Svi-ksri-chennai
Duutavaakayamuu
Front matter
No text on this page.
THE KUPWSWAMI SASTR
RESEARCH INSTITUTE,
MADRAS.
॥श्री॥
दूतवाकमा
(चस्पूप्रबन्धः)
मेल्पत्तूर नारायणभट्टतिरि प्रणीतम ।
प्रसाधकः
म. हरिहरशास्त्री
प्रकाशकः
आर. टी. पिल्लै ।
अनन्तशयनस्थ श्रीधरमुद्रालये मुद्रितम् ।
उर्वेऽधिकाराः अन्य की
स्वायत्तीकता:.
कभी
मूल्यं ५ आप
No text on this page.
क
दूतवाक्यम्
साकं राजा सगभ्र्थैः समयजलनिधि
दुस्तरं साधु
तीवा
निर्मुक्तो वक्त्ररन्ध्राद्विधुरिव तमसो
भासमानो नितान्तं ।
पाणं पार्थात्मजेनाद्भुतभुजमहसा
ग्राहयनुत्तरायाः
सन्तुष्यन् बन्धुवगैस्स ह शमनसुतो
मात्स्यपुर्यां न्यवात्सीत् ॥ १॥
सौभद्रस्य विराटजापरिणये
वृत्ते समं पाण्डवै-
रास्थाने मिळितेषु रामशिनिभू-
पाञ्चालमात्स्यादिषु ।
स्वैरालापकथावधौ स भगवान्
दैत्यान्तकः सौहृदात्
पार्थानां करणीयशेषविषया-
मित्थं बभाषे गिरम् ॥ २॥
. "हा ! धिक्कष्टमिदं सतामपि कथं पापीयसी हन्त! धी- रस्मिन् धर्मसुतेऽपि कस्य रसना दोषं विवक्षेन्मृषा । अस्त्वेवं निजशिष्यवत्सलतया नाऽस्य प्रतिमहे तं दुर्योधनमेव मे धनुरिदं वक्ता शरैरुत्तरम् ॥ ९ ॥ पुंखानामस्तु सन्धिः सुदृढमिह गुणै- नों पुनर्तराष्ट्र! पार्थानां प्रेषितव्यास्प्तमरभुवि शरा एव शाता न दूताः स्नेहालिप्ता कृपाणी निपततु तरसा तेषु नो सामवाणी; भोक्तव्यं वाऽसुजालं ननु रणभुवि तै- धिराज्यं कदापि” ॥ १० ॥ द्रुपद:- 'कामं विग्रहसाध्य एव स रिपुः सामैव कार्य तथा- प्यारंभो मृदुपूर्व एव महतां तीक्ष्णोत्तरो नान्यथा । -
अस्मदूतगिरा च शान्तसमरो-
योगेषु तेषु क्षणा-
दर्थानां सुहृदाञ्च संग्रहमितः
सांग्रामिकं कुर्महे ॥ ११ ॥
तदनुस भगवान् पश्चरात्रपपश्चितः पाञ्चालगिरं तां
वाञ्छानुगुणामभिनन्दनितःपरमपि निजप्रयत्नप्रकाशेन मा-
ध्यस्थ्यदीक्षाभनमाशङ्कमानस्तयोरेव पयोधिगम्भीरचेतसोपा-
ञ्चालमात्स्याधिपयोरधिरोप्य बन्धुकार्यभारं सिन्धुराजमध्य-
गामध्यगानिजामेव नगरीम् ॥
नीतिज्ञो मधुरोक्तिभिः शमयितुं
विद्वेषिणामुद्यम
पाञ्चालः स्वपुरोहितं प्रहितवान्
वेगेन नागाह्रयं ।
पूर्वामन्त्रणकर्मणा वशयितुं
साधारणान् भूपतीन्
मात्स्येन्द्रोपि दिदेश दूतनिवहान्
पार्थानुमत्या जवात् ॥ १२॥
प्रोत्साहिता दूतघनैर्भमद्भिः
प्रत्याशमुद्गीर्णनिदेशतोयैः।
उच्चेलुरुर्वीपतयस्तमाप्तुं
सरित्प्रवाहा इव वारिराशिम् ॥ १३॥
ur
कर्णाटानर्तवंगद्रमिलनिषधकां-
बोजसौवीरभोजा-
न्ध्रारट्टावन्तिकुन्त्यश्मकमगधकलि-
नागपुण्ड्राधिनाथाः।
अन्ये च क्षोणिपालाः क्षपितरिपुबला
मूर्धभिदैरनम्र-
राज्ञां राज्ञो गृहीत्वा समदमुदचल-
त्रुत्सुका युद्धकेल्याम् ॥ १४ ॥
पार्थस्य विज्ञाय चरैः प्रवृत्ति
विसृज्य राजन्यगणाय दुतान् ।
अर्थी स्वयं द्वारवतीमगच्छत्
सुयोधनः सोऽपि सुतो मघोनः ॥ १५ ॥
तदनु तस्मिन् द्वारभुवि निवेशितबले दूरापमृतपौर-
जनकोरकितकरारविन्दवृन्ददन्तुरितोभयपार्थेन मार्गेण सम-
तीत्य सप्तकक्ष्यान्तराणि प्रकटितकपटस्थापत्य कुहनामानुषस्य
भगवतो वासुदेवस्य वासभवनं पविश्य तत्र च शिरोभागनि-
हितमहितभद्रासनमध्यमध्यासीने यानधन सुयोधने, स धन-
ञ्जयोऽपि निभृतमुपगम्य कृताञ्जलिस्तस्य वैकुण्ठस्य चरणोप-
कण्ठे कुण्ठेतरधियां वरिष्ठस्तिष्ठ नेष प्रवोधसमयं प्रभोः प्रति-
पालयामास ॥१५॥
काले तस्मिन् प्रबुद्धः किल मधुमथनो वीक्ष्य तिष्ठन्तमग्रे जिष्णुं व्वावृत्य किश्चित् कुरुपतिमपि तं रत्नपीठे निषण्णम् । तौ सर्वज्ञोप्यजानानिव कृतकुशल- प्रश्न एवं बभाषे किं तादृवकार्यमद्य स्वयमुपगमनात् क्लेशितौ यद् भवन्तौ ॥ १६ ॥ श्रुत्वा तयोरागमनस्य हतु कार्य समं कर्तुभियेष शौरिः। भर्तुः कुरूणां प्रथमागतस्य दृष्टस्य च प्राक पुरुहूतमूनोः ।। १७ ।। कृष्णः "नूनं पूर्वमुपागतः खलु भवान् दृष्टस्तु पूर्व मया जिष्णुस्तत्सदृशी दशेयमिह मे तुल्येऽज मित्रद्वये । योधानां दशकोटयस्तदिह मे नारायणाख्यावतां सन्त्वेकस्य, परस्य चाम्मि सचिवो युद्धे निरस्तायुधः ॥ १८ ॥ :
८
इति वादिनं मधुमेदिनमेव तृतवति कृतधियामग्रेसरे
फल्गुने समुदश्चितकौतुको नागकेतुरपि परिगृह्य तत् परमबल-
मुद्रणभुजबलोद्भटानां भटानां कृतवर्मयुक्तया समस्तभुवन-
विक्षोभिण्या पुनरक्षौहिण्या परिव्रतः स्वमेव नगरमया-
