ते, ता
एताश्चतस्रो विद्या इदं भगवद्गीता नाम शास्त्रम् । तासु च विद्यासु याश्चतुर्विंशतिरुपनिषदो विज्ञायन्ते,
तत्र षष्टिशतमुपदेशा भवन्ति । तेषामत्र तालिका प्रदर्श्यते--
(१६०)
रथी साथ बली मेधा धनो धाप्यश्यते धमः ।
9
४३.
थो भू ना खर भूपाला उपदेशाः क्रमादिह ॥१॥
*ऐतिहासिकसंदभ तावन्नोपदेशाः सन्ति ।
(१) अथ चातुर्विद्योपक्रमे त्वेकस्यां लोकवृत्तोपनिषदि द्वौ उपदेशौ भवतः ।
(१) संग्रामोपलक्षणविधया प्राकृतिकशोकसमुत्थानप्रदर्शनम् ।
(२) स्वयंसिद्धशोकव्युत्थानौपयिक-चतुर्विधबुद्धियोगविद्योपदेशोपक्रमः ।
(१) अथ भगवद्विद्यायां शानयोगिनोग्नुशोकानौचित्योपनिषदि-सप्त उपदेशाः।
(१) सर्वविधकर्मातीत-नित्यशुद्धबुद्धमुक्तासङ्गस्याव्ययात्मनः
शाश्वतिकतया शरीरपरिग्रह-
परित्यागयोः प्रवाहनित्यत्वादेकस्यैव तस्यात्मनोऽनेकदेहधारित्वस्वाभाव्यानुशोकानो-
चित्यम् ॥१॥

१० ] उपोद्घातः तथा (२) सति शरीरपरिग्रहे प्रशामात्रा-प्राणमात्रा-भूतमात्रासंसर्गजनितस्य सुखदुःखादिप्रत्ययस्य ना- प्राप्तत्वादोपसर्गिकत्वेनोपेक्ष्यत्वाच्चानुशोकानौचित्यम् । च दीर्घकालादरनरन्तर्य- कृतादनुशोकोपेक्षणादनुशोकानुत्पत्तिस्वभावे सिद्धे सुखदुःख-द्वन्द्वसमत्वानुभाविनां निर्द्वन्द्वानां भूतात्मनामव्ययात्मन्यविद्यायाः प्रसक्तिर्नास्तीत्यमृतत्वसंपत्तिः ॥२॥ (३) देहभृत्यव्ययात्मनि देहसंबन्धेन सत्यपि सदसवन्द्वे असतः शरीरादेः कार्य्यस्य सत्त्वम्, सतस्तु कारणस्यात्मनोऽसत्त्वमनुपपन्नमिति विज्ञानसिद्धान्तादस्य विकुर्वाणविनश्वरशरीरयोगिनो- ऽप्यव्ययात्मनो नित्यनिर्विकारत्वादविनाशित्वाच्चानुशोकानौचित्यम् ॥३॥ (४) विनश्वरशरीरयोगिनोऽस्याव्ययस्यागन्तुकशरीरसापेक्षं जन्ममृत्युद्वन्द्वसाहित्येऽपि स्वरूपतो जन्ममृत्युद्वन्द्वराहित्यादात्नहननासंभवादनुशोकानौचित्यम् । अपि चैतस्मिन्नव्यये नित्ययुक्तस्य प्रकृतिभूतस्य महतोऽक्षरात्मनो मूर्तियोनित्वस्वाभाव्यात् शरीरविधरणपरित्यागलक्षणस्य जन्ममरणद्वन्द्वस्य पौनःपुनिकत्वनियमादनुशोकानौचित्यम् ॥४॥ (५) अपि चैतस्याव्ययात्मनः पञ्चभूतगुणाननुस्पृष्टत्वेन विनाशासंभवादनुशोकानौचित्यम् ॥५॥ (६) जन्ममरणवति भोक्तरि कर्मात्मनि जन्ममरणद्वन्द्वस्य प्रवाहनित्यत्वादपरिहार्यत्वाच्चानुशोका- नौचित्यम् ॥६॥ (७) नित्यानित्ययोरसङ्गसङ्गिनोरात्मशरीरयोः संबन्धस्यानिर्वचनीयत्वादाश्चर्य्यमयत्वेऽप्यात्मा- वध्यत्वसिद्धान्तादनुशोकानौचित्यम् ॥७॥ -- (२) अथ बुद्धियोगिनः कर्मफलकामासक्तिपरित्यागौचित्योपनिषदि सप्त उपदेशाः । १-बुद्धियोगाविरुद्धज्ञानयोगोपदेशानन्तरं विवक्षितस्य व्यवसायबुद्धिसमुच्चितकर्मयोगलक्षणस्य बुद्धियोगस्य प्रशंसा ॥१॥ २-बुद्धियोगपरिपन्थिनस्तु कर्मयोगस्य वैदिकस्यापि व्यवसायबुद्धिव्यतिरेकादनन्तशाखाविभक्त- स्यैहिकामुष्मिकफलभोगीपयिकस्य त्रैगुण्यविषयप्रवृत्तिलक्षणतया कामाकुलत्वाद् दुःखानुविधा- यित्वम्, सान्तसातिशयफलत्वात् तुच्छत्वं च ॥२॥ ३-कर्मफलवासनाया आसक्तिहेतुतया बन्धकत्वाद् सकामकर्मयोगस्य दुःखानुविधायित्वम् । कापरित्यागफलवासनापरित्यागाभ्यामुपलक्षितस्यानासक्तिलक्षणस्य कर्मयोगस्य बुद्धियोग- समर्थकतया दुःखासंभिन्ननित्यनिरतिशयफलौपयिकत्वाच्छ्यस्त्वम् ॥३॥ ४--स्थितप्रज्ञतालक्षणाया मोहव्यतितीर्णाया बुद्धेर्बुद्धियोगसिद्धघुपायत्वम् ॥ अज्ञानावृतज्ञान- जनिताया उत्थाप्याकाङक्षाया मनसि निर्वेदस्य बुद्धियोगसिद्धयुपायत्वम् ।। ५----वैराग्यलक्षणबुद्धियोगस्वरूपसंपत्तिरूपायाः स्थितप्रज्ञताया लक्षणोपदेशः ॥५॥ ६-विषयानुध्यानजनिताया वासनाया आसक्तिहेतुत्वाद् बुद्धियोगप्रतिबन्धकत्वमस्तीति बुद्धि- योगस्वरूपव्यापत्तिरूपाया आसक्तेर्लक्षणोपदेशः ॥६॥ ७-रागद्वेषशून्यैरिन्द्रियविषयग्रहणमासक्तिहेतुर्न भवतीति बुद्धयावरणवासनानुदयाद् बुद्धिप्रसादे बुद्धियोगसिद्धिः । बुद्धियोगस्य कषायानुदयानिर्मलबुद्धिरूपतया ब्रह्मस्थितिरूपत्वम् ॥७॥ -

उपदेशतालिका
[ ११
.
(३) अथ बुद्धियोगिनः कर्मणामबन्धकत्वात् परित्यागानौचित्योपनिषदि
सप्त उपदेशाः ।
१--सिद्धान्तरूपेण बुद्धियोगमतस्थापनार्थ कर्मयोग-कर्मसंन्यासयोः श्रेयस्त्वाश्रेयस्त्वपरीक्षा-
रम्भः ॥१॥
२-नैष्कम्योपायत्वात्', कर्मसंन्यासवैयर्थ्यात्', कर्मपरित्यागाशक्यत्वात् , प्रकृतिसिद्धत्वाद्,
अनासक्तकर्म योगवशेष्यात् 'कारम्भकर्मसंन्यासयोः कारम्भस्य श्रेष्ठयात्, जीवन-
यात्रानिर्वाह कत्वाच्च, नाप्राप्तस्य कर्मणोऽनिवार्यत्वात् कर्मपरित्यागानौचित्यम् ॥२॥
३–यज्ञार्थकर्मणामनासक्तिकृतत्वादबन्धनत्वादवश्यकर्तव्यत्वम्। तथा चैतस्य यज्ञकर्मणोऽवश्य-
कर्तव्यत्वादबन्धनत्वाच्च परित्यागानौचित्यम् ॥३॥
४-~-उपेक्षाबुद्धिसहकृतकर्मणामनासक्तिकृतत्वादबन्धनत्वाददुष्टत्वम् । आत्मारामस्यात्मपरायणस्य
विषयानासक्तस्य बहिर्लोकयात्रायामुपेक्षाबुद्धौ अपेक्षाबुद्धिमूलकसंस्कारोदयासंभवादबन्धनस्या-
त्मज्ञानौपयिकस्य कर्मणः परित्यागानौचित्यम् ।।४।।
५--विद्वत्पामराद्युच्चावचसर्वविधलोकस्थितिनिर्वाहो लोकसंग्रहः । लोकसंग्रहकर्तव्यतादृष्टया
कृतस्य कर्मणोऽनासक्तिहेतुत्वादबन्धकत्वात् परित्यागानौचित्यम् ।।५।।
६-~आत्मातिरिक्ताया आत्मप्रकृतेः कर्माधिष्ठानत्वमध्यवस्यता ममत्वराहित्यात्कर्मफलानुसन्धान-
राहित्यात् कर्तृत्वानभिमानाच्चात्मनः कर्मण्यासक्तिबन्धनमपश्यता स्वभावसिद्धसहजकर्मणः
परित्यागानौचित्यम् ॥६॥
७--कर्मपरित्यागानौचित्यस्य भागवतमतत्वप्रतिज्ञानम् !!७।।
(४) अथ बुद्धियोगिनो बुद्धियोगप्रतिबन्धकदोषपरित्यागौचित्योपनिषदि
अय उपदेशाः ।
१-इन्द्रियधर्मत्वादनात्मधर्मयोः प्रकृत्यधिष्ठानयो रागद्वेषयोगसक्तिहेतुत्वाद् बुद्धियोगपरि-
पन्थित्वम् ॥१॥
२--रागद्वेषात्मकयोः कामक्रोधयोरिन्द्रियमनोबुद्धयधिष्ठानयोर्बुद्धिद्वारा प्रत्यगात्मावरणत्वादात्म-
विदूषकत्वाच्चात्मनि तत्पारवश्यं भवतीत्यनिष्टकर्माचरणे तदात्मनः प्रवृत्तिः ॥२॥
३---इन्द्रियमनोबुद्धिनिग्रहणस्यैव कामक्रोधविजयोपायत्वादात्मनि कामक्रोधासक्तिनिवर्त-
कत्वम् ॥३॥
(१) अथ बुद्धियोगस्य भगवन्मतसिद्धसनातमत्वोपनिषदि अय उपदेशः ।
१--भगवन्मतसिद्धस्य वैराग्यौपयिकसमत्वलक्षणबुद्धियोगस्य ज्ञानयोगकर्मयोगाभ्यामतिप्राचीनत्वेन
राजर्षिपरम्परोपदेशसिद्धत्वात् सनातनधर्मत्वम् ॥१॥
२-बुद्धियोगविद्योपदेष्टुः कृष्णवासुदेवस्यानेकजन्मग्राहित्वम् , अच्युतभगवत्त्वाजातिस्मरत्वं
च ॥२॥

१२ ] उपोद्घात: ३--जीवाव्ययस्य परमाव्ययैकीभावे प्रतिपन्ने संसृतिकर्मनाशेन जन्ममृत्युबन्धविनिर्मुक्तत्वमिति सिद्धान्तादस्य कृष्णस्य साक्षात्परमाव्ययपुरुषतया पुनर्जन्मासंभवेऽपि विश्वाधिकार- संबन्धेनाधिकारिकत्वात् सति निमित्तविशेषे स्वेच्छयाऽनेकजन्मग्राहित्वम् ।। "यावदधिकार- मवस्थितिराधिकारिकाणाम्"इति वैयासिकसूत्रन्यायात् ॥३॥ (६) अथ बुद्धियोगाविरोधि-कर्मयोग-ज्ञानयोगोपादेयतोपनिषदि उपदेशाः । १---ज्ञानयोगस्य, भक्तियोगस्य, कर्मयोगस्य वा, अव्यक्तोपासनायास्तत्तद्देवतोपासनानां वा, सर्वविधकर्मणामव्ययाश्रयादेव फलसिद्धिः ॥१॥ २--अव्ययस्यात्मनस्तत्तत्कर्मसु निलिप्तत्वं विजानद्भिश्चतुभिर्वर्णैः स्वधर्मबुद्धया कृतानां स्वकर्मणां बन्धकत्वाभावः ॥२॥ ३--क्षोभरूपस्य तमोलक्षणस्य कर्मणः, तथा शान्तिरूपतया प्रकाशलक्षणाया विद्यायाश्चान्योन्य- मन्तरान्तरीभावं विजानता कृतानां विद्यासमुच्चितकर्मणां विद्याप्रभावाद् बन्धकत्वाभावः । ज्ञानानुस्यूतस्य निवृत्तकर्मणो ज्ञानाग्निदग्धत्वात् संस्काराजनकत्वेनाबन्धनत्वम् ॥३॥ इति कर्मयोगोपादेयता॥ ४---अबन्धकत्वेनोक्तानि यज्ञार्थककर्माणि उदाहरणविधया त्रयोदशविधानि प्रदर्श्यन्ते ॥ ब्रह्मार्पण- यज्ञः ॥१॥ देवयज्ञः ॥२॥ ब्रह्माग्नियज्ञः ॥३॥ संयमाग्नियज्ञः ॥४॥ इन्द्रियाग्नियज्ञः ॥५॥ योगाग्नियज्ञः ।।६।। द्रव्ययज्ञः ॥७॥ तपोयज्ञः ॥८॥ योगयज्ञः ।।९॥ स्वाध्याययज्ञः ॥१०॥ ज्ञानयज्ञः ॥११॥ प्राणायामयज्ञः ॥१२॥ प्राणयज्ञः ।।१३।। इति ज्ञानयोगसमुच्चितकर्मयोगोपा- देयता ॥ ५--सर्वविधयज्ञापेक्षया कर्मबन्धक्षयलक्षणस्य ज्ञानयज्ञस्य श्रेष्ठत्वम् ॥ इति ज्ञानयज्ञोपादेयता ॥ (७) अथ बुद्धियोगस्य कामासक्तिसंन्यासोपलक्षितकारम्भलक्षणत्वात् कर्मयोगज्ञानयोगोभयात्मकत्वोपनिषदि नव उपदेशाः । १--पूर्व कर्मपरित्यागानौचित्याख्यानेन कर्मयोगोपदेशादिदानी ज्ञानयज्ञश्रेष्ठत्वाख्यानेन कर्म- संन्यासोपदेशात् संशये प्रश्नः ।।१।। २--कर्मयोगकर्मसंन्यासयोः प्रत्येकस्य गुणदोषदर्शनादुभयोः समुच्चये विवक्षिते कर्मयोगस्यैव कामसंन्यास-फलाभिसन्धिसंन्यासासक्तिसंन्यासेभ्यः संन्यासलक्षणज्ञानयोगत्वोपपत्त्या तयोभि- नयोरप्यभिन्नत्वमास्थीयते । तथा च ज्ञानकर्मणोः समुच्चयादेकत्वेन भावितस्य बुद्धियोगस्य ज्ञानयोगत्वं च कर्मयोगत्वं चेति कृत्वा तादृशबुद्धियोगिनः प्रत्यगात्मनो लक्षणमन्वाख्यायते॥२॥ ३-नित्यशुद्धबुद्धमुक्तस्वभावस्यात्मनोऽव्ययस्य सोपसर्गानुपसर्गावस्थयोः संसारनिस्तारावस्थयो- श्चैकरसत्वम् ॥३॥ ४.--बाह्यविषयसंयोगसुखापेक्षया आत्मारामान्तःसुखस्य नित्यशान्तैकरसत्वात् प्राशस्त्यम् ॥४॥ ५-आत्मज्ञानेन सर्वकर्मपरिक्षयात् कर्मजनितसर्वद्वैतनिवर्तनाच्च ब्रह्मकैवल्यसिद्धिरित्यतस्तस्यात्म- शानिनोऽन्तरारामत्वम् ॥ निवृत्तरागद्वेषाणां विजितात्मनामन्तोतिष्ट्वादन्तरारामत्वम् ॥५॥ .

उपदेशतालिका [ १३ ६-परमशान्त्युपायभूताया आत्मज्ञानसिद्धरुपायभूतायां योगाभ्यासप्रक्रियायां निष्णातस्य सर्व- दुःखोपशमलक्षणशान्तिसिद्धिः ॥६॥ ७-सर्वविधकम्मकान्तपरित्यागस्यासंभवेन नैष्कर्म्यज्ञानयोगस्याशक्योदयत्वात्कर्मयोग एवोपा- देयो न जानयोग इत्येके ॥ कर्मयोगस्य रजस्तमोगुणयोगेन बन्धनहेतुत्वात् कर्मसंन्यासलक्षणो ज्ञानयोग एवोपादेयो न कर्मयोग इत्यपरे ॥ इत्थं विरु द्वैविध्ये कर्मफलाभिसन्धिसंन्यासेन संन्यासलक्षणज्ञानयोगव्यामिश्रितो निष्कामनिरासक्तिकृतकर्मयोगलक्षणो बुद्धियोग एवोषा- देय इति सिद्धान्तः ॥७॥ ८--ज्ञानयोगेनात्मविजयस्य परमपुरुषार्थत्वादजितात्मना कृतम्य कामसंकल्पमयस्य कर्मयोगस्य दुःखानुविधायित्वम् ॥८॥ -कर्मयोगेन कर्मनिष्ठस्यापि ज्ञानयोगेन जितात्मनः सर्वत्र समबुद्धित्वमुदेतीति समत्वलक्षण- बुद्धियोगोदयौपयिकत्वात् तस्य समबुद्धित्वस्य प्राशस्त्यम् ।।९।। -- (6) अथ बुद्धियोगसाधनकर्मयोगोपादेयत्वोपनिषदि नव उपदेशाः । १--बुद्धियोगसिद्धघुपायभूतं योगाभ्याससाधनम् ॥१॥ २-योगाभ्याससाधने साधकबाधको ॥२॥ ३--बुद्धियोगसिद्धिलक्षणम् ॥३॥ ४--बुद्धियोगस्वरूपलक्षणम् ।।४।। ५--बुद्धियोगसिद्धये योगाभ्यासानुष्ठानक्रमः ।।५।। ६--बुद्धियोगसाधने समतानुध्यानाभ्यासक्रमः ।।६।। ७--बुद्धियोगसिद्धयोपयिकमनःस्थिरतोपाये प्रश्नसमाधाने ॥७॥ ८-दैवाद् योगभ्रष्टस्योदर्काख्यानम् ।।८।। ९-कर्मयोगि-तपोयोगि-ज्ञानयोगिभ्यो बुद्धियोगिनोऽभ्यहितत्वम् । बुद्धियोगिनोऽपि सामान्यभावुकापेक्षया श्रद्धावतः श्रेष्ठत्वम् ॥९॥ (१) प्रकृतिपुरुषविवेकज्ञानोपनिषदि दशोपदेशाः १--योगविशुद्धनान्तःकरणेन सर्वजगदाधारस्यैकस्याव्ययस्य साक्षात्काराय ज्ञानविज्ञानोपदेशोप- क्रमः ॥१॥ २-पुरुषस्याव्ययस्य परापरभेदात् प्रकृतिद्वैविध्यम् ॥२॥ ३--प्रकृतिविशिष्टस्याव्ययपुरुषस्यैतदशेषजगद्भावभावित्वम् ।।३।। ४--एकस्यैवाव्ययपुरुषस्य परापरप्रकृतिवशाद् विभिन्नरूपत्वे पञ्चदशोदाहरणानि ॥४॥ ५---पुरुषप्रकृतिभूतस्य महतो गुणत्रयसमष्टिरूपतया गुणत्रयभेदात् त्रिधा भिन्नानां जगद्भावानाम- व्ययप्रकृतिसिद्धत्वादव्ययनिष्ठत्वम् ॥५॥ ६--गुणत्रयव्यतिरिक्तस्य गुणत्रयालम्बनस्यापरिणामिनो विशुद्धस्याव्ययपुरुषस्य त्रैगुण्यात्मक- मायाप्रच्छन्नत्वात् तादृशगुणत्रयात्मकमायाप्रत्यन्तरितदृष्टिभिरासुरप्रकृतिभिर्दुकृतिभिरभा- स्यत्वम्। त्रैगुण्यात्मकमायावृत्तिप्राबल्येन ज्ञानसंवरणाद् ज्ञानमालिन्याद्वा तदव्ययस्या- १४ ] उपोद्घातः त्मनोप्रतिपत्तावपि तदव्ययार्पितमनोबुद्धघभ्यासप्राबल्येन ज्ञानविकासाद् ज्ञानवैमल्याद्वा तदव्ययात्मप्रकाशसंभवः ॥६॥ ७-अस्याव्ययपुरुषस्याराधनायाम्-आर्त-धनार्थि-जिज्ञासु-ज्ञानिनां चतुण. सुकृतिनां निस- र्गतः प्रवृत्तिमत्त्वम् । तेषु ज्ञानिनां श्रेष्ठतमत्वम्। ज्ञानात्मकत्वेनैवाव्ययस्य निर्धारितत्वाज् ज्ञानिनामव्ययसाक्षात्कारे संनिकर्षेण सौलभ्यात् ॥७॥ ८-महत्यव्ययचिदाभासस्य सत्वगुणतया सात्त्विकानां प्रतिबिम्बिताव्ययचिन्मयप्राणवतीष्वव्यया- वलम्बितक्षराक्षरात्मिकासु विभिन्नतत्तद्देवतासूपासकानां तत्तद्देवताद्वारा परम्परया तदव्यय- पुरुषप्रपत्तावपि साक्षादव्ययप्रपत्त्यपेक्षया मन्दफलावगाहित्वम् ॥८॥ ९--योगमायापहृतज्ञानतया साक्षादव्ययं पुरुषमनवगाहमानानामबुद्धीनामक्षराव्ययालम्बितक्षराक्ष- रात्मकदेवतामात्रोपासनाप्रवणत्वम् ॥९॥ १०--रागद्वेषद्वन्द्वमोहेन संमोहं गतानामव्ययाक्षरद्वन्द्वाविवेकात् केवलमेकमक्षरमेव प्रतिपद्यमानानां भूतभविष्यद्वर्तमानसर्वविधज्ञानजनकैतदव्ययपुरुषप्रतिपत्तिर्नोपपद्यते ॥ पुण्यकर्मणां तु निष्कल्मषाणां रागद्वेषद्वन्द्वमोहापक्षयेऽव्ययात्मसाक्षात्कारसंभवात् तत्प्रभावात् त्रिकालदर्शित्व- संभवः ॥१०॥ (२) ब्रह्मकर्मणी'-चतुरधिकरणम् -अहोरात्रौ -सर्गप्रलयौ'-भक्तियोगः'- आत्मगतिरिति द्वादशविज्ञानोपनिषदि नव उपदेशाः। १–अव्ययोपासकस्य ज्ञानिनोऽव्ययार्पितमनोबुद्धिप्रभावादक्षरक्षरविकारेष्वेतेषु जगद्भावेषु ब्रह्म- कर्मणोस्तदुभययोगसिद्धस्य चाधिकरणचतुष्टयस्य देहावसाने परात्मन्यवरात्मगतेश्च विज्ञान- सिद्धिः । अव्ययार्पितमनोबुद्धीनां योगिनां मनोबुद्धयोर्यावदव्ययं कामचारोपपत्तेः ॥१॥ २-ब्रह्मकर्मणोरधिकरणचतुष्टयस्य च तावत्स्वरूपविज्ञान प्रश्नानां संक्षिप्य समाधानानि ॥२॥ ३--गतिविज्ञानसमाधानाय तु सद्योमुक्ति,क्रममुक्ति,लोकयातायातानां विज्ञानेषु क्रमश: प्रति- पादनीयेषु प्रथमं तावत् सद्योमुक्तिलक्षणपरमगतेश्चतुर्धा व्युत्पादनम् ।। तथा हि "अन्ते मतिः सा गतिः" इति सिद्धान्तादव्ययापितमनोबुद्धीनां देहावसानकालेऽव्ययचिरानुभवाहित- संस्कारद्वाराऽव्ययाबुगमादपुनरावृत्तिः ॥३॥ ४-अपि च देहावसानकाले योगाभ्यासप्रक्रिययाऽव्ययैकाग्रसमर्पितमनसाऽनुचिन्तयतः शरीरत्यागे- ऽव्ययप्रतिष्ठितत्वादपुनरावृत्तिः ॥४॥ ५-अपि च-योगमार्गेणाव्ययोपासिनाम्-ओमित्येकाक्षरोच्चारणपूर्वकं तदनुस्मृतिमात्रपूर्वकं वा शरीरं त्यजताम् ओमितिशब्दाक्षरोपस्थापितब्रह्माक्षरसेतुद्वाराऽव्ययपरिनिष्ठानादपुनरा- वृत्तिः ॥५॥ ६-अपि च-अनन्यचेतसाहनिशमव्ययमनुचिन्तयतां जन्ममृत्युप्रवाहप्रयोजकहृद्ग्रन्थिबन्धविनि- र्मोकाद् विदेहभूतस्य देहावसानेऽव्ययसायुज्यसंपत्तेरपुनरावृत्तिः ॥६॥ ७--अव्यक्तात्मक्षरपर्य्यवसायिनां सर्वेषां भूतविकाराणामात्मानुबन्धिभ्यां विद्या 'कर्म'भ्यां पुनरा- वृत्त्यपुनरावृत्तिभाक्त्वं ब्रह्माहोरात्रनिबन्धनसृष्टिप्रलयभाक्त्वं च । ८--अव्यक्तात्मक्षरमात्रपर्यवसायिनां भूतात्मनां पुनरावर्तित्वेऽपि तदव्यक्तभरात्परयोरय रक्षराव्यययोनिर्विकारामृतरूपत्वात् तदनुगतानां भूतात्मनामपुनरावर्तितया परमा गतिः।

