Bharatiya Vidya Bhavan Library, Mumbai

Bhav Prakashika Bramhasutravriti (part-i)

Krishan Chandra · 2012/08

PDF Proofread

Front matter

भावप्रकाशिका।
( ब्रह्मसूत्रवृत्तिः ।)
(प्रथमाध्यायः।)
श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रविरचिता ।
श्रीसुरतिस्थश्रीमद्गोस्वामिश्रीमालालात्मजश्रीवजरत्नलालचरणसंपूर्णसाहाय्येन
'भृगुपुरस्थमूलचन्द्रतुलसीदासतेलीवाला, वी. ए., एल एल. वी.,
वकील हाइकोर्ट, सुरतिस्थ धैर्यलाल व्रजदास सांकलीया,
यी. ए., एलएल. बी., वकील हाइकोर्ट,
इत्येताभ्यां संशोध्य 'कर्णाटक' मुद्रणालये
मुद्रयित्वा प्रकटीकृता ।
"
श्रीवल्लभान्दाः ४४४. संवत् १९७९.
मूल्यमेकमुद्रिका।

- પ્રસ્તાવના | આ ગ્રન્થના પ્રણેતા શ્રીકૃષ્ણચન્દ્રજી મહારાજ શ્રીદ્વારકાધીશજીના ગૃહમાં ચંદ ન. એથી શ્રી પુરુષોત્તમજીના ગુરુ હતા. આ બને ગુરુશિષ્યનું કર્તવ આ ગ્રન્થમાં ભાસે છે. આ વૃત્તિને પ્રથમા- ધ્યાય ત્રણ ગ્રન્થના આધારે શોધ્યો છે. બે પુસ્તક પં. ગટલાલજીના સંગ્રહમાંથી પ્રાપ્ત થયા, અને એક શ્રીનાથદ્વારના સંગ્રહમાંથી પ્રાપ્ત થયું. ટિકેત શ્રીગોવર્ધનલાલજી, શીદાદરલાલજી તથા તદાશ્રિત શાસ્ત્રી ન-દકિશોરને તદર્થ ઉપકાર માનીએ છીએ. રત્નગેપાલભટ્ટજીના મુદિત પુસ્તકમાં ઘણી ત્રુટિઓ હતી અને અમારી પાસેની પ્રત પણ સંતવપ્રદ ન હતી. તેથી શ્રીઅનિરુદ્ધલાલજીને જામનગરના સંગ્રહમાંથી તે પુસ્તક મોકલી આપવા વિનતિ કરેલી. તદર્થ પત્ર પણ લખ્યાં, તથાપિ આવા નિરપેક્ષ સાંપ્રદાયિક કાર્યમાં આવા વિદ્વાન ગોસ્વામિબાલકે શક્ય અને સરલ હોવા છતાં સાહાય ન કર્યું તેથી અમને ખેદ થાય છે. આ ભાગના શોધનમાં શ્રી પુરુષોત્તમજીને નિજ શ્રીહસ્તાક્ષરલિખિત પ્રથમાધ્યાયને પ્રકાશ અમને બહુ જ સહાયક થઈ પડે. યથાશક્તિ યથામતિ અમે શોધન કર્યું છે. સાંપ્રદાયિક તથા ઇતર વિદ્વાનેને આ ગ્રન્ય સંપ્રદાયનું પાંડિત્ય કેટલું ગહન હતું તે દર્શાવવાને સમર્થ છે. શ્રીકૃષ્ણચન્દ્રજીનું ચરિત્ર વૈજુના માસિકમાં આપ્યું છે એટલે અત્ર પુનરુક્તિ કરતા નથી. સૂરતવાલા શ્રીજરત્નજી મહારાજ સંવત ૧૯૭ના ભાદ્રપદમાં ભરૂચ પધાર્યા હતા. શ્રીપુરુ- તમજીના ઉત્સવ દિવસે-ભાદ્રપદ-લ-એકાદશીને દિવસે આપશ્રીએ એક વ્યાખ્યાન ત્યાં કર્યું. સાંપ્ર- દાયિક નષ્ટ થતા સાહિત્યનું રક્ષણ કરવાને ઉપદેશ કર્યો. મહારાજશ્રીના ઉપદેશને માથે ચઢાવી નીચે જણાવેલા વૈષ્ણવોએ એ કાર્ય માટે નીચે જણાવેલું દ્રવ્ય આપ્યું. એ સંગૃહીત દયથી આ ગ્રન્થનું મુદ્રણ થયું છે. શ્રીકૃણચન્દ્રજીની લેખન પદ્ધતિ અત્યન્ત પ્રૌઢ છે અને તેથી ધનાર્થ અમારા સર્વ પ્રયત્ન છતાં દેવ નથી જ રહે એમ કહવું અશક્ય છે. એવા દેને માટે પ્રખ્યપ્રણેતા મહાનુભાવની ક્ષમા યાચી આ પરમ પરિશ્રમથી સિદ્ધ થયેલ ગ્રન્ય શ્રીમત્રભુચરણકમલમાં સમપીએ છીએ. I D સં. ૧૯૭૬ ના ભાદરવા સુદિ ૧૦ ના મનોરથને દિવસે પુસ્તક છપાવવા માટે ભરાયેલી રકમ મળી તેની યાદી. ભરૂચ ૫), દાદરદાસ દુવારકાદાસ દલાલ ૨૫૧) શ્રી ૬ ગોસ્વામી શ્રી વ્રજરત્નલાલજી વીજભુખણ ગરધનદાસ દલાલ મહારાજ સુરતવાળી મગનલાલ અમૃતલાલ દલાલ ૨૦૧) શા. સુંદરલાલ ચંદુલાલ મગનલાલ ગોપાળદાસ ૧૧) લલ્લુભાઈ પ્રાણવલ્લભદાસ હરકીશનદાસ જગજીવનદાસ જેકીશનદાસ કસનદાસ તાપીદાસ લખમણદાસ ૪૧) ચતુર્ભુજદાસ પરમાનંદદાસ વલ્લભદાસ નરોતમદાસ સરકારકુન ૨૫) અમરતલાલ મોહનલાલ નગીનલાલ રણછોડદાસ ૨૫) ઠાકોરલાલ રણછોડદાસ મનમોહનદાસ દલપતરામ ૨૫) હીરાલાલ અમૃતલાલ મનસુખદાસ જીવણુદાસ કદઈ • કૃષ્ણવરલભ રણછોડદાસ ચોકી ભોગીલાલ મોહનલાલ પરશોતમ ઘેલાભાઈ ૫) સેવકલાલ હરગોવન છે કૃષ્ણલાલ ચુનીલાલ મજમુદાર સેમાભાઈ દેસાઈભાઈના મહેતાજીઓ. બાળગાવન વીજભુખણ દલાલ સોમાભાઈ દેસાઈભાઈ પટેલ ૧) ભેગીલાલ ફકીરભાઇ દલાલ કેરલાલ ત્રીભોવનદાસ દલાલ ૧૦૧) • In In ૧૧) D M BH COTHA . श्रीकृष्णाय नमः। भावप्रकाशिका। श्रीमद्भाष्यानुसारिब्रह्मसूत्रवृत्तिः। शास्त्रवित्तमश्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । --000000ra- नत्वा श्रीवल्लभाचार्यान् प्रभून् श्रीविठ्ठलेश्वरान् । श्रीमद्भाष्यानुसारेण सूत्रवृत्तिं ब्रुवेऽधुना ॥१॥ अथातो.ब्रह्मजिज्ञासा ॥ १ ॥ (१. १. १) अस्यारम्भसूत्रत्वादत्राधिकारिविषयसम्बन्धप्रयोजनरूपमनुबन्धचतुष्टयं वक्तव्यम् । शास्त्रप्रवृत्त्यावश्यकत्वहेतुभूता संगतिरपि निरूपणीया । शास्त्रस्य वैधत्वमपि विचारणी. यम् । तत्र तावत् 'स्वाध्यायोऽध्येतव्यः' 'अष्टवर्षे ब्राह्मणमुपनयीत, तमध्यापयीत' 'साङ्गो वेदोऽध्येयो ज्ञेय' इति वेदाध्ययने त्रयो विधयः । तेषु भाहाः, अध्ययनविधेरक्षरग्रहणमात्रपर्यवसानाङ्गीकारे अदृष्टफलकल्पनापत्ते- रर्थज्ञानरूपदृष्टफलार्थत्वमङ्गीकृत्य, 'वसन्ते ब्रामणमुपनयीते' त्यादिवाक्येषु द्वितीयानि- देशेन त्रैवर्णिकानां संस्कार्यत्वावगमात् संस्कारस्य च कार्यान्तरयोग्यतासम्पादनरूपत्वा- दुपनयनसंस्कृतानां त्रैवर्णिकानां कार्यान्तरापेक्षत्वेन तत्सनिधिपठितस्याध्ययनस्य चानि- दिष्टकर्तृकतया कपेक्षत्वेन परस्पराकांक्षासनिधियोग्यत्वैरध्ययनविधेखैवर्णिकानां यज्ञ- रूपकार्यान्तराधिकारनियमार्थत्वानियमविधित्वे आधानादिविधयोऽपि वर्णिकानेव विदुपोऽधिकुर्वन्तीत्यध्ययनविधिरर्थज्ञानमाक्षिपति, तच्च विचारशास्त्राधीनमिति तस्यापि वैधत्वमित्याहुः। प्रामाकरास्तु, संमाननोत्सचनाचार्यकरणज्ञानभृतिविगणनव्ययेपु निय इत्याचा- करणे विहितेनोपनयीतेत्यात्मनेपदेनोपनयनरूपस्य माणवकसंस्कारस्थाचार्यत्वसिद्धि- प्रयोजनत्वं लभ्यते, उपनीतो माणवकोपि न तूष्णीं स्थितः संनिधिमात्रेणाचार्यले । साधयतीति तद्व्यापारापेक्षायां वाक्यान्तर उपनयनं प्रक्रम्य विहितमध्ययनमेवाध्याप- नोपकारकत्वादुपनीतव्यापारतयाध्यवसीयते, ततोध्ययनस्यापि प्रयोजने विचार्यमाणे खसमवेतत्वेनान्तरङ्गत्वादर्थज्ञानमेव तथात्वेन निश्चीयते, आचार्यत्वसिद्धिस्त्वध्यापनस्यैव . .

२ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः । प्रयोजनम्, अध्यापकसमवेतत्वात्, एवमेतन्मतेप्यर्थज्ञानस्य विध्याक्षिप्तत्वात् तदाक्षिप्तस्य विचारशास्त्रस्य वैधत्वमित्याहुः । रामानुजाचार्यास्तु, अध्ययनविधिना स्वाध्यायाख्यस्य वेदस्याक्षरग्रहणमात्रं विधी- यते, तत्रेतिकर्तव्यताकांक्षायामध्यापनविधिना उपाकरणपूर्वकाध्ययनविधिना चाध्यय- नेऽपेक्षितान्यङ्गानि विधीयन्ते, तेनाचार्योचारणानूचारणरूपमध्ययनमक्षरराशिग्रहण- फलकमित्यवगम्यते, तच्चाध्ययनं विधिवाक्ये कर्मत्वेन बोधितस्य चतुर्वर्गफलस्य स्वाध्या- याख्यस्य वेदस्य संस्काररूपम्, ततश्चोत्सर्जनोत्तरमङ्गाध्ययनस्योक्तत्वात् तैः सह यथावि- ध्यधीयमानः स्वाध्यायः स्वभावादेवापाततोऽर्थ बोधयति, न तु सामस्त्येनेत्याक्षिप्तो विचार इति तच्छास्त्रस्यापि वैधत्वमित्याहुः । शाङ्करास्तु व्यवहारे वयं भाट्टा इति वदन्तीति तथैव वैधत्वम् । 'विजिज्ञासस्वे'- ति विधिकारितं वा । एवं शैवमतेऽप्याक्षिप्तमेव विचारशास्त्रवैधत्वम् । भास्कराचार्यास्तु, स्वाध्यायविधेरर्थज्ञानपर्यवसितत्वेपि तस्य ब्रह्मज्ञानाक्षेपकत्वं न वक्तुं शक्यम् , 'यज्ञेन दानेनेति, 'शान्तो दान्त उपरतस्तितिक्षुः श्रद्धाचित्तो भूत्वात्म- न्येवात्मानं पश्येदिति श्रुत्या ब्रह्मज्ञानस्योपायान्तरसापेक्षत्ववोधनात, 'श्रवणायापि बहुभिर्यो न लभ्य' इत्यादिश्रुत्या ब्रह्मणो दुर्जेयत्वाच, किन्तु 'श्रोतव्यो मन्तव्यः सोऽन्वेष्टव्यः, स विजिज्ञासितव्य' इत्यादिवेदान्तविधिकारितैव ब्रह्मजिज्ञासेति तेन शा. त्रस्य वैधत्वमित्याहुः। माध्वा अप्येवमेवाहुः । भैक्षवेऽप्येवम् । सिद्धान्ते तु प्राथमिकमध्ययनमध्यापनविधिरेव प्रयुक्ते । माणवकोपनयनस्या- ध्ययनार्थत्वेपि तस्य पालत्वेनाध्ययने स्वतः प्रवृत्त्यभावात् । तच्च गुरुच्चारणानूचारणरूपं चेदाक्षरग्रहणफलकमेव । ततः सत्सङ्गादिवशात् तत्र रुचावुत्पन्नायां वयसा सामर्थ्य च जातेऽध्येतव्य इति कृत्यप्रत्ययेन तस्यावश्यकता योध्यते । ततस्तेन स्वाध्यायावर्तने पापापगमे 'ज्ञेयश्चेति वाक्येनार्थज्ञानस्याप्यावश्यकता बोध्यते । ततो ज्ञानं साक्षाद्वा- क्योक्तमेवेत्याक्षेपलभ्यता वृथैव खचिमिराद्रियत इति । तत्र वैदिकाः प्राचीनपरम्परया गुरुमुखादङ्गैश्चार्थज्ञानस्य सम्भवान्मीमांसाद्वयक- रणं वृथवेत्याशकन्ते । सिद्धान्तस्तु तत्करणं तदा वृथा स्याद्यदि कालेन गुणक्षोभेण चाध्येतणां स्वभावभेदो न स्यात् । जाते तुं स्वभावभेदे एकादशस्कन्धीयवाक्यैश्चावते सद्भादिना साविकानामपि युद्धिमान्ये भगवान् वेदव्यासो वेदान् विभज्य शिष्य शाखाविभागं च कारयित्वा तेषां परमपुरुषार्थसिद्धये स्वयं वेदार्थ बोधयितुमतिकरुणयों ब्रह्मविचारशास्त्रं प्रणीतवान् । तदेतत् प्रथमस्कन्धे चतुर्थाध्याये सूचितम् । अतो विरुद्ध शास्त्रसम्भेदजन्यवृद्धिदोपाणामङ्गनिवृत्त्यसम्भवाद् गुरुमुखादर्थश्रवणेपि कालान्तरे यथा पदादिपाठे वैलक्षण्यदर्शनेन संहितापाठसन्देहः, तदपहारार्थ यथा प्रातिशाख्यरूपा .

. श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । लक्षणग्रन्था अवश्यमुपयुक्ताः, तथार्थसन्देहनिवृत्त्यर्थ विचारशास्त्रमप्यावश्यकम् । अत एव.चरणव्यूहे परिशिष्टे तस्या उपाङ्गेषु गणना । अतो विचारशास्त्रस्याक्षिप्तं वैधत वा वेदान्तविधिकारितं वास्तु, तत्र नाग्रहः । उपयोगस्तु मन्दमध्यमान् प्रति सन्देहनिवृत्ती दाढर्थे च । उत्तमान् प्रति तु दाढर्च एव । एवं पूर्वमीमांसाया अप्युपयोगो योध्य इति । एवं चात्र शास्त्रायतरणे भगवतो व्यासस्य करुणैव सङ्गतिरिति सिध्यति । अत्र पूर्वमीमांसकाः, जैमिनिना धर्मजिज्ञासा प्रतिज्ञाय द्वादशलक्षण्या यज्ञादि- रूपो धर्मो विचारितः, चतुर्लक्षण्या चोपासनालक्षण इति पोडशलक्षण्या सर्वोपि धों वेदार्थरूपो निर्विचिकित्सः सिद्धः । नच ब्रह्मज्ञानार्थमुत्तरमीमांसेति वाच्यम् । 'आत्मा वारे द्रष्टव्यः' अयं हि परमो धर्मो यद्योगेनात्मदर्शन मिति श्रुतिस्मृतिभ्यां तस्यापि धर्मत्वे निश्चिते तस्यापि विचारितप्रायत्वात् । नच सृष्ट्यादिवाक्यार्थनिर्णयाय तदपेक्षा। तेपामर्थवादरूपत्वात् । मीमांसकमते प्रयाहनित्यत्वोपगमेन जगतः स्वातन्त्र्यात् कर्तुरभा- वेनोपासनाविपयस्यात्मनः प्रशंसार्थत्वात् । अत एव वाक्यान्तरे तदपवादोऽपि युज्यते । अत एव पूर्वमीमांसयैव गतार्थत्वान्नारम्भणीयोत्तरमीमांसेति प्राहुः । तत्रोच्यते । उपासनाया मानसक्रियारूपत्वेन धर्मत्वेपि न ब्रह्मणो धर्मरूपत्वम् । नित्यशानस्वरूपत्वेन चोदनालक्षणक्रियारूपत्वाभावात्, ब्रह्मण एव च सर्ववेदार्थत्वात्, 'सर्वे वेदा यत् पदमामनन्ति' 'वेदास्त्रिकाण्डविपया ब्रह्मात्मविपया इमे, मां विधत्तेऽभिधत्ते मा'मित्यादिश्रुतिस्मृतिपुराणवाक्येभ्यस्तथा निर्णयात्, किंबहुना वेदे धर्मोपि ब्रह्मात्म- कत्वेनैव प्रतिपाद्यः, 'धर्मो यस्यां मदात्मक' इतिवाक्यात् । 'यज्ञो वै विष्णु रितिश्रुतेश्च । जैमिनिस्त्वेकदेशमादाय पुरःस्फूर्तिकमेवार्थमुक्तवान् , अतो न तन्मीमांसया गतार्थत्वम् । जगत्स्वातन्त्र्यं तु 'सदेव सौम्येदमन आसी' दित्यादिसृष्टिवाक्यविरुद्धत्वादेवोपेक्ष्यम् । नच तेषामर्थवादरूपत्वात्तेपां स्वार्थ प्रामाण्याभावेन तद्विरोधो न दोपायेति वाच्यम् | स्वार्थे तेपामप्रामाण्यस्य प्रतारकत्वप्रसञ्जकतया सर्ववेदप्रामाण्यविघटकतया चासङ्गत- त्वात् । अपौरुपेयत्वस्य सर्ववेदसाधारणत्वादेकत्र विसंवादे सर्वत्रैवाविश्वासप्रसङ्गात् । अतो भूतार्थवादत्वेन तेपां स्वार्थे प्रामाण्ये जगतः सकर्तृकत्वसिद्ध्या तत्कर्तृभूतब्रह्मस्व- रूपनिर्णयार्थमावश्यकैव तन्मीमांसेति । नच साधनस फलशेपत्वात् फलस्य कर्मणैव सिद्धौ किं ब्रह्मज्ञानेनेति वाच्यम् । मोक्षरूपस्य केवलेन कर्मणा सिद्धयभावात् । 'यदेव विद्यया करोति श्रद्धयोपनिपदा वा तदेव वीर्यवत्तरं भवतीति श्रुत्सा तथा निर्णयात् । 'नच 'तमेव विदित्वा अतिमृत्युमेती'त्यादिश्रुत्या केवलज्ञानादेव मोक्षोक्तेः किं कर्मणेति वाच्यम् । उक्तश्रुतिविरोधात् । जरामर्याग्रिहोत्रादिबोधकथुतिविरोधाच्च । ब्रह्मज्ञानवता वशिष्टादीनामपि यज्ञकरणश्रवणस्मरणाभ्यां च । पूर्वस्य काण्डस्योत्तरानुपयोगे उत्तरस्य पूर्वानुपयोगे च नैराकांक्ष्येणोभयोरैकशास्त्यभङ्गप्रसङ्गाद, वेदान्तसमाख्याविरोधप्रस. गाद्, 'ऋचां मृर्धान मितिश्रुतिविरोधप्रसङ्गाच । अतोऽधिकारिविचारेण ज्ञानकर्मसमु- भावप्रकाशिका ब्रह्मसूत्रपत्तिः । ययस्यैवावश्यकत्वाद् ब्रह्म सर्वथा जिज्ञास्यमेवेति तदुपयोगितया चेदान्ता अपि विचार- णीया इति सिद्धम् । तथाचायं मूत्रार्थः । अथशब्दोऽधिकारे । मङ्गलस्प श्रवणमात्रेणैव सिद्धेः। अधिकारोऽन प्रारम्भः । अतःशब्दो हेता । ब्राह्मण इति शेपपष्ठी । जिज्ञासापदं विचारे रूढम् । 'अजिज्ञासितमद्धर्मो गुरुं मुनिमुपायजे'दित्यादिप्रयोगात् । एवञ्च कर्मादि- भ्योऽधिकं ज्ञानमेव पुरुषार्थसाधनम् , अतो हेतोब्रह्मज्ञान विषयाया इच्छायाः पूरणाय ब्रह्मविचार आरभ्यत इति । अत्र केचिदयशब्दमानन्तर्ये च्याचक्षते । तन्न युक्तम् । यत्किञ्चिदानन्तर्यस्यार्थादेव सिद्धरवक्तव्यत्वात् । ब्रह्मणो वेदार्थत्वेनानधीतवेदस्य तत्रा- नधिकारात् वेदाध्ययनानन्तर्यस्य ब्रह्मपदेनार्थादेव सिद्धिसंभवात् । नापि धर्मविचारा- नन्तयं युक्तम् । हृदयस्याग्रे अयद्यति ' अथ जिलाया अब वक्षस' इतिवत् क्रमनियाम- कस्याभावेन विपर्ययस्यापि सम्भवात् । नापि पाठाद्वाचाराद्वा व्यवस्था। तत्राप्यनियम- सम्भयात् । प्रत्यवायाथवणात् । यदि च धर्मस्य ब्रह्मज्ञानहेतुत्वात् तद्विचारोपयुक्तानां श्रुतिलिङ्गादीनां वेदचोदनार्थवादस्मत्यादिप्रामाण्यस्य ब्रह्मविचारोपयुक्तत्वाच धर्मवि- चारानन्तर्य ब्रह्मविचारस्य नियतमिति विभाव्यते, तदापि न वक्तव्यत्वम् । अध्ययनव- दावश्यकतयैव प्राप्तत्वात् । तथाच ततोऽप्यधिकाकांक्षा स्यात् । किमनन्तरमिति । नापि नित्यानित्यवस्तुविवेकः ऐहिकामुष्मिकफलभोगविरागः शमादिसाधनसम्पन्मुमुक्षुत्वं चेति साधनचतुष्टयानन्तर्य युक्तम् । शमादीनां पूर्वमप्रस्तुतत्त्वेन स्वयं शब्दानिर्दिष्टत्वेन च सूत्रकाराविवक्षितत्वात् । पूर्वमीमांसोक्तकर्मतत्फलादिजाघन्यात्मनित्यत्वज्ञानाधीनतया शास्त्रद्वविधामनन्तरभावित्वेन पूर्व वक्तुमशक्यत्वात् । तेषां पूर्वभावे विचारवैयर्थ्यापत्तेः। शमादीनां वेदान्तविचारानन्तरभावित्वेन पूर्व वक्तुमशक्यत्वात, विचारस्य च तदनन्त- रभावित्वेनान्योन्याश्रयादसम्भवापत्तेः । शमादिरहितानामपीदानीन्तनानां निःसन्दि- ग्धवेदार्थज्ञानोपलब्ध्या प्रत्यक्षविरोधाच्च । तादृशस्याधिकारिणः श्रवणमात्रेण कार्ता- ात् समाधिनिरतत्वेन प्रवचनासम्भवाच्छास्त्रोच्छेदापत्तेश्च । नापि जातिकृतं गुणकृतं च ब्रह्मविद्यायामधिकारत्रैविध्यं साधनाध्यायानुसारेणावाङ्गीकर्तुं शक्यम् । विचारन- ह्मविद्ययोरभेदाभावात् । अतो माध्वोक्तश्रुतिस्मृतीनामपि न विरोधः । अतोऽवश्यापे- क्षितानन्तर्यस्य ब्रह्मजिज्ञासापदादेव प्राप्तेरधिकाकांक्षाऽभावाय अथशब्दोऽधिकारार्थ एव युक्तः । शेपपष्ठया च ब्रह्मसम्बन्धिनां तज्ज्ञानोपयोगिनां सर्वेषां विचारस्य प्रतिज्ञात- त्वादने वक्ष्यमाणेषु पदार्थेषु न कस्याप्यप्रतिज्ञातार्थत्वम् । नचैवं ब्रह्मसम्बन्धिनामेव जिज्ञास्यत्वे ब्रह्मणो गौणत्वमजिज्ञास्यत्वं वा स्यादिति शङ्कनीयम् । शब्दत एव गौणत्वे- नार्थतो गौणत्वाभावात् । तत्संबन्धेनैव संवन्धिनां जिज्ञास्यताबोधनात् । 'सत्यं ज्ञान- मनन्तं ब्रह्मेति निःसन्दिग्धेन स्वरूपलक्षणेन तत्स्वरूपे आसंसारं प्रसिद्धानुभावत्वेन तत्सत्तायां च सन्देहाभावेपि तादृशविवक्षितगुणवैशिष्टयेन जिज्ञास्यत्वानपायादिति ।

श्रीब्रजनाथात्मजश्रीकृष्णचन्द्रकृता । प्रतिज्ञोत्तरं कार्यलक्षणस्य तत्र प्रमाणस्य च मूत्रितत्वेन सूत्रकाराशयस्याप्येवमेव सद्भा. वावगमाच । वेदप्रामाण्य स्वास्तिकसर्वतन्त्रसिद्धत्वाज्जैमिनिना विशेपतो विचारित- त्वाच श्रुतिलिङ्गादिवन्न पुनर्विचार्यते । तस्माद् ब्रह्म जिज्ञास्यमिति सिद्धम् । सम्ब- न्धिनामेव जिज्ञास्यत्वसाधनेन यथाधिकार ज्ञानकर्मसमुच्चयस्य भक्तिमार्गीयसर्वात्म- भावस्य च साधनतयाभिप्रेतत्वं सूचितं भवति । तथा ब्रह्मजिज्ञासापदेन जिज्ञासुरधि- कारी । ब्रह्म ससम्बन्धिकं विषयः । प्रतिपाद्यप्रतिपादकमावः सम्बन्धः । ब्रह्मज्ञानं च फलम् । तस्यापि परप्राप्तिरूपो मोक्षश्व फलमित्यनुबन्धचतुष्टयमप्यत्र सिद्धं वेदितव्यम् ॥१॥ इति प्रथमं जिज्ञासाधिकरणम् । जन्माद्यस्य यतः शास्त्रयोनित्वात् ॥ २ ॥ (१. १. २.) अत्र सर्वेऽपि योगविभागेन शास्त्रयोनित्वादिति सूत्रं भिन्नमभ्युपगच्छन्ति । तन्न युक्तम् । अग्रिमसूत्रेषु साध्यहेतुनिर्देशपूर्वकमेवाधिकरणरचनदर्शनेनात्रापि तथैव युक्त- त्वात् । सांख्ये ब्रह्मपदस्य प्रकृतिवाचकत्वाङ्गीकारात् तद्वारणार्थ ब्रह्मणि शास्त्रोक्तकर्त- त्वप्रतिपादनस्यावश्यकत्वाच । माध्वाः शैवाश्च जन्मायधिकरणं शास्त्रयोनित्वाधिकरणं. च भिन्नमङ्गीकुर्वन्ति । तेपामाद्यस्य हेतुशून्यत्वाद प्रतिपादकाकांक्षिततया द्वितीयस्य च साध्यशून्यत्वात् प्रतिपाद्याकांक्षिततयातिक्लिष्टत्वाद्विवक्षितप्रमेयासाधकत्वं वा क्लेशेन साध- कत्वं वा बोध्यम् । रामानुजाचार्या भास्कराचार्याश्च जन्माद्यधिकरणं त्रिमूत्रमङ्गीकुर्वन्ति । तेषां मतेड थशब्देन धर्मविचारानन्तर्यस्य ब्रह्मजिज्ञासायां बोधनात् ब्रह्मणो वेदान्तवेद्यसोपतिष्ठते, तथाप्यथशब्दस्यानेकार्थत्वेनानन्तर्यस्याप्यनेकविधत्वेन चोपपादनसापेक्षत्वाद् द्रागनुप- स्थितिरिति । समन्वयसूत्रस्थसाध्यनिर्देशासङ्गतिरिति च । अत ऐकम्न्यपक्ष एव श्रेयान् । शङ्कराचार्यमते जन्माद्यधिकरणं दशसूत्रम् । तत्र सूत्रद्वये पृथग्रूपनामप्रपञ्चकर्तृ- स्वप्रतिज्ञा । शेपेप्वष्टसु हेतूक्तिरिति । तदप्यसङ्गतम् । द्वितीयसूत्रे शास्त्रयोनिरित्येताव- तैव प्रतिज्ञापूतौं त्वादित्यस्य वैयर्थ्यप्रसङ्गात् । समन्वयसूत्रे साध्यनिर्देशविरोधप्रसङ्गाच । तस्मादैकसूत्र्याङ्गीकारेणैकाधिकरण्यपक्ष एव युक्त इति । तथाचायं सूत्रार्थः । जन्म आदिः पूर्वावधिर्येपां भावविकाराणां ते जन्मादयः । सुपां सुलुगिति जसो लुक् । अत्र कुटादिभ्य इतिवदवयवसमासादतगुणसंविज्ञानो बहु- श्रीहिः । विकारान्तरज्ञानदशायां जन्मनः प्रव्यक्तत्वाभावात् । नच तदसंग्रहापत्तिः । श्रुतत्वेन पूर्वमेव तस्य युद्धाचारोहात् । यद्वा । जन्म आदि यस्य स्थितिभङ्गस्य तज- न्मादीति तद्गुणसंविज्ञानः । अस्येति पुरोवर्ती प्रपञ्च इदमा निर्दिश्यते । अनेकभूत- भौतिकदेवतियश्चनुष्यानेकलोकाद्भुतरचनस्य मनसाप्याफलयितुमशक्यस्यानेककोटि- ब्रह्माण्डयुक्तस्यानायासेनोत्पतिस्थितिभङ्गकरणं भावविकारादिकं या यतः । तद् ब्रह्मेति ur . भावप्रकाशिका ब्रामसूत्रवृत्तिः । त्वधिकारवलादेवायाति, न त्वध्याहारः । अथवा । आयस्याकागस्य प्रधानस्य वा जन्म यत इति । शास्त्रे योनिः शास्त्रयोनिस्तस्य भानस्तस्मात् । योनिशब्दो निमित्तकारणे रूढः । 'तासां ब्रह्म महद्योनिरहं वीजप्रदः पितेति मातृरूपन्यबोधनात् । मातुश्च भत्रा त्वादिति । तथाच शास्त्रोक्तनिमित्तकारणत्वादित्यर्थः। तच्च निमित्तत्वं स्वातन्त्र्यात् कर्तृत्वे पर्यवस्यति । शाङ्करास्तु शास्त्रस्य योनिरित्यत्र पष्ठीसमाममङ्गीकृत्य योनिपदे कारणमामान्य- वाचकत्वं चाङ्गीकृत्य सर्वजकल्पसर्वार्थाचद्योतिशास्त्रकर्तृत्वाद ब्रह्मणि सर्वज्ञत्वं साधयन्ति । तदन्ये न रोचयन्ते । निःश्वासचदबुद्धिपूर्वकमुत्पादने सर्वज्ञताया असम्भवात् । बुद्धिपूर्व- कमर्थमवलोक्योत्पादने काणादादिशास्त्रानुमरणप्रसङ्गात् । पूर्वकल्पीयानुपूा एव यथा- वस्थित्तायाः कथनेपि राजदूतादिवत् सर्वज्ञताया असम्भवादिति । एतेन पुरुषास्वातन्त्र्य- मात्रमेव वैदे अपौरुषेयत्वमिति वदतो वाचस्पतेरपि मतं न सावश्यसाधनक्षममिति बोद्धव्यम् । यत्तु, विमतं ब्रह्म वेदगतसर्वविपयप्रकाशनशक्त्याधारः, वेदोपादानत्वात् , दीपगतप्रकाशनशल्याधारदीपोपादानवहिवदिति विवरणोक्तमनुमानम् , तदप्यसङ्गतम् । ब्रह्म न वेदगतसर्वविपयप्रकाशनशल्याधारः । निःश्वासात्मकवेदोपादानत्वात् । अयुद्धि- पूर्वकनिःश्वासोपादानपुरुपवदिति प्रयोगान्तरेण सत्प्रतिपक्षत्वात् । अन्ये तु शास्त्र योनिः कारणं मूलप्रमाणमस्येति षष्ठ्यर्थे यहुबीहिमगीकुर्वन्ति । तदप्ययुक्तम् । लक्षणाप्रसङ्गात् , स्वारसिकार्थत्यागाच । विज्ञानेन्द्रभिक्षुस्तु सप्तम्यर्थे बहुव्रीहिमङ्गीकृत्याह । अत्र शास्त्रादिति वक्तव्ये शायौनित्यादिति यदुक्तं तच्छाखाविरुद्धानुमानस्मृतियोगिप्रत्यक्षाणां संग्रहायेति । तदप्यसङ्गतम् । अत्यन्तापरिदृष्टे अनुमानस्यासाधकत्वात् । तथाहि । जगत् कार्य सावयवत्वात् । महत्त्वे सति क्रियायचात , महत्चे सति मूर्तत्वाच्च, घटादिवदित्यनुमा- नर्जगतः कार्यत्वं साधयित्वा, जगत् स्वोपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञपुरुषक- तकम् , कार्यत्वात्, घटवदित्यनुमानेन जीवात्मविलक्षणः सकलजगत्कर्ता परमेश्वरो- नुमेयः । सोऽनुमातुं न शक्यते। जगद् न कार्यम् । अशक्यक्रियत्वादशक्योपादानविज्ञा- नत्वाच, आकाशवदिति माधनाभ्यां सावयवत्वस्य सत्प्रतिपक्षत्वेन कार्यत्वस्य विपति- पन्नत्वेन साध्यसमत्वात् । एवं क्षित्यादिवायुपर्यन्तानि अकार्याणि । महाभूतशब्दवाच्य- त्वात् । आकाशवदित्यस्यापि प्रतिपक्षत्वं बोध्यम् । नचाकाशे निरवयवत्वस्य साधकत- कस्य सत्वाद् अस्त्वाकाशस्य तथात्वम्, न तु जगतः, तदभावादिति वाच्यम् । साव- यवानामपि महामहीधराणां कार्यत्वादर्शनात् । किञ्च । कार्यत्वेन कर्तजन्यत्वमप्यनुमा- तुमशक्यम् । तस्याङ्कुरादिपु साधारणत्वात् । नचाकुरादौ साध्यसन्देहस्वानन्याहितत्वेन तस्य पक्षसमत्वमिति वाच्यम् । शरीरजन्यत्वस्योपाधेः शरीराजन्यत्वस्य प्रतिपक्षस्य च विद्यमानत्वेनान्याहितत्वात् । किञ्च । क्षित्यादिकं नैककर्तृकम् , विलक्षणत्वे सत्यनेक- , श्रीब्रजनाथात्मजश्रीकृष्णचन्द्रकृता । कार्यत्वाव, घटपटस्तम्भादिवदिति । नैकककं, विचित्राद्भुतसन्निवेशत्वात् । महानौ- काभवनादिवदिति सत्प्रतिपक्षत्वेन तस्यैकेश्वरासाधकत्वात् । एवमन्यदपि भाप्यविभा- गाद् दूपणान्तरं बोध्यम् । यदपि श्रीभागवते । अत्र 'मां मार्गयन्त्यद्धा युक्ता हेतुभि- रीश्वरम् । गृह्यमागगुणैलिङ्गैरग्राह्यमनुमानत' इत्यत्रानुमानतो मार्गणप्रकार उक्तः,सोऽपि दर्शनसामयिक इति नात्र तद्विरोधः । एवं स्मृतियोगिप्रत्यक्षयोरप्यविरुद्धयोः सन्देह- वारकत्वमेव, न तु प्रमितिजनकत्वम् । अन्यथा 'तं त्वाँपनिपदं पुरुपं पृच्छामीति श्रुतिस्थमोपनिपदपदं कुप्येत । इतः पूर्वम् , 'अगृह्यो न हि गृह्यत' इत्यत्र केवलेन्द्रिया- ग्राह्यत्वे विवक्षिते तद्वैयर्थ्यस दुर्वारत्वात् । नच 'सर्वे वेदा यत् पदमामनन्ति,' 'वेदैश्च सर्वैरहमेव वेद्य' इति श्रुतिस्मृतिभ्यां सर्ववेदवेद्यत्वकथनादुपनिपन्मूलप्रमाणकत्वं वा उपनिपन्महातात्पर्यविषयत्वं वा तदर्थ इति न तद्वयर्थ्यमिति वाच्यम् । एवमपि पूर्वकाण्डवे- यत्वमात्रमधिकमायाति, नतु लौकिकप्रमाणान्तरवेद्यत्वमित्येवमेवाङ्गीकार्यत्वात् । अन्यथा यस्य कस्यापि प्रमाणस्य प्राक प्रवृत्ती वेदानामधिगतार्थगन्तृत्वेन प्रामाण्यमङ्गप्रसङ्गात् । नच प्रमाकरणत्वमेव प्रामाण्यमित्यदोष इति वाच्यम् । तदापि गुणयोगाय करणशुद्धयर्थ साधनबोधकथुतेरेवाश्रयणीयत्वेन प्रामाण्यस्य तत्रैव पर्यवसानात् । अत एव 'नच वेदाइते किञ्चिच्छास्त्रं ब्रह्माभिधायक' मिति कौर्मे, 'विदुरकाठाय मुहुः कुयोगिना' मिति श्रीभा- गवते चोक्तम् । तस्माद् ब्रह्मणः श्रुत्येकगम्यत्वमेवेति सिद्धम् । तथा सत्येवमत्राधिकरणे सन्देहः । 'सत्यं ज्ञानमनन्तं ब्रह्मेति स्वरूपलक्षणं श्रु- तायुक्तम्, तथा 'नित्यशुद्धबुद्धमुक्तस्वभाव' मिति च । तत्र कर्तृत्वादिप्रापश्चिकधर्मराहित्य प्रतीयते। 'यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंवि- शन्ति, तद् विजिज्ञासख, तद् ब्रह्मेति । इदं कार्यलक्षणम् । अत्र च जगज्जन्मादिकर्तृत्व प्रतीयते । तत्र सन्देहः । किं ब्रह्म कई ? आहोस्विदकर्ट ? किं तावत् प्राप्तम् । अक- त्रिति । तथाहि । 'ब्रह्मविदाप्नोति पर' मिति प्रधानवाक्यम् , फलसम्बन्धात् । जैमि निना 'कर्म फलार्थत्वादिति कथनेन साधने फलशेपत्वबोधनात् । 'सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे व्योमन् , सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'- ति व्याख्यानभूत पि फलार्थे ब्रह्मज्ञानस्योक्तत्वाच। कर्तृत्वं तु परविवरणतया उक्तम् । परं किमित्युक्ते, यः सर्वान्तर आनन्दः । कथं तस्य सर्वान्तरत्वमित्याकांक्षायां तत्प- रिचायनाय भूतभौतिकसृष्टिमुक्त्वा गौणान्तर्य परिहृतम्, गौणोपासनाफलं च प्रधान- शेषतयोक्तम् । स च सर्वान्तरः परो ज्ञेयाद् ब्रह्मणो भिन्नः । तस्य सत्यज्ञानात्मकत्वाद अनन्तत्वात् । एतस्य कर्मादिफलरूपानन्दात्मकत्वात् , सर्वान्तरत्वेन परिच्छिन्नत्वाच । ब्रह्मपदप्रयोगस्य साधारण्येऽपि स्वरूपभेदाच्छक्यतावच्छेदकभेदाचोभयोर्भेदः। आये वृहत्वरूपं व्यापकत्वं शक्यतावच्छेदकम् । द्वितीये तु सर्वान्तरत्वेन बृहणत्वरूपं पोपक- त्वमिति । एवं सिद्ध उभयोर्मेंदऽन्यगतकर्तृत्वारोपोऽपि सम्भवति । ततश्च 'भृगुर्वे ८ - भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। वारुणि रित्युपाख्याने गौणमेव कर्तृत्वमनूद्यते । फलाश्रवणात् । तस्मादकई ब्रह्मेति पूर्वः पक्षः। सिद्धान्तस्तु, कर्तृ ब्रह्म, वेदेन ब्रह्मशब्दोक्तिपूर्वक निरङ्कुशस्य कर्तृत्वस्य तत्र बोधितत्वात् । वेदस्य परमाप्तत्वेनाक्षरमात्रेऽपि मिथ्यावादस्य वक्तुमनुचितत्वात् । अन्यथैका तथात्वे ज्ञाते, अन्यत्रापि तथा शङ्कया सर्वत्रवानाथासप्रसङ्गेन सर्वसन्मार्ग- विप्लवापातात् । नच कर्तृत्वाङ्गीकारे स्वरूपलक्षणविरोधः शयः। सत्यत्वादिधर्मवत् कर्तृत्वस्यापि वेदैनैव बोधितत्वात् । अचिन्त्यैश्वर्यवत्त्वेन तस्योपपद्यमानत्वाच । अत एव 'यतो वेति श्रुता 'विमानि भूतानि' इत्याकाशादीन्यन्तर्भाव्य पूर्वप्रपाठकोक्तं दृढीकृतम् । सूत्रकृता चैतदभिप्रायेणैवास्येति पदमुक्तम् । नचाकाशस्थले गौणीति युक्तम् । संभूत इति सकृत् प्रयुक्त एकस्मिन्नेव पदे गौणमुख्यवृत्त्यङ्गीकारे वाक्यभेदप्रसङ्गात् , कल्पना- रूप्यप्रसङ्गाच । नच सर्वथा निर्धर्मकत्वं ब्रह्मणः शक्यवचनम् । सत्यज्ञानादिपदानां सामानाधिकरण्यभङ्गप्रसङ्गात् । धर्मभेदाभावे सामानाधिकरण्यानुपपत्तेः । नचासत्यज- डसान्तव्यावृत्तत्वेनैक एवार्थस्तैरुच्यते इति वाच्यम् । व्यर्थ पौनरुज्यापत्तेः । तत्तद्भ दधर्मकत्वसिद्धया घटकुटयां प्रभाताच । नचास्य कर्तृत्वस्य संसारिधर्मत्वं शवयम् अलौकिकत्वात् । तस्य च लोकविलक्षणत्वात् । नच लक्षणद्वयस्यैकपरत्वे सर्वासु श्रुतिप्वेकमेव ब्रह्म निरूप्यत इति सिद्धम् , तथा सति अस्थूलादिवाक्येषु यावद्धर्मनि- पेधानिर्धर्मकत्वस्य बलादापत्तिरिति वाच्यम् । तत्र लौकिकधर्माणामेव निषेधदर्श- नेन श्रीतधर्माणां निपेधानहत्वात्तदनापत्तेः । सत्यत्वादीनामपि लौकिकत्वादरणेन सर्व- निषेधाङ्गीकारे तु स्वरूपलक्षणस्याप्यबोधकत्वाद् ब्रह्मज्ञानस्याभावेनैतस्याः थुतेर्वेयर्थ्य- स्यैवापातात् । यदि च प्रपञ्चस्य व्यावहारिकत्वान्नास्त्येव लोके सत्यत्वम्, किन्तु कार- पतमेव तत् प्रतीयत इत्युपेयते । तदा कर्तृत्वमपि तयाभ्युपेयताम् । ततश्च कर्ता कार- यिता हरि' रिति कल्पस्मृतिरपि स्वीकृता भवेत् । नचागत्या सत्यत्वादिकं तथास्तु, न तु कर्तृत्वमपि, आरोपन्यायेन तस्य ब्रह्मणि वक्तुं शक्यत्वादिति याच्यम् । तथा सत्य- । न्यस्य स्यात् । तत्रान्यः को वेति विचारणीयस्। यदि कर्मादिफलभूत आनन्द एव पर- शब्द प्राप्यत्वेनोक्तोऽन्यत्वेन विभाव्यते, तदा त्यसङ्गतम्। तस्य जन्यत्वे निरङ्कुशस्य कर्तृ- त्वस्य तत्र वक्तुमशक्यत्वात् । अजन्यत्वे जलान्तरापातेन 'एकमेवाद्वितीय' मित्यादिश्रु- तिविरोधात् । तस्य प्रकृतिरूपत्वे परत्वविरोधात् । ब्रह्मज्ञानप्राप्यत्वोक्तिविरोधाच । तस्याः परार्थत्वेनव मान्यरुपगतत्वेन तस्याः परत्वाभावाच । तत्याप्तेनश्वरत्वेन तैरुपगततया तस्या अमोक्षत्वापत्तेश्च । तस्या जडत्वेन विवक्षितकर्तृत्वस्याशक्यवचनत्वाच्च । नापि जीरोऽन्यत्वेनात्र वस्तुं शक्यः । अस्वतन्त्रत्वात् । अत एव न वहयोपि, ऐकमत्यासं- भवाच । नापि तपोयोगादिलोपपनो हिरण्यगर्भादिः । प्राकृतशरीरविशिष्टस्य तस्यापि जन्यत्वात् । अशरीरत्वे करवस्यवाशस्यवचनत्वात् । अतो 'विश्वनय' रित्यादिशु- .

. श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता। त्युक्तशरीरं ब्रह्मैव श्रुत्युक्तं कर्तृ । तद्गतमेव कर्तृत्वं भोक्तृत्वं च प्रपञ्चे भासत इति मन्तव्यम् । न वा काचिच्छुतिः कर्तुत्वं निषेधति । विरोधभानात् कल्प्या तु लौकिक- परा । सांख्योक्तानां कर्तृदोपाणामपि न संसर्गः । नाप्यनुमानेन प्रदर्शितानामपि दोपा- णाम् । तस्मादचिन्त्यैश्वर्यवत्वेन श्रुत्युक्तात् कारणत्वाद् ब्रह्म कर्तृ इति सिद्धम् ॥२॥ इति द्वितीयं जन्माद्यधिकरणम् ॥ तत्तु समन्वयात् ॥३॥ (१.१.३.) ननु कार्यलक्षणबोधिकायां 'यतो वा इमानी'ति श्रुतौ पञ्चमी श्रूयते । पञ्चम्या- स्तसिलिति । 'आत्मन आकाशः संभूत' इत्यत्रापि आत्मन इति पञ्चमी। सा च 'विभापागुणेऽखिया'मिति सूत्रे अकारप्रश्लेपेण अगुणादपि हेतोरङ्गीकृता । यथा धूमा- दहिमानित्यादिपु । एवमत्रापि ब्रह्मणो निमित्तत्वे सन्देहाभावात् तावन्मात्रमङ्गीकार्यम् । तच तटस्थत्वेपि सम्भवतीति तावन्मात्रमङ्गीकार्यम् । उपादानत्वे कर्तृत्वे च सन्देहः । तद्वाचकपदाश्रवणात् । नच तदुभयं कल्पयितुं शक्यम् । प्रमाणाभावात् । समवायित्वे तु सुतरां सन्देहः । अग्रे समवायस्य दूप्यत्वात् । अतस्तटस्थकारणत्वमेव युक्तम् । तावतैव श्रुत्युपपत्तेः । कल्पनागौरवाचेति प्राप्तेऽभिधीयते। तत्तु समन्वयादिति । तुः पूर्वपक्षनिरासे । निमित्तत्वमात्रस्य श्रुतिसिद्धत्वमङ्गीकृत्य ब्रह्मण उपादानत्वे कर्तृत्वे च न सन्देग्धव्यमित्येतत् तुशब्द आह । तत् समवायि कारणं जगतो ब्रह्मैव । कुतः ? समन्वयात् । अस्तिभातिप्रियत्वात्मकेनानागन्तुकानारोपितरू- पेण सर्वत्रानुवृत्तत्वात् । प्रापश्चिकेषु सर्वेष्वेवार्थेषु घटः सन् पटः सन्नित्येवं सर्वत्रास्ति- त्वानुवृत्तेर्दर्शनाद्भातिप्रियत्वयोश्वानुवृत्तेरुपपाद्यमानत्वात्तथेत्यर्थः । नच 'त्रयं वा इदं नाम रूप कर्मेति श्रुतौ सर्वत्र नामायनुवृत्तेरुक्तत्वाल्लोके प्रतिनियतरूपेण तेपामनुवृत्त्य- भावेऽपि नामत्वादिना तथा दर्शनाच्चानुवृत्तेर्न समवायितागमकमिति वाच्यम् । तेपामेव कार्यस्वरूपत्वात् । 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी'ति श्रुतौ नाम्नां रूपु नियमने कृत एव जगतः कार्यत्वस्य प्रतीतेस्तेषां तथात्वनिश्चयात् । एवं निश्चिते पा पाश्चात्यत्वे तदनुवृत्तेरागन्तुकत्वेन समन्वयरूपत्वाभावात् । नच सत्त्वरजस्तमसां कार्य- मात्रेऽनुवृत्तिदर्शनात् प्रकृतिसमन्वयस्यैव सिद्धत्वेन अस्तित्वादिसमन्वयस्य न ब्रह्ममात्र- समवायितागमकत्वमिति शङ्कयम् । सिद्धान्ते प्रकृतेरपि ब्रह्मांशत्वेन तदन्वयस्यानाधक- त्वात् । नचात्र मानाभावः । 'प्रकृतिर्यस्योपादानमाधारः पुरुषः परः । ।सतोऽभिव्यञ्जका कालो ब्रह्मैतत्रितयं त्वहम् । तन्मायाफलरूपेण कैवलं निर्विकल्पितम् । वाङ्मनोगोच- रातीतं द्विधा समभवद् बृहत् । तयोरेकतरोह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्य- तमो भावः पुरुषः सोऽभिधीयते' इति चैकादशे भगवतैवांशत्वयोधनात् । नापि प्रकृ. त्यन्वये मानाभावः शयः । प्रीत्यनीतिविपादात्मकानां प्रकृतिस्वरूपभूतानां गुणाना- २ १० भावप्रकाशिका ब्रह्मसूत्रवृत्तिः । मनुवृत्तेरनुमानादिसिद्धत्वात् । महदादि कार्यम्, सुखदुःखमोहगुणकद्रव्यजन्यम् । कार्यत्वे सति सुखदुःखमोहगुणकद्रव्यत्वात् । भर्तृसपत्नीपुरुपान्तरादिसुग्घदुःखमोहजनकस्त्रीव- सनादिवदित्यनुमानेन सिद्धत्वात् । नच सुखादीनामान्तरत्वेनानुभवात् स्त्र्यादीनां सुखा- दिगुणकत्वे मानाभावः शङ्कयः । स्त्रीचन्दनवसनादिजन्यस्य सुखस्य तत्तदवयवेपु बहि- रेवानुभवात् । अन्यथा 'देहे मे सुखं शिरसि मे वेदना' इत्यनुभवापलापप्रसङ्गात् । तथाच . प्रयोगः। सुखादयों न साक्षादात्मविकाराः। बाह्यत्वे सत्यात्मनि प्रतीयमानत्वात् । गौरत्वादिवदिति । नचैवं सति स्त्र्यादीनां सुखादिजनकत्वमेव, न तु तद्गुणकत्वमिति शङ्कयम् । विमताः सुखादिगुणकाः 1. मुखादिजनकत्वात् । प्रकाशशैत्यादिजनकवह्नि- चन्दनादिवदित्यनुमानसिद्धत्वात् । एवं तेषां तद्गुणकत्व सिद्धे तेषां द्रव्याणां तद्गु- णात्मकत्वमप्यनुमेयम् । विमताः सुखाद्यात्मकाः । सुखाद्यविनाभूतत्त्वात् । तन्मात्रावि- नाभूतमहाभूतवत् । तथा, सुखादयो द्रव्यसूक्ष्मावस्थारूपाः । तदविनाभूतत्वे सति तज्ज- नकत्वात् । महाभूताविनाभूततजनकतन्मात्रवदिति । नच प्रथमक्षणे द्रव्यं यावद्गुण- शून्यमेवेति वाच्यम् । श्रुतिस्मृतिप्रत्यक्षबाधितत्वेन अभ्युपगमैकारणत्वात् । अपाकजस्य रूपादेरुत्पत्तिदशायामप्यनुभवादिति । एवं सुखादावपि बोद्धव्यम् । पुत्राद्युत्पत्तिकाल एव- पुरुपभेदेन सुखाद्युत्पादनदर्शनेन तस्य बालादेस्तदानीमपि सुखादिगुणकत्वनिश्चयेन तदविनाभावनिश्चयादिति । 'तमो वा इदमेकमेवाग्रे आसीत् , तत् परे स्यात् । तत्परेणेरित विपमत्वं प्रयाती'त्यादि मैत्रायणीये, तथा श्वेताश्वतरादौ च श्रावणात् । पुराणेषु मन्वादौ च तथा स्मरणाच । तस्मात् प्रकृतेरन्वयो निःसन्दिग्धः । नचैवं सति तेनैव रूपेणान्वयोs स्तु, किमस्तिभातिप्रियत्वाग्रहेणेति वाच्यम् । प्रकृतिरपि जन्यत इति तदूपस्यापि आगन्तुकत्वात् । पुरुषादौ तद्रूपत्वानुवृत्यभावाच । नच भातिप्रियत्वयोरननुवृत्तिः शङ्कया। पदार्थमानस्य ज्ञानेनैव प्रकाशात् । प्रापश्चिकपदार्थमात्रस्य ज्ञानजनकतया मांख्योक्तप्रकारेणै- वज्ञानाविनामावज्ञानात्मकत्ययोः सिद्धौ सम्यगनुवृत्तेः सुसेनैव सिद्धेः। प्रियत्वानुवृत्तिस्तु सुसानुवृत्यैव साधितचरा। तथापि सात्र नोपयुज्यते। ज्ञानेन तद्वाधात् । निरुपाधिप्रियत्व- सात्मनि सत्त्वं निश्वाय्य तत 'इदं सर्व यदयमात्मेति श्रावणेन मैत्रेयीत्राह्मणे आत्मस्त- पतयव सर्वत्र प्रियत्वस्याभिप्रेतत्वबोधनात् । नच सर्वस ब्रह्मोपादेयत्वे परिच्छेदोऽ- प्रियतं च न भासेताम्, कारणधर्माणां कार्ये भानस्यावश्यकत्वादिति वाच्यम् । नियमामा- वात् । विभागेनापरिच्छेदतिरोभावस्य माइयेनाप्यङ्गीकारात् । संयोगेन महत्त्वस्य नया- यिकरप्यभ्युपगमात् । सिद्धान्ते तु वाचारम्भणमात्रत्वाद् भेदः केनोपजायते' इति वाक्योक्तरीतिक- जानेन विकल्पबुद्धेर्याधस्य श्वेतकेत्वादिषु मिद्धत्वान् परिच्छेदादिभानस भ्रान्ततया ब्रह्मो. पादेयत्वमङ्गाभावात् । नच परिच्छेदस्सागानिकत्वे 'मर्व सर्वमयं मर्वे जीवाः सर्वमया- स्तथाप्यत्पा' इति तापनीयस्थात्पपदस्य ब्याकोप इति यान्यम् । विभुत्त्वाविरुद्धस्यैव- श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । ११ तस्य तत्र विवक्षितत्वात् । सर्वमयपदोच्या तथावगमाद, युक्तिविरोधस्यात्र भूपणत्वात् । अतो विभुत्वविरुद्धस्यैव तस्याज्ञानिकत्वमिति न कश्चिद् दोपः । नाप्येकत्वविरुद्धस्य नाना- स्वस्य भानान्न ब्रह्मोपादेयत्वमिति शङ्कचम् । तस्यापि 'बहु स्या'मिति श्रुत्यैच्छिकत्व- श्रावणात् । एवमुञ्चनीचत्वादिभानेऽपि बोध्यम् । 'प्रजायेयेति श्रुत्या तस्याप्यैच्छिकत्व- बोधनात् । अत एवैकादशस्कन्धे विंशकविंशयोर्गुणदोपदर्शनस कर्मनियमार्थत्वमुक्तम् । तथा 'किं वर्णितेन बहुना लक्षणं गुणदोपयोः । गुणदोपदृशिदोपो गुणस्तूभयवर्जित' इति वाक्य उक्तम् । यद्वा । किमनया कुसृष्टया । प्रजायेयेतीच्छयैवोचनीचभावसिद्धौ जडे सदंशस्, जीवे चिदंशस्यान्तर्यामिण्यानन्दांशस्य प्राकटथेन समन्वयस्य सिद्धत्वेन अंशान्तरस्य कचि- त्वचिदप्रतीतो, गुणभावेन प्रतीतौ वा ब्रह्मणः समवायित्वस्य दुरपोहत्वमेवेति । नचैवं प्रकृतिपरमाण्वादीनां समवायित्वभङ्गप्रसङ्गः । पटादौ सूत्रादीनामिवावान्तरसम- वायिताया अङ्गीकारात् । नापि परमाण्वादिभिरेव निर्वाहे किं ब्रह्मणः समवायित्वाङ्गी- कारेणेति शङ्कयम् । एकस्मिन् सर्वानुस्यूते समवायिनि सम्भवति सत्यनेकतत्कल्पनस्य गौरवादिदोपग्रस्तत्वेन न्यायविरुद्धत्वात् । परमाण्वादीनां नैयायिकादिरीत्या सत्ताङ्गी- कारस्य श्रुतिप्रत्यक्षविरुद्धत्वात् । अनवस्थापरिहाराय तदुपगमस्यापि कल्पनामात्रशरण- त्वात् । आदिस्टेविभागजन्यत्वस्यैव श्रुत्यादिसिद्धत्वेन द्वचणुकादिक्रमजन्यत्वस्यैवास- ङ्गतत्वादिति । नच शुक्तिरजतादौ स्वामिकेषु चास्तीत्यादिप्रतीतेस्तेपु सदन्वयो वक्तव्यः, तथा सति तस्यापि ब्रह्मकार्यजगत्तुल्यतया सत्यत्वापत्तिः । सा तु प्रत्यक्षबाधिता । तस्मिन् ब्रह्मकार्यतामपि बाधत इत्यकार्येऽपि सदन्वयात् कथं ब्रह्मणः समवायित्वं तेना- चगन्तुं शक्यमिति वाच्यम् । तादृशेषु सत्ताया आरोपितत्वात् तत्रारोपितरूपेण यः सदंशान्वयस्तस्य समन्वयरूपत्वाभावेन समन्यये दोपसंसर्गाभावात् ततः समवायित्वस्य सुखेनावगन्तुं शक्यत्वादिति । अयमेव समन्वयोऽस्मत्प्रस्थाने समयायपदेन परिभाष्यते, न तु वैशेषिकप्रतिपन्न इति योध्यम् । अन्यैस्तु तादात्म्यपदेन आगन्तुकरूपेण भेदसहि- cणुत्वेऽप्यनागन्तुकरूपेणाभेदादिति । एतस्य सम्बन्धत्वमैच्छिकभेदोत्तरं द्विनिष्ठत्वे विशिष्टयुद्धि नियामकत्वादवगन्तव्यम् । नचान विषयवाक्याभावः शङ्कचः । एतस्य सर्वस्वार्थस्य तदात्मान स्वयमकुरुते'त्यविकृतस्यैकस्यैव कर्मत्वयोधने स्पष्टीकृतत्वात् । नच तत्रात्मपदेन चिदचिद्रूपं ब्रह्मणः शरीरमेव परामृश्यते इति वाच्यम् । विरुद्ध- धर्माश्रयत्वेनैवोपपत्ता लक्षणाया अनुचितत्वात् । 'सदेव सौम्येदमग्र आसीदकमेवाद्वि- तीय'मित्यादिप्वादिसृष्टिप्राक्कालवृत्तान्तबोधकवाक्येषु एवकारादिमिरितरव्यवच्छेदेन तदानीं चिदचिच्छरीरस्य वक्तुमशक्यत्वात् । नच तत्र तैः शरीर्यन्तरं मुख्यान्तरं मिपदन्तरं वा व्यवच्छिद्यते, न तु शरीरममुख्यममिपद्धति वाच्यम् । एवकारेणेव त्वद्वि- यक्षितानां व्यवच्छेदसिद्धरद्वित्तीयपदवयापतेः । 'आत्मवेदमग्र आसीन् पुरुषविधा, १२ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। सोऽनुवीक्ष्य नान्यदात्मनोऽपश्य'दित्यनुवीक्षायामन्यदर्शननिषेधस्य विरोधापत्तेश्च । नत्र तत्रान्यपदेन शरीरी चा विशिष्टो वा परामृश्यते, अतो न विरोध इति वा- च्यम् । तत्र तादृशपरामर्शस्याशक्यवचनत्वात् । तथाहि । तत्रात्मा स्वशरीरं किं शरी- रत्वेन वा विशेषणत्वेन वामिपत्त्वेन वा परामृशति, आत्मत्वेन वा । नाधास्त्रयः । तस्य पार्थक्ये सत्यात्मानुवीक्षणस्य भ्रमत्वापत्तेः । स्वान्यादर्शनेनात्मनोज्ञत्वापत्तेश्च । न तुरीयः। अभ्रान्तस्य तथा ज्ञानानुपपत्तेः । नच सौवालवाक्ये प्रलयप्रकरणे 'तमः परे देवे ए- कीभवतीत्येकीभावश्रावणेन खशरीरतया विनिर्देशानौतिसूक्ष्मदशापत्तौ पार्थक्यस्य श- रीरत्वस्य चाभावेन नात्मत्वप्रकारकज्ञानानुपपत्तिरिति वाच्यम् । तस्य शरीरत्वाभावे शरीराविनाभावोपगमवाधप्रसङ्गात् । तादृशज्ञानस्य भ्रमत्वे तस्य वामदेवादीनां ज्ञानिनां च भ्रान्तत्वप्रसङ्गात् । प्रमात्वे त्वात्मत्वेनैव जानातीति तेन प्रमाणज्ञानेनैवाभेदसिद्धी भेदापादकप्रमाणाभावेन केवलब्रह्माद्वैतवादस्यैव सिद्धेः । सौचालवाक्य एव 'पृथिवी अप्सु लीयत' इत्यारभ्य 'अक्षरं तमसि लीयत' इत्यन्तं लयपदमुक्त्वा, अग्रे 'तमः परे देवे एकीभवतीत्येकीभावश्रावणेन शब्दान्तरात सिद्धे प्रलययोः स्वरूपभेदे प्रथमस्स नादेयसामुद्रसलिलवदविभागापत्तिरूपताया द्वितीयस्य करकाणां जलैक्यवत् पूर्वभावा- पत्तिरूपताया एव युक्ततयापि तथैव सिद्धेश्च । नच वैपरीत्येपि प्रलयस्वरूपभेद सिद्धे नैवमिति वाच्यम् । 'लीङ् श्लेषण' इति धातुपाठोक्तेर्लयस्य श्लेपरूपत्वेनाविभागरूप- तायाः पूर्वत्रैव युक्तत्वादिति । विशेपस्तु भाष्यविभागादवधातव्यः। किञ्च, गार्गीवा- ह्मणे भूतभव्यस्याकाशे आकाशस्य चाक्षरे ओतप्रोतत्वं श्रावितम् । तच्च समवायित्वस्यैव लिङ्गम् । दशमस्कन्धे 'नैतचित्रं भगवति ह्यनन्ते जगदीश्वरे । ओतप्रोतमिदं विश्वं तन्तुप्वङ्ग यथा पट' इत्यादिषु तन्तुपटदृष्टान्तात् । आथर्वणानां गोपथब्राह्मणारम्भे च 'ब्रह्म या इदमग्र आसीत्, स्वयं चकमेव, तदक्षत महदै यथं तदेकमेवास्मि, हन्ताहं मदेव मन्मानं द्वितीयं तदेव निर्मम' इति द्वितीयस ब्रह्ममात्रत्वश्रावणपूर्वक सृष्टिरुक्ता । तृतीय- स्कन्धे च 'विश्व वै ब्रह्म तन्मानं संस्थितं विष्णुमायया' इति विश्वस्य ब्रह्मतन्मात्रत्वमुक्तम् । मात्राशब्दस्तन्मात्रशब्दश्च द्रव्यसूक्ष्मे रूढः । तस्य मात्रागुणः शब्दो लिङ्गं यद् द्रष्टदृश्य- योरिति । ससर्जरूपतन्मा ज्योतिर्लोकस्य लोचन मिति पौराणिकप्रयोगात् । अतोऽत्रापि केवलस्य ब्रह्मण एव जगत्पूर्वरूपत्ववोधनेन 'आत्मा वा इदमेक एवाग्र आमी'दित्यादिप्वा- रमपदस्य केवलात्मवाचकतया विशेषणान्तरसंग्रहाक्षमत्वे शुद्धं ब्रह्मत्र समवायि। नच तदानी निर्विशेषत्वनिराकारत्वाधापत्तिः । 'सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षणवाक्येन ध- र्माणां कृत्स्नः प्रजानधन' 'आनन्दरूपममृतं यद्विभाती'त्यादिमिः मचिदानन्दाकारस्य चयोधनादिति । तस्मादात्मकरणश्रुत्या शुद्धस्स ब्रह्मणाममवायित्वं निष्प्रत्यूहमिति सि- दम् । नन्यत्रोपादानव्यवहारं परित्यज्य समयायिपदन कुतो व्यवहार इति चेद् ? उच्यते । उपादानव्यवहारम्य परिन्छिन्ने कक्रियया व्याप्त एव प्रायो दर्शनात् । श्रीभागवते .

