Sringeri Sharada Peetham

Mimamsaparibhasha

Narayana Ram Acarya · 2004/10/21

PDF Proofread

Front matter

श्रीमत्कृष्णयज्वप्रणीता
मीमांसा परिभाषा
যু = হে-হিন্দুয়ানি : ফাজিল।
115-
a
MAN
श्रीमदिन्दिराकान्तचरणान्तेवासिना
नारायण राम आचार्य 'काव्यतीर्थ
इत्यनेन संशोधिता
पञ्चमं संस्करणम् : सन १९५०
निर्णय सागर प्रेस, मुंबई
मूल्यं ९ आणकाः

[ All rights reserved by the publisher ]
Publisher:-Satyabhamabai Pandurang,
Printer:-Ramchandra Yesu Shedge,
For the 'Nirnaya-sagar' Fress,
26-28, Kolbbat Street, Bombay.

निवेदनम् इह संसारे संपादनीयेषु चतुर्विधपुरुषार्थेष्वभ्यर्हितत्वेन प्राथमिको धर्म एवेतरपुरुषार्थमूलकारणतया विचारणीयत्वेनाद्रियते सम्यगास्तिक- धुरीणैस्तत्र तत्र । स च धर्मो वेदप्रतिपाद्य इति वेद एव सर्वस्वमखिलानां धार्मिकानेसराणाम् । वेदस्य च स्वतःप्रमाणभूतस्य पूर्वोत्तरभेदेन स्तो द्वौ भागौ । तत्रोत्तरभागमधिकृत्य प्रवृत्ता उत्तरमीमांसा ब्रह्ममीमांसा- परनाम्नी । यां भगवान् श्रीमद्वेदव्यासः सूत्ररूपामररचत् भगव- त्पादाचार्यप्रभृतयश्च भाष्यादिभिरपूपुषन् । पूर्वभागमधिकृत्य प्रवृत्ता पूर्वमीमांसा यज्ञमीमांसापरनामधेया । यां किलार्वाग्दृष्टिभिर्भमप्रमादादि- दोषदूषितवान्ततया दुःशकं वेदस्य याथार्थेन तत्त्वमवगन्तुमिति तदर्थ- विचारणाय भगवान् जैमिनिमहर्षिादशाध्यायैः प्रणिनाय । सेयमव- श्यमुपादेयत्वादखिलशास्त्रमूलत्वाद्ब्रह्ममीमांसातः प्रथममध्येयत्वाच केवल- मीमांसाशब्देनापि व्यवह्रियते । यस्याः परिचयमन्तरा विद्वद्भिरपि न सुलभः शास्त्रार्थनिर्णयः किमुत केवलव्युत्पत्तिमद्भिः । यां विना संशेरतेऽनुक्षणं याज्ञिका वितायमानेषु वितानजातेष्वित्यवश्यं परि- शीलनीया मीमांसा । निश्चीयते खलु पूर्वतरैर्विद्वद्वरैरियं कृताधिकतरादरेति तदीयैर्मीमांसो- पोद्वलितै-हेमाद्रि-पूर्तकमलाकर-निर्णयसिन्धु-कौस्तुभादिभिर्वसुन्धरामण्डल- मण्डनायमानसंख्यावन्मान्यैर्धर्मशास्त्रनिबन्धरत्नैः । परं सेयं संप्रति भारतवर्षस्य भाग्यविपर्ययादेवव्याकोपाच्च प्रचलितसंप्रदायेषु विशेषतो- ऽहणाभावादत्र देशे लुप्तप्राया वा नामशेषेव समजनीति हन्त परि- दूयतेऽधिकतरं नश्चेतः यदनुसवनमनुक्षणं प्रतिशास्त्रं प्रतिधर्मशास्त्र- निबन्धं प्रतियाज्ञिकप्रयोगं च जीवातुभूतं सर्वोपकारकमनऱ्या सतत- कण्ठधार्य श्रेष्ठरत्नं , प्रमादेनाबकरोज्झितमिवाभूदिल्यास्तां प्रशस्तहानि- विषादजल्पनेन । मीमांसाविषयो यद्यपि दुरूहस्तथापि श्रेयोथिभिस्तादृशगहनं प्रविविक्षुभिर्युत्पित्सुमिरौदासीन्यमुज्झित्वा स्वमतिपरिणामावधि प्रय- तितव्यं गुरुकुल उषित्वेति तत्र सर्वान्प्रवणीकर्तुकामैरस्माभिर्यावच्छक्यं मीमांसाशास्त्रस्य पदपदार्थ-संकेतानां ज्ञानाय जिज्ञास्यविषयप्रदर्शकशिरो- लेख्यैः सुविभक्तविषया श्रीमत्कृष्णयज्वप्रणीता मीमांसापरिभाषा मुद्रणायोपस्कृतास्ति । यस्या अन्तरान्तरा प्रतिपुटाधः पाठान्तराणि संयोज्य विषमस्थलेषु च विशदीकरणार्या टिप्पण्यपि संयोजितास्ति । यद्यत्राध्यापका अध्येतारश्चादरं विरचयेयुः स्वल्पेनैव कालेनान्यानपि मीमांसाप्रकरण अन्यान्प्रकाशयितुं सोत्साहाः सन्तो दृढबद्धपरिकरा भवेम-इति ।

मीमांसापरिभाषाया विषयानुक्रमः : ... ... ... ... ... ... ... ... ... ... .. ... ... ३ ... ... ... ... ... ... ... विषयः पृष्ठं विषयः पृष्ठं मङ्गलम् १ कर्मद्वैविध्यम् ११ मीमांसाविषयः १ अर्थकर्मलक्षणम् ११ वेदद्वैविध्यम् १ गुणकर्मद्वैविध्यम् ११ ब्राह्मणवाक्यभेदाः २ | उपयुक्तसंस्कारकम् ११ कर्मोत्पत्तिवाक्यम् २ प्रतिपत्तेस्त्रयः प्रकाराः १२ गुणवाक्यम् २ यागहोमशब्दार्थः १२ फलवाक्यम् २ | होमयागयोर्योगपद्यम् १२ फलाय गुणवाक्यम् ... २ प्रधानपूर्वकाला प्रतिपत्तिः १३ सगुणकर्मोत्पत्तिवाक्यम् ३ उपयोक्ष्यमाणसंस्कारभेदाः ... १३ सफल कर्मोत्पत्तिवाक्यम् प्रतिपत्तेर्लक्षणान्तरम् १३ प्रयोगविधिः ३ अर्थगुणकर्मणोः प्राधान्यम् १४ फलापूर्वकल्पना... ३ गुणकर्मणश्चातुर्विध्यम् १४ उत्पत्त्यपूर्वकल्पना १ उत्पत्तिसंस्कारः १४ यजिपदाश्रवणेऽपि यागविधानम् २ आप्तिसंस्कारः १४ लिङ्प्रत्ययाद्यभावेऽपि विधायकत्वम् ५ ३ विकृतिसंस्कारः १४ त्रिकापूर्वाद्युत्पत्तिः ६ ४ संस्कृतिसंस्कारः १४ विधित्रैविध्यम् अर्थकर्मणस्वैविध्यम् १४ १ अपूर्वविधिः ६ १ नित्यम् १४ २ नियमविधिः २ नैमित्तिकम् १४ ३ परिसंख्याविधिः ३ काम्यम् १४ श्रुतिलिङ्गादिषट्प्रमाणानि काम्यकर्मणिस्त्रैविध्यम् १५ १ श्रुत्युदाहरणम् वेदस्यालौकिकार्थबोधकत्वम् १५ २ लिङ्गोदाहरणम् ३ वाक्योदाहरणम् विधेविधायकत्वप्रकारः १५ ४ प्रकरणोदाहरणम् आर्थी भावना ... १६ ५ स्थानोदाहरणम् शाब्दी भावना १६ ९ भावनाशब्दार्थः १८ ६ समाख्योदाहरणम् ९ श्रुत्यादीनां संनिपाते बलाबलम् ९ ज्योतिष्टोमादिशब्दानां नामत्व- लिङ्गादिप्राबल्य विचारः प्रतिपादनम् ... १८ अङ्गलक्षणम् १० नामधेयत्वनिमित्तानि १९ अद्वैविध्यम् १० तत्प्रख्यन्यायेन नामत्वम् १९ १ संनिपत्योपकारकाणि १० तद्यपदेशन्यायेन नामत्वम् १९ २ आरादुपकारकाणि नामत्वम् २० 2 ६ ... ... ... ... ... ... ... -- ७ ... ... ८ ... ८ ८ ... .. ... ... ... ... ... ... ... ... ११ । योगेन ६ ... ... २१ ... ३ संख्या ... ... ... २७ ... विषयः पृष्ठं विषयः पृष्ठं विरुद्धत्रिकविचारः २० धर्मस्य परस्परं भेदकानि प्रमाणानि २७ वाक्यभेदभयानामत्वम् १ शब्दान्तरम् अर्थवादविचारः २३ २ अभ्यासः १ निन्दार्थवादः २३ २७ २ प्रशंसा २३ ४ संज्ञा २७ ३ परकृतिः २३ ५गुणः ४ पुराकल्पः २३ मन्त्रविचारः ६ प्रकरणम् ... परिसंख्याया दोषत्रयम् प्रमेयविचारः २४ विकल्पः ... २५ ऋत्वर्थपुरुषार्थ विचारः विकल्प दोषाष्टकम् प्रयोजकत्वविचारः २५ एकार्थत्वाद्विकल्पः वचनबलाद्विकल्पः २५ १ श्रुतिक्रमः स्तोत्रशस्त्रादिस्वरूपम् २६ २ अर्थक्रमः ३० व्यवस्थित विकल्पः २६ ३ पाठक्रमः कृत्स्नवेदस्य धर्माधर्माख्यार्थे ४ स्थानक्रमः ३० प्रामाण्यम् । ५ मुख्यक्रमः स्मृत्यादिप्रामाण्यविचारः ६ प्रवृत्तिकमः ३१ : * * * ... .... २५ क्रमनिरूपणम् ... ... ::: ... . ३ ... ... ... मीमांसापरिभाषाया विषयानुक्रमः संपूर्णः ॥

श्रीः श्रीमत्कृष्णयज्वप्रणीता मीमांसा परिभाषा .. मङ्गलम् श्रीमते वेदपुरुषाय नमः सूर्यनारायणं वन्दे देवीं त्रिपुरसुन्दरीम् । गुरूनधिगतार्थाश्च निरन्तरमहं भजे ॥ १ ॥ बालानां शास्त्रसिद्धार्थलेशबोधाय धीमता । मीमांसापरिभाषेयं क्रियते कृष्णयज्वना ॥ २ ॥ मीमांसाविषयः इह खलु महर्षिणा जैमिनिना द्वादशलक्षण्यां पूर्वमीमांसायां धर्माधर्मावेवानुष्ठानोपयोगितया विचारितौ । तत्र वेदबोधितेष्टसाध- नताको धर्मः; यथा यागादिः । वेदबोधितानिष्टसाधनताकोऽ- धर्मः; यथा कलेजभक्षणादिः । तयोश्च वेदः, स्मृतिः, आचारश्च प्रमाणम् । तत्र वेदः स्वतन्त्रं प्रमाणम् ; इतरौ तु वेदमूलकतया । वेदद्वैविध्यम् तत्र वेदो द्विविधः-मत्ररूपो ब्राह्मणरूपश्चेति । तत्र प्रयोग- कालीनार्थस्मरणहेतुतया मैत्राणामुपयोग इति वक्ष्यते । प्रयोगो- ऽनुष्ठानं तत्कालीनेत्यर्थः । विधायकं वाक्यं ब्राह्मणम् । तच्छेषोऽर्थ- वादः। तस्य विधेयप्राशरत्यप्रतीतिजननद्वारा विधिवाक्यैकवाक्यतया प्रामाण्यमिति वक्ष्यते । टिप्प०-१ श्रीमद्भगवता जैमिनिना द्वादशाध्यायी कर्ममीमांसा 'अथातो धर्म- जिज्ञासा' इत्यादिः ‘अन्वाहार्ये च दर्शनात्' इत्यन्ता प्रणीता-तत्र धर्मप्रमाणं, धर्मभेदः, शेषशेषिभावः, ऋत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः, श्रुत्यर्थपाठादिक्रमभेदः, अधिकारविशेषः, सामान्यातिदेशः, विशेषातिदेशः, ऊहः, बाधः, तन्त्रम् , प्रसङ्गश्च इति क्रमेग द्वादश लक्षणानि सन्तीति पूर्वमीमांसा द्वादशलक्षणीत्युच्यते. २ 'विषलिप्तबाणहतमृगमांसं कलक्षमित्यभिधीयते. प्रामाणिकास्तु 'रक्तलशुनं' इति मन्वते. ३ प्रयोगसमवेतार्थस्मारका मन्त्राः. पाठा०-1 ब्राह्मणशेषश्चार्थवादः.

२ मीमांसापरिभाषा ब्राह्मणवाक्यभेदाः ब्राह्मणवाक्यं चानेकविधम्-कर्मोत्पत्तिवाक्यं, गुण- वाक्यं, फलवाक्यं, फलाय गुणवाक्यं, सगुणकर्मोत्पत्तिवाक्य- मित्यादिभेदात् । कर्मोत्पत्तिवाक्यम् तत्र येन वाक्येन 'इदं कर्म कर्तव्यम्' इति बोध्यते तत् कर्मोत्य- त्तिवाक्यम् ; यथा 'अग्निहोत्रं जुहोति' इति । अनामिहोत्रहोमः कर्तव्यतया विधीयत इति कर्मोत्पत्तिवाक्यमिदम् । गुणवाक्यम् विहिते कर्मणि तदङ्गतया द्रव्यदेवतादिविधायकं वाक्यं गुण- वाक्यम् ; यथा 'दध्ना जुहुयात्' इति । अत्र होममुद्दिश्याऽङ्गतया दधि विधीयत इति गुणवाक्यमिदम् । कङ्गितया विहितत्वमेव दध्यादेर्गुणत्वम् । अत्र होमस्योद्देश्यत्वं नाम मानान्तरप्राप्तत्वे सति विधेयान्वयितया निर्देश्यत्वम् । तस्यैव मानान्तरप्राप्तस्य पुनः कथ्य- मानरूपत्वमनुवाद्यत्वम् , दध्यादिगुणान्वयितया प्राधान्यं च । दध्यादेर्मानान्तराप्राप्तत्वादत्रैव विधेयत्वम् , होमसाधनत्वाच्च होमापे- क्षया गुणत्वम् , पुरुषेणानुष्ठीयमानत्वादुपादेयत्वं चेति । अत्र माना- न्तरप्राप्तत्वं मानान्तरज्ञातत्वम् , अप्राप्तत्वं चाज्ञातत्वमिति बोध्यम् । फलवाक्यम् उत्पन्नस्य कर्मणः फलाकाङ्क्षायां फलसंबन्धबोधको विधिः फल- विधिः; यथा 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इति । अत्र ‘यः स्वर्ग काम- यते स तत्साधनत्वेनाग्निहोत्रनामकं होमं भावयेत्-कुर्यात्' इति अग्नि- होत्रवाक्योत्पन्नस्य कर्मणः फलसंबन्धो बोध्यत इति फलवाक्यमिदम् । फलाय गुणवाक्यम् प्राप्त कर्माश्रित्य फलाय गुणबिधौ फलाय गुणवाक्यम्-यथा 'दध्नेन्द्रियकामस्य जुहुयात्' इति । अग्निहोत्रवाक्योत्पन्नं होममाश्रित्ये- न्द्रियफलाय दधिरूपो गुणो विधीयते-'होमाश्रितेन दध्ना इन्द्रियरूपं फलं भावयेत्' इति । होमाश्रितेन होमकारकीभूतेनेत्यर्थः । अयमेव गुणफलविधिः, गुणकामविधिरिति चोच्यते । पाठा०-1 विधिरपि.

मीमांसापरिभाषा ३ सगुणकर्मोत्पत्तिवाक्यम् द्रव्यदेवतादिगुणविशिष्टकर्मविधायकं वाक्यं सगुणकर्मोत्पत्ति- वाक्यम्; यथा 'सोमेन यजेत' इति । अत्र सोमलता विशिष्टो यागो विधीयते । विशिष्टविधावपि विशेषणस्यार्थाद्विधिः । सफलकर्मोत्पत्तिवाक्यम् क्वचित्कर्मोत्पत्तिवाक्यमेव फलसंबन्धबोधकमपि भवति; यथा 'उद्भिदा यजेत पशुकामः' इति । अत्रोद्भिन्नामको यागो वाक्यान्तराविहित एव पशुकामस्य पशुफलाय विधीयत इत्येकमेवेदं वाक्यं फलसाधनया- गविधायकम्। प्रयोगविधिः प्रधानविधिरेवाङ्गविधिभिरेकवाक्यतया महावाक्यतामापन्नः सन् सर्वाङ्गविशिष्टप्रधानप्रयोगविधायकत्वात् प्रयोगविधिरित्युच्यते; यथा 'अग्निहोत्रं जुहुयात् वर्गकाम' इति । अत्र 'अग्निहोत्रहोमेन वर्ग भावयेत्' इत्यर्थः प्रतीयते । भावयेत् उत्पादयेदिति यावत् । अत्र 'कथमनेन होमेन वर्ग कुर्यात्' इति कथंभावाकाङ्क्षा जायते; यथा 'कुठारेण द्वैधीभावं कुर्यात्' इत्युक्ते भवत्याकाङ्क्षा 'कथमनेन द्वैधीभावं कुर्यात्' इति । तत्रोद्यमननिपातनादिसहायेनेति गम्यते, तद्वदत्रापि 'अग्निं प्रणयति', 'अग्निषु समिध आदधाति' इत्याद्यङ्गविधिविहितप्रण- यनसमिदाधानायतनशोधनादिकाङ्गकलापजनितोपकारसहितेनाऽग्निहोत्र- होमेन स्वर्ग कुर्यादिति प्रकरणकल्पितेन होमवाक्येन स्वर्गाय साङ्गाग्नि- होत्रप्रयोगो विधीयत इत्येतादृशः प्रयोगविधिः । अङ्गजातमे- वेत्थंभाव इति, इतिकर्तव्यता इति चोच्यते । अत्राग्निहोत्रहोमः प्रधानं, प्रणयनादिकं सर्वमङ्गम् । फलापूर्वकल्पना नन्विदमनुपपन्नम् ; आशुतरविनाशिनां कर्मणां कालान्तरभाविखर्गा- दि फलसाधनत्वानुपपत्तेरिति चेत्, मैवम् ; विहितनिषिद्धकर्मणां तत्तद्वा- टिप्प०-१ अत्र हस्तेनोद्यम्य निपात्येति तयोरन्वयः. २ गार्हपत्यादाहवनी- याद्यायतनेऽग्निं नयति. ३ अङ्गसमूहः. ४ कर्तव्यस्य इति प्रकार इतिकर्तव्यता. पाठा०-1 यागकर्मविधा. 2 कुर्यादिति.

मीमांसापरिभाषा क्यैस्तत्तत्फलसाधनत्वेऽवगते आशुतरविनाशिनां कर्मणां कालान्तरभावि- फलसाधनत्वोपपत्त्यर्थमन्तरा पुण्यपापरूपमपूर्व करप्यते । ततश्च यागा- देरपूर्वद्वारा वर्गसाधनत्वं, न साक्षात् । तदेव फलापूर्वम् । तत्करणत्वं च प्राच्योदीच्याङ्गविशिष्टस्य प्रधानस्य भवति, न प्रधानमात्रस्य । प्रधान- मात्रादेव फलापूर्वजनने फलस्यापि तते एव सिद्धेरङ्गानामानर्थक्यापत्तेः । उत्पत्त्यपूर्वकल्पना ननु सर्वाङ्गविशिष्टस्य प्रधानस्यापूर्वजनकत्वमयुक्तम् , तच्चाशुतरविना- शिनः प्रधानस्याङ्गसाहित्याभावान्न संभवतीति चेत् ;-नप्रधानकर्मणः खरूपेणाङ्गसाहित्याभावेऽपि उत्पत्त्यपूर्वद्वारा साहित्यसंभवात् । प्रधानस्य सर्वाङ्गसाहित्यसिद्ध्यर्थं प्रधानकर्म-परमापूर्वयोर्मध्ये प्रधानमात्रजन्य- मुत्पत्तिनामकं किंचिदपूर्वमस्तीत्यङ्गीकारात् । एवमङ्गानामपि परस्पर- सहितानामेव प्रधानोपकारकत्वात्तेषां स्वरूपेण साहित्याभावात्तत्तदुत्पत्य- पूर्वद्वारा साहित्यं बोध्यम् । अङ्गानां प्रधानोपकारकत्वं नाम प्रधानस्य फलापूर्वजननसामोन्मुखीकरणमेव । दर्शपूर्णमासयोस्तु विशेषः 'यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति' इत्याग्नेययागो विहितः, 'ताभ्यामेतममीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्' इत्यग्नीषोमीययागो विहितः, 'उपांशुयाजमन्तरा यजति' इत्युपांशुयागः 'तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्' इति वाक्यात्पौर्णमास्यां विहितः । एतानि पौर्णमास्यां प्रधानानि । एषामानेयामीषोमीयोपांशुयोगानां तत्तद्वाक्यावगतपौर्णमासीकालसंबन्ध निमित्तीकृत्य 'य एवं विद्वान्पौर्णमासी यजते' इति विद्वद्वाक्ये पौर्ण- मासीपदेनैकवचनान्तेन समुदायरूपेणानुवादः । तेन वेदे यत्र यत्र पौर्णमासीशब्दस्तत्रतत्रानेयादिसमुदायोपस्थितिः । यजिपदाश्रवणेऽपि यागविधानम् ननु 'यदानेयम्' इति वाक्ये यागवाचकपदस्याश्रवणात्कथं याग- विधायकत्वमिति चेत्,-मैवम् ; अग्निदेवता अस्य पुरोडाशस्येत्यर्थे टिप्प०-१ तत् फलापूर्वम्. २ प्रधानमात्रादेव. ३ वैशिष्ट्यं न संभवतीत्यर्थः. पाठा०-1 याजानां.

मीमांसापरिभाषा - विहितदेवतातद्धितान्त आग्नेय' शब्दः । तस्य पुरोडाशपदसामानाधिकर- ण्याद्रव्यदेवतासंबन्धोऽवगतः । स यागमन्तरा न संभवति, द्रव्यदेवतासंब- न्धस्य यागादन्यत्र क्रियायामसंभवात् यागक्रियायामेव संबन्धो वाच्यः । देवतोद्देशेन द्रव्यत्यागस्य यागरूपत्वाङ्गीकारात् । अतः श्रुतद्रव्य. देवतासंबन्धानुमितो यागो यजेतेति कल्पितपदेन विधीयते--अग्नि- दैवत्यपुरोडाशद्रव्यकामावास्यादिकालकर्तव्ययागेनेष्टं भावयेदिति, एवं यत्र यत्र द्रव्यदेवतासंबन्धमात्रं श्रूयते 'सौर्य चळं निर्वपेत्' इत्यादौ, तत्र सूर्यदेवताचरुद्रव्यसंबन्धानुमितो यागो विधीयत इति न कश्चिद्दोषः । लिङ्प्रत्ययाद्यभावेऽपि विधायकत्वम् ननूपांशुयागवाक्ये यजेः श्रवणेऽपि विधिप्रत्ययलिङादेरभावात्कथं विधायकत्वमिति चेत्,-मैवम् ; 'यजति' इत्यस्य 'यजेत'इति विपरिणा- मेन विधायकत्वसंभवात् । एवं 'ब्रीहीन् प्रोक्षति', 'समिधो यजति' इत्या- दावपि विपरिणामो बोध्यः । केचित्तु 'यजति' इत्यस्य पञ्चमलकार- त्वाङ्गीकाराद्विधायकत्वसंभव इत्याहुः । तथा 'ऐन्द्रं दध्यमावास्यायां' ऐन्द्रं पयोऽमावास्यायाम्' इति वाक्य- विहितौ, सानाय्ययागौ 'यदाग्नेयम्-' इति वाक्यविहिताग्नेयश्चामावा- स्थायां प्रधानानि । एतेषां त्रयाणां 'य एवं विद्वानमावास्यां यजते' इति वाक्ये अमा- वास्यामिति नाम्ना द्वितीयैकवचनान्तेन समुदायरूपेणानुवादः । तेन वेदे यत्र 'दर्श' शब्दः 'अमावास्या'शब्दो वा श्रुतस्तत्र यागसमुदायोपस्थितिः। त्रिकस्य त्रिकस्यामावास्यापौर्णमासीशब्दाभ्यां समुदायरूपेण विद्व- द्वाक्येऽनुवादस्य प्रयोजनं तु 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यादौ द्विवचनोपपत्तिः; अन्यथा षण्णामामेयादियागानां बहुत्वात् 'दर्शपूर्णमासैः' इति बहुवचनं स्यात् । मानान्तरेण प्राप्तार्थस्य पुनःश्रवण- मनुवादः। टिप्प०-१ सानाय्यं दधिपयसी। एतौ च सोमयाजिन एव । असोमयाजिनस्तु ऐन्द्रामोपांशुयाजौ। पाठा०-1 यागत्वरूपत्वा. 2 एवं यत्र लिङादिर्न श्रूयते 'बीहीन्'. 3 इत्यादौ तन्त्र विपरि. 4 प्राप्तस्वार्थस्य.

मीमांसापरिभाषा तथा फलवदाग्नेयादिसंनिधावानातानि प्रयाजाज्यभागानुयाजादीनि षण्णां यागानामङ्गभूतानि । त्रिकापूर्वाद्युत्पत्तिः एवं स्थिते 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यस्यायमर्थः- दर्शपूर्णमासाभ्यां समुदायाभ्यां परस्परसहिताभ्यां स्वर्गापूर्व कुर्यादिति । तत्र कथं कालद्वयवर्तिनोः समुदाययोः परस्परसाहित्यमित्याकाङ्क्षायां स्वरू- पेण साहित्याभावेऽपि त्रिकात्रिकादेकैकमपूर्व जायते, तद्वारा द्वयोः समुदाययोः साहित्यमुच्यते । एकैकस्य त्रिकस्यापि त्रिकापूर्वजन- कत्वं कथमित्याकाङ्क्षायां प्रयाजानुयाजादिपूर्वोत्तराङ्गकलापविशिष्टस्यैकैक- स्य त्रिकस्य समुदायापूर्वजनकत्वमुच्यते । एकैकत्रिकस्य सर्वाङ्गसा- हित्यं खरूपेण न संभवतीति त्रिभिर्यागैत्रीण्युत्पत्त्यपूर्वाणि जायन्ते, तद्वारा सर्वाङ्गसाहित्यम् । अङ्गानामपि प्रयाजादीनां स्वरूपेण प्रधानसाहि- त्याभावात्तत्तदुत्पत्त्यपूर्वद्वारा साहित्यं वाच्यम् । तथा च प्रधानजन्योत्प- त्यपूर्वाणां प्रयाजादिजन्योत्पत्त्यपूर्वैः साहित्यं यदस्ति तदेव प्रधानाना- मङ्गविशिष्टत्वरूपं साङ्गत्वम् । एवं च पौर्णमास्यामानेयादिजन्यैस्त्रिभि- रपूर्वैः प्रयाजादिजन्योत्पत्त्यपूर्वसचिवैः समुदायापूर्वमेकं जन्यते, तथा दर्शेऽपि आग्नेयैन्द्रद्वयजन्यस्त्रिभिरपूर्वैरङ्गोत्पत्त्यपूर्वसचिवैरेकं त्रिकापूर्व जन्यते, ताभ्यां त्रिकापूर्वाभ्यां आग्नेयाद्युत्पत्त्यपूर्वत्रितयजन्याभ्यां फल- जनकीभूतं महापूर्व फलापूर्वनामकं जन्यते, ततश्च फलमिति । तथा च सर्वाङ्गोपकृताभ्यां दर्शपूर्णमासाभ्यामपूर्वद्वारा वर्ग कुर्यादिति फलापूर्व- निष्पत्तये साङ्गप्रधानकर्तव्यताबोधको विधिः प्रयोगविधिरिति सिद्धम् । विधिविध्यम् पुनरपि विधिस्त्रिंविधः-अपूर्वविधिः, नियमविधिः, परि- संख्याविधिश्चेति । अपूर्वविधिः तत्र यो विधिरत्यन्ताप्राप्तमर्थ प्रापयति सः अपूर्वविधिः-यथा दर्शपूर्णमासप्रकरणे 'त्रीहीन्प्रोक्षति' इति । एतद्विध्यभावे दर्शपूर्णमासीय- टिप्प०-१ विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ती परिसंख्यति गीयते.

मीमांसापरिभाषा ब्रीहिषु प्रोक्षणं कथमपि न प्राप्नोति । एतद्विधिसत्त्वे तु तत्संबन्धि- व्रीहिषु प्रोक्षणं प्राप्नोत्येवेत्यत्यन्ताप्राप्तप्रोक्षणप्रापकत्वादयमपूर्वविधिः। नियमविधिः यश्च पक्षे प्राप्तमर्थ नियमयति स नियमविधिः-यथा तत्रैव 'व्री- हीनवहन्ति' इति । एतद्विध्यभावे दर्शपौर्णमासिकेषु व्रीहिषूत्पत्तिवाक्या- वगतपुरोडाशोपयोगितण्डुलनिष्पत्त्यनुकूलवैतुष्यकार्यायाऽवहननवत् क- दाचिन्नखविदलनमपि प्राप्नुयादिति, तस्मिन्पक्षेऽवहननस्य प्राप्तेरभावात् कार्यान्यथोपपत्तेरवहननस्य पाक्षिकी प्राप्तिः स्यात् । सति त्वस्मिन्विधौ अव- हननेनैव वैतुष्यं कार्यमिति नियमे सति विदलनं सर्वात्मना निवर्तत इति नियमविधिरयम् । नच वैतुष्यस्य नखविदलनेनापि संभवादवहनननियमो व्यर्थः, प्रयो- जनाभावादिति वाच्यम् । अवघातेनैव वैतुप्यकरणे किंचिददृष्टं जन्यत इति नियमादृष्टाङ्गीकारात्, नियमेन दृष्टकार्यालाभेऽप्यदृष्टस्योत्पत्तेः । तच्चापूर्वं यागोत्पत्त्यपूर्वद्वारा फलापूर्वे उपयुज्यते; तेन नियमापूर्वाभावे फलापूर्वमेव नोत्पद्यत इति कल्पनान्नियमापूर्वस्य न वैयर्थ्यम् । एवं सोमैक्रयादिनियमेऽपि बोध्यम् । परिसंख्याविधिः द्वयोः समुच्चित्य प्राप्तावितरनिवृत्तिफलको विधिः परिसंख्या- विधिः-यथा चयनप्रकरणे 'इमामगृभ्णव्रशनामृतस्येत्यश्वाभिधानीमा- दत्ते' इत्यश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः । एतद्विध्यभावे हि रशनाग्र- हणप्रकाशको मन्त्रो रशनाऽऽदानप्रकाशनसामर्थ्यरूपाल्लिङ्गादश्वरशनाss- दान इव गर्दभरशनाऽऽदानेऽपि प्रामुयात् । सत्यस्मिन्विधौ अनेन मन्त्रे- णाश्वरशनामेवाददीत, नतु गर्दभरशनाम् ; सा तु तूष्णीमेव ग्राह्येति गर्दभरशनायां मन्त्रनिवृत्तिर्भवतीति द्वयोः समुच्चित्य प्राप्तावितरनिवृत्ति- फलकत्वादयं परिसंख्याविधिः। एवं 'पञ्च पञ्चनखा भक्ष्याः' इत्या- दावपि बोध्यम् । टिप्प०-१ नानासाधनसाध्यक्रियायामेकसाधनप्राप्तावप्राप्तस्यापरसाधनस्य प्रा- पको विधिनियमविधिः. २ सोमं क्रीणातीत्यादिषु. ३ ऋतस्य सत्यफलसाधनभूतस्य यज्ञस्य अगृभ्णन गृहीतवन्तः। 'हृग्रहोर्भश्छन्दसि' (वा०४८२३) इति हस्य भः । अत्र अश्वाभिधानीमिति द्वितीयाश्रुत्य मन्त्रस्याश्वाभिधान्यङ्गत्वम्.

मीमांसापरिभाषा श्रुतिलिङ्गादिषट्रप्रमाणानि पूर्व दर्शपूर्णमासाङ्गत्वं प्रयाजादीनामुक्तम् । तत्राङ्गत्वबोधक- प्रमाणानि-श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्या-भेदेन षट् । श्रुत्युदाहरणम् तत्र 'दध्ना जुहुयात्'इत्यत्राऽग्निहोत्रवाक्यप्राप्त होमं जुहुयादित्यनेनो- द्दिश्य तत्करणत्वेन तृतीयाश्रुत्या दधि विधीयत इति श्रुत्या दन्नोऽङ्गत्वम् । लिङ्गोदाहरणम् लिङ्गं नाम सामर्थ्यम् । तच्च द्विविधम्-अर्थगतं शब्दगतं चेति। -आद्यं यथा 'सुवेणावद्यति'इत्यवदानसामान्यशेषत्वावगमेऽपिनु वस्य सामर्थ्यरूपालिङ्गादाज्यसांनाय्यादिद्रवद्रव्यस्यावदानविशेषाङ्गत्वम् सुवेण पुरोडाशाद्यवदानस्य कर्तुमशक्यत्वात् । शब्दगतं तु लिङ्गं अर्थप्रकाश- नसामर्थ्यम् । यथा 'अग्नये त्वा जुष्टं निर्वपामि'इति मन्त्रस्य निर्वापप्रका- शनसामर्थ्यरूपाल्लिङ्गान्निर्वापाङ्गत्वम् । यस्य मन्त्रस्य यत्प्रकाशनसामर्थ्य तस्य तदङ्गत्वम्। यथा 'बर्हिदेवसदनं दामि'इति मन्त्रस्य बहिर्लवनप्रकाशन- सामर्थ्यमिति शब्दसामर्थ्यरूपाल्लिङ्गाद्दर्भलवनाङ्गत्वम् ॥ वाक्योदाहरणम् पदान्तरसमभिव्याहारो वाक्यम्-यथा 'ईषे त्वेति छिनत्ति' इति । अत्र छेदनाङ्गत्वेन 'इषे त्वा' इति मन्त्रो वाक्येन विधीयते । यद्वा 'अग्नये त्वा जुष्टम्' इत्यत्रैव अग्नये त्वा जुष्टमित्यादीनां पदानां 'निर्वामि' इत्यने- नैकवाक्यतापन्नत्वान्निर्वापाङ्गत्वम् । प्रकरणोदाहरणम् प्रकरणं नाम परस्पराकासा-यथा 'दर्शपूर्णमासाभ्यां वर्गकामो यजेत'इति । अत्र 'दर्शपूर्णमासाभ्यां खर्गापूर्व कुर्यात्' इत्युक्ते भवत्या- काङ्क्षा-कथमाभ्यां स्वर्गापूर्व कर्तव्यमिति । तथा फलवदाग्नेयादिसं- टिप्प०-१ श्रुतिर्नाम निरपेक्षोऽङ्गत्वबोधकः शब्दो विभक्त्यादिरूपः. २ सामथ्य सर्वभावानां लिङ्गमित्यभिधीयते इति. ३ यो मुख्योऽर्थ इत्यर्थः । तेन गौणार्थव्य- वच्छेदः ४ हे देव, बहीरूपं तव सदनं दामि लुनामि 'दापू लवने'. ५न तूलप- लवनाङ्गत्वमिति शेषः. ६ समभिव्याहारो नाम सहोच्चारणम्. तच्च साध्यत्वादिवा- चकद्वितीयाद्यभावे शेषवाचकपदस्य शेषिवाचकेन. ७ हे पलाशशाखे, त्वा त्वां इषे अनाय छिननीति मन्त्रार्थः. ८ पृथकृत्य स्थापयामीत्यर्थः.

मीमांसापरिभाषा ९ निधौ ‘समिधो यजति', 'तनूनपातं यजति', 'आज्यभागौ यजति'इत्या- दिभिः प्रयाजादयः फलरहिताः श्रुताः, तेषां खवाक्येषु फलाश्रवणाद्भवति प्रयोजनाकाङ्क्षा-किमेतेषां प्रयोजनमिति । ततश्च प्रयाजादीनां प्रयो. जनाकाङ्क्षायां दर्शपूर्णमासयोः कथंभावाकाङ्क्षायां परस्पराकाङ्क्षालक्षणेन प्रकरणेन प्रयाजादीनां सर्वेषां दर्शपौर्णमासाङ्गत्वं निश्चीयते । स्थानोदाहरणम् स्थान नाम संनिधिः; यथा सानाय्यपात्रसंनिधौ ‘शुन्धर्वम्' इति मन्त्रस्य पाठात् संनिधानात्सांनाय्यपात्रप्रोक्षणाङ्गत्वम् । समाख्योदाहरणम् समाख्या यौगिकी संज्ञा; यथा अध्वर्युकाण्डप्रतिपादिते कर्मजाते आध्वर्यवसमाख्यावशादध्वर्योः कर्तृत्वेनाङ्गत्वम् , तथा 'ऐन्द्राग्नमेकादश- कपालं निर्वपेत्प्रजाकामः' इत्यादिषु काम्येष्टिसमाख्यातेष्वैन्द्रामादियागेषु काम्येष्टियाज्यानुवाक्याकाण्डसमाख्यावशात् 'उभा वामिन्द्रामी' इत्या- दीनां याज्यानुवाक्यत्वेन विनियोगः । विनियोगो नामाङ्गत्वेनान्वयः । श्रुत्यादीनां संनिपाते बलाबलम् । श्रुत्यादीनामेकत्र समावेशे पूर्वपूर्वस्य प्राबल्यमुत्तरोत्तरस्य दौर्बल्यम् । यथा 'कदाचन स्तरीरसीत्यैन्न्या गार्हपत्यमुपतिष्ठते' इत्यमिहोत्रप्रकरणे श्रूयते । तत्र मन्त्रस्येन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गादिन्द्रोपस्थानाङ्गत्वे प्राप्त ऐन्या' इति तृतीयाश्रुत्या 'गार्हपत्यम्' इति द्वितीयाश्रुत्या च गाह- पत्योपस्थानाङ्गत्वेन विधानाल्लैङ्गिक इन्द्रोपस्थाने, विनियोनो बाध्यते । श्रुतिर्हि स्वतो विनियोजिका । लिङ्गं विन्द्रप्रकाशनसामर्थ्य- मालोच्य ऐन्येन्द्रमुपतिष्ठते' इति श्रुतिकल्पनाद्वारा विनियोजकमिति वाच्यम् ; तच्चात्र न संभवति । यत्र श्रुतिविनियोगो नास्ति 'अग्नये जुष्टं निर्वपामि' इत्यादौ, तत्र मन्त्रस्य निर्वापप्रकाशनसामर्थ्यमा- " टिप्प०-१ सांनाय्यं दधिपयसी. २ 'शुन्धवं दैव्याय कर्मणे देवयज्याय' इति मन्त्रखरूपम्. ३ श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानाम्. ४ अत्र 'घृतस्य धारया सुशेवं कल्पयामि तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः' इति मत्रशेषः.

मीमांसापरिभाषा लोच्य 'अनेन मन्त्रेण निर्वापं कुर्यात्' इति श्रुतिकल्पनाद्वारा लिङ्गं विनि- योजकं भवत्येव श्रुतिकल्पनाप्रतिबन्धकाभावात् । लिङ्गादिप्राबल्यविचारः तथा 'स्योनं ते सदनं कृणोमि' 'तस्मिन्सीद'इत्यत्र तस्मिन्निति तच्छ- ब्दस्य पूर्ववाक्यार्थसापेक्षतया एकवाक्यत्वभानाद्वाक्यप्रमाणेन द्वयोरेक- मन्त्रत्वं भाति, लिङ्गेन तु भिन्नमन्त्रत्वं भाति । आद्यस्य सदनप्रकाशन- सामर्थ्यात् 'तस्मिन्सीद' इत्यस्य सादनप्रकाशकत्वात् । तत्र वाक्यापेक्षया लिङ्गस्य प्राबल्याद्वाक्यं बाधित्वा लिङ्गेन 'स्योनं ते' इत्यस्य सदनाङ्गत्वं 'तस्मिन्सीद' इत्यस्य सादनाङ्गत्वमिति निर्णयः । 'स्योनं ते' इत्यस्य 'तस्मिन्सीद' इत्यनेनैकवाक्यत्वबलाद्यथाकथंचित्सादनसामर्थ्यरूपं लिङ्गं कल्पयित्वा ‘अनेन विशिष्टमन्त्रेण सादनं कुर्यात् इति श्रुतिः कल्पनीया। सदनप्रकाशनरूपप्रत्यक्षलिङ्गेन कल्पितया 'स्योनं त इत्यनेन सदनं कुर्यात्' इति श्रुत्या 'स्योनं ते' इत्यस्य शीघ्रं सदने विनियोगे सति तेनैव मन्त्रस्य नैराकाङ्ख्याद्वाक्यप्रमाणाल्लिङ्गं कल्पयित्वा श्रुतिकल्पना प्रतिबध्यते विलम्बितत्वादिति लिङ्गेन वाक्यस्य बाधः । एवं वाक्येन प्रकरणस्य, प्रकरणात्क्रमस्य, क्रमात्समाख्यायाश्च बाधो वेदितव्यः । तथा श्रुत्या वाक्यादेरपि बाधः । तदेवमङ्गताबोधकप्रमाणानि श्रुत्यादीनि निरूपितानि । अङ्गालक्षणम् तच्चाङ्गत्वं शेषत्वम् । पारार्थ्यमिति यावत् । परोद्देशेन प्रवृत्त- कृतिव्याप्यत्वं पारार्थ्यम् । प्रयाजादीनां दर्शपूर्णमासोद्देशेन प्रवृत्तपुरुष- कृतिव्याप्यत्वाल्लक्षणसङ्गतिः। दर्शादेः प्रयाजाद्युद्देशेन प्रवृत्तकृति विषयत्वा- भावान्नातिव्याप्तिः । केवलप्रयाजानुद्दिश्य कस्यचिदपि पुरुषस्याप्रवृत्तेः । अङ्गद्वैविध्यम् तान्यङ्गानि द्विविधानि-संनिपत्योपकारकाणि, आरादुप- कारकाणि चेति । यान्यङ्गानि साक्षात्परम्परया वा प्रधानयागशरीरं निष्पाद्य तद्वारा तदुत्पत्त्यपूर्वोपयोगीनि तानि संनिपत्योपकारकाणि; यथा ब्रीह्या- पाठा०-1 अङ्गत्वं पारायं. ।

मीमांसापरिभाषा ११ दिद्रव्याणि तत्संयुक्तावहननप्रोक्षणादीनि, अम्यादिदेवतात्तत्संयुक्तया- ज्यानुवाक्यावचनादीनि च । अत्र प्रोक्षणादेवींहिगतातिशयद्वारा, अवह- ननादेस्तुषविमोकादिरूपदृष्टद्वारा, ब्रीह्यादीनां पिष्टद्वारा पुरोडाशनिष्पा- दकत्वं, तद्वारा यागशरीरतदुत्पत्त्यपूर्वहेतुत्वं च । याज्यानुवाक्यादेर्देवता- संस्कारद्वारा देवतायाश्च साक्षाद्यागशरीरनिर्वर्तकत्वं, तद्वारा तदुत्प- त्यपूर्वोपयोगित्वं च । यागस्य देवतोद्देशेन द्रव्यल्यागरूपत्वात् 'द्रव्य- देवते हि यागस्वरूपम्'इति सिद्धान्ताच्च । एतान्येव सामवायिका- नीत्युच्यन्ते । आत्मसमवेतापूर्वजनकान्यारादुपकारकाणि-यथा प्रयाजाज्यभा- मानूयाजादीनि । एतानि द्रव्यगतं देवतागतं वा संस्कारं न जनयन्ति, कित्वात्मगतमदृष्टं जनयन्तीत्यारादुपकारकाणि । कर्मवैविध्यम् तत्र सामान्यतः कर्म द्विविधम्-अर्थकर्म, गुणकर्म चेति । अर्थकर्मलक्षणम् तत्र आत्मगतापूर्वजनकं कर्माऽर्थकर्म-यथाऽमिहोत्रदर्शपूर्णमास- प्रयाजादिकम् । गुणकर्मद्वैविध्यम् गुणकर्म संस्कारजनकम् । तच्च द्विविधम्-उपयुक्तसंस्कारकं, उपयोक्ष्यमाणसंस्कारकं च । उपयुक्तसंस्कारकम् तत्र उपयुक्तसंस्कारकं प्रतिपत्तिकर्म । 'उपयुक्तस्य आकीर्णकरस्य द्रव्यस्य विहितदेशे प्रक्षेपः प्रतिपत्ति'रिति लक्षणात् । यथा इडाभक्षण- कृष्णविषाणाप्रासन-चतुरवत्तहोमादिकम् । नन्विडाभक्षणस्य प्रधानयागोपयुक्ताकीर्णकरपुरोडाशद्रव्यप्रक्षेपात्म- कत्वात्प्रतिपत्तित्वं युक्तम् , होमस्य तु यागोपयुक्तद्रव्यसंस्कारकत्वाभावा- टिप्प०-१ सामान्यतो नाम अङ्गप्रधानरूपम्. नतु केवलमङ्गरूपम्. २ द्रव्य- स्याकीर्णकरत्वं नाम तस्य प्रयोजननिर्वर्तनोत्तरं किंचिदकुर्वतोऽन्तरावस्थानेन कार्य- कारिणां संचारादावन्तरायकरत्वम्.

१२ मीमांसापरिभाषा कथं प्रतिपत्तित्वम् , होमस्य यागसमानकालीनत्वेन होमसंस्कार्यस्य चतुरवत्तादेरुपयुक्तत्वाभावादिति चेत् । अत्राहुः-उपयुक्तसंस्कार- मा प्रतिपत्तिः, नतु प्रधानयागोपयुक्तत्वम् । तथा सति पशोर्विशसना- नन्तरं वपाहृदयाद्युद्धरणकालकर्तव्यलोहितशकृन्निरसनस्य प्रतिपत्तित्वा- भावप्रसङ्गात् , यागोपयुक्तद्रव्यप्रक्षेपरूपत्वाभावात् । तथा कृष्णविषाणा- प्रासनस्यापि प्रतिपत्तित्वं न स्यात् , यागाङ्गभूतकण्डूयनोपयुक्तत्वेऽपि यागोपयुक्तत्वाभावात् । अतो यत्र वचनोपयोगमात्रं विवक्षितम् , यत्र क्वचिदुपयोगस्त्वत्राप्यस्ति, वपाहृदयायुद्धरणेनोपयुक्तस्य पशोः संबन्धिनः शकृल्लोहितस्याऽऽकीर्णकरस्य प्रतिपत्त्यपेक्षत्वात् । एवं यथाकथंचिदुप- योगो होमस्थलेऽप्यस्ति । तथा हि, प्रतिपत्तिस्त्रिधा-प्रधानोत्तरकाला, प्रधानसम- काला, प्रधानपूर्वकाला चेति । तत्राद्या इडाभक्षणादिका । द्वितीया होमादिका । तथा हि-दर्शपूर्णमासप्रकरणे श्रूयते 'सकृ- दुपस्तृणाति' दिर्हविषोऽवद्यति, 'सकृदभिधारयति', 'चतुरवत्तं जुहोति' इति । तत्र चतुरवत्तवाक्ये होमानुवादेन चतुरवत्तद्रव्यं तत्साधनत्वेन न विधीयते, होमस्याप्राप्तत्वेनानुवादासंभवात् । नच 'यदाग्नेन' वाक्याद्धोमप्राप्तिः; तद्वाक्यस्य यागविधायकत्वात् । नच यागहोमयोरभेद इति वाच्यम् ; देवतोद्देशेन द्रव्यत्यागस्य याग- शब्दार्थत्वात् । प्रक्षेपस्य होमशब्दार्थत्वात् । तत्राग्नेयचोदनया यागस्य प्राप्तत्वेऽपि प्रक्षेपस्य शक्त्याऽप्राप्तत्वेनानुवादासंभवात् , किंतूपस्तरण-द्विर- वदाना-ऽभिधारणवाक्यैः प्राप्तं चतुरवत्तमुद्दिश्य तत्संस्कारत्नेन प्रक्षेपो जुहोतीत्यनेन विधीयते । स च संस्कारः प्रतिपत्तिरूप एव । अग्नये जुष्ट- मभिधारयामि'इत्यादिनिर्देशैर्यागाङ्गभूताम्यादिदेवतार्थतया यथाकथंचि- दुपयुक्तस्य पुरोडाशस्य प्रतिपत्त्यपेक्षया तदवयवयवदानकर्मकप्रक्षेपस्य प्रतिपत्तिकर्मत्वौचित्यात् । स च संस्कारः प्रधानसमकालः। होमो हि वषट्कृते जुहोति'इति विधानाद्वषटारोत्तरक्षणे अध्वर्युणा कर्तव्यः । यागोपि तस्मिन्नेव क्षणे मीमांसापरिभाषा १३ यागस्मरणार्थेन वषकारेण स्मारितः सन् यजमानेनानुष्ठेय इति तयोर्यो- गपद्यसंभवात् । तदिदं सर्वप्रदानाधिकरणवार्तिके स्थितम् । प्रधानपूर्वकाला प्रतिपत्तिर्यथा-'शकृत्संप्रविध्यति' 'लोहितं निरस्यति' इति शकृत्संप्रवेधनलोहितनिरसने । इदमपि 'पशावनालम्भाल्लो- हितशकृतोरकर्मत्वम्' इत्यधिकरणे स्थितम् । उपयोक्ष्यमाणसंस्कारभेदाः उपयोक्ष्यमाणसंस्कारोऽप्यनेकविधः-साक्षाद्विनियुक्त- संस्कारः । साक्षाद्विनियुक्तस्य यदुपकारकं तत्संस्कारः, विनियोक्ष्यमाणसंस्कारश्चेति । तत्र आयो यथा--'नीहीन- वहन्ति' इत्यादिः। 'व्रीहिभिर्यजेत' इति वाक्यविनियुक्तव्रीहीणामवहनन- संस्कारः ॥ द्वितीयो यथा-'वत्समालभेत' इति । दोहाङ्गत्वेन साक्षा- द्विनियुक्तस्य गोद्रव्यस्योपकारको यो वत्सः तत्संस्कारकमिदमालम्भ- नम् ॥ तृतीयो यथा-'तप्ते पयसि दध्यानयति' इति । अत्र 'सा वैश्वदेव्यामिक्षा' इति वाक्येन तच्छब्देन निर्दिश्य वैश्वदेवयागाङ्ग- त्वेन विनियोक्ष्यमाणं यत्पयस्तत्संस्कारकत्वाद्विनियोक्ष्यमाणसंस्कारकं दध्यानयनम् । पशुपुरोडाशयागस्तूपयुक्तोपयोक्ष्यमाणदेवतासंस्कारार्थः, त्यागांशे अदृष्टार्थश्च । अत्र तत्संस्कार्याग्नीषोमदेवताया वपायागे उपयु- क्तार्थत्वात् हृदयाघझ्यागेषु उपयोक्ष्यमाणत्वाच्च । खिष्टकृद्यागो द्रव्यांशे देवतांशे चोपयुक्तसंस्कारार्थः, त्यागांशे अदृष्टार्थश्च । सूक्तवाकसाधनं प्रहरणमपि तथैव । उत्तमप्रयाजो यक्ष्यमाणदेवतासंस्कारत्वात्तदंशे उप- योक्ष्यमाणसंस्कारः, इतरांशे अदृष्टार्थः । हृदयादिह विर्यागात्पूर्वं क्रिय- मागो वसाहोमोऽपि वसांशे प्रतिपत्तिः, इतरांशे अदृष्टार्थ इत्याद्यम् । प्रतिपत्तेलक्षणान्तरम् केचित्तु-उपयोक्ष्यमाणसंस्कारभिन्नसंस्कारकर्मत्वं प्रतिपत्तिकर्म- त्वम् । चतुरवत्तद्रव्यस्य होमेन भस्मीभूतस्य होमानन्तरमुपयोक्ष्यमाणत्वा- भावात् तद्भिन्नत्वं होमेऽस्तीति लक्षणसंगतिरित्याहुः । टिप्प०-१ पूर्वमीमांसातृतीयाध्याय चतुर्थपादस्य चतुर्दशेऽधिकरणस्य सप्तत्रि- शसूत्रस्य. २ पूर्वमीमांसाचतुर्थाध्यायप्रथमपादे द्वादशाधिकरणे सप्तविंशे सूत्रे. ३ आलभेतेत्यत्र आलम्भनं स्पर्श इत्यर्थः, २ मीमांसापरिभाषा अर्थगुणकर्मणोः प्राधान्यम् अनायं विशेषः-अर्थकर्मणि द्रव्यापेक्षया कर्मणः प्राधान्यम् । कर्मणि द्रव्यस्य गुणत्वम् । यथाऽमिहोत्रादौ दध्यादेर्गुणत्वम् । गुण- कर्मणि द्रव्यस्य प्राधान्यं, द्रव्ये च कर्मणो गुणत्वम् । 'नीहीन् प्रोक्षति, अवहन्ति' इत्यादौ द्वितीयया ब्रीहीणां क्रियासाध्यत्वप्रतीतेः क्रियापेक्षया द्रव्यस्य प्राधान्यं प्रोक्षणादिक्रियायास्तदपेक्षया गुणत्वमिति । गुणकर्मणश्चातुर्विध्यम् पुनरपि गुणकर्म चतुर्विधम्-उत्पत्ति-आप्ति-विकृति-सं- स्कृतिभेदात् । तत्रोत्पत्तिसंस्कारो यथा-'अग्नीनादधीत' इति । मन्त्रविशेषैः संभारेषु निधापिता अप्याहवनीयादय उत्पद्यन्त इत्यावनीयाद्युत्प- त्तिहेतुभूतसंस्कारत्वादाधानस्य उत्पत्तिसंस्कारत्वम् ।। आप्तिसंस्कारो यथा-'स्वाध्यायोऽध्येतव्यः' इति । अध्ययनेन खाध्याय आप्यत इत्याप्तिसंस्कारोऽयम् ॥ विकृतियथा-'वीहीनवहन्ति' इति व्रीहिगतवैतुष्यरूपविकृति- जनकत्वादवहननं विकृतिसंस्कारकम् ।। संस्कृतियथा-'ब्रीहीन् प्रोक्षति' इति । [ अत्र प्रोक्षणस्य त्रीहि- गतातिशयरूपसंस्कृतिजनकत्वात्संस्कृतिरूपगुणकर्मत्वम् ।] अत्राधान- मध्ययनं च स्वतन्त्रं गुणकर्म, नतु क्रत्वङ्गम् । प्रोक्षणादिकं सर्व क्रत्वङ्गं गुणकर्मेति ध्येयम् । अर्थकर्मणस्पैविध्यम् अर्थकर्म त्रिविधम्-नित्य-नैमित्तिक-काम्यभेदात् । तत्र 'यावज्जीवमग्निहोत्रं जुहोति', 'सायं जुहोति', 'प्रातर्जुहोति' इति जीवता पुरुषेण सायंप्रातःकालयोनियमेन कर्तव्यतयाऽवगतम. ग्निहोत्रादिकं नित्यम् । 'अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत्' इति दर्शपूर्ण- मासातिपत्तिनिमित्तकपथिकदिष्ट्यादिकं नैमित्तिकम् । नित्यनैमित्तिकयोरकरणे प्रत्यवाय एव । कृते फलं नास्तीति केचित् ।

. मीमांसापरिभाषा अन्ये तु-दुरितनिवृत्तिः फलमस्ति; 'नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्' इत्यादिवाक्यैः प्रत्यवायनिवृत्तेः फलत्वेन श्रूयमाणत्वात् । नचैवं तयोरपि काम्यत्वापत्तिः फलवत्त्वादिति वाच्यम् ; फलकाम- नापूर्वकानुष्ठानाभावात् । तत्तद्विधिवाक्ये फलकाममुद्दिश्य तदर्थफलसा- धनत्वेन विधानाभावाच्च काम्यत्वानुपपत्तेः । काम्यकर्मणस्वैविध्यम् काम्यमपि कर्म त्रिविधम्- केवलमैहिकफलकम् , आमुष्मि- कफलकम् , ऐहिकामुष्मिकफलकं चेति । तत्राद्यं यथा-कारी- यादि । तत् तत्समयवर्तिशुष्यत्सस्यसंजीवनहेतुष्टिकामिना क्रियते, न कालान्तरभाविवृष्टिकामेन जन्मान्तरीयवृष्टिकामेन वा ॥ केवलामुष्मिकफलकं यथा-स्वर्गाद्यर्थ दर्शपूर्णमासादिकम् । खर्गस्य इहलोकभोग्यत्वाभावात् ।। ऐहिकामुष्मिकसाधारणफलकं यथा-'वायव्यं श्वेतमालभेत भूतिकामः' इति भूत्यादिफलकमित्यन्यत्र विस्तरः । वेदस्यालौकिकार्थबोधकत्वम् ननु दर्शपूर्णमासादिकर्मणां ब्रीह्यादिद्रव्याणां च प्रत्यक्षत्वेन लौकिक- त्वात्कथं वेदस्यालौकिकार्थबोधकत्वमिति चेत् ,-न; कर्मणां प्रत्यक्षत्वेऽपि तेषां खर्गादिफलसाधनत्वमप्रत्यक्षमिति 'तत्फलसाधनतया तत् कर्म कर्तव्यम्' इत्येवं फलसाधनतया कर्मकर्तव्यताबोधकस्य वेदस्यालौकिकार्थ- बोधकत्वात् । एवं त्रीह्यादीनां यागादिक्रियासाधनत्वं न प्रत्यक्षवेद्यमिति तद्बोधकस्यापि वेदवाक्यस्यालौकिकार्थबोधकत्वमिति न दोषः । विधेविधायकत्वप्रकारः इदानीं विधिवाक्यस्य विधायकत्वप्रकारः कथ्यते । तत्र 'स्वर्गकामो यजेत' इत्यत्र यजिधातोरुपरितने तप्रत्यये धर्मद्वयमस्ति- आख्यातत्वं, लित्वं चेति । तत्राख्यातत्वं सर्वलकारसाधारणम् , तंदवच्छेदेन लियत्ययः पुरुषप्रवृत्तिरूपामर्थभावनां प्रतिपादयति । टिप्प०-१ तेन रूपेणेत्यर्थः. २ तप्रत्यय इत्यर्थः. पाठा०-1 मुष्मिकसाधारणफलकं.2 स्वर्गाद्यर्थदर्श. 3 एतल्लोक. 4 मुष्मि- कफलकं. 5 दशलकारतिर्थक्रिया.

१ मीमांसापरिभाषा आर्थी भावना सा चार्थभावना किं, केन, कथमिति अंशत्रयविशिष्टा । तथा हि-यजेतेत्यत्र प्रथमं प्रत्यनेन 'भावयेत्' इति प्रतीयते । सुबन्ताभि- हितानां सर्वेषां कारकाणां तिङन्तार्थक्रियान्वयनियमे सति तिङन्तार्थस्य प्राधान्यात् । तत्र च प्रकृत्यर्थापेक्षया प्रत्ययार्थस्य प्राधान्यात्प्रथम प्रत्ययार्थभावनाया उपस्थितियुक्ता । ततः करोति-समानार्थक- भावयतेः सकर्मकत्वात् 'किं भावयेत्' इति कर्माकाङ्क्षायां भिन्नपदो- पात्तोऽपि स्वर्गो भाव्यत्वेनान्वेति । भाव्यत्वेन कर्मत्वेनेत्यर्थः । साध्य- त्वेनेति यावत् । नतु समानपदोपात्तोऽपि धात्वर्थो भाव्यत्वेनान्वेति । दुःखात्मकस्य यागस्येप्सिततमत्वरूपकर्मत्वायोग्यत्वात् । स्वर्गस्य त्वानन्दा- त्मत्वेनेप्सिततमतया कर्मत्वेनान्वययोग्यत्वात् । ततश्च स्वर्ग भावयेत्' इति बोधो भवति । ततः 'केन' इति करणाकाङ्क्षायां समानपदोपात्तो यागः करणत्वेनान्वेति-'यागेन स्वर्ग कुर्यात्' इति । ततः 'कथं यागेन स्वर्ग कुर्यात्' इति कथंभावाकाङ्क्षायाम्---अम्यन्वाधानावहननादिजन्यदृष्टोपका- रेण प्रयाजादिजनितादृष्टोपकारेण च सहितेन यागेन स्वर्ग कुर्यादिति अम्यन्वाधानप्रयाजादिकमङ्गजातमितिकर्तव्यतयान्वेति । कथंभावाकाङ्क्षापू- रकत्वमितिकर्तव्यतात्वम् । यथा 'ओदनकामः पचेत्' इत्यत्र लिङा भावना प्रतीयते । 'किं भावयेत्' इत्याकाङ्क्षायां ओदनो भाव्यत्वेनान्वेति, केन' इत्याकाङ्क्षायां पाकेनेति लभ्यते, 'कथम् ' इत्याकाङ्क्षायां तृणफूत्कार- सहितेनेति । ततश्च तृणफूत्काराद्युपकृतेन पाकेन (तेजःसंयोगेन) ओदनं भावयेदिति वाक्यार्थः संपद्यते तद्वद्वेदेऽपि बोध्यम् । शाब्दी भावना स एव लिङ्प्रत्ययो लिङ्त्वावच्छेदेन शब्दभावना प्रेरणाख्या- मभिधत्ते । लोकेऽपि 'गामानय' इत्याचार्यवाक्यश्रवणानन्तरं अयमाचार्यो मां गवानयने प्रेरयति' इति प्रेरणाख्यव्यापारं ज्ञात्वैव शिष्यो गवानयने प्रवर्तत इत्यन्वयव्यतिरेकाभ्यां प्रेरणाज्ञानं प्रवृत्तिकारणम् । प्रेरणाज्ञानस्य टिप्प०-१ कथंभावाकाङ्क्षा नाम करणगतप्रकाराकासा. २ तप्रत्यय इत्यर्थः. ३ लिङ्त्वेन रूपेणेत्यर्थः. ४ पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः शब्दभावना. पाठा०-1 भावनोपस्थितिः. 2 न्वाधानवीयवहननादि. NAAMKARNamra मीमांसापरिभाषा चान्वयव्यतिरेकाभ्यां लिङादिश्रवणजन्यत्वावधारणात् लिङादेः प्रेरणायां शक्तिोंके गृह्यत इति वेदेऽपि तत्रैव शक्तिकल्पनौचित्यात् । इयांस्तु विशेषः-लोके गवानयनादिप्रवृत्त्यनुकूलप्रेरणाख्यो व्यापारः प्रयोक्तृ- पुरुषगताभिप्रायविशेषः, वेदे तु प्रयोक्तृपुरुषाभावाल्लिङादिशब्दनिष्ठ एव स इत्यङ्गीक्रियते । अत एव शब्दनिष्ठव्यापारत्वाच्छाब्दी भावनेत्यु- च्यते । यागहोमादिविषयप्रवृत्तिहेतुत्वात् प्रवर्तना प्रेरणेति चोच्यते । सैषा शाब्दी भावनापि अंशत्रयविशिष्टा । तत्र पुरुषप्रवृत्तिरूपार्थ- भावना भाव्यत्वेनान्वेति । अध्ययनावगतलिङादिकं करणत्वेनान्वेति । अर्थवादप्रतिपाद्यप्राशस्त्यज्ञानमितिकर्तव्यतात्वेनान्वेति । तत्र 'साङ्गवेदा- ध्येतारोऽधीतव्याकरणनिगमनिरुक्तादिवशायुत्पत्तिमन्तः पुरुषा अध्य- यनगृहीतस्वाध्यायगतलिङादिभिः प्राशस्त्यज्ञानसचिवैर्यागाद्यर्थ स्वकर्त- व्यत्वेन बुद्धवा यागादीननुतिष्ठेयुः' इति शाब्दभावनाबोधः । अनुतिष्ठेयुः, अनुष्ठानं कुर्युरित्यर्थः । अनुष्ठानं प्रवृत्तिः । तेन पुरुषप्रवृत्तेः शाब्दभावना- भाव्यत्वमक्षतम् । इयं च शब्दभावना ज्योतिष्टोमादिप्रातिस्विकवाक्येषु स्वरूपेण प्रती- यमाना कर्तव्यत्वेन न प्रतीयते । अर्थभावनाया एव तेषु कर्तव्यत्वा- वगमात् , किंतु 'स्वाध्यायोऽध्येतव्यः' इति वाक्य एव कर्तव्यत्वेन प्रती- यते । नचात्रार्थभावनाया एव विधेयत्वमिति वाच्यम् । 'स्वाध्यायोऽध्ये- तव्यः' इति वाक्यस्थार्थभावनाया एवं सकलविधिवाक्यस्थशब्दभावना- रूपत्वात् । तथा हि-अधिपूर्वकात् 'इङ्क अध्ययने' इति धातोः कर्मणि तव्य- प्रत्ययो विहितः । कर्म च खाध्यायः प्रधानम् । तत्संस्कारकमध्ययन गुणकर्म । व्रीहिसंस्कारकप्रोक्षणादिवत् । अध्ययनजनितग्रहणसंस्कार- विशिष्टस्वाध्यायस्य प्रयोजनाकाङ्क्षायां खाध्यायगततत्तल्लिङादिविशिष्टवा- क्यसामर्थ्यलभ्यं यदनुष्टानौपयिकं यागादिरूपार्थज्ञानं तदेव दृष्टत्वात्, तत्तत्कर्मानुष्ठानद्वारा खर्गादिरूपालौकिकश्रेयःसाधनत्वाच्च प्रयोजनम् । कर्मावबोधं विना कर्मानुष्ठानायोगात् । न त्वदृष्टं प्रयोजनम् ; दृष्टफले पाठा०-1 यागाद्यर्थस्य. 2 तत्संस्कारोऽध्ययनं. 3 नौपयिकयागा'.

मीमांसापरिभाषा संभवत्यदृष्टफलकल्पनाऽयोगात् । तथा च खाध्यायविधिनैव स्वाध्याय- गतविधिवाक्यगतलिङादिप्रतिपादिताः सर्वाः शाब्दभावना अंशत्रय- विशिष्टाः कर्तव्यत्वेन विधीयन्ते । साङ्गवेदाध्ययनेन व्युत्पन्नाः पुरुषाः अध्ययनगृहीतस्वाध्यायगतलिङादिभिरर्थवादावगतप्राशस्त्यरूपाङ्गसचिवैः फलवद्यागादिकर्तव्यतां बुद्ध्वा यागादीननुतिष्ठेयुरिति । अनुतिष्ठेयुः प्रवृत्तिं कुर्युरित्यर्थः । तत्र पुरुषप्रवृत्तेर्भाव्यत्वेनान्वयात् , अध्ययनाव- गतलिङादेः करणत्वेनान्वयात् , प्राशस्त्यज्ञानस्येतिकर्तव्यतात्वेनान्व- यात् , शब्दभावनाया अपि अंशत्रयवैशिष्टयमर्थभावनाया इवेष्टम् । तत्र समीहितस्वर्गादिभाव्यकत्वभानमपि विधिवशादेव । प्रवर्त- नापरो विधिः यागादेः पुरुषार्थासाधनत्वे तत्र पुरुषं प्रवर्तयितुं न शक्नोतीति खभाव्यपुरुषप्रवृत्तिविषयस्य यागादेः पुरुषाभिलषितस्वर्गादि- साधनत्वमापादयति । अन्यथा खस्य प्रवर्तनापरत्वमेव न स्यात् । प्रवृत्तिहेतुव्यापारस्यैव प्रवर्तनात्वात् । लडादिस्थले तु प्रवर्तनात्मकविधे- रभावादार्थभावनायाः पुरुषार्थभाव्यत्वनियमो नास्ति । भावनाशब्दार्थः भावनात्वं नाम भवितुः प्रयोजकव्यापारत्वम् । तत्रार्थभावनायां भवितुर्जायमानस्य वर्गादेः प्रयोजकव्यापारत्वाल्लक्षणसङ्गतिः । शाब्द- भावनायामपि पुरुषप्रवृत्तिरूपस्य भवितुः प्रयोजकव्यापारत्वाल्लक्षण- सङ्गतिः। ज्योतिष्टोमादिशब्दानां नामत्वप्रतिपादनम् ननु 'ज्योतिष्टोमेन वर्गकामो यजेत' इत्यत्र यागेन स्वर्ग भावये- दित्यर्थवर्णने ज्योतिष्टोमपदस्य कथमन्वय इति चेत्,-न; भावनाक- रणत्वेनाभिमतयागनामत्वेनान्वयात् 'ज्योतिष्टोमनामकेन यागेन' इति । कथं तन्नामत्वमिति चेत् , ज्योतिराख्यास्त्रिवृदादिस्तोमा अस्मि- न्सन्तीति व्युत्पत्त्या । यागस्य त्रिवृदादिस्तोमसंबन्धः केनावगम्यत इति चेत् , 'त्रिवृत् पञ्चदश सप्तदश स्तोमाः' इति वाक्यान्तरेण; एतच्छ- ब्दार्थस्य तत्संबन्धावगमात् । एवं शास्त्रोक्तैस्तत्प्रख्यादिभिर्हेतुभिस्तत्र तत्र नामत्वं बोध्यम् । पाठा०-1 कर्तृतां. 2 भवितुर्भवनानुकूलप्रयोजक.

मीमांसापरिभाषा १९ नामधेयनिमित्तानि शास्त्रे हि तत्प्रख्य-तपदेश-यौगिक-वाक्यभेदैश्चतुर्भिनमित्वं प्रति- पादितम् । तत्प्रख्यन्यायेन नामत्वम् तथा हि-'अग्निहोत्रं जुहोति' इत्यत्र अग्निहोत्रशब्देन अग्निदेवता- रूपो गुणो न विधीयते, 'अग्निज्योतिज्योतिरग्निः स्वाहेति सायं जुहोति' इति वाक्यविहितेन मन्त्रेण देवतायाः प्राप्तत्वात् । किंतु अग्निप्रख्यापकं [ अग्निप्रापकं ] यच्छास्त्रान्तरं 'अग्निज्योतिज्योतिरग्निः' इत्यादिकं, तेन प्राप्तमग्निसंबन्धं निमित्तीकृत्य अग्नये होत्रं होमोऽस्मि- निति बहुव्रीहिणा अग्निहोत्रपदस्य होमनामधेयत्वम् । नच होमस्य प्रत्ययवाच्यार्थभावनायां करणत्वात् तन्नामत्वे 'अग्निहोत्रेण' इति तृतीया स्यात् , 'ज्योतिष्टोमेन' इतिवदिति वाच्यम् ; द्वितीयाया एव लक्षणया करणार्थकत्वात् , 'नासाधितं करणम्' इति न्यायेन असाधितस्य करण- स्वायोगात् अर्थात्प्राप्तहोमगतसाध्यत्वानुवादकत्वेन वा द्वितीयोपपत्तेरिति तत्प्रख्यन्यायादत्र नामधेयत्वम् । तव्यपदेशन्यायेन नामत्वम् तथा 'श्येनेनाभिचरन् यजेत' इत्यत्र श्येनपदं यागनामधेयं, नतु यागाङ्गत्वेन श्येनपक्षिरूपगुणविधिः । 'यथा ह वै श्येनो निपत्यादत्ते एवमेवायं द्विषन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेन' इत्युपमा- नोपमेयव्यपदेशानुपपत्तिप्रसङ्गात् । श्येनपक्षी यथा पक्ष्यन्तरं निप- त्यादत्ते एवमयमपि श्येननामकः कर्मविशेषो भ्रातृव्यं शत्रु निप- त्यादत्ते' इति व्यपदेशः कर्मनामत्वपक्ष एव युज्यते । यागाङ्गतया श्येनपक्षिविधौ तु खस्य खेनैवोपमानोपमेयभावः स्यात् , स चायुक्तः । तस्माच्छयेनतुल्यताव्यपदेशाच्छयेनपदं कर्मनामधेयम् ; ततश्च ‘अभिचरन् शत्रुवधकामः श्येननामकेन यागेन अभिचारं भावयेत्' इति वाक्यार्थः । नन्वेवमप्यभिचारस्यापि वेदोक्तत्वादाभिचारिके कर्मण्यास्तिकानामपि प्रवृत्तिः स्यादिति चेत् ,-न; वेदोक्तोऽप्यभिचारो वेदविहितो न भवति, टिप्प०-१ अग्निहोत्रं जुहोतीत्यत्र. २ व्यपदेश उपमानम्. ३ उपमानोपमे- यभावस्य भिन्ननिष्टत्वात्तस्यायुक्तत्वम्.

२० मीमांसापरिभाषा फलत्वात् । 'फलं न विधेयं किंतु फलमुद्दिश्य तत्साधनत्वेन कर्मैव विधे यम्' इति सिद्धान्तात् । अतोऽभिचारस्याविहितत्वेन प्रत्यवायजनकत्वम् । योगेन नामत्वम् एवं 'उद्भिदा यजेत पशुकामः' इत्यत्र पशुरूपफलाय विधित्सितस्य यागस्य उद्भित्पदं नामधेयम्, नतु यथाकथंचित्प्राप्तयागमुद्दिश्य तंदङ्गतयोद्भिद्रूपगुणविधिः । दध्यादिवदुद्भिन्नामकस्य गुणस्याप्रसिद्ध- त्वात् । यागे तु 'उद्भिद्यते फलमनेन' इति योगसंभवाद्यागनामत्वम् । ननु 'उद्भिद्यते भूमिरनेन' इति योगवशेन खनित्रादावप्युद्भिदः प्रयोगसंभवात् खनित्रादिगुणविधिः किं न स्यादिति चेत् ,-न; एतादृशस्थले गुणविधिः क्वापि वक्तुं न शक्यते । विरुद्धत्रिक- द्वयसमावेशाख्यदोषप्रसङ्गात् । विरुद्धत्रिकविचारः तथा हि-'उद्भिदा यजेत पशुकामः' इत्यत्र मानान्तरेणाप्राप्तस्य यागस्यानुवादासंभवात् , पशुकर्मकभावनायां करणत्वेन यागो विधेयः 'यागेन पशून्भावयेत्' इति । ततश्च यागस्य विधेयत्वम् । फलं प्रति च शेषतया प्रतीयमानत्वाद्गुणत्वम् । शेषतया अङ्गतयेत्यर्थः । फलसिद्ध्यर्थं पुंसाऽनुष्ठीयमानत्वादुपादेयत्वमिति विधेयत्व-गुणत्वो- पादेयत्वात्मकमेकं त्रिकं यागेऽस्ति । तथा यागोदेशेनोद्भिद्गुणविधौ विधित्सितगुणापेक्षया प्राधान्यम्-उद्देश्यत्वम्-अनुवाद्यत्वं चेति द्वितीयं त्रिकम् । तदेतत् त्रिकद्वयं परस्परविरुद्धमेकस्मिन्यागे प्रस- ज्येत; अतो न गुणविधिः । नच 'सोमेन यजेत' इत्यत्र विरुद्धत्रिकं विनैव सोमशब्दस्य सोमवति यागे लक्षणामङ्गीकृत्य 'सोमवता यागेनेष्टं भावयेत्' इति सोमविशिष्टया- गविधानाद्यथा सोमरूपगुणविधिः, तद्वदुद्भित्पदस्यापि मत्वर्थलक्षणयोद्भि- द्विशिष्टयागविधानादत्रोद्भिद्गुणविशिष्टयागविधिः स्यादिति वाच्यम् । सोमादौ गत्यन्तराभावात् मत्वर्थलक्षणया विशिष्ट विध्यङ्गीकारात् । उद्भि- दादौ नामत्वेन गतिसंभवाद्विशिष्टविध्यङ्गीकारायोगात् । तस्माद्योगवशा- दुद्भिदादीनां नामत्वम् । पाठा०-1 तदिदं. 2 दिनामत्वं.

मीमांसापरिभाषा २१ वाक्यभेदभयानामत्वम् तथा 'चित्रया यजेत पशुकामः' इत्यत्र चित्रापदं (वाक्यभेद- भयात् ) प्राजापत्ययागनामधेयम् । 'दधि मधु घृतमापो धानास्त- ण्डुलास्तत्संसृष्टं प्राजापत्यम्' इत्यत्र 'तत्संसृष्टं प्राजापत्यम्' इति सामाना- धिकरण्याद्यो दध्यादिद्रव्यषट्स्य प्रजापतिदेवतासंबन्धः श्रुतस्तेनानुमितो यागो विधीयते । विहितस्य यागस्य फलाकाङ्क्षायां 'चित्रया यजेत' इति वाक्यं फलसंबन्धविधायकम् । तत्र फलार्थत्वेन पुनर्विधिरिति तस्य प्राजापत्ययागस्य दध्यादिविचित्रद्रव्यकत्वाचित्रापदं कर्मनामधेयम् । नतु 'अग्नीषोमीयं पशुमालभेत' इति वाक्यप्राप्तं पशुयागं 'यजेत' इत्यनूध चित्र- त्वस्त्रीत्वगुणद्वयविधानम् । मानान्तरप्राप्तं कर्मोद्दिश्य तत्रानेकगुणविधाने वाक्यभेदात् । तदुक्तम्-‘प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः' इति । मानान्तराप्राप्ते कर्मणि त्वनेकदेवताष्टाकपालपुरोडाशामावास्यापौर्ण- मास्याद्यनेकगुणविशिष्टो द्रव्यदेवतासंबन्धेनानुमितो यागो विधीयत इति सिद्धान्तः। तदुक्तम्- 'अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः' इति अथ-यथा 'पशुना यजेत' इत्यत्र मानान्तरप्राप्तयागमुद्दिश्य तदङ्गतय 'पशुना'इत्येकपदोपात्तानां पशुद्रव्यतद्गतलिङ्गसंख्यानां त्रयाणां वाक्यभेदं विनैव विधिरङ्गीकृतः, तद्वदत्राप्येकपदोपात्तचित्रत्व-स्त्रीत्व-विशेषितपशु- द्र्यकारकस्य विधानान्न वाक्यभेदः । अत एव तत्र विधेयस्य पशोरुपादे- यत्वात्तद्गतमेकत्वं यज्ञाङ्गतया विवक्षितमित्येकेनैव पशुना यष्टव्यम्, 'ग्रहं संमार्टि' इत्यत्र उद्देश्यगतत्वादेकत्वमविवक्षितमिति सिद्धान्तप्रवादः। कथं, 'ग्रहं संमार्टि' इत्यत्र ‘ग्रहम्' इति द्वितीयया ग्रहस्येप्सिततमत्वेनोद्दे- श्यत्वात् , प्रयोजनत्याच प्राधान्यं गम्यते । संमार्गस्तु ग्रहं प्रति गुणभूतः। 'प्रतिप्रधानं गुण आवर्तनीयः' इति न्यायात् 'यावन्तो ग्रहास्तेषां सर्वेषां संमार्गः' इति निश्चये सति, 'कति ग्रहाः संमार्जनीयाः' इति बुभुत्साया अभावादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् । यद्युच्येत नेदमुद्देश्यगतं किंतु खयं विधेयम्-'ग्रहं संमृज्यात्', 'यं संमृज्यात्तं चैकम्' इति । तथा सति विधेयभेदाद्वाक्यभेदः स्यात् । तथाबुभुत्साया , पाठा०-1 यधुच्यते. 2 ग्रहं संमृज्यात्तं चैकं.

. २२ मीमांसापरिभाषा अभावात् विधानाध्योगाचोद्देश्यगता संख्या न विवक्षिता । उद्देश्यगत- मपि विशेषणं किंचिद्विवक्षितं यस्य विशेषणस्य विवक्षां विना उद्देश्य- प्रतीतिर्न पर्यवस्यति । यथा--तत्रैव ग्रहत्वं विवक्षितम् । तद्विवक्षां विना उद्देश्यखरूपस्य ज्ञातुमशक्यत्वात् । तेन ग्रहजातीयसाधनक- सोमयागापूर्वार्थत्वाच्चमसेषु न संमार्ग इति स्थितम् । 'पशुना यजेत' इत्यत्र यागं प्रति पशुविधेयत्वाद्गुणभूतः । प्रतिगुणं प्रधानावृत्तिर्नास्तीति कियद्भिः पशुभिः यागः कर्तव्य इत्याकाङ्क्षायां एकवचनेन प्रतीयमानं विधेयगतमेकत्वं विवक्षितं बुभुत्सितत्वात् । किंच लिङ्गसंख्याविशेषितस्य पशुद्रव्यरूपकारकस्य एकपदोपात्तस्य विधेयत्वाद्विधेयपशुद्वारा तद्गतलिङ्गसंख्यादेरपि क्रियाङ्गत्वादेकत्वं विव- क्षितम् । अथवा तृतीयया विभक्त्याऽभिहितयोलिङ्गसंख्ययोविभक्त्य- भिहिततया करणकारकशक्त्याऽऽत्मसात्कृतयोः प्रातिपदिकार्थपशुद्रव्येण संबन्धमनाहत्य तद्वदेव साक्षाक्रियाङ्गत्वेन विधाने सति पश्चादरुणैक- हायनीन्यायेन परस्परमन्वयः-यागाङ्गत्वेन विहितो यः पशुः स एकः पुमांश्चेति । यथा 'अरुणया पिङ्गाक्ष्या एकहायन्या गवा सोमं क्रीणाति' इत्यत्र कारकाणां क्रियान्वयनियमात् करणविभक्तिभिरारुण्यपिङ्गाक्षीत्वादीनां चतुर्णा परस्परमनन्वितानामेव सोमक्रयणाङ्गत्वेनान्वये सति आरुण्या- देर्गुणस्यामूर्तस्य स्वतः क्रियासाधनत्वायोगात् क्रियासाधनैकहायनी- गोपरिच्छेदकत्वेन पश्चात् परस्परं पार्णिकान्वयः-या एकहायनी गौः सा पिङ्गाक्षी अरुणेति तद्वत् । तदेवमुद्देश्यगतविशेषणमविवक्षितम् , उपादेयगतं विवक्षितमिति स्थितम् । एवं च चित्रापदेन चित्रत्वस्त्रीत्वोभयविशेषितपशुकारकस्य यजेतेतिपदानूदितेऽग्नीषोमीयपशुयागे विधातुं शक्यत्वात् कथं नामत्व- मिति चेत् ,-न; तथा सति प्रकृतस्य प्राजापत्ययागस्य फलसंबन्धाकाङ्क्षस्य टिप्प०-१ पूर्वमीमांसातृतीयाध्यायप्रथमपादे सप्तमेऽधिकरणे, २ पूर्वमीमांसा- तृतीयाध्यायप्रथमपादेऽष्टमेऽधिकरणे. ३ पूर्वमीमांसाचतुर्थाध्यायप्रथमपादे पञ्चमा- थिकरणे. ४ पूर्वमीमीमांसातृतीयाध्यायप्रथमपादे षष्ठेऽधिकरणे. ५ 'चित्रया यजेत पशुकामः' इत्यत्रत्येन.

मीमांसापरिभाषा २३ हानम् , अप्रकृतस्याऽग्नीषोमीययागस्य कल्पना च स्यात् । तद्वयमयुक्तम् । तस्माच्चित्रापद कर्मनामधेयम् । एवं तत्प्रख्यादिभिरन्यतमेन सर्वत्र कर्मनामत्वमूह्यम् । इत्थं विधिवाक्यस्य प्रामाण्यं विचारितम् । अर्थवादविचारः अथार्थवादो विचार्यते । अर्थवादानां तु खार्थपरत्वे प्रयो- जनाभावादध्ययनविधिवशेन फलवदर्थज्ञानार्थत्वस्यावश्यकत्वाद्विधेयगत- प्राशस्त्यप्रतिपादनद्वारा विध्येकवाक्यतया प्रामाण्यम् । स च चतुर्विधः-निन्दा-प्रशंसा-परकृति-पुराकल्पभेदात् । तत्र निन्दार्थवादो यथा—'असत्रं वा एतद्यदच्छन्दोगम्', 'अश्रुजं हि रजतं यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रुदन्ति' इत्यादिः । प्रशंसा यथा—'शोभतेऽस्य मुखं य एवं वेद', 'वायु क्षेपिष्ठा देवता वायुमेव खेन भागधेयेनोपधावति स एवैनं भूतिं गमयति' इत्येवमादिः। परेण महता पुरुषेणेदं कर्म कृतमिति प्रतिपादकोऽर्थवादः पर- कृतिः-यथा 'अग्निर्वा अकामयत' इत्यादिः । परप्रवक्तृकार्थादिप्रतिपादकः पुराकल्पः, यथा--'तमशपद्धिया धिया त्वा वध्यासुः' इत्यादिः । तत्र निन्दार्थवादस्य विधेयान्यनिन्दाद्वारा विधेयप्राशस्त्यपरत्वम् । 'अश्रुजम्' इत्यादिरजतनिन्दाद्वारा च विधेयभूतरजतदाननिषेधप्राश- स्त्यपरत्वे विरोधाभावात् । इतरेषां त्रयाणां साक्षात्प्राशस्त्यपरत्वमेव । 'वायुर्वै' इत्यर्थवादस्य वायुः क्षिप्रगामित्वादतीव प्रशस्ता देवता, अतस्त- दैवत्यं कर्म प्रशस्तमिति विधेयदेवतागतप्राशस्त्यप्रतिपादनद्वारा विध्येक- वाक्यत्वम् । 'अग्निर्वा अकामयत' इत्यस्य अग्निदेवत्यो यागः पूर्वकाले अग्मिना- कृतत्वात्प्रशस्तः, आस्तिक्यादिदानीमप्यन्यैर्यजमानैरवश्यं कर्तव्य इति विधेयकर्मगतप्राशस्त्यद्वारा विध्येकवाक्यत्वम् । एवमन्यत्राप्यूह्यम् । टिप्प०-१. प्राशस्त्यनिन्दान्यतरपरं वाक्यमर्थवादः. पाठा०-1 तत्प्रख्यादिभिरन्यतरेण.. 2 विधिवाक्यैकवाक्यत्वम्. 3 आधि- क्यादिदा.

२४ मीमांसापरिभाषा कचित्कार्यान्तरमप्यस्ति; यथा-'अक्ताः शर्करा उपदधाति' इति विधौ ‘अक्ताः' इति पदेन । द्रवद्रव्यसामान्यं प्रतीयते । तच्च द्रव्यं किमिति संदेहे 'तेजो वै घृतम्' इत्यर्थवादात् घृतमिति निश्चीयत इति, 'तेजो वै घृतम्' इत्यर्थवादस्य संदिग्धार्थनिर्णायकत्वेन प्रामाण्यम् । इत्यर्थवादविचारः। मनविचारः अथ मत्रविचारः । मन्त्राणामप्यध्ययनविधिना कृत्लस्वाध्यायस्य फलवदर्थज्ञानार्थत्वमेव, नत्वदृष्टार्थत्वम् । दृष्टे संभवत्यदृष्टकल्पनाऽ- योगात् । प्रयोगकाले कर्मज्ञानं विना कर्मानुष्ठानायोगात् कर्मोपयिकम- र्थज्ञानं मन्त्रैः क्रियते । न चोपदेष्ट्रवचनादिनाप्यर्थस्मरणसंभवादनुष्ठानोपपत्तिरिति वाच्यम् । मन्त्रैरेवार्थ स्मृत्वानुष्ठाने सति फलं संभवति नान्यथेति नियमाङ्गीकारात्, नियमेनादृष्टस्याङ्गीकारात् , तदभावे तजन्यादृष्टलोपे तन्मूलकं फलं न सिद्ध्यतीति कल्पनात् । नन्वेवं मन्त्राणां स्वप्रकाश्येऽर्थे विनियोग इति फलितम् । विनियोगो नाम शेषत्वेनान्वयः । शेषत्वं नामाङ्गत्वम् । ततश्च "इमामगृभ्णनशनाम्' इति मन्त्रस्य रशनाग्रहणसामर्थ्यमस्तीति रशना- ग्रहणप्रकाशनसामर्थ्यरूपाल्लिङ्गादेव रशनाग्रहणाङ्गत्वोपपत्तेः 'इमामगृभ्ण- ब्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इति वचनं किमर्थमिति चेत् ,-न; परिसंख्यार्थत्वात् । चयनप्रकरणेऽश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेति द्वयमस्ति । तत्र लिङ्गादश्वरशनायां मन्त्रप्राप्तावुच्यमानायां लिङ्गाविशेषा- दर्दभरशनायामपि मन्त्रः प्राप्तः । अतोऽश्वरशनायामेव मन्त्रः कार्यो न गर्दभरशनायामिति मन्त्रनिवृत्तिरूपपरिसंख्यार्थोऽयं विधिः । परिसंख्याया दोषत्रैविध्यम् सा च परिसंख्या त्रिदोषा-स्वार्थत्यागः, परार्थस्वीकारः, प्राप्तबाधश्चेति भेदात् । 'अश्वाभिधानीमादत्ते' इति वाक्यस्य अनेन मन्त्रेणाश्वरशनाऽऽदानं कुर्यादिति स्वार्थः, स च त्यक्तः । गर्दभरशनातो मन्त्रनिवृत्तिः परार्थः, स च खीकृतः। गर्दभरशनायामपि लिङ्गात्प्राप्तस्य मन्त्रस्य अनेन बाधश्च-इति त्रिदोषा परिसंख्या गत्यभावादङ्गीकृता । गत्यन्तरे सति सा न युक्ता ।

मीमांसापरिभाषा २२ विकल्पः एवमष्टदोषदुष्टविकल्पोऽप्यगतिकोऽङ्गीकृतः । यथा-यदाग्ने- योऽष्टाकपालः संस्कृतः पुरोडाशो यागाङ्गत्वेनावगतः। तत्र अपूपविशेषस्य पुरोडाशस्य प्रकृतिद्रव्याकाङ्क्षायामनियमेन यस्यकस्यचिद्रव्यस्य प्राप्तौ 'व्रीहिभिर्यजेत' इति वाक्याद्रीहयो नियम्यन्ते, एवं 'यवैर्यजेत' इति वाक्याद्यवा अपि नियम्यन्ते; तयोरेकार्थत्वाद्विकल्पः। एवं 'अतिरात्रे षोडशिनं गृह्णाति' इत्यतिरात्रे षोडशिग्रहो विहितः। तथा 'नाऽतिरात्रे षोडशिनं गृह्णाति' इति प्रतिषेधादहणाभावो विहितः । तयोर्ग्रहणाग्रहणयोः परस्परविरुद्धयोरेकस्मिन्प्रयोगेऽनुष्ठातुमशक्य- त्वात्कचित्प्रयोगे ग्रहणानुष्ठानम् ; प्रयोगान्तरे तदभावानुष्ठानमिति तत्रापि विकल्पः । विकल्प दोषाष्टकम् स चाटदोषदुष्टः । तथा हि-पूर्व ब्रीहिप्रयोगे यवशास्त्रस्य खार्थानुष्ठापकत्वलक्षणप्रामाण्यपरित्यागः १ । अननुष्ठापकत्वलक्षणा- प्रामाण्यखी कारः २ । ततो द्वितीयप्रयोगे यवानुष्ठाने पूर्व त्यक्तं यत्लामाण्यं तत्स्वीकारः ३ । स्वीकृतं यदप्रामाण्यं तत्परित्याग ४ श्चेति यवशास्त्रे चत्वारो दोषाः । एवं पूर्व यवप्रयोगे व्रीहिशास्त्रस्य खार्थानुष्ठापकत्वलक्षणं यत्प्रामाण्यं तत्परित्यागः ५ । अननुष्ठापक- त्वलक्षणं यदप्रामाण्यं तत्स्वीकारः ६ । पुनर्द्वितीयप्रयोगे ब्रीह्यनुष्ठाने बीहिशास्त्रस्य त्यक्तप्रामाण्यस्वीकारः ७ । स्वीकृताप्रामाण्यपरित्याग- ८ श्चेति त्रीहिशास्त्रे चत्वारो दोपाः इत्यष्टदोषदुष्टो विकल्पः । स च विकल्पः क्वचिदेकार्थत्वात् ; एककार्यकारित्वादित्यर्थः । यथा व्रीहियवयोरेकैकस्य पुरोडाशनिष्पादनक्षमत्वाद्विकल्पः । क्वचिद्वचनवलात् ; यथा-'बृहत् पृष्ठं भवति' इति बृहत् सामसाध्यं पृष्ठनामकं स्तोत्रं विहितम् , 'रथन्तरं पृष्ठं भवति' इति रथन्तरसामसाध्य पृष्ठस्तोत्रान्तरं विधीयते । स्तोत्रं च प्रयाजादिवदपूर्वार्थत्वादर्थकर्म । साम तु संस्कारकर्म- त्वाद्गुणकर्म । स्तोत्रसाधनीभूतस्तोत्रीयाक्षराभिव्यक्तिरूपसंस्कारद्वारा पाठा०-1 स्तोत्रं विहितं. 2 संस्कारत्वात्. " ३ मीमांसापरिभाषा २६ सान्नां स्तोत्रसाधनत्वाङ्गीकारात् । प्रगीतमन्त्रसाध्यमिन्द्रादिगुणिनिष्ठ- गुणाभिधानं स्तोत्रम् ; प्रगीतमन्त्रसाध्यं सामाभिव्यक्तऋगक्षरसाध्य- मित्यर्थः । अप्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं शस्त्रम् । गान- क्रियाविशेषः साम । स्तोत्रसाधनीभूता ऋचः स्तोत्रीयाः । तदे- तत्रिवृत्पञ्चदशत्वादिसंख्याविशेषः स्तोम इत्येतेषां भेदः । तथा च बृहद्रथन्तरपृष्ठयोभिन्नापूर्वार्थत्वेन एकार्थत्वाभावेऽपि 'बृहद्वा पृष्ठं कार्य, रथन्तरं वा पृष्ठं कार्यम्' इति वचनबलादेव विकल्पः । क्वचिद्यवस्थितविकल्पः । द्वितीयप्रयाजादिकर्मणि नाराशंस- तनूनपान्मन्त्रयोरेकार्थत्वाद्विकल्पः । स च 'राजन्यवसिष्ठादीनां नारा- शंसो द्वितीयः प्रयाजस्तनूनपादन्येषाम्' इति वाक्याब्यवस्थित इति व्यवस्थितविकल्पः। कृत्स्नवेदस्य धर्माधर्माख्यार्थे प्रामाण्यम् तदेवं चोदनापरपर्यायाणां विधिवाक्यानामंशत्रयविशिष्टभावनाविधा- यकत्वात्प्रामाण्यम् , उद्भिदादीनां नामतया, अर्थवादानां विधेयप्राशस्त्य- परतया, मन्त्राणामनुष्ठेयार्थस्मारकतया प्रामाण्यमिति कृत्स्नस्य वेदस्या- लौकिके धर्माधर्माख्येऽर्थे प्रामाण्यं स्थितम् ॥ इति वेदप्रामाण्यविचारः। अथ स्मृत्यादिप्रामाण्यविचारः। मन्वादिप्रणीतानां स्मृतीना- मपि वेदमूलकत्वात्स्यादष्टकादौ धर्म प्रामाण्यम् । 'औदुम्बरी सर्वा वेष्टयितव्या' इति स्मृतिरप्रमाणम् , 'औदुम्बरी स्पृष्ट्वोद्गायेत्' इति प्रत्यक्ष- श्रुतिविरुद्धत्वात् । सर्ववेष्टने सति श्रुत्युक्तस्पर्शनस्य कर्तुमशक्यत्वात् । 'वैसर्जनहोमीयं वासोऽवयुगृह्णाति' इत्यादिस्मृतिरप्रमाणम् , श्रुत्यर्था- विरुद्धत्वेऽपि लोभमूलकत्वात् । तथा शिष्टाचारोऽपि स्मृतिद्वारा श्रुतिमूलकत्वात्प्रमाणम् । मातुल- सुतापरिणयनादिशिष्टाचारस्त्वप्रमाणम् । 'मातुलस्य सुतामूढा मातृगोत्रां टिप्प०-१ यद्यप्यत्र शिष्टाचारोऽप्रमाणमित्युक्तं, तथापि शतपथे दार्शिकप्रकरणे पठ्यते-'तस्मात्-समानादेव पुरुषादत्ता चाद्यश्च जायते उत तृतीये संग- च्छावहै चतुर्थे संगच्छावहै' इति । अत्र कूटस्थादुत्पन्नयोर्भोक्तभोग्ययोर्मिथः संकल्पोक्तिस्तृतीये इत्यादिका । तद्वशाच सापिण्ड्यसंकोच इति माधवः । एवं 'आयाहीन्द्र पथिभिः' इति बढचां मन्त्रे 'तृप्तां जहुर्मातुलस्येव योषा भागस्ते पैतृष्व- मीमांसापरिभाषा तथैव च । समानप्रवरां तद्वत्त्यक्त्वा चान्द्रायणं चरेत्' इत्यादिम्मृत्या निषिद्धत्वेन स्मृतिविरुद्धत्वात् तदेवं श्रुतिस्मृत्याचाराणां धर्माधर्मयोः प्रामाण्यमुक्तम् । धर्मस्य परस्परं भेदकानि प्रमाणानि स च धर्मः परस्परं भिन्नः। भेदकप्रमाणानि तु शब्दान्त दीनि । तथा हि-याग-दान-होमानां यजति-ददाति-जुहोतीत्यपर्याय- शब्दप्रतिपाद्यत्वाच्छब्दान्तराद्भेदः । स्वस्खत्वनिवृत्तिपूर्वकं परखत्वा- पादनं दानम् । 'समिधो यजति' इत्यादीनां पञ्चानां वाक्यानां मध्ये एकस्य कर्म- विधायकत्वम् , अन्येषां तस्मिन्कर्मणि गुणविधायकत्वम् , इत्यत्र नियाम- काभावात्सर्वेषां कर्मविधायकत्वे स्थिते विहितस्य कर्मणः पुनर्विधानं व्यर्थमिति पुनर्विधानसामर्थ्यात् पूर्ववाक्यविहितकर्मापेक्षयोत्तरोत्तर- वाक्यविहितस्य कर्मणो भेदः सिद्ध्यतीत्येतादृशस्थलेप्वविशेषपुनः- श्रुतिरूपात् 'यजति' पदाभ्यासात् कर्मभेदः। 'तिस्र आहुतीर्जुहोति' इत्यत्र जुहोतिपदाभ्यासाभावेऽपि जुहो- तीत्यर्थे होमे त्रित्वसंख्यान्वयात्परस्परं भिन्नास्त्रयो होमा इति संख्य- याऽत्र कर्मभेदः। 'अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरेतेन सहस्र- दक्षिणेन यजेत' इति ज्योतिष्टोमप्रकरणे श्रुतानामपि ज्योतिराख्यानां त्रयाणां यागानां ज्योतिष्टोमसंज्ञापेक्षया पृथक्संज्ञाकरणाज्योतिष्टोमा- पेक्षया भेदः । भिन्नसंज्ञावशादेव त्रयाणां परस्परं भेद इति संज्ञया कर्मभेदः । सेयी वपामिव' इति मातुलकन्यादेर्भागिनेयादि प्रति भागत्वोक्त्या परिणयनसूचना- सापिण्ड्यसंकोचाङ्गीकारेण मातुलकन्यादिपरिणयने इदं मन्त्रलिङ्गमपि साधकम् । इदं च 'मातुलस्य सुतामूढा' इति स्मृत्यपेक्षया बलवदिति बलाबलाधिकरणवार्ति- कव्याख्यावसरे न्यायसुधाकार उक्तवान् । 'वेदाच्चैतत्प्रतीयते' इत्यत्र सर्वनाम्ना पूर्वार्धनिर्दिष्ट देशकुलानुसारिण एव सापिण्ड्यसंकोचस्य परामर्शात्तदनुसरणमपि वेदोक्तमिति ज्ञाप्यते। तथा च स्वकुलदेशाविरोधिना मातुलदुहितृपरिणयनादेरुक्त- विधयानेकश्रुतिस्मृतिसिद्धत्वात्प्रामाण्यं सिद्धम् । सं. कौ. १ अत्र अभ्यास- संख्या-संज्ञा-गुण-नामधेय-प्रकरणान्तराण्यादिशब्दाज्ञयानि.

मीमांसापरिभाषा तथा 'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इत्यत्र 'सा वैश्वदेवी' इतिवाक्ये विश्वदेवदेवताऽऽमिक्षाद्रव्य- संबन्धानुमितो यागो विधीयते । 'वाजिभ्यो वाजिनम्' इत्यत्रापि वाजि- दैवत्यं वाजिनद्रव्यकं कर्मान्तरं विधीयते । नतु पूर्वविहिते वैश्वदेवयागे वाजिनद्रव्यरूपो गुणो विधीयते । पूर्वयागस्यामिक्षागुणावरुद्धत्वेन तत्र वाजिनस्य निवेशायोगात् । नच व्रीहियववद्विकल्पः । वाजिनामिक्षयोः समशिष्टत्वाभावात् । विषमशिष्टयोर्विकल्पायोगात् । वैश्वदेवयागोत्पत्ति- वाक्य एवामिक्षागुणः शिष्यत इत्युत्पत्तिशिष्टः; शिष्यते विधीयत इत्यर्थः । वैश्वदेववाक्यादुत्पन्ने कर्मणि वाक्यान्तरेण शिष्टो वाजिनगुण उत्पन्नशिष्टः, तयोर्मध्ये ह्युत्पत्तिशिष्टः प्रबलः, कर्मोत्पत्ति- वेलायामेव कर्माङ्गत्वेन प्रमितत्वात् । उत्पन्नशिष्टो वाजिनगुणोऽन- न्तरं प्रमितोऽपि विलम्बितत्वेन दुर्बलत्वात्पूर्वकर्मणि निवेशमलभमानो वाजिरूपदेवतान्तरसंबन्धात् खवाक्यस्य कर्मान्तरविधायकत्वमानयतीति गुणाझेदः । तत्र घनीभूतं पय आमिक्षा, शिष्टं जलं वाजिनम् । तथा कुण्डपायिनामयने श्रूयते-'उपसद्भिश्चरित्वा मासमग्नि- होत्रं जुहोति' इति । अत्र पूर्व कर्म किंचिदपि संनिहितं न भवति अपूर्वकर्मसंनिधानरूपात्प्रकरणान्तरात्प्रसिद्धाग्निहोत्रधर्मकं तन्नामकं कर्मान्तरं विधीयते । नत्वग्निहोत्रशब्देन प्रसिद्धाग्निहोत्रमनूद्य गुण- विधिः । प्राप्ते कर्मणि आनन्तर्य-मासरूपानेकगुणविधौ वाक्यभेदा- पत्तेरिति प्रकरणान्तरादत्र कर्मभेदः । प्रसिद्धाग्निहोत्रं नैयमिकामिहो- त्रम् , नित्याग्निहोत्रमिति यावत् । तदेवं शब्दान्तरा-भ्यास-संख्या- संज्ञा-गुण-प्रकरणान्तरैः कर्मभेदो दर्शितः । इति कर्मभेदनिरूपणम् ॥ टिप्प०-१ वैश्वदेव्यामिक्षेत्यत्र वैश्वदेवीशब्दस्य देवतातद्धितान्तत्वात्तद्धित- स्यच 'सास्य देवता' इति सर्वनामार्थे स्मरणात, सर्वनाम्नां चोपस्थितविशेषवाचि- त्वेन विशेषपरत्वम् । तत्र कोऽसौ वैश्वदेवीशब्दोपात्तो विशेष इत्यपेक्षायामामिक्षा- पदसांनिध्यादामिक्षारूपो विशेष इत्यवगम्यते । यथाहुः-'आमिक्षां देवतायुक्ता वदत्येवैष तद्धितः । आमिक्षापदसांनिध्यात्तस्यैव विषयार्पणम् ॥' इति । तथा- श्रुत्यैवोपपदस्यार्थः सर्वनान्ना प्रतीयते । तदर्थस्तद्धितेनैवं त्रयाणामेकवाच्यता ॥ इति. २ विधीयत इत्यर्थः । पाठा०-1 क्रत्वर्थत्वात् यथा. JNVMV.IN मीमांसापरिभाषा २९ प्रमेयविचारः अथ प्रमेयादिविचारः। तत्र वेदादिप्रमेयोऽर्थस्त्रिविधः- क्रत्वर्थः, पुरुषार्थः, उभयार्थश्चेति । तत्र प्रयाजादिकं केवलं क्रत्वर्थः, फलं तत्करणं च पुरुषार्थः-यथा ज्योतिष्टोमादिः, स्वर्गश्च ॥ दध्यादि तूभयरूपं—'दध्ना जुहुयात्' इति फलासंयुक्तवाक्येन त्वर्थत्वात् 'दनेन्द्रियकामस्य जुहुयात्' इत्यनेन फलाय विधानात्पुरुषार्थत्वात् । तदुक्तं-'एकस्य तूंभयरूपत्वे संयोगपृथक्त्वम्' इति । संयोगो वाक्यं तस्य पृथक्त्वं भेदः । स चैकस्य उभयार्थत्वे नियामक इत्यर्थः । प्रयोजकत्वविचारः क्रत्वर्थे प्रयाजादौ ऋतुः प्रयोजकः । पुरुषार्थे फलं प्रयोजकम् । प्रयोजकत्वं नामानुष्ठापकत्वमित्यर्थः । विधिर्यदर्थं यदनुष्ठापयति स तत्र प्रयोजकः । दर्शादिविधिः वर्गाथ दर्शादिकमनुष्ठापयतीति वर्गादिदर्शादौ प्रयोजकः । प्रया- जादिविधिः प्रयाजान्दर्शाद्यर्थ अनुष्ठापयतीति दर्शादिः प्रयाजानां प्रयोजकः । दध्यानयनविधिः दध्यानयनमामिक्षार्थमनुष्ठापयति, न वाजिनार्थम् । आमिक्षार्थ दध्यानयनानुष्ठाने सति वाजिनस्य खतः- सिद्धत्वात् । अत आमिक्षैव दध्यानयने प्रयोजिका, न वाजिनम् ।' 'पुरोडाशकपालेन तुषानुपवपति' इति तुषोपवापाङ्गत्वेन पुरोडाशकपालं विधीयते, तथापि तुषोपवापः कपालस्य प्रयोजको न भवति, पुरोडाशार्थमुपात्तेनैव कपालेन तुषोपवापसिद्धेः, किंतु पुरोडाश एव कपालस्य प्रयोजक इत्यागृह्यम् । इति प्रमेयादिनिरूपणम् ।। क्रमनिरूपणम् अथ क्रमनिरूपणम् । ननु विधिना साङ्गं प्रधानं कर्तव्यत्या चोद्यते । तत्राङ्गानां प्रधानानां च कर्मणां बहुत्वात्क्रमेणानुष्ठानं वाच्यम् । तत्क्रमनियामकं प्रमाणं किमिति चेत् ,-न; श्रुत्यादीनामेव क्रमनियामकत्वात् । टिप्प०-१ उभयत्वमुभयरूपत्वम्. पूर्वमीमांसायाश्चतुर्थाध्याये तृतीयपादे चतुर्थं सूत्रम्. २ श्रुत्यर्थ-पाठ-स्थान-मुख्य-प्रवृत्त्याख्यानाम् । एषु च पूर्व पूर्व बलीयः, पाठा०-1 क्रत्वर्थत्वात् यथा ।

३० मीमांसापरिभाषा श्रुतिक्रमः तथा हि-अध्वर्युगृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति' इत्यत्र क्त्वाश्रुत्या गृहपतिदीक्षानन्तरं ब्रह्मदीक्षेति श्रौतक्रमः । अर्थक्रमः 'अग्निहोत्रं जुहोति, यवागू पचति' इत्यत्र यवागूपाकस्य होमार्थ- त्वेन पाकात्पूर्व होमस्य कर्तुमशक्त्यत्वात् पाठक्रमं त्यक्त्वाऽर्थक्रमः खीकर्तव्यः । अर्थः प्रयोजनं होमादिरूपं तदर्थ क्रमः अर्थक्रमः । तेन पूर्व पाकः पश्चाद्धोमः । पाठक्रमः 'समिधो यजति', 'तनूनपातं यजति' इत्यादौ विधिवाक्यपाठक्रमा- देव समिदादियागानुष्ठानक्रमः । स्थानक्रमः तथा ज्योतिष्टोमे औपवसथ्यमहरारभ्य क्रमेणानुष्ठेयानां अग्नीषो- मीय-सवनीया-नुबन्ध्यानां पशूनां त्रयाणां साधस्काख्ये सोमयागे 'सह पशूनालभेत' इत्येकदाऽनुष्ठानलक्षणं साहित्यं बोधितम् , तदपि सवनी- यस्य स्थाने विहितम् । तत्र प्राकृतक्रमं परित्यज्य सवनीयस्य स्थाने साहित्यविधानादादौ सवनीयपशोरुपाकरणम् , ततोऽनीषोमीयस्य, ततो- ऽनुबन्ध्यायाः इति स्थानाक्रमः । सुत्यादिवसात्पूर्वमहरौपवसथ्यम् । मुख्यक्रमः तथा दर्शे सांनाय्यधर्माणां शाखाच्छेदादीनां पूर्वम् , आमेयधर्माणां निर्वापादीनां च अनन्तरं प्रवृत्तावपि मुख्ययोराग्नेयसांनाय्ययागयो- मध्ये आग्नेययागस्य पूर्वमनुष्ठानान्मुख्ययागक्रमेणादावाग्नेयपुरोडा- शस्य प्रयोजशेषाभिधारणम् , ततः पयसोऽभिधारणम् , इति मुख्य- यागक्रमादभिधारणक्रमः । टिप्प०-१ प्रयाजशेषेण घृतेनाभिघारणमित्यर्थः. २ उपाकरणं देवतार्थत्वेन खीकरणम् । उपाकरणनियोजनप्रभृतीनां साहिलं संपादनीयम् । तत्र प्राजाप- त्यानां संप्रतिपन्नदेवताकत्वेनैकस्मिन्कालेऽनुष्टानादुपपद्यते साहित्यम् , तदङ्गानां चैकस्मिन्कालेऽनुष्ठानमशक्यम् । नह्यनेकेषां पशूनामुपाकरणमेकस्मिन्काले कर्तु शक्यम् । अतस्तेषां साहित्यमव्यवधानेन संपाद्यम् । अत एकस्योपाकरणं कृत्वा द्वितीयस्योपाकरणमिति प्राजापत्येष्वेक पदार्थ सर्वत्रानुष्ठाय द्वितीयपदार्थोऽनुष्ठेयः.

मीमांसापरिभाषा प्रवृत्तिक्रमः तथा 'सप्तदश प्राजापत्यान् पशूनालभते' इत्यत्र सप्तदशपशुद्रव्यक- प्रजापतिदेवताकाः सप्तदश यागाः कर्तव्यत्वेन बोधिताः, तत्रोपाकर- णाख्य आद्यः पदार्थो यतः कुतश्चिदारभ्य यत्र कचित् समामनीयः । नियोजनादिकं तु येन क्रमेण उपाकरणं प्रवृत्तं तेनैव क्रमेण कर्त- व्यम् । कथम्-प्रकृतावग्नीषोमीयपशोरेकत्वेन उपाकरणमादौ कृत्वा द्वितीयक्षण एव नियोजनम् , तृतीयक्षण एवं प्रोक्षणम् , व्यवधान- प्रयोजकाभावात् । अत्र तु सप्तदशपशूनां सहानुष्ठेयत्ववचनात्प्रथ- मतो यत्र क्वचित्पशौ कृतमुपाकरणं स्वाश्रयकर्तव्यनियोजनाय षोड- शभिः क्षणैर्व्यवधानं सहते, न त्वधिकम् । तत्रोपाकरणक्रमेण नियो- जनं प्रथमपशावकृत्वा पश्वन्तरे नियोजनं कृत्वाऽनन्तरं प्रथमपशौ नियोजनकरणे षोडशक्षणाधिकक्षणव्यवधानं शास्त्राननुमतमापद्येत । तन्निरासायोपाकरणं येन क्रमेण प्रवृत्तं तेनैव नियोजनादिकं कार्य- मिति प्रवृत्तिक्रमः। इत्येवं श्रुत्यर्थ-पाठ-स्थान-मुख्य-प्रवृत्तिकमैरेव कर्मानुष्ठानम् । अन्यथा- नुष्ठाने वैगुण्यमित्यलम् ॥ इति श्रीकृष्णयज्वकृता मीमांसापरिभाषा समाप्ता॥ M टिप्प०-१ स्वमुपाकरणम्. २ सहप्रयुज्यमानेषु प्रधानेषु संनिपातिनामङ्गाना- मावृत्त्यानुष्टाने कर्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमाद्यः क्रमः स प्रवृत्तिकमः.

Mimamsaparibhasha

Author
Narayana Ram Acarya
Title
Mimamsaparibhasha
File name
Mimamsaparibhasha
Text
OCR done
Citation
1950
Published
2004/10/21
Publisher
Satyabhamabai Pandurang
Language
Sanskrit
Pages
37
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
383663
Barcode
1990030051926.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
JAr0i42XITR
Download PDF

Mimamsaparibhasha