उपदेशतालिका
[ १५
९--कर्मजनितवासनासंस्कारावच्छिन्नस्य चिदाभासरूपस्य प्रत्यगात्मनो विद्याकर्ममयतया तदु-
भयतारतम्योपपन्नाभ्यां देवयानपितृयाणसंज्ञाभ्यां शुल्ककृष्णाभ्यां मार्गाभ्यां गतिं कुर्वतो
विद्यातिशय्ये क्रममुक्तिसिद्धेरपुनरावृत्तिः ॥
कर्मप्राबल्ये तु कर्ममार्गेण कृष्णेन पितृयाणेन गमनात् पुनरावृत्तिः ॥९॥
(९) ईश्वरस्वरूपज्ञानोपनिषदि एकादशोपदेशाः ।
१---अव्ययसाक्षात्कारौपयिकयोः कयोश्चिज्ज्ञानविज्ञानयोः पुरातनै राजवगैराविष्कृतत्वात् तैरद्य
यावन्निगृहितत्वाच्च गुह्यराजविद्यात्वम् ॥१॥
२---भूतग्रामैरसङ्गिनोऽप्यस्यागयपुरुषस्य व्यक्ताव्यक्तप्रकृतिविकारविशेषे भूतग्रामेऽभिमानित्वे-
नानुस्यूतत्वाद् भूतसर्जनायाक्षरनियोजकत्वाच्च सर्वभूतस्रष्टत्वं सर्वभूताभिष्ठानत्वं सर्वभूत-
परायणत्वं च प्रकृत्यवोपपद्यन्ते ॥२॥
३--मोहाकुलितासुरप्रकृतीनां मूढानां मनुष्यशरीरस्थे स्मिन् मर्वभूतमहेश्वरेऽनन्तशक्तिमति
अव्यये प्रतिपत्त्यभावात्तदवज्ञानाज्ज्ञानवैकल्यं चेष्टावैफल्यं नैराश्यं वैचित्त्यं चोपजायते ॥३॥
४-दैवप्रकृतिमतां तु विशुद्धान्तःकरणानां महात्मनां दैव्या प्रकृत्याऽवभासितेऽस्मिन्नव्यये क्षरा-
क्षरविकारवैशिष्टयेन नानात्वबुद्धया तदुपहितत्वेन त्वेकत्वबुद्धया प्रतिपत्तिसंभवाज्ज्ञानयज्ञादि-
भिरनेकधोपासनार्थ प्रवृत्तिः ।।४।।
५---यज्ञारम्भकाणां यकत्ववत्, भिन्नसंबन्धानां पुरुषकत्ववत्, वेदविभक्तीनां वेदैकत्ववत्, प्रकृति-
विकाराणां प्रकृत्यकत्वेनैकस्यैवेश्वराव्ययस्य सर्वत्रोपासना ॥५॥
६--द्वादशलक्षणत्वेनकस्याव्ययस्योपासना ॥६॥
७--विरुद्धाविरुद्धसर्वद्वन्द्वसाधारणत्वेनैकस्यैवेश्वराव्ययस्य सर्वत्रोपासना ॥७॥
८--ऐहिकामुष्मिकोन्नतिमिच्छद्भिस्त्रविद्यैः कर्मयोगिभिस्त्रिकालज्ञमीश्वरमेव कर्मसाक्षिणमा-
स्थाय कृतेन यज्ञकर्मणा ईश्वराव्ययोपासना ।।८।।
९-अन्यभक्ताव्ययभक्तयोरन्ययाज्यव्यययाजिनोः सर्वविधसर्वोपामनानामव्ययकपर्यवसायित्वेऽपि
सर्वयज्ञभोक्तृतमैतदव्यययाथार्थ्यानभिज्ञानां देवपितृभूतादियाजिना देवपितृभूतादिमात्रस्थानाव-
गाहित्वमुपपद्यते, न त्वेवत्वव्ययपरमधामावगाहित्वं संभाव्यते। “यथाऋतुरत्रोपास्ते, तथाऽमुत्र
संपद्यते"---इति श्रौतसिद्धान्तात् ।।९।।
१०-सर्वकमर्पिणभक्तियोगेनाव्ययोपासनायाः कर्मवन्धनिवर्तकत्वम् ॥१०॥
११-निर्गुणविद्योपासकानां ज्ञानयोगिनां विशुद्धकाव्ययानन्यभक्तिमाहात्म्यम् ॥११॥
(२) ईश्वरीय-योग-विभूतिलक्षण विज्ञानद्वयोपनिषदि पञ्चदशोपदेशाः ।
१-भूताभिमानिनोऽव्ययस्य यो विभूतियोगी, तयोर्ज्ञानस्य यत्नसाध्यत्वं सर्वपापप्रणाशकत्वं च ॥१॥
२-अव्यययोगानुभाविता अध्यात्म मानसाः स्वभावविशेषाः ॥२॥
३-अव्यययोगानुभाविता अधिदैवतं मानसा दिव्यभावविशेषाः ॥३॥
४--अव्ययस्य वक्ष्यमाणाया विभूतेः कथितस्य च योगस्य संवेदनफलश्रुतिः ॥४॥ *
५ ----अव्ययसाक्षात्कारीपयिकस्य बुद्धियोगस्य प्राप्सेरुपायभूता वृत्तयः ॥५॥

१६ ]
उपोद्घातः
६-अव्ययात्मनो दिव्यविभूतिजिज्ञासया प्रश्नः ॥६॥
७-अव्ययस्य दिव्यविभूतिप्रदर्शनोदाहरणानि ॥७॥
८--अर्जुनस्याव्ययवैश्वरूप्यदर्शनाकाडक्षा ॥८॥
९--विश्वरूपदर्शनाय भगवतार्जुनाय योगविद्याप्रभावेण दिव्यचक्षुषः प्रदानम् ॥९॥
१०--वासुदेवशारीरकाव्यये योगविद्याप्रभावादीश्वराव्ययविश्वरूपदर्शनम् ॥१०॥
११--अर्जुनकृता ईश्वराव्ययस्तुतिः ॥११॥
१२--अर्जुनं प्रति भगवदनुग्रहवाक्यम् ।।१२।।
१३---पुनरर्जुनकृता भगवत्प्रार्थनास्तुतिः ॥१३॥
१४--पुनरर्जुनं प्रति भगवदनुग्रहवाक्यम् ॥१४॥
१५--ईश्वरवैश्वरूप्यप्रदर्शनोत्तरं पुनर्मानुषरूपप्रदर्शने अर्जुनाश्वासनार्थः कृष्णार्जुनसंवादः ॥१५॥
(३) ईश्वरस्योपासनोपनिषदि षडुपदेशाः ।
१–अव्ययोपासनाऽक्षरोपासनयोविवेकजिज्ञासा ॥१॥
२-अक्षरोपासनापेक्षया अव्ययोपासनायाः श्रेष्ठत्वे भगवत्संमतिः ॥२॥
३–अक्षरोपासनाया अव्ययप्रापकत्वेऽपि अव्ययापेक्षया अक्षरोपासनायां क्लेशाधिक्यादवरत्वम् ।।३।।
४-अक्षरापेक्षया सर्वकार्पणरूपेश्वराव्ययोपासनाया अनायासेनाविलम्बेन च परमपुरुषार्थप्रदा-
यित्वाच्छेयस्त्वम् ॥४॥
५-अव्ययोपासनाऽनुकल्पप्रकारचतुष्टयविकल्पेषु अभ्यास-ज्ञान-ध्यान-फलत्यागेषूत्तरोत्तरश्रेय-
स्त्वम् ॥५॥
६--अव्ययात्मनः परमप्रसादे हेतुभूता भक्तिप्रकाराः ॥६॥
(१) प्रकृति-पुरुषी, क्षेत्र क्षेत्री, जान-शेयौ,-इति षड्विज्ञानोपनिषदि नव
उपदेशाः।
(१) प्रकृतिपुरुषयोः, क्षेत्रक्षेत्रज्ञयोः, ज्ञानज्ञेययोश्च त्रिविधयोरात्मद्वन्द्वयोः स्वरूपज्ञानार्थाः षट्
प्रश्नाः॥१॥
(२) क्षेत्रक्षेत्रज्ञयोर्भूतग्रामविज्ञानात्मनोः शरीरशारीरकयोविवेकलक्षणं ज्ञानम् ॥२॥
(३) अष्टपुरीलक्षणक्षेत्रनिरुक्तिः ॥३॥
(४) क्षेत्रक्षेत्रज्ञविवेकज्ञानजन्यविंशतिलक्षणज्ञाननिरुक्तिः ॥४॥
(५) सर्वाधारभूतपरब्रह्माव्ययपुरुषलक्षणज्ञेयनिरुक्तिः ॥५॥
(६) सर्वविधविकारग्रामसमुद्भावकत्रगुण्यलक्षणप्रकृतिसंज्ञस्य कर्मणः, सर्वविधविकारगुणग्रामा-
धारभूतनिष्क्रियत्वनर्गुण्यलक्षणपुरुषसंज्ञस्य ब्रह्मणः परस्परोपयोगाभिज्ञानम् ॥६॥
(७) मृत्युनिस्तारकपुरुषोपासनाभेदाः ॥७॥
(८) प्राणिमात्रस्य क्षेत्रक्षेत्रज्ञसंयोगोपाधिकत्वम् ॥८॥
(९) क्षेत्रस्थितस्य परमेश्वरस्य, ईश्वरस्य, परमात्मनो विज्ञानात्मनश्च क्षेत्रात् पृथक्त्वेन दर्शनमात्म-
साक्षात्कारलक्षणः पुरुषार्थः ॥९॥

उपदेशतालिका [ १७ (२) सत्त्वरजस्तमोलक्षणगुण्योपनिषदि पञ्च उपदेशाः । १-क्षेत्रज्ञे विशेषाधायकस्य गुणत्रयसमष्टिरूपस्य प्रकृतिभूतस्य महतो ब्रह्मणः सर्वभूतयोनित्वम् ॥१॥ २–गुणत्रयस्वरूपनिरूपणम् ॥२॥ ३-गुणातीतस्य विदेहात्मनो लक्षणम् ॥३॥ ४--जीवाव्ययकैवल्योपासनया ईश्वराव्ययकैवल्यसायुज्यसिद्धौ सर्वगुणात्ययाद् गुणातीतत्वसिद्धिः । ५-सृष्टम्, प्रविष्टम्, प्रविविक्तमितीत्थं ब्रह्मवैविध्ये गुणत्रयातीतस्येश्तराव्ययस्य सर्वजीवसम्बन्धि- निर्विशेषपरात्परपुरुषत्रयसाधारणप्रतिष्ठात्वम् ।।५।। (३) अश्वत्थोपनिषदि सप्तोपदेशाः। १--ब्रह्माश्वत्थ-काश्वत्थभेदादश्वत्थद्वैविध्येऽपि ब्रह्मकर्मणोरपृथक्त्वेनाश्वन्थयोरपृथक्त्वादेकस्य कश्वित्थस्यैव वैगुण्योपपन्नकर्मप्रपञ्चमयवैश्वरूप्यस्यारोपलभ्यमानतया तं निरस्य तदा- लम्बनभूते हेयप्रत्यनीके जगदीश्वरनाम्नि परमाव्यये ब्रह्माश्वत्थेऽभिनिवेशायोपदेशः ॥१॥ २.--गुणकर्मप्रपञ्चोपाधिशून्यस्य विशुद्धस्य ब्रह्माश्वत्थरूपाव्ययस्य साक्षात्कारोपायः ॥२॥ ३---परमाव्ययस्यैवाध्यात्मिकत्वौपाधिकजीवाव्ययत्वोपपतिः । प्रतिशरीरं गुणत्रयोपाधिभिन्नानां जीवाव्ययानामद्वितीयकाश्वत्थाव्ययनानाप्रतीकमात्रत्वम्, आध्यात्मिकानुपायग्राहित्वं च ॥३॥ ४-कश्वित्थापृथग्भूतस्य ब्रह्माश्वत्थाख्यस्य परमाव्ययस्य जीवाव्ययत्वोपपत्तौ तदक्षरानुगत- महद्गुणयोगाद् भोक्तृत्वसिद्धिः ॥४॥ ५--गुणत्रयोपाधिभिन्नान् नानायोन्याकारान् महद्विशेषानधितिष्ठतस्तस्यैकस्यैवाश्वत्थाव्ययस्य विभिन्ननामरूपगुणकर्मग्राहित्वम् ।।५।। ६--तस्यैकस्यैवाश्वत्थाव्ययस्य प्रतिजीवशरीरं भेदेनोपलब्धावपि औपाधिकभेदस्य तुच्छतया सर्वेषां जीवाव्ययानां परमाव्ययानतिरेकादैकात्म्यम् ।।६।। ७--एकस्यैवाश्वत्थाव्ययस्य प्रत्यर्थ कर्मभेदप्रयोजकगुणत्रयोपाधिभिन्नाभ्यां क्षराक्षराभ्यां महत्- प्रकृतिरूपाभ्यां भेदोपचारोपपत्तिः ॥७॥ (४) दैवासुरभूतसर्गोपनिषदि चत्वार उपदेशाः । १-~-जन्मसिद्धनैसर्गिकदैवासुरसंपत्तिनिबन्धनाः स्वभावसिद्धसहजगुणकानुबन्धाः ॥१॥ २--दैवासुरभेदाद् द्विविधभूतसर्गे आसुरसर्गानुगतानि विद्यानिरपेक्षाणि गुणकर्माणि ॥२॥ ३--आसुरसंपन्मूलकानां कामक्रोधलोभानां नरकद्वारत्वम् ॥३॥ ४--दैवसंपन्मूलकानां विद्यासमुच्चितगुणकर्मणां प्रतिपत्त्यर्थ वेदादिशास्त्रपरिशीलनादेशः ॥४॥ (१) गुणप्रत्योपनिषदि षडुपदेशाः । १--सर्वविधव्यवहारात्मकलोकयात्रायां दैवसंपत्त्या सत्त्वगुणस्य, आसुरसंपत्या तमोगुणस्य, उभय- संपत्तिसाम्यात् रजोगुणस्यानुषङ्गसंभवाद् गुणत्रयभेदभिन्नदेवासुरयोगमायालक्षणप्रकृत्यभिधा- भिन्नानां भूतसर्गाणां कानिचिदुदाहरणानि । तथा च नावद्गुणत्रयनिष्ठाभेवात् श्रवात्रविष्यम्॥१॥ २ १८ ] उपोद्घातः २----गुणत्रयवृत्तिभेदादाहारत्रैविध्यम् ॥२॥ ३--गुणत्रयवृत्तिभेदाद् यज्ञविध्यम् ॥३॥ ४-काय-वाङ-मनोऽधिष्ठानभेदात् तपस्वैविध्यम् ॥४॥ ५-गुणत्रयवृत्तिभेदात् तपस्वैविध्यम् ।।५।। ६--गुणत्रयवृत्तिभेदाद् दानवैविध्यम् ॥६॥ (५) कर्मप्रचयोपनिषदि चतुर्दशोपदेशाः । १--प्रवृत्तकर्मणाम्, निवृत्तकर्मणाम्, काम्यकर्मणां वा यज्ञतपोदानानामपूर्णत्वसंभावनायां तत्पूर्तये "प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा" इति वेदप्रामाण्यमातिष्ठमानेनेश्वराव्ययस्मरणरूप: तत् सदिति ब्रह्मनिर्देशस्त्रिविधः कर्तव्यतयोपदिश्यते ॥१॥ २-कर्मसंन्यासत्यागयोविवेके नानामतेषु भगवत्सिद्धान्तमतानुसंस्रवः ।।२।। ३---गुणत्रयवृत्तिभेदात् त्यागभेदाः ॥३॥ ४--कर्मयोगिनां कात्यागदोषात् कर्मफलत्रैविध्यम् । कर्मसंन्यासिनां तु कर्मफलोदया- भावः ॥४॥ ५-सांख्यसिद्धान्ते कर्मसिद्धिहेतूनां पाञ्चविध्यम् ॥५॥ ६--ज्ञाता, ज्ञानम्, ज्ञेयम्-इति ज्ञानत्रिपुटी; कर्ता, करणम्, कर्म-इति कर्मत्रिपुटी; इतीत्थं षट्कस्य कर्मस्वरूपनियामकत्वम् ॥६॥ ७-कर्मस्वरूपनियामकेषु ज्ञान-कर्म-कर्तृणां प्रत्येकस्य गुणत्रयवृत्तिभेदात् त्रैविध्यम् ।।७।। ८-ज्ञानवैविध्यम् ॥८॥ ९-कर्मवैविध्यम् ॥९॥ १०-कर्तृत्रविध्यम् ॥१०॥ ११-गुणत्रयवृत्तिभेदाद् बुद्धिवैविध्यम् ॥११॥ १२-गुणत्रयवृत्तिभेदाद् धृतित्रैविध्यम् ॥१२॥ १३-गुणत्रयवृत्तिभेदात् सुखत्रैविध्यम् ॥१३॥ १४-वैगुण्यवृत्तीनां सर्वभावव्यापित्वेनोपसंहारः ॥१४॥ (६) अथात्याज्यकर्मोपनिषदि द्वौ उपदेशौ । १--अथाधिकारसिद्धसांस्कारिक दैवासुरसंपत्तिनिबन्धनाः स्वभावसिद्धस्वीयगुणकर्मानुबन्धाः ॥१॥ २-दोषवतामपि स्वकर्मणां सहजकर्मणां च परित्यागप्रतिषेधः ॥२॥ कानावरकत्वोपनिषदि द्वौ उपदेशी। -अनासक्तस्य फलवासनाशून्यस्य काम्यकर्मसंन्यासिनः कर्मकरणेऽपि नैष्कर्म्यसिद्धिः ॥१॥ २-नैष्कर्येण ब्रह्मभूतस्य विदेहावस्थां गतस्य सर्वविधकर्मकरणेऽपि सद्योमुक्तिसिद्धचा परमाव्ययपदप्राप्त्यानन्दः ॥२॥ इति धर्मलक्षणा आर्षविद्या संपूर्णा ।।

उपदेशतालिका (१) गीतासारोद्धारोपनिषदि चत्वार उपदेशाः ! (१) पूर्वाचार्य्यपरम्परासिद्धकर्मविद्याचतुष्टयोपदेशानन्तरमन्ते विद्याचतुष्टयनिष्कर्षे विवक्षिते प्रथम- स्तावद् वैराग्य बुद्धियोगविद्यानिष्कर्षसिद्धाया जीवाव्ययलक्षणस्वात्मनिर्भरताया आदेशः ॥१॥ (२) अथ आर्षविद्या लक्षणचतुर्थविद्योद्धारस्वरूपो धर्मबुद्धियोगविद्यानिष्कर्षसिद्धायाः प्रकृतिसिद्ध- कर्मकर्तव्यताया आदेशः ॥२॥ (३) अथ सिद्धविद्या लक्षणद्वितीयविद्योद्धारस्वरूपो ज्ञानबुद्धियोगविद्यानिष्कर्षसिद्धायाः स्वभाव- सिद्धस्वकर्मप्रवणताया आदेश: ॥३॥ (४) अथ राजविद्या लक्षणतृतीयविद्योद्धारस्वरूपः पुनरैश्वर्य्यबुद्धियोगनिष्कर्षसिद्धाया जीवाव्ययात्म- संलग्नेश्वराव्ययलक्षणान्तरात्मप्रेरितकर्मनिष्ठताया आदेशः ॥४॥ (२) उद्धारोद्धारोपनिषदि द्वौ उपदेशौ । १--अथोद्धारचतुष्टयादप्युद्धृत्यंदानीं सर्वनिष्कर्षसिद्धाया राजर्षिविद्योपदिष्टाया अनन्यभक्ति- योगरूपाया गूढोत्माव्ययपुरुषकशरणागत्युपासनाया आदेशः ।।१।। २---विद्याचतुष्टयात्मकभंगवद्गीतार्थभावनाप्रवणत्वमात्मोन्नतिकृद् भवति । तस्मादिदं गीताविज्ञानमयोग्येभ्यो ग्रहीतुमसमर्थेभ्योऽपात्रेभ्यश्च न वक्तव्यम् । (३) गीताफलश्रुत्युपनिषदि द्वौ उपदेशौः । १-भगवद्गीताध्ययनश्रवणयोः श्रेयस्करत्वमिति फलश्रुतिः ।। २--इतिहासप्रकरणान्तर्गतस्य विज्ञानप्रकरणस्योपसंहारप्रदर्शनम् ।। इति क्रमेणोपवेशा गीतोपनिषदामिमे। षष्टयन-शतसंख्याताः (१६०) संविभज्य प्रदर्शिताः ॥१॥ एषां विशिष्य व्याख्यानमुत्तरत्र करिष्यते । काण्डे तृतीये गीताया हृदये तत्र भाव्यताम् ॥२॥ अस्मिन् द्वितीयकाण्डे तु मूलगीता प्रवयते । उपदेशोपनिषदां संविभज्य विभागतः ॥३॥ इत्युपोद्घातप्रकरणम्।

No text on this page.