सीत् ॥
निर्यातेऽथ सुयोधने निजकरे-
णालम्ब्य सख्युः करं
प्रोन्मीलन्मधुरस्मिताद्वैतरया
वाचा तमूचे हरिः।
"कार्य किं पुनराकलय्य तरसा
योधानबाधानिमा-
नाधुन्वन्नामतानशस्त्रमाय ! मा-
मेकं वृथैवावृथाः" ॥ १९ ॥
अर्जुन:-
"जाननेव किमद्य मोहयसि मां
देव त्वदेकाश्रयं
किं देवैरपि सासुरैर्मम यदि
प्रत्यर्थिपक्षे भवान् ।
कामं स्यात् बहुरेक एव यदिवा
शस्त्री विशस्त्रोऽथवा
जेतुं त्रीणि जगन्त्यपि प्रभुरहं
सान्निध्यमात्रेण ते" ॥२०॥
INIC KUPPUSWANSASTRY
RESEARCH INSTITUTE
ततस्स तेनार्थितमन्वमस्त
सारथ्यमीशो जगतां त्रयाणाम् ।
समाश्रितानामवनाय कर्म
नीचैरपि स्वीक्रियते महद्भिः ॥ २१ ॥
प्रतिस्प्त तस्यां पुरि वासराणि
द्वित्राणि नीत्वा सह माधवेन ।
लिप्सोर्निजां भूमिमजातशत्रो-
र्ययौ सकाशं विधिनेव यत्नः ॥ २२ ॥
अक्षौहिणीनां महता भरेण
क्षोणीमशेषामपि कम्पयन्तः ।
युयुत्सवः मापतयोऽध्यवात्सु-
विराटकौरव्यपुरोपकण्ठान् ॥ २३ ॥
कौन्तेयपाच महता बलेन
गच्छन् प्रदृष्टः पथि सत्क्रियाभिः।
साह्यं प्रतिश्रुत्य सुयोधनाय
मद्राधिपो मात्स्यपुरीमयासीत् ॥ २४ ॥
स तत्र पार्थ श्रुतमार्गवृत्तं
भूत्वा नियन्ता तनयस्य पूष्णः ।
तेजो निहन्यामिति भाषितेन
सन्तोष्य कौरव्यसकाशमागात् ॥२५॥
१० सुमहति बलषण्डे पाण्डवान् कौरवान- प्युपगतवति पाश्चालेरितस्तत्पुरोधाः । कुरुपुरमभियातः पाण्डवानां बभाषे बलविभवमशेष सन्धिवाञ्छांच चित्ते ॥२६॥ "सप्ताक्षौहिण्य एषां खलु परिमिलिताः सन्ति चान्याश्चतस्रो- ऽप्यक्षौहिण्योऽनपाया नकुलतदनुनौ सात्यकिीमसेनः । उद्रिक्ताः षड्थाश्चेत् पशुहरणरणे दृष्टकमो स एक- स्तेभ्योऽलं सव्यसाची स पुनरतिशय- श्चक्रिणो यत् कृपैषाम् ।। २७ ।। एवं स्थितेऽपि बहुबन्धुवधानुबन्धात् सन्धित्सवो न तु भृशं विजिघृक्षवोऽमी । तच्चिन्त्यतां हितमिति” प्रवदन् गतोऽसौ भीष्यादयः शिशमिषा प्रवगात् प्रसेदुः ।।२८॥ स्नेहान्धो जन्मनान्धोऽप्यथ स कुरुपिता सामभिः साधयिष्यन् पार्थानां शान्तिभाजां पुनरटविगति शीलमेषां प्रशंसन् ।
११
तत्त्वज्ञं नीतिविज्ञं प्रियहितनिरतं
प्राहिणोत् सञ्जयं तं
सोऽपि प्राप्याभितुष्टय बहुविधकुशल-
प्रश्नकारी बभाषे ॥ २९ ।।
"स्नेहाधिक्येन युष्मानुपदिशति पिता
भूतमैत्रीविचारः
शान्तिः शान्तिर्दया चेत्यखिलगुणगणै-
नित्ययुक्ता हि यूयम् ।
आकिश्चन्ये च राज्ये स्फुटमिह तुलया
तोलिते राज्यमुच्चै-
यूंनं प्राहुस्तदर्थं बहुविधदुरितं
को नु कुर्याद्विवेकी ? ॥ ३० ॥
तोयं च
भर्तव्यं स्वशरीरमेव, सुलभं
भोक्तुं यथेच्छं फलं,
शय्याश्चारुशिलातलानि, सरितां
यं
लघु।
साध्यं विश्वमपि स्थिरेण तपसा
तद्भाग्यभाजामहो !
सम्पार्यो वनवास एव नगरी-
वासाद्रीयस्तरः ॥ ३१ ॥
१२ बन्नात्येव हि यत्रयत्र ममतां तत्तद्विषादास्पदं, यस्त्वात्मभरिरेव तस्य गुणिनो राज्यं हि सर्वा मही। तद्वो बन्धुतमस्य पुण्यसुलभ- स्यैतस्य लक्ष्मीपते- हे सौहृदवास एव किमुत श्रेयान् बहूनां वधात्” । ३२ ।। ईदृगिरामफलतावगमात् सलज्ने राजाज्ञयैव खलु शंसति सञ्जयेऽस्मिन् । सर्वेषु च प्रतिविवक्षुषु पाण्डवेषु धर्मात्मजः स्वयमुवाच वचो गभीरम् ।। ३३ ।। धर्मात्मजः "सत्यं प्रेमातिरेकादनुगदितमिदं तेन पित्रा कुरूणां श्रेयानप्येष मार्गो लगति न मनसि क्षात्त्रदोषाकुले नः। सौहादोदेव पूर्व शकुनिरकृत नः किञ्चिदारण्यवासं येन प्राप्तानि तानि त्रिपुरहरवरा - दीनि भूयःफलानि ॥ ३४ ।।
जानास्येव सुयोधनस्य कुनयं
राज्ञश्च तद्वश्यतां
धीमन् ! सञ्जय! तत्
किमीशगिरा?
क्षत्रान्वयोत्था वयम् ।
किन्त्वागांसि सुदुस्सहान्यपि हृदि
क्षन्ताऽस्मि, सन्धि वृणे,
शक्रप्रस्थपुरेऽर्धराज्यभुगहं
प्राग्वत् प्रकल्प्येत चेत् ॥ ३५ ॥
अथवा किमनेकजल्पितै-
वयमेते यदुनायकाश्रयाः।
स वदिष्यति नः क्षमं हितं
निगमः सद्गतिकामिनामिव" || ३६ ।।
कृष्ण:-
"धीमन् ! गावलाणे! मद्वचनमिदमपि
श्रावयान्धं नृपं तं
मन्तूयद्भिः पृथासूनुषु तदपकृतं
ते तनूजैरकस्मात् ।
काकोलाग्निप्रदानादिभिरपि शकुने-
स्तादृशैः छद्मवृत्तै-
स्तत्सर्व वासुदेवे मयि नियतमपा-
कारि नो पाण्डवेषु ॥ ३७ ॥
१४
एतत्तन्मम नापयाति हृदया-
दद्यापि, मध्येसभं
कृष्टा केशभर विकृष्टवसना
दुश्शासनेनाकुला।
"हा कृष्णेति" विदूरवासिनमहो!
