Bharti Bhawan Library Allahabad
Patanjal Mahabhashayam Panchamoadahaya
Front matter
श्रीराजस्थान-संस्कृत-कालेज-ग्रन्थमालायाः- कर- प्रदीपोयोत (कैयट-विवरण) विराजितं- पातञ्जलं महाभाष्यम् तस्यायं- -- पञ्चमोऽध्यायः सम्पादक:- श्रीगुरुप्रसादशास्त्री, व्याकरणाचार्यः, न्यायाचार्यः, दर्शनाचार्यः, [प्रिन्सिपल-श्रीराजस्थान-संस्कृत-कालेज, काशी]
No text on this page.
।। श्रीः ॥ श्रीमद्भगवत्पतञ्जलिमुनिविरचितं- व्याकरणमहाभाष्यम् उद्दयोतोद्भासितप्रदीपविराजितम् । -8 तस्याऽयं पञ्चमोऽध्यायः * तत्र च-प्रथमे पादे प्रथममाह्निकम् * । । प्राक् क्रीताच्छः ।५।११॥ प्राग्वचनं किमर्थम् ? ॥ ॥ * ॥ प्राग्वचन उक्तम् ॥ * ॥ [प्राग्वचने उक्तम् ] किमुक्तम् ? ॥ तत्रे तावदुक्तम्-।। * ॥ “प्राग्वचनं सकृद्विधानार्थमधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्गः” ॥ * ॥ इति । इहापि-[॥ प्राग्वचैनं सकृद्विधानार्थं ॥11] प्राग्वचनं क्रियते। 'सकृद्विधानार्थम्'। सकृद्विहितः प्रत्ययो विहितो यथा स्यायोगे योगेतस्य ग्रहणमा कार्षमिति ॥ प्रदीपः] प्राक्क्रीताच्छः। प्राग्वचनमिति । छ इत्येवाधिकारोऽस्त्विति प्रश्नः । प्राग्वचन उक्तमिति। अस्मिन् प्राग्वचने यद्वक्तव्यं तदन्यत्रोक्तं । न्यायस्य तुल्यत्वात्-'प्राग्दीव्यतोऽणित्यत्र यदुक्तं तदेवेहाऽपि द्रष्टव्यमित्यर्थः । सकृद्विधानार्थ- मिति। प्राक्क्रीतायेऽर्थास्तानपेक्ष्य सकृदेवाऽनेन तेष्वर्थेषु च्छस्य विधानं यथा स्यादि- त्यर्थः । विहितो यथा स्यादिति । पुनः श्रुत्या प्रकर्षप्रतिपत्तिः-सुष्टु-लाधवेन-विहितो उ.] प्राक्क्री। ननु प्राक्पदाऽभावे 'क्रीता' दित्यस्याऽपि व्यर्थत्वेन भाष्ये 'प्राग्वचनं किमर्थमितिः तन्मात्रोल्लेखे न बीजमिति चेन्न; अवयवाक्षेपद्वाराऽवधिनिर्देशाक्षेपे एव तात्पर्यादित्याह- इत्येवेति । ननु 'छ' इत्येव नानावाक्यत्वाऽभावात्सकृद्विधानं सिद्धमेवेत्यत आह-प्राक्क्री- तादिति । ननु विहितो विहित इति पुनरुक्तमत आह-पुनरिति । प्रकर्षमेव दर्शयति- सुष्ठिति । नन्वधिकारत्वेऽपि कियदूरमधिकार इत्येतज्ज्ञानायाऽवधिनिर्देशाऽवश्यकत्वे १ अयं पाठो नेदानीमुपलभ्यते । २ प्राग्दीव्यत इति सूत्रे उक्तम् । ३ 'इहापी त्यस्या- नन्तरं-'प्राग्वचनं सकृविधानार्थम्', 'अधिकारात्सिद्धमिति चेदपवादविषये छप्रसङ्गः" इति वार्तिकस्योहः कर्त्तव्यः । तथ्याख्या च अग्रे 'प्राग्वचनं क्रियते इत्यादीति गौडाः । । -- , । २६८ ॐ कैयट-विवरणसहितं 8 [प्राक्क्रीता- नैतदस्ति प्रयोजनम्-अधिकारादप्येतत्सिद्धम् । अधिकारः प्रतियोगतस्या- निर्देशार्थ इति योगे योग उपतिष्ठते ।। !!*!! 'अधिकारासिद्धमिति चेदपवाद- विषये छप्रसङ्गः ॥ * ॥ अधिकारासिद्धमिति चेदपवादविषये च्छः प्रामोति । 'उगवादिभ्यो यत्' 'छश्चेति च्छोऽपि प्राप्नोति । तस्मात्प्राग्वचनं कर्त्तव्यम् ॥ अथ क्रियमाणेऽपि प्राग्वचने किथमिदं विज्ञायते-प्राक्क्रीताद्याः प्रकृतय, आहो स्वित्प्राक्क्रीताद्या इति? ॥ किञ्चाsतः? ॥ यदि विज्ञायते माक्क्रीतायाः प्रकृतय इति, स एव दोपः-'अपवादविषये च्छप्रसङ्ग' इति ॥ अथ विज्ञायेत-'प्राक्क्रीतार्था' इति-न दोपो भवति । समानेऽर्थे प्रकृतिविशेपादुत्पद्यमानो यच्छं बाधिप्यते ॥ यथा न दोषस्तथाऽस्तु ॥ 'प्राक्क्रीतायेऽर्था' इति विज्ञायते ॥ कुत एतत् ? ॥ तथा ह्ययं प्राधान्ये- प्र]यथा स्यादित्यर्थः। योगे योग इति । असति सकृद्विधाने 'तस्मै हितं' 'छ' इत्येवं प्रत्यर्थ- निर्देशसूत्रं छो वक्तव्यस्तथा च शास्त्रगौरवप्रसङ्गः । अधिकारादिति । 'छ' इत्येतावदेव सूत्रमस्तु, नार्थः 'प्राक्क्रीता'दित्यनेन । यथैव प्रत्ययादयोऽधिकारा अवधिविशेषोपादानम- न्तरेणेष्टं साधयन्त्येवमयमपि साधयिष्यतीत्यर्थः । प्रतियोगमित्यनेन लाघवार्थत्वमधिकारस्य दर्शयति । 'योगे योग उपतिष्ठते'इत्यनेन वैधिकारस्य व्यापारः प्रदश्यते । उगवादिभ्यो यच्छश्चेतीति। नदीस्रोतोन्यायेन प्रतिसूत्रमधिकारस्योपस्थानादुत्सर्गा- पवादयोः सन्निधानाऽविशेपात्तव्यत्तव्याऽनीयरामिव विकल्पः स्यादित्यर्थः । के चिदाहुः-'उगवादिभ्यो यदित्ययमप्यधिकारस्ततो द्वयोरपि पारार्थ्यात्परस्पराऽ सम्बन्धादुपलक्षणमेतत् । इदन्तु प्रदर्शनीयं-'शरीरावयवाद्यच्छश्चेति । स एव दोष इति । तस्मै हित'मित्यादिध्वर्थनिर्देशेषु 'ड्या प्रातिपदिकादिति सामान्य प्रकृतिरधिकारात्सन्निहिता। 'शरीरावयवाद्य'दित्यादौ तु विशेषप्रकृतिस्तत्र प्राक्क्रीता- प्रकृतिभ्यो विधीयमानश्छो विशेषप्रकृतेरपि प्राप्नोतीत्यर्थः ॥ समानेऽर्थ । इति । 'तस्मै हितमित्यस्मिन्नथें शरीरावयवाद्यविधीयमानः प्रकृत्यन्तरे सावकाशं छं बाधते तक्रमिव कौण्डिन्ये दधीत्यर्थः। तथा हीति । यथानातीयोऽवधिस्तथाजातीयेनावधिमता उ.] किं तत्र लाघवमत आह-छ इतीति । ननु 'प्रतियोग'मिति 'योगे योगे' इति च पुनरुक्त- मत आह-प्रतियोगमिति। व्यापार इति । उत्तरत्रोपस्थितिरूपः । नन्वत्र यतैव निराकाङ्कत्वा'च्छ' इत्यस्याऽसम्बन्धोऽत आह-नदीति । एतेन 'श्रौतसम्बन्धन निराका- इत्वात्प्रकरणलब्धस्य कथं सम्बन्ध' इत्यपास्तम् । स्वरितत्वरूपयत्नेन तस्याऽपि सम्बन्ध- सम्भवादिति भावः। केचिदाहुरिति । संज्ञापरिभाषयोः परार्थयोः परस्परसम्बन्धदर्शना- दत्राऽपि स्यादित्यत्राऽरुचिः । ननु 'तस्मै हित'मित्यादौ सामान्यप्रकृतिविषये चरितार्थश्छो विशेषप्रकृतिभ्यस्तैस्तैर्बाध्येतेत्यत आह-तस्मै इत्यादि। ननु 'क्रीता'. १'अपवादविषयेऽपीति पा०।२ विज्ञायते' पा०।३'अवधिविशेषमनुपादाय'। ४ 'ह्य पा० ।
५ अ.१ पा.३१ आ.। १ सू.] ॐ महाभाष्यम् नाऽर्थ [प्रतिनिर्दिशति । इतरथा हि बह्वयस्तन प्रकृतयः पश्यन्ते ततो यां काञ्चिदेव प्रकृतिमवधित्वेनोपाददीत ॥ अथवा पुनरस्तु 'प्राक्क्रीताद्याः प्रकृतय'इति। ननु चोक्तमपवादविषये च्छप्रसङ्ग इति ॥ ॥ * ॥ न वा कचिद्वावचनात् ॥ * ॥ न वैष दोषः॥ किं कारणम् ॥ 'क्वचिद्वावचनात्' । यदयं व चिद्वावचनं करोति-विभाषा हविरपूपादिभ्य' इति, तज्ज्ञापयत्योचार्यो-'नापवादविषये छो भवतीति। यद्येवं,-नार्थः प्राग्वचनेन, अधिकारासिद्धम् ॥ ननु चोक्तमधिकारासिद्ध- मिति चेदपवादविषये च्छप्रसङ्ग इति ॥ परिहृतमेतत्-न वा क चिद्वावचनादिति ॥ अथ किमर्थमियानवधिर्गृह्यते न 'प्राक्ठज' इत्येवोच्यते? ॥ एतज्ज्ञापय- त्याचार्यः-'अर्थेष्वयं भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यच्छं बाधते ॥ [प्राक्क्रीताच्छः ] ! प्र.] भाव्यम् । यथा 'मासात्पर' इत्युक्ते काल: प्रतीयते, 'ग्रामात्पूर्व' इत्युक्ते देशः ! 'अलोन्त्यात्पूर्व' इत्यलेव । यांका चिदिति । 'आ परिखायाश्छ'इत्येवं वाच्यं स्यादित्यर्थः अथवेति-अभ्युपगम्य वादोऽयम् । न त्वयं पक्षो युक्तोऽवधिविजातीयत्वात् । नन्व- स्मिन्पक्षे छस्यार्थो न निर्दिष्टः स्यात्ततश्च स्वार्थे प्राप्नोति । नैष दोषः। 'तस्मै हितमि- त्यादीनामनिर्देशानां प्रत्ययं प्रति साकाङ्कत्वात्सन्निहितेन च्छेन निराकानीकरणा- दर्थस्य लाभात्स्वार्थे प्रत्ययाऽप्रसङ्गात् । वावचनादिति। विकल्पवचनादित्यर्थः । अथेति । ठमः परोऽर्थः प्रकृतिर्वा प्राक्क्रीतान्नास्तीति लाघवार्थं 'प्राकठञ'इति वक्तव्यम् । 'प्राग्वते. 'जिति प्रत्यासनष्ठग्रहीष्यत इत्यर्थः । अथैब्विति । तेन ज्ञापकाश्रयणमन्तरेण न्यायेना- पवादविषये छस्याऽप्रवृत्तिः सिध्यति । 'प्राकठञ'इति तूच्यमाने तुल्यजातीयस्याऽवधिमतोऽ- भावादर्थाः प्रकृतयो वाऽवधिमत्त्वेन संगृह्येरन् । [ प्राकीताच्छः ] ॥ उ.] दित्यस्य प्राविशेषणत्वेन कथं प्राधान्यमत आह-यथेति। प्राधान्येनेत्यस्याऽ- वधित्वेनेत्यर्थ इति भावः। स ह्यवधिमदपेक्षया प्रधानं, तत्प्रतिपादनतात्पर्येणाऽवधि- निर्देशादिति बोध्यम् । नन्वस्मिन्पक्ष इति । प्रकृतियुक्त सूत्रेऽर्थानिर्देशादित्यभिमानः । ननु 'वा वचन मित्यस्य 'विभाषा हवि'रित्युदाहरणमसङ्गतमत आह-विकल्पेति । वाशब्दोऽर्थ पर इति भावः। नन्वेवं 'लोकसर्वलोके ति ठमोऽप्यवधित्वं सम्भाव्यते- त्यत आह-प्राग्वतेरिति । न्यायेनेति । न्यायश्च यच्छयोः सामान्यविशेषभाव एव । अवधिमतोऽभावादिति । सर्वत्राऽन्वयप्रयोजकस्येत्यर्थः। प्रकृतयो वेति । वाशब्द- श्चाऽर्थे । प्रकृतीनाश्चाऽवधित्वे यच्छयोः समावेशः स्यात् । तद्वारणायोक्तज्ञापकाश्रयणे गौरवं स्यादिति तत्परिहाराय सूत्रकृताऽर्थोवधित्वेनाऽऽश्रित इति भावः। अनेन च भाग्येण 'अथ वा पुन'रित्यस्य प्रौढिवादत्वं सूचितम् ॥ [प्राकीताच्छः] १ 'विषयेऽपि पा०१२'आचार्य'इति काचित्क। ३'उच्यत' पा०। ४ अर्थेष्वेव' पा० । । ..
कैयट-विवरणसहितं [उगवादिभ्यो .. उगवादिभ्यो यत् ।५।१२। ॥ * ॥ ययावत्रः पूर्वविप्रतिषिद्धं सनमानही प्रयोजनम् ॥ * ॥ ययौ भवतोऽजः पूर्वविप्रतिषेधेन ॥ किं प्रयोजनम् ॥ 'सनपानही प्रयोजनम् । यतोऽवकाश:-शङ्कव्यं दारु [परेशव्यं] पिचव्यः कासः। अजोऽवकाश:- वाधं वारत्रम् । सनङ्गुर्नाम चर्मविकारस्तस्मादु भयं प्रामोति-सनङ्गव्यं चर्म । ज्यस्यावकाशः-औपाना दारु । अनः स एव। उपानन्नाम चर्मविकार- स्तस्मादुभयं प्राप्नोति औपानह्यं चर्म [ ययौ भवतः पूर्वविप्रतिषेधेन ]॥ ।। * ॥ ढथे ॥ * ॥ ढञ्च भवत्यजः पूर्वविप्रतिषेधेन । ढोऽवकाशः- छादिषेयं तृणम् । अजः स एव । छदिर्नाम चर्मविकारस्तस्मादुभयं प्राप्नोति-छादिषेयं चर्म । ढन्भवति पूर्वविप्रतिषेधेन । ॥ * ॥ हविरपूपादिभ्यो विभाषाया यत् ।। हविरपूपादिभ्यो विभाषाया यश- वति पूर्वविप्रतिषेधेन । हविरपूपादिभ्यो विभाषाया अवकाशः-आमिक्ष्यम् , आमिक्षीयम् । पुरोडाश्यं पुरोडाशीयम् । यतः स एव । इहोभयं प्र. उगवा । ययाविति । छापवादानां परविप्रतिषेधबाधनायेदम् । छदिर्नामेति । छादनं छदिस्तच चर्मविकारोऽपि सम्भवति । अत्राहुः--छदिरुपानहोः प्रतिपदं प्रत्यय- विधानादयुक्तो विप्रतिषेधः । तथा चोक्तम्-'परनित्यान्तरङ्गप्रतिपदविधयो विरोधिसन्नि- पाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति, नार्थः पूर्वविप्रतिषेधेनेति चिन्त्यमेतत् । हविर- पूपादिभ्य इति सूत्रपाठानुपूर्वीप्रदर्शनार्थमपूपादिग्रहणम् । न ह्यपूपादिषु प्रतिपदं कश्चि- दुकारान्तः पठ्यते । पाठेऽपि वाऽपवादोऽसौ भवति,उत्सर्गापवादयोश्चायुक्तो विप्रतिषेधस्त- स्माद्धविविशेषवाचिविषय एव विप्रतिषेधोऽभिमतः। गवादिगणे हविःशब्दस्य पाठात्स्व- उ.] उगवादि । वाधे-चर्मणोऽञ् । औपानटे-'ऋषभोपानहोर्व्यः' । नन्वश्छाऽप- वादत्वाद्वाध्यसामान्यचिन्तया यतोऽप्यपवादत्वादयुक्तो विप्रतिषेधोऽत आह-छाऽपवादा- नामिति। येन नाप्राप्तिन्यायेन च्छापवादत्वमेव न तु यदपवादत्वम् । यदपि छापवाद इति अपवाद विप्रतिषेध इति भावः । छादनमिति-करणे ल्युट । छदिरित्यत्र 'इस्म- न्।'ति हस्वः । तच्च तृणविकारः, कचिच्चर्मविकारोऽपि । अनाहुरिति । अत्राऽरुचिबीजं निरवकाशवे सत्येव प्रतिपदविधित्वं बाधकत्वे प्रयोजकं नाऽन्यथेति । ननु हविविषयस्यै- वोदाहरणादपूपादिग्रहणं व्यर्थमत आह-सूत्रपाठेति । असम्भवोऽपि तद्विषये विप्र- तिषेधस्येत्याह-न हीति । पाठेऽपि वेत्यभ्युपगमवादः । ननु 'हविः'शब्दस्य ग्रहणा- स्कथं तत्राऽपि विप्रतिषेधप्रसक्तिरत आह-गवादीति। स्वरूपेति । असञ्जातविरोध- न्यायेन तत्रैव स्वरूपग्रहणमिति भावः । नतु चरशब्दस्य स्थाल्या प्रसिद्धः कथमत्रोभय- १ इतोऽग्रेसनपानही प्रयोजयतः'इति पाठो लुप्त इति भाति । २ क्वाचित्कोऽयं पाठः। ३ 'बा' पा० । ४ अयमावश्यकः पाठो बहुषु पुस्तकेषु विलुप्तः । ५ चकारः कचिन्नास्ति । ।
अ.१पा.१ आ.रसू.] महाभाष्यम् प्रामोति-चरव्यास्तण्डुलाः । यद्भवति पूर्वविप्रतिषेधेन ।। ॥ *1) अन्नविकारेभ्यश्च ॥ * ॥ अन्नविकारेभ्यश्च विमापाया यद्भवति पूर्वविप्रतिषेधेन। अन्नविकारेभ्यो विभाषाया अवकाशः-सुर्याः सुरीयाः । यतः स एव इहोभयं प्रामोति-सक्तव्या धाना इति । यशवति पूर्वविप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः । इष्टवाची परशब्द:- विप्रतिषेधे परं-यदिष्टं-तद्भवतीति ॥ अयं नाभिशब्दो गवादिषु पठ्यते । तत्रैवे चोच्यते-'नाभि नभ 'ति । तन्त्र चोद्यते-||* नाभे भभावे प्रत्ययानुपपत्तिः प्रकृत्यभावात् ।। * ॥ नाभेनभभावे प्रत्ययविधानानुपपत्तिः॥ किङ्कारणम् ?॥ 'प्रकृत्यभावात्'। विकृतेः प्रकृताव भिधेयायां प्रत्ययेन भवितव्यम्। न च नाभिसंज्ञिकाया विकृतेः प्रकृतिरस्ति। अ.] रूपग्रहणाच 'विभाषाहविरित्यत्र हविविशेषवाचिग्रहणम् । चरव्या इति । चर्वधिकरणं हविरुपचाराचरुशब्देनोच्यते । अन्नविकारेभ्यश्चेति । अपूपादिष्वन्नविकारेभ्यश्चेत्ति पठ्यते । तद्विषयोऽयं विप्रतिषेध उच्यते । प्रपञ्चार्थश्चायं पाठो 'हविरपूपादिभ्यो विभाषाया य'दित्युक्तत्वात् । तत्र सामर्थ्यादपूपादिग्रहणेनानिर्धारितविशेषा अन्नविकारा एव ग्रहीष्यन्ते । प्रकृत्यभावादिति । यद्यपि हितार्थे नभ्यं तैलं नभ्यं लोहबन्धनमिति सिध्यति । तथापि 'नभ्यं चक्र मिति न सिध्यति, न हि चक्रस्य नाभिर्विकृतिरपि त्ववयवः। नापि- तादर्थ्य मस्ति, अवयविनोऽवयवार्थत्वाभावादिति पर्यनुयोगः। यस्तु शरीरावयवो नाभिस्ततः परत्वाद्धितार्थे 'शरीरावयवाद्य दिति यता भाव्य-नाभ्यं तैलमिति । गवादियता सन्नि- युक्तो नभभावोऽन्यत्र यति न भवति । न चेति । यद्यपि दारुलक्षणा प्रकृति भेरस्ति यथापि नभ्यशब्दवाच्यं चक्र नाम: उ.] प्राप्तिरत आह-चर्वधीति। ननु 'हपिरपूपादिभ्य'इति बार्तिकेऽपूपादिग्रहणं व्यर्थमन्न- विकाराऽतिरिक्ता पूपादिषूवर्णान्ताऽभावादत आह-तत्रेति । विप्रतिषेधवार्तिके इत्यर्थः सामर्थ्यादिति । अपूपादिषु तद्भिन्नीवर्णान्तपाठाऽभावादिति भावः । अनिर्धारित- विशेषा इति । तत्स्वरूपा अन्नविकारवाचकाः शब्दा इत्यर्थः। तस्य क्वचित्सुरादौ चारितार्थ्याद्विप्रतिषेधसङ्गातिरिति भावः । पूर्वम'नविकारेभ्यश्चे'त्यस्याऽपूर्वत्वं मत्वा अपूपादिग्रहणं सूत्रपाठाऽनुपूर्वीप्रदर्शनार्थमुक्तम् । इह त्वस्य तत्प्रपश्चार्थत्वमुच्यते । ननु हिताद्यर्थे प्रत्ययविधानोपपत्तेः किमुच्यते प्रत्ययाऽनुत्पत्ति'रित्यत आह-यद्यपीत्यादि। तैलं स्नेहनत्वाल्लोहबन्धनमशैथिल्यकारकत्वान्नाभये हितमिति बोध्यम् । अवयव इति । छिद्रवत्प्रदेशरूप इत्यर्थः । यच्छिद्राऽनुप्रविष्टः काष्ठविशेषोऽक्ष इत्युच्यते । अव- यवार्थत्वाऽभावादिति । आरम्भकत्वेनाऽवयवानामेवाऽवयव्यर्थत्वादिति भावः । नन्वेवं 'नाभ्यं तैल मिति न सिध्येदत आह-यस्त्विति । 'मण्डलचक्राणां मण्डलचन मित्य- १ 'सूर्याः' 'सूरीयाः' पा० । २ 'तत्रैवोच्यते' पा० । ३ 'प्रत्ययस्यानुपपत्तिः । । ।
यतो वधि प्राम मण्डला- ७ वति आ प्र.] छाद विध पाते पूपा * कैयट-विवरणसहित [उगवादिभ्यो यदेव हि तन्मण्डलचक्राणां मण्डलचक्रं तन्नेभ्यमित्युच्यते ॥ 1} * || सिद्धं तु शाखादिषु वचनाद्धस्वत्वं चे ॥ * ॥ सिद्धमेतत् ॥ कथम् ? ।। शाखादिपु नाभिशब्दः पठितव्यो ह्रस्वत्वं च वक्तव्यम् । नाभिरिव नभ्यमिति ॥ कः पुनरिहोपमाः ? ॥ यत्तदक्षधारणं परिवर्तनं वा ॥ अपर आह-यत्तदानोपाञ्जनमिति ॥ न तहीदानीमिदं वक्तव्य-नाभि नभञ्जेति?॥ वक्तव्यञ्च॥ किं प्रयोजनं? ॥ यान्येतान्यरवन्ति चक्राणि तदर्थम् । तत्र नाभिसज्ज्ञिकाया विकृतेः प्रकृतिरस्ति । यानि चाऽप्यनरवन्ति चक्राणि तदर्थमपीदं वक्तव्यं । दृश्यते हि समुदाया- प्र.] प्रकृति स्तीत्यर्थः। मण्डलचक्राणामिति-नेयं निर्धारणे षष्ठी, सामान्यविशेषाभावात् । नहि भवति 'गवां गौः सम्पन्नक्षीरतमेति । तस्मादवयवावयविभावे षष्टी। कारं चक्र येषां तानि मण्डलचकाणि-शकटानि । तेषां मण्डलाकारं यच्चक्र तन्नभ्य- मुच्यते । तच नाभेः प्रकृतिर्न भवतीति तत्र प्रत्ययो न प्राप्नोतीत्यर्थः । कः पुनरिति । अवयवावयविनोः सादृश्याभावादिति प्रश्नः । इतरः क्रियाद्वारकं सादृश्यं प्रतिपादयति-यत्तदिति । छिद्रवान् रथाङ्गविशेषो नाभिशब्दवाच्यः, स यथाऽ माख्यं काष्ठविशेषं धारयति परिवर्त्तते चैवं चक्रमपीति तत्सादृश्यान्नभ्यशब्देनाभिधास्यत इत्यर्थः । अञ्जनोपाजनमिति । अञ्जनं-तैलाभ्यङ्गः। उपाञ्जन-समीपाऽभ्यङ्गः। यान्यतानीति। एतच्चोपलक्षणं नभ्यो लोहबन्धो नभ्योऽक्ष इत्याद्यर्थमपि पठितव्यमेव । अरवत्सु चक्रेपु पृथग्व्यवस्थितेभ्यः काष्ठेभ्यः पृथग्भूता एव नाभ्यादयोऽवयवा उत्पद्यन्ते । तत्र नाभिप्रकृतिः काष्ठं नभ्यं भवत्येव । अररहितं तु चक्रमेकस्मादेव काष्ठादुत्पद्यत इति पृथङाभेः प्रकृतिभूतकाष्ठाभावात् प्रत्ययाऽप्रसङ्गः स्यादित्यर्थः । यानि चापीति । अनरा- उ.] न्वयाऽनुपपत्ति परिहरति-नेयमित्यादिना। सामान्यविशेषाऽभावादिति । तत्त्वा- ऽभावादित्यर्थः । कचित्तु 'सामान्ये विशेषाऽभावादिति पाठः । तत्राऽयमर्थः-सामान्य. बोधके विशेषबोधकत्वाऽभावादित्यर्थः। 'सामान्यविशेषभावाभावादिति कचित्पाठः। भाष्ये- सिद्धन्तु शाखादिष्विति । 'शाखादिभ्यो य' इति पाठस्त्वसाम्प्रदायिक इति भावः । सादृश्याऽभावादिति । संस्थानकृतसादृश्याऽभावादित्यर्थः। रथाङ्गविशेष इति । रथाङ्गस्य-चक्रस्य विशेषोऽवयवविशेष इत्यर्थः । एवं चक्रमिति । अवयविनो धारणाद्य- भावेऽवयवस्याऽपि तदभावप्रसङ्ग इति भावः । समीपेति। नाभिसमीपवत्तिदेशा- ऽभ्यङ्ग इत्यर्थः । यथा नाभेरिदं तथा चक्रस्याऽपीति सादृश्यमिति भावः। अरवत्सु को विशेषोऽत आह-अरवत्स्विति । पृथग्व्यवस्थितेभ्य इति । अरनिर्माणसौकर्यार्थमिति भावः । तत्र नाभेरिति । तत्प्रकृतिभूतकाष्ठस्य पृथग्भावादित्यर्थः । विकारद्वारा तद्योगाच्च चक्रमपि नभ्यमिति भावः । ननु वृत्तिद्वयकल्पनागौरवण बहुव्रीहिणाऽनराणी'त्येव युक्तमत आह-चक्रजातीति । अनरवञ्चनार्थत्वमुपपादयति-भाष्ये-दृश्यते हीति । १ तस्मिन्नभ्य' पा०।२ चकारः कचिन्नास्ति। ३ 'तन्नाभेः' पा० । दका । वो ५.१ पा.१ आ.३ सू.] महाभाष्यम् २७३ दवयवस्य पृथत्त्वं । तद्यथा-वाी शाखेति । गुणान्तरयोगाच विकारशब्दो दृश्यते । तद्यथा-बैभीतको यूपः, खादिरं चंपालमिति। तत्रावयवात्समु- दाये वृत्तिभविष्यति ॥ अथ यो नभ्यार्थी वृक्षः कथं तत्र भवितव्यं ? नभ्यो वृक्षोनभ्या शिंशपेति। ।। * ॥ नभ्यात्तु लुग्वचनम् ॥१॥ नभ्यात्तु लुग्वक्तव्यः ॥ स तर्हि लुग्वक्तव्यः ? ॥ न वक्तव्यः । तादात्ताच्छब्द्यं भविष्यति-नभ्यार्थों नभ्य इति ॥ कम्बलाच्च संज्ञायाम् ।५।१।३। अयं योगः शक्योऽवक्तुम् ॥ कथमशीतिशतं कम्बल्यमिति ? ॥ निपातनादेतत्सिद्धम् ॥ किं निपातनम् ? ॥ 'अपरिमाणबिस्ताचित- कम्बल्येभ्यो न तद्धितलुकी'ति ।। इदं तर्हि प्रयोजनं,-'संज्ञायामिति वक्ष्यामी'ति । इह मा भूत-कम्ब. लीया ऊर्णा ॥ एतदपि नास्ति प्रयोजनं । परिमाणपर्युदासेनं पर्युदासे प्राप्ते प्र.] णीति वक्तव्ये चक्रजातिविशेषप्रतिपत्त्यर्थो मतुम्निर्देशः। 'अनराणी'त्युक्ते भग्नाराण्यपि चक्राणि प्रतीयेरन् , तस्मादरवत्पर्युदासेनानुपजातारचक्रप्रतीतिरनरवन्तीत्यनेन भवति । ननु यथा वृक्षा एवं बहवो वनं न तु तद्वयतिरिक्तम्, एवं नाभ्यादय एव चक्र, तत्र भेदनिबन्धनो नाभिचक्रयोःप्रकृतिविकारभावो न स्यादित्याशङ्कय भेदं तावदवयवावयविनोः साधयति-दृश्यत इति । भेदेनाऽपि व्यवहारोऽवयवावयविनोदृश्यते न केवलमभेदेन- वेत्यर्थः । ननु प्रकृत्युच्छेदे विकारस्य दर्शनं, यथा-काष्ठोच्छेदे भस्मनः। न चेह चक्रो- च्छेदे नाभिदर्शनमित्याशङ्कयाह-गुणान्तरयोगादिति । तत्रावयवो यश्चक्रस्य नाभिस- शकः सोऽञ्जनादिगुणयुक्तनाभिसज्ञावयवप्रकृतिस्तद्द्वारेण चक्रमपि प्रकृतिः। दृश्यते ह्यवय- वनिबन्धनो व्यपदेशः समुदाये, यथा-'पटो दग्ध'इत्यादौ । तत्र बुद्धिपरिगृहीतभाविविकारा- पेक्षालब्धप्रकृतिव्यपदेशनाभिलक्षणावयवद्वारकश्चक्रस्य नभ्यव्यपदेशः । तादर्थ्यादिति । अनेनैव न्यायेन चरव्यतण्डुलार्था ब्रीहयोऽपि चरव्याः । अङ्गारीय- काष्ठार्थो वृक्षोऽप्यनारीय एवेति प्रकृतौ छो न भवतीति वेदितव्यम्। [उगवादिभ्यो यत् ॥ उ.] समुदायादिति । अपृथगुत्पन्नादपीत्यर्थः । ननु गुणान्तरयोगाद्विकृतित्वेऽपि चक्रस्य नाभिः कथं विकृतिरत आह-भाष्ये-तत्राऽवयवादिति । तयाचष्टे-तत्रेति । सोऽञ्जनादीति । अञ्जनादिगुणयुक्तनाभिसंज्ञकस्य स्वात्मकाऽवयवस्य तद्रहितः स्वयं प्रकृतिरित्यर्थः । नन्वेवमवयवस्य नाभेर्नभ्यत्वेऽप्यवयुविनि चक्रे कथं तब्यपदेशोऽत आह- दृश्यते हीति! भाविविकारोऽअनादिगुणयोगस्तदपेक्षया लब्धः प्रकृतिव्यपदेशो येनेदृशनाभिलक्षणाऽवयवद्वारेणेत्यर्थः । प्रकृताविति। प्रकृतेः प्रकृतावित्यर्थः । अनभिधानादिति भावः ॥ [ उगवादिभ्यो यत् ] । १'चखाल' मिति पा०।२'ऊ: पा०।३ अयं पाठः कचिन्न दृश्यते । . १८ २७४ कैयट-विवरणसहितं. [विभाषा हवि- तत्र कम्बल्यग्रहणं क्रियते-परिमाणार्थम् । परिमाणञ्च सम्झैव ॥ [कम्वलाच्च] । विभाषा हविरपूपादिभ्यः ।५।१।४। किमियं प्राले विभाषा, आहोस्विदप्राप्त ? ॥ कथञ्च प्राहे कथं वाऽप्राप्ते ? ॥ 'उवर्णान्तादिति वा नित्ये प्राप्ले, अन्यन्न वाऽप्राप्ते॥ ॥ * ॥ हविरपूपादिभ्योऽप्राप्ते ॥ * ॥ हविरपूपादिभ्योऽनाले विभाषा । प्राप्ते नित्यो विधिः,-चरव्यास्तण्डुलाः॥ शरीरावयवाद्यत् ।५।१।६। ॥ * ॥ यत्प्रकरणे रथाच्च ।। * ॥ यत्प्रकरणे रथाचोपसङ्ख्यानं कर्त्तव्यम् । रथाय हिता-रथ्या ॥ [ शरीरावयवाद्यत् ] ॥ खलयवमाषतिलवृषब्रह्मणश्च ।५।११७/ वृषशब्दोऽयमकारान्तो गृह्यते॥ [॥ * ॥ वृषेन्शब्दस्योपसङ्ख्यानं वृषशब्दा- देशश्च ।। * ॥ ] वृषन्शब्दश्चाऽपि नकारान्तोऽस्ति तस्योपसङ्घयानं कर्त्तव्यं । 'वृषशब्दादेशश्च । वृषशब्दश्वादेशो वक्तव्यो,--वृष्णे हितमिति विगृह्य प्र.] कम्बलात् । निपातनादिति। अन्तस्वरितपाठाच्च यदन्तत्वं विज्ञास्यते। परिमाण- पर्युदासेनेति । अपरिमाणान्तादद्विगोस्तद्धितलुकि पञ्चाश्चेत्यादौ लुकि प्रतिषिद्धे कम्बल्य- ग्रहणं तत्र परिमाणार्थमेवेत्यर्थः । परिमाणञ्च सवेति । सञ्ज्ञायत इति सज्ञा ।। विभाषा । किमियमिति । यद्यपि ‘हविरपूपादिभ्यो विभाषाया यदिति पूर्वविप्र- तिधप्रदर्शनादप्राप्तविभाषात्वमिहावगतन्तथापि शिष्याणां सुखावबोधनायोपन्यासः ॥ शरीरा । रथायेति । हितार्थ एव रथाद्यद्यथा स्यादर्थान्तरे मा भूदित्येवमर्थमुग- वादिभ्यो यदित्यत्रोपसलयानं न कृतम् । केचिद् रथसीताहलेभ्यो यद्विधा'विति तदन्त- विधिमिच्छन्ति। अन्ये तु हलसीताशब्दयोः साहचर्याच्चतुर्थाध्यायविहित एव यति तदन्तविधिर्न त्वस्मिन्नित्याहुः । [शरीरावयवाद्यत् ] ॥ खलयव । वृषशब्दोऽयमिति । न तु कृतनलोपोऽकारान्तः, अन्यथाऽसन्देहाया- कृतनलोपो निर्दिश्यतेति भावः । वृषन्शब्द इति । उच्चारणादेव नान्तत्वे ज्ञाते 'नकारान्त' उ] कम्बलाच्च । ननु तेन कम्बल्यशब्दसाधुत्वबोधनेऽपि स्वरार्थं यद्विधिरत आह-अन्तति। 'लोके वेदे चेति शेषः । ननु परिमाणमर्थः, सज्ञा तु शब्द इति कथं तयोः सामाना- धिकरण्यमत आह-सज्ञायत इति । परिमाणं रूढ्या कम्बल्यशब्देन गम्यत इत्यर्थः।।।। शरीराऽवयवा । इत्याहुरिति । अनाऽचिस्त्वसमासग्रहणज्ञापकसिद्धतदन्तविधेः 'कृष्णतिल्य' 'राजमाध्यमित्यादाविवेहाऽपि दुर्वारत्वमिति ॥ [ शरीरावयवा] ॥ ६ ॥ खलयव । भाष्ये-अकारान्त इति । अत एव वृष्यमिति सिध्यति । अन्यथेति 'आत्मविश्वजने तिवत् । किश्च नान्तग्रहणे तस्य वृषादेशवचनं, वृषस्य वृषीयमिति १ इदं कचिन्न दृश्यते। २ इदं वार्तिकं नेदानीमुपलभ्यते । ३'शब्दः' इति, 'शब्दोऽपि पा० ।
५.अ. । १ पा.१ आ. ९ सू.] महाभाष्यम् वृष्यमित्येव यथा स्यात् ॥ स्यात् ॥ तथा ब्रह्मशब्दो नकारान्तो गृह्यते ।। [॥ * ॥ ब्राह्मणशब्दस्योपसङ्ख्यानं ब्रह्मन्शब्दादेशश्च ।। * ] ब्राह्मणशब्दश्चाकारा- न्तोऽस्ति तस्योपसङ्ख्यानं कर्तव्यं । [ब्रह्माशब्दादेशच] । ब्रह्मन्शब्दश्चादेशो वक्तव्यो-ब्राह्मणेभ्यो हितमिति विगृह्य 'ब्रह्मण्य मित्येव यथा स्यात् ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यं । समानार्थावेतौ वृपशब्दो वृपन्शब्दश्च, ब्रान्शब्दो ब्राह्मणशब्दश्च । आतश्च समानार्थी,-एवं ह्याह-कुतो नु चरसि ब्रह्मन् !, कुतोनु चरसि ब्राह्मणेति । तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहोऽपरस्मादुत्पत्तिर्भविष्यत्यविरविकन्यायेन । तद्यथा-अवेर्मासमिति विगृह्याऽविकशब्दादुत्पत्तिर्भवेति-आविकमिति, एवमिहापि वृषाय हितमिति विगृह्य वृष्यमिति भविष्यति । वृष्णे हितमिति विगृह्य वाक्यमेव। तथा ब्रह्मणे हितमिति विगृह्य ब्रह्मण्यमिति भविष्यति ब्राह्मणेभ्यो हितमिति विगृह्य वाक्यमेव भविष्यति । त्रैशब्द्यं चेह साध्यं तच्चैवं सति सिद्धं भवति ॥ आत्मन्विश्वजनभोगोत्तरपदात्खः ।५।१।९। ॥ * ॥ भोगोत्तरपदात्खविधानेऽनिर्देशः पूर्वपदार्थहितत्वात् ।। * ॥ भोगोत्तरपदा- खविधानेऽनिर्देशः। अगमको निर्देशोऽनिर्देशः ॥ किं कारणम् ? ॥ 'पूर्व- अ.] इति वचनं स्वरूपनिरूपणार्थम् । तस्येति । अन्यथा ततश्छः प्रसज्येत । वृषशब्दा देश इति । अन्यथा 'ये चाऽभावकर्मणो' रिति प्रकृतिभावादृषण्यमिति स्यात् । कुतो नुचरसीति-ब्रह्मन्शब्दस्यानेकार्थत्वाब्राह्मणशब्दपर्यायत्वं नातिप्रसद्धमिति व्युत्पादयति । एकेन विग्रह इति । एकेन विग्रह एवेत्यर्थः । विग्रहस्तु द्वाभ्यामपि भवतीति नासो नियम्यते । विगृह्येति-भिन्नकर्तृकत्वात्त्वानुपपत्तिः । नैष दोषः । उत्पत्तिशब्देनोत्पादन- मुच्यते, अन्तर्भावितण्यर्थत्वात्पदेः 'परावरयोगे चेति वा ताप्रत्ययः । वृषन्ब्राह्मणशब्दा- भ्यामनभिधानाच्छप्रत्ययो न भवतीत्यर्थः। [खलयवमाप] ॥ आत्मन् । अनिर्देश इति । योऽयं हितमिति प्रत्ययार्थनिर्देशः स भोगोत्तरपदा- उ.] स्यादिति ततो यद्वचनचावश्यकमेव । स्वरूपनिरूपणं-स्वरूपस्य साक्षाच्छब्देन बोधनम् । ननु ब्रह्मन्शब्दस्य ब्राह्मणपर्यायत्वे इव वृषस्य वृषन्पयित्वे कुतो युक्तिन दर्शितेत्यत आह-ब्रह्मन्शब्दस्येति । अनेकाऽर्थत्वच-कमलासनादावपि वृत्तेः । वृषन्- वृषभयोस्तु नाऽन्यतरस्याऽप्यनेकार्थत्वमिति भावः । नाऽसौ नियम्यत इति । एकेनैव विग्रह इत्येवमित्यर्थः । तथा च सति शब्द्यसिद्धिर्न स्यादिति भावः। भिन्नति । विग्रहे प्रयोक्ता कता, भवने उत्पत्तिः, उत्पत्तौ च प्रत्ययः कत्तेति भावः । एवमपि 'वृष्णे हितमिति विगृह्य वाक्यमेवे'त्यनुपपन्नमेवाऽत आह-परावरेति । कालकृतोऽत्र परावरयोगः, विग्रह ज्ञानोत्तरकालिकत्वात्प्रत्ययतदभावज्ञानस्य । इदमप्यतिवाललोकदृष्ट्येति बोध्यम् ।। १ इदं लुप्तमासीत् । २ भवतीत्यसार्वत्रिकम् । ३ वृषशब्दादुत्पत्तिर्भविष्यति । - - । २७६ कैयट-विवरणसहित [ आत्मविश्व- पदार्थहितत्वात्' । उत्तरपदार्थप्रधानस्तत्पुरुषः पूर्वपदार्थहिते च प्रत्यय इष्यते। पितृभोगाय हिते प्रामोति पित्रे चैव हित इष्यते ॥ एवं तर्हि भोगीनप्रत्ययो विधास्यते ॥ * ॥ भोगीनरिति चेद्वावचनम् ॥ * ॥ भोगीनरिति यदि प्रत्ययो विधीयते वावचनं कर्तव्यम् । [ मौतृभोगीणः । पितृभोगीणः । ] मात्रीयः । पित्रीय इत्यपि यथा स्यादिति ॥ 11 राजाचार्याभ्यां नित्यम् ॥* राजाचार्याभ्यां नित्यमिति वक्तव्यम् । राज- भोगीनः ॥ * ॥ आचार्यादणत्वञ्च ॥ * ॥ आचार्यभोगीनः ।। कि भोगीनप्रत्ययो विधीयत इत्यतो राजाचार्याभ्यां नित्यमिति वक्त- व्यम् ? ॥ नेत्याह-सर्वथा राजाचार्याभ्यां नित्यमिति वक्तव्यम् ।। इह च ग्रामणिभोगीनः सेनानिभोगीन इत्युत्तरपद इति ह्रस्वत्वं न प्रामोति। इह चाऽभोगीन इत्यपो भीति तत्वं प्राप्नोति । सूत्रं च भिद्यते ॥ यथान्यासमेवाऽस्तु ।। ननु चोक्तं-भोगोत्तरपदात्खविधानेऽनिर्देशः पूर्वपदार्थ- हितत्वादिति ? | नैष दोषः-अयं भोगशब्दोऽस्त्येव द्रव्यपदार्थकः । तद्यथा-भोगवानर्य देश इत्युच्यते यस्मिन् गावः सस्यानि च वर्तन्ते। अस्ति क्रियापदार्थकः- प्र.]त्खविधाने विवक्षितार्थप्रत्यायनाऽसामर्थ्यांदनिर्देशः। तत्कार्याऽकरणात्। तथाहि लोके पित- भोगीणादिशब्दैः पित्रादिहितस्याऽर्थस्य प्रतिपत्तिः। पित्रादिभोगहितस्यतु प्रतिपत्तिप्रसङ्गः । वावचनमिति । अन्यथा भोगीनराच्छो बाध्येत । भोगोत्तरपदात्खविधाने केवलेभ्यः पित्रादिभ्यो बाधकाभावाच्छः सिध्यति । किं भोगीनरिति । प्रत्यासत्त्याश्रयेण प्रश्नः । सर्वथेति। सामर्थ्य बलवदित्युत्तरम् । ननु भोगोत्तरपदाखविधाने क्रियमाणेऽपि नित्यग्रहणे केवलाभ्यां राजाचार्याभ्यां छस्य निवृत्तिन सिध्यति । एवं तर्हि तथा पाठः कर्तव्यो यथेष्टं सिध्यति । राजाचार्याभ्यां नित्यं भोगोत्तरपदाभ्यामेव हि प्रत्यय इति । ग्रामणिभोगीन इति । ग्रामण्यो भोग इति षष्ठीसमासः । 'इको हस्वोऽङयो गालव- स्येति हस्वः। तत्वं प्रामोतीति । भकारादौ प्रत्ययेऽङ्गस्य विधीयमानमिति भावः । उ.] आत्मन् । कस्य निर्देशस्याऽगमकत्वमत आह-योऽयमिति । विवक्षितार्थेति । पितृभोगीणशब्दाद्विवक्षितार्थेत्यर्थः। तत्कायेति । निर्देशकार्येत्यर्थः। प्रत्ययार्थनिर्देशकार्यञ्च प्रयोगतस्तदर्थप्रतीतिः। भाष्ये-पूर्वपदार्थप्रधाने इति । पूर्वपदार्थनिरूपितप्राधान्यवति हितरूपेऽर्थे प्रत्यय इष्यते । 'लोके' इति शेषः । तदेव व्युत्पादयति-पितृभोगायेत्यादिना। निवृत्तिन सिध्यतीति । नित्य'मित्यस्य प्रत्ययेन सम्बन्धान्महाविभाषानिवृत्तिरेव स्यादिति भावः । राजेति । राजाचार्याभ्यां यदि हिते प्रत्ययस्तर्हि भोगोत्तरपदाभ्यामेवेत्यर्थादिष्ट. सिद्धिरिति भावः । नित्यमित्यस्यैव विवरण-भोगोत्तरपदाभ्यामेवेति । भाष्ये-इह चेत्यादिना प्रत्ययान्तरविधाने दोषान्तरमाह-इह चेति । यथान्यासे यथा सिध्यति तदाह- १ प्रधाने' इति पाठान्तरं, तदेव च नागेशाभिमतम् । २ अयं पाठो न सार्वत्रिकः। । । ।
. । । ५ अ..१ पा.१ आ.९ सू.] महाभाष्यम् तद्यथा-'भोगवानयं ब्राह्मण' इत्युच्यते यः सम्यक्स्नानादीः क्रिया अनुभवति । तयः क्रियापदार्थकस्तस्येदङ्ग्रहणं । यश्च पितृस्थाभ्यः क्रियाभ्यो हितः सम्बन्धादसौ पित्रेऽपि हितो भवति ॥ यदि सम्बन्धात्, अस्तु द्रव्यपदार्थकस्यापि ग्रहण, योऽपि हि पितृव्याय हितः सम्बन्धादसौ पित्रे हितो भवति ॥ अथ वा भोगशब्दः शरीरवाच्यपि दृश्यते । तद्यथा-'अहिरिव भौगैः पर्येति बाहु'मिति । अहिरिव शरीरैरिति गम्यते । एवं पितृशरीराय हितः-पितृभोगीण इति ॥ ॥ * ॥ खविधाने पञ्चजनादुपसङ्ग्यानम् ।। * ॥ खविधाने पञ्चजनादुपसङ्ख्यानं कर्तव्यम् । पञ्चजनाय हितः पञ्चजनीनः॥ ॥ * ॥ समानाधिकरणे ॥ * ॥] समानाधिकरण इति वक्तव्यम् । यो हि पञ्चानां जनाय हितः-पञ्चजनीयः स भवति। प्र. द्रव्यपदार्थक इति। भोगो धनमुच्यते । भोगवानयं ब्राह्मण इति । धनवानपि कृपणो निर्भोग उच्यते, तस्मादत्र क्रिया भोगशब्दवाच्या। सम्बन्धादिति । यस्तु पितृधनाय हितो नाऽसावववश्यं पितृहितो भवति। 'ममैतद्धनं भविष्यतीत्येवं बुद्ध्या पितृ- धनरक्षणादिति भावः। यो हीति । यस्तु 'ममैतद्भविष्यतीति मन्यते नाऽसौ पितुरेतद्धन मिति रक्षति, किन्तर्हि 'ममैत'दित्यभिमानेन । अहिरिवेति । समुदाये वृत्तो भोगशब्द एकदे- शेपु फणेषु प्रयुज्यते । केचिदाहुः-भुजङ्गाङ्गमेव भोगशब्देनोच्यते, न तु सर्व शरीरमिति । तदयुक्तम् , अनन्तत्वात्प्रयोगविषयस्यावधारणस्य कर्तुमशक्यत्वात् । पञ्चजनादिति । मनुष्याः पञ्चजना उच्यन्ते चत्वारो वर्णाः रथकारपञ्चमाः। पञ्चजा- नायेति । 'दिक्सञ्जाथे संज्ञाया मिति समासः। समुदाये वृत्तस्याऽवयवेऽपि वृत्त्या एकवचनं यथा सप्तपिरिति । यो हि पञ्चानामिति । ननु सापेक्षत्वादन समासेन न भाव्यम् । सङ्ख्या हि सङ्खयेयविशेषमपेक्षते । सङ्खथेयस्यैव जनापेक्षया व्यतिरेकस्तदुद्वारेण तु सङ्ख्याया गुणस्येति साक्षात्सम्बन्धाभावात्समासाऽप्रसङ्गः। नैष दोषः । प्रकरणादिवशायदा विशिष्ट- उ.]ग्रामण्य इत्यादि । भोगो धनमिति । कर्मणि घमिति भावः । नन्वत्रापि धनमेव भोगपदार्थोऽस्त्वत आह-धनवानपीति । ननु द्रव्यपदार्थेऽप्येतत्तुल्यमत आह-यस्त्विति । मन्यते नासाविति । एवं हि पित्रादिना धनस्य विशेषणमयुक्तं स्यादिति भावः । ननु भोगशब्दस्य शरीरवाचकत्वे एकदेशे फणे प्रयोगो न स्यादत आह-समुदाये इति । भुजङ्गाङ्गमेवेति । भुजङ्गशरीरमेवेत्यर्थः । न तु सर्वमिति । अत एव 'अहेश्व "फणकाययो रिति कोशः सङ्गच्छत इति भावः । अनन्तत्वादिति । भाष्यप्रामाण्यात्कोशः प्रसिद्धतरार्थविषय इति भावः । नन्वेवं बहुवचनं स्यादत आह-समुदाये वृत्तस्येति। एव?. कस्मिन् यदा वृत्तिस्तदैकवचनम् । संख्या हीति । पश्चादयः केवलसङ्खथाबोधका इत्य- भिमानः। व्यतिरेक:-भेदपूर्वकः सम्बन्धः । साक्षात्सम्बन्धाऽभावात्-सङ्खयेयमन- १ स्नानादिक्रियाः' पा०।२'बाहु'मित्यस्य पाठो न सार्वत्रिकः।३ इदं सम्प्रतिनं दृश्यते। ।
ॐ कैयट-विवरणसहित [ सर्व पुरुषाभ्यां ॥ * ॥ सर्वजनाट्ठथ ॥ * ॥ सर्वजनाञ्च वक्तव्यः, खश्च। सर्वजनाय हितः सार्वजनिकः । सर्वजनीनः । [॥ * ॥ समानाधिकरणे ॥ * ॥] समानाधि- करण इति च वक्तव्यं । यो हि सर्वेषां जनाय हितः सर्वजनीयः स भवति । ॥ * ॥ महाजनान्नित्यम् ॥ * ॥ महाजनान्नित्यं ठवक्तव्यः। महाजनाय. हितो माहाजनिकः ॥ * ॥ तत्पुरुषे ।। * ॥ तत्पुरुष इति वक्तव्यं । बहुव्रीही मा भूत-महान् जनोऽस्य महाजनः । महाजनाय हितो महाजनीयः॥ यदि तातिप्रसङ्गाः सन्तीत्युपाधिःक्रियते-आद्यन्यासेऽप्युपाधिः कर्त्तव्यः । आत्मन्विश्वजन भोगोतरपदात् समानाधिकरण इति वक्तव्यम्।यो हि विश्वेषां जनाय हितः विश्वजनीयः स भवति ॥ अथ मतमेतदनभिधानादाद्यन्यासे न भविष्यतीति, इहापि नाथ उपाधिग्रहणेन, इहाप्यनभिधानान भविष्यति ॥ सर्वपुरुषाभ्यां णढौ ।५।१।१०। ||* सर्वाण्णस्य वावचनम् ॥ * ॥ सर्वाण्णस्य वेति वक्तव्यम्। सार्वः सर्वीयः। ॥ * ॥ पुरुषाद्वधे ॥ * ॥ पुरुषाद्वध इति वक्तव्यम् । पौरुषेयो वधः ॥ अत्यल्पमिदमुच्यते-'पुरुषाद्वध' इति । 'पुरुषाद्वधविकारसमूहतेनकृते विति प्र.] सङ्ख्येयवृत्तित्वावसायः सञ्जयाशब्दानां तदा जनादिना साक्षात्सम्बन्धाद्भवति वृत्तिः । सर्वजनायेति । सर्वो जन इति 'पूर्वकालैकसर्वे'ति समासः । सर्वेषां जनाये। सर्वसाधारणाय वेश्यादिजनायेत्यर्थः । महाजनादिति । नित्यग्रहणं सर्वजनादुक्तः खो मा भूदित्येवमर्थम् । महाजनशब्दश्च समानाधिकरणपदः, आत्त्वनिर्देशादेवावसीयते ।। सर्वपु । सर्वादिति । अनुकरणत्वात्सर्वनामकार्याभावः, 'सर्वनामानी'त्यन्वर्थसंज्ञा- विज्ञानात्। अनाश्रितार्थस्य च शब्दरूपस्यानुकरणमिति प्रकृतिवद्भावादपि सर्वनामत्वं न भवति। पुरुषाद्वधेति । प्रत्ययार्थसामर्थेन षष्ठी समर्थविभक्तिर्लभ्यते । कृते तु उ.] पेक्ष्य सम्बन्धाऽभावात् । अनेन साऽपेक्षत्वादसामर्थ्य दृढं कृतम् । वस्तुतः सङ्घयेय- वृत्तित्वेऽपि तद्विशेषाऽपेक्षत्वेन सापेक्षत्वं बोध्यम् । ध्वनितञ्चेदं 'सङ्खयेयविशेषमपेक्षते इत्युक्त्या, सिद्धान्ते 'विशिष्टसङ्खयेयवृत्तित्वाऽवसाय' इत्युक्त्या चेति बोध्यम् । नेदं नित्य- ग्रहणं महाविभाषानिवृत्त्यर्थमित्याह-नित्यग्रहणमिति। अन्यथा खाऽनुवृत्तिरप्यत्र सम्भा- ब्येतेति भावः । अत्र 'समानाऽधिकरण' इत्यनुक्तौ बीजमाह-महाजनशब्दश्चेति ॥९॥ सर्वपुरुषाभ्यां । भाष्ये-सर्वाष्णस्य वेति वक्तव्यमिति । सर्वाण्णविधायकांऽशस्य वेति वक्तव्यम् । अधिकरणस्य शेषत्वविवक्षायां षष्ठी। अनाश्रितार्थस्य शब्दरूपस्येति । शब्दस्वरूपपरस्येत्यर्थः । एवञ्च-प्रकृतेरेव सर्वनामत्वाऽभावेन तदतिदेशोऽशक्य इति भावः । तस्याऽनित्यत्वादिति तु तत्त्वम् । ननु समर्थविभक्तिर्न निर्दिष्टेत्यत आह-प्रत्ययाऽर्थेति। १ अयं पाठो न काऽप्युपलभ्यते । २'मा भूदिति' । ३ 'आयेन्यासे' पा० । ४ [] एतदन्त- गतः पाठोऽसार्वत्रिकः । ५ इदं वार्तिकमेवेति तु गौडाः। ६ वावचनं चेति' पा० । । । । । ।
। .. ५ अ.॥१पा.। १आ.।१३ सू.] महाभाष्यम् २७९ वक्तव्यम् । पौरुषेयो वधः । पौरुषेयो विकारः। पौरुषेयस्समूहः। तेन कृतं-पौरुषेयं ने दैवम् ॥ [ सर्व पुरुषाभ्यां पढनौ] ॥ तदर्थ विकृतेः प्रकृतौ ।५।१।१२। 11 * ॥ तदर्थमिति कृत्यनामभ्यष्ठम् ।।*। तदर्थमिति कृत्यनामन्यष्टवक्तव्यः । इन्द्रमहार्थमैन्द्रमहिकम् । गाङ्गामहिकम् । काशेरुयज्ञिकम् ॥ * ॥ न वा प्रयोजनेन कृतत्वात् ॥ * ॥ न वा वक्तव्यम् ॥ किं कारणम् ? ॥ 'प्रयोजनेन कृतत्वात्' । यद्धीन्द्रमहार्थम्-इन्द्रमहस्तस्य प्रयोजनं भवति। तत्र 'प्रयोजन'- मित्येव सिद्धम् ॥ [ तदर्थ विकृतेः प्रकृतौ ] । छदिरुपधिबलेढ ।५।१।१३। ॥ * ॥ उपध्यर्थमिति प्रत्ययानुपपत्तिरुपध्यभावात् ॥ * ॥ उपध्यर्थमिह प्रत्यय स्येहाऽनुपपत्तिः ॥ किं कारणम् ? ॥ 'उपध्यभावात्' । विकृतेः प्रकृतावभिधे- यायां प्रत्ययेन भवितव्यं, न चोपेधिसज्ञिकाया विकृतेः प्रकृतिरस्ति । यदि तद्थाङ्गं तदोपधेयमित्युच्यते ॥ प्र.]तेनेति तृतीयोपात्तैव । पुरुषश्च लोकप्रसिद्धः पाण्यादियुक्त इह गृह्यते न तु साङ्खयादि- शास्त्रप्रसिद्धस्तत्र प्रत्ययस्यादर्शनादित्याहुः ॥ [सर्वपुरुषाभ्यां] ॥ तदर्थं । कृत्यनामभ्य इति । अवश्यकर्त्तव्यत्वात्करणार्हत्वाद्वा कृत्या उत्सवास्तन्ना- मभ्य इत्यर्थः । नवेति । प्रयुज्यतेऽनेनेति प्रयोजनं-फलमप्यभिधीयते, कारणमपीतिभावः ।। छदिरु । उपध्यभावादिति । उपधिशब्दो विकृतिवाची नास्ति, एकस्यैव उ.]तेनेति तृतीयेति । सौत्रत्वाद्वन्द्व इति भावः । तत्र प्रत्ययस्येति । तस्य वधविका- राद्यसम्भवाञ्चेत्यपि बोध्यम् । अनेकार्थत्वाच्च वधादिशब्दप्रयोगोऽपि ॥ [सर्वपुरु] ॥१०॥ तदर्थ विकृतेः । ननु प्रकृतिविकृतिभावस्थले कार्यत्वरूपकृत्यत्वाऽव्यभिचारादाह-- अवश्यति। ननु कार्यस्येन्द्रमहस्य कथं कारणत्वरूपं प्रयोजनत्वं, तत्र चैकागारिकाऽनुरोधेन कारणपर्यायस्य ग्रहणमत आह-प्रयुज्यतेऽनेनेति । ऐकागारिकाऽनुप्रवचनीयाद्यनुरोधेनो- भयमपि तत्र गृह्यत इति भावः ॥ [तदर्थ विकृतेः प्रकृतौ] ॥१२॥ छदिरुपधि । भाष्ये-उपध्यर्थमितीति। 'उपध्यर्थमेषा प्रकृति'रित्यर्थे प्रत्ययाऽनुपपत्ति- रित्यर्थः । ननूपध्यभावादित्यस्य–'उपधिशब्दाऽभावादिति नार्थः, तस्य किप्रत्ययान्तस्य शास्त्रसिद्धत्वादत आह-उपधीत्यादि । औपधेयपदस्य योऽर्थस्तविकृतिवाची नास्तीत्यर्थः । तदेवाह-एकस्यैवेति । एकञ्च तादर्थ्यस्याऽप्यभाव इत्यपि ध्वनितम् । भाष्ये-न चेति । १ क्वचित्तु-वध-पौरुषेयो वधः । वध । विकार-यः पौरुषेयेण क(ह)विषासमक्ते । विकार। समूह-पौरुषेयं समागतम् । समूह ॥ तेन कृत-पुरुषेणकृतं पौरुषेयमित्येवं पा २ असार्वत्रिकोदेवमितिपाठः।३'काशेरुपर्शपा.४ प्रयोजनकृतत्वात् ' पापचकार क्वचिन्नास्ति। ।
। कैयट-विवरणसहित छिदिरूपाधि- ॥ * ॥ सिद्धन्तु कृदन्तस्य स्वार्थेऽब्वचनात् ॥ * ॥ सिद्धमेतत् ॥ कथं ? ॥ ['कृदन्तस्य स्वार्थेऽवचनात् ] कृदन्तस्य स्वार्थेऽवक्तव्यः-उपधीयते उपधेयम् । उपधेयमेवीपधेयम् ॥ सिध्यति,-सूत्रं तर्हि भिद्यते ॥ यथान्यास- मेवास्तु ॥ ननु चोक्तम्-'उपध्यर्थमिति प्रत्ययानुपपत्तिरुपध्यभावादिति ।। नैतदस्ति-अयमुपधिशब्दोऽस्त्येव कर्मसाधनः-उपधीयते उपधिरिति । अस्ति भावसाधनः-उपधानमुपधिरिति । तद्योभावसाधनस्तस्येदं ग्रहणम् ॥ एवमपि न सिच्यति ॥ किं कारणम् ? ॥ विकृतेः प्रकृताविति वर्तते, प्रकृतिविकृतिग्रहणं निवर्तिव्यते । तच्चाऽवश्यं निवर्त्यमिहार्थमुत्तरार्थं च । इहार्थन्तावत्-बालेयास्तण्डुलाः। उत्तरार्थम्-'ऋषभोपानहोयः-आर्षभ्यो वत्स इति ॥ अथ तदर्थमित्यनुवर्तते उताहो न ?॥ किं चाऽर्थोऽनुवृश्या? ॥ बाढमर्थः। -'तदस्य तदस्मिन्स्यादिति तदर्थे यथा स्यादिह मा भूत-प्रासादो देव- दत्तस्य स्यादिति, 'प्राकारो नगरस्य स्यादिति ।। प्र.] रथाङ्गविशेषस्योषध्यौपधेयशब्दाभ्यामभिधानात्प्रकृतिप्रत्ययार्थयोश्व प्रकृतिविकारभावा- भावादित्यर्थः । सिद्धं त्विति । उपधेयशब्दात्कर्मसाधनयदन्तात्स्वार्थेऽवक्तव्य इत्यर्थः । तद्यो भावसाधन इति । तत्र हि तादयें संभवति उपधानक्रियार्थत्वाद्रथाङ्गविशेषस्य। एवम- पीति । यद्यपि लोके क्रिया विकारत्वेन चिन्निर्दिश्यते-'बहुविकारोऽयं मनुष्यो हसति गायति नृत्यतीति, तथापि प्रत्ययविधी विशिष्ट एव प्रकृतिविकारभावो गृह्यते यत्र प्रकृत्यु- च्छेदो यत्र वा प्रकृते रूपान्तरापत्तिः । बालेया इति । अन्न तण्डुलानां तादर्थ्यमस्ति न तु प्रकृतिविकारभावो, बल्यवस्थायामपि तण्डुलानां तदवस्थत्वादिति भावः । आर्षभ्य इति । यथा पक्कमाम्रफलमाम्रफलविकारत्वेन न प्रसिद्ध मपि तु प्रत्यभिज्ञानवशात्तत्वेनैव- मृषभोऽपि न वत्सविकारः । अथेति । तदर्थग्रहणाननुवृत्तौ स्वार्थे प्रत्यय उपधिशब्दा- सिध्यतीति भावः । ऋषभोपानद्वरत्रादयश्च शब्दास्तादाद्वत्सादिषु वर्तमानाः स्वार्थ उ.]औषधेयपदवाच्योऽर्थः प्रकृतिर्नास्तीत्यर्थः । तदेवाह-यद्धि तद्रथामिति । यद्रथाङ्ग- मुपधिशब्दवाच्यन्तदेवौषधेयशब्देनोच्यत इत्यर्थः । ननूपधीत्यस्य कृदन्तत्वेऽपि ततोऽभि नेष्टसिद्धिरत आह-उपधेयेति । कृस्पदेन सामर्थ्यात्कृत्यो गृह्यत इत्यर्थः । एवञ्च स्वार्थिक- प्रकरणे 'आनीघ्रसाधारणादमित्यत्रोपधेयशब्दः पाठ्य इति भावः । विशिष्ट इति । उभयोपादानसामर्थ्यादिति भावः । ननु वत्सर्षभयोरवस्थाभेदेन प्रकृतिविकारभावः स्पष्ट एवेत्यत आह-यथेति । ननु ऋषभाधनुरोधेनाऽनुवृत्तिरेव न्याय्या बहूनामनुग्रहात,न त्वेकोपध्यर्थमननुवृत्तिः,'त्यजेदेक'- मिति न्यायादत आह-ऋषभेति । मुख्याऽर्थेभ्यस्त्वनभिधानान प्रत्यय इति भावः । 'अविधानात्' पा० । २ अयं पाठस्त्रुटित इति भाति । ३ इतिः क्वचिन्नास्तिः । । ।
, - ५३.१ पा.१ आ.३१३ सू. # মালা } यदि तदर्थमित्यनुवर्तते-'ऋपभोपानहोचः-ऋपभार्थो धासः, उपान- दर्थस्तिलकल्क:-इत्यत्रापि प्राप्नोति ॥ एवं तह्यंनुवर्तते प्रकृतिविकृतिग्रहणम् ॥ ननु चोक्तं-'बल्यपभयोन सिध्यतीति ॥ कं पुनर्भवाञ् विकारं मत्वाऽऽह-बल्यघभयोर्नसिध्यतीति ? यदि तावद्यः प्रकृत्युपमर्दैन भवति स विकारः-बैभीतको यूपः खादिरं चपालमिति-न सिध्यति । अथ मतमेतत्तदेव गुणान्तरयुक्तं विकार इति,-बल्यपभयोरपि सिद्ध भवति । गुणान्तरयुक्ता हि तण्डुला बालेयाः, गुणान्तरयुक्तश्च वत्स आर्षभ्यः ।। औपधेयन्तु न सिध्यति ॥ वचनात्स्वार्थिको भविष्यति ॥ [छदिरुपधिवलेर्डञ्] अ.]एव प्रत्ययमुत्पादयिष्यन्ति । प्रासाद इति । अत्र सम्भावनामानं गम्यते न तु तादर्थ्य - मिति प्रत्ययो नेष्यते । इतिकरणाऽपरामर्श नेदमुच्यते । यदि तर्हि तदस्येत्यनेन तादर्से प्रत्ययः क्रियते तदा योग्यतामात्रविवक्षायां प्रत्ययाऽप्रसङ्गः-अरणीयं सूनाकाष्ठमिति । अत्रापि बुद्धि परिकल्पितारोपिततादर्थ्याश्रयणे प्रत्ययो भविष्यतीत्याहुः । गुणान्तरयुक्ता हीति । बल्यवस्थायां यो गुणः सन्निवेशलक्षणो, लाक्षादिकृतलौ- हित्यादिलक्षणो वा तदपेक्षया प्राक्तनगुणयुक्ता इत्यर्थः । गुणान्तरयुक्तश्च वत्स इति । सुजातावयवः संहननवान्महाप्राण ऋषभावस्थाप्राप्तये यदा परिपोष्यते न तु दानविक्रयार्थं तदा तादर्थ्यस्य सम्भवः । आम्रन्तु पक्वं यद्यप्यानविकारो गुणभेदात्तथापि तत्त्वबुद्धचत्पादा लोके प्रकृतिविकारभावस्याप्रसिद्धत्वात्तत्र प्रत्ययाऽभावः । आमपक्काऽवस्थयोराम्रशब्द एव वाचकत्वेन प्रवर्तते न तु शब्दान्तरं वत्सर्षभशब्दवत् । औपधेयन्विति । सत्यपि क्रियापेक्षद्रव्यस्थ तादयें प्रकृतिविकारभावाभावात् । वचनादिति। कर्मसाधनकि प्रत्यया- न्तादुपधिशब्दात्स्वार्थे ढप्रत्ययः, उपध्यौपयशब्दयोलोंके पर्याप्सत्वादेकस्यार्थस्यात्मापेक्षया तादर्थं, प्रकृतिविकार भावात् । [छदिरुपधिबलेडन् ] उनन्वितिकरणेनैवाऽनतिप्रसङ्गे 'तदर्थमित्यनुवृत्तियर्थत्यत आह---इतिकरणेति । अरणीयं सूनाकाष्ठमिति। अरणिः सूनाकाष्ठस्य स्यादित्यर्थ इत्यभिमानः । अन्ना. ऽपीति । अन्यथा सूनाकाष्ठमेवाऽरणिरिति भेदनिबन्धना षष्ठी न स्यात् । आरोपितभेदेन सूनाकाष्ठस्याऽरणिरिति षष्ठयान्तु तादर्थ्यमपि तथैवेति भावः । ननु प्राक्तनगुणाऽपेक्षया भिन्नगुणयुक्ता हि बलिरूपा एव, न बालेया अत आह-बल्यवस्थायामिति । गुणः कुङ्कुमादिकृतलौहित्यादिरूपः, सन्निवेशलक्षणो वा। ननु दानविक्रयायर्थं वत्सपोषणे ताद- Oऽभावोऽत आह-सुजातेति । संहननम्-अशिथिलबन्धता । यत्त्वाम्रफलदृष्टान्तेन प्रकृतिविकृतिभावाऽभाव इत्युक्तां; तबाह-आनन्विति । तत्त्वबुद्धिः-प्रत्यभिज्ञारूपा । वैषम्यान्तरमध्याह-आमपक्वति । एवञ्च पकाने प्रख्याभेदाऽभावात्प्रकृतिविकारभावा- ऽभाव इति भावः ॥ [छदिरुपधिबलेन] ॥ १३ १'तिलकः पा०।२ 'ढप्रत्ययेति पा० । ३ 'प्रकृतिविकारभावाभावादिति मा०॥
। . . कैयट-विवरणसहित [तदस्य तस्मिन्- तदस्य तदस्मिन्स्यादिति ।५।१।१६। स्याद्रहणं किमर्थम् ? ॥ इह मा भूत-प्रासादो देवदत्तस्य, प्राकारो नगरस्येति ॥ अथ क्रियमाणेऽपि स्याद्रहण इह कस्मान भवति-प्रासादो देवदत्तस्य स्यात्, प्राकारो नगरस्य स्यादिति ? ॥ 'शक्याथै लि'डिति वक्तव्यम् ॥ प्र.] तदस्य । स्याद्रहणमिति । क्रियमाणेऽपि स्याद्हणे नैवातिप्रसङ्गानिवृत्तिः, इति- करणादेव च सर्वातिप्रसङ्गनिवृत्तिः सेत्स्यतीति प्रश्नः । प्रासादो देवदत्तस्येति । अक्रिय- माणे स्यानणे स्वस्वामिसम्बन्धादावतिप्रसङ्ग उक्तः । अस्येति षष्ठया सम्बन्धमात्रस्य प्रतिपादनात्,सामान्ये च सर्वविशेषान्तर्भावात् । ननु तदर्थग्रहणानुवृत्त्याऽत्र न भविष्यति, तथा चच्छदिरुपधिबलेई' भित्यत्र भाष्यं-'बाढमर्थ' इत्यादि । एवं तीसति स्याद्रणे प्रासादार्थोऽयं देवदत्त उत्पन्नो योग्योऽयं प्रासादलाभ इति तादर्थ्यसम्भवात्प्रत्ययप्रसङ्गः । अथेति । यदा देवदत्तनामा केन चिदीश्वरो दृष्टस्ततः प्रासादं विस्तीर्णं दृष्ट्वाऽसौ सम्भावयति-नाऽयं प्रासादोऽन्यस्य सम्भवति देवदत्तस्यायं प्रासादः स्यादिति तदा प्रत्ययः प्राप्नोतीत्यर्थः। नन्वत्र तादर्थ्य न प्रतीयत इति प्रत्ययो न भविष्यति । एवं तहिं 'प्रासाद'- लाभयोग्योऽसौ देवदत्तः प्रासादार्थ' इत्येवं विवक्षायामिदमुदाहरणम् । अथ वा तदर्थ- ग्रहणमत्र नानुवर्तते इतिकरणेनानिष्टनिवृत्तेः साधयिष्यमाणत्वात् । पूर्वसूत्रे तु भाष्यकारे- पोतिकरणापरामर्शेन प्रसङ्गान्तरेण तदर्थग्रहणस्यैवानुवृत्तिदर्शिता, न त्वसौ सिद्धान्तस्तथा चान्यार्थमपि दारु योग्यतामात्रेण 'प्रासादीय'मुच्यते । न च तत्र तादीलेशोऽप्यस्ति, न च प्रतीयते येनाऽसदपि तादर्थं बुद्धया परिकल्प्य प्रयोगः क्रियेत। शक्यार्थ इति । स्याच्छक्यार्थ उ.]तदस्य तद। ननु स्याद्रहणं सम्भावनार्थकत्वेन स्वस्वामिभावादिसम्बन्धब्यावृत्त्यर्थमत आह-क्रियमाणेऽपीति । 'प्रासादो नगरस्य स्यादित्यादावतिप्रसङ्गसत्त्वादिति भावः । सर्वेति । एवञ्च व्यापकत्वात्तदेव कार्यमिति भावः । नन्वत्र स्वस्वामिभावोऽवयवावयविभावश्चा तत्वेन विवक्षितो न तु सम्बन्धसामान्यम् अस्येति च सामान्यार्थकमतो न दोषोऽत आह- अस्येति षष्ठ्येति । तादर्थ्यसम्भवादिति । 'तदस्येत्यर्थे प्रत्ययो भवति, सम्बन्धी चेत्तदर्थो भवतीति तदर्थः । प्रासादार्थस्य देवदत्तस्याऽयं प्रासाद इत्यर्थे 'प्रासादीय' इति स्यादिति,-इह मा भूदित्यादेरर्थः । ननु तत्स्वामिकत्वेन निणीते प्रासादे. कथं सम्भावनाविषयत्वमत आह-यदेति । स्वस्वामिभावविषयेऽपि सम्भावना सत्त्वेन न तेन तादृशसम्बन्धव्यावृत्तिरिति भावः । भाष्योदाहरणाऽक्षरेभ्यः 'प्रासादार्थे' इत्यादेरलाभादाह-अथ वेति । भाष्यकारेणेति । तदेकदेशिनेत्यर्थः । न हि सिद्धान्तिनोऽज्ञानकल्पना युक्ता । प्रसङ्गान्तरेणेति । औपधेये तदर्थग्रहणाऽनु- वृत्तावपि प्रत्ययस्य स्वार्थिकत्वव्युत्पादनप्रसङ्गेनेत्यर्थः। ननु शक्याथै लिङ 'शकि लिङचेति सूणैव सिद्धेवक्तव्यत्वोक्तिरसङ्गतेत्यत आह-स्याच्छक्यार्थ इति । यत्प्रथमासमर्थ तच्चे- १ अपिः कचिन्नास्ति । - । , - ५ अ.१ पा.१ आ.।१६ सू.] महाभाष्यम् नैवं शक्यम्-इदानीमेव युक्तं-'न [पाधेरुपाधिर्भवति विशेषणस्य वा विशेषण मिति ॥ एवं तहीतिकरणः क्रियते । ततश्चेद्विवक्षा भवति। विवक्षाच द्वयी, अस्त्येव प्रायोक्री विवक्षा, अस्ति लौकिकी। प्रायोनी विवक्षा, प्रयोक्ता म.]इति पठितव्यमित्यर्थः । इदानीमेवेति । चिरवृत्तमपि वस्तु बुद्धया आवितत्वात्प्रत्या- सन्नमिव प्रतीयते । 'उपदेशेऽजनुनासिक इ'दित्यत्रेदमुक्तम्--"प्रायग्रहणादसंज्ञायामपि घभवति, प्रायवचनात्संज्ञायामेव घस्याद्वा न वा, न धुपारुपाधिर्भवति विशेषणस्य वा विशेषणमिति। तत्र हि घविधेयत्वात्प्रधानं, तस्यैव प्रायग्रहणं सज्ञाग्रहणच च विशेषणं न्याय्यम् , न तु संज्ञायाः प्रायग्रहणं विशेषणं, परार्थस्य स्वसंस्कारप्रति- पत्तावयोग्यत्वाच्छब्देन पारा.पन्नस्यैव प्रत्यायनादेकवाक्यत्वाच्च । उपाधिविशेषणशब्दयोश्च क चित्पर्यायत्वं क्रियाभावशब्दयोरिव, कचित्तु भेदेन व्यवहारः। तदुक्तम्-अर्थविशेष उपाधिस्तदन्तवाच्यः समानशब्दो यः । अनुपाधिरतोऽन्यःस्थाच्छाधादिविशे- घणयद्वत् ॥' इति । तत्र स्यादित्येतत्प्रकृत्यर्थविशेषणायोपात्तं परतन्त्रमयोग्यं शवयार्थ इत्यनेनविशेषणेन संबन्धानुभवे । ननु विशेषणसंबन्धमनुभूय प्रकृत्यर्थं विशेषयिष्यति । नैत- दस्ति। विशेषणसंबन्धानुभवे प्रधानत्वं तस्य स्यात, नतूपाधित्वं प्रतीतिकाल एव तस्य पारायं- मवगतमिति कुतो विशेषणसम्बन्धः । अथोपाधिद्वयेन प्रकृत्यर्थः संबध्येत, तदिहापि प्रस- उ.] च्छक्यार्थकस्यात्पदबोध्यमित्यर्थः। तदस्य शक्यमित्यर्थे प्रत्ययो वक्तव्य इत्यर्थः। एवञ्चा:- विकारिकारण एवाऽयम्प्रत्यय इति नोक्तदोष इति भावः । तत्र सम्भावनाविषयस्वस्वामि- भावस्यैव प्रतीतिर्न तु कारणत्वस्येति तात्पर्यम् । नन्विदं प्रथमे उक्तं, तत्कथमिदानीमेवे- त्युच्यतेऽत आह-चिरेति । परार्थस्येति । परविशेषणत्वेन प्रतीतस्येत्यर्थः । यथा राज- सेवकस्य राजसेवाकरणकाले स्वसेवककृतसेवया संस्काराऽभाव इति भावः । तदेवाह- शब्देन पारायति । सप्तम्येत्यर्थः । एकति । घन्विध्येकवाक्यतापनत्वादिति भावः । एतेन 'अवान्तरवाक्यार्थात्तदर्थः प्रागिति तत्र तस्य स्वातन्त्र्यमेवेति परास्तम् । तदन्त- वाच्यः-प्रत्ययान्तशब्दवाच्यः। समानशब्दः-समानाऽधिकरणशब्दः। यथा 'दृतिहरिः पशु'रिति,-कर्तुः प्रत्ययेनाऽभिधानात्पशोरुपाधित्वम् । अतोऽन्यः-प्रत्ययाऽवाच्यो व्यधि- करणश्चेत्यर्थः, यथा 'गार्गिकया माघते'इति श्लाघा । तत्रेति। प्रथमासमर्थात् षष्ठयाद्यर्थे प्रत्यय इत्येकं वाक्यं, यत्तत्प्रथमासमर्थं तच्चेत्स्यादिति द्वितीयम् । तत्र द्वितीये प्रकृत्यर्थः प्रधानम् , विशेष्यत्वात् , 'स्या'दित्येतच्च विशेषणत्वेन प्रतीयमानत्वादप्रधानमिति न तस्य विशेषणान्तरेण सम्बन्ध इति भावः। नन्विति । 'गुणः कृतात्मसंस्कार' इति न्यायादिति भावः । नन्वन्यनिरूपितप्रधानत्वेऽप्यन्यनिरूपितविशेषणत्वं स्याको विरोधोऽत आह-प्रतीतिकाल एवेति । अयं भावः- 'आख्यातं तद्धिताऽर्थस्य यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावस्य तंत्र दृष्टो विपर्ययः ॥ इति तद्वति' इति सूत्रस्थभाष्यसंमतन्यायेन शक्योत्पत्तिकर्तवाचकप्रथमान्तादस्येत्यर्थे : । ..
यद्येवं, ३ कैयट-विवरणसहितं. [ आदिगोयु- हि मृड्या स्निग्धया श्लक्ष्णया जिह्वया मृदून्निन्धानश्लक्षणाशब्दान् प्रयुक्त । लौकिकी विवक्षा,यत्र प्रायस्य संप्रत्ययः। प्राय इति लोको व्यपदिश्यते । न च प्रासादो देवदत्तस्य स्यात्' 'प्राकारो नगरस्य स्यादित्यत्रोत्पद्यमानेन प्रत्ययेन प्रायस्य संप्रत्ययः स्यात् ॥ -नार्थः : स्याद्रहणेन । न हि प्रासादो देवदन्तस्य प्राकारो नगरस्ये- त्यत्रोत्पद्यमानेन प्रत्ययेन प्रायस्य संप्रत्ययः स्यात् ॥ तदस्य तस्मिन्स्यादिति । आर्हादगोपुच्छसंख्यापरिमाणादृक् ।५।१।१९। अथ किमर्थं सङ्ख्यायाः पृथग्ग्रहणं क्रियते, न संख्याऽपि परिमाणमेव, तत्र परिमाणपर्युदासेन पर्युदासो भविष्यति ॥ अ.]ज्येत-'शक्यःप्रासादो देवदत्तस्य स्यादिति । तत्र ज्ञातुमुपभोक्तुं वा शक्य इति प्रकृत्यर्थ- स्य शक्यार्थत्वविशेषणसंबन्धसंभवः। मृदूनिति। अपभ्रंशानित्यर्थः । तस्मात्प्रयोक्तृ- विवक्षा नाश्रीयते, प्रयोक्तुः स्वातन्त्र्यान्नियमाभावात् । प्रायस्येति । समग्रकल्पस्येत्यर्थः । तस्माद्यत्रार्थे लोकाः शब्दान्प्रयुञ्जते तदर्थाभिधायिन एव शास्त्रेणानुविधीयन्ते, प्रयोग- मूलत्वाध्याकरणस्मृतेः । अयमेव न्यायः कचिदितिकरणेनोपसंगृह्यते । तत्रेतिशब्दो हेत्वर्थः सन्विवक्षामनुसारयति । योऽयमर्थस्तदस्य तदस्मिन् स्यादिति तदर्थप्रत्यायनाय यदा विवक्षा भवत्यतो हेतोरयमर्थः-प्रत्ययोत्पत्तिनिमित्तत्वेनाश्रीयत इति । अथ वा एवमर्थ- वृत्तिरितिशब्दो विवक्षामनुसारयति । एवं यदि लोकस्य विवक्षा भवति तत्र प्रत्यय इत्यर्थः। न च लोकस्य प्रासादो देवदत्तस्य स्यादित्यर्थप्रतिपादनाय प्रासादीयो देवदत्त इति शब्द. प्रयोगेच्छा भवति, भवाद्यर्थप्रतिपादनायैवैतच्छब्दप्रयोगात् । तदस्य तस्मिन्स्यादिति ] आदि । किमर्थमिति । परिमीयतेऽनेनेति परिमाणमिति क्रियाशब्दत्वात्परिमाण- शब्दस्य संख्याया अपि परिच्छेदहेतुत्वात् पृथग्ग्रहणं न कर्तव्यमिति मत्वा प्रश्नः । उ. प्रत्यय इत्यर्थो वाच्यः, तत्र च शक्यत्वमसधात्वर्थोत्पत्तिविशेषणं, तस्याश्चोपस्थितिकाले एव कर्तृविशेषणतयोपस्थितेर्न तत्र विशेषणाऽन्वय इति । ननु कथं प्रासादस्य शक्यार्थ- रूपविशेषणसम्बन्धः, स्वरूपेणाऽशक्यत्वादत आह-तत्र ज्ञातुमिति। शक्यार्थविशे- पणसम्बन्धेति । शक्यार्थः शक्यत्वं, तद्रूपविशेषेणेत्यर्थः । तस्मादिति । यतः प्रयो- तारो मार्दवगुणाऽऽदरेणाऽसाधूनपि प्रयुञ्जत इत्यर्थः। समग्रेति। 'समग्र'शब्दार्थ- विषये समर्थः समग्रकल्पः स 'प्राय'शब्देनोच्यत इत्यर्थः। लोकाः शब्दानिति । साधु- प्रयोगादरशालिनः शिष्टलोका इस्यर्थः । अनुसरणप्रकारमाह-योऽयमिति । भवादीति । आदिना जातः । [तदस्य तस्मिन्स्यादिति ] ॥ १६ ॥ आदि। ननु 'परिमाणन्तु सर्वत' इत्युक्तः सङ्ख्या कथम्परिमाणमत आह- परिमीयतेऽनेनेति । रूढरद्याऽप्यज्ञानादिति भावः । ननु वास्तवे भेदे ज्ञापकं व्यर्थम् , १'स्यादिति क्वचिन्नास्ति । २ 'प्रत्ययेनेति कचिन्नास्ति । ३'शक्यत' इति मा०।
५ अ.१ पा.११ आ.११९ सू.] महाभाष्यम् 61 एवं तर्हि सिद्धे सति यत्सङ्ख्यायाः पृथग्ग्रहणं करोति तज्ज्ञापयत्याचा- योऽन्या सवयाऽन्यत्परिमाणमिति ॥ किमेतस्य ज्ञापने प्रयोजनम् ॥ 'अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्वितलुकी'ति । द्वाभ्यां शताभ्यां क्रीता द्विशता त्रिशता,-परिमाणपर्युसेन पयुदासो न भवतीति ॥ यद्यतज्ज्ञाप्यते-'तदस्य परिमाणं'-'संख्यायाः संज्ञासङ्घसूत्राध्ययने प्वि- ति विशेषणं न प्रकल्पते,-'परिमाणं या सङ्खये ति। इह च 'क्रीतवत्परि- माणादिति सङ्ख्याविहितस्य प्रत्ययस्याऽतिदेशो न प्रकल्पते,-शतस्य विकारः शत्यः शतिकः साहस्र इति ।। यत्तावदुच्यते-"एतज्ज्ञापयत्याचार्योऽन्या सङ्ख्याऽन्यत्परिमाण"मिति । नैतज्ज्ञापकसाध्यमन्या सङ्ख्याऽन्यत्परिमाणमिति । न्यायसिद्धमेवैतत्- [अन्यैव हि सङ्ख्या अन्यत्परिमाणमिति ] । भेदमानं सङ्ख्याह । यच्चेपीकान्त यच्चाऽपरिमाणं तस्य सर्वस्य सङ्ख्या भेदमानं ब्रवीति । परिमाणन्तु सर्वतः । प्र.]एवंतहीति-आचार्यदेशीयः परिहरति । यथा प्राच्यवाद्भरतानां ग्रहणे सिद्धे 'बह्वच' इत्यत्र भेदेनोपादानमन्यत्र प्राच्यग्रहणे भरतग्रहणनिवारणार्थ, तेनेजः प्राचामिति भरतेभ्यो युवप्रत्ययस्य लुङ भवति. औद्दालकिः पिता, औद्दालकायनः पुत्र इति । एवमिहापि संख्याग्रहणमन्यत्र परिमाणग्रहणे संख्याया अग्रहणार्थ, तेन द्वाभ्यां शताभ्यां क्रीता द्विशते. त्यत्र द्विगुलक्षणस्य डीपोऽपरिमाणान्तत्वात्प्रतिषेधः सिध्यति । यथा पञ्चाश्वेति । 'पणापादेति नित्ये यति प्राप्त 'शाणारत्यत्र 'शतशाणाभ्यां वेति वचनाद्यत्प्रत्ययाभावात्पक्षे 'शताच ठन्यतावशते' इत्यत्राऽसमासग्रहणानुवृत्त्या संख्यालक्षणस्य कनोऽध्य पूर्वेति लुकि कृते द्विशतेति भवति । यद्येतदिति-शिष्य आचार्यदेशीयेनोक्तं दूषणमुद्भावयति ।। इदानीमाचार्य आह-यत्तावदिति । परिमाणशब्दः क्रियाशब्दत्वेऽपि विशिष्ट परिच्छेद- हेतौ द्रोणादी रूढो न संख्यामभिधेयत्वेन गृह्णाति । यथा पङ्कजशब्दः पद्ममेवाभिदधाति न तु कुमुदादिकमपीत्यर्थः । भेदमात्रमिति । भेदः पदार्थानां वैलक्षण्यं तन्मात्र संख्याशब्दः प्रतिपादयति । मू मूर्तगणनात्मकत्वात्संख्यायाः। एको घट इत्यत्रापि द्वयादिनिरासाझेदा- वगतिरस्त्येव । यश्चेषीकान्तमिति । अपचितपरिमाणोपलक्षणमिषीकान्तग्रहणम् । उ.]असति तु तस्मिन् शापकेन कथं तत्त्वमत आह-यथेति । द्विशतेल्येतदुपपादयति-पणपा- देति नित्ये यतीति । तस्य च विधानसामर्थ्याल्लुगभाव इत्यर्थः । ननु ठन्यतोरपि विधानसामर्थ्याल्लुगभाव इत्यत आह-असमासेति । एवञ्च समासे तदप्राप्तिरेवेति भावः । ननु 'परिमाण'शब्दस्य यौगिकत्वात्कथमन्या सकाचेत्यत आह-परिमाणशब्द इति । योगरूढोऽयमिति भावः । द्रोणादौ-सर्वतो मानत्वविशिष्टे । वैलक्षण्यं-सङ्घयान्तर- प्रयोजकवस्तुसाहित्याऽभावरूपं,सङ्ख्यान्तरनिवर्त्तकवस्तुसाहित्यरूपञ्च । सङ्ख्याशब्दश्त्यस्य- सङ्ख्याशब्दवाच्यत्वेन प्रसिद्धः शब्द इत्यर्थः । तदाह-मूर्तेत्यादि । तत्राऽन्त्यभेदो ब्यादि. १ 'तस्य सर्वरय सझया भेदमाहेति 'स'पुरतके पाठः। 'सर्वसस्या भेदमात्र' मिति 'क' पा० । ।
२८६ ॐ कैयट-विवरणसहितं. [आहादगीपुच्छ- सर्वतो मानमिति चाऽऽतः परिमाणमिति । प्रस्थस्य च समानाकृतेन कुतश्चि- द्विशेषो गम्यते,-न चोन्मानतो, न परिमाणतो, न प्रमाणतः ॥ किं पुनरुन्मानं, किं परिमाणं, किं प्रमाणम् ? ॥ ॥ * ॥ अर्ध्वमानं किलोन्मानम् [*] ऊर्ध्वं यन्मीयते तदुन्मानम् ॥ * परि- माणन्तु सर्वतः ॥ * ॥ सर्वतो मानमिति चाऽऽतः परिमाणम् ॥ कुत एतत् ? ॥ प्र.]तेनायमर्थः-हिमबदादि महापरिमाणमपि संख्यया गण्यते-सप्त कुलाचला इति । अपचित- परिमाणमपि-त्रयः परमाणव इति । यच्चापरिमाणमिति । अमूर्तमप्यात्मादि गण्यते इत्यर्थः । उन्मानप्रमाणपरिमाणानि तुमूर्तद्रव्यविषयाण्येव । कचित्पाठः-'यञ्च परिमाण'- मिति । तत्रायमर्थः-द्रोणादिपरिमाणमपि संख्यया परिच्छिद्यते-द्वौ द्रोणाविति । परिमाण- ग्रहणं चोपलक्षणं, सर्वस्य संख्यापरिच्छेद्यत्वात् । तदुक्तम्-दिष्टिप्रस्थसुवर्णादि मूर्ति- भेदाय कल्पते । क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिका' ॥ इति । सर्वत इति । आरोहपरिणाहाभ्यां स्वगताभ्यां धान्यादि येन मीयते काष्ठादिमयेन तत्परिमाणं प्रस्थादिकमुच्यते । प्रस्थस्य चेति । सङ्ख्ययैव विशेषो गण्यते-दौ प्रस्थौ त्रयः प्रस्था इति न त्वन्यत इत्यर्थः । भिन्नसन्निवेशस्य हस्तादिनापि परिच्छेदो भवतीति समानाकृतिग्रहणं समानसन्निवेशप्रतिपादनार्थम् । प्रसझेन उन्मानप्रमाणयोरपि स्वरूपप्रतिपादनं प्रश्नपूर्वकं करोति-किं पुनरिति । अवमिति । ऊर्ध्वदिगवस्थित उ.]शब्दवाच्यः । आधस्त्वेकशब्दे इत्याह-एको घट इति । भाष्ये-भेदमात्रमित्यस्य- भेदसहचरितमितरसाहित्यं, तत्सहचरितेतरसाहित्याऽभावञ्चेत्यर्थः । यच्चेषीकान्तमिति । चोऽप्यर्थे, तेन-'यदल्पपरिमाणं यच्च महापरिमाणं यच्चाऽपरिमाणं रूपक्रियादि, तत्सर्व सङ्ख्यया गण्यत इत्यर्थ इत्येके । मूर्तिः-असर्वगतद्रव्यपरिमाणम् । अमूर्तमप्यात्मा- दीति । नन्वात्मन्यपि परममहत्परिमाणसत्त्वात्कथमपरिमाणमिति भाष्ये उक्तिः, द्रव्यस्य परिमाणवत्त्वनियमादिति चेन, नियमस्य मूर्त्तद्रव्यविषयत्वात्सर्वपरिमाणाऽभाववत्त्वेनैव तत्र परममहदादिव्यवहारस्य गौणत्वादिति कैयटाशयः। मूर्तद्रव्यविषयाण्येवेति । तदपि न सर्वमूर्त्तद्रव्यविषयमित्यपि बोध्यम् । सर्वस्य-मूर्ताऽमूर्तस्य । आरोहः- उच्छ्रायः । परिणाहो-विस्तारः। एतौ च न मेयगतावित्याह-स्वगताभ्यामिति । परिमाणशब्दस्य प्रस्थादिमात्रवृत्तियोगमाह-माध्ये-सर्वतो मानमिति चात इति । परिमाणभेदकत्वादपि न सङ्घया परिमाणमित्याह-प्रस्थस्य चेति । सङ्ख्ययै- वेति । 'न कुतश्चिदिति भाष्यस्य-सङ्ख याया अन्यतः कुतश्चिद्विशेषो न गम्यत इत्यर्थः । भिन्नसन्निवेशस्येति । प्रस्थान्तराद्भिन्नसन्निवेशस्य प्रस्थस्येत्यर्थः । पूर्व- ग्रन्थेनाऽसङ्गतिमाशङ्कयाह-प्रसङ्गेनेति । 'न चोन्मानत' इत्याद्युक्तिरप्येवं प्रश्नपूर्वक तत्स्वरूपनिरूपणायैवेति बोध्यम् । भाष्ये-यन्मीयते इति ।-मीडो देवादिकस्य रूपम् । परिच्छेदं करोतित्यर्थः । तदाह-ऊर्ध्वदिगवस्थितमिति । हस्त्यादेरिति । । ।
५ अ.११ पा.।१आ.1१९ सू.] महाभाष्यम् परिः सर्वतोभावे वर्तते ॥ || आयामस्तु प्रमाणं स्यात् ।। * ॥ आयासचिव. शायां प्रमाणमित्येतद्धवति ॥ साया बाया तु सर्वतः । [सङ्ख्या बाह्या तु सर्वतः ।] आतश्च सर्वतः सङ्ख्या बाह्या-1 भेदमात्र प्रवीत्येषा नैषा भानं कुतश्च न । एवञ्च कृत्वा सङ्ख्यायाः पृथग्रहणं क्रियते॥ यदम्युच्यते-'तदस्य परिमाणं' 'संख्यायाः संज्ञासङ्घसूत्राध्ययने बिति विशेषणं न प्रकल्पत"इति । आहायं 'परिमाणं या संख्ये ति, न चाऽस्ति संख्या परिमाणं, तत्र वचनादियती विवक्षा भविष्यति ॥ यदप्युच्यते-“क्रीतवत्परिमाणादिति च सङ्ख्याविहितस्य प्रत्ययस्याति- देशो न प्रकल्पते" इति। सङ्ख्याया इति तत्र वक्तव्यम् ॥ प्र.] परिच्छेदकमुन्मानमुच्यते । यथा हास्तिनमुदकमित्यत्र हस्तीति के चिदाहुः। अन्ये तु-हस्त्यादेः प्रमाणे एवाऽन्तर्भावात्तुलादण्डादावारोप्य येन द्रव्यान्तरपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादेर्गुरुत्वं मीयते तदुन्मानं, तच्चोारोपणादूर्ध्वमुच्यत इत्याहुः । आयाम इति। विस्तारो येन मीयते दारुवस्त्रादीनां तत्प्रमाणं हस्तादि, तच्चायाम- परिच्छेदित्वादुपचारादायामशब्देनोच्यते। नैषेति । न कुतश्चित् संनिवेशादेः संख्या मानं-सन्निवेशादिनिरपेक्षं मानमित्यर्थः । तथाहि-दौ मेरुसर्षपावित्यपि भवति । इयती विवक्षेति । रूढिपरित्यागेन परिच्छेदकत्वमात्रमाश्रयिष्यते इत्यर्थः । नन्वेवमप्यन्यभिचारात्संख्याया विशेषणमनर्थकम् । नैष दोषः। प्रत्ययार्थस्य यदा परिच्छेदिका संख्या तदा प्रत्ययो यथा स्यात्पञ्चको गोसद्ध इति । यदा तु प्रकृत्यर्थस्यैव परिच्छेदिका संख्या पञ्चगावोऽस्य सङ्घस्येति तदा मा भूदित्यैवमर्थ संख्या परिमाणग्रहणेन विशेष्यते । संख्या उ.] द्विविधायामस्याऽपि प्रमाणत्वादिति भावः । आहुरिति । अत्राऽचिबीजन्त्वेवम्- 'पुरुषद्वयस' 'हस्तिनीद्वयसमित्यादौ 'प्रमाणे ल' इति नित्यलुगापत्तिः। अयं नित्यो लुगिति तत्रैव भाष्यकैयटयोः स्पष्टमित्याहुः। तस्माद्विविधमपि तदुन्मानमेवेति बोध्यम् । तिर्य विस्तारपरिच्छेदकमेव च प्रमाणमिति । विस्तारो-दैर्व्यम् । नन्वायामपरिच्छेदके आयामशब्दः कथमत आह-तच्चायामेति । न कुतश्चिदिति । एषा सङ्ख्या कुतश्चित्स- निवेशादेन मानमपि तु तन्निरपेक्षं मानमित्यन्वयः । अनेन सन्निवेशनिरपेक्षत्वसापेक्षत्वाभ्यां मङ्खथापरिमाणयो)द उक्तः। किश्चाऽनेन ग्रन्थेन सङ्कथायाः सर्वबाह्यत्वोक्तथा तेषामबाह्य- त्वमपि परस्परं सूचितम् । अत एवाऽपरिमाणविस्तेति सूत्रे, 'परिमाणान्तस्येति सूत्रे च परिमाणग्रहणेनोन्मानग्रहणमपि । अतएव ङीष्प्रतिषेधे विस्ताचितग्रहणं, द्वितीये शाण- पर्युदासश्च सङ्गच्छते । भाष्ये-इयतीति । यौगिकार्थमात्रविषयेत्यर्थः। तदाह-रूढि- परित्यागेनेति । योग्यतावशाच विशिष्टस्योपस्थितावपि तावन्मात्रस्यैव शाब्दबोधविषयते- त्याशयः । ईदृशे विषये लक्षणेत्यन्ये । पञ्चको गोसवइत्यस्य पञ्चसङ्खथापरिच्छेद्यो गोसङ्घ १ नायं पाठः कचित् दृश्यते । २ 'इति चेति कचित्पठ्यते भाष्यकैयटयोः । ।
कैयट-विवरणसहितं. [ आदिगोपुच्छ- किं पुनरिमे ठगादयः प्रागर्हाद्भवन्त्याहो स्वित्सहाहण? | कश्चान्न विशेषः? ॥ ॥ * ॥ ठगादयः प्रागर्हाच्चेदहें तद्विधिः ॥ * ॥ उगादयः भागांच्चैदहें तद्विधिः। अहें ठगादयो विधेयाः,-शतमहति शत्यः शतिकः साहस्र इति ।। "वस्ने वचनासिद्धम्"। इह यः शतमर्हति शतं तस्य वस्त्रो भवति,-तत्र 'सोऽस्यांशवस्त्रभृतय' इत्येव सिद्धम् ॥ ॥ वस्ने वचनासिद्धमिति चेन्मांसौद- निकादिष्वप्राप्तिः ॥ * ॥ वस्ने वचनासिद्धमिति चेन्मांसौदनिकादिष्वप्राप्तिः,- मांसौदनिकोऽतिथिः। श्वैतच्छत्रिकः । कालायसूपिकः ॥ तथा गुणानां परिप्रेनो भवति,-किमयं ब्राह्मणोऽहति,- ?-शतमहति- शत्यः शतिकः साहस्रो नैष्किक इति न सिध्यति ॥ सन्तु वर्हि सहाऽहणे । 11* आच्चेिद्भोजनादिष्वतिप्रसङ्गः।।। आहाच्चद्भोजनादिष्वतिप्रसङ्गोभवति भोजन- महति पानमहतीति। किमुच्यते-भोजनादिष्वतिप्रसङ्ग इति, यदा च्छेदादिभ्य इत्युच्यते ?॥अवश्यं मांसौदनिकाद्यर्थं योगविभागः कर्त्तव्यः, 'तदहति' ततः- 'छेदादिभ्योनित्य मिति।-तस्मिन् क्रियमाणे भोजनादिष्वतिप्रसङ्गो भवति ॥ 11 * ॥ उक्तं वा ॥ * ॥ [ उक्तं वा] ॥ किमुक्तम् ? ॥ अनभिधानादिति । अनभिधानाभोजनादिप्वतिप्रसङ्गो न भविष्यति ॥ अथ वा योगविभागो न करिष्यते ॥ कथं-मांसौदनिकोऽतिथिः श्वेतच्छ- त्रिकः कालायसूपिकः ? ॥ 'अस्मिन्दीयते अस्मा इति च'-एवमेतत्सिद्धम् ॥ अथवा पुनः सन्तु प्रागर्हात् ॥ ननु चोक्तं-'ठगादयः प्रागर्हाच्चेदहें तद्वि- प्र.] इति तत्रेति । लक्ष्यसिद्धये संख्याग्रहणं तत्राधिकं कर्तव्यमित्यर्थः ।। कि पुनरिति । किं मर्यादायामाङ्, अथाभिविधाविति प्रश्नः । अहं तिशब्दैकदेशानु- करणश्चात्राईशब्दः। वस्नेवचनादिति । पटादेरर्थस्य शत्यादिशब्दैरभिधानादिति भावः । मांसौदनिक इति। नहि मांसौदनोऽतिथेर्मूल्यमिति भावः। अस्मिन्दीयत इति । अधिकरणत्वं सम्प्रदानत्वं वा विवक्षित्वा प्रत्ययो विधास्यत इति विकल्पप्रदर्शनार्थमुभयोरुपादा. नम् । तत्र 'तदस्मिन्वृद्धथायलाभशुल्कोपदादीयते' इति योगविभागः क्रियते । तदस्मिन्नि- उ.] इत्यर्थः । तत्राधिकमिति । लक्षणैकचक्षुषां योगार्थमात्रतात्पर्यग्रहस्य वक्तुमशक्य- त्वाचनमेव कार्यमिति भावः । अर्हतिशब्देति । तदर्ह'मिति सूत्रस्थाऽजन्तग्रहे त्वारे- दित्यस्य वैयापत्तिः, 'प्राग्वते रित्येव सिद्धः। न चाऽभिविध्यर्थतया वत्यर्थेऽपि एतद. धिकारार्थन्तत्, वत्यर्थमभिव्याप्याऽधिकाराऽनिष्टेः। विशेषविहितकना वतैर्बाधापत्तावेकव- ञ्चाऽस्याऽन्यतरस्यामिति प्रयोगविरोधापत्तेरिति भावः । वस्ने इति । वस्नो-मूल्यम् । विकल्प इति । भाष्ये चशब्दो वाऽर्थ इति भावः । ननु तदस्मिन्निति सूत्रस्य 'वृद्ध्याये'- त्यादिवाक्यशेषात्कथमन्यत्र प्रत्ययोऽत आह-तत्रेति । इति योगविभाग इति । इत्यत्र १ भाष्यवात्तिकमेतत् । २ 'परिप्रश्नेः पा०। ३ 'यानम' पा० । ४ इदं कचिदपि न दृश्यते । ५'तदस्मिन्वृद्धथायेति सूत्रे उक्तमेतत् । । ..
