Library
Vasantatilakabhaand-a
Front matter
UNIVERSAL
LIBRARY
OU_184471
LIBRARY
UNIVERSAL
No text on this page.
No text on this page.
No text on this page.
VASANTATILAKA
BY
BARADACHARYA.
W63 cod
SDITED BY
PANDIT JIBANANDA VIDYASAGARA B. A.
Calcutta:
PRINTED AT MYLU VALMIKI PRESS.
1872.
To be had from Pandit Jibananda Vidyasagara B. A. Gout.
n8krit College of Calcutta.
No text on this page.
वसन्ततिलकभाणः ।
श्रीवरदाचार्य विरचित:
वि. ए. उपाधिधारिणा
श्री जीवानन्द विद्यासागर भट्टाचार्य
संक तः
कनिकाताराजधान्याम् ।
वाल्मौकियन्त्रे मुद्रितः
१८७२
No text on this page.
वसन्ततिलकम् । जयन्ति जगताम्मातुस्तनकुञ्जमविन्दवः । मकुन्दाघसक्रान्तकौस्तुभश्रीविडम्बिनः ॥ १ ॥ अपि च । कोड़ाभिन्नहिरण्यक्तिकुहरे रक्तात्मनावस्थितान् हारं हारमदारकुवामरसानव्याजभव्यानखैः । वीरश्रीकुचकुम्भसीम्नि लिखता वारस्य पत्रावली- स्तत्कालाचितभावबन्धमधुरं मन्दस्मितं पातु नः ॥ २ ॥ नान्द्यन्ते सूत्रधारः। मूत्र । मविनयानन्दम् । भो भोम्ममन्ततस्मन्ततमधुमदमुदित- मत्तकाशिनीविनासविवशापाङ्गलं खलितविहंखलविविधरमि- कजनविहारहारिणी हरिहरहिरण्यगर्भादिनिखिलसुरासुर मणिमुकुटोपलालितशासनस्य भगवतो मकरध्वजस्य पूजोत् मवारम्भसम्भान्त-सकलवारविलासिनी-समादेश सम्पादनचटुल- विटनिबिड़निबद्धसञ्चारा काञ्चीपुरी। समन्तादवलोक्य सान- न्दम् । १ वसन्ततिलकम्। निरन्तरनिरवधिकमधुरविविधरसभरितनिरवद्यगद्यपद्य- मयभारतीभरितमगीतमाङ्गानङ्गनिगमनिरतिशयपरिचयतर- ङ्गितनिखिलकलाकलापविस्तारा: सर्वे सभास्तारा: । ससम्भमम् आकाशे कर्णन्दत्त्वा । किम्बूथ ? सकलजनहृदयानन्दकन्दली- विकमनविदग्धमुग्धमधुरगम्भीरनिबन्धबन्धुरं किमपि रूपक मभिनेतव्यमिति? स्मरणमभिनीय । श्रुतं हि मया निखिल्न- नगरातिशायिन्यां सकलकल्लाकन्नापविस्तारशान्निन्यामुन्न यिन्याम् । यथा किन्न । काञ्चीपुरे कविरभूदरदायनामा सुनुः सुद नकवर्घटिका तम्य । वेदान्ततर्कविविधार्थविचारधीरो बातम्यो वसन्ततिलकं स बभाण भाणम् ॥ म भाण: मकल हृदयानुरञ्चकः सुप्रयोग इति, अहमपि तमेव प्रयुञ्जान: सामाजिकानुपतिष्ठे। अलङ्कारवती सूक्तिरभिनन्द्यगुणा सती । सभायां सरसर्वाक्यः सन्तोषयति मे मनः । किम् ब्रूथ ? तस्य तर्ककर्कशहृदयस्य कथमेतादृशमुक्ति माधर्यमिति ? स्मृतिमभिनीय । भवन्त एव खल्वेवमादिशन्ति । तकेषु कर्कशतराः स्युरथापि पुसां काले भवन्ति म्दवः कवितासु वाचः । दैत्येन्द्रशेलकुलिशं दयिताकयोले नाथस्य कोमलमुदाहरणं नखं नः ॥ पुनः कर्णन्दत्त्वा । किम्ब्रूथ ? साधु सम्यरक्तम् ? ? ?
वसन्ततिलकम् । ३ समुल्लासो वाचां सरसमधुनिष्यन्दलहरी- समुन्मेषद्देषी सकलरसपोधोपजनकः । न केवामाधत्ते मनसि परितोषनवनवै- विलासैरुन्मीलद्विकचितमधूलीपरिमलः ॥ यदि तस्य कव: प्रबन्धः, सत्वरेण भवताभिनेतव्यमिति सपरितोषम् । सोऽयं चेत्कविरत्र सुन्दरगिरः सन्त्ये व तेषामसी मध्ये कापि वयं च नायरचनापाण्डित्यपारङ्गताः । भाणश्चेद्दशरूपकेषु मधुरस्तत्सर्वमास्तामियं सारज्ञा हि सभा किमन्यदधुना वाञ्छानकूलो विधिः ? परिक्रम्य दिशोटवलोक्य साश्चर्यम् । मधुकरपरिमक्तमाधवीनां मलयसमीरविलोलमञ्जरीणाम् । कथयति मधुमासवासराणामपगतमुन्मदकोकिला वनश्रीः । अपि च । मन्दानिलेन मधुरं परिनर्त्तितायाः पर्यायतः प्रचलदङ्गुलिपल्लवायाः । मञ्जुखरैर्मधुकररुपगीयमानं नायं मनोहरमिदं नवमल्लिकायाः ॥ नेपथ्ये। साधु भरतपुत्र ! साधु। प्रस्तुतानुकूलवर्णनेन वन्दनीयोऽमि | अपितु नवमल्लिकेतिस्थाने वासन्तिकेति वक- व्यम् । अथ खन्नु त्रिभुवनविजयिनो मकरध्वजस्य विजयवैजयन्ती वसन्त मेनायाः कनीयसी भरताचार्यशिक्षितनिखिलनृत्यविद्या- प्रथमरङ्गाऽधिरोहणमहोत्सवसम्भावितनिखिलकुशीलवनिक-- रोपगीयमाना नृत्यति वासन्तिका। वयमपि तदवलोकनाय त्वरिता: ममागच्छामः ।
वसन्ततिलकम्।
सूत्र । श्रुत्वा सहधैं । बर्यतां त्वर्यताम् ! अहमप्यमुना
श्टङ्गारशेखरेण सम्भूय तस्या महोत्सवमनुभवामि ।
इति निष्कान्तः प्रस्तावना !
ततः प्रविशति टङ्गारोखरः
यूटङ्गारः। सवितकम्।
तालाबधी तरलकुण्डलगण्डमूल
दुर्वारधर्मजलदृषितपत्ररेखम् ।
तस्या मुखं तरललोचनचन्द्रिकाया
धन्यो विलोकयति तादृशमन्दहासम् ॥
समन्तादवलोक्य । अहो खन्न रमणीयता प्रभातवेलायाः ।
इदानी खलु।
मालिन्य परिदृश्यते हिमरचौ, मन्दश्रियस्तारकाः,
गीताः केचन सञ्चरन्ति कमलामोदस्पशो मारुताः ।
आसीदन्ति च चक्रवाकमिथुनान्यन्योरन्यमुत्कण्ठया
पादैस्ताडितकैरवा मधुलिहो गच्छन्ति पद्माटवीम् ।
अपि च ।
किञ्चिद्विग्नथकेशवान्तकुसुमाः, क्रीड़ाविलोलांशुका.
लुलालुप्तशरीरचन्दनता लोकैकमेत्रोत्सवाः ।,
सम्भोगश्रमविकलैरवयवैः सतशालान्तरा-
निद्राशेषकघायिताईनयना निर्यान्ति वाराङ्गना ॥
-
वसन्ततिलकम् ।
पुरोटवलोक्य सकौतुकम् । एष खलु हेपारवपरिकुपितवन
महिषविषाणकोटीपाटनभयचकितरथतरगविषमितरथचरण
संघटनविघट्टितविकटकटकधातुधूलीपुनरञ्चित दुव पिञ्जर
वपुरुदयादिशिखरमारुढो भगवानं मानी। ददानी खल्ल ।
आपाटलैः प्रथममङ्कुरितर्मयूखैरङ्गाम्पतिः प्रथमौलविहारिणीनाम्
सोठ्यङ्करोति सुरपुङ्गवसुन्दरीणां कर्णेषु कल्पतरुपल्लवभङ्गलक्षीम् ।
किञ्च ।
तरुणान्दिवाकरमयखमञ्जरीमरुणामशोशिखरावलम्बिनीम् ।
कमनीयपुष्यमनसा समाश्रितां मधुयो विडम्बयति मञ्जभाषिणीम् ।।
सौरभाघ्राणमभिनीय सलज्जम् । सत्यं मधुकर दवा
मपि वामन्तिकाऽनुरक्तहृदयः परिभ्रान्तोऽस्मि । मत्यमशोक
मञ्जरीमेव भजते मधुकरी। सवितर्कम् । अधुना निखिल्तु
समहेतुना वमन्तेन भवितव्यम् । समन्तादवलोक ।
उद्देलपञ्चममुदञ्चितबालचूतमुद्दामकेशरमुदारसमीरपातम्
उन्निन्द्रपञ्चशरमुल्वणकर्णिकारमुच्चैरिदं हि मधुवासरमा बिरामी ।
अहो रमणीयता वमन्तम्य ।
मन्दम्मन्दं मलयपवना मल्लिकासूत्रधारः
पायं पायं मधुपरिमलं पाटलीकुद्मलानाम् ।
मध्ये मध्ये विरचितगतिमाधवीमण्डपानां
क्रीडाखेदं हरति शमकैः क्रीड़या सुन्दरीणाम् ॥
अहो सार्वत्रिकता प्रेमानुबन्धस्य ।
उद्दामगन्धकुसुमस्मितशालिनीमामुद्यानचूसतरवा नवमालिकानाम् ।
बापूरयन्ति मकरन्दरसैः स्वकीयैराकल्पितं कुसुमपांशुभिरालवानम् ।