कृष्णा भृशं प्रारुद
धन्मां सञ्जय ! किं हतेष्वपि कुरु-
प्वतस्य शान्तिर्भवेत् ? ।। ३८ ॥
राज्ञाऽनुज्ञा वितीर्णा, समजनि मुदितो
मारुतिः सानुजन्मा
क्रुद्धो गाण्डीवधन्वा, वयमपि सुहृदो,
ब्रूहि तत्प्राप्य सर्वान् ।
पुत्रैर्दारैश्च मित्रविहरत मुदितै-
रन्नपानैश्च तृप्ताः
प्रीत्या पात्रेषु चार्थान् विसृजत कुरुत
स्वानि कार्याणि चार्याः || ३९॥
श्रुत्वैवं तर्हि यास्याम्यह"मिति चलितं
सञ्जयं प्राह राजा
"प्रेमाब्धे! तत्र सर्वान् वद कुशलमयं
पाण्डवः पृच्छतीति ।
murrusWAMI SASTRI PRESEARCH INSTITUTI MADRAS-A अन्ते च ब्रूहि दुर्योधनमनयनिधि निर्दयं मुश्च माऽस्मान् ग्रामाणां पञ्चकं वा प्रदिश वितनुमो जीवितं तावताऽपि" ।। ४० ।। व्यक्तार्थं च सुदुःश्रव मधुरम- प्युद्वेगदं तद्वचा, गत्वा नागपुरं व्यजिज्ञपदसौ राशेऽञ्जसा सञ्जयः। प्रज्ञाचक्षुरपि क्षयं निजतनू - जानां विचिन्त्याकुलो निर्निद्रो विदुरेण नीतिविदुरे- णाश्वासितोऽभून्नृपः।। ४१॥ पार्थानां समरोद्योगं श्रुत्वा सञ्जयतस्तदा । दातुं राज्यमयाचन्त कुलद्वास्सुयोधनम् ॥ ४२ ॥ सर्वेषामात्मवन्धूनां निरस्य वचनं हितम् । उदयुक्त रणायैव राज्यलुब्धस्सुयोधनः ।। ४३ ॥
१६. यावद्दौत्यनियुक्तसञ्जयमुखे- नावदितं वञ्चकः पञ्चग्रामटिकाप्रदानमपि ही ! दुर्योधनो नाशृणोत् । तावत् पाण्डुसुताः समेत्य पुनर- प्येकान्तबन्धु हरिं प्रोचुदौत्यविधिं चिकारयिषवः सन्धानबद्धाशयाः ॥ ४४॥ धर्मपुत्रः "युद्धं तैरुचितं तदेव रुचितं चित्त तथापि प्रभो! यावद्धाधमबाधनाय सुहृदां कार्यश्शमाय श्रमः। तत् कञ्जायतनेत्र ! सञ्जयमुखे- नादिष्टमेवाखिलं त्वं दौत्येन समेत्य वर्णय पुनः सवान् कुरून् मे गुरून्" ।। ४५ ।। कृष्ण: "स्थाने धर्मतनूज! ते मतिरियं सन्धानमेतत् पुन- स्साधं मम भाति संभृतरणो- योगेऽद्य दुर्योधने।
१७
-
वास्याम्यद्य वदामि संसदि रिपो-
दोषानदोषांश्च ते..
लोकास्तान् प्रविदन्तु नान्यद मुना
दौत्येन मन्ये फलम् ” ॥ ४६॥
मीम:-
"मैवं केशव ! तत्र रूक्षवचसा
रोष्यस्त्वया कौरवः
सान्त्वैः शान्तिमुपेत्य यच्छतु स न-
स्तुच्छां महीमिच्छया ।
येन स्वं कुलमप्रणाश्य नृपतीन्
नोन्मथ्य वामझुवाः
मण्यप्यनिपात्य भृत्यसमया
वृत्त्यापि वर्तामहे" ॥ ४७ ॥
कृष्णः
"ही ही! हासवशात् सरन्ति न गिरो
धिग्भीम! ते भाषितं
मोः किं किं न करोषि रोषदहन-
ज्वालाकुलस्त्वं पुरा।
अधोरुः किमु वेपते विमृशतो
दौर्योधनी तां गदा
किं दुश्शासनशेणितासवरसे
जातं तवारोचकम्" १ ॥ १८ ॥
- इत्थं निशम्य करुणामृदुतां क्षणोत्यां दूर क्षिपन् झटिति मारुतभूरुदस्थात् । कल्पान्तरुद्र इव विष्टपमट्टहासै- भिन्दन् जगर्न च ससर्जच वाचमेवम् ॥ ४९ ॥ भीमसेनः "को भीरुंकारमाक्रोशति भुवनजुषां भीतिदं भीमसेन? भोस्सम्प्रत्येष हस्तभ्रमितगुरुगदा- घट्टनैर्तिराष्ट्रान् । पिष्टाहं दुष्टदुश्शासनरुधिरजलैः क्रोधवहिं विनेष्ये; सन्धातुं याहि दामोदर ! सरणिमसृक्- सिन्धवो रुन्धतां ते ॥ ५० ॥ प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि- ने तत्रार्यों हेतुर्न च खलु किरीटी न च यमौ । जरासन्धस्योरःस्थलमिव विरूद्धं पुनरपि क्रुधा भीमस्सन्धि विघट्यति; यूयं घटयत ! [॥५१॥ युष्मच्छासनलंघनाभसि मया मग्नेन नाम स्थित प्राप्तानामिह गर्हणां स्थितिमतां मध्येऽनुजानामपि ।
क्रोधोल्लासितशाणतारुणगद- स्यांच्छिादतः कौरवा- नद्यक दिवसं ममासि न गुरु- हिं विधेयस्तव ॥ ५२॥ कृष्णः "अयथापुरभावमार्य । ते परिमाष्टुं परमेतदीरितम् । अभिशाम्यतु सौम्य ! ते मतिः समरं प्राप्स्यसि पञ्चषैर्दिनैः ॥ ५३॥ अर्जुनः मन्ये गोविन्द ! सन्धौ विमुख इव भवान् येन दुस्साधमेनं ब्रूते, सम्यक्प्रयत्नैर्न खलु नयविदा दुष्करं नाम लोके। त्वन्तु त्रैलोक्यकता भवति हि भक्तः काममात्रेण सर्व तत् सन्धौ साधु यत्नं कुरु करुषमति- याचसे ते वयस्य:."५४॥
२०
-
कृष्णः
साधिष्ठोपि.प्रयत्नो विधिशरणकलो
गीष्यतेरप्यवश्यं
यत्नैकव्यापूतानामिह फलविलये
शोकमात्रं विशेषः!