, ५.१ पा.१आ.२० सू.]] १३ महाभाष्यम् धि'रिति ॥ परिहतमेतद्वस्ने वचनासिद्धमिति ।। ननु चोक्त "वस्ने वचनासिद्ध- मिति चेन्मांसौदनिकादिपत्रप्राक्षिरिति । तथा गुणानां परिप्रेने भवति-किमयं ब्राह्मणोऽहति ?-शतमहति-शत्यः शतिका साहस्रो नैष्किक इति, म सिध्य- ती"ति । नैष दोषः- 'अस्मिन्दीयते अस्मो इति च'--एवमेतत्सिद्धम् ॥ असमासे निष्कादिभ्यः ।५।१॥२०॥ असमास इति किमर्थम् ॥ परमनिप्केण क्रीतं परमनष्किकम् ॥ प्र.] त्येको योगः । 'वृद्धयायलाभशुल्कोपदा' इति द्वितीयः,-पूर्वयोगस्याऽसर्व विषयत्वज्ञाप- नार्थः । 'दीयते' इति तृतीयो योग उभयोर्योगयोः शेषः । ततो दीयते तदस्मिन्निति सप्तम्यर्थे ठगादयः प्रत्यया भवन्ति । तदस्मिन्दीयते तदस्माइति चोपसकाथानमितिवचनाच्चतुर्थ्यपि भवन्तीति सर्वेष्टसिद्धिः। यद्यप्यतेऽपि न दीयते तथापि योग्यतया संभावितदानाश्रय- प्रत्ययोत्पादनेन विशिष्ट स्वरूपनित्यशब्दव्युत्पत्तिरविरुद्धेति मन्यते । [आहदिनोपुच्छ] । असमा। असमास इति । बक्ष्यमाणः प्रारभिप्रायः। परमनष्किकमिति। ठमेवाऽत्रभवति । निष्कशब्दस्य परिमाणवाचित्वात्पूर्वेणाप्राप्तोऽनेन ठग्विधीयते । निष्कादि- उ.] योगविभाग इत्यर्थः। नन्वेवं चतुर्थ्यर्थे न स्यादत आह-तदस्मिन्दीयते तदस्मा इति। एवं च 'प्राक्पदाऽनुवृत्त्यैव सिद्धे आङ्ग्रहणसामर्थ्यादभिविध्यर्थक एवाऽयमति निष्कर्षः ॥ असमासे । ठमेवाऽत्रेति । 'असमास' इति पर्युदासेनाऽस्याऽप्राप्तेः। ननु निष्क- स्योन्मानत्वेनाऽपरिमाणत्वात्पूर्वेणैव उकि सिद्धेऽस्य नियमार्थत्वेन निष्कशब्दात्प्रत्ययो विधीयत इत्यादिभाष्याऽसङ्गतिरत आह-परिमाणवाचित्वादिति। एतद्भाष्यप्रामाण्येना- ऽत्र परिमाणविशेषवाचकानामेब निष्कादीनां ग्रहणमिति भावः। तेषां तदाचित्वेऽपीद- मेव भाष्यं मानम् , असमासग्रहणस्य तदन्तविधिज्ञापकतापरं भाष्यञ्च मानम्। अन्यथा पणा- पादादिविषये पूर्वसूत्रप्राप्तठको निवृत्त्या तच्चारितार्थं स्पष्टमेव । यद्वा पूर्वेण उकि सिद्धे इदं व्यर्थमत आह-परिमाणवाचित्वादिति । पूर्वसूत्रे उन्मानस्याऽपि परिमाणग्रहणेन ग्रहणा- दिति भावः । पणपादादयोऽप्युन्मानमेवेति बोध्यम् । 'परिमाणान्तस्याऽसंज्ञाशाणयो'रि- त्युत्तरपदवृद्धिः। शाणपर्युदासाच्च तत्रोन्मानमपि गृह्यते। परिमाणविशेषा एव वा निष्कादयः यद्यपि 'उत्तरपदस्येति सूत्रभाष्येऽत्र सूत्रे 'संख्याया' इत्यनुवृत्तिरुक्ता, तथाऽन्यत्रत्यप्रयोग- रूपभाष्यविरोधेनोत्तरपदाऽधिकारप्रयोजनखण्डकपूर्व पक्ष्युक्तिरूपतद्भाष्यं प्रौढिवाद इति भावः । अत एव 'परिमाणान्तस्ये त्यन्तग्रहणं चरितार्थम् । 'संख्याया' इत्यनुवृत्तौ तु तद्वै. ययं स्पष्टमेव । यद्वा 'संख्याया' इत्यनुवर्त्य तत्र वाक्यभेदेन व्याख्येयम् । तेन 'परिमाणा- न्तस्ये त्यस्याऽसंख्यापूर्वपदे काचित्कत्वम् । अत एवाऽस्याऽप्युत्तरपदे एवं प्रवृत्तिरिति न तत्राऽधिकारप्रयोजनमिति तदाशयः। एतेन 'संख्यायाः संवत्सरसंख्यस्य चे त्यत्र संवत्सर- ग्रहणमन्यत्र परिमाणग्रहणे कालाऽग्रहणज्ञापकमिति भाष्य उक्तम् । तत्प्रामाण्याच 'परिमा- १ 'परिप्रश्नो' पा० ! २ 'तदस्मिन्वृद्धचायलाभेत्यत्रत्यं(५-१-४७)वात्तिकमिदम्। - कैयट-विवरणसहित [असमासे निष्का- नेतदस्ति-निष्कशब्दात्प्रत्ययो विधीयते तत्र का प्रसङ्गो यत्परमनिष्कशब्दा- स्यात् ?। नैच प्रामोति नाऽर्थः प्रतिषेधेन ॥ तदन्तविधिना प्रामोति ॥ ग्रहण- वता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ॥ अत उत्तरंपठति-1*11 निष्का- दिवसमासग्रहणं शापकं पूर्वत्र तदन्ताऽप्रतिषेधस्य ॥ * ॥ निष्कादिष्वसमासग्रहणं क्रियते ज्ञापकार्थम् ॥ किं ज्ञाप्यम् ? ॥ एतज्ज्ञापयत्याचार्य:-'पूर्वत्र तदन्त- विधेः प्रतिषेधो न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ 'प्राग्वतेष्ट'- जित्यत्र तदन्तविधिः सिद्धो भवति ॥ नैतदस्ति प्रयोजनम्, ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते,-न च ठविधौ का चित्प्रकृतिगुह्यते॥ इदन्तर्हि प्रयोजनम्-'आदिगोपुच्छसङ्ख्यापरिमाणाहक',-परमगोपुच्छेन क्रीतं पारमगोपुच्छिकम् , -अत्रे तदन्तविधिः सिद्धो भवति । प्र.] ध्विति । पूर्वत्रग्रहणं वात्तिककारः पठन्कृष्णतिल्यादिसिद्धिमेव प्रयोजन मेने। भाष्यकारस्तु न्यायव्युत्पादनाय पूर्वत्रग्रहणमविवक्षितार्थं मत्वा प्रयोजनानि प्रदर्य दूषयित्वा च कृष्णतिल्या- द्यर्थत्वमेव ज्ञापकस्य स्थापयिष्यति । प्राग्वतेष्टजित्यत्रेति । तेन परमनिष्कशब्दावसिद्धो भवति । केवलात्प्रातिपदिकाहविधीयमानः समासान्न स्यादित्याभासमात्रेणेदमुक्तम् नचठविधाविति। यत्र विशिष्टा प्रकृतिरुपादीयते तत्रतदन्तविधेः प्रतिषेधः। ठविधौङ था- प्रातिपदिकाधिकारात्प्रातिपदिकमानं प्रकृतित्वेनाश्रीयते। तत्र समासस्याऽपि प्रातिपदिकत्वा- तदन्तविधेर्नविधिर्न प्रतिषेधइतिठन्सिद्धथतीति भावः। पारमगोपुच्छिकमिति । ठक्प्रतिषेधा- टुञ्भवति। यद्येवं केवलस्य प्रतिषेधो न प्राप्नोति-गौपुच्छिक इति । नैष दोषः । यस्यां परिभा- षायां प्रातिपदिकस्य श्रुतिरस्ति सेह नोपतिष्ठत इति सामान्यापेक्षं ज्ञापकमाश्रीयते । तेन 'ग्रहण. वता प्रातिपदिकेन तदन्तविधिनास्ति' 'व्यपदेशिवद्भावोऽप्रातिपदिकेनेति द्वयोरप्यत्रानुपस्थाना- उ.] णाऽन्तस्ये त्यत्र 'संख्याया' इत्यनुवृत्तिरवश्यवाच्या । अन्यथा 'संवत्सरस्य चेत्संख्याया' इति नियमार्थतासम्भवेनोक्तार्थज्ञापकता न स्यादित्यपास्तम्। 'परिमाणन्तु सर्वत' इति लक्षण- लक्षितपरिमाणत्वस्य संख्यायामिव कालेऽभावालक्ष्याऽनुरोधेनाऽसञ्जातविरोधन्यायेन च विधित्वमङ्गीकृत्य तज्ज्ञापनमेव युक्तमित्यभिप्रायाच्चेत्याहुः । अत एव-विभाषा कार्षापणे ति सूत्रे 'अध्यर्द्धसौवणिक'मित्यादिबनेन वृद्धिर्वक्ष्यते कैयटेन । अन्यथा समासकन्विध्योरेव तस्य संख्यात्वेन तदसङ्गतिः स्पष्टव । ननु वार्तिके 'पूर्ववेत्युक्तेर्भाष्ये 'पारायण' इत्यादेख्दाहरणत्वं कथमत आह-पूर्वत्रेति । प्रयोजनानीति । 'पारायणेति सूत्रविषयाण्यपीत्यर्थः । आभासमात्रेणेति । तीजन्तु 'ग्रहणवते'ति सिद्धान्त्युक्तिः । ननु प्रातिपदिकरूपा प्रकृतिस्तत्राऽस्त्येवेत्यत आह- यन्त्र विशिष्टेति । तत्रैव विशेष्यसन्निधानात्तदन्तविधिप्रसक्तरिति भावः । यद्येवमिति । व्यपदेशिवद्भावस्त्वप्रातिपदिकेनेति निषिद्ध इति भावः । सामान्यापेक्षमिति । स निषेधः सूत्रोपात्ताऽन्तादिशब्दविषयक इत्यपि बोध्यम् । इदञ्च 'येन विधिरित्यत्र कैयटे स्पष्टम् । १ 'तदन्तविधिप्रति' पा०।२ अत्रेत्यादिर्भवत्यन्तः पाठः कचिन्नास्ति । -- ७ - -- । ५ अ.११ पा. १ आ.।२० सू.] ॐ महाभाष्यम् एतदपि नास्ति प्रयोजनम्-विधौ प्रतिषेधः, प्रतिषेधश्चाऽयम् ॥ एवं तर्हि ज्ञापयत्याचार्य:-'इत उत्तरं तदन्तविधेः प्रतिषेधो न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? 'पारायणतुरायणचान्द्रायणं वर्तयति'-द्वैपारायणिकः पारायणिका,-अत्र तदन्तविधिः सिद्धो भवति ।। एतदपि नास्ति प्रयोजन-वक्ष्यत्येतत्-प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्त- ग्रहणमलुकी ति॥ पूर्वनैव तर्हि प्रयोजनं-'खलयवमापतिलवृपब्रह्मणश्च'-कृष्ण- तिले यो हितः-कृष्णतिल्यः, राजमापेभ्यो हितं राजमाप्यम् । प्राग्वतेः संख्या. पूर्वपदानां तदन्तग्रहणमलुकि ।। प्राग्वतः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि कतव्यम् । पारायणतुरायण चान्द्रायणं वत्तयति'-द्वैपारायणिकः । पाराय- णिकः ॥ अलुकीति किमर्थम् ? ॥ द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पण क्रीतं द्विशौर्पिकम् । त्रिशौर्पिकम् ॥ [ असमासे निष्कादिभ्यः ] ।। म.]त्तदन्तविधिना तदन्तस्य कार्य, केवलस्यापि व्यपदेशिवद्भावेन। विधौ प्रतिषेध इति। 'पूर्वादिनिः' 'सपूर्वाच्चेति प्रत्ययविधौ ग्रहणवते'त्येतस्याः परिभाषाया शापितत्वायत्रैव प्रत्ययो विधीयते तत्रैवाऽनया तदन्तविधिः प्रतिषिध्यते । 'अगोपुच्छसंख्यापरिमाणा'दित्यनेन तु ठक् प्रतिषिध्यत इति न तदन्तविधिप्रतिषेधो, नापि व्यपदेशिवद्भावप्रतिषेधः । अन्ये त्याहुः-गोपु- च्छात्परष्ठक् साधुन भवतीत्येवं प्रतिषेधे विज्ञायमाने गोपुच्छश्रुतेः सर्वत्राऽविशेषात्केवलात्त- ‘दन्ताच ठकोऽसाधुत्वं सिध्यतीति नाऽत्र तदन्तविधिना प्रयोजनमिति तदभावे तत्प्रतिषेध- स्याऽप्यप्रसङ्ग इति ज्ञापनस्यापि न प्रयोजनम् । वक्ष्यत्येतदिति । तच्चावश्यं वक्तव्यम- सत्यस्मिन् ज्ञापके । विध्यर्थं सति तु नियमार्थं संख्यापूर्वपदानामेव यथा स्यादिह माभूत्- 'परमपारायणं वर्त्तयतीति । तथा लुगन्तायाः प्रकृतेर्मा भूत-द्विशूर्पण क्रीतं द्विशौपिकमिति । राजमाध्यमिति । ननु राजमाषशब्दस्य जात्यन्तरवाचित्वान्माषशब्दस्यानर्थक्यादत्र प्रत्ययो न प्राप्नोति । नैष दोषः। यथैकविंशतिर्नरसिंहो गौरखरोलोहितशालिरित्यादीनां समुदा- यानामर्थान्तराभिधायित्वेऽपि नावयवानामानर्थक्यं तथास्यापि। शब्दसंस्काराय हि शास्त्रे सर्वत्र परिकल्पितार्थवत्ताश्रीयते । तात्त्विकी तु वाक्यस्यैव,तस्यैवार्थस्यप्रत्यायनाय प्रयोगात् । द्वा- भ्यामिति । तद्धितार्थेति समासे कृने 'शूपदिअन्यतरस्यामित्यन्ठयोरन्यतरस्याऽध्यर्द्धति उ.] विधावेव प्रतिषेध इत्यर्थे मानमाह-पूर्वादित्यादि। अन्यथा 'पूर्वादिनिरित्येव तदन्त- विधिना सिद्धे 'सपूर्वाच्चेति वैयर्थ्यं स्पष्ट मेव । अत्रैव 'पूर्वात्सपूर्वादिनिरित्येकसूत्रे कर्त्तव्ये योगविभागो 'व्यपदेशिवद्भावोऽप्रातिपदिकेने त्यस्य ज्ञापको बोध्यः । अन्ये वाहुरिति । अत्राऽरुचिबीजन्तु विधावप्येवमेवाऽर्थापत्तौ 'ग्रहणवते'त्यस्य निर्विषयत्वापत्तिर्भाध्यविरो- धश्च । आनर्थक्यादिति । अनर्थकेन तदन्तविधेरभावादिति भावः । नाऽवयवाना- मानर्थक्यमिति । अत एव सुबन्तत्वसमानाऽधिकरणत्वप्रयुक्तसमाससिद्धिरिति भावः । नन्वेतत्काल्पनिकं न वास्तवंतत्राह-शब्दसंस्काराय हीति । भाष्ये-प्राग्वतेरिति । १ वैशौपिकं त्रैशौर्पिक' पा० । ।
- २५२ कैयट-विवरणसहितं. [शताच ठन्य- शताच ठन्यतावशते ।५।२१॥ 11 * ॥ शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः ॥ * ॥ शतप्रतिषेधेऽन्यशतत्वे प्रति- म.]लुक् । ततो द्विशूर्पण क्रीतमित्यजभावे सामान्यविहितष्ठभवति । तस्य द्विगुनिमित्तत्वा- भावाल्लुगभावः । 'परिमाणान्तस्ये'त्युत्तरपदवृद्धिः। [असमासे निष्कादिभ्यः] ॥ शताच्च । 'संख्याया' इति कनि प्राप्त ठन्यतौ विधीयते। तत्राऽशत इति प्रत्ययार्थस्य विशेषणं, न प्रकृतेरसंभवात् । नहि शतशब्दस्याऽशत वृत्तिः सभवति । तत्र प्रत्ययार्थस्य द्विविधं शतत्वम्-प्रकृत्यर्थव्यतिरिक्तसंख्येयान्तरविषयं, प्रकृत्यर्थविषयं च। तत्र पूर्वं यथा. शतेन क्रीतं शत्यं शाटकशतमिति । अपरन्तु शतमध्यायाः परिमाणमस्य ग्रन्थस्य शतक इति। अत्र हि केवलं प्रत्ययोत्पादनाय प्रकृतिप्रत्ययार्थयोर्भेदविवक्षा, तात्त्विकस्त्वभेद इति प्रत्ययार्थस्यैकत्वेपि शतत्वमस्त्येव । यथा शतमित्येकत्वे विभक्तिवाच्ये सत्यपि शतत्वं न निव- तते । तत्राद्यस्य निषेधो मा भूदित्याह-शतप्रतिषेध इति । तत्र केचिदाहुः न्यायसिद्ध एवार्थो वार्तिककारेण प्रतिपादितः। प्रकृत्यर्थस्य शतस्य यत्र प्रत्ययार्थत्वं तत्रान्तरङ्गमहेयं, संख्यान्तरासाधारणं च शतत्वम् ,अन्यत्र तु शत्यं शाटकशतमित्यादौ शब्दान्तरप्रयोगसम- धिगम्यत्वावहिरङ्गमिति तत्र प्रतिषेधाप्रसङ्गः । अन्ये वाहुः-शतको ग्रन्थइत्यत्र ग्रन्थस्यैक- संख्यत्वाच्छतत्वमनुमीयते । तत्र यथा वृक्ष इत्यत्र मूलाद्यवयवसमवेतबहुत्वसंख्याश्रयं उ.]इत ऊर्द्ध माहीयेऽनाहीये चेति शेषः । अलुकी'त्युक्तेः फलं दर्शयति-समासे कृते इति। अजमावे इति । लुगन्तायाः प्रकृतेस्तदन्तविधिना ग्रहणाऽभावादिति भावः । अलुकीत्यस्य लुगन्ता या प्रकृतिस्तद्विषयस्तदन्तविधिर्नेति वाच्योऽर्थः ॥ [असमासे निष्कादिभ्यः] ॥२०॥ शताच ठ। वातिकोत्थानायाह-संख्याया इति। प्रकृत्यर्थेति । तद्वयतिरिक्त यत्संख्येयान्तरं संख्येयविशेषस्तद्विषयं-तदाश्रितमित्यर्थः । यथा शतेनेति । अत्र च प्रत्ययार्थस्य शतत्वं शाटकशतादिपदान्तरसमभिव्याहारगम्यमिति बोध्यम् । अपरन्त्विति इदञ्च पदान्तराऽनपेक्षं प्रत्ययान्तशब्दश्रवणमात्रेणैव गम्यते प्रत्ययाऽर्थोऽपि शतमिति । नन्वत्र प्रकृतिप्रत्ययार्थयोर्भेदाऽभावात्कथं तदस्य परिमाण मिति प्रत्ययः, अपि च प्रत्य- यार्थस्यैकत्वात्कथं शतत्वमत आह-अत्र हीति । आरोपितभेदमादायैव प्रत्ययोत्पत्तिरिति भावः । अन्त्यं समाधत्ते-प्रत्ययार्थस्यैकत्वेऽपीति । इत्याहेति । इतिहेतौ । भाष्ये- अन्यशतत्वे इति । प्रकृत्यर्थाऽतिरिक्तगतशतत्वस्य प्रत्ययाऽर्थत्वे इत्यर्थः । तत्राऽन्तर- ङ्गमिति । पदाऽन्तरसमभिव्याहाराऽनपेक्षत्वादन्तरङ्गत्वम् । अहेयमिति । 'शल्यं शाटकशत'मित्यादौ 'शत्यं शाटकद्वय मित्यस्याऽपि सम्भवात्तस्य हेयत्वम् । अत एव तसंख्यान्तरसाधारणमित्याहुः। अन्ये त्वाहुरिति । शब्दमर्यादाऽनुसारिण इत्यर्थः अनुमीयत इति । अवयवगतं तदारोप्य शब्दजबोधोत्तरम्प्रतीतिविषयीक्रियत इत्यर्थः । १'शतेऽवृत्तिर्भवति' पाठा० । ।
। पेधः प्रासोति ॥ ५.११ पा.१ आ.।२२ सू.] महाभाष्यम् पेधो न भवतीति वक्तव्यम् । इह मा भूत्-शतेन क्रीतं शत्यं शाटकशत- मिति ॥ अन्यशतत्व इति किम् ? | शतकं निदानम् ॥ [ शताच ठन्यतौ ] ॥ संख्याया अतिशदन्तायाः कन् ।५।१।२२। ॥ * ॥ डतेश्च ॥ * ॥ इतेश्चेति वक्तव्यम् । इहापि यथा स्यात्-कतिभिः क्रीतं कतिकम् ॥ किं पुनः कारणं न सिध्यति ? ॥ 'त्यन्ताया ने ति प्रति- [तिप्रतिषेधाडुतिग्रहणमिति चेदर्थवद्हणात्सिद्धम् ] । अर्थवतस्तिशब्दस्य ग्रहणं नच डतेस्तिशब्दोऽर्थवान् ॥ नैषा परिभाषेह शक्या विज्ञातुं,-न हि केवलेन प्रत्ययेनाऽर्थो गम्यते ॥ केन तर्हि ? ॥ सप्रकृतिकेन ॥ व तद्देपा परिभाषा भवति। यान्येतानि शब्दसहातग्रहणानि ॥ तत्तहि वक्तव्यम् ? ॥ न वक्तव्यम्-'अर्थवद्रहणा- सिद्धम् ॥ ननु चोक्तं-"नेपा परिभाषेह शक्या विज्ञातुं न हि केवलेन प्रत्ययेनार्थो गम्यते, केन तर्हि सप्रकृतिकेने"ति ॥ केवलेनाऽपि प्रत्ययेनाऽर्थों प्र.बहुवचनं न भवति, एवमशत इति प्रतिषेधो ग्रन्थे न प्राप्नोत्यन्यशतत्वे च प्राप्नोतीति वार्ति- कारम्भः। ततोऽन्यशतत्वे प्रतिषेधाभावात्सामर्थ्यादनुमीयमानशतत्वविषयः प्रतिषेधः संपद्यते। एवञ्च सति शतं गावः परिमाणमस्य गोसङ्घस्य शतको गोसङ्घ इत्यत्रापि प्रतिषेधो भवति । "आपिशलकाशकृत्स्नयोस्त्वग्रन्थ' इति वचनादन्यत्र प्रतिषेधाभावो नियतकालाश्च स्मृतयो व्यवस्थाहेतब इति मुनित्रयमतेनाऽद्यत्वे साध्वसाधुप्रविभागः । [शताच्च ठन्यताव ] संख्यायाः। इतश्चेति । विंशतिशब्दात्तु विंशतिकात्ख'इति शापकात्कन्भवति। न च डतेरिति । समुदायस्यार्थवत्त्वात्तदवयवस्तिशब्दोऽनर्थ कोऽत एव विंशतिशब्देशतिचः प्रत्य- यत्वात्तिशब्दस्यानर्थक्याज्ज्ञापकमन्तरेणापि कन्सिद्धः। नैषेति । लौकिक्यर्थवत्ता प्रकृतीना प्रत्ययानां च नास्ति, केवलानां प्रयोगाभावादिति भावः। यान्येतानीति । यद्यपि प्रत्यया अपि शब्दसङ्घातास्तथापि तेषामानर्थक्यादर्थवन्तः शब्दसङ्घाता इह विवक्षिताः । यथोक्तं- 'सङ्ग्रहणे-पायसं करोतीति सुण्न भवति । उद्हणे गर्मुद्रहणं न भवति-गर्मुत्स्थास्यतीति । उ.] बहुवचनं न भवतीति । तस्य बहुत्वस्य शब्दजप्रतीतिविषयत्वाऽभावादिति भावः । एवमिति । अस्य शतत्वस्य प्रत्ययार्थवृत्तितया शब्देनाऽप्रतीतेरिति भावः । अन्यशतत्वे इति । तत्र हि प्रत्ययार्थस्य शब्देनैव प्रतीयते शतत्वमिति तत्रैव स्यादिति भावः । नियतकालाश्चेति । 'कलो पाराशरी स्मृति रितिवदिति भावः ॥ [शताच्च ] ॥ २१ ॥ संख्याया अ। ननु डतेरुपसंख्यानेऽपि विंशतेः कन्न स्यात्तस्याऽपि त्यन्तत्वादत आह-विंशतीति। ज्ञापकमन्तरेणाऽपीति। यदा विंशादेशस्तिप्रत्ययश्च तदातु शापकादेव सिद्धिोध्या। ननु शास्त्रेणाऽर्थवत्ताबोधनात्कथमेतदत आह-लौकिकीति। संग्रहणेइति। १ इदं न कचिदपि दृश्यते । २ 'कर्तव्या भवति' पा०।३ 'अप्रयोगा दिति पा० । । । समान काम कर कैयट-विवरणसहित [वतोरिडा गम्बते ॥ कथम् ?॥ उक्तमन्वयव्यतिरेकाभ्याम् ॥[सङ्खचाया अतिशदन्तायाःकन् । वतोरिड्वा ।५।१।२३। कस्याऽयमिडिधीयते ? ॥ कन इत्याह ॥ तत्कनो ग्रहणं कर्त्तव्यम् । अक्रियमाणे हि प्रत्ययाधिकारात्प्रत्ययोऽयं विज्ञायेत ॥ टित्करणसामर्थ्यादादिभविष्यति ॥ अस्त्यन्यहिल्करणस्य प्रयोजनं,-'टित' इतीकारो यथा स्यात् ॥ अकारान्तप्रकरणे ईकारो, न चैपोऽकारान्तः॥ एवमपि कुत एतत्-टित्करणसामर्थ्यादादिर्भविष्यति न पुनरकारान्त- प्रकरणे सत्यनकारान्तादपीकारः स्यात् ? ॥ तस्मात्कनो ग्रहणकर्तव्यम् ॥ न कर्त्तव्यं । प्रकृतमनुवर्तते । क्व प्रकृतम् ? ॥ 'सङ्ख्याया अतिशदन्तायाः क श्चिति ॥ तह प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ॥ 'वतो रित्येषा पञ्चमी कन्निति प्रथमायाः षष्ठी प्रकल्पयिष्यति-तस्मादित्युत्तरस्येति ॥ प्रत्ययविधि- रयं न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति ॥ नायं प्रत्ययविधिः। अ.]हन्ग्रहणे सोहन्ग्रहणं न भवति-सीहानाविति' । केवलेनापीति । शास्त्रव्यवस्थाहेतु रन्वयव्यतिरेकगम्यार्थवत्ताश्रीयत इत्यर्थः । अत एव शेऽर्थवद्हणात्कोशे कुशे वंशे इत्यादी शशब्दस्य ग्रहणाभावः। उपसर्गाणामपि केवलानां प्रयोगाभावाल्लौकिक्या अर्थवत्ताया अभावादन्वयव्यत्तिरेकव्यवस्थाप्यैवाऽसावाश्रीयते । [सङ्ख्याया अतिशदन्तायाःकन्] वतोरि । कस्यायमिति । टित्वादस्यागमत्वं निश्चितम् , आगमी तु न निर्दिष्ट इति तद्विषयः प्रश्नः। वतोरिति पञ्चमीनिर्देशाद्वत्वन्तस्यागमित्वमयुक्तम् । कन इति। वत्वन्तस्य संख्यात्वात्पूर्वेण विहितस्येति भावः। आनन्तर्याच्च कनमागमिनं मन्यते । तदिति । संख्या- यास्तावदनेकस्य प्रत्ययस्य विधानादागमिविशेषो दुर्लभः । प्रत्ययाधिकाराच्च 'चरेष्ट' इत्या- दिवदिटः प्रत्ययत्वप्रसङ्गः। अनकारान्तादिति । यथा डित्यभस्यापि टिलोपः। अथ प्रयोजनाभावाट्टकारस्येत्संज्ञा न भवतीति कस्मान्न कल्पयते । नैतदस्ति । 'हलन्त्यमिति उ.]समादेलौकिकीमर्थवत्तां मन्यते। अन्वयव्यतिरेकगम्येति। शास्त्रवासनाकल्पिताऽन्वय- व्यतिरेकगम्येत्यर्थः । उपसर्गाणामपीति । धातोरप्युपलक्षणम् । लौकिक्या अर्थवत्ताया ग्रहणे तु उपसर्गादीनामपि तदभावात्तदसङ्गतिः स्पष्टैवेति दिक। अन्वयव्यतिरेकेति । ताभ्यां व्यवस्थापनीयैवेत्यर्थः।। [सङ्ख्याया अतिशदन्तायाःकन्] ॥ २२ ॥ वतोरिडानिनु 'वत्वन्तादि'डित्यर्थात्प्रत्ययविधेश्च'कस्याऽयमि'डित्यनुपपन्नमत आह- टित्त्वादिति । पञ्चमीति । व्याख्यानादिति भावः। सङ्ख्यात्वात्-संख्यासंशत्वात् । ननु सङ्कथावाचकेभ्यः 'पाञ्चिरित्यादाविनादिरपि विहित इति कन एवेति कुतस्तत्राह- आनन्तर्याचेति । सङ्ख्यायास्तावदिति । व्याप्तिन्यायाश्रयणादानन्तर्याऽनादरं मन्यते। युक्त्यन्तरमाह-प्रत्ययाऽधिकाराच्चेति । प्रत्ययविधौ पञ्चम्याः प्रकल्पकत्वाऽभावे. अर्थवदधातुः [ १।२।४५ ] इति सूत्रे उक्तम् । २ 'काशे इत्यादौ' इति पा० । । । - १ ५ अ.१ पा.१ आ.। २४ सू.] महाभाष्यम् विहितः प्रत्ययः । प्रकृतश्चानुवर्तते ॥ [वतोरिडा ] ॥ विंशतित्रिंशद्भयां ड्वुनसंज्ञायाम् ।५।१।२४। असंज्ञायामिति किमर्थम् ? ॥ त्रिशत्को विंशतिकः ॥ कथं चाऽन्न कन्भ- वति ॥ सङ्ख्यायाः कन्भवतीति । 'अतिशदन्ताया' इति प्रतिषेधः प्रामोति ।। एवं ताचार्यप्रवृत्तिापयति-भवत्यत्र कन्निति,-यदयं विशतिकात्ख'इति प्रत्ययान्तनिपातनं करोति ॥ विशतेरेतज्ज्ञापकं स्यात् ॥ नेत्याह-योगापेक्ष ज्ञापकम् ।। अथ वा योगविभागः करिष्यते। विंशतित्रिंशजयां'-कन्भवतीति । ततो 'मुनसंज्ञाया'मिति ॥ [ विंशतित्रिंशद्भया जुनसझायाम् ] । म.] श्रुतेर्बलीयस्त्वादत इति प्रकरणस्य दुर्बलस्य बाधोपपत्तौ प्रयोजनलाभात् । नचेति । पञ्चमी हि प्रत्ययस्वरूपमुत्पादयति । यथा 'गुप्तिकिझ्यः सनिति, न तु षष्ठी प्रकल्पयति, असतः षष्ठीप्रकल्पनाभावादिति भावः। प्रकृतश्चेति । स्वरितत्वप्रतिज्ञानादिति भावः । ननु विधानार्थाऽपि कनोऽनुवृत्तिः संभवति इटा मा वाधीति तनेटकनौ वा भवतः पक्षे. ठमिति प्रत्यय त्रयं स्यात् । नैष दोषः--पूर्वसूत्रेण तावत्कन्विहितइतितस्येहानुवृत्तिविधानार्थी न भवतीति प्रतीतिरुपजायते । तस्मादित्युत्तरस्येत्येषा च परिभाषावतिष्ठते, तत्र किमनिष्ट- प्रकल्पनयाऽनेकबाधोऽस्तु ? अथेष्टप्रकल्पनया सर्वानुग्रह इति; तत्र सर्वानुग्रही न्याय्यः, लक्ष्यस्य तथावस्थानाच । [वतोरिवा] ॥२३॥ विशति । प्रत्ययान्तनिपातनमिति । कन्प्रत्ययान्तोच्चारणमित्यर्थः । ननु विंशति- शब्दे शतिचः प्रत्ययत्वात्तिशब्दस्यानर्थक्यात्प्रतिषेधप्रसङ्गाभावारिक ज्ञापकाश्रयणेन ? । उच्यते-द्विदशशब्दस्य विंशादेशस्तिप्रत्यय इत्येषा प्रक्रियाऽऽश्रीयते । एवं हि ज्ञापकाश्रयेण त्रिंशच्छब्दोऽपि सिध्यति । अन्यथा त्रिंशच्छब्दे शतोऽर्थवत्त्वादशदन्ताया इति प्रतिषेधः स्यात् । ननु विंशतिशब्दादज्ञाताद्यर्थविवक्षायां कन्प्रत्यये विशतिकशब्दः स्यादितिकथं ज्ञापकम् ? । नैतदस्ति । स्वार्थिक कन्प्रत्यये विंशतिकाया इति निर्देशः स्यात् । असंज्ञायां दुनो विधानात्संज्ञाविषयमेव ज्ञापकमाश्रयणीयम् । योगापेक्षमिति । यथा पुंवदितियोगा- उ.]बीजमाह-पञ्चमीहीति । प्रत्ययसंज्ञाविशिष्टस्य तद्योगे विधानात्तस्याऽप्रत्ययस्वरूपोत्पाद- कत्वं बोध्यम् । प्रकृताऽनुवृत्तौ तु पूर्वसूत्रविहितत्वेन सत्त्वात्तत्र षष्ठीप्रकल्पनं युक्तमित्यु- त्तरम् । अनेकेति। विधानार्थत्वाऽभावपूर्वकनियामकत्वप्रतीतेस्तस्मादिति परिभाषाया- श्वेत्यर्थः । तथाऽवस्थानाच्चेति । 'तावतिकस्तावत्क' इत्येवमेवाऽवस्थानादित्यर्थः । एवञ्च लक्ष्याऽनुसारि व्याख्यानमेवाऽत्र शरणमिति भावः ॥ [वतोरिडा] ॥ २३ ॥ विंशतिनि। ननु निपातनत्वे ज्ञापकत्वोक्तिरसङ्गतेत्यत आह-कन्प्रत्ययान्तेति । एषा प्रक्रियेति । भाम्यानुगुण्यादेतत्प्रक्रियाश्रयणमेव युक्तमिति भावः। तत्प्रक्रियाश्रयणे युक्त्यन्तरमप्याह-एवं हीति । निर्देशः स्यादिति । विंशत्यादिनवत्यन्तानां स्त्रीत्वा- स्वार्थिकानाम्प्रकृतिलिङ्गाऽनतिवर्तनादितिभावः । सूत्रेऽस्य शब्दपरत्वादिदमयुक्तम् ।
२९६ कैयट-विवरणसहितं. [ कंसाट्ठिठन् । कंसाढिठन् ।५।१।२५॥ It * ॥ टिठन्न‘च्च ॥ * ॥ टिठन्नञ्चिति वक्तव्यम् । अर्द्धकः। अद्धिकी। ॥ * ॥ कार्षापणाद्वा प्रतिश्च ॥ * ॥ कार्षापणाठिन्वक्तव्यो वा च प्रतिरादेशो वक्तव्यः । कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥ [ कंसाट्ठिठन् ] ॥ अध्यर्द्धपूर्वद्विगोलुंगसंज्ञायाम् ।५।१।२८। ।। * ॥ द्विगोलक्युक्तम् ॥ * ॥ [द्विगोलुंक्युक्तम् ] ॥ किमुक्तम् ? ॥ तत्र तावदुक्तं-"द्विगोलकि तन्निमित्तग्रहणमर्थविशेषाऽसम्प्रत्ययेऽतन्निमित्ताद पी"ति । इहापि-[॥ * ॥ द्विगोखंकि तन्निमित्तग्रहणं ।। * 1 ] द्विगोलुंकि तन्नि- मित्तग्रहणं कर्त्तव्यम् । 'द्विगोनिमित्तं यस्तद्धितस्तस्य लुग्भवतीति वक्तव्यम्। इह मा भूत्-द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूपम् । द्विशूर्पण क्रीतं द्विशौपि- कम् । त्रिशौर्पिकम् ।। ।। * ॥ 'अर्थविशेषाऽसम्प्रत्ययेऽतन्निमित्तादपि ॥ * ॥ अर्थ विशेषस्याऽसम्प्रत्ययेऽत्तन्निमित्तादपीति वक्तव्यम् ॥ किं प्रयोजनम् ? द्वयोः शूर्पयोः समाहारो द्विशूप्पी, द्विशूा क्रीतमिति विगृह्य द्विशूर्पमित्येव यथा स्यात् ॥ अथ क्रियमाणेऽपि तन्निमित्तग्रहणे कथमिदं विज्ञायते-तस्य निमित्त प्र. पेक्षत्वाज्ञापकस्य वत्यर्थे नन्नमोरप्रवृत्तौ 'स्त्रीवदित्यपि भवति, एवमेतद्योगापेक्षं विंशति- कादिति शापकमिति विशत्कशब्दोपि संज्ञायां भवतीत्यर्थः ॥ [विंशतित्रिंशद्भयां] ॥ कंसात् । अधिकइति । अर्द्धशब्दः कार्षापणस्या॰ रूढ इति भागवदपेक्षायामसाम- यं नाशङ्कनीयमिति के चिदाहुः । अन्ये तु प्रकरणादिवशायदा निर्मातो भागवद्विशेषो भवति तदा नास्त्यसामर्थ्य मिति सर्वस्यैवाऽर्द्धस्य ग्रहणेन भाव्यमित्याहुः ॥ [ कंसात् ॥ अध्यर्द्ध । द्विगोर्लुक्युक्तमिति । द्विगो गनपत्य' इत्यत्र भाष्ये व्याख्यातमिति तत एव बोद्धव्यम् । [अध्यद्धपूर्व] ॥ उ.] व्याख्यानात्तस्याऽग्रहणमिति वक्तुं युक्तम् । नन्वेवमसंज्ञायामप्येतस्माज्ज्ञापकाद् ‘विंशतिक' इति स्यादत आह-असंज्ञायामिति । एतद्योगेति। 'विंशतित्रिंशद्भयामिति' योगेत्यर्थः।। कंसाठिन् । कंसाढिनिति पाठान्तरम् । भागवदपेक्षयेति । अर्द्धशब्दस्य भागवाचित्वादिति भावः । इत्याहुरिति । वस्तुतो नित्यसापेक्षत्वेन गमकत्वान्नाऽसामर्थ्य- मिति बोध्यम् । कंसशब्दोऽत्र पूर्वोत्तरसाहचर्यात्परिमाणवाच्येव गृह्यते, न लौहविशेषादि- वाचीत्याहुः ॥ [विंशतित्रिंश ] ॥२५॥ अध्यद्धपूर्व। समाहारे द्वन्दः, सौत्रं पुंस्त्वम् । भाष्ये-द्विशौर्पिकमिति । अत्र द्वितीयस्य १ "द्विगोलुंगनपत्ये (४।१।५८) इत्यत्रोक्तम् । २ इदं कचिदपि न दृश्यते, औचित्या- त्वत्राऽस्माभिः स्थापितम्। ३ इदं वात्तिक भाष्यसादृश्याल्लेखकप्रमादाल्लुप्तमासीत् । ।
१ ५.१ पा.१ आ.।२८ सू.] महाभाष्यम् तन्निमित्तं, तन्निमित्तादिति? आहो स्वित्स निमित्तं यस्य सोऽयं तनिमित्तः, तन्निमित्तादिति ? किं चातः ? ॥ यदि विज्ञायते-तस्य निमित्तं तन्निमित्तं, तन्निमित्तादिति,-क्रियमाणेऽपि हि तनिमित्तग्रहणेऽत्र प्रामोति-द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् , द्विशूर्पण क्रीतं द्विशौर्पिकम्, त्रिशौर्पिकम् । अथ विज्ञायते-स निमित्तमस्य सोऽयं तन्निमित्तः, तनिमित्तादिति, न दोषो भवति ॥ यथा न दोषस्तथाऽस्तु ॥ स निमित्तमस्य सोऽयं तनिमित्तस्तनिमित्तादिति विज्ञायते ॥ कुत एतत् ? ॥ यदयमाह-'अर्थविशेषासम्प्रत्ययेऽतन्निमित्तादपीति ॥ तत्तर्हि तन्निमित्तग्रहणं कर्तव्यम् ? ॥ न कर्त्तव्यम् । 'द्विगोरिति नैषा पञ्चमी ॥ का तर्हि ?॥ सम्बन्धषष्टी। द्विगोस्तद्धितस्य लुग्भवति । द्विगोर्यस्त- द्वितः ॥ किं च द्विगोस्तद्धितः ? ॥ निमित्तम् । -यस्मिन्द्विगुरित्येतद्भवति ॥ करिमंश्चैतद्भवति? ॥प्रत्यये॥ इदं तर्हि वक्तव्यम्-'अर्थविशेषाऽसम्प्रत्ययेऽतन्निमित्तादपी ति । एतच्च न वक्तव्यम् । इहास्माभिस्त्रैशब्द्यं साध्यं-द्वाभ्यां शूर्पाभ्यां क्रीतं । द्विशूा क्रीतं । द्विशूपं त्रिशूर्पमिति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः करिष्यतेऽपरस्मादुत्पत्तिर्भविष्यत्यविरविकन्यायेन । तद्यथा-अवैमासमिति विगृह्य-अविकशब्दादुत्पत्तिर्भवत्याविकमिति । एवमिहाऽपि द्वाभ्यां शूर्पाभ्यां क्रीतमिति विगृह्य द्विशूर्पमिति भविष्यति, द्विशूर्ध्या क्रीतमिति विगृह्य बाक्यमेव भविष्यति॥ असंज्ञायामिति किमर्थम् ? ॥ पाञ्चलोहितिकम्। पाञ्चकलायिकम् ॥ ॥ * ॥ संज्ञाप्रतिषेधानर्थक्यश्च तन्निमित्तत्वाल्लोपस्य ॥ * ॥ संज्ञाप्रतिषेधश्वानर्थकः ॥ प्र.]संज्ञाप्रतिषेधानर्थक्यमिति । इह वृत्तिकारा असंज्ञाग्रहणं प्रत्ययान्तविशेषणं व्याचक्षते,-न चेत्प्रत्ययान्तं संज्ञेति। पाचलोहितिकपाश्चकलायिकशब्दौ च परिमाणविशेषस्य उ.] ठको लुङ्मा भूदिति भावः । अर्थविशेषेति । तद्धितार्थ द्विगुना सह यत्रार्थो न भिद्यते तत्राऽतन्निमित्तद्विगोरपि परस्य लुगित्यर्थः । इति विगृह्य द्विशूर्पमिति । विग्रहो वृत्तिश्चेत्युभयमत्रेष्यते । भाष्ये-इति विगृह्य वाक्यमेवेति । न तु वृत्तिः, अनभिधा- नादिति भावः । ननु द्विगोः संज्ञात्वाऽभावात्कथमेतत्प्रत्युदाहरणमत आह-इहेति । प्रत्ययान्तविशेषणमिति । सप्तमीनिर्देशादिदं द्विगोर्न विशेषणं, किन्तु प्रत्ययान्तस्याऽ -संज्ञात्वे लुगित्यर्थ इति भावः । पञ्चलोहिन्यः पथकलायाः परिमाणमस्येति तद्धितार्थ इति समासः । तदस्य परिमाणमिति ठजि 'भस्याऽढे' इति पुंवत्त्वालोहिनीशब्देकारनकारयो. १.वैशौप्पिक' 'त्रैशौपिक' पा० । , । - ।
२९८ केयट-विवरणसहितं [विभाषा का किं कारणम् ? ॥ तन्निमित्तत्वाल्लोपस्य । नाऽन्तरेण तद्धितं तद्धितस्य च लुक द्विगुंसझाऽस्ति, यस्तस्मादुत्पद्यते नाऽसौ तन्निमित्तः स्यात् ॥ एवं तहीदं स्यात्पञ्चानां लोहितानां समाहाः पञ्चलोहिती, पञ्च- लोहित्या क्रीतमिति ॥ अत्रापि पञ्चलोहितमित्येव भवितव्यम् ॥ कथम् ? ॥ उक्तं ह्येतत्-'अर्थविशेषाऽसम्प्रत्ययेऽतन्निमित्तादपी ति ॥ ।। * । उक्तं सङ्ख्यात्वे प्रयोजनं तस्मादिहाध्यर्द्धग्रहणानर्थक्यम् ॥ * ॥उक्तं सङ्ख्यात्वे- अध्यर्द्धग्रहणस्य प्रयोजनम् ॥ किमुक्तम् ? ॥ “अध्यर्द्धग्रहणञ्च समास- कन्विध्यर्थं लुकि चाऽग्रहण'मिति । 'तस्मादिहाध्यर्द्धग्रहणानर्थक्यम्' । तस्मादिहाऽध्यर्धग्रहणमनर्थकम् । द्विगोरित्येव लुक्सिद्धः ॥ [ अद्ध्यर्धपूर्व ] विभाषा कार्षापणसहस्राभ्याम् ।५।१।२९। ॥ * ॥ कार्षापणसहस्राभ्यां सुवर्णशतमानयोरुपसङ्घयानम् ॥ * ॥ कार्षापणसह- स्राभ्यां सुवर्णशतमानयोरुपसङ्ख्यानं कर्त्तव्यम् । अध्यर्द्धसुवर्णम् । अध्यर्ध- सौवर्णिकम् [द्विसुवर्णम् । द्विसौवर्णिकम् ] । अध्यर्द्धशतमानम् । अध्यर्द्ध- शातमानम् । द्विशतमानम् ॥ द्विशातमानम् । [विभाषा कार्षापण] । प्र.] संशे इति लुङ भवति । वार्तिककारस्तु-द्विगुविशेषणमसंज्ञाग्रहणं संनिधानादवगम्य प्रत्याचष्टे-तनिमित्तत्वादिति । तस्याः संज्ञाया लोप एव निमित्तमित्यर्थः । पञ्चलोहित- पञ्चकलायशब्दी द्विगू कृततद्धितलुकावेव संज्ञे ततो नार्थः प्रतिषेधेनेत्यर्थः । पञ्चलोहि. तीति । समाहारद्विगुं संज्ञां मन्यते । ततश्च नलोपनिमित्तैब संज्ञा । अनापीति । अव्य- विकन्यायेन वाक्यविषय एव समाहारद्विगुरित्यर्थः । अध्यर्द्धग्रहणं चेति । बहुगणादिसूत्र इदमुक्तम् । न च सङ्ख्याकार्याभावज्ञापनमध्यर्द्धग्रहणस्येह प्रयोजनम्, कन्समासाभाव- प्रसङ्गात् । तस्मात्तत्रत्यं वात्तिकमेव कर्त्तव्यं, तस्मिंश्च सतीहाध्यर्द्धग्रहणमनर्थक द्विगुत्वा- छुकः सिद्धत्वात् । अध्यर्द्धपूर्वद्विगो] ॥ विभाषा कार्षापण । अध्यर्द्धसुवर्णमिति । अध्यर्द्धन सुवर्णेन क्रीतमिति द्विगौ- कृते ठो लुक् । अलुक्पक्षे 'परिमाणान्तस्ये'त्युत्तरपदवृद्धिः। उन्मानस्यापि वृद्धौ शाण- उ.] निवृत्तिः। परिमाणविशेषस्येति । तत्सङ्ख्याकगुञ्जाकलायादिपरिच्छिन्नस्येत्यर्थः । द्विगुविशेषणमिति । विषयत्वं सप्तम्यर्थः, सङ्घयाविषयो द्विगुर्न चेदित्यर्थः। तस्याः संज्ञाया इति। सत्येव लुकि संज्ञाप्रतीतेरिति भावः। न चेति । तेन कृत्वसुजभाव इति भावः । तस्मादिति । वात्तिके च कृते समासकनोरेव सङ्ख्यात्वोपसङ्ख्यानात् कृत्व- सुजभावः सिद्ध एवेति भावः ॥ [ अध्यर्द्धपूर्वद्विगोलुंग ] ॥ २८ ॥ विभाषा कार्षा । ठजो लुगिति । सहस्रादप्यस्यैव लुक् । कार्षापणस्य परिमाणत्वे १ 'द्विगुः संज्ञाऽस्ती'पि पा०।२ बहुगणवतु (१।१०२३) इत्यत्रोक्तमेतत् । ३ अयं पाठो बहुषु पुस्तकेषु लुप्तोऽपि काश्मीरिकपुस्तकप्रामाण्यादत्र स्थापितोऽस्माभिः । । ।
- अनाऽध्यर्द्धग्रहणं न सम्बध्यते, विरोधात्, चस्याऽभावाच्च । ५.३१ पा.१ आ.३० सू.] महाभाष्यम् द्वित्रिपूर्वान्निष्कात् ५।१।३०। बिस्ताच्च ।५।१॥३१॥ ॥ * ॥ द्वित्रिभ्यां द्वैयोग्यम् ॥ * ॥ 'द्वित्रिभ्या'मिति यदुच्यते द्वैयोग्यमेतद् द्रष्टव्यम् ॥ किमिदं द्वैयोग्यमिति ? ॥ द्वयोर्योगयोर्भवं द्वियोगं, द्वियोगस्य- भावो द्वैयोग्यमिति ॥ द्वेष्यं विजानीयात्'-अविशेषेणेत उत्तरं द्वित्रिभ्या- मिति, तदाचार्यः सुहृद्भूत्वाऽन्वाचष्टे 'द्वित्रिभ्यां द्वैयोग्य मिति ॥ ॥ * ॥ तत्र चै बहुग्रहणम् ॥ * ॥ तत्रच बहुग्रहणं कर्त्तव्यम् । बहुनिष्कम् । बहुनैष्किकम् । बहुबिस्तम् । बहुबैस्तिकम् ॥ [ द्वित्रिपूर्वान्निष्कात् ] ॥ खार्या ईकन् ।५।११३३॥ ॥ * ॥ खार्या ईकन केवलायाश्च ॥ * ॥ खार्या ईकन्केवलायाश्चेति वक्तव्यम् । खारीकम् । ॥ * ॥ काकिण्याश्चोपसङ्ग्यानम् ।। * | काकिण्याश्वोपसयानं कर्त- व्यम् । अध्यकाकिणीकं द्विकाकिणीकम् ॥ * ॥ केबलायाश्च ॥ * ॥ केवलाया- वेति वक्तव्यम् । काकिणीकम् ॥ [ खार्या ईकन् ] ॥ शाणाद्वा ५॥१॥३५॥ ।। शतशाणाभ्यां वा ॥*|| शतशाणाभ्यां वेति वक्तव्यम् । अध्यर्द्धशतम् अध्यर्द्धशत्यम् । पञ्चशतम् पञ्चशत्यम् । अध्यद्धशाणम् अध्यर्द्धशाण्यम् । प्र.]प्रतिषेधाद्रहणात् । द्विशातमानमिति । शतमानादिसूत्रेणाऽण् । [विभाषाकार्षापण]॥ द्वित्रिपू । द्वयोर्योगयोरिति । तद्धितार्थे द्विगौ कृते बह्वचोऽन्तोदात्ताह'। द्विगो- लुंगनपत्ये'इति लुक् । अथ द्विगुर्न व्याख्यातव्यनाम तदा अण एव लुक् । द्वैयोग्यशब्देन चाधाराधेयभाव उच्यते । 'समासकृत्तद्धितेषु सम्बन्धाभिधान मिति वचनात् [द्वित्रिपूर्वा ॥ खार्या । केवलायाश्चेति । 'अध्यर्द्धपूर्वद्विगो'रित्यधिकारात्केवलाया नप्राप्नोतीति वचनम् । शाणा । शतशाणाभ्यामिति । शतान्तात्पूर्वेण नित्ये यति प्राप्ते विकल्पार्थं वचनम् उ.] ततोऽप्यस्यैव लुक् । अन्यथा ततष्ठको लुगिति बोध्यम् । शाणप्रतिषेधाद्धेतोरन्मान- स्यापि वृद्धौ ग्रहणादित्यन्वयः ॥ [विभाषा कार्षापण ] ॥ २९ ।। द्विगोरिति तु सम्बध्यते । षष्ठीसमासव्यावृत्तय इति बोध्यम् । उत्तरत्र त्वनुवर्तत एव । भाष्ये-द्वित्रिभ्यामिति। अनेन सूत्रे पूर्वग्रहणं चिन्त्यप्रयोजन'मिति ध्वनयति। आधारा- धेयभाव इति। तेन च स्वाश्रयो लक्ष्यत इति 'एतद्वैयोग्य मिति सामानाऽधिकरण्यो- पपत्तिः । तद्धितप्रयोगस्तु 'प्रियतद्धिता दाक्षिणात्या' इति न्यायेनेति दिक् ।। ३१ ।। खार्या ई। अध्यति । तदसम्बन्धे तु केवले ईकनश्चरितार्थस्य अध्यर्द्धपूर्वद्विगु- विषये लुक् स्यादिति बोध्यम् ॥ [खार्या ईकन् ] ॥ ३३ ॥ १ तवेष्यं पा० । २ असार्वत्रिकोऽन्न चस्य पाठः । ३ 'काकणीति कचित्पाठः । -- ३०० ॐ कैयट-विवरणसहितं. [ तेनक्रीतम्- पञ्चशाणं पञ्चशाण्यम् ॥ * ॥ द्वित्रिपूर्वादण्च ॥ * ॥ द्विनिपूर्वादण्चेति वक्त- च्यम् । द्विशाणम् त्रिशाणम् । द्वैशाणम् त्रैशाणम् । द्विशाण्यम् । त्रिशाण्यम् ॥ [ शाणाद्वा] || तेन क्रीतम् ।५।१॥३७॥ ॥ * ॥ तेन क्रीतमिति करणात् ॥ * ॥ तेन क्रीतमित्यत्र करणादिति वक्त- व्यम् । इह माभूद्-देवदत्तेन क्रीतं यज्ञदत्तेन क्रीतमिति ।। ।। * ।। अककान्तात् ।। * ॥ अकāकान्तादिति वक्तव्यम् । इह मा भूत्-देव- दत्तेन पाणिना क्रीतमिति ॥ * || समथैकवचनाद्विगोश्चोपसङ्ख्यानम् ।। * ॥ स- कथाया इति वक्तव्यम् । इहापि यथा स्यात्-पञ्चभिः क्रीतं पञ्चकम् । [ सप्त- कः शत्यः साहस्रः] ॥ किं पुनः कारणं न सिध्यति । एकवचनान्तादिति वक्ष्यति तस्यायं पुरस्तादपकर्षः ॥ 'एकवचनात् । एकवचनान्तादिति वक्तव्यम् । इह माभूत्-शूर्पाभ्यां क्रीतं शूपैः क्रीतमिति । 'द्विगोश्च' । द्विगो- श्रेति वक्तव्यम्। इहापि यथा स्यात् द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूपं त्रिशूर्पमिति॥ यद्येकवचनान्तादित्युच्यते-मुद्गः क्रीतं मौद्रिकं माषैः क्रीतं माषिकमिति न सिध्यति ॥ परिमाणस्य सङ्ख्याया यदेकवचनं तदन्तादिति वक्तव्यम् ।। तत्तयंकवचनान्तादिति वक्तव्यं ? । तस्मिंश्च क्रियमाणे बहु वक्तव्यं भवति । न वक्तव्यम् ? ॥ कस्मान्न भवति-शूर्पाभ्यां क्रीतं शूपैः क्रीतमिति ॥ 1। * ॥ उक्तं वा ॥ * ॥ [ उक्तं वा ] किमुक्तम् ? ॥ अनभिधानादिति ।। प्र.]यदभावपक्षे कनो लुक । 'द्वित्रिपूर्वादण्चे ति। सूत्रेवनापः पाठ इति वार्तिकारम्भः । तेन क्रीतम् । सङ्ख्यैकवचनादिति । समाहारे द्वन्द्वः । परिमाणस्येति । परि- माणस्य या सङ्ख्या तस्या यद्वाचकं द्योतक वैकवचनं तदन्तादिति वक्तव्यमिति वचना- न्मुद्गादीनांयादीनां चाऽप्रतिषेधः । अनभिधानादिति । वृत्तौ सङ्ख्याविशेषानवगमात्परि- माणशब्देभ्यो द्विवचनबहुवचनान्तेभ्यः प्रत्ययाभावः। एकत्वसङ्खथायुक्त चार्थे तेषांस्वभावतो- वृत्त्यैकवचनान्तेभ्य एवप्रत्ययः । यादयस्तु शब्दा लुप्तायामपि विभक्तौ स्त्रप्रवृत्तिनिमित्त- भूतां सङ्ग्थामवगमयन्तीति तेभ्यः प्रत्ययो भवत्येव । एकयाच मुद्गादिव्यत्त्याक्रयासंभवा- उ.] तेन क्रीतम् । भाष्ये-करणादिति । करणत्वञ्च वाक्याऽवस्थायां बोध्यम् । अकका- तादिति । क-नवयवादित्यर्थः। द्वन्द्वे द्विवचनं स्यात्समासान्तरन्तु भाष्यविरुद्धमत आह- समाहारे इति । भाष्ये-अपकर्षः। अपवाद इत्यर्थः। एकवचनान्तत्वाऽभावादप्राप्ती वचनम् । 'द्विगोश्चेत्यपि 'एकवचनान्तादित्यस्याऽपकर्षः । तद्धनयन्नाह द्वाभ्यांशूर्पाभ्या- मिति । परिमाणशब्देभ्य इति । वस्तुतोऽनभिधानादिति भाष्योक्तमेव साधु । नन्वेवं धादिभ्योऽपि न स्यादत आह-यादयस्त्विति । १ असार्वत्रिकोऽयं कोष्ठकान्तर्गतः पाठः। २ अयं पाठोऽसार्वत्रिकः ।
५३.१ पा.१ आ.।३८ सू. ॐमहाभाष्यम् यद्येवं 'करणादकत्रैकान्तादित्यपि न वक्तव्यम् ॥ कर्त्तः क.कान्ताद्वा कस्मान भवति ? ।। अनभिधानात् ॥ [ तेन क्रीतम् ] । तस्य निमित्तं संयोगोत्पातौ ।५।११३८ संयोगोत्पातयोः को विशेषः ॥ संयोगो नाम स भवति इदं कृत्वेदमवा- प्यत इति । उत्पातो नाम स भवति-यादृच्छिको भेदो वा छेदो बा पद्म वा पर्ण वा॥ 11 * ॥ तस्य निमित्तप्रकरणे वातपित्तश्श्लेष्मभ्यः शमनकोपनयोरुपसङ्ख्यानम् ॥ * ॥ तस्य निमित्त प्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसङ्ख्यानं कर्त- व्यम् । वातस्य शमनं कोपनं वा-वातिकम् । पैत्तिकम् । श्लैष्मिकम् ।। 11 * ॥ संनिपाताच ॥ * ॥ सन्निपाताच्चेति वक्तव्यम् । सान्निपातिकम् ॥ गोदयचोऽसंख्यापरिमाणाश्वादेर्यत् ५॥१॥३९॥ ॥ * ॥ यत्प्रकरणे ब्रह्मवर्चसाच्च ॥ * ॥ यत्प्रकरणे ब्रह्मवर्चसाच्चोपसङ्ख्यानं कर्त्तव्यम् । ब्रह्मवर्चसस्य निमित्तं संयोगः-ब्रह्मवर्चस्यः-उत्पातो वा । प्र.बहुवचनान्तादेव प्रत्ययः । यदा तु जातिशब्दत्वं मुद्गादीनामभ्युपेयते तदैकवचनान्तेभ्योपि प्रत्ययः । ननु यन्निष्कण क्रीतं तस्य निष्को वनो भवतीति सोऽस्यांशवनभृतयः इत्यनेन प्रत्ययाः(यः)सिद्धा(ख)इति नार्थोऽनेन योगेन । अत्राहुः-यस्य शतं मूल्यं न भवति अथ च तेन क्रीत कार्यवशात्तदर्थमिदम् ॥ [तेन क्रीतम् ] ! तस्थनि । संयोगोत्पातयोरिति । कोऽनयोः शब्दयोरर्थ इति प्रश्नः । नत्वेका- र्थत्वं मन्यमानस्य प्रश्नः कोऽसौ विशेषो येन संयोगोत्यातौ प्रतिपद्यामहे । इदंकृत्वेति । यथा काम्यैर्यागै:पुत्रादयोऽवाप्यन्ते तत्र संयुज्यन्ते फलविशेषेण येन यागादिना करणेन स यागादिरर्थः संयोगः । यादृच्छिक इति । अतर्कितोपनतः। भेद इति ।-वस्त्रादेः । छेद इति ।-उपानदादेः । भाविनः शुभस्याऽशुभस्य वा सूचकोऽर्थ उत्पात इत्यर्थः । तस्य च नि. मित्तत्वं फलविशेषविषयबुद्धचत्पत्तिहेतुत्वात् न तु फलं प्रति कारणत्वात् । वातिकमिति । शमनकोपने एवात्र प्रत्यययार्थो न तु निमित्तम् । ठगत्र प्रत्ययः। प्रकारणादिवशाच्च क्वचि- च्छमनं प्रतीयते क्वचित्कोपनम् । [तस्य निमित्तं संयोगोत्पातौ] गोयचो । ब्रह्मवर्चस्यइति । ब्रह्मणो वचों ब्रह्मवर्चसं । वृत्तस्वाध्यायसंपदुच्यते । 'ब्रह्महस्तिभ्यां वर्चस' इत्यच्समासान्तः।। [ गोव्यचोऽसङ्ख्यापरिमाणावादेयत् ] उ.] तस्य निमित्तं । न त्वेकार्थत्वमिति । अर्थभेदस्य स्पष्टरवादिति भावः। यद- वाप्यते स संयोग इति भ्रमं वारयति-यथेति । भाष्ये-पद्मं वा पर्ण वेति । पात्रा- दावकस्मादुपगतम्पद्मादि ताम्बूलादिपर्ण वा शुभसूचक उत्पात इत्यर्थः । ननु तस्य फल कारणत्वाऽभावात्कथं निमित्तत्वमत आह-तस्य चेति । [तस्य निमित्तं ] ॥ ३८ ॥ गोब्धचो । ब्रह्मणः । ब्राह्मणस्य । वृत्तम्-आचारः । स्वाध्यायो-वेदाऽध्ययनम् ।। । - ३०२ कैयट-विवरणसहित तदस्मिन्वृद्धयाय- तदस्मिन् वृद्धचायलाभशुल्कोपदा दीयते ।५।११४७ 1} * ॥ तदस्मिन्दीयतेऽस्मा इति च ॥ * ॥ तदस्मिन्दीयतेऽस्मा इति चेति वक्त- व्यम् । पञ्च वृद्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते अस्मै- पञ्चकः । सप्तकः । अष्टकः । नवकः । दशकः ॥ तत्तर्हि उपसङ्ख्यानं कर्त्तव्यम् || न कर्त्तव्यम् । यद्धि यस्मै दीयते तस्मिन्नपि तद्दीयते। तन्न तदस्मिन्दीयते इत्येव सिद्धम् ॥ [ तदस्मिन्वृद्धयायलाभ ] ॥ पूरणाडिन् ।५।११४८ ॥ * ॥ ठन्प्रकरणेऽन्नन्तादुपसङ्ख्यानम् ॥ * ॥ ठन्प्रकरणेऽन्नन्तादुपसङ्ख्यानं कर्तव्यम् । द्वितीयकः। तृतीयिकः ॥ किं पुनः कारणं न सिध्यति ? ॥ 'पूरणा'दित्युच्यते न चैतत्पूरणान्तम्, अनैतत्पर्यवपन्नम् ॥ पूरणं नामार्थस्तमर्थमाह तीयशब्दः-पूरणं सोऽसौ भवति । पूरणान्ता- स्वार्थे भागेऽन् , सोऽपि पूरणं भवत्येव ।। [ पूरणा छन् । सम्भवत्यवहरति पचति ।५।१॥५२॥ * ॥ तत्पचतीति द्रोणादण्च 11 * ॥ तत्पचतीति द्रोणादण्चेति वक्तव्यम् । द्रोणं पचति द्रौणी द्रौणिकी ॥ [ सम्भवत्यवहरतिपचति ] ॥ प्र.) तदस्मिन् । यत्र नदीद्वारादौ शुल्कादि दीयते तत्र प्रत्ययो विधीयमानः संप्रदाने न प्राप्नोतीत्याह- तदस्मिन्निति । तस्मिन्नपीति । संप्रदानमेव दानक्रियापेक्षयाऽधिकरण- त्वेन विवक्ष्यते । 'यथा सममब्राह्मणे दान' मिति । [तस्मिन्वृद्धयायलाभ ] ॥ पूरणा । अन्नन्तादिति । यथा गोस्त्रियोरित्यत्र स्त्रीशब्देन नथधिकारविहितानां- टाबादीनां ग्रहणमेवमिहाऽपि पूरणाधिकारविहिता एव डडादयो गृोरन्निति वचनम् । द्वितीयिक इति । द्वयोः पूरणो भाग इति द्वेस्तीयस्तदन्तात्पूरणाद्भागे तीयादन्निति स्वार्थे- ऽन्प्रत्ययः । ततो द्वितीयो वृद्धादिरस्मिन्दीयत इति ठन्प्रत्ययः । पर्यवपन्नमिति । व्यव- हितमित्यर्थः । पूरणं नामेति । अर्थग्रहणमिह न तु पूरणाधिकारविहितप्रत्ययग्रहणमिति भावः । स्वार्थ इति। स्वस्याः प्रकृतेरर्थः-स्वार्थः । सा हि प्रत्ययस्यात्मीया। तदर्थे चाऽन्त्रि- धीयमानः पूरणाभिधायित्वात्पूरणव्यपदेशमासादयतीत्यर्थः। [ पूरणाडिन् ] ॥ उ.]तदस्मिन् वृद्ध्या । यथा सममिति । अब्राह्मणे दानमदानेन समं निष्फलमित्यर्थः। कालान्तरीणब्राह्मणसम्प्रदानकदानेन ग्रहणादिकालिकब्राह्मणब्रुवादिदानं सममित्यर्थो वा ॥ पूरणाऽ । ननु स्वार्थिकाऽन्प्रत्ययान्तत्वेन तस्याऽपि पूरणार्थत्वमस्त्येवेत्यत आह- यथेति । भाष्ये-तमथमिति । यतस्तमर्थं तीयशब्द आह अतः सोऽसौ तीयशब्दः पूरणम्भवति । यतश्च तदन्तात्स्वार्थे ततः सोऽनपि पूरणमित्यर्थः । ननु सर्वोऽपि प्रत्ययः स्वस्यैवार्थे, किश्चानोऽर्थाऽभावात्स्वार्थे इत्यनुपपन्नमत आह-स्वस्या इति ।। ४८॥ ।
५अ.१पा.१ आ.। ५५म.] ॐ महाभाष्यम् कुलिजाल्लुक्खौ च ।५।११५५) ॥ * ॥ कुलिजाच्चेति सिद्धे लुक्खग्रहणानर्थक्यं पूर्वस्मिनिकभावात् ।। * ॥ कुलिजा- च्चेत्येव सिद्ध, नाऽर्थों लुक्खग्रहणेन ॥ किं कारणम् ? । 'पूर्वस्मिंत्रिकभावात् । पूर्वस्मिन्योगे सर्व एष त्रिको निर्दिश्यते-याढकी बाढकिकी यादकीना ॥ तदस्य परिमाणम् । ५।११५७। सङ्ख्यायाः सज्ञासङ्घसूत्राध्ययनेषु ५८ ।। * ॥ संज्ञायां स्वार्थे ।। * | संज्ञायां स्वार्थे प्रत्यय उत्पाद्यः। पञ्चैव पञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः। सप्तका ब्रह्मवृक्षाः ॥ * ॥ ततःपरि- माणिनि ॥ * ॥ ततः परः प्रत्ययः परिमाणिनीति वक्तव्यम् । पञ्चकः सङ्घः । दशकः सङ्घः ॥ * ॥ जीवितपरिमाणे चोपसङ्ख्यानम् ।। * ॥ जीवितपरिमाणे चोप- सङ्ख्यानं कर्तव्यम् । षष्टिर्जीवितपरिमाणमस्य धाष्टिकः । साततिकः । ॥ * ॥ जीवितपरिमाणे चेत्यनर्थकं वचनं कालादिति सिद्धत्वात् ॥ * !! जीवित- परिमाणे चेत्यनर्थक वचनं ॥ किं कारणम् ?।। 'कालादिति सिद्धत्वात् । प्र.] सम्भव । द्रोणादिति । द्रोणपरिमिते ब्रीडादौ वर्तमानाद् द्रोणशब्दात्प्रत्ययस्तस्यैव पाकसंभवात् ॥ [सम्भवत्यवहरति पचति ] ॥ कुलिजा। कुलिजाच्चेति सिद्ध इति । 'कुलिजाचे'त्येव सूत्रमस्तु, तत्र 'द्विगोष्ठंश्चे' त्यनुवर्त्तते 'खोऽन्यतरस्या'मिति च, तत्र छन्खाभ्यां मुक्ते पक्षे ठञ्, तस्याऽध्यर्द्धपूर्वेति लुक् । एवं रूपत्रयं सिद्धम् । न च ठनः पक्षे लुगभावेन तुरीयं रूपमिष्यत इति लुक्खग्रहणं वार्तिककृता प्रत्याख्यातम् । [कुलिजाल्लक्खौ च ] || तदस्य । संज्ञायां स्वार्थ इति । इहाऽऽदशभ्यः सङ्ख्याः सङ्घयेये वर्तन्ते न तु सङ्ख्यानमात्रे। ततः परा तु सङ्ख्या सक्थाने सञ्जयेये च । तत्र य एव शकुनयः पञ्चत्वसङ्ख्या- युक्ताः पञ्चशब्दस्य वाच्यास्त एव पञ्चकशब्दस्यापि । ततश्च परिमाणपरिमाणिभावाभावा- स्वार्थे एव प्रत्ययो वक्तव्यः। यदा तु वृत्तिविषये संख्यामात्रवृत्तित्वं पञ्चादीनामाश्रीयते, तथा च 'दथेकयो रितिसूत्रकारेण द्वित्वैकत्वे वयेकशब्दवाच्ये आश्रित्य निर्देशः कृतः। सङ्घय- यार्थत्वे हि दयेकेष्विति स्यात्तदा परिमाणपरिमाणिभावाश्रयेणापि शक्यः प्रत्यय उत्पादयि- तुम् । जीवितपरिमाणे चेति । पूर्वापेक्षः समुच्चयः । सङ्घादिषु प्रत्ययो विधीयमानोऽ. उ.] कुलिजा। भाष्ये-पूर्वस्मिन्योग इति । 'आढकांचिते'ति सूत्रे । न च ठन इति । अत्र सूत्रेऽन्यतरस्यांग्रहणाऽनुवृत्त्येति भावः । वृत्तिस्तु भाष्यविरोधाञ्चिन्त्यैव तदस्य पसंख्यायाः। ननु सङ्ख्यामात्रवृत्तः पञ्चादिशब्दात्सलयेये परिमा- णिनि प्रत्ययसम्भवारिक वात्तिकेनेत्यत आह-इहेति । सङ्ख्यानेति । करणे ल्युट् । तेनैक त्वद्वित्वादावित्यर्थः । शक्य उत्पादयितुमिति। एवं हि 'पञ्चसङ्ख्यः सङ्घ 'इत्यर्थे पञ्चक' इत्यपि स्यादिति सङ्ख्येयवृत्तेरेवाऽनेन प्रत्यय एष्टव्य इत्यपरे। ततः 'परिमाणिनी'त्यस्य भाष्यस्य तदूर्ध्वम्पव्यमानसङ्घादिम्वित्यर्थः । जीवितपरिमाणे इत्यस्य--तत्र वर्तमाना- ।
women । कैयट-विवरणसहितं [ कुलिजालुक कालादित्येव सिद्धम् । इह यस्य पष्टिर्जीवितपरिमाणं षष्टिमसौ भूतो भवति, तन्त्र 'तमधीष्टो भृतो भूतो भावी'त्येव सिद्धम् । अवश्यं चैतदेवं विज्ञेयम् । ॥ * ॥ इह वचने हि लुक्प्रसङ्गः ॥ * ॥ इह हि क्रियमाणे लुक्प्रसज्येते- द्विषाष्टिकः । त्रिषाष्टिकः । अनेन सति लुग्भवति ॥ तेन सति कस्मान्न भवति ? ॥ आर्हादित्युच्यते ॥ न सिध्यति ॥ किं कारणम् ? ॥ न हीमे कालशब्दाः॥ किं तर्हि ? ॥ सङ्ख्याशब्दा इमे ॥ इमेऽपि कालशब्दाः॥ कथम् ? । सङ्ख्या सङ्ख्येये वर्तते। यदि तहि यो यः काले वर्तते स स कालशब्द:-रमणीयादिष्वतिप्रसङ्गो भवति-रमणीयं कालं भूतः, शोभनं कालं भूतः ।। अथ मतमेतत्काले दृष्टः शब्दः कालशब्दः, कोलं यो न व्यभिचरतीति, न रमणीयादिष्वतिप्रसङ्गो भवति । जीवितपरिमाणे तूपसङ्ख्यानं कर्त्तव्यम् ॥ इह चोपसङ्ख्यानं कर्त्तव्यं-वार्षशतिको वार्षसहस्त्रिक इति ॥ किं पुनः कारणं न सिध्यति ? ॥ न हि वर्षशतशब्दः सङ्ख्या ॥ किं तर्हि ? ॥ सङ्ख्यये वर्तते वर्षशतशब्दः। एवं तर्हि-- ॥ * ॥ अन्येभ्योऽपि दृश्यते खारशताद्यर्थम् ।। ४ ।। अन्येभ्योऽपि दृश्यत इति वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ खारशताद्यर्थम् । खारशतिको राशिः खारसहस्रिको राशिः ।। प्र.न्यत्र न प्राप्नोतीति वचनम् द्विषाष्टिक इति। सङ्घयायाः संवत्सरसंख्यस्यचे'त्युत्तरपदवृद्धिः। आादिति। 'अध्यर्धपूर्वे त्यत्राहादित्यनुवर्तनादाहीयस्य लुका भाव्यम् । 'तमधीष्ट' इत्यनेन प्रत्ययोऽहत्पिर इति तस्य लुगभावः । न हीम इति | मासादय एव कालशब्दा न तु निमित्तान्तरेण काले प्रयोगमात्रेणेति भावः। संख्या संख्येय इति । काले सङ्खयेये वर्तमा- नस्य सङ्खथावाचिनः कालाभिधायित्वमुपपन्नमिति भावः। वार्षशतिक इति । संख्यायाः उ.] त्प्रथमान्तादस्येत्यर्थे प्रत्यय इत्यर्थः । पूर्वाऽपेक्ष इति । 'सज्ञायां स्वार्थे' इत्येतदपेक्ष इत्यर्थः । एतद्वचनारम्भे वीजमाह-सङ्घादिग्विति । परिमाणिवित्यर्थः । अत्र हि षष्टि- सस्था सञ्जाथेयस्य परिमाणिजीवितद्वारा देवदत्तादिः, न तु सङ्घादिरित्यप्राप्तिरिति भावः । नन्वेतेऽपि कालबोधका विशेष्यतयेत्यत आह-मासादय एवेति । कालेतराऽवृत्तिकालत्व- व्याप्यधर्मप्रवृत्तिनिमित्तका इति भावः । सञ्जयेयवृत्तित्वेऽपि पञ्चादिवत्सङ्ख्यात्वमक्षतमत आह-सङ्ख्याया इति । ननु तदन्तविधिना भविष्यतीत्यतः-सङ्ख्यापूर्वेति । परे तु 'ठविधौ सङ्ख्याया' इति तदन्तविधिसूत्रभाष्योक्तेस्तदारम्भसामर्थेनाऽत्राऽन्यपूर्वपद- स्याऽपि तदन्तस्य ग्रहणाचिन्त्यमिदम् । तस्माद्वर्षशतशब्दादौ 'शतं वर्षाणी'त्याद्यर्थे मयूर- व्यंसकादित्वात्पूर्वपदार्थप्रधानः समासः। सङ्ख्येये वर्तते इत्यस्य वर्षादिरूपसङ्ख्येये वर्त्तते शतब्राह्मणशब्दवत् । सङ्ख्याशब्दत्वञ्च-सङ्ख्थाप्रवृत्तिनिमित्तकत्वम् । द्वे षष्टी संवत्सरा जीवितपरिमाणमस्येल्यर्थे द्विषष्टिशब्दस्य सङ्ख्थाप्रवृत्तिनिमित्तकत्वमेव । प्रकरणा- १ 'प्रसज्यते' पा० । २ इदं कचिन्नास्ति । -- । ५.१ पा.३१ आ..५८ सू.] है अयं तर्हि दोष:-"इह बचने हि लुक्प्रसङ्ग" इति। न भूमो यत्र क्रियमाणे दोषस्तत्र कर्तव्यमिति ॥ किं तहि ? ॥ यत्र क्रियमाणे न दोपस्तत्र कर्तव्यम् । क च क्रियमाणे न दोपः ? ॥ परमाहात् ॥ तत्ती पसङ्ख्यानं कर्तव्यम् ? ॥ न कर्त्तव्यम् । 'काला दिल्येव सिद्धम् ।। ननु चोक्तं 'नेमे कालशब्दाः किं तर्हि सङ्ख्याशब्दा' इति?॥ ननु चोक्तम् 'इमे- ऽपि कालशब्दाः ॥ कथं ? ॥ सङ्ख्या सङ्खयेये वर्त्तते ॥ ननु चोक्तं-"यदि तहि यो यः शब्दः काले वर्तते स स कालशब्दो,रमणीयादिष्वतिप्रसङ्गोभवतीति। ।। * । उक्तं वा ॥ * ॥ [ उक्त वा ] | किमुक्तम् ? ॥ 'अनभिधानादिति । अनभिधानाद्रमणीयादिपूत्पत्तिन भविष्यति ॥ !! # || स्तोमे डविधिः पञ्चदशाधर्थः ।। *। स्तोमे डो विधेयः॥ किं प्रयोज- नम् ? | 'पञ्चदशाद्यर्थः । पञ्चदशः स्तोमः सप्तदशः स्तोम इति ।। ।। ॐ ।। इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्चमस्याध्यायस्थ प्रथमेपादे प्रथममाह्निकम् ।। ५.१११ ॥ * ॥ अ.]प्रत्ययो बिधीयमानस्तदन्तान प्राप्नोति । संख्यापूर्वपदानामेव प्राग्वतेस्तदन्तविधिरिष्यते । खारशताद्यर्थमिति । खारशब्दोऽकारान्तो वार्तिककारवचनात्साधुः । तदस्य परि- माणमिति योगविभागः कर्तव्य इत्युक्तं भवति । अनभिधानादिति। नहि रमणीया- दयो वृत्तिविषये काले वर्तन्ते । षष्ट्यादयस्तु वृत्तौ सङ्घयेयेषु संवत्सरेषु स्वभावतो वर्तन्त इति युक्तं तेषां कालबाचित्वम् । लोके च संवत्सरसस यया जीवितं प्रायेण परिच्छिद्यत इति संवत्सरवृत्तित्वं षष्ट्यादीनामुच्यते । स्तोमे डविधिरिति । डिल्करणं विशः स्तोमस्त्रिंशःस्तोमइत्यादौ टिलोपार्थ । पञ्चदश इत्यत्र तु नस्तद्धित इति टिलोपः सिध्यति । स्तोमो मन्त्रसमूहः ।।। इत्युपाध्यायजैय्यटपुत्रकैय्यदकृते महाभाष्यप्रदीपे पञ्चमस्था- ध्यायस्य प्रथमे पादे प्रथममाह्निकम् ॥ ५।१।१ ।।।। उ.]दिवशात्तु संवत्सररूपसद्धयेयस्य तादृशसङ्खथावत्वेनैव शाब्दबोधे भानमित्यन्यदित्याहुः । खारशब्द इति। खारीशब्दपर्याय इत्यर्थः। अन्येभ्योऽपीस्यस्य-सजायाभिन्नेभ्य इत्यर्थः । दृशेः सर्वोपाधिव्यभिचारार्थत्वादन्येष्वपीत्यर्थोऽपि द्रष्टव्यः । योगविभाग इति । द्विषाष्टिका- वापशतिकादिसिद्धये इति भावः । भाष्ये-लुक्प्रसङ्ग इति । 'द्विषाष्टिक' इत्यत्रेति भावः । परमाहादिति । तदस्य परिमाण मिति तत्र पठितव्यमित्यर्थः। तत्तहीति । 'परमात्तिदस्य परिमाणमित्येतन कर्त्तव्यमिति खारशतिकवार्पशतिकार्थमत्र योगविभागः कार्यः, द्विषाष्टिकादिश्च कालादित्येव सिद्ध इति न तदर्थः स आहात्परः कार्य इति भावः । इमेऽपि कालशब्दा इत्यनेन-कालग्रहणे यथाकथञ्चित्कालवृत्तीनां ग्रहणमिति सूचयति । अतिप्रसङ्गाऽभावस्त्वनभिधानात् । तदेवाह-न हीति । ननु संवत्सरेष्विति कुतो मासादीनामपि सङ्खयेयत्वसम्भवादत आह-लोके चेति । डित्करण- १ इतिः कचिन्नास्ति। परमहोत्' पा. ३ 'उक्तच' पा.। ४ इदं व्याख्याभाष्य नेदानीमुपलभ्यते। ।
+ कैयट-विवरणसहित [ पङ्किविंशति- पङ्क्तिविंशतित्रिंशञ्चत्वारिंशत्पञ्चाशत्पष्टिसप्तत्यशीतिनवतिशतम् ॥ इमे विशत्यादयः सप्रकृतिकाः सप्रत्ययकाश्च निपात्यन्ते, तत्र न ज्ञायते का प्रकृतिः कः प्रत्ययः कः प्रत्ययार्थ इति ? । तन्न वक्तव्यमियं प्रकृतिरयं प्रत्ययोऽयं प्रत्ययार्थ इति । इमे बमो-द्विशब्दादयं दशदर्थाभिधायिनः अ.] पक्तिविं । इमे विंशत्यादय इति । सूत्रे पठितानां प्रत्यक्षत्वादिदमा परामर्शः। पक्तिशब्दश्छन्दोविशेषे सन्निवेशविशेपेच रूढो नैवावयवार्थानुसारेण प्रवर्तत इति तत्परित्यागेन विंशत्यादय एव विचार्यन्ते । वक्ष्यमाणवान्तिकावतारणार्थ चायं भाष्य उपक्षेपः । सप्रकृतिका इति । प्रकृतिप्रत्ययप्रकरणे उच्चारणादिति भावः। सहशब्दोऽत्र विद्यमानार्थो न तुल्ययोगार्थः । तेन विद्यमानप्रकृतिकाः प्रत्यया इत्यर्थः । निपात्यन्त इति । अथ प्रकृतित्व- मेषां कस्मान्न विज्ञायते ? । पञ्चम्याः प्रत्ययस्य चानुपादानादनिष्पन्नस्य च प्रकृतित्वाभावात् । प्रत्ययत्वं तर्हि करमादेषां न भवति ? । लोके केवलानां प्रयोगदर्शनात् । 'शताञ्च ठन्यता- वशते 'विंशत्यादिभ्य' इति । शास्त्रे च केवलानामुच्चारणात् । विधिनिपातनयोश्चाऽयं भेदो त्यत्रावयवा निर्दिश्यन्ते समुदायोऽनुमीयते स विधिः। यत्र तु समुदायः श्रूयतेऽवयवाश्चा- नुमीयन्ते तन्निपातनम् । का प्रकृतिरिति । प्रकृतिप्रत्ययविशेषविषयः प्रश्नः । प्रकृत्यर्थं तु न पृच्छति,-प्रकृती विज्ञातायां तदर्थस्यापि विज्ञानात् । कः प्रत्ययार्थ इति। लोके विंशत्यादीनां सङ्ख्थायां संख्येये च प्रयोगो दृश्यते तत्र लौकिकार्थानुगुणकं प्रत्ययार्थमाश्रित्य साधुत्वायैषामन्वाख्यानं क्रियत इत्यर्थः। इमे ब्रम इति। वचनक्रियायामाभिमुख्यं प्रतिपादयितुं प्रत्यक्षार्थसर्वनामोपादानं। उ.मिति। विशे तिलोपार्थं त्रयस्त्रिंशादी टिलोपार्थमित्यर्थः। तिटिलोपार्थमिति पाठः॥१८॥ ॥ * ॥ इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोड्योते पञ्चमस्य प्रथमे प्रथममाह्निकं ।। ५।१६१।।। * ।। पक्तिविंशति । प्रथमोपस्थितपङ्क्तित्यागे बीजमाह-पङ्क्तिशब्द इति। बीजान्तर- मप्याह-वक्ष्यमाणेति। तच्च विंशत्यादिविषयमेवेति भावः । ननु कथमेतदवगत सप्रकृतिका इत्याद्यत आह-प्रकृतीति । ननु प्रकृतिप्रत्ययाऽतिरिक्तनिपात्याऽभावाल्केन साहित्यमत आह-सहशब्दोऽन्नेति । अथेति । पङ्क्तयादिभ्योऽधिकृतः प्रत्ययो भवतीति ह्यर्थः स्यादिति भावः । प्रत्ययस्याऽधिकारलब्धत्वाद्गापोष्टगित्यादौ पञ्चम्या अभावाञ्च युक्त्यन्तर- माह-अनिष्पन्नस्य चेति । अन्यत एषामनिष्पत्तेः । शताच्चेति । तत्र तदन्तविधि- सम्भवाच्चिन्त्यमिदम्। विधीयन्त इति त्यक्त्वा निपात्यन्त' इत्युक्तौ बीजमाह-विधीत्यादि विशेषविषय इति। प्रकृतिसामान्यस्य प्रकरणादेव शातत्वादिति भावः। ननु प्रकृता- बुक्तायां तदर्थेऽवगतेऽवशिष्टः प्रत्ययार्थ इति ज्ञातुं शक्यत इति किं तत्प्रश्नेनेत्यत आह-लोके इति । सङ्ख्याने इति । सञ्जयायतेऽनेनेति सङ्खथानं-सङ्खथा । साधुत्वाय- १ 'विद्यमानप्रकृतिप्रत्ययाः' इति पा०। २ 'प्रत्ययमाश्रित्येति पा० ।
। ५ अ.१ पा.१ आ.।५९ सू.] महाभाष्यम् स्वार्थे शतिप्रत्ययो निपात्यते विन्भावश्च । द्वौ दशतौ विंशतिः ॥ ॥* विंशत्यादयो दशदर्थे चेत्समासवचनानुपपत्तिः 11।। विंशत्यादयो दशदथे तेत्समासो नोपपद्यते-विंशतिगवमिति ।। किं कारणम् ॥ द्रव्यमनभिहितं तस्यानभिहितत्वात्यष्टी प्रामोति-षष्ठ्यन्तं च समासे पूर्व निपतति,- गोविंशतिरिति प्राप्नोति ॥ न चैवं भवितव्यं ? ।। भवितव्यञ्च,-विंशतिगवंतु न सिध्यति । इह च-त्रिंशत्पूली चत्वारिंशत्पूली,-समानाधिकरण- लक्षणः समासो न प्राप्नोति । वचनञ्च विधेयम् ।-विंशतिः । द्वित्वा- अ.] वचनमानं चेह विवक्षितं न तु कर्बभिप्राय क्रियाफलमित्यात्मनेपदं न कृतम् । द्विश- ब्दादिति । दशद्वर्गलक्षणसंख्येयवाचिन इत्यर्थः । समुदाये च निपात्यमाने नान्तरीयक- मवयवानां निपातनमित्यभिप्रायेण 'शतिच्प्रत्ययो निपात्यत' इत्युच्यते । स्वार्थ इति । प्रत्ययस्य स्वात्मीया प्रकृतिस्तस्या अर्थ इत्यर्थः । अथ वा यः प्रकृतेरर्थः स एव प्रत्ययानां स्वार्थः-पितृधनमिव पुत्रस्य, तत्रैवार्थे प्रत्यासत्त्याऽनिर्दिष्टार्थप्रत्ययस्योत्पत्तेाय्यत्वात् । समासवचनानुपपत्तिरिति । इष्टयोः समासवचनयोरनुपपत्तिरित्ययमर्थोऽभिमतः । नहि समासमात्रं बचनमानं वा न सिध्यति । विंशतिगवमिति । विंशतिशब्देन दयोर्दशतोरभिधानं न तु दशसंबन्धिनां द्रव्याणाम् । ततश्च दशदयेक्षया गवां व्यति- रेकोपजनात् षष्ठ्या भाब्यं-गवां विशतिरिति । समानाधिकरणपदनिबन्धन- द्विगुसमासाप्रसङ्गः। षष्ठ्यन्तं चेति । 'उपसर्जनं पूर्वमिति लक्षणेन । “गुणेन षष्ठी न समस्यत' इति प्रतिषेधः संख्यायां न भवति, 'शतसहस्रान्ताच्च निष्कादिति उ.] तद्वोधनाय। आभिमुख्यमिति । उत्तरदानोद्यतत्वमित्यर्थः । प्रतिपादयितुमिति । प्रतिवचनस्य सुशकवद्योतनायेति भावः। नन्वाचार्यः स्त्रोक्तदूषणपरिहारमाहेति क्रियाफलस्य कर्तृगामित्वादात्मनेपदापत्तिरत आह-वचनमात्रञ्चेति। वस्तुतः कथनफलस्य तन्निर्ण- यस्य शिष्यगामित्वात्तत्त्वेनैव विवक्षणाच कथमत्रात्मनेपदप्राप्तिरिति चिन्त्यम् । दशव- गैति । दश द्रव्याणि परिमाणमस्य वर्गस्य स दशद्वर्गः । वर्गः-सङ्घ इत्युच्यते । ननु समुदायस्यैव निपातनात्कथम्प्रत्ययो निपात्यत इत्युक्तिरत आह-समुदाये चेति । स्वार्थशब्दे षष्ठीतत्पुरुषः कर्मधारयो वेत्याह-प्रत्ययस्येत्यादिना । ननु षष्ठोसमासादेः सिद्धः कथं समासाऽनुपपत्तिरत आह-इष्टयोरिति । ननु विंशतिशब्दस्य सङ्खथेय- वाचित्वात्समानाऽधिकरणसमासोऽपि सेत्स्यतीत्यत आह-विंशतिशब्देनेति । दशतो:- दशाऽवयवकसमूहयोः । नत्विति । तादृशसमूहसम्बन्धिनां दशसङ्ख्यद्रव्यागामित्यर्थः । गवां व्यतिरेकोपजनादिति। गवां द्वौ दशतावित्यादिति भावः । ननु गुणेन षष्ठोसमासनिषेधात्समास एव तावद्दुर्लभः किं पूर्वनिपातदूषणेनेत्यत आह-गुणेनेति । सङ्ख्यामात्रपरत्वेऽस्य प्रयोगस्येष्टत्वादाह भाष्ये-न चैवमिति। उत्तरयति-भवितव्यञ्चति ननु स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्त्तन्ते'इत्यस्याऽपि सत्त्वात्कथमिदं दूषणमत आह- १ शतिप्रत्ययो पा०।२ विभावश्च पा०1३'नवैवं पा०१४ इतोऽग्रेगोविंशतिरिति इति पा० । ।
- कैयट-विवरणसहित [ पङ्क्तिविंशति दशतोयोर्दिवचनमिति द्विवचनं मामोति ॥ एवं तहि परिमाणिनि विंशत्यादयो भविष्यन्ति । || * || परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधानम् || * || परिमाणिनि चेत्पुनः स्वार्थ प्रत्ययो विधेयः-विंशकः सङ्घः । ॥ * ॥ षष्ठीवचनविधिश्च ।। * ॥ षष्ठी च विधेया। गवां विंशतिः । द्रव्यमभिहितं तस्याऽभिहितत्वात्पष्टी न प्रामोति ! एकवचनञ्च विधेयं-विंशतिर्गावः । गोभिः सामानाधिकरण्याबहुपु बहुवचन्न- मिति बहुवचनं प्राप्नोति ॥ प्र. प्रत्ययविधानाज्ज्ञापकात ,कोशशतयोजनशतयो रिति बार्तिककारवचनाच्च । द्विवचनं प्राप्नोतीति । स्वार्थिकाः प्राकृतलिङ्गमेव केचिदतिवर्तन्ते न तु सहयाभपि, सङ्यान्तरयुक्त- स्य सङ्क्षयान्तरविरोधात् । लिङ्गानान्तु विरोधाभावः स्त्रीसूत्रे प्रतिपादितः । एवं तहाँति । तदस्य परिमाणमित्यधिकारात्परिमाणोपाधेः सङ्ख्याया 'अस्येति परिमाणिनि प्रत्ययः। परि.. माणी च द्विविधः-द्रव्यसङ्घातो, भिन्नानि वा द्रव्याणि। तत्र सङ्घस्यैकत्वाद्विशतिरित्येकवचन सिध्यति । द्रव्याणान्तु परिमाणित्वे विंशतिगवं त्रिंशत्पूलीति समानाधिकरणसमाससिद्धिरिति भावः। परिमाणिनि चेदिति । द्वौदशतौ परिमाणं यस्य स सो विंशतिरित्यभिधीयते। तत्र विंशतिः परिमाणं यस्य सङ्घस्येति सङ्घान्तरस्य परिमाणिनोऽसंभवाविंशकः सङ्घ इति सिद्धये 'विंशतित्रिंशद्भयां मुन्स्वार्थे संज्ञाया'मिति डुन्प्रत्ययः स्वार्थे वक्तव्यः। ननु यदा द्रव्याणि परि- माणीनि विंशतिशब्दाभिधेयानि तदा सङ्घ परिमाणिनि प्रत्ययः सिध्यत्येव-विंशतिर्गावः परिमाणमस्य विंशकः सङ्घ इति ? । एवं तर्हि विंशतिशब्देन सङ्घस्याभिधानं प्राप्नोति । न चेष्यते-विंशतिर्गासङ्घ इति । तस्माद्यदा सङ्के परिमाणिनि विंशत्यादयो निपात्यन्ते तदा तत्र तेषां केवलानां प्रयोगो मा भूदिति पुनः स्वार्थे नित्यं प्रत्ययो विधेयः । षष्टीवचनविधिश्चेति । सङ्घ परिमाणिनि विंशत्यादीनां केवलानां नित्यं प्रयोगो नेष्यते, मिनेषु तु द्रव्येषु परिमा- णिषु प्रत्ययोत्पत्तावाश्रीयमाणायां विंशतिशब्देन द्रव्याणामभिधानाध्यतिरेकामावादवां विंश. तिरिति पष्ठी न प्राप्नोति, द्रव्यसामानाधिकरण्याद्वहुवचनप्रसङ्गश्च ।। उ.] स्वार्थिका इति । न तु सङ्ख्यामपीति । सङ्ख्याबोधकप्रकृत्युपात्तसङ्ख्यामपीत्यर्थः। स्त्रीसूत्रे इति । 'इयं व्यक्तिरयम्पदार्थ इदं बस्त्विति त्रिविधव्यवहारस्य प्रतिवस्तु सत्त्वा नपुंसक इति व्यवहाराच्च तेषामविरोध इति भावः। ननु किं 'परिमाणिनीति वक्तव्यं, नेत्याह-तदस्येति । द्विविध इति । द्वौ दशती परिमाणमस्यैषामिति वा विग्रहः । ननु परिमाणिनि विहितस्य पुनः स्वार्थे विधानमनुपन्नमत आह-द्वौ दशताविति । भाष्ये-पुनरित्यस्य-तदन्तादित्यों बोध्यः । स्वार्थे इति । अन्यथाऽधिकारादाहीये- ध्वेव स्यादिति भावः । न चेष्यते विंशतिरिति । किन्तु 'विंशको गोसद्ध इत्येवेभ्यत इति भावः । ननु सङ्घस्य विंशत्यर्थत्वेन 'गवां सङ्घ इतिवत्यष्ट्युपपन्नैवेत्यत आह-सङ्घ- इति । नित्यमिति । सर्वथेत्यर्थः। व्युत्पत्तिपक्षस्य दुष्टत्वाहिकल्पार्थो वाशब्दो न युज्यतेऽ- १ 'डुनसब्ज्ञायामिति' इति पा० । . ।
५ अ.।१पा.११ आ. ५९ स.] महाभाष्यम् || * || अनारम्भो वा प्रातिपदिकविज्ञानायथा सहलादिषु ॥ * ॥ अनारम्भो चा पुनविंशत्यादीनां न्याय्यः॥ कथं सिध्यति?॥ 'प्रातिपदिकविज्ञानात् । कथं प्रातिपदिकविज्ञानम् ? ॥ विंशत्यादयोऽव्युत्पन्नानि प्रातिपदिकानि । 'यथा सहस्त्रादिषु'। तद्यथा-सहस्त्रमयुतमबुंदमिति नचानुगमः क्रियते भवति चाभिधानम् ॥ 'यथा सहस्रादिपिवत्युच्यते,-अथ सहस्त्रादिष्वपि कथं भवितव्यम् - सहस्त्रं गवां, सहस्रं गावः, सहस्रगवं, गोसहस्त्रमिति? यावताऽत्रापि सन्देही नासूया कर्तव्या यत्रानुगमः क्रियते ॥ ननु चोक्तं "विंशत्यादयो दशदर्थे चेत्समासवचनानुपपत्तिः। परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधानं, षष्टी. भ.] तदेवं व्युत्पत्तिपक्षे दूपणान्यभिधायाऽव्युत्पत्तिपक्षं निर्दोषमाश्रित्यारम्भं प्रत्याख्यातु- माह-अनारम्भो वेति । वाशब्दस्तीर्थे । सहस्रादिवदव्युत्पन्ना एव विशत्यादयोऽर्थ- वदधातुरिति लब्धप्रातिपदिकसंज्ञा अर्थवत्सूत्रेणानुज्ञातसाधिमानः सङ्घचायां सङ्खयेये च प्रयोगभेदेनाऽक्षादिपदवदनेकार्थतया स्वभावतो वर्तमाना रूढिशब्दत्वाच्च नियतलिङ्गसचयाः, यथा आपो दारा इति भावः । इदानी भाष्यकार आरम्भ समर्थयमान आह-यथेति । अयमत्रार्थः-अक्षादयः परस्परानन्वितानेकार्थाभिधायिनो भिन्नासु जातिषु रूढशब्दा एव न तु यौगिकाः । विंशत्यादयः सहस्रादयश्च शुक्लादिवद्गुणिनि यौगिका एव, नहि सङ्ख्थानिरपेक्षाः सङ्खयेय- विशेषमेते प्रत्याययन्ति येनैषां रूढिशब्दत्वमुच्येत । अत्रापि सन्देह इति । क एप मुख्योऽर्थः को वा सोऽयमिति सम्बन्धादौपचारिक इति सन्देहः । नासूयेति । अननुगमो उ.] त आह-तर्वार्थ इति । अर्थवत्सूत्रेणाऽनुज्ञातेति । अन्यथा सर्वत्र ‘कृत्तद्धिते'त्येक सिद्धऽर्थवत्सूत्रं व्यर्थं स्यादिति भावः । 'बहुपटव' इत्याद्यर्थं तदावश्यकत्वाच्चिन्त्यमिदमिति केचित्, तन्न; 'बहुजकज्वदिति न्यासेनैव सिद्धेरित्याशयात् । स्वभावत इत्यस्यैव व्याख्या-रूढिशब्दत्वाच्चेति । चो हेतौ। अनेन योगनिरपेक्षमेवाऽनेकार्थवृत्तित्वमुक्तं, नविदं नियतलिङ्गत्वे हेतुस्तादृशानामपि पद्मादीनामनेकलिङ्गत्वदर्शनात् । नियतलिङ्गत्वन्तु स्वभावतो दृष्टान्तमात्रेणेति बोध्यम् । भाष्ये-न चाऽनुगम इति । प्रकृतिप्रत्यययोरि- त्यर्थः । भवति चाऽभिधानमिति । अर्थस्येति भावः। ननु स्वभावत एवाऽनेकार्थत्वा- कथम्भवितव्यमिति प्रश्नाऽनुपपत्तिरत आह-अयमत्रेति । शुक्लादिवदिति । 'गुण- वचनेभ्यो मतुपो लुगिष्ट' इति वार्तिकरीत्येदम् । न हि सङ्ख्येति । किन्तु सङ्ख्याप्रका- रकसङ्घयेयबोधजनका एवेति भावः। रूढिशब्दत्वमुच्येतेति । शुक्लादीनां यौगिकत्वं वदता वार्तिककृतेदं वक्तुमनुचितमितिभावः । ननु स्वभावत उभयत्राऽपि वृत्तेः सन्देहा:- नुपपत्तिरतआह-कएषामिति।सोऽयमिति सम्बन्धादिति। सोऽयमस्याऽस्तीति सम्ब- धेनोत्पन्नस्य मतोलॊपाद्विलम्बोपस्थितिक इत्यर्थः । यद्वा 'गुणवचनेभ्य' इत्येतत्प्रत्याख्यान- १ सहस्त्रं गवामितीदं क्वचिन्नास्ति । - ।
। कैयद-विवरणसहित [पतिविंशति-- वचनविधिश्चेति ? ॥ नैष दोषः-समुदाये विंशत्यादयो भविष्यन्ति । किंवक्तव्यमेतत् ? ॥ न हि ॥ कथमनुच्यमानं गंस्यते ?॥ सङ्घ इति वर्तते । सङ्घः समूहः समुदाय इत्यनर्थान्तरम् । त एते विंशत्यादयः समुदाये सन्तो प्र.] हिदोपाय। अशक्यो वानन्त्यात्सर्वशब्दानुगमः। नत्वनुगम एव स्वप्रज्ञापराधादशक्यार्थ- विशेषनिश्चयत्वाद्दोषत्वेनोद्भावनीय इत्यर्थः। समुदाय इति। अस्येति प्रत्ययार्थस्यानुवर्तना- समुदायः परिमाणी प्रत्ययार्थत्वेनाश्रीयते न तु भिन्नानि द्रव्याणीत्यर्थः। किंवक्तव्यमिति । अस्येत्यनुवर्तनात्परिमाणिमात्रे प्रत्ययो लभ्यते न तु तद्विशेष इति मत्वा प्रश्नः । संघ इति वर्तत इति । पूर्वसूत्रे द्वन्द्वनिर्दिष्टस्यापि सङ्घशब्दस्यैव स्वरितत्वादिहानुवृत्तिः । ननुप्राणिसमूहः सङ्घः ततश्च 'वृक्षाणां विंशतिरिति न प्रामोतीत्याह-सङ्घः समूह इति । सामान्येन प्राणिनानप्राणिनां च समुदायः सङ्घ इत्यर्थः। ननु चोक्तं 'परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधान मिति ? । नैष दोषः-द्रव्यसङ्घयोर्दशतोः सङ्के प्रत्ययो निपात्यते न तु द्रव्यसङ्के। इह द्रव्याणां द्रव्यसङ्घस्य दशता दशत्सङ्घस्य च पारमार्थिको भेदो नास्ति, केवलं बुद्धथा परिकल्प्यते। बुद्धिव्यवस्थापितार्थनिबन्धनाश्च शब्दा बुद्धिमेवार्थाकारामुपजन- यन्तोऽसत्यपि वास्तवे भेदे तमवगमयन्ति । त एत इति । निपातनसामाद्विशिष्टे दाशते . । उ.]रील्येदम् । दोषायेति । अनुगमनमन्तरेण मन्दबुद्धीनामनुग्रहाऽसम्भवादिति भावः। वस्तुतो नसोऽप्याचार्यस्य दोष इत्याह-अशक्यो वेति । अनुगमस्तु सर्वथा नाचार्यस्य दोषाये- त्याह-नत्विति । अनुगमनविषयेषु विंशत्यादिश्वर्थविशेषाऽनिश्चयः स्वप्रज्ञाऽपराधजो न तु तत्र सूत्रकृदपराध इति भावः । अशक्यार्थविशेषनिश्चयत्वादिति। बहुबोहेस्त्वप्रत्ययः । दोषत्वेनेति । अयमाचार्यदोषत्वेन सर्वथा नोद्भावनीय इत्यर्थः । न तु भिन्नानीति । एवञ्च सङ्घस्यैकत्वादेकवचनं, सामानाधिकरण्यनिबन्धनद्विगुसमासश्चोपपन्न इति भावः । सामा- न्येनेति । संघोद्धाविति निपातनबललभ्यमेतत् । ननु चोक्तमिति । अन्यथा 'विंशतिगों- सङ्घ' इति प्राप्नोति, 'विंशक' इति चेष्यत इति भावः । द्रव्यसंघयोरिति । दशच्छब्दो दशसङ्घथापरिच्छिन्नद्रव्यसंघे इति भावः । न तु द्रव्यसंघे इति । तत्र दशतोः संघस्य विशतिशब्देनाऽभिधानात गोसंघे विवक्षिते दशत्संघद्वयात्मिका विंशतिः परिमाणमस्येत्यर्थे 'विंशको गोसंघ' इति भविष्यति, 'विंशति!संघ' इति चान गवां विंशतिगोविंशतिरिति च सिध्यतीति भावः । नन्वेवमपि दशतोः संघस्य दशती गुणिनौ न गावस्तेन दशतो- विंशतिरिति प्राप्नोति, गवां विंशतिरिति च न सिध्यत्यत आह-इहेति । एवञ्च गवां दश- तोश्च तात्त्विकभेदाऽभावादशसंघमपि प्रति गवां गुणत्वमुपपद्यते, व्यभिचाराऽभावात्तु दशद्भयां विंशतिर्न विशेष्यते, तत एव च सामानाऽधिकरण्यमपि विंशतिर्गाव इतीति भावः । नन्वेवमपि भेदाऽभावात्पष्टयनुपपन्नेत्यत आह-केवलं बुयेति । बुद्धिव्यवस्थापिते- त्यादि।' बुद्धिपरिकल्पितार्थाऽभिधायिन एव शब्दा न तु बाह्याऽर्थाभिधायिन इति मन्जूषायां शक्तिवादे निरूपितम् । प्रकारान्तरेणाऽपि 'विंशतिर्गाव' इति समानाधिकरण- प्रयोगोपपादनायाह-भाष्ये-त एत इति । विशिष्टे दाशते इति । दशद्वयात्मके है ५.३१ पा.१ आ.।५९ सू.] महाभाच्यम् भाववचना भवन्ति, भाववचनाः सन्तो गुणवचना भवन्ति, गुणवचनाः सन्तोऽविशिष्टा भवन्त्यन्यैर्गुणवचनैः ।-अन्येषु च गुणवचनेषु कदा चिद्गुणो गुणिविशेषको भवति । तद्यथा-पंटः शुक्छ इति । कदाचिगुणिना गुणो विशेष्यते। तद्यथा-पटस्य शुक्ल इति । तद्यदा तावदुच्यते-'विंशत्यादयो दशदर्थे चेत्समासवचनानुपपत्ति' रिति,-सामानाधिकरण्यन्तदागुणगुणिनोः ! वचनपरिहारस्तिष्ठतु तावत् । 'परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधान'- प्र.]सङ्घ वर्तमाना भाववचना भवन्ति । भावशब्देनाऽत्र धर्ममात्रमुच्यते। भाव इव भावः ! यथा पाकादिभावः पराश्रय एवमन्योपि धर्मः पराश्रयत्वाद्भावः । गुणवचना इति । गुण- मुक्तवन्तो गुणवचनाः । गुणमुक्ता द्रव्यमभिदधतीत्यर्थः । अन्यैरिति । शुक्लादिभिरुभय. वचनैस्तुल्या इत्यर्थः । गुणिविशेषक इति । भाष्यकारवचनात्कर्तरि चेत्यनित्यः षष्ठी- समासनिषेधः । शेषषष्ट्या वा समासः । अथ वा गुणिनं विशिनष्टीति कर्मण्यण् । ततः स्वार्थे कन्प्रत्ययः। पटः शुक् इति । गुणगुणिनोरव्यतिरेकविवक्षया मतुब्लोपाद्वा सामा. नाधिकरण्यमेवं विंशत्यादीनामपि द्रव्येण सामानाधिकरण्यम् । कदाचिदिति । आधारान्तरव्यवच्छेदायोपजातव्यतिरेकेण गुणिना गुणो विशेष्यते । पटस्य शुक्को न शङ्का- देरित्यर्थः । दशदर्थे चेदित्यस्मिन् पक्षे यो दोषः स पक्षान्तराश्रयेण परिहियत इत्यर्थः। बचनपरिहार इति । समुदायाभिधाने वचनदोषो नावतरति । सामानाधिकरण्ये त्ववतरति स च परतः परिहरिष्यते। तिष्ठत्विति । परस्तावक्ष्यमाणत्वात् । संहनन इति । सङ्घः संहननं, तत्र दशतोः सङ्घ प्रवृत्तो विंशतिशब्दो गवादिद्रव्यसङ्घ परिमाणिनि उ.] इत्यर्थः । नन्वेते न धात्वर्थरूपभाववचना अत आह-भावशब्देनेति । वस्तुत एते क्रियारूपा एव, बुद्धिसम्बद्धत्वरूपस्यैकदेशसम्बद्धत्वरूपस्य वा समूहस्य बन्धनक्रियारूप. त्वात्, तादृक्षाश्च सन्तो गुणवचनास्तत्सदृशा भवन्ति । तत्सादृश्यमेवाह-तत्सदृशाः सन्तोऽन्यैर्गुणवचनैरविशिष्टा अविलक्षणा इति । अत एव 'शतसहस्रादौ षष्ठीस- मास' इति परे। गुणबोधकरूपादितुल्यत्वेऽपि नेष्टसिद्धिरत आह-शुक्लादिभिरिति । नन्वत्र षष्ठीसमासनिषेधः प्राप्नोतीत्यत आह-भाष्येति । ननु भेदकल्पने किं बीजमत आह-आधारान्तरेति । भाष्ये-तद्यदा तावदिति । दशदर्थाऽभिधायिनो 'वि'शब्दा- त्स्वार्थे प्रत्यय इति पक्षे यदूषणमुच्यते 'दशदर्थे चेदित्यादिना,-तस्मिन् पक्षे तद्दपणं न भवति, यतस्तदा गुणगुणिनोः सामानाऽधिकरण्यमिति भाष्याक्षरार्थस्तदाह-यो दोष इति । समासानुपपत्तिरूप इत्यर्थः । पक्षान्तरेति । पूर्व दाशते संघे वृत्ति समुदायसमु- दायिनोश्चाऽभेदमाश्रित्य परिहृतम्, इदानीन्तु दशदर्थे एव वृत्तिं गुणगुणिनोरिव समूह- समूहिनोः सामानाधिकरण्यमाश्रित्य परिहियते इत्यर्थः । तदेत्यनेन-यदा भेदविवक्षा तदा गवां विंशतिरिति वैयधिकरण्यमित्यपि सूचितम् । दशतोः संघेइति । दशसमुदाययोः १ 'शुक्ल: पटः' पा० । २. व्यपदिश्यते इति पा० । ३ 'समुदायाभिधानेन' पा० । ।