श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । १३ 'गुणव्यतिकराकारो निर्विशेषोऽप्रतीतितः। पुरुपस्तदुपादानमात्मानं लीलयाऽसज दिति । 'प्रकृतिर्यस्योपादानमाधारः पुरुषः परः । सतोऽभिव्यञ्जकाकालो ब्रह्मतत्त्रितयं त्वहम्' इति स्वांशविशेपस्स कालस्य तादृश्याः प्रकृतेश्च पर्यायेणोपादानत्वकथनेनापि तथावसाया- चेति न किमप्यनुपपन्नम् । नन्वभिन्ननिमित्तोपादानवादिभिः सर्वैरेकदेशिभिः शास्त्रयोनित्वमूत्रविषयवाक्येषु 'सदेव सौम्ये ति छान्दोग्यवाक्यमुपन्यस्य तद्विचारणच सर्वविधां कारणतां ब्रह्मणः सम- र्थयद्भिरस्मिन् सूत्रे समन्वयपदेन वेदान्तवाक्यानां ब्रह्मणि तात्पर्येण सम्यगन्धयो च्या- ख्यातः । स एव चाग्रे सूत्रेषु दृश्यते । अयमभ्यायोऽपि समन्वयाध्याय इति सर्वेषु तत एव प्रसिद्धः । तत् कथं सोन नादियत इति चेद् ? उच्यते । योनिशब्दो निमित्तकार- णे रूढः । ' मम योनिर्महद् ब्रह्म तस्मिन् गर्भ दधाम्यहम्' । 'तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता' एतौ हि विश्वस्य च वीजयोनी' 'अस्याननं योनिरुदारवाचाम् ' इत्याचे पौरुपे च ग्रन्थे तत्रैव प्रयोगात् । अतस्तस्मिन् सूत्रे छान्दोग्यादिवाक्यानां विष- यत्वेनोपन्यास एवासङ्गतः। किञ्च । निर्विशेपवादिमते वेदान्तवाक्यसमन्वयो निर्विशेपे वक्तव्यः । स तु सूत्र न स्फुटो दृश्यते । अत उपपादनेन समर्थनीय इति साध्यसमत्वेन प्रतिवादिनिग्रहासमर्थः। एवं मतान्तरेऽपि सर्वस्य वेदस्य साध्यार्थपरत्वं मन्वानानां मीमांसकानांतदनुसारिणां च निरासाय प्रयुक्त इति स्फुटति । तत्रेदं विवेचनीयम् । किमयं हेतुरविप्रतिपन्नः, सिद्धः, उत साध्यः । तत्र नाद्यः । तथा सति पूर्वपक्षस्यैवानुत्थानप्रसङ्गात् । नेतरः । अस्मिन् दर्शने सन्देहनिराकरणद्वारा तस्यैव प्रतिपाद्यत्वात् । अग्रिमग्रन्थवैयर्थ्यप्रसङ्गाच । न तृतीयः । अनुपयोगात् । नापि समन्वयप्रतिज्ञागर्भितहेतुत्वम् । प्रतिज्ञाया बुद्धिस्थत्वेन कादिनिहलायां साधनाभावनासिद्धतयानुप्रयोगतादयस्यात् । अतस्तथा व्याख्या- नस्यायुक्तत्वान्नाद्रियत इति । एवं मतान्तरे वोध्यम् । ननु ब्रह्मणः साक्षात्समवायित्वमयुक्तम् । विकृतत्वापादकत्वात् । कार्यस्यानर्थरू- पत्वेन कचित्कुत्सितत्वभानेनासङ्गतत्वाच । अतो मायाया वा, शरीरस्य वा, भिन्नाया एव प्रकृतेर्वा, भूतानां वा तथात्वं वक्तव्यम्। ब्रह्मणस्तु ताटस्थ्येन वा, किञ्चिद्वारा वा तत् । न वा श्रुतिसमन्वयस्य, कथञ्चिन्निमित्ततामात्रेणापि सिद्धत्वात् । अतोनारम्भ- णीयमेवैतत् सत्रं भवन्मते स्यादिति चेत् ? न । मूत्रकारस्य सर्वोपनिषत्समाधानार्थ प्रवृत्तत्वेन 'स आत्मन स्वयमकुरुत' 'इदं सर्वं यदयमात्मे त्यादीनां पूर्वोक्तानामन्येपां च विचारस्यावश्यकतया सूत्रारम्भस्योचितत्वात् । नच विकृतत्वापत्तिः । अविकृतस्यैव परिणामात् । युक्तिविरोधस्यात्र भूपणताया अग्रिमाधिकरणे वक्तव्यत्वात् । 'तदेजति तनैजति, आसीनो दूरं व्रजति, शयानो याति सर्वतः,' 'यः पृथिव्यां तिष्ठन् यः पृथि- वीमन्तर: 'प्रादेशमात्रमभिविमान'मित्याद्यनेकथुतिसिद्धस्य विरुद्धधर्माधारत्वस्य युक्ति- - १४ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। त्वेन स्फुटत्वाच । नापि कुत्सितत्वापत्तिः । तस्य भ्रान्तवुद्धिकल्पिततायाः प्रागेव दर्शि- तत्वात् । नचैव यथाश्रुतार्थग्रहणे मूत्रप्रवृत्तिवेयर्थ्यमिति शङ्कयम् । प्रपञ्चबैलक्षण्यप्रति- पादकानामस्थूलादिवाश्यानां दर्शनेनोक्तवाक्यानां तद्विरुद्धत्वे भाते स्वरूपापेक्ष्या का- यस्य गौणत्वात् प्रपञ्चरूपत्वप्रतिपादकानां कश्चिद् बाधं कल्पयेदिति तन्निवारणायास्य प्रवृत्तत्वेन सार्थक्यात् । किश्च । अन्यपदार्थसृष्टौ वैपम्पनघण्ये स्याताम् । जीवकर्माद्य- धीनत्वे 'सापेक्षमसमर्थ भवतीत्यनीशता च भवेत, तथा सर्वमाहात्म्यनाशश्च स्यादि. त्येतन्निवारणायापि तथात्वादिति । विशेपो भाप्यविभागे प्रपञ्चित इति उपरम्यते ॥३॥ इति तृतीयं समन्वयाधिकरणम् ॥३॥ एवं जिज्ञासासूने ब्रह्मजिज्ञासां प्रतिज्ञाय किंलक्षणं ब्रह्मेत्याकांक्षायां जन्मादिसूत्र- द्वयेन वेदप्रमाणको जगत्कर्ता तत्समवायी चैत्युक्तम् । तत्र पूर्वमूत्रे जिज्ञासापद्महिना ज्ञानेच्छामारणेन 'अविज्ञातं विजानतां विज्ञातमविजानता'मिति ब्रह्मस्वरूपमर्यादाबो- धनाद्ब्रह्मज्ञानोत्तरमपि तस्याः सर्वदैव कर्तव्यताबोधिता। द्वितीयसूत्रे स्वरूपलक्षणसूच- नव्यतिरेकेणैव कार्यलक्षणक्यनेन तस्य गौणत्ववारणात् तत्करणावश्यकता सचिता । तृतीयसूत्रे समवायित्वनिर्णायकहेतुकथनेन विरुद्धधर्माधारत्वबोधनाद् विचारकरणावश्य- कता च सूचितेति त्रिसूत्र्यां सर्वोऽपि शास्त्रार्थः संग्रहेणोक्तः । स एवाग्रे विस्तरेण वक्ष्यते । तत्र ब्रह्मणि चतुर्धा विचारबोधनाय शाखे चत्वारोऽध्यायाः । तत्र ब्रह्मस्वरूपस्य सर्वोप- जीव्यत्वान् प्रथमेऽध्याये स्वरूपविचारः प्रमाणवलेन । ततः स्वरूपे विचारितेऽपि यदि प्रमाणयोरितरेतरविरोधः : खाद, यदि च मतान्तरनिराकरणं न क्रियते, तदोक्तं वक्ष्य- माणं च न दृढीभवेद,अतो द्वितीये प्रमाणविरोधपरिहारो मतान्तरनिराकरणं च । ततो दृढीभूते पूर्वोक्ते तदनन्तरं तृतीय साधनानि । ततस्तुरीये फलमिति अध्यायार्थः । तत्र प्रथमाध्याय स्वरूपवाक्यानि विचार्याणि । तानि सन्दिग्धनिःसन्दिग्धभेदेन द्विविधानि । तत्र निर्णयस्य सन्देहनिरामार्थत्वानिःसन्दिग्धेषु च तदभावात् तन्निर्णयो न वक्तव्य इति ‘सत्यं बानमनन्तं ब्र 'त्यादीनां स्वरूपवाक्यानां विचारोत्र न क्रियते । सन्दि- ग्यानि तु चतुर्विधानि । कार्यप्रतिपादकान्यन्तर्यामिप्रतिपादकान्युपास्यरूपप्रतिपादकानि प्रकीर्णकानि चेति यथाक्रमं प्राथमिकेषु चतुर्पु पादेषु विचार्यन्ते । तत्र सचिदानन्दरूपेण कारण निर्दिश्य कार्यप्रतिपादकानि, आकाशवापुतेजोवाचकशब्दन कारणं निर्दिश्य कार्य- प्रतिपादकानीत्येवं पदविधानि कार्यद्वारा स्वरूपबोधनायाये पादे विचार्यन्ते । तेन लोके शक्तिमोर्चनान्ययाचकान्यपि पदानि माहजिकया शच्या नमवाभिदधतीति श्रुतेस्ता- रपर्यनिर्णयेन फलिप्यनि । तत्र विचारस्य शास्त्रार्थत्वाजिनासासूत्रे विपयिविषयभावः शाखमङ्गतिः । शास्त्रस्याभ्यायेषु, तेषां पादपु, पादानां खावपयेषु च सामान्यविशेष- भारः । अधिकरणानां परस्परं भिन्नाः सङ्गतयः । सङ्गतिर्नाम सावधानेन पुंसा प्रयु- ज्यमानं यद्वारयं तन्प्रयोजकत्वेन योऽर्थः स्मृतः, तस्योपेक्षानहत्यमेव । उपेक्षानर्हता च श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । १५ कचिद्धेतुतया कचिदुपोद्घातेनेत्येवमनियतेधर्मः। वेदान्तदर्शने तदियत्तानियामकस्यानु- क्तत्वादिति । अधिकरणं तु विषयसंशयपूर्वपक्षोत्तरसङ्गत्याख्यपश्चाङ्गघटितं वाक्यम् । तत्रापाततः प्रतीतः सन्दिग्धोऽयों विषयः । संशयश्च एकधार्मिक विरुद्धनानाकोट्यवगाहि ज्ञानम् । पूर्वपक्षः प्रतिवादिमतम् । उत्तरं तनिरासेन निर्णयः । सङ्गतिस्तुक्त वेत्येवं बोध्यम् । तत्रोक्तविधेषु वाक्येषु पूर्वसूत्राभ्यां कृते लक्षणविचार एवं कार्यस्य सत्ता- योधनात् तत्कारणे सदात्मकत्वमर्थादव सिद्धम्, अतः 'सदेव सौम्येदमन आसी' दिति निरंकुशजगत्कर्तृत्वादियोधके वाक्ये सत्पदेन ब्रह्मवोच्यत इति तद्वाक्यं ब्रह्मस्वरूपपरमिति निर्णयः सिद्धः। अतः परं चिद्रूपस्य ज्ञानप्रधानस्य कर्तृत्वादिनिर्णयार्थमीक्षत्यधिकरणमा- रभ्यते । तत्र पडिन्द्रियाण्यात्मा चेति सप्त ज्ञानजनकानि, अतस्तत्र सप्त मूत्राणि । तेना- न्यत्रसप्तद्वारज्ञानवाचका अपि शब्दावेदान्तवाक्यविशेपेषु परब्रहाबाचका इति फलिप्यति। पूर्वसूत्रे ब्रह्मणो विचार्यत्वं साधितम् । तत्रैवं सन्देहः । 'तमेव भान्तमनुभाति विश्व'मित्यादिश्रुतिपु ब्रह्मणः स्वप्रकाशतया निरूपितत्वेन प्रमाणानामपि नदेवानुग्राहक- मिति सर्वप्रमाणानां प्रकाश्यत्वेन तदाविपयत्वात्, तत्प्रकाश्यत्वाङ्गीकारे स्वप्रकाशत्वचिरो- धाद्, विचारस्य च मनसा कर्तव्यतया तद्विपयत्वाभ्युपगमे, 'यतो वाचो निवर्तन्ते' इति श्रुतिविरोधाच न विचार्यम्, आहोस्विद् विरोधपरिहारेण विचार्यमिति । तत्र किं तावत् प्राप्तम् । न विचार्यमिति । कुतः ? प्रमाणानि प्राप्यप्रकाशकारीणि सहकारि- सापेक्षाणि च । प्राप्तिस्तु सन्निकर्षेण सहकार्यनुग्रहेण च । ब्रह्मणस्तु स्वप्रकाशत्वेनेतरा- प्रकाश्यत्त्वान्मनोनिवृत्तिश्रुत्या च सर्वप्रमाणाविषयत्वाद् 'यं न स्पृशन्ति न विदुरित्यादि- स्मृत्या चासनिकृष्टत्वाद् वाइनिवृत्तिश्रुत्या सत्यज्ञानादिपर्दरप्यवाच्यत्वेन तल्लक्ष्यत्वात, प्रमाणानां मनोमानेन्द्रियप्राणजन्यपुरुषप्रवृत्तिरूपव्यापाराख्यव्यवहार्यत्वेन सर्वव्यवहा- रातीते ब्रह्मणि तेपां प्रवृत्तिराहित्याच । एवं ब्रह्मणोऽविचार्यत्वे सिद्ध तत्प्रमितिफला वेदान्ता अप्यविचार्याः । ननु ब्रह्मणः सर्वव्यवहारातीतत्वमवाङ्मनसगोचरत्वं च वेदा- न्तेभ्य एवावगम्यत इति ब्रह्मणोऽप्रमेयत्वज्ञानायैव तेषां विचारोऽस्त्विति चेद् विमा- व्यते, तदा तु स्वव्यापारेण ब्रह्म समर्पयन्तोऽपि ब्रह्मणोऽवाच्यत्वं वदन्तीति बाधिता- र्थत्वादेवाविचार्या इति पूर्वपक्षे । उच्यते । ईक्षते शब्दम् ॥ ४॥ न विद्यते शब्दो बोधकव्यापारवान् पदसमूहो यत्रेत्यशब्दं सर्ववेदान्ताप्रतिपाद्य ब्रह्म न भवति । कुतः ? ईक्षतेः । 'सदेव सौम्येदमन आसीदेकमेवाद्वितीय'मित्युपक्रम्य, 'तदैवत बहु स्यां प्रजायेयेति, तत् तेजोऽसृजते'ति । तथान्यत्र, 'आत्मा वा इदमेक एवान आसीन्नान्यत् किञ्चन मिपत्, स ऐक्षत लोकानुत्सृजा इति, स हमाल्लोकानसृजते'ति । तथेतरत्र, 'स ईक्षां चक्रे, स प्राणमसृजतेति । एवमेतेपु छान्दोग्यतरेयप्रश्नोपनिषद्धा-

भावप्रकाशिका ब्रह्मसूत्रवृत्तिः।
क्येपु ' इदमेवं करिप्यामी'त्यध्यवसायात्मकालोचनरूपा या ईक्षा तत्प्रत्यायकादीक्षति-
धातुनिर्देशात् । तथा च ब्रह्मणः सर्वप्रमाणागोचरत्वादेरीक्षायाश्च श्रुतिसिद्धत्वेन समान-
बलतया चैकतरवाधस्यानुचितत्वाद् विरुद्धधर्माधारत्वस्य 'तदेजति तन्नेजति, अन्यदेव
तद्विदितादयो अविदिता'दित्यादिश्रुतिभिर्ब्रह्मणि बोधितत्वेन भूपणत्वात्, स्वात्मानमे-
वैनं नानाभूतं नानाप्रकारं करिष्यामि, सर्वव्यवहारप्रमाणातीतोऽपि लोकसृष्टिद्वारा व्य-
वहार्यों भविष्यामीतीक्षाकारसिद्धी तादृशेक्षयैव विरोधे परिहते सुखेनैव ब्रह्मणो विचा-
यत्वसिद्धिः । वेदान्ताश्च भगवद्वाक्यरूपाः । भगवाँस्तु यथा यथा कृतवाँस्तत्तत्तथोक्त-
वानिति वेदान्तानामपि बाधितार्थवक्तृत्वाभावेन विचार्यत्वसिद्धिः । एवञ्च यन्त्र
यत्रैवं पूर्वमव्यवहार्यत्वेन प्रतिपाद्यत्वाभावस्तत्र तत्रैवमीक्षितृत्वेन प्रतिपाद्यत्वाभाव इति
व्याप्तौ सिद्धायां, ब्रह्म पूर्व सर्वव्यवहारप्रमाणाद्यतीतमपि पश्चात्तद्विपयम् । एवमीक्षितृत्वात् ।
यन्नैवं, तन्नैवम् । जीववत् । यद्यपि, ब्रह्म पूर्वोक्तप्रकारकम् । ईक्षितृत्वात् । यदेवं, तदे-
वम् । जीववदिति केवलान्वयी हेतुर्वक्तुं शक्यः, तथापि जीवस्यैवं प्रकारेण श्रुत्यानु-
क्तवात् प्रकारपूर्वकः केवलव्यतिरेक्येव हेतुर्युक्त इति बोध्यम् । उक्तरूपेक्षाया आकारस्तु
ईश्वरेच्छायाः फलबलकल्प्यत्वात् तत्तत्प्रकरणोक्तकार्येभ्य उन्नीयते इति च । तथा सर्व-
व्यवहारातीतत्त्वादिकं चिद्रूप एवेति तस्य कारणत्वसमर्थने चिद्रूपस्य तथात्वमित्यपि ।
नच भवत्वेवमीक्षणेन मूलकारणत्वं चेतनत्वं च । तथा सति, मूलकारणं ब्रह्म चेतनम् ।
ईक्षितृत्वात् । जीववदित्यनुमानात् प्रकृतिवारणेन साङ्क्षयनिराकृतिरेव सेत्स्यति, न तु
व्यवहार्यत्वमपि । अपरिदृश्यमानत्वादश्रुतत्वाचेति वाच्यम् । खांशभूतजीवोपयोगि-
प्रजाशब्दवाच्यशरीराणां तत्पुरुषार्थसाधकानां लोकादीनां च सृष्टया तत्कर्तृत्वेन तत्त-
स्फलदातृत्वेन च व्यवहार्यन्यस्य सुखेनैव सिद्धेः । एवं सृष्टिप्रकरणविचारेण व्यवहार्य-
त्वस्य सिद्धाबीक्षाया एव हेतुत्वं सिद्धमिति प्रमाणविषयत्वेऽपि सैव हेतुरिति बोद्धव्यम् ।
ततश्च प्रमाणवलेनाविपयः, स्वेच्छया विपयश्चेत्यप्युक्तं भवति । ननु सर्वप्रमाणविपयत्वे
दूपिते यदिच्छया तथात्वं साध्यते, तन्न मुत्रकृतः संमतम् । यदि तथा स्यात्, तदा
नाप्रमेयमीक्षतेरिति सूत्रयेत् । अतोऽत्र नाशब्दमिति साध्यनिर्देशात् प्रधाननिरास एवं
सूत्राशय इति चेत् ? न । वेदभिन्नानां सर्वेषां प्रमाणानां प्रत्यक्षोपजीवकत्वेन तत्प्रामा
प्यस्य च गुणसापेक्षत्वेन गुणस्य च सत्त्वजन्यत्वेन सर्वेषां प्रमाणानां सत्त्वगुणसापेक्ष-
त्वात् सत्त्वयुद्धेय वेदोक्तकरणेन भवनात् सर्वेपां तेषां वेदोपजीवकत्वेन अनपेक्षप्रामा-
ण्यस गुणातीते भगवन्निःश्वासरूपे वेद एव व्यवस्थितेस्तस्यैव साध्यत्वेन निर्देशस्यौ-
चित्यान् । ननु तर्हि नावेदमित्येवोक्तं सादिति चेत् ? न । वेदव्याख्यानानुव्याख्या-
नानामपि भगवनिःश्वासत्वश्रावणात् तत्संग्रहार्थ तथानुक्तेः । एवमत्र शुद्धशब्दप्रति-
पाद्यत्यममर्थनेन 'मनसंवानुद्रष्टव्य' इति श्रुत्युक्तं शुद्वमनोदृश्यत्वं, 'कश्चिद् धीरः
प्रत्यगात्मानमक्ष'दित्युक्तं शुद्धचक्षुद्देश्यत्त्वमपि समर्थितम् ॥ ४ ॥

- श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । १७ एवमनेन सूत्रेण ब्रह्मणो वेदान्तानां च विचार्यत्वे साधिते किञ्चिदाशय परि- हरति । ननु वेदै 'स आत्मान स्वयमकुरुत' इत्यादिपु कर्तृत्तादिकं ब्रह्मणः प्रतीयते । 'निष्कलं निष्क्रिय शान्तं निरवयं निरञ्जन'मित्यत्र समवायित्वविरुद्धे निकलत्व- निरवद्यत्वे, कर्तृत्वविरुद्ध निष्क्रियत्वशान्तत्वे च प्रतीयते । तत्र सर्वभवनसमर्थत्वाद्विरु- द्वधर्माश्रयत्वेन निर्णयः, अन्यतरबाधेन वेति प्रकारद्वये संभवति सत्यप्यलौकिकापेक्षया लौकिकस्य जघन्यत्वाल्लोकसिद्धकर्तृत्वादेर्वाध एव युक्तः। अन्तरङ्गबहिरङ्गन्यायेनोत्पत्ति- शिष्टोत्पन्नशिष्टन्यायेनोपजीव्योपजीवकभावविचारेण युद्धाचारोहात् । ततश्च सत्यस्वरू- पादन्यदेव शत्रलं स्वरूपं कर्तृत्वादियाश्यपृच्यते । ईक्षत्यादेर्गुणसम्बन्धेनापि शक्यवच- नत्वादिति स्वयमेवाशङ्कय परिहरति सूत्रकारः। गौणश्चेत्, न, आत्मशब्दात् ॥ ५ ॥ ईक्षतिना युक्तः परमात्मा, गौणः प्रकृतिगुणभूतं यत् सचं तत्संबन्धवानिति चेत् , न । तथा वक्तुं न शक्यते । कुतः ? आत्मशब्दात् । 'आत्मा वा इदमेक एवान आसी' दित्युपक्रम्येक्षतिश्रावणेनेक्षितर्यात्मशब्दप्रयोगात् । सर्वत्र वेदान्तेषु आत्मशब्दो निर्गुणवाचकत्वेनैव सिद्ध इति गुणसंबन्धस्यात्मपदेन निवारणे जगत्कर्ता गौण इति न वक्तुं शक्य इत्यर्थः । नन्वेवमङ्गीकारे कल्पनाबाहुल्यादन्यतरवाधपक्ष एव युक्त इति चेत्, न । कारकमात्रस्य स्वव्यापार प्रति स्वातन्त्र्ये सत्यपि यत् कर्तृलक्षणतया स्वातन्त्र्यस्य कीर्तनं तत् कारकान्तरनियामकतव, अतो गुणानां कर्तृत्वप्रयोजकत्लाङ्गीकारे तेपामेव ' सृष्टयादिकार्ये स्वातन्त्र्येणात्मनियामकतया सगुणस्य स्वातन्त्र्याभावेनाकर्तृत्वापादक- त्वात् । नच गुणानां जडत्वेन चेतनाधीनत्वान्न सगुणस्य स्वातन्त्र्यहानिरिति वाच्यम् । तथा सत्यादिसृष्टेरपि प्राकाले गुणसत्तासिद्धया 'सदेव सौम्ये त्यादिवाक्यस्य विशेष्या- न्वितैवकारविरोधापत्तेः । नच कालवाचकाग्रपदेन तस्याप्युक्तत्वादेवकारो नान्ययोग- व्यवच्छेदक इति वाच्यम् । अग्रपदस्य शिष्यबोधनार्थत्वात, अन्यथा सद् आसीत् , कालोऽप्यासीदिति वाक्यमेदप्रसङ्गात् । आदिसृष्टिवाक्येपु कापि कालत्वेन कालसत्ताया अनुक्तत्वात् । अथाधिकरणत्वेन कालस्योक्तत्वात् कालविशिष्टब्रह्मबोधकत्वं वाक्यस्येति विभाव्यते । तदसङ्गतम् । विशिष्टविधानगौरवप्रसङ्गात् । इतरव्यवच्छेदस्य पूर्वाधिकरण एव साधितत्वेन तथा वक्तुमशक्यत्वाच्च । अतः सृष्टयनन्तरप्रतीयमानकालोपरजनेनैव तदुक्तिरिति नैवकारखान्ययोगव्यवच्छेदकत्वहानिः । किञ्च । अस्तिभातिप्रियत्वादिवद ब्रह्मगतमेव कर्तृत्वं लोके प्रतीयते । कार्यत्वात् । तेन कर्तुत्वं वस्तुतोऽलौकिकमेवेति न बायोग्यम् । तस्माच्छृतिसिद्धं ब्रह्मणः सामर्थ्यमवगम्यैव निर्णयो युक्त इति ॥ ५ ॥ ननु मास्तु गुणसंबन्धाद्गौणत्वम्, तथापि आत्मपदस्य लोके ममात्मा भद्रसेन इ- त्यादिषु गौण्यापि प्रयोगदर्शनादत्रापि तथास्तु । तथा सति नात्मपदमात्रेण तादृशनि- र्णयसिद्धिरिति शङ्कायां हेत्वन्तरमाह तन्निष्ठस्येत्यादि । , ५ -- १६ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः । क्येषु ' इदमेवं करिप्यामी'त्यध्यवसायात्मकालोचनरूपा या ईक्षा तत्प्रत्यायकादीक्षति- धातुनिर्देशात् । तथा च ब्रह्मणः सर्वप्रमाणागोचरत्वादेरीक्षायाश्च श्रुतिसिद्धत्वेन समान- बलतया चैकतरवाधस्यानुचितत्वाद् विरुद्धधर्भाधारत्वस्य 'तदेजति तन्नेजति, अन्यदेव तद्विदितादथो अविदिता'दित्यादिश्रुतिभिब्रह्मणि बोधितत्वेन भूपणत्वात्, स्वात्मानमे- चैनं नानाभूतं नानांप्रकारं करिष्यामि, सर्वव्यवहारप्रमाणातीतोऽपि लोकसृष्टिद्वारा व्य- वहार्यो भविष्यामीतीक्षाकारसिद्धौ तादृशेक्षयैव विरोधे परिहते सुखेनैव ब्रह्मणो विचा- येत्वसिद्धिः । वेदान्ताश्च भगवद्वाक्यरूपाः । भगवाँस्तु यथा यथा कृतवाँस्तत्तत्तथोक्त- वानिति वेदान्तानामपि बाधितार्थवक्तृत्वाभावेन विचार्यत्वसिद्धिः । एवञ्च यत्र यत्रैवं पूर्वमव्यवहार्यत्वेन प्रतिपाद्यत्वाभावस्तत्र तत्रवमीक्षितृत्वेन प्रतिपाद्यत्वाभाव इति व्याप्तौ सिद्धायां, ब्रह्म पूर्व सर्वव्यवहारप्रमाणाद्यतीतमपि पश्चात्तद्विपयम् । एवमीक्षितृत्वात् । यन्नैवं, तन्नैवम् । जीववत् । यद्यपि, ब्रह्म पूर्वोक्तप्रकारकम् । ईक्षितृत्वात् । यदेवं, तदे- वम् । जीववदिति केवलान्वयी हेतुर्वक्तुं शक्यः, तथापि जीवस्यैवं प्रकारेण श्रुत्यानु- तवान् प्रकारपूर्वकः केवलव्यतिरेक्येव हेतुर्युक्त इति बोध्यम् । उक्तरूपेक्षाया आकारस्तु ईश्वरेच्छायाः फलबलकल्प्यत्वात् तत्तत्प्रकरणोक्तकार्येभ्य उन्नीयते इति च । तथा सर्व- व्यवहारातीतत्वादिकं चिद्रूप एवेति तस्य कारणत्वसमर्थने चिद्रूपस्य तथात्वमित्यपि । नच भवत्वेवमीक्षणेन मूलकारणत्वं चेतनत्वं च । तथा सति, मूलकारणं ब्रह्म चेतनम् । ईक्षितृत्वात् । जीववदित्यनुमानात् प्रकृतिवारणेन सासयनिराकृतिरेव सेत्स्यति, न तु च्यवहार्यत्वमपि । अपरिदृश्यमानत्वादश्रुतत्वाचेति वाच्यम् । स्वांशभूतजीवोपयोगि- प्रजाशब्दवाच्यशरीराणां तत्पुरुषार्थसाधकानां लोकादीनां च सृष्टया तत्कर्तृत्वेन तत्त- स्फलदातृत्वेन च व्यवहार्यन्यस्य सुखेनैव सिद्धेः । एवं सृष्टिप्रकरणविचारेण व्यवहार्य- त्वस्य सिद्धावीक्षाया एव हेतुत्वं सिद्धमिति प्रमाणविपयत्वेऽपि सैव हेतुरिति बोद्धव्यम् । ततश्च प्रमाणवलेनाविषयः, स्वेच्छया विपयश्चेत्यप्युक्तं भवति । ननु सर्वप्रमाणविषयत्वे दुपिते यदिच्छया तथात्वं साध्यते, तेन मुत्रकृतः संमतम् । यदि तथा स्यात्, तदा नाग्रमेयमीक्षतेरिति मूत्रयेत् । अतोऽत्र नाशब्दमिति साध्यनिर्देशात् प्रधाननिरास एव मूत्राशय इति चेत् ? न । वेदभिन्नानां सर्वेपी प्रमाणानां प्रत्यक्षोपजीवकत्वेन तत्मामा- प्यस्य च गुणमापेक्षत्वेन गुणस्य च सचजन्यत्वेन सर्वेषां प्रमाणानां सत्वगुणसापेक्ष- त्वात् मत्चपद्धेश वेदोक्तकरणेन भवनात् सर्वेषां तेषां वेदोपजीवकन्वेन अनपेक्षग्रामा- ण्यस्य गुणातीते भगवनिःश्यामरूपे वेद एवं व्यवस्थितेस्तस्यैव साध्यत्त्वेन निर्देशस्यो- नित्यान् । ननु तर्हि नावेदमित्येवोक्तं सादिति चेत् ? न । वेदव्याख्यानानुव्याख्या- नानामपि भगवन्निश्वामत्वश्रावणात् तत्संग्रहार्थ तथानुक्तेः । एवमत्र शुद्धशब्दप्रति- पायत्वममर्थनेन ‘मनसैवानुद्रष्टव्य' इति श्रुत्युक्तं शुद्धमनोदृश्यत्वं, 'कश्चिद् धीरः प्रत्यगात्मानमवदित्युक्तं शुद्धचक्षुर्दश्यत्वमपि समर्थितम् ॥४॥ . - v- श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । १७ एवमनेन सूत्रेण ब्रह्मणो वेदान्तानां च विचार्यत्वे साधिते किञ्चिदाशङ्कय परि- हरति । ननु वेदे 'स आत्मान स्वयमकुरुत' इत्यादिपु कर्तृत्वादिकं ब्रह्मणः प्रतीयते । 'निष्कलं निष्क्रिय शान्तं निरवयं निरञ्जन'मित्यत्र समवायित्व विरुद्ध निकलत्य- निरवद्यत्वे, कर्तृत्वविरुद्धे निष्क्रियत्वशान्तत्वे च प्रतीयते । तत्र सर्वभवनसमर्थत्वाद्विरु- धर्माश्रयत्वेन निर्णयः, अन्यतरबाधेन वेति प्रकारद्वये संभवति सत्यप्यलौकिकापेक्षया लौकिकस्य जघन्यत्वाल्लोकसिद्धकर्तृत्वादेर्वाध एव युक्तः। अन्तरङ्गवहिरङ्गन्यायेनोत्पत्ति- शिष्टोत्पन्नशिष्टन्यायेनोपजीव्योपजीवकभारविचारेण बुद्धावारोहात् । ततश्च सत्यस्वरू- पादन्यदेव शवलं स्वरूपं कर्तृत्वादिवास्येपूच्यते । ईक्षत्यादेर्गुणसम्बन्धेनापि शक्यवच- नत्वादिति स्वयमेवाशङ्कय परिहरति सूत्रकारः। गौणश्चेत्, न, आत्मशब्दात् ॥ ५॥ ईक्षतिना युक्तः परमात्मा, गौणः प्रकृतिगुणभूतं यत् सचं तत्संबन्धवानिति चेत्, न । तथा वक्तुं न शक्यते । कुतः १ आत्मशब्दात । 'आत्मा वा इदमेक एवाग्र आसी' दित्युपक्रम्येक्षतिश्रावणेनेक्षितर्यात्मशब्दप्रयोगात् । सर्वत्र वेदान्तेषु आत्मशब्दो निर्गुणवाचकत्वेनैव सिद्ध इति गुणसंबन्धस्यात्मपदेन निवारणे जगत्कर्ता गौण इति न वक्तुं शक्य इत्यर्थः । नन्वेवमङ्गीकारे कल्पनाबाहुल्यादन्यतरवाधपक्ष एव युक्त इति चेत्, न । कारकमात्रस्य स्वव्यापार प्रति स्वातन्त्र्ये सत्यपि यत् कर्तृलक्षणतया खातन्त्र्यस्य कीर्तनं तत् कारकान्तरनियामकतयैव, अतो गुणानां कर्तृत्वप्रयोजकत्वाङ्गीकारे तेपामेव ' सृष्टयादिकार्ये स्वातन्त्र्येणात्मनियामकतया सगुणस्य खातन्त्र्याभावेनाकर्तृत्वापादक- त्वात् । नच गुणानां जडत्वेन चेतनाधीनत्वान्न सगुणस्य वातन्त्र्यहानिरिति वाच्यम् । तथा सत्यादिसृष्टेरपि प्राक्काले गुणसत्तासिद्धया 'सदेव सौम्ये त्यादिवाक्यस्य विशेष्यो- न्वितैवकारविरोधापत्तेः । नच कालवाचकाग्रपदेन तसाप्युक्तत्वादेवकारो नान्ययोग- व्यवच्छेदक इति वाच्यम् । अग्रपदस्य शिष्यबोधनार्थत्वात्, अन्यथा सद् आसीत् , कालोऽप्यासीदिति वाक्यभेदप्रसङ्गात् । आदिसृष्टिवाक्येषु कापि कालत्वेन कालसत्ताया अनुक्तत्वात् । अथाधिकरणत्वेन कालस्योक्तत्वात् कालविशिष्टब्रह्मयोधकत्वं वाक्यस्येति विभाव्यते । तदसङ्गतम् । विशिष्टविधानगौरवप्रसङ्गात् । इतरव्यवच्छेदस्य पूर्वाधिकरण एव साधितत्वेन तथा वक्तुमशक्यत्वाच । अतः सृष्टयनन्तरप्रतीयमानकालोपरञ्जनेनैव तदुक्तिरिति नैवकारखान्ययोगव्यवच्छेदकत्वहानिः । किञ्च । अस्तिभातिप्रियत्वादिवद ब्रह्मगतमेव कर्तृत्वं लोके प्रतीयते । कार्यत्वात् । तेन कर्तृत्व वस्तुतोऽलौकिकमेवेति न बाधयोन्यम् । तस्माच्छुतिसिदं ब्रह्मणः सामर्थ्यमवगम्यैव निर्णयो युक्त इति ॥५॥ ननु मास्तु गुणसंबन्धाद्गौणत्वम्, तथापि आत्मपदस्य लोके ममात्मा भद्रसेन इ. त्यादिषु गौण्यापि प्रयोगदर्शनादत्रापि तथास्तु । तथा सति नात्मपदमात्रेण तादृशनि- र्णयसिद्धिरिति शङ्कायां हेत्वन्तरमाह तनिष्ठस्येत्यादि ।

१८ . . -- भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। तन्निष्ठस्य मोक्षोपदेशात् ॥६॥ असद्वा इदमग्र आसीत्, ततो वै सदजायत, तदात्मान स्वयमकुरुते' त्युपक्रम्य, पठ्यते 'यदा ह्येवैप एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठा विन्दते, अथ सो- ऽभयं गतो भवतीति । एतदर्थस्तु असदिति लोकविलक्षणमव्याकृतं, यदायस्मिन् काले, ह्येव निश्चयेनैव, एप साधकः, एतस्मिन् पूर्वोक्तब्रह्मणि, अदृश्ये नामरूपशून्ये, अनात्म्ये आत्मन इदं आत्म्यं शरीरं तद्रहिते, अनिरुक्ते विकारो हि विशेषणवशान्निरुच्यते, न त्वविकार इति विकारशून्यत्वादनिरुक्ते, विदिताविदितात् परत्वेन निर्वक्तुमशक्य- त्वाद्वाऽनिरुक्ते, एवंभूते ब्रह्मणि अभयं यथा स्यात् तथा, प्रतिष्ठां 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाती'त्येवंरूपां स्थिति, विन्दते प्राप्नोति, अथ तदनन्तरमेव, स जीवः, अभयं गतो मुक्ति प्राप्तो भवतीति । अत्र ह्येतस्मिन्नित्यनेन पूर्वोक्तं जगत्कर्तारं परा- मृश्य, अदृश्यत्यादिधर्मवैशिष्टयकथनेन विरुद्धधर्माश्रयत्वं तस्य बोधयित्वा, तादृशे परिनि- ठितस्य जीवस्य मोक्ष उच्यते । यदि जगत्कर्ता गौणः स्यात्, तनिष्ठस्य संसार एवोच्येत, न मोक्षः। उपदिश्यते तु मोक्षः, अतः फलबलेन ज्ञायते, स प्रयोगो नौपचारिक इति ॥६॥ हेयत्वावचनाच ॥७॥ इतोपि हेतोनिर्गुण एव जगत्कर्ता । सर्वत्र वेदान्तवाक्येषु यत्र मोक्षसाधनान्युप- दिश्यन्ते, 'किं प्रजया करिष्यामः,' 'अमृतत्वस्य तु नाशास्ति वित्तेने' त्यादिभिस्तत्र पुत्रादीनां हेयत्वमुच्यते । यदि जगत्कर्ता सगुणः स्यात् , पुत्रादिवद्धेयत्वेनोक्तः स्यात् । उच्यते तूपास्यत्वेन, 'तज्जलानिति, शान्त उपासीते'त्यादिषु । अतो न सगुणः । अत ईक्षत्यादयोन सगुणधर्मा इति सूत्रत्रयोक्तहेतुभिः सिद्धम् । सूत्रत्रयस्यैककार्यकारित्व- योधनाय चकारः। एवं सूत्रचतुष्टयेनेक्षतिहेतुना जगत्कर्तृत्वोपपच्या सृष्टिवाक्यानां शुद्धब्रह्मपरत्वमुपपादितम् ॥ ७ ॥ अतः परं प्रलयादियोधकानां तथात्वं साधयितुं हेत्वन्तराण्युच्यन्ते सूत्रत्रयेण.। साध्यं तु नाशब्दमित्येव । स्वाप्ययात् ॥ ८॥ ब्रह्म नाशब्दम्, न सर्वव्यवहारांतीतम् । कुतः १खाप्ययात् । स्वस्मिन्नात्मन्यप्य- याजीवस्य लयात् । अपिपूर्वक एतिर्लयार्थः । एवं हि छान्दोग्ये श्वेतकेतूपाख्याने श्रूयते 'यत्रतत्पुरुषः स्वपिति नाम, सता सौम्य तदा सम्पन्नो भवति, तस्मादेनं स्वपितीत्या- चक्षते, खर पीतो भवतीति । खपितीति न क्रियापदम्, किन्तु जीवस्य नाम । स्व. स्मिन्नपीतिर्लयो यस्यासी म्बपितिः । पृषोदरादित्वादपीतिशब्दस्याकारनाशे ईकारस्य च विकृती सत्यां स्वपितिनानः सिद्धिः । वस्तुतस्तु यौगिकत्वेन नामत्वाद्योगरूढ . एवायं श्रीतः शब्दः । स्वपितिनामत्वं च न केवले स्वापे, किन्तु सत्सम्पत्तौ । स्वश- श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । १९ ब्देन चाभेदः । अर्थतः सच्छन्दसामानाधिकरण्यान्निर्गुणत्वं च । तेन गुणातीतोऽयमा- स्मा यत्र लीयते यत्र तादृशं, यद् ब्रह्म सत्पदवाच्यं, तद् गुणातीतमेव । न घेतादृशस्य स्वसम्बन्धेन कर्मसम्बन्धनिर्मुक्तपरमसुखानुभवसम्पादकं सगुण भवितुमर्हति । अतः स्वा- प्ययसम्पादकत्वान्न सर्वव्यवहारातीतम् , नापि सगुणमित्यनेनापि हेतुना सिद्धमित्यर्थः । अत्र लये वक्तव्ये सुपुप्तिकथनं कर्मसम्बन्धाहेदशायामपि तदभिभूय तादृशसुखसम्पादक- त्वसामर्थ्यबोधनायेति ज्ञेयम् ॥ ८॥ गतिसामान्यात् ॥ ९॥ गतिर्मोक्षः । समानस्य भावः सामान्य, तस्मात् । मोक्षे सर्वस्य भगवतुल्यत्वेनैव नि- रूपणात, तद्दातृत्वेन न सर्वव्यवहारातीतं, सगुणं वेत्यर्थः । गतिशब्दः फले रूढः। 'अन्ते या मतिः सा गतिः,' 'सा काष्ठा सा परा गति रित्यादौ तथा दृष्टत्वात् । अत्र चाप्ययोत्तरमे- तत्कथनं 'यतो वा इमानीति श्रुतिस्थस्याभिनिवेशनस्य निर्णयार्थम् । एतद्विपयवाक्यं तु बृहदारण्यके मैत्रेयीब्राह्मणे श्रूयते । स यथा सर्वासामपा समुद्र एकायन मित्यारभ्य, 'विज्ञातारमरे केन विजानीया'दित्यन्तम् । अत्रायमर्थः । यथा अबादीनामशानां कार्या- णामवाद्यात्मकाः समुंद्रादयो लयाधिकरणभूताः, तथा सदात्मकस्य सर्वस्य सदात्मकं कारणभूतं ब्रह्मैव लयाधिकरणभूतमिति दृष्टान्तैर्निरूपितम् । नच स्पर्शादीनां त्वगायश- स्वस्य प्रत्यक्षबाधितत्वेन केवलं लयस्थानत्वमेव विवक्षित, न तु तस्य कारणत्ववैशिष्ट्य- मपीति शङ्कथम् । 'त्वगस्य स्पर्शवायोथे'ति, 'मुखतस्तालु निर्भिन्नं जिवा तत्रोपजायते । ततो नानारसो जज्ञे जिया योऽधिगम्यत' इस्यादिश्रीभागवतद्वितीयस्कन्धंवाक्येपु तथा दर्शनेनात्र वैराजानामेव तेषां दृष्टान्तत्वेन विवक्षितत्वात् । यथा सदंशानां कार्याणां लयस्थान ब्रह्म, तथा चिदंशानां जीवानामपि लयस्थानं ब्रौवेति वक्तुं, 'म यथा सैन्धवे' त्यादिना यथा सामुद्रलवणशकल उदके प्रक्षिप्त उदकमेव लक्ष्यीकृत्य विलीयते, न तु तस्य खिल्यत्वेन ग्रहणाय कोपि समर्थः संभाव्यते, किन्तु यस्माद्यस्माद्देशादादीयते, तत्र तत्र लवणरस एवास्वाद्यते इति तत्र तत्सत्ता निश्चीयते इत्येवं लयदृष्टान्तं निरूप्य, तत एवं वा अरे इदं महद् भूतम्, अनन्तमपारमरे मैत्रेयि इदं जीवात्मत्वेनानुभूयमानं महत् पूर्वो- क्तेभ्योऽवादिभ्य उत्कृष्टमनन्तमविनाश्यपारमनादि, तवं विज्ञानघने चिदेकस्वरूपे ब्रह्म- ण्येवैतेभ्यः स्थूलसूक्ष्मशरीरात्मकेभ्योऽचुपललितेभ्यो भूतेभ्यः समुत्थाय पृथग्भूय तान्येव भूतान्यनु तल्लयोत्तरं विनश्यति, विशेषेणादर्शनं प्राप्नोति, ब्रह्मणः पृथङ् न ज्ञायते । तत्र हेतुः। 'न प्रेत्य संज्ञास्तीति । लयोत्तरं जीवसंज्ञैव निवर्तते । ब्रह्मैव भवतीति । ततो लवणरसस्य सर्वत्रोदकेनुभवाल्लवणत्वेन वर्तते एवोदग्रहणमिति कुतो निपिध्यते संज्ञा ? इत्येवं मैत्रेय्या मोहे पुनः संज्ञामावनिरूपणार्थ, 'यत्र हि द्वैत'मित्यादिना भेदकधर्मसत्तायां द्वैतदर्शनकथनपूर्वकं यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येजिघेद- २२ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः । तफलतां च न निगमयेत् । ऋगुत्तरार्धोक्तफलरूपस्यैवोपक्रमे तदेतत्पदाभ्यां कारणतया परामृष्टत्वात् । अतः प्रकारान्तरेण सन्देहाभावेऽपि मयप्रयोगमात्रेणैव सन्देहः । तत्र पूर्वपक्षे अन्नमयादिप्रायपाठवलेनानन्दमयोऽपि न ब्रह्म। फलसिद्धिस्तूपामनायाः प्रकृ- तत्वादन्नमयादिभ्य इवानन्दमयादपि भविष्यतीति फलं तस्य न ब्रह्मतानिर्णायकमिति । एवं प्राप्तेऽभिधीयते । आनन्दमयोऽभ्यासात् ॥ ११॥ आनन्दमयः परमात्मैव,नान्नमयादिवत् पदार्थान्तरम् । कुतः ? अभ्यासात् । अभ्य- स्यते पुनः पुनः कीर्यते इत्यभ्यासस्तस्मात् । पूर्वतन्त्रे शब्दान्तराभ्याससंख्यागुणप्रक्रिया- नामधेयानां पण्णां कर्मभेदकत्वेन सिद्धत्वादन भेदकत्वेन तस्य ग्रहणम्, पूर्वोत्तरतन्त्रयोरैक- शास्त्र्यात् । तत्र हि समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, म्वाहाकारं यजतीति पञ्चकृत्वो यजत्यावृत्तौ मीमांसितम् । किमत्र तनूनपादादिपु चतुर्यु पूर्वयागानु- चादः, उत यागान्तरविधानमिति । तत्र पूर्वपक्षिणा धात्वर्थप्रत्यभिज्ञानाद् इडादिगुण- विधानार्थ समिद्यागानुवादे अङ्गीकृते, सिद्धान्तितम् । भेदाभेदसाधारण्या यजिश्रुत्या यागमात्रप्रत्यभिज्ञानेन श्रुतेर्यागान्तरपक्षेऽपि तुल्यत्वाद् गुणविधानपक्षेपि चतुर्थीतद्धित- योरभावन देवताया वक्तुमशक्यत्वात् तृतीयाया अभावेन द्रव्यस्य च वक्तुमशक्यत्वाद् द्वितीयया चाग्रिहोत्रं जुहोतीत्यादिवत् तेषां कर्मनामत्वनिश्चयात् पदान्तरसमभिव्याहृतेन यजतिना यागान्तरमेव बोध्यते इति । ननु हेतुना साध्यं व्याप्तिबलेन साध्यते । प्रकृते चाभ्यामत्वेन कर्मभेदत्वेन व्याप्ते परमात्मत्वेन व्याप्त्यभावादसिद्धोऽयं हेतुरितिचेत् । न । यत्र यत्र वाक्ये पदान्तरममभिव्याहृतस्य यस्य पदस्याभ्यासः, तत्र तत्र तस्य पद- स्यार्थान्तरगमकत्वमिति व्याप्तेः सत्त्वेनासिद्धेरभावात् । नचाभ्यामस्येतरभेदमात्रं फलम्, तत्तु शब्दान्तरादेय मिद्धमिति किमनेनेति वान्यम् । वैलक्षण्यसाधकत्वेनोपयोगात् । नन्ध- भ्यासस्यान्नमयादिश्लोकेष्वपि दर्शनादत्रैव कथं वैलक्षण्यसाधकत्वमितिचेद, इत्यम् । अत्र घेवमभ्यासः श्रूयते । 'को येवान्यात्, कः प्राण्याद्, यदेप आकाश आनन्दो न स्यात, एप घेवानन्दयाती'ति । अत्रायमर्थः । पूर्वानुयाफेप्यन्नमयादीनां प्रशंमापुरत्यापि, को होयान्यादिति वाम्ये किंशब्दद्वयेन यत् पूर्वोक्तं सर्वं परामृश्यते, तेन तदननादिकं प्रति व्यतिरेफमुसेनानन्दस्यैव हेतुता बोध्यते । तेनानादीनामपि यत् म्वकार्ये मामध्यं तद- प्यन्तःस्थितानन्दाधीनमिति मूच्यते । अतोऽनैन स्तुत्या सोपजीव्यत्वेनानन्दरूपो योऽर्थः म एव मत्राभ्यम्यत इत्यतोऽस्य बलक्षण्यमाधफत्वमिति जानीहि । नचाया भयासस्य लक्षण्यमाधकत्वेऽपि लैंगिकत्वान्मयटश्रुत्यपेक्षया निर्मलत्वात् प्रायपाटेन विकारार्थग्रहणस्यैयानित्यादिति वान्यम् । मयटोऽयान्तरेऽपि माधारण्या , प्राणमये प्राणादीनां पुनीनामेव कथनेन प्रायपाठस्ययाभावादिति । नचानन्दमयस्स ब्रह्मत्वमाधने श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । २३ तस्य प्रियमेव शिर' इति सम्बन्धपष्टया भेदनिरूपणात 'नेह नानास्तीति श्रुति विरोधो, द्वैतापत्तिथेति वाच्यम् । 'यदा ह्येचैप एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवती'- त्यग्रिमवाक्ये दोपश्रावणेन तस्येत्यत्र 'राहोः शिर' इतिवदभेदपष्ठीबोधनाददोपात । उपचयापचयशकिताब्रह्मत्वपरिहारस्तु गुणोपसंहारपादे सूत्रकृतैव कार्य इति चोद्यानव- काशः । अतः किमः पुनर्वचनेन योधितो य आनन्दस्यार्थिकोऽभ्यासस्तेन मयडादिन- वाहादानन्दमयस्य भेदे साधिते तस्य ब्रह्मत्वं निष्प्रत्यृहमित्याचार्याणामाशयः । अस्मिन् वर्णकेऽन्नमयादीनां ब्रह्मकार्यत्वेन पदार्थान्तरत्वमङ्गीकृत्यानन्दे फलत्वस्य वक्तव्यत्वाज्ज्ञेये ब्रह्मण्यानन्दांशनिवेशमनुपगम्य पुनर्वचनमूचितार्थिकाभ्यासादानन्दमयस्य तेभ्यो भेदः साधितः। प्रभुचरणास्तु अन्नमयादीनामपि माधारणकार्याद्भिन्नत्वेन ब्रह्मविभूतित्वमा- नन्दस्य साधनशेपभूतजेयकोटिनिवेशेऽपि रूपभेदेन फलत्वकारणत्वयोरनपायं चाभिने- त्याधिदैविकवादं चाश्रित्यानन्दमयस्य तेभ्यो भेदं वर्णकान्तरेण साधयन्ति । तथाहि । 'स वै नैव रेमे, तस्मादेकाकी न रमते, स द्वितीयमैच्छत्, स हैतावानासे'त्यादिश्रुत्या क्रीडेच्छेव सृष्टौ हेतुः । तेन बहु स्यामित्यादावपि प्रकारभेदेन सैवोच्यते । तेन सर्व भगवानेवेति समन्वयेक्षत्यधिकरणाभ्यां व्युत्पादितम् । तथा 'एप उ एवेत्यादिश्रुत्या नानाकर्मफलदोऽपि स एवेति सिध्यति । तेन भगवाञ्जगद्रूपेणाविर्भूय स्वांशै वैस्तानि तानि साधनानि कारयित्वा तानि तानि फलानि ददत् क्रीडतीति सिध्यति । तत्र फलं सुखमेव । तद प्येतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुत्या ब्रह्मानन्द- स्यांशभूतमेव । तेन निरवध्यानन्द एव परमं फलमिति बोधनाय 'सत्यं ज्ञानमनन्तं ब्रह्मेति स्वरूपलक्षणेऽनन्तपदेन श्रुतिः सूचितवती । नचानन्तमिति सत्यज्ञानयोर्विशेपणमिति शङ्कयम् । 'सत्यं विज्ञानमानन्दं ब्रह्मा, 'मचिदानन्दविग्रह' मित्यादिश्रुत्यन्तरे चितयमा- हचर्योक्तेरत्रापि तद्वलादेव तत्प्राप्तेरावश्यकत्वेन विशेषणतया तत्राप्यानन्त्यस्य विशेषण- ताया अनुक्तसिद्धत्वात् । 'यो वै भूमा तत्सुखं, नाल्पे सुखमस्तीति श्रुत्यापि तथा निश्चयात् । किञ्च, इयमृग् 'ब्रह्मविदाप्नोति परमिति ब्राह्मणविवरणभूता 'यो वेदे'त्य- न्तेन ब्रह्मवित्पदं साधनशेषतया व्याकृत्य, अग्रे 'आप्नोति पर मिति फलांशं विवृणोति । तच 'यमेवैप घृणुते तेन लभ्य' इति श्रुत्या वरणेतरसाधनाप्राप्यत्वेन बोधितमिति तद्वि- रोधपरिहारेण उभयसामञ्जस्यार्थमेवं निर्णेयम् । अवाक्षरज्ञानेनाविद्यानिवृत्या प्राकृतधर्म- राहित्येन शुद्धत्वसम्पादनेन पुरुषोत्तमप्राप्ती स्वरूपयोग्यता सम्पाद्यते । तत्र तादृशे जीवे स्वीयतया वरणेन भक्तिरूपः सहकारी सम्पाद्यतेः । ततः सहकारिणो योग्यता- याश्च सम्पत्या पुरुषोत्तमप्राप्तिर्भवतीति । नच मध्ये भक्तिनिवेशोऽश्रुतत्वादसङ्गत इति शङ्कयम् । 'भक्त्याऽहमेकया ग्राह्यो,' 'भक्त्या त्वनन्यया शक्य' इत्यादिस्मृतिभिस्तथा निर्णीतत्वात् । तेन भक्यभावे केवलेन ब्रह्मज्ञानेन ब्रह्मभाव एव फलम् । 'ब्रह्म वेद .

भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। ब्रह्मैव भवतीति श्रुतेः । स चात्र स्वरूपयोग्यताकोटी निविशत इत्युक्तम् । नचाक्षरप- रयोरक्यमिति शङ्कयम् । 'अक्षरात् परतः पर' इति श्रुतेः, 'अक्षरादपि चोत्तम' इत्या- दिजातीयगीतावाक्यानां च विरोधात् । नचाक्षरपदेनाध्यक्ताख्या प्रकृति रेवोच्यत इति शङ्कयम् । 'द्वाविमौ पुरुपौ लोके क्षरश्चाक्षर एव चेति पुरुषत्वोक्तिविरोधात् । 'क्षरं प्रधानममृताक्षरं हरः, 'क्षरात्मानावीशते देव एक' इत्यात्मत्वश्रुतिविरोधाच । तेन पर- स्मात् प्रकृतेश्च भिन्नमेवाक्षरम् । अत एव ऋग्व्याख्येये ब्राह्मणेऽपि ब्रह्मेति पर इति च शब्दान्तरेण निर्देशः । अन्यथा 'ब्रह्मविदाप्नोति त'दित्येव व्यात् । एतेन पुरुषोत्तमस्य लक्षणमप्युक्तप्रायम् । निरवधिसत्यज्ञानरूपत्वे सत्यक्षरादुत्कृष्टत्वस्यैव लक्षणत्वेन सिद्धेः। तचोत्कृष्टत्वमानन्दमीमांसायां स एको ब्रह्मण आनन्द ' इति कथनोत्तरं 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्लोके गणनापरिच्छेदराहित्येनावाअनसगोचरान- न्दरूपतया सिद्धं भविष्यति । प्राप्तिस्तु ब्रजरत्नानामिव भगवद्भोग्यतया भगवता सह सर्वकामभोगरूपा । 'अश भोजन' इत्यस्य 'बहुलं छन्दसी'ति विकरणपयोर्व्यत्ययेनाश्नुते इति प्रयोगात् । प्रस्थानान्तरेऽपि भोजनार्थस्यैवाङ्गीकारात् । तदिदं सर्व गुणोपसंहारपादे लिङ्गभूयस्त्वाधिकरणे प्रपञ्चयिप्यते । एवञ्च फलत्वं परस्यैव, प्राप्तिस्त्वेवंग्रकारकतदनु- भवरूपेति पर्यवस्यति । तत्र परस्मिन्निरवध्यानन्दात्मकत्वेन फलत्वं व्युत्पादयितुमन्तर- तेभ्योऽप्यन्तरङ्गत्वं 'चक्षुपश्चक्षुरित्यादिश्रुतिसिद्धं सर्वस्य सर्वरूपत्वेन सर्वाधिदैविक- रूपत्वं च ज्ञापयितुमाधिभौतिकादिरूपेण भगवानाविर्भूत इत्याशयेन तस्माद्वा एतस्मा'- दित्यादिना आकाशादीनां भूतानामौपध्यादीनां भौतिकानां च संभवनक्रियायां कर्तृ- त्वमाह । न तु 'तत् तेजोऽसृजते'तिवत् सर्जनक्रियाकर्मत्वम् । एतेनाकाशादीनामत्र विभूतिरूपत्वं ज्ञाप्यते । ततोऽनमयप्राणमयमनोमयविज्ञानमयानन्दमयाख्या उत्तरोत्तर- मन्तरङ्गभूता आत्मस्वरूपा उक्ताः । नचैते विकाररूपा वक्तुं शक्याः । अग्रिमप्रपाठके 'तपसा ब्रह्म विजिज्ञासस्वेति वरुणोपदिष्टतपोरूपेण ब्रह्मज्ञापकेन साधनेनान्नादीनां ब्रह्मत्वेन नातत्वात् । नच तहिं पुनमविषयकप्रश्नाद्यनुपपत्तिः । तेषां परिच्छिन्नकार्य- कर्वत्येनापरितोपादधिकाधिकारसम्पादनार्थत्वादुपपत्तेः । एव मन्नात् पुरुष' इत्यन्तेना- धिभौतिक रूपमुक्त्वा तत्राध्यात्मिकं पुरुपरूपं वदन्ती 'तस्येदमेव शिर' इत्यादिना पक्षिरूपमाह । वाजसनेयिशाखायां 'पुरचक्रे द्विपदः, पुरश्चक्रे चतुप्पदः, पुरः स पक्षी भून्या पुरः पुरुप आविश'दितिपतिरूपेणवाध्यात्मिकस्याधिभौतिकेषु प्रवेशथावणात् । वस्तुतस्तु पुरुष एव, परन्तु पुरः सम्बन्धी सन् पक्षी भूत्वा पुरः शरीराण्याविशदिति तदर्थान् । नच तस्पेदमेव शिर इतीदमा प्रत्यक्षविषयस्य॑व शिर आदेः परामर्शाद प्रत्यक्षविपयस्यैव पक्षियं कल्पनयोपदिश्यत इति वाच्यम् । पक्षिरूपस्यातिरिक्तत्वाङ्गी- फार पक्षादिपदेपु लक्षणाराहित्यादिदम्पदमात्रे लक्षणायाः सत्त्वेऽपि श्रुत्यन्तरवारस्येन तस्या अदुष्टत्वात् । नचोक्तश्रुतापेकस्यैव प्रवेशोक्तः सर्वेषु पक्षिरूपत्वोपगमो न युक्त , श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । २५ इति वाच्यम् । अन्नमयादिषु पञ्चस्वपि.पक्षादीनां पक्षिलिङ्गानां तौल्येन तथोपगमे बा- धकामावात । नचैवं पक्षिरूपत्वेन प्रवेशप्राप्तावपि प्राणमयादिप्वन्तर आत्मेति श्रावणात तेषां चतुर्णा तत्तदन्तःप्रवेशोऽस्तु, अन्नमये तु तदश्रावणात् तस्य प्रवेशो न शक्यवचनः। वस्तुतस्तु प्रवेशश्रुतौ पूर्षु द्विपत्त्वादिश्रावणेन तासां स्थूलत्ववोधनात् तास्वेव प्रवेशो भासते । प्राणमयादिषु तु तल्लिङ्गाभावेन विवक्षितपूष्ट्वाभावात् तेप्वप्यशक्यवचनः । किञ्च, श्रुतौ प्रवेशमात्रमुक्तम्, न तु प्रयोजनं तस्य । अतः प्रयोजने विचार्यमाणे आध्या- त्मिकस्याभिमानितया प्रसिद्धेस्तथा भूत्वा पूरक्षैव प्रयोजनत्वेनायाति । सा चैकेनापि भवतीति सर्वेषां प्रवेशो वैयर्थ्यादप्यशक्यवचनः । नाप्येकस्यैवास्त्वित्यपि वक्तुं युक्तम् । अविशेषाद विनिगमकाभावाच कस्येति निर्णतुमशक्यत्वात् । अत एव तस्याः प्रवेशश्रु- तेरुक्तविषयत्वाभावेन प्रकृतोपप्टम्भस्य वक्तुमशक्यत्वात् परिदृश्यमाने पक्षित्वस्य कल्प- नोपदेशपक्ष एवात्र युक्तः, न त्वेतदतिरिक्तविभूतिपक्ष इति वाच्यम् । अतिरिक्तविभू- तिपक्षानङ्गीकारे 'अस्माल्लोकात् प्रेत्य एतमन्नमयमात्मानमुपसंक्रामती'त्याद्यग्रिमवाक्य- श्रावितस्यैतल्लोकत्यागस्य तदुत्तरभाविन्या अन्नमयादिप्राप्तेश्च बाधापत्तेः । कल्पनोपदेश- पक्षेऽन्नमयादीनामेतल्लोकान्तःपातित्वात् । नच 'संक्रमः प्रतिसंक्रम' इति पौराणप्रयोगेणो- पसंक्रामतीत्यस त्यजतीत्येवार्थ इति वाच्यम् । 'कार्मुकं तु परित्यज्य झपं संक्रमते रवि'- रित्यादिपु प्राप्तावपि प्रयोगदर्शनेन परित्यागानन्तरप्रयुक्त तस्मिन् प्राप्त्यर्थकत्वस्यैव निश्चयात् । पूर्ववाक्येऽपि प्रतिपूर्वकस्य संक्रमस्य प्रलयवाचितया प्राप्त्यर्थ एव पर्यवसा. नेनोपपूर्वकेपि तथात्वस्यैव युक्तत्वाच्च । अतो विभूतिपक्ष एव ज्यायान् । तथा सति प्राकृतगुणमयं प्रपश्चमतिक्रम्य गुणातीतं भगवल्लीलोपयोगिनं प्रपञ्च प्रामोतीति लोक- त्यागपूर्वकोपसंक्रमवाक्यार्थः सिध्यति । तेन पूर्ववाक्येषु यदन्नमयादीनां पक्षित्वमुक्तम् , सदपि लीलापूर्वदशायांसाधनसंपत्तिसिद्धये लौकिकान्नमयादिकोशानां रक्षार्थ तेपुतेषु तेन तेन रूपेण प्रवेशबोधनाय । अन्यथा लौकिकैः कोशैविक्षेप एव क्रियतेति सेवादीनि साध. नानि न संपघेरन् । सेवासम्पत्ताबुत्कटे विरहमावे तेषां स्थितिरपि न स्यात् । अतः पञ्चानां स्थित्यर्थ तत्तत्सजातीयानां तेषु तेषु प्रवेश आवश्यकः । 'प्राणस्य प्राणमुत चक्षु- पश्चक्षुरित्यत्र साजात्यस्यैव सिद्धत्वात् । एपश्चानमये द्विपत्वेन तत्तदन्तरेष्वपि मूपानि- पिक्तप्रतिमान्यायेन प्रतिष्ठापदेन पादयोरक्ततया च तेपामपि तादृशपूष्ट्रसिद्धया तेषु प्रवे. शयोग्यतापि निष्प्रत्पृहा । तेनायं सन्देहः । उक्तप्रकारादानन्दमयोपि विभूतिः, उत सर्वान्तरत्वात् परमात्मेति । तमोक्तयुत्तेः प्रबलत्वात् प्रायपाठेन विभूतिरेव युक्तः । सर्वान्तरत्वं तु विभूतिमुख्यत्व- गमकमिति पूर्वपक्षे प्राप्ते। अमिधीयते आनन्दमयोभ्यासात्। आनन्दमयः परमात्मैव। फुतः१ अभ्यासाव । 'तस्यप एवं शारीर आत्मा यःपूर्वस्य'त्यन्नमयादिषु सर्वेप्यानन्दमय. स्यैवात्मत्वेन कयनान् । ननु कयमेतदवगम्यते ? इत्यम् । अत्र घनममामिमानिनःपूर्वमनु.

२६
भावग्रकाशिका ब्रह्मसूत्रवृत्तिः ।
क्तत्वेऽपि यःपूर्वस्ये'त्यनेन योऽन्नमयस्य शारीरः शरीरसम्बन्ध्यात्मा तस्यैव सर्वात्मत्वम-
भ्यस्तम् । तेन तत्रात्मत्वेन जगत्कतव 'तस्माद्वा एतस्मादात्मन'इत्यनेनोक्तः परामृश्यत
इति ज्ञायते । स च सन्निहितत्वादुपक्रान्तत्वाच परं ब्रह्मैव विपश्चिद्ब्रह्मपदाभ्यां यदुक्तम्,
तेनात्मपदघटितवाक्याभ्यासस्तस्यैव सर्वान्तरात्मत्वं बोधयति । तम्यानन्दरूपतां तु
'रसो वै स'इत्यारभ्य 'आनन्दयाती'त्यन्ता श्रुतिर्गमयति । 'एतस्यैवानन्दस्यति मात्रो.
पजीवनश्रुतिश्च प्राचुर्यम् । तच्च किमपेक्षयेत्याकाङ्क्षायां सचिदंशापेक्षयेति प्रकृतत्वात्
सिध्यति । अतत्रिविधादभ्यासादानन्दमयः परमात्मा । अभ्यासादित्येकवचनं तु
जात्यपेक्षया।
ननु यद्येवं तदा आनन्दमये 'तस्यैप एव शारीर आत्मेति भेदं न वदेदिति चेत् न ।
तस्येति पष्ठया 'राहोःशिर' इतिवदभेदबोधकत्वेन यः पूर्वस्यान्नमयस्य शारीर आत्मा उप-
क्रमे जगत्कर्तृत्वेनोक्तस्तदभिन्न इति निगमनाय तथोक्तर्दोपाभावात् । अन्यथा 'तस्माद्वा
एतस्मादानन्दमयादन्योन्तरात्मा मे'त्यपि वदेत । नन्वेवं विभूतिप्रायपाठविरोधो दोप ।
इति चेत् । न । सर्वान्तरात्मत्वादिरूपयुक्त्यपेक्षया तस्य निर्बलत्वेनाकिश्चित्करत्वादिति ।
अयं प्रकारोऽपि गुणोपसंहाने आत्मगृहीत्यधिकरणे कार्याख्यानाधिकरणे च व्यक्तीम-
विष्यति । तस्मादानन्दमयःपरमात्मैवेति सिद्धम् ॥१२॥
ननु 'मयड्चैतयोर्भापाया'मित्यनेन लोके मयटोविकाराधिकारे विहितत्वात् 'द्वघचश्छ-
न्दसीति नियमस्य 'मृण्मयं गृहं राजन्नहं गम'मित्यादिमन्त्रेपु व्यभिचाराद्विकारार्थे द्वयचो
भवत्येव, अन्यस्मात्तु विकारे भवति, न भवति चेति व्यवस्थितविकल्पाश्रयणेन व्यचोऽपि
आनन्दशब्दात्तस्य विकारार्थे सुवचत्वादित्याशङ्कय परिहरति ।
विकारशब्दान्नेतिचेत् , न, प्राचुर्यात् ॥१२॥
विकारवाची मयडू यस्मिस्तादृशं पदं विकारशब्दम् , तस्माद्विकारशब्दादानन्दमयप-
दान, विकारशून्यम् अविकारि ब्रह्म ग्रहीतुं न शक्य मितिचेत् । न । इयमाशङ्कान कार्या।
कुतः ? प्राचुर्यात् । पाणिनिनापि 'तत्प्रकृतवचने मयट्' इति सूत्रं प्रणयता प्राचुर्येऽपि
विहितत्वादित्यर्थः । ननु कथमत्र प्राचुर्यविनिगमनेति चेत् । उच्यते। 'द्वघचश्छन्दसीति
नियमस्य विकारत्वप्रकारकबोधविवक्षायां यहचः परस्य मयटनत्ययस्य असाधुत्वज्ञापना-
र्थत्वेनावश्यकतयात्र विकल्पाश्रयणे वीजाभावाद् वारिते आनन्दशब्दान्मयट्प्रत्यये प्राच-
यार्थस्य मुपेन विनिगन्तुं शक्यत्वात् । नच प्रायपाठविरोधः । नस्य प्राणमयस्थल एव
निवृत्तत्वात् । तत्र प्राणादीनां त्रयाणां वृत्तित्वेनाकारापृथिव्योच भूतान्तरत्वेन तदवयव-
कल्पनाग्रन्यादेव मयटः स्वार्थिकस्यैव भास्कराचार्योक्तरीत्या निश्चयात् । नच घटाकाशस्य
घटविकारत्ववत् प्राणायुपाध्यवच्छिन्नस्य प्राणविकारत्वं वाचस्पत्युक्तरीत्या सिध्यतीति
वाच्यम् । अवच्छिन्ने विकारप्रत्ययसाभावात् । शास्त्रेष्वपि तथा प्रयोगादर्शनाचेति दिक।
विशेषस्तु भाप्यविमागादवगन्तव्यः । अतः सम्पगुक्तं प्राचुर्यादिति ॥१२॥

श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता। २७ शब्दवलविचारेण मयटो विकारार्थत्वे निराकृतेऽपि शब्दशेपित्वेनार्थस्य शब्दापेक्षया बलिष्ठत्वात् तद्विरोधे पूर्वसूत्रसाधित वृथा सादिति तदभावायार्थबलेनापि विकारार्थतां निराकरोति । तद्धेतुव्यपदेशाच ॥ १३॥ हेतुत्वेन व्यपदेशो हेतुव्यपदेशस्तस्य हेतुव्यपदेशस्तद्धतव्यदेशस्तस्मात् । आनन्दमयं प्रकृत्य 'एप ह्येवानन्दयाती'ति श्रावणात् । अत्र यकारस्य हस्ताकारस्य दीर्घादेशः। तथा- चात्रेनः पूर्व 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दीभवति इति रसत्वेनान्दमयस्य सिद्धत्वात् तल्लाभेनानन्दवत्ताधावणेनैव रसरूपस्यानन्दमयस्यानन्दकारणताया अर्थतः सिद्धावपि यद पुनस्तत्कथनं तत्तस्य कारणत्वेनाविकृतत्वबोधनायैव । अन्यथैतस्य चैयर्थ्यापत्तः । तथाच यथा विकारभूतस्य जगतः कारणभूतं सचिद्रुपं ब्रह्माविकृतम् , तथा सर्वस्यापि . विकारभूतस्यानन्दस्य कारणभूत आनन्दमयोऽप्यविकृत इत्यर्थविचारेणापि नात्र विका- रार्थे मयडित्यर्थः। अत्र चकारः समुच्चयं वदन् हेतुद्वयेन मध्ये विकारार्थनिरासः प्रति- पादित इति बोधयति ॥१३॥ नन्वानन्दमयस्य ब्रह्मत्वेन निरूपणे किमित्याग्रहः क्रियते । अन्नमयादिवदुपासना- परत्वेनापि निरूपणे श्रुत्युपपत्तेः । नचात्रोपासतेरश्रवणात्तथा न वक्तुं शक्यत इति वाच्यम् । 'विद्युब्रह्म'त्यादिषु विद्युदाद्युपासनासु तदभावेऽपि प्रकरणवलेन तदङ्गीकाराव । प्रकृते तु पक्षपुच्छादित्वेन मोदप्रमोदादीनामुक्ततया वाग्धेनूपासनवत् काल्पनिकत्वरूपलिङ्ग- सापि सत्त्वात् सुखेनाङ्गीकर्तु शक्यत्वात् । अत आवश्यकोपपत्त्यभावादानन्दमयस्य ब्रह्मता न वक्तुं शक्येति शङ्कानिराकरणाय तामाह मान्नेत्यादि । मान्त्रवर्णिकमेव च गीयते ॥ १४ ॥ स्वाभीष्ट यं कश्चनार्थमभिसन्धाय तदर्थशक्यसम्बन्धानां नानात्वात्तेपु य कञ्चन आदाय लक्षणया यत्किञ्चिदुच्यते तन्न मान्त्रवर्णिकम् , किन्तु मन्त्रेणाभिधया पद- शक्त्या यत्प्रतिपाद्यते, तन्मान्त्रवर्णिकम् । संपूर्णे प्रपाठके तदेव गीयते, उपपाद्य निर्धार्यते। कथमितिचेद् । इत्यम् । अत्र हि 'ब्रह्मविदामोति पर'मित्येतद्विवरणत्वेन 'सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन्, सोऽदनुते सर्वान् कामान् सह ब्रह्मणा विपश्चि- तेति मन्त्र उक्तः। तत्र यो वेदैत्यन्तैन ब्रह्मवित्पदं विवृतम् । संपूर्णेन पूर्वार्धन वा । उत्त- रार्धे त्वाप्नोति परमिति। तत्राप्नोतिरश्नुत इत्यनेन,परमिति तु सर्वान् कामान् इत्यादिना। केवलानां कामानां जयब्रह्मणः सकाशात् परत्वस्य वक्तुमशक्यत्वेन ब्रह्ममहितानामेव तथात्वात् । तत्रास्य याद्भिन्नत्वं तु शब्दान्तरादेव सिद्धमिति । ततः परत्वं द्वितीयोक्तं फलत्वं च विभक्तिभेदेन मन्दिग्धत्वादुपपादनीयम् । तत्र कार्यलक्षणे स्वरूपलक्षणे च विशेपाभावे सन्देहस्यानुदयात्तत्रापि कश्चिद्विशेषोऽभिप्रेत इति ज्ञायते । तत्र कार्यलक्षणे तु- . २८ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। सृष्टीच्छावशगत्वाभाव एव विशेष इतिबोधनाय सृष्टौ कर्तृत्वमनुक्त्या हेतुत्वमानमुच्यते। व्यापाराविष्टत्वं त्वाकाशादीनां पुरुषान्तानाम् । संभूत इति क्रियाया एव सर्वत्रान्वयात् । अतः परं स्वरूपलक्षणे वक्तव्यः । तत्र निरवधिसच्चिदानन्दरूपत्वस्योभयत्र तील्येऽपि फलत्वस्थानन्द एव पर्यवसानं 'भूमव सुख'मित्यत्र सिद्धमित्यत्रापि 'को ह्येवान्या' दिल्यादिनाभ्यासात् स्तूयते । तथानमयादिभ्य आन्तरत्वकथनेनापि 'गोअश्वा एव पशवोऽन्ये त्वपशव' इतिवदन्येपामनान्तरत्वसाधनात् स्तूयते । तथा गौणोपासनाफलानां विवक्षितानन्दापेक्षया न्यूनत्वबोधनादपि स्तूयते, इत्येवं सर्वैः प्रकारैः स्तुत्या फलत्वमु- पपाद्य, ज्ञेयानन्दापेक्षया विशेष बोधयितुमानन्दमीमांसायां ब्रह्मानन्द ‘स एको ब्रह्मण आनन्द' इति गणनापरिछेदकथनेन तस्य वाग्गोचरत्वं बोधयित्वा, ततः परस्यानन्दस्य ब्रह्मानन्दाधिक्यत्रोधनाय 'यतो याच' इति श्लोकेन वाङ्मनसोरगोचरत्वं तस्याह । एवं लक्षणद्वयेऽपि विशेपयोधनेन तस्य परत्वं परमफलत्वं चोपपादितम् । तथा कार्यनिरूपणे योन्तिमः पुरुप उक्तस्तस्य शिरःपाण्यादिकं यदिदमा परामृष्टं तदानन्दमयस्य पुरुषत्वेन अन्येषां पुरुपविधत्यायानन्दस्य स्तुत्यर्थमेव । तथाहि । लोके ह्यन्तर्भूतं बहिर्वेष्टितं च तदाकारं भवति । तत्रान्त तस्य तदाकारता मृपानिपिक्तप्रतिमादी दृष्टा । बहिर्वेष्टि- तस्य तदाकारता तृपदेहे सीवितवसनादौ च । प्रकृते योन्नात् पुरुप उक्तः सोऽनरसमयः । देहस्य रेतोजन्यत्वात् । रेतसश्चान्नरसत्वात् । तत्र मृपानिपिक्तप्रतिमान्यायाङ्गीकारेऽपि तदन्तर्वर्तिन आकारस्य मधृत्थनिर्मितप्रतिमोपरि संवेष्टनेन शुष्काया मृदो मूपात्वसिद्धया आन्तरमधूत्थाकाराधीनत्वाद्वेष्टि यस्यैव सिद्धेर्यथाकथञ्चित्साधयित्वा तेनान्तराकारा- ङ्गीकारेऽपि 'तेनैप पूर्णः, स वा एप पुरुषविध एव, तस्य पुरुपविधताम्, अन्वयं पुरुष- विधः, तस्य प्राण एवं शिर' इत्याकारकवाक्येषु तेनैप' इत्यत्र तच्छन्देन प्रकृतपरामर्शः। मध्ये 'स वा एपः, तस्य पुरुषविधता'मित्यत्र पूर्वस्यैव, ततस्तस्य प्राण एव शिर इत्यादौ पुनः प्रकृतस्यैव परामर्श इति प्रक्रान्तत्यागदीपाच । अतस्तदुभयरहितो बहिर्वेष्टितपक्ष एव साधीयान् । तथा सति सर्वत्र पुरुषाकारसमर्पणे सर्वान्तरस्यानन्दमयस्यैव कारण- स्वादिदमा शिरःपाण्यादिपरामर्शोऽपि तत्स्तुत्यर्थ एव । एवं पक्षित्वेन कल्पनमपि तस्य स्तुतावेव पर्यवस्यति । तथाहि । उक्तमन्त्रे 'सोऽश्नुत' इत्यनेन जीवः फलाशने कर्तृत्वेन व्यपदिष्टत्वात्तत्र मुख्यः । स च ‘दा सुपर्णा' इति श्रुत्या, ‘एवं स मानसो हंसो हंसेनैव अयोधित' इति स्मृत्या च वस्तुतो हंसाकारः । शास्त्रं तु पुरुषाधिकारेण प्रवृत्तमिति जीवं प्रति तदप्रवृत्तो तस्य ब्रह्मविचायभावेन वेदनादिफलस्याप्यमावाच्छास्त्रवैययं स्यादिति फलार्थ सार्थक्याथ च जीवस्य पुरुषरूपमावश्यकम् । किञ्च । समतां विना फलानु भवदौर्घट्याद 'न तत्सम इति श्रुत्या ब्रह्मसमताया निषेधात् फलानुभावनार्थ समतायै ब्रह्मणोऽपि पुरुपरूपमावश्यकम् । अतः पुरुषरूप एव भगवान् । 'य आत्मनि तिष्ठन्नि- त्यादिश्रुतेर्यदा हंसरूपेण जीवान्तराविश्य तं पुरुषरूपेणान्तरितवाँस्तदा तद्वेष्टनेन पुरुष- श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । २९ रूपो जीवः सर्व लौकिकालौकिकफलमनुभवति । परमात्मा च हंसेत तो हंसाकारथ सन् फलमनुभावयतीति श्रुतिरपि तं हंसरूपेण पुर्यावेशोत्तरं वर्णयति । तथाच स्वयमति- महानपि जीवस्य फलभोजनार्थमेवं करोतीति भक्तवात्सल्यबोधकत्वात् स्तुतौ पर्यवस्यति । नच यद्येवं सात् तदा आनन्दमय एव तथा वक्तव्यं सान्नानमयादिप्यपि, प्रयोजनामा- वादिति वाच्यम् । अत्र प्राणमयादीनां चतुर्णा व्याख्याने 'तस्यैप एवं शारीर आत्मेति कथनादेकस्यैव भोक्तुरन्नमयादीनां प्राप्यानां पञ्चानां फलानां स्वशरीरतया भोग्यत्वस्य च विवक्षितत्वेन तद्योधनस्यैव प्रयोजनतया पश्चस्खपि तथा कथनस्य युक्तत्वात् । नचवं सति पञ्चानां कोशत्वमेव सिद्धमिति शङ्कयम् । 'अरसाल्लोकात् प्रेत्येति कथनस विरोधात् । न'चोक्तवाक्ये स्थूलशरीरत्याग एवं विवक्षित इति शरीरान्तरमादाय तेषां कोशत्वं न विरोधावहमिति वाच्यम् । तथा सति सूक्ष्मकारणगरीरयोस्त्यागाभावेन प्राणमयाद्युपसं. क्रमणश्रुतिविरोधापत्तेः । नचैवं भेदेऽपि शरीरत्वेनैव भोग्यत्वे कोशेभ्यः सकाशात् को विशेष इति शङ्कयम् । 'एतमन्नमयमात्मानमुपसंक्रामती'त्यादिवाक्योक्तस्वात्मत्वरूप- स्यैव विशेषस्य तेषु सचात् । लौकिकानां कार्यत्वेनानात्मत्वात् । यौगिकार्थग्रहणेऽप्यतति व्याप्नोतीत्यात्मपदयोगेन व्यापकत्वस्यापि विशेषत्वात् । कार्याणां प्रत्यात्म भिन्नत्वेन परिछिन्नत्वात् । नच भोक्क्यस्य॑पां शरीरत्वेन भोग्यत्वस्य च विवक्षितत्व इदं वाक्य- मन्नमयेऽपि वक्तव्यम् , तत् कुतो नोच्यत इति शङ्कयम् । अन्नमयकोशे एकात्मभोग्य- त्वस्य शरीरत्वस्य चाध्यक्षसिद्धत्वेन तत्तुल्ये विभूतिरूपेऽन्नमयेपि तथात्वस्यासन्दिग्धत्वात् । न चैवं सत्यन्येप्यपि तत्तत्कोशतौल्येन तथात्वस्य शक्यज्ञानत्वात् तत्रापि नोच्यतेति श- क्यम् । अन्नमयसमानावयवकत्वस्य सर्वत्रातिदेष्टव्यत्वेन तद्दाढर्यार्थ तत्र तत्कथनस्या- वश्यकत्वात् । एवञ्चान्नमयकोशे पञ्चावयवकत्वस्याध्यक्षसिद्धत्वादन्नमयविभूतावपि तथात्वमसन्दिग्धमिति बोधयितुमिदम्पदप्रयोगाद्धस्तेनैव प्रदर्शयति । कोशात् तस्य मिन्नत्वज्ञापनायान्नमयब्रह्मोपासनायां सर्वान्नप्राप्त्या बाह्य लौकिक भोगरूपं फलं चयोध- यति । अन्नमयादान्तरः प्राणः, सोऽत्र ग्राणादित्रितयवृत्तिकः, पञ्चवृत्तिकानियतहृदया- दिदेशवर्तिनः कोशरूपाद्भिन्न इति नापनाय तत्सञ्चाराधारमाकाशं तदात्मत्वेन पृथिवीं च प्रतिष्ठादिरूपत्वेन वदति । तदुपासनया सर्वायु गरूपं फलं च वदति । इदं च रूपद्वयं लौकिकस्य मनोमानेन्द्रियप्राणव्यापारात्मकस्य बाह्याभ्यन्तरभेदेन द्विविधस्य यथायथं सिद्धयर्थम् । ततो लौकिकव्यवहारेण वयःप्रभृतिभिः सामर्थे जाते वैदिकका- यार्थ प्रवर्तत इति वैदिको व्यवहारस्तदनन्तरभावी । तस्य च लौकिका दोग्रे देवतावि- ग्रहाधिकरणे व्यवस्थाप्यः । तस्य व्यवहारस्य सिध्यर्थ मनोमयः पुरुषो वेदात्मकः । वेदस्य मनोमयत्वं स एप जीवो विवरप्रमूति'रित्यत्रैकादशस्कन्धे भगवतोक्तम् । तस्स कोशाद्भेदः स्फुट एव । तदुपासनया ब्रह्मानन्दज्ञानात् सर्वदा भयाभावरूपेण फलेन च । एतदवयवेषु ऋगादयः स्फुटाः । आदेशोऽर्थवादसहितानि कर्मविधा- ३० भावप्रकाशिका ब्रह्मसूत्रवृतिः। यकानि वाक्यानि । अथर्वाङ्गिरसे प्रतिष्ठात्वं तु चातु)त्र विधाने ब्रह्मणः कृताकृतावेक्ष- कत्वेन तत्कर्मणोऽप्यर्थसिद्धय कर्मस्थैर्यसम्पादकत्वात् । शान्त्यादिरूपशेपकर्मबोधकत्वात् पुच्छत्वं च बोधितम् । तदनु वैदिकव्यवहारेण नानाविधयागादिसाधनकर्तुः फलं विज्ञानमयः। तस्यावयवेपु पश्चानिविद्यायां चतुर्थ्यामाहुत्या हुतायामापः पुरुषवचसो भूत्वा समुत्थाय वदन्तीति प्रश्नाद् , निरूपणभागे च प्रथमाहुती 'देवाः श्रद्धां जुड़तीति श्राव- णाच श्रद्धारूपा आपो मुख्या इति सा एव शिरः । अयमर्थस्तृतीयेऽध्याये रहत्यधिकरणे विस्तरेण वक्ष्यत इति नास्य काल्पनिकत्वम् । ऋतसत्यशब्दयाच्यौ तु प्रमीयमाणानु: शीयमानावस्थाको धर्मों । योगस्तु चित्तनिरोधरूपत्वेन मुख्यत्वादात्मा । महर्लोकस्सा- धोभागत्वं तु पश्चाग्रिविद्यासाधितदेहस्य ततोक्सिंमृल्यभावात् । एतस्यापि कोशानेदः स्फुट एव । एतस्य ज्ञाने तस्मात् प्रमादाभावे च सति पापनाशपूर्वकसर्वकामाप्तिरूपफलेन च । एतेषामुपासनादिकथनं तु यथोक्तरीत्यैतत्कर्तुः क्रमेण मुक्तिरिति ज्ञापनार्थम् । अत एव तुरीयस्य फलकथने मध्ये प्रमादामावो निवेशितः । प्रमादे सत्यग्ने ब्रह्मज्ञानं न भवतीति । एतादृशस्य ज्ञानप्राप्त्या ब्रह्मविद आनन्दमयः फलम् । तत्स्वरूपं सदातरूपत्वाभावादेकमिति धर्मभेदेनैव शिरःपाण्यादिकं निरूप्यते । यथा 'प्राणन्नेव प्राणो भवति, वदन् वा गित्यन्न कार्यभेदेन व्यपदेशभेदः, तथात्र धर्मभेदेनावयवभेद इति ज्ञापनाय । तत्र मुख्यात्मत्वेन निरुपाधिप्रीतिविपयत्वं यो धर्मस्तदेव शिरः । अप- रिनिटितपरिनिष्ठितावानन्दातिशयौ धौं मोदप्रमोदौ । वो दक्षिणोत्तरी पक्षो। आन- न्दस्तु स्वरूपम् । नेयतया साधनशेपत्वात् साधनभूतं यदक्षरं ब्रह्म तत् पुच्छम् । धामा- दिरूपत्वात्तदेव प्रतिष्ठा, 'स्वे महिम्नि प्रतिष्ठित' इति श्रुत्यन्तरात् । एतेन च मन्चे द्विती- यान्तेन कामपदेनोक्ता एत एव धर्माः, आनन्दमयस्तु विपश्चिद् ब्रह्म | धर्मधर्मिणोः प्रकाशाश्रयवर्द्रदेऽप्यभेदादेतादृशमेव मन्त्रव्याख्येयवाक्योक्तं परमिति बोधितम् ।