वसन्ततिलकम् । ट अन्यताटवलोक्य सकौतुकम्। बङ्गारश्रियमातनोति नितरामापाटलं पल्लवं धूमश्रेणिविडम्बिनी पुनरसौ निति भृङ्गावली । पुष्याण्यत्र च संलुठन्ति कतिचित् स्पष्ठानि मन्दानिलेः शङ्ख दग्ध मसौ जगन्ति मदनः सन्तापयत्याशुगान् । अतिचिरस्थायी वैरानुबन्धः स्थावराणामपि । तथाहि, पादताड़नमशोकयादयाश्चिन्तयन्त इव हन्तुमङ्गनाः । मन्मथाय महनीयसौरभानप यन्ति खलु हन्त सायकान । साश्चर्यम् । सर्वकषाणि कुसुमशरचापविजृम्भितानि | यतः हालाखादकघायितैर्मधुलिहामालापवत्यः खर- रन्त पल्लवजम्भमाणसुमनःसन्दोहमन्दस्मिताः । उन्मीलन्मकरन्दधर्मसलिलेरुतकण्ठकाः केसर- राक्रीड़नववीरुधःक्षितिरहराकोड़वाटी गताः । सर्वतोटवलोकयन् वसन्तातिशयमभिनीय । निद्रितरसालगन्धैर्मुदितकलकण्ठमुग्धसंलापैः । किन्तः केवलमदनैः समयैरस्यन्दचन्दनसमीरः ॥ पुरोटवलोक्य | कथमियमनवरतविहरमाणवरयुवतिचटुन्न- चरणमणिकटकरणितमुखरसौधवीथिका राजधानी। दूयं हि । अनङ्गब्रह्मतन्त्राणामधुराणं णमेदिनी। कमलाकान्तशुद्धान्तकेलिचक्रमण स्थनी । विभाव्य । शतमखनगरीमप्यतिशे ते सकलगुणनिकरम- तशाला काञ्चीपुरी । जलनिधिसमाहतकतिपयजलमानुषी- मुखविकासवचितचपल्लजनचित्तायास्तस्याः कियती गरीयस्ता। %- वसन्ततिलकम। अत्र हि। परिचर्यावशुद्धवीणावेणम्मृदङ्गादिवाद्यविस्ताराः । विख्यातरसिकविद्याः सर्वे खयमेव सिद्धसङ्गीताः ॥ श्रपि च । तत्रैको मघवानिह हिजगणाः सर्वेऽपि रम्भापर मान्यास्तत्र परसहसमिह ताः कान्तोरुकाण्डर्जिताः तत्रको हि गरुः कविश्च बहवस्तेटप्यत्र वहिर्मुखाः परिश्चन्द्रमुखैः किमत्र सदृशा मन्ये किमन्य गुणैः ॥ सकलनगरमाधारणी किमस्याः सकलसुरनिकरतोषका- रिणी गुणश्रेणी। तथा हि, इह मखमतनिए पद्मयोनिः स च पुनरत्र समुत्यिता मुकुन्दः । घमुमिह कलयन्ति केपि धन्याः पुनरयमत्र ददाति वाञ्छितानि ॥ पुरोटवलोक्य सकातुकोल्लासम् । सन्ततविरचितचटुलपवनेन वेपमानमकरध्वज-पटपल्लवसमुल्लसित-विटङ्कवाटिकाविशकट- मणिगण-खचित-वेदिकाविहरमाण-विविधक्टिनिचयविचार्य- माणसाङ्गानणतन्त्र विस्तारा बालकजनपरिचीयमानपरिवादिनी डमरुमृदङ्गमुरजझझरीमुखरसुधाधौतविविधधवलमन्दिर- निकुरुम्बनिर्जितनीहारहारहिमगिरिदिगम्बरमितरोचिरम्बर- मरिदम्बुकम्बुशरदम्बुदकुमुदकुन्दा वसन्तवीथी। सप्रत्यभिज्ञम् । श्टङ्गारपद्यानिषद्या खल्वियं वीथी । इह खलु। कतिचन निवेश्य कामिनीनां म्टगमदसौरभमेदुरे कपोले । मुकुलितनयनं मुखानि धन्या निधुवनसन्धिषु निर्विशन्ति निद्राम् ॥ सवितर्कम् । अत्र व खल्लु मुहदनगशेखरकलत्रं चित्र-
८
वसन्ततिलकम् ।
लेखा, तावदेनां विलोकयन्त्रमनैव मार्गेण गमिष्यामीति ।
वीथों प्रविश्य पावताविलोक्य सकौतुकम्, सफलमद्य मंजातश्चक्षः
पश्चात्पीठनिघणया नखमुखैः पायतः कुञ्चिते-
विखम्तां विनिकीर्य के प्रकवरीमाबद्धसीमन्तया ।
सख्या साकमुदीरितखजननीसम्भोगवा सुधा
बाला सौरभशेषचन्दनवती बालात सेवते ।।
निर्वर्ण्य ।
--
प्रशपदमणिमालं चन्द्ररेखाभिरामं
ललितपुलकजालं लक्ष्यविन्दुप्रबालम् ।
वपुरनघममुष्या वक्ति कस्यापि
यूनः
सुरतकलहलीलासूममााभियोगम् ॥
कुशला खल्वेषापि कुसुमशरगोष्ठीषु । साधर्म्यम् ।
मधुकरपरिभवकातरमासीदरविन्दमाननं तम्व्याः ।
अह ह विधिदुर्विपाकस्तत्र च परिभूतमलकर पन्तः ।
तावदेनामनुसृत्य गच्छामः । उपटत्य पदान्तरे स्थित्वा ।
प्रत्यप्रचन्द्रलेखं परिमलप्रघागरामरमणीयम् ।
अव्यवधानमनोहरमगन्तव जयतु मदनसर्व खम् ॥
किम्ब्रवीषि किम्ब्रवीकि? धन्यः खलु भवानमा-
लिकामङ्गेन, तत्र चाटकरणेनेति ? रम्भोर ! मैवं वादीः ।
अन्तःकूजदुदारकण्ठमसन्मुञ्चेति लोलेक्षणं
प्रायः स्मेरकपोलमूलमतप्रस्यन्दि विम्बाधरम् ।
आधूताङ्गुलियसवाग्रमलमित्यानक्षितभूलतं
पोतं येन मुखं त्वदीयमनले सोध्यं हि धन्यो युवा ।
वसन्ततिलकम किंबवीषि ? गच्छ गच्छ विदग्धः खन्न भवान् व्यवहार- विद्यास्विति? गा पीड़ितपरस्पराधरं कण्ठगतिकपोलकूजितम् अत्रपावरणमात्तसीत्कृतं विस्मरामि किमु ते रतात्मतम् ? त्वयैव गन्तव्यमित्युक्त तावहाच्छामि। पदान्तरङ्गत्वा सार्यम् । स्थित्वा विचित्रमणिशालिनि रत्नपीठे भाले ग्रहीतमुकुरा करपल्लवेन । कालेयप्रततिलकं परिकल्प यन्ती कैघा समुन्मिपति काचन कातराक्षी? निर्वर्ण्य सप्रत्यभिज्ञम् | श्रा: परिज्ञातम्, अनङ्गचन्द्रिकायाः कनीयसो कतिपयकालमस्मत्यरिरम्भकलन तारावली । कथ- मियमचिरात् सम्पन्नयौवना जाता । तथा हि आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी सन्नाहः स्तनयोरयड्वन्थयते सम्भोगयोग्यान्दपाराम् । वैदग्धेन सहासिक वितनुते वाचामियं प्रक्रियां मुग्धायाः पुनरैन्दवीन्न सहते मुख्यामभिख्यां मुखम् ॥ कथमियमम्या मेव वी थकायामितस्ततः मञ्चरन्तमपि मामद्य विशेषतः सानुरागनालोकयति? भवतु एनामु प- सर्पामि । उपसृत्य । अस्तु कुशलमाकल्परचनायाः ? लोके कलङ्कमयहातुमयं म्हगाको जाता मुखन्तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्धि ! कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्गायन्ति ।
१८ वसन्ततिलकम्। ? सादरम् | किंब्रवीषि ? कदाचिदिशदमतयोऽपि भ्रमन्ति खस्नु घण्टापथेषु, यदस्मदावामदोषेण स्वप्नेऽप्यचिन्तनीयामि- माम्बीथीमागतोऽसीति ? सपरितोषम् । सफलमद्य मंजातं श्रोत्र', यदमन्यक्षराणि श्रूयन्ते। कुतः पुनरियं शिक्षिता वैदग्धी ? यदात्मदोषमन्यत्र समारोपयमि ? किमेनन्न सम्भा- वयसि ? किन पश्यसि मामस्यामेव वीथिकायामनवरतसञ्चा- रिणम् । अथवा कुतस्ते दोषः प्रेमशान्लिन्याः ? अपि तु यौवनमदमेदराया दृष्टेः या पुनरग्रतः स्थितमपि वस्तु न विषयीकरोति। अपि च । कपटानुरागकौसीदिकः खल्ल वेश्याजनः । तथा हि। आलापैर्मधुरैश्च कांश्चिदपरानालोकितैः सस्मिते- रन्यान्विभ्रम कल्पनाभिरितरानङ्गरनगोज्ज्वलैः । याचारैश्चतुरः परानभिनवैरन्यान् भुवःकम्पने- रित्य कांचन रञ्जयन्ति सुदृशो मन्य मनस्त्वन्यथा ॥ श्रुतिभिनीय खगतम् | श्राः कष्टमनपराधिनमपि परि जनमतिनिष्ठरनिर्भर्मयन्ती नीचवृद्धवर्द्धकी समापतति । प्रकाशम् | यदि ममि न रोचते, वयमेव गच्छामः । क्रद्ध- जरतीरूपेण कृत्यामुत्पाद्य किमस्मानुजयसि। सप्रणयकोपम् । किं ब्रबोधि ? किमात्य रे कितव ? साधु सम्यगुक्तम् । श्रय- स्कारवाटिकायां सूचीविक्र प्रवत् किमस्माभिरूपालभि । गर्भदामवदलङ्कारमञ्ज• दास्यमाचरन्तं भवन्तमस्यामेव वीथिकायां कथनाम न दृष्टवती। किमेतेन गतमखिन्न- वसन्ततिलकम् । ११ मासानाम | प्रलपतु जरती त्वां यत्किञ्चिदत्रे वाद्य त्वया स्थातव्यमिति । सोल्लासम् । परमनुगृहीतोस्मि । श्रमजलपरिपत्रलेखं श्रवणसमाकुलकुण्डलाभिरामम् । मुखमिदमुदितस्मितन्त्वदीयं मुडरभिवाञ्छति वीक्षितुम्मनो मे । तथाप्यस्याः कामुकजनसुखकालराले रग्रतः स्थातु- मशक्तो, गच्छामि गृह्यतामाशी:, अथवा किमाशीवादेन ते सर्वाशिषामुपरि वर्तमानायाः ? पदान्तरे स्थित्वा । श्राः कष्ट- मग्रत एव जरती। सक्रोधम् । मामियं पिशाचमुखी तर्जन्या तर्जयन्ती किं प्रन्नपति । “रे रेधूर्तजनधौरेय दरिद्रचूडामणे ! कृपणजन ! मूर्धन्य- वार्द्धकिने यभगिनीभुजङ्गजीण टर्पण निहत्य निष्काशितोऽपि शङ्काहीनः पुनरपि समागतोऽसि ? रे मानहीन । किमित्थं सुलभा तारावली? किन्न पश्यसि जात्यन्धपण्यकलत्राणि विक्रीय पण्यकलत्राणि परिपालयतो भाग्यपुरुषान् ?” एतत् किं कुक्कटोपाध्यायशिक्षितकुटिलविद्यादशनस्थानम् ? “प्रति- श्रुतं धनमदत्त्वा न गन्तव्यम्।” सोहेगस्मितम् । श्रुतानि श्रोत- व्यानि, यदि सन्यन्यानि कर्णाटतानि, तान्यपि कथय । सक्रोधसम्भमं क्षुरिकामुद्यम्य । अरे नीचवृद्धवर्द्धकि ! किमुपा- ध्यायमपि स्पृशसि ? तारावलीमुद्दिश्य । पञ्चषाणि परुषभाषि- तानि सोढ़ानि, इतः परं यदि ब्रूया अनया र्पणखामिव कृत्वा गच्छामि। “गच्छ गच्छ हीनजन!” देहि मे हारं जानासि मे हस्तमिति सधैर्यनिष्क्रम्य । साश्चर्यम्। कथमपि काल- सर्णमुखानिष्क्रान्तोऽस्मि। सखेदम्। अनङ्गवीरक्षेत्रमनयैव ?