। " - । ३१२ कैयट-विवरणसहितं [पङक्तिविंशति- मिति, संहनने वृत्तः संहनने वर्तिप्यते । सङ्ख्यासंहनने वृत्तो द्रव्यसंहनने वर्तिष्यते । अथ षष्टी-तदा गुणिना गुणो विशेष्यते। वचनपरिहार- उभयोरेवम् । [उभयोरपि पक्षयोरेवं कृत्वा वचनपरिहारः ॥] यदि तहीं- मे विंशत्यादयो गुणवचनाः स्युः सधर्मभिरन्यैर्गुणवचनैर्भवितव्यम् । अन्ये च गुणवचना द्रव्यस्य लिङ्गसङ्खये अनुवर्तन्ते । तद्यथा-शुक्ल वस्त्रं, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति ।-यदसौ द्रव्यं भितो गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति । विंशत्यादयः पुन- र्नानुवर्तन्ते ॥ अन्येऽपि वै गुणवचनानावश्यं द्रव्यस्य लिङ्गसङ्खये अनुवर्तन्ते । प्र.] प्रत्ययमुत्पादयिष्यतीत्यर्थः । विंशतिः परिमाणमस्य गोसङ्घस्य विंशको गोसङ्घ इति । वर्तिप्यत इति । परार्थाभिधानं वृत्तिर्विवक्षिता, नतु विंशतिशब्दः कदाचिदपि गोसंवे वर्त्तते । गुणिनेति । गवादिनेत्यर्थः । ननु दाशतस्य सङ्घस्य गवादिर्गुणी न भवति दशती- हि तस्य गुणिनौ। नैष दोषः । गवां दशतश्च तात्त्विकभेदाभावाद्वामपि गुणित्वात् । तत्राव्यभिचारादशता विंशतिर्न विशेष्यते-दशतोविंशतिरिति । गोभिस्त्वश्वादिव्यावृत्तये विशेष्यते-गवां विंशतिरिति । यथा 'पटस्य शौक्लयामिति पटेन शङ्खादिव्यावृत्तये शौक्यं विशेष्यते न तु शुक्लेन गुणेन स्वसमवेतं गुणसामान्य-शुक्लस्य शोल्क्यमिति, व्यभिचारा- भावात् । वचनपरिहार उभयोरिति । समुदायाभिधाने गुण्यभिधाने चेत्यर्थः । तत्र समु- दायाभिधाने तस्यैकत्वात्सिद्धमेकवचन मिति सामर्थ्यात्परिहृत एव वचनदोषः । सामा- नाधिकरण्ये तु परिहार उच्यते इति भावः । तं-वचनदोष यदि तहीत्यनुभाष्य परिहरति- विंशत्यादयः पुनरिति । प्राक्शतात्तेषां स्त्रीलिङ्गत्वादेकवचनान्तत्वाच्च, शतस्य नपुंसक- त्वादेकवचनान्तत्वाच्चेति भावः। विंशती विंशतयः शते शतानीति तु प्रचयविवक्षाया- उ.संघे इत्यर्थः। भाष्ये-संहनने वर्तिष्यते इति । संहनने द्रव्यसंघे स्वप्रकृतिकप्रत्ययघटितं वृत्त्यन्तरम्प्राप्स्यत इत्यर्थः । तदाह-पराऽर्थेति । (भाष्ये)-सङ्ख्यासंहनने इति । सङ्ख्यारूपे समुदाये वृत्त इत्यर्थः । कदाचिदपीति । अत एव 'विंशतिर्गासंघ' इति न । भाष्ये-गुणो विशेष्यते इति । भेदेनेत्यर्थः । नन्विति । एवञ्च दशतोविंशति- रिति प्राप्नोतीति भावः। गवां गोसमूहेन दशतश्च दशत्संघेन न पारमार्थिको भेदः किन्तु बुद्धिकल्पित इति न दोष इत्याशयेनाह-गवां दशतोश्चेति । गवामपि दशत्संघम्प्रति गुणित्वादित्यर्थः । न तु शुक्लेन गुणेनेति । स्वाश्रयद्वारेत्यर्थः। समुदायेति । वर्ग- द्वयसमुदायेत्यर्थः । गुण्यभिधाने चेति । तादृशसंघगुणकद्रव्याऽभिधाने चेत्यर्थः । तादृशसंघ एव विंशतित्वमिति बोध्यम् । एवं ब्यादिसंघ एव द्वित्वादिकमित्याहुः । यदि तीत्यनुभाष्येति । 'यदि तीत्यादि तद्गुणस्याऽपि भवती'त्यन्तेन ग्रन्थेनाऽ- नूयेत्यर्थः । विंशत्यादयो गुणवचना इत्यस्य-तत्सदृशा इत्यर्थः । विवक्षायामिति । समुदायभेदविक्षायामित्यर्थः । विंशत्यादिभिस्तदननुवृत्तिं दृष्टान्त. १ 'उभयोरेव पा०।२ अयं पाठः कचिन्न दृश्यते । ३ 'परिहतश्च पा० । । प्रचय- ५३.१ पा.१ आ.।५९ सू.] @ महाभाष्यम् तद्यथा-गावो धनं, पुत्रा अपत्यम् , इन्द्राग्नी देवता, विश्वेदेवा देवता, याव- न्तस्ते तो वाशितामनुयन्ति सर्व ते दक्षिणा समृद्या इति ॥ अथानाऽननुवृत्तौ हेतुः शक्यो वक्तुम् ? ॥ बाढं शक्यो वक्तुम् ।। काम तमुच्यताम् ॥ इह कदाचिद्गुणः प्राधान्येन विवक्षितो भवति । यद्यथा-पञ्चोडुपशतानि तीर्णानि, पञ्चफलकशतानि तीर्णानि पञ्चवेधीशतानि तीर्णानि, अश्वैर्युद्धमसि- भियुद्धमिति । न चाऽसयो युध्यन्ते । असिगुणाः पुरुषा युध्यन्ते । गुणस्तु खलु प्राधान्येन विवक्षितो भवति ॥ इह तावद्भावो धनमिति,-धिनोतेर्धनम् । एको गुणः स [] प्राधान्येन प्र.] मेकशेषो भवति । गावो धनमिति। धनादीनां साकाहत्वाञदकत्वास्क्रियायां पारत- त्र्याच गुणत्वम् । यथा शुक्लमित्युक्ते किं तदिति नित्यं द्रव्यमाकाकति। शुक्वं च वस्त्रमिति द्रव्यस्य भेदकम् । शुक्मानयेति क्रियायां द्रव्य परतन्त्र; द्रव्यानयनमन्तरेण गुणानयनासंभ- वादिति शौक्ल्यं गुणः । एवं धनमित्युक्ते 'कि तदिति च गवाद्याकाति, गावो धनमिति गवां प्रीतिहेतुत्वावगमा दकं, धनमानयेत्युक्ते गवादिद्रव्यानयनास्क्रियायां पारतन्त्र्यमिति- धनं गुणः । उडुपशतानीति । अत्र सञ्जयालक्षणस्य गुणस्य तरणे प्राधान्य विवक्षितम् । तीर्णानीति कर्तरि निष्ठाभिधानात् । तस्वतस्तु सझ्ययानामुडुपानां प्लवने कर्तृत्वम् । अथ वोडुपानां करणानामेव कर्तृत्वविवक्षायामिदमुदाहरणम् । अश्वैरिति । अश्वा असयश्चाधि- करणत्वात्करणत्वाचोपकारित्वाद्गुणा अपि सन्तः प्रहारे प्राधान्येन विवक्षिताः, कर्तरि तृतीया- विधानात् । धिनोतेधनमिति । समुदायस्य प्रीतिहेतुत्वाद्धनत्वं न त्वेकैकस्य गोपिण्ड- स्येति धनमेकं गोभिर्विशेष्यते । आश्रितसङ्घयाविशेषाश्च गोपिण्डा धनं विशिषन्तः समुदा- उ.] सिद्धयुक्त्योपपादयितुमाह-भाध्ये अन्येऽपि वै गुणेत्यादि । ननु धनादीनां द्रव्यव- चनत्वात्कथं गुणवचनत्वमत आह-धनादीनामिति । हेतुत्रयमपि दृष्टान्ते उपपादन- पूर्वं प्रकृते उपपादयति-यथेत्यादि । भेदकमिति । प्रीतिहेतुत्वेनेतरेभ्यो भेदकमित्यर्थः । भाष्ये-अथाऽत्राऽननुवृत्ताविति। गुणिलिङ्गाधननुवृत्तावित्यर्थः । उडुपशतानी- त्यादि-षष्ठीतत्पुरुषः । कतरि निष्ठेति। सवनार्थस्य तरतेरकर्मकत्वादिति भावः। तरणे च तेषां कर्तृत्वात्प्राधान्यमिति तात्पर्यम् । ननु तेषां करणत्वेन कथं कर्तृत्वमिति चेन्न, यदा स्वत एव तानि जले प्लवन्ते तदोदाहरणत्वमित्याशयात्। इत एव वाऽस्वरसादाह-अथ वेति । एवञ्च करणत्वेन गुणानामेवोडुपानां प्राधान्यविवक्षेति भावः । कर्तरि तृती- येति । कञन्तराऽनुपादानास्क्रियाया नियमेन काकासत्वाच्च तेषामेव कर्तृत्वप्रतीतिरिति तात्पर्यम् । समुदायस्येति । अयम्भावः, यस्य धर्मस्य धमिणा सहाऽभेदः प्रतिपाद्यते, स चेत्तेषु प्रत्येक परिसमाप्तस्तदा तस्याऽपि धर्मिवदेव भिन्नत्वाद् द्विवचनादि । यथा-शुक्लौ शुल्ला इति । न चैवं प्रकृते, धनाकारे भेदाऽभावाद्वहुवचनाऽप्रसङ्ग इति । धनमेकमिति । १ अयं पाठः क्वचिन्नास्ति । २ बुधीशतानि' पा० । ३ चकारः क्वचिन्न । ।
। ३१४ ॐ कैयट-विवरणसहित [ पतिविंशति- विवक्षितः-पुत्रा अपत्यमिति । अपतनादपत्यम् । एको गुणः स प्राधान्येन विवक्षितः ॥ इन्द्राश्नी देवता विश्वेदेवा देवतेति। दिवेरैश्वर्यकर्मणो देवस्तस्मा- स्वार्थ तल। एको गुणः स प्राधान्येन विवक्षितः॥ यावन्तस्ते तां वाशिता. मनुयन्ति सर्वे ते दक्षिणा समृच्या इति। दक्षवृद्धिकर्मणो दक्षिणा। एको गुणः स प्राधान्येन विवक्षितः तस्यैकत्वादेकवचनं भविष्यति । विंशत्यादिषु चाऽप्येको गुणः स प्राधान्येन विवक्षितस्तस्यैकत्वा- देकवचनं भविष्यति ॥ अयन्तहिं विंशत्यादिषु भाववचनेषु दोषः- गोविंशतिरानीयतामिति भावानयने चोदिते द्रव्यानयनं न प्राप्नोति ।। प्र.यस्य प्रीतिहेतुत्वं प्रत्याय यन्तीति गावोऽपि धनसङ्ख्या नानुवर्तते, गोर्धनमित्युक्ते विव- क्षितार्थांनवगमात् । अपतनादिति । बहूनां चापतनहेतुत्वं न त्वेकैकस्य। तथा चोच्यते- 'वरमपुत्रत्वं नत्वेकपुत्रते'ति । लोकाश्रयत्वालिङ्गस्याऽपत्यशब्दो नपुंसकलिङ्ग एव प्रयुज्यते । प्रत्येकं त्वपतनहेतुत्वे विवक्षिते 'पुत्रा अपत्यानीति बहुवचनं भवत्येव । इन्द्राग्नी देवते इति । सङ्घस्य देवतात्वमेकं हवि (:)ष्प्रतीति द्विवचनाभावः। देवते इत्युच्यमाने प्रत्येकंदेवतात्वं प्रतीयते, ततश्च विकल्पेन देवताकार्य स्यात् । यथा 'खादिरे बनाति' 'पालाशे बनातीति बनातावेका- थवादधिकरणविकल्पः । सर्वे ते दक्षिणेति। अत्रापि समुदायस्य दक्षिणात्वमित्येकवचनम् । दक्षिणा इति तु बहुवचने दाने विकल्पः स्यात् । विशत्यादिष्विति । विंशतिसङ्ख्या समुदिता- द्रव्यसमवायिनी न तु प्रत्येकं शुक्लादिवत्परिसमाप्तेति द्रव्यगते लिङ्गसङ्खये नानुवर्तते। पञ्चा- दयस्तु नित्यं सङ्घयेयवचना इति सङ्घथेयलिङ्गसङ्ख्यानुविधायिनः । भावानयन इति । उ.] प्रीतिहेतुत्वमेकं समुदाये पर्याप्तमित्यर्थः । एकरूपप्रीतिहेतुत्वस्य प्रतिपिपादयिषितत्वादिति भावः भाष्ये-सच प्राधान्येन विवक्षित इति। एतदेव चाऽस्य प्राधान्यं यत्तद्गतसंख्या- वत्वेनैव ततस्तदाश्रयद्रव्यप्रतीतिरिति बोध्यम् । केवलधर्मप्रतीतिस्तु नैतेभ्योऽनभिधानादिति 'गवां धन'मित्यादि नापाद्यम् । द्रव्यवचनानामप्येषां गुणवचनसादृश्याद्गुणवचनव्यवहारो भाष्ये। सादृश्यचोपपादितमेव कैयटेन। यथा च लोके यद्धनादिना यो धनकार्यादीनि लभते, स तदपेक्षया प्रधानत्वेन व्यवहियते, तद्वदत्र प्राधान्येन विवक्षेति भाष्यतात्पर्यम् । यत्तु प्रकृत्य- र्थताऽवच्छेदकेऽत्र संख्याऽन्वयः, संख्याऽन्वयित्वमेव च प्राधान्यमिति, तन्न, तस्याऽप्रकृत्य- र्थत्वेन 'प्रकृत्यर्थाऽन्वितेति व्युत्पत्तिविरोधात् । नन्वेवं गावो धनं संख्यां कुतो नाऽनु- वर्तन्त इत्यत आह-आश्रितेति । प्रत्येक विति। अनया रीत्या 'गावो धनानी त्या- पि भवतीति द्रष्टव्यम् । दक्षिणात्वमिति । कर्मफलसमृद्धिहेतुत्वमित्यर्थः । तदुक्तम्- 'दक्षिणा दक्षतेः समृद्धिकर्मणो व्यद्धं समर्द्धयतीति। विकल्पः स्यादिति। 'कदाचिदुद्वौ, कदाचित्सर्वेः इत्येवं विकल्पः स्यादित्यर्थः । विंशतिसंख्येति । दशद्वर्गद्वयसंध- रूपैवः सेत्याहुः । नाऽनुवर्तते इति । 'विंशतिर्गाव' इत्यादाविति भावः । नन्वेवं 'त्रयः' 'पञ्चेत्यादावपि एकवचनापन्तिः, त्रित्वादीनामपि प्रत्येकमपरिसमाप्तत्वादत आह-पञ्चादय- ।
MIND ५३.१ पा.१ आ.।५९ सू.] महाभाष्यम् नैष दोषः-इर्द तावदयं प्रष्टव्यः-अथेह गौर बन्ध्योऽजोऽग्नीषोमीय इति, कथमाकृतौ चोदितायां हव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते इति ? ॥ असम्भवात् । आकृतावारम्भणादीन सम्भवो नास्तीति कृत्वा- ऽऽकृतिसहचरिते द्रव्ये आरम्भादीनि क्रियन्ते। इदमप्येवं जातीयकमेव, असम्भवाद्धावानयनस्य ध्यानयनं भविष्यति । अथ वाऽव्यतिरेकात् ॥ प्र.]न ह्यन्यस्मिंश्चोदितेऽन्यत्यानुष्ठानं युक्तम्। न हि 'दण्डं छिन्धी'त्युक्ते कश्चिदण्डिनं छिनत्तीति भावः । इदं तावदिति । अन्यस्मिंश्चोदितेऽन्यत्रापि तदव्यभिचारिणि कार्य दृश्यत इति मत्वा प्रश्नः । असंभवादिति । आकृतौ साक्षात्कार्याणामसम्भवादन्येषु कार्याणि क्रियन्त- इत्यर्थः । येषां तावञ्यतिरिक्ता जातिस्तेषामेतदेव जातो कार्य चोद्यमानं द्रव्यविषयमेवो- पतिष्ठते । यथा चाग्निमानयेति चोदिते नाऽन्तरीयकत्वादचोदितमपि पात्रमानीयते । तथा जातौ चोदितीयां द्रव्ये क्रियाप्रवृत्तिः । अव्यतिरेकादिति । जातितद्वतोर्गुणगुणिनोश्च उ.] स्त्विति । अत्र वदन्ति,-विंशतिशब्दद्वचादिशब्दयोःको विशेषः?, समुदितद्रव्यसमवा. यित्वस्योभयत्राऽपि तुल्यत्वात् , दयंकयो रित्यादौ तेषामपि संख्यामात्रवचनताया दृष्टत्वाच । तस्मादयमत्र भाष्यार्थ:-'विंशत्यादयो द्वयादयश्च धर्मशक्ता एव, धर्मधर्मिणोरभेदाच व्यक्ती कार्याणि, तयोश्च भेदाऽभेदी। विंशत्यादयः कदाचिद्भेदेन संख्या बदन्ति--'गवां विंशतिरिति । कदाचिदभेदेन-'विंशतिर्गाव' इति। यदाऽप्यभेदेन तदापि धर्मगतसंख्याबैशिष्ट्येनैव ततो द्रव्यप्रतीतिः, शब्दशक्तिस्वभावात् । यथा 'गावो धन'मित्यादौ प्रीतिहेतुत्वगुणगतसंख्या- वैशिष्ट्येन द्रव्यप्रतीतिर्धनशब्दात्। इयांस्तु विशेषः,-तत्र कदाचित्स्वगतसंख्यावैशिष्ट्येनापि प्रतीतिः। अन्यगतसंख्यावैशिष्टयमन्यस्य कमिति चेदारोपेणेति गृहाण । द्वधादयस्तु स्वगत- वाच्यसंख्या विशिष्टद्रव्याऽभेदेन तद्भत संख्याविशिष्टमेव धर्मम्प्रतिपादयन्ति,शब्दशक्तिस्वभावा- दिति न कदाचिदपि तत्रैकवचनम् , नाऽपि विंशत्यादिभ्यो बहुवचनम् । विंशतिप्रचये तु बहुवचनमिष्टमेव ।'धेकयो रित्यादौ तु विशतिवदेव धर्मगतसंख्याविशिष्टद्रव्यस्यैव प्रतीतिरिति द्विवचनम् । एवम्प्रतीतिरीदृशवृत्तिविषयैवेति नाऽतिप्रसङ्गः। 'न ब्राह्मणं हन्या'दित्यादी 'जातावेकवचन'मित्यस्याऽप्ययमेवाऽर्थ:-जातिसंख्यारोपवद्रव्यस्यैव प्रतीतिरिति । तद्गतसंख्या. रोपश्च विनिगमनाविरहात्सर्वव्यक्तिबिति सकलव्यक्तिप्रतीतिः । 'जातिप्राधान्यविवक्षेत्य- स्याऽप्ययमेवार्थः । तद्धनयन् वक्ष्यति-अथ वाऽव्यतिरेकादि(तीति इति । भाष्ये- भाववचनेष्विति । वैयधिकरण्ये इत्यर्थः । आकृतौ चोदितायामिति । आकृतिरेव शक्या सैव तज्जन्यबोधविषयेति मत इदम् । तदव्यभिचारिणीति । अनेनाऽतिप्रसङ्ग- निरासः । अव्यभिचारश्च शक्तिबहे नियमेन विषयतया बोध्यः, तत्पक्षेऽपि 'गौगोपदशक्य' इत्येव शक्तिमहात् । तदुक्तं भाष्ये-आकृतिसहचरित इति । व्यतिरिक्तेति । व्यतिरिक्तवेत्यर्थः । तेषामेतदेवेति । एतदेव समाधानमित्यर्थः । तदेवाह-जातौ कार्य- १ 'अनूबन्ध्यः' पा०। २ 'प्रोक्षणेति क्वाचित्कम् । ३ 'आरम्भणादयः पा० । ४ 'कार्याणां साक्षादिति पा०। ५ 'जातिचोदनायो । ६ तद्वतं' पा० । " । । 2 ।
कैयट-विवरणसहित [छेदादिभ्यो छेदादिभ्यो नित्यम् ।५।११६४। पन्थो ण नित्यम् ५।११६६। ॥ * ॥ छेदादिपथिभ्यो विग्रहदर्शनान्नित्यग्रहणानर्थक्यम् ॥ * ॥ छेदादिपथिभ्यो नित्यग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ 'विग्रहदर्शनात् । विग्रहो दृश्यते- छेदमर्हति पन्थानं गच्छतीति ॥ विकारार्थं तहीदं नित्यग्रहणं कर्तव्यं विकारेण विग्रहो मा भूदिति-'विराग विरङ्गं च' 'पन्थो ण नित्यमिति ॥ ॥ * ॥ विकारार्थमिति चेदकडादिभिस्तुल्यम् ॥ * ॥ विकारार्थमिति चेदकडादिभि- . प्र.] तात्त्विकभेदाभावाद्रव्यमेव तेन द्वारेण तालु तालु क्रियासु चोद्यत इत्यर्थः । सहस्रादयस्तु धूपोदरादित्वादनुज्ञातसाधिमानः ॥ [ पक्तिविंशति] । छेदादि। छेदादिपथिभ्य इति । नित्यग्रहणं प्रत्ययान्तरनिवृत्त्यर्थं तावदिह न भवति, तस्याऽप्राप्तत्वात् । यथैकगोपूर्वाट्ठन्नित्यमित्यत्र नित्यग्रहणं मतुम्निवृत्त्यर्थम् । तथा हि छेदादिभ्य इति ठविधीयते न च तेभ्यः प्रत्ययान्तरप्रसङ्गः । पथिशब्दा. कन्प्रत्ययो विधानसामर्थ्याद्भवत्येव प्रत्ययान्तरस्य तु प्रसङ्गाभावः। नापि तद्विषयार्थं नित्य- ग्रहणम्-यथा मनित्यमितिमप्प्रत्ययादन्यत्र व्यन्तप्रयोगनिवारणफलं नित्यग्रहणम्--- छेदादिनामन्यत्र प्रयोगस्येष्टत्वात् । नापि प्रत्ययार्थविशेषणम्-नित्यं छेदमहतीत्यस्यार्थस्या- असम्भवात् । न हि कश्चित्पदार्थों नित्यं छेदमहति। योऽपि वेतसादिरर्थश्छिन्नः प्ररोहति सोपि न नित्यं छेदमर्हति, कालान्तरे तस्य च्छेदप्रवर्त्तनात् । नित्यं पन्थानं गच्छतीति यद्यप्यर्थः सम्भवति तथापि. नाऽत्रैवार्थे पान्थशब्दस्य प्रयोग इष्यते, कदाचिद्गच्छत्यपि प्रयोगात्। वाक्यनिवृत्त्यर्थं नित्यग्रहणं स्यात्-यथा 'नित्यं क्रीडाजीविकयो रिति । एतदप्यप्रयोजनं-शिष्टप्रयोगे वाक्यस्य दर्शनात् । विकारणेति । नित्यग्रहण . उ.] मित्यादिना। असम्भवादिति भावः। अव्यतिरेकादिति । एवञ्च सामानाधि- करण्यमपि मतुब्लोपं विनैवेत्यादि ध्वनितम् । नन्वेवं सहस्रादीनामननुगमोऽत आह-पृषो- दरादित्वादिति । केषाञ्चिद्हणन्तूदाहरणमात्रमित्याहुः [ पङ्क्तिविंशति ] ॥ ५९ ॥ छेदादि । अन्यार्थत्वमाशङ्कय नित्यग्रहणस्य निराचष्टे-नित्यग्रहणमित्यादिना । यथा 'एकगोपूर्वा'दित्यत्र नित्यग्रहणं मतुम्निवृत्त्यर्थ, तथेह न भवति,-कुतः,-तस्याऽप्राप्तत्वा- दित्यन्वयः। अप्राप्तिमेवोपपादयति-तथा हीति । विधानसामर्थ्यादिति । अन्यथा 'पथः कनिति व्यर्थं स्यादिति भावः । प्रत्ययान्तरस्येति । कना बाधादिति भावः । इष्टत्वादिति। अत एव च्छेदादिपठितसम्प्रश्नशब्दस्य विधिनिमन्त्रणादिसूत्रे स्वतन्त्र- प्रयोगः । वाक्यदर्शनादिति । न च नित्यं कौटिल्ये गता'वित्यत्र यथाऽर्थान्तर- निवृत्त्यर्थं नित्यग्रहणं वृत्तिमते, तथेहाऽपि स्यादिति वाच्यम्, अर्थान्तरेऽपि च्छेदादिभ्य आहीयप्रत्ययेष्टेरिति बोध्यम् । ननु 'नित्यं विकारः उत्पद्यते' इत्येव लभ्यते, न तु तेन वाक्यनिवृत्तिरत आह-नित्यं प्रत्ययेति । वाश्रुत्यभावादेव विकारस्य नित्यत्वे लब्धे १ क्रियते' पा०।२'दृष्टत्वादिति पा०॥
५.११ पा.१आ.७१ सू.] महामाप्यम् स्तुल्यमेतत् । यथाऽकादिभिर्विकारैर्विग्रहो न भवत्येवमाभ्यामपि न भवि- यति ।। किं पुनरिहाऽकर्तव्यं-नित्यग्रहणं क्रियते, आहो स्विदन्यत्र कत्र्तव्यं न नियते ॥ इहाऽकर्तव्यं क्रियते । एष एव न्यायो यदुत-'सन्नियोगशिष्टाना- मन्यतरापाये उभयारण्यभावः। तद्यथा-देवत्तयज्ञदत्ताभ्यामिदं कर्तव्य. मिति देवदत्तापाये यज्ञदत्तोऽपि न करोति ॥ [छेदादिभ्यो नित्यम् ] || यज्ञविग्भ्यां घखो ।५।११७११ ।। * ॥ यज्ञविंग्भ्यां तत्कर्माहतीत्युपसङ्ख्यानम् ॥ * || यज्ञविभ्यां तत्कर्माहती- त्युपसङ्ख्यानं कर्त्तव्यम्। यज्ञकर्माहतीति यज्ञियो देशः । ऋत्विकर्माहति- आविजीनं ब्राह्मणकुलमिति ॥ [यज्ञविग्भ्यां घखलौ] । प्र.विकारेण सम्बध्यते । विरङ्गादेशः पन्थादेशश्च नित्यं ठरणप्रत्ययविषयौ भवतो न तु ताभ्यां वाक्यं कर्त्तव्यमित्यर्थः । अन्यथा तयोः साधुत्वं सर्वविषयमित्याशङ्कयेत । प्रत्ययविधानं त्वन्वाचीयमानं विज्ञायतेति भावः । अकड़ादिभिरिति । 'नुधातुरकच' 'कल्याण्यादीनामिन 'परस्त्री परशं चेति प्रत्ययसंनियोगेन विधीयमानानामादेशान तदभावे प्रसङ्ग एव नास्तीति नाथों विकारेण वाक्यनिषेधार्थेन नित्यग्रहणेन । संनियोग- शिष्टानामिति । विशिष्टप्रयोगसिद्धये .ययोरेकस्मिन्विषये विधिस्तयोस्तद्विषयादन्यत्र- कस्याऽप्रयोगे परोऽपि न प्रयुज्यते । यथा श्रुवः शृति ''सन्नियोगेन विधीयमानस्य शुभा- वस्य विषयान्तरे प्रयोगाभावः । अस्यैव न्याय सिद्धस्यार्थस्य 'बिल्वकादिभ्यन्छस्य लु गित्यत्र लिङ्गं वक्ष्यते। इदं कर्तव्यमिति । धर्मनिर्णयादिकं। तब कस्य सन्देहसम्भवादनधिकारः ।। यज्ञविक । तत्कर्माहतीति। ननु वृत्तिविषये यज्ञार्थव्यापारे यशशब्दस्य वृत्त्या सिद्धः सूत्रेणैव प्रत्ययो, यथा मृदङ्गवादनवृत्तेर्मृदङ्गशब्दाहरभवति,-मार्दशिक इति । नैतदस्ति । यत्र हि गौणार्थवृत्तिभ्य एव प्रत्यय इध्यते न तु मुख्यार्थवृत्तिभ्यस्ततश्च गौणमुख्यपरिभाषा तत्र नाभीयते । इह तु यश्च यज्ञमर्हति यश्च तत्काईति तयोरपि प्रत्यय इष्यते । तत्र मुख्या- उ.]नित्यश्रुतिरेतदर्थेति भावः । ननु प्रत्ययसन्नियोगशिष्टत्वात्कथं सर्व विषयस्य साधुत्वमत आह-अन्वाचीयमानमिति । विकारेण वाक्येति । विकारेण प्राप्तस्य वाक्यस्य निषेधार्थे नेत्यर्थः । अकडादिभिस्तुल्यमित्यनेन किमकङादिषु कर्त्तव्यताऽऽपाबते, किं वा तद्वदिहाऽकर्तव्यतोच्यते इति पृच्छति भाष्ये-किम्पुनरिति । सन्नियोगशिष्टत्वं सविधान- मित्याह-विशिष्टेति । सन्नियोगपदार्थः-एकस्मिन् विषये इति । ननूभाभ्यां कर्त्तव्यत्वेन नोदितस्याऽपि भारवहनादेरेकेनाऽपि शक्तेन करणं भवतीत्यत आह-धर्मेति । यत्तु 'नित्यग्रहण पौनःपुन्यार्थक छिन्नारुढो वेतसादिश्चोदाहरण मिति वृत्तिकृतः, तद्भाध्यविरुद्धम् । एवं च 'छेदादिभ्य' इत्यपि व्यर्थमेवेति 'छेदादिभ्यो नित्यमिति सूत्रस्यैव प्रत्याख्यानं बोध्यम् ।। यज्ञवि। यज्ञार्थति। यज्ञशब्देन प्रधानज्योतिष्टोमादियांगरूपः | गौणेति । अप्र- । । १ 'रप्यपायः' पा०1 । ३१८ * कैयट-विवरणसहितं. [ पारायणतुरा- पारायणतुरायणचान्द्रायणं वर्त्तयति ।५।११७२। ।। * ॥ तद्वर्त्तयतीत्यनिर्देशस्तत्राऽदर्शनात् ।। * ॥ तद्वतयतीत्यनिर्देशः । अग- मको निर्देशोऽनिर्देशः। पारायणं को वर्तयति-यः परस्य करोति । तुरायणं को वर्तयति यश्च पुरोडाशानिर्वतयति । 'तत्राऽदर्शनात् । न च तन्न प्रत्ययो दृश्यते ॥ * ॥ इङ्यज्योश्च दर्शनात् ॥ * ॥ इड्यज्योश्च प्रत्ययो दृश्यते । यः पारायणमधीते स पारायणिक इत्युच्यते । यस्तुरायणेन यजते स तौरा- यणिक इत्युच्यते॥ ।। * || नवोभयोनिवर्तकत्वात् ॥ * ॥ नवैषदोषः॥ किं कारणम् ?॥ उभयोनि वर्तकत्वात्। यश्चैवाऽधीते यश्च परस्य करोत्युभौ तौ वर्तयतः। यश्च यजते यश्च पुरोडाशान्निवर्तयत्युभौ तौ वर्त्तयतः ॥ उभयत्र कस्मान्न भवति ? ॥ अनभिधानात् ॥ [ पारायणतुरायण ] योजन गच्छति ।५।११७४॥ ॥ * ॥ योजनं गच्छतीति क्रोशशतयोजनशतयोरुपसंख्यानम् ॥ * ॥ योजन अ.]र्थसम्भवे गौणपरिग्रहस्याऽन्याय्यत्वात्सूत्रेण न सिध्यतीति वान्तिकारम्भः। ननु यो देशो यज्ञकर्माईति स यशमहतीति नार्थो वार्तिकारम्भेण। नैतदस्ति । यस्य यज्ञेऽधिकारः स यज्ञमर्हति, अधिकारश्च कर्तुरथिनो विदुषः शास्त्रेणाऽपर्युदस्तस्य न तु देशादेस्तस्य तु योग्यत्वाधशार्थव्यापारार्हत्वमुच्यते । [यज्ञविंग ] ॥ पारायण। अनिर्देश इति । इष्टार्थसाधनत्वाभावानिर्देशकार्याकरणादनिर्देशः। पर- स्येति । शिष्यस्य । करोतीति । उच्चारयति । अध्यापक इत्यर्थः । शिष्यस्तु केवलं प्रतिप- द्यते न तु निष्पादयति, अध्यापकाधीनत्वात्तन्निष्पत्तेरिति भावः। तुरायणमिति । यज्ञविशेष- मृत्विगेव सव्यापारत्वान्निष्पादयति । यजमानस्तूष्णीमास्त इति भावः । उभौ ताविति । अन्यतराऽसंनिधौ क्रियाया अनुत्पादादुभयोः कर्तृत्वम् । यश्चेति । यजमानो देवतोद्देशेन स्वं द्रव्यं त्यजतीति तस्याऽपि तुरायणनिवर्त्तने कर्तृत्वम् । तदेवं भाष्यकारेण यथान्यासं सूत्रं समर्थितम् । अनभिधानादिति । अध्यापके याजके च प्रयोगाभावात् । उ.]सिद्धत्वमत्र गौणत्वम् । वार्तिकारम्भ इति। गौणादपि प्रत्ययसिध्यर्थं वार्तिकारम्भ इति भावः । यज्ञऽधिकार इति । शब्दशक्तिस्वभावात्तत्रैवाऽहे प्रत्यय इष्यते ।। ७१ ॥ पारायणतु। ननु गुरुऋत्विग्विषये निर्देशस्य गमकत्वादनिर्देश इत्ययुक्तमत आह- इष्टार्थेति । निर्देशकार्याऽकरणेऽयं हेतुः। शिष्यस्येति । 'अर्थबोधार्थ'मिति शेषः। प्रति- पद्यते-तदुच्चारितं वस्तु प्राप्नोति । न तु निष्पादयति । 'तद्वस्तुविषयसुच्चारणमिति शेषः। यज्ञविशेषमिति । संवत्सरसाध्यं यज्ञविशेषमित्यर्थः। अन्यतराऽसन्निधाविति। आदित आरभ्य आऽन्तादविच्छेदेनाऽध्ययनं पारायणम् । तच्चोभाभ्यां निवर्त्यत इति भावः । १ 'यश्वरुपुरोडाशानिर्वपति' पा० । २ अयं पाठः कचिन्न दृश्यते । । । - स्थल । कान्तार-कान्तारपथेन गच्छति कान्तारपथिकः । कान्तारपथेनाहृतं ५.१पा.१आ.७७ मु.] महाभाप्यम् गच्छतीत्यन्त्र क्रोशशतयोजनशतयोरुपसङ्ख्यानं कर्त्तव्यम् । कोशशतं गच्छति कौशशतिकः । योजनशतं गच्छति योजनशतिक इति ।। 19॥ ततोऽभिगमनमर्हतीति च ॥ [ ततोऽभिगमनमहतीति च ] क्रोशशत- योजनशतयोरुपयानं कर्तव्यम् । क्रोशशतादभिगमनमर्हति कौशशतिको भिक्षुः। योजनशतादभिगमनमर्हति यौजनशतिको गुरुः ॥ उत्तरपथेनाहृतं च ।५।११७७ ॥ * ॥ आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदादुपसङ्ख्यानम् ॥ * ॥ आहृत- प्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदादुपसङ्ख्यानं कर्त्तव्यम् । वारि-वारि- पथेन गच्छति वारिपथिकः । वारिपथेनाहृतं वारिपथिकम् । वारि ॥ जङ्गल- जङ्गलपथेन गच्छति जाङ्गलपथिकः। जङ्गलपथेनाहृतं जाङ्गलपथिकम् । जङ्गल ॥ स्थल-स्थलपथेन गच्छति स्थालपथिकः । स्थलपथेनाहृतं स्थालपथिकम् । । कान्तारपथिकम् ॥ ॥ * ॥ अजपथशङ्कुप्रथान्यो च* अजयशङ्कुपथाभ्यां चेति वक्तव्यम् । अजपथेन गच्छति आजपथिकः । अजपथेनाहृतमाजपथिकम् । शङ्कु पथेन गच्छति शाङ्कुपथिकः । शङ्खपथैनाहृतं शाङ्कुपथिकम् ॥ ॥ * ॥ मधुकमरिचयोरणस्थलात् ॥ * ॥ मधुकमरिचयोरणस्थलाद्वक्तव्यः । स्थालपथं मधुकम् । स्थालपर्थ मरिचम् ॥ उत्तरपथेनाहृतञ्च ] ॥ प्र.] उत्तरप । चकारः प्रत्ययार्थसमीपे श्रयमाणः प्रत्ययार्थमेव गच्छतीत्येतं समुच्चिनोति । समर्थविभक्तिस्तु तत्रापि सूत्रोपात्ता तृतीयैव । तेन वारिपथेन गच्छतीत्यादिः पाठो युक्तो न द्वितीयान्तपाठः। द्वितीयापक्षे आक्रान्तेऽनाकान्ते च प्रकृत्यर्थे प्रत्ययः स्यादाक्रान्ते एवेष्यते । मधुकमरिचयोरिति। अत्र मुख्यगमनासंम्भवात्, आहृत एव च प्रत्ययमिच्छन्ति । अन्ये तु गौणगमनाश्रयेण गच्छतीत्यत्राप्यर्थे प्रत्ययमाहुः । . प्रत्ययार्थोपाधित्वाच्च द्वयोरसन्देहा- र्थोऽन्यतरप्रयोगः। [उत्तरपथेनाहृतञ्च ] उ.] उत्तरपथेना। ननु 'गच्छती'त्यर्थे पूर्वत्र द्वितीयायाः समर्थविभक्तित्वस्य कृप्ततया 'उत्तरपथेन गच्छती'त्ययुक्तमित्यत आह-चकार इति । प्रत्ययार्थमेवेति । न तु समर्थविभक्तिर्युक्तं वाक्यार्थमित्यर्थः । 'तस्य व्याख्यान-' इत्यत्रेव वाक्यार्थपरामशीति- शब्दाऽभावादिति भावः । 'आक्रान्त' इत्यादेः 'कत्रे'ल्या दिः । आक्रान्त इवेष्यत इति । तादृशस्य करणतायायुक्तत्वादिति भावः। वार्यादिपूर्वपदकच प्रकरणात्पथिशब्दान्तमेव गृह्यते । (भाष्ये)-स्थलादिति। ततः परो यः पथिशब्दस्तदन्तादित्यर्थः । गौणगमनेति । अन्या- ऽधिष्ठितस्य रथादिवगौणगमनसम्भवादित्यर्थः। [ उत्तरपथैना] ॥ ७७ ॥ १ अयं पाठः काचित्कः। २ इत्यादिपाठः' पा. । ३ समर्थविभक्तियुक्तवाक्यार्थः पा०। ..
- - । ३२० कैयट-विवरणसहितं [तमधीष्टो- तमधीष्टो भृतो भूतो भावी ।५।११८० 11.* }| अधीष्टभृतयोद्वितीयानिर्देशोऽनर्थकस्तत्राऽदर्शनात् ।। * ॥ अधीष्टभृतयो- द्वितीयानिर्देशोऽनर्थकः॥ किं कारणम् ?॥ 'तत्रादर्शनात्। न ह्यसौ मासमध्ये- प्यते ॥ किं तर्हि ? ॥ मुहूर्तमसावधीष्टो मासं तत्कर्म करोति ॥ * ॥ सिद्धं तु चतुर्थीनिर्देशात || सिद्धमेतत् ॥ कथम् ? ॥ 'चतुर्थीनिर्देशात् । चतुर्थीनिर्देशः कर्तव्यः तस्मायधीष्ट इति ॥ स तर्हि चतुर्थीनिर्देशः कर्त्तव्यः ?॥ न कर्तव्यः। तादात्ताच्छब्द्यं भविष्यति,-मासार्थो मुहूर्तो मासः॥ [तमधीष्टो भृतो] अवयसि ठंश्च 1५1१1८४| ।। * || अवयसि ठंश्चेत्यनन्तरस्यानुकर्षः ॥ * ॥ अवयसि ठश्चत्यनन्तरस्या- नुकर्णो द्रष्टव्यः । द्वेष्यं विजानीया द्यबमप्यनुवर्तत' इति । तदाचार्यः सुहृद्भूत्वाऽन्वाचष्टेऽवयसि ठश्चेत्यनन्तरस्यानुकर्ष इति ॥ [ अवयसि ] । प्र.] तमधी। अधीष्टभृतयोरिति । यावन्तं कालमध्येषणं भरणं च क्रियते ततः प्रत्ययो नेष्यते । अध्येषणभरणफलव्यापारव्याप्यात्तु कालादिष्यते। ततो न प्राप्नोति । तस्या- ध्येषणभरणाभ्यामव्याप्तया द्वितीयानुपपत्तिरिति निष्प्रयोजनो द्वितीयानिर्देशः । सिद्धं त्विति । तेन मासायाधीष्टो भृतो वेति तादर्थ्य चतुर्थ्यन्तात्प्रत्ययः। मासव्यापिव्यापारार्थ- मधीष्ट इत्यर्थः । तादादिति । मासादिशब्दा अध्येषणभरणव्याप्तमुहूर्तादिकालवाचिन एवाश्रीयन्ते भूतभाविनोस्तु प्रत्ययविधौ मुख्यार्थवृत्तय इति विभागो लक्ष्यपरतन्त्रत्वाल्लक्षणस्य । अवय। अनन्तरस्येति । ण्यतः। द्वेष्यमिति । विपरीतमित्यर्थः। व्यवहितस्यापि कचिद- नुवृत्तिदृष्टा । यथा द्वितीयाटौस्स्वेन इत्यत्रैतद इव इदम इति दर्शनादिहापि कश्चिभ्राम्येदित्यर्थः। उ.) तमधीष्टो । अधीष्टः-सत्कृत्य व्यापारितः। भृतो-वेतनेन क्रीतः । भूतः-सत्तया व्याप्तकाल: । भावी-तादृश एवाऽनागतः । ननु कचिन्मासमप्यध्येषणादि क्रियतेऽत आह-यावन्तमिति । फलव्यापारेति । अध्येषणादिफलभूतो यो व्यापारः कर्मकरण- रूपस्तद्ध्याप्यात्-तेनाऽत्यन्तसंयुक्तादित्यर्थः । ननु मासस्य सम्प्रदानत्वाऽभावात्कथं चतुर्थी- त्यत आह-तादयति । ननु न मासस्वरूपार्थमध्येषणमत आह-मासव्यापीति । अध्येधणेति । मासव्यापिव्यापारफलकाऽध्येषणेत्यर्थः । [ तमधीष्टो भृतो] ॥ ८॥ अवयसि । इहाऽपि कश्चिदिति। 'अवयसि ठन्निति योगद्वयेनैव सिद्धौ चकारादि- ति तदाशयः । भाष्ये अबप्यनुवर्तत इति । 'पूर्वसूत्रे' इति शेषः । अन्यथा पूर्वसूत्रे उभयोरप्युपस्थितत्वाऽविशेषात्तस्यापि समुच्चयः स्यात् । 'अनन्तरस्याऽनुकर्ष' इत्युक्त्या तस्याऽन्तरत्वं सूचितम् । तच्च पूर्वसूत्राऽननुवृत्तौ भवतीति साऽन्वाख्यायत इति भावः । कैयटे- नाऽपि-'व्यवहितस्याऽपी'त्यादि व्याचक्षाणेन दृष्टन्तेन च पूर्व सूत्रेऽप्यननुवृत्तिरित्युक्तप्रायमेव । एवञ्च पूर्वसूत्रे 'चेनाधिकारप्राप्तठक एव समुच्चयइति बोध्यम् । अनन्तरस्येति भाष्यस्य १'अधीष्यते' पा०।२'तस्मा अधीष्ट' पा०।३ 'अनुकर्षे' पा० । ४ 'सोऽन्वाख्या' पा० । ।
५.११ पा./२ आ.१९० सू.]ॐ महाभाष्यम् ३२१ पष्टिकाः षटिरात्रेण पच्यन्ते 1५/१४९० ॥ * { पष्टिके संज्ञाग्रह्णाम् ॥ * ॥ पष्टिके संज्ञाग्रहणं कर्तव्यम् । मुगा अपि हि पष्टिरान्त्रेण पच्यन्ते तत्र मा भूदिति ॥ * ॥ उक्तं वा ॥ * ॥ [ उक्त वा ] || किमुक्तम् ? ॥ ॥ॐ ॥ अनभिधानादिति ॥ * ॥ [पष्टिकाः पष्टिरात्रेण पच्यन्ते ] । तदस्य ब्रह्मचर्यम् ।५।११९४१ ।। * || तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य उपसल्यानम् ॥ * ॥ तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य उपसङ्ख्यानं कर्त्तव्यम् । महानाम्नीनां ब्रह्मचर्य माहानान्निकम् । आदित्यवतिकम् ॥ * ।। तच्चरतीति च ।। * ॥ तच्चर- तीति च महानाम्न्यादिभ्य उपसङ्ख्यानं कर्त्तव्यम् । महानाम्नीश्चरति माहा- नाग्निकः। आदित्यव्रतिकः ॥ नैप युक्तो निर्देशस्तचरतीति । महानाम्न्यो- प्र.] पष्टिकाः । बहुवचनमतन्त्रम् । एकवचनान्तस्यापि पष्टिकशब्दस्य लोके प्रयोगात् । संज्ञाग्रहणमिति । पष्टिरात्रेण पच्यन्ते इत्यत्रार्थे निपात्यमानस्य धान्यविशेष एव प्रयो- गार्थम् । अनभिधानादिति । लोके तु स्वार्थे प्रयुज्यमानानां शब्दानां साधुत्वमात्र. मनेन प्रतिपाद्यते न स्वर्थ नियोगः क्रियते । [पष्टिकाः षष्टिरात्रेण पच्यन्ते ] ॥ तदस्य । द्विधेदं सूत्र व्याख्यायते-तदिति द्वितीयासमर्थात्कालवाचिनोऽस्येति षष्ट्यर्थे भवति ब्रह्मचर्य चेद्दम्यते । मासं ब्रह्मचर्यमस्य मासिको ब्रह्मचारी। तथा--तदिति प्रथमा- समर्थात्कालवाचिनोऽस्येति षष्ठयर्थे ठन्भवति यत्तदस्येति षष्ठीनिर्दिष्टं ब्रह्मचर्य चेत्तद्भ- वति । मासो ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यमिति वाक्ये मासस्य प्राधान्यात्प्रथमैव न तु द्वितीया, तस्याः षष्ठीविषये विधानात् । महानाम्नयादिभ्य इति । ब्रह्मचर्यस्य प्रत्ययार्थत्वा- उ. ] ण्यचेत्यस्येत्यर्थः । अत एव 'दत्तः पाण्मासिकोऽवधिरित्यादिसिद्धमित्यन्ये ॥ ८४ ॥ पष्टिकाः। ननु सूत्रे 'पष्टिका' इत्ति बहुवचननिर्देशाद्वहुवचन एवाऽस्य साधुत्वमबग- म्यते, तत्कथं 'पष्टिके' इति वात्तिके एकवचननिर्देशोऽत आह-बहुवचनमिति । सूत्रे तु प्रयोगबाहुल्याऽभिप्रायेण तदिति भावः । 'पष्टिके' इति वात्तिके प्रयोगः शब्दपरतयाऽपि साधुः स्यादत आह-लोक इति । अयमन्वेष्यो बहुदर्शिभिः। सूत्रस्वरसात्तु तस्याऽसाधुत्वं प्रतीयत इति केचित् । निपात्यमानस्येति । रात्रशब्दलोपः क[न् ? ]प्रत्ययश्च निपा- त्यत इत्यर्थः । धान्यविशेषो-वीयः । ननु तदर्थे शास्त्रेण विधानात्कथमनभिधानमत आह- लोक इति । शिष्टलोकन्यवहारे इत्यर्थः । नियोगोऽपूर्व विधानम् ॥ १० ॥ तदस्य । ननु तदस्येत्यर्थे विधानान्महानाम्नीनां ब्रह्मचर्यमिति विग्रहोऽसङ्गतोऽत आह-द्विधेति । नतु द्वितीयपक्षेऽपि 'मासो ब्रह्मचर्यस्येत्यादावत्यन्तसंयोगप्रतीतेरत्यन्त- संयोग इति द्वितीया स्यादत आह-तस्या इति । एवञ्च विशेषणादेव द्वितीयाविधिरिति १ 'उक्तच' पा०। २ पूर्ववात्तिकांशोऽयं भाष्यतया सर्वैरवगतः।३ 'अर्थनियोगः' पा० । ७ ।
। ३२२ 8 कैयट-विवरणसहितं [तदस्य ब्रह्म- नाम ऋचः, न च ताश्चर्यन्ते, व्रतं तासां चर्यते ॥ नैष दोषः-साहचर्या- त्ताच्छब्ध भविष्यति-महानान्नीसहचरितं व्रतं महानामन्यो व्रतमिति ॥ ॥ * ॥ अवान्तरदीक्षाभ्यो डिनिः ॥ * ॥ अवान्तरदीक्षाभ्यो डिनिर्वक्तव्यः । अवान्तरदीक्षी तिलवती [ देवव्रती] |॥ * ॥ अष्टाचत्वारिंशतो दुश्च ॥ * ! अष्टाचत्वारिंशतो दुश्च [वक्तव्यो] डिनिश्च वक्तव्यः । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ * ॥ चातुर्मास्यानां यलोपश्च ।। * ॥ चातुर्मास्यानां यलोपश्च [वक्तव्यो] दुश्च डिनिश्च वक्तव्यः। चातुर्मासकः । चातुर्मासी॥ अथ किमिदं चातुर्मास्यानामिति ? ॥ * ॥ चतुर्मासाणण्यो यज्ञे तत्र भवे ॥ * ॥ चतुर्मासाण्ण्यो वक्तव्यो यज्ञे तत्र भव इत्येतस्मिन्नर्थे । चतुर्यु चतुषु मासेषु भवन्ति चातुर्मास्यानि यज्ञाः। ॥ * ॥ संज्ञायामण ।। * ।। संज्ञायामण वक्तव्यः। चतुएं मासेषु भवा चातुर्मासी पौर्णमासी ॥ [ तदस्य ब्रह्मचर्यम् ] । तस्य च दाक्षिणा यज्ञाख्येभ्यः १५/१९५ आख्याग्रहणं किमर्थम् ? ॥ तस्य दक्षिणा यज्ञेभ्य' इतीयत्यच्यमाने प्र.] त्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः । न च ता इति । चरणमनुष्ठानं, तच्च क्रिया- विषयमिति भावः । महानान्नयो व्रतमिति । लिङ्गसंख्ये अजहदेव महानाम्नीशब्दो व्रते वर्तते । डिनेडित्करणमष्टाचत्वारिंशदर्थम् । अन्येषां यस्येति लोपेन रूपस्य सिद्धत्वात् । अष्टाचत्वारिंशक इति । वृत्तिविषये वर्षेष्वेव संख्येयेष्वष्टाचत्वारिंशच्छब्दो वर्तते । चतुर्प वेदेष्वष्टाचत्वारिंशतं वर्षाणि व्रतं चरति । प्रतिवेदं द्वादशवर्षाणि व्रत चरणात् । चातुर्मासीति। तत्र भव इत्येवाऽसिद्धः । तस्य तु द्विगोलुंगनपत्य इति लुक्प्राप्नोतीति पुनरविधिः । 'कालाप्रित्यरयाऽप्राप्तिः, समुदायस्याऽकालवाचित्वात्तदन्तविध्यभावाच्च । के चित्त यथा- कथंचित्कालवृत्तेष्ठञ इष्टत्वाढल्येव प्राप्ते तस्य च लुकि इदमण्विधानमित्याहुः ।। तस्य । आख्याग्रहणमिति । 'यशेभ्य' इति बहुवचननिर्देशात्स्वरूपग्रहणाभावा- अ.] भावः । नन्वेवमपि 'महानाम्न्योऽस्य ब्रह्मचर्यस्येत्येवं विग्रह उचितोऽत आह-सामर्थ्य- लभ्येति । अयं भावः-सूत्रेऽपि द्वितीयपक्षे तदस्येति व्यर्थं, 'तस्य ब्रह्मचर्यमित्येव सिद्धेः । यस्य मासः सम्बन्धी, तन्मासस्याऽपि सम्बन्धि भवत्येवेति । एवञ्च तदस्येत्येतत्सामर्थ्यांदाद्य- व्याख्यानेऽपि सूत्रतात्पर्य, भाष्यप्रामाण्येन द्वितीयेऽपीति । एवञ्च द्वितीयव्याख्याने तदि- त्यस्याऽन्वयो नेति तात्पर्यम् । ननु 'महानाम्न्यो व्रत'मित्यसङ्गतं, व्रतस्य नपुंसकत्वेन 'महानाम व्रत'मित्यस्यैवौचित्यादत आह-लिङ्गसङ्खये इति । अत एव महानाम्नी- शब्दस्याऽभाषितपुंस्कत्वाद् 'भस्याऽढे' इति पुंवत्त्वं न । नन्वष्टाचत्वारिंशद्वर्षव्रतचारिण्येव प्रयोग इष्यते, अष्ट चत्वारिंशत्सङ्घयव्रतचारिणि प्राप्नोतीत्यत आह-वृत्तिविषये इति । तस्य च लुकीति । अत्राऽपि प्राप्ते' इति बोध्यम् ॥ [ तदस्य ब्रह्मचर्यम् ] ॥ ९४ ॥ १"डिदिनिर्व' पा०।२ अयमंशः क्वचिन्न दृश्यते। ३ 'भवानि पा०। ४ 'व्रताचरणात् पाग .
" । ५अ.११ पा.२ आ.।९६ सू.] महाभाष्यम् य एव सञीभूतका यज्ञास्तत उत्पत्तिः स्यात्-आमिष्टोमिक्यः, राजसूयियः, बाजपेयिक्यः। यत्र वा यज्ञशब्दोस्ति-नावयज्ञिक्यः पाकयज्ञिक्यः । इह न स्त्यात्पाञ्चौदनिक्यो दाशौदनिक्यः । आख्याग्रहणे पुनः क्रियमाणेन दोषो भवति, ये च सञीभूतका यज्ञा ये च न संज्ञीभूतका यन्न च यज्ञशब्दोऽ- स्ति यत्र च नास्ति तदाख्यामात्रासिद्धं भवति ॥ तस्य च दक्षिणा यज्ञाख्येभ्यः] । तत्र च दीयते कार्य भववत् ।५।१।९। ।। 2 ।। कार्यग्रहणमनर्थकं तत्र भवेन कृतत्वात् ॥ * !! कार्यग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ 'तत्र भवेन कृतत्वात्। यद्धि मासे कार्य मासे भवं तद्भवति, तन्त्र 'तंत्र भव' इत्येव सिद्धम् ॥ किमिदं भवान्कार्यग्रहणमेव प्रत्याचष्टे न पुनर्दीयतेग्रहणमपि ?। यथैव हि यन्मासे कार्य तन्मासे भवं भवत्येवं यदपि मासे दीयते तदपि मासे भवं भवति तत्र तत्र भव' इत्येव सिद्धम् ॥ न सिध्यति,-न तन्मासे दीयते ॥ किं तहि ? ॥ मासे गते ॥ एवं तहापश्लेषिकमधिकरणं विज्ञास्यते ।। म. त्तदर्थाभिधायिभ्यः प्रत्ययो लभ्यत इति प्रश्नः । संज्ञीभूतका:-सर्वलोकप्रसिद्धाः। प्रसिद्धत्वादेव ते यज्ञा मुख्या इति भावः। यत्र वेति । बहुवचननिर्देशाद्यशशब्दान्ता एवं गृोरन्नान्ये। एवं यज्ञशब्दश्रुतिर्बहुवचनं चानुगृहीतं भवतीति भावः । आख्याग्रह इति । ये यशं प्रसिद्धमप्रसिद्ध बाऽऽचक्षते सर्वेभ्यष्ठन्भवति । [तस्य दक्षिणा ] ॥ तत्र चदीयते । दीयते कार्यमित्येतयोरर्थयोः कालवाचिभ्यो भववत्प्रत्यया भवन्तीति सूत्रार्थस्तत्र कार्यस्य भवेऽन्तर्भावादेवात्र प्रत्ययानां सिद्धिं मत्वाह-कार्यग्रहणमिति । मासे गते इति । मासे दीयत इति नैषाऽधिकरणसप्तमी, का तर्हि-यस्य च भावेनेति। तत्रभव इत्यत्र चाधिकरणसप्तम्याश्रिता,उपपदविभक्तः कारकविभक्तिर्बलीयसीति न्यायादिह त्वतिदेश- सामर्थ्याद्भावलक्षणसप्तमीपरिग्रहः । औपश्लेषिकमिति । मासेऽतिक्रान्ते यद्दीयते तस्य उ.] तस्य दक्षिणा। यज्ञमाचक्षते यज्ञाख्याः । मूलविभुजादित्वात्कः, सोपसर्गत्वात्सूत्रेणा- ऽप्राप्तेः । भाष्ये-आख्याग्रहणमिति। आङपूर्वख्याधातोर्ग्रहणं किमर्थमित्यर्थः । हस्व- पाठस्तु युक्तः। पर्यायेभ्यो विशेषेभ्यश्च कथं सिद्धिरत आह-बहुवचनेति। अविशेषादुभयेभ्यः सिध्यतीति भावः। आख्याग्रहणसामर्थ्यादेव चाऽत्र 'काला'दित्यस्याऽसम्बन्ध इति बोध्यम् ।। तत्र च दीयते । सूत्रार्थ इति । 'वृत्तिसंमत' इति शेषः । सिद्धमिति । तत्र भव इत्यनेने'त्यादिः । नन्वेवमनेनाऽपि सूत्रेण न सिध्यतीत्यत आह-नैषेति । यस्य च भावेनेति। मासगमनेन दान क्रियाकालो लक्ष्यत इति तत्प्राप्तिरिति भावः। कारक विभक्तिरिति । कारकाऽधिकारपठितसंज्ञानिमित्तिका हि विभक्तिः कारकविभक्तिपदेनो- च्यत इति भावः । औपश्लेषिकमिति । उप-समीपे श्लेषः-सम्बन्धः। तेन 'वटे गाव १ अयं पाठःकचिन्नास्ति। २ संशीभूताः पा.। ३'तदाख्य पा.। ४ गतेमासे पा.। ५ किन्तर्हि पा०॥ - ..
। ३२४ ॐ कैयट-विवरणसहित [ व्युष्टादिभ्यो- एवन्तर्हि योगविभागोत्तरकालमिदं पठितव्यं-'तस्य दक्षिणा यज्ञाख्येभ्यः' 'तत्र च दीयते', ततः-कार्य भववत्' । कालादिति ॥ [ तत्र च दीयते ] । व्युष्टादिभ्योऽण ।५।१।९७) ॥ * || अण्प्रकरणेऽग्निपदादिभ्य उपसङ्ख्यानम् ॥ * ॥ अण्प्रकरणेऽग्निपदादिभ्य उपसङ्ख्यानं कर्त्तव्यम् ॥ ब्रीणीमान्यण्ग्रहणानि,-'व्युष्टादिभ्योऽण' 'समय- स्तदस्य प्राप्तमृतोरण' । 'प्रयोजनम्-विशाखापाढादण्मन्थदण्डयो रिति । तत्र न ज्ञायते कतरस्मिन्नणप्रकरणेऽग्निपदादिभ्य उपसङ्ख्यानम् ? ॥ अविशेषात्सर्वत्र 'व्युष्टादिभ्योऽण्भवती'त्युक्ताऽग्निपदादिभ्यश्चेति वक्तः व्यम् । अग्निपदे दीयते कार्य वा-आग्निपदम् । पैलुमूलम् ॥ 'समयस्त... दस्य प्राप्तमृतोरण' । 'अग्निपदादिभ्यश्चेति वक्तव्यम् । उपवस्ता प्राप्तीs- स्यौपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥ 'प्रयोजनं विशाखाषाढादण्म- न्थदण्डयोः' । 'अग्निपदादिभ्यश्चेति वक्तव्यम् । चूडा प्रयोजनमस्य चौडम् । श्रद्धा प्रयोजनमस्य श्राद्धम् ॥ [ ब्युष्टादिभ्योऽण् ] ॥ प्र.]औपश्लेषिकमधिकरणमिति तत्र भव इत्यनेनैव सिद्धमित्यर्थः । कारकप्रकरणे च गौणस्यापि संज्ञा भवतीत्युक्तम् । एवं तहीति । प्रत्ययविध्यर्थं दीयत इत्युपात्तं न त्वतिदेशार्थं, तेना- मिष्टोमे दीयते आग्निष्टोमिकं भक्तमित्येवमादि सिद्धम् । केचिदाहुः-दीयमानस्य भवत्वा- ऋतुयशेभ्यश्चेति ठसिद्ध इति । तदयुक्तम् । 'व्याख्यातव्यनाम्न' इति तत्रानुवर्तनात् । तदेवं कार्यग्रहणमेव वात्तिककृता प्रत्याख्यातम् । 'प्राग्वतेः संख्यापूर्वपदाना मिति वचनाद्वयो- वाजपेययोर्दीयते द्वैवाजपेयिकमित्यत्रापि योगविभागान्भवति । [तत्र च दीयते । व्युष्टा । अण्प्रकरण इति। प्रकरण-प्रस्तावः। अग्निपदादिभ्य इति । आदिशब्दः प्रकारे । तत्र क्वचिदर्थे कुतश्चिदण्प्रत्ययो भवति तत्राऽण्दर्शनमात्रकृतं सादृश्यमाश्रीयते । उ.]इतिवत्सामीपिकमिदमधिकरणमित्यर्थः। नन्वयं गौण आधारस्तत्र कथं सप्तमीत्यत आह- कारकेति । प्रत्ययविध्यर्थमिति । चो 'दीयत' इत्यस्याऽनन्तरं योज्यः, वाक्य. भेदश्च । तत्राद्ये यशाख्येभ्य इति वर्तत इति भावः । प्रत्याख्यातमिति । वस्तुतस्तु कर्तुं योग्यस्याऽकृतस्यापि कार्यपदार्थत्वेन तत्र तत्र भवत्वाऽभावात्तदप्यावश्यकमेव । अत एवाऽन्त्य- भाष्ये उपसंहारे तस्याऽप्युल्लेखः । तत्र भव' इत्यत्र हि भूधातुः सत्तार्थक एवेत्याहुः । योगविभागे फलान्तरमप्याह-प्राग्वतेरिति । एवं 'द्वयोर्मासयोर्भवं द्वैमासिक'मित्येत. सिद्धिः कार्याऽशस्य फलम् । कालाहमा तु न सिध्यति, द्विगोर्ख'गित्यस्य प्रसङ्गात् । अनेना प्रत्यये तु न लुक् , अनाहीयत्वादप्राग्दीव्यतीयत्वाच्चेत्याहुः ॥ [तत्र च दीयते ] ॥१६॥ व्युष्टादिभ्यो । नन्वेवं सर्वत्राऽर्थे सर्वेभ्यः प्रत्ययः प्राप्नोतीत्यत आह-आदिशब्द इति । क्वचिदर्थे इति । तच्च भाष्य एव स्पष्टम् ॥ [व्युष्टादिभ्योऽण् ] ॥ ९७ ॥ १ 'इमानि त्रीण्येवाण्ग्रह्णानि' पा० । २ 'प्रयोजन मिति क्वचिनास्ति । - -- .१ पा.२ आ.११११ सू. ॐ महाभाष्यम् अनुप्रवचनादिभ्यश्छः ।।१।११। ॥ * ॥ छप्रकरणे विशिपूरिपदिशहिप्रकृतेरनात्सपूर्वपदादुपसलबानम् ॥ * !! छप्रकरणे विशिपूरिपदिहिप्रकृतेरनात्सपूर्वपदादुपसङ्ख्यानं कर्तव्यम् । विशि-गेहानुप्रवेशनीयम् । विशि ॥ पूरि-अपापूरणीयम् । पूरि ॥ पदि- गोप्रपदनीयम् । अश्वग्रपदनीयम् ॥ पदि । रुहि-प्रासादारोहणीयम् ।। ॥७॥ स्वर्गादिभ्यो यत् ।। स्वर्गादिभ्यो यत्प्रत्ययो भवति । स्वयम् । धन्यम् । यशस्यम् । आयुष्यम् ॥ * ॥ पुण्याहवाचनादिभ्यो लुक् ॥ * ॥ पुण्याहवाचना दिभ्यो लुग्वक्तव्यः । पुण्याहवाचनम् । शान्तिवाचनम् । स्वस्तिवाचनम् ॥ ऐकागारिकट चौरे ।५।१।११३॥ ॥ * ॥ एकागारान्निपातनानर्थक्यं ठप्रकरणात् ॥ * ॥ एकागारान्निपातनमन- र्थकम् । किङ्कारणम् ? ॥ 'ठप्रकरणात्' । ठप्रकृतः सोऽनुवतिष्यते ॥ इदं तर्हि प्रयोजनं-चौर इति वक्ष्यामीति । इह मा भूत्-एकागारं प्रयोजनमस्य भिक्षोरिति ॥ यद्येतावत्प्रयोजनं स्यात्-'एकागाराञ्चौर' इत्येव ब्रूयात् ॥ प्र.] अनुप्र । अनादिति । अनस्य केवलस्य पूर्वपदेन संबन्धाभावात्सामर्थ्यात्तदन्तग्रह- णम् । स्वयमिति । स्वर्गः प्रयोजनमस्येति उनि प्राप्ते यद्विधिः। पुण्याहवाचनादिभ्य इति । साहचर्यादभिधाने सिद्धे भेदविवक्षायां प्रत्ययश्रवणनिवृत्त्यर्थं लुम्विधानम्।।[अनुप्रव] ऐका। एकागारादिति । 'प्रयोजन'मित्यनेनैव ठनः सिद्धत्वात्सूत्रं निपातनाथ न कर्त्तव्यमित्यर्थः । ठप्रकरणादिति । 'प्रयोजन'मित्यत्र ठप्रकृतस्तेनैवैकागारिक- शब्दः सिद्ध इत्यर्थः । एकशब्दोऽसहायवाची। असहायं गृहमस्य मुमुषिषोः प्रयोजनं स ऐकागारिकः । ससहायं तु गृहमनेकपुरुषाधिष्ठानान्मोषितुमशक्यम् । उप्रकृत इति । 'प्राग्वतेष्ठ'जित्यत्र ठन्प्रत्ययः 'प्रयोजन'मित्यत्रानुवतिष्यते। इदं तौति । नियमार्थमेतदित्यर्थः । भिक्षोरिति । एकामेव यो भिक्षां गृहीते न द्वितीयां तस्याभिधानं मा भूदित्यर्थः । यद्येतावदिति । अनभिधानाद्भिक्षोर्न भविष्यतीति नियमार्थमप्येतन्नो- पयुज्यते इति भावः । न च जित्स्वरनिवृत्त्यर्थं निपातन, मित्स्वरस्येष्टत्वात् । एतच्च भाष्य- उ.] अनुप्रव । विशिपूरीत्यादि-ठञ्चाधनार्थम् । भाष्ये-गेहानुप्रवेशनीयमिति । अनुप्रवेशनशब्दस्याऽनान्तत्वं 'कृद्रणे गतिकारकपूर्वस्याऽपीति न्यायेन बोध्यम् । अस्य प्रयोजनमित्यर्थे प्रत्ययः ॥ [ अनुप्रवचनादिभ्यश्छः ] ॥ १११ ॥ ऐकागा । सूत्रप्रत्याख्यानपरमेव भाध्यं, न तु निपातनमात्रप्रत्याख्यानपरमित्याह- प्रयोजनमित्यनेनैवेति । ननु एतत्सूत्राऽभावे प्रकरणात्क ठञा सम्बन्धः स्यादत आह- प्रयोजनमित्यत्रेति । ननु न चोरोऽप्येकमेव गृहं मुष्णातीत्यत आह-एकशब्द इति । एकामेवेति । एकागारे चरेद्रामे तत्पुराणं मुनेत'मित्युक्तेः। यधन्तर्भावोत्तरेवं सूत्रकरणे- १ इदं कचिन्न दृश्यते । २ 'निपातनानर्थक्यं पा०।३ 'चोर' पा० । । . ।
२६ ॐ कैयट-विवरणसहितं [आकालिकडा- । , आकालिकडाद्यन्तवचने ।५।१।११४॥ ॥ * ॥ आकालान्निपातनानर्थक्य ठप्रकरणात् ॥ * ॥ आकालान्निपातनमनर्थ- कम् ॥ किं कारणम् ? ॥ 'ठाकरणात्' । 'ठप्रकृतः सोऽनुवर्तिप्यते ।। इदं तर्हि प्रयोजनम्-एतस्मिन्विशेषे निपातनं करिष्यामि-समानकालस्या- धन्तविवक्षायामिति ॥ * ॥ आकालाढूश्च ।। * II. आकालाश्च ठञ्चे वक्तव्यः । आकालिकी । आकालिका ॥ [ आकालिकडाद्यन्तवचने] ॥ प्र.] वातिकाभ्यां निराकरणाज्ञायते । ऐकागारिकट चौरे ] ॥ आकालि। आकालादिति। आकालशब्दात्प्रत्ययनिपातनमनर्थक, प्रकृतिमुच्चार्य प्रकृतष्ठञ्चिधेय इत्यर्थः । तत्राऽऽवृत्तः कालो यस्यासावाकालः, न च कालस्यावृत्तिः संभ- वतीत्ययमों भवति-उत्पत्तिकालेन समानो यस्य विनाशकालः। एवं हि तस्योत्पत्तिकालो विनाश आवृत्तो भवति यदि य एवोत्पत्तिकालः स एव विनाशकालीन चोत्पादविनाशयोरेक- कालता संभवतीति निरन्तरविनाशकालप्रतीतिर्भवति । निरन्तरो हि कालो भेदाग्रहणात् 'स एव काल'इति लोके व्यवहियते । ततः स्वार्थे उज्विधेयः। आद्यन्तवचने विषय इति भावः। भाष्यकारो निपातनं समर्थयितुमाह-इदंतहीति । निपातने हि समानकालशब्दः प्रकृतित्वेना. श्रीयतेतस्य चाकाल आदेशोनिपात्यते । समानशब्द एकवाची। एककालावाद्यन्तौ यस्यासावा- कालिकः। आदिर्जन्म । अन्तो विनाशः। जन्मविनाशयोश्वाव्यवहितकालत्वादेककालत्वम् । विधौ त्वयमर्थः केशेन प्रतीयत इति निपातनाश्रयणम् । उक्तश्च-'धातुसाधनकालानां प्राप्त्य- थनियमस्य च।अनुबन्धविकाराणां रूढ्यर्थं च निपातनम् ॥ इति । अन्ये वर्षादिः ध्वयाकालिकशब्दमिच्छन्ति । यस्मिन्नेव काले मध्याह्नादावुत्पत्तिर्येषां तस्मिन्नेव द्वितीयादि- उ.] न तात्पर्यमित्याह-अनभिधानादिति । अत्रत्यवृत्तिर्भाष्यविरुद्धत्याह-न चेत्या- दिना। एवञ्च सूत्रारम्भेऽप्याद्युदात्तनिपातनं बोध्यम् ॥ [ ऐकागारिकट ]॥ ११३ ॥ आकालिकडा। अत्रत्यभाष्यस्य सूत्रप्रत्याख्यानपरत्वेनाऽव्याख्याने बीजभूतां सूत्रान्तरे- णाऽसिद्धिं दर्शयति-तत्रावृत्त इति । तत्र कालस्य मुख्यावृत्तेरसम्भवाहौणी वृत्तिरित्याह- अयमर्थ इति । समानशब्दोऽत्रैकपर्यायः। एवं ही'त्यादि ‘स एव विनाशकाल' इत्यन्तमेकं वाक्यम् । निरन्तरत्वम्-अव्यवहितत्वम् । नन्वेवं प्रत्ययार्थः कोऽत आह- ततः स्वार्थ इति । आद्यन्तवचने विषय इति। आद्यन्तयोरुत्पत्तिविनाशयोरेक- कालत्ववचने विषये इत्यर्थः। यद्वाऽऽदिकालस्याऽन्तकालत्ववचने इत्यर्थः । एवं हिः डीवायुदात्तत्वञ्चेत्युभयमपि सिध्यतीति बात्तिकाशयः । भाष्ये-समानकालस्येति । एककालस्याद्यन्तकालत्वविवक्षायामित्यक्षरार्थः । निपातने हीति । समानकालावाधन्ती यस्येति विग्रहः। यस्येत्यधिकारात्स प्रत्ययार्थः । अत्र पक्षे आधुदात्तत्वमपि निपात्यमतः प्रत्याख्यानवार्तिकेन न विरोधः । अन्ये इति । समानपदोपादानेन भाष्येऽप्ययमर्थः १ निपातनानर्थक्यं' पा०॥२ अयं पाठः काचित्कः । ३ 'वात्तिककाराभ्यां पा०। -- ५.१ पा.२आ.।११५सू.] महाभाष्यम् । , तेन तुल्यं क्रिया चेद्वतिः ५।११११५॥ इदमयुक्तं वर्तते ॥ किमत्राऽयुक्तम् ? ॥ 'यत्तत्ततीयासमर्थं क्रिया चेत्सा भवतीत्युच्यते कथं च तृतीयासमर्थ नाम किया स्यात् ! ॥ प्र.] दिवससंबन्धिान विनाशस्तान्याकालिकानि। आकालाहश्चेति । आकालशब्दव्युत्पत्तिः प्रदशिता-ततः स्वार्थे ठन्प्रत्ययश्चकाराहच । अर्थस्तु पूर्व प्रदर्शितः ।। तेन । इदमयुक्तमिति । सूत्रोपात्तं वस्तु इदमा परामृश्यते । यत्तत्तृतीयासमर्थ- मिति । तेन 'तुल्य'मित्यनेन क्रमेण प्रकृतिप्रत्ययार्थी निर्दिष्टौ, तत्र क्रियाग्रहणं प्रकृत्यर्थस्यैव प्राथम्याद्ध्यतिक्रमहेत्वभावाद्विशेषणं न्याय्यम् , एतच्चासंभवादयुक्तमित्यर्थः । ननु तेनेत्यस्य विविभक्तिकेने क्रियाग्रहणेन कथं संबन्धः ? । सोपस्कारत्वात्सूत्राणां यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवतीत्येवं संबन्धसम्भवाददोषः। कथं चेति । तृतीया सत्त्वबाचिनः प्रातिपदिकाविधीयते । क्रिया तु साध्यरूपत्वादसत्त्वभूता। ततो विशेषण- विशेष्यभावोऽसंभवादयुक्तः । पाकादयो धनाद्यन्तवाच्याः सत्त्वधर्मसमन्वयात्क्रियाधर्मातीता- स्तथा च तत्र कृत्वोऽर्थप्रत्ययाऽभावः । 'भोक्तुं पाक'इत्यादौ धातुवाच्यक्रियापेक्षस्तुमुन्प्रत्ययः, उ.] सूचितः । चकाराठञ्चेति । इदश्च सूत्रप्रत्याख्यानवार्तिकरीत्या, भाष्यरीत्या तु चान्नि- पातनं बोध्यम् । निपातनपक्षेऽपि प्रकरणाहअन्तनिपातनसम्भवाट्टित्वफलं चिन्त्यम् ।। ११४ तेन तुल्यं । सर्वेषां पदानां साधुत्वादर्थस्य च तत्त्वादिदमयुक्तमिति न युक्तमत आह- सूत्रोपात्तमिति । सूत्रबोध्यवाक्यार्थस्वरूपमित्यर्थः । ननु 'क्रिया चेदित्येतत्सन्निहित- स्वात्तुल्यस्यैव विशेषणं न्याय्यमिति नेदं सूत्रबोध्यमत आह-तेनेत्यादि। प्राथम्यादिति। तुल्यपदार्थाऽन्वये चेद्रहणं व्यर्थ, तृतीयासमर्थात्तुल्यं क्रियेत्यर्थे प्रत्यय इत्यर्थेन सिद्धेः । तस्माचेद्हणात्तृतीया समर्थविशेषणमिति परे। विविभक्तित्वेनेति । विरुद्धविभक्तित्वे कथं सामानाधिकरण्येन सम्बन्ध इत्यर्थः। सोपस्कारत्वात्-अध्याहारादिसापेक्षत्वा- दित्यर्थः । अध्याहियमाणं दर्शयति-यत्तत्ततीयासमर्थमिति । ननु रोदनेन तुल्यं गायती- त्यादौ सम्भवतीत्यत आह-तृतीयेति । असम्भवादिति । एकस्यैव वस्तुनः सत्त्वभू- तत्वाऽसत्त्वभूतत्वयोर्विरोधादित्यर्थः । ननु पाकादिषु कारकाऽन्वयेन तदर्थस्य क्रियात्वमा- वश्यकं, लिङ्गसङ्घचाऽन्वयात्सत्त्वभूतत्वञ्चेति ते तत्र दृष्टे अत आह-पाकादय इति । कारकाऽन्वयस्तु धातुवाच्यांऽशमादाय । तमादाय कृत्वलुच्तु न, क्रियाग्रहणसामर्थ्यात्सा- ध्यत्वेनैव भासमानक्रियायास्तत्र ग्रहणादिति भावः । वस्तुत इदं चिन्त्यं, 'द्विवचनेऽची' त्यादिप्रयोगात् । वतिस्तु यथा न प्राप्नोति तथाऽनुपदमेव वक्ष्यते । नन्वेवं 'भोक्तुं पाक' इति न स्यादत आह-धातुवाच्यति । तत्र कृत्वमुच्सूत्रोक्तार्थग्रहणे मानाभावादिति भावः। कारकान्वयोऽप्येतदादायैवेत्युक्तमेव । किञ्च 'उपपदमति ङिति सूत्रभाष्यरीत्या पाकादियोगे कारकविभक्तिवत् कृत्वसुजादयो भवन्त्येवेति तत्रैव निरूपितम् । 'तुमुन्ने त्यपि १ 'यत्तृतीयासमर्थ' पा० । २ 'विविक्तित्वेने तिनागेशधृतः पाठः । - । - . ॐ कैयट-विवरणसहितं. [तेन तुल्यं- नैतदयुक्तम्-सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते, ब्राह्मणः क्षत्रियो वैश्यः शूद्ध इति । [आतंश्च गुणसमुदाये,-] एवं ह्याह-'तपःश्रुतं च योनिश्च अ.]विभक्तिस्तु तृतीयादिः सत्त्वरूपाश्रयान क्रियारूपताश्रया । पचत्यादीनां तु क्रियावाचिनाम- प्रातिपदिकत्वादसत्त्वभूतार्थाभिधानाच तृतीयाद्यभावः । कृत्वा हृत्वा कत्त हामित्यादीनाम- व्ययकृतां यद्यपि नियावाचित्वं तथा च पञ्चकृत्वः कृत्वे ति कृत्वोर्थोत्पत्तिर्भवति तथाप्यसत्व- वाचित्वात्तेभ्यस्तृतीयाघभावः । प्रातिपदिकार्थमात्रे तु प्रथमाया एवोत्पत्तिः । शयितव्यादयो यद्यपि क्रियावचनाः पञ्चकृत्वः शयितव्य'मिति कृत्वोऽर्थप्रत्ययदर्शनात्तथापि तत्रोपमानोप- मेयभावासम्भवो, न हि भवति शयितव्येन तुल्यो देवदत्तः शयितव्येन तुल्यः शुक्ल इति । उपमानं हि प्रसिद्धगुणक्रियाहेतुकं भवति । यथाऽस्याश्चन्द्र श्व मुखमिति। नापि शयितव्येन तुल्यः शायक इति क्रियावतः क्रियोपमानं संभवति, क्रियातद्वतोरत्यन्तभेदात् । क्रियाणामपि भिन्नजातीयानां नास्त्युपमानोपमेयभावः-शयितव्येन तुल्यमासितव्यमिति, अत्यन्तभेदात् । नाप्येकजातीयाना,-शयितव्येन तुल्यं शयितव्यमिति, यथा गौरिव गौरिति । येनैव हेतु- नैको गौस्तेनैवाऽपरोपीति क उपमानोपमेयभावः । नन्वाधारभेदादेकजातीयानामपि भेदाश्रय उपमानोपमेयभावो भवति, यथा राज्ञः शयितव्येन तुल्यं देवदत्तस्य शयितव्यमिति । सापे. क्षत्वादत्र प्रत्ययेन न भाव्यमित्यदोषः । ननु यदा प्रकरणादिवशादपेक्ष्यं नितिं भवति तदा प्रत्ययप्रसङ्गः । तथा राजशयितव्येन तुल्यं देवदत्तशयितव्यमित्यत्र सापेक्षत्वात्तथा स्थात- व्येन तुल्यं गमनं मन्दत्वान्नृत्येन तुल्यं गमनं बहुविकारत्वादिति। भोक्तं पाक इत्यादौ च क्रिया निवन्धनकार्यदर्शनातैलपाकेन तुल्यो घृतपाक इत्यादावस्ति तृतीयासमर्थस्यापि क्रियावाचित्वं, तत्किमुच्यते 'कथं च तृतीयासमर्थं नाम क्रिया स्यादिति ?। अन्नोच्यते-उपमानोपमेयभाव- ड.] तत्रैव निरूपितमितीदं चिन्त्यम् । नन्वेवं तद्वदेव वतिः स्यादत आह-विभक्तिस्त्विति । 'द्वथेकयो रित्यादिभिस्तस्यैकवाक्यत्वादित्यर्थः । साध्यत्वाख्यवैजात्येन पाकप्रकारकः, सिद्ध. त्वाख्यवैजात्येन तद्विशेष्यको बोधो धजन्तात् । वस्तुत एकनिष्ठत्वाच्च प्रकारताविशेष्यतयोर्न स्फुटं ग्रहो बोधे । एवञ्च 'तेने त्यनेनोपस्थापितपाकादिविशेष्यांशे तदन्वयबाधः, यानां प्रकृत्यर्थविशेष्यान्वयित्वस्यौत्सर्गिकत्वादिति भावः। एवञ्च तृतीयासमर्थत्वं नाम तृतीयान्वितत्वम् । न च तरिक्रयारूपे, सङ्ख्याया अपि विभक्तयर्थत्वेन तदन्वययोग्य एत्र विभक्त यर्थान्वयाङ्गीकारादिति तत्त्वम् । प्रथमाया इति । तदेकवचनस्येत्यर्थः। प्रसि- द्धति । न हि देवदत्तशयितव्ययोः सादृश्यप्रयोजकं गुणाधस्तीति भावः। क्रियातद्वतो- रिति । उक्त एव भावः । अत्यन्तभेदे च सादृश्याऽभावः । येनैव हेतुनेति। गोत्वा- दिनेत्यर्थः । एवञ्च तेन रूपेणाऽभेद एव, न केनाऽपि भेद इति नोपमानोपमेयभाव इति । ननु व्यक्तिभेदेन तत्रेवाऽत्राप्यस्त्विति शङ्कते-नन्विति । सापेक्षत्वादिति । नित्य- सापेक्षत्वे गमकत्वे च भवत्येव 'विष्णोः पुत्रवच्छिवस्य पुत्र' इति । तैलपाकेनेति । घअन्ते सिद्ध त्वसाध्यत्वोभयविशिष्टस्य पच्यर्थस्य बोध इत्युभयरूपताऽस्ति। न च विरोधः, भाष्यादि- १ अयं पाठः काचित्कः। प्रत्य- । ।
५.११ पा.१२ आ.।११५सू. महाभाष्यम् , एतद्राह्मणकारकम् । तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः' ॥१॥ यथा गौरः शुच्याचारः पिङ्गले: कपिलकेश इत्येतानअभ्यन्तरा- ब्राह्मण्ये गुणान्कुर्वन्तीति । समुदायेषु च शब्दा वृत्ता अवयवेष्वपि वर्तन्ते । तद्यथा--पूर्व पञ्चाला उत्तरे पञ्चालाः। तैलं भुक्तं घृतं भुक्तम् । शुक्को नील: अ.] स्त्रितयसंनिधानायत्तः, येनोपमीयते यच्चोपमीयते यश्च तयोः साधारणोऽर्थः । एतत्रय- मवश्यापेक्ष्यं । तन यदा क्रियोपमानत्वेन विवक्ष्यते तदासाववश्यापेक्ष्यसाधारणधर्माधारवा- क्रियारूपता हित्वा सत्त्वरूपता प्रतिपद्यत इति मत्वा भाष्यकृतैतदुक्तम् । सर्व एत इति । उपमानोपमेयभावविषयाः शब्दा एतच्छब्देन परामृश्यन्ते । तप इति । चान्द्रायणादि । श्रुतमिति । वेदवेदाङ्गादीनाम् । योनिरिति । ब्राह्मणाद्राह्मण्यां जन्म । ब्राह्मणकारकमिति-शेषषष्ठीसमासः। तृजकाभ्यां कर्तरि कर्तरि चेत्येता- भ्यां तु कर्तरि या षष्ठी या च तुजकनिमित्ता कर्मणि तस्या एव समासनिषेधो न तु शेष. षष्ठयाः । न हि सा तुज कसम्बन्धनिमित्ता। ब्राह्मणव्यपदेशस्य निमित्तमेतदित्यर्थः । तपःश्रुताभ्यामिति । नासौ परिपूर्णो ब्राह्मणः, जातिलक्षणैकदेशाश्रयस्तु तत्र ब्राह्मण- शब्दप्रयोगः । अत एव च तस्य सर्वालु ब्राह्मणक्रियानु नास्त्यधिकारः। शुच्याचार:-अनुप- हताचारः। एतानिति। गौरत्वादयो ब्राह्मण्यस्य पुराकल्पदर्शनेनाऽद्यत्वेपि क चित्तदन्वय- दर्शनेन व्यञ्जका इति तानपि शब्दार्थान्तर्भूतत्वेनाश्रयन्तीत्यर्थः। पूर्वे पञ्चाला इति । समुदाय. रूपारोपादवयवे समुदायवृत्तिशब्दवृत्तिर्न तूपात्तार्थत्यागेनार्थान्तराभिधानं शब्दानामुपपद्यते। शब्दार्थसम्बन्धस्याऽनित्यत्वप्रसङ्गात्। पूर्वादिशब्दसामानाधिकरण्याच्चावयववृत्तित्वावसायः । समुदायवृत्तित्वे हि 'पञ्चालानां पूर्व' इति षष्ठया भाव्यम् । तैलं भुक्तमिति । यदा द्रव्य. उ.] प्रामाण्येन वैजात्यद्वये विरोधाऽभावस्यैवाझीकारादिति भावः । साधारणधर्माधार- त्वादिति । साधारणधर्मान्वयित्वादित्यर्थः। परे त्ववश्यापेक्ष्यसाधारणधर्माधारत्वादिल्या- दिव्याख्या न भाष्याऽनुगुणा, तृतीयासमर्थत्वस्यैव क्रियात्वाऽभावे हेतुताया भाष्यालाभात् किञ्च साधारणधर्मान्वयेऽपि यथा तत्र कारकान्वयस्तथा वतिरपि स्यात् । तस्मादयमत्र भाष्यार्थ:-उपमानोयमेयभावविषयं प्रकृतं तृतीयासमर्थमुपमानं क्रिया नेति । तथा हि 'न वै तिङन्तेनोपमानमस्तीति सन्सूत्रस्थभाष्ये तिङन्तग्रहणस्यः क्रियोपलक्षणत्वादसत्त्व भूतशयितव्याद्यर्थानामुपमानत्वमेव न । एवञ्च वेषां तुल्यादियोगाऽभावात्तेभ्यस्तृतीयैव न, पाकादिपदार्थस्यः तृतीयान्वितस्य सत्त्वमेव, न क्रियात्वं, ब्राह्मणादिपदार्थस्य चेति । उपमानोपमेयेत्यादि । एवं व्याख्याने बीजं चिन्त्यम् । एतत्-तपःश्रुतादि । ब्राह्मण- कारकम्-ब्राह्मणव्यवहारकारणम् । ननु ब्राह्मणलक्षणाऽभावे कथं ब्राह्मणपदप्रयोगोऽत आह-जातिलक्षणेति । अयमेव भाष्ये जातिब्राह्मणपदस्यार्थः । गौरादिपदार्था नन्सूत्रे व्याख्याताः । ननु गौरत्वादि न ब्राह्मण्यव्यञ्जकं, व्यभिचारादत आइ-ब्राह्मण्यस्येति । पुराकल्पे ते तस्य व्यञ्जकत्वेन दृष्टा इत्यर्थः । भाष्ये-अभ्यन्तरान् ब्राह्मण्ये इति । १ 'पिङ्गलाक्ष' पा०१२ 'समुदायेऽपि च पा०1३'शेषे षष्ठी' पा० । ।
। कैयट-विवरणसहितं [तेन तुल्यं कृष्ण इति । एवमयं ब्राह्मणशब्दः समुदाये वृत्तोऽवयवेष्वपि वर्तते ॥ यदि तर्हि तृतीयासमर्थं विशेष्यते प्रत्ययार्थोऽविशेषितो भवति । प्र.] संस्कृतेविशिष्टमात्रायुक्तोऽर्थे तैलादयो वर्तन्ते तदैषां समुदायशब्दत्वम् ,एकदेशोपयोगे च यदा 'तैलं मुक्त मिति प्रयोगस्तदावयववृत्तित्वमवसेयम् । यदा तु जातिशब्दास्तैलादयस्तदा संस्थानप्रमाणनिरपेक्षा जातिसमाश्रयेण वर्तन्त इत्यनुदाहरणमेतत् । शुक्ल इति। स्वयमशुक्लो- ऽप्यवयवः शुक्लसमुदायसम्बन्धात्तद्रूपारोपाच्छुक्ल इत्युच्यते। एवमयमिति । यैव क्रियोपमेये श्रूयते तस्यामेव ब्राह्मणादिशब्दो वर्तते इत्यर्थः । ब्राह्मणेन तुल्यमधीते ब्राह्मणवदधीते क्षत्रिय इति । अध्ययनक्रियाविशेषणत्वात्तुल्यमिति द्वितीया नपुंसकत्वं च । ब्राह्मणाध्ययनेन च क्षत्रियाध्ययनस्य तुल्यत्वसंभवात्सामर्थ्याद्राह्मणशब्दस्य वृत्तिरित्युपपद्यते तृतीयासमर्थस्य क्रियावाचित्वम् । ननु भिन्नकर्तृकयोरध्ययनयोस्तुल्यत्वे आश्रीयमाणेऽन्यः साधारणों धर्मोऽपेक्षणीयः, कत्रोरेव तूपमानोपमेयत्वेऽध्ययनमेव साधारणो धर्म इति नास्ति धर्मान्तरापेक्षा ? । उच्यते-शब्दानुपात्ता अपि यथा चन्द्र इव मुखमस्या इत्यादौ कान्त्यादयः प्रतीयन्ते तथात्राऽपि सौष्ठवादयः प्रत्येष्यन्ते । ननु चोक्तं साधारणधर्माधारत्वात्सत्त्व- रूपापत्त्या क्रियारूपहानिरिति ? एवंतर्हि सामर्थ्याभूतपूर्वगत्याश्रयणं, यस्याऽर्थस्य' क्रियारूपताऽभूत् सम्प्रति क्रियारूपाऽतीतोपि सत्त्वभावापन्नस्तृतीयान्तशब्दवाच्यः परि- ग्रहीष्यते। अत एव ब्राह्मणादयः शयितव्यादयश्च भूतपूर्व क्रियारूपार्थवाचित्वेन तुल्या उ.] ते सर्वे ब्राह्मणशब्दजबोधप्रकारतया भासन्त इत्यर्थः । नन्वन्यत्राऽन्यशब्दस्य वृत्तौ शब्दार्थसम्बन्धनित्यत्वहानिरत आह-समुदायरूपेति । 'पूर्वे पश्चाला' इत्यादावारोपे गमकमाह-पूर्वादिशब्देति । ननु तैलादीनामवयवाऽवयविसाधारणजातिशब्दत्वात्कथमि- दमत आह-यदेति । मात्रा-परिमाणम् । संस्थानप्रमाणनिरपेक्षा इति । अवयवाऽ. वयविसाधारणा इत्यर्थः । ननु देवदत्तवत्पचतीति तदनभ्यन्तरक्रिययोरप्युपमादर्शनादाह-- यैवेति । यथा समुदायप्रवृत्तस्य तदन्तर्गतयत्किञ्चिदवयवे वृत्तिः, एवमन्यक्रियायामपि तद्वृत्तिस्तस्यामप्यभ्यन्तरत्वारोपेणेति भाष्याशयः। सामर्थ्यादिति। द्रव्येण क्रियाया उपमा- ऽसम्भवादित्यर्थः । को रेव विति। न च तयोः सादृश्येऽर्थे वत्यन्तस्याऽव्ययत्वं न स्यात् , 'ब्राह्मणेन तुल्यः क्षत्रियः' इत्यादाविव द्रव्याऽभिधानादिति वाच्यम्, अव्ययप्रक- रणे पाठेन, शब्दशक्तिस्वभावेन च वत्युपात्तस्य लिङ्गाधनन्वयित्वसम्भवाच्चादिवदित्याशयः । साधारणधर्माधारत्वात्सत्वरूपापत्त्येति । तृतीयान्वितत्वेन सत्त्वरूपतापत्तिरित्यपि बोध्यम् । सामर्थ्यादिति। मुख्यक्रियायास्तिङन्तकृत्यप्रत्ययान्तादिवाच्यायाः सादृश्यान्वया- ऽभावात् । अन्यस्याश्च लिङ्गाद्यन्वयित्वेन सत्त्वभूतत्वादिति भावः । अत एवेति । गौणमुख्य- न्यायस्य तु नाऽयं विषयः, सादृश्यसम्बन्धमूल लगौणलाक्षणिकत्वरूपस्य गौणत्वस्य तत्रा- श्रयणात् । न चैवं ब्राह्मणपदादि । लाक्षणिकत्वमात्रेण तु न गौणता, ईदृशानामप्रसिद्धत्व- मपि गौणत्वं नाऽत्र, अस्य लोकप्रसिद्धत्वादित्याशयः। शयितव्यादयश्चेति । तैलपाका- १ 'प्रवृत्तः' पा०॥ - ५.११ पा.२ आ.।११५सू.] ॐमहाभाष्यम् ३३३ तत्र को दोषः? ॥ तृतीयासमास्क्रियावाचिनो गुणतुल्येऽपि प्रत्ययः स्यात्, -पुत्रेण तुल्यः स्थूलः, पुत्रेण तुल्यः पिङ्गल इति ॥ अस्तु तहि प्रत्ययार्थः विशेषणं-यत्तत्तल्यं क्रिया चेत्सा भवतीति ॥ एवमपि तृतीयासमर्थम- विशेषितं भवति ॥ तन्त्र को दोपः ? ॥ तृतीयासमर्थादक्रियावाचिनः क्रिया. तुल्येऽपि प्रत्ययः प्राप्नोति ।-स्थू लेन तुल्यः पुत्रः स्थूलेन तुल्यो यातीति ] । नैष दोषः 'यत्तत्तल्यं क्रिया चेत्सा भवतीत्युच्यते, तुलया च संमितं तुल्यम्। यदि च तृतीयासमर्थमपि क्रिया प्रत्ययार्थोऽपि क्रिया ततस्तुल्यं भवति । प्र.] इति संप्रति क्रियारूपार्थवायें संभवाभूतपूर्वगतिरभ्युपेयते । अविशेषित इति । एकेन विशेषणेन द्वयोः सम्बन्धाभावादिति भावः । गुणतुल्य इति । गुणैस्तुल्य इति तृतीया- समासः । पुत्रेण तुल्यः स्थूल इति । पुत्रशब्दोऽत्र श्रुताध्ययननिर्देशस्थानादिप्रसिद्ध. क्रियान्तर्भावेण स्वार्थमभिदधातीति संभवति क्रियावाची। अस्तु तहीति। समानविभक्ति- त्वात्प्रधानत्वाच्च प्रत्ययाः क्रमवाधेन विशेष्यत इति भावः । क्रियात्तुल्येऽपीति। अत्रोदाह- रणमूह्यम् । कचित्तु पुस्तके भाष्य एव पठ्यते- स्थूलेन तुल्यःपुनःस्थलेन तुल्यो याती- ति । तत्र पुत्रादयो निदेशस्थानादिभिः क्रियावन्तः स्थौल्यगुणयुक्तेन पित्रादिना स्थौल्येनैव गुणेन तुल्या इति विवक्षायामपि वतिप्रसङ्गः। क्रियाग्रहणं च क्रियावत उपलक्षणं निष्क्रिय- निवृत्तिफलत्वात्तस्येत्यभिप्रायेण पक्षद्वयेऽप्यतिप्रसङ्गचोदना । नैष दोष इति । एकस्मिन्नप्यर्थे विशेषिते सामर्थ्यादुभयोबिशेषितत्वात् । तुलया च संमितमिति । सदृशमित्यर्थः । यथा तुला परिच्छिनत्ति द्रव्यविशेषमेवं यत्सादृश्येन वस्त्वन्तर परिच्छिनन्ति तत्तुल्यमुच्यते। ततः प्रत्ययार्थे विशेषिते सामर्थ्यात्प्रकृत्यर्थोऽपि विशेषितो भवति । न ह्यक्रियया क्रिया तुल्या भवतीति सामाक्रियावाचिन एव प्रत्ययो विज्ञायते । न च क्रियाशब्देन क्रिया- वान्गृह्यते, मुख्यार्थसंभवे गौणग्रहणस्याऽयुक्तत्वात् । न च स्थूलेन तुल्यः पुत्र' इत्यादौ उ.]दयश्चेति वक्तुं युक्तम्। 'सम्प्रति क्रियारूपार्थवाच्यसम्भवादिति पाठे-तद्वाचिनःशब्दस्या- ऽभावादित्यर्थः । 'वाच्यासम्भवादिति पाठे बहुव्रीहिः । 'वाचकत्वाऽसम्भवादिति पाठस्तु युक्त एव । तृतीयासमास इति । 'पूर्वसदृशे'त्यनेनेति भावः। श्रुताऽध्ययनं श्रुतमात्र- स्याऽध्ययनं ग्रहणम् । निदेशस्थान-पित्राद्याज्ञायां स्थितिः। क्रियावाचीति। क्रिया- घटितार्थवाचकत्वादिति भावः । प्रधानत्वाच्चेति। सन्निहितत्वाच्चेत्यपि बोध्यम् । चे- छब्दस्त्वत्र पक्षे यथाकथञ्चिद्योजयितुं शक्यते इति भावः । नन्वेवं क्रियावतस्तुल्यत्वेऽपि न क्रियायास्तौल्यमत आह-क्रियाग्रहणञ्चेति । तदुपादाने तर्हि किं फलमत आह- निष्क्रियेति । पक्षद्वयेऽपीति । पक्षद्वयेऽपि क्रियाग्रहणं क्रियावदुपलक्षणमिति पुत्रेण तुल्यः स्थूलः स्थूलेन तुल्यः पुत्र इत्यत्राऽतिप्रसङ्गोदावनमिति भावः । सामादुभयो- रिति । अत्यन्तभेदे उपमाया असम्भवादिति भावः । नन्वध्ययनादि न तुलया समित.. मत आह-यथेति । क्रियावाचिन एवेति । क्रियोपमानत्वयोग्यार्थवाचिन एवेत्यर्थः १ अयं पाठः क्वाचित्कः।२'यत्तुल्य पा०१३ तृतीयासमर्थोऽपि' पा०४'वाच्यासम्भवात्'पा। - । Read चे - ॐ कैयट-विवरणसहित [तेन तुल्यं अथ वा पुनरस्तु 'यत्तत्ततीयासमर्थ क्रिया चेत्सा भवतीत्येव ॥ ननु चोक्तं-"प्रत्ययार्थोऽविशेषित" इति ॥ तत्र को दोषः? ॥ तृतीयासमर्थात् क्रियावाचिनो गुणतुल्येऽपि प्रत्ययः प्राप्नोति-पुत्रेण तुल्यः स्थूलः, पुत्रेण तुल्यः पिङ्गल इति ?॥ नैष दोषः-'यत्तत्ततीयासमर्थ क्रिया चेत्सा भवती'त्युच्यते। तुलया संमितं तुल्यम् । यदि च तृतीयासमर्थमपि क्रिया प्रत्ययार्थोऽपि क्रिया ततस्तुल्यं भवति ॥ किं पुनरत्र ज्यायः ? ॥ प्रत्ययार्थविशेषणमेव ज्यायः ।। कुत एतत् ? ॥ एवं चैव हि कृत्वाऽऽचायण सूत्रं पठितं, वतिना सामाना- प्र.] क्रिययोस्तुल्यत्वप्रतीतिः, क्रियापदानुपादानात् । अतएव पुत्रादेन क्रियावत्त्वप्रतीतिः । स्थूलेन तुल्यो यातीत्यत्रापि न क्रिया तुल्या । स्थूलेन यस्तुल्यः स्थौल्येन गुणेन स यातीत्यर्था- वगमात् । यदा तु स्थूलेन तुल्यं यातीति क्रियातुल्यत्वविवक्षा तदा वतिर्भवत्येव 'स्थूल. बद्यातीति। अथ वेति । पूर्वोक्तेनैव न्यायेन प्रकृत्यर्थे विशेषिते प्रत्ययार्थोऽपि विशेषित इत्यर्थः। किं पुनरिति । उक्तदोषपरिहाराद् द्वयोरपि प्रशस्यत्वादन्यतरप्रकर्षविषयः प्रश्नः। वतिनेति । वतिशब्देन बत्यर्थ उच्यते। तेनायमर्थः-प्रकृत्यर्थविशेषणपक्षे वाक्याध्याहारेण समर्थनीयम् । 'तेन 'क्रिये'त्यनयोः पदयोभिन्न विभक्तित्वा'तुल्यं 'क्रिये'त्यनयोस्तु पदयोरेक- विभक्तिकत्वात्श्रुत्यैव सामानाधिकरण्योपपत्तिः । अन्ये तु-वतिप्रत्ययेनैव सामानाधिकरण्यं च्याचक्षते-वतिर्भवति स च क्रियावाची। एवञ्च नियायां तुल्यायां वतिर्भवतीत्यर्थः संपचते। अपि चेति । प्रत्ययार्थविशेषणपक्षे मुख्या क्रिया साध्यमानस्वभावाऽसत्त्वभूता संभवति । तस्यां बतिविधीयमानो विनाऽपि गणपाठेनाऽव्ययसंज्ञा प्रतिपद्यते । यन्न व्येति-लिङ्गसंख्या- नुपादानात्तव्ययमिति अव्ययलक्षणं । गणपाठस्तु प्रपञ्चार्थ इति भाष्यकाराभिप्रायः । क्रिया- मानं चेह वतिनाऽभिधीयत इति तद्विशेषप्रतिपत्तये क्रियाशब्दप्रयोगः। प्रकृत्यर्थविशेषणपक्षे उ.] क्रियात्वलामे दृढतरमानाऽभावात् । एवं हि प्रागुक्ताऽतिप्रसङ्गोऽपि नेत्याह-न च स्थूलेनेति । क्रियावानित्यर्थेऽपि वस्तुतो नाऽतिप्रसङ्ग इत्याह-अत एवेति। क्रियापदाऽनु- पादानादेवेत्यर्थः । निदेशस्थानादयो न पुत्र शब्दप्रवृत्तिनिमित्तमिति भावः । ननु क्रिया- पदोपादाने ततिप्रसङ्गः स्यादत आह-स्थूलेनेत्यादि । 'स्थौल्येन गुणेने ति तुल्यपदा- न्वयि । आतिश्यायनिकोपपत्तये आह-उक्तदोषेति । ननु सूत्रे वतेविधेयतया स्वरूपपरत्वेन कथं क्रियापदेन सामानाधिकरण्यमत आह-वतिशब्देनेति । 'तुल्य'मिति च सूत्रे प्रथ- मान्तं सामान्ये नपुंसकम् । चेदित्युच्चारणन्तु पूर्वाचार्याऽनुरोधेनेति बोध्यम् । अन्ये विति । अध्याहारसापेक्षत्वमत्रारुचिः । मुख्यक्रियेति । उपमेयभूतेत्यर्थः। नन्वेवं वतेरेव क्रियार्थवे क्रियापदप्रयोगों न स्यादत आह-क्रियामात्रञ्चति । ननु प्रकृत्यर्थविशेषणपक्षेऽप्यनया रीत्याऽव्ययत्वस्य सुलभत्वात्कथं प्रत्ययार्थविशेषणपक्षे साधकत्वेनाऽस्योपन्यासोऽत आह-प्रकृत्यर्थविशेषणपक्षे विति । भूतपूर्वगतिरिति। १ 'यत्तृतीयासमर्थ पा० । २ चकारः कचिन्नास्ति । .