अथ गीताविज्ञानशास्त्रम् अथ सशीर्षकमूलपाठः। अथ चतुर्विधक्यिोपदेशोपक्रमे तावत् संदर्भशुद्धयर्थमैतिहासिकाः श्लोः प्रदर्श्यन्ते ॥ .. धृतराष्ट्र उवाच (१) १-धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१॥ सञ्जय उवाच २-दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥ ३-अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । 'युयुधानो विराटश्च 'द्रुपदश्च महारथः ॥४॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । "पुरुजित्कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः ॥५॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो २ द्रौपदेयाश्च सर्व एव महारथाः ॥६॥ ४-अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥७॥ भवान्भीष्मश्च कर्णश्च कृपश्च' समितिजयः । अश्वत्थामा विकर्णश्च सौमदत्ति स्तथैव च ॥८॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्मेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥ (२)१-तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान् ॥१२॥ ५

२२ ]
सशीर्षकमूलपाठः
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१३॥
ततः श्वेतर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खी प्रदध्मतुः ॥१४॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड दध्मौ महाशवं भीमकर्मा वृकोदरः ॥१५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१७॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१८॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ।।१९।।
२-अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥२०॥
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२१॥
यावदेतानिरीक्षेऽहं योद्धकामानवस्थितान् ।
कर्मया सह योद्धव्यमस्मिरणसमुद्यमे ॥२२।।
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३॥
संजय उवाच
३-एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥२५।।
(३)१-तत्रापश्यस्थितान्पार्थः पितृनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातन्पुत्रान्पौत्रान्सखींस्तथा ॥२६॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥२७॥
कृपया परयाविष्टो विषीदग्निदमब्रवीत् ।
अर्जुन उवाच
२-दृष्ट्वेमं स्वजनं कृष्ण ! युयुत्सुं समुपस्थितम् ॥२८॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥२९॥
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥३०॥

ऐतिहासिकोऽध्यायः [ २३ निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयो ऽनुपश्यामि हत्वा स्वजनमाहवे ॥३१॥ न काडक्षे विजयं कृष्ण न च राज्यं सुखानि च । कि नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥२३॥ येषामर्थे काङक्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥३३॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुरा: पौत्रा: श्याला: संबन्धिनस्तथा ॥३४॥ एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥३५॥ निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदम्मान्हत्वैतानाततायिनः ॥३६॥ तस्मानार्हा वय हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७।। यद्यप्यते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८॥ कथं न ज्ञेयमस्माभिः पापादस्भान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९।। कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्ट कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥ अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥४१॥ संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो टेषां लुप्तपिण्डोदकक्रियाः ॥४२॥ दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ।।४।। उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ।।४४।। (१) [अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४५॥] यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६॥ सञ्जय उवाच (२) [एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४७॥] इति प्रथमोध्यायः ॥१॥ ऐतिहासिकेऽस्मिन्नध्याये-"अहो बत"-इति, "एवमुक्त्वा"-इति च श्लोकद्वयं वैज्ञानिक विवक्ष्यते।

अथ चातुर्विद्योपक्रमः (१) उत्थानिकोपनिषद् (लोकवृत्तोपनिषद्) द्विसूत्री १--संग्रामोपलक्षणविधया प्राकृतिकशोकसमुत्थानप्रदर्शनम् । अर्जुन उवाच *अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥११४५।। सञ्जय उवाच *एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ।।१।४७॥ [ १ अ०] (सञ्जय उवाच) तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२॥१॥ २--प्राकृतिकशोकव्युत्थानौपयिकचतुर्विधबुद्धियोगविद्योपदेशोपक्रमः । श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वय॑मकीर्तिकरमर्जुन ! ॥२।२।। क्लैब्यं मा स्म गमः पार्थ ! नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ! ॥२॥३॥ इति-उत्थानिकोपनिषद् द्वयुपदेशी । अत्रान्तरे सप्त श्लोका ऐतिहासिका द्रष्टव्याः अर्जुन उवाच १--कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजाविरिसूदन ॥२४॥ *'अहो बत' इति 'एवमुक्त्वा' इति च श्लोकवयं वैज्ञानिक गीतायाः प्रारम्भे लोकवृत्तोपनिषदः स्वरूपं प्राकृतिक शोकसमुत्थानलक्षणं द्रष्टव्यम् । तस्मात् पुनलिखितम् ।

[ २५ ऐतिहासिकोऽध्यायः २--गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुजीय भोगान्रुधिरप्रदिग्धान् ।।२।५।। ३-न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२।६।। ४-कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः । यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२।७।। ५--न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोपणमिन्द्रियाणाम् । अवाप्य भूमावमपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ।।२।८।। सञ्जय उवाच ६---एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप । न योत्स्य इति गोविन्दमुक्वा तूष्णीं बभूव ह ॥२॥९॥ ७--तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ।।२।१०॥ इति--ऐतिहासिकाः सप्त श्लोकाः। (४५+७=== ५२) ।

२८ ] सशीर्षकमूलपाठः ५-अपि चैतस्याव्ययात्मनः पञ्चभूतगुणाननुस्पृष्टत्वेन विनाशासंभवावनुशोकानौचित्यम् । नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२।२३।। अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२॥२४॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ।।२।२५।। ६-जन्ममरणवति भोक्तरि कर्मात्मनि जन्ममरणद्वन्द्वस्य प्रवाहनित्यत्वावपरिहार्यत्वाच्चानु- शोकानौचित्यम् । अथ चनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महावाहो' नैवं शोचितुमर्हसि ॥२।२६।। जातस्य हि ध्रुवो मृत्युर्घवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२॥२७॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ! अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२॥२८॥ -नित्यानित्ययोरसङ्गसङ्गिनोः संबन्धस्यानिर्वचनीयत्वादाश्चर्य्यमयत्वेऽप्यात्मावध्यत्वसिद्धान्ता- दनुशोकानौचित्यम् । आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्य्यवद्वदति तथैव चान्यः । आश्चर्य्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२।२९।। देही नित्यमवध्योऽयं देहे सर्वस्य भारत ! तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२॥३०॥ इति ज्ञानयोगिनोऽनुशोकानौचित्योपनिषत् । अत्रान्तरे सप्त ऐतिहासिका नैतिकाः श्लोकाः १-स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धाद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥२॥३१॥ २-यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२॥३२॥ ३-अथ चेत्त्वमिमं धयं संग्रामं न करिष्यसि । ततः स्वधर्म कीत्ति च हित्वा पापमवाप्स्यसि ॥२॥३३॥ ४-अकीर्ति चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् । संभावितस्य चाकीर्तिमरणादतिरिच्यते ॥२॥४३॥ ५--भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२॥३५॥ 'नेनं-इति पाठान्तरम् ।

राषिविद्या
[ २९
६-अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥२॥३६॥
७--हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ।।२।३७।।
इति--ऐतिहासिकाः सप्त श्लोकाः। (४५+७+७= ५९)
कर्मफलासक्तिपरित्यागोपक्रमः
सर्वविधवन्द्वप्रत्ययेषु साम्यवृत्तेः श्रेयस्करत्वम् ।
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२॥३८॥

(२) अथ बुद्धियोगिनः कर्मफलकामासक्तिपरित्यागौ- चित्योपनिषत १--कर्मसंन्यासलक्षणज्ञानयोगापेक्षया फलासक्तित्यागोपाधिकबुद्धियोगप्राशस्त्यम् । एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु। बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२॥३९॥ नेहाभिक्रम*नाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ।।२।४०।। +व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ! । बहुशाखा ह्यनन्ताश्च बुद्धयो व्यवसायिनाम् ।।२।४।। २-काम्यकर्मयोगस्य बुद्धिविक्षेपकत्वेन बुद्धियोगविघातकत्वावनिष्टत्वम् । यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ ! नान्यदस्तीति वादिनः ॥२।४२।। कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगति प्रति ॥२॥४३॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२॥४४॥ त्रैगुण्यविषया वेदा निस्त्रैगुण्यो अवार्जुन । निर्द्वन्द्वो नित्यसरवस्थो निर्योगक्षेम आत्मवान् ॥२॥४५॥ * उद्देश्यार्थसाधनानुकूलस्तत्पूर्त्यभिमुखश्चेष्टासंचारक्रमोऽभिक्रमः । अभ्युदयप्रतिकूला कार्यानिपातलक्षणा चेष्टागतिः प्रत्यवायः । आत्मन ऊर्ध्वप्रचारोऽभिक्रमः । आत्मनोऽधःपातः प्रत्यवायः । + व्यवसायास्मिकेति-संकल्पकामासक्तिदोषादूषितविशुखमनोऽनुपाहिणी बुद्धिर्व्यवसायः । तत्तत्कामाविदोषविक्षिप्तमनोऽन्वाकृष्टा बुद्धिरव्यवसायः। अपि च--इन्द्रियाधिष्ठितमनःसंपरिष्वङ्गाद मनोऽनयोगिनी व्यवच्छिन्ना बुद्धिरव्यवसायः। मनोनिरपेक्षा तु आत्मानुयोगिनी निष्कवल्या बुद्धिर्व्यव- सायः। अव्यवसायबुद्धचा दिग्देशकालानवच्छिन्नोऽयमसीम आत्मा भूमा न ग्रहीतुं शक्यते-मनसः परि- च्छिमार्थप्राहित्वात् । व्यवसायबुद्धपा तु सोऽयमसीमोऽपि भूमा शून्यबिन्दुणिमा कथंचिद् गृह्यत एव। अन्यथा तयवहारासंभवापत्तेः ।

राजर्षिविद्या यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२॥४६॥ ३-कर्मयोगस्य फलासक्तित्यागोपाधिकबुद्धियोगात्मकत्वेनाभ्युपपत्तौ श्रेयस्करत्वम् । कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते संगोस्त्वकर्मणि ॥२॥४७॥ योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्धचसिद्धयोः समो भूत्वा समत्वं योग उच्यते ।।२।४८।। दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ।।२।४।। बुद्धियुक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ।।२।५०॥ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२।५९।। ४-मोहव्यतितीर्णायाः स्थितप्रज्ञताया बुद्धियोगसिद्धधुपायत्वम् । अज्ञानावृतज्ञानजनिताया उत्थाप्याकाङमाया मनसि निर्वेदस्य बुद्धियोगसिद्धघुपायत्वम् ।। यदा ते मोहकलिलं बुद्धिर्व्यतिरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ।।२।५२।। श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२।५३।। ५-वैराग्यलक्षणबुद्धियोगस्वरूपसंपत्तिरूपायाः स्थितप्रज्ञतायाः षड् लक्षणानि ॥ अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ।।२।५।। श्रीभगवानुवाच (१) (तुष्टिमूला)--प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्येवात्मना तुष्ट: स्थित प्रज्ञस्तदोच्यते ॥२।५५।। * स्थितप्रज्ञस्तवोच्यते-इति--अव्ययविद्याभागे विद्याबुद्धियोगादात्मन्यविद्याविद्ययोः साम्योप- पत्तिरात्मबलम् । तद् द्वन्द्वसहिष्णु । तत्र सत्यपि दुःखानुभवे ततो विह्वलत्वाभावः समतालक्षणस्थ- य॑म् । तस्माद्विद्याविषयोः समत्वमात्मवलम्; आत्मबलसंयमनान्मनसि वृढता जायते । सा क्षोभप्र- तिबन्धिका, ततश्च क्षोभानुदयात् स्थितप्रज्ञता संभवति । सा षोढा--तुष्टिमूला,' प्रेयोनासक्तिमूला, श्रेयोनासक्तिमूला,' तृप्तिमूला, अमशनतपोमूला,' इन्द्रियबशीकारमूला' चेति । इन्द्रियद्वारा मानसानभोगं भुक्तवतोऽपूर्णायां तृप्तौ तस्याद्धतृप्तस्याने तृप्तिपूर्णत्वार्थमप्रयतमानस्यैच्छिको मध्ये विश्रामः सन्तोषः । तत्र भोगार्थ प्रयत्नाभावः स्थितप्रज्ञता । अथ प्रेयःश्रेयोविषयकमिष्टजनकत्वज्ञानं प्रवृत्तिनिमित्तम् । आरम्भणहेतुपञ्चकपरिग्रहः प्रवृत्तिः, सा क्षोभहेतुः। (अग्नेऽपि शेषः) ३२ ] सशोर्षकमूलपाठः (२) (प्रेयोऽनासक्तिमूला)-दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२॥५६॥ (३) (श्रेयोऽनासक्तिमूला)--यः सर्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२।५७॥ (४) (तृप्तिमूला)-यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२।५८।। (५) (अनशनतपोमूला)-विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥२।५९॥ (६) (इन्द्रियवशीकारमूला)-यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।।२।६०॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२॥६॥ ६-बुद्धियोगप्रतिबन्धकधाः। ध्यायतो* विषयान्' पुंसः सङ्गस्तेषूपजायते । सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते ॥२।६२।। (पूर्व पृष्ठ शेषः) अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा देवं चैवात्र पञ्चमम् ॥१॥ शरीरवाअमनोभिर्यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चते तस्य हेतवः ॥२॥ इति पञ्चहेतुपरिग्रहः क्षोभः । प्रवृत्तावुद्योगो मानसः क्षोभः । यत्नातिशयव्यग्रता उद्योगः । उत्थिताकाडमालक्षणप्रवृत्तः क्षोभत्वाभावेऽपि उत्थाप्याकाडक्षालक्षणस्योद्योगस्य क्षोभत्वं स्थितप्रज्ञता- विरोधित्वम् । तदभावः स्थितप्रज्ञता। अन्नभोगेच्छापूर्ती कृतकृत्यतानन्दस्तृप्तिः । इत्थं चतुर्विधा स्थितप्रज्ञता युक्तस्य सिद्धरूपा भवति । अथोत्तरे द्वे साध्यरूपे युजानस्थे भवतः ॥५॥ *ध्यायतो विषयानिति-मनसो विषयाकाराकारितत्वं वासना नाम संस्कारः। स्वजनितसंस्कार- द्वारा विषये मनसो बन्धनमासक्तिः । मनसानुभवजन्यसंस्कारस्याधानेऽनुभवस्य चिरकालिकत्वं हेतुः । तच्च न संभवति-संकल्पविकल्पात्मकस्य मनसः क्षणिकपरिग्रहपरित्याक्षणत्वात् । तस्माद्बुद्धिसह- कृतस्य मनसः संस्काराधायकत्वं वाच्यम् । सा बुद्धिरपि द्विविधा-उपेक्षाबुद्धिरपेक्षाबुद्धिश्च । मनो- बुद्धयोः सहयोगे बुद्धघा मनोधीनत्वे-उपेक्षा । मनसो बुद्धघधीनत्वे स्वपेक्षा। तत्रोपेक्षाबुद्धिसह- कृतस्यापि मनसः संस्कारापायकत्वं न दृश्यते। अपेक्षाबुद्धिसहकारे सुद्धचा विषयग्रहणस्य चिरकालि- कत्वात् सहकृतस्य मनसश्चिरकालिकत्वमुपपद्यते । तत्र बुद्धविषयाकारितापरिणामाभावेऽपि मनसः संयुक्तरूपमाहित्वस्वाभाव्याद-विषयाकाराकारितत्वं भवतीति संस्कारो जायते। अथ यदाकारा- कारितत्वं मनसः, तस्मिन् विषये बन्धो भवति, सेवासक्ति म। तथा च अविधाबुद्धिसहकृतेन मनसा चिरकालिकं विषयानुचिन्तनमनुध्यानम् । तवासक्तिहेतुत्वावासक्तिः। प्रज्ञाने विज्ञानानुष्वङ्गोऽनुध्यानम् । अविचारूपयाऽपेक्षाबुढचा मनोगृहीतार्थविषयकं चिरपरिग्रहणमनुष्यानम् । सिङ्गास्तेषूपजायते-इति-चिरकालिको मानसो विषयसंयोगो बन्धनात्मकः सङ्गः । मनसा- कारिते विषये बहिर्षा मनसो जिघृक्षा कामः । ततः कामसिद्धिप्रतिबन्धके क्रोषः। अनुकूलसंयोगलक्षण:-- राषिविद्या [ ३३ क्रोधाद् भवति संमोहः संमोहात् 'स्मृतिविभ्रमः । स्मृतिभ्रंशाद् 'बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥२।६३।। ७-रागद्वेषजनितवासनामयकषायनाशे बुद्धिप्रसादाद्विमलबुद्धिलक्षणस्य बुद्धियोगस्य ब्राह्मस्थिति- हेतुत्वम् । रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यविधेयात्मा* प्रसादमधिगच्छति ।।२।६४।। प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्नचेतसो ह्याशु बुद्धिः पर्यावतिष्ठते ।।२।६५।। नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ।।२।६६।। इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायु वमिवाम्भसि ॥२।६७।। तस्माद्यस्य महावाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।।२।६८।। या निशा सर्वभूतानां तस्यां जागति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२।६९॥ -~-सुखानुशयी संस्कारः कामः । प्रतिकूलसंयोगलक्षणो दुःखानुशयी संस्कारः क्रोषः। सङ्गात्मक- संस्कारसहयोगनित्यौ हीमो संस्कारौ भवतः । तयोविरुद्धसंयोगः संमोहं जनयति । अन्योन्यप्रत्याघातात् संस्काराणामुपमईः सम्मोहः । संस्कारस्वरूपयाथार्थ्यविच्छेदात् संस्कारोपजनितं स्मतिर्ज्ञानं विभ्रंशते। अनम्तवासनासंस्कारजनितानि भूयांसि स्मृतिज्ञानान्येव च विज्ञानबुद्धिरूपारम्भणानि भवन्ति। यावन्तो- ऽनुभवाः परिवर्द्धन्ते, ताववस्य विज्ञान प्रतिफलितं भवति । स्मरणानां विज्ञानस्वरूपाधायकत्वात् । तथा च स्मरणनाशाद् बुद्धिभ्रंशः । ततः कर्तव्याकर्तव्यविवेकनाशात् सर्वो लोको विषीदति । तस्मादा- सक्तिः श्रेयसे नास्ति १-विषयाभिध्यानम् । २--विषयाभिषङ्गः । ३-कामः। ४-क्रोधः। ५-संमोहः । ६-स्मृतिविभ्रमः । ७-बुद्धिनाशः। ८-प्रणाशः। *विषेयात्मेति--पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह प्रार्थयन्ते ॥१॥ कामान् यः कामयते मन्यमानः कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्तु इहव सर्वे प्रविलीयन्ति कामाः ॥२॥ (मुण्डकोपनिषदि) योगमनापक्रय सर्वो लोक:-अकृतात्मा। योगायः कृतात्मा। आरक्षुर्विषेयात्मा । विकारकान्तनिरसनाभिर्मलीभावः प्रसादः । विज्ञानमानन्दं ब्रह्म । प्रत्यक् पराग् ब्रह्म-विद्या-सा द्वेषा-शानं व विज्ञानं च । विज्ञानविषया विषयानन्दः लमृतिः। शान्तानन्दस्यानुभवो नास्ति-अनैन्द्रियकत्वात् । विषयानम्बस्यानुभवो भवति, ऐत्रियकत्वात् । अत एव सोऽनुभवः सुखं नाम । क्षणिकं च तत्सुखम् । ब्रह्मणि कर्मपृषक्त्वरूपस्या- मन्दस्य मणिकत्वात् । सबः कम्ावरणात् सुखानुभवो विलीयते । शान्तिः सुस्थिरा, मात्मानन्दत्वात् । ३ ३४ ] ३ सर्शीषकमूलपाठः आपूर्य्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यवत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२७॥ विहाय* कामान् यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥२।७१॥ एषा ब्राह्मी स्थितिः पार्थ ! नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२।७२॥ इति द्वितीयाध्यायः। सेयं योगनिष्ठायामनुशोकानौचित्योपनिषत् । *विहाय कामान् यः सर्वानिति-द्विविधा हीमे लोका भवन्ति-अन्तर्मुखा आत्मपरायणाः संयमिनः । ते ज्ञानेनात्मानं गृह्णानाः शान्तिलक्षणमानन्वं लभन्ते किन्तु नानुभवन्ति । अथ विषयपरायणा बहिर्मुखाः साधारणाः । ते ज्ञानेन विषयान् गृह्णानाः समृद्धिलक्षणमानन्दमनुभवन्ति सुखं नाम । एषा ब्राह्मी स्थितिरितिबह्मकर्मणी वे तत्त्वे । ब्रह्म द्विविधम्-प्रत्यक् च पराक् च । प्रत्यग्विषया विद्या ज्ञानम् । पराग्विषया तु विज्ञानं विविधत्वात् । उभयथा श्रूयते-"सत्यं ज्ञानमनन्तं ब्रह्म" "नित्यं विज्ञानमानन्वं ब्रह्मेति"। उभयं चेवं शानं विज्ञानं चानन्वहेतुः-अविनाभूतत्वात् । तथा चानन्दो विविधः-आत्मानन्दः, विषयानन्वश्वेति । तत्रात्मानन्दः शान्तिः। तस्यानुभवो नास्ति- अनिन्द्रियत्वात्, अनुभवस्येन्द्रियसापेक्षत्वात् । अप विषयानन्दः समृद्धिः-तस्यानुभवः सुखम् । सक्षणिकः, कर्मविषये आनन्वप्रकाशप्रतिबन्धकस्य कामावरणस्य क्षणिकविघातेनात्मानन्दविषयानन्दयो. रेकीभावस्य क्षणिकत्वात्, विषयावच्छिनामन्यस्यान्तःकरणवृस्यवच्छिन्नानन्देनकीभावस्य सुखानुभव- रूपत्वात् । तथा चानन्वहेतुविष्यावानन्दसापेक्यवशेष्याच्च द्विविधा विधेयात्मानो भवन्ति- समुवा- नन्दसापेक्षाः, शान्तानन्दसापेक्षाश्च-इति ॥