१२ वसन्ततिलकम् । दूषिता तारावली । सविमर्धम् । कथम स्यामुत्पन्नापि सकल- भवन करत्न तारावली। यहा शम्बूकजातिरपि किन्न प्रसूते मुक्ताफलं शक्तिः। कर्णन्दत्त्वा । किमिह कल कल देव श्रूयते पौराणाम् ? पुरोटवलोक्य । तावदेनामापतन्तीञ्चन्द्रसेना पृच्छामि । मखि चन्द्रसेने ! कोऽयं कोलाहलः ? किं ब्रवीषि ? चित्रवति । चत्वरे रसेनवीरसेनयोश्चरणायुधयोयुद्ध प्रवर्तत इति। परमसम्भमपरा भवन्ति पौरा इति । तर्हि वयमपि समागत्य पश्यामः । कथमुपक्रान्त एव ते क्रूर- धारचरणशस्त्रयोश्चरणायुधयो: कलहः । सशिरःकम्पम् । तुण्डेन खण्डयति तूर्णमुपेत्य वेगात् पादेन हन्ति परिहृत्य पर प्रहारान् । पाव परिभ्रमति पश्यति चावकाश- मुन्नम्रचूड़मुपसपति तामचूड़ः ॥ श्रयञ्च । पश्चान्न याति न च याति पुरः प्रमादात् पार्श्वन याति चरणायुधसावभौमः । वामन केवलमसो चरणन शत्रो- मला मिहत्व मुडस्थितकण्ठनादः ॥ अपि च । अग्रे यमलके शरामभिमुखं ग्रीवां प्रसाश्रूयतां लालत्तारकतामलोचनपुटा रोषाधिक कुक टो। चूड़ाखण्डनती शोणितरणं दुर्वारपक्षारवं . पर्यायेण कृतात् ति प्रहरतः पादैनिबद्धक्षुरैः ॥ .- वसन्ततिलकम्। १३ । तदनयोः परसरातिशायिनोर्जयपराजयौ पौरमुखा- देव जानीमः। तहन्तव्यमेवास्माभिरविलम्बितमिति । कति चित्यदानि गत्वा सकौतुकम् । सफलमद्य जातञ्चक्षः यदिदानीम्, मन्दस्मितम्मधुरकुङ्कमपत्रलेखं माणिक्यकुण्डलमनोहरगण्डभागम् । मुक्ताकलापपरिचुम्बितकर्णमूलं मार्गे पुरःस्फुरति मन्मथभागधेयम् ॥ निर्वर्ण्य । कथमियमाकतिरस्यान्नगामितःपूर्वन्न दृष्ट- चरी श्रुतचरी च । तथा हि । कर्णात्सङ्गविसर्पिणो नयनयोः कान्तिर्वसन्तोत्पल लाक्षासम्भमनियंपेक्षमधुरं लावण्यमेवाश्चति । हारोटस्याः स्मितचन्द्रिकैव कुचयोरङ्गप्रभाकञ्चुकी तन्वयाः केवलमङ्गहारमधुना मन्ये परं भूषणम् । साश्चर्य्यम् । कथमत्र व साक्षाद्भगवती मातङ्गी मतङ्गकुल- ललामभूता मङ्गीतजन्मभूमिः सकलकलाकलापप्रवीणा वीणावती? वेशीवेल्लितबालकेन कदलश्रेणीमनोहारिणी वीणा पर्वसु मीलिताईनयन व्यापारयन्ती नखान् । मुक्तावेधितकर्ण पत्रवलयामुग्धस्मिताला ता सङ्गीतं वितनोति तत्परिसरे सालानुकारलनी । नावदेनामायान्ती कान्तिमतों पृच्छामि । सखि कान्ति- मति ! कैषा वीणावत्या सह वीणामुपगीयमाना सीमन्तिनी? किं ब्रवीषि ? "भाव ! भवानपि किन्न जानाति ? अस्मिनगरे १४ वसन्ततिलकम्। वसन्तयाजी नाम कश्चिदिप्रो वर्त्तते । म कदाचित् पुत्रमव- लोक्यास्मिनगरे मत्यव्रतक्षले पुण्यकोटिच्छायायां भवता यष्टव्यमित्यवीत् । सोऽपि नाहमिष्ट्वा भवता सह सुरनगर- वेश्यावाटिकामु कलहमहापातकमनुभवितुमिच्छामि। केव- नमस्यामेव नगर्यामेतासु वेश्यावाटिकासु पर्यटामीति यज्ञार्थं सम्पादितार्थजातमादाय सत्वरमेतामेव वेश्यावाटिका मंप्राप्त इति ।" माधु विप्रकुमार ' माधु ! सम्यङ निश्चितार्थो मि। वारसुन्दरीमुद्दिश्य वषट्कारपूर्वकं द्रव्यत्यागमाचर- तस्ते यज्ञकलं सिद्धमेव । यूनामनगं यजतां विशाला शाला च लीलाग्यहचन्द्रशाला । गात्राणि पात्राणि विनासिनीनां, मध्यञ्च वेदी, भणितानि मन्त्राः । ततस्ततः । किं ब्रवीघि ? “अथषा तस्य धर्मपत्नी पतिव्रतानां पत्य रनुसरणमेव परमो धर्म इति' स्वयमप्येतां वेश्यावाटिका प्रविश्य वसन्तकलिका नाम भूत्वा वेश्याधर्मेण वर्तत इति ।' सपरितोषम् तर्जनीमापूर्ण यन् । साधु बद्धिमति ! धर्मपत्न्येवामि। मद्य एव पत्युरनुसरण फल प्राप्तासि । यच्छोत्रियवेतालविधीयमानस्नानोपवामादिविविधदुःखभाज- नमात्मानमविधाय मनोरमान भोगाननुभवन्ती सुखेन व- तसे | तावदेनामुपसर्पामि । सकौतुकमुपसप न् सविनयमुस्थाय । वीणावति ! किं ब्र. वीषि ? “तिष्ठ तिष्ठ महाकुलीन ! तत्रैव स्थित्वा यदि कथय कथनीयम् । नाहमुत्मर्पणयोग्या दुष्कुलेति ।” सखीदति ब्रवीषि ? ब्रह्मसूत्रमवलोक्य खगतम् । “रे महापातकिन ! किमत्राप्यस्मान साधु, मत्यं
वसन्ततिलकम्।
पिनयति ?" प्रकाशम् । को नाम कुलदोषः स्त्रीरत्नस्य :
स्त्रीरत्न दृषकुलादपि।
सखि वीणावति । वमन्तकल्निकामुखमवलोक्य भूयोपिकि
ब्रवीषि? “न केवलमेतावत्, प्रियसखी पुष्पिणीच;" इति प..
रित्याज्या किं मधुपवृत्तीनाम् ? इत्युपसृत्य । किम् ? “अस्माकम
प्य पालम्भः?” वसनपल्लवेन कुचकलसमाच्छाद्य सरभसमुत्ति छन्ती
वसन्तकलिकामुद्दिश्य । तिष्ठतिष्ठ तथैवास्तु । युस्मानुजयितुं
किमस्मदागमनम् ? निर्वर्ण्य सोल्लासम् |
नश्यहलिवयनवीकृतरोमरखं
वक्षोजभारवहनासहमध्यभागम् ।
उच्छासि नीविहननन्तव तन्धि ! जीया-
दुत्थानमुन्नतनितम्बनिरुद्धवेगम् ।
पुननिर्वण्य ।
पादयश्च तव पल्लवनिर्विाचं
वक्तच्च वञ्चितम्गाङ्कमिदं त्वदीयम् ।
कर्णातिलति नयनं कमलाभिरामं
त्रैलोक्यमोहनमिदन्तव रूपमेव ॥
साचीकृतस्मितम् । कलत्राचारो वा कामचारो वा
यत्-
किञ्चिदस्तु, त्वयाहं विहर्तुमिच्छामि । किं ब्रवीषि ? "भवत
यः कश्चिदाचारः, महापुरुष ! पुष्यिणीति जानवपिकिमेव
ब्रवीषौति ?” सवितर्कम् ।
पण्यस्त्रीष परस्त्रीषु पुष्पदोषो न विद्यते ।
१६ वसन्ततिलकम्। ? न तासु कुलदोघो वा, कुलस्त्रीणान्तु तावुभौ । तत्पष्यिणीगमनं धर्म एव । किं ब्रवीषि ? “नत्तवैव धर्मो, नास्माकं, गच्छ गच्छ, सर्वतः मंचरन्ति राजपरुषा इति ।" खगतम् । सुब्राह्मणि ! किमद्यापि ते धर्मानुरोधः ? प्रकापाम् । किमस्मान् राजापुरुषव्यपदेशेन भीषयसि यथेष्टं कथ्यताम यदि रहस्यं, वयं साधयामः। वीणावति ! वसन्तकलिकामपवार्य । किं ब्रवीषि ? “सुविदग्धजनमूर्धन्य ! किमन्यत्कथ्यते रहस्यं, भवन्तमेषा वद्धाञ्जलिविज्ञापयति, श्वः परश्वो वा मयि नाता यामागन्तव्यमिति ।” सानन्दम्। यदि प्राण वन्तो वयमन- गव्यथां निस्तीर्य, सत्यमागच्छामः। सवितर्कम् । कामुककालभुजङ्गीं कन्दोद्यानसारङ्गीम् । कथमिह कनकमिभागीमेनामङ्गीकरोमि तन्वङ्गीम् ॥ वीथोमवतीर्य परिक्रामन् पुरोठवलोक्य सकौतुकम् । विकट- पदविन्यासमुखरलोहनूपुरः कर्णलम्बमानधत्तूरकुसुम: कक्ष- निहितभुजङ्गपेटिकः करकलितकालायसवलयजातो विवि- धौषधरसकषायगन्धिकलेवरः माटोपरचितविविधदेशभाषा- मुखरः कश्चिदाहितुण्डिक दूतएवाभिवर्तते । साञ्चकम् । करेण बदौषधकजणेन कृताञ्जलिः सन् गुरवे नरेन्द्रः । विभावयन्नात्मनि वैनतेयं भुजङ्गमाकर्षति पेटिकायाः ॥ सभयकौतुकम् । फूत्कारमुद्रिति भूतलमेव इन्ति मूना मुकुन्दपदपवाज मुद्रितेन । -- वसन्ततिलकम् । भोगे हतः पुनरुदश्चितपूर्वकायः । कोपेन पश्यति नरेन्द्रमहा भुजङ्गः ॥ भुजङ्गनिर्वर्ण्य । अयि भुजग ! महेशो भूषितस्त्वत्कुली ने- रपि वहसि धरित्रीमात्मनो मोनिभागे। किमपरमिह लक्ष्मीकामिनस्त्वं हि शौरः सुरतकलहलीलासाक्षिणी केलिशय्या । तावदेनं मोचयामि । भो भो माहेश्वर भुजगोपजीविन् ! कण्ठे हारी मणिविलसितः कङ्कणं च प्रकाई मञ्जीरश्रीचरणकमले मालिका मौलिभागे। शाम्भारित्यं सकलमपि सह घणं पन्नगोव्यं भूयोऽप्यासीत् त्रिपुरविजये प्रस्तुते चापमा: ॥ तदेवं युस्मत्स्वामिनः परिकरभूतस्ततो मुच्यतामय महानाग: । यत्किञ्चित्पारितोषिकन्ते दास्यामि । लक्ष्य बध्वा । किं ब्रूथ ? "न मोचनीयोग्यमस्मद्रोमावलीकान्ति- चौरो भुजङ्ग इति।" सोत्यासम् । स्वभावः खन्नु भवतीनां भुजङ्गनिरोधः, तबध्यतामयञ्चौरः। शेशवेऽपि साधारण स्त्री- णामसाधारणी खलु व्यवहारवैदग्धी । पदान्तरङ्गत्वा । कथम- व कन्दकविहारमातनोति तरलहारा हारावली ? एषा आकाशे । खल। बनाति केशनिचयं लथमाल्यबन्ध स्थाने निवेशयति भूषणमन्तरतः ।
१८ वसन्ततिलकम् । । कालेयपद्धतिलकच करोति भाले चित्राण्यथापि मणिकन्दुकताड़नानि । गोमुत्रिकासु कुरुते भुजगस्य लक्ष्मी चक्राकृतिं भजति मण्डनकल्पनेछ । रेखाकृति व्रजति संप्रति वीथिकासु चित्राणि हन्त मणिकन्दुकचेरितानि ॥ तावदनया संलपामि अनवरतम् | हारावलि । मुखकमन्न- माघ्रातमुत्पतन्तकन्दुकम् किन्ताड़यसि ? किं ब्रवीषि "भवादृशोचितं वदनकमलमाघ्रातु कोऽसौ पतित इति :" साधु हारावलि ! साधु ! चिरं निर्वर्ण्य । संवीक्ष्य कन्दुकविहारसमाकुलाया धन्यान्यमूनि मणिकुण्डलताण्डवानि । तानि स्मरामि तरलाक्षि ! निरङ्कपानि भोग्यानि ते सुकृतिभिः पुरुषायितानि । किं ब्रवीषि ? "नायमवमरते नमान्लापस्य, गच्छ गच्छ कन्दु कविहारस्य किमन्तरायोऽसीति?" तर्हि गमिष्यामि ! पुरोविलोक्य सपरिहासम् । कक्षे वहन् किमपि पुस्तकमात्तदण्ड प्रत्यङ्गुलीविवरभासुरदर्भजालः । कोटप्येष जीर्णवसनः कुटिलोईपुण्डो वेश्याएहं विशति निस्त्रपमग्रजन्मा । सपरिहासम् । समसपौरजनखस्तिवाचको दाक्षिणात्यो देव राजभट्टोऽयमुत्तमदानार्थं परिभ्रमति। सखेदम् । .