ई श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । प्रश्ने बहुवचनम् ! 'कश्चन गच्छती'त्यत्र चोप्यर्थे । एवं साधास्वरूपस्य तस्य फलप्राप्तेश्व सन्देहेन प्रश्ने, साधकस्य सर्वज्ञत्वं तदैव, यदा विपश्चित्वं सचिदानन्दात्मकत्वं च ब्रह्मणः सम्यग्वेत्ति, नो चेत् किञ्चिज्ज्ञत्वमेवेति वक्तुं 'सोऽकामयते'त्यादिना स्रष्टत्वादिकमाह । ततः सृष्टिस्वरूपं निष्क्रष्टुमसद्वे'ति द्वितीये श्लोके सृष्टयन्तरमाह । तद्व्याख्याने ब्रह्मणः समवायित्वं चाह । ताभ्यां ब्रह्मणः सर्वज्ञत्वं चिदंगवैशिष्टयं च बोधितम् । ततो 'यदा ह्येवैप' इत्यादिना पूर्वोक्तरीत्या सर्वज्ञस्य परप्राप्तिरूपं नित्यं फलम् , किश्चिज्ज्ञास्य तदभा- वम् । ज्ञानानन्तरमपि मननाभावे किञ्चिज्ज्ञत्वमेव, न सर्वज्ञतेति बोधितम् । ततो 'भी- पासा'दिति श्लोके वाग्गोचरं ब्रह्ममाहात्म्यमुक्तम् । आनन्दमीमांसायां च ब्रह्मानन्दस्य सर्वापेक्षयोत्कर्पो बोधितः । इदं सर्व ज्ञेयेऽप्यस्तीति ततोऽप्युत्कर्षस्य बोधनाय 'यतो वाच' इति श्लोकेनावामनसगोचरानन्दात्मकत्वं ब्रह्मण उक्तम् । तेन ज्ञेयस्य गणिता- नन्दत्वम्, परस्य त्ववाङमनसगोचरानन्दत्वमित्यक्षरादुत्तमत्वमिति बोधितम् । ततो विदुपः परप्राप्तिपूर्वरूपज्ञापनेन प्रश्नोत्तरं पूरयितु 'मेतं ह वाव न तपती'त्याद्युक्तम् । तस्मात् सर्वस्मिन् प्रपाठके मान्त्रवर्णिकमेव प्रतीयते । अतो मुख्योपपत्तेर्विद्यमानत्वेना- नन्दमयः परमात्मैवेति सिद्धम् । चकारस्य मूत्रमध्ये प्रयोगो विधिमुखविचारेणाधिकर- णपूर्तिद्योतकः । अयमर्थः श्रीभागवते वेदस्तुतो 'पुरुपविधोऽन्ययोऽत्र चरमोऽन्नमयादिपु य' इत्यनेनोपहितः । 'अन्नमयादिषु चरम आनन्दमयो भगवानिति ॥ १४ ॥ निषेधमुखेन चतुःसूत्र्येदमधिकरणं पुनर्विचार्यते, सुदृढ़त्लाय । नच सन्देहानां विचारितत्वाच्छैथिल्याभावे दाढयस्यार्थादेव सिद्धत्वात् किमर्थं पुनर्विचारः कृत इति शङ्कयम् । आनन्दमये साधितस्य फलत्वस्यैव सन्देहजनकत्वात् । पूर्वतन्त्रे 'फलं पुरुषा- र्थत्वादिति सूत्रेण फलस्य पुरुषशेषत्वबोधनात् । आनन्दमयेऽपि तस्यैप एव शारीर आ- त्मेत्यनेन भोक्नुकथनवाक्येन्सनन्दमये भोग्यताया एव दृढीकरणात् । नच मन्त्रवर्णवि- रोधः । सः ब्रह्मवित् सर्वान् कामानश्नुते, विपश्चिता ब्रह्मणा सहानन्दमयो भवतीत्य- र्थोक्तौ तदभावात् । अतः प्रपाठक एतदनुगुणतया नेतव्यः, पूर्वोक्तरीत्या वेति सन्देहे, आद्य एव पक्षो युक्तः। पूर्वतन्त्रानुगुण्यरूपयुक्तराधिक्यादिति प्राप्ते आह । नेतरोऽनुपपत्तेः ॥ १५ ॥ नेतरः । इतरो जीव उक्तरीत्या फलत्वमात्रेणानन्दमयो न वक्तुं शक्यः । कुतः ? अनुपपत्तेः । अत्र जगत्करणादिभिः कार्यमहामाहात्म्यमानन्दमये ब्रह्मणि प्रतिपाद्यते । जीवस्यानन्दमयत्वे सति तस्यापि स्वातन्त्र्येण जगत्कर्तुत्वं वक्तव्यम् । तथा सत्यलौकि- कमाहात्म्यस्यान्यगामित्वेन ब्रह्मात्यलौकिकमाहात्म्ययोधकश्रुत्यनुपपत्तेः । एवं स्वात- व्येण साम्ये 'न तत्सम' इत्यस्या अप्यनुपपत्तिः । अतो जीवो नानन्दमय इत्यर्थः ॥१५|| भेदव्यपदेशाच ॥ १६॥ " - ३४ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। प्मत्वं स्वाध्याये आसन्ये च श्रूयते, देवानां च, 'न ह चै देवानां पापं गच्छती'ति, तत्कर्य तस्य ब्रह्मासाधारणत्वमितिचेत्, न । तस्यैतन्नाममात्रसाम्येऽपि स्वरूपतो भिन्नत्वात् । स्वाध्यायो देवपवित्रमिति, 'य एवंविदि पापं कामयत' इति, तत्र तत्र लिङ्गेन स्वाध्या- यादौ तस्य पापनाशरूपतया, अत्र तु 'अनन्वितं ते भगवन् विचेष्टितं यदात्मना चरसि हि कर्म नाज्यसे' इति श्रीभागवतवाक्ये कर्ममात्राञ्जनराहित्यरूपतयोक्तत्वेन तथावसा- यात् । नच पुण्यकर्माजने को दोष इति शङ्कयम् । 'कर्मणांजात्यशुद्धाना' मिति भगव- द्वाक्येन कर्ममात्रस्याशुद्धत्व निश्चयात् । मुमुक्षूणां पुण्यफलानादरणेनापि तथा निश्चयाच। नन्वेवं नामसाम्येऽपि कथं स्वरूपभेद इतिचेत्, उच्यते । ब्रम कारणम् , जगत्कार्यमिति पूर्वाधिकरणे नितिम् । तत्र कार्यासाधारणधर्मा यथा न कारणे गच्छन्ति, तथा कार- णासाधारणधर्मा अपि कार्ये । इदं हि लोके दृष्टम् । न हि घटपटादेः प्रावरकत्वजलहा- रकत्वादिस्तन्तुमृत्पिण्डयोश्यते, न वा पटघटजनकत्वं कारणगतं पटे घटे चेति । एव- मंशिधर्मा अप्यंशे । न हि 'सोऽकामयते'त्यादिनोक्तः कामादिर्जीवधर्म इति, अतोऽसा- धारण्यादेव स्वरूपभेद इति नामसाम्यमानं न तद्बाधकम् । नचैवं नामसाम्ये सिद्धन जीवधर्मग्रहणमेवास्तु, साग्रहे की बीजमिति शङ्यम् । कारणधर्माणां बलिष्ठत्वात् । उक्तरूपोपासनया जीवेऽपि तथाभवनश्रावणेन तथावसायादिति । अन्यथा तन्न वदेत् । अतस्तस्याः कथनेऽप्येतज्ज्ञापनमेव प्रयोजनम् । अतः सर्वरसादयोऽपि ब्रह्मस्वरूपनिष्ठा एव धर्माः । ये पुनरस्थूलादिवाक्ये निषिध्यन्ते, ते तु लौकिकाः कार्यधर्मा एव । तेन 'अणोरणीया'नित्यादी कारणधर्मा एव । तेनेदं मिद्धम् । यदेकोऽप्यसाधारणो धर्मो वि. द्यमानः शिष्टान् सन्दिग्धान् धर्मान् ब्रह्मधर्मत्वेनैव गमयति । अन्यथा तस्यान्यगामित्वे असाधारण्यं भज्येत । इममेव श्रुत्यभिप्रायमङ्गीकृत्य सर्वेप्वधिकरणसूत्रेषु ब्रह्मवाक्यनिर्ण यमाह सूत्रकारः । अन्यथा आदित्यान्तरक्ष्यन्त इत्येवं ब्रह्माधिकरणं विशिष्यात् । तेनेदं सिद्धम् । यत्र निश्चित कार्यत्वे तस्य कारणाभेदेन स्तुतिः क्रियते, यथेन्द्रप्रतर्दनसंवाद इन्द्रेण स्वस्य, तत्र नेयं रीतिः। तदव्यतिरिक्तस्थले त्वेवमेवावगन्तव्यमिति । नवं परिच्छिन्नेषु नानास्थानेषु नानापरिमाणेन स्थिती ब्रह्मणोऽनेकत्वापच्या 'एकमेवाद्विती- यमित्यादिश्रुतिविरोधः शयः। 'सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षणवाक्ये अनन्तपदेन ब्रह्मणोऽनन्तमूर्तिताया अपि प्रतिज्ञातत्वात् । 'यदेकमव्यक्तमनन्तरूपं विथं पुराणं तमसः परस्ता' दितिश्रुत्यन्तरेऽप्युक्तत्यान् । अनन्तमूर्तित्वाभाव ब्रह्मणो व्यापकतया सर्वस्य तदन्तःस्थत्वेन निहितं गुहाया मिति हृदयाकाशनिधानोक्तिविरोधापाताच्च । तस्माद् प्रमणो व्यापकत्वेनकत्वेऽप्यनन्तमूर्तित्वेन साकारत्वाद्वेदैकवेद्यत्वाच यादृशं यद्वाक्ये यत्र स्थाने उन्यते, तादृशं तत्र तद् ब्रह्मेति मन्तव्यमिति सिद्धम् । ननु किमित्येवं ब्रह्मस्व. रूपस्य निबन्धन साकारत्वं निरूप्यते । माधकानुप्रहार्थं निर्दुटलीलाविग्रहाङ्गीकारपक्ष- स्याप्यदुष्टत्वादितिचे । उच्यते । तच्छरीरं केन कृतम् । ईश्वरेणान्येन या, नित्यं वा ।

. , श्रीवजनाथात्मजथीकृष्णचन्द्रकृता । ३५ तत्र द्वितीयस्थासङ्गतत्वादायमेवादर्तव्यम् । तथा सति तादृशस्यातिसमर्थस का या अनुपपत्तिर्येन स्वस्यापि शरीरं कल्पयेत्, किन्तु लीलया व्यामोहनार्थ नटवदन्यथा प्रद- शयेत् । 'यथा मत्स्यादिरूपाणि धत्ते जह्याद्यया नट'इति श्रीभागवते नटदृष्टान्तस्योक्त. त्वात् । अतः शुद्धसत्चात्मकं या, प्राकृतं वा, माविक वा, यन्मूलरूपे कल्पनीयं तदमङ्गतमे। अथ नित्यम्, तद्यदि सचिदानन्दात्मकम् , तदा तु ब्रह्मैव, अचिदात्मकं तु तादृशाकार प्रलयबोधकसौबालवाक्येभ्यो विरुध्यत इति, तदप्यसंगतम् । तस्मात् पुराणादिप्यपि यत्रो- पपत्तिपूर्वकं ब्रह्मधर्मा उच्यन्ते, तत्र नहीवेति मन्तव्यम् । ब्रमणो वैदैकसमधिगतत्वात् । मीमांसायाश्च तदर्थनिर्णयार्थत्वात्तन्न्यायानामन्यत्राप्यतिदेष्टुं शक्यत्वदिति । नच हिर- ज्मय इत्यत्र विकारप्रत्यय इति भ्रमितव्यम् । हिरण्यशदस्य प्रकृतिभूतस्य त्र्यच्त्वात् । यकारलोपस्य छान्दसत्वात् । हिरण्यशद्धश्चात्रानन्दवाची । यद्यपि लोके तथा न प्रसिद्धः, तथापि लोके हिरण्यस्यानन्दसाधकत्वात् सिद्धे तद्गुणकत्वे, यद् यद्गुणक, तत् तदा- त्मकमितिव्याप्तेः समन्वयाधिकरणे साधितत्वात्, कार्यभूतस्यापि तथात्वे कारणभूतस्या- नन्दत्वे सन्देहाभावात् तद्बोधके शब्देऽपि तद्वाचकत्वस्थासन्दिग्धत्वादिति । अतः केशा- दयोऽपि सर्वे आनन्दमया एवेति सूर्यमण्डलान्तःस्थः परमात्मैव । एवमक्षिस्थितेऽपि पर- मात्मत्वं बोध्यम् । 'तस्य तदेव रूपं यदमुप्य रूप'मित्यादिना मर्वत्राप्येतद्धर्मातिदेशात, सैवर्तद्यजुरित्यादिनातये इमे वीणायां गायन्तीत्यादिना सार्वात्म्योपदेशाच्चेति ॥१९॥ भेदव्यपदेशाचान्यः॥२०॥ आदित्ये तिष्ठन्नादित्यादन्तरो, यमादित्यो न वेद, यस्यादित्यः शरीरं, य आदित्यमन्तरो यमयत्येप त आत्मान्तर्याम्यमृत 'इतिश्रुत्यन्तरे सूर्यमण्डलात्तदमिमा- निनः सकाशाच भेदेन कथनात् । नच पूर्वसूत्रोक्तहेतुनैव सिद्धे ब्रह्मत्वे हेत्वन्तरोपन्यासस्य वैयर्य शङ्कनीयम् । तथा सत्यतेनैव निर्वाहे अन्तःपदमत्र निधायैकमेव सूत्र प्रणयेत् । नन्वन भेदव्यपदेशमात्रेण कथं परमात्मलाभ इतिचेत् । इत्थम् । अन्तर्यामिब्राह्मणे हि जडाज्जीवाच्च मिन्नत्वेनान्तर्यामी प्रतिपाद्यते । तत्र 'य आदित्ये तिष्ठन्नादित्यादन्तर' इति जडस्य मण्डलस्य स्थानत्वेन कथनात्ततो भेदः। आन्तरत्वं मण्डला दश्वामिमा. निनोऽप्यस्तीति ततोऽपि भेदं वक्तुं 'यमादित्यो न वेदे'त्युक्तम् । तेन मण्डलधमैर- मिमानिधर्मेश्च न सम्बध्यते । अमिमानी चेत् जानीयान्मुक्तः स्यात्, अतः सर्वमुक्तिपरि- हाराय स्वधर्मेझानादिभिस्त न योजयति । एवमुभयस्मा दे सिद्धेऽपि तत्र स्थितेः किं प्रयोजनमित्याकांक्षायां 'यस्यादित्यः शरीरं यः आदित्यमन्तरो यमयती ति द्वयमाह । तथाच जगद्भासन, दिग्विभागो, धर्मप्रवृत्तिश्चेत्यादिलीलासिद्धयर्थं तच्छरीरम्, तस्य नियमनं च तादृशलीलासिद्धयर्थम् । यतो 'भीपास्मादित्यादिश्रुत्या सर्नोऽपि भगवतो विभेति । भीतिश्च नियमनादिति । किश्चात्र । पुनरप्यन्तरपदम्, अन्तरयतीत्यन्तर इति -- ३६ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। सर्वोन्तःस्थापकत्वबोधनार्थम् । एवमत्र चत्वारोऽर्था उच्यन्ते । तथाचात्र भेदव्यपदेशः सर्वविलक्षणत्वव्यपदेश इति । ततः सुखेन परमात्मलाभ इति । नन्वेवं सत्यत्र हेतुसाध्य- योभिन्नयोः कथनादधिकरणान्तरत्वमेव कुतो नाङ्गीक्रियते । चकारेण पूर्वस्त्रोक्तहेतु- समुच्चयादिति चूमः। नच साध्यान्तरनिर्देशासङ्गतिः शङ्कया। तस्य 'नेतरोऽनुपपत्ते'रि- तिवदुपचारव्यावृत्त्यर्थत्वात् । अतो नाधिकरणभेद इति । नन्वत्र पूर्वमूत्रविपयवाक्ये 'य एवं वेदे'त्युपासनालिङ्गात् तस्या 'वाचं धेनुमुपासीते'तिवत् कल्पिताकारेणापि सिद्धेः किमर्थं ब्रह्मस्वरूपाकाराराग्रह इतिचेत् । उच्यते । उक्तहेतुभ्यामाचार्येण साधितै ब्रह्मत्वे उपासनाज्ञानयोरुभयोरप्येकविपयत्वेन तुल्यफलत्वयोधनायेति वुध्यस्व । नन्वतस्मिस्त- द्धर्मानारोप्य तत्वेन चिन्तनमुपासना, तस्य तत्त्वेन निश्चयो ज्ञानमिति स्वरूपभेदाद कथं तुल्यफलतेति चेत् । इत्थम् । वेदे हि सर्वत्र 'अन्न ब्रह्मोपासत' इत्यादी कार्ये कारणध- आरोपेण फलश्रावणात् । लोकेऽपि निकृष्टोत्कृष्टधर्मारोपेण फलदर्शनाद्विपरीते वैपरीत्यद- र्शनाच कारणे कार्यधर्मारोपस्त्वयुक्त एव । कार्ये कारणधर्मारोपस्तु कार्यस्य कारणात्म- कत्वेन तद्धर्माधिकरणतया भवति युक्त इति तयोपासना तु यथोक्तफलसाधिका, तस्या- रोपस्यादुष्टत्वादिति ॥२०॥ इति पष्ठमन्तस्तद्धर्माधिकरणम् ।।६।। आकाशस्तलिङ्गात् ॥ २१॥ छान्दोग्ये प्रथमप्रपाठके श्रूयते। 'अस्य लोकस्य का गति'रिति, आकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवै- भ्यो ज्यायान, आकाशः परायणम्, स एप परोपरीयानुद्गीथः स एष अनन्त' इति । तत्राकाशशब्द संशयः। किं लोकप्रसिद्धया भूताकागो ग्राह्यः ? उत आकाशो वै नामरूप- योनिर्वहिता ते यदन्तरा तद् ब्रह्म'त्यादिवैदिकप्रसिद्ध्या ब्रह्म या ग्राह्यमिति । तत्र लोकेऽ- वगतसामर्थ्यः शब्दो वैदेऽपि बोधक इति न्यायेन वैदिकपदशक्तिग्रहस्य कोशब्यव- हागदिरूपलौकिकशक्तिग्रहमाधनाधीनत्वात्, सृष्टिप्रक्रियायां तस्माद्वा एतस्मादात्मन आकाशः सम्भूत'इत्यादौ भूताकाशेऽपि वैदिकप्रयोगदर्शनाद, ब्रह्मणि तच्छकरभावेन तत्र लक्षणाया वा योगस्य वा आदरणीयत्वात्तयोश्च शक्त्यपेक्षया नैर्बल्याच्च भूताकाश एव ग्राह्य इति पूर्वः पक्षः । सिद्धान्तस्तु । आकाशः परमात्मैव । कुतः १ तल्लिङ्गात् । लिङ्गं श्रुतिसामर्थ्यम् । अन्यानपेक्षतया स्वरसेनार्थवोधकत्यमिति यावत्, तस्मात् । श्रुति- लिङ्गादयोञाप्यर्थनियामकत्वेन पूर्वतन्त्रयदाद्रियन्ते । श्रीतत्वेनोभयोस्तन्त्रयोरैकशा- भयान् । अयमर्थः । पूर्वाधिकरणेषु यतो या इमानि भूतानि जायन्त' इत्यादिवाक्यविचारे निसिलजडजीवकारणत्वं ब्रह्मणि मिद्धमितीहापि सर्वपदेन तान्येव सर्वाण्युद्दिश्य, 'इमानि भूनानी ति पदयोस्तद्वाक्यमम्बन्धत्वप्रत्यभिनानेन तानि देहविशिष्टजीयतया महाभूततया च निष्कृप्य तन्कारगत्वमाकाशे योध्यते । तया एभ्य इत्यनेन तान्येव .

श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । परामृश्य ततो ज्यायस्त्वं परायणत्वं च बोध्यते । तद्यदि भूताकाशो गृह्येत, तदा सर्व- पदार्थसकोचेन भूतादिपदानामपि तत्संफुच्येत । सोचस्त्वर्धवाधरूप इति सर्वपदसा- मर्थ्यस्यार्धाधे बहूनां तथात्वम् । तच्चानुचितम् । बहुपु पदेपु दोपप्रपहात । किञ्च । 'सर्वे वेदा यत्पदमामनन्ती'त्यादिश्रुत्या सर्वस्य वेदस ब्रह्मण्येव तात्पर्यमवधारितम् । तद्यदि निरङ्कुशं सर्वजगत्कारणत्वमस्मिन् भूताकाशस्योच्येत, तदार्थभेदाद्विभागे साकक्षित्वाभा- वाचास्य वाक्यस भेदापत्या सर्वस्य भेदस्यैकवाक्यतापि भज्येत । तत्रत्यं सर्वपदमपि संकुच्येत । किञ्चेदं शालायत्येन एतल्लोकगतेः प्रश्ने जैवलिना तदुपपादनायोक्तम् । तच्चोपक्रमादिविचारे सामादिसर्वगतिबोधकतया पर्यवस्खति । सर्वगतित्वं च ब्रह्मग एवं। एवं सर्वोत्कृष्टत्वरूपं परोवरीयस्त्वं त्रितयपरिच्छेदराहित्यरूपमानन्त्यं च तस्मिन्नेव । अत उक्तोपपत्तिरूपात्तात्पर्यलिङ्गादपि परब्रह्मैवाकाशः । नच लक्षगापत्तिः । ब्रह्मगः सर्वशब्दवाच्यत्वस्य समन्वयादि मूत्रविचार एव साधितत्लादिति । तस्मात् परमात्मैवा- काश इति सिद्धम् । तत्र'यदेप आकाश आनन्दो न स्या'दित्यानन्दमयाधिकरणविषयवा- क्यगताकाशशब्दार्थस्य विचारादुपोद्धातरूपाधिकरणसङ्गतिः । एतेन व्योमादिशब्दवन्ति 'ऋचो अक्षरे परमे व्योम'नित्यादीन्यपि वाक्यानि विचारितानि ॥ २१ ॥ इति सप्तम तल्लिङ्गाधिकरणम् ॥७॥ अत एव प्राणः ।। २२ ।। छान्दोग्ये प्रथमप्रपाठके श्रूयते । 'कतमा सा देवता, प्राण इति होवाच, सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युजिहते, सैपा देवता प्रस्तावमन्वा- यत्तेति । तत्र संशयः । आसन्यो ? ब्रह्म वेति ? पूर्वपक्षसिद्धान्तौ तु पूर्ववदेवेत्यतिदि- शति । अत एवेति । पूर्वोक्तोभयरूपातल्लिङ्गादेव प्राणशब्दवाच्यं ब्रह्मेत्यर्थः । नन्वधि- करणानां न्यायरूपत्वादन्यत्रापि तत्प्रवृत्तेस्तल्लिङ्गाधिकरणेनैव गतार्थत्वात् किमित्येत- सूत्रप्रणयनमिति चेत् । उच्यते । 'यदा वै पुरुपः खपिति प्राण तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनो, यदा प्रयुध्यते प्राणादेवाधि पुनर्जायन्त' इति श्रुतावेव स्वापे सर्वभूतसंवेशनं मुख्यप्राणधर्मत्वेन प्रतिपाद्यत इति प्राणविद्याया यथा न ब्रह्मप- रत्वम्, 'तथास्थापीति शङ्का निवारणायास्यावश्यकत्वात् । नचात्र वागादीनामिन्द्रियाणामु- क्तत्वेन भूतानामनुक्तत्यानास्य प्राणविद्यातल्यसमिति शङ्कयम् । 'दीपचक्षुस्तथा रूपं ज्योतिपो न पृथाभवेद' इति पुराणवाक्ये इन्द्रियाणां भूतापृथक्त्वस्योक्तत्वेन भूतविशे- पत्वे प्राण विद्यासाधारण्यस्य शक्यशङ्कत्वादिति । एतेन बाधकासव एव वाक्यानां ब्रह्मपरत्वम्, न तु तत्सत्त्वेऽपीति देवान्तरोपासनानुच्छेदायेदमधिकरणमिति बोधितम् । तेनोपोद्धातोऽत्र सङ्गतिः ॥ २२ ॥ इत्यष्टनमतिदेशाधिकरणम् ॥ ८॥ ज्योतिश्चरणाभिधानात् ।। २३ ।।

भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। छान्दोग्ये पञ्चमप्रपाठके श्रूयते । 'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्व- तःपृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषु उत्तमेषु लोकेप्विदं वा च तद्यदिदमन्तःपुरुषे ज्योति'- रिति । विश्वतःपृष्ठेविति, सर्वेपामुपरितनेषु । अयं च विश्वशब्दो न सोचसह इति ज्ञापनाय तदर्थक शब्दान्तरं सर्वतः पृष्ठेविति । अनुत्तमेविति । नास्त्येभ्योऽन्य उत्तम इत्यनुत्तमास्तेपु । शेष स्फुटम् । अत्र सन्देहः । ज्योतिःशब्देन किमत्र प्राकृत तेज उच्यते, उत ब्रामेति । तत्र तापल्लोके तमोविरोधिपदार्थसादित्यादेज्योतिःशब्दवाच्य- त्वेन प्रसिद्धेः, प्रस्तुतवाक्येऽपि 'दीप्यत' इति प्रकाशलिङ्गेन, तद्ग्रे च 'तस्यैपा दृष्टि- यौतदस्मिन्छरीरे संस्पर्मेनोष्णिमान विजानाति तस्यैपा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरियामचलत उपशृगोतीति जाठरस्याग्नेलिङ्गेन च तदुभयकारणभूत- तेजःसामान्यस्यात्र ग्रहीतुं शक्यत्वात् । जगत्कर्तृत्वादिरूपब्रह्मधर्मस्यात्रानुपलम्भेन, तदने च 'तदेतद् दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतश्च भवती'त्यल्पफलकथनेन च ब्रह्मणो ग्रहीतुमशक्यत्वाचात्र प्राकृतं तेजःसामान्यमेयोच्यत इति पूर्वः पक्षः । सिद्धान्तस्तु ब्रह्मै- वात्रोच्यते । कुतः १ चरणाभिधानात् । 'तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्वामृतं दिवी ति पूर्ववाक्ये चरणाभिधानात् । ननु वाक्यान्तरस्थो धर्मः कथं वाक्यान्तरे ग्रहीतुं शक्य इतिचेत् । उच्यते । एकवाक्यत्वा- द्रहीतुं शक्य इति । तदेव कथमितिचेत् । इत्थम् । अत्र हि 'गायत्री वा इदं सर्व भूतं यदिदं किञ्चेति गायव्याख्यब्रह्मविद्या प्रकृत्य, 'वाय ये गायत्री'त्यादिना भूतपृथिवीश- रीरहृदयानि तदभिन्नत्वेन निरूप्य, चतुष्पादस्य ब्रह्मणस्तयोपासनार्थ 'सैपा चतुष्पदे ति प्रतिज्ञाय, श्रुत्यन्तरे 'चतुर्विशत्यक्षरा त्रिपदे ति श्रावणात् कथं चतुष्पदेत्याकांक्षायामेकै- कस्य पादस्य पइविधत्वे सर्वाक्षरसामान्यात् चतुष्पदेत्याशयेन पइविधेत्युक्त्वा, त्रिप. दायां पडक्षणः पादा न कल्पयितुं शक्यन्ते, यतिभङ्गादिदोपादित्याकांक्षायां वाचकभू- ताया गायच्या बाच्याभेदमनुसन्धाय, ब्रह्मपादस्तद्विधाभिश्च तस्यास्तथा सम्पायमि- त्याशयेन तदेतदृचाभ्यनूतमित्याह । तत् पविधत्वेन चतुष्पादत्वं वक्ष्यमाणर्चा गाय- त्रीमभिमुखीकृत्य ब्रह्मपादाँश्च लक्ष्यीकृत्योक्तमित्यर्थः । तदनु ऋचमुक्त्वा तदुक्तं ब्रह्म विवृणोति । यद्वैतदित्यारभ्य, य एवं वेदेत्यन्तेन । तथाच दहरविद्यायां भार्गव्यां च यदभिप्रेतं तदेव स्वरूपमत्रापीति बोधितम् । अतः परं पादा विचार्याः । तत्र सर्वभूता- मक एकः पादः, स गीतायां 'क्षरः सर्वाणि भूतानि इति वाक्याद्विराइदेहविशिष्टजी- वसमष्टिगो भवति । तथाप्यत्र 'त्रिपादस्यामृतं दिवि' इति कथनात् स न ग्रहीतुं शक्यः । किन्तु सर्वपदे सङ्कोचं विधाय, भूलॊकस्था व्यष्टिजीवा एव पादत्वेन ग्राह्याः। अस मन्त्रस्य पुरुषसूक्तोकमन्त्रमाजात्यदर्शनेन तव्याख्यानभूतपुराणवाक्योक्तपादाना- मेवात्र ग्राह्यत्वात् । तत्र च 'पादास्त्रयो बहिवासन्नप्रजानां य आश्रमाः । अन्तत्रिलो. क्यास्त्वपरो गृहमेधोऽवृहद्वत' इति, 'यादेषु सर्वा भूतानि पुंसः स्थितिपदो विदुः ।

श्रीब्रजनाथात्मजश्रीकृष्णचन्द्रकृता। ३९ अमृतं क्षेममभयं त्रिमूर्नोऽधायि मूर्धसु'इति वाक्यद्वयात् तद्विचारणे च भूरादिलोक- स्थानां गृहस्थजीवानाम्, जनस्तपःसत्यलोकस्थानन्दवतामाश्रमानारयजीवानां पूर्वश्लो सर्वभूतविशिष्टानां भूरादीनां लोकानां च द्वितीय पादत्वेन सिद्धिः । एवं सिद्धेषु पादे तेषां पइविधत्वं विचारणीयम् । तचैवम् । अत्र हि पूर्व भूतपृथिवीशरीरहृदयान्युक्त्वा, ततः पादान् ब्रह्म चोक्त्वाग्रे 'तस्य वा एतस्स हृदयस्य पञ्च देवसुपय'इत्यादिना पञ्चपुरु- पान् पष्ठं ज्योतिश्चोक्तम् । तेन भूतपृथिवीशरीराणां न पाइत्वम्, नापि तन्मुख्यस्थानत्वम्, किन्तु मुख्यस्थानपरिचायकत्वमेव । हृदयस्य तु 'हृयन्तोतिःपुरुप'इत्यादिश्रुत्या जीव- मुख्यस्थानत्वम् । तथा सत्ति भूतपृथिवीशरीरपरिचायितहृदयस्थानां जीवानां पादानां पञ्चभिः स्थान विधाभिः पप्टेन स्वान्तर्यामिणा ब्रह्मणा ज्योतिपा च पइविधत्वमिति सि- ध्यति । तेनात्रै प्रकरणैक्ये सिद्धे मन्त्रब्राह्मणयोः परस्परसाकारत्वादथैक्याचैकवाक्यत्वम् । एवं सिद्धे तस्मिन्नत्र चतुर्थो ब्रह्मपादो निरूप्यते इति सिद्धम् । अनयैव दिशा पादान्तराणा- मपि पडूविधत्वम् । तथाच यथा प्रणवविद्यायां ब्रह्मणः पादसंख्यापूरकत्वम्, तथात्र वि. धासंख्यापूरकत्वमिति ब्रह्मधर्माणां पादानामनाभिधानाज्ज्यो तपो ब्रह्मलं सिद्धमित्यर्थः । पूर्वपक्षोक्तदोपपरिहारस्तु 'तमेव भान्त'मिति 'यदादित्यगतं तेज' इति श्रुतिस्मृतिभ्याम् , 'दीप्यत' इत्युक्तस्य प्रकाशत्वस्य 'अहं वैश्वानरो भूत्वे ति स्मृत्योष्णिमादेव वस्तुतो ब्रह्म- धर्मत्वात्, ' चक्षुप्यः श्रुतो भवती'त्युपासनाफलवाक्यस्यापि 'अपवर्गमात्यन्तिकं परम पुरुषार्थमपि स्वयमासादितं नो एवान्द्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्था' इति श्रीभागवतोक्तरीत्या भगवदीयत्वेन दृश्यो विख्यातच भवतीत्यर्थेन महाफलत्वात् । 'वसन्ते ज्योतिपा यजेत, वाचैव ज्योतिपा कर्म कुरुते' इत्यादिश्रुत्या ज्योतिःपदस्थाप्यनेकार्थ- त्वेन तमोविरोधिपदार्थमात्रवाचकत्वाभावादेव सिद्ध इति नात्र किमप्यनुपपन्नम् ॥२३॥ छन्दोभिधानान्नेतिचेन्न तथा चेतोणि- निगदात् तथा हि दर्शनम् ॥ २४ ॥ ननु यत् प्रकरणैक्यमङ्गीकृत्य पादानां ब्रह्मधर्मत्वं साध्यते, तदसङ्गतम् । उपक्रमे गायत्र्या उक्तत्वेन तस्या एव प्रकरणित्वात् । उपक्रमस्यासज्ञान विरोधत्वेनावान्तरवाक्या- पेक्षया प्रबलत्वात् । एवं सति गायत्र्याः सर्वत्वमुपक्रम्य तामेव भूतपृथिवीशरीरहृदय- भेदैर्व्याख्याय, 'सैपा चतुष्पदा पइविधेति प्रतिज्ञायोदाहृतो मन्त्रः कथं तात्पर्य लि- झोपष्टम्भं विना चतुष्पाद ब्रह्माभिदध्यात् । नच ब्रह्मपदविरोधः । ब्रह्मोपनिपदितिव- च्छन्दब्रह्मेतिवच्च छन्दःपरत्वेनापि तस्य शक्यवचनत्वात् । अतश्छन्दोऽभिधानान्न ब्रह्म- धर्माः पादाः । तथाच खरूपासिद्धो हेतुरितिचेत्, न, नैप दोपः । कुतः । चेतोऽर्पणनि- गदात । तथा गायत्रीरूपेण ब्रह्मणि चेतोऽर्पणस्य निगदात् कथनात् । कथनितिचेद् । इत्थम् । अत्र ापक्रम एव गायत्र्याः सर्वत्वं प्रतिज्ञातुम्, गायत्री च वर्णसमानामरूपा.

- भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। तस्याच सर्वत्वमनुपचारेण न सम्भवतीति उपक्रम एव विरोधमानम्, अतो न स प्रबलः। अतो ज्ञायते न सर्वत्व दिरूपमाहात्म्योत्यदीप्यत्वयोधनाय तत्कीर्तनम्, किन्तु मन्त्रस्य देवताप्रकाशकत्वात् तद्द्वारा तत्र चेतोऽर्पणार्थमेव । तथाच यथा सूचीद्वारा मूत्रप्रवेशः, तद्वदायत्रीद्वारा ब्रह्मणि चित्तं प्रविशेदिति । तदर्थ तत्कीर्तनम् । ननु कुत एवं ब्रह्म प्र- तिपाद्यत इतिचेत्, तबाह, तथा हि दर्शनमिति । तेनैव प्रकारेण व्रत्मदर्शनं ब्रह्मज्ञानं भवति । तथाच ब्रह्मज्ञानाय तथा प्रतिपाद्यत इत्यर्थः । हि युक्तोऽयमर्थः । लोके यत् खतो न प्रविशति, तदुपायेन प्रविशतीति स्थूलाया युद्धेब्रह्मणि प्रवेशाय तथोपाय इत्यर्थः । अतो गायत्र्याः प्रकरणित्वाभावेन ब्रह्मण एव तथात्वात्तस्यैव पादा इति न स्वरूपा- सिद्धिरित्यर्थः ॥२४॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २५ ॥ भूतादीनां पादव्यपदेशस्योपपत्तिर्यस्मात, ततथा, ब्रह्मणस्तादशत्वात्, एवं, तव मतोपपत्तिरिति । अयमर्थः । गायत्र्याः प्रकरणित्वमङ्गीपुर्वता भवता सन्निहितत्वाद भूतपृथिवीशरीरहृदयान्येव पादत्वेन याच्यानि । तानि च स्वारस्येनासम्भवन्ति गौण्या व्यपदेशेन वक्तव्यानि । तथा व्यपदेशश्चैकत्र वास्तवत्वेऽन्यत्र सम्भवति, नान्यथा । अतस्त्वषा स्वमतोपपादनाय ब्रह्मपरतथात्वमवश्यमादरणीयम् । अत आवश्यकत्वाल्लक्ष णादिदोपाभावाच ब्रह्मवाक्यत्वमेव युक्तमिति पादानां ब्रह्मधर्मत्वमेवेत्यर्थः ॥२५॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २६ ॥ ननु तथापि पादानां ब्रह्मधर्मत्वं नोपपद्यते । कुतः । उपदेशभेदात् । अयमर्थः। अस्मिन् वाक्ये तु पादा एव नोक्ताः, किन्तु मन्त्रैकवाक्यतया व्युत्पाद्यन्ते । एकवाक्य- ता त्वथैक्ये भवति । प्रकृतवाक्ये तु दिव इति पञ्चमी अनाधारत्वबोधिका । मन्त्रे तु दिवीति सप्तमी आधारत्वमोधिका । एवमुपदेशभेदात् । किञ्च, मन्त्रे अमृतपदम्, ब्राह्म- वाक्ये तु ज्योतिःपदम्, अतोऽप्युपदेशभेदः । तथा प्रकृतवाक्यस्य हृदयमुपक्रम्य प ठितत्वात्तव हृदयं चतुर्थपादः सिध्यति । मन्त्रे तु सर्वभूतानि वा, भूलोको वा । अतोऽ. प्युपदेशभेदः । अत एव विधोपदेशभेदादेकवाक्यत्वस्य वक्तुमशक्यत्वे पादस्य ब्रह्मधर्म- ताया वक्तुमयुक्तत्वाञ्चरणाभिधानं हेतुर्न इतिचेत् । नैप दोपः । कुतः ? उभयस्मिन् विभक्तिभेदादिना भिन्नविधेऽप्युपदेशे ब्रह्मवाक्यत्वस्याविरोधात् । अयमर्थः । विभक्ते- भेंदेऽपि पञ्चम्या सर्वत्र सत्त्वं बोध्यते । अतो दिव इत्यस्य ल्यव्लोपपञ्चमीत्वेन धुलोक- मारभ्य 'सर्वतः पृष्ठेष्वि'त्यर्थाद् मान्त्रः सप्तमीनिर्देशो न विरुध्यते । एवममृतपदज्यो- तिपदयोर्मेदेऽप्युभयोब्रह्मवाचकत्याद सोऽपि न विरुध्यते । तथा पादभेदेऽपि सर्वभू- तोपलक्षकस्य हृदयस्य सर्वभूतान्तःस्थस्य ज्योतीरूपस्य च सर्वत्र विद्यमानत्वादयमपि न विरुध्यते । तथाचैवमथैवयेन विभागे साकांक्षत्वेन च मन्वब्राह्मणयोरेकवाक्यत्वाचरणस्य , . श्रीजनाथात्मजश्रीकृष्णचन्द्रकृता । सिद्धे ब्रह्मधर्मत्वे ज्योतिब्रह्मवेति सिद्धमित्यर्थः । अत्र ज्योतिपोऽन्तःपुरुष उपसंहृतत्वेन, ‘स यश्चायं पुरुप' इत्यानन्दमयाधिकरणविषयवाक्ये श्रावितस पुरुषान्तःस्थस्या निर्णयात् उपोद्घात एव सङ्गतिरिति बोध्यम् ॥ २६ ॥ इति नवमं ज्योतिश्चरणाधिकरणम् ।।९।। प्राणस्तथानुगमात् ॥ २७ ॥ कौशीतकित्रामगोपनिपदिश्रूयते।'प्रतर्दनो ह वै देवोदासिरित्यारभ्य, एप लोकपाल: एप लोकाधिपतिरेप लोकेशः, समआत्मेति विद्या'दित्यन्तः सर्वोऽध्याय इन्द्रप्रतर्दनसं- वादः। तत्रोपक्रमे वरदानमुपक्षिप्य, 'मामेव विजानीहि, एतदेवाहं मनुष्याय हिततमं मन्य' इति स्वोपासनं विधाय, ततस्त्याष्ट्रवधादिना आत्मानं प्रशस्य, स्वोपासनायाः फलं सर्वपा- पाभावं प्रतिपादितवान् । ततः कस्त्वमिति विवक्षायां, 'प्राणो वा अहमस्मि प्रज्ञात्मानं मामायुरमृतमित्युपास्वेति प्रज्ञात्मप्राणगुणकां द्वितीयां स्वोपासनां विधाय, आयुपः प्राणत्वं प्राणस्यामृतत्वं चोपपाद्य, तेन क्रियाशक्ति प्रशस्य, 'प्राणेन ह्येवामुष्मिन् लोके अमृतत्वमानोती'त्यमृतत्वरूपं फलं प्राणसंयोगेन प्रतिपादितवान् । ततो 'जीवति वागपेत'- इत्यादिना 'प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्यापयती'त्यन्तेन ज्ञानशक्तिं प्रशस्य 'एत- देव उक्थमुपासीतेति तस्यैवोक्यगुणकामुपासनां विधाय, ततो 'न वाचं विजिज्ञा- सीत वक्तारं विद्यादित्यादिना ज्ञानशक्तिमन्तं प्रशस्य, अग्रे 'ता वा एतादशैव भूतमात्रा' इत्यारभ्य, 'न ह्यन्यतरतो रूपं किञ्चन सिध्ये दित्यन्तेन क्रियाज्ञानशक्त्योः परस्पर- सापेक्षतया स्वविपयभूतजगत्साधकत्वं प्रतिपाद्य, ततो, 'नो एतन्नाने'ति प्रतिज्ञाय, 'तद् यथा रथस्यारेपु नेमिरर्पिता, नाभावरा अर्पिताः एवमेवैता भूतमात्राः प्रज्ञामात्रा- खर्पिताः, प्रज्ञामात्राः प्राणेऽर्पिताः, स एव प्राणः प्रज्ञात्मानन्दोऽजरोऽमृत' इत्यादि- ब्रह्मधर्मानुक्त्वा, 'स म आत्मेति विद्या'दित्युपसंहृतम् । तत्र संशयः । किमनेन्द्रस्थात्मा वा, मुख्यः प्राणो वा, सामान्यतो जीवो वा, परं ब्रह्म वा, प्रतिपाद्यत इति । अथवा आन्तं प्राणस्यैव प्रशास्यत्वदर्शनात् प्राणो चा, ब्रह्म वेति द्विकोटिकः । नच 'अत एव प्राण' इति पूर्वाधिकरणे तल्लिङ्गाद्ब्रह्मत्वं प्रतिपादितमि- तीहापि तेनैव सन्देहनिवृत्तेः किमित्यधिकरणान्तरारम्भ इति शङ्कयम् । तत्र प्राणशब्द- मात्रे सन्देहाल्लिङ्गस्य वलिष्ठत्वेन बाधकामावाच्च तावन्मात्रेण सन्देहनिरासस्य सम्भवात् । इह तूपक्रमस्यान्यविधत्वेन प्राणस्य प्रज्ञात्वायुयोरुपपादनेन प्राणशब्दार्थस्यापि सन्दि- ग्धत्वादन्यलिङ्गरूपबाधकस्यापि सद्भावात्तल्लिङ्गेन निर्णयस्यासम्भवादुचित आरम्भ इति । पूर्वपक्षस्तु, अस्मिन् वाक्ये प्राणस्य ब्रह्मतासाधकं किमपि न दृश्यते । वाधकानि तु प्राणप्रशंसादिरूपाणि बहूनि दृश्यन्ते । व प्रतिपाद्यस्य प्राणस्य न ब्रह्मत्वमिति । सिद्धान्तस्तु, प्राणः परमात्मैव ! कुतः ? तथानुगमात् । पौर्वापर्येणालोच्यमाने वाक्ये पदार्थानां ब्रह्मण्येव समन्वयात् । तथाहि । उपक्रमे तावद् 'वरं वृणीव' इत्युक्तः प्रतर्दन 'स्त्वमेव वृणीष्व यत् त्वं मनुष्याय हिततम मन्यसे' इति परमपुरुषार्थरूपं , . ६ , ४२ भावनकाशिका । समूत्रवृत्तिः। चरमुपचिक्षेपेति तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात् । न हि परमानन्दरूपात् परमात्मनोऽन्यः कोऽपि जीवस्य हिततमो भवति । ततः स्वनानेन भ्रूणहत्यादिरूपपापनाश उक्तः, सोऽपि ब्रह्मपरिग्रह एयोपपद्यते। 'श्रीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावर' इति श्रुतेः। प्रज्ञात्मत्वं च चेतनरूपत्वात् तस्यैव सम्भवति । जीवा. नामपि तदर्शत्वाद् । उपसंहारेऽप्यानन्दोऽजरोऽमृतः, एप लोकपाल इत्यादि । एतदपि निशं ब्रह्मपरिग्रह एवोपपद्यते । तथा 'एप उ एवं साधु कर्म कारयती'त्यादिनोक्तं सर्वप्रेरकत्वं च, कर्मलेपराहित्यं च । अतः सर्वत्रानुगमात् प्राणो ब्रह्मेति ॥ २७ ॥ न वक्तरात्मोपदेशादितिचेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥२०॥ यदुक्तं प्राणो ब्रह्मेति । तन्न युज्यते । कुतः । वक्त्रा इन्द्रेण 'मामेव विजानीही'त्यु- पक्रम्य, 'प्राणो वा अहमस्मि प्रज्ञात्मा, तं मामायुरमृतमित्युपास्वे'त्युपासनाविपयत्वेन स्वात्मन एवोपदेशात् , उपक्रमस्य चासज्ञातविरोधत्वेन प्रबलत्वादन्येपामपि पदार्थानां वाचो धेनुत्ववत्तदनुगुणत्वेनैव नेयत्वाच । अतो नास्य ब्रह्मोपाख्यानत्वमितिचे , न । कुतः । अध्यात्मसम्बन्धभूमा हस्मिन् । हि निश्चयेन अस्मिन् प्रकरणे अध्या- त्मसम्बन्धस्य भूमा । आत्मानं परं ब्रह्माधिकृत्य यः सम्बन्धो धर्मस्तस्य बाहुल्यं प्रतीयते । आदावेव परमहितत्वं, स्वज्ञानेन भ्रूणहत्यादिरूपमहापापनिवर्तकत्वम् । उपसंहारे च लोकपालत्वादिकम् । न ह्येतदिन्द्रे सम्भवति । श्रुत्यन्तरे 'विश्वरूपो वै त्याष्ट्रः पुरोहितो देवानाम् आसीदित्युपक्रम्य, तस्मादिन्द्रोऽविभेत् , तस्स चजमादाय शीर्पाण्यच्छिनत् , तस्साञ्जलिना ब्रह्महत्यामुपागृह्णात् , तां संवत्सरमविभस्तं भूता- न्यभ्यक्रोशन्, ब्रह्महनित्यादिना ब्रह्महत्याविभागश्रावणात् । पठस्कन्धे तदुप- हणाद् । वृत्रवधेऽपि ब्रह्महत्यास्मरणाच । तथा लोकपाललोकेशलोकाधिपतिपदानाम- वृत्त्या उपचारः साङ्कुशत्वं च तत्र वार्यते । तदपि तथा । इन्द्रय स्वत्रिपालक- त्वात् । एवं सातन्त्र्येणायुर्दातृत्वं चापि ब्रह्मण एव धर्मो, नेन्द्रस्य, नाप्यासन्यस्य । 'न प्राणेन नापानेन मयो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रिता- विति श्रुत्यन्तरात् । तथा प्राणाभिन्नप्रज्ञात्मत्वमपि तस्यैव, सर्वकार्यकर्तृत्वात् । किञ्च, 'न वाचं विजिज्ञासीत वक्तारं विद्या दित्युपक्रम्य, 'तद्यथा रथस्यारेषु नेमिरर्पिता, नाभावरा अर्पिता, एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणेर्पिताः, स एप प्राण एव प्रज्ञात्मानन्दोजरोऽमृतो न साधुना कर्मणा भूयान् नो एवासाधुना कीया निति सर्वविधसर्वेन्द्रियव्यापारे अरनामिभूतं प्रत्यगात्मानमेवोपसंहरति । न इदमपि इन्द्रे सम्भवति । ब्रह्महत्यया कनीयस्त्वस्य प्रागेव दर्शितत्वात् । अतः 'स म आत्मेत्युपसंहारोऽप्येतादृशमेवात्मानमिन्द्रसम्बन्धित्वेन परामृशति, न तु देवता- जीयम् । अतोन परमात्मसम्बन्धबाहुल्याद् ब्रह्मोपदेश एवायम् । देवतात्मपक्षे सर्वत्र गौण्याद्यापत्तेश्चेति हिशब्देन सूच्यते ।। २८ ।। .

श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । शास्त्रदृष्टया तूपदेशो वामदेववत् ॥ २९ ॥ ननु यद्येवं ब्रह्मण्येवाभिप्रायः सात् , तदा अहङ्कारवादेन नोपदिशेत् , अतो नेदं समाधानमिति शङ्कां तुशब्दः परिहरति । अयमेवं वादो न ब्रह्मवाक्यत्वविघटक- तया विभावनीयः । एतस्य वादस्य व्यवहारदृष्टावेव दोपत्वेन शास्त्रदृष्टया दोपत्वा- भावात् । उपदेशस्तु शास्त्रदृष्टया आर्पज्ञानेन स्वात्मानं ब्रह्मात्मकमवगत्य इन्द्रेण कृत इति भासमानोप्यहंकारवादो न ब्रह्मवाक्यत्वविघटक इत्यर्थः । ननु 'तत्वमसि' इत्यादिवाक्येपु जीवस्य ब्रह्मत्वं योध्यते, वत्र प्रत्यधिकारं शास्त्रप्रवृत्तिरिति न्यायेन खात्मन एव ब्रह्मत्वज्ञानं मुख्यमिति प्रतर्दनस्येन्द्रात्मज्ञानमुपासनं वा न पुमर्थाय । यदि च भागत्यागलक्षणया केवलख चैतन्यमात्रस्य ज्ञापनादिकमत्रोच्येत, तदा ब्रह्मधर्मा अत्रोक्ता विरुध्येरन् । अतः शास्त्रदृष्टिरपि नैवंविधा । किश्च । कचित् सिद्धेऽहङ्कारवादस्य तथात्वेञापि तथाङ्गीकर्तुं शक्यते, न तु तस्मिन्नसिद्धे इत्यत आह वामदेववदिति । यथा वृहदारण्यके पुरुप विधवाह्मणे 'तद् वैतत् पश्यन् ऋपिर्वामदेवः प्रतिपेदे अहं मनुरभवमहं मूर्यथेति वामदेवस्याहङ्कारवाद उपदिश्यते, तद्वत् । अयमर्थः । यत्र वामदेवस्थाहकारवाद उक्तः, तत्रैव 'यो यो देवानां प्रत्यबुध्यताथर्षीणां स सर्वमभव'दिति प्रतिबुद्धानां सर्वात्मभावोऽप्युक्तः । तत्र सर्वेषां सर्वभावे सर्वानन्त्यप्रसङ्गात् सर्वमेकमेवेति वक्तव्यम् । तादृशं च सर्वोपादानत्वात् सर्वा- त्मकं ब्रह्मैवेति प्रतिबुद्धानां तत्र लयेन सर्वात्मभावो वक्तव्यः । तथा सति 'मनुरभव- महं सूर्यचति वाक्योक्तो योऽवयुत्याऽनुवादः स्वसर्वत्वविध्यंशं पृथक्कृत्य मन्वाद्यनुवा- दरूपः सोऽनुपपन्नः स्यात् । 'न प्रेत्य संज्ञास्ती'ति श्रुत्यन्तरेण ब्रह्मगि लये स्वानुसन्धाना- भावबोधनात् । अतस्तस्य योऽहङ्कारवादः स ब्रमात्मभावेनैव, न तु खात्मभावेनेति सिद्धम् । अतस्तत्र यथा स न ब्रह्मवाक्यबाधकः, तथात्रायमपीति, न ब्रह्मधर्मोक्ती- नामपि विरोधः । ब्रह्मण एवात्रोक्तत्वात् । नच यद्ययं शास्त्रदृष्टया ब्रह्मोपदेशः, तदान जगत्कर्तृत्वादयः कुतो नोक्ताः । इन्द्रकर्तुकास्त्वाष्ट्रवधादय एव च कुत उक्ता इति शङ्कयम् । वाष्ट्रवधस्यापि ब्रह्मधर्मत्वात् । नन्वेप वज्रस्तव शक तेजसा हरेर्दधीचेस्तपसा च तेजितः, तेनैव शक जहि विष्णुयन्त्रित' इति पष्ठस्कन्धे वृत्रवाक्येन तथावसायात् । नन्वेतदसङ्गतम् । 'स्वाप्ययसम्पत्योरन्यतरा- पेक्षमाविष्कृतं ही ति सूत्रे सुपुतिनलसम्पत्तिदशयोरेख ब्रह्मधर्माविर्भावस्य सूत्रकृतो- पगतत्वावस्थान्तरे तदगीकारस्य सूत्रविरुद्धत्वादितिचेत्, न । वाक्यानां सूत्रोप- जीव्यत्वेन तदविरोधाय सौत्रे सम्पत्तिपदे उत्तमाधिकारावस्थाया अपि संग्राह्य- स्वेनाविरोधात् । अन्यथा 'मय्येव सकलं जातं मयि सर्वं प्रतिष्ठित'मित्यादीनां विरो- धापत्तेः । नन्वत्र ब्रह्मधर्माविर्भावमात्रेण वामदेवदृष्टान्तो न युक्तः । तस्य पूर्णज्ञानित्या- भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः । तल्लिङ्गादिद्वयेन नामान्तरकृतः सन्देहोऽपि परिहतः । अन्तिमेन च चिदचित्संश्लेपर- हितस्य साकारस्य केवलस्य कारणन्वं बोधयितुं तत्संश्लेपनिवारणेन सर्व निगमितम् । प्रत्ययप्रकृतिरूपशब्दकृतास्सन्दाहाश्च चारिताः। अतः परं अर्थसन्देहवारणार्थ द्वितीयादिपादा आरभ्यन्ते । केवलजीवजडतत्स- मुदायभेदेनार्थस्य त्रैविध्यात् । तत्र द्वितीये जीवपुरस्कारेण सन्देहा निवार्यन्ते । तत्र छान्दोग्ये पञ्चमप्रपाठके इदमाम्नायते । 'सर्व सल्विदं ब्रह्म तज्जलानिति शान्त उपासीत, अथ खलु ऋतुमयः पुरुषो यथा ऋतुरस्मिल्लोके पुरुपो भवति, तथेतः प्रेत्य भवति, स क्रतुं कुर्वीत, मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एप आत्माऽन्तर्हृदयेऽ- पणीयान् बीहेरित्यादि । अत्र वाक्योपक्रमे 'सर्व खल्विदं ब्रामे'त्यनेन सर्वस्य ब्रह्मत्वं प्रतिज्ञाय, कथं सर्व ब्रह्मेत्याकांक्षायां ब्रह्मकार्यत्वाद् ब्रह्मेति बोधयितुं तज्जलानिति सर्वविशेषणम् । जायत इति जम्, लीयत इति लम्, अनितीत्यन् । जं च तल्लं च, तच तदन् च जलान् तस्माजलान् तज्जलानिति तदर्थात् । तेनेदमुपासनं वाचो धेनुत्ववन्न कल्पितर्धरिति सिध्यति । इतिश्च हेतौ । तथा शान्त इत्युपासकविशेषणम् । अग्रे च, स ऋतुं कुर्वीतेति । क्रतुर्विधीयते, तद्रूपं च मनोमयत्वादिवाक्येनोच्यते । तेन तस्योपासनात्मकत्वमवगम्यते । तथा सत्यत्र वाक्यद्वये एकस्सान्यशेपत्वं वा, स्वतन्त्रत्वं वेति विमर्प, यदि पूर्ववाक्ये जगत उक्तरूपत्वात् सर्वत्र रागद्वेपरहितो भूत्वा वक्ष्यमा- पोपासनं कुर्यादित्येवं वक्ष्यमाणानुवादेन तच्छेपतया शमविधिरङ्गीक्रियते, तदा विध्य- नुवादवरूप्यं, पूर्ववाक्यत्वेनानुवादासम्भवः । वक्ष्यमाणोपामनाथ शर्म सम्पादयेदित्यर्थः कल्पने, शान्त उपासीतेति पदद्वये लक्षणापत्त्या वाक्यार्थस्य लाक्षणिकत्वप्रसङ्गः । वक्ष्य- माणोपासनाया जीवात्माविषयत्वे 'शान्तो दान्त' इत्यात्मदर्शनवाक्यसामान्येन शमस्या- वापसिद्धतया विध्यानर्थक्यप्रसङ्गश्च स्यात् । नाप्युत्तरवाक्यस्य पूर्वशेषत्वम् । फलवा- क्यविरोधात् अत उभयोः स्वोतन्त्र्यमेव युक्तम् । तथा सति पूर्ववाक्ये जगतो ब्रह्मत्वे- नोपासनं विधीयत इति स्थितम् । एतदेव च पुराणेषु विराडपासनमित्युच्यते । अतः परमुत्तरवाक्यार्थे सन्देहः । तत्र ‘स एप जीवो विवरप्रसूतिः प्राणेन घोपेण गुहां प्रविष्टः। मनोमयं सूक्ष्ममुपेत्य रूप'मित्येकादशीयवाक्यान्मनोमयत्वं वेदलिङ्गम् । प्राणेन घोपेण गुहां प्रविष्ट इति प्रवेष्टव्यत्वेकथनात् कारणाभेदोपचारेण तस्य प्राणशरीरत्वम् । अग्रे सत्यसङ्कल्पादिचेतनधर्माणाम्। 'एप म आत्माऽन्तर्हदय' इति च कथनाद् विज्ञानमयो जीवो वेदप्रतिपाद्यब्रह्मत्वेनोपास्य उच्यते ? उत ब्रह्मधर्मबाहुल्या- दन्तर्यामित्वेन पुराणेषु प्रसिद्धं ब्रह्म वा उपास्यमुच्यत इति । तत्र पूर्ववाक्ये जडस्य १. प्राणजन्यस्वकयनादिवि पाठः । .

श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । जगतो ब्रह्मत्वेनोपासनमुक्तमिति द्वितीयवाक्येऽपि जीवस्य ब्रह्मत्वेन उपासनमेव युक्तम् , न तु ब्रह्मवाक्यत्वम् । प्रबलहेतुं विना तथाङ्गीकर्तुमशक्यत्वात् । न च.जीववाक्यत्वा- ङ्गीकारेत्र का प्रबलो हेतुरिति शङ्कथम् । शाखान्तरे 'विज्ञानं ब्रह्म चेद्वेदेति जीवस्य ब्रह्मत्वेनोपासनायाः स्पष्टतया, अत्र च भारूपत्वकथनेन तत्प्रत्यभिज्ञानस्यैव हेतुत्वात् । नच पदान्तरानन्वयः शङ्कयः । वेदबोधितत्वान्मनोमयपदस्य.सति असङ्कल्पत्वात् सत्य- सङ्कल्पपदस्य प्राणोपाधिकत्वात् प्राणशरीरपदस्य चान्वये शेपाणामुपासनार्थानुवादतया- न्वयस्य सुघटत्वात् । अतः कार्यकारणयोरभेदाज्जीव एव ब्रह्मत्वेनोपास्य इत्येवं प्राप्ते । उच्यते । इदं ब्रह्मवाक्यमेव । कुतः? सर्वत्र प्रसिद्धोपदेशात् । परमशान्तस्य पूर्वोपास. नया शुद्धान्तःकरणस सर्ववेदान्तप्रसिद्धकब्रह्ममननात्मकपरमहितानुशासनस्यैव युक्त- त्वेन तदुपदेशादित्यर्थः । नच शाखान्तरस्वारस्याज्जीववाक्यत्वं शङ्कयम् । तत्राने आन- न्दमयस्योपदेष्टव्यत्वेन जीवोपासनाया उचितत्वेऽप्यत्राने उपदेश्यान्तरादर्शनेनात्र तद- ङ्गीकारस्यायुक्तत्वादिति । नन्वस्मिन् सूत्रे पक्षवाचकपदस्यादर्शनात् कथमेतस्यैव विपर- वाक्यतयावधारणमितिचेत् । उच्यते । प्रथमपादे ब्रह्मजिज्ञासां प्रतिज्ञाय, जन्मादिसूत्रे ब्रह्म लक्षयित्वा, आनन्दमयान्तैरधिकरणैस्तत् परीक्षितम् । ततस्तस बाह्यत्वे प्राप्ते, अन्त- स्तद्धर्माधिकरणेन तस्मान्तरत्वं साधितम् । तच परीक्षणीयम् । अन्यथा आनन्दमयस्स सर्वान्तरत्वं न सम्यगवगतं स्यात् । तदस्मिन् पादे परीक्ष्यते । आन्तं तस्यैव प्रपञ्च- दर्शनात् । नच तथेति शङ्क्यम् । आनन्दमयविषयवाक्यसन्दर्भे 'तत्त्वेव मयं विदु- पोऽमन्वानस्ये'त्यमन्तुर्दोपकथनेन तन्मननस्यावश्यकत्वात् । तच्च मननमत्र अथ खल्वि'- त्यादिसन्दर्भादवगम्यत इत्यतो विपयत्वावधृतिः। किञ्च, जगत्कारणत्वं निरवध्यानन्दा- त्मकत्वं यथा श्रौत लक्षणम् , तथा 'उत्तमः पुरुपस्त्वन्यः परमात्मेत्युदाहृतः, यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वर इत्यपि स्मात लक्षणम् । तत्र किं लोकत्रयम् , कथमा- वेशः, किं भरणम् , कथं च भरणम्, कथमव्ययत्वम् , ईश्वरत्वं चेति । तदप्येतेन विमृष्टं भविष्यति । किञ्च, मननं हि अनपेक्षितांगोद्वापेनापेक्षितांगावरापेन च वाक्यार्थनिर्धारणे भवति । तत्र पूर्ववास्योक्तं जगज्जनकत्वं 'एत इति – प्रजाप- तिर्देवानामसृजते' त्यादिश्रुतिमिर्वेद चतुर्मुखे चास्तीति किमात्मकत्वेन जगदुपास्यमिति शंकायां 'अस्य महतो भूतस निःश्वसितं यदृग्वेदो यजुर्वेद' इत्यादिभिः 'यो ब्रह्माण'- मित्यादिमिश्च तयोर्जन्यत्वेषधारित तादृशस्य सांकुशजनकत्वस्योद्वापेन 'यतो वे'त्या. दिश्रुत्युक्तस्य तस्यावापेन च ब्रह्मपदस्य परवाचकत्वं निर्धार्य तदात्मकत्वेनोपास्यमिति वाक्यार्थो यथामतो भवति । तथा एतद्वाक्येऽपि सत्यसंकल्पादिपदोक्तानां धर्माणां वेदे हिरण्यगर्भ जीवान्तरे च असम्भवात्तद्विशिष्टे मनोमये मन्तव्ये, 'मनमवानुद्रष्टव्यः' 'स मानसीन आत्मा जनानां,' 'मनसा तु विशुद्धने'त्यादिश्रुतिमिस्तादृशमनोग्राह्यत्वादिना - ४८ भावप्रकाशिका | ब्रह्मसूत्रवृत्तिः । प्राचुर्यार्थावापेन विकारार्थोद्वापेन चानन्दरूपो मनोमयः। 'यस्य प्राणः शरीर मित्य- न्तर्यामिब्राह्मणे श्रावणेनान्तयामी प्राणशरीर इत्यवधारणेनान्तरात्मा आनन्दमय ईदृशो मतो भवतीति स एव वाक्यार्थ इति सिद्धम् ॥१॥ विवक्षितगुणोपपत्तेश्च ॥ २॥ ननु पूर्ववाक्ये ब्रह्मोपासनकथनेऽप्यथेति प्रकृतच्छेदेनाग्रे उपासनान्तरमुच्यत इति गम्यते । तथा ऋतुमय इत्यारभ्य, तथेत प्रेत्य भवतीत्यन्तेन लोकान्तरे सङ्कल्पानुरू- पदेहप्राप्तिरूपफलकथनात् फलस च तात्पर्यनिर्णायकत्वात् तद्विचारे तस प्राकृतत्वेन जघन्यतया अत्रोक्तोपासनाया ब्रह्मविपयत्वं न घटते । अतस्तादृशदेहप्राप्त्यर्थ वेदामि- मानिदेवताया वा, ऋतुमय इत्यादिना साधकस्योपक्रान्तत्वात् स्वजीवस्यैव योपासना युक्ता । नच स्वोपासनया कथं तादृशं फलमिति शक्यम् । भावनया पेशस्कृतो रूपान्तरस्य प्रत्यक्षसिद्धत्वेन श्रुत्युक्तपारलौकिकरूपान्तरस्य भावनाप्रचयतापां बाधका- भावात् । यद्यप्येवं फलं ब्रह्मोपासनायामपि सम्भवति, तथापि देहत्वेन प्राकृतत्वेन व्याप्त्या 'तमेव विदित्वा अतिमृत्युमेति' 'ब्रह्मविदाप्नोति पर' मित्यादिश्रुत्युक्तफल- विरुद्धरूपत्वाब्रह्मोपासनायां तादृशफलांगीकरणमयुक्तम् , विपयैक्येन तस्या अपि ज्ञानतुल्यत्वात् । अतोत्र मननोपदेशाङ्गीकारो न युक्त इत्याशङ्कय परिहरति । विव क्षितेत्यादि । विवक्षिता वक्तुमिष्टा उपादेयत्वेनाभिप्रेता वा या गुणरूपा लोकान्तरी- यताइ प्राप्तिस्तस्या ब्रह्मज्ञानपक्षेपि भगवत्स्वरूपलाभेन सारूप्यलाभेन वा उपपद्य- मानत्वात् । नच 'यथा ऋतु'रित्यादिना लोकान्तरप्राप्यत्वेन सङ्कल्पानुरूपत्वेन व्यारू. क्तत्वात् कुर्वीतेत्युपदेशयोधितः क्रतुःप्राकृतदेहस्य च हेतुरिति वाच्यम् । परमशान्तस्य पूर्वोपासनया शुद्धान्तःकरणस्याशुद्धसङ्कल्पायोगात् । तदमावे प्राकृतदेहस्याप्ययोगात् । सत्यसङ्कल्पादिवचनेनापि प्राकृतदेहायोग इति चकारार्थः ॥॥२॥ अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ न 'वात्मानं चेद्विजानीयादयमस्मीति पूरुप' इत्यादौ ज्ञेयतया प्रसिद्धस्य जीवस्य मन्तव्यत्वोपदेशो लोकान्तरे विवक्षितदेहप्राप्तिः । 'न वै कचिन्मे मनसो मृपा गति'रिति वाक्यात् सति असङ्कल्पत्वाद्वा सत्यसङ्कल्पत्वम्, व्यापकत्वादाकाशात्मत्वम्, पर्यायेण साहमानितया वा सर्वकर्मवादिकं हिरण्यगर्भे च संगच्छते इति सूत्रद्वयोक्ते वे ब्रह्मणि च तुल्यत्वान्नैकान्ततोऽन ब्रह्मवाक्यत्वनिर्णय इत्याशङ्कय परिहरति । अनुपपत्तेरित्यादि । अस्त्वेवमुपपत्तितौल्यम् , तथापि शारीरः शरीरसम्बन्धी जीवो न वाक्यार्थो भवितुमर्हति। कुतः १ अनुपपत्तेः । प्राणशरीरत्वस्यानुपपद्यमानत्वात् । प्राणशरीर इत्यत्रानन्दरूपं प्राणनकर्ते यत् स्वरूपं तदभिप्रेयते । अतो मनोमय इत्यत्र यथा विकारार्थोद्वापेन श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । प्राचुर्यमुपदेशगोचरः, तथा प्राणशरीर इत्यत्र लौकिकप्राणोद्वापेनानन्दात्मक- प्राणखरूपत्वं तद्गोचरः, तसानुपपत्तिस्तु प्रकृते स्फुटैवेति । नच लौकिकप्राणोद्वापे मानाभावः शङ्कचः । लौकिकस्य शरीरतायाः आध्यात्मिकत्वेनेदानीमप्युपासकस्य प्राणशरीरत्वात्तथोपासनोपदेशानर्थक्यप्रसङ्गस्यैव मानत्वात् । पूर्वपक्षस्यात्रैव निवृत्तत्वात तुशब्दः ॥३॥ कर्मकर्तृव्यपदेशाच ॥ ४॥ ननु प्राणशरीरपदविरोधादन जीववाक्यत्वव्युदासो न युक्तः । तस्य प्राप्तव्यता- दृशरूपात्मकफलाभिप्रायत्वादित्याशङ्कय परिहरति । कर्मेत्यादि । प्राणशरीरविरोधो नैवं परिहर्तुं शक्यः । कुतः । कर्मकर्तृव्यपदेशात् । एतमितः 'प्रेत्याभिसम्भवितास्मीति यस्य सादद्धा न विचिकित्सास्तीति ह साह शाण्डिल्य' इत्यग्रे फलवाक्ये एतमित्य- नेन प्राणशरीररूपं ब्रह्म प्राप्तिकर्मत्वेन ध्यानकर्मत्वेन च व्यपदिशति, यस्य स्यादित्यादि ध्यातृत्वेन प्राप्तत्वेन च शारीरम् । तयोर्मध्ये कस्स प्राधान्य मित्यपेक्षायां यद्यपि फलस्य पुरुपशेपत्वं पूर्वतन्त्रसिद्धम्, तथापि तदचेतनस्य, न तु चेतनस्येति स न्यायो नात्र प्रवर्तते । किन्तु लोकन्यायः । लोके हि यस्य चेतनस्य महत आशासत्वम् , तस्यैव शेपित्वमिति वरणीयस्थले दृष्टम् । तथा ध्येयस्य न ध्यातृशेपत्वमिति तु पूर्वतन्वेऽपि । प्रकृते तूभयमपि ब्रह्मणीति कथमपि जीवशेषत्वं तस न युज्यते । एवं ब्रह्मणः प्राधान्ये तस्यैव प्रकरणित्वादिदं ब्रह्मवाक्यमेव । किश्चात्र कर्मकर्तृपदेन सेवकत्वं चोध्यते । अतोऽपि न शेपित्वम् । किञ्च, भजनीयरूपं यदि न कथ्यते, तदा तादृशं फलं न सिध्यतीत्यतोऽपि तस्य मुख्यत्वमिति ज्ञापनायाधिकरणसम्पूर्णत्वद्योतनाय च चकारः । एवमनेनाधिकरणेनानन्दमयस्यान्तरस्य मनोमयत्वादयो धर्मा विचारिताः ॥४॥१॥ इति प्रथम सर्वत्र प्रसिद्धोपदेशाधिकरणम् । शब्दविशेषात् ॥ ५॥ इदं वाजिनां समानप्रकरण आम्नायते । यथा त्रीहिर्वा यवो या श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन् पुरुषो हिरण्मय इति । अत्र प्रसङ्गादिदं विचार्यते । हिरण्मयः पुरुषः किं जीव उत ब्रह्मेति । नन्वत्रापि पक्षानुल्लेखात् पूर्वाधिकरणशेपत्व- नाधिकरणा । नच विपयवाक्ये पदान्तरदर्शनात्तथेति वाच्यम् । अन्तस्तद्धर्माधिकरणेनैव चारितार्थ्यादेतद्विचारस्यैव व्यर्थत्वादिति चेत् , न । अत्र तद्धर्मों- पदेशस्यास्फुटत्वेन ततो गतार्थताया अभावे विपयभेदस स्फुटत्वेनाधिकरणान्तरत्वस्य युक्तत्वादिति । एवं सिद्धेऽधिकरणान्तरत्वे उपक्रमस्यामञ्जातविरोधत्वेन प्रबलत्वात्तत्र च सूक्ष्मपरिमाणभावणेन जीववावयत्वमेव युक्तम् । यद्यप्ययं न नियमः, आमिक्षाधि. मेव युक्तम्, ७ ५० भावप्रकाशिका | ब्रह्ममूत्रवृत्तिः । करणादावुपक्रमगतस्यापि वैश्वदेवत्वस्य वाजिनयागादायुत्पत्तिशिष्टादिन्यायेन बाधदर्श- नात् , तथाप्युपक्रमोपसंहारयोरन्यतरस्यान्यपरत्वकल्पने न वाक्यस्यैकार्थता सम्भवति । विप्रतिपत्तिनिरासेन वाक्यभेदो न भवति, तस्यैव बलीयस्त्वमिति पूर्वतन्त्र सिद्धम् । तदैकशास्त्र्यादवाप्यादरणीयम् । तत्र छान्दोग्ये त्रीण्येव तेषां वीजानीति श्रावणादत्र जरायुजस्वेदजाण्डजोद्भिज्जभेदेन चतुर्विधानां जीवशरीराणां प्रीह्यादिदृष्टान्तनिरूपणा. र्थमौपाधिकपरिमाणप्रतिपादकमिदमन्तहृदयवचनम् । आराग्रश्रुताचीपाधिकपरिमाण- खापि युद्धिगुणेनोक्तत्वात् । नच हिरण्मयत्वविरोधः । पूर्वाधिकरणसिद्धेन तत्क्रतुन्या- येन तादृगुपासनायां फलतो हिरण्मयत्वस्य शक्यवचनत्वात् । नच तथापि ब्रह्मवाक्य वाङ्गीकारे किं बाधकमिति वाच्यम् । ब्रह्मणो निरवद्यत्वेन जीयाध्यस्थमाननीहियवा- दिरूपशरीरसाम्यस्य तत्रायुक्तत्वात् । अतो जीवप्रतिपादकमेवेदं वाक्यमिति प्राप्ते । ब्रूमः । शब्दविशेषात् । शब्देनोक्तो विशेषः शब्दविशेपस्तस्मात् । हिरण्मयस्सान- 'न्दमयत्वं तद्धर्मोपदेशाधिकरणे सिद्धम् । तच ब्रह्मासाधारणम् । नच तज्जीवस्य फलरूप बोधनायेति वाच्यम् । तसामेव लय इति नियमाभावात् । तैत्तिरीये आदित्यो वा एप' इत्यनुवाकद्वये मध्ये पूर्वस्मिन् हिरण्मयं पुरुषं प्रस्तुत्य, द्वितीये 'आदित्यो वै तेज' इत्या- दिना तद्विभूतिभूता देवताश्चोक्त्वा, तदन्ते 'ब्रह्मणः सायुज्य सलोकतामामोत्येतासा- मेव देवताना सायुज्य सार्टिता समानलोकतामामोति य एवं वेदेति श्रावणेन तत्कतुनियमाभावात् । न च तत्क्रतुश्रुतिबाधः शङ्कचः । यथा क्रतुरित्या पुरुषविशे- पणस्साधिकारस्यापि प्रकारांशे निवेशेन तदभावात् । एतदनिवेशे श्रुत्योः परस्परविरोध- परिहारस्थासम्भवात् । अतः शब्देनैव विशेपस्योक्तत्यान्न हिरण्मयः पुरुपो जीवः, किन्तु ब्रह्मैव ॥५॥ स्मृतेश्च ॥ ६॥ ननु हृदये वर्तमानत्वं जीवासाधारणम् । हिरण्मयश्रुतिस्तु 'विभ्रद्रूप हिरण्मयम्' इति धवप्रसङ्गे वाक्याजीवसाधारणा। अतो जीववाक्यत्वमेवास्त्वितिचेत्, तबाह । स्मृते- रिति । 'ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठती'ति गीतास्मृतेलिङ्गवासाधारणत्वाभा- वान्न तेन जीववाक्यत्वनिर्णय इत्यर्थः । गीताया भगवद्वाक्यत्वे या स्मृतित्वं तथा भाप्यादवगन्तव्यम् । चकारः स्मृतिमूलभूतभगवन्निःश्वासात्मकश्रुतिसमुच्चायकः ॥६॥ अर्भकौकस्त्वात्तदव्यपदेशाच नेति चेन्न निचाय्यत्वादेवं व्योमवञ्च ॥७॥ उपक्रमबलीयस्त्वमाशय परिहरति । अर्भकौकस्त्वादित्यादि । अर्भकम् अल्प- कम् । वर्णविपर्ययः । तादृशं ओकः स्थानं यस्य तादृशत्वात् । तस्य त्रीह्यादिरूपत्वस्य व्यपदेशात् कथनात् । अत्र व्यापकः परमात्मा प्रतिपाद्यो नेति चेत्, न। कुतः । निचा- ..