(३) बुद्धियोगिनः कर्मपरित्यागानौचित्योपनिषत् १-कर्मसंन्यास-कारम्भलक्षणयोः सांख्ययोगयोर्योगस्यैव श्रेयस्त्वम । अर्जुन उवाच ज्यायसी चेत् कर्मणस्ते मना बुद्धिर्जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥३॥१॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे। तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३।२।। श्रीभगवानुवाच लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन *सांख्यानां कर्मयोगेन योगिनाम् ॥३।३।। २-१ नष्कर्योपायत्वात्, कर्मसंन्यासवैयर्थ्यात्, कर्मपरित्यागाशक्यत्वात् , "प्रकृतिसिद्धत्वात्, अनासक्तकर्मयोगवशेष्यात्', करिम्भकर्मसंन्यासयोः कारम्भश्रेष्ठपात्, जीवन- निर्वाहकत्वाच्चेति सप्तधा नाप्राप्तकर्मणः परित्यागाशक्यत्वम् । न कर्मणामनारम्भान्नैष्कर्म्य' पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३॥४॥ न' हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्य्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३॥५॥ 'कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥३॥६॥ 'यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कम्र्मेन्द्रियः कर्मयोगमसक्तः स विशिष्यते ।।३।७।। * सांख्यानामिति-शरीराभेदेन प्रतीतेऽस्मिन्नात्मनि सतामनेकेषां पदार्थानां पृथक्त्वेन संख्यानात्, तेभ्यः संख्यातपदार्थेभ्यः पृथक्त्वेनात्मनः परिशानं संख्यातः प्राप्तत्वात् साल्यम् । बहून् संख्याय तत्रकस्यात्मत्वेन निर्धारणं सांस्यम् । तथा चाहत्वेन प्रतिपन्नस्य देहिनः प्रकृतिपुरुषयोविवेकेन शानं सांत्यम् ।

३६ ] सशोर्षकमूलपाठः नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः ॥३॥८॥ ३-यज्ञार्यकर्मणामनासक्तिकृतत्वादबन्धनत्वाववश्यकर्तव्यत्वम् । यज्ञकर्मणोऽवश्यकर्तव्यत्वात्परित्यागानौचित्यम् । यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय ! मुक्तसङ्गः समाचर ॥३॥९॥ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३॥१०॥ देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३॥११॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुक्क्ते स्तेन एव सः ।।३।१२।। यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३॥१३॥ अन्नाद् भवन्ति भूतानि* पर्जन्यादन्नसंभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ।।३।१४॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्मां नित्यं यज्ञे प्रतिष्ठितम् ॥३।१५।। एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३॥१६॥ ४-उपेक्षाबुद्धिसहकृतकर्मणामनासक्तिकृतत्वावबन्धनत्वाददुष्टत्वम् । आत्मारामस्यात्मपरायणस्य विषयानासक्तस्य बहिर्लोकयात्रायामुपेक्षाबुद्धौ, अपेक्षाबुद्धिमूलकसंस्कारोदयासंभवादबन्धन- स्यात्मज्ञानौपयिकस्य कर्मणः परित्यागानौचित्यम् । यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥३॥१७॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३॥१८॥ तस्मादसक्तः सततं कायं कर्म समाचर। ह्याचरन् कर्म परमाप्नोति पूरुषः ॥३।१९।। कर्मणैव हि संसिद्धिमास्थिता जनकादयः । असक्तो ह्याचरन् १ अक्षरादाह्म। २ ब्रह्मणः-कर्म। ३ कर्मणो-याः। ४ यशात्-पर्जन्यः। ५ पर्जन्यान्-अन्नम् । ६ अन्नाद्-भूतानि। ७ भूतानि-मानि सर्वाणि । ब्रह्म नित्यं यज्ञे प्रतिष्ठितमिति-अक्षरववक्षरमयं ब्रह्म शाश्वत् कम्माणि जनयद् यह जनयति। तस्माद् ब्रह्मदं यो प्रतिष्ठितम् ।

:।
राजषिविद्या
[ ३७
५-विद्वत्पामरायुच्चावचसर्वविधलोकस्थितिनिर्वाहो लोकसंग्रहः । लोकसंग्रहकर्तव्यतादृष्टया कृतस्य
कर्मणोऽनासक्तिहेतुत्वादबन्धनत्वात् परित्यागानौचित्यम् ।
५-लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥३॥२०॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३।२१।।
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥३॥२२॥
यदि ह्यहं न वर्तेय जातु
कर्मण्यतन्द्रितः
मम वानुवर्तन्ते मनुष्याः पार्थ ! सर्वशः ॥३॥२३॥
उत्सीदेयुरिमे लोका न कुर्य्या कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥३॥२४॥
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् ।।३।२५।।
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥३॥२६॥
६-प्रकृतिसिद्धसहजगुणकर्मण्यनासक्तौ कर्तृत्वानभिमानादबन्धनत्वात्परित्यगायोग्यत्वम् ।
६-प्रकृतेः क्रियमाणानि गुणैः कर्माणि* सर्वशः ।
अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥३॥२७॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३॥२८॥
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥३॥२९॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीनिर्ममो भूत्वा युध्यस्व विगतज्वरः ।।३।३०।।
-कर्मत्यागानौचित्यस्य भगवन्मतत्वप्रतिज्ञानम् ।
७-ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३॥३१॥
*कम्र्माणीति-वीर्य विसर्ग आरम्भो यज्ञ आत्मार्थसंस्कृती ।
इत्येतान्येव कर्माणि षड्विधानि प्रचक्षते ॥१॥
बीर्य कम्मति सभये (७।४।१) वाजिब्राह्मण उच्यते ।
आत्मनस्तु मनःप्राणवाचामन्योन्ययोगतः ॥२॥
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञकः ।
प्रवृत्तिकर्म वाग्वृद्धिशरीरारम्भणं पृथक् ॥३॥
यज्ञः श्रेष्ठतमं कर्मेत्याम्नातं याजुषभुतौ ।
धी-भोगे (९।४॥३) विश्वकर्माणि मतान्यग्निरयं चितः ॥४॥

३८ ] सशीर्षकमूलपाठः ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥३॥३२॥ * इति आत्माश्रितसाम्ययोगः . * आत्माश्रितसाम्ययोगेति-अव्ययस्यात्मनो वे भक्ती-विद्या च कर्म च। विद्यारसो झानम्, कर्मरसः क्रिया । अनासक्ति निष्कामं निवृत्तं कर्म कृतमावरणबन्धनं नाप्नोति, तेन ज्ञानं नापैति । तेन ज्ञानकर्मणोः साम्ययोगः; निष्ठासाम्ययोगः, स आत्माश्रितसाम्ययोगः। कर्मणाम- निवार्ण्यत्वात् केषांचित्कर्मणामबन्धनत्वाच्च कर्मपरित्यागानौचित्यम्-इत्यात्माश्रितसाम्ययोगोपनिवत् । कर्मणामनिवार्यत्वं पञ्चषा । पञ्चविधानां कर्मणामबन्धनत्वम् । इत्युपनिषत् ।

(४) बुद्धियोगप्रतिबन्धकदोषपरित्यागौचित्योपनिषत् १-इन्द्रियधर्मत्वादनात्मधर्मयोः प्रकृत्यधिष्ठानयो रागद्वेषयोरासक्तिहेतुत्वाद् बुद्धियोगपरिपन्थि- त्वम् । सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति ॥३॥३३॥ इन्द्रियस्यन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३॥३४॥ श्रेयान् स्वधम्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३॥३५।। २-इन्द्रियमनोबुद्धघधिष्ठानयो रागद्वेषयोईद्धिद्वारा प्रत्यगात्मावरणत्वाद्विदूषितस्यात्मनः पार- वश्येनानिष्टकचिरणे प्रवृत्तिः । अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वाष्र्णेय ! बलादिव नियोजितः ।।३।३६।। श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा* विद्धय॑नमिह वैरिणम् ॥३॥३७॥ धूमेनावियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३॥३८॥ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३॥३९॥ * महापाप्मेति-रागद्वेषो कामक्रोधो पाप्मा। आत्मविद्याभागस्य रश्मिभूतं ज्ञानं बुद्धौ मनसि इन्द्रियेषु चानुवर्तन्ते। ज्ञाने च रागद्वेषौ पाप्मानौ संसृष्टौ ज्ञानं विज्ञानं च नाशयतः। तत्रतो पाप्मानौ प्रागिन्द्रियेषु ततो मनसि ततो बुद्धौ तत आत्मनि च ज्ञानं मलिनयतः । बुद्धिपय॑न्तमनुगत- योर्यवि बुद्धः परतो रागद्वेषो संस्तम्भयति, तहि सतोरपि रागद्वेषयोरात्मापवारकत्वं नोपपद्यते- इत्युपनिषत् ॥

४० ]
सशीर्षकमूलपाठः
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥३॥४०॥
३-इन्द्रियमनोबुद्धिनिग्रहणादागद्वेषासक्तिनिवृत्तिः ।
तस्मात्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥३॥४१॥
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धः परतस्तु सः ॥३॥४२॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रु महाबाहो कामरूपं दुरासदम् ॥३॥४३॥
इति तृतीयाध्यायः ॥२॥

(५) बुद्धियोगस्य भगवन्मतसिद्धसनातनत्वोपनिषत् १-राजर्षिषु सनातनबुद्धियोगविद्याया भगवत्प्रवर्तितत्वम् । साम्ययोगस्य ज्ञानयोगकर्मयोगाभ्यामतिप्राचीनत्वम् । श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवे ऽब्रवीत् ।।४।१।। एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्ट: परंतप ! ॥४।२।। स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि में सखा चेति रहस्यं ह्येतदुत्तमम् ॥४॥३॥ २--नानावेहधारिणः कृष्णस्याच्युतभगबत्त्वाज्जातिस्मरत्वम् । अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥४॥ श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद* सर्वाणि न त्वं वेत्थ परंतप ॥४।५।। *तान्यहं वेद सर्वाणीति--भाग० १०॥३ अदृष्ट्वान्यतमं लोके शीलौदार्यगुणः समम् अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः॥४१॥ तयोर्वा पुनरेवाहमदि.यामास कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः॥४२॥ तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् । जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥४३॥ एतां दर्शितं रूपं प्राग्जन्मस्मरणाय मे। नान्यथा मद्भवं शानं मयलिनेन जायते ॥४४॥ पुवां वां पुत्रभावेन ब्रह्मभावेन चासकृत् । चिन्तयन्तो कृतस्नेही यास्येथे मद्गति पराम् ॥४५॥ इत्येवं समानयोरेव मातापित्रोस्त्रीणि जन्मान्युक्तानि ॥

४२]
सशीर्षकमूलपाठः
३-श्रीकृष्ण स्याधिकारिकरूपत्वात्स्वेच्छया नानाजन्मग्राहित्वं जातिस्मरत्वं च ।
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया ॥४॥६॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥४८॥
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥४॥९॥
--
*श्रीकृष्णस्येति-श्रीकृष्णस्याश्वत्यिकजीवत्वाभावः। आधिकारिकरूपत्वम् ।
कर्माधीनपरवशजन्मग्रहणाभावः । स्वेच्छाधीनानेकशरीरग्रहणम् ।
धिर्मसंस्थापनार्थायेति-
यदा यह धर्मस्य भयो वृद्धिश्च पाप्मनः ।
तवा तु भगवानीश आत्मानं सृजते हरिः ॥मा० ९।१४॥५६॥
नशस्य जन्मनो हेतुः कर्मणो वा महीपते ।
मात्ममायां विनेशस्य परस्य प्रष्टुरात्मनः ।।मा० ९.१४॥५०॥

(६) बुद्धियोगाविरोधिकर्मयोगज्ञानयोगोपादेयत्वोपनिषत् १-कर्मण उपासनाया ज्ञानस्य चाव्ययाभिगामित्वे सत्यबन्धनत्वम् । वीतरागभयकोषा* मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४।१०॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४।११॥ काङक्षन्तः कर्मणां सिद्धि यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ।।४।१२।। २-चातुर्वर्ण्यकर्मणामव्ययात्मोपजनितत्वेनाबन्धनत्वम् । चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धधकतररामव्ययम् ॥४।१३।। न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४।१४॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४।१५॥ ३-स्याज्यकर्मोपादेयकम्र्मविवेके ज्ञानानुस्यूतस्य निवृत्तकर्मणो जानाग्निदग्धत्वात् संस्काराजन- कत्वेनाबन्धनत्वम् । किं कमी किमकम्र्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४॥१६॥ कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ।।४।१७॥ * वीतरागेति-रागद्वेषभयारयः पाप्मान:-आत्मज्योतिषो ज्ञानस्यावरकत्वात् । सत्यम्, तपः, ब्रह्मचर्यम्, ज्ञानमिति पावनानि पवित्राणि-आत्मानावरकत्वात् । आत्मज्योतिराप्यायकत्वाच्च ।। विपकर्तारमव्ययमिति-सूर्यरश्मीनां जलतापकत्वेऽप्यतापकत्वम् । न जलतापाय स्पृहा, न जलस्य मारहमी लेपः । अक्लेशात् । मात्मविदूषकपाप्मनामसहयोमेन कृतानां कर्मणामबन्धनत्वम् ॥ किम्मेति- -ऋतुः, कृतिः, यत्नः, अध्यवसायः । आत्मबलत्यागाय मनोव्यापारः। ( आप्रेमपृष्ठे) ४४ ] सशीर्षकमूलपाठः कर्मण्यकर्म* यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४॥१८॥ यस्य सर्वे समारम्भाः कामसङकल्पवजिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४।१९।। त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः ।।४।२०।। निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्विषम् ॥४॥२१॥ यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबद्धयते ॥४॥२२॥ ४ ब्रह्मार्पणयज्ञः', देवयज्ञः', ब्रह्माग्नियज्ञः', संयमाग्नियज्ञः, इन्द्रियाग्नियज्ञः', योगाग्नियज्ञः। द्रव्ययज्ञः', तपोयज्ञः, योगयज्ञः, स्वाध्याययज्ञः१० ज्ञानयज्ञः११. , प्राणायामयज्ञः. प्राणयश:--इति त्रयोदशविधानि अबन्धनानि यज्ञकर्माणि । गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४।२३।। ब्रह्मार्पणं ब्रह्महविब्रह्माग्नौ ब्रह्मणा हुतम् ॥ ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४॥२४॥ दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४॥२५॥ - . (पूर्वपृष्ठशेषः) २--क्षणकर्म--चेष्टां । अन्यत्राधानार्थः स्वबलप्रयोगः । अन्यथासतो बलस्यान्यथात्वं क्षणः। ३-भावकर्म-गमनपठनभाषणादिव्यवसायः । ४-संस्कारकर्म--वासना । बोषमार्जनमतिशयाधानं हीनागपूर्तिश्चेति । ५--विकारकर्म--अनव्ययमव्ययाभितधर्मम्, दोषः, पाप्मा । ६-सस्वकर्म-घटपटपुरुषाविरुत्पन्नः प्राणी। * कर्मण्यकर्मेति--ब्रह्म देधा विवर्तते--अमृतं मृत्युश्चेति । "अन्तरं मृत्योरमृतं मृत्याव- मृतमाहितम्" इति श्रूयते । अङ्गलिः कम्पमाना बलवनसः । तत्र दृश्यते अङ्गल्या क्रिया, क्रियायां वेयम- गालीति । रसोऽयमकर्म, बलं कर्म। तदाह-कर्मण्यकर्म अकर्मणि कम्र्मेति । अत एवायं रसः कर्मसम्बन्धात् त्रिविषो भवति--ससा--चेतना-आनन्दश्चेति । बले कर्मण्यधिष्ठितमन्तराहितममृतं सत्तानाम रूपम् । बलस्य कर्मण्यधिष्ठानममृतं चेतना नाम रूपम् । चेतनायां ज्ञाने कर्मेदं विषयत- याऽन्सनिविष्टं भवति । अथ कर्मणा यावदिव न स्पृश्यते, तविवं कर्मणः पृथग्भूतं स्वरूपेणामृतमानन्दो नाम रूपम् । तथा चानन्द एवैकं विशुद्धं ब्रह्मतत्वं कर्मस्पर्शास्पाभ्यां त्रैलप्यं भजते । तथा चैवं कर्मण्यकम्र्म-अकर्मणि च कर्म पश्यन् मृत्यु चामृतं च विवेकेन पश्यति । अमृता. बच्छेवक मृत्यं पृथक्त्वेन पश्यन् विश्वव्यापकमेकरसमेतमात्मानं पश्यति । सर्वाग्येक कर्माणि तत्रोप- सन्मानीत्याह-कृत्स्मकर्मकृविति । कर्मणि दृष्टा सत्ता न कर्मव्यामिश्रा। कम्मंगभिता चेतनाम कर्मव्यामिश्रा। तस्मात् रस एवैतानि कपाणि-सत्ता-शाममानन्द इति । .

राषिविद्या [ ४५ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४॥२६॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४॥२७॥ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४॥२८॥ अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४॥२९॥ अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्यते यज्ञविदो यज्ञक्षपितकल्मषाः ॥४॥३०॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥४॥३१॥ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ।।४।३२।। ५-द्रव्ययज्ञापेक्षया ज्ञानयज्ञस्य कर्मबन्धक्षयहेतुत्वाद, मोहोत्पत्तिप्रतिबन्धहेतुत्वाद, आत्मनि परमात्मनि सर्वभूतसत्तानुभवहेतुत्वाच्च श्रेष्ठत्वम् । श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप । सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४।३३।। तद्विद्धि प्राणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४॥३४॥ यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ! । येन भूतान्यशेषेण द्रक्षस्यात्मन्यथो मयि ॥४॥३५।। अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्व ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ।।४।३६।। यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते ऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥४॥३७॥ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४॥३८॥ श्रद्धावल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४॥३९॥ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नाऽयं लोकोऽस्ति न परो न सुखं संशयात्मनः ।।४।४०॥ योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४॥४१॥ तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । छित्वैन संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४॥४२॥ इति चतुर्थोऽध्यायः ॥४॥ ..

