Svi-vmpl-machilipatnam

Raaghavanaishhadhiyamu

Shriiharadattasuri

PDF Proofread

Front matter

No text on this page.

KAVYAMÂLÂ. 57.
THE
RAGHAVA-NAISHADHIYA
OF
HARADATTASÛRI
WITH HIS OWN GLOSS.
EDITED BY
PANDIT SIVADATTA
Head Pandit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KÂSÎNÂTH PANDURANG PARAB.
PRINTET) AND PUBLISHED
BY
TUKÂRÂM JÂTAJÍ,
PROPRIETOR OH JAVAJI DÂDavi'S "NINAYA-SAG HEA" PRESS,
BOMBAY
1896.
Pier! Hyre.

(Registered according to act XXV. of 1867.) (All rights reserved by the publisher.)

a काव्यमाला. ६७. श्रीहरदत्तसूरिविरचितं राघवनैषधीयम्। स्वोपशव्याख्यासमलंकृतम् । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपापाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधितम् । मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः।) मूल्यमों रूप्यकः

No text on this page.

काव्यमाला। श्रीहरदत्तमूरिविरचित राघवनैषधीयम् । खोपज्ञव्याख्यासमलंकृतम् । प्रथमः सर्गः। अभिवन्ध परात्मानं गुं गिरं च गुरूनपि । विवर्वरी मि श्रीरामनैषधीयं निजं हरः ।। विशिष्टशिष्टाचारपरम्पराप्राप्तश्रुतिमूलकशिष्यशिक्षादक्षमाङ्गलिकोद्दामसमुच्चयबीजक- श्यपावतारभगवत्पितृचरणोच्चारणरूपमङ्गलाचरणं पौरस्त्यपुण्यश्लोकस्तवनद्रढिमग्रन्थकारः पर्यगुम्फीत्- दशरथ इति नाम्ना वीरसेनः क्षितीशः क्षितितलविबुधानां वन्दथुः प्राग्बभूव । गुरुकविबुधजोषः सामृतो नारदाब्यः सति नरपतिरत्ने मर्त्यलोकोऽप्यनाकीत् ॥ १ ॥ ननु मङ्गलस्य कियद्धात्वं भवतीत्यपेक्षायामाह-आशीर्नमस्क्रिया वस्तुनिर्देश इति त्रिधा । अत्र वस्तुनिर्देशात्मकं मङ्गलं वितायते । अत्र पद्ये मालिनीवृत्तम् । मनौ मित्रे इति नगणस्य । मित्रत्वम् । नातः परमसौख्यकृदतो न द्वयप्रक्षेपः । 'दो धः सौख्यम्' इति श्रीनारायणभट्टारिकायां दकारस्य पूर्वन्यासः । पैङ्गलादा- हृत्य व्याचष्टे सः । अवर्णात्संपत्तिर्भवतीति अकारव्यामिश्रदकारपाठः । किमेतावता १. अयं हि हरदत्तसूरिगर्गगोत्रोत्पन्नजयशंकरात्मज आसीदिति चरमपद्यतोऽवगम्यते. देशकालौ तु न ज्ञायेते. तथापि वैय्याकरणसिद्धान्तकौमुदीप्रणेतृश्रीभद्योजिदीक्षितस्य नाम्नो 'दीक्षिताः' इति पदेन लेखस्योपलम्भात्ततोऽर्वाचीन इति तु गम्यते. २. अस्य च का- व्यस्य पुस्तकमेकमेव श्रीकश्मीरनरेशपुस्तकालयतः पञ्चनददेशीयविश्वविद्यालयाध्यक्षवि- द्वद्वरश्रीयुतस्दैन ( Dr. M.A. Stein ) महाशयानामुद्योगेन प्राप्तम्. पुस्तकलि- खनकालस्तु-'आकाशान्नायाद्रिचन्द्रे (१७४०) शके कृष्णत्रयोदशीन्युते भौमर्कनक्षत्रे ह्यलिखत्प्रेमवल्लभः । इति स्फुटमेव लिखितः.

or काव्यमाला प्रयासेनेति चेत् । 'अक्षरे परिशुद्धे तु नायको भूतिमृच्छति' इति ग्रन्थकृत्परमफल- प्राप्तिः, आनुषङ्गित्वेन श्रोतॄणां पाठकर्तृणां च फलातिशायनं बोभवतीति । प्राक् दशरथ इति क्षितीशो बभूव । कथंभूतः । वीरसेन: वीा सेना यस्य सः । 'शूरो वीरश्च विक्रान्तः' इत्यमरः । त्रिलिङ्गोऽयम् । 'गोस्त्रियो:-' इति ह्रखः । 'स्त्रियाः पुंवत्' इति पूर्वस्य ह्रख(पुंब)त्वम् । 'शूरं वीर विक्रान्ती' चौरादिको धातू । पचा- द्यच् । 'पृतनानी किनी सेना' इति शब्दार्णवः । रणानिवर्तिनी सेनेति ध्वनितम् । तथा स्मृतिश्च -'द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिवाद योगयुक्तश्च रणे वाभिमुखो हतः ॥' बभूवेत्यत्र वा पदान्ते' इति गुरुत्वम् । पुनः कथंभूतः । क्षितितल- विबुधानां वन्दथुः । क्षितितले विबुधा इव ब्राह्मणाः । 'आश्रमोऽस्त्री द्विजाल्यग्रजन्मभूदे- ववाडवाः' इति कोशः । रूपकालंकारः । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति समासः । तेषां विप्राणां वन्दथोनमस्कारकर्ता स्तोता च । 'वदि अभिवादनस्तुत्योः इति अर्थद्वयनिर्देशात् । 'शीशपिरुगभिवन्दिजीविप्राणिभ्योऽथुः' वन्दतेरनेन सूत्रेणा- थुप्रत्ययः । यदा कर्तरि तदा स्तोता नमस्कर्ता च ज्ञेयः । यदा कर्मणि तदा स्तुत्यो न. न्तव्यश्चेति भावः । कर्मणि षष्ठी । क्षि निवासगत्योः । क्षियन्ति भूतान्यस्यामिति संज्ञायां क्तिन् । वयोरूपादीनां न हि सर्वेषां नम्रत्वं जायते इति विशेषोक्तिरलंकारः । साकूतस- विशेषणत्वात्परिकरश्च । विबुध इति । 'इगुपधज्ञाप्रीकिरः कः' इति कप्रत्ययः । कृद्हणे गतिकारकपूर्वस्यापि ग्रहणम् । पुनः कथंभूतः । गुरुकविबुधजोषः । 'कृग्रोरुच्च' इति कु- प्रत्ययः । गृणाति हितं शिष्यायेति गुरुः । गुरुश्च कविश्च विबुधश्चेति द्वन्द्वः । जोषणं जोषः । तेषां जोषणं यस्य स इति बहुव्रीहिः । 'जुषी प्रीतिसेवनयोः' । 'हलच' इति घञ् । कर्तरि कप्रत्ययप्रसङ्गात् । गुरुर्वशिष्टः, कविर्वाल्मीकिः, बुधः पण्डितजनः । जा- त्याख्यामेकत्वम् । तेषां नित्यसेवकः । पुनः कथंभूतः । सामृतः। अमृतेन सह वर्तत इति सामृतः। 'बोपसर्जनस्य' इति सहस्य सः । अमृतं विघसो यज्ञशेषभोजनशेषयोः' इत्यमरः । 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते' इति मेदिनिः । यज्ञशेषभुगिति तात्पर्यार्थः । पुनः कथंभूतः । नारदाढ्यः । नराणां समूहो नारम् । तस्य समूहः' इत्यण । तस्मै ददतीति नारदा दानशौण्डास्तै: सभायामाझ्यो युक्त इत्यर्थः । यत्सर्वास्थानसभायां महोदारा एव प्रिया आसन् । न तु कृपणाः । नामग्रहणस्यापि तेषां धर्मशास्त्रे निषिद्धत्वात् । 'आत्म- नाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठपुत्रकलत्रयोः ॥ इति स्मृतिः। तस्मिन् नरपतिरत्ने सति मर्त्यलोकोऽप्ययमनाकीत् । 'रत्नं खजातिश्रेष्ठेऽपि बले सलिलकानने' इति तार्तीयकवचनम् । नाक इवाचारीत् । 'सर्वप्रातिपदिकेभ्यः विप् वा वक्तव्यः' इति क्किए । 'सनाद्यन्ताः-' इति धातुत्वम् । लुङ् । न हि मर्त्यलोकस्य वर्ग- साम्यं जातु भवति वैधात् । तत्रत्यानां साधय सत्युपमा घटते । व्यतिरेकश्च कुतः स्यादिलाशङ्कायामाह-श्लिष्टविशेषणमाहात्म्यात्वर्गस्य साम्यं भवत्येव । खर्गे गुरुर्ब्रह- हस्पतिः । कविः शुक्राचार्यः । बुधो ग्रहश्चान्द्रिः । अमृतपानं तेषाम् । नारदो देवर्षिरपि १ सर्गः] राघवनैषधीयम् । ३ तत्र विजृम्भते । एवमत्रापि सर्व ध्रियते । एवं सति खर्गसामग्रीसाकल्यव्यवच्छेदा- भावाद्दशरथे सति शब्दश्लेषोपमालंकारो विलसतीति विदांकुर्वन्तु सहृदया: । 'वादेलोपे समासे सा कर्माधारक्यचि क्यडि । कर्मकोंर्णमुल्येतद्धिलोपे क्विय् समासगा ॥' इति काव्यप्रकाशे निरूपितम् ॥ इदानीमत्रैव पद्ये चमत्कारधारामपारी वर्षन्ती नलकथामपि कविरवातीतरत् । एवं सर्वत्राग्रे बोत्तरिष्यति क्रमेण ।नलपक्षे इति योजबिका-प्राक् वीरसेन इति क्षितीशो वभूव । प्राक् कृतयुगे। नाम्नेति 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । नायतेऽभ्यत्यते इति नाम । 'नामन्सीमन्-' इत्यादिना सूत्रेण निपा- यते । वीरसेननामा नलस्य पिताभूत् । क्षितेरीशो राजा । कथंभूतो वीरसेनः । दश- रथः दशसु दिक्षु रथोऽव्याहतो यस्य स इति वहुव्रीहिः । यद्वा 'दशि दर्शनाङ्कनयोः' इ- त्याकुस्मीयो धातुः । दसेत्येके । शसयोरभेदादलंकारशाख्ने । दश: शत्रुदंशको रथो यस्य स इति बहुव्रीहिः । दसेः पचायच् । 'अनिलण्यन्ताश्चरादयः' इत्युक्तत्वात् । यद्वा 'ते- नातिकामति' रथेनातिकामति रथयति दशानां दशकानां कुटिलानां रथेनातिकामक इत्यर्थः । दशानां ज्ञानकर्मेन्द्रियाणां रथः प्रवर्तक इव मनसः सारथित्वात्प्राधान्यम् । साक्षान्मनोरूप इवेति रूपकम् । यद्वा दानं दः। घअर्थ कविधानम् । दानं रक्षणं वितरणं वाश्यन्ति ऋशयन्ति इति दशा दैत्यराक्षसाः । तद्वधको रथो यस्येति धर्मगुप् इति फ- लितोऽर्थः । देङ् रक्षणे । डुदाञ् दाने । द्वौ धातू वर्तेते यतः । तथा गुरुः सुमतिः, जातूकोऽभूदस्य कविः,वुधः शास्त्रव्याख्याता पण्डितस्तेषां जोषः सेवनं यस्य स इति । नलपक्षेऽप्यन्यत्समानमिति ।। रामोऽभिरामः सनलः प्रतीतः पुत्रोऽभवत्तस्य सुसत्यसंधः । सलक्ष्मणः सद्भरतः सशत्रुहा चतुर्विधत्वं गतवानिवैकः ॥२॥ तस्य रामः पुत्रोऽभूत् । कथंभूतः । सलक्ष्मण: सद्भरतः सशत्रुहा । ह आश्चर्यम् । वेति निश्चये । 'वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये' इति विश्वः । एकः । 'एकमे- वाद्वितीयं ब्रह्म' इति श्रुतिः । रामहृदये 'रामं विद्धि परं ब्रह्म' इति वचनात्परमात्मलम् । व्यासवाक्यानां शिरोधार्यत्वात् । चतुर्विधत्वं गतवान् । ब्रह्म मायाशवलं जगदुपादान- कारणम् इति वेदान्तिराद्धान्तः । 'न घटत उद्भवः प्रकृतिपुरुषयोरुभययुजा भवन्त्य- सुभृतः' इत्यादि वेदस्तुतिवचनं च । एवं सति आत्मानं व्यूकिं चतुर्धास्थादिति भावः । वास्तवमेकत्वं गतोऽपि भगवानवतारं कल्पयन् भूभारहरणार्थ तावद्वा ददृशे । कथंभूतो रामः । अभिरामः सुन्दरः । 'नैगमौ द्वौ, बले रामो नीलचारुसिते त्रिषु' इ. त्यमरः । अभिः परितोभावे वर्तते । पुनः कथंभूतः । सनल: । 'षणु दाने' तानादिकः । षः सः । सन्वन्ति विप्रेभ्यो ददति हिरण्यं ये ते सनाः । पचाद्यच् । आकृतिगणत्वात् । तान् लाति स्वीकरोतीति संभावनायाम् । सनल: । आतोऽनुपसर्गे कः । यद्वा । सनिर- ध्येषणासत्कारपूर्वको गुर्वादिव्यापारः । सनिं कुर्वन्ति सनयन्ति ते सनाः टिलोपः । तान् १. रामपक्षे 'गतवान्ह वैकः' इति मूलपाठः प्रतीयते.

OC काव्यमाला। लाति गृह्णाति इति तादृशः । उदारप्रिय इति भावः । पुनः कथंभूतः । प्रतीतः । 'ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे जने' इति कोशः । ख्यातो दिक्षु लोकत्रये । पुनः कथंभूतः । सुसत्यसंधः । अतिशयेन सत्यसंधः सत्यप्रतिज्ञः : 'संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा' इति तायिके । 'खत्यतीव च निर्भरे' इति च । 'रामो द्विर्नाम भाषते' इत्यध्यात्मरामायणे । अन्यसत्यवद्य(क्त)वैलक्षण्यं ध्वन्यते सुशब्देनेति बोध्यम् । पुनः कथंभूतः । सलक्ष्मण: लक्ष्मणसंज्ञभ्रातृसहितः । पुनः कथंभूतः । सद्भरतः प्रशस्त- भरतभ्रातृक इत्यभिप्रायः । सन्भरतो यस्य स इति बहुव्रीहिः । पुनः कथंभूतः । सश- त्रुहा शत्रुघ्नभ्रातृसहितः । 'वोपसर्जनस्य' इति सहस्य सः । गुरुरेव प्रीणन् एवं गुणवतां तेषां निरूप्य तादंशि नामानि चकारेत्यर्थः । दशरथस्य लोकपाला इव चत्वारः पुत्रा अभूवनित्यर्थः फलितः । रमु क्रीडायाम् । 'अकर्तरि च कारके संज्ञायाम्' इत्यधिकरणे घञ् । पद्मपुराणे-'रमन्ते योगिनो ह्यस्मिन्नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ इति । काश्यां तारकोपदेशमन्त्रोऽप्ययमेव बोध्यः । भगवानपि य. त्पुत्रत्वमङ्गीचक्रे तस्य दशरथस्यापि गुणवत्तां वर्णयितुं पारयेदित्यपि ध्वन्यते । 'इदमु. त्तममतिशयिनि व्यङ्गये वाच्याध्वनिर्बुधैः कथितः' इति भरतर्षिसूत्रं साक्षादेवंरूपमुत्तमं काव्यम् । रसानुगुणा एव वर्णा गुम्फिताः ॥ नलपक्षे इत्थम्-तस्य वीरसेनस्य नल: पुत्रोऽभवत् । त्यदादीनां बुद्धिस्थपदार्थपरमर्शकत्वात् । 'तस्येदम्' इलादि ज्ञापकात् तच्छब्दः प्रसिद्ध्यर्थकः । त्रैलोक्ये प्रसिद्धः । 'प्रक्रान्तप्रसिद्धानुभूतार्थस्तच्छब्दो यच्छ- ब्दोपादानं नापेक्षते' इत्युक्तं काव्यप्रकाशे । कथंभूतः । रामः । 'रः पावके च तीक्ष्णे च राः स्मृतः वर्णवित्तयोः' इति विश्वः । रं पावकममति सेवत इति रामः । सदाहिता- निरिति तात्पर्यार्थः । 'अम गत्यादिषु' । 'गतेः परयोः शब्दसंभक्त्योरादिशब्देन ग्रहः' इति दीक्षिताः । अमतेः पचाद्यच् । पुनः कथंभूतः । अभिरामः सुन्दरोऽत्यर्थं प्रतीतो हसन्मुखः । 'ख्याते हृष्टे' इति कोशे तथा दर्शनात् । 'प्रतिपूर्वादिणः कर्तरि क्तः। 'सं- पूर्वाद्धात्र आतश्चोपसर्गे' इति कर्मण्यङ् । 'लक्ष्मीवांलक्ष्मणः श्रीलः' इत्यमरः । अमात्यादि- मिर्लक्ष्मीवद्भिर्युक्तः इत्यर्थः । पुनः कथंभूतः । सद्भरत: बिभर्तीति भरः । 'डुभृञ् धा- रणपोषणयोः' । तस्य भावस्त्वतलौ । प्रकृतिजन्यबोधप्रकारस्त्वाद्यर्थः । सतां साधूनां पोषकता यस्य स इति बहुव्रीहिः । उपसर्जनबखत्वम् । 'आपोऽन्यतरस्याम्' इति विक- रुपस्तु कप्येव । असाधुपोषकत्वं धर्मशास्त्रे प्रत्याख्यातम् । तथा च योगीश्वरः-भक्ता- वकाशाग्न्युदकमन्त्रोपकरणव्ययान् । दत्वा चोरस्य वा हन्तुर्जानतो दम उत्तमः ॥' इति। अत एव 'अदान्तान् दमयेत्' इति गौतमस्मृतिः । शिष्टपालनं च दुष्टनिग्रहमन्तरेण न संभवतीति विज्ञानेश्वरः । सर्वत्र सभङ्गाभङ्ग शब्दश्लेषोपमालंकारः । केषुचित्पदेषु प्रकृ- तिप्रत्ययश्लेषः । शास्त्रान्तरसंवादित्वेन निर्दूषणत्वं सर्वम् । साकूतविशेषणत्वेन परिकरश्च। संसृष्टिरर्थालंकारी या रसध्वनिश्चात्र वोध्यः । एकोऽपि नलो लक्ष्मणादिभेदत्रयमवगाह्य चतुर्विधत्व प्राप्तवानिवेत्युत्प्रेक्षालंकारः । 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति १ सर्गः] राघवनैषधीयम् । भरतसूत्रम् । इवशब्दोऽत्र व्यजकः । उपजातिच्छन्दः । त्रिष्टुब् जगतीसांकर्यात् । 'पुंनामनरकात्राणात्पुत्र इत्युच्यते' इति पुत्रशब्दव्युत्पत्तिः । 'पुनातीति वा पुत्रः' इति भाष्यकाराः श्रीशब्दशनस्येति दिक् । 'भ्रातृपुत्रौ स्वमृदुहितृभ्याम्' इति सूत्रं यदा भगवान् व्याचष्ट 'विभतीति भ्राता, पातीति पिता, मान्यत इति माता, पुनातीति पुत्रः' इति ॥ सद्वृत्तसर्वकषयुद्धशौण्डहिंसीरदपर्णोद्धरणाय धात्रा । धात्रीप्रतोषाय समभ्युदायि क्षोणीतले सद्दयनः स एकः ॥ ३ ॥ धात्रा क्षोणीतले स एकः समभ्युदायि । 'डुधाञ् धारणपोषणयोः' । दधाति प्रजाः पुष्णातीति धाता तेन पृथिव्यां स प्रसिद्धः । श्रुत्यादिषु एकः । 'एकमेवाद्वितीयं ब्रह्म' इति श्रुतेः । अद्वितीयश्चिदात्मा भगवान् रामः । समभ्युदायि। प्रकटीकृत इत्यर्थः । स- म्यक् समीचीनविचारेण समभिपूर्वादयतेः कर्मणि चिण् । उदयमानं प्रेरितवान् सत्प्रेरि। कर्मणि लुङि । 'गत्यर्थाः प्राय उत्पूर्वा उदयार्थाभिधायकाः' इति भट्टमल्लकोशे उक्तम् । अत एव 'उदयति विततोवरश्मिरजौ' इति माघः । किंभूतः सः । सद्दयनः । 'दय दानगतिरक्षणहिंसादानेषु' । भावेल्युट् । सतां दयनं रक्षा यस्य सः । परमकारुणिक इत्यर्थः । कस्मै प्रयोजनाय । सद्वृत्तेत्यादि । सत्प्रशस्तं वृत्तं चरितं येषां ते सद्वत्ताः सा- धवस्तेषां सर्वकषा बाधकाः सूचकत्वात् । 'सर्वकूलाभ्रकरीषेषु कषः' इति खशि मुम् । 'सर्वकषः खलः' इति दीक्षिताः । सूचनं हि प्राणवियोगानुकूलव्यापारानुकूलत्वादिसैव । ताडनादिवधान्ता हिंसैव । तथाविधाश्च युद्धशौण्डहिंसीराश्च संग्रामप्रवीणाः । सतां हिं- सका ये रावणादयस्तेषां दोद्धरणाय अहंमदध्वंसाय । हृञ् हरणे । उत्पूर्वोऽयं हरति- रुत्पाटने वर्तते । तादयें चतुर्थी । पुनः प्रयोजनान्तरं विशिनष्टि-धात्री पृथ्वी नि:- खाध्यायवषट्कारत्वात्पातकपीडिता भारायमाणा दैत्यैस्तस्याः प्रतोषाय अत्यन्ततोषाय प्रादुर्भावं प्राप्तः । 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥' इति गीतासु । तादर्थेऽत्रापि चतुर्थी । 'वृत्तं पद्ये चरित्रे च'। 'शौण्डो दक्षः प्रवीणः स्यात्' इति हैमः । 'हिंसीरो व्याघ्ररसो(दुष्टयो):' इति रभसः । 'हिंसेरीरन् । 'एके मुख्यान्यकेवलाः' इत्यमरः । ण्यन्तात्तुषेरेरच् । उपसर्गद्योतकत्वम् । अनन्यसाधारणत्वं रामस्यैतावता व्यज्यते । रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तः' इति नारायणविषयिणी रतिरत्र व्यङ्ग्या सर्वत्रावसेया ॥ नलपक्षे- एवासद्दयनः स एको मुख्य इति विशेषः । असत्सु तमःस्वभावेषु दयनं हिंसा यस्य स इति बहुव्रीहिः। दय दानगतिरक्षणहिंसादानेषु' । शेषं समानमत्रापि प्रतिपत्तव्यम् । गृहे तिष्ठतामपि तमःखभाव विविच्य युद्धशौण्डत्वे सति तिरस्कारकत्वमभूदिति भावः । एवं च पौनरुक्त्यं कुत्रापि न शङ्कनीयम् । उपेन्द्रवजेन्द्रवज्रयोरेवानोपजातिकत्वम् । उप- जातिच्छन्दोऽत्र॥ । AMIN काव्यमाला । निर्वृत्तचूडादिक एष रूप्यः पुरोधसा शास्त्रनिरुक्तवर्मना । शिखण्डकी पर्यरमद्वयस्यैरस्वद्वयस्यं चरितं न्यशाम्यत् ॥ ४ ॥ एष वयत्यैः सह पर्यरमत् । एष रामः उत नलः वयसा तुल्या वयस्याः । 'नौवयो-' इत्यादिना तुल्यार्थे यत् । 'वयस्यः स्निग्धसवयाः' इत्यमरः । तैः स्निग्धैः सह । सह- योगं विनापीह सहाथै तृतीया प्रतिपत्तव्या। 'वृद्धो यूना' इति निर्देशात् । पर्यरमत् । 'व्याङ् परिभ्यो रमः' इति रमेः परस्मैपदं बोध्यम् । इतस्ततो व्यलासीत् । किंभूत एषः । रूप्यः प्रशस्ताकारवान् । 'रूपादाहतप्रशंसयोः' इति यप् । 'रूप्यः प्रशस्तरूपे स्यात्' इति धरणिः । पुनः कथंभूतः । पुरोधसा वशिष्ठेन, सुमतिना वा शास्त्रे निरूपितं यद्वर्त्म मार्ग- स्तेनैव निर्वृत्तं चूडादिकं कर्म यस्येति वहुव्रीहिः। शेषाद्विभाषा' इति कप् । 'चूडा कार्या यथा कुलम्' इति योगीश्वरः । विद्यारम्भादय आदिशब्दोपादेयाः। पुनः कीदृशः । शि- खण्डकी । काकपक्षः शिखण्डकः । 'अत इनिठनौ' इति मत्वर्थीय इनिः । पुनरेषः । अस्वत् स्वीय इवाचरत् अस्खदित्यर्थः । य एव ददर्श स एवाहंमतोऽस्मीति हार्दात् अपि च एष द्वयस्यं चरितं न्यशाम्यत् । द्वयं द्रुतमार्ग स्यन्ति नाशयन्तीति द्वयस्याः साधवः तेषु योग्यं द्वयस्यं वेदान्तविषयावच्छिनचरितं न्यशाम्यत् शुश्राव। 'निशाम्यतीति श्रवणे घ्रातौ जि- घ्रति शिकति' इति भट्टमल्लकोशः । निपूर्वकस्य शमे: श्रवणार्थकत्वम् । योगवाशिष्ठरामायणे वेदान्तचर्चाश्रवणं गुरुणा वर्णितं रामं प्रति। तत्रापि सुमतिः कृतयुगे नलं प्रति वर्णयांचके पुण्यश्लोकस्तेनाभूदिति ज्ञेयम् । यद्वा स्वः प्रमाणमेषां खद्वयसाः । प्रमाणे द्वयसच् । न खद्वयसाः अखद्वयसाः । तत्र साधुः अखद्वयस्यम् । कौमारपौगण्डयोरपि अवस्थयोः स्थविरचरितमेव श्रोतुकाम आसीदिति विशेषोक्तिरलंकारः । अभङ्गोपमासंसृष्टिः। अद्भुतो रसः। वयोरूपविभूतीनां मदकारणता भवत्यन्येषाम् । अनयोस्तु प्रहत्वं जातमिति भावः । जगतीभेदेन सहोपजातिरियम् । पुरोधा अपि अन्वर्थ एवासीत् । कति पुरो- धसो दुर्वृत्ता अपि भवन्ति माघमाहात्म्यादिप्रसिद्धाः । इदं ध्वनयितुं शास्त्रनिरुक्तेति विशेषणम् ॥ सगाधिसूनूक्तिसमर्हणोऽगाटाग्दर्शनं क्षोणिसुपर्वणां तत् । सिद्धास्पदं देवनदीभुवं च सरित्सरः प्रस्रवणानि वुन्दन् ॥ ५ ॥ स द्राक् क्षोणिसुपर्वणां तद्दर्शनमगात् । दाशरथे: पक्षे-स रामो द्राक् शीघ्रं क्षोणि- सुपर्वणां भूदेवानाम् । विप्राणामिति यावत् । दर्शनं नयनविषयमगात् प्राप्तवान् । विश्वामि- श्रेण पथि नीयमानस्तांस्तानृषीन् पश्यन् तत्प्रसिद्धमित्यर्थः । यद्दर्शनं दुर्लभतरं तद्दर्श- नम् । कथंभूतः सः । गाधिसूनूक्तिसमहणः । यज्ञविघातशान्तये दशरथं याचितवान् । यदा तर्हि स्वयमेव दशरथसंतापं दूरीकृत्य विश्वामित्रमहयांचके । गमिष्यामीति ब्रुवन् सम्यक्, न तु शङ्कमान एव । इति रामायणकथानुसंधेया। गाधिर्नाम राजा तत्पुत्रो विश्वामित्रस्तद्वचनं तदुक्तिस्तदर्हणा यस्य स इति बहुव्रीहिः । 'किं कुर्वन् । सिद्धास्पदं १ सर्गः] राघवनैषधीयम् सरित्सरः प्रस्रवणादिमध्ये माग बुन्दन् । 'उबुन्दिर निशामने' धातुः। निशामनं दर्शनम् । च देवनदीभुवमगात् । राजर्भगीरथस्य चरितं भागीरथ्या नयनं सकारणं सम्यगजा- नात् । य एव गत्यर्थास्व एव प्राप्त्यर्थी ज्ञानार्थाश्चेति शाब्दिकराधान्तः । भवनं भूः । संपदादित्वाद्भावे क्किए । बुन्दिः स्वरिन् ॥ नलपक्षे तु-गाधीत्यादि । 'गाध प्रतिष्ठा लिङ्गयोपॅन्थे च' । औणादिको णिनिः । इनिवी 'भुवश्च' इति चकारात् । साधिनश्च गा- धिनश्च गाधिनश्चेति कृतद्वन्द्वानामेकशेषः । प्रतिष्ठावन्तश्च लिप्समानाश्च श्लोकैः स्तुव- न्तश्च तेषां (ये सूनवस्तदुक्तीनाम् ) मनसापि हीनत्वमविचारयन् किं तु सम्यगर्हणां कु- वैन् परितो निषधदेशं चरन् । तत्तन्मुनीनां पुष्करादिवासिनो दर्शनमगात् दर्शनार्हत्वात् सिद्धानामाश्रमं कपिलादीनां सरितः सरांसि प्रावणानि बुन्दन् पश्यन् देवनदीभुवं च मुनिभ्य एव अमरतरङ्गिणी चाजानात् । विशेषणानां तुल्यत्वमवसेयमन्येषाम् । उपे- न्द्रवजेन्द्रवज्रयोरेवोपजातित्वं स्मरणीयमत्र पद्ये विशारदैः ।। गीर्वाणसिन्धोरुदयं च कौशिकान्निशम्य विस्मेरमुखो बभूव । न ताटकां स्वच्युतिमाजधान नो खतो द्विजातिप्रणयाय केवलम् ॥६॥ स इत्यनुवर्तते । स च स्मेरमुखो बभूव । किं कृत्वा । कौशिकाद्विश्वामित्रात् गीर्वाण- सिन्धोः उदयं निशम्य । गिर एव वाणा येषां ते गीर्वाणा देवाः शापानुग्रहसमर्थत्वात् तेषां सिन्धुनंदी गङ्गा । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् । तस्या उत्पत्ति निशम्य श्रुत्वा मत्पूर्वजा इत्थंभूता जाताः, यैरित्यं सामर्थ्यमद्भुतं दर्शितमिति । विस्मेर- मुख: ईषद्धसनशील: । 'स्मिङ् ईषद्धसने' । 'उपसर्गास्तत्तदर्थाविशिषन्ति' इति भा- ध्यम् । विपूर्वोऽयमाश्चर्ये । 'विश्वामित्रेऽपि कोशाचोलुकयोरपि कौशिकः' इति विश्वः । निपूर्वः शमः श्रवणे । स रामः खच्युति ताटकां नो आजघान । इति नेति काकुः । अपि तु आजघानैवेत्यर्थः । तत्र हेतुमाह-केवलं खतः. खकार्यमुद्दिश्य नो आजघान अपि तु द्विजातिप्रणयाय स्वीयानां मुनीनां च्युति शो यस्याः सा तादृशम् । च्युङ् गतौ । गतिरत्र भ्रंशः । 'स्कन्नं पन्नं च्युतं गलितम्' इति कोशप्रामाण्यात् । 'खज्ञाता- वात्मनि खं त्रिष्वात्मीये स्खोऽस्त्रियां धने' इत्यमरतातीयीके । ताडकां राक्षसीमाज- घानैव, केवलं निश्चितं द्विजातीनां प्रणयः प्रेम तस्मा एव । नन्विह शङ्कयते । 'अवध्या ब्राह्मणा गावः स्त्री तपस्वी च रोगमाक्' इति स्मृतिः । धर्मस्थापनायावतरन् स्त्रीवध- कातरो रामः कुतो नाभूदिति । तद्विशङ्कनं परिहियते । उत्सर्गापवादन्यायेनैव सर्वत्र शास्त्रस्थितिः उत्सर्गवाक्यमिदम् । अपवादस्तु 'विप्रं दुष्टां स्त्रियं भ्रूणपुरुषन्नीमगार्भ- णीम् । सेतुभेदकरी वाप्सु शिलां वध्वा प्रवेशयेत् ॥' इति । योगीश्वरवाक्यं कथं संगतं स्यात् तस्माद्विप्रादिहन्त्री तु हन्तव्येति निर्णयः शास्त्रे । अत एव द्विजातिप्रणयायेति ध्वनकं पदं प्रक्षिप्तम् । अन्यथा कुतकरचना न कार्या कुताकिंकैः । विश्वामित्रमुखाद्विप्र- वधकारिणीं श्रुत्वा घृणामहासीदिति भावः । ताटकापले क्षिपकादित्वादित्वं न बोद्ध- व्यम् । रूढिपक्षे रूढियोगमपहरतीति परिभाषया नेति डित्यादिवत् ॥ नलपक्षे तु- ८ काव्यमाला। पूर्वार्धे कोशिकात्समस्तकोशज्ञात्सुमतेः सकाशात् । कोशपदं चोपलक्षणम् । न हि व्याक- रणं विना कोशान् ज्ञातुं शक्यन्ते । न हि महाभाध्यं विना वैयाकरणो व्याख्यायते । न हि भाष्यपारीणः शस्त्रिान्तरानभिज्ञो भवतीति समस्तविद्यार्णवावगाहित्वं सुमतेर्व- न्यते । कारणमालालंकारो व्यज्यते । अपि च स नल: अस्खल: अखाननात्मीयान् रिपुं- स्तस्यति नामायति इत्यखतः । 'तसु उपक्षये' देवादिकः विप् । 'अधातो:-' इति नि- घेधान दीर्घः । विरोधे नसमासः । 'अप्राशस्त्यं विरोधश्च' इति भाष्यात् । न ताटकां खच्युतिं नो जघान । कस्मै प्रयोजनाय । केवलं द्विजातिप्रणयाय । नताः प्रणताः सा- धवः । 'प्रणतदेहिनां पापकर्शन मिति भागवते द्रष्टव्यम् । तानटन्ति यान्तीति नताटा वैष्णवानुसारिणः । 'अट पट गतौ' । पचाद्यच् । नताटानां कमानन्दो यस्याः सा । 'सुख- शीर्षजलेषु कम्' इति विश्वः । सेदृशी-स्वच्युतिः निरन्तरं वर्णवर्षणं तां च्युतिं नो दूरीचकारेत्यर्थः । आहन्तेर्वारणार्थकत्वमत्र ध्येयम् । कोशाध्यक्षवैमनस्यप्रतिपादितस्वर्ण- वर्षरोधानुकूलव्यापारवत्ता कदाचिन्नासीदिति भावः । च्युतिर् आसेचने । 'सर्वधातुभ्यः क्वित्' । वर्षणमित्यर्थः । द्विजातीत्यादिपदे तादथ्य चतुर्थी । अदेशकालश्रद्धादिव्याहत- तामसादिसंप्रदानकदानं कदाचित्तस्य नैवासीदिति व्यञ्जयितुं केवलद्विजातिपदद्वयसं. दर्भणमवसीयतां पण्डितैः । 'निणींते केवलमिति त्रिलिङ्ग त्वेककृत्स्नयोः' इति ताीयीके। शेष समानम् । जगत्या सहोपजातित्वम् ॥ सुबाहुमारीचवृतं पदं ययौ सत्रं रिरक्षीः समजीघटच्च । द्रुति खगैः स व्यपनेतुमिच्छन्नुद्यानमेवाश्रयदाङ्गनार्तिः ॥ ७ ॥ आङ्गनार्तिः सुबाहुमारीचपदं ययौ । आङ्गनमङ्गनासमूहः । तस्य समूहः' इत्यम् । तस्य स्त्रीसमूहस्य यन्मूर्ति दृष्ट्वा कामबाथा प्रतिग्राममासीत् । आङ्गनस्यार्तिर्यस्मात् । पश्च- म्यर्थे बहुव्रीहिर्द्रष्टव्यः । ईदृशो भगवान् स सुबाहुश्च मारीचश्च ताभ्यां वृतं पदं स्थानं 'गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः' इति परिभाषया रक्षसां राजानौ द्वौ गृहीतौ । उप- लक्षणमन्येषामतः राक्षसवृतं पदं स्थानं ययौ जगाम । किं चिकीर्षुः सः । सबै विश्वा- मित्रयज्ञं रिरक्षी रक्षितुमिच्छुः । सन्नन्तारिकप् । 'वोरुपधायाः-' इत्यनेन दीर्घः । 'सत्र- माच्छादने यज्ञे सदादाने धनेऽपि च' इत्यमरः । च मारीचादीनां खगैः दुर्ति समजीघ- टत् सम्यक् चक्रे । चेष्टा व्यापारः क्रियेति भाष्यात् करोत्यर्थवाचकत्वात् । किं चिकी- र्षन् । आश्रमाद्वयपनेतुमिच्छन् यज्ञार्थम् । 'णीप्रापणे' व्यपपूर्वो दूरीकरणार्थः । महर्षि- व्यथां नुनुत्सन्नेवेति भावः । 'स्यादुद्यानं निःसरणे वनभेदे प्रयोजने' इत्यमरः सामान्य- काण्डे । तेषां मुनीनां यज्ञविघ्नविधातप्रयोजनमेवाश्रयत् सेवितवान् । 'परित्राणाय सा धूनाम्' इत्यादि गीतासु प्रतिपादितत्वात् ॥ अथ नलपक्षे व्याख्यानम्-सुबाहुमारीच- खगैर्वृतं पदं ययौ । तर्हि कश्चन सुबाहु म बली राजा आसीत् । तमेव करदयांचकार मर्दयित्वा बहुधा । अथ वा शोभना बाहवो दोर्दण्डा येषां ते क्षत्रियकुञ्जरास्तेषामपि घातकत्वादिग्विजये सुबाहुमारी । 'सुप्यजातौ णिनिस्ताच्छील्ये' । सुबाहुमारी खगैहेसै- १ सर्गः] राघवनैषधीयम् । ९ बुंतं पदं तडागस्थान ययौं । किंभूतं पदम् । उद्यानमेव । नन्ववधारणं किमर्थम् । अन- ङ्गदाहव्यथाशान्तये तादृशपदयानस्यौचित्यात् । कथंभूतः सः । आङ्गनार्तिः आङ्गनी दमयन्तीजा आतिः पीडा यस्य स इति बहुव्रीहिः । तस्येदम्' इत्यण् । 'टिड्डा-' इति डीप् । 'स्त्रियाः पुंवत्' इति [हस्खः] पुंवद्भावकृतत्वम् । पुनः कीदृशः । सत्रं रिरक्षीः सदा दानं रक्षितुमिच्छुः । कदाचिदपि प्राथितविघातकत्वं तस्य नाभूत् । ब द्रुतिं व्य- पनेतुमिच्छन् आश्रयदेव । 'दुदु उपतापे' । खादिः । द्रुति कामजसंतापं तत्र गम- नेन दूरीचिकीर्षनपि अनिवार्यत्वात्तामाश्रयदेव सेवितवानेव । चकारो द्वितीयोऽप्यस्ति । च खगैहँसैः समजीघटत् । आत्मानमिति शेषः । चपरे णौ रूपम् । संगमितवानित्यर्थः । द्रौहिणरत्नस्वर्णमयगात्रविचित्रहंसदर्शनात्तां प्रति सांमुख्यमकरोत् । अर्थालंकारेश्वपि परिकरालंकारः । शब्दालंकारस्तु सर्वेष्वेव वर्तते । संस्कृतभाषारूपोऽर्थान्तरश्लेषसंघटितो दुर्घट: कव्यन्तरैः खप्नेऽपि व्यधायि प्रबन्धोऽयम् ॥ मारीचमाद्दुद्रुवदुग्रतेजा एक परे नेशुरथो सलक्ष्मणः । जग्राह हांसी पदवीं बुधादितां नीचीनदेहो दयितातिजोषः ॥ ८ ॥ श्रीरामपक्षे-पूर्वश्लोकात्स इत्यनुवर्तते।स लक्ष्मण: मारीचमावत् द्रावयामास । बाणेनेति शेषः । 'दुदु गतौ' । चपरे णो रूपम् । अतिदूरं द्रावयांचक्रे । कथंभूतः । उग्रतेजाः उग्रं तेजो यस्य सः एकमन्यं सुबाहुमदुद्रुवत्, न विलापितवान् न मारितवान्, अपि तु अमीमरदेव । "विलीने द्रुतविद्रुतौ । इत्यमर्थान्तरदर्शनादत्रैव द्वावौँ । एकोऽन्याथै प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते ॥' परे अन्ये क्षणान्नेशुः । 'नाशः पलायने मृत्यावपध्वस्तावदर्शने' इति हैमः । सलक्ष्मण इति पदेन अन्ये सर्वे लक्ष्मणेनैव हताः शूरंमन्या इति ध्वनितम् । अथ नीचीनदेहो दयितातिजोषः बुधादितां हांसी पदवीं जग्राह । अथ निवर्हणान- न्तरं नीचीनो देहो यस्य सः । तथा पराक्रमे कृतेऽपि अनुद्धत एवेति ध्वनयितुं 'विभा- षाञ्चेरदिक् स्त्रियाम्' इति खार्थे खप्रत्ययः । ईनादेशः 'आयनेयी-' इति सूत्रेण । दयितानां भक्तानां या आतिस्तां स्वयं जुषते इति कर्मण्यण् । 'यदा यदा हि धर्मस्य' इति स्मृतेः । भक्तानुग्रहार्थमवतारान् करोतीति भगवता व्यासेन निर्णीतलात् । हांसी हंसः सूर्यः । 'भानुर्हसः' इति कोशात् । हंसस्येयमतिप्रकाशरूपा या पदवी तां जग्राह । तमोरूपराक्षसवाढकलात् । ‘पदवी मृतिः' इत्यमरः । कथंभूतां पदवीम् । बुधैः पण्डितैरर्दितां प्रार्थिताम् । 'अर्द गतौ याचने च' । भौवादिको धातुः । 'बुध वृद्धौ पण्डितेऽपि' इति सामान्यकाण्डे । 'हरिश्चन्द्रो रन्तिदेवो उञ्छवृत्ति शिबिर्बलिः । व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥ इति भागवते परोपकारस्यातिवर्णनात् । खयं स्तुत्यस्तान्' महर्षीन् तुष्टावेति ध्वन्यते ॥ अथ नलपक्षे व्याख्या-लक्ष्मणो लक्ष्मीवान् स एकं मारीचमाद्रुवत् तेषां खगानां मध्ये इति प्रकरणमेव । 'शेषे' इति लक्षणं चाधि- कारश्च । मरीचिभिर्व्याप्तं मारीत्रम् । शैषिकोऽण् । व्याप्तेऽर्थे सुवर्णमणिकान्तिभ्राजिष्णु- २ १० काव्यमाला। ब्रह्ममण्डलप्रधानत्वात् अभ्यधाविष्ट । किंभूतः । उग्रतेजाः । परे तु नेशुः । पलायन्ते इति भावः । अथो पलायनानन्तरं नीचीनदेहः नीचीनो वामनीभूतो देहो यस्य सः । कपटेन ग्रहीष्य इति बुद्ध्या निश्चित्य दयितार्तिजोषो दमयन्तीतो या आर्तिस्तजोषः अपारकामबाधाव्याप्तदेहः कश्चनात्रार्थे सहायं कुर्यादिति समालोच्य हंसानां हंसस्य प्रधा- नस्य वा तसौव पदवी सराणिं जग्राह । मार्गरोधाद्धस्तेन जग्राहेत्यर्थः । ब्रह्मप्रेरितः सोऽपि जगृहे । अन्यथा कथं गृह्येत । कथंभूतां पदवीम् । बुधादितां पण्डितैरदितां वाधिताम् । विहङ्गमनिग्रहस्य साधूनामनहितत्वात् । 'अर्द हिंसायाम' चौरादिको धा- तुर्बोध्यः । क्तप्रत्यये द्वयोरेव तुल्यं रूपम् । तदेव छन्दः ॥ वैदेहमाश्रित्य पतिवरोद्धं यज्ञार्थकेतं प्रभुमानयन्तम् । निमन्त्रितं धीरवरस्तदानीं विवाहचेता जनकास्पदं तत् ॥९॥ रामवक्षे-धीरवरः पण्डितश्रेष्टो विश्वामित्र: तं प्रभुं तजनकास्पदमानयत् । प्र- सिद्धार्थस्तच्छन्दः काव्यप्रकाशे व्याख्यातः । तत्प्रसिद्धं जनकास्पदं मिथिलापुरमानयत् प्रापयामास । किं कृत्वा । पतिवरोद्धं यज्ञार्थकेतं वैदेहमाश्रित्य पतिवरा स्वयंवरा सीता तस्याः सकाशात् उद्भा अधिकं शोभा यस्य सः । साक्षालक्ष्मीः पृथ्वीतः प्रादुर्भूता यस्य यज्ञवाटे इति प्रतिष्ठाधिक्यं तदवधि तस्यासीत् । 'पतिवरा च वर्या च' इत्यमरः । तदानीमेव कौशिकनिमन्त्रणार्थ जनकेनागतं यज्ञायायं यज्ञार्थस्तादृशः केतो निमन्त्रण यस्य सः । 'केत श्रवणे निमन्त्रणे च । चौरादिको धातुः । केतनं केतो भावे घञ् । तं वैदेहम् । विदेहाना देशानां राजा वैदेहो जनकः विदेहस्य युवापत्वं पुमान् इति वा वैदेहः।आश्रित्य पूजया योग्यया संसेव्येत्यर्थः । 'निञ् सेवायाम्' । 'षडा भवन्ति' इति श्रुतेः । अतः पूर्वकाले क्त्वो ल्यप् । कथंभूतं प्रभु रामम् । निमन्त्रितम् । नितरा- मर्थेषु मन्त्रिता यस्य स इति बहुव्रीहिः । 'गोस्त्रियोः-' इति ह्रखम् । कथंभूतो धीर- वरः । विवाहे चेतो यस्य सः । रामलक्ष्मणयोर्विवाहो जनकपुर्या द्रुतं स्यादिति चिन्ता यस्य स इति ॥ अथ नलपक्षे वर्णनम्-धीरवरः तं प्रभु वैदेहं यज्ञार्थकेतमानयत् । 'धीरः पण्डितमन्दयोः' इति धरणिः । तेषु श्रेष्ठो नैषधः कार्य प्रभुं समर्थम् । कार्य- शब्दोऽध्याहार्यः । यथा क्रियतामित्यत्र कर्ता खयमाक्षिप्यते तथात्रावसेयम् । क्रियाकारकसंबन्धस्य नित्यसंपृक्तत्वात् । वीनां पक्षिणां देहाः विदेहाः । विदेहानां हंसानामीशो वैदेहः । 'तस्येदम्' इत्यण् । 'शेषे' इति वाण् । 'विविष्किरपतत्रयः' इत्य- मरः । तं हंसराज यज्ञार्थः पञ्चमहायज्ञार्थस्तत्रैवोद्याने स्थानविशेषे रचितोऽभूत् । केतः स्थानम् । 'कित निवासे रोगापनयने च । वादी धातुः । ततो घजि रूपम् । निवासे खाणे सन्विधानं नाकार्षीत् , अतः सन्न । कथंभूतं तम् । पतिवरोझं पतिवरा खयंवरा दमयन्ती तस्या उद्भा अतिशयितः प्रकाशो यस्मात् । 'त्वद्योग्या अभूतपूर्वा दमयन्ती अस्ति । तदर्थमहं घटिष्ये' इत्याकारकः प्रकाशो हंसादेव नलस्य समजनिष्ट । पुनः कथंभूतम् । निमन्त्रितम् । नितरां मन्त्रिता गुप्तपरिभाषणं यस्य सः। “चतुःक- १ सर्गः। राघवनैषधीयम् । र्णस्य मन्त्रस्य ब्रह्माप्यन्तं न गच्छति' इति बृहस्पतिः । 'मनि गुप्तपरिभाषणे धातुः । किं कृत्वा । ईषदाश्रित्य । पूर्व ग्रहणानन्तरं क्षणं तत्र स्थित्वेत्यर्थः । कथंभूतं यज्ञार्थ- केतम् । तत्प्रसिद्ध जनकास्पदं पितुः स्थानम् । वीरसेनेनैव 'पित्रा पूर्व पाठहोमादि- पञ्चयज्ञार्थ तत्र रचित मित्यौँ व्यङ्गवः । इन्द्रवज्रोपेंन्द्रयोरुपजातिच्छन्दः । अतो ब्रह्ममरालादद्भुतादेवान्मद्विवाहघटनं स्यादिति चेतो यस्य स इति गूढो व्ययः । इदं नलविशेषणं बोध्यम् ॥ सत्तर्कवामास्यदमिद्धतेजाः प्रयाय पूतां तनुमाचचार । परिच्छदस्य प्रगुणो नलो यो वाचंयमस्यास्य पराभिसारी ॥ १० ॥ रामपक्षे-इतेजाः अस्य वाचंयमस्य परिच्छदस्य पूतां तनुमाचचार । इद्धं दीप्तं तेजो यस्य स इद्धतेजाः तादृशो रामः । 'वाचंयमपुरंदरौ च' इति सूत्रेण निपातितो मुनिवाचकोऽयम् । 'तपस्वी तापसः पारी काही वाचंयमो मुनिः' इत्यमरः । 'परिच्छदः परीवारः' इति हैमः । पाषाणभूताहल्याया मुनिशापेन पवित्रां तनुमकार्षीत् । आचरति कृअर्थे । 'अनुतिष्ठत्याचरति' इति भट्टमल्लकोशे । न्यायशास्त्रकारकखात् प्रमाणादिषो. डशपदार्थनिरूपकलात् । (सत्तों गौतमः) तस्य वामाहल्या तदास्पदं पाषाणीयस्थान- मिति तात्पर्यार्थः । तत्पदमधिष्ठाय चरणरजःकणैरिति व्यज्यते । देवविषयरतिः कवे- यङ्गया । उत्तमकाव्यलक्षणं काव्यप्रकाशे । कथंभूतो रामः । प्रगुणः सरलाशयः । 'ऋ- जावजिह्मप्रगुणाः' इत्यमरः । पुनः कथंभूतः । अनलः । 'अलं भूषणपर्याप्तिवारणेषु । अलतीति अलः । नाल: समर्थों यस्मात् । भक्तानुग्रहातिसमर्थः इति यावत् । पुनः कथंभूतः । पराभिसारी परेषु प्रल्हादादिषु अभि समन्तात्सरतीत्यभिसारी । 'दूराना- मोत्तमाः पराः' इति त्रिकाण्ड्याम् ॥ नलपक्षे तु-इद्धतेजाः सत्तर्कवामास्पदं प्रयाय पूतां तनुमाचचार । इद्धं तेजोविशेषयुक्तखात् यस्य स इति बहुव्रीहिः सौवर्णतनुखात्। विरश्चियानत्वात् । तथा हंसः । पटपुटीति चुरादौ दण्डके तर्क भाषार्थः । सन् तर्को भाषा संस्कृतरूपो येषां ते च ते वामा रमणीया विप्राः । 'वामौ बल्गुप्रतीपौ द्वौ' इ. त्यमरः । 'विपरीते सुन्दरे च वामो वामा तु योषिति' इति संसारावर्तः । तेषामास्पदं स्थानं यज्ञमन्दिरं गत्वा पूतां पवित्रां तनुमाचचार अकार्षीत् । होमधूमविप्रदर्शनादिना तनोः पवित्रत्वं शालायां सर्वेषां भवति । यतः--यो नल: पराभिसारी अस्य वाचंयमस्य परिच्छदस्य बुद्धिपरिकल्पितस्य प्रगुणः सोऽयं राजहंसस्तनुं पूतामाचचारेत्यन्वयः प्रवर्णिता गुणा येन सः । 'प्रादिभ्यो धातुजस्य' इति वार्तिकवचनेन बहुव्रीहिर्बोध्यः । वाचंयमो भक्तिरस्येत्यण् । वृद्धत्वात्प्राक् वृद्धिर्न दृश्यते । वाचंयमभक्तस्यास्य नलस्ये- त्यन्वयः । तिरश्चामयं दौसे सर्वोपहसनीयः स्यात् इत्थं विचिन्त्य रहस्यभेदभिया वि- विक्ते मन्त्रमकार्षीत् । तत्रैव यज्ञशालायां गत्वा प्रोक्तवान् । ।