यत्नः श्रेयान् मतश्चद्वद सगरसुतैः
केन नाप्तस्तुरङ्गो
यूयं वा केन बुध्वा पुनरपि पतिताः
कैतवद्यूतपङ्के ।। ५५॥
जिष्णो! जानीहि यत्नान्मम तु न भुवने
दुष्करं नाम.किञ्चिन्
कार्ये त्लास्मिन् करिष्ये ध्रुपहमधुना
मानुषं यत्नमेव ।
नो चेनिश्शेषदोषात्मनि कुरुषों
यत्नतो रक्ष्यमाणे
नश्येत् सर्वेयमुर्वी कथमिह भविता
कारणं वासुदेवः ॥ ५६॥
संवत्सरं परिचिता तव षण्डता सा
यातापि गोग्रहविधौ पुनरागता किम् ।
शोचामि गाण्डिवमहं शरधी च दिव्यौ
वैकर्तनो जयति शस्रभृतां वरिष्ठः ॥५७ ॥
२१ नकुल:- "श्रुतमखिलपते! यत् सांदराणाश्च वाक्यं पुनापि हृदयस्थं किं मया गृहनीयम् । स्वजनवधविरागः सन्धिरागश्च भूयात् मम हृदि कलय त्वं भीरुतां चारुतां वा"॥५८॥ सहदेव:- "नाहं हरे! क्षणमपि स्पृहयामि सन्धि कौरव्यवाक्शरसहस्रविभिन्नमर्मा । लोकानुवृत्तिविधये गुरुभक्तये वा दौत्यं विधेहि ; भगवन् ! न तु सन्दधीथाः" [H ५९ ॥ भगवान् :- "सहदेव ! त्वमेवेह प्रथमः पाण्डुमूनुषु । अयि वीर! चिरं जीव भविता ते रणोत्सरः [॥६॥ अथ तदानी मानिनीजनमौलिरत्नभूता धृष्टद्युम्नतो. दरी पञ्चपाण्डवप्रियतमा पाश्चालराजमियतनया चिरतरसम- विगतदुस्सहपरिभवनिस्सह हृदया मुहुर्मुहुनिरंकुशांकुरितदुश्शा- सनवक्षोविक्षोभणावलोकनौत्सुक्यादिव दिवसस्य शतकृत्वः समयावसानदिवसगणनया कथमपि समापितत्रयोदशसंवत्सरा तत्समाप्तिसमयसम्पाद्यमानसम्पहारोद्यमसैन्यसंमारसम्मतिस- २२ - श्रीतचेताः, तदन्तरे पुनः सन्धित्सापिशाचिकादेशविवशीभाव- विश्लथप्रकृतीनां विश्ववीराणामपि निजवल्लभानां अविज्ञात- निजपरिभवां अवज्ञातस्वप्रतिज्ञां अधरीकृतशौर्याटोपां विधु- रीकृतवैरानुबन्धामतिममृणां तादृशी गिरं नातिदूरनिषण्णा संशृण्वती, अगणितबहुवैरं कौरवैस्सन्धुकाम जिगमिषुमथ कृष्णा कृष्णपाकर्ण्य खिन्ना । विगलितधृतिसारं प्राप्य पार्श्व पतीनां न्यगददुदितरोषावेशलोलां च वाणीम् ॥६१॥ पाञ्चाली- "राज्ञो यत् सहजान्वितस्य सचितं, नित्ते च यत्त मतं, मित्राणामपि सम्मतं तदुचित सन्धानमेवाधुना। वेणीयं करुणानिधे! कुरुसभामध्ये निबद्धा चिरं स्मर्तव्या गुणकीर्तनेषु सुदृदा- मेतावदेवार्यये" ।। ६२ ॥ इति वदन्ती निरन्तरोद्वान्तबाप्पांबुसन्तानखिन्दान- बदनारविन्दा द्रुपदनन्दनामानन्दयन् गोविन्दो मन्दमन्टमबा. दीत ।
. श्रीकृष्णः "भद्रे! पाञ्चालि! वान्छा तव खलु नियतं भाविनी; किन्तु संन्धी सोऽहं यत्नं सपत्नैः कुरुवरकुनय- ध्यापनायैव कुर्वे । वेणीयं गर्भिणी ते सुतनु ! कतिपयै- वासर्या सवित्री वेणीबन्धाननन्तान् दिशि दिशि विमत- क्ष्माभृदन्तःपुरेषु ।। ६३॥ मुग्धे ! पार्षति ! वक्त्रपङ्कजमिदं बाष्पांबुधाराहिमै- मी मा ग्लापय तन्धि ! नन्वयमहं दामोदरस्ते गतिः। यत् सत्यं शृणु पञ्चरयि! दिन- द्रष्टासि दुष्टान् कुरून् भूपृष्ठे पतितान् , प्रियान् पुनरमून् पूर्णप्रतिज्ञाभरान् ॥ ६४॥ इत्थं सत्राशनशात्रवसपत्राकरण सत्राय दीक्षितो भूभारक्षपण- शान्तिकर्ममान्त्रिकवरो मधुरिपुः, अधरितसुधावेण्या वाण्याऽऽनन्दित- पाण्डुनन्दनो दारुकोपस्थापितं रथमारुह्य सशैनेयैर्गणयैः सेनाभटैः सनाथीकृताप्रभागो नागपुरं गन्तुमुदयुक्त ; प्रस्थितं च तमुपास्थि- षत निस्तुषप्रशस्तिशालिनः समस्तलोकदुष्कृततमःस्तोमविशस्तिगम- २४ . स्तिमालिनस्तपस्विनः सनकादय ; हृषीकेशोऽपि तानृपीनच्युतपद- मिच्छ्न् कच्चरेतरचित्तान् उचितैरुपचारैरर्चयिन्वा " श्वः प्रभाते सु- योधनसभायां सन्निधातव्यं भवद्भिः" इत्याभाष्य विसृज्य च सत्यकापत्येन सत्रा चित्राः कथाः कुर्वन् , उर्वीभारभूतोर्वरावरदुर्वारगर्वनिर्धापकदोवार्थसर्वोतर्णिसुत्रामसुतसमास- नसूतभावमहोत्सवं आत्मनानुभाक्ष्यमाणमुत्मध्यान्तरान्तरा सन्तुष्यन् , आवसथेषु च वसुधासुधाशनानां आतिश्यानुपदमाशीर्वादानाददानः, अच्छिन्नभिस्सन्तानाः सवन्तीः सन्तरन, उत्तुङ्गान्यद्रिशृङ्गाण्या- रोहन् , पङ्कजरजःपकिलपरजिनीपयःपवमानपोतापनीताध्वश्रमः, समुदित्वरमहत्तरमहोज्ज्वलकायकांन्तिकन्दलकलिन्दापत्यांभस्संभिन्नन- महाससुरस्रवन्तीजलप्रवाहावगाहनापास्तसमस्तजमतांहस्ततिः को- स्तुभलक्ष्मा हस्तिनपुरोपकण्ठमहास्त, गभस्तिराडप्यस्तगिरिशिर- स्तटीम् । आश्नुवत निश्शेषविश्वम्भरां विहाय शनैश्शनैः काश्मीररो. चिषो रश्ययो हारिदश्वाः शिलोच्चयशिखराणि; एवं समायाते सायाहनि स कंसघाती घूर्णमान घुमधुमित निध्वानबधिरीकृतप्रपञ्चं पाञ्चजन्यमापूरयामास । अनन्तरमम्बुजाक्षकम्बुराजजन्मना अनन्तान्तरालनिरन्तरीभू- तेन तेन बोधितमाधवागमनमुदिता नितरासुदघूर्णत कुरुराज- राजधानी। .