श्रीब्रजनाथात्मजश्रीकृष्णचन्द्रकृता । ५१ य्यत्वात् । निदिध्यासनानन्तरं हृदये साक्षातक्रियमाणत्वात् । तथाच } व्यापकत्वेऽपि हृदयस्य तवृत्तिलाभस्थानत्वेन स्थानत्वव्यपदेश इति न तत्परमात्मत्वबाधकम् । तर्हि द्वितीयस्य का गतिरित्यत आह । व्योमवदिति । यथा चत्वार उपरवाः प्रादेशमात्राः विलविशेषास्तद्वत् । ते हि 'दक्षिणस्य हविर्धानसाधस्तात् पुरोक्षं चतुर उपरवानवा- न्तरदेशेषु प्रादेशान्तरालान् करोतीति कल्पश्रुत्या विधानादध्वर्युयजमानयोः किमत्र भद्रमित्यादिमन्त्रैः परस्परहस्तग्रहणाय क्रियन्ते । तैलैिः प्रादेशमात्रमाकाशस्वरूपमभि- व्यक्तीक्रियते । तावता किमाकाशस्य व्यापकता भज्यते, अपितुन। तथा चतुर्विधभूतान्त- दये वर्तमानत्वख्यापनाय ब्रीह्यादिस्वरूपत्वमुच्यते । 'अतः परन्नान्यदणीयस हि परात् परं यन्महतो महान्त'मित्येकस्यैव तैतिरीयेऽनेकपरिमाणश्रावणात् । अतः परिमाणवि- रोधस्याप्यभावान ब्रह्मवाक्यत्वभङ्ग इत्यर्थः । पूर्वपक्षसिद्धान्तयोश्चकारद्वयमेतादृशवा- क्यान्तरे पूर्वपक्षसिद्धान्तयो_लक्षण्यस तदुपपत्तीनां च समुच्चयार्थम् । तेन 'अत एव प्राण' इतिवदधिकरणान्तरत्वमिति सूचितम् ॥ ७॥ सम्भोगमाप्तिरितिचेन्न वैशेष्यात् ॥ ८॥ जीवतुल्यतापत्तिरूपबाधकमाशङ्कय परिहरति । सम्यगभिनिवेशेन भोगः स- म्भोगः, सम्यग्भोगो यस्मादिति च सम्भोगस्तयोः प्राप्तिः संभोगप्राप्तिः । यदि सर्वेपी हृदि जीववद्भगवाँस्तिष्ठेत, तदा जीवस्येवास्यापि सुखदुःखसाक्षात्कारस्तत्साधनपरिग्रहश्च तयोरापत्तिः स्यादितिचेत्, न । कुतः ? वैशेप्यात् । विशेषस्य भावो वैशेष्यम् , तस्मात् । सर्वरूपत्वमानन्दरूपत्वं स्वकर्तृत्वं विशेपस्तस्य भावः सत्ता, सा ब्रह्मणि वर्तते, न जीवे, अतो जीवस्यैव भोगो, नब्रह्मण इत्यर्थः । अत्र वैशेप्यपदेनाविवक्षितो भोगो नेति सूच्यते, न तु यावद्भोगाभावः । अन्यथानिमाधिकरण विरोधप्रसङ्गादिति ॥ ८॥२॥ इति द्वितीयं शब्दविशेपाधिकरणम् । अत्ता चराचरग्रहणात् ॥ ९॥ पूर्वाधिकरणे हृदयान्तर्हिरण्मयस्य ब्रह्मत्वसमर्थनेन 'यश्चायं पुरुपे यश्चासावादित्ये स एक' इतिश्रुतिर्विचारिता । तेन सच्चिदानन्दरूपत्वं सिद्धम् । अतः परं तत्र स्थितेः प्रयोजनं विचारयति । तत्र कठवल्लीपु द्वितीयवल्लीसमाप्तौ श्रूयते । 'यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः, मृत्युर्यस्योपसेचनं क इत्या वेद' यत्र स' इति । अस्मिन् वाक्ये ब्रह्मक्षत्रयोरोदनत्वं वदन् मृत्युर्यच्छब्दार्थस्य भोक्तृत्वमाह । तत्र संशयः । किं जीवो ब्रह्म वेति । नवत्र सन्देहो न घटते । ब्रह्मक्षत्रपदयो- रसंकुचितवृत्तित्वेन यावत्तद्ग्राहकत्वाद्यावतोस्तयोः सर्वमारकस्य मृत्योच भक्षकै जीवत्वस्य सम्भावयितुमप्यशक्यत्वादिति चेद, उच्यते । अत्र पूर्वधर्मवत् ओदनोपसेचनरूपण जीववभोक्तृत्वस्य स्थानाज्ञानकथनेन स्वहृदये अभासमानत्वस्य च सूचनेन सम्भाव- .

. . भावप्रकाशिका | ग्रामसूत्रवृत्तिः । नोत्पत्तेः। एवं सिद्धे संशये निपिद्धस्य भोग्यत्वकथनेन भोजनस्य लौकिकतुल्यत्व सूचनेन स्थानाज्ञानकथनेन चोपासनोपचिताली किकसामर्थ्यः कश्चिन्महादेशदिवा भवितुमर्हति । न तु भगवान् । अक्लिएकर्मत्वेन तद्विरुद्धधर्मत्वादिति प्राप्ते । अभिधीयते। अत्तेत्यादि । अत्ता भगवानेव । कुतः? चराचरग्रहणात् । चरः सर्वप्रा- णिवधार्थ परिभ्रमन् मृत्युः, अचरं प्रवाहनयत्यात् केनाप्यचाल्यं ब्रह्म क्षत्रम् । तयोर्ग्रहणात् । अन्तःप्रवेशनात् । न हीदं जीवेन कर्तुं शक्यते । ननु मास्तु जीवः, तथापि मृत्युञ्जयः त्वेन संहारकत्वेन शानदातृत्वेन च महादेवस्य प्रसिद्धत्वान्मुख्यविभूतिरूप एव सोऽस्तु, न तु परमात्मेतिचेत्, न । 'यत्राप्यतिशयो दृष्टः स खार्थानतिलाना दितिन्यायेन तावत्सामर्थ्यस्य तत्र वक्तुमशक्यत्वात् । यथा घमात्यो वा, युवराजो वा, राजकार्य कुर्वन्नपि सर्वेभ्योतिशयवानपि, न राजभोग्यं भुङ्क्ते, तदसाधारण कार्य वा करोति, तद्वदिति लोकन्यायाच्च । नच स एव परमेश्वर इति वाच्यम् । नृसिंहपूर्वतापिनीये 'अनुपनीतशतमेकेनोपनीतेन तत्सम'मित्यारभ्य, गृहस्थवानप्रस्थय तिरुद्रजाप्यथर्वशिरः- शिखाध्यायिपर्यन्तमुक्त्वा, 'अथर्वशिरःशिखाध्यायिशतमेकमेकेन मन्त्रराजजापकेन तत्सम'मिति विद्यावदुत्कर्पस्य नृसिंहमन्त्रराजजापक एव विश्रान्तिश्रावणेन विद्यावदुत्क- पस्य च विद्योत्कर्षाधीनत्वेन तदुत्कर्षस्य च तत्प्रतिपाद्योत्कर्षाधीनत्वेन नृकेसरिणि भगवत्येव विश्रान्त्या तथा वक्तुमशक्यत्वात् । अतः परमेश्वर एवात्ता । नन बाधकानां तर्हि का गतिरिति शङ्कयम् । भोजने लौकिकतौल्यस्यास्मदादिप्रतिपत्त्यर्थत्वेन, 'सदेव सोम्येदमन आसी'दित्यत्र ब्रह्मणः केवलत्वेऽमिसंहितेऽप्यनेपदेन तत्प्रतिपच्यर्थकालो- परञ्जनवदवाधकत्वात् । नच भोग्यस्य निपिद्धत्वमपि बाधकम् । निपेधस्य जीवेऽपि देह- सम्बन्धानन्तरमेव प्रवृत्तेरनुज्ञापरिहारसूत्रे वक्ष्यमाणत्वात् । अशरीरे ब्रह्मणि तदप्रवृत्तेस्तं प्रति निपिद्धत्वाभावात् । अन्यथा प्रलयेऽपि हिंसायास्तौल्यात् प्रलयकर्तृत्वस्यापि अयुक्त- स्वापत्तेः । प्रलयाभावापत्तेश्च । अतः प्रलयवद्भोजनस्यापि नायुक्तत्वम् । नापि स्थानाज्ञानं बाधकम् । सर्वत्र विद्यमानत्वेऽपि 'हन्त तिरोऽसानी'ति श्रुतेः सृष्टयनन्तरं तिरोधाने. नाज्ञायमानतया तस्यादोपत्वात् । नच क्लिष्टकर्मत्वं शङ्कयम् । मोक्षणीयानामेवाबाद- नीयत्वेन अभप्रितेतया, तेषां देहसम्बन्धस्य निवर्तनीयतया यथा तण्डुलानां वयादि- सम्बन्धेनावयवशैथिल्ये विक्लतावोदनत्वम् , तथात्र मोक्षणीयानां भोक्तरि भगवति प्रवेश- मात्रेण योग्यरूपत्वमेव ओदनत्वम् । यथा कंसादीनां कुरुपाण्डवसैन्यानां च । अत एव 'तदेव रूपं दुरवापमाप' ' यासन्त्यदर्शनमलं बलभीमपार्थव्याजाह्वयेन हरिणा निलयं तदीय'मित्यादीनि वाक्यानि । लौकिकेऽपि भिपक्कृतस्य दुश्चिकित्स्यत्रणादिविदारणस्य लिष्टत्वेऽपि परिणामसुखदत्वेन यथा न क्लिष्टकर्मत्वम्, तद्वदस्सापीति न दोपलेशोऽपि । नचैवं मृत्योरुपसेचनत्वासम्भवः । अशनाया मृत्युरेवेत्येकमृत्युपक्षे मुच्यमानब्रह्मक्षत्र प्राणानाम्, 'अत्रैव समवनीयन्ते प्राणा' इति श्रुतेर्ब्रह्मण्येव लयेन प्राणधर्मात्मकोऽशनायादि- श्रीवजनायात्मजश्रीकृष्णचन्द्रकृता। रूपो मृत्युरपि तेषां जन्ममरणाद्यभावाय भगवत्येव प्रविगतीति तस्योपसेचनताया अपि मुसेन सम्भवात् । अतो दोपाभावादन भगवानेवाति सिद्धम् ॥ ९ ॥ प्रकरणाच ॥ १०॥ ननु चिपयवाक्ये पक्षादियोधपदाभावेन चराचरादिपदैर्मस्वादिगतं धर्म योगे- नादाय तद्ग्रहणस्य लिङ्गत्वं कल्पयित्वास ब्रह्मवाक्यत्वकल्पनापेक्षया पूर्वपक्षोक्तानां निपिद्धत्वादीनां शीघं युद्धावारोहाजीव एवार ग्रहीतुमुचितः । स चेत् साधारणो न समर्थः, तदा संहारेऽधिकतो यमो देवतारूपं मृत्यु साधनीकृत्य, देवतारूपो मृत्यु रोगादिरूप मृत्यु साधनीकृत्य ब्रह्मक्षत्रोपलक्षितं सर्व प्राणिजातं वशीकरोतीत्येव युक्तमिति जीयवा- क्यत्वमेवास्यादरणीयमित्याशङ्कयाह । प्रकरणादिति । अत्र हि जीवप्रश्नोत्तरश्रवणानन्तरं 'अन्यत्र धर्मादन्यत्राधर्मादिति प्रश्नान्तरे कृते, 'सर्वे वेदा यत् पदमामनन्ति' इत्यादिना प्रकरणान्तरं प्रवृत्तमत इदं ततोऽतिरिक्तस ब्रह्मणः प्रकरणम् । तत्र 'सर्वे वेदा यत्पद'- मिति मन्त्रे संक्षेपेण कथनं प्रतिज्ञाय, ॐकारस संक्षेपरूपतामुक्या, एतदेवाक्षरं ब्रह्मत्या- दिमन्त्रद्वये सर्वफलदायकत्वादिना तं प्रशस्य, 'न जायते न नियत' इत्यादिभिरष्टभिर्म- न्त्रैस्तत्प्रतिपाद्यस्य ब्रह्मणो माहात्म्यं वदन्नन्ते, तस्यैवात्तृत्वं मृत्युरेवाह । तद्यदि देवता- रूपो मृत्यु, यमो या अत्तृत्वेनाभिप्रेतः स्यात् , तदा 'न जायते न नियत' इति मन्त्रे तस्य जननमरणामावं न वदेत् । श्रुतिपुराणेषु उभयोरपि जन्यत्यादिकथनात् । तथा 'आसीनो दूरं ब्रजति' इति मन्त्रे, 'कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हती'ति स्वस्य तस्य च भेदेन ज्ञातज्ञेयभावं च न वदेत् । अत इदं मृत्वादिदेवताव्यतिरिक्तस्य ब्रह्मण एव प्रकरणम् , अतो यथा आसीनादि मन्त्रेषु विरुद्धधर्माधारवादिरूपं तन्माहात्म्यमुच्यते, तयात्रैवंविधा- तृत्वरूपं माहात्म्यमुच्यते । ततः प्रकरणानुरोधादपि ब्रह्मवाक्यत्वमिति । अन्यथा प्रक- तहानाप्रकृतकल्पने सातामिति चकारार्थः ॥ १० ॥ ३ ॥ इति तृतीयमत्ता चराचरेत्यधिकरणम् । गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥ एवं पूर्वाधिकरणे भोगः प्रतिपादितः। स भोगो व्यापिवैकुण्ठे वा ब्रह्माण्डे वास्तु, न त्वन्तर्हृदयेऽपीत्याशङ्कावारणायोपोद्घातसङ्गत्येदमधिकरणमारभ्यते । तत्र काठक एव तृतीयवल्लयारम्भे श्रूयते, 'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टी परमे परार्धे छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्मयो ये च त्रिणाचिकेता ' इति । अत्र पुरःस्फूर्तिको वाक्यार्थस्तु, ऋवं सत्यं सुकृतस्य सम्यक्कृतस्य कर्मणः फलं पिबन्ती भुञ्जानौ लोके अस्मिन् शरीरे । गुहामिति सप्तम्यर्थे द्वितीया । गुहाया विशेषणं परमे परार्ध इति । परमत्वं स्थानान्तरापेक्षया उत्कृष्टत्वं, परार्धत्वं ब्रह्मणः स्थानत्वम् । तत्र हि भक्तैर्जानिमिरुपासकैश्च ब्रह्मोपलभ्यते इति, तौ छायातपौ संसारित्वासंसारित्वाभ्यां भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः । धर्माभ्यामितरेतरविलक्षणी ब्रह्मविदो वदन्ति कथयन्ति । न केवलं त एव कथयन्ति, किन्तु पश्चाग्न्युपासकाविणाचिकेताः, त्रिःकृत्वो नाचिकेतोऽनियश्चितस्तादृशाः कर्मि- णस्तेऽपि वदन्तीति । मुख्योऽस्त्वग्रे भाप्यानुसारी वक्तव्यः । तत्रायं संशयः । किमिदं जीववाक्यमाहोस्विद ब्रह्मवाक्यमिति । ननु कयमन संशय इतिचेत्, इत्थम् । इदं वाक्यं वल्ल्यारम्भे पठितम् । इतः पूर्व तु ब्रह्म प्रकृतम्, अग्रे तु जीवः । एतस्य तु मध्ये पाठात् किंशेपत्वमिति निर्णयाभावादेवं सन्देहः । नच पूर्व- वल्लचाः समाप्तत्वादस्यानिमशेषत्वमेव युक्तम् । 'स्वार्थबोधे समाप्तानामङ्गाशिवा- द्यपेक्षया। वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते इति पूर्वतन्त्रे निर्णयात् कया- चित्सङ्गत्या पूर्वशेषत्वस्यापि शक्यवचनत्वात् । नवं सति समाप्तेः प्रागेव पठितं स्वाद, अत उत्तरशेपत्वमेव युक्तमिति शङ्कयम् । तथा-स'त्यात्मानं रथिनं विद्धी'त्येतदनन्तरमेव पठितं स्यात् । अतो न प्रकरणेन निर्णयः । तत्र च प्रकरणापेक्षयार्थस्य बलिष्ठत्वाद- र्थेन निर्णयोऽस्त्विति वाच्यम् । तस्यापि सन्दिग्धत्वात् । तथाहि । अत्र द्विवचननिर्दे- शाद बद्धावङ्गीकार्यों । तत्रास्य पूर्वशेषत्वे बद्धमुक्तौ जीवौ शक्यवचनौ । 'हन्ता चेन्म- न्यते हन्तु'मित्यनेन बद्धजीवस्य, 'मत्वा धीरोन शोचती'त्यनेन मुक्तम्योक्तत्वात् । तद- नन्तरपठितमन्त्रगतस्य द्वित्वस्य तद्विपयत्वप्रत्यभिज्ञानाद, न तु जीवपरमात्मानौ । अनश्ननिति श्रुत्या परमात्मनो भोगनिषेधादिति । एवमुत्तरशेपत्वे इन्द्रियमनसी शक्ये । 'यस्त्वविज्ञानवान् भवती'त्यादौ तयोरेवाग्रे निरूपणात् । नच पिबन्ताविति पानकर्तृत्व- व्यपदेशस्यानुपपत्तिः । एधांसि पचन्तीतिवत्करणे कर्तृत्वोपचारेण तदुपपत्तेः । येत्र पूर्वपक्षे बुद्विजीवावङ्गीकुर्वन्ति । तन्मते केवलायां बुद्धवाविवास्मन्मत इन्द्रियमनसोयो- रपि कर्तृत्वोपचारात् । अत्र गोर्द्वितीयाऽन्वेष्टव्य इत्यादौ संख्यापूरणस्य सजातीयेनैव दर्श- नेन सिद्धान्ते बुद्धिग्रहणवदत्रापि जीवग्रहणानौचित्यात् । अतः पूर्वशेषत्वे वा उत्तरशेपत्वे वा न ब्रह्मवाक्यत्वम् । नच येयं प्रेते विचिकित्सा मनुष्ये इति जीवस्य, अन्यत्र धर्माद- न्यत्राधर्मादिति ब्रह्मणश्च पूर्व पृष्टत्वात् पूर्वशेषत्वाङ्गीकारे जीवपरमात्मानौ सुखेन सम्भवि- प्यत इति युक्तम् । असङ्गतत्वात् । तथाहि । अत्र ब्रह्मणो मुख्यत्वेन भोक्तृत्वप्रतिपत्तये परमात्मनिरूपणमत्राङ्गीकार्यम् । सा तु द्वयोस्तुल्यतया मुख्यत्वप्रतिपादनाद् दुर्घदेत्ये. वमुपगमस्यापार्थत्यादिति । नचोपनिषदां ब्रह्मविद्यात्वातासु निर्धारितमेवोच्यत इति द्वयो ऋतपातृत्वमन्यत्रानिर्णितमत्र निर्णेतुं प्रवृत्तं वाक्य मिन्द्रियमनसोर्ग्रहण उपचारदोपेण दुप्येदिति तदभावायास्य जीवब्रह्मपरत्वाङ्गीकारात्तयोचावस्थाभेदेनैव भिन्नतया वस्तुत ऐक्याद्वाक्यस्योभयपरत्वेपि न ब्रह्मवहानिरित्यपि युक्तम् । प्रकरणस्यार्थस्य चोक्त- रीत्या संदिग्धत्वेन तयोरनिर्णायकतया विचारस्य कर्तुमशक्यत्वात् । अविचारे च ब्रह्मवाक्यत्वानिर्धारात् । नचायमुपचार एव निर्णायक इति शङ्कयम् । अभेदे भेदोप- चारस्य सिद्धान्तेऽपि सचात् । नच तुल्यतायामपि छायातपशब्दार्थविचार एकस्सा- - श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता। पकर्ष इतरस्योत्कर्पश्व प्रतीयत इति तदर्थविचारे पदशक्त्या विशेषप्रतिपत्ती सत्यामस्स ब्रह्मवाक्यत्वनिर्णय इति शङ्कयम् । तदापि अमुक्तमुक्तजीवौ वा जीवपरमात्मानौ वेति सन्देहानिरासात् । उत्कर्षानुत्कर्पयोरेवमपि प्राप्तः। अतः कथमप्यनिर्णयात् किं जीवा- दिवाक्यमुत ब्रह्मवाक्यमिति संशयो दुरुद्धरः । तत्र यद्यस्मिन्मन्त्रे ब्रह्म प्रतिपाद्यं स्यात्, तदा पूर्ववल्ल्यामिवैतन्मन्त्रेऽप्युपास्यत्वेन प्राप्यत्वेन च ब्रह्मोच्येत, न तु साम्येन भोक्त- त्वेन ब्रह्मप्रतिपादकमिदं, किन्त्वग्रे, यस्तु विज्ञानवान् भवतीति यस्त्वविज्ञानवान् भव- तीतिवत् विद्वदविद्वज्जीवयोर्वक्तव्यत्वात्तदर्थमुभयविधजीवनिर्देश एव प्रथम युक्तः। नच मन्त्रवर्णासङ्गतिः । मन्त्रे ऋतपदेन स्वर्गापवर्गलक्षणं द्विविधं सुखमुच्यते । प्रवृत्तिनिवृ. त्तिलक्षणस्य मार्गद्वयसापि विहितत्वात् सुकृतत्वेन तज्जन्यशरीरस लोकत्वम् । तत्र तत्त- दुपयोगी विचारो गुहेव गुहेति । यदि गौणी नाद्रियते, तदा हृदयाकाशोऽस्तु । नच विचारादेभिन्नत्वाद् द्विवचनं शङ्कयम् । जात्यपेक्षयैकवचनस्यापि युक्तत्वात् । तां प्रविष्टौ परमे परार्धे इति । परश्चतुर्मुखो मीयते ज्ञायत इति तादृशे परार्धे उत्तमे सत्यलोके । तत्रोभयोः शतजन्मीनखकर्मशुद्धस कर्मिणो वेदान्तविज्ञानसुनिश्चितार्थस्य (संन्यासिनश्च भोगादिति । अविद्यया पिहितप्रकाशत्वादविदुपश्छायात्वं, ब्रह्मज्ञानेनातिप्रकाश- त्वाद् विदुप आतपत्वम् । अत एव विदुपः स्वरूपं ब्रह्मविदो वदन्ति । पञ्चाग्न- यस्त्रिणाचिकेताश्वेतरमित्येवं सङ्गतेः । तस्माद् बद्धमुक्तजीवपरमिदं वाक्यम्, न ब्रह्म- परमिति पूर्वपक्षे प्राप्ते । उच्यते । गुहां प्रविष्टावात्मानावित्यादि । गुहा हृदयाकाशस्तत्र सकृदे- कदैव प्रविष्टौ जीवपरमात्मानावेव । कुतः । तदर्शनात् । 'अनेन जीवेनात्मनानु- प्रविश्य नामरूपे व्याकरवाणी'त्युभयोर्जीवब्रह्मणोरेव सह प्रवेशस्य श्रुतौ दर्शनात् । नचात्र सहपदाभावाजीवरूपेणैव ब्रह्मप्रवेशात् करणाथैव तृतीयास्त्विति वाच्यम् । 'गुहाहितं गहरेष्टं पुराण, यो वेद निहितं गुहायां परमे व्योम'नित्यादौ श्रावितस्य गुहाहितत्वादेः स्वस्वरूपेण प्रवेशं विनानुपपद्यमानतया सहपदाभावेऽपि तथाङ्गीका- रस्यावश्यकत्वात् । नचात्र जीवेनेति जात्येकवचनाजीवद्वयप्रवेश एवास्त्विति शङ्कयम् । एकेनैव कार्यसम्भवे द्वयोः प्रवेशस्य वैयर्थ्यात् । ननु भवतूभयोः प्रवेशः, तथापि द्वा सुपर्णे'त्यत्र ब्रह्मणो भोगाभावकथनान्मन्त्रार्थस्य कथं सङ्गतिरितिचेत् । इत्थम् । पूर्वाधि- करणे वैशेष्येण भोगस्य साधितत्वाद् द्वा सुपर्णमन्त्रेऽपि न यावद्भोगनिषेधः, किन्तु जीववद्भोगस्यैव निषेधः । सिद्धे च भोगे मन्त्रार्थ एवं योध्यः । ऋतः सत्यं परं ब्रह्मेति, तस्मात् तत् सुकृतमुच्यत इति श्रुतिभ्याम् ऋतं सुकृतं च ब्रह्मैव । पष्ठी तु राहोः शिर इतिवदभेदेऽपि भेदोपचारात् । लोकोऽक्षरम् । परमे परार्धे इति सामीप्ये सप्तमी । सत्यलोकसमीपे । छाया अतिसारूप्यं, सायुज्यं प्राप्तस्य जीवस्यापि तथात्वात्ततोगपि विशिष्टं ब्रह्म प्रकटानन्दत्वादातपः । तथाच परमपरार्धात्मकसत्यलोकोपरितने अक्षरा- ५६ भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः। स्मके ब्राह्मशरीरे गुहां हृदयाकागं प्रविष्टी मुकृतात्मकत्रमाभिन्नं तं स्वरूपामृतं पिबन्ता- वनुभवन्ती मुक्तजीवपरमात्मानौ ब्रामवित्प्रभृतयश्छायातपी बदन्तीति । एतस्यार्थस्य युक्तत्वाय सूत्रे हिशब्दः । नन्वस्त्वे तथापि तयोरखाप्रकृतत्वाच्छन्दनासंशब्दितत्वाच कथं तल्लाभ इति शङ्कयम् । सूत्रे तद्दर्शनादित्यस्य तयोर्दर्शनं तदर्शनमित्यर्थन विपय- वाक्यस्थयोर्येयं प्रेते विचिकित्सा मनुप्य इति, अन्यत्र धर्मादन्यत्राधर्मादिति मन्त्राभ्यां पृष्टयोर्जीवत्रामणोर्मध्ये पूर्ववल्ल्यां नमगो निरूपितत्वादनाने जीवस्य निरूप्यत्वाचो- भयोः सिद्धावेतन्मन्त्रे तुल्यतया महाभोगनिरूपणार्थ तयोरेय स्वरूपकीर्तनस्य लाभा- दिति । तस्माद ब्रह्मवाक्यमेवैतदिति सिद्धम् ॥ ११ ॥ विशेषणाच ॥ १२॥ पूर्ववल्लचामणोरणीयानित्यादिमन्त्रेषु द्रष्टद्रष्टव्यत्वप्रसाद्यप्रसादाहत्ववरणकलभ्यत्व- वरणीयत्वरूपोभयविशेषणाद, अस्यां वरल्यामात्मानं रथिनं विद्धीति सन्दर्भ, 'सोऽध्वनः पारमाप्नोति तद विष्णोः परमं पद'मिति प्राप्तृत्वप्राप्यत्वरूपाविशेषणाचेदं ब्राह्मवाक्य- मेवेत्यर्थः । द्वा सुपर्णेति श्वेताश्वतरमन्त्रस्तु न सन्दिग्धः । 'समाने वृक्षे पुरुषो निमग्नो अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमांनमिति वीतशोक' इति समनन्तरमन्त्रे जीवपरमात्मनोरेवोक्तत्वेन पूर्वस्मिन्नपि तयोरेव निथयादिति । सूत्रे चकारस्तु प्रकरणोक्तसर्वोपपत्तिसमुच्चायकः ॥ १२ ॥ ४ ॥ इति चतुर्थ गुहां प्रविष्टावित्यधिकरणम् । अन्तर उपपत्तेः ॥ १३ ॥ अतीतेपु त्रिप्यधिकरणेपु प्रथमे वैशेष्येण भोगवाधकं परिहत्याग्रिमे चराचरग्रह- णयुगपदुभयप्रवेशाभ्यामुभय विधो विवक्षितो भोगः साधितः । तत्र किं वैशेप्यमि- त्याकामयां तन्निर्णतुमुपोद्घातेनेदमधिकरणमारभ्यते । तत्र छान्दोग्ये पष्ठप्रपाठकोप- कोशलविद्यायां श्रूयते । 'य एपोऽन्तरक्षिणि पुरुषो दृश्यत एप आत्मेति होवाचैतदमृ- तमभयमेतद् ब्रह्मेति, तद्यद्यप्यस्मिन् सर्पिर्बोदकं वा सिञ्चति वर्मनी एव गच्छती- त्यादि । वाक्यार्थः कं ब्रह्मेतीत्यन्तं पुरःस्फूर्तिकः स्फुट एव । अग्रे तु पूर्ववाक्ये यदा- चार्येणोक्तम् । 'अहं तु ते तद् वक्ष्यामि यथा पुष्करपलाश आपो न लिप्यन्त एवमे- विदि पापं कर्म न लिप्यत' इति फलम् । तत्र निदर्शनं च स आह । तद्यद्यपीत्यादि। तत् तत्र इदं निदर्शनम् । यद्यप्यस्मिन्नक्षिपुरुपस्थानभूते अक्षिणि सर्पिी उदकं वा सि- नति, धारया भूयः पातयति, वर्त्यांनी अक्ष्यावरणादि भूते पक्षमणी एव गच्छति प्राप्नोति । ते एवा स्निग्धे च भवतो, न त्वक्षि । तथाच यत्स्थानस्येदृशं माहात्म्यं तस्य ज्ञाने सति पापं न लिप्यते इत्यत्र किंवाच्यमित्यर्थो बोध्यः । इदं वाक्यं प्रतिविम्बपुरुषस्य त्र- यत्वेनोपासनापरम् ? उत ब्रह्मवाक्यमिति । नचात्र दृश्यत इति पदेन दर्शनविषयत्वस्यो- श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रंकृता । - तत्वाद् ब्रह्मणवादृश्यत्वात् संशय एव न घटत इति वाच्यम् । अमृतत्वादीनां ब्रह्मधर्माणां श्रावणेन तत्त्वज्ञानजनितालौकिकसामर्थ्यकृतदर्शनस्य शक्यवचनतया तदुदयसम्भवात् । तत्र दृश्यत इति वचनाद्, एमा सोम्य तेऽस्मद्विद्या आत्मविद्या चेत्यग्रीनां वाक्ये ब्रह्मा- विद्योपसंहारदर्शनाच्च प्रतिविम्ब एवायमिति युक्तम् । अन्यथा उपसंहारदर्शनविरो- धापातात् । नचाभयादिपदविरोधः शङ्कयः । उपासनार्थतया सुखेनान्वयादित्येवं प्राप्ते । अभिधीयते । अन्तर इत्यादि । अन्तरः अक्षिमध्ये स्थितः परमात्मैव । कुतः ? उपपत्तेः । सर्वत्र ब्रह्म पश्यतः स्वसन्निधाने अक्षिरूपस्य स्थानस्य जलाद्यसंश्लेपेण माहात्म्य- बोधकतयोत्कृष्टत्वात्तत्र भगवन्तमुपदिशतीति दर्शनस्य स्वल्पस्यानस्य चोपपत्तेः । नचो- पसंहारदर्शनस्य बाधकत्वं शक्यम् । उपकोसलेन ब्रह्मोपदेशेऽपहुतेऽपीमे नूनमीदृशा अन्यादृशा इति वदता आचार्येणाग्निकृतोपदेशे ज्ञाते, तत उपकोसलेनाचार्याज्ञयाजन्यु- तेऽनूदिते, आचार्यः कं ब्रह्म खं ब्रह्मेति अग्निवाक्यस्य 'लोकं वाव किल तेऽवोच'नित्य- नेनात्मप्राप्यं ब्रह्मार्थत्वेनोक्त्वा, 'अहं तु ते तद् वक्ष्यामीति प्रतिज्ञाय, य एपोऽक्षिणि इत्यादिना तत्प्राप्तिप्रकारं चोक्तवानिति महता प्रबन्धेन पुनरुपक्रमेणोपसंहारविरोधस्या- भावात् । नच प्रकरणस्य श्रुत्यपेक्षयातिदुर्बलत्वात्तदनुरोधेन दर्शनश्रुतिसकोचोऽनुचित इति वाच्यम् । दर्शनविपयस्य पुरुपत्वानियमात् । अन्येपामपि प्रतिविम्बदर्शनेन तथा निश्चये विपयवशेन दर्शनश्रुतिसङ्कोचस्य पूर्वपक्षिमतेऽपि तौल्यात् । प्रकरणविरोधस्या- धिक्याच । अतो विरोधाभावादिदं ब्रह्मवाक्यमेव ॥ १३ ॥ स्थानादिव्यपदेशाच ॥ १४ ॥ पूर्वसूत्रोक्तस्य हेतोर्वादकवलितत्वाद्धेत्वन्तरमाह । स्थानादिति । स्थानमादि- येंपाम् । अतद्गुणसंविज्ञानः । तेषां व्यपदेशात् । अक्षिपुरुषमेव निर्दिश्य, 'एत संयद्वाम' इत्याचक्षते, एतं हि सर्वाणि वामान्यभिसंयन्ति, एप उ एव वामनीरेप हि सर्वाणि, वामानि नयति, एप उ एव भामनीरेप हि सर्वेषु लोकेषु भातीति कथनात् । कर्मणां फलार्थ करणात् । तेषां मनोहरत्वेन वामत्वम् । संयन्ति वामानि यत्रासौ संयद्वामः । शेपं स्फुटम् । अत्र कर्मफलं कर्मफलदानं च, ततः सर्वेषु लोकेषु भानं च तस्योक्तम् । न हीदं प्रतिविम्बात्मनः सम्भवति । तथाच पूर्वोक्तहेतोर्वादकवलितत्वेऽपि तेभ्योऽसा- धारणधर्मेभ्योऽत्र ब्रह्मैव मन्तव्यमित्यर्थः । चकाराच्छान्दोग्य इन्द्रविरोचनसंवादेपि प्रथमपर्याये, य एपोऽक्षिणीत्युपक्रम्यैतद् ब्रह्मेत्यन्तमेवमेवोपदिष्टत्वात् तत्राप्येवमेव योध्यमिति सूचितम् ॥ १४॥ सुखविशिष्टाभिधानादेव च ॥ १५॥ ननु किमित्येवं ब्रह्मवाक्यत्वं निर्बन्धेन प्रतिप्राद्यते, उपासनापरत्वमेवाद्रियताम्, प्राञ्जलवादित्यत आह । सुखविशिरेत्यादि । एतदमृतमभयमेतद् ब्रह्मेति सुखविशि- + ८ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। शाभिधानात् । छान्दोग्ये भूमानं मुखस्वरूपमुपक्रम्य, यो चै भूमा तदमृतमिति श्राव- णादमृतमानन्दः । वृहदारण्यके ज्ञानोपदेशोत्तरमभयं वै जनक प्राप्तोऽसीत्युपसंहारादभयं ज्ञानम् । सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्र प्रथम सत्यपदाद् ब्रह्म सत् , अत्र ह्येतद्विशेषणत्रयं पूर्व- मभिधाय, तदनन्तरं संयद्वामत्वादीनां तद्धर्माणां कथनाद्यदग्निभिः कंपदेन सुखविशिष्टं ब्रह्मरूपमुक्तं तदत्रैप इत्यनेनाक्षिपुरुपं निर्दिश्य एतद्वाक्यं प्रवृत्तमित्येतद ब्रह्मवाक्यमि- त्यर्थः । यद्यपि सचितोरपि ब्रह्मात्मकत्वम्, तथापि तयोर्यथायथं जडे जीचे च प्रव्यक्तत्वे- नानकान्तिकत्वात्तदनुक्तिः । एपा मुख्योपपत्तिरिति बोधनाय सूत्र एवकारः । चकारः सञ्चितोरपि समुचायकः । तस्माद् ब्रह्मैवाक्षिपुरुषः ॥ १५ ॥ श्रुतोपनिपत्कगत्यभिधानाच ॥ १६ ॥ एवं स्वरूपतो निर्णीय फलस्य तात्पर्यलिङ्गत्वात् फलतो निर्णयमाह । श्रुतेत्यादि । श्रुता उपनिपद् ब्रह्मविद्या येन, तस्स ब्रह्मविदो या गतिश्छान्दोग्ये एव, अथ यदु चैवा- स्मिन् शव्यं कर्म कुर्वन्ति, यदि च न, अर्चिपमेवाभिसंयन्तीत्युपक्रम्य चन्द्रमसो विद्यु. तमित्याद्युक्त्वा तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयति, एप देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते इति । इयं चामिविद्यायामुक्त्वा तस्या ए- यात्राक्षिपुरुपमुपक्रम्याभिधानादप्यक्षिपुरुपो ब्रह्मैवेति । चकारस्तूक्तसमुच्चयार्थः ॥१६॥ अनवस्थितेरसम्भवाच नेतरः ॥ १७ ॥ इदमेवाधिकरणं पुननिषेधमुखेन विचारयति । नन्वत्र प्रतिविम्बपुरुपस्योपासना ब्रह्मत्वेन कर्तव्योच्यते । सा च ब्रह्मधर्मव्यपदेश एव सिध्यति, अतः अमृतत्वमारभ्य गत्य- न्ताः सर्वा अप्युपपत्तयो गोण्या व्यपदेशेन सङ्गता भवन्तीति नेदं ब्रह्मवाक्यमिति प्राप्ते । अमिधीयते । नेतर इत्यादि । इतरः प्रतिविम्बपुरुषो न वाक्यार्थः । कुतः । अनव- स्थितेः । अस्थिरत्वात् । अयमर्थः । त्वया हि दृश्यत्वकथनात् प्रतिविम्बपुरुषो वाक्या- र्थत्वेनापाद्यते । तत्रेदं विचारणीयम् । किमाचार्येण स्वचक्षुर्गत उपदिश्यतेऽन्यचक्षुर्गतो था। आये वयतुस्तददर्शनेन तत्कथने यथादृष्टार्थवादित्वाभावाढवतुरनाप्तत्वादुपदेश- स्याप्रमाणतया अस्थिरत्वम् । द्वितीय तु द्रएरि सत्येव भानात् तदपगमे चापगमात् प्रतिविम्बस्यवास्थिरत्वम् । द्रष्टरि सद्वितीये प्रतिविम्बस्यापि तथात्वनैकत्वोपदेशविरो. धादस्थिरत्वम् । उपासनाकाले चित्तस्थर्यायाक्षिनिभीलने प्रतिबिम्बमात्रस्याभावेनोपा- स्यामावादुपासनायाः मुत्तरामस्थिरत्वम् । यदि च द्वितीयं विना तदसम्भवात् पनीद्वितीय- सामिहोत्रादियदकत्वं मुख्यपरमङ्गीकृत्य सद्वितीयस्यैवात्रोपासनोपगम्यते, तदा तु यायथवणकाले, श्रोतुरेकत्वादुपामनाकाले च तस्य मद्वितीयत्वाच्ट्रवणमननयोः प्रकार- मैदनोपामनाया वरूप्यादस्थिरत्वम् । यदि च श्रवणदगायां वक्तुःमचारूप्यं परिहियते, तदा तु वय महितीयत्वाद् गुरोनियन्धापत्या तस्याः कर्तुमशक्यत्वेन च मुतराम- श्रीब्रजनाथात्मजश्रीकृष्णचन्द्रकृता। पासनाया अस्थिरत्वम्। किञ्च, मनसा ह्युपासनम् , तत्र च प्रतिविम्बस्य सन्निधापयितुम- शक्यत्वादसम्भव एव । चकारेण प्रतिविम्बस्सात्मत्वामृतत्वयोरसम्भवे प्रतिबिम्बपरत्व उपासनाया आसुरत्वं च संगृह्यते । तस्मादक्षिस्थाने व्यापकः सर्वतः पाणिपादान्तत्वादा. नन्दमूर्तिभंगवानेवोच्यत इति सिद्धम् ॥ १७ ॥ ५॥ इति पञ्चममन्तर उपपत्तेरित्यधिकरणम् । अन्तर्याम्यधिदैवादिपु तद्धर्मव्यपदेशात् ॥ १८ ॥ पूर्वाधिकरणे भोगलक्षण्यसाधक वैशेप्यमक्षिपुरुष उपपादितम् । वाजसनेयिनां मण्डलनामणे, ‘स एप एवेन्द्रो योऽयं दक्षिणेऽक्षन् पुरुषोऽथेयमिन्द्राणी'त्यादिना हृदय- देश तयोर्भोगस्य श्रवणात् । अतःपरं तदेव वैशेप्यममृतत्वादन्तर्यामिणि सर्वहृदयदेशपति- न्यस्तीति चोधनायेदमधिकरणमारभ्यते । काण्वमाध्यन्दिनयोवृहदारण्यके श्रूयते । 'य इमं च लोकं पर च लोकं सर्वाणि च भूतान्यन्तरो यमयतीत्युपक्रम्या,'यः पृथिव्यां ति- टन् पृथिच्या अन्तरो यं पृथिवी न वेद यस पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येप त आत्माऽन्तर्याम्यऽमृत' इति । एतद्न ईदृशान्येव अग्न्याकाशवायबादित्यचन्द्रतारकदिर- विद्यत्स्तनयित्नुवाक्यानि । तत्समाप्ती, इत्यधिदैवतमित्युपसंहारः । ततः सर्वलोकः सर्व- वेदः सर्वयज्ञः सर्वभूत इति वाक्यानि । तेपु, अधिलोकम्, अधिवेदम् , अधियज्ञम् , अधिभूत- मिति क्रमेणोपसंहारः। ततः प्राणवाक्चक्षुःश्रोत्रमनस्त्वक्तेजस्तमःरेतःप्रभृतीन्यात्मान्तानि वाक्यानि । तेप्वध्यात्मगित्युपसंहारः। काण्यपाठे त्वन्तरिक्षमधिकम् । आत्मस्थाने च वि- ज्ञानं पठ्यते । ततः, अदृश्यो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता ना- न्योऽतोऽस्ति द्रष्टा,नान्योऽतोऽस्ति श्रोता,नान्योऽतोऽस्ति मन्ता,नान्योऽतोऽस्ति विज्ञातैप त आत्माऽन्तर्याम्यऽमृतोऽतोऽन्यदात'मिति । माध्यन्दिनपाठे तु, स त आत्मेत्युच्यते । वाक्यार्थस्तु य इमं च लोकमेतजन्मीनं देहं, परं च लोकं जन्मान्तरीयं देह, सर्वाणि भूतानि ब्रह्मादितृणस्तम्बान्तानि पृथिव्यादीनि वा, अन्तरः अभ्यन्तरवर्ती सन् यम- यति स्वेच्छानुरूपं व्यापार कारयति, इत्येवं कार्यद्वारातं ज्ञापयित्वा तत्स्वरूपप्रश्ने उद्दा- लकेन कृते याज्ञवल्क्यस्तदुक्तभन्छ, यः पृथिव्यामित्यादीनि वाक्यान्याह । तत्र यः पृथिव्यां तिष्ठन् सोऽन्तर्यामीत्युक्ते आधारात्मकजडव्यावृत्तावपि तत्रांवस्थितेषु प्राणि- प्यतिप्रसङ्ग इति तद्वारणाय, यं पृथिवी न वेदेति, पृथिव्यभिमानी यं न जानाति । तेन ततोऽमिन्नाजडाजीवाच भेदेऽपि तस्य तत्र स्थितेः प्रयोजनं वक्तुं, यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयतीति । तथाच, 'गामाविश्य च भूतानि धारयाम्यहमोजसेति भूतधारणकार्यार्थ सशरीरं तनियमनं च तस्य सिद्धयर्थम् । अनियमने तद्विसंमतौ तत्कार्य न सिध्येदिति । अत्र द्वितीयमन्तरपदं नामधातुनिष्पन्नम् । अन्तरं करो. त्यन्तस्यतीत्यन्तर इति तदन्तःस्थापकत्वयोधनार्थम् । अन्यथा पौनरुत्यापत्तेरिति । एवं प्रकारेण सर्वत्र बोभ्यः ।

६० - - भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः । अत्र प्रश्नवाक्येऽनुक्तानां धर्माणां कथनं याज्ञवल्क्यस्यान्तर्यामिज्ञानज्ञापकम् । तत्र संशयस्तु, किमन्तर्यामी सर्वत्रैकः परमात्मा, उत दैवादीनामभेदात्तत्र तत्र भिद्यत इति । संशयवीज तु सर्वत्रान्तर्यामिणां तत्तद्वाक्येषु चाधिदैवतादिपदैरुपसंहारः । ननु तैरुपसंहारस्य कथं संशयजनकतेतिचेद, इत्थम् । यद्यपि दैवेष्वित्यधिदैधादि- व्युत्पत्या तेषां यौगिकत्वं, तथापि गीतायां, 'पुरुपश्चाधिदैवतं स्वभावोऽध्यात्ममुच्यते, अधिभूतं क्षरो भावः, अधियज्ञोऽहमेवात्रेति योगमनादृत्य रूढिबोधनादेतेपां नामत्व- मवधार्यते । समानन्यायादधिवेदाधिलोकयोरपि नामत्वम् । नपुंसकलिङ्गं तु लोकाश्रय- त्वादशिप्यम् । तेन तेपामपि संभवदुक्तिकत्वात् संशयजनकत्वम् । नचान्तस्तद्धर्मोपदेशा- दित्यधिकरणे सातवर्तिनः परब्रह्मत्वं निर्णीतमिति पुनः किमर्थोऽयं प्रयास इति शङ्कथम् । अधिदेवादिपदानामुक्तरीत्या नामत्वात् तेषां च तत्तद्वाक्यान्ते प्रयुक्तत्वाद्वाक्येपु च शब्दतोऽन्तर्यामिणः संनिधानेऽप्यर्थतोऽभिमानिनामपि सनिधानात्तत्संज्ञाभूतैरेतैः पइभिरन्तर्याम्याधारभूतस्याभिमानिनो धर्मा भगवत्युपर्यन्ते, उत तत्तत्संज्ञाविशिष्टाः पुरुपादय एवान्तर्यामित्वेन स्तूयन्त इति सन्देहसम्भवेन प्रयासस्य सार्थक्यात् । एवं सिद्धे सार्थक्ये तत्रेदं प्राप्तम् , तेषु देवादिप्यधिकरणेप्येतेपु योगेन वर्तन्ते पुरुषादिरूढ्यात उभयेऽपि भगवदाधारभूता अतस्तद्धर्मा भगवत्यौपचारिका इति ज्ञापनायात्र ते शब्दाः प्रयुज्यन्ते । नचैतेपां भावनामत्वमिह शङ्कथम् । तैत्तिरीयाणां शिक्षोपनिषदि, अथाधि- लोकम् अथाध्यात्ममित्येवं लोकादिप्वेव तेषां प्रसिद्धत्वात् । वैदिकप्रसिद्धेश्च सर्वतो बलिष्ठत्वात् । नचाभिमानिशक्ता एवात्रादरणीया इत्यपि शक्यम् । एतेषु शब्देपु केपाञ्चि- द्वाक्यसखाते केपाश्चिद् बहुवचनान्तसर्वलोकादिशब्दोपबद्धवाक्यान्ते प्रयोगेण तेषु सर्वा- नुस्यूतस्यैकस्याभिप्रेततया अमिमन्तुश्च प्रतिनियततया तादृशत्वाभावेन तस्य संज्ञिततयात्र कल्पयितुमशक्यत्वात् । अतोऽन्तर्या मित्राह्मण कुत्राप्ययुक्तं सत्तत्तदभिमानिदेवतास्तुति- परमेव तत्तदुपासनार्थ भविष्यति । नच 'यं पृथिवी न वेदे'त्यादिभिरुक्तस्याज्ञानस्य चेतनधर्मत्वादमिमानिनां च स्वज्ञानात्तदसङ्गतिः शङ्कया । नित्यानुवादरूपत्वात् । नचात्र मानाभावः । षष्ठस्कन्धे दक्षस्तुतौ 'देहोऽसयोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यदितिदेहादीनां जडानामप्यज्ञानस्योक्तत्वात् , तस्य च नित्यानुवादत्व एव संभवात् तन्यायस्यात्रापि सुवचत्वात् , तस्य सङ्गतावन्यस्याभिमानि- व्यावर्तकस्यात्राभावात् । नचायमानहो निर्मुल इति शङ्कयम् । अभिमानकृतसंज्ञाया निकृष्टतया भगवति कल्पयितुमयुक्तत्वादिति। एवं प्राप्ते, उच्यते । अन्तर्यामीत्यादि । अन्तर्यामी अधिदेवादिषु सर्वेषु भगवानेव, नान्यः सर्वानुस्यूतो भवितुमर्हति । ननु निपिद्धसंज्ञानां भगवत्ययुक्तत्वमुक्तं, तत्कथं परिहार्य, तबाह । तमव्यपदेशात् । तेषां धर्मास्तर्मा देवाधिष्ठातृत्वाभिमानप्रयु- तानि कर्माणि तेपां व्यपदेशात् भगवत्युपचारेणाधिदेवतादिपदैः प्रयोगात् । , श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता। अयमर्थः । विपयवाक्ये दाल केनतल्लोकपरलोकयोः सर्वभूतानां चान्तवर्तित्वे सति तन्नियामकोऽन्तर्यामिशब्दवाच्यः पृष्टः, तत्र चेद्याज्ञवल्क्यस्तावदेव वदेत , त- दान्तर्यामिज्ञातृत्वं न स्फुटीभवेत् , अत उद्दालकश्रुतांस्तद्धर्मान् विशेषतः पृथिव्या- दिवात्यैः प्रकाशयति । तत्र पृथिव्यग्निकार्यस्य भगवत्प्रयुक्तत्वं गीताद्वादशाध्याये, 'गामाविश्य च भूतानि, 'पुष्णामि चौपधीः सर्वाः सोमो भूत्वा, 'अहं वैश्वानरो भूत्वे'त्यत्र स्फुटमुक्तम् । ततः 'सर्वस्य चाहं हृदि सन्निविष्ट' इत्यादिनान्तर्यामित्वं चोक्तम् । तृतीयस्कन्धे च 'अदो ददाति श्वसतां पदं यनियमान्नभ' इत्याकाशकार्यस्य 'भीपासा 'दिति श्रुतौ वाग्वादित्याग्नीन्द्रमृत्यूनां कार्यस तथात्वं बोधितम् । प्रकृते मृत्रिचन्द्रस्थाने विद्युत्स्तनयित्नू । एवमन्येपामपि बोध्यम् । अत्र देवधर्माणां भगवत्म- युक्तत्वबोधनात् परलोकात्मकजन्मान्तरीयदेहयमयितृत्वं साधितम् । ततो लोकपदस्य भूरादिपु प्रसिद्धत्वात् 'अथाधिलोक'मिति प्रतिज्ञाय तत्संबन्धिनः सर्वस्य तथात्वं बोधितम् । ततः कथं सर्वलोकान् यमयतीत्यपेक्षायां वेदयज्ञाभ्यां यमनवोधनायाधि- वेदाधिनज्ञवास्ये उक्ते । ततः सर्वभूतयमनं पूर्ववदुक्त्वा एतल्लोकयमनबोधनाय दशा- ध्यात्मवाक्यान्युक्तानि । एवं सर्व तत्पृष्टं कार्यमुक्या तत्वरूपमिदमित्थतया वक्तुम- शक्यमिति बोधनाय 'अदृष्टो द्रष्टा' इत्याद्युक्त्वा ‘अतोऽन्यदातमित्युपसंहारे तस्या- मृतसुखरूपत्वं यदोक्तं तदान्तर्यामिस्वरूपज्ञातृत्वं याज्ञवल्क्यस्वावगत्य उद्दालकस्तूष्णीं भूत इत्युद्दालकोपरमोक्त्या मूचितम् । तेन सर्वेषां सर्वेषु कार्येषु यत्मामर्थ्य तदन्तर्यामि- प्रयुक्तमेव, न स्वत इति साधितम् । अतोधिदैवादिपदप्रवृत्तिनिमित्तभूतो योऽभिमानः, सोपि भगवत्प्रयुक्त इति तेषां पदानां भगवत्यौपचारिकत्वबोधनायैव तेषां कथनम् । नो चेत्, तदनुक्तावपि विवक्षितज्ञापनस्य सुखेन सिद्धेस्तद्वैयर्थ्यमेव स्यात् । एवं च सौत्रमधिदैवादिग्विति पदं देहलीदीपवदुभयत्रापि संबध्यते। तथा चानेनास्पष्टलिङ्गे- नान्तर्यामिण एकत्वसाधनान्नाधिकरणवैयर्थ्यम् । यद्यपि श्रुतावधिदैवतपदं सूत्रे चाधि- दैवपदम् , तथापि गीताया मधिदैवं किमुच्यत' इति प्रश्ने 'पुरुपश्चाधिदैवत' मितिन- त्युत्तराद्वयोरेकार्थता निश्चीयत इति न कोपि दोषः । एवं दोपनिवृत्तेऽन्यत् सर्व सुसङ्गतमेवेतीदं ब्रह्मवाक्यमेवेति सिद्धम् ॥ १८ ॥ न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥ ननु 'सर्व खल्विदं ब्रह्म, सदेव सोम्येदमग्र आसीदित्यादिपु सिद्धे ब्रह्मवादे कार्यत्वेन जडजीवौ, कारणत्वेन ब्रह्मवेत्येवं त्रय एव पदार्थाः सिद्धाः। अन्तर्यामी तु नोभयथापि सिद्धः । अतो नियमनरूपेण चेतनधर्मेणात्मत्वेन च जडं प्रधान व्युदस्य, ब्रह्म वा जीवो वा वक्तव्यः । तत्र ब्रह्मणोऽशरीरत्वात् साधारणजीवानां च सर्वनियामकत्वासम्भवात् कार्येश्वरभूत एव कल्पनीयः। तादृशश्च प्रकृत्यमि- દુર भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः । मान्येव भवतीति तादृशस्य सांख्यपरिकल्पितस्य सिद्धौ तस ब्रह्मत्वे वा साधिते ब्रह्मवादिनां न कोऽपि पुरुषार्थः । उपनिषत्सु तादृशस्य दर्शनात् । अतः पूर्वपक्षन्याये- नान्तर्यामित्राह्मणस्य प्रकृत्यभिमानिस्तावकत्वं वा, तेनैव सांख्यमतस्य श्रौतत्वं वाङ्गीका- यमित्यत आह । न चेत्यादि। स्मात सांख्यस्मृतिसिद्धमन्तर्यामिस्वरूपं न भवति । कुतः । अतद्धर्मामिलापात् । तद्धर्माणाममिलापस्याभावात् । अतद्धर्माणाममिलापाच । न ह्यत्र सत्व- रजस्तमोगुणास्तकार्य वा । अत्राभिमन्तुः समष्टिभूते शरीरे विद्यमाने व्यष्टिभूतानि पृथि- व्यादीनि न युगपच्छरीराणि भवितुमर्हन्ति । नच योगिवदिति वाच्यम् । गुणप्रधानभाव- गमकानुपलम्भात् । नापि गमकं कल्पयितुं शक्यम् । तद्धर्मानभिलापस्य बाधकस्योक्त- त्वात् । एवं सत्येतेषां ब्रह्मधर्मत्वाद् ब्रह्मवादः फलिप्यति । तस्माद् ब्रह्मवाक्यत्वम- क्षुण्णम् ॥१९॥ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥२०॥ ननु पूर्वपक्षोक्तन्यायेन शारीर एवान्तर्याम्यस्तु, तथाच यथा संवर्गादिविद्याः प्रतीकविपयास्तथान्तर्यामिब्राह्मणमपीति देवतास्तावकत्वेऽपि ब्रह्मवादविरोधाभाचान्नास्य ब्रह्मवाक्यत्वमित्यत आह । शारीर इत्यादि । नेत्यनुवर्तते । शारीरश्च । अभिमानिजीवोऽपि नान्तर्यामिब्राह्मणे प्रतिपाद्यः। कुतः। हि यतो हेतोरेनमभिमानिनं तेऽन्तर्यामिणो भिन्न- तया अधीयते । यं पृथिवी न वेदेत्यादिभिस्ततोऽपि भिन्नतया कथयन्ति । नच देहोऽ सवोऽक्षा इति न्यायः शङ्कयः । सर्वानुस्यूतत्वस्य बाधकत्वेनाभिमानिनः प्रतिपादयितु- मशक्यत्वादित्युक्तम् । किञ्च । उभये काण्या माध्यन्दिनाश्च शाखिन एनं शारीरं भेदेन 'यो विज्ञाने तिष्ठन् , य आत्मनि तिष्ठन्नित्येवमन्तर्याम्याधारतया तद्भिन्नत्वेनाधीयते कथ- यन्ति । तस्मान्मुक्तोऽमुक्तो वा केवलोऽपि जीवो नात्र प्रतिपायः। तस्मादन्तर्यामित्राह्मणे ब्रह्मैव वाक्यार्थ इति सिद्धम् ॥ २० ॥ इति पष्ठमन्तर्याम्यधिकरणम् । अदृश्यत्वादिगुणको धर्मोक्तः ॥२१॥ पूर्वाधिकरणविषयवाक्यैः, अमृत इति. अतोऽन्यदातमिति च श्रावणात् सर्व- हृदयवर्तिन्यन्तर्यामिणि भोगवैलक्षण्यसाधकं वैशेष्यं दर्शितम् । तत्रादृष्टो द्रष्टेतिश्राविते तत्कथमित्याकांक्षायां हेतुबोधनायेदमधिकरणं प्रसङ्गसङ्गत्यारभ्यते । मुण्डकोपनिपत् सर्वाऽस्य विषयः । तत्र हि शीनफेन कस्मिन्नु भगयो विज्ञाते सर्वमिद विज्ञातं भवे- दित्येकविज्ञानेन सर्वविज्ञाने पृष्टे, अङ्गिरसा, द्वे विद्ये वेदितव्ये इत्यादिना नामांशे वेदा- दिविद्या, रूपांशे परविद्या चोक्ता । तावता नामरूपात्मकस्य सर्वजगतो ज्ञानसम्भवात् । तत्र वेदादिविद्यायां न सन्देहः । परायां सन्दिह्यते । किमेपा सांख्यमतविद्या, किंवा ब्रह्मविद्येति । सांख्यधर्मामिलापाच सन्देहः । तत्र 'स ब्रह्मविद्या सर्व विद्याप्रतिष्ठामथर्वाय -श्रीनजनाथात्मजश्रीकृष्णचन्द्रकृता। ३ ज्येष्ठपुत्राय पाहे' त्युपक्रम्य घेवं पठ्यते, 'अथ परा यया तदक्षरमधिगम्यते यत्तददृश्यम- ग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययम् , तद्भूत- योनि परिपश्यन्ति धीरा' इत्यादि । द्वितीयमुण्डके च 'दिव्यो ह्यमूर्तः पुरुषः स बाह्या- भ्यन्तरो ह्यनः । अप्राणो ह्यमनाः शुभ्रो यक्षरात् परतः पर' इत्युक्त्वा, 'एतस्माज्जायते प्राण' इत्यनेन सृष्टिं निरूप्य, 'अग्निर्पर्धा चक्षुषी चन्द्रसूर्या'वित्यादिना रूपमुक्त्वा, 'पुमान् रेतः सिञ्चति योपितायां बयः प्रजाः पुरुषात् सम्प्रमूता' इति पुरुषात् सृष्टिरिति । पूर्वपक्षस्तु । मुण्डकत्रयेऽप्येकस्यैव मतस्य प्रतिपादितत्वेन वाक्यनामितरेतरसाकांत- तयैकप्रकरणत्वादेकवाक्यता अवश्यं वक्तव्या। सा तत्र ब्रह्मवाक्यत्वाङ्गीकारेन सम्भवति । 'अक्षरात् परतः पर इत्यत्राग्रे अक्षरपुरुपयोर्भेदश्रावणात् । रेतःसेकेन.प्रजासूतिश्रावणा- दुभयजन्यायाः सृष्टेरत्राभिप्रेतत्वाच्च । अत एवोपक्रमगतं ब्रह्मविद्यापदमपि समाख्यारूप- त्वाल्लिङ्गापेक्षया निर्बलम् । नच सांख्ये प्रकृतेरेख स्रष्टत्वादत्र चोभयोस्तथात्वकथनान्नान सांख्यमतमिति शङ्कयम् । जगतो जीवजडात्मकत्वेनोभयविधत्वात् प्रकृतिपुरुपयोस्तुल्य- तया अन्यतरप्राधान्येन वा सृष्टिकथने तन्मतबाधाभावात् नच 'अग्निर्मूर्धे'त्यादिनोक्तस्य रूपस्य विरोधः । अग्रे समष्टिव्यष्टीनामेवोत्पत्तिकथनेन तज्जनयितू रूपस्यापि श्लिष्ट- रूपत्वेन बोध्यतया तन्मतबाधाभावात् । नचेदं ब्रह्मवादेऽपि तुल्यमिति वाच्यम् । सच्चि- दानन्दरूपताया अत्रानुक्त्या ब्रह्मवादस्यात्र वक्तुमशक्यत्वात् । नच ब्रह्मविद्यापद- स्थासङ्गतिः। 'आनर्थक्ये प्रमाणानां विपरीतं बलाबल' मिति न्यायेन सर्वमिदं शिथि- लमिति शङ्कयम् । ब्रह्मपदस्य वेदेऽपि रूढेस्तस्य वेदविद्यापरतया नेयत्वेनासङ्गत्यभा- वादिति । एवं प्राप्ते । अभिधीयते । अदृश्येत्यादि । अदृश्यत्वादिगुणकः परमात्मैव । कुतः । धर्मोक्तेः। एतद्विज्ञानेन तस्य ब्रह्मविज्ञानधर्मस्य सर्वविज्ञानस्य कथनात् । तत्सम्बन्धादेव विद्यायाः परत्वकथनाच्च । नचात्राक्षरं, ततः परः पुरुषश्चोक्त इति तदुभयविज्ञानेन सर्वविज्ञानं केवलाक्षरविज्ञाने नेति कथं तस्य ब्रह्मत्वमिति शङ्कयम् । अक्षरपुरुपयो परा- परभावेऽपि भेदाभावेन ब्रह्मत्वस्याव्याहतेः। नच परापरभावस्य भेदल्लिङ्गत्वात्तस्मिन् सति कथमभेद इति वाच्यम् । एतदर्थमेवाधिकरणप्रणयनात् । पुरुषे ब्रह्मत्वस्य वाक्यादेव प्रतीत्या अक्षरस्यैव संदिग्धत्वेन पक्षतया निर्देशादेव तथा निश्चयात् । अत्रापि धर्मोक्तरेव हेतुत्वम् । तथा 'अक्षरात् सम्भवतीह विश्वमिति जगज्जनकत्वस्य ब्रह्मधर्मस्य तत्र कथनाद । उपनिपत्सु तत्रैव जगजनकतायाः सर्वत्र दर्शनेनावान्यस्याङ्गीकर्तुमशक्यत्वात् । नचा- भेदे परापरभावविरोधः शङ्कयः। अभेदे ईपदानन्दतिरोभावपूर्णतत्प्राकट्याभ्यामव- श्याभ्यां सुखेन तत्सिद्धेब्रह्मविदामोति परमित्यत्र प्रागेव निर्णीतत्वात् । अतोऽवस्थामे- देऽप्यदृश्यत्वादिगुणकः परमात्मैवेति सिद्धम् ।। २१ ।।

भावप्रकाशिका | नाममूत्रवृत्तिः । विशेपणभेदव्यपदेशाभ्यां च नेतरो ॥ २२ ॥ ननु पञ्चशिस्त्रवृत्तावव्यक्तपर्याय नपुंसकलिङ्गस्याक्षरपदस्य पाठादन तादृशा. क्षरपदप्रयोगो, योनिपदस्योपादानवाचकत्वाद् भूतयोनित्वं चाव्यक्तलिङ्गम्, अक्षराव परत्वं च पुरुषलिङ्गम् । अतस्तत्सर्व न्यकृत्य ब्रह्मविद्यावं न स्थापयितुं शक्यम् । नच कस्मिन् विज्ञात इत्येकविज्ञानहेतुकसर्व विज्ञान प्रश्न विरोधः । तत्र कस्मिन् मते विज्ञात इत्यर्थस्य शक्यवचनत्वेन तस्य विज्ञानस्य ब्रह्मविद्यालिङ्गत्वाभावात् । नापि ब्रह्मविद्येति समाख्याबलात् तथा वक्तुं शक्यम् । 'द्वेब्रह्मणी वेदितव्ये मृतं चामृत चे'तिश्रुती विका- रेऽपि ब्रह्मपदरूढेरत्र प्रकृतिपुरुपयोर्ब्रह्मणोवियेति योगसापि शक्यवचनत्वात् । लिङ्गा पेक्षया पश्चमप्रमाणभूतायास्तस्सा अतिनल्याचेत्यत आह । विशेषणेत्यादि । इतरी प्रकृतिपुरुषी नात्र वाक्यार्थभूतौ । कुतः । विशेपणमेदव्यपदेशाभ्याम् । विशेषणभेदो व्यपदेशश्च ताभ्याम् । को विशेपणभेद इतिचेत् । अदृश्यत्वादीनां विशेषणानां प्रकृताव घटमानत्वमेव स इति वदामः । कथमितिचेद, इत्यम् । तैर्हि प्रकृतेर्विकारः सर्वमित्य- ङ्गीक्रियते । तच चिकारजातं दृश्यत्वादिमत् । तथा सति तदुपादानमपि तादृशमेव । न हि घटादौ दृष्टे तदुपादानभूता मृन्न दृश्यते इति शक्यवचनम् । अतोऽस्मादेव हेतो. त्रि प्रकृतिः शक्यवचनेति । ननु ब्रह्मवादे ब्रह्मण एवोपादानत्वात् प्रकृतिवत्तसापि दृश्यत्वाद्यापत्तेरस ब्रह्मपरतापि न स्यादिति शङ्कयम् । ब्रह्मणः सर्वभवनसमर्थत्वात् परिणामित्वेऽपि नित्यसदैकरूपत्वाविक्रियमाणत्वयोरिव दृश्यत्वादावप्यदृश्यत्वादेर्विरो- धाभावादेवोपपत्त्या वाक्यस्य ब्रह्मपरताया अक्षतेः । नच प्रकृतावपि तथा सामाङ्गी- कारे परिहारतौल्येन वाक्यस्य प्रकृतिपरता वक्तुं शक्येति नैतैन ब्रह्मवादसिद्धिरिति- वाच्यम् । सांख्यैः प्रधानस्य परिणामिनित्यतयैवाङ्गीकृतत्वेन तथा वक्तुमशक्यत्वान् । इदानी तथाङ्गीकारे च प्रतिज्ञासंन्यासप्रतिज्ञान्तरयोरापच्या सर्वब्रह्मधर्मतौल्ये पुरुप- स्थापि ततोनतिरेकेण नाममात्र एव कलहेन तन्मतस्य ब्रह्मवाद एव प्रवेशेन ब्रह्मवादि- नामेवं जयाच । यः सर्वज्ञः सर्वविदित्यादीनां तु सुतरामघटमानत्वम् । तस्या जडतयै वोपगमात् । नच तत् पुरुपविशेषणमिति वाच्यम् । एतस्य प्रथममुण्डके पाठेन व्यव- धानात् । पुरुषस्य द्वितीयमुण्डके पाठात् । पूर्वमुण्डकसमाप्तावेर 'येनाक्षरं पुरुषं वेद सत्य'मित्यक्षरविशेषणाच्च । तस्मादक्षरविशेपणानां प्रकृतावघटमानत्वमेव । तथा पुरुष- विशेषणानामपि सांख्याभिमतपुरुषे अघटमानत्वम् । तन्मते पुरुषबहुत्वेऽपि जीवब्रह्म- पद्भिन्नलक्षणत्वाभावेन नियामकत्वरूपस्य दिव्यत्वस्याभावात्। साक्षित्वकैवल्यमाध्यस्थ्य- द्रष्टुत्वाकर्तृत्वाद्यतिरिक्तधर्मानङ्गीकारात् । सर्वरूपत्वाभावेन बाह्याभ्यन्तरत्वस्य सुतरां तथात्वात् । तैर्महदादिक्रमेण सृष्टेरङ्गीकृततया 'एतस्माज्जायते प्राप' इतिमन्त्रोक्तायाः सृष्टेः क्रमभेदात् सहोत्पन्नत्वात् साक्षात्तजन्यत्वाच तन्मतीयत्वस्याभावात् । अतः स्फुटो विशेपणभेदः। आदिमध्यावसानेषु ब्रह्मविद्यामिविव्यपदेशभेदाच्च । अन्यथा सांख्य- . श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता। विद्यामित्येव नाम वदेत् । न हि वेदाचार्यो ब्रह्मा स्वज्येष्ठपुत्राय वेदसारभूतां ब्रह्मविद्या विहाय सांख्यविद्यां वक्तुमर्हतीत्यपि चकारेण सूच्यते ॥ २२ ॥ रूपोपन्यासाच ॥ २३ ॥ 'अग्निमूर्धा चक्षुषी चन्द्रमूर्या'वित्यादिनोक्तं रूपं विश्वकायस ब्रह्मण एव सम्भ- वति, न तु प्रकृतिपुरुषयोरन्यतरस, तन्मते केवलयोस्तथारूंपानङ्गीकारात् (तस्य)। नच श्लिष्टस्येति वाच्यम् । यथा सुदीप्तादित्यनेन केवलादक्षरात् सृष्टिमुक्त्वा, ततो 'दिव्यो ह्यमुर्त' इति केवलस्य पुरुपस्याक्षरात् परत्वमुक्त्या, तत 'एतस्माज्जायत इत्यनेन तादृशादेव सृष्टिकथनानन्तरम्, अग्निति रूपमुपन्यस्यत इति । तत्र श्लिष्टत्वस्याशक्यवचनत्वा- दिति । अत्र सूत्रविभागादेपा मुख्योपपत्तिरिति मुच्यते । चकारेण श्रुत्यन्तराविरोधः, सर्वेषां वेदान्तानामेकवाक्यता च संगृह्यते । अत्रेदं बोध्यम् । गीतायां द्वादशाध्याये, 'एवं सततयुक्ता य' इति सन्दर्भ अक्षरपुरुषोत्तमयोरैक्यमवस्थाभेदेन भेदश्च बोधितः । पञ्चदशे च 'द्वाविमा वित्यादिना ( अक्षरपुरुपादुत्तमत्वं खस्योक्तम् । श्वेताश्वतरश्रुताबपि 'क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एक' इति ) अक्षरस्यात्मत्वं देवस्य क्षराक्षरेशितृत्वं चोक्तम् । अतोऽवाक्षरस्य पुरुषत्वमुक्त्वा पुरुषस तत उत्तमत्वं यदुच्यते, तेन गीताद्युक्तमेवाक्षरपुरुपयोः स्वरूपं ज्ञाप्यते, न तु तदतिहाय भूतमूक्ष्मरूपमक्षरम् । प्रकृतहानाप्रकृतकल्पनयोः प्रसङ्गात् । नच परत इति पञ्चम्यन्तस्य वैयर्थ्यम् । सांख्ये प्रधानस्याप्यक्षरपदवाच्यत्वात्तद्वारणार्थ परत इत्यस्याक्षरविशेषणत्वेनावश्यकत्वादिति । तस्मादक्षरशब्देन पुरुपशब्देन च ब्रह्मण एवावस्थाभेदपुरःसरमुक्तत्वादेपा ब्रह्मविद्यैवेति सिद्धम् ॥ २३॥७॥ इति सप्तममदृश्यत्वाधिकरणम् । वैश्वानरः साधारणशब्दविशेपात् ॥ २४ ॥ एवमदृश्यत्वायधिकरणेनान्तर्यामिणोऽदृष्टत्वे अदृश्यत्वरूपो हेतुः प्रसङ्गाद्दर्शितः। तथा, चराचरग्रहणादिभिस्त्रिभिरधिकरणैत्रिविधं भोगमुपपाद्य जीवतुल्यत्ववारणार्थमन्त- र्याम्यधिकरणे वैशेष्यं हृदयान्तर्वर्तिनि समर्थयित्वा अन्तर्यामिणो रूपाभावादेवादृश्यत्व- मिति शङ्कावारणाय रूपमपि तत्र प्रदर्शितम् । तत् तदा सङ्गतं स्यायदि परमात्मनः सा. कारता वास्तवी स्यात् । अतस्तदुपोद्धातत्वेनेदमधिकरणमधुना आरभ्यते । तद्विपयस्तु.छा. न्दोग्ये सप्तमप्रपाठके श्रूयते । तत्रोपक्रमे, प्राचीनशालः सत्ययज्ञ इन्द्रद्युम्नो जनो चुडिल इतिनामानः पश्चापि श्रुताध्ययनसम्पन्नाः कचन समेत्य मीमांसां चक्रः, को न आत्मा किं ब्रह्मेति । अत्र किम आवृत्त्या वाक्यमेदस स्फुटत्वात् स्वात्मब्रह्मणी अभिन्ने भिन्न वेति न संशयः, किन्तु अस्माकमुपास्यं ब्रह्म वा तदेकदेशो वेति संशयः । ततस्ते स्वतो निश्चयमलभमाना उद्दालकनामानमन्यं वैश्वानरोपासकं संशयनिवारकत्वेन सम्भाव्य, " १ ६६ . + . भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः । ततोऽपि तदनिवृत्ती तेन सह पडपि कैकेयराजस्य वैश्वानरोपासकस्य निकटे गत्वोक्त- वन्तः । आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येपि, तमेव नो बृहीति । ततो राज्ञा पृथक् ते पृष्टाः 'कं त्वमात्मानमुपास्स' इति । तदा ते स्वस्त्रोपास्यत्वेन घुसूर्यवारयाकाशवारिप- थिवीः पृथक्पृथगुक्तवन्तः । तदा राज्ञा तत्तदुपास्यानां क्रमेण सुतेजस्त्वविश्वरूपत्वपृ- थग्यात्मत्वबहुलत्वरयित्वप्रतिष्ठास्वरूपान् गुणान् उक्त्वा तेषु वैश्वानरमूर्धचक्षुःप्राण- देहमध्यभागवस्तिपादरूपता चोपदिश्यकैकोपासने क्रमेण मूर्धविपातान्धत्वप्राणोत्क्रम- णदेहविशरणवस्तिभेदपादविम्लानिकथनरूपया निन्दया तान् प्रतीकत्वेन बोधयित्वा स्वयं तत्स्वरूपमाह । यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरगुपास्ते, स सर्वेषु लोकेषु भूतेषु सर्वेष्वात्मखनमत्ति, तस्स ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाः, चक्षुर्विश्व- रूपः, प्राणः पृथग्यात्मा, सन्देहो बहुलो, वस्तिरेव रयिः, पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिदयं गार्हपत्यो, मनोऽन्याहार्यपवन, आस्यमाहवनीय इत्यादि । तत्र संशयः। किं वैश्वानरशब्देन ब्रह्म प्रतिपादयितुं शक्यते, न वेति । ननूपक्रमे ब्रह्मात्मपदयोः सत्त्वाद् उपक्रमस्य चासश्चातविरोधत्वादन सन्देह एव कथं घटत इति चेत् । सत्यम् । तथापि तदुपपादकयुक्तरग्रे अदर्शनेन वैश्वानरश्रुतेर्वलिष्टतायां तयोरुपास- नापरतयापि नेतुं शक्यतया, विमतो वैश्वानरो न ब्रह्म, साकारत्वाल्लोकवदिविन्यायेन च सन्देहस्य सम्भवदुक्तिकत्वात् । तर्हि किमत्र युक्तम् । नेति । कुतः । वैश्वानरशब्दस्य श्रुतौ प्रजापतौ प्रसिद्धत्वात 'संवत्सरो या अग्निवैश्वानरं केतुमसामकृण्व'निति भूतानाचित्र, 'वैश्वानरस्स मुमतौ स्याम राजा हि कं भुवनानाममिश्री'रिति देवतात्मन्यपि प्रसिद्ध इति देवतात्मपरिग्रह एव युक्तः । एवं पूर्वकाण्डे सिद्धावप्युत्तरकाण्डे संवत्सरादिश्रुतेविचा- नरः प्रथमः पाद इतिश्रुतेश्च हिरण्यगर्भोपासनापरमिदं वाक्यमित्येव युक्तम् । ब्रह्मना- मत्वेन जीवसमष्टिरूपत्वेन ब्रह्मात्मशब्दयोस्तत्र युक्ततरत्वात् । अत एव उपासकय सर्वान्न- भोजनमपि युक्तम् । प्रादेशमात्रत्वमपि तस्य मुख्यजीवत्वादस्मदाद्यपेक्षया स्थूलत्वाभि- प्रायम् , विराडमिमानित्वाल्लोकावयवन्वम् , वेदगर्भत्यादग्नित्रयात्मकत्वं च । तस्माद्धि- रण्यगर्भोपासनापरत्वमेव युक्तम् । न तु परमात्मपरत्वमिति प्राप्ते । उच्यते । वैश्वानरेत्यादि । वैश्वानरः परमात्मैव । कुतः ? साधारण- शब्दविशेपात् । साधारणाः पूर्वपक्षोक्तरीत्या हिरण्यगर्भसाधारणा ये शब्दास्ते भ्योऽपि विशेषात् । प्रादेशमात्रस्यैवानितो विगतमानत्वलक्षणादाधिक्यात् । ता- दृशस्यैव द्युमूर्घत्यादिलक्षणादाधिक्याच । न हि विरुद्धधर्माश्रयत्वं भगवद्व्यति- रिक्त सम्भवति । सर्वभवनसामर्थ्यवान्यत्राभावात् । ननु प्रादेशमात्राभिविमान- शब्दयोः पूर्वपरतया सममिव्याहारादस्तु विरुद्धधर्माश्रयत्वम्, तथापि द्युमूर्घत्वा- दाहिरण्यगर्भसाधारण्य कथं निवर्ततामितिचेन् । उच्यते । समानप्रकरण वाजसनेयिमिरत्र पुरुषत्वं श्राव्यते । अत्रच भूधैव मुतेजा इत्यादिमिराकारकयनेन तदेव समर्पते । एवञ्चा- श्रीग्रजनाथात्मजश्रीकृष्णचन्द्रकृता। ६७ कारविशेपे रूढोऽपि पुरुषशब्दः, ॐकारवाच्ये ब्रह्मण्येव मुख्यवृत्तः । ॐकारविकृतित्वात् । आनन्दमयाधिकरणेऽन्तःस्थस्यानन्दमयस्य परस्यैव विज्ञानमयादिपु पुरुषाकारसमर्पकत्वे- न विमृष्टत्वाच । एवं सति, पुरुपौ चात्ममानवावित्यभिधानकोशेनान्यत्र शक्तिग्राहणेऽपि 'सहस्रशीर्पा पुरुषः वेदाहमेत पुरुषं महान्तं, प्ररुपो ह वै नारायणोऽकामयते'त्यादिश्रुतिषु, 'तथा पुरुपशब्दोऽयं वासुदेवेऽवतिष्ठते, चिना तं पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक, भगवानिति शब्दोऽयं तथा पुरुप इत्यपि, निरुपाधी च वर्तेते वासुदेवे सनातने, ब्रह्माद्याः सकला देवा यक्षगन्धर्व किन्नराः, ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति' इति पुराणान्तरात् । स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते, स्त्रीप्रायमितरत् सर्व जगद् ब्रह्मपुरःसरम्, स एव वासुदेवोऽयं पुरुपः प्रोच्यते बुधः, प्रकृतिस्पर्शराहित्यात् खातन्याद्वैभवादपि' इति नृसिंहपुराणाच । अन्येषु तु नदंशत्वाद् गौणः । नचात्र शिवस्यानुक्तत्वात् 'पुरुषो चै हर' इतिश्रुतेश्च तत्र मुख्यवृत्तत्वं शङ्कायम् । प्रकृतिस्पर्शरा- हित्यस्वातन्त्र्याभ्यां तस्यापि वारणात् । 'शिवशक्तियुतः शश्व'दिति श्रीभागवतवाक्येन, 'जमकरणतापनः शिवया मुनिपुङ्गवाः, सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थक इत्यादिभिः पञ्चविंशद्भिः मूतसंहितावाक्यैश्च सर्वावस्थासु शिवस्य प्रकृतियुक्तत्वतद- धीनत्वयोरेवोक्तत्वात् । नच कारणस्य सर्वाभिः कार्यावस्थाभिरवस्थापक्चात्तादृशं रूपं ध्यानार्थमेयोच्यते, न तु वास्तवं कारणरूपमिति वाच्यम् । अत्र, 'मूर्धेव सुतेजा' इत्या- दिना सिद्धान्येवाङ्गानि निर्दिश्य तेपो पुरुषत्वादि विधानेनाङ्गानां तथात्वस्य वक्तुम- शक्यत्वात् । नच साकारस्य लोकन्यायेनाब्रह्मत्वं शङ्कयम् । विरुद्धधर्माश्रयत्वेनैव सिद्ध वैश्वानरस्य ब्रह्मत्वे तस्याप्रयोजकत्वात् । अलौकिकाकारत्वेन सत्प्रतिपक्षत्वाच । एवं सिद्धे तस्य स्वाभाविक आकारे सर्वात्मकत्वे तस्याप्रयोजकत्वाद् , अलौकिकाकारत्वेन सत्प्रतिपक्षत्वाच । एवं सिद्धे च लोकात्मकत्वे मन्त्रविधीयमानमपि रूपं तस्यैव, न तु तत्कार्यस्य हिरण्यगर्भस्यान्यस्य चेति । नच वैश्वानरोक्तिविरोधः । विश्वो वैश्वानरः प्रथमः पाद इति ब्रह्माण्डदेहस्य जडस्य, विश्वस्य तैजसो हिरण्यगर्भो द्वितीयः पाद इति तदन्तर्गतस्य मुख्यजीवस्य नरस्य च भगवदंशत्वेन देवतात्वाद्, देवताद्वन्द्वे कृते विश्वानरौ तो निवासो यस्येति तद्धिते कृते योगेन भगवद्बोधने विरोधाभावात् । नच रूढयपेक्षया नैर्बल्यम् । औत्सर्गिकरूढेरत्र प्रागेव व्युत्पादनादिति । तस्माद्वैश्वा- नरः परमात्मेति सिद्धम् ।। २४ ॥ स्मर्यमाणमनुमानं स्यादिति ।। २५ ॥ ननु पूर्वस्त्रेण सिद्धे वैश्वानरस्य ब्रह्मत्वे किमिति सूत्रान्तरारम्भ इति शङ्कायां प्रकारान्तरेण श्रुत्युपपादनव्यावृत्यर्थं पठति । स्मर्यमाणेत्यादि । 'केचित् खदेहान्त १ श्रुत्युपपादनसंभवादाप्रहबादनिरासार्थमिति पादः ।

