Library
Shriimadand-ubhaashhyama~ Faskikyulasa~ 5
Front matter
UNIVERSAL
LIBRARY
OU_184450
LIBRARY
UNIVERSAL
No text on this page.
No text on this page.
No text on this page.
BENARES SANSKRIT SERIES;
A
COLLECTION OF SANSKRIT WORKS
EDITED BY THE
PANDITS OF THE BENARES SANSRKIT COLLEGE
UNDER THE SUPERINTENDENCE OF
R. T.H. GRIEFITH, M. A., C. I. E.
AND
G. THIBAUT, Pa. D.
No.110.
श्रीमदणुभाष्यम् ।
श्रीश्रीवल्लभाचार्यविरचितम् ।
गोस्वामीश्रीपुरुषोत्तमजीमहाराजविरचितभाष्य.
प्रकाशाख्यव्याख्यासमेतम् ।
श्रीमदाचार्यश्रीवल्लभाधीश्वरशुद्धाद्वैतसंप्रदायविनुषा
रत्नगोपालभट्टेन संशोधितम्।
ANU BHASHYA,
On BRAHMASŪTRA BY SKÎ VALLABRÂCRÂNYA,
With the Commentary called Bhashya Prakása,
By Goswami Sri Purushottamjee Mahârâj.
EDITED BY RATNA GopAL BHATTA.
Fasciculus V.
BENARES:
he Proprietors Messrs. Braj B. Das & Co.,
y, Chowkhamba Sanskrit Book Depot.
:inted at the Vidya Vilas Press,
BENARES.
1905.
AND SOLD BY H. D. GUPTA,
No text on this page.
OUP-68-11-1-68-2,000. OSMANIA UNIVERSITY LIBRARY P.G Call No.S181 48 Accession No. S1726 Author पडूनाचार्य श्रीमदणु भाष्यम् asciculuses- Title 1.906 This book should be returned on or belore the date last marked below.
१ अध्याय ३ पादः। ३८५ आकाशस्यावान्तरत्वमेव । तेनाम्बरान्तानां पृथिव्यादीनां विधारक: परमात्मैव । घुभवाद्यायतनसिद्धो धर्मोऽत्र हेतुः । न तदश्नोति कश्चनेति मुख्यतया परिगृहीतो भवति । अन्यथा मूर्नो विपतनं च भवेत् । न हन्यः सर्वाधारो भवितुमर्हति । परोक्षेण ब्रह्मकथना- ऽर्थमक्षरपदमन्यनिराकरणार्थं तद्धर्मोपदेशश्च । तस्मादक्षरं पर- मात्मैव ॥ १० ॥ द्वाभ्यां प्रश्नाभ्यामुपोदस्थामिति छौ प्रश्नी प्रतीयेते, तथापि पूर्व- ब्राह्मणे यथा तावत्सु प्रश्नेषु कृतेष्वपि न प्रश्नपरिसमाप्तिरेवम- वाकाशप्रश्नेऽपि, ततः कस्मिन् वा आकाश ओतश्च प्रोतश्चेति प्रश्रे आकाश एवेत्युक्त्वा तमाकाशमक्षरत्वेन निगमयत्येतद्वै तदक्षरमि- ति । एतत् त्वत्कृतद्वितीयप्रश्नोत्तरभूतं यदाकाशं तदक्षरमित्येवं व. चनव्यक्तेः । अत आकाशस्याप्यवान्तरत्वमेवेति पूर्वब्राह्मणे सर्वपा- दोक्तां पृथिवीमारभ्यात्र प्रथमं य आकाश उक्तस्तदन्तानां या धृ- तिरणं तेन हेतुना अम्बरान्तानां पृथिव्यादीनां विशेषेण परान- पेक्षतया धारकः परमात्मैव । अयमर्थः । पूर्वब्राह्मणे अब्वाय्वनन्त- रमाकाशस्योक्तत्वेऽप्यत्र पुनर्यदाकाशकथनं, तन्न भूताकाशपरम् । किन्तु भूतसूक्ष्मकालप्रकृत्यन्यतमं यद् वस्तु तत्परम् । तच मतान्तरे पदार्थान्तरम् । सिद्धान्ते तु प्रथमं कार्य तत् । ततोऽधिको धारको न जीवविशेषोऽपि भवति । उक्ताकाशोतप्रोतत्वस्य जीवे काप्यसिद्ध- त्वात् । एवं जडजीवयोनिवृत्तौ तद् ब्रह्मकार्यत्वेनैव निश्चीयते । पुन- विचारस्तु विरुद्धधर्माधारत्वसमर्थनायेति प्रागेवोक्तम् । पदार्थ- भेदस्तु प्रोतत्वमात्रेणैव, न त्वोतप्रोतत्वेन । तस्योपादानकार- णतागमकत्वात् । 'नैतच्चित्रं भगवति हनन्ते जगदीश्वरे । ओत- प्रोतमिदं यस्मिस्तन्तुष्वङ्ग यथा पट' इति श्रीभागवतवाक्येन तथा निश्चयातू । नातो भारवाहकत्वापत्तिः । अत्र, न तदनोतीत्यस्य वि- करणव्यत्ययेन भोजनार्थग्रहणेऽन्यकर्तृकतन्निषेधः पुरुषभोग्यां प्र- कृति व्यावर्तयति । अन्यकर्मकतन्निषेधश्च सर्वभक्षयितारं कालम् । पदव्यत्ययेन व्याप्त्यर्थग्रहणे तु द्वावर्पि निषेधौ व्यापकत्वं तदभावं च बोधयन्ती विरुद्धधर्माश्रयत्वं वस्तुपरिच्छेदाहित्यं च तस्य स- ४९ ३८६ समका अणुभाष्ये। मर्थयतः । अतो, न तदश्नोतीत्यादिना ब्रह्मापेक्षयाधिकस्य ब्रह्मापेक्ष- यान्यस्य च निराकरणेन, धुभवाद्यायतनाधिकरणे सिद्धस्य तत्स्वरू- पात्मकतया तद्धारकत्वस्य हेतोर्मुख्यतया मूर्द्धविपाताभावाय परि- गृहीतत्वात् । नच श्रोतृदोषादवक्तव्यत्वम् । तस्यास्तथात्वेऽपि ब्र- ह्मवित्त्वेनाधिकारित्वात् । पूर्वमतिप्रश्ने ब्रह्मशत्वाभावसम्भावनया मूर्द्धविपातस्योक्तत्वेन गार्या अब्रह्मवित्त्वे उक्तप्रश्नान्मूर्द्धविपतनं च भवेत् । तत्तु न जातमतस्तस्या अधिकारित्वेन तां प्रत्युपदेशो नायुक्त इति सर्वाधारत्वेनात्र ब्रह्मैवोपदिश्यते । न ह्यन्यो निरङ्कुशः सर्वा- धारो भवितुमर्हतीत्युक्तत्वात् । नन्वेवं सति ब्रह्मपदस्य कुतो नोक्ति- रिति शङ्कम्यम् । परोक्षेण कथनार्थमक्षरपदात् । तत्रापि गमकं, न तदनोति कश्चनेत्यादिना ब्रह्मधर्मोपदेशः । अत एव ब्रह्मवादस्यापि न समाप्तिः । तस्मादू बाधकानामभावात् साधकानां सत्त्वाच्चाक्षरं परमात्मैवेत्यर्थः। अत्र शङ्कराचार्यास्तु, अक्षरशब्दस्य वर्णे प्रसिद्धत्वादनोङ्कार एव व्यावयं इत्याहुः । तद्भास्कराचार्येरेवं दृषितम् । ॐकारोऽत्र न वक्तुं शक्यः । अलोहितमच्छायमित्येवमादिनिषेधानुपपत्तेरिति । भिक्षुणा तु द्रव्यधर्माणां स्थूलत्वादीनां प्रणवे प्रसक्त्यभावेन तनिषेधानीचित्याद् वर्णमामान्यवाचिनोऽक्षरशब्दस्य प्रणवरूपव- विशेषवाचिताया ॐमित्यादिविशंपणानां काप्यदर्शनाच्चेत्य- प्युक्तम् । यत्तु वाचस्पतिमिश्राः । अत्र प्रधानस्य पूर्वपक्षकोटिनिक्षेपण परमात्मनः सिद्धान्तीकरणे अम्बरान्तधृतिरूपेण हेतुना प्रधाननिरा- करणासम्भवः । तस्यापि सांख्यैरुपादानत्वेन सर्वाधारत्वाङ्गीकारा- तू । अथ नाधिकरणत्वमानं धृतिः, किन्तु प्रशासनाधिकरणता तदा, अक्षरं प्रशासनादिति सूत्रकारो वदेत् । तावतैव प्रधाना- ऽपाकरणसिद्धः । तस्माद् वर्णाक्षरनिराक्रिया सूत्रार्थः । नच स्थूल- त्वादीनां वर्णेष्वप्राप्तेरस्थूलमित्यादिनिषेधानुपपत्तिरिति शक्यम् । निषेधे प्राप्तिपूर्वकत्वनियमस्याभावात् । नान्तरिक्षे न दिवीत्यग्नि- चयननिषधस्याप्राप्तावपि दर्शनात् । अतो न किञ्चनैतदित्याहुः । तन्मन्दम् । गत्यन्तरसद्भावे नित्यानुवादत्वाङ्गीकारस्यास- -
१ अध्याये ३ पादः ।
सा च प्रशासनात् ॥ ११ ॥
ननु कचिद्वाक्ये विधारणं ब्रह्मधर्मत्वेनाश्रितमिसन्यत्रापि न
तथायितुं शक्यते । नियामकाभावादियत आह । सा च विधृ-
तिरत्रापि वाक्ये ब्रह्मधर्म एव । कुतः । प्रशासनात् । एतस्य वा
अक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठत इति प्रशास-
नेन विधारणमन्यधर्मों भवितुं नार्हति । अप्रतिहताझाशक्तेर्भगवद्ध-
मत्वात् । तस्मादक्षरं ब्रह्मैव ॥ ११ ॥
ङ्गतत्वात् । चयनस्थलेपि देवप्रभृतीनां कर्माधिकारस्याप्ये स्थाप्य-
त्वात् तेषां लोकान्तरेऽपि करणसामर्थ्यसत्त्वेन तद्वारणार्थत्वात्
सिद्धान्तोक्तरीत्या सुखेन प्रधानवारणसम्भवेन गत्यन्तरस्य सत्त्वा-
दिति । अतो वृथाऽयं प्रयास इति ध्येयम् । अत्रैवं प्रयोगः सिद्ध्यति ।
अस्थूलादिवाक्योक्तमक्षरं परमात्मैवं । इतराभोग्यत्व इतराभोक्तृत्वे
च सत्यम्बरान्तधारकत्वात् । यन्नैवं तन्नैवमिति । अश्नोतेाप्त्यर्थ-
कत्वे तु विरुद्धधर्माधारत्वे सति तथात्वादिति ॥ १० ॥
सा च प्रशासनात् ॥ सूत्रमवतारयन्ति * नन्वित्यादि * ।
* कचिद्वाक्ये इति * यस्मिन् धारिति वाक्ये । व्याकुर्वन्ति * सा
घेत्यादि * श्रुतिव्यतिरिक्तशास्त्रसिद्धं यन्मूलकारणं तद्न विषय-
वाक्य आकाशत्वेनोक्तम् । तद्धारणस्यान्यधर्मत्वं न सम्भवत्येव । त-
थापि, मूले मूलाभावादमूलं मूलमिति सांख्यप्रवचनसूत्रोक्तन्यायेन
द्वितीयवाक्योक्ताकाशमपि पूर्ववाक्योक्ताकाशत्वेनादृत्य, तस्यैवाक्ष-
रत्वं चाहत्य तस्य स्वाधारत्वेनाम्बरान्तधृतेरन्यधर्मत्वं महिलतया य-
दुच्यते, सा त्वयाऽन्यधर्मत्वेनाभ्युपगम्यमानापि विधृतिर्ब्रह्मधर्म
एव । न हि तत् स्वसामर्थ्येन विधरति, किन्त्वेतस्यैवेति
धुत्युक्तशा-
सनसामर्थेन । यथा स्वर्गात् पततस्त्रिशङ्कनेर्विधृतिस्तिष्ठेति विश्वा-
मित्राशया जायमामा तद्धर्म एव, न तु त्रिशङ्खधर्मस्तद्वत् । नच 'अ-
क्षरं प्रशासनाद्' इति सूत्रापत्तिः । अहिलतयाऽन्यधर्मत्वेनापाद्यमा-
नाया एव तधृतेः प्रशासनहेतुकताया अहिलतावारणार्थ विवक्षि-
तत्वेनाम्बरान्तधृतिपदस्यावश्यकतया तदापत्त्यभावादित्यर्थः ॥११॥
३८८
समकाशे अणुभाष्ये ।
अन्यभावव्यावृत्तेश्च ॥ १२ ॥
ननूक्तमुपासनापरं भविष्यतीति । तत्राह । अन्यभावव्याट-
तेः। अन्यस्य भावोऽन्यभावः । अब्रह्मधर्म इति यावत् । तस्यात्र
व्याहत्तेः । अब्रह्मत्वे हि ब्रह्मत्वेनोपासना भवति । कार्यकारण-
भावभेदेन । न पत्र तादृशो धर्मोऽस्ति ।
चकाराद्, यो वा एतदक्षरमविदित्वा गार्गीसादिना शुद्धन-
लप्रतिपादनमेव, नोपासनाप्रतिपादनमिति । तस्मादक्षरं ब्रह्मैवेति
सिद्धम् ॥ १२॥
अन्यभावव्यावृत्तश्च ॥ सूत्रमवतारयन्ति * नन्वित्यादि * प्र-
शासनहेतुकत्वं विधरण उपासनार्थमारोपितं भविष्यतीत्यर्थः । सि-
द्धान्तं व्याकुर्वते *अन्यस्येत्यादि * कार्यकारणभावभेदेनेत्यस्य अब्रह्म-
त्वे हीत्यनेनान्वयः । ततश्चायमर्थः। एतद्वै तदक्षरं गार्गि अदृष्टं द्रष्टश्रुतं
श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदस्ति द्रष्ट्र नान्यदस्ति श्रोतृ, नान्य-
दस्ति मन्तृ नान्यदस्ति विज्ञानेतद्वै तदक्षरंगार्गियस्मिन्नाकाश ओतश्च
प्रोतश्चेत्याकाशधर्तर्यक्षरे द्रष्टुत्वादिचेतनधर्मकथनेन धरणे जडधर्म-
त्वव्यावृत्तेर्धरणस्य चाकाशतिप्रांतत्वरूपस्वरूपबोधनेन जीवधर्मत्व-
व्यावृत्तेरक्षरस्याब्रह्मत्वनिवृत्तावब्रह्मणि ब्रह्मत्वेनोपासनाया वक्तुमश-
क्यत्वादिति । युक्त्यन्तरमाहुः । * चकारादित्यादि * यो वा एतद-
क्षरमविदित्वा गार्गि अस्मिल्लोके जुहोति ददाति तपस्यत्यपि बहूनि
वर्षसहस्राण्यन्तवानेवास्य स लोको भवति । यो वा एतदक्षरमवि-
दित्वा गार्यस्माल्लोकात प्रेति स कृपणोऽथ यो वा एतदक्षरं गार्गि
विदित्वाऽस्माल्लोकात् प्रैति स ब्राह्मण इति श्रावणं चकारेण सं-
गृह्यत इत्यर्थः । अत्र चविरुद्धधर्माणामाशय निराकरणातुपोद्घातः
सङ्गतिः। आशय निराकरणं च द्वितीयसूत्रे हेतोः साधनाज्य-
म् । एतेनाधिकरणेन परत्वं साधितम् । तेन स्थितिकर्तृत्वं, तदा-
धारत्वं च पदार्थान्तरभूते प्रधाने आशय तत्रातिव्याप्तिर्निवारि
तेति सैवाधिकरणसङ्गतिः ॥ १२ ॥ ॥३॥
१ अध्याय ३ पादः। ३८९ ईक्षतिकर्मव्यपदेशात सः॥ १३ ॥ पञ्चमप्रश्ने, एतदै ससकाम परश्चापरं च ब्रह्म यदोङ्कारस्त- स्माद् विद्वानेतेनैकतरमन्वेति यधेकमात्र इसादिना एकद्वित्रिमात्रो- पासनया ऋग्यजुःसामभिर्मनुष्यलोकसोमलोकमूर्यलोकमाप्तिपुन- रागमने निरूप्यार्थचतुर्थमात्रोपासनया परं पुरुषमभिध्यायीत । स तेजसि परे सम्पनो यथा पादोरस्त्वचेसादिना, परात् परं पुरि- शयं पुरुषमीक्षत इति । तत्र संशयः । परपुरुषः परमात्मा ध्यान- विषय, आहोस्विद् विराट् पुरुषो, ब्रह्मा वेति । तत्रामुख्यप्रवाह- पतितत्वाद् ब्रह्मलोकं गतस्य तदीक्षणमेव च फले श्रूयते । न हि परमपुरुषस्य ब्रह्मत्वे तज्ज्ञानमेव फलं भवति । तस्माद् विराड् ब्रह्मा वा अभिध्यानविषय इसे प्राप्ते । ईक्षतिकर्मव्यपदेशात् सः ॥ विषयवाक्यमुपन्यस्यन्ति । * प- श्चमप्रश्न इत्यादि * 1 * पञ्चमप्रश्न इति * आथर्वणानां प्रश्नोपनि- पदः पञ्चमे प्रश्ने । * ईक्षत इति * वदतीति शेषस्त्रुटिर्वा । संशय- स्तु ध्येयविषय इत्याहुः * तत्रेत्यादि * । परापरयोरुभयोरपि प्रक- तत्वं सन्देहबीजम् । पूर्वपक्षमाहुः * तत्रामुख्येत्यादि * । अत्रोङ्कन- रेणोपायेन ब्रह्मोपासनार्थमोङ्कारस्य द्विविधब्रह्मरूपतामुक्त्वा तेने- वायनेनैकतरमन्वेतीत्येकतरप्राप्तिं प्रतिक्षाय साधनैक्ये कथं फल- भेद इत्याकाङ्क्षायां भावनाप्रकारभेदस्य तत्र नियामकत्वं बोध- यितुमेकद्वित्रिमात्रोपासनया तत्तल्लोकप्राप्तिपुनरागमने निरूप्यार्द्धच- तुर्थमात्रोपासनया परे तेजसि सम्पत्ति पापनिर्मोकं ब्रह्मलोकप्रा- प्तिं चोक्त्वाऽन्ते परपुरुषेक्षणं फलत्वेन वदति । तत्र परपुरुषध्यान- स्य त्रिमात्रेणाप्युक्तत्वार्द्धचतुर्थमात्रेण परपुरुषध्यानस्यापि तत्तुल्य- कक्षत्वेनामुख्यप्रवाहपतितत्वात् तत्प्राप्यब्रह्मलोकस्याप्यमुख्यत्वात् तं लोकं गतस्य यत् परपुरुषेक्षणं तत् पूर्वापेक्षया परात् पर- स्यैवेक्षणं फलं श्रूयते । न तु सर्वतः परस्य । न हि तत्रोक्तस्य परम- ३ ३९० सप्रकाशे अणुभाष्ये । उच्यते । सः, अभिध्यानविषयः परपुरुषः परमात्मैव । कुतः। ईक्षतिकर्मव्यपदेशात् । जीवधनात् केवलजीवाधारभूताद् ब्रह्मलो- कात् पररूपपुरुषदर्शनमीक्षतिः । तस्याः कर्मत्वेन व्यपदेशादुभयोः कर्मणोरेकत्वमपरं त्रिमात्रपर्यन्तं निरूप्य परं ह्यग्रे निरूपयति । त- थैव च श्लोके तिस्रो मात्रा इसादि । अभिध्यानस्य हि साक्षात्कारः फलम् । अतः फलरूपज्ञानस्य पुरुषस्य ब्रह्मत्वे तज्शानमेव फलं भवतीति वक्तुं शक्यते । ब्रह्म- विदाप्नोति परमित्यादिश्रुत्यन्तरे तत्प्राप्तेः फलत्वेनोक्तत्वात्, सोऽश्नु- त इत्यादिना विवरणाच्च । अतस्तस्मात् फलरूपात् तात्पर्यलि- ङ्गात् परमात्मनो वक्तुमशक्यत्वेन विराड् वा, तदभिमानी ब्रह्मा वा ध्यानविषयः । नय जीवधनादिति परविशेषणानन्वयः । अत्र ल्यब्लोपपञ्चम्या पूर्वेभ्यः परं जीवधनं प्राप्य पुरिशयमित्यन्वयेन परविशेषणत्वाभावादिति प्राप्त इत्यर्थः । सिद्धान्तं व्याकुर्वते । * उच्यत इत्यादि *। * जीवधनांदित्यादि * । जीवानां केवला- नां मुक्तानां घनः पिण्डीभावो यत्र तादृशात् केवलजीवाधारभूताद् ब्रह्मलोकादक्षरात् । * उभयोः कर्मणोरेकत्वमिति * ध्यानेक्षणकर्म- णोरेकविषयत्वम् । तद्विवृण्वन्ति * अपरमित्यादि * तथाच पूर्व द्वे ब्रह्मणी उक्त्वा, ॐकारेणकतरमन्वेतीत्यादिना अपरं ब्रह्म त्रि- मात्रपर्यन्तं निरूप्य, परं ब्रह्म ह्यग्रे निरूपयति । यदि तन्न निरूपयेत् प्रतिज्ञा न पूर्येत । तथैव चाग्रिमे श्लोके तिस्रो मात्रा इत्यादिना मात्रानयस्य मृत्युमत्त्वादिकमुक्त्वा सृम्भिरेतमिति द्वितीयमन्त्रे, सा- मभिर्यत् तत् कवयो वेदयन्त इति त्रयीमयं तृतीयमानाफलं मिरू- प्योत्तरार्द्ध तमोङ्कनरेत्यादिना यत्तच्छान्तमजरममृतमभयं परं परा- यणं चेति फलान्तरं न वदेत् । नच जीवधनादित्यादौ ल्यब्लोपे पञ्चम्यपि । तथा सति प्राप्तौ जातायामीक्षणस्यार्थादेव सिद्ध्या वा- क्यवैयर्थ्यमित्याशयेन युक्त्यन्तरमाहुः । * अभिध्यानस्येत्यादि * नम्वस्मिन् पादे आधाररूपखरूपस्य निरूप्यत्वादत्र च तस्या अ. .
१ अध्याये ३ पादः। विषयखात् परपुरुषः परमात्मैव । मन्दशङ्कानिवृत्त्यर्थमेवेदं सूत्रम् । अत्र सर्वसङ्कवादिनामन्यथा पाठो भ्रमात् । तत्रापि विचार- स्तुल्यः ॥ १३ ॥ दर्शनादेतत्सूत्रप्रणयनस्य किं प्रयोजनमत आहुः । * मन्देत्यादि * परं ब्रह्म न दृश्यमिति मन्दशङ्कगनिवृत्त्यर्थमित्यर्थः । एतेनं प्रसङ्गः सङ्गतिरित्यपि बोधितम् । तेन बुद्धिस्थानात्मिकाऽधिकरणसङ्गतिरपि बोधिता । आधारत्वं तु परायणपदादेव प्राप्यत इति न दोषः । ननु शङ्कराचार्यर्थः पुनरेतत्त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्या- वीत स तेजसि सूर्ये संपन्नः स सामभिरुन्नीयते ब्रह्मलोकमिति पा- ठोऽङ्गीक्रियते । न तु,सामभिरुन्नीयते सूर्यलोकंस सूर्यलोके विभूति- मनुभूय पुनरावर्तते यः पुनरर्द्धचतुर्थमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि परे सम्पन्न इति सोऽथर्वभिरुन्नीयते ब्रह्मलोकमिति पाठोऽतोऽस्याधिकत्वान्न पूर्वोक्तरीतिकोऽर्थ इत्याशङ्का- यामाहुः । * अन्न सर्वसङ्करेत्यादि * इदानीन्तनपुस्तकेष्विदानीन्त- नष्वध्येतृष्वप्येतस्याधिकपाठस्य दर्शनात् तिसृणामपि मात्राणां मृ- त्युमत्त्वेन तौल्यात् साधनवैजात्याभावे फलवैजात्यस्यानुपपन्नत्वा- न्माण्डूक्यादी तुरीयोपासनार्थमर्द्ध मात्रोक्तिदर्शनाच्च तेषां तथा पाठो भ्रमादेव । नच विचारवैसादृश्यम् । तत्रापि पाठे विचारस्तुल्य इति न दोष इत्यर्थः । एवं भास्कराचार्याधङ्गीकृतपाठेऽपि द्रष्टव्यम् । अन्न माध्वाः, सदेव सौम्येति छान्दोग्यवाक्यं विषयत्वेनोप- म्यस्य कारणतया सच्छब्देनोच्यमानं किं प्रधानमुत विष्णुरिति सन्दे- हे, बहु स्यां प्रजायेयेति सतो बहुभावाख्यविकारश्रवणाद्, विष्णोस्तु, अविकारः सदा शुद्धो नित्य आत्मा सदा हरिरितिवाक्येनाविकारि- त्वबोधनातू प्रधानमेवेति प्राप्ती, तदैक्षत बहु स्यामितीक्षणरूपं यत्कर्म चेतनकर्तृकेक्षणक्रिया तव्यपदेशात् सत्पदवाच्यः स विष्णुरेव । नच बहुभावोक्तिविरोधः । अजायमानो बहुधा विजायत इति श्रुत्य- न्तरोक्त त्वरूपबहुत्वेनैव तदुपपत्तेरिति व्याचक्रुः । तञ्चिन्त्यम् । ईक्षतिमानप्रयोगेऽपिक्रियात्ववैशिष्टयबोधसुकर- तया कर्मपदवैयर्थ्यप्रसङ्गात् । किश्चात्रेक्षणक्रियायां कर्मत्वेनान्वीय- ३९२ सप्रकाश अणुभाष्ये । . मानस्य बहुभवनस्य स्वरूपबहुत्वादेव चारितायें, प्रजायेयेत्याका- रान्तरोल्लेखस्यापि वैयर्थ्यप्रसङ्ग इत्यपि ध्येयम् । विज्ञानेन्द्रभिक्षुस्तु शङ्कराचार्योक्तं विषयवाक्यपाठं तद्रीत्या- ऽधिकरणरचनां चोपन्यस्य तत्रोदाहृतवाक्यस्था त्रिमात्रप्रणवेनो- तामुपासनामुत्तरस्मिन् प्रश्ने, तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता इत्य- नेन विनिन्द्य तुरीयाख्यस्यामात्रस्य परब्रह्मण उपासनां तत्रैव प्रश्ने वक्ष्यति, नातः परमस्तीति प्रशंसापूर्वकम् । अतोऽवधार्यते, पञ्चमे प्रश्ने परब्रह्मोपासनां न विदधातीति । किश्च । यदभिध्यायति तत् साक्षात्करोतीनि सामान्यत एव प्राप्ततया तद्वचनं व्यर्थमतः पञ्च- मप्रश्ने कार्यब्रह्मोपासनायाः परब्रह्मदर्शनं फलमुक्तमित्येवं तदबोध- रूपं दूषणमुक्त्वा षष्ठप्रश्नस्थस्य स इतिशब्दस्य सूत्रे प्रत्यभिज्ञायमा- नत्वात् तवत्यम्, इहैवान्तः शरीरे स पुरुषो यस्मिन्नेताः षोडशक- लाः प्रभवन्तीति वाक्यं विषयत्वेनोदाजहार । स जीवः, परमात्मा वेति संशये, सः, सशब्देनोक्तः पुरुषः परमात्मैव । कुतः । ईक्षतिक- मव्यपदेशात् । स ईक्षाञ्चक इति वाक्यशेषे सशब्देन परामृष्टस्य य- थोक्तपुरुषस्य ईक्षणरूपकर्मकथनाद् गौणकर्मणां प्राणादीनां वा कथ- नात् । नहीदं प्राणादिषोडशकलासृष्टयर्थमीक्षणं जीवस्य सम्भवति । ईक्षायाः करणादीनां तदानीमभावादित्येवं सौत्रं हेतुं द्विधा व्या- चल्यो। अत्रापि पूर्वव्याख्याने सूत्रस्थकर्मपदवैयर्थ्यमेव दोषः । द्वि- तीये तु कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रति- ष्ठिते प्रतिष्ठास्यामीति श्रावितस्य मुख्यस्येक्षतिकर्मणस्त्यागः खयमेव बोधित इति स एव दोषः । तिम्रो माना इति निन्दावाक्यं च पञ्चम- प्रश्नस्थमेव, न तु षाष्ठमित्यपि । शैवस्तु शङ्कराचार्योक्तमेव विषयवाक्यमुपन्यस्य, परमेश्व- रोऽन्यो वेति संशये, ईक्षतिविषयः परमेश्वर एव । उत्तरत्र, तमो- कारेणायसनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं पराय- णं चेति तदसाधारणशान्तत्वादिधर्मव्यपदेशादिति व्याचख्यौ। तदप्यसङ्गतम् । हेतोरसौनत्वात् । तद्धर्माधिकरणेनैव ग- तार्थतयाधिकरणवैयापाताच्च । सूत्रे हेतुशरीरे प्रविष्टस्येक्षति- कर्मण ईक्षतिविषयत्वेन पक्षतयाङ्गीकाराश । विशेषतस्तु प्रहस्त १ अध्याये ३ पादः। दहर उत्तरेभ्यः ॥ १४ ॥ अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मि- अन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यमि- सादि श्रूयते । तत्र संशयः । किं जीवोऽन्वेष्टव्यो ब्रह्म वेति । एव दसोत्तर इत्युपरम्यते ॥ २३ ॥ ॥४॥ दहर उत्तरेभ्यः ॥ विषयवाक्यमाहुः । * अथ यदिदमित्या- दि *। * श्रूयत इति * छान्दोग्ये दशमप्रपाठकारम्भे श्रूयते । संशयमाहुः । * तनेत्यादि *। अत्र हि ब्रह्मपुरे शरीरे दहरपुण्डरीक हृदयकमलं वेश्म । तस्यान्तर्दहराख्य आकाशः । तदन्तर्यवर्तते तद्- न्वेष्टव्यत्वेनोपदिष्टम् । तत आकाशान्तः किं विद्यत इति प्रभे, या- वान् वेत्यादिना हार्दाकाशस्य व्यापकत्वकथनपूर्वकं, तस्मिन् द्या- वापृथिव्यादिसर्वसमाधानं प्रत्युत्तरयति । तेषां च खेन रूपेण प्र- त्यक्षादिसिखतया नान्वेष्टव्यत्वं सिद्ध्यतीति केन रूपेणान्वेष्टव्यता, कस्यचिदन्यस्य वेति । किञ्च । पुरप्रध्वंसे किमिति शिष्यत इति प्रश्नान्तरे, नास्य जरयतदित्यादिना ब्रह्मपुरस्य नित्यतामुक्त्वा तस्मि- न कामानां समाधानं चोक्त्वा, एष आत्मेत्यादिना अपहतपाप्मत्वा- दिगुणकमात्मानं प्रत्युत्तरयति । तेन शरीररूपादनित्याद् ब्रह्मपुराद- म्यः सत्यब्रह्मपुररूपः पूर्वोक्तद्यावापृथिव्यादिरूपसर्वकामाधार एष आत्मेत्यादिनोक्त आत्मा सत्यब्रह्मपुरत्वेन सिद्ध्यति । यदि च का- मवदात्मनोऽप्याधेयत्वमुच्यते, तदा पुराकाङ्क्षा न पूर्यते। अत आत्मन एवातिशिष्टब्रह्मपुरत्वमिति निश्चयः । एवं सति, ब्रह्मपुरमित्यत्र यदि षष्ठीसमासस्तदास्यात्मनो जीवत्वम् । यस्यात्मा शरीरमितिश्रुत्यन्तरा- तू । यदि समानाधिकरणसमासस्तदा आत्मा ब्रह्मैव । अतोनित्य- पुरनाशेऽतिशिष्टो यो नित्यो दहराकाशरूप आत्मा, स जीवो घा, ब्रह्म वेत्येव संशयाफारः पर्यवस्यति । न तु भूताकाशकोटेस्तन नि- वेशः । उक्तरूपत्वस्य तत्राभावादिति । अत्र दहरान्तर्वर्तिन उत्तरप्र- करणे चात्मनोऽन्वेष्टव्यत्वं भाव्यते । ततश्चान्वेष्टव्यः क इत्यपि सं- शयः । तदेतदुक्तम्, * किं जीयोऽन्वेष्टव्यो, ब्रह्म वेति । ननु तल्लि- ५० ३९४ सप्रकाो भणुभाष्ये । जीवब्रह्मवादो निर्णीयते । श्रुसर्थो हि निर्णेतव्यः । तद् य- दस्मिन् वाक्ये परमार्थतो जीव एव ब्रह्म चेच्छास्त्रं च तत्रैव समाप्तं चेद् व्यर्थमधिकरणारम्भः । इदमेव च वाक्यं, श्रुसा वक्त- व्यं च भवेत् । तस्मादस्मिन्नधिकरणे मुख्या सर्वसङ्कवादादिनि- राकृतिः। किं तावत् प्राप्तम् । दहर आकाशो जीव इति । अ- त्रावान्तरप्रकरणद्रयम् । तव द्वितीये प्रजापतिप्रकरणे जीव एवा- ऽमृताऽभयरूपः प्रतिभाति । स्पष्टार्थं च द्वितीयप्रकरणम् । तस्मात् अवधिकरणे आकाशशब्दोदितस्य सर्वाधारत्वब्रह्मत्वयोर्विचारितत्वात् किमनेनाधिकरणेनेति शङ्कगयां तत्प्रणयनप्रयोजनमाहुः । * जीवे- त्यादि * उपाधिभेदाद भेदेऽपि वस्तुतश्चैतन्यमात्रत्वाजीवाभिन्नमेव ब्रह्मेति वादो जीब्रह्मवादः । स सम्भवति, न वेति नियते । सथाचैतन्निर्णयस्य पूर्वमकृतत्वात् तदर्थमेतत्प्रणयनमित्यर्थः । ननु किं तभिर्णयेनेत्यत आहुः । * श्रुत्यर्थ इत्यादि *। हि यतो हेतोः सन्देहनिरासायैय प्रवृत्तत्वाच्छ्रत्यर्थी निर्णतव्यः । तथाच निर्ण- यायैतनिर्णय इत्यर्थः । एतेन बुद्धिस्थस्य विचारादुपोद्घातगर्भः प्रसङ्गः सङ्गतिरिति बोधितम् । नन्वस्याधिकरणस्यैतदेव प्रयोजन- मित्यत्र किं गमकमत आहुः । * तदित्यादि * । * समाप्तमिति * पर्यवसितम् । * व्यर्थमिति * सामान्ये न पुंसकम् । तथाच यदि तथा स्यात् तदोपाधिभेदस्येतरत्वाप्रयोजकत्वादाकाशतुल्यतासम्भ- धातू, इतरपरामर्शसूत्रव्याहत्याधिकरणारम्भो व्यर्थ एव स्यात् । एतस्यैव वाक्यस्य श्रुतिवाच्यत्वापातेन, नेति निषेधोऽपि न सम्भवत्। तस्मादस्मिन्नधिकरणे जीवब्रह्मैक्यकृतसर्वसङ्करवादस्य मायावादस्य च निराकृतिरेव मुख्या । अतोऽधिकरणसार्थक्यानुपपत्तिरेव प्रण- यनप्रयोजनगमिकेत्यर्थः। एवं संशयाकारादिकं निश्चित्य पूर्वपक्ष- माहुः । * किं तावदित्यादि *। * उपपादयति * अत्रेत्यादि * अत्र दहरबोधके महावाक्येबान्तरप्रकरणद्वयम् । एकं दहरविद्या- रूम, द्वितीयमिन्द्रप्रजापतिसंवादरूपम् । उभयत्राप्यपहतपाप्मत्वा- १ अध्याये ३ पादः। ३९५ प्रथमेऽपि जीव एव तादृशधर्मवान् भवितुमर्हति । अर्थानुगुण्यमपि व्याख्येयम् । अयमेव जीवो ब्रह्म । अयमात्मा ब्रह्मेति श्रुतेः । मै- त्रेयीब्राह्मणं चानुगुणं भविष्यति । तस्य पुरं शरीरम् । तत्र हृदय- कमलं सूक्ष्मम् । तत्राराग्रमात्रो जीव एवाकाशः । तात्स्थ्यात् त- द्व्यपदेश इति । अन्वेष्टव्यस्तु तस्मिन् विद्यमानस्तन्महिमा । वासनारूपेण सर्वं तत्र वर्तत इति । . दिगुणक आत्मैव प्रतिपाद्यः । तत्र द्वितीये प्रजापतिप्रकरणे चतुर्भि पर्यायर्जाग्रत्स्वप्नसुषुप्तमुक्तावस्थभेदेन जीवस्यैव प्रतिपादनाजीव एवाऽमृताऽभयरूपः श्रावितः प्रतिभाति । तञ्च प्रकरणं स्पष्टार्थम् य एषोऽक्षिणि पुरुषो दृश्यत इति द्रष्टारमुपक्रम्य, एतं त्वेव ते भूः योऽनुव्याख्यास्यामीति प्रतिपर्यायं प्रतिक्षादर्शनात् । एवमसन्दिग्ध स्य तस्य पूर्वप्रकरणव्याख्यारूपताया औचित्यात् । अतस्तदनुरोधेन प्रथमेऽपि जीव एवाऽपहतपाप्मत्वादिधर्मवान् भवितुमर्हति । किञ्च यदि कश्चिदर्थः पीड्यते, तदा प्रकरणान्तरं भिन्नं कल्प्येत । अतः स्तदभावायार्थानुगुण्यमपि व्याख्येयम् । तश्चैवम् । अत्र हृदयाका प्रक्रम्य, तस्य ब्रह्मपुरत्वं चोक्त्वा, तत्र, एष आत्मा अपहतपाप्मे त्यमुल्येव निर्दिश्यते । तेनायमेव जीवो ब्रह्मेति सिद्ध्यति । अय मात्मा ब्रह्म विज्ञानमय इति श्रुतेश्च । एवञ्च मैत्रेयीब्राह्मणमप्यनु गुणं भविष्यति । तत्रापि, न वा अरे पुत्राणां कामायेत्याधुक्तान जीवलिङ्गानां बाहुल्येन तस्यापि जीवपरत्वात् । नचैतन्मात्रमेवार्था नुगुण्यं, किन्त्वन्यदपि । तदेव भाष्ये * तस्य पुरं शरीरमित्यादिना व्याख्यातम् । * सूक्ष्ममिति * हार्दाकाशरूपम् । तस्यान्ते सुः पिर सूक्ष्ममिति श्रुत्यन्तरात् । मैत्रेयीब्राह्मणादत्रैतावान् विशेषः तत्र श्रोतव्यत्वादिकं जीवस्योच्यते । आत्मावारे श्रोतव्य इति श्राव णात् । अत्र तु तस्मिन् यदन्तस्तदन्वेष्टव्यमित्याकाशान्तर्वर्तिनोऽन्वे एव्यत्वमुच्यत इति । तथा सस्यत्र तन्महिम्नोऽन्वेष्टव्यत्वम् । तदा ह * अन्वेष्टव्य इत्यादि * | महिम्नः स्वरूपमाह * वासनेत्यादि * तथाच वासनारूपेण तत्र विद्यमानमत्रोक्तं सर्वमेव तन्महिमेत्य- ३९६ सपकाशे अणुभाष्ये । अन्यथोमयव सर्वकथनं विरुद्धमापद्येत । भूतानि महाभूता- नि । पुत्रादयो वा । तं चेद् युरियादिना निसतामुपपाद्य एष आत्मेसादिना तस्यैव ब्रह्मत्वमुपदिशति । तज्ज्ञानं च प्रशंसति । र्थः । इदमेव तापनीयेऽप्युक्तं, सधैं