१२ काव्यमाला। विदेहराजः पुरमच्छगत्य दत्ताधकः सर्वसमक्षमेषः । हिरण्मयीं रत्नविचित्रितां तां ननन्द निःशेषपतद्विहाराम् ॥ ११ ॥ एष विदेहराजस्तां पुरमच्छगत्य ननन्द । विदेहानां हंसानां राजा । टच् । स पुरं यज्ञागारमगात् । 'आगारे नगरे पुरम्' इत्यमरः । यज्ञागारसंमुखं गत्वा । अच्छगत्येत्य- स्यार्थः । ननन्द जहर्ष । कथंभूतः सः । दत्तार्घकः सर्वसमक्षं सर्वेषां प्रत्यक्षं विरच्चि- वाहनमिति क्षमापयित्वा विमोच्य पूजितत्वात् दत्तोऽ! यस्मै । चतुर्थ्यर्थे बहुव्रीहिः । कथंभूतां पुरम् । हिरण्मयीं वर्णमयीम् । रत्नैर्माणिक्यादिभिर्विचित्रिताम् । पुनः कथं- भूताम् । निःशेषपतद्विहाराम् । निःशेषाः सकला ये पत्रिणस्तेषां रमणं यस्यां सा ताम् । पुरशब्दस्य स्त्रीलिङ्गलात्पू:शब्दोऽत्र ऊह्यः । द्वितीयायां तस्य रूपम् । 'पूरगारे च न- गरे' इति हैमः । अथ श्रीरामपक्षे-एष विदेहराजः पुरमच्छगत्य ननन्द जल्हाद विदेहानां राट् विदेहराट् तस्य पुरं मिथिलामच्छगत्य संमुखं गत्वा ननन्द । कथंभूतः । सर्वसमक्षं दत्तार्घकः । 'शेषाद्विभाषा' इति का समासान्तः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । कथंभूतां पुरम् । हिरण्मयीं स्वर्णप्रचुराम् । पुनः कथंभूताम् । रत्नमणिभि- विचित्रिताम् । विस्मयाधायिनीम् । पुनः कथंभूताम् । निःशेषपतद्विहाराम् । संपूर्णाः पतन्तः पक्षिणः पिकादयस्तेषां स्फीता समत्वाद्विहारः क्रीडा यस्यां सा । यद्वा अवि- द्यान्धकारग्रस्तपतजनज्ञानोपदेशरूपमार्तण्डप्रकाशद्वारा तेषां ब्रह्मानन्दाखादो यस्यां सा। मोक्षधर्मादौ जनकमहाराजवृन्दस्य तादृशवर्णनस्य भारतादौ प्रसिद्धत्वात् । उपजाति- विना बभाषे कुहकं सवान्ते तपस्विना क्षोणिपतिविनीतः । कोदण्डमग्र्यं परिदर्शयंस्त्वं रामायतोषं खलु लप्स्यसे मे ॥ १२ ॥ श्रीरामपक्षे-तपखिना सवान्ते कुहकं विना विनीतः क्षोणिपतिर्बभाषे । 'यज्ञः सवोऽध्वरो यागः' इत्यमरः । सबान्ते यज्ञान्ते । 'कुहको नटविद्याज्ञे कुहकं कुहना छले' इति मेदिनी । तपस्विना विश्वामित्रेण । 'अस्मायामेधास्रजो विनिः' । तपःशब्दाद्विनिः- प्रत्ययः । 'तसौ मत्वर्थे' इति मत्वम् । अतो रुत्वं न । 'विनीतं शिक्षिते नम्र' इति हैमः । विनीतो नम्रः क्षोणिपतिर्जनकः बभाषे उक्तः । किमिति । हे राजन्, रामाय अत्र्यं कोदण्ड धनुर्माहेश्वरं परिदर्शयन् त्वं मे । पञ्चम्यर्थे शेषे षष्टी । मत्तः तोषमानन्द खलु निश्चयेन लप्स्यसे प्राप्स्यसि । संशयो नास्ति खलुशब्दार्थः । माहेश्वरस्य चापस्याग्र्यत्वं श्रेष्ठत्वं वर्तते। येन खयंवरे राजानः सलजाः स्वान् गृहान् गताः । रामस्तु तादृश- धनुरारोपणे योग्यः समर्थत्वात् तव दुहितुर्वरस्त्वमपि परमानन्द प्राप्स्यसि नान्यः क- श्चिद्योग्य इति भावः । तत्र कपटं विना परमर्षिरुभयोहितं विधातुं प्रावतिष्ठेति ध्वन- यितुं कुहकं विनेति पदं प्रायुत ॥ अथ नलपक्षे विवृत्तिः-सवान्ते। 'घुञ् अभिषवे'। 'पीडनं सुरासंधानं चाभिषवः' इति दीक्षिताः । निग्रहान्ते मोचने कृते सुखोपविष्टेन, लट् १ सर्गः] राघवनैषधीयम् । १३ अत एव अतपखिना संतापरहितेन विना पक्षिणा हंसेन । 'संतापतपसोस्तपः' इति हैमः । कुहकं विना छलं विना सत्यं राज्ञि दृष्ट्वा विनीतः क्षोणिपतिनलो बभाषे कथितः। किमिति । अग्र्यं बन्धन दण्डं परिदर्शयन् त्वं कोऽसि । 'अस्तिर्भवन्तीपरः वृत्तः प्लक्षाः' इति] अप्रयुज्यमानोऽप्यस्तीति 'गम्यते' इति भाध्यकाराः । अतोऽसीति स्व- यमेव संनिधत्ते । मे मत्तः खलु रामाया अयः प्राप्तिर्यस्मात् स प्राप्तिरूपश्चासौ तोषश्च तं मत्तो लप्स्यते । 'अय गतौ' भौवादिको धातुः । घञर्थे कविधानम् । ब्रह्मवाहन- वादेवं पीडाकरः कोऽसि । एतत्प्रयोजनं मम तदागतः । दमयन्ती सत्पत्नी मद्वचनेन भवित्रीति भावः । उपजातिवृत्तम् । अकुहकं यथा स्यात्तथा विनीतः क्षोणिपतिनलो बभाषे इति ॥ स्फीतेन राज्येन न मोदमेषि कोशेन पूर्णेन न वाहनेन । यथेमकेन व्यतिपातिना पुरा प्रयाति नूनं गुणवान्भवन्भवान् ॥१३॥ रामपक्षे-हे राजनिति अध्यातियते । त्वं स्फीतेन राज्येन मोदं हर्ष नैषि न प्राप्नोषि न प्राप्स्यसि । वर्तमानसामीप्ये भविष्यति । तथा पूर्णेन कोशेन नैषि न प्राप्नोषि । तथा वाहनेन नैषि यथा गुणवान् भवन् भवान् व्यतिपातिना इसकेन पुरा हर्षे प्रयाति प्रयास्यति स्फीतेन बहुना । 'मुद हर्षे' मोद इति घञ् रूपम् । कोशोऽर्थसमूहः । 'सर्वे स्याद्वाहनं यानम्' इत्यभिधानकोशः । गुणशब्दात्प्रशंसायां मतुप् । भवनिति भू- धातोः शतृप्रत्ययः । भवान् पूज्यार्थे युष्मच्छब्दार्थेऽवसीयते । व्यतिपातेणिनिः । प्रति- स्पर्धियोग्यपराक्रमकāत्यर्थः । व्यतिशब्दः कर्मव्यतिहारद्योतकः । इमकेन कुमारेणा- प्यमुनेत्यर्थः । 'हखें' इत्यर्थे अकच् सर्वनान्नः । प्रयाति प्रयास्यति । पुरेत्यासन्ने भवि- ध्यति काले धनुर्भङ्गानन्तरमिति ध्वनितम् । 'यावत्पुरानिपातयोलेट्' भविष्यदर्थे लट् बोध्यः ॥ अथ नलपक्षे व्याख्यानं दर्शयति -यत्तदोनित्यसंबन्धात् 'तथा' इति व्या- क्षिप्यते । हे राजन् गुणवान् सत्यशीलदयाक्षमाजवादिगुणयुकू भवान् त्वं यथा इम- केन पुरःस्थितेन हंसेन व्यतिपातिना ब्रह्मवाहनत्वात् आकाशे विशिष्टेभ्योऽपि अधि- कमुड्डीयमानेन स्फीतेन न कोशेन न वाहनेन नन्दिष्यति । 'पात उड्यने । 'पाते निपातश्चादिनाशयोः' इति हैमः । व्यतिशब्दोऽतिशायनद्योतकः । मां विसृज तव कार्यमहं कर्ता । त्रिष्टुप्जगत्योरुपजातिः । 'इत्थं किलान्याखपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम' इति वचनप्रामाण्यात् । ध्वनिकाव्यमुत्तमं दर्शितम् ॥ उदीरितोऽसाविति तेन शान्तो विसृष्टवानैशपरं विलोक्य । खगग्रहाभ्याग्रहणं चिकीर्षुः पौंस्लं त्वरावत्तदुपाजहार ॥ १४ ॥ रामपक्षे वर्णनम्-तेनोदीरितः शान्तो जनकः इत्यसौ पौंस्नं विसृष्टवान् । किं कृत्वा । ऐशपरं विलोक्य ऐशं माहेश्वरं धनुः तत्परं रामं विलोक्य । किं चिकीर्षुः । खगग्रहाच्याहरणं चिकीर्षुः खगान बाणान गृह्णाति इति खगग्रहं धनुः तेषां ग्रहो प्र- १४ काव्यमाला। हणं यस्येति तस्याभ्याहरणं सभायां सर्वसमक्षं यदानयनं तच्चिकीर्षुः तत्कर्तुमिच्छुः । अथ लरावत्पौनं तद्धनुरुपाजहार । सहसाधिका मल्लप्रायाः पुरुषाः शीघ्रं महता कृ. च्छेण निकटमानिन्युरित्यर्थः । 'पुंस समूह इत्यर्थे स्नञ् प्रत्ययः । स्त्रीपुंसाभ्यां ननौ भवनात्' इति सूत्रेण । 'जित्वरा संभ्रमे । घटादेः पित्त्वादङ् । अङन्तं स्त्रियामेव । ईशः शंकर: तस्येदमैशं तत्परं यस्य स इति बहुव्रीहिः । इमकेनेति पूर्वपद्यादनुवर्तते । इमकं राममित्यर्थः । 'अर्थवशाद्विभक्तिपरिणामः'। इत्थं भाष्यं जागरूकम् । 'अनाप्यकः' इत्यत्राककारकस्येत्यनादेशाभावः । विश्वामित्र विशेषणे विधित्सिते तेनेत्यस्य तमैशपरं विलोक्येति स्पष्टमेव ॥ अथ नलपक्षे व्याख्यानमाह-तेन पक्षिणा शान्तोऽनलोऽसौ इति व्यङ्ग्येनोदीरितः । पण्डितस्तं विसृष्टवान् विससर्ज । किं कृत्वा । ईशानामि- न्द्रादीनामपीशो ब्रह्मा । त्यदादीनां बुद्धिस्थपरामर्शकलात् 'तस्येदम्' इत्यणि तस्येद- मित्यत्रेदंशब्दस्येशार्थप्रतिपादनं बोध्यम् । स पर उत्तमो यस्य स इति बहुव्रीहिः 'दूरा- नात्मोत्तमाः पराः' इति त्रिकाण्ड्याम् । विरचिराकोशं चरेचैन्ममानिष्टं स्यादिति शङ्क- मानः । विलोकि विचारे द्रष्टव्यः । यद्यपि शालायां पूजित एवास्थात्पक्षी तथापि गच्छ यथेच्छमिति वाज्ञापितोऽभूदिति ध्वन्यते विसृष्टवानिति पदेन व्यज्यते । किं चिकीर्षुः । खगग्रहाभ्याहरणं चिकीर्षुः खगग्रहो हंसग्रहः तस्मादाद्वासुदेवाद्भीः तस्या आहरणं खीकारः आसमन्तादङ्गीकारः। 'हरणं प्रापणं खीकारः स्तेयं नाथनं च' इति दी- क्षिताः कौमुद्यां व्याचख्युः । 'अकारो वासुदेवः स्यात्' इत्येकाक्षरकोशः । 'अहिंसास- त्यमस्तेयम्' इति धर्मलक्षणम् । 'न हिंस्यात्सर्वभूतानि' इति श्रुतिः । ताडनादिव- धान्ता हिंसा प्रोच्यते इति विचात्यर्थः । साविकानामिदं गर्हितमिति भावः । त्वराव- त्पौनं तदुपाजहार । अदूरस्थो बाघदेशं पुरुषसमूहस्त्वरावान् तच्छासनं विसर्जयत पक्षिण इत्येवंरूपं छुपाजहार । अधिकमा समन्तादङ्गीचक्रे इति भावः। 'उपोधिके च' इति ज्ञापकादुपशब्दार्थवृत्तित्वं सिद्धम् । ततश्च सर्वे विसर्जिता इत्यर्थः ॥ शरासनं वेगवशेन कृष्ट्वा रामोऽभनक्तं जनकाद्भुतप्रदः। विसिष्मिये भूपसभं पराक्रमं वीक्ष्यास्य मावतरत्त्वमैट्ट ॥ १५ ॥ रामपक्षे-रामो वेगवशेन तच्छरासनं कृष्ट्वाभनक् । कथंभूतो रामः । जनकाद्भुत- प्रदः । भूपसभमस्य पराक्रमं वीक्ष्य विसिस्मिये अस्य मावतारत्वमैट्ट इत्यन्वयः । रामो दाशरथिर्वेगवशेन जववशात् शरासनं कृष्ट्वा आकृष्य अभनक बभञ्ज । कथंभूतो रामः । जनकाद्भुतप्रदः तदाश्चर्यदः तं पराक्रमं वीक्ष्य । 'शौर्योद्योगौ पराक्रमौ' । 'मिङ् ईषद्ध- सने' । 'विस्मयोऽद्भुतगर्वे स्यात्' इति. हैमः । अस्य वासुदेवस्य मावतारत्वमैट तुष्टाव। 'ईड् स्तुतौ' । लुग्विकरणाझुङि रूपम् । साक्षान्नारायण एवावतीर्णोऽत्र । ऐश्वरं धनु- को वा समर्थो नारायणं विनेति भावः ॥ नलपक्षे-रामो नलः । [नेगमौ द्वौ] बले रामो नीलचारुतिते त्रिषु' इत्यमरः । अतिसुन्दररूपत्वान्नलस्यारण्यपर्वणि भारते १ सर्गः] राघवनैषधीयम् । वर्णितत्वात् । चारवाची सर्वत्र रामशब्दः कोशप्रामाण्यात् । पूर्व वेगवशेन तं हंसं कृष्ट्वा आकृष्य रागवेगात् शरासनम् । 'श्र हिंसायाम्' । 'ऋदोरप्' करः शरः गुरु इति रूपाणि । शरो वधः । अस गतिदीप्यादानेषु' । आदानं ग्रहणं वधाय ग्रहणम् । 'ता- डनादिवधान्ता या सा हिंसैव प्रकीर्तिता' इति मेदिनी । निग्रहाय ग्रहणमभनक् मर्द- यामास । दूरीचकारेत्यर्थः । जातकारुण्यः परनिग्रहोपहिसारूपमेव विचार्य दूरीचकार तदित्यर्थः । अथ जनकाद्भुतप्रदं विशिनष्टि जनानां का ते आनन्दाश्चर्ये प्रददातीति जनकाद्भुतप्रदो हंसः प्रकरणाल्लब्ध एव आश्चर्य कृतवान् । 'सुखशीर्षजलेषु कम्' इति विश्वः । अथ भूपसभं पराक्रमं दृष्ट्वा वीक्ष्य अपि च मावतरवं मानुषावतारं हरि- मिव वीक्ष्य ऐट्ट । 'ईड स्तुतौ' लङ् । वर्णयामास । अवतरतो भावोऽवतरत्त्वं शत्र- न्ताद्भावे त्वप्रत्ययः । इन्द्रवज्रोपेन्द्रवज्रयोरेवोपजातिः ॥ अभिख्यया या दमयन्त्यपूर्वलावण्यभाजः प्रथितेह सीता । सा राजवक्रोचितसङ्गभीतान्नलेन राजीववनी यथैव ॥ १६ ॥ शतादिरानन्द उपैतु तूर्ण राज्ञः कुलं हंसकुलैरमान्यः । चक्रेण शक्रेण समस्य तस्य सोऽयं स्वकार्यव्यवसायसायः ॥ १७ ॥ रामपक्षे-अपूर्वसौन्दर्ययुक्तान् स्त्रीसमूहान् दमयन्ती कान्त्या तिरस्कुर्वती या सीता प्रथितास्ति राजवक्रा सा उचितसङ्गभीतात् प्राप्नोत्सव । केन का इव । नलेन राजीववनीव । 'राजासौ रोहिणीप्रियः' इति कोशः । राजवदनं यस्याः सा चन्द्रा- ननेति फलितार्थः । 'दमु उपशमें' । हेतुमण्ण्यन्तः । 'लावण्यं रामणीयकम्' इति धरणिः । 'बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च । शतादिरानन्दस्तु कुलं पुरमुपैतु । कस्य । राज्ञः । किंभूतः । हंसकुलैरमान्यः । कथंभूतस्य राज्ञः । चक्रेण शक्रेण स तस्य। तस्य सोऽयं खकार्यव्यवसायसाय: अस्ति । शतशब्द आदौ यस्य सः। उत्तरपदे आनन्दो यस्य स इत्यर्थाच्छतानन्दो गौतमपुत्रो नः पुरोहितस्तत्रायोध्यायां गच्छतु' शीघ्रम् । किंभूतः । हंसकुलैरमान्यः । 'हंसो मराले सूर्ये च न्यासभेदेऽपि कीर्तितः' इति केशवः । 'कुलं गोत्रे च संघाते कुलं जनपदे गृहे' इति मेदिनी । हंसः सूर्यः कुलं येषां ते हंसकुलाः सूर्यवंश्याः तैर्न मान्यो यस्मात् । अथ वा एन भगवद्वासुदे- वेनापि मान्यः । मान पूजायाम् । 'चक्र चानीकमस्त्रियाम्' इति कोशः । कार्या ये व्यवसाया उद्यमास्तेषां सायोऽन्तः । कार्येषु निश्चितार्थ इत्यर्थः । सर्वथास्यार्थस्य कर्तव्यत्वात् । 'अन्तः स्वरूपे निकटे नाशनिश्चययोरपि' इति हैमः । 'उद्यमे व्यवसाय: स्यानिश्चयेऽपि च पुंस्ययम्' इति रन्तिदेवः ॥ अथ नलपक्षे व्याख्या-इह सीता । : कामः, एहंस इहसः सोऽस्यास्तीति इहसी तामीता मनसा प्रपन्ना अतिकन्दर्पभवन्मू- तिपत्नी वमेव मनसा प्रागेव प्राप्ता। 'वीगति-' इत्यत्रकारोऽपि धात्वन्तरं प्रश्लि- प्यते' इति दीक्षिताः कौमुद्यामाहुः सर्वसंमतत्वात् । ततो निष्ठायाम् ईत इति रूपम् ।

काव्यमाला टाप् । अभिख्यया नाम्ना । 'अभिख्या नामशोभयोः' इत्यमरः । या दमयन्ती राज- वक्रा सोचितसङ्गभीतात् । कथंभूता । अपूर्वलावण्यभाज: अपूर्वसौन्दर्यभाजां ना- रीणां मध्ये । 'यतश्च निर्धारणम्' इति निर्धारणे षष्टी । एकत्वेः च निर्धारणं भवति । 'जातिः पदार्थः' इति खीकारात् । 'मिदचोऽन्त्यात्परः' इति सूत्रेऽज्ग्रहणमत्र ज्ञापक बोध्यम् । प्रस्थता विख्यातास्ति । 'अस्तिर्भवन्तीपरः' इति भाष्यम् । चन्द्रानना सा भवत्पनी भवतु । योग्यत्वात् । 'णल गन्धे । का केनेव । 'नलो नालमथास्त्रियाम् । कमलवनी नलेन यथा । त्वमपि नलनामासि कमलवनीस्थानीया सा तवैव योग्या- स्तीति भावः । ननु तत्र दूतो घटकः कः स्यादित्याशङ्कयाह-हंसकुलैरमान्यः शता- 'दिरानन्दः सोऽयं तूर्ण भीमस्य पुरम् उपैतु मल्लक्षणः पुरः स्फुरत्यक्षी प्रसिद्धः दौत्येन। शतपदमनेकसंख्यामवगाहते । देवशतेष्वपि श्रेष्ठः । आदिशब्दः श्रेष्ठवाची प्रथमस्याग्रे- सरत्वात् । आनन्दयति रूपेण वाचा सर्वानित्यानन्दः । नन्दयतेः पचाद्यच् । हंसकुलै: नैकब्रह्मयानमरालैः न मान्यो यस्मादिति पञ्चम्यर्थे बहुव्रीहिः । उपैतु गच्छतु । कथंभूतस्य तस्य राज्ञः । चक्रेण बलेन इन्द्रेण तुल्यस्य कुण्डिनेश्वरस्य । अयं खकार्य- व्यवसायसाय एव । आत्मन एव कार्योद्योगनिश्चयोऽस्तीति भावः । मदेकसाध्यं तत्प्रा- पणमिति ध्वन्यते । युग्मम् । 'षोऽन्तकर्मणि' । भावे घञ् । 'आतो युक् । कोशः प्रागेवाभिहितः । तदेव वृत्तम् । मां दूतं शीघ्र खमाज्ञापय पाण्डुत्वादिकामबाधां जहि इत्येवं हंसेन ध्वन्यते॥ स राजहंसो वचनं महाथै निगद्य मौनं जुजुषेऽभिरामम् । आरामभूतः प्रससाद रामो मध्येसभं सज्जनवन्दनीयः ॥ १८ ॥ रामपक्षे-राजहंसो जनको नाम अभिरामं महार्थं वचनं निगद्य मौनं जुजुषे । 'स्युरुत्तरपदे-' इत्यादिवाक्यात्कोशस्य हंसस्य श्रेष्ठवाचकत्वं ज्ञेयम् । राज्ञां मध्ये हंस- मिवेति 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति समासः । अभिरामं सुन्दरम् । महार्थमर्थगम्भीरं निगद्य तूष्णीं बभूवेत्यर्थः । 'जुषी प्रीतिसेवनयोः' । लिट् । कथं- भूतो राजा । मध्येसभं सज्जनवन्दनीयः । आरामभूतो रामः प्रससाद । कथंभूतो रामः । सजनैर्वन्दनीय इति श्रीरामविशेषणमपि घटते । मध्ये पाठाहेहलोदीपन्यायेनोभाभ्यां संबध्यते । 'वदि अभिवादनतुयोः' । तृतीयासमासः । आरामभूत उपवनत्वं प्राप्तः। 'पारे मध्ये षष्ठ्या वा' इति मध्यशब्दपूर्वनिपातः । अयं भावः-शतानन्दयानेनाह्वा. नेन च पितुर्जनके प्रीतिमानभूद्रामः ॥ अथ नलपक्षे-स राजहंसः हंसानां राजा महाथै वचनमभिधाय मौनं सेवितवान् । कथंभूतम् । अभिरामं सुन्दरम् । रामोऽत्र नलोऽतिसुन्दरखात् । प्रागेवोक्तम् । 'नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु' इति १. 'नाला न ना पद्मदण्डे' इति मेदिनीसंवादादमरेऽपि 'नाला नालम्' इत्यस्यैव पाठस्य संमतत्वादत्रापि 'नालेन राजीववनी' इति पाठस्यैव योग्यत्वात्.