RECIRCH INSTITUTE ततश्चापास्य कुरुकुलोत्पातकेतुं नागकेतुं, पुरस्कात्यः कृत्वा- गमनिष्णातमति विष्णुपदीसूनुं, कौरवपरित्राणोनिद्राणं द्रोण, दामो- दरदर्शन सादरं विदुरं, दुर्वारबाहुस्थामानमश्वत्थामानं, मान्यानन्यांश्च सत्वराः कौरवाः सर्वतः सन्ताडितभेरवापूरितरोदोविवरा महत्या वाहिन्या साद्धं प्रीत्युत्फुल्लदृशः प्रत्युज्जग्मुर्जगन्नाथं ; भक्तिप्रपन्नाः प्रणामादिभिश्चोपाचरन् ; - दाशार्होऽपि तान् यथार्ह मर्हयामास; तदनु तस्मात् प्रदेशात् मन्दहाससुन्दरनिजवदनारविन्दसन्दर्शनकन्दलदानन्दातिरेकमन्दीभूत- गतिभिरमीभिः परितः पौरवपुरं पुरुषोत्तमः प्राविशत् ;. प्रविश्य च क्षत्रा दत्तहस्तो रथादवीर्य रथ्यावीथीमध्यतिष्ठत् । दिक्षचे पौरखधृजनाय मुरारिमाख्यातुमिवापतन्तम् । पुरे पटीयान् प्रतिसोधगर्भ बभ्राम मझल्यमृदङ्गघोषः ।। ६५॥ त्यक्त्वा तदा मण्डनमर्द्धक्लप्तं क्रियासु चान्यासु कृतानपेक्षाः । अभ्रेषु विद्युल्लतिका इवाशु नार्यः पदं हर्म्यतलेषु चक्रुः ॥ ६६ ।। 4
नलिननयनोऽपि तासां कलिन्दनन्दिनीकल्लोलतुल्प-
कुल्याभिर्विलोचनकुवलयमालाभिः सञ्छन्नमूर्तिः समतीत्य
कक्ष्यासप्तकं संभृतमङ्गलोपहारनिकुरुम्बमाम्बिकासूनोः सब
पनापतिः प्रतिपेदे ॥
दृष्ट्वा भीष्माम्बिकेयप्रमुखकुलगुरून
धार्तराष्ट्रस्य गेहं
यातो देवोऽथ तेन छलनिपुणधिया
भोक्तुमामन्त्र्यमाणः।
अन्नं सम्प्रीतिभोज्यं न च खलु मयि सं-
प्रीयसे कौरवेति
क्षत्तुर्गेहं जगाहे हरिरतिकुतुकी
भक्तभक्ते रसा॥ ६७॥
प्रविश्य विश्वार्तिहरः स देवो
दृष्ट्वा पृथां पुत्रवियोगखिनाम् ।
आश्वासयद् द्रक्ष्यसि निर्जितारी-
नल्पैरहोमिस्तनयांस्तवेति ॥ ६८ ॥
कृताहिकस्तत्र कृतार्थभाव-
मासेदुषस्तल्पसमीपभाजः।
रणैषिणां पाण्डुभुवामुदन्तं
शुतुर्वदनेव निशामनैषीत् ॥ ६९॥
क्लसप्रत्यूषकृत्यस्तदनु कुरुपतिः सेवितस्सौबलाद्यै- रास्थानीमात्तभूषो नृपवृषभवृतां प्राप्य देदीप्यमानः । नत्वा गाङ्गेयमुख्यान् निजपितृवचसा तुङ्गमाधिराज- स्कन्धासगी स भद्रासनमलमकरो- दाददे चाऽथ वाचम् ।। ७०।। "हे! भूपाः शृणुतादरादुपगतो दृतः पृथाजन्मनां मायामोहितमूढलोककलित- प्रौढिस्स गोपालकः । प्रत्युत्थास्यतियोऽस्य दास्यति स मे दण्ड्यः सुवर्णान् मितान भारद्वादशकेन शासननिरा- कर्ता जगत्यामिति ॥ ७१।। बालातपप्रेक्ष्यतराम्बरोय- मानन्दिताशेषविलोचनाब्जः। प्राचीमिव प्रातरिनो मुरारि- चित्रवीर्यस्य सभा विवेश ।। ७२॥
२८ आलोक्यैनं प्रतिहतहसम्तैजसा भूमिपाला. श्रेलुः स्थानादगणितमोदीर्णदण्डास्समस्ताः। सावष्टम्भः स च कुरुपतिर्मूढधीः पीठदेशा- द्विभ्रष्टोऽभून्मिपति परितः क्षमापलक्षे विलक्षः [॥ ७३ ॥ स सर्वतोभद्रमिति प्रशस्त- मातस्थिवानासनमम्बुजाक्षः । निष्पन्दसभ्येक्षणलक्ष्यमूर्तिः प्रज्ञादृशं भूमिपति बभाषे ।। ७४ ।। राजन्! कौरववंशकैरवसुधा- सूते ! पृथासूनुभि- इतोऽहं प्रहितो हिताय सुहृदां सन्धित्सुभिस्साम्प्रतम् । मा भूत्वन्मतिरन्यथा तदपथो- धुक्तान् निरुद्धयाधुना पुत्रांस्ते स्वपुरे पुरेव कुरु तान् पाण्डोः सुतानातान् ॥ ७५ ॥ वीरैरूरीकृतैस्तैरुरुभुनविभवैः- मात्स्यपाञ्चालमित्रः
२९
पुत्रैरेभिश्च भीष्माद्यतिरथमथिता-
रातिभिर्वीतवैरैः।
नित्यं त्वत्तोऽभिगुप्तास्त्रसति सुरपतिः
सोऽपि भेदे तु राजन् !