वसन्ततिलकम्। मित्यं मंचिनोति, अस्य भार्या तु सर्वमन्यस्य दत्त्वा व्यभिचरति । श्रुतिमभिनीय । हांग्रेष्वनुकलघट्टिता रहाणा- माकन्दन्निव हरिताच सन्धिबन्धान । निर्वलः कथमपि निर्गत गवाक्षा- हीथीघु प्रसरति परिघोष एषः । परितोऽवलोक्य । श्राः कष्टम् पलायन्ते केचित्यथि शिथिलधम्मिल्लवसनाः प्रलीयन्ते केचिद्वनवलभीभित्तिनिकट पतत्यन्ये भूमा भयपरवरद्धि भिरमी मनः कम्य धत्ते मम च तव कश्चितिकरः ॥ किनिमित्तमिति तत्त्वतो न कश्चिज्जानाति । केवलं मर्वे धावन्तमनुधावन्ति। ससम्भमम् करमंज्ञया कलकल्लनि- वार्य तोत्रमादाय त्वरितमाधावन्नाधोरण: क्रुद्धः किं ब्रवीति ? “रेरे पौरा: पलायध्वं गन्धहिपो गन्धविप इति ।" सभयकोतु- कमग्रतामवलोक्य । मन्द प्रयाति मदविहलमीक्षमाणा मार्ग परिभ्रमति याति निरत्य भूयः । वेगेन धावति विलोक्य जनं पुरस्ता द्वावन् परिभ्रमति गर्जति गन्धहस्ती ॥ आकाशे सभयकौतुकम् अग्रताटवलोक्य लक्ष्यं बध्वा । मदन- मच्चरि! किं ब्रवीषि ? “सोऽयं कुञ्जरापसदः किमस्मानुप धावतीति ।" सात्यासम् ।
२०
वसन्ततिलकम।
।
कुचकलशविलासैः कुम्भलीलां वहन्ती
विरचितकरणकामरुणा मन्थरेण |
मदपरवशमस्मिञ्चत्वरे सचरन्ती-
मनुसरति गजस्त्वामात्मनो हस्तिनोति ।
सोगम् ।
सनिट द्य चरणेघु नोदनात्ताडयन भुवि पलायितपोरान् ।
कनाराकघणकम्पितसौधो मत्समीपमुपसर्पति हस्ती ।
ततः स्थातुमयुक्तमस्माकम् ।
कुपितं च महीपालं कुञ्जरं च मदालसम् ।
अतिदरे परित्याज्यमामनन्ति मनीषिणः ॥
साश्चर्याम् । अन्य निरङ्कविहारिणः पुरतः स्थित्वा कि-
मपि भावयन्नाधोरण वृद्धः किं ब्रवीति ? “रे रे निषादिनः !
मिंहपट सृङखलमिंहमुदया तावदेनं स्थिरीकरोमि, निगृ-
हीतमागत्य दन्तयोः सिंहपट सङ्कलव्य टखन्नया चरणयो-
निबध्य च निःशङ्कमारुह्य कारागृहं नीयतामयं दृष्ट-गज
इति” साधु यान्त्रिक!
यान्त्रिक ! साधु।
कुम्भेन कुचसौभाग्यचारमेनं म्गीदृशाम् ।
युक्त कारागृहनेतु कृत्वा निर्गलबन्धनम् ॥
कतिचित्पदानि गत्वा श्रुतिमभिनीय, सादरं शिरस्य अनि
घटयन् ।
दृप्यदानवदोर्विवर्तितमहामन्थानशैलस्थली-
घोराघातविधूर्णदर्णवपयाकल्लोलकोलाहलः ।
वसन्ततिलकम् ।
२१
कथमयमवन्नम्बित
?
श्रीमत्कुञ्जरशैलशेखरमणेर्देवस्य काञ्चीपते-
मन्दं मन्दमुदञ्चितोट्यमधुना मध्याह्न शंखारवः ।
सरभसमुइत्य चरणमूईञ्चावलोक्य ।
मम्बरतनमध्यवर्ती सम्बृत्तो विकतनरथः ? अद्य व न ?
विट्लयति शिरो मे भानुरूद्धं मयखे-
दहति पदमधस्तान्मेदिनीपांशुजालः ।
हयमिदमतिशीतं दृश्यते दुनिवारं
मनसि यदयमुच्चैजम्भते मन्मथाग्निः ॥
पुरोटवलोक्य । महानयममवो लोचनयुग नस्य । यदि
दानीम्,
बलापुरम नादमुखरं निर्गत्य लीलाग्रहा-
दुष्णस्यन्दिकुरङ्गनाभितिलकैरुवासिफालस्थलाः ।
क्रोडालुप्तनवातपत्रमतुलं चेलाञ्चलरुति-
मन्दं मन्दमिमाः प्रगन्ति सुदृशो मध्याहसेवोत्मकाः ।
सनिर्वदम् ।
बधूना-
अम्भोजबन्धुरिति भानुमिमाश्च भूमि
सर्वसहति कथयन्ति मधैव लोकाः ।
वक्ताम्बुजं ग्लपति प्रथमो
मासां परा न सहते चरणार्पणञ्च ॥
कथमस्मत्प्राणापहारिणी हारिणी ? किं ब्रीधि ? “धूर्त
त्वमातपे तावदच्छ, विश्राम्यतां गृह एवेति ।” सोत्प्रासम् । त्वदर्थ
मनुभूतकामानलस्य मे कोऽयमातपो नाम ? | अतिमभिनीय ।
२२ वसन्ततिलकम्। । व्याकुर्वन्नुपाध्याय व श्रूयते रेवती चन्द्रशालायां, तदयु तमु- पाध्यायमतिक्रम्य गन्तम् । एवमुपसंगृह्य यावदावर्त्तते वामरो गच्छामि । एकहस्तमुत्तंसयन् । उपाध्याय ! नमसे। किं ब्र- वीघि ? “अनङ्ग विद्यापारङ्गतो भूयाः, क्षणमिहास्थतां। विहितो भवान् समीचीन एवावसर इति।” यदाज्ञापयन्ति गुरव इत्यपविश्य कोव्यमवमरो व्याख्यानस्य ? व्याख्याता: किं जात- भेदाः, व्याख्याता किम चन्द्रादिवैचित्री? किं विन्दविन्दु मान- योरन्तरमालोचितं ? किमुक्तान्युत्तानकरणादीनि ? दत्ता किं क्षीरनीरयोस्ति नतण्डु नयोविवेके दृष्टि: ? दृष्टं किमष्टविधमौ परिष्टकं ? किं ब्रवीषि? "शेखरः खलु भवान् टङ्गारविद्यायाः । तात ! व्यतीतः खल्ववमरस्तेषां, पटचूर्णीकृतं तत्सर्वमेतैहिज मद्धन्यैः । इदानीं सकलमुख साक्षात्कारक्षमलक्ष्मीशप्रभृतिभि रिदमेव सेव्यते” इत्यस्यैव सर्वातिशायित्वात्तन्मोचे परमं सुखं निर्वाणं हि महत्सुमित्यादिभिरभिनवयौवनमदललितका- मिनी नितम्ब विम्बसुदुकुलमोक्षभाविमौख्यमेवाभिधीयत इत्य- म्य व स्व मंवेद्यपरमानन्दस्वरूपसुरतसौख्यस्य मोक्षसुखत्वं प्रतिपाद्य तदनगोपासनमन्तरेण न घटत इति वादाः क्रियन्त इति । सानन्दं शिरः कम्पयन् । शतमप्यस्तु कानां सहस वास्तु तथापि त्वदुपन्यासं कः पुमानवधारयेत् ॥ तहि शान्त वायमातपः, माधयामि। मन्मखेन वसन्तसेना भवन्तं विज्ञापयति “भवद्भिरप्य पागन्तव्यं वासन्तिकारथोत्सवा. येति” नाटितकेन सौधादवतीर्य। परिक्रम्य पुरोटवलोक्य । चेतसाम्।
वसन्ततिलकम। २३ क क्षाबद्दलशोदरमा वपुषा खड्गं मुहुः कम्पय- क्षिामेघ गतागतैः प्रकटयन शस्त्रग्रहे भूयसीम् । व्याकुर्वन्ति च वीरवादमधिकं विस्तीर्णवक्षस्थलो वीरः कश्चिदलङ्करोति विशिषां वीरैरनेकैतः ॥ ससम्भमम् कलकलानुसारी एठताठवलोक्य । कथमत्रापि । बलान्मुहुर्जय जयेति वदद्भिरुच्चैः पार्वती विजयडिण्डिमचण्डनादः । मोहत्तिकेन निरतश्चरणात्कञ्चित् । खड़गी समालपति कश्चिदुदारवेशः ॥ कथमेतज्जानीमः । तावदेनं पृच्छामः | मखे रङ्गनाथ ! किनिमित्तमेतयोर्व्यतिकरः ? किं ब्रवीषि? “किमन्यनिमि त्तोऽयंगणिकामन्तरेणेति ।” सबऊमानम् । तहि युक्तमेव मा ख ल्वेषा भवता दृष्टस्य प्रातिवेशिकस्य कुवेरनाम्रो वणिक- श्रेष्ठम्य कनिष्ठदारा तारावली वशीकृता। किं ब्रवीषि ? “विदग्धः खन्नु भवान् वशीकरणविद्यासु, त्वदुक्कोपायेन वशी- कृतैव, तथापि मा किं करोतु वराको, गुरवः खल निगडं कुल- स्त्रीगाम् । तथा हि । कायगापि विडम्बनं परमहे श्वश्रूर्न सम्मन्यते शङ्कामारचयन्ति यूनि भवनं प्राप्ने मिथो यातरः । वीथीनिर्गमनेटपि तर्जयति च क्रुद्धा ननान्दा पुनः कर हन्त मगीदृशां पतिरहं प्रायेण काराग्रहम् ॥ किन्नाम दुष्करंदैवस्य । सा कदाचिदभिनवजलदसम्भार गम्भीरे मायं परिभवति भुवनमन्धकारेमथि च भक्का होत २४ वसन्ततिलकम् । ताम्बूले पर्यङ्कमारोहति मा वरारोहा हि कक्ष्यायां वसन्ती प्रद्यामिदं पठितवती। नाथो मे विणिं गतो न गायत्येषा सपत्नी च मां त्य का नामाह पुष्पिणीति गुरवः प्राप्ताग्रहाभ्यन्तरम् । शय्यामात्रसहायिनों परिजनः श्रान्तो न मां सेवते खामिनागमलाननीयरजनी लक्ष्मीयते ! रक्ष माम् ॥ इति श्रुत्वा लब्धावकाशा मामेव प्रार्थयते, चिरकालप्रा- र्थिता वरवर्णिनी इत्युत्तरीयमुत्सृज्य समुल्लवितप्राकारे मयि विशति गृहाभ्यन्तरम् । हस्तेनाकुलवणे न ललितं केशेषु मां ग्रहती प्राय्यायां विनिपात्य रे शठ ! चिरालब्धोसि दैवान्मया । त्वामद्येव निहन्मि धूर्त ! चिकुरं मुश्चेति संलापिनी- चेछाभिश्चलकुण्डलाभिरुपरि क्रीड़ा वितेने बधुः । पर्यायेण पराक्रमं विदधती पर्याकुलैः कुन्तलैः স্বানা বৰি বিৰ অবিনা নীঘিনা বা। मा मा मुच्च मतास्मि मईय समारुह्येति दीनाक्षर जल्पन्ती भशमाकुला रसवती भुक्ता मया कामिनी।" सबहुमानं तर्जनीमापूर्ण यन् । सखे ! माधु टङ्गारशेखरस्य मित्रास, श्टणु तावदेनामपि कथा, कति वा न मन्ति भवि कामिनीरूपाणि रत्नानि । कदाचिदई रङ्गराजाभिवन्दनाय रङ्ग नगरीङ्गतवान् तत्र कदाचिदम्बरतलविहरदमरपुर- युवतिकरकमलगलितमन्दाकिनीकरकारविन्दसन्दोहकातर-- मधकरनिकरावलोकिते वीणनेजसि चरमगिरिशिखरमव- ॥ ..
वसन्ततिलकम्।
२५
तरति बन्धूकबन्धुरे कमलबन्धौ, मन्दमन्दमयतयुवतिमाने
मदनकृतबहुमाने वहमाने मलयगिरिपवमाने, पण्यवीथि-
कायां जातिचम्मकादिपुष्याणि तरुणकेतकीदलदाघीयांसि
ताम्बूलीदलानि च समादाय चमत्कारिभिरुदारवेषैरशेषभा-
घागीतिनीतिचतुरैः साट्टहासमन्योऽन्यमाकलितकरतला-
स्फाननः पीठमर्दविटचेटविदूषकप्रायः कतिपयैः सवयो भः
महायमपि चरति वेश्यावीथ्याम् ।
सोधस्थले चरन्ती चरणसमालोलचारमञ्जीरा।
कापि कमनीयमूर्तिः कनकशलाकेव कामिनी दृष्टा ॥
सपुलकोत्कम्पम् । तत् स्मरणमद्यापि मां व्यामोहयति ।
तिष्ठन्तु सर्वे टपि नदावयास्तन्म हुम खालोकनबद्धटपणाः ।
मुहर्तमन्तःकलहायमानाः परस्परं सम्मीलिताः कटाक्षाः ॥
वयस्य : किं तवापि गोप्यमस्ति ? ततः कथञ्चिनिवास
मागत्य ताम्बूलादपि विषतरुपल्लवानि बहु मानयन्, पाहा-
रादपि हालाहालमात्मानुरूपमाकलयन, निष्ठरप्राणभारा.
क्रान्ततया शरीरमपि धारयितुमक्षमः, प्रतिक्षणमतिविहल:-
कलामात्रमपि कल्पकोटि वदतिवादयितुम्, अभिनिवेशेन तेषु
तेषु मनोहरेषु दोर्घिकास्थानेषु धारादृष्टिगतघन दूव पिशा-
चाविष्ट इव तिरश्चामपि दयनीयावस्थः परिभ्रमन्,
वीणावादेन गोछिकास विम्टान् वाणीम्मधुस्यन्दिनीं
क्रीड़ासौधगतानि तानि कलयन् दृष्ट्वा च हंसोकुलम् ।
बोकबन्दविलोकनेन कुचयोर्य गमञ्च तस्याः स्मरन
न क्वापि स्थितिमन्वभूवमिति सच्चिन्ताकुलः सर्वदा ।
॥
३
वसन्ततिलकम्। एमतिकामति काले, कदाचित् किल विरहिजनमीन- ग्रहणार्थमुन्मुष्ट कनकसूत्रानुकारि महरति धीवर व मवि- तरि किरणजालमपरपक्षक्षपाकर व दिने दिने क्षीयमाणो विरहवेदनानिवेदनोचितं कमपि जनमनालोकयन्त्रपारशो- कसागरनिपतितो निस्तारमपश्यन्, तस्या गूढ़पातकिन्या वा- श्रिवणोपायमप्यजानन मरणमन्तरेण का गतिरस्माकमिति निश्चित्य हृदयगतप्रेयसीस्तनभरनिःसह दव भङ्गुरमात्मानं कथकथमपि धारयन्, विरहविसंछुन्नैः पदैनंदीयसि निर्जने जीर्णमाटगृहे कर्पूरलिकुचपाणिरवतस्थुषम् । अत्रान्तरे कापि कापालिकलिङ्गधारिणी “क: कोऽत्र देवीगृहे ?” इति समम्भममधिक्षिपन्ती प्रविश्य देव्या वामभागे करतलगलित- कर्पूरलिकुचफन्नमवनितल-पतितमज्ञातकेशावसनमतिकमले महति वाष्यपूरे प्लवमानमवलोक्य तां दारुणामवस्थां स्वयम- प्यनुभवन्तीव कराभ्यामुत्थाप्यमान तेस्तैरुपायैराश्वास्य, “कुतः को भगान? कमर्थमेतादृशीमवस्थामनुभवसीति" माममाक्षीत् । ततः कथङ्कथमपि निरुध्य कण्ठरोधि वाध्यम्, “अम्ब ! निष्- कारणवत्सले ! ताददं परीवाहः खस्नु कूलभेदिनो महातटा- क य, यदन्यम निजदुःखनिवेदनं श्रूयतान्तावत्, सोऽहं काञ्चीपुरनिवासी गर्भेश्वय्यदुर्गलित: पित्रा मह कलहायमानो वात्सल्य न पदपतितां रुदन्तीं मातरमप्यवधूय श्रीरङ्ग राजदशनार्थमिमानगरी प्रविष्टः । कदाचिदस्ताचलशिखर- चुम्बिनि रविविम्बे विम्बत्विषि, सोपि कश्चित् सवयोभिः सह वेश्यावीथिकामापतवहमेव कन्याश्चिद्गूढ़पातकिन्याः कटाक्ष- वसन्ततिलकम्। २७ वागरिकावन्नयपतितः फलमेतादृशमनुभवामि, नाद्यापि निस्तारञ्च पश्यामीति" मयि वदति मा कार्पटिका किमयि रबमादाय “मा महापातकिनी मन्मुखेन भवन्तं विज्ञापयति, 'नेदं शिनाशकन्नमिति मन्तव्यं, किन्त युष्मद्गुणगणक्रीतम- म्मश्चतः इति अर्पितवती।" तदहमारचिताञ्जलिः कराभ्या मादाय रागपेशलं प्रेयसीहृदयमित्र मदाकारगर्भ सुचिरमा- लोकयन् श्रानन्दविस्फारितेन चनषा तामवोचम् । “अम्ब ! किमित्यपदीयते ? महामूल्यमेतद्रन अस्तु वा सन्दिप निरङ्कशः खलु महतामुदारगुणः । तथा हि, ताम्बलं वा, दुकूल' वा कुसुम वानुलेपनम् । भुक्तपूर्वमिदं सर्वं सन्दिन्ति गीतः ॥ जानाति खल्नु सम्यगस्य दामजनम्य सेवाचातुये, कथय तावत् कथं वर्त्तते प्रेयसीति ? मयि वदति, मावादीत् । "किमुच्यते तात ! यदा व नु मा भवन्तं दृष्ट वती, नत: प्रभृति, न क्रीड़ास कुतूहलं वितन ते, नालङ्कृती सादरा, नाहारपि च सस्पहा, न गण यत्यालापलोलां सखीम् । बाला केवलमङ्गकैरनुकलक्षामैर्विविक्तस्थले ध्यायन्ती किल किञ्चिदन्तरधुना निस्पन्दमास्ते सदा ॥ किञ्च । शोकामिदग्धे हदि वल्लभो मे वसन् किमासीत् ? इति दुःखितायाः । विलोचनैः स्यन्दिभिरश्रुपूर्ण विश्वन्नदीमाटकतामयासीत् ॥ न केवलमेतस्याः तापं ब्रवीमि ।
२८ वसन्ततिलकम। सन्तायस्फुटितात्थितेस्तनतटाभ क्लाफलैरन्वितं भस्मीभूतनवप्रबालशयनं पाकुलैरङ्गकः । निश्वासग्लपितप्रसूनकलिकानिर्विसङ्गीकुलं तस्यास्तापमनक्षरं कथयते तन्वया लतामण्डपम् ॥ किञ्चैषा त्वय्यनागतेऽपि सम्पूर्ण कामैव । तथा हि, गाने सत्यपि चुम्बने, न च पुनः लिया कपोलस्थली, न क्वापि क्षतिरीच्यते बहुतरं दपि दन्तच्छदे । आश्लेपि न पत्रभङ्गरचना वक्षोजयाहीयते भुक्त वञ्चितबन्धवर्गमिति सा स्वप्नोपभोगत्सवम् ॥ एवं क्रमेण दिवसेषु कतिपयेषु गच्छत्म, कदाचिदहं भिक्षा र्थमटन्ती सायन्तनसमये मलयमरुदुद्भुतमाधवीमकरन्दम्य- न्दिन्यङ्गनकदलीमण्डपे विरहविमष्ठलेररमवेदनारममनु भावयन्तीव कामपि कदलीमालिङ्गन स्थितां दृष्ट्वा झटिति सजातकरुणा गृहस्य विजनताञ्च विज्ञाय ताम्मृष्टवती । “जा- नामि खन्नु सर्वदा मान्से विसम्भपात्रमिति । तत् किं मुग्धे ! ममापि गोपयन्ती हृदयमेवमुत्ताम्यमि ? क्षामं गात्रम्, अतीवपाण्ड वदनं, लिटा कपोलस्थली, कोरसी चेतसि वर्तते तव युवा लोकैकमान्याकृतिः । त्यता किञ्चिदपत्रपा कथय मे खिन्नासि किं त्वं वृथा घोरः पञ्चशरो यदि त्वमवला, वक्ष्यामि नातः परम् ॥ दति मा तु कथङ्कथञ्चिददनमुन्नमय्य एकतुण्डकुटिल- काटिभिनखारमनकलुषान्विरहानिधूमशकलान बाष्यदिन्दू नादाय विक्षिपन्ती मामुक्तवती। “मात! तवापि किनाम वसन्ततिलकम् । २८ नवयौवनकुञ्जरस्य श्मश्रुपरम्परा कपोले ॥ गोप्यमसि? कदाचिदह नगरावलोकनकौवहलेन सौधस्थले चरन्ती केनापि कमनीयवेषेण विलासिना कनकमुगेण जानकीव हतचित्तास्मि । नाहं नाम जानामि, नापि कुन्न देशौ, अपि तु एतावदेव जानामि । मन्ये मदलेखेव मदालसस्य यूनः । मुखचन्द्रमसः कलङ्करेखा भवति न्यरूपि चाय भावोऽपि, मोऽयमस्मिन्नगर एव स्यात् । येनं हि, परिपत्य मुहविनोकयन मां प्रणयस्पन्दिभिरुतसुकैरपाङ्गैः । चरगारगमत् कथं कथञ्चिद्विरहैर्विस्मितमार्गसन्निवेपीः । यदि शक्नोषि तमन्विष्यानेतुं, मम प्राणास्तिष्ठन्तीति" वद- क्ये वं पादावग्रहीत् । सा च “कामिनीनां मन्देशमन्तरेगा कामिनो न विश्वमन्ति" इत्यका "मकलपुरुषमौलिरत्नाय तस्मै किमन्यत् मन्देष्टव्यम्" इत्युत्तमाङ्गान्मौलिरत्नमादाय "तमेनमेवं हि” इति दत्त्वा मां प्राहिणोत् । तदहं दिया भातमिहेवोपल्ब्ध वती। सा चेत् यता कालेन नूनमुना दिनी न्यात् ? तद्यया तद्गुरवो न जानन्ति, तथैव तत्प्राणान प्रतिष्ठापयितु भवानेव प्रमाणमिति । तदहमाकर्ण्य नगा विचार्य कर्ण ताम् “एवमेवम्” इत्युत्ता प्राहिणवम् । वयस्य ! किं नाम दुष्करं प्रज्ञाया: तज्जनकेन लक्षेश्वरेण विरहवेदना. वशेनोन्मादिनों तामविज्ञाय "महाभूतग्रहग्रस्ता” इति पा- कुले न “मत्कन्याश्रितं महाभूतं यो निवारयियति, तस्म धनार्दू प्रयच्छामि” इति प्रदर्शितेषु विविधमन्वतन्त्र षु मा न ३० वसन्ततिलकम् । किश्चिदूचे, केवलं रोषदहनगर्भया दृशा दहन्तीव तानविष्ट ! अनन्तरन्तु। मय्यागत्य ग्टहीतमान्त्रिकपदे वक्षःस्थले गगडयो- विश्रब्य च तया प्रहत्य विहरत्याकृष्ठ के शान्तया । तस्यास्तत्क्षणहासरोषपुलकस्लेदादिकं केवलं मत्वा तद्ग्रहविक्रियामपि जनमाहात्मत्रमगीकृतम् ॥ किञ्च । "यन्त्र संहरयामि, यामि भगवन् ! यक्षारहमज्ञानतो बालामद्य समागतास्मि सकृदप्येका ममेघा निशि। शून्ये माटरहे प्रयच्छतु बलिं कन्य ति" कामग्रह- ग्रस्ता कृत्रिममन्त्रवादिनि मयि प्रोवाच सा सुन्दरी। तदाहम् मृषा कल्पितयन्त्रजान्नको, “गच्छ गच्छ कि तब यक्षाधमेति” तं मिथ्यायक्ष निवार्य “विविधभोगदक्षा खन्नु यक्ष जातिः, तस्मै नमस्कृत्यान्नमृता मकन्नानि भोग्यवस्तुनि ममा- दायकाकिनी बलिं दत्त्वा यक्षाय शून्ये मागृहे ममायातु । तावता सर्व समाहितं भवति" इत्युक्ता प्रीतेन लक्षेश्वरेण दत्तं धनमादाय सन्ध्याममये मात्गृहं प्रविश्य कचित्तिरोहितो- ऽस्मि | सपुलकोट्टेदम् । किम् ब्रवीधि ? “ततस्तत इति” ततो क्यस्य ! किमन्यत्कथ्यते? फलितं टणु । मापि तथैव मागृहं प्रविश्य, बलितकवणन करेण कण्ठे मां मलीलं गृहीतवती। तन्मयः किमयं ? बाला मन्मयी? किमुभावपि? किमानन्दमयो वेति ? न विचातं नया मया ।
वसन्ततिलकम। ३१ .. SN अतिचिरकालप्रार्थितम् अनियतकथनीयमात्मसंवेद्यम् । मरतसुखमन्वभूतं विस्मृतसकलान्यवेदनः सुतनोः ॥ तत एवं ब्रवीमि परदारसम्भोगपुन्नकयोचितमायोः सख्यमिति । किं ब्रवीषि ? “साधु मन्त्रकुशल साधु! कनिष्ठा- ङ्गलौ भवान् प्रतिष्ठावान् पटुतरगणनासु ।" वयस्य ' पर- योषितस्तु मदनज्वरनिर्वापयन्यो भूयोऽपि संधुक्ष्यन्ति । सद्यो रागिणि सूचयन्ति हृदयं सापत्रपर्वीक्षणो: सङ्केतस्य न शक्नुवन्ति मनसा सङ्कल्पमाना अपि । कृच्छात्मङ्गममभ्युपेत्य गमनं संप्रार्थयन्ति क्षणात्- साशङ्काचलिते टोपि सहसा मुक्तापभागात्मवाः ॥ इति । “वयस्य ! तत्तथैव, दिगन्तान् पश्यन्ती दिशति न मुखे चक्षुरम्मतं, न विश्रब्ध किञ्चित कथयति, न वाकर्णयति च । रतारम्भे भूयो जिगमिघति, साशापि सरते, तथाप्येषा भावस्तरलयति चेतः परबधूः ॥” तदेवमद्धावशेषितमदनमनोरथस्यापि मुहुर्मुहुरुत्तङ्गित- बहुलानुरागस्य परयुवतिसम्भोगसौख्यस्य षोड़शीमपि कलां सुरतान्तराणि न स्पशन्ति । किं ब्रवीषि? “एतयो:रवर- योईन्छयुद्धविलोकनार्थं गच्छामीति।” तर्हि गच्छ । सर्वदा न विस्मरणीयोऽयचनः । ससम्भमकातुकम् । सङ्गतावपि परस्परमतो दूर एव भवतोडूत-खड़ गौ। मङ्गलानि चरतः कृतशिक्षो मर्मणि प्रहरतो विचरन्ती ।
वसन्ततिलकम। किमस्माकमेलेन मलयज छतां मन्दरपथोपवर्णनेन ? विशिखान्तरं प्रविश्य । महानयं मन्जमंरम्भः । तथा हि। शिक्षा भूमिरजोरुणां परिदधकक्षां भुजे कल्पयन बास्फोट दिगुणीकृते विरचयन्वये मरिष्ठां गदाम् । मना तत्क्षणामुण्ड़ितेन कपिशां विश्वञ्च तन्वी शिखां मल्लः कश्चन मांसलो विजयते युद्धाय बहोत्सवः ॥ दक्षिणतरवलोक्य । माश्चर्याम् । अयमेव भवेत्तस्य परि- पन्थी। यदिदानीम् । द्विगुणितभुजाक्षेपक्ष्व डारवर्दलयनभः करतलमहीएछा निष्य तनिष्ठरगर्जितः । सुट्टामवनी दृष्ट्वा मरि विधाय पदाहत- क्षभितवसुघो र रिङ्गभस्तक्षत मल्लराट ॥ सकातुकम् । कथमेतौ निमद्धत एव । पादनाक्रम्य पादं भुजवलितभुजा तस्थिवांमा स्थिरांपा भ्राम्यन्ता भ्रामयन्ता वितपरिकरी पातयन्ता पत।। भूमेरुत्थाय भूमौ रणमिह कुरता महिमादाय मछ। गर्जन्तौ निश्वमन्ती धनतरतिभिर्भिनगम्ली च मल्ल । :) वामतोऽवलोक्य । कथमुत्तरोत्तराण्याश्चर्याणि? यदि दानीम् । कलिकम्पिविधाणचामराः किष्टिगोमुखरपीनकन्धराः ! वक्रभासरवराटमालिका हत्यमत्र रचयनित पुणवाः । घोरो नास्ति भुजङ्गमादपि जनैः सोम्यं समं वर्तते वन्यास्तपि गजादयो विदधते वातानुरूयां क्रियाम् ।
वसन्ततिलकम् । प्रेयसीम् । वीणा काष्ठमयी च वक्ति मधुरं वाणों मनोहारिणी पाघाणाश्च फलन्ति काशिन्तमहो किं वा न साध्यान्तः ॥ वीथ्यन्तरमवलोक्य । महानत्र समरमरम्भः । कम्पितवि- घमवेल्लितविकटतिरश्चीनविषागाभूपायितविविधरोहवन यख- न्लखलत्कारमुखरमुखानां प्रतिनिशिनखुरोत्खातभूतला. नाम् अनवरतप्रहरणपरिणतकिणकठिन कण्डल मस्तकानाम् अमोढ़परबलमधःशीर्षाणाम् अगाधरोषाणामेषां मेषा- साम्। तथा हि। पश्चात्परित्त्यावलोक्य । मकन्नमार्वभौम पदमनुभवति चिराय टङ्गारः। यदिदानीम् । दोषणा चन्दनधूसरेण ललितान धन्वन्ति चित्राङ्गदां पश्यन् तत्क्षणजायमानपुलकः पाव मुजः उष्णीषप्रतिविम्बितेश्च कुसमैरुट्रासिम्मिल्लवान उद्गायनुपयाति कोरपि विशिधामुल्लोलवेघो यवा । किञ्च । कलुषितकपोलपाली कस्ता काप्युपैति नेपाली। सात्कण्ठम् । कस्येयम पाली सास्यति पुलकैरयास्तनीयालीम् ॥ तावदेनामुपसर्पामि । इत्युपसर्ग्य सलीलम् । तरुणि ! तव कर्णपत्रं शासनपत्र मनोभुवः शक्यम् । कर्णप्रसूनमुखरान् कलये तल्ले खवाचकान् भमरान् । सलील हस्ते ग्रहीत्वा कराङ्गुलिपल्लनाभ्यां वदनमुन्नमय्य । कथमियं यथावत्कलभाषिणी?
३४ वसन्ततिलकम्। ? मुदितः कदा शयिष्ये मुखमिदमाघ्राय मुकुलितापानम् । मुग्धस्मितं च रतान्ते मुक्तातच मुद्रितकयोलम् । "किं ब्रवीषि? कितव ! किमेतेन धूर्त्तालापेन ? न श्रुता किं किम्बदन्ती च ? “वेश्यामपि वमन्तरेखामसूर्यमय ग्वा- मकरोदर्यपान दति।" तदन्नमेतेन कुकटाचारेण । नहि नेपानिकाजातिर्दाक्षिणात्यवदनाचारा, मुञ्च पाणिमिति ?" साट्टहासम् | जानामि ते पातिव्रत्यमर्थपानशौर्यञ्च । पुरोऽव लोक्य । सानन्दम् । कलहाररचितचूली केलीगमनेन गर्हितमराली। कापि नगरप्रतालीमानिभिः साकमागता चोली। स्मरणममिनीय । सखि मन्दारमालिके ! मह कुन्निनी त्वं रागबर्द्धनेन ? किं ब्रवीषि ? "भाव ! किमेतेन निर्धनगग- बर्द्धनेन ? मातङ्ग इवागत्य मार्जार व निर्गतोम्भूत् इति :" तर्जनीमार्गायन । माधु मन्दारमानिके ! साधु ! कुश नामि खल कुवेरमपि कौपिनं परिधापयितुम् । सख्यः ममाह- यन्ति, गम्यतां प्रकृतकार्याय । पार्श्व मुद्दिश्य सानन्दम् । वलयिनि मणिबन्धे वर्तमान सलील शुकमुचितवचोभिः स्वरमालापयन्ति । मदहसितमनोज्ञा मन्मथाढतविद्या- मुपदिशति विलोलैरुत्पलाक्षी कटाक्षः । किमयं पाणि पल्लवेन परामगन्ती नीलाशकमान्ना- पयति?
वसन्ततिलकम ३५ "रागं मुखे वहसि, रञ्जयितुं च वाचा दक्षोसि, दर्शयसि मय्यपि पक्षपातम् । जाने तथापि चपलं प्रियदर्शन ! त्वां बनामि मत्करगतमणिपञ्जरेस्मिन् ॥" इति। विम्य मदुद्देश एवा यमालापो. नूनमेषा न केवलमर्थपरा, कामपरा च प्रतिभाति। भवतु गत्वा जानीमः । पदान्तरं गत्वा स्वस्ति ते शुकविनोदनाय कथय, कलालापिनि! कम्य कामिनो भागधेयमुल्लासयति ? “सप्रणय कोयम् ।” अपवार्य करभोरु ! ययार्थवादिनं लीलाशकं कर्णोत्पलेन किन्ताड़. यमि? किं ब्रवीषि ? "गणिकाजनगर्हितमध्वानमाश्रयन्ती न कस्याहमुपालम्भपात्रमिति?' मधुरभाषि रण ! ममवोचः । मान्या त्वमेव हि मनोहररूपवेघस्तारुण्यमद्य तरुणाचरितार्थयन्ती । यन्यैः किमर्थपणेजड़जीर्ण भोग्यतारुण्यसंपदुदयः सुदृशां समूहः ॥ किं ब्रवीषि? “स्तुवन्तु निन्दन्तु वा, सर्व कुलक्रमागतम- खिलधनं सकलविदग्ध भ्यो दत्त्वापि महति राजपथ मकरध्व- जमभिधेच्यामि। तहिदग्धजनमूर्द्धन्य ! निर्लज्जया निबद्धोऽ- यमञ्जलिः, सकृदपि त्वया समागन्तव्य मति ।” सानुरागम् । चारचामिनि ! निदेशवत्तिनि दामजने किमत्यादरेण ? मंद्रियतामयमञ्जलिः। सत्यमागच्छामि, शपाम ते पादप- जेन, क दूव करतललग्न मुश्चेत माणिक्यम् । गच्छामि रङ्गोत्सवाय। पुरोऽवलोक्य । परिहितपट्टदुकूलाः पवनसमुद्भूतपाण्डुरोणीयाः । करतलकम्पितखड़गाचित्रममोयान्ति कामिनः पौराः ।
३६ वसन्ततिलकम् । ? किच्च। आच्छाद्य स्तनमण्डलीमभिनवज्योत मानिभैरंशुकै- भू यस्तत्प्रतिविम्बिवैरवयव सम्मोहयन्त्यो जगत् । रम्याभोगनितम्बगौरववशान मन्दायमानः पदैः पायाकुलहारनपुरमिमा गच्छन्ति पोराङ्गनाः ॥ समन्तादवलोक्य सकातुकाश्चर्यम् । क्रीड़ापी ले मदकलमसा चञ्चलरई चन्द्रः के कारावं रचयति मुदा केलिलोलः शिखण्डी। मन्दं मन्दं मदनतरलं सैकते सञ्चरन्ती दोनारावं दिशति गगने दीर्घिकाराजहंसी ॥ किनाम निमित्तमेतस्य ? किञ्चिदम्भोदशकां पश्यामि । श्रुतिमभिनीय । सर्वथा समारब्ध एव रङ्गोत्सवः तथा हि। नवाम्बुवाहस्तनितानुकारी विजम्भते दिक्षु पदनिरुन्धन् । महोत्सवारम्भविशेषांसी मनोहरो मङ्गलतूर्यनादः ॥ तविलम्बितमेव गन्तव्यम्। वामतोटवलोक्य । मनोहरा- ऽयं समवायः। परस्पराकर्णितावनोदानां विलोलविलासिनी- नाम् । सप्रणयकौतुकम् । कथमत्रैव मे मखा विलासवीरो विलासवत्या मह महासंरम्भेण द्यतकलहमातनोति? किश्चि- दुपसृत्य । सबै विलासवीर! केन जनेन प्रवत्तते बां द्यूत- विनोदः ? किं ब्रवीघि ? “यद्यहं पराजितः स्याम्, अस्यै दास्यामि हस्तकटकम्, एकवारमधःशयनं च। यद्यषा, ख- कछादवमुच्च मधमर्पयिव्यत्येकावलीम्, एकवारमधरपल्लव- वसन्ततिलकम्। ३७ ति?" साधु रे माधु ! माननीयः खलु भगन् पणबन्ध- चातुर्यख। सीत्वारगर्भमुदरं स्वयमेव दत्तं जेता यदि त्वमनुभव मदालसायाः । बालोलहारमणिकुण्डलमन्यथा चेत वस्था लभख पुरुषायितमायसाक्ष्याः ॥ पदान्तरं गत्वा पुरोटवलोक्य । अहो! रमणीयता नयनपि- धाने कौतुकस्य, यदेष चतुरङ्गविहारिणीम् । मकीभूतमुखी विधाय नयनस्पन्देन दूरात्मखीं पश्चान्मन्दमुपेत्य पाणियुगलेनाच्छादयस्था दृशौ । अन्तत् क्षशजायमानपुलकै नन्नपि प्रेयसी- मस्याः सस्पहमाम्टशनवयवान् घाख्याति नाख्यां युवा । पुरोविलोक्य । कथममौ वसन्तसेनायासाम्बूलकरण्डवा- एकताण्डवम सत्वरमायाति । किं ब्रवीषि ? "स्वयंतां त्वयंतां स्वामिन् ! किमद्यापि विलम्बेनैवं समाहितविशेषोपकरणा देवी भवन्तमेव प्रतिपालयतीत्यहमागतोऽस्मीति ।” कथय रे को वा विशेषो रजस्व ? किं ब्रवीषि? "कोऽयमतः परं विशेषो नाम? सोऽपि षोडशसहस्रान्तःपुरविहारधूर्ती वरदराजः करिगिरिशिखरादवतीयं खयमेव कस्पितलीला- विलासवेषः सकलरसिकजनधौरेयतामवलम्बर माल्यादिभि- रागतान् सम्भावयन् विलासमण्डपमध्यात इति?" त - ३८ वसन्ततिलकम्। यमितः प्राप्तोऽस्मि । पुरस्तावलोक्य । अहो! रमणीयता मण्ड. पस्य, यदिदानीम सम्भावित सपदि हर्म्यतलं विमान हार निखालकदलीयुगलाभिरामम् । स्तम्भावनी च चिरा विमलैई कूल- वयन हन्त, वचसा कथमस्य लक्ष्मीः ? । वामतोमवलोक्य सासर्यम् । गण्डस्थलस्फुरितकाच्चनकी पत्रं नासाविलीननवमौक्तिकलोभनीयम् । याबद्धकञ्चकमलक्षितमध्यभागमायाति सन्दमिदमान्धविलासिनीनाम् ॥ किं ब्रवीषि ? "स्वामिन् ! न केवलमेकस्मादन्येभ्योऽपि देशेभ्यः समागता: विलासिन्यः पश्य । केशान्तरालगतकेतकपत्रजालं कस्तूरिकाकलितजोमसगण्डमूनम् । विन्यस्तकुशमविशेषकमुत्पलाक्षं काटयौवतमिदं कमनीयवेधम् ॥ स्वामिन् ! दूतो दीयताम् दृष्टिः । मुलाकबुकसंछनाः पाख्यनारीपयोधराः । मेसमन्दरविन्धादीन हसन्तीव महागिरीन् ।” किमिदं परं कौतुकं रङ्गमण्डपस्य ? “पश्चिमभागमवलो- कयत स्वामी। कोत्पलं नमनकातिभिरेव पीतं गाभाभास मानयाभर निममम् ।
वसन्ततिलकम्। ३८ विम्बाधरम्य चिभिः पिहिताच लाक्षा- लाटीषु हन्त लघुभूषण मेवमासीत् ॥ एवमनेकदेशादागता विनामिन्यो वर्णयितु न शक्या इति” साधु सखे ! पटीयानमि । पश्य । कल्पितचन्दनतिलकं कर्णपरिकरितकनकताटङ्गम् । कवलयति मामसं में कान्सं काटकामिनीवदनम् ॥ नेपालीगण्डपालीषु कस्तुरीपञ्चविन्दवः । वदन्ति मदनेभस्य मदनियन्दिनों दृशम् । सखे ! सहैव ममागच्छ, समाज प्रविशावः । पुरोविलोक्य । शिरस्यञ्जलिकटयम् । पश्य । य एष सभानायकत्वेन सिंहास- नस्थोऽस्ति गिरीशो भगवान् । भुवनानि विमोहयन् पुरस्तादयुषा सोट्यमुयाविडिलासी। मदनोपनिषद्रहस्यविद्यां यमुनासीमनि वझवाङ्गनानाम् ॥ ससम्ममं पश्चादवलोक्य । सखे ! किमर्थं विलम्बितोऽसि ? पश्य। तत्रभवता वरदराजेन सबहुमानमाहय स्वकण्टा- दवमुच्य मृगमदस्यन्दिनों मौगन्धिकमाला स्वाङ्गोपला- लितमङ्गरागञ्च दत्त्वा सम्भावितोऽस्मि | समन्तादवलोक्य । पक्षहये कल्पितपक्तिरेषासभा हरिनायकमुदहन्ती। विराजते मौक्तिकशिरस्यारङ्गाश्रियः कण्ठगतेव रम्या । किं ब्रवीषि? “सा दृष्टा वसन्तमहोत्सवव्याप्टता वसन्त- सेनेति” सखे ! किन पश्यसि ।
वसन्ततिलकम्।
समीक्ष्य मा सस्मितमक्षिकम्यैः समीपनिर्दिनिवासभूमिः ।
करोलसत्वाचनवेत्रयरिः करोति रङ्गास्थितिमायताक्षी ॥
तवैवोपविधामः। किं ब्रवीषि? "गच्छामि कार्यान्तर
करणाय, गृह्यतामयं ते प्रणयमहत्मगीतशेखर दूति ?"
नहिं गच्छ मङ्गीतशेखर! अनुनीय शयनं सचदपि पारोपिता
किमभिनवयौवनारम्भकन्दलित मन्दाक्षमन्दायमानमहोत्सवा-
नन्दा मन्दाकिनी। किं वीषि?
“कुऱ्या प्रसाधनविधि कुचयोः सलील
किञ्चिमखैरधिकमुत्पुलका च बाला ।
सीत्कारमातनत हन्त स एव नान्दी
कन्दर्यकेलिकलहातनाटिकायाः ।"
सखे ! मप्रति किं वर्ण्य तेऽस्या रतिरहस्यमौभाग्यम् ।
पश्यन्ती परिणामवेलिघु मुनिशकमालिच तां
प्रोत्वाजत्कलमयहीषमधरं स्पडावती साप्यभूत् ।
नाहं वेनिम वेति सा च दयिता तत्रायोषित
शय्या वेत्ति न वैक्ति वा स तु कुतः संग्रामलाल मरः ॥
इति सकौतुकम् । पश्य मखे ! वामभागं वसन्तसेनायाः ।
कैया का च न योषा भूषामणिकिरणभूषितरङ्गः ।
सन्ध्यारामविमा संदृष्टा भवति चन्द्ररेखेव ।
किं ब्रवीषि ? "किमद्यापि न जानामि सा ख न विनास.
पुरादागतविशालादी सकललोक नोचनानन्दचन्द्ररेखेति” ।
वसन्ततिलकम् । ४१ - मरगमभिनीय तर्हि शुश्रमः । वृत्यगीतवाद्यादिषु महाविद- ग्धति निरतिशयनिखिलसम्भोगदाथि गम्भीरमस्यास्तारुण्यम् । थानङ्गीमधिगन्तुमिच्छति दशामस्थाविलन क्रमा- दालापो विरसीकरोति मरतामाहारवानामपि सन्नाह स्तनयोरयं न सहत चापाननि शाम्भवों व्यापारो नयनस्य वाञ्छति हरेराद्यावतारश्रियम् । कथं साम्प्रदायिकैरननेपथ्यमुपक्रान्तमेव । तन्त्रों केचन बोधयन्ति नखरैमअखरोदारिणी मायूरों रचयन्ति मई लमुखे मालां पर मूर्छनाम् । श के चन पूरयन्ति कतिचित्संप्राप्तमौनव्रता वंशी केचन वादयन्ति च परे कर्णेचितां माधुरीम् ॥ ससम्भमम् । माधु विनयातिशय! साधु। निधिचदम्रतद्रयैः श्रवणमाशु सन्त्रीरवैः प्रपञ्चपरिमोहनं किमपि गीतमुज्जृम्भते । ऊ मवलोक्य । अयच्च पुनरवलं पुनरमुष्य सम्भावय- बुदश्चति शनैश्शनरपरि काटपि पुष्यामलिः ॥ नेपथ्याभिमुखमवलोक्य । चिराय चरितार्थचनः । उत्क्षिप्तां विरचथ्य बाहुलतिकामुच्चैः क्वणकावणं पादो नूपुरमचुनादमुखरौ पायल्लम्वती।
४२ वसन्ततिलकम् । : दूरोट्रासितकोतुकस्य सहसो दुर्लक्षणेघाकृति- नेपथ्यान्तरितैव निश्चलयते नेत्राणि शातोदरी ॥ कथमपनीतमेव नेपथ्यम् । पश्य तावत् । कलहारपत्रीज्वलकेशयाशं गामावबस्तनकञ्चलीकम् । अझ अवार्डोरुकलोभनीयमाभाति रोचितमङ्गनायाः ॥ मगीतशेखर । सकृदपि सम्भावयते मित्रसौभाग्य यदि- दानीम् । चित्रलिखितेव बाला रेखासौभाग्यनिश्चलरः । कलयति हि मानसम्मे सस्मितमनुरागसिभिः पुलकः ॥ निकषोपलः खलु भवान्नृत्यविद्यायाः। मूतानुदिरतीव लोचनमिदं हावान जगन्मोइना वाख्याताविव बोलनूपुरतया पादा च तालक्रमात् । अध्यक्षानिव कल्पयन्त्यभिनयैरङ्गानि चार्थानवान् कण्ठे नोद्भिरतीव कामपि सुधां कर्णेपिभोगोत्सुकाम् ॥ सकौतुकम् । कथमेषा विविधकलोचिता ? दर्शितबहुप्रयोगा स्थित्वा र कलाचिता तन्वी। पश्यति हि मां कटाक्षः पुलकितकन्दर्पवीरभुजदण्डः ॥ चन्द्र कलकरहितं, शफरदयच निस्तोयमन्धतमसच सुगन्धि तन्वधाः । वक्तच्छलेन भुवि हलवतो विधातुर्वर्खेत, केन करकौशलमतन्तत् ? ॥ साधर्म्यम् । किं ब्रवीषि? “सम्भावयति भगवान् ! वरद- राजो दृष्टदिव्यवृत्यगीतोऽप्यनेन नृत्यगीतादिना सन्तुष्टः ।
वसन्ततिलकम्। ४३ ३ त्वया स्वदेवीभोगलालितैर्दिव्याभरणादिभिर्वासक्तिकामिति ?” । तर्हि गच्छामि। अयमेवावसरः प्रेयसी सम्भावयितुम् । सलीलमुपसृत्य । अस्तु कुशलं प्रेयस्यै वासन्तिकायै । न परं रूपलावण्यत्वया मूर्ध्नि म्टगोदृशाम् । विद्ययापि विशालाक्षि ! विन्यस्ता वामपादुका । किं ब्रवीषि? “पण्डित: खल्ल भवान् हणमपि स्थूणी कर्त्तम् । भवादृशां बहुमानमन्तरेण नास्ति मे विद्याकणि- केति?" | सशिर कम्पम् । विनयः खलु भूषणं विद्यायाः । वर्णनीयं किमेतहासन्तिकायाः तथापि ब्रवीमि। चोल-केर लनेपाल-मालव-मगध-कलिङ्गकर्णाटकप्रभृतिविविधदेशागत- विटनिकरमङ्कीर्ण सकलविद्यारसिकजन्मभूमिरपि दासीकतैव रङ्गस्थली । अपवार्य । सखि ! वसन्तसेने ! दिया वर्द्ध से वान्तिकामहोत्सवेन । सस्मितं हस्त रहीत्वा । किं ब्र- वीषि ? “भवति स्थिते का नामाहं वामन्ति कामहोत्मवस्य ?" विदितसकलवेदितव्यस्य, न किञ्चिदतव्यमस्ति । तथापि ब्रवीमि, सर्वे शासनपूर्वमेव वारसुन्दरीरभिनयकुर्वन्ति त्वयापि वास- न्तिकाय नटनर्तकक्टिविदूषकसमाजेऽस्मिन् किमपि शासनं दातव्यमिति विभाव्य सस्मित तथा करोमि । समन्तादवलोक्य । कथं लिखितमेव सामाजिकैः । किञ्चिदवधारय । स्वस्ति समस्त- भुवन कवीरहरिहरहिरण्यगर्भवशीकरणवामाङ्गनावक्षःस्थल- - स्थापितजयस्तम्भशम्बरभिदि सार्वभौमपदमनुभवति मधुरध- नुषि मकरध्वजे मधुमासपौर्णमास्यां काञ्चीपुरीवास्तव्यः हङ्गारशेखरो वासन्तिकावै कलवपत्रमर्पयति ।
४४
वसन्ततिलकम् ।
काया:
मासान् सप्त ममेयमस्तु दयिता दास्यामि चास्यै शतं
दीनारान् प्रतिमासमम्बरयुगं नित्य शतं वीटिकाः ।
यामेदं कुसुमं च वाञ्छितमसो मध्येन्यमोक्षत चे-
दत्त्वा तदिगणं कलत्र ! तु पुनर्मासानियं सप्त च ।
दूत्वं कृतं दृङ्गारशेखरेण । दूत्वमवगतं रागवईनेन ।
एवमनुमितं कुसुमसौरभेण । एवमवबोधितं रतिवल्लभेन ।
एवमुभयेच्छा लिखितमिदं चित्रलेखेन निरवद्यमिदं सम्यक्-
परिपाद्यताम् । इदमपि लिखितं पुरा मे वल्लभाया वामन्ति-
किमपि लौकिकमेव । प्रास्तामपरं कलास
वैलक्षण्यम् । जनान्तिकम् । द्यूते चौद्ये निष्प्रतिद्वन्दोऽस्मि
पञ्चषपरेव पुरमशेषं पुराणखर्वशेषं विधाय कनकवर्षे ण
भवनं ते पूरयिष्यामि | पत्रचैतत्परिपालय । किं ब्रवीषि ?
"भाव ! किमन्यदाशास्यम् ।
यौवराज्यमनङ्गस्य युवयोनवयौवनम् ।
इदानीमस्त साम्राज्यमिदमव्यायतेभितम् ।
तगच्छ यथई विहर वामन्तिकया सहेति।" सानन्दम् ।
परमनुगृहीतोमि । परितृत्व वासन्तिकमाविष्य । अद्य खलु
निष्कण्ठमनङ्गसाधाज्य; निर्वण्र्य। सोलासम् । सुगात्रि!
सम्प्रति हि।
पूर्वबाभीसरसि पलिता पूरिता कान्तिायैः
पश्चान्मध्ये त्रिवलिविषमे प्रस्खलन्ती क्रमेण ।
वसन्ततिलकम्। ४५ प्राप्ता भूयस्तनभरमितः प्राप्तकामा मुखन्त कण्ठेलमा म्गमदमिलत्कर्दमे दृषिराम्ते ॥ सस्मितम् । सुभु! किमेतेन माचोकृतविनोकनेन | सत्यमा- गच्छामि । शपामि ते कुचकलशेन । परिश्रान्ताऽस्मि । परि णतो वासरश्च। पश्य पश्य । सोऽयमवल्लम्बितमम्बिकारमणपटु तरनटनहस्तविसस्तकनकडमरुकविडम्बो गगनतन्नविहरदम- रपुरवारयुवतिकरकमलगलितरामणीयकमणिकटककान्ति - मन्दाकिनीविकटतटविलसदुटजविबुधगुरुवितीर्ण सायन्तनम- मयनियमाञ्जलिसलिलमहपतिवतपनीयारविन्दसन्देहवाहि.. नौनिरवधिकतरतिनिखिलमङ्गलारम्भभवदीयरङ्गोत्सवदर्श-- नकुदहलागमनवेगविभ्रष्टविद्याधरवरणिनीवर्णनीयसुवर्ण-- वर्णपत्रानुकागे परिसरचरहरुण पुरवरतनुचटलचरणम णिकटकविसमरकिरणकदम्बचुम्बित व समापतदपरिमि- तरजनीचरसभटनिशितशरविदलितनिजतनुगलित रुधिरनि. कुरुम्बकरम्बित रुणकठोरकलाभिघातपरिकुपितजवन- निजतुरगखुरधूलीपालीकवलित व मरभमपतितकटकतट- घनरवरथचरणधनरवनिशमनसुखनिष्कम्पशवरकुलमवतरति चरमगिरिवरनितम्बमम्बरतलादंशुमाली। तव मृत्यमहोत्सवं विवक्षुर्वरुणान्तःपुरवामलोचनानाम् । मणिदर्पण मण्डलानकारी भजते पश्चिमशैलमंशुमालो । सन्ध्याताण्डवचण्डचण्डयरसुप्रारब्बभीमममी वगसस्तकपर्दवासुकिफणामाणिक्यावहम् ।
४
वसन्ततिलकम्।
मम पासि पश्चिमम्य जलधेमार्तण्डविम्बं ततो-
ध्वान्तैर्भूतगणैरगाहि भवनं मन्ये तदन्वेषिभिः ।
समन्तादवलोक्य। नतोदरि! तव वृत्तान्तमनुकरोति
वामवीयं पश्य ।
शानीताभरपलवरपनयनच्छान्तमःकञ्च ली
माशां सम्प्रति वासवीमनभवनक्षीणरागः शशी।
अस्याश्च स्तनसङ्गिनीमिव वह व्यङ्गेन कस्तूरिका-
मालिङ्गत्ययमादरेश रजनीमॉन्मिघत्तारकाम्
.
किञ्च ।
पाशात सनद्धे भरत व सन्ध्यायवनिका
तिरोभूत्वा पुष्पाञ्जलिमिव विकोोड निकरान् ।
कलं गायन्तीभिः कुमुदवनभृङ्गीभिरधुना
नभोरङ्ग प्राप्ता विहरति निशालासिकबधूः ॥
तदहं भुक्ता गृहीतताम्बूलश्च भवनमेवागच्छामि।
तन्वति ! तरलापा तव रागतरङ्गितम् ।
बालोकनमिदं जीयादनङ्गकुलदैवतम् ॥
किं ब्रवीषि? “वसन्तसेनायास्तत्तदभिमतवस्तुभिः मर्व
विलामिनः सम्भाविताः । तेषामग्रे सम्भावनीयस्य भवतः किं
वा प्रियमिति?"
टङ्गारशेखरः । कलभाषिणि ! एतदेव प्रियम् । यत: ।
!
वसन्ततिलकम्।
कृत्वैव वामचरसं कृतमत्सराणां
चूड़ापदे सकलवारविलासिनीनाम् ।
सम्भावितासि वरदेन महासभायां
चिरनन्यसुलभैः सितचामराद्यैः
किन्न।
कटको जयन्तु भूपतीनां कवयः काशितकल्पपादपानाम् ।
वचसा रसपानदिव्यगन्धैर्मधुनिष्यन्दमनोहरैर्निगुम्फः ।
तथाप्येतदस्तु भरतवाक्यम् ।
अनपेक्ष्य चरित्रमानानामधुना कामुकचित्तहारिणीनाम् ।
अनुरागमवत्रिमं वहन्ती चिरमुल्लोलपचित्तजन्मलक्ष्मीम् ।
काचीपुरीमधिवसन् कमनीयभूमा
कामीय रष वरदः कमलालयायाः ।
याकल्पयन्वसमतीमन कल्पमेनां
कल्पगुमो भवतु कश्चन मानवानाम्
इति निष्कान्तः।
इति वसन्ततिलकभासः समासः |
No text on this page.
THE FOLLOWING IS THE LIST OF PROFES&OR TARKAVACHABPATI'S WORKS & PUBLICATIONS. ... 22 ... 79 1 is 2 1 ... مد Rs. As. 1. Asubodham Vyakaranam. 3 4 2. Dhaturupadarshā. 2 3. Sabdastoma Mahanidhi. 10 4. Sidhantakoumudi with Sarala. 11 5. Sidhanta vindusara. 8 6. Tuladanadipadhati. 7. Gaya Shradhadipadhati. 8. Sabdartharatna. 9. Vakyamanjari. 10. Vrittaratnakara and Chhandomanjari with notes. 11. Venisanhara with a Commentary. 12. Mudrarakshabar Ditto S 13. Ratnavali Ditto 8 14. Malavikagnimitra Ditto S 15. Dhananjayavijaya. Ditto 4 16. Mahaviracharita. Ditto ... 17. Sankhyatatwakoumudi. Ditto 8 18. Veiyakarana Bhuganagara. 2 19. Lilavati.... 12 20. Vijaga nita. 21. Sishupalabadha with Maflinathn. ... 6 22. Kiratarjuniya. Ditto 2 23. Kumarasambhava Purvakhandam. Ditto 24. Kumarasambhava Uttarakhandam. 8 25. Panini Sutras. 12 26. A comprehensive Sanscrit Dictionary (In the Press) 60 27. Kadambari with a commentary. 7 1 ... 1 ... . berandi 1 11 ܫܛܝ > ii . 2 ... 2 .. . 1 1 ... ܢܝܢ ... 2 2 ... ... 28. Rajaprasasti. 29. Gayitri. 30. Anumanachintamanididhiti. 31. Sarvadarshanasangraha. .. 32. Bhaminibilasha with notes. 33. Hitopodesha with notes. 4. Bhasha parichheda and Muktavali. 35. A discourse on the Hindu polygamy. 56. Dashakumaracharita with notes. 37. Paribhashendusekhara. 38. Kavikalpadruma. 39. Chakradatta. 10. Unarlisutra with a commentary. 41. Medini Kosha. 42. Panchatantra of Vislinuharma. 43. Bidwaniodatarangini. 44. Madhavachampu. .. 45. Tarkasangraha with an English translation. 46. Prasannaraghava of Jayadeva. 47. Vivekachuramani. 48. Kavyasangraha (complete work.) 49. Liuganushashana with a commentary. 50. Ritusanham with a commentary.... 11. Vikramorvashi with a conimentary 52. Vasantatilaka. Apyly to Pandit Jibananda Vidyasagara B. A. The 5th June Guvt. Sanskrit College. CALCUTTA. 2 ... :: 1 1872.
No text on this page.
No text on this page.
No text on this page.
No text on this page.