सर्वमयं सर्वे जीवाः सर्वमयास्त- थाप्यल्पा इति । नन्वत्रेदश एव महिमोच्यत इति कथं झंयमत आह * अन्यथेत्यादि * यदि जीवमहिम्नो वासनारूपत्वं नोपगम्ये- त, तदा, यावानित्यादिनाऽन्तर्बहिश्च सर्वनिरूपणं प्रत्यक्षविरुद्धमाप- घेत। नच वासनारूपस्य सर्वस्याङ्गीकारे थथा कथञ्चिद् द्यावापृथि- व्यादिवासनासम्भवेऽपि, सर्व समाहितं सर्वाणि च भूतानीति भूत- पदविरोधः स्यात् । न हिंस्यात सर्वा भूतानीत्यादौ भूतपदस्य जीव- विशिष्टदेहवाचकताया निश्चितत्वात प्रकृते च भूतपदस्य सर्वपदेन विशेषणालोके च तत्तजीवविशिष्टसर्वदेहविषयकानुभवस्य वक्तु मशक्यतया तद्विषयकवासनाया अशक्यवचनत्वादिति शङ्यम् । विशेषणीभूतस्य सर्वपदस्य वृत्तिसङ्कोचे भूतानीत्यनेन महाभूतानि पुत्रादयो वा ग्रहीतुं शक्यन्त इति तदभावात् । नन्वेतस्य जीववा- क्यत्वाङ्गीकारे, तं चेद् ब्युरस्मिश्चेदिदं ब्रह्मपुर इत्यादिनोक्ता दहर- निस्यता, तदन्तःस्थस्य ब्रह्मत्वोपदेशादिश्च विरुद्धयेतेति शङ्कायाम- ग्रिमप्रन्थं योजयन्ति । * तं चदित्यादि *। * तस्यैव ब्रह्मत्वमुपदि- शतीति * जीवस्यैव ब्रह्मत्वमुपासनार्थमुपदिशति । य इहात्मानमनु- विध प्रजन्तीत्यादेस्तात्पर्यमाह । * तज्ज्ञानमित्यादि * तथाच न विरोध इत्यर्थः । ननु भवत्वेयमन्यवाक्यानां सङ्गतिस्तथापि, इमाः प्रजा भहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीत्यादेप्रन्थस्य सङ्ग तिस्तु न भविष्यति । जीवान्तराणां जीवान्तरे गमनाभावात् । अह- रहर्ममनकथनेन ब्रह्मणो लोको ब्रह्मलोक इति षष्ठीसमासस्योपग- तुमशक्यतया सत्यलोकादेरविवक्षितत्वाद् ग्रीव लोको ब्रह्मलोक इति मयूरव्यंसकादिवत् समानाधिकरणसमासस्यैवाश्रयणीयतया ब्रह्मण एवं तत्र विवक्षितत्वेन ब्रह्मलोकपदासङ्गतेश्चेतिचेतू, तबाह १ अध्याये ३ पादः। स्वात्मज्ञानिनः कामसिद्धिं चाह । य इहेसादिना । येऽपि च वि- रुद्धा धर्माः प्रतिभान्ति, अहरहर्गमनादयस्तेऽपि स्वकल्पितजीवानां स्वप्नमायामनोरथादिषु तेषामेव गमनागमने प्रति । स्वातिरिक्तस्य ब्रह्मणोऽभावात् । एवं लोकाधारत्वमपि । ब्रह्मचर्यश्च तस्य साधनमिति । यो- गश्च, तयोर्ध्वमायनमृतत्वमेतीति च । तस्माज्जीव एव दहर इसे *येऽपीत्यादि *। * स्वकल्पितजीवानामिति * स्वाशानकल्पितजी- वानाम् । तादृशा जीवाः कुत्र सिद्धा इत्याशङ्कनयामाह । * स्वनेत्या- दि** प्रतिर्लक्षणे । स्वप्नादिषु तेषां जीवानां सिद्धत्वादहरहर्वाक्यं तानेव लक्ष्यीकृत्य प्रवृत्तम् । श्रुत्यन्तरे, सता सौम्य तदा सम्पन्नो भवतीति सुषुप्तावेव सत्सम्पत्तेईष्टत्वात् । ततः पूर्व स्वनावस्थायां कल्पितजीवबाहुल्यात् । अतस्तेषामेव ते. तनोच्यतेऽतो न तद्विरोध इत्यर्थः । नन्वेवं कल्पने किं बीजमत आह * स्वातीत्यादि * । तत् त्वमसि, अयमात्मा ब्रह्म, स यो ह वै तत् परं ब्रह्म वेद ब्रह्मैव भव- तीत्यादिश्रुत्यन्तरे तथैव सिद्धत्वादित्यर्थः । ननु तथापि, य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदायेति लोकाधारत्वं यदुक्तं तस्य कथं सङ्गतिरित्यत आह * एवमित्यादि * यथा गन्तारोऽज्ञानकल्पि- तास्तद्वल्लोका अपीति तादृशतदाधारत्वमपि नासङ्गतमित्यर्थः । नन्वग्रे, तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्तीत्यादिना यज्ञादी- नां ब्रह्मचर्यत्वेन रूपेण ब्रह्मलोकप्राप्तिसाधनत्वमुक्तम् । ततोऽथ या एता हृदयस्य नाड्य इत्यादिना, तयोर्ध्वमायनमृतत्वमेतीत्यन्तेन तत्र गमनस्योपायभूतो योगो गमनप्रकारश्चोक्तः । तत् सर्व गन्तुः काल्पनिकत्वे कथं सङ्गच्छते। तत्राह । * ब्रह्मचर्यमित्यादि * । *स- स्येति * अज्ञानकल्पितस्याविदुषः । कर्मणामविद्वदधिकारकत्वाद- विद्वत्त्वस्य चाज्ञानिकत्वात् ताहशस्यैव तत्साधनमुपायः प्रकारश्च । न हि विदुषो ब्रह्मभूतस्य व्यापकस्य तत् सम्भवतीति जीवभावस्या- ज्ञानकल्पितत्वाङ्गीकारे सर्वस्यापि सङ्गतिः । सिद्धमाह । * तस्मा- दित्यादि * पूर्वमाहतादुत्तरप्रकरणस्वारस्यात् तथेत्यर्थः । एवं पूर्व- ३९८ सप्रकाशे अणुभाष्ये । ~ प्राप्ते, उच्यते । दहरः परमात्मा, न जीवः । कुतः । उत्तरेभ्यः । उत्तरत्र वक्ष्यमाणेभ्यो हेतुभ्यः । तेषामपि साध्यत्वादेवमुक्तम् । जीवो नाम भगवदंशो, न भगवानेवेसग्रे वक्ष्यते । अंशो नानाव्य- पदेशादिति । नापि ब्रह्म तावन्मात्रमिदमप्यग्रे वक्ष्यते । अधिकं तु भेदनिर्देशादिति । तस्मादिदं प्रकरणं न जीवब्रह्मविद्यापरम् । किन्तु ब्रह्मवाक्यमेवेति ॥ १४ ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च ॥ १५ ॥ उत्तरहेतूनां मध्ये हेतुद्वयमाह । गतिशब्दाभ्याम् । गतिब्रह्म- लोकगमनम् । एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्स एतं ब्रह्म- लोकं न विन्दन्तीति । एष आत्मा अपहतपाप्मा ससकामः सस- सङ्कल्प इति केवलभगवद्राचकाः शब्दा ब्रह्मलोकशब्दश्च । ननूक्तं जीवस्यैवेते शब्दा गतिश्च मनोरथादिकल्पितानामिति । तनिरा- करणायाह । तथाहि । तथैव गतिशब्दो भगवसेव युक्तौ । अनृ- तेनापिधानं हि तेषां विशेषणम् । अज्ञानावेष्टितत्वमित्यर्थः। न त्व- पक्षमुक्त्या सिद्धान्तं व्याचक्षते * उच्यत इत्यादि *। * न जीव इ- ति * वस्तुतो ब्रह्माभेदेऽप्यज्ञानकल्पितभिन्नभायो जीवो न । एता- हशस्य निवारणे अंशभूतस्य जीवस्य निवारणमनुक्तसिखम् । अत उभयविधोऽपि जीवो नेत्यर्थः । * उत्तरति * वाक्यशेषे । उभय- विधोऽपि जीवोऽत्र निराक्रियत इति बोधयितुं जीवस्वरूपमाहुः * जीवो नामेत्यादि * । * नापीत्यादि च * एतेन खोपपादनीयस्य प्रकारस्याकाल्पनिकत्वं बोधितम् ॥ १४ ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गश्च ॥ सूत्रमवतारयन्ति * उत्तरेत्यादि । व्याकुर्वन्ति * गतिरित्यारभ्य * युक्तावित्यन्तम् * गतेरशानकल्पितजीवपरत्वं यदुक्तं तत् परिहरन्ति * अनृतेनेत्या- दि *विरोधश्चेत्यन्तम् । *तेषामिति * प्रजाशब्दोक्तानां जीवाना- १ अध्याये ३ पादः। १९९ ज्ञानपरिकल्पितत्वम् । दृष्टत्वात् । तथैव हि दृश्यते । सर्वोऽप्याह, न किनिदवेदिषमिति । नच गन्तुरभाव एव । शास्त्रवैफल्यापत्तेः। न ह्यात्मनाशा पुरुषार्थः । कर्मकर्तृविरोधश्च । म् । अयमर्थः । पूर्वपक्षी हि जीवपरमात्मनोरज्ञानकल्पितं भेदं पार- मार्थिकमभेदं च वदन्नशानकार्यान्तःकरणावच्छिन्नत्वाजीवखरूप- मशानकल्पितं मन्यते । अज्ञाननाशेऽवच्छेदकनाशात् तन्नाशं चा- नुजानाति । आत्मनो व्यापकत्वाद् गमनागमने उपाधिनिष्ठे अङ्गी- कुर्वस्ते जीवास्मन्यौपचारिके मन्यते । तदिदमेतद्वाक्यविचारे विरु- द्भयते । अत्र हि ब्रह्मलोकेऽहरहर्गच्छतामपि ब्रह्मलोकाशाने हेतुभूतं विशेषणम, अनृतेन प्रत्यूढा इति । तत्रानृतपदस्याज्ञानवाचकत्वाङ्गी- फारेऽपि प्रत्यूढपद पिहितत्वमेव ब्रूते । अनृतापिधाना इति वाक्या- न्तरवारस्यात् । न तु तत्कल्पितत्वम् । कापि तथा अदर्शनात् । अतस्तस्याशानावेष्ठितत्वमर्थो, न त्वज्ञानकल्पितत्वम् । तत्र हेतुईष्ट- स्वम् । यतः सुप्वापादस्थितः सर्वोऽपि, न किञ्चिदवेदिषमिति सुषु- तो स्वस्याज्ञानावेष्टितत्वमेवाहेति हश्यते । यदि हि गन्ता अक्षान- कल्पितः स्यात् तदा जागरणे अज्ञाननाशे तस्यापि नाशात् स्मरणं नावकल्प्येत। अतो गन्तृत्वेन स्वाप्निकादीनां कल्पनमसङ्गतम् । ना- प्यवच्छिन्नस्य गन्तृत्वम् । प्रदेशानामचलत्वेनोपाधावेव तत्पर्यवसा. नात् । नचाराप्रमात्रत्वस्य बुद्धिगुणकृतत्वेनावास्तवत्वाद् वस्तुतो ब्रह्मरूपस्य जीवस्य व्यापकत्वेनौपचारिकमेव गमनमतो गन्तुरभाव एव वास्तव इति युक्तम् । तथा सति, अननुविद्य वजन्तीत्यादिना अज्ञानिनः फलाभावस्य श्रुत्यैवोक्तत्वेन, शानिनश्वाशाननाशाद् गमना- ऽभावस्य त्वया व्युत्पादितत्वेन, अथ य इहात्मानमनुविद्य ब्रज- जन्तीत्याधुक्तस्य गन्तुरनङ्गीकारे द्विविधगतिबोधकशास्त्रवैफल्या- पत्तेः । नचाराप्रमावस्य चरमवृत्तावेव नाशात् ततः पूर्व मूलाशानमावत्वेनाराममात्रत्वसत्तया गन्तुरपि सत्त्वान्न शा- खवैफल्यमिति वाच्यम् । तथा सत्यत्र गन्तृत्वेन विवक्षित- स्पात्मनश्चरमवृत्ती नाशात् तस्या वृत्तयत्वापत्तिः । नहात्मनाशः पुरुषार्थ इति । किन । जीवस्य वस्तुतो ब्रह्माभेदेन गन्तुरनङ्गी सप्रकाश अणुभाष्ये। तथा अपहतपाप्मत्वं च । सद्विरुद्धधर्माणामनुभवात् । भगवति तु इदानीमेव तेषामनुभवः । ध्यानादावुपलब्धेः। पृथिवीशराववदेव जीवब्रह्मविभागो, न त्वज्ञानकृतः। तथाहि । अज्ञानं नाम चैतन्यान्तर्भूतं तच्छक्तिरूपमनादि, उत बहिर्भूतम । साङ्ख्यवत् । न । बहिर्भूतं चेत् । साङ्ख्यनिराकरणेनै- व निराकृतम् । अन्तःस्थितायाः शक्तिरूपायाः स्वरूपाविरोधि- कारे, आत्मानमनुविद्य प्रजन्तीत्युक्तस्य शानक्रियायामात्मगन्त्रीः कर्मकर्तृभावस्यापि विरोधः । कृतकायन्यूहस्य योगिन इवोपाधिभे- देऽप्यात्मभेदस्फूरदर्शनात् । अप्रत्यकर्मकर्तृभावस्य च भेदमूल- कताया एकवचनबहुवचनयोः प्रयोगादेव स्फुटत्वादिति । एव- मनृतेन प्रत्यढा इत्यस्याज्ञानावेष्टितत्वमात्रबोधकत्वात् तस्य च सु- षुप्तिसाक्षिणा दृष्टत्वाज्जीवपरमात्मनोरंशांशिभावेन भेदसिद्धी त- गतेब्रह्मविषयकत्वमेव युक्तमिति हष्टत्वेन हेतुना साधितम् । अतः परं शब्दस्य ब्रह्मपरत्वं दृष्टत्वेन साधयन्ति * तथेत्यादि * अपहत. पाप्मत्वं च धर्मान्तराणामप्युपलक्षकम् । तेषां जीवपरतायामयु- क्तत्वे ब्रह्मपरतायां युक्तत्वे च सृष्टं प्रमाणत्वेन दर्शयन्ति * तद्विरुद्ध- त्यादि * । तथाचोभयत्रापि दृष्टस्यैव साधकत्वात् तेऽपि शब्दा ब्रह्म- परा एव युक्ता इत्यर्थः । ब्रह्मलोकपदस्य ब्रह्मपरत्वं पूर्वपक्षग्रन्थ एव साधितमतो नात्र शङ्कांशः । ननु ब्रह्मवादेऽपि सर्वस्य ब्रह्मात्मक- स्वाजीवब्रह्मणोरंशांशिभावजनकस्य विभागस्याज्ञानकृतत्वमेव वा- च्यम् । क्रियया विभागाङ्गीकारे ब्रह्मणोऽप्यनित्यत्वापत्तेः । अतो घट्टकुटीप्रभातन्यायापातात किं तन्मतदूषणप्रयासेनेत्यत आहुः। * पृथिवीत्यादि * । तथाच, बहु स्यामित्यादीच्छया कृत इति विभाग- पत्तयैवाविभागोऽपि पृथिवीशरावदृष्टान्तादेक सिद्ध्यतीति न दोष इत्यर्थः। ननु विभागस्याज्ञानकतत्वेऽप्येतत्तुल्यमित्याकाङ्क्षायां तद् दू- षयितुमज्ञानं विकल्पयन्ति * तथाहीत्यादि * द्वितीयपक्षदूषणं स्फु- टम् । प्रथम दूषयन्ति * अन्तरित्यादि * । अयमर्थः । यदि सा खरूपाविरोधिनी तदा स्वरूपभूताजीवान् न व्याप्नुयात् । अथ १ अध्याये ३ पादः। ४०१ न्या न स्वरूपविभेदकत्वम् । आश्रयनाशमसङ्गात् । कल्पनाया. थामामाणिकत्वात् । बहिःस्थितस्यैव हि भेदकत्वम् । कुठारादि- वत् । नापि वायुवत् । तच्छक्तित्वात् । किञ्च । कोऽयं ब्रह्मवादे प्रद्वेषो येन मिथ्यावादः परिकल्प्यते । अज्ञानादिति चेत् । पीत- शङ्खमतिभानवद्युक्तं मतकरणम् । ब्रह्मविदुपासनयानुगमिष्यति । शर्करामक्षणेनेव पीतिमप्रतीतिः । सर्वनेन हि वेदव्यासेन भाविमिथ्यावादनिराकरणेनेदमधिकर- खरूपविरोधिनी तदा जीवानिव परमात्मानमपि व्याप्य जीवमिवतं कुर्यात् ।तथा सति तस्या आश्रयनाशप्रसङ्गादू ब्रह्मशक्तित्वमपिभज्ये. त । यदि च तस्यास्त्रिगुणात्मकत्वमुपगम्य शुद्धसत्त्वेनेश्वरोपाधित्वं, मिश्रसत्वेन जीवोपाधित्वमित्येवं स्वरूपाविरोधविरोधाविरोधा. भ्यां विभेदकत्वं कल्प्येत तदा श्रुत्याउनुक्तत्वेन तस्याः कल्पनाया एवाप्रामाणिकत्वादसङ्गतमेव विभेदकत्वम् । यतो लोके शास्त्रे व बहिःस्थितस्यैव भेदकत्वं कुठारादिवत् । ननु, नासिके निरभिधेर्ता दोघूयति नभखतीत्यत्रान्तःस्वस्यापि वायो)दकत्वं इष्टमिति चेत् तबाहुः । * नापीत्यादि *। तथाच वायोरन्तःस्थत्वेऽपि ब्रह्माण्डश- क्तित्वाभावादेतस्यास्तु ब्रह्मशक्तित्वाद् इष्टान्तवैषम्येणायं पक्षोऽप्य- सङ्गत इत्यर्थः । एवं जीवब्रह्मभेदस्याज्ञानिकत्वं दूषयितुमक्षानं वि- कल्प्य दृषितम् । अतः परं तन्मतस्य प्रत्यक्षश्रुतिविरुद्धत्वाय दृष- पान्तरमाहुः । * किश्चेत्यादि । बहु स्यामिति प्रत्यक्षभुतिसिद्ध प्रह्मवादे कोऽयं प्रद्वेषो येन प्रपञ्चमिथ्यावादः कल्प्यते । प्रत्यक्षा- दिना प्रपचे ब्रह्मत्वाज्ञानादिति चेत् । तर्हि • पीतशोत्याधुक्तरीत्या सत्सङ्गेन ताशाज्ञाननिवृत्ती तदादरस्यापि निवृत्तेरपार्थ मतकर- पमित्यर्थः । ननु भवत्येवं, तथाप्येतस्य मतस्याधुनिकत्वादेतमिरा- करणायाधिकरणप्रणयनकथनं त्वयुक्तमेवेत्यत आहुः।* सर्वक्षेनेत्या- दि** निराकरणेनेति हेतौ ततीया । प्रकृत्यादिभ्य उपसंस्थान- ४०२ सप्रकाशे अणुभाष्ये। णमारब्धम् । तम्माज्जीवानामेवाज्ञानदर्शनाद् ब्रह्मणः सर्वज्ञत्वद- र्शनाद् गतिशब्दौ ब्रह्मविषयावेव, न जीवविषयौ । किञ्च, लिङ्गं च वर्तते । यथैवेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयत इति । न हि स्वाज्ञानं स्वस्य सम्भवति । हिताकर- णप्रसक्तिश्च । नच ज्ञानेन सामर्थ्य मुद्बुद्धमिति वाच्यम् । विरोधि- लात्। न हि ज्ञाने जाते कर्तृत्वमस्तीति विप्लववादिनोऽङ्गीकुर्वन्ति । मिति वार्तिकात् स्वरूपे वा । तथाच पुराणेषु भाविमूनोक्तिकथन- वदत्र भाविमिथ्यावादनिराकरणेन हेतुना वा निराकरणरूपं वा इदमधिकरणमतस्तथा कथनं नायुक्तमित्यर्थः । सिद्धमाहुः । * त- स्मादित्यादि * अत्र दर्शनद्वयं क्रमेण गतिशब्द यांस्तथात्वसाधक क्षेयम् । एवं दृपं व्याकृत्य लिङ्गं व्याकुर्वन्ति। * किच, लिङ्गमित्या- दि * । गतिशब्दयोर्ब्रह्मपरत्वे लिङ्गमपि वर्तते इत्यर्थः । पूर्व गते- लिङ्गं व्युत्पादयन्ति । * यथेत्यादि * । अत्र हि वाक्यशंषे, तद्य इहात्मानमननुविद्य ब्रजन्तीत्यात्माज्ञानं लोकक्षयहेतुत्येनोच्यते । य- धात्मा ब्रह्माभिन्नः स्यात् तदा अपहतपाप्मादिगुणकत्वात् म्वस्य स्वाशानं न सम्भवति । अत इदमज्ञानं जीवस्य ब्रह्मभिन्नत्वं बोधय- द्रतेब्रह्मविषयत्वे लिङ्गमित्यर्थः । किञ्च । यदि गन्तृणां मनोरथा- दिकल्पितत्वं स्यात् तदा अज्ञानिवज्ज्ञानिनामपि तेषां मिथ्यात्वात् तेषु सर्वलोककामचाररूपहितस्याप्यकरणप्रसक्तिः । अत इदं हित- करणमपि गतेः सत्यजीवकर्तृकत्वं बाधयद्गतेर्जीवभिन्नब्रह्मविषय- त्वे लिङ्गमित्यर्थः । नन्विदं हितकरणं न गतर्जीवभिन्नब्रह्मविषयत्वे लिङ्गम् । ज्ञानेनाशाननाशात् कल्पितरूपनिवृत्ती सामोबाधेन ब्रह्माभिनेऽपि तस्मिन् हितस्योपयोगादित्यत आहुः । * नचंत्यादि * * विरोधित्वादिति * अनुविद्य वजन्तीति श्रुत्युक्तव्रजनविरोधि- त्वात् । तदेव व्युत्पादयन्ति * न हीत्यादि * तथाचैवं कल्पनस्या- सङ्गतत्वाद्धितकरणस्य जीवभिन्नब्रह्मविषयकगतिलिङ्गत्वमक्षुण्णमि- स्यर्थः । एवं गलिङ्गं व्याख्याय शब्दस्य तथात्व लिङ्गं व्युत्पाद- १ अध्याये ३ पादः। विरुद्धा च कल्पना । अहं ब्रह्मास्मीति । अत एव सर्वभाव- श्रुतेः । तज्ज्ञानं च तस्य सार्वज्ञे लिङ्गम् । तस्य हि स गुणो भग- शब्दवाच्यानामन्यतरः । स चेन्जीवे समायाति तत्कृपया तम्येवा. स्यापि माहात्म्यं भवति । तम्माल्लिङ्गादपि गतिशब्दौ ब्रह्मविपयौ। चकारात्, तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयना. येति श्रुखा ब्रह्मत्वेन ज्ञानं नात्मनो मोक्षाय। ब्रह्मण एव तु ज्ञान- मात्मत्वेनापि । यन्ति * विरुद्धत्यादि * जीवस्य ब्रह्माभिन्नत्वकल्पनापि श्रुतिवि- रुद्धा । बृहदारण्यके, तद्यो यो देवानां प्रत्यबुद्धयत तथर्षीणां तथा मनुष्याणामित्यनेकजीवानुपक्रम्य, तदिदमप्येतर्हि य एवं वेदाहं ब्र- ह्यास्मीति स इदर सर्व भवतीति ज्ञानानन्तरमेव श्रुतेः । यदि हि जीवस्य ब्रह्माभेद एव स्यात् तदा ब्रह्मणः सर्वभावस्य पूर्वमुक्त- त्वात् पुनस्तत्सजातीयेन मानेन पश्चाजीवानां सर्वभावं न वदेत् । प्रागुक्तेनेव चारितार्थ्यादिति । नच पाश्चात्याद् ब्रह्माऽहमिति शाना- त्तदभेदसिद्धिः । यतस्तज्ज्ञानं जीवस्य सर्वज्ञत्वे लिङ्गम् । यदि हि सर्वज्ञो न स्यात् स्वस्य ब्रह्मात्मत्वं नानुसन्दध्यादिति । तच्च ज्ञान भगवत एव गुणो, भगशब्दवाच्यानामैश्वर्यादीनामन्यतम इति पा- श्चात्यत्वाद् गम्यते । स च तत्कृपया जावे समायाति । तदा भ- गवत इव जीवस्यापि माहात्म्यं भवति । यथा वामदेवादेः । एवं प्रकृतेऽपि सर्वलोककामचारसत्यसङ्कल्पादिरूपं माहात्म्यमपि भग- महत्तश्चर्यरूपत्वाजीवभिन्नब्रह्मज्ञाने लिङ्गम् । तस्मादप्यपहतपाप्मा- दिरूपः शब्दो जीवभिन्नब्रह्मपर इति । एवं साधयित्वा निगमय- न्ति * तस्मादित्यादि * । सौत्रस्य चकारस्य प्रयोजनमाहुः । * चकारादित्यादि * । * ब्रह्मत्वेन झानं नात्मनो मोक्षायेति * । आ- मनो ब्रह्मत्वेन शानं न मोक्षायेति योजना । अयमर्थस्तूक्तश्रुतिस्थात्, तमेवेति तत्पदसम्बन्धादेवकाराद् गम्यते । एवञ्च, य एवं वेदाहं ब्रह्मास्मीति पुरुषविधब्राह्मणोक्तं ज्ञानं सर्वभावमात्रफलकत्वात् पू. कक्षवेति । वस्तुतस्तु तत्रापि पूर्व ब्रह्मणः सर्वरूपत्वज्ञानानन्तर- ४०४ समकाशे अणुभाष्ये। तस्माद् दहरः परमात्मा ॥ १५ ॥ मेवैवं ज्ञानमिति न विरोधः । एवमहंग्रहोपासनेऽपि बोध्यम् । सि- बमाहुः । * तस्मादित्यादि * एवं इष्टलिङ्गाभ्यामुपष्टन्धादं गतिश- दरूपाखेतुद्वयात तथेत्यर्थः । शङ्कराचार्यादयस्तु, गतेब्रह्मपरत्वं, सता सौम्य तदा सम्पन्नो- भवतीति भुत्यन्तरे दृष्टम् । एतदेवाहरहर्ब्रह्मलोकगमनं रटं ब्रह्म- लोकपदस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गमिति व्याचक्रुः। रामानुजाचार्यास्तु, एवमेव खलु सौम्येमाः सर्वाः प्रजाःसति सम्पद्य न विदुः सति सम्पद्यामह इति, सत आगम्य न विदुः सत आगच्छाम इति च गतेब्रह्मपरत्वे हष्टम् । एष ब्रह्मलोकसम्राडिति होवाचेति ब्रह्मलोकशब्दस्य ब्रह्मपरत्वे हष्टम् । दहराकाशं प्रकृत्य सर्वेषां क्षेत्रज्ञानां प्रलयकाल इव सुषुप्तिकाले श्रूयमाणं गमनमव- सानं तस्य दहरस्य ब्रह्मपरत्वे पर्याप्तं लिङ्गम् । तथा ब्रह्मलोकशब्दश्च समानाधिकरणवृत्त्याऽस्मिन् दहराकाशे प्रयुज्यमानोऽस्य ब्रह्मपर- त्वे पर्याप्तं लिङ्गम् । निषादस्थपतिन्यायाश्च षष्ठीसमासात् समाना- धिकरणसमासो न्याय्यः । अथवा, अहरहर्गच्छन्त्य इति न सुषु- तिविषयम् । किन्त्वन्तरात्मत्वेन वर्तमानस्य दहराकाशस्य परम- पुरुषार्थभूतस्योपर्युपरि गच्छन्त्यः सर्वस्मिन् काले वर्तमानास्तम- जानन्त्यस्तं न विन्दन्ति न लभन्ते यथा हिरण्यनिधिं निहितं तद- जानाना इति । एषा अजानतीनां प्रजानां सर्वदा गतिरस्य दहरा- काशस्य ब्रह्मतां गमयति । परस्य ब्रह्मणोऽतरात्मतयाऽवस्थितस्य स्वस्मिन् वर्तमानाभिः प्रजाभिरवेदनमन्तर्यामिब्राह्मणे दृष्टम् । य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य मात्मानमन्तरो यमयतीत्येवं गतेब्रह्मपरत्वे हएं लिङ्गञ्च द्विधा व्याचक्रुः । मध्वाचार्यास्तु, उत्तरेभ्य इत्यस्य, एष आत्माऽपहतपाप्मा सोऽन्वेष्टव्यः स विजिशासितव्य इत्युत्तरप्रकरणस्थां श्रुति हेतुबो- धकत्वेनोपन्यस्य, गतिशब्दसूत्रे दहरप्रकरणस्थयोर्गतिशब्दयोरप्रि- मसूत्रस्थधृत्यादेश्व पृथग्धेतुत्वमाहुः ।
१ अध्याये ३ पादः। ४०५ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥ अपरं हेतुमाह । धृतेः । अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदायति । तत्र पूर्वप्रकरणस्यहेतूननाहत्य वादकवलितानां हेतूनां पूर्व किमर्थमादरस्तैर्दहरस्य परमात्मत्वसिद्धौ च किमर्थं सूत्रान्तरप्रण- यनं, तेषां निर्विवादत्वे वा, इतरपरामर्शादिसूत्राणां किमर्थमारम्भ- इति चिन्त्यम्। यदपि जयतीर्थः । यो वेद निहितं गुहायां, तस्यान्ते सुषिर सूक्ष्म, हृद्येष आत्मेति श्रुतिभिर्ब्रह्माकाशजीवेषु साधारणस्य हृदय- पद्मस्थत्वलिङ्गस्य भगवति समन्वयप्रतिपादनादस्ति शाखादिस- तिरित्याह। तत्रापि सूत्रकृता दहरपदोच्चारणाहहरत्वेन पक्षत्वं बोध्य- ते । न तु हृत्पद्मस्थत्वेनेति तस्य विचारविषयत्वमेव चिन्त्यम् । कथञ्चित् तद्विषयत्वापादनेऽपि तस्य जीवाकाशसाधारण्यस्यापरि- हारादधिकरणवैयर्थ्यस्यापि प्रसक्तिरित्यवधेयम् । एवं रामानुजाचार्यमतमपि विषयवाक्यगतस्य रष्टस्य लि- ङ्गस्य सिद्धान्तोक्तरीत्या प्राप्तस्याविचारेणान्यत्रिकस्य तस्य ग्रहणा- चिन्त्यम्। एवं शाडूरेऽपि बोध्यम् । किञ्च, परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्य इतिवद्, दहरो गतिशब्दधृतिमहिमप्रसिद्धिभ्य इत्येवं वक्तुं शक्यत्वेऽपि यदु- त्तरेभ्य इत्युत्तरवाक्यगतत्वेनैवाल्लेखः सूत्रकृता कृतो, न खेन स्पेणातो ज्ञायते, एते हेतवः साध्यत्वेनैव सूत्रकारस्याभिमता इति । यदि हेतूनां सिद्धत्वं स्यात् तदा खेनैव शब्देन वदेत् । गत्यादिसूत्राणि च न प्रणयेत् । अतस्तेषां स्वतन्त्रतया व्याख्यानम- पि चिन्त्यम् ॥ १५॥ धृतेश्च महिम्नोऽस्याऽस्मिन्नुपलब्धेः॥ सूत्रमवतारयन्ति । * भपरमिति * । उसरेभ्य इत्यनेन हेतुबाहुल्गस्य प्रतिज्ञातत्वात् तत्पू- रणार्थमन्यं हेतुमाहेत्यर्थः । विषयवाक्ये विधृतिशब्दः, किच्को च ४०६ सप्रकाशे अणुभाष्ये । न हि सर्वलोकविधारकत्वं ब्रह्मणोऽन्यस्य सम्भव- ति । चकारात् सेतुत्वमपि । तदन्वेष्टव्यं तद्विजिज्ञासितव्य- मिति लोकविधारणस्य माहात्म्यरूपत्वात् तस्यैव कर्मत्वमिसाह । महिन इति । महिमैष पुरुषस्य, न तु वासनारूपेण तम्मिन् वि- द्यमानत्वम् । संसारिधर्मत्वेनामाहात्म्यरूपत्वात् । नच विरुद्धमुभ- यत्रैकस्य दर्शनमिति वाच्यम् । अस्याऽस्मिन्नुपलब्धेः । अस्य ए- तादृशविरुद्धधर्माश्रयमाहात्म्यस्यास्मिन् भगवसेवोपलब्धेः। ज्याया- नाकाशाद्, यावान् वा अयमाकाशः, अणुः स्थूल इति । यशोदा- संशायामित्येतद्विहितकर्थकक्तिजन्तः । तथाच विधारक इत्यर्थः । तदत्र विधारकत्वं सूत्रे धृतिपदेनोच्यत इत्याशयेन हेतुं व्याकुर्व- न्ति । * न हीत्यादि * । * सेतुत्वमिति * स्वयं साधनीभूय निः- साधनपारप्रापकत्वम् । श्रुतौ त्वसम्भेदपदमसार्यबोधकम् । अ- ग्रिमं व्याकुर्वन्ति * तदित्यादि * । उक्तश्रुतिनिरूपितमन्वेषणादिक- मत्वम् । तस्य * विधारणस्येत्याशयेन हेत्वन्तरमाहेत्यर्थः । * महिमे- त्यादि * पुरुषसूक्ते, एतावानस्यति मन्त्रे महिम्नो ब्रह्मज्यायस्त्वग- मकत्वं भ्रुत्यवोक्तमतोऽस्मान्महिम्नोपि तथेत्यर्थः । एवञ्च लोक- धारणस्य स्खेन रूपेण महिमत्वेन रूपेण चेति वेधा हेतुत्वमित्याश- यः । लोकविधारणस्य कथं महिमरूपनेत्यतस्तद् व्युत्पादयन्ति * नचेत्यादि * । एकस्य द्यावापृथिव्यादेरुभयन * अन्तर्बहिश्च दर्शनं विरुद्धमिति न वाच्यमित्यर्थः । ज्यायानित्यत्राकाशादाधिक्यस्य, यावानित्यत्र तत्तौल्यस्य, अणारणीयान् महतो महीयानित्यत्राणुः स्थूल इति प्रत्यक्षश्रुती, श्रीयशोदादिभिश्चैकस्यैव प्रपञ्चस्य यहि श्व मुखान्तश्चोपलब्धेविरुद्धधर्माधारत्वस्य स्फुटत्वान्महिमरूपत्व- मित्यर्थः । नच तन्मायया प्रदर्शितमिति वाच्यम् । ' किं स्वप्न एत- दुत देवमाया किं वा मदीयो बत बुद्धिमोहः । अथो अमुप्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥ अथो यथावन्न वि- तर्कगोचरं चेतोमनःप्राणवचोभिरञ्जसा । यदाश्रयं येन यतः प्रती- यते सुदुर्विभाव्यं प्रणताऽस्मि तत्पदम्' इति मायादिपक्षनिराकर- १ अध्याये ३ पादः। ४०9 दयश्च बहिःस्थितमपि जगदन्तः प्रपश्यन्ति । न त्वेतादृशो जीवो भवितुमर्हति । तस्माद् ब्रह्मैव दहरः ॥ १६ ॥ प्रसिद्धेश्च ॥ १७ ॥ आकाशशब्दवाच्यत्वप्रसिद्धिः । अपहतपाप्मत्वादिमसिद्धिः । किं बहुना प्रकरणोक्तसर्वधर्मप्रसिद्धिर्भगवसेव, न जीवे सम्भवस- तोऽपि भगवानेव दहरः । चकाराद्विधिमुखेनाधिकरणसमाप्तिः सूचिता ॥ १७ ॥ अन्यनिषेधमुखेन पुनर्विचारयति । इतरपरामात् स इति चेन्नासम्भवात् ॥ १८ ॥ ननु ब्रह्मैतादृशं, जीवो नैतादृश इति न कचित् सिद्धमस्ति । श्रुसेकसमधिगम्यत्वादुभयस्वरूपस्य ब्रह्मवादे । अतो यथा सर्वत्र णपूर्वकं भगवद्योगदर्शनकारणतास्थापनादिति । तदेतन्निगमयन्ति * नत्वित्यादि * ॥ १६ ॥ प्रसिद्धेश्च॥* प्रकरणोक्तसर्वधर्मप्रसिद्धिरिति । अरश्च ह ण्यश्चार्णवी ब्रह्मलोके इत्यादिनोक्ता । ऐरसरःसोमसवनाश्वत्थाऽप राजिताख्यग्रह्मपुरप्रभृतिसर्वधर्मप्रसिद्धिः । एतदुपबृंहणं च ' अरना माऽमृताम्भोधिय॑नामाऽमृतसागर' इति वाराहे चातुर्मास्यमाहात्म्ये तदुभयान्तःस्थश्रीभागास्यनित्यभगवल्लोकप्रसिद्धिः ।पुराणान्तरेऽन्ये षां च धर्माणां भगवदीयत्वप्रसिद्धिश्चति क्षेयम् ॥ १७ ॥ • इतरपरामर्शात् स इति चेन्नासम्भवात् ॥ अन्न चतुःसूत्र्य भूताऽऽकाशवारणं, ततोऽग्रिमचतुःसूत्र्या जीववारणमिति रामानु जाचार्या मेनिरे । प्रकृते त्वादित एव जीवब्रह्मवादो निवारित इत्य स्याश्चतुःसूत्र्याः किं प्रयोजनमत आहुः । * अन्यनिषेधेत्यादि *त थाच तत्र दहरस्य जीवव्यतिरिक्तपरमात्मत्वं स्थापितम् । अत्र त्वि तरस्य दहरत्वं दूषयतीति नानर्थक्यमित्यर्थः । आशङ्करंशमवतार यन्ति । * नन्वित्यादि * जीवासाधारणधर्माणां प्रदर्शनार्थ पराम ४०८ समकाशे अणुभाष्ये । ब्रह्मणोऽसाधारणधर्मदर्शनात् तत्तत्मकरणं ब्रह्मण इति निश्चीय- ते । एवमिहापि जीवस्यासाधारणधर्मदर्शनाजीवपकरणमिति कुतो न निश्चीयते । निश्चिते तु तस्मिन्नाकाशतुल्यत्वादयो धर्मा जीवस्यैव भविष्यन्ति, नान्यस्येसभिप्रायेणाह । इतरपरामर्शात सः । इतरो जीवस्तस्य परामर्शः । उपक्रमोपसंहारमध्यपरामर्शीःस- न्दिग्धे निर्णयः । तत्रात्मविदः सर्वान् कामानुक्त्वा मध्ये, अथ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते एष आत्मेति होवाचैतदमृतमभयमियादि मध्ये । अग्रे, य आत्मा स सेतुरिति । तत्र सम्प्रसादः सुषुप्तिः । जीवावस्था । तत्र परसम्बन्धनि- मित्वेन स्वेनैव रूपेणाभिनिष्पत्तिवचनाजीव एवैतादृश इति गम्य- ते । न पत्र परमात्मनोऽयं धर्मः सम्भवति । अतः सर्वमेव प्रकरणं शंमुदाहरन्ति । * तत्रात्मविद इत्यादि * । * अभयमित्यादीति * उक्त्वोत शेषः । * सेतुरिति * । वक्तीति शेषः । उपक्रमे, स यदि- त्यादिकथनेन स्फुटत्वान्मध्यस्य जीवपरत्वं व्याकुर्वन्ति *तप्रेत्यादि* अत्र मध्ये तद्यथापि हिरण्यनिधिमित्यनात्मविदो ब्रह्मसमीपगमने- पि ब्रह्माप्राप्ति प्रतिपाद्य आत्मनो हृदि स्थितिं यत् प्रतिपादयति तद ब्रह्मविदः प्रशंसार्थम् । ततोऽथ य एष सम्प्रसाद इत्यादिना तस्यैवा- त्मनो मध्ये ब्रह्मत्वं प्रतिपाद्याग्रे समाप्ती, अथ य इत्यादिना सेतुत्व. मात्मनो धक्ति । तत्र मध्ये उक्तस्य सम्प्रसादस्य जीवावस्थाविशेषत्वं वृहदारण्यके, अस्मिन् सम्प्रसादे रत्वा चरित्वेत्यत्र सिखम् । अत्र व तस्यामवस्थायां परसम्बन्धेनास्य स्वरूपाभिनिष्पत्तिवचनं जीवा- साधारणं लिङ्गम् । तेनोपक्रमगतमात्मवेत्तृत्वमपि स्ववेत्तृत्वरूपं जीवस्यैव धर्म इति गम्यते । अज्ञानस्य जीवधर्मत्वं तु स्फुटमेव । म- ध्यवर्तित्वं च सेतुत्वम् । तेन तथात्वं तस्यापि । तथाचात्र प्राप्यत्वा- दिना ब्रह्मणः प्रतिपादनेपि, न तस्य प्रकणित्वम् । अतो जीव एष १ अध्याये ३ पादः। ४०९ जीवपरं भविष्यतीति स एव जीव एव प्रकरणार्थ इति चेत् । न। जीवस्तादृशो न भवति। विरुद्धधर्मत्वेनैव सर्वत्र तनिश्चयात् । उभ- योरेकरूपत्वे घुभयत्वमेव न स्यात् । ऋतं पिबन्ताविसादिवाक्य- विरोधश्च । अतो न जीवस्तादृश इसभिप्रायेणाह । असम्भवात् । न हि जीवे जगदाधारत्वादिकं सम्भवति । न हि परामर्शमात्रेण सर्ववेदान्तविरुद्धं कल्पयितुं शक्यते । परामर्शस्यान्यार्थत्वमुत्तरत्र वक्ष्यति । तस्माद् दहरो जीवो न भवितुमर्हति । वाक्यार्थो यथो- पपद्यते, तथोत्तरत्र वक्ष्यते । ब्रह्म त्वेकमेव, नोभयमिति नि- श्चयः ॥ १८॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ उत्तरात् प्रकरणात् प्राजापसात् । तत्र हि दिव्ये चक्षुषि मनोरूपे प्रतीयमानो जीव एवाऽमृताऽभयरूपो निरूपितः । , प्रकरणार्थ इत्यर्थः । एवमितरपरामर्श व्याख्याय तस्यासाधकत्वं स्फुटीकुर्वन्ति * नेत्यादि * I * तादृश इति * प्रकरणार्थः। * त- निश्चयादिति * जीवत्वनिश्चयात् । तथाच स्याजीवः प्रकरणी। यदि ब्रह्मविरुद्धधर्मत्वं जीवस्य सर्वत्र नोच्येत । उच्यते तु तदतो नात्र जीवः शक्यवचन इत्यर्थः । ननु पूर्वमुक्तं यजीवानातिरिक्तं ब्र- ोति, विरुद्धधर्माणां त्वध्यास इति । अतस्तदङ्गीकारे को दोष इत्यत आहुः । * उभयोरित्यादि * । असम्भवं व्याकुर्वते * न हि जीव इत्यादि * हृदयान्तर्वर्तिनि जीवे अखिलजगदाधारत्वस्यास- म्भवादित्यर्थः । गतिशब्दयोरुपपादनसापेक्षत्वात्तदुभयमन नोक्तम् । तहि परामर्शस्य का गतिरित्यत आहुः । * न हि परामर्शेत्यादि । * नोभयमिति * नावस्थाभेदभिन्नम् । स्फुटमन्यत् ॥ १८ ॥ उत्तराश्चेदाविर्भूतस्वरूपस्तु ॥ तस्य प्रकरणस्य जीवपरत्वं व्युत्पादयति । * तत्रेत्यादि * । * दिव्ये चक्षुषि मनोरूपे इति * मनोऽस्य देवं चक्षुरिति प्रजापतिना वक्ष्यमाणत्वाद्, य एषोऽक्षिणि ४१० सपकाने अणुभाष्ये । तस्यैवोदशरावे जाग्रत्साक्षित्वं, तदनु स्वप्नसाक्षित्वं, सदनु मुषुप्ति- साक्षित्वं निरूप्य सर्वत्र तस्याऽमृतरूपत्वमेव निरूप्यावस्थानाम- सात्विकत्वमुक्या समाध्यवस्थायां मनसि तमेव जीवं तादृशं प्र- तिपादयति । अतो जीवोऽपि वस्तुतस्तादृश एवेति प्रकृतेऽपि परामर्शान् स एवेति चेत् । एवमाशङ्कय परिहरति तुशब्देन । नायमर्थो दृष्यते, किन्तु किञ्चिदन्यदस्तीति न नकारप्रयोगः । पुरुषो दृश्यत इत्यत्रोपदिश्यमाने तस्मिन् । नन्वग्रे, योऽयं भगवो- ऽप्सु परियायते यश्चायमादर्श कतम एप इति प्रश्ने, पप उ एवंषु सर्वेष्यन्तरेषु परियायत इति प्रत्युत्तरात् प्रतिबिम्बपुरुष एवान प्रतीयत इति कथमस्य मनसि प्रतीयमानजीवरूपत्वमित्यत आह । * तस्पेत्यादि * । यदि हि प्रतिविम्बात्मैवात्रोपदेश्यः स्यात् तदा. उ- दशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्म प्रतमित्यनेन यत्सम्बन्धिप्रतिविम्ब अशातं तस्यात्मत्वं बाधितम् । ततस्ताभ्यामु- दशराबवेक्षणेन शरीरस्यात्मत्वं स्वज्ञानविषये बाधित ततोऽपि नि- पार्य जानत्साक्षिणं मनस्यहवित्या प्रतीयमानं वार्धायतुं साध्वल- ती सुवसनौ परिष्कृती भूत्वोदशरावेऽवक्षथामित्यादिना, एप भास्मेति वाक्येन द्रष्टात्मा बाधितः । ततस्तावता तदशान देहात्म- सामवत पराभवं तेषामसुरत्वं चीक्त्वा तत इन्द्रस्य पुनः प्रत्याग- मने तं प्रति जीवस्यैव खमसाक्षित्वे पुनः सुषुप्तिसाक्षित्वादिकं प्र- तिपादयति । अतोऽत्र जीव एवोपदंएव्या, न प्रतिबिम्बा, नापि शरीरमित्यर्थः । तेन सिखमाह * अत इत्यादि *। * ताहश इति- भामृताऽभयादिरूपत्वादपहलपाप्मादिम्पत्वाच्च वस्तुनो ब्रह्मात्मक एवोत्तरप्रकरणे सिद्ध इति पूर्वत्रापि स एव ग्राह्य इत्यर्थः। परि- हारं व्याकुर्वते * एयमित्यादि * । ननु प्रकरणस्य जीवपरत्वं निरा- कार्य अत्र नकारः कुतो नोक्त इत्यत आहुः । * नायमर्थ इत्यादि * * किञ्चिदिति * तन कारणम् । ताई कथं परिहार इत्यत आहुः ।
१ अध्याये ३ पादा। ४११ तदाह । आविर्भूतस्वरूपः । स्वाप्ययसम्पत्त्योभगवदाविर्माको जीवे भवति । नृसिंहोपासकस्य नृसिंहाविर्भाववत् । ब्रह्मण उप- देशसमये भगवदाविर्भावात् । सर्वत्र स्वात्मानं पश्यमिन्द्रेऽपि तथै- वोपदिष्टवान् प्रजापतिः । अन्यथा प्रतिबिम्बादावमृताऽभयवचनं मिथ्या म्यात् । इन्द्रे त्वाविर्भावाभावात् प्रजापससन्निधाने वि- परीतं पश्यति । अतस्तावन्मात्रदोपपरिहारायान्यथोपदेशः । स्व- . * तदाहेति * तस्माद्धेतोः कारणभूतं प्रकारमाहेत्यर्थः। * आधि- भूतस्वरूप इति * प्रजापतिवाक्ये परं ज्योतिरुपसम्पद्य स्खेन रू. पेगाभिनिष्पद्यत इति श्रावणात् । आविर्भूतं प्रकटीभूतं ब्रह्मस्व- रूपं यस्मिन् स तयेत्यर्थः । आविर्भाव एव कथमित्यत आहुः । . स्वाप्ययेत्यादि * अनुगमाधिकरणे, मय्येव सकलं जातमित्यादिवा- क्यानुरोधादुत्तमाधिकारिणामुपदेशभावनादिवपि जीवे ब्रह्मस- म्पत्तिर्भवतीत्युपपादितम् । अतोऽत्रापि प्रजापतिजीवे ब्रह्माविर्भा- वाजीवे अमृताऽभय पत्वाद्युपदिश्यते । न तु जीवो वस्तुतस्तथे त्यर्थः । नन्वेवमर्थो कावत्र कि गमकमत आहुः । * अन्यथेत्यादि । * प्रतिबिम्बादावित्यत्रादिपदन शरीरसंग्रहः। तथाच यदि पुरःस्फू- र्तिकमाद्रियते, तदा बाधितार्थत्वप्रसङ्गः । यदि चतं त्वेव त इत्या- दिवाक्यानुरोधात् प्राकरणिकमाद्रियते, तदा तु प्रजापतिना खा- भिसंहितस्य परमात्मन एवानुव्याख्येयत्वकथनादिन्द्रस्य तदबोधेन तत्र जीवोक्तिभ्रमे निवृत्त्यर्थ तस्य परं ज्योतिःसम्बन्धेन स्वरूपा. भिनिष्पत्तिवचनान्न तस्य तथात्वं स्वाभाविकमपि तु ब्रह्मस्वरूपा- विर्भावकृतमेवेति नेतदनुरोधेन पूर्वप्रकरणेऽपहतपाप्मत्वादिगुणकत्वं प्रकरणित्वं च जावे वक्तुं शक्यम् । प्रजापतिवाक्येऽपि जीवस्य प्रकरणित्वेनासिद्धत्वादित्यर्थः । नन्वेवं सतीन्द्रस्य कुतः सन्देहस- म्भव इत्यत आहुः । * इन्द्रे त्वित्यादि * । * प्रजापत्यसन्निधाने इति * अन्यथा तदानीमेव व्युत्तिष्ठेदनाप्तत्वं वा प्रजापती निधि- नुयात् । * तावन्मात्रदोषपरिहारायेति * स्वासनिधाने विपरीत- दर्शनपरिहाराय । * अन्यथोपदेश इति * देहादिविलक्षणतयोपदे- ४१२ सप्रकाशे अणुभाष्ये । मादिषु तथा प्रकृतेऽपि । स्वप्नावस्थायां भगवदाविर्भावात् तथा वचनम् । तस्मादुभयमपि भगवत्प्रकरणमेव । एवमन्यत्रापि भगवदावेशकृता भगवद्धर्माभिलापा ग्राह्याः । तस्मादहरः पर- मात्मैव ॥ १९॥ अन्यार्थश्च परामर्शः ॥ २० ॥ परामर्शस्य प्रयोजनमाह । अन्य एवार्थः प्रयोजनं यस्य । तस्माद यमहरहर्वा एवंवित् स्वर्ग लोकमेति । स्वस्यैवं ज्ञाने हि ब्रह्मसुखं फलं ब्रह्मज्ञानापेक्षायामुपयुज्येत । भगवतश्च तदाविर्भा- शः। * तथा वचनमिति * स्वरूपाभिनिष्पत्तिवचनम् । शेष स्फुटम् ॥ १९॥ अन्यार्थश्च परामर्शः ॥ सूत्रमवतारयन्ति * परामर्शस्येत्या- दि *। सोऽर्थः को वेत्यपेक्षायामाहुः । * तस्मादित्यादि * प्रथमे प्र- करणे, तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति, तानि ह वा एतानि नीण्यक्षराणि सति यमिति। तद्यत् सत् तदमृतमथ यत् ति तन्मर्त्य- मथ यदू यं तेनोभे यच्छति । यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित् स्वर्ग लोकमेतीति वाक्ये स्वस्य भगवद्विषयके अमृतमय॑य- मयितृत्वज्ञाने सति ब्रह्मसुखं फलमुक्तम् । अतस्तत्साधनभूतब्रह्मशाना- उपेक्षायाममृतभूतजीवज्ञानमुपयुज्यत । युक्तं चैतत् । न हि यन्तव्य- ज्ञानं विना तद्यमयितृत्वं ज्ञातुं शक्यते । अतो मर्त्यस्य प्रसिद्धत्वादमृ- तज्ञापनार्थ जीवपरामर्श इत्यर्थः । किञ्च । इतः पूर्वमथ य एष स- म्प्रसाद इत्यादिना स्वरूपाभिनिष्पत्तिकथनात् तदा शानदशायां भ- गवदाविर्भावो ज्ञापितः । सोऽयमेतत्सूत्रस्थस्य चकारस्यार्थः । तेन सू- श्रेऽन्यार्थ इत्यस्य, स्वरूपयोग्यतासिद्ध्यर्थः, सम्पत्ती भगवदावेशक- थनार्थश्चेत्यर्थः सिद्ध्यति । तथाच फलार्थ स्वरुपयोग्यतासहकारि. सम्पत्त्यो?धनाय जीवपरामर्श इत्यर्थः । अन्यैस्तु, यदस्योपसत्तव्यं परं ज्योतिस्तद् अपहतपाप्मत्वादिगुणविशिष्टतयोपास्यमित्येतदर्थ जीवपरामर्श इति नानाव्याख्यानादयमेव सूत्रार्थ इति कथं निश्चय- १ अध्याये ३ पादः। वो भवतीति चकारार्थः । सम्पत्तौ भगवदावेशकथनार्थ वक्ष्यति च, स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हीति चतुर्थे । तस्मान परामर्शेनान्यथा कल्पनम् ॥ २० ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥ ननु न वयं जीवे उपपत्तिरस्तीति जीवप्रकरणं कल्पयामः । किन्तु ब्रह्मणि नायमर्थ उपपद्यते । अल्पश्रुतेः । अल्पे हि पुण्ड- रीके कथं भगवदवस्थानम् । व्यापकत्वश्रवणात् । यावान् वाय- माकाश इति । तस्माद् विरोधपरिहाराय जीव एवाराग्रमात्रस्तथा भवत्विति कल्प्यत इति चेत्तर्हि भवान् सम्यग्विचारकोऽस्मदीय एव । परं तत्समाधानं पूर्वमेवोक्तं, निचाय्यत्वादेवं व्योमवच्चेस- त्र । तन्न प्रस्मतव्यम् । विरोधस्तु सर्वभवनसमर्थे ब्रह्मणि नाशङ्क- नीयः। तथा पुरुषशरीरश्च । पुरुपत्वे च मां धीराः सांख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् ॥ इति भगवद्वाक्यात् । तस्माद् भगवानेव दहर इति सि- द्धम् ॥२१॥ अनुकृतेस्तस्य च ॥ २२ ॥ मित्यत आहुः । * वक्ष्यतीत्यादि * तथाचैतत्सूत्रस्वारस्यादयमेवार्थ इत्यर्थः ॥२०॥ अल्पश्रुतेरितिचेत् तदुक्तम् ॥ * तथा पुरुषशरीरं चेति * । विजिघत्सोऽपिपास इत्यादिभिर्धर्मः सूचितं पुरुषशरीरं च विरुद्धमि- ति नाशङ्कनीयमित्यर्थः । स्फुटमन्यत्। अत्र च, यावान् वेति वाक्येन स्थितिकर्तृत्वं हार्दाकाशेऽतिव्याप्तमाशय तन्निवारितमिति बुद्धि- सानात्मिकैवाधिकरणसङ्गतिः ॥ २१॥॥५॥ अनुकृतेस्तस्य च ॥ उपोद्घातरूपामधिकरणसङ्गतिं बोधयि- सप्रकाशे अणुभाष्ये। दहरविरुद्धं वाक्यमाशश्या परिहरति ।न तत्र सूर्यो भाति, न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनु- भाति सर्व तस्य भासा सर्वमिदं विभातीति कठवल्लयामन्यत्र च श्रूयते । यत्तच्छब्दानामेकार्थत्वं प्रकरणाद् ब्रह्मपरत्वं चाऽवगतम् । अर्थाच्च सन्देहः । यस्मिन् द्यौरिसत्र सूर्यादीनां ब्रह्माधारत्वमुक्तम् । अस्मिंश्च वाक्ये पूर्वार्द्ध तत्र तेषां भानं निषिद्धयते । यत्र यत् सर्वदा तिष्ठेत् तत्र चेत्तन्न भासते । क भासेताप्यपेक्षायां कर्मत्वेश्रुतिबाधनम् ॥ योसधिकरणसप्तमी । यत्र लोकान्तरस्थितानामप्यमानं, तुमाहुः । * दहरेत्यादि * मुण्डककठवल्ल्योर्ब्रह्मप्रकरणत्वस्यारश्य- त्वाद्यधिकरणेषु साधितत्वात् तद्वाक्यस्य ब्रह्मपरत्वेन तद्विरुद्धदहर- वाक्यं न ब्रह्मपरमित्येतन्निरसितुं तथाशयेत्यर्थः । * कठवल्ल्याम- न्यत्र चति * तस्याः पञ्चमवल्लीसमाप्ती, मुण्डकस्य द्वितीयमुण्डकस- माप्तौ श्रूयते । विषयमुक्त्वा संशयं तबीजं चाहुः । * यत्तदित्या- दि * । कठवल्लीस्थानां, य एप सुप्तेषु जागर्ति, मन्त्रान्तरे, तस्मिन् लो- काश्रिताः सर्वे इति । अस्मिन् मन्त्रे तमेव भान्तमिति । मुण्डके, यत्र देवः क्रतुभिर्भूतिभावन इति, मन्त्रान्तरे, न तत्र मूर्यो भातीति य- तच्छब्दानामेकार्थत्वं ब्रह्मपरत्वं चावगतम् । तथाप्यर्थादेव सन्दे इत्यर्थः । अर्थात् कथं सन्देह इत्याकाङ्क्षायां तमुपपादयन्ति * य- स्मिन्नित्यादि * उक्तमुण्डकश्रुतौ धुलोकादीनां भगवदाधारकत्वक- थनात् सूर्यादीनां ब्रह्माधारत्वमुक्तम्, एतद्वाक्यपूर्वार्द्ध च भानं नि- षिद्धयते। अतः सन्देहः। नच भाननिषेधमात्रात् कथं सन्देह इति श- यम् । यत्र यदित्याद्युक्तरीत्या बाधितार्थत्वेन सन्देहसम्भवात् । न- चोत्तरार्दै तमेवेत्यादिना तदपेक्षयाधिकभान एव निषेधपर्यवसान- सिद्धन बाधितार्थत्वमिति वाच्यम् । तदाप्यकर्मकस्य धातोः कर्म कथनेन कर्मत्वे श्रुतिवाधनम् । तेन सन्देह इत्यर्थः । अत्र पूर्वपक्षी .
१ अध्याये ३ पादः। तत्राने का वातेति वचनात् ससलोकस्थितः कश्चित् तेजोविशेष एव वाक्यार्थ इसेवं प्राप्ते। उच्यते । अनुकृतेस्तम्य । भगवदनुकारार्थमेवैतद्वचनम् । स्वतो भाननिषेधः पूर्वार्दै । सर्वोऽपि पदार्थस्तमेवानुकरोति, सूर्य रश्मय इव, छाया पुरुपमिव । तस्माद् वाक्ये भगवदनुकारित्व- वचनान्न नानार्थकल्पनम् । किञ्च । तस्य भासा सर्वमिदं विभा- तीति मूर्यादीनां स्वतः प्रकाशो नास्येव । घटवत् । भगवत्पका- शेनैव प्रकाशवत्वमिति चकारार्थः । तस्मात् स्वतो भाने लक्षण- या कर्मले वा भगवत्परत्वे सिद्धे नान्यार्थकल्पनम् ॥ २२ ॥ भुति व्याकुर्वन् समाधत्ते * तत्रेत्यादि * अस्याः श्रुतेन सूर्यादीनाम- भाने तात्पर्य, किन्तु, गजा यत्र न गण्यन्ते मशकानां तु का कथेति- घद् यत्र लोकंत्याधुक्तरीत्या वचनादग्न्यभान एव तात्पर्यमतो न पू- ाढे दोषः । उत्तराः तु, तमेव भान्तमिति कथनादग्न्यप्रकाशशा- लिनि सत्यलोके स्थितः कश्चित् तेजोविशेष एवोच्यते सूर्यादितेजोऽ- भिभावकः । इदानीमपि 'खद्योतो द्योतते तावद् यावन्नोदयते शशी। उदिते तु सहस्रांशी न खद्योतो न चन्द्रमाः' इति तेजोविशेषस्यैव सजातीयाभिभावकत्वस्य प्रसिद्धत्वात् । नच कर्मत्वांशे श्रुतिबाधः । अनोः कर्मप्रवचनीयत्वेन तद्योगे जाताया द्वितीयाया उपपदविभ- क्तित्वेनार्थाभावादतः स एवावाधितो वाक्यार्थ इत्येवं प्राप्ते इत्यर्थः। समाधि व्याकुर्वते * भगवदित्यादि * सत्यलोके अन्यभाने वाक्य- पूर्वार्खतात्पर्य यदुक्तं, तन्न । उत्तरार्द्ध सर्वस्य तदनुकारित्वकथनात् सर्वस्य तद्भासा भानकथनाच । तथा सति सर्वस्य भगवदनुकारार्थ- मेवैतद्वचनम् । एतस्यैव विवरणं, * स्वतो भाननिषेधः पूर्वार्द्ध * इ- त्यादि । तर्हि पूर्वपक्षोक्ततंजाविशेषानुकारार्थमेव वाक्यप्रवृत्तिर- स्विति चेत्तत्राहुः । * तस्मादित्यादि * उपनिषद्वयेऽपि वाक्य- स्य प्रकरणसन्दष्टत्वात प्रकरणिभूतभगवदनुकारित्ववचनमनुस- न्धाय अन्यार्थभूततेजोविशेषकल्पनं न युक्तमित्यर्थः । सिखमाहुः । * तस्मादित्यादि * । तस्य भासेत्यादिवाक्यशेषात् खतोऽभाने ४१६ सप्रकाश अणुभाष्ये । अपि स्मर्यते ॥ २३ ॥ व्याख्यातेऽर्थे सम्मत्यर्थमाह । अपीति समुच्चयः। न तद् भासयते सूर्यो न शशाङ्को न पावकः । यदादित्यगतं तेजो जगद्भा- सयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' इति च । तम्माद् भगवानेव सर्वावभासकः । तमेव सर्वमनुकरो- तीति सिद्धम् ॥ २३ ॥ । अनुकरणवचनात् कर्तृक्रियया अनाप्यस्यापीष्टतमत्वमात्रेणाऽऽप्यसा- रूप्यप्रयुक्तया गोण्या कर्मत्वे च वाक्यस्य भगवत्परत्वसिद्धी ना- म्यार्थफल्पनं युक्तमित्यर्थः ॥ २२ ॥ अपि स्मर्यते ॥ अत्र भाष्यमुत्तानार्थम् । एवमत्र सूर्याद्यभास- नाशन्तिविरोधपरिहारेण दहरवाक्यानुगुण्यमस्य साधितम् । तन- दमधिकरणं पूर्वाधिकरणोपोद्घाततया तस्यैव शेषः । रामानुजाचार्यास्तु, इदं मूत्रद्वयं पूर्वाधिकरण एव योजय- न्ति । अर्थ त्वेवमाहुः। तस्य दहराकाशस्य ब्रह्मणोऽनुकारादयमप- हतपाप्मादिगुणको घिमुक्तबन्धः प्रत्यगात्मा, न द्हराकाशः । तद्- नुकारस्तत्साम्यम् । तच्च, निरञ्जनः परमं साम्यमुपंतीत्यत्र धूयते । अतोऽनुकर्ता प्रजापतिवाक्यनिर्दिष्टः । अनुकार्य ब्रह्म दहराकाश इति । स्मृतिश्च, 'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता' इति । अधिकरणान्तरत्वे बाधकं त्वेवमाहुः । न तत्र सूर्यो भातीतिम- न्त्राकरभूतस्य वाक्यस्य ब्रह्मप्रकरणत्वम्, अदृश्यत्वाद्यधिकरणद्यु- भवाद्यायतनाधिकरणाभ्यां निर्णीतम् । ज्योतिश्चरणाद्यधिकरणेषु परस्य ब्रह्मणो भारूपत्वमप्यवगतमतो ब्रह्मत्वे भारूपत्वे च सन्देहा- भावेन पूर्वपक्षानुत्थानात् । श्रुतावनुभातिपदेन सूत्राक्षरवैरूप्याश्चेति। तत्र प्रकरणेन सन्देहापायेऽप्यर्थस्य लिङ्गरूपत्वेन प्रबलतया पूर्वोक्तरीत्या पूर्वपक्षस्य शक्यवचनत्वात्, स्वकृतव्याख्यानेऽपि वि- षयवाक्ये साम्यपदेन सूत्राक्षरवैरूप्यस्य तौल्याच तश्चिन्त्यम् । भिक्षुस्तु विषयानुल्लेखानाधिकरणान्तरम् । किन्तु पूर्वसूत्रो- १ अध्याये ३ पादः। शब्दादेव प्रमितः ॥ २४ ॥ प्रसङ्गात् पुनर्वाधकान्तरमाशङ्ख्य परिहरति । अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो वि- जुगुप्सति । तथा, अङ्गुष्ठमात्रः पुरुपो ज्योतिरिवा धूमक इति तत्रैव श्रूयते । यावान् वा अयमाकाश इति व्यापकत्वमन्तःस्थि- तस्य प्रतीतम् । अगुष्ठमात्रता चात्र प्रतीयते । अतो विरोधा- ज्जीवस्यैव लोकान्तरगन्तृदेहवत उपासनार्थमीशानत्वादिधर्माः । क्ताल्पश्रुतिदूषणपरिहारायेदं द्वयम् । तत्रानुकारित्वं च मुखतत्प्र- तिबिम्बयोरिल शक्तिशक्तिमतोर्जीवब्रह्मणोः समानव्यापारकत्वम् । तथाच जीवे लिङ्गानुकरणादिव ब्रह्मणि जीवानुकरणादुपपद्यते । शक्तेरल्पत्वं शक्तिमत्युपचर्यत इति भावः । स्मृतिश्च, कविं पुराणम- नुशासितारमणोरणीयांसमनुस्मरेद्य इति । शब्दादेव प्रमित इति सूत्रमप्यल्पत्वसाधनार्थम् । परमात्मा, अणोरणीयान् महतो मही- यानित्यादिशब्दादेव अत्यल्पः प्रकर्षण मितोऽवगत इत्यर्थात् । न त्वधिकरणान्तरमित्याह । तदपि मन्दम् । तदुक्तमिति सूत्रांशेनैव स्थानाल्पत्वदोषप- रिहारसिद्धी पुनस्तदर्थकप्रयासस्य चैयर्थ्यात् । जीवाल्पत्वस्य लिङ्गा- नुरोधेनौपचारिकत्वात् तस्य किं वानुकरणमित्यप्यसङ्गतम् । स- कुच्य प्रदेशविशेषेण स्थितिरूपस्यैव व्यापारस्य पूर्वत्रापि सिद्धेर्विशे- पाभावाच । अल्पत्वस्य पूर्वोक्तयुक्तिभिरवास्तवत्वाङ्गीकारे पुनस्तस्य शब्देन प्रमितत्वोक्तेरप्यसङ्गतत्वाश्चेति । न च विषयानुल्लेखादधि- करणान्तरत्वाभाव इत्यपि युक्तम् । उक्तरीत्याऽर्थेन सन्देहे तनिरा- सस्यावश्यकत्वादिति दिक् ॥ २३ ॥ ॥६॥ शब्दादेवप्रमितः॥ * बाधकान्तरमिति * परिमाणविरोधरूपं तदित्यर्थः । * तत्रैव श्रूयते इति * । अस्य विषयः कठवल्ल्याश्चतुर्थ- वल्लीसमाप्ती श्रूयते । संशयमाहुः । * यावानित्यादि * । तथा- चातो विरोधातू संशय इत्यर्थः । पूर्वपक्षमाहुः । * अत इत्यादि । * जीवस्यैवेति * । अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसम- समकाशे अणुभाष्ये । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलादिति तमित्स्यर्थम् । त- स्मादगुष्ठमात्रो न भगवानेवं प्राप्तमत उत्तरमाह ॥ शब्दादेव प्र- मितः॥ अत्र सन्देह एव न कर्तव्यः । शब्दादेव प्रकर्षेण विमा- नात् । यथा दहरवाक्ये सूक्ष्मस्यैव व्यापकत्वं, तथाऽङ्गुष्ठमात्रस्यै- वेशानत्वम् । यदि भगवाँस्तादृशो न स्यादन्यस्य तादृशत्वं नोपप- घेत । तस्माद् भगवतः सर्वतःपाणिपादान्तत्वाद् यत्र यावानपेक्ष्य- ते तत्र तावन्तं श्रुतिनिरूपयतीति अगुष्ठमात्रः परमात्मेति सिद्धम् ॥ २४ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५॥ नन्वनेकरूपत्वं विरुद्धधर्मवत्त्वं माहात्म्याथ स्वरूपे निरूपय- वितो य इति श्रुत्यन्तरात् तस्यैवेत्यर्थः । ननूपासनार्थमपीशानत्वा- दिधर्माणामेव ग्रहणे को हेतुरित्यत आहुः। * अङ्गुष्ठेत्यादि * । त- थाच तस्मादङ्गुष्ठमात्राद् व्यतिरिक्तत्वमस्मिन् मुक्तजीवे बोधयितु- मेतेषां धर्माणां निरूपणमित्यर्थः । अङ्गुष्ठमानमिति वाक्यं तु सावि. ध्युपाख्याने । अथ सत्यवतः कायात् पाशबद्धं वशं गतमिति त- त्पूर्वार्द्धम् । सत्यवाँस्तु सावित्र्याः पतिरिति । सिद्धान्तं व्याकु- र्वन्ति । * अत्रेत्यादि *। * शब्दादेवत्यादि * । वाक्ये पूर्वाद्धेऽङ्गु- ष्ठमात्रत्वमुक्त्वोत्तरार्द्ध तावन्मानस्यैव भूतभव्येशानत्वं वक्तीति वाक्यरूपाच्छब्दादेव प्रकर्षण विरुद्धधर्माश्रयतया मानादित्यर्थः । तदेव व्याकुर्वन्ति * यथेत्यादि * किश्च । पूर्वाधिकरणविषयवाक्ये सर्वस्य भगवदनुकारकत्वसिद्धरत्र प्रत्यक्षस्यापि दृष्टान्तविधया गम- कत्वं वक्तुं तर्कमाहुः । * यदीत्यादि * । * अन्यस्य ताहशत्वमिति * खल्पस्यापि राजादेरनेकजनेशनशीलत्वम् । सिखमाहुः । * तस्मा- दित्यादि ॥२४॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ भन्ये तु, अपेक्षयेत्यस्य १ अध्याये ३ पादः। ४१९ ति । प्रादेशमात्रत्वं च ध्यानार्थम् । अङ्गुष्ठमात्रत्वस्य कोपयोग इति चेत् तबाह । तुशब्देन निष्पयोजनत्वं निराक्रियते । अस्ति प्रयोजनम् । तदाह । हृदि अङ्गुष्ठमात्रं निरूप्यते । केन हेतुना। अपेक्षया । ईश्वरकार्यापेक्षया । ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ति. ठतीति स्मृतेः । रक्षार्थमङ्गुष्ठमात्र इयर्थः । ननु प्रमाणान्तरत्वे किमेतन सम्भवति, तत्राह । मनुष्याधिकारत्वात् । मनुष्यानधिकृ- खेदं मृत्यूपाख्यानं प्रवृत्तम् । अतो मनुष्याणां हृदयस्याङ्गुष्ठमात्र- त्वात् । यद्यपि हृदयं स्थूलं, तथापि धर्मरूपं तावदेव । तावन्मा. त्रस्यैवावदानश्रवणात् । तस्मादङ्गुष्ठमात्रस्यैव सर्वधर्मरक्षकत्वाद- गुष्ठमात्रो भगवानेवेति सिद्धम् ॥ २५ ॥ तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥ अङ्गुष्ठमात्रनिरूपणार्थं मनुष्याधिकारे निरूपिने कस्यचिद् भ्रमो भवेत् सर्वत्र ब्रह्मविद्यायां मनुष्याणामेवाधिकार इति । त- निराकरणार्थ देवादीनामधिकारमाह । हृदयस्थानापेक्षयेत्यर्थं वदन्ति । तन्मते परिमाणमौपाधिकम् । सि- बान्ते तु, अणोरणीयान् महतो महीयानिति, यदेकमव्यक्तमनन्त- रूपमिति श्रुतिभ्यामुभयथा तात्त्विकं परिमाणमिति भेदः । * प्रमा- णान्तरत्व इति * परिमाणान्तरत्वे स्फुटमितरत् । इदमप्यधिकरणं दहराधिकरणस्यैव शेषः । अग्रिमं चाधिकरणद्वयमधिकारनिरूप- कत्वात् प्रासङ्गिकम् ॥ २५ ॥ ७ ॥ तदुपर्यपि च बादरायणः सम्भवात् । अत्रानुप्रसङ्गः सङ्ग- तिरिति बोधयन्तः सूत्रमवतारयन्ति * अङ्गुष्ठमात्रेत्यादि * / * कस्य चिदिति * जैमिनीयादिदर्शनाभिनिविष्टस्य । जैमिनीया ह्येवं म- न्यन्ते । अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्तश्च वैदिके कर्मण्य- ४२० सप्रकाशे अणुभाष्ये। तदुपर्यपि । मनुष्यापेक्षयाक्तिनानामधिकारो नास्ति । त- प्रापि वैदिकधर्महेतोस्त्रैवर्णिकानां धर्मयुक्तानामागतम् । ततोऽपिये साध्यादयो धर्मयुक्तास्तेषामप्यधिकारः । तत्र जैमिनिप्रभृतीनां न संमतिरिति स्वनामग्रहणम् । विशिष्टत्रैवर्णिकानारभ्य प्रजापतिपर्य- न्तं शतानन्दिनामधिकारं मन्यते वादरायणः । कुतः । सम्भवा- त् । सम्भवति तेषां ज्ञानाधिकारः । धर्मज्ञानाभ्यां सातिशयाभ्यां हि तादृशजन्मसम्भवात् । न हि तेषां पूर्वसंस्कारो लुप्यते । अ- क्षरपर्यन्तं शतोत्कर्पश्रवणादुपर्यपेक्षा । धिकारी । तत्र पूर्व सामर्थ्यमपेक्षितम् । तच देवादीनां नास्ति । तेषां शरीराभावात् । नच मन्त्रार्थवादाभ्यां तत्मिद्धिः । तयोः क- मैविधिशेषत्वेनान्यपरतया तत्प्रतिपादने तात्पर्याभावातू । कर्मवि- धयश्च सापेक्षितोद्देश्यत्वातिरिक्तं देवतागतं धर्मान्तरं किमपि ना- पेक्ष्यन्त इति तच्छेषभूती ती तदतिरिक्तं विग्रहं न साधयितुं शक्ती। शरीराभावादेव च नार्थित्वमपीति । तदेतन्निराकर्तुं देवादीनाम- धिकारमाहेत्यर्थः । नन्वधिकारविचारे सर्वपामेव विचारणीयःस कुतो न विचार्यत इत्यतः सूत्रं विवृण्वन्ति * तदुपरीत्यादि * मनु- प्याक्तिनेषु योग्यताभावादेव नास्ति । मनुष्यप्वपि वैदिकधर्म प्रति कारणभूतस्योपनयनादेः सकाशात् त्रैवर्णिकानां धर्मयुक्तानामे- वाधिकार इति जैमिनिसूत्रेवर मिद्धम् । तदुक्तानामविरुद्धाना- मवाभ्यासादिवदुपादेयत्वात् । तञ्चात्रापिशब्दोक्तिमहिम्नवावगतं सूचितमित्यर्थः। शेपं प्रकटार्थम् । सम्भवं विवृण्वन्ति * धर्मे- त्यादि * । तं विद्याकर्मणी समन्वारभेते इति श्रुत्या शरीरारम्भ प्रति तयोः कारणत्वात् तयोः सातिशयत्वे ताभ्यां तादृशदेवादि- जन्मसम्भवात् । जन्मनि, यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यतू स- हजं पुरस्तादिति मन्त्रोक्तलिङ्गेन जन्मत एव प्रजापतेरुपनीतत्वे, यो वै वेदाँश्च प्रहिणोति तस्मा इति वेदाध्ययनत आक्षेपादपि च सिद्धः। ब्रह्मणे ब्राह्मणमालभते, क्षत्राय राजन्यं, मरुद्भयो वैश्यमिति अध्याये ३ पादः। ४२१ अतोऽक्षरमाप्तेः शुद्धब्रह्मविद्याहेतुकत्वादुत्तरोत्तरमुपदेष्टा विद्यमानत्वात् प्रजापतिपर्यन्तं सर्वेषामधिकारः सम्भवति । सम्भव- वचनाद् दुर्लभाधिकारस्तत्रेति सूचितम् । यो यो देवानां प्रयबुध्य- त स एव तदभवत् तथर्षीणां तथा मनुष्याणामिति । तदुपर्यप्य- धिकारः सिद्धः ॥ २६ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तदर्शनात् ॥२७॥ भुत्या ब्राह्मण्यादीनां देवतात्वात् तासां चोपनयनादिनाऽनुग्रहतपः- प्रभृतिभ्योऽपि मतङ्गविश्वामित्रप्रभृतिषु स्मरणावुपनयनाभावे घ्रा- मण्यादी सिद्धे, देवादिष्वपि शतानन्दिश्रुती, श्रोत्रियस्य चाका- महतस्येति लिङ्गादध्ययने सिद्धे, 'कालेन नष्टा प्रलये वाणीयं वेद- संशिता । मयादी ब्रह्मणे प्रोक्ता' इति सन्दर्भेण देवादीनामध्य- यने पुराणेऽप्युपबृंहितेऽधिकारयुक्तजन्मसम्भवादित्यर्थः । नच सा. तिशयत्वेऽपि पूर्वसंस्कारस्य कालेन लोपादसम्भव इति शङ्यम् । न हि तेषां पूर्वसंस्कारो लुप्यते । यथा नारदस्य । नच मन्त्रार्थवा- दयोवविग्रहासाधकत्वम् । यज्ञोपवीतमन्त्रस्य कापि विधी शेष- भावाभावाद्, यस्यै देवतायै हविनिरुतं स्यात् तां मनसा ध्यायेदिति ध्यानविधेर्देवताविग्रहमन्तरेणानर्थक्यप्रसङ्गादशरीराया देवताया बुद्धावनारोहात् । अत एव, वज्रहस्तः पुरन्दर इत्यादयोऽपि वि- धमानगुणप्रकाशन एव स्मारकत्वं प्राप्नुवन्ति । अर्थवादा अपि स्तावफत्वं तदेव लभन्ते यदि देवताया विग्रहो भवति । स्तुतेरु- त्कर्षाधायकगुणवर्णनरूपत्वेन गुणाभावे असत्कथनं प्रतारकता स- म्पादयेदतस्तावकत्वेपि विग्रहसाधकत्वमक्षुण्णम् । एवं सामर्थ्य विद्वत्त्वे च सिद्ध शतानन्दश्रुतावक्षरपर्वन्तं शतोत्कर्षश्रावणादुप- र्यपेक्षापि निर्वाधैव । अधिकारपर्युदासस्तु न क्वापि श्रूयते । सिद्ध- माहुः । * अत इत्यादि * । नन्वत्र सत्त्वादित्यनुक्त्वा, सम्भवादिति कस्मादुक्तमित्यत आहुः । * सम्भवेत्यादि * ॥ २६ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ४२२ सप्रका अणुभाष्ये । नन्वेवमुपरितनानां ज्ञानाधिकारे स्वीक्रियमाणे तत्पूर्वभावि- प्वप्यधिकारो वक्तव्यः । कर्मणि वेदाध्ययने उपनयनादिषु च । ततश्च तेषां ब्राह्मण्याधभावाद्देशद्रव्याधभावाच्च पौराणिकेन मतेन देवान्तराभावाच्च तदभावेऽपि क्रियमाणे कर्मणि श्रुतिविरोध इति चेन्न । अनेकप्रतिपत्तेर्दर्शनात् । बहूनां प्रतिपत्तिदृश्यते । बहवोऽत्र कर्मणि पर्वतमाना दृश्यन्ते । साध्या वै देवाः सुवर्गकामा एतत् षड्रामपश्यत् तमाहरत् तेनाऽयजन्त । सोऽनिष्टोमेन बसूनयाज- यत् । स उक्थ्येन रुद्रानयाजयन् । सोऽतिरात्रेणादियानयाजयदि. सादि । यथैकशतं वर्षाणि प्रजापताविन्द्रो ब्रह्मचर्यमुवासेति । भूमावागस ऋषीन वृत्वा यज्ञकरणं च श्रूयते, देवा व सत्रमासते- *तत्पूर्वभाविग्वित्यस्यैव व्याख्यानं, * कर्मणीत्यादि *। * ततश्चेत्या- दि * ततश्च अङ्गीक्रियमाणादधिकारादेव तेषां ब्राह्मण्याद्यभावात् । अधिकारस्य विप्रतिपन्नतया तबलेन ब्राह्मण्यादेर्वर्णस्याक्षेप्तुमशक्य- त्वात् । पूर्वोक्तरीत्या तदापादनेऽपि देशस्य पृथिवीरूपस्य बीह्यादि रूपद्रव्यस्य आदिपदेन स्वर्लोकादौ सूर्यादिगत्यभावाद्दर्शादिकाल- स्याऽभावाञ्च । पुराणं हृदयं स्मृतमिति तेषु, चेन्द्राद्यतिरिक्तास्तेऽन्ये न प्रसिद्धा इति पौराणिकेन मतेन देवान्तराभावाच । ऐन्द्रं दध्य- मावास्यायामित्यादाविन्द्रस्येन्द्रान्तराभावात् स्वयं स्वस्य यजने अ- पूर्वानुत्पत्तिप्रसङ्गादप्रयोजकत्वाश्च तदभावे प्राप्ने, तथात्वेऽपि क्रि- यमाणे कर्मणि श्रुतिविरोध इत्यर्थः । सिद्धान्तांशं व्याकुर्वन्ति । * बहूनामित्यादि * । एतस्यैव व्याख्यानं, * बहव इत्यादि * । वर्णसत्तायाः पूर्व साधितप्रायत्वादाश्रमसत्तामाहुः। * यथेत्यादि * देशसत्तामाहुः । भूमावित्यादि * । एतेन, आदित्या वा अस्माल्लो- कादमुं लोकमायभित्यादि स्मारितम् । तेन कालद्रव्यसत्तापि सि- १ अध्याये ३ पादः। ४२३ सादौ । दर्शनवचनात् स्वस्यापि ऋत्विक्त्वं कर्मकरणं च घोत- यति । अथवा सर्वपदार्थानामनेका प्रतिपत्तिबहुधोपयोगो वेदे ह- श्यते । यथा चतुर्दाकरणादि, परिधिप्रहरणादि, तुषोपवापादि, त- द्विद्यमाने क्रियते, नाविद्यमाने । तथा यत्र ये पदार्था न सन्ति तव कर्म तदभावेऽपि भवति । तथाहि दृश्यते । पर्वते सोमवाह- काऽनोऽभाववत् । यझेन यज्ञमयजन्त देवाः । इति सम्भृतसम्भा- रः पुरुषावयवैरहम् । तमेव पुरुषं यज्ञं तेनैवाऽयजमीश्वरम्' इत्या- दिवाक्यैः सर्वसम्भृत्युपपत्तिश्च । आधुनिकान् प्रति वेदविभागा- ज्जमिनस्तथा निर्णयः । तस्मात् कर्माधिकारः कर्मकरणं चोपर्यपि सिद्धम् ॥ २७॥ । । तथाच ध्यति । ऋत्विजोऽपि, अग्निहोता अश्विनाध्व! उभौ हि वै देवा- नार शमितारी अधिगुश्चापापश्चेत्यादिश्रुत्या शेयम् । प्रकारान्तरेण हेतुं व्याकुर्वन्ति । * अथवेत्यादि * । नाविद्यमाने * इत्यन्तमेक- धा प्रतिपत्तिाख्याता । प्रकारान्तरं दर्शयन्ति । * तथा यत्रे- त्यादि * * सोमवायकाऽनोऽभाववदिति * । सोम- वाहकं यदनः शकटं तदभाववतू कृष्णलेग्व- घघातो यथा वैतुष्यरूपद्वारबाधाल्लुप्यते, तथात्र मार्गरूप- द्वारबाधादनोऽपि लुप्यत इति तस्मिन् कचिदविद्यमानेऽपि कर्म क्रियत इति तद्वदित्यर्थः । * यशेनेत्यादि * । एतेन देवतासद्भावो- ऽप्युक्तः । पुरुषावयवरूपाणां तेषां सत्त्वादिति । तथाच प्राथमि. कानां यागे भगवानेव देवतास्थानापन्नः । एकं सद्विप्रा बहुधा व- दन्तीति । अतो देवतान्तराभावेऽपि न तेषां कर्मकरणे विरोध - त्यर्थः । तर्हि जैमिनीयस्मृतेः का गतिरित्यत आहुः : * आधुनिके- त्यादि * । तथाचासर्वज्ञान प्रत्येकवेदशस्य मनुष्यमात्राधिकारनि. य इत्यर्थः । तेन, जैमिनीये च वैयासे न विरोधोऽस्ति कश्चनेति पुराणवाक्यमपि समर्थितं क्षेयम् । अन्ये तु देवानां विग्रहाङ्गीकारे एककालिकनानायागेषु त- त्सन्निधानविरोध इत्येवं व्याख्याय सौभर्यादिवघोगेनानेकशरीरम- ४२४ सप्रकाशे अणुभाष्ये । शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानु- मानाभ्याम् ॥ २८ ॥ ननु मास्तु कर्मकरणे विरोधः । शब्दे तु भविष्यति । अर्थ- ज्ञानानन्तरं हि कर्मकरणम् । वेदाचार्थज्ञानम् । तत्र साध्यादीनां वेद एव कर्मकरणं श्रूयते । तत्र ज्ञाने कर्मकर्तृविरोधः । अन्यक- ल्पनायां वनवस्था । व्यवस्थापकाभावात् । वेदो वसूनां वृत्तान्तं वदन वसूनामधिकारं वदेत् । वदन् वा कथमनियो न भवेदिति चेन्न । अतः प्रभवात् । अतः शब्दात् प्रभवः शब्दोक्तपदार्थानाम् । हणमनेकप्रतिपत्तिपदार्थत्वेन व्याख्याय समादधते ॥ २७ ॥ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥ आश- शं व्याकुन्ति * नन्वित्यादि * । पूर्वोक्तरीत्याधिकारव्यवस्था- पनेन देवेषु कर्तृत्वापादनात् तैः कर्मकरणे मास्तु विरोधस्तथापि शब्दे तु भविष्यति । कथमित्याकाङ्क्षायां व्युत्पादयन्ति । * अर्थेत्या- दि *। * ज्ञाने कर्मकर्तृवरोध इति * तन वेदजन्यज्ञाने विचार्ये तस्य ज्ञानस्य माध्याख्यदेवसाध्ययागात्मककर्मरूपविषयसापेक्षत्वा- तू तत्कर्तृणां साध्याख्यदेवानां तद्यागार्थ प्रवृत्तत्वेन वाक्यार्थप्र- मितिसमये तस्य विषयस्याभावेनोत्पत्ती ज्ञप्ती चात्माश्रयाज्शाने कर्मक- र्तृविरोधः। श्रुती यागकर्तृणां भूतत्वेन निर्देशाज्ञानविषयभूतानां समनन्तरभाविशाने कर्मकर्तृविरोध इति वा । नच ते साध्याख्या देवाः, सा यागव्यक्तिश्चान्यैवेति युक्तम् । अन्यकल्पनायां त्वनव- स्था । व्यवस्थापकाभावात् । तस्माद् वेदो वसूनां वृत्तान्तं वस्तेषा- मधिकारं वदेत् । ततश्चैवमधिकारं वदस्तदानीमर्थाभावेन शब्देऽर्थ- सम्बन्धस्याशक्यवचनत्वादिदानीन्तनेन तेन सम्बन्धं प्राप्नुवन् पद- पदार्थसम्बन्धद्वारा शब्दस्य पाश्चात्यत्वं सम्पादयन् कथमनित्यो न भवेत् । तथाच देवानां कर्माधिकाराङ्गीकार एवं शब्दे विरोध इत्यर्थः। परिहारांशं व्याकुर्वन्ति । * अतः शब्दादित्यादि * । * प्र- भव इति * प्रकर्षेण भवो विद्यमानता । तथाच शब्दोकपदार्थानां १ अध्याये ३ पादः। वेदोक्ताः सर्व एव पदार्था आधिदैविका एव पुरुषावयवभू- ताः। सर्वानुकारित्वाद् भगवतः । अतो नामप्रपञ्चो वेदात्मको मित्र एवाङ्गीकर्तव्यः । स केवलं शब्दैकसमधिगम्यः । वेदैश्च सर्वैरहमेव वेद्य इति । अतस्तस्य प्रपञ्चस्य भिन्नत्वान्न विरोधः शब्दे । कयमेवमत आह । असक्षानुमानाभ्याम् । प्रयक्षं तावदि- दानीमपि यजमानो यजमानकृसम् ऋत्विजश्च स्वकृसं वेदादे. वावगच्छन्ति । नचाकृतिमात्रवाचकत्वेनाविरोधः । सर्वच लक्षणा- शब्दादेव नित्यतावधारणाम पूर्वोक्तो विरोध इत्यर्थः । तदुपपाद- यन्ति । * वेदोक्ता इत्यादि * । * सर्वानुकारित्वादिति * सर्वम- तुकारि यस्य तादृशत्वात् । अतोऽनुकारिणः सकाशादनुकार्यस्य भिन्नत्वात् । * मत इति * वेदैकवेद्यत्वेन लौकिकप्रमाणाविषय- त्वात् । * वेदात्मक इति * ज्ञानात्मकः । तथाच साध्यादिभिर्देवैर्वे- दादधगम्यमानस्य प्रपञ्चस्य भिन्नत्वात् तेनैव सह पदानां सम्बन्धान झाने कर्मकर्दविरोधो, न वा वेदानित्यत्वम् । भूतभावित्वव्यवहार- कालेऽपि तदर्मवत्त्वेन तस्य सत्त्वात् । अन्यथा भूतत्वभावित्वयो- निराश्रयत्वप्रसङ्गेन तयोर्धमत्वस्य व्यवहारस्य चोच्छेदप्रसङ्गात् । अतो न विरोधः शब्द इत्यर्थः । अत्र प्रत्यक्षविरोधमाशङ्कते। * क- थमित्यादि । युक्ति व्याकुर्वते । * प्रत्यक्षमित्यादि * । * वेदादे- वावगच्छन्तीति * । सिद्धमेव कृत्यं वेदादेव वृद्धव्यवहारादिनाव- गच्छन्ति । तथाच यथा फर्म तद्वेदैकगम्यं तथा पदार्था अपीत्य- र्थः । ननु पदार्थसम्बन्धनित्यत्वार्थमतिरिक्तप्रपञ्चाङ्गीकारोऽनर्थकः। जैमिनीयोक्तरीत्या आकृतिवाचित्वेपि तत्सिः। नच व्यक्त्यप्रती- स्यापत्तिः । आक्षेपादेव तत्सिद्धरित्येकदेशिनो मन्यन्ते । तदसङ्गत- मित्याशयेनाहुः । * नचाहतीत्यादि * । अयमर्थः । व्यक्तेराक्षेपल- भ्यत्वं वदतामाक्षेपो नाम कः पदार्थ इति वक्तव्यम् । स किमनुमानं, लक्षणा वा । नाघः । शब्दस्यानुमानविधया बोधकत्वे प्रमाणान्तर- स्वमङ्गप्रसङ्गात्। शब्दसहकृतानुमानस्यैव प्रमाणत्वे लाघवात्। नचानु- मानस्यैव सहकारित्वमिति वाच्यम् । नियामकाभावात् । नेतरः ।
४२६ समकाशे अणुभाष्ये । प्रसङ्गात् । यः सिक्तरेताः स्यादित्यादिषु विरोधश्च । न च प्रवृत्तिनिमित्तस्यैव वाच्यत्वम् । प्रवृत्तिवैयापत्तेः । सङ्केतग्रहविरोधाच्च । सर्वस्यापि पदार्थस्य भगवत्त्वान्नानुपस्थिति- दोषः। सङ्केतग्रहेऽपि । सर्वत्र लक्षणाप्रसङ्गात् । तथाच पक्षद्वयेऽपि दोषप्रसङ्गाजैमिमी- यानुसरणेनाविरोधसाधनमसङ्गतमित्यर्थः । अनुमानपक्षस्त्वतिशि- थिलत्वाद् भाष्ये नोट्टङ्कित इति ज्ञेयम् । नन्वस्तु लक्षणा, जैमिनेर- प्यस्मिन्नंशे आदरणीयत्वात् प्राचीनवृत्तिकारैरैकशास्त्र्यस्यैवाहतत्वा- दित्यत आहुः । * य इत्यादि * । अयमर्थः । न हि सर्वत्र वेदे शक्ता एव शब्दाः प्रयुज्यन्ते । किन्तु यौगिका अपि । यथा, यः सिक्तरेताः स्यात् प्रथमायां तस्य जित्यामुपदध्यादिति सिक्तरेतःपदम् । न हि तत्राकृतिः काचित् सम्भवति, या व्यक्तिरूपं सिक्तरेतसमाक्षिपेत्। किन्तु सिक्तरेतस्त्वं तत्रोपाधिः । स च रेतःसेकानन्तरभावित्वा- दनित्य इति । अवयवशक्त्या बोधनेपि सिक्तत्वं सेकानन्तरभावि- त्वादनित्यमतस्तत्र पदसम्बन्धाङ्गीकारे शब्दानित्यत्वस्यापरिहाराहो- षतादवस्थ्यमित्यर्थः । ननु नास्माभिर्जातावुपाधौ वा शक्तिराद्रिय- ते, अपि तु पदप्रवृत्तिनिमित्ते । स कोऽप्यस्तु । तस्य नित्यत्वान्न को- पि दोष इत्यत आहुः । * न च प्रवृत्तीत्यादि । * प्रवृत्तिनिमित्तस्य धर्मस्य सर्वत्र नित्यतैवेति नियमाभावान्नित्यसम्बन्धाभावे च तेन व्यक्त्यनाक्षेपात तां विना कार्यासम्भवे पदप्रवृत्तिवैयापत्तेरित्य- र्थः । अथ तादृशस्याप्यर्थवलादाक्षेपकत्वमाक्षेपश्चोपनय इति विभा- व्यते तदा दूषणान्तरमाहुः । * सङ्कतेत्यादि * । तादृशस्थले हि सङ्कन्तग्रहो व्यवहारादिना वाच्यः । तत्र व्यवहारादिस्तु व्यक्ता- घेव पर्यवस्यन्नानुपस्थिते प्रवृत्तिनिमित्ते सङ्केतं ग्राहयिष्यति । यदि च, नागृहीतविशेषणन्यायेनोपस्थितिरङ्गीक्रियते तदापि समानसंवि- संवेद्यत्वापातेन विशिष्ट एव शक्तः पर्यवसानमनित्यतानुद्धार इति तद्विरोधादित्यर्थः । ननु मास्त्वेकदेशिमतं, तथापि वैदिकसृष्टेरति- रिक्तत्वाङ्गोकारे तस्या अगोचरत्वेनानुपस्थितत्वात् तत्र सङ्कन्तग्रहो दुर्लभ इत्यत आहुः । * सर्वस्येत्यादि * । तथाच पूर्वेषां ब्रह्मादीनां १ अध्याये ३ पादः। ४२७ जमदग्नीनां पञ्चावत्तमित्यनुमानम् । न हि स्वयं जामदग्न्य. इति प्रयक्षोऽनुभवोऽस्ति । परोक्षव्यवहारस्यैवानुमानत्वमिति ब- ह्मवादः । तस्मात् प्रसक्षानुमानाभ्यामिदानीन्तनभौतिकयज्ञपदा- र्थेषु भगवदवयवावेशस्तथाऽमुत्रापि । तस्माद् वैदिकः पदार्थः सर्वो- ऽप्याधिदैविको भिन्न इति सिद्धम् ॥ २८ ॥ भगवदर्शनेनोपस्थितेः सुकरत्वाददोषः । ततोऽर्वाचीनानामिदानी- म्तनपर्यन्तानां तु सम्प्रदायपारम्पर्यात् सर्वस्य भगवदनुकारित्वेन लौकिकसदृशतयोपमानेन सङ्कन्तग्रहसोकर्याददोषः । अन्यथावा- दिनां त्वज्ञानमेवातो न कोऽपि दोष इत्यर्थः । अतो जैमिनिमते वेदा- धर्मावगतिरिव व्यासमते वैदिकपदार्थानामप्यवगतिरिति कर्मा- वगतिप्रत्यक्षेण साधितम् । अनुमानेन साधयितुं तदाहुः । * जम- दमीत्यादि * । नच मनुष्यत्ववत् तदपि प्रत्यक्षमिति वाच्यम् । भारते ब्राह्मण्यविचारे, 'जातिरत्र महासर्प मनुष्यत्वे महामते । स- ङ्करात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः । सर्वे सर्वाखपत्यानि ज- नयन्ति सदा नराः' इति कथनात् । स्त्र्यपराधात् कर्तुश्च पुत्रदर्शन- मिति जैमिनीयसूत्रेऽपि पुत्रदर्शनमात्रकथनेन तजात्यदर्शनसूचना- तू । प्रवरानुमन्त्रणश्रुत्या, यन्मे माता प्रममाद यञ्चचाराननुव्रतमिति श्रुत्या च तथा निश्चयात् । नच, बीजाद्योनिबलीयसीति प्रसिद्धर्मा- तृगोत्राद् गोत्रनिर्णय इति वाच्यम् । 'माता भस्त्रा पितुः पुत्रो येन जातः स एव सं' इति शास्त्रापेक्षया तस्या दुर्बलत्वादिति । नन्वत्र जामदग्न्यज्ञाने हेत्वदर्शनात् कथमस्यानुमानत्वमित्यत आहुः * प- रोक्षेत्यादि । तथाच परोक्षेण स्वस्य यथा जामदग्न्यत्वावगतिस्त- था परोक्षेणापि तस्य प्रपञ्चस्यावगतिरित्यर्थः । सिद्धमाहुः । * त. स्मादित्यादि *। शङ्कराचार्यादयस्तु, एत इति वै प्रजापतिर्देवानसृजतासृन- मिति मनुष्यानित्यादिप्रत्यक्षश्रुति, सर्वेषां स तु नामानि रूपाणि च पृथक् पृथगित्यादिस्मृतिरूपमनुमानं चोपन्यस्य शब्दनिमित्तिका व्यक्त्युत्पत्तिमङ्गीकृत्य सूत्रं व्याचक्षते ।
समकामा अणुभाष्य । अत एव च नित्यत्वम् ॥ २९ ॥ साधिका विशेषोपपत्तिमाह । अत एव अस्मादेव हेतोर्वेदस्य निसत्वम् । सर्वप्रपञ्चवलक्षण्येन । चकाराद् ब्रह्मतुल्यत्वम् । शब्द- ब्रह्म वेदपुरुष इसादिवाच्यत्वम् । अस्यास्तु सृष्टेब्रह्मोपादानस्य सर्वज्ञतया कथनं तन्माहात्म्यनिरूपणार्थम् । बन्धिका ढेषा । मो- चिका तु सा । अत एव ऋषीणामप्यत्र मोहः। निःश्वसितवचना- च । तस्याप्ययं प्राणभूतो निस इति । अर्थप्रधान्याद् ब्रह्मविद्या परा विद्या । प्रपञ्चभेदादेव लौकिकवैदिकशब्दव्यवहारभेदौ । तथा सति, समाननामरूपसूवस्यानावश्यकता स्यादिस्यव- धेयम् ॥२८॥ अत एव च नित्यत्वम्॥सूत्रमवतारयन्ति * साधिकामित्यादि । व्याकुर्वन्ति*अत एवेत्यादि *। * अस्मादित्यस्यैव विवरणं,* सर्वप्रप- चवलक्षण्येनेति ननु यदि वैदिकसृष्टिरन्यैव तदा श्रुतौ, यतो वा- इमानीत्यादिषुब्रह्मण एतत्सृष्टपादानत्वकथनं निष्प्रयोजनकं स्यादि- त्यत आहुः। * अस्या इत्यादि ** ब्रह्मोपादानस्येति । ब्रह्मरूपस्यो- पादानस्य। * तन्माहात्म्यनिरूपणार्थमिति तस्या वैदिक्याः सृष्टेः प्रकटसञ्चिदानन्दरूपत्वब्रह्मधर्मसम्पन्नत्वादिरूपमाहात्म्यनिरूपणार्थ- म् । उभयोलक्षण्यं स्फुटीकुर्वन्ति । *बन्धिकेत्यादि*। स्मृत्यन्तर- विरोधमाशय परिहरन्ति । * अत एवेत्यादि । तथाच श्रुतिविरु- खं तदुक्तमप्रमाणमित्यर्थः । सूत्रस्थस्य चकारस्यान्तरमाहुः ।*नि:- श्वसितेत्यादि * ननु सर्वस्य वेदस्य भगवनिरूपकत्वे उपनिषत्सु, अथ परेत्यादिनोक्तः परापरविभागो न स्यादित्यत आहुः । * अर्थ- प्राधान्यादित्यादि * । तथाच सर्वस्य वेदस्य तथात्वेऽपि ऋग्वेदादि- विद्ययाः कर्मादिप्राधान्येन निरूपणान प्राधान्यम् । ब्रह्मविद्या यास्तु तत्प्रधान्यमतो न परापरविभागभङ्ग इत्यर्थः । वैदिकप्रपञ्चस्य भिन्नत्वे गमकान्तरमाहुः। * प्रपञ्चेत्यादि । यद्यपि, लोकेऽवगतसा- मर्थ्यः शब्दो वेदेऽपि बोधक इति लोकवेदाधिकरणे लोकवेदयोः १ अध्याये ३ पादः। तस्मादाधिदैविकप्रतिपादकत्वाद् वेदस्य नित्यत्वम् ॥ २९ ॥ समाननामरूपत्वादावृत्तावप्यविरोधो दर्शनात स्मृतेश्च॥३०॥ एवं शब्दबलविचारेण वेदप्रामाण्यस्य सिद्धये भिन्न एव प्रप. यो बाधिदैविकः सर्वत्र सिद्धः। इदानीमर्थबलविचारेणोत्तरकाण्डे किञ्चिदाशा परिहियते दाार्थम् । नन्वस्य प्रपश्चस्याऽनु- कारित्वेन वाच्यत्वेन वा स्वीक्रियमाणत्वे सृष्टिप्रलययोविद्यमान- त्वादनित्यसंयोगः प्राप्नोति । तत्राह॥ समाननामरूपत्वादावृत्ताव- प्यविरोधः ॥ वस्तुतस्तु भगवद्रूपत्वादाविर्भावतिरोभावेच्छयैव त. थात्वान्नावृचिशङ्कापि । तथापि लोकबुद्ध्यनुसारेणावृत्तावपि स- माननामरूपत्वात् । शब्दैक्यं वार्तिकेङ्गीकृतम् । तथापि तस्य जैमिनिनानुक्तत्वात् । तत् कल्पितमतः शब्दभेदः । व्यवहारभेदस्तु प्रसिद्ध एवेति तावपि तद्गमकावित्यर्थः । सिद्धमाहुः । तस्मादित्यादि ॥ २९ ॥ समाननामरूपत्वादावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च । सन्देहाभावाय पूर्वसूत्रसिद्धमनुवदन्तः सूत्रमवतारयन्ति * एवमि- त्यादि *। * सर्वत्रेति * । सर्वस्मिन्नेव वेदे । तेन, आदित्या वा अ- स्माल्लोकात्, अथ यदिदमस्मिन् ब्रह्मपुरे, धन्वन्निव प्रपा असीत्या- दो विधेयस्तुत्यर्थ परिचायनार्थ दृष्टान्ताद्यर्थ वा लौकिकसृष्टिकीर्त- नं, तत्रापि, सदेव सौम्येति, हन्ताहं मदेव मन्मात्रं द्वितीयमिति, विश्वं वै ब्रह्म तन्मात्रमित्यादिभिब्रह्मरूपत्वेन तस्या अपि नित्यत्वाव. धारणान सम्बन्धानित्यतेति वेदस्य नित्यत्वमक्षुण्णमेवेत्यर्थः । * अ- थबलविचारेणेति * । तत्तजोऽसृजतेत्यादेः सृष्टयनित्यताबोधकत्वा- ताहगर्थबलविचारेण । एतद्विचारणाशनमाहुः न्वित्यादि * । समाधि व्याकुर्वन्ति * वस्तुत इत्यादि * । * तथात्वादिति * अनित्यत्वेन प्रतीयमानत्वात् । तथोक्तं विष्णुपुरा- णे प्रथमेशे 'तदेतदेक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावति- रोभावजन्मनाशविकल्पवद्' इति । एतद्विकल्पचतुष्टयवद्वा । आ- विस्तिरोभावाभ्यां तथा विकल्पवरेत्यर्थः । उभयथापि, न वास्तव- ४३० सप्रकाशे अणुभाष्ये। समुद्रे जलप्रक्षेपवत् । पुनरुपादाने तदेवेति निश्चयाभावेऽपि नामरूपयोस्तुल्यत्वादन्यस्य भेदकस्याभावाभानित्यसंयोगविरोधः। कुतः । दर्शनाद । दृश्यते हि तथा । वेदपितृमातृस्त्रीभर्तृशरीर- गङ्गादिषु तदेवेदमिति व्यवहारस्य सिद्धत्वात् । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्, दिवं च पृथिवीं चान्तरिक्षमथो सुवरिति। स्मृतेश्च ॥ 'सर्ववेदमयेनेदमात्मनाऽऽत्मात्मयोनिना। प्रजाः सृज यथापूर्व याश्च मय्यनुशेरते' इत्यादिस्मृतेः । सर्वस्मृतेश्च ऋषी- णां पूर्वचरितस्मरणं स्मृतिरुच्यत इति । अतोऽर्थबलविचारेऽपि पदार्थानां नित्यत्वान्न वेदस्यानित्यसम्बन्धः ॥ ३० ॥ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥ अर्थबलविचारे एवैकदेशेन पूर्वपक्षमाह । ननु मध्वादिविद्या- मु देवानामनधिकारात् सर्वत्रैवानधिकारः । तथाहि । असौ वा नित्यत्वबाधः । आवृत्तावपीत्यस्यैव व्याख्यानं * समुद्र इत्या- दि *। * प्रक्षेपवदिति * सप्तम्यर्थे वतिः । दर्शनं व्याकुर्वन्ति । * वेदेत्यादि * । तथाच नित्यप्रलयविचारे शरीरादेः प्रतिक्षणम- न्योन्यत्वेऽपि प्रवाहैक्येनैवैकस्मिन् शक्यताभिमन्यत इति तत्तत्प्र- वाह एव पदानां शक्तिः । स चानादिसृष्टिवादिनो मीमांसकस्य म- सेऽप्यविच्छिन्नत्वान्नित्यः । अतो यथा, अव्यतिरेकश्चार्थेऽनुपलब्धे इत्यत्र व्यवहाराव्यतिरेकेण प्रवाहनित्यतया शब्दसम्बन्धतही, तथा वस्त्वन्तरेऽपीति नानित्यसंयोग इत्यर्थः । अविच्छेदे प्रमाणं दर्शयन्ति । * सूर्येत्यादि * । सर्वासां स्मृतीनां कथं प्रवाहाविच्छे- दसाधकत्वमित्यत आहुः । * ऋषीणामित्यादि * । लक्षणार्थविचा- रादेवाविच्छेदावगतिरित्यर्थः ॥ ३०॥ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ सूत्रमवतारयन्ति । * अर्थत्यादि * / * एकदेशेनेति * उपासनाविशेषरूपेण तदेक- देशेन । अनधिकारं व्युत्पादयितुं विषयवाक्यस्थं प्रमेयं पूर्वमाहुः । * तथा हीत्यादि * तन्मध्वित्यन्तम् * । नाडत्वि, मधुच्छिद्र- १ अध्याये ३ पादः। आदित्यो देवमधु तस्य धौरवेत्यादिना सूर्यस्य देवमधुत्वं प्रति- पादितम् । रश्मीनां वेदत्वं च । तत्र वसुरुद्रादित्यमरुत्साध्याः पञ्चदेवगणाः स्वमुख्येन मुखेनाऽमृतं दृष्ट्वैव तृप्यन्ति । पञ्चविधा एव च देवाः । स्वतः सिद्धं च तेषां तन्मधु । अनुपासकत्वाम देवान्तरकल्पना । कृतार्थत्वाच्च । ब्रह्मणोऽपि देवत्वम् । आदिशब्देन सर्वा एव देवोपासनविद्या गृहीताः । अतस्ते- त्वम् । * स्वमुख्येन मुखेनेति * अग्नीन्द्रवरुणसोमब्रह्मरूपेण मुखेन । * पञ्चविधा एवेति * तावतामेव तत्रोक्तत्वात्तथा । अनधिकार स्फुटीकुर्वन्ति । * अनुपासकेत्यादि * । अयमर्थः । ब्रह्मविद्याधिका- राभ्युपगमे विद्यात्वाविशेषान्मधुविद्यायामपि देवानामधिकारो व- क्तव्यः । तत्रासी वा आदित्यो देवमध्विति मधुत्वेनोपवर्ण्यमान- स्यादित्यस्य विद्याविषयत्वादादित्यः कमन्यमादित्यमुपासीत । कि- चाने आदित्याश्रितानि पञ्च रोहितादीन्यमृतान्यनुक्रम्य वसुरुद्रा- दित्यमरुत्साध्याख्यान पञ्चदेवगणांस्तदुपजीवकानुक्त्वा, स य ए- तदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवाऽमृतं दृष्ट्वा तृप्यतीत्यादिना वस्खाद्युपजीव्यान्यमृतानि विजानतो वखादिरूप- त्वप्राप्त्या स्वगणमुख्यमुखेन तृप्तिरुच्यते । सा चोपासनातः प्रागेव वस्खादिरूपेण वर्तमानानां पुनस्तत्प्राप्तिकथनात् प्राप्यप्राप्त्रोर्वेद्यवेत्त्रो- रेक्यापत्त्याऽनुपपन्ना भवति । नच वस्वादिप्राप्या वेद्याश्चान्ये कल्प- यितुं शक्यन्ते । प्रमाणाभावात् । अधिकारानङ्गीकारे तु तेषामनु- पासकत्वात् कृतार्थत्वाच न देवान्तरकल्पना । नच मास्तु मधुवि- धाधिकारः । तावता ब्रह्मविद्याधिकारो न वारयितुं शक्यः । तेषां मोक्षार्थित्वात् तत्र बाधकाभावाश्चेति वाच्यम् । यतो ब्रह्मणोऽपि दे- वत्वं, देवत्वेन च तस्याप्युपासकमध्ये प्रवेशेनोपास्यत्वप्राप्यत्वयो- विघटनादिति । अत्र च, * मध्वादीत्यादिपदेन, अग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इति, वायु व संवर्ग इति, आदि- त्यो ब्रह्मेत्यादेश इत्याद्याः सर्वा एव देवोपासनाविद्या गृहीताः । तेन सिदमाहुः । * अत इत्यादि * । मनु मोक्षेच्छायां सत्यां कुतो ४३२ समकाशे अणुभाष्ये । षामुपास्यत्वात् कृतार्थत्वाच्च नाधिकारः । न हि प्रयोजनव्यति- रेकेण कस्य चित् प्रवृत्तिः सम्भवति । मोक्षस्याप्यधिकारनिवृ. सावुत्तरमार्गवर्तित्वात खत एव सिद्धिः । यावदधिकारमिति न्याया। वसूनयाजयदित्यत्रापि भाविन्येव संज्ञा । तस्मान्मनुष्या. धिकारकमेव ज्ञानं कर्म चेति न देवानामधिकार इति जैमिनिरा- चार्यों मन्यते । मनुष्याणामेव ज्ञानकर्मणोस्तरतमभाववतां तत्तद्- रूपभोगानन्तरं मोक्षप्राप्तेरिति ॥ ३१ ॥ ज्योतिषि भावाच ॥ ३२ ॥ किञ्च । तेषां सर्वेषामनधिकारः प्रत्यक्षत एवं दृश्यते । सर्वे हि नक्षत्रादिरूपेण महाभोगवन्तो जगदवभासकत्वेन ज्योति- श्चक्रे दृश्यन्ते । अग्निः पुच्छस्य प्रथमं काण्डमित्यादिश्रुतेश्च । न हि तादृशां प्राप्तैश्वर्यवतां सर्वोपास्यानां मोक्षदातॄणां ज्ञानकर्मणोः कश्चनोपयोगोऽस्ति । तस्मादनधिकार एव देवानामित्येवं प्राप्त॥३२॥ उच्यते । भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥ नाधिकारः । ब्रह्मविद्यामन्तरेण तदसिद्धरित्यत आहुः । * मोक्षेत्या- दि * । पूर्वोक्तरीत्याग्नुपपत्तिबलादधिकारनिवृत्तौ तेषां मोक्षेच्छा- सत्त्वे तु देवयानस्योत्तरमार्गत्वादेतेषां च देवत्वेन तद्वर्तित्वात खतो मार्गबलादेव मोक्षस्यापि सिद्धेर्न विद्यावश्यकत्वमित्यर्थः । अत्र प्रमाणं, * यावदित्यादि * । ननु सोऽग्निष्टोमेन वसूनयाजयदि- त्यादिश्रुत्या यागाधिकारे सिद्धे ब्रह्मविद्यायामपि तत्कल्पने को दोष इत्यत आहुः । * वसूनित्यादि * । तथाच मूल एव कुठार इत्यर्थः । सिखमाहुः । * तस्मादित्यादि * ॥ ३१ ॥ ज्योतिषि भावाच ॥ अग्निः पुच्छस्येति श्रुतिस्तत्तिरीयाणामार- ज्यके शिशुमारोपखानेस्ति । शेष निगदेन व्याख्यातम् ॥ ३२॥ भावं तु बादरायणोऽस्ति हि ॥ घेदे सत्त्वमुपपाश्यन्ति ।
१ अध्याय ३ पादः। तुशब्दः पक्षं व्यावर्तयति । भावं देवानामधिकारस्य सद्भा- वम् । बादरायण आचार्यः । गौणसिद्धान्ताभावाय स्वनामग्रहण- म् । किमार्षेण ज्ञानेन । तथा सति तुल्यत्वमत आह । अस्ति हि । अस्ति वेदे, प्रजापतिरकामयत प्रजायेयेति। स एतदग्निहोत्रं मिथुन- मपश्यत् । तदुदिते सूर्येऽजुहोदिति । देवा वै सत्रमासतेत्यादिभिः कर्माधिकारो निश्चितः । तद् यो यो देवानां प्रत्यबुद्धयत स एव सदभवदित्यादि । तथेन्द्रप्रजापतिसंवादे, ब्रह्मा देवानामिति च । एवमेवंविधैर्वाक्यैर्दवानामप्यधिकारोऽस्ति । यत्र च पुनर्देवानां फलभोग एव प्रतीयते, न करणं, तत्रापि तेषामधिकारोऽङ्गीकर्त- व्यः । हि युक्तोऽयमर्थः । एते हि वसव आधिदैविकभगवदवयव- भूताः । अनशनात् । अन्यथा वसुत्वादिविरोधः । यद्वसूनां प्रा- तःसवनमित्यादिवत् । न हि जीवविशेषा दृष्ट्वा तृप्यन्ति । *प्रजापतिरित्यादि* ।अयमर्थः।अयं हि भूतार्थवादो यस्यैवं विदुषो- ऽग्निहोत्रं जुह्वतीति विद्वद्वाक्यशेषः । स यदि स्वार्थे प्रमाणं न स्यात्, तदा तादृशक्षानेनान्यस्याप्यग्निहोत्रिणः प्रजारूपं फलमपि न स्यात् । अतोऽग्निहोत्रद्रष्मृत्वं तद्धोतृत्वं चावश्यमभ्युपेवम् । नचात्र प्रजापति- रिति भाविनी संज्ञा वक्तुं शक्या । ततः पूर्वमन्यस्याभावात् । यो ब्रह्माणं विदधाति पूर्वमिति श्रुतेः । एवं सिद्ध एकत्राधिकारे, देवा इत्यादिभिः कर्मणि, यो य इत्यादिभिर्ज्ञाने च देवानामधिकारो नि- श्चितः । * एवमित्यादिकं स्फुटार्थम् । तत्र बाधकस्व सत्त्वात् कथं युक्त इत्यत आहुः। * एते हीत्यादि * ।साधकं हेतुमुक्त्वाबाधकं तर्क- माहुः । *अन्यथेत्यादि *। अतिरिक्तानङ्गीकारे पूर्वपक्षोक्तरीत्या वसु- त्वादिविरोधः।तत्र रटान्तः, *यद्वसूनामित्यादि । यथा तत्र यजमा- नाय वखादयोऽधिकारिणो वासवादिसामगानेन प्रातरादिसवनानि प्रयच्छन्ति, तथानाऽप्यमृतदानमेवोच्येत, न तुं वस्खादिभावोऽपि । अतोऽत्र वेत्तुर्वस्वादिभावार्थापत्त्या उपास्या अतिरिक्ता अङ्गीकार्या इत्यर्थः । अनशनस्यैतत्साधकत्वे युक्तिमाहुः । * न हीत्यादि * ।