नष्टेष्वेतेषु शिष्टेष्वपि च कांतषांचत्
कोनु लाभो भवेत्ते ॥ ६ ॥
विज्ञापयन्ति च भवन्तमनन्तखेद-
प्रोद्वान्तबाप्पभृतगद्गदरुद्धकण्ठाः ।
दूरावनम्रशिरसश्चिरसोढपीडा-
भारासहा इव नराधिप ! मन्मुखेन
[।। ७७॥
बाल्ये येन विवर्धिताः कृतधिया
पुष्टाः स्वपोषं वयं
वात्सल्यादथ तासु तासु विनयं
विद्यासु च ग्राहिताः ।
वाचा तस्य तवानुभूतविपिन-
क्लेशाश्चिरादागता
भूयस्त्वत्कृपया लभेमहि गही-
मात्मांशभूतामिति ॥ ७८ ॥
३०. तत्सम्प्रति स्वीकुरु तान् प्रवीरां- स्तवोज्ज्वलस्य स्थितये कुलस्य । तदर्थमते च गता नरेन्द्रा निवृत्तकृच्छ्राः प्रतियान्तु देशान् ॥७९॥ नृपस्तमाभाषत, किन्नु कुर्या- मयं सुतो मे न वचः शृणोति । सान्त्वेन दाशाह ! निवर्तयनं कदध्वनः सौहृदनिघ्नचेताः ।।८०॥ उक्तश्च तेनैवमथासुरारि- विकृत्य वक्षो वलमानहारः । एकासनाद्धयासिनि भानुभूना- वुपाश्रितं कौरवमाबमाषे ॥ ८१ ॥ जातस्वं विमले कुले शशभृत- स्त्वामाश्रिता श्रीस्वयं कर्णाद्यैः करदीकृताः क्षितिभृतः कुप्यन्ति तुभ्यन्तु ये । त्वत्तो लब्धसमीहिता हि सुहृदः पृथ्वी तवाऽस्ते वशे त्वय्येवं गुणभाजनेऽप्यपनयो लब्धास्पदोऽयं कथम् १ ।। ८२॥
३१
तत्तादृशं शृणु महत्तव वंशवृत्तं
पूरुद्ददौ नववयः पितुरात्तर्ण्यः ।
त्यक्त्वाश्रमं पितृमुदे तृणवद्दितीयं
देवव्रतोऽयमिह तिष्ठति धीरधीरः ॥८३ ॥
दुडूंतदेवनगुरुस्तव मातुलोऽयं
कर्णस्तु दुर्नयमहार्णवकर्णधारः।
तस्मादयुक्तमनयोरनुवर्तनं ते
पथ्यं न यो वदति भर्तुरसौ हि शत्रु:
[॥ ८४॥
साध दुरन्तैः सचिवोपदेशै-
क्लोभं विसृज्योभयलोकशत्रुम् ।
सङ्गम्य पार्थस्सह सौहृदेन
हतद्विषं भुक्ष्व महीमशेषाम्" ॥८५॥
तावत्सुत व्याहरदाम्बिकयः
"प्रसीद बद्धोऽयमिहाञ्जलिस्ते ।
मन्युज्वरस्यौषधमार्तबन्धो-
इशौरर्वचः पथ्यमिदं पिबति" ॥८६॥
तमूचतु: शान्तनमो गुरुश्च
"क्षेमाय सन्धत्स्व युधिष्ठिरेण ।
चापेषु मास्त्यप्रमुखा रणारे
न सायकान् सन्दधतां नरेन्द्राः ॥ ८७॥
३२
चिराय योगं कुरुपाण्डवानां
निरीक्ष्य राजन्यगणः समेतः ।
प्रमोदजं मुश्चतु वारि नेत्र-
ने शोणितं पार्थशरक्षताः ।। ८८॥
वचांसि लोकः प्रणयोचितानि
शृणोतु तेषां भवतां च दृष्टः ।
निर्धातघोरान् कुपितस्य संघे
समीरपुत्रस्य न सिंहनादान्” ॥ ८९॥
राधासुते इसति काल्पतहस्तताले
दुश्शासने च दृशि सूचितसान्धदोषे ।
सम्प्रेक्ष्य मातुलमुखं प्रहसन् कुरूणा-
मीशोऽपि केशवमुवाच वचो नृशंसः ॥९०॥
"आबाल्याचे विरोधं व्यदधत विविधं
साधुवृत्तेष्वकस्मा-
दप्यमास्वात्तवैरास्सदसि विनिकृता
देवने ते सुदीनाः।
नीता में नीतियोगादहह वनभुवं
भीममुख्यास्त्वदीयाः
प्रायोवृत्तं तदेतत्रिभुवनविदितं
दूत ! जानासिनोवा ॥ ९१ ॥
३३ वृद्धौ लब्ध्वा विराटद्रुपदकुनृपती साम्प्रेतं साह्यकृत्ये मह्यं द्रुह्यन्ति यत्ते किमिह बहुतरं महे हास्यमेतत् । गच्छ त्वं ब्रूहि पार्थान् मयि धरणिरियं सुस्थिरा तत् प्रदास्ये युष्मभ्यं पुण्यलभ्यं रणभुवि निशितैः सायकै कलोकम् ।। ९२॥ भगवान् श्रीमन्नेष भवन्मनोरथतरुः कर्णादिदुर्मन्त्रितै- रुन्मीलत्कुसुमश्रितः शकुनिना कालेऽफलिष्यत् स्वयम् तद्गङ्गाधरमूर्ध्नि मनमुदम जिष्यन्न चेदर्जुन- स्योचण्डाहितषण्डखण्डनकला पाण्डित्यभृद् गाण्डिवम् ।। ९३ ।। दुर्योधनः "द्वै बाह् चरणौ च तस्य नरव तुल्यं मुखाक्ष्यादिकं नद्धं सप्तभिरेव धातुभिरहो गात्रं सगोत्रं जनैः । -
यद्यप्येवमयापि केन सदास
प्रस्तौषि पार्थ मुधा:
राधेयस्य पुरः करिष्यति स किं
क्रोधाज्ज्वलबर्जुनः १" || ९४ ॥
.