५ अ.।१ पा.१२ आ.। ११६ सू.] महाभाष्यम् धिकरण्यं कृतम् । अपि चे वतेरव्ययेषु पाठो न कर्तव्यो भवति । क्रियाया- मयं भवल्लिङ्गसङ्ख्याभ्यां न योक्ष्यते ॥ [तेन तुल्यं क्रिया चेद्वतिः ] ।। तत्र तस्येव ।५।१६। किमर्थमिदमुच्यते ?, न तेन तुल्यं क्रिया चेद्वति रित्येव सिद्धम् ? ॥ प्र.] तु भूतपूर्वगतिर्वाऽऽश्रयणीया क्रियाग्रहणेन वा क्रियावत उपलक्षणे क्रियाद्वारक क्रिया- बतः सादृश्यमाश्रयणीयम् । तत्र गत्यन्तरसंभवे भूतपूर्वाश्रयणमयुक्तम् । द्वितीये तु पक्षे क्रियावान्प्रत्ययार्थः स्यात्-'ब्राह्मणेन तुल्योऽध्येतेति । तथा च लिङ्गसंख्यावदर्थाभिधायित्वा दव्ययसंज्ञार्थों वतेः पाठः कर्त्तव्यः स्यात् । पाठसामर्थ्याच्च सत्त्ववाचित्वेऽव्ययसंज्ञाप्रवृत्तिः । तदेवं स्थितमेतत्प्रत्ययार्थविशेषणं क्रिया। 'ब्राह्मणेन तुल्योऽध्येते'त्येवमादौ क्रियावतोः सादृश्यं विवक्षितं न तु क्रिययोरिति प्रत्ययाभावः । उत्तरसूत्रेणापि वतेविहितस्याऽसत्त्वभूतार्था- भिधायित्वमिवशब्दस्येव । 'तदह'मित्यनेनापि क्रियायां वतिविधीयत इति तदर्थोऽप्यव्ययेषु. वतेः पाठो न कर्त्तव्यः । [तेन तुल्यं क्रिया चेद्वतिः] ॥ तत्र। किमर्थमिति । 'तुल्या'रिति या तृतीया तयैवेवयोगे सर्व विभक्तयां व्याप्ताः। यथा-ब्राह्मण इवाधीते, ब्राह्मणेन तुल्यमधीते। ब्राह्मणमिव पश्यति, ब्राह्मणेन तुल्यं पश्यति । ब्राह्मणेनेवाधीतं, ब्राह्मणेन तुल्यमधीतम् । ब्राह्मणायेव वैश्याय ददाति, ब्राह्मणेन तुल्यं वैश्याय ददाति। ब्राह्मणादिव वैश्यादधीते, ब्राह्मणेन तुल्यं वैश्यादधीते । ब्राह्मणस्येव क्षत्रियस्य उ.] प्रकृत्यर्थस्येव प्रत्ययार्थस्याऽपि संप्रत्यक्रियारूपस्य भूतपूर्व क्रियारूपस्य ग्रहणं स्यादिति नियमेनाऽव्ययत्वाऽसिद्धिरिति भावः । अत्र पक्षे दोषान्तरमप्याह-गत्यन्तरेति । परेतु प्रत्ययार्थविशेषणेऽपि ब्राह्मणवदधीत इत्यत्रैव स्यान्न तु नृत्यवद्गमनमित्यादौ, गमनपद- वाच्यस्य सत्त्वरूपत्वात् । तस्मात्तत्राऽपि व्याख्यानेन, स्वरितपाठाश्रयेण वा भूतपूर्वस्याऽपि ग्रहणमावश्यकमिति वदन्ति, तन्न, अस्तिक्रियाऽध्याहारेण तत्राऽपि क्रियाया एव तुल्यत्व- मित्याशयात् । द्वितीये विति । क्रियावदुपलक्षणत्वमिति .पक्षे इत्यर्थः । क्रियावान्प्रत्य- यार्थः स्यादिति । क्रियावता क्रियावत एव सादृश्यसम्भवादिति भावः। पाठः कर्त्तव्यः स्यादिति । यद्यपि शब्दशक्तिस्वभावेनेदम्परिहत्तुं शक्यं, तथाऽपि तद्योतनार्थमेव पाठः कर्तव्य इत्याशयः । न तु क्रिययोरिति । अस्तिक्रियामादाय तु भवत्येव बतिरिति बोध्यम्। अनेन च क्रियावदुपलक्षणत्वपक्षो दुष्ट इति बोधितम् । अत एव 'अध्येतृब्राह्मण- तुल्योऽसौ क्षत्रियोऽध्येते त्यादावपि न वतिरिति बोध्यम् । ननूत्तरसूत्रविहितबत्यन्तस्य संज्ञार्थं पाठ आवश्यकोऽत आह-उत्तरसूत्रेणाऽपीति ॥ तेन तुल्यं क्रिया चेद्वतिः]। तत्र तस्येव । ननु तृतीयासमर्थाक्रियातुल्यत्वे तेन प्रत्ययोऽनेन तु द्रव्यगुणादि- तुल्ये षष्ठयायन्तादिति कथं तेन सिद्धिरत आह-तुल्यारितीति । इवयोगे ये सर्वे विभक्तथर्थास्ते तुल्ययोगे 'तुल्या' रिति तृतीयया व्याप्ताः-सम्बद्धा इत्यन्वयः। यथेति । १ 'अपि चाव्ययेषु'इति 'अपि चाव्ययेषु वतेः पाठो न' इति च कचित्पाठः । . । । ।
७ .. कैयट-विवरणसहितं. [तत्रतस्येव न सिध्यति-तृतीयासमर्थात्तत्रे यदाऽन्येन कर्तव्या क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते, न च को चिदिवशब्देन योगे तृतीया अ.] स्वं, ब्राह्मणेन तुल्यं क्षत्रियस्य स्वम् । ब्राह्मण इव क्षत्रिये वर्तते, ब्राह्मणेन तुल्यं क्षत्रिये वर्त्तते इति । तत्र तृतीयया षष्ठीसप्तम्यर्थस्य व्याप्तत्वात्तृतीयान्तादेव पूर्वेण प्रत्ययो विधास्यते, क्रिया- ग्रहणं च न करिष्यते, य एव चार्थो मधुरायामिव पाटलिपुत्रे प्राकारो इति स एव मधुरया तुल्याः पाटलिपुत्रे प्राकारी इति । तथा देवदत्तस्येव यज्ञदत्तस्य शुक्ला दन्ताः देवदत्तेन तुल्या यज्ञदत्तस्य शुक्ला दन्ता इति । मधुराशब्देन च तदवयवाः प्राकारा उच्यन्ते देवदत्तशब्दे- नापि दन्ता इति प्रश्नः । न सिध्यतीति । पूर्व सूत्रेऽवश्यं कर्त्तव्यं क्रियाग्रहणं गवा तुल्यो गवय इत्यादौ प्रत्ययनिवृत्त्यर्थं, तस्मिन्क्रियमाणे गुणद्रव्ययोस्तुल्यत्वे प्रत्ययो न प्राप्नोतीति षष्ठीसप्तम्यन्तादिवार्थे वतिर्विधीयत इत्यर्थः। इवशब्दश्च द्योतकत्वान्न व्यतिरेकहेतुः-गौरिव गवय इति । यथा चशब्दो 'धवश्च खदिरश्चेति। तुल्यशब्दस्तु वाचकत्वादुपमाने व्यतिरेक- हेतुर्देवदत्तेन तुल्यो देवदत्तस्य तुल्य इति वा। तत्र दन्तप्राकारादिसम्बन्धोपजनितषष्ठी- सप्तम्यन्तादिवार्थेऽनेन प्रत्ययः । ननु 'इवे'त्येव सूत्रमस्तु, पूर्वसूत्राच्च तेनेत्यनुवर्तिष्यते, तदनुवृत्त्या च शेषविषये सर्वा विभक्तय इवशब्दप्रयोगे उपमानाभवन्तीत्यनुमास्यते इत्याशङ्कयाह-न च का चिदिति । अयमर्थः-इवशब्दस्तावदसत्त्ववाचित्वान्न व्यतिरेकहेतुरिति तद्योगे लक्षणेन तृतीया नास्ति उ.] ब्राह्मण इवाऽधीत इत्यादितोऽपि ब्राह्मणेन तुल्यमधीत इत्यादित इव ब्राह्मणकर्तृकाध्ययन- तुल्यमध्ययनमित्यादिक्रमेणैव बोध इत्यभिमानः । पूर्वेण प्रत्यय इति । अत एव 'पूर्वव- सन' इत्यादौ पञ्चम्यन्तार्थकादतिर्विधीयते । न करिष्यत इति । अतिप्रसङ्गस्त्वनभिधाना- त्परिहरणीय इत्यर्थः । ननु प्राकारादीनां मधुरादिभिः कथं तुल्यत्वमत आह-मधुरा- शब्देन चेति । भाष्ये-तृतीयासमर्थात्तत्र प्रत्यय इत्यस्य-तृतीयासमर्थात्तत्र क्रिया- तुल्यत्वे प्रत्यय इत्यर्थः । तदेवाह-यदाऽन्येनेति। क्रियाम्-तत्सदृशीमित्यर्थः । तदाह- पूर्वसूत्रे इत्यादि । नन्विवयोगेऽपि 'तुल्याथै रिति तृतीया सुलभाऽतः 'तत्र तस्येति व्यर्थ, 'तेने त्यनुवृत्यैव सिद्धरत आह-द्योतकत्वादिति । समभिव्याहृतस्यैव तदर्थकतेति भेदाऽभाव इत्यर्थः । व्यतिरेकहेतुरिति । भेदनिबन्धनषष्ट्यादिहेतुरित्यर्थः । अपरे तु-इवादिर्यदनन्तरमुपात्तस्तद्गतोपमानत्वस्य, तगतसाधारणधर्मसम्बन्धस्योपमानोपमेय- भावसम्बन्धस्य च बोधकः। एवञ्च 'चन्द्र इव मुख'मित्यत उपमानचन्द्राऽभिन्नमालादकं मुख- मिति धीः । एवञ्चेवार्थस्योपमानत्वस्य विशेषणतया चन्द्रादेश्च विशेष्यतया न तत्रोपपद- विभक्तिरिति वाचकत्वेऽपि न दोषः। तदुक्तं भाष्ये-न च का चिदिवशब्देन योग इति । तदर्थनिरूपितसम्बन्धे इत्यर्थः । एवञ्च बोधे भेदायेदं सार्थकमिति भावः । एतच्च न चेति चेन सूचितम् । तेन ह्यस्य प्रयोजनान्तरत्वं सूचितम् । द्रव्यगुणादितुल्यार्थमि- १ 'त्तत्र प्रत्ययः। यदाऽन्येन' इत्येवं क्वचित्पठ्यते । २ उत्पद्यते।३ 'न च कदाचित् पा०॥ ४ अन मथुरेति सर्वत्र कचित्पाठः । ५ 'प्राकारः पा० । । ।
५.१पा.१२ आ.। ११६सू.] ॐ महाभाष्यम् विधीयते॥ ननु च सप्तम्यपि न विधीयते॥ एवं तर्हि सिद्धे सति यदिवशब्देन योगे सक्षमीसमर्थादति शास्ति तज्ज्ञापयत्याचार्यो-'भवतीवशब्देन योगे सप्तमी ति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ 'देवेष्विव नाम 'ब्राह्म- विव नाम'-एष प्रयोग उपपन्नो भवति ॥ तत्र तस्येव ] ।। अ.] नापि तद्योगे शेषविषये ज्ञापयितुमिष्टेति हित्वा तृतीयां विभक्त्यन्तरमाश्रितम् । ननु चेति। तत्र यथा शेषविषये ज्ञापकात्सप्तमी भवत्येवं तृतीयाऽपि भविष्यतीति भावः । एवंतहीति । तृतीयाऽनुवृत्त्यैवेवयोगेऽस्मादेव ज्ञापकादनुमिततृतीयान्ताद्वती सिद्धे तत्रेति सप्तमीनिर्देशो ज्ञापयति-'शेषविषये भवतीवयोगे सप्तमी ति। तृतीया तु नेष्यत इति नासौ ज्ञाप्यते । देवेष्विति । देवानामिवेत्यर्थः । नन्वसति प्रयोजने ज्ञापकं भवति । अस्ति च सप्त- म्युपादानस्य प्रयोजनं-मधुरायामिव मधुरावत्पाटलिपुत्रे प्राकार इत्यादौ प्राकाराद्याधेयापे- क्षाधिकरणविहितसप्तम्यन्तात्प्रत्ययविधानम् । किञ्च शापकात्सप्तम्यनुमानेऽधिकरणसप्त- म्यन्ताइतेरनुत्पत्तिः स्यात् । एवं तहि तन्त्रेण सूत्रद्वयमुच्चारितमितिभाष्यकाराभिप्रायः । तत्रैकेन सूत्रेण स्वलक्षणविहितषष्ठीसप्तम्यन्तादतिर्विधीयते, द्वितीयेन विवशब्दयोगे तस्ये- त्यस्यार्थे तत्रेति सप्तमी विधीयते । सप्तम्या षष्ठी मा बाधीति तस्येत्यनेन प्रतिप्रसूयते । महाविभाषाधिकाराद्वा षष्ठी न बाध्यते ॥ [ तत्र तस्येव ] ॥ उ.] त्यपि 'यदाऽन्येने त्यादिनोक्तम् । इवार्थस्योपमानविशेषणतयोपमानस्योपमेयेऽभेदाऽन्व- येनोपमेयसमाने षष्ठीसप्तम्यौ स्त एवेति तात्पर्यम् । एतदाशयाऽनभिज्ञ एकदेशी शङ्कते-- ननु चेति । सिद्धान्त्येकदेश्याह-एवं तहीति । अन्यथेवार्थनिरूपितसम्बन्धे षष्ठया अपि दुर्लभत्वाच्छनोत्तरयोरसङ्गतिः, न हि भवति चन्द्रस्येव मुखमिति । 'देवेष्विवेत्यस्योपमेयं नामेतीति भाष्यार्थमाहुः । कैयटव्याख्या तु चिन्त्या। अथ कैयटाक्षराणि व्याख्यायन्ते-यथा च शब्द इति (३३४पृ.)। इतरसमुच्चयवान्धवस्तथा खदिर इति बोधादिति भावः । वाच. कत्वादिति । सत्त्वभूतार्थवाचकत्वेन विशेष्यत्वादित्यर्थः । नन्वेवं कथं षष्ठयाद्यन्तादि- वार्थे प्रत्ययोऽत आह-तत्र दन्तेति। अयं भावः-वाक्ये प्राकारादिपदाऽध्याहारेणैव बोधः । प्राकारयोरेव च सादृश्यम् । वृत्तौ तु मधुरादिपदानां तत्सम्बन्धिप्राकारादौ लक्षणेति । ननु तुल्याथै रिति सूत्रमस्त्येवेत्यत आह-इवशब्द इति । असत्त्ववाचित्वादिति । द्योतकत्वादित्यर्थः । एवञ्च तद्योगे न तत्प्राप्तिरिति भावः । इष्टेतीति । किन्तु प्राकारादि- जनितव्यतिरेके एव पष्ठोष्टेति भावः । शेषविषये प्राकारादिजनितसम्बन्धे क्रियासम्बन्धाऽ भावात्सप्तम्यप्राप्ते रिति भावः । देवानामिति । देवानां नामेवेत्यर्थः। नन्वसतीति । आधारस्यायद्वारैव क्रियान्वय इति नाऽसामर्थ्यम् । परे त्वधिकरणसप्तम्यन्तात्प्रत्ययो नेष्ट एव भगवतः, उपमानमधुरासम्बन्धिप्राकाराऽभिन्नः पाटलिपुत्रसम्बन्धी प्राकार इत्येव बोधः । भवतीवयोगे सप्तमीत्यस्योपमानविशेषणे उपमेयविशेषणे चेत्यर्थः । एवञ्च-आवृत्ति- यथैव । देवेष्विवेत्यस्य-देवेष्विव मनुष्येषु नामेत्यर्थः। महाविभाषाऽधिकाराद्वेत्यपि- चिन्त्यमेव, तस्यास्तद्धितप्रत्ययाऽन्वयित्वादित्याहुः ।। ११६ ॥ । .
३३६ * कैयट-विवरणसहितं [तदहम् - तदर्हम् ।५।११११७ किमर्थमिदमुच्यते-न 'तेन तुल्यं क्रिया चेद्वति'रित्येव सिद्धम् ॥ न सिध्यति । तृतीयासमर्थात्तत्रं यदाऽन्येन कर्तव्यां क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते, इह पुनर्द्वितीयासमर्थादात्मान्यां क्रियायामहति कतरि निश्चित. बलाधाने प्रत्यय उत्पाद्यते-'ब्राह्मणवद्भवान् वर्त्तते 'एतद्वृत्तं ब्राह्मणमहती'ति॥ प्र.] तदहम् । किमर्थमिति । इह क्रियाग्रहणमनुवर्तते तेन द्वितीयान्तादहणस्य का क्रियायां वतिविधीयते-राजानमर्हति वृत्तं, ब्राह्मणमर्हति वृत्तं, राजवद्वर्त्तते, ब्राह्मणव- द्वर्तत इति । तत्र राज्ञा तुल्यं वर्तते इति विग्रहाश्रयेण पूर्वेण वतिः सिद्धः। राजान- महतिच्छत्रमित्यादौ क्रियाऽनुवर्तनात्प्रत्ययेन न भाव्यम् । 'राजवद्वत्तमस्ये'त्यादावपि तत्र तस्येवेति सिद्धो वतिः । तेन तुल्य' मित्येतत्तु चोदकेनोपलक्षणायोपात्तम् । इह तर्हि 'राजवर्तते राजे'ति भेदाभावाद्धेदनिबन्धनसादृश्याभावादप्राप्तो वतिरनेन विधीयते । अत्रापि राजत्वेन प्रसिद्धा ये पृथुभरतभगीरथादयस्त इदानीन्तनानां राज्ञामुपमानानीति. सिद्धो वतिरिति प्रश्नः। न सिध्यतीति। यदा राजशब्दः सामान्यवचनः, प्रसिद्धविशेष- विषयो वा राजवदयं वर्तते पृथुरिति तदा सादृश्याभावाद तेरप्राप्तिः । तथा 'चिच्छेद. कृतहस्तव दिति,-कृतहस्तमर्हति च्छेदनमित्यहणं गम्यते न तु सादृश्यम् । आत्मााया- मिति। द्वितीयान्तवाच्यस्यार्थस्यात्मनोऽहीं या क्रिया तस्यामित्यर्थः । अर्हतिकर्त- रीति । अर्हतेः कर्तरि क्रियारूपे वृत्तादिक इत्यर्थः । निश्चितबलाधान इति । निश्चित- उ.] तदहम् । ननु पूर्वसूत्रवदक्रियार्थमेतत्स्यादत आह-इहेति । द्वितीयान्तादहमित्यर्थे प्रत्ययो भवति, यदह सा क्रिया चेदित्यर्थः। अहमिति पचाद्यजन्तम्। राजानमहतीत्यादेः राजनिष्ठयोग्यतानिरूपकत्वकर्चेतद्वृत्तमिति बोधः। एवं तर्हि अर्हणक्रियाकत्तृवृत्तं भवति । एवञ्च राजवृत्ततुल्यमेतद्वृत्तमिति फलति । तदाह-राज्ञस्तुल्यमिति । राजवृत्तेन तुल्यं वर्त्तनमित्यर्थः । क्रियानुवृत्तेः फलं दर्शयति-राजानमिति । राजवद्वृत्तमस्येत्यादौ तृतीयासमर्थत्वाऽभावाद्वृत्तपदार्थस्याऽक्रियात्वाच्च 'तेन तुल्य'मित्यस्याऽप्राप्तेराह-तत्र तस्येवेति । शङ्कते-इहेति । राजपदद्वयमप्येकस्यैव वाचक, तदाह-भेदाऽभावा- दिति । सामान्यस्य विशेषाऽनालिङ्गितस्याऽभावादाह-प्रसिद्धविशेषेति । राजवदय- मिति । पृथुकत्र्तृ कवर्त्तनं पृथुराजयोग्यमित्यर्थः, न तु सादृश्यमिति। तदुक्तं- युक्तमौपयिकं राज्ञ इत्यर्थस्य निदर्शनम् । उपमानाऽविवक्षायां तदहमिति पठ्यते ॥' इति । चिच्छेद कृतहस्तवदित्यस्याऽपि-कृतहस्तयोग्यमेतदीयं छेदनमिति बोधः । एवञ्चाऽयमपि कुशल इति फलति । नन्वात्माायामित्यत्रात्मपदेन क्रियाग्रहणेऽसङ्गति मत्वा आह--द्वितीयान्तेति । द्वितीयान्तवाच्यार्थस्यात्मपदेन ग्रहणमिति भावः। १ 'तृतीयासमर्थात्तत्र प्रत्ययः' पा० । २ 'उत्पद्यते' पा० । ३ 'निश्चितं बलाधाने' इति पा० । । .. । ।
। ५ अ.११ पा.२ आ.१११८ सू.] ॐ महाभाष्यम् ३३७ उपसर्गाच्छन्दसि धात्वर्थे ।५।१।११८ अर्थग्रहणं किमर्थं--नोपसर्गाच्छन्दसि धातावित्येवोच्येत? ॥ धातु शब्दः ॥ शब्दे कार्यस्याऽसम्भवादर्थे कार्य विज्ञास्यते ॥ कः पुनर्धात्वर्थः ? ॥ क्रिया ॥ इदं तर्हि प्रयोजनम्-उत्तरपदलोपो यथा विज्ञायेत-धातुकृतोऽर्थो धात्यर्थ इति ॥ कः पुनर्धातुकृतोऽर्थः ?॥ साधनम् ॥ प्र.स्वार्थस्यान्ययोगनिवृत्त्यर्थं बलाधान-पुनरुपादानेन निश्चयनमित्यर्थः। यदा राज्ञः किश्चन वृत्तं प्रसिद्ध मेवान्यनिवृत्त्यर्थं पुनरुपादीयते-'राजानमेतदहति वृत्तं न त्वराजान'मिति- तदाऽर्थवदेतत्सूत्रम् । यदा त्वेकमेव वस्त्ववस्थाभेदपरिकल्पितभेदमुपमानोपमेयत्वेन विवक्ष्यते तदा नाथोंऽनेन योगेन । तथा चेवशब्दस्याऽपि प्रयोगो दृश्यते-'राजेवायं राजा युध्यते' 'वैयाकरण इवायं वैयाकरणो ब्रूते 'त्वमिवत्वं बुध्यस्वेति । तथा सदृशस्त्वं तवैवेति।। उपसर्गात् । अर्थग्रहणमिति । धातावित्येव धात्वर्थो लभ्यत इति भावः । धातु- वैशब्द इति । तत्रार्थग्रहणमन्तरेणार्थस्य ग्रहणं न स्यादिति भावः। येनाभिप्रायेण प्रश्नस्त. मेवाविष्कर्तुमाह-शब्दे कार्यस्येति । नहि बतिप्रत्ययस्य धातुर्वाच्य उपपद्यत इति सामर्थ्याद्धातुसहचरितोऽर्थ आश्रयिष्यत इत्यर्थः। अथवा 'धातु, शब्दः, शब्दे कार्यस्येत्येक- ग्रन्थ एवायम् । उत्तरपदलोप इति । गम्यमानार्थत्वादप्रयोग एव शब्दस्य लोपः । धातुकृत इति । धातुशब्देनाऽत्र धात्वर्थ उच्यते। क्रियाकृतोऽर्थ आश्रयिष्यत इत्यर्थः । क्रियया कारकं कर्मादिव्यपदेशयुक्तं क्रियते, क्रियापेक्षत्वात्कर्मादिव्यपदेशस्य । बहुव्रीह्या- श्रयाच्चायमों गृह्यते। धातुर्धात्वर्थः क्रिया, सा अर्थः प्रयोजनं यस्य साधनस्य तस्मिन्वर्त्त- मानादुपसर्गात्स्वार्थे वतिप्रत्ययः । वृत्तिविषये चोपसर्गः क्रियाविशेषे विशिष्टशक्त्याधारे च उ.] अर्हतेरिति । अहंधातोश्च योग्यतानिरूपकत्वमर्थः। तत्र वृत्तस्य कत्तृत्वम् , ब्राह्मणस्य योग्यताश्रयत्वात्कर्मत्वम् । ननु सर्वेणाऽपि स्वयोग्यक्रियाकरणादीदृशप्रयोगो निष्फलोऽत उक्त-निश्चितबलाधान इति । तयाचष्टे-निश्चितस्येति । तदेवोपपादयति-यदेति तदा नार्थ इति । तदुक्तम्-'तदहमिति नारब्धं सूत्रं व्याकरणान्तरे। सम्भव. त्युपमाऽत्राऽपि भेदस्य परिकल्पनात् ॥' इति । इदंचिन्त्यम् । 'त्वमिव त्वमि- त्यत्र द्वितीयसदृशव्यवच्छेदप्रतीतिरेव, न तु सादृश्यमिति सूत्रभाष्यकृतोरभिप्रायात् ॥ उपसर्गाच्छ । धातावित्येवेति । वक्ष्यमाणरोत्येत्यर्थः । 'वाररुचं काव्य'मित्यादौ शब्देऽपि कार्यदर्शनादाह-न हीति । एकग्रन्थ इति । एकवक्तृको ग्रन्थ इत्यर्थः । लोप- विधायकाऽभावादाह-गम्यमानेति। ननु धातुकृतोऽर्थः क्रियैवेति पूर्वस्मादविशेष इत्यत आह-धातुशब्देनेति । ननु साधनकृता क्रिया, न तु क्रियाकृतं साधनमत आह-क्रियेति। धातुशब्दस्य धात्वर्थकृते लक्षणायां बीजाऽभावादाह-बहुव्रीह्याश्रया- चेति । क्रियाविशेषशक्तीति । क्रियाविशेषनिरूपितशक्त्याधार इत्यर्थः । कचित्तु १ 'कार्यस्यासम्भव इत्यर्थे कार्यम्' इति पा०। २ 'त्वमिवबुध्यस्व'पा०। 'युद्धचस्व पा०). ३ 'क्रियाविशेषशत्तयाधारे' इति नागेशाभिमतः पाठः । २२ - , । ॐ कैयट-विवरणसहितं [तस्थभावस्त्व- किं प्रयोजनम् ? ॥ साधनेऽयं भवल्लिङ्गसङ्ख्याभ्यां योक्ष्यते-उद्गतानि उद्वतः। निगतानि निवत इति ॥ ॥७॥ स्त्रीपुंसाभ्यां वत्युपसङ्ख्थानम् ।। स्त्रीपुंसाभ्यां वत्युपसङ्ख्थानं कर्तव्यं । स्त्रीवत् पुंवदिति ॥ किं पुनः कारणं न सिध्यति ? ॥ इमो नमजी 'प्राग्भवना दिल्युच्येते, तौ विशेषविहितौ सामान्यविहितं वति बाधेयाताम् ॥ नैष दोषः । आचार्यप्रवृत्तिापयति-'न वत्यर्थे नसो भवत' इति-यदयं स्त्रियाः पुंवदिति निर्देशं करोति ॥ एवमपि 'स्त्रीव'. दिति न सिध्यति ॥ योगापेक्षं ज्ञापकम् ॥ [ उपसर्गाच्छन्दसि धात्वर्थे ] || तस्य भावस्त्वतलौ ।५।१।११९॥ 11 * ॥ स्त्रीपुंसाभ्यां त्वतलोरुपसङ्ख्यानम् ॥ * ॥ स्त्रीपुंसाभ्यां त्वतलोरुपस- यानं कर्तव्यम् । स्त्रीभावः स्त्रीत्वं स्त्रीता। मुभावः पुंस्त्वं पुंस्तेति ॥ किं पुनः कारणं न सिध्यति ? ॥ इमौ नननौ 'प्राग्भवना'दित्युच्येते, तौ विशेषविहितौ- सामान्यविहितौ त्वतलौ बाधेयाताम् ।। 11 * ॥ बावचनं च ॥ * ॥ वावचनं च कर्तव्यम् ॥ किं प्रयोजनम् ? ॥ नन्तजावपि यथा स्याता,-स्त्रीभावः-स्त्रैणं। पुंभावः-पौनमिति । अ.] द्रव्ये वर्त्तत इति तस्यार्थे विधीयमानस्य वतेः सत्त्ववाचित्वादन्वर्थसंज्ञाविज्ञानादलिङ्गा- प्रसंख्यस्य विधीयमानाऽव्ययसज्ञा न प्रवर्तते। साधनशब्देनाऽत्र शत्तयाधारो द्रव्यं विव- क्षितम् । उद्गतान्युद्वत इति । पुंस्त्वमत्र नपुंसकप्रसङ्गे छान्दसम् । वत्युपसङ्ख्यान- मिति । वतिप्रत्यये विधीयमान इत्यर्थः । इमौ ननजाविति। प्राग्भवनाद्येऽर्था- स्तानपेक्ष्य प्रकृतिविशेषाद्विधीयमानौ प्रकृतिसामान्याद्विधीयमानस्य पूर्वस्य सर्वस्य प्रत्ययस्य सर्वेष्वर्थेपु नस्नो बाधकौ, ततो बत्यर्थे वतिरुपसमाथायते। तेन चोपसङ्खथानेन विशि- ष्टार्थविषयेणाऽर्थान्तरे सावकाशी नस्नी बाध्यते। योगापेक्षमिति । 'स्त्रीपुंसाभ्या'- मिति योगो वत्यर्थे न प्रवर्तते इत्यस्यार्थस्य 'पुंव'दिति शापकमित्यर्थः। [उपसर्गाच्छन्द]॥ तस्यभा। वावचनं चेति । अन्यथाऽर्थान्तरे सावकाशयोननोरुपसङ्ख्थानविहिताभ्यां उ.) क्रियाविशेषे विशिष्टशक्त्याधारद्रव्ये चेति पाठः। तत्र क्रियाविशेषे-उद्गमनरूपे, तन्नि- कपितशक्त्याधारद्रव्ये चेत्यर्थः। ननु साधनं शक्तिरिति पर्यायौ तत्कथं लिङ्गादियोगोऽत आह-साधनशब्देनेति। ननु 'वतेरुपसङ्ख्यान'मित्यनेन विहितो वतिः सर्वार्थ स्वार्थे एव वा स्यादत आह-वतिप्रत्यये इति । ननु नव्स्नावप्यर्थमादाय सामान्यौ, वतिरपि प्रकृतिमादायेति कथं बाध्यबाधकभावोऽत आह-प्राग्भवनादिति। तान्सानिति तत्तद्रूपेणेत्यर्थः । [ उपसर्गाच्छन्दसि ] ॥११८ ॥ तस्य भावस्त्व । ननूपसशथानसूत्राभ्यामुभयोः सिद्धौ वावचनं व्यर्थमत आह- १ कि प्रयोजनं कृतं भवति'पा०।२दित्युच्यते पा०।३ 'दित्युच्यते। ४ चकारःक्वचिन्नास्ति । ।
५ अ.१पा.३२आ.।११९ सू.] महाभाध्यम ३३९ ॥ ॥ अपवादसमावेशाद्वा सिद्धम् ।।*।। अपवादसमावेशाद्वा सिद्धमेतत्। तद्यथा- इमनिप्रभृतिभिरपवादैः समावेशो भवत्येवमाभ्यामपि भविष्यति । नैवेश्वर आज्ञापयति नाऽपि धमसूत्रकाराः पठन्तीमनिप्रभृतिभिरपवादैः समावेशो भवतीति ॥ कि तर्हि ? ॥ 'आ च त्वादित्यस्मायलादिमनि. प्रभृतिभिरपवादैःसमावेशोभवति, न चैतावत्राभ्यन्तरौ॥ एतावप्यत्राऽभ्यन्तरौ॥ कथम्?॥ 'अपवादसदेशा अपवादाभवन्तीति । एतच्चैव न जानीमः-अपवादसदेशा अप्यपवादा भवन्तीति ? ॥ प्र.] विशिष्टार्थविषयाभ्यां त्वतेल्भ्यां बाधः स्यात् । अपवादसमावेशावति । वाशब्दः पूर्वोक्तवचनव्यावृत्त्यर्थः । वावचनं न कर्त्तव्यमपवादसमावेशात्सिद्धत्वादित्यर्थः। यथा प्रकृतिविशेषाद्विधीयमानैरिमनिजादिभिस्वतलौ समाविशत एवं नन्नभ्यामित्यर्थः। नैवेश्वर इति । ईश्वरभयाविरुद्धमप्यनुष्ठीयते । नापीति। तेषां हि वचनमदृष्टेऽर्थे प्रमाणम् । एतेन दृष्टाऽदृष्टार्थाऽभाव उक्तः। यतादिति। नस्लओश्चासौ यत्नो न व्याप्रियते, 'आ चत्वा'दित्य- स्मात्सूत्रादूर्ध्वमा त्वसंशब्दनान्नम्नओरसंनिधानात् । एतावप्यनेति । प्राग्भवनाव प्रतिसूत्रमुपस्थानात्वतलापवादरिमनिजादिभिः समानदेशौ नजनावित्यर्थः। एतच्चैव न जानीम इति । विध्यधिकारपरिभाषारूपसंभवादन्यतमरूपनिश्चयाभावात् । तत्राऽधि. कारपक्षे कार्यकालपरिभाषापक्षे च प्रतिसूत्रं प्रत्यर्थं चोपस्थानास्स्यादनयोरभ्यन्तरत्वम् । यदा तु प्राग्भवनाद्येऽस्तानपेक्ष्य नन्नौ विधीयते यथोद्देशं वा परिभाषाऽऽनीयते तदा नास्त्यनयोरभ्यन्तरत्वम् । तथा च ‘ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्व विप्रतिषिद्ध मिति पूर्व विप्रतिषेधो विधियथोद्देशपरिभाषापक्षयोरेव संभवति न तु प्रतिसूत्रमुपस्थाने । उ.] अन्यथेति । ननु युक्तिवचनयोः समत्वाऽभावाद्विकल्पार्थो वाशब्दोऽनुपपन्नोऽत आह- वाशब्द इति । निपातानामनेकार्थत्वात्त्वर्थो वाशब्द इति भावः । पूर्वोक्तवचनं-स्त्री. साभ्यां त्वतलो रित्येतत् । ईश्वरो-राजा । 'ब्रह्मणस्त्व' इत्येतत्पर्यन्तं त्वतलोरधिकार इत्या च त्वादित्यस्याऽर्थः। नन्वस्य विधित्वादिमनिजादिसमानदेशत्वमसिद्धमत आह-प्राग्भवनादिति । अधि- कारत्वादिति भावः । ननु नदीस्रोतोन्यायेनाऽधिकारे निश्चिते 'एतच्चैव न जानीम' इत्ययुक्त- मत आह-विध्यधिकारेति । एवञ्च विधित्वस्याऽपि सम्भवान्न जानीम इत्युक्ति:- न निश्चितुम इत्यर्थिकेति भावः । प्रतिसून प्रत्यर्थञ्चेति । भवनात्प्राक्तनोऽथों यत्रयत्र सन्निहितस्तत्रतत्र परिभाषापक्षेऽप्युपस्थानादित्यर्थः। यथोद्देशं वेति । 'स्त्रीपुंसाभ्यां नरन- जा वित्यनेन तौ विधाय 'प्राग्भवना दित्यं शो नस्नानुवृत्त्याऽर्थनियमार्थतया परिभाषात्वेन व्याख्येय इति भावः । ज्यादय इति । दित्यदित्यादिसूत्रविहिता ण्यादयः। प्रतिसूत्र- मनुवृत्तौ हि उपस्थितिसामर्थ्यादेव बाधसम्भव इति तस्याऽऽनर्थक्यमिति भावः। यथो- द्देशेति । इदचिन्त्यमितीको गुणवृद्धी इत्यत्र निरूपितम् । विधित्वमेव तूचितं, सर्वतस्तस्य १ स्वतलाभ्यां पा० । ।
। * कैयट-विवरणसहित [तस्य भावरत्व- अपि च कुत एतत्-एतावप्यत्राभ्यन्तराविति, न पुनः पूर्वी वा स्यात परौ वा? ॥ एवं तर्हि वक्ष्यति-आ च स्वादित्यत्र चकारकरणस्य प्रयोजनं- 'नतम्यामपि समावेशो भवतीति ॥ ॥ * ॥ तस्य भाव इत्यभिप्रायादिध्वतिप्रसङ्गः ॥ * ॥ तस्य भाव इत्यभिप्राया- दिष्वतिप्रसङ्गो भवति। इहापि प्राप्नोति- अभिप्रायो देवदत्तस्य मोदकेषु भोजने'। ये नो भावास्ते नो भावाः-पुत्राः पुत्रैश्चेष्टन्त इति ॥ * ॥ सिद्धं तु यस्य गुणस्य भावाद्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ ।। * | सिद्धमेतत् ॥ कथम् ? | 'यस्य गुणस्य भावाद्रव्ये शब्दनिवेशस्तदभिधाने-तस्मिन् गुणे वक्तव्ये- प्र.] न पुनरिति । कार्यकालपरिभाषापक्षेऽपि प्राग्भवनाद्येऽस्तित्र नस्तब्भ्यामुपस्थात- व्यम् । तत्र यदि तावद्भाव इत्यर्थनिनिमात्र एव ननभावुपतिष्ठेते-'तस्यभावस्त्वतलौ' 'स्त्रीपुंसाभ्यां भावे नन्ना'विति, तदाऽस्मिन्प्रदेशे संनिधानादाचत्वादित्येतस्मात्सूत्रात्पूर्वी ननौ भवतो नाभ्यन्तरौ । अथ तूत्सर्गापवादविधानोपयोगविज्ञानानन्तरं नन्नोरुप- स्थानं तदा 'ब्रह्मणस्त्व' इत्येतस्मात्परौ ननौ भवतः-तथापि नाभ्यन्तरौ । 'गुणवचन- ब्राह्मणादिभ्यः कर्मणि चेत्यत्र तु प्रकृतिविशेषसम्बद्धस्य कर्मार्थस्योपादानात्प्रकृत्यन्तरेण तस्याऽसम्बन्धात्कर्मणि नग्नोरनुपस्थानादभ्यन्तरत्वं नाशङ्कनीयम् । एवं तहीति । 'च'शब्देन यलेन समावेशः सिध्यति । एतच्च तत्रैव व्याख्यास्यते। अभिप्रायादि- विति । अनाश्रितप्रवृत्तिनिमित्तविशेषो भावशब्दवाच्यो यावान्कश्चिदर्थस्तस्य सर्वस्य विशेषानुपादानाद्णस्य न्याय्यत्वादतिप्रसङ्गः। ये नो भावा इति। अस्माकं येऽभि. प्रायास्ते नित्यमेवास्माकं भवन्तीत्यर्थः। भवन्तीति भावाः। 'भवतेश्चेति वक्तव्य मिति कर्तरि णः । यस्य गुणस्येति । गुणशब्देन यावान्कश्चित्पराश्रयो भेदको जात्यादिरर्थः स उ.] लघुत्वात्। अभ्युपेत्याऽपि परिभाषात्वं भाष्ये दूषणाऽन्तरमाह-अपि चेति । तयाचष्टे- कार्यकालपरिभाषापक्षेऽपीति । 'अर्थनिनिमात्र एवेति पाठे निर्ज्ञानमपि ज्ञानमेव, सामान्यतो ज्ञानं वा। अत एवाऽग्रे 'विज्ञाने त्युक्तं,-विशिष्टज्ञानेत्यर्थकं । तत्तत्प्रकृत्याद्य- पवादाचाकासानिवृत्त्यनन्तरमन्यस्मरणाऽवकाशः । उपयोगो-लक्ष्यम् । ननु कर्मणि तयों- रुपस्थित्याऽभ्यन्तरत्वमत आह-गुणवचनेति । भावशब्दोऽस्त्यभिप्रायवाची, यथा 'अयम्भाव" इति । पदार्थमानेऽपि यथा--'विचित्रा भावशक्तय' इति । अस्ति च शृङ्गारादिस्थायिसञ्चारिषु- 'स्थायीभावः, 'सञ्चारीभाव' इति। [घअन्तस्तु] कत्त वर्जितकारके च। 'यस्य चमावेने त्यादी धात्वर्थवचनः। प्रवृत्तिनिमित्तवाची चेत्यभिप्रायेणाह भाष्ये-अभिप्रायादिष्विति। तद्या- चष्ट-अनाश्रितेति । 'ये नो भावा' इति भाष्येण 'भाव'शब्दस्याऽभिप्रायवाचित्वे लौकिकः प्रयोगः प्रमाणत्वेन दर्शितः । अभिप्रायभवनमेव दर्शयति भाष्ये-पुत्राःपुनश्चेष्टन्त इति। ननु घटत्वमित्यादौ त्वाऽनापत्तिः नाऽयं गुणप्रवृत्तिनिमित्तकोऽत आह-गुणशब्देनेति । १ 'वक्ष्यते आचत्वात् पा०।२ 'चकारकरणे'पा० । ३ 'तस्यभावादित्यभिप्रायादिषु' पा० । ४'भोजने' इति कचिन्नास्ति।५ पौत्रैश्चेष्टन्ते' इति,'पुत्राः पुत्रैः पठन्ति इति च पा०१६'ये प्रियाः। - . - . ।
५ अ.१ पा.।२ आ.।११९ सू.] महाभाष्यम् , प्रत्ययेन भवितव्यं, न चाऽभिप्रायादीनां भावाद्रव्ये देवदत्तशब्दो वर्तते ॥ प्र. सर्व इह गृह्यते । 'यस्य भावा'दित्येतावत्युच्यमाने पुत्रस्य भावात्पितरि पितृशब्दप्रव- तनात्पितृत्वमिति पुत्रेभावप्रत्ययः स्यात्, पुत्रत्वमिति च पितरीति,-गुणग्रहणम् । भावात्- विद्यमानत्वादित्यर्थः । द्रव्यशब्देन विशेष्यभूतस्सत्त्वभावापन्नोऽर्थ उच्यते । तस्मिन्द्रव्ये शब्दनिवेशः-शब्दस्य प्रवृत्तिर्यस्य गुणस्य-शब्देन वाच्यस्याऽवाच्यस्य वा-भावात्स स्वतलाभिधेय इत्यर्थः । तन्न ये रूपादयः शब्दा गुणमात्रवृत्तयस्तेभ्यो गुणसमवायिनि सामान्ये भावप्रत्ययः-रूपत्वमिति। ये तु शुक्लादयो गुणगुणिवृत्तयो गुणगुणिनोरभेदो. पचारान्मतुब्लोपाद्वा, तेभ्यो गुणवृत्तिभ्यो गुणसमवायिनि सामान्ये भावप्रत्ययः, गुणि- वृत्तिभ्यस्तु गुणे । अणुमहद्दीर्घादयो नित्यं परिमाणिनि वर्त्तन्ते न तु परिमाणमात्र, तेन तेभ्यः परिमाणे गुणे भावप्रत्ययः । षत्वं णत्वमिति भिन्नवर्णव्यक्तिसमवेते सामान्यविशेषे प्रत्ययः । गवादयो यदा जातिमात्रवाचिनस्तदा तेभ्यः शब्दस्वरूपे प्रत्ययः। तथा हि- अर्थे जातौ शब्दस्वरूपमध्यस्यते,-यो गोशब्दः स एवार्थ इति,-ततः शब्दस्वरूपमेव तत्र प्रवृत्तिनिमित्तं नान्यत् । द्रव्यवाचिभ्यस्तु गवादिभ्यो जातौ प्रत्ययः । समासकृत्तद्धितास्तु यद्यपि केवलं सम्बन्धं नाभिदधति तथापि सम्बन्धिनि वर्तमानाः सम्बन्धं प्रवृत्तिनिमित्त- मपेक्षन्त इति तेभ्यः सम्बन्धे भावप्रत्ययः । तथा च-'राजपुरुषत्व'मिति स्वस्वामि- भावः प्रतीयते । 'पाचकत्व'मिति क्रियाकारकसम्बन्धः । 'औपगवत्व'मिति-अपत्यापत्यव- उ.]न तु नैयायिकादिसम्मत एवेति भावः। विद्यमानत्वादिति । युद्धावित्यादिः । तान्त्रि- कद्रव्यग्रहणे रूपत्वमिति भावप्रत्ययाऽनुपपत्तिरत आह-द्रव्यशब्देनेति । विशेष्यभूत- त्वस्य क्रियायामपि सत्वात्तद्ध्याचष्टे-सत्वभावापन्न इति । लिङ्गसङ्ख्यादिविशेष्यभूत- इत्यर्थः । प्रवृत्तिः । तद्बोधनार्थ'मिति शेषः। वाच्यस्येति । इदञ्च 'विशिष्टे शक्ति'. रिति मते, 'धर्मे एव शक्ति'रिति मते च । व्यक्तिमात्रं पदार्थ इति मत आह-अवाच्य- स्य वेति । तत्र तत्र शब्दे प्रवृत्तिनिमित्तानि स्पष्टप्रतिपत्तये दर्शयति-तत्र ये इति । सामान्ये-रूपत्वादौ । गुणिवृत्तित्वमुपपादयति-अभेदेति । सामान्ये -गुणगतशुक्ल- स्वादिजातौ । नित्यं परिमाणिनोति। परिमाणं चतुर्दा,-अणु महद्ध्वस्व दीर्घञ्चे- त्यादावण्वादयः शब्दा अण्वादिवृत्तौ लाक्षणिका बोध्याः । भिन्नवर्णेति । उच्चारणभेदेन भेदं वर्णानां मन्यते, औपाधिकभेदेन वा । जातिमात्रेति । 'जात्याख्याया'मिति सूत्रा- त्तद्वाचिता बोध्या । अध्यस्थत इति । अनादिलोकपरम्परयेत्यर्थः । अध्यासमेव दर्शयति- यो गोशब्दः स एवार्थ इति । प्रवृत्तिनिमित्ततदाश्रययोश्च सर्वत्राध्यासिकं तादात्म्य- मेव सम्बन्ध इति भावः । केवलमिति। जातिगुणप्रवृत्तिनिमित्तकशब्देषु यथा केवलौ जातिगुणौ वाच्यौ, आश्रयस्य त्वाक्षेपादिना लाभस्तथा नाऽत्र, सम्बन्धयनालिङ्गिन्तसम्बन्ध- भानाऽभावादिति भावः । सम्बन्ध प्रवृत्तिनिमित्तमिति । राजसम्बन्धशानादेव पुरुषे राजपुरुषपदप्रवृत्तिरिति तस्य प्रवृत्तिनिमित्तत्वम् । एवं नामवाच्यक्रियया भेद- स्यैत्र प्रतीतेस्तत्र सम्बन्धज्ञानादेव शब्दस्य प्रवृत्तिः । जातिगुणयोस्तु स्वरूपज्ञानादेवेति - । ।
कैयट-विवरणसहित [तस्य भावस्त्व- किं पुनद्रव्यं के गुणाः ? ॥ शब्दस्पर्शरूपरसगन्धा गुणास्ततोऽन्य- प्र.] त्सम्बन्धः । केचिदौपगवत्वमित्यपत्यप्रत्ययान्ताद्भावप्रत्ययस्य जातिमभिधेयामिच्छन्ति, तन्मतेऽर्थान्तरवृत्तिस्तद्धित उदाहार्यः। उक्तच--'समासकृत्तद्धितेषु सम्बन्धाभिधानमन्यत्र अन्धभिन्नरूपाऽव्यभिचरितसम्बन्धेभ्य' इति । रूढिशब्दा गौरखरसप्तपर्णलोहितशाल्यादयो जातिविशेषावच्छिन्नद्रव्यवाचिन इति तेभ्यो जातावेव भावप्रत्ययः । एवं कुम्भकारत्वं इस्तित्वमिति । अभिन्नरूपाः-शुक्लादयो मतुब्लुकि विज्ञायमाने यद्यपि तद्धितान्तास्तथापि तेभ्यो भावप्रत्ययो गुण एव भवति न तु सम्बन्धे। गुणगुणिनोर्जातितद्वतोरिव सोऽय. मित्यभिसम्बन्धेन लोकनिरूढेन भेदसम्बन्धस्य न्यग्भावाद्गुणवचनेभ्यो लुगिति लुम्विधान- दारणाऽभेदेनैव गुणिनोऽभिधानं न तु भेदं कृत्वा मत्वर्थोत्पत्तिरित्याख्यायते। अव्यभिचरित- सम्बन्धात्-सतो भावः सत्तेति जातावेव भावप्रत्ययः । नहि सद्वस्तु सत्तासम्बन्धं व्यभि. चरतीति सत्तासम्बन्धानपेक्षणान्न सम्बन्धे प्रत्ययः । राजपुरुषयोस्तु सम्बन्धस्य कादाचि- कत्वात्तदपेक्षो राजपुरुषशब्दः स्वार्थमभिधत्त इति ततः सम्बन्धे प्रत्ययो युक्तः । तस्मा- सत्नु सर्वेषु पदार्थेषु नित्यसमवायिनी शब्दप्रवृत्तिहेतुः सत्त्व भावप्रत्ययवाच्या न तु सत्स- सयोः सम्बन्धः समवायाख्यः। 'धवखदिरत्व'मिति जातिद्वन्द्वाजातिसमुदाये। 'कुत्व'मित्यादौ सशास्वरूपे सशिवध्यरते प्रत्ययः । अन्ये तु सशासन्झिसम्बन्ध इत्याहुः ।। किं पुनरिति । प्रकृतिप्रत्ययार्थयोर्भेदप्रतिपत्त्यर्थः प्रश्नः। शब्दस्पर्शति । एत- उ.]भावः । क्रियाकारकसम्बन्धः-कर्तृत्वादिरूपः। 'पाचकपदं पाकसम्बद्धकर्तरि शक्त'- मिति-शक्तिग्रहात्कृत्स्वेकार्थीभावाङ्गीकारात् । न चैषां क्रियाप्रवृत्तिनिमित्तकत्वव्यवहाराऽ. नापत्तिः; क्रियासम्बन्धप्रवृत्तिनिमित्तक इत्येव तदर्थात् । क्रियापदश्च सम्बन्धप्रवृत्तिनिमित्तक.. शब्दमात्रोपलक्षणं, तेन 'चतुष्टयी शब्दानां प्रवृत्तिरित्यस्य न हानिरिति बोध्यम् । केचिदिति । 'गोत्रञ्च चरणैः सहे'त्यनेन तस्यापि जातित्वबोधनादिति तद्भावः। तथा च 'जात्याख्याया'मिति सूत्रे औपगवादयोऽप्युदाहृता भाष्यकैयटयोः । जातावेवेति । सम्बन्धस्याऽभावात् । जातेस्तु व्यक्त्यभेदेनैव भानमिति न तत्सम्बन्धस्याऽपि प्रतीतिरिति मावः। जातितद्वतोरिवेति दृष्टान्तः।भेदसम्बन्धस्य-तन्मूलकसम्बन्धस्येत्यर्थः। न्यम्भा. वादिति । नीलोत्पलमित्यादावपि तन्न्यग्भावेन तदुत्तर त्व'प्रत्ययेन नीलरूपमुत्पलत्वं चोच्यत इति बोध्यम् । ननु 'पटस्य शु' इतिवद्भेदविवक्षायां मत्वर्थीयोऽपि तेभ्यः स्यादिति वार्तिकमते सम्बन्धाऽभिधानमेव स्यादत आह-लुग्विधानद्वारेणेति । न हीति । 'सत्'पदं हि सत्ताऽभेदेनैव बोधक, न तु सत्तासम्बन्धेन । शतृप्रत्ययस्तु कर्तृत्वारोपेणो- पपाद्य इति भावः । तस्मात्सर्वेष्विति । सत्पदार्थेष्वित्यर्थः । क्वचित्तु 'सत्सु सर्वेष्वि'- त्येव पाठः । जातिसमुदाये इति । तस्याऽनुभूताऽवयवभेदत्वविवक्षयैकवचनम् उद्भूताऽवयवभेदत्वे तु द्विवचनादिकमपि बोध्यम् । संज्ञिष्वध्यस्ते इति । शब्दार्थयोर- मेदाऽध्यवसायाजातिवद्विशेषणतया भासमाने इत्यपि बोध्यम् । तदभेदज्ञानादेव हि तत्र १ 'के पुनर्गुणाः' पा० । २ 'रसरूपशब्दस्पर्शगन्धाः' इति पा० । ३ 'संज्ञिन्यध्यस्ते' पा० । -- । - । ५.१ पा.२ आ.।११९ सू.] महाभाष्यम् ३४३. द्रव्यम् ॥ किं पुनरन्यच्छब्दादिभ्यो द्रव्यमाहोस्विदनन्यत् ? ॥ गुणस्याऽयं भावाव्ये शब्दनिवेशं कुर्वन् ख्यापयत्यन्यच्छन्दादिभ्यो अध्यामिति ॥ अनेन्यच्छब्दादिभ्यो द्रव्यं, न ह्यन्यदुपलभ्यते । पशोः खल्वपि विशसितस्थ पर्णशते न्यस्तस्य नाऽन्यच्छब्दादिभ्य उपलभ्यते ॥ प्र. चोपलक्षणं-पराश्रयस्य सर्वस्य भेदकस्य जात्यादेरिह गुणत्वेनाभिमतत्वात् । विशेष्यस्य सर्वनाम प्रत्यवमृश्यस्य द्रव्यत्वेन तत एतदुक्तं भवति,-यथा शब्दादय आश्रिताः संसर्गिणो गुणा एवमन्योपि जात्यादिधर्मो गुण इति । किं पुनरन्यदिति-भेदावगतिहेतुप्रमाण- प्रश्नः । अयमिति। तात्त्विकभेदाभेदचिन्तापरिहारेण लोकप्रसिद्धं भेदमाश्रित्य प्रत्ययार्थ आचार्येण व्यवस्थापित इत्यर्थः । न ह्यन्यदिति। असत्यपि भेदे लोके भेदव्यवहार- दर्शनान्नास्ति ततो भेदनिश्चयः । न च रूपादिव्यतिरेकेण द्रव्यं प्रत्यक्षेणोपलभ्यते, रूपादि- सन्निवेशमात्रे धादिव्यवहारात् । पशोः खल्वपीति । उपलब्धिलक्षणप्राप्तस्य द्रव्य. स्याऽनुपलम्भादसत्त्वनिश्चयो युक्त इति भावः । पर्णशते न्यस्तस्येति । बहुधा विभक्त- उ.] क्वादिशब्दप्रवृत्तिरिति तस्य प्रवृत्तिनिमित्ततेति भावः । इत्याहुरिति । शब्दार्थयोर्भेद- वादिमत इदम् । वाचकत्वमेव सम्बन्धस्तज्ज्ञानाद्वाचकत्वग्रहाऽसम्भव इत्यत्राऽसचिः॥ 'नानात्वं' 'सहत्वं' 'योगपद्यमित्यादौ 'नाना'शब्दोऽसहभूते, 'सह'शब्दः सहभूते वृत्तौ वर्ततेऽतोऽसहभावादौ प्रत्यय इति बोध्यम् । एवञ्च यज्ज्ञानादर्थे शब्दस्य प्रवृत्तिः स प्रत्ययार्थः । प्रकृतिरर्थपरैव । प्रवृत्तिनिमित्तत्वेन च तच्छक्यम् । बोधस्तु समभिव्याहारा- द्विशिष्यैव, तथैवाऽनुभवात् , वार्तिकस्वारस्यान्च, शक्तताऽवच्छेदकञ्च त्वतत्त्वादीत्यादि बोध्यम् । भेदप्रतिपत्त्यर्थ इति । 'स्त्रिया'मिति सूत्रभाष्योक्ते 'गुणसमूहो द्रव्य'मिति मते समूहसमूहिनोभेंदाऽभावादिति भावः । भाष्ये-ततोऽन्यदिति । प्रत्येकाऽतिरिक्त- समूहरूपमित्यर्थः । एतदुक्तमिति । 'शब्द'त्यादिभाष्यं संसर्गिभेदकपरमिति तात्पर्यम् । 'ततोऽन्यद्रव्य'मित्युक्ते पुनरन्यत्वाऽनन्यत्वविषये प्रश्नोऽयुत्तोऽत आह-हेतुप्रमाणेति । तेभ्योऽन्य व्यमिति प्रमाणसिद्धं वोताऽनन्यदिति प्रमाणसिद्धं वेति प्रश्नभाष्यार्थ इति भावः । भाष्ये-गुणस्याऽयम्भावादिति । अयम्-वार्तिककारः। कुर्वन्-वदन् । ननु तद्वाक्याऽवगतेऽर्थे प्रमाणं पृच्छन्तम्प्रति तद्वाक्यस्यैव प्रमाणवेनोपन्यासोऽयुक्तो- ऽत आह-तात्त्विकेति । एवञ्च त्वदीयोऽयम्प्रश्नो निर्विषय इति भावः । लोकप्रसिद्ध- मिति । लोकव्यवहारार्थे शास्त्रे लोकप्रसिद्धपदार्थस्यैवाश्रयणं युक्तमिति भावः । वास्तव- भेदस्तु नास्त्येवेति तात्पर्यम् । असत्यपीति । यथा मृद्धटयोास्तवभेदाऽभावेऽपि लोके 'मृदो घट' इति भेदव्यवहार इत्यर्थः। एवञ्च भ्रान्तलोकव्यवहारेण कथं शास्त्रार्थनिर्णय इति भावः। न च रूपादीति । एवञ्चाऽनुपलब्धिप्रमाणेनाऽन्यत्वाऽभावनिश्चय इत्यर्थः । अनुपलब्धिप्रमाणमेव द्रढयति भाष्ये-पशोरिति । तयाचष्टे-उपलब्धीति । एवध विविक्ततया ग्रहणाऽभावादसत्वनिश्चय इत्यर्थः । उपलब्धिलक्षणं प्रमाणमेव सत्त्वनिश्वाय- १'व्याख्यापयति' पा० । २ अन्यच्छब्दादिभ्यो' पा०1३ 'सर्वनाम्ना' पा। - ।
ॐ कैयट-विवरणसहित [तस्य भाव- अन्यच्छब्दादिभ्यो द्रव्यं तत्त्वानुमानगम्यम् । तद्यथा, ओषधिवनस्पतीनां वृद्धि हासौ, ज्योतिपां गतिरिति ॥ कोऽसावनुमानः ? ॥ इह समाने वर्मणि परिणाहे चाऽन्यत्तुलाग्रं प्र.] स्येत्यर्थः । एतेन भागानां परस्पराव्यवधानेन व्यवधानस्याऽनुपलब्धिकारणस्याऽभावः प्रतिपादितः। नन्ववयव विभागात्संयोगनिमित्तावविद्गव्यस्य विनाशादनुपलम्भः स्यात् । एवं त पलब्धिलक्षणप्राप्तस्य सर्वदाऽनुपलम्भादसत्त्वनिश्चयोऽस्तु। अनुमानगम्यमिति । यद्यपि गुणव्यतिरिक्तद्रव्यवादिभिः प्रत्यक्षप्रमाणवायं द्रव्यमभ्युपगतं, रूपाद्यालम्बनप्रत्यय- विलक्षणपदार्थालम्बनप्रत्ययोत्पादात् , तथापि प्रत्यक्षे विप्रतिपन्नं प्रति साक्षिस्थानीयानु- मानोपन्यासः। प्रत्यक्षापलापिनं प्रति प्रत्यक्षपूर्वकानुमानासम्भवात्सामान्यतोदृष्टमनुमानमुप. न्यस्यते-ओपधिवनस्पतीनामिति । भाष्यकारवचनाजातिरप्राणिनामित्येकवद्भावो न भवति । ओषध्यादीनामुपचयापचयपूर्वको देशविशेषसम्बन्धो दृष्ट इति वनस्पत्यादीना. मथुराद्यवस्थालु दृष्टानां कालान्तरे देशविशेषसम्बन्धदर्शनादुपचयापचयानुमानम् । ज्योतिषां गतिरिति । गतिपूर्विका देशान्तरप्राप्तिमश्वादीनामुपलभ्याऽऽदित्यादीनां देशा- न्तरप्राप्त्या गत्यनुमानम् । कोऽसावनुमान इति । अनुमीयतेऽनेनेत्यनुमानशब्देन हेतु- रुच्यते । समान इति । वम-उच्छायः। परिमाणं-पारिमाण्डल्यम् । क्वचित्परि- णाह इति पाठः। परिणाहः-पारिमाण्डल्यमेव । अन्यत्तुलाग्रमिति । तुल्याग्रस्यान्य- थात्वं नामोन्नामलक्षणं, गुरुत्वभेदात् । गुरुत्वस्य च समवायिकारणं द्रव्यमिति रूपादि- उ.] कम् , उपलब्धिलक्षणात्प्रमाणात्प्राप्तस्य प्राप्तसत्त्वनिश्चययोग्यस्याऽनुपलम्भादसत्त्वनिश्चय इत्यर्थः । एतेनेति । भागानां मेलने हि तत्कृतव्यवधानादनुपलब्धिः सम्भाव्यत इति भावः । एवन्तीति । अतिरिक्तद्रव्यस्य तन्नाशस्य च कल्पनाऽपेक्षयाऽनन्यत्वं लब्ध- मिति भावः। विलक्षणेति । 'रूप' रस' इत्यादितो विलक्षणरूपवद्रसवदित्यादिद्रव्यरूप- पदार्थविषयप्रत्ययेत्यर्थः । विप्रतिपन्नमिति । पुरुषप्रतीतेन्तित्वसम्भवादिति भावः । सामान्यतो दृष्टमिति । 'द्रव्यं गुणेभ्योऽन्यत् , विशेषवत्त्वात्, यद्यतो विशेषवत्तत्ततो- ऽन्यत, यथा लोकार्पासे परस्परस्मात् । यदि प्रत्येक द्रव्यत्वं स्यात् , उच्छ्रायविस्तारयोः साम्यात्तयोरेकत्वापत्त्या तुलाग्रादिविशेषाऽनुपपत्तेः । प्रत्येकाऽतिरिक्तस्य तत्तद्गुणविशेष- घटितगुणसमूहरूपस्य नानागुरुत्वादिभिरधिकगुरुत्वादिमत्त्वेन भाष्यप्रदर्शितविशेषसिद्धि. रित्यतिरिक्तसमूहरूपद्रव्यसिद्धिरिति भाष्याऽभिप्रायः । भाष्यकारेति । द्रव्यप्राधान्य- विवक्षयेत्याशयः । 'कुड्यादीनामुपचयापचयपूर्वक' इति पाठः । 'ओषध्यादीना'मित्य- पपाठः । तेषामपि पक्षत्वेन भाष्ये उपन्यासात् । येऽश्वादिक्रियायाः प्रत्यक्षत्वं मन्यन्ते, तन्मतेऽप्यतुमानविषयत्वं ज्योतिषां गते रिति तदुपन्यासः। प्रमाणवाच्यनुमानशब्दस्य नपुंसकत्वात्पुंस्त्वाऽनुपपत्तेराह-अनुमीयतेऽनेनेति । प्रकृते को हेतुरिति भाष्याक्षरार्थः। पारिमाण्डल्य-विस्तारः। ननु तुलाग्रस्य भेदाऽभावादाह-नामोन्नामेति। नमनो- न्मनेत्यर्थः । गुरुत्वभेदादिति । तद्भेदश्च समवायिकारणभेदाऽधीन इति द्रव्यमतिरिक्त ।
.. ५.११ पा.१२ आ.।११९ सू.] ॐ महामाध्यम भवति लोहस्याऽन्यत्कापसानो। यत्कृतो विशेषस्तव्यम् । तथा-कश्चि- स्पृशन्नेव छिनत्ति कश्चिल्लम्बमानोऽपि न छिनत्ति । यत्कृतो विशेषस्त- द्रव्यम् । तथा-कश्चिदेकेनैव प्रहारेण व्यपवर्ग करोति कश्चिद्वाभ्या- मपि न करोति। यत्कृतो विशेषस्तव्यम् ॥ अथवा यस्य-गुणान्तरेष्वपि प्रादुर्भवत्सु तत्त्वं न विहन्यते तव्यम् ॥ किं पुनस्तत्त्वम् ? ॥ तद्भावस्तत्त्वम् । तद्यथा-आमलकादीनां फलानां रक्तादयः पीतादयश्च गुणाः प्रादुर्भवन्ति, 'आमलक' 'बदर मित्येव भवति । अन्वर्थ खल्वपि निर्वचनं-गुणसंद्रावो व्यमिति ॥ प्र.] व्यतिरिक्तद्रव्यसिद्धिः। विशेष इति । तुलाग्रस्य नामोन्नामलक्षणो भेद इत्यर्थः । स्पृशन्नेवेति । खड्गादिः। लम्बमानोऽपीति। कार्पासादिः। व्यपवर्गमिति । विभागम् । तत्वमिति । एकाकारबुद्धिः । निमित्तत्वमित्यर्थः । यदि रूपाचालम्बनैवामलकादिबुद्धिः स्यात्तदा पूर्वरूपादिविनाशादपूर्वरूपादिप्रादुर्भावाच्च तदेवेदमामलक मिति प्रत्यभिज्ञाप्रत्ययो नोत्पद्येत, अस्ति च भिन्नाकारवुद्ध युत्पत्तिस्तस्मादस्ति रूपाश्रयो द्रव्यम् । एतच्च पाकज. रूपाद्युत्पत्तौ ये द्रव्यविनाशं नेच्छन्ति त-मतेन द्रव्य प्रत्यभिज्ञानयेणोक्तम् । ये तु पाकज. उ.] सिध्यति । भाष्ये-तद्रव्य मित्यस्य तदाश्रयो द्रव्यमिति भावः । अत्र वदन्ति-एवं हि रूपादिसमवायिकारणतयैव द्रव्यसिद्धावेतत्पर्यन्तधावनवैफल्यापत्तिः। किञ्चाऽतिरिक्तस्यैक- गुरुत्वाश्रयस्याऽभावेऽपि दशगुजाभिरल्पगुआभ्योऽधिकाभ्यश्च नामोन्नामोऽनेकगुरुत्वैरेव दृष्टः, तद्वदत्राऽपि तैरेव द्रव्याऽनतिरिक्तैस्तदुपपत्तौ न तदतिरिक्तद्रव्यसिद्धाविदं मानम् । किचैवं पटादौ सूत्रादिभ्योऽधिकगुरुत्वाद्युपलम्भापत्तिः। तस्माद्यत्कृतो विशेष इति भाष्यस्य कार्पासादधिकगुरुत्वसमूहकृतो विशेषः, तत्समूहो द्रव्यमित्यक्षरार्थः। एवञ्च तुल्यन्याया- दूपादिसमूह एव द्रव्यम् । प्रत्येकञ्च गुणत्वमिति द्रव्यगुणयोर्भेदसिद्धौ प्रकृतिप्रत्ययार्थयो- आंदोपपत्तिरिति भावः । किञ्च तेषामेव प्रत्येक द्रव्यत्वेऽनेकद्रव्यप्रतीत्यापत्तिरिति । एवञ्चा- ऽयुतसिद्धरूपादिपरमाणुरूपाऽवयवाऽनुगतः समूहो द्रव्यमतो वनादेर्न द्रव्यत्वम् । स्पष्टच 'स्त्रियामिति सूत्रे भाष्ये उक्तं-'द्रव्ये च भवतः कः सम्प्रत्ययः ?, गुणसमुदायो द्रव्य'मिति । तथा तपरसूत्रेऽपि भाज्ये-'कं च प्रत्यवयवो गुणः ?' समुदाय'मितीति दिक् । नन्वत्र पक्षे आमलकादौ पाकेन पूर्वरूपादिविनाशे तत्तद्धटितसमुदायस्याऽपि नाश्चात्त- देवेदमामलकमिति प्रतीत्यनापत्तिरिति चेन्न, केषाञ्चिद्गुणानां नाशेऽपि बहोर्गुणसमुदायस्य सत्त्वेन प्रत्यभिज्ञोपपत्तेः । तदेवाह-अथ वा यस्यति । 'सद्भावादिति शेषः । यस्या:- वयवसमूहस्य सद्भावादित्यर्थः । कैयटस्तु वैशेषिकादिनयाऽनुसारेण भाष्य व्याचक्षाण:- कथं 'स्त्रिया'मिति सूत्रस्थभाध्येण न विरुध्यत इति चिन्त्यम् ; कथं च 'किं पुनर्रव्यम्, के गुणा' इति प्रश्नस्य न निर्दलतेति च चिन्त्यम् । तन्मतेनेति । ते हि व्यक्तिविषया- मेव प्रत्यभिज्ञा मन्यन्ते । ये विति । ते हि परमाणुपर्यन्तद्रव्यनाशे परमाणुष्वेव पाकज- १ 'प्रादुर्भावात्सुतत्त्वं' पा०। , ७ कैयट-विवरणसहित [तस्य भावस्त्व- यदि तर्हि पष्ठीसमर्थाद्गुणे प्रत्यया उत्पद्यन्ते किमियता सूत्रेण ?,-एता- बद्वक्तव्यं-'षष्ठीसमर्थाद्गुण' इति ॥ षष्ठीसमर्थाद्गुण' इतीयत्युच्यमाने द्विगुणा रज्जुस्त्रिगुणा रज्जुः-अन्नापि प्राप्नोति ॥ [नै दोषः। (किटोरणम्)। गुणश- ब्दोऽयं बह्वर्थः । अस्त्येव समेष्ववयवेषु वर्तते-तद्यथा,-द्विगुणा रजुस्त्रिगुणा- रेजुरिति ] ॥ अस्ति द्रव्यपदार्थकः, तद्यथा-'गुणवानयं देश' इत्युच्यते यस्मिन् गावः संस्थानि च वर्तन्ते । अस्त्यधाने वर्तते, तद्यथा-यो यत्राऽप्रधान भर्वति स आह-'गुणभूता वयमत्रे'ति। अस्त्याचारे वर्तते, तद्यथा-'गुणवानयं ब्राह्मण' इत्युच्यते यः सम्यगाचारं करोति । अस्ति संस्कारे वर्तते । तद्यथा- संस्कृतमन्नं 'गुणवदित्युच्यते ॥ अथवा सर्वत्रैवाऽयं गुणशब्दः समेष्ववयवेषु वर्तते । तद्यथा-द्विगुणमध्ययनं त्रिगुणमध्ययनमित्युच्यते । चर्चागुणान्क्रम- प्र.]रूपाद्युत्पत्तौ पूर्वद्रव्यविनाशमपूर्वद्रव्यारम्भश्चाभ्युपगच्छन्ति तन्मतेन द्रव्यभेदेऽपि जाते. रेकरवाजातिप्रत्यभिज्ञाश्रयेणोक्तम् । जातेश्चाधारो द्रव्यं,ततो जातिमन्तरेण प्रत्यभिज्ञाया अभावा- द्रव्यमन्तरेण जात्युपलम्भाभावाव्यस्य सद्भावनिश्चयः । अन्वर्थमिति । अर्थान्विताव्य- व्यपदेशादेव रूपादिव्यतिरिक्तं द्रव्यं सिद्धमित्यर्थः । गुणसंद्राव इति । संदूयते- सङ्कम्यते-आश्रीयते इति संद्रावः। 'समि युद्रुदुवः इति घञ्। गुणानामाश्रयो द्रव्य मित्यर्थः । किमियतेति । 'यस्य गुणस्य भावा'दित्यादिना गुरुणा सूत्रेणेत्यर्थः । द्विगुणा रज्जरिति । विषयप्रदर्शनमात्रमेतत् । रज्जुशब्दात्तु षष्ट्यन्तादवयवलक्षणे गुणे त्वत- ल्पसङ्गः । कथं प्रसङ्ग इत्याह गुणशब्दोऽयमिति । क्वचित्तु पाठः 'नैषदोषो गुणशब्दोऽय'- मिति । तत्रायमर्थः-यतोऽयं गुणशब्दो बर्थस्ततो यस्य गुणस्य भावादित्यस्मिन्न्यासेऽतिप्र- सङ्गो न भवति,गुणशब्देन विशिष्टस्य गुणशब्दप्रवृत्तिनिमित्तरूपस्योपादानात्। अथवेति । पूर्वोक्तविषये सर्वस्मिन्नित्यर्थः । त्रिगुणमध्ययनमिति । पदक्रमसंहितालक्षणावयव- त्रययोगात् । चर्चागुणाः-पदविच्छेदगुणाः। पदक्रमाध्यायी 'द्विगुणमधीत' इत्युच्यते । उ.] रूपाद्युत्पत्तौ पुनः पूर्ववद्रव्यारम्भं वदन्ति। जातेश्वाधारो द्रव्यमिति । यद्यपि गुणोऽपि जात्याधारस्तथापि प्रकृताऽभिप्रायेणेदम् । गुणानामाश्रय इति। समूहस्य भेदकल्पनयैव चाऽश्रयत्वव्यवहारोऽपीति भावः। एवञ्च 'गुणसमूहो द्रव्यमिति पतञ्जलि रिति योगभाष्येण न विरोध इति मञ्जूषायां निरूपितम् । भाष्ये-षष्ठीसमर्थाद्गुणे इति । 'तस्य गुणे'इति वक्तव्यमिति भावः । ननु 'द्विगुणा रज्जु रित्यत्र गुणशब्देनैवाऽभिधानादुक्तार्थानामिति न्यायेन षष्ठीसमर्थाऽभावेन च प्रत्ययाऽनुत्पत्तिरत अह-विषयेति । कथम्प्रसङ्ग इति । पराश्रयस्य भेदकस्य गुणपदार्थत्वादिति भावः । कचित्विति । तद्रहितपाठ एव युक्तः, अत्र पाठेऽर्थसामञ्जस्याऽभावादित्याहुः। संहितामधीत्य यः पदान्यधीते तदीयमध्ययनं द्विगुणमित्युच्यते। ते अधीत्य यः क्रममप्यधीते तस्य त्रिगुणम् । संहिताऽध्ययनकालेऽपि १ 'उत्पाद्यन्ते' पा० । २ अयं पाठो न सार्वत्रिकः । ३ 'शस्यानि' पा०। ४ 'अप्राधान्ये पा०। ५'प्रधानो'। ६'भवतीति क्वाचिन्नास्ति । । - - । ५ अ..१ पा.२आ.।११९सू.] महाभाष्यमूल ३४७. गुणांश्वाऽपेक्ष्य भवति न संहितागुणांश्चर्चागुणांश्च ॥ यद्येवं गुणवदन'मिति गुणशब्दो नोपपद्यते, न हाम्चस्य रूपादेयो गुणाः समा भवन्ति ।। नाऽवश्यं वर्मतः परिमाणत एव वा साम्यं भवति । किं तर्हि ? ॥ युक्तितोऽपि । आतश्च युक्तितो-यो हि मुद्गमस्थे लवणनस्थं प्रक्षिपेनाऽदो युक्तं स्यात्।यदि तावददेरनं नादोऽत्तव्यं स्यात्, अथाऽनितेरनं- नाऽदो जग्ध्वा प्राण्यात् ॥ शुक्लादिषु तर्हि वर्त्यभावावृत्तिन प्रामोति,-शुक्लत्वं शुक्तेति ॥ किं पुनः प्र.] न संहितागुणांश्चर्चागुणांश्चेति । वेदान्तरसंहितां वेदान्तरपदानि वाधीयानो द्विगुणम- धीत इति नोच्यते। अध्ययनक्रमभेदादेकस्याऽध्ययनस्य द्विगुणत्वाभावात् । यद्यपि क्रमपाठे पदावृत्त्याधिक्यं भवति तथापि युक्तितः साम्योपपत्तिः । 'गुणवानयं देश'इत्यत्रापि गोसस्यादयो युक्तितः समा देशावयवत्वाद्गुणा उच्यन्ते । गवादीनां देशावयवत्वमुपचरितं । गुणभूतावयव- मित्यत्रापि गृहाद्यवयवसदृशात्मनिर्देशः। 'गुणवानयं ब्राह्मण' इत्यादावपि ब्राह्मणादिशब्दार्थ- गुणसमुदायैकदेशाचारवाची गुणशब्दः । युक्तितश्चाचारस्य साम्यम् । यद्येवमिति । यथा 'द्विगुणा रज्जु रित्यादौ प्रमाणतोऽवयवस्य साम्यं न तथाऽत्रेति प्रश्नः । युक्तित इति । अर्थ- क्रियायां यद्योग्यं तत्सममित्यर्थः । यदि तावदिति । युक्तितः साम्याभावेऽन्नमेव तन्न स्यात् कुतः पुनस्तस्य गुणवत्त्वमित्यर्थः । तदेवं षष्ठीसमर्थाद्गुण इत्युच्यमानेऽतिप्रसङ्गा- घस्य गुणस्य भावादित्यायितव्यम् । अत्राप्यव्याप्ति चोदयति-शुक्लादिष्विति । 'पटस्य शुक्ल' इति व्यतिरेकदर्शनाद्गुणमात्रवचनाः शुक्लादयः । 'पटस्य शुलत्व'मित्यादौ गुण एव त्वतलादिप्रत्ययो दृश्यते न च गुणे वर्तमानानां तेषां गुण एव प्रवृत्तिनिमित्त मिति मत्वा प्रश्नः। गुणसमवायिनि तु सामान्ये स्यात् प्रत्ययः, किन्तु 'पटस्य शुलत्व'- मिति पटेन सम्बन्धाभावप्रसङ्गः। वय॑भावादिति । वर्त्तनं वत्तॊ वृत्तिरित्यर्थः । वत्तों- उ.] नान्तरीयकतया पदाऽध्ययनसत्त्वादाह-पदविच्छेदेति । भाष्ये-'चर्चागुणा'नित्यादेः 'समा नित्यादिः । पदक्रमाध्यायीति। पदानां क्रमेण विच्छेदेनाध्यायीत्यर्थः । भाष्ये समाऽवयवेषु वृत्तौ युक्तिमाह-न संहितेति। अस्य विषमा नित्यादिः । तद्ध नयनाह-वेदा- न्तरेति । अध्ययनक्रमभेदादिति । अध्ययनविषयवर्णाऽनुपूर्वीभेदादित्यर्थः । युक्तित इति । बोध्यमानपदस्वरूपभेदाभावादिति भावः। युक्तितः समा इति । देशस्य समा अवयवा इत्यर्थः। तदाह-देशाऽवयवत्वादिति । 'समानदेशाऽवयवत्वादिति पाठेऽव- यवाऽन्तरेण तुल्ययतया देशाऽवयवत्वादित्यर्थः । ननु तेषां देशाऽवयवत्वं कथमत आह- गवादीनामिति । यथा देशाऽवयवोऽर्थक्रियाकारी तथा गोसस्यादिकमपीत्यर्थः । युक्तितः-- ब्राह्मणव्यवहारप्रयोजकत्वेनेत्यर्थः । ननूक्तरीत्या युक्तितः सान्यादेव 'गुणवदन्न'मित्यादयः प्रयोगा अत आह-यथेति। अर्थक्रियायामिति । सा च प्रकृते भोजनरूपा । ननु गुणिपरेषु शुक्लादिषु गुण एव वती, गुणपरेषु तद्वतजातिरिति किमुच्यते 'वर्त्यभावा'दित्यत १ 'भवतीति कचिन्नास्ति' । २ 'सूपादयो' पा० । ।
। ॥ ॐ कैयट-विवरणसहित [तस्यभावस्त्व- कारणं शुक्लादय एवोदाह्रियन्ते न पुनवृक्षादयोऽपि,-वृक्षत्वं वृक्षतेति ? ॥ अस्त्यत्र विशेषः,-उभयवचना ह्येते द्रव्यं चाहुगुणञ्च । यतो द्रव्यवचना- स्ततो वृत्तिर्भविष्यति ॥ इमेऽपि तर्हि उभयवचनाः ॥ कथम् ? ॥ आरभ्यते मतुब्लोपो-'गुणवचनेभ्यो मतुपो लुग्भवतीति । यतो व्यवचनास्ततो वृत्तिर्भविष्यति ॥ डित्थादिषु तर्हि वर्त्यभावावृत्तिन प्राप्नोति-डित्थत्वं डित्थता । डाम्भिहता डाम्भिट्टत्वमिति ॥ तत्रापि-कश्चित्प्राथमकल्पिको डित्थो- डाम्भिदृश्चेति ॥ तेन कृतां क्रियां गुणान्वा यःकश्चित्करोति स उच्यते-डित्थत्वं त एतड्डाभिट्टत्वं त एतत् । एवं डित्थाः कुर्वन्त्येवं डाम्भिट्टाः कुर्वन्ति ।। यस्तर्हि प्राथमकल्पिको डित्थो डाम्भिश्चतस्य वर्त्यभावावृत्तिन प्राप्नो- ति ॥ नैष दोषः॥ यथैव तस्य काथंचित्कः प्रयोग एवं वृत्तिरपि भविष्यति । प्र.]स्मिन्नस्तीति वत्ती प्रत्ययार्थः,प्रकृत्यर्थव्यतिरिक्तप्रत्ययार्थाभावादित्यर्थः। न पुनर्वृक्षादय इति । तेऽपि जातिमात्रवचनास्ततो जातौ प्रत्ययाऽप्रसङ्गः । द्रव्यं चाहुरिति । विशिष्ट- जातियुक्तमित्यर्थः । गुणं चेति । जातिलक्षणम् । यतो द्रव्यवचना इति । यस्मा- व्यवचनास्तस्माजातौ प्रवृत्तिनिमित्ते प्रत्ययः । आरभ्यते मतुब्लोप इति। वृक्षादयो जातितद्वतोरभेदविवक्षायां द्रव्यमाहुः । नहि यथा 'पटस्य शुक्ला' इति व्यतिरेको दृश्यते तथा 'धवस्य वृक्ष' इति । तत्र गुणद्रव्ययोर्व्यतिरेकदर्शनान्मतुःश्रवणनिवृत्यर्थो लुगारम्भः । डित्थादिष्विति । डित्थादयो यदृच्छाशब्दा अर्थगतं न किंचित्प्रवृत्तिनिमित्तमपेक्षन्ते, पुरुषेच्छावशेन प्रवर्त्तनात् । तेन कृतार्थमिति । डित्थसहचरितगुणक्रियादर्शनादन्यत्रा. प्युपचारात्प्रवर्त्तमानस्य डिथशब्दस्य गुणक्रिये एव प्रवृत्तिनिमित्तमित्यर्थः । कार्थचित्क इति। विनयादिषु कथंचिच्छब्दस्य पाठात्स्वार्थे ठक्प्रत्ययः । शब्दस्वरूपम- र्थोऽध्यस्याऽयं डिल्थ इति संज्ञासंज्ञिसम्बन्धः क्रियते। ततः शब्दस्वरूपासङ्गाद्यथा डित्थशब्दस्या- ऽर्थे प्रयोगस्तथैव शब्दस्वरूपेऽर्थेऽध्यस्ते प्रत्यय इत्यर्थः। अन्ये तूत्पत्तिप्रभृत्याविनाशात्कौमारा- उ.]आह-पटस्य शुक्ल इति। पटेन सम्बन्धाऽभावेति । प्रकृत्यर्थस्य पटेन सम्बन्धे च सापेक्षत्वावृत्त्यभावप्रसङ्ग इति भावः । ननु यथा वृक्षशब्दे मतुब्लोपं विनैव जातिविशिष्ट- द्रव्यमाह, तथा शुक्लादयोऽपि गुणविशिष्टं द्रव्यं वक्ष्यन्तीति किं मतुब्लोपेनेत्यत आह- वृक्षादय इति । जातिप्रवृत्तिनिमित्तकशब्दबोध्यजातेः स्वाश्रयेणाऽभेदविवक्षैवेति भावः । अनत्यं तत्वं प्रागेवोक्तम् । ननु तत्राऽपि शब्दरूपं प्रवृत्तिनिमित्तमस्तीत्यत आह-डित्था- दय इति । भाष्ये-तत्रापि कश्चिदिति । 'तत्रापी'त्यस्योत्तरमाहेति शेषः । 'कश्चि'- दित्यादि 'इती'त्यन्तं वार्तिकोक्तमुत्तरम्। तद्ध्याचष्टे-तेन कृतामित्यादि । शब्दस्वरूपम- र्थेऽध्यस्येति । तादात्म्याऽध्यासोऽत्र बोध्यः । तदेवाह-अयं डित्थ इति संज्ञासंज्ञिः सम्बन्धः क्रियत इति । यथा डित्थशब्दस्येति । अन्यथा शब्दानिर्विकल्पका- ऽभावेन, निर्धर्मितावच्छेदकशक्तिग्रहाऽभावेन च प्रयोग एव न स्यादित्यर्थः । १ अयं पाठः काचित्कः । २ 'अत्रापि पा० । ३ 'गुणं वा' पा० । । -- ५अ.। १ पा.। २ आ.११९ सू.) ॐ महाभाष्यम् , ३४९ ॥ * ॥ यद्वा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भावस्तदभिधाने ॥ * ॥ किमेस्त्रिभिर्भावग्रहणैः क्रियते ? ॥ एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्या- मर्थः ।-यद्वी सर्वे शब्दाः स्वेनार्थेन भवन्ति स तेषामर्थ इति तदभिधाने प्र.] अवस्थाभेदभिन्नद्रव्यसमवायिनी जातिमिच्छन्ति । यद्दर्शनादवस्थान्तरेऽपि स एवायं डित्थ इति प्रत्यभिज्ञाप्रत्यय उत्पद्यते तस्यां प्रत्ययः । यद्वेति । पूर्वत्र लक्षणे जातिगुणद्रव्यलक्षणार्थाभिधायिभ्यो गवादिभ्यः शब्दस्वरूप- गुणसामान्यादिषु प्रत्ययः । इह तु शब्दाभिधायिभ्यः पूर्वोत्तेष्वेवार्थेष्विति प्रकृत्यर्थभेदेऽपि प्रधानप्रत्ययार्थाऽभेदापेक्षो विकल्पः । किमेभिरिति । भावशब्दत्रयस्याऽर्थभेदं पृच्छति । एकेनेति । भवन्तीति भावाः शब्दाः । “भवतेश्चेति वक्तव्यमिति कर्तरि णः । द्वाभ्या मिति । स च द्विविधो वाच्यप्रवृत्तिनिमित्तरूपः । अत्र तु करणसाधनो घञ् । तत्र शुक्लस्य भावः शुक्लत्वमिति शुक्लशब्दस्य गुणे वर्तमानस्य भावो गुणसमवायिसामान्यं, तस्माद्धि निमित्ताच्छुक्कुशब्दः स्वस्मिन्नर्थे गुणलक्षणे भवति प्रवर्तत इत्यर्थः। द्रव्ये तु वर्तमानस्य शुलशब्दस्य गुणो भावः। तथा गोशब्दस्य द्रव्ये वर्तमानस्य जाति वो, राजपुरुषशब्दस्य सम्बन्ध इत्यादि बोद्धव्यम् । स्वेनार्थेनेति। शब्दानां स्वार्थो वाच्यस्तेन भवन्ति-तत्र वाचकत्वेन प्रवर्त्तन्त इत्यर्थः । वाच्योऽर्थः शब्दभवने करणत्वेन विवक्षितः । अर्थप्रत्यायनाय शब्दप्रयोगाद्भवत्यर्थस्य करणत्वम् । स तेषामर्थ इति। यत्तदोर्नित्याऽभिसम्बन्धाद्यस्मादित्य उ.] जात्यतिरिक्तपदार्थे विशेष्यताप्रकारतयोः सावच्छिन्नत्वनियमादिति भावः । अन्ये त्वेवं व्याख्याने घटादिपदसदृशत्वादस्य कथञ्चित्पदप्रयोगाऽसामञ्जस्यमतो व्यक्तरेव प्रका. रताविशेष्यताख्यविषयताद्वयेन भानमिति शक्तिग्रहप्रयोगयोरुपपत्तिः । एवं प्रकारस्य चाऽन्यत्राऽदृष्टत्वात्कथञ्चिदित्युक्तिः समञ्जसा । एवञ्च प्रकारताविशिष्टा व्यक्तिस्त्वप्रत्ययार्थ इत्याहुः । जातिमिच्छन्तीति । एवाऽत्राऽतिप्रसङ्गवारणाय आकृतिग्रहणे'त्यादिपरिभाषा स्वशास्ने आश्रिता। पूर्वन्यासादत्र पक्षे विशेषमाह-पूर्वत्र लक्षणे इति । शब्दस्वरूपे- त्यादि । यदा गोशब्दो गोत्वमात्रवचनस्तदा शब्दस्वरूपे, डित्थादयोऽपि शब्दस्वरूपे उदाहरणं । गुणिवाचकेभ्यः शुक्लादिभ्यो गुणे । गुणवचनेभ्यस्तद्गते सामान्ये इत्यर्थः । गवा- दिभ्यश्च सामान्ये । शब्दाऽभिधायिभ्यः-शब्दस्वरूपमात्रपरेभ्यः। गोत्वमित्यादौ गोशब्द- सम्बन्धी धर्म इत्यादिप्रकारेण बोधः । नन्वर्थभेदे विकल्पोऽयुक्तः, एकार्थानां विकल्पादत आह- प्रकृत्यर्थभेदेऽपीति । भवन्तीति । उच्चारणविषया भवन्तीत्यर्थः। द्विविध इति । वाच्यो-विशेष्यरूपः । प्रवृत्तिनिमित्तम्-प्रकाररूपम् । अयमत्र वार्तिकार्थः-सर्वे शब्दाः स्वेन अर्थेन-वाच्येन करणेन यस्मात्प्रवृत्तिनिमित्ताद्भवन्ति-वाच्यार्थबोधनाय प्रयोग प्राप्नुवन्ति स प्रवृत्तिनिमित्तरूपोऽर्थस्तेषां शब्दानां भावः । अतस्तदभिधानेऽर्थाच्छब्दपरेभ्यः प्रत्यय इत्यर्थः। प्रथमभावशब्दस्य शब्दपरतायां 'यद्वा सर्वे भावा' इत्यादिनोक्तं लक्षणं यादृशं सम्पद्यते तदनुवदति-भाष्ये यद्वा सर्वे शब्दा इति । नन्वर्थस्य शब्दभवने कथं १ एतद्वात्तिकस्थैरित्यर्थः । २ तदेवं निष्पन्नं वार्तिकार्थमाह-यद्वति । .. । -- कैयट-विवरणसहित [तस्यभावस्त्व वा स्वतलौ भवत इति वक्तव्यं नैवमन्यत्र भवति । नहि 'तेन रक्तं रागादित्यत्र शब्देन रक्त प्रत्यया उत्पद्यन्ते। शब्देऽसम्भवादर्थन रक्त प्रत्यया भविष्यन्ति ।। तत्तद्यन्यतरस्कर्तव्यं सून्नं च भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं 'तस्य भाव इत्यभिप्रायादिष्वतिप्रसङ्गा' इति ? ॥ * ॥ उक्तं वा [19] [उक्तं वा] प्र.) पेक्षते । यस्मात्-यत्प्रवृत्तिनिमित्तात्स्वेनार्थेन प्रयुज्यन्ते सोऽर्थस्तेषां प्रवृत्तिनिमित्ततया सम्बन्धीत्यर्थः । एतेन प्रकृतिप्रत्ययार्थयोः सम्बन्धो दर्शितः। नैवमन्यत्रेति । अन्यत्र शब्दा- र्थसम्बन्धी प्रत्ययार्थो निर्दिश्यते। न तु शब्दसम्बन्धीत्यर्थः । अत्रोत्तरं-शब्देऽसम्भ- वादिति । शब्दसम्बन्धित्वं प्रत्ययार्थस्य नोपपद्यते । कषायादिशब्देन रागाद्यसम्भवात्ततः शब्दार्थसम्बन्धित्वं प्रत्ययार्थस्याश्रीयते । इह तु शब्दस्य तदर्थस्येव भावसम्बन्धसम्भवा- तद्वाचिनी कामचारात्प्रकृतिराश्रीयते। तथा हि-शुक्लस्य द्रव्यस्य गुणो भावस्तद्वशाद्धि शुक्लं द्रव्यं भवति । गोत्वसम्बन्धाच्च गौव्यम् । एवं शुलशब्दस्याऽपि द्रव्ये वर्तमानस्य गुणो भावः। तद्वश्चात्तस्य द्रव्ये प्रवर्तनात् । गोत्ववशाच्च गोशब्दस्येत्येवं सर्वत्रावसेयम् । 'नानात्वं' 'यौगपद्यमित्यादौ पूर्वत्र लक्षणे नानाभूतार्थाभिधायिनो युगपद्भूतार्थाभिधा- यिनश्च द्रव्यधर्मे असहभावे युगपद्भावे च प्रत्ययः । उत्तरत्र तु शब्दाभिधायिभ्यां पूर्वाक्त- एव भावे प्रत्ययः । तत्तबन्यतरदिति । 'यस्य गुणस्य भावादिति वा, 'यद्वा सर्वे भावा' उ.] कारणत्वमत आह-अर्थप्रत्यायनायेति । प्रवृत्तिनिमित्ततयेति । प्रवृत्तिनिमित्त न शक्तिरित्यभिप्रायः । सम्बन्ध इति । प्रवृत्तिनिमित्तत्वरूपः । प्रकृतिश्चाऽत्र पक्षे शब्द- स्वरूपपरा । प्रवृत्तिनिमित्तत्वच स्वजन्यबोधीयमुख्यविशेष्यतानिरूपितविषयतावत्त्वम् । भाष्ये शङ्कते-नैवमन्यत्रेति । अन्यत्र-अर्थे । कचिदपि लक्ष्ये एवंप्रकारो न भवतीत्यर्थः । यथा हीति । गुणादे व्यभावत्वं तवृत्तिधर्मत्वात् । तद्वशात्-गुणवशात् । तद्-द्रव्यं । शुक्लं-तव्यपदेशवत् । एवं गोत्वसम्बन्धाद् द्रव्यं गौः-तथ्यपदेशवत् । अतो गुणादे व्य- भावत्वम् । एवं तत्तच्छब्दानां द्रव्ये वृत्तौ तेषामेव निमित्तत्वादौपचारिक शब्दधर्मत्वमिति शब्दभावोऽपि स इति भावः । परे तु संज्ञाशब्दे प्रवृत्तिनिमित्ताऽनङ्गीकारेऽपि प्रत्ययो- पपादनायेदम् । अयं भावः-शब्दस्य थोऽर्थो वाच्यप्रवृत्तिनिमित्ताऽन्यतररूपस्तद्वाचकत्वं प्रत्ययस्य । तत्र 'घटत्व मित्यादौ जात्यादिरूप प्रवृत्तिनिमित्तं तदर्थः । 'डित्थत्वमित्यादौ त्वन्यस्याऽसम्भवाद्विशेष्यभूतोऽर्थ एव त्वाऽर्थः । एवञ्च डिस्थडित्थत्वशब्दयोः पर्यायता । ईदृशे स्थले एव प्रकृतिः शब्दपरा 'स्व'स्य साधुत्वाय कल्पते । एवञ्च 'कुत्व'मित्यादेः कवर्ग इत्या- दिरेवार्थः । तत्र 'कुत्वं कस्मान्न भवती'त्यादौ कुत्वशब्दार्थ कुशब्दस्य प्राप्त्यभावात्तस्य स्वार्थाश्रये लक्षणाऽऽश्रयणीया स्यात् । किचैवं 'डित्थत्व'मित्यादौ प्रकृतिप्रत्ययार्थयो भेदाऽभावः। किश्च सर्वत्र प्रकृतेर्लक्षणायां न मानम् । 'डित्थत्व'मित्यादौ तु प्रकृतिप्रत्ययार्थाऽनुपपल्या तत्कल्पनम् । शब्देऽसम्भवादित्यादेरयमर्थः,-यथा तत्र शब्देऽ. सम्भवादर्थेन रक्त प्रत्ययास्तथैतद्विषये डित्थत्वादावर्थस्य भावेऽसम्भवात्प्रकृतेः शब्दपरत्वं । । १ वाशब्दः कचिन्नास्ति । २ 'उक्तश्च' पा० । ३ 'प्रवृत्तिनिमित्तरूपः' पा० ।
.. ५ अ॥१ पा.२ आ.।११९ सू.]] महामाध्य ३५५ किमुक्तम् ? ॥ * ॥ अनभिधानादिति ॥ * ॥ अनभिधानादभिमायादिपूत्पत्तिर्न भविष्यति॥ ।। * ॥ त्वतल्भ्यां नसमासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्धयर्थम् ।। * ॥ त्वत. सभ्यां नसमासो भवति पूर्वविप्रतिषेधेन ॥ किं प्रयोजनम् ? ॥ स्वतलोः स्वरसिद्ध्यर्थम् । स्वतलोः स्वरसिद्धियथा स्यात् । त्वतलोरवकाश:-भावस्य वचनं प्रतिषेधस्याऽवचनम्-ब्राह्मणत्वम् । ब्राह्मणता ॥ नन्समासल्याव- काशः-प्रतिषेधस्य वचनं भावस्याऽवचनम्-अब्राह्मणः । अवृषलः॥ उभय- वचने उभयं प्रामोति-अब्राह्मणत्वम् । अब्राह्मणता । नसमासो भवति पूर्व विप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः । नाऽत्र त्वतलौ प्रामतः॥ किं कारणम् ? ॥ असामर्थ्यात् ॥ कथमसामर्थ्यम् ? ॥ 'सापे- क्षमसमर्थ भवतीति,-यावता ब्राह्मणशब्दः प्रतिषेधमपेक्षते ॥ नन्समासोऽपि तर्हि न प्राप्नोति ॥ किं कारणम् ? ॥ असामर्थ्यादेव ॥ कथमलामथ्या ? ॥ 'सापेक्षमसमर्थ भवतीति,-यावता ब्राह्मणशब्दो भावमपेक्षते॥ प्र.] इति वेत्यर्थः । अनभिधानादिति । न हि गोत्वमश्चत्वमित्याद्युक्तेऽभिप्रायाधवगम्यते किं तु जात्यादीत्यर्थः । तत्र भवत्यनेनेति करणसाधनेन घमन्तेन भावशब्देन जात्या- दिके उच्यमाने वाच्यसम्बन्धिनि शब्दसम्बन्धिनि च पूर्वोक्तन्यायाद्रव्यादिवाचिनः शब्दा भिधायिनो वा शुक्लादेस्त्वतलादय इति स्थितम् । त्वतल्भ्यामिति । न ब्राह्मणस्य भाव इति युगपद्भावनार्थसम्बन्धविवक्षायां यदि परत्वात्त्वतलोः कृतयोर्नन्समासः स्यात्तदा- ऽव्ययपूर्वपदप्रकृतिस्वरेणाऽऽद्युदात्तत्वं प्रसज्येत । नसमासात्तु त्वप्रत्यये प्रत्ययस्वरेणान्तो- दात्तं पदं भवति । तलि तु लित्स्वरेण मध्योदात्तमिति तदर्थं पूर्वविप्रतिषेध आश्रीयते । यावता ब्राह्मणशब्द इति । प्रत्ययार्थस्य प्राधान्याद्राह्मणार्थस्य नअर्थापेक्षत्वादसामर्थ्या- उ.]कृत्वाऽर्थे वाच्य एव भावप्रत्ययः । सम्भवे त्वर्थपरायाः प्रकृतेः शब्दबोध्यप्रवृत्तिनिमित्ते प्रत्यय इत्याहुः । गुणसमुदायस्य द्रव्यत्वेऽपि तत्तच्छब्दस्वभावात्क्वचिद्गुणः क्वचित्प्रकारः इतरे विशेष्या इति निमित्तल्वरूपसम्बन्धस्य न हानिः। भाष्ये-तत्तॉन्यतरदिति । कादिपदानां ककारादिवृत्तिधर्मान् कत्वादीनुपलक्षणीकृत्य 'यः शुलवासाः स देवदत्त' इत्यादाविव शक्तिग्रहो बोध्य इत्याहुः । वार्तिकद्वयलभ्यमर्थं सूत्राक्षरैः साधयति-तन्त्र भवत्यनेनेति । पूर्वविप्रतिषेधारम्भे फलं दर्शयति-न ब्राह्मणस्येति । युगपदुभाभ्या- मेका भावविवक्षायामित्यर्थः । त्वतलोः कृतयोरिति । ततः समासस्त्वाद्यन्तेन, एक- देशद्वारकं च सामर्थ्य त्वाद्यन्तेनापि ना इति बोध्यम् । उपसर्जनस्यैव सापेक्षत्वे वृत्त्य- भावेन ब्राह्मणपदार्थस्य यथोपसर्जनत्वं तथा दर्शयति-प्रत्ययार्थस्येति । ननु ब्राह्मण- १ अयं वार्तिकांशो भाष्यत्वेन सर्वैरहो ! ज्ञातः । - ।
। । - ३५२ कैयट-विवरणसहित [ तस्य भावस्त्व प्रधानमन तदा ब्राह्मणशब्दः, भवति च प्रधानस्य सापेक्षस्थाऽपि समासः॥ इदं तर्हि प्रयोजनं-'नसमासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थ- मिति वक्ष्यति तत्र व्यवस्थार्थमिदं वक्तव्यम् ॥ ॥*वा छन्दसि ।।वाछन्दसि नसमासो वक्तव्यः। 'निवार्यतां वै यजमान आशास्ते अपशुतां गौः । अयोनित्वाय । अशिथिलत्वाय। अगोतामनपत्य- ताम्भवेदिदं युक्तमुदाहरणम्-'अयोनित्वाय' 'अशिथिलत्वायेति। इदं त्वयु- कम्-'अपशुतामिति । न ह्यसौ समासभावमाशास्ते॥ किं तर्हि ? ॥ उत्तरपदा- भावमाशास्ते-न पशोर्भावः [पशुर्माभूवम्] इति ।।। नसमासादन्यो भाववचनः प्र.] दप्रधानस्य सापेक्षत्वे सति ऋद्धस्य राजपुरुष इत्यादाविव वृत्त्यभावात्वतलोरप्रसङ्गः । प्रधानमन्त्रेति । उत्तरपदार्थप्रधानत्वात्तत्पुरुषस्य । यथा 'राजपुरुषोऽभिरूप' इति प्रधानस्य सापेक्षत्वेऽपि वृत्तिर्भवत्येवं भावमपेक्षमाणस्यापि ब्राह्मणस्य नसमासो भवतीत्यर्थः । इदं तहीति। न्यायेनैव पूर्वं नन्समासे सिद्धे 'स्वतल्भ्या'मिति वचनं नियमार्थम् ,-'त्वत- लोरेव कर्त्तव्ययोः पूर्वं नञ्समासो नान्यत्र भावप्रत्यये' इत्यन्यो भावप्रत्ययः प्राग्भवति पश्चान्नन्समासः । न्यायस्य नियमार्थेन वचनेन बाधनात् । ततश्च सति शिष्टत्वादप्रथिमे- त्यादौ नस्वरो भवति । अशौक्लयमित्यादौ च नञः प्रकृत्यनेकदेशत्वादुत्तरपदवृद्धिः सिध्यति । यदि तु पूर्व नन्समासः स्यात्ततो 'न नब्पूर्वा'दिति प्रतिषेधात्म्यञोऽप्रसङ्गा- दशौक्लयमित्यादि न सिध्येत् । वाच्छन्दसीति । छन्दोविषये क्वचित्पूर्वं त्वतलौ पश्चान्नन्समासः, क्वचित्तु विपर्ययः। अयोनित्वायेति । प्रत्ययस्य पश्चान्नन्समासे सति नस्वरो भवति । भवेदिदमिति । अत्र हि नसमासभावप्रत्यययोर्युगपत्प्राप्तिः । नह्यसौ समासभावमिति । समास- शब्देन समासाऽर्थो जात्यन्तरयुक्तं वस्तूच्यते । तद्भावमसौ नाशास्ते–'अपशुः-पशुसदृशो भूयासमिति। किं तर्हि-उत्तरपदाभावमिति । उत्तरपदार्थस्य पशुत्वस्याऽभावमा- शास्ते पशुर्मा भूवमिति । ततश्च पूर्वं भावप्रत्ययः पश्चान्नसमासो विनापि वा छन्दसी'ति वचनेन सिध्यति । न पशोर्भाव इति--भावस्य नसम्बन्धात, पशोरसम्बन्धात् ॥ उ.]भिन्न इति बोधादुत्तरपदार्थोऽप्रधानमेवेत्यत आह-उत्तरपदार्थेति । आरोपितो ब्राह्मण इति बोध इति भावः । राजपुरुषोऽभिरूप इति। 'राज्ञः सुन्दरोऽश्व' इत्यर्थे राजसुन्दरोऽश्व इतिवच्चेत्यपि बोध्यम् । नन्वनेन वचनेनाऽन्यभावप्रत्ययस्य पूर्व प्रवृत्तिः कथं बोधयितुं शक्याऽशब्दार्थत्वादत आह-न्यायेनैवेति । तत्र व्यवस्थार्थमिति-भाष्यस्य तत्राऽ. न्यत्वे प्रतियोगिसमर्पणार्थमित्यर्थः । एवञ्चैतन्नियमसिद्धार्थाऽनुवाद एव स इति भावः । 'तब्यवस्थार्थ'मिति पाठे तदर्थलाभार्थमित्यर्थः । कैयटस्वरसस्त्वत्रैव पाठेऽर्थे च । दूषणान्तर- मप्याह-यदि तु पूर्वमिति। ननु समासत्वाऽऽशासनस्य वापि न सत्त्वमत आह- समासशब्देनेति । पशोरिति । पशोर्नमाऽसम्बन्धादित्यर्थः ॥ [तस्यभावस्त्व] ॥ १ 'समासाभाव मिति पा० । २ अयं पाठः काचित्कः । ३ 'सिद्धयति' पा० । । , ।
५५.१पा.। २ आ.।१२० सू.] महाभाष्यम् स्वरोत्तरपदवृद्धयर्थम् ।। * ।। नन्समासादन्यो भाववचनो भवति विप्रतिषेधेन ॥ किं प्रयोजनम् ? ॥ 'स्वरोत्तरपदवृद्ध्यर्थम् ।' स्वरार्थमुत्तरपदवृद्ध्यर्थञ्च । स्वरार्थ तावत्-अप्रथिमा अनदिमा । उत्तरपदवृद्ध्यर्थम्-अशौक्ल्यम् । अकार्यम् ॥ आ च त्वात् । ५.१२० । किमर्थश्चकारः? ॥ अनुकर्षणार्थः,-त्वतलावनुकृष्यते ॥ नैतदस्ति प्रयोज- नम्,-प्रकृतौ त्वतलावनुवर्तिव्येते॥ अत उत्तरं पठति-18|| आ च त्वादितिचकार- करणमपवादसमावेशार्थम् ॥आ च त्वादिति चकारकरणं क्रियते। [ किंयोजनम्]u 'अपवादसमावेशार्थम्'। इमनिप्रभृतिभिरपवादैः समावेशो यथा स्यात् ॥ नैतदस्ति प्रयोजनम्-आ त्वादित्येवेमनिप्रभृतिभिरपवादः समावेशो प्र.] आ च त्वात् । वक्ष्यमाणैर्विशेषविहितैस्त्वतलौ मा बाधिषाता, गुणवचनादिभ्यः कर्मणि च यथा स्यातामिति सूत्रम् । किमर्थश्चकार इति । वक्ष्यमाणोऽभिप्रायः। अथ त्वतलोरुत्तरत्राधिकारादेव सिद्धत्वात्सूत्रमेव करमान्नाक्षिप्तम् ?, नैतदस्ति, गुणवचनादिभ्यः कर्मणि विधानार्थत्वादनुवृत्तेरपवादैरसन्दिग्धैः सन्दिग्धतदर्थोपस्थानौ त्वतलौ बाध्येयातामिति सूत्रमवश्यं कर्त्तव्यम् । किञ्चाऽसत्यस्मिन्सूत्रे त्वतलोरुत्तरस्मिन्ननुवृत्तिर्दुर्ज्ञाना, उत्तरेषां प्रत्ययनिर्देशान्निराकासत्वात्त्वतलोरपि पूर्वसूत्रेण प्रातिपदिकसामान्याद्भावे विधानादाका- काया अभावात्। अनुकर्षणार्थ इति । अन्यथा विधेयानुपादानादवधिमात्र निर्देशोऽनर्थकः स्यात् । प्रकृताविति । विधेयमन्तरेणाऽवध्युपादानस्यानर्थक्यादेव साकाङ्कत्वात्प्रकृती त्वतलावपेक्षिष्येते इत्यर्थः । अपवादसमावेशार्थमिति। नस्नसमावेशार्थमित्यर्थः । भाष्यकारस्तु न्यायव्युत्पादनाय वक्ष्यमाणापवादसमावेशार्थत्वमुपन्यस्य दूषयित्वा च नस्नन्समावेशार्थत्वं विवरिष्यते । इमनिप्रभृतिभिरिति । असति चकारे प्रात्तवादर्थे त्वतली भवत इत्ययमेवार्थः स्यादिति कर्मण्येव गुणवचनादिभ्यस्त्वतलोविधिः स्यान्न त्वपवादेन समावेशः । चशब्दात्सोऽपि भवतीति भावः । नैतदस्तीति । 'आ त्वाद्याः प्रकृतयस्ताभ्यस्त्वतलौ भवत' इति विज्ञायमाने सूत्रार्थे सिद्धोऽपवादैः समावेशः। उ.] आ च त्वा । 'ब्रह्मणस्त्व' इत्यन्तं त्वतलावधिक्रियते इति सूत्रार्थः। तत्फलमाह- वक्ष्यमाणैरिति । इमनिजादिभिरपवादै रित्यर्थः । गुणवचनादिभ्य इति । येभ्य एवं कर्मणि व्यञादयो विहितास्तेभ्य एव त्वतलावपि कर्मणि यथा स्यातामित्येतदर्थमिदं सूत्रमित्यर्थः। सन्दिग्धतदर्थोपस्थानाविति । सन्दिग्धं तत्तत्सूत्रोपात्तप्रकृतिनिमित्त- मुपस्थानं ययोरित्यर्थः । एतत्सूत्राऽभावे गुणवचनादिसूत्रेऽपि सम्बन्धो दुर्घट इत्याह- किञ्चेति । ननु तेषामाकासाऽभावेऽपि त्वतलाकाङ्क्षयैव सम्बन्धः स्यादत आह- त्वतलोरपीति । विवरिष्यत इत्यस्य-वार्तिकस्य व्याख्यास्यतीत्यर्थः । नन्वा त्वादित्येव स सिद्धोऽत आह--असतीति । इत्ययमेवार्थ इति । 'प्राग्दीव्यत' इत्यादावर्थानामेवा- १ 'पूर्वविप्रति' पा० । २ अयं पाठः कापि न दृश्यते । ३ 'अनुवृत्तैः' पा० । २३ । - - - ।
। .. ३५४ कैयट-विवरणसहित [आ च त्वात् भविष्यति ॥ इदन्तर्हि प्रयोजनम्-आ त्वाद्याः प्रकृतयस्ताभ्यश्च त्वतलौ यथा स्याता यतश्वोच्यते ॥ एतदपि नास्ति प्रयोजम्-आ त्वादित्येव आ त्वाद्याः प्रकृतयः ताभ्यस्त्वत्तलौ भविष्यतो यतश्चोच्यते ॥ इदन्तर्हि प्रयोजनम्-आ वाद्येऽर्थास्तत्र त्वतलौ यथा स्यातां यत्र चोच्यते॥ एतदपि नास्ति प्रयोजनम्,- आ त्वादित्येव-आ वाद्येऽर्थास्तत्र त्वतलौ भविष्यतो यत्र चोच्येते॥ इदं तर्हि प्रयोजनम्-आ त्वाद्याः प्रकृतयस्ताभ्यश्च त्वतलौ यथा स्याता, यस्याश्व प्रकृतेरेतस्मिन्विशेषेऽन्यः प्रत्यय उत्पद्यते ॥ किं कृतं भवति ? ॥ प्र.] आ त्वाद्याः प्रकृतय इति । गुणवचनब्राह्मणादिप्रकृतयः। ताभ्यश्चेति । कर्मणीति भावः । अनेन सूत्राों व्याख्यातः । यतश्चोच्यते इति । अनेन चशब्दस्य प्रयोजनमा- ख्यायते । 'यतो विशेषप्रकृतेर्भावे पूर्वसूत्रेण प्रसक्ताविमनिजादिभिश्च बाधितौ ततोऽपि यथा स्याता'मित्येवमर्थश्वशब्दोऽन्यथा कर्मणि त्वतल्विधावस्य सूत्रस्योपयोगात्त्वतलोरपवादैर्वाधः स्यात् । एतदपि नास्तीति । आ त्वात्प्रकृतीः सर्वा अपेक्ष्य त्वतलौ विधीयमानावपवाद- विषये कर्मणि च भविष्यत इति नार्थश्वशब्देनेत्यर्थः । आ त्वाद्येऽर्था इति । जातौ बहु- वचनम् । कर्मण एकस्यैवाऽर्थस्य वक्ष्यमाणत्वात् । अयमर्थः-यद्यबधिमत्यः प्रकृतय आश्रीयन्ते तदाऽपवादः समावेशः सिध्यति, प्रतिप्रसबार्थत्वादस्य सूत्रस्य । गुणवचनादिभ्यस्तु कर्मणि त्वतलोविधानं न सिध्यति । तस्मादबधिमदर्थपरिग्रहेण कर्मणि त्वतलौ सूत्रेण विधीयेते, चकारेण तु भावे अपवादैः समावेश्येते । यत्र चोच्यते इति । भावे विशेषप्रकृतिभ्योऽ. पवादैः प्रसक्तबाधावित्यर्थः। एतदपीति । अर्थान्प्रकृतींश्चाऽविशेषेणावधिमत्त्वेनाऽपेक्ष्य त्वतल्विधानान्नार्थश्चकारेणेत्यर्थः । के चित्त-प्रातिपदिकसामान्यात्कर्मणि त्वतलाविच्छन्तो भाष्यमन्यथा व्याचक्षते । तत्त्वयुक्तम् । प्रकृतिविशेषसम्बद्धस्य कर्मार्थस्योपादानात प्रकृत्यन्तरेण तस्य सम्वन्धाऽयोग्यत्वात् । तस्माद्गुणवचनेत्यतः प्रभृति प्राक्त्वाद्या विशेषप्रकृ- तयस्ताभ्य एव प्रकृतिभ्यः कर्मणि त्वतलौ भवतः, आपादपरिसमाप्तेर्भावकर्माधिकारात् । भावे तु प्राक्तदेतस्मात्सूत्रादूर्वं याः प्रकृतयस्ताभ्यः। पूर्व सूत्रेण तु ङ्याप्रातिपदिकादिति सिद्धान्तः। यस्याश्चेति । प्रकृतिविशेषान्नस्नौ प्राग्भवनात्सर्वेष्वर्थेषु विधीयमानौ उ.] ऽवधिमतां दर्शनादिति भावः । आ त्वाद्याः प्रकृतय इति । लक्ष्याऽनुरोधादेवं विज्ञा- स्यत इति भावः । गुणवचनेति । 'आ त्वाद्याः प्रकृतयोऽप्राप्तत्वतल्कास्ताभ्य' इत्यादिति भावः । सूत्रार्थ इति । सूत्रप्रयोजनमित्यर्थः । आ त्वात्प्रकृतीरिति । अप्राप्तत्वतल्का इत्यर्थे मानाऽभावादिति भावः । जाताविति । 'कर्मणां बाहुल्या'दिति वक्तुं युक्तम् । न सिध्यतीति। प्रतिप्रसवाऽपेक्षया विधित्वस्य गुरुत्वात्, उभयरूपत्वस्यैकवाक्येऽलाभा- च्चेति भावः । ननु यत्रोच्यते तत्र विधानं व्यर्थमत आह-भावविशेषेति । अर्थानिति। अवधिसजातीयत्वस्य काऽप्यभावेन विनिगमनाविरहादिति भावः । अन्यथा व्याचक्षत इति । 'आ त्वाद्येऽस्तित्रे'त्यस्य 'प्रातिपदिकमात्रादिति शेष' इत्यादिरीत्येत्यर्थः । प्रकृत्य- १ 'श्चोच्यते' पा० । २ 'रेतस्मिन्विषये प्रत्यय उत्पद्यते' पा० । - ॥ ५अ..१ पा.।२ आ.।१२१ सू.] महाभाष्यम् ३५५ स्त्रीपुंसाभ्यां त्वतलोरुपसङ्ख्यानं चोदितं तन्न वक्तव्यं भवति ॥ [आ च त्वात्। न नपूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटवुधकतरसलसेभ्यः।१२१॥ कस्याऽयं प्रतिषेधः ? ॥ त्वतलोरित्याह । नेतदस्ति प्रयोजनम् । इत्येते नपूर्वात्तत्पुरुषात्त्वतलौ,-अब्राह्मणत्वम् अब्राह्मणतेति ॥ अत उत्तरं पठति- ॥ * ॥ न नव्पूर्वादित्युत्तरस्य प्रतिषेधः ॥ * ॥ न नपूर्वादित्युत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते ॥ नैतदस्ति प्रयोजनम् । परिगणिताभ्यः प्रकृतिभ्य उत्तरो भावप्रत्ययो विधीयते, न च तत्र का चिन्नपूर्वा प्रकृतिगृह्यते ॥ तदन्तविधिना प्राप्नोति ॥ ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिः ध्यते॥ यत्र तर्हि तदन्तविधिरस्ति-पत्यन्तपुरोहितादिभ्यो यगिति ॥ यद्ये तावत्प्रयोजनं स्यात्तत्रैवायं ब्रूयात् 'पत्यन्ताद्यग्भवति, नपूर्वात्तत्पुरुषान्ने ति।। एवं तर्हि ज्ञापयत्याचारयः-'उत्तरो भावप्रत्ययो नपूर्वाद्वहुव्रीहेर्भवती ति॥ नेष्यते, त्वतलावेवेष्येते,-अविद्यमानाः पृथवोऽस्य अपृथुः, अपृथोर्भावः प्र.]त्वतलोबधिको प्राप्नुत इति तद्विषये त्वतलौ प्राप्यते । प्राग्भवनादित्यवध्युपादानाच्च नञ्च. जावपि भावे भवतोऽन्यथा 'प्राग्वते'रित्येव वक्तव्यं स्यात् । वत्यर्थे हि नबनभ्यां 'पुंव'दिति लिङ्गान्न भाव्यम् । [ आ च त्वात् ] || न नपूर्वा । कस्यामिति । प्रतिषेध्यस्यानुपादानादनन्तरयोश्च त्वतलोः प्रति- वेधस्याऽनिष्टत्वात्प्रश्नः। आचार्यदेशीय आह-स्वतलोरिति । 'अनन्तरस्य विधि, भवति प्रतिषेधो वेति मन्यते । उत्तरस्य प्रतिषेध इति । अधिकारादस्य सूत्रस्येति भावः। परिगणिताभ्य इति । पृथ्वादिप्रभृतिभ्यो गणे सूत्रे च पठिताभ्यः। यत्र तहीति एतच्चोपलक्षणम्-'हायनान्तयुवादिभ्योऽण्' 'इगन्ताच्च लघुपूर्वात्' 'योपधाद्गुरूपोत्तमाछ'- मित्येतैः सूत्रैर्न पूर्वात्तत्पुरुपादस्त्येव प्रसङ्गः। यद्येतावदिति । अत्र प्रदेशे प्रयोजनाभावा- त्पत्यन्तसूत्रस्य परतः प्रतिषेधो विधेयः स एवोत्तरत्रानुवत्तिष्यते । एवं तहीति । अत्र प्रदेशे प्रतिषेधाधिकारस्योपादानादिमनिजादीनामपि प्रतिषेधो विज्ञायते तत्र तदन्तविध्य- उ.]न्तरेणेति । निराकाङ्कत्वादित्यर्थः । नन्वेवं भावे नस्नो न स्यातामत आह-प्राग्भव- नादिति । एतेन तद्वात्र्तिकशेषभूतं बाबचनमपि प्रत्याख्यातम् । [आ च त्वात् ] ॥ न नपू। ननु त्वतलोरुपस्थितत्वात्कस्येति प्रश्नोऽनुपपन्नोऽत आह-प्रतिषेध्ययस्यति । ननु प्रतियोगिज्ञान नपूर्वकत्वादभावज्ञानस्य कथमुत्तरस्य प्रतिषेधः । अत एवोत्तरप्रतिषेधे 'नेकशी'त्यादौ प्रतिषेध्योपादानमत आह-अधिकारादिति । परिगणनस्याऽदर्शनादाह- पृथ्वादीति । ननु पल्टान्तविषयकनिषेधेन कथं हायनान्तादिविषये सिद्धिरत आह-अन्न प्रदेशे इति । ननु नपूर्वाद्वहुवाहेत्तत्सत्ताशापनेऽपि कथमस्य सार्थक्यमत आह-अन्न प्रदेशे प्रतिषेधेति । इमनिजादीनामपीति । तथा च तद्विपये तदन्तविधिाप्यत इति १ 'प्रतिषेधो वक्तव्यः' पा० । २ 'न च काचित्तत्र नपूर्वा' पा० । । ।
३५६ कैयट-विवरणसहितं. [ननपूर्वा- अपृथुत्वम्, अपृथुतेति ॥ एवं तर्हि ज्ञापयत्याचार्य:-'उत्तरो भावप्रत्ययोऽन्य- पूर्वोत्तत्पुरुषाद्भवतीति ॥ नैवेष्यते, त्वतलोवेवेष्येते,-परमः पृथुः परमपृथुः, परमपृथोर्भावः-परमपृथुत्वम्, परमपृथुता ॥ एवं तर्हि ज्ञापयत्याचार्यः- 'उत्तरो भावप्रत्ययः सापेक्षाङ्गवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ?॥ 'नन्समासादन्यो भाववचनः स्वरोत्तरपदवृद्धयर्थ'मित्युक्तं तदुपपन्न भवति । एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिापयति-'सर्व एव तद्धिताः सापेक्षाभवन्तीति,-यदयं 'नो गुणप्रतिषेधे सम्पायहंहिताऽलमर्थास्तद्धिता' इत्याह ॥ [न नपूर्वात्तत्पुरुषात् ] || प्र.]भावात्प्रसङ्गाभावात्किं प्रतिषेधेन ? कृतश्चासौ नपूर्वाद्वहुव्रीहेरन्यपूर्वाच्च तत्पुरुषात्प्रत्यय- विधानं ज्ञापयतीति पूर्वः पक्षः । अनिष्टत्वेन तूत्तरम् । एवं तहीति । प्रसङ्गाभावात्प्रति- घेधो न कर्त्तव्यः । कृतस्तु शापयति यत्राऽपि विषये उत्तरो भावप्रत्ययो न प्राप्नोति तत्रापि भवति न पृथोर्भाव इति । अत्र हि प्रकृत्यर्थस्य नअर्थापेक्षत्वादसामर्थ्यादिमनिन्न प्राप्नोतीति ज्ञापकाद्भवति-अप्रथिमेति । नब्पूर्वस्य तत्पुरुषस्य प्रत्यासन्ना तदर्थविग्रहवाक्यावस्थेति तद्विषयमेव ज्ञापनमाश्रीयते। त्वतलौ तु कृते नज्समासे भवतो न तु सापेक्षात्, उत्तरप्रत्यय- विषयत्वाज्ज्ञापनस्य । यदयमिति । वत्सेभ्यो न हित इत्यादौ प्रतिषेधापेक्षणात्तद्धिता- उ. भावः । सापेक्षाद्भावप्रत्ययोत्पत्तौ ज्ञापकत्वं यथा तथा दर्शयति-प्रसङ्गाभावादिति । नव्पूर्वतत्पुरुषात्तदन्तविध्यभावेन प्रसङ्गाभाव इत्यर्थः । यत्राऽपि विधये इति । सापेक्षे इत्यर्थः । अयं भावः,-उत्तरपदार्थे युगपदुभयसम्बन्धविवक्षायामसामर्थ्यादप्राप्तः प्रत्ययोऽनेन ज्ञाप्यते! न च ज्ञापितेऽपि कथं चारितार्थ्य, 'नपूर्वात्तत्पुरुषान्न किन्तु ततः प्रागेवेति सूत्रार्थ इत्याशयात् । ज्ञापयतीत्यस्य च-बोधयतीत्यर्थः । तद्धनयन्नाह-अन्न होत्यादि । ननु सापेक्षादित्यर्थज्ञापने 'राज्ञः पृथोर्भाव' इत्यर्थेऽपि स्यादत आह-प्रत्यासन्नेति । भाष्ये-सापेक्षादित्यस्य-नअर्थसापेक्षादित्यर्थः । ननु त्वतलावपि तर्हि सापेक्षात्स्याता, ततो नन्समासे स्वरदोषोऽत आह-स्वतलौत्विति । वत्सेभ्यो न हित इति । अत्र नज- मनपेक्ष्य तद्धितं कृत्वा नन्तत्पुरुषे उत्तरपदार्थसदृशोऽन्यः प्रतीयते, न तु हितत्वादिगुण- प्रतिषेध इति न सूत्रोदाहरणाऽसम्भवः । यद्यार्थी तत्प्रतीतिरस्तीत्युच्यते तदा ज्ञापकत्वाऽ- सम्भवः । पूर्व नसमासे तु तद्धितान्तोत्तरपदाऽभाव इति हितार्थे नअर्थप्रकृत्यर्थयोर्युगपद- न्वयं विवक्षित्वा पूर्व तद्धितं कृत्वा पश्चादवयद्वारकसामाश्रयेण तद्धितान्ते नसमासे उदाहरणत्वं वाच्यम्, तत्र च हितार्थस्य सापेक्षत्वाद्धृत्यप्राप्तौ ज्ञापकत्वमित्यर्थः । 'वत्सार्थे उभयविवक्षेति तु न युक्तं, गुणप्रतिषेधस्याऽप्रतीतेरिति भावः । इदं न युक्तम्, एवं हि प्रत्ययार्थस्य सापेक्षत्वं, न प्रकृत्यर्थस्येति सापेक्षाद्भवन्तीति ज्ञाप्यार्थाऽसङ्गतिः। किञ्च हितार्थस्य प्रधानस्य प्रतिषेधसापेक्षत्वेऽप्यप्रधानस्य वत्सस्य न सापेक्षतेति कुतस्तद्धि- १'त्वतलावेवेष्यते' पा.। २ परमः पृथुरिति पाठः कचिनास्ति । ३'तस्य भावस्त्वतला वित्य- त्रोक्तम् । ४ एते' पा० । ५ इदं स्वरविधायकम् (६।२।१५५)सूत्रं । ६ 'तत्र चरितार्थस्य पा० । .. .