१ सर्गः] राघवनैषधीयम् । वचनात् । नलस्य प्रकान्तत्वात् । नलायेति शेषः । मध्येसभं तत्र शालायां प्रस- नोऽभूत् । कथंभूतः । आरामभूतः । ज्ञानोपदेशद्वारा तापापहारेण शैत्यकारकत्वात् । अत एवोद्यानत्वं प्राप्तः । सज्जनैर्वन्दनीयः । दयाक्षमाजघसंतोषादिशालित्वात् । त्रिभिर्विशेषकम् । तदेव वृत्तम् ॥ विदर्भभूः प्रापि विनायकेन नरेशितुः शासनहारकेण । सुतस्य पाणिग्रहणं चिराय मा भूदिति प्रीतियुतोऽवदद्वराम् ॥ १९ ॥ रामपक्षे-विनायकेन विदर्भभूः प्रापि । 'विनायको गणपतौ शिक्षके दण्डधारके' इति हैमः । विशेषशिक्षकेण शतानन्देन । 'हभी प्रन्थे । तौदादिकः दर्भो ग्रन्थः । विशिष्टा दर्भा ग्रन्था यत्र वाशिष्ठरामायणादयो ग्रन्था अज्ञानध्वान्तदलका यत्र तादृश- साकेतभूः प्राप्तेत्यर्थः । कथंभूतेन । नरेशितु: शासनहारकेण । नराणामीशिता जनक: तस्य शासनस्य हारकेण प्रापकेण । 'हृञ् हरणे' । बुलू कर्तरि । 'ईश ऐश्वर्ये' । तृच् । प्रीतियुतः स मुनिः सुतस्य त्वत्पुत्रस्य परिग्रहणे चिराय मा भूदिति । वरां दशरथं गत्वा अवदत् । 'देवोद्धृते वरः श्रेष्ठे त्रिषु क्लीबं मनाप्रिये' इत्यमरः। वरः श्रेष्ठः पुत्रो ह्यो रामो यस्य सः । 'अकारो वासुदेवः स्यात्' इति कोशः। वराशब्दस्य द्वितीयैकवचने वरामिति रूपमवबोध्यम् । जनकप्रेरितोऽहमागतः, धनुर्भङ्गानन्तरं विवाहो निर्णीतः, ससैन्यामात्यस्त्वं मिथिलां द्रुतं याहीति भावः ॥ अथ नलपक्षे व्याख्या-पूर्व नल: प्रससाद । हसवचनमाकयेत्युक्तं तत्पदेन व्यज्यते । यदि भवान् दौत्ये शक्तस्तहि ग- च्छतु कार्य करोत्विति प्रसादे हेतुः । विनायकेन वीनां नायकेन हंसेन विदर्भभूः विदर्भ- देशभूः प्रापि । 'चाणक्येन नन्दानादृतेन श्राद्धे जिघांसता नन्दान् गच्छता दर्भाश्च- रणत उदका उत्पाटितास्तस्माद्विदर्भदेशत्वं जातम्' इति बृहत्कथासरित्सागरे द्रष्टव्यं कथानुसंधानम् । कथंभूतेन । नरेशितुः नलस्य शासनहारकेण आज्ञापितवार्ताप्रापिणा । 'पार्थिवे तनये सुतः' इत्यमरः । विनायको हंसः वरां दमयन्ती तत्रावदत् । सुतस्य राज्ञस्त्वद्योग्यस्य नलस्य त्वत्पाणिग्रहणं चिराय विलम्बन मा भूदिति । कथंभूतः । प्रीतियुतः । 'घु प्रसवैश्वर्ययोः' इति धातोः सुत इति रूपम् । 'क्तिच्क्तौ च संज्ञायाम् । ब्रह्ममरालवचनं ब्रह्मणा दैवेन लिखितमिदं स्वीकृत्य विहरिष्यसीति भावः ॥ भैमी गुणैर्गुम्फितमूर्तिमाराद्भवत्कृतोद्वाहविधानशोभः । यदीह रामे निनयेद्विदेहभूस्तदैव सार्थक्यमुपैति नान्यथा ॥ २० ॥ रामपक्षे-यदीह रामो भैमी निनयेत् तदैव विदेहभूः सार्थक्यमुपैति अन्यथा न । कथंभूतो रामः । आराद्भवत्कृतोद्वाहविधानशोभः । कथंभूतां भैमीम् । गुणै- गुम्फितमूर्तिम् । दशरथं किमुवाचेत्याह-यदि इह अत्रावसरे । भीमाच्छं- करादेव यस्य सः भीमो जनकः तस्यापत्यं स्त्री भैमी । अन्यस्मानृपात्व- नेऽपि यस्य भीर्नास्तीति भावः । 'टिड्डा--' इति डीप् । तां सीतामत्र परि- काव्यमाला। णीय चेत्प्रापयेत् तदैव सा पुरी विदेहानां जनकानां भूः सार्थक्यं प्राप्नोति नान्यथा । श्रीसंकाशा सा नारायणेनैव रामेण संयोगमहति उत्कटबोधशालिलं तेषा- मद्यैवोचितं भवति । अन्यथा नैव । कथंभूतो रामः । भवता कृता उद्वाहविधानशोभा यस्य सः । भवता तत्र शीघ्र गन्तव्यम् । अतो जनकप्रेरितोऽहं समागत इति ध्वन्यते । कथंभूतां भैमीम् । गुणैः शीलसौन्दर्यादिभिर्गुम्फिता मूर्तिर्यस्याः सा । एवं च विल- म्बो न कार्योऽद्यैव गन्तव्यमित्युक्तं भवति शतानन्देन मुनिना ॥ अथ नलपक्षे व्याख्या-हे राजपुत्रि, यदि खामिति शेषः । इह रामः इ: कामस्तमपि सौन्दर्येण हन्ति ताडयतीति इहः स चासौ रामश्च अतिसुन्दरो नल: आत्मपुरं निनयेत् परि- णीय गच्छेत् भीमस्यापत्यं स्त्री भैमी तां लां त्राणं निनयेत् तदैव विदेहभूः । 'पण्डा संवेदनं विदा' इति शब्दार्णवः । विदया बुद्ध्यैव ईहा व्यापारः क्रियामात्रं येषां ते विदेहाः नीतिशास्त्रपारीणास्तेषामियं भूः सार्थक्यं महात्मलमुपैति । नान्यथा । अ- न्यस्मै लां ददानो भीमो बुद्धिमान्द्यं लोके प्रकटयिष्यति इति हार्दोऽभिप्रायः । कथं- भूतो नलो रामशब्दलक्षितः । भवत्कृतोद्वाहविधानशोभः । भवत्या कृता कण्ठे माला- प्रक्षेपेण स्वयंवरे उद्वाहविधानस्य शोभा यस्य सः । 'सर्वनानो वृत्तिमात्रै पुंवद्भावः' इति वार्तिकवचनम् । भवत्या कृता भवत्कृता इति रूपनिष्पत्तिर्बोध्या । कथंभूतां त्वाम् । गुणैर्गुम्फितमूर्तिम् । 'आरादूरसमीपयोः' इत्यमरः । आरान्निकटकाले विवाह- स्तव यथा स्यात्तथा यतनीयम् । त्रिष्टुन्जगलोरुपजातिः । प्रस्तारे भेदवशादवसेया छन्दश्चितितत्त्वज्ञैः॥ स राजहंसो निगृहीतसंवित्सत्तर्कजोषां पुरमाजगाम । विहाय सा खेचरवृत्रहेव नभोविमानैरिव वीतिवर्यैः ॥ २१ ॥ रामपक्षे-सराजहंसोऽपि पुरमाजगामाराजश्रेष्ठो दशरथोऽपि पुरं मिथिलामागात्। कथंभूतो राजा । गृहीतसंवित् । 'स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु' इत्यमरः। क्रियाकारः संकेत इत्यर्थः । तद्यथवाच्यवृत्तिं पुरस्कृत्य संप्रजगामेति तात्पर्यार्थः । कथंभूताम् । सत्तर्कजोषाम् । सन्तस्तकी यस्मिन् स गौतमस्तत्प्रधाना अन्ये च मुनयो यत्र सत्तकै जुषन्ते इति सत्तर्कजोषाः । अर्शआद्यच् । अस्यां सन्तीति पूर्विशेषणम् । कुतर्कश्रयणं यत्र स्वप्नेऽपि नास्ति 'किमीहः किंकायः' इत्यादिरूपः । तादृशीं नगरी नभोविमानैरिव वीतिवर्यैः नभ आकाशं वेगेन मान्त इव । 'मा माने' धातुः । उत्प्रे- झालंकारः । नभसो विशेषेण मानं येषां ते । वीतीनां तुरगाणां वर्याः श्रेष्ठा- स्तैरश्वैरतिशीधैर्जगाम । सपरिच्छद इति भावः । 'घोटके वीतितुरग-' इति कोशः। केन क इव । विहायसा खेचरवृत्रहा इव । उपमालंकारः । शब्दालंकारसंसृष्टिकाव्यं काव्य- प्रकाशे स्फुटीकृतम् ॥ अथ नलपक्षे व्याख्या-स राजहंसो ब्रह्ममरालोऽपि सत्तर्क- जोषां नलनगरीमाजगाम । विहायसा आकाशमार्गेणेलन्वयः । कथंभूतः । गृहीतसंवित् अवश्यं तस्यैव नलस्य वरणं कर्ताह इति दमयन्तीतः प्राप्य निःसंदेहसंकेतः । संवि- १ सर्गः] राघवनैषधीयम् । १९ त्संकेत इति प्रागेव व्याख्यातम् । क इव । खेचरवृत्रहा गरुड इव । कैः सार्धम् । तैः खकीयैर्हसैर्बान्धवैः सार्धम् । कैरिव । नभसि विमानैरिव व्योमयानैरिव विरश्चेर्विमा. नत्वात्तेषाम् । वीनां पक्षिणामीतिर्गतं तेन गतेन वर्याः श्रेष्ठाः संडीनोड्डीनपारीणास्तैः सहेति निर्गलितोऽर्थः । 'विशेषणसूत्रे बहुलग्रहणादृक्षः शिशिपा शिशिपावृक्ष इति प्रयोगा जायन्ते' इति भाष्ये भवद्याख्यानादीनि वर्यपरनिपातो जात इति बोध्यम् । अत्रोपेन्द्रवजेन्द्रवज्रयोरुपजातिः ॥ पुरस्क्रियां तस्य यथा विधानं विधाय हांसप्रवरस्य राजा । वार्ती किलाचूचुददप्रमेयं सुसह्यवद्यं गणसेव्यमानम् ॥ २२ ॥ रामपक्षे-राजाप्रमेयं दशरथं वार्तमचूचुदत् किल । किं कृत्वा । हांसप्रवरस्य तस्य यथा विधानं पुरस्क्रियां विधाय । कथंभूतं दशरथम् । सुसत्यवद्यम् । पुनः कथं- भूतम् । गणसेव्यमानम् । प्रकरणाद्दशरथः प्रक्रान्तः । 'वात फल्गुन्यरोगे च' इत्य- मरः । कुशलमित्यर्थः । चुदिः पृच्छायामपि वर्तते । अहमपीदमचोद्यं चोद्यम्' इति म. हाभाष्ये तद्राजसूत्रे पृच्छायां प्रयोगात् । विक्रमादिना प्रमातुमशक्यमप्रमेयम् । 'शकि लिङ् च इति कृत्यप्रत्ययः । 'हंसः सूर्ये मराले च हंसो जीवात्मनि स्मृतः' इति यादवः। हांसानां राज्ञां प्रवरस्य श्रेष्ठस्य तस्य पुरस्क्रियां पूजां विधाय कृत्वा । कुशलं पप्रच्छेति तात्पर्यार्थः । 'वदः सुपि क्यप् च' इति पक्षे यत् । अतिसत्यवचनमित्यर्थः । गणेन सेनासमूहेन सेव्यमानमाराध्यमानम् ॥ अथ नलपक्षे-राजा नल: तस्य हांसप्रवरस्य हंससमूहश्रेष्ठस्य । तस्य समूहः' इत्यण् । यथाविधानम् । विधानमतिक्रम्येत्यव्ययी- भावः । पुरस्कियां पूजां विधाय वार्त कल्याणमचूचुदत् किल पुनः प्रसिद्धम् अनुपम सत्यवादिनं गणेन हंससमूहेन सेव्यमानमन्वीयमानम् । उपजातिवृत्तम् ।। गुरुर्वशिष्ठः करपल्लवेन युनक्तु वैवाहिकवर्यदिष्टे । वावर्तनं साकृत पूर्वमेव वधर्नृपेत्याह च तं विदेहः ॥ २३ ॥ रामपक्षे व्याख्या-च पुनर्विदेहस्तमित्याह-वशिष्टो गुरुरय वैवाहकवर्य दिष्टे सेति वर्तते । 'अर्थवशात् विभक्तिपरिणामः' इति परिभाषा भाष्ये रूढा । तस्याः करपल्लवेन श्रीरामकरपल्लवं युनक्तु । विवाहे दीव्यन्तीति वैवाहिकाः । शशिकरमूलादि- भगणा ज्योतिःशास्त्रोक्ताः सन्ति तादृशे वर्षे निर्वेधे मे संयोजयतु। दिष्टे काले प्रशस्ते। वधूः सीता धनुर्भङ्गानन्तरं वावर्तनं पूर्वमेवाकृत। 'वृतु वरणे'।वाग्रहणं वृतुधातोराद्या- वयवमिच्छन्त्याचार्याः । अत एव 'वृत्ते तु वृत्तवावृत्तौ' इत्यमरः । अवारी दिति। मालयेति भावः । हे नृपेति संवोधनं जनकीयम् । अणीयान् विलम्बोऽपि मम नास्ति । घटकता भवदधीनेति भावः ॥ अथ नलपक्षे व्याख्या-च पुनविदेहस्तमाह-वेः पक्षिणो देहो यस्य सः । आहेति बभूवेत्यर्थेऽव्ययं वर्तते । हे नृप, वशिष्ठः सुमतिः पुरोधाः । 'अतिशयेन वशी वशिष्ठः' इत्यतिशायन इष्टन्प्रत्ययः । गुरुमहान् । 'गुरुनिषकादिकरे २० काव्यमाला । पित्रादौ सुरमन्त्रिणि । दुर्जरालघुनोश्चापि गुरुमहति वाच्यवत् ॥' इति विश्वः । महान् विद्वान् सुमतिरित्यर्थः। तदीयकरपल्लवेन त्वदीयकरपल्लवं युनक्तु । 'युजिर् योगे' लोट् । अहं तथा वाग्मिती व्यधां यथा नलमेव स्वयंवरे वरिष्याति पुरुषान्तरनामग्रहण- मपि न करिष्य इति प्रत्यज्ञास्त । सा श्रेयः परं ब्रह्मवाक्यादरीरधं गमनमात्रविलम्बोऽयं पदार्थ इति भावः । ब्रह्मयानत्वात्कामरूपिता तस्य संप्रति विदेहत्वं स्वीकृतमिति ध्वन- यितुं विदेहपदं प्रक्षिप्तम् ॥ स जालपादः पुरमाजगाम महेनलो धोरणतोऽभ्ययासीत् । तत्रान्तरे देवऋषिश्च नाकं शक्रास्पदं प्राप जवेन जिन्वन् ॥ २४ ॥ रामपक्षे-स जालपात् अः परम् आजगाम । अनल: सन् धोरणतो महे अभ्य- यासीत् । तत्रान्तरे देव ऋषिश्च नाकं जिन्वन् शकास्पदं जवेन प्राप। 'जल घातने' । जालं घातनं तेन सह वर्तन्ते इति सजालाः हिंस्रा राक्षसादयस्तेषु पादो यस्य सः । रक्षोमूर्धसु पादप्रहारदानक्षमः ओ वासुदेवो रामः परं पितरम् । 'दूरानात्मोत्तराः पराः' इति तृतीयकाण्डे । 'पृ पालनपूरणयोः' । पिपर्ति पालयतीति परः पोषकं पितरं पूर्व- माजगाम । खकेतादागतं प्रत्युजगामेत्यर्थः । ततो नाल: समर्थो यस्मात् । अलं भूष- गपर्याप्तिवारणेषु । अलतीत्सलः । पचाद्यच् । न अलो यतः । धोरणेनेति धोरणतः । 'आद्यादिभ्य उपसंख्यानम्' इति वार्तिकेन तृतीयार्थे तसिप्रत्ययः । सर्व स्याद्वाहनं यानं युग्मं पत्र च धोरणम्' इत्यमरः । वाहनेन महे विवाहोत्सवशालायामभ्ययासीत् । अगमत् । परिणयार्थ मिति तात्पर्यम् । तत्रावसरे देवो राजा दशरथः ऋषिर्वशिष्ठश्च नाकं न विद्यते अकं दुःखं यस्मिन् सः नाको ज्ञानपूर्णः ब्रह्मानन्दाखादं तं जनकं जि- न्वन् प्रीणयन् शकास्पदमिन्द्रास्पदतुल्यस्थानम् । 'आस्पदं प्रतिष्ठायाम्' निपातनम् । उद्वाहस्थान प्राप । पृथक् पृथक् । 'जिवि प्रीणने जिन्वन् प्रीणयन् ॥ अथ नलपक्षे व्याख्या–स जालपादो हंसः । 'जालपादो मराले स्यात्' इति हैमः । जालाकाराः पादाः अस्येति स हंस उत्कृष्टं परं ब्रह्मलोकमगात् । तत्र महे नलो धोरणतो धोरणेन धो- रणं यानमारुह्य । ल्यबलोपे पञ्चमी । महे विवाहशालायां खयंवरेऽभ्ययासीत् । तत्रा- न्तरे देवऋषिनारदश्च । समासेऽप्ययं प्रकृतिभावः । 'ऋत्यकः' इति । जवेन वेगेन जिन्वन् प्रीणयन् नाकं निरन्तरसुखम् । 'अकं पापे च दुःखे च' इति विश्वः । 'नभ्रा- नपान्-' इति प्रकृतिभावः । शकास्पदममरावतीं प्राप । पूर्ववदुपजातिवृत्तम् । 'रा- जा भट्टारको देवः' इति कोशः ॥ अपूपुजद्विष्टरगन्धमाल्यैर्देवं मुनि संविधया यथावत् । भैमी स्फुरन्ती प्रभयातिसर्वो जिष्णुर्विवोढुं यतते न किंवा ॥ २५ ॥ रामपक्षे-अतिसर्वो जनकःज्ञान विज्ञानसंपत्त्या सर्वानतिक्रान्तो जनकः विष्टरगन्ध- माल्यैर्यथावत् देवं दशरथं मुनि वशिष्ठं गुरुं. तेषां संविधया सामग्र्या मधुपर्कादि.

१ सर्गः] राघवनैषधीयम् । २१ । भिरपूपुजत् आनर्ह । 'पूज पूजायाम्' । चौरादिको धातुः । चङ्परे णौ रूपम् । उ- तरालंकारेण आह चेति लब्धम् । जिष्णु: ष्णुप्रत्ययान्तः । रामः प्रभया कान्त्या स्फु- रन्तीं भैमी सीतां भीयस्य सः भीमो जनकः तस्यापत्यम् । 'तस्येदम्' इत्यण् । 'टि- ड्डाणञ्-' इत्यादिना ङीप् । वा अवधारणे प्रश्ने वा । विवोढुं परिणेतुं न यतते किम् । 'यती प्रयत्ने । एतावद्विलम्बो न कर्तव्यः । सुलग्नातिवर्तनमन्याय्य मिति भावः ।। अथ नलपक्षे-जिष्णु: पुरंदरः । 'जिष्णुलेखर्षभः शक्रः' इति वचनात् । यथावत् त- दहमिति संविधया । 'विधा विधौ प्रकारे च' इति कोशः । विष्टरगन्धमाल्यैः । विष्टर आसनम् । गन्धश्चन्दनम् । माल्यं माला । एभिरुपचारैवं मुनि नारदर्षिमपूपुजत् । आनर्च । उत्तरालंकारेण तद्वाक्यं वक्ष्यमाणमूह्यम् । जिष्णुः पुरंदरो भवानतिसर्यो भूत्वा प्रभया स्फुरन्तीं भैमी वाशब्दः कक्षे । निपातानामेकार्थत्वात् । विवोढुं न यतते किम् आश्चर्यमिदम् इन्द्राण्या तव फल्गुरूपया किं भवति यदि दमयन्तीं स्वयंवरे न लभसे तहिं त्रिलोकी पत्यभिमानित्वं तव व्यर्थमेवेति ध्वनितम् । पूर्ववद्वृत्तम् ॥ आनन्दशब्दोत्तरमाह सौरं वचोविलम्बं गमयन्सुलग्ने । जितोर्वशीको सुरराट् विलोकितुं वैवाहशालं स हरिः प्रतत्वरे ॥२६॥ रामपक्षे-आनन्दशब्दोत्तरः शतानन्दो नाम सौरं दशरथं सूरस्य सूर्यस्य गोत्रापयं पुमान् सौरः तं वच आह विलम्ब गमयन् शीघ्रता ज्ञापयन् । य एव गत्यर्थास्त एव ज्ञानार्थाः । 'नजिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः' इति भाध्यात् । कि- माहेत्याह-अविलम्बमस्तु विलम्बाभावोऽस्तु कार्ये इति । सुरराट् रामो जितोवंशीकां सीतां विलोकितुं द्रष्टुम् । 'नवृतश्च' इति कम् । वैवाहमुद्दिश्येत्यध्याहारः । तत्वरे त्वरया जगाम ॥ अथ नलपक्षे-आनन्दशब्दोत्तरः । 'सत्यं ज्ञानमानन्दं ब्रह्म' इति श्रुतिः । आनन्दस्य श्रीकृष्णाख्यब्रह्मणः । शब्द उपसर्गाद्यविष्कारे च । शब्दनं शब्दः । भावे घञ् । अद्वैतब्रह्मनामकीर्तनमेव उत्तरं यस्य सः नारदः सौरं सुराणामी शम् । 'तस्येदम्' इत्यण् । सुलग्ने दमयन्ती विवाहलग्ने अविलम्ब शैघ्यं गमयन् ज्ञापयन् वच आह । पू- ऑक्तं वचनमुजगारेत्यर्थः । सुरराट् इन्द्रः । जितोर्वशीको तां विलोकितुं वैवाहशालं विवाहकर्तारो भूपा वैवाहाः । 'शेषे' इत्यण् । वैवाहानां राज्ञां शाला वैवाहशालम् । 'विभाषा सेना-' इति नपुंसकत्वं इखत्वं बोध्यम् । उद्दिश्ये सध्याहारः । प्रतत्वरे त्व- रया अब्राजीदित्यर्थः । कथंभूतः हरिः । यमादिसहितः । उपलक्षणतया व्याख्यानम् । 'का प्रीतिः सह मार्जारैः' इतिवत् । त्रिष्टुब्जगत्योरुपजातिवृत्तम् ॥ आमोदवांस्तं पवनः सिषेवे खःकौसुमोद्धान्तपटुद्विरेफः । प्रातिष्कशी वानल आतनोत्तदा प्रियासमक्षं गत उग्रतेजाः ॥ २७ ॥ रामपक्षे-खःकौसुमोद्धान्तपटुदिरेफः आमोदवान् पवनः तं सिषेवे । कुसुमानां समूहः कौसुमम् । 'तस्य समूहः' इत्यण् । स्वर्गस्य कौसुमं मान्दारपारिजातं तत्रोद्धान्ताः २२ काव्यमाला। पटवो गुञ्जनप्रवीणा द्विरेफा यस्मिन् सः पवनो वायुः तं रामं भगवन्तमगोचरस्तदा सेवितवान् । 'षेत्र सेवने' लिट् । उग्रतेजा वा निश्चयेन तदा अनले वैवाहिकेऽनौ ज्वलति सति प्रातिष्कशी सहायतामातनोत् । वेदवाक्यैरपरित्यागं जन्मपर्यन्तं प्रियायाश्चकारेत्यर्थः । 'प्रतिष्कशश्च कशेः' इति सुट् ब्राह्मणादित्वात्ध्यञ् । षित्वान्डी । 'अस्थिभिरस्थीनि संदधामि' इति वचनात् । 'प्रतिष्कशः सहाये स्याद्वार्ताहरपुरोगयोः' इति विश्वः । कथंभूतः प्रियासमक्षं गतः । अश्चलग्रन्थ्यनन्तरं मण्डपे ह्यावने ध्यात इति भावः । प्रिया सीता तस्याः समक्ष प्रत्यक्षं गतः । 'प्रतिपरसमनुभ्योऽक्ष्णः' इति समासान्तः ॥ अथ नलपक्षे-उग्रतेजा नल इन्द्रस्य तदा दौत्यं प्रातिष्कशी- मातनोत् चकार । इन्द्रेण 'त्वमेवामित्कामव्यथावारणाय गच्छ, अन्तर्धानविद्यया मद्दत्तया कोऽपि जनो न द्रष्टा' इत्युक्तः । कथंभूतः । प्रियासमक्षं गतः । 'आमोदः सोऽतिनिहर्हारी' इति कोश: । स्व:कुसुमादिविशेषणं सौन्दयद्योतकम् । पक्षद्वयेऽपि तुल्यः परिकरालंकारः । त्रिष्टुब्जगत्योरुपजातिवृत्तं बोध्यम् ॥ नारस्य सो गोचर एव हारं पर्यष्टवीत्तत्स्वयमेव तत्र । विहाय तत्किं जगदीश्वरेण संपर्चनं वामहतश्चरेत्किम्(त्कः) ॥ २८ ॥ रामपक्षे-तत्र शालायां प्रक्रान्तत्वात्पूर्व स जनकः कन्यापिता नारस्य नरसमूहस्य अविषय एकान्तत्वात् , हारं पर्यष्टवीत् । हरेर्नारायणस्यावतारं नारदायुक्तं राम वर्णितवानित्यर्थः । इत्याह चोत्तरालंकारेण तद्वैष्णवं धाम जगदीश्वरेण संपर्चन संयोगं त्यक्त्वा को वामः प्रतिकूलकारी अत्र कं पुरुषान्तरं गच्छेत् । आत्महेत्यर्थः । तस्मादुचितकारित्वं संप्रति ममैव वृत्तम् । किमन्यत्कुत्सितमेव ॥ अथ नलपक्षे- नारस्य रक्षिवर्गस्य राजमन्दिरेऽगोचरोऽन्तर्धानविद्यया स नलस्तत्र कन्यापुरे खयमेव हारमिन्द्रचरितं पर्यटवीत् पुनः पुनर्वर्णयांचके । तजगदीश्वरेण संपर्चनं विहाय को वामो मन्दो मे संपर्चन मितोऽत्र चरेत् । न कोऽपीति काकुव्यङ्गयम् । त्रिलोकनायेन शची- पतिना सह नन्दनादिवनेषु रस्यसे वयं मानवाः के वराका इति भावः । वा निश्चयः । एवं ब्रुवाणस्य मनसा सत्यवादित्वं ध्वनितम् । उपजातिवृत्तम् ।। सखीसहस्रेण समन्वितां तां चेतो हरन्तीमपि वैबुधस्य । अनन्यचित्तां समवेक्ष्य नान्यगेत्यचष्ट जिष्णुं स परीत्य तत्र ॥ २९॥ रामपक्षे-तत्र स परीय अनन्यचित्तां तां नान्यगेत्यचष्ट । कथंभूताम् । जिष्णुं नार्यन्तरजयनशीलाम् । कर्तरि ष्णुप्रत्ययः । पुनः कथंभूताम् । सखीसहस्रेण समन्वि. ताम् । पुनः कथंभूताम् । वैबुधस्यापि चेतो हरन्तीम् । अग्निमिति शेषः । सोऽनि परि- कम्य अन्यत्र रामं विना नास्ति चित्तं यस्याः सा ईदृशीं तां वीक्ष्य अन्यगा मनसापि नास्तीति अचष्ट । चक्षिङ् दर्शनेऽपि ज्ञानदृष्ट्या विचारयामास । लङि रूपम् । विबु- धानां समूहो वैबुधं तस्य । तडिद्वयोतमानां विस्मायकरूपां समवेक्ष्य तुतोष । - १ सर्गः] राघवनैषधीयम् । २३ २ मनसा रामस्तदेति भावः ॥ नलपक्षे-स परीत्य तत्र इन्द्रादिस्थाने परावृत्य अन्यगा सा नास्तीति जिष्णुमिन्द्रमचष्ट कथयामास । 'चक्षिङ् व्यक्तायां वाचि।' अर्थद्वयं तिङन्ते दर्शितम् । किं कृत्वा । अनन्यचित्तां समवेक्ष्य । नान्यत्र चित्तं यस्याः सेति बहुव्रीहिः । कथंभूताम् । विशेषणपदं प्राग्वत् । कन्यापुरे तादृगद्भुतरूपा मया दृष्टा । मां विहायेन्द्रपत्नी भवेति चोधनाना नाजीगणद्युष्मान् मामेवावृणीतेति तात्पर्यार्थः । 'अभावे नह्य नो नापि मा म मालं च वारणे' । माशब्दोऽव्ययं निषेधार्थेऽमरेण प्रति- पादितः । 'स्वरादिनिपातमव्ययम्' इति सूत्रे मनोरमायां दीक्षिता अप्याहुः । मान्यगा। नान्यगेत्यर्थः । त्रिष्टुब्जगत्योरुपजातिः ॥ हरे विजानीहि नरस्य बृत्तं प्रतिष्कशत्वं कृतवान्यथाहम् । उजिज्झिषास्या मनसः कदाचिन्नैवास्ति मे कौ सृतिकत्वबुद्धचा ॥३०॥ रामपक्षे-पुना रामो जिष्णु रूपण स्त्रीजित्वरीं सीतामाह-हे हरे, हरा वशीका- रिका चासौ ईलेक्ष्मीरिव तत्संबोधनम् । हे हरे मदशीकत्रि सीते नरस्य वृत्तं विजा- नीहि । 'नृ नये' । पचाद्यच् । नयज्ञस्य मे वृत्तं चरित्रं विजानीहि । यथाहं वहिसमीपे शपथानका प्रतिष्कशत्वं सर्वथा सहचरो भविष्यामीति कदाचिन्मे मनसोऽस्यास्तव उजिज्झिषा नास्ति । 'उज्झ उत्सर्गे जिहासा इत्यर्थः । सन्नन्तादप्रत्ययः। केन हेतुना। कौसृतिकत्वबुद्धया । 'कुसूतिनि:कृतिः शाट्यम्' इत्यमरः । कुमृतिः शीलमस्य कौस- तिकस्तत्त्वम् । कपटित्वबुद्धया रूपसाधन प्रतिष्कशशब्दस्य कोशश्च प्रागेव दर्शितः ॥ अथ नलपक्षे-हरा चेतोहरा ई त्रिलोकीशत्वलक्ष्मीर्यस्य स इति तत्संबोधनम् । हे हरे, नरस्य मे वृत्तं साध्वसाधु विजानीहि यथाहं तव प्रतिष्कशत्वं वार्ताहरत्वं कृत- वान् । दौत्यमित्यर्थः । यूयं देवाश्चैतजानीषे सर्वसाक्षित्वात् सत्यमसत्यं वा अस्या दम- यन्त्या मे मनसः उजिज्झिषा नैवास्ति । प्रतिसंदेशं भवतेऽवोचत्कि करवाणि अहम्, का. लत्रयेऽपि मां विहाय पत्यन्तरं करोति, मम तत्र को दोष इति भावः । प्राग्वदृत्तम् ॥ तस्यां सभायां समलंकृतायां गतव्यलीकः स्थितिमाततान । सकौतुका खे सुरपातिरस्थान्नापी तु रामान्यसुरान्निरास्थत् ॥ ३१ ॥ गतव्यलीको रामः समलंकृतायां तस्यां सभायां स्थितिमाततान। 'व्यलीकं त्वप्रियेऽनृते' इत्यमरः । गतो व्यलीको यतः सत्यवादी रामः तस्यां सभायां स्थितिमवस्थानं चकार । तदानीं रामविवाहोत्सवदर्शनाय खे सकौतुकासुरपालिरस्थात् । 'पालि: स्यब्यङ्कप- तिषु' तार्तीयीकेऽमरः । नापी सीता तु । नृपस्यापत्यं स्त्री (रामान्यसुरान् निरास्थत् तत्याज) रामान्यसुरान् खेऽवस्थितान् हताशान् कृत्वा राममेवावृणीवेति भावः ॥ अथ नलपक्षे-छलेन पञ्चनलीत्वं भूमिष्ठत्वं विधाय दमयन्त्याशया याकरोत् सा दमयन्ती सत्यै नखावस्थानं स्खचिह्न विधाय तस्थौ सा नलमेवाणीतेति सत्यपाशेन १. मूले 'लान्यगा' इत्यस्य स्थाने 'मान्यगा' इति पाठः स्यातू.