"पाञ्चालीवरणोत्सवे रणविधू-
ताखण्डले खाण्डवे
कुहनाकरातवपुषि
त्वद्घोषयात्रान्तरे ।
उग्रे गोग्रहसनरे च विदित-
स्थामा स भीमानुजो
नूनं न श्रुतिगोचरोऽद्य भवतो
येनेदृशं भाषसे ।। ९५ ।।
युक्तं यत्तु युधिष्ठरे विनिकृते
कृष्णावमाने च य-
द्यच्चारण्यनिवासने यदपि ख-
ल्वज्ञातवासश्रमे।
यच्चास्त्रेषु समार्जितेष्वविकलं
यच्च प्रसन्ने हरे
क्रुद्ध यच्च धनञ्जये तदधुना
कौंव नमोस्थति ॥ ९६ ॥
३५ ग्रामाणामपि पश्चकं दिशसि चे- देतावनैवात्मनो वृत्ति कापि विधित्सवः शमपरा वाचन्ति सन्धाममी । दत्वा पित्र्यमुपार्जितं तदधुना राज्यामेभ्यो भवा- नास्तामत्र सुखी न चेदाप भव- निष्कौरवं क्ष्मातलम्" ।। ९७॥ सुयोधनः- "वाचोयुक्त्यैव राज्यं नहि तव सुहृदा पैतृकं स्याद्यदेते कुण्डाः पाण्डौ विमोहाद्विहितमुनिवधे षण्डभावं प्रपत्र । जाता धर्मानिलाखण्डलसुराभिषजा- मात्मजास्तुल्यदार- स्वीकारोद्यत्कलङ्का विपिनभुवममी यान्तु शान्तावलेपाः" ॥ ९८ ॥ कृष्णः "स्वर्यातेऽथ विचित्रवीर्यनृपतौ व्यासोऽम्बिकायाममुं नूनं ते जनयाम्बभूव जनक जातोऽसि तद्गोलकात् । -
३६
--
राज्याईः स कथं तथापि बहुधा
किं कत्थसे त्वं मुधा
वक्तुं तत्र समर्थमुत्तरमलं
भैमी गदा केवलम्" ॥ ९९ ॥
सुयोधनः--
"वक्तव्यं भृत्यवगैर्ननु नियतमिदं
भर्तृवाक्यं यथाक्तं
दृप्तोऽसौ बहबद्धं भयमुपजनयन्
भाषते यत्स्वयं माम ।
प्रत्यक्षं क्षमापतीनां तदयमुपगतो
बध्यतां बध्यतां वा
शक्ताश्चेदेत्य पार्या निजकुनयपथा-
देशिकं मोच यन्तु" || १०० ॥
इत्युक्त्वैव सभातलाद्विचलिते
दुश्शासनाधैस्सम
बाधु बन्धहरं हरि त्रिजगतां
दुर्योधने व्यापते ।
बुध्वा वृत्तमिदं सभी सरभसं
प्राप्तोऽवदत सात्यकिः
"ही ही! साधु चिकीर्षिताऽद्यकुरुभि-
वर्या सपर्या हरेः ॥१०१ ॥
निरुद्यमाः पाण्ड सुता मुरारी बढे भवन्तीति नितान्तमूढाः । त्रिभिः सह.यधृतराष्ट्रसूनु- बन्धुं सतामिच्छति बन्धुमेनम् ॥ १०२ ।। तेनोत्तुङ्गशिखाकलापकपिल- लावलनानलो बध्येताथ सदागतंरगतिता दीयेन पाशैः। किश्चासंम्यतिमिडिलो जलनिधि- लंध्येत दोष्णा सुखं कृष्णोऽयं गतवृष्णयोगिनिवह- ध्येयो निबध्येत चेत्” ॥ १०३ ॥ तदनु ते समाहितमहीपतिवीरपाणिग्राहाः कर्णदुर्योधन- दुशासनशकुनिहतकाः “पुरा किल बाल्यचापल्ये गोपालिकया न बदो सौ "भीमयमलार्जुन'मनहेतुः सञ्जातः ?"? इति पुन- रपि तथा कर्तुकामा ३व नतबन्धहारिणं बलिबन्धकारिण- पमुं भुवनैकबन्धुं निजापनयैरेव केवलमबन्धूकृतं बन्धुमिच्छन्तो भृशं खला विशृंखला अपि कस्तलसज्जीकृतरज्जुश्रृंखला: सज्जनसदासे लज्जाभयविवर्जिताः दुष्कृतरसात् धिक्कृत- धृतराष्विदुरबहुतरनिवारणमायाः, हीरवहाहारवमुखर- मुखेषु सकलसामाजिकेश्वर्थोत्यितेचाप्तीने निर्गन्तुकामेषु नि- रोद्भुकामेषु पार्श्ववर्तिनि दीप्तकोपे सात्यको सात्वतर्षभभूविभ्र. मनिवारिते, निजाक्षौहिणीयुते सभां विविक्षति धृतायुश्वणि- कृतवर्मणि, स्पृष्टमात्रे विष्टरश्राति दुष्टान मून पिष्टपेषं पिनष्मी- ति भीष्मे कृतनिश्चये, शपामि शस्त्रं गृहणामि वेति विको सकृपे संभ्रान्ते च द्रोणाचार्ये, सभाजनानिनवेक्ष्य सभाजनमध्ये समापतितुं प्रारभन्त । तदानी च चिदानन्दमयः पुराणपुरुषः परिषनिषण्म- सकलजननयननवामृतायमानवितायमानकलायमानहरकलेबर- लक्ष्मीः समान्तराले सुमेरुशृङ्गतुङ्गमहासनमध्यमध्यासीनो मगाधिराजः शृगालानिव दुराशयानमून् निरादरदृष्टया निरीक्षमाणः तमोमयानामेषां निवारणायेव निजादनेन्दु- कन्दलितसुन्दरतरदन्ताङ्क्तिकान्तिसन्ततमयवन्दिकामकरं पु- रतः प्रसारयन् “अपि भो सुयोधन ! किमह निस्सहाय इति बन्धुकामोऽसि” इति वदन् किमप्युच्चरुज्नहास । तदनु- तावदेवस्य देहान्झटिति पटुतटिन. कोटिवत्ताडिताक्षः संहारेनिहरुद्रस्फुटनिटिलशिखि- ज्वालजालप्रकाशः।
३९ कल्पान्तरसूगेत्करकिरणसमा- हारघोरः समन्ता- दारुन्धानसभां तां निरपतदतुल: कोपि तेजस्समूहः ।।१०४॥ ततश्च सर्वतो विसमरदावपावकज्वालामालोद्गारिमार- सकशैलशैलिमुद्वहतः सकलप्रपञ्चकुकिंभरोश्वम्भरस्य तत्क्ष- णमेव तत्तदवयवेभ्यः पङ्कजसम्भवशङ्करसंक्रन्दनादिवृन्दारक- वृन्ददनुजमनुजभुजङ्गमरमुखा निश्शेपविश्ववासिनोऽप्यहमह- मिकया समुत्पेतुः। तत्र चास्य फालदेशाच्चतुस्सनकसप्तर्षिनवयोशित- बैखानसषष्टिसहलवालखिल्यायसंख्यमुनिसपारमण्डलिनः कु ण्डिकाक्षसूत्रमण्डितभुजदण्डो हिण्डते स्म पुण्डरीकभवः । रतोऽपि च स्थविष्ठकृशिष्ठदाधिष्ठहसिष्ठकुब्जादिवि- कृतशरीरभूतमे तेपतालपूतनाडापिनीकुष्माण्डाष्टभैरवप्रमुखप्रचु- रप्रमथयूथसहस्रपरिवेष्टितः, अष्टमूर्तिरपि सप्ताकृतिः, संहार- कतोऽपि रक्षां धारयन् , कठोरकुठारशूलशाली महादेवस्तस्य हृदयादुदयाश्चकार । बाहुयुगलादपि वनिकरप्रज्वीलतवनज्वालाजालदी पित, दण्डधरभुनकाण्डताण्डवितचण्डदण्डस्फुटितस्फुलिङ्गोक- रोत्कीर्ण, यादसांपतिहम्पालानुवनिविविधजलचरकुलाकुलं, गन्धवाहागमनसन्धायमानसुगन्धप्रबन्धान्धीकृतदिगन्तरं, यक्षा- धिपानुगतलक्षाधिक यक्षगुहकप्रक्षोभित, षट्पष्टिकोोटिसङ्खय- सुराजनाजनानुनिस्सृतं, निस्सीमगन्धर्वकिन्नरविद्याधरौघविद्यो- तितं, त्रयस्त्रिंशत्कोर्टपधाननिर्नरकुलं निगाग । वदनादहनो, नासाया नासत्यदस्रो, विलोचनाद्विरो- चनश्च, मनसोऽपि घनसारजंबालसम्बांधशीतलीकृतमिव सुव. नान्तरालमारचयनशेषतारकाराजिनीराजितो रराज तारका- राजः। तदनन्तरश्च प्रतिक्षणभक्षितनरमांसप्रक्षरितक्षतजरसो. क्षितरूक्षतराकृतिराक्षसकुलातेक्षुभितपाश्चाः ईश्वीयमानाभि- माना दानवदैतेयभटा लक्षकोटिशो लक्ष्यन्ते स्म । तत्क्षणञ्च च सुरुमारितक्ष्वेलानलो ममीमतरभोगमण्डलोद्गम- शूत्कारमयोकाभिघातोक्लोशितसकललोकं सवासुकि सशेषमप्यशेषमु- समर्प दर्पोद्धतं सर्पकुलम् । अविषश्च तस्य विश्वतोमुखात्तस्थुः सप्तिम्य हस्तिपत्तितत्तदायुधसहस्राभिव्याप्तसप्तर्णिवमध्यवर्तिसमस्तधात्रीपतित्रक समावृताः ससाम्बप्रद्युम्नगदसारणानिरुद्धा अनिरुद्धाः सर्व एत वृष्णि वारभाटाः। दक्षिणबाहोरक्षतवार्यः तिष्ठतिष्ठेति' निष्ठुरवादी कृष्टगाण्डिवः “पाण्डबवीरः प्रोदतिधत् ।। चालतहलमुखनिर्मिनमिव प्रमितमुपलविक्षुण्णमिव मुखवं करि- 'ष्यन् भीमकोपो वामबाहोः कामपालो प्यालोक्यत ।
४१ प्रष्ठतश्चादनिष्ठन् युधिष्ठिरादयश्चत्वारः । बाहवश्च तस्य उग्रतरोधूर्णशङखचक्रगदाशानन्दकादिविविधायुधज्वाला- मालालेलिह्यमानदिक्तटा अनेकशः प्रादुरासन् । सुपर्णश्च तप्तसुवर्णसवर्णस्व पर्णविघूर्णनोदीर्णसामघोष घोषिताश आकाशे प्रकाशाञ्चक्रे । तदानी च भाक्तिभारावनम्राः पामगर्वादयः सर्वे दे- हिनः सकलजगदात्मानं परमात्नानं शक्त्यनुसारेण तत्र सिपे- विरे। ततश्च निबद्धाञ्जलिसमस्तमुनिम्तोमप्रस्तुतविचित्रतर- स्तोत्रनिदैः मधुरतरलास्यसेवाप्रवृत्तसुरनरुणीचरणसज्जित- मणिमञ्जीरम शिञ्जितानुबन्धिगन्धर्वकिन्नरवीणावेणुगीतता- रूप्रणादैः वृन्दारकसन्दाहतदुन्दुभिपटहसम्भूनगम्भीरध्वनिभि- श्रतुर्मुखनतुमुखीसमुन्मिषितब्रह्मयोपैः आनन्दताण्डवोदण्ड- खण्डपरशुकराहीण्डाड.डिमचण्डरवामीळनतण्डमृदङ्गरवानुगतच. ण्डिकागानध्वानैः रुद्रानुचरभूतप्रेतर तापीळकाहर्षवल्गनोद्गत "कहकहिका" रवानुमिळिताष्टभैरवाट्टहामः भगवत् कराश्चित- पाञ्चजन्यस्त्रयमुदीरितधीरनिनदैरपि न केरलं तत्पुरं जनपदो वा भुवनमशेषमपि घोषमयासीत् । तत्तेजोनष्टदृष्टिग्रसरमत इतः कर्णदुर्योधनाद्या भूपाः प्रागेव पेतुः सतु कुपविदुर द्रोणभीष्मादिलोकः।
४४ दिष्टया वीरजनप्रियं परिणतं तावद्रणं दारुणं निर्यान्तु प्रबलैबलैः सह मही- पाला गृहीतायुधाः। पश्यन्त्वत्र पृथाभुवां प्रमाथत- प्रत्यर्थिशस्त्रोत्करा- नखानुग्रतरानुभावभयदान् दर्वीकरप्रक्रमान् ॥ १११ ।। यत् सत्यव्रतभङ्गमीरुजनसा यत्नेन मन्दीकृतं यद्विस्तब्धमपीहितं शमवता शान्ति कुलस्येच्छता। तद्यूतारणिसम्भृतं नृपवधूकेशा- - म्बराक क्रोधज्योतिरह ! महत् कुरुवने यौधिष्ठिरं जम्भनाम् ॥ ११२ ॥ १२॥ अस्य लोकस्य पाठान्तरं दृश्यते । यथा दिष्टया चिरात्परिणतं रणमेव ताव. निर्यान्तु मामिपतयः सह वाहिनीपिः । पश्यन्तु तत्र चारतानि पृथासुताना- मित्यूचिवान् मधुरिपुर्निरगासमायाः ॥
अथ रथवरमश्वैः सैन्यमुख्यैश्चतुर्मि- धृतधुरमधिरूढः क्षत्तरालम्ब्य हस्तम् । अनुगतमखिलं तद्राजकं वारयित्वा परिमितपरिवारः पार्थपार्श्व प्रपेदे ॥ ११३॥ नारायणाभिधमहीसुरवयवक्त्र- जैवातृकामृतझरीनिकरायमाणम् । हृद्यं प्रबन्धमिदमध समाप्तमुद्यद गद्यं समस्तमनवद्यावरानिपद्यम् ।। ११४ ।। दूतवाक्यसमाख्यान निबन्धनमिदं महत् । सम्मतं कृत्स्नविदुषा जीयते जगतीतले ।। ११५ ॥ शुभं भूयात अथ रथवरमश्वैः सैन्यमुख्यैश्चतुर्मि- धृतधुरमधिरूढः क्षत्तरालम्ब्य हस्तम् । अनुगतमखिलं तद्राजकं वारयित्वा परिमितपरिवारः पार्थपार्श्व प्रपेदे ॥ ११३॥ नारायणाभिधमहीसुरवयवक्त्र- जैवातृकामृतझरीनिकरायमाणम् । हृद्यं प्रबन्धमिदमध समाप्तमुद्यद गद्यं समस्तमनवद्यावरानिपद्यम् ।। ११४ ।। दूतवाक्यसमाख्यान निबन्धनमिदं महत् । सम्मतं कृत्स्नविदुषा जीयते जगतीतले ।। ११५ ॥ शुभं भूयात