, - ५.अ.११ पा.२ आ.।१२१ सू.] महाभाष्यम् अ.] नुत्पत्तौ नञः परस्य संपाद्याद्यर्थतद्धितान्तस्यान्तोदात्तविधानमनुपपन्नम् । तक्रियमाणं सामान्येन 'सर्बस्तद्धितो नअर्थापेक्षाद्भवतीति शापयति । तदेवं सूत्रमेतत्प्रत्याख्यातम् । त्वतल्भ्यां नन्समास इत्येतदिदानी विध्यर्थे, न नियमार्थम् । चतुरादिभ्यस्तु नअपेक्षेभ्यो- निभिधानात्ष्यन्न भवति। कृते तु नसमासे ब्राह्मणादेराकृतिगणत्वात्म्यजि सत्याचतुर्य मित्यादि भवति । 'यथातथयथापुरयोः पर्यायेणे'त्येतत्सूत्रं विवक्षाभेदेन रूपद्वयसिद्धि मत्वा भाष्यकारेण प्रत्याख्यास्यते । यदा पूर्वं भावविवक्षा पश्चात्प्रतिषेधविवक्षा तदा अयाथातथ्यमयाथापुर्यमिति भवति । पूर्व तु प्रतिषेधविवक्षायामायथातथ्यमायथापुर्यमिति भवति । न पत्युर्भाव इत्यत्र पतिशब्दः केवलं प्रातिपदिकं न पत्यन्तमिति यगभावे त्वतल्भ्यां नन्समास' इति वचनान्नन्समासे कृते त्वतलौ भवतः । न पटो वो, न मनुष्यस्य भावो, उ.] ताऽनुत्पत्तिरिति । 'भवति च प्रधानस्य सापेक्षस्याऽपि समास' इत्यस्योपमितमितिसूत्रे व्यायसिद्धतायाः कैयटे उक्तत्वेन वृत्त्यन्तरेऽपि प्राप्तेः, न्यायाऽप्राप्तौ मानाऽभावात् । अत एव 'पिपठिषति भोक्तुम्' इत्यादौ सन्सिद्धिः, 'भोक्तु'मित्यस्य पठनकर्मकेच्छायामन्वयात् । 'गुणप्रतिषेधग्रहणं ज्ञापक मिति तु वक्तुं युक्तं,तस्य हि 'अगार्दभरथिक' इति, प्रत्युदाहरणम् । तत्र हि गर्दभरथाहणकत्र्तृभिन्न इत्यर्थः । आर्थिकगुणप्रतिषेधसत्त्वात्प्रत्युदाहरणत्वाऽसङ्गति- रेव, अन्यथा 'अवत्सीय' इत्यत्रापि हिताद्यर्थे नअर्थवत्सयोर्युगपदन्वयविवक्षायामपि हितस्य धर्मित्वेन तत्र नमर्थाऽत्यन्ताऽभावाऽन्वये हिताऽभावः प्रतीयते, न गुणप्रतिषेधः। भेदार्थ- कत्वं तु न वाच्यवृत्त्या, अपि त्वायैवेति तस्याऽप्युदाहरणत्वं न स्यात् । 'वत्सहितत्वाऽ- भावबा'नित्यर्थस्तु न, प्रवृत्तिनिमित्तस्याऽन्यत्र विशेषणतायास्तदाश्रयस्याऽन्यत्र विशेष्यता- याश्चाऽदृष्टचरत्वादत्यन्तमव्युत्पन्नत्वाच । सूत्रन्तु गुणप्रतिषेधगम्ये इत्येवं सुयोजमिति न तद्धलादीदृशव्युत्पत्त्यन्तरकल्पनाऽवकाशः । तस्मागर्दभरथेन युगपदुभयविवक्षायां परत्वा- न्तद्धितोत्तरं समासे प्रत्युदाहरणत्वं वाच्यं, तदा हि 'गर्दभरथभिन्नाईणकर्ते'त्यर्थ इति गुणप्रति- घेधाऽभावः । तत्र परत्वात्पूर्वं तद्धिते कृतेऽवयवद्वारकसामर्थ्यमाश्रित्य तद्धितान्तेनैव समा- सः, न तु तदवयवेन, अस्मादेव प्रतिषेधाज्ज्ञापकात् । अन्यथा तद्धितान्तस्योत्तरपदत्वाऽ- भावाद्विध्यप्राप्तौ निषेधवैयर्थ्य स्पष्टमेवेति दिक् । प्रत्याख्यातमिति । अत्र प्रदेशे प्रत्या- ख्यातमित्यर्थः । 'पत्यन्ते' त्यस्याऽग्रे तु 'न नब्पूर्वा'दिति कर्त्तव्यमेवेति बोध्यम् । इदानी- मिति। सापेक्षादपि तद्धित इति ज्ञापने इत्यर्थः। ननु सापेक्षादपि तद्धितोत्पत्तौ चतु- रादिभ्यो युगपदुभयविवक्षायाम्परत्वात्प्रत्ययेऽचातुर्य मिति स्यात्, सूत्ररीत्या तु आचतुर्य- मितीष्यतेऽत आह-चतुरादिभ्य इति । न भवतीति । 'ध्य अिति शेषः । त्वतलौ तु भवत एव, त्वतल्भ्या मिति वचनात् । नन्वेवं कृतनसमासाल्यअपि न स्यादत आह-- कृते विति । नसमासात्यभिष्यत इत्यत्र भाष्यं प्रमाणत्वेनोपन्यस्यति-यथातथेति । 'अचतुरे'त्यादिसूत्रशेषोऽप्यत्र गमकः । स च ब्राह्मणादेराकृतिगणत्वात्प्रत्याख्यातव्य इत्य- न्यत् । अन्यथाऽचतुरेत्यादिसूत्रशेषे कृतेऽपि ष्यब्विधौ तदन्तविध्यभावात्तदप्राप्तिरेव स्यात्। न पत्यन्तमिति । 'व्यपदेशिवद्भावोऽप्रातिपदिकेनेति निषेधादिति भावः । त्वतलो . . ।
कैयट-विवरणसहितं. [पृथ्वादिभ्यः पृथ्वादिभ्य इमनिज्वा ।५।११११२। वावचनं किमर्थम् ? ॥ वाक्यमपि यथा स्यात् ॥ नैतदस्ति प्रयोजन, प्रकृता महाविभाषा तथा वाक्यमपि भविष्यति ॥ इदं तर्हि प्रयोजनं-त्वतला. वपि यथा स्याताम् ।। एतदपि नास्ति प्रयोजनम्,-आ च त्वादित्येतस्मा-- घलावतलावपि भविष्यतः। अत उत्तरं पठति-1॥ * ॥ पृथ्वादिभ्यो वावचनम- पसमावेशार्थम् ।। * ।। पृथ्वादिभ्यो वावचनं क्रियते। [किम्प्रयोजनम् ? ॥] 'अण्समावेशार्थम्' । अण्समावेशो यया स्यात्-पार्थवं प्रथिमा ॥ गुणवचनब्राह्मणादिभ्यः कर्मणि च ।५।१।१२४। ॥ * ॥ ब्राह्मणादिषु चातुर्वण्यादीनामुपसङ्ख्यानम् ॥ * ॥ब्राह्मणादिषु चातुर्वर्ण्या- प्र.]न द्विहायनस्य भाव इत्यादौ पूर्वोक्तशापकान्नञर्थापेक्षत्वेऽपि पूर्व प्रत्ययः पश्चान्नञ्समासः- अपाटवममानुष्यकमद्वैहायनमिति। अशुचिशब्दात्तु तत्पुरुषादिगन्तादितीष्यतएव-आशौच- मिति । 'नञः शुचीश्वरेति पूर्वपदस्य वा वृद्धिरुत्तरपदस्य नित्यम् । न शुक्लस्य भाव इत्यादौ सापेक्षात्ष्यनुत्पत्तौ चाऽशौक्लयमित्यादि भवति । तदेवं सूत्रेऽस्मिन्प्रत्याख्याते लक्ष्यदर्शनवश्याक चिद्भावनिषेधयोर्चुगपद्विवक्षायां ज्ञापकान्नअर्थापेक्षत्वेऽपि पूर्व यथाप्राप्त भावप्रत्ययः पश्चान्नसमासः । त्वतलौ तु कृते नसमासे। क चित्पूर्व भावविवक्षा क चित्पूर्व निषेधविवक्षा। [ न नपूर्वात्तत्पुरुषात् ] । पृथ्वादि । वावचन मिति । वक्ष्यमाणोऽभिप्रायः । आचार्यदेशीयः परिहरति- वाक्यमपीति । अण्समावेशार्थमिति। यत्रोत्सर्गापवादौ विभाषा तत्रापवादेन मुक्ते उत्सगों न प्रवर्तते, वाक्यानुज्ञानार्थत्वाद्विभाषायाः । लिङ्गं च 'पारे मध्ये षष्ठचा वा' 'पीलाया वेत्यादिधु विकल्पवचनमस्यार्थस्येत्यण्समावेशार्थमिह वावचनम्। [पृथ्वादिभ्यः] गुणव । चातुर्वर्ण्यादीनामिति । प्रत्ययान्तोच्चारणं भावकर्मसम्बन्धनिवृत्त्यर्थमिति उ.] भवत इति । नसमासे कृते यक्तु न, 'न नज्पूर्वादिति निषेधात् । तत्र तत्कर्तव्यतायाः उक्तेः । अस्मारकैयटादेतत्प्रदेशे प्रत्याख्याने एव पूर्व कैयटतात्पर्य न सर्वथा प्रत्याख्याने इति बोध्यम् । पूर्व प्रत्यय इति । कृतनसमासात्तु न, पूर्वोक्तयुक्तः। बहुव्रीहेस्तु भवत्येव । अशुचिशब्दादिष्यत इत्यत्र प्रमाणमाह-नजइति । आशौचशब्दाद्भावप्रतीतेरिति भावः । तदेवमिति । तदेवमत्र प्रदेशे प्रत्याख्याते इत्यर्थः । पूर्व निषेधविवक्षे'त्यनन्तरम्-‘एवं व्यवस्थामाश्रित्य सर्वथा सूत्रं प्रत्याख्येयमिति शेषः । लक्ष्यदर्शनवशादिति । एवञ्च 'पत्यन्ते'त्युत्तरमपीदं न कार्यमिति भावः। कृते नन्समासे इति । 'भवत' इतिः शेषः । क्वचित्पूर्वमिति । 'लक्ष्यदर्शनवशादित्यत्राप्यपेक्ष्यते । पत्यन्तादिविषये च पूर्व भावविवक्षैवेति न नन्तत्पुरुषात्तेषाम्प्रसङ्ग इति न तत्राऽपि प्रदेशे 'न नपूर्वात्तत्पुरुषा'दि- ति वक्तव्यमिति भावः ॥ (न नपूर्वात्तत्पुरुषादचतुर ] ॥१२१ ।। १ भाष्यकारशैलीसिद्धोऽप्ययं पाठः क्वचिदपि पुरतके न दृश्यते ।
५अ.१ पा.रआ.११२५सू.]] * महाभाष्यम् दीनामुपसङ्ख्यानं कर्तव्यम् । चातुर्वर्ण्यम् । चातुर्वेद्यम् । चातुराश्रम्यम् ॥ ॥ * ॥ अर्हतो नुम् च ॥ * ॥ अहंतो नुम् च प्यञ्च वक्तव्यः । अहतो भावः आहन्त्यम् । आर्हन्ती ॥ [ गुणवचनब्राह्मणादिभ्यः कर्मणि च ] ॥ स्तेनाद्यन्नलोपश्च ।५।१११२५॥ किमिदं नलोपे वर्णग्रहणमाहोस्वित्सवातग्रहणम् ? ॥ किं चातः ? ? यदि वर्णग्रहणं-स्तेयं, नलोपे कृतेऽयादेशः प्राप्नोति ॥ अथ सङ्घातग्रहणम्, अन्त्यस्य लोपः कस्मान भवति?॥ सिद्धोऽन्त्यस्य लोयो यस्येत्येव, तत्रारम्भ- सामर्थ्यात्सर्वस्य भविष्यति ॥ [ स्तेनाद्यन्नलोपश्च ] ॥ हायनान्तयुवादिभ्योऽण् ।५।१।१३० ॥ * ॥ अण्प्रकरणे श्रोत्रियस्य घेलोपश्च ।।* अण्प्रकरणे श्रोत्रियस्योपसङ्ख्यानं कर्तव्यं घलोपश्च वक्तव्यः । श्रोत्रियस्य भावः श्रोत्रम् ॥ [हायनान्तयुवादि] । ॥ * ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्चमस्या- ध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ।। * ॥ पादश्वायं प्रथमः समाप्तः॥ ५.१२ अ.] स्वार्थ एव ध्यभवति-चत्वारो वर्णाश्चातुर्वर्ण्यम् । चतुर्वेदमेव चातुर्वैद्यम् । अथ वा चतस्रो विद्या अधीते। 'विद्यालक्षणकल्पसूत्रान्तादकल्पादे'रिति ठकः 'सर्वसादेदिगोश्च ल'इति लुक् । चतुर्विध एव चातुर्वैधम् । अनुशतिकादेराकृतिगणत्वादुभयपदवृद्धिः । अहंतो नुम् चेति । 'अर्हः प्रशंसाया'मिति शत्रन्तोऽर्हच्छब्दः पूजाद्यर्थाभिधायी । आर्हन्तीति । पित्करणास्त्रियामपि ष्यजन्तः प्रयोगः । तथा चौचिती मैत्रीत्यादि प्रयुज्यते ।। स्तेना। अयादेशः प्रामोतीति । 'यस्ये'त्यकारलोपस्य पूर्वविधौ स्थानिवद्भावात् । अथेति । 'नानर्थकेऽलोन्त्यविधि रित्येषा परिभाषा प्रयोजनाभावान्नादृता। आरम्भ- सामादिति । अलोऽन्त्यस्येत्यनुसंहारो बाध्यत इत्यर्थः ॥ [स्तेनाद्यन्नलोपश्च ] | हायनान्त । घलोपश्चेति । यदा 'छन्दसः श्रोत्रभावो घंश्च प्रत्यय' इति पक्षस्तदा घस्य लोपो यदा तु 'वाक्यार्थे पदवचन मिति दर्शनं तदा घशब्देन 'इयेति रूपं लक्ष्यते। क चित्तु 'यलोपश्चेति पाठः ॥ * ॥ इत्युपाध्यायजैय्यटपुत्रकैथ्यटकृते महाभाष्यप्रदीपे पञ्चमाध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् । पादश्च प्रथमः समाप्त: ५।१।२। *। उ.]गुणवचन। ननु चतुर्वर्णादिभ्य' इत्येव वक्तुमुचितमत आह-प्रत्ययान्ताविति॥१२४॥ हायनान्त यु । क्वचित्त्विति । तत्र च 'येति सङ्घातग्रहणं, पश्चादिकारस्य 'यस्येति लोपः ॥ [हायनान्तयुवादिभ्योऽण ] ॥ १३० ।। ।। * ।। इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोइयोते पञ्चमस्य प्रथमे द्वितीयमाह्निकम् । पादश्चायं समाप्त: ।५।१।२। ॥ * ॥ १ 'यलोपश्च' इति पा०॥ .
३६० कैयट-विवरणसहितं. [विभाषा तिल- । ॥ विभाषा तिलमाषोमाभङ्गाणभ्यः ।५।२।४। ।। * ॥ तिलादिभ्यः खञ्च ।। * ॥ तिलादिभ्यः खञ्चेति वक्तव्यम् । तिल्यम्। तैलीनम् ॥ किमर्थमिदमुच्यते न यता मुक्त धान्यानां भवने क्षेत्रे ख- जित्येव सिद्धम् ? ॥ न सिध्यति ॥ किं कारणम् ? ॥ * ॥ उमाभङ्गयोरधान्य- स्वात् ।। * । 'धान्यानां भवने क्षेत्रे ख जित्युच्यते न चोमाभङ्गे धान्ये । चमेषु यत्पठ्यते तद्धान्यं न चैते तन्त्र पठ्यते ॥ तत्तर्हि खग्रहणं कर्तव्यम् ? ॥ न कर्त्तव्यं,-प्रकृतमनुवर्तते ॥ व प्रकृतम् ? ॥ 'धान्यानां भवने क्षेत्रे खजिति ॥ यदि तदनुवर्तते-व्रीहिशाल्योढक् 'अवयवकषष्टिकाद्य'दिति। खञ्चे'ति-खजपि प्रामोति । सम्बन्धमनुवर्तिप्यते-'धान्यानां भवने क्षेत्रे खञ्'-[ 'ब्रीहि- शोल्योर्डक' ]-ब्रीहिशाल्योग्भवति ॥ 'धान्यानां भवने क्षेत्रे खज- [यवयेवकषष्टिकाद्यत् ]-यवयवकषष्टिकोद्यद्भवति ॥ 'धान्यानां भवने क्षेन्ने खं'-'विभाषा तिलमाषोमाभङ्गाणुभ्यः' । 'भवने क्षेत्रे खग्रहणमनुवर्तते ॥ प्र. विभाषा । न यता मुक्त इति । महाविभाषया वाक्ये सिद्धे विभाषाग्रहणमुत्सर्ग- प्राप्तचर्थमेवेति भावः । उमाभङ्गयोरिति । निमित्ताभावात्ताभ्यां खोऽप्राप्तिः। विभाषा- ग्रहणं तु तिलमाषाभ्य एव खनः प्राप्तथर्थं स्यात् । चमेविति । 'यवाश्च मे भाषाश्च मे' इति चमेशब्दस्य पुनःपुनरुच्चारणाच्चमे शब्देन तदन्तोऽनुवाका उच्यन्ते । अथ वा 'च मे शब्दस्य 'च'मिति यन्मकारान्तं तदनुकरणं-'च'मिति । आगन्तुना चाऽकारेण चम- शब्दो भवति । चमशब्दो विद्यते येष्वनुवाकेषु ते चमाः । 'अध्यायानुवाकयो 'गिति च्छस्य लुक् । सम्बन्धमनुवतिष्यत इति । धान्यग्रहणेन सम्बन्धमनुरोत्स्यत इत्यर्थः । अथ वा सम्बध्यत इति सम्बन्धः । धान्यग्रहणसम्बद्धमनुवतिष्यते इत्यर्थः। ततो धान्य- सामान्यसम्बद्धं खन्ग्रहणं व्रीह्यादिभिर्वाक्यविशेपैन संबध्यते। भवने क्षेत्र इत्येतत्त प्रत्ययेना:- उ.] विभाषा ति । खभि प्राप्ते वचनम् । यत्रोत्सर्गाऽपवादमिति न्यायात्खजप्राप्तेराह- महाविभाषयेति । उमा-अतसी । भङ्गा-प्रसिद्धा। निमित्ताभावादिति। धान्यत्वा- ऽभावादित्यर्थः । ननु ‘च मा' इति न किञ्चित्प्रसिद्धं, चकारेषु च धान्यानां पाठोऽसम्भवी- त्यत आह-यवाश्च मे इति । ननु च मे शब्देन तद्वदनुवाकोक्तौ मत्वर्थप्रत्ययं विना- ऽसाधुत्वापत्तिरत आह-अथ वेति । एकारान्ताऽनुकरणादेव छलुकि सिद्ध, आगन्तुका- प्रकारपर्यन्तधावनं किमर्थमिति चिन्त्यम् । सम्बन्धस्याऽप्रकृतत्वात्तदनुवृत्तिः कथमत आह- धान्येति । भावे धजिति भावः। अनुरोत्स्यत इति । खात्र कर्ता। धातूनामनेका- र्थत्वादनुपूर्वकवृत्तेरनुरोधोऽप्यर्थ इति भावः। अथ चेति । कर्मणि पञ्। एवञ्चाऽनुव- तिष्यत इति यथाश्रुतमेवेति भावः । ब्रीह्यादिभिरिति । तद्धटितैरित्यर्थः । प्रत्यये. नेति । तस्याऽर्थाकासित्वादिति भावः । अतएव 'विभाषेति सूत्रेधान्याना'मित्यस्यैव निवृत्ति- १ 'सम्बद्धमनुवतिष्यते' पा०।२ उचितोऽप्ययं पाठो नेदानीमुपलभ्यते ।३'खम्भवति' पा०॥ । ।
५ अ.१२ पा.।१ आ.।४ सू.] महाभाष्यम् ३६१ 'धान्याना मिति निवृत्तम् ॥ अथ वा भण्डूकलतयोऽधिकाराः । यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः।। ।। * ॥ अथ वाऽन्यवचनाच्चकाराऽकर- गात्प्रकृतस्यापवादो विशास्यते यथोत्सर्गेण प्रसक्तस्योपवादः ॥ * ॥ अन्यस्य प्रत्ययस्य बचनाञ्चकारस्य चाऽनुकर्षणार्थस्याऽकरणात्प्रकृतस्य खो ढग्यतौ बाधको भविष्यतो यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति । अथ वैतज्ज्ञा- पयत्यनुवर्तन्ते च नाम विधयो न चानुवर्तनादेव भवन्ति ॥ किं तर्हि ?॥ यत्ना- अवन्ति ॥ अथ वा यता मुक्त 'धान्यानां भवने क्षेत्रे खजित्येव सिद्धम् ॥ ननु चोक्तं 'न सिध्यति किं कारणमुमाभङ्गयोरधान्यत्वादिति ? ॥ नैप दोषः, धिनोतेर्धान्यम्, एते चापि धिनुतः ।। अथ वा शणससदशानि धान्यानि ॥ [विभाषा तिलसाषोमाभङ्गाणुभ्यः ] यथामुखसंमुखस्य दर्शनः खः ।५।२।६। अ.] भिधायकेन सम्बध्यते। अथ वेति। यत्रैवार्थित्वं तत्रैवाधिकाराः सम्बध्यन्ते नान्यत्रेत्यर्थः । यथोत्सर्गेणेति। उत्सर्गस्याऽन्यत्र चरितार्थत्वादपवादविषये प्रवृत्तिः सन्दिग्धेत्यसन्दिग्धेना- पवादेनासौ बाध्यते । एवं खनउत्तरार्थायामनुवृत्तौ नान्तरीयकोपस्थानसंभवात्संदिग्धप्रवृत्ति स्वादसन्दिग्धप्रवृत्तिभ्यां ढग्यद्भयां बाधः। 'धान्याना'मित्यनेन प्राप्तस्य खञो ढग्यतावपवादौ न तु तत्रानुवृत्त्या संनिहितस्येति साधर्म्यवैधय॑संभवाद्यथोत्सर्गेण प्रसक्तस्येत्युक्तम् । अथवेति। विभाषाग्रहणमेव ज्ञापयति-अनुवर्तमाना अप्यधिकारा यत्र यत्र यलो विभाषाग्रहणादि- कस्तु तत्रैव भवन्ति नान्यति । अन्यथा विभाषाग्रहणमनर्थक स्यादनुवर्तनादेव खत्र: सिद्धत्वात् । धिनोतेरिति । योगरूढिरियमुमाभङ्गयोरपीति भावः । चमकेषु त्वधान्यान्यपि कानि चित्पठ्यन्ते धान्यान्यपि कानि चिन्न पच्यन्ते । न हि तद्धान्यपरिगणनार्थमिति तत्रा- ऽपाठादुमाभङ्गयोरधान्यत्वं न भवति । शणसमदशानीति । धान्यपरिगणना स्मृतिरियम् ।। [विभाषा तिलमाषोमाभङ्गाणुभ्यः] ॥ उ.]र्भाष्ये उक्ता । मण्डूकस्य चेतनत्वेन तथा गमनसम्भवेऽपि शब्दस्य कथं तथा गमनमत आह-यत्रैवेति । अथित्वम्-आकासा । न तु नदीस्रोतोन्यायेनाऽधिकार इति भावः । अपवादेनाऽसाविति । यथा केन अणिति भावः । नन्वत्राप्युत्सर्गाऽपवादभावसत्त्वाद दृष्टान्तदानॊन्तिकभावोऽनुपपन्नोऽत आह्-धान्यानामित्यनेनेति । सन्दिग्धप्रवृत्तिकत्वा- साधयं बोध्यम् । अनुवृत्त्या सन्निहितस्याऽनुवृत्तिसामर्थ्येन बाधाऽसम्भवाद्वैधयं बोध्यम् । नन्वतिप्रसङ्गोऽत आह-योगरूढिरिति । श्रूयते च 'धान्यमसि धिनुहि देवा'निति । ननु धान्यपरिगणनार्थचमकाऽनुवाकविरोधोऽत आह-अधान्यान्यपीति। अश्मादीनी- त्यर्थः । धान्यान्यपीति । कोद्रवादीनि। भाष्ये-धिनुत इति । प्रीणीत इत्यर्थः। स्मृति- १ भाष्यवात्तिकमिदं न कात्यायनवात्तिकमिति केचित् । २ 'विज्ञायते' पा० । ३ 'अपवाद' इति काचित्कः पाठो न सार्वत्रिकः । ४ 'चकारस्याऽनुकर्षणार्थ' पा० ।
8 कैयट-विवरणसहित [ यथामुख- संमुखेति किं निपात्यते ! ॥ * ॥ संमुखेति समस्याऽन्तलोपः ॥ * ॥ संमु. खेति समस्याऽन्तलोपो निपात्यते । सममुखस्य दर्शनः संमुखीनः ।। अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ।५।२।९। 'अयानयं नेय'इत्युच्यते, तत्र न ज्ञायते-कोऽयः कोऽनय इति ?॥ अयः- प्रदक्षिणम् । अनयः-प्रसव्यम् । प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मि. परैः पदानामसमावेशः सोऽयानयः । अयानय नेयोऽयानयीनः शारः ॥ प्र.] यथामुख। समस्यान्तलोप इति । समं मुखं यत्राऽऽदर्शादौ प्रतिबिम्बाश्रये सति दृश्यते स संमुखीन इति प्रयोगदर्शनान्निपातनमाश्रितम् । संशब्दस्य निपातस्यार्थसंगत्य- भावादनाश्रयणम् । प्रत्ययसंनियोगेनाऽकारलोपो निपात्यमानस्तदभावे न भवति । संमु- खीनादर्शादिसादृश्याचान्योऽप्यभिमुखावस्थानः संमुखीन उच्यत इत्याहुः। [यथामुख] ६. अनुपद । तत्र न ज्ञायत इति । अयनमय इति गमनमात्रमयशब्देनोच्यते । तत्र प्रतिषेधस्त्वनयशब्देनेति विरुद्धार्थाभिधानादयानयं नेय इत्यसमन्वयाशष्या प्रक्षः । अयः प्रदक्षिणमिति । एकद्यतकारापेक्षया शारस्य प्रदक्षिणं गमनमयो, द्वितीयापेक्षा प्रसव्यं वामापरपर्यायं गमनमनयो रूढिवशादुच्यते । परैरिति। द्वितीयातकारसम्बन्धिभिः शारैः पदानां स्थानानां गृहापरपर्यायाणामनाक्रमणमनध्यासनमित्यर्थः । 'ससहायस्य शारस्य परैर्नाक्रम्यते पदम् । असहायस्तु शारेण परकीयेण बाध्यते' इति उ.] रिति । उमाभङ्गयोरपि शणविशेषणत्वाद्धान्यत्वमिति भावः।। [विभाषा तिल] ॥४॥ यथामुखस । ननु समुपसर्गपूर्वारखेनैव सिद्धे निपातनं व्यर्थमत आह-समं मुख- मिति । सर्वं मुखमित्यर्थः । न चाऽत्रार्थे 'सममिति निपातस्य सङ्गतिरस्तीति भावः । दर्शन इत्यधिकरणे ल्युट् । न भवतीति । अत एव भाष्ये 'सममुखस्य दर्शन' इत्येव विग्रहो दर्शितः। तेन 'संमुखस्य दर्शन' इति वृत्तिकारोक्तमयुक्तमिति भावः । नन्वेवं 'संयुगे संमुखीनं त'मित्यादि प्रयोगाऽसङ्गतिरत आह-संमुखीनादर्शादीति ॥ अनुपदसर्वान्ना। अयाऽनययोघंटाऽघटयोरिवाऽर्थः प्रसिद्ध एवेत्यत आह-अयनमिति। एवञ्च प्रकृतान्वययोग्योऽर्थो न ज्ञायत इत्यर्थ इति भावः । ननु प्रदक्षिणप्रसव्यगमनमेकस्य कथमत आह-एकातकारेति। ननु प्रदक्षिणप्रसव्यगमनमात्रे शब्दोलभ्येते, 'शारस्येति विशेषलाभः कथमत आह-रूढीति । उच्यत इति । अयाऽनयशब्दाभ्यामित्यर्थः । भाष्ये-प्रदक्षिणेत्यादि।अनेन गतिविशेषवाच्ययाऽनयशब्दाभ्यां सव्याऽपसव्यगामि- शाराणां तादृशगत्या प्राप्यं स्थलविशेषं शारयुगादिस्थानं लक्षणयोच्यते । ये हि परशार- भिया युग्मादिस्थानं प्रापणीयास्तेऽयाऽनयीना इत्युच्यन्ते इति भावः। पदानां-स्थान- विशेषाणां मध्ये यस्मिन्स्थानविशेषे परैद्वितीयद्यूतकारसम्बन्धिभिः शारैः,-शृणन्त्येभिर्दूत- काराः परस्परमिति शारास्तैरसमावेशोऽनतिक्रमणमित्यक्षरार्थः। तं स्थलविशेषं दर्श- १'संमुखस्य पा०।२'समपदपूर्वान्ने त्यधिकः पाठोऽत्राग्रेकचित्।३ मात्र 'लभ्यते इति पा०, .
, उ.]यति-ससहायस्येति । अयाऽनययोर्भेदात्कर्मधारयामराह-उत्तरपदलोपीति। ५ अ.१२ पा.१ आ.।१० सू.] महाभाष्यम् परोवरपरंपरपुत्रपौत्रमनुभवति ।५।२।१०। परोवरेति किं निपात्यते ? !*परोवरेति परस्योत्त्ववचनम् ।।*) परोवरेति परस्यौवं निपात्यते। यद्येवं 'परस्यौत्त्ववचन मिति प्राप्नोति । शकन्धु- न्यायेन निर्देशः। अथ वा नैवं विज्ञायते-परस्यौत्त्वं निपात्यत इति ॥ कथं तर्हि ? ॥ परस्य शब्दरूपस्यादेरुत्वं निपात्यत इति । परांश्चावरांश्चानुभवति परोवरीणः ॥ अथ परम्परेति किं निपात्यते ? || परपरतरीणां परम्परभावः ।।। परपरतराणां परम्परभावोनिपात्यते। परांश्च परतरांश्चानुभवति परम्परीणः ।। प्र.] द्यूतव्यवहारः । अयसहितोऽनय इत्युत्तरपदलोपी समासस्तत्पुरुषः । अथ वा अय- श्वासावनयोऽयानय इत्येकदेशद्वारेण समुदायस्य कृताकृतादिवट्यपदेशात्समानाधिकरण- समासः, समाहारद्वन्द्वो वा । अयानयमिति। नयतेर्द्विकर्मकत्वादयानयमित्यप्रधानेऽपि कर्मणि द्वितीया, प्रधाने तु कृत्यप्रत्ययः। तत्र के चित्-फलकशिरस्थस्यैव स्वशारवर्ग: मानेयस्याऽयानयीनमित्यभिधानमिच्छन्ति । यस्तु शार एकपा एव संचरति तत्र न भवति प्रत्ययो, यो हि शारः पार्थात्पान्तिरमानीयते स एवायानयं नीयते । अन्यस्त्वयमेव नीयतेऽनयमेव वा ॥ [ अनुपदसर्वान्नायानयं बद्धाभक्षयति ] ॥ परोव । परस्योत्ववचनमिति । परशब्दस्यान्तस्यौकारो निपात्यत इत्यर्थः । तत 'एङः पदान्तादतीति पूर्वैकादेशः । शकन्धुन्यायेनेति । 'शकन्ध्वादिषु पररूपं वक्तव्य’- मिति पररूपेण निर्देशः । परस्येति । अवरशब्दस्यादेरकारस्येत्यर्थः । तत्रागुणः । तत्र के चित्सामान्येन निपातनमिच्छन्ति । तेन खप्रत्ययाभावेऽपि प्रयोग उपपन्नो भवति- 'पारोर्यविदिति 'पारम्पर्यमविच्छिन्न मिति च । अन्ये तु परंपराशब्दमव्युत्पन्नमाचक्षते तस्मात्स्वार्थे व्यजि पारंपर्यमिति भवति । 'पारोवयं विदित्यस्यासाधुत्वमाहुः-प्रत्ययसंनि- योगेनैव निपातनस्य युक्तत्वं मन्यमानाः ॥ [ परोवरपरम्परपुत्रपौत्र ] । समुदायस्य कृताऽकृतादिवदिति। यथा तत्रैकदेशद्वारा समुदायस्य तत्त्वं, तथाऽत्र गति- समुदायस्य किञ्चिदपेक्षया सव्यत्वमन्याऽपेक्षयाऽपसव्यत्वं चेति कर्मधारय इति भावः । समाहारद्वन्द्वो वेति । इदं चिन्त्यं 'सोऽयाऽनय' इति भाष्ये पुल्लिङ्गनिर्देशात् । फलकशिर इति । आरम्भकाले यत्र स्थाने शाराः स्थाप्यन्ते तच्छिरः, तत्र स्थितः शारः परपार्थादात्मपार्थाऽन्तरमानीयते तत्रैवाऽयं प्रयोग इष्यते इति भावः । अन्यस्त्वय- मेवेति । अस्योपपत्तिश्चिन्त्या महद्भिः। अनुपदसर्वान्नायानयं] ॥ ९ ॥ परोवरप । 'उत्वं परशब्दान्तस्येत्यर्थे 'परोवरेत्यसिद्धराह--ओकार इति । मन्य- भाना इति । अत एव 'परांश्च अवरांश्च 'परांश्च परतरांश्चेत्यनादेशेनैव विग्रहो दर्शितो भाष्ये। 'पारोबर्यविदित्येष निरुक्ते दृश्यते प्रयोगः ॥ [ परोवरपरम्पर] ॥१०॥ १ परोवरे परस्योत्त्वं' पा०१२ इतिः क्वचिन्नास्ति।३'परपरतराणाच' पा० ४'परोवर्यवत्' पा०॥ ।
३६४ कैयट-विवरणसहित [समा सम समां समां विजायते ।५।२।१२। इह समांसमीना गौः,-'सुपो धातुप्रातिपदिकयो रिति सुब्लुक प्राप्नोति। * ॥ समां समां विजायत इति लोपवचनादलुग्विज्ञानम् ॥ * ॥ 'समांसमा विजा- यत' इति यलोपवचनादलुग्विज्ञानं भविष्यति । यदयं यलोपं शास्ति तज्ज्ञापयत्याचार्यो-नात्र लुग्भवतीति ॥ * ॥ समां समां विजायत इति यलोप- वचनादलुग्विज्ञानमिति चेदुत्तरपदस्य लुग्वचनम् ॥ * ॥ समां समां विजायत इति यलोपवचनादलुग्विज्ञानमिति चेदुत्तरपदस्य लुग्वक्तव्यः ॥ ॥il सिद्धन्तु पूर्वपदस्य यलोपवचनात् ।। सिद्धमेतत् ॥ कथं ?॥[पूर्वपदस्य यलोपवचनात् ] । पूर्वपदस्य यलोपो वक्तव्यः ।। 114। अनुत्पत्ताबुत्तरपदस्य च वावचनम् ।।१७।। अनुत्पत्तौ पूर्वपदस्योत्तरपदस्य च थलोपोवा वक्तव्यः । समांसमां विजायते । समायां समायां विजायत इति ॥ आगवीनः ।५।२।१४॥ आगवीन इति किं निपात्यते ? ॥ * || गोराङपूर्वपदादा तस्य [गो: प्रतिदाना- प्र.]समांसमाम् । विजायते-प्रसूयत इत्यर्थः । तत्र समायां समायामित्यस्मात्पदसमुदायात् प्रत्ययो बचनाद्भवति । तद्धितान्तत्वात्प्रातिपदिकत्वे सति तदवयवस्योत्तरपदवत्पूर्वपदेऽपि सुपो लुक् प्राशो यलोपवचनान्न भवति । यादः सुबभत्तत्वात्लुब्लुकैव यलोपे सिद्धे सूत्रे यलोपवचनं नियमार्थ-यकारस्यैव लोपो भवति न तु सर्वस्य प्रत्ययस्येत्यर्थः। उत्तरपदस्थ लुग्वचनमिति । यलोपनिपातनात् पूर्वपदवदुत्तरपदेऽपि लुङ् न प्राप्नोतीति भावः । सिद्धं त्विति । तेन पूर्वपद एव यलोपनिपातनादामः श्रवणं भवति । उत्तरपदे तु सुब्लुग्भवत्येवेत्यर्थः । अनुत्पत्ताविति। वाक्ये पूर्वोत्तरपदयो यलोपो वक्तव्यः । तेन रूप्यं भवति ।। [समांसमा विजायते ॥ आगवीनः । किं निपात्यत इति । का प्रकृतिः कः प्रत्ययः कः प्रत्ययार्थ इति प्रश्नः । गोरापर्वादिति । यो गवा भृत आ गोः प्रत्यर्पणात् कर्म करोति स उ.] समांसमां । ननु सकृदुत्पन्नस्य न पुनरुत्पत्तिरत आह-प्रसूयत इति । प्रत्ययाऽ- थोंऽयम् । ननु समुदायस्याऽसुबन्तत्वात्कथं प्रत्ययोऽत आह-पदसमुदायादिति । वीप्सा- द्विवचनमित्यन्ये । ज्ञापकत्वमुपपादयति-तद्धितान्तत्वादिति । तदवयवस्य सुप इत्य- न्वयः। भाष्ये-सिद्धन्तु पूर्वपदस्येति-प्रत्ययसन्नियोगशिष्टम् । नन्वेवं सौत्रनिर्देशाऽ- सङ्गतिरत आह-भाष्ये-अनुत्पत्ताविति । तयाचष्टे-वाक्य इति। भाष्ये-समाया. मिति-अधिकरणत्वविवक्षायां सप्तमी [समांसमां विजायते] ॥ १२ ॥ आगवीनः। नन्वस्यैव शब्दस्य निपात्यत्वात् प्रश्नोऽनुपपन्नोऽत आह-केत्यादि। १ भाष्यवात्तिकमिदमित्यन्ये। २ इदं कचिन्न । ३ नात्र लुग्विज्ञानम्' इति पा । ४ चकारः क्वाचित्कः । ५ 'आङ्पूर्वादा' पा० ।
। - - ५ अ.१२ पा.३१ आ.। २० सू.] महाभाष्यम् त्कारिणि खः।।*! गोरापूर्वपदादा तस्य गोः प्रतिदानात्कारिणि खो निपात्यते । आ तस्य गोः प्रतिदानात्कर्म करोति-आगवीनः कर्मकरः ॥ [ आगवीनः ] ॥ शालीनकौपीने अधृष्टाकार्ययोः ।५।२।२०। किं यः शालायामपृष्टः स शालीनः, कूपे वा यदकार्य तत्कौपीनम् ? ॥ नेत्याह । उत्तरपदलोपोऽन्न द्रष्टव्यः-शालाप्रवेशनमहत्यपृष्टः स शालीनः । कृपाऽवतरणमहत्यकार्य तत्कौपीनम् ॥ [शालीनकौपीने अधृष्टाकार्ययोः ] । बातेन जीवति ।५।२।२१॥ 'बातेन जीवती'त्युच्यते-किं बोतं नाम? ॥ प्र.] आगवीन उच्यते । तत्र वृत्तिविषये गोशब्दो गोप्रत्यर्पणे वर्तते । तत्र आङगोशब्दयो- राङ्मर्यादाभिविध्योरित्यव्ययीभावे ह्रस्वत्वे च कृते खो निपात्यते ॥ [आगवीनः] ॥ शालीनकौपीने । किं यः शालायामिति । अस्यां कल्पनायां शालाकूपशब्दयो- मुख्यार्थत्वमाश्रितं भवतीति भावः । शालायामपृष्ट इति । अन्यत्र धृष्टः । कूप इति । लखनादिकमित्यर्थः । उत्तरपदलोप इति । लोकप्रसिद्धार्थानुवादेन साधुत्वान्वाख्या- नादधृष्टाकार्यमात्रे च शालीनकौपीनशब्दयोः प्रयोगादिति भावः। तत्र वृत्तिविषये शाला- कूपशब्दौ तत्कर्मिकायां क्रियायां वर्तेते इति गम्यमानार्थत्वादप्रयोग एवोत्तरपदस्य लोपः । शालाप्रवेशमिति । अन्यत्र प्रागल्भ्याभावादासितुमश्चक्यत्वाच्छालामेव प्रवेष्टुमर्ह- तीत्यर्थः । कूपावतरणमिति । यदकार्य तत्प्रच्छादनीयत्वात्कूपाक्तरणमर्हतीत्यर्थः । अकार्ययोग्यत्वात्पुरुषलिङ्गमपि कौपीनमुच्यते। तत्साहचर्यात्तदाच्छादनमपि कौपीनम् । अथ वाऽकार्यशब्दे करोतिः क्रियासामान्यवचनः । तेनाऽद्रष्टव्यत्वालजाहेतुदर्शनत्वात्पुरुष- लिङ्गं कौपीनमस्पृश्यत्वाच्च तदाच्छादनम् ॥ [ शालीनकौपीने अष्टा] ॥ वातेन । किं नातं नामेति । वातशब्दस्तावत्सङ्घवचनः । तत्र यः सद्देन जीवति तत्र नातीनशब्दो न प्रयुज्यते नातकर्मणा जीवति तु प्रयुज्यते। जातकर्मणि च उ.] भाष्ये- गोरित्यस्य गोशब्दादित्यर्थः । प्रतिदान-प्रत्यर्पणम् । कारिणीत्यावश्यके णिनिः। 'कर्मण' इत्यादिः। तस्येति-कारिणी त्यनेनाऽन्वेति । तस्य-गोस्वामिनः कर्मकारिणीत्यर्थः । खे-ओर्गुणः ।। [आगबीनः] ॥ १४ ॥ शालीनकौपीने । नन्वीदृगर्थस्य लोकेऽसम्प्रत्ययात्कथमीदृशार्थविषयः प्रश्नोऽत आह- अस्यामिति। लक्षणैकशरणोऽयं प्रष्टा । अन्यत्रेति । शालायान्तु भार्याजितत्वादधृष्ट इत्यर्थः। लोकेति । लक्ष्यैकचक्षुष्कतयोत्तरमिति भावः । नन्वधृष्टस्य शालाप्रवेशनयोग्यत्वं कथमत आह-अन्यत्रेति । आसितुं-स्थातुम् । अद्रष्टव्यत्वे हेतुर्लज्जाहेतुदर्शनत्वम् ।। बातेन जी । ननु वातशब्दस्य सङ्के लोकप्रसिद्धत्वात्प्रश्नाऽनुपपत्तेराह-वातशब्द इति। ननु वातशब्देन तत्कमैव गृह्यतामत आह-जातीनशब्देनेति । इदमर्थे छेन १ 'गोराङपूर्वादा'। २'कारी'। ३ मर्हति कार्य' पा०। ४'किं तनातं नाम' पा०१५'वा' इति पा० । ३६६ कैयट-विवरणसहितं [हैयङ्गवीनं नानाजातीया अनियतवृत्तय उत्सेधजीविनः सङ्घा वाताः। तेषां कर्म बातम् । वातकर्मणा जीवतीति-व्रातीनः ।। [वातेन जीवति ॥ हैयंगवीनं संज्ञायाम् ।५।२।२३। 'हैयङ्गवीन मिति किं निपात्यते ? ॥७॥ ह्योगोदोहस्य हियङ्ग्वादेशः संज्ञायां तस्य विकारे ॥७॥ ह्योगोदोहस्य हियङग्वादेशो निपात्यते संज्ञायां विषये तस्य विकार इत्येतस्मिन्नर्थे । ह्योगोदोहस्य विकारो हैयङ्गवीनं घृतम् ॥ संज्ञाया- मिति किमर्थम् ? ॥ ह्योगोदोहस्य विकार उदश्वित्-अन मा भूदिति ॥ पक्षात्ति: ।५।२।२५॥ ।। * ॥ मूल इति वक्तव्यम् ॥*] पक्षस्य मूलं पक्षतिः । तत्तर्हि वक्तव्यम् ?॥ न वक्तव्यं-मूल इति वर्तते ॥ व प्रकृतम् ? ॥ तस्य पाकमूले पील्वादिकर्णा- दिभ्यः कुणब्जाहचा विति ॥ यदि तदनुवर्तते पाकेऽपि प्रामोति ॥ मूल इत्यनुवर्तते पाक इति निवृत्तम् ॥ कथं पुनरेकयोगनिर्दिष्टयोरेकदेशोऽ. अ.]वातीयशब्देन भाव्यमिति प्रश्नः । नानाजातीया इति ।-एकजातीयक्षत्रियादिसङ्घ- निराकरणम् । अनियतवृत्त इति ।-नियतावृत्त्याऽऽयुधजीविसङ्घनिषेधः । उत्सेध- जीविन इति । उत्सेधः-शरीरं । तदायासेन भारवहनादिना जीवन्ति न तु बुद्धिवैभवे- नेत्यर्थः । वातानां कर्मेत्यत एव निपातनाच्छं बाधित्वाऽभवति । तेषामेषामन्यतमो वातीन उच्यते । यस्त्वन्यस्तत्कर्मणा जीवति स नोच्यते । [वातेन जीवति]॥ हैयङ्गवीनम् । किं निपात्यत इति । प्रकृतिसन्देहात्प्रश्नः । ह्योगोदोहस्येति । शःशब्दस्य गोदोहशब्देन सुप्नुपेति समासः । दुह्यत इति दोहः-क्षीरमुच्यते । ह्यःशब्देन कालप्रत्यासत्तिः प्रतिपाद्यते । तेनाऽविकृतरूपगन्धमेव घृतं हैयङ्गवीनमुच्यते इत्याहुः । पक्षात्तिः । मूल इति वक्तव्यमिति । अन्यथाऽनिर्दिष्टार्थत्वात्स्वार्थे प्रत्ययप्रसङ्गः । कथं पुनरिति । एकस्मिन्नर्थे योगः संबन्धस्तेन निर्दिष्टयोः समुदायाभिधायिद्वन्द्व- निर्दिष्टयोरित्यर्थः । द्वन्द्वस्य तदर्थस्य चैकत्वादेकदेशानुवृत्तिर्न संभवतीति भावः । एकसूत्र- निर्दिष्टानां त्वेकदेशानुवृत्तिदृश्यते । एकयोगनिर्दिष्टानामपीति । अर्थाधिकारपक्ष उ.] भाव्यमिति भावः । अत एव निपातनादिति । एवञ्च सूत्रे योगेन वातशब्द- स्तत्सम्बन्धिकर्मवृत्तिरिति भावः। लक्षणया वातसम्बन्धिकर्मपरत्वेऽसाधुत्वमिति तात्पर्यम् । यस्त्वन्य इति । अनभिधानादिति भावः । इदश्च वृत्तौ स्पष्टम् ॥[बातेन जीवति ] । हैयङ्गवीनं। घृतमिति । नवनीतमिति हरदत्तः॥ २३ ॥ पक्षात्तिः । नन्वेकसूत्रनिर्दिष्टानामेकदेशाऽनुवृत्तेरदर्शनादाह-एकस्मिन्निति । दृश्यत इति। यथाऽत इनित्यादित इपदमात्रस्योत्तरत्राऽनुवृत्तिः । अर्थाऽधिकारमाश्रित्य १ 'हैयंग्वादेशः' पा० । २ अयं पाठः काचित्कः । ३ 'मूल इति प्रकृतमनुवर्तते' इति तु गौडाः पठन्ति उत्तरभाष्यानुरोधात् । ४ 'व्रतानां' पा० । । । - - -- ५अ.२पा.३१ आ.। २७सू.] महाभाष्यम् नुवर्तते एकदेशो वा निवर्तते। एकयोगनिर्दिष्टानामप्येकदेशानुवृत्तिर्भवति यद्यथा-'सङ्ख्याव्ययादेर्डीप' । 'दामहायनान्ताच' । 'सङ्ख्यादे'रित्यनुवर्तते, 'अव्ययादे रिति निवृत्तम् । पक्षात्तिः ] ॥ विनम्भ्यां नानाऔ न सह ।५।२।२७॥ इह नानेति सहार्थो गम्येत, द्वौ हि प्रतिषेधौ प्रकृतमर्थं गमयतः,- न न सह-सहैवेति ॥ नैष दोषो, नाऽयं प्रत्ययार्थः ।। किन्तर्हि ? ॥ प्रकृतिविशेषणमेतत्,-विनजित्येताभ्यामसहवाचिभ्यां नानाजी भवतः ॥ कस्मिन्नर्थे ? | स्वार्थे ॥ [ विनग्भ्यां नानाऔ ] ॥ वेः शालच्छङ्कटचौ ।५।२।२८। कस्मिन्नर्थे शालजादयो भवन्ति ? । 'न सहेति वर्तते ।। भवेत्सिद्ध प्र.]ऽर्थस्यैकत्वाद्विच्छेदाभावान्न स्यादेकदेशानुवृत्तिः। शब्दाधिकारपक्षे तु यस्यैव शब्दस्य स्वरितत्वं प्रतिज्ञातं तत्सदृशशब्दान्तरसंनिधानं योगान्तरे प्रतीयते इति दोषाभावः ।। विनज । सहार्थो गम्यतेति । नसहेति प्रत्ययार्थनिर्देशं मन्यते । प्रकृत्यर्थेन प्रत्ययार्थो विशेषणीयः। ततः प्रतिषेधस्य प्रतिषेधाद्विधिना भाव्यमिति भावः । नायमिति लोकप्रसिद्धार्थानां शब्दानामिह साधुत्वाख्यानात् । लोके च नानाशब्दस्य पृथग्भावाभि- धायित्वान्न सहेति प्रकृयर्थनिर्देशः। यद्येवं सहेत्येव प्रत्ययार्थों निर्देश्यः, विनोः प्रति- बेधार्थत्वात्, 'विगाई भरथिक'इत्यादौ विशब्दस्य गुणप्रतिषेधवृत्तित्वदर्शनात । नैतदस्ति । क्रियावाचिनोऽपि विशब्दात्सहार्थे प्रत्ययो विज्ञायेत,-विगतौ सह, विकृतौ सहेति । इह तु तु विना देवदत्तेन नाना देवदत्तेनेत्यस्याऽसत्त्वभूतस्याऽप्यर्थस्य व्यतिरेकहेतुत्वं भवति, यथा वा मातुः स्मरतीति । [विनभ्यां नानाजी] । वेःशा। कस्मिन्नर्थे शालजादय इति । वक्ष्यमाणप्रत्ययापेक्षंबहुवचनम् । असहार्थस्य उ.] पूर्वपक्षः, शब्दाऽधिकारमाश्रित्योत्तरमित्याह-अर्थाऽधिकारेति। पक्षतिः-प्रतिपत्, पक्षिणां पक्षमूलञ्च ॥ [पक्षात्तिः ] ॥२५॥ विनभ्यां। नन्वसहार्थे वर्तमाननञः स्वार्थे प्रत्यये कथं सहाऽर्थावगतिरत आह- प्रत्ययार्थेति। प्रकृतिविशेषणत्वे प्रत्ययस्याऽर्थाकाङ्क्षा न शान्ता स्यादिति भावः। भाष्ये 'न न सहे'त्यस्य व्याख्यानं-सहैवेति। प्रत्ययार्थत्वाऽभावे हेतुमाह-लोके इति । विगा. दभरथिक इति । 'नजो गुणप्रतिषेध' इति सूत्रे नजित्यस्य प्रत्युदाहरणमिदम् । नन्वेवं 'विनानाना'शब्दयोरसत्त्वभूनाऽर्थाऽभिधायित्वेन चादिवद्ध्यतिरेकहेतुत्वं न स्यादिति 'देवदत्तेन विने'त्याद्यनुपपन्नमत आह-इह त्विति । द्योतकानामेव तत्स्वभावत्वमिति भावः । अत एन 'पृथग्विनानानामिरि ति सङ्गच्छते ।। [विनभ्यां नानाजो] ॥२७॥ वेः शाल । वक्ष्यमाणेति । 'सम्प्रोदश्च कट जितीत्यर्थः । सर्वत्रेति । कटविषये १हिः कचिन्नास्ति । २ 'स्वार्थे इति' पा०। ३ 'सङ्कट चो' इति पा० । , - । - , ३६८ * कैयट-विवरणसहितं [ वेः शालच्छकट विशाले शृङ्गे विशङ्कटे शृङ्गे इति । इह तु खलु सङ्कटमिति सङ्गताऽर्थो गम्यते । 'प्रकट मिति प्रगताऽर्थो गम्यते । 'उत्कट मिति उद्भतार्थो गम्यते ॥ एवं तहि साधने शालजादयो भवन्ति । किं वक्तव्यमेतत् ? ॥ नहि ।। कथमनुच्यमानं गंस्यते ?। उपसर्गेभ्य इमे विधीयन्ते,-उपसर्गाश्च पुनरेवमात्मका,-यत्र कश्चि- क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहुयंत्र हि न प्रयुज्यते ससाधनां तन्न क्रियामाहुः । त एते उपसर्गेभ्यो विधीयमानाः ससाधनायां क्रियायां भविष्यन्ति ॥ एवमपि भवेत्सिद्ध-विशाले शृङ्गे इति । इदन्तु न सिध्यति-विशालो विशङ्कटः ॥ एतदपि सिद्धम् ।। कथम् ? ॥ अकारो मत्व- यः-विशाले अस्य स्तः विशालः । विशङ्कटे अस्य स्त:-विशङ्कट इति ॥ सम्प्रोदश्च कटच् ।५।२।२९। ॥ * ॥ कटच्प्रकरणे अलाबूतिलोमाभ्यो रजस्युपसङ्ख्यानम् ॥ * ॥ कटच्प्रकरणे प्र. सर्वत्राऽसंभवादनुपादानाच प्रश्नः। विशाले इति । नानादेशगमनादस्त्यत्राऽसहा- र्थत्वमिति भावः । किं वक्तव्यमिति । शब्दान्तरवाच्यक्रियाविशेषस्य द्योतका उपसर्गाः। वाचकाभावे द्योत्यार्थाभावादनर्थका एवेति भावः । ससाधनामिति । क्रियोपसर्जन साधनमाहुरित्यर्थः। नियतविषताः शब्दानां शक्तयो दृश्यन्ते यथा द्विदशा इत्यादौ कृत्वोऽर्थाद्यभिधानमिति भावः । उपसर्गेभ्य इति । अन्यत्रोपसर्गसंज्ञादर्शनाद्विषयान्तरे- ऽपि योग्यतामात्राश्रयं प्रादीनामिदमभिधानम् । विशाल इति । शृङ्गयोरेव विगमन- क्रियाकर्तृत्वं न तु गोरिति भावः । विशाले अस्येति। मतुष्प्रत्ययस्तु गव्यनभिधा- नान्न भवति। विशालबानित्युक्तेऽपि विशालगवयुक्तस्य गोष्ठादेरवगमो न तु गोरि. त्यर्थः। व्युत्पत्त्यनुसारेण चेदमुच्यते। गुणशब्दास्तु विशालादयः, साधुत्वान्वाख्यानाय तुकं चिदुपायमाश्रित्य व्युत्पत्तिः क्रियते । यथा प्रतिलोमोऽनुलोम इति । [वेः शालच्छ] संप्रोद। अलाबूतिलोमाभङ्गाभ्य ओषधित्वादवयवेऽलावूशब्दादोरअित्यनि नाते उ.]इत्यर्थः । अनर्थका एवेति । एवञ्च क्रियावृत्तित्वाऽभावात्कथं साधने प्रत्यय इत्यक्रिया- वाचिनोऽपि साधने प्रत्ययो वक्तव्य इत्यर्थः। नन्वेवं सति क्रियाया एव प्राधान्यं स्यादत आह-क्रियोपसर्जनमिति । साहित्यमेव सहार्थः । एवञ्च क्रियासाधने वर्तमानव्यादिभ्यः स्वार्थे प्रत्यय इति भावः। नन्वोदृशेऽर्थे शक्तिग्राहकाऽभावोऽत आह-नियतेति । नन्वत्र क्रियायोगाऽभावात्कथमुपसर्गवमत आह-अन्यनेति । क्रियायोगे इत्यर्थः। शृङ्गयोरेवेति। विगमनक्रियाकर्त्तर्येव तत्साधनादिति भावः । नन्वच्प्रत्ययवन्मतुबपि कदाचित्स्यादत आह-- मतुबिति । परमार्थमाह-गुणशब्दास्त्विति। विशालत्वगुणवद्वोधका इत्यर्थः ।। सम्प्रोदश्च । रजसोऽप्यवयवत्वं मन्यमान आह ओषधित्वादवयव इति । तिलो- १ 'विसङ्कटे' पा० । २ इतिः कचिन्नास्ति। ३ तुः क्वचिन्नास्ति । 'सङ्गतार्थो गम्यते सङ्कटमिति' इति च पा०। ४ इदं कचिन्न दृश्यते। ५'उपसकाथानमिति कचिन्नास्ति । क ५.२ पा.१ आ.२९ सू.] महाभाष्यम् अलाबूतिलोमाभ्यो रजस्युपसङ्ख्यानं कर्त्तव्यम् । अलाबूकटः। तिलकटः। उमाकटः ॥ * ॥ भगायाश्च ॥ * ॥ भङ्गायाश्चेति वक्तव्यम् । भङ्गाकटः॥ ॥* गोष्ठादयः स्थानादिषु पशुनामादिभ्यः। *1 गोष्टजादयः प्रत्ययाः स्थानादिष्वर्थेषु पशुनामादिभ्यो वक्तव्याः। गोगोष्टम् । अविगोष्ठम् ॥ ॥ * ॥ सङ्घाते कर्टेच् ।।१।। सङ्घाते कटच्प्रत्ययो वक्तव्यः। अविकटः। उष्टकटः ।।। विस्तारे पटेचा विस्तारे पटच्प्रत्ययो वक्तव्यः। अविपटः। उष्ट्रपटः ॥७॥ द्वित्वे गोयुगच् ॥७॥ द्वित्वे गोयुगच- शब्दश्च प्रत्ययो वक्तव्यः । उष्ट्रगोयुगम् । खरगोयुगम् । ॥* स्नेहँने तैलच ॥*। स्नेहने तैलच्शब्दश्च प्रत्ययो वक्तव्यः। इडेंदतैलम् । सर्षपतैलम् । ॥[सम्भवने क्षेत्रे शोकटच् ॥ * ॥ सम्भवने क्षेत्रे] शाकटशब्दश्च प्रत्ययो वक्तव्यः । इक्षुशाकटम् । मूलशाकटम् । [॥li शाकिनच्च ।। सम्भवने क्षेत्रे शाकिनशब्दश्च प्रत्ययो वक्तव्यः । इक्षुशाकिनम्। मूलशाकिनम् ॥ प्र.] तिलोमाभ्यां घृतादित्वादन्तोदात्तत्वादनुदात्तादेश्चेत्यभि प्राप्ते भगायास्तृणधान्यानां च ब्यषामित्याधुदात्तत्वादणि प्राप्ते रजसि कटविधिः । गोष्ठादय इति । प्रयोगसमवायि- प्रत्ययरूपं निर्दिष्टम् । चकारस्तु स्वरार्थोऽनुबन्ध आसङ्क्तव्यः । तथा हि-समासा- श्रयेण प्रत्ययाः प्रत्याख्यायन्ते । तत्र चित्स्वरसमासस्वरयोरभेदादेकफलत्वमारम्भप्रत्या- ख्यानयोरुपपद्यते । सर्वत्रादिशब्दः प्रकारे । गवां स्थानमिति । तस्येदमित्यत्रार्थे सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यादिति यति प्राप्ते गोष्ठच्प्रत्ययः। अविकट इति । अवीनां समूह इत्यणि प्राप्ते कटच् । अवीनां विस्तार इत्यत्रार्थे पटच् । अप्रसृते समूहे-अविकटः । प्रसूते त्वविपटः । उष्ट्रगोयुगमिति । द्वावुष्टावित्यत्रार्थे गोयुगच्प्रत्ययः। अन्ये त्वाहुः-उष्ट्रस्य ग्रीवाबन्धने यानाङ्गे गोयुगच्प्रत्ययः । इहुँदतैलमिति । 'लघावन्त' इत्यायुदात्तत्वात्तस्य विकार इत्यण्प्राप्तः । सर्षपशब्दस्य 'सादीनां शाकाना'मित्याधुदात्तत्वे प्राप्ते परत्वादथ द्वितीयं प्रागीषादित्यनुवर्तमाने 'यान्तानां च गुर्वादीनामिति मध्योदात्तत्वं भवति । तयोरनुदा- उ.]माशब्दाभ्यामिति । अत्र तिलस्य घृतादित्वे न मानं, 'तिलाश्च मे' इत्यादावाद्युदात्त- पाठादिति चिन्त्यम् । सर्वत्रादिशब्द इति। अत्रत्यादिशब्दविवरणभूतान्येवाऽग्रिमाणि वचांसि। अप्रसृते इति । उत्तरवात्तिकेवींनिर्देशेऽपि स्वभावगम्योऽयं विशेष इति भावः । अत एव 'प्रस्तीर्णः पटो यथा एव'मित्यादि प्रत्याख्यानभाष्ये वक्ष्यति। द्वावुष्ट्राविति । 'द्वयं युग'मित्यादिवद् द्वयवयवसङ्घाऽभिधायित्वादेकवचनमुष्ट्रगोयुगमित्यति बोध्यम् । यानाङ्गे युगे इति । उष्ट्ररथरूपयानेत्यर्थः । प्रत्ययः-गोयुगच्प्रत्ययः । नन्वेवं गोगोष्ठ'- १ ‘गोष्ठजादयः'पा०। २ गोष्ठादयः पा०।३ 'उष्ट्रगोष्ठ'मिति गौडाः पठन्ति। ४[ * ॥ 'सङ्घ कटच् ॥१॥ सङ्के] कटच्च वक्तव्यः' पा० । ५ [* ॥ 'विस्तारे पटच् ॥ * ॥ विस्तारे ] पटच्च वक्तव्यः पा०। ६ गोयुगशब्दश्च प्रत्ययो वक्तव्यः पा० । 'गोयुगशब्दः' इति 'च' पाठः।७'तैल. शब्दश्च प्रत्ययो वक्तव्यः'पा०। ८'इङ्गुदीतैलं पा०। ९ 'शाकटशब्दश्च प्रत्ययो वक्तव्यः। 'शाकिन- शब्दश्च प्रत्ययो वक्तव्यः पा०।१०एतेन भाष्ये' सङ्घातेकटच्'इत्येवमादयोऽपपाठा एवेति ध्वन्यते।
। । कैयट-विवरणसहितं. ['सम्प्रोदश्च' ।। *। उपमानाद्वा सिद्धम् ||*उपमानाहा सिद्धमेतत् । गवां स्थानं गोष्ठम् । यथा गवां तद्वदुष्ट्राणाम् । कटज्न वक्तव्य इति। यथा नानाद्रव्याणां सङ्घातः कट एवमवयः संहता अविकटः ॥ पटच्चे न वक्तव्य इति । यथा पटः प्रस्तीर्णः एवमवयःप्रस्तीर्णा अविपटः॥ गोयुगशब्दश्च प्रत्ययो न वक्तव्य इति । गवोयुगं गोयुगम्। यथा गवोर्युगं तद्वदुष्ट्रस्य-उष्ट्रगोयुगम्। तैलशब्दश्च प्रत्ययो न वक्तव्य इति । प्रकृत्यन्तरं तैलशब्दो विकारे वर्तते । एवञ्च कृत्वा तिलतैलमित्यपि सिद्ध भवति ॥शाकटशब्दश्च प्रत्ययो वक्तव्य एव । शाकिनशब्दश्च प्रत्ययो वक्तव्य एवं॥ प्र.] तादित्वाद प्राप्तः। इक्षुशाकटमिति । इथूणां भवनं क्षेत्रमित्यर्थे शाकटच्छाकिनचौ । गवां स्थानमिति । गावस्तिष्ठन्ति यस्मिन्निति 'घअर्थे कविधान'मिति कः। तत्र गोष्ठसाधादृष्टादिस्थानमपि गोष्ठशब्देनोच्यते । तत्र विशेषप्रतिपत्त्यर्थमुष्ट्रादीनामन्यत. मेन विशेष्यते । मुख्यगोष्ठप्रतिपत्तये च गोभिरपि गोष्ठस्य विशेषणाद्गोगोष्ठमित्यपि भवति। नानाद्व्याणामिति । रज्जुबीरणादीनामित्यर्थः । तत्साधादन्योऽपि सङ्घातः कट- शब्दाभिधेयोऽविभिर्विशेषितोऽविकट इत्युच्यते। यथा पट इति । विस्तारसामान्याद- न्योऽपि सङ्घातः पटशब्दाभिधेयोऽविभिर्विशेष्यते-अविपट इति । गोयुगमिति । युगशब्देन द्वयमुच्यते, ग्रीवाबन्धनं काष्ठञ्च । तत्र यानाङ्गे युगः पुंस्युक्त इति पुंस्त्वं प्रायिकं- बोध्यम् । प्रकृत्यन्तरमिति । अव्युत्पन्नं विशिष्टस्नेहव्यवाचीत्यर्थः । तिलतैल- मित्यपीति । अपिशब्दात्तैलमपीत्यर्थः । यदि तु तैलच्प्रत्ययो विधीयते तदा विशेषविहितेन तैलचा तिलशब्दादज्वाध्येत । ततश्च तैलमिति न सिध्येत् । यदा त्वव्युत्पन्न एव तैलशब्दो विकारविशेषवाची तदा तिलानां तैलमिति समासे कृते तिलतैलमिति भवति । तिलानां विकार इत्यत्राऽजि तैलमिति । उपमानाश्रयेणाऽपीमुदतैलमित्यादि सिध्यति । तिलविकारो मुख्य तैलं, तत्सादृश्यादन्यदपि तैलमिङ्गुदादिभिर्विशेष्यते । गौणसंभवे च मुख्यतैलप्रतिपादनाय तिलैर्विशेषणात्तिलतैलभित्यपि भवतीति केचिदाहुः । व्युत्पत्त्युपाय एव तिलानां विकारस्तैल- मिति । रूढिशब्दस्त्वयं स्नेहद्रव्यवृत्तिः । तथा च सादृश्यानुकरणमन्तरेणेमुदतैलादयः शब्दाः प्रयुज्यन्ते। यथा प्रकृष्टो वीणायां प्रवीण इति व्युत्पत्तिमात्र क्रियते, कौशलं त्वस्य प्रवृत्ति- निमित्तम् । तेन वीणायां प्रवीण इत्यपि भवति ॥ [ सम्प्रोदश्च कटच् ] ॥ उ.] मिति न स्यादत आह-मुख्यगोष्ठेनि । यथा स्वामिमात्रपरतया प्रयुक्त गोपतिशब्दे गवां विशेषणत्वं गवामसि गोपतिरेक' इत्यादौ । द्वयं-युग्ममित्यर्थः । प्रकारान्तरेणाऽपि इङ्गुद. तैलादीन्साधयन्ति केचिदित्याह-उपमानाश्रयेणाऽपीति । तदूषयति-व्युत्पत्त्युपाय एवे. ति।स्नेहव्यवृत्तिरिति । नेहवद्व्यविशेषवृत्तिरित्यर्थः। सादृश्याऽनुकरण-सादृश्यप्रत्य- यम् । एतेन न हि 'तैलमित्युक्ते सत्नेहद्रव्यरूपं विकारमात्रं प्रतियन्तीति हरदत्तः परास्तः ।। १ 'एवमवीनां सङ्घातोऽपि कटः पा०। २ ‘पटश्च' पा०। ३ 'प्रस्तीर्णः पटो यथैवमवयः' पा०। ४ 'गोयुगच्छब्दश्च' इति, 'गोयुगच्च प्रत्ययो वक्तव्य इति' इति च पा० । ५ 'गवां युगं' 'गोर्युगम्'पा०। ६ 'शाकटशब्दो वक्तव्य एव' पा०। ७ 'शाकिनशब्दश्च' इत्येव कचित्पाठः।
५ अ.।२ पा.।१ आ.।३३ सू.] महाभाष्यम् इनपिटञ्चिकचि च ।५।२।३३॥ ।। * ॥ इनच्पिटच्काः चिकचिचिकादेशाश्च ॥॥ इनपिच्काः प्रत्यया वक्तव्याः, 'चिक-चि-चिक'-इत्येते च प्रकृत्यादेशा वक्तव्याः । चिकिनः । चिपिटः। चिकः ॥ * ॥ क्लिन्नस्य चिल्पिल्लवाऽस्य चक्षुषी ॥ * ॥ क्लिन्नस्य चिल्पि- लित्येतौ प्रकृत्यादेशौ वक्तव्यौ लश्च प्रत्ययोऽस्य चक्षुषी इत्येतस्मिन्नर्थे । क्लिो अस्य चक्षुषी चिल्लः ।। पिल्लः। [॥ * ॥ चुल् च ॥ * ॥ ] चुल चं वक्तव्यः । चुल्लः । यद्यस्येत्युच्यते-चिल्ले चक्षुषी पिल्ले चक्षुषी इति न सिध्यति तस्मानार्थोऽस्यग्रहणेन ॥ कथं चिल्लः पिल्ल इति ? ॥ अकारो मत्वर्थीयः- चिल्ले अस्य स्तः चिल्लः, पिल्ले अस्य स्तः पिल्ल इति ॥ [ इनपिटच्चिकचि च] ॥ प्रमाणे द्वयसज्दनमात्रचः 1५।२।३७ प्रमाण इतिकिमयं प्रत्ययार्थः? ॥॥॥ प्रमाणं न प्रत्ययार्थः ।।। प्रमाण इति नायं प्रत्ययार्थः ॥ व तर्हि प्रत्यया भवन्ति ? ॥ * ॥ तद्वति ॥ * ॥ [ तेवति- प्रत्यया भवन्ति ] ॥ कुत एतत् ? ॥ ॥ * ॥ अस्येति वर्तनात् ॥ * ॥ अस्येति हि वर्तते ॥ क प्रकृतम् ? ॥ 'तदस्य सनातं तारकादिभ्य इत'जिति ॥ प्र.] इनच् । सूत्रे निशब्दस्य द्वावादेयौ प्रत्ययौ च विहितावित्यादेशत्रयप्रत्ययत्रयविधानाय वात्तिकम् । तस्मानार्थ इति । छिन्नशब्दाच्चक्षुर्विशेषार्थाभिधायिनः स्वार्थे लो विधेयः। अ- कारो मत्वर्थीय इति।मर्श आदिषु 'स्वाङ्गाद्धोना'दिति पाठात् । मतुप्त्वनभिधानान्न भवति। प्रमाणे। किमयमिति । सप्तमीनिर्दिष्टस्येह शास्त्रे प्रकृत्यर्थप्रत्ययार्थत्वदर्शनादुमय- सम्भवाच्च प्रश्नः । अस्येत्यनुवर्तनादिति । नन्वेवमपि प्रमेयवाचिनः प्रमाणे प्रत्यय- प्रसङ्गः-उदकं प्रमेयमस्योरोरिति। नैष दोषः । अनियतप्रमेयविषयत्वात्प्रमाणानामेकेन प्रमेयेण विशेषणे दुःसम्बन्धत्वात्प्रमेयस्य तु नियतप्रमाणप्रतिपादनायोरुमात्रादयः शब्दा लोके उ.] इनपिटचि । ननु सूत्रे प्रत्ययद्वयादेशद्वययोर्विधानात्तयोर्वात्तिके उल्लेखोऽसङ्गतोऽत आह-सूत्रे इति । कसन्नियोगेन 'चिकिति कान्त आदेशः । नन्वस्यग्रहणाऽभावे कस्मि- न्नर्थे प्रत्ययोऽत आह-क्लिन्नशब्दादिति ॥ [इच्पिटचिकचि च] ॥ ३३ ॥ प्रमाणे द्वयसा ननु सूत्राक्षरैःप्रत्ययार्थत्वस्यैव प्रतीतेस्तस्याऽर्थाकाङ्क्षायाः सत्त्वाच्च प्रश्नो- अनुपपन्नोऽत आह- सप्तमीति । 'अतिशायने तम बित्यादौ प्रकृत्यर्थत्वं, 'कर्तरि कृ'दि- त्यादी प्रत्ययार्थत्वम् । प्रत्ययार्थत्वे च प्रमेयवाचिनः प्रमाणे प्रत्ययः स्यात्, षष्ठी च समर्थ- विभक्तियोग्यतावशादिति बोध्यम् । नन्विति । यत्तदस्येति निर्दिष्टं प्रमाणचेद्भवती- त्यथ: स्यात्, प्रमाणस्य प्रमेयाऽपेक्षत्वात्तद्वाचित्वम्प्रकृतेरिति भावः । दुःसम्बन्धादिति । इतरनिरूपितप्रमाणत्वप्रतीतिप्रतिबन्धादिति भावः । वस्तुतः शङ्केयं निर्दला, 'अस्येत्यनु- १'चिकिति'इति पाठःक्वचित् । २अयं कचिदपि नोपलभ्यते ।३'चुल्वक्तव्य : पा० । ४'पिल्ले- चक्षुषी' इति कचिनास्ति। ५'प्रमाणे प्रत्ययार्थे इति' इतिपा. । ६'तदस्येत्यनुवर्तनात् । । - بديع कैयट-विवरणसहित [प्रमाणे द्वय- प्रथमश्च द्वितीयश्च ऊर्द्धमाने मतौ मम ॥ [प्रथमेश्च द्वितीयश्च ऊर्ध्वमाने मम मतौ-ऊरुद्वयसम् । [अरुदेवम् । जानुद्वयसम्।] जानुदन्नम् ॥७॥ प्रमाणे लः॥॥प्रमाणे लो वक्तव्यः । शमः दिष्टिः वितस्तिः ॥७॥ द्विगोनित्यं ॥ *। द्वि गोनित्यं लो वक्तव्यः। द्विशमम् । निशमम् । द्विदिष्टिः त्रिदिष्टिः। द्विवि. तस्तिः त्रिवितरितः ॥ किमर्थमिदमुच्यते ? ॥ संशये श्राविणं वक्ष्यति तस्यायं पुरस्तादपकर्षः । ॥ * ॥ डट् स्तोमे ॥ * ॥ डट स्तोमे वक्तव्यः । पञ्च- दशः स्तोमः सप्तदेशः स्तोमः । ॥ * ॥ शैन्शतोडिनिः ॥ * ॥ शन्शतोडिनि. वक्तव्यः । त्रिंशिनो मासाः। पञ्चदशिनोऽद्धमासाः ॥ प्र.] प्रयुज्यमाना साधुत्वेनाऽन्वाख्यायन्ते। प्रथमश्चेति । यद्यायामवाच्येव प्रमाणशब्दः सूत्र उपात्तस्तदोर्ध्वमानेऽप्राप्तौ द्वयसज्दनचौ प्रमाणादपकृष्य विधीयते । अथ तु परिच्छेदकमात्रं प्रमाणमिह गृह्यते तदोव॑मान एव यथा स्यातामिति नियमाय वचनम्। प्रमाणे इति। प्रमाणशब्दा लोके ये प्रसिद्धा दिष्टिहस्तादयस्तेभ्यः परस्य प्रत्ययस्य लुग्भवति । स च संभवान्मात्रच एव । इतरयोरूद्धमान एव हि विधानम् । मात्रचस्त्वविशेषेण परिच्छेदक- मात्रवाचिनः स्मरणात् । द्विगोनित्यमिति। तदन्तविध्यभावागप्राप्तिः । किमर्थमिति नित्यग्रहणम्प्रति प्रश्नः । नहि विकल्पः प्रकृत इति भावः । प्राविणमिति । श्रवणं श्रावः, स यस्यास्तीति श्रावी-मात्रच्प्रत्ययः। तस्य परत्वाच्छवणे प्राप्ते नित्यग्रहणाद्वाधकबाध- नार्थालुगेव भवति। द्वौ शमौ प्रमाणमस्य स्यान्न वा-द्विशममिति । प्रकरणादिवशाच निश्चयसंशयविषयप्रयोगावधारणम् । डट् स्तोम इति । अनायामस्य प्रमाणस्याऽसंभवा. त्परिच्छेदोपाधिकाया: संख्यायाःस्तोमे डट् प्रत्ययः । पञ्चदश मन्त्राः परिमाणमस्य स्तोमस्या उ.] वृत्तिवैयर्थ्यापत्तेरिति बोध्यम् । ननु 'प्ररथमात्र'मित्यादौ मात्रचो दर्शनात्-प्रमाणशब्द- नाऽत्र परिच्छेदकमात्रग्रहणादूर्ध्वमानेऽपि सिद्धावेतावत आह-यद्यायामेति । अत एक चोत्तरसूत्रे परिमाणग्रहणं चरितार्थम् । अन्न पक्षे 'प्रस्थमात्र'मित्याद्यसिद्धिरित्यरुचेराह- अथ त्विति । उत्तरत्र परिमाणग्रहणप्रयोजनन्तु वार्तिककृदेव वक्ष्यति, तक्रकौण्डिन्य- न्यायस्याऽपवादविषयत्वेनाऽत्राऽनाश्रयणाच्च ऊर्ध्वमाने मात्रजपि-उरुमात्रमिति । ननु 'प्रमाणे ल' इत्यत्राऽपि सूत्रवत्प्रमाणशब्देन परिच्छेदकमात्रग्रहणे 'ऊरुद्वयस'मित्या- धनुपपन्नमत आह-प्रमाणशब्दा इति । मात्रचस्त्विति । अत एव 'प्रस्थमात्र मि- त्यादिसिद्धिः। अतएवोत्तरसूत्रस्थे वार्तिके 'मात्रादी'त्यादिग्रहणं चरितार्थम् । आयामाऽ- र्थकप्रमाणग्रहणाऽनुवृत्तौ दध्नादेर्बाधाप्राप्तेस्तद्वैयर्थ्यं स्पष्टमेव । पूर्वेणाऽसिद्धिं दर्शयति- तदन्तेति । ननु प्रमाणे वर्तमानात्परस्य लुगिति तदर्थस्तत्र कस्तदन्तविधेरुपयोगः, न च द्विगुर्न प्रमाण, तहिं प्रत्ययस्याऽप्यप्राप्तिरिति चिन्त्यमिदम् । तस्मात किमार्थ- मिति भाष्यस्य-पूर्वेण सिद्धेर्दिगोरित्यादि व्यर्थमित्येवाशयः। 'प्रमाणे वर्तमानादस्येत्य) १'तृतीयश्चाऽविशेषेण प्रस्थमात्रमपीष्यते' इत्यस्योत्तरार्द्ध लुप्तमासीत् । २ इदं क्वचिन्नास्ति । ३ 'लो वक्तव्य पा०।४'शच्शनो' पा०।५ परिच्छेदमात्र पा०। ६मात्राद्यप्रतिघातायेत्यत्र। ।
। ५ अ. पा.१आ.। ३९सू.] महाभाष्यम् ॥ * ॥ विशतेश्च ॥ * ॥ विंशतेश्चेति वक्तव्यम् । विशिनोऽङ्गिरसः । ।। * ॥ प्रमाणपरिमाणाभ्यां सङ्खथायाश्चापि संशये ॥ * ॥ प्रमाणपरिमाणाभ्यां सङ्ख्यायाश्चापि संशये मात्रज्वक्तव्यः । शममात्रम्। दिष्टिमात्रम् । वितस्ति. मात्रम् । प्रस्थमात्रम् । कुडवमात्रम् । पञ्चमात्राः । दशमात्राः । ॥ * ॥ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् ।। * ॥ वत्वन्तात्स्वार्थे हुयस- मात्रचौ बहुलं वक्तव्यो। तावदेव तावद्द्वयसम् । तावन्मात्रम् ॥ यावदेव यावद्वयसम् । यावन्मात्रम् ॥ [II प्रमाणं प्रत्ययार्थो न तद्वत्यस्येति वर्तनात्। प्रथमश्चद्वितीयश्च ऊर्ध्वमाने मतौ मम ॥ तृतीयश्चाऽविशेषेण प्रस्थमात्रमपीष्यते) प्रमाणे लो द्विगोर्नित्यं डट्स्तोमे शच्शनोर्डिनिः। प्रमाणपरिमाणाभ्यां सङ्ख्यायाश्चापि संशय यत्तदेतेभ्यः परिमाणे वतुप् ।५।२।३९। प्र.] पञ्चदशः स्तोमः । विशिन इति । विंशतिशब्दात्सङ्ख्यामात्रवाचिनः सङ्खयेये प्रमेये डिनिः । 'तिविंशतेर्डि तीति तिलोपः, तस्य 'यस्येति चेत्यकारलोपे कर्तव्येऽसिद्धवदत्रा- मादित्यसिद्धत्वं न भवति, भाष्यकारवचनात्तस्य सिद्धत्वात्। 'तदस्य परिमाण'-'सङ्कथायाः संज्ञे'त्यत्र 'स्तोमे डविधिः पञ्चदशाद्यर्थ'मित्युक्तेऽपि स्त्रियां डीबर्थमिह डड्विधीयते, स्तोमसाहचर्याच्च स्त्रियां प्रयोगः-सप्तदशी रात्रिरिति । तत्र तु डविधानं टाबर्थं यदि प्रयोगो दृश्यते । तददर्शने तु प्रपञ्चार्थम् । डिनेः सामान्यविधानात्तत्र ‘शन्शतोर्डि- निश्छन्दसि वक्तव्य' इति वचनं प्रपचार्थमेव । प्रमाणपरिमाणाभ्यामिति । रूढिशब्दो भेदेनोपात्तौ । शममात्रमिति । शमः प्रमाणमस्य स्यान्न वा, दिष्टिः प्रमाणमस्य स्यान्न बा, कुडवं प्रमाणमस्य स्यान्न वेत्यत्रार्थे मात्रच् । पञ्चमात्रा इति । पञ्च स्युर्न वेति संशय्य मानार्थवाचिनः स्वार्थे प्रत्ययः। अथ वा वृत्तिविषये चेकयो रि- त्यादिवत्सङ्ख्यामात्रवाचिनः षष्ठयर्थे प्रत्ययः । पञ्चत्वसङ्ख्या प्रमाणमेषां स्यान्न वेति पञ्चमात्राः। तावदेवेति । तत्परिमाणं यस्य धान्यादेस्तत्-तावद्धान्यादिकं, ततः स्वार्थे प्रत्ययः । उत्तरसूत्रे तु 'भावः सिद्धश्च डावतो रित्यर्थान्तरे वत्वन्तान्मात्रादिप्रतिपादनम् ।। उ.] जातस्य प्रत्ययस्य लु'गिति पूर्ववात्र्तिकार्थः। अस्य तु 'द्विगोः 'परस्य नित्यं सर्वत्राऽस्य- त्यर्थे संशये चोत्पन्नस्य लु'गिल्यर्थ इत्युत्तराशयः । किञ्च 'परत्वाल्लुको बाधकः संशय मात्र जित्यप्यसङ्गतं; युगपत्प्राप्त्यभावात्, नित्यग्रहणन्तु 'सर्वत्रेत्यर्थकमुभयोः समानम् । 'श्राव' इत्यत्र बाहुलकाद्धञ् । अन्यथा ऋदोरप्स्यात् । ननु 'प्रमाणे'इत्यनुवृत्तेः 'पञ्चदशे'- त्युदाहरणमयुक्तमत आह-अनायामस्येति । मात्रचः परिच्छेदकमात्रे स्मरणादिति कैयटोक्तरिदमुपलक्षणम्-उन्मानपरिमाणयोरपि, डित्त्वन्तु एकविंशे तिलोपार्थे, त्रयस्त्रिंशादौ टिलोपार्थश्चेति बोध्यम् । तस्याऽसिद्धत्वादिति । असिद्धवत्सूत्रस्याऽनित्यत्वादित्यर्थः। तस्य सिद्धत्वादिति पाठे-टिलोपस्य सिद्धत्वादित्यर्थः । भेदेनेति । तेनोन्मानान्न । इत्यत्रार्थे इति । संशयस्य प्रत्यासत्याऽस्येतिप्रत्ययार्थगतधर्मविषयस्यैव ग्रहणमुचितमिति १ इदं कचिन्नास्ति । २ अस्योत्तरार्धलुप्तम् । ३ 'नवेतिसंशय्येति कचित्पाठः। । .