(७) बुद्धियोगस्य कामासक्तिसंन्यासोपलक्षितकारम्भ- लक्षणत्वात् कर्मयोग-ज्ञानयोगोभयात्मकत्वोपनिषत् १-कर्मयोगश्रेष्ठपोपदेशे ज्ञानयज्ञश्रेष्ठपोपदेशात्संशये प्रश्नः । अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५॥१॥ २-कर्मयोग-ज्ञानयोगयोर्बुद्धियोगेनकभाव्ये योगिनः प्रत्यगात्मनो ब्रह्मसिद्धिः । श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥५।२।। ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काडक्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥५॥३॥ सांख्ययोगी पृथग् बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥५।४।। यत् सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं' सांख्यं च योगं च यः पश्यति स पश्यति ।।५।५।। संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिब्रह्म न चिरेणाधिगच्छति ॥५॥६॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५॥७॥ नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् । पश्यन् शृण्वन् स्पृशन् जिघ्रनश्नन् गच्छन् स्वपन् श्वसन् ॥५॥८॥ प्रलपन्. विसृजन् गन्नुन्मिषन् निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५।९।। 'एक सांख्यं च योगं चेति-ज्ञानस्य कर्मपृथक्त्वेन विशुद्धरूपेणोपस्थानं सांख्यबुद्धिः । ज्ञान- स्य सविषयकस्य कर्मापरित्यागेन तत्सहकारेण ज्ञानोपासनं बुद्धियोगबुद्धिः । सांख्यबुद्धिः सांख्यम् । बुद्धियोगबुद्धिर्योग इति संक्षेपशब्दः । एक एवार्थः सांख्यं च योगश्च । उभयथा शानस्यैवोपासितत्वात् । कर्मविकलस्य कर्मसकलस्य वा ज्ञानस्यार्थतो भेदाभावात् ॥

राजर्षिविद्या
[ ४७
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पयपत्रमिवाम्भसा ॥५॥१०॥
कायेन मनसा बुद्धधा केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ॥५॥११॥
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५।१२।।
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।
नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥५॥१३॥
३-अव्ययस्यात्मनो ज्ञानज्योतिषो रागद्वेषविकारासंयोगे सोपसर्गानुपसगारिकर्मकृतसर्वावस्था-
स्वेकरसत्वम् ।
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५।१३।।
नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।।५।१५।।
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५।१६।।
४-बाह्यविषयसंयोगजसुखापेक्षया आत्मान्तःसुखस्य नित्यशान्तत्वात् प्राशस्त्यम् ।
तबुद्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्ति ज्ञाननिषूतकल्मषाः ।।५।१७।।
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ।।५।१८॥
इहैव तैजितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥५।१९।।
न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ।।५।२०॥
बाह्यस्पर्शष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्नुते ॥५।२१॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय ! न तेषु रमते बुधः ॥५।२२।।
५-निवृतरागद्वेषकामानां प्रत्यावृत्तचक्षुषाममृतत्वविवां विजितात्मनामन्तज्योतिष्ट्वादन्तरारामत्व-
मन्तःसुखत्वं च।
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५॥२३॥

४८ ] सशीर्षकमूलपाठः योऽन्तःसुखोऽन्तरारामस्तथान्तर्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५।२४।। लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५॥२५॥ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५।२६॥ ६-परमशान्तिहेत्तोरात्मज्ञानस्योपायभूत-योगाभ्यासवशात् सर्वदुःखोपशमसिद्धिः । स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५।२७।। यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५॥२८॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५॥२९॥ इति पञ्चमोध्यायः॥. ७ बुद्धियोगिनः सर्वकारम्भकत्वात् कर्मयोगित्वं च, संकल्पकामासक्तिसंन्यासात् संन्यासित्वं च । श्रीभगवानुवाच अनाश्रितः कर्मफलं कायं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६।१।। यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव !। न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥६।२।। आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६॥३॥ यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥६॥४॥ ८-ज्ञानयोगावात्मविजयसिद्धिरिति-अजितात्मन्यनात्मनि कर्मयोगस्य दुःखानुविधायित्वम् । उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।।६।५।। बन्धुरात्माऽश्मनस्तस्य येनात्मैवात्मना जितः ॥ अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६६॥ ९-कर्मयोगेन कर्मनिष्ठस्यापि ज्ञानयोगेन जितात्मनः समबुद्धित्वोदयात् प्राशस्त्यम् । जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥६।७।।

राषिविद्या [४९ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६॥८॥ सुहृन्मित्रायुंदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६।९।।

(८) बुद्धियोगसाधनकर्मयोगोपादेयत्वोपनिषत् १- अखियोगसिपायभूत योगाभ्याससाधनम् । योगी युजीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६॥१०॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६॥११॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।।६।१२।। समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६॥१३॥ प्रशान्तात्मा विगतभीब्रह्मचारिखते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६॥१४॥ युजन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥६।१५।। २-योगाभ्याससाधने साधकबाधकी। नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ! ॥६॥१६॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६।१७।। ३-बुद्धियोगसिद्धिलक्षणम् । यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६॥१८॥ यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६।१९।।

राजर्षिविद्या
[ ५१
४-बुद्धियोगस्वरूपलक्षणम् ।
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥६॥२०॥
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६॥२१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते ॥६।२२।।
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगो ऽनिविण्णचेतसा ॥६॥२३॥
५-बुद्धियोगसिद्धये योगाभ्यासानुष्ठानक्रमः ।
संकल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्राम विनियम्य समन्ततः ॥६।२४।।
शनैः शनैरुपरमेद् बुद्धया धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥६।२५।।
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६।२६।।
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥६।२७।।
युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥६॥२८॥
।
६-बुद्धियोगसाधने समबुद्धित्वानुध्यानाभ्यासक्रमः ।
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६॥२९॥
यो मां पश्यति सर्वत्र सर्वच मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६॥३०॥
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६॥३१॥
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन !।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६॥३२॥
खियोगसिद्धचौपयिकमनःस्थिरताविचारः।
अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन !।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थिति स्थिराम् ॥६॥३३॥

५२]
सशीर्षकमूलपाठः
चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६॥३४॥
श्रीभगवानुवाच
असंशयं महाबाहो ! मनो दुनिग्रहं चलम् ।
अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यते ॥६॥३५॥
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६॥३६॥
८-वैवाद् योगभ्रष्टस्योदर्कविचारः ।
अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धि कां गतिं कृष्ण ! गच्छति ॥६॥३७॥
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६॥३८॥
एतन्मे संशयं कृष्ण! च्छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य च्छेत्ता न ह्यपपद्यते ॥६॥३९।।
श्रीभगवानुवाच
पार्थ ! नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत् कश्चिद् दुर्गतिं तात! गच्छति ॥६॥४०॥
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६॥४१॥
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६॥४२॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो
भूयः
संसिद्धी
कुरुनन्दन
!॥६॥४३॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६॥४४॥
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६।४५।।
१-कर्मयोगि-तपोयोगि-शानयोगिभ्यो बुद्धियोगिनः श्रेष्ठत्वम् , बुद्धियोमिष्वपि पदावतः श्रेष्ठत्वम् ।
तपस्विभ्योऽधिको योगी शानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ! ॥६॥४६॥

राजर्षिविद्या
[५३
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ।।६।४७।।
इति षष्ठोऽध्यायः ॥
इति भगवद्गीतोपनिषदि रागद्वेषक्लेशनिवर्तिका वैराग्यबुद्धियोगलक्षणा भगवविद्या-
परपर्याया प्रयमा राजषिविद्या समाप्ता।

अथ सिद्धविद्याया ज्ञानबुद्धियोगेन संस्कार आदिश्यते प्रकृतिपुरुषविवेकज्ञानम् , तथा चतुरधिकरणं ब्रह्मकर्माभिनयलक्षणविज्ञानम् , अधिकरणविनि- मयविज्ञानं चेति ज्ञानविज्ञानाभ्यां द्विविधाभ्यां भावनाभ्यां जीवाव्ययस्य स्वरूपकैवल्यनिर्धारणं ज्ञान- विद्या नाम। सेयं पुरायुगे सांख्यशास्त्रप्रवर्तककपिलादिसिद्धकुले भूयसा प्रचरति स्म। तत्रत्यकतिपयानु- पादेयविषयाणां परिशोधनाय तदुपादेयविषयाणां चानुज्ञानाय केषुचिदंशेषु स्वसंमति दर्शयितुं तामप्येतां सिद्धविद्यामिह गीतायां भगवानन्वादिशति-अष्टपञ्चाशन्मितः श्लोकः (५८)। तत्र तावदव्यये बुद्धियोगः कल्याणहेतुः, ज्ञानबुद्धयुपपादकः प्रत्ययः सिद्धविद्यारहस्यम्। ज्ञानं हि अन्तर्ज्योतिः सिद्धविद्यायां बुद्धरव्यये प्रवेशद्वारमिष्यते, ज्ञानविज्ञानाभ्यामज्ञानमोहावरणनाशाद्विशुद्ध- स्वरूपतया सान्तोतिमयी बुद्धिरप्रतिबन्धमव्यये युज्यते । (१) प्रकृति-पुरुषविवेकज्ञानोपनिषत् । १-पुरुषसाक्षात्कारोपयोगिज्ञानविज्ञानोपवेशोपक्रमः । श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७॥१॥ ज्ञानं तेऽहं स विज्ञानमिदं वक्ष्याम्यशेषतः । यज् ज्ञात्वा नेह भूयोऽन्यज् ज्ञातव्यमवशिष्यते ॥७॥२॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ॥७।३।। २-पुरुषस्याव्ययात्मनः भराक्षरप्रकृतिद्वविध्यम् । भूमि रापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥७॥४॥ मानमिति-विश्वेषामषिष्ठानत्वेनकस्मिन् ब्रह्मणि बुद्धरवगाहनं ज्ञानम् । कार्येभ्यः कारण- दृष्टिानम् ॥ 'सविज्ञानमितिह्मण्यव्याहितत्वेन बहुषु कर्मसु पढेरवगाहनं विज्ञानम् । कारणात् कार्येषु दृष्टिर्विज्ञानम् ॥ "सिद्धये-नाति-आत्मनः सर्वावरणनिराकरणात् स्वीयवास्तविकज्योतिस्वरूपावाप्तिः परमा सिसिः। अनानिजीवस्य ज्ञानमयात्मत्वस्वरूपावाप्तिः सिदिः।। "भूमिरापोऽनलो वायुः खमिति- - सिद्धविद्या अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥७॥५॥ ३-प्रकृतेरशेषजगदुपादानस्वम्, पुरुषस्याशेषजगदाधारत्वम् । एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७।६।। 'मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय !। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।।७।७।। - पुरुषः । अव्यक्तम् । महान् । अहंकारः । बुद्धिः। मनः । पञ्चार्थाः । पञ्चेन्द्रियाणि । शरीरम् -इत्येतेषु नवसंख्येषु अध्यात्मभावेषु शरीरस्येन्द्रियाणां च विकारत्वम् । पञ्चार्थाः मनोबुद्धध- हंकाराश्चेत्येतेषां प्रकृतिविकृतित्वादपरप्रकृतित्वम् । महतश्चाव्यक्तस्य चाविकृतित्वात् परप्रकृतित्वम् । अव्यक्तमक्षरम् । महत् क्षरम् । एकस्यैव ब्रह्मणोऽर्द्धममृतमधैं मर्त्यमिति श्रूयते। तत्रामृतेऽस्मिन्नक्षर- शब्दः । मत्र्ये तु क्षरशब्दः । क्षराक्षराभ्यां वधा विभक्तस्यापि विशिष्टस्यैकत्वादिहकत्वेन परप्रकृतेरुप- देशः । क्षरः परिणामी विकुर्वाणः । अक्षरोऽपरिणामी न विकुरुते । एवमपि क्षरभागद्वारंतदक्षरस्य प्रकृतित्वमादिश्यते । तथा च श्रूयते- "यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधाः सोम्य ! भावा: प्रजायन्ते तत्र चैवापियन्ति ।" यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् संभवतीह विश्वम् ।" (मुण्डके) महत् क्षरं त्रेधा रूपं धत्ते-अक्षरस्थो मर्त्यः क्षरपुरुषः सत्त्वम् । तद्विकारक्षरो रजः । तस्य पञ्चीकरणाद याज्ञिकं रूपं तमः ॥ आत्मा - - अव्ययः। परा प्रकृतिः- - शान्तात्मा। १० अहम् ९ अव्यक्तम् ८ अहंकारः ७ बुद्धिः ६ मनः = सत्वात्मा। विज्ञानात्मा। % 3D - प्रज्ञानात्मा प्राणात्माच अपरा प्रकृतिः ५ आकाशः ४ वायुः भूतात्मा २ आपः १ भूमिः 'मत्तः परतरं नान्यविति-सरङ्गभडिफेनबुढादीनां समुत्रप्रतिष्ठापरायणकत्वात् समुद्रपरत- रत्वाभावषद, अव्ययसमुद्रे कृत्स्नं जगभूयोद्भूय बिलीयते। पावन्तो ब्रह्मविवर्ता भावाः, यावन्तो ५६ ] सशीर्षकमूलपाठः ४-पुरुषस्यैकस्य परापरप्रकृतिवशावशेषजगभाषित्वे पञ्चदशोबाहरणानि । रिसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७॥८॥ पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥७॥९॥ बीजं मां सर्वभूतानां विद्धि पार्थ ! सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥७॥१०॥ बलं बलवतामस्मि कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ !॥७॥११॥ ५-प्रकृतिगुणत्रयभिन्नानामपि भावानां मायिकानां प्रकृतिद्वारा पुरुषनिष्ठत्वम् । ये चैव सात्त्विका भावा* राजसास्तामसाश्च ये। मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि.॥७॥१२॥ वा ब्रह्मप्रकृतिकारिका गुणभावाः, सर्वेप्येते उभये अव्ययसमुद्र नातिवर्तन्ते । अव्ययस्थानामव्यय- प्रकृतिस्थानां वा अव्ययसमुद्र एवैकान्ततोऽवस्थानात् । अव्ययविभूतिमत्वमव्यययोगित्वं वाऽव्ययजत्वम् । एवं प्रकृतिविभूतिमत्त्वं प्रकृतियोगित्वं वा प्रकृतिजत्वम् । प्रकृतिजे भावे अव्यययोगो नास्ति । न स्वयन्तेषु, अव्यये तु ते तिष्ठन्त्येवेति बोध्यम् । रिसोहमप्सु कौन्तेय-इत्यादि- १ पृथिव्याम् ६ वेदेषु ११ सर्वभूतानाम् = बीजम् पौरुषम् १२ बुद्धिमताम् = बुद्धिः ३] अग्नी तेजः ८ सूर्याचन्द्रयोः १३ | तेजस्विनाम् = तेजः ४ वायौ स्पर्शः ९ सर्वभूतेषु जीवनम् | १४ | बलवताम् बलम् ५ आकाशे १० तपस्विषु १५ | भूतानाम् 'कामो- धर्माविरुद्धः - गन्धः -प्रणवः - २ अप्सु रसः ७ नृषु %- - %3- प्रभा - - शब्दः *ये चैव सात्त्विका भावा:-इति । भावा द्विविधा:-सात्मका:-निरात्मकाश्च । आत्मना विधृताः प्रकृतेर्विकाराः प्रकृति बिभ्रति नात्मानम् । कार्याणां स्वकारणानुविधायित्वात् । पर्वते मनुष्य- वृक्षादयः, न तु ते पर्वता:-तस्मात्ते निरात्मकाः। अथ ये आत्मानं बिभ्रति ते आत्मभृत आत्मचितः। यथा बुद्धी ज्ञाने, मनसीच्छायां विषयाः पर्य्यवतिष्ठन्ते, किन्तु न तेषु विषयेषु मनोबुद्धी, इच्छाशाने भासेते-अचेतनत्वात् । तथान्यत्र यस्मिन्-अव्ययस्य योगः, स आत्मभृत् आत्मन्वी सात्मको भावः । यस्मिन् विभूतिमात्रं न योगः, स निरात्मको भावः । प्रकृतिजाते भावे प्रकृतेर्योगश्च विभूतिश्च । अव्य- यस्य तु पुरुषस्य तत्र विभूतिमात्र न योगः, प्रकृतिमात्रपर्याप्तत्वात् । तथा च-सात्मको विवर्तभावो विद्यामयाव्ययस्यात्मन आवरको नोपपद्यते-अव्ययस्योल्बणत्वात् । अथ गुणंभावे विकारभावे चायम- व्ययो नास्तीत्यनात्मकेन तेन विद्यामयाव्ययस्यावरणमुपपद्यते । अत एव गुणमय वरावरणं भवती- त्याह-॥ इदन्तु बोध्यम्-विशुद्ध सत्वं नात्यन्तमावृणुते; रजस्तमसी तु दोषत्वादावृण्वाते । तन्मिश्र सिद्धविद्या [५७ ६-शुखसत्त्वमयी प्रकृतिदेवप्राणोपस्थापकत्वाद् दैवी माया ॥ अथ मलिनसरवादिगुणत्रयवती प्रकृति- रासुरप्राणोपसंक्रामकत्वाद्-आसुरी माया। देवमायावशादभासितस्यात्मनो बुद्धियोगवशात् साक्षात्कारेऽपि आसुरमायावृतस्य बुद्धियोगाय प्रवृत्त्ययोगात् साक्षात्कारासंभवः । त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥७।१३।। दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥७।१४।। (१) न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥७॥१५॥ ७-आत्मार्पितमनोबुद्धपभ्यासेन बुद्धियोगप्रवृत्तानां चातुर्विध्यम्, तेषु शानिनोऽनन्यभक्तित्वात् श्रेष्ठयम्। चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ! आर्तो जिज्ञासु रार्थी' ज्ञानी' च भरतर्षभ! ॥७॥१६॥ तेषां शानी नित्ययुक्त एकभक्तिविशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥७॥१७॥ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमा गतिम् ॥७॥१८॥ बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥७॥१९॥ ८वमायावृतात्मनः स्वात्माश्रिततत्तद्देवताराधनया देवताधारभूताव्ययप्रसादादैहिकामुष्मिकसर्वविध- कामानां सिद्धावपि, आत्मसाक्षात्कारस्य विशुद्धाव्ययापितमनोबुद्धयभ्यासात् सिद्धिः। कामैस्तैस्तैह तज्ञानाः प्रपद्यन्ते ऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥७॥२०॥ यो यो यां यां तनुं भक्तः श्रद्धयाचितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥७॥२१॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान्हि तान् ॥७॥२२॥ सत्त्वं मलिनं भूत्वा पुनरावृणुते । रजस्तमोमयभावसंपादका जना दुष्कृतिनो मूढाः । ते अव्ययात्मानं न प्रपद्यन्ते, तमसान्तरायेण प्रच्छन्नत्वात् ॥॥ १-न मां दुष्कृतिनो मूढाः-गुणत्रयभिन्नस्य गुणत्रयालम्बनस्यापरिणामिनो विशुद्धाव्ययस्य वैगुण्यात्मकमायाप्रच्छन्नतया तादृशत्रिगुणमायाप्रत्यन्तरितदृष्टिभिरासुरप्रकृतिभिर्दुष्कृतिभिरभास्यत्वम्। का ५८ ] सशीर्षकमूलपाठः अन्तवत्तु फलं तेषां तद् भवत्यल्पमेधसाम् । देवान् देवयजो यान्ति मद्भक्ता' यान्ति मामपि ॥७॥२३॥ ९-योगमायापहतज्ञानस्याव्ययपुरुषमात्मानमनवगाहमानस्याबुद्धरात्मालम्बिततत्तद्देवताराधनप्रवणत्वम्। अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥७॥२४॥ नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥७॥२५॥ १०-रागद्वेषद्वन्द्वमोहेन मुग्धानां त्रिकालज्ञानमयात्मज्योतिामोहनात् कालिकज्ञानाभावेऽपि निवृत्त- रागद्वेषाणामात्मज्ञानज्योतिःप्रसादात् त्रिकालदर्शित्वसंभवः । वेदाहं समती तानि वर्तमानानि चार्जुन! । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥७॥२६॥ . मद्भक्ता यान्ति मामपि-अमृतम्, ब्रह्म, सुब्रह्म, शुक्रम्, पाप्मा चेति-पञ्चनिकायः पुरुषो भवति । तत्र-अव्ययः, अक्षरः, क्षर इत्येतावानमृतः पुरुषः । तत्र गतिस्थितिबलशालि वाय्वाकाशलक्षण- यजुरग्निब्रह्म। अथ स्नेहतेजोबलशालि भृग्वङ्गिरोलक्षणमथर्वाप: सुब्रह्म। अग्निगर्भाब्गभिंतवाड- मयमण्डलं तु शुक्रम् । त्रीणि सत्यानि, त्रयो गुणाः, द्वे बुद्धी, तिस्रो मात्राः, बीजदेवभूतानां ग्रामाः पाप्मा। तत्र ब्रह्मसुब्रह्मणी ब्रह्म सत्यम् । शुक्र देवसत्यम् । पाप्मा त्वनृतम् । तत्र भोक्तात्मा भूतात्मा यदि देव- सत्यप्रवणः, स देवयाट् । अथ यदि अमृतप्रवणश्चेत् स आत्मभक्त आत्मानं याति । . अमृतशुक्रम् मर्त्यशुक्रम् वाक् आपः अग्निः अग्निः आपः वाक् अमृतम् । मर्त्यम् । अमृतम्। गुणाः। अमृतम्। विद्याबुद्धिः । मर्त्यम् । शरीराणि मात्रा। धर्माः। सत्त्वम्। मय॑म् । अभिनिवेशः। अविद्याबुद्धिः। मोहः । अस्मिता। रागद्वेषौ। सत्यानि । नियतिः । वेदाः। अभ्वे नामरूपे। प्रज्ञा। बीजग्रामः देवग्रामः रजः। प्राणाः। ज्ञानम्। वैराग्यम् । ऐश्वर्यम्। तमः। भूतानि । भूतग्रामः 'वेदाहं समतीतानीति-यद्यपि सर्वोऽयं भूतात्मा ज्योतिष्मानेव, तथापि सर्गकाले दम्बलक्षणं संमोहं यातीत्यज्योतिष्मान् भवति । तेन भूतं भव्य वर्तमानं च सर्व न जानाति-बुखियोगवैकल्यात् । दुष्कृतात्यये तु द्वन्दमोहविनिर्मुक्तः स्वेनैव प्रकाशेन भूतं भव्यं वर्तमानं च सर्व यथावद् जानाति । अर्थात्-ज्योतिष्मत्वात् · संस्काररूपेण स्थितत्वादतीतानि, बीजरूपेण स्थितत्वाद् भविष्याणि सिवविद्या [ ५९ इच्छा द्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ।।७।२७॥ येषान्त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥७॥२८॥ 'इच्छाद्वषेति-इच्छया ग्राह्यम् । द्वेषेण त्याज्यम् । आभ्यां द्वन्द्वमनेकधोत्पद्यते- सुखदुःखे, शुभाशुभे; प्रियाप्रिये; शीतोष्णे इत्यादि । द्वन्द्वलक्षणो मोहः । सर्वाण्येव भूतानि सर्गे निसर्गात् संमोहं यान्त्येव । मुक्तिपक्षे तु मोहाद् द्वन्द्वलक्षणात् त्यज्यन्ते । उभयोः साम्येनोपपत्ते रागद्वेषविनाशात् ॥