४३४ सप्रकाशे अणुभाष्ये। तस्मादिदं ब्रह्म प्रकरणमेव । योऽपि देवोपासमवत् प्रतीयते स भगवदंश एवाधिदैविकः। न वा पूर्वकल्पेन निर्णयः । तथा सति तेषामभावादनुपास्यत्वम् । अनिसता च वेदस्य स्यात् । त- स्माद् देवानामप्यधिकार इति शब्दबलविचार एव युक्त इति सिद्धम् ॥ ३३ ॥ शुगस्य तदनादरश्रवणात् तदाद्रवणात सूच्यते हि ॥ ३४ ॥ इदानी शूद्रस्याधिकारो निराक्रियते । यथा कर्मणि, एतया नन्वेवमाग्रहे किं बीजमत आहुः । तस्मादित्यादि * । तथाचेदमेव ब्रह्मवाक्यत्वे लिङ्गमित्यर्थः । * देवोपासनवदिति * । देवोपासने उपास्यवदिति पाठः प्रतिभाति । सप्तम्यर्थे वा पतिः । ननूभयत्न कल्पनातौल्ये पूर्वपक्षरीत्यैव निर्णयोऽस्तु । विशेषाभावादित्यत आहुः । * न घेत्यादि * । * अनित्यतेति * । एतेषामेवोपास्यत्वे अनित्यतेत्यर्थः ॥ ३३ ॥ ॥ ८॥ शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ॥ अनुप्रसङ्ग- रूपां सङ्गतिं बोधयितुमाहुः । * इदानीमित्यादि * । जैमिन्यनभिप्रेते देवाधिकारस्थापिते तद्वदत्रशूद्राधिकारोपि सम्भाव्यत इत्याशङ्का- यां स निराक्रियत इत्यर्थः। ननूपनयनाद्यभावेन वैदिककर्मादावनधि- कारस्य तस्मिन् सिद्धत्वात् सम्भावनैव कुत इति चेन्न । ब्रह्मवि- द्याया उपनयनानपेक्षत्वात् । वैश्वानरविद्यायां तान्हानुपनीयैतदुवा- चेति श्रावणात् । नच तत्र प्राचीनशालादीनां ब्राह्मणत्वेन तस्यो- त्सर्गसिद्धत्वाद् वैशेषिकस्यैव तत्रानपेक्षा, न त्वौत्सर्गिकस्येति वा- च्यम् । तथा सति तस्य प्रतिनियतवर्णोचितशास्त्रीयसंस्कारत्वे प- र्यवसानात सच्छद्रे च तदुचितस्य तस्य सत्त्वेनैवाधिकारसिद्धः । नच तस्य सामर्थ्यार्थित्वयोरभावः शयः । विद्यायां बौखसामर्थ्य- स्यैवापेक्षणात् । तस्य च प्राक्तनपुण्येनैव सिद्धः । श्रावयेञ्चतुरो व- र्णानिति पुराणश्रावणविधानात् तच्छ्रवणेऽर्थित्वस्यापि सिद्धेः । तर्हि विद्वत्ताभाव एव बाधकोऽस्त्विति चेत् तत्राहुः । * यथेत्यादि * ।
१ अध्याये ३ पादः। निषादस्थपति याजयेत् सा हि तस्येष्टिरिति श्रुतेर्हविष्कदाधावेति शूद्रस्येति लिङ्गादू दोहादौ च शूद्रस्याधिकारः । एवमिहापि संव- विद्यायां शूद्रस्याधिकार इति तमिराकरणार्थमिदमधिकरणमा- भ्यते। एवं श्रूयते । जानश्रुतिई पौत्रायण इत्यत्र हंसवाक्यश्रवणा- नन्तरं सयुग्खनो रयिकस्य समीपं गतः जानश्रुतिः पौत्रायण र- यिकमानि षट्शतानि गवामिसादिना देवतां पृष्टः प्रत्युवाच । अह हारेत्वा शूद्र तवैव सह गोभिरस्त्वियादिना जानश्रुतिं शूद्र- शब्देन सम्बोध्य, पुनश्च, शूद्राऽनेन मुखेनेत्युक्त्वा संवर्गविद्या- मुपदिष्टवान् । अतोऽत्र विद्यायां जातिशूद्रम्याप्यधिकारइयाशङ्ख्य परिहरति । नात्र शूद्रशब्दो जातिशूद्रवाची । किन्तु मत्सर- युक्तस्त्वमत्र नाधिकारीति तथा सम्बोधनम् । तदाह । शुक् शो- कः, अस्य जानश्रुतेः समजनि । तत्र हेतुः। तदनादरश्रवणात् । तस्माद्धंसादनादरस्य श्रवणात्। कं वर एनमतत् सन्त५ सयुग्वान- संवर्गविद्यायां कथमधिकार इति शङ्कायां तबीजं बोधयितुं वि- षयवाक्यमुदाहरन्ति । * एवमित्यादि * उपदिष्टवानित्यन्तम् * | * धूयते इति * । छान्दोग्ये षष्ठप्रपाठकारम्भे एवं श्रूयते । * सयु- ग्वन इति * । युक्तवानिति युग्वा शफरविशेषः । तेन सह वर्तमानः सयुग्वा तस्य । रयिक * इति तस्य रुढं नाम । * जानश्रुतिरिति * | जनश्रुतेरपत्यम् । * पौत्रायण इति * । पुत्रस्य पौत्रः । * देवतामि- ति * । उपास्यां देवताम् । * अह हारेत्वा शूद्र तवैव सह गोभि- रस्त्विति * । अः प्रतिषेधे । हेत्याश्चर्ये । हारेत्वा हारेण युक्त इत्वा रथः । शूद्रेति सम्बोधनम् । गोभिः सह यदानीतं तत्सर्व तव निकट एव तिष्ठत्वित्यर्थः । केचित्तु, भरे शुद्र त्वा त्वाम् अहह धिक् । स आनीतो रथादिर्ह तवैवास्त्वित्येवं व्याकुर्वन्ति । * मुखेनेति * द्वारेण । सूत्रमवतार्य व्याकुर्वन्ति । * अत इत्यादि * । * कं वर एनमेतदित्यादि * । ६ वरे, कम् उ अरे एन राजानमेतावत्कर्मक सप्रकाशे अणुभाष्ये । मिव रयिकमात्थेति स्वापकर्षश्रवणात् । किमतो ? यद्येवमत आह। तदाद्रवणात् । तत् तदनन्तरम् आद्रवणात् । शुचमनु आद्रवतीति शूद्रः । परोक्षवादार्थ दीर्घः सर्वज्ञत्वख्यापनाय । रूढियोगमपहर- तीति न्यायात् कथमेवमत आह । सूच्यते हि । स्वस्य सर्वज्ञत्वं मुच्यते । हंसवाक्याच्छोके जाते, त्वमागत इति । अन्यथा प्रपन्न- स्य धिक्कारवचनमनर्थकं स्यात् । युक्तश्चायमों, ब्रह्मविदः सर्व- ज्ञतेति । तस्य मात्सर्यनिराकरणं वा सम्बोधनफलम् । तस्माच्छुचं प्रसाद्रवणादेव शूद्रपदप्रयोगो, न जातिशूद्रवाची ॥ ३४ ॥ कुत एवमत आह। क्षत्रियत्वावगतेश्वोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥ जानश्रुतेः पौत्रायणस्य क्षत्रियत्वमवगम्यते । गोनिष्करथ- कन्यादानात्। न हि क्षत्तृप्रभृतयो ह्येते क्षत्रियादन्यस्य सम्भवन्ति। रिं सन्तं सयुग्वानं रयिक्वमिवात्थेत्यर्थः । * शुचमन्वित्यादि * । अब, * दीर्घः पृषोदरादित्वाद् वर्णान्तरलोपस्याप्युपलक्षकः । * रू- ढिरित्यादि * । पूर्वतन्त्र उक्तन्यायाद् रथकारपदे रूढिरेवाहता, न तु योग इति कथमन तद्विरुद्धमाद्रियत इत्यर्थः । ननु सूचनमेवा. त्राभिप्रेतमिति कथं ज्ञेयमत आहुः । * अन्यथेत्यादि * । ननु स्वस्य सर्वज्ञत्वख्यापनार्थ प्रपन्नधिक्कारवचनमपि ब्रह्मविदोऽनुचितमित्यरु- च्या पक्षान्तरमाहुः । * तस्य मात्सर्येत्यादि * । एवमुक्त मत्सरस्याति- दोषत्वं ज्ञात्वा तं स त्यजेत् तदुपाख्यानं श्रुत्वाऽन्योऽपि त्यजेदित्येत- दर्थ तथा वचनमतो नानुचितमित्यर्थः । * तस्मादिति * । गमकेन योगोपोद्वलने रूढेरकिञ्चित्करत्वात् ॥ ३४॥ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ सूत्रमवतारयः न्ति। * कुत इत्यादि * । ननु मास्तु शूद्रशब्दोऽत्र जातिशूद्रवाची, त थापि जानश्रुतिजातेरनुक्तत्वात् तदपेक्षायां स एवानुपूर्वीसामान्या जातिमपि बोधयिष्यतीति कुतस्तदनादर इत्यत आहेत्यर्थः । * क्ष तृप्रभृतय इति * । बहुपाक्यत्वावसथकरणब्राह्मणभोजनक्षत्रन्ताः १ अध्याये ३ पादः। ४३७ राजधर्मत्वात् । न बन्यो ब्राह्मणाय भार्यात्वेन कन्यां दातुं शको- ति । न च प्रथमहंसवाक्यं शूद्रे सङ्गच्छते । उपदेशाचेति चका. रार्थः। तथापि संवर्गविद्यायां शूद्रस्यैवाधिकारं मन्वानस्य निराक- णारार्थ हेतुमाह । उत्तरत्र चैत्ररथेन लिङ्गाद । अथ ह शौनक बहुपाक्यत्वादीनां धर्मिष्ठे धनवति शूद्रे कदाचित् सम्भवेऽपि शत्- स्थापनस्य राजधर्मत्वेनान्यत्रासम्भवात् तत्प्रभृतित्वमुक्तम् । तस्या- पि कथञ्चित् सम्भवमाशय हेत्वन्तरमाहुः । * न ह्यन्य इत्यादि । पुराणादौ तदानस्य क्षत्रियकृतत्वेन स्मरणात् तथेत्यर्थः । शूद्रा- दारोपसंग्रहस्य मनुप्रभृतिभिरुकत्वात् तस्य च कन्यादानहेतुकत्वात तस्यापि सम्भवमाशय हेत्वन्तरमाहुः । * नचेत्यादि * । * प्रथ. महंसवाक्यमिति * ।होहोयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाशीत् तत्त्वा मा प्रधाक्षीरिति वाक्यम् । होहोयीति भयसूचकं सम्बोधनम् । दिवेति धुलोकेन दिनेन वा । प्रधाक्षीरिति पुरुषव्यत्ययः । मा प्रदहत्वित्यर्थः । त्वा इत्यत्र सो देशो वा। तथाचैतादृशमाहात्म्यस्य शूद्रे अश्रुतत्वादः स्मृतत्वाश्च न शूद्रे सङ्गच्छत इत्यर्थः । * उपदेशादिति * रयिक कृतादुपदेशात् । शूद्रे विद्योपदेशस्य काप्यसिद्धत्वादत्रापि शूद्र श्रोतृकत्वस्याशक्यवचनत्वात् तथेत्यर्थः । एतेन यथा कृताय वि जितायाधरेयाः संयन्त्येवमेत तमभिसामैति यत्किञ्च प्रजाः साधु कुर्वन्तीति रयिकमाहात्म्यबोधकस्य द्वितीयहंसवाक्यस्याप्यत्र प्रा प्रामाण्यं बोधितम् । हीनान्यवर्णकन्यायाः प्रथमतः संग्रहे स्ववर्ण हानेर्भलन्दनोपाख्याने सिद्धत्वाद्रायक्वप्रथमविवाहस्यान्यताप्रसिद्ध रेतत्कन्याग्रहणेन दृष्यतायां रयिके ताहशमाहात्म्यस्यासङ्गत्यापत्ते रिति । नंनु हंसवाक्यस्य धर्मिष्ठत्वादिमात्रबोधकत्वं, न तु क्षत्रिया साधारण्यमिति शङ्कायां सूत्रशेषमवतारयन्ति । * तथापीत्यादि * एवं अहिलवादेन तथा मन्वानं निराकर्तुं हेतुमाहेत्यर्थः । * उत्तर ति * उपसंहारवाक्ये । कथं तत्र क्षत्रियत्वावगतिरित्यत आहुः ४३८ सपकाशे अणुभाष्ये । च कापेयमभिमतारिणंच कामसेनिमित्युत्तरत्र ब्राह्मणक्षत्रियौ तौ निर्दिष्टौ । कक्षा सेना यस्येति । कक्षसेनस्यापत्यं काक्षसेनिरिति। अस्य व्याख्यानं, चैत्ररथ इति । चित्रा रथा यस्य तस्यापत्यं, तेन चैत्ररथेन । कक्षारूपा रथा इति व्याख्यानम् । एतेन वै चित्ररथं कापेया अयाजयनिति । शौनकश्च कापेयो याजकश्च । याज्यश्च चित्ररथस्य पुत्रः काक्षसेनिरिति । ब्रह्मचारी ब्रह्मवित् । इमौ तु संवर्गविद्योपासको । प्राणाय हि भिक्षा । तस्मान्न ददतुः। उभावपि श्लोकौ भगवतः । * कक्षा सेनेत्यादि * । * तेन चैत्ररथेनेति * क्षत्रियत्वावग- तिरिति शेषः । काक्षसेनिपदस्य कथं चित्ररथपदव्याख्यानत्वमित्यत आहुः । * कक्षारूपा इत्यादि *। कक्षः स्यादन्तरीयस्य पश्चादचल- पल्लवे । स्पर्धापदे च दोर्मूले ' इति कोशे स्पर्द्धास्थानं कक्षापदेनो- च्यते । तथाच चित्रत्वात् स्पर्धास्थानरूपा रथा इति हेतोः कक्षा- पदं चित्रपदव्याख्यानम् । सेनापदं च रथपदव्याख्यानमित्यर्थः । एवं क्लेशेन व्याख्याने किं बीजमित्याकाङ्कायां लिङ्गपदं विवृण्वन्ति । * एतेनेत्यादि * । इदं च छन्दोगानां द्विरात्रे श्रूयते । एतेन वै चैत्र- रथं कापेया अयाजयस्तमेकाकिनमन्नाद्यस्याध्यक्षमकुर्वस्तस्माश्चैत्ररथो नामकः क्षत्रपतिर्जायत इति । तथाच समानान्वयानां समानान्वया एव याजका भवन्तीति प्रायेण दृष्टम् । अतः कापेयसम्बन्धात् काक्षसेनिश्चैत्ररथ इति तथेत्यर्थः । परिविष्यमाणी ब्रह्मचारी बि- भिक्षइत्यादेस्तात्पर्यमाह । * ब्रह्मचारीत्यादि * । इमो शौनका- भिप्रतारिणी संवर्गविद्योपासको । संवर्गस्त्वधिदैवतं वायुरध्यात्म प्राणः।यतो हेतोः प्राणाय भिक्षा । अन्नस्य प्राणभोगार्थत्वात् । तदयं ब्रह्मचारी जानाति न वेति सन्दिा नददतुः । ततो 'महात्मनश्चतुरो देव एकः कः सो जगार भुवनस्य गोपाः। तं कापेय नाभिपश्यान्त मा अभिप्रतारिन् बहुधा वसन्तम्' इति ब्रह्मचार्युक्तः श्लोकः । आत्मा देवानां जनिता प्रजाना हिरण्यदंष्ट्रो बभसो नसूरिः ।
१ अध्याये ३ पादः। ४३९ तेन प्रकृतेऽप्येतौ गुरुशिष्यौ ब्राह्मणक्षत्रियावेवेति गम्यते । तस्मान जातिशूद्रः संघविद्यायामधिकारी ॥ ३५ ॥ संस्कारपरामर्शात् तदभावाभिलापाच्च ॥ ३६॥ इदानीं शूद्रस्य कचिदपि ब्रह्मविद्यायामधिकारश्चेदवाऽपि महान्तमस्य महिमानमाहुरमधमानो यदनन्नमत्ति' इति कापेयोक्त- श्वेत्युभावपि श्लोको, * भगवतः प्रजापतिरूपबोधकत्वात् परम्पर- या भगवत्सम्बन्धिनौ । श्लोकार्थस्तु, महात्मनो माहात्म्ययुक्तान्, चतुरश्चतुःसंख्याकान् अग्निसूर्यचन्द्रापरूपान् देवान् वायुरूपेण, वाक्चक्षुःश्रोत्रमनोरूपान् प्राणान् प्राणरूपेण यो देव एकः कः प्र- जापतिः सो जगार ग्रसितवान् । भुवनस्व भूतोद्भवस्थानस्य भूरा- दिलोकस्य गोपा रक्षकः । हे कापेय तं मा मरणधर्माणो विवेक- शून्या नाभिपश्यन्ति । न जानन्ति । हे अभिप्रतारिन् बहुधा अ- ध्यात्माधिदेवताधिभूतप्रकारैर्वसन्तमिति । द्वितीयश्लोके तु, हिरण्य- दंष्ट्र इति, अमृतदंष्ट्रः । बभसो भक्षणशीलः । नसूरिः, न विद्यते- ऽन्यः सूरिय॑स्मात् सः । अनद्यमानोऽन्यैरभक्ष्यमाणः । यद् यस्माद अनन्नम् अग्निवागादिरूपमत्ति भक्षयति तस्मान्महामहिम इत्येवं वयं नानीम इति । तथाचेयं परम्परिता ब्रह्मविद्या, न तु साक्षात् । तेन सिद्धमाहुः । * तेनेत्यादि * । उत्तरस्मिन् वाक्यशेषे । सं- वर्गविद्योपासकयोाह्मणक्षत्रिययोरेवोक्तत्वेन प्रकृते तथेत्यर्थः फलितमाहुः । * तस्मादित्यादि * । तथाच परम्पराविद्यायामपि यत्र नाधिकारस्तत्र साक्षाद्विद्यायां किं वाच्यमिति भावः ॥ ३५ ॥ संस्कारपरामर्शात् तदभावाभिलापाच ॥ ननु, श्रुतिलिङ्गवा- क्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादिति जैमिनिना श्रुत्यपेक्षया लिङ्गादीनां दौर्षल्यस्य साधितत्वात् तत्रापि क्लिष्टानां तेषां सुतरां तथात्वाच्छ्त्यैवाधिकार शूद्रस्यादर्तव्य इ. त्याशङ्कायां सूत्रं पठित्वार्थमाहुः । * इदानीमित्यादि । बुद्धिस्था- यां शङ्कायाम, अधीहि भगव इति होपससादेसि सनत्कुमारमारद-
समकाशे अणुभाष्ये।
कल्प्येत । तत्तु नास्ति । सर्वत्र संस्कारपरामर्शात् । उपनयनसं-
स्कारः सर्वत्र परामृश्यते । तं होपनिन्ये । अधीहि भगव इति हो-
पससाद । तान् हानुपनीयेसादिप्रदेशेषूपनयनपूर्वकमेव विद्यादानं
प्रतीयते । शूद्रस्य तु, तदभावाभिलापात् । चतुर्थ एकजातिस्तु
शूद्र इति, न शूद्रे पातकं किञ्चिन्न च संस्कारमईतीति शूद्रस्य
संस्कारनिषेधात् । चकारान्न शूद्राय मतिं दद्यादिति निषेधः॥३६॥
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
इतश्च न शूद्रस्य सर्वथाधिकारः । तदभावनिर्धारणे शूद्रत्वा-
भावनिर्धारण एव गुरुशिष्यभावप्रवृत्तेः । ससकामो ह जाबाल
इसत्र, गौतमः सत्यकाममुपनिन्ये । नैतदब्राह्मणो विवक्तुमर्हतीति
सत्यवचनेन शूद्राभावं ज्ञात्वैव । चकार एवार्थे । चकारेण निर्दार-
णमुभयज्ञानार्थम् । वर्णत्वं शूद्राभावश्च । तस्मान्न शूद्रस्याधि-
कारः ॥३७॥
संवादस्थं प्रतीकम् । तत्र च, यवेत्थ तेन मोपसीदेत्यामन्त्रणे, ऋग्वेदं
भगवोऽध्येमि यजुर्वेदं सामवेदमिति वेदाध्ययनलिङ्गादेवोपनयन-
संस्कारप्राप्तिः। तान् हानुपनीयवेति वैश्वानरविद्यायामपि प्राचीन-
शालादीनां षण्णां महाश्रोत्रियत्वलिङ्गादेव तत्प्राप्तिः । निषेधस्तु
वैशेषिकस्यैवेति न दोषः । शेषे स्फुटम् । तथाचात्र 'आनर्थक्ये प्रमा-
णानां विपरीतं बलाबलम्' इति न्यायान्न शूद्रश्रुतिमात्रेणाधिकार-
सिद्धिरित्यर्थः॥ ३६॥
तदभावनिरिणे च प्रवृत्तेः ॥ किमुभयमित्यपेक्षायामाहुः ।
* वर्णत्वमित्यादि । अयमर्थः । तद्वाक्यानिश्चितेऽपि ब्राह्मणवीज-
स्वे व्यभिचारजन्यत्वाच्छद्रता स्यात् । तदभावस्तु वामदेव्यसामो-
पासकस्य न काञ्चन परिहरेदिति सर्वगामित्वाभ्यनुज्ञानात् तज-
न्यस्य व्यभिचारदोषानाक्रान्तत्वादू वर्णत्वशुदत्वाभावं ज्ञात्वेति पू.
घेण सम्बन्धः ॥ ३७॥
१ अध्याये ३ पादः। श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥ ३८ ॥ दरे अधिकारचिन्ता । वेदस्य श्रवणमध्ययनमर्थज्ञानं अयमपि तस्य प्रतिषिदम् । तत्सन्निधावन्यस्य च । अथास्य वेदमुपशृण्व- तस्त्रपुजतुभ्यो श्रोत्रप्रतिपूरणमिति । यधुवा एतच्छ्मशानं यच्छू- दः। तस्माच्छूद्रसामीप्ये नाध्येतव्यमिति । उदाहरणे जिह्वाच्छेदो, धारणे शरीरभेद इति । दोहादौ शूद्रसंबन्धे मन्त्राणामभाव एव । स्मृतिप्रयुक्त्यापि वेदार्थे न शूद्राधिकार इत्याह ॥ स्मृतेश्च ॥ वेदाशरविचारेण शूद्रः पतति तत्क्षणादिति । चकारस्त्वधिकरक सम्पूर्णत्वद्योतकः । स्मार्तपौराणिकज्ञानादौ तु कारणविशेषण शूद्रयोनिगतानां महतामधिकारः । तत्रापि न कर्मजातिशूद्राणाम् । तस्मानास्ति वैदिके क्वचिदपि शूद्राधिकार इति स्थितम् ॥३८॥ भत्रणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥ * यधु वेति । यदि उ वेति पदच्छेदः । शेष निगदेन व्याख्यातम् । एवं सूत्राणि व्या- ख्याय प्रासङ्गिकमाहुः * स्मार्तपौराणिकेत्यादि * । अयमर्थः । पुरा- णान्तरे, श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमप्रत इति शूद्रस्यापि सामान्यतः श्रावणविधानात् । स्मृतिकौमुद्यां स्कान्दे । 'अस्ति भू- द्रस्य शुश्रूषा पुराणेनैव वेदनम् । वदन्ति केचिद् विद्वांसः स्त्रीणां शुद्रसमानताम्' इति । 'सिमान्तश्रवणं प्राहुद्धिजानां मुनिसत्तम । शूद्राणां च विरक्तानां तथा स्त्रीणां महामुने । सिदान्तश्रावणं प्रोक्तं पुराणवणं बुधेरिति' भवणबोधनात् । एकादशस्कन्धेपि, साधवे शुचये ध्यादू भक्तिः स्याच्छूद्रगोषितामिति भगवद्वाक्या. त् । प्रथमस्कन्धे, 'स्त्रीशुद्रद्विजवन्धूनां प्रयी न भुतिगोचरा । इति भारतमास्यानं कृपया मुनिना कृतम्' इति वाक्याब भारतपुराण- भवणमसन्दिग्धम् । ततश्च बुद्धिमतां ज्ञानमपि भवत्येव । परन्तु तारशहाने, 'भासको भगवानेव शापं दापयति कचित् । महङ्का रेऽथवा लोके तन्मार्गलापनाव हि' इत्युक्तरीतिकेन शापादिना सपकाशे अणुभाष्ये। कारणविशेषेण शद्रयोनिगतानां महतां विदुरबेदवादिवासीसुतसह- शां फलमुखोऽधिकारः । ताहशामेव तत्र कृतार्थत्वस्मरणात् । तत्र शूद्रयोमिगतत्वेऽपि न कर्मजातिशूद्राणाम् । 'अत्रापि घेदनिन्दाया- मधर्मकरणात तथा । नरके न भवेत् पातः किन्तु हीनेषु जायते' इत्युक्तरीतिकेन कर्मणा जातिशूद्राणां न फलमुखोऽधिकार इति । * ज्ञानादावित्यादिपदेन,'जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् । देवताराधनं चैव स्त्रीशूद्रपतनानि षड्' इत्येतेषां संग्रहः । विदुरा- दीनां तीर्थयात्रादिदर्शनात् । इतरेषां त्वेतानि निषिद्धान्येव । अत पवेदानीन्तनानां तत्कर्तृणां कामक्रोधादय एव दृश्यन्ते, न तूपशम इति । एतदधिकरणद्वयं प्रासङ्गिकम् । अथ प्रसङ्गादिदं विचार्यते । शूद्रादयः सर्वे भारतं पुराणं च पठेयुर्न वेति । तत्र, 'भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः । रश्यते यत्र वै धर्मः स्त्रीशूद्रादिभिरप्युत' इति प्रथमस्कन्धे, 'विप्रो- ग्धीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् । वैश्यो निधिपतित्वं च शूद्रः शुद्ध्येत पातकाद्' इति द्वादशस्कन्धे च धर्मदर्शनश्रीभाग- बताध्ययनयोर्बोधनात् । 'तस्माद् भारत सर्वात्मा' इत्यत्राभयेच्छायां सर्वसाधारण्येन कीर्तनविधानाच्च सर्वमेव भारतं पुराणं च सर्वे पठेयुरित्येवं प्राप्ते । अभिधीयते । ब्रह्मशानभागांशव्यतिरिक्तमेव पठनीयम्। धर्म- ब्रह्मणोरतीन्द्रियत्वेन प्रथमवाक्ये हशेर्मुख्यार्थस्य ग्रहीतुमशक्य- तया धर्मादिशाब्दक्षानमानार्थकत्वेन पाठाप्रापकत्वात् । द्वितीयेऽप्य- धीत्येत्यस्य स्मरणाध्ययनसाधारण्यात् स्मृत्वा गुरुमुखाद्वा गृहीत्वे- त्यर्थेन तथात्वात् । नच स्वाध्यायब्राह्मणश्रुती, प्राङासीनः स्वा- ध्यायमधीयीतेत्यादौ केवलोच्चारणेऽपि तथा प्रयोगात् तत्प्राप्ति- रिति वाच्यम् । विनिगमनाविरहात् । नचेतः पूर्व, य एतां श्राव- येदितिं सर्व संहितां पठन्ननन् प्रयत इति पाठं प्रक्रम्य, विप्रोऽधी- त्येति श्लोककथनादुपक्रम एव विनिगमकोऽस्त्विति वाच्यम् । त- भापि श्रावणाधुत्तरमेतत्कथनेनाध्ययनशब्दमहिम्ना च श्रवणोत्तर्ये सिखे, कपिलदेवैःखमातुरप्योपनिषदभागवतज्ञानयोरनुक्तत्वेन स्त्री- घद्रयोस्तदंशाश्रावणे तयोस्तच्छ्रवणानधिकारे च सिद्धे, 'शूद्रयोना- घहं जातो नातोऽन्यद् वक्तुमुत्सह । कुमारस्य तु या बुद्धिर्वेद १ अध्याये ३ पादः। ४४३ तां शाश्वतीमहम्' इत्युद्योगे सनत्सुजातीयारम्भे विदुरवाक्या- ज्ज्ञानोत्तरमपि वदनानधिकारे च सिद्ध, श्रवणपठनयोः पठन एव वा तावदंशत्यागस्यैवौचित्यात् । तथा प्रणबादिमान् वैदिकमन्त्रयु- कोपि त्याज्यः । वेदःप्रणव एवान इति, स सर्ववेदोपनिषद्वेदबीज सनातनमित्यादिवाक्यैः प्रणवस्य विशेषतो वेदत्वनिश्चयात् । औ- पनिषदानां नारायणाष्टाक्षरादीनां मन्त्राणां नारायणकवचादौ प्र- त्यभिज्ञानाञ्च । नच देवतादिवाचकपदवत् प्रत्यभिज्ञाया अप्रयोज- कत्वमिति रायम् । 'नाममन्त्रस्तु शद्रस्येति' 'खाहाकारनमस्का. रौ मन्त्री शूद्रे विधीयते । ताभ्यां शूद्रः पाकयझर्यजेत ब्रह्मवान् स्वयम्' इत्यानुशासनिकपर्वादौ तदनुसादर्शनेन तेषां च तदभावेनै- तदृष्टान्तस्यात्र वक्तुमशक्यत्वात् । किञ्च द्वितीयस्कन्धे श्रीशुकैः 'श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्च' इति श्रवणात् तृतीयं स्मरण मुक्तम् । प्रथमे सूतेनापि, 'श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च' इति तथोक्तम् । एवं प्रकृतेऽपि श्रवणपठनफलकथनोत्तरं स्मरणस्यापि तद् वाच्यम् । अन्यथाऽऽकाङ्क्षान्तरोदयप्रसङ्गात् । अतः सादेश्यादप्य- धीत्येति पदं स्मरणार्थकमवसीयते। यत्तु 'ब्राह्मणो ब्रह्मवर्चस्खो राज- न्यो जगतीपतिः । वैश्यः पठन् विद्पतिः स्याच्छूदः सत्तमता- मियाद्' इति चतुर्थस्कन्धीयम् । तत्तु पृथुचरितमुपक्रम्य पठित- त्वात् प्रकरणावरुद्धमिति न तेन सर्वपाठः प्रापयितुं शक्यते । नच 'पठेच्च नियमं गृत्वा श्रीभागवतमादराद्' इति. निबन्धे श्रीमदाचा- र्यरुक्तत्वात् सर्व पठनीयमिति शडून्यम् । तत्रापि तदंशत्यागे बा- धकाभावात् । अन्यथा 'यदीपनिषदं ज्ञानं श्रीभागवतमेव वा । वर्णिनामेव तद्धि स्यात् स्त्रीशूद्राणां ततोऽन्यथा" इति तृतीयस्क- न्धीयनिबन्धवाक्यस्य, 'भागवतज्ञानमपि नैवर्णिकानामेव। उपासना- याः प्राधान्यात् । यदेव भगवता ब्रह्मणे प्रोच्यते, तत् त्रैवर्णिकाना- मेवेति ज्ञातव्यम्' इति तत्प्रकाशग्रन्थस्य च विरोधापत्तेः । नचैका- दशस्कन्धेऽपि, 'एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य संग्रह' प्रति कथनाच्चतुःश्लोकीतुल्यतयोपदेशस्य तत्रापि सत्त्वात् तत्राप्यनधि- कारः शयः। तदने, 'नैतत् त्वया दाम्भिकाय नास्तिकाय शठाय च । अशुश्रूषारभक्ताय दुर्विनीताय दीयताम् ॥ एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये याद भक्तिः स्याद्रयोषि- समका अणुभाष्ये । कम्पनात् ॥ ३९ ॥ कठवल्लीविचारेण निश्चिता अधिकारिणः । वाक्यान्तरं च तत्रसं चिन्सते मलयावधि ॥ यदिदं किश्व जगत सर्व माण एजति निःसृतं महद्यं वज- ताम्' इति कथनात् कर्मज्ञानादिमिभतयोपदेशास ताशां भावणे पातकाभावेन तत्र तेषां प्रावणाधिकारस्य सिके । अन्यथा तद्वि- रोधापत्तेश्च । नचाभयेच्छायां तदर्थ कीर्तनस्य विरोधः शयः । तत्र भगवत एव कथनाच्छ्रीभागवतपदाभावाच्चोक्तकदेशातिरिक्त- भागवतकीर्तनादपि तत्परिहारसिद्धः । पुरुषोत्तमसहस्रनामपाठ- स्थापि फलोक्तिप्रसङ्गे, सहनं यैस्तु पठितैः पठितं स्याच्छुकाऽमृत- मित्याचार्याणां वाक्यात् तस्मादपि तत्सिद्धेश्च । ये पुनरेतानि वा- क्यान्याश्रित्य स्वस्यापि पाठाधिकारं शूद्रा आपादयन्ति, तेषां मात्स- र्यादिदोषग्रासेन श्रीभागवतोक्तधर्मेप्वप्यनधिकारः । 'धर्मः प्रोज्झि- तर्कतवोऽत्रपरमो निर्मत्सराणां सताम् ' इति वाक्यात् । किं पुनः पाठे। एतेनैव गीतापाठो व्याख्यातः। तत्राप्यध्यायसमाप्ती, उपनि- षत्सु ब्रह्मविद्यायामिति दर्शनात् । तस्मादुक्तातिरिक्तमेव शूद्भः पठ- नीयम् । न तु श्रावणीयं, पाठनीयं वा । विध्यभावादिति नि- कर्षः ॥ ३८ ॥ ॥९॥ कम्पनात् ॥ एवं प्रासनिकमधिकारनिरूपणं कृत्वा पूर्वप्रस्तु- मेघ पुनः सिंहावलोकनेन विचारयतीत्याहुः । * कठवल्लीत्यादि । हि * यतो हेतोर्मृत्यूपाख्यानं मनुष्यानधिकृत्य प्रवृत्तम् । अतः, श- दादेव प्रमित इत्यधिकरणे प्रस्तुतेन कठवल्लीस्थाङ्गुष्ठमात्रविचारे- णाधिकारिस्मरणे प्रसङ्गात् ते निश्चिताः । च * पुनः प्रासङ्गिकस- माप्तौ तत्रत्यं षष्ठवल्लीस्पं वाक्यान्तरं चिन्स्यते । अवसरसङ्गत्या विचार्यते । तश्चिन्तनस्य किं प्रयोजनमत आहुः । * प्रलयावधी- ति * तद्वाक्यप्रतिपाचं रूपं प्रलयस्यावधिभूतम् । तस्य शाने तत्र लयः स्यादतो हेतोश्चिन्स्यत इत्यर्थः । विषयवाक्यं, सन्देहबीजं, स- न्देहाकारं चाहुः * यदिदमित्यादि * I * वेतीत्यन्तम् * । ननु प्र- १ अध्याये ३ पादः । ४४५ मुघतं य एतद्विदुरमृतास्ते भवन्तीति । अत्र माणवज्रोद्यमनशा- ब्दाभ्यां सन्देहः । किं माणोपासना, इन्द्रोपासना वा, ब्रह्मवाक्यं वेति । बाधकशब्दस्य श्रुतित्वान्न प्रकरणेन निर्णयः । अमृतं वै माणा इति श्रुतेः । प्राणोपासकस्याप्यमृतमाप्तियुज्यते । इन्द्रस्या- प्यमरत्वात् । वज्रमुद्यतमिति प्राणपक्षे वियोजने मरणजनकत्वाद् भयरूपत्वम् । इन्द्रपक्षे बलाधिष्ठातृत्वात् माणत्वम् । तस्मात् प्राण इन्द्रो वा वाक्यार्थ इत्येवं प्राप्ते । उच्यते ॥ कम्पनात् ॥ कम्पनमत्र प्रथमवाक्यार्थः । स च भयहेतुकः । अविशेषेण सर्वजगत्कम्पनं भगवद्धेतुकमेव भवति । करणस्य ब्राह्मत्वात् तेनैव निश्चये विचारोऽनर्थक इति शङ्कायामा- हुः । * बाधकेत्यादि * । तथाच प्रकरणापेक्षया श्रुतेर्बलिष्ठत्वात् प्रकरणेन न निर्णय इत्यतो विचार आवश्यक इत्यर्थः । पूर्वपक्ष- माहुः । * अमृतमित्यादि * । तथा अमृतपदस्याप्यनेकार्थत्वाद् वा- क्योक्तफलेनापि न निर्णय इत्यर्थः । तर्हि प्राणविद्यैवास्त्वित्यत आहुः । * इन्द्रस्येत्यादि * । तदुपासकस्याप्यमृतत्वप्राप्तियुज्यत इति पूर्वेण सम्बन्धः । इन्द्रस्यात्र कथं प्राप्तिरित्यत आहुः । * वज्रमु- तिमिति * । तथाच लिङ्गात् प्राप्तिरित्यर्थः । * तस्मादिति * प्र- करणापेक्षया श्रुतिलिङ्गयोः प्रबलत्वात् । तथाच ब्रह्मवाक्यत्वाभावे पूर्वपक्षे तात्पर्यम् । सिद्धान्तं व्याचक्षते । * उच्यत इत्यादि * । अत्र हि, यदिदं किश्चेति पादत्रयमेकं वाक्यम् । य एतदिति तुरीय- पादो भिन्नं वाक्यम् । तत्र, यदिदं किश्च परिदृश्यमानमपरिहश्यमानं च सर्व जगत् प्राणे विद्यमाने निःसृतं बहिरागतं सदेजति कम्पते । तत्र हेतुः।महतां भयं तस्मात् तारशं वज्रमायुधमुचतं जगन्नियमना- योल्लासितमिति पदसम्बन्धात् कम्पनमत्र प्रथमवाक्यार्थः । स च भयहेतुकः । तेन खतः कम्पनं वार्यते । तथा, यदिदं किश्चेत्यनेन स- पदे सङ्कोचो वार्यते। अतोऽविशेषेणासङ्कोचेनेरशं सर्वं जगत्कम्पन भगवनेतुकमेव भवति । न प्राणे । तस्य स्खषियोगेन भयजनक- समकाशे अणुभाष्ये । नचैकान्ततो वज्र इन्द्रस्यैवायुवं भवति । अग्निहृदयत्वात् । तस्य तातस्य हृदयमाच्छिन्दव साऽशनिरभवदिति श्रुतेः । तस्मा- न्मारकरूपमेवेदं भगवतः । प्राणशब्दवाच्यत्वं तु पूर्वमेव सिद्धम् । तस्मात् सर्वजगत्कम्पनं भगवत्कृतमिति भगवानेव वाक्यार्थः ॥३९॥ ज्योतिर्दर्शनात् ॥ ४० ॥ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरभि- तयेहशकम्पनाहेतुत्वात् । ननु तर्हि श्रुतेः साधारणत्वान्माऽस्तु प्राणः, किन्त्विन्द्र एवास्तु । वाक्यापेक्षया लिङ्गस्य प्राबल्यादित्यत आहुः * नचेत्यादि * । सिद्धमाहुः * तस्मादित्यादि * । यस्मादिन्द्रप्राणी नात्र शक्यवचनी तस्मात् तथेत्यर्थः । ननु तथापि प्राणशब्दवाच्य- स्वस्य, अत एव प्राण इत्यधिकरण एवावधारितत्वादस्याधिकरण- स्य किं प्रयोजनमत आहुः । * प्राणेत्यादि *। * तस्मादिति * । यस्मादुक्तवाक्यार्थरूपत्वं न पूर्वत्र प्राणशब्दशब्दिते सिद्धं तस्मात् । अत्रैतादृशस्य हेतोर्वाक्यान्तरे अदर्शमा तुरेव पक्षमाक्षेप्स्यतीत्या- शयाद्विमृएनिष्ठविशेषान्तरविमर्शावधारणेनैव तत्स्फुरणाञ्च पक्षानु- ल्लेख इति न न्यूनता । आधारता तु विषयवाक्य एव स्फुटा । अत्रा- ऽवान्तरप्रलयकर्तृत्वं प्राणे आशङ्ख्य तनिवारणाय अज्ञभयोत्पादकत्वेन सद् ब्रह्मणि साधितम् । तेन बुद्धिस्थानात्मिकैवाधिकरणमङ्गतिः । यत्तु शङ्कराचार्यरत्र ब्रह्मप्रतिपत्तौ पूर्वोत्तरपलोचनादिति हेतुरु- कः । तत्तु सूत्रमेव विरुणद्धि । सूत्रे कम्पनस्यैव हेतुत्वेन कथनात् । योऽप्येजयितृत्वस्य ब्रह्मधर्मत्वेन प्राणेनेति मन्त्रस्य तद्बोधकतयोप- न्यासः । सोऽपि तथा। मन्त्रे जीवनस्य तथात्वेनोक्ततया कम्पनाबो- धकत्वादिति ॥ ३९ ॥ ॥१०॥ ज्योतिर्दर्शनात् ॥ * य एष इत्यादि * इदं छान्दोग्ये दशम- प्रपाठके दहरविद्यायामिन्द्रप्रजापतिसंवादे च पठ्यते । एतावान् परं विशेषः । पूर्वत्र, निप्पद्यत इत्यनन्तरं, स आत्मेति वाक्यशेषः ।
१ अध्याये ३ पादः। सम्पद्य स्खेन रूपेणाभिनिष्पद्यत इति । तत्र संशयः । परं ज्यो- तिर्महाभूतरूपं ब्रह्म वेति । ब्रह्मधर्माश्च ये केचित् सिद्धा युक्त्यापि साधिताः । निर्णायकास्ततोऽप्यन्ये चत्वारोऽत्र निरूपिताः । तत्र रूढ्योपपत्त्या च महाभूतमेव ज्योतिरिसेवं प्राप्ते । उ- च्यते । ज्योतिर्ब्रह्मैव । कुतः । दर्शनात् । सर्वत्र दर्शनं न्याय इति द्वितीये तु, स उत्तमः पुरुष इति । तत्रोत्तरवाक्यमसन्दिग्धम् । गीतायाम, उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत इत्युपबृंहणेनास्य जीवबोधकताया वक्तुमशक्यत्वात् । तेन स तत्र पर्येति जान् क्रीडन्नित्यग्रिमे वाक्ये तच्छब्दद्वयेनोभयोः परामर्शेऽपिविभक्तिसामा- नाधिकरण्यं सन्निधि चानाहत्य व्यवहितं व्यधिकरणविभक्तिबोधि- तमपि ब्रह्मवादरणीयमिति निश्चयात् । अतो दहरविद्यास्थं वाक्यमेव विषयः । सशयस्तु स्फुट एव । तबीजं तु प्रकरणापेक्षया श्रुतेः प्रा- बल्यम् । ज्योतिश्चरणाधिकरणेनास्य गतार्थतानिरासायास्य प्रयोजनं कारिकयाहुः । * ब्रह्मेत्यादि *। * चत्वार इति *। उपसम्पत्तव्यत्व- म् उपसम्पन्नस्वरूपाभिनिष्पादकत्वम् । पूर्ववाक्यगतं हृदयत्वं, स- त्यपदोक्तं माऽमृतनियामकत्वं चोत्तरवाक्यगतम् । तद्यथापि हिर- ण्यनिधिमित्यारभ्यैवंवित् स्वर्ग लोकमेतीति वाक्यैक्यातू । * निरू- पिता इति * । निर्णायका निरूपिताः । अतो न गतार्थतेत्यर्थः । पूर्व- पक्षमाहुः । * तत्रेत्यादि * । * उपपत्त्येति * । अस्माच्छरीरातू स- मुत्थायेत्यादिबोधितया तया । राजशिबिराणि तीरात समुत्थिता- नीत्यादी लोके समुत्थानस्योगमने प्रयोगदर्शनादत्र च शरीरादुद्गमनो- तरं ज्योतिष उपसम्पत्तिबोधनात् । तस्याश्चार्चिरादिमार्गेण जीव- स्य गमने अर्चिराद्यपेक्षया आदित्यादेः परत्वादिति । सिद्धान्तमा- हुः । * उच्यत इत्यादि *। * सर्वत्र दर्शनमिति *। समानप्रकरणे एतत्स्थाने ब्रह्मवाचकपददर्शनम् । तथाच यत्र ब्रह्मघाचकं पदमभि- धीयते तस्मिन् स्थाने। अन ज्योतिःपदं दृश्यते । अतस्तथेत्यर्थः। तदेव ४४८ समकाशे अणुभाष्ये । यावत् । सुषुप्तौ सर्वत्र, सता सौम्य तदा सम्पनो भवति । सति सम्पद्य न विदुः । सति सम्पद्यामह इति । अहरहर्ब्रह्मलोकं ग- च्छन्तीसादिप्रदेशेषु ब्रह्मसम्पत्तिरेवोक्ता । अत्रापि सम्प्रसाद. वचनात् परं ज्योतिर्ब्रमेव । तस्माद् यः कश्चन शब्दो ब्रह्मस्थाने पठितस्तद्वाचक एवेति ॥ ४० ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥ आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद् ब्रह्मति श्रूयते । तत्राकाशशब्दे सन्देहः । भूताकाशः परमात्मा वेति । नामरूपनिर्वाहमात्रत्वमवकाशदानाद् भूताकाशस्यापि भवतीति न ब्रह्मपरत्वम् । अन्यस्य च नियामकस्याभावादियेवं प्राप्ते । दर्शयन्ति । * सुषुप्तावित्यादि * । * सम्प्रसादवचनादिति * । सु- षुप्तावस्थत्वबोधकादेतद्वचनात् । सिद्धमाहुः । * तस्मादित्यादि * । अत्र जीवस्वरूपापत्तिहेतुत्वेन महाभूतरूपे ज्योतिषि प्रलवकर्तृत्व- स्यातिव्याप्तिबुद्धिस्या निवारिता ॥ ४० ॥ ॥ ११ ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ * श्रूयते इति * । छा- न्दोग्यसमाप्ती भूयते । * आकाशशब्दे सन्देह इति * । उभयत्न प्र- योगसाधारण्यात् । श्रुतौ वैशब्दात् प्रसिद्ध्यनुग्रहेण ब्रह्मशब्दोक्तया चोभयोर्बोधनाच शब्दे सन्देह इत्यर्थः । अनेन वीजमुक्तम् । पूर्वपक्ष- माहुः * नामेत्यादि * । नामरूपयोनिर्वाहोऽविच्छेदेन चालनम् । त- कर्तृत्वमात्रमत्र प्रतीयते, न तु कश्चिदन्यो धर्मः । तत्त्ववकाशदानादू भूताकाशस्यापि सम्भवतीत्याकाशपदस्य न ब्रह्मपरत्वम् । नच धर्म- स्य सामान्यत्वेन प्रकरणबलादू ब्रह्मपरत्वमेव कुतो नाद्रियत इति शयम् । प्रजापतिरुवाचेत्यस्य द्विरुक्तथा ब्रह्मप्रकरणस्य समाप्त्यव- गमात् । श्यामाच्छबलमित्यादिना प्रकरणान्तरेण व्यवधानाच । नापि जीवपरत्वं शङ्कितुं शक्यम् । अभिसम्भवानीत्यस्य द्विरुक्तया तलकरणस्यापि समाप्तेः । आकाशपदस्य जीवे कापि प्रयोगादर्शना- अध्याये ३ पादः। उच्यते। आकाशः परमात्मा । अर्थान्तरत्वादिव्यपदेशात् । यद् भूताकाशस्य प्रयोजनं श्रुतिसिद्ध, तस्मादन्यस्य व्यपदेशः कार्या. न्तरादिव्यपदेशश्च । यत्रैव हि सिद्धवत्कारेणोत्कृष्टधर्मा अतदीया- स्तदेव ब्रह्मेति । नापि नामरूपनिर्वाह आकाशस्य माहात्म्यहेतु- भवति । वै निश्चयेनेति सिद्धवत्कारानोपासनापरत्वम् । च। अतोऽस्यैवधर्मस्य यद्ब्रह्मधर्मतानियामकंतदन किमपिन हश्यते । नचोपसंहारगतानां ब्रह्माऽमृतात्मशब्दानां तथात्वम् । अवकाशदान- कृतहणनित्यत्वव्यापकत्वगुणयोगेन प्रशंसानिबन्धनया गोण्या- पि नेतुं शक्यत्वात् । नापि, ते यदन्तरेत्युक्तस्य नामरूपान्तर्वर्तित्व- स्य तथात्वम् । व्यापकतयाऽकाशेऽपि तत्सिद्धेः । अत उपक्रमगत- स्याकाशपदस्योच्चारणमात्रेण भूताकाशावगमात् स एव ग्राहा इत्ये- व प्राप्त इत्यर्थः । सिद्धान्तं व्याचक्षते । * यद्भतेत्यादि * । अर्थः प्र- योजनं यद्भताकाशस्य श्रुतिसिद्धं वायुजननं, तस्मादन्यस्य व्यपदे- शः । ते यदन्तरेत्यनेनोक्तस्यासमन्तात् तदन्तःस्थापनरूपस्यादिप. देन ब्रह्मत्वादेश्च यो व्यपदेशः कथनम् । तथाच, अन्तरः अर्थो य- स्मादित्यर्थान्तरम् । वाऽऽहिताग्न्यादिग्विति परनिपातः । एवमत्र बहुव्रीहिणा कर्ता बोध्यते । अन्योऽर्थोऽर्थान्तरमिति नित्यसमास- पक्षे लक्षणया कर्तृलाभः । तस्य भावोऽर्थान्तरत्वम् । तदादीनि । ते यदन्तरेत्युक्तं बहिष्ठान्तःस्थापनम् । ब्रह्मादिश्रुतयश्च । तेषां व्य- पदेशात् कथनादाकाशो' ब्रह्मैव । नहि रूपान्तर्गतस्य निरूह्यस्या- काशस्थासङ्कुचितं तन्निर्वोदृत्वं सम्भवति न वा कापि श्रुतावाकाश- माहात्म्यहेतुत्वेन तदुक्तमस्ति । नाप्यसङ्कुचितं तयोरन्तःस्थापन बृहणं वा तथा । वायुजनकत्वस्यैव श्रावणात् । अत आकाशकार्या- तिरिक्तकार्यकर्तृत्वादेरत्रोक्तत्वाद् ब्रह्मादिश्रुतीनां चानुकल्यादुप- संहारस्य प्राबल्यमिति ब्रह्मेवाकाशः। खारसिकं च शब्दानां ब्रह्म- वाचकत्वमतो न लक्षणादोषोऽपि । तेनेदं सिद्धम् । यत्रैव सिद्धव- कारणोत्कृष्टधर्मा अतदीयास्तदेव ब्रह्मेति । अथ लोकहष्टया विचा- र्यम् तदसङ्गतम् । 'अदो ददाति श्वसतां पदं यनियमानभ' इति सप्रकाशे अणुभाष्ये । निर्वाहस्य ब्रह्मधर्मत्वं न श्रुसन्तरसिद्धमिति विचारः । अर्थाप- तिसूचकस्त्वयमेव न्याय इति । तस्माद् यत्रैवातद्धर्मकथनमन्यवाच्यस्य तत्रैव ब्रह्मपरत्वमिति सिद्धम् ॥ ४१ ॥ स्मृतेस्तस्यापि भगवदधीनत्वान्नामरूपनिर्वाह आकाशस्य माहात्म्य- हेतुरपि न भवति । नच तर्युपासनार्थ तदुक्तिराकाशेऽस्त्विति वा- च्यम्। यतो, वै निश्चयेनेति सिद्धवत्कारानोपासनापरत्वं वक्तुं शक्यते । तस्माद् ब्रह्मधर्म एवायं निर्वाह इत्यर्थः । ननु यद्ययं निर्वाहो ब्रह्मधर्म एव, तदा, तद्धर्माधिकरणेन वा, तलिङ्गाधिकरणेन वा गतार्थत्वाद् व्यर्थः सूत्रारम्भ इत्यत आहुः । * निर्वाहस्येत्या- दि * । तत्रापि विशेषमाहुः । * अर्थापत्तीत्यादि * । यद्यपि कम्पनमपि न प्रसिद्धश्रुत्यन्तरसिद्धं, तथापि प्रकरणबलावु- तरवाक्ये कम्पनहेतोर्ब्रह्मणः सकाशाद् भयस्योक्तत्वाच त- स्य ब्रह्मकार्यत्वनिश्चयेन ब्रह्मवाक्यत्वसाधकता तस्य युक्ता। प्रकृते तु वाक्यस्यानारभ्याधीतत्वात् प्रमाणान्तराभावाध न कथमपि ब्रह्मवाक्यत्वसिद्धिरतोऽयमेव न्यायस्तयेत्यर्थः । नन्व- स्त्वेवं, तथापि पक्षनिर्देशोऽत्र न युक्तः । किन्तु ब्रह्मत्वमात्र साधनीयम् । ततश्च वाक्यस्यापि ब्रह्मवाक्यत्वं सुखेनैव सिद्धयेदि- त्यत आहुः । * तस्मादित्यादि *। * अन्यवाच्यस्येति * अन्यवा- चकपदवाच्यस्य । तथाचैतदर्थ पक्षनिर्देश इत्यर्थः । एवं प्रयो- जनकथनेनास्य, तल्लिङ्गाधिकरणेन गतार्थता तत्प्रपञ्चत्वं च निवारि- तम् । अत्र चाकाशस्य नामादिनिर्वाहकत्वेन स्थितिकर्तृत्वस्यातिव्या- प्तिमाशय बुद्धिस्था सा निवारिता। यतु शिवत्वविवेके, उपक्रमस्थाश्यामाकाशश्रुतिप्रसिद्धलि- गाभ्यामस्य वाक्यस्य भूताफाशपरत्वेऽपि पाश्चात्यानामसङ्कुचित- नामरूपनियोंढत्वतदर्थान्तरत्वाऽमृतत्वलिङ्गब्रह्मात्मश्रुतीनां भूयस्तया प्राबल्यात् तदनुरोधेनोपक्रमप्रापितमपि भूताकाशपरत्वमपोह्य ब्रह्म- परत्वं स्थाप्यत इत्युक्तम् । तत् सूतविरुद्ध मेव । लिङ्गभूयस्त्वस्यात्र हेतुत्वानुल्लेखात् ।
, अध्याये ३ पादः। ४५१ यत्तु शङ्कराचायाः । ते यदन्तरेत्यस्य नामरूपे यनिने इत्यर्थानामरूपाभ्यां व्यतिरिक्तमर्थान्तरं व्यपदिशतीति नाम- रूपव्यतिरिक्तत्वं ब्रह्मलिङ्गं हेतूकृस्यास्य तलिङ्गाधिकरणप्रपञ्चत्व- मूचुः। तन्मतेऽधिकरणवैयर्थ्यमेव । निर्वाहस्य स्थितिरूपत्वेन तल्लिङ्गा- धिकरणविषयवाक्यादेव प्राप्ततया प्रपश्वरूपत्वस्य वक्तुमशक्यत्वा- त् । नामरूपव्यतिरिक्तत्वस्य स्पष्टलिङ्गत्वेनैतत्प्रणयनानावश्यकता- या अपरिहाराच्च । भास्कराचार्योक्तमप्येतेनैव व्याख्यातप्रायम् । यदपि विज्ञानभिक्षुः । यावान् वा अयमाकाशस्तावानेषोऽन्त- हृदय आकाशः । आकाशो चै नामरूपयोनिर्वहिता । परमे व्यो- मन् प्रतिष्ठितेत्यादिषु ब्रह्मैवाफाशशब्दवाच्यं भवति । अर्थान्तरत्वा- दिव्यपदेशात् । अर्थस्य अन्तरोऽर्थान्तरः । तस्य भावस्तत्त्वम् । आ- दिपदेन नित्यत्वासङ्गत्वसूक्ष्मत्वादयो माह्याः । तेषां व्यपदेण्यात् । आकाशवत् सर्वगतश्च नित्य इत्यादिषु कथनादित्याह । तन्मते व्यापकत्वकृतस्यार्थान्तर्वर्तित्वस्याकाशसाधारण्याद्, यावान् वे तद्भिन्नेषूक्तवाक्येष्वाकाशपदेन केवलम्रह्मासिद्ध्या लि- सत्त्वे च तल्लिङ्गाधिकरणेन गतार्थत्वापत्त्याऽधिकरणवैयर्थ्यमेव । शैवस्तु । आकाशो भूतं, जीवो, ब्रह्म वा ? इति सन्दिय, अमृतत्वादितधर्मव्यपदेशादित्याह । तदपि, यदत्ति तदमृतमिति, अमृताक्षरं हर इति जीवे- ऽप्यमृतप्रयोगात् सौत्रतोरयोगाचासङ्गतमेव । रामानुजाचार्यास्तु । आकाशपरोक्तो मुक्तात्मा, परमात्मा वा ? इति सन्देहे । अश्व इव रोमाणि विधूय पापमिति मन्त्रे मुक्तस्यान- न्तरं प्रकृतत्वात, ते यदन्तरेत्यत्रापि नामरूपविमुक्तस्य तस्यैवाभिधाना- तू । नामरूपनिर्वाहकत्वस्य तत्पूर्वावस्थायां सम्भवात् । मुक्तावस्थायां ब्रह्मादिशब्दानां सम्भवात् । असङ्कुचितप्रकाशयोगेनाकाशप्रयोग- स्थापि सम्भवान्मुक्तजीव एवात्रोच्यत इति पूर्वपक्षे । अत्र परमात्मै- व । अर्थान्तरत्वादिव्यपदेशात् । आकाशो वै नामरूपयोर्निर्वहितेति मिर्योदृत्वमत्रोच्यते । तवामुक्तस्य नामरूपभाक्त्वान्मुक्तस्य जगद्- व्यापारराहित्यादित्येवमुभयोर्न सङ्गच्छते । ईश्वरस्य तु, अनेन समकाशे अणुभाष्ये । सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥ बृहदारण्यके ज्योतिर्ब्राह्मणे, याज्ञवल्क्य किंज्योतिरयं पुरुष इसारभ्य, अभय ह वै ब्रह्म भवति य एवं वेदेयन्ते सन्दे- हः। किं ब्रह्मवाक्यमेतद् उत जीवस्येति । जीवनात्मनेति,यः सर्वज्ञः सर्ववित्, तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते, सर्वाणि रूपाणि विचिन्त्येत्यादिषु श्रुत्यन्तं तदेवोपपादयति । ते यदन्तरेति । यद् यस्माद् अयमाकाशस्ते नामरूपे अन्तरा ताभ्या- मस्पृष्टोऽर्थान्तरभूतस्तस्मात् तयोर्निर्वोढा अपहतपाप्मत्वात् सत्य- सङ्कल्पत्वाञ्च निर्वहिता । आदिपदेन ब्रह्मत्वादीनां संग्रहः । तथा- चान्योऽर्थोऽर्थान्तरं, तस्य भावस्तत्त्वम् । तदादीनां व्यपदेशादित्य- यः। नच मुक्तस्यानन्तरं प्रकृतत्वान्नैवमिति वाच्यम् । मन्त्रेऽपि, ब्र- झलोकमभिसम्भवानीति परस्यैव ब्रह्मणः प्रकृतत्वादित्याहुः । तत्र सर्वापेक्षया प्रबलां श्रुतिमतिहाय लिङ्गाद्यपेक्षया निर्ब- लं प्रकरणमादाय संशयोत्थापनं चिन्त्यम् । मध्वभाष्यव्याख्यायां जयतीर्थस्तु । ते यदन्तरेत्यस्य, यद् ब्रह्म ते अन्तरा नामरूपे विना वर्तत इति व्याख्यानं कृत्वा, नामरूप- राहित्याख्यविलक्षार्थव्यपदेशात्, तद् ब्रह्मेति ब्रह्मत्वव्यपदेशाच । यद्वा । अर्थान्तरत्वं रूपराहित्यम् । आदिपदेनाऽनामत्वमित्येवं सौत्रं हेतुं व्याचख्यो । तच्चानामरूपत्वं भाष्यकारैरनामासौ प्रसिद्धत्वा- दरूपो भूतवर्जनादिति ब्राह्मवाक्येनोपबृंहितम् ॥ ४१॥ ॥ १२ ॥ सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ विषयवाक्यमाहुः । * बृहदारण्यक इत्यादि * य एवं वेदेत्यन्ते सन्देह इति * / * बृहदारण्यक इति * तस्य षष्ठे प्रपाठके । अत्र, पत्यादिशब्दसूत्रात् तावदन्तं विषयवा- क्यं, ब्राह्मणभेदेऽपि द्विरुक्त्यर्थादिरूपवाक्यभेदकादर्शनाचेति क्षेयम् । तेन ज्योतिर्लाह्मणं शारीरब्राह्मणं चेत्युभयोरन विषयवाक्यत्वात् वत्र सन्देह इत्यर्थः । सन्देहाकारमाहुः * किं ब्रह्मेत्यादि * । तथाच , अध्याये ३ पादः। जीवस्य ब्रह्मत्वप्रतिपादने जीववाक्यत्वम्।खातन्त्र्येणब्रह्मण एव ज्ञानकर्मत्वे ब्रह्मवाक्यत्वमिति । यद्यप्यर्थज्ञाने न सन्देहस्तथापि नियामकं हेतुमाह ॥ भेदेनेति॥ तस्यायमर्थः । किंज्योतिरयं जीव इति प्रश्ने सूर्यचन्द्राग्निवानि- राकरणानन्तरम्, आत्मज्योतिः । आत्मा भगवानेवास्य ज्योतिरि- वाक्यमेव सन्दिग्धं, न तु पूर्ववद्वाक्यगतः कश्चिदेव शब्द इत्यर्थः । सन्देह बीजमाहुः । * जीवस्येत्यादि *। * स्वातन्त्र्येणेति *। मुख्य- तया। * शानकर्मत्वे इति * क्षेयत्वे । तथाचोभयथापि शक्यवचनत्वं सन्देहबीजमित्यर्थः । अत्र पूर्वा कोटिः शङ्कराचार्याहता बोध्या । तर्युभयथा शक्यवचनत्वे कथं सन्देह निवृत्तिरित्याकाङ्क्षायामर्थ- ज्ञानानिवृत्तिरित्यभिप्रेत्य तत्तात्पर्यबोधकं हेतुमवतारयन्ति । * यद्य- पीत्यादि * । सन्देहो ह्युभयसाधारणैः पदेस्तादशैरवान्तरवाक्यैश्च भवति । यदा पुनस्तेषां प्रयोजनविचारात् तात्पर्यमवधार्यते तदैकत- रपक्षपाते सोऽपैतीत्यर्थशाने सति न सन्देहस्तथापि तदेव कथं स्या- दित्याकाङ्क्षायां विवक्षितार्थनियामकं हेतुमाहेत्यर्थः । * भेदेनेति * । व्यपदेशादिति पूर्वसूत्रोक्तहेत्वेकदेशोऽत्रानुवर्तते । तथाच, भेदेन व्यपदेशादित्येतावानत्र हेतुरित्यर्थः । नन्वयं हेतुर्जीवब्रह्मताप्रतिपा- दकवाक्यत्वाङ्गीकर्तृभिस्तत्प्रतिपादकत्वेनेवाद्रियते । तथाहि । अत्र, योऽयं विज्ञानमयः प्राणेग्वित्युपक्रमे जीवलिङ्गादुपसंहारे च, स वा एष इत्यनेन तस्यैव परामर्शान्मध्ये बुद्धान्ताद्यवस्थोक्तेश्च संसायुच्य- त इत्याशय पुनः पुनर्मोक्षप्रश्नात् तत्र तत्रानन्वागतपदस्य पुण्यपा- पबुद्धान्ताद्यवस्थासम्बन्धराहित्यबोधकस्य प्रयोगाश्चतैर्मुक्तं तत्स्वरू- पं प्राशपदोक्तादीश्वरादू भेदेनोच्यत इति कथनात् । अतः कथमस्य विवक्षितार्थनियामकत्वमित्यपेक्षायां तद् व्युत्पादयन्ति । * तस्या- ऽयमर्थ इत्यादि * 1 * अयमिति * वक्ष्यमाणरीतिकः । * जीव इति * श्रौतस्य पदस्यार्थः । * आत्मा भगवानिति * याज्ञवल्क्यस्याशय उक्तः । तत्र 'युक्तिस्तु यदि जीवः स्वज्योतिः स्यादादित्यादिस- प्तायामपि तदनपेक्ष एव पर्ययनादिकं कुर्यात् । एवं त्वादिस्यादिवद यदा भगवाननुगृह्णाति तदा तत् कुरुते, नो बेनेति कार्यकादाचि सप्रकाशे अणुभाष्ये । त्युत्तरानन्तरं, कतम आत्मेति प्रश्ने, योऽयं विज्ञानमयो ज्ञान- रूप इन्द्रियेषु हृदि च प्रकाशमान इत्युत्तरे, जीवोऽप्येतादृश इति तनिराकरणार्थ स समानः सन् जीवतुल्यः सन् क्रीडतीसाह । स्कत्वरूपाऽवगन्तव्या । तस्या अनुक्तवादात्मज्योतिरित्युत्तरानन्तरं राज्ञा आत्मविषयकः, कतम आत्मेति प्रश्नः कृतः । स च न देहेन्द्रि- यप्राणान्तःकरणेष्वन्यतमस्यात्मत्वसम्भावनामूलकः । सम्राट्त्वेन बहुश्रुततया तस्य तत्कोट्यनुपस्थानात् । मेधावी राजेत्यग्रे कथना- थ। किन्तु जीवब्रह्मकोटिमूलक एव । ताहशे प्रश्ने, योऽयमित्यादिनो- क्तमुत्तरम् । तत्रान्तर्योतिरित्यस्य तेषु प्रकाशमान इत्यर्थः । इदं च प्रकाशमानत्वं जीवस्याभिमानतया भगवतस्त्वन्तर्यामितयेत्युभ- यसाधारणम् । अत एतावत्युत्तरे उक्त जीवोऽप्येतादृश इति तस्य सन्देहो नापैष्यतीति तन्निराकरणार्थ, स समानः सन्नित्याद्याह । एवं विज्ञानमयत्वस्य प्राणान्तर्वर्तित्वस्य च साधारण्यबोधनेन त- यो वलिङ्गता निवारिता । तेनैवोपसंहारस्यापि जीवपरत्वं वारित- प्रायमेव । अतः परं स समान इत्यादेरर्थो विचार्यते । तत्र स इत्या- दित्यादिवजीवातुग्रहकः । क्रीडा तु, उभौ लोको सञ्चरति ध्याय- तीव लेलायतीवेत्युक्ता । लेलायतीवेत्यस्य लोलायतीवेत्यर्थः । ओ- कारस्थान एकारः। यत्तु विज्ञायतेऽनेनेति विज्ञानं बुद्धिः । तन्मयस्तप्तायः प्राणे- विति सामीप्ये सप्तमी । बुद्धीन्द्रियकर्मेन्द्रियमाणात्मकपश्चदश- प्राणसमीपस्थो हृद्यन्तोतिरिति लक्षणया हदयस्थबुद्धावन्तर्वर्त- मानं ज्योतिरात्मा । आत्मनवायं ज्योतिषेत्युपक्रमात् । पुरुषः पूर्णः स हृद्यन्तज्योतीरूप आत्मा समानः सन् प्रकृतत्वात् सन्निहितत्वा- व बुद्ध्या सरशः सन्नन्योन्यधर्माध्यासे सति तप्तायःपिण्डवत् ता- दात्म्यमापन्नः सन्निति कैश्चिद् व्याख्यातम् । तन्मन्दम् । बुद्धरत्राप्रकृतत्वेन तत्सारश्यकथनस्थासङ्गतत्वा- व । विज्ञानमय इत्यत्र विज्ञानपदे, नित्यं विज्ञानमानन्दं ब्रह्मति १ अध्याये ३ पादः। तस्योभयधर्मा अप्युच्यन्ते क्रियामात्रस्य तन्मूलत्वाय । तत्र हि चत्वारि स्थानानि । अयं लोकः परलोकः स्वप्न इति त्रयं जीवसमानतया अनुभवति । तत्र स्वप्नस्य मिथ्यात्वाद् द्वयमेव । मुषुप्तं च चतुर्थम् । जीवस्य तु मोक्षोऽपि । ब्रह्मवाचकत्वत्यागेन योगग्रहणे बीजाभावे बुद्धग्रहीतुमशक्य- त्वात् । यद्यत्र बुद्धिरभिप्रेर्ता स्थाद्, वानिराकरणोत्तर, बुद्धिज्योतिरित्यपि मध्ये वदेत् । । अतोऽत्र विज्ञानमयपदे भानप्रचुरं सर्वशं ब्रह्मवाभिप्रेतम् । अनुप्राहकत्वेनात्मन एवोक्त- त्वात् । तस्य चान्तर्यामितया सर्वेग्वेव प्राणेप्ववस्थानात् । हृद्ययमि- ति श्रुतेर्हृद्यप्यवस्थानात् । एवञ्च हृदीत्यत्र लक्षणापि न स्यात् । परं त्वेतेषां पदानां कश्चिज्जीवेऽपि वृत्तेस्तस्य निराकरणाय स समानःस- नित्यादि वदतीत्येव युक्तम् । श्लेषेण परोक्षवादस्तु, समेनेन वदिग्य इति प्राथमिकाभिसन्धानाद् भगवतः परोक्षप्रियत्वज्ञानाच्च । तस्मा- बुक्त एवार्थ इति निश्चयः । ननु यद्यन ब्रह्म प्रतिपाद्यं स्यात् तदा ब्रह्मधर्मा एवान उक्ताः स्युन जीवधर्मा इत्यत आहुः । * तस्योभये- त्यादि। जीवमुख्यप्राणलिङ्गसूत्रे ब्रह्माश्रितत्वेन हेतुना जीवधर्माणां ब्रह्ममूलकत्वस्य साधितत्वात् तदत्रापि जीवक्रियाणां तन्मूलत्वं बोधयितुं तद्धर्मा उच्यन्ते । भगवद्धर्माश्चोच्यन्त इति तस्यैवोभये धर्मा इति न ब्रह्मप्रतिपादकत्वक्षतिरित्यर्थः । एवं ब्रह्मधर्मकथनव्यु- त्पादनेन प्रकरणस्य ब्राह्मत्वं प्रतिपाद्य क्रीडां व्युत्पादयितुमुभी लो- कावित्यादेरर्थमाहुः । * तत्रेत्यादि * तत्र भगवत्क्रीडायामेतल्लोक- परलोकसन्ध्यसम्प्रसादाख्यानि चत्वारि स्थानानि । तेम्वेतल्लोकादि- प्रयं जीवसमानतयाऽनुभवति । समानः सन्नुभौ लोको सञ्चरतीति श्रावणात् । नच त्रयाणां सत्त्वे कथं द्वयोर्निर्देश इति शङ्यम् । तत्र * तेषु स्थानेषु, स्वमस्य मिथ्यात्वात् *, सत्यं द्वयमेवेत्यभिप्रायेणो- भयनिर्देशात् । सुषुप्तं च चतुर्थम् । स एष तस्मिन् सम्प्रसादे रत्वा चरित्वेति वक्ष्यमाणालिङ्गात् । जीवस्य तु मोक्षोऽपि *, पञ्चम इति शेषः । एषोऽस्य परमो लोक इति वक्ष्यमाणत्वात् । तत्र समान- सप्रकाशे अणुभाष्ये । तत्रास्मिल्लोके जीवस्यानीशित्वं प्रसासिद्धम् । मोक्षे त्वै- क्यम् । स्वप्नस्तु माया । अतः परं द्वयमवशिष्यते । तत्र श्रुसैव भेदः मतिपादितः। तत्र भगवतो जीवसाम्ये अन्तःकरणेन्द्रियधर्माः प्राप्नुवन्तीति तत्रानुकरणमाह । ध्यायतीव लेलायतीवेति । बुद्धिसहितःस्वयमेव स्वप्नो भूत्वा जागरणानुसन्धानं न करोति । एवं जाग्रत्स्वापौ ब्र- मणो लोकद्वयं जीवस्य स्थानत्रयमाह । स वा अयमिति कण्डि- काद्वयेन। स इति पूर्वप्रक्रान्तो जीवः। जीवस्य शरीरेन्द्रियाणां दु:- ताया भेदतन्त्रत्वात् तं सर्वत्र वक्तुं विशेषमाहुः । * तनास्मिन्नि- त्यादि * । तत्राद्येऽनीशत्वाद् भेदः प्रत्यक्षसिद्धोऽतो नोक्तः । मोक्षे त्वैक्यमविभागे सत्यभेदप्रतीतिविषयत्वलक्षणमत्र, ब्रह्मैव सन् ब्रह्मा- प्येतीति श्रुत्यैव वक्ष्यतेऽतस्तत्रापि नोक्तः ।स्वप्नस्तु माया । अतस्तत्रापि नोक्तः । अतः परं द्वयमवशिष्यते * । सुषुप्तिः परलोकश्च । तत्र भेदः श्रुत्यैव * । अयं शारीर आत्मा प्राज्ञेनात्मना सम्परिष्वक्त इति । अयं शारीर आत्मा प्राज्ञेनात्मान्वारूढ इत्यनेन प्रतिपादितः । तथाच मोक्षव्यतिरिक्तेषु सत्येषु सर्वेषु स्थानेषु भेदस्य सिद्धत्वात् तस्यैव जीवे ब्रह्मतामिरासकतया विवक्षितार्थनियामकत्वमित्यभिप्रेत्याचार्यः सुषु- प्त्युत्क्रान्त्योरित्याहेत्यर्थः । एवं विशेष बोधयित्वा इह लोके क्री- डाप्रकारमा: * तत्रेत्यादि * । तथाचेह लोकेऽनुकरणेन क्रीडेत्य- यः । इदशावतारदशायामपि पुराणेषु तत्र सिद्धम् । चेरतुः प्राकृ- तो यथेत्यादौ च । स्वप्ने क्रीडाप्रकारमाहुः । * बुद्धीत्यादि * । अयं च, सधीः स्वप्नो भूत्वेत्यादेरर्थः । तथाच तन मायारूपेण जागर- णाननुसन्धानरूपा जीववत् क्रीडेत्यर्थः । एवमुभयत्र भगवत्क्रीडा- मुक्त्वा, स वा अयं पुरुष इति, तस्य वा एतस्य पुरुषस्येति कण्डि- कायस्यार्थमाहुः । * जीवस्येत्यादि *। * पूर्वप्रक्रान्त इति । कि- ज्योतिरयं पुरुष इति प्रश्ने प्रक्रान्तो, न तु, स समान इस्यत्रोक्तः । अयमितीदमा प्रत्यभिज्ञानात् । कण्डिफाद्वयसिद्धमर्थमाहुः । * जीव- स्वेत्यादि । दुःखदातृत्वञ्च पाप्मपदाज्नेयम् । तथाचैतयोधनेनानी- १ अध्याये ३ पादः। ४५७ खदातृत्वमेव । अथेति भगवचरित्रम् । स तु स्वस्यानन्दं जीवस्य दुःखं च पश्यति । भेदोऽथशब्दात् । जीवस्यानीशित्वात् येन प्रकारेणायं जीवः परलोके गच्छति तमुपायं भगवानेव करोति । शत्वख्यापनार्थमेतत्कण्डिकाद्वयकथनमित्यर्थः । अथ यथाक्रममि- त्यादेरर्थमाहुः । * अर्थतीत्यादि * । चरित्रस्य खरूपमाहुः । * स त्वित्यादि * । तदुक्तम्, अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान् पाप्मन आनन्दाँश्च पश्यति स इत्यन्तेन । श्रुत्यर्थस्तु, अथेति भिन्नप्रक्रमे । यथाक्रमः । आक्रमत्यनेनेत्याक्रम आश्रयोऽवष्टम्भो विद्याकर्मपूर्वप्रज्ञालक्षणो यादृश आक्रमो यस्यासी यथाक्रमः । अयं जीवः परलोकस्थाने भवति । परलोकस्थाने प्रासव्ये सति यादृशविद्याकर्मपूर्वप्रज्ञायुक्तो भवति तम् आक्रमं विद्यादि- लक्षणमाक्रम्यावष्टश्य । उभयान् एतस्यैव व्याख्यानं, पाप्मन आन- न्दाँश्चेति । पश्यति स परमात्मेति । तथाच जीवस्य क्वचिद् विद्यया परलोकः, क्वचित् कर्मपूर्वप्रज्ञाभ्याम् । भगवाँस्तु तत्तदन्तर्यामिलया लोकान्तर्यामितया च तत्तनियमयन् स्वस्यानन्दं जीवस्य दुर च सुखं च पश्यतीत्येषा परलोके जीववत् क्रीडेत्यर्थः । नन्वस्यां क- ण्डिकायां भगवश्चरित्रमेवोच्यत इत्यत्र कि गमकमत आहुः । * भे- दोऽथशब्दादिति * तथाच क्रमभेद एव गमक इत्यर्थः । तत्र यत् सिद्धं, तदाहुः । * जीवस्येत्यादि * । तथाचैषा द्वितीया तत्रत्या क्रीडेत्यर्थः। यत्रायं प्रस्खपितीस्यारभ्य, न प्रतिपद्यत इत्यन्ते यत् सिद्ध्यति तदन में प्रदर्शितमतः प्रदर्श्यते । यत्रायं प्रस्खपिति । यत्न स्थाने अयं जीवः प्रखपिति निद्राति, तत्र जीवस्य स्वानानुभवप्रकारं वक्ष्यस्त- खेतुभूतं भगवत्स्वापप्रकारमाह । अस्य जाग्रदधस्थायामनुभूयमानस्य लोकस्य, सर्वावतःसर्षपदार्थयुक्तस्य, मानां वासनात्मकमंशम् उपा- दाय गृहीत्वा स्वयं भगवान् विहत्य वासनाग्रहणे शानस्य स्थूलरूप- तिरोभावाजाग्रहहं निःसम्बोधं कृत्वा खयं निर्माय वक्ष्यमाणप्रकारेण ४५८ समकाशे अणुभाष्य । मानापदार्थनिर्माणं कृत्वा तत्रकरण स्वेन मासास्वधर्मात्मनशानेने- ति स्वेन ज्योतिषा प्रखपिति, अलुप्तहस्वभावेन स्वरूपेण, स सर्व- धीवृत्त्यनुभूतसर्व इत्यत्र स्वामजनक्षितैकपदव्याख्यानव्युत्पादितया रीत्या सर्व स्वाप्निकं विषयीकुर्वन् प्रस्वपितीति प्रकार उक्तः । अतः परं जीवस्य तत्प्रकारमाह । अनायमित्यादि । अत्रास्मिन् भगवत्खा- पे, अयं पुरुषो जीवः स्वयज्योतिर्भवति। भगवज्ज्योतिषा स्वममनु- भवनात्मज्योतिर्भवतीत्यर्थः । ननु हश्यानां बहिःष्ठत्वात् स्वप्नेऽन्तः- स्थः किं पश्यतीत्याकाङ्क्षायां स्वाप्नसृष्टेभिन्नत्वाय तत्र भगवत्कृतां सृष्टिमाह । न तत्र रथा इति कण्डिकायाम् । अत एव, स हि क- तेत्युक्त, न त्वयं कर्तेति। किञ्च, स्वप्नेऽपि सर्वपदार्थान् प्रति न जीवस्य कर्तुत्वं प्रतीयते । सिद्धवदेव बहूनां प्रत्ययात् । स्वदुःखजनकपदा- थे प्रतिस्वकर्तृत्वस्यासङ्गतत्वाच । अत्राप्यने, नन्तीवं जिनन्तीवेति श्रावणाच्च । तस्माद् भगवानेव खमसृष्टिकर्तेति निश्चयः । इममेवा- थै श्लोकैः संगृह्याह । तदप्यते श्लोका इति । तत् तत्र पूर्वोक्तऽर्थेऽपि, एते वक्ष्यमाणाः ग्लाका मन्त्राः सन्तीति शेषः । तानाह । स्वप्नेनेति । खमेन मायिकेन रूपेण शारीरं जीवमभिप्रहत्य तिरस्कृत्य असुप्तः स्वयं, सुप्तान प्राणादीन् अभिचाकशीतीति प्रकाशयति । शुक्रं शुद्धं खप्रकाशितं जीवमिन्द्रियादिकं चादाय पुनरैति आगच्छति । स्थान जाग्रल्लोकं, हिरण्मय आनन्दमयः, पौरुषः पुरुषः, पुरुषस्य जीवस्य सखा । एकहंसः । एको मुख्यः सन् सुप्ततिरस्कृतान् हसतीत्यर्थः । अन्यदपि खानं विशेषमाह । प्राणेनेति । प्राणेन पञ्चवृत्तिना आस- न्येन, अपरं निकृष्टं स्थूलं, कुलायं नीडं शरीरं रक्षन् मरणशून्यं कु- धन् अमृतः । पञ्चम्याः स्वादेशः । अमृतात् कुलयाद् बहिर्बुद्धिसंप- करहिते देशे चरित्वा स्वानं भोगं कृत्वा तत्कौतुकं दृष्ट्वेति यावत् । सः परमात्मा, यत्र कामम् । लिङ्गमशिष्यम् । यत्रेच्छा तत्र, अमृतः, अमरणधर्मा ईयते गच्छति । हिरण्मय इत्यादिकं पूर्ववत् । यत्र का- ममिति विवृणोति । स्वप्नान्ते स्वमदेशे । ईयमानः प्राप्नुवन् । शेषं स्फुटम् । रूपाणि देव इत्यादेः प्रदर्शितस्वप्नकथनस्य प्रयोजनं स्वय- ज्योतिष्ठसमर्थनमित्यभिप्रायेणाह । आराममिति । आरामम् आर- मणं क्रीडेति यावत् । अत्र यदि जीवः कर्तृत्वेनाभिप्रेतः स्यात् तदा, भाराम स्वस्य पश्यन्ति न वं पश्यति कश्चनेति श्रुति यात् । तं क- १ अध्याय ३ पादः। ४५९ अथो खल्विति भगवतो न जागरितस्वप्नभेदोऽस्तीति पक्षः। परं स्वयञ्ज्योतिष्वं तत्र स्पष्टम् । एतावद्दूरे भगवचरित्रमङ्गीकय जीवविमोक्षार्थ मश्नः । । श्चनेति कर्मकर्तृभानं च न घूयात् । एवं क्रीडां बोधयित्वा तस्या दु. ईयत्वाय जागरणं निषेधति । तदित्यादि । तत् तस्मात् को वेद स- स्मिन् समये भगवान् किं प्रदर्शितवानिति शानाभावात् कारणात् । आयतं गाढसुप्तं, न योधयेत् । न जाग़रयेत्।तत्र हेतुः। इत्याहुरित्या- दि । इति एवं वक्ष्यमाणं चिकित्सका आहुः। दुर्मिषज्यं दुश्चिकि- त्सत्वम् अस्मै सुप्ताय भवति । यदि बोधयेत् । यं देशमयं पश्यन् स्थितस्तमेष न प्रतिपद्यते, न प्राप्नोति । एवं भगवतः स्वप्नमङ्गीकृत्य स्वयंज्योतिष्ठं साधितम् । अतः परं भगवतः स्वप्नमनङ्गीकृत्य तथात्वं साधयतीत्याहुः । * अथो इत्यादि * । तथाच मतान्तरतयोल्लेखादय- यमन्यः पक्ष इत्यर्थः । श्रुत्यर्थस्तु । अथो इति भिन्नप्रक्रमे । खल्वाहुः । अर्थादन्ये । किम् ? । एष पूर्वोक्तोऽस्य भगवतो जागरितदेश एव । हि येतो हेतोः । यान्येव पदार्थजातानि जाग्रत् पश्यति तान्येव मुप्तः पश्यतीति । तदुक्तं श्रीभागवतेऽपि, लोकानपीतान् दहशे स्वदेह इति । तथाच यत्रापीतानामपि दर्शनं, तत्र स्थितानां दर्शने कः स. न्देह इति भगवतो न जागरितस्वामभेद इति प्रलय इवानापि स्वय- ज्योतिष्ठमिति तदाशयः । एतस्य मतान्तरत्वे हेतुमाहुः * परमित्या- दि * । * तत्रेति * । व्याख्याते पक्षे पूर्वमादित्यादीनां कथनाजागरि- ते स्वयज्योतिष्ट्रस्यास्पष्टत्वादत्रास्यानुपयोगित्वम् । परप्रतिपत्त्यभा- वादतः पूर्वोक्त एव पक्षोयुक्त इति तदाशय इत्यर्थः। एतच्छ्रवणोत्तरम्, एवमेवं तद् याज्ञवल्क्येति जनकेनाङ्गीकारात् प्रश्नोत्तरपूर्तिआतेति सिद्धम् । अतः परं यो मोक्षप्रश्नः, अत ऊर्ध्वं विमोक्षायैव बहीति स कुत इत्यपेक्षायामाहुः । * एतावदित्यादि * । समानः सन्नित्या- रभ्य स्वप्नपर्यन्तं भगवच्चरित्रं बन्धकमङ्गीकृत्य मोक्षस्तर्हि कथ- मित्याशयेन तत्प्रश्न इत्यर्थः । तर्हि मोक्षसाधनं तत्र वाच्यम् । जीवा ४६० सप्रकाशे अणुभाष्ये । सवा एष इति जीववाक्यम् । तस्य सहजःसङ्गो नास्तीति स्वप्न- सङ्गाभावं प्रसक्षतः प्रदर्शयन्नसङ्गत्वमाह । तावतापि जागरणाव- स्थायामसङ्गत्वज्ञानाय पुनः प्रश्नः । तत्र मत्स्यदृष्टान्तोऽवस्थाभे- दज्ञानाय क्रियाज्ञानप्रधानः । ऽवस्थादिकथनस्य कः प्रसङ्ग इत्यत आहुः । * स वा एष इत्यादि । जीववाक्येनाहेत्यर्थः । श्रुत्यर्थस्तु, स वा एष जीव एतस्मिन् स्वप्नान्ते स्वप्नदेशे रत्वा चरित्वा दृष्दैव पुण्यं च पापं च पुनः प्रतिन्यायं प्राति- लोम्येन नितराम आयो गमनं यथा स्यात् तथा, प्रतियोनि योति मिश्रीभवतीति योनिर्जागरितादिस्थानं तल्लक्ष्यीकृत्य आद्रवत्यागच्छति बुद्धान्ताय जागरणायैव । एवं जीवस्य क्रियां योधयित्वा तस्यास- गवं व्युत्पादयति । स यदत्र किञ्चित् पश्यत्यनन्वागतः । अनु- लगी त्याऽऽगतोऽन्वागतस्तद्भिन्नोऽमन्वागतः साक्षिभूत उदासीनः सः पश्यतीत्यनुभवसिद्धम् । तत्रत्यसुखदुःखेषु तत्साधने चा- नासक्तेरनुभवसिद्धत्वात् । तेन साक्षित्वेन हेतुना भवत्यसङ्गोऽना- सक्तो हि निश्चयेनायं पुरुष इतीति । तथाच मोक्षे स्वरूपयोग्यता- बोधनं प्रसङ्ग इत्यर्थः । द्वितीयप्रश्नतात्पर्यमाहुः । * तावतापीत्या- दि * । स्वप्ने असङ्गत्वे झातेपि जाग्रत्यासक्तिदर्शनात् तस्या यो- ग्यताया अकिञ्चित्करत्वमतस्तत्रासङ्गतत्वज्ञानाय पुनः प्रश्न इत्य- र्थः । भुतावत ऊर्ध्वमित्य॑स्य स्वप्नादुत्कृष्टायां जाग्रदवस्थायामि- त्यर्थः । उत्तरस्य तात्पर्यमाहुः । * तत्रेत्यादि * । * तत्रेति * उ- सरे । * क्रियाज्ञानप्रधान इति * क्रियाया ज्ञानं मुख्यं यत्र ताह- शः । तथाच यथा नदीक्रियाविलक्षणया क्रियया मत्स्ये नदीभि- नत्वज्ञानं, कूलद्वये सञ्चरणात् तत्र तत्र सहजासक्तिशून्यत्वज्ञानं च । तथा जीवस्य स्वप्नदेशे बुद्धदेशे च सञ्चरणक्रिययाऽवस्थाद्व- यभिन्नत्वज्ञानम् । उभयत्र सञ्चरणाच्च तत्र तत्र सहजासक्तिरहि- तत्वज्ञानम् । अतोऽयं दृष्टान्तस्तदर्थ तथेत्यर्थः । एवं जागरितेऽप्य- स्थासङ्गत्वे ज्ञाते, एतस्व सहजासक्तिः केत्याकाङ्क्षा स्यात्, तदर्थ प्रश्नं च कुर्यादतस्तदर्थ स्वत एवाग्रिमं वरदानानुरोधाद् वक्तीत्यग्रेऽनु- १ अध्याये ३ पादः। ४६१ श्येनसुपर्णदृष्टान्तस्तु सुषुप्तौ भगवत्स्वरूपप्राप्तयेऽवस्थान्तः । यति च भगवान् । पञ्चवर्णनाडीकृत एवास्य क्लेशो, भगवत्कृत एवानन्द इति स्वप्नानन्दो भगवद्रूपः परमो लोकः । सुषुप्तिस्त्व- कामरूपो भगवान् । अत्र ज्ञानाभावादुभयोः स्पष्टतया भेदनिर्देशः। शारीरः प्राज्ञ इति । शशासेति पदोक्त्या ज्ञायते । तदर्थ सर्वस्य प्रघट्टकस्याथै व- क्ष्यन्तः श्येनादिदृष्टान्ततात्पर्यमाहुः । * श्येनेत्यादि * तत्र भगवत्सत्त्वे किं मानम् ? अत आहुः । * अवस्थेत्यादि । एतस्मादन्ताय धावतीत्यन्तपदोक्तोऽवस्थान्तः । यत्र सुप्त इत्यग्रिम वाक्यं च सुषुप्तौ भगवत्सत्त्वे मानम् । श्रुतौ, सल्लयायैव ध्रियत इ- त्यस्य सम्यग् लयः श्लेषो यत्र ताहशस्थानाय गच्छतीत्यर्थादन्तपदेन भगवल्लाभात् । यत्रेति वाक्ये तु सर्वकामनाभावकथनेन तल्लाभादि- त्यर्थः । तताप्तिश्च न धावनमात्रेण, किन्तु हेत्वन्तरेणेति वक्तुं, ता वा अस्यैता इत्यादेस्तात्पर्यमाहुः । * पञ्चेत्यादि * । * भगवद्रूप इति * अक्षरात्मकः । तथा श्रुती नाडीः प्रक्रम्यान्ते, अविद्याभय- मन्यत इत्युपसंहारात् तास्वेवाविद्यासम्बन्धो दुःखदः । अग्रे तु भगवत्सम्बन्धात् साभिभूयते । ततोऽथेति प्रक्रमान्तरादुपसंहारे लोकपदाच्चाक्षरम् । ततः पुनरथशब्दात् कामाभावरूपलिङ्गप्रत्यभि- ज्ञानाच्च सुषुप्तिः सुष्टु सुप्तिर्यत्रेति तत्स्थानं भगवान् । तेन तत्स. म्बन्धादस्यापि सुषुप्तिरित्यर्थः । तत्र जीवेश्वरयोर्निर्देशस्य तात्पर्य- माहुः । * अत्रेत्यादि * । तद्वा अस्यैतदात्मकाममिति श्रुतौ तद् अन्ताय धावदेतद् उच्यमानमस्य जीवस्य आत्मकामरूपमकाममाप्त- काममित्युक्तम् । अत उभयोः साधर्म्य भेदक्षामाभावात् तज्ज्ञानार्थ स्त्रीदृष्टान्तपरिष्वङ्गक्रियातृतीयाविभक्तिभिर्भेदनिर्देशः कृत इत्यर्थः । बाह्याभ्यन्तरज्ञानाभावस्तु परिष्वङ्गहेतुक इति श्रुतावेव स्फुटम् । तथाच यद्यवस्थात्रयमुक्तं जीवखरूपमेतन्महावाक्ये विवक्षितं स्यात् तदा शारीरप्राशयोभिन्नावस्थावैशिष्टयेऽपि स्वरूपभेदादत्रोक्तमेतत्त्रयं विरुद्धयेत । यदि च परिष्वङ्गो नामात्यन्तमैक्यमिति विभाव्यते, ४६२ सप्रकाशे अणुभाष्ये । नाड्याच्छादनाभावोऽतिच्छन्दः । तत्र भगवत्स्वरूपं गतस्य बाह्येन्द्रियधर्माभावमाह । विजानीयादिसन्तेन बाह्यन्द्रियाणां स- लिलत्वमिति पूर्वोपपत्तिः। तदापि लक्षणादोषो दृष्टान्तविरोधश्च दुरुसुरः । तस्मान्नेदं जीवन- झताप्रतिपादकं वाक्यमिति हृदयम् । 'जाग्रत् स्वप्नः सुषुप्तिश्च गु- णतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चित' इत्यादिवाक्योक्ता वृत्तयस्तु विषयोपधानाजायन्ते । जाग्रति तथा निश्चयात् । विषयस्तु ततो भिन्न इति भगवतः सुषुप्तित्वोक्ती न किञ्चिद् बाधकम् । तमोऽभिभूतः सुखरूपमेतीति श्रुत्युक्तोऽभिभ- वस्तु भेदशानाभावे हेतुः । अविद्याप्युपकाराय विषवजायते नृ- णामिति मार्कण्डेयपुराणोक्तन्यायादागमनं प्रति च । ततोऽन्यत्र बु- शान्ताय गमनं चाविद्ययैवेति न कोऽपि कापि विरोधः । अतः परम् आत्मकामे रूपे आप्तकामत्वमकामत्वं च कुत इत्याकाङ्क्षापूरणाय, तद्वा अस्यैतदतिच्छन्द इत्यादिग्रन्थ इत्याशयेन तत्तात्पर्यमाहुः । * नाड्येत्यादि * । * तत्रेति * सुषुप्तौ । * बाह्येन्द्रियधर्माभावमिति * बाह्यादीनां त्रयाणामभावम् । * पूर्वोपपत्तिरिति * पूर्वोक्त सर्व- स्मिन् युक्तिः। श्रुत्यर्थस्तु, तद् आत्मकामं वै निश्चयेन अस्य जीवस्य एतत् प्राज्ञपरिवक्तम् अतिच्छन्दः । छादयतीति छन्दो नाडी। अतिक्रान्तं छन्दांसीत्यतिच्छन्दस्तदादिगुणकमतस्तथा । तीपहत- पाप्मत्वादिकमेव कथमित्यत आह । अत्र पितेत्यादि । तथाच नाडीछादनाभावेन पिनादीनां देहसम्बन्धिनां स्तनादीनां देहानां च सम्बन्धविरहादपहतपाप्म, पुण्यपापाऽसम्बन्धाद् अभयं, तीर्ण- शोकत्वादशोकान्तरमित्यर्थः । तर्हि पित्रादीनां पापान्तानां सत्त्वे कथं तदसम्बन्ध इत्यत आह । यद्वैतदित्यादि । वै एवकारार्थः । यद् वै यदेव तत् पूर्वोक्तं पित्रादिकं न पश्यति, सुषुप्ती भगवत्स्व- रूपं प्राप्तो न चक्षुर्विषयीकरोति तत् द्रष्टव्यं पूर्वोक्तं पश्यश्चक्षुर्गो- चरीकुर्वन्नेव न पश्यति । एवमुभयं प्रतिज्ञाय पूर्व दर्शनमुपपादय- ति । हि यतो हेतोष्टर्जीवस्य दृष्टेस्तद्धर्मरूपस्य शानस्य विपरिलोपो १ अध्याये ३ पादः। ४६३ एष ब्रह्मलोक इसारभ्य, अनुशवासैतदमृतमिसन्तेनानन्द- रूपो भगवान् प्रतिपादितः फलत्वाय । एतावता उभयासङ्गः प्र- तिपादितः। दर्शनसाधनतद्विषययोस्तत्राभावेन विरोधात सर्वात्मना अदर्शनं तन्न विद्यते । कुतः । अविनाशित्वात्। प्रकाशकस्यान्मज्योतिषः, सर्वे जीवाः सर्वमया इति श्रुत्यन्तरात् सर्वप्रचुरस्य जीवस्वरूपस्य च नित्यत्वात् । तदर्शनं कुत इत्यतस्तदुपपादयति । तुः शङ्कगनिरा- से । यत् पश्येदत्र यत्पदेन करणस्य विषयस्य च संग्रहः । तद् द्वि- तीयं करणं विषयश्च ततोऽन्यद् विभक्तं नास्ति । तथाच बाह्यस्य विषयस्य विभक्तस्य करणस्यचाभावात् । तधर्मरूपस्य दर्शनस्या- भाव इत्यर्थः । एवमग्रेऽपि सर्वत्र एवमत्र बाह्येन्द्रियधर्माणाम- भावः प्रतिपादितः । अतः परमन्यत्वविभक्तयोरभाव एव कथमित्य- तस्तदुपपादयति । सलिल इत्यादि । एको मुख्यो द्रष्टा भगवानेव सलिलः । यथोदकं शुद्ध शुखमासिक्तं ताहगेव भवतीति श्रुत्यन्त- रात् सलिलवत् । अद्वैतः । द्विधा इतं द्वीतम् । तस्य भावोऽद्वतम् । न विद्यते द्वैतं यस्मिन्नित्यद्वैतो भवतीति तदानीं भगवतः सर्वात्म- कत्वप्राकट्येन द्वैतराहित्यादन्यत्वविभक्तत्वयोरभाव इत्यर्थः तदिद- माहुः * बाह्येत्यादि *। एतदग्रिमग्रन्थस्य तात्पर्यमाहुः । * एष इत्या- दि * एष इत्यनेन, एको द्रष्टेत्यनेनोक्तं मुख्यं द्रष्टारं परामृश्य ब्रह्मलो. कपदेन तस्य ब्रह्मात्मकस्थानत्वं विधाय जीवस्य तावत्पर्यन्तं प्रा. प्तिरिति बोधनाय, एषास्य परमा सम्पदित्याधुक्त्वा तस्य माहा त्म्यबोधनायाऽन्येषामानन्दानामेतदंशत्वं बोधयित्वा, एष ब्रह्मलोकः सम्राडिति निगमयित्वा तस्य परब्रह्माभिन्नत्वाय भूमवाचकेनामृत- पदेनोपसंहारात तथेत्यर्थः । ननु खने जीवस्थासङ्गतत्वश्रवणेऽपि जागरिते सङ्गन स्वरूपयोग्यताविघटनमाशय तत्रापि तज्ज्ञानार्थ मोक्षसाधनप्रश्ने, तद्यथा महामत्स्य इति महामत्स्यदृष्टान्तेन पुन: पुनः स्वमान्तबुद्धान्तसंञ्चरणादेवासङ्गत्वं सिद्धम् । तदुत्तरं श्येन- सुपर्णमारभ्य यदेतावत् सुषुप्तिमाहात्म्यमुक्तं तस्य किं प्रयोजन- मत आहुः । * एतावतेत्यादि * । पुनः पुनरुभयन सञ्चरणादुभ- - समकाशे अणुभाष्ये । तस्यानुभवारूढत्वाय पुनः प्रश्नः।दर्शनादर्शनावापोद्वापाभ्यां सिद्धमसङ्गो ह्ययं पुरुष इति । एवं जीवं सुषुप्तौ भगवन्तं च ज्ञात्वा मोक्षोपायं पृच्छति । तत्र याज्ञवल्क्यस्य भयं जातं, सुबु- द्विरयं निर्वन्धेनापि सर्व ज्ञास्यतीति जीवब्रह्मधर्मानेकीकृस जीवो- पक्रमेण ब्रह्मोपसंहारेणाह । तत्र, स यत्रेति जीवस्य मूर्छापता- । . यत्र समाना तस्यासक्तिरिति स्यादतस्तान्नवृत्त्यर्थमेतावान् ग्रन्थ इत्यर्थः । तर्हि पुनर्मोक्षसाधनप्रश्नस्य किं प्रयोजनमत आहुः । * तस्येत्यादि * । यदि सुषुप्तेः सकाशात् तस्य भेदो न शायेत, त- देश्वराद भेदोऽपि न ज्ञायतेति तस्यानुभवारूढत्वाय स इत्यर्थः । उ- त्तरस्य तात्पर्यमाहुः । * दर्शनेत्यादि * । तत्रापि स्वप्नान्तवद् घा- क्यम् । अत्र संप्रसादः सुषुप्तिः । सम्यक् प्रसादो यति समासात् । रमणं स्वरूपानन्दानुभवः । आनन्द गिति श्रुतेः । चरणं सत्सम्प- त्तिः । सता सौम्य तदा सम्पन्नो भवतीति श्रुतेः । पुण्यदर्शनमान- न्दानुभवः । तस्य तत्फलत्वात् । अत्र सुखमस्वाप्समित्यनुस्मरणा- त् । पापदर्शनं तु, न किञ्चिदवेदिमित्यज्ञानानुस्मरणम् शेषं पूर्व- वाक्यसमानम् । अत्र बुद्धान्ताऽऽद्रावणकृतो यो दर्शनावापोऽदर्शनो- द्वापश्च, ताभ्यां कृत्वा सुषुप्तावपि साक्षित्वेनैव दर्शनं सिद्धम् । अ- तस्ततोऽपि भिन्न इति तनाप्यनासक्तत्वादसङ्गो ह्ययं पुरुष इति सिद्ध- म् । तत्स्वरूपस्यावस्थातो भिन्नत्वं, तास्वनासक्तत्वं च सिद्धम् । तावता तस्य मोक्षे स्वरूपयोग्यताऽनुभवारूढा जातेत्यर्थः । अग्रिमप्र- श्नतात्पर्यमाहुः । * एवमित्यादि * । जीवं मोक्षयोग्यत्वेन, भगवन्तं तदातृत्वेन च ज्ञात्वा त प्रश्न इत्यर्थः । उत्तरस्य तात्पर्यमाहुः । * त- प्रेत्यादि * / * सर्व शास्यतीति * । कामप्रश्नव्याजेन सर्व शानं म- दीयं प्रहीयतीति । * आहेति * । कामप्रश्नवरदानस्य भयस्य चानुरोधादुक्तरीत्या मोक्षोपायं वक्तुं पूर्व सफामस्य कर्तुमरणाव- स्थां सप्रकारामुक्त्वा ततो निष्कामस्य कर्तुर्मोक्षोपायं सुषुप्त्यवस्थयै- कीकृत्य श्लिष्टतया आहेत्यर्थः । श्रुतौ तु, अन्तेभ्य उदरौत्सीदिति प्रश्ननिर्णयावसानेभ्यः पुनः पुनरवरोधं कृतवानिति हेतोयं जात- मित्यर्थः । उत्तरं विवृण्वन्ति । * स यत्रेत्यादि * । श्रुतौ तु, १ अध्याये ३ पादः। पावस्था।तघया अन इति मरणावस्था। तत्र भगवानेवैनं लोकान्तरे नयति। तद्यथा राजानमिति भगवत्सन्मानम् । एवंविदमिति वचनात् । जीवस्तु नैवंविद । सिद्धवद्वचनान्न ज्ञानविधिः। वाक्यभेदप्रसङ्गाश्च । अणिमानं स्थूलशरीरकायम । उपतपतेति । उपतापजनकेन ज्वरा. दिना, न्येति प्रामोति । ततोऽणिमानं जानकार्यम्पां मूर्ची नितरां गच्छति । बन्धनादिति वृन्तात् । सम्प्रमुच्येति ममतात्यागेन स्वगुणं चैतन्यमाकृष्य । प्रतियोनीति स्थूलशरीरं लक्ष्यीकृत्य । प्राणायेति पुनरुज्जीवनाय । सा स्थूलदेहप्राप्तिरस्य येन हेतुना प्रकारेण च भवति तं हेतु प्रकारं वक्तुं मरणावस्थोच्यत इत्याहुः । * तद्यथा अन इति * मरणावस्थेति हेतुर्भगवान् दार्शन्तिके स्पष्टः । श्रुती । सुसमाहितमिति, भाराकान्तम् । उत्ससर्जदिति, शब्दं कुर्वत् । शारीर आत्मेति लिङ्गशरीरविशिष्टो जीवः। अन्वारूढ इति शाकटि- केनेवाधिष्ठितः । उत्ससर्जदिति वेदनया दिकादिशब्दान् कुर्वन् । अग्रिमकण्डिकयोरर्थमाहुः । * तद्यथा राजानमित्यादि * । श्रुतौ । प्रत्येनसः, पापिनां शासनार्थ नियुक्ताः । प्रामण्यो, प्रामनायकाः । प्रतिकल्पन्ते, उदयुज्य खोपयोगाय प्रतीक्षन्ते ।भूतानि शरीरान्तरा- रम्भणायेश्वरेण नियुक्तानि । ननु जीवब्रह्मणोरुभयोरपि तत्र गमने कथं ब्रह्मण एव सन्मानमित्यत आहुः। * एवंविदमित्यादि । * नैवविदिति * संसारिण उपक्रान्तत्वादेवंवित्पदे परामृण्यमाणो जीवत्वेन न वक्तुं शक्य इत्यर्थः । ननु प्राशान्वारोहान्तज्ञानपन्त- मनूध, तस्मिन् ब्रह्मायातीति शानकथनात् पूर्वोकर्मफलविदः संसारिणो जीवस्यैवेदं सन्मानं, न ब्रह्मण इति चेत् तत्राहुः । * सिद्धवदित्यादि * । अत्र किमेवं ज्ञानं विधीयते, उतानूयते ।। नाधः। सिखवचनात् । एवंविद्भवेदिति विधिवाक्यं कल्पयित्वैतयो- जनेन वाक्यभेदप्रसगाव । अतोऽनूधत इत्येव वक्तव्यम् । तथा सति जीवस्य तथात्वबाधादू ब्रमण एष सन्मानमित्यर्थः ।
सप्रकाशे अणुभाष्ये । स पत्रेति जीवे मोहोऽधिकः । अथैनमेते प्राणा इति भगव- यतु पूर्व भूतानि राजभृत्यवहेहमारभ्य प्रतीक्षन्ते । पश्चादा- स्मा राजवत् तत्र गच्छतीत्यशोऽत्र विवक्षितः । शरीरारम्भकैर्भूतैः सहवात्मनो गमनमिति राखान्तस्थितेरित्युक्तम् । तत् साहसमेव । अविवक्षितत्वे मानाभावात् । इष्टान्तकथन- धेयर्थ्यप्रसङ्गाश्च । प्रयियासायोधिकायामग्रिमकण्डिकायां प्राणो- पसमायनोक्तिवद् भूतोपसमायनस्यानुक्तत्वेन भूतैः सह गमनसि- खान्तस्याप्रयोजकत्वाच । श्रुतौ । उपसमायन्तीति स्वखवसति त्यक्त्वा तेन सह गन्तुं निकटे समायान्ति । यत्रैतदूवोच्छ्वासी भवतीति, पूर्वोक्तमरणावस्थाया उपसंहारे स्मारणम् । अतः परं शारीरसाह्मणस्यार्थमाहुः । * स यत्रेत्यादि * । स यत्रायं शारीर मात्मा लिङ्ग शिष्टो जीवः । अबल्यं नीत्य, पूर्वोक्तोपतापादिना वैवल्यं नितर प्राप्य। सम्मोहमिव न्येति, मरणावस्थायामधिकं मोहं प्रामोति । तर तुल्कमणस्य कर्तुमशक्यत्वात् तदुपायं भगवानेव क- रोति । यथा..मोऽयं परलोकस्थान इत्यादिना पूर्व तस्योक्तत्वात् । सदिदानी सविस्तरं वदामीति झापनायाथैनमेते प्राणा इत्यथशब्दः। बच प्राणाः स्वत एवायान्तीति शङ्यम् । जडत्वात् । अतो जीवे सम्मुग्धे भगवत्प्रेरिता एवायान्तीत्याशयेनाहुः । * अथैनमिस्या- दि * । श्रुतौ । अथेति भगवत्प्रेरणोत्तरम् । प्राणा वागादयः । स इति जीवः । तेजोमात्रा इति प्रशांशभूतानि करणानि । समस्या- ददान इति । उपसंहरन् । अवक्रामति । अन्यतश्चैतन्यमुपसंहत्य हृदयेऽभिव्यक्ति । चाक्षुष इति । चक्षुषि भवः सूर्याशः । पराइ न पर्यावर्तत इति । स्वकार्यरहितो भवति । अरूपश इति जीवस्तथा भवति । तत्र हेतुः। एकी भवतीति । लिङ्गात्मना करणग्रामे मि- श्रीभवति । तदा पार्श्वस्थान पश्यतीत्याहुस्तद्विदः । एवमग्रेपि सर्वत्र । एवमुपसंहते करणग्रामे निष्क्रमणसाधनीभूतं व्यापार- माह । तस्येत्यादिना । हृदयस्याग्रं, हृदयच्छिद्रनाडीमुखं प्रद्योतते भगवज्ज्योतिषा स्वप्न इव लदानी प्रकाशयुक्तं तिष्ठति । प्राण इति मुख्यः प्राणः।प्राणा इति वागादयः। अनूकामन्तीति । मुख्यप्राणगम- १ अध्याये ३ पादः। चरित्रं, सम्पद्यत इसन्तेन । श्लोके तद् ब्रह्म अस्य जीवस्य नोत्तरं सहकीभूय गच्छन्ति । संज्ञाममिति । पूर्वोकप्रद्योमादेहत्वेन भातां बुद्धिम् । अन्ववक्रामतीति । अश्ववत्तामारोहति । सविज्ञानो भवति, गमनार्थ विशेषज्ञानवान् भवति । तं विद्याकर्मणी स- मन्वारभेते पूर्वप्रशा चेति । विद्या सदसद्विषयकं ज्ञानम् । फर्मा- ऽदृष्टरूपं लिङ्गगतिरूपं च । यद्वा, विद्या उपासनात्मकं ज्ञानम् । कर्म यज्ञादिरूपम् । यथाक्रतुरस्मिन् लोक इस्वादिश्रुतेः पूर्वमझा, संस्कारात्मना वर्तमानं ज्ञानम् । समन्वारभेते, अनुगच्छतः । जला- युका, जलौका। निहत्येत्यस्व व्याख्यानमविद्यां गमयित्वेति । अ- शानं प्रापयित्वा, निश्चेष्टं कृत्वेत्यर्थः । पेशकारी भ्रमरीविशेषः । पेशसो रूपस्य मात्रामपादायापच्छिद्यान्यं स्वरुद्धकीटीयं नवतरं रूपं तनुत एवमयं पुरुष इदं स्थूलशरीरं निहत्य तस्माद् रूपाद वाप्तनया तदंशं गृहीत्वेति यावत् । त्यके पूर्वशरीरे वासनया कथं तदंशग्रहणमित्यत उपपादयति । स वा अयमात्मेत्यादिना । तथाच सर्वमयत्वेन नानावासनाशालित्वाद् या वासना तदा कर्ममोदबु- यते तया पूर्वस्माद् रूपांशोपादानमित्यर्थः । अत्र पक्षान्तरमाह । अथो खल्वित्यादि । तेन कस्य चित् कर्मणा वासनोबोधे तदनु- रूपो देहः । कस्यचित्तु कामाधीनः । यथा नृगस्य । उभयद्यपि भगवदिच्छा नियामिका । एवं जीवस्य लोकान्तरसपकं भगव- उचरित्रं विस्तारेणोक्तम् । अस्य भगवच्चरित्रत्वे गमकमाहुः । * श्लोक इत्यादि * । श्लोकस्तु सार्बः । तदेव तत् सह कर्म- पति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत् किश्वेह करोत्ययम् । तस्माल्लोकात् पुनरेत्यस्मै लोकाय फर्मणे' इति । अर्थस्तु, स जीवः, तत् सह । तृतीयाया लुक । तेन ब्रह्मणा प्राशेन सह । तदेव इति प्रामोति । तत् किमित्यत आह ।अस्य. जीव- स्य लिङ्गं लिङ्गशरीरे प्रधानभूतं मनः । कर्मणा पूर्वकृतेन कर्मणा यस्मिन्नर्थ निषतं नितरां सतमिति । शेषं स्फुटम् । तथा च पूर्वत्र भगवचरित्रं यदि प्रतिपाद्यं न स्यात् तदा श्लोके तत्सहेति. न घदेत् । भगवदन्वारूढत्वोक्तिश्च पौर्वत्रिकी मुधा स्यादतस्तयेत्यर्थः ।
समकाशे अणुभाष्ये । अकामयमानस्य भगवतः स्वरूपं पूर्वमेवोक्तमनुवदति । भगवभिगमन हि प्रणानां निर्गमनात् तस्य चेच्छाधीनत्वात् तदभावे इन्द्रियाणि सुषुप्तौ तत्रैव समवलीयन्ते । ब्रह्मैव सन् कू- टस्थः सन् । अपिः समुच्चये । सह स्थिते जीवे ब्रह्माविर्भवतीस- थः । जीवे ब्रह्माविर्भावो न सङ्गत इति तत्मतिपादनार्थ श्लोकः । जीवोपदेशप्रकरणाभावेन सिद्धवद्वचनान जीवन्मुक्तावस्था । ना- प्यसम्मज्ञातसमाधिः । मतान्तरत्वात् । ब्रह्मपकरणत्वाश्म जीवस्य अतः पूर्वोक्तभयादकामयमानस्य मोक्षोपायं गूढतया वदन् मुच्य- मानावस्थां सुषुप्तिसमानत्वेन श्लिष्टतयाह । अथाकामयमान :- त्यादि, सम्राडित्यन्तेन । तत्र मोक्षावस्थायाः प्रकरणेन प्रतीयमान- त्वात् सुषुप्त्यवस्थां व्याकुर्वन्ति । * अकामयमानस्येत्यादि * । अकामयमानस्य जीवस्य भगवत्सबन्धि यत् स्वरूपं, तद्वा अ- स्यैतदात्मकाममाप्तकाममकामर स्वरूपमिति सुषुप्तिस्थले पूर्वमुक्तम् । तत्प्राणस्थित्यर्थमनुवदति। तत्र हेतुः। * भगवनिर्गमन इत्यादि * भग- वभिर्गमनइति भगवतःसकाशाजीवस्य निर्गमने। *तस्येति *नि- र्गमनस्य। * समवलीयन्ते इति + समवनीयन्त इति श्रीतपदस्यार्थ- कथनम् । अस्मिन् पले, ब्रह्मैव सन्नित्यस्यार्थमाहुः * ब्रह्मवेत्यादि। ब्रह्माप्येतीत्यत्र ब्रह्मेति प्रथमान्तम्, एतीत्यस्य कर्तृ । एतीति, प्रादु- भवतीत्यर्थः । यदा सर्वे प्रमुच्यन्त इति श्लोकप्रयोजनमाहुः । * जीव इत्यादि * । नन्वनोत्क्रमणस्यैवोपक्रान्तत्वाजीवन्मुक्ताद्यवस्थैवा- कामयमानस्य वाच्या, न तु सुषुप्त्यवस्थेति शङ्कगयां सुषुप्त्यवस्था- शांपनाय ता दूषयन्ति । * जीव इत्यादि * । यथा हि काठके, अ- न्यच्छ्रेय इत्यादिकं जीवोपदेशो, न तथान जीवस्वरूपोपदेशः । येन तदनुरोधाजीवन्मुक्तिरत्रोच्येत । किन्तु, सिद्धवदुच्यते । अतो न सा । अथो खल्वाहुरित्यादिनोक्तस्य काममयपक्षस्य मतान्तरत्वाद- कामोऽपि तेनैव मतेनोच्यत इति तेनासम्प्रज्ञातसमाधिरपि न वक्तुं १ अध्याये ३ पादः। ४६९ सद्योमुक्तिः फलम् । उत्क्रमण एव ब्राह्मणस्याप्युक्तत्वात् । तद्य- थेति सुषुप्तशरीरम् । अनस्थिक इसादि, सम्राडिसन्तमुपसंहारः। शक्यः । मुख्य प्रकरणं ब्रह्मणोऽवान्तरश्चोत्क्रमणस्येति स्वतः स्व- रूपावस्थानरूपा सद्योमुक्तिरपि न फलत्वेन वक्तुं शक्या । तत्र हेतुः । *उत्क्रमण इत्यादि । उर्वोच्छवासी भवतीत्युत्क्रमण एवो- पक्रान्ते शारीरमाह्मणस्योक्तत्वात् । तथाच तदनारत्य अकामत्वमा- त्रेण रूपेण उत्क्रान्तिशून्या सद्योमुक्तिरपि न वक्तुं शक्येत्यर्थः। अतः सुषुप्तिप्रकरणाभावेऽप्यकामत्वादिना सौषुप्तिकलिङ्गन, तद्यथाऽहि- निर्बयनीत्यग्रिमवाक्येऽपि शेत इति शयनलिङ्गेन चावान्तरमुत्क- मणप्रकरणं बाधित्वा सुषुप्तिरेव जनकेन ज्ञातव्या । तदा तु न वदि- प्य इति मदभीष्टसिद्धिः । अथ लिङ्गस्य मुक्त्यवस्थासाधारण- त्वात् तदनाहत्य प्रकरणबलेन शास्यति तदा तु स्वकृतवरदानानु- रोधाद् विशिष्य वक्तव्यमित्याशयेन, अथायमनस्थिकोऽशरीरः प्राज्ञ आत्मा ब्रह्मैव लोक एव सम्राडित्यन्तं श्लिष्टवचनमुपसंहारः । अत्र श्रुतावनस्थिक इति स्थूलशरीरराहित्यम् । तच जीवन्मुक्तस्य सुषुप्त- स्थ चाभिमानाभावात् तुल्यम् । प्राक्ष आत्मेति सुषुप्तिसाक्षिपरमा- मनोर्वाचकमित्यवस्थाद्वयसाधारणम् । तत्र आत्मा इत्यनेन जीवा- स्मानमनूद्य, ब्रह्मैव लोक एवेति विधत्ते । तत्र मुक्तिपक्षे जीवस्य प्र- प्रत्वविधानम् । सुषुप्तिपक्षे लोकत्वविधानम् । सम्राडिति राज्ञः स- म्बोधनम् । अतोऽत्र श्लिष्टतयोपसंहार इत्यर्थः । एतेन सुषुप्तिव्या- ख्याने बीजं प्रदर्शितम् । याज्ञवल्क्यभयानुरोधादिदमेतावत् सुषु- प्तिपरत्वेन व्याख्यातम् । अग्रे च वरदानानुरोधान्मुक्तिपरत्वेन व्या- ख्यास्यत इति न कोऽपि कापि सन्देहः । एतदने, सोऽहं भगवते सहस्रं ददामीति जनकवाक्यम् । तत्र न पुनमोक्षप्रश्नः । तेन एवं श्लिष्टप्रयोगेऽपि जनकेन लिङ्गस्य साधारण्यं प्रकरणस्योत्क्रमगो- चरत्वादसाधारण्यं चावगत्य, अथाकामयमान इति निष्का- मप्रकरणं मतान्तरादू विविक्तत्वेन सिद्धान्ते निवेश्य तत्र सद्यो- मुक्त्यवस्थामवधार्य, ब्रह्माप्येतीस्यत्र ब्रह्मपदं च द्वितीयान्तमव- गत्य, तत्रास्य ब्रह्मभूतस्य लयं चावगत्य, श्लोकमप्येतदवस्थाप्रति- समकाशे अणुभाष्ये । श्लोका अत्र त्रयोदश सर्वनिर्धारकाः। आद्यो ब्रह्मविद्गतः। एष इति सुषुप्तौ नाडीत्वात् पञ्चवर्णाः । अन्धन्तम इति द्वाभ्याम- नेवंविदो निन्दा । तदेव सन्त इति बुद्धिमतां वचनम् । आत्मान- मिति वैराग्यम् । यस्यानुवित्तिरिति नवभिब्रह्मस्तुतिः । तद्विज्ञानं च । पुनरेतदेव स्पष्टतयोपदिशति । स वा अयमात्मेयादि। अभयं वै जनक प्राप्तोऽसीयन्तम्। काण्वानां कचित् पाठभेदेऽप्ययमेवा- थः। अत्र प्रकरणे जीवो वाच्य इति प्राप्ते । पादकत्वेनावगत्य, अहिनिल्वयनीदृष्टान्तं मृतशरीरपरमेवाव. गत्य, प्राक्ष आत्मा ब्रह्मवेत्यस्य प्राशत्वादयमात्मा ब्रह्मैव सन् लोक एव ब्रह्मापीतो ब्रह्मलोकात्मको भवतीति निश्चितवान् । तेन जाग्रहशायां हृदयस्थसर्वकामप्रमोको मोक्षसाधनत्वेनावधारित इति बोधितम् । तदा याज्ञवल्क्योऽपि तस्य सम्यग्बोधनाय सर्व सिद्धान्तमाह । तद्विवृण्वन्ति । * श्लोका इत्यादिना *। * अत्र वयोदशेति । एकोपक्रमगतास्त्रयोदश। * आद्यो ब्रह्मविद्गतेरिति* ब्रह्मविदः सद्योमुक्तिमुक्त्वा ततो न्यूनाधिकारिणो ब्रह्मविदःक्रममुक्ते- बोधकः, अणुः पन्था इति श्लोकः । तस्मिन् शुक्लमिति श्लोकस्तु नि- क्रमणमार्गबोधक इत्याहुः। * एष इत्यादि *। * बुद्धिमतां वचनमि- ति * । सद्योमुक्तिभाजां ज्ञानवतां ब्रह्मभावेन ब्रह्मप्राप्तिवचनम्। शेषं स्फुटम् । शेषस्यार्थमाहुः । * पुनरित्यादि * । अत्रैतद्बोध्यम् ।यस्या- नुवित्त इत्यस्योत्तरार्द्ध,स विश्वकृदित्यादिना यत् सर्वकर्तृत्वमुक्तं तत् स वा एष आत्मा सर्वस्य वशीत्यारभ्य, सेतुर्विधरण इत्यन्तेन स्प- ष्टीकृतम् । तस्य लोक इत्युक्तं लोकाधिपत्वं च, एषां लोकानामसं- भेदायेत्यनेन । यत् पुनः पूर्वाई, यस्यानुवित्त इत्यादिनोक्तम्, अग्रिमश्लोकैश्च ततू, तमेतं वेदानुवचनेनेत्यारश्य आन्तं स्फुटीकृत- मिति । पूर्वपक्षमाहुः । * अत्र प्रकरणे जीवो वाच्य इति * । अय- मर्थः । अत्रोपक्रमे, कतम आत्मेति प्रभे, योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुष इति शारीरलिङ्गादुपसंहारे च, योऽयं विज्ञान- मयः प्राणेष्विति कण्वपाठे तदपरित्यागान्मध्ये बुद्धान्ताद्यवस्थोप- १ अध्याये ३ पादः। ४७१ अभिधीयते । ब्रह्मैव प्रकरणार्थः । मुषुप्तावुत्क्रमणे च जीव- ब्रह्मणो देन व्यपदेशात् । न्यासेन तस्यैव प्रपञ्चनाच। यद्यपि संसारी प्रतीयते, तथापि मध्ये, ध्यायतीव लेलायतीवेति ग्रन्थे संसारिधर्मनिराकरणात् । उपसंहा. रे च, स वा एप महानज आत्मेति संसारिधर्मरहितपरमेश्वरात्म- कत्वबोधनात् । उपक्रमोक्तविज्ञानमयत्वादेस्तस्मिन्नपि सत्त्वेन उप- क्रमस्य सन्दिग्धतया नैर्बल्यात् । माध्यमिकबुद्धान्ताद्यवस्थोपन्या- सस्य च संसार्यवस्थानुवादेन तद्रहितदशायां परमेश्वराभेदबोधन- परत्वावगमात् । सुषुप्त्यादी भेदबोधनस्यापि संसारिदशायामेव प- र्यवसानात् । पुनः पुनर्मोक्षप्रश्नेन, यत् किश्चित् पश्यत्यनन्वागतस्तेन भवत्यसङ्गोऽयं पुरुष इति तदुत्तरे पुनः पुनरनन्वागततया असङ्ग- त्वप्रतिपादनेन, अनन्वागतं पुण्येनानन्वागतं पापेनेति कर्मसम्बन्ध- राहित्यस्य च प्रतिपादनेन, ती! हि तदा सर्वान् शोकान् हृदयस्य भवतीति सर्वदुःखतरणश्रावणेन च परमात्माभिन्नासंसारिरूपप्रति- पादनपरमेवैतद्वाक्यमित्यतोऽनासंसारी परमेश्वराभिन्नो जीवो वा- च्य इत्यर्थः । सिद्धान्तं व्याकुर्वन्ति । * ब्रह्मवेत्यादि * | अयमर्थः। सत्यमत्र मुक्तजीवस्तथा निरूप्यते । तथापि स न प्रकरणार्थः । तत्र हेतुः । * सुषुप्तावित्यादि * । तथाच च यदि मुक्तो जीवो ब्रह्माभे- देनान प्रतिपाद्यः स्यात् तदा अवस्थाभेदस्याप्रयोजकत्वेन तत्र जीवं परमेश्वरान्न भिन्द्यात् । प्रतिपिपादयिषिते अभेदे भेदकथनस्य प्र. योजनशून्यतया वैयर्थ्यप्रसङ्गात् । नच संसार्यवस्थायां भेदबोधनाय तदिति युक्तम् । तदानीं जाग्रत्खनयोरशत्वादिवैशिष्टयस्य प्रत्यक्ष- सिद्धत्वेन सुषुप्तिमरणयोस्तमोऽभिभवेन तथात्वस्याशानेऽपि सौषुप्ति. कस्मरणेन मृतानां भूतादिभावदर्शनेन चानुमानसिद्धतया तत्कथन- वैयर्थ्यानपायात् । अतो शायमानावस्थासिद्धं भेदमनूध यदशा- यमानावस्थासिद्धं भेदमनुवदति तदसंसार्यवस्थायामपि भेद- बोधनायैवानुवदति । यथोदकं शुद्धं शुद्ध आसिक्तं ताहगेव भवति एवं मुनेर्विजानत भवति गौतमेति काठके तथैव श्रावणात् । नच तर्युपक्रमाधनुरोधादसंसारी आत्मा ४७२ सपकाशे अणुभाष्ये । आकाशवद् ब्रह्मनिर्धार एव युक्तः ॥ ४२ ॥ परमेश्वरसमानधर्मा जीवो वाच्योस्त्विति वाच्यम् । उप- क्रमे किज्योतिरयं पुरुष इति प्रकाशकप्रभे, आदित्याधनन्तरमात्म- ज्योतिरित्युत्तरे पुरुषस्य प्रकाशापेक्षित्वेनाप्रकाशकत्वात् । प्रकाशक आत्मा क इत्याशयेन पृच्छति । कतम आत्मेति । तत्र स्पष्टतया वक्तव्येऽप्युत्तरे याज्ञवल्क्यो, न पदिय इति स्वाभिसन्धेर्वरदा- नस्य चानुरोधाक्लिष्टमेवोत्तरं ददातीति पूर्व व्युत्पादितम् । अतस्तद्विचारे, अत्रायं स्वयज्योतिर्भवतीति निगमनवाक्ये पर- मात्मैव स्वयम्पदवाच्यः सिद्ध्यतीत्युपक्रमगतः प्रश्नस्तत्पर एव पर्य- वस्यति । तथापि लिएप्रयोगाजनकेन सम्यङ् न शातः । एताव- ज्ज्ञातं, संसारिव्यतिरिक्तः प्रकाश इति । ततस्तत्सन्देहनिवारणाय पृच्छति । विमोक्षाय बृहीति । तदापि श्लिष्टमेवोत्तरं ददाति । स एष एतस्मिन् सम्प्रसादे रत्वा चरित्वेत्यादि । तदा जीवस्यासङ्ग- तत्व उक्तेऽपि जनकस्य सन्देहो न निवृत्त इति पुनर्मोक्षाय पृच्छति । तदा पुनरपि मत्स्यादिदृष्टान्तं वदन् स्वप्नसुषुप्ती अवस्थे उक्त्वा सुषुप्तौ परमात्मानम् असङ्गादपि जीवाद भेदेनाह । तदापि तस्य प्रकाशकसन्देहो न निवृत्त इति पुनर्मोक्षाय पृच्छति । तदा पुनरपि सम्प्रसादवाक्येनैवोत्तरे पुनरपि मोक्षाय पप्रच्छ । तदा याज्ञवल्क्यो राशो मेधावित्वाद् भीतो मरणावस्थां संसारिणो वदन् परमेश्वरा- जीवस्य भेदमाह । तदापि लिष्टप्रयोगात् तस्य सन्देहो न निवृत्त इत्यकामयमानस्य सद्योमुक्तिमाह । तत्र, ब्रह्मैव सन् ब्रह्माप्येतीति श्रुतेः, प्राज्ञ आत्मा ब्रह्मवेति च श्रुतेर्जीवस्य ब्रह्मभाव एव मुक्तिः । प्राज्ञ आत्मा ब्रह्म योऽस्ति स एव प्रकाशकः । तज्ज्योतिषेधायं जीवः सर्व करोतीति शात्वा, सोऽहं भगवते सहस्रं ददामीत्युक्तवान् । तदा याज्ञवल्क्यस्त्रयोदशश्लोकैः सर्व शाखार्थमुक्त्वा, स एष आ- त्मेत्यादिना तमेवार्थ स्पष्टमुक्तवान् । तदा जनको विदेहान् स्वात्मानं च दास्यार्थ तस्मै दत्तवान् । विद्यां च याज्ञवल्क्यः समापितवान् । अत उपक्रमोपसंहारयोः परमात्मन एव प्रकृतत्वसिद्ध्या तस्यैव प्र- प्रकरणत्वमिति सिद्धम् । तदाहुः । * आकाशवदित्यादि * । त , अध्याये ३ पादः। ४७३ पत्यादिशब्देभ्यः ॥ ४३ ॥ किश्च।सर्वस्य वशीत्यादिशब्देभ्यः स्पष्टमेव ब्रह्मप्रकरणमिति॥४३॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥ १ ॥ ३ ॥ थाच यथा पूर्वाधिकरणे अन्यथानुपपत्तिबलादाकाशवाक्यस्य ब्रह्म- परत्वनिर्धारस्तथात्र भेदव्यपदेशान्यथानुपपत्तिबलात् प्रकरणस्य ब्रह्मपरत्वनिर्धार इत्यर्थः । किञ्चात्र संसारिणोऽपि जीवस्य परमेश्व- रादू भेदसाधनेन मुक्तावस्थायामपि जीवे ब्रह्मलक्षणस्य नातिव्याप्ति- रिति बुद्धिस्थं प्रसङ्गा बोधितम् ॥ ४२ ॥ पत्यादिशब्देश्यः ॥ भेदव्यपदेशेन प्रकरणस्य ब्रह्मपरत्वसाधनं क्लिष्टमित्यतो हेत्वन्तरं वदतीत्याशयेनाहुः । * किश्चेत्यादि * । तेषामुपासनार्थत्वं वारयितुं बहुवचनम् । तथाच यदि ते शब्दा उपासनार्थाः स्युः, सकृदुक्ताः स्युनं त्वसकृत् । न वा विवृताः स्युः । यतस्ते तथा, अतो न जीवस्य तथोपासनार्थाः। किन्तु परमेश्वरस्य जीवाद् भेदनार्था एवेत्यहंग्रहोपासनापेक्षया ईश्वरत्वेन पृथक्तयो- पासनैव युक्तेत्यर्थः ॥ अत्र शङ्कराचार्याः । किमिदं वाक्यं संसारिरूपान्याख्यान- परमुतासंसारिस्वरूपप्रतिपादनपरमिति संशये, संसारिपरमिति पूर्वपक्षं, संसाररहितपरमेश्वराभिन्नजीवात्मप्रतिपादनपरमिति सि- द्धान्तमाहुः । भेदव्यपदेशं च संसारिभेदपरमाहुः । तदसङ्गमित्युपपादितम् । भास्कराचार्यास्तु, कि संसारिखरूपपरम्, उत पररूपपर- मिति संशये, पररूपपरमिति सिद्धान्तयन्ति । तन्मतं सन्दिग्धमिव । तत्र यदि मुक्तजीवपरं, तदा तु पूर्वोक्तदू- षणग्रस्तमित्यप्रयोजकम् । यदि केवलपरमेश्वरपरं, तदा तुनदुष्टम् । रामानुजाचार्यास्तु, अत्र पक्षानुल्लेखादिदं सूत्रद्वयं पूर्वसूत्र- शेषत्वेन योजयन्ति । तेन तन्मतेऽत्र जीवाद भिन्न एव परमेश्वरः प्रतिपाद्यः । एवं तश्चौरमतेऽपि । अत्रेदं बोध्यम् । सत्यमत्र पक्षानुल्लेखस्तथापि, आये विषय- . . ६०
४७४
सप्रकाशे अणुभाष्ये ।
पाक्ये आकाशः पक्षो, द्वितीये त्वात्मा पक्ष इति पक्षभेदाचेतुभेदा-
चाधिकरणभेद एव युक्तः । अन्यथा, अर्थान्तरत्वादिव्यपदेशादिति
सर्वस्य हेतोरनुवृत्त्याऽप्यात्मनः प्रत्यगात्मभेदसिद्धिर्भेदेनेति पदस्य,
पत्यादिसूत्रस्य च वैयापत्तेदुर्वारत्वादिति ।
माध्वास्तु, स वा एष सम्प्रसादे रत्वा चरित्वेत्यादिना स्व-
प्नादिद्रष्टा यः प्रतिपादितोऽसङ्गत्वेन च, स जीवो, ब्रह्मवेति संशये,
सुषुप्त्यादौ जीवाद भेदेन व्यपदेशाद् ब्रह्मैवात्र प्रतिपाद्यम्। स्वप्नस्य
सत्यत्वात् तद्मृत्वं सर्वक्षे ब्रह्मण्यविरुद्धम् । तस्मादसङ्गं प्री-
वेत्याहुः । द्वितीयसूत्रे च पत्यादिशब्दानां श्रवणात् परमेश्वर एव
प्रतिपाद्यो नै तु, स वा एष महानज आत्मेति वाक्यप्रतिपादितः ।
अअशब्दवाच्यश्च चतुर्मुख इत्याहुः ।
भिक्षुस्तु, अत्रोत्क्रान्तिशब्दो जीवस्य देहत्यागमानपरतया मोक्षादी-
नामपि संग्राहकः । मोक्षावस्थायामपि निरअनः परमं साम्यमुपैतीति
साम्यान्तर्गतस्य भदस्य व्यपदेशात् । ब्रह्मैव सन् ब्रह्माप्येतीत्युक्त-
पाक्येऽप्यप्ययस्य भेदतन्त्रत्वाश्च । ब्रह्मैव सन्निति तु त्यक्तदेहाभिमान
इति, प्राप्तगौणब्रह्मभाव इति वेत्यर्थबोधकम् । प्रलयावस्थायां च
यत् प्रयन्त्यभिसंविशन्तीत्यादिश्रुती कोशखजयोरिव प्रवेष्टव्यप्रवे-
ष्ट्रोर्भेदोऽवगम्यत इति । नन्वेवमपि सुषुप्तावेकीभावः । तुरीयाख्ये
महाप्रलये च ब्रह्मचिन्मानावशेषो जीवो माण्डूक्यादिवाक्येभ्यः से-
स्यतीति चेन्न । उक्तबृहदारण्यकवाक्ययोरविभागपरत्वस्यागत्या
वक्तव्यतया तदेकवाक्यत्वेनेतरश्रुतेरपि तत्परत्वावधारणात् । अवि-
भागो वचनादिति सूत्रे व्यासैरपि वक्षमाणत्वाश्चेत्याह ।
तत्र यदविरुद्धं, तद् ग्राह्यम् । शेषे उदासीना वयम् ।
एवमस्मिन् पादे पदार्थान्तरेऽतिव्याप्तिवारणात् तल्लिङ्गाद्य-
धिकरणोक्तार्थप्रपञ्चनेनोपास्यरूपनिरूपकवाक्यविचारादुपासनाधि-
कारिविचारपूर्वकं त्रयोदशाधिकरण्या आधाररूपो भगवान् विचा-
रितः ॥४३॥॥१३॥
इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रकिरणनिवारित.
हृदयान्धकारेण पीताम्बरात्मजपुरुषोत्तमेन कृते
ब्रह्मसूत्राणुभाष्यप्रकाशे प्रथमाध्यायस्य
तृतीयः पादः समाप्तः ॥ १॥३॥
अथ प्रथमाध्यायस्य चतुर्थः पादः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपक- विन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥ एवं सर्वेषां वेदान्तानां ब्रह्मपरत्वे निर्णीते, केचिद् वेदार्था- ऽज्ञानात् कचिद् वेदभागे कापिलमतानुसारिपदार्थदर्शनेन तस्यापि वेदमूलकत्वं वदन्ति । तन्निराकरणाय चतुर्थः पाद आरभ्यते । तत्र, ईक्षते शब्दमिति सांख्यमतमशब्दत्वादिति निवारितम् । वेदेन प्रतिपादितमिति तत्राशङ्कते । आनुमानिकमप्यकेषाम् । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविम्यस्तगृहीते- दर्शयति च ॥ अतीतेषु पादेषु प्रथमेतिव्याप्तिजनकशब्दकृतसन्दे- हवारणार कार्यनिरूपकाणि वाक्यानि विचार्य, द्वितीयतृतीययोश्च यथायथं जीवजडरूपार्थकृततत्सन्देहवारणायान्तर्याम्युपास्यरूपनि- रूपकाणि च वाक्यानि विचार्य सर्वेषां वेदान्तानां साक्षात् परम्प- रया च ब्रह्मणि समन्वयः प्रतिपादितः । स तदा दृढीभवति यदा श्रीतत्वेनाभिमन्यमानस्य मतान्तरस्य श्रीतता निराक्रियते । अतस्त- दर्थ चतुर्थे पादे जीवजडसमुदायात्मकार्थनिरूपकतया मतान्तर- श्रीतताभ्रमजनकानि प्रकीर्णानि वाक्यानि विचार्यन्त इत्युपोधा- तबोधनाय पूर्वपादत्रयसिद्धमर्थमनुवदन्त एतत्पादार्थमाहुः । * पवमित्यादि * । तथाच तन्निराकरणं प्रयोजनं, ताहशवाक्यवि- चारश्चार्थ इत्यर्थः । नन्वदृश्यत्वाद्यधिकरण एतादृशमपि वाक्यं विचारितमेवेति, किमनेन विचारेणेत्याशङ्कगं समादधानाः सूत्रांशमवतारयन्ति * तत्र, ईक्षतेरित्यादि * । तथाच यद्यपि तद्वाक्यं विचारितं, तथापि तन्मतस्य सर्वथा अश्रौतत्वमेवेति नो- पपादितमतो विचार इत्यर्थः । एतेनास्य पादस्य, ईक्षतिसमन्वय- सूत्रप्रपञ्चरूपत्वं बोधितम् । नन्वत्र प्रकृतिनिराकरणमेवास्तु । मतस्य श्रीततानिराफरणे किं गमकम् ? इत्याकाङ्कायामानुमानिकपदमेव ४७६ संपकाशे अणुभाष्ये । एकेषां शाखिनां शाखासु सांख्यपरिकल्पितप्रकृसादि श्रूयते । इन्द्रियेभ्यः परा वर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परं किश्चित् सा काष्ठा सा परा गतिरिति काठके श्रूयते । तत्र बुद्धेरात्मा अहङ्कारः । ततो महान् महत्तत्त्वम् । ततो- ऽव्यक्तं प्रकृतिः । ततः पुरुष इति । न ह्यहङ्कारादयः पदार्था ब्र. ह्मवादे सम्भवन्ति । तस्मादेवातीयकेषु तन्मतपदार्थानां श्रव- णान्मायाप्रकृसविद्यावादा अपि श्रीता इति चेन्न । गमकमित्याशयेन व्याकुर्वन्ति । * एकेषामित्यादि * । तथाच पूर्व- ग्रन्थे, कामाश्च नानुमानापेक्षा, नानुमानमतच्छब्दादित्यादौ केव- लानुमानपदादत्र च सम्बन्धितद्धितान्तानुमानिकपदात् सांख्यप्र- वचनीये, सङ्घातपरार्थत्वात् पुरुषस्येतिसूत्रेऽनुमानेन प्रकृतिसम्ब- धित्व सिद्धः पुरुषोऽपि संग्राह्यत्वेन गम्यते । तयोश्च निराकरणे तन्मतमेव निराकृतं भवतीति सौत्रं पदमेव गमकमित्यर्थः । केषां शाखायामित्याकाङ्क्षायां विषयवाक्यमुदाहरन्ति । * इन्द्रियेभ्य इ- त्यादि * । कात्र प्रकृत्यादीत्यतो व्याकुर्वन्ति । * तत्र बुद्धरित्या दि * । * बुद्धरात्मा अहङ्कनर इति * । पर इत्यनुषज्ज्यते । बुद्धः सकाशादात्मा । 'सर्वात्मनोऽन्तःकरणं गिरित्रम्' इत्यन्तःकरणत्वेन 'सिद्धस्य गिरित्रस्य, 'चन्द्रो मनो यस्य हगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्र इति स्वस्मिन्नात्मपदप्रयोगादात्माऽहङ्कारः पर इस्य- र्थः । शेषं स्फुटम् । तथाचवमन सांख्यमतप्रत्यभिज्ञानात् तन्मतं श्रीतमिति । तदाहुः । * न हीत्यादि * । अपिशब्दार्थमाहुः । * त- स्मादित्यादि *। * एवजातीयकेविति * । वक्ष्यमाणेष्वजादिवा- 'क्येषु । * मायाप्रकृत्यविद्यावादा इति * I मायान्तु प्रकृति विद्यात, 'पञ्चाशद्भेदांपञ्चपर्वामधीमइत्यादिवाक्येष्वभिमन्यमानाः। पूर्व पूर्वप- १ अध्याये ४ पादः। ४७७ शब्दसाम्यमात्रेण न तन्मतं सिद्धयति । सन्दिग्धानां पदार्थानां पौर्वापर्येण निर्णयः । न तु सन्दिग्धवाक्येन सर्वव्याकुलतोचिता ॥ अत्र हि पूर्वम् । आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयाँस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेसाहुर्मनीषिणः ॥ तदनुचत्वारि वाक्यानि । यस्त्वविज्ञानवानियादि । तदन्वि- न्द्रियेभ्यः परा इति । तत्र पूर्वसम्बन्ध एवार्थ उचितः । तमाह । क्षांशमनूद्य तदूषकं हेतुमवतारयितुं निषेधं व्याकुर्वन्ति । * शब्दे- त्यादि * । * तन्मतमिति * । अहङ्कनरमहत्तत्त्वप्रकृतिपुरुषाणामुक्त- रोत्तरं परत्वबोधकं सांख्यमतम् । कुतो न सिद्धयतीत्यतः का. रिकया तखेतुमाहुः । * सन्दिग्धेत्यादि * I * पौर्वापर्येणेति * पूर्वापरसन्दर्भेण । सन्दिग्धा पस्मिन् धाक्ये पदवाच्या अर्थाः। पदानि वाक्यावयवभूतानि, वाक्यं च महावाक्यस्य । अतो महा- घाक्यानुरोधेन तदर्थो निर्णेयः । न तु सन्दिग्धपदघटितवाक्येना- वयविभूतस्य महावाक्यस्य व्याकुलता युक्ता । तथाच तव्या- कुलीभावादेतन्मतं न सिद्ध्यतीत्यर्थः । तदेतद् व्युत्पादयन्ति । * अत्र हीत्यादि * । * अत्रेति * । प्रकरणे । * हिहेतौ । * चत्वारीति * । विज्ञानसारथिवाक्यस्य क्वचिदिन्द्रियेभ्यः परा इत्याद्यनन्तरं दर्शनाश्चत्वारि । विज्ञानसारथिवाक्यार्थस्त्वने कारि- कया वक्तव्यः । एवं सन्दर्भे यत् सिद्धं तद्वक्तुं हेतुं धदतीत्याहुः । * तत्रेत्यादि *। * तत्रेति * । इन्द्रियेभ्य इति वाक्ये । विष्णुधर्मो. सरे तृतीयकाण्डे । 'उपमानेन तुल्यत्वमुपमेयस्य रूपकम् ' इति रू- पकलक्षणाद् रूप्यते यत् तद्रूपमिति कर्मणि घधि कृते, इवे प्रतिकृता- विति कनि च कृते अपकमित्यलडूगरनाम सिद्ध्यतीस्यभिसन्धाय हेतुं सप्रकाशे भणुभाष्ये । शरीररूपकविन्यगृहीतेः । शरीरेण रुप्यन्ते ये शरीरेन्द्रियादयस्ते विन्यस्ता यत्र रूपकभावेन रथादिषु तेषामेवात्र गृहीतिग्रहणम् । अन्यथा प्रकृतहानामकृतपरिग्रहापत्तिः। जीवप्रकरणं वेतन्मुक्त्युपायोऽस्य रूप्यते । योग्यं शरीरमारुह्य गच्छेदिति हरेः पदम् ॥ तत्र जीवस्य ब्रह्मपाप्तौ मुख्यं साधनं शरीरम् । स रथः । सर्वसामग्रीसहिताऽपराधीनयानत्वात् । रथस्तु हयाधीनः । याश्च व्याकुर्वन्ति । * शरीरेणेत्यादि । स्वस्य खहापकरवेपि दोषाभा- पाच्छरीरेण कृप्यन्ते ये शरीरेन्द्रियादयस्ते या वाक्ये रथादिषु सप- कभावेन अलङ्कारबोधितप्रतिकृतिभावेन विन्यस्ताः स्थापितास्तेषां सर्वेषां रथादिप्रतिकृतिभूतानामेवात्र गृहीतिर्ग्रहणम् । अतः शरीररूपा रूपकविन्यस्ताः । शरीररूपकविन्यस्तारूपकविन्यस्तानां व्यावर्तकं शरीररूपत्वमित्युपसर्जनत्वात् तस्य पूर्वनिपातः । शाकपार्थिवादे- राकृतिगणत्वाद् रूपपदलोपश्च । अतः शरीररूपकविन्यस्तानां गृ- हीतिर्ग्रहणं शरीररूपकविन्यस्तगृहीतिः । तस्मादित्यर्थः । तथाच स्यात् सांख्यमतापत्तिर्यवहङ्कारादीनां पदार्थानां तत्त्वेन गृहीतिः स्यात् । सा तु नास्ति । यतः शरीरेण ये रुप्यन्ते शरीरेन्द्रियादयस्ते विन्यस्ता यत्र वाक्ये रुपकभावेन रथादिषु, आत्मानं रथिनं विद्धी- त्यादिना, तेषामेवान गृहीतेग्रहणात् । यदि ह्येवं नोपगम्येत तदा प्र- कृतहानादिदोषावापद्यताम् । किञ्चेदं हीति निश्चयेन जीवप्रकरण- म् । अत्रास्य मुक्त्युपायो, योग्यं शरीरमारुह्य हरेः पदं गच्छेदित्येवं विज्ञानसारथिमन्त्रेण रूप्यते । न घेतत् सांख्यमते सम्भवति । सापावस्थानातिरिक्तस्य भगवत्पदप्राप्तिरूपस्य मोक्षस्य तैरनङ्गीका- रात् । अत इन्द्रियेभ्य इति धाक्ये अहङ्कारादितत्त्वरूपो नार्थः । किन्तु वश्यमाणप्रकारकः । तथाहि । तत्र मुक्त्युपायेषु बोधनीयेषु वक्तव्ये रूपके जीवः खतन्त्रत्वाद् रथी। * जीवस्येत्यादिना विवृतं शरीरं रथः । तत्र हेतुः। * सर्वेत्यादि । सामग्री इन्द्रियादिरूपा।
१ अध्याये ४ पादः। सबुद्धयधीनाः । सा च प्रग्रहाधीना । स च सारथ्यधीनः । सच खबुद्धयधीनः । सा च मार्गाधीना । स च माप्याधीन इति । एवं ज्ञात्वा युक्तसामग्रीकस्तद्देव मानोति । तन्द्रियाणामात्मा विषयाः। ते च मनसा सम्यक्त्वेन भावितास्तथा भवन्ति । विरक्तन्द्रि- अपराधीनता तु सायत्ततया। तेन शरीरे रयरूपकम् । रथस्तु गमने हयाधीन इतीन्द्रियेषु हयरूपकम् । हयबुद्धिस्थानापन्नानेन्द्रियदेव- ता। देवताप्राधान्य एवेन्द्रियाणां भगवत्परत्वस्य, देवानां गुणलिङ्गा- नामित्यत्र तृतीयस्कन्धे सिखत्वात्।देवतासाहित्यस्यार्थतः प्राप्तत्वा- च । एवमग्रेऽपि बुद्धिस्थानापन्ना देवता। एवं हयबुद्धिस्तुप्रग्रहाधीने- तीन्द्रियनियामकमनसि तद्रपकम् । एवमेव बुद्धी सारथिरूपकम् । सारथिबुद्धिर्मार्गाधीनेति विषयेषु गोचरपदेन मार्गरूपकम् । रथि- स्वरूपयोधनायात्मेन्द्रियेत्यर्द्धश्लोकः । ततो, मार्गस्तु प्राप्याधीन इति तयोधनाय प्रापकसामग्रीनिगमनपूर्वका, यस्त्वविज्ञानवानित्याद- यश्चत्वारः श्लोकाः । प्राप्यनिगमनाय पञ्चम इति बोधयितुम्, एवं शारवेत्यादिना हयरूपकपर्यन्तग्रन्थस्य तात्पर्यकथनम्। इन्द्रियविषये- षु देशरूपकस्य तात्पर्य वक्तुम्, इन्द्रियेभ्यः परा इत्यादेस्तात्पर्य- माहुः । * तन्द्रियाणामित्यादि * I * आत्मति * 'घ्राणं च गन्ध' इति न्यानेन भगवदिन्द्रियरूपतया तदाधिदैविकत्वात् तेषां नियाम- काः । श्रौतस्य परपदस्यायमर्थः । यद्यप्याकर्षकत्वानियामकत्व- मुक्तं श्रीभागवते। इन्द्रियैर्विषयाकृष्टैरिति ' । अनुभवश्व कामिनी- कुचकुम्भादिदर्शने चक्षुराधाकर्षस्य । तथापि नात्र तदभिप्रे- तम् । मोक्षप्रकरणत्वादित्यभिप्रेत्याहुः । * ते चेत्यादि * । तथाच मोक्षप्रकरणे पदिन्द्रियेभ्यः परत्वं विषयाणामुच्यते, तद् भगवदी- यतया मनसा सम्यक्त्वेन भावितानामेव । यथा नवमस्कन्धादाय. म्बरीषादिचरिते, स वै मनः कृष्णपदारविन्दयोरित्यादिश्लोकत्र- योक्तास्ताहशाम् । न तु सामान्यानाम् । नापि ज्ञानीन्द्रियविषयवि. पक्षया । विरक्तेन्द्रियाणां विषयानाकृष्टत्वात् । अतः 'तस्यारविन्द- नयनस्येत्यादिव यत्र भगवदभिप्रायः सा मोक्षप्रणापत्र विवक्षिता, सपकाशे अणुभाष्ये । याणामतथात्वात् । बुद्धरात्मा विज्ञानम् । तद् ब्रह्मविषयकं महद् भवति । ततः परमव्यक्तं, न प्रकटं, भगवत्कृपैव । सा तु भगवद- धीना, न साधनान्तराधीना । स च भगवान् स्वाधीन इति । एवमेवार्थस्तस्योचितः । किञ्च, दर्शयति स्वयमेवेममर्थम् । एषु सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्न्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिरिति ॥ सूक्ष्मया उपनिषदनुसारिण्या । बुद्धया भगवज्ज्ञाने हि त. माप्तिरिति । चकारात, ततो मां तत्त्वतो ज्ञात्वा विशते तदन- न्तरमिति स्मृतिहीता । तस्मात् साधनोपदेशान्न सांख्यमतमिह विवक्षितमिति ॥ १ ॥ सूक्ष्मन्तु तदर्हत्वात् ॥ २॥ नन्वव्यक्तशब्देन न भगवत्कृपा वक्तुं शक्या । धर्मिप्रवाहा- दिसाशवा परिहरति तुशब्दः । मूक्ष्मं तद् ब्रह्मैव । धर्मधर्मिणो- न तु शुष्कज्ञानप्रणाडीति बोधनाय तदुक्तिरित्यर्थः । एतेन अर्थेभ्यश्च परं मन इत्यपि व्याख्यातप्रायम् । मनसा सम्यक्त्वेन भावन एव तेषां तथात्वादिति । मनसस्तु परा बुद्धिरिति सारथिभावादव स्पष्टम् । बुद्धरात्मेत्यादिकं व्याकुर्वन्ति । * बुद्धरात्मत्यादि * । * विज्ञानमिति * तत्कार्यभूतं विशिष्टज्ञानम् । तस्य बुद्धिनियाम- कत्वं तु ब्रह्मविषयकत्वेन महत्त्वादित्यर्थः । शेष स्फुटम् । एवं हेतु- व्याख्याय दर्शनपदं व्याकुर्वन्ति । * किश्चेत्यादि *। * इममिति * पूर्वोक्तं कथं दर्शयतीत्यत आहुः । * सूक्ष्मयेत्यादि * [ तथाच सू- क्ष्मपदेन वुद्धरुपनिषदनुसारित्वबोधनादुक्तरीत्या भक्तिप्रणाड्या प्रा- प्तिं दर्शयतीत्यर्थः । तेन श्रुतौ गम्यत इति गतिरिति प्राप्यत्वबोधना- तू, स्मृतावपि, विशत इति पदेन तस्यैवार्थस्योपबृंहणादन प्राप्तिरूप एवार्थोऽभिप्रेतो दृश्यते, न तु रूक्षदर्शनरूपोऽतो नाव सांख्यमतप्र- त्यभिज्ञानमिति भावः ॥१॥ सूक्ष्मं तु तदर्हत्वात् ॥ ।
नारससंस्कृतसीरीज़नान्नी वाराणसेवसंस्कृतपुस्तकावसी । ५ १ १ इयं पुस्तकावली बण्डयो मुद्रिता भवति । मस्या संस्कृतभाषा- निवाबहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदालभाषानुवा- साहितास प्रथा मुद्रिता भवन्ति ।वांश्च प्रन्थान् काशिकराजकी. पसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । यी- हकमहारायैरियं पुस्तकावली नियमेनाविच्छेदेन संप्राया तैस्तदे. कैकस्य खण्डस्य ID मूल्यं प्रापणव्ययश्च ) देयः । अन्यैर्म- हाशययः कानिचित् खण्डानि संग्राह्याणि तेच प्रत्येक सण्डाना मूल्यं प्रापणव्ययश्च :) देय इति ॥ तत्र मुद्रिता ग्रन्थाः। ६० मा. सिवान्ततत्वविवेकः खण्डानि ५ भर्थसमह अंग्रेजीभाषानुवादसहितः तन्त्रवार्तिकम् खण्डानि १३ १३ कात्यायनमहर्षिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभायं ख०६६ सांस्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता वाक्यपदीयम् खण्डानि ५ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३ । द्वितीयभागः तृतीयाका- पडम् हेलाराजटीकासहित बण्ड २) रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ ૨ वैशेषिकदर्शनं फिरणावलीटीलासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ शिक्षासमहः खण्डानि ५ मेकर्यसिद्धिः खण्डानि ४ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्षानुक्रमसूत्रम समाज्यम ३ ग्वेदीयशीनफप्रातिशास्यं सभाष्यम् खण्डानि ४ (वृहत) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि४४ विवरणोपन्यासः सटीकवाक्यमुधासहितः खण्डे २ ૨ तस्वीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम) ख. ८८ वेदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३३ दुप्टीका खण्डानि ५ ९ ४ २ १ २ . पातञ्जलदशनमाश्रीरामनिन्दयातकतर्माणमास्यत्तिस०१ . व्याकरणमिताक्षरा । श्रीमदभट्टप्रणीता खण्डानि रसमजरी । व्यङ्गवार्थकौमुद्या प्रकाशेन च सहिता ख०३३ . भेदधिकार व्याख्यासहितः श्रीमदप्पयदीक्षितकृत उपक्रमप- राक्रमसहितः खण्डे २ बोधसारोनरहरिकृतः तच्छिण्यदिवाकरकृतटीकयासस०८८ • ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता । देशकामधेनुः अर्थात् प्राचीनज्योतिषग्रन्थः खण्डे २ श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितभाग्यप्रकाशाख्य. व्याख्या समेतम् खण्डानि ५ तत्त्वशेखरः। श्रीभगवल्लोकाचार्यप्रणीतः । तथा-तत्त्वप्रयचुलुक. संग्रहः । कुमारवेदान्ताचार्यश्रीमद्वरदगुरुविरचितः । व्रजभूषण दास पौर कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस १ Pao
No text on this page.
No text on this page.
No text on this page.
No text on this page.