। -- कैयट-विवरणसहित [यत्तदेतेभ्यः किमर्थ परिमाण इत्युच्यते न प्रमाण इति वर्तते ? ॥ एवं तर्हि सिद्ध सति यत्परिमाणग्रहणं करोति तज्ज्ञापयत्याचार्योऽन्यत्प्रमाणमन्यत्परिमाणमिति ।। * ॥ डावतावर्थवैशेष्यान्निर्देशः पृथगुच्यते ॥ * ॥ [डोवतावर्थवैशेष्याद्धि निर्देशः पृथगुच्यते ] ॥ नैतज्ज्ञापकसाध्यमन्यत्प्रमाणमन्यत्परिमाणमिति, उक्तोऽत्र विशेषः ॥ * ॥ मात्राथप्रतिघाताय ; * ॥ एवं च कृत्वा मात्रादीनां प्रतीपातो न भवति ॥ * ॥ भावः सिद्धश्च डावतोः ॥ * ॥ डावत्वन्ताच्च मात्रजादीनां भाव: प्र.] यत्तदे। किमर्थमिति । प्रमाणपरिमाणशब्दयोरेकार्थत्वं मत्वा प्रश्नः। न प्रमाण इति वर्तत इति । काका नञः प्रयोगाद्वर्त्तत एवेत्यर्थः । अथ वाऽनेकार्थत्वान्निपातानां 'ननु'शब्दस्यार्थे 'न'शब्दो वर्त्तते । आचार्यदेशीय आह-एवं तहीति । आचार्य आह-डाव. ताविति । पूर्वाचार्यप्रक्रियाऽपेक्षो निर्देशः। इह तु वतुपं विधायाऽऽसर्वनाम्न इत्यात्त्वं विहितम् । पूर्वाचार्यास्तु डावतुं विदधिरे । अर्थवैशेष्यादिति । विशिष्यत इति विशेषः, विशेषस्य भावो वैशेष्यमर्थस्य वैशेष्यमवैशेष्यम्-अर्थभेदः। तस्मात्परिमाणशब्दस्य पृथडि- देशः क्रियते । उक्तोऽत्रेति। 'आयामस्तु प्रमाणं स्यात्परिमाणं तु सर्वत' इति । मात्राद्यप्र- तिघातायेति । यदि प्रमाण इत्यनुवृत्त्या प्रमाणोपाधिकेभ्यो यदादिभ्यो वतुविधीयते तदाऽसौ विशेषविहितत्वात्सामान्यविहितान्मात्रादीन्वाधेत, परिमाणग्रहणे तु सति भिन्नो पाधिविषयत्वाबाध्यबाधकमावाऽभावः । तेन 'तन्मात्रं यन्मात्र'मित्यादि प्रमाणोपाधौ प्रकृ- त्यर्थे सिद्धं भवतीति । भावः सिद्धश्चेति । तत्परिमाणमस्य धान्यस्य तत्तावद्धान्यं राशी- 3.] भावः। प्रत्ययार्थगतधर्मविषयसन्देहाऽसम्भवादाह-संशय्येति ॥ [प्रमाणे द्वयस]. यत्तदेतेभ्यः। प्रमाणेत्यादि । पूर्वसूत्रे प्रमाणशब्दः परिच्छेदकमात्रवाची, तत्सा- हुचर्यात्, “यावानध्वे त्यादिप्रयोगदर्शनाचेह परिमाणशब्दोऽपि तथेति तदनुवृत्त्यैव सिद्ध- मिति भाव इति केचित् । अस्मादेव ज्ञापकात्तयोर्भेद इत्याचार्यदेशीयमतम् । ज्ञापकं. विनाऽप्यात्सूित्रोक्तरीत्या सिद्धोऽनयोभेद इत्याचार्यपक्षः । डावतोरप्रसिद्धत्वादाह-पूर्वा- चार्येति । पृथनिर्देश इति । अत्र परिमाणशब्देन रूढस्यैव ग्रहणमिति भावः । 'यावानध्वा' 'यावती रज्जुः' 'अधिकरणैतावत्त्वे चेत्यादिनिर्दशास्तु सादृश्याबोध्या इक्तिः तात्पर्यम् । भाष्ये-उक्तोऽन्नेति । 'आरे' दिति सूत्रे इत्यर्थः । प्रमाणोपाधिकेभ्य इति । प्रमाणशब्देन परिच्छेदकमात्रम् । प्रमाणोपाधौ-आयामपरिच्छेदकत्ववदुपाधौ । सर्वतो- मानोपाधौ तु यन्मात्र मिति नेष्यत एव, 'यावदित्येवेष्यत इति भावः । इदमुपलक्षणम्- ऊर्ध्वमानोपाधौ 'तद्दन'मित्यादेः। नन्वेतदर्थमत्र सूत्रे 'प्रमाणे' इति परिच्छेदकमात्रार्थक- मनुवर्त्य 'यत्तदेतेभ्यो बतुप् चेति सूत्र्यताम् । चेन-मात्रादयः। 'प्रथमश्च द्वितीयश्चे'- त्यनेनाऽत्राऽपि नाऽव्यवस्था। सर्वप्रयोगाश्च लक्षणां विनैव सिध्यन्तीत्यपरमनुकूलम् , एवञ्च परिमाणग्रहणं व्यर्थमिति चेन्न, सर्वतोमाने यन्मात्र'मित्यस्याऽनिष्टस्य त्वन्मत्ते १ 'अन्यत्परिमाणमन्यत्प्रमाणम्' पा० । २ अयं पाठः सर्वत्र लुप्तो गौडैरुद्धृतः। ३ 'प्रतिघात' पा०। ४ 'लक्षणं. पा० । - ५.०२ पा.१ आ.१४० सू.] ॐ महाभाष्यम् सिद्धो भवति ॥ वतुष्प्रकरणे युष्मदस्मद्भयां च्छन्दसि सादृश्ये [उपसङ्ख्यानम्] ॥१॥ वतुष्प्रकरणे युष्मदस्मद्भयां छन्दसि सादृश्ये उपसङ्ख्यानं कर्तव्यम् । 'न त्वावाँ अभ्यो दिव्यो न पार्थिवो न जातो न जनिष्यते'। 'स्वावतः पुरूवसो'। 'यज्ञं विश्स्य मावतः । त्वत्सशस्य' । 'मत्सदृशस्येति ॥ [*|| डावतावर्थवैशेष्यानिर्देशः पृथगुच्यते। मात्राद्यप्रतिधाताय भावः सिद्धश्च डावतोः 1] किमिदभ्यां वो घः ॥५॥४॥ केन विहितस्य किमिदग्भ्यां वतुपो वो घत्वमुच्यते ? ॥ एतदेव ज्ञाप- यत्याचार्यो-'भवति किमिदम्भ्यां वतु'बिति, यदयं किमिदम्भ्यामुत्तरस्य वतुपो वो घत्वं शास्ति । अथ वा योगविभागः करिष्यते-'किमिदम्भ्यां'। किमिदम्भ्यां वतुब्भवति । ततो 'वोघ' इति ॥ वश्वाऽस्य घो भवतीति ।। किमः सङ्खयापरिमाणे उति च ।५।२।४।। बहुष्विति वक्तव्यम् । इह मा भूत्-किया । कियन्तौ ।। प्रकृतं, तावत्प्रमाणमस्य कुड्यादेस्तावन्मानम् । यादृग्राशीकृतस्य धान्यस्य दैव्यं तादृगस्या- पीत्यर्थः। एकविषयत्वे तु वतुपैवोक्तत्वाद्विशिष्टस्य प्रमेयस्य तदन्तान्मात्रादयो न स्युः। यस्य हि तावत्प्रमाणं तस्य तत्प्रमाणमिति तावच्छब्दस्यैव तत्रापि प्रयोग: स्यात् । सादृश्य इति । विषयनिर्देशोऽयं, सदृशस्तु प्रत्ययार्थः । [ यत्तदेतेभ्यः परिमाणे चतुप] ॥ किमिदम् । एतदेवेति । आदेशविधानाऽन्यथानुपपत्त्या प्रत्ययोऽनुमीयते ॥ किमः सङ्ख्या । बहुष्विति वक्तव्यमिति । का सङ्ख्या परिमाणमस्य वर्गस्येति यदा वर्गावयवगतससयाविशेषविषय: प्रश्नस्तदा प्रत्ययः प्राप्नोति-कति वर्ग इति । उ.] आपत्तेरिति बोध्यम् । फलान्तरमाह-भाष्ये-भावः सिद्धश्चेति । विशिष्टस्येति । कुड्यादिरूपस्येत्यर्थः। तस्य तत्प्रमाणमिति । साक्षात्-परम्परया वा परिच्छेदक- मित्यर्थः । तावच्छब्दस्यैवेति । 'न कर्मधारयान्मत्वर्थीय' इति न्यायेनेति भावः । अत एव मात्रजायन्तान्न प्रत्ययमाला, परिमाणग्रहणे सर्वतोमानत्वेन बोधाय वतुः, तदन्तात्कुड्यादिबोधाय मात्रजाघपीति सर्वमनवद्यम् । ननु सादृश्ये प्रत्ययं विधाय 'त्वत्सदृशस्येत्यर्थकथनमयुक्तमत आह-विषयेति । परे तु 'उक्तोऽत्र भेद' इत्यत्रत्य . भाष्यात्पूर्वसूत्रे प्रमाणशब्द आयामार्थक एव, अत्र परिमाणब्दश्च सर्वतोमानार्थकः, एवञ्च 'प्रस्थमात्र'मित्यादयः प्रयोगाः, मात्र चस्त्वविशेषेण परिच्छेदकमात्र स्मरणादिति कैयटश्चिन्त्य एवेत्याहुः । [यत्तदेतेभ्यः परिमाणे] । किमः संख्या । ननु 'किया'निति न सङ्ख्याप्रश्नः, किन्तु परिमाणमात्रप्रश्नः, तत्प्रश्ने तु तत्राऽपि बहुवचनमेव 'कियन्त' इतीत्यत आह-का संख्येति । उत्तराशय- १ अयं पाठः काचित्कः। २।। 'किमः सङ्ख्यापरिमाणे इति च बहुषु ।।*। किमः सङ्ख्यापरिमाणे इति च बहुविति वक्तव्यमिति केचित्पठन्ति , - ! ४ कैयट-विमरणसहितं [सङ्ख्याया अव- तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । किमित्येतत्परिप्रश्ने वर्तते, परिप्रश्नश्वाऽनिर्माते, अनिख़तञ्च बहुषु । ध्येकयोः पुनर्नितिं । निख़तत्वाद् ब्येकयोः परिप्रश्नो ने, परिप्रश्नाभावास्किमेव तावन्नास्ति कुतः प्रत्ययः ?।। संख्याया अवयवे तयप् ।५/२।४२। इह कस्मान्न भवति-बहवोऽवयवा अस्याः सङ्ख्याथा इति ? ॥ अव- यवे या सङ्ख्येत्युच्यते न च का चित्सङ्ख्याऽस्ति यस्या बहुशब्दोऽवयवः स्यात् ! । ननु चेयमस्ति-सङ्ख्येत्येव ॥ नैषा सङ्ख्या। [किन्तर्हि ] संज्ञेषा ॥ प्र.] तदा पश्चक इत्याधुत्तरेण भाव्यम् । तस्मादत्र प्रत्ययनिवृत्तये बहुष्विति वक्तव्यमिति भावः। किमित्येतदिति । इहाऽस्येत्यधिकारावदीया सङ्खया पृच्छयते तत्रैव प्रत्ययेनोत्पत्तव्यम् । तत्र यदा वर्गावयवगतसङ्ख्याविशेषप्रश्नस्तदावयवेष्वेव प्रत्ययेन भाव्यं नतु व्यवहितसङ्ख्या- सम्बन्धे वर्ग, ततः कति गावोऽस्मिन्वर्ग इति भवति, कति गावोऽयं वर्ग इति च सङ्घसद्धि- नोरभेदविवक्षायाम् । कियानिति तु परिमाणोपाधौ प्रकृत्यर्थे प्रयुज्यते । सङ्ख्याप्रश्ने तु कियन्त इति बहुवचनान्तस्यैव प्रयोगः। [किमः सङ्ख्यापरिमाणे ] ॥ संख्याया। बहवोऽवयवा इति । उत्सृष्टभेदस्य सङ्ख्यालक्षणस्याऽर्थस्यैकत्वादी- विशेषानवयवान्मत्वा प्रश्नः। अवयवे या सवयेति । अवयवे यः सङ्ख्यावाची शब्दो वर्तते तस्मादस्यत्यधिकारादवयविनि प्रत्ययो भवति । न च सामान्यविशेषयोरवय. वावयविभावः संभवतीति भावः । बहुशब्द इति। बहुशब्दवाच्योऽर्थ इत्यर्थः । अथैवं कल्प्यते-बहव एकत्वगुणा अवयवा अस्या विंशतिसङ्ख्यायास्तत्समुदायस्वरूपायाः सा बहुतयी विंशतिरिति,तथापि प्रत्ययार्थस्य प्रकृत्यों विशेषणमव्यभिचारादनुपपन्नम् । सङ्ख्येत्येवेति। सङ्ख्याशब्दवाच्या सङ्ग्यावयविनीत्यर्थः।नैषा सङ्ख्यति। सङ्ख्याशब्देन सङ्ख्याविशेषो नाभि- उ.] माह-इहेति । व्यवहितसंख्यासम्बन्धे इति । व्यवहितः प्रश्नविषयसंख्यया सम्बन्धो यस्येत्यर्थः । यथा प्रकृते वर्गाऽवयवद्वारा वर्गेण सम्बन्ध इति भावः । तत्र तद- वयवसंख्याप्रश्ने यादृशप्रयोगस्तमाह-कति गावोऽस्मिन्निति । प्रकारान्तरमाह-कति गाव इति। असमस्तमेतत् । तदुपपत्तिमाह-सङ्केति । किमेव तावन्नास्तीति । भाष्यस्य सङ्ख्याप्रश्नार्थको नास्तीत्यर्थः ॥ [किमः सङ्ख्यापरिमाणे डतिच ] ॥ संख्याया अवयवे । ननु संख्याया बह्ववयवाऽसम्भवोऽत आह-उत्सृष्टेति । त्यक्त- भेदस्येत्यर्थः । ननु तथोक्तावपि दोषस्तदवस्थोऽवयवे एव बहुशब्दस्य वृत्तेरत आह-अवयवे य इति । शब्दस्याऽवयवत्वाऽनुक्तेराह-शब्दवाच्य इति। एकत्वगुणा इति । एकत्व- सङ्ख्यारूपा गुणा इत्यर्थः । अव्यभिचारादिति । विशतिसङ्घयाया बहेकत्वावयवकत्वाव्य. भिचारादिति भावः । इदचिन्त्य, तत्तव्यसमुदायरूपत्वस्य विंशत्यादीनां पङ्क्तयादिसूत्रे भाष्ये उक्तत्वेऽपि एकत्वसमूहरूपत्वे न मानम् । किचैवं विंशतिर्गाव इत्यायसिद्धिरिति । १'चः कचिन्न । २ 'न भवतीति क्वचित्पाठः। ३ अयं पाठः कचिदपि न दृश्यते । । ..
५.२ पा.१ आ.॥४४ सू.] ॐ महाभाष्यम् ।। * ॥ अवयवविधानेऽवयविनि प्रत्ययः ॥ * ॥ अवयवविधानेऽवयविनि प्रत्ययो भवतीति वक्तव्यम् । इह मा भूत-पञ्चावयवा दशावयवा इति ॥ अथाऽवयविनीत्युच्यमानेऽवयवस्वामिनि कस्मान्न भवति-'पञ्च पश्व- वयवा देवदत्तस्येति ।। अवयवशब्दोऽयं गुणशब्दः । 'अस्येति चे वर्तते । तेन यं प्रत्यवयवो गुणस्तस्मिन्नवयविनि प्रत्ययेन भवितव्यम् ॥ कंचं प्रत्यवयवो गुणः ? ॥ समुदायम् -- यद्येवल्वयविनीत्यपि न वक्तव्यम् ।।अवयवेषु कस्मान्न भवति । अस्येति वर्तते । सङ्घीया अवयवे] ॥ उभादुदात्तो नित्यम् । अ.] धीयत इत्यर्थः। संझैषेति। एकत्वाादीनां सङ्ख्यात्वजीतयुक्तीना सञ्जयेत्येषा संशा । तत्र सङ्खयाशब्दप्रतिपाद्यस्य सामान्यविशेषस्यावयवित्वासंभव इत्युक्तमेतत्। बहुतयं यूथमित्येतद- वयवावयविभेदविवक्षायां भवति । 'बहुतयं रूपमित्येतचित्रस्य रूपस्यावयवित्वविवक्षायां भवति । यदा तु रूपसामान्यं विवक्ष्यते शुक्लादिविशेषविषयं तदा सामान्यविशेषयोरवयवा- वयविभावाभावान्न भवति । अवयविनीति । स्वार्थे प्रत्ययो मा भूदित्येवमर्थमवयविनीति वक्तव्यम् । अवयवस्वामिनीति । अवयवाः सन्त्यस्येति व्युत्पत्त्या स्वामिनोऽप्यवयविशब्दे- नाभिधानात्तत्रापि प्रत्ययेन भाव्यमिति मत्वा प्रश्नः। अवयवशब्दोऽयमिति । सम्बन्धि- शब्दानियत एव सम्बन्धिनि मत्वर्थीयो भवति । यथा 'पितृमा निति पुत्र एवाभिधीयते, 'पुत्र- वा'निति च पितैव । तथेहाऽप्यवयविशब्देनावयवारब्ध एवोच्यते न तु स्वामीत्यर्थः । अस्येति च वर्तत इति । 'अत इनिठना'वित्यत्र तदस्यास्त्यस्मिन्निति मतु बित्यतोऽस्येति वर्तते । सप्तम्यर्थे विनिठनोरभावः। 'सप्तम्यां च न तौ स्मृताविति वचनात् । अस्येति वर्तत इति । तदस्य संजात'मित्यतः ॥ [ सङ्ख्याया अवयवे तयप् ] ॥ उमा । 'उभयो मणि रित्यवयविनोऽवयव द्वित्वनिमित्तो व्यपदेशः । उभौ पीतलोहिता- उ.] संख्याविशेष इति । नियतपरिच्छेदहेतुर्हि सङ्खयेति भावः । नाऽपि संख्यासंज्ञकत्वं सङ्ख्याशब्दस्येत्यपि बोध्यम् । सामान्यविशेषस्येति । संख्यात्वस्येत्यर्थः। तदाश्रयश्च एकत्वाचतिरित्तो न कश्चिदिति भावः । चित्ररूपस्येति । तच्चाऽतिरिक्तं, समूहोऽतिरिक्त इति वा । अवयवे वर्तमानो यः संख्यासंज्ञकस्तस्मात्तयबित्यर्थ इति भावः । एतेन 'बहुशब्दस्य संख्यावाचकत्वाऽभावात्कथं तय बित्यपास्तम्। भाष्ये-अवयवविधाने इति । अवयवे वर्तमानाद्विधाने इत्यर्थः । अर्थाऽनिर्देशादाह-स्वार्थे इति । अवयविशब्दस्य अवयवारब्धे एव प्रयोगादाह-अवयवा इति । 'कञ्च प्रत्यवयवो गुणः ?' 'समुदाय'मिति भाष्येण अयुतसिद्धाऽवयवाऽनुगतस्तत्समूह एवाऽवयवीति ध्वनितम् । 'स्त्रियाचे ति सूत्रे स्पष्टमेवैतदुक्तम् । नन्वेवमपि सप्तम्यर्थे इनौ तदाधारभूम्यादावतिप्रसङ्गोऽत आह- सप्तम्यर्थे विति ।[सङ्ख्याया अवयवे तयप] । १'उच्यमानेऽप्यवयव' वा०।२ चिन्नास्ति । ३ 'किच' पा०।
? -- । ३७८. ॐ कैयट-विवरणसहितं. [उभादुदात्तो- किमर्थमुदात्त इत्युच्यते ! ॥ उदात्तो यथा स्यात् ।। नैतदस्ति प्रयोजनं,- प्रत्ययस्वरेणाऽप्येप स्वरः सिद्धः॥ न सिध्यति-चितोऽन्त उदात्तो भवती'- त्यन्तोदात्तत्वं प्रसज्येत । अथोदात्त इत्युच्यमाने कुत्त एतदादेख्दात्तत्वं भवि- व्यति न पुनरन्तस्येति ?॥ उदात्तवचनसामर्थ्यावस्थाऽप्रातः स्वरस्तस्य भवि. व्यति ॥ कस्य चाऽप्राप्तः ? ॥ आदेः। अन्तस्य पुनश्चित्स्वरेणैव सिद्धम् ॥ तदस्मिन्नधिकामिति दशान्ताड्डः ।५।२०४५ इह कस्मान्न भवति-एकादश माषा अधिका अस्मिन्कार्षापणशत इति? ॥ * ॥ अधिके समानजातौ ॥ * ॥ समानजातावधिक इष्यते ॥ अथेह कस्मान्न अ.] वयवौ यस्य स उभयः । उभये देवमनुष्या इति वर्गद्वयापेक्षमतिरोहितभेदानां वगिंणाम. भिधानम् । किमर्थमिति। किमप्राप्तमादेरुदात्तत्वं विधातुमुदात्तवचनमुतामन्त्रितस्वर- बाधनार्थमन्तस्यैवोदात्तत्वं विधातुमिति प्रश्नः । उदात्त इति । आदेरिति भावः । स्थानि. वद्भावात्पित्वादनुदात्तत्वं प्राप्त बाधित्वा चित्स्वरे प्राप्त आदेरुदात्तत्वं विधीयते । प्रत्यय- स्वरेणापीति । स्थानिवद्भावात्प्रत्ययत्वात् । चित्स्वरं तु पूर्वपक्षवादित्वान्न पश्यति। सर्व- दर्शित्वे पूर्वपक्षमेव न विदधीत । कुत एतदिति। स्वरान्तरबाधनार्थमन्तस्यैवोदात्तत्वमा स्त्विति मन्यते । हे उभयेत्यामन्त्रितायुदात्तत्वप्रसङ्गः। उदात्तेति । 'पुरस्तादपवादा अनन्तरान्विधीन्वाधन्त' इति चित्स्वर एवानेन बाध्यते नामन्त्रितस्वरः। [उभादुदात्तो] ।। तदस्मिन्न । अधिके समानजाताविति। समाना या जातिस्तस्यां सत्यामधिकेर्थे उ.] उभादु। अयजन्तस्य यथैकवचनान्तत्वं तथा दर्शयति-उभय इति । एवञ्चैकस्याऽव- यविनः प्राधान्यादेकवचननिर्देश इति भावः। 'उभये' इति बहुवचनोपपत्ति दर्शयति- वर्गद्वयेति । द्विवचनन्तु न, अनभिधानात् । तिरोहिताऽवयवभेदवर्गद्वयाऽभिधाने हि तत्सम्भवः । पूर्वपक्षवादित्वादिति । 'अयेति प्रत्ययान्तरं विधेयं, ङीप्तु मात्र जितिप्रत्याहा. राश्रयणात्सिभ्यतीत्याशयः । प्रत्ययान्तर विधाने गौरवं मन्यमान आह-चितोऽन्त इति'- इत्याशयमाह कश्चित् । हे उभयेति । 'हे'शब्दाऽप्रयोगे इदमुदाहरणम् । तत्प्रयोगे तु पदात्परत्वेनाष्टमिकनिघातप्रसङ्ग इति चिन्त्यम् । नामन्त्रितस्वर इति । ननूभ- शब्दस्य 'उभे भद्रे' इत्यादिप्रयोगादन्तोदात्तत्वमावश्यकम्, एवञ्च चित्त्वादन्तोदात्तत्वेऽ. कारस्याऽनुदात्तत्वाद्यस्येतिलोपेऽनुदात्तस्य च यत्रेत्यनेनायुदात्तस्वसिद्धेरुदात्तग्रहणं व्यर्थ- मेवेतिन्न; प्रकृतेरपि शेषनिघातेनाऽनुदात्तत्वात् । न चोभात-'अय' इति निरनुबन्धक प्रत्ययान्तरमस्तु किमुदात्तग्रहणेनेति वाच्यं, पदलाघवाऽभावात् । एतेन-उभादयइति निरनुबन्धकादेशान्तरमस्तु, तस्यान्तरतम्येनाऽनुदात्तत्वात् , उभयशब्दस्याऽन्तोदात्ततया. ऽनुदात्तस्य चेत्यनेनाऽयुदात्तत्वसिद्धेरुदात्तग्रहणं व्यर्थमेवेति परास्तम् । [ उभादुदात्तो]। तदस्मिना प्रकृत्यर्थापेक्षया समानजातीये प्रकृत्यर्थेऽधिके सति प्रत्यय इत्यर्थस्तदाह- । १ 'अन्त्यस्य पा०।
- ५ अ.१२पा.।१ आ.। ४४ सू.] महाभाष्यम् ३७९ भवति-एकादश कार्षापणा अधिका अस्यां कार्षापणत्रिंशतीति ॥1॥ * ॥ इष्टं शतसहस्रयोः।।। शतसहस्त्रयोरधिक इष्यते॥अथेहैकादशं शतसहस्त्रमिति कस्या- धिक्ये भवितव्यम् ? ॥ ॥ यस्य सञ्जाथा तदाधिक्ये डः कर्त्तव्यो मतो मम !!*ll [यस्य सङ्ख्या तदाधिक्ये डः कत्तव्यो मतो मम]।यदि तावच्छतानि सङ्ख्या. यन्ते शताधिक्ये भवितव्यम्। अथ सहस्त्राणि सङ्ख्यायन्ते सहस्त्राधिक्ये भवि- तव्यम् ॥ * ॥ डविधाने परिमाणशब्दानामधिकस्याऽधिकरणाभावादनिर्देशः॥ डविधाने परिमाणशब्दानामधिकस्याऽधिकरणाभावादनिर्देशः । अगमको- निर्देशोऽनिर्देशः। न ोकादशानां शतमधिकरणम् ॥ ॥ * ॥ सिद्धन्तु पञ्चमीनिर्देशात् ॥ * ॥ सिद्धमेतत् ॥ कथम् ॥ 'पञ्चमी. प्र. वर्तमानात्प्रत्ययः। प्रकृतिप्रत्ययार्थयोस्तुल्यजातीयत्वे प्रत्यय इत्यर्थः । न्यायप्राप्तएवायमर्थ उक्तः। तथा ह्येकादशाधिका अस्मिन् गोरात इति वाक्ये शतविशेषणत्वेनाऽप्युपात्ता गावः संनि. धानात्प्रकृत्यर्थमपि विशिंषन्ति । एवं वृत्तावपि 'एकादशं गोशत'मित्युक्ते गावः प्रकृत्यर्थतया प्रतीयन्ते। शब्दान्तरप्रयोगमन्तरेणाऽप्यधिकाधिकिमावस्तुल्यजातिविषय एवं प्रसिद्धः । न च वृत्तौ भिन्नजातीयसङ्खथेयबाचिना शब्देन प्रकृत्यों विशेष्टुं शक्यते, 'सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं ने ति न्यायात् । यस्य सङ्खयेति । 'शतानां सहस्रं शतसहस्त्र'- मिति व्युत्पत्तिः क्रियते, 'सहस्राणां शतं शतसहस्रामिति च। 'सङ्ख्याया अल्पीयस्या' इति द्वन्द्वे चाऽद्वन्द्वे च स्मरणाच्छतस्य पूर्वनिपातः । तत्र शतानां सहस्रमिति शतानि सङ्ख्या- यन्त इति तान्येव प्रकृत्यर्थतया विज्ञायन्ते- एकादश शतान्यधिकान्यस्मिन्शतसहस्रं तदेकादश शतसहस्रमिति। 'सहस्राणां शतं शतसहस्रामिति तु सहस्राणां सङ्ख्थेयत्वात्तेषामेव प्रकृत्य- थत्वम्-एकादश सहस्राण्यधिकान्यस्मिन्नेकादशमिति प्रकरणादिवशाच्छतानां सहस्राणां वा. सङ्घयेयत्वावसायः। 'यस्य सङ्घथा तदाधिक्ये इत्येतत्प्रत्ययार्थेन तुल्यजातीयस्य प्रकृत्यर्थस्या- श्रयणाल्लभ्यतइति नायमपूर्वार्थः। न ह्येकादशानामिति । तेषां शतेऽनन्तर्भावादिति भावः। उ.] समानायेति। न्यायेति । प्रत्यासत्तिन्यायेत्यर्थः। शब्दान्तरेति। 'शब्दान्तरप्रयोग- मन्तरेणाऽपीत्यपिघटितः पाठोऽपपाठः। तत्प्रयोगे तु शब्दतः सन्निहितेन तेनाऽर्थतः सन्निहितं सजातीयं बाध्यते, यथोदाहृते 'एकादश माषा' इत्यादौ । न च तत्र वृत्तिः सम्भवतीत्याह-न चेति। सविशेषणानामिति । इदमुपलक्षणं-सविशेष्याणामित्य- स्यापि । अन्यथा प्रकृते माषाणां विशेष्यत्वात्तदसङ्गतिः स्पष्टैव । वस्तुतः प्रत्यासत्ति- न्यायविरोधादनभिधानाच्च न तथा प्रयोग इति तत्त्वम् । अत एव भाष्ये 'इष्यत" इत्युक्तिः। भाष्ये-कार्षापणत्रिंशतीति-सप्तमी । उत्तरमाह-इष्टं शतेति । 'कस्या- धिक्ये' इति पाठः। प्रत्ययार्थेनेति । 'अस्मिन्नित्यनेनेत्यर्थः । भाष्ये-परिमाण- शब्दानां-शतसहस्ररूपाणाम् , अधिकस्याऽधिकरणाऽभावात्-तत्त्वाऽभावात्-अनि- देश इत्यर्थः । अनन्तर्भावादिति । अन्तर्भावे हि 'वृक्षे शाखा' इतिवत्स्यादधिकरणमिति १ अयं पाठो नेदानीमुपलभ्यते कापि,औचित्यादस्माभिरत्र स्थापितः। २ 'माधिक्यस्या'पा० कैयट-विवरणसहितं. [शदन्तविंशते- 'निर्देशात्' । पञ्चमीनिर्देशः कर्तव्यः-'तदस्मादधिक मिति ॥ स तर्हि पञ्चमीनिर्देशः कर्तव्यः ? ॥ न कर्तव्यः। यद्यपि तावयापके वैषयिके वाधिकरणत्वे संभवो नास्ति-औपश्लेषिकमधिकरणं विज्ञास्यते-एकादश कार्षापणा उपश्लिष्टा अस्मिन्छते-एकादशं शतम् ॥ [1||अधिके समानजाताविष्टं शतसहस्त्रयोः। यस्य सङ्खथा तदाधिक्ये डः कर्त्तव्यो मतो ममा!*1] शदन्तविंशतेश्च ।५।२।४६॥ किमर्थं शद्रहणेऽन्तग्रहणम् ? ॥ * ॥ शद्रहणेऽन्तग्रहणं प्रत्ययग्रहणे यस्मात्स तदादेरधिकार्थम् ॥ * ॥ शनणेऽन्तग्रहणं क्रियते। 'प्रत्ययग्रहणे यस्मात्सविहित- स्तदादेस्तदन्तस्य ग्रहणं भवती'तीह न प्रामोति-एकत्रिंशं शतम्, इच्यते चाऽत्रापि स्यादिति,-तच्चान्तरेण यत्नं न सिध्यतीत्यन्तग्रहणम् । एवमर्थ- मिदमुच्यते ॥ अस्ति प्रयोजनमेतत् ? ॥ किं तहीति ॥ ॥ * ॥ सङ्ख्याग्रहणं च ॥ * ॥ सङ्ख्याग्रहणञ्च कर्त्तव्यम् । इह मा भूत्- गोत्रिंशदधिकाऽस्मिश्छत इति ॥ * ॥ विंशतेश्च ॥ * ॥ विंशतेश्वाऽन्तग्रहणं कर्तव्यम्। इहाऽपि यथा स्यात्-एकविंशं शतम् । चकारात्सङ्ख्याग्रहणं च अ.] पञ्चमीनिर्देश इति । 'यस्मादधिक'मिति निपातना द्धिप्रकल्पितापायाभयणादा पञ्चमी । औपश्लेषिकमिति। एवं चाधिकसम्बन्धे पञ्चमीसप्तम्यौ भवतः। 'अधिका खारी द्रोणेने ति कर्तरि तृतीयाऽपि भवति ॥ [ तदस्मिन्नधिकमिति ] ॥ शदन्त । अन्तग्रहणमिति। केवलस्य शतःप्रातिपदिकस्याऽसंभवात्प्रत्ययग्रहणपरि- भाषया वा तदन्तविधिभविष्यतीति प्रश्नः । सङ्ख्याग्रहणं चेति । 'सङ्ख्याया अवयवे तय'- बित्यतः 'ससथाया' इत्यनुवर्तत इति व्याख्यानं कर्त्तव्यमित्यर्थः । एकत्रिंशदादयश्च शब्दाः उ.] भावः । औषश्लेषिकमिति । उप-समीपे श्लेषः-सम्बन्धः तत्कृतमित्यर्थः । एवञ्चेति । अत एवैतन्निर्देशोपपत्तिः । कतरि तृतीयेति । अधिकशब्दार्थान्त- गताऽध्यारोहणक्रियायाचाऽन्वय इति भावः । एवं च षष्ठीव्यावृत्तये 'कर्तृकर्मणो रिति सूत्रे कृङ्गणस्यावश्यकत्वेन तत्सूत्रस्थभाष्यमसङ्गतं स्यात् । तस्मादुपश्लिष्टा इति क्रियापेक्ष- मधिकरणत्वमिति भाष्याशयः। कर्तृ द्वारा चेदमधिकरणं, कर्तृ चेदमुपश्लिष्टमिति । तृतीया तु प्रकृत्यादित्वादत्रेति तत्त्वम् । तद्धनयन्नाह भाष्ये--एकादश कार्षापणा उप- श्लिष्टा अस्मिन् शत इति । शदन्त । ननु 'ग्रहणवतेति निषेधाद्दशान्तादितिवदिदमप्यन्तग्रहणमत आह-केवल. स्येति । एवञ्च प्रातिपदिकग्रहणाऽभावान्न निषेधप्रवृत्तिरिति भावः। प्रत्यग्रहणपरिभाषया वेति । सामर्थ्यापेक्षो विकल्पः। त्रिंशदादिषु निपातनाच्छत्प्रत्ययः। नन्वेकत्रिंशदादयोऽपि सङ्ग्यासमूहवाचका न सङ्घयावाचका इति तेभ्यः प्रत्ययाऽनुपपत्तिरत आह-एकत्रिंशदा- १ 'अधिकरणे' पा०।२ 'एवमर्थमुच्यते' पा० । ।
. ७ अ.१२ पा. १ आ.४७सू. ॐ महाभाष्यम् कर्तव्यम् । इह मा भूत्-गोविंशतिरधिकाऽरिंमच्छत इति ॥ [शदन्तविंशतेश्च । सङ्ख्याया गुणस्य निमाने मथट् ।५।२।४७॥ ॥ * ॥ निमाने गुणिनि ॥ * ॥ 'निमाने गुणिनीति वक्तव्यम् ॥ किं प्रयो- जनम् ? ॥ गुणेषु मा भूत् ।।॥ * ॥ भूयसः ॥ * ॥ भूयस इति च वक्तव्यम् ॥ प्र.]सद्धथान्तरस्य नरसिंहादय इव जात्यन्तरस्य वाचका न तु सङ्ख्यासमूहस्य। विशतेश्चेति। ग्रहणवतेति तदन्तविधिनिषेधात्तदन्तादपि यथा स्यादिति वचनम् । शदन्तविंशतेश्च] । सङ्ख्यायाः। तदस्य सात'मित्यतस्तदस्येत्यनुवर्तते । 'मेङ् प्रणिदाने' इत्यस्मा- द्धातोः करणे ल्युटि निमानशब्दः, स च मूल्यवाची। प्रकृत्यर्थविशेषणं चैतत् । निमाने वर्तमानात्सङ्घयावाचिनोऽस्येति षष्ठयर्थे मयट्प्रत्ययो गुणस्य चेन्निमानं भवति। गुणशब्दः समानावयववचनः । निमानस्य निमेयापेक्षत्वान्त्रिमेयं प्रत्ययार्थः संपद्यते। निमानस्य च गुणत्वमन्तरेण निमेयस्य गुणत्वं नोपद्यते इति सामर्थ्यान्निमानस्यापि गुणत्वं विज्ञायते । 'यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवाना'मित्युदाहरणम् । भाग- विशेषप्रतिपत्त्यर्थं यवादेःप्रकृत्यर्थविशेषस्योपादानं नित्यसापेक्षत्वाच्च वृत्तिर्भवति । सङ्खयेति किम् ?-'यवभागौ निमानमस्योदश्विद्भागस्य' । गुणस्येति किम् ? 'द्वौ कार्पापणौ निमानमस्यबीहेमियो व्रीहिः कार्षापणयो' रिति माभूत् । निमान इति किम् ? । यवानां दौ भागौ समीपेऽस्योदश्विद्भागस्ये त्यत्र माभूत् । गुणिनीति। 'द्विमयमुदश्चि'दिति-गुणिनि- निमेये प्रत्ययो यथा स्यादित्येवमर्थम् । गुणेषु मा भूदिति । स्वार्थे मा भूदित्येव- .] दय इति । सङ्ख्यान्तरस्य समूहविशेषरूपस्येत्यर्थः । न तु सङ्ख्यासमूहस्येति । त्रिंशत्त्वैकत्वसमूहस्येत्यर्थः । अत एव 'नान्तादसंख्यादे'रिति चरितार्थम् । ननु विंशति- शब्दोत्तरमन्तग्रहणे व्यपदेशिवद्भावनिषेधात्केवले प्राप्ताविहापीति भाष्येऽपिशब्दोऽनुपपन्न इति चेन्न; 'अन्तग्रहणं कर्त्तव्य मित्यस्य तदन्ताचेति वक्तव्यमित्यर्थात् । संख्याया गुण । स्पष्टप्रतिपत्तये सूत्रार्थ पदप्रयोजनानि चाह-तदस्येत्यादि । समा- नाऽवयववचन इति । "द्विगुणं' 'त्रिगुणमित्यादौ तथा दर्शनात् । व्याख्यानचाऽत्र शरणम् । सामर्थ्यादिति । गुणत्वं-समानाऽवयवत्वम् । तद्धटकसमानत्वं निमेयस्य किमपेक्षमित्याकाङ्क्षायां सन्निधानान्निमानाऽपेक्षमिति सामर्थ्यान्निमानस्याऽपि भागत्वमर्थसिद्धमिति भावः । केचित्तु-गुणस्येति मध्यमणिन्यायेनोभयाऽन्वयि, तेन गुणस्य निमाने वर्तमानाद्गुणगतसङ्ख्यावाचकात्प्रत्यय इत्यर्थमाहुः । भागविशे- पेति । भागिविशेषसम्बन्धिभागविशेषेत्यर्थः । नित्यसापेक्षत्वादिति। वृत्तौ ध्यादीनां भागरूप सङ्खयेय एव वृत्तेरिति भावः । गमकत्वावृत्तिरिति युक्तम् । तदस्मिन्नधिक'- मित्यनेन विच्छेदात्तदस्येति नाऽनुवर्तत इत्यभिप्रेत्य वात्तिक-गुणिनीति । निमेये इत्यर्थः । गुणेषु मा भूदिति । निमानरूपेषु इत्यर्थः । तदाह-स्वार्थ इति । १चकारः कचिन्नास्ति।
ॐ कैयट-विवरणसहित [ सवाया गुणस्य किं प्रयोजनम् ? ॥ भूयसो वाचिकायाः सङ्ख्याया उत्पत्तिर्यथा स्थादल्पीयसो चाचिकायाः सङ्ख्याया उत्पत्तिर्मा भूदिति ॥ * ॥ एकोऽन्यतरः ॥ * ॥ 'एकश्वेद- न्यतरो भवतीति वक्तव्यम् । इह मा भूत्-'द्वौ यवानां त्रय उदश्वित' इति । । * ।। समानाम् ।। * ॥ समानां चेति वक्तव्यम् । इह मा भूत्-'एको यवानामध्येद्धमुदश्चित' इति ॥ तत्तहीदं बहु वक्तव्यम् ? ॥ न वक्तव्यम् । यत्तावदुच्यते-'गुणिनीति वक्तव्य मिति, न वक्तव्यम् ॥ गुणेषु कस्मान्न भवति ? | 'अस्येति' वर्तते [॥ * ॥ उक्तं वा ॥ * ॥ उक्तं वा । किमुक्तम् ? ॥ ॥ * ॥ अनभिधानादिति ॥*1] यदुक्तं-'भूयस इति वक्तव्य मिति,-न वक्तव्यम् ॥ अल्पीयसो वाचि- कायाः सङ्ख्याया उत्पत्तिः कस्मान्न भवति ? ॥ अनभिधानात् ॥ प्र.] मर्थः । अन्यथा 'द्वौ यवानां गुणौ निमानमस्योदश्विद्भागस्य द्विमयो यवानामुदश्वित' इति स्वार्थे मयट प्रसज्येत । भूयस इति । निमेयभागसङ्ख्याया निमानभागसङ्ख्या यदाधिका भवति तदा प्रत्ययो यथा स्यादेको यवभागो निमानमस्योदश्विद्भागस्येत्यत्र मा भूदिति । एकोन्यतर इति । अन्यतरशब्देन निमेयमेव विवक्षितम् । एक एव यदि निमेयगुणो भवति तदा प्रत्ययः,-द्वयोर्बहुषु च निमेयगुणेषु न भवति । द्वौ यवानां त्रय उदश्चित इति । नन्वत्र भूयस्त्वाभावान्न भविष्यति, एवं तहि उदाहरणदिगियम् , इदन्त्वनोदाहरणं-त्रयो यवानां द्वावुदश्वित इति । अथवा 'दौ यवानां निमेयौ त्रय उदश्वितो भागा निमान मिति विवक्षायामुदाहरणम् । एको यवानामध्यर्द्धमुदश्वित इति । 'भूयस' इत्येतदनपेक्ष्येदमुदाहरणम् । तदपेक्षायां तु द्वौ यवानामध्यर्द्धमुदश्वित'इत्युदा. हार्यम् । अन्ये त्वध्यर्द्धशब्दात्प्रत्ययनिवृत्त्यर्थमिदमुदाहरणमित्याहुः । तदयुक्तम् । अध्यर्द्ध- शब्दस्य समासकनोरेव सङ्ख्यासंज्ञात्वादन्यत्र संख्यात्वाभावात् प्रत्ययाऽप्रसङ्गात् । अध्यर्द्धपञ्चमादयोऽपि समासकनोरेव सङ्ख्यासंज्ञा नान्यत्रेति तेभ्योऽपि प्रत्ययाऽ- प्रसङ्गः । अस्येतिवर्तत इति । ततः स्वार्थे मयण्न भवति। किंतर्हि ? निमेये क्षीरादौ उ.] भूयस' इत्युक्तर्द्विमथमिति न स्यात् , भूयस्त्वञ्च किमपेक्षं ग्राह्यमत आह-निमेयेति। यदाधिकेति । आधिक्यमानं विवक्षितं न तु बहुत्वं नाऽप्यतिशय इत्यर्थः । निमानेऽधिकत्वस्योक्तत्वात्सामर्थ्यमवलम्ब्याह-अन्यतरशब्देनेति। द्वौ भागौ यवानां निमानमुदश्वितस्त्रयो भागा निमेय'मित्यर्थं मत्वा शङ्कते-नन्विति। निमाननिमेयभावस्य वैपरीत्ये तु न शङ्कति बोध्यम् । भाष्ये-समानाञ्चेति । निमेयभागस्य येन केनापि निमानभागेन समानत्वे सति यदा निमेयसङ्खथा निमानसङ्ख्यातोऽधिका तदा प्रत्यय इत्यर्थः । अन्ये विति । पूर्वोक्ताऽथवेति प्रकाराऽनुसारेणेति भावः । सङ्ख्यात्वाऽभावा- दिति । एतेन ‘एको यवानामर्द्धमुदश्चित इति भाष्ये पाठ' इत्यपास्तम् । ननूदाहरणे 'द्विमयमुश्वि'दित्युक्तं, द्विमय उदश्विदाग' इत्येवोचितमत आह-निमेयगुणमात्रे १ 'समानानां वा' इति पा०।२ 'अध्यर्द्ध उदश्चित इति पा०।३|| अयं पाठः क्वाचित्कः । - ७ ५ अ॥२ पा.१ आ.।४७ सू.] महाभाष्यम् यदुक्तमेकश्वेदन्यतरो भवतीति वक्तव्यमिति,-न वक्तव्यम् ।। भवति-द्वौ यवानां त्रय उदश्चित' इति ? ॥ तन्त्रं विभक्तिनिर्देशः ॥ यदप्युच्यते-'समानामिति वक्तव्य मिति,-न वक्तव्यम् । करमान्न भवति-'एको यवानामध्यर्द्धमुदश्वित' इति ?॥ अनभिधानात् । {{ * ।। निमेये चौऽपि दृश्यते ॥ * ॥ निमेये चोऽपि प्रत्ययो दृश्यते । द्विमया यवाः, त्रिमयाः ॥ किं पुनरिह निमानं किं निमेयं, यावतोभयं त्यज्यते ?॥ सत्यमेवमेतत्-क्वचित्तु का चित्प्रसृततरा गतिर्भवति ? ॥ तद्यथा,-समाने त्यागे 'धान्यं विक्रीणीते' 'यवान्विक्रीणीते' इत्युच्यते, न कश्चिदाह-कार्षापणं विक्रीणीत' इति । अथ वा येनाधिगम्यते तन्निमानं, यदधिगम्यते तन्निमेयम्॥ तस्य पूरणे डट् ५।२।४८ ॥ * ॥ तस्य पूरण इत्यतिप्रसङ्गः ॥ * ॥ तस्य पूरण इत्यतिप्रसङ्गो भवति । प्र.] स्वभागापेक्षया लब्धगुणिव्यपदेशे। निमेयगुणमाने तु प्रत्ययो न भवति, अनभिधा- नात् । तन्त्रमिति । 'पशुना यजेते'त्यादिवद्गुणस्येत्येकत्वसङ्घथा विवक्षिता। एतदर्थमेव गुणनिमाने' इति लघुरपि समासनिर्देशो न कृतः। अनभिधानादिति । अन्यूनाधिक कगुणमुदश्विदादि निमेयं वक्तुं प्रत्ययान्तरस्य सामर्थ्यादित्यर्थः। द्विमया यवा इति । उद- श्चितो द्वौ गुणौ निमेयौ येषामेकगुणानां यवानां ते द्विमयाः । यावतेति । तथा च निमेय- स्यापि निमानत्वान्निमेये चापि दृश्यत इति न वक्तव्यमिति मन्यते । प्रसृततरा गति- रिति। आशु द्रागिति प्रतिपत्तिरित्यर्थः। अथ वेति । येन मूल्येन करणेन अय्यं प्राप्तु मिष्यते तन्त्रिमानं, यत्प्रेप्स्यते तन्निमेयमित्यर्थः । देशकालापेक्ष्यव्यवहारापेक्षत्वान्निमाननिमेयभावस्य। तस्य पूरणे डट् । तस्येति सम्बन्धमात्रं विवक्षितं नैकत्वम् । न ह्येकस्य पूरणं संभवतीति उ.] विति । निमैये भागमात्रे इत्यर्थः । भाष्ये-तन्त्रमिति । विधेयगतत्वाऽभावेऽपि लक्ष्याऽनुसाराद्विवक्षा, ग्रहैकत्ववदविवक्षाकारणाऽभावाच्चेति भावः । अन्यूनेति । अन्यू- नाऽधिकैकभागकमुदश्विदादिरूपं निमेयं । निमेयभागकमेव वक्तुं सामर्थ्यं तस्य, न तु तं भागं वक्तुमित्यर्थः । भाष्ये-उभयं त्यज्यत इति । तदीयमुपादाय स्वीयं दीयत इत्यर्थः । एवञ्च स्ववस्तुदानपूर्वक परवस्तूपादानस्योभयसाधारणत्वादुभयं निमानमिति भावः आशुद्रागिति । अत्याश्चित्यर्थः। तरबर्थमपि व्याख्यातुं पर्यायद्वयोपादानम् । एवञ्च हट्टे लाभार्थिभियद्दीयते तन्निमेयम्, तन्मूल्यं निमानमित्याद्यपक्षार्थः। यदपेक्षितं तन्निमेयं, येन च तत्प्राप्यं तन्निमानमिल्यथवेत्यादेरर्थः । एवञ्च निमेयत्वाद्यनियतमित्याह-देशेति । देशकालाऽपेक्षो यः क्रयविक्रयव्यवहारस्तदपेक्षत्वादित्यर्थः। एवञ्च यदा यनिमेयं तदाऽपि तस्मिन्प्रत्ययदर्शनान्त्रिमेये चाऽपीत्यावश्यकमिति भावः। [सङ्ख्याया गुणस्य] । तस्य पूरणे । 'गुणस्येत्यत्रेव सङ्खथाविवक्षाभ्रमं व्यावर्त्तयति-सम्बन्धमात्रमिति १'समानाना मिति पा.।२'वापि' पा.। ३ याचता'पा.। ४'सत्यमेतत्पा०। ५इदं क्वाचित्कम्। -- - । ३८४ * कैयट-विवरणसहित [ तस्य पूरणे इहापि प्रामोति-'पञ्चानामुष्ट्रिकाणां पूरणो घट' इति || II सिद्धन्तु सङ्ख्यापूरणे इति वचनात् ॥१॥ सिद्धमेतत् ॥ कथम् ? ॥ [ 'सङ्ख्यापूरण इति वचनात् ] सङ्ख्यापूरण इति वक्तव्यम् ॥ एवमपि घटे प्राप्नोति सङ्ख्येयं ह्यसावद्भिः पूरयति ॥ सङ्ख्यापूरण इति अमो न ब्रूमः सङ्ख्येयपूरण इति ।। ॥ * ॥ यस्य वा भावादन्यसङ्ख्यात्वं तत्र ।। * ॥ अथ वा यस्य भावादन्या सङ्ख्या प्रवर्तते तत्रेति वक्तव्यम् ॥ एवमपि द्वितीयेऽध्याये अष्टम इति प्राप्नोति, सर्वेषां हि तेषां भावात्सङ्ख्या प्रवर्तते ॥ * ॥ चरमोपजाते पूर्वस्मिंश्चा- प्र.यादिभ्य एव द्विवचनबहुवचनान्तेभ्यः प्रत्ययविधिः। तस्य पूरण इत्यतिप्रसङ्ग इति । 'सङ्ख्यावाचिनः शब्दात्पूरणे डटप्रत्यय' इत्येताबानेव सूत्रार्थः। तथा च लब्धपञ्चत्वसङ्ख्थानां सङ्घचेयानामुष्ट्रिकादीनां पूरणे घटे प्रत्ययोऽनिष्टः प्राप्नोति। एवमपीति। आधारधर्मेण पूरणेनाऽधेयायाः सङ्ख्यायास्तद्द्वारेणासंस्पर्शादिति भावः। सङ्ख्यापूरण इति ब्रूम इति। हे सङ्ख्याग्रहणे अनुवर्तते । तत्रैकं प्रकृतिविशेषणमपरं पूरणविशेषणम् । ततश्च येन पञ्च- त्वादिसङ्ख्या संपद्यते स प्रत्ययार्थः । अथ वैकस्मिन्नेव सङ्ख्यामहणेऽनुवर्तमाने प्रत्यासच्या सङ्ख्यापूरण एव प्रत्ययो भवति न तु विप्रकृष्टे पश्चत्वादिसङ्खथासङ्खयेयेऽनन्तर्भूते । यस्य वेति । न्यासान्तरं वा कर्त्तव्यमित्यर्थः । तेन पञ्चत्वसङ्ख्या भवत्यनेनेत्यत्राणे पञ्चम इति भवति । एवमपीति। प्रसिद्धसंनिवेशविशेषस्य ग्रन्थस्य यो द्वितीयोऽध्यायो यथेह 'समर्थः पदविधि रित्यादिस्तस्याप्यष्टमशब्देनाऽभिधानं प्राप्नोति, तद्भावेऽष्टत्वसङ्ख्याया भावात्तदभावेऽभावात् । द्वितीयग्रहणं चोपलक्षणं, न्यायस्य तुल्यत्वात्प्रथमाध्यादावयष्टमाघ- भिधानप्रसङ्गात् । यदा तु व्युत्क्रमेण गणना क्रियते तदा द्वितीयोऽध्यायः पश्चाद्गण्यमानो- ऽष्टमादिव्यपदेशत्वेनेग्यत एव। तथा च भाष्यकारो वक्ष्यति-भवत्येवेति। पूरणग्रहणे तु क्रिय. माणे चरमोपजातस्य गणनापेक्षायां पूरणत्वात्संनिवेशमात्रापेक्षया द्वितीयेऽष्टमव्यपदेशाभावः। उ.] नत्वेकत्वमिति तद्विवक्षायां कुतश्चिदेव प्रत्ययः स्यान्न सर्वत इति तदविक्षेति भावः । युक्तयन्तरमाह-न हीति। ननु सङ्ख्या-त्र्यादिसञ्जयाव्याप्यकधर्मान्यतरवाचकात्पूरणे प्रत्यय इत्युक्ते प्रत्यासत्या सङ्ग्याया इति गम्यते, तत्कथमतिप्रसङ्गोऽत आह-सङ्ख्या: वाचिन इति । प्रत्यासत्त्या हि प्रकृत्यर्थपूरणे इत्येव लभ्येतेति भावः । उष्ट्रिका-चर्मवि. कार: पात्रविशेषो, मृण्मयो वा, यद्धटमितेनोदकेन पञ्चताः पूर्यन्त इत्यर्थः । ननु 'संख्या- पूरण' इत्युक्तेः संख्येयपूरणे कथं प्रसङ्गोऽत आह-आधारेति । 'सङ्खयापूरणे' इत्यस्य 'सङ्ख्याबोधकशब्दबोध्यपूरण' इत्यर्थ इत्याशय इत्यन्ये । नेदमपूर्वमित्याह-द्वे इति । 'सङ्खचाया अवयवे' इत्यतः 'सङ्ख्याया गुणस्य'त्यतश्च। तत्रैकमिति।सङ्खथाबोधकाच्छब्दात्य- ष्ठयन्तात्तदर्थसङ्खयापूरणे डडिति सूत्रार्थ इति भावः। प्रत्यासत्येति । प्रवृत्तिनिमित्तसङ्ख्या- पूरणे तत्सङ्ख्येयभूते एव प्रत्ययो तु सत्सङ्खथासङ्खयेयाऽनन्तभूते पूरणे इत्यर्थः भाष्ये-अन्यसङ्ख्यत्वमिति-बहुव्रीहेस्त्वः । अन्या सङ्ख्येत्यर्थः । ननु व्युत्क्रमेण गणने १'सङ्खथापूरणवचनात् पा. २ अयं पाठः कचिन्नारित।३ मसका 'लोट' 'कुंजा' इति भाषायाम्। - - ७ । । ५.२ पा.१ आ.|४८ सू.] महाभाष्यम् ऽनपगते ॥ * ॥ चरम उपजाते पूर्वस्मिश्चाऽनपगते इति वक्तव्यम् । एवमपि 'एकादशीद्वादश्यौ सौविष्टकृती' 'इदं द्वितीयमिदं तृतीयं दश दशमानीति न सिध्यति । सूत्रं च भिद्यते ॥ यथान्यासमेवाऽस्तु ॥ ननु चोक्तं-'तस्य पूरण इत्यतिप्रसङ्ग' इति । परिहृतमेतत्-'सिद्धन्तु सङ्ख्यापूरण इति वचनादिति ॥ तत्तर्हि सङ्ख्याग्रहणं कर्तव्यम् ? ॥ न कर्त्तव्यं-प्रकृतमनुवर्तते ॥ व प्रकृतम् ? ।। 'सङ्ख्याया गुणस्य निमाने मय'डिति ॥ एवं तर्हि-नेयं वृत्तिरुपालभ्यते ॥ किं तर्हि ? ॥ वृत्ति- स्थानमुपालेभ्यते,-वृत्तिरेवाऽत्र न प्राप्नोति ॥ किं कारणम् ? ॥ प्रत्ययार्था- प्र.] द्वितीयं न्यासान्तरमाह-चरमोपजात इति। गणनायां क्रियमाणायां पूर्वस्मि- न्सङ्ख्थेयेऽनपगते-बुद्धया परिगृहीतत्वादपेक्षिते यद्बुद्धौ पश्चादुपजायते तत्र प्रत्यय इत्यर्थः । एकादशीद्वादश्याविति । द्वादशीसंनिधाबेकादश्याश्चरमोपजातत्वाभावः। एवं तृतीय- संनिधौ द्वितीयस्य चरमत्वाभावः । दश दशमानीति । शततमस्यैव चरमोपजनान्नवानां दशमानां चरमत्वाभावः। सूत्रं चेति । न च केवलमव्याप्तिदोषो यावत्सूत्रभेदोऽपीति 'च' शब्दस्यार्थः । एवं तीति । दृत्तिः परार्थाभिधानमुच्यते । उपसर्जनपदानां प्रधानार्था- भिधानात् । तदयमर्थः-इष्टविषयवदनिष्टेऽपि विषये वृत्तिः प्राप्नोल्यैवमुपालम्भो न क्रियते, किं तर्हि इष्टे विषये प्रत्ययो न सिध्यत्यनिष्ट एव प्राप्नोतीत्युच्यते। वृत्तिस्थानमिति । प्रत्ययार्थ इत्यर्थः । प्रत्ययार्थे हि स्वार्थोपसर्जने प्रकृतिर्वर्त्तत इति प्रत्ययाथों वृत्तिस्थानम् । अयमत्रार्थ:-प्रकृत्यर्थव्यतिरिक्तेन प्रत्ययार्थेन भवितव्यं-यथौपगवमिति । इह तु पञ्चमः पञ्चशब्दार्थेऽन्तर्भूतः। तथा हि-'पञ्चानीयता'मित्युक्त पञ्चमस्याऽप्यानयनं भवति, ततश्चाऽत्र प्रकृत्यर्थव्यतिरिक्तप्रत्ययार्थाभावात्पञ्चानामुष्ट्रिकाणां पूरणो घट इत्यत्रैवाऽनिष्टेविषये प्रत्यय. उ.] तस्याऽप्यष्टमत्वमिष्टमेवेत्यत आह-प्रसिद्धति। यो द्वितीय इति । प्रसिद्धसन्निवेश- क्रमीयगणनाक्रमणेत्यर्थः । एवञ्च न्यासान्तरमपि दुष्टमित्यत्र तात्पर्यम् । अष्टमादि. व्यपदेश्यत्वेनेति । तच्छब्दव्यवहार्यत्वेनेत्यर्थः । 'अष्टमादिव्यपदेशत्वेने ति पाठे. बहुव्रीहेस्त्वः । यथान्यासे तु नाऽयं दोष इत्याह-पूरणग्रहणे त्विति । प्रथमत्वादिना या गणना तदपेक्षायां पूर्वस्मिन् बुद्धिस्थे एव यश्चरममुपजातस्तस्यैव पूरणत्वमित्यर्थः । सन्निवेशमात्रेति । सनिवेशो-निर्माणक्रमः । भाष्ये-सौविष्टकृती इत्यत्र प्रथमा- द्विवचनस्य लुक् । शततमस्येति । दशमदशद्वर्गीयदशमस्येत्यर्थः । यद्यपि तत्तत्सङ्घया- वच्छिन्नेभ्योऽन्येभ्यस्तत्तत्सङ्ख्यापूरकस्य चरमोपजातत्वान्नायं दोषस्तथापि दोषान्तरमाह. भाष्ये-सुत्रं चेति । प्रधानाऽर्थाऽभिधानम्-प्रधानार्थसंसृष्टस्वार्थोपस्थापकल्वम् । अतिव्याप्तया वृत्तेरेवोपालम्भान्नेयं वृत्तिरुपालभ्यते इत्यनुपपन्नमत आह-अयमर्थ इति । 'पञ्चानामुष्ट्रिकाणा'मित्यनेनाऽतिव्याप्तिरेव नोच्यते किन्तर्ख व्याप्तिरपीत्यर्थः । तदाह -अनिष्ट एवेति । ननु प्रकृतिमात्रेणाऽप्रतीतस्य पञ्चत्वसङ्खयापूरकत्वस्याऽपि प्रतीतेः कथं स्वार्थि- १ 'उपलभ्यते पा० २'मुपलभ्यते' 'मिदमुपलभ्यते इति वा पा०१३ 'अनिष्टविषये' पा० - .. " कैयट-विवरणसहित [तस्य पूरणे ऽभावात् । नैष दोषः,-वचनात्स्वार्थिको भविष्यति ॥ अथ वा-पूर्वस्याः सङ्ख्यायाः परापेक्षयोत्पत्तिर्वक्तव्या। उत्तरा च सङ्ख्या- ऽऽदेशो वक्तव्यः ॥ अथ वा-न्यूनेऽयं कृत्स्त्रशब्दो द्रष्टव्यः-चतुर्षु पञ्चशब्दः ।। अथ वा-सर्व एव यादयोऽन्योन्यमपेक्षन्ते ॥ यद्येवं-द्वितीयेऽध्यायेऽष्टम इति प्राप्नोति ॥ भवत्येव ॥ प्रकृत्यर्थाबहिः सर्वा वृत्तिः प्रायेण लक्ष्यते । प्र.) प्रसङ्गः। वचनादिति । प्रकृत्यर्थान्तर्भावमात्रेण स्वार्थिकत्वं न तु सर्वात्मना,तत्र सङ्ख्या- ग्रहणद्वयानुवर्तनादन्तरङ्गत्वाद्वा सङ्ख्यासंप्रतिपत्तिहेतौ प्रकृत्यर्थान्तर्भूतेऽपि प्रत्ययो भवि- ध्यतीत्यर्थः । पूर्वस्या इति । चतुःशब्दादिभ्यः प्रत्ययो विधेयः, पञ्चादयश्चादेशा कर्त्तव्या इत्यर्थः। तेन चतुर्णी पञ्चत्वसङ्घयोपजनद्वारेण पूरणः पञ्चमः। न्यून इति । यथाऽर्द्धतृतीया द्रोणा इत्यत्रार्द्धद्रोणोऽपि द्रोणशब्देनाभिधीयते, तथा च द्रोणा इति बहुवचनम् ,अवयवेन विग्रहः, समुदायः समासार्थः, तथेहापि वृत्तिविषये चतुर्पु पञ्चशब्दो वर्त्तते । तेन न्यूनानां पञ्चानां पूरणः पञ्चमः। न्यूनाश्च पञ्च-चत्वारो भवन्ति । तथा-पञ्चसु लब्धव्येषु चतुरो लब्ध्वा ब्रवीति-न्यूनानि पञ्च लब्धानी'ति । अथ वेति । सर्वेष्वेव पञ्चशब्दो वर्तत इत्ये- कैकमन्तरेण पञ्च न भवन्तीति पञ्चभ्यो बुद्धधकतम निष्कृष्य प्रत्ययो विधीयते । पञ्चानां पूरणः-पश्चसङ्घयानिमित्तत्वात्पञ्चमः । भवत्येवेति । गणनापेक्षायां। यथा पूर्व व्याख्यातम् । प्रकृत्यर्थादिति-पूर्वोक्तार्थसङ्ग्रहश्लोकाः । बहिरिति । बाह्यार्थे सर्वा वृत्तिर्न तु स्वार्थ उ.] कत्वमत आह-प्रकृत्यर्थान्तर्भावेति । सम्प्रतिपतिपत्तिहेताविति । पञ्चत्वादि. सम्प्रतिपत्तिहेतावित्यर्थः । पञ्चत्वादिसङ्ग्यापूरण इति यावत् । चतुःशब्दादिभ्य इति । सङ्घयावाचकात्स्वार्थवृत्तिसङ्क्षयान्तरपूरणे प्रत्यय इत्यर्थः सूत्रस्येति भावः । तदाह भाष्ये- पराऽपेक्षयेति । परसङ्ख्याऽपेक्षपूरणत्वे इत्यर्थः । चतुर्णाम्पञ्चत्वसङ्ख्यापूरकः पञ्चम इति तात्पर्यम् । भाष्ये-न्यूनेऽयं कृत्स्नशब्द इति । अधिकवाचकः शब्द इत्यर्थः । अधिकवाचकस्य न्यूने वृत्तिं दृष्टान्तव्यवहाराभ्यां दर्शयति-यथेति । नन्वेवं वर्तिपदार्थ- समासार्थयोर्भेदाऽभावोऽत आह-अवयवेन विग्रह इति । अवयवार्थकेन वर्तिपदार्थ- बोधनमित्यर्थः । तदाह-समुदायः समासार्थ इति । अत्रापि पक्षे चतुर्णां पञ्चत्व- संख्यापूरक इत्येव पञ्चमशब्दार्थों द्रष्टव्यः । 'सर्वेष्वेव पञ्चशब्दो वर्तते इतीति पाठे- इति-हेतोः सर्व एव ध्यादयोऽन्योन्यमपेक्षन्त इति भाष्येणाऽन्वयः। प्रायेणेतिशब्दरहित एव पाठः। अत्र 'सर्वेष्वेवे'-त्युक्त्या प्रत्येकं घ्यादिसङ्ख्यासम्बन्धाऽभावो दर्शितः । यथा महतो भारस्योत्थापनशक्तिः प्रत्येकमसम्बद्धा समुदायेनैव सम्बद्धा तद्वत् , यथा वा विशिष्टं गुरुत्वं प्रत्येकाऽसम्बद्धं समुदाये सम्बद्धं तद्वदित्याहुः । सर्वेष्वेव वृत्तौ हेतुमाह- एकैकमन्तरेणेति । गणनाऽपेक्षायामिति । यथाकथञ्चिद्गणनमात्राऽपेक्षायामित्यर्थः। निर्माणापेक्षायान्तु द्वितीय एवेति बोध्यम्, तदा प्रागुक्तपूरणत्वाऽभावादिति बोध्यम् । १'परापेक्षाया उत्प' पा०। २वक्तव्यः पा०।३व्याडिकृतसङ्ग्रहस्था इमे श्लोका.इति प्रतिभाति। ।
५.अ.॥२ पा.१ आ.।४८ सू.] महाभाष्यम् पूरणे स्यात्कथं वृत्तिवचनादिति लक्ष्यताम् ॥ १ ॥ तस्याः पूर्वा तु या सङ्ख्या तस्यां भवतु तद्धितः । आदेशश्चोत्तरा सङ्ख्या तथा न्याय्या भविष्यति ॥२॥ न्यूने वा कृत्स्नशब्दोऽयं पूर्वस्यामुत्तरा यदि । सामथ्यञ्च तया तस्यास्तथा न्यायया भविष्यति ॥३॥ अन्योन्यं वा व्यपाश्रियं सर्वस्मिन्यादयो यदि । प्रवर्तन्ते तथा न्याय्या वृत्तिर्भवति पूरणे ॥४॥ बहूनां वाचिका सङ्ख्या पूरणश्चैक इष्यते। अन्यत्वादुभयोाय्या वाी शाखा निदर्शनम् ॥ ५ ॥ प्रा.इत्यर्थः। वचनादिति। स्वार्थ इत्यर्थः। पूर्वस्यामुत्तरेति। यदोत्तरसङ्ख्यावाचा पञ्चादि- शब्दः पूर्वस्यां सङ्घचायां वर्तत इत्यर्थः । सामर्थ्य चेति । तस्या न्यूनार्थाभिधायिन्याः सहयायाः प्रत्ययार्थेन सम्बद्धत्वं न्याव्यमित्यर्थः। अन्योन्यं वेति । अपेक्षितपरस्पराः सङ्खये - वाः पञ्चादिशब्दवाच्यास्तेषामन्यतमे पञ्चत्वादिसङ्ख्याहेती प्रत्ययः। बहूनामिति । पूर्वस्मा- पक्षादयं भेदः-पूर्वस्मिन्पले सर्व एवाऽतिरोहितभेदः पञ्चशब्दार्थः । उत्तरत्र तु समुदायः शब्दार्थः । अत्रयवस्तु नोपात्तो न च त्यक्तः । प्रत्ययेन त्यभिधीयते। अन्यत्वादुमयो- रिति । समुदायावयवयोर्भेदात्समुदायः प्रकृत्यर्थोऽवयवः प्रत्ययार्थः । यथा वाी शाखेति मृत्यस्तमितमूलाधवयवसमुदायःप्रकृत्यर्थोऽवयवस्तु शाखा प्रत्ययार्थः। अनुदात्तादेश्च'त्यन्प्रत्ययः। उ.]पूर्वो कार्थसङ्ग्रहेति-पचायजन्तसङ्ग्रहशब्देन षष्ठीसमासः । भाष्ये यदीत्यसन्दिग्धे सन्दिग्धवचनं तदाह-यदेति। यत इत्यर्थः । तथा सति तस्याः-प्रकृत्यभिहितसङ्ख्यायाः, तया-प्रत्ययाऽभिहितव्यक्तया, सामर्थ्य-सम्बन्धः चतुर्वृत्तिपञ्चत्वसङ्ख्यापूरक इत्यर्थात् । एवं हि वृत्तियारयेत्यर्थः। 'अन्योऽन्यं वा व्यपाश्रित्येति पाठो भाष्ये । अपेक्ष्येत्यर्थः । अतिरोहितभेदा इति । अवयवमात्रवृत्तिधर्मेण भासमानाः पञ्चादिशब्दवाच्या इत्यर्थः। नोपात्त इति । अवयवमात्रवृत्तिधर्मेण प्रकृत्या नोपात्त इत्यर्थः। न च त्यक्त इति । साधारणरूपेणोपात्तत्वादित्यर्थः । अत एव बहुवचनम् । प्रत्ययेन त्वभिधीयत इति । अवयवमात्रवृत्तिधर्मेणाऽभिधीयते इत्यर्थः । परे तु-सर्वस्मिन् प्रत्ययवाच्यसहिते यादयः प्रवर्तन्ते, अतः पूरणे न्याय्या वृत्तिः । तदेव न्याय्यत्वमुपपादयति-बहूना-समुदितानाम् । जाचिका सङ्ख्या प्रकृतिः पूरणस्तदर्थश्च तदन्तर्गत एकः, अत उभयोः प्रकृतिप्रत्ययार्थयो- रन्यत्वान्न्यायया। 'वृत्ति'रिति शेषः। पूर्वत्र पक्षे' इत्यादिकैयटस्तु चिन्त्यः, पक्षद्वयेऽप्यतिरो- हितभेइस्यैव समूहस्य पञ्चादिशब्दवाच्यताऽवश्यकत्वात् । अत एव बहुवचनम्, एकै कस्मिन् कदाऽप्यप्रवृत्तेश्च । प्रकृत्यर्थान्तर्भावमात्रेण प्रकृतिप्रत्ययार्थयोर्मेदाऽभावशङ्कायां तमभ्युपेत्य पूर्वसमाधानम् । प्रकृत्यर्थताऽवच्छेदकप्रत्ययार्थताऽवच्छेदकभेदेन तदवच्छिन्नभेदेन च भेद १ 'दिह' पा० । २ अयं श्लोकः काचित्कः । ३ 'न्याच्यं भवि' पा०। ४ वाच्यमाश्रित्य' पा०।५'सम्बन्धत्व' पा०। : ।
स्वरे कैयट-विवरणसहितं [नान्तादसं- नान्तादसङ्ख्यादेर्मट् ।५।२।४९॥ ॥ * ॥ मडादिषु यस्यादिस्तन्निर्देशः ॥ * ॥ मडादिषु यस्यादिः क्रियते तदि. देशः कर्तव्यः,-'अस्यादिर्भवतीति वक्तव्यम् । अक्रियमाणे प्रत्ययाऽधि- कारात्प्रत्ययोऽयं विज्ञायेत ॥ तत्र को दोषः ? ॥ * ॥ प्रत्ययान्तरे हि दोषः ॥ * ॥ प्रत्ययान्तरे हि सति स्वरे दोषः स्यात् । विंशतितमः । एष स्वरः प्रसज्येत । विशतितम इति चेष्यते ॥ स तर्हि तथा निर्देशः कर्तव्यः ? ॥ न कर्तव्यः। प्रकृतंडग्रहणमनुवर्तते ॥क प्रकृतम् ?॥ तस्य पूरणे डडिति॥ तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहाऽर्थः । 'नान्तादित्येषा पञ्चमी 'ड'डिति. प्रथमायाः षष्ठी प्रकल्पयिष्यति-तस्मादित्युत्तरस्येति ॥ प्रत्ययविधिरयं न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति ॥ नाऽयं प्रत्ययविधिविहितः प्रत्ययः प्रकृतश्चानुवर्तते ॥ [नान्तादसञ्जयादेर्मट्] षट्कतिकतिपयचतुरां थुक् ।५।२।५१॥ ॥ * ॥ चतुरश्छ्यतावाद्यक्षरलोपश्च ।। * ॥ चतुरश्च्यतौ वक्तव्यावाद्यक्षर- लोपश्च वक्तव्यः । तुरीयम् । तुर्यम् ॥ अथ किमर्थं थटथुको पृथविक्रयेते न सर्व थडेव वा स्यात्थुगेव वा ? ॥ * ॥ थट् थुकोः पृथक्करणं पदान्तविधिप्रतिषे. धार्थम् ।।*थटथुकोः पृथग्ग्रहणं क्रियते ॥ [ किमर्थम् ? ] 'पदान्तविधिप्रतिजे- प्र.] नान्ता । मडादिष्विति । 'षष्ठीस्थाने योगे'त्यत्र षष्ठीति योगविभागात्तत्र चायन्ती कितावित्यस्यानुवर्तनात्यष्ठीनिर्दिष्टस्यागमिनोऽभावाच्चरेष्ट इत्यादिवन्मडादयो डडपवादा: प्रत्ययाः प्रामुवन्ति । तत्र मट्थट्थुकामागमत्वप्रत्ययत्वयोर्विशेषाभावः । तमट तु प्रत्ययत्वे सत्याधुदात्तः स्यादागमत्वे त्वनुदात्तो भवतीति डटस्वरेण विंशतितम इत्यन्तोदात्तत्वं भवति । प्रकृतमिति । स्वरितत्वादिति भावः। विहित इति । न ततो विधानार्थी डट इहानुवृत्ति रपि त्वागमसम्बन्धप्रतिपत्त्यर्थेत्यर्थः ॥ [ नान्तादसङ्ख्यादेमंट्] ॥ षटका आद्यक्षरलोप इति । अक्षरशब्देनाऽसहितं व्यञ्जनमुच्यते । छयद्भां च डण् न बाध्यते, डटि चतुरस्थुग्विधानात् । न सर्वमिति । सर्व थकाररूपं थडेव क्रियतां, थुगेव उ.] एवेत्यवलम्ब्याऽन्त्यः पक्ष इत्येव युक्तमाभातीत्याहुः ॥ [तस्य पूरणे डट् ] नान्ता । ननु यस्माद्विहितस्तस्यादिरेवाऽस्तु, न ह्याद्यन्तावित्यत्र षष्ठीनिर्देशोऽस्तीत्यतः आह-षष्ठीस्थान इति । मटथट्थुकामिति त्वपपाठः । एवं मटथुकोरिति च । थुकः प्रत्ययत्वे चतुर्थ इत्यादावकारश्रवणानापत्तिविसर्गापन्तिश्च । मट्थटोरित्येव पाठः। मट- डडोरिति पाठे तयोर्मध्ये मट इत्यर्थः । षटकति । नन्वाद्यक्षरस्य चकारस्य लोपेऽकारस्य श्रवणं स्यादत आह-अक्षरशब्दे- नेति । 'व्यञ्जनसहितोऽजिति तु नोक्तं, तकारस्याऽपि लोपापत्तेः । नपुंसकप्रयोगोप- १ हि सत्ति' इति कचित्पाठः । २ 'नान्तादिभ्योविभाषापञ्चमी'पा०।३ अयं न सार्वत्रिक: । ।
५अ.१२ पा.।१ आ.।५२ सू.] ॐ महाभाष्यम् धार्थम् । पदान्तविध्यर्थं, पदान्तप्रतिषेधार्थ च । पदान्तविध्यर्थं तावत्- 'पर्णमयानि पञ्चथानि भवन्ति' 'रथैः सप्तथः' । 'पदान्तस्येति नलोपो यथा स्यात् । पदान्त प्रतिषेधार्थ-पष्टः । ‘पदान्तस्ये ति जश्त्वं मा भूत् । इह च चतुर्थ इति,-'पदान्तस्येति विसर्जनीयो मा भूदिति ॥ बहुपूगगणसङ्घस्य तिथक् ।५।२।५२। ।। * ॥ बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः ॥ * ॥ बहुकतिपयवतूनां लिङ्ग- विशिष्टादुत्पत्तिर्वक्तव्या । इहापि यथा स्यात्-बह्वीनां पूरणी बहुतिथी। कतिपयानां पूरणी कतिपयेथी। तावतीनां पूरणी तावतिथी॥ 'बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः सिद्धा' ॥ कथम् । 'प्राति- पदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीति ॥ * ॥ पुंघद्वचनच ॥ * !! मुंबद्भावश्च वक्तव्यः । बह्वीनां पूरणी बहुतिथी । किमर्थं न 'भस्याऽढे तद्धिते पुंवद्भवतीति सिद्धम् ॥ भस्येत्युच्यते, यजादौ च भं भवति, न चान यजादि पश्यामः ॥ किं कारणम् ? ॥ तिथुका व्यवहितत्वात् ॥ इदमिह सम्प्रधायें तिथुक्क्रियतां पुंवद्भाव इति, किमत्र कर्त्तव्यम् ? । परत्वात्पुंवद्भावः ।। नित्यस्तिथुक्, कृतेऽपि वदावे प्रामोत्यकृतेऽपि प्रामोति ॥ तिथुगप्य. नित्योन्यस्य कृते पुंवद्भावे प्राप्नोत्यन्यस्याऽकृते,–'शब्दान्तरस्य प्रामुवन्विधि रनित्यो भवति ॥ अन्तरङ्गस्तहि तिथुक् ॥ काऽन्तरङ्गता? ॥ उत्पत्ति. सन्नियोगेन तिथुगुच्यते, उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्य पुंवद्भावः ॥ अ.]वेत्यर्थः। पदान्तविधिप्रतिषेधार्थमिति । विधिप्रतिषेधौ नलोपादीनां पदान्तकार्याणां विषयविभागेन व्यवतिष्ठेयातामित्यर्थः । पञ्चथानीति। थटि सति 'स्वादिष्विति पद- त्वात्तन्निबन्धनो नलोपो भवति । थुकिं तु सति थकारान्तस्य भत्वं स्यात् । षष्ट इति । यद्यत्र थट क्रियते ततः षकारान्तस्य पदत्वात्तन्निबन्धनं जश्त्वं स्यात् । थुकि तु तदन्तस्य भत्वात्पदत्वाभावः ॥ [ षटकतिकतिपयचतुरां] ॥ बहु । लिङ्गविशिष्टादिति। लिङ्गसहचरितः प्रत्ययो लिङ्गं, तदधिकारादित्यर्थः । तिथुकेति । तिथुकि कृते तदन्तस्य भसज्ञा न तु स्त्रीप्रत्ययान्तस्येत्यर्थः । उत्पत्तिसंनि- उ.]पत्तथ आह-सर्वंथकारेति । ननु पदान्तविधिप्रतिषेधौ नैतदपेक्षावत आह-विधीति। पदान्तकार्यनलोपादीनां विधिप्रतिषेधौ विषयविभागेन व्यवस्थितौ भवेतामित्यर्थ भिन्ना- उनुबन्धकरणमित्यर्थः । तदन्तस्य भत्वादिति । अत्र 'भत्वा'दित्यस्योपयोगश्चिन्त्यः ।। बहुपूग । नाम्नां लिङ्गवैशिष्टयस्याऽव्यभिचरितत्वादाह-लिङ्गसहचरित इति । १ 'रथ्यः' पा० । २ ‘पदान्तविधिप्रतिषेधा' पा०1३ केचित्तु नेदं कात्यायनवात्तिक, भाष्यवात्तिकमेवैतदित्यभिप्रयन्ति । ४ 'कतिपयतिथी' पा०।५ तावत्तिथीं' पा०।६ इदं कात्यायनवार्तिकमिति केचित् । ७ 'व्यवहितत्वान्न प्राप्नोति' पा०। ८ तर्हि थुक्पा० । । - - - । । कैयट-विवरणसहितं 8 [षष्टयादेश्व पुंवद्भावोऽप्यन्तरङ्गः ॥ कथम् ? ॥ उक्तमेतत्-'सिद्धश्च प्रत्ययविधा'- विति ॥ उभयोरन्तरङ्गयोः परत्वात्युंवद्भावः ॥ पुंबद्भावे कृते पुनः प्रसङ्ग- विज्ञानात्तिथुक् सिद्धः-बहुतिथी॥ [ बहुपूगगणसङ्घस्य ] ॥ षष्ट्यादेश्वाऽसङ्ख्यादेः ।५।२।५८ असङ्ख्यादेरिति किमर्थम् ? ॥ इह मा भूत्-एकषष्टः। द्विषष्टः॥ असङ्ख्या- देरिति शक्यमवक्तुम् ॥ कस्मान्न भवति-एकषष्टो द्विषष्ट इति । षष्टिशब्दा- प्रत्ययो विधीयते का प्रसङ्गो यदेकषष्टिशब्दात्स्यात् ? ।-नैव प्राप्नोति नार्थः प्रतिषेधेन ॥ तदन्तविधिना प्राप्नोति ॥ ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ॥ एवं तर्हि ज्ञापयत्याचार्यो-भवतीह तदन्तविधिरिति । प्र.] योगेनेति । यदैव प्रकृतयः पूरणविषयाः प्रत्ययोत्पत्तिनिमित्तं तदैवागम' इत्यर्थः । प्रकृतिप्रत्ययाविति । भस्येति वचनादुमयमाश्रीयते । सिद्धश्चेति । तेन प्राक्प्रत्ययो- पत्तेः पुंवद्भाव इत्यर्थः ॥[बहुपूगगणसङ्घस्य तिथुक् ] ॥ षष्ट्यादेः । किमर्थमिति । इह प्रत्यासत्या पङ्क्तयादिसूत्रनिपातिताः षष्टयादयो गृह्यन्ते न लोकप्रसिद्धया विप्रकृष्टाः, तथा चानर्थकः प्रतिषेध इति मत्वा प्रश्नः । इतरो व्याप्तिन्यायाश्रयाल्लौकिकग्रहणादतिप्रसङ्ग इति मत्वाह-एकषष्ट इति । प्रत्यासत्तिन्याया- अयेणाह-पष्टिशब्दादिति। षष्टिशब्दस्योपलक्षणत्वात्सप्तत्यादयोऽपि गृह्यन्ते। प्रत्ययइति । प्रत्ययभक्तत्वात्तदवयवत्वादागम एव प्रत्ययशब्देनोक्तः । तदन्तविधिनेति । शास्त्रीयाणा- मपि षष्टयादीनां ग्रहणे तैः सङ्ख्याया विशेषणात्तदन्तविधौ सति षष्टयाद्यन्तस्य सङ्ख्या- वाचिनो ग्रहणप्रसङ्गः । भवतीति। यह प्रकरण इत्यर्थः । तत्र यदि लौकिकसङ्खथाग्रहण ज्ञाप्यते तदैकानविंशतिशब्दात्तमण्न प्राप्नोतीति भाष्यकारेण शास्त्रीयग्रहणाभ्युपगमेन तदन्तविधिज्ञापनमुक्तम् । एवं चैकानविंशतितम इति भाव्यमिति लक्ष्यते। यत्र च ज्ञापका- तदन्तविधिस्तत्र व्यपदेशिवद्भावात्केवलानामपि ग्रहणं भवति । ज्ञापन सामान्येन 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' 'व्यपदेशिवद्भावोऽप्रातिपदिकेने ति परिभाषा द्वयस्यानुपस्थानज्ञापनात् । अथ वा सूत्रोपात्ताना केवलानां प्रथमं ग्रहणं भवति, ततो ज्ञापकेन उ.] यदैवेति । एषां 'तरय पूरणे' इत्यनेन वाक्यैकवाक्यता, षष्ठान्तात्पूरण इत्यर्थे एश्यो डट् , एषां तिथुक् चेत्यर्थ इति भावः। तेनेति । भसंज्ञानिमित्त तद्धिते विवक्षिते पुंवदिति वार्तिकार्थ इति भावः। [बहुपूगगण] । षष्टयादे। ननु लौकिकषष्टयादिग्रहणेन एकषष्टरपि तत्त्वात्प्राप्त्या प्रश्नोऽनुपपन्नोऽत' आइ-इहेति । नन्वस्यागमविधित्वात्प्रत्ययो विधीयत इत्ययुक्तमत आह--प्रत्ययभक्तत्वा- दिति । प्रत्ययविधिरप्यनेनैवेत्यन्ये । तमण्न प्रामोतीति । सहस्रादिभ्यः प्राप्नोती- त्यपि बोध्यम् । ननु वैयर्थे सति ज्ञापकं भवति, न हि व्यपदेशिवद्भावनिषेधप्रवृत्ताक प्यसंख्यादेरित्यस्य वैयर्थ्य मत आह-अथ वेति । वस्तुतस्तु सूत्रोपात्ताऽन्तादिशब्द- १ 'नच पा०। , ५.२ पा.१आ.५९ सू.]] महाभाष्यम् किमेतस्य ज्ञापने प्रयोजनम् ? ॥ एकविंशतितमः,-एतसिद्ध भवति ।। मतौ छः सूक्तसाम्नोः ।५।२।५९] ॥ * ॥ छेप्रकरणेऽनेकपदादपि ॥ * ॥ छप्रकरणेऽनेकपदादपीति वक्तव्यम् । इहापि यथा स्यात्-अस्थवामीयम् । कयाशुभीयम् ॥ किं पुनः कारणं न सिध्यति ? ॥ अग्रातिपदिकत्वात् ।। सिद्धन्तु प्रातिपदिकविज्ञानात् ।। सिद्ध- मेतत् ॥ कथम् ? ॥ 'प्रातिपदिकविज्ञानात् ॥ कथं प्रातिपदिकविज्ञानम् ! ॥ III! 'स्वं रूपं शब्दस्याऽशब्दसंज्ञेति वचनात् ॥॥॥ स्वं रूपं शब्दस्याऽशब्दसंज्ञा प्र.लक्षणविशेषो वाक्यान्तरमनुमीयत इति तदन्तस्यापि ग्रहणं भवति। तेन विंशतितम इति भवति । एकपष्टयादिभ्यो 'विंशत्यादिभ्य' इति विकल्पेन तमड् भवति । के चित्त्वसङ्ख्यादे- रिति प्राप्तिमात्रापेक्षया निषेधाश्रयणादसङ्ख्यादेरिति योगविभागाद्वा विकल्पितस्यापि तमटो निषेधमिच्छन्त एकषष्टितम इति न भवितव्यमित्याहुः । एतत्तु भाष्यकारेणानुक्तत्वादसम्ब- द्वम् । 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेत्येतच त्यागहेतुत्वाभावात्कथं त्यज्येत ।। मतौ छः । मतुशब्देन साहचर्यान्मत्वर्थ उच्यते । तद्विशेषणं सूक्तसाम्नी । प्रधाना- नुयायित्वाच्च गुणानां प्रथमा समर्थविभक्तिरस्त्युपाधिकत्वं च प्रकृतेर्गम्यते। अच्छावाक- शब्दोऽस्मिन्नस्ति अच्छाबाकीयं सूक्तमित्युदाहरणम् । अनेकपदादपीति-कर्मधारयो, बहुव्रीहिर्वा । पदसमुदायादित्यर्थः । अस्य' 'वाम' इत्यस्मिन्नस्तीति षष्ठीप्रथमयोरुपलम्भात्पद- समुदायात्मकत्वात्प्रातिपदिकत्वाभावात्प्रत्ययो न प्राप्नोतीति वचनम्। सिद्ध विति। अस्य' 'वामस्येति बेदे यत्पदद्वयं पठ्यते तदेकदेशस्याऽस्यवामशब्दस्य यदनुकरणमस्यवामशब्दोऽ- नुकार्येणार्थेनाऽर्थवत्त्वालब्धप्रातिपदिकसंज्ञस्तस्मादेतत्प्रत्ययविधानमित्यर्थः स्वं रूपमिति। दृष्टान्तत्वेनाऽस्यौपन्यासः। यथा 'स्वं रूपमिति वचनादग्नेगित्यत्राग्निशब्दस्वरूपमग्निश- उ.]विषय एव स निषेध इति नाऽत्र तस्य प्राप्तिः । स्पष्टच्चेदं 'येन विधिः' इत्यत्र---प्रदीपे। लक्षणविशेष इति । विधायकं विशेषभूतं वाक्यान्तरमित्यर्थः। 'लक्षणशेष'इति कचि- पाठः । 'विंशत्यादिभ्यस्तमट तदन्तेभ्यश्चेत्येवमिति भावः । 'त्यागे हेवभावादिति पाठः। मतौ छः । अन्यशब्दस्याऽन्यशब्दे वृत्त्यसम्भवादाह-मत्वर्थ इति । तद्विशेषणे इति । सूक्तसामरूपे सम्बन्धिनि प्रथमान्ताच्छ इत्यर्थ इति भावः । नन्वेवमपि समर्थविभ- क्त्यादिकं न लभ्येतेत्यत आह-प्रधानेति । प्रधानं प्रत्ययार्थः, गुणाः समर्थविभक्तथादयः। प्रधान उपस्थापिते तद्गुणभूतमुपस्थाप्यत एवेति भावः । यथा 'ब्राह्मणा भोज्यन्ता'मित्युक्ते- ऽनुक्ता अप्याचमनादय आक्षिप्यन्त इति तात्पर्यम् । एकपदभिन्नादपीत्यर्थे वर्णमात्रादपि प्रत्ययः स्यादत आह-कर्मधारय इति । पराऽभ्युपगमेनेदम् । यं भवाननेकपदरूप समुदायं मन्यते तस्मादपीत्यर्थः। षष्टीप्रथमयोरिति । अस्येति षष्ठी, 'वाम' इति प्रथमा । १ नेकपदादपीति वचनम्' इति पा० । २ स्वरूप या० । ३ केचित्तु नेदं वात्तिकं किन्तु भाष्यमेवेदमित्याहुः । ४ 'मतुष्शब्देन' पा० । SHARE ३९२ * कैयट-विवरणसहितं [मतौ छः सूक्त- भवतीति । एवं योऽसावानाये अस्यवामशब्दः पध्यते सोऽस्यपदार्थः ।। किं पुनरन्ये आनायशब्दा अन्य इमे ? ॥ 'ओ'मित्याह । कुत एतत् ? ।। ॥ * ॥ आम्नायशब्दानामान्यभाव्यं स्वरवर्णानुपूर्वीदेशकालनियतत्वात् ॥ * ॥ आम्नायशब्दानामान्यभाव्यम्-अन्यभावः-सिद्धः॥ [कथं ? ] ॥ स्वर- वर्णानुपूर्वीदेशकालनियतत्वात् । स्वर-स्वरो नियत आन्नाये अस्यवामशब्दस्य। वर्णानुपूर्वी-वर्णानुपूर्वी खल्वप्यानाये नियता अस्यवामशब्दस्य । देश:-देशः प्र.ब्दस्य प्रत्यायकमेवमाम्नायपठितस्यास्यवामशब्दस्य च्छप्रत्ययप्रकृतिरस्यवामशब्दः प्रत्या- यक इत्यर्थवत्त्वात्पदसमुदायरूपत्वाभावाच्च प्रातिपदिकत्वमित्यर्थः। न त्वनुकार्यानुकरणविषये स्वं रूपमित्युपतिष्ठते। स्वशास्त्रविषयत्वादस्य, लौकिकत्वाचानुकार्यानुकरणभावस्य । एवं योऽसाविति । एवंशब्दस्तथा शब्दस्यार्थे । यथात्र शास्त्रे वचनात्स्वं रूपं शब्दस्य प्रत्यायकं तथानुकार्यस्याऽनुकरणमित्यर्थः । किं पुनरिति-अभिन्नरूपत्वादनुकार्यानुकरणयोरभेदं मन्यमानः पृच्छति। आम्नायशब्दानामिति। अन्यस्य भावोऽन्यभावः अन्यभाव एवाऽऽन्य. भाव्यम् । ब्राह्मणादिषु प्रतिपदपाठात्स्वार्थे ष्यञ् । अथ वा अन्यो भावोऽन्यद्वस्तु, तस्य भाव आन्यभाव्यम् । अन्यवस्तुत्वमित्यर्थः । यद्यप्यनुकार्यानुकरणयोरर्थभेदादन्यत्व निश्चयस्तथाप्य- न्यत्वस्य दााय स्वरादिभेदोपन्यासः । स्वर इति । अरयेत्यूडिदमित्यन्तोदात्तत्वम् । 'वाम'शब्दः 'कर्षात्वत' इत्यन्तोदात्तः । अथ वा 'ज्वलितिकसन्तेभ्यो ण' इति णान्तः प्रत्यय. स्वरेणान्तोदात्तः । अनुकरणं त्वस्यवामशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। 'प्रकृतिवदनुक- रणमित्येतत्तु विरोधादत्र स्वरे नाश्रीयते । अनुकरण एकस्मिन्पदे उदात्तद्वयविरोधात्। वर्णा- नुपूर्वीति । अनुकरणं तु व्युत्क्रमेणाऽप्युच्चार्यमाणं सादृश्यादनुकार्यस्य प्रत्यायकं भवति । उ.]पदसमुदायरूपत्वाऽभावाञ्चेति । अनेन 'पदसमुदायस्य चेत्समासस्यैवेति नियमा- ऽप्राप्तिर्दर्शिता । पदघटितसमुदायरूपत्वाऽभावादिति तदर्थः । अस्येत्यस्याऽपि न पदत्वं तत्रत्यास्य शब्दस्य विभक्तयर्थाऽप्रतिपादकत्वेनाऽसुप्त्वादिति भावः । एवं शब्दस्य 'अनेन प्रकारेणेति नार्थः, सूत्रास्याऽप्राप्त्याऽसङ्गतत्वात्, किन्त्वन्य इत्याह-तथाशब्दस्येति । स्वं रूपं शब्दस्येति । 'शब्दः स्वरूपस्येति वक्तुमुचितम् । वस्तुतो भाष्ये सूत्रकथनं तत्प्रत्याख्यानप्रकारोपलक्षणम्, अर्थे बाधादुपस्थितशब्दस्यैव ग्रहणं भविष्यतीति व्यर्थ सूत्रमिति । स लोकेऽप्यर्थबाध एवाऽनुकरणत्वमिति दिक् । नन्वर्थभेदाभेदविषयः प्रश्नोऽनुपपन्नोऽत आह-अभिन्नरूपत्वादिति। एवञ्च भेद- निबन्धनाऽर्थवत्त्वाऽनुपपत्तिरित्यर्थः । अर्थभेदादिति । अनुकार्यस्य बाह्योऽर्थः । अनुकरणस्य तु अनुकार्यशब्दरूपमेवेत्यर्थभेदः । अस्येतीति । इत्यस्येत्यर्थः । ननु लोकेऽपि स्वरस्य नियतत्वाद्वेदे एव स्वरनियमकथनं भाष्यस्थमसङ्गतमिति चेन्न, लोके एकश्रुतेरपि सत्त्वेन तदनियम इति भाष्याशयात् । वर्णाऽनुपूर्वी नियतेति। तत्तत्कल्पे यादृशी ऋषिभिः कृता सा तत्कल्पसमाप्तिपर्यन्तं नियतेत्यर्थः । नियमाऽभाव इति १ इदं कचिदपि नास्ति। ।
। .. ५ अ.१२ पा.।१ आ.।६० सू.] ॐ महाभाष्यम् ॐ ३९३ खल्वयानाये नियत:-'श्मशाने नाध्येयम् । चतुष्पथे नाध्येय मिति । कालः- काल: खल्वप्यान्नाये नियतः-नाऽमावास्यायामध्येयं न चतुर्दश्यामिति ॥ ॥ * || पदैकदेशसुबेलोपदर्शनाच्च ।। * ॥ पदैकदेशः खल्वप्यानाये दृश्यते । अस्यवामीयम् ॥ ननु चैष सुब्लोपः स्यात् ॥ सुबलोपदर्शनाच्च ।। सुबलोपः खल्वपि दृश्यते-अस्यवामीयमिति । तस्मादन्ये आम्नायशब्दा अन्य इमे ।। यदि तान्य आम्नायशब्दा अन्य इमे,-मत्वर्थो नोपपद्यते-अस्य चामशब्दोऽत्रास्तीति । न संज्ञा संजिन व्यभिचरति ॥ अध्यायानुवाकयो क् ।५।२।६० ॥ * ॥ अध्यायानुवाकाभ्यां वा लुक् ॥ * ॥ अध्यायानुवाकाभ्यां वा लुग्व- अ.] देश इति । अनुकरणस्य तु देशकालनियमाभावः । पदैकदेशेति। आम्नाये अस्यवा- मस्येति प्रयुज्यते तदेकदेशस्यास्यवामशब्दस्यानुकरणमेकदेश एवास्यवापशब्दो दृश्यते अस्य- वामीयशब्दे प्रकृतिरित्यर्थः। सुबलोपदर्शनाच्चेति । यदि षष्ठया लुकि कृते रूपमेतद्भ- वतीत्युच्यते तदा पूर्व पदेऽपि लुक्प्रसङ्गः। अनुकरणस्य तु विभक्तवर्थाप्रतिपादनात् सुप्ताभावा- लुगभावः। मत्वर्थो नोपपद्यत इति । अनुकार्येण सूक्तसाम्नोस्तद्वत्ता न त्वनुकरणे नेति भावः । न संज्ञेति । अनुकरणं प्रत्यायकत्वात्संज्ञा । अनुकार्य तु प्रत्याय्यत्वात्संशि । अव्यभिचारश्चावश्यप्रत्याय्यत्वात्संज्ञिनः, तत्र यथा गवादयः शब्दाः सानालाङ्गुलवदर्थं प्रत्या- ययन्तस्तेनार्थेन तद्वति मतुपमुत्पादयन्ति-गोमानिति। तथा अनुकरणशब्दाः प्रथमासमर्थाः स्वेनार्थेनानुकार्येण तद्वति च्छप्रत्ययमिति न कश्चिद्दोषः । अनुकरणशब्दश्चानुकार्य स्वजाति. समवेतं वक्तीति जातिशब्द इति लूकारवार्तिकेऽभिहितम् ॥ [मतौ छः ] ॥ अध्याय । अध्यायानुवाकाभ्यामिति । तादर्थं एषा चतुर्थी । अध्यायानुवाकार्थो य- श्छस्तस्य वा लुग्वक्तव्यः । तेन पक्षे श्रवणं भवति । लुम्विधानमेव च ज्ञापकमध्यायानुवाकयो- उ.] अनुकरणं शृण्वतः शूद्रस्य प्रायश्चित्ताऽभाव इत्यपि बोध्यम् । अध्ययनकालेऽर्थ- पराणामपि अर्थाऽबोधाद, अध्येतृणां शब्दपरत्वभ्रमः । नाप्यनुकरणत्वं, शब्दतात्पर्यकत्व- स्याऽभावात् । स्वरवर्णाऽनुपूर्वीभेदाऽभावाच तत्वबुद्धथा तद्धर्माः सर्वेऽत्रापीत्याहुः । आम्नाये पदैकदेशाऽदर्शनादाह-आम्नाये इति भाष्ये । आम्नाये पयमानस्य यः पदै- कदेशः स छप्रत्ययप्रकृतिभूतेऽनुकरणे दृश्यत इत्यन्वयः। ननूत्तरभागे सुब्लोपो दृश्यत एवेत्यत आह-यदीति । नन्वनुकरणस्याऽपि कुतो न सुप्त्वं, कुतो वा न लुगत आह- अनुकरणस्य त्विति । भाष्ये उत्तरयति-न संज्ञेति। संशासंज्ञिनोरव्यभिचारे यथा मत्वर्थोपपत्तिस्तथा दर्शयति-तत्र यथेति । स्वजातिसमवेतमिति । अनुक्रियमाणनिष्ठ. जातिसम्बद्धमनुकार्यमित्यर्थः ॥ [मतौः छः सूक्त ] अध्यायाऽनु। नन्वेतौ प्रत्ययाौँ, न त्वाभ्याम्परः प्रत्यय इत्यत आह-तादय इति । १'नाऽमावास्यायामधीयीत न चतुर्दश्याम् इतिपा०।२'सुलोप पा० इति क० पु०पा०॥ ३ 'सुपः खल्वपि अलोपो दृश्यते' पा०। ४ अयं पाठो न सार्वत्रिकः। ५'नुवाकयोर्वा' पा०।
। कैयट-विवरणसहितं [धनहिरण्यात्- क्तव्यः । स्तम्भः-स्तम्भीयः। स्तम्भ ॥ गर्दभाण्ड:-गर्दभाण्डीयः । गर्दभाण्ड ।। अनुवाकः-अनुवाकीयः॥ [ अध्यायानुवाकयोर्लुक् ] । धनहिरण्याकामे ।५।२।६५। ।। * ।। धनहिरण्याकामाभिधाने ॥ * ॥ धनहिरण्याकामाभिधान इति वक्त व्यम् । । * || षष्ठयर्थे ह्यनिष्ट प्रसङ्गः ।। * || षष्ठ्यर्थे हि सत्यनिष्टं प्रामोति- धेने कामोऽस्येति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् ॥ कस्मान्न भवति- धने कामोऽस्येति ? ॥ अनभिधानात् ॥ [ धनहिरण्याकामे ] ॥ शीतोष्णाभ्यां कारिणि ।५।२।७२। किं यः शीतं करोति स शीतकः यो वा उणं करोति स उष्णकः ? किं चातः ? ॥ तुषारे आदित्ये च प्राप्नोति । एवं तहि-1॥ * ॥ उत्तरपदलोपोऽत्र द्रष्टव्यः ॥ * ॥ [उत्तरपदलोपोऽन्न द्रष्टव्यः] शीतमिव शीतम् । उष्णमिवो- प्र.] श्छो भवतीति । तत्र मतुष्प्रकरण एवास्मिन् सूत्रे कर्तव्ये यदत्र च्छस्य लुग्विधान तस्मात्याक्षिको लुगनुमीयते इत्याहुः । [ अध्यायानुवाकयोः] ॥ धन । धनहिरण्याकामाभिधान इति । इच्छामात्राभिधान इत्यर्थः । षष्ठ्यर्थे होति । यद्यप्यत्र षष्ठयों न प्रकृतस्तथापि कामयत इति कामः, कर्तृसाधनकामशब्दोपादाने धनस्य कामयिता देवदत्तादिर्धनकशब्देनाभिधीयत इति सामर्थ्यात्वष्ठयर्थ एव प्रत्ययः स्यादित्यर्थः । अनभिधानादिति । कामशब्देनेच्छामात्रमभिधीयते न तु कामयिता । ततश्च तत्रेत्यधिकाराद्धनहिरण्याभ्यां सप्तम्यन्ताभ्यामिच्छामात्रे प्रत्ययो भवति-धनको देवदत्तस्येति । न तु तद्वतीति भावः । [धनहिरण्याकामे] ॥ शीतो। किं यःशीतमिति । शीतोष्णशब्दयोः स्पर्शविशेषो मुख्यार्थ इति तत्सं- प्रत्ययेनैव भाव्यमिति मत्वा प्रश्नः। उत्तरपदलोप इति । नाऽत्र समासावयव उत्तरपदम- भिप्रेतं समासस्याऽसंभवात्। किं तहिं उत्तरं यत्पदं-द्योतक इवशब्दस्तस्यापि गतार्थत्वावृत्ति उ.] ननु पूर्वसूत्रे 'सूक्तसाम्नो' रित्युक्त्या तयोग्छ एव नारित, कस्य लुगत आह-लुग्वि- धानमेवेति । मतुप्प्रकरण एवेति । तथा च 'मतुप् प्रत्ययस्यैवाऽनेन लुक्सिद्धरत्र करणम्पाक्षिकत्वार्थम्, तत्र न्यासे च प्रत्ययाऽनुमानं नेति भावः । [मतौ छः सूक्त ] । धनहिरण्याकामे । अनभिधानादित्यस्य-कामशब्देन कर्बनभिधानादित्यर्थ. इत्याह-कामशब्देनेति । [धनहिरण्याकामे ] | शीतोष्णा | समासाऽभावनोत्तरपदाऽसम्भवादाह-नात्रेति । समासाऽसम्भ- वादिति । 'इवेन समासो विभक्त्यलोपश्चे'त्यस्य सम्भवाञ्चिन्त्यमिदम् । गतार्थत्वादिति। वृत्तौ शीतादिपदं तत्सदृशपरमिति भावः । मन्दतायुक्तं तत्समानाऽधिकरणं । मन्दकरणं १ अनुकः। अनुकीयः'पा० । २'धनेन पा०। ३ इदं वार्तिकं वा भाष्यं वेति सन्दिधम्। इदं वार्तिकमेवेति तु गौडाः। ४इदं व्याख्याभाष्यं साम्याप्तमिति गौडामन्यन्ते। ५ यदत्रास्यपाल । . । । ।
.- शुमार पा./१ आ.७३ सू.] ॐ महाभाष्यम् घणम् । य आशु कर्तव्यानर्थाश्चिरेण करोति स उच्यते-शीतक इति । यः पुनराशु कर्तव्यानर्थानावेव करोति से उच्यते-उष्णक इति ॥ अधिकम् ।५।२।७३। अधिकमिति किं निपात्यते ?अध्यारूढस्योत्तरपदलोपः कश्च प्रत्ययः | अध्यारूढस्योत्तरपदलोपः कश्च प्रत्ययः। अध्यारूढमधिकम् ॥ भवेत्सिद्धमध्यारुढो दोणः खार्याम्, अधिको द्रोणः खार्यामिति । इदन्तु न सिध्यति-अध्यारूढा द्रोणेन खारी, अधिका द्रोणेन खारीति; गत्यर्थानां हि क्तः कतरि विधीयते ॥ गत्यर्थानां वै क्तः कर्मण्यपि विधीयते ॥ [ अधिकम् ] । प्र.] विषयेऽप्रयोग इत्यर्थः। यथा मन्दतायुक्तं शीतं, सति शीते कार्यकरणे पाटवाभावात् । तद्व- ग्मन्दकरणं शीतमित्युच्यते, एवमाशुकरणमुष्णम् । तत्र क्रियाविशेषणाभ्यां कर्मभ्यां प्रत्ययः शीतंकारी शीतकोऽलस इत्यर्थः। उष्णकारी उष्णको दक्षः। प्रयोगवशाच्च गौणस्या- प्यर्थस्येह क चिद्भवति । [शीतोष्णाभ्यां कारिणि ] || अधिकम् । किं निपात्यत इति । यद्यधिशब्दात्साधनक्रियावचनात्कन्निपात्यते तदा कर्तृकर्मणोरन्यतरस्य साधनस्याभिधानेन भाव्यम् । तत्र कर्तुरङ्गीकरणे कर्मणोऽभिधानं न प्राप्नोति । कर्माश्रयणे कर्तुरभिधानस्याऽप्रसङ्ग इति मत्वा प्रश्नः । अध्यारूढस्येति । लौकिके प्रयोगे अधिकाशब्देन विषयभेदेन कर्तृकर्मणोरभिधानदर्शनादनङ्गीकृतसाधनभेद- मध्यारूढस्येदं निपातनं, स चोभयार्थ इति न कश्चिद्दोषावसरः। खार्यामिति । यदा कतरि क्तस्तदा कर्मणोऽनभिधानाद् द्वितीयायां प्राप्तायां 'यस्मादधिक मिति ज्ञापकात्पञ्चमी उ.] शीत' मित्यादिना मन्दाद्यर्थशीतादिपदं क्रियाविशेषणमिति सूचितं, तदाह-क्रियाविशे- षणाभ्यामित्यादि। गौणस्याऽपीति । 'अपि'रेवार्थे। इह-शास्त्रे। 'क्वचि'दित्यस्य ग्रहणमिति शेषः। सूत्रविशेष इत्यर्थः । [शीतोष्णाभ्यां कारिणि] | अधिकम् । ससाधनेति-साहित्यमानं विवक्षितं, तेन क्रियाविशिष्टसाधनवाचका- दित्यर्थः। अनङ्गीकृतेति । अनाश्रितार्थशब्दस्वरूपमात्रस्य निपातनमित्यर्थः । द्वित्तीयायामिति । 'अध्यारूढो द्रोणः खारी'मितिवत् । भाष्येऽप्यध्यारूढपदयुक्तप्रयोगे 'खारी मिति द्वितीयान्तपाठ इति भावः । कर्मणः शेषत्वविवक्षया षष्ठयन्तपाठोऽपि क्वचित् । वस्तुतोऽधिकशब्दार्थस्य क्रियात्वाऽभावात्तद्योगे द्वितीयाप्राप्तिश्चिन्त्यैव, अन्यथा 'देवत्तेन शत्योऽश्व' इत्यादौ षष्ठीवारणाय 'कतकर्मणो रिति सूत्रे कृणरयावश्यकतया तत्सूत्रस्थ- भाष्यविरोधापत्तिः, भाष्यन्तूभयविधाऽध्यारूढशब्दार्थे एतन्निपातनमित्यर्थमात्रपरमिति स्पष्टमेव तद्विदाम् । किश्च ‘रुहिर्गत्यर्थ' इति 'यद्धितुपर मिति सूत्रे भाष्यम्, न च सा १ 'उच्यते स उष्णका'पा०। २ नेदं वात्तिकं किन्तु भाष्यव्याख्यवेत्यन्ये । क्वाचित्कमिदम् ।। ३ 'कश्च 'कन्प्रत्ययः इति वा पा०। ४ खार्याः पा०। ५खार्याइति पा०६प्रयोगदर्शनाच्च पा० । . ।