*(२) 'ब्रह्म'कर्मसी- चतुरधिकरणम् 'अहो रात्री 'सर्गप्रलयौ 'भक्तियोगः 'आत्मगतिरिति द्वादशविज्ञानोपनिषत् -योगमायावरणवशादात्मानवगाहे द्वादशस्वात्मायतनेषु मनोबुद्धपर्पणाभ्यासादात्मोपलब्धिः ॥ जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म (१) तद्विदुः कृत्स्नमध्यात्म कर्म (२) चाखिलम् ।।७।२९।। साधि भूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाण कालेऽपि च मां तेविदुर्युक्तचेतसः ॥७॥३० (इति सप्तमोऽध्यायः ॥) सृष्टिप्रलययोः, ब्रह्मकर्मणोः', आधिदैविकाधिभौतिकयोः', आधियक्षिका ध्यात्मिकयोः, भोगमोक्षयोः२, गत्यागत्योः', स्वरूपजिज्ञासायां तदुपपावनम् । अर्जुन उवाच किं तद् ब्रह्म) किमध्यात्म कि कर्म(२) पुरुषोत्तम ! । अधिभूत' च किं प्रोक्तम'धिदैव किमुच्यते ॥८॥१॥ अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन ! । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥८॥२॥ द्वादश विज्ञानानि २ कर्म १ अक्षरं परमं ब्रह्म-नियन्तु । १ सृष्टिः', प्रलयः २ भूतभावोद्भवको विसर्गः वीर्यम् | ३ भोगः', मोक्षः १ अध्यात्मम् ३ स्वभावः, प्रकृतिप्रपञ्चः ५ गतिः१०, आगतिः। २ अषिभूतम् ४ सरभावः, भूतप्रपञ्चा ३ अधिदेवतम् २ पुरुष, देवतप्रपञ्चः ४ अधियाम् १ अव्यय आत्मा, अमृतपोशी सिद्धविद्या [ ६१ श्रीभगवानुवाच *अक्षरं ब्रह्म१) परमं स्वभावोऽध्यात्म मुच्यते।। भूतभावोद्भवकरो विसर्गः (२)कर्मसंशितः ॥८॥३॥ अधिभूतं(४) क्षरो भावः पुरुषश्चाधि दैवतम्।। अधि( यज्ञोऽहमेवात्र देहे देहभृतां वर ! ॥८॥४॥ गति-विद्या ३-अथ गतिविद्यायामन्ते मतिः सा गतिरिति सिद्धान्तात् परावरभेदेन वैवगतिविष्यं भवति । तथा हि-तत्तल्लौकिकभावापितमनोबुद्धेः प्रेतस्य तत्तल्लौकिकभाव एव गतिः सा तावदवरा ॥ अथ तत्तभावाव्ययापितमनोबुद्धः प्रेतस्य तत्तभावाव्ययो गतिः । सा च परा। अन्तकाले.) च मामेव(६) स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्भाव ) याति नास्त्यत्र संशयः ।।८।५।। यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय ! सदा तद्भावभावितः ॥८॥६॥ - *अक्षरं ब्रह्म परममिति--ब्रह्मकर्मणी इत्यव्ययस्य द्वे भक्ती भवतः । आनन्दो विज्ञानं मन:-सेयं प्रकाशमयी विद्या-इत्यमृतं ब्रह्म। अथ मनः प्राणो वागिति मत्यं कर्म, सोऽयं भतभावोद्भवकरो विसर्गः । विद्याभागानुगृहीतममृतं परमं ब्रह्माक्षरम् । विसर्गभागानुगृहीतं मयं क्षरम् । ब्रह्मकर्ममयः स क्षरा- क्षरविशिष्टोऽयमव्ययः पुरुष आत्मा यावदेतेषु चेतनप्राणिषुपपद्यत तदध्यात्मम् । यावदेतेषु जडभूतेषु तदधिभूतम् । यावद्वा देवेषु तदधिदैवतम् । अथ यावदमुष्मिन् दैवतभूतोत्पादके प्रजापतौ विज्ञायते सोऽधियज्ञः । अथवा-एतस्मिन् चेतनप्राणिन्येव यावदयं भूतकोशेऽभिव्याप्नोति तदधिभूतम् । यावद्वा दैवतकोशे तदधिदैवतम् । यावद्वा बीजकोशे तदध्यात्मम् । अथ यावदस्मिन् शरीरबाहिणि शारीरके यज्ञात्मन्युपपद्यते सोधियज्ञ इत्येवमेकस्यैवाव्ययस्याधिकरणभेदेन साक्षात्कारः । अन्ते तु शरीरत्रयपरि- त्यागेन विशुद्धाव्ययकभाव्यानुभवः । कर्मसंशिक इति-"वीयं वै कर्म" (वाजिश्रुतिः ७४।१।२५) "विष्णोः कर्माणि पश्यत यतो बतानि पस्पशे। इन्द्रस्य युज्यः सखा" । प्रादेशमात्रो वै गर्भो विष्णुरनम् ।७।४।१।१४॥ यत्तवन्नम्-एष स विष्णुर्वेवता 1७४।०२१"- % 3D - २ - 3- १] अधिदेवतम् ईश्वरपुरुषः ब्रह्म-कर्ममयः प्रजापतिः १-महामायावच्छिन्नः २] अधिभूतम् भरभावः (ऐ) ब्रह्म-कर्ममया गुणविकाराः ३ अधियज्ञः जीवपुरुषः ब्रह्म-कर्ममयः प्रजापतिः २-योगमायावच्छिन्नः अध्यात्मम् = स्वभावः (9) (ज) ब्रह्म-कर्ममया गुणविकाराः अक्षर विसर्ग: ५ आषियशिकाध्यात्मिकानां भावानाम्-आधिदैविकाधिभौतिकेषु गतिः ४ ६२] सशीर्षकमूलपाठः तस्मात् सर्वेषु कालेषु मामनुस्मर) युद्धप च । मर्पित) मनो बुद्धिर्मामेवैष्यस्य) संशयः ॥८॥७॥ - ४-शिवरापितमनोबुः प्रेतस्य ईश्वरो गतिः। किन्तु ईश्वराव्ययापितमनोबुद्धः प्रेतस्य ईश्वरा- ध्ययो मतिः॥ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ।।८।८॥ कवि पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्ण तमसः परस्तात् ।।८।९।। प्रयाणकाले मनसाऽचलेन भक्त्या" युक्तो योगबलेन चैव । ध्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं 'पुरुषमुपैति दिव्यम् ॥८॥१०॥ ५-एवं परावरभेदेनाक्षरगतिढविष्यात् “ओम्" इत्येकाक्षरोच्चारणपूर्वकमक्षरानुस्मृतिपूर्वकं शरीरं *त्यजतस्तवक्षरमव्यक्तं गतिः । सा तावदवरा। अब सेतुभूताक्षरतारा तदव्ययापितमनोबुद्धः प्रेतस्य तवक्षराव्ययो गतिः। सा परा॥. यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ।।८।११।। सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । माधायात्मनः प्राणमास्थितो'' योगधारणाम् ॥८॥१२॥ ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥८॥१३॥ ६ अर्थतबन्यान्यजगद्भावं वा-श्वरं वा-अक्षरं वा-धिदप्यन्यमक्रोडीकृत्य विशुवमव्यय- मेवानुचिन्तयन् यः प्रैति, तस्यायमात्माऽव्ययः साक्षाद् गृहीतत्वात् सुलभा परमा गतिः॥ परमा संसिदिः ॥०॥ अनन्यचेताः सततं यो.मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥८॥१४॥ अग्नीषोमो देवसत्यम् विकारक्षरभूमिः वाक ब्रह्मसत्यम् भव्यक्तपर्यवसाना गतिः। आपः ३ आत्मक्षारभूमिः अमृतभूमिः पुनरावर्तनीया लोकयात्रा। २ অনুলি: परमा गतिः १ अन्ययभूमिः अपुनरावर्तनीय शान्तियामा सिद्धविद्या [ ६३ मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥८॥१५॥ अव्यक्तात्मक्षारपर्यवसायिनां सर्वेषां भूतविकाराणामात्मानुबन्धिभ्यां विषाकर्मभ्यां पुनरावृत्य- पुनरावृत्तिभाक्त्वं ब्रह्माहोरात्रनिबन्धनसृष्टिप्रलयभाक्त्वं च । आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ! । मामुपेत्य तु कौन्तेय ! पुनर्जन्म न विद्यते ॥८।१६।। सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः । रात्रि युगसहस्रान्ता तेऽहोरात्रविदो जनाः ॥८॥१७॥ अव्यक्ताद्वयक्तय. सर्वाः प्रभवन्त्यहरागमे राश्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥८॥१८॥ भूतग्रामः स एवाय भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ! प्रभवत्यहरागमे ।।८।१९।। - ८-अव्यक्तात्मक्षरमात्रपर्य्यवसायिना भूतात्मनां पुनरावतित्वेऽपि तदव्यक्तक्षरात् परयोरव्यक्तयो- रक्षराव्यययोनिर्विकारामृतरूपत्वात् तवनुगतानां भूतात्मनामपुनरावर्तितया परमा गतिः । परस्तस्मात्तु' भावोऽन्योऽव्यक्तो ऽव्यक्तात् सनातन । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८॥२०॥ अव्यक्तो ऽक्षर इत्युक्तस्तमाहुः परमा गतिम् । यं प्राप्य' न निवर्तन्ते तद्धाम परमं मम ।।८।२१।। पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥८॥२२॥ -ज्ञानकर्मजनितभावनावासनासंस्कारावच्छिन्नस्य भोक्तुः कत्मिनो विद्याप्राबल्ये विद्यामार्गेण शुक्लेन देवयानेन गमनात् क्रममुक्तिसिद्धरपुनरावृत्तिः । कर्मचावल्ये तु कर्ममार्गेण कृष्णेन पितृयाणेन गमनात् पुनरावृत्तिः-इति गत्यागतिहेतुप्रतिपत्तिः ॥ यत्र काले त्वनावृत्तिमावृत्ति चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ !॥८॥२३॥ अग्निज्योतिरहः शुक्ल षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥८।२४।। धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ॥ तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।।८।२५।। शुक्लकृष्णे गती ोते जगत. शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥८॥२६॥ शुक्लकृष्णे गती ोते-इति- "वे सृती अशृणवं पितृणामहं देवानामुत मानाम् ।

६८ ]] सशीर्षकमूलपाठः किं पुनर्बाह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥९॥३३॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९॥३४॥ इति नबमोध्यायः॥

(२) ईश्वरीययोगविभूतिलक्षणविज्ञानदयोपनिषत् १-ईश्वरविभूतिज्ञानमाहात्म्यम् । श्रीभगवानुवाच भूय एव महावाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०॥१॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिहि देवानां महर्षीणां च सर्वशः ॥१०॥२॥ यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मत्र्येषु सर्वपापैः प्रमुच्यते॥१०॥३॥ २-आध्यात्मिकमानसभावानामीश्वराव्ययानुभावितत्वम् । बुद्धि नि मसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो' भावो' भयं' २ चाभयमेव च ॥१०।४।। अहिंसा१४ समता ५ तुष्टि स्तपो दानं ८ यशोऽयश:२० भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०॥५॥ ३-आधिदैविकमानसभावानामीश्वराव्ययानुभावितत्वम् । महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०॥६॥ ४-ईश्वरयोगज्ञानमाहात्म्यम् । एतां विभूति योगं च मम यो वेत्ति तत्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ।।१०।७।। *एतां विभूति योगं चेति-दहरोत्तरयो वयोः संसर्गो द्विविधः-योगो विभूतिश्चेति । उत्तर- प्रवृक्तत्वेन दहरेऽनुग्रहो योगः। अप्रवृक्तस्य दहरेऽनुग्रहो विभूतिः ॥१॥ तुषारस्यागलितस्य जले प्रवेशो विभूतिः । गलितस्य तु योगः ॥२॥ सूर्यप्रतिबिम्बे सूर्यप्रकाशस्य विभूतिः । प्रतिविम्बस्य विलीनस्य ७० ] सशीर्षकमूलपाठः ५-ईश्वरसाक्षात्कारोपयिकबुद्धियोगप्राप्स्युपायाः। अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०॥८॥ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०॥९॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०॥१०॥ तेषामेवानुकम्यार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०॥११॥ ६-ईश्वराव्ययदिव्यविभूतिजिज्ञासा । अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१०॥१२॥ आहुस्त्वामृषयः सर्वे देवर्षि रदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०॥१३॥ सर्वमेतदृतं मन्ये यन्मां वदसि केशव ! न हि ते भगवन् ! व्यक्ति विदुर्देवा न दानवाः ॥१०॥१४॥ स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम !। भूतभावन भूतेश देवदेव जगत्पते ! ॥१०॥१५॥ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०।१६।। सूर्यप्रकाशे योगः ॥३॥ अग्नियोगादपां द्रवीभावः । अग्निविभूतेरपां संतप्तत्वम् ।।४॥ अपां योगात्तन्दु- लस्यौदनत्वम् । अपां विभूतेस्तन्दुलस्यात्वम् ॥५॥ कस्तूरीकेसरकर्पूरप्रसूनादिषु गन्धविशेषाणां योगाः। वायौ तु तेषां विभूतिः ॥६॥ पुष्परसानां पुष्पेषु भिन्ना योगाः । तेषा मधुमक्षिकामधुनि पुनरेको योगः । धात्रीमुरब्बायां मधुनो योगश्च विभूतिश्च ॥७॥ सूर्यप्रतिबिम्बे सूर्यबिम्बे च तेजसो योगः । प्रतिबि- म्बस्य जलदर्पगोत्रादौ विभूतिः ।।८।। महितविकृते लोष्टे बलयोगः । प्रक्षिप्ते लोष्टे बलविभूतिः ।।९।। वस्त्रे सुधाचूादौ श्वैत्यस्य योगः । सुधाचूर्णोपरञ्जितभित्तो श्वैत्यविभूतिः ॥१०॥ गृहादिशिल्पकला- रचनायां बुद्धियोगः । गृहादिशिल्पनिर्माणक्रमसमालोचनायां बुद्धिविभूतिः ॥११॥ स्वधा योगः । स्वाहा विभूतिः ॥१२॥ अन्तर्यामो योगः। बहिर्यामो विभूतिः ॥१३॥ स्वरूपधर्मो योगः। आश्रित- धर्मो विभूतिः ।।१४।। बुद्धिर्शानमसंमोहः क्षमा सत्यं दमः शमः-इत्यादिर्योगोऽव्ययस्य । भूतानामादि- मध्यान्तव्यापी अव्ययो विभूतिः॥१५॥ आदित्यान मह विष्णुः, मरीचिर्मरुताम् ; इन्द्रियाणां मन इत्यादि- रधिष्ठावाभिव्यापी प्रधानोगधष्ठाता विभूतिः ॥१६॥ रससामान्यस्य अप्सामान्ये सामान्यभावेनावस्थानं विभूतिः । रसस्य अप्सु सर्वेतरवलक्षण्येनावस्थानं विशेषसंयोगः ॥१७॥ ।

राजविद्या
[ ७१
कथं विद्यामहं योगिस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन् ! मया ॥१०॥१७॥
विस्तरेणात्मनो पोगं विभूतिं च जनार्दन !।
भूयः कथय तृप्तिहि शृण्वतो नास्ति मेऽमृतम् ॥१०॥१८॥
७-ईश्वराव्ययविव्यविभूतीनां श्वासप्ततिरुवाहरणानि ।
श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ ! नास्त्यन्तो विस्तरस्य मे ॥१०।१९।।
अहमात्मा' गुडाकेश ! सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥१०॥२०॥
आदित्यानामहं विष्णु ज्योतिषां रवि रंशुमान् ।
मरीचि मरुतामस्मि नक्षत्राणामहं शशी ॥१०।२१।।
वेदानां साम वेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मन श्चास्मि भूतानामस्मि चेतना१० ॥१०।२२।।
रुद्राण शङकर' १३चास्मि वित्तेशो' यक्षरक्षसाम् ।
वसूनां पावक श्चास्मि मेरु:१४ शिखरिणामहम् ।।१०।२१।।
पुरोधसां च मुख्यं मां विद्धि पार्थ ! बृहस्पतिम् ।।
सेनानीनामहं स्कन्द:१६ सरसामस्मि सागर:१० ॥१०॥२४॥
महर्षीणां भृगुरहं १८ गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥ ॥१०॥२५॥
अश्वत्थः २२ सर्ववृक्षाणां देवर्षीणां च नारद:२३ ।
गन्धर्वाणां चित्ररथः२४ सिद्धानां कपिलो "मुनिः ।।१०।२६।।
उच्चैःश्रव समश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं२७ गजेन्द्राणां नराणां च नराधिपम् ॥१०॥२७॥
आयुधानामहं वचं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्प:१ सर्पाणामस्मि वासुकि:३२ ॥१०॥२८॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितृणामर्यमा ५ चास्मि यमः। संयमतामहम् ॥१०।२९।।
प्रह्लाद "श्चास्मि दैत्यानां काल:३७
कलयतामहम्।
मृगाणां च मृगेन्द्रोऽहं वैनतेय : ०श्च पक्षिणाम् ॥१०॥३०॥
पवन:४१ पवतामस्मि राम:४२
शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि । स्रोतसामस्मि जाह्नवी ॥१०॥३१॥
सर्गाणामादिरन्तश्च । मध्यं चैवाहमर्जुन! ।
अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् ॥३२॥
अक्षराणामकारोऽस्मि ८ द्वन्द्व: ५ सामासिकस्य च ।
अहमेवाक्षयः५० कालो धाताहं विश्वतोमुखः ॥१०॥३३॥
मृत्युः सर्वहरश्चाहमुद्भवश्च । भविष्यताम् ।
कीर्तिः श्रीक्"ि च नारीणां स्मृतिम्र्मेधा धृतिः क्षमा ॥१०॥३४॥

बृहत्साम।
७२ ]
सशीर्षकमूलपाठः
तथा साम्नां गायत्री।
छन्दसामहम् ।
मासानां मार्गशीर्षो ऽहमृतूनां कुसुमाकरः५८ ॥१०॥३५॥
द्यूतं छलयतामस्मि तेज' °स्तेजस्विनामहम् ।
जयोऽस्मि' व्यवसायोऽस्मि "सत्त्वं । सत्त्ववतामहम् ॥१०॥३६॥
वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनञ्जयः ॥
मुनीनामप्यहं व्यासः ।
.: कवीनामुशना ... कविः ॥१०॥३७॥
दण्डो। दमयतामस्मि नीतिरस्मि' जिगीषताम् ।
मौनं ० चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०॥३८॥
यच्चापि सर्वभूतानां बीजं २ तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ।।१०।३९।।
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप !
एष तूद्देशतः प्रोक्तो विभूतेविस्तरो मया ॥१०॥४०॥
यद् यद् विभूतिमत्सत्त्वं श्रीमर्जितमेव वा।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०॥४१॥
अथवा बहुनतेन किं ज्ञातेन तवार्जुन !
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०॥४२॥
इति दशमोऽध्यायः॥
८-अर्जुनस्य ईश्वरवश्वरूप्यदर्शनाकाडक्षा ।
अर्जुन उवाच
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११।१।।
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष ! माहात्म्यमपि चाव्ययम् ।।११।२।।
एवमेतद् यथात्थ त्वमात्मानं परमेश्वर!।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ! ॥११॥३॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो! ।
योगेश्वर ! ततो मे त्वं दर्शयात्मानमव्ययम् ॥११॥४॥
-योगविद्याप्रभावेण अर्जुनाय विश्वरूपदर्शनोपयोगिविव्यचक्षुःप्रदानम् ।
श्रीभगवानुवाच
पश्य मे पार्थ! रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानवर्णाकृतीनि च ॥१५॥
पश्यादित्यान् वसून् रुद्रानश्विनी मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत! ॥११॥६॥

राजविद्या
[७३
इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश ! यच्चान्यद् द्रष्टुमिच्छसि ।।११।७॥
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११॥८॥
१०-वासुदेवशरीरावच्छिन्नाव्यये योगविद्याप्रभावसंपन्ने ईश्वराज्ययाभेदोपपत्या ईश्वरवैश्वरूप्य-
प्रदर्शनम् ।
सञ्जय उवाच
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परम रूपमैश्वरम् ।।११।९।।
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११॥१०॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ।।११।११।।
दिवि सूर्यसहस्त्रस्य भवेद्युगपदुत्थिता।
यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः ॥११॥१२॥
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११।१३।।
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११॥१४॥
११-अर्जुनकृता ईश्वरस्तुतिः ।
अर्जुन उवाच
पश्यामि देवास्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् ।
ब्रह्माणमीशं कमलासनस्थमृषीश्च सर्वानुरगांश्च दिव्यान् ॥११॥१४॥
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ॥
नान्तं न मध्यं न पुनस्तवादि पश्यामि विश्वेश्वर विश्वरूप ! ॥११।१६।।
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुनिरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥११॥१७॥
त्वमक्षरं परमं वेदितव्यं स्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥११॥१८॥
अनादिमध्यान्तमनन्तवीर्य्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥११॥१९॥
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ! ॥११॥२०॥

. ७४ ] सशीर्षकमूलपाठः अमी हि त्वां सुरसंघा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११॥२१॥ रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥१॥२२॥ रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो! बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ॥११॥२३॥ नभःस्पृशं दीप्तमनेकवर्ण व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृति न विन्दामि शमं च विष्णो! ॥११॥२४॥ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ! ॥११।२५।। अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंधैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥११।२६।। वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गः ॥११।२७।। यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥११॥२८॥ यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥११।२९।। लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैवलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ! ॥११॥३०॥ आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर ! प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥११॥३१॥ १२-अर्जुनं प्रति भगववनुग्रहवाक्यम् । श्रीभगवानुवाच। कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥११॥३२॥ तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुक्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ! ॥११॥३३॥ द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥११॥३४॥ १३-अर्जुनकृता श्रीकृष्णाय अपराधक्षमाप्रार्थना । एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीत प्रणम्य ॥११॥३५॥ ..