६८ - भावप्रकाशिका | ब्रह्मसूत्रवृत्तिः। ईदयावकाशे प्रादेशमात्रं पुरुष वसन्तम् , चतुर्भुज कजरथाङ्गशगदाधरं धारणया स्मरन्ती'ति स्मर्यमाणं रूप प्रादेशमात्रवैश्वानरस ब्रह्मत्वेऽनुमानं स्यादिति हेतोः प्रादेश- मात्रो वैश्वानरो ब्रह्मव। ये हि ब्रह्म स्मरन्ति, ते श्रुतितः श्रुत्वैव स्मरन्ति, अतो मननरूपं तत् । यदि प्रादेशमालवैश्वानरप्रतिपादकवाक्यजातीयानां ब्रह्मवाक्यत्वं न स्यात , तदा एतत्स्मरण नोपपद्येत । तथाच, 'अनन्तशाखासापेक्षे वैदिकार्थस्य निर्णये, खवुद्धिकल्पि- तादाद् वलीयानुपएंहित' इति बोधनायेदं सूत्रमित्यर्थः ॥२५॥ शब्दादिभ्योऽन्तःप्रतिष्ठानान्नति चेन्न तथादृष्टयुपदेशा. दसम्भवात् पुरुपमपि चैनमधीयते ॥ २६ ॥ ननु यदि स्मर्यमाणसानुमानतया तदनुरोधेन वाक्यार्थो निर्णीयते, तदा 'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः,प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विध मिति स्मृत्यन्तराजा- ठर एवाग्निवैश्वानरो भवतु। नच वाक्यार्थविरोधः शङ्कयः। तस्य भगवद्विभूतित्वेन यथा- कथञ्चिद्योजनसम्भवात् । नचैवं सति भगवत्परत्वमेवास्त्वितिशङ्कथम्, विरुद्धधर्माणां विद्यमानत्वात् । के ते इतिचेत् तत्राह । शब्दादिभ्योऽन्तःप्रतिष्ठानादिति। वाजिनां वैश्वानर- विद्याप्रकरणे,'य एपोग्निर्वैश्वानरो योऽयमन्तःपुरुपेयेनेदमन्नं पच्यते यदिदमयत इति वैश्वा- नरपदसमाभिव्याहतोऽग्निशब्दः। आदिपदेनात्रापि 'हृदयं गार्हपत्य' इत्यादिनोक्तस्योपा- सनार्थ त्रेताग्निकल्पनस्य 'तद्यभक्तं प्रथममागन्छेत् तद्धोमीय मित्यादिनोक्तस्य प्राणादि- देवताकाहुत्याधारत्वस्य च संग्रहः। तेभ्यः शब्दादिभ्यः पुरुषेऽन्तःप्रतिष्ठितमित्यन्तःप्रति- प्टानान्न परमात्मपरत्वं वाक्यस्य युक्तमिति चेत्, न । जाठरविभूतिपरत्वं न वक्तुं शक्यम् । कुतः । तथाप्टधुपदेशात् । भगवतः सर्वभोक्तृत्वं वक्तुमनेन शब्देन भगवति जाठरः कर्तव्यत्वोपदेशात् । असम्भवात् । धुम्र्धत्वादीनां धर्माणां जाठरे असम्भवात् । नचोपास- नार्थ तत्कल्पनमुपचारादिति वाच्यम्। पुरुषमपि चैनमधीयते। च पुनः वाजसनेयिनः, 'स एपोऽग्निवैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुष पुरुषविधं पुरुपेऽन्तःप्रतिष्ठितं चेदेति एनं वैश्वानरं पुरुपमपि वदन्ति । तथा जाठरे असम्भवतां धर्माणामत्रोपदेशा. द्भगवति च तेषां सच्चात् प्राप्ताप्राप्तविवेक कृते भगवत्परत्वमेव वाक्यस्य सेत्स्यति, न जाठरपरत्वम् । 'सर्वे वेदा यत्पदमामनन्ती'ति श्रुत्या सर्ववेदस्य भगवत्परत्वे श्राविते वृथा गौण्यादरस्यायुक्तत्वादित्यर्थः ॥ २६ ॥ अत एव न देवता भूतं च ॥ २७ ॥ अत एव भगवत्परत्वे सम्भवत्यन्यपरत्वकल्पनस्यायुक्तत्वादेव, अग्न्यभिमानी देवता, महाभूतवतीयं तेजश्च नात्र वाक्यार्थ इत्यर्थः ॥ २७॥ - श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता। साक्षादप्यविरोधं जमिनिः॥ २८ ॥ एवं भगवदसाधारणेन विरुद्धयोःप्रादेशमात्रत्वाभिविमानत्वयोराश्रयत्वेन वैश्या- नरस्य परत्वं निर्णीय तयोरुभयोरपि साहजिकत्वे विरुद्धधर्माश्रयत्वं सिध्यदिति प्रादे- शमात्रत्वं विचारयति । तत्रास्मिन्नर्थे चत्वार ऋपयो वेदार्थविचारकाः प्रकारभेदेन । तत्र केवलशब्दबलविचारका आचार्या शब्दार्थयोलेनार्थविचारको जैमिनिः। शन्दो- पसर्जनतयार्थविचारक आश्मरथ्यः । केवलार्थविचारको वादारिरिति । तत्र वृहदारण्यके 'मा ते मूर्धा व्यपतदनतिप्रश्न्या वै देवता अतिपृच्छसि गार्ग मातिप्राशी रित्यतिप्रग्ने दोपश्रावणेन, कठवल्ल्यां नपा तर्केण मतिरापनयेति निषेधेन च कल्पनया विचारे दोषः श्रावितः । तैत्तिरीये च 'तत्वेव भयं विदुपोऽमन्वानस्ये त्यविचारेऽपि दोपः श्रावितः । अत आचार्यों विचाराविचारयोर्दोपं पश्यन् , 'तदन्वेष्टव्यं तद्विजिज्ञासितव्य'मित्यादिश्रुते- विचारमपि वदन् स्वशाखे द्विविधमपि विचारमुपनियन्ध। तत्रान्यापेक्षयोत्कृष्टत्वात् पूर्व जैमिनेर्मतमाह । साक्षादित्यादि । व्यापकस्य प्रादेशमात्रत्वे साक्षादपि कल्पनां विनापि स्वरूपविचारेणैवाविरोधं जैमिनिमन्यते। अयमर्थः । श्रुतौ 'ह्याकाशवत् सर्वगतश्च नित्य इति 'सर्वतः पाणिपादं तदिति 'यदेकमव्यक्तमनन्तरूप मिति नियतपरिणामपक्षेऽपि स्वेच्छ- येव केवलं ब्रह्मणो व्यापकत्वं साकारत्वमनन्तमृतित्वं च श्रावितम् । तथा, 'बहु स्या'मि- तीच्छया बहुभवनमपि सिद्धम् । एवं सति नियतपरिमाणपक्षे स्वेच्छयैव केनचिद्रपेणा- मिविमान केनचिद्रूपेण प्रादेशमात्रमित्यविरोधः । अनियतपरिमाणपक्षे तु एकमेव स्वरू- पमाकाशवन्नानापरिच्छेदककृतवृद्धिहासाभ्यां नानापरिमाण सर्वतः पाणिपादत्वात् पूर्ण प्रतीयत इत्यविरोधः । नानारूपत्वं च स्मृतावप्युक्तम् । 'विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः, प्रथमं महतः स्रष्ट्र द्वितीयं त्वण्डसंस्थितम् , तृतीयं सर्वभू- तस्थं तानि ज्ञात्वा विमुच्यते' इति । तत्र सर्वभूतस्थं भूतेषु पञ्चधा तत्तत्कार्यार्थ तिष्ठति । उदरे पुरुषोऽङ्गुष्ठमात्रः । 'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठती'ति । 'अधो निष्टया वितस्त्यान्ते नाभ्यामुपरि तिष्ठती'ति श्रुतेः । हृदये ध्यानार्थ प्रादेशमात्रः पूर्व- मुक्त एव । शिरसि च सर्वार्थमने वक्ष्यते । मनसीन्द्रियेपु चाणुः । चक्षुपश्चक्षुरित्यादि- श्रुतेस्तनियमनाय तत्र तिष्ठस्तदनुरोधात्तथा । तत् सर्वव्यापकं चित्तमाकृप्य व्योम्नि धारयेदित्यादिवाक्यात्तबुद्धचर्थ तत्र तिष्ठन्-व्यापक इति । अतो वैश्वानरस्य पुरुषत्वात सचिदानन्दरूपेणैव प्रादेशमात्रत्वं न विरुध्यते इति साकारल्लवाद एव जैमिनेः सिद्धान्तः । चतुर्लक्षण्यन्तमागे स्थितस्य, स विष्णुराहेति, तद्रलेत्याचक्षते इति सूत्र- द्वयस्य शतपणीकारप्रभृतिभिः स्वस्वग्रन्थ उपन्यासादिति ।। २८ ॥ अभिव्यक्तरित्याश्मरथ्यः ॥२९॥ एतदादिषु त्रिषु अविरोधमित्यस्यानुपङ्गो बोध्यः । अर्थस्तु निराकारमेव ब्रम मायाजवनिकाच्छन्नं, तदपगमे प्रणवमात्रीयदेवताधिष्ठितेन पुरुषाकारेणामिन्यज्यते । .

७० भावप्रकाशिका | प्रात्रवृत्तिः । सोऽभिव्यक्तः पुरुषोन्तर्यामी । अत एव पुरुषविध इत्युक्तम् । अमिव्यक्तिहेतुकत्वादा. कारस्य न खाभाविकत्वम्, अतः प्रादेशमात्रत्वमपि । तथापि निर्दिश्यमानं वस्तु सचिदान- न्दरूपमेवेत्साश्मरथ्य आचार्योऽभिव्यक्त हतोरविरोधं परिमाणस्य मन्यत इत्यर्थः ।।२९॥ अनुस्मृतेर्वादरिः ॥ ३०॥ वादरिस्तु केवलौक्तिकोऽनुचिन्तनवशात् प्रादेशमानो हदि प्रादुर्भवतीति ताट- शरूपानुवादिका श्रुतिरित्येवमविरोधं मन्यते । 'यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहायेति वाक्यानुरोधात् । अस्मिन् पक्षे त्वतात्विकम् ॥३०॥ सम्पत्तेरितिजैमिनिस्तथाहि दर्शयति ॥ ३१ ॥ जैमिनिमते पूर्वत्र प्रकारद्वयं प्रदर्शितम् । अग्निहोत्रं जुहोति यवागू पचतीत्यत्र शाब्दक्रमादार्थक्रमस्य बलवत्त्वाङ्गीकारावाप्यभिविमानस्य प्रादेशमात्रताया आकाशवत् परिच्छेदकवशादुपपद्यमानत्वात् । आद्य तु तदेकदेशिनोऽभिप्रेतम् । तयोः किं बलवदि- त्याकायायामेकदेशिनिराकरणाय सम्पत्तेः सकाशात् 'प्रादेशमात्रताया अविरोध जैमि- निर्मन्यते । तत्र का सम्पत्तिः, कथं च सेत्याकांक्षायां तत्र प्रकारं हि यतो हेतोरेक- देशिव्युदासाय श्रुत्या स्वयं दर्शयति । श्रुतिस्तु वाजसनेयिबामणे । 'प्रादेशमात्रमिह वै देवा सुविदिता अभिसम्पन्नास्तथा तु व एतान् वक्ष्यामि यथा प्रादेशमात्रमेवाभिस- म्पादयिष्यामीति स होवाच, मूर्धानमुपदिशन्नुवाच एप वै अतिष्ठा वैश्वानर इति, चक्षुपी उपदिशन्नुवाच एप चै सुतेजा वैश्वानर इति, नासिके उपदिशन्नुयाच, एप पृथग्वात्मा वैश्वानर इति, मुख्यमाकाशमुपदिशन्नुवाच एप वै बहुलो वैश्वानर इति, मुख्या अप उपदिशन्नुवाच, एप वै रयिर्वैश्वानर इति, चिचुकमुपदिशन्नुवाच एप वै प्रतिष्ठा वैश्वानर इतीति । अत्र हि युप्रभृतिपृथिवीपर्यन्तान् वैश्वानरावयवानुपासकाध्यात्ममूर्धा- दिचिवुकपर्यन्तेपु आधारानुरोधेन सम्पादयति । तथाचैपा सम्पत्तिरेतत्कृतं प्रादेशमात्र- त्वम् , न स्वाभाविकम् । तथाचान्यत्र तथाऽस्तु वैश्वानर इति जैमिन्याशय इत्यर्थः ॥३१॥ आमनन्ति चैनमस्मिन् ॥ ३२ ॥ एवं मतान्तराण्युक्त्वा मुख्यं स्वसिद्धान्तमाह । आमनन्तीत्यादि । एवं व्यापक- मेव वैश्वानरम् एतस्मिन् मूर्धचिबुकान्तराले जाबाला आमनन्ति । 'एपोऽनन्तोऽव्यक्त आत्मा योऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति । वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का चै वरणा का च नासीति । सर्वानिन्द्रियकृतान् दोपान् वारयति तेन चरणा भवतीति । सर्वान् इन्द्रियकृतान् पापानाशयति तेन नासी भवतीति । कतमचारस स्थानं भवतीति । भुवोः प्राणस्य च यः सन्धिः स एप - " श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । ७१ घोर्लोकस्य च परस्य च सन्धिर्भवतीति । अत्र मूर्धचिचुकान्तराले प्रतिष्ठितस्यानन्त- त्वमाम्नातम् । तथा पूर्वोक्ते वाजसनेयित्राह्मण एकस्यैव वैश्वानरख पुरुषत्वं पुरुषवि- धत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चाम्नातम् । न धनन्तस्य संकुचिते स्थाने स्थितिः सम्भ- पति, न वा तस्यैव तद्विधत्तं, तत्र प्रतिष्ठितत्वं च । नच तत्र कालापरिच्छेदोऽत्र च पुरुपान्तरविधत्वादिकमेवोच्यते इति वाच्यम् । आत्मत्वेनैव सिद्धे कालापरिच्छेदे, पुरुषत्वेनैव च सिद्धे तद्विधत्वेऽनन्त इति पुरुपविध इति विशेषणयोयापत्तरिति । नच सूत्रकृता स्फुटतयाऽनुक्तत्वादयमेव मूत्राशय इत्यत्र किं गमकमिति वाच्यम् । अविरोधाध्याये श्रुतेस्तु शब्दमूलत्वादिति सूत्रे यथाश्रुताङ्गीकारस्य सूत्रकृतैयोक्तत्वेना- त्रापि तथैव बोध्यत्वादिति । अत एव श्रीमागवतेऽपि न हि विरोध उभयं भगव- त्यपरिगणितगुणगण ईश्वरेऽनवगाह्यमाहात्म्य' इत्यादिनतदेवोपहितम् । लोकेऽपि वस्तुस्वभाव एव यत्र कार्यहेतुर्न तन युक्तिसम्भावना | तथा अयःकान्तसन्निधौ लोह. परिभ्रमणे, गर्भस्यौदर्येणादाहे, रेतसो मयूरादिभावे । अतो ब्रह्मणः श्रुत्येकसमधि- गम्यत्वायथाश्रुतमेव मन्तव्यम् । दृष्ट चेदं यशोदास्तनन्धयस्य चम्भालीलायां गृत्स्ना- भक्षणोत्तरं व्यादानलीलायां च मुखारविन्द विश्वं दर्शयतः । उलूखलवन्धने च सन्धी- यमानानां स्वगेहदाम्नां द्वचङ्गुलन्यूनता च । तेनानन्दांशस्यायं धर्मो, यत्र स्वाभिव्य- क्तिस्तत्र विरुद्धधर्माधारत्वमिति । इयमुपपत्तिरपि चकारेण सूत्र सूच्यते । तस्मात् प्रादे- शमात्रोऽपि व्यापक इति वैश्वानरो भगवानेवेति सिद्धम् ।। (अथात्र मतान्तराणि विचार्यन्ते । तत्र जाठरागिनतीकय जाठराग्न्युपाधिकस्य वा परमेश्वरस्योपास्यत्वं व्यासमते । जैमिनिमते तु तदुभयकल्पनं विनैव साक्षात् परमे- श्वरोपासनं विधीयत इति साक्षादपीति सूत्रे व्याख्यायाभिव्यक्त्यादिसूत्रेषु प्रादेशमात्र- वस्याविरोधो विचार्यत इति शङ्कराचायोः प्राहुः । तत्रेदमवधेयम् । आचार्यस्तद्गुरुः सर्ववेदव्यासकर्ता स्वयं समन्वयं प्रतिज्ञाय सरलां सुन्दरी जैमिनिविचारितां युक्तिं श्रुत्यादिसमतां जानानः किमिति नोपगतवान् । अथ दुष्टां तर्हि कुतो न दूपितवानिति । भास्कराचार्यास्तु, नायं वैश्वानरशब्दो जाठराग्न्यभिप्रायेण प्रयुक्तो, येनात्र तद्- गुणकोपासनं कल्प्येत । किन्तु यौगिकोऽयं शब्दो विश्वानरान् नयतीति । तद्धितस्तु राक्षसवायसादिवत् स्वार्थे । अभिविमानशब्दश्वाभिमुख्येन विचित्र जगन्निर्मिमीत इति वा, अभिगतश्चासौ विगतमानश्चेति वा योगेन | वैश्वानरशब्दस्य यौगिकार्थग्रहणे जाठ- रानलविशिष्टोपासनमनभिप्रेतं बादरायणस्येति साक्षात्मत्रं व्याचक्रः । तत्र वीज तु सौत्रोऽपिशब्दः । साक्षादविरोधं जैमिनिरपीत्यन्वयादिति तदाशयः । (1) चिहान्तर्गतो भागो मनिधी विद्यमानेषु प्राचीनहस्तलिखितत्रिष्वपि पुस्तकेषु नास्ति । भाष्य प्रकाशेध्य भागोक्षरशो मुद्रितो दृश्यते । स एवात्र निवेशित इति प्रतिभाति ।

७२ .. भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। रामानुजाचार्यास्तु मतदयेऽपि जाठरविशिष्टपरमात्मोपासनमङ्गीकृत्य, वैश्वानरश- ब्दोऽग्निसाधारणोऽपि परमात्मधर्मविशेपितो यथा विश्वपां नराणां नेतृत्वादिना गुणेन परमात्मानमेवाचष्ट इति निधीयते, तथा स एपोऽग्निवैश्वानरो यत्पुरुष इति वाजसने- यिपठितोऽग्निशब्दोऽपि येनेवाग्रनयनादिना गुणेन योगाज्ज्वलने वर्तते तस्यच गुणस्य निरुपाधिकस काष्ठां गतस्य परमात्मनि सम्भवादस्मिन् प्रकरणे परमात्मासाधारणधर्म- विशेपितः साक्षादव्यवधानेन परमात्मानमेवाभिवत्त इति साक्षात्स्त्रार्थमाहुः । सम्प- त्तिसूत्रे चोपासकैः क्रियमाणायाः प्राणाहुतेरनिहोत्रत्वसम्पादनार्थमुर प्रभृतीनां वेदित्वा- गुपदेश इति । आमननसूत्रे च,एनं यमूर्धत्वादिविशिष्टं वैश्वानरमस्मिन्नुपासकशरीरे प्राणा- हुत्याधारत्वायामनन्ति च । तस्य ह वो एतस्यात्मनो वैश्वानरस्य मुधैव मुतेजा इत्याहुः । तत्रापीदमवधेयम् । अत्र यौमपन्यवादिसंवादवाक्येपु, मूर्धा त्वेप आत्मनश्चक्षुष्टेत- दात्मन इत्यादिना यदुक्तं, तस्स निगमनमत्र प्रतीयते । तस्य ह वा एतस्यात्मनो वैश्वा- नरस्येति सर्वैः पदैस्तमेव परामृश्य मूर्धप्रभृतीनां सममिव्याहरणात् । तत्कथं सन्निहि- तपरित्यागेन व्यवहितस्योपासकस परामर्शः कर्तुं शक्यते । नचाने सुतेजःप्रभृति- भ्योऽतिरिक्तानामुरःप्रभृतीनां वेद्यादित्वकथनात् तथेति वाच्यम् । भगवतो विश्वकाय- त्वाय तन्मूर्धादीनां सुतेजस्त्वादिदृष्टयुपदेशवत्तस्य यज्ञत्वाय तदुरआदीनां वेदित्यादि- प्युपदेशस्य शक्यवचनतया तस्योपासकावयवगमकताया निश्चेतुमशक्यत्वात् । नचैवं सति तद् यद्भक्तं प्रथममागच्छेदित्यादौ यः प्राणामिहोत्राधारत्वेनोपासकास्यादिपरिग्रहः स कथं सङ्गच्छेतेति शङ्कयम् । सम्पत्तिसूत्रविपयवाक्ये वैश्वानरावयवानामुपासकमर्धा- दिपु सम्पत्तिकथनेन तेषां तत्र मानवदनुक्तानां तदुरप्रभृतीनामप्युपासकोर प्रभृतिषु सम्पत्त्या मानस्याभिप्रेततया सुखेनैव तदास्यादिपरिग्रहसगतेः । अत एव सर्वत्र वैश्वा- नरस्थितिबोधनायोपसंहारे, तस्मादुईवविद् यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि. हैवास वैश्वानरे हुतर स्यादिति श्रावितम् । तस्मादत्र न जाठरप्रतीकोपासना, तुदुपाधिकोपासना, नापि तद्विशिष्टोपासना । किन्तु केवलपरमात्मोपासनेति निश्चयः । शैवभिक्षु अप्येतेनैव दत्तोत्तरौ, माधवाश्च । प्रकृतमनुसरामः । एवमस्मिन् पाद जीवपुरःसरेणार्थसन्देहो निवारितः। मनोमयत्वादिधर्मवान् हिरण्यश्मश्रुत्वादिधर्मवानत्ताऽलौकिकभोगयोगेपि दोपरहितः प्रकटसच्चिदानन्दस्वरूपोऽधिदैवादित्रयनियामकोऽक्षरादुत्कृष्टः खत एव साकारो विरुद्ध- धर्माश्रयो भगवानेव, न जीव इति । तेन सर्वान्तर्याम्येको भगवानिति सिद्धम् । आधे-- यरूपो विचारित इति च) ॥ ३२॥८॥ इति श्रीमदल्लभाचार्यचरणनखचन्द्रकिरणसुधासमिक्तहृदयश्रीब्रज- नाथात्मजश्रीकृष्णचन्द्रविरचितायां तच्छिप्यपुरुषोत्तम- लिखितायां भावप्रकाशिकानिधार्या ब्रह्मसूत्रवृत्ती प्रथमाध्यायस द्वितीयः पादः॥१॥२॥ वा श्रीवजनावात्मजश्रीकृष्णचन्द्रकृता । ६५ विद्यामित्येव नाम वदेत् । न हि वेदाचार्यो ब्रह्मा स्त्रज्येष्ठपुत्राय वेदसारभूतां ब्रह्माविद्या विहाय सांख्यविद्यां वक्तुमर्हतीत्यपि चकारेण सूच्यते ॥ २२ ॥ रूपोपन्यासाच ॥ २३ ॥ 'अग्निम॑र्धा चक्षुपी चन्द्रमूर्या'वित्यादिनोक्तं रूपं विश्वकायस्य ब्रह्मण एव सम्भ- वति, न तु प्रकृतिपुरुपयोरन्यतरस, तन्मते केवलयोस्तथारूपानङ्गीकारात (तस्य)। नच लिष्टस्येति वाच्यम् । यथा सुदीप्तादित्यनेन केवलादक्षरात् सृष्टिमुक्त्या, ततो 'दिन्यो धमूर्त' इति केवलख पुरुषसाक्षात् परत्यमुक्त्या, तत 'एतस्माज्जायत इत्यनेन तादृशादेव सृष्टिकथनानन्तरम्, अग्निति रूपमुपन्यस्यत इति । तत्र श्लिष्टत्वस्वाशक्यवचनत्वा- दिति । अत्र मूत्रविभागादेपा मुख्योपपत्तिरिति मुच्यते । चकारेण श्रुत्यन्तराविरोधः, सर्वेषां वेदान्तानामेकवाक्यता च संगृह्यते । अत्रेद बोध्यम् । गीतायां द्वादशाध्याये, 'एवं सततयुक्ता य' इति सन्दर्भ अक्षरपुरुषोत्तमयोरक्यमवस्थाभेदेन भेदय बोधितः । पञ्चदशे च 'द्वाविमा वित्यादिना ( अक्षरपुरुषादुत्तमत्वं स्वस्योक्तम् । श्वेताश्चतरथुताबपि 'क्षरं प्रधानममृताक्षरं हर क्षरात्मानावीशते देव एक' इति ) अक्षरस्यात्मत्वं देवस्य धराक्षरेशितृत्व चोक्तम् । अतोऽवाक्षरस्य पुरुषत्वमुक्त्या पुरुषस्य तत उत्तमत्वं यदुच्यते, तेन गीताद्युक्तमेवाक्षरपुरुपयोः स्वरूपं ज्ञाप्यते, न तु तदतिहाय भूतमूक्ष्मरूपमक्षरम् । प्रकृतहानाप्रकृतकल्पनयोः प्रसङ्गात् । नच परत इति पञ्चम्यन्तस्य वैयर्थ्यम् । सांख्ये प्रधानस्याप्यक्षरपवाच्यताचद्वारणार्थ परत इत्यस्याक्षरविशेषणत्वेनावश्यकत्वादिति । तस्मादक्षरशब्देन पुरुषशब्देन च ब्रमण एवावस्थाभेदपुरःसरमुक्तत्वादेपा ब्रह्मविथैवेति सिद्धम् ॥ २३ ॥७॥ इति सप्तममदृश्यत्वाधिकरणम् । वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ एवमदृश्यत्वाद्यधिकरणेनान्तर्यामिणोऽदृष्टत्वे अदृश्यत्वरूपो हेतुः प्रसङ्गाद्दर्शितः। तथा, चराचरग्रहणादिभिखिभिरधिकरणैत्रिविधं भोगमुपपाद्य जीवतुल्यत्ववारणार्थमन्त- याम्पधिकरणे वैशेष्यं हृदयान्तवर्तिनि समर्थयित्वा अन्तर्यामिणो रूपाभावादेवादृश्यत्व- मिति शङ्कावारणाय रूपमपि तत्र प्रदर्शितम् । तत् तदा सङ्गतं स्थायदि परमात्मनः सा- कारता वास्तवी सात् । अतस्तदुपोद्घातत्वेनेदमधिकरणमधुना आरभ्यते । तद्विपयस्तु छा- दोग्ये सप्तमप्रपाठके श्रूयते । तत्रोपक्रमे, प्राचीनशालः सत्ययज्ञ इन्द्रद्युम्नो जनो बुडिल इतिनामानः पञ्चापि श्रुताध्ययनसम्पन्नाः कचन समेत्य मीमांसां चक्रः, किं ब्रह्मेति । अत्र किम आवृत्या वाक्यभेदस्य स्फुटत्वात् स्वात्मन्ब्रह्मणी अभिने भिन्ने वेति न संशयः, फिन्तु अस्माकमुपास्य ब्रम वा तदेकदेशो वेति संशयः । ततस्ते स्वतो निश्चयमलभमाना उद्दालकनामानमन्य वैश्वानरोपासकं संशयनिवारकत्वेन सम्भाव्य, न आत्मा , भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः । ततोऽपि तदानिवृत्तौ तेन सह पडपि कैकेयराजस्य वैश्वानरोपासकस्य निकटे गत्वोक्त- वन्तः । आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येपि, तमेव नो बृहीति । ततो राज्ञा पृथक् ते पृष्टाः 'कं त्वमात्मानमुपास्स' इति । तदा ते स्वस्वोपास्यत्वेन घुसूर्यवाय्वाकाशवारिए- थिवीः पृथक्पृथगुक्तवन्तः । तदा राज्ञा तत्तदुपास्यानां क्रमेण सुतेजस्व विश्वरूपत्वपृ- थम्वत्मित्वबहुलत्वरयित्वप्रतिष्ठात्वरूपान् गुणान् उक्त्वा तेषु वैश्वानरमर्धचक्षुःप्राण- देहमध्यभागवस्तिपादरूपता चोपदिश्यैकैकोपासने क्रमेण मूर्धविपातान्धत्वप्राणोत्क्रम- णदेहविशरणबस्तिभेदपाद विम्लानिकथनरूपया निन्दया तान् प्रतीकत्वेन बोधयित्वा स्वयं तत्स्वरूपमाह । यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, स सर्वेषु लोकेषु भूतेषु सर्वेप्वात्मस्वन्नमत्ति, तस्य ह वा एतस्यात्मनो वैश्वानरस्य मृर्धेव सुतेजाः, चक्षुर्विश्व- रूपः, प्राणः पृथग्वत्मिा, सन्देहो बहुलो, यस्तिरेव रयिः, पृथिव्येव पादावुर एव बेदिलोमानि बहिस्दयं गार्हपत्यो, मनोऽन्वाहार्यपवन, आस्यमाहवनीय इत्यादि । तत्र संशयः । किं वैश्वानरशब्देन ब्रह्म प्रतिपादयितुं शक्यते, न वेति । ननूपक्रमे ब्रह्मात्मपदयोः सत्त्वाद् उपक्रमस्य चासनातविरोधत्वादत्र सन्देह एव कथं घटत इति चेत् । सत्यम्। तथापि तदुपपादकयुक्तरग्रे अदर्शनेन वैश्वानरश्रुतेबलिष्ठतायां तयोरुपास- नापरतयापि नेतुं शक्यतया, विमतो वैश्वानरो न ब्रह्म, साकारत्वाल्लोकवदितिन्यायेन च सन्देहस्य सम्भवदुक्तिकत्वात् । तर्हि किमत्र युक्तम् । नेति । कुतः । वैश्वानरशब्दस्य श्रुतौ प्रजापतौ प्रसिद्धत्वात् ‘संवत्सरो वा अग्निवैश्वानरं केतुमदामकृण्व'निति भूतानाविव, 'वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्री रिति देवतात्मन्यपि प्रसिद्ध इति देवतात्मपरिग्रह एव युक्तः । एवं पूर्वकाण्डे सिद्धावप्युत्तरकाण्डे संवत्सरादिश्रुतेर्विश्वा- नरः प्रथमः पाद इतिश्रुतेश्च हिरण्यगर्भोपासनापरमिदं वाक्यमित्येव युक्तम् । ब्रह्मना- मत्वेन जीवसमष्टिरूपत्वेन ब्रह्मात्मशब्दयोस्तत्र युक्ततरत्वात् । अत एव उपासकस्य सर्वान्न- भोजनमपि युक्तम् । प्रादेशमात्रत्वमपि तस्य मुख्यजीवत्वादस्मदायपेक्षया स्थूलत्वामि- प्रायम् , विराडभिमानित्वाल्लोकावयवत्वम् , वेदगर्भत्वादग्नित्रयात्मकत्वं च । तस्माद्धि- रण्यगर्मोपासनापरत्वमेव युक्तम् । न तु परमात्मपरत्वमिति प्राप्ते । उच्यते । वैश्वानरेत्यादि । वैश्वानरः परमात्मैव । कुतः ? साधारण- शब्दविशेषात् । साधारणाः पूर्वपक्षोक्तरीत्या हिरण्यगर्भसाधारणा ये शब्दास्ते भ्योऽपि विशेषात् । प्रादेशमात्रस्यैवामितो विगतमानत्वलक्षणादाधिक्यात् । ता- दृशस्पैव द्युमूर्धत्वादिलक्षणादाधिक्याच । न हि विरुद्धधर्माश्रयत्वं भगवद्व्यति- रिक्त सम्भवति । सर्वभवनसामर्थ्यवान्यत्रामावात् । ननु प्रादेशमात्राभिविमान- शन्दयोः पूर्वपरतया समभिव्याहारादस्तु विरुद्धधर्माश्रयत्वम् , तथापि द्युमूर्धत्वा- देःहिरण्यगर्भसाधारण्यं कथं निवर्ततामितिचेत् । उच्यते । समानप्रकरणे वाजसनेयिभिरत्र पुरुषत्वं श्राव्यते । अत्र च मूर्धेव सुतेजा इत्यादिभिराकारकथनेन तदेव समर्पते । एवञ्चा- . . श्रीनजनाथात्मजश्रीकृष्णचन्द्रकृता। ६७ कारविशेपे रूढोऽपि पुरुपशब्दः, कारवाच्ये ब्रह्मण्येव मुख्यवृत्तः । ॐकारविकृतित्वात् । आनन्दमयाधिकरणेऽन्तःस्थस्यानन्दमयस्य परस्यैव विज्ञानमयादिपु पुरुषाकारसमर्पकत्वे- न विमृष्टत्वाच। एवं सति, पुरुपौ चात्ममानवावित्यभिधानकोशेनान्यत्र शक्तिग्राहणेऽपि 'सहस्रशीर्षा पुरुपः वेदाहमेतं पुरुपं महान्तं, मरुपो ह वै नारायणोऽकामयते'त्यादिश्रुतिपु, 'तथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते, विना तं पुण्डरीकाक्षं कोऽन्यः पुरुपशब्दभाक, भगवानिति शब्दोऽयं तथा पुरुष इत्यपि, निरुपाधी च वर्तेते वासुदेवे सनातने, ब्रह्माद्याः सकला देवा यक्षगन्धर्व किन्नराः, ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति' इति पुराणान्तरात् । स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते, स्त्रीप्रायमितरत् सर्वं जगद् ब्रह्मपुरःसरम् , स एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः, प्रकृतिस्पर्शराहित्यात् खातन्त्र्याद्वैभवादपि' इति नृसिंहपुराणाच । अन्येषु तु तदंशत्वाद् गौणः। नचात्र शिवस्यानुक्तत्वात् 'पुरुषो वै हर' इतिश्रुतेश्च तत्र मुख्यवृत्तत्वं शङ्कयम् । प्रकृतिस्पर्शरा- हित्यस्वातन्त्र्याभ्यां तस्यापि वारणात् । 'शिवशक्तियुतः शश्व'दिति श्रीभागवतवाक्येन, 'जगत्करणतापन्नः शिवया मुनिपुङ्गवाः, सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थक इत्यादिभिः पञ्चविंशद्भिः सुतसंहितावाक्यैश्च सर्वावस्थासु शिवस्य प्रकृतियुक्तत्वतद- धीनत्वयोरेवोक्तत्वात् । नच कारणस्य सर्वाभिः कार्यावस्थाभिरवस्थावत्चात्तादृशं रूपं ध्यानार्थमेवोच्यते, न तु वास्तवं कारणरूपमिति वाच्यम् । अत्र, 'मूर्धेव सुतेजा' इत्या- दिना सिद्धान्येवाङ्गानि निर्दिश्य तेषां पुरुपत्यादि विधानेनाङ्गानां तथात्वस्य वक्तुम- शक्यत्वात् । नच साकारस लोकन्यायेनाब्रह्मत्वं शङ्कयम् । विरुद्धधर्माश्रयत्वेनैव सिद्धे वैश्वानरस्य ब्रह्मत्वे तस्याप्रयोजकत्वात् । अलौकिकाकारत्वेन सत्प्रतिपक्षत्वाञ्च । एवं । सिद्धे तस्य स्वाभाविक आकारे सर्वात्मकत्वे तस्याप्रयोजकत्वाद, अलौकिकाकारत्वेन सत्प्रतिपक्षत्वाच्च । एवं सिद्धे च लोकात्मकत्वे मन्त्रविधीयमानमपि रूपं तस्यैव, न तु तत्कार्यस्य हिरण्यगर्भस्यान्यस्य वेति । नच वैश्वानरोक्तिविरोधः । विश्वो वैश्वानरः प्रथमः पाद इति ब्रह्माण्डदेहस जडस्य, विश्वस्य तैजसो हिरण्यगर्भो द्वितीयः पाद इति तदन्तर्गतस्य मुख्यजीवस्य नरस्य च भगवदंशत्वेन देवतात्वाद्, देवताद्वन्द्वे कृते विश्वानरौ तौ निवासो यस्येति तद्धिते कृते योगेन भगवद्बोधने विरोधाभावात् । नच रूढयपेक्षया नैर्वल्यम् । औत्सर्गिकरूढेरत्र प्रागेव व्युत्पादनादिति । तस्माद्वैश्वा- नरः परमात्मेति सिद्धम् ॥ २४॥ स्मर्यमाणमनुमान स्यादिति ॥ २५ ॥ ननु पूर्वसूत्रेण सिद्धे वैश्वानरस्य ब्रह्मत्वे किमिति सूत्रान्तरारम्भ इति शङ्कायां प्रकारान्तरेण श्रुत्युपपादनव्यावृत्त्यर्थं पठति । स्मर्यमाणेत्यादि । 'केचित् वदेहान्त- १ श्रुत्युपपादनसंभवादाग्रहबादनिरासार्थमिति पाठः।

६८ भावप्रकाशिका | बासूत्रवृत्तिः। ईदयावकाशे प्रादेशमात्रं पुरुप वसन्तम् , चतुर्भुजं कजरथाङ्गशङ्खगदाधरं धारणया स्मरन्तीति स्मर्यमाणं रूप प्रादेशमात्रवैश्वानरस्य ब्रह्मत्वेऽनुमानं स्यादिति हेतोः प्रादेश- मात्रो वैश्वानरो ब्रह्मैव । ये हि ब्रह्म स्मरन्ति, ते श्रुतितः श्रुत्वैव स्मरन्ति, अतो मननरूपं तत् । यदि प्रादेशमातवैश्वानरप्रतिपादकवाक्यजातीयानां ब्रह्मवाक्यत्वं न स्यात् । तदा एतत्स्मरण नोपपद्येत । तथाच, 'अनन्तशाखासापेक्षे वैदिकार्थस्य निर्णये, स्वयुद्धिकल्पि- तादाद बलीयानुपरहित्त' इति बोधनायेदं सूत्रमित्यर्थः ॥२५॥ शब्दादिभ्योऽन्तःप्रतिष्ठानान्नति चेन्न तथादृष्टयुपदेशा- दसम्भवात् पुरुपमपि चैनमधीयते ॥ २६ ॥ ननु यदि स्मर्यमाणसानुमानतया तदनुरोधेन वाक्यार्थो निर्णीयते, तदा 'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः, प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विध मिति स्मृत्यन्तराजा. ठर एवाग्निर्वैश्वानरो भवतु । नच वाक्यार्थविरोधः शङ्कचः। तस्य भगवद्विभूतित्वेन यथा- कश्चिद्योजनसम्भवात् । नचैवं सति भगवत्परत्वमेवास्त्वितिशङ्कयम् , विरुद्धधर्माणां विद्यमानत्वात् । के ते इतिचेत्,तबाह । शब्दादिभ्योऽन्तःप्रतिष्ठानादिति। वाजिनां वैश्वानर- विद्याप्रकरणे, य एपोग्निवैश्वानरो योऽयमन्तःपुरुपे येनेदमन्नं पच्यते यदिदमद्यत इति वैश्वा- नरपदसमाभिव्याहृतोऽग्निशब्दः। आदिपदेनात्रापि 'हृदयं गार्हपत्य' इत्यादिनोत्तस्योपा- सनार्थ त्रेताग्निकल्पनस्य 'तद्यद् भक्तं प्रथममागच्छेत् तद्वोमीय'मित्यादिनोक्तस्य प्राणादि- देवताकाहुत्याधारत्वस्य च संग्रहः । तेभ्यः शब्दादिभ्यः पुरुपेऽन्तःप्रतिष्ठितमित्यन्त प्रति- छानान्न परमात्मपरत्वं वाक्यस युक्तमिति चेत्, न । जाठरविभूतिपरत्वं न वक्तुं शक्यम् । कुतः । तथाटप्टयुपदेशात् । भगवतः सर्वभोक्तृत्वं वक्तुमनेन शब्देन भगवति जाठरदृष्टः कर्तव्यत्योपदेशात् । असम्भवात् । धुमूर्धत्वादीनां धर्माणां जाठरे असम्भवात् । नचोपास- नार्थ तत्कल्पनमुपचारादिति वाच्यम् । पुरुषमपि चैनमधीयते च पुनः वाजसनेयिनः, 'स एपोग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुपं पुरुषविधं पुरुपेऽन्तःप्रतिष्ठित घेदेति एनं वैश्वानरं पुरुषमपि वदन्ति । तथा जाठरे असम्भयतां धर्माणामत्रोपदेशा- द्भगवति च तेषां सच्चात् प्राप्ताप्राप्तविवेक कृते भगवत्परत्वमेव वाक्यस्य सेत्स्यति, जाठरपरत्वम् । 'सर्वे वेदा यत्पदमामनन्तीति श्रुत्या सर्ववेदस भगवत्परत्वे श्राविते था गाण्यादरस्यायुक्तत्वादित्यर्थः ।। २६ ॥ अत एव न देवता भूतं च ॥ २७ ॥ अत एव भगवत्परत्वे सम्भवत्यन्यपरत्वकल्पनस्यायुक्तलादेव, अग्न्यमिमानी देवता, महाभूतनीयं तेजश्च नान वाक्यार्थ इत्यर्थः ॥ २७ ॥ न - श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता। साक्षादप्यविरोधं जौमिनिः॥ २८ ॥ एवं भगवदसाधारणेन विरुद्धयोः पादेशमात्रत्वाभिविमानत्वयोराश्रयत्वेन वैश्वा- नरस्य परत्वे निणीय तयोरुभयोरपि साहजिकत्वे विरुद्धधर्माश्रयस्वं सिध्यदिति प्रादे- शमानत्वं विचारयति । तत्रास्मिन्नर्थे चत्वार ऋपयो वेदार्थविचारकाः प्रकारभेदेन । तब केवलशब्दबलविचारका आचार्या शब्दार्थयोर्यलेनार्थविचारको जैमिनिः। शब्दो- पसर्जनतयार्थविचारक आश्मरथ्यः । केवलार्थविचारको बादरिरिति । तत्र बृहदारण्यके 'मा ते मूर्धा व्यपतदनतिप्रश्न्या वै देवता अतिपृच्छमि गााग मातिप्राक्षी रित्यतिप्रश्ने दोपश्रावणेन, कठवल्ल्यांपा तण मतिरापनयेति निषेधेन च कल्पनया विचारे दोष श्रावितः । तैत्तिरीये च 'तत्त्वेव भयं विदुषोऽमन्वानस्य'त्यविचारेऽपि दोषः श्रावितः। अत आचार्यों विचाराविचारयोर्दोपं पश्यन् , 'तदन्वेष्टव्यं तद्विजिज्ञासितव्य'मित्यादिश्रुते- विचारमपि वदन स्वशास्ने द्विविधमपि विचारमुपनिवबन्ध। तान्यापेक्षयोत्कृष्टत्यात् पूर्व जैमिनेर्मतमाह । सामादित्यादि । व्यापकस्य प्रादेशमात्रत्वं साक्षादपि कल्पना विनापि स्वरूपविचारेणयाविरोध जैमिनिमन्यते । अयमर्थः। श्रुतौ 'ह्याकाशवत् सर्वगतच नित्य'इति सर्वतः पाणिपादं तदिति 'यदेकमव्यक्तमनन्तरूप मिति नियतपरिणामपक्षेऽपि स्वेच्छ- येव केवलं ब्रह्मणो व्यापकत्वं साकारत्वमनन्तमूर्तिस्यं च थावितम् । तथा, 'बहु स्या'मि- तीच्छया बहुभवनमपि सिद्धम् । एवं सति नियतपरिमाणपक्षे स्वेच्छगैव केनचिद्रपेणा- मिविमान कैनचिद्रपेण प्रादेशमात्रमित्यविरोधः । अनियतपरिमाणपक्षे तु एकमेव स्वरू- पमाकाशवनानापरिच्छेदककृतवृतिहासाभ्यां नानापरिमाण सर्वतः पाणिपादत्वात् पूर्ण प्रतीयत इत्याविरोधः । नानारूपत्वं च स्मृतावप्युक्तम् । 'विष्णोस्तुत्रीणि रूपाणि पुरुपाख्यान्यथो विदः, प्रथम महतः स्रष्ट्र द्वितीय स्थण्डसंस्थितम् , वृत्तीयं सर्वभू- तस्थं तानि ज्ञात्वा विमुच्यते' इति । तत्र सर्वभूतस्थं भूतेषु पञ्चधा तत्तकार्यार्थ तिष्ठति । उदरे पुरुषोऽङ्गठमात्रः । 'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठती'ति । 'अधो निष्ठया वितस्त्यान्ते नाभ्यामुपरि तिष्ठती ति श्रुतेः । हृदये ध्यानार्थ प्रादेशमात्रः पूर्य- मुक्त एव । शिरसि च सर्वार्थमग्रे वक्ष्यते । मनसीन्द्रियेषु चाणुः । चक्षुपचारित्यादि- श्रुतेस्तनियमनाय तत्र तिष्ठस्तदनुरोधात्तथा । तत् सर्वव्यापकं चित्तमाकप्य योनि धारर्यदित्यादिवाक्यानयुद्ध्यर्थं तत्र तिष्ठन्-व्यापक इति । अतो वैश्वानरस्य पुरुषत्वात सच्चिदानन्दरूपेणैव प्रादेशमानत्वं न विरुध्यते इति साकारब्रह्मवाद एव अमिनः सिद्धान्तः । चतुर्लक्षण्यन्तभागे स्थितस्य, स विष्णुराहेति, तद्मोत्याचक्षते इति सूत्र दयस्य शतदूपणीकारप्रभृतिभिः स्वस्वग्रन्थ उपन्यासादिति ॥ २८ ।। अभिव्यक्तरित्याश्मरथ्यः ॥ २९ ॥ एतदादिषु त्रिपु अविरोधमित्यस्यानुपङ्गो बोध्यः । अर्थस्तु निराकारमेव जी मायाजवनिकाच्छन्नं, चदपगमे प्रणवमात्रीयदेवताधिष्ठितेन पुरुषाकारेणामिव्यज्यते । - भावप्रकाशिका | ब्रह्मसूत्रवृत्तिः। सोभिव्यक्तः पुरुषोन्तर्यामी । अत एव पुरुपविध इत्युक्तम् । अभिव्यक्तिहेतुकत्वादा. कारस्य न स्वाभाविकत्वम्, अतः प्रादेशमात्रत्वमपि । तथापि निर्दिश्यमानं वस्तु सचिदान- न्दरूपमेवेत्याश्मरथ्य आचार्योऽभिव्यक्तेहेतोरविरोधं परिमाणस्य मन्यत इत्यर्थः ॥२९॥ अनुस्मृतेर्वादरिः ॥ ३०॥ वादरिस्तु केवलयौक्तिकोऽनुचिन्तनवगात् प्रादेशमात्रो हृदि प्रादुर्भवतीति ताह- शरूपानुवादिका श्रुतिरित्येवमविरोधं मन्यते । 'यदयद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहायेति वाक्यानुरोधात् । अस्मिन् पक्षे त्वतात्त्विकम् ॥३०॥ सम्पत्तेरितिजैमिनिस्तथाहि दर्शयति ॥ ३१ ॥ जैमिनिमते पूर्वत्र प्रकारद्वयं प्रदर्शितम् । अग्निहोत्रं जुहोति यवागू पचतीत्यत्र शाब्दक्रमादार्थक्रमस्य बलवत्त्वाङ्गीकारादत्राप्यभिविमानस्य प्रादेशमात्रताया आकाशवत् परिच्छेदकवशादुपपद्यमानत्वात् । आद्य तु तदेकदेशिनोऽभिप्रेतम्। तयोः किं बलवदि- त्याकाड्यायामेकदेशिनिराकरणाय सम्पत्तेः सकाशात् 'प्रादेशमात्रताया अविरोधं जैमि- निर्मन्यते । तत्र का सम्पत्तिः, कथं च सेत्याकांक्षायां तत्र प्रकारं हि यतो हेतोरेक- देशिव्युदासाय श्रुत्या स्वयं दर्शयति । श्रुतिस्तु वाजसनेयिब्राह्मणे । 'प्रादेशमात्रमिह वै देवा सुविदिता अभिसम्पन्नास्तथा तु व एतान् वक्ष्यामि यथा प्रादेशमात्रमेवाभिस- म्पादयिप्यामीति स होवाच, मूर्धानमुपदिशन्नुवाच एप वै अतिष्ठा वैश्वानर इति, चक्षुपी उपदिशन्नुवाच एप वै सुतेजा वैश्वानर इति, नासिके उपदिशन्नुवाच, एप पृथग्यमात्मा वैश्वानर इति, मुख्यमाकाशमुपदिशन्नुवाच एप वै बहुलो वैश्वानर इति, मुख्या अप उपदिशन्नुवाच, एप वै रयिवैश्वानर इति, चिबुकमुपदिशन्नुवाच एप वै प्रतिष्ठा वैश्वानर इतीति। अत्र हि द्युप्रभृतिपृथिवीपर्यन्तान् वैश्वानरावयवानुपासकाध्यात्ममूर्धा- दिचियुकपर्यन्तेषु आधारानुरोधेन सम्पादयति । तयाचैपा सम्पत्तिरेतत्कृतं प्रादेशमात्र- त्वम्, न स्वाभाविकम् । तथाचान्यत्र तथाऽस्तु वैश्वानर इति जैमिन्याशय इत्यर्थः ॥३१॥ आमनन्ति चैनमस्मिन् ॥ ३२ ॥ एवं मतान्तराण्युक्त्या मुख्य स्खसिद्धान्तमाह । आमनन्तीत्यादि । एवं व्यापक- मेव वैश्वानरम् एतस्मिन् मूर्धचियुकान्तराले जावाला आमनन्ति । 'एपोऽनन्तोऽव्यक्त आत्मा योऽपिमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति । वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीति । सर्वानिन्द्रियकृतान् दोपान् वारयति तेन वरणा भवतीति । मर्वान् इन्द्रियकृतान् पापानाशयति तेन नासी भवतीति । कतमचास स्थानं भवतीति । भुवोः प्राणस च यः सन्धिः स एप श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता। ७१ द्यौर्लोकस्य च परस्य च सन्धिर्भवतीति । अत्र मूर्धचिवुकान्तराले प्रतिष्ठितस्यानन्त- त्वमाम्नातम् । तथा पूर्वोक्त वाजसनेयिब्राह्मण एकस्यैव वैश्वानरस्य पुरुषत्वं पुरुषवि- घत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चाम्नातम् । न ह्यनन्तस्य संकुचिते स्थाने स्थितिः सम्भ- वति, न वा तस्यैव तद्विधत्वं, तत्र प्रतिष्ठितत्वं च । नच तत्र कालापरिच्छेदोऽत्र च पुरुपान्तरविवस्वादिकमेवोच्यते इति वाच्यम् । आत्मत्वेनैव सिद्धे कालापरिच्छेदे, पुरुषत्वेनैव च सिद्ध तद्विधत्वेऽनन्त इति पुरुपविध इति विशेपणयोय.पत्तेरिति । नव सूत्रकृता स्फुटतयाऽनुक्तत्वादयमेव सूत्राशय इत्यत्र किं गमकमिति वाच्यम् । अविरोधाध्याये श्रुतस्तु शब्दमूलत्वादिति सूत्रे यथाश्रुताङ्गीकारस्य सूत्रकृतैवोक्तत्वेना- वापि तथैव बोध्यत्वादिति । अत एव श्रीभागवतेऽपि न हि विरोध उभयं भगव- सपरिगणितगुणगण ईश्वरेऽनवगायमाहात्म्य' इत्यादिनैतदेवोपहितम् । लोकेऽपि वस्तुस्वभाव एव यत्र कार्यहेतुर्न तत्र युक्तिसम्भावना । तथा अयःकान्तसन्निधौ लोह- परिश्रमणे, गर्भस्यौदर्येणादाहे, रेतसो मयूरादिभावे । अतो ब्रह्मणः श्रुत्येकसमधि- गम्यत्वाद्यथाश्रुतमेव मन्तव्यम् । दृष्टं चेदं यशोदास्तनन्धयस्य जुम्भालीलायां मृत्स्ना- भक्षणोत्तरं व्यादानलीलायां च मुखारविन्दे विश्वं दर्शयतः । उलूखलबन्धने च सन्धी- यमानानां स्वगेहदाम्नां चङ्गालन्यूनता च । तेनानन्दांशस्यायं धर्मो, यत्र स्वाभिव्य- क्तिस्तत्र विरुद्धधर्माधारत्वमिति । इयमुपपत्तिरपि चकारेण सूत्रे सूच्यते । तस्मात् प्रादे- शमात्रोऽपि व्यापक इति वैश्वानरो भगवानेवेति सिद्धम् ।। (अथात्र मतान्तराणि विचार्यन्ते । तत्र जाठराग्निप्रतीकस्य जाठराग्न्युपाधिकस्य वा परमेश्वरस्योपासत्वं व्यासमते । जैमिनिमते तु तदुभयकल्पनं विनैव साक्षात् परमे- श्वरोपासन विधीयत इति साक्षादपीति सूत्रे व्याख्यायाभिव्यच्यादिस्त्रेषु प्रादेशमात्र- त्वस्याविरोधो विचार्यत इति शङ्कराचायोः प्राहुः । तत्रेदमवधेयम् । आचार्यस्तद्गुरुः सर्ववेदव्यासकर्ता स्वयं समन्वयं प्रतिज्ञाय सरला सुन्दरी जैमिनिविचारितां युक्तिं श्रुत्यादिसंमतां जानानः फिमिति नोपगतवान् । अथ दुष्टां तर्हि कुतो न दृपितवानिति । भास्कराचार्यास्त, नायं चैश्वानरशब्दो जाठराग्न्यभिप्रायेण प्रयुक्तो, येनात्र तद- गुणकोपासनं कल्प्येत । किन्तु यौगिकोऽयं शब्दो विधानरान् नयतीति । तद्धितस्तु राक्षसवायसादियन स्वार्थे । अभिविमानशब्दवाभिमुख्येन विचित्रं जगनिर्मिमीत इति चा, अभिगतचासो विगतमानथेति वा योगेन । वैश्वानरशब्दस्य यौगिकार्थग्रहणे जाठ- शुनलविशिष्टोपासनमनभिप्रेतं बादरायणस्येति साक्षात्सूत्रं व्याचकः । तत्र वी तु सांत्रोऽपिशब्दः । साक्षादविरोध जैमिनिरपीत्यन्वयादिति तदाशयः । (१) चिहान्तर्गतो भागो महँनिधी विद्यमानेषु प्राचीनहस्तलिखितत्रिवपि पुस्तकेषु नास्ति । माध्य प्रकारोभ्य भागोक्षरशो मुदितो रयते । स एवान निवेधित इति प्रतिभाति । । ..

७२
भावप्रकाशिका ब्रह्मसूत्रवृत्तिः।
रामानुजाचार्यास्तु मतद्वयेऽपि जाठरविशिष्टपरमात्मोपासनमङ्गीकृत्य, वैश्वानरश-
ब्दोऽग्निसाधारणोऽपि परमात्मधर्मविशेपितो यथा विश्वेषां नराणां नेतृत्वादिना गुणेन
परमात्मानमेवाचष्ट इति निश्चीयते, तथा स एपोऽग्निर्वैश्वानरो यत्पुरुप इति वाजसने-
विपठितोऽग्निशब्दोऽपि येनैवाग्रनयनादिना गुणेन योगाज्ज्वलने वर्तते तस्यैव गुणस्य
निरुपाधिकस्य काष्ठां गतस्य परमात्मनि सम्भवादस्मिन् प्रकरणे परमात्मासाधारणधर्म-
विशेपितः साक्षादच्यवधानेन परमात्मानमेवाभिधत्त इति साक्षात्स्त्रार्थमाहुः । सम्प-
त्तिसूत्रे चोपासकैः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसम्पादनार्थमुरःप्रभृतीनां वेदित्वा-
गुपदेश इति । आमननसूत्रे च,एनं द्यमूर्धत्वादिविशिष्टं वैश्वानरमस्मिन्नुपासकशरीरेप्राणा-
हुत्याधारत्वायामनन्ति च । तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूधैव सुतेजा इत्याहुः ।
तत्रापीदमवधेयम् । अत्र ह्यौमपन्यवादिसंवादवाक्येषु, मूर्धा त्वेप आत्मनश्चक्षुष्ट्येत-
दात्मन इत्यादिना यदुक्तं, तस्य निगमनमत्र प्रतीयते । तस्य ह वा एतस्यात्मनो वैश्वा-
नरस्येति सर्वैः पदैस्तमेव परामृश्य मूर्धप्रभृतीनां समभिव्याहरणात् । तत्कथं सन्निहि-
तपरित्यागेन व्यवहितस्योपासकस्य परामर्शः कर्तुं शक्यते । नचाग्रे सुतेजःप्रभृति-
भ्योऽतिरिक्तानामुराभृतीनां वेद्यादित्वकथनात् तथेति वाच्यम् । भगवतो विश्वकाय-
त्वाय तन्मूर्धादीनां सुतेजस्लादिदृष्टयुपदेशवत्तस्य यज्ञत्वाय तदुरआदीनां वेदित्वादिड-
एयुपदेशस शक्यवचनतया तस्योपासकावयवगमकताया निश्चेतुमशक्यत्वात् । नचैवं
सति तद् यद्भक्तं प्रथममागच्छेदित्यादौ यः प्राणाग्रिहोत्राधारत्वेनोपासकास्यादिपरिग्रहः
स कथं सङ्गच्छेतेति शङ्कथम् । सम्पत्तिसूत्रविषयवाक्ये वैश्वानरावयवानामुपासकमर्धा-
दिपु सम्पत्तिकथनेन तेपां तत्र मानवदनुक्तानां तदुरःप्रभृतीनामप्युपासकोरप्रभृतिपु
सम्पत्या मानस्याभिप्रेततया सुखेनैव तदास्यादिपरिग्रहसमतेः । अत एव सर्वत्र वैश्वा-
नरस्थितियोधनायोपसंहारे, तस्मादुहवं विद् यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि
हैवास्य वैश्वानरे हुतर स्यादिति श्रावितम् । तस्मादत्र न जाठरप्रतीकोपासना, न वा
तदुपाधिकोपासना, नापि तद्विशिष्टोपासना । किन्तु केवलपरमात्मोपासनेति निश्चयः ।
शैवमिस् अप्यतेनैव दत्तोत्तरी, मावाश्च ।
प्रकृतमनुसरामः । एवमस्मिन् पादे जीवपुरःसरेणार्थसन्देहो निवारितः ।
मनोमयत्यादिधर्मवान् हिरण्यश्मश्रुत्वादिधर्मयानत्ताऽलौकिकभोगयोगेपि दोपरहितः
प्रकटसचिदानन्दस्वरूपोऽधिदैवादित्रयनियामकोऽक्षरादुत्कृष्टः स्वत एव साकारो विरुद्ध-
धर्माश्रयो भगवानेव, न जीव इति । तेन सर्वान्तर्याम्येको भगवानिति सिद्धम् । आधे.
यरूपो विचारित इति च) ॥३२॥८॥
इति श्रीमदल्लभाचार्यचरणनसचन्द्रकिरणमुधासंमिक्तहृदयश्रीवज-
नाथात्मजश्रीकृष्णचन्द्रविरचितायां वच्छिप्यपुरुषोत्तम-
लियितायां भावप्रकाशिकामिधायां ममत्रवृत्ती
प्रथमाध्यापस द्वितीयः पादः॥ १॥२॥

अथ प्रथमाध्यायस्य तृतीयः पादः। .. - अ॒भ्वाद्यायतनं स्वशब्दात् ॥ १॥ द्वितीयपादस्यान्तस्तद्धर्माधिकरणप्रपञ्चरूपत्वादाधेयरूपो भगवानन्तर्यामी निरू- पितः। तेनाष्टाधिकरण्यां 'उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः, यो लोकत्रयमाविष्य विभर्त्यव्यय ईश्वर' इति गीतोक्तलक्षणमपि विचारितम् । प्रथमेऽधिकरणे अन्तःस्थस्य मनोमयत्वादीनां (धर्माणाम, द्वितीये हिरण्यश्मश्रुत्वादीनां च ) विचारेण ताह- शधर्मविशिष्टत्वस्य तत्र सिद्धया, ततनिभिः कार्यबोधनेन विभर्तिपदार्थस्य धार- णपोषणात्मकस्वरूपसिद्धया, ततोऽन्तर्याम्यधिकरणेऽन्यत्वपरमात्मत्वावेशानां सपरि- करस्य लोकत्रयस्य च खरूपज्ञापनेन, ततोऽदृश्यत्वायधिकरणेऽक्षरादुत्तमत्वेनाव्य- यत्वस, वैश्वानराधिकरणे विरुद्धधर्माधारत्वेनेश्वरत्वस्य च सिद्धया तथाऽवसायात् । अतः परं तृतीयपादे तलिङ्गाद्यधिकरणप्रपञ्चरूपतया आधाररूपो विचार्यते । तेन सर्व ब्रह्मेति फलनात् सर्वेषां ब्रह्मणि समन्वयः सेत्स्यति । नच पूर्वपाद आ- धेयनिरूपणेऽप्याकाशात्मत्वाकाशज्यायस्त्वादिभिर्व्यापकत्वावधारण आधारताऽप्यवधा- रिता भवत्येवेति व्यर्थः पादारम्भ इति वाच्यम् । तत्र प्रेत्याभिसम्भवाध्वपारप्राप्त्यन्त- रात्मत्यादीनामाधेयत्वसाधकानामुपपादितत्वेन तेषां बलिष्ठतया आकाशात्मत्वादीनामा- धारत्वसाधकानां चानुपपादितत्वेन निर्बलतया आधारस्वधर्मस्य बाध्यत्त्वमाशयेतेति तन्निधारणार्थमावश्यकत्वात् । पादक्रमनियामिका तु जडार्थयारणरूपाऽवसरसङ्गतिरेवेति न पुनरुच्यते । तत्राथर्वणोपनिषदि द्वितीयमुण्डके श्रूयते। 'यस्मिन् यौः पृथिवी चान्त- रिक्षमोतं मनः सह प्राणैश्च सर्वैः, तमेवैकमात्मानं जानथान्या वाचो विमुञ्चथाऽ- मृतस्यैप सेतु रिति। नचास्यैव वाक्यस्य कुतः पूर्व विचार इति शङ्खयम् । एतद्वाक्यस्वार्थ- प्रकरणलिङ्बोधितत्वभानेन तन्निर्णयस्यात्यन्तमावश्यकतया पूर्व तस्यैव विचार्यत्वात् । अत्र संशयः । शुभ्वाचायतनं ब्रह्म वा, पदार्थान्तरं वेति । किमत्र युक्तम् ? अर्थान्तरमेवेति। अत्र युभ्यादीनामोतत्वोक्त्या सूत्रप्रोतमणिकुसमादिय भारत्ययोधनात्त- दाहकस्यार्थवलादेव परमात्मत्वनिरामात् । एकविज्ञानेन सर्वज्ञानस्यारम्भ एव पृष्टत्वे- नात्रोच्यमानवाग्विमोकस्य प्रकरणविरुद्धत्वात् । सेतोः प्राप्तिसाधनत्वेन शब्दसामर्थ्य- विचारेऽप्यफलतयेत्र सिद्धरात्मलाभश्रतिविरुद्धवाच्च । किन्तु सांख्योक्तस प्रधानस्य या तद्विशिष्टस्य पुरुषस्य वा बोधकमिदं वारयमिति प्राप्ते । उच्यते । घुम्वित्यादि । उक्तवाक्योक्तानां धुभ्वादीनाम् आयतनं ब्रह्मैव । कुतः । स्वश- ब्दात् । घुम्बादीनां सपाम् अनारोपितानागन्तुकभूतस्यरूपत्योधकादात्मशब्दात् । स्वपदमत्र श्रौतात्मपदच्याख्यानरूपम् । तयाच नेदं जीवस्यात्मत्येनोपासनार्थमात्मर दम्, किन्तु पूर्वोक्तानामात्मभूतमिति बोधनार्थमिति लभ्यते । अतः कारणे कार्यस्यो १.

भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः । ततया भारत्वाभावान्नार्थकृतो बाधकः । तज्ज्ञानस्यामृतत्वसाधकतया ज्ञानद्वारा सेतुत्व- खापि युक्तत्वान्न लिङ्गादपि वाधः। अतो बाधितार्थत्वाभावाल्लक्ष्यं सर्वगतं चैवेत्युक्तस लक्ष्यस्य सर्वगतत्वव्युत्पादनायास्य प्रवृत्तत्वाच्चात्रोक्तं धुभ्वाद्यायतनं ब्रह्मैवेत्यर्थः ॥१॥ मुक्तोपसृप्यव्यपदेशात् ॥२॥ ननूपक्रमे एकविज्ञानेन सर्वविज्ञानस्योक्तत्वादस्य वाग्निमोकबोधकत्वेन विरुद्धत्व- मिति चेत् , तबाह । मुक्तेत्यादि । मुक्ताः देहायध्यासरहिता जीवन्मुक्तास्तेपामुपसृप्यत्वेन उपसृप्तुं योग्यतया व्यपदेशात् । अयमर्थः । अवान्तरप्रकरणे तद्वेद्धव्यं सोम्य विद्धीत्यैका- ग्येण तु ज्ञान प्रतिज्ञाय, तत् कथं स्थादित्याकाङ्क्षायां धनुर्गृहीत्वोपनिषदं महास्त्रं शरं . पासा निशितं सन्धीयीत, आयाम्य तद्भागवतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धी'त्यत्र ब्रह्मभावगतेन चेतसा या उपासा तया निशितस्य शरस्य सन्धानमुक्त्वा, किमस्त्रं, कः शर इत्यपेक्षायां, प्रणयो धनुः शरो यात्मेत्यनेन धनुःशरावुक्त्वा उपासनानिशितत्वाधायक तद्भागवतं चेतः कथं स्यादित्यपेक्षायां तदर्थमन्य विषयकवाग्विमोक उच्यते । स च शरीराद्यध्यासराहित्य एव भवतीति तेन जीवन्मुक्तनिष्ठा भगवदुपसृप्यता योध्यते, न तु ब्रह्मज्ञानं निषिध्यते । अतस्तस्या अत्रोपदेशो न सर्वज्ञानोपक्रमविरोधक इत्यर्थः ।। किञ्चात्र वाग्विमोक एवोच्यते, न त्वर्थविमोकः । वस्तुनो ब्रह्मरूपत्वात् । विकारस वाचारम्भणमानत्वात् । अतः सर्पज्ञानबाधाभावादिदं ब्रह्मवाक्यमेवेति । एवं प्रकरण- विरोधोऽपि परिहतः ॥ २॥ नानुमानमतच्छब्दात् ॥३॥ इदमेवाधिकरण पुनर्निपेधमुखेन विचारयति । नन्वत्र प्रकरणे, 'अरा इव स्थनाभी संहता यत्र नाड्यः, स एपोऽन्तश्वरते बहुधा जायमान' इति नाडीसद्धाताधिकरणत्वं श- रीरधर्मत्वाजडधर्मेऽरनाभिदृष्टान्तो जडदृष्टान्तः। 'यः सर्वज्ञः सर्वविद यस्यैप महिमा भुवि, दिव्ये ब्रह्मपुरे होप व्योम्नि आत्मा प्रतिष्ठित इत्यत्र पुरत्वं पुरमिव पुरमिति च जडदृष्टान्तः । भमिष्ठमहिमपचं च जडधर्मः। मनोमयः प्राणशरीरनेतेत्यत्र मनोविकारत्वं च, तथा प्राणशरीरनेतृत्वं, पुरे व्योम्नि प्रतिष्ठितत्वं, यहुधाजायमानत्वं च पुरुषधर्म इति चंहूनां सांख्यानां निरूपकाणां शब्दानां दर्शनादिदं तन्मतानुमापकमेव प्रकरणमिति शुभ्वाद्या- यतनं प्रकृतिरेवेति चेत् । न । अतः शब्दैः क्रियमाणमनुमान न साधकम् । कुतः अतच्छ- ब्दात् । तन्मतासाधारणशब्दाभावात् । तथाहि । यत्तदोनित्यसम्बन्धान्नाडीसद्धाताधि- फरणत्यमन्तःप्रविष्टस्य सञ्चरतो भोवतुः प्रतीयते, अतोन जडधर्मः। दृष्टान्तस्तु विष्टम्भ- फत्वमेव पोधयति, न तु जडत्समपि । अन्यथा दृष्टान्तीयाशेपधर्मापत्तिः पक्षे भवन्ती अनुमानस्य प्रामाण्यमेव भळ्यात् । एवं सर्वज्ञ इत्यत्राप्युक्तयुक्त्या आत्मन एव महिमा .

श्रीत्रजनाथात्मजश्रीकृष्णचन्द्रकृता । ७५ प्रतीयते, न जडस्य । पुरमपि दिव्यत्वेन लोकविलक्षणमेव सिध्यतीति दृष्टान्तमात्रेण नजातम् । मनोमय इत्यत्रापि प्राचुर्यमेवार्थो, न विकार इति प्रागपि सिद्धम् । अतो निःसन्दिप्यतन्मतबोधकभन्दाभावाद आत्मसर्वज्ञानन्दरूपादिशब्दानां ब्रह्मवादयोधका- नामसन्दिग्धानां सत्वात सन्दिग्धानां तत्सममिव्याहारादिना ब्रह्मपरत्वे निर्णीते एतद्वा- क्येऽपि सर्वाधारत्वेन निरूप्यमाणः परमात्मैव, न प्रधानमिति ॥३॥ प्राणभृच्च ॥ ४॥ ननु माऽस्त्वेवं सांख्यानुसारित्यनिर्णयः, तथापि प्राणानामोतत्ववचनं प्रधानासा- धारणम् । प्राणशरीरनेतेति प्राणयुक्तशरीरनायकत्वं पुरुषासाधारणम् । सर्वज्ञादिकमपि योगमभावविशिष्टजीवधर्मः । अतः केपाञ्चिज्जीवधर्माणां जडधर्माणां च दर्शनाजीवजड- विशिष्टः सांख्यवाद एवात्रास्त्वितिचेत् । न । प्राणभृद् अत्र जीवो न भवति । कुतः । अवच्छब्दात् । न शब्दो हेतुथ पूर्वमुत्रादेवानुवर्तते । तथाच मनामयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हदयं सन्निधाय तद्विजानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद विभा- वीति मन्वे हि मनोमयत्वादिधर्मविशिष्टय प्राणभृतो विज्ञानेनानन्दामृतरूपस्य विभातो दर्शनमुच्यते । ज्ञानदर्शनयोथैकविषयत्वं द्रष्टुणां च धीराणां ततो भेदः । न हि तन्मते पुरुषस्थानन्दामृतरूपत्वं, येन पुरुषः शङ्कथेत । अतः प्राणभृत्वमपि साधारणमेव ॥४॥ भेदव्यपदेशात् ॥ ५॥ ननु मास्तु मनोमयमन्चे जीवसिद्धिः। यस्मिन् द्यौरिति मन्त्रे तु भविष्यतीत्यतो हेत्वन्तरमाह । भेदेति । 'तमेवैकं जानथ आत्मान'मिति ज्ञानुज्ञेयभावः प्रतीयते, नामोवत्वं च ज्ञेये उच्यते । स च ज्ञातुभिन्नः, अतो मेदव्यपदेशान्न प्राणभृत् जीय प्राणा इत्यर्थः ॥ ५॥ प्रकरणात् ॥६॥ - ननु यद्यपि मन्त्रगतो हेतु चव्यावर्तकः, तथाप्येकशब्दस्य मुख्यार्थत्वाङ्गीकारे द्वितीयसिद्धावेवकारस्थासङ्कचितान्ययोगव्यवच्छेदकत्वस्थाशक्यवचनत्वात् तमपि चानय, ततोऽपि मुख्यमात्मानं जानधेति वचनव्यक्तावस्य मन्त्रस्य जडजीवसाधारणधर्मबोधक स्वादतस्तदभावायाह ! प्रकरणादिति । आरंभे, स ब्रह्मविद्यामिति, मध्ये च, नमवेद- मित्यादि, अन्ते च प्रोवाच तां तत्वतो अलविद्यामिति निरूपणात प्रकरणं ब्रह्मणोऽग- भ्यते । अतस्तदतिहाय, मन्त्रः कथमकस्मात् साख्यमभिदध्यात् , प्रवहान्यप्रकृतकल्प- नामसङ्गाद, अतो नात्र सांख्यसिद्धिरित्यर्थः ॥ ६॥ स्थित्यदनाभ्यां च ॥ ७॥ ब्रह्मपदस्स सांख्यमते प्रधानवाचकत्वात् सर्वस्यान्यार्थत्वमाशाप हेवन्तरमाह । स्थितीत्यादि । वा सुपर्णेति मन्ने, अनश्ननन्यो अभिचाकीवीति परमात्मनः केवला ७६ . भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। स्थितिः श्राव्यते । तयोरन्यः पिप्पलं खाद्त्तीति जीवस्य कर्मफलभोगः श्रान्यते । अतः स्थित्यदनाभ्यां जीवपरमात्मानावेव मध्ये परामृष्टी । न हि सांख्यमते तथास्ति । सर्वेषां पुरुपाणां साम्यात् । पम्येऽप्येकवात्मद्वयस्थित्यनङ्गीकारात् । अतोनया विशे- पोपपच्या तन्मते निरस्ते तदुपोद्वलितप्रकरणादिभिरपि ब्रह्मवादस्यैव मिद्धिः । तेन शुभ्वा चायतनं ब्रह्मैवेति सिद्धम् ॥ ७ ॥ १॥ इति प्रथमं धुभ्यायायतनाधिकरणम् । भूमा सम्प्रसादादध्युपदेशात् ॥ ८॥ छान्दोग्ये नवमप्रपाठके सनत्कुमारनारदसंवादे श्रूयते । 'यो वै भूमा तत् सुखं, नाल्पे सुखमस्ति, भूमैव सुख, भूमा त्वेव विजिज्ञासितव्य' इति सुखलक्षणत्वेन भूमानं जिज्ञास्यतयोपक्षिप्य, को भूमेति जिज्ञासायां भूम्नो लक्षणमाह । 'यत्र नान्यत् पश्यति, नान्यद्विजानाति स भूमेति । तत्र संशयः। भूमा किं सुखबाहुल्यमुत ब्रह्मेति । उपक्रमे वेदादीनां नामत्वमुक्त्या,ततस्ततो भूयस्त्वं वागादीनां प्राणान्तानामुक्त्वा,ततोऽपि भूयस्त्वं विज्ञानादीनामन्तरङ्गाणामुक्त्वा, सुखस्य फलत्वादन्ते तस्यैव भूयस्त्वं वदतीति । तथो- पक्रमे, 'तरति शोकमात्मविदिति प्रश्नवीजमुपन्यस्य मध्ये च मुख्यप्राणविद्याया अवरत्वं बोधयति । विज्ञानादीनां पश्चात्कथनेन । तदेतद् यथायथं कोटिद्वयोपस्थितिबीजम् । तत्र पूर्वः पक्षस्तु यद्यप्युपक्रमे, तरति शोकमात्मविदिति नारदप्रश्नेन ग्रन्थावतारादुप- संहारे भूम्नो अमृतत्वेन विशेपणाच भूम्नो ब्रह्मत्वं प्रकरणाद् वक्तुं शक्यम् , तथाप्युपान्ते भूमानमेव प्रकृत्य अहङ्कारादेशात्मादेशावुक्तौ । तत्राहकारादेशे मर्यत्र विद्यमानत्वेन सर्वत्वेन च भूयस्तयोक्तस्याप्यहङ्कारस्य तद्विशिष्टस्यात्मनो वा यथा न ब्रह्मत्वम्,तथा आत्मा- देशेऽपि तथोक्तस्य केवलस्याप्यात्मनो न ब्रह्मत्वम् । आत्मा चात्र सुखस्य स्वरूपम् । पूर्वाधिकरणे आत्मपदस्यानारोपितानागन्तुकखरूपपरताया एवोपगमात् । नच प्रश्ना- पूर्तिः शङ्कया। विविक्तजीवात्मज्ञानस्येव तादृशसुखस्वरूपज्ञानस्याप्यात्मज्ञानत्वेन तावतै- यात्मवित्वे शोकतरणसिद्ध्या प्रश्नपूर्तेः सम्भवात् । ब्रह्मण एवात्मत्वादिना ज्ञानस्य विवक्षितत्वे गमकाभावात् । नच भूम्नः खप्रतिष्ठत्वश्रावणात् तस्य च ब्रह्मासाधारणत्वाद ब्रह्मत्वं शङ्कयम् । आत्मैवाधस्तादित्यादिना तस्य सर्वत्र व्याप्तेरुक्तत्वात् सर्वतः पूर्ण- विषयलाभेनाकाङ्कायां तस्य पूर्णत्वानुसंधाने स्वमहिमप्रतिष्ठतायाः सम्भवात् । यदि च तस्य लाभस्य प्रयाससाध्यतया सुखबाहुल्यं तत्राङ्गीक्रियते, तदा सुपुत्तिरस्तु । तत्रापि, 'न कञ्चन कामं कामयत' इत्यादि, 'तद्यथा प्रियया स्त्रिया सम्परिष्वक्त' इत्यादिश्रावणाद अन्यापेक्षत्वेनान्तरङ्गत्वाच्च । अतः सैवात्र भूमत्वेन ग्राह्यति प्राप्तम् । तत्रोच्यते। भूमेत्यादि । भूमा भगवानेव । कुतः ? सम्प्रसादादध्युपदेशात् । बृहदारण्यके, ‘स वा एप एतस्मिन् सम्प्रसादे रत्वा चरित्वे ति श्रवणात् सम्यक् प्रसा- ७७ श्रीब्रजनाथात्मजश्रीकृष्णचन्द्रकृता । दोऽस्मिन्निति व्युत्पत्या सम्प्रसादः सुषुप्तिः । तत्र यद्यपि, 'यद्वैतत् प्रपश्यती'त्यादिना- घोऽन्यदर्शनाभाव उच्यते, सोन 'यत्र नान्यत् पश्यती'त्यादिनोच्यते, इति लक्षणं समानम् , तथापि स एवाधस्ता दित्यादिना या सर्वत्र व्याप्तिः सर्वत्वं च यदुच्यते, तत्ततोऽधिकम् । न हि सुप्तेः सर्वत्वादिधर्माः सम्भवन्ति । आत्मशब्दश्च मुख्यवृत्तो भवति । अतस्तदुपदेशादित्यर्थः । नच, बहोर्लोपो भू च बहोरिति सूत्रं भावार्थप्रत्य- पाधिकारे पठितम् । तत्र व्युत्पादितो भूमशब्दो नानात्वं बाहुल्यं वा वदिष्यतीति कथ तस्य ब्रह्मवाचकत्वमिति शङ्कयम् । भगवतः सर्वत्वस्यात्र श्रावणात् । सर्वमध्ये भावसापि प्रवेशात्तस्यापि भगवति वृत्तः सुखेन संभवादिति । तसाद् भूमा भगवानेव ।। ८ ।। धर्मोपपत्तेश्च ॥ ९॥ ननु भवतु सम्प्रसादाद् भूम्न आधिक्योपदेशः, तथापि यूमजिज्ञासया प्रश्ने तल- क्षणत्वेन, यत्र नान्यत् पश्यतीत्यादिवाक्यमुच्यते । तत्र योऽन्यदर्शनादिनिषेधः, स तु सुपुतिसाधारण इति भूमपर्यन्ता अन्यविद्या भवतु | ततो भूमाधारमारभ्यात्मविद्येति शङ्कायामिदमुच्यते । धर्मोपपत्तेरिति । यत्र नान्यत् पश्यतीत्यायुक्ता येऽन्यदर्शनाभाव- प्रयोजकत्वादयो धर्मास्तपा भगवत्युपपत्तेः । कथमितिचेत् । इत्यम् । फलाध्यायोपा- न्तमागे 'स्वाप्ययसम्पत्योरन्यतरापेक्षमाविष्कृतं हीति मूत्र मैत्रेयीबाह्मणोक्तमद्वैतदर्शन प्रकारवैशिष्टयेन उभयवानानात् सुपुसिब्रह्मसम्पत्तिरूपावस्थाद्वयेऽपि जीवस ब्रह्मसम्य- न्यादेवेति निर्णीतम् । तेन सुपुसावन्यदर्शनाभावस्थ ब्रह्मसम्बन्धप्रयुक्ततया तदीयत्व- निश्चयात् तस्मिन् सति लक्षणे अतिव्याप्तिनिरासाद् भूमविद्याप्यात्मविद्यैवेत्यर्थः । चकारात्,'स वा एप एवं मन्यान' इत्यादिनोक्तमात्मक्रीडत्वादिरूपं फलमपि ब्रह्मसम्व- न्धादेव सम्भवति, न सुपुप्तिसम्बन्धात् । तस्यां तमोऽभिभवेन क्रीडाघभावादिति । तस्माद् भूमा ब्रह्मैवेति सिद्धम् ॥ ९॥ २ ॥ इति द्वितीयं भूमाधिकरणम् । अक्षरमम्बरान्तधृतेः ॥ १० ॥ गार्गीब्राह्मणे श्रूयते । 'कस्मिन्नु खल्वाकाश ओतथ प्रोतच, स होवाचैतद्वै तदक्षर गार्गि ब्राह्मणा अभिवदन्त्यस्यूलमनवि'त्यादि । तत्र संशयः । किमक्षरशब्देन पदार्या- न्तरमुच्यते, ब्रह्म चेति । तद्बीजं तुओतप्रोतत्यस्य विकारित्वापादकतया जडलिङ्गत्वमक्षर- पदस्य च 'क्षरं प्रधानममृताक्षर हर' इत्यादिश्रुतौ जीक्योधकत्येन प्रसिद्धजीवलिङ्ग, रा- एक' इति श्रुत्यन्तरात् प्रशामनं ब्रह्मलिङ्गं योध्यम् । तत्रौतप्रोततया चिकारत्वेनाचेतनमाधारण्यात् । 'अहं वा यातयलय यथाकाश्यो वा वैदेहो योग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणायन्तो सपनातिव्यापिनी इस्ते कृत्योपोत्तिष्ठेदेवमेयाहं स्मानावीशते १.गुपुत्यसाधारण इति पाठः।

७८ भावप्रकाशिका ब्रह्मसूत्रपत्ति।। त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्था मिति द्वयोः प्रदनयोाह्मणतुल्यतया लेशजनकत्वान प्रथमप्रश्नोत्तरभूताकाशवदस्य द्वितीयप्रश्नोत्तरभूतस्याक्षरस्याप्यनमत्वमेव । किञ्च, यस्मिन् धीः पृथिवी चान्तरिक्षमोतमित्यत्रीतस्येवान प्रोतत्वस्यापि, 'मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इति स्मार्तदृष्टान्ताद्धारवाहकतास्फोरकत्वम् । अतोऽचे तनतुल्यत्वाद् ब्राह्मवादस्य समाप्तत्वात् प्रश्नका गार्याः स्त्रीत्वेनाग्रहाविरत्वेन च ब्रह्मश्रवणेऽनधिकारित्वाच, यथा 'स्मरो वा आकाशाद भूया नित्यन्त्र कार्योत्कर्षमादाय भूयस्त्वोक्तिः, तथात्र अश्नुते इति न क्षरतीति वा योगेनाक्षरत प्रशासितृत्वं च स्मरणकालभूतसूक्ष्मप्रकृतिजीवविशेषाणामन्यतमस्याहत्य तदन्यतमपरिग्रह उपासनार्थ वक्तव्यः । नचात्र प्रापञ्चिक्रमर्यधर्मराहित्यस्य ब्रह्मधर्मस्य विरोधः शयः । उपासना र्थत्वेनोपपत्तेः । नचैतदनुरोधेन ब्रह्मवावाऽस्त्विति युक्तम् । प्रष्टुः श्रवणानधिकार- स्योपपादितयात्र वक्तुरुपदेष्मृत्वस्याभावाद् वाक्यवैयापत्तेः । तस्मादत्राक्षरमन्यदेव, न तु ब्रह्मेति प्राप्ते, उच्यते । अक्षरं परमात्मैव । कुतः । अम्बरान्तधृतेः । पृथिव्याद्यम्बरान्तानां धार- कत्वात् । नच विषयवाक्ये अदर्शनात् स्वरूपासिद्धो हेतुरिति शङ्कथम् । श्रुतौ व्या. ख्यातायां तात्पर्य सिद्धत्वात् । कथमितिचेत् , इत्थम् । अत्र यद्यपि प्रश्नानेकत्वमापाततः प्रतीयते, तथापि पूर्वब्राह्मणे, अन्याय्यनन्तरमाकाशस्योक्तत्वेऽप्यत्र यदाकाशस्य पुनः कथनं तन्न भूताकाशपरं, किन्तु सक्ष्मायन्यतमप्रथमकार्यपरम् । ततोऽधिको धारकस्तत्र तदन्यतमो जीवविशेपो वा न भवति । उक्ताकाशीतप्रोतत्वस्य तेषु जीवेषु काप्यदर्श- नात् । एवं जडजीवयोर्निवृत्तौ तद्वारण ब्रह्मकार्यत्वेनैव निधीयते । नच भारवाहकत्वा- पत्तिः। कैवलस्य प्रोतत्वस्यैव वस्तुभेदबोधकत्वेनौतप्रोतत्वस्योपादानतागमकत्वात् । 'नैत- चित्रे भगवति ह्यन्ते जगदीश्वरे, ओतप्रोतमिदं यस्मिस्तन्तुष्वङ्ग यथा पट' इति श्रीमा- गवतवाक्यात् । नच श्रोतृदोपाद् ब्रह्मोपदेशो नाति शङ्कयम् । दोपवत्त्वेऽपि ब्रह्मवि- स्वेनाधिकारित्वादुपदेशस्य युक्तत्वात् । नच ब्रह्मज्ञत्वे मानाभावः । अतिप्रश्ने मूर्ध- विपातस्य पूर्वमुक्ततयाञ्च तस्य पुनः करणेऽपि मूर्धविपाताभावस्यैव ब्रह्मविचगमकत्वात् । अतः सर्वाधारत्वेनात्र ब्रह्मैवोपदिश्यते । निरङ्कुशख सर्वाधारत्वस्यान्यत्राभावात् । नन्वेवं सति ब्रह्मपदस्थात्र कुतोऽनुक्तिरिति शश्यम् । परोक्षेण कथनार्थ तदनुक्तेः । अतोत्र ब्रह्मधर्मस्याम्बरान्तधारणस्योपदेशादक्षरं परमात्मैच ॥ १० ॥ सा च प्रशासनात् ॥ ११ ॥ ननु धुवायधिकरणविषयवाक्ये सर्वविधारणं ब्रह्मधर्मत्वेन आश्रितमित्यन्यत्रापि तथाश्रयितुं न शक्यम् । नियामकस्साभावादित्यत आह । सेत्यादि। सा च विधृतिरत्रापि । श्रीवजनाथात्मनश्रीकृष्णचन्द्रकृता । ७९ ब्रह्मधर्म एव । चोऽप्यर्थे । कुतः । प्रशासनात् । अत्राकाशोपादानप्रश्ने तदुत्तरत्वेनाक्षर द्यावापृथिव्यादिविधारणं च वदन विधारणहेतुत्वेन मध्ये प्रशासनं वक्ति । एतस्यैवा- क्षरस्य प्रशासने, गार्गि द्यावापृथिवी विधृते तिष्ठत' इत्यादि । प्रशासन चाज्ञैव । तथाच यदि विधारणमन्यधर्मत्वेन स्वीक्रियते, तदापि तद्भगवदाज्ञाहेतुकमेव । तिष्ठेति विश्वा- मित्रोक्तत्रिशङ्खधारणवत , नतु तदाकाशादिसामर्थ्यहेतुकम् । एतेनेवाक्षरं प्रशासनादिति सूत्रापत्तिरपि निरस्ता । आकाशान्तधर्मत्वेन प्रतीयमानाया एव तस्याः प्रशासनहेतुक- त्वस्य विवक्षितत्वेनाम्बरान्तधृतिपदस्यावश्यकत्वादिति ॥ ११ ॥ अन्यभाव्यावृत्तेश्च ॥ १२॥ ननूक्तमुपासनार्थ ब्रह्मधर्मकथनमित्यत आह । अन्येत्यादि । अन्यस्य भावोs- न्यभावो ब्रह्मेतरधर्मसव्यावृत्तेः। एतस्यैवाक्षरस्येत्येवकारेण प्रशानस्यान्यधर्मत्वं व्याव- स्यते । एतद्वै तदक्षरं गार्गि अदृश्यं द्रष्ट इत्यादिना चाकाशधर्तर्यक्षरे चेतनत्वबोधनेन जडत्वं निवर्त्यते । यस्मिन्नाकाश ओतच प्रोतश्चेति कयनेन जीवत्वं व्यावय॑ते। एचमक्षरस्य जडजीवत्वनिवृत्तौ प्रशासनस्य धर्मत्वमेवेति तथेत्यर्थः । चकाराद्, यो वा एतदक्षरमवि- दिखा गार्ग्यमाल्लोकात् प्रैति स कृपणोऽय यो वा एतदक्षरं गार्गि विदित्वास्माल्लोकात् पैति स ब्राह्मण इति फलकथनमप्यक्षरस्य ब्रह्मत्वगमकम् । अतोऽत्र नोपासनप्रतिपाद- नम् । तस्मादक्षरं प्रौवेति सिद्धम् ॥ १२ ॥ ३॥ इति तृतीयमक्षराधिकरणम् । ईक्षतिकर्मव्यपदेशात् सः ॥ १३॥ आथर्वणानां प्रश्नोपनिषदः पञ्चमे प्रश्ने श्रूयते । 'एतद्वै सत्यकाम परं चापर च ब्रह्म यदोङ्कारः, तस्माद विद्वानेतेनैवायनेनैकरतमन्वेति यद्येकमात्रमभिधार्यते' इत्या- दिनाएकद्वित्रिमानोपासनया ऋग्यजुःसामभिर्मनुप्यसोमसूर्यलोकप्राप्तिपुनरागमने निरूप्य अर्धचतुर्थमात्रोपासनया परं पुरुषमभिध्यायीत स तेजसि परे सम्पन्नो यथा पादोद- रस्त्वचेत्यादिना परात् परं पुरिशय पुरुषमीक्षत इति । अत्र ध्यानविपयः पर पुरुषः किं परमात्मा, उत विराट पुरुषो ब्रह्मा वेति संशयः । परापरयोरुभयोरपि प्रकृत- स्वात् । तत्र तावदोकारेण प्रतीकेन ब्रह्मोपासनार्थमोङ्कारस्य द्विविधब्रह्मरूपतामुक्त्या तेनैवायनेनैकतरमन्येतीत्येकतरप्राप्ति प्रतिज्ञाय साधनैक्ये कथं फलमेद इत्याकालाया भावनामकारभेदस्य तत्र नियामकत्व बोधयितुमेकद्वित्रिमात्रोपासनया तत्तल्लोकप्राप्ति- पुनरागमने निरूप्यार्धचतुर्थमात्रोपासनया परतेजःसम्पत्तिपापनिर्मुक्तिब्रह्मलोकप्राप्ती- पत्वा परपुरुपक्षणं फलत्वेन वदति । तत्र परपुरुषभ्यानस्य त्रिमात्रेणाप्युक्तत्वादर्धचतुर्थ- मात्रेणापि तद्वधानस्य तत्तुल्यकक्षत्वेनामुख्यप्रवाहपतितत्त्वात् प्राप्यनमलोकस्याप्य- ८० . भावप्रकाशिका ब्रममत्रवृत्तिः। मुख्यत्यात्तं लोकं गतस्य यत् परपुरुपेण फलं श्रूयते, तत पूर्यापेक्षया तत्परस्यैव, न तु सर्वतः परस्य । ब्रह्मविटामोति परमित्यत्र परप्राप्तेरेव फलत्वेन सिद्धतया तज्ज्ञानमात्रस्य फल. वाभावात् । अतस्तात्पर्यलिङ्गात् फलादपरस्यैव सिद्धविराद या, तदमिमानी वा ध्यान- विषयः। स एवेक्षतिकर्मभूतः। नच जीवधनात् परात्परमिति विशेपणानन्धयः। व्यब्लो- पपञ्चम्या जीवधनं प्राप्येत्यर्थे पूर्वेभ्यः परं जीवधनं प्राप्य पुरिशयमित्यर्थात् सुपेनान्व- यसिद्धेः । अतो न परमात्मेति प्राप्ते, प्रतिवदति । ईक्षतीत्यादि । अमिध्यानविपयः परपुरुपः परमात्मैव । कृतः । ईक्षतिकर्मव्यप. देशात् । ईक्षतिदर्शनं तत्कर्मत्वेन निर्देशात् । अत्र जीवधनो हि मुक्तजीवानां धनः पिण्डीभायो यत्र तादृशो ब्रह्मलोकोऽक्षरं सर्वस्मात् परं तस्मात् । परः पुरिशयः सर्वा- न्तर्यामी यः पुरुषः सोऽध तथा व्यपदिश्यते । ध्यानेक्षणयोरेककर्मकत्वम् । अन्यथा द्वे ब्रह्मणी इत्युपक्रम्य त्रिमात्रपर्यन्तमपरं निरूप्य यदि परं न निरूपयेत् , प्रतिज्ञा न पूर्येत । मन्त्रे च तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता इत्युक्त्या द्वितीयमन्त्रोत्तरार्धे यत्तच्छा. न्तमजरममृतमभयं परं परायणं चेति फलान्तरं च न वदेत् । किनानिध्याने हि साक्षात्कारः फलम् । अतः फलरूपज्ञानविषयत्वादपि परमात्मैवान युक्तः । एतेनैव परशद्धादौ ल्यब्लोपपञ्चम्यप्यपास्ता । तस्माद ध्यानविषयः परमात्मैव । इदं च मूत्रं परमात्मा न दृश्यत इति मन्दाशवानिवृत्यर्थं प्रसङ्गादुक्तम् । अत्र यद्यपि शङ्कराचा- योदिभिर्यः पुनरेतं त्रिमात्रेणौमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः स साममिरुनीयते ब्रह्मलोकमिति पाठ आद्रियते, स त्विदानीन्तनेषु पाठकेषु न प्रसिद्ध इत्युपेक्षणीयः ॥ १३ ॥ ४॥ इति चतुर्थमीक्षतिकर्माधिकरणम् । दहर उत्तरेभ्यः ॥ १४ ॥ छान्दोग्ये दशमप्रपाठकारम्भे श्रूयते । 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीक वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वार विजिज्ञासितव्य'- मिति । तत्र संशयः । किं जीवोऽन्वेष्टव्यः, किं या परं ब्रह्मेति । नचाकाशस्तल्लिङ्गादि- त्यधिकरणे आकाशशब्दवाच्यताया ब्रह्मणि विचारितत्वादधिकरणस्य किं प्रयोजनमिति शङ्कयम् । अत्र दर्शने श्रुत्सर्थस्य निर्णयत्वाज्जीव एव परमार्थतो ब्रह्म ? उत ब्रह्म भि- नमित्येतन्निर्णयार्थत्वेनावश्यकत्वात् । तत्र तावदहराकाशो जीव एव । तथाहि अत्रापहतपाप्मादिगुणकात्मप्रतिपादक महावाक्य आधे दहरप्रकरण, द्वितीयं चेन्द्रप्रजापतिसंवादात्मकम् । तत्र द्वितीये चतुर्भिः पर्यायैर्जाप्रवखप्तमुपुप्तिमुत्यवस्थाभेदेन अमृताभयरूपो जीव एव प्रतिपादित इति प्रथमेपि प्रकरणे स एव युक्तः । द्वितीयस्यैतद्व्याख्यारूपत्वात् । अत्राप्यर्थविचारे " ।

८१ " " . श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता। हृदयाकाशमेव प्रक्रम्य, तस्य ब्रह्मवेश्मत्वमप्युक्त्वा, तत्र वर्तमानस्यैव जीवस्यैप आत्मा. पहतपाप्मेत्यङ्गुल्येव निर्देशात् । तत्र च आराग्रमात्रस्य जीवस्यैव मातुं शक्यत्वात् । नचाकाशशब्दवाच्यत्वविरोधः । तात्स्थ्यात्तद्व्यपेदशस्य सुवचत्वात् । यदि च, तस्मिन् यदन्तस्तदन्वेष्टव्यमित्याकाशान्तर्वतिनोऽन्वेष्टव्यत्वं, न जीवस्येति शङ्कयते, तथा सति तत्र वासनारूपेण विद्यमानस्य सर्वस्वात्रोक्तस्य तन्महिमरूपत्वात्तस्यान्वेष्टव्यत्वमस्तु । नच तन्महिम्नो वासनात्मकत्वे मानाभावः । यावान् वा अयमाकाशस्तावानेपोऽन्तर्हृदय आकाशः, उभे अस्मिन् द्यावापृथिवी समाहिते इत्यादिना अन्तर्वहिश्च सर्वकथने प्रत्यक्ष- विरोधापच्या जीवान्तस्ताशस्यैव मन्तव्यत्वात् । नचैतद्यथापि हिरण्य निधि निहितम- क्षेत्रज्ञा उपर्युपरिसञ्चरन्तोऽपि न विन्देयुरेवमेवेमाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्म- लोकं न विन्दन्तीति जीवानां प्रत्यहं ब्रह्मनिकटगमने तदज्ञानं यदत्र श्रावितं, तज्जीवस्य वस्तुतो ब्रह्मत्वे खस्स स्वाज्ञानाप्राप्त्योरशक्यवचनत्वादसङ्गतं सादिति शङ्कयम् । स्वप्नमायामनोरथादिपु स्वयं कल्पिता ये जीवास्तद्गमनागमने लक्ष्यीकृत्य सुखेन सङ्ग- तिसम्भवात् । तस्माज्जीव एव दहर इत्येवं प्राप्ते, प्रत्युच्यते । दहर इत्यादि । दहरः परमात्मैव, न जीवः, कुतः । उत्तरेभ्यः । दहरनिरूपणा- नन्तरं वक्ष्यमाणेभ्यो हेतुभ्यः । तेपामपि हेतूनां हेतुताया अस्फुटत्वे साध्यत्वादेवं कथनम् । तस्माद् दहरः परमात्मा ॥ १४ ॥ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥१५॥ उक्तहेतूनां मध्ये हेतुद्वयं प्रसाधयति । गतीत्यादि । गतिब्रह्मलोकगमनं, तद्यथा हिरण्यनिधिमित्यादिनोक्तम् , शब्दः एप आत्मापहतपाप्मेत्यादिपदानि, ब्रह्मलोकपदं च, ताभ्यां हेतुभ्यां तथा । ननु तयोरेव कथं भगवपरत्वम् । गतेर्मनोरथादिकल्पितजीवपरत्वस्य शब्दानां मुक्तावस्थजीवपरत्वस्योपपादितत्वादित्यत आह । तथाहीत्यादि । गतिशब्दो भगवत्परत्व एव युक्तौ, न तु जीवपरत्वे । अत्र हि, ब्रह्मलोकेऽहरहर्गच्छतां ब्रह्मलो. काज्ञानहेतुभूतं विशेषणमनृतेन प्रत्यूढा इति । तेन चाज्ञानावेष्टितत्वमुच्यते, न त्वज्ञानक- ल्पितत्वम् । तच्च दृष्टं प्रत्यक्षगम्यमेव । सर्वेषां सुषुप्त्यनन्तरमुत्थाने, न किश्चिदवेदिप- मित्येवं स्मरणयानुमवसाक्षिकत्वात् । यदि हि गन्तारोऽज्ञानकल्पिता भवेयुः, तदा जाग्रह- शायामज्ञाननाशात् स्मरणं नोपपद्येत । नच गन्तुरभाव एवेति युक्तम् । तथा सति य इहात्मानमनुविद्य बजन्तीति गतिबोधकशास्त्रानर्थक्यप्रसङ्गात् । आत्मगन्त्रोनिकर्म कर्तृत्वविरोधापत्तेश्च । न च अज्ञानस्य चरमवृत्तिनाश्यत्वात् ततः पूर्वमज्ञानसत्त्वात् सर्व- मुपपद्यत इति वाच्यम् । तथा सति गन्तृत्वेन विवक्षितस्य चरमवृत्तौ वा सत्त्वे आत्म- हानात्तस्या अपुरुषार्थत्वापत्तेः । तस्माजीवब्रह्मवादे गत्यनुपपत्तेस्तथाकल्पनमयुक्तं, किन्तु मते जीवभिन्नपरत्वमेव युक्तमित्यर्थः । एवमपहतपाप्मत्वादिशब्दानामपि ब्रह्म- ។ - - भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः । परत्वमेव । तद्विरुद्धधर्माणां जीवे दृष्टत्वात् । मुक्तावस्थाप्रसङ्गस्यात्राभावेन तेपामत्र वक्तुमशक्यत्वात् । भगवति तु ध्यानादाविदानीमपि तेपामुपलब्धेः। अतः शब्दानामपि ब्रह्मपरत्वमेव युक्तमित्यर्थः । ननु ब्रह्मवादेऽपि सर्वस्य ब्रह्मामिन्नत्याजीवब्रह्मणोरंशांशि- भावजनकविभागस्याज्ञानिकत्वमेव वाच्यम् । क्रियया तदङ्गीकारे ब्रह्मणोऽनित्यत्वा- पत्तेः। अतो जीवानामज्ञानकल्पितत्वमेव सेत्स्यतीति वृथा तत्परिहाराडम्बर इति चेत्, न । बहु स्यामित्यादीच्छयव विभागेपि पृथिवीशराववदेवांशांशिभावाज्ञानावृतत्वा- ग्रुपपत्तेः सर्वसामञ्जस्येनादोपात् । अतो जीवानामज्ञानदर्शनाद् ब्रह्मणः सर्वज्ञत्वदर्श- नाद्गतिशब्दौ जीवभिन्नब्रह्मविपयावेव, न जीवविषयौ । किञ्च, गतिशब्दयोब्रह्मपरत्वे लिङ्गं च वर्तते । तथाहि । 'तद्यथेह कर्मजितो लोकः क्षीयत एवमेवाप्मुत्र पुण्यजितो लोकः क्षीयत' इत्यस्य वाक्यस्य शेपे आत्मानमननुविद्य ब्रजन्तीत्यात्माज्ञानं लोकक्षयहेतु. त्वेनोच्यते । यदि च गन्तारो मनोरथकल्पिताः स्युः, तदा तेषां मिथ्यात्वेन अनुविद्य व्रजन्तीत्याधुक्तसर्वलोककामचारादिरूपस्य हितस्य चैयर्थ्यात् तदकरणं प्रसज्येत । अतोऽया गतेब्रह्मभिन्नाभिमानिकल्पितसत्यजीवकर्तृकत्वं जीवविषयत्वावगमे लिङ्गम् । एवं सर्वलोककामचारसत्यसङ्कल्पादिरूपं माहात्म्यमप्यपहतपाप्मादिशब्दानां जीवभिन्न- ब्रह्मपरत्वावगमे, लिङ्गम् । यथा वृहदारणयके 'तद्यो यो देवानां प्रत्यबुध्यत तथणां तथा मनुष्याणामित्यनेकजीवानुपक्रम्य 'तदिदमप्येतर्हि य एवं वेदाऽहं ब्रह्मास्मीति स इदं सर्व भवती'त्युक्तं सार्वश्यं ब्राह्मणोपक्रमपठितस्यात्मपदस्य जीवभिन्नब्रह्मपरत्वे लिङ्गं तद्वत् । अतो लिङ्गादपि गतिशब्दौ जीवभिन्नब्रह्मविपयो । चकारात् 'तमेव विदित्वा अतिमृत्युभेतीति श्रुतौ विशेष्यान्वित एवकारोऽपि ब्रह्मण एवात्मत्वेन ज्ञान मोक्षायेति बोधयति, न त्वात्मनो ब्रह्मत्वेन ज्ञानं मोक्षायेति सूच्यते । श्रुतौ विषयत्वेन ब्रह्मण एव परामर्शादिति । तस्माद् दहरः परमात्मा ॥ १५ ॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥ दहरसूत्रे हेतुबाहुल्यस प्रतिज्ञानादत्र तृतीयं हेतुमाह । धृतेरित्यादि । इतोऽपि हेतोर्दहरः परमात्मा । कुतः। धृतेः । 'अथ य आत्मा स सेतुर्विधृतिरेपां लोकानामसम्मे- दायेति श्रुत्युक्ताद् विधारणान्निरङ्कुशसर्वलोकधारकत्वस्य ब्रह्मासाधारणत्वात् तथेत्यर्थः । चकारात सेतुत्वं संगृह्यते। सेतुत्वस्य निःसाधनपारतारणसाधनात्मकत्वात् तादृशत्वस्य च 'अयावृतं निशि शयानम् ' इत्यादौ ब्रह्मधर्मत्वेन सिद्धत्वादिति । अन्य हेतुमाह । महिम्न इति । पुरुषसूक्ते, 'एतावानस्य महिमा अतो ज्यायाँश्च पूरुष' इति महिम्नो ब्रह्मज्यायस्त्वगमकत्वं श्रावितम् । अत्र च दहरस्य शरीरैकदेशान्तर्वर्तित्वकथनपूर्वक, यावान् वेत्यादिना परममहत्त्वं श्राव्यते । उमे अस्मिन्नित्यादिना बहिर्वर्तिनामेवान्त- तित्वं च। तच्च जीवजडयोरसम्भवद्युक्तिविरोधेनाचर्य जनयद्भगवदसाधारणोत्कर्यात्म- यशोदाप्रभृतीनाम् । तस्मात् परमात्मैव दहरः ।। १६ ॥ श्रीवजनाधात्मजश्रीकृष्णचन्द्रकृता | कत्वान्माहात्म्यरूपं भवति । उत्कर्पजनक एव च महिमा । गोजश्वमिह महिमेत्याचक्षत इत्यादिश्रुतेः । अतो लोकविधारणादेविरुद्धधर्माश्रयत्वबोधकतया महिमरूपत्वात् ततोऽपि दहरो भगवानित्यर्थः । एवं लोकविधारणस्वरूपेण महिमरूपतया चेति द्वेधा हेतुत्वं बोधितम् । अथ कथमस्यासाधारणतेत्यत आह अस्येत्यादि । एतारशविरुधर्माश्रुयत्व- स्यास्मिन् ब्रह्मण्येव शदात् प्रत्यक्षाच्चोपलब्धः। शद्वस्तु, 'ज्यायान् दियो ज्यायाना- काशात् । यावान् वा अयमाकाशः, अणोरणीयान् महतो महीयान्, 'आसीनो दूर व्रजति, शयानो याति सर्वतः,' 'अन्धो मणिमविन्दत् तमनझुलिरावय'दित्यादिः । प्रत्यक्षं च प्रसिद्धेश्च ॥ १७॥ आकाशशब्दवाच्यत्वप्रसिद्धरपह्तपाप्मत्वादिप्रसिद्ध 'ररश्च ह वैण्यश्चार्णयौ ब्रह्म- लोक' इत्यरण्यान्तर्गतवाराहोपहितश्रीमागाख्यभगवल्लोकप्रसिद्धश्च जीवे असम्भवाद् दहरो भगवानेवेत्यर्थः । चकारो विधिमुखेनाधिकरणसमाप्तिसूचकः ॥ १७ ॥ इदमेव पुनर्निपेधमुखेन विचारयति । इतरपरामर्शात् स इति चेन्नासम्भवात् ॥ १८ ॥ एवं चतुःसूच्या दहरस्य परमात्मत्वं साधयित्वेदानी चतुःसूच्या जीवस्य दहरत्वं दुपयन् सूत्रांशनाशय परिहरति । इतरेत्यादि । ननु ब्रह्मवादे जीवब्रह्मणोः वरूपस्य श्रुत्ये- कसमधिगम्यत्वाद्यथाश्रुतमादरणीयम् । तत्र यथा सर्वत्र ब्रह्मासाधारणधर्मदर्शनाद् ब्रह्म- प्रकरणत्वं निश्चीयते, एवमत्रोपक्रमायुपसंहारान्तं नीवपरामर्शाज्जीव एव प्रकरणी निश्चयः। कथं स इतिचेत् , इत्यम् । अत्र हि, ‘य इहात्मानमननुविद्य व्रजन्ती'त्यारम्भे जीवमुपक्रम्य, 'अत्र ह्यस्यैते सत्याः कामा अनृतापिधाना' इत्यन्तेन दहरविदः कामा उक्ताः। मध्येऽपि, 'तद्यथापि हिरण्यनिधि निहित'मित्यत्र ब्रह्मसमीपगमनेऽपि तदप्राप्तिः प्रतिपादिता, आ- स्मनो हृदि स्थितिश्च । अन्ते च य एप सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुप- सम्पद्य स्वेन रूपेणाभिनिष्पद्यत' इति प्रतिपाद्य तस्यैव सेतुत्वादिकं प्रतिपादितम् । तत्रा- दिमध्ययोजीको निःमन्दिग्धः । अन्तेऽपि सम्प्रसादो जीव एव । वृहदारण्यके, स एपो- ऽस्मिन् सम्प्रसादे रत्वा चरित्व'ति सम्प्रसादस जीवावस्थाविशेपत्वेनोक्ततया तदुपलक्षि- तस्य जीवस्यैव आदरणीयत्वात् । तस्य च परत्वसम्बन्धेन स्वरूपाभिनिष्पत्तिवचनं जीवासा- धारणं लिङ्गम् । तेनोपक्रमगतमात्मवेत्तृत्वमपि स्ववेत्तृत्वरूपं जीवधर्म एव । अज्ञानस्य जीवधर्मत्वं स्फुटमेव । सेतुत्वमपि साधनत्वम् । तथाचात्र प्राप्यत्वेन ब्रह्मणः प्रतिपादनेपि न तस्य प्रकरणित्वम् । अत एवं सर्वत्रेतरय जीवस्य परामर्शाज्जीव एव प्रकरणार्थ इति- चेत् । न । जीवः प्रकरणी न भवति । कुतः। असम्भवात् । सर्वत्र वेदान्ते 'द्वावजावीशा- नीशो' "तं पिबन्ता वित्यादिभिर्ब्रह्मविरुद्धधर्मवत्तयैव ब्रह्मभिन्नतया च तन्निययनात ru ८४ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः ।। सकलजगदाधारत्वादेस्तनासम्भवात् । नवं सति प्रदर्शितस्य परामर्शस्य का गतिरिति शवयम् । तस्सान्यार्थताया अग्निमस्त्रे वक्ष्यमाणत्वात् । तावन्मात्रेण सर्ववेदान्तविरुद्ध- कल्पनस कर्तुमशक्यत्वात् । वाक्यार्थोपपत्तेरुत्तरसूत्रे वक्ष्यमाणत्वाचेति । तस्मान जीवो दहर इति ॥ १८ ॥ उत्तराचेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ पुनराशङ्कय समाधत्ते । उत्तरादिति । उत्तरात् प्राजापत्यात प्रकरणादत्रापि जीवः प्रकरणीतिचेत् । अयमर्थः । उत्तरस्मिन् इन्द्रप्रजापतिसंवादप्रकरणे चतुर्भिः पर्यायैरात्मा बोधितः । तत्र प्रथमे पर्याये, 'य एपोऽक्षिणि पुरुषो दृश्यते, एप आत्मेति हो- वाचैतदमृतमभयमेतद् ब्रह्म'त्यनेन जाग्रत्साक्षिणं निर्दिश्य तस्यामृताभयरूपत्वं च दर्शितम् । नचैतदने, 'अथ योऽयं भगयोप्सु परियायते, यश्चायमादर्श कतम एप' इति प्रश्ने 'एप उ एव सर्वेप्वेतेपु परियायत । इत्युत्तरात् प्रतिविम्बपुरुष एवोच्यते, न जाग्रत्साक्षीति शवयम् । द्वितीयादिपर्यायारम्भे प्वेतं त्वेव ते भूयोऽनुव्याख्यास्यामीति प्रतिज्ञाविरोधापत्तेः । अतस्तत्पर्यायवनस्थाविशे- पविशिष्टस्य जीवस्यैवोपदेश इति निधीयते । तथा सति प्रथमे 'एपोऽक्षिणीति यदुक्तम् , तत्राक्षिपदेन मन एव ग्राह्यम् । उपान्तभागे 'मनोऽस्य दैवं चक्षुरितिवक्ष्यमाण- त्वात् । तत्र दृश्यमानथ जाग्रत्साक्ष्येव । अहं वित्तोः प्रतीयमानत्वात् । तदनु तस्यैव 'य एच स्वप्मे महीयमान इत्यादिना स्वप्नसाक्षित्वम् , तदनु 'तद्यत्रैतत् सुप्तः समस्त' इत्या- दिना सुपुप्तिसाक्षित्वं च निरूप्य सर्वत्र तस्थामृतत्वं च निरूप्य, तदनु मघवन् मयं वा इदं शरीर'मित्यादिना शारीरत्वादासामवस्थानां तस्मिन्नताचिकत्वं बोधयित्वा, समाध्यव- स्थायां मनसि जीवं तादृशं प्रतिपादयतीत्यतो जीवोऽपि वस्तुतोऽपहत्तपाप्मत्वादिधर्मवान् ब्रह्माभिन्न एव प्रकरणीतिचेत् । एवं सूत्राशेन आशङ्कयांशान्तरेण परिहरति । आवि- भूतस्वरूपस्त्विति । अत्र पूर्वपक्षपरिहारकस्तुशब्दः । जीवस्यैवरूपतायां कारणान्तरमुक्त्वा एतस्य जीवप्रकरणतायाः स्थाप्यत्वान्नात्र नकारप्रयोगः । परिहारप्रयोजक कारणमाह आविर्भूतस्वरूप इति । स्वाप्ययसम्पत्यो वे भगवदावेशः फलाध्यायोपान्ते वक्ष्यते । च- यसम्पत्तिश्योपासनादिपीकल्यात् । अतो नृसिहोपासकस्य नृसिंहाविर्भाववत्प्रजापतेब्रह्म- ज्ञत्वेनोपदेशावसरे ब्रह्माविर्भावात सर्वत्र खात्मानममृताभयरूपं पश्यन्निन्द्रं प्रत्यात्म- नस्तथात्वमुपदिष्टवान् , 'पर ज्योतिरुपसम्पद्य स्वेन रूपेणामिनिष्पद्यत' इति चोक्तवान् । अतः आविर्भूतस्वरूपत्वान्जीवस्तादृश उच्यते, न तु स्वतस्तादृश इतीतरपरामर्शेऽपि न पूर्वत्र जीवः प्रकरणीत्यर्थः । नच जीवस्य खतस्तादृशसवाभावे किं गमकमिति शवयम् । अवस्थाभेदानामेव गमकत्वात् । नच तासामागन्तुकत्वान्न तदभावगमकत्वमिति वाच्यम् । अमृतत्वादेः अभावरूपस्य तत्र साहजिकत्वे अन्तीम जिनन्तीवविच्छादयन्तीवेत्यादिश्रा- - - श्रीवजनाचात्मनश्रीकृष्णचन्द्रकृता । ८५ वितस्य तत्प्रतियोगिनो भयादेस्तत्र प्रामाणिकस्थाशक्यवचनत्यप्रसङ्गादिति । अतोऽत्रापि ब्राह्मण एवोपदेप्टच्यत्वाद् ब्रसव प्रकरणि, न तु जीवः । तस्माद् दहरः परमात्मैव ॥१९॥ अन्यार्थश्च परामर्शः ॥ २० ॥ ननु यदि प्रकरणद्वयेऽपि ब्रह्मवोपदेष्टव्यम् , तदा जीवपरामर्शस किं प्रयोजनमत आह । अन्येत्यादि । प्रथमप्रकरणे जीवपरामर्शोऽन्यार्थः । ब्रह्ममुखरूपफलानुभवे स्वरूप- योग्यतासम्पत्त्या योधनार्थः । कथमितिचेत् । इत्यम् । तत्र हि, 'तस्य वा एतस्य ब्रह्मणो नाम सत्यमिति । तानि वा एतानि त्रीण्यक्षराणि स ति यमिति । तद् यत् सत् तद्- मृतमय यत् ति तन्मय॑मथ ययं तेनोमे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहो एवं वित् स्वर्ग लोकमेतीति वाक्ये भगवत्कर्तृकामृतमर्त्ययमयितृत्वज्ञाने स्वस्थ ब्रह्मसुखं फलमुक्तम् । तत्र यमयितृत्वज्ञानं यन्तव्यज्ञानाधीनमिति तयोर्मर्त्यस प्रसिद्धत्वादमृतं ज्ञापनीयमतस्तज्ज्ञापनाथ जीवपरामर्थः। किश्वेतः पूर्वमथ य एष इत्यादिना स्वरूपाभि- निष्पत्तिरुक्ता । तेन ज्ञानिदशायां भगवदाविर्भावो भवति । सः चकारेण सूच्यत इति तज्ज्ञापनाय च परामर्श इति । नचैतदर्थमेव परामर्श इत्यत्र कि मानमिति शङ्कयम् । फलाध्यायोपान्ते स्वाप्ययसम्पत्योरिति सूत्रे सम्पत्ती भगवदावेशस्य वक्तव्यत्वादिति । तस्मान्न परामर्शमात्रेण तथा कल्पनं युक्तमित्यर्थः ॥ २० ॥ अल्पश्रुतेरितिचेत् तदुक्तम् ॥ २१ ॥ ननु न वयं जीवे उपपत्तिरस्तीति जीवप्रकरणं कल्पयामः, किन्तु ब्रह्मणि नाय- मर्थ उपपद्यत इत्यतो जीवप्रकरण बदाम इत्याशङ्कच तत्र पूर्वोक्तं समाधि स्मारयति । अल्पेत्यादि । अल्पश्रुतेः अल्पेऽधिकरणेऽवस्थानश्रवणात् । दहरपुण्डरीके भगवतो 'यावान् वा अयमाकाश' इत्यादिना व्यापकत्वेन श्रावितस्थावस्थानं न सङ्गच्छते । अतो जीव एवाराग्रमात्रो विरोधपरिहाराय तत्र भवत्विति कल्प्यत इतिचेत् । तदुक्तम् । यद्येवमस- द्रीत्या विचारयसि, तदा तत्समाधानमस्माभिरर्भकौकस्सूत्रे प्रागेवोक्तम् , निचाय्यत्वादेवं व्योमवचेत्यनेन । हृदये चिन्तनीयवाद इति ! तन्न विस्मर्तव्यम् । सर्वभवनसमर्थे ब्रह्मणि विरोधासम्भवस्यासकटुपपादितत्वाच । तथा 'विजिघत्सोऽपिपास' इत्यादिमूचितं पुरुप- शरीरमपि विरुद्धमिति नाशङ्कनीयम् । 'पुरुषत्वे च मां धीराः सांख्ययोगविशारदाः, आविस्तरां प्रपश्यन्ति सर्वशत्युपहित मिति भगवद्वाक्यात् । तस्माद्दहरो भगवानेवेति सिद्धम् ॥ २१ ॥ ५ ॥ इति पञ्चमं दहराधिकरणम् । अनुकृतेस्तस्य च ॥ २२॥ ननु दहरवाक्ये, 'यावान् वा अयमाकाशस्तावानेपोऽन्तर्हदय आकाश उभे अस्मिन द्यावापृथिवी अन्तरेव समाहिते, उभावग्निश्च मर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चा- स्येहास्ति यच्च नास्ति सर्व तदस्मिन् समाहित मिति सूर्यादीनां दहरान्तर्वतित्वं थूयते। , " भावप्रकाशिका ब्रह्मास्त्रदृत्तिा। तद्विरुद्धं च मुण्डकादिषभासनवाक्यम् । तेषां ब्रह्मपरत्वं सिद्धम् , अतस्तद्विरुद्धवाक्यमाश- क्य परिहरति । अनुकृतरित्यादि। कठवल्या मुण्डके चश्रूयते। 'न तत्र सूर्यो भाति न चन्द्र तारक नेमा वियतो भान्ति कुतोऽयमग्निः, तमेव भान्तमनुभाति सर्व तस्य भासा सर्व- मिदं विभातीति । तत्र कठवल्ल्यां, य एष मुलेषु जागर्तीति' यच्छन्दं पठित्वा मन्त्रा- न्तरे 'तस्मिल्लोकाः श्रिताः सर्वे, 'तमेव भान्तमनुभाति' च तच्छब्दः पठ्यते । मुण्डकेऽपि 'यत्र देवः ऋतुमिभूविभावन' इति, 'न तत्र सूर्यो भातीति । एवमुभयत्रापि यत्तन्छन्दा- नामेकार्थत्वं प्रयपरत्वं च यद्यपि प्रकरणादवगतम् , तथापि मुण्डकश्रुता 'यस्मिन् यौ'रि- त्यत्र धुलोकादीनां भगवदाधारत्वकथनात् सूर्यादीनां भगवत्येव स्थितिः प्रतीयते । एतन्मन्त्रपूर्वार्धे च तत्र तेषां भानं निषिध्यते । तच्च भासनस्वभावानां साधारे भावा- भावकथनाद्वान्यार्थ सत् सन्देहमुत्पादयति । यदि चोत्तरार्ध, तमेवेत्यादिकथनात् तद. पेक्षयाधिकभाननिषेध एव तात्पर्पम् , न सामान्यनिषेधे, अतोन बाधितार्थत्वमिति विभा- व्यते, तदाप्यकर्मकस्य धातोः कर्मयोधिका द्वितीया तु बाधितमेव वक्ति । नक्षणः स्वतो भानकथनेन व्यवधारणकल्पनायाः कर्तुमशक्यत्वात् । अतः सन्देहः । पूर्वपक्षस्तु । श्रुतौ तत्रेत्यधिकरणसप्तम्या कुतोऽयमग्निरिति वचनाच, 'गजा यत्र न गण्यन्ते भशकानां तु का कथे तिवत् कैमुतिकन्यायः पूर्वार्धे दोपः। उत्तरार्धे तु 'तमेव भान्त'मिति कथनाद् भानस्य च तेजोधर्मत्वात्सत्यलोके स्थितः कश्चित् तेजोविशेष एव वक्तव्यः । नच कर्मत्वांशे बाधितार्थत्वम् । अनोःकर्मप्रवचनीयत्वेन तद्योगे जाताया द्वितीयाया उपपदविभक्तित्वेनार्थशून्यत्वात् । अतः स एवाबाधितो वाक्यार्थ इति प्राप्ते, उच्यते । अनुकृतस्तस्येति । तस्य भगवतोऽनुकारार्थमेवात्र पूर्वार्धे भाननिषेधवचनम् , न तु सर्वथा तनिषेधार्थम् । उत्तरार्धे अनुभातीति कथनात् । तञ्च तेषां स्वतोमाने पर्यवस्यति । नच तेजोविशेषकल्पन युक्तम् । तमित्यनेन प्रकारेण परामर्शात् कल्प्यमानस्याप्रसिद्ध- त्वेन बच्छब्दानपेक्षताया वक्तुमशक्यत्वात् । किञ्च । 'तस्य भासा सर्वमिदं विभातीति कथनात् सूर्यादीनां स्वतः प्रकाशो नास्त्येव, घटादिवत्, किन्तु भगवत्प्रकाशनैव प्रकाश- वत्त्वमिति चकारेण मूच्यते । अतो ब्रह्मपरत्वे बाधकस्याभावान्नान्यार्थकल्पनं युक्तम् ।।२२।। अपि स्मयते ॥ २३ ॥ उक्तेऽर्थे सम्मतिमाह । अपीत्यादि । अपिः समुच्चये । 'न तद्भासयते सूर्यो न शशाको न पावक' इति । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् , यचन्द्रमसि यच्चानौ तत्तेजो विद्धि मामक'मिति च । तस्माद्भगवानेव सर्वावभासकः, तमेव सर्वमनुकरोतीति सिद्धम् । एवममासनाशङ्कितविरोधपरिहारेण दहरवाक्यानुगुण्यमस्य साधितम् ।। २३ ॥ ६॥ इति पष्ठमनुधिकरणम् ।

श्रीवजनापात्मजश्रीकृष्णचन्द्रकृता ।
८७
शब्दादेव प्रमितः ॥ २४ ॥
प्रसङ्गाद परिमाणविरोधरूपं बाधकान्तरमाशङ्कय परिहरति । शब्दादित्यादि ।
कठवल्ल्यां श्रूयते । 'अझ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति, ईशानो भूतभव्यस्य
ततो न विजुगुप्सत' इति । तथा । 'अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधृमक' इति । अत्र
जीवो या, ब्रह्म वेति संशयः।
तत्र, यावान् वा अयमाकाश' इति व्यापकत्वमन्तःस्थितस्य प्रतीतम् । अत्र
चान्तःस्थितस्यैवांगुष्ठमात्रता प्रतीयते । सा च व्यापकताविरुद्धा । अतो जीव एवात्र
वक्तव्यः । अङ्गुष्ठमात्रं, 'अङ्गुष्ठमानो रवितुल्यरूपः सङ्कल्पाहारसमन्वितो य इति
श्रुत्यन्तरे तस्याङ्गठमावतायाः प्रसिद्धत्वात् , तस्य च ‘अङ्गुष्ठमात्रं पुरुपं निश्चकर्ष यमो
बलादिति पुराणवाक्याद्धीनत्वमतस्तदव्यतिरिक्तमुक्तमन्त्रोपास्यत्वेन बोधयितुमुपास-
नार्थमीशानत्वादिधर्मा उच्यन्ते । अतो न भगवानिति प्राप्ते, अभिधीयते,
शब्दादेव प्रमित इति । उक्तवाक्ये पूर्वार्धनाङ्गुष्ठमात्रत्वमुक्त्वोत्तरार्धे तावन्मात्रस्यैव
भूतभव्येशानत्वं वक्तीति वाक्यरूपाच्छन्दादेव प्रकर्षेण विरुद्धधर्माश्रयत्वरूपेण मितो
ज्ञातः । तथाच यथा दहरवाक्ये सूक्ष्मस्यैव व्यापकत्वं शब्दात्प्रमीयते, एवमत्राङ्गुष्ठमा-
वस्यैव भूतभव्येशानत्यम् , अतः शब्दादेवास्य प्रमितत्वादत्र सन्देह एव न कार्य इत्यर्थः ।
किञ्च । पूर्वाधिकरणविषयवाक्ये सर्वस्य भगवदनुकारकत्वसिद्धेरत्र राजादीनां स्वल्पाना-
मप्यनेकजनपदेशनशीलत्वात प्रत्यक्षमायनुकूलीभवति । तथा तर्कोऽपि । यदि भगवा-
नेवं न स्यात्, राजादिरपि तथा ने स्यादिति । तस्माद्भगवतः सर्वतः पणिपादान्तत्वेन
यत्र यावानपेक्ष्यते, तत्र तावन्तं श्रुतिनिरूपयतीत्यङ्गुष्ठमात्रः परमात्मैवेति सिद्धम् ॥२४॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
नन्वनेकरूपविरुद्धधर्माश्रयत्वं च माहात्म्यार्थ स्वरूपे निरूपयति । प्रादेशमात्र
च ध्यानार्थम् । अङ्गुष्ठमात्रत्वस्यानोपयोगादर्शनात किमर्थं तन्निरूपणमित्याशङ्कायामाह।
हृदीत्यादि । तुशब्दो निष्प्रयोजनशङ्कानिवृत्यर्थः । अस्ति प्रयोजनम् । तदाह । हदि
यदअष्टमात्रं निरूपयति, तद् अपेक्षया, 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती'ति स्मृतेरी
श्वरकार्यापेक्षया निरूपयति । तच्च कार्य धर्मरक्षा । ननु कथमेतदवगम्यते, इत्यत आह ।
मनुष्याधिकारत्वादिति । मनुष्यानधिकृत्येदं मृत्यूपाख्यानं प्रवृत्तम् । मनुष्याणां च
हृदयं स्थूलमपि सत् धर्मात्मकमङ्गुष्ठमात्रमेव । अङ्गुष्ठमात्रस्यैयावदानश्रवणात् । अतः परि-
माणान्तरमनुक्त्वाङ्गुष्टमात्रः सर्वधर्मरक्षार्थ निरूप्यत इत्यङ्गुष्ठमात्रो भगवानेवेति सिद्धम्
॥ २५ ॥ ७ ॥ इति सप्तमं शब्दादेव प्रमित इत्यधिकरणम् ।
तदुपर्यपि च बादरायणः सम्भवात् ॥ २६ ॥

८८ भावप्रकाशिका | ब्रह्ममूत्रवृतिः । अङ्गष्टमाननिरूपणार्थ मनुष्याधिकारे निरूपित जमिनीयदर्शनाभिनिविष्टस्य कस्स- चिद् अमः स्यात् । सर्वासु ब्रह्मविद्यासु मनुष्याणामेवाधिकार इति । तन्निराकरणाय देवानामधिकार स्थापयितुमिदमधिकरणमनुप्रसङ्गमङ्गत्या आरभते। तदुपर्यपीत्यादि । मनुप्येष्वपि त्रैवर्णिकानामुपनयनादिधर्मवतामधिकारो, न तु ततोक्तिनानामिति ज. मिनीयदर्शनेपि शूद्राधिकरणे सिद्धम् । तत्राप्यङ्गीक्रियते। तदनुक्तमधिक तु बोध्यते इति ज्ञापनार्थमपिशब्दः । तदुपरि विशिष्टत्रैवर्णिकेभ्यो मनुष्येभ्यः सकाशादुपरि मनु प्यगन्धर्वादिप्रजापत्यन्तानन्दिनामधिकार बादरायण आचार्यो मन्यते । तन जमिनिप्रभृ- तीनां न सम्मतिरतः स्वनामग्रहणम् । स्त्रोक्त हेतुमाह । सम्भवादिति । जैमिनिहि कर्मविधीनां स्वापेक्षितोद्देश्यत्वातिरिक्तदेवतागतधर्मान्तरानाकाडित्वमङ्गीकृत्य तरछेप- भूतयोमन्त्रार्थवादयोर्देवताविग्रहसाधकत्वं मन्यानो विग्रहाभावादेवायित्वसामर्थ्य विद्वाना- नामभावादाधिकारासम्भवं गन्यते । सोऽसम्भवोन नास्ति । विग्रहामावे तेषां विधीनां व्यापारकौष्ठवप्रसङ्गात् । तथाहि, देवतोद्देशेन विधीयमानं यागादिकं स्वस्योद्देश्यसम्ब- न्धाय वपट्कारमपेक्षते । स च ध्यानम् । यस्यै देवतायै हविनिस्सं सात् , तां मनसा ध्यायेद, वपट करिष्यनिति विधानात् । ध्यानं च चिग्रहमन्तरेणासम्भवधानविध्यान- र्थक्यं प्रसञ्जयति । अशरीराया देवतायाः ध्यानयुद्धापनारोहात् । तदनारोहे च ध्यान वपदकाराद्यभावाद्यागसिद्धयभावेन तद्विधियथ्यं वज्रलेपायत इति कर्मविधीनामुद्देश्य- गतधर्मान्तरापेक्षा अनुक्तसिद्धा । ताँच धर्मान् 'वज्रहस्तः पुरन्दर' इत्यादयो मन्त्रा 'चायुर्वे क्षेपिष्ठा देवते'त्यादयोऽर्थवादाश्च समर्पयन्तीति मन्त्रार्थवादोविग्रहसाधकत्वं निर्वाधम् । एवं सिद्धे कर्माधिकारे चाधकानां निरासेन ज्ञानाधिकारोऽपि सम्भवत्येव । धर्मज्ञानाभ्यां सातिशयाभ्यां तादृशजन्मसम्भवात् । 'तं विद्याकर्मणी समन्वारभेते पूर्व- प्रज्ञा च' इति श्रुतेस्तेषां शारीरारम्भकारणत्वात् । नचोपनयनामावादनधिकारः शङ्कयः । 'यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्ता दिति 'यो वै वेदाँच प्रहिणोति तस्मा' इति यज्ञोपवीतवेदाध्यापनादिलिजेन शतानन्दिना श्रोत्रियत्वलिझेन च तनिश्चयात् । अतः सातिशयाभ्यां धर्मज्ञानाभ्यां ब्रह्मविद्यायोग्यजन्मसम्भवान्नारदवत्तेषां पूर्वसंस्कारा- लोपाचाक्षरार्थित्वे सिद्धे उत्तरोचरमुपदेष्टणां विद्यमानत्वात् प्रजापतिपर्यन्तं सर्वेपामधि- कारः सम्भवति । सम्भवोच्या तादृशाधिकारस्य दुर्लभत्वं सूचितम् । 'यो यो देवानां प्रत्ययुध्यत, स एव तदभवत् , तथपर्षीणां तथा मनुष्याणा'मिति श्रुतेः। अतस्तदुपरितना- नामप्यधिकारः सिद्धः ॥२६॥ विरोधः कर्मणीति चेन्नानकमतिपत्तेर्दर्शनात् ॥ २७॥ अधिकार एव किश्चिदाशङ्कय परिहरति । विरोध इत्यादि । नन्वेवमुपरितनानां बानाधिकारङ्गीक्रियमाणे तत्पूर्वभाविन्युपनयनवेदाध्यनादिरूपे कर्मण्यप्यधिकारोऽवश्य - . श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृतां। वक्तव्यः । स च तेषु ब्राह्मण्याद्यभावादशक्यवचनः । नचाधिकारवलेन ब्राह्मण्यादिक तेपामाक्षेप्यमिति वक्तुं युक्तम् । तस्य विप्रतिपन्नत्वेन बलाभावात् तस्साक्षेपकताया दुरापास्नत्वात् । यज्ञोपवीतमन्त्रायुक्तलिङ्गेन तदङ्गीकारेऽपि स्वर्गस्थानां तेषां भूमिरूपस्य देशस्य, बीह्यादिरूपस्य द्रव्यस्य, तथा तल्लोफे सूर्यगत्यभावेन दर्शादिरूपस्य कालस्य, ऐन्द्रं दध्यमावास्यायामित्यादिपृक्तायाः कभिन्नाया देवतायाथाभावेन तैः क्रियमाणे यज्ञादि- कर्मणि च श्रुतिविरोध इति चेत् । न । नात्र विरोधः । कुतः । अनेकप्रतिपत्तेर्दर्शनात् । 'साध्या चै देवाः सुवर्गकामा एत५ पइरात्रमपश्यन् , तमाहरन्, तेनायजन्त, सोग्निष्टोमेन वस्नयाजयत् , स उक्थेन रुद्रानयाजयत् सोऽतिरात्रेणादित्यानयाजयादित्यादिपु अनेकेषां देवानां प्रतिपत्तेः कर्मणि प्रवृत्तेर्दर्शनात् । तथाचैवं प्रत्यक्षश्रुत्यैव करणे दर्शिते तत एवाधि- कारसिद्धो, 'त्वं देवेषु ब्राह्मणोऽसि यानि ह वै देवत्राणि मरुतो वै देवानां विश' इत्यादि- श्रुतिबलेन तेषु वर्णसत्तायाः, 'तो ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम्पतु रित्यादिविन्द्रादी- नामाश्रमसत्तायाः, 'आदित्या वा अस्माल्लोकादमुं लोकमाय'नित्यादिषु भूमावागत्य यज्ञकरणश्रावणेन देशसत्तायाः, तत एव कालद्रव्यसम्पत्तेरग्निहोता अश्विनाव! इत्यादि- त्यानां देवानां च श्रावणाद् विनवाक्षेपं सर्वबाधकनिरास इष्टः । नच जैमिनिस्मृत्यनय- काशः शङ्कयः । इदानीं वेदविभागादावाधुनिकानां सर्वज्ञानाभावेन मुख्ययज्ञानधिकारे तान् प्रति तस्यावकाशादिति । अतः कर्माधिकारस्तस्करणं चोपर्यपि सिद्धम् ।। २७ ।। शब्द इतिचेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥ ननु पूर्वोक्तरीत्या देवेबधिकारव्यवस्थापनेन कर्तृत्वापादनात् तैः कर्मकरणे माऽस्तु श्रुतिविरोधः, तथापि शब्दे तु विरोधो भविष्यति । कथमितिचेत् । इत्थम् । अर्थज्ञानानन्तरं हि कर्मकरणम् । अर्थज्ञानं च वेदात् । वेदस्तु साध्यादीनां कर्मकरण वदति । तच्च साध्याद्युत्पत्तितत्कृतकर्मणोरनन्तरभावि । अतः कर्मकरणार्थ प्रवृत्तानां साध्यादीनां वेदार्थप्रमितिसमये साध्यादिकार्यस्य कमणोऽभावेन तद्बोधकवेदभागस्याप्य- भावात्तदनित्यत्वापत्तिः । तदा(प)पत्ती च, 'वाचा विरूपनित्यये' त्याचा, 'अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा, शिवाया ऋषिपर्यन्ताः स्मारोऽस्य न कारका' इत्या. दिश्रुतिस्मृतिविरोधापत्तिः । नच तादृशवेदभागोक्ताः साध्यादयः सा यागन्यक्तिथा- न्यैवेति वाच्यम् । तदन्यत्वव्यवस्थापकप्रमाणाभावात् । अतो देवानां कर्मकरणाङ्गीकारे वेदनित्यत्वबोधकश्रुतिविरोध इतिचेत् । न । नात्र श्रुतिविरोधः । कुतः । अतः प्रभ- वात् । प्रभवः प्राकटयम् , स च विद्यमानस्य धर्मः । तथाच शब्दोक्तपदार्थानां शब्दा. देव प्राकटयेन विद्यमानतावधारणान पूर्वोक्तो विरोधः । वेदोक्ताः सर्व एव पदार्था आधिदैविकाः पुरुषावयवभूताः । नचैत एव त इति शङ्कयम् । अनुकृतिसूत्रे विषयवा- क्येन भगयतः सर्वानुकार्यत्वनिर्धारात् तेपामनुकारिभ्यो मेदस्य सिद्धत्वात् । अतो ९० . भावप्रकाशिका । ब्रह्मसूत्रवृत्तिः। लौकिकप्रमाणागोचरो ज्ञानात्मकः प्रपञ्चो भिन्न एव भगवदवयवरूपः । पदानां च वैदिकानां तेनैव सम्बन्ध ति देवरगम्यमानाः माध्यादयो मिन्ना इति न ज्ञप्ता- चात्माश्रयादिन वा शब्दनित्यत्वहानिरिति शब्देऽपि न विरोध इत्यर्थः । ननु लौकिकरेव द्रव्यादिभिर्यज्ञनिर्वर्तनदर्शनात कथं वैदिकस्य प्रपञ्चस्वातिरिक्तत्वमुपगन्तुं शक्यमित्या- शङ्कायामाह । प्रत्यक्षानुमानाभ्यामिति । तथाचताभ्यां प्रमाणाभ्यामुपगन्तुं शक्य- मित्यर्थः। तत्र प्रत्यक्ष तावदिदानीमपि यजमानो यजमानकृत्यं ऋत्विजयविकृत्यं वेदा. देवावगच्छन्ति । तथाच यथा तत्कर्म वेर्दकसमधिगन्यम् , तया पदार्या अपि । ननु प्रसिद्ध पदसमभिव्याहाराद्धर्मे शक्ती गृहीतायां पश्चाल्लोकानां वैदिककर्मविपयकं शाब्दं भवति, ततस्तैस्तदनुष्ठीयत इति तत्प्रत्यक्ष भवति । तत्र लौकिकातिरेकश्च वैलक्षण्याद्भासत इति तत्र प्रत्यक्षस्य प्रामाण्यं युक्तम् । पदार्थानां तु सद्देतग्राहकस्याभावेन तच्छान्दाभावा- द्वलक्षण्यादर्शनेन तस्यानुपस्थितत्याच कथं तत्प्रत्यक्षमितिचेत् । उच्यते । न पत्र तेषां प्रत्यक्षमुच्यते। किन्तु वेदात् प्रभवस्य । एवं सति यथा कर्मणः प्रभवः, एवं पदार्थानामपि ज्ञेयः । अन्यथा प्रोक्षणादीनां संस्काराणामपार्थत्वमेव स्यात् । किञ्च । पूर्वेषां ब्रह्मादीनां भगवतः साक्षात्कारात्तदवयवरूपाणां पदार्थानामुपस्थितिः सुकरैव स्यात् । ततोऽर्चाची- नानामिदानीन्तनपर्यन्तानां तु सम्प्रदायपारम्पर्याद सर्वस्य भगवदनुकारित्वज्ञानाच्च भेदे सादृश्ये च भाते उपमानादेव तेषु शक्तिग्रहः । अप्रत्यक्षत्वेऽपि शाव्दं च भवति । यथा स्वर्गादीनामतीन्द्रियाणाम् । उत्तमानां तु वैलक्षण्यमपि किञ्चिद्भासत एव । अतो जैमि- निमते वेदाद्धर्मावगतिवद् वैयासे मते वेदादेव पदार्थानामप्यवगतिः । किञ्च । जमद- ग्रीनां पञ्चावत्तमित्यादिकमनुमानम् । मनुष्यत्ववजामदग्न्यत्वस्य प्रत्यक्षत्वाभावात् । भारत आजगरे मनु यत्वव्याप्यानां ब्राह्मणत्वादीनां दुप्परीक्ष्यत्वकथनेन, जैमिनिनास्थ्य- पराधात् कर्तुश्च पुत्रदर्शनमितिसूत्रकरणेन, प्रवरानुमन्त्रणश्रुत्या, 'यन्मे माताप्रममादे'ति श्रुत्या च तथा निश्चयात् । ब्रह्मवादे परोक्षज्ञानस्याप्यनुमानत्वेन व्यवहारादिति । तस्मात् कर्मावगतिवत् प्रत्यक्षेण स्वस्य जामदग्न्यावगतिवत् परोक्षेण च तस्य प्रपञ्चस्यावगतेः शन्दऽपि न विरोध इत्यर्थः ॥ २८ ॥ अत एव च नित्यत्वम् ॥ २९ ॥ एतदतिदेशेनैव वेदस्यापि नित्यत्वं साधयितुमाह । अत एवेत्यादि । अत एवं सर्वप्रपञ्चपैलक्षण्यादेव हेतोर्वेदस्य नित्यत्वम् । चकाराद्ब्रह्मतुल्यत्वं, शब्दब्रह्मवेदपुरुष इत्यादिपदवाच्यत्वं च संगृह्यते । एव सूत्रद्वये श-दबलविचारेण वेदनामाण्यमिद्धयर्थ भिन्न एव प्रपञ्च आधिदैविकः सर्वत्र मिद्धः । तेनानुकारिसृप्टेरपि यत् कीर्तनं तत्रापि नानित्यसंयोगः। 'सदेव सोम्येति, 'हंताऽहं मदेव मन्मानं द्वितीय मिति । 'विश्वं ब्रह्म १ वलक्षण्याभावेन दर्शननति पाक श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता। ९१ तन्मात्र'मित्यादिश्रुतिभिर्बलोपादानकतया तस्या अपि नित्यत्वावधारणादिति च सिद्धम् ।। २९॥ समाननामरूपत्वादावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ ३० ॥ इदानीमुत्तरकाण्डे 'तत्तेजोऽमृजते'त्यादिवाश्यानां विचारे तेजःप्रभृतीनां जन्यत्व- श्रावणादनित्यत्वे सिद्धे शब्दार्थयोस्तदंश अनित्यसंयोगोऽर्थवलेन प्राप्नोतीति तन्नि- वृत्यर्थमाह । समानेत्यादि । वस्तुतस्तु सर्वस्य भगवद्रूपत्वादाविर्भावतिरोभावेच्छयैवा- नित्यत्वेन भानस्य विष्णुपुराणे, 'तदेतदक्षयं नित्यं जगन्मुनिवरासिलम्, आविर्भावति रोभावजन्मनाशविकल्पवदिति जगतो विकल्पचतुष्टयताबोधनेन चोक्तत्वादावृत्तिशबैच नास्ति । यदि पुनर्लोकवुद्धिमनुसृत्य जन्मनाशाङ्गीकारेणानित्यतोपगम्यते, तदापि मृदा दीनां पिण्डपटखपरचूर्णभस्मपरमाण्यवस्थानां पौनःपुन्यदर्शनाद द्रव्याकृत्योरावृत्तिरङ्गी- कार्या । एवमावृत्तावपि, समाननामरूपत्वात् , घटादीनां च पृथुवुध्नोदरादिरूपाया आकृतेस्तुल्यत्वाद्, अविरोधः । नित्यानां चैदिकपदार्थानामनित्यपदार्थेन सह सम्बन्ध- कृतो विरोधो नास्ति । कुतः । दर्शनात् स्मृतेश्च । दृश्यते हि लोके कालिकनित्य- प्रलयशालिपु पितृमातृस्त्रीमतशरीरेषु गङ्गादीपप्रभृतिषु च प्रतिक्षणमन्यान्यत्वेऽपि प्रवाहैक्येनकतायाः शक्यतायाश्चाभिमानः । दृश्यते च मूर्या चन्द्रमसौ धाता यथापूर्व- मकल्पयद् , दिवं च पृथिवीं चान्तरिक्षमथो सुब'रिति सर्वस्य यथापूर्वत्वबोधिका श्रुतिः । अतो लोकदृष्टया पदार्थानित्यत्वे तत्तत्प्रवाहस्य नित्यत्वात् तत्रैव पदानां शक्तिः । इदं चानादिसृष्टिवादिनो मीमांसकस्य मतेऽपि तुल्यम् , अतो यथा अव्यतिरेकथार्थेऽनुपलब्ध इत्यत्र व्यवहाराव्यतिरेकेण प्रवाह नित्यतया धर्मे शब्दसम्बन्धस्तद्ग्रहणं च, तथा वस्त्वन्त- रेऽपीत्यनित्यसम्बन्धगन्धस्याप्यभावान विरोधः । किञ्च । स्मृतेः । 'सर्ववेदमयेनेदमा- त्मनात्मात्मयोनिना, प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरत' इति यथापूर्वसृष्टिबोध- कस्मृतेः । 'भापीणां पूर्ववरितस्मरणं स्मृतिरुच्यते ' इति स्मृतिसाधारणलक्षणे पूर्व- कल्पीयाचारस्मरणस्य बोधनेन सृष्टियथापूर्वतायाः सिद्धेः प्रवाह नित्यत्वस सिद्धत्यात तत्रैव पदानां शक्तस्तथेत्यर्थः ॥ ३०॥ मध्वादिष्वसम्भवादनधिकारं जैमिनिः॥३१॥ अर्थवल विचार एवं उपासनाविशेपमादाय पूर्वपक्षमाह । मध्वादिम्बित्यादि । ननु छान्दोग्ये 'असौ वा आदित्यो देवमधु, तस्य द्यौरेच तिरथीनवंशोऽन्तरिक्षमपूपो मरीचयः : पुत्रास्तस्य ये प्राञ्चो रश्मयस्ता एव प्राच्यो मधुनाज्य' इत्यादिना मधुविद्यायां सूर्यस्य देवमधुत्वं पञ्चदिकानां तद्रश्मी । पञ्चनाडीत्वं च प्रतिपाय अग्ने 'वद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेने त्यादिना वसुरुद्रादित्यमरुत्साध्या देवगणाः स्वन- ख्येनागीन्द्रवरुणसोमब्रह्मरूपेण मुखेन दृष्ट्रय तृप्यन्तीति निरूप्य, अग्रे ‘स एतदेयममृतं .

भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। वेद वसूनामेवैको भूत्वाग्निनैव मुसेनंतदेवामृतं दृष्टा तृप्यती'त्याद्युपासनमुक्तम् । तत्र देवानां ब्रह्मविद्याधिकागेपगमे विद्यावाविशेषान्मधुविद्याविषयत्वाद्वेद्यवेत्रैक्यापच्यानु- पपत्तेरादित्यः कथमादित्यमुपासीत । किश्चाग्रे आदित्याश्रितानि पञ्च रोहितादीन्य- मृतान्यनुक्रम्य वस्वादीन् पश्चदेवगणांस्तदुपजीवकानुक्त्वा वस्वाद्युपजीव्यान्यमृतानि विजानतो वस्वादिरूपप्राप्त्या स्वगणमुख्यमुसेन वृप्तिरुन्यते । सा चोपासनातः प्रागेव वस्वादिरूपेण वर्तमानानां पुनस्तत्प्राप्तिकथनात् प्राप्यप्राप्तोरक्यापच्यानुपपन्ना भवति । नचादित्यवेद्य आदित्यो वस्वादिप्राप्या वस्वादयोऽन्य एवेति वक्तुं शक्यम् । प्रमाणा- भावात् । अधिकारानङ्गीकारे तु तेपामनुपासकत्वात् प्राप्तफलत्वेन कृतार्थत्वाचन देवान्तरकल्पना । नच माऽस्तु मधुविद्यायामधिकारः, तावता ब्रह्मविद्यानधिकारो न वक्तुं शक्यः । तेषां मोक्षार्थित्वात्तत्र बाधकामावाचेति वाच्यम् । ब्रह्मणोऽपि देवत्वा- तस्याप्युपासककोटिप्रवेशेनोपास्यत्वप्राप्यत्वयोर्विघटनादिति । अत्र मध्यादीत्यादिपदेन, 'अग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद' इति, 'वायुर्वा व संवर्ग' इति 'आदित्या ब्रह्म'त्यादेश इत्याद्याः सर्या एव देवोपासनाविद्या गृहीताः । अतस्तासु पूर्वोक्तरीत्या देवानामुपासकत्वासम्भवात् सर्वास्वेव विद्यासु देवानामनधिकार जैमिनिराचार्यो मन्यत इत्यर्थः ॥ ३१॥ ज्योतिपि भावाच्च ॥ ३२॥ अधिकारानङ्गीकारे पुनरुपपश्यन्तरमाह । ज्योतिपीत्यादि । तेषां सर्वेषामेवान- धिकारः प्रत्यक्षत एव दृश्यते । सर्वेऽपि नक्षत्रादिरूपेण महाभोगवन्तो जगदवभासक- त्वेन ज्योतिश्चक्रे दृश्यन्ते, तस्मादिति ॥ ३२ ॥ नच सर्वेषां ज्योतिश्चक्रे स्थित्यभावः शङ्कचः। तैतिरीयारण्यके शिशुमारोपासने 'अग्निः पुच्छस्य प्रथमं काण्ड, तत इन्द्रस्ततः प्रजापति रित्यादिश्रावणात् । न हि तादृशा प्राप्तैश्चर्याणां सर्वोपास्यानामुत्तरमार्गवर्तित्वेनाधिकारसमाप्ती मोक्षभाजा जानकर्मणोः कश्चनोपयोगोऽस्ति । तस्मान तेपामधिकार इति प्राप्ते, उच्यते । भावं तु बादरायणोऽस्ति हि ॥ ३३॥ तुशब्दः पूर्वपक्षं व्यावर्तयति । भावं देवानां ज्ञानकर्माधिकारसद्भाचं बादरायण आचार्यों मन्यते । गौणसिद्धान्तो नायमिति बोधनाय स्वनामग्रहणम् । ननु यद्यार्पज्ञा नेनाधिकारोङ्गीक्रियते. तदा जैमिनेरपि तथात्वात् तौल्यमित्यतः प्रमाणमाह । अस्ति हीति । नास्माभिरार्पज्ञानेनाधिकार उच्यते, किन्त्वस्ति प्रत्यक्षं देवानामभयाधिकार- ज्ञापकं वचनम् ! 'प्रजापतिरकामयत प्रजायेयेति, स एतदग्निहोत्रं मिथुनमपश्यत्, तदुदिते सूर्येऽजुहोद, देवा वै सत्रमासतर्द्धिपरिमित यशस्कामा' इत्यादि । तथा यो यो " श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । ९३ देवानां प्रत्ययुध्यत स एव तदभव'दित्यादि । तथेन्द्रप्रजापतिसंवादे इन्द्रस्य ब्रह्मविद्याधि- कारः। नचतेपामर्थवादत्वेन स्वार्थे प्रामाण्याभावान्नतैरधिकारसिद्धिरिति शङ्कयम् । अन प्रथमवाक्यस्य विद्वद्वाक्यशेपत्वेन खार्थे प्रामाण्याभावे तदुक्तार्थस्साप्रामाणिकत्वात्त- ज्ज्ञानेन यस्यैवं विदुपोऽग्निहोत्रं जुद्धति प्रैव जायत इति फलस्याप्यभाषापनेः । अतस्त- दनुरोधेनैव प्रजापतेरग्निहोत्रद्रष्ट्रत्वं तद्वोत्त्वं चावश्यमभ्युपेयम् । नच प्रजापति रिति भाविनी संज्ञेति वक्तुं शक्यम् । 'यो ब्रह्माणं विदधाति पूर्व मिति श्रुतेस्ततः पूर्वस्यान्य- साभावात् । एवं सिद्ध एकस्मिन् देवेऽधिकारे, देवा वे इत्यादिभिर्यो य इत्यादिभिश्चा- न्येपामपि कर्मणि ज्ञाने चाधिकारो निश्वेतव्यः । यत्र पुनर्देवानां फलभोग एव तदव- यवभूता उपास्या भिन्ना एव, अनशनात् । न हि जीवा दृष्ट्वा तृप्यन्तीति । तस्माद्वेदनि- सत्वाय शब्दमल विचार एवादरणीय इति देवानामप्यधिकार इति सिद्धम्।। ३३ ॥८॥ इत्यष्टमं तदुपर्यपीत्यधिकरणम् ॥८॥ शुगस्य तदनादरश्रवणाचदाद्रवणात् सूच्यते हि ॥ ३४ ॥ अयानुप्रसङ्गसंगत्या शूद्रस्याधिकारी ब्रह्मविद्यायामस्ति, न वेति विचार्यते । एवं हि छान्दोग्ये पष्ठप्रपाठकारम्भे श्रूयते । जानश्रुतिह पौत्रायण इत्यत्र, श्रद्धादेयो बहुदायी बहुपाक्य आस । स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत एव मेऽत्स्यन्तीत्यथ ह हंसा निशायामतिपेतुस्तदैव हंसो हंसमभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जान- श्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसावीत् , तत्त्वा मा प्रधाक्षीरिति । तमुह परः प्रत्युवाच कं वर एनमेतत्सन्त संयुग्वानमिव रयिकमात्थेति । ततो, योऽ- नु रयिक्वमित्यादिना रयिकप्रशंसामुक्त्या, ततो जानश्रुतिस्तच्छुत्या रपिकमन्यिप्य तत्र गत्वा रयिक्वेमानि पद शतानि गवामयं निष्कोऽयमश्वतरीरथोनु म एतां भगयो देवतां शाधि या देवतामुपास्स' इति । तमु ह परः प्रत्युवाच अह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति । तथा शूद्रानेन मुखेनालापयिष्यथा इत्युक्त्वा, स होवाचेत्यादिना संवर्गविद्यामुपदिष्टवानिति । एतदर्थस्तु । जनश्रुतेरपत्यं जानश्रुतिः । पुत्रस्य पौत्रः पात्रा- यणः । श्रद्धया देयं यस्यासौ श्रद्धादेयः । बहुपाक्यो बहुपाककारयिता । स हेतिमिन्नं पदम् । मापयाञ्चक इति कारयामास । मेऽत्स्यन्तीति । मत्सम्बन्ध्यन्नं भक्षयिष्यन्ति । हो हो इति भये द्विरुक्तिः सम्बोधनस्य । अधीति कोमलालापे । दिवेति द्युलोकेन दिनेन वा । तन्मा प्रधाक्षीरिति । तसाज्ज्योतिपः, वाडादेशः। त्वां मा प्रदहतु । कंबरे इति । कम् उ अरे एतत्सन्तमेतावकारिणं सन्तं सयुग्मानमिव रविक्यमात्धेति । पुज्यते इति युवा शकटं तेन सह वर्तमानः सयुग्वा । रयिक इति नाम । सयुग्वान रयियमिवात्थेति पदसम्बन्धः । अह हारे इति । अह हारे । अरे । स ह गोमिरिति । स रथः ह गो- मिरिति । सहयुक्त तृतीया । मुखेनेति द्वारेण । अत्र शुद्रेति सम्बोधनात् सन्दिह्यते ।

" भावप्रकाशिका | ब्रह्ममूत्रवृत्तिः। यथा, 'एतया निपादस्थपति याजयेत, सा हि तस्येष्टि रिति श्रुतेः कर्मचिशेपे शुद्रस्याधि- कारो, यथा वा, हविष्कदाधावति शूद्रस्येति लिङ्गादोहादौ च शूद्रजातेरधिकारः, तथा ब्रह्मविद्यास्वप्यस्ति न वेति । तत्र शुद्रेति सम्मोध्य पश्चाद, विद्योपदेशश्रावणाव निपाद- स्थपतिमितिबद्विशेपानुल्लेखाजातिशूद्रस्याधिकारः सर्वब्रह्मविद्यासु संवर्गविद्यापां वेत्या- शङ्कय परिहरति । शुगस्येत्यादि । अन शुद्रेति पदाजातिशद्रस्याधिकारो न शक्यवचनः । तत्र हेतुः । तद- नादरश्रवणात् । तस्माद्धसादनादरश्रवणात् । के चर एनमेतत्सन्त संयुग्वानमिव रविश्वमात्थेति स्वापकर्षश्रवणात् तदनन्तरम् आद्रवणात् । शुचमनु आद्रवतीति शुद्रः । पृपोदरादित्वाचकारस्य लोप उकारस्य दीर्घच परोक्षवादलात । ननु पूर्वतन्त्र आधानप्रकरयो, वासु रथकार इत्यत्र रूढिरेवारता । रूढियोगमपहरतीतिन्यायात्सा रूढियोगापेक्षया अग्रला । अतः कथं तदनादर इत्यत आह । मुच्यते हीति । अत्र हि शद्रेति संबोधनेन स्वस्य सर्वज्ञत्वं रयिक्वेन मुच्यते । हंसवाक्यश्रयणाच्छोके जाते त्वमत्रागत इति । नचात्र तथा सूचने मानाभावः शङ्कयः । प्रसिद्धकारणामावेऽपि प्रपन्नधिकारवचनानामन्यथानुपपत्तैरेव मानत्वात । एतदवोधनायव युक्तत्वबोधकस्य हिशब्दस्य प्रयोगः। नच स्वस्य सर्वज्ञत्वख्यापनार्थमेवं वचनमपि ब्रह्मविदो न युक्तमिति शङ्कयम् । तन्मात्सर्यनिवारणेन तस्य योग्यतासंपादनार्थत्वेन युक्तत्वात् । अतो रथका- रस्थले तथोपाख्यानाभावेन तन्न्यायस्यान वक्तुमयुक्तत्वात् तत्र तथार्थयुक्तेयोगादेवान भूद्रपदप्रयोगो, न जातिश द्रवाचीति न तस्याधिकारसमर्थनायालमित्यर्थः ।। ३४ ।। क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥ ननु मास्त्वत्र रूढः शूद्रशब्दः, तथापि जानश्रतिजातेरत्रानुक्कत्वाच्छद्रस्य शब्दत्वयोगं बोधयन्नेवानुपूर्वीसाम्याजातिमपि चोधयिष्यतीत्याशङ्कायां जात्यन्तरगमकमाह । क्षत्रिय- वेत्यादि। बहुपाक्यत्वावमथकरणक्षत्तुस्थापनान्तानां गोनिष्करथयुत्तस्वकन्याया भार्या- त्वेन दानाच पौत्रायणस्य क्षत्रियत्वावगतेः। चकारेणोपदेशादपि तदवगतः । तथा चैत्र पूर्वग्रन्थपर्यालोचने तमातेर्युद्धाचारोहात्कुण्ठः शूद्रशब्दो नानुपूर्वीसाम्यादपि तां बोधयितुं शक्ष्यतीत्यर्थः । नच धनवति धार्मिकै शूद्रेऽपि बहुपाक्यलादीनां कथञ्चन वक्तुं शक्य- त्याचद्रादारोपसङ्ग्राहस्य मन्वादिभिरुक्तत्वेन तस्य च कन्यादानहेतुकत्वेन तस्मिन् कन्या- दासत्वस्यापि शक्यवचनत्वान्नैः क्षत्रियत्वनिश्चय इति शङ्कयम् । समं दिवेत्यादि- प्रथमहंसवाक्योक्तमाहात्म्यस्य कापि शूद्रे अश्रवणादस्मरणाच तदसङ्गत्यापत्तेः। रयिक- प्रथमविवाहस्य काप्यदर्शनादेतद्विवाहस्यैव प्राथमिकतया वक्तव्यत्वे रयिकस्यापि शूद्र- ताप्रसक्तौ दुएतायां 'यथा कृतायविजितायाधेश्याः संपन्त्येवमेत५ तदमिसमति . यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद् वेद यत् स वेदेति द्वितीयहंसोक्तस्य रयिफमाहा- ।

श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृताः। ९५ म्यस्यापि तथात्वापत्तेश्च । वाक्यार्थस्तु यथा लोके कृतायचिजिताय कृतो य आयो वृत्तसमयप्रसिद्धो ग्लहः । ते यो विशेपेग जयति स कृतायविजितस्तस्मै जेत्रे तादर्थे चतुर्थी, तादृशजेत्रथम, अधरेयाः संयन्ति स्वल्पजेतारस्तवान्तर्भवन्ति । एवमेतत्त्रायेग एतं रयिकं तदभिसमेत्य अन्तर्भवति, तत् किमित्यत आह । यत्किञ्च प्रजाः साधु कुर्वन्तीति । किश्च । यत् स रयिको वेद तस्मिन्नपि तारमाहात्म्यं भवतीति । ननु हंसवाक्यस्य धर्मिष्ठतामात्रबोधकत्वं ब्रह्मविन्माहात्म्यबोधकत्वं च, न तु क्षत्रियासा- धारणतरोधकत्वम् । अतो न तेन क्षत्रियत्वावगतिरिति अहिलवादनिराकरणाय हेत्व- न्तरमाह । उत्तरत्र चैत्ररथेन लिङ्गादिति । अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनि परिविष्यमाणो ब्रह्मचारी विमिक्ष इत्यादिरूपे उपसंहारगते वाक्यशेपे । कक्षा सेना यस्येति कक्षसेनस्तस्यापत्यं काक्षसेनिरित्यत्र । 'कक्षा स्यादन्तरीयस्य पश्चादञ्चल- पल्लवे स्पर्धापदे च दोमल' इति कोशेन कक्षापदस्य स्पर्धास्थानयोधकत्वात् स्पर्धायाश्च चित्रत्व एव सम्भवात् कक्षापदस चित्रत्वे पर्यवसितत्वात् सेनापदस्य च रथेषु पर्यव- सितत्वात् काक्षसेनिपदेन चित्ररथपुत्रो लक्ष्यते । तेन चैत्ररथेन अत्र क्षत्रियत्वावगतेः । नन्वेवं क्लेशेन कथं क्षत्रियत्वं गम्यत इत्यत आह । लिङ्गादिति । छन्दोगानां द्विरात्रे श्रूयते । एतेन चैत्ररथं कापेया अयाजयस्तमेकाकिनमन्नाद्यस्याध्यक्षमकुर्वस्तस्माचैत्ररथो नाम क्षत्रपतिर्जायत इति' । 'समानान्वयानां समानान्वया एव याजकाः प्रायेण दृष्टा' इति कायसम्बन्धः काक्षसेनेचैत्ररथत्व लिङ्गम् । अतस्तबलात्तस्य क्षत्रियत्वावगतिः। ब्रह्म- चारी ब्रह्मवित् । तस्य तथात्वं परीक्षितुमेतौ संवर्गविद्योपासको संवर्गरूपाय प्राणाय पूर्व मिक्षा न ददतुः, ततस्तदुक्तश्लोकेन त तद्विदमवगत्य पश्चाद्ददतुः । अतस्तस्यां विद्या- यामुपक्रमसन्दिग्धत्वेऽप्युपसंहारे गुरुशिष्यो ब्राह्मणक्षत्रियौ मिद्धावतस्तस्य निःसन्दिग्ध- त्वात् प्रकृतेऽपि तावेवावगन्तव्यौ । तस्मान्न जातिशूद्रः संघर्गविद्यायामधिकारी ॥ ३५॥ संस्कारपरामर्शात्तदभावाभिलापाच ॥ ३६॥ ननु 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षा'दिति जैमिनीयस्त्रात् , 'प्रत्यक्षे चानुमाने च यथा लोके बलावलम्, शीघ्रमन्थरगामित्वात् तथेह श्रुतिलिङ्गयो रित्यभियुक्तोक्नेय श्रुत्सपेक्षया लिङ्गस्य दौर्बल्यात्तत्र क्लेशतस्तल्लाभेन सुतरां दौर्बल्यात् श्रुतिबलादेव शूद्रस्याधिकारोऽस्त्विति शङ्कायामाह। संस्कारेत्यादि । शुद्रस कचिदपि ब्रह्मविद्यायामधिकारश्चेदत्रापि कल्प्येत । तत्तु नास्ति । कुतः । संस्कारपराम- र्शात् । तं होपनिन्ये । सनत्कुमारनारदसंवादेऽपि, ऋग्वेदं भगवोऽध्येमि, यजुर्वेदं साम- चेदमित्यध्ययनलिङ्गान् । एवमन्यत्र सर्वत्र वैदिक अर्थे ज्ञातव्ये उपनयनसंस्कारः परा- मृश्यते, तस्मात् । किञ्च । वैश्वानरविद्यायां तान् हानुपनीयेत्यत्रापि प्राचीनशालादीनां महाश्रोत्रियत्वलिङ्गेन ब्राह्मणतयोपनयनस्य सिद्धत्याद्वैशेषिकतन्निषेधस्यैवानुवादात सर्वत्र भावप्रकाशिका | ब्रह्मसूत्रवृत्तिः । तत्परामर्नो निर्वाधः । तदभावामिलापाच । शूद्रस्य तु चतुर्थ एफजातिस्तु भद्र इति । 'न शुद्रे पातक किश्चिन्न च संस्कारमहंतीति संस्काराभावकथनात् । चकारो, 'न शदाय मति दद्या'दिति विपेधस्य संग्रहाय । तथाचात्र शूद्रस्याधिक रिकल्पनेऽनेकश्रुतिस्मृतिविरोध इति, 'आनर्थक्य प्रमाणानां विपरीतं बलाबल'मिति न्यायात् श्रुतेरेय दौर्बल्यमिति न शूद्रस्य श्रुत्याधिकारसिद्धिरित्यर्थः ॥ ३६ ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७॥ इतश्च न सर्वथाधिकारः । तदभावस्य शूद्रत्वाभावस्य निर्धारण एवं प्रवृत्तेः । गुरुशिष्य भावस्थ प्रवर्तमानत्वात् । छान्दोग्येषु (पष्ट) प्रपाठके सत्यकामो जाबालो जबाला मातरं मन्त्रयांचा इत्यत्र अपृच्छं मातरम्, सा मा प्रत्यत्रयीत्, वहह चरन्ती परिचारिणी यौवने त्वामलमे, साहमेतन्न वेद यद्गोत्रस्त्वमसि, जबाला तु नामाहम्, सत्यकामो नाम स्वमसीति सत्यकामवाक्यश्रवणोचरं गौत्तमो नतदप्रामणो विधातु- महती'ति तत्सत्यवचनेनोत्तमवर्णत्वं च निश्चित्यैव 'सत्यकाममुपनिन्य' इति श्रावणात् । न च निश्चिते ब्राह्मणवीजजत्वे शूद्राभावनिश्चयोक्तियथ्यं शङ्कयम् । व्यभिचारजन्ये शूद्रत्वस्य स्मृतिसिद्धत्वेन वामदेव्यसामोपासकस 'न काञ्चन परिहरे दिति श्रुत्या सर्वगामिनः समीपे तस्या गमने तद्भोगाज्जातस्य व्यभिचारदोपानाक्रान्तत्वबोधनाय शूद्रत्वाभावनिश्चयकथनस्यावश्यकत्वादिति । तसान्न श द्रस्याधिकारः ॥ ३७ ॥ श्रवणाध्ययनार्थमतिपेधात् स्मृतेश्च ॥ ३८ ॥ अधिकारचिन्ता तदा स्यात्, यदि केनचित्प्रमाणेनात्र सं संभाव्येत । यथा पति- तामिहोत्रप्रतिपत्तिस्थले शुद्रस्य श्रवणमध्ययनमर्थज्ञानं चेति त्रयाणां निषेधात् । सूत्रे ज्ञानपदानुक्तिस्तु शु इसन्निधावन्यस्याप्यध्ययननिरोधबोधनार्थम् । तथाच अर्थपदमध्यय- नसममिव्याहारेण तद्वस्तु बोधयदेव सममिव्याहारमहिम्नाऽभिधेयरूपार्थज्ञानमपि वृत्य- न्तरेण बोधयतीत्येतदर्थमित्यर्थः। शूद्रप्रतिपेधस्तु भयास्य वेदमुपभृण्वतस्त्रपुजतुभ्यां श्रोत्र. प्रतिपूरणमिति । यधुवा एतच्छ्रमशानं यच्छूद्रस्तस्माच्छूद्रसामीप्ये नाध्येयमिति । उदाहरणे जिवाच्छेदो धारणे शरीरभेद' इति श्रुतिपु द्रष्टव्यः। यद्युवेत्यत्र यदि उ वैति पदच्छेदः। किश्चार्थपदेनेदमपि ज्ञाप्यते । देहादौ शदाख्यदेवतासम्बन्ध मन्त्राणां तत्राभाव एवेति । नचात्र विप्रतिपत्तव्यम् । 'छन्दांस्येनं प्रजहन्ति काले नीडं शकुन्ता इव जातपक्षा' इति महाभारते तस्कृतत्यागबोधनात् । पद्मपुराणीये गीतामाहात्म्ये विभूतिविश्वरूपाध्याययोः पक्षिरूपणोपनयनस्मरणाच्च । किञ्च, 'वेदाक्षरविचारेण शुद्रः पतति तत्क्षणात, वेदा- क्षरविचारेण ब्राह्मणीगमनेन च, कपिलाक्षीरपानेन शुद्रयाण्डालतां ब्रजे'दित्यादिस्मृ- तेरपि न श द्रयाधिकारः । अतः स्मृतरिति शब्दरूपस्य षष्ठीमादृश्यादिदं योध्यते । यत्- स्मातपौराणज्ञानकर्मणोरपि न शद्रजातिजनकेन दुष्कर्मणा जातिशूद्रसाधिकारः, किन्तु श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । ९७ शापादिना कारण विशेपेण जातानामेवाधिकार इति । तेन पुराणादिपाठोऽपि सङ्कोचादे- वावगन्तव्यः । तस्मात् कचिदपि वैदिके शूद्रस्य नाधिकार इति स्थितम् ॥३८॥९॥ इति नवमं शुगस्येत्यधिकरणम् । कम्पनात् ॥ ३९॥ एवं प्रसाद ब्रह्मविद्याधिकार विचार्य पुनः कठवल्लीस्थमेव वाक्यान्तरं विचा- रयति । 'यदिदं किञ्च जगत् सर्व प्राण एजति निःसृतं महद्भयं वज्रमुद्यतं य एतद्विदु- रमृतास्ते भवन्तीति । अर्थस्तु । यदिदं किञ्च, परिदृश्यमानमपरिदृश्यमानं च सर्व जगत्, माणे विद्यमाने निःसृतं बहिरागतं सदेजति कम्पते । तत्र हेतुः, महद्भयं महतां भयं यस्मात् तादृशं, यजमुद्यतम् । आयुधमुल्लासितमिति पदसम्बन्धात् स्फुटयति । चतुर्थपा- दस्त्वेतज्ज्ञानफलयोधकं वाक्यान्तरम् । तत्र सन्देहः । किमत्र प्राणोपासनोच्यते, इन्द्रो. पासना वा, ब्रह्मवाक्यं वेदमिति । तत्र बीजे तु प्राणः, वज्रोद्यमनरूपमिन्द्रलिङ्गं, ब्रह्मा- करणं च यथायथम् । पूर्वपक्षस्तु, प्रकरणापेक्षया श्रुतेर्बलिष्ठत्वाद् 'अमृतं वै प्राण' इति श्रुत्या प्राणोपासकस्याप्यमृतत्वप्राप्तेयुक्तत्वादेहप्राणवियोगे मरणसम्भवेन भयरूपत्व- स्यापि सम्भवाच प्राणोपासनैवात्र युक्ता । लिङ्गविचारे विन्द्रस्याप्यमरत्वात्तदुपास- कस्याप्यमृतत्वं युज्यते । बलाधिष्ठातृत्वात् प्राणत्वं चेन्द्रस्य । अतः प्राण इन्द्रो वा वाक्यार्थ इत्येवं प्राप्तम् । तत्रोच्यते । कम्पनादिति । आयुधोयमनजभयहेतुकै कम्पन- मत्र प्रथमवाक्यार्थः। तत्रापि 'यदिदं किञ्चे'त्यनेन सर्वपदे सङ्कोचवारणात् तत् सर्वसम्ब- न्धि, तञ्च भगवद्धेतुकमेवेति तदसाधारणम् । अतो न प्राणधर्मः । इन्द्रस्य तु लिङ्गमपि शिथिलम् । वज्रस्याग्निहृदयत्वात् । तस्य तान्तस्य हृदयमाच्छिदत् साऽशनिरभव'दिति श्रुतेः। नच प्राणश्रुतिविरोधः । प्राणशब्दवाच्यत्वस्य 'अत एव माण' इत्यत्रैव साधितत्वात् । नचाधिकरणव्यर्थता । भगवत एतादृशमारकत्वस्य प्रागसाधितत्वेन तत्साधनार्थ- त्वात्। नच पक्षानुल्लेखदोपः । एतादृशस्य हेतोर्वाक्यान्तरे अदर्शनाद्धेतुरेख पक्षमा- क्षेत्स्यतीत्याशयेन विमृष्टनिष्ठविशेपान्तरविमर्शस्यात्र करणेन च तत एव तस्य स्फूर्त्या न्यूनताया अभावादिति ॥ ३९ ॥ १० ।। इति दशमं कम्पनाधिकरणम् । ज्योतिर्दर्शनात् ॥ ४० ॥ छान्दोग्ये दशमाप्रपाठके दहरविद्यायां श्रूयते । 'म एप सम्प्रसादोऽस्माच्छरीरात समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणामिनिप्पद्यते स आत्मेति । इन्द्रप्रजापति- संवादे तु, स आत्मेत्यस्य स्थाने 'स उत्तमः पुरुषः स तत्र पर्येति जक्षन् क्रीड'नित्यादि पठ्यते । तत्र यत्तदोनित्यसम्बन्धाद्विभक्तिसामानाधिकरण्याच जीवो ग्रहीतुं शक्यते,तथापि गीताया'मुत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत'इत्युत्तमपुरुषत्वेन परमात्मनो बोधनस्यात्र प्रत्यभिज्ञानात् तत्र सन्निधिं विभक्तिसामानाधिकरण्यं चानादृत्य व्यवहितं व्यधिकरणवि- १३ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः । भक्तिबोधितमपि ब्रह्मैव चाक्यार्थत्वेन निश्चीयते । अतो दहरविद्यास्थमेव वाग्यं विपयः संशयस्तु, परं ज्योतिर्महाभूतं, ब्रह्म वेति । तत्र, राजशिविराणि नदीतीरात समुस्थिता- नीत्यादी लोके समुत्थानस्योद्गमने प्रयोगदर्शनादस्माच्छरीरात् समुत्थायेत्युक्तस्य शरी- रात् समुत्थानस तत उद्गमनार्थत्वे निश्चिते तदुत्तरमुपसम्पत्तव्यस्य ज्योतिपोर्चिरादि- रूपस्यैव युक्ततया जीवस्यार्चिरादिमार्गेण गमनेचिराद्यपेक्षया आदित्यादेः परत्वस्यापि सम्भवेन रूढेस्त्यागायोगाद्भौतिक भूतरूपं या ज्योतिरत्रोच्यते इति प्राप्तम् । तत्राभि- धीयते । ज्योतिरत्र परं ब्रह्मैव । कुतः। दर्शनात् । समानप्रकरणे, ‘सता माम्य तदा संपन्नो भवति सति सम्पद्य न विदुः सति सम्पद्यामह' इति । 'अहरहर्ब्रह्मलोकं गच्छन्ती'त्यादिप्र- देशेषु सम्पत्तव्यत्वेन ब्रह्मण एच दर्शनादत्रापि सम्प्रसादयचनेन सुपुप्तेरेव बोधनाद्ब्रह्म- स्थाने प्रयुक्तस्य ज्योतिःपदस्य ब्रह्मवाचकताया एव न्याय्यत्वादित्यर्थः । नच श्रुत्यपेक्षया स्थानस्य नैर्बल्यानेदं युक्तमिति शङ्कथम् । वाग्ज्योतिरित्यत्र वाच्यपि तत्प्रयोगेण श्रुतेः सन्दिग्धत्वादिति । तस्माद् ब्रह्मस्थाने यः शब्दः प्रयुज्यते स ब्रह्मवाचक एवेति निश्चयः । नचज्योतिश्चरणाधिकरणे ब्रह्मणो ज्योतिःशब्दवाच्यतायाः सिद्धत्वात् किमेतत्प्रणयनेनेति शङ्कयम् । ये धर्माः पूर्व ब्रह्मासाधारणतया सिद्धाः, ये च युक्त्या साधितास्तेभ्योऽतिरि- का ये धर्मास्तेपां ब्रह्मासाधारण्यबोधनार्थत्वात् । ते च उपसम्पत्तव्यत्वम् , उपसम्पन्नस्य रूपाभिनिष्पादकत्वम्, पूर्ववाक्यगतं हृदयत्वम्, उत्तरवाक्यगतसत्यपदोक्तमामृत- नियामकत्वं चेति चत्वारो बोध्याः । अतो न प्रयोजनशून्यत्वदोपः ॥ ४० ॥ ११ ॥ इत्येकादशं ज्योतिर्दर्शनाधिकरणम् । आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ।। छान्दोग्यसमाप्ती श्रूयते 'आकाशो वै नामरूपयोर्निहिता ते यदन्तरा तद् ब्रह्म'ति । अत्राकाशशब्दे सन्देहः । श्रुतौ वैशब्दात् प्रसिद्धधनुग्रहेण ब्रह्मशब्दप्रयोगेण चोभयत्र युक्तेस्तौल्याद् भूताकाशवाची, ब्रह्मवाची वेति । तत्र नामरूपनिर्वाहो नाम तयोरविच्छेदेन चालनम् । तत्कर्तृत्वमात्रमत्र प्रतीयते, न त्वन्यः कोऽपि धर्मः। तन्मात्रं वाकाशस्याप्यवकाशदानात् सम्भवति । नच धर्मसामान्यत्वेन प्रकरणवलाद् ब्रह्म ग्रहीतुं शवयम् । प्रजापतिरुवाचेत्यस्य द्विरुक्त्या श्यामाच्छचलमिति प्रकरणान्तरल्यवधानेन च ब्रह्मप्रकरणस्यात्राभावात् । नापि द्वितीयप्रकरणशेपत्वम् । अभिसम्भवानीत्यस्य द्विरुक्या तस्यापि समाप्त्यवगमात् । अत एव नजीवपरत्वम् ।आकाशपदस्य जीवपरतायाः काप्य- सिद्धत्वात् । नचोपसंहारगतानां ब्रह्मामृतात्मशब्दानामसङ्गतिः शङ्कया। तेपामवकाश- दानकृतवृंहणनित्यत्वव्यापकत्वगुणयोगेनोपासनार्थ प्रशंसानिबन्धनया गौण्यापि नेतुं शक्यत्वात् । नापि ते यदन्तरेत्यस्य व्यापकतया आकाशेऽपि तत्संभवात् । अत उपक्र मगतस्याकाशपदस्योचारणमात्रतो भूताकाशावगमात् स एव ग्राह्य इत्येवं प्राप्ते। उच्यते ।

श्रीवजनाथात्मनश्रीकृष्णचन्द्रकृता । आकाशः परमात्मैव । कुतः । अर्थान्तरत्वादिव्यपदेशाद । अर्थः प्रयोजनं यद् भूताका. शस्य श्रुतिसिद्ध वायुजननरूपं तस्मादन्यद अर्थान्तरं, ते यदन्तरेत्यादिनोक्तम् । आसम- न्तानामरूपयोरन्तःस्थापनम् । आदिपदेन तद्ब्रह्मेत्यादिना बोधितं तत्पोपकत्वं तयो. रानन्दकत्वं तदात्मत्त्वं च बोध्यम् । तेन अन्तरःअर्थो यस्मादित्यर्थान्तरम्, वाहितारन्या- दिग्विति परनिपातः । तस्य भावोऽर्थान्तरत्वम् । तदादयः पूर्वोक्ता धर्मा ब्रह्मादिश्रुतयश्च तेषां व्यपदेशात् कथनादिति सौत्रपदस्यार्थः। न चेदमसंकुचित नामरूपनिर्वोदत्वं निरुह्यस्य रूपान्तर्गतस्याकाशस्य सम्भवति, न या कापि श्रुतावाकाशमाहात्म्यहेतुत्वेनोक्तमस्ति । नाप्यसङ्कचितं तयोरन्तःस्थापनं बृहण वा तथा । अत आकाशकार्यातिरिक्तकार्यकर्तृत्वादे- स्त्रोक्तवाद ब्रह्मादिश्रुतीनां चानुकल्याद् ब्रह्मवाकाशः। स्वारसिकं च शब्दानां ब्रह्मवा- चकत्वम् ,अतो न लक्षणादोपः। यदपि लोकदृष्ट्याकाशस्थावकाशदानानामरूपनिर्वाहकत्वं तदपि भगवदधीनम् । 'अदो ददाति श्वसतां पदं यनियमानभ' इति श्रीभागवतवाक्यात् । नचंतेषामुपासनार्थत्वं वक्तुं शक्यम् । चैपदविरोधात् । तस्माद् ब्रह्मधर्म एवायम् । एतस्य ब्रह्मधर्मत्वं न श्रुत्यन्तरसिद्धमत इह विचारितम् । अत एव तद्धर्माधिकरणेन तल्लिङ्गा- धिकरणेन वा नास्य गतार्थता । तेनेदं सिद्धम् । यत्रैव सिद्ध्वकारेणोत्कृष्टधर्मा अतदीया अन्यवाचकपदवाच्यस्योच्यन्ते, तत्रार्थापच्या ब्रह्मैव बोध्यमिति ॥ ४१ ॥ १२ ॥ इति द्वादशमर्थान्तरव्यपदेशाधिकरणम् । सुषुप्त्युत्क्रान्त्योभेदेन ॥४२॥ वृहदारण्यके ज्योतिर्बाह्मणं शरीरब्राह्मणं चात्र विषयः । अत्र, किं ज्योतिरयं पुरुप इत्युपक्रमे,समाप्तौ च अभयं ह वै ब्रह्म भवति य एवं वेदेतिवेत्तृत्वेन जीवस्यैव परामर्शान्मध्ये च ब्रह्मधर्माणां सर्वेशितृत्वादीनां श्रवणात् सन्देहः। किमिदं जीवस ब्रह्मत्वप्रतिपादनपरं जी. यवाक्यम् उत वातन्त्र्येणैव ज्ञानकर्मत्वप्रतिपादनपरं ब्रह्मवाक्यमिति । विचारप्रयोजन वा- नन्दमयाधिकरणमारभ्य दहराधिकरणपर्यन्तं 'नेतरोऽनुपपत्ते रित्यादीनां जीवनिषेधकानां सूत्राणां वैयर्थ्यस्य परिहारः । अन्यथा तु जीवस्य वस्तुतो ब्रह्मत्वे जीवभावसाविद्यासं- सर्गकृतावस्थान्तररूपत्वात् तत्सत्त्वेपि ब्रह्मत्वसानपेतत्वेन संसारावस्थावस्थितस्य च जग- कर्तृत्वादिधर्माणां प्रत्यक्षमाधितत्वेन दर्शनान्तराच बाधितत्वेन शङ्काया एवानुदयात्तद्वै- ययं वज्रलेपायेत । आचार्यस्य ग्रहिलवादित्वं बर्वरत्वं चापयेत । विचारे तु श्रुत्यैव तसिद्धेर्न त्रयमपीत्युपोद्घातेनेदं विचार्यते । तत्रोपक्रमोपसंहारयोर्जीवपरामर्शान्मध्य उक्तानां धर्माणां चावस्थान्तरेऽपि वस्तुतो ब्रह्मतया तदीयत्वाद् 'ब्रह्मैव सन् ब्रह्माप्येती'- त्यत्र विद्यानिर्मुक्त्या खस्वरूपानुसन्धानेन 'ब्रह्मैव सन्' विभेदरहितो भवतीत्यर्थेन वस्तुतो ब्रह्मत्वाद् जीवस्य ब्रह्मत्वप्रतिपादनपरमेवेदं वाक्यमिति प्राप्ते । अभिधीयते । सुपु- क्षीत्यादि । अस्मिन् प्रकरणे नमव वाक्यार्थः । कुतः। सुषुप्त्युत्क्रान्त्योर्भेदेन। व्यपदेशादिति ।

१०० भावप्रकाशिका नमसूत्रवृत्तिः। पूर्वसूत्रतोऽनुवर्तते । सुषुप्तौ 'अयमात्मा पानेनात्मना सम्परिष्वक्तो न बाह्यं वेद नान्त- र मिति । उपक्रमे च 'अयमात्मा प्राजेनात्मनान्वारूढ' इति जीवात्मनः मकाशात् प्रानस परमात्मनो भेदेन कथनात् । न ह्ययस्थामेद एको भेदेन व्यपदिश्यते । न हि पण्डितो देवदत्तः कर्मादिवशात् पतितो देवदत्ताद्भिद्यते । अतः पूर्वाधिकरणे यथा अन्यथानुपप- चिवलादाकाशवाक्यस्य ब्रह्मपरत्वनिर्धारः, तयात्रान्यथानुपपत्तिवलातू प्रकरणस्य तयात्व- निर्यारो युक्त इत्यर्थः ॥ ४२ ॥ पत्यादिशब्देभ्यः ॥ ४३॥ किश्च । 'सर्वस्य वशी सर्वस्येशानः सर्वसाधिपतिः सर्वमिद प्रशास्तीति पत्या. दिशब्दाः सर्वस्येत्यादयस्तेभ्य इदं प्रकरण स्पष्टमेव ब्राह्मत्वेन गम्यते । न हि निरङ्कुश सर्वाधिपत्य जीवस्य सम्भवति । न था जीवस्यावस्थाविशेषत्वे ब्रह्मानतिरेकात् मर्यस्थम- सम्भवदधिपतित्यं समर्थयितुं शक्नोति । अतः सर्वस्याधिपतिरित्यादिश्रुतिवलादप्यस्य ब्रह्मप्रकरणत्वमित्यर्थः ॥ ४३॥ १३॥ इति त्रयोदशं सुपुप्त्युत्कान्त्योरित्यधिकरणम् । इति श्रीमदलभाचार्यचरणकतानश्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृतायां ब्रह्मसूत्रवृत्तौ प्रथमाध्यायस्य तृतीयः पादः ॥१॥३॥ अथ प्रथमाध्यायस्य चतुर्थः पादः । . आनुमानिकमप्येकेपामितिचेन शरीररूपकवि. न्यस्तगृहीतेर्दर्शयति च ॥१॥ अतीतेषु त्रिषु पादेषु प्रथमे शब्दकृतसन्देहनिवारणाय कार्यनिरूपकाणि वा- क्यानि बिचार्य, द्वितीयवृतीययोश्च यथायथं जी-जडरूपार्थकृतसन्देहवारणायान्तर्याम्यु- पास्यरूपनिरूपकाणि च वाक्यानि विचार्य, सर्वेषां वेदान्तानां साक्षात्परम्परया च ब्रह्मणि समन्वयः प्रतिपादितः । स तदा दृढीभवति यदा श्रौतत्वेनाभिमन्यमानस्य मतान्तरस श्रौतत्वं निराक्रियते। अतस्तदर्थ चतुर्थे पादे जीवजडसमुदायात्मकार्थनिरूप- कतया मतान्तरातत्वभ्रमजनकानि प्रकीर्णकानि वाक्यानि विचार्यन्ते । अत उपोद्धा- तोत्र पादसङ्गतिः। तत्र ईक्षत्यधिकरणे ब्रह्मलक्षणस्य प्रकृतावतिव्याप्ति वारयितुमशब्द- मिति पदेन सांख्यमतमशब्दत्वान्निवारितम् । तदात्यार्थमिह सूत्रांशेन आशङ्कयांशान्तरेण समाधत्ते । आनुमानिकमित्यादि । एकपा कठानां शासासु कठवल्ल्याम् , आनुमानिक सांख्यैः, स्थूलभूतानि शब्दादितन्मात्रजन्यानि, मूढत्वात् । यद्यजन्यं तत्तत्सदृशम् । यथा मार्तिकादिवाह्याभ्यन्तरकरणानि तन्मात्राणि च अहंकारजन्यानि । शान्तधोरवि.

.. श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । मूढत्वात् । अहंकागे महत्तचजन्यः । शान्तादिरूपत्वात् । महत्तचं प्रकृतिजन्यम् । शान्तादिरूपत्वात् । पूर्ववत् । प्रकृत्यादीनि चतुर्विंशतितत्त्वानि परार्थानि । संघातरूपत्वात् , पर्यादिचत् । यः परः म पुरुष इत्येवमनुमानकल्पितं मतं श्रूयते । 'इन्द्रियेभ्यः परा पर्था द्यर्थेभ्यश्च परं मनः। मनमस्तु परा बुद्धियुद्धेरात्मा महान् परः । महतः परमव्यक्त- मव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति'रिति । अत्र बुद्धेः सकाशात् पर आत्मा अहंकारः । 'चन्द्रो मनो यस्य गर्क आत्मा अहं समुद्रो जठर भुजेन्द्रा इत्यहकारेऽप्यात्मपदप्रयोगात् । ततः परो महान् महत्तत्त्वम् । ततः परमव्यक्तं प्रकृतिः। ततः परः पुरुष इति । तथाचैवं सांख्यमतप्रत्यभिज्ञानात् तन्मतं श्रौतम् । अपिशब्दाद 'अजामेका मित्यादिवाक्येपूक्तः प्रकृतिरूपो वादो, 'मायां तु प्रकृति विद्या'दित्यायुक्तो मायावादः, 'पञ्चाश दांपञ्चपर्वामधीम' इत्यायुक्तोऽविद्यावादश्च श्रौत इतिचेत् । न । कुतः । शरीररूपकविन्यस्तगृहीतः। शरीरसम्बन्धिरूपकं शरीररूपकम् , तत्र विन्यस्तानां गृहीविग्रहण शरीररूपकविन्यस्तगृहीतिस्ततः । अत्र हि पूर्वम् , 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धि तु सारथिं विद्धि मनःप्रग्रहमेव च । इन्द्रियाणि हया- नाहुपियास्तेपु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तत्याहुर्मनीपिण' इत्युक्त्वा, ततो 'यस्त्वविज्ञानवान् भवती'त्यादीनि पञ्च वाक्यान्युक्त्वा, तदनु 'इन्द्रियेभ्यः परा' इत्यादि पठ्यते । अत इन्द्रियवाक्यं प्रकरणावरुद्धमिति तत्र पूर्वसम्बद्ध एवार्थो वक्तव्यः । अन्यथा प्रकृतहान्यप्रकृतपरिग्रहाप्ती स्याताम् । इदं हि जीवप्रकरणम् । 'यस्त्वविज्ञानवा' नित्यादौ तस्यैव परामर्शात । तत्र जीवस्य मुक्त्युपायो निरूप्यते, 'विज्ञानसारथिर्यस्तु मनाप्रग्रहवानरः। सोऽध्वनः पारमाप्नोति तद्विप्णोः परमं पद मिति । न घेतत् सांख्यमते सम्भवति । स्वरूपावस्थानातिरिक्तस्य भगवत्प्राप्तिरूपस्य मोक्षस्य तन्मतेऽभावात् । अह- मस्तदग्रिमे 'इन्द्रियेभ्य इति वाक्ये अहंकारादितत्त्वरूपो नार्थः, किन्तुक्तविद्वन्मोक्ष- साधनानुसाउँवार्थः । तत्र साधको जीवो रथी । तस्य ब्रह्मप्राप्ती मुख्यं साधनं शरीरम् । स रथः। सर्वसामग्रीसहितस्वायत्तयानत्वात् । तेन शरीरे रथरूपकम् । रथस्तु गमने हया- धीन इतीन्द्रियेषु हयरूपकम् । इन्द्रियाणि मनोऽधीनानि, हयाश्च प्रग्रहाधीना इति मनसि तद्रूपकम् । मनश्च बुद्धयधीनं, प्रग्रहश्च सारथ्यधीन इति युद्धौ सारथिरूपकम् । इन्द्रियाणि तु विषये प्रवर्तन्ते, हयाच मार्गरूपे देशे, सारथिश्व मार्ग एव हयान् प्रेरयतीति विपयेषु गोचरपदेन मार्गरूपकम् । ततो रथिस्वरूपनिगमना यात्मेन्द्रिय मनोयुक्तं भोक्तेत्याहुर्मनीपिण' इत्यर्धश्लोकः । ततो मार्गस्य प्राप्याधीनत्वात्तद्बोध- नाय प्रापकसामग्रीनिगमनपूर्वका 'यस्त्वविज्ञानवा' नित्यादयश्चत्वारः श्लोकाः । तत इष्टस्य प्राप्यस निगमनाय विज्ञानसारथिरिति पञ्चमः । तत्रेयमाशङ्कोत्तिष्ठते । एवमत्र मोक्षप्रणाडीनिरूपणे विपयाणां यद्देशत्वमुक्तं तन्न युक्तम् । संसारमार्गवस्य प्रत्यभिज्ञादिसिद्धत्वादिति । तन्निवारणाय वदतीन्द्रियेभ्य इत्यादि । तथाचायमर्थः ।

स्वग्रया बुद्धया सूक्ष्मया सूक्ष्मदाहमिरिति । द्रष्टणां बहुत्वकथनेन तद्भिनयात्मनो
स्मृतिगृहीता । तत्र च ज्ञानानन्तरं सायुज्यं दर्शयति । न हीदृश आत्मा तत्प्राप्तिश्च
भावप्रकाशिका ब्रामसूत्रवृत्तिः।
इन्द्रियेभ्यो हयेभ्योऽर्था विषयाः पराः । मार्गतया नियामकत्यादुत्कृष्टाः । दिस
मकवं चात्र, 'घ्राणं च गन्ध' इतिन्यायेनेन्द्रियाधिद विकतया भगवदीयत्वेन मनस
सम्यग्भाविततया च । न तु विषयतया । मोक्षप्रकरणत्वात् । नापि ज्ञानीन्द्रियतया
विरक्तन्द्रियाणां विषयेषु सम्यक्त्वेन भावनाभावात । अतस्तसारविन्दनयनस्येत्यादि
वद् यत्र भगवदभिप्रायस्ता प्रणाडी बोधयितुमिन्द्रियेभ्यो विषयाणां परत्वमुक्तम्
तत्तेपां परत्वं मनसा सम्यक्तया भावने भयंतीति मनमस्तनियामकत्वाद् 'अर्थभ्यः
मन' इत्युक्तम्। मनसस्तु परा युद्धिरिति तु सारथिभावादेव स्फुटम् । युद्धः सकाशात् पर
बुद्धिनियामकस्त्यात्मा विज्ञानम् । तस्य युद्धिजन्यत्वेऽपि भगवद्विषयकवान्महत्वमिति
तथात्वबोधनाय महानित्युक्तम् । विज्ञानस्य बुद्धिजन्यत्वेऽपि 'द्रव्यस्फुरणविज्ञान मित्या
बुद्धिस्यरूपय विज्ञानसमानाकारतया सिद्धत्वात् तस बुद्धिनियामकत्व युक्तमेव । तास
च विज्ञानं भगवत्कृपा बिना न भवतीति ततो महतः परमव्यक्तं ज्ञातुमशक्यत्वादप्रक
भगवत्कृपैव । तस्मादव्यक्तात् परस्तन्नियामकः पुरुषो भगवानेव । यत्पदं प्राप्यत्वे
नोक्तं तदेतन्निगमयितुं ‘सा काठा सा परा गति'रित्युक्तम् । अतः शरीररूपकविन्यः
स्तानां ग्रहणादवायमेवार्थो युक्तो, न तु सांख्यमतग्रहण युक्तमित्यर्थः । एतेनैव
हेतुनात्र मायादिचादा अपि निरस्ता वेद्याः। त्वन्तरमाह। दर्शयति चेति ।
उक्तमर्थ श्रुतिस्वरूपमेव दर्शयति । 'एप सर्वेषु भूतेषु गृढोरमा न प्रकाशते । दृश्यते
दृश्यत्वकथनेन च बुद्धेपनिपदनुसारित्वरूपमूक्ष्मत्वकथनान् सांख्यप्रतिपन्नपुरुषत्वा
भिन्नत्वमात्मनो दर्शयति । चकारा'नतो मां तत्त्वतो ज्ञात्वा विशते तदनन्तर मिति
सांख्यमते सिध्यति । अतोत्र साध्यत्वोपदेशान्न सांख्यमतप्रत्यभिज्ञानमित्यर्थः ॥ १॥
सूक्ष्मं तु तदईत्वात् ॥ २॥
नन्वव्यक्तपदेन भगवत्कृपा न ग्रहीतुं शक्या । धर्मिप्रायपाठविरोधादित्याशङ्कय
तुशब्देन परिहरति । इयमाशङ्का न कार्या । तद् अव्यक्तं कृपारूपधर्मात्मकमपि सूक्ष्म
दुज्ञेयं नौव, न ततो भिन्नम् । कुतः । अर्हत्वात् । योग्यत्वात् । अयमर्थः । 'युद्धेरात्मा महान
पर' इत्यत्र ‘अथ परा यया तदक्षरमधिगम्यत' इत्यादिश्रुत्युक्तं परोक्तं ज्ञानं योग्यताबला.
वुद्धिनियामकत्वेन परामृष्टम् । तच्च 'नायमात्मेति श्रुत्यन्तराद्वरणाधीनम् । वरण कृपः
बेति-ज्ञानात्परस्य विमर्श योग्यतावलात कपैव ज्ञाननियामकत्वेन सिध्यति । सा च
भगवद्धर्मः। धर्मधर्मिणोश्वाविभागादविनाभावेन स्थित्या चाभेद इति योग्यताबला
देव तस्या अपि ब्रह्मलम् । अतो धर्मत्वेपि धर्म्यभेदान प्रवाहविरोध इत्यर्थः ॥ २ ॥

श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता। तदधीनत्वादर्थवत् ॥ ३॥ ननु यदि पूर्वोक्तयुक्त्या कृपाया ब्रह्मत्वं तदा मिन्नत्वमनुपपन्नम् । यदि च कथाचिद युक्त्या धर्मत्वं तदा प्रायपाठविरोध इत्यत आह । तदित्यादि । कृपायाः ब्रह्म- भेदेऽपि तदधीनत्वाद् ब्रह्माधीनत्वाद् मिनत्वम् । तथाच यथा अभेदे अविनाभावेनैक- रूपयोगग्रहणं युक्तिः, तथा भेद नियम्यनियामकभावो युक्तिः । अतो द्वयमप्युपपन्नमि- ति न कश्चिदोपः। नन्वेकत्वे नियम्यनियामकभावः एव कथमित्याकालायां तत्साधनाय दृष्टान्तमाह । अर्थवदिति । अर्थः पुरुषार्थः फलं तद्वत् । 'ब्रह्मविदाप्नोति परमित्यत्र यबैकस्य ब्रह्मणः सचिद्रूपेण विपयत्वमानन्दरूपेण फलत्वम् । गणितानन्दत्वेनाक्षरत्वम- गणितानन्दत्वेन पुरुषोत्तमत्वं च, तथा कृपाविष्टः साधनमानन्दरूप फलमित्येकस्यापि रूपभेदेनोभयत्वोपपत्या सर्वसामञ्जस्यमित्यर्थः। यदि च कृपापक्षे अव्यक्तपदस्य यौगिकत्वाच्छथिल्यं रायते, तदाव्यक्तपदेनाक्षरमेवात्र ग्राह्यम् । अव्यक्तोक्षर इत्युक्त इति गीतायां तत्र रूढिबोधनात् । एवमपि सामञ्जस्याचेति । तस्मादिन्द्रियेभ्य इति वाक्ये नानुमानिक किञ्चिदस्ति ॥ ३ ॥ ज्ञेयत्वावचनाच ॥४॥ प्रकरणविचारेणेन्द्रियेभ्य इति वाक्ये आनुमानिकमतासिद्धिः प्रदर्शिता । तत्र पूर्वतन्त्रमाश्रित्य प्रकरणापेक्षया वाक्यप्रायल्यप्रदर्शनेन चेत्कुर्यात् , तदा पूर्वोक्तं शिथिलं स्यादतो वाक्यविचारेण तन्मतासिद्धिमाह । ज्ञेयेत्यादि । अव्यक्तं शेयत्वेन नोक्तम् । तेषां मते तु गुणपुरुपान्तरज्ञानात्कैवल्यमितिग्रवचनसूत्रात् विभूतिविशेपासये प्रधानस्यापि ज्ञेयत्वस्मरणाच्च तत्प्रत्यभिज्ञापकामावेनात्र वाक्यादपि न तन्मतसिद्धिरित्यर्थः । चका- रोऽनुक्तसमुच्चायकः । तेनात्रोक्तोऽव्यक्तपुरुपयोः परापरभायोऽपि तन्मतविघटक इति सूच्यते । परापरमावो हि पुरुषप्रकृत्योविश्लेपेऽवगन्तुं शक्यते । अज्ञानदशायां तु श्लेष एवेत्युदासीनतयोक्तौ पुरुषस्य परत्वानवगम इति सोऽपि तथेत्यर्थः ।। ४ ।। वदतीतिचेन्न प्राज्ञो हि प्रकरणात् ।। ५ ।। ननु ज्ञेयत्वावचनमसिद्धम् । इन्द्रियेभ्य इति वाक्य निर्देशमात्रमुक्त्वा, अग्रे अशन्द- मस्पर्शमरूपमव्ययं तथारम नित्यमगन्धवच यत् , अनाद्यनन्तं महतः परं ध्रुवं निचाय्य त मृत्युमुखान् प्रमुच्यत' इति ज्ञेयत्वं वदतीतिचेत् । न । कुतः । प्राज्ञो हि प्रकरणात् । हि यतो हेतोस्तस्मिन् वाक्ये प्राज्ञः परमेश्वर एवोच्यते । तत्र हेतुः । प्रकरणादिति । अयमर्थः। अध्यक्तश्तेः परत्वलिङ्गस्य तद्घटितवाक्यस्य च मतद्वयसाधारण- त्वादेकतरनिर्धारे प्रकरणस्य नियामकत्वं वक्तव्यम् । प्रकरणं च 'मतं पिबन्ता वि- त्यारभ्य, नाचिकेतमुपाख्यानमित्यन्तमेकम् । तत्र चारमानावेव परामृश्य जीवात्मनो - १०४ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। रथित्वं तदुपकरणं तत्फलं चोक्त्वा, अग्ने 'एप सर्वेषु भूतेवित्यारभ्य वल्लीसमाप्तिपर्यन्तं परमात्मैव परामृश्यते । मृत्युमुखप्रमोकरूपफलदर्शनात् । प्रधानज्ञानेन सांख्यस्तदनभ्युप- गमनात् । चेतनात्मज्ञानादेव तदुपगमाच । अतः प्रकरणस्य विचारे अशब्दवाक्यस्यापि भगवत्परत्वाज्ञयत्यावचनं नासिद्धमित्यर्थः ॥२॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥ ननु न वयं सर्वमेकं प्रकरणमित्युपगच्छामः । किन्विन्द्रियेभ्य इत्यारभ्य, ना. चिकेतमुपाख्यानमित्यन्तं भिन्न प्रकरणम् । तत्र प्रथमं पदार्थनिर्देशः, तदन्वेप सर्वेषु भूते- ध्विति पुरुषज्ञानम् , अशब्दमस्पर्शमिति प्रकृतिज्ञानं पृथक्पृथगुच्यत इति । तेन तयो- रन्तरमेव ज्ञातं भवतीति सांख्यमतस्यात्रैवं सिद्धस्तस्याशब्दत्वकथनमयुक्तमित्याशङ्कय परिहरति । त्रयाणामित्यादि । एवम् अस्मदुक्तरीत्या त्रिप्रकरणत्वं, त्वद्रीत्या तु चतुष्पक- रणत्वं स्यात्। नच को दोप इति वाच्यम् । यतस्त्रयाणामग्निजीवब्रह्मणामेवोपन्यास उत्तरं प्रश्नश्चात्र दृश्यते। 'स त्वमग्नि खर्यमध्येपि मृत्यो प्रचूहि तं श्रद्दधानाय मह्य'मिति प्रथमोऽग्निप्रश्नः । 'प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नाचिकेतः प्रजान नित्या. दिनोत्तरम् । 'येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैक' इति द्विती- यो जीवप्रश्नः । देवैरवापी'त्युपक्षिप्याग्ने 'न साम्परायः प्रतिभाति बाल मित्यादिना परलो- कासत्चमानिनः पुनः पुनः स्ववशगत्योक्त्या तादृशस्थाप्यस्तित्वबोधनमुचरम् । 'अन्यत्र धर्मा दिति तृतीयो ब्रह्मप्रश्नः, 'सर्वे वेदा यत्पदमामनन्ती'त्यादिनोत्तरमिति तत्कृतप्र. करणविभागविरोधस्यैव दूपणत्वात् । नच पितृसौमनस्येनाग्निजीवप्रश्नाभ्यां च वरत्रयपूर्तेर्ब्रह्मप्रश्नस्य काल्पनिकवं निर्हेतुकत्वं वा शंक्यम् । 'यत्तत् पश्यसि तद्वदति, 'नेपा तर्केण मतिरापनेया, 'प्रोक्तान्येनैव मुज्ञानाय प्रेष्ठेति मन्त्रगतयोर्वदश्रेष्ठपदयोरेख मानत्वात् । नच 'यत्साम्पराये महति ब्रूहि नस्त'दितिवद् ब्रह्मप्रश्नस्य जीवप्रश्नानुवाद शङ्कथम् । विपयमेदनिर्देशविरोधात् । अतस्तं दुर्दर्शमिति वाक्यद्वयान्तसन्दर्भ एवं तृतीयवरप्राप्तस्य द्वितीयप्रश्नस्य पूर्तेरन्यत्र धर्मादित्यनेनोक्तस्य प्रश्नस्य तृतीयत्वं प्रसा- दहेतुकत्वं च मन्तव्यम् । नच यथा वरव्यतिरेकेण प्रश्नकल्पनायामदोपः, एवं प्रश्नव्य- तिरेकेण प्रधानोपन्यासकल्पनायामप्यदोपः इति शवयम् । वप्रेष्ठपदाभ्यां चोधितत्वेन कल्पनाया अभावेनापर्यवस्थेयत्वादिति । अतश्चतुर्थस्य प्रकरणान्तरस्यात्र वक्तुमशक्य- स्वान्न सांख्यमतसिद्धिरिति तस्याशब्दत्वकथनं नायुक्तमित्यर्थः ॥६॥ महदच ॥७॥ ननु तथापि मतान्तरेऽन्यत्र सङ्केतिताः शब्दाः ब्रह्मवाद कथं ब्रह्मपरतया यो- ज्यन्त इत्याशङ्कय परिहरति । महद्वदिति । यथा सांख्यमते प्रथमकार्ये सङ्केतितोपि महच्छन्दो 'महान्तं विभुमात्मानं,' 'वेदाहमेतं पुरुपं महान्त'मित्यादौ योगेन ब्रह्मपरः श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता। पदान्तरसन्निधानादुच्यते, प्रकरणाच्च । अन्यथा तदनन्वयात् । एवमव्यक्तशब्दोऽप्यक्षर- वाचकः। सर्वेषां पदानां ब्रह्मवाचकत्वस्यौत्सर्गिकत्वादिति । तस्मादिन्द्रियेभ्य' इति वाक्ये सौख्यपरिकल्पितानां पदार्थानां नामापि नास्तीति सिद्धम् । चकारोऽधिकरणसम्पूर्ण- स्वद्योतकः ॥ ७॥ १॥ इति प्रथममानुमानिकाधिकरणम् ॥ १ ॥ चमसवदविशेषात् ॥ ८॥ ननु मास्त्वस्मिन् वाक्ये सांख्यमतसिद्धिः, तथापि श्वेताश्वतरे तैत्तिरीये चाजा- मन्त्रः पय्यते । 'अजामेकां लोहितशुकृष्णां यहीः प्रजाः सजमानां सरूपाः । अजो को जुपमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य' इति । नचास्यापि 'किं कारण ब्रह्मेत्यादिना ब्रह्मविद्यामुपक्रम्य पठितवाद ब्रह्मविद्यैव केनचित्प्रकारेण निरूप्यत इति शङ्कयम् । पूर्वकाण्डीयप्रणयादिमन्त्राणामन्यत्र विनियुक्तानामपि प्रकृतोपयोगः, एवम- वापि मतान्तरवाचकस्यैव प्रकृतोपयोग इति शक्यवचनत्वात् । किश्चात्र यद्येक एव मन्त्र एतादृशोऽन्ये चान्यादृशा इति स्यात् , तदा बहूनामनुग्रहस्य न्याय्यत्वादेतस्यार्थोऽ- न्यथा कल्प्येतापि । यथा कठवल्लीस्थेन्द्रियमन्त्रस्य । इह तु 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्ति स्वगुणैर्निगूढा'मिति, 'ज्ञाज्ञौ द्वावजावीशानीशावजा का भोक्त- भोग्यार्थयुक्ते'ति, 'यो योनि योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वा' इति, 'ऋषि प्रमूतं कपिलं यस्तमग्रे ज्ञानैर्विभर्ति जायमानं च पश्ये 'दित्यादीनि बहूनि वाक्यानि सन्ति । तेषु यथायथम्, अजाया जुष्टत्वादिकं, स्वगुणैर्निगूढत्वं, मुक्तामुक्तजीवसंघौ भोक्तुभिभोग्याथैः मात्रादिकार्यैर्युक्ता प्रकृतिः, योन्यधिष्ठातृत्वं, कपिलस्य नामत- धर्माश्च प्रत्यभिज्ञायन्ते । एतावान् परं विशेषो यत् कापिलैः प्रकृतिः स्वतन्त्रोच्यते, अत्र तु परमेश्वरशक्तित्वेनेति । न तावता तस्य अजावहानिः । शक्तनित्यत्वात् । अतः शक्ति- समात्रेण विशेषेण कपिलमतप्रत्यभिज्ञापकनानापदानादरणस्थानुचितत्वात् सांख्यमत- सानुमानिकत्वोक्तिः प्रधानस्याशब्दत्वोक्तिवानुपपन्नेति प्राप्ते, उच्यते । चमसवदित्यादि। एकपदमिदं सूतम् । चमसेन तुल्यः अविशेषश्चमसपदविशेषस्तस्मात् । यथा 'अग्नि- लश्चमस उर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । तस्यासते ऋपयः सप्त तीरे वागष्टमी ब्रह्मणा संविदाने ति मन्त्रे कर्मविशेष कल्पयित्वा तवाग्विलं चमसं कल्प- यित्वा, तत्र यशोरूपं सोमं सप्त होतारो मन्त्रेण भक्षयेयुरिति कल्पयितुं न शक्यते, तथात्र लोहित शुक्लकृष्णशब्देन सत्वरजस्तमांसि कल्पयित्वा, तद्वशेन सर्वमेव सारख्यमत कल्पयितुं शक्यते । शक्तित्वेन शक्तिमधीनोदयतया पारतन्त्र्येणैव सिद्धत्वात् । नच खगुणैनिगूढामिति तद्गमकम् । तत्र खपदेन ब्रह्मण एव ग्रहीतुं शक्यतया तद्गुणानामेव ग्राह्यत्वात् । उत्तरार्धे 'यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येक इत्यनेन तस्यैव परामृष्टत्वाच । नापि भोक्तृभोग्यायोगस्तत्त्वकल्पकः । जन्यायामपि " १४ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। शक्तौ तथात्वस्य पुराणसिद्धत्वात् । नापि योनिमित्यस्य तथात्वम् । वीप्साया बहुत्वस्य च बाधकत्वात् । अंशभेदात् समाधानेऽपि शक्तिसाधारण्यानपायाच । नापि कपिलादिप- दस्य। नित्ये वेदे अनित्यसंयोगविरोधात् । नचापौरुषेयत्वेऽपि वेदस्य जन्यत्वं युक्तम्। 'वाचा विरूपनित्यये' त्यादिश्रुतिविरोधात् । वेदप्रामाण्यस कपिलाचायैरप्यङ्गीकारात् । अतश्चम- सवाक्यवदत्रापि विशेपस्य कल्पयितुमशक्यत्वान्न सांख्यमतसिद्धिरिति पूर्वाधिकरणो- तमक्षुण्णमित्यर्थः । अत्राप्यानुमानिक नेति पक्षसाध्ये चोध्ये ॥८॥ ज्योतिरुपक्रमात्तु तथा ह्यधीयते एके ॥९॥ ननु चमसमन्त्रे 'शिरो वै अर्वाग्विलश्चमसः प्राणा वै यशः प्राणा चे अपयः' इति व्याख्यानं श्रौतमस्तीति तत्र विशेषः कल्पयितुं न शक्यते । प्रकृते तु श्रौतव्याख्याना- भावात् सुखेन तन्मतमत्र ग्रहीतुं शक्यमित्याशङ्कां तुना परिहत्यात्रापि श्रौतं व्याख्यानं तत्तुल्यत्वायाह । ज्योतिरित्यादि। अजाशब्देनात्र श्रुत्यन्तरोक्ता ज्योतीरूपा देवतोच्यते । नचैवं सत्यजापदस कुतः प्रयोग इति शवयम्। पूर्वत्र रूपकविन्यस्तगृहीतिवदत्र रूप- कातिशयोक्त्या अजावदल्पनश्वरफलदत्वं तस्या बोधयितुं तदुक्तेः । तेनात्र किं गमकमत आह। उपक्रमादिति । 'तदेवाग्निस्तद्वायुस्तदादित्यस्तदु चन्द्रमा' इति पूर्वमन्त्र ज्यो- तिप उपक्रमात् । तथाचोपक्रम एवाजाया ज्योतिष्ट्रगमक इत्यर्थः। नच चतूरूपत्वा. भावे कथं तदिति शवयम् । अग्निसूर्यचन्द्रविद्युद्देदेन श्रुत्यन्तरे चतुरूपत्व- स्य तत्रोक्तत्वात् । नचात्रोत्तरार्धे अजद्वयकथनात्तयोरभावे कथं मंत्रार्थनिर्धार इति शङ्कयम्। एतदग्रिमे 'द्वा सुपर्णेति मन्त्रे तयोरभावेऽपि कथनात् । ननु तथाप्यजद्वयस्यात्र जीवबहुत्वेनानिर्धारात् कथं मन्त्रार्थनिर्धार इति शङ्कायां सर्वनिर्धाराय समत्यन्त तथा ह्यधीयत एक इति । यथास्माभिर्व्याख्यायते ज्योतीरूपत्वं, तथा तेन प्रकारेण हि यतो हेतोः, एके शाखिनश्छन्दोगा अधीयते श्रुतिं पठन्ति । पूर्व 'तत्तेजोऽसृजते'- ति प्रथम कार्यमुक्त्वा, ततः 'तत् तेज ऐक्षत बहु स्यां प्रजायेये'त्यादिना तत्कृतां सृष्टिं वदति, अग्रे च त्रिवृत्करणोत्तरं 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्ण तदन्नस्येति । एतदग्ने 'यदादित्यस्य रोहितं रूपं यचन्द्रमसो यद् विद्युत' इत्यादिना तस्य त्रिरूपत्वं वदति। तथा अनेन जीवेनानुप्रविश्य नामरूपे व्याकरवाणि, तासां त्रिवृत्तं त्रिवृ. तकै करवाणीति त्रैविव्याज्जीवब्रह्मणोः प्रवेशं, वीजे भगवत्यपि सच्चिदानन्दभेदात् विध्य, जन्येऽपि वीजे अण्डजमुद्भिज जीवजमिति संघशस्वैविध्यम् । तेन 'सृजमाना सरूपा' इति प्रजानां सरूपत्वं वक्ति । श्रतावननन्निति यदनशनमुक्तं तत्र हेतु वेन भुक्तभोगामिति । तेनात्रोक्ताया देवताया छान्दोग्ये सत्यकामाय हंसेन 'अग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैप वै सौम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नामे'त्यु- पदिष्टो य पादस्तद्रूपत्वं प्रथमकार्यरूपत्वं च विवृतं भवति। अतः प्रकृतेऽपि चमस- यच्छुतावेवार्थप्रतिपादनान्न सांख्यमतप्रतिपादकत्वमित्यर्थः ॥ ९॥ , . . श्रीग्रजनाथात्मजश्रीकृष्णचन्द्रकृता । १०७ कल्पनोपदेशाच मध्वादिवदविरोधः ॥ १० ॥ ननु द्विविधा पदशक्तिर्योगो रूढिर्वा । तबाजाशब्दश्छाग्यां रूढः। न जायत इत्यजेति योगः। अत्रोभयं विहाय कया वृत्या सृष्टिवाचकत्वमङ्गीक्रियत इत्याशङ्कय परिहरति । कल्पनोदेशादिति । कल्पनाया उपदेशः कल्पनोपदेशस्तस्मात् । यथाजा वर्करसहिता सवत्सा स्वामिहिता,'तथेयमाद्या. सृष्टिरपि भगवत्सहिता कार्यसहिता चोपायसहितेत्युपासनार्थ कल्पनयाऽजापदेनोच्यते । चकारात् परोक्षवादोऽपि देवहिता- येति बोध्यते । तथाच 'ततेषां न प्रियं यन्मनुष्या विद्युरिति श्रुतेर्मनुष्याणां ज्ञानं देवहिताय न भवतीति तद्धीताय ययेन्धे इन्द्र इति परोक्षवादः, तथात्र चतुर्मुखाजन्यायेनास्मदादि: साधारणजन्माभावाज्योतीरूपे प्रयमकार्येऽप्यजेति भगवत्प्रियत्साय परोक्षवाद इत्यर्थः । नन्वेचं किमिदानीमेवं वादिनिग्रहायोपगम्यते ? उतान्यत्र सिद्धमतिदिश्यत इत्याशङ्का- या समाधत्ते । मध्यादिवद विरोध इति । 'यथासौ वा आदित्यो देवमधु' 'वाचं धेनुमुपा- सीते'त्यादी कल्पनया मधुवायुपदेशस्तथानापरोधः । तथानान्यत्र सिद्धैव वैदिकपदानां गौण्येव वृत्तिरत्रातिदिश्यते। तत्वादीनां कल्प्यते इत्यर्थः । अयं च दृष्टान्तो वादियो- धनार्थः । सांख्यसमासरूपत्राणां पञ्चशिषप्रणीतवृत्तौ सूर्यस्य चक्षुरधिदैवतत्वेन सि- इनान्मधुत्वस्य तस्मिन् सांख्यवादिनापि कल्पनयैवादरणीयत्वादिति । तस्मादजाश- ब्देन न सांख्यमतस्यात्र प्रत्याशेति सिद्धम् ।।१०।। इति द्वितीयं चमसाधिकरणम् ॥२॥ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥ ननु बृहदारण्यके चतुर्थप्रपाठके श्रूयते । यस्मिन् पञ्च पञ्चजना आकाशश्व प्रति ष्ठितः, तमेवमन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतमिति । अर्थस्तु यस्मिन्नेते पश्चादय आकाशान्ताः प्रतिष्ठिताः, तमात्मानमेवं ब्रह्मामृतं विद्वानन्यो जीवः अमृतो मुक्तो भवतीति शेषः । अत्र पश्चगुणिताः पञ्चपञ्चपञ्च जनयन्तीति जनास्तत्वानि । पुरुषस्यापि । छत्रिन्यायेन जनत्वात् तत्संख्यापूर्तिः । तथा चैवं पञ्चविंशतितवानां संख्योपसंग्रहा- दस्मिन् मन्त्रेऽस्ति सांख्यमनसिद्धिरित्याशङ्कयाह । न संख्येत्यादि । उक्तरीत्या सं- ख्योपसंग्रहादपि न सांख्यमतस्यात्र प्रत्याशा ! कुतः । नानाभावात् । पञ्चविंशतिसं- ख्यासंग्राहकधर्माणां तन्मते पञ्चपञ्चकनिष्ठत्वाभावेन तेभ्यो भिन्नत्वात् । यदि ह्येवं पश्च पञ्चपदेन तेषां सा संख्या संग्राह्या स्यानदा ते भूतत्वतन्मात्रात्वाकृतित्वचित्तित्वान्तः स्थत्यरूपानेकपञ्चकनिष्ठान् पञ्च धर्मान् श्रूयुर्न तु 'मूलप्रकृतिरविकृतिर्महदायाः प्रक- तिविकृतयः सप्त पोडशकच विकारो न प्रकृतिर्न विकृतिः पुरुष' इति मूलप्रतिस्वप्र- कृतिविकृतित्वपुरूपत्वाख्याधतुरोऽन्यथा ब्रूयुः । अतो नैवं वन्मतप्रत्याशा । किञ्च, नाय श्रुत्सर्थ इति श्रुतात्र प्रतीयते । कुतः । अतिरेकाच्चेति । 'पञ्च पञ्चजनेभ्य आकाशश्च .. भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। प्रतिष्ठित' इत्याकाशस्य यस्मिनित्यनेनोक्तस्मात्मनश्चाधिक्यात् । तथाच नानेनापि मन्त्रेण तन्मतसिद्धिरित्यर्थः ॥११॥ प्राणादयो वाक्यशेपात् ॥ ११ ॥ ननु पञ्चविंशतिसंख्योपसंग्रहे मन्त्रवर्णविरोधो दोपत्वेनोक्तः । स तु नास्माक- मस्ति । यथाच, 'पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतु'रित्यत्र द्वादशसंख्याघटकतया पश्च सम्मेति पदद्वयेऽवयवद्वारा समुदायलक्षणा । यथा वा, 'त्रिणवेनौजस्काम याजयेत्, युद्धं त्रिणवरात्रं तदभूतुमुलमुल्वणम्' इत्यत्र त्रयो नव यत्रेति बहुव्रीहिणा सुब्लुका च गणलक्षणा, तथात्रापि पदद्वये लक्षणया बहुव्रीहिघटित एकपदे लक्षणया वा पञ्चविं- शतिसंख्यां ज्योतिःशास्त्रवत् परिकल्प्य, यस्मिन्नात्मनि पञ्चविंशति तत्वान्याकाशश्व प. रार्थत्वेन जेयत्वरूपां प्रतिष्ठां प्राप्तस्तमात्मानमेव ब्रह्मामृतं विद्वानमृतो भवतीति मन्य इत्यर्थात् । नच तत्त्वेष्वात्माकाशयोः प्रविष्टत्वात् पुनस्तत्कथनमतिरेकापादकमिति श- इयम् । कामात्ममाहात्म्यस्य स्फुटीकरणाय तयोः पुनरुक्तेः। नच विनिगमकाभावात्तुल्यत्वं शङ्कथम् । भवन्मतसिद्धपञ्चसंख्या वा पञ्चविंशतिसंख्याकावा जना पञ्चसंख्यावा पञ्चजना इति त्रिष्वर्थेष्वेकतरस्य निश्चतुमशक्यत्वेनास्माकं च निश्चितत्वेनास्मन्मतस्य ज्यायस्त्वादि- त्याशङ्कायामाह । प्राणादय इत्यादि । प्राणादयः पञ्चजनाः । कुतः। वाक्यशेपात् । प. वजनवाक्योचरं 'प्राणस्य प्राणमुत चक्षुपश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यानं मनसो ये मनो विदुरिति वास्यशेषोऽस्ति । तत्र षष्ठयन्ताः प्राणादय उक्ताः, ते च संशयायाः पञ्च यु- द्विवृत्तीर्जनयन्तीति पञ्चजनाः। अतस्त एव ग्राह्याः । वृत्तयस्तु 'संशयोऽथ विपर्यासोनि- श्चयः स्मृतिरेव च। स्वाप इत्युच्यते बुद्धलक्षणं वृत्तितः पृथु गिति तृतीयस्कन्धे कपिलवा. क्यादवगन्तव्या: । नन्वैकार्थे सति विभागे साकांक्षत्वस्यैकवाक्यतावीजत्वादत्र च सा- कांक्षत्वस्पाप्रतीयमानत्वात् कथं वाक्यशेषत्वावगतिरितिवेद । इत्थम् । प्राणादिपदानां क्रियाकरणवाचकत्वेन प्राणादीनां च तद्वाच्यानां स्वव्यापारे करणान्तरानपेक्षत्वेन पुनः प्राणादिमचं बाधितं भवदुक्तस्य वाक्यस्यार्थान्तरं बोधयति । पञ्चजनावाक्ये पञ्चपञ्चजन- पदमपि मांख्यरीत्या पञ्चपञ्चकनिष्ठधर्मपञ्चकानुपलंभेन बाधितं सत्तस्य वाक्यस्यार्थान्तर योधयति, तच्च ब्रह्ममाहात्म्यरूपम् , उभयत्रापि ब्रह्मपदात् । अत उभयोरकार्यम् । किश्च । प्राणवाग्य प्राणादीनां करणत्वं बोधयत् पञ्चजनवाक्यानूदितं कार्यमाकांक्षते। पञ्चजनवाक्यं च तेषां पञ्चजनानां स्वस्वकार्यक्षमत्वाय तन्नियामक प्राणवाक्योक्तं ब्रह्माकांक्षत इत्युभयोरपि विभागे साकांक्षत्वम् । एवमुभयोरेकवाक्यत्वे सत्यन्यस्य तत्पण्डत्वात् सुसनेवास्य वाक्यशेपत्वावगति जानीहि । तस्मात् प्राणादय एव पञ्चजना इति नात्र सांख्यमतसिद्धिरितिसिद्धम् ।। १२ ।। ज्योतिपैकेपामसत्यन्ने ॥१३॥ ननु काबपाठे अनस्यानमिति नास्ति। तत्र कथं पञ्चसंख्यापूर्तिरित्याकांक्षाया- माह । ज्योतिपेत्यादि । तेषामपि पाठे 'यस्मादयसंवत्सर' इति मन्त्रोस्ति । तत्र 'द्वै श्रीवजनावात्मनश्रीकृप्याचन्द्रकता। १०९ का ज्योतिपां ज्योतिरायुपासतेऽमृत'मिति ज्योतिः पठ्यते । तेन तत्प्रपूर्तिरित्यर्थः । तस्मान्न सांख्यमतस्य श्रुतिमूलकत्वमिति सिद्धम् ॥ १३ ॥ इति तृतीयं संख्योपसमय- हाधिकरणम् ॥ ३॥ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥ आनुमानिकपत्रमारभ्यतदन्तैः सूत्रैः सांख्यमतस्य श्रीतत्वं निराकृत्येदानीं श्रुते- विप्रतिषेधेन निश्चयासम्भवाद्विप्रतिषेधरहिता स्मृतिरेव ग्राहोति मतं निराकर्तुं विप्रति- पंधो नास्तीति बोधनायाधिकरणान्तरमारभते । तत्र नानाविधष्टियोधकानि वाक्यानि विषयाः । तानि भगवतो जगत्कारणत्वबोधने तात्पर्यवन्ति, न वेति संशयः । तत्र श्रुती कचिदाकागादिका सृष्टिः । यथा 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूत' इति । क- चिचेजआदिका । यथा 'तत्तेजोऽसजतेति । क्वचिदन्यथैव । यथा 'एतस्माज्जायते प्राण' इत्यादि । क्रचिदिद सर्वमसूजतेति । एवमन्येऽपि बहवः प्रकाराः सन्ति नानाविधक- मनानाविधव्युत्क्रमाणां प्रतिपादकाः। ते सर्वे यथाकथश्चिद्रलाप्रतिप्रत्यर्थमर्थवादरूपाः । यथा पूर्वकाण्डे 'ग्रहान्चा अनुप्रजा असवः प्रजायन्त' इति । न हि तस्य ग्रहाणां प्रजादिकारण- खे तात्पर्यम् , अपि तु ग्रहप्रशंसामात्रे, तथैतेपामपि न ब्रह्मणो जगत्कारणताया तात्पर्यम् , किन्तु यथाकथञ्चन तत्प्रतिपत्तौ । अन्यथा 'न तस्य कार्य करणं च विद्यते' इत्यादावक- र्ताऽभोक्तेत्यादौ च तनिषेधो न स्यात्। एकस्य वस्तुनो द्वैरूप्यासम्भावादेवं विप्रतिपिद्धना- नाप्रकारेण सृष्टिनिरूपणं च न स्यात् । अतोऽध्यारोपापवादन्यायसिया वैदान ब्रह्मणः कारणत्वसिद्धिः । नच जगन्नास्तीति वक्तुं शक्यम् । आगोपालपण्डितं प्रसिद्धत्वात् प. रिदृश्यमानत्वाच्च । अतस्तस्य कारणेऽन्विष्यमाणे बाह्याबाह्यभेदेन नानास्मृतिषु सती- प्यपि कपिलस्य भगवतोशावतारत्वात् तन्मतप्रकारेणैव जगद्व्यवस्थोचितेति प्राप्से, उ. च्यते । कारणत्वेनेत्यादि । एवं सृष्टिप्रभेदेप्वपि न ब्रह्मणः कारणत्वे विप्रतिपत्तिः । कुतः। आकाशतेजःप्रभृतिषु ऋमिकेषु प्रागादिषु च क्रमिकेषु कार्येषु कारणत्वेन ब्रहा यथा व्य. पदिष्ट, येन सर्वज्ञत्वसर्वेश्वरत्वसर्वात्मवैकत्वाद्वयत्वमच्चिदानन्दधर्मवचपकारेणोक्तमे- यमन्यवाप्युक्तः कथनात् । नच निषेधव्याकोपः। तस्य लौकिककर्तृत्वनिषेधपरत्वात् । नच मानामावः । न तस्य कार्यमिति निषेधवाक्योत्तरार्धे एव 'स्वाभाविकी ज्ञानवल- क्रिया चेति क्रियासद्भावप्रतिपादनात् । द्वितीयपादे समाभ्यधिकनिषेधेन कार्यकरणसा- पेक्षलौकिककर्तृत्वनिषेधस्यैव प्रतीतेश्व। सृष्टेर्नानाप्रकारेणू निरूपणं तु लोकषि कर्ममा हात्म्यबोधकम् । नानाकालेप्चेककर्तृकस्य नानाविधकार्यस्य लोके दर्शनादिति । चका रस्तु भगवतः सर्वलक्षण्यार्थ वैदिकपदवाक्यानामयाधितार्थंकवाक्यत्वस्याभिप्रेतत्त्वसमु- चायकः । अतः श्रुतिविप्रतिपेधाभावान स्मृतिपरिग्रह इति सिद्धम् ॥ १४ ॥ इति चतुर्थ यथाव्यपदिष्टाधिकरणम् ॥ ४॥ .

N भावप्रकाशिका ब्रह्मसूत्रवृत्तिः । एवमेकः श्रुतिविप्रतिषेधः परिहतः, पुनः प्रकारान्तरेण श्रुति विप्रतिषेधमाशङ्कय परिहरति । समाकर्पात् ॥१५॥ ननु श्रुतौ कचिदसदा इदगग्र आसीचतो वै सदजायतेति, कचित् सदेव सोम्ये- दमग्र आसीदित्युपक्रम्य, त?क आहुरसदेवेदमग्र आसीदित्युक्त्वा, कुतस्तु खलु सोम्यैवं स्यात्. कथमसतः सज्जायतेति निपिध्यते । कचिच नासदासीत्तदानीं नासीद्रजो नो व्योमापरायदिति सदसती निषिध्य तम आसीत्, तमसा गूढमग्र इत्युच्यते । क्या चिच्च तद्वेदं तीव्याकृतमासीदिति, कचिच्च किं तदानीन्न सन्नासन्न सदसदिति । एवमा- दिषु पुरावृत्तवाक्येषु सत्यवाच्यस्य ब्रह्मणो विरुद्धं गानं श्रूयते । नचासत्तमःप्रभृतिभिःश- ब्दब्रह्मवोच्यत इति शङ्कथम् । 'असन्नेव स भवति असद् ब्रह्मेति वेद चेदिति निन्दाश्रव- णाद, 'आदित्यवर्ण तमसः परस्तादिति तमोविरुद्धरूपत्वस्य तमःपरत्वस्य श्रवणाच्च । अतः कारणत्वेनापि श्रुतिप्रतिषेधाद् ब्रह्म कारणं.नेति प्राप्ते । उच्यते । समाकर्पात् । का-: रणत्वेनेति पूर्वसूत्रादनुवर्तते । कारणत्वेन ब्रह्मैव ज्ञेयम् । नात्रोक्तश्रुतिविप्रतिषेधः । कुतः।। समाकर्षात् । आकृप्यते स्वस्थानाच्याव्यत इत्याकर्पः । समीचीनो वस्तुनिश्चायनार्थ आकर्षः समाकर्पस्तस्मात् । सर्वेप्येतेषु वाक्येप्वसदादिपदानां न निरात्मत्वादिरूपा अर्था उच्यन्ते, किन्त्वेकश्रुत्युक्तरूपविलक्षण रूपान्तरमभिप्रेत्य श्रुत्यन्तरे तस्य तस्य शब्दस्य प्रसिद्धात्स्वार्थात् प्रच्च्यावनं तत्कृत्वा तत्तद्रूपविशिष्टं ब्रह्मवोच्यते । नच लक्ष णापत्तिः । ब्रह्मणः सर्वशब्दवाच्यत्वस्य प्रागेव तल्लिङ्गायधिकरणेषु व्युत्पादितत्वात् । नच सर्वत्र ब्रह्मण एच कारणत्वे वक्तव्ये विरुद्धशब्दप्रयोगे किं प्रयोजनमिति शङ्कयम् । यथा 'को अद्धा वेद क इह प्रायोचादित्यत्र सृष्टिकर्तविषयकमज्ञानं, 'सर्वे वेदा' इत्यत्र साधनस्तज्ज्ञानं, 'यतो वाचो निवर्तन्त' इत्यत्र वागाद्यप्राप्यत्वं, 'मनसैवानुद्रष्टव्य' इत्यत्र तत्प्राप्यत्वमित्यादयो भगवति विरुद्धधर्मा उच्यन्ते माहात्म्यबोधनार्थ श्रुतिपु, तथा त यथायथोपासते तथा भवतीति फलज्ञापनार्थ तानि तानि विरुद्धरूपाण्यपि ब्रह्मणि बोध्यन्त इत्यपि तेपां तेषां प्रसिद्धार्थतः समाकर्षवदवगम्यते । अत्रोदाहरण तु यथा कंसा दिभिर्मारकत्वभावनात् तेपां मृत्युः, एवमसत्वेन भावनादसत्त्वमिति । अत एतदर्थमेवं प्रयोगस्यावश्यकलादिति । तस्माच्छन्दवैलक्षण्येन श्रुतिविप्रतिषेधो न वक्तुं शक्य इति सिद्धम् ॥ १५ ॥ इति पञ्चमं समाकर्याधिकरणम् ॥ ५ ॥ एवं शब्दधिप्रतिपे, परिहत्यार्थकृतं विप्रतिपे, परिहर्तुमधिकरणान्तरं प्रणयति । जगदाचित्वात् ॥ १६ ॥ अत्र कौशीतकिबामणे पठोऽध्यायः सर्वोपि विपयः । तत्र गार्यो नाम्ना बा लाकिरजातशत्रवे काशिराजाय स्वकीय) स्वत एव ब्रह्मोपदेष्टुं समागत आदित्यचन्द्रवि .

, " ' श्रीवजनावात्मजश्रीकृष्णचन्द्रकृता। १११ युत्स्तनायिलुवायाकाशारन्यवादच्छायाप्रतिश्रुत्काराब्दस्वप्नशरीरदक्षिणाक्षिवामाक्षिपु- रुपपर्यन्तान्युपासनान्युक्तवान् । तदा तेष्वजातशत्रुणा परिच्छिन्नानि फलानि प्रदर्य तेषां परिच्छिन्नब्रह्मोपासनत्वेन तज्ज्ञानस्य मुख्यत्वे निराकृते घालाकिः पूर्णब्रह्मज्ञा- नार्थ तमेवोपससाद । ततो राजा स्नेहेन तं हस्ते गृहीत्वा सभात उत्थाय क्यचिद- कान्ते सुपुलपुरुषसमीपमागत्य, वृहत्पाण्टखासः सोमराजनित्यादिभिर्वालाकियोक्त- धर्मस्तं सम्बोधयाचक्रे । तदापि तं सुझं दृष्टा राजा यष्टया क्षिप्तवान् । ततः स पुरुष उत्तस्थौ । तदा राजबालाकी वक्ष्यमाणप्रश्नोत्तराभ्यां ब्रह्मवायं चक्रतुः । तत्र 'कैप एतद् चालाके पुरुषोऽशयिष्टे'त्यादिना बालाकिं प्रति राजा पुरुषस स्वप्नस्थानं, स्वप्नावस्था चत आगमनं चेति वयं पृष्टवान् । तत्र राजप्रश्नेषु पुरुपपदेन जीवः प्रक्रान्तः । यदाच बालाकिस्तं न ज्ञातवाँस्तदा 'राजैव यत्रैप एतद्बालाके पुरुपोशयिष्टे'त्यादिनोत्तरं ज- गाद । तत्र हिताख्यासु हृदयनिकटस्थासु नाडीपु जीवस्य शयनं, तत्र स्वप्नसुषुप्तिरूप- मवस्थाद्वयं, ततः पुनरागमनं च बदता राज्ञा तत एवाग्निविस्फुलिङ्गन्यायेन सर्वोत्प- तिरुक्ता । ततः स एप.प्राण एव प्रज्ञात्मेदं शरीरमात्मानमनुप्रविष्ट आलोमभ्य आन- खेभ्यस्तद्यथा भुरः धुरधानेऽवहितो विश्वम्भरो वा विश्वम्भरकुलाय' इति दृष्टान्तद्वयन अज्ञात्मप्राणारख्यस्य ब्रह्मणः प्रवेश उक्तः । तत्र सन्देहः । जीव एव ब्रह्मसहितः कर्ता, ब्रह्मैव वेति । पूर्वपक्षस्तु सर्वस्य जगतो जीव एव कर्ता, यो वै बालाके एतेपा पुरुषाणां कर्ता यस्य वैतत्कर्मेति कर्तारं वेदितव्यत्वेनोपक्षिप्य सुप्तपुरुषनिकटगमनाद्युत्तरं तस्मा- देव प्राणानां देवानां लोकानां चोत्पत्तिकथनात् । नच ब्रह्मणोऽपि कर्तृत्वम् । तदनुप्रवेशमा- त्रस्यैव बोधनात् । अतः साहित्यमात्रं भवतु । नच जीवस्य कर्तुत्वे उपक्रमोक्तस्य ब्रह्म- स्वस्य वृहदादीनां धर्माणां च विरोधः शङ्कनीयः । यथा तुल्येऽपि सर्वेषु जीवत्वे कचि- देव देहेऽन्यनियोजकत्वोपाधिना राजवं, कर्मकरणे मुख्यत्वोपाधिना यजमानत्वं, तथा प्रत्यभिमन्तृत्वोपाधिना तेपामप्यागन्तुकानां वक्तुं शक्यत्वात् । ननोपक्रमस्सासजात- विरोधत्वेन प्रचलत्वाद् ब्रह्मण एव कर्तृत्वमिति शङ्कयम् । उपसंहारस्यात्र विवरणरूप- खेन पूर्वोक्तार्थनिर्णायकत्वादत्र ब्रह्मोपक्रमेण जीवपर्यवसानोक्तब्रह्मस्वेनोक्तस्य जीवस्यैव- कर्तृत्वौचित्यात् । नवोपक्रमोपसंहारभेदस निष्प्रयोजनकलम् । सर्वचैतन्न्यायज्ञापना- थत्वात् । एवमत्र विशिष्टस्वाभिमानिनो देवान् प्रति कर्तृत्वे सिद्धे सति लोकेपि जीवस्य कर्तत सहभाव्येव भवेत् । तत्तत्कर्मणां बन्धमोक्षव्यवस्था च सुखेनोपपद्येत । एवमभिमा- निनः कर्तृत्व सिद्धे यो यागभिमानी तेन ताक् कर्म कर्तव्यमिति नियमात् सर्वकर्तृत्व प्रकृत्यभिमानिनः सिध्यत प्रकृतावेव फलिप्यतीति प्रासः । तत्रोच्यते । जगद्वाचित्वात् । अनापि कारणत्वेनेत्यनुवर्तते । ब्रह्मैव कारणत्वेन विवक्षितम् । नात्र प्रत्यमिमानी जीव कर्तुत्वेन विवक्षितः । कुतः । जगद्वाचित्वात् । अत्र हि बालाकिमोक्तानादित्यादीमिरा- कृत्य अजातशत्रुणा 'यो वै यालाके एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्म स वेदितव्य' इति भावप्रकाशिका ब्रह्मसूत्रवृत्तिः । सिद्धान्तकथनोपक्रमे एतदित्येतच्छन्दनादित्यमण्डलायुल्लेखादुपलक्षणविधया जा गदुच्यते । पुरुषपदेन च जीवरूपम् । तच्च जडजीवात्मकं जगद ब्रह्मक कमिति पूर्व 'यतो वेत्यादिश्रुतिविचारे सिद्धम् । अत्रापीतः पूर्वमिन्द्रप्रतर्दनसंवादे एवमेव सिद्धम्, अत- स्तदनुरोधेनानापि एतच्छब्दस्य जगद्वाचित्वं कर्तृतं ब्रह्मग एव । नचोपसंहारे विवरणरूपत्वम् । तथात्राप्रतीयमानत्वात् । नच 'न जायते न म्रियते वेति श्रुतेर्जीवो. त्पत्तिः सिद्धान्तेऽप्यनिटेति जडजीवात्मकजगकर्तृत्वकथनमसङ्गतमिति शङ्कयम् । 'सर्वे एवात्मनो व्युच्चरन्ती'ति श्रुत्यन्तरेण रूपाया उत्पत्तेर्जीवेऽप्यङ्गीकारात् । अतो जडवत् खरूपान्यथाभावाभावादेव न जायत इत्युपपत्तेर्न सिद्वान्ते दोपः । नच सिद्धान्ते उप- लक्षणविधावत्पूर्वपक्षे संकोच इति दोपतौल्यमिति शङ्कयम् । ब्रह्मण उपक्रमे श्रुतत्वेन तदादरस्य उक्ततया उपलक्षणविधाया अदुष्टत्वात् । प्रकृत्यभिमानिनस्त्वश्रुतत्वेन तत्कल्पने श्रुतत्यागाश्रुतकल्पनयोरापत्तेराधिक्याच । नच ब्रह्मपदमत्र सांख्याभिमतप्रधानपरमिति शङ्कयम् । स्वरूपलक्षणविरोधप्रसङ्गात् । अतः सर्वश्रुत्येकवाक्यत्वायात्रापि ब्रह्मण एवं कर्तृत्वस्य मन्तव्यत्सात् सुपुप्तावपि ब्रह्मण्येवात्रोक्तानां वाय्वादीनां लयः, तस्मादेव सर्वेपा यथायतनं विप्रतिष्ठेति ज्ञातव्यम् । नच प्राण एव प्रज्ञात्मेत्यस्य विरोधः । इन्द्रप्रतर्दन- संवाद एव प्राणात्मशब्दवाच्यत्वस्य ब्रह्मणि सिद्धत्वात् । तस्मादत्र प्रकृत्यभिमानी जीवो न कर्तृत्वेन सिध्यतीति न तदधिष्ठिता प्रकृतिः कारणमिति सिद्धम् ॥१६॥ जीवमुख्यप्राणलिङ्गादितिचेत् तद् व्याख्यातम् ॥ १७ ॥ ननु जीव एवात्र प्रक्रान्तः । क्वैप एतद बालाके पुरुषोऽशयिष्टेति । अतः शय- नोत्थानलक्षणजीवधर्मदर्शनात् तस्यैव ब्रह्मत्वं जगत्कर्तुत्वं च । तत् स्वतोऽनुपपद्यमानं प्रकृतौ फलिप्यति । अथवा मुख्यप्राणलिङ्गमप्यत्रास्ति । प्राण एवैकधा भवतीति । सुपुप्तो च तस्यैव वृत्तिरुपलभ्यते इति विद्यमानत्मात् तस्मादेवोत्पत्तिप्रलयौ । स च प्रकृत्यंशोऽतो जडादेव प्रधानात् सृष्टावपि सर्वोत्पत्तिः । अतः प्रकरणाजीवद्वारा साक्षाद्वा प्रकृतेरेव कारणत्वमिति जीवेत्यादिसूत्रांगेनाशङ्कय परिहरति । तद् व्याख्यातमिति । एतयो- जीवमुख्यप्राणलिङ्गत्वमेव नास्तीति 'आश्रितत्नादिह तद्योगा'दित्यत्रैव व्याख्यातं निर्णी- तम् । सर्वमेव कार्य भगवत एव, नान्यस्मादिति । अतोऽस्मादपि ब्रह्मवाद एव मिध्यति, न प्रकृतिवाद इत्यर्थः ॥१७॥ अन्यार्थ तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८॥ स्वमतेन परिहारमुक्त्वा अत्र सांख्यमतमन्येपामप्यनुमतं न भवतीति । स्वापन- योधौ जीधर्मावेव । चक्षुरादिलयाधारत्वं च मुख्यप्राणस्यैवेति नियतधर्मवादेनापि परिहारमाह । अन्यार्थमित्यादि । इदं जीपमुख्यप्राणलिङ्गकीर्तनम् । अन्यार्थम् । ब्रह्म- प्रतिपच्यर्थमेव जीनलयोद्गमौ । आश्रयभूतब्रह्मयोधाय च मृतिवलक्षण्येन प्राणकीर्तनम् । ..

- श्रीनजनाथात्मजश्रीकृष्णचन्द्रकृता । तुदराब्दस्तु जैमिनिमत्तस्य मिनत्वात् तस्यापि सांख्यमतनिराकरणावश्यकत्वज्ञापनार्थः । तनु कुत एतदवगम्यते, तत्राह । प्रग्नव्याख्यानाभ्यामपीति । अपिशब्द उपक्रमोपसं- हारात्मकं हेत्वन्तरं संगृहाति । तथाच 'यो वै बालाक एतेषां पुरुषागां कते'त्यत्र यच्छन्द उपक्रमगतं मुख्यं ब्रह्म परामृशति । उपसंहारे च तज्ज्ञानेनासुरजयः सर्वेषां भूतानां श्रेष्ठवं स्वाराज्यमाधिपत्यं च फलं निर्दिशति । न ह्येतद्वयममुख्य सम्भवति । पां प्रागेव निरस्तत्वात् । किञ्च, प्रश्नव्याख्यानाभ्याम् । कैप एतवालाके पुरुषोडश. विष्टेति प्रश्नः। यत्रैप एतद्वालाके पुरुषोऽशयिष्टेति व्याख्यानम् । ताभ्याम् । तत्र प्रश्ने एष इति पदेन बालाकिज्ञातपदार्थस्यैव निर्देशेन जीवस्य ज्ञातत्वात् स्वापाधिकरणमेव बातम्, व्याख्यानं च न नाडीतापयितुं करोति, किन्तूपक्रान्तब्रसव ज्ञापयितुम् । अत- स्ताभ्यां ब्रह्मण एव मुख्यत्वावगमात् तदर्थमेव जीवप्राणलिङ्गकीर्तनमिति ज्ञायते । ननु नाडीव्यतिरिक्त आत्माऽत्र ज्ञाप्यते इत्यत्र किं मानम् , अत आह । एवमेक इति । एके शाखिनो वाजसनेयिन एवमामनन्ति । दृप्तबालाकिबामणे, ‘स होवाचाजातशत्रु- पत्रप एतत् सुप्तोऽभूद्, य एप विज्ञानमयः पुरुषस्तदेपां प्राणानां विज्ञानेन विज्ञानमा- दाय य एपोऽन्तर्हृदय आकाशस्तस्मिन् शेत' इति । अत्र आकाशशब्दं ब्रह्म । 'सता सोम्य तदा सम्पन्नो भवतीति च, 'स्वं ह्यपीतो भवतीति च ब्रह्मैव निर्दिशन्ति । तस्मा- दाधारभूतब्रह्मज्ञापनार्थत्वाज्जीवनाणलिङ्गस्य न तेन प्रकृतिवादसिद्धिरित्यर्थः ॥ १८ ॥ इति पष्ठं जगद्वाचित्वाधिकरणम् ।।६।। वाक्यान्वयात् ॥ १९॥ पुनरपि जीवब्रह्मवादेन प्रकृतिकारणवादमाशङ्कय परिहरति । वृहदारण्यके चतुर्थे पष्ठे च प्रपाठके याज्ञवल्क्यमैत्रेयीसंवादे 'येनाहं नामृता सां किमहं तेन कुर्या'- मिति सर्वतो विरक्तिमुक्त्वा, 'यदेव भगवान् वेद तदेव मे बृही'ति पृष्टे, तामभिमुखीकृत्य, नवा अरे पत्युः कामाय पतिः प्रियो भवत्ती'त्यादिना अमृतत्वाय ज्ञानमुपदिष्टम् । पष्ठे 'पुनरुपसंहारेऽप्येतावदरै स्वल्यमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवत्राजे'त्युक्तम् । तत्र ज्ञानविषयत्वेनोपदिश्यमानो य आत्मा प्रकरणी स जीवो वा ब्रह्म वेति संशयः । तत्रा- च्यापेक्षयात्मनः प्रियत्वं स्वप्रतीत्या बोधयन् जीवमेवोपक्रमे आत्मत्वेन वदति । तस्यैव चाय दर्शनादि विधत्ते, तदर्शनादिनैव च सर्वज्ञानरूपं फलमाह । तत्रात्मज्ञानेन को सर्व ज्ञातं भवतीत्याकाङ्क्षायाम्, 'ब्रह्म तं परादादित्यादिना 'इदं सर्व यदयमात्मेत्य. नेनात्मनः सर्वत्वमाह । ततः कथमस्मिन् सङ्घाते आत्मज्ञानं भवतीत्याकाडायां दुन्दुभि- वीणाशङ्खदृष्टान्तानाह । तत्रेद सिध्यति । यथा महाकोलाहले एकसां दिशि जायमाना अन्ये शब्दा नावगन्तुं शक्यन्तै, किन्तु हन्यमानस दुन्दुभेरेव शब्दोऽनेकशब्दाभिभावको गृहीतो भवति । तस्य तदीयस्वनिश्चये तु कर ११६ भावप्रकाशिका प्रामुत्रचिः। धेनाप्यस्य ब्रह्मपरत्वमेव युक्तम् । अन्यथा एतस्य तत्रानन्वयप्रसङ्गात् । किच, 'तमेव विदित्वा अतिमृत्युमेती'त्यवधारणाद् ब्रह्मज्ञानमेव मोक्षसाधकम्,अतोऽत्र मोक्षसाधनत्वेन .. दर्शनादिविधानवाक्यानामपि तत्रयान्वयः । अन्यथा अबधारणवाघापत्तेः । किन, यथान्याग्नेरिति कारणत्ववाश्यस्य, 'स यथा सर्यासामपा'मिति प्रलयाधानवाक्यसापि ब्रह्मपरत्व एवान्वयः । आनन्दाइयवेत्यवधारणात् । नच जीव एवं नीतियुक्तम् । 'सर्व एवात्मनो व्युञ्चरन्तीति सावधारणश्रुतिविरोधात् । किञ्चामृतत्वरूपं फलमपि तत एव । एप ह्येवानन्दयातीति सावधारणथुतेः । अत एवजातीयेषु निःसन्दिग्धत्वेन ब्रह्मरूपस्य कार्यस्यांशानां च प्रतिपादनादिदमपि याम्यं वामपरमेवोचितम् । नच मात्रासंसर्गवा. क्यस्यानन्ययः । सर्वव्यवहारस्य ब्रह्ममूलकतया जीवमुग्व्यप्राणलिङ्गमत्रे व्युत्पादितत्वा- जीवस्य ब्रह्माश्रितत्वेन जीवधर्माणामपि तत्रोपामनाथ कयनेन तस्याप्युपपत्तेः । विज्ञा- तृत्वं तु नान्योतोऽस्तीति श्रुतेब्रह्मधर्म एवेति तस्य तु मुखेनान्वयः । अतो ब्रह्मपरत्वे सर्वेषां वाक्यानामन्ययान्नात्र जीवपरत्वाशका । तथा सति विप्रतिपेधाभावान प्रकृति- कारणवादस्यात्र प्रत्याशेत्यर्थः ॥ १९ ॥ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः॥ २० ॥ अत्रोक्तं प्रियत्वं जीवधर्म एव, न ब्रह्मधर्म इति वादिनामेकदेशिनामपि मतेऽत्र प्रकृतिकारणवादो न सम्भवतीति संमतिबोधनाय तेषां मतानि त्रिभिः सूत्रैराह । तत्र जीवो नाम स्वस्य भोगनिष्पत्त्यर्थ स्वांशो भगवता विस्फुलिङ्गवत् कृत इत्याश्मरथ्य आचार्यो मन्यते । तत्र लौकिकैः पतिपुत्रादिभिः महास्य प्रियत्ववचनं लौकिकमेवा- तोत्रात्मपदेन जीव एव परामृश्यत इति जीवनकरणमेवेदमिति प्रतिवादिशकायां जीवोपक्रमस्यान्यत् प्रयोजनमित्याह । प्रतिक्षेत्यादि । प्रतिज्ञासिद्धेरिति पष्ठी । 'मैत्रेय्या- त्मनि वा अरे दृष्टे श्रुते मते विज्ञाते सर्वमिदं विदितं भवतीति हि प्रतिज्ञा । सा च सर्वत्वस्यैवाने, 'ब्रह्म तं परादा'दित्यादिना व्युत्पादनादवगम्यते । सा तदा पूर्यते, यदा ? जीवोऽपि सर्वमध्ये प्रविशति । अतस्तत्सिद्धयर्थ ब्रह्माभेदेन जीवोपक्रमः । अन्यथा सर्वस्य ब्रह्मामेदव्युत्पादनकोटौ जीवस्यानुक्तत्वात्तत्प्रतिज्ञा न सिध्येत । कृते तु तद- भेदेनोपक्रमे ब्रामक्षत्राद्यनिमानित्वेन सोऽपि प्रविशेदत उपक्रमः प्रतिज्ञासिद्धेलिङ्गं भव- तंति पूर्वोक्ता प्रतिज्ञवास्य ब्रह्मप्रकरणत्वगमिका पूर्वसूत्रोपन्यस्तश्रुतिभिर्बह्मण एवं श्रयणादिविधिविषयत्वादिति प्रियत्वज्जीवधर्मत्वे न जीवोपक्रमो दोष इत्यर्थः ॥२०॥ उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥ अनादिसिद्ध एव चैतन्यमानो जीवः समाते प्रविष्टः संसारमापद्यते । केवलस्व- रूपेग चिति प्रविष्टः संसारान्मुच्यते । अतो यदत्र प्रियत्वयोधितेन जीवोपक्रमेण भग- यतः श्रवणादिकमुक्तम् , तद् एवम्भावादुत्क्रमिप्यतो लिङ्गम् । मुक्तौ जीवो भगवानेव शेषात् समवायिकारणं प्रकृतिनिमित्तकारणं ब्रह्म । उत सर्वविधं कारणं ब्रह्मति संशयः। पूर्वपक्षस्त्वधिकरणप्रयोजनकथन एवोक्त इति ब्रह्मा निमित्त कारणमेवेति प्रासे श्रीवजनाथात्मजश्रीकृष्णचन्द्रकृता । मविष्यतीत्यस्य ज्ञापकम् । लिङ्गमित्यनुवर्तते । तन्मते केवलस्य जीवस चित्स्वरूपे ब्रह्मणि प्रवेशो मुक्तिरिति मुक्त्युपयोगिकवल्यबोधनार्थं जीवोपक्रमः । एतद्गमकं तु 'येनाई नामृता स्या'मिति मैत्रेयीवाक्यम् । सा हि मोक्षमिन्छन्ती विद्यां पृच्छति। यदि तस्यै मोक्षयोग्य जीवस्वस्वरूपं न ज्ञापयेत् , सा कथं मुक्ता भवेत् । इतिशब्दो हेतौ । तथाच त्रिया विश्वासार्थ गौणप्रियवैराग्याथ जीवोपक्रम इति न तेन जीवस्य प्रकरणित्वसिद्धि- रित्यौडलोमिराचार्यों मन्यते इत्यर्थः ॥ २१ ॥ अवस्थितेरिति काशकृत्स्नः ॥ २२ ।। आसक्या विषयभोक्त यद्भगवतो रूपं स जीव इति तन्मतम् । अत्रापि लिङ्ग- मित्यनुवर्तते । अतः संसारदशायामपि जीवो ब्रह्म तदवस्थाविशेषरूपत्वादिति बोध- नार्थ जीवोपक्रमः । अतो नोक्रमलिङ्गत्वं, न वोपचारः । एतन्मतगमकं तु 'आत्मनस्तु कामाय सर्व प्रियं भवतीति वाक्यम् । तथाच सर्वभोक्तारमेकमात्मानं बोधयितुं प्रति- नियततत्तद्भोक्तारं तदवस्थाविशेपमुपक्रमे वदतीति जीवोपक्रमो जीवे भगवदस्थावि- शेपत्वपक्षस लिङ्गमिति काशकृत्स्न आचार्यों मन्यते ।। २२॥७॥ इति सप्तमं वाक्या- चयाधिकरणम् । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥२३ ॥ एवं प्रकृतिकारणवादनिराकरणेन ब्रह्मणः कारणत्वेन मताधिकरण्या अवधा- रितेऽपि ब्रह्मणो निर्विकारत्यानिमित्तत्वमभ्युपेयम्, न तु समवायित्वमपि । कार्यस्य त्रिगुणात्मकत्वदर्शनाच । अन्यथा प्रत्यक्षविरोधापत्तेः । यदि च यतो वा इमानीत्या- दिश्रुत्यनुरोधादुपादानत्वमप्युच्यते, तदापि श्वेताश्वतरेऽजायाक्यस्थाजायदस्य छागीशरी- राभिधायकत्वाच्छागीशरीरं यथा तदधिष्ठावजीयोपाधिविधया नानाविधं प्रजाजनकम्, तथा सांख्योक्तं प्रधानमपि ईश्वरोपाधिभूतं सन्नानाविधप्रजाजनकमित्येतमर्थ रूपकाति- शयोच्या बोधियितुं शक्नोति। किञ्च, 'यस्तन्तुनाम इव तन्तुभिः प्रधानजैः स्वभावतो देव एकः समावृणोति, स नो दधातु ब्रह्माव्यय मिति तत्रत्यवाक्यान्तरे तन्तुनामशरीरस्य दृष्टान्तितत्वेन तन्तूनां प्रधानजत्वकथनेन चेश्वरशरीरात्मकप्रधानांशः शरीरैर्जीवाना- गोतीति सिध्यति । अतः पूर्वोक्तन्यायैः सिद्धेऽपि ब्रह्मणः कारणत्वे शरीराख्यशक्ति- रूपा तां विना कारणतानिर्वाहाभावादर्घजरतीयतया मायायाः समयायित्वं ब्रह्मणो निमित्तत्वमित्युपेयमिति बादं निराकर्तुमधिकरणान्तरमारभ्यते । तत्र च श्रुत्युक्तत्याव- प्रतिवदति । प्रकृतिथेत्यादि। प्रकृतिः समवायिकारणं, चकारानिमित्तकारणम् । यत्र येत यतो यस यस्मै यद् यद्यथा यदा। स्यादिदं भगवान् साक्षात् प्राधानपुरुपेश्वर' इति १२० भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। बोध्या । 'कालखभावो नियतिर्यदृच्छति श्रुत्यैव तेपामनादरबोधनात् । तस्मात् केवल स्यैव ब्रह्मणः समवायित्वमित्येकविनानेन सर्वविनानं नाविनाभावाविभागयोगजधर्मा दिमहिम्ना, किन्तूक्तेन दृष्टेनैव द्वारेणति सिद्धम् । प्रकृतमनुमरामः । नन्वस्तुब्रह्मणः समवायित्त्वं तथापि कार्यकारणयोरभेदो भेदोवा? नायः लोक्यव्यवहारसङ्करापत्तेः । नेतरः । एकविनानेन सर्व विज्ञानप्रतिनायाः बाधनः सङ्गात् ,अतो भेदाभेद एव कार्यकारणयोरास्थैय इति मतं निराकर्तुं लोहमणिनखनिकृन्तन- दृष्टान्तौ । तत्र हि कार्यस्य कारणावस्थाविशेषरूपत्वं स्फुटम् । यत्र कचित् कारणज्ञाने सर्वत्र कारणाभेदनानस्य सौकर्यात् । तत्रापि कचिल्लोहमा लाक्षासम्बन्धसचान सम्यगज्ञान स्यादतो नखनिकृन्तनग्रहणम् । एवं सति यत्र कचिद् भगवान् नातः सर्वत्र ज्ञातो भवेत् । सर्व च भगवदभिन्नत्वेन ज्ञातं भवेदिति सोकर्यम् । अत्र च सामान्यलक्षणप्रत्यासत्तिन विवक्षितेति नापनाय वाचारम्भणं विकारो नामधेय'मिति । तत्रायमर्थः । यो विकारः पृथुबुध्नोदरादिः स वाचारम्भणं वाचिकक्रियात्मको, न तु कारणाद् व्यक्तिभेदापा- दकः । यथा सुप्त उत्थित उपविष्टे च पुरुपेऽवयवविन्यासभेदोऽतो नामधेयं, नैमित्तिक- क्रियायाः पदार्थस्वरूपभेदानापादकत्वान्न व्यक्तिभेद इत्यतो न सामान्यलक्षणेत्यर्थः । एतदेयकादशस्कन्धे भगवताप्युक्तम् । 'यथा सुवर्ण सुकृतं पुरस्तात्पश्चाच सर्वस्य हिर- मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् । न यत् पुरस्तादुत यन्न पश्चान्मध्येऽपि तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत्तदेव तत् स्यादिति मे मनीपे'ति । यत्परेण भूतं यच्च परेण प्रसिद्धं तत्तदेव स्यादित्यर्थः। अंशे कार्यत्वाभा- वात् प्रसिद्धमिति पृथग्व्यपदेशः । अष्टमस्कन्थे अमृतमन्यने ब्रह्मस्तुतौ च । 'त्वय्यग्र आसीत्त्वयि मध्य आसीत्वय्यन्त आसीदिदमात्मतन्त्रे । त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मा दिति ! नचैवं कुत्सितादिभानस्य का गतिरिति शङ्कथम् । ब्रह्मविद्यायां कचिदपि कुत्सितत्वभानाभावात् । दोपदुष्टदृशामेव तद्भानाच्च । प्रसिद्ध चैतद् ऋपभदेवादिषु । किञ्च, लौकिकेऽपि गोमूत्रगोमयादिपु न कुत्सितत्वभानम् । तस्माद् भगवतः समवायित्वमप्रत्यूहम् । ननु यदि विकारस्य वाइमात्रत्वं तदैतेन वाक्येन विवर्तोपादानत्वं ब्रह्म- णोऽङ्गीकृत्य प्रपञ्चस्यालीकत्वमेवाङ्गीकार्यमित्येतन्निराकरणायाह । मृत्तिकेत्येव सत्यमिति । प्रपञ्चस्य ब्रह्मरूपेणैव सत्यत्वं, न जगद्रूपेणाविकाररूपेणान्येन वा केनचिद् भिन्नेन रूपेण । तेषां रूपाणामागन्तुकत्वेन व्यवहारनिर्वाहमात्रार्थत्वात् । तथाच जगतो ब्रह्मत्वेन सत्यत्वान्नालीकत्वमित्यर्थः । ननु यदलीकत्वं श्रुत्यनभिप्रेतम्, तदा 'अपागाइनेरमित्व' मिति न वदेदितिचेत्, न ! यदग्न्यादे रोहितादिगुणक रूप- अयं तदनागन्तुकरूपविचारे अत्रिवृत्कृतानां तेजोऽजनानामेव, न तु त्रिवृत्कृतस्या. न्यादेः कार्यस्य । त्रिवृत्करणात् प्रागपि तस्य सचात् । अतोअन्यादेरनागन्तुकरूपवि- श्रीव्रजनाथात्मजश्रीकृष्णचन्द्रकृता । रे विवृत्करणोत्तरं जातममित्वादिकमनागन्तुकानारोपितरूपेणापागात् , अग्न्यादेः कागादपगतम् । यतोऽमित्तादिकं वाचारम्भणम् । अवस्थारूपत्वानान्यादीनां तेभ्यो कम्, अतस्त्रीणि रूपाणीत्येव सत्यम्, अग्नित्वाद्यपेक्षया अनागन्तुकानारोपितरूपमिति वापेनालीकत्वानापादकत्वात् । एतेनापि सामान्यलक्षणा निगरिता । अग्न्यादिवि- दन्तेषु तेजस्त्वस्य सामान्यधर्मस्य विद्यमानत्वेऽपि तदनादरणात् त्रिवृत्करणस्य च बोधनाइ , त्रीणि रूपाणीत्येव सत्यमिति सावधारणकयनाचेति । इदं च मूलकारणस्या- यन्त परोक्षस्वादन्त्यकार्यापेक्षया शिष्यविश्वासायोक्तम् । तथ मूलकारणे ब्रह्मण्येव पर्य- यस्थतीत्यभिप्रायेग। एतदने च यदुपदिष्टं तत् सर्व मूलकारणस्य कार्यद्वारा परिचाय- नार्यम् । अतः सर्व सुस्थम् । नच जगतो ब्रह्मरूपेण सत्यत्वे जगति ब्रह्मधर्मविरुद्धधर्मा- पासो न स्यात्, देहादरप्यात्मत्वेन सत्यता स्यात्, तथा सति देहात्मयुद्धेर्दोपत्वा- गावेन तज्जनकाविद्यानिवर्तकशास्त्रवैयर्थ्यमप्यापद्यतेत्यतो जगन्मिथ्यात्वमेव साधीय इति अच्यम् । वस्तुविचारेण जगतो ब्रह्मत्वेऽपि इदानी बहुजन्माभ्यस्तविकारयुद्धेरनिवृ- कत्वात्तस्यां सत्यां या देहात्मयुद्धिः सा देहाभिन्नत्वेनात्मावगाहिनी, न त्वात्माभिन्न- बैन देहावगाहिनी, आत्मखरूपस्याज्ञातवादतो दोपरूपैवेति तदपनोदार्थत्वेन शास्त्र- मार्थक्यान्न जगन्मिथ्यात्वं युक्तम् । श्रोतदृष्टान्तरलेन तथा निश्चयात् । अतो ब्रह्मणः नमवायित्वे दोपगन्धस्याप्यमावाद ब्रह्मैव समवायिकारणम्, न प्रकृतिरित्यर्थः ॥२३॥ अभिध्योपदेशाच ॥ २४ ॥ ननु दृष्टान्ते मृत्तिकेत्येव सत्यमिति कारणे सत्पदमुक्तम् । अतस्तत्सामर्थन आर्य मिथ्यात्वमपि प्रमातुं शक्यत इति शङ्कायां प्रपञ्चे विवर्तत्वस्य ब्रह्मणि विवों: पदानत्वस्य च निरासाय लिङ्गान्तरमाह । अमिध्येत्यादि । अभिध्यानं अमिथ्या । दमेवं करिष्यामीत्यालोचनं, तस्या उपदेशात् कथनात् । 'सोऽकामयत बहु स्यां प्रजा. येतीति स्वस्य बहुरूपानिध्यानं सृष्टयादात्रुपदिश्यते । तथाच स्वस्य बहुरूपाभिध्यानेन सृष्टं स्वयमेव भवति, न तु स्वविवर्त इत्यर्थः । न चात्र कामनमुच्यते, नामिध्यानमिति शङ्कथम् । आप्तकामत्त्वश्रुतेः कामनाभावेन तस्मात्र वक्तुमशक्यत्वात् । नच योगिकाय- गृहबदपि भवनादभिध्योपपत्तेर्नेयं अमिथ्या समवायित्वसाधिकेति वाच्यम् । ब्रह्मणो- ध्यासाभावात् । आत्मनो बहुताभावेन श्रुतौ गौण्यापत्तेश्च । चकारा दिदं सर्व यदयमा- मैति कार्यस्य ब्रह्मत्त्वश्रुतिः संगृह्यते । तथाचैताभ्यां जगतो ब्रह्मैव समवायीत्यर्थः ॥२४॥ साक्षाचोभयाम्नानात् ॥ २५ ॥ ननु 'मयाध्यक्षेण प्रकृतिः सूयते सचराचर'मिति गीतास्मृतेः प्रकृतिमातृतया किश्चिदशे उपादानत्वमस्त्विति शङ्कायां साक्षाच्छुतिमेव समवायित्वे प्रमाणमाह । साक्षादित्यादि । साक्षाच्छ्रुत्यैव ब्रह्मणः समचायित्वमुच्यते । चकारा स्मृत्यापि ।

- -- ११८ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः। वाक्योक्तसर्वरूपसमयायिरूपं च ब्रह्मय । कुतः । प्रतिवादृष्टान्तानुपरोधात् । छान्द श्वेतकेतूपाख्याने, 'उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं वि भवतीति प्रतिज्ञा, निश्चितार्थो नियमविशेषः। 'संविदागूः प्रतिनानं नियमाश्रवसं इति कोशात् । दृष्टान्तः थोत्योधसौकर्यहेतुर्वक्तृश्रोत्सम्प्रतिपतिविषयोऽर्थः । इह वार वाचकाभेदविवक्षया तयोर्योधके वाक्ये प्रतिज्ञादृष्टान्तपदाभ्यामुच्यते । तयोरनुपरोध, बाधनात् । यदि हि ब्रह्मणः प्रकृत्यादिरूपत्वं नाङ्गीक्रियते, तदोक्तप्रतिज्ञादृष्टान्तवा, पीडयेतामतस्तदभायादेवगभ्युपेयमिति । अत्रायमर्थः । समयायिकारणज्ञानेन हि स लकार्यज्ञानम् । अत्र चाश्रुतादिपर्दः सर्वकार्यजातं परामृश्यते । तदश्रुतममतमविज्ञा मपि येनकेन श्रुतेन श्रुतं मतं विनातं भवति तत्कारणं ब्रह्मवेति । तत्रैकविनानेन सा विज्ञान योगजधर्मेणापि भवति । यथा, 'विश्वं पश्यति दरत' इति, 'अनागतमती चेति । तथाच न समवायित्वसिद्धिरित्यतो दृष्टान्तस्यापि ग्रहणम् । केवलदृष्टान्तग्रह तु सर्व वाच्यं, जेयत्वात् । तदेकदेशवत् । घटो वाच्यो, ज्ञेयत्वात् । पटवत् । सर्वं सत् यत्वादित्यनुमानविधया क्षेयत्वादिरूपसामान्यधर्मात्मकं ब्रह्म स्यात्, न तु समवायीत्यत द्वयोहणम् । तथा सत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः कार्यकदेशप्रत्यक्षरूपं दृष्ट मेव द्वारं समवायित्वगमकम् । यथा ह्येकस्मिन् मृत्पिण्डे मृद्विकारत्वनिश्चयोत्तरं सर्व स्मिंस्तत्सजातीये तथा ज्ञानान्मृत्तिकायां तत्समवायित्वज्ञानं तादृशैकदेशप्रत्यक्षादे भवति, नानुमानात, तथा प्रकृतेप्येका सन्मयत्वेपि निश्चिते सर्वेषु तस्सजातीयेषु सद्वि कारत्वज्ञानात् सति सर्वसमयायित्वज्ञानं तादृशैकदेशप्रत्यक्षादेव भवतीति सति सर्वसम वायित्वसिद्धिरिति न स्मृतिसिद्धायाः प्रकृतेः समवायित्वमिति योध्यः । ननु भवत्वेव मेकविज्ञानात्सर्वविज्ञानम्, तथापि पूर्वोक्तश्रुतिभिः सा ब्रह्मोपाधिभूतत्वाद ब्रह्माविनाभूत। वा, ब्रह्माविभक्ता वास्तीति शरीरद्वारकं ब्रह्मण एव समवायित्वम् , स्वतश्च नियामक त्वात् कर्तृत्वमित्येव युक्तम् । न तु येवलस्य प्रकृतित्वम् । उक्तव्याकोपात् । नच 'सदेव सौम्येदमग्र आसीदेकमेवाद्वितीय'मित्यादिश्रुतिव्याकोपः । तत्र सदेवेत्येवकारेणान्य- . योग व्यवच्छिद्याग्रे एकमेवेति विवरणेन मुख्यस्यैवान्यस्य व्यवच्छेदादमुख्यस्याविना- " भूतस्याविभक्तस्य शरीरस्य सच्चेप्यविरोधात् । नच 'एफे मुख्यान्यकेवला. इति कोशा- मानार्थस्यैकपदस्य मुख्यत्वरूपस्यैवार्थस्य ग्रहणे किं नियामकमिति शङ्कयम् । सुवालो- पनिपदि प्रलयप्रकरणे पृथिवीलयमारभ्य 'अक्षरं तमसि लीयत' इत्यन्तेन सर्वस्य तमसि लयमुक्त्या, अग्रे 'तमः परे देवे एकीमवति, दिव्यो देव एको नारायण' इति तमसो नामरूपविभागानहतया ब्रह्माविनाभावेनाविभक्ततया बावस्थितियोधनस्यैव गमक- त्वात् । नच लिङ्गश्लेपण इति धात्वर्थादक्षरान्तानां तमसा अविभागस्तमसस्तु ब्रह्मणा स्वरूपैक्यमिति शब्दान्तरादवगम्यते, न त्वविनाभायोऽविभागो वेति वाच्यम् । अन्तर्या मित्राह्मणे 'यस्य तेजः शरीरं, यस्य तमः शरीर मिति शरीरत्वेन श्रावणात् सुमा दविरोधापनः । 'एकमेवेति कथनोत्तरं मुख्यान्यार्थयोधोरणार्थमेव तत्प्रयोगात् । अ- या संयोत । नचाद्वितीयपदेन मुरूपत्वमेव वित्रीयत इति वाच्यम् । एकपदेनैव भासी चेता केवलो निर्गुणश्च ।' 'यदा तमस्तन दिवा न रात्रिने सन्न चाप्तच्छिर एव बार इनि सर्वभूतवति काले तद्रहिते नमोऽवशेपाङ्किते च काले ब्रह्मण एवं केवलत्व- भावान, यदा तमस्तस्बेनकीभूतं तदा केवलो न शरीरीत्यर्थव्यक्तेविसंख्यापूरक एव विषपर्यवसानसिद्धेश्व । नच कालोक्तिविरोधः। तस्याः सृष्टयुत्तरव्यवहारे सर्वाधार- गम प्रतीयमानकालोपरञ्जनेन पूर्ववृत्तान्तबोधनमात्रार्थत्वात् । अन्यथा शिष्यस्य सष्टि- भलस्थत्वेन कालसत्तामवधारयतः पूर्ववृत्तान्तशेधाभावात् । नच तस्याः कालसत्ताबोध- न्यस्य व्यवच्छेदे कालावेदकप्रमाणस्यापि व्यवच्छिन्नत्वादन्न कालानुवादस्य वक्तुमा सन्दे कि बाधकमिति शक्यम् । एतस्याः सर्वतः पूर्ववृत्तान्तबोधकत्वेन, तन च सतोऽ. स्यत्वेन स्वतन्त्रतया कालसत्ताबोधने वाक्य भेदनसक्तरेव बाधकत्वात् । नचान काल- विशिष्टसलमत्तायोधकत्वमिति शङ्कथम् । गौरवप्रसङ्गात् । समानजातीये बृहदारण्यक- आये 'मोऽनुवीक्ष्य नान्यदात्मनोऽपश्य'दित्यनुवीक्षाश्रवणस्य बाघापत्तेश्च । तस्माच्छ- गौरविशिष्टस्योपादानत्वाङ्गीकारे केवलाद्वितीयश्रुत्योर्विरोधो दुर्वार एव । एवञ्च, 'तमः परे देवे एकीभवती'त्यादो य एकीभावः, म परस्वरूपाभेद एव, न तु नामरूपविभागा- नईवमानमित्येव मन्तव्यम् । लयस्य श्लेपरूपत्वेन विभागाभावात्मकत्वे एकीभावस्य भेदाभावात्मकत्व एव पर्यवसानात् । नच शरीरत्वबोधकथुतिविरोधः । तस्याः सृष्टिका- लोनवृत्तान्तपरत्वात् । अन्तर्यामिनाह्मणेऽधिदैवादिश्रावणेन तथात्वस्य स्फुटत्वान् । सवालोपनिषद्यपि, 'अन्तःशरीरे निहितो गुहायासज एको नित्य इत्युपक्रम्य पृथिव्या- दिमृत्यन्तानां शरीरत्वकथनेन तत्रापि सृष्टिपूर्वकालसालाभात् । प्रलयाकरणस्य प्रागेव समाप्तत्वाच । तस्मान्नोक्तशरीरविशिष्टस्य प्रकृतित्वं, नापि प्रधानादगर्नपतितमृतसा- दिवत् स्थितिरिति निश्चयः । एवञ्च, 'प्रकृति पुरुषं चैवं विद्धयनादीति यानि पारयानि तानि चतुर्मुखाजन्यायेन जगत्साधारणोत्पत्तिनाशनिषेधपराण्येव । 'तन्माया- फलरूपेण केवल निर्विकपतम् । वाङ्मनोगोचरातीतं द्विधा समभवद् वृहत । तयो- रेकनरो ह्यर्थः प्रकृतिः सोमयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते' इत्यादिश्रीभागवत्तीयभगवद्वाक्येभ्यः । तेन यस्तन्तुनाम' इति वाक्यमपि प्रधानोत्पत्य- मन्तरकालवृत्तान्तबोधकमेवेत्येव निश्चयः । एव परमाण्यादिकारणवादानामपि गति- श्रीवजनापामजश्रीकृष्णचन्द्रकृता। मायपि यो मृत्युमन्तरे संचरन् यस्ख मृत्युः शरीर'मिति मृत्युपदेन सर्वानर्थमूल- । तस्येवोल्लेखाव तमसः शरीरत सिद्धत्वेन स्वरूपैक्यस्य गृहीतुमशक्यत्वात् । गच्छरीरस्यैव प्रकृतित्वं सच्छन्दवाच्यत्वं च, न केवलस्यैतिचेत् । मैवम् । अद्विती- वधिकराहित्य सिद्ध व्याख्यानापेक्षाया गयाभावात् । तेनासिद्धाघनेन सुतरां गोसदेव । एतनव नान्यकिचनमिष दिति मिपदन्तरनिषेधपरत्वमपि दत्तोत्तरम् ।

१२२ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः।' कथमुच्यत इत्यपेक्षायामाह । उभयाम्नानात् । ब्रह्मणः सकाशाद् ब्रह्मण्येव च सृष्टिप्रर ययोरानानात् । 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यर यन्ति, 'अहं सर्वस्य जगतः प्रभवः प्रलयस्तथेति । प्रकर्षेणैकीभावेन लयो यस्मिनि- त्यर्थः । न ह्येतस्मिन् प्रलयबोधके आकाशवाक्ये तस्यानिमित्तत्वं सम्भवति । सुवर्ण दिपु तथैव दर्शनात् । अतो लौकिकेन वैदिकेन च न्यायेन साक्षाद् भगवानेव सा वायी। अतो मयाध्यक्षेत्यादीनां परम्परासृष्टिविषयत्वेन पाश्चात्यवृत्तान्तबोधकत्वम् 'हेतुनानेन कौन्तेय जगद्विपरिवर्तते' इत्युत्तरार्धे विपरिवर्तनार्थत्वकथनात् । विपरि वर्तश्चात्र भ्रम एव । 'अवजानन्ति मां मूढा' इत्युत्तरवाक्यस्वारस्यादिति ॥ २५ ॥ आत्मकृतेः परिणामात् ॥ २६ ॥ ननु, 'स एव सर्व सृजति स एवावति हन्ति चेति कर्तृत्वं प्रतीयते । अ आकाशवाक्यमप्यौपचारिक भविष्यतीत्याशङ्कायामाह । आत्मकृतेरित्यादि । आम्न नादित्यनुवर्तते। 'स आत्मानः स्वयमकुरुत, तस्मात् तत्सुकृतमुच्यते' इति स्वस्यैव कर्म तेभावस्यानानात् , सुकृतत्ववचनेनालौकिकत्वयोधनाच्च सिद्धे समवायित्वे वाक्यांश दायौपचारिकत्वकथनं न युक्तमित्यर्थः । ननु स्वस्य कर्तृत्वेन सिद्धत्वात् कर्मत्वं के बुद्धायारोहेदित्याकाङ्क्षायां युक्तिमाह । परिणामादिति । कार्यकारणभावात् । तथा सुवर्णादितैजमद्रव्यवद विकृतस्यैव तथात्वाद् वृद्धेश्यालौकिकत्तात् सुवच एवैकस्य कर्म कर्तभाव इत्यर्थः । अत एव वेदस्तुती 'न हि विकृति त्यजन्ति कनकस्य तदात्मतयाँ स्वकृतमनुप्रविष्टमिदमात्मतयावसितम्' इत्युक्तम् । नच पूर्वावस्थान्यथाभावरूपर्स बहुभवनात्मकस्य श्रुत्यैव कथनात् कथं ब्रह्मणोऽप्यविकारित्वमिति शङ्कयम् । दधि ग्वन्यायेन म्यरूपस्य स्वरूपगुणानां च योऽन्यथाभावस्तस्यैवात्र दोपत्वेन विवक्षितता तदभावे सुपेनाविकारित्वसिद्वेः । नचात्र मानाभावः । श्रुत्यैव तथोक्तत्वात् व्यासचरणैरपि 'श्रुतेस्तु शब्दमूलत्वादिति यक्ष्यमाणत्वात् । तस्माद् ब्रह्मपरिणामलक्षणं कार्यमिति ब्रह्मर जगतः समवायिकारणमिति सिद्धम् ।। २६ ॥ योनिश्च हि गीयते ॥ २७ ॥ नन्वस्तु जडानां ब्रह्मग एव कारणत्वं, चेतनेषु तु योनिवीजयोः ममवायित्वद, शनाद् भगवतः पुरुषत्वेन योनिरूपा प्रतिरपि ममयायिकारणमस्तु । शुक्रशोणितसम चेतत्वान्छरीरस्येत्याशय परिहरति । योनिरित्यादि । योनिरपि ब्रह्मव । चकारेण शाक्तवादो निराक्रियते । योनिरपि, न तु योनिरवेत्यर्थान् । कुत इतिचेत् तबाह । हि गीयन इति । यतो हेतोर्गीयते, श्रुत्यैव । 'मदेव सोम्येदमग्र आसीदेकमेवाद्वितीय मिति । राष्टः पूर्वमकमेव कारण प्रतिनातम् । आकाशादेव आनन्दाद्यवत्यादिमिरवधारण निण नोऽनन्यकारणत्वे सिद्ध कथं तत्र स्मृत्युक्ता प्रकृतिः प्रविशेत् । द्वैतापत्तेः 7 श्रीवजनावात्मनश्रीकृष्णचन्द्रकृता। १२३ चि । 'फर्तारमीशं पुरुष ब्रह्मयोनिम् । तं भूतयोनि परिपश्यन्ति धीग' इति प्रत्यक्ष- स्पैव गीयते । गीतामु च मम योनिर्महद् ब्रह्म तस्मिन् गर्भ दधाम्पह मिति तासां ल महद्योनिरहं बीजपदः पितेति च । अतोऽक्षरपुरुषोनमभावनेकस्यैवोभयरूपत्वोप- नियोनिः पुरुपो वीर्य जीवश्च भगवानिति । इदं मर्व यदयमात्मेति सिद्धम् । तस्मात् निाप्पंगेन प्रकृतिप्रवेशो नास्तीत्यशब्दत्वं सांख्यमतस्य सिद्धम् । (मावास्तु प्रकृतिथेति मूत्रे 'हन्त तमेव पुरुपं सर्वाणि नामान्यभिवदन्ति, 'यथा नयः स्यन्दमानाः ममुद्रायणाः समुद्रमनिसंविशन्त्येवमेवैतानि नामानि पुरुषमनिसंवि- गन्ती'ति श्रुतिम्, अभिध्यासूत्रे च 'मायां तु प्रकृति विद्या'दिति, 'महामायेत्यविधेति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यत' इति वचनम् , 'सोड निध्या म जूतिः स प्रजा स आनन्द' इति श्रुतिम्, 'न्यायति ध्यानरूपोऽसौ मुखी सुख- मतीव च, परस्यैश्चर्ययोगेन विरुद्धार्थतयेप्यत' इति ब्रह्माण्डवाक्यम्, साक्षात्सूत्रे चैप प्प पुरुष एप प्रकृतिरेप आत्मैप मेप लोक एप आलोको योऽसौ हरिरादिरना नन्तोऽन्तः परमः पराद्विवरूप' इति पैङ्गवश्रुति चोपन्यस्य भगवतः मर्वविधशब्द- बाध्यत्वं च स्थापयित्वा, आत्मकृतिसूत्रे प्रकर्पण करोतीति प्रकृतिरिति बोगात् प्रकृ. यिनुप्रविश्य तां परिणाम्य तत्परिणामनियामकत्वेन नत्र स्थित्वाऽऽत्मनो बहुधावार- णात् प्रकृतिशब्दवाच्यतां स्थापयित्वा, 'अथ ईप आत्मा प्रकृतिमनुप्रविश्यात्मानं बहुधा "चकार, तस्मान् प्रकृतिरित्याचक्षत' इति भाल्लवेयश्रुतिम्, 'अविकारोऽपि परमः प्रकृति तु विकारिणीम्, अनुप्रविश्य गोविन्दः प्रकृतिवामियते' इति नारदीयवास्यं च तदुप- एम्भायोंदाहरन्ति । तचिन्त्यम् । श्रुतेरप्रसिद्धत्वात् । तादृश्या अपि कयश्चित् प्रामाण्यो । पगमेऽप्यस्सा आत्मनो बहुधाकरणयोधकतयात्मकृतियोधकत्लाभावेन विपयतयोपन्या- सायोगाच । हन्त तमित्याग्भ्य, विश्वरूप इत्यन्तासु स्वोपन्यस्तासु श्रुतिषु सर्वशब्दवा- व्यत्तस्य सर्वरूपत्वस्य च स्वत एव बोधनेन तासां पूर्वकालीनव्यवस्थाबोधकतायाः, भाल्ल. वयश्रुतौ चायशरदन पाश्चात्यबोधकतायाः स्फुटं मानेन कालभेदकृतविपयभेदस्य स्फुटक्यैतदनुरोधेन तदर्थनिर्णयसाप्ययुक्तत्वाच । ध्यायति ब्रह्माण्डवाक्ये ऐश्वर्थयो- गैन विरुद्धार्थतया सर्वरूपत्वादरिष्टताया उक्ततया मर्यानुपपत्तिपरिहारसम्भव प्रकृति- शब्दयोगादरणेन सडयुपष्टम्भस्य व्यर्थत्वाञ्च । यतु जयतीर्थः ब्रह्मणो जगदुपादानव एकविज्ञानेन मर्यविज्ञानप्रतिज्ञाया मृत्पिण्डादिष्टान्तोक्तश्च न प्रमाणत्वम् , तसा अन्यार्थत्वस्य सूत्रव्याख्याने सम्यव्या- ख्यातलादित्याह । तदपि श्रद्धाजाध्यमात्रम् । मूत्रन्याख्यानस्ययामङ्गततायाः प्राणि- तत्त्वादिति । यदपि--ब्रह्मणः परिणामोक्तिरसङ्गतैव। एतद्ध्यायस्याशेषगाखस ब्रह्मगि समन्वयप्रतिपादनाय प्रवृत्तत्वादित्याह । तदप्यमङ्गतम् । अशेपशास्त्रमध्ये 'म आम १ चिन्हान्तर्गतः प्रकाशस्यः । मूलपुस्तकेषु न दृश्यते । .

. . १२४ भावप्रकाशिका ब्रह्मसूत्रवृत्तिः । स्वयमकुरुत, सर्वं खल्विदं ब्रह्म तज्जलानिति,' 'स आत्मानमेव द्वेधापातयत्, ततः पतिश्च पत्नी चाभवताम्,' 'हंताऽहं मदेव मन्मात्र सर्व यस्मिन्नाकाश ओतश्च मोतश्चेत्यादिश्रु- तीनां, 'विश्वं चे ब्रम तन्मात्र, नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वर, ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः, त्वय्यग्र आसीदित्यादिस्मृतीनां च प्रविष्टत्वात् तासां सम- न्वयस्यावश्यं प्रतिपाद्यत्वात् परिणाम चिना च तदसम्भवादिति । यदप्यानुमानिकपादे, प्रकृतेः शब्दप्रतिपाद्यत्वनिराकरण चेत् , प्रकृतिस्वरूपस्यानिराकृतत्वात् तस्या उपादानतया वर्तमानयत् प्रकृतित्वेन ब्रह्मण उपादानत्वस्थापनमसङ्गतमेव । प्रकृतिस्वरूपनिराकरणं चेत् , मूत्रेषु तददर्शनात् तदप्यसङ्गतमिति न ब्रह्मण उपादानत्वे कापि सङ्गतिरित्युक्तम् । तदप्ययुद्ध्यैव । प्रकृतेर्मूलकारणतायाः शब्दप्रतिपाद्यत्वस्य निराकरण सूत्रेषु सिद्धमिति तस्या अवान्तरोपादानतया विद्यमानत्वेऽपि ब्रह्मणि मलोपादानत्वाबाधात् । एकादश स्कन्धे 'आसीज्ञानमयो ह्यर्थ एकमेवाविकल्पितम् । यदा विवेकनिपुणा आदौ कृतयु युगे । तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोगोचरातीतं द्विधा समभवद बृहत् । तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका' इत्यादिना भगवतैव तथा निर्णीतत्वात अतो ब्रह्मण उपादानवानङ्गीकरणमयोधाग्रहयोरन्यतरमूलकमेवेति दिव) ॥ २७ एतेन सर्वे व्याख्याता व्याख्याताः॥ २८ ॥ एतेन ब्रह्मवादस्थापनपूर्वकमांख्यमतनिराकरपेन सर्वे अवैटिका विरुद्धाश्च वादा व्याख्याताः । अनुपयुक्तत्वेन बोधिता इत्यर्थः । द्विरुक्तिरध्यायसमातियोधनाय | एत- देव बोधमौकर्यार्थमग्रे प्रपञ्चयिप्यते ॥ २८ ॥ ८॥ इति श्रीमद्वल्लभाचार्यचरणकतानश्रीव्रजनाथात्मजश्रीकृष्णचन्द्रविरचितायां ब्रह्म- मूत्रवृत्तौ भावप्रकाशिकायां प्रथमाध्यायस्य चतुर्थः पादः ॥१॥४॥ प्रथमाध्याय समाप्तः।

-* દ્વારકાદાસ કેશવલાલ ગીરધરલાલ જમનાદાસ જંત્રાણીઓ રૂગનાથદાસ પ્રાણજીવનદાસ ગાંધી ડાહ્યાભાઈ અમરતલાલ ૨) જેકસનદાસ બાપુ ૨) નગીનલાલ રણકાર વારાહી ૧) મોતીલાલ દરજી અંકલેશ્વર ૫) તુળજારામ મૂડચંદ નાદ ૧) ત્રિભવન દલપત ચાખડા ૧) મટુલાલ દ્વારકાદાસ ૧) બહેચરદાસ હરિદાસ ઉમરેઠ ૧) ગોરધન છગનલ હાલોલ મગનલાલ હરગોવન મોહનલાલ હરગોવન મગનલાલ મનસુખ પારેખ મણીલાલ તીકમલાલ કરેલી ૨ નાથા બાપુ ૫)) દેશાબ દલપત ૫) નરોતમ ઘર કરભાઈ ત્રીભોવન લીંમતલાલ હરગોવન દેસાઈ ત્રીભવન સુખલાલ મોહનભાઈ મેટાલાલ પલાવડ નાથા માણેકલાલ મગનલાલ નામ શિવલાલ નરેનમ નર નરોતમ કેરીકા શીવલાલ નરસીદાસ દલસુખ ભનાસ અમથીબેન, સીમાર ૫ડવંજ બેન રૂબમણી મનસુખ નારની દીકરી માણેકલાલ ગોરધન, ચીખલી રતનશી લાધાભા, અમરેલી હરીલાલ રણછોડ, દાહોદ ૧૦ ભાઈદાસ હરગોવન, ઠાસરા સંખેડા ૫) મનસુખ પીતાંબર મનસુખ કુબેરદાસ ગડબડ શીવલાલ જેતપુર ૧૩૫૧ મોતીલાલ દલપત કેશવલાલ મનસુખ ગેરધન પ્રેમાનંદ બાઈ જેકેર છોટાલાલ હીંમતલાલ લવું હરાવન મગન મુછ આદીતબેન, વડોદરા ડાભાઈ ૧) કાશીબેન ગોરધન કુબેરજી નરોતમ દ્વારકાદાસ લભાઈ કેશવલાલ મેતીલાલ ભાઈદાસ બહાદરપુર ૫) મદી લલુભાઇ કલાભાઇ ૫ ચુનીલાલ ગડબડદાસ કેશવલાલ નરોતમ શીવલાલ હરગોવન છગનલાલ નાયાભાઈ મોહનલાલ છગનલાલ મજમુદાર ૧૦) મગનલાલ શીવલાલ ૧૦). લલુભાઈ હરીલાલ 'મેંદી મગનલાલ કાલાભાઈ કરસનદાસ હરીલાલ પરીખ કેશવલાલ ઈશ્વરદાસ શેઠ છગનલાલ શીવલાલ દેસાઈ ભાઈચંદ ગોરધન મુજી રવિલાલ લલ્લુ મુળજી ગબ૩ મુવીઝ ગેરવિંદલાલ દલસુખ- મગનલાલ છગનલાલ, સોટેલો આણંદ ૨૫) રાધાબેન, શા. મોતીલાલ મુળચન્દના ધમપત્ની

Bhav Prakashika Bramhasutravriti (part-i)

Author
Krishan Chandra
Title
Bhav Prakashika Bramhasutravriti (part-i)
File name
Bhav Prakashika Bramhasutravriti (part-i)
Text
OCR done
Citation
1922
Published
2012/08
Publisher
Karnatak Mudranalay
Language
Sanskrit
Pages
129
Library
Bharatiya Vidya Bhavan Library, Mumbai
Classification
Devotional
DLI number
405239
Barcode
99999990292330.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
IXs65vpnulK
Download PDF

Bhav Prakashika Bramhasutravriti (part-i)