कैयट-विवरणसहितं [पार्थेनान्विच्छति पार्श्वेनान्विच्छति ।५।२।७५॥ किं यः पार्थेनाऽन्विच्छति स पाचकः ? ॥ किं चातः ? ॥ राजपुरुष प्राप्नोति ॥ एवं तर्हि-॥ * ॥ उत्तरपदैलोपोऽत्र द्रष्टव्यः ॥ * ॥ [ उत्तरपदलोपोऽन्न द्रष्टव्यः-] पार्श्वमिव पार्श्वम् । य जुनोपायनान्वेष्टव्यानर्थाननृजुनोपायेना- विच्छति स उच्यते पाचक इति ।। अयःशूलदण्डाजिनाभ्यां ठक्ठी ।५।२।७६। किं योऽयःशूलेनान्विच्छति स आयःशूलिकः? ॥ किं चातः ? | शिव- भागवते प्राप्नोति ॥ एवं तर्हि-।। * ।। उत्तरपदलोपोऽत्रे द्रष्टव्यः॥ * ॥ [ उत्तरपद. लोपोऽत्र द्रष्टव्यः- ] अयः शूलमिवायःशूलं । यो मृदुनोपायेनान्वेष्टव्यानर्थान् रभसेनान्विच्छति स उच्यते आयःशूलिकः ॥ [ अयःशूलदण्डाजिनाभ्यां ] ॥ तावतिथं ग्रहणमिति लुग्वा ।५।२।७७ प्र.] भवति । औषश्लेषिकाधिकरणविवक्षायां तु सप्तमी, तथा तदस्मिन्नधिकामिति निर्देशः कृतः। पार्थेन । राजपुरुष इति । स हि राजा पार्धाश्रयेणाऽर्थमिच्छतीति भावः । ऋजु- नेति । यथा पार्श्व तिर्यगवस्थानादनृजु तथाऽन्योऽप्यनृजुरुपायः पार्श्वमित्यर्थः । अयः । शिवभागवत इति । भगवान् भक्तिरस्य भागवतः । शिवस्य भागवत इति षष्ठीसमासः । अवयवसंस्पर्शद्वारेण समुदायार्थविशेषणाच्छिवो भगवान्भक्तिर्यस्य स प्रतीयते। एवं तहीति। यथाऽयःशूलं तीक्षणमेवमन्योऽपि तीक्ष्ण उपायोऽयःशूलमुपचारादुच्यते । तावतिथम् । 'तावतिथमिति पूरणप्रत्ययान्तनिर्देशः । गृह्यतेऽनेनेति ग्रहणम् । तत्रा- यमर्थः -पूरणप्रत्ययान्ताहणोपाधिकात् स्वार्थे कन्भवति,-तस्य च कनो वा लुग्भवति,- उ.] क्रियाऽधिकशब्दजबोधे भासते, 'अस्य परिमाणादस्य परिमाणमधिक'मित्यादावप्रतीतेः। नाऽप्यन्या, तथा सति 'गत्यर्थत्वात्कर्तरि कर्मणि च क्तः' इति भाष्याऽसङ्गतिः । आधिक्य- गुणप्रवृत्तिनिमित्तकश्चाऽयम् । पञ्चमी तु षष्ठोबाधिका--ज्ञापकादेव । स्वतन्त्रा सप्तमी तु उपश्लिष्टपदाध्याहारेण औपश्लेषिकेऽधिकरण इत्यन्ये। औपश्लेषिकेति । एतच्च 'तदस्मि'- निति सूने व्याख्यातम् । 'अधिका खारी द्रोणेने त्यत्र तृतीया प्रकृत्यादित्वाद्धेतौ वा, कृतेतिपदाध्याहारेण कर्तरि वा ।। [ अधिकम् ] पार्थेना । भाष्ये 'राजपुरुषे' इति पाठः । राजपुरुषेऽपीति पाठे 'अपिरेवार्थः ।। अयःशूल। शिवभागवते एतद्भाष्यप्रामाण्यादेव गमकत्वाद्वृत्तिः, अन्यथा भगवत्प दार्थस्य शिवरूपविशेष्यसापेक्षत्वेनाऽसामर्थ्यावृत्तिर्न स्यात् । ननु शिवस्य भगवता सामर्थेऽपि भागवतेनाऽसामर्थ्यात्कथं समासोऽत आह-अवयवेति । भक्तिः-सेव्यः। कर्मणि क्तिन् । शिवभागवता:-कापालिकाः । ते हि शूलहस्ताः प्रायेण भिक्षां चरन्ति । तीक्ष्ण उपाय इति । भाष्ये रभसपदेनाऽप्ययमेव ॥ ७६ ॥ राजपुरुषेऽपि प्राप्नोति' पा०२भाष्यमेवेदं नवात्तिकमित्यन्यो ३इदं लुप्तमासीदिति गौडाः। । ।
.. .. ५ अार पा.१ आ.। ७९ सू.] महाभाष्यम् !!*! 'तावतिथं ग्रहणमिति लुग्वा वचनानर्थक्यं विभाषाप्रकरणात् ।। तावतिर्थ- ग्रहणमिति लुग्वावचनमनर्थकम् ॥ कि कारणम् ? ॥ "विभाषाप्रकरणात् । प्रकृता महाविभाषा तयैतत्सिद्धम् ॥ ॥ * ॥ तावतिथेन गृह्णातीति लुक च ॥ * ॥ तावतिथेन गृह्णातीत्यु. पसङ्ख्यानं कर्त्तव्यं लुक्च वक्तव्यः । षष्ठेन गृह्णाति षटकः ॥ [ तावतिथं ] शृङ्खलमस्य बन्धनं करभे ।५।२७९! ॥ * ॥ शृङ्गलमस्य बन्धनं करभ इत्यनिर्देशः ॥ * ॥ शृङ्खल मस्य बन्धनं करभ इत्यनिर्देशः । अगमको निर्देशोऽनिदेशः। न हि तस्य शृङ्खलं बन्धनं शृङ्ख- लवस्याऽसौ रज्ज्वा बध्यते ॥ || सिद्धं तु तद्वन्निर्देशालुक् च ॥ * ॥ सिद्धमेतत् ॥ कथम् ? ॥ तद्वन्निर्देशः कर्तव्यो लुक् च वक्तव्यः-शृङ्खलवद्वन्धनमिति ।। स तर्हि तद्वन्निर्देशः कर्तव्यः ? ॥ न कर्त्तव्यः ॥ इह यन्नान्तरेण यस्य प्रवृत्तिर्भवति तत्तस्य निमित्तत्वाय कल्पते । न चाऽन्तरेण शृङ्खलं बन्धनं प्रवर्तते। अथवा साहचर्यात्ताच्छब्यं भविष्यति-शृङ्खलसहचरितं बन्धनं शृङ्खल बन्धन मिति ॥ [ शृङ्खलमस्य बन्धनं करभे] || अ.] पञ्चमं ग्रहणं पञ्चमकमिति। एतत्सूत्रार्थाश्रयेण वात्तिकारम्भः । तावतिथमिति । महावि- भाषाधिकाराद्विकल्पेन प्रत्ययोत्पादनाद्रूपद्वयस्य सिद्धत्वादित्यर्थः । यदा तु पूरणप्रत्ययस्य वा लुग्विधीयते-पञ्चकं ग्रहणं पञ्चमकं ग्रहणमिति,-तदा लुग्वाग्रहणं च कर्त्तव्यमेव । अन्यथा रूपद्वयं कथं सिध्येत् ?। तावतिथेनेति । स्वार्थे प्रत्ययो विधीयमानो ग्रहीतरि न प्राप्नोतीति वचनम् । लुक्च पूरणप्रत्ययस्यैव न तु कनः । [ तावतिथं ग्रहणं] ॥ शृङ्खलम् । शृङ्खलमिति । बध्यतेऽस्वतन्त्रीक्रियतेऽनेनेति बन्धनमुच्यते । रजोश्चा- ऽस्वतन्त्रीकरणे करणत्वं न तु शृङ्खलस्येति भावः । काष्ठमयं पाशकं पादे यद्ध्यत्तिषज्यते तच्छृङ्खलमुच्यते । बाल उष्ट्र:-करभः । इहेति । यद्यपि रज्जोः करणत्वं तथापि शृङ्खलस्य करणत्वमस्त्येव तदन्तरेण बन्धनस्याभावात् । अथ वेति । रञ्जः शृङ्खलशब्देन तत्साहचर्या- दुच्यत इत्यर्थः ॥ [शृङ्खलमस्य बन्धनम् ] || उ.तावतिथंग्रह। तावतिथस्यैव सूत्रे निर्देशात् 'षटक' इत्युदाहणं कथमत आह-पूरणेति। अनेनेतीति । अत एव सूत्रे सामानाधिकरण्येन निर्देशः। यदा त्विति । अत एव 'षष्ठेन गृह्णाति घटकः' इति भाष्यं सङ्गच्छते । एवञ्चेदं वात्तिकं प्रौढ्यैवेति भावः 'पञ्चक'मित्यस्य च ग्रहणकरणम्पञ्चमं रूपमित्यर्थः। [तावतिथं ग्रहणमिति ]। शृङ्खलमस्य । ननु संयोगविशेषरूपस्य बन्धनस्य शृङ्खलमपि करणमेवेत्यत आह- अस्वतन्त्रीक्रियत इति । व्यतिषज्यते-रज्ज्वादिना बध्यते इत्यर्थः । 'शृङ्खलमिति क्वचि. पाठः । भाष्ये-यं नान्तरेणेति । यं विना यस्य प्रवृत्तिनेत्यर्थः । [शृङ्खलमस्य ] । १ 'करमे इति कचिन्न । २ 'यं नान्तरेण' पा० । ३ 'रज्वाः' पा० । ४'शृङ्खल' पा० । । । । कर कैयट-विवरणसहितं [श्रोत्रियंश्छन्दो तदस्मिन्नन्नं प्राये संज्ञायाम ।५।२।२। 11*प्राये संज्ञायां वटकेभ्य इनिः ।।।। प्राये संज्ञायां वटकेभ्य इनिर्वक्तव्यः । चटकिनी पौर्णमासी॥ [तदस्मिन्नन्नं प्राये सज्ञायाम् ] ॥ श्रोत्रियश्छन्दोऽधीते ।५।२।८४| किं निपात्यते ? ॥ ॥ * ॥ श्रोत्रियंश्छन्दोऽधीत इति वाक्याथे पदवचनम् ।।.॥ छन्दोऽधीत इत्यस्य वाक्यस्याऽर्थे 'श्रोत्रियन्नित्येतत्पदं निपात्यते ||* छन्दसो बा श्रोत्रभावः तदधीत इति घंश्च ।। * ।। छन्दसो वा श्रोत्रभावो निपात्यते तद- धीत इत्यस्मिन्नर्थे, घंश्च प्रत्ययः । छन्दोऽधीते श्रोत्रियः ॥ [श्रोत्रियंश्छन्दो] ॥ श्राद्धमनेन भुक्तमिनिठनौ ।५।२।८५। ॥ * ॥ इनिठनोः समानकालग्रहणम् ॥ * ॥ इनिठनोः समानकालग्रहण कर्तव्यम् । अद्य भुक्ते श्वः श्राद्धिक इति मा भूत् ॥। उक्तं वा ॥ [उक्तं वा] किमुक्तम्-॥ * ॥ अनभिधानादिति ॥ * ॥ प्र.] तदस्मिन्नन्नम् । वटकेभ्य इनिरिति । कनि प्राप्ते वचनम् । मत्वर्थीयस्त्विनिः 'सप्तम्यां च न तौ स्मृता विति नास्ति ॥ [ तदस्मिन्नन्नं प्राये सज्ञायाम् ] ॥ श्रोत्रियन् । वाक्यार्थ इति । वाक्यार्थस्य सम्बन्धरूपस्य क्रियारूपस्य वाऽसत्त्व- भूतत्वात् श्रोत्रियशब्दस्य च सत्त्वभूतार्थाभिधायित्वादाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽ. ध्याय्युपचारादभिहितः । तत्राऽविद्यमानप्रकृतिप्रत्ययविभागः श्रोत्रियशब्दो निपात्यते । नकारः स्वरार्थः। तेनायुदात्तत्वं नित्करणसामर्थ्यायपवर्गाभावेऽपि भवति। छन्दसो वेति। तस्मिन्पक्षे धनाऽणो बाधप्रसङ्गाच्छान्दसशब्दो न सिध्यतीति 'तावतिथं ग्रहण'मित्यतो 'वा'ग्रहणमनुवर्त्यम् । अथ वा विशेषतः छन्दोऽध्यायिनि तदर्थानुष्ठायिनि श्रोत्रियशब्दस्य निपातनादध्येतृमात्रे छान्दसशब्दस्य नास्ति बाधः । [श्रोत्रियंश्छन्दो ॥ श्राद्ध । समानकालग्रहणमिति । भुजिना समाने काले प्रत्ययप्रयोगो यथा स्यात् । यस्मिन्काले भुजिक्रियाऽऽहिततृप्तिलक्षणविशेषानुवृत्तिस्तस्मिन्नेव श्राद्धिश्राद्धिकशब्द- उ.] श्रोत्रियंश्छ । ननु वाक्यार्थे वृत्तावसत्त्वभूतार्थकत्वादव्ययत्वापत्तिरत आह-वाक्या- थस्येति । ननु सम्बन्धस्य न वाक्यार्थत्वं 'वाक्यार्थे' इत्यस्य तज्जन्यवोधविशेष्ये' इत्य- दत आह-क्रियारूपस्य वेति । व्यपवर्गाऽभावेऽपीति । निति परे इत्यर्थ इत्यभिमानः । वस्तुतस्तु निदन्ते पदे इत्यर्थाध्यपदेशिवद्भावेनेदं सिद्धम् । विशेष छन्दो. अध्यायिनीति। छन्दोऽध्यायित्वतदर्थाऽनुष्ठायित्वरूपविशेषवतीत्यर्थः । विशेषत इति पाठे 'निपातना दित्यनेनाऽन्वयः। विशेषमेव दर्शयति-छन्दोऽध्यायिनीत्यादिना। श्राद्धमनेन । द्वयोः प्रत्यययोः समानकालत्वाऽसम्भवादाह-भुजिनेति। नन्वेवं भोजनो- १ 'उक्तं वे' त्येतावदेव वार्तिकम् , 'अनभिधानादिति तु भाष्यमेवेत्यन्ये ।
५१.२पा.३१ आ.। ९२सू.] महाभाष्यम् ३९९ साक्षाद् द्रष्टरि संज्ञायाम् ।५।२।९१॥ संज्ञायामिति किमर्थम् ? ॥ निभिः साक्षाद् दृष्टं भवति-यश्च ददाति यस्मै च दीयते यश्चोपद्रष्टा,-तत्र सर्वत्र प्रत्ययः प्रायोति ॥ संज्ञाग्रहण- सामर्थ्याद्धनिकाऽन्तेवासिनोन भवति ॥ [ साक्षादृष्टरि ] । क्षेत्रियच्परक्षेत्रे चिकित्स्यः ।५।२।९। किं निपात्यते ? ॥ * ॥ क्षेत्रियः श्रोत्रियवत् ।। * ॥ क्षेत्रियः श्रोत्रियवन्नि- पात्यते । परक्षेत्र चिकित्स्य इत्येतस्य वाक्यस्याऽर्थे 'क्षेत्रिय जित्येते- स्पदं निपात्यते ॥ * ।। परक्षेत्राद्वा तत्र चिकित्स्य इति परलोपो घेश्च ॥ * ॥ परक्षे- त्राद्वा तत्र चिकित्स्य इत्येतस्मिन्नर्थे परलोपो घंश्च प्रत्ययः। परक्षेत्रे चिकित्स्यः क्षेत्रियः ॥ ॥ * ॥ इति श्रीमद्भगवत्पतञ्जलिमुनिविरचिते पञ्चमाध्यायस्य द्वितीये पादे प्रथममाह्निकम् ।।२।१।।। || तदस्यास्त्यस्मिन्निति मतुम् ।५।२।९४॥ प्र.] योरुधारणं न तु कालान्तरे । स च समानः कालो लोकप्रसिद्धयनुसारेणाऽद्यतन एव द्रष्टव्यः,तेन यदा द्वितीयेऽहनि कस्य चिदन्नमपरिणतं तदा प्रत्ययाभावः॥ श्राद्धमनेनभुक्त] साक्षात् । संज्ञायत इति संज्ञेत्यर्थ एव व्यपदिश्यमानोऽभिधीयते। अथ वा संज्ञायते. ऽनयेति संज्ञा । निपातनाल्ल्युडभावः । ततः शब्द एव संज्ञाशब्देनोच्यते । संज्ञायां विषये कार्यं भवतीत्यर्थः । लक्ष्यानुसारिप्रतिपत्रपेक्षया प्रश्नः-संज्ञाग्रहणं किमर्थमिति । लक्षणानुसारिप्रतिपत्रपेक्षया तूत्तरम्-निभिरिति । अन्तेवासिशब्देन शिष्यसा- धात्पारतन्त्र्यादधमर्ण उच्यते ॥ [ साक्षादृष्टरि ] ॥ क्षेन्नि । परक्षेत्रे-जन्मान्तर शरीरे चिकित्स्यो व्याधिरसाध्यत्वात्क्षेत्रियः । तथा पर- क्षेत्रे-धान्यार्थे क्षेत्र यानि तृणानि जातानि विनाश्यानि तानि क्षेत्रियाणि । तथा परदारेषु निग्राह्यः क्षेत्रियः । तथा परशरीरेषु संक्रमय्य यद्विषं चिकित्स्यते तत्क्षेत्रियम् । * इतिश्रीकैय्यटविरचिते महाभाष्यप्रदीपे पञ्चसाध्यायस्य द्वितीये पादे प्रथममाह्निकम् ॥ ५२।१। * तदस्य । 'शाखावान्वृक्ष' इत्यादी वृक्षादेराधारभावोऽप्यस्ति, तत्पूर्वकं सम्बन्धित्वं चेत्य- उ.] त्तरं तद्दिनेऽपि प्रयोगो न स्यादित्यत आह-यस्मिन्निति। 'लोकप्रसिध्यनुसारेणे'ति- पाठः। साक्षाद् । एवं व्यपदिश्यमान इति । 'संज्ञायत' इत्यर्थकसंशाशब्देन साक्षा- टत्वेन व्यवहियमाणोऽर्थोऽभिधीयत इत्यर्थः । एवं व्यवहियमाणेऽर्थे इति प्रत्यय इत्यर्थः। अनयेति। शब्दव्यक्तयेत्यर्थः । तदाह-शब्द एवेति। संज्ञायां विषय इति । तदर्थप्रतिपादकशब्दविषय इत्यर्थः [ साक्षादृष्टरि ] *। इति श्रीशिवभट्टलुतसतीगर्भज- नागोजीभट्टकृते भाष्यप्रदीपोद्दयोते पञ्चमाऽध्यायस्य द्वितीयपादे प्रथममाह्निकम्।।* १ 'क्षेत्रियजिति निपात्यते' पा०॥ २ 'धच' इति 'घश्च' इति वा पा०। ।
.. - * कैयट-विवरणसहित [ तदस्यारत्य- किमर्थमिमावर्थावुभौ निर्दिश्येते-अस्यास्मिन्निति, न यद्यस्य भवति तस्मिन्नपि तद्भवति, यच्च यस्मिन्मवति तत्तस्याऽपि भवति ? ।। नैतयोराव- अ.] न्यतरोपादानेनैवेष्ट विषये सिद्धि मत्वा पृच्छति-किमर्थमिति । करमा इदं किमर्थम् । कोऽर्थोऽस्येति वा किमर्थम् । एतच्च निर्देशक्रियाविशेषणं न तु निर्दिश्यमानविशेषणमिति नपुंसकैकवचननिर्देशः। न यद्यस्येति।नशब्दः काका प्रयुक्तो भवत्येवेति विधिं गमयति। नैतयोरावश्यक इति। अवश्यंभाव आवश्यकम् । मनोज्ञादेराकृतिगणत्वादोरावश्यक इति निपातनाद्वा बुब्प्रत्ययः। 'अव्ययानां भमा।'इति टिलोपः। आवश्यकमस्मिन्नस्तीत्यावश्यकः। अर्शआदेराकृतिगणत्वादच्प्रत्ययः। इह यदा सम्बन्धः सर्वकारकपूर्वकः नाधारपूर्वक एव, यथा देवदत्तस्य गाव इति क्रयप्रतिग्रहादिक्रियाविषयकर्तृत्वपूर्वकः स्वस्वामिसम्बन्धः, तदा सप्तम्यु- पादाने कारकान्तरपूर्वसम्बन्धाग्रहणादस्येति षष्ठयर्थोऽप्युपादानीयः । तथा पष्ठयर्थमात्र निर्देशे यत्राधिकरणं शेषसम्बन्धनिमित्तसम्बन्धित्वेनाऽविवक्षितम्-वृक्षा अस्मिन्पर्वते सन्तीति; तत्र प्रत्ययो न स्यात् । न ह्यत्र क्रियाकारकपूर्वः शेषसम्बन्धो दृश्यते, वृक्षः पर्वतस्यानारम्भात् । नावयवावयविभावः-आनन्तर्यादिसम्बन्धसम्भवेऽपि तत्र मत्वर्थीयैर्न भाव्यं, तस्मादुभयो- पादानम् । ननु किमुच्यते-न तास्तस्मिन्नाधृताभवन्तीति-यावता 'यस्य चेश्वरवचन' मित्येतत्प्रत्याख्यानायाधिब्रह्मदत्ते पञ्चाला इति सप्तमीसिद्धयर्थं भाष्यकारेणाभिहितं- उ.] तदस्याऽस्त्य । नन्वाधारत्वसम्बन्धित्वयोर्भेदात्प्रश्नाऽनुपपत्तेराह-शाखावानिति। 'वृक्षे शाखा' 'वृक्षस्य शाखे'त्युभयदर्शनादिति भावः । तत्पूर्वकं सम्बन्धित्वञ्चेति सम्बन्धित्व-सम्बन्धः । अवयवाऽवयविभावरूपमिति भावः। बोधविषयधर्मभेदसत्त्वेन 'मत्वे त्युक्तम् । द्वयोरर्थयोर्विशेष्यत्वान्नपुंसकैकवचननिर्देशाऽनुपपत्तेराह-एतच्चेति । नञो निषेधार्थत्वेऽसङ्गतेराह- नशब्द इति । भवत्येवेति । तस्मिन्नपि तद्भवत्येवेत्यर्थः भावप्रत्ययान्तस्य नपुंसकत्वदर्शनादन्वयाऽसम्भवाच्चाह-अवश्यम्भावइत्यादि। अवश्य यद्भवति तस्य भावस्तद्बोधक शब्दः, स चाऽवश्यशब्द एव, सोऽर्थद्वारा यत्राऽस्तीत्याव- श्यकः । एवञ्च,-'आवश्यक' इत्यस्य-अवश्यं समावेश इत्यर्थः। वृक्षशाखयोस्तत्समावेश- दर्शनादाह-इहेत्यादि । यदेति । यत इत्यर्थः । तदेति च,-तत इत्यर्थः । कर्तत्व- पूर्वक इति । कर्मत्वस्याऽप्युपलक्षणम् । सम्बन्धनिमित्तेति । सम्बन्धनिमित्ते- सम्बन्धनिरूपके सम्बन्धित्वेनाऽविवक्षितम् , किन्त्वधिकरणत्वेन विवक्षितमित्यर्थः । तत्त्वेनाऽविवक्षा च सम्बन्धाऽसम्भवादेबेत्याह-न पत्रेति । कारकाणां शेषत्वविवक्षा हि तत्पूर्वकसम्बन्धसत्त्वे, न च प्रकृते कश्चित्तादृशः सम्बन्धोऽस्तीति भावः। तदेवोपपादयति- वृक्षरिति । आनन्तर्यादिसम्बन्धेति । अनन्तरादिसमभिव्याहारं विना तेषां षष्ठ्या- द्यर्थत्वाऽभावः, तथासमभिव्याहारे तु सापेक्षत्वान्मत्वर्थीयो नेति भावः । कारकप्रकरणे इति । 'साधकतम मिति तमप्ग्रहणादिति भावः । अयन्त्विति। न चेह गौणग्रहणे ज्ञापकमस्तीति भावः। अन्यत्वेवं हि 'घोषवती गङ्गा' 'काकवद्गृह'मित्याधनापत्तिः, ध्यापकाधारस्यैव मुख्याधिकरणत्वमिति 'स्वरितेन' 'साधकतम'मित्यादौ भाष्ये स्पष्टमुक्तः, , ५ अ.१२ पा.२ आ.।९४ सू.] महाभाष्यम् श्यकः समावेशः,-भवन्ति हि देवदत्तस्य गावो न च तास्तस्मिन्नाता भवन्तिा भवन्ति च पर्वते वृक्षा न च ते तस्य भवन्ति तस्मादेस्याऽस्मिन्ग्रहणम् ॥ अथाऽस्तिग्रहणं किमर्थम् ? ॥ सत्तायामर्थे प्रत्ययो यथा स्यात् ॥ नैतदस्ति प्रयोजनं, न सत्ता पदार्थो व्यभिचरति ॥ प्र.] 'परिग्रहीतव्यं परिग्रहीत्रधीन'मित्यादि। तथा च 'देवदत्ते गाव' इत्यपि भवितव्यम् । कारकप्रकरणे हि गौणमुख्यन्यायस्यानाश्रयणागौणस्याधारस्याप्यधिकरणसंशया भाव्यम् । यथा 'गङ्गायां घोषः' 'कूपे गर्गकुल'मिति । ततश्च सप्तम्युपादानेऽपि 'गोमान्देवदत्त' इति सिध्यत्येव । नैतदस्ति । सप्तमीमात्र निर्देशे मुख्य एवाधिकरणे मत्वर्थीयाः स्यु:- 'वृक्षवान् पर्वत' इत्यादौ, न तु गौणे 'गोमान् देवदत्त' इत्यादौ । कारकप्रकरणे हि गौणमुख्यन्यायानाश्रयणम् , अयन्तु प्रत्ययविधिरिति स्यान्यायाश्रयणमिति षष्ठी- निर्देशोऽपि कृतः। अथास्तिग्रहणमिति । संभवे व्यभिचारे च विशेषणविशेष्यभावो भवति, यथा नीलोत्पलमिति । सत्तां तु पदार्थो न व्यभिचरति, तामन्तरेण पदोचारणा- ऽसंभवात्तस्या एव सर्वशब्दप्रवृत्तौ कारणत्वादिति प्रश्नः । सत्तायां प्रत्ययो यथा स्यादिति। सत्तायां वर्तमानात्सत्तोपाधिकार्थाभिधायिनः प्रत्ययो यथा स्यादित्यर्थः न सत्तां पदार्थो व्यभिचरतीति । यावद्बुद्ध्या पदार्थो न विषयीकृतस्तावत्पदस्य प्रयोगाभावः । तस्माद्बुद्धिसत्तासमाविष्टोऽर्थों विधिनिषेधजननादिभिः सम्बध्यते, वृक्षोऽस्ति वृक्षो नास्ति वृक्षो जायत इति । अत्यन्ताऽसतोऽपि बहिः शशविषाणादीनर्थान् बुच्या विषयीकृत्य शशविषाणादिप्रयोगः, तस्माद्बध्यारुढोपचरिता सत्ता शब्दप्रयोगाश्रयत्वादव्यभि- उ.] तस्मादधिग्रह्मदत्ते पश्चाला इत्यादौ 'आधृता' इत्यध्याहारेण बौद्धमाधारत्वम् , तच्च यत्र तथा बुद्धिरस्ति तत्राऽस्तु, सा चाधिशब्दयोग एव, नाऽन्यत्रेति भाष्याशयः। भाष्ये--भव- न्ति च पर्वते इति । न च तेऽपि तस्य संयोगवन्तो भवन्तीति वाच्य; संयोगसम्बन्धेन सम्बन्धिनि मतुपः षष्ठयाश्चाऽनङ्गीकारात् । न हि कथञ्चित्संयुक्तयोर्घटयोः 'घटवान् घट'इति 'घटस्येति वा भवति । संयोगविशेष एव च भवति, तत्र च आधाराधेयभाव एव इत्याहुः । अस्तीति प्रकृत्यर्थविशेषणन्तत्र प्रश्नाशयमाह-सम्भवे इति । तामन्तरेण-बुद्धौ पदार्थ- सत्तामन्तरेणार्थबोधाय पदोच्चारणाऽसम्भवादित्यर्थः। तस्या एव-बुद्धि सत्ताया एव । प्रवृत्ती-प्रयोगे । 'न सत्ता प्रकृत्यर्थ' इति 'सत्तायां वर्तमानादित्यसङ्गतमतस्तदर्थमाह- सत्तोपाधिकेति। वृत्तौ प्रकृतेस्तदर्थाऽन्तर्भावेण वृत्तिरिति भावः । ननु वर्तमानाऽर्थ- शत्रन्तप्रकृतिकसत्तापदार्थो न भूतभविष्यतोरिति कथं पदार्थस्तां न व्यभिचरतीत्यत आह-यावदिति। सम्बध्यत इति । 'बहिःसत्त्वाऽसत्त्वादिप्रतिपादनायेति शेषः । नन्वत्यन्ताऽसन् शशविषाणादिः सत्तां व्यभिचरतीत्यत आह-अत्यन्तेति । उप- चरितेति । बाह्यसत्ताया एव मुख्यत्वादियं गौणीत्यर्थः, तयैव सर्वव्यवहारात् । शब्द: प्रयोगाश्रयत्वात्-तत्प्रयोगनिमित्तत्वात् । ननु तस्या न शब्दजबोधविषयत्वं, तद्विशिष्टस्य १ अयं पाठो न सार्वत्रिकः ।२ ‘सत्तायामर्थे' इति तु भाष्ये पाठः । २६ कैयट-विवरणसहितं [तदस्यास्त्यस्मिन् इदं तर्हि प्रयोजन-सम्प्रतिसत्तायां यथा स्याभूतभविष्यत्सत्तायां मा भूत- 'गावोऽस्यासन्' 'गावोऽस्य भवितार' इति ॥ अ.] चारेत्यर्थः। सैव तु बुद्धिसत्ता प्रयोक्तप्रतिपत्तॄणां वहीरूपतयाऽवभासते। यदि तु वृक्षादीनां बाह्यसत्तासमाविष्टं वस्तु वाच्यं स्यात्तदा 'वृक्ष' इत्यतः सत्तावगमादस्तीत्यस्य गतार्थत्वात् प्रयोगो न स्यात् । नास्तीत्यस्य च सत्ताविरोधात्प्रयोगाऽप्रसङ्गः । 'अङ्कुरो जायते' इति च प्रयोगो न स्यात्सतो जन्मबिरोधात् । उपचारसत्तायां त्वते दोषा नावतरन्ति । बुद्धिसत्ता- समाविष्टस्य बहिःसत्वाऽसत्त्वजननप्रतिपादनायास्तिनाऽस्तिजायत इति प्रयोगात् । अन्ये तु वर्णयन्ति, यत्र क्रियापदं न श्रयते तत्राऽस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्तीति गम्यत इत्येतदाश्रयणेन'न सत्तां पदार्थों व्यभिचरती'त्युक्तम् । तेषां-'संप्रतिसत्तायां यथा स्या'- दिति परिहारग्रन्थो नोपपन्नः। 'राजपुरुष' इत्यादौ च सबन्धप्रतिपादनेऽस्तेराक्षेपाभावादन- कान्तिकमेतत् । संप्रतिसत्तायामिति । वर्तमानसत्तायो-बाह्यायां सत्तायामित्यर्थः। भूत- भविष्यत्सत्तायामिति । भूतभविष्यतोर्या सत्ता अतीतानागतवस्तुपरामशिबुद्धितत्त्वोत्प्रे. क्षितोपचरितरूपा तस्यां मा भूदित्यर्थः। या तु मुख्या सत्तासा भूतभविष्यत्सत्तेति व्यपदेष्टुं न शक्यते । 'स'दित्यस्य लडन्तस्य वर्तमानकालविषयत्वाद्भूतभविष्यतोः सत्तेति सम्बन्धा- ज्योगात् । नापि 'भूता सत्ता' 'भविष्यन्ती सत्तेति सामानाधिकरण्येन सम्बन्धोपपत्तिः। अथा- उ.] नयनाद्यसम्भवादत आह-सैव विति । बहिःसत्तासत्त्वे तु तत्समानाऽधिकरणतयाऽ. सत्त्वे तु केवलायास्तस्या एव बहीरूपत्वेन भानम् , अत एव घटशून्यादपि गेहाइटमानये. त्युक्ते आनयने प्रवर्तते, पश्चात्तदभावनिर्णये वक्तृज्ञानस्य भ्रमत्वं कल्पयतीति भावः । अन्तःकरणस्य रागादिदोषवशेन तस्या एव तत्त्वेन भानमिति तात्पर्यम् । बाह्यसत्ताया एव प्रयोगनियामकत्वे दोघमाह-यदि विति। सतो जन्मविरोधादिति । 'सूक्ष्मरूपेण- स्थितस्यैव स्थूलरूपापत्तिर्जन्मेति मतेऽपि अङ्कुरशब्दोपात्तस्थूलरूपाऽवच्छिन्नस्याऽसत एव जन्मेति भावः । उपचारसत्तायान्विति । उपचारसत्तायाः शब्दप्रयोगनिमि- तत्वाश्रयणे स्वित्यर्थः । नन्वेवं बुद्धिसत्तायाः सर्वत्र भाने 'अस्ती'त्यादिप्रयोगो न स्यादत आह-बुद्धीति। तया च बाह्यसत्ताऽभावस्य जननस्य चाऽविरोधादिति भावः । नोप- पन्न इति । अस्तिना सम्प्रतिसत्ताया एव प्रतीतेरिति भावः । दोषान्तरमप्याह-राज- पुरुष इत्यादौ चेति । आक्षेपाऽभावादिति । 'राजपदार्थे' इति शेषः । ननु बुद्धि. सत्ता सर्वा व्यवहारकाले सम्प्रतिसत्तैवेत्यत आह-बाह्यायामिति । मुख्यायामित्यर्थः वस्तुपरामर्शि-वस्तुग्राहकम् । बुद्धितत्त्वम्-अन्तःकरणम् । तदुत्प्रेक्षिता-तद्वृत्तिविषयी- कृता । ननु मुख्यायामेव वर्तमानायां यथा स्याद्भूतभविष्यन्त्यां मा भूदित्येव भाष्यं कुतो न व्याख्यायतेऽत आह-या विति । सम्बन्धाऽयोगादिति । सत्तावर्त्तमान कालत्वस्याऽऽश्रयगतभूतत्वादिना विरोधात् । सत्तावर्तमानत्वस्याश्रयवर्तमानत्वनियत- त्वात् । सामानाऽधिकरण्येनाऽपि न सम्बन्धः, स्वगतवर्तमानत्वस्य स्वगतभूतत्वादिना १'प्रयोगयोगात्' पा०। २ 'वर्तमानसत्तायां बाह्यायां पा०।
, ५ अ.।२ पा.२ आ.।९४ सू.] ॐ महाभाष्यम् न तीदानीमिदं भवति-'गोमानासीत् 'गोमान्भविते ति?॥ भवति, वेतस्मिन्वाक्ये ॥ यदि खेतस्मिन्बाक्ये स्याद्यथेहाऽस्ते: प्रयोगो न भवति गोमान्यवमा निति, एवमिहापि न स्यात्-'गोमानासीत्' 'गोमान्भविते'ति। सति चास्तेः प्रयोगे यथेह बहुवचनं श्रूयते-गावोऽस्यासन्' अ.] अयस्य भूतभविष्यत्वाद्भूता सत्ता भविष्यन्ती सत्तेत्युच्यते तथाऽप्यसौ वर्तमाना न भवतीति तत्र प्रत्ययाभावः। तेन गावोऽस्यासन्' 'गाबोऽस्य भवितार' इत्यत्रार्थे 'गोमा निति प्रयोगोन भवति। न तहाँति । विद्यमान एव देवदन्ते तद्गवीनामतीतानागतत्वप्रतिपादनाय 'गोमाना- सीनोमान्भवितेति प्रयुज्यते । तत्र प्रकृत्यर्थस्य सम्प्रतिसत्ताया अभावात्प्रत्ययाऽप्रसङ्गः । गुणधर्मस्य च प्रधान आरोपादासीद्धवितेति प्रत्ययार्थस्यातीतानागतव्यपदेश इति चोदको मन्यते । भवतीति । अवस्थातुर्विद्यमानत्वेऽप्यवस्थाविशेषस्य भूतभविष्यत्त्वादासीद्भवितेति व्यपदेशो यथेश्वरोऽयमासीदिति सिद्धान्तवादिनोऽभिप्रायः। न त्वेतस्मिन्वाक्य इति । 'गावोऽस्यासन्' 'गावोऽस्य भवितार' इत्यत्रार्थे 'गोमा'निति न प्रयुज्यते इत्यर्थः । यथेति । प्रत्ययान्तेनैव प्रकृत्यथर्थोपाधेः प्रतीतत्वात्तदुपाधिवाचिनः प्रयोगाभावः, यथा दाण्डा क्रीडेति प्रहरणशब्दस्येति भावः । सति चेति । सामान्याभिधाने विशेषावगमाय दृश्यते प्रयोगो यथोत्पुच्छयत इत्यादावसनविशेषप्रतिपादनाय व्युत्परीणाम् , अभिमनायत इत्यादौ च प्रत्यया- उ.] विरोधादिति भावः। अथ कर्मधारयं समर्थयते-अथाश्रयस्येति । सत्ताशब्दश्च केवलरूढ एव, न तु वर्तमानकालाऽवच्छिन्नसत्ताप्रतिपादक एवेति भावः । तथाप्यसाविति । तथाऽपि न दोषो यतोऽसावित्यन्वयः । 'सम्प्रतिसत्ताया मिति भाष्यस्य-वर्तमाना- श्रयकसत्तायामित्यर्थकरणादिति भावः । ननु 'गोमानासोदित्यादौ सम्बन्धिनोऽती- तादिसत्ता प्रतिपाद्यते न गवामिति नाऽयं दोषो ऽत आह-विद्यमान एवेति । ननु गवां सत्ताया एवाऽतीतत्वादिप्रतिपादने 'आसन्नित्यादि बहुवचनं स्यागावोऽस्यासन्नितिवदत आह-गुणधर्मस्थ चेति । विशेषणगोगताऽतीतत्वस्येत्यर्थः । प्रधाने-गोमति । 'आसीद्भ- वितेतिशब्दाभ्या'मिति शेषः। प्रत्ययार्थस्य । मतुष्प्रत्ययार्थगोसम्बन्धिकर्तृकसत्ताया इत्यर्थः। ननु गोमतो विद्यमानत्वेन कथं भूतादिप्रयोगोऽत आह-अवस्थातुरिति । अवस्था- विशेषस्य-बाह्यसत्ताविशिष्टगोसम्बन्धस्य । यथेति । यथा च विशेष्यस्य विद्यमानत्वेऽपि चिखासम्बन्धरूपविशेषणनाशाद्विशिष्टनाशमादाय 'शिखी नष्ट' इत्यादिव्यवहारः, तद्वदेव चाऽर्थाद्विशिष्टवेषेण मत्वन्तार्थस्य सम्बन्धिनोऽतीतत्वादिप्रतीतिरिति बोध्यम् । ननु मतुपः सम्बन्धिमात्रार्थकत्वेन तत्राऽप्यस्तेः प्रयोगः कुतो नेत्यत प्रत्ययान्तेनैवेति । प्रत्ययान्तप्रकृत्येत्यर्थः । ननूक्तत्वादप्रयोग एव न्याय्योऽत आह- विशेषाऽवगमायेति । सत्तागताऽतीतत्वाधवगमायेत्यर्थः । प्रत्ययेन हि प्रकृत्यों- पाधितया सत्तामात्राऽवगतेरिति भावः । असनविशेषेति । व्यसनोदसनपर्यसनरूपे- त्यर्थः । प्रत्ययार्थभवने इति । 'मनस्वी सुष्ठ भवती'त्याद्यर्थप्रतीतिरित्यभिमानः । १ 'यद्येतस्मिन्' पा० ॥ .
- - कैयट-विवरणसहितं [ तदस्यास्त्यस्मिन् इदं तर्हि प्रयोजन-सम्प्रतिसत्तायां यथा स्याभूतभविष्यत्सत्तायां मा भूत्- 'गावोऽस्यासन्' 'गावोऽस्य भवितार' इति । प्र.] चारेत्यर्थः। सैव तु बुद्धिसत्ता प्रयोक्तृप्रतिपत्तणां बहीरूपतयाऽवभासते। यदि तु वृक्षादीनां बाह्यसत्तासमाविष्टं बस्तु वाच्यं स्यात्तदा 'वृक्ष' इत्यतः सत्तावगमादस्तीत्यस्य गतार्थत्वात् प्रयोगो न स्यात् । नास्तीत्यस्य च सत्ताविरोधात्प्रयोगाऽप्रसङ्गः। 'अङ्कुरो जायते' इति च प्रयोगो न स्यात्सतो जन्मविरोधात् । उपचारसत्तायां त्वेते दोषा नावतरन्ति । बुद्धिसत्ता- समाविष्टस्य बहिःसत्वाऽसत्त्वजननप्रतिपादनायास्तिनाऽस्तिजायत इति प्रयोगात् । अन्ये तु वर्णयन्ति, यत्र क्रियापदं न श्रयते तत्राऽस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्तीति गम्यत इत्येतदाश्रयणेन'न सत्तां पदार्थो व्यभिचरती'त्युक्तम् । तेषां-'संप्रतिसत्तायां यथा स्या'- दिति परिहारग्रन्थो नोपपन्नः। 'राजपुरुष' इत्यादौ च सबन्धप्रतिपादनेऽस्तेराक्षेपाभावादन- कान्तिकमेतत्। संप्रतिसत्तायामिति । वर्तमानसन्तायो-बाह्यायां सत्तायामित्यर्थः। भूत. भविष्यत्सत्तायामिति । भूतभविष्यतोर्या सत्ता अतीतानागतवस्तुपरामर्शिबुद्धितत्त्वोत्प्रे. क्षितोपचरितरूपा तस्यां मा भूदित्यर्थः। या तु मुख्या सत्ता सा भूतभविष्यत्सत्तेति व्यपदेष्टुं न शक्यते । 'स'दित्यस्य लडन्तस्य वर्तमानकालविषयत्वाद्भतभविष्यतोः सत्तेति सम्बन्धा- ऽयोगात् । नापि 'भूता सत्ता' 'भविष्यन्ती सत्तेति सामानाधिकरण्येन सम्बन्धोपपत्तिः। अथा- उ.] नयनाद्यसम्भवादत आह-सैव विति । बहिःसत्तासत्त्वे तु तत्समानाधिकरणतयाऽ. सत्त्वे तु केवलायास्तस्या एव बहीरूपत्वेन भानम् , अत एव घटशून्यादपि गेहाद्धटमानये- त्युक्ते आनयने प्रवर्तते, पश्चात्तदभावनिर्णये वक्तज्ञानस्य भ्रमत्वं कल्पयतीति भावः । अन्तःकरणस्य रागादिदोषवशेन तस्या एव तत्त्वेन भानमिति तात्पर्यम् । बाह्यसत्ताया एव प्रयोगनियामकत्वे दोषमाह-यदि विति। सतो जन्मविरोधादिति । 'सूक्ष्मरूपेण- स्थितस्यैव स्थूलरूपापत्तिर्जन्मेति मतेऽपि । अङ्कुरशब्दोपात्तस्थूलरूपाऽवच्छिन्नस्याऽसत एव जन्मेति भावः। उपचारसत्तायान्विति । उपचारसत्तायाः शब्दप्रयोगनिमि- तत्वाश्रयणे त्वित्यर्थः । नन्वेवं बुद्धिसत्तायाः सर्वत्र भाने 'अस्तीत्यादिप्रयोगो न स्यादत आह-बुद्धीति । तया च बाह्यसत्ताऽभावस्य जननस्य चाऽविरोधादिति भावः। नोप- पन्न इति । अस्तिना सम्प्रतिसत्ताया एव प्रतीतेरिति भावः । दोषान्तरमप्याह-राज- पुरुष इत्यादौ चेति । आक्षेपाऽभावादिति । 'राजपदार्थे' इति शेषः । ननु बुद्धि. सत्ता सर्वां व्यवहारकाले सम्प्रतिसत्तैवेत्यत आह-बाह्यायामिति । मुख्यायामित्यर्थः । वस्तुपरामर्शि-वस्तुग्राहकम् । बुद्धितत्त्वम्-अन्तःकरणम् । तदुत्प्रेक्षिता-तद्वृत्तिविषयी- कृता । ननु मुख्यायामेव वर्तमानायां यथा स्याभूतभविष्यन्त्यां मा भूदित्येव भाष्यं कुतो न व्याख्यायतेऽत आह-या विति। सम्बन्धाऽयोगादिति । सत्तावर्त्तमान कालत्वस्याऽऽश्रयगतभूतत्वादिना विरोधात् । सत्तावर्त्तमानत्वस्याश्रयवर्तमानत्वनियत- त्वात् । सामानाऽधिकरण्येनाऽपि न सम्बन्धः, स्वगतवर्तमानत्वस्य स्वगतभूतत्वादिना १ 'प्रयोगयोगात्' पा० । २ 'वर्तमानसत्तायां बाह्यायां' पा० ॥ ..
। , । ५ अपा.२ आ.।९४ सू.] ॐ महाभाष्यम् ४०३ न तहीदानीमिदं भवति-'गोमानासीत्' 'गोमान्भवितेति ॥ भवति, न त्वेतस्मिन्दाक्ये ॥ यदि त्वेतस्मिन्वाक्ये स्याउथेहाऽस्तः प्रयोगो न भवति 'गोमान्यवमा' निति, एवमिहापि न स्यात्-'गोमानासीत्' 'गोमान्भविते'ति। सति चास्तेः प्रयोगे यथेह बहुवचनं श्रूयते-'गावोऽस्यासन्' अ.]श्रयस्य भूतभविष्यत्वाद्भूता सत्ता भविष्यन्ती सत्तेत्युच्यते तथाऽप्यसौ वर्तमाना न भवतीति तत्र प्रत्ययाभावः। तेन गावोऽस्यासन्' 'गावोऽस्य भवितार' इत्यत्रार्थे 'गोमा' निति प्रयोगो न भवति। न तहीति । विद्यमान एव देवदत्ते तद्गवीनामतीतानागतत्वप्रतिपादनाय 'गोमाना- सीनोमान्मबिते'ति प्रयुज्यते। तत्र प्रकृत्यर्थस्य सम्प्रतिसत्ताया अभावात्प्रत्ययाऽप्रसङ्गः। गुणधर्मस्य च प्रधान आरोपादासीद्धवितेति प्रत्ययार्थस्यातीतानागतव्यपदेश इति चोदको मन्यते । भवतीति । अवस्थातुर्विद्यमानत्वेऽप्यवस्थाविशेषस्य भूतभविष्यत्त्वादासीद्भवितेति व्यपदेशो यथेश्वरोऽयमासीदिति सिद्धान्तबादिनोऽभिप्रायः। न स्वेतस्मिन्बाक्य इति । 'गावोऽस्यासन्' 'गावोऽस्य भवितार' इत्यत्रार्थे 'गोमा'निति न प्रयुज्यते इत्यर्थः । यथेति । प्रत्ययान्तेनैव प्रकृत्यर्थोपाधेः प्रतीतत्वात्तदुपाधिवाचिनः प्रयोगाभावः, यथा दाण्डा कोडेति प्रहरणशब्दस्येति भावः । सति चेति । सामान्याभिधाने विशेषावगमाय दृश्यते प्रयोगो यथोत्पुच्छयत इत्यादावसनविशेषप्रतिपादनाय व्युत्परीणाम्, अभिमनायत इत्यादौ च प्रत्यया- उ.] विरोधादिति भावः। अथ कर्मधारयं समर्थयते-अथाश्रयस्येति । सत्ताशब्दश्च केवलरूढ एव, न तु वर्तमानकालाऽवच्छिन्नसत्ताप्रतिपादक एवेति भावः । तथाप्यसाविति । तथाऽपि न दोषो यतोऽसावित्यन्वयः । 'सम्प्रतिसत्ताया मिति भाष्यस्य-वर्तमाना- श्रयकसत्तायामित्यर्थकरणादिति भावः । ननु 'गोमानासी दिल्यादौ सम्बन्धिनोऽतो. तादिसत्ता प्रतिपाद्यते न गवामिति नाऽयं दोषो ऽत आह-विद्यमान एवेति । ननु गवां सत्ताया एवाऽतीतत्वादिप्रतिपादने 'आसन्नित्यादि बहुवचनं स्याद्भावोऽस्यासन्नितिवदत आह-गुणधर्मस्य चेति । विशेषणगोगताऽतोतत्वस्येत्यर्थः । प्रधाने-गोमति । 'आसीद्भ- वितेतिशब्दाभ्यामिति शेषः । प्रत्ययार्थस्य। मतुष्प्रत्ययार्थगोसम्बन्धिकर्तृकसत्ताया इत्यर्थः ननु गोमतो विद्यमानत्वेन कथं भूतादिप्रयोगोऽत आह-अवस्थातुरिति । अवस्था- विशेषस्य-वाह्यसत्ताविशिष्टगोसम्बन्धस्य । यथेति । यथा च विशेष्यस्य विद्यमानत्वेऽपि शिखासम्बन्धरूपविशेषणनाशाद्विशिष्टनाशमादाय 'शिखी नष्ट' इत्यादिव्यवहारः, तद्वदेव चाऽर्थाद्विशिष्टवेषेण मत्वन्तार्थस्य सम्बन्धिनोऽतीतत्वादिप्रतीतिरिति बोध्यम् । ननु मतुपः सम्बन्धिमात्रार्थकत्वेन तत्राऽप्यस्तेः प्रयोगः कुतो नेत्यत आह-- प्रत्ययान्तेनैवेति । प्रत्ययान्तप्रकृत्येत्यर्थः । ननूक्तत्वादप्रयोग एवं न्याय्योऽत आह- विशेषाऽवगमायेति । सत्तागताऽतीतत्वाधवगमायेत्यर्थः । प्रत्ययेन हि प्रकृत्यों- पाधितया सत्तामात्राऽवगतेरिति भावः। असनविशेषेति। व्यसनोदसनपर्यसनरूपे- त्यर्थः । प्रत्ययार्थभवने इति । 'मनस्वी सुष्ठ भवती'त्यायर्थप्रतीतिरित्यभिमानः । १ 'यद्येतस्मिन्' पा०। ।
युक्तः प्रकृत्यर्थः प्रतीयत एवाऽस्तिभवन्तीपर इत्यन्तरङ्गत्वात्सत्तायास्तथा च प्रत्यया- ॐ कैयट-विवरणसहित [तदस्यास्त्यस्मिन्निति 'गावोऽस्य भवितार' इति,-एवमिहापि 'येत'-गोमानासीद्वोमान्भवितेति।। का तीयं वाचोयुक्तिः-'गोमानासीत् गोमान्भवितेति ? ॥ एषैषा वाचो युक्ति:-नैषा गवां सत्ता कथ्यते ॥ किं तर्हि ? ॥ गोमत्सत्तैषा कथ्यते॥ अस्त्यत्र वर्तमानकोलोऽस्तिः । प्र.] र्थभवनविशेषावगमाय सुदुरुदभीनामिति भावः । एवमिहापीति । प्रकृत्यर्थसत्ता- कालविशेषावधारणाय वाक्यवद्वहुवचनान्तस्याऽस्तेः प्रयोगप्रसङ्गः । का तहीति। गोमतो वर्तमानत्वादासीद्भवितेति प्रयोगानुपपत्तिरिति मत्वा प्रश्नः एषैति। या एषा शिष्टैः प्रयुक्ता सैयैव वाचोयुक्तिः, यथास्माभिर्व्याख्यायते न त्वन्यथेत्यर्थः । नैषेति । साक्षादित्यर्थः गोमत्सत्तेति । 'अतीतानागतो वेति शेषः । अवस्थाविशेषस्यातीतानागतत्वादवस्थातु- रतीतानागतत्वमिति प्रागेवोक्तम् । अस्त्यत्रेति-चोदकः । गोमानित्यादौ वर्तमानसत्ता- .. न्तादेव शब्दशक्तिस्वाभाव्यात् प्रकृत्यर्थसत्तावगमात् सत्ताबाचिपदाऽप्रयोगः । तस्मादगीकृतसत्तः प्रकृत्यर्थः प्रत्ययार्थमवच्छिनतीति न कर्त्तव्यमस्तिग्रहणम् । चोदक एव कथं ताँत्याशङ्कय धातुसम्बन्ध इति परिहरति । तत्रारम्भपक्षे प्रत्यया- धिकार प्रत्ययग्रहणस्येदं प्रयोजनम्-अधात्वधिकारविहितानामपि तद्धितानां कालान्तरे धातु- सम्बन्धे साधुत्वं यथा स्यादिति । यदा तु तत्सूत्रं प्रत्याख्यायते तदा हि स्वकाल एक प्रत्यया विधीयन्ते । तत्रानिष्टोमयाज्यस्य पुत्रो जनितेति विरुद्धकालक्रियासंबन्धादग्निष्टोम- याजित्वस्यैव वाक्यार्थवशाद्भावित्वं गम्यतेतहापि 'गोमानासीगोमान् भवितेति विरुद्धकाल- उ.] भाष्ये-का-किमर्थिका, वाचोयुक्तिः,-वाचः-शब्दस्य युक्तिः-प्रयोग इत्यर्थः। अलु- क्समासः । नन्वर्थतोऽतीतगोसत्ताया अपि प्रतीतेन॑षेत्यनुपपन्नमत आह-साक्षादिति । अवस्थाविशेषस्येति । उक्त एवाऽर्थः तस्माद्वाह्यसत्तायामेव यथा स्यादित्यर्थमस्तीत्युक्ते तत्प्रत्याख्यानाय चोदक आह -भाष्ये-अस्त्यत्रेति । नयाचष्टे-गोमानित्यादाविति । प्रतीयत एवेति । सूत्रे 'अस्तीति पदं विनाऽपि शब्दशक्तिस्वभावादित्यर्थः । यथा सुजथे बहुव्रीहिरित्यनुक्तावपि 'द्विदशा' इत्यादौ तुजथै बहुव्रीहिरिति भावः । तत्र हेतुमाह-अस्तिभवन्तीति । अन्यनिवृत्तिपरवाक्येऽपि प्रथमायाः साधुन्वाय तत्स- म्बन्ध आवश्यक इति भावः । अति बाधके ज्ञानसामान्यसामग्र्येव वर्तमानसत्ताभासिकेति तात्पर्यम् । सत्ताया इति । वर्तमान सत्ताया इत्यर्थः । इत्याशङ्कयति। गोमानासी'दित्यादौ वर्तमानसत्ताया अतीतत्वादिना विरोधागोसत्ताऽतीतत्वस्याऽप्यर्थतस्ततः प्रतिपत्तेरिति भावः । ननु धातुसम्बन्ध' इत्यत्र धात्वधिकारात्कथं मतुम्नियामकताऽस्येत्यत आह-तत्रेति। विरुद्ध - कालक्रियासम्बन्धादिति । धर्मिणि विशेषणगतकालविरुद्धकालक्रियासम्बन्धाद्यथा तद्धमें यागे भावित्वप्रतीतिः, अतीतयागकर्तरि भाविल्वान्वयबाधेन तद्वाक्यार्थाऽनुपपत्तिवशा- दित्यर्थः । तथेहाऽपीति । अतीते सम्बन्धिनि विद्यमानगोसम्बन्धस्य वक्तुमशक्यत्वादो- १ 'मिहापि स्यात्' पा०। २ 'वर्तमानकालवृत्तिरस्तिः' पा०) ३'नागताचेति इति पा० -- - ।
'इति भावः । ननु 'गाव' इत्यस्य सत्तारूपविशेष्याऽन्वये यथा मतुपः साधुत्वं तथाऽनन्त ५.२ पा.।२आ.। ९४सू.] महाभाष्यम् -कथं तर्हि भूतभविष्यत्सत्ता गम्यते ?॥ धातुसम्बन्धे प्रत्यया इति ॥ इदं तर्हि प्रयोजनमस्तियुक्ताद्यथा स्यादनन्तरादियुक्तान्मा भूदिति,-गावोs- स्यानन्तराः, गावोऽस्य समीप इति ॥ अथ क्रियमाणेऽप्यस्तिग्रहणे इह कस्मान्न भवति-गावोऽस्य सन्त्यनन्तराः, गावोऽस्य सन्ति समीप इति ? ॥ असामर्थ्यात् ।। कथमसामयम् ? ॥ 'सापेक्षमसमर्थवद्भवतीति ॥ यथैव तर्हि क्रियमाणेऽस्तिग्रहणेऽसामर्थ्यांदनन्तरादिषु न भवत्येव- प्र.]क्रियासम्बन्धाद्गोमत्सत्तालक्षणावस्थाविशेषविषयातीतानागतत्वप्रतीतिरवस्थातुः सत्त्वेऽसत्त्वे च। तत्र प्रकृत्यर्थस्य वर्तमानसत्ताभावप्रतीतावपि शब्दसंस्कारस्यान्तरङ्गस्यानिवृत्तियथा- यामानागच्छतीति। अस्तियुक्तादिति । अस्तिनैव युक्तादित्यर्थः । पूर्वोक्तेन न्यायेनास्त्युपा- धिकत्वे लब्धे पुनरस्तिग्रहणं विशेषणान्तरयुक्तप्रकृत्यर्थनिराकरणार्थम् । गावोऽस्येति । अनन्तरमव्यवहितं, समीपं तु व्यवहितमपीति भावः । गावोऽस्य सन्त्यनन्तरा इति । केवलानामनन्तरादीनां भवत्वस्तिग्रहणान्निरासः, इह तु सत्तासद्भावात्प्राप्नोत्येव प्रत्यय इति भावः । असामर्थ्यादिति । इह तु यः प्रकृत्यर्थोपाधिः प्रत्ययान्तेनाऽन्तर्भावयितुं शक्यस्तदु- पाधेरेव प्रत्ययेन भाव्यम् । न च गोमानित्येतत्-प्रकृत्यर्थस्यानन्तर्य गमयितुं शक्कोतीति तद- भिधानाय वाक्यमेव प्रयुज्यते । स्वस्वामिभावस्तु सत्तयैवान्तर्भावित इति तत्प्रतोतिर्भवत्येव । उ.]सत्तायामप्यतीतत्वप्रतीतिरित्यर्थः । अयम्भावः,-वाक्यार्थाऽनुपपत्तिवाद्विशेषणगतकालस्य शाब्दबोधेऽभानमिति । यदाऽपि गोमति विद्यमाने 'गोमानासीदिति प्रयोगस्तदापि विशिष्टा- ऽवस्थाविशिष्टस्यैव गोसम्बन्धित्वादवस्थानाशेऽपि तत्र विद्यमानगोसम्बन्धो वक्तुमशक्य इति तदतीतत्वप्रतीतौ न बाधकम् । ननु गोमति गोषु च विद्यमानासु तत्सम्बन्धाऽतीत- वेऽपि 'गोमानासीदिति प्रयोगो दृश्यते इति कथं तत्र तदतीतत्वप्रतीतिरत आह-गोम- सत्तालक्षणेति । गोमत्सम्बन्धलक्षणस्य गोनिष्ठस्थाऽवस्थाविशेषस्याऽतीतत्वेन तत्रा- पि गवामतीतत्वादिप्रतीतिगोंमत इव । अवस्थातुरिति । गवादेरित्यर्थः । असत्त्वे तु स्फुटैव तत्राऽतीतत्वप्रतीतिरिति बोध्यम् । नन्वेवं सत्ताया वर्तमानत्वप्रतीतिनिवृत्तौ तन्निबन्धन मतुपोऽपि निवृत्तिः स्यादत आह-प्रकृत्यर्थस्येति । अन्तरङ्गस्येति । 'अस्ती'त्यस्य प्रत्याख्यानेऽपि शब्दशक्तिस्वभावबलात्तस्य तत्संस्कारनिमित्तत्वं बोध्यम् । अस्तिनैवेति । 'अस्तिना युक्तादेवेति वक्तुमुचितम् , 'अथ क्रियमाणेऽपी'त्युत्तरभाष्यस्वरसात् । नन्वत्रा:- स्तिनैव न योगोऽतः कथम्प्राप्तिरत आह-केवलानामिति । 'अस्तियुक्तादेवेति नियम न्वयेऽपि भविष्यतीत्यत आह-इहेति । इह त्विति पाठे तुशब्दार्थश्चिन्त्यः। प्रकृत्यर्थोपाधि- रिति । ननु तस्य षष्ट्यर्थत्वात्प्रत्ययार्थत्वं वक्तुं युक्तं न तु प्रकृत्यर्थोपाधित्वमिति चेन्न; आन- न्तर्यादीनामनन्तरादिप्रयोगाऽभावेषष्ठ्यर्थत्वाऽभावात,न ह्यनन्तरादिप्रयोगमन्तरा 'ब्राह्मणस्य कम्बल' इत्यादौ सत्यपि प्रकरणादावानन्तर्यप्रतीतिरस्ति 'अस्तेरनन्तरे समीपे वेत्यादि. २ 'समीपाः' पा०।२'समीपे सन्तीति पा०।३ नन्तरादीनां तदादीनां पा० । - ।
ॐ कैयट-विवरणसहितं [तदस्यास्त्यस्मि- मक्रियमाणेऽपि न भविष्यति ॥ अस्त्यत्र विशेषः-क्रियमाणेऽस्तिग्रहणे नाऽन्त- रेण तृतीयस्य पदस्य प्रयोगमनन्तरादयोऽर्था गम्यन्ते। अक्रियमाणे पुनर- स्तिग्रहणे अन्तरेणापि तृतीयस्य पढस्य प्रयोगमनन्तरादयोऽर्था गम्यन्ते अथेह कस्मान्न भवति-चित्रगुः शबलगुरिति ? ॥ बहुव्रीहिणोक्तत्वा- न्मत्वर्थस्य ॥ अथेह कस्मान्न भवति-चित्रा गावो यस्य सन्तीति ? ॥ कुतः कस्मान्न भवति-किमवयवादाहो स्वित्समुदायात् ? ॥ अवयवात्कस्मान्न भवति ? ॥ असामर्थ्यात् ॥ कथमसामर्थ्यम् ? ॥ 'सापेक्षमसमर्थं भवतीति ॥ समुदायात्तर्हि कस्मान्न भवति ? ॥ अप्रातिपदिकत्वात् ॥ प्र.] क्रियमाण इति । प्रकृत्यर्थविषयपदापेक्षं तृतीयत्वं-गावः सन्त्यनन्तरा अस्येति । तत्राऽ- स्तिग्रहणे क्रियमाणे केवल एवाऽरत्यर्थ उपाधिभावेन प्रत्ययान्तेऽन्तर्भवति न त्वानन्तर्या-- दिविशिष्ट इति प्रतीतिर्भवति । असति त्वस्तिग्रहणे धर्मान्तरावच्छिन्नस्याप्यस्त्यर्थस्यान्त र्भाव आशङ्कयतेत्यर्थः। तत्र क्रियमाणेऽस्तिग्रहणेऽस्त्यर्थस्यैवान्तर्भावावगमाद्वाक्ये यत्तृतीयं पदमनन्तरा इति तद्वृत्तौ स्वार्थप्रतिपादनायावश्यं प्रयोक्तव्यम् । तत्प्रयोगे चाऽसामर्थ्यम् । अक्रियमाणे त्वस्तिग्रहणेऽनेकस्याप्युपाधेरन्तर्भावसंभावनया वृत्तावनन्तरपदप्रयोगमन्तरेणा- ऽप्यानन्तर्यावगमादसामर्थ्य न स्यादित्यर्थः चिन्नगुरिति । सत्ताविशिष्टचित्रगवार्थः षष्ट्यर्थश्चास्तीति प्रश्नः । बहुव्रीहिणेति । षष्ठयर्थ एव बहुव्रीहिविधानादित्यर्थः । कुतः कस्मादिति । समुदायावयवसंनिधानात्प्रश्नः । सापेक्षमिति । 'चित्रा' इति गुणपदं विशेष्यापेक्षं, द्रव्यद्वारेणैव चित्रार्थस्य देवदत्ता- दिना संबन्धात्, गाव इत्येतदपि गुणापेक्षमित्येकार्थीभावं प्रतिपत्तुं न शक्नोति । तस्मा- दृत्तौ चित्रादिगुणानपेक्षप्रकृत्यर्थोपसर्जनप्रत्ययार्थावगमात्तत्समानार्थमेव वाक्यं प्रदर्श- यितव्यं-गावोऽस्य सन्तीति । अप्रातिपदिकत्वादिति । यदा लुबन्तात्प्रत्ययोत्पत्तिः समर्थात्प्रत्ययः प्रातिपदिकात्तु परः श्रूयत इत्येवमाश्रयणं तदा सुबन्तसमुदायस्य समास- ग्रहणानियमार्थादप्रातिपदिकत्वं,सुबन्तत्वमपि नास्ति समुदायात्सुपोऽविधानात्, प्रातिपदिक- समुदायस्याप्यर्थान्तरोपजनाभावादेका प्रातिपदिकसंज्ञा नास्तीत्यप्रातिपदिकत्वम् । विशेषण- उ.] भाष्यन्त्वनन्तरादिपदाध्याहारेण तन्निरूपितसम्बन्धार्थिका षष्ठीत्येतत्परम् । अत एवाऽसा- मर्थ्यावृत्तिर्नेति भाष्यं सङ्गच्छते । यत्र तु प्रकरणादिना वाक्यैकदेशन्यायेनानन्तर्यादिप्रतीतिः तत्राऽपि 'गाव' इति सुबुत्पत्तिोंशब्दात्स्वार्थपरादेवेति न समर्थप्रकृतिकता सुबन्तस्येति न मतुबिति ध्वनितं 'कर्मणि चेति सूत्रे भाष्य इति बोध्यम् । एवञ्चानन्तरा इत्यनेन सवि- शेषणत्वादत्र न वृत्तिरिति भावः । ननूक्तोदाहरणेऽनन्तरेत्यस्य चतुर्थत्वात्तृतीयस्ये- त्ययुक्तमत आह-प्रकृत्यर्थविषयेति । केवल एवेति । अस्तिनैव युक्तादित्यादिति भावः । असति विति। तदा हि सूत्राऽनुपात्ताऽस्त्यर्थाऽन्तर्भावेणाऽपि स्यादित्यर्थः १ 'गम्यैरन्' पा० । २. 'मतुष्प्रत्ययार्थस्य' । ३ 'गावोऽस्य' पा० । ४ 'चित्रगुणानपेक्ष' ।
५३.२ पा.२ आ.१९४ सू.] महाभाष्यम् ननु च भो आकृतौ शास्त्राणि प्रवर्तन्ते, तद्यथा सुप्सुपेति वर्तमाने- ऽन्यस्य चाऽन्यस्य च समासो भवति ॥ सत्यमेवमेतत्, आकृतिस्तु प्रत्येक परिसमाप्यते । यावत्येतत्परिसमाप्यते प्रातिपदिकादिति तावत उत्पत्या भवितव्यम् । अवयवे चैतत्परिसमाप्यते न समुदाये ॥ अथेह कस्मान भवति-पञ्चगावोऽस्य सन्ति पञ्चगुः, दशगुरिति ?॥ प्रत्येक मसामर्थ्यात्, समुदायादप्रातिपदिकत्वात्, समासात्समासेनोक्तत्वात् ॥ नैतत्सारम् , उक्तेऽपि हि प्रत्ययार्थे उत्पद्यते द्विगोस्तद्धितः, तद्यथा-द्वैमातुरः, म.] विशेष्यभावस्य हि पदावस्थायां प्रादुर्भावः, न प्रातिपदिकावस्थायाम् । आकृताविति । जातौ कार्यमुच्यमानमनपेक्षितव्यक्तिगतसङ्ख्याविशेष सर्वत्र प्रवर्तते । यथा-'ब्राह्मणो न हन्तव्य' इति । ततश्च प्रातिपदिकसमुदायादपि प्रत्ययोत्पत्तिप्रसङ्गः । अन्यस्य चाऽन्यस्य चेति । अनेन जात्याश्रयत्वं कार्याणां समर्थयते । यदि हि व्यक्तिः पदार्थस्तदा कस्यचि. देवैकस्य सुबन्तस्य समासः प्रसज्येत न तु सर्वस्येत्यर्थः। प्रत्येकमिति। आश्रयगतै- कत्वसंख्याविशिष्टा जातिः कार्य आश्रीयते, यथा पशुना यजेतेति भावः । ड्या प्रातिप- दिकादित्यत्रैकवचनान्तानां समाहारनिर्देशाद्गुणे सङ्ख्याया विवक्षितत्वादेकैकस्मात्प्राति- पदिकात्प्रत्ययोत्पत्तिर्न तु तत्समुदायादित्यर्थः। उक्तेऽपीति । द्विगोर्तुग्विधानात्तद्धि- उ.] भाष्ये--अक्रियमाणे पुनरिति वाक्यस्थ गम्यन्ते' इत्यस्य गम्येरन्नित्यर्थस्तदाह-असा- मयन स्थादिति । 'अस्तिनैव युक्ता दित्यनेन अस्तिसहितेतरयुक्तः, केवलेतरयुक्तश्च वारित इति बोध्यम् । तस्मान्नियमायाऽस्तिग्रहणमित्युक्ते पूर्वपक्षी चोद्यान्तरे आवश्यकेन परिहारेणाऽस्यापि परिहारादेतदर्थं तत्रावश्यकमिति वक्तुं चोदयति भाष्ये-अथेह कस्मा- दिति । यद्यपि 'चित्रा गावो यस्य सन्ती'त्यत्राऽनवकाशेन बहुव्रीहिणा बाधोऽपि वक्तुं शक्यस्तथापि तदप्राप्तिमेव दर्शयितुमाह-कुत इत्यादि । उभयोरप्यवयवयोर्यथा सापेक्षत्वं तथा दर्शयति-चिना इतीति । एकार्थीभावमिति । 'मत्वर्थेने ति शेषः । ननु प्राति- पदिकप्रकृतिकसुबन्तात्प्रत्यय इति 'अप्रातिपदिकत्वा दित्ययुक्तम् , 'असुबन्तत्वादिति वक्तुं युक्तमत आह-यदेति । उक्तार्थेऽप्यदोष इत्याह-सुबन्तत्वमपीति। नन्वेवमपि प्राति- पदिकसमुदायादेकसुपि स्यादेव दोष इत्यत आह-प्रातिपदिकसमुदायस्याऽपीति । एवञ्च न ततः सुबिति भावः । ननु विशेषणविशेष्यभावरूपसम्बन्ध एवाऽधिकोऽर्थ उपजा- यतेऽत' आह-विशेषणविशेष्यभावस्येति । प्रातिपदिकसमुदायादपीति । सुबन्तसमुदायादपीत्यपि बोध्यम् । ननु जाते. प्रत्येकं समाप्तत्वेऽपि एकत्वस्याऽविवक्षणेन तत्समुदायात्स्यादेवेत्यत आह-आश्रयगतैकत्वेति । ननु 'ड्याप्रातिपदिकादित्यस्य समा. हारे एकवचनस्य सत्त्वात्कथं तद्विवक्षया निर्वाहोऽत आह-ड्याबिति । अत्र यद्वक्तव्यं तत्समर्थसूत्र उक्तम् । उक्तेऽप्युत्पत्तौ बीजमाह-द्विगोरिति । स्थादर्थस्येति । तद्धितः १ 'अन्यस्याऽन्यस्य च पा० । २ 'सत्यमेतत् । ३ 'ड्याप्राति' पा० । ४ 'पञ्च गावो सन्त्यस्य' इति, पञ्चगावोऽस्य सन्ति' इति वा पा०। ५ 'प्रत्ययार्थे द्विगोस्तद्धित उत्पद्यते' पा०। - n । • कैयट-विवरणसहित [तदस्यास्त्यस्मिन् पाञ्चनापितिरिति ॥ नैष द्विगुः ॥ कस्तर्हि ?॥ बहुव्रीहिः॥ अपवादत्वाद् द्विगुः प्रामोति ॥ अन्तरङ्गत्वाबहुव्रीहिर्भविष्यति ॥ काऽन्तरङ्गता ? । अन्यपदार्थे बहुव्रीहिर्वर्त्तते, विशिष्टेऽन्यपदार्थे तद्धितार्थे द्विगुः, तस्मिश्चास्य तद्धितेऽस्तिग्रहण क्रियते॥ यदि तांतिप्रसङ्गाः सेन्तीति तद्धितविधावस्तिग्रहणं क्रियते,-बहुब्री- हावयस्तिग्रहणं कत्तव्यम्, अस्तियुक्ताद्यथा स्यादनन्तरादियुक्तान्माभूदिति ॥ प्र.] तार्थत्यत्र स्यादर्थ स्याऽर्थशब्दस्य ग्रहणाद्वा तद्धितार्थाद द्विगोस्तद्धितो भवति । पञ्चगु. शब्दञ्च द्विगुं मन्यते न बहुव्रीहिम् । अपवादत्वादिति । अन्यपदार्थमात्रे सुबन्त मात्रस्य विधीयमानस्य बहुव्रीहेः सङ्खथायास्तद्धितार्थे 'पञ्चगु'रित्यादौ विधीयमानो द्विगुर्वि- शेषविषयत्वाद्वाधकः प्राप्नोतीत्यर्थः। अन्तरङ्गत्वादिति। ननु चाऽनवकाशेनाऽन्तरङ्गमपि बाध्यते । नैष दोषः। यत्रैकनिमित्ता द्विगुबहुव्रीहिप्राप्तिस्तत्र द्विगुना बहुव्रीहिर्बाध्यतामिह तु द्विगुरस्त्यर्थमधिकमपेक्षते । तदाह-तस्मिंश्वास्येति । तेन विशिष्टस्य षष्ठयर्थस्य तद्धि. तार्थत्वादस्त्यर्थोऽवश्यापेक्ष्यो द्विगुना, षष्ठ्यर्थमात्रापेक्षस्तु बहुव्रीहिः । यदितीति । यदि उ.] स्यादिति समासः कार्य इति तत्सूत्रार्थ इति भावः। अत्र पक्षे तद्धितार्थस्य द्विगुनाऽभि- धाने मानं चिन्त्यम् । तस्मादाद्यमेव युक्तम् । मन्यत इति। समासान्तस्तु अनित्यत्वा- नेति तदाशयः । 'द्विगोर्ख'गिति तु मतोर्न लुक, अप्राग्दीव्यतीयत्वादिति बोध्यम् । वस्तुतो न द्विगुरत्र, 'मत्वर्थे प्रतिषेध' इति वचनादिति भावः । 'पञ्चसु कपालेघु संस्कृतः पुरोडाश' इत्यादौ द्विगोः सावकाशत्वात्परत्वेन बहुव्रीहिरित्याशयः। अत्र प्रत्येकमित्यादि सिद्धान्ति. नोक्ते पूर्वपक्ष्याह-नैतत्सारमित्यादि । ततः सिद्धान्त्याह-नैष द्विगुरित्यादि। पूर्व- पक्ष्याह-अपवादत्वादित्यादि । तमवकाशमसौ नाऽशासीत् । 'पञ्चलु कपालेपु संस्कृतः पुरोडाश' इत्यादौ द्विगोः सावकाशत्वात्परत्वेन बहुव्रीहिरित्याशयः। ननु द्विगोरप्यन्यतद्धि- तार्थे सावकाशत्वात्कथमपवादत्वमत आह-अन्यपदार्थमात्र इति। सिद्धान्त्येकदेश्याह- अन्तरङ्गत्वादित्यादि, अस्तिग्रहणं क्रियत इत्यन्तम् । तत्र शङ्कते-ननु चेति । नैष दोष इति । अपवादोऽपि यधन्यत्र चारितार्थस्तीन्तरङ्गेण बाध्यत एवेति भावः । 'पञ्चसु कपालेषु संस्कृतः पञ्चकपाल इत्यादौ तद्धितार्थद्विगुः सावकाश' इति वक्तुं युक्तम् । पूर्व- पक्षिणस्तु मतुविषयवाक्यविहितो द्विगुरपवाद इत्यभिमानः। पृथक्तद्विषयवाक्यकल्पनैव नेत्युत्तराशयः । कैयटस्तु चिन्त्यः, एकनिमित्ताया द्विगुबहुव्रीहिप्राप्तेरसम्भवात् । भाष्ये तस्मिश्चास्य तद्धित इति । अस्य द्विगोरर्थद्वारा निमित्तभूतेतद्धित इत्यर्थः। एवञ्च पश्चगु'रि- त्यादिर्न द्विगुः, किन्तु बहुव्रीहिरेवेति न ततो मतुबिति बोध्यम् । नैषा सिद्धान्त्युक्तिः, ताव- ताऽप्यपवादत्वाऽहानेः। असामान्यापेक्षयणो विशिष्टसवर्णाऽजपेक्षदीर्धेण बाधदर्शनात् । यत्तु 'सामान्यापेक्षं विशेषाऽपेक्षादन्तरङ्ग मिति-एतद्भाष्येण सूचितमिति,तन्न; अधिकापेक्षत्वेन बहिरङ्गत्व एवैतद्भाष्यतात्पर्यात् । अत एव 'सुबन्तसामान्यापेक्षो बहुव्रीहिस्तद्विशेषापेक्षो १ 'सन्तीति तद्धितविधावस्तिग्रहणं क्रियते बहुव्रीहावप्यस्तिग्रहण' पा० । । क ९.२ पा.२ आ.९४ सू.। महाभाष्यम् अर्थ न सन्ति,-तद्धितविधावपि नार्थोऽस्तिग्रहणेन ॥ सत्यमेवमेतत्, क्रियते त्विदानी तद्धितविधावस्तिग्रहणं, तद्वै क्रियमाण. मपि प्रत्ययविध्यर्थं नोपाध्यर्थम्-अस्तिमानिति मतुव्यथा स्यात् ॥ किंच कारणं न स्यात् ? ॥ अप्रातिपदिकत्वात् ॥ नैष दोषः। अव्ययमेषोऽस्तिशब्दो नैषोऽस्तेर्लट् ॥ कथमव्ययत्वम् ॥१॥ 'विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा, निपातोऽव्ययमित्यव्ययसंज्ञा ।। एवमपि न सिध्यति ॥ किं कारणम् ? ॥ अस्तिनी सामानाधिकरण्ये मतुब्विधीयते, न चाऽस्तेरस्तिना सामानाधिकरण्यं ॥ तदेतक्रियमाणमपि प्रत्ययविध्यर्थं नोपाध्यर्थ, तस्माद्विगोस्तद्धितस्य प्रतिषेधो वक्तव्यो, यदि तनास्ति-'सर्वत्र मत्वर्थे प्रतिषेध' इति । सति हि तस्मिस्तेनैवैतसिद्धम् ॥ प्र.) वचनमन्तरेणाऽनन्तरादीनां निवृत्तिर्नास्तीत्यर्थः। अथ न सन्तीति । अनभिधानादेवा- निष्टाप्रसङ्गादिति भावः । प्रत्ययविध्यर्थमिति । 'अस्तीति लुप्तपञ्चमीकः प्रकृतिनिर्देश इति भावः । अव्ययमिति । कर्तृविशिष्टसत्तावाचीति भावः । तथा चास्तित्वमिति भाव- प्रत्ययप्रयोगोपपत्तिः । न चास्तेरिति । गवादीनां संभवव्यभिचाराभ्यामस्तीति सामा. नाधिकरण्यं संभवति, अस्तेस्त्वव्यभिचारादस्तिना सामानाधिकरण्याभावः। तत्रास्तिमानिति वृत्तिविषयेऽस्तिक्रियायाः कर्तृविशेषे धनेऽस्तिशब्दो वर्तते। कर्तृसामान्येन प्रत्ययार्थस्य विशे- षणाऽयोगात्। तस्माद्विगोरिति । उपाध्यनुपादानेऽपि शब्दशक्तिस्वाभाव्यान्मतुपो बहुची- हेश्चास्त्युपाधिकार्थविषयत्वाद द्विगुबहुव्रीह्योस्तुल्याश्रयत्वादन्तरङ्गबहिरङ्गभावाभावाद्विशेषविहि- तेन द्विगुना बहुव्रीहेधिनाद्विगोमतुबादेस्तद्धितस्य प्रतिषेधो वक्तव्यः । तेनैवैतत्- उ.] द्विगुरिति भाष्ये नोक्तम् । तस्मादुक्तस्थले द्विगोः सावकाशत्वेन परत्वादत्र बहुव्रीहि- रेवेति सिद्धान्तितात्पर्यम् । अथ न सन्तीति भाष्यस्य-'बहुव्रीहावतिप्रसङ्गा' इति शेषः । तत्र हेतुमाह-अनभिधानादेवेति । भाष्ये-सत्यमेव तदिति। कृते उपायेऽनभिधाना- अयणमयुक्तमिति भावः । किञ्चाऽन्याथें तदित्याह-तद्वै इति। कत्त विशिष्टेति । कर्तृ सहितेत्यर्थः। सत्ताश्रयकत्र्तृवाचीति तात्पर्यम् । नन्वेवमस्तिभवतीत्यस्यापि सम्भवा- स्कुतो नाऽस्तेरस्तिसामानाधिकरण्यमत आह-गवादीनामिति । 'अस्ती'त्यतः सत्तावत एव प्रतीतेस्तत्सत्ताप्रतिपादनं विफलमिति भावः । अस्तिशब्द इति । बिशेष्यविशेषण- भावव्यत्यासादिति भावः। कत्र्त सामान्येन-सत्ताकर्तृ सामान्येन। प्रत्ययार्थस्य-मत्वर्थ- सम्बन्धिनः । विशेषणाऽयोगादिति । अव्यभिचारादिति भावः । तुल्याश्रयत्वादि- ति । उभयोरप्यस्त्युपाधिकत्वस्यावश्यकत्वात्सूत्रेऽनुपादानाचेति भावः । विशेषविहि- तेनेति । तदप्राप्तिविषये तद्धितार्थद्विगोश्चारितार्थ्याऽभावादित्यभिमानः । यदि तु 'पञ्च- कपाल' इत्यादौ द्विगोश्वारितार्थ्य, तदोक्तरीत्याऽपवादत्वं मन्यमानस्य पूर्वपक्षिण इदं वचनम्। १'अथ बहुव्रीही दोषा न सन्ति' पा० । २ 'सत्यमेव तत् पा० । ३ 'अस्ति- सामानाधि' पा०। ४ तेनैव तत्सिद्धम्' इति । ५ 'भावप्रत्ययोत्पत्तिः' पा० । कैयट-विवरणसहितं. [ तदस्यास्त्यस्मिन् अथ मत्वर्थीयान्मत्वर्थीयेन भवितव्यम् ? ॥ न भवितव्यम् ॥ किं कारणम् ? ॥ अर्थगत्यर्थः शब्दप्रयोगः । 'अर्थ संप्रत्याययिष्यामीति शब्दः प्रयुज्यते । तत्रैकेनोक्तत्वात्तस्याऽर्थस्य द्वितीयस्य प्रयोगेणे न भवितव्यम् ॥ किं कारणम् ?।। 'उक्तार्थानामप्रयोग' इति ॥ न तहीदानीमिदं भवति-दण्डि. मती शाला, हस्तिमत्युपत्यकेति ? ॥ भवति । अर्थान्तरे वृत्तादर्थान्तरे वृत्तिः। षष्टयर्थे वा वृत्तं सप्तम्यर्थे वर्तते, सप्तम्यर्थे वा वृत्तं षष्टयर्थे वर्तते ॥ अथ मत्वन्तान्मतुपा भवितव्यं,-गोमन्तोऽस्य सन्ति, यवमन्तोऽस्य सन्तीति ?॥ न भवितव्यम् ॥ किं कारणम् ?॥ यस्य गोमन्तः सन्ति गावोऽपि तस्य सन्ति, तत्रोक्तो गोभिरभिसम्बन्धे प्रत्यय इति कृत्वा तद्धितो न भविष्यति ॥ न तहीदानीमिदं भवति-दण्डिमती शाला हस्तिमत्युपत्यकेति?॥ भवति। अर्थान्तरे वृत्तादर्थान्तरे वृत्तिर्भविष्यति । षष्टयर्थे वा वृत्तं सक्षम्यर्थे प्र.] सिद्धमिति । द्विगौ प्रतिषिद्धे बहुव्रीहेर्भावात द्विगुप्रतिषेध एव युक्तः । पञ्चखष्ट्व इत्यादौ 'बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरो भवति। द्विगौ तु समासान्तोदात्तत्वप्रसङ्गः। अथेति। 'यवमानस्यास्ती'त्यादौ । अर्थगत्यर्थ इति । यस्य यवमानस्ति तस्य यवैरपि तत्सबन्ध- द्वारण सम्बन्धोऽस्तीति यवमानित्यनेनैव यवमत्संबन्धावगमादिति भावः। दण्डीमतीति । यस्यां शालायां दण्डिनः पुरुषोः सन्ति दण्डा अपि तस्यां सन्तीति दण्डवतीत्यनेनैव पूर्वोक्तेन न्यायेन दण्डिसम्बन्धावगमान्मतुम्न प्राप्नोतीति भावः । ‘अर्थान्तरे वृत्ता'दिति यदुक्तं तदेव विभजति-षष्ट्यर्थे वेति । एकजातीये हि सम्बन्धे मतुम्न भवति । यस्य हि यवमान्विद्यते तस्य यवा अपि सन्ति। इह तु यस्यां शालायां हस्तिनो गोमन्तश्च तस्यां नावश्यं हस्ता गावश्च सन्ति, छिन्नहस्तानामपि हस्तित्वजातिसम्बन्धात्, तद्देशासंनिहितगोरपि गोमत्त्वाच । अथ मत्वन्तादिति। पूर्वोक्तन्यायस्य मतुप्यपि सद्भावाप्रश्नः। यस्य गोमन्त इति । गावो विद्यन्ते येषु ते गोमन्तो ग्रामास्ते यस्य सन्तीत्यर्थः। गावोऽपीति । द्विविधो हिं गोभिः सम्बन्धः, साक्षात्पारंपर्येण वेति भावः। ततो 'गोमा नित्ययं शब्दो द्विविधमपि सम्बन्धं उ.] 'सर्वत्र मत्वर्थे प्रतिषेध' इति च तस्यैव । वस्तुतो द्वयोः समानाश्रयत्वेन सावकाशत्वेन च परत्वाद्वहुव्रीहेरेव युक्तत्वमित्यन्ये। तत्र द्विगुप्रतिषेधवचनमेवावश्यकमित्याह-पञ्च. खट्व इति । 'पञ्चखट्व' इत्यादौ ङीबापत्तिः, 'पञ्चगुरित्यादौ टजापत्तिश्चेत्यपि बोध्यम् । ननु यवसम्बन्धीति 'यत्रमा नित्यस्यार्थः,यवसम्बन्धिसम्बन्धीति 'यवमानस्याऽस्ती'त्यस्याऽर्थ इत्यर्थभेदादेकेनोक्तत्वादित्यसङ्गतमत आह-यस्येति । साक्षात्परम्परासाधारणसम्बन्धिनि मतुप्साधुरिति भावः। नन्वेवमन्यषष्ठयर्थे वृत्तस्याऽन्यषष्ठयर्थेऽपि वृत्तिः प्राप्नोतीत्यतो भाष्येऽ.. र्थान्तरं विभज्य दर्शयति-पष्टयर्थे वेत्यादिना । तत्र बीजं दर्शयति-एकजातीये हीति ।। गोमदुल्लेखस्त्वग्रिमभाष्यपूर्वपक्षोपपादनायेति बोध्यम् । 'तद्देशाऽसन्निहितगवीभिरिति पाठः । 'तद्देशाऽसन्निहितगोरपी ति पाठे बहुव्रीहिः । पूर्वोक्तन्यायस्येति । दण्डिमच्छब्दः १'प्रयोग इति' पा० । २ 'गोभिः सम्बन्धे' इति पा०।३ 'वृत्तत्वादा' पा० । । ।
५ अ.।२ पा.।२ आ.। ९४ सू.] *महाभाष्यम् वर्तते, सप्तम्यर्थे वा वृत्तं षष्ट्यर्थे वर्तते ॥ इहापि सप्तम्यर्थे वावृत्तं षष्ट्यर्थे वर्तते, षष्टयर्थे वा वृत्तं सप्तम्यर्थे वर्तते ॥ अन्यथाजातीयकः खल्वपि गोभिरभिसम्बन्धे प्रत्ययोऽन्यथाजातीयस्तद्वता ॥ यैनैव खल्वपि हेतुनैतद्वाक्यं भवति- 'गोमन्तोऽस्य सन्ति यवमन्तोऽस्य सन्तीति तेनैव हेतुनावृत्तिरपि प्रामोति ॥ [॥ * ॥ तस्मान्मत्वर्थीयान्मर्तुंबादेः।। * 1] तस्मान्मत्वर्थीयान्मतुबादेः प्रतिषेधो वक्तव्यः । तं चापि ब्रुवती [ ॥* समानवृत्तौ सरूपे ॥1 ] 'समानवृत्तौ सरूप' इति वक्तव्यम् । भवति हि दण्डिमती शाला हस्तिमत्युपत्यकेति ।। प्र.] शब्दप्रवृत्तिनिमित्तत्वेनान्तर्भावयितुं शक्तस्तत्र पारंपर्येण गोसम्बन्धेऽभिधित्सिते गोमत्सम्बन्धोऽप्याक्षिप्त एव, तदुद्वारकत्वागोसम्बन्धस्य । न तहीति ।न्यायस्य तुल्यत्वादिति भावः । इहापीति। मत्वन्तादपि मतुष्प्रसङ्गो न्यायस्य तुल्यत्वादित्यर्थः अन्यथाजातीयक इति । सम्बन्धे प्रत्ययोऽवगम इत्यर्थः । गोमा नित्युक्ते साक्षागोभिः सम्बन्धः प्रतीयते। गोम- त्सम्बन्धेऽपि गोसम्बन्धो नावश्यंभावी, नहि गोमत्स्वामिना गोस्वामिना भाव्यमिति नियम इत्यर्थः । येनैवेति । वृत्तिवाक्ययोस्तुल्यार्थत्वाद्वत्तेरिव वाक्यस्याप्यभावः स्यात्, वाक्यवद्वा वृत्तिप्रसङ्गः । मत्वर्थीयान्मतुबादेः प्रतिषेध इति। न केवलं मत्वन्तान्मतु. ब्नेष्यते यावता ठन्नन्तादिनिठनावपि नेष्येते इति सामान्येनोक्तम् । सामान्येन प्रतिषेधं विधाय विशेषप्रतिपादनायाह-तं चापीति । समानवृत्ताविति । समाने प्रत्ययार्थे षष्ठयर्थे वृत्तं षष्ठयर्थे न वर्तते, सप्तम्यर्थं वृत्तं सप्तम्यर्थे न वर्तते इत्यर्थः। तेन 'सप्तम्यां च न तौ स्मृता'विति वचनात्यष्ठयर्थ इनिठनोविंधानात्समानवृत्तित्वाद्विरूपोऽपोनिष्ठन्नन्तान भवति-'दण्डिका अस्य सन्तीति । तथा भिन्नवृत्तावपि सरूपो न भवति-'यवमन्तो ग्रामा अस्य सन्तीति । अथ हस्तिमानराजेति समानवृत्तित्वात्कथं प्रत्ययः ? । हस्तिशब्दस्य जातिशब्दत्वान्न सम्बन्धः प्रवृत्तिनिमित्तमित्यदोषः, अत एवाऽहस्तीति कृते मत्वर्थीये नसमासः क्रियते न बहुव्रीहिः। न ह्यहस्त इत्युक्ते जातिपयुदासप्रतीतिः। यत्र तु समानार्थत्वं तत्र बहुव्रीहिरेव भवति, यथाऽगुरनश्व इति, न त्वगोमाननश्ववानिति । यत्रापि मत्वर्थीयेनार्थविशेष- उ.]उपपादितन्यायस्येत्यर्थः । ननु गोमगामस्वामिनः कथं गोभिः सम्बन्धोऽत आह-द्विवि- धो हीति। ननु मतुप एवाऽऽपाद्यत्वादन्यथाजातीयकः प्रत्यय इत्यनुपपन्नमत आह-अवगम इति । सम्बन्धविषयो बोध इत्यर्थः । परम्परासम्बन्धो न मतुनियामको नाऽपि षष्ठी- नियामक इति भावः। एवञ्च सप्तम्यर्थषष्ठयर्थभेदात् गोमच्छब्देन गोसम्बन्धस्येव तद्वत्सम्बन्ध स्य प्रत्याययितुमशक्यत्वाच्च वृत्तिसमानार्थकवाक्यदर्शनाच्चेति हेतुत्रयेण मत्वन्तान्मतुपमापाद्य भाष्ये समाधत्ते-तस्मादिति । नेष्येते इति । 'सप्तम्याच न तौ स्मृतौ' इत्युक्तेः षष्ठ्यर्थे वृत्तस्य षष्ठ्यर्थे वृत्त्यभावादित्यर्थः। तंचाऽपीति भाष्यस्य-समानवृत्तौ मत्वर्थान्मत्वर्थप्रति- षेधो वक्तव्यः, भिन्नवृत्तावपि समानाकारस्य प्रतिषेधो वक्तव्य इत्यर्थस्तदाह-समाने इति। १ 'अन्यजातीयक: पा० । २ 'अन्यथाजातीयकः' इति, 'अन्यजातीयः' इति वा पा० । ३ 'मत्व यान्मतुपः' प० । ४ इदं वात्तिकं वचिदेव दृश्यते । ५ 'वदत्ता' पा० । । - । - । * कैयट-विवरणसहितं, [तदस्यास्त्यस्मिन् शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपप्रत्ययो नेष्टः सनन्तान सनिष्यते ।। किं पुनरिमे मतुष्प्रभृतयः सन्मात्रे भवन्ति ? ॥ एवं भवितुमर्हति ॥ ।। * ॥ भतुष्प्रभृतयः सन्मात्रे चेदतिप्रसङ्गः ॥ * ॥ मतुष्प्रभृतयः सन्मात्र इति चेदतिप्रसङ्गो भवति । इहाऽपि प्रामोति- ब्रीहिरस्थ यवोऽस्येति ॥ * ॥ तस्माद्भूमादिग्रहणम् ॥ * ॥ तस्माद्भूमादिग्रहणं कर्तव्यम् ॥ के पुनर्भूमादयः ? ॥ अ.] प्रतीतिस्तत्रापि तदन्तेन नसमासो यथा-अदण्डी अपुच्छी अवाग्मीति । दण्डपुच्छ- संयोगनिषेधस्य सम्यग्भाषित्वनिषेधस्य च बहुव्रीहेरनवगमात् । शैषिकादिति । शैषिकाच्छैषिकः सरूपो नेष्टः । यथा शालायां भवः शालीयो घटः। तत्र भवस्तस्येदमिति वा छान्ताच्छो न भवति । विरूपस्तु भवत्येव । अहिच्छत्रे भव आहिच्छत्रः, तत्र भव आहिच्छत्रीय इति । तथा मतुवर्थीयान्मतुबर्थीयः सरूपो नेष्ट:-यथा यवमानस्यास्तीति, मत्वन्तान्मतुब्न भवति । 'समानवृत्ता'विति तु श्लोकानुरोधान्नोक्तम् । पूर्वमेव च विषयः प्रविभक्तः । सन्चन्तादिति । 'सरूप' इत्यपेक्ष्यते । सारूप्यं चाऽव्य- भिचारात् । तेन समानत्वं लक्ष्यते । तच्चाऽर्थकृतम् । तेनेच्छासन्नन्तादिच्छासन्न भवति । अर्थान्तराभिधायिनस्तु भवत्येव,-जुगुम्सिषते मीमांसिषत इति । किं पुनरिति । विशेषानुपादानात् सन्मात्रस्य सर्वत्र चाऽनिष्टप्रसङ्गात्प्रश्नः। अभिधानतो व्यवस्था वक्ष्यामोत्याह-एवं भवितुमर्हतीति । भूमेति । यद्यपि त्रिप्र. भृतिषु बहुत्वं व्यवस्थितं तथाऽप्यभिधानमाश्रयणीयम् । न हि यस्य त्रयो यवाः सन्ति स उ.] अर्थविशेषेति । भूमादिरूपेत्यर्थः । संयोगेति। भूमादिषु संसर्गपदेन संयोगो गृहीतः । गृहाऽवस्थितदण्डे दण्डस्वामिनि 'दण्डी'त्यप्रयोगात् । स च न बहुव्रीहिणा बोधयितुं शक्यः, स्वस्वामिभावेऽपि तद्विधानात् । 'अदण्ड' इत्युक्ते हि स्वामित्वाऽभाव- स्याऽपि प्रतीतेः। अदण्डीति तु स्वामिन्यपि दण्डसंयोगाऽभाववतीष्यत इत्यर्थः । श्लोकाऽनु- रोधादिति । तदनुरोधादत्र तन्नोक्तं किन्तु पूर्वमेवेत्यर्थः । यत्त्वत्र सरूपपदस्य-'समानार्थों विरूपोऽपि न, अर्थभेदे समानाकारोऽपि नेत्यर्थद्वये तात्पर्यमिति तन्न, सरूपपदेन समानार्थ- त्वस्याऽलाभादत आह-सारूप्यञ्चाऽव्यभिचारादिति। विशेषणत्वेनाऽन्वयाऽयोग्य मिति शेषः । एवञ्चाऽयं श्लोकः कस्यचिच्छात्रस्येति बोध्यम् । 'विशेषाऽनुपादानात्सर्वत्र चाऽनि- 'टत्वादिति पाठः । 'विशेषाऽतुपादानात्सन्मात्रस्य सर्वत्रे ति कचित्पाठः। तत्र सत्तामात्र- प्रतिपादकस्येत्यर्थः। भूमेत्यादिश्लोकस्य-'येऽस्तिविवक्षायां मतुबादय उक्तास्ते भूमादिषु भवन्तीति वक्तव्य'मित्यर्थः। भूमादिषु संसर्गपदेन संयोगः, स च सम्बन्धान्तरे सत्येव तन्नियामको न तु केवल इत्युक्तम् । १ सरूपः प्रत्ययो पा०।२ 'सन्मात्रे इति चेदतिप्र' पा०1३ इदं काचित्कम् । - । ९ अ.।२ पा.।२ आ.९४ सू.] महाभाष्यम्, [भूमनिन्दाप्रशंसा नित्ययोगोऽतिशयः संसर्ग इति ] भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः ।। भूमा-गोमान् यवमान् ॥ भूमा ॥ निन्दो-ककुदावर्ती । ससादकी । निन्दा ॥ प्रशंसा-रूपवान् । वर्णवान् । प्रशंसा ॥ नित्ययोग-क्षीरिणो वृक्षाः । कण्टकिनो वृक्षाः । नित्ययोग ॥ अतिशय-उदरिणी कन्या । अतिशय ॥ संसर्ग-दण्डी। छन्त्री। तत्तहि भूमादिग्रहणं कर्तव्यम् ? ॥ न कर्त्तव्यम् ।। कस्मान्न भवति-व्रीहिरस्य यवोऽस्येति?॥ ।।।। उक्तं वा ।।*[उक्तं वा] ॥ किमुक्तम् ? ॥ * ॥ अनभिधानादिति ॥ * ॥ इतिकरणः खल्वपि क्रियते ततश्चेद्विवक्षा ॥ भूमादियुक्तस्यैव च विवक्षा । गोमान्यवमान्,-भूमादियुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद्रौर्नास्ति ।। सलादकीककुदावत्ती,-निन्दायुक्तस्यैव सत्ता कथ्यते, न हि कश्चिन्न सङ्घादकी ।। रूपवान्वर्णवान् , प्रशंसायुक्तस्यैव सत्ता कथ्यते। नहि कस्य चिद्रूपं नास्ति ।। क्षीरिणो वृक्षाः कण्टकिनो वृक्षा इति । नित्ययुक्तस्यैव सत्ता कथ्यते, नहि कस्य चित्क्षीरं नास्ति ॥ उदरिणी कन्येति,-अतिशा यनयुक्तस्यैव सत्ता कथ्यते । न हि कस्य चिदुदरं नास्तीति ॥ दण्डी छत्री,-संसर्गयुक्तस्यैव सत्ता कथ्यते, न हि कस्य चिद्दण्डो नास्ति छन्नं वा॥ गोमान् ,-यावतीभिः खल्वपि गोभिर्वाहदोहप्रसंवाःकर पन्ते तावतीनां सत्ता 'कथ्यते। कस्य चिच्चतसृभिरपि कल्पन्ते कस्य चिच्छतेनापि न [प्रकल पन्ते प्र.]यवमानित्युच्यते। इतिकरण इति। इतिशब्दस्य बबर्थत्वादिह विवक्षार्थत्वमिति भावः। नहि कस्य चिदिति । मत्वर्थीयान्तानभिधेयस्यापि सम्बन्धोऽस्यास्तीत्येवं परमेतत् । न हि कश्चिन्न संखादकीति । सलादको-दशनः । स च सर्वस्याप्यस्तीति विशे- घणोपादानान्निन्दाप्रतीतिः । न हीति । रूपमात्रसम्बन्धेऽवगते रूपवानयमिति विशेषणो- पादानात्प्रशंसाप्रतीतिः। यावतीभिरिति । क्रियमाणेऽपि भूमादिग्रहणे विशिष्टमेव उ.] बह्वर्थत्वादिति । निपातत्वादिति भावः । ननु यवनामाऽपि यत्र नास्ति तादृश- देशानामपि सत्त्वान्न हि कश्चिदित्यनुपपन्नमत आह-मत्वर्थीयान्तेति। संखादक इति- दन्त्यादिपाठः । दशनः–'अश्वस्य'ति शेषः । तदाह-सर्वस्याऽश्वस्येति । क्वचित्तु ‘स च सर्वस्याऽस्तीत्येव पाठः । विशिष्टमेवेति । लोकव्यवहाराऽनुसारादिति भावः । नन्वत्रापि- १ 'भूमि' पा० । २ 'निन्दायाँ' पा० । ३ शसादकी 'सङ्क्षादवती' पा० । ४. 'प्रशं- सायो' पा० । ५'नित्ययोगे' पा०।६ 'अतिशायने' पा०। ७ 'संसझे पा०। ८ 'नेदं वाति- कमित्यन्ये । ९ चिद्यवो नास्ति'पा० । १० अतिशय पा०1११ दोहप्रजननानि पा०।१२ कल्प्यन्ते'पा.। १३ 'तावतीपु' पा. ११४ कल्प्यते' पा०।१५ कल्प्यन्ते' पा. १६ इदं कचित्र। १.
* कैयट-विवरणसहितं [ तदस्यास्त्यस्मिन् ॥ ॥ सन्मात्रे चर्षिदर्शनात् ।। सन्मात्रे च पुनः ऋषिदर्शयति मतुपं- यवमतीभिः रद्भिद्रूपं प्रोक्षती ति॥। गुणवचनेभ्यो मतुपो लुक् ॥१॥ गुणवचनेभ्यो मतुपो लुग- वक्तव्यः। शुक्लः कृष्ण इति। 'अव्यतिरेकात्सिद्धं न गुणो गुणिनं व्यभिचरतीति ॥ * ॥ अव्यतिरेकास्सिद्धमितिचेद् दृष्टो व्यतिरेकः ॥ * ॥ अव्यतिरेकात्सि- द्धमिति चेद्-दृश्यते व्यतिरेकः, तद्यथा पटस्य शुक्ल इति ॥ * ॥ तथा च लिङ्गवचनसिद्धिः ॥ * ॥ एवं च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति,-शुक्ल वस्त्रम्। शुक्ला शाटी। शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बला इति । यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्याऽपि भवति । प्र.]बहुत्वमभिधानवशादाश्रयणीयं,ततश्चाऽकरणमेव भूमादिनां ज्याय इति भावः। यवमती- भिरिति । संस्कारस्याऽदृष्टार्थत्वाज्जातिमात्रसंबन्धोऽत्र विवक्षितः । गुणवचनेभ्य इति । शुक्लादय एवाऽभिन्नरूपा गुणे तद्वति च द्रव्ये वर्तमाना गृह्यन्ते न तु रूपादयः सर्वदा गुण- मात्रवचनाः । अव्यतिरेकादिति । गुणगुणिनोः 'सोऽय'मित्यभिसंबन्धादभेदाध्यवसाया- दुत्पत्तिरेव मतुपो नास्तीत्यर्थः । न गुण इति । गुणगुणिनोर्जातितद्वतोरिव युतसिद्धय. भावात्सोऽयमित्यभेदात्सम्बन्ध इत्यर्थः । दृश्यते व्यतिरेक इति । जातिरुत्पत्तिप्रभृत्या- ऽऽविनाशाट्रव्यं न जहाति, तदात्मैव प्रतीयते शब्देन चाभिधीयते-गोः शाबलेय इति, न तु 'शाबलेयस्य गौरिति । गुणाः पुनरपायिनश्चापायिनश्चेति द्रव्याद्भ देन प्रतीयन्ते, शब्देन चाऽभिधीयन्त इत्यर्थः। पटस्य शुक्ल इति । ततश्च भेदविवक्षायाः सद्भावान्मतुपः श्रवणं स्यादिति लुग्वक्तव्य एव । तथाचेति । यस्माद्रव्ये वर्तमाना शुल्लादयो यौगिका न तु वरणपञ्चालादिवद्रूढिशब्दास्ततो द्रव्यगतलिङ्गसङ्खयोपादायिनः, रूढित्वे तु नियतलिङ्गसंख्यत्वं सर्वत्र वा सर्वलिङ्गसङ्ख्यत्वं प्रसज्येत ॥ [ तदस्यास्त्यस्मिन् ] ॥ उ.] भूम्न्येव मतुबत आह-संस्कारस्येति । नन्वेवं 'रूपवा'निति प्रयोगो न स्यादत आह- शुक्लादय एवेति । गुणे तद्वति च द्रव्ये ये लोकेऽभिन्नरूपाः समानरूपाः वर्तमाना दृश्यन्ते ते गृह्यन्त इत्यर्थः । वचनग्रहणादिति भावः। नन्वव्यतिरेकेऽपि मतुपोऽश्रवणं कुतोऽत आह-गुणगुणिनोरिति । भेदनिबन्धने षष्ट्यर्थे मतुपो विधानात्तस्य चाऽत्राऽ. भावात्तदनुत्पत्तिरित्यर्थः। सोऽयमित्यभिसम्बन्धादिति । एवरूपसम्बन्धादित्यर्थः अभेदाऽध्यवसाने हेतुर्भाष्ये-न गुण इत्यादि । ननु 'यो यदव्यभिचारी स तदभिन्न' इति न नियमः, धूमवह्नयोर्व्यभिचारादत आह-गुणेत्यादि।'न सम्बन्ध'इति पाठः । 'अभे- दात्सम्बन्ध' इति पाठे ततो विशेष्यविशेषणभावरूपः सम्बन्ध इत्यर्थः । एवञ्च मतुप्प्रवृत्ति योग्यो भेदसम्बन्धो नास्तीति भावः। अभेदसमानाऽधिकरणो भेदो न मतुम्नियामक इति भावः । एतदजानान एकदेश्याह-दृश्यत इति । नन्वनयैव रीत्या जातिशब्दादपि मतुपो लुग्वक्तव्यः स्यादत आह-जातिरिति । विपक्षे बाधकं दर्शयति-रूढित्वे विति। भाष्ये- यदसौ द्रव्यमित्यादिना-मतुब्लोपेऽपि लिङ्गादिसिद्धिदृश्यते, तेन प्रत्याख्यानस्यैव युक्तत्वं- १ सिद्ध'मित्यन्तं 'व्यभिचरतीत्यन्तं वा भाष्यकृतोऽन्यस्य वा वार्तिकमेतदिति तु परे । .