राजविद्या
[ ७५
अर्जुन उवाच
स्थाने हृषीकेश! तव प्रकी, जगत् प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥११॥३६॥
कस्माच्च ते न नमेरन् महात्मन् ! गरीयसे ब्रह्मणोऽप्यादिक।
अनन्त देवेश जगनिवास! त्वमक्षरं सदसत् तत्परं यत् ॥११॥३७॥
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप! ॥१॥३८॥
वायुर्यमोऽग्निवरुणः शशाङकः प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥११॥३९॥
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व! ।
अनन्तवीर्यामितविक्रमस्त्वं सर्व समाप्नोषि ततोऽसि सर्वः ॥११॥४०॥
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि ॥११॥४१॥
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत! तत्समक्षं तत् क्षामये त्वामहमप्रमेयम् ॥११॥४२॥
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभावः ॥११॥४३॥
तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीडयम् ।
पितेव
पुत्रस्य
सखेव
सख्युः प्रियः प्रियायाहमि देव सोढुम् ॥११॥४४॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगनिवास ! ॥११॥४५॥
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो! भव विश्वमूर्ते! ॥११॥४६।।
१४-पुनरर्जुनं प्रति भगवदनुग्रहवाक्यम् ।
श्रीभगवानुवाच
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥११॥४७॥
न वेदयज्ञाध्ययनैदानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ! ॥११॥४८॥
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥११॥४९॥
.
१५-श्वरवेश्वरूप्यावनोत्तरं पुनर्मानुषरूपप्रवर्शने अर्जुनाश्वासनार्य कृष्णार्जुनसंवावः ।
सञ्जय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥११॥५०॥

सशीर्षकमूलपाठः अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ! । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥११॥५१॥ श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङक्षिणः ॥११॥५२॥ नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥११॥५३॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन !। ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परंतप ! ॥११॥५४॥ मत्कर्मकृन् मत्परमो मद्भक्तः संगजितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ! ॥१११५५।। इति एकादशोऽध्यायः॥

(३) ईश्वरोपासनोपनिषत्
१--सगुणेश्वरोपासना-निर्गुणात्मोपासनयोविवेकजिज्ञासा।
अर्जन उवाच
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषा के योगवित्तमाः ॥१२॥१॥
२--निर्गुणात्मोपासनापेक्षया सगुणेश्वरोपासनायाः श्रेष्ठत्वे भगवत्सम्मतिः ।
श्रीभगवानुवाच
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥१२॥२॥
३--ईश्वरव्यतिरेकेण कैवल्यात्मनोऽक्षरस्यानवस्थानादारोपासनाया ईश्वरोपासनावदीश्वरप्राप-
कत्वेऽपि निर्गुणात्मनि मनोबुद्धिसंचारे क्लेशाधिक्यानात्यन्तमपेक्षा ।
ये त्वक्षरमनिर्दृश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥१२॥३॥
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥१२॥४॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ।।१२।५।।
च परमपुरुषार्थप्रदायित्वात्
४--सर्वकमर्पिणरूपेश्वराव्ययोपासनाया अनायासेनाविलम्बन
श्रेष्ठत्वम् ।
येत सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२।६।।
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात् पार्थ ! मय्यावेशितचेतसाम् ॥१२॥७॥
मय्येव मन आधत्स्व मयि बुद्धि निवेशय ।
निवसिष्यसि मय्येव अत ऊवं न संशयः ॥१२॥८॥

७८ ] सशीर्षकमूलपाठः ५-ईश्वरोपासनानुकल्पचतुर्विधप्रकारेषु-अभ्यास-शान-ध्यान-फलत्यागेषु उत्तरोत्तरश्रेयस्त्वम् । तत्र ईश्वरज्ञानोपयोगिकर्मप्रवणत्वं ज्ञानम् । ईश्वरे परानुरक्तिहेतुकर्मप्रवणत्वं ध्यानम् । अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यास योगेन ततो मामिच्छाप्तुं धनञ्जय ! ॥१२।९।। अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव । मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ।।१२।१०॥ अर्थतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्म फलत्यागं ततः कुरु यतात्मवान् ॥१२॥११॥ श्रेयो हि ज्ञान मभ्या साज्ज्ञानाद्धघानं विशिष्यते । ध्यानाकर्म फलत्यागस्त्यागाच्छान्तिरनन्तरम्।।१२।१२।। ६-ईश्वरप्रसादोपयोगिनो भक्तिभावनाप्रकाराः । अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुख: क्षमी ॥१२॥१३॥ संतुष्ठः सततं योगी यतात्मा दृढनिश्चयः । मर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ॥१२॥१४॥ यस्मान्नोद्विजते लोको लोकानोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ।।१२।१५।। अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१२स१६।। यो न हृष्यति न द्वेष्टि न शोचति न काडक्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥१२॥१७॥ समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवजितः ॥१२॥१८॥ तुल्यनिन्दास्तुतिौनी संतुष्टो येन केनचित् । अनिकेतस्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥१२।१९।। ये तु धामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥१२॥२०॥ इति द्वादशोऽध्यायः॥ इति भगवद्गीतोपनिषवि अस्मिताक्लेशनिवतिका ऐश्वर्यबुद्धियोगपरिष्कृता *राजविद्या समाप्ता । ( ३ ) 12 *ऐश्वर्या-बुद्धघाभराधिकानन्यभक्तिः राजविद्यारहस्यम् । अनन्यभक्तिर्हि तत्राव्यये बुद्धः प्रवेशाय द्वारमपेक्ष्यते ।।

अथ आर्षविद्याया धर्मबुद्धियोगेन संस्कार प्रादिश्यते प्रकृति-पुरुषयोः, क्षेत्र-क्षेत्रज्ञयोः, ज्ञान-ज्ञेययोरित्येवं द्वन्द्व त्रयस्य विज्ञानम् । सत्त्वरजस्तमोलक्षणगुण त्रयविज्ञानम् । कर्मब्रह्मभेदादकवत्थद्वय विज्ञानम् । दैवासुरभूतसर्गद्वयभेदात् संपद द्वयविज्ञानम् । नैर्गुण्यनैष्कर्म्यप्रतिपत्तये गुणकर्मद्वयविज्ञानम् । अबन्धनकर्मद्वयविज्ञानम्। इत्येवं षड्भावनाभिर्विश्वविज्ञानसिद्धिरार्षविद्या नाम ॥ सेयं पुरायुगे ब्रह्मर्षिकुले भूयसा प्रचरति स्म। तामप्येतामनुज्ञादानाय स्वसंमतिं प्रत्याययितुमिह गीतायां भगवानन्वादिशति नवाशीत्य- धिकशतश्लोकैः ॥१८९॥ (१) प्रकृति-पुरुषौ, क्षेत्र-क्षेत्रज्ञौ, ज्ञान-शेयौ इति षड्विज्ञानोपनिषत १-प्रकृति-पुरुषयोः, क्षेत्र-क्षेत्रज्ञयोः, ज्ञान-ज्ञेययोश्च स्वरूपनिरूपणोपक्रमः । अर्जुनउवाच प्रकृति' पुरुषं चैव क्षेत्र क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ! ॥१३॥११॥ २--क्षेत्रक्षेत्रज्ञयोः, भूतग्राम-विज्ञानात्मनो, शरीरशारीरकयोश्च विवेकलक्षणं ज्ञानम् । श्रीभगवानुवाच इदं शरीरं कौन्तेय ! क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३॥२॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोनिं यत्तज्ज्ञानं मतं मम ॥१३॥३॥ इवं पवं बहवो व्याल्याकारा न निबध्नन्ति । महाभारते तु वृश्यते । प्रकरणान्तरारम्भे उत्थानिका योग्येतीवमत्र निवेशितम् । ये विदं न पठन्ति, तैः षोडशेऽध्याये पञ्चमश्लोकानन्तरम् "हौ भूतसर्गों" इत्यादि पर्च पठनीयम् । तेन संख्याभेदो नास्ति ।

. ८०] सशीर्षकमूलपाठः ३-अष्टपुरीलक्षण-क्षेत्रनिरुक्तिः । तत् क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत् समासेन मे शृणु ॥१३॥४॥ ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥१३॥५॥ महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥१३।६।। इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३॥७॥ ४-विशतिलक्षण--ज्ञाननिरुक्तिः । क्षेत्रक्षेत्रज्ञविवेकज्ञानजनितानीमानि विशतिर्लक्षणानि । *'अमानित्वमद म्भित्व महिंसाक्षान्ति रार्जवम् । 'आचार्योपासनं शौचं स्थैर्य मात्मविनिग्रहः ॥१३॥८॥ १० इन्द्रियार्थेषु वैराग्य' मनहंकार एव च । १जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३।९।। १७असक्ति रनभिष्वङ्गः पुत्रदारगृहादिषु । 'नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।।१३।१०।। १ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। ५ विविक्तदेशसेवित्व१८मरतिर्जनसंसदि ॥१३।११।। १अध्यात्मज्ञाननित्यत्वं २०तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमितिप्रोक्तमज्ञानं यदतोऽन्यथा ॥१३॥१२॥ ४ १५ महाभूतानि.. १ १ *अमानिस्वम् ११ आत्मविनिग्रहः ५ कम्र्मेन्द्रियाणि. २ २ अवम्भित्वम् १२ आत्मानन्यभक्तिः ५ ज्ञानेन्द्रियाणि. ३ ३ अहिंसा १३ अध्यात्मज्ञाननित्यता ५ इन्द्रियार्थाः ४ अनहंकारः १४ तस्वज्ञानार्थदृष्टिः ४ अव्यक्तमहंकारी बुद्धिमनः ५ ५ अनासक्तिः १५ इष्टानिष्टाविसमचित्तत्वम् ५ इच्छाद्वेषौ सुखदुःखे तिः ६ ६ अनभिष्वङ्गः १६ आचार्योपासनम् १ संघातः. ७ संसद्यरतिः १७ स्थैर्यम् १ चेतना ८ इन्द्रियार्यवैराग्यम् १८ आर्जवम् ९ बन्दषु दोषदृष्टिः १९ क्षान्तिः १० विविक्तदेशसेवित्वम् २० शौचम् ३१ अष्टपुर्व्यः क्षेत्रम् । ..... २० ܀ आर्षविद्या [ ८१ ५-सर्वाधारभूत-परब्रह्माव्ययपुरुषलक्षण-शेयनिरुक्तिः । ज्ञेयं* यत्तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते ॥१३।१३।। सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३॥१४॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१३॥१५॥ बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१३॥१५॥ अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञयं ग्रसिष्णु प्रभविष्णु च ॥१३॥१७॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१३॥१८॥ इति क्षेत्र तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१३॥१९॥ ६- सर्वविधविकारग्रामसमुद्भावकत्रैगुण्यलक्षणप्रकृतिसंज्ञस्य कर्मणः, सर्वविधविकारगुणग्रामाधार- भूतनिष्क्रियनैर्गुण्यलक्षणपुरुषसंज्ञस्य ब्रह्मणश्च परस्परोपयोगाभिज्ञानानि । प्रकृति पुरुषं चैव विद्धयनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥१३॥२०॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥१३॥२१॥ पुरुषः प्रकृतिस्थो हि भुक्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥१३॥२२॥ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥१३॥२३ य एवं वेत्ति पुरुवं प्रकृति च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥१३॥२४॥ - २-पुरुषः ३---क्षेत्रम् की त्रैगुण्यम् भोक्ता भूतात्मा शरीरम् अष्टपुर्यः शरीरी विज्ञानात्मा शरीर-शारीरकयोविवेकः सबसत् परं ब्रह्म-अव्ययम् । दोयम् ६ ८२ ] सशीर्षकमूलपाठः ७-मृत्युनिस्तारक-पुरुषोपासनाभेदाः । ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥१३॥२५॥ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥१३॥२६॥ ८-सत्त्वस्य प्राणिनः क्षेत्र-क्षेत्रज्ञसंयोगोपाधिकत्वम् । यावत्संजायते किंचित् सत्त्वं स्थावरजङ्गमम् । क्षेत्र-क्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥१३॥२७॥ ९-क्षेत्रस्थितस्य परमेश्वरस्य', ईश्वरस्य', परमात्मनो', विज्ञानास्मन श्च क्षेत्रात् पृथक्त्वेन दर्शनमात्मसाक्षात्कारलक्षणः पुरुषार्थः । समं सर्वेषु भूतेषु तिष्ठन्तं 'परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१३॥२८॥ समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥१३॥२९॥ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मान मकर्तारं स पश्यति ॥१३॥३०॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥१३॥३१॥ अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय ! न करोति न लिप्यते ॥१३॥३२॥ यथा सर्वगतं सौक्षम्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥१३॥३३॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्र क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ! ॥१३॥३४॥ क्षेत्र-क्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥१३॥३५॥ इति त्रयोदशोध्यायः ॥१३॥ * आनन्त्यविश्वाधिष्ठाता परमेश्वरः। अधिदेवतविश्वाधिष्ठाता अश्वत्यैकवल्याध्यक्ष ईश्वरः। शरीरोपाधिको विशुयो जीवात्मा परमात्मा । शरीरविशिष्टस्तु.सगुणो जीवात्मा भूतदात्मा। अभिन्ना अप्यते चत्वारो विवक्षावशाच्चतुर्क प्रवकृत्येह व्यायाताः । ते ते ब्रह्मविक्षाने सुविशद व्याख्याता अष्टम्याः॥

आर्षविद्या [८३ (२) सत्त्वरजस्तमोलक्षणगुणत्रयोपनिषत् १-क्षेत्र विशेषाधायकस्य गुणत्रयसमष्टिरूपस्य महतो ब्रह्मणः सर्वभूतयोनित्वम् । श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१४॥१॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥१४।२।। मम योनिर्महद् ब्रह्म तस्मिन् गर्भ दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ! ॥१४॥३॥ सर्वयोनिषु कौन्तेय ! मूर्तयः संभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥१४।४।। २-गुणत्रयस्वरूपनिरूपणम् । *सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥१४।५।। तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ! ॥१४॥६॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय ! कर्मसङ्गेन देहिनम् ॥१४।७।। तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ! ॥१४॥८॥ सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ! । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ।।१४।९॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत ! । रजः सत्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥१४॥१०॥ -सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥१४।११।। लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्ध भरतर्षभ ! ॥१४॥१२॥ अप्रकाशोप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्ध कुरुनन्दन ! ॥१४॥१३॥ यदा सत्वे प्रबुद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥१४॥१४॥ *सत्त्वं रजस्तमश्चेति--सत्वं प्रकाशकं सुखसनेन शानसङ्गेनात्मानं बध्नाति । रजो रागमयं तृष्णासनेन कर्मसङ्गनात्मानं बध्नाति । तमो मोहन प्रमादालस्यनिद्राभिरात्मानं बध्नाति ।।

८४ ]
सशीर्षकमूलपाठः
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१४॥१५॥
कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१४॥१६॥
सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१४।१७।।
ऊर्ध्व गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१४॥१८॥
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१४।१९।।
गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैविमुक्तोऽमृतमश्नुते ॥१४॥२०॥
३-गुणत्रयातीतस्य विदेहात्मनो लक्षणम् ।
अर्जुन उवाच
कैलिङ्गस्त्रीन् गुणानेतानतीतो भवति प्रभो! ।
किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ।।१४।२१॥
श्रीभगवानुवाच
प्रकाशं च प्रवृत्ति च मोहमेव च पाण्डव !।
न दृष्टि संप्रवृत्तानि न निवृत्तानि काङक्षति ।।१४।२२।।
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठाति नेङ्गते ॥१४॥२३॥
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥१४॥२४॥
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥१४।२५।।
४-जीवाव्ययकैवल्योपासनया ईश्वराव्ययकवल्यसायुज्यसिद्धौ सर्वगुणात्ययाद् गुणातीतस्वसिद्धिः।
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥१४॥२६॥
५-गुणत्रयातीतस्य ईश्वराव्ययस्य सर्वजीवसम्बन्धि-पुरुषत्रय-परात्पर-निविशेषसाधारणप्रतिष्ठात्वम्।
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्प सुखस्यैकान्तिकस्य च ॥१४॥२७।।
इति चतुर्दशोऽध्यायः ॥१४॥

आर्षविद्या [ ८५ (३) अश्वत्थोपनिषत् १-ब्रह्मकर्मणोरपृथक्त्वेन ब्रह्माश्वत्थकश्वित्थयोरपृथगुग्रहणात् त्रैगुण्योपपत्रकश्वित्थनिरास- पूर्वकं ब्रह्माश्वत्थे प्रपत्त्युपदेशः । श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्व*त्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।।१५।१॥ *अश्वत्थं प्राहुरव्ययमिति- अश्वत्थो द्विविधः--ब्रह्माश्वत्थः कश्वित्थश्च । तदत्र प्रकरणवशाद् ब्रह्माश्वत्थं तावनिरूप- यामि । ऊर्ध्वमूलोऽवाक्शाखः एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते । तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन (कठोपनिषदि) एतावता-अमृतं ब्रह्म शुक्रं चेति त्रितयमेकोऽश्वत्थः । तत्र त्रिपुरुषः पुरुषोऽमृतम् । प्राणाः, आपः, वाग्, अन्नम्, अन्नादश्चेति पञ्चकलप्रकृतिब्रह्म। वागापोऽग्निः, अग्निरापो वागिति मामृतभेदतः षट् शुक्राणि। तदे- तच्छुकं प्रकृतिविकृतिः । अत्रेदं बोध्यम्-ईश्वरस्तावद् वृक्षास्मना भाव्यमान उपास्यते, तथा च श्रूयते- "तस्मात्परं नापरमस्ति किंचित् तस्मानाणीयो न ज्यायोऽस्ति किञ्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् ।। इति ॥ स चोपासकविवक्षावशात् वेधाऽभिज्ञायते-ब्रह्मा चेदुदुम्बरः । विष्णुश्चेद् अश्वत्थः । शिवश्चेद्-वट इति । अथवा अश्वत्थ एव सर्वत्र । तथा चाभियुक्ता आहुः- क्वचिन्मायावलोद्रेकादसीमेऽस्मिन् परात्परे मायावच्छेदतो मायी कल्पते पुरुषोऽव्ययः ।।१।। मायामितः स पुरुषो विष्टब्धो दिवि तिष्ठति । एकत्र वृक्षवत् तेन परिपूर्णमिदं जगत् ॥२॥ नातोऽणीयो न वा ज्यायो न परं नापरं ततः । एकेन तेन वृक्षेण जगद् व्याप्तं समन्ततः ।।३।। सोऽव्ययोऽक्षरभेदेन त्रिधा कृत उपास्यते । स ब्रह्मा वा, स विष्णुर्वा, शंकरो वा स भिन्नवत् ॥४॥ उदुम्बरद्रुमो ब्रह्मा विष्णुरश्वत्थपादपः । वटो जटी पारिजातः शंकरः स उपास्यते ॥५॥ अथवाऽश्वत्थ एवैको ब्रह्मा का, शंकरोऽपि वा। उत्थाप्यकं पदं सृष्टधै त्रिपात् तिष्ठति सोऽश्ववत् ॥६॥ "त्रिपादूर्ध्व उदैत् पुरुषः पादोऽस्यहाभवत् पुनः । ततो विष्वङ व्यकामत् साशनानशने अभि ॥” इति ॥ सहस्रबल्शोऽयमश्वत्थो विज्ञायते । तस्यैतदास्माकीनपृथिव्युपलक्षितेयमेका बल्शा पञ्चपुण्डोराऽन्यत्र भूयसा व्याख्याता संक्षेपादिहापि प्रदर्श्यते । अमृत-ब्रह्म.शुक्रमथी हीयमेकका बल्शा भवति ।

८६ ] सशीर्षकमूलपाठः अधश्चोध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कानुबन्धीनि मनुष्यलोके ॥१५॥२॥ - . - (१) तत्र तावत् स्वयंभूः प्रजापतिः प्रथमः पुण्डीर:- तस्य ब्रह्माऽक्षरः पुरुष आत्मा। तस्य प्रत्ययः प्रतिष्ठालक्षणा स्थितिः । तस्य प्राणप्रकृतिको लोको वाक् । वाय्वाकाशौ यजुर्वाक् । खं ब्रह्म। तत्र लोके वाक्प्राणी सोमाग्नी के ब्रह्म। यजुर्वाग् ब्रह्माऽऽवपनम् । वाक्प्राणयोर्वाक् सोमोऽन्नं प्राणोऽन्नादः । खं शुद्धं ब्रह्मान्यत् । कं देवौ ब्रह्मान्यत् ॥१॥ (२) अथ परमेष्ठी प्रजापतिद्वितीयः पुण्डीर:- तस्य विष्णुरक्षरः पुरुष आत्मा। तस्य प्रत्ययो यज्ञलक्षणा-अन्तर्गतिः । तस्य अप्प्रकृतिको लोको गौः । स वाग्लोकेन परिश्रितः। भृग्वङ्गिरसौ आपो गौः खं ब्रह्म । तत्र भृगुः सोमः, अङ्गिरा अग्निः । तत्र लोके रयि-प्राणी सोमाग्नी के ब्रह्म ॥२॥ आपो गोर्ब्रह्मावपनम् । रयिप्राणयोर्मूर्त रयिः सोमोऽग्नम् । प्राणोऽमूर्तोऽग्निरन्नादः । खं शुद्धं ब्रह्मान्यत् ॥२॥ (३) अथ हिरण्यगर्भः प्रजापतिस्तृतीयः पुण्डीर:- तस्येन्द्रोऽक्षरः पुरुष आत्मा। तस्य प्रत्ययोऽवयजनलक्षणा बहिर्गतिः । तस्य वाक्प्रकृतिको लोको द्यौः । स वाग्लोकाभ्यां परिश्रितः । तत्र लोके बुद्धिप्राणौ कं ब्रह्म। वाग्ज्योतिब्रह्मावपनम् । तेजःप्राणयोस्तेजः सोमोऽन्नम् । प्राणोऽग्निरन्नादः । खं शुद्धं ब्रह्मान्यत् । कं देवी ब्रह्मान्यत् ॥३॥ (४) अथ चन्द्रमाः प्रजापतिश्चतुर्थः पुण्डीर:- तस्य सोमोऽक्षरः पुरुष आत्मा। तस्य प्रत्ययः संकोचलक्षणा अन्तर्गतिः । तस्य अन्नप्रकृतिको लोकोऽन्तरिक्षम् । स चापिण्डत्वादसत्यत्वादपरिश्रितः । अब्वाय्वन्नलक्षणैः प्राणैः पर्याप्त- मिदमन्तरिक्षम् । तत्र प्रज्ञाप्राणौ कं ब्रह्म। अन्तरिक्षं विद्युद्ब्रह्मावपनम् । प्रज्ञाप्राणयोः प्रज्ञा सोमोऽन्नम् । प्राणोऽग्निरन्नादः । खं शुद्धं ब्रह्मान्यत् । कं देवौ ब्रह्मान्यत् ॥४॥ (५) अथाग्निः प्रजापतिः पञ्चमः पुण्डीर:--- तस्याग्निरक्षरः पुरुष आत्मा। तस्य प्रत्ययो विकासलक्षणा बहिर्गतिः। तस्य अन्नादप्रकृतिको लोकः पृथिवी । स चान्तरिक्ष-धु-गो-वाग्लोकः परिश्रितः । तत्राक्षराग्निरमृतम् । अन्ना- दाग्नि ब्रह्म। य ऋतस्य प्रथमजः स सत्याग्निः । शुक्रम् । अथ याजुषो ब्रह्माग्निः, आङ्गिरसो देवाग्निः । अथ द्विविधो वागग्नि:-चित्यश्चितेनिधेयश्च । तत्रायं चित्याग्निः पृथ्वीपिण्डः । तदेतावद् ब्रह्मसत्यम् ॥ चित्याग्निब्रह्मावपनम् । भूतप्राणयोर्भूतं सोमोऽन्नम् । प्राणोऽग्निरन्नादः। खं शुद्धं ब्रह्मान्यत् । कं देवी ब्रह्मास्यत् ॥ * अथ चितेनिधेयाग्निप्रकृतिको देवप्राणाभ्यां सोमाग्निरूपाभ्यां कृतरूपो ब्रह्मलोकः पुरुषः । तत्र-अग्नि:-वायु:-इन्द्रः-इति त्रयो देवाः सन्निविशन्ते। ते चैतेविदेवतं सर्वभूतान्तरात्मनि- . वैश्वानरो हिरण्यगर्भः सर्वज्ञ इति संज्ञायन्ते। अध्यात्म तु भूतात्मनि वैश्वानर:-तेजसः-प्राज्ञ इत्युच्यन्ते। प्राणोबानो व्यानः-अपानसमानी चेति । तदेतावद्देवाग्निमयं देवसत्यम् ।। .

आर्षविद्या
[ ८७
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्थमेनं सुविरुद्धमूल-
मसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५।३।।
ततः पदं तत् परिमार्गितव्यं
यस्मिन् गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥१५॥४॥
२-गुणकर्मप्रपञ्चोपाधिशून्यस्य ब्रह्माश्वत्थरूपाव्ययस्य साक्षात्कारोपायः ।
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वविमुक्ताः सुखदुःखसंह-
गच्छन्त्यमूढाः पदमव्ययं तत् ।।१५।५।।
न तद् भासयते सूर्यो न शशाङ्को न पावकः ।
यद् गत्वा न निवर्तन्ते तद्धा'म परमं मम ॥१५।६।।
३-ईश्वरात्मलक्षणपरमाव्ययस्यैव आध्यात्मिकत्वौपाधिकजीवाव्ययत्वोपपत्तिः।
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५॥७॥
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५।८।।
४-काश्वत्थापृथग्भूतस्य ब्रह्माश्वत्थपरमाव्ययस्य जीवाव्ययत्वोपपत्तौ तबक्षरानुगतमहद्गुण-
योगान् भोक्तृत्वसिद्धिः।
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५॥९॥
उत्क्रामन्तं स्थितं वापि भुजानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५॥१०॥
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५॥११॥
--
'तधाम परमं ममेति-
तो वा वास्तून्युश्मसि गमध्ये यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि ॥३॥
तविष्णोः परमं पदं सदा पश्यन्ति सूरयः विवीय चक्षुराततम् ॥३०॥

८८ ]
सशीर्षकमूलपाठः
५-गुणत्रयोपाधिभिन्नान् नानायोन्याकारान् महविशेषानषितिष्ठतस्तस्यैकस्यैवाश्वत्थाव्ययस्य विभि-
प्रनामरूपगुणकर्मग्राहित्वम् ।
यदादित्यगतं तेजो जगद् भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५॥१२॥
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५।१३।।
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५।१४।।
६-एकस्यैवाश्वत्थाव्ययस्य प्रतिजीवशरीरं भेदेनोपलब्धावपि औपाधिकभेवस्य तुच्छतया सर्वेषां
जीवाव्ययानां परमाव्ययानतिरेकादेकात्म्यम् ।
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्यो.
वेदान्तकृद्वेदविदेव चाहम् ॥१५॥१५॥
।
७-एकस्यैवाश्वत्थपरमाव्ययस्य प्रत्यर्थ कर्मभेवप्रयोजकगुणत्रयोपाधिभिन्नाभ्यां भराक्षरसंशाभ्यां
महत्प्रकृतिरूपाभ्यां भेदोपचारोपपत्तिः।
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५॥१६॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः ॥१५॥१७॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५॥१८॥
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वभावेन भारत ! ॥१५॥१९॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ! ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ! ॥१५॥२०॥
इति पञ्चदशोऽध्यायः ॥१५॥

(४) देवासुर-भूतसर्गोपनिषत् । १-जन्मसिद्धनैसर्गिकदैवासुरसंपत्तिनिबन्धनाः स्वभावसिद्धसहजगुणकर्मानुबन्धाः । श्रीभगवानुवाच अभयं सत्त्वसंशुद्धि नियोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्याय स्तप आर्जवम् ॥१६॥१॥ अहिंसा' सत्यम 'क्रोध रस्त्यागः । शान्ति' ४ रपैशुनम् । दया भूतेष्वलोलुप्त्वं' मार्दवं ह्री' 'रचापलम् ॥१६॥२॥ तेजः २१ क्षमा२२ धृतिः २३ शौच मद्रोहो २५ नातिमानिता" भवन्ति संपदं देवी मभिजातस्य भारत! ।।१६।३।। दम्भो' दोऽभिमानश्चः क्रोधः पारुष्य मेव च । अज्ञानं' चाभिजातस्य पार्थ! संपदमासुरीम् ॥१६।४।। दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं देवीमभिजातोऽसि पाण्डव ! ॥१६॥५॥ 'द्वी* भूतसौँ लोकेऽस्मिन् दैव आसुर एव च । देवो विस्तरशः प्रोक्त आसुरं पार्थ ! मे शृणु ॥१॥ (१) देवसंपत्तिलक्षणानि आसुरसंपत्ति- लक्षणानि सत्यम् अक्रोषः अभयम् सत्वसंशुद्धिः स्वाध्यायः ज्ञानयोगनिष्ठा तपः वानम् आर्जवम् अहिंसा त्यागः शान्तिः अपैशुनम् भूतेषु दया निलोभत्वम् क्षमा मार्दवम् धृतिः अभिमानः शौचम् कोषः अचापलम् | अद्रोहः पारुष्यम् अनतिमानः अज्ञानम् . * पद्यमिदं बहुषु पुस्तकेषु दृश्यते । परं दैवासुरसंपदोः पूर्वमेव प्रक्रान्तत्स्वान्मध्ये प्रक्रमोचिता प्रतिज्ञा न योग्येति सप्तशताधिकसंख्यापत्तिभिया नेदमत्र परिगणितम् । ये त्विदं पठन्ति; तैः त्रयोदशाध्यायारम्भे "प्रकृतिं पुरुषं चैव" इत्याद्यर्जुनवाक्यं न पाट्यमिति न संख्यातिरेकः।

९० ]
सशीर्षकमूलपाठः
२-वैवासुरभेवाद् विविध भूतसर्गे आसुरसर्गानुगतानि विद्यानिरपेक्षाणि गुणकर्माणि ।
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६॥६॥
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥१६॥७॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥१६॥८॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद् गृहीत्वाऽसद्ग्राहान् प्रवर्तन्ते ऽशुचिव्रताः ॥१६॥९॥
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥१६॥१०॥
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् ॥१६॥११॥
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१६॥१२॥
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥१६॥१३॥
आढयोऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१६॥१४॥
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६॥१५॥
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नाम यजैस्ते दम्भेनाविधिपूर्वकम् ॥१६॥१६॥
अहंकारं बलं दपं काम क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१६॥१७॥
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१६॥१८॥
आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ! ततो यान्त्यधमां गतिम् ॥१६।१९।।
३-आसुरसंपन्मूलकानां कामक्रोषलोभाना नरकद्वारत्वम् ।
विविध नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१६॥२०॥
एतैविमुक्तः कौन्तेय ! तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६॥२१॥

आषविद्या
[ ९१
४-वसंपन्मूलकानां विद्यासमुच्चितगुणकर्मनां प्रचारोपपत्तये वेदाविशास्त्रपरिशीलनादेशः ।
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ।।१६।२२।।
तस्माच्छास्त्रं प्रमाण ते कार्याकार्यव्यवस्थितो।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६॥२३॥
इति षोडशोऽध्यायः ॥१६॥

(१) गुणकर्मप्रचयोपनिषत्
(गुणप्रचयोपनिषत्)
१-सर्वविधव्यवहारात्मकलोकयात्रायां दैवसंपत्या सरवगुणस्य, आसुरसंपत्त्या तमोगुणस्य,
उभयसंपत्तिसाम्याद्रजोगुणस्यानुषङ्गसंभवाम् गुणत्रयभेवभिन्नदेवासुरयोगमायालक्षणप्रकृत्यभिषा-
भिन्नाना भूतसर्गाणां कानिचिदुदाहरणानि । तथा च तावद् गुणत्रयनिष्ठाभवात् श्रद्धात्रैविध्यम् ।
अर्जुन उवाच
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः ।
तेषां निष्ठा तु का कृष्ण सत्वमाहो रजस्तमः ।।१७।१।।
श्रीभगवानुवाच
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७।२।।
सत्त्वानुरूपा
सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छद्धः स एव सः ॥१७॥३॥
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७॥४॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥१७।५।।
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान् विद्धयासुरनिश्चयान् ॥१७।६।।
२-गुणत्रयवृत्तिभेदाबाहारविष्यम् ।
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७॥७॥
आयुः-सत्व-बलारोग्य-सुख-प्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७॥८॥
कट्वम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ।।१७१९॥
यातयाम गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७॥१०॥

आर्षविद्या [ ९३ ३-गुणत्रयवृत्तिभेदाद् यज्ञविष्यम् । अफलाकाअक्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ।।१७।११।। अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसम् ॥१७॥१२॥ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७।१३।। ४-शरीर-चाइमनोरुपाधिष्ठानभेदात् तपस्वैविध्यम् । देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं ता उच्यते ॥१७॥१४॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७॥१५॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७॥१६॥ ५-गुणत्रयवृत्तिभेदात् तपस्वैविध्यम् । श्रद्धया परया तप्तं तपस्तत्* त्रिविधं नरैः । अफलाकाङक्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७।१७।। सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७॥१८॥ मूढग्राहेणात्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थ वा ततामसमुदाहृतम् ॥१७॥१९॥ ६-गुणत्रयवृत्तिभेवाद् दानविध्यम् । दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७॥२०॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७॥२१॥ अदेशकाले यदानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७॥२२॥ * तप इति-"एतद्वै तप इत्याहुर्यत् स्वं ददाति ।" इति हि तपोलक्षणं श्रुतो भूयते ॥ स्वमनोयोगदानद्वारा आत्मनोऽन्यत्र कस्मैचित्कालाय परिवानं तपः। योगाभ्यासस्तपः॥

९४ ]
सशीर्षकमूलपाठः
(५) (कर्मप्रचयोपनिषत्)
७-प्रवृत्तकर्मणां निवृत्तकर्मणां काम्यकर्मणां वा यातपोवानानामपूर्णस्वसंभावनायां तत्पूर्तये
प्रजापतिरूनातिरिक्तयोः प्रतिष्ठेति वेवप्रामाण्यमातिष्ठमानस्येश्वराव्ययस्मरणरूपो ब्रह्मनिर्देश
स्त्रिविधः कर्तव्यतयोपदिश्यते ।
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७॥२३॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ।।१७।२४।।
तदित्यनभिसन्धाय फलं यज्ञ-तप:-क्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङक्षिभिः ॥१७॥२५॥
सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ ! युज्यते ॥१७।२६।।
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७॥२७॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ ! न च तत्प्रेत्य नो इह ॥१७॥२८॥
इति सप्तदशोऽध्यायः॥
८-कर्मसंन्यास-कर्मत्यागयोविवेकपरिज्ञानम् ।
अर्जुन उवाच
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश ! पृथक् केशिनिषूदन
! १८॥१॥
श्रीभगवानुवाच
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥१८॥२॥
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपः-कर्म न त्याज्यमिति चापरे ॥१८॥३॥
निश्चयं शृणु मे, तत्र त्यागे भरतसत्तम! ।
त्यागो हि पुरुषव्याघ्र ! त्रिविधः संप्रकीर्तितः ॥१८॥४॥
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यशो दान तपश्चैव पावनानि मनीषिणाम् ॥१८॥५॥
एतान्यपि तु कर्माणि सनं त्यक्त्वा फलानि च ।
कर्तव्यानीति में पार्थ! निश्चितं मतमुत्तमम् ॥१८॥६॥

आर्षविद्या [ ९५ ९-गुणत्रयवृत्तिभेदात् त्यागविष्यम् । नियतस्य तु संन्यास: कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ।।१८।७।। दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ।।१८।८।। कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन ! । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥१८।९।। न द्वेष्टयकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१८॥१०॥ न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥१८।११।। १०-कर्मयोगिनां कर्मत्यागदोषात् कर्मफलत्रैविध्यम् । कर्मसंन्यासिनां तु कर्मफलोदयाभावः। अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ।।१८।१२।। ११-सांस्यसिद्धान्ते कर्मसिद्धिहेतूनां पाञ्चविष्यम् । पञ्चैतानि* महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ।।१८।१३।। अधिष्ठानं तथा कर्ता' करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥१८॥१४॥ शरीरवाङमनोभिर्यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१८।१५।। तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ।।१८।१६।। यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकान हन्ति न निबद्धयते ॥१८॥१७॥ १२-शानत्रिपुटी-कर्मत्रिपुटीरूपानां षण्णां भावानां कर्मस्वरूपनियामकत्वम् । ज्ञानं शेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८॥१८॥ * कर्मसिदिहेतवः- 'देवम्, 'कर्ता, 'करणम्, " अधिष्ठानम् , ' क्रियाः (पुरुषकारः); यथा टेकेन चशेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्धपति ।

९६ ]
सशीर्षकमूलपाठः
१३-कर्मस्वरूपनियामकेषु ज्ञान-कर्म-कर्तणां प्रत्येकस्य गुणत्रयवृत्तिभेदात् त्रैविध्यम् ।
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१८।१९।।
१४---ज्ञानविष्यम् ।
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् ॥१८॥२०॥
पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥१८॥२१॥
यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥१८॥२२॥
१५-कर्मवैविध्यम् ।
नियतं सङ्गरहितमरागद्वेषतः
कृतम् ।
अफलप्रेप्सुना कर्म यत् तत् सात्त्विकमुच्यते ॥१८॥२३॥
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः ।
क्रियते बहुलायासं तद्राजस-मुदाहृतम् ॥१८॥२४॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥१८॥२५॥
१६-कर्तृत्रैविध्यम् ।
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्धयसिद्धयोनिर्विकारः कर्ता सात्त्विक उच्यते ॥१८॥२६॥
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः॥
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८॥२७॥
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥१८॥२८॥
१७-गुणत्रयवृत्तिभेवान् बुद्धिविष्यम् ।
बुद्धर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु।
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ! ॥१८॥२९॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ ! सात्त्विकी ।।१८।३०॥
यया धर्ममधम्म च कार्य चाकार्यमेव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ! राजसी ॥१८॥३१॥

आर्षविद्या
[ ९७
.
अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ ! तामसी ॥३८॥३२॥
१८-गुणत्रयवृत्तिभेदात् धृतित्रैविध्यम् ।
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ ! सात्त्विकी ॥१८॥३३॥
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ! ।
प्रसङ्गेन फलाकाक्षी धृतिः सा पार्थ ! राजसी ॥१८॥३४॥
यया स्वप्नं भयं शोक विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ ! तामसी ॥१८॥३५॥
१९-गुणत्रयवृत्तिभेदात् सुखवैविध्यम् ।
सुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ ! ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगक्छति ।।१८।३६॥
यत्तदने विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥१८॥३७।।
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत् सुखं राजसं स्मृतम् ।।१८।३८।।
यदने चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥१८।३९।।
२०--गुणत्रयवृत्तीनां सर्वभावानुगतत्वेनोपसंहारः ।
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्रिभिर्गुणैः ॥१८॥४०॥

(६) अत्याज्यकर्मोपनिषत् *१-अधिकारसिद्ध-सांस्कारिक-दैवासुरसंपत्तिनिबन्धनाः स्वभावसिद्धस्वीयगुणकानुबन्धाः । ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप !। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।।१८।४१।। शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८॥४२॥ शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।।१८।४३।। कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ।।१८।४४।। २-दोषवतामपि स्वकर्मणां १) सहजकर्मणां(२) च परित्यागानौचित्यम् । स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः । स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु ॥१८।४५।। यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥१८।४६।। श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्विषम् ॥१८।४७।। सहजं कर्म कौन्तेय ! सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥१८॥४८॥ १-* अधिकारसिद्धसांस्कारिकसंपत्तिनिबन्धनकम्माणि । २-जन्मसिद्ध नैसगिकसंपत्तिनिवन्धनकम्माणि ।

(१) अनावरणकर्मोपनिषत् १-अनासक्तस्य फलवासनाशून्यस्य काम्यकर्मसंन्यासिनः कानुष्ठानेऽपि नैष्कर्म्यसिद्धिः । असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धि परमां संन्यासेनाधिगच्छति ॥१८।४९।। सिद्धि प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे। समासेनैव कौन्तेय ! निष्ठा ज्ञानस्य या परा ॥१८॥५०॥ बुद्धया विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥१८॥५१॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ।।११।५२।। अहंकारं बलं दर्प कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥१८॥५३॥ २-नैष्कर्येण ब्रह्मभूतस्य विदेहावस्थां गतस्य सर्वविधकर्माचरणेऽपि सद्योमुक्तिसिद्धचा परमाव्यय- पदप्राप्त्यानन्दः । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काडक्षति । समः सर्वेषु भूतेषु मद्भक्ति लभते पराम् ॥१८॥५४॥ भक्त्या मामभिजानाति यावान् यश्चास्मि तत्वतः । ततो मां तत्त्वतो ज्ञात्वा विशतं तदनन्तरम् ।।१८।५५।। सर्वकर्माण्यपि सदा कुर्वाणो मद्वयपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥१८१५६।। इति भगवद्गीतोपनिषदि अभिनिवेशक्लेशनिवतिका धर्मबुद्धियोगपरिष्कृता आर्षविद्या समाप्ता ( ४ ) अत्र विद्याचतुष्टयी पूर्णा अथ सर्वविधक्लेशनिवर्तिकानां चतुर्विधबुद्धियोग- विद्यानामुद्धार उपदिश्यते प्रतिसस्वं जीवेश्वरभेदात् संलग्नात्मद्वैविध्यसिद्धान्ते जन्मसिद्धाधिकारसिद्धदैवासुरसंपत्ति- परिष्कृतप्रकृतिवशीभूतेन जीवात्मना स्वसंलग्नेश्वरशरणागत्या तदेकीभावमागत्यतन्नियोगवशी- भूतेन वर्तितव्यमिति परमादेशः ।। तत्र चतसृणां विद्यानामेकैकस्या उद्धाराः पृथक् प्रदर्श्यन्ते (१) तत्र सारोद्धारोपनिषत् १-पूर्वाचार्यपरम्परासिद्ध कर्मविद्याचतुष्टयोपदेशानन्तरमन्ते विद्याचतुष्टयनिष्कर्षे विवक्षिते प्रथम- स्तावद् वैराग्यबुद्धियोगविद्यानिष्कर्षसिद्धाया जीवाव्ययलक्षणस्वात्मनिर्भरताया आदेशः । चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ (१८०५७) मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत् त्वमहंकारान्न श्रोष्यसि विनरक्यसि ॥ (१८१५८) २-अथ आर्षविद्यालक्षणचतुर्थविद्योद्धारस्वरूपे धर्मबुद्धियोगविद्यानिष्कर्षसिद्धायाः प्रकृतिसिद्ध- कर्मकर्तव्यताया आदेशः । यवहारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्येष व्यवसायस्ते प्रकृतिस्त्वां नियोक्यति ॥ (१८१५९) ३-अथ सिद्धविद्यालक्षणद्वितीयविद्योद्धारस्वरूपे ज्ञानबुद्धियोगविद्यानिष्कर्षसिद्धायाः स्वभावसिद्ध- स्वकर्मप्रवणताया आदेशः । स्वभावजेन कौन्तेय! निबद्धः स्वेन कर्मणा । कतुं नेच्छसि यन् मोहात् करिष्यस्यवशोऽपि तत् ॥ (१८।६०) ४-अथ राजविद्यालक्षणतृतीयविद्योद्धारस्वरूपः पुनरैश्वर्यबुद्धियोगनिष्कर्ष सिखाया जीवा- व्ययात्मसंलग्नेश्वराव्ययलक्षणान्तरात्मप्रेरितकर्मकर्तव्यताया आदेशः। ईश्वरः सर्वभूतानां हृदेवोऽर्जुन ! तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रास्तानि मायया ॥ (१८१६१)

१०१ ]
सारोबारः
तमेव शरणं गच्छ सर्वभावेन भारत।।
तत्प्रसादात् परां शान्ति स्थान प्राप्स्यसि शाश्वतम् ॥ (१८१६२)
इति ते ज्ञानमाल्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यतवशेषेण यथेच्छसि तथा कुरु ॥ (१८०६३)

(२) अप उद्धारोद्धारोपनिषत्
१-राजर्षि विडोद्धारस्वरूपो गूढोत्माव्ययपुरुषकनिष्ठतादेशः ।
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥१८॥६४॥
मन्मना भव मभक्तो मघाजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८॥६५॥
सर्वधर्मान् परित्यज्य मामेकं शरणं बज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥१८॥६६॥
इति सर्वविधक्लेशनिवर्तिकानां चतुर्विधबुद्धियोगविद्यानामुद्धारलक्षणो विद्योपसंहारः समाप्तः
।
(२) इदं गीताविज्ञानमयोग्येभ्यो ग्रहीतुमसमर्थेभ्योऽपात्रेभ्यश्च न वक्तव्यम् ।
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥१८१६७॥

फलश्रुतिः (३) अथ गीताफलश्रुत्युपनिषत् (१) भगवद्गीतार्थभावनाप्रवणत्वप्रशंसा। य इदं परमं गुह्यं मद्भक्तेलभिधास्यति । भक्ति मयि परां कृत्वा मामेवैष्यत्यसंशयः ।।१८।६८।। न च तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तम । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१८॥६९।। अध्यष्यते च य इमं धयं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मतिः ॥१८॥२०॥ श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभाँल्लोकान् प्राप्नुयात्पुण्यकर्मणाम् ।।१।७१।। (२) इतिहासप्रकरणे विज्ञानप्रकरगोपसंहारः । कच्चिदेतच्छ तं पार्थ ! त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ! ॥१८१७२।। अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान् मयाच्युत ! । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥१८॥७३॥ इति वैज्ञानिकगीता समाप्ता। अथ इतिहासोपसंहारः। सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥१८७४॥ व्यासप्रसादाच्छ तवानेतद् गुह्यमहं परम् । योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ।१८।७५ :

१०४ ]
सशीर्षकमूलपाठः
राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ।१८।७६
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ।१८।७७
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीविजयो भूतिधुंवा नीतिमतिर्मम ।१८।७८
इति गीता समाप्तिः ।
इति वैराग्य-ज्ञानेश्वर्य-धर्मलक्षण बुद्धियोग-विद्याचतुष्टयी भगवद्गीतोपनिषत् संपूर्णा ।
समाप्तं चेदं विज्ञानभाष्ये शीर्षककाण्डापरपर्यायं मूलकाण्डं द्वितीयम् ।

PRINTED BY M. N. PANDEY AT THE ALLAHABAD LAW JOURNAL PRESS, ALLAHABAD AND PUBLISHED BY THE JAIPUR STATE

No text on this page.

s181:47
m 2666 ve
MADHUSUZAN.
SHRIMADBHAQWADALTA
34432

श्रीमदभ्गवदगिताया

Author
M M Shriigiridharashammrachaturveden
Title
Shriimadabhgavadagitaayaa
File name
श्रीमदभ्गवदगिताया
Text
OCR done
Citation
1995
Published
2004/12/20
Publisher
Shriijayapuraraajy Ilaahaabaada Laa Jarnal Press
Language
Sanskrit
Pages
108
Library
Rashtrapati Bhavan Library
Classification
Literature
Keywords
Siddh
DLI number
477450
Barcode
99999990177828.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
Rights
Not Available
VMLT id
IKs82X5ZoOe
Download PDF

श्रीमदभ्गवदगिताया