२४ काव्यमाला बद्धत्यद्भुतो रसः । उत्तरालंकारेण सर्वो गम्भीरार्थों लभ्यतेऽलंकारस्यैव तादृशी शक्तिः समुज्जृम्भत इति ज्ञेयम् । रामशब्देनाभिरामः सुन्दरो नल एव । कोशः सुन्दरवाची प्रागेव दर्शितः । पूर्वार्ध नलपक्षेऽपि समानम् । प्राग्वदृत्तम् ॥ वृन्दारका प्राप्तवरः स पावकः सौरी प्रतिश्रुत्य परार्धवर्णाम् । इयेष गन्तुं समितः प्रतीक्ष्यः संप्राप्य सद्यौतकमुन्नतेच्छः ॥ ३२ ॥ रामपक्षेस पावकः प्रतीक्ष्यः समितो गन्तुमियेष । पूञ् पवने' । अहल्यापावनः स- रामः सर्वेषां पूज्यः । 'पूज्यः प्रतीक्ष्यः' इति कोशः । समितः सभातः गन्तुमयोध्यां प्रति इयेष । यद्वा समितप्रतीक्ष्य इत्यविसर्गः पाठः । संगतपूज्यः दशरथवशिष्टादिसहितः । कथंभूतः । वृन्दारकै रूपिक्षत्रियैरपि । 'वृन्दारको रूपिमुख्यौ' इति कोशः । अप्राप्ता वरा श्रेष्ठा यस्य स इति बहुव्रीहिः । किं कृत्वा । परार्ध्यवर्णा श्रेष्ठवर्णी सौरीम् । तस्ये- दम्' इत्यण् । सूर्यस्य प्रभामिव प्रतिश्रुत्य अङ्गीकृत्य । परिणीयेति यावत् । पुनः किं कृत्वा । सद्यौतकं संप्राप्य उन्नतेच्छो महेच्छ: सन् कुञ्जरदासीदासादियुतं जनकदत्तं परिवह संप्राप्य स्खयोग्यमिति तात्पर्यार्थः । 'यौतकादि तु यद्देयं प्रदायो हरणं च तत्' इति त्रिकाण्ड्याम् ॥ अथ नलपक्षे-वृन्दारकेभ्यः इन्द्रादिभ्यः संतुष्टेभ्यः आप्राप्तवरं नानावरात् प्राप्य खत एव सत्यपूतत्वात्कथाभिः पावकः कलिदोषघ्नः संगतपूज्यः सुमत्यादिपूज्यः गन्तुं निषधपुरीमियेष अवाञ्छत् । 'पूञ् पवने । वुल् । किं कृत्वा । परायवर्णा सौरी सूर्यप्रभामिव दमयन्ती प्रतिश्रुत्य अङ्गीकृत्य विवाहानौ । किं कृत्वा । उन्नतेच्छः सद्यौतकं योग्यं पारिवह संप्राप्येत्यर्थः । पूर्ववत् त्रिष्टुब्जगत्यो- रुपजातिवृत्तम् ॥ पदं खकीयं त्रिदशाः समीयुः पुरीं निजां क्षोणिपतिः प्रतस्थे । त्रियोजनं यावदतीतवान्पथं तावत्सपलैरुदजृम्भ(म्भ्य)ताध्वनि ॥ ३३ ॥ रामपक्षे-कौतुकद्रष्टारस्त्रिदशाः प्रसन्नाः स्वकीयं पदं समीयुः। 'इण् गतौ' लिट् । जग्मुः। क्षोणिपतिनिजां पुरीं प्रतस्थे। यावत्रियोजनं पथम् 'वाट: पथश्च मार्गश्च' इति त्रि- काण्डशेषः । त्रियोजनमिति पात्रादित्वानपुंसकत्वम् । पथशब्दोऽकारान्तः ।मार्गमतीत- वान् अतिचक्राम । तावत्सपत्नैरुदजृम्भ(म्भ्योताध्वनि बहुभिः शिष्यैः सह परशुरामेण मुख्येन च उदजृम्भ(म्भ्योत प्रकटीभूतम् । इत्थं बहुवचनं सर्वेषां तदाज्ञाकारत्वात् ॥ अथ नलपक्षे-ते इन्द्रादयः पदं खं ययुः क्षोणिपतिनल: निजां पुरी निषधराजधानी प्रति प्रतस्थे यावत्रियोजनं पथमतीतवान् तावत्सपत्नैः क्षत्रियैः स्वयंवरे तिरस्कृतैः अध्वनि बहुभिः समेत्य उदजृम्भ(म्भ्योत प्रकटीभूतम् । त्रिपदं बहुत्वोपलक्षणं बोध्यम् । नलपक्षे स्वयंवरसमाजे तु इन्द्राणी भस्मीकरोतीति नायुध्यन् । नलस्त्वनैषीत् । प्राग्वद्वृत्तम् ॥

१ सर्गः] राघवनैषधीयम् । २५ खरोधकः कार्णधनुर्विकृष्य खगेन सैन्यैरनुगम्यमानः । सत्यापकः क्षत्रियजित्वरस्य संसृष्टपात्तेन गमं व्यतानीत् ॥ ३४ ॥ रामपक्षे-क्षत्रियजित्वरस्य काणे धनुर्विकृष्यकेच वाणेन तदीयखयानरोधक: सत्यापकः सत्यवचनकर्ता तेन परशुरामेण संस्पृटपात् स्पृष्टचरणः सन् मं व्यतानीत् अकार्षीत् । सैन्यैरनुगम्यमानः त्रिसप्तकृत्वः क्षत्रियजयशीलक्रुद्धो रामस्तं तर्जयामास । वैष्णवं धनुस्तद्धस्तादाच्छिद्य समारोप्य तदीयस्वर्गमार्गरोधको दाशरथिरेकेन वाणेना- त्यद्भुतं कर्म यदाकरोत् तदा तच्चरणस्पृग्जामदग्न्यो जिताय । एवं रामायणकथो- त्तरालंकारेण व्यज्यते । सप्रतिज्ञं स्वर्गमार्गपरिघलं विधाय रामं मुमोच नान्यथेति ध्वन्यते । एतादृशकाव्यस्यैव काव्यप्रकाशे उत्तमकाव्यलं दर्शितम् । 'तत्प्रयोजको हे- तुश्च' इति 'जकाभ्यां कर्तरि' इति निषेधस्या नित्यवदर्शनात् खरोधक इति समासः कृत इत्यवसेयम् ॥ अथ नलपक्षे-ये क्षत्रिया मार्गे नैषधेन संप्रहर्तुमागतास्तैरेव स नलः स्पृष्टचरणः सन् निषधपुरं प्रति गमं चचार । कथंभूतः । क्षत्रियजित्वरस्य स. त्यापकः तेषां क्षत्रियाणां मध्ये कश्चन दिग्विजये सर्वेभ्यः श्रेष्ठः क्षत्रिय आसीत् तं बद्धा गृहीतचरणं तत्याज यदा शपथमकारवत्तेन । 'सत्यं शपथतथ्ययोः' इत्यमरः । धात्वर्थे णिजा पुक् च वार्तिकात् । खगेनेति 'जात्याख्यायाम्' इति सूत्रेण खगैरियर्थः । जाता- वेकवचनम् । जेयकृष्णदेवताकं काणंम् । 'सास्य देवता' इत्यण् । सैन्यैः सह महायुद्धं विधाय तपःसामर्थेन तान् जित्वा पुरं प्रति जगामेति भावः । इन्द्रवज्रोपेन्द्रवज्रयो- रुपजातिः ॥ लसत्पताकं नगरं प्रविश्य जैत्रो धनुष्मान्प्रणनाम मातृः । ज्येष्ठागुरूस्ता महनीयरूपां श्वश्र्वो विलोक्य प्रमदं परापन् ॥ ३५ ॥ रामपक्षे-लसत्पताकं नगरं प्रविश्य मातृः प्रणनाम तिखः गुरू: श्वश्रूय॒ष्ठा सीता ववन्दे। ता महनीयरूपां तां विलोक्य प्रमदं हर्षे परापन अलभन्त । गुरू गोष्पतिपित्राद्यौ' इत्यमरः । 'वोतो गुणवचनात्' इति ङीप् । गुर्वीः गुरूः रूपद्वयम् । तामिति सीतो- पलक्षणम् । ऊर्मिलादयश्च तथाचक्रुः । अनन्तरं सर्वा दृष्ट्वा ननन्दुरिति भावः ॥ अथ नलपक्षे-स नलोऽपि तादृशं नगरं प्रविश्य मातृः प्रणनाम । वीरसेनपत्न्योऽन्याः बढय आसन्निति द्योयते । ताः प्राग्वदेव तां दमयन्तीं दृष्ट्वा जहृषुरिति तात्पर्यार्थः । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिः ।। पुरस्थं परात्मानमाढ्यं गुणौधैः श्रिया सेव्यमानं कदाचित्प्रशान्तम् । विभीताश्रयः सान्तरः ख्यातकीर्तिः कलि म सोऽभ्याययौ नारदाह्वः॥३६॥ रामपक्षे-कदाचिन्नारदाह्नः कलि म पुरस्थं परात्मानमभ्याययौ । कथंभूतम् । गुणैराट्यम् । पुनः कथंभूतम् । श्रिया सेव्यमानम् । पुनः कथंभूतम् । शान्तम् । कथं- ४ २६ काव्यमाला। भूतो नारदः । विभीताश्रयः । पुनः कथंभूतः । सान्तरः । पुनः कथंभूतः । ख्यातकीर्तिः । नारद इत्याहा नाम यस्य स इति । 'स्त्रिया पुंवत्' इति पुंवद्भावः (१) । नामेति प्रसिद्धावव्ययम् । अग्निर्माणवक इतिवत्साध्यवसाना लक्षणा बोला । साक्षात्कलिकार- कत्वात्कलिरेव पुरि अयोध्यायां तिष्ठन्तं परात्मानं 'रामं विद्धि परं ब्रह्म' इत्यध्यात्म- रामायणे । व्यापकं भगवन्तमभिमुखीकृत्य आययौ सौन्दर्यादिगुणसमूहपूर्ण श्रिया सीतया स्त्रिया सेव्यमानं प्रकर्षण शमनिष्ठं विशेषेण संसारागीता विभीता ध्रुवादयस्तेषां विद्यानुशासनेनाश्रयं शरण्यन्तरेण भेदेनान्यत्र कर्तव्येऽन्यवार्ताव्यवहारकत्वम् । भेद- शिक्षासु हितमित्यर्थः । 'अन्तरमवकाशावधिपरिधानान्तधिभेदतार्थे । छिद्रात्मीय- विनाबहिरवसरमध्येऽन्तरात्मनि च ॥' इत्यमरः । ख्याता प्रसिद्धा त्रिलोक्यां वार्ता यस्य सः ॥ अथ नलपक्षे-इन्द्रादिदेवतिरस्कारात्कुपितः कलिस्तदानीं निषधपुरी- मागस विभीतवृक्षाश्रयो भूत्वा अवकाशान्वेषी पुराणादिख्यातवातः कलि: साक्षानि- ष्टापरनामा स पुरस्थमुत्तमबुद्धिं प्रशान्तं नलमाकान्तवान् । अभ्यापूर्वो यतिराक्रमणे। उपसर्गास्त्वर्थविशेषद्योतकाः । चरणप्रक्षालनाभावमात्ररन्ध्रान्वेषणात् । कथंभूतः । नारदाह्वः नराणां समूहो नारम् । 'दो अवखण्डने' । नारं द्यति खण्डयति इति नारदः नारद इत्याह्वा यस्य सः । कलिवेशे सति पुण्यात्मापि दुर्बद्धिर्भवति इत्यर्थः । भुजङ्ग- प्रयातं छन्दः ॥ ततो वैष्णवी भारती लोकनन्दा परानन्दधुं प्राप शृण्वन्नृमौलिः । उदाराः समस्ताः समस्ताविषुस्तं पुरा वृत्तगुम्फैरुदन्तैः समस्तैः ॥ ३७॥ रामपक्षे-ततो नृमौलि: परानन्दधुं प्राप। नृणां मध्ये मौलिरिव । 'मौलि: किरीटे. धम्मिल्ले कङ्केलिद्रुमचूडयोः' इति विश्वः । 'स्युरुत्तरपदे व्याघ्रः' इति कोशः । एवं मौलिशब्दस्य श्रेष्ठार्थाभिधायित्वम् । रामस्ततो नारदात्परानन्दं प्राप । किं कुर्वन् । लोकनन्दां वैष्णवीं शृण्वन् श्रीमद्भगवद्गुणानुवादरूपामत एव लोकानन्दाम् । 'टुनदि समृद्धौ' । कर्मण्यण् । टाप् । 'द्वितोऽथुच् । 'स्यादानन्दथुरानन्दः' इति त्रिकाण्ड्याम् । शृण्वन् सन् समस्ता उदाराः पुरावृत्तादिभिः तं समस्ताविषुरित्यन्वयः । 'उदारो दातृमहतोः' इति कोश: । 'इतिहासः पुरावृत्तम्' इति च । 'गुम्फ ग्रन्थे' तौदादिकः । भावे घञ् । इतिहासगुम्फितैरित्यर्थः । बहुव्रीहिसमासात् । सद्वृत्तस्यान्तो निश्चयो यत्र आध्यात्मिकज्ञानप्रकाशस्य नीत्यादेश्चेति भावः । तं रामम् । 'टुञ् स्तुतौ' । लुङ् । 'स्तुसुधूभ्यः' इतीट् । सम्यग्वर्णयामासुः । सभायां कदा राजा रामः स्यादिति स्मार्षुः । वैष्णवीमिति । विष्णोरियम् । 'तस्येदम्' इत्यण् ॥ अथ नलपक्षे- नृमौलिनलो राजा ततो विवाहोत्तरं मध्येसभं सुमतिजातूकर्ण्यबकदाल्भ्यादिभ्यो वै- ष्णवीं भारती शृण्वन् परानन्दधुं प्राप । कथंभूताम् । लोकनन्दाम् । उदारा इत्यादि च पूर्ववदेव विशेषणविशिष्टत्वं प्रतिपत्तव्यम् । भुजङ्गप्रयातं छन्दः ॥

१ सर्गः] राघवनैषधीयम् । २७ तदीयाधिराज्य विहन्तुं तदानीं नृपानुज्ञया मन्थरा दुःप्रवृत्तिः । समुद्भूषिताप्यास वार्ता कलीया यतः पुष्कराक्षी प्रजज्वाल कोपात् ॥३८॥ रामपक्षे तदा तदीयाधिराज्यं विहन्तुं नृपानुज्ञया मन्थरा दुःप्रवृत्तिरभूदिति शेषः । 'कर्मणि द्वितीया' इति सूत्रं व्याचक्षमाणो भाष्यकार आह-अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते । वृक्षः प्लक्षः अस्तीति गम्यते । नन् पान्तीति नृपाः लोकपाला इन्द्रादयस्तदनुज्ञया इन्द्रादि देवै राज्यस्थे रामे राक्षसवधो न भविष्यतीति विचार्य नोदिता वाणी मन्थरा बुद्धा वा विवेशेति सा कैकेयीद्वारा विनं करिष्यतीति प्रविष्टा वाक् सर्व विपरीतं मन्थरामाविश्य चक्के इति रामायणकथा- नुसंधेया । दुष्टा प्रवृत्तिर्वार्ता यस्याः सा तथाभूता मन्थराख्या कैकेयीपरिचारिकाभूत् । यतः कारणात् पुष्कराक्षी कैकेयी कोपाजज्वाल । अत एव समुदूषितापि पण्डितै- निन्दितापि रामराज्याभिषेकविघ्नराजसंस्थादिदुर्वार्ता कलीया कलियुगीया त्रेतायुगे आस बभूवेत्यर्थे लिङ् प्रतिरूपकमव्ययम् । उत्तरालंकारेण कथानुसंधेया । 'पुष्कर पङ्कजे व्योम्नि द्वीपेऽम्भसि नपुंसकम्' इति हैमः ॥ अथ नलपक्षे-तदानीं नृपानु- ज्ञया तदीयाधिराज्यं विहन्तुं दूरीकर्तुं मन्थरा । 'मन्थ विलोडने । 'मथि हिंसायां च' । मन्थनं मन्थः । मन्थं नाशं रातीति ददातीति मन्थरा । 'रा दाने' । दुःप्रवृ- त्तिः समुषितापि कलीया आस । नृपानुज्ञयेति पदेन कलियुगाविष्टः कदाप्यतथाचरितो नृपो नल: सभायां कितवराजम:मया सह दीव्येत्यचूचुदत् । समुत्कर्षेण धर्मादिशास्त्रेषु दूषितापि सा वार्ता कलीया कलौ साध्वी कलहकारिणी । 'सर्वत्र अग्निकलिभ्यां ढक् वक्तव्यः' इति ढकोपवादत्वेन 'वानामधेयस्य' इति वृद्धाच्छः शैषिक: । चण्डतरा बभूव । यतः कारणात् पुष्करश्वासावक्षी च पुष्कराक्षी । बहुलग्रहणात्पुष्करशब्दस्य पूर्व- निपातः । अक्षाः कूटत्वेनास्य सन्तीत्यक्षी। 'अत इनि ठनौ' इति इनिर्मत्वर्थीयः । लिङ्गशेषः शब्दालंकारः । एवं च प्रजज्वालपदेन राज्यकोशादिकमपहत्य नलीयं दुष्ट- दायादः पुष्करो राज्यश्रिया द्यूतजितयातीव चकाशे । नलो भ्रष्टश्रीको हृतराज्योऽभू- दिति तिङ्पदव्यङ्गयम् । 'ज्वल दीप्तौ' भौवादिक: लिङ् । 'अक्षास्तु देवनाः पाशकाश्च ते' इत्यमरः । सन्नपि तथा चकार अन्येषां का कथेति भावः । भुजङ्गप्रयातं छन्दः ॥ अयं सुतः स्ताद्भरतो हि राज्ये बम्भ्रम्यमाणो विपिनेऽवसीदेत् । वधूसमेतो वरदानतः पुरा राजानमित्याह कनिष्ठमाता ॥ ३९ ॥ रामपक्षे-कनिष्ठमाता । रामस्येति शेषः । राजानं दशरथमित्याह-किमिति । भरतः सुतो राज्ये स्तात् । वधूसमेतो बम्भ्रम्यमाणोऽयमवसीदेत् । कुतः । वरदानतः कारणात् । आभ्यां वराभ्याम् । दैवासुरयुद्धेऽक्षकील: पतितः । कैकेयी द्रागवरुह्य रथाद्यथास्थानस्थं कृतवती तदा वरद्वयं न्यासभूतं नृपदत्तं तत्रादधे । तद्यमिदानीं ययाचे । एकेन भरताभिषेक: स्यात् , अपरेण ससीतो रामो दण्डकान् गच्छतु नो २८ काव्यमाला। .. चेन्मरिष्यामीति सा निर्बवन्ध । तदा सत्यपाशबद्धो राजा तथैवाकरोदिति व्यज्यते प्रबन्धरूपरामायणकथानुसंधानमित्यवसीयतां बुधैः ॥ अथ नलपक्षे-कनिष्ठमाता । 'कनिष्ठोऽतियुवाल्पयोः' इत्यमरः । कनिष्टस्य तुच्छस्य लघुपदार्थस्य माता उच्चैर्वक्ता। 'माङ् माने शब्दे च' । जौहीत्यादिको धातुः । ‘ण्वुल् तृचौ' इति कर्तरि तृचि कृते सौपरे प्रसूवाचिमातृशब्दवद्रूपं जायते । पुष्करः कितवो राजानं नलमाह- किमिति हि अयं मल्लक्षणो जनः पुरा पूर्वकाले द्यूतकाले वरदानतः वरस्य श्रेष्ठस्य पणे राज्यदानाद्धेतोः राज्ये निषधराज्ये स्तात् । भरतः । 'अप्यथातिशयो भरः'। इत्यमरः । भरेणातिशयेन तस्यति व्यथते इति भरतः । 'तसु उपक्षये' । देवादिको धातुः । ततः विप् । अधातोरित्युक्ते: 'अत्वसन्तस्य' इति दीर्घो न सौ परे । 'सुतः पार्थिवपुत्रयोः' इति तृतीये काण्डे' । त्वलक्षणः सुतो राजा दुःखी 'नितरां दमयन्ती- सहितो वने बम्भ्रम्यमाणोऽटन् अवसीदेत् । अद्यैव मम राज्यं लब्धा वनं गच्छेति भावः । त्रिष्टुब्जगत्योरुपजातिः ॥ अक्षैनिहीनत्वमवाप्नुवन् राट् सलक्ष्मणोऽगापितृसद्म तूर्णम् । साध्वीयुतस्तादृशवेषदर्शनाब्यलापि पौरैधिगितीरयद्भिः ॥ ४० ॥ रामपक्षे-सलक्ष्मणो राट् साध्वीयुतस्तूर्ण पित्रसद्म अगात् । कथंभूतो रामः । अक्षनिहीनत्वमवाप्नुवन् । पौरैस्तादृशवेषदर्शनात् व्यलापि । कथंभूतैः पौरैः । धिगि- तीरयद्भिः । निर्बन्धेन सीतयानुयातः प्रणामाय दशरथमन्दिरमयासीत् शीघ्रमेव । 'अथाक्षमिन्द्रिये । ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे' इति तृतीयेऽमरोक्तिः । श्वो राजा भूत्वा व्यवहारान्नारदोक्तान् । व्यवहाराध्यायेऽष्टादश करिष्यतीति पूर्वदिने सर्वैरवधृतम् अथ दण्डकगमावधारणेन तैर्व्यवहारैवियोगमाप्नुवन् इति गूढोऽभिसंधिः । 'सती' साध्वी पतिव्रता' इति कोशेऽभिसंधिः। विलपिः परिदेवने । 'विलापः परि- देवनम्' इत्यमरोक्तिः । तादृशवेषदर्शनात् चीरवल्कलधारणात् ॥ अथ नलपक्षे- लक्ष्मणः स राट् नल: । 'राज्ञि राट् पार्थिवः' इत्यादिकोशः । साध्वीयुतः दमयन्त्या युतः तूर्णं द्राक् पितृसद्म । तस्मिन्दिने नगरान्ते श्मशानकुट्यां न्यवासीत् । श्मशानं स्थापितृवनम्' इत्यमरः । अगादगमत् । 'लक्ष्मीवांल्लक्ष्मण: श्रीलः' इति कोशे। सामुद्रिकरेखात्मकपद्मादिराजचिह्नसमेतः पाणिपादे पूतपूर्वगत्या वा अथ पौरैर्निषध- वास्तव्यैः पट्टचीरधारिखदर्शनात् तादृशवेषदर्शनादित्यस्यार्थः । 'ईर क्षेपे' चौरादिकः । 'इतीरिते' वचसि वचखिना' इति माघात् । 'भव शरणमितीरयन्ति ये वै त्यज भट' इति विष्णुपुराणाच्च व्यक्तवागर्थत्वं निणींतमेव । ईरयद्भिः । कथयद्भिरित्यर्थः । त्रिष्टुब्- जगत्योरुपजातिः ॥ आर्योक्तितः को न चिराय यायावनं न सत्यात्परमोऽस्ति धर्मः । मुनीन्बुधानित्यथ संकथय्य प्रणम्य विश्राण्य वसून्यगाद्वनम् ॥ ४१ ॥ : -

।
१ सर्गः]
राघवनैषधीयम् ।
२९
.
रामपक्षे-कः पुरुषः आर्योक्तितः आर्यः पिता तद्वचनानं चिराय अतिशीघ्र
न यायात् न गच्छेत्पुत्रः । अपि तु यायादेव । सत्यात्परमो धर्मो न । अथ रामो
बुधान् पण्डितान् मुनीन् संकथय्य संवादविषयीकृत्य प्रणम्य वसूनि हिरण्यादीनि
विश्राण्य दत्त्वा वनमरण्यमगात् ॥ अथ नलपक्षे-'अभावे नानो नापि' इत्यमरः ।
अ आर्यः इति पदच्छेदः । कृतसवर्णदीर्घकः सन् अनार्याक्तितः न यायात् । अपि तु
गच्छेदेव । यतः सत्यात्परो धर्म एव न । 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेः।
सत्यस्य धर्मैकचरणत्वात् । पणबन्धे मयोक्तत्वात् । शेषं पूर्ववत् । त्रिष्टुञ्जगत्यो-
रुपजातिः ॥
बहिः पुरं यस्तमसा परिप्लुतोद्देशं व्यवालोकत चीरवासाः ।
व्यत्यक्रमीत्तत्र निशां समस्तां वास्तारयोग्योऽपि विधेनियोगात् ॥ ४२ ॥
रामपक्षे विवरणम् –चीरवासाः बहिः पुरं यन् तमसापरिप्लुतोद्देशं व्यवालो-
कत । तत्र खास्तारयोग्योऽपि विधेनियोगात् समस्तां निशां व्यत्यक्रमीत् । चीराणि
वासांसि यस्य सः । 'अपपरि-' इति समासः । अत एव ज्ञापकादहियोगे पञ्चमी । पुरा-
द्वाहिरित्यर्थः । यन् गच्छन् रामस्तमसानदीव्याप्तोद्देशं व्यवालोकत विशेषेण ददर्श ।
'फ्लुङ् गतौ' । परिपूर्वो व्याप्त्यर्थः । पर्यङ्कादिखापयोग्योऽपि भुवि तृणेषु तां रात्रि
व्यतिवाहयामास दैववशात् । वस्तुतस्तु आत्मेच्छानुसारी भगवान्नरलीलां कुर्वनिति
वेदान्तिसिद्धान्तः ॥ अथ नलपक्षे-चीरवासा नलः पुरावहिर्गच्छन् गाढान्धकार-
व्याप्तोद्देशं ददर्श । तत्र तमसेति व्यस्तं पदं ज्ञेयम् । तत्र श्मशानार्थस्तु पितृस त्यस्य ।
'श्मशानं स्यापितृसद्म' इति कोशात् । श्मशान एव रात्रिं समस्तां व्यतिक्रान्तवान् ।
अतदोऽपि विधीच्छयान्वभूत् । 'स्तृञ् आच्छादने' । आस्तारे वे घञ् खार्थि-
कात् । व्यत्यक्रमीदित्यत्र 'यन्त' इति न वृद्धिः । प्राग्वद्वृत्तम् ॥
निषादराट् संवदनाधिगन्ता सलक्ष्मणस्तां रजनीं व्यतीत्य ।
उत्तीर्णकूलंकषकोऽतियत्नाकुट्यां न्यवात्सीत्प्रमदासमेतः ॥ ४३ ॥
रामपक्षे-सलक्ष्मणः प्रमदासमेतः निषादराट् संवदनाधिगन्ताभूत् । 'अस्तिभ-
वन्तीपरः' इति भाष्यं प्रागेवोक्तम् । निषादराट् गुहस्तत्रागत्य संवादमकरोत्तेन
कृतसंवादो भक्त्या तां निशां व्यतीत्य प्रभात उत्तीर्णभागीरथीकः प्रयत्नाद्गुहानीतनावा
पारेगङ्ग कुट्यां न्यवात्सीत् ॥ अथ नलपक्षे-कश्चिन्निषादानां श्रेष्ठः श्मशाने नलप्रि-
योऽवसत् तेन संवादं विधाय तां रात्रिं विनीय ततः कांचित्सरितमुत्तीर्य प्रयत्ना-
कुत्रचिजीर्णसभामण्डपान्तिके तमचीकरदिति हादोऽभिप्रायः । इन्द्रवज्रोपेन्द्रवज्र-
योरुपजातिः ॥
सद्वापरं तु कलिना हृतवासाः सुन्दराङ्गोऽयम् ।
सहचैलखण्ड आटीद्वनाद्वनं कान्तयावियुतः ॥ ४४ ॥

काव्यमाला। रामपक्षे-कान्तया अवियुतः सहितः सद्वापरं ससंदेहं यथा स्यात्तथा कलिना कलिः कलहः कैकेयीकृतदुष्टकलहेन हृतवासा हृतवस्त्रश्चैलचीरसहितः सुन्दरदेहो- ऽयं रामो वनादूनं पूर्ववनं परित्यज्योत्तरवनमाटीत् । 'अट गती'लुङ् । बभ्राम। 'संदेह- द्वापरौं' इत्यमरः । सीता सौधयोग्याङ्गना सकण्टके हिंस्रव्याघ्रवने कथं भयाज्जी- विष्यतीति कश्नं च भ्रमिष्यतीति संदेहवान् । 'कलिस्तिष्ये च संग्रामे संख्याने कलहे मतः' इति हैमः । 'चैलं वसनमंशुकम्' । पेशलमूर्तिभंगवानेव वनेषु परोपकाराय बभ्रा- मेति भावः ॥ अथ नलपक्षे-द्वापराख्ययुगसध्रीचीनाधमकलियुगेन व्याप्तसुन्दरदे- होऽर्धचीरवस्त्रोऽधिरजनि पक्षिहृतवसनः शून्यसमामण्डपस्थच्छुरिकया शयानाया द- मयन्त्या वस्त्राधै नमत्वाच्छित्वा क्रूरबुद्धिः कल्पावेशात्तां विहाय तद्वियुक्त एव वनाद्वनं बभ्राम । सा तत्रैव परिश्रान्तादृष्टपूर्वघोरभ्रमणक्लेशा(वना)न्यद्राक्षीदिति तात्पर्यार्थः ।। - दाव सदह्यमान चण्डरव नागेशं च तदन्तस्त्रात्वा तदंशितो व्यकृत । अग्रिमसौन्दर्यदिशं श्रित्वावसनं ततोऽवाजीत् ॥ ४५ ॥ रामपक्षे-वह्निना दह्यमानं चण्डरवं दावमैक्षिष्ट । अरण्ये भ्रमन् चटचटायितशब्द कुर्वाणं वनं ददर्श । वह्निना भयंकरेण । 'दवदावौ वनारण्यवह्नी' इत्यमरः । इह वन- वाची । तदन्तस्तन्मध्ये नागेशं लक्ष्मणमित एहीति मार्गान्तरे नीत्वा त्रात्वा रक्षित्वा तत्र दंशितस्तदंशितः संनद्धो वर्मितः । 'सन्जो दंशितो व्यूढकङ्कटः' इत्यमरः । 'दशि दशने' चौरादिको धातुः स्वार्थे णिच् । अग्रे निशाटो भवेदिति समनह्यत । तादृशस्थले- ऽपि अव्यकृत इति च्छेदः । 'अभावे नह्यनो नापि' अनिषेधेऽव्ययम् । न व्यकृत । वि. कारं न लेभे इत्यर्थः। 'अकर्मकाच्च' इति कृअस्तङ्। पूर्वरूपम् । अथ तृतीयार्धव्याख्या- 'शेष गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः' इति गाथाछन्दः। तत्र्याख्यानं पद्यानन्तरम् । ततोऽग्रिमसौन्दरी आवसनमदिशां श्रित्वा अब्राजीत् । ष्यनः षित्वात् 'षिदौरादिभ्यश्च' इति ङीप् । 'हलस्तद्धितस्य' इति यलोपः। 'अकारो वासुदेवः स्यात्' । 'वस नेहेच्छापह- रणेषु । आसमन्तात्प्रीतिसहितं यथा स्यात्तथा महासुन्दरी सीतारामदिशामनुसृत्य भीता वनमैक्षिष्ट ददर्श । 'ईक्ष दुर्दर्शने' । 'बज गतौ' । 'वदव्रज-' इति वृद्धिः । अग्रिमा सौन्दरी यस्याः सा ॥ अथ नलपक्षे-स नलोऽग्निना दह्यमानं चण्डरवं दावं वनमैक्षिष्ट ददर्श । 'ईक्ष दुर्दर्शने' लुङ् । तन्मध्ये नागानामीशं कर्कोटकं दह्यमानं भीत- भीतं पाहीति वदन्तं त्रात्वा रक्षित्वा पुनरप्रे रक्षार्थ तदंशितस्तद्दष्टः सन्व्यकृत वैरूप्यं श्यामत्वं ह्रखत्वं च लेभे । अतिसुन्दरत्वात्कोऽपि सेवकं न करिष्यतीति सौन्दर्य व्यप- नीय ऋतुपर्णनगरे कंचित्कालं व्यपगमय्य पश्चादनेनावृताङ्गो वसनेन पूर्वरूपं प्राप्स्यसीति उपदिश्य वस्त्रं दत्त्वा विससर्जेति भारतकथानुसंधानं कृत्वा व्याख्यातव्यम् । अग्रि- मसौन्दर्यदिशं श्रेष्ठसौन्दर्यदायकं वसनं तदत्तं श्रित्वा संगोप्य ततोऽयोध्यां प्रत्यबाजीत्।

१ सर्गः] राघवनैषधीयम् । ३१ स नलो भूमिपतिः तेन दष्टोऽसौ हिताय शीघ्रमेव खर्वातिश्यामाङ्गोऽभूत् । तथाभूतं विकारं नल: प्रापत् । श्रित्वा स्कन्धे गुप्तं परिष्ठाप्येत्यर्थः ॥ आकालिकथैकृतवान्पुरः पुरं प्राप शौर्ययुतः । मतमार्तुपर्णमखिलवाणकरं भारमास बहिः ॥ ४६ ॥ रामपक्षे-शौर्ययुतः आकालिकवैकृतवान् पुरोऽने मतमिष्टमार्तुपर्णपुरं प्राप । 'अगारे नगरे पुरम्' इत्यमरः । कथंभूतम् । अखिलनाणकरम् । पुनः कथंभूतम् । भारम् । तावदहिरास । रामो वाल्मीकेवारीत्यर्थः । आसमन्तात्कालयति गोवजनान् प्राणिमात्रं वा। 'कल बिल क्षेपे' । चुरादिः । इत्याकाली । तादृशश्चासौ कश्च आकालिको यमः । 'को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च' इति विश्वः । तस्मिन्नपि वैकृत- वान् भगवान् । 'तउप्तपराक्रमन्त्यविगणय्य शिरो निते' इति श्रीमद्भागवते वेद- स्तुतौ । विकृतमेव वैकृतम् । प्रज्ञाद्यण् खार्थे मतुप् । सुतः शौर्येण पराक्रमेण युतः । ऋतून वसन्तादीन् पर्णयति हरितयति प्रकाशयति तपोबलेन युगपदपि पणे चुरादिः । ऋतुपर्णस्य कवेः । वाल्मीकेरिदम् । 'तस्येदम्' इत्यण् । कविरात्मनीनमित्यग्रे पद्ये- ऽनुवादाद्वाल्मीकिर्लभ्यते । 'कविर्वाल्मीकिशुक्रयोः' इति हैमः । कथंभूतं पुरम् । अ- खिलवाणकरं सर्वरक्षाकरम् । गोव्याघ्रादीनामपि प्रशान्तवैरत्वात् । पुनः कथंभूतम् । भारं कान्तिप्रदम् । अथ चित्रकूटवसताविति सांनिध्यतः पदस्य च । 'सांनिध्यतः सिद्धपदस्य वृद्धाः' इति शक्तिमाहकत्वाच्छास्त्रेषु ॥ अथ नलपक्षे-आकालिकडाय- न्तवचने' इति व्याकरणे सूत्रम् । आशुनश्वर इत्यर्थः कृतः । यदैव वसनपरिधायी तदैव खरूपभागिति आकालिकवैकृत्यं स्वरूपस्य । आकालिकवैकृतवान् शौर्ययुतः । पूर्व दिग्विजये पुरोऽग्रे आतुपर्णपुरमयोध्याख्यं प्राप । कथंभूतम् । अखिलनाणकरं पु- ण्यश्लोकत्वादस्य । भाभी र इव । अग्नितेजसमित्यर्थः । 'र: पावके च तीक्ष्णे च राः स्मृतः वर्णवर्णयोः' इति विश्वः । प्राग्बहिरास द्वारात् अनाहूतः प्रविशति । उद्यो- गपर्वण्युक्तत्वावहिरतिष्ठदानिवेदनात् । कश्चन शालिहोत्रपारीणो द्वारि तिष्ठत्यन्येन वार्ता- मावेदयांचके इति भावः । राजान्तिककर्मकरोऽस्तीति ॥ द्वारि ध्रियते रामो दिदृक्षते सत्यपूतं त्वाम् । इत्युक्तः साकेतेट्परिचर्यायै पुनः सोऽभ्यैत् ॥ ४७ ॥ रामपक्षे-रामो दाशरथिरि ध्रियते सत्यपूतं त्वां दिदृक्षते इत्युक्तः स वाल्मीकि: साकेतेटपरिचर्यायै बहिरभ्यैत् संमुखं प्राप। 'धृङ् अवस्थाने' । तिष्ठतीत्यर्थः । दिदृक्षते इति 'ज्ञाश्रुस्मृदृशाम्' इत्यात्मनेपदमवसीयताम् । 'साकेतः स्यादयोध्यायाम्' इति धरणिः । 'परिचर्या तु शुश्रूषा' इति त्रिकाण्ड्याम् । तादर्थे चतुर्थी । वाल्मीके: सत्यवादित्वात् ॥ अथ नलपक्षे-रामः सुन्दरो भूतपूर्वगत्या । यद्वा 'रामो नीलचारु- सिते त्रिषु' इत्यमरः । एतर्हि रामो नील: कृष्णवर्ण: सर्पदष्टत्वात् । साकेतेट् ऋतुपर्णः

काव्यमाला।
पृथक्पदच्छेदः । परिचर्यायै । शालिहोत्रपारावारीणत्वान्मुनिवदभ्यर्हणीयो भवति ।
अभिपूर्वादिणो लङ् । ऋतुपर्णः सत्यवादी पुराणप्रसिद्धः । तमार्जिहदित्यर्थः । अन्येन
निवेदिते वृत्तश्रुते बहिर चैत् । उपगीतिः ॥
एकं तं श्रद्धाय हरिकार्यगृहीततादृशाभं सः ।
कृतसंवित्कं बहुधा न्यवीवसत्तत्र हर्यर्थम् ॥ ४८ ॥
रामपक्षे-स कविः हरिकार्यगृहीततादृशाभमेकं तं बहुधा कृतसंवित्कं श्रद्धाय तत्र
हर्यर्थ न्यवीवसदित्यन्वयः । 'एकमेवाद्वितीयं ब्रह्म' इति श्रुतिः । 'एके मुख्यान्यकेवलाः'
इति कोशः । 'यमानिलेन्दुचन्द्रार्कविष्णुसिंहांशुवाजिषु' इति कोशः । हरेरिन्द्रस्य का-
र्याय गृहीततादृशाकारं गृहीतमावतारं बहुधा कृतसंभाषणम् । 'स्त्री संविज्ञानसंभा-
षाक्रियाकाराजिनामसु' इत्यमरोक्ति: । 'शेषाद्विभाषा' इति कप् । कृत्संवित्कमस्य व्या-
ख्यानम् । श्रद्धाय अतीवादृत्य तत्र तार्णगृहे शिष्यरचिते हयर्थ हरिर्यमः तदर्थ तन्नि-
वृत्तये । 'अर्थोऽभिनेयरैवस्तुप्रयोजन निवृत्तिषु' इति थान्तेऽमरोक्तिः । मृति तरेयं श्री-
रामदर्शनादिति तत्त्वज्ञः खकथासंवादपूर्वकमीश्वरं वासयामास । 'वस निवासे' हेतुम-
ण्णिच् लुङ् । 'श्रदन्तरोरुपसर्गवद्वृत्तिः' इति ल्यप् ॥ अथ नलपक्षे-स ऋतुपर्णः एक
साक्षाच्छालिहोत्रमुनिमिवाश्वविद्यायामश्वकार्याय गृहीततादृशबाहुकरूपं बहुधा कृतसं-
भाषणं नलसारथिरवर्तिषीत्यादि ब्रुवाणमादृत्य सर्वाश्वपालाध्यक्षं कृत्वा हर्यर्थं तुरगार्थ
तत्र निवासयामास । कोशस्तु प्रागेवोक्तः । आर्याछन्दः ॥
अथ चित्रकूटवसतौ रेमे रामोऽभिरामगतिः ।
कविमात्मनीनमभयं शिश्राय कथाभिरुत्तमाभिस्तम् ॥ ४९ ॥
रामपक्षे-अथाभिरामगतिः स रामः चित्रकूटवसतौ रेमे । तु पुनरात्मनीनमभयं
कविमुत्तमाभिः कथाभिः शिवाय । चित्रकूटाख्यः पर्वतः । 'वसती रात्रिवेश्मनोः'
इति मेदिनी । अभिरामा मुक्तिरूपा गतिर्यस्मात् । 'कविः काव्यकरे शूरौ कविर्वाल्मी-
किशुक्रयोः' इति वैजयन्ती । 'आत्माध्वानौ खे' इति प्रकृतिभावान्न टिलोपः। अभयम् ।
रामोपासकत्वात् । उत्तमकथाः अध्यात्मविद्यया विचित्रोपनिषद्धर्माः । “श्रिञ् सेवायाम्'
लिट् ॥ अथ नलपक्षे-अथानन्तरं रामः श्यामो बाहुकश्चित्रकूटवसतौ चित्रकूटा इव
गिरिशिखराणीव वसतयो गृहा यस्मिन्निगमेऽयोध्याख्ये रेमे व्यलासीत् । कथंभूतः ।
अभिरामगतिः प्रशस्तानां नृणां गतिः शरणं तन्निगमे य: कविः सूरिरासीत् तमेवा-
त्मनीनमात्महितं तथानघं निष्पापं विचार्य कथाभिरुत्तमाभिहरिकीर्तनगर्भाभिः शिश्राय
पर्यषेविष्ट । वैष्णवसङ्गात्तत्रापि न व्यरंसीदिति भावः । तं प्रसिद्धकविमेव । 'प्रक्रान्त-
प्रसिद्धानुभूतार्थस्तच्छब्दो यच्छब्दोपादानं नापेक्षते' इति काव्यप्रकाशे राद्धान्तः ॥
सौधायिततार्णगृहो मृग्यमृगोयुक्तयोषाकः ।
अवरजनिव्यतिकीर्णः कंचिद्दिष्टं व्यतीयाय ॥ ५० ॥

१ सर्गः] राघवनैषधीयम् । रामपक्षे-साधायिततार्णगृहः मृग्यमृगः युक्तयोषाकः अवरजनिव्यतिकीर्णः। राम इत्यनुवर्तते । कंचित् 'दिष्टम्। 'कालो दिष्टोऽप्यनेहापि'। दिष्टं कालं व्यतीयाय । सौध इवा- चरितं तृणरचितं गृहं न्यस्य सः । तस्येदम्' इत्यण् । सौधशब्दादाचारक्यङन्तानिष्टा- कर्तरि । युक्ता योषा यस्य सः। शेषाद्विभाषा' इति कप् । अवरा जनिर्यस्य सोऽनुजो लक्ष्मणः तेन सहितः । 'संपर्के च व्यतिकरः प्रकारबातयोरपि' इति हैनः । व्यतिपूर्वः किरतिरेष्वर्थेषु वर्तते । मृग्या अन्वेषणीया मृगा यस्य सः क्षात्रधर्मत्वात् ॥ अथ नल. पक्षे-अयुक्तयोषाक इति पूर्वरूपेणाकारश्लेषः । दमयन्तीरहितः अवरजनिभिरश्वपालैर्व- हुभिः सहित इत्यर्थः । शूद्रादयोऽप्यश्वीया भवन्तीत्यर्थः । शेषं प्राग्वत् । उपगीतिवृत्तम्।। स्वर्यातवृद्धभूपा गतरामा यातलक्ष्मणा सा पूः । श्रितभरता विलपन्ती बभ्राजे तर्हि नो नूनम् ॥ ११ ॥ रामपक्षे-स्वर्यातो वृद्धो दशरथभूपो यस्याः सा गतरामा यातलक्ष्मणा, थि- तभरता विलपन्ती सा पूरयोध्या न बभ्राजे नूनं निश्चयेनेत्यर्थः । मातुलगृहात् शीघ्रायातभरतापि ॥ नलपक्षे-सा निषधपुरी स्वर्गतवीरसेना गतरामः । रामः पूर्व सुन्दरत्वान्नलत्यावधार्यः । प्रोषितनला निर्गतलक्ष्मणा निर्गतश्रीमजना श्रितभरता पुष्करप्रियत्वान्नटा एव बहुलास्तत्राभूवन्निति भावः । 'भरता इत्यपि नटे चारणास्तु कुशीलवाः' इत्यमरः । विलपन्ती नलमेव पुण्यश्लोकं शोचन्ती तर्हि तदा प्रोषिते नले नाभ्राजिष्टेत्यर्थः । नूनम् । आर्याछन्दः । श्यामाझं हरिमित्रं कविराड्डदचीचरज्जातु । द्विजको वरवर्णोऽहं प्रतिरोधि तयाटमाखेटी ॥ १२ ॥ रामपक्षे-जातु कदाचित् वाल्मीकिः कविराट् श्यामाझं मेघश्यामं रामं हरेरि- न्द्रस्य मित्र तत्कार्यार्थावतारत्वात खां कथमिति शेषः । उदचीचरत् उवाच । अहं द्विजकः । कुत्सायां कन् । शूद्राचारो द्विजोऽहं पुरा आखेटी मृगयातत्परः प्रतिरोधि- तया चौर्यवृत्त्या । 'प्रतिरोधिपरास्कन्दी' इत्यमरः । आटमभ्रमिषम् । 'आखेटो मृगया स्त्रियाम्' इति कोशः । अत इनिर्मत्वर्थीयः । प्रतिरोधीति ताच्छील्ये णिनिः । व्याधक- मेति प्राग्जन्मवृत्तवर्णनम् ॥ अथ नलपक्षे-कविराट् वुधश्रेष्ठ ऋतुपर्णः जातु हरि- मित्रमश्वमित्रं बाहुकं खां कथामुदचीचरत् । द्विजैरनुकम्पितो द्विजकः वरवर्ण: महायशाः अहं जात्वैव न तु सर्वदा आखेटी मृगवार्थमाटम् । अस्य पार्श्वचरः प्रतिरो- धित्वेन मृगाणां व्याध इव । उपगीतिः ॥ सप्तऋषींस्तेजोभिः प्रकाशमानान्समद्राक्षम् । दर्शनलब्धविबोधो रामाख्यां प्रोजपन्नस्थाम् ॥ १३ ॥ रामपक्षे हे राम, तेजोभिः प्रकाशमानान्' सप्तऋषीन् । 'समातेऽप्ययं प्रकृति- भावः' इत्युक्तम् । समद्राक्षं दृष्टवान् । दृशेर्लङ् । दर्शनानन्तरमेव लब्धबोधोऽहं रामे.

३४ काव्यमाला। G तिवर्णद्वयं प्रोजपन् । वृषलतुल्यत्वाव्युत्क्रमोपदिष्टं जपन् । प्रोड्यङ्ग्यमिदम्(?) । तत्रै- वातिष्ठम् । 'गातिस्था-' इति सिचो लुक् । अस्थादिति ॥ नलपक्षे-मृगयाथै वने धावंस्तानेवापश्यं सप्त ऋषीन् । दर्शनलब्धबोधोऽहमपि रामेति परब्रह्माख्यां प्रकर्षेण जपन्नस्थाम् । उपगीतिवृत्तम् ॥" चलितीऽपि दूरदूरं हरिशरणोऽन्तर्दधुस्ते च | भुवनेशगुहां चित्रां तत्राहं तन्महोऽपश्यम् ॥ १४ ॥ रामपक्षे-च पुनस्तेऽन्तर्दधुः । हरिशरणोऽहं दूरदूरं चलितोऽपि भ्रष्टसमाधी- भवन्नपि दृढं तन्मुकुन्दशरणत्वात् चित्रां भुवनेशगुहां भुवनेशः साक्षी चिदात्मा तद्हा- हृदयगुहा । 'गुहां प्रविष्टावात्मानौ' इति व्याससूत्रात् । तत्रानिर्वचनीयं तन्महो ज्योतीरूपमपश्यं भगवन्त मिति तात्पर्यार्थः ॥ नलपक्षे-ऋतुपर्णोक्तिः । च तेऽन्त- र्दधुः । हरिशरणोऽहं दूरादूरं चलितः अपि पुनः शरयूरामयोर्मध्ये भुवनेश्वरशिवगुहां पाताले वर्तमानां कूर्माचले चित्रामद्भुतां स्मरस्मेरसुधामाख्याप्रथितां दुरन्तां तत्र मूर्ति- त्रयात्मकं तेजोलक्षणं भुवनेश्वरमद्राक्षम् । दशदिग्गमनं ततो भवतीति कूर्माचले- ऽस्तीति स्कन्दपुराणान्तर्गतभुवनेशानमाहात्म्यमवलोक्य बुधैः प्रतिपत्तव्यम् ॥ आव्रज्य चिरात्तेऽमी नाकुं पुपुवुर्दयार्दा माम् । ऋतुपर्ण कविमुक्त्वा खैरव्रज्या व्यचारिषुजोषम् ॥ ५५ ॥ रामपक्षे-तेऽमी ऋषयश्चिराबहुवर्षान्ते आव्रज्य आगत्य नाकुं वल्मीकभूमी पुपुवुः पवित्रीचक्रुः स्पर्शादिभिः । कथंभूताः । दयार्द्राः । ऋतुपर्ण कविं प्रोच्य खैर- व्रज्याः स्वच्छन्दगा जोषं व्यचारिषुः । 'वामलूरश्च नाकुश्च' इति कोश: । 'मन्दस्वच्छ- न्दयोः खैरः' इति च । 'बजाटाद्या पर्यटनम्' इति । खैरं व्रज्यं गमनं येषां ते इति बहुव्रीहिः । 'तूष्णीमर्थे सुखे जोषम्' इति तृतीये । ऋतूनां सर्वेषां पर्णत्वं हरितीभावः । सार्वकालिकत्वं यत्प्रभावादेतादृशं कविमादिकविशब्दभाजं मामभिधायेत्यभिप्रायः । अतःपरं वाल्मीकिः कविराट् परमर्षिभविष्यसीति वरं ददुः ॥ अथ नलपक्षे-तेऽमी ऋषयश्चिराद्विलम्बेन आव्रज्य आगल्य आ समन्तात्कु: पापं यस्य स आकुः । 'पापकु- त्सेषदर्थे कुः इत्यमरः । 'अत्युच्चैः सौ' इतिवत्कृते बहुव्रीही जायन्ते । तमीदृशं मां दयार्द्रा न पुपुबुरिति न, पुपुबुरेव । काकुः। कविं पण्डितमृतुपर्ण मामभिधाय जोषं खैर- चारिणो व्यचारिषुः । बाहुकं प्रति ऋतुपर्णोक्तिरियम् । अद्भुतभुवनेशाख्यशंकरदर्शनात्त्वमु- त्तमश्लोको राजर्षिर्भविष्यसि पण्डितोऽपि भवितेति प्रसादं चक्रुः ॥ श्यामाङ्गो हरिमित्रं विसिष्मिये तां कथां श्रुत्वा । अथ भरतः परिकरवान्स्थलीमयोद्धयां सतीर्थोऽगात् ॥ १६ ॥ रामपक्षे-श्यामाङ्गो हरि मित्रं तां कथां श्रुत्वा विसिष्मिये । अथ सतीर्थः परि- करवान् भरतः अयोध्या स्थलीमगात् । मेघश्यामाङ्गत्वाद्रामस्य श्यामाङ्ग इति नाम ।

१ सर्गः] राघवनैषधीयम् । ३५ हरेरिन्द्रस्य मित्रं विसिध्मिये । 'ष्मिङ् ईषद्धसने' । आश्चर्ययुक्तोऽभूत् । मानुषचेष्टां दर्शयन् अनन्तरं मातरं संतमं कृतपश्चिमऋतुः पुरोधसा समं तीर्थशब्देन पुरोधा वशिष्टः परिवारेण समस्तेन सहितः सुसैन्यः श्रीरामपदभाव पादचारेण । अयमेवो- स्कर्षेण ध्यायन्तीति अयोध्या मुनयः । 'अय: शुभावहो विधिः' इत्यमरः । 'आतोऽनु- पसर्गे कः' । अर्श आद्यच् । अयोध्यावन्ती । 'मत्यै बहुचः' इति दीर्घ:(?) । अगात् जगाम । स्थली चित्रकूटस्थलीम् ॥ अथ नलपक्षे-हरेरश्वजातमित्रम् । श्यामाङ्गो बाहुकस्तां कथाम् ऋतुपर्णाच्छ्रुत्वा विसिध्मिये । अनन्तरमेव कश्चिन्नटराजो भरतः सपरिकर उपयोगिकलत्रादिना युक्तः । 'भरता इत्यपि नटाः' इत्यमरः । सोपाध्यायः परमैन्द्रजालिकः सर्वत्र लब्धप्रतिष्ठाकः अयोध्या स्थली पुरी वा अगात् । 'खणेऽपि राः परिकरः पर्यङ्कपरिवारयोः' । 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति विश्वः । मूलविभुजादित्वादात इति ध्यायतेः कः । उपगीतिः ॥ भरतः प्रणीतपूजो मध्येमार्ग स्थलान्तरे विरजन् । पूर्वास्पदं हरिपदं हित्वा तृणयन्सकोटीरः ॥ १७ ॥ मध्येमार्ग भरद्वाजादिभिः प्रणीतपूजो भरतः स्थलेऽन्यत्र विरजन् विरक्त आसीदि- त्यर्थः । 'अस्तिर्भवन्ती परः' इति भाष्यं प्रागेव दर्शितम् । तत एवाध्याहार्यम् । हरि- पदं हित्वा पूर्वास्पदं तृणयन् सकोटीर आसीत् । यत्र रामेण निकेतः कृतस्तत्पदं हित्वा अन्यत्र वासं तृणीकुर्वन् सकोटीरो जटाजूटभाक् आसीत् । 'कोटीरो मुकुटे प्रोक्तः कोटीरः स्याजटासटेः' इति रभसकोशः । तृणशब्दाद्धात्वर्थे 'णिच् ॥ अथ नलपक्षे- भरतो नटः स मध्येमार्गम् । अव्ययीभावः । 'पारेमध्ये-' इति निपातनादेत्वम् । अन्यैः पूजितोऽपि पूर्वेषां पूर्वेषां पूर्ववंश्यानामात्पदं स्थानं विहाय इन्द्रप्रस्थापितं पदा- न्तरं तृणयन् कोटिप्रदं तमृतुपर्णे मत्वा तमेवाभ्यधावत् । भरतप्रोक्तं नटसूत्र- मधीत इति भरतः । 'प्रोक्ताल्लुग्' इति अणो लुक् । 'भरता इत्यपि नटाः' इत्यमरः उपगीतिवृत्तम् ॥ श्यामाझं गुणवत्त्वात्प्राणसीद्धर्षकण्टकितः । आयोध्योऽपि ददर्श प्रभु तमुच्चैर्गुणं भरतम् ॥ १८ ॥ रामपक्षे-हर्षकण्ट कितः स इत्यनुवर्तते । गुणवत्त्वात् मेघवर्णत्वात् श्यामाङ्ग रामं प्राणसीत् । आयोध्यः प्रभुरपि । अयोध्याया राजा आयोध्यः । रामोऽपि उच्चैर्गुणं भरतं ददर्श । 'रोमाञ्चनं कण्टकितसमम्' इति मेदिनी । तारकादित्वादितच् । कथं. भूतः । हर्षेण सरोमाञ्चः । रामदर्शनजन्यहर्षेण रोमाञ्चितः सात्विकत्वात्। पितृदत्तराज्यं त्यक्त्वा तं प्रभुमेव शरणं चकार । यतः-'णम प्रह्लले शब्दे च' । लुङ् । उच्चैर्गुणमिति परिकरालंकारोऽयम् ॥ अथ नलपक्षे-हर्षकण्टकितः स भरतो नट: श्यामा बाहु- कम् अधिकगुणवत्तादर्शनाद्ववन्दे । तदनु अयोध्याया राजा ऋतुपर्णोऽपि उच्चैर्गुणं काव्यमाला। नटराज तं भरतं ददर्श अद्राक्षीत् । वासादिकं दत्वा कृपया यशोऽर्थम् । आर्यावृत्तम् ॥ करुणं रसं प्रकटयन्भरतः सर्वान्व्यमूमुहत्तत्र । ८ स्वर्याततातवृत्तं प्रथयन्नस्थात्सहानुजः श्रमणि ॥ १९ ॥ रामपक्षे तत्र भरतः करुणं रसं प्रकटयन् विलपितं तातमुद्दिश्य कुर्वन् सर्वा- न्मुनिसहितान् व्यमूमुहत् मोहयामास । कथंभूतः सः । स्वर्याततातवृत्तं प्रथयन् । कथं- भूतं वृत्तम् । श्रमणि श्रमणककथायुक्तम् । शीघ्रं राजा मृतोऽभूत् इत्थंभूतः सहानुजो- ऽस्थात् । हा हेति आर्तनादभाकरुणरसं व्यञ्जयन् लक्ष्मणादीन् मोहयांबभूव । स्वर्गतद- शरथचरितमेव ख्यापयस्तत्र तस्थौ ॥ अथ नलपक्षे-नवरस्यां करुणं रसं प्रकटयन् तत्र सभायां सर्वान्मोहितवान् । खर्यातर्तुपर्णतातस्य चरितं विस्तारयन् तद्रूपानुसंधा. नेन खभ्रातृयुक् बहुव्यञ्जितलीलादर्शनश्रमणं यथा स्यात्तथास्थात् । खर्यातेत्यत्र ऋतु- पर्णस्येति शेषः । गीतिवृत्तम् ।। बाष्पायमाणकण्ठो रामो राजाधिराजोऽसौ । ववृते तदा बहुतपास्तस्मै राज्यं समर्पयामास ॥६० ॥ रामपक्ष-असौ रामस्तदा बाष्पायमाण: । आर्याश्व (?) 'बाष्पोष्मभ्यामुद्गमने' इति क्यङ् बाष्पमुद्रमतीत्यर्थे । ववृते बभूव । बहुतपाः । 'तपतपसि संतापे' इति हैमः । 'तप संतापे । 'सर्वधातुभ्योऽसुन्' । बहुसंताप इत्यर्थः । तस्मै भरताय अयोध्याराज्य त्वमेव शाधि अहं नायामीति । पितृदत्तत्वात्तुभ्यं तावत्कथयित्वा समर्पयामास । तत्प्रे- म्णातुषत्तुतोष ॥ अथ नलपक्षे-राजाधिराजोऽसौ नल एव संप्रति नीलरूपत्वादामः । 'रामो नीलचारुसिते त्रिषु' इति कोशः प्रागुक्तः । 'नानार्थे तात्पर्याद्विशेषावगतिः' इति भाष्यादत्र नीलार्थे तात्पर्यम् । सर्व]दष्टत्वान्नलस्य नीलत्वं ताइग्बहुगुणं दृष्ट्वा नटं परसेव- कत्वाद्रष्टराज्यत्वात्। 'रा दाने । घअर्थे कविधानम् । राणं रः रस्य ऋतुपर्णदानस्य आज्यं घृतं बहुलं घृतं समर्पयामास। ददावित्यर्थः । वीरसेनदमयन्त्यादिस्वरूपदर्शनात्तादवस्थ्या- नाप्रारम्भ इति भावः । 'घृतमाज्यं हविः सर्पिः' इति कोशः । उद्गीतिवृत्तम् ॥ स तु पादुकापुरस्कृन्नन्दिग्रामे तदीयभक्तियुतः । आदेशकारिजनतापुरस्कृतस्तीर्थभाग्रेमे ॥ ६१ ॥ रामपक्षे-स तु नन्दिग्रामे रेमे । कथंभूतः । पादुकापुरस्कृत् तदीयभक्तियुतः आ- देशकारिजनतापुरस्कृतः। तीर्थभाक् । पादुकां पुरस्करोतीति उपपदसमासः। 'क्विब्वा' इति क्विप् । तीर्थशब्देन गुरुः रामपादुकां पुरस्कृत्य भक्तियुतस्तदीयशब्देन पादुकापरामर्शः। त्यदादीनां पूर्वपरामर्शकत्वात् 'पुरस्कृतः पूजितः स्यात्' इति हैमः । आदेश आज्ञा त- स्कारिणी या जनता तया पूजितः राज्यं भवतामेव भवद्दासोऽहं यावदागमं पुरमविशन्नेव पादुकार्किकरो भवदाज्ञया शासिष्यामि राज्यमिति निगद्य निवर्त्य नन्दिप्रामे वसन् रा- १ सर्गः] राघवनैषधीयम् । ज्यमशिषद्भरत इति भावः ॥ अथ नलपक्षे-तु पुनः स नलो द्वितीयपक्षे तस्यैव प्र. क्रान्तत्वात्स इति नलः परामृश्यते । तु पुनः स नल: ऋतुपर्णपादुकापुरस्कृत् प्रतिदिनं प्रणामकारी बाहुकरूपत्वात् । नन्दिग्रामे नन्दिनो हर्षका ग्रामा यनगरस्याभितः सन्ति तादृशे इति वहुव्रीहिः । तत्र वसन् । 'टुनदि समृद्धी' णिनिः । अत इनिर्वा । रेमे व्य. लासीत् । कथंभूतः। आदेशकारिजनतापुरस्कृतः सर्वेऽश्वपालास्तदीयस्तदीयकिंकरा राजा- देशादभूवन् । यतः तीर्थभाक् । सरय्बादिस्नायी। आर्यावृत्तम् ॥ अथ कासारे नलिनी विनायकेन व्यदर्शि तदा । अवलम्बितजाग्रत्ता प्रत्यूषे घूर्णमानतनुः ॥ ६२ ॥ अथ भरतविसर्जनोत्तरं चित्रकूटपर्वतैकदेशे स्नातुंगतेन रामेण कासारः कश्चित्पद्मिनी- मण्डितोऽदर्शि । वैः पक्षिणो गरुडस्य नायकः श्रीशस्तेन रामेण । 'नायको नेतरि श्रेष्ठे हार- मध्यमणावपि' इति विश्वः । तत्र कासारे तडागे काचिनलिनी कमलिनी नलमस्यास्तीति नलिनी व्यदर्शि दृष्टा । दृशोश्चिण् । कथंभूता । अवलम्बित जाग्रत्ता । 'कृत्तद्धितसमासे- भ्यः संवन्धाभिधानं भावप्रत्ययेन' इति सिद्धान्तः । प्रत्यूषे प्रातःकाले । अवलम्बिता आश्रिता जाग्रत्ता विकाशो यया सा । रात्री पद्मानां संकोचात् । पुनः कथंभूतः । घूर्ण- मानतनुः 'घूण घूर्णा भ्रमणे । बाबुवशाब्रमन्ती मूर्तिर्यस्याः सा । एतामेव पुनर्वर्ण- यिष्यति कविनलपक्षे ॥ अथ नलपक्षे-यदा नलो विहाय जायांगतोऽभूत् । ततः कावस्था दमयन्त्या अभूदित्याह-यत्र जीर्णसभामध्ये नल: शिश्ये । तया सह तत्र विदूरे कासार आसीत् । कासार इति सप्तमी गङ्गायां घोष इतिवत् । उक्तं हि भाष्ये- साधकतमसूत्रे व्यर्थीभूतेन तमब्ग्रहणेनेदं ज्ञापितम् । 'कारकाधिकारे गौणमुख्यन्यायो न प्रवर्तते' इति परिभाषा । गङ्गायां गावः कूपे गर्गकुलम् । तेनेत्यादिप्रयोगाः सिद्धाः । क- स्यानन्दस्यासार आगमो यस्मादिति यौगिकोऽयं कासारशब्दः । विनायकेन केनचित्कलि- विधिकरण पक्षिश्रेष्ठरूपधारिणा हृतनलचीरवरेण सरसि तन्निकटे तस्मिन्काले नलिनी नल: पतित्वेनास्या अस्तीति । अत इनिर्मत्वर्थीयः । 'ऋनेभ्यः' इति डीप् । नलपत्नी । दमय- न्तीत्यर्थः । व्यदर्शि दृष्टा । नलगमनानन्ते(न्तरे) प्रातः प्रवुद्धा । कथंभूता । अवलम्बित- जाग्रत्ता इत्यादिविशेषणानि प्राग्वत् । पतिदर्शनाभावात् घूर्णमानमूर्तिः । भ्रमच्चित्तत्वेन व्याकुला कां दिशं यामि । हा विधे किं करोमीति वचनात् । कलिदूतस्तु दमयन्यो- (दंपत्यो)वियोगदुःखं दृष्ट्वा जहर्षेति भावः । उपगीतिवृत्तम् ॥ वनजातकान्तिपूरादूरपतित्वात्सबाप्पजला । शबरकरानभिमृष्टा साक्षान्मन्दाकिनी यस्मात् ॥ ६३ ॥ रामपक्षे-त्रिभिर्विशेषकमिदं बोध्यम् । पुनः कथंभूता । बने जले । 'जीवनं भुवनं वनम्' इति कोशः । जातः कान्तिपूरो यस्याः सा । 'पूरक्षुरप्रचुकाश्च' इति त्रिकाण्ड्याम् । अदूरपतिसूर्यत्वात् । 'बाप्पमच च' इति कोशः । प्रातर्नदीतडागादौ.

काव्यमाला। वाष्पोद्गमो भवति । नीहारवत् ततोऽम्बुकणाः परिस्रवन्ति । तत्र कविरुत्प्रेक्षते- खण्डिता नायिकेव पद्मिनी स्त्री रुरोद सबापजला मन्ये । पुनः कथंभूता । शबरक- रानभिसृष्टा शवरकरेण किरातादिहस्तेन वृषलादिवारणान्मुनिभिर्मन्दाकिनीजलत्वाद- नभिमृष्टा अस्पृष्टा । तमेवार्थ द्रष्यति-यतः साक्षान्मन्दाकिनी तत्समीपस्थानां तत्प्र. स्रावत्वात् सरसादीनाम् अतो नीचस्पर्शरहिता ॥ अथ नलपक्षे-कथंभूता सा दम यन्ती । 'जै जै क्षये' धातु: । जनेर्जायतेश्च क्ते तुल्यं जात इति रूपं भवति । वने जातः क्षीणः कान्तिपूरो यस्याः सा क्लेशाधिक्यात् सबाष्पजला अश्रुवर्षवर्षिणी दूरप- तित्वात् । 'मन्दाः किरातशबरपुलिन्दा म्लेच्छजातयः' इत्यमरः । भ्रमन्ती वने शबरं कामुकं दृष्टा भस्मीचकार पातिव्रत्येन शापास्त्रायाः न तु तत्स्पृष्टासीत् । तत्र हेतुमाह- साक्षागौरीव सतीव मन्देषु मूढबुद्धिषु आकिनी । 'अक अग कुटिलायां गतौ' सुप्य- जातौ' इति णिनिः । कुटिलगामिनी । 'दुष्टेषु मायाचारो मायया वर्तनीयः' इत्युद्योगे विदुरवाक्यं परो धर्मः । एवं शबरकरेणास्पृष्टैवाभिप्रायचेष्टादर्शनादेव चचण्डे । उपगीतिः ॥ अजगरगुप्तिपरोऽपि प्रियभक्तेः खण्डकोऽपि विधुः । स नलिन्या विधुरासीच्छेषितभूतिः क्षणे तस्मिन् ॥ ६४ ॥ अजगरगुप्तिपरोऽपि अपि पुनः प्रियभक्तेः खण्डकोऽपि विधू राक्षस इव बभूव । नलिन्यास्तस्मिन् क्षणे शेषितभूतिरासीत् । 'अजा विष्णुहरच्छागाः' इत्यमरः । 'गृ शब्दे'। गरणं गरः । 'ऋक्षेरप्' । गोपनं गुप्तिः । गरश्च गुप्तिश्च गरगुप्ती अजस्य शिवस्य वर्णन- रक्षणपरोऽपि कालकूटदाहशमकत्वाद्गुप्तिपरोऽपि प्रियस्य रवभक्तेः खण्डकः । 'खडि खण्डने । रात्रिकरत्वात्संकोचकरत्वात् । 'विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे' इति हैमः । राजा चन्द्रोऽपि । स प्रत्यूषे तु धूसरकान्तित्वात् शेषिता कलावशेषा भूतिः संपत्तिर्यस्य स शेषितभूतिः शङ्के नलिन्याः शापादिव तीक्ष्णकान्तिरासीदिति व्यज्यते । 'शिष असर्वोपयोगे' । इतर निवृत्तिपूर्वकावस्थानं शेषपदार्थः । एवं नलिन्याः पद्मिन्या राक्षस इवासीद्धूसर इति फलितोऽर्थः ॥ अथ नलपक्षे-भ्रमन्त्या वने दम- दन्त्या अजगरग्रस्ताया असिना तं हत्वा रक्षापरोऽपि तत्कर्षणाल्हादकत्वाद्विधुरपि व्यभिचारचित्तत्वात् नलखण्डकत्वात्तस्य नलिन्या विधुरिव राक्षस इव क्रुद्धया तया पते- त्युक्तत्वाद्भस्मावशेषीभूतः तत्र क्षणे शेषितभूतिरित्यासीत् । काव्य लिङ्गरूपकालंका- रयोः संसृष्टिः । एतेन दमयन्त्याः पातिव्रत्यमाहात्म्यं ध्वन्यते । उपगीतिवृत्तम् ॥ मुनिमण्डलान्तरगता जाताहादा चिरेण पुनः । कृतसौहित्या रुचिरा क्षणेन नष्टं तदादर्शत् ॥ ६५ ॥ रामपक्षे-प्रातर्मुनिमण्डलमध्यगता स्नानंकालेऽचिरेण पुनर्जाताहादा सत्सङ्गात् १. 'भेदाः किरात-' इत्येव पाठोऽमरकोषे तूपलभ्यते.

१ सर्गः] राघवनैषधीयम् । कृतसौहित्या कृतं सौहित्यं प्रीणनं तोषो यया सा रुचिरा सौन्दर्यवती सा नलिनी नष्ट खगृहेषु कृतागमं मुनिमण्डलं तत्समयेऽदर्शत् ददर्श ॥ नलपक्षे-अजगरं भस्मी- कृत्याने वनं गता सा दमयन्ती अतर्कितमाश्रमस्थं मुनिमण्डल दृष्ट्वा तदन्तरगता क्षुत्तृट्- व्याप्ता तत्कृतातिथ्येन जाताल्हादा पुनरचिरेण शीघ्र कृतसाहित्या कृततृप्तिक्रिया रुचिरा तदा क्षणेनैव तन्मुनिमण्डलमन्तर्हितं ददर्श । उपगीतिः ।। वाताधूतोदचलत्कान्तारगतिः सुबाहुसार्थपरा । करिवरयूथागीता प्रोदचलढूरतोऽपि ततः ॥६६॥ रामपक्षे-सा रामदृष्टा नलिनी वाताधूता कान्तारगतिः सुबाहुसार्थपरा उदच- लत् । वातेन कम्पिता सा कान्तानां स्त्रीणां निग्रहित्वादरा शीघ्रा गतिर्यस्यां सा मुनि. पत्नीकृतावगाहा सुवाहूनां शोभनभुजलतानां स्त्रीणां सार्थ एव पर उत्तमो यस्याः सा । 'दूरानात्मोत्तमाः पराः' इत्यमरः । उचलत् । 'चल कम्पने' लङ् । चकम्पे । ततो दूर- तोऽपि करिवरयूथागीतातीव त्रस्ता मामुच्छेदयेयुरिति वेपथु भेजे मन्ये वाताधूता न कम्पमाप्ता। अपितु इत्थं विचिन्त्येत्युत्प्रेक्षालंकारो ध्वन्यते काव्यप्रकाशे ॥नलपक्षे तु- मुन्यन्तर्धानानन्तरं चक्रवातव्याधूता तर्हि । 'कान्तारोऽस्त्री महावनम्'। कान्तारे महारण्ये गतिर्गमनं यस्याः सा । सुबाहुश्चेदिराजस्तत्साथै चेदिषु गच्छन्तं पथि प्राप्य तत्परा रात्री दैववशात्करियूथे तत्र प्राप्ते तैजिघांसितेऽकल्याणीति दिने दृष्टा प्राक् दन्तिवृन्दागीता पश्चाद्दष्टेभ्यो विरुद्धभाषिभ्योऽपि सुभीता प्रकर्षण चकम्पे इति भावः । अवाजीच ततोऽपि दूरम् । आर्यावृत्तम् ॥ सा चैलपण्डधात्री दोधूयितमाप दौर्जनात्सङ्गात् । चेदीशो जननीं तां बिभृयात्तर्हि स्थितिं दध्याम् ॥ ६७ ॥ रामपक्षे-पुनः कथंभूता सा नलिनी आसीत् । चैलषण्डधात्री सा दौर्जनात्सङ्गात् दोधूयितमाप। 'चैलं वस्त्रेऽधमे त्रिषु' इत्यमरः । चैलाश्च षण्डाश्च ये केचित्स्नातुमागताः कासारे तेषामपि सौगन्ध्येन परमेण धात्री पोषयित्री । दधातेस्तृच् । 'ऋन्नेभ्यः' इति डीप् । तत्र दुर्जनसङ्गात् अतिकम्पमाप । कैश्चिच्चालितापि तदा कथं दध्यौ चेद्यदि ज- ननीनामीशो मामिति शेषः । विभृयात् विचिन्य स्वहस्ते धारयेत् तदैवाहं स्थितिमुत्त- मरक्षां दध्यां धारयेयम् । 'अस्मद्युत्तमः' इत्यत्र व्याख्यातम् । प्रयुज्यमानेऽप्रयुज्यमाने चोत्तमः स्यादस्मदि। अतोऽहमिति परं लब्धम् । अजा माया तत्प्रभुरपि राम एव जातिस्मरा सा नलिनी मनसा सस्मार । चेदीशस्य रामस्य इनोऽकारो वासुदेवो यस्याः सा ईश्वरी सीता जगजननी मां धारयेत् तदैवाहं स्थितिमती स्यामिति तात्पर्य मम मोक्षः स्यात् ॥ अथ नलपक्षे-वस्त्रखण्डधात्री । 'चैल चेलं षण्डखण्डौ हनूमान् हनुमानपि' इति द्विरूपकोशः । सा दमयन्ती दुर्जनसार्थवाहसङ्गात् अतिकम्पं प्रापत् । दुर्जनस्या- यम् । तस्येदम्' इत्यण् । अतःपरं सा चिन्तां चक्रे । विस्तीर्णकान्तारीभूपचेदिनगरं प्र.

काव्यमाला।
तिष्ठासती चेदीपाश्चेदीनामीट् चेदीट् तस्य चेदीशः इनः । 'इनः सूर्य प्रभौ राजा' इत्य-
मरः। प्रथ्वी जननी मन्मातृभगिनी सुबाहुमाता मां बिभृयात् तार्ह अत्र कंचित्कालं
स्थितिमात्मरक्षां दध्याम् नान्यथा। अरं दध्यामिति पूर्ववद्याख्या 'ईश ऐश्वर्य' । कर्तरि
क्किप् । सभङ्गः श्लेषो विचित्रः शब्दालंकारः दोधूचितमिति । 'धूञ् कम्पने' । अस्माद्यङ-
न्ताद्भावे क्तप्रत्ययो बोद्धव्यः॥
एवं विचिन्तयन्ती तथावनं खल्ववारुणत्पुरगा।
पुण्यश्लोकोत्तंसः पौरविमर्दै जहन्मनसा ।
अनसूयाभर्तारं दृष्ट्वा गत्वाभ्यवन्दिष्ट ॥ ६८ ॥
रामपक्षे-युग्मश्लोकेनान्वयः । एवं पूर्वोक्तं विचिन्तयन्ती पुरगा । 'पुर अग्रगमने'।
पुरतीति पुरः । 'इगुपधात्कः'। 'गमेड:' । 'अन्येषामपि दृश्यते' । पुरं ब्रह्मादिदेवाग्रेसर राम
गच्छतीति पुरगा खलु निश्चयेन तथा तेनैव प्रकारेणैव अवनं रामहस्तप्राप्तिरक्षणमवा-
रुणत् प्राप । 'अवरोधस्तिरोधाने प्राप्तावन्तःपुरेऽपि च' इति विश्वः । 'विदन्ते विन्दति
प्राप्तौ भवनेवसूपद्धिचः' इति हैमः । भक्तचिन्ताज्ञेन प्रभुणा रामेण स्नानं कुर्वता सीतार्थ
विचिन्त्यात्तागृहं गत्वा तस्यै भ्रमद्भमरशोभिनी दत्तेति भावः ॥ नलपक्षे-सा दम-
यन्ती विचिन्तयन्ती चेदिपुरगा राजमात्रा मध्येरथ्यं यान्ती लावण्यशालिनी दृष्टा न.
सादाद्धात्रीमुखेनाहूता हानीता कृतसंभाषणा सर्व वृत्तं निवेदितं श्रुत्वा संबन्धमात्मनो
निणीय पुत्र्यै समर्प्य समयं कृत्वाश्रुमुखी महतादरेणैकान्ते वासं दत्वा स्थापयामा-
सेति भारतकथा ध्वन्यते । 'प्रबन्धेऽप्यर्थशक्तिभूः' इति सव्यङ्ग्यं महाकाव्यत्वात् । ष-
ट्चरणं गाथाछन्दः । इत्थमवनमवारुणत् प्राप॥ रामपक्षे-पुण्यश्लोकोत्तंसो रामः ।
'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' इत्यमरः । पौराणामयोध्यावास्तव्यानां नक्तं दिनं
गतागतत्वाद्विमर्दै संमर्दमाशङ्कय मनसा तं चित्रकूटं जहत् त्यजन् । अनसूयाभर्तार-
मनिं प्रजापतिं गत्वा सद्वयो दृष्ट्वा तमभ्यवन्दिष्ट प्राणसीत् । वदे ङि रूपम् । 'वदि अ-
भिवादनस्तुत्योः' । अथ नलपक्ष-पुण्यः पवित्रः श्लोको यशो यस्य स पुण्यश्लोकस्तेषा-
मुत्तंसः शेखर इव सत्यादिगुणशालित्वात् स नलो मनसा गुणवत्त्वादनसूयाभर्तारं गु-
गेषु दोषारोपणमसूया न विद्यतेऽसूया यस्य सोऽनसूयः तादृशश्वासावश्चानसूया विश्वपा-
वत् स चासौ भर्ता तमनसूयाभर्तारं भगवन्तं वासुदेवं गत्वाभ्यवन्दिष्ट । शालिहोत्रज्ञो-
ऽसि तच्छास्त्रमस्मभ्यं देहीति यदा पौरविमर्दोऽभूत् तं जहत् 'नाभ्यस्ताच्छतुः' इति न
नुम् । मनसा विरक्तेन तत्रैव नगरे गोविन्दालयोऽभून्महान् तदासौ शीघ्रं गत्वा नारा-
यणमूर्तिमभ्यवन्दिष्ट अस्तावीदपूपुजच्च । भारं त्रिलोकीपोषारम् । उपगीतिवृत्तम् । इतः
प्रभृति नलिनीरूपकालंकारो गतः । प्रकरणान्तरमाख्यायते ॥
अवरुद्धगन्धवनितो वीरसुतस्तत्र विन्नमहः ।
लचितनिम्नग आईत्यारं तीरं सयोषवरः ॥ ६९ ॥

१ सर्गः] राघवनैषधीयम् । 20 रामपक्षे-अवरुद्धगन्धवनितः विनमहः वीरसुतः अभूत् । अस्तिभवन्तीपरः । अनसूयाप्राप्ताङ्गरागसीतासहितः । अवरुधिः प्राप्तौ प्राग्दर्शितः । वनितातिसुन्दरी । वीरस्य दशरथस्य सुत इति । यद्वा विर्गरुडः । विना ईरो गतिर्यस्य सः। 'ईर गती कम्पने च' । 'सुतः पार्थिवपुत्रयोः' इत्यमरः । गरुडगामी चासौ राजा च । वीरसुतो राम इत्यर्थः । विद लाभे' । 'नुदविद-' इति निष्ठातस्य नत्वम् । अनिट् । 'मह पूजा- याम्' घअर्थे कः । महः प्राप्तपूजस्तस्मान्मुनेः पुनरन्येवुरग्रे यियासन् लचितमहासरित् । 'युष सेवने' । सौत्रो धातुः । योषणं योषः सेवा सयोषा वरा सीता यस्य सः । शुश्रूषा. परेति भावः । पारं तीरं महानद्याः पारं तीरं नत्ववारम् आर्छत् प्राप । 'ऋ गतिप्राप- णयोः' । लङ् ॥ अथ नलपक्षे-'गन्धो गन्धक आमोदे लेशे संवन्धगर्वयोः' इति विश्वः । 'अवरोधस्तिरोधाने' इति हैमः । गन्धो गर्वः वनिता दमयन्ती अवरुद्ध गन्ध- वनिते यस्य सः । अन्तर्हितदर्पोऽन्तर्हितपत्नीको राजा बाहुकत्वेन प्रसिद्धोऽयोध्यायां गुणवत्तामधिकां विलोक्य सजनैः पूजितो वीरसुतः वीरसेनपुत्रो लछितनीचजनस्त्य- क्तसङ्गः निम्नं नीचं गच्छतीति निम्नगाः नीचाः । 'निम्नगो नीचमर्ये स्याद्भेद्यवत्सरिति स्त्रियाम्' इति शब्दार्णवः । वीरसेन इत्यत्र सेनलोपस्तु । 'इग्यणः संप्रसारणम्' इति सूत्रं विवृण्वानो भाष्यकार आह-दृश्यन्ते च पदेषु पदैकदेशान् प्रयुञ्जानाः । यथा देवदत्तः दत्तः देवः' इति । तथात्रापि ज्ञेयम् । पुनः कथंभूतः । गोविन्ददेवालये स- योषवरो यस्य सः । हे हरे विमुक्तस्त्रीकोऽहमचिरेण पत्नीं प्राप्नुयाम् इति वरयाचनं यस्य सः । पारमिति वेदान्तवाक्यादरात्परतरं ब्रह्मैव आर्छत् शरणीचकार न त्वर्वा- चीनान्देवान् । एतेन नलस्य पारीणवमपि शास्त्रेषु ध्वन्यते । वाह्यचेष्टास्तु जनका दिव- लोकसंग्रहार्थमेव चकारेत्यर्थः । उपगीतिवृत्तम् ॥ असुरविराधोन्माथी विरहितवनितस्ततोह्यभवत् । पुण्यजनदानकारः शरभङ्गखाश्रयस्तुत्यः ॥ ७० ॥ रामपक्षे-अग्रे विराधेन रक्षसा हृतभार्यस्तदनु खमुत्पतन्तं तं शस्त्रेण निहत्य । उन्मायो घातः । 'घातोन्माथवधा अपि' इत्यमरः । पुण्यजनस्य राक्षसस्य । 'दाप् लवने' ल्युट् दानम् । तस्य छेदकारी असिना । विरुद्धलक्षणया पुण्यजनशब्दः । 'यातुधानः पुण्यजनः' इति कोशात् तदनु शरभङ्गमुनेस्तस्यात्मीयस्य श्रयः शरणं स्तुत्यः स्तुतियो- ग्योऽभवत् । तेन तुष्टुवे इत्यर्थः । अथ नलपक्षे-विरहितवनितो दमयन्तीरहितः । अतिशयोक्तिरलंकारः । असुरास्तमोरूपास्तमोरूपविरोधकारकजनोन्माथी तत्संसर्गरा- हित्यात निरहंकार इति तात्पर्यम् । 'राध संसिद्धौ । विपूर्वो राधिर्विरोधे। 'विराद्ध एवं भवता' इति माघे । तदनन्तरं यद्राजदत्तं धनं तत्पुण्यजनेभ्यो व्यतारीत् एवं पुण्यज- नदानकारः शरभङ्गः। 'शू हिंसायाम्' । शरो हिंसा । 'ऋदोरप्' । तस्य भङ्गो यस्य सः। शरभङ्गः साधुः स चासौ खश्च आश्रयो यस्य स स्तुत्योऽतिस्तुतियोग्यो वल्लभत्वात् वीरसुतो नल इति गूढोऽभिप्रायसंधिः । आसीदिति क्रिया क्रियान्तराभावे योज्या। प- काव्यमाला। च्यादिक्रियादर्शनव्यवच्छेदे सति अन्तरङ्गलादस्तिक्रिया सर्वत्र योज्या । नलपक्षे 'दाग . दाने धातुयुटि तुल्यमेव रूपम् ॥ अजिरमहौषीत्परभागात्मानं यस्ततः श्रमकृत् । पिप्राय तेन रामः सुतीक्ष्णमानी पलाद्विषये ॥ ७१ रामपक्षे–'अजिरं विषये काय' इत्यमरः । आत्मानं सर्वभूतान्तःस्थं रामं यन् जानन् परमात्मानम् । 'इण् गतौ शतृप्रत्ययः । 'य एव गत्यर्थास्त एव ज्ञानार्थीः' इ- त्युक्तत्वात् । परभाग उत्तमसेवी । 'दूरानात्मोत्तमाः पराः' इत्यमरः । श्रमु तपसि खेदे च'। दिवादिः । श्रमकृत् तपस्वी चितिं विधाय रामस्य पुरस्तात्कायमजिरशब्देनाहौ- षीत् । ज्वलिते वहौ । श्रमकृदिति विशेषणाच्छरभङ्ग इत्यनुवर्तते । तेन रामः पिप्राय संतुतोष । अग्रे यात्वा रामः पलाद्विषये रक्षोविषये । पलं मांसमत्तीति पलात् । संचर- कोणपे देशे इत्यर्थः । सुतीक्ष्णमानी सुतीक्ष्णमुनिपूजितः सुतीक्ष्णस्य मानः पूजा सु- तीक्ष्णमानः सोऽस्यास्तीति मत्वर्थीय इनिः । 'मान पूजायाम्' । ण्यन्तादेरच् । 'तलं स्यादामिषे पलम्' इत्यमरः ॥ अथ नलपक्षे-तत: श्रमकृत्तपश्चरन् । 'श्रमस्तपति खेदे च' इति हैमः । आत्मानं सरयूतीरे ध्यानस्थो ब्रह्मयन् परभाक् सत्सेवी रामः प्रागेव कोशः उक्तः । श्याममूर्तिनल: अपि च स्वयंवरेऽग्निना वरो दत्तः सदा मदुप- स्थान स्मरणादेव तव भविष्यतीति ।रं पावकममति सेवते' इति रामः। 'रः पावके च तीक्ष्णे च' इति विश्वः । अग्निशुश्रूषापरस्तेन अजिरशब्दादिविषये मनसाहौषीत् तत्याज । तेन कर्मणा पिप्राय तुतोष । प्राणयात्रार्थमेव चेष्टां कृतवान् । श्रमेः पचा- छन् । पलाद्विषये सुतीक्ष्णमानी पलाशनाश्वपालविषमस्थितोऽपि सुतीक्ष्णमानी । 'मन स्तम्भे' चुरादिः । अतितीक्ष्णजनत्यागी तद्रोधकत्वात् । आसीदिति ऊहितव्यम् । उपगीतिः ॥ स किलेध्मवाहतात पदं सिषेवे गतिः पठताम् । हृतहेतिस्तत उच्चैः पञ्चवटीमास्थितो रेमे ॥ ७२ ॥ रामपक्षे-पठतामधीयानानां गतिः शरणं स रामः इध्मवाहोऽगस्त्यपुत्रो वनप- वैणि प्रसिद्धस्तस्य तातोऽगस्त्यस्तस्य पदं स्थानं सिषेवे कंचित्कालं तस्थौ । 'गतिर्वहणे मार्गे शरण्यावगमेऽपि च' इति हैमः । सर्वेषां ब्रह्मण्येव' तात्पर्यमिति ततोऽगस्त्यात- हेतिः । 'ऋगतौ' । य एव गत्यर्थास्त एव प्राप्त्यर्थाश्च । ऋताः प्राप्ता हेतयो दिव्यास्त्र- ग्रामा येन स इति वहुव्रीहिः । उच्चैर्महत्त्वेनोपलक्षितो रामः पञ्चवटीमास्थितः पर्णशा- लायां रेमे व्यहरत् किलेति पुराणप्रसिद्धम् ॥ अथ नलपक्षे-पठतां शालिहोत्रं प- ठतां नृणां गतिराचार्यभूतः स नलः प्रकृतो बुद्धिपरामृष्टलात् इध्मानि काष्ठानि वह- न्तीति इध्मवाहाः काष्ठविकयिणः ते च ताता अनुकम्प्याश्च । 'तातोऽनुकम्प्ये जनके' इति विश्वः । तेषां दुर्बलानां करुणया पदं परित्राणं सिषेवे । पौनःपुन्येनाकार्षीत् ।

१ सर्गः] राधवनैषधीयम् । . 'पदं व्यवसितत्राणस्थानलक्ष्माझिवस्तुषु' इत्यमरोक्तिः । ततो दयाशाली तत्रैव सरयू- तीरे समीपे च उच्चैः पञ्चानां वटवृक्षाणां समाहारः पञ्चवटी । 'द्विगोः' इति ङीप् । विश्रामार्थ निषस्तः किल रेमे । उपगीतिः । ऋतं सत्यमेव हेतिर्यस्य स इति । ऋत हेतिः । 'सत्यं तथ्यमृतं सम्यकू' इत्यमरः । 'हेतिरायुधकी लयोः' इति मेदिनी ॥ सह जोषः सावरजः प्रतिदिनसवनश्चिराय वसन् । अतिपेशलया परया स वित्रिये कान्तमुक्तिमुदा ॥ ७३ ॥ रामपक्षे-सीतासहित: सलक्ष्मणः प्रतिदिनं सवनं स्नानं यस्य स गौतमीनायी चिरं वसन् स रामः अतिपेशलया अतिसुन्दा अपरया अधमया सूर्पनखया कान्तभ- क्तिमुदा भर्नु वो भक्तिपूर्व सहर्षया वित्रिये अत्रियत । 'बीड़ वृणात्यर्थे' देवादिकः । लिट् । राक्षस्यः कामरूपत्वात्सौन्दर्य छलेन कुर्वन्ति । तत्पेशलत्वं त्वं मम पतिर्भवेति ब्रुवत्या राक्षस्या ॥ अथ नलपक्षे—'यह मर्पणेऽभिभवे च । धजथै कः । सहनं सहः । 'युष सेवने' सौत्रो धातुः । योपणं योषः । तितिक्षासेवी । अवरजैः शूद्रा(दा)श्वपालैब- हुभिः संगतः । प्रतिदिनस्नायी सरवां चिराय तन्नगरे वसन् अतिपेशलया परया बुद्ध्या। बुद्धिस्त्रिधा व्यासोक्तत्वात् । सात्विकी, राजसी, तामसी चेति । परया उत्तमया सा- त्विक्या बुद्ध्या वित्रिये वृतः । कथंभूतया वुद्ध्या । कान्तस्य भक्तिः कान्तभक्तिः तद्व- न्मुत्प्रीतिर्यस्याः सा यथा सती खकान्तं न जहाति तथा नाजहात् । उपगीतिः ॥ लक्ष्मणजोषाद्विरता यदा तमेवाभजबहुधा । विनसा व्यधायि शीघ्रं सरुषा नैव रूपवती ॥ ७४ ॥ रामपक्षे-यदा लक्ष्मणजोषाद्विरता बहुधा तमेव लक्ष्मणं परावृत्य पतिर्भवेत्यभजत्। अहं कलत्रवानिति रामेण प्रत्याख्याता कामातां तदा रूपवती प्रशान्तसौन्दर्या । प्रशं- सायां मतुप् । सरुषा तेनैव लक्ष्मणेन शीघ्रं छुरिकामादाय विनसा विना व्यधायि सा। राक्षसीत्यर्थः । विनसोपलक्षितेत्यर्थः । इत्थंभूतलक्षणे तृतीया द्रष्टव्या ॥ अथ नलपक्षे व्याख्या-'मनसो निग्रहं मन्ये वायोरिव सुदुष्करम्' इति भगवद्गीतासूक्तत्वात् यदा कदाचिदविवेकवती बुद्धिलक्ष्मणजोषाद्विरता श्रीमद्राजादिसेवनानिवृत्ता बहुधा बहुभिः प्रकारैः तमेव नलं ततः परावृत्याभजत् । तदा सरुषा व्याससूत्रार्थतत्त्वज्ञेन तेन नलेन शीघ्र चित्तसमाधानेन ज्ञानासिना विनसा छिन्ननासिकेव' चक्रे कविरुत्प्रेक्षते । यद्वा द्वि- तीयोऽर्थः । 'णस कौटिल्ये' नसनं नस: कौटिल्यं तद्रहिता वेदान्तशास्त्राभ्यासबलेन व्य- धायि चक्रे तथा सती पुनर्विवेकवतीं बुद्धिमशिश्रियत् ॥ खरदूषणगारम्या पृतनाग्रा पर्यगाद्भूयः । खरदूषणमुख्यास्ते रामं जघ्नुर्बलेन वृताः ॥ ७५ ॥ रामपक्षे-खरदूषणगारम्या पृतनाग्रा भूयः पर्यगात् परावृत्य अगात् सूर्पणखा कौणपी अहं निरपराधा पञ्चवटीवासिना तापसेन चरन्ती स्वेच्छया व्यग्रा कृता नरमा- * काव्यमाला। त्रेण तच्छ्रुत्वा तामेव पुरोधाय पृतना चमूश्चतुर्दशसहस्राणि रक्षांसि तेषामग्रा। प्रागण्या- ग्रीयमग्रियम्' इत्यमरः । तदग्रेसरारामं दर्शयामास ते खरदूषणमुख्या महाचक्रेण वृताः शितैः शरैः रामं जघ्नुः ताइयामासुः । हन्तिस्ताडनार्थोऽत्र । 'आजघ्ने विषमविलोचनस्य वक्षः' इति भारविः ॥ अथ नलपक्षे-सा तामसी बुद्धिर्नलेन विनसेव कृता । ततः परावृत्य खराणि तीक्ष्णानि दूषणानि येषां ते खरदूषणाः अतिप्रवणपापसमूहाः ब्रह्मह- त्यादयस्तत्समीपगामिनी महाराजमहामोहसेनामुख्याभूत् । तद्बलमादाय कामक्रोध- नृशंसत्वब्रह्मावाक्पारुष्यादिकास्तत्र राम श्यामाङ्गं नलं जनुर्विव्यधुः । स तु पुरुषसूक्ता- दिपाठेन द्वादशाक्षरवैष्णवमन्त्रेण तत्कटकं पलायनपरं चक्रे । सा तामस्यपि पराजिता पलायिष्ट तगतविध्वस्तपलायितैः सह । उपगीतिः ।। नैव चचाल तदासौ निहन्यमानोऽपि पुण्ययशाः । लक्ष्मणनिक्षिप्तवरो व्याधूना तत्प्रतिक्रियस्तान्द्राक् ॥ ७६ ॥ रामपक्षे-तदासौ तैनिहन्यमानोऽपि नग इव रामो नैव चकम्पे । 'चल कम्पने लिट् । कथंभूतः । पुण्ययशाः पुण्यकीर्तिः । नामोच्चारणमात्रे सतां गतिप्रदत्वात् । पुनः कथंभूतः । लक्ष्मणनिक्षिप्तवरः । लक्ष्मणे निक्षिप्ता वरा श्रे(प्रि)या सीता येन सः । निक्षिप्ता न्यस्तेत्यर्थः । संग्रामसमये भेष्यतीति । 'गोस्त्रियोः' इति हस्खः । आग्नेयं वारुणेन जघानेत्यादि तदस्त्रप्रतीकारकदिव्यास्त्रैः प्रतिकर्ता व्यपोहिता शीघ्रं चतुर्दशसा- हस्रं बलममीमरदित्यर्थः ॥ अथ नलपक्षे-तादृग्बलसंस्थानेऽपि पुण्ययशा नल: स्थिरबुद्धित्वात् लक्ष्मणेषु श्रीमदान्धेषु निक्षिप्ता वरा । 'वृञ् वरणे' । संसारवेष्टकत्वा- द्वरा अविद्या येन स इति बहुव्रीहिः । त्वं मदान्धेषु गच्छेति तां प्रत्याय परया विद्यया नैव गिरिरिव चकम्पे विष्णुभक्त्येति भावः । किं तु श्रवणादिभिस्तान् पातकसमूहान् द्राक् प्रतिकारकै जनाधूनादिति भावः । श्रीमद्भागवतीयपुरंजनोपाख्यानोक्तरीत्या. तिशयोक्त्यलंकारेण सर्वमारोप्यम् । उपगीतिः । प्रतिपक्षहाचकासीप्रतिविधि पारीण उग्रतपाः । सह जोषः सावरजो विललास पुनः कुटीजोषः ॥ ७७ ॥ रामपक्षे-प्रतिविधिपारीणः प्रतिकारपारगामी उप्रतपा भयंकरतापकः खयं च महातपाः खरदूषणादिप्रतिपक्षहन्ता अचकासीत् रराज । पुनः कथंभूतः । पञ्चवटीकु- टीजोषः । 'जुषी प्रीतिसेवनयोः' । जोषणं जोषः । भावे घञ् । कुट्याः पञ्चवट्याः जोषः सेवकः । तत्र निवसन् विललास । किंभूतः । सहजोषः जोषया सीतया सहितः सावरजः सलक्ष्मणः । 'यवीयोवरजानुजाः' इत्यमरः ॥ अथ नलपक्षे–वेदान्तशा- स्त्रानुगा व्याख्या । प्रतिक्रिया प्रारदर्शिता । पारगामीत्यादि समानम् । सहजोषः ति- तिक्षुः । योषेण सहितः सेवकश्च । सहं तिरस्कारं सहत इति सहजोषः । उपपत्तिः शब्दस्य प्रारदर्शिता । पुनः कुटीजोष: आर्तुपर्णे ताणगृहे वसन् । 'वासः कुटी द्वयोः शाला' इत्यमरः । अश्वसंबन्धिविलासेन सहाकरोदित्यर्थः । उपगीतिः ॥

१ सर्गः] राघवनैषधीयम् । सा रावणान्तमार्च्छद्विनसा दायादपिञ्जना मछु । आचक्रन्द परात्मश्रयणोत्था घातवर्णिनी तत्र ॥ ७८ ॥ रामपक्षे–विनसा दायादपिञ्जना सा मङ्घ रावणान्तमार्च्छत् । 'अन्तः स्वरूपे नि- कटे नाशनिश्चययोरपि' इति हैमः । रावणसमीपं जगाम । ‘दायादौ सुतबान्धवौं' । 'पिजि हिंसायाम्' । दायादानां बान्धवानां पिञ्जनं मारणं यस्याः सा। विगतनासिकयो- पलक्षिताम् । 'द्राङ्मङ्गु सपदि द्रुते' इत्यमरः । मङ्गु शीघ्रम् । तत्र रावणसभायां सा सूर्पणखा परात्मश्रवणोत्थाघातवतिनी आचक्रन्द रुरोद। परात्मनो विष्णोः श्रयणं येषां ते परात्मश्रयणा वैष्णवाः पञ्चवटीवास्तव्यमुनयः असत्प्रतिकूलाः तदुत्थो य आघातः कदनं खगादीनां तस्य चरितस्य वर्णनशीलाः । वर्णयतेस्ताच्छील्ये णिनिः । भवदादि- ष्टमुनिपुत्रभक्षणशीलाया मे तापसाभ्यां तत्र वसयां मुनिहिताभ्यां चतुर्दशसाहस्रख- रादिधातोऽकारि । सहास मे दशा चैषा कृता इति वदन्यरोदीदिति रामायणकथा- नुसंधया ॥ अथ नलपक्षे-सा परा विवेकवती बुद्धिर्जातदायादपिञ्जनाविकौटिल्या द्राक् रावणान्तं महामोहनृपतेः सकाशं जगाम । अविद्यासंघस्य महामोहमूलत्वात्स एव राजा समुज्जृम्भते । 'प्रत्यन्तो म्लेच्छदेशः स्यात्' इति कोशवारस्यात्तदधिष्ठानो महामोह इति मीमांसनीयम् । रावयति रोदयति सर्वान् यमनगरवर्धित्वादिति महा- मोहः स चाहं ममतामूलकः तत्प्राचुर्य तमःप्रधानेषु ज्ञेयम् । 'विषय्यन्तः कृतेऽन्य- स्मिन् सा स्यात्साध्यवसानिका' इति काव्यप्रकाशे व्याख्यातम् । शुद्धलक्षणायां महामो- हशब्दानुपादानम् । रावण एवायमित्यध्यवसानात् । विस्तरभीत्या बहुलं नोच्यते- ऽस्माभिः । परात्मनो विष्णोः श्रयणं यस्य स नलस्तदुत्थो य आत्मीयाघातस्तद्वर्णिनी- त्यर्थः । विपक्षवर्धकत्वात्तस्य आत्मनश्च हीयमानबलत्वादाचक्रन्द विललापेति तात्प- र्यार्थः। गीतिः ॥ विगतस्यशत्त्वलधुतः को न कुलं घातयेन्मूढः । इत्थं संश्रुतकदनो मारीचं शिश्रिये जवतः ॥ ७९ ॥ रामपक्षे-किमाहेत्याह-विगतस्यशत्त्वलघुतः को मूढः कुलं न घातयेत् । अपि तु सर्वोऽपि । 'अपसर्पश्चरः स्पशः' इत्यमरोक्तिः । विगतचारत्वेन लघुता यस्य सः । चारनेत्रविहीनः को मूढो राजा त्वादृशः कुलं वंशं न मारयेत् । अपि तु मारयेदेव । इत्थं 'कद वैक्लव्ये' घटादिः । संश्रुतकुलनाशो गत्वा वेगेन मारीचं राक्षसं समुद्रकूले वसन्तं प्राह-शिश्रिये कार्याथै सामपूर्व शिश्रिये इति पदव्यङ्ग्यम् । इत्थमिति यदा- दीनां बुद्धिस्थपरामर्शकत्वात् जनस्थाने मायामृगो भूत्वा रामं वञ्चयन्नेव दवीयो देशं गमय अहं त्वामनुगत्वा तज्जायां हृत्वा पारेसमुद्रं नीत्वा रेस्ये तया सहेति रामायण- कथानुसंधेया। प्रबन्धोऽयमित्थंपदद्योत्यः । इत्थमिति देहलीदीपन्यायेनोभाभ्यां सं- वध्यते ॥ अथ नलपक्षे-समहामोहस्य तामसराजसत्त्वान्महामोहः शब्दादिवि- any काव्यमाला। षयग्रामसकाशं गत्वा स्वप्ने विषयमृगतृष्णासमूहं तस्मै नलाय तत्र द्रुतं प्राहिणोत् मरी- चीनां विकारो मारीचम् । 'मृगतृष्णा मरीचिका' इत्यनुशासनम् । मध्याहाके सैकत- पुञ्जोऽपि पयःपूरत्वमापद्यते इति प्रसिद्धम् । तदस्मिन्नास्ति' इति विषयग्राम एव मा- रीचः । अर्शआयच् । निद्रावस्थायां रामं श्यामाझं मिथ्याभूतमारीचं दर्शयध्वम् । नि- गीर्याध्यवसानपातिशयोक्त्यलंकारेणोपमानमात्रं शिष्यते भरतानुशासनात्काव्यप्रकाशे 'विहायसि विहारिणी लसतु नाम सौदामिनी' इत्यादि दृष्टान्ता द्रष्टव्याः । आनृशंस्येन नृशंसत्वादयोजिता इति नलेन महामोहसेनाकदनं कृतं पूर्वम् । इदानीं विषयग्रामं मा- रीचं परिणतौ मिथ्याभूतं साकेते नलाभ्यासे प्रेषयामासेत्यर्थः । उपगीतिवृत्तम् ॥ अभ्यर्थितस्तु तेन प्रोद्विग्नमना गतो रामम् । महसान्धमाक्षिपन्तं सगरं प्रैक्षिष्ट गत्वा सः ॥ १० ॥ रामपक्षे-तेन रावणेन तु निश्चयेन अभ्यर्थितो मारीचः प्रोद्विग्नचित्तः पञ्चवटीस्थं रामं गतः पूर्व रामचरितश्रवणेऽपि चदासौ नामस्त तदा तस्मादेव मर्तव्य मिति नि- श्चित्य गतोऽयमिति प्रोद्विग्नचित्तपदेन ध्वन्यते । कथंभूतः । महसा तेजसा ज्ञानप्रका- शेन अविद्यान्धकारमाक्षिपन्तं गत्वा रामं प्रैक्षिष्ट सप्रशब्दो दूरवाची । 'क्षौद्रेऽप्यन्धं तमस्यपि' इति कोशवाक्यम् । कथंभूतम् । सगरम् । 'ग शब्दे' । 'ऋदोरम्' । गरेण मु- निस्तवेन सहितम् । मुनिभिः स्तूयमानमित्यर्थः ॥ अथ नलपक्षे-तेन महामोहेन राज्ञा तु निश्चयेनाभ्यर्थितः शब्दादिविषयग्रामरूपो मारीच: प्रोद्विग्नमना भीतचित्तो रामं नलं गतः । कथंभूतम् । महसा ज्ञानप्रकाशेनान्धमविद्यान्धकारमाक्षिपन्तम् । परया सात्त्विकबुद्ध्याश्लिष्टम् । स विषयरूपमारीच: प्रैक्षिष्ट । स्वप्ने इति शेषः । राज्यलक्ष्मी दृष्ट्वा चित्रां हरिं ध्यात्वा प्रबुद्धः सन् मारीचं फल्गूकृत्य व्यनीनशत् । प्रत्युत्तरेणाश्वपालादि- स्तुत्या युक्तं प्रैक्षिष्ट मारीचः ध्यानविषयत्वे हरेविषयग्रामो वरीमृशीतीत्यर्थः ॥ निस्तहणं चिकीर्षन्प्रार्थितमपदिश्य कान्तायाः। प्रतिदूरं प्रणियातोऽमुष्य पलाशोद्विषंस्तर्हि ॥ ८१ ॥ रामपक्षे-कान्तायाः सीतायाः प्रार्थितं प्रकृष्टकनकमृगमानयेति याचितं व्यप- दिश्य लक्ष्यीकृत्य तस्य मारीचस्य निस्तहणं निहननं चिकीर्षन् रामो मायाविना वञ्चि- तोऽतिदूरं प्रणियातोऽभूत् । कथंभूतः । अमुध्य पलाशो द्विषन् वैरी । पलमश्नातीति । 'अश भोजने । 'विप् च' इति कर्तरि क्विप् । 'द्विषः शतुर्वा' इति पक्षे षष्ठी। 'नेर्गद-' इति प्रणियात इति णत्वं बोध्यम् ॥ नलपक्षे-कान्तायाः परस्या बुद्धेर- पसारणरूपं प्रार्थितमपदिश्य स्वप्ने विषयव्यतिकरस्य निहननं कर्तुमिच्छन्' दूरमतिका- न्तोऽतिदूर खहृत्पद्मवर्ती साक्षी चिद्रूपत्तं प्रणियातः शरणीचक्रे । कथंभूतो नलः । अमुध्य पलाशो रक्षोरूपविषयव्यतिकरस्य संसारहेतोषिनू शत्रुः । उपगीतिः ॥

१ सर्गः]
राघवनैषधीयम् ।
अतिलक्ष्मणान्तसंस्था क्रन्दं पर्युह्य कान्ता सा ।
स्वाम्यास्ते शत्रुहतिः परं प्ररक्षेहि शीघ्रमित्यवदत् ॥ ८२ ॥
रामपक्षे-अतिलक्ष्मणान्तसंस्था सा सीता क्रन्दं पर्दूध हे देवर शत्रुहतिर्मम
खामी आस्ते। परं स्वामिनं प्ररक्षे शीघ्रामिहि गच्छेत्यवदत् । 'तु हि च स्म ह वै पाद-
पूरणे पूजने खति' इत्यमरः । अतिशयितप्रशस्तश्चासौ लक्ष्मणश्चेति कर्मधारयः ।
'अन्तः खरूपे निकटे' इति हैम: । रामसंघुषितमाचर्य यतो मारीच: प्राणान्' जही
इति सीता बभ्राम ॥ अथ नलपक्षे-सा प्रसिद्धा परा कान्ता नाली अतिशयितश्री-
मन्निकटसंस्था परा आत्मध्यानवशात्पलायितायास्तस्याः क्रन्दं पर्दूह्य वितयं शत्रूणां
हतिर्यतस्तादृशो मुकुन्द आस्ते तमेव शीघ्रमि हि प्रपद्यख प्ररक्ष उपसर्गागोपाय भौतिक
पिण्डमित्यवदत् । उपगीतिः ॥
अतिलक्ष्मणो न मेने प्रभाववित्तस्य तद्वचनम् ।
समुदासिष्ट त्वराणीविजनासीनो परां शोचन् ॥ ८३ ॥
रामपक्षे-तस्य प्रभावविदिति लक्ष्मणः तद्वचनं न मेने । तहि किमकरोदि-
त्याह-त्वराणी विजनासीनः अपरां छायासीतां शोचन कौणपो मामन्तरेण हरिष्य-
तीति शोचन् । कथंभूतः प्रभाववित् त्रिलोकीसंहारेऽपि समर्थः । प्रभुणा हतः क्र-
व्यादः तदनुकरणीं विलापति सा तु वाक्पाटवं यदाकार्षीत्तदापासरदित्यर्थः । आसे.
लुंङ् ॥ अथ नलपक्षे-केवलवृत्तये ऋतुपर्ण विना श्रीमतोऽन्यानतिकान्तः अतिल-
क्ष्मणः श्यामागस्तस्य साक्षिचैतन्यस्य प्रभाववित् तद्वचनं सात्विकधीवचनं न मेने इति
न। अपि तु मेने इति काकुः । स्वप्नावस्थायामिति शेषः । अपरां शोचन् विषयव्यतिक-
रेण तुच्छापरा मां भ्रंशयितुमागता ध्यानानुभावादात्मनः क्रन्दन्ती दुर्दशापलायितेति
कष्टगतेति शोचन । शेषं समानम् । उद्गीतिः ॥
बलवन्तमरिं हत्वा निरवारीदुत्तमश्लोकः ।
रावण इह चावसरेभिक्षुवपुस्तामुपासार्षीत् ॥ ८४ ॥
रामपक्षे-उत्तमश्लोको रामः मायापारीणत्वादलवत्तां मारीचस्य परिकरालंकारः ।
बलवन्तं मारीचं हत्वा निरवारीत् आह्लादिष्ट । 'आह्लादने निर्वृणोति' इति भट्टमल्लः ।
च पुनः इहावसरे भ्रातृद्वयरहितसमये भिक्षुवपुः संन्यासिरूपो रावण: तामुपासात्
आजगाम ॥ अथ नलपक्षे-उत्तमश्लोक: पुण्यकीर्तिनल: बलवन्तं विषयव्यतिकरमरिं
हत्वा निरवारीत् । 'निर्भाकू परमानन्दे' इति शब्दार्णवः । च पुनरिहावसरे अभिक्षुव-
पुर्महामोहः गृहिभेदः नलकृतेनानुशयेन मरिष्यतीति रागवतीं तां बुद्धिमनुनेतुमुपा-
सार्षीत् । उपगीतिः ॥
बहुधा प्रतार्य जहे छायां शोशुच्यमानां ताम् ।
खगराजमात्रशरणां त्रिकूटधरकेतनो दुष्टः ॥ ८५ ॥

४८ काव्यमाला। रामपक्षे-त्रिकूटधरकेतनो दुष्टः बहुधा प्रतार्य शोशुच्यमानां छायां तां सीतां जहे। कथंभूताम्। खगराजमात्रशरणाम् । अहार्यधरपर्वताः' इति कोशः। त्रिकूटाचलवासी दुष्टः कितवः । 'कित निवासे' । भावे ल्युट् । मध्ये मार्ग जटायुमात्रशरणां दाशरथप्रीतिवि- चाराद्रावणेन घोरं युद्धं कृत्वा प्राणत्यागी स ईदृशः शरणं रक्षणं यस्याः सा शरणं रक्षण: नान्यः कोऽपीति व्यञ्जयितुं मात्रशब्दः । हा रामेति शोशुच्यमानाम् । शुचेर्यडन्तात्क- तरि शानच् । विहायसा रथेन नीयमानां तां जद्दे ॥ अथ नलपक्षे-त्रिकूटधरके- तनो दुष्टो महामोहः त्रयः कूटा इव कामक्रोधलोभा यस्य तादृशधरनिवासी प्राणिदे- हरूपोऽधरः । 'त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः' इति भगवद्वाक्यात् । रोरूय- माणां रागवतीं बुद्धिं मा कृथा इति बहुधा प्रतार्य जढे । शीघ्रं पौनःपुन्येन शोचन्तीं तां रागवतीं बुद्धिम् । कथंभूताम् । खगराजमात्रशरणां खगराजस्य मा लक्ष्मी: शोभा। 'लक्ष्मीः संपदि शोभायाम्' इति हैमः । तां त्रायत इति खगराजमात्रः स विष्णुः शर- णम् । 'शु हिंसायाम्' । ल्युट् । घातसाधनं यस्याः सा । हरिनामशरणा एव तां हा- तुं पारयन्तीति गूढोऽभिप्राय: । विशेष्यं विनापि बुद्धिस्थविशेषणपदानि प्रयुज्यन्ते इत्य- र्थवत्सूत्रे ज्ञापितं सूत्रकारेण । शब्दरूपशब्दस्य विप्रकृष्टस्यानुवृत्तेरभावात् । अत एवो- द्योगपर्वणि विदुरवाक्यम्-‘एकया द्वे विनिर्जित्य त्रीश्चतुभिर्वशं कुरु । पञ्च जित्वा विदित्वा च सप्त जित्वा सुखी भव ॥ इति । विशेष्यमत्रापि नास्ति । उपगीतिः॥ हिंसीरमध्यसंस्था ह्यशोकवनिकागता रामा । आश्रयमेवाशोचत्पौरस्त्यं ध्यानमूकत्वा ॥ ८६ ॥ रामपक्षे-हिंसीरं राक्षसीवृन्दं तन्मध्यसंस्था अशोकवनिकागता रामा सीता ध्यानेन मूकत्वं यस्याः सा ध्यानमूकत्वा हि निश्चयेन पौरस्त्यं पति राममाश्रयं शरण- मेवाशोचत् ॥ अथ नलपक्षे-नास्तिक्यमदक्रोधादि हिंसीरमध्यसंस्था हि ध्यान- मूकत्वा रागवती धीः अशोकवनीतः तत्राशोकवृक्षसमूहान्तराले जनाश्रयोऽभूत् तत्र- स्थः कं सुखं सखदे । 'केणः' इति हखः । तत आगता तिरस्कृता नलेन पौरस्त्यमाश्र- यमेवाशोचत् स दुर्जयो वैरिसेनिः कदा मया भग्नः करिष्यत इति । उपगीतिः ॥ श्यामाङ्गो व्यावृत्य व्यचिनोदपरां रजोव्याप्तः । नापश्यद्यलपञ्च प्रादर्शल्लक्ष्मणं तत्र ॥ ७ ॥ रामपक्षे-रजोव्याप्तः श्यामाङ्गो रामः मेघश्यामत्वात् अपरां छायां सीतां व्यचि- नोत् अन्वेषयामास । 'संवीक्षणं विचयनम्' इत्यमरः । तत्र नापश्यत् लक्ष्मणं प्रादर्शत् । च पुनर्व्यलपत् । दीपकालंकारः । भावशबलता च व्यङ्गया ॥ अथ नलपक्षे-या- माङ्गो बाहको नाम जाग्रदवस्थायां ज्ञानकर्मेन्द्रियव्यापारवत्ता प्रकाशते । जाग्रवस्था ध्वनयितुमेव कविना रजोव्याप्तमिति पदं प्रयुक्तम् । एतत्प्राचीनपद्येष्वत एव स्वप्ना- वस्था ध्वनिता रजोव्याप्तो व्यावृत्य निवृत्य पूर्वव्यापारात् अपरां राजसीं धियमन्वियेष।

१ सर्गः] राघवनैषधीयम् । ४९ महतामपि शोचावेशात् कदाचिद्रजोगुणव्यतिषङ्गो जायत एवेति सूचितम् । 'मनसो निग्रहं मन्ये वायोरिव सुदुष्करम्' इति गीतासु । तत्र नापश्यद्रागाकुलो दमयन्तीत्य- भिभूतां विचिन्वन्नपि लक्ष्मणमृतुपर्ण प्रणामार्थ प्रादर्शत् । उथहरे दमयन्तीप्रेम्णा व्यल- पञ्च । उपगीतिः ॥ कृतसंभाषोऽनेन प्राभ्राम्यत्कानने प्रचरन् । खगराजगतिं कृत्वा व्यायतदोषं कबन्धमथ ॥ ८८ ॥ असमानं निजमूर्ति प्रैक्षिष्ट विकर्तनेन पुनः सः । युक्त्या युक्त्वा व्यचरत्स कानने श्रीमतां धुर्यः ॥ ८९ ॥ (युग्मम्) रामपक्षे-कानने प्रचरन् अनेन कृतसंभाषः प्राभ्राम्यत् दूरदेशेऽभ्रमीत् । प्र. शब्दो दूरवाची । युग्मश्लोकेनान्वयः । सीतां व्याहतकटुवाती सौमित्रिराचष्ट अतोऽहं निरगममिति । पुनरग्रे गतौ मध्येमार्ग जटायुषा किंचित्संभाध्य तद्गतिं वैकुण्ठीयां विधाय । अथाग्रे व्यायतदोषं कबन्धं रामः प्रैक्षिष्ट । कथंभूतम् । व्यायतदोषं योजना- यामबाहुम् । पुनः कथंभूतम् । निजमूर्तिमात्मदेहं असमानं मध्ये पातात् । पुन- विकर्तनेन तद्बाहुच्छेदेन युक्त्या युक्त्वा संयोज्य पुनः श्रीमतां धुर्यो रामः स कानने दण्डकवने व्यचरत् ॥ अथ नलपक्षे-अनेन ऋतुपर्णेन कृतसंभाषः कुत्रचिन्नरोपवने महति प्रचरनभ्राम्यत् । पुनः कथंभूतः । श्रीमतां विज्ञानसंपत्तिमतां धुर्यः स नल: क- दाचित्पञ्चाशत्कोटियोजनपृथ्वीमण्डलव्यापकत्वाद्दीर्घभुजमिव केन विषयसुखेन । 'सुखशी- पजलेषु कम्' इति विश्वः । बन्धः संसारबन्धो यस्मात् तमीदृशं निजमूर्ति असमान- मिव प्रैक्षिष्ट स्वप्ने जागरे च तदा खगराजगतिम् । 'खं ब्रह्म' इति श्रुतेः । खेन गरो वर्णनं यस्य सः । स चासावजश्च तद्गतिं तदवबोधं युक्त्या करणभूतया तं कवन्धं ज्ञाना- सिना विकर्तनेन संयोज्य कानने। 'सत्वं ज्ञानमानन्दं ब्रह्म' इति श्रुतेः । केनानन्देनाननं जीवनं यतः । 'अन प्राणने' ल्युट् । तत्र ज्ञानात्मके परे ब्रह्मणि व्यचरत् । इत्थं नलो वष्टत इति भावः । उपगीतिः ॥ शबरीकृत संवादो गतिदोऽज्ञानां परं सरोऽजुषत । सावरजो धुर्यमतिर्विलक्षणं कान्तिपूरवहम् ॥ ९० ॥ रामपक्षे-शबरीकृतसंवाद: अज्ञानां गतिदः सावरजः धुर्यमतिः विलक्षणं का- न्तिपूरवहं सरः अजुषत ॥ नलपक्षे-निगीर्याध्यवसानरूपातिशयोक्त्यलंकारः । अहं तां शबरी कदाचिच्छोकतमःप्रादुर्भावेन तथा कृतसंवादः गत्वा रात्री पुष्कर हन्यां वा इत्यादि तत्संवादः पुनर्जागरे तद्विधूय अज्ञानां गतिदो ज्ञानद्वारा परं सर आनन्द- रूपं ब्रह्मसरः अजुषत असेवत सावरजः शूद्राश्वपालान्तरसहित: धुर्या मतिर्यस्य सः ।। कथंभूतं सरः । विलक्षणमनिर्वचनीचं कान्तिपूरवहं कोटिसूर्यसमप्रभम् । 'तमेव भान्त- ५० काव्यमाला। मनुभाति' इति श्रुतेः । पूरः । 'भेदाः किरातशबर-' इत्यमरः । गत्यर्थानां ज्ञानार्थ- त्वात् कातिदैक्षित्वं (१) व्याख्यानम् । गतिर्ज्ञानम् ॥ पवमानजनस्तावच्छचामावयवेन संवदितुम् । । आयात्सुग्रीवसुहृद्विनयेन च वार्तमाचारीत् ॥ ९१ ॥ रामपक्षे तावत्सुग्रीवमित्रं पवमानजनो हनुमान् श्यामावयवेन संवदितुमायात् वार्तमाचारीत् यावत्सरसि गतं तयेव । वृतसमूहम् । तस्य समूहः' इत्यण् । को युवां त्रैलोक्यकर्तारौ भासेथे इत्यादि पवमानजनो वायुपुत्रो हनूमान् । जननं जनः । 'ज- निवध्योश्च' इति घमि वृद्धि निषेधः । इयामावयवो रामः । 'रामः श्यामः प्रसन्नः' इति रामायणे ॥ नलपक्षे तावत्सुग्रीवो भीमः तत्सुहृत् । सुग्रीवत्वं च हरिनामकीर्तनाच्चा- रुकण्ठत्वं भवति । 'बर्हायिते ते नयने नराणाम्' इत्यादि श्रीमद्भागवतं प्रमाणम् । पव- मानः पवित्रस्तादृशो जनो विप्रः भूदेवत्वात् । श्यामावयवेन बाहुकेन संवादं कर्तुमपू- वंशीलत्वात् चतुर्दिक्षु भीमप्रेरिता द्विजा गतास्तत्य नलस्यान्वेषणाय तेषामेक ऋतुपर्णन- गरे वसन् सायं विलापगर्भपद्यं शुश्राव तत्समीपमागत्य विनयनेन वार्तमाचारीत् तद्वृत्त- व्यतिकरं चित्ते प्रणिधाय जह्लादे शृण्वन्' । उपगीतिः ।। किं वार्तमाचारीत् इत्याह-नलपक्षे–स भीमप्रेरितो द्विजस्तं बाहुकमाह- लोकोत्तरवृत्तान्तः सलक्ष्मणस्त्वं विराजसे श्रीमान् । हरिणा मैत्री क्षिप्रं स्वकार्यघटनां प्रकुर्वीथाः ॥ ९२ ॥ रामपक्षे–अङ्ग हे सलक्ष्मणस्त्वं लोकोत्तरवृत्तान्तो मतिमानतिमेधावी विराजसे उत्तरालंकारेण रामेणापि खवृत्तमुक्तोऽसाविति गम्यते । सलक्ष्मणपदेन । हरिणा क- पिना सुग्रीवेण क्षिप्रं मैत्री कुरु । कथंभूताम् । खकार्यस्य सीताप्राप्तिरूपकार्यस्य घटना यस्याः सा । इत्थं विनयेन हनूमान् राममाहेति बोध्यम् ॥ अथ नलपक्षे-लक्ष्मणः प्रशस्तसामुद्रिकचिहानि प्रशस्तबुद्धिः स प्रसिद्धस्त्वं भवसि कश्चित् कल्पाविष्टपतिकृत- त्यागात्तया भैम्या पत्ये नासूयितव्यम् इत्यादिगाथाः कथयस्त्वं लोकोत्तरवृत्तान्तस्त्व- मिति पदेन वस्तुना काव्यलिङ्गालंकारो व्यज्यते । इत्थं सायं वदन्तमाकर्ण्य विप्रो नल इति ज्ञात्वा तदन्तिकगामी प्रशंसालोकोत्तरेत्यादि चक्रे इति ध्वनिः । अतः परं हरि- णाच्युतेन दारसंयोगदां मैत्री प्रकुर्वीथाः कुरु साधो इति ब्राह्मणो निपुणाय निपुणं गूढार्थमुत्तरमदादिति साकूतम् ॥ ओमित्युक्त्वा मैत्री विशेषतो हारगस्तु भवन् । रामः कृतवान्मैत्री दायेन तदाप्रभृत्येव ॥ ९३ ॥ रामपक्षे-रामो मित्रं मारुतिमोमित्युक्त्वा तथैव करिष्य इति प्रोच्य विशेषतस्तु हारगो हरेरयं स्कन्धः । तस्येदम्' इत्यण् । हारेण स्कन्धेन गन्ता भवन् तदा प्रभृत्येव ऋष्यमूकस्थसुग्रीवेण सह दायेन मैत्री कृतवान् अग्निसाक्षिकत्वेन वालिनं हत्वा त्वां राज्ये १ सर्गः] राघवनैषधीयम् । स्थापयिष्यामीति दार्थम् ॥ अथ नलपक्षे-स रामो नलो मित्रं विप्रमोमित्युक्त्वा तु पुनर्विशेषतोऽस्मरणादिव व्यतिकरभजनं कुर्वन् तदाप्रभृत्येव कामनामुद्दिश्य दायेन मैत्री कृतवान् । उपरीतिः ॥ तत्प्रत्ययाय मतिमान्व्यातत तृणराजसंभेदः । कान्ताभूषणसङ्गः कालमतिकान्तवांस्तत्र ॥९॥ रामपक्षे-तत्र मतिमान् रामः कालमतिकान्तवान् । कथंभूतः । व्याततः कृतः तृणराजानां सप्तानां बाणेन संभेदो येन सः । 'तृणराजाह्वयस्तालः' इत्यमरः । पुनः कथंभूतः । कान्ताभूषणसङ्गः रक्षसा विहायसा नीयमानाभिज्ञानाय सीताभूषणं नूपुर- ममुञ्चत्तद्भूषणजातालादः ॥ अथ नलपक्षे-तत्र तादृशहरिज्ञानाय व्याततः तृणस्य राज्ञश्च संभेदः संगमनं येन सः तयोरभेदप्रतिपत्तिः । अत एव प्रशस्तबुद्धिः । 'भिन्नौ दारितसंगतौ' इति विश्वः । कान्तश्वासावश्च स भूषणं येषां तद्भक्तास्तत्सङ्ग इत्यर्थः । कालमतिकान्तत्वात् । उपगीतिः ॥ बलिवालिघातकारी धीसचिवहादसंतुष्टः । वर्षणकालविनायी सलक्ष्मणोसत्परो व्यलसत् ॥ ९५ ॥ रामपक्षे-बली चासौ वाली च तद्धातकारी एकबाणेन । धीसचिवो हनूमान् त- त्कृतहादतुष्टः वर्षर्तुव्यतिवाही । 'विनयोऽपहृतौ दण्डे शिक्षानम्रत्वयोरपि' इति हैमः । अत्र 'विनीञ् हरणे' । लक्ष्मणयुक् । असन्तः पापाः परे शत्रवो यस्य सः असत्परः । व्यलसत् व्यहरत् ॥ अथ नलपक्षे-बली यो वाली तद्धातको यो रामो भगवांस्त- मृच्छति शरणीकरोति इति । 'सुप्यजातौ-' इति णिनिः । धीसचिवेति । धीरेव सहा- यभूता यस्य स ज्ञानजन्यलादेन संतुष्ट: । वर्षणकाल: प्राबृट्काल: तदृतपी (2) । प्रशस्तपद्मादिरेखाचिह्नः । असत्परः दुर्जनशत्रुः । तत्र व्यलसत् अश्वपालनक्रियादिना- करोत् । उपगीतिः ॥ भीमगृहं गतवत्या द्विजवचनप्रीतिकारिण्या। अन्वेष्टुं सांकेत्यं तादाय प्रतिष्कशा निरयुः ॥ ९६ ॥ रामपक्षे-तर्हि प्रतिष्कशा अन्वेष्टुं निरयुः । किं कृत्वा । भीमगृहं गतवत्या द्वि- जवचनप्रीतिकारिण्याः सीतायाः सांकेल्यमादाय । 'भीमोऽम्लवेतसे शंभी भीमसेने भ- यानके' इति हैमः । 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । जटायुर्वचनेन प्रीतिदायिन्या भयंकर लड़ेशगृहं गतवत्याः अन्यत्र वा स्यात्स्थापिता चारेणेति चतुर्दिक्षु ते ययुः । तत्संकेतान् बहूनादाय । 'प्रतिष्कशः सहाये स्थाबार्ताहरपुरोगयोः' इति शब्दार्णवः ॥ अथ नलपक्षे-भीमगृहं प्रागेव द्विजेन प्रापितेत्युत्तरालंकारेण सूच्यते । प्रतिष्कशाः । नलमिति शेषः । अन्वेष्टुं निरयुः । भीमप्रेरिता दूता दिक्षु जग्मुरित्यर्थः । किं कृत्वा ।

६२ काव्यमाला। पूर्व द्विजवचनप्रीतिकारिण्याः भीमगृहं गतवत्या दमयन्त्याः सांकेयं वस्त्रच्छेदादि आ. दाय गृहीत्वा । उपगीतिः ॥ प्राप्तसुवर्णसमुद्रः पवमानजनस्तु तत्रैकः । साङ्गद्रराट् हरिभक्तः पुरीमयोध्यां हिरण्मयीं वातः ॥ ९७ ॥ रामपक्षे-तत्रैकः पवमानजनो हनूमान् वायुपुत्रः हिरण्मयीमयोध्यां पुरीं लङ्का प्राप्तः । तु सावधारण्यः । कथंभूतः । प्राप्तसुवर्णमुद्रिकः । अङ्गराट्सहितः । हरेभक्तः योद्धुमशक्याम् । अनेनैव (एन विष्णुनैव) योध्यामिति वा । भक्तत्वादेव तत्र गत इति ध्वनयन्नाह ॥अथ नलपक्षे-तत्रैक: पर्णादो नाम विप्रः सुवर्णमुद्रां गृहीत्वा तामयोध्या प्राप्तः । 'ब्राह्मणा जङ्गमं तीर्थम्' इत्यादिवाक्याजाताः पावकाः पवमानाः। ताच्छील्ये चानशू । पूङ्यजोः शानच् वा । पवमानश्चासौ जनश्चायात् । किं कृत्वा । शोभना भै- म्युक्ता वर्णास्त एव मुद्रिका यत्र सः । साङ्गं ददातीति साङ्गदस्तादृशो राट् राजा यस्य सः । 'हेमशृङ्गी शफै रौप्यैः' इत्यादि साङ्गगोदानं यथा तथा सर्वाणि दानानि यस्य भी- मस्याभूवन् । पुनः कथंभूतः । हरिभक्तः । कथंभूतामयोध्याम् । हिरण्मयीम् । दण्डिनायनसूत्रे निपातितो हिरण्मयशब्दः । उद्गीतिवृत्तम् ॥ ग्राहतिमिङ्गिलजुष्टां नदीशवेलां विलोक्य पुनः । संपातिवाक्यमहनः संतीर्य कराशिमेतस्ताम् ॥ ९८ ॥ रामपक्षे-पुनः संपातिवाक्यमहनो हनूमान् कराशिं संतीर्य तां पुरीमेतः । कि कृत्वा । ग्राहतिमिङ्गिलजुष्ट नदीशवेलां विलोक्य । तत्पर्वतगुहास्थजटायुरनुजसंपाति- वाक्यस्य महनं पूजनं यस्य सः । गृध्रत्वादित एवाहम् अशोकवनिकास्थसीतां पश्यामि तत्रैवास्ति सेति ॥ अथ नलपक्षे-संपातिवाक्यमहनः ग्राहतिमिङ्गिलजुष्टां नदीशवेला पुनर्विलोक्य कराशि संतीर्य तामेतः । ग्राहतिमिङ्गिलाकारा मण्डलेश्वराः कुण्डिनायो- ध्यान्तरालवर्तिराजाः तैर्जुष्टां प्रीणितां नदीशवेलामिव दमयन्तीं विलोक्य पुनः कराशि नानानदीनदजलपूरां दृष्ट्वोत्तीर्य पवमानजनोऽन्यः कश्चिद्विजस्तामयोध्यामेत आगतो- ऽभूत् । संपातिनः शीघ्रोड्डयनपक्षिण इव दूता ये प्राहीयन्त तद्वाक्यमहनः सत्यवशा इमे इति कृततद्वाक्यपूजनोऽयोध्यामेतः आगमत् । इदं साङ्गरूपकम् ॥ प्राप्तसुवर्णसुमुद्रः पुण्ययशःप्राप्तसांकेत्यः । उषितपुरीको मतिमान्नरदेवमवारुणत्तूर्णम् ॥ ९९ ॥ राम(नल)पक्षे-प्राप्ता सुवर्णा इव सुमुद्राः शोभनमुद्रा येन सः । 'मुद्राङ्गुलीयके चिहे मुद्रा प्रत्ययदायिनी' इति रभसः ।पुण्ययशःप्राप्तसांकेयः पुण्ययशा बाहुकस्तस्मात् प्राप्तं सांकेत्यं क्रियाकारः मा म तप्यथा मामजहात्स इति कलेनियोगात्त्वजातनखम- त्यानन्तरं विधिर्वधयिष्यति एवं सायं पुनर्भाषणेन नल एवाथमिति तं प्रधार्य उषिता १ सर्गः] राघवनैषधीयम् । ५२ पुरी अयोध्या येन स मतिमांस्तूर्णं नरदेवं राजानं भीमाख्यं तूर्णमेवारुणत् प्रापत् । 'अ- वरोधस्तिरोधाने' इत्यादिकोशस्तु प्रागुपन्यस्तः॥ अथ प्राप्तेत्यादि रामचन्द्रपक्षे व्याख्या- नम्-सुवर्णचूडामणि प्रत्ययदायकं प्राप्य पुण्ययशसा हेतुभूतेन सांकेत्यमुपलभ्य । 'उष दाहे । दग्धाशेषलङ्को बुद्धिमान्नरदेवं रामं हनूमान् पवमानजन इति प्रकरणादनुवर्तते प्रापत् । उपगीतिः ॥ भीमपुरीमृतुराजः वयंवराथै गतः समाहूतः । हरिचङ्कुरभाक् मतिमान्सलक्ष्मणो बाहुकाग्रसरः ॥ १०० ॥ रामपक्षे-माहूतः स ऋतुराजः स्वयंवरार्थ भीमपुरीं गतः । कथंभूतः । हरिचङ्कुर- भाक् । पुनः कथंभूतः । मतिमान् । पुनः कथंभूतः । सलक्ष्मण: । पुनः कथंभूतः । वाहुकाग्रसरः । 'ऋतूनां कुसुमाकरः' इति गीतासु । साक्षाद्वसन्त इव रूपकम् । मया सीतया लक्ष्म्या आहूतः शीघ्रमागच्छेति हनूमद्रथमाक् । 'चङ्कुरः स्यन्दने तृप्तौ' इति हैमः । 'चङ्कुरो रथः' इति कृदन्ते दीक्षिताः । बाहव एव का मायप्राया येषां ते बाहुका वानरा अग्रेसरा यस्य सः । बाहू निजौ काविव कृतान्ताविव यस्येति खबाहुदण्डबली- ति भावः । 'शमने सर्वनाम्नि कः' इति विश्वः । भीमपुरी रावणपुरीम् ॥ अथ नल- पले-भीमेनेति शेषः । खयंवर करोमि भैम्या इति समाहूत ऋतुराजः नामग्रहणे पूर्वोक्तभाष्यान्नामैकदेशग्रहणम् । नञ् (टच्) समासान्तः । ऋतुपर्णो राजा स्वयंवरार्थ भीमपुरी कुण्डिनं गतः । कथंभूतः । अश्वयुक् रथारूढ: मतिमान् लक्ष्मणः श्रीमान् सः । पुनः कथंभूतः । बाहुक एवाग्रसरो यस्य सः । उपगीतिः ॥ उत्तमचरितो गच्छन्पथि राजा बाहुकाक्षिककृत् । परिगणिताक्षावयवोवरुद्धहरिहृत्कुतूहली नृपतः ॥ १०१ ॥ रामपक्षे-उत्तमचरितः पथि बाहुकाक्षिककृत् परिगणिताक्षाक्यवः गच्छन् अवरुद्ध- हरिहत् राजा नृपतिः कुतूहली आसीत् । अस्तिर्भवन्तीपरः इति । बाहुकाः कपय एव आक्षिका व्यवहारद्रष्टारोऽध्यक्षास्तत्कर्ता चमूपतित्वदौवारिकत्वप्रेष्यत्वादिति युक्ताः कृताः परिगणिताक्षावयवः अष्टादशभेदो व्यवहारवृक्षो मन्वायुक्तो मिताक्षरायाम् । ते सर्वे येन विचारितां भगवता प्राप्तसुग्रीवहार्दाभिप्रायः रामकार्य मया कर्तव्यमेवेति नृन् पा- यन्ति शोषयन्तीति नृपा राक्षसाः । 'पै औ वै शोषणे'। तांस्तस्यतीति । 'तसु उपक्षये' दिवादिः । नृपतः पदजित् गर्जन्तं सागरं दृष्ट्वा गगनाकारं दृष्ट्वा कुतूहली रामोऽभूदि- त्यर्थः ॥ अथ नलपक्षे-पथि गच्छन्नुत्तरीचदूरगमे परिगणितविभीतकपत्रफल: विद्या- विनिमयप्रतिज्ञया बाहुकस्याक्षहृदयज्ञत्वकृत् । अक्षोऽत्र विभीतकः खयं बाहुकात्प्रा- प्साश्वहृदयः उत्तमचरितः पुण्यश्लोकर्तुपर्ण आसीत् कुतूहली इति तात्पर्यम् । 'अस्तिर्भव- न्तीपरः' इति महाभाष्ये प्रागेव कथितोपपत्तिः । उद्गीतिः ॥

काव्यमाला। । कृतसेतुर्हरियानस्तीर्णनदीशो विभीषणाश्रयणः । भीमपुरीमृतुराज़ोऽवारौत्सीलक्ष्मणाग्रसरः ॥ १०२ ॥ रामपक्षे-बद्धसेतुः । भ्रुकुटिवशात् इति शेषः। हरियानो हनूमद्यानः तीर्णसमुद्रः। आदिकर्मणि निष्टा । तरीतुमारुच्च(रब्धः) विभीषणेन आश्रयणं दुरात्मरावणपरिहरणेन यस्य स इति बहुव्रीहिः । समुद्रतीरप्राप्तेन लक्ष्मणोऽस्त्रचञ्चुर्यत्य सेनाग्रसर ऋतुराजः इव सौन्दर्येण रामो भीमपुरी रक्षःपुरीं भयंकरीमवारौत्सीत् । अवरुधेर्लङ् । समन्ताद्रुरोध ॥ अथ नलपक्षे-योषिद्रूपं महान्तमपि धर्मतो भ्रंशयतीति ध्वनयन्नेवाह-कृतसेतुः द्वि- तीयः पतिर्न भवतीति जाननपि ऋतुपर्णः कृतसेतुः। 'कृञ् हिंसायाम्'। खादिः छिन्नधर्म- शेतुः । अश्वरथगविभीषणैः शान्तैराश्रयणं यस्य सः । तीर्णा नदीशा महानद्यः पथि येन स: लक्ष्मण: पद्मादिरेखायुक्तः । बाहुकोऽग्रसरो यस्य सः भीमपुरी सायं त्वरया अवारौ- त्सीत् प्राप । कोशः प्रागेव रुधेः प्राप्त्यर्ये प्रागेव दर्शितः । आर्यावृत्तम् ॥ हीनां स्वयंवरेण न्यशीशमत्तां पुरीं मतिमान् । भीमप्रत्युद्गमनोऽभ्यागममात्रस्फुरद्धिषणः ॥ १०३ ॥ रामपक्षे-मतिमान् रामः तां पुरीं लङ्कां न्यशीशमत् । लुङ् । ददर्श । निपूर्वः श- मिर्दर्शने । प्रेरणांशत्यागहेतुमण्यन्तस्य रूपमिदम् । उक्तं च हरिणा-'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते' 'उबुन्दिर निशामने' इति धातुपाठे ज्ञापकाद्दर्शनार्थः । कथंभूतो रामः । भीमैः राक्षसैः प्रत्युद्गमनं यस्य सः इत्युत्प्रेक्षा व्यङ्गया ध्वनिनिरूपणे काव्यप्र- काशे चतुर्थोल्लासे बुधैरवसीयताम् । पुनः कथंभूतः । अभ्यागममात्रस्फुरद्धिषणः सं- ग्राममात्रप्रकाशमानबुद्धिः। केदा हत्वा मृधे दयितामिमं दुष्टं लप्स्ये इति । एतावन्मात्रा- वधूतशेमुषीकः । 'स्त्रियाः पुंवत्-' इति पुंवद्भावः । 'गोस्त्रियोः-' इति प्रान्तस्य हवः । कथंभूतां पुरीम् । परेण हीनाम् । 'देवावृत्ते वरः श्रेष्ठे' इति कोशः । 'वरो जामातरि प्रोक्तः' इति हेमचन्द्रः । लङ्काशब्दस्य स्त्रीत्वम् । समासोक्तिरलंकारः । मन्ये तादृशी लङ्का हिरण्मयी खानुरूपवरेण हीनाभूत् ॥ अथ नलपक्षे-मतिमान्तुपर्णस्तां पुरीम- शीशमत् । कथंभूताम् । स्वयंवरेण हीनाम् । स्वयंवरचर्चापि यत्र नाभूत् । कथंभूतो राजा । भीमेन राज्ञा ऋतुपर्ण: समागम इति कृतप्रत्युद्गमः तस्याभ्यागमेनैवाहं वञ्चि- तोऽस्मीति धिषणा प्रादुर्भूता । उपगीतिः ॥ भैम्यालिः केशिनिका कारिणिकी वीरसेनसुतम् । अभ्याजगाम विनयाज्जलवहिनिमीलनासक्ता ॥ १०४ ॥ रामपक्षे--विनयात् भैमी आलि: वीरसेनसुतमभ्याजगाम । विगतो नयो विनयः प्रादिसमासः । विनयमयते इति विनयात् विनय औद्धत्यम् । उद्धतेत्यर्थः । भीमस्य भ- १. 'कदा हत्वा मृधे दुष्टमिमं दयितां लप्स्ये' इति योजना कार्या. - १ सर्गः] राघवनैषधीयम् । यंकरस्य रावणस्येयम् । तस्येदम्' इत्यण् । 'टिड्डा-' इति डीप् । कौणपी आलि: पतिः । 'वीथ्यालिरावलिः पतिः श्रेणी लेखास्तु राजयः' इत्यनुशासनम् । वीरा विक्रमशालिनी आ- क्षी सेना यस्य स वीस्सेनो रामः स चासौ सुतश्चेति कर्मधारयः । 'सुतः पार्थिवपुत्रयोः' इत्यमरः । रामं राजानमभ्याजगाम । योद्भुमागमत् । कथंभूता भैम्यालिः । केशिनिका । अतिशायने मत्वर्थीयो महाभाष्यवचनात् भूमनिन्देत्यादि बोध्यम् । लम्बरः केशा अस्याः सन्तीति। अवक्षेपणे कन् । रूक्षपिङ्गललम्बकेशा। कारणिकी। 'परीक्षकः कारणिकः' इति तृतीयकाण्डे । कथं विक्रमो मनुष्यादिरयमिति परीक्षमाणा युद्धे । पुनः कथंभूता । जलं वारुणास्त्रं भ्रातृभ्यां प्रहितं युधि वह्निराग्नेयं तन्निमीलनं व्युपदशनं प्रत्यत्रैस्तत्रा- सक्तेति फलितोऽर्थः ॥अथ नलपर्छ-भीमेन राज्ञा प्रागेव कुत्रचिदुपकार्यापार्श्वे बाहुकायावस्थानं दत्तं परीक्षार्थ कोऽपि न पश्येद्गतागतमिहेति । तत्र दमयन्तीप्रेरिता केशिनीसखी वाल्यादारभ्य हितैषिणी । अनुकम्पायां कन् बोध्यः । सखी विचक्षणा कारणिकी परीक्षिका विनयात् विनयवत्त्वेन वीरसेनसुतं नलमभ्याजगाम संमुखमायात् । कथंभूता जलवह्निनिमीलनासक्ता । केनचिदत्रास्मै पचिक्रियायै जलवही नैव देयौ । यदि नलोऽभविष्यत्तर्हि देववरसामर्थ्याद्वयमत्रोपास्थापयिष्यन्न चेन्नेति दमयन्ती नीत्या सा तथाकार्षीत् प्रत्यहमेवेति गूढोऽभिप्रायः । उपगीतिः ॥ द्विनिमीलनापि शक्त्या नलेन निर्वर्णितोद्गमद्वितया । कृतसंवादा बहुधा प्रतियाता सा पति तूर्णम् ॥ १०५ ॥ रामपक्षे-सा भैम्यालि: तूर्ण रावणं पति रावणं प्रतियाता परावृत्य गता । कथं- भूता । रक्षःशक्त्या द्विनिमीलनापि अनलेन ज्वलद्वह्नितुल्यरामेण निर्वर्णितो दर्शित उद्गमः प्रकाशो द्वितयस्य जलवहयस्त्रद्वयस्य यस्यै सेति व्यधिकरणपदो बहुव्रीहिः । 'सप्तमी विशेषणे' इति सूत्रे ज्ञापितत्वात् बहुधा कृतसंवादा अनेकप्रकारैस्तिष्ठ तिष्ठेति कटुवाक्यै रामेण सह कृतसंवादापि रोख्यमाणा हतविध्वस्ता तमेव रावणं शरणं ग- तेति व्यज्यते । तूर्ण प्रतियातेति पदव्यतिकरो व्यञ्जकः ॥ अथ नलपक्षे-द्विवारित- द्वितयापि नलेन देवशक्त्या दर्शितद्वया दारकद्वयदर्शनादिना बहुधा कृतसंवादापि सुप- रीक्षया निश्चिता(त)नलागमा दमयन्ती स्वामिनी शीघ्रं प्रत्ययासीत् ॥ मन्दोदरी तु भीमं जगाद नृपतीन्द्र कालरूपत्वात् । चर्कति सांशयिक्यं केवलमिह वीरसेनसुतः ॥ १०६ ॥ रामपक्षे-तु पुनरेवं सति मन्दोदरी जगाद । किमिति । भीमं भयंकररूपं रावणं नणां पति शो येभ्यस्तेषामिन्द्र हे राक्षसेन्द्र सर्वराजबाधकखाद्वा । पतेरौणादिक इन् । वीरा सेना यस्य सः वीरसेनसुतः । 'सुतः पार्थिवपुत्रयोः' इति कोशः । कालरूपत्वात्का- लवत् श्यामरूपत्वात् मम केवलं निश्चितमिह लङ्कायां युद्धे सर्वराक्षसकुलं घातयिष्यतीति सांशयिक्यं परमसंशयम् । अतिशयेन करोति ॥ नलपक्षे तु पुनः मन्दोदरी भीम - ५६ काव्यमाला। राजानमिह केवलं कालरूपत्वात्कृष्णवर्णत्वात् वीरसेनसुतो राजा मम संशयं चर्ति । कृो घञ् (यङ्) लुगन्ताछुट् । अन्येभ्योऽपि श्रुतत्वात्स एव । मन्दः कृशः उदरदेशो यस्याः सा । 'मूढाल्पापटुनिर्भाग्या मन्दाः स्युद्वौं तु शारदौ' इति कोशोक्तत्वात् । कृ- शोदरी दमयन्तीत्यर्थः । आर्यावृत्तम् ॥ इत्युक्तः कृतइति स नतसुतं तं निरैक्षिष्ट । आत्मजयाततहर्षः स्वाहेयहतेः खरूपसंपत्तिम् ॥ १०७ ॥ रामपक्षे-मन्दोदर्या यदेत्थमुक्तस्तदा पुत्रमिन्द्रजितमाजुहाव रामजयाय। इत्युक्तः स कृताहूतिराहानं यस्य तं प्रसिद्धं त्रिलोक्यां पादयोः प्रणतं सुतं मेघनादं निरैक्षिष्ट । कथंभूतं तम् । खाहेयधृतेः ब्रह्मास्त्रसास्त्रादिधारणात् अवश्यं जेष्यामि राममिति आत्म- जये आततो हर्षो यस्य तम् । इति । कुक्षिकलशिवस्त्यहे ढञ् । आहेयमिति शैषिके- ध्वर्थेषु । खरूपसंपत्तिः खरूपं स्वभावः । 'खरूपं च स्वभावश्च' इति कोशात् । खभा- वादेव संपत्तिर्यस्य स तम् ॥ अथ नलपक्षे-दमयन्त्येत्युक्तः स भीमो नाम बाहुक- व्याज नलमाह्वयत् । कृतहूतिं कृताहूतिर्यस्य तम् । 'हूतिराकारणालाने' इति वचनम् । प्रणतसुतं चरणपतितनलं निरैक्षिष्ट । आत्मजया दमयन्त्या ततो हर्षो यस्य तम् । सुनु अहिदत्तवस्त्रधृतेर्धारणमात्राच्छिन्नसंदेहखरूपसंपत्ति कन्दर्पतुल्यपूर्वखरूपसंपत्तिमत एव सर्वेऽप्यानन्दस्वरूपा जाता इत्यर्थः । अहिः कर्कोटकः प्रागुक्त एव । 'सुतः पार्थिवपु- त्रयोः' । उद्गीतिः ॥ रामाभ्यागम एव द्राररावणराण्महामोहः । अतिकायाकम्पनयुग्देवान्तनरान्तयुक्सकुलः । सह कुम्भकर्णमेघो वज्रखगैरस्तमाविष्ट ॥ १०८ ॥ रामपक्षे-रामाभ्यागमे सत्येव द्राक् रावणराट् अस्तमाविष्ट अस्तंगतः । 'संग्रामा- भ्यागमाहवाः । कथंभूतो रावणराट् । महामोहः अतितमसा महामोहो यस्य सः। अतिकायः सेनापतिः अकम्पनदेवान्तकनरान्तकादयः कुम्भकर्णमेघनादौ च । कुलेन सह गणयि- तुमशक्यत्वात् । वज्रतुल्यखगै रामस्य लक्ष्मणस्य जेनीयमानाः पृथिव्यां शिपियरे । रामयोरभ्यागम एवेति समासे द्वयोरभेदालक्ष्मणोहः कर्तव्यः । सरूपत्वादेकशेषः ॥ अथ नलपक्षे-रामस्य नलस्य संगमे सत्येव कल्पावेशाद्रावणराडिव महामोहः षड़- गैषादिगणसहितो निगीर्याध्यवसानरूपातिशयोक्त्या तेषां सर्वेषां कविना कौणपरू- पलं दर्शितम् । शीघ्रमेवानश्यदित्यर्थः । षट्पदीगाथावृत्तम् ॥ वियतः कौसुममपतत्पुण्यचरित्रस्य मूर्ध्नि तदा (वर्षम्) अपणायन्विबुधास्तं क्षौणीशी नीतितो हृष्यत् ॥ १०९ ॥ रामपक्षे-पुण्यचरित्रस्य रामस्य शिरसि वियत आकाशात् कौसुमम्। 'तस्य समूहः' इत्यण् ।पुष्पवर्षमपतत् । तदैवागत्य इन्द्रादयोऽपणायन अस्तुवन् । 'पण स्तुतौ'। क्षौणी- - १ सर्गः] राघवनैषधीयम् । शस्येयमपत्यं स्त्री सीता नीत्या अग्निशुद्धात्मदेहकरणरूपनीत्याहृष्यत् अनन्दत् ।लोकाप- वादपरिहारपूर्वकभर्तृसमागमात् ॥ एवमेव नलपक्षे-तत्रापि पुण्यश्लोकोपरि पुष्पवर्षम- पतत् । कलिजये दनितासंगमे खरूपप्राप्तौ सत्यामिन्द्रादयोऽस्तुवन् यथोचितकारि- त्वात् क्षौणीशी दमयन्ती खकृतनीतिफलवत्तादर्शनादहृष्यत् ऋतुपर्णश्चकितो गृहा- नगात्। कर्णीरथगा साध्वी शुचिवर्णितवृत्तवैशिष्ट्या । आब्राझं भुवि गीता नृपदयिताजीहृषत्सम्यान् ॥ ११० ॥ रामपक्षे-नृपदयिता सीता सभ्यानजीहषत् । कथंभूता सा । कीरथगा नार्यु- चितप्रवहणाख्ययानगा । पुनः कथंभूता । साध्वी पतिव्रता । शुचिनाग्निना वर्णितं वृत्तस्य चरित्रस्य वैशिष्टयं यस्याः सा । भुवि आवाझं ब्रह्मलोकावधि तोष्ट्रव्यमाना । 'तत्र साधुः' इति सभाशब्दाद्यत् ॥ नलपक्षे-शुचिभिर्मेधातिथिसुमतिजाबालिना रथै(दै)वर्णितचरितप्राशस्त्या दमयन्ती प्रायोतिष्ट । शेषं समानम् । उपगीतिः ॥ व्यावृत्ते ऋतुराजे यथागतं सत्सभाजनो विधिवत् । प्रासादवर्यसंश्रित्कलितगुरूद्वीक्षणोऽभासीत् ॥ १११ ॥ रामपक्षे-ऋतुराजे व्यावृत्ते सति विधिवत्सभाजनः प्रासादवर्यसंश्रित्कलितगुरूद्वी- क्षणोऽभासीत् दाशरथिः प्रकरणालभ्यते विशेष्यः। 'रा दाने । ऋतूनामात्मशच्या लोके राति ददातीति ऋतुदः । 'आतोऽनुपसर्गे कः' । ऋतुदः स चासावजश्च ऋतुराजो वि- रचिः । ऋतुषकं प्रतिवर्षे प्रकटीकरोति प्रत्यक्ष लोके दरीदृश्यताम् तस्मिन् राममभि- ठुत्य स्खधाम गते सति । 'समाज प्रीतिसेवनयोः' । सतां सेवक इति पूजक इति सतां पू- जकः लङ्कायामेव प्रासादवर्यसंश्रित विधिवत् यथार्ह कलितगुरूद्वीक्षण: कृतदशरथदर्श- नोऽभिवन्ध । 'कलिधातुरनेकार्थः । कलितं कृतं गुरोरुद्वीक्षणं येन सः ।'मा दीप्तौ' लुङ् । यथा लोके पितृभक्तः कोऽपि नास्ति, तथा भक्तिस्फीतां विधाय पूर्णचन्द्र इव व्यच- कासीत् । न चेदं नास्ति । 'बढ्ता अपि धातवो भवन्ति' इति भूवादिसूत्रं व्याचक्षा- णो भाष्यकार आह ॥ अथ नलपक्षे--ऋतुपर्णे राज्ञि यथागतं खीयामयोध्यां प्रति गते सति विप्रादीनां यथार्ह कृतपूजो नलः श्वशुरब्रह्मर्षिप्रभृतीनां गुरुजनानां प्रीतिनि- शामनव्यापारो यस्य स प्रासादश्रेष्ठं कौण्डिनमधिष्ठाय कंचिदिष्टं व्यद्योतिष्ट। आर्यावृत्तम् ॥ पुण्यजनेशेन ततः प्रातिष्ठेन प्रणीतवरिवस्यः । वैमानपुष्परथमाक्सलक्ष्मणो द्राग्गतः वपुरीम् ॥ ११२ ॥ रामपक्षे-ततः प्रातिष्ठेन प्रतिष्ठायामनुभावी प्रातिष्ठः । शेषे' इति सूत्रेणाण् । आदिवृद्धिः । 'शेषे' इति लक्षणं चाधिकारश्चेति सिद्धान्ते व्याख्यातम् । लङ्काराज्यप्रति- ष्ठानुभावी विभीषणस्तेन रक्षोधिपतिना प्रणीतवरिवस्यः कृतपूजनशुश्रूषः वैमानपुष्परथ- काव्यमाला। भाक् विमानानामीष्टे प्रभुर्भवति वैमानश्चासौ पुष्पघटितस्थश्च। मध्यमपदलोपी समासः । वैमानपुष्परथं भजतीति भजो ण्वि । पुष्पकमध्यारुह्य लक्ष्मणयुकू द्राक् खपुरीमयोध्यां गन्तुमारेभे आदिकर्मणि निष्ठागत इति ॥ अथ नलपक्षे-ततः पुण्यजनाः कुण्डिनम- वास्तेषामीशेन प्रभुणा भीमेन मासमात्रं व्यतिवाह्य कृतपूजनो विमानानुकारिपुष्परथारूढः। सौ पुष्परथश्चित्रयानं न समराय यत्' इति कोशः । लक्ष्मीवान् स नल: वपुरी नि- षधपुरीं द्राक् गतः । आर्यावृत्तम् ॥ तीर्थेशपौरसङ्गश्चतुरङ्गबलाचराश्रितो नन्दी । अक्षहृदयी जिताक्षः सपुष्कराक्षः पदं प्रार्च्छत् ॥ ११३ ॥ रामपक्षे-पुष्कराक्षः स रामः पदमयोध्यानगरं प्रार्छत् प्राप । कथंभूतः । ती- थै प्रयागे पौराणां सङ्गो यस्य सः । पुनः कथंभूतः । चतुरङ्गबलावराश्रितः हस्त्यश्वादि- चतुरङ्गबलेन अवराभ्यां भरतशत्रुघ्नाभ्यां श्रितः सेवितः अवरजन्मसात् अनुजाभ्यामि- त्यर्थः । कथंभूतः । नन्दी अत एवाधिकहर्षः । अक्षेषु व्यवहारेषु हृदयं प्रशस्तं चित्त- मस्यास्तीति अक्षहृदयी । प्रशंसायां मत्वर्थीय इनिः । 'अथाक्षमिन्द्रिये । ना द्यूताकर्ष- चके व्यवहारे कलिद्रुमे' इत्यनुशासनमामरम् । जिता अक्षाः पाशका येन। खप्नेऽपि यू- तव्यसनं नाभूदिति भावः । एवं स कमलपत्राक्षः पदं प्रार्छत् । 'पुष्करं पङ्कजे व्योन्नि' इति कोशः॥अथ नलपक्षे-'तीर्थ शास्त्राध्वरे क्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षि- जुष्टाम्भः' इत्यमरः। उपाध्यायादिपौरजनसङ्गः चतुरङ्गबलाश्रितः श्वशुरदत्तत्वात् अवराः कृषीवलादयः तैश्च सह नन्दी प्रमोदभाक् अक्षहृदयी युध्यस्ख द्यूतं वा कुरु सर्वज्ञोऽह. मित्युक्तो हृष्टः । पुष्करोऽक्षक्रीडां पुनस्तेनाकार्षीत् । एतच्च स पुष्कराक्षपदेन व्यज्यते। काव्यप्रकाशे व्याख्यातम् । पुष्करेण आक्षं क्रीडनं सवर्णदीर्घे सति । पुष्करेण आक्षम- क्षक्रीडनं यस्य स इति बहुव्रीहिः । जितजयोऽक्षैर्यस्य स इति बहुव्रीहिः । पदं राज्यम- पहृतं प्रार्च्छत् प्राप। नैषध इत्यर्थः । स तु हीण: सन् नलेन खग्रामं प्रेषितो निरक्रामत्। अनन्तरं दमयन्तीमालास्त स्फीतपरिबहाम् ॥ आङ्गिरसाभैविप्रैरभिषिक्तो देववृन्दनुतः । अधिराजं करकर्षी क्षौणीशीसंयुतो व्यचकात् ॥ ११४ ॥ रामपक्षे-स इत्यनुवर्तते । वशिष्ठेन राज्याभिषेकसंभारे कल्पिते सति आङ्गिरसो बृहस्पतिः तत्तुल्यैरौर्वशेयादिभिर्महर्षिभिः सिंहासनोपविष्टो रामः ससीतः पुण्यंतीर्थ- जलैः सर्वाधिदेवस्तूयमानः । 'अधिराजं राजभ्यः' इति विभक्त्यर्थेऽव्ययीभावः । क- रान् कर्षति तच्छीलस्तदाचकात् अराजिष्ट । विकासेर्लङि रूपम् ॥ अथ नलपक्षे- निषधस्थब्राह्मणादिभिः सर्वैः संभूय माङ्गल्यसाधकाभिषेकसर्वविपत्कर्तनं विधिवत्समा. नैर्यथाविधि पुनरभिषिको मृतागत इव पुण्यश्लोकत्वात्खस्थैः सुरैरपि दत्तमण्यादिसंभारः प्रीत्याधिराजकरानादाय दमयन्तीसंयुतो व्यचकात् विदिद्युते । उपगीतिः ॥

१ सर्गः] राघवनैषधीयम् । - कामोऽयं कथमङ्गी वृत्रघ्नोऽयं कथं द्विनेत्र इति । ब्रनोऽयं न हि तीक्ष्णस्तदित्थमूहा व्यकल्पन्त ॥ ११५ ॥ रामपक्षे-यदि कन्दर्पः कथमङ्गी तस्यानङ्गत्वात् , यदि वृत्रन्नः द्विनेत्रत्वं कथं सह- स्राक्षत्वादिन्द्रस्य, यदि चण्डांशुस्तहि तीक्ष्णत्वं कथं न स्यात् , तदा ऊहास्तार्किका इत्थं व्यकल्पन्त विकल्पांश्चक्रुः । ससंदेहालंकारोऽयम् ॥ नलपक्षेऽपि समानार्थमिदम् । तुल्य- सौन्दर्यत्वात् । आयावृत्तम् ॥ कपिकच्छूः शत्रूणां मित्राणामास पाठीरः । कल्पतरुर्दीनानां वनीपकानां स वीरसेनसुतः ॥ ११६ ॥ रामपक्षे–मालारूपकेणाह-शत्रूणां कपिकच्छू: कण्डूरावत् रामपक्षे प्राक् मि- श्राणां तु पाठीरो मलयज इव आस बभूवेत्यर्थे तिप्रतिरूपकमव्ययं बोध्यम् । दीनानां याचकानां कल्पतरुरिव दानशौण्डत्वात् । कथंभूतो रामः । वीरसेनसुतः वीरा रणानिव- तिनी सेना यस्य सः स चासौ सुतश्च । 'ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः' इत्य- मरोक्तिः ॥ नलपक्षेऽपि इत्थंभूतोऽर्थो व्यवसातव्यः ॥ परस्परिताख्यं रूपकं काव्यप्रकाशे । लोकं पृणः प्रणयकृद्धरिवर्याणां गुणोच्चरणी । पवमानजनाश्लेषी विसृष्टहरिकोऽकरोद्राज्यम् ॥ ११७ ॥ रामपक्षे-स इत्यनुवर्तते । राज्यमकरोत् । कथंभूतः । लोकं] पृणः । पुनः । 'लो- कस्य पृणे' इति सूत्रेण मुम् । 'पृण प्रीणने' तौदादिकः । इगुपधत्वात्कः । प्रणयकृत् । लोकान् प्रीणाति इति व्युत्पत्तिः । 'प्रणयास्त्वमी । विस्रम्भयाच्याप्रेमाणः' इति तृतीये विश्वासकृत् हितेषु प्रेमकृत् प्रणयं करोतीत्युपपदसमासः । हरिवर्याः सुग्रीवादयः तेषां विसर्जनकाले मध्येसभं गुणवर्णनकृत् तेन तेषां प्रेमकारकत्वं जातम् । पुनः कथंभूतः । पवमानजनो हनूमान् तदालिङ्गनकारी । 'सुप्यजातो-' इति णिनिः । विसृष्टाः खदेशं प्रति हरयः पूर्णकामा येन सः । शेषाद्विभाषा' इति का समासान्तः॥अथ नलपक्षे- हरिरेव वयों येषां ते हरिवर्याः परमवैष्णवास्तेषां गुणोच्चरणे प्रणयकृत् प्रेमकृत् पवमा- नजना विप्रास्तदाश्लेषी भक्त्या हरि 'कायन्ति गणयन्ति। कै गै शब्दे । हरिका वैष्णवाः विसृष्टं दानं हरिकेभ्यो यस्य सः । सृज विसर्गे' । नपुंसके भावे क्तः। विपूर्व उत्सर्जन- विसर्जने । एतादृक् राज्यं नलोऽकरोत् ।। घटदोहिन्यो गावः फलपूर्णा विदिद्युते वसुधा । व्यसनानि पुष्कसमपि त्यक्त्वारण्यं प्रयातानि ॥ ११८ ॥ रामपक्षे-रामे राज्य शासति गावो घटपूरकदोहाः आसन्', वसुधा फलसंपूर्णा विदिद्युते इति भयं कुतः।व्यसनानि पानाक्षादीनि पुष्कसं चण्डालमपि त्यक्त्वा घोरं वनं ६० काव्यमाला।. प्रयातानि । इदमद्भुतमासीदिति भावः । तस्मिन् पञ्चमानजनाश्लैषिणि राजनि सति इति 'अर्थवशाद्विभक्तिपरिणामः' इति भाष्ये परिभाषा । अनुवर्तते पूर्वतः पदमिदम् ॥ इत्थमेव नलपक्षेऽपि । अद्भुतो रसो व्यङ्ग्यः । उपगीतिः॥ कलशोद्भवादयस्तं दिदृक्षवो द्राक्समायाताः । रावणविमर्दतोषाः सलक्ष्मणं प्राणुवन्स्तोत्रैः ॥ ११९ ॥ रामपक्षे-तं रामं दिदृक्षवः कलशोद्भवादय ऋषयः आयाता द्राक् शीघ्रं रामाया- गत्य कलशभूरगस्त्यः रावणचूर्णीकरणतोषाः सलक्ष्मणं भूभारहारकत्वात्स्तोत्रैः प्राणुवन् । 'णु स्तुती' लुङ् । आदादिकः । उपसर्गादिति णत्वम् । सलक्ष्मणमिति मेघनादस्याप्यज- व्यत्वं चित्रं लक्ष्मणेन कृतं हननमिति ध्वनयामासुः ॥ अथ नलपक्षे-अतिश- योच्या रावणो महामोहोऽध्यात्मविद्यया नल:(लेन) सोऽपि हतः पुण्यश्लोकत्विात् । तस्य] दिदृक्षयागस्त्यादयः श्रीमजनसमेतं तं कृतयुगे तुष्टुवुरित्यर्थः । उपगीतिः ॥ शम्बूकहिंसयापि ब्राह्मणवरदायको राजा । पार्थिव्या गर्भरुचा जह्लादे संशयच्छेत्ता ॥ १२० ॥ रामपक्षे-'शम्बूकः शूद्रतापसे' इति मेदिनी । शूद्रतापसहिंसयापि मृतविप्रपुत्रवर- दायको रामोऽन्तरागत्य गर्भरुचा पार्थिव्या राजपुत्र्या सीतया आजह्लादे आननन्द । व्यवहारेषु संशयच्छेत्ता ॥ अथ नलपक्षे-'गर्भागारं वासगृहम्' इत्यमरोक्तिः। 'द- श्यन्ते च पदेषु पदैकदेशान् प्रयुञ्जानाः' इति महाभाष्यम् । गर्भ वासगृहे कोष्ठागारे- ऽपि दीपं विना रुक् कान्तिर्यस्याः सान्यत्र का कथा तादृशसौन्दर्यवती दमयन्ती राज्ञी तस्याभूदिति विशेषः । शेषं समानम् ॥ कव्यन्तगामिनी तां पदान्तरस्थानसेवनां साध्वीम् । मुनिवरयोषा भेजुः समीपमागत्य लब्धार्थाः ॥ १२१ ॥ रामपक्षे-रावणगृहे चिरस्थितां तां वाल्मीकेरन्ते प्रयातां तां मुनिवरयोषा भेजु: सिषेविरे। पदान्तरस्थानसेवनां कथम् । 'पदं शब्दे च वाक्ये च' इति विश्वः । वाल्मीक्या- श्रमोऽयं मिथिलायां जनकस्थानमिति शब्दभेदमात्रभेदात् स्थानान्तरमिति प्रतीतेलोंके भगवद्भक्तसाम्याज्जनकस्थानमिति पारीणत्यम् । साध्वीं पतिव्रतां लब्धार्थाः समीपमा- गत्यासन्निवता:(१) । 'अन्तः समीपे' इति प्राकोशे प्रोक्तम् । 'कविर्वाल्मीकिशुक्रयोः' इति च । उत्तरालंकारेण. पुनर्लोकापवादभिया पुनर्लक्ष्मणेन त्याजिताभूदिति व्यज्यते तदाश्रमे ॥ अथ नलपक्षे-मुनिवरयोषा जातूकादिजोषास्तां साध्वीं दमयन्तीं भेजुः । कथंभूताम् । पण्डितपार्श्वगामिनीम् । तिथिनिर्णयादिसंशयच्छेदनाय जातु प्रासादान्तर- स्थानसेवनां नव्यगृहस्थान् विहाराय तत्र नले गते सति । कथंभूता योषाः । समीपमा- गत्य दौर्गसभाजो लब्धार्थाः व्रतादौ वर्णवर्षकरणात् ॥

१ सर्गः] राघवनैषधीयम् । . सकुशलवार्तापतियुग्दमयन्ती पार्थिवी नित्यम् । प्राणेशानुध्याना कालं व्यत्यक्रमीद्भूयः ॥ १२२ ॥ रामपक्षे-तत्राश्रमे कुशलवनामकपुत्रद्वयसहिता, दमं करोति दमयन्ती तथा कुर्वती दमयन्ती। नामधातुत्वात् 'न पादम्याङ्-' इति निषेधो न धातुपाठस्थस्यैव निषे- धात् । कथंभूता । आर्ता दुःखिता अपतियुक् पतिहीना नित्यमनुध्यानमनुगृहे प्राणेशस्य अनु वीप्सया ध्यानं यस्याः सा भूयः स्फीतं कालं व्यतिकान्तवती । 'पृथिव्या क्राऔ।' 'टिड्डाणञ्-' इति ङीप् ॥अथ नलपक्षे-कल्याणवार्तासहिता। कुशल क्षेममस्त्रियाम्।' पतियुक् दमयन्ती राज्ञी भूयः कालं बहुहायनी व्यत्यक्रमीत् । कथंभूता प्राणेशस्य अ- नुग्रहो यस्याः सा । 'अनुध्यानमनुग्रहे' इत्युत्पलमालाकोशात् ॥ यज्ञेषु वार्चाकं सौशील्यादेरधीयन्तम् । प्रकलय्य भूरितोषा प्रियं विवेकावहं मेने ॥ १२३ ॥ रामपक्षे-भूरितोषा विवेकावहं प्रियं मेने । बहुतोषा सा सीता तत्राश्रमे विवे. कारिणमावहति । करोतीत्यर्थः । 'कृतौ करोत्यावहति विदधात्यादधत्यपि' इति भट्टम- लकोशः । प्रियं रामं मेने । किं कृत्वा । वस्या अर्चा प्रतिमा यस्य सः पत्नी विना य- ज्ञाभावात् । 'प्रतिकृतिरर्चा पुंसि' इत्यमरः । पुनः कथंभूतम् । सौशील्यादेरधीयन्तम् । सुशील्यादिगुणयुतां सीताम् । परोक्षे स्मरन्तरम्। अधीगर्थदयेशाम्' इति कर्मणि षष्ठी। प्रकलय्य श्रुला । 'इकू स्मरणे' । नित्यमधिपूर्वः ॥ अथ नलपक्षे–'अर्च पूजायाम् । 'गुरोश्च हलः' इत्यप्रत्ययः । खस्या एव पूजा यस्य स तम् । योषिदन्तरपरिग्रहाभा- वात् प्रकलय्य श्रुत्वा । कलिधातुरनेकार्थः । शेषं प्राग्वत् । उपगीतिः ॥ प्राचेतसार्तनेन प्राप्तपदा सा रसाश्रयणा । भद्रासनोपविष्टाहीशमहातद्यशोऽगासीत् ॥ १२४ ॥ रामपक्षे—सा सीता तद्यशः अगासीत् । 'गै शब्दे' लुङ् । प्राचेतसस्य वाल्मीके: खनेन प्रागयोध्यायां रामसमीपागता आर्तनं दया । ऋतिः सौत्रः। 'अर्तनं च ऋतीया च' इत्यमरः । प्राप्तस्थाना पश्चाच्छपथान्तरं रसा सिंहासनारूढां पातलमनैषीत् पुत्री- स्वान्नागैः सहागता । यज्ञाधिष्ठाने इत्यर्थः । रसाया भुव आश्रयणमालम्बनं यस्याः सा तादृशी सीता पतिव्रता अहीशैावन्महो यस्याः सा तक्षकवासुक्यादिभिः तत्र स्थायि तयश एवा(गा)सीत् । अद्भुतो रसः ॥ अथ नलपक्षे-सा दमयन्ती तद्यशो नलकीर्ति- मेवागासीत् प्रकृष्टं चेतो येषां ते प्रचेतसो विप्राः पर्णादादयः प्रचेतसामिदं प्राचेतसम- तैनं कृपा तयैव प्राप्तराज्या प्राप्तपतिका रसानां शृङ्गारादीनामाश्रयणं यस्याः सा । "श्रि सेवायाम्' । राज्ञा सह सिंहासनोपविष्टा हि निश्चयेन ईशैलॊकपालैर्महा पूजा यस्याः सा। पुण्यश्लोकत्वात् । 'मह पूजायाम् । 'धजथे कविधानम् । वेदशास्त्रपारीणत्वात्प्रचेतस्त्वं विप्राणामेव श्रीमद्भागवतेऽवधारितम् ॥

काव्यमाला। १ """""" || १२५ ॥ रामपक्षे-नल एव नृसोमः तीर्थ गतः अग्निहोत्रसहितः नृषु सोम इव । 'उपमितम्' इति तत्पुरुषः।नामो विरक्तस्तीथै गोप्रतराख्यं सरस्वन्तर्गतं गतः । कथम् । तत्तदेषु कुशावत्यादिषु न्यस्तासु ताः कुशलवसहिता भ्रातृपुत्रा येन सः । विगतः शेषो यस्मात् दुर्वासः शापभीत्या त्यक्तत्वात् अमुष्मिन्नेव उत्कण्ठितमानसः । अमुत इति सार्वविभ- क्तिकस्तसिः। सन्नान् शरणागतान् सीदतो लाति अनुगृह्णातीति सन्नलः ।पुनः श्रुत्वागमनं हरीणां समूहेन हारेण पौरेण पौरसमूहेन च त्वां विना मरिष्याम इति प्रार्थितः समागतः शून्या अयोध्या आसीत् ॥ अथ नलपक्षे-सानल: अग्निहोत्र एव नृसोमः हारेण पौरेण समागतः स नल आसीत् । हरेरयं भक्तो हारः । जात्यपेक्षयैकत्वम् । वैष्णवसमूहेन पौ- रेण पौरसमूहेन प्रेम्णा प्राक् समागतः संगतः संश्चासौ नल: पण्डितो नलः स्थितः पुन- स्तीर्थ ब्रह्मद्रवं गतः । कथंभूतः । तत्तत्पदव्यस्तसुतः तेषु तेषु स्थानेषु खकृताः सुताः पा- थिवा न्यस्ता येन सः निषधपुर्यामिन्द्रसेनं खपुत्रं प्रत्यतिष्ठिपत् अमुतः अबोधा दूरतः विशेषे परे ब्रह्मणि सच्चिदानन्दरूपे उत्कण्ठितं मानसं यस्य सः । 'अदसस्तु विप्रकृष्टे' इति मनोरमायामुक्तत्वात् । अदसो दूरवाचित्वम् । सप्तम्यर्थे तसिः । 'तसेच' इति तसि- 'लादेशः । विभक्तित्वं प्राग्देशीयत्वात् । त्रिष्टुप्जगत्योरुपजातिः॥ २ ........ ॥ १२६ ॥ रामपक्षे-कश्चन अवरजोऽपि त्रिदिवे जिगमिषु रामं न जहौ । सरयूजलमव- गाह्य परं पदं वैष्णवमध्यगात् प्राप । सदेहः जघन्यजोऽपि आयोध्यः सारथ्वं जलभ- वगाह्य परं पदं विमानस्थोऽगात् । श्रीरामकरुणया केवलं स रामो भुवि यशसा यशः- शरीरेणैव शिशिषे कर्मकर्तरि लिट् । शिषेः अशिष्यत॥अथ नलपक्षे तन्नलपालनजन्य- प्रेम्णा कश्चन वृषलोऽपि मनसा स्वर्ग जिगमिषुस्तं न जहौ । मनसेत्यध्याहार्यम् । स नलः प्रियया सह कं ब्रह्मद्रवमवगाह्य निरस्तसुखान्तरं ब्रह्मानन्दं प्रविश्य वैकुण्ठमगमत्। केवलं स नलो यशसा भुवि पर्यशिष्यत । अद्यापि यदुपाख्यानश्रवणात्संकीर्णैरपि मुच्यते इति भावः । द्रुतविलम्बितवृत्तम् । 'को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च। पावके च मयूरे च सुखशीर्षजलेषु कम् ॥' इति विश्वः। शेषं प्राग्वत् । पर्यन्ते ग्रन्थकारःशब्दब्रह्मरू- पभगवच्चरणारविन्दस्मरणरूपमङ्गलं व्यतानीत् । 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि सुखदानि भवन्ति' इति महाभाष्ये ॥ इति श्रीहरिदत्तसूरिकृते महाकाव्ये राघवनैषधीये प्रथमः सर्गः । १-२. आदर्शपुस्तके श्लोकद्वयं नोपलभ्यते.

२ सगेः] राघवनषधायम् । ३२ द्वितीयः सर्गः। कुशेन्द्रसेनौ गुणतो वरिष्ठौ ज्येष्ठौ तदीयाङ्गभुवौ पुरस्थौ । श्रीरामचन्द्रस्य नलस्य वृत्तं विडम्बयन्तौ तु धरामशिष्टाम् ॥ १ ॥ क्रमेण पुष्पाकरमुख्यषट्कं विभूतिमत्प्रेक्ष्य समुज्जिहान्नम् । सि(शि)ञ्जानमञ्जीरवराङ्गनाभिर्विजहतुः खोपवनेषु नाधवत् ॥२॥ (वसन्तवर्णनम् ।) भ्रमझमरसंचया ऋतुपुरंदरं सेवितुं मनोहरविकूजितैः पटहवाद्यमातेनिरे । पिका मधुरकूजितैरिव वितेनिरे नाकिनां मनः प्रणयकारकं परमगानमुच्छ्रासिताः ॥ ३ ॥ नृप इव वसन्ते समागते भ्रमद्भमरसमूहा विशिष्टकूजितैः सेवितुं पटहवायं चकुरिव । उत्प्रेक्षालंकारो व्यङ्गयः । वस्तुनालंकारो व्यज्यते । यत्र वादिशब्दा न भवन्ति पिका अपि तं सेवितुं मधुरगानं चक्रिरे इव ।। काचित्सखी मानवती प्रत्याह- अये मतिमतां वरे प्रणयभङ्गमेतर्हि नो कुरुष्व वशगं पति विरहदाहदग्धा यदि । कृतान्तनगरातिथिर्भवसि चातुरी कास्ति ते जगाविव रुतच्छलाद्विहगराट् पिको माधवे ॥ ४ ॥ अये इति कोमलामन्त्रणेऽव्ययम् । माधवे वैशाखे रुतच्छलात् सखि त्वां शिक्षयति न रौति किमिति अनङ्गदाहव्यथाक्रान्तासि प्रणयभङ्गेन यदि मरिष्यसि का चातुरी भवित्री। 'सर्वथात्मानं गोपयेत्' इति श्रुतिः । अत्राप्युत्प्रेक्षा ॥ मरन्दनिवहैर्भूतं कुसुमवृन्दमुद्भातव- चलत्किसलयाङ्गुलिः परिननर्त वल्लीततिः । निशाकरकरास्ततो बहुलकाममादीपय- नृणां विरहिणां मनोविलुठिता जडीकारकः ॥ ५ ॥ समासोक्तिरलंकारः । वल्लीततिरूपा या स्त्री चलत्किसलयाङ्गुलि: सा परिननर्तेव ग- णिकावत् मनोविलुठिता इति । 'लुठ प्रतीपाते' । मनसो विलुठितं प्रतीघातो यैस्ते इति बहुव्रीहिः । शेषं स्पष्टम् । पृथ्वीछन्दोऽत्र ।

काव्यमाला।
पलाशतां प्रियारहां पलाशशाखिनो ययुः ।
खरै खैर्गृहत्यजामसूनि वासितुं क्षमाः ॥ ६ ॥
प्रिया रहन्ति त्यजन्तीति प्रियारहस्तेषां प्रियारहाम् । 'रह लागे । भौवादिकः ।
पलाशशाखिनः कौणपतां विरहिणां ययुः । पलमश्नन्तीति व्युत्पत्या। पलं मांसम् । 'प-
लमामिषम्' इत्यमरः । पादादियमकः शब्दालंकारः । कया रीत्या । खगैर्नखैरिव किंशु-
कैहत्यजां यतोऽसूनि वासितुं यत्नमचीकरन् । 'क्षमं शक्ते हिते त्रिषु' इत्यमरः । प्रमा-
णिकावृत्तम् ॥
हिरण्मयातपत्रतां स कर्णिकार आगतः ।
वसन्तभूपतेः सुहृन्मुरान्तकाङ्गनाप्रियः ॥ ७ ॥
कर्णिकारस्य पीतवर्णत्वात् वसन्तराजसेवायै स्वर्णच्छत्रतां समागतः । मुरान्तकाङ्गनाः
षोडशसहस्रमिता या भागवते वर्णितास्तासां प्रियः प्रागभूत् यत् कर्णिकारोऽपि तथा ऋ-
तुराजं शिश्रिये प्राग्वत् ॥
सौगन्ध्यं स्थलकमलं बभार भूरि-
प्राचुर्यादिश इव दाप्लु(स्नु !)तामकार्षीत् ।
क्षुद्रोऽपि क्षितिपतिभाग्यगन्धजोषी
स्वाक्रीडे हरिणदृशा तदा चुकूर्दे ॥ ८ ॥
स्थलकमलं पाटलापुष्पं सौरभ्यातिशयं दधानं वसन्ते दिशो दिङ्नार्याः सकीपे ख.
कीयदानशौण्डतामिवाकार्षीत् । समासोक्तिरलंकारो दिश इति स्त्रीलिङ्गत्वाच्छब्दस्य । प-
रिमलो नावासीत् । किं तु विट इव दिग्योषिते सौरभ्यमदात् । क्षुद्रोऽपि मधौ खा-
क्रीडे खोद्याने राजाहगन्धजोषी मृगदृशा सह चुकूर्दै चिक्रीडे । प्रहर्षिणीवृत्तमेषु ॥
चण्डांशोः खरकिरणैः प्रतप्यमानाः
शुष्यन्ति प्रकटितदौर्बलीकनद्यः ।
इत्थं हि स्वहृदि विचार्य जझुकन्या-
वर्वर्धीत्तदवधि हैमतोनिवार्च्छत् ॥९॥
जगुकन्या हैमेन इत्थं नावधीत् । वृधेर्यङ्लुङन्ताल्लुङि रूपम् । किं तु दुर्बलनद्यः शो-
षिता रवितापेन अहं तु वरीवृध्याम् तदा अत्युल्लासो मम भविष्यतीत्युत्प्रेक्षालंकारः॥
आयाते मयि यदि जिग्रसीर्जनोऽयं
क्षुद्रत्वं विचकत एव तर्हि लोके।
नैश्यं मे मधुरिति सस्यभूरिसंप-
न्मेषार्के विलसति युक्तमेव गोपाम् ॥ १० ॥

२ सर्गः]
राघवनैषधीयम् ।
जिग्रसीबुभुत्सि(क्षि)तो जनोऽयम् । असेः सन्नन्तात्विम् । मधुर्विचारयामास । हेम-
न्तशिशिरयोर्गोधूमावभावात् क्षुधितो जनः यदि मय्यपि तथा तह-शत्वं मम गतम्
इत्थं मेषस्थे सूर्ये विलसति सति गोपां राज्ञामिदमेव युक्तम् विचकते प्रकटीभवति प्रभोः
क्षुद्रत्वं न युक्तमिति मधुळचीकरत् ॥
उल्लासो न भवति जाड्यतो नृणां द्रा-
गुष्णत्वादपि परिदूयते नितान्तम् ।
वासन्तं दिननिकरं किमेतदूरी-
साम्यात्कः प्रकटितनिर्वृतिं व्यधत्त ॥ ११ ॥
. नृणां जाड्यादुल्लासः प्रीतिर्न भवति उष्णत्वादपि द्राक् परिदूयते । एतद्वितकी को
ब्रह्मा प्रकटितानन्दः साम्यं दिवाराज्योwधत्तेत्यर्थः । प्रकटितानन्दं साम्यं यतः ॥
मानुष्यं विलसितमेव मय्युदीते
प्रादुःष्याद्यदि कथमातिशायनं मे।
मत्वेदं दहनविधानभूसुरत्व-
प्राप्तर्षिः स्वत इह संबभूव चैत्रः ॥ १२ ॥
मय्युदीते उदिते सति । वीगतीत्यत्र इकारोऽपि धावन्तरं प्रश्लिष्यते । ततः क्त
उत्पूर्व उदयवाची । 'गत्यर्थाः प्राय उत्पूर्वा उदयार्थाभिधायकाः' इति भट्टमल्लकोशः ।
यदि मानुषक्रियामानं मयि प्रकटे प्रादुःष्यात् स्फुरेत् तर्हि ममाधिक्यं कुतः इदमा-
कलय्येव अग्निहोत्रारम्भव्रतबन्धनादिक्रियाधारभूतो मधुश्चैत्र आसीत्ततो व्यतिरिक्तत्वं
जातममुध्य । प्रहर्षिणी वृत्तम् । अतिशायनस्य कारकमिति । तस्येदम्' इत्यण् । स्वत:
खयमेव संबभूवात्मशक्त्या न तु तपःप्रभावात् ॥ इति वसन्तवर्णनम् ॥
(ग्रीष्मवर्णनम् ।)
नवमालिकानवमालिका व्यजनैर्मुहुः कृतवीजना ।
तप आगते वरनायिकाजनि न स्मरातपतापिता ॥ १३ ॥
नवमालिकापुष्पैनवमालिका यस्याः सा । व्यजनैर्मुहुर्वारं वारं कृतवीजना वरनायिका
तपे ग्रीष्मे आगते सति स्मरातपतापिता कामाग्नितापिता नाजानि न बभूव अतिदाह-
वशादीष्मे स्त्रीणामनङ्गबाला हसति यत् ॥
दशैं दर्शितदैन्य एव कतिचित्कांश्चित्कलाः प्राप्तवा-
न्मत्तो मत्त इवायमिन्दुरधिकं जाड्याश्रयो हैमनः ।
मत्तेजस्तपसि व्यनीनशदरं मत्त्वेति नूनं रवि-
ग्रीष्मे भीष्मकरैर्विशोषयति किं क्रोधाजगद्यायतः ॥ १४ ॥

काव्यमाला। दर्शितदैन्य एव मत्तः कतिचित् कलाः प्राप्तवान् हैमनो हेमन्तप्रकाझै जाड्याश्रयो विधुरयं तपसि मत्तेजो व्यनीनशन्नाशयामास । लघुरविरिति मत्वा ग्रीष्मे क्रोधाजगति व्यायतो दीर्घ इव भीष्मः क शोषयति नूनम् । उत्प्रेक्षालंकारः। शालविक्रीडितं वृत्तम्॥ • (वर्षावर्णनम् ।) अथ वर्षावर्णभमाह- वार्षेण पङ्किलजलेन परौद्धतीका नद्यो जनव्यतिकरव्यतिमज्जनोत्काः । आसन्नचित्रमिह तुच्छजनोऽपि राज- संमानमीषदधिगम्य सतां निहन्ति ॥ १५ ॥ जनव्यतिकरव्यतिमजनोत्का वार्षेण पङ्किलजलेन परोद्धतीका नद्यः आसन् इह चित्रं न । तुच्छ जनोऽपि ईषद्राजसंमानमधिगम्य सतां निहन्ति पीडयति । 'जासि निप्र- हण' इति कर्मणि षष्टीविधानाद्वितीया न भवति । वसन्ततिलका वृत्तम् ॥ वारां सुपूरमपि कर्षकभूरिसौख्यं निर्मुच्य नारसिषुरम्बुधरास्तदानीम् । यच्छन्नपि प्रचुरभूरि महाजनोऽपि(हि) खं नैव वर्णयति सर्गनिसर्ग एषः ॥ १६ ॥ तदानीमम्बुधराः कर्षकभूरिसौख्यं वारां सुपूरं प्रवाहं निर्मुच्यापि नारसिषुः न ज- गर्जुः । 'रस शब्दे' । 'अतो हलादेः' इति वृद्धिविकल्पः । यच्छन्नपि प्रचुरधनो रा- जादिः खं नैव वर्णयति एष सर्गनिसर्ग एव सृष्टिस्वभाव एव । 'स्वर्णेऽपि भूरिचन्द्रौ द्वौ' इत्यमरः । अतः प्रचुरभूरीति न पौनरुक्क्यम् । वसन्ततिलका वृत्तम् ॥ पुष्टास्ते कर्णधारा जलधरपटलीव्याप्तकाले मयूरा नाट्यं सौख्यातिशीत्या व्यदधत मधुरं चातकाश्चातकान्न(न)। गोत्रागोत्रा च गोत्रा बहुरसभरिता दीनदैन्यं व्यपोह- त्पत्रैः पुष्पैः फलैश्च प्रकटितविभवा प्राप्तपालाशसंपत् ॥ १७ ॥ जलधरपटलीव्याप्तकाले कर्णधारा नाविकाः पुष्टा धनादिभिरासन् । तत्काले तरणनै- रन्तर्येण गर्वाधिक्यादतिरिक्थलाभोऽनायासेन व्यज्यते । मयूराः सौख्यानाट्यं व्यदधत चक्रुः । मधुरं यथा त्यात्तथा चातकाश्चातका जला[नां] याचका नां] नाभूवन् । गोभिर्ज- लैस्त्राणकारिका गाः पालयन्ती तृणसंपत्या 'गोत्रा पृथ्वी रसबाहुल्यपूर्णा कृषीवलानां दैन्यं व्यपोहत् निरास्थात् । जीविकाबाहुल्यात् । भूरिपलाशयुक् फलपुष्पादिभाकू पृथ्वीविशेषणानि । स्रग्धरावृत्तम् ।।

२ सर्गः] राघवनषधायम् (शरद्वर्णनम् ।) हिमोपमा वारिधरास्तु शारदा न स्तोकदानक्षमणा बभूवुः । वित्त विनष्टे परमोऽपि मो याच्यामपारां बरिभर्ति लोके ॥ १८ ॥ हिमोपमा निर्जलाः शारदा अल्पदानसमर्था न बभूवुः । विनष्टे वित्ते यथा मत्योऽपि दानमास्ता(!)लोकेऽपरां याच्या बरिभर्ति तथा । त्रिष्टुब्जगत्योरुपजातिः ॥ (हेमन्तवर्णनम्। प्रचण्डहिमवर्षणात्कमलिनीरुचि भ्रंशय- न्कलव्यतिकरच्छदान्वरतरून्विचेलांश्चरन् । गति तनुभृतां हरन्प्रकटयन्नृणां निःखतां हिमागम ऋतुर्गुणी हिमचलैर्नृभिः सस्मरे ॥ १९ ॥ फलव्यतिकरेण छदयन्ति जीवयन्ति सर्वानिति तानपि नग्नीकुर्वन् प्रचण्ड हिमवर्ष- णात्कमलिनीरुचिं भ्रंशयन् वस्त्रहीनानां मार्गरोधं कुर्वन् निर्धनत्वं प्रकटयन् । हिमाग- मऋतुरित्यत्र समासेऽप्ययं प्रकृतिभाव इति हिमजलमात्रेण नृभिर्गुणवान् स्मृत इति पृथ्वीछन्दः ॥ (शिशिरवर्णनम् ।) अधरदशनरागो मारुतो वाति तूर्ण वरयुवतिजनानामौपपत्यं दधानः । तपसि परतपांसि व्यञ्जयन्व(न्ध)मिनृणां शिशिर इति स यत्र प्रोदगाद्भात्प्रियंगुः ॥ २० ॥ यत्र ऋतौ तूर्णं वरयुवतिजनानामधरखण्डगाढप्रेमा। 'रागोऽनुरागे मात्सर्ये' इति विश्वः । औपपत्यं जारकर्म दधान इव मारतो बुद्धिपूर्व वाति । कथंभूतः ऋतुः। व- (घ)र्मिनृणां तपसि माघे परतपांसि प्रातःस्नानगायत्रीजपदानहवनादीनि पुराणोक्तानि व्य- अयन् प्रकटीकुर्वन् । एको हिमाद्रौ तदा पल्लवितः प्रियंगुर्भवति वृक्षो नान्यः हिमशी- र्णत्वात् इत्यवधायाह-भात्प्रियंगुरिति । 'भा दीप्तौ शत्रन्तः । भात्प्रियंगुरेव यस्मिन् स शिशिर इति ऋतुः प्रोदगात् व्यजृम्भिष्ट । राजकुमारद्वये भुवं शासति वर्णनमका- पौत् यतः कविर्ऋतुषट्कस्यातो भूतप्रयोगः । प्रोत्पूर्वादेतेर्लुङ् इत्यवसीयतां पण्डितैः । उक्तं हि भाष्ये तृतीयाध्याये-'इह हि तत्कालिकानां राज्ञां क्रियास्ति प्रत्ययेऽधिकरणम्' इति । तस्थुः पर्वताः, अवहन्नद्यः, इति उदाहरणानि प्रयुक्तानि भगवता । विस्तरभिया न बहूकमस्माभिः ॥ इति सर्वर्तुवर्णनम् ॥ .

काव्यमाला ग गर्गर्षिवंशतिलको जयशंकराख्यो ज्योतिर्विदां प्रणयकृत्सुकवीन्द्रमान्यः । अध्यात्मिकावगतिशान्तिपरायणोऽभू- द्धर्मोपदेशनपंटुर्नयबोध आसीत् ॥ २१ ॥ तत्सूनुर्हरदत्त इत्यमलधीः श्रीमत्फणीन्द्रोदिते भाष्ये पाटवतः पृथामधिगतश्छन्दश्चितीनां बुधः । साहित्यार्णवमन्थनैक ""|| २२ ॥ गर्गर्षीत्यादिपद्यानि स्पष्टार्थानि । प्राप्ताहनाः । 'अद अतिक्रमसिंहयोः' । प्राप्तमदैव- मतिक्रमणमनादं यैस्ते इति प्राप्ताहना इति प्रकर्षभ्रमणाः प्रकर्षेण भ्रमणं येषां भ्रमवित्ता लाभार्थे दूरगता इति महाकाव्यम् । काव्यस्य शुभाचार्यस्य सुकाव्यं प्रशस्तकाव्यं तद्- काव्यं स्तुत्यम् । 'कत्र वर्णने' । 'ऋहलोर्ण्यत्' । अत एव परममुत्कृष्ट इति भावः । समजीघटत् निरमासीत् । एतावदूढमत्र ज्ञेयम् ।। इति श्रीहरदत्तसूरिकृते महाकाव्ये राघवनैषधीये द्वितीयः सर्गः । समाप्तमिदं महाकाव्यम् । mewarmORKETAmarnamam

No text on this page.

Raaghavanaishhadhiyamu

Author
Shriiharadattasuri
Title
Raaghavanaishhadhiyamu
File name
Raaghavanaishhadhiyamu
Text
OCR done
Citation
1896
Publisher
Tukaram Javaji,bombay
Language
Sanskrit
Pages
74
Library
Svi-vmpl-machilipatnam
Classification
Literature
DLI number
368876
Barcode
5010010032898.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
IN8PblnsBgp
Download PDF

Raaghavanaishhadhiyamu