५अार पा.२ आ.९५ सू.] महाभाष्यम् । रसादिभ्यश्च 1५/२/९५ किमर्थमिदमुच्यते न तदस्यास्त्यस्मिन्नित्येव मतुप्सिद्धः? ॥ ॥ * ॥ रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम् ॥ * ॥ [ रसादिभ्यः पुनर्वचनमः न्यनिवृत्यर्थम् ] । रसादिभ्यः पुनर्वचनं क्रियते । [किं प्रयोजनम् ?॥ अन्यनि- वृत्त्यर्थम् ।-] अन्येषां मत्वर्थीयानां प्रतिषेधार्थम् । मतुबेव यथा स्थायेऽन्ये मत्व- र्थीयाः प्रामुवन्ति ते मा भूवन्निति ।। नैतदस्ति प्रयोजनं, दृश्यन्ते ह्यन्ये रसादिभ्यो मत्वर्थीयाः-रसिको नटः । [ 'रसी राजा' ] । उर्वशी वै रूपिण्य- प्सरसाम् । स्पर्शिको वायुरिति ॥ [ रसादिभ्यश्च ] || प्राणिस्थादातो लजन्यतरस्याम् ।५।२।९६१ इह कस्मान्न भवति,-चिकीर्षाऽस्यास्ति, जिहीर्षाऽस्यास्तीति ॥ * ॥ प्राण्य- ङ्गात् ॥ * ॥ प्राण्यङ्गादिति वक्तव्यम् ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् ।। कस्मान भवति-जिहीर्षाऽस्यास्ति चिकीर्षाऽस्यास्तीति ? । अनभिधानात् ।। सिध्मादिभ्यश्च ।५।२।९७/ सिध्मादिषु यान्यकारान्तानि तेभ्यो लचा मुक्त इनिठनौ प्रामुतः ॥ इनि- उनौ च नेष्यते ॥ कथं तौ न भविष्यतः॥ ॥ * ॥ लजन्यतरस्यामिति समुच्चयः ।। लजन्यतरस्यामिति समुच्चयोऽयं न विभाषा। लच्च मतुप्च॥ कथं पुनरेतज्ज्ञायते- 'लजन्यतरस्यामिति समुच्चयो न विभाषेति ? * ॥ पिच्छादिभ्यस्तुन्दादीनां नाना- योगकरणं ज्ञापकमसमावेशस्या पिच्छादिभ्यस्तुन्दादीनां नानायोगकरणं ज्ञापक- प्र.] रसा। दृश्यन्ते हीति । प्रयोगमूलत्वालक्षणस्य नियमार्थत्वायोगात्सूत्रं प्रत्याख्यातम् ।। प्राणि । लोकप्रसिद्ध शरीरादिसङ्घातः प्राणी, तत्र चैतन्यापगमेऽपि प्राणिव्यवहारस्य रूढत्वान्मृतावस्थायामपि चूडालादिव्यपदेशप्रवृत्तिः । [प्राणिस्थादातो लजन्य] ॥ सिध्मा। 'प्राणिस्थादात' इत्यतोऽन्यतरस्यांग्रहणं विकल्पार्थमनुवर्तत इति मत्वाह- सिध्मादिष्विति । समुच्चय इति । अनेकार्थत्वान्निपातानां समुच्चयेऽन्यतरस्यांशब्दः । अथ वा विकल्पार्थ एव । तत्र लचा मुक्ते प्रकृत एव मतुब्भवति न विनिठनौ, वक्ष्यमाणाज्ज्ञापकादिति सामर्थ्यात्समुच्चयः संपद्यते । पिच्छादिभ्य इति । 'तुन्दादिभ्य उ.] दयते, अन्यथाऽस्य ग्रन्थस्याऽनाऽसङ्गतिरित्याहुः। तदस्यास्त्यस्मिन्निति] ॥९॥ प्राणिस्थादा । प्राण्यङ्गादिति । चूडाकर्णिकाशब्दौ शिखाकर्णालङ्कारसदृशाऽवयव- वाचकौ, न त्वापीडाख्यालङ्कारकर्णालङ्कारवाचकावित्यर्थः । [प्राणिस्थादातो] ॥९६॥ सिध्मादि । भाष्ये-समुच्चयोऽयं न विभाषेति । समुच्चयार्थो न विकल्पार्थ इत्यर्थः । अथ वेति । अत्राथव्याख्यैव युक्ता। मतुबिति । 'अत इनी'त्यत्राप्यन्तरस्या- १ इदं न सर्वत्र दृश्यते। २ 'रूपवत्यप्सराः पा०। ३ 'इनिठनौ च पा०। ४ अयं पाठो नेदानीमुपलभ्यते । ।
। कैयट-विवरणसहित [सिध्मादिभ्यश्च मसमावेशस्य ] । यदयं पिच्छादिभ्यस्तुन्दादीनां नानायोगं करोति तज्ज्ञा. पयत्याचार्यः-समुच्चयोऽयं न विभाषेति । यदि विभाषा स्यान्नानायोगकरण- मनर्थकं स्यात्,-तुन्दादीन्यपि पिच्छादिष्वेव पठेत् ॥ नैतदस्ति ज्ञापकम् , अस्ति ह्यन्यन्नानायोगकरणे प्रयोजनम् ॥ किम् ? 11 तुन्दादिषु यान्यनकारान्तानि तेभ्य इनिठनौ यथा स्याताम् ॥ यानि तटकारान्तानि तेषां पाठः किमर्थः ? ॥ ज्ञापकार्थ एव ।। अपर आह !*|| तुन्दादिभ्यश्च पिच्छादीनां नानायोगकरणं ज्ञापकमसमावेशस्य * [ तुन्दादिभ्यः पिच्छादीनां नानायोगकरणं ज्ञापकमसमावेशस्य ] । यदयं तुन्दादिभ्यःपिच्छादीनां नानायोगं करोति तज्ज्ञापयत्याचाय:-'समुच्चयोऽयं न विभाषेति । यदि विभाषा स्यान्नानायोगकरणमनर्थकं स्यापिच्छादीनपि तुन्दादिष्वेव पठेत् ॥ नैतदस्ति ज्ञापकम् , अस्ति ह्यन्यन्नानायोगकरणे प्रयो- जनम् ॥ किम् ? ॥ पिच्छादिषु यान्यनकारान्तानि तेभ्य इनिठनौ माभूता- मिति ।। यानि तांकारान्तानि तेषां पाठः किमर्थः ? ॥ ज्ञापकाथै एव ।। ॥ * ॥ वस्य च पुनर्वचनं सर्वविभाषार्थम् ॥ * ॥ वस्य खल्वपि पुनर्वचन क्रियते, सर्वविभाषार्थ-'केशाद्वोऽन्यतरस्यामिति । एतदेव ज्ञापयत्याचार्य: समुच्चयो न विभाषेति ॥ * ॥ बुद्रुभ्यां नित्यार्थमेके ॥ * ॥ युद्भ्यां नित्यार्थ- प्र.] इलच्चे'त्यत्र चत्वारः प्रत्यया इध्यन्ते-इलजिनिठनौ मतुबिति। तत्र यद्यन्यतरस्यांग्रहणा. नुवृत्त्या पिच्छादिभ्यः प्रत्ययचतुष्टयं स्यात्तदा तुन्दादिष्वेव पिच्छादयः पठितव्याः पिच्छा. दिवेब वा तुन्दादयः । पृथकपाठात ज्ञायतेऽन्यतरस्यांग्रहणेन मतुप्समुच्चीयते न तु यथा प्राप्तमभ्यनुज्ञायते। तेन सिध्मादिपिच्छादिभ्य इनिठनौ न भवतः । नैतदस्तीति । तुन्दादिभ्योऽनकारान्तेभ्योऽपीनिठनाविष्येते । तत्र यदि तुन्दादिषु पिच्छादयः पठ्ोरं- स्तदा पिच्छादिभ्योऽनकारान्नेभ्य इनिठनौ स्याताम् । अथ पिच्छादिषु तुन्दादयः पठो- रंस्तदा तुन्दादिभ्योऽनकारान्तेभ्य इनिठनौ न स्यातामित्यर्थः । यानि तहीति । कानि चिदकारान्तानि पिच्छादिषु पठितानि कानि चित्तु तुन्दादिषु पठितानि, तत्र भेदेन पाठो ज्ञापक एव यथोक्तार्थस्येत्यर्थः । वस्य च पुनर्वच मति । 'केशाद्व' इत्येव वक्तव्यम् । तत्र प्रकृतान्यन्तरस्यांग्रहणानुवृत्त्या ठन्निनिमतुपो भविष्यन्तीति किमन्यतरस्यांग्रहणेन ठन्निनिप्राप्त्यर्थेन । तत्पुनः क्रियमाणं पूर्वस्याऽन्तरस्यांग्रहणस्य मतुप्समुच्चयार्थत्वं ज्ञापयती- उ.ग्रहणाऽनुवृत्तेरिति भावः । अपर आहेत्यादिना वक्ष्यमाणस्य भाष्यस्याशयमाह- तुन्दादिष्वेति । प्रथमभाष्याशयमाह-पिच्छादिष्विति । इनिठनौ न स्यातामिति । पिच्छादिसूत्रे तदसम्बन्धादिति भावः । भाष्ये ज्ञापकान्तरमाह-वस्य च पुनर्वचनमिति। वस्य विधायक शास्त्रेऽन्यतरस्यांग्रहणाऽनुवृत्त्यैव सिद्धे पुनरन्यतरस्यामिति वचनं सर्वेषा- मिनादीनां विभाषार्थम् , पक्षे प्राप्त्यर्थं सदेतदर्थज्ञापकमित्यर्थः। तदाह तत्रेत्यादि। सतीति। १ अयं पाठो लुप्त इदानीम् । २ 'पकं समावेशस्येति क्वचित्पाठः । ३ चकारः काचित्कः ।
। । ५ अ.१२ पा.। २ आ.।१०० सू.] ॐ महाभाष्यम् मेकेऽन्यतरस्यांग्रहणमिच्छन्ति ॥ कथम् ? ॥ विभाषामध्येऽयं योगः क्रियते विभाषामध्ये च ये विधयो नित्यास्ते भवन्तीति ॥ [सिध्मादिभ्यश्च] । लामादिपामादिपिच्छादिभ्यः शनेलचः ।५।२११०० 11 * ॥ नप्रकरणे दद्रा हस्वत्वं च ॥ * ॥ नप्रकरणे दद्रा उपसङ्ख्यानं कर्तव्य ह्रस्वत्वं च वक्तव्यम् । गुणः ॥ अत्यल्पमिदमुच्यते ॥ * ॥ शाकीपलालीदेद्रा- हस्वत्वं चेति वक्तव्यम् ||#1। शाकिनम् । पलालिनम् । दद्रुणम् ॥* विष्वगित्युत्तर- पदलोपश्चाऽकृतसन्धेः ॥ * ॥ विष्वगित्युपसङ्ख्यानं कर्तव्यम् , उत्तरपदलोपश्चाs. कृतसन्धेवक्तव्यः । विष्वग्गतान्यस्य विषुणः॥ [लोमादिपामादिपिच्छादिभ्यः] ॥ प्रज्ञाश्रद्धांर्चाभ्यो णः ।५।२।१०१॥ * ॥ वृत्तेश्च ॥ * ॥ वृत्तश्चेति वक्तव्यम् । वार्तम् ॥ प्र.] त्यर्थः। घुट्ठभ्यामिति । सति प्रयोजने ज्ञापकं न भवतीति पूर्वोक्तमेव शापकमाश्रयणीयम् ।। लोमादि । नप्रकरण इति । प्रकरणं-प्रस्तावः । महच्छाक-शाकी । नाना. जातीयकशाकसमाहारो वा शाकी। पलाली-पलालक्षोदः । अथ वा भिन्नानि शालिकोद्र- वादिपलालानि-पलाली । विष्वगिति । विषु-नानाऽचन्तीति, विषु-अञ्चितानि सन्त्यस्य विषुणम् । विष्वग्गतानीति । अर्थप्रदर्शनपरमेतत् । यानि हि विष्वञ्चितानि विष्वग्ग- तानि, विष्वग्गतं गमनमेषामित्यर्थः । तत्र विषुणशब्देन विषुवदाख्यः काल उच्यते । तस्य हि नानागतानि दिनानि सन्ति, तदाश्रयत्वादिवसान्तराणां न्यूनाधिकभावस्य । तथा वायु- सृत्युश्च विषुणः, तथान्योऽप्यनवस्थितप्रकृतिर्मनुष्यादिविषुणस्तत्र वृत्तिविषये गमनक्रियान्त- र्भावाद्विष्वग्गमनमस्यास्तीत्येवं वाय्वादेरभिधानमित्याहुः॥ [लोमादिपामादि] ॥ प्रज्ञा । वातमिति। वृत्तिशब्दो विच्छेदप्रतिविधानादिषु वर्तते । इह प्रशशब्दात् उ.] वस्तुतस्तु 'धुदुभ्यां मो नित्यमित्येव सिद्धेऽन्यतरस्यांग्रहणं ज्ञापकमेव । इदमेव भाष्ये-एके' इत्यत्राऽरुचिबीजम् ॥ [सिध्मादिभ्यश्च ] ॥ ९७ ॥ लोमादिपा। ननु नस्योत्तरत्राऽननुवृत्ते प्रकरणे इत्ययुक्तमत आह-प्रस्ताव इति । शाकीपलाल्योमहत्त्वाद्युपाधौ लोकप्रयोगान्ङीष्णगौरादिपाठादित्याहुः । ननु 'विश्वगतानी'- तिभाष्ये 'गतानी'त्यधिकमत आह-अर्थप्रदर्शनेति । तदेवोपपादयति-यानि हीति । विध्वगिति । नानाप्रकार मित्यर्थे रूढमपीति तद्धटितेन 'विष्वगतानी'त्यनेन नानाप्रकार. गमनकर्थकविष्वक्शन्दस्याऽर्थकथनमिति भावः । वार्तिके द्वयोरपि विश्वक्शब्दयोग्रहणं, तत्र वावादिविषये विषुणप्रकृति नाप्रकारार्थक इत्यभिप्रायेणाह-गमनक्रियान्तर्भावा- दिति । केचित्तु भावक्किबन्तो नानाप्रकारगमनार्थो विष्वक्शब्दस्तत्र प्रकृतिरित्याहुः ।। प्रज्ञाश्रद्धा । अविच्छेदप्रतिविधानेति । अविच्छेदेति छेदः कर्मणि घञ् , षष्ठीसमासः। प्रतिविधान-जीविकोपायः । अविच्छिन्नजीविकोपाय इत्यर्थः । आदिना ग्रन्थविवरणम् । १ चकारः क्वचिन्न दृश्यते । २ 'ददूर्णा' पा०।३ 'अर्चावृत्तिभ्यो णः' पा०। ४ 'वार्तः पा० । - - कैयट-विवरणसहितं. [तपःसहस्राभ्यां तपःसहस्राभ्यां विनीनी ।५।२।१०२। अण्च ।१०३। किमर्थं तपःशब्दाद्विन्विधीयते नाऽसन्तादित्येव सिद्धम् ? ॥ * ॥ तपसो विवचनमण्विधानात् ॥ * ॥ तपसो विन्वचनं क्रियते ॥ किं प्रयोजनम् ? ॥ 'अपिवधानात्। तपःशब्दादविधीयते स विशेषविहितः सामान्यविहितं विनं बाधेत । अण्प्रकरणे ज्योत्स्नादिभ्य उपसङ्ख्यानम् ॥11 अण्प्रकरणे ज्योत्स्सा- दिभ्य उपसङ्ख्यानं कर्त्तव्यम्।ज्योत्स्नः। तामिनः। कौण्डलः। कौतपः।वैपादिकः॥ उषशुषिमुष्कमधो रः ।५।२।१०७। अयं मधुशेब्दोऽस्त्येव द्रव्यपदार्थकः, अस्ति रसवाची। आतश्च रसवाच्यपि- मधुन्येव हि 'मध्विदं मधुर'मिति प्रयुज्यते । तद्यो रसवाची तस्येदङ्ग्रहणम् । म.] स्वार्थेऽणि विहिते 'प्राज्ञो व्याकरणमिति भाव्यम् ,-यथा 'कृतपूर्वी कट'मिति। कृद्हणा- तद्धितप्रयोगे षष्ठयभावः। यदा तु प्रज्ञाशब्दान्मत्वर्थीयो णो विधीयते, तदा प्रज्ञावतः प्राधान्यात्प्रज्ञानक्रियाया उपलक्षणत्वादनाविर्भावाद्ध्याकरणादिभिः कर्मभिः सम्बन्धाभावः । के चित्त्वत्रापि गुणभूतया प्रज्ञानक्रियया व्याकरणादीनां सम्बन्धमिच्छन्तः 'प्राज्ञो व्याकरण'- मिति भवितव्यमित्याहुः। विषयत्वविवक्षायां तु-'प्राज्ञो व्याकरणे' इति ॥ [प्रज्ञानद्धार्चा]|| अपच । तामिस्रमिति । तमःसमूहस्तमित्रं, तद्यत्रास्ति, तमिस्त्रा रात्रि यस्मिन्नस्ति,-तत्तामिस्त्रम् । कुण्डलाह:-कौण्डल इत्याहुः ॥ [ अपच] । ऊपशु । द्रव्यपदार्थक इति । माक्षिके मोदीके च प्रसिद्ध इत्यर्थः । आतश्चेति। रसमात्रे मधुशब्दस्य प्रवृत्त्यभावावृत्तिविषय एव यत्नप्रतिपाद्यं रसवाचित्वं मन्यते । मधुन्येवेति । न हि तदेव तस्मिन्विद्यत इति सामर्थ्यावृत्तिविषये रसविशेषवाची मधु. शब्द इत्यर्थः । तद्यो रसवाचीति । अभिधानशक्तिस्वाभाव्यादिति भावः । मतुबपि उ.] कर्थ'क'प्रत्ययान्तप्रज्ञशब्दात्स्वार्थिकाऽणैव सिद्ध सूत्रे प्रज्ञाशब्दग्रहणस्य फलं दर्शयति- इह प्रज्ञशब्दादिति । 'प्रशाशब्दादित्यपपाठः । केचित्त्विति । इदमेव युक्तं, कारकाणां गुणभूतक्रियायामप्यन्वयात् । 'प्रज्ञेत्यादौ ङीबभावार्थमिदमिति तत्त्वम्' । 'कर्तृकर्मणो'- रिति सूत्रस्थभाष्याऽनुगृहीतमदुक्तरीत्या तूभयत्राऽपि 'प्राज्ञो व्याकरणस्येत्येव भाव्यमिति चिन्त्यम् । विषयत्वविवक्षायामिति । वैषयिकाधारत्वविवक्षायामित्यर्थः ।। अपच । तमिस्र पृषोदरादित्वादित्वम् । 'तद्धिताः' इति बहुवचनाद्रप्रत्ययः । कुण्ड. लाह इति । मत्वर्थस्तु कथञ्चिदुपपाद्यः । संसक्तकुण्डले तु नेष्यत इति भावः ।। १०३ ॥ ऊपशुषि । नन्वस्ति च रसवाचीत्युक्ते पुनरातश्चेत्यस्य नोपयोगोऽत आह-रसमाने इति । 'केवलस्येति भावः । अत 'आतश्चेति यत्नेन प्रतिपादनमिति भावः । न हि तदे- वेति । व्यपदेशिवद्भावेन व्यवहारे तु मधुमात्रे तथा व्यवहारापत्तिरिति भावः। तद्धनय. नाह-भाष्ये-मध्विदमिति । अभिधानशक्तीति । बोधजनकशब्दशक्तीत्यर्थः । १ इदं कचिदेव दृश्यते । २'अस्ति च द्रव्यपदार्थकः' पा० । ३ 'माध्वीके' । ४'शेषः' पा०। ।
५.२ पा.२ आ.।१०९ सू.] महाभाष्यम् , यदि हि गव्यपदार्थकस्य ग्रहणं स्यादिहाऽपि प्रसज्येत मध्वस्मिन्घटेऽस्ति ।। ॥ * ॥ रप्रकरणे खमुखकुञ्जभ्य उपसङ्ख्यानम् ॥ * ॥ रप्रकरणे खमुखकुञ्जभ्य उपसङ्ख्यानं कर्त्तव्यम् । खरः। मुखरः । कुञ्जरः॥ * ॥ नगाच ॥ * ॥ नगाचेति वक्तव्यम् । नगरम् ॥ [ ऊपशुषिमुष्कमधो रः ॥] केशाद्दोऽन्यतरस्याम् ।५।२।१०९। ॥ * ॥ वप्रकरणे मणिहिरण्याभ्यामुपसङ्ख्यानम् ॥ * ॥ वप्रकरणे मणिहिरण्या- भ्यामुपसङ्ख्यानं कर्त्तव्यम् । मणिवः । हिरण्यवः ॥ * ॥ छन्दसीवनिपौ च ।। * ॥ छन्दसि ईवनिपौ च वक्तव्यौ वश्च मतुप्च । रथीरभून्मुद्गलानी गविष्टौ । सुमङ्गलीरियं वधूः । ऋतावानम् । मघवानमीमहे । उद्वा च उद्वती च ।। प्र.] रसवाचिनोऽनभिधानान्न भवति। खर इति । शब्दनिष्पत्तिकारणं कण्ठविवरं महद. स्यास्तीत्यर्थः । मुखर इति । स्वव्यापारशब्दोच्चारणेऽप्रतिबद्धं मुखमस्येत्यर्थः । कुञ्जर इति । वृत्तिविषये कुञ्जशब्देन हस्तिहनुरुच्यते । तेन तद्वान्कुञ्जरो हस्तिशब्द- बज्जातिशब्दोऽयम् । नगरमिति । नगा वृक्षाः पर्वताश्च । नगरशब्दोऽपि जातिशब्द एव । नगशब्दोऽश्मादिपु पठ्यते, 'बुञ्छण्कठ'जित्यादिना नगरशब्दस्य सिद्धत्वान्नगाचेति न वक्तव्यम् ॥ [ ऊपशुषिमुष्कमधो रः] । केशाहो। मणिव इति। नागविशेषस्येयं संज्ञा । हिरण्यवइति । निधिविशेषस्य । के चित्तु कुक्षरस्येत्याहुः । छन्दसीवनिपौ चेति । चशब्दो वस्य समुच्चयाऽर्थोऽन्य- तरस्यांग्रहणस्य सर्व संबन्धान्मतुबपि भवतीति मत्वाह-वश्व मतुप्चेति। रथीरिति । रथो- ऽस्यास्तीत्यर्थः। सुमङ्गालीरिति । लाघवाद्बहुव्रीहिणा भाव्यमिति न्यायः छान्दसत्वादन नाश्रितः । मघवेति । मघमस्यास्तीति मघवा । मतुपि तु मघवच्शब्दः । 'मघवा बहुल'. मित्येतन्न कर्तव्यम् । श्वन्नक्ष'न्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्द- उ.] मतुप्त्विति । द्रव्यवाचिनस्तु भवत्येव 'मधुमान्नो वनस्पति रित्यादौ । महदिति । शब्दशक्तिस्वभावान्महत्त्वस्य वृत्तावन्तर्भावः । स्वव्यापारेति। स्वव्यापारसाध्यशब्दो. ञ्चारणे इत्यर्थः । अप्रतिबन्धमिति। वक्तव्याऽवक्तव्यविवेकाऽभावादित्यर्थः । जाति- शब्द इति । अत एव नगरीत्यादौ ङीप् । वक्तव्यमिति । तत्र ‘देशे तन्नामी'त्युक्ते- तन्नामकेऽपि तस्य साधुत्वार्थमिदमावश्यकमिति चिन्त्यम् । [ ऊपशुषिमुष्क ] ॥ १०७ ।। केशाहो । ननुन्वीवनिपौ चेति चेन प्रकृतस्यैव समुच्चयः स्यादिति ‘वश्च मतुप्चेत्य- युक्तमत आह-चशब्द इत्यादि। सर्वसम्बन्धादिति।सर्वत्र सम्बन्धादित्यर्थः। कचित्तु तथैव पाठः । भाषायामपीत्यादि। 'मघोनस्त्रन्तस्य छान्दसत्व मिति 'मघवा बहुल'मिति १॥। रूपादिभ्यो (इति ?) वा ॥ ॥ रप्रकरणे रूपादिभ्यो बोपसङ्ख्यानं कर्त्तव्यम् । पाण्डुः । पाण्डुरम् । *] स्वार्थे वा ।।। पाण्डुः पाण्डुरो वर्णः । ।। श्यामलादयः ।। श्यामलः । पिङ्गलः पिशशिलः' इति काचिदधिकः पाठः ।२ चकारः क्वचिन्नास्ति। - - - . ४२० कैयट-विवरणसहितं. [ रजःकृष्या- ||* मेधारथाभ्यामिरेन्निरचौ ॥ * ॥ मेधारथाभ्यामिरनिरचौ वक्तव्यौ । मेधिरः। रथिरः॥ अपर आह-॥ * ॥ वप्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम्' ।। ।। बिम्बावं, कुररावम् , इष्टकाम् ॥ [ केशाद्वोऽन्यतरस्याम् ] || रजाकृष्यासुतिपरिषदो वलच ।५।२।११२। ॥ * ॥ वलच्प्रकरणेऽन्येभ्योऽपि दृश्यते ॥ * ॥ वलप्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम् । श्रातृवलः । पुत्रवलः । उत्सङ्गवलः ॥ [रजःकृष्यासुति ] । अत इनिठनौ ।५।२।११५॥ ।। * ॥ इनिठनोरेकाक्षरात्प्रतिषेधः ॥ * ॥ इनिठनोरेकाक्षरात्प्रतिषेधो वक्तव्यः । स्ववान् खवान् ॥अत्यल्पमिदमुच्यते-एकाक्षरादिति]॥ * ॥ एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ॥१॥ एकाक्षरात्-स्ववान् । खवान् । [एकाक्षरात्]॥ कृत:- कारकवान हारेकवान् । [कृतः ] ॥ जातेः-वृक्षवान् । प्लक्षवान् । व्याघ्रवान् । सिंहवान् । [ जातेः] ॥ सप्तम्यां च न तौ-दण्डा अस्यां शालायां सन्तीति ।। यदि कृतो नेत्युच्यते-कार्यो कायिक इति न सिध्यति । तथा च यदि 'जात्तेर्ने'त्युच्यते-तण्डुली तण्डुलिक इति न सिध्यति ॥ एवं तर्हि नाऽयं समु- चय:-कृतश्च जातेश्चेति ॥ किं तर्हि ? ॥ जातिविशेषणं कृन्द्रहणं,-कृद्यो जाति- रिति ॥ कथं कारकवान्-हारकवान् ? ॥ अनभिधानान भविष्यति ॥ यद्येवं नार्थोऽनेन ॥ कथं स्ववान्खवान्वृक्षवान्प्लक्षवान्सिहवान्व्याघ्रवान्दण्डा अस्याँ शालायां सन्तीति ? ॥ अनभिधानान्न भविष्यति ॥ [ अत इनिठनौ ] ॥ ब्रीह्यादिभ्यश्च ।५।२।११६तुन्दादिभ्य इलच ।११७ प्र.) द्वयस्य सिद्धत्वात् । उद्वा चेति । उद्गतमस्यास्तीति ससाधनक्रियावचनादुपसर्गात प्रत्ययः। मेधारथाभ्यामिति । एतदपि च्छन्दोविषयम् । बिम्बावं कुररावमिति । 'अन्येषामपि दृश्यत इति दीर्घः ॥ [ केशाद्वोऽन्यतरस्याम् ] ॥ रजः । भ्रातृवल इति । बल इत्यत्राण्ग्रहणानुवर्तनाद्दीर्घाभावः। पुत्रवल इति । दीर्घत्वं 'वनगियों: संज्ञाया'मित्यतः संज्ञानुवृत्त्या संज्ञायां विधीयते। तेन पुत्रावल उत्स- गावल इति संज्ञायां भवतीत्यसंज्ञायां दीर्घाभावः ॥ [ रजःकृष्यासुति ] । उ.] सूत्रभाष्योक्तः, 'नियतविषया अपि शब्दा' इति तत्रैव स्वोक्तेश्च चिन्त्यम् । प्रत्यय इति । वो मतुप्चेत्यर्थः ॥ [ केशाद्वोऽन्यतरस्याम् ] ॥१०९ ॥ अत इनि । भाष्ये-एकाक्षरात्कृतो जातेरिति । दण्डशब्दस्तु दमनकरणत्वेन बोधक इति न जातिशब्द इति तत्र भवत्येवेति भावः । [अत इनिठनौ ] ॥ ११५॥ १ इदं क्वाचित्कम् । २ 'मिरन्निरौ' पा०। ३ 'बिम्बावः' 'कुररावः' इत्येवं कचित् । ४ 'पर्षदः'पा० । ५ 'श्ववान्' इति क्वचित्पाठः। ६'हायीं' इति पा० । ७'कृद्या जाति:'पा० । । .. . - -- ५.२ पा.२ आ.।११८ सू.] ॐ महाभाष्यम् ॥ * ॥ शिखादिभ्य इनिर्वाच्य इकन्यवखदादिषु ।। * ॥ [शिखादिभ्य इनि- ाच्यो यवखदादिभ्य इकन् वाच्यः]। किं प्रयोजनम् ? ॥ नियमार्थम् । इनिरेव शिखादिभ्य इकन्नेव यवखदादिभ्यः ।। * ॥ शिखायवखदादिभ्यो नियमाऽवचनं निवर्तकत्वात् ॥४॥ शिखायवखदादिभ्यो नियमस्याऽवचनम् ॥ किं कारणम् ? ॥ 'निवर्तकत्वात्' । किं निवर्त्तकम् ? ॥ अनभिधानम् ॥ एकगोपूर्वादृश्नित्यम् ।५।२।११८॥ नित्यग्रहण किमर्थम् ?। विभाषा मा भूत् ।। नैतदस्ति प्रयोजन, पूर्वस्मि- ज्नेव योगे विभाषाग्रहणं निवृत्तम्॥ एवं तर्हि सिद्ध सति यन्नित्यग्रहणं करोति तज्ज्ञापयत्याचार्यः-'प्रागेतस्माद्योगाद्विभाषेत्यनुवर्तत इति ॥ अथाऽत इत्यनुवर्तते, उताहो न ? ॥ किं चातः ? ॥ यद्यनुवर्तते-ऐक- गविको न सिध्यति ॥ समासान्ते कृते भविष्यति ॥ एवमपि गौशकटिको न सिध्यति ॥ अथ निवृत्तम्-इहापि प्रामोति-गोविंशतिरस्याऽस्तीति ॥ निव- तम् ॥ कस्मान्न भवति-गोविंशतिरस्यास्तीति ॥ अनभिधानान भविष्यति ॥ रूपादाहतप्रशंसयोर्यप् ।५।२।१२०॥ ॥ * ॥ यःप्रकरणेऽन्येभ्योऽपि दृश्यते ॥ * ॥ याप्रकरणेऽन्येभ्योऽपि दृश्यत इति चक्तव्यम् । हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥ [रूपादाहतप्रशंसयोर्यम् ] । बहुलं छन्दसि ।५।२।१२२॥ ॥ * ॥ छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्च ॥ * ॥ छन्दोविन्प्र- करणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम् । अष्ट्रावी । मेख- लावी। द्वयावी । उभयावी । रुजावी। हृदयावी ॥॥ मर्मणश्च ।। मर्मणश्चेति वक्तव्यम् । मर्मावी ॥ * ॥ सर्वत्रामयस्य [उपसङ्ख्यानम् ॥॥॥ सर्वत्रामयस्यो- पसङ्ख्यानं कर्त्तव्यम् । आमयावी ||*॥ शृङ्गवृन्दाभ्यामारकन् ॥ ॥ शृङ्गवृन्दाभ्या- उ.] एकगो। भाष्ये प्रागेतस्मादिति । एवञ्चानाऽपि वाग्रहणाऽनुवृत्त्या पक्षे मतुप्स्यादिति तन्निवृत्त्यर्थं नित्यग्रहणमिति भावः। समासान्ते कृते इति । न च तत्पुरुषे सिद्धावपि बहुव्रीहिद्वन्द्वयोर्न सिध्यतीति वाच्यम् , अनभिधानेन तत्राऽप्रवृत्तेः। गौशकटिक इति । शकटिशब्देन समास इति भावः । यद्यप्यकारान्तशकटशब्देनेदं सिध्यति, तथापीकारान्तेन विग्रहे 'गौशकटिमा नित्यस्यापत्तिरिति भावः। निवृत्तमिति । 'द्वन्द्वोपतापे त्यादौ तु मण्डूकाऽनुवृत्त्याऽत इत्यस्य सम्बन्ध इति भावः । इदं च 'समासान्ता' इति सूत्रे भाष्ये स्पष्टम् । वृत्तिकृतस्तु प्रमाद इति बोध्यम् । [एकगोपूर्वात् ] । बहुलं छन्द । भाष्ये दीर्घश्चेति । द्वयोभयहृदयार्थमिदम् । चालुचेलू चितावित्येके। अचितौ। अत एव 'चैलु' रित्यत्र कचित्पुस्तके वृद्धिदृश्यते । पर्वमरुद्भयां तबिति १'अयं कचिदपि न दृश्यते । २ इदं क्वाचित्कम् । “नियमस्याऽवचनम्' का० पु० पा०॥
शीता 8 कैयट-विवरणसहितं. [ आलजाटची मारकन् वक्तव्यः । शृङ्गारकः । वृन्दारकः ।।। फलबर्हाभ्यामिनच।*।। फलबहाभ्या. मिनज्वक्तव्यः। फलिनः। बहिणः। * ॥ हृदयाच्चालुरेन्यतरस्याम् ॥ * ॥ हृदयाञ्चालु- रन्यतरेस्यां वक्तव्यः । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥१॥ शीतोष्ण- तृप्रेभ्यस्तन्न सहते ॥ * ॥ शीतोष्णतृप्रेभ्यस्तन्न सहत इत्यस्मिन्नर्थे चालुवक्तव्यः। सहत इत्येतस्मिन्नर्थे । हिमेलुः ॥ * ॥ बलाच्चोलः ॥ * ॥ बलाच्च ऊलो वक्तव्य- स्तन सहत इत्येतस्मिन्नर्थे । बलूलः॥ * ।। बातात्समूहे च ॥ * ॥ वातात्समूहे च तन्न सहते इत्येतस्मिन्नर्थे च-उलो वक्तव्यः । वातूलः ॥ * ॥ पर्वमरुद्भया तम् ॥*। पर्वमरुद्भयां तप (च) वक्तव्यः। पर्वतः मरुत्तः ॥ ददातिवृत्तं वा ।। ददातिवृत्तं वा पुनरेतद्भविष्यति,-मरुद्धिदत्तो मरुत्तः॥ [बहुलं छन्दसि] | आलजाटचौ बहुभाषिणि ।५।२।१२५॥ [[ll कुत्सिते ।। ] कुत्सित इति वक्तव्यम् । यो हि सम्यग्बहु भाषते. वाग्मीत्येव स भवति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । नानायोगकरणसामर्थ्यान्न भविष्यति ॥ [ आलजाटचौ ] ॥ स्वामिन्नैश्वर्ये ।५।२।१२६॥ इह कस्मान्न भवति-स्वमस्यास्तीति ? ॥ नैष दोषो-नायं प्रत्ययार्थः ।। अ.] स्वामिन्नै । स्वमस्येति । धनवाच्यत्र स्वशब्दः। नायं प्रत्ययार्थ इति । प्रत्य- उ.] पिदयम् । नित्पाठस्तु लेखकप्रमादात् । मरुत्तस्य मध्योदात्तस्यैवेष्टः। तदेव ध्वनयन् तपं प्रत्याचष्टे-ददातिवृत्तं वेति । अन्न पक्षे उपसर्गसंज्ञायां मरुच्छब्दस्योपसंख्यानादच उपसर्गादिति तत्वम् । अन्यच्चोपसर्गकार्यमरय नेति तत्रैव निरूपितम् । अत्र पक्षे 'तृतीया कर्मणी'ति पूर्वपदप्रकृतिस्वरेण मध्योदात्तत्वं स्पष्टमेव । केचित्त्वेवं हि तत्वविधावेव मरुत्त इति पठेत् । तस्मात्सब्ज्ञाप्रकरणे प्रथमाऽध्याये पाठोऽनेकसज्ञालाभाय । 'अनेकफलायेति तु न युक्तमुपसर्गत्वस्य फलान्तराय चारितार्थेऽजन्तत्ववैकल्यात्तत्वाऽनापत्त्या मरुत्त इत्यु- दाहरणपरभाष्यविरोधापत्तेः। एवञ्च निपातत्वमप्यस्येति तन्मूलकमायुदात्तत्वं दुर्वारमेव । तच्च तत्वविषये एवेति 'मरुद्भिरित्यादिप्रयोगोपपत्तिः। एवञ्च नित्पाठ एवोचितः। वेदे कचिन्मध्योदात्तत्वन्तु छान्दसत्वाबोध्यम् । मरुच्छब्दान्मतुप्त न, ततो रूद्ध्यर्थाऽप्रतीतेरिति प्रत्याख्यानाशय इत्याहुः । [ बहुलं छन्दसि ] ॥ आलजाटचौ। नानायोगेति । पूर्वसूत्रेऽपि 'बहुभाषिणीति सम्बध्यत इति भावः।। स्वामिन्नै । 'स्वशब्दादामिनज्भवत्यस्येत्यर्थे, षष्ठयर्थश्चदैश्वर्यविषयोऽर्थादैश्वर्यवान्भव- १ 'हृदयादालुजन्यत पा०॥ २ वक्तव्योऽन्यतरस्यां' पा०। ३ इति चालुवक्तव्यः पा० ॥ ४ 'बलादूलो वक्तव्यः'पा०। ५ अयं पाठः कचिदपि नास्ति। ६"* आलजाटचौ बहुभाषिणिः कुत्सिते " आलजाटचौ बहुभाषिणि कुत्सिते इति वक्तव्यम्'इत्येवंकेचिदत्र पाठमिच्छन्ति । । । - ।
। । अर्थाच्चाऽसन्नि ५अ.२ पा./२आ.१२९ सू.] महाभाष्यम् ४२३ किं तर्हि ? ॥ प्रकृतिविशेषणमेतत्-'स्वामिन्नैश्वर्ये निपात्यते' इति ।। वातातीसाराभ्यां कुक्च ।५।२।१२९। ॥ * ॥ पिशाचाच्च ॥ * ॥ पिशाचाच्चेति वक्तव्यम् । पिशाचकी वैश्रवणः ॥ पुष्करादिभ्यो देशे ।५।२।१३५॥ इनिप्रकरणे बलाद्वाहूरुपूर्वपदादुपसङ्घ इयानम् ॥ * ॥ इनिप्रकरणे बलाद्वाहू रुपूर्वपदादुपसङ्ख्यानं कर्त्तव्यम् । बाहुबली । ऊरुबली ॥ * ॥ सर्वादेश्च ॥ * ॥ हिते ।। * ।। अर्थाचाऽसन्निहिते इनिर्वक्तव्यः । अर्थी ॥ असंनिहित इति किमर्थम् ? || अर्थवान् ॥ * ॥ तदन्ताच्च ॥ * ॥ तदन्ताच्चेति वक्तव्यम् । धान्यार्थी हिरण्यार्थी॥ किमर्थं तदन्तादित्युच्यते न तदन्तविधिना सिद्धम् || ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ॥ एवं तहीनन्तेन सह समासो भविष्यति,-धान्येनाऽर्थी धान्यार्थी । स हि समासो न प्राप्नोति ॥ प्र.] यार्थविषयत्वात्प्रत्ययार्थ उच्यते । ऐश्वर्ये इति यदि विषयसप्तमी स्यात्तदेशितरि धनवाचिनोऽपि प्रत्ययः स्यात्, प्रकृत्यर्थस्वैश्वर्य मिहोपात्तमिति वृत्तिविषय एव च स्वशब्द ऐश्वर्ये वर्तते, तेन धनबान्निर्धनो वेशिता स्वामिशब्दाभिधेयः । [स्वामिन्नैश्वर्थे ] ॥ पुष्करा । अर्थाञ्चेति । विरोधादस्तीति न संबध्यते। अर्थो संनिहितोऽस्येत्यर्थेऽप्राप्त एवेनिर्विधीयते। तक्रकौण्डिन्यन्यायेनाऽस्त्युपाधिकादिनेरभावः । धान्यार्थीति । धान्य- मर्थ इति कर्मधारयो धान्याथोंऽसन्निहितोऽस्येति प्रत्ययः । एवं तहीति। धान्येनार्थी धान्यार्थी तृतीयासमासो भविष्यतीत्यर्थः । स हीति । तृतीया तस्कृतार्थेने त्यनेनार्थशब्देन समासो विधीयमानोऽर्थिशब्देन न प्राप्नोतीत्यर्थः। सुप्सुपेत्येतन्नाश्रितम् । न्याय्यस्य परि- उ.] तीति सूत्रार्थं मत्वा पूर्वपक्षः यस्य धनमस्ति तदैश्वर्यवानिति भावः । नन्वैश्वर्यवान्प्रत्य- याऽर्थो न त्वैश्चर्यमत आह-प्रत्ययार्थविषयादिति । प्रत्ययार्थे विशेषणत्वादित्यर्थः । भाष्ये-प्रकृतिविशेषणमिति । प्रकृत्यर्थबोधकमित्यर्थः । स्वामिन्नैश्वयें इति । ऐश्वर्य वर्तमानस्वशब्दस्य 'स्वामि निति निपात्यत इत्यर्थः। यदि विषयेति । प्रत्ययार्थविशेषणं यदि स्यादित्यर्थः । नन्वन्यत्राऽपि स्वशब्दस्यैश्चर्ये प्रयोगापत्तिरत आह-वृत्तिविषये इति । स चैतदृत्तिविषये एव । अत एव 'धनस्य स्वामी'त्यपि भवति । धनवाचिनस्तु मतुबेव ॥ पुष्करादि । असन्निहित इति । असन्निधानमत्र कालकृतम् ,अत एव विरोधादस्ती- त्यस्याऽसम्बन्धः, असन्निहितककवर्तमानसत्ताया असम्भवात् । ननु सन्निहिते- ऽप्यर्थशब्दादत इनिठनाविति दुर्वारमत आह-तक्रति । 'अर्थों समर्थो विद्वानिति तु छान्दसत्वाबोध्यम्। भाष्ये-धान्येनार्थीति । नन्वत्र कथं तृतीया, न करणे, अथि- शब्दस्याऽक्रियावाचित्वात, नाऽपि प्रकृत्यादित्वात्, प्रथमार्थे एकदेशान्वयेऽपि विशिष्टना. १'इन्प्रकरणे पा० । २ इदं कचिन्न दृश्यते । - । ।
। कैयट-विवरणसहित [ पुष्करादिभ्यो यदि पुनरयमर्थयतेणिनिः स्यात् ?|| एवमपि क्रियामेव कुर्बाणे स्यात् ॥ तूष्णी- मप्यासीनो यस्तत्समर्थान्याचरति सोऽभिप्रायेण गम्यते-अर्थ्ययमनेनेति ॥ एवं तययमर्थशब्दोऽस्त्येव द्रव्यपदार्थकः। तद्यथा-अर्थवानयं देश इत्युच्यते यस्मिन्गावः सस्यानि च वर्तन्ते । अस्ति क्रियापदार्थको भावसाधनः-अर्थन- मर्थ इति । तद्यः क्रियापदार्थकस्तस्येदं ग्रहणम् । एवं च कृत्वाऽर्थिक- प्रत्यर्थिकावपि सिद्धौ भवतः ।। प्र.] हारस्याऽभिधास्यमानत्वात् । एवमपीति । कृतामुद्भतक्रियासाधनाभिधायित्वात् । नागच्छन् गन्तेत्यभिधीयते। तद्यः क्रियापदार्थक इति । नन्वत्रापि निरीहे न प्राप्नोति । नैष दोषः । णिनिपक्ष एव दोषस्यावतारो णिनेः कर्तरि विधानात् । क्रियां हि कुर्वन्कर्तेत्यु- च्यते। मत्वर्थीयस्तु शेषसम्बन्धे भवति । तत्र क्रियाकारकभावस्य न्यग्भावानिरीहेऽपि सिद्धः प्रत्ययः। एवं च कृत्वेति । यद्यर्थाच्चाऽसंनिहित इत्युच्यते तदेनेरेव विधानाहन्न स्यात् । अथापि णिनिनाऽर्थीति साध्यते तथाऽप्यर्थिक इति न सिध्येदिति । क्रियापदा- उ.]ऽसामर्थ्यात्समासाऽप्राप्तेः, 'धान्येने'त्यस्यैकदेशाऽन्वयाऽनौचित्याच्चेति चेन्न; हेतौ सत्त्वात् । अर्थवत्त्वे च धान्यं हेतुः । एतेन 'सापेक्षत्वादीदृशे विषये तद्धितस्यैव न प्राप्तिः, द्रव्यवाची तु न नित्यसाका इति स्पष्टमेवेति परास्तम् । एवमेव' 'धान्येन धनी'त्याद्युपपत्तिः । अर्थयतेरिति । एवञ्च करणतृतीयान्तेन 'कत करणे' इति समास इति भावः। तत्सम- र्थानीति । प्रार्थना हि-लाभानुकूलः स्फुटं लाभेच्छाव्यञ्जको व्यापारो 'देही'त्यादिशब्द- प्रयोगादिरूपः। तत्कत्तैव च णिन्यन्तार्थः। यस्तु तदकुर्वस्तत्फललामजनकक्रियान्तरमाचरति, तत्राऽपीष्यतेऽयम्प्रयोग इति न णिन्यन्तस्याऽयं प्रयोग इति भावः । एतेन 'तत्समर्थाचरण- कर्तरि 'पञ्चभिर्हलैः कृषतीति प्रयोगवदत्राऽप्ययं प्रयोगः सुलभ' इत्यपास्तम् । णिनिविग्रहरूपे 'अर्थयते' इति प्रयोगे तादृशव्यापारस्यैव प्रतीतेर्णिनन्तोऽपि तादृशार्थक एवेति तात्पर्यम् । अर्थनमर्थ इत्यत्र तु लाभेच्छार्थ इति न दोष इत्युत्तरम् । कैयटोऽप्येतत्तात्पर्यक एव । भाष्ये-सोऽभिप्रायेणेति । सोऽपीत्यर्थः। तस्यदं ग्रहणमिति । तद्धटितस्येदं ग्रहणम् । अयं प्रयोगः । धान्यार्थीति प्रयोग इत्यर्थः । एवञ्च धान्यशब्दस्य उक्तार्थकाऽर्थशब्देन समासं कृत्वा धान्यार्थशब्दादत इनिठनावितीनौ सिद्धः प्रयोगः । 'अर्थाचेति वात्तिके तु रूढत्वाड्रव्यवाचिन एव ग्रहणम् । एवञ्च क्रियावाचकादत इनिठनौ भवत एव । अत एव 'अर्थिनश्च राजानो हिरण्येने ति भाष्यप्रयोगः सङ्गच्छत इति भावः । तद्धनयन्नाह-एवञ्च कृत्वेति । यद्यर्थाच्चाऽसन्निहिते इत्युच्यत इति । अत्र वात्तिके यधुभयोरर्थशब्द- योर्ग्रहणमुच्यत इत्यर्थः । यद्वा एतदेवोच्यते ।-क्रियापदार्थकस्त्वर्थशब्दो नास्त्येवेति यद्यु- च्यत इत्यर्थः। ठन्न स्यादिति । अर्थादिनिरेव, स चाऽसन्निहित एवेत्याश्रयणादिति भावः। अथापि णिनिनेति । 'बहुलमाभीक्ष्ण्ये' इति बहुलग्रहणात्तुबन्तोपपदाऽभावेऽपीत्यर्थः । एतदुपयोगश्चिन्त्यः। न च अर्थाच्चेति वार्तिकप्रत्याख्यानमफलम्, अनिच्छोरप्यसन्निहित- १'समर्थानाचरति पा० । ।
- ५ अ.३ पा.११ आ.।१सू.] महाभाष्यम् इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्चमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ।। पादश्च द्वितीयः समाप्तः ॥ * प्राग्दिशो विभक्तिः ॥५॥३॥१॥ विभक्तित्वे किं प्रयोजनम् ? ॥ * ॥ विभक्तित्वे प्रयोजनमित्प्रतिषेधः ॥ * ॥ [विभक्तित्वे इत्प्रतिषेधः प्रयोजनम्-]-इदानीम् । 'न विभक्तौ तुस्मा' इती- प्रतिषेधः सिद्धो भवति । यद्येवं-किमोऽत्' ' प्रेप्स्थन् दीव्यंसे' 'कार्द्ध- मासा:'-अन्नापि प्राप्नोति । ॥ * ॥ तो चोक्तम् ।।* ॥ [तौ चौक्तम्] । किमुक्तम् ।। 'विभक्तौ तवर्गप्रतिषेधोऽतद्धित' इति ॥ ॥ * ॥ इदमो विभक्तिस्वरश्च ॥ * ॥ इदमो विभक्तिस्वरश्च प्रयोजनम् । इतः इह । 'इदमस्तृतीयादिर्विभक्तिरुदात्ता भवतीत्येष स्वरः सिद्धो भवति ॥ प्र.] र्थकत्वेऽत इनिठनाविति प्रत्ययद्वयं सिध्यति । मतुप्त क्रियापदार्थकादनभिधानान्न भवति । धनवाचिनोऽप्यनभिधानादिनिठनोरभावः ॥ * ॥ इति श्रीकैय्यटकृते महा- भाष्यप्रदीपे पञ्चमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥ पादश्च समाप्तः || प्राग्दिशो विभक्तिः । किं प्रयोजनमिति । प्रयोजनसामान्यविवक्षायामेकवचन- 'निर्देशः । इत्प्रतिषेध इति । अन्यथा 'मिदचोन्त्यात्पर'इति देशविध्यर्थाद्दानीमो मकारस्य 'हलन्त्य'मितीत्संज्ञा स्यात् । तौ चोक्तमिति। तवर्गस्य चोक्तमित्यर्थः । थमोरि- संज्ञापरित्राणार्थमुकारकरणमित्संज्ञायाः प्रतिषेधस्याऽनित्यत्वं ज्ञापयतीति-तद्धितपर्युदासो- ऽपि न वक्तव्यः । इत इहेति । इत इति मुखयमुदाहरणम् । अत्र हि लित्स्वरे प्राप्ते उ.] धनस्याऽर्थिशब्देनाऽभिधानार्थं तदावश्यकत्वादित्याहुः । अत एव भाष्येऽपिनाऽर्थीती. नन्तसङ्ग्रहः। नन्वेवं क्रियाशब्दान्मतुबपि स्यादत आह-मतुप्त्विति । तदेवं भाष्ये 'तदन्ता. चेति वार्तिकं प्रत्याख्यातम् । नन्वेवं धनवाचकादस्त्युपाधिकादिनिठनौ स्यातामेव, ततश्च क्रियापदार्थकाऽभावेऽपि अर्थिकः सिद्धोऽत आह-धनेति । इनिग्रहणं दृष्टान्तार्थम् । तत्र- कौण्डिन्यन्यायेनेनेरिवाऽनभिधानाहनोऽभाव इति तात्पर्यम् । अन्ये तु तक्रकौण्डिन्यन्यायस्य विधेयविषयत्वादनुवाद्योपाधिबाधे मानाऽभावाद्येननाऽप्राप्त्यभावाच्च, उभयोरप्यनभिधा- नेनाऽभाव इत्याहुः॥ [पुस्करादिभ्यो देशे] ॥ १३५ ।। * इतिश्रीनागोजीभट्टकृते भाष्यप्रदीपोयोते पञ्चमस्य द्वितीये द्वितीयमाह्निकम् * प्राग्दिशो। प्रयोजनानाम्बहूनामने वक्ष्यमाणत्वात् किम्प्रयोजनमित्येकवचनमनुपपन्न- मत आह-प्रयोजनसामान्यति । ननु फलाऽभावादेव नेत्संज्ञेत्यत आह-अन्यथेति। इदानीमिति । स्यादिति भावः । तवर्गस्येत्त्वनिषेधात्तावित्ययुक्तमत आह-तवर्गस्येति । ताविति विषयसप्तमीति भावः। ननु तद्धितप्रतिषेधवचनारम्भे गौरवमत आह-थमोरिति । 'न विभक्ता वितिसूत्रभाष्ये तु प्राग्दिशीयेष्वस्याऽप्रवृत्तावुदित्त्वं ज्ञापकम् । दानीमो मस्य 'लोपो न्यो रिति लोपेन यकारं प्रमिष्य 'इत्संज्ञा न नेत्युक्तम् । वातिकाऽनुसारेण त्वत्र १ अयं पाठो लुप्तः सम्प्रति । २ 'इत्त्वप्रतिषेधः । ३ 'प्रेप्सन्दीप्यसे पा० ॥ - ४२६ कैयट-विवरणसहितं [किंसर्वनाम- ॥७॥ त्यदादिविधयश्च ॥ त्यदादिविधयश्च प्रयोजनम् । इतः यतः यत्र कुतः कुत्र।विभक्ताविति त्यदादिविधयः सिद्धा भवन्ति ॥ [प्राग्दिशो विभक्तिः] किंसर्वनामबहुभ्योऽदयादिभ्यः ।५।३।२। ॥ * ॥ बहुग्रहणे सङ्खयाग्रहणम् ॥ * ॥ बहुग्रहणे सङ्ख्याग्रहणं कर्तव्यम् । इह मा भूत्-बहौ, बहोरिति ॥ अथ किमर्थं किम उपसङ्ख्यानं क्रियते न 'सर्वनाम्न' इत्येव सिद्धम् ? ॥ ।। * ॥ व्यादिप्रतिपेधात्किम उपसङ्ख्यानं ॥ ॥ यादिप्रतिषेधात्किम उपसङ्ख्यानं क्रियते । 'अयादिभ्य' इति प्रतिषेधे प्राप्ते किम उपसङ्ख्यानं क्रियते ॥ एतदोऽन् ।५।३।५। क्वाऽयं नकारः श्रूयते? नक्व चिच्छूयते, लोपोऽस्य भवति 'नलोपः प्राति- प्र.] विभक्तरूडिदमित्युदात्तत्वं भवति । इहेत्यत्र तु प्रत्ययस्वरेणाऽन्तोदात्तत्वं सिध्यति। ननु मध्येऽपवादा इति न्यायादनुदात्तौ सुप्पितावित्येतं स्वरं विभक्तिस्वरो बाधते, न लित्स्वर, लित्स्वर एव तु परत्वाद्विभक्तिस्वरं बाधते । नैष दोषः । 'ऊडिद'मित्येतत्सूत्रं लितीत्यत्रानु- वर्तते । तेन लिस्वरं बाधित्वा विभक्तिस्वरो भवति । तृतीयादिग्रहणेन च तृतीयामारभ्या प्राग्दिशः प्रत्यया विभक्तिसंज्ञा गृह्यन्ते । [प्राग्दिशो विभक्तिः । किं सर्वना। किम उपसङ्ख्यानमिति। उपेत्य सङ्ख्थानं, प्रतिपदं सूत्र उच्चारणमि- त्यर्थः। द्वयादिषु किंशब्दस्य पाठे प्रयोजनं,-कश्च भवांश्च काविति 'त्यदादीनां यद्यत्परं तच्छि. ष्यते' इति किमः शेषः, द्वयादिभ्यस्तु प्राक्पाठे भवतः शेषः स्यात्। [किंसर्वनामबहुभ्यो] एतदोऽन् । इह के चिदशं पठन्ति के चिदनम् । तत्रोत्तरपाठापेक्षया विचार:-क्वायं नकार इति । इत्कार्याभावादित्संज्ञायामसत्यां श्रवणेन भाव्यमिति प्रश्नः । लोपो. स्येति । नेत्संज्ञाद्वारेण लोपः, किं तहिं संपादिताऽनेकाल्व्यपदेशस्य कृतकार्यत्वाल्लक्षणा- .] प्रयोजनत्वोक्तिरिति बोध्यम् । लितीत्यत्रानुवर्तत इति । अत्र चेदमेव भाष्यं मानम् । हरदत्तस्तु-'ऊडिद'मित्यत्र 'अन्तोदात्ता दिति वर्तते, तत्र निमित्तमेव लित्स्वरो विभक्तिस्वर- स्येत्याह । तं विनाऽपि अन्तोदात्त एव इदम् शब्द इत्यन्ये । [प्राग्दिशो विभक्तिः]। किंसर्व । ननु किमः सूत्रे पाठादुपसंख्यानमित्ययुक्तमत आह-उपेत्येति । ननु- द्वयादिभ्यः पूर्वमेव किम्शब्दः कुतो न पठ्यतेऽत आह-यादिष्विति । 'पूर्वशेषोऽपि दृश्यते' इति सत्त्वात् किम्ग्रहणं चिन्त्यप्रयोजनमिति कश्चित् । भवतः शेषस्य कदा. ऽप्यदर्शनात् ॥ [ किंसर्वनामबहुभ्यो ] ॥ २ ॥ एतदोऽन् । केचिदिति । वृत्तिकृतः । अत्र द्वितीयपाठ एव सूत्रकृत्कृतः, भाष्य सम्मतेः । नन्वनुबन्धानां सर्वत्राऽश्रवणेन किमस्यैव श्रवणविचारोऽत आह-इत्कार्या- भावादिति । नन्वित्त्वाऽभावे कथं लोप उच्चारणसामर्थ्याच्चेत्यत आह-नेत्संज्ञेत्यादि। १ अयं कचिदेव दृश्यते । २ 'बहौ बहौ बहोः पा। - - ५.२ पा.३ आ.।५सू.] ॐ महाभाष्यम् पदिकान्तस्येति ॥ यदि न के चिच्छूयते किमर्थमुच्चार्यते ? ॥ अनेकालिशत्सर्व- स्येति सर्वादेशो यथा स्यात् ॥ क्रियमाणेऽपि वै नकारे सर्वादेशो न प्रामो- ति ॥ किं कारणम् ? ॥ नलोपे कृते एकाहत्वात् । इदमिह संप्रधार्य, नलोपः क्रियतां सर्वादेश इति; किमत्र कर्तव्यं ?, परत्वानलोपः॥ असिद्धो नलोपस्तस्याऽसिद्धत्वात्स देशो भवति ॥ परिगणितेषु कार्येषु नलोपोऽसिद्धो, न चेदं तत्र परिगण्यते?॥ एवं तर्हि-1|| आनुपूर्व्या सिद्धमेतत्।।* नानाऽकृते सर्वादेशे प्रातिपदिकसंज्ञा प्राप्नोति । न चाऽकृतायां प्रातिपदिक- संज्ञायां नलोपः प्रामोति, तदानुपूर्व्या सिद्धमेतत् ॥ नैतदस्ति प्रयोजनम्,-अलोन्त्यस्य विधयो भवन्तीत्यकारस्याऽकार- बचने प्रयोजनं नास्तीति कृत्वाऽन्तरेण नकारं सर्वादेशो भविष्यति ।। अस्त्यन्यदकारस्याऽकारवचने प्रयोजनम् ॥ किम् ? ॥ येऽन्येऽकारा- देशाः प्रामुवन्ति तद्वाधनार्थम् । तद्यथा-'मो राजि समः का विति मकारस्य मकारवचनसामर्थ्यादनुस्वारादयो न भवन्ति । तस्मान्नकारः कर्त्तव्यः ॥ न कर्तव्यः । क्रियते न्यास एव । अश्लिष्टनिर्देशोऽयम्-अ-अों इति । सोऽनेकाल्शित्सवस्येति सर्वादेशो भविष्यति ।। ॥ * ॥ एतद इति योगविभागः ॥ * ॥ एतद इति योगविभागः कर्तव्यः । एतद 'एत'इत्' इत्येतावादेशौ भवतो रथोः । ततः 'अन्' । अंश्च भवत्ये- प्र.न्तरेणेति भावः । क्रियमाणेऽपीति । ननु यावदेतदः स्थाने आदेशो न प्रवृत्तस्तावत् प्रातिपदिकान्तत्वाभावान्नल्लोपाऽप्रसङ्गः । प्रवृत्तिकाले वनेकाल्त्वात्सिद्धः सर्वादेशः। एवं मन्यते-स्वरूपेणार्थनार्थवत्वादप्रवृत्तोऽप्येतदः स्थाने बुद्धिस्थ इति प्रातिपदिकं भवत्येव, ततश्च नलोपे कृतेऽनेकाल्त्वाभावात्सर्वादेशो न प्राप्नोति । आनुपूर्व्या सिद्धमिति । यदुक्तं 'स्वरूपेणार्थेनार्थवत्त्वात्प्रातिपदिक’मिति, तदयुक्तम् । सर्वत्र स्वरूपप्रतिपत्ति- संभवादर्थवद्हणसामर्थ्यावयतिरिक्तबाह्यार्थग्रहणात्, अन्यथा न क्वचिन्नकारस्य श्रवणं स्यात् । नानाऽकृत इति । अर्थवतः संशाविधानात् । स्थान्यर्थेनाऽर्थवत्त्वमेष्टव्यमित्यर्थः । अकारस्याकारवचन इति। त्यदाद्यत्वं कृत्वादेशं मन्यते । बाध्यबाधकभावमनपेक्ष्यैतदुक्तम्। तदपेक्षायां हि दकारस्य स्थाने त्यदायत्वस्याऽस्य चाऽत्वस्य विशेषो नास्तीतिवक्तव्यम् । येऽन्य इति । एतच्छब्दाऽकारेण सह पररूपं लित्स्वरश्च बाध्येत । योगविभाग इति ।। उ.लक्षणान्तरं-निलोपः प्रातिपदिकान्तस्येति। ननु प्रयोगार्थ शास्त्र, तत्र यावत्स्थाने न जात- स्तावत्प्रयोगेऽनोऽभावात् कस्य प्रातिपदिकत्व मित्यत आह-एतदः स्थाने बुद्धिस्थ इति । बुद्धिविषयतया सत्त्वमिति भावः । बाह्यार्थेति । अनुकरणानामप्यनुकार्य बाह्य एवार्थ इति भावः । इदन्तु नाऽनुकरणमनुकार्याऽभावादिति तात्पर्यम् । बाध्यबाधकेति । येन ना. प्राप्तिन्यायेनेति भावः । तदपेक्षायां हीति । अकारस्य प्राप्तावकारवचने फलं नास्तीति श्नेदं वात्र्तिकं, भाष्यमेवेदमिति परे। २'अ-' इत्येव क्वचित्पाठः।३ अनेकालसर्वस्येति'पा।
ॐ कैयट-विवरणसहितं. [पञ्चम्या- तद इति ॥ केन विहिते थकारे एतद आदेश उच्यते ? ॥ ॥ * ॥ एतदश्च थम उपसङ्ख्यानम् ॥१॥ एतदश्च थम उपसङ्ख्यानं कर्तव्यम् । एतत्प्रकारमित्थम् ॥ तत्तर्हि वक्तव्यम् ?॥ न वक्तव्यम् । एतदेव ज्ञापयति-भवत्यत्र थमुरिति, यदर्य थकारादावादेशं शास्ति ॥ कुतो नु खल्वेतज्ज्ञापकादन्न थमुभविष्यति न युनयं एवाऽसावविशेषविहितस्थकारादिस्तस्मिन्नादेशः स्यात् ? ॥ इदमा थकारादि विशेषयिष्यामः-'इदमो यस्थकारादि रिति ॥ [एतदोऽन् ] ॥ पञ्चम्यास्तसिल ।५१३१७। सप्तम्यास्त्रल ।१०। इदं विचार्यते-इमे तसिलादयो विभक्तयादेशा वा स्युः, परे वेति ?॥ कथं वादेशाः स्युः, कथं वा परे ?॥ यदि 'पञ्चम्याः' 'सप्तम्या इति षष्टी तदादेशाः, अथ पञ्चमी, ततः परे। कुतः सन्देहः?| समानो निर्देशः । कश्चात्र विशेषः? /*तसिलादयो विभक्तयादेशाश्चेत्सुब्लुक्स्वरगुणदीर्घत्वैत्त्वौत्त्वस्मादिविधिप्रतिषेधः।।। तसिलादयो विभत्तयादेशाश्वेत्सुब्लुक्स्वरगुंणदीर्घत्त्वैत्त्वौत्वस्मादादिविधीनां प्रतिषेधो वक्तव्यः। सुब्लुक्-ततस्त्यः। यतस्त्यः। तत्रत्यः। यत्रत्यः। 'सुपो धातु- प्रातिपदिकयो रिति सुब्लुक्ग्रामोति । सुब्लुक् ।। स्वर-यदा तदा । अनुदात्तौ- सुप्पितावित्येष स्वरः प्राप्नोति । स्वर ।। गुण-कस्मात् । कुतः। घेर्डिंतीति गुणः प्राप्नोति । गुण ॥ दीर्घ-तस्मिन् तर्हि । 'अतो दी? यजि' 'सुपि चेति दीर्घत्वं प्राप्नोति । दीर्घ ॥ एत्वे-तेषु। तत्र । 'बहुवचने झल्ये दित्येवं प्रामोति । एत्व॥ औत्त्व-कस्मिन्कुन्न । 'इदुनयामौदच्चरित्यौत्त्वं प्राप्नोति । औत्वास्मादादिविधिः-तस्मात् ,ततः,तस्मिन् ,तत्रा 'सिङयोःस्मास्मिना विति स्मादादयः प्रामुवन्ति।॥पञ्चमीनिर्देशात्सिद्धम् ॥[पञ्चमीनिर्देशासिद्धमेतत् । सन्तु परे-||*। यदि परे समानशब्दानां प्रतिषेधः । *। यदि परे समानशब्दानां म.] अन्बाधनार्थम् । तत्र रेफादिरनद्यतने हिलन्यतरस्यामिति हिल्प्रत्ययः। अविशेष- विहित इति । प्रकारवचने थालिति भावः । इदमेति । एवं च थमुना थाल्बाध्यते ।। पञ्चम्याः। पञ्चमीनिर्देशादिति । आदेशपक्षस्य बहुदोषत्वात्प्राथम्याच पञ्चम्या- उ.] भाष्यं व्याचक्षते परे। भाष्ये-इदमो यस्थकारादिरिति । इदम इदम्शब्दमुच्चार्य विहितो यस्थकारादिरित्यर्थः । तथा च तत्सामर्थ्यादेतदस्थमुरिति वचनमनुमीयत इति भावः । नन्वेवमपि थाल्दुर्वारोऽत आह-एवञ्चेति ॥५॥ पञ्चम्यास्त । भाष्ये-कस्मिन्कुत्रेति । 'वा ह च च्छन्दसी'त्यत्र वेति योगविभागा- लोकेऽपि किमस्तसिलिति भावः । न च छान्दसमेव भाष्य उदाहृतमिति भ्रमितव्यं, छन्द- स्यापाद्यरूपाऽभावादिति कश्चित् । परे तु छान्दसमेवेदं, छन्दस्यपि न्यायविचारस्य कत्त योग्यत्वात् । अत एव छान्दसेषु शास्त्रेषु तन्तदुपाधिनिर्देशः सार्थक इत्याहुः । पञ्चमी १ 'उपसङ्ख्यानं कर्त्तव्यं, न कर्तव्यम्' पा०।२ 'एतज्ज्ञापयति पा० । ३ 'दी,त्त्वौत्त्व पा० । ४ "स्मायादि' पा०। ५ 'एत्वम्' 'औत्वं' पा०। ६ अयं पाठो लुप्तो भवेत् । ।
. ५ अ.३ पा.।१ आ.। ८ सू.] महाभाष्यम् 8 प्रतिषेधो वक्तव्यः॥ तस्मात्तस्यति यस्मात्तस्यति । पञ्चम्यन्तात्परस्य तसेस्त- सिल्भवतीति तसिल्पामोति । अनादेशे स्वार्थविज्ञानात्समानशब्दाऽप्रतिषेधः ।।७।। अनादेशे स्वार्थविज्ञानात्समानशब्दानामप्रतिषेधः ॥ अनर्थकः प्रतिषेधोऽप्रति- षेधः॥ तसिल्कस्मान्न भवति ? 'स्वार्थविज्ञानात्। पञ्चम्यन्तात्परस्यतसेःस्वार्थे वर्तमानस्य तसिला भवितव्यम् । न चान पञ्चम्यन्तात्परस्तसिःस्वार्थे वर्तते॥ तसश्च ५.३८ किमर्थं तसेस्तसिलुच्यते ? | #तसेस्तसिल्वचनं स्वरार्थम् ॥ ॥ तसेस्तसि- ल्वचनं क्रियते । किं प्रयोजनम् । 'स्वरार्थम्। 'लिति प्रत्ययात्पूर्वमुदात्तं भव- ती'त्येष स्वरो यथा स्यात् ॥ ननु चायं तसिल्तसिं बाधिष्यते ॥ न सिध्यति प्र. श्रयेण प्रत्ययाश्रयणमित्यर्थः। तस्मात्तस्यतीति । पञ्चमीनिर्देशे तसेश्चेत्यस्यायमर्थः,- पञ्चम्याः परस्य तसेस्तसिलादेशो भवतीति । तसेरिति निर्देशे चेकार उच्चारणार्थः। ततश्च धातोरपि तस्यतेः पञ्चम्याः परस्य तसिलादेशस्तद्धितादेशवत्प्रसज्यते । तद्विधानसाम- र्थ्याच्च प्रत्ययस्वरत्वेऽपि लित्स्वरप्रसङ्गः। आदेशपक्षे तु नायं दोषः, 'अपादाने चाहीयरहो'. रित्यत्राप्यादेशपक्षाश्रयणात, ततश्च पञ्चम्याः स्थाने यस्तसिस्तस्य तसिल्विधानाद्धातोः प्रसः झाभावः। स्वार्थे वर्तमानस्येति । पञ्चम्यन्तप्रकृत्यर्थ इत्यर्थः । इह स्वार्थिकैः साह. चर्यात्तसिलादेशोऽपि स्वार्थिको विज्ञायते। यदि च स्वार्थिकस्य स्थाने भवति ततः स्वार्थिको भवति । अथ वा तसेरितीकारो विवक्षितो न तूच्चारणार्थः ॥ [ पञ्चभ्यास्तसिल ] ॥ तसेच । स्वार्थमिति । ननु त्यदाद्यत्वाद्यर्थत्वाद्रूपाद्यर्थं तसिल्वचनम् । न च विभक्तयादेशपक्षाश्रयेण त्यदादिविधिसिद्धिः, आदेशपक्षस्य सदोषत्वात्परित्यागात् । एवं उ.]निर्देशात्सिद्धमिति । एतल्लब्धार्थस्य दूषणाय 'सन्तु परे' इत्यनुवादः। नन्विकारोच्चारण- सामर्थ्याद्धातोर्न भविष्यतीत्यत आह-इकार इति । प्रसङ्ग इति-कर्मणि धम्, तसि- लादेशः प्रसज्यत इत्यर्थः । 'प्रसज्येतेति वा पाठः । ननु षष्ठीपक्षेऽपि पञ्चमीस्थानिकतसि- रप्रसिद्ध इति पञ्चम्या विशेषणाऽसम्भवात्सर्वत्र प्रसङ्गस्तदवस्थ इति 'यदि परे' इति भाष्या- ऽनुपपत्तिरत आह-आदेशपक्षेत्विति । नाऽयं दोष इति । एतेन सुब्लुक्स्वरादिदोषाः सन्त्येवेति ध्वनितम् । आदेशपक्षाश्रयणादिति । अपादाने वर्तमानपक्षम्याः स्थाने तसिरित्यर्थ इति भावः। ननु तनुधातुरपि स्वस्यैवार्थे वर्ततेऽत आह-पञ्चम्यन्तेति । पञ्चम्यन्तायाः प्रकृतेरथे इत्यर्थः। ननु 'स्वार्थे'इति पदाऽभावात्स्वार्थे वर्तमानस्येत्यर्थाऽलाभो. ऽत आह-इहेति । वाक्यैकदेशन्यायेन तल्लाभ इति भावः । अथ वेति । स्वार्थे वर्तमा- नस्येत्यनेनेकारो विवक्षित इत्येव भाष्ये बोधितम्, इकारविशिष्टस्य तथात्वादिति भावः ।। तसेश्च । विभक्त्यादेशपक्षाश्रयेणेति । 'अपादाने चाहीयरहोरित्याने ति शेषः । सदोषत्वादिति । 'कुत आगच्छती'त्यादौ गुणप्रसङ्गो दोषः परत्वात्तसेबर्बाधकस्य तसिलो १ 'तस्येति' इति पा०। । . ।
। - । • कैयट-विवरणसहितं. [पर्यमिभ्याच परत्वात्तसिः प्रामोति । तसिलोऽवकाश:-ततो हीयते। ततोऽवरोहति । तसर- वकाशो-ग्रामादागच्छति नगरत आगच्छति । इहोभयं प्राप्नोति,-ततः आग- च्छति यत आगच्छतीति, परत्वात्तसिः प्राप्नोति । तस्मात्सुष्ठूच्यते-'तसे- स्तसिल्वचनं स्वरार्थ मिति ॥ [ तसेश्च ] पर्याभभ्यां च ।५।३।९। ॥ * ॥ पर्यभिभ्यां च सर्वोभयार्थे ।। * ॥ पर्यभिभ्याञ्चेति यदुच्यते तत्सर्वोभ. यार्थे द्रष्टव्यम् । यावत्सर्वतस्तावत्-परितः। यावदुभयतस्तावत्-अभितः ॥ इतराभ्योऽपि दृश्यन्ते ।५।३।१४। इह कस्मान्न भवति-सः। तौ। ते? ||भवदादिभियोंगे।।। भवदादिभियोगे इति वक्तव्यम् । के पुनर्भवदादयः ? ॥ भवान्दीर्घायुर्देवानांप्रिय आयुष्मा- निति ॥ स भवान् । तत्र भवान् । ततो भवान् ॥ तं भवन्तम् । ततो भव- न्तम् । तत्र भवन्तम् ॥ तेन भवता। तत्र भवता । ततो भवता॥ तस्मै भवते। तत्र भवते । ततो भवते ॥ तस्माद्भवतः । तत्र भवतः । ततो भवतः ॥ तस्यभ- वतः । तत्र भवतः। ततो भवतः॥ तस्मिन्भवति। तत्र भवति । ततो भवति । स दीर्घायुः । तत्र दीर्घायुः । ततो दीर्घायुः ॥ तं दीर्घायुषम् । तत्र दीर्घायुषम् । ततो दीर्घायुषम्॥ स देवानांप्रियः। तत्र देवानांप्रियः।ततो देवानांप्रियः।तं देवा- नांप्रियम् । तत्र देवानांप्रियम् । ततो देवानांप्रियम् ॥ स आयुष्मान् । तत्रायु. धमान् । तत आयुष्मान् ॥ तमायुष्मन्तम् । तत्रायुष्मन्तम्। तत आयुष्मन्तम् ।। अधुना ।५।३।१७ अधुनेति किं निपात्यते ? ॥ * ॥ इदमोऽइभावो धुना च प्रत्ययः ॥ * ॥ ईदमो वा लोपोऽधुना च प्रत्ययः ॥ * । अस्मिन्काले अधुना। [ अधुना ] । म.]तर्हि स्थान्यादेशभावः किमर्थ आश्रितः, तसिश्चेति प्रत्यय एव परत्वात्तसेर्बाधकस्य तसिलो बाधकः कर्त्तव्यः। तस्य च विभक्तिसंज्ञकत्वात्त्यदादिविधिः सिध्यतीत्याशङ्कय स्वरार्थ- मित्युक्तम् ॥ [ तसेश्व] ॥ उ.बाधक इति । परत्वात्तसिलो बाधक इत्यन्वयः। अहीयरहोरिति पर्युदासेन क्रियानिमि- त्तकत्वाश्रयणात्स बहिरङ्गः, अयन्त्वन्तरङ्ग इति तसेरयम्बाधक इत्यर्थः। अर्थकृतबहिरङ्गत्वा- श्रयणमत्र नेतीदं चिन्त्यम् । अत एव भाष्ये 'तसिलः परत्वान्तसिरित्युक्तम् । तस्मात्पूर्व- त्राऽनुक्तं लिवफलं वक्तुं 'स्वरार्थ'मित्युक्तम् । तच्च पूर्वोक्तत्यदाद्यत्वादीनामप्युपलक्षणम् ॥ पर्यभिभ्याञ्च। भाष्ये-सर्वोभयार्थेति । अभिधानस्वभावमूलकमेतत् । ओदन. म्परिषिचती'त्यादौ वावचनाऽनुवृत्तेः पक्षे तसिलभावो बोध्यः॥ [पर्यभिभ्याञ्च ] ॥ १ इदं भाष्यमिति केचित् । वार्तिकमिति तु परे। २ 'इदानीमिति' इति पा०। । ।
५.३पा.१ आ.। १८सू.] महाभाष्यम् दानी च ।५।३।१८। इदानीम्, इदमस्तृतीयादिविभक्तरुदात्ता भवतीत्येप स्वरः प्रामोति । ॥ * ॥ दानामिति निपातनात्स्वरसिद्धिः ॥ दानीमिति निपातनात्स्वरसिद्धि- भविष्यति । आधुदात्तनिपातनं करिष्यते, स निपातनस्वरो विभक्तिस्वरस्य बाधको भविष्यति ॥ * ॥ उक्तं वा ॥ * ॥ [उक्तं वा] ॥ किमुक्तम् ? ॥ * ॥ आदौ सिद्धमिति ।। * ॥ [दानीञ्च] ॥ तदो दा च १५॥३॥१९॥ ॥ * ॥ तदो दावचनमनर्थक विहितत्वात् ।। * ॥ तदो दावचनमनर्थकम् ।। किं कारणम् ? ॥ 'विहितत्वात् । विहितोऽत्र दाप्रत्ययः-'सवैकान्यक्रियत्तदः काले देति। [तदो दा च] ॥ तयोहिलौ च च्छन्दसि ।५।३।२०। ॥ * ॥ तयोरिति प्रातिपदिकनिर्देशः ॥ * ॥ तयोरिति प्रातिपदिकनिर्देशो- ऽन्त्र द्रष्टव्यः । द्वेष्यं विजानीयायोगयोर्वा प्रत्यययोर्वेति । तदाचार्यः सुहृद्भूत्वा- ऽन्वाचष्टे-'तयोरिति प्रातिपदिकनिर्देश'इति ।[तयोहिलौच ] प्र.]दानीम् । के चिदिदानीमिति सूत्रं पठन्ति । अपरे तु-दानी चेति । एष स्वर इति। 'अलोन्त्यस्येति वचनादन्त्यस्योदात्तत्वं प्राप्नोति। आदौसिद्धमितीति। आदेः परस्येति- वचनात्। तदो। दावचनमिति । सूत्रकारेण त्वदाप्रत्ययः कृत इत्याहुः। स्वरे च विशेषः । अदाप्रत्यये तदाशब्द आधुदात्तो भवति, दाप्रत्यये त्वन्तोदात्तः। [तदो दाच ] ॥ तयो। योगयोर्वेति । तत्र पूर्वयोर्योगयोर्विषये दाहिलौ भवतः, चशब्दाद्योग- द्वयविहितौ प्रत्ययाविति सूत्रार्थः स्यात्। तत्र यदि यथासङ्ख्यमाश्रीयते तदा इदमश्छन्दसि इदा इदानीमिति रूपद्वयमेव स्यान्न त्वधुना एतहीति । विशेषविहिताभ्यां छन्दोविषयाभ्यां दादानीभ्यां हिलधुनाप्रत्यययोधिप्रसङ्गात् । तदस्तु तदानीं तदातहीतिरूपत्रयं सिध्यत्येव । अथापि यथासङ्खचानाश्रयणादिदमो हिल्विधीयते तथाप्यधुनेति छन्दसि न स्यादेव। अथ तयोरिति प्रत्ययपरामर्शस्तयोः पूर्वसूत्रविहितयोविषये दाहिलौ भवतस्तदानन्तर्यात्तद एव दार्हिलौ स्यातामिति इदम इदा इति न सिध्येत् । प्रातिपदिकपरामर्श तु चकारेण यथा- प्राप्त्यभ्यनुज्ञाने न कश्चिदोषः । [तयोहिलो च] ॥ उ.] दानीञ्च । अन्ये विति । अयमेव पाठो 'न विभक्ता विति सूत्रस्थभाष्यसंमतः । ननु तेनाऽप्याद्युदात्तत्वात्को भेदोऽत आह-अलोन्त्यस्येतीति। [ दानीञ्च ] ॥१८॥ तदो दा । इत्याहुरिति । अत्राऽरुचिबीजं भाष्यविरोधः [तदो दा च ] ॥१९॥ तयोहि । योगयोः प्रत्यययोर्वेत्यर्थे दोषं दर्शयति-तत्रेति । हिलधुनाप्रत्यययो- रिति । अनद्यतने हिल: प्राप्तिः । [तयोहिलौ च ] ॥ २० ॥ १ 'इदानीमिति' इति पा० । २ अनुदात्तस्य चेति ६।१।१६१ सूत्रे वार्तिककृतोक्तम् । । । ।
४३२ कैयट-विवरणसहितं [सधः परुत्- सद्यःपरुत्परायैषमःपरेधव्यद्यपूर्वेधुरन्येधुरन्यतरेधुरितरेधुरपरेधुरध- रेधुरुभयेथुरुत्तरेयुः ।।३।२२॥ सद्य इति किं निपात्यते ? ॥ * ॥ समानस्य सभावो यश्चाहनि ॥ * ॥ समा. नस्य सभावो निपात्यते यश्च प्रत्ययोऽहन्यभिधेये । समानेऽहनि सद्यः ।। परुत्परारीति किं निपात्यते ? | पूर्वपूर्वतरयोः परभाव उदारी च संवत्सरे ॥ * ॥ पूर्वपूर्वतरयोः परभावो निपात्यते उदारी च प्रत्ययौ संवत्सरे- ऽभिधेये । पूर्वस्मिन्संवत्सरे परुत् । पूर्वतरे वत्सरे परारि ॥ ऐषम इति किं निपात्यते ? ॥ ॥ * ॥ इदम: समसण् ॥ * ॥ इदमः समसण्प्रत्ययो निपात्यते संवत्सरेऽभिधेये । अस्मिन्संवत्सरे ऐषमः॥ परेद्य- वीति किं निपात्यते ? ॥ ॥ * ॥ परस्मादेवव्यहनि ॥ * ॥ परस्मादेविप्रत्ययो निपात्यतेऽहन्यभिधेये । परस्मिनहनि परेद्यवि ॥ अद्येति किं निपात्यते ? ॥ 1} * ॥ इदमोऽइभावो द्यश्च ॥१॥ इदमोऽभावो निपात्यते द्यश्च प्रत्ययोऽहन्यभिधे. ये। अस्मिन्नहनि अद्य ॥ पूर्वेधुरन्येधुरन्यतरेझुरितरेयुरपरेारधरेधुरुभयेधुरुत्त- रेरिति किं निपात्यते ? ॥ * ॥ पूर्वान्यान्यतरेतरापराधरीभयोत्तरेभ्य एद्युसेच ॥ * ॥ पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एधुसुच्प्रत्ययो निपात्यतेऽहन्यभिधेये। पूर्वस्मिन्नहनि पूर्वेयुः । अन्यस्मिन्नहनि अन्येधुः । अन्यतरस्मिन्नहनि अन्य तरेयः । इतरस्मिन्नहनि इतरेयुः । अपरस्मिन्नहनि अपरेयुः। अधरस्मिन्न- हनि अधरेयुः । उभयोरोः-उभयेयुः। उत्तरस्मिन्नहनि उत्तरेयुः ।।। ग्रुश्चो- भयात् ॥ * ॥ उभयशब्दाद् धुश्च वक्तव्यः । तस्मान्मनुष्येभ्ये उभय द्यः॥ दिक्शब्दभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिनदेशकालेष्वस्तातिः।५।३।२७ प्र.] दिक्शब्दे । दिशा शब्दा दिक्शब्दाः, ये रूज्या दिशो वाचकाः पूर्वादयस्ते गृह्यन्ते । न त्वैन्द्रयादयो यौगिकाः, तत्र दिश उपलक्षणत्वेनोपादानादिहापि प्राप्नोति-पूर्वस्मिन्गुरौ वसतीति । अत्र हि देशसम्बन्धात्कालसम्बन्धाद्वा पूर्वशब्दो गुरौ वर्तते, तदर्थ विशेषणोपादानं 'दिग्देशकाले विति। विभक्तीनामुपाधीनां च साम्येऽपि यथासङ्गथाऽभावः,तदर्थं स्वरितत्वा- ऽप्रतिज्ञानात् । तत्र यथा पूर्वादयः स्वभावादिशि वर्तन्ते तथा देशकालयोरपि । यथा काले वर्तमाना दिशं नापेक्षन्ते तथा देशेऽपि दिगनपेक्षाः। यद्यपि भिन्नार्थवृत्तित्वादिन्ना एव उ.] दिक्शब्देभ्यः । स्पष्टप्रतिपत्तये उत्तरचोद्यावधारणाय च सूत्रार्थं निरूपयति-दिशां शब्दा इति । शब्दग्रहणसामर्थ्यलभ्यमाह-ये रूढयेति । दिश उपलक्षणेल्वेनेति अत एव दिक्देशकालेविति तद्विशेषणम् । तथा देशेऽपीति । वक्तृसंमुखदेशत्वादे- स्तत्प्रवृत्तिनिमित्तत्वत् । न च दिशि पूर्वादयष्टावन्ता देशकालयोस्त्वदन्ता इति देशकाल- १ 'सामान्यस्य'पाग २ 'एधसुच' पा० ३'उभयस्मिन्नहनि पा०। ४ 'मनुष्य पा० । - - । - । - ५अ.।३ पा.१ आ.२७ सू.] महाभाष्यम् ४३३ इह कस्मान भवत्ति-'पूर्वस्मिन्देशे वसती'ति?॥ नैष देशो देशविशेषणमेतत् ॥ [ दिक्शन्देभ्यः सप्तमी ] ॥ अ.]पूर्वादयो दिन्देशकालेषु तथापि तत्त्वव्यपदेशनिबन्धनसादृश्याश्रयो दिक्शब्देभ्य इति ब्यप- देशः । अनिर्दिष्टार्थत्वाच्च स्वार्थेऽयं प्रत्ययः । एवं स्थिते चोदकः पृच्छति-इह कस्मान भवति पूर्वस्मिन्देशे वसतीति । पूर्व शब्दस्य दिक्छब्दत्वाद्देशवृत्तित्वाच्च प्रसङ्गः । आचार्य आह-नैष देशो देशविशेषणमेतदिति । अयमर्थः,-विशेषणविशेष्ययोः काण- खञ्जवकामचाराद्यदा पूर्वोऽर्थो विशेष्यत्वेन प्रक्रम्यते देशो विशेषणत्वेन तदा प्रत्ययो भवति। वृत्तौ विशेष्यं प्राधान्याविशेषणमन्तर्भावयितुं शक्नोति। सत्यपि चान्तर्भावे दिग्देशकाला- नामविशेषेणान्तर्भावाद्विशेषाभिव्यक्तये देशादिशब्दप्रयोगो भवति,-'पुरस्तादिश आगतो' 'देशात्कालाद्वेति । यदातु देशो विशेष्यत्वेन प्रक्रम्यते पूर्वोऽर्थो विशेषणत्वेन तदा प्रत्ययाभावः। दिग्देशकालेष्वित्यनेन ह्युपाधिभावो दिगादीनां समर्थितो न तु प्राधान्यं, नापि वृत्तौ गुणः प्रधानमन्तर्भावयितुं शक्नोति । नैष देश इति। नैष पूर्वार्थो देशेन विशेष्यत इत्यर्थः । यो हि देशेन विशेष्यमाणो देशो भवति ततः प्रत्ययो न तु विशेषणादित्यर्थः । अन्ये त्वाहु:- अवध्यपेक्षार्थाभिधायिभ्यः पूर्वादिभ्यः प्रत्ययेन भवितव्यम् , इह तु पूर्वदेशेऽवधिनिरपेक्ष एव पूर्वशब्दः प्रयुज्यते । तथा हि-पूर्वदेशाद्दक्षिणापथं गच्छन्कुतश्चागतस्त्वमिति पृष्टः 'पूर्व- देशादागतोऽहमिति प्रतिवक्ति। प्रत्यागच्छंश्च दक्षिणापथा दिति। तत्र 'नैष देश' इत्यस्यायमों- नायमवधिमत्त्वेन देश उपात्तः, किं तर्हि ? अवधिनिरपेक्षदेशस्यैतद्विशेषणम् । वास्तवी तु व्यवस्था विद्यत इति सर्वनामसंशा प्रवर्तत एव । [दिक्शब्देभ्यः ससमीपञ्चमी ] | उ.वृत्त्योः कथं दिक्शब्दत्वेन व्यवहार इति वाच्यं, टापः स्वार्थिकत्वेन द्योतकतया वाचकाये भेदाभावान्न दोषः । देशकालाभ्यां व्यपदेशस्तु न कृतो, गौरवापत्तेः। तत्वव्यपदेशेति । तत्त्वव्यपदेश:-प्रत्यभिशाप्रत्ययः, तस्य निबन्धनं यत्सादृश्यं तदाश्रयस्तनिमित्तक इत्यर्थः। समानाधिकरणविशेषणत्वेन देशार्थकत्वमस्त्येवेत्यत आह-विशेषणविशेष्य- योरिति । अत्रेदं चिन्त्य,-गुणशब्दयोः क्रियाशब्दयोर्विशेषणविशेष्यभावे कामचारेऽपि गुण- द्रव्यशब्दयोस्तत्त्वे कामचाराऽभावः । 'पुरस्ताद्देशे इदं कृत'मित्यादौ देशेस्य विशेषणत्वाऽ- ननुभवाच्च, बहुव्रीह्यादौ प्रधानान्तर्भावणाऽपि वृत्तेर्दर्शनाच्च । तस्मादयमत्र भाष्यार्थ:-'नेष देश:-न देशत्वेन देशबोधकः, किन्तु देशविशेषणस्य पूर्वार्जितत्ववतः पूर्वाऽध्युषितत्ववतो वा बोधकः । ईदृशे चार्थे 'पुरस्तात्'शब्दस्याऽसाधुत्वं स्पष्टमेवेति । ननु वृत्तौ देशाधन्तर्भावे 'पुरस्ताद्देश' इति प्रयोगो न स्यादत आह-सत्यपि चेति । देशोभवतीति । देशवाचको भवतीत्यर्थः। अन्ये विति मतन्त्वक्षरस्वारस्याऽननुगुणत्वादरुचिग्रस्तमिति स्पष्टमेव । किच वास्तवव्यवस्थामादायोपात्तव्यवस्थापदकं सर्वनामत्वं भवति, अनुपात्तव्यवस्थापंदकः प्रत्ययो न प्रवर्तत इत्यत्र मानाऽभावः। [ दिवशब्देभ्यः ] ॥२७॥ १'दक्षिणदेशात्' पा० । २ 'देशस्येति कचिन्नास्ति। ३ 'व्यवस्थापादक' पा०। - ।
१३४ कैयट-विवरणसहित [ दक्षिणोत्तराभ्याम- .. दक्षिणोत्तराभ्यामतसुच् ।५।३।२८। किमर्थमतसुच्क्रियते न तसुरेव क्रियेत ?। तत्रायमप्यर्थः-स्वरार्थश्वकारो न कर्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम् ॥ का रूपसिद्धिः-दक्षिणतो ग्रामस्थ, उत्तरतो ग्रामस्य ?॥ दक्षिणोत्तरशब्दावकारान्तौ तसुशब्दः प्रत्ययः ।। भवेत्सिद्धं यदाकारान्तौ, यदा तु खल्वाकारान्तौ तदान सिध्यति ॥ तदापि सिद्धम् ॥ कथम् ? ॥ पुंवद्भावेन ॥ कथं पुंवद्भावः ? ॥ 'तसिलादिष्वाकृत्व. सुच'इति ॥ न सिध्यति-भाषितपुंस्कस्य पुंवद्भावो, न चैतौ भाषितपुंस्कौ ॥ ननु च भो दक्षिणशब्द उत्तरशब्दश्च पुंसि भाष्येते ॥ 'समानायामाकृती यद्भाषितपुंस्क'मित्युच्यते आकृत्यन्तरे चैतौ भाषितपुंस्को, दक्षिणोत्तरेति दिक्छब्दो, दक्षिण उत्तर इति व्यवस्थाशब्दौ ॥ यदि पुनर्दिक्शब्दा अपि अ.] दक्षि । आकृत्यन्तर इति। अन्या दिगाकृतिरन्या व्यवस्थाकृतिरिति भावः । दिशि वर्तमानाः पूर्वादयो निमित्तान्तरनिरपेक्षाः। देशकालयोस्तु व्यवस्थापेक्षाः । यदि पुनरिति। सर्वत्र व्यवस्थाशब्दाः सन्विति भावः । व्यवस्था-मर्यादेति के चिदाहुः। एवं तु-'उत्तराः कुरव' इति संज्ञायां मर्यादानपेक्षणात्कुरूनुत्तरेणाप्यासीनानामुत्तराः कुरव इति प्रयोगा- व्यवस्थाभावादसंज्ञायामिति प्रतिषेधानर्थक्यप्रसङ्गाद्यावद्रव्यमनपायो व्यवस्थेत्यपरे मन्यन्ते । दक्षिणा गाथका इति, सत्स्वेव गाथकेषु प्रावीण्यलक्षणस्य दाक्षिण्यस्य कादाचित्कस्वा. व्यवस्थाऽभावो, दिग्देशकालसंज्ञासु तु व्यवस्थासद्भावः। मर्यादालक्षणव्यवस्थावादिनस्तु. उ.दक्षिणोत्तरा।भाष्ये-आकारान्ताविति। यदा दिग्वाचकावित्यर्थः। अन्येति। दिशि वाच्यायामन्या आकृतिः, व्यवस्थाविषयदेशादौ वाच्येऽन्या आकृतिः प्रवृत्तिनिमित्तमित्यर्थः आकृतिभेदमेव दर्शयति-दिशीत्यादि। अवधिसापेक्षत्वाऽसापेक्षत्वाभ्यामाकृतिभेदो गम्यत इत्यर्थः । निमित्तान्तरनिरपेक्षा इति । अबधिनिरपेक्षप्रवृत्तिनिमित्तकाः, प्रवृत्तिनिमित्ता- ऽभाव एव वेत्यर्थः । व्यवस्थाऽपेक्षा इति । अवधिसापेक्षप्रवृत्तिनिमित्ता इत्यर्थः। तत्त- दवधिकोदयाचलसन्निहितदेशत्वादिसमनियतं पूर्वदेशत्वादि दिग्बाचकेषु शब्द एव प्रवृत्ति- निमित्तम् , तदभाक एव वा 'तस्य भाव' इति सूत्रोक्तरीत्या डिथादिशब्देष्विव, अन्यत्रत्व- वधिसाकाङ्क्षधर्म इति तात्पर्यम् । भाष्ये-दिकशब्दावित्यस्य-दिग्बोधकपूर्वादिशब्दप्रवृत्ति- निमित्तका वित्यर्थः । सर्वत्र व्यवस्थेति । देशे इव दिश्यपि पृथ्वीमध्याऽवधिकोदयाचल- सन्निहितत्वादिकमेव प्रवृत्तिनिमित्तमित्यभिमानः। मर्यादा-अवधिः । यावद्रव्यमिति । द्रव्योत्पत्तिक्षणमारभ्य नाशपर्यन्तं यत्र पूर्वादिव्यवहारानपाय इति हि तदर्थः। दिग्देश- कालसंज्ञासु स्विति । तद्वाचकेष्वित्यर्थः । इदमपि 'अधरे ताम्बूलराग' इत्यादावतिव्याप्तं, देशकालयोरव्याप्तश्च, तद्धनयन्पुनः प्रागुक्तमेव लक्षणमाश्रयति-मर्यादालक्षणेति । मेरु १ 'तसुजेव क्रियते' 'तसुजेव क्रियेत' 'तनुरेवोच्यते' पा० । २ 'तःशब्दश्च' पा० । ३ 'यदा आकारान्तौ' पा० । ४ दक्षिणाशब्द उत्तराशब्दश्चेत्यर्थः । । , । -- - ६अ।३ पा. १ आ.।२८ सू. महाभाष्यम् व्यवस्थाशब्दाः स्युः॥ कथं यानि दिगपदिष्टानि कार्याणि? दिशो यदा व्यवस्था वक्ष्यन्ति ॥ यदि तर्हि यो यो दिशि वर्तते स स दिक्शब्दो,रमणीयादिक्क- तिप्रसङ्गो भवति-रमणीया दिक,शोभना दिगिति । अथ मतमेवत्-'दिशि दृष्टः दिग्दृष्टः, दिग्दृष्टः शब्दो दिक्शब्द इति, दिशं यो न ब्यभिचरति, न रमणी- म.] उत्तराः कुरव इत्यत्रापि मेरुं जम्बूद्वीपं वाऽपेक्ष्योत्तरत्वविज्ञानात्प्रयोगकाले तु निरूद्ध- ल्वादयवहारस्य प्रयोक्तृभिरनपेक्ष्यमाणापि वस्तुतो व्यवस्थाऽस्तीति मन्यन्ते। अन्ये तु-परस्परापेक्षात्मस्थितिळवस्थेत्याहुः । कथं यानीति। दिक्शब्देभ्यः सप्तमी'त्यादिविहितानि । व्यवस्थाशब्दत्वे हि दिश उपलक्षणत्वं न स्यात्तस्या निमित्तत्वाभावादिति भावः । दिशो यदेति । निमित्तवतोऽप्यर्थ- स्योपलक्षणत्वात् । तथा च सङ्खथाशब्दाः कालवृत्तयः कालशब्दत्वात्कालाधिकारविहित- प्रत्ययभाजः,-पष्टिबर्षाणि भूतः षष्टिक इति भावः । एतत्पक्षाश्रयेऽतिप्रसङ्गमाह-यदि तहीति । रमणीयादयो गुणक्रियानिमित्ता दिशि वर्तमाना दिक्शब्देन व्यपदिश्येरन्नित्यर्थः । दिशंयोन व्यभिचरतीति । व्यवस्थानिमित्तो यो न भवति, स्वभावत एव यो दिशि उ.]मेरुं जम्बूद्वीपं वेति । ये केचन परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा'इति श्रुति- विरुद्धमेतत् । नन्वेवं तत्प्रयोगोऽपि स्यादत आह-निरूढत्वाम्यवहारस्येति । परस्परेति। यावत्सुमेरुव्यवहारमेव पूर्वादिव्यवहारः, सुमेरुस्थितिपर्यन्तमेवोत्तराः कुरवः, दक्षिणा दिगि- ल्यादिव्यवहारा इति भावः। आत्मा-व्यवहारः। एवं यावद्दिग्व्यवहारमेव सुमेरुव्यवहार इति मन्यन्ते । देशादिवाचकेषु कथमस्योपपत्तिरिति चिन्त्यम् । इदमेवाऽत्राऽचिनीजम् । व्यवस्थाशब्दत्वे हीति। दिक्शब्दानामपि व्यवस्थाऽपेक्षप्रवृत्तिनिमित्तकत्वे इत्यर्थः । अयम्भावः,-प्रवृत्तिनिमित्तमादाय हि तत्तच्छब्दत्वव्यवहारः। यथा जातिशब्दो गुणशब्द इत्यादौ। एवश्व 'दिक्शब्दत्व'मित्यस्य 'दिगुपलक्षितः शब्द' इत्यर्थो वाच्यः, स च न सम्भवति, तदेवाह-उपलक्षणत्वं न स्यादिति । तत्र हेतुमाह-निमित्तत्वाऽभावादिति । प्रवृत्तिनिमित्तत्वाऽभावादित्यर्थः। प्रवृत्तिनिमित्तस्य हि शब्दोपलक्षणत्वं दृष्टम् । एवम व्यवस्थाशब्दत्वे दिक्शब्दत्वाऽभावात्तानि कार्याणि न स्युरिति भावः। भाष्ये-दिशो यदा च्यवस्थां वक्ष्यन्तीति । आकाशवदेकस्यैव दिक्पदार्थस्य व्यवस्थामौपाधिक भेदं यदा वक्ष्यन्तीत्यर्थः । उपाधिश्च मध्याह्नसूर्यसंयोगिदेद्यावधिकोदयाचलाऽस्ताचलसन्निहितदेशता- कालिकसूर्यसम्मुखयावद्देशतात्कालिकतत्पृष्ठस्थयावद्देश इति वदन्ति। मध्याह्ने सूर्यस्योदा- खत्वात्। एवञ्च तत्राऽपि उदयाचलसन्निहितत्वादिकमेव प्रवृत्तिनिमित्तम्, अवधिः परम्पृथिवी- मध्यमेकमेवेति समानायामाकृतौ माषितपुंस्कत्वमक्षतमेव । एवञ्च विशेष्यतया दिग्बोधक- शब्दत्वमेव दिक्शब्दत्वमिति भावः । तदेवाह-निमित्तवतोऽपीति । विशेष्यभूतस्या- ऽपीत्यर्थः। ननु व्यवस्थाविषयप्रवृत्तिनिमित्तकस्यापि टाबन्तस्य दिश्येव वृत्तस्तस्यापि दिग्यभिचाराभावात्-'पुंकद्भावस्तु न सिध्यती'त्यग्रिमभाष्यमसङ्गतमत आह-व्यवस्था- १ 'दिगुपदिष्टा' पा०। २ 'दिक, अत्रापि प्राप्नोति' पा० ।
। . । । .. कैयट-विवरणसहित [दक्षिणोत्तराभ्या- यादिष्वतिप्रसङ्गो भवति॥ पुंवद्रावस्तु न प्रामोति ॥ एवं तर्हि [10 सर्वनाम्नो- वृत्तिमात्रे पुंवद्भावो देक्षिणोत्तरपूर्वार्थम् ॥ * ॥] सर्वनानो वृत्तिमात्रे पुंवद्भावो वक्तव्यः । दक्षिणोत्तरपूर्वाणामित्येवमर्थम् ॥ विशेषणार्थस्तहि ॥ व विशेषणार्थे- नार्थः ?॥ 'पष्टयतसर्थप्रत्ययेने ति । षष्ठी तसर्थप्रत्ययेने त्युच्यमाने इहापि प्रवर्तत इत्यर्थःादिशि दृष्ट इत्यर्थप्रदर्शनं, दिशा शब्द इति तु षष्ठीसमासः।स्वरूपव्यतिरिक्त- प्रवृत्तिनिमित्तनिरपेक्षो दिशो यो वाचकः पूर्वादिशब्दः स दिक्शब्द आश्रीयते शब्दग्रहणात् , अन्यथा 'दिग्भ्य' इत्येव ब्रूयादित्यर्थः । यद्येवं 'दिशः पूर्वादीनि नामधेयानी'त्यसंज्ञायामिति सर्वनामसंज्ञानिषेधात्पूर्वस्यां दिशि वसतीत्यादि न सिध्यति । पौरुषेयसंज्ञाश्रयणादिह च तदभावाददोषः । पुंचनावस्त्विति । दिशि वर्तमानानां प्रवृत्तिनिमित्तानपेक्षणात्समा- नायामाकृतौ भाषितपुंस्कत्वाभावात् । सर्वनाम्न इति । यद्यपि दिशि वर्तमानानां व्यवस्था न प्रवृत्तिनिमित्तं तथापि वास्तवी व्यवस्था विद्यत इति सर्वनामसंज्ञायाः प्रवर्तनात् । तदेवं. 'व्यवस्थायामिति विषयो निर्दिश्यतेन तु प्रवृत्तिनिमित्तं । 'सर्वनाम्न' इत्येतच्चावश्यं कर्तव्य-- भित्याह-दक्षिणोत्तरपूर्वाणामिति । अयं समानाकृतित्वानपेक्षः पुंवद्धावः। दिग्वाचिनां स्वयं द्वन्द्वः । वृत्तिमात्र इति। तद्धितवृत्तिः समासवृत्तिश्च । ततो प्रामादिति । उ.] निमित्त इति । स्वभावत एवेति । दिगतिरिक्तप्रवृत्तिनिमित्तभूतार्थाऽनपे- क्षयेत्यर्थः। एवञ्च 'दिशं यो न व्यभिचरतीति भाष्यस्य-दिगतिरिक्तम) प्रवृत्तिनिमि- तत्वेनाऽपि यो नाश्रयत इत्यर्थः। दिशि दृष्ट इति भाष्यस्य-दिशि रून्या दृष्ट इत्यर्थः । तदाह-स्वरूपव्यतिरिक्तति। स्वरूपं-वाचकशब्दस्वरूपम् । यद्वा-स्वरूपं-वाच्य- दिक्स्वरूपम् । तस्यैव विषयताद्वयेन भानमिति बोध्यम् । पौरुषेयेति । दिक्षु त्वैश्वरः सङ्कत इति भावः । अत एव 'विश्वेषां देवाना'मिति सिद्धम् । एवञ्च दिग्वाचकानां ब्यवस्थाऽपेक्षप्रवृत्तिनिमित्तकत्वाऽभाव इति स्थितम् । नन्वेषां व्यवस्थाप्रवृत्तिनिमित्त- कत्वेऽपि 'दिशमेव यो विशेष्यतयाऽऽह स दिक्शब्द' इत्याश्रयणान्न रमणीयादिध्व. तिप्रसङ्गः, पुंवत्त्वस्य च सिद्धिरिति चेन्न; अतिरिक्तार्थरूपप्रवृत्तिनिमित्तप्रकारकबोधाऽननु- भवेन तथा वक्तुमशक्यमिति भाष्याशयात् । किश्च तादृशप्रवृत्तिनिमित्तमाश्रित्य देशकाल- योरपि बोधात्त्वदुक्ताओं वक्तुमशक्यः। मम तु स्वरूपव्यतिरिक्तप्रवृत्तिनिमित्तनिरपेक्षो दिग्बोधको दिक्शब्दः । न हि तथा देशादिबोधः, किन्तु प्रवृत्तिनिमित्तान्तरसापेक्ष एवेति न दोषः। प्रवृत्तिनिमित्ताऽनपेक्षणादिति । दिग्व्यतिरिक्तार्थरूपप्रवृत्तिनिमित्तानपेक्षणा दित्यर्थः । व्यवस्था नेति । व्यवस्थासापेक्ष न प्रवृत्तिनिमित्तमित्यर्थः । तथापि वास्त.. वीति । पृथ्वीमध्यभागादुदयाचलपर्यन्तदेशरूपोपाध्यद्यवच्छिन्नायां दिशि रूढिस्वीकारा- दित्यर्थः । तादृशोपाधिविशिष्टाया दिशो बोधात्तदन्तर्गततया व्यवस्थाऽस्त्येवेति भावः । न तुप्रवृत्तिनिमित्तमिति । व्यवस्थाऽपेक्षप्रवृत्तिनिमित्ते सतीति नार्थ इति भावः । ननु भाषितपुंस्कत्वाऽभावेऽयमपि पुंवद्भावः कथमत आह-अयमिति । तत्र बीजं दर्शयति- दिग्वाचिनान्विति । ननु 'ततो ग्रामा'दित्यस्य 'आगच्छती' त्यादावन्वयेऽपादानत्वात्पञ्चमी १ अयमंशः कचिदपि सम्प्रति न दृश्यते । २'विशेषणार्थ पा०। वात्तिकमिदमित्यन्ये।। ।
। । ५.॥३पा.। १आ.।३१सू.] ॐ महाभाष्यम् स्यात्-ततो ग्रामात् । यतो प्रामादिति ॥ [ दक्षिणोत्तराभ्याम् ] । उपर्युपरिष्टात् ॥५॥३॥३१॥ उपर्युपरिष्टादिति किं निपात्यते ?liall ऊर्ध्वस्योपभावो रिल्-रिष्टातिलौ च ।। ऊर्ध्वस्योपभावो रिल-रिष्टातिलौ च प्रत्ययौ निपात्यते । उपरि । उपरिष्टात् ।। पश्चात् ।५।३।३२। पश्चादिति किं निपात्यते ? ॥ ॥ * ॥ अपरस्य पश्चभाव आतिश्च प्रत्ययः ॥ ॥ अपरस्य पश्चभावो निपात्यते, आतिश्च प्रत्ययः। पश्चात् ॥ ॥ दिक्पूर्वपदस्य च ॥ * ॥ दिक्पूर्वपदस्याऽपरस्य पश्वभावो वक्तव्य आतिश्च प्रत्ययः । दक्षिण- पश्चात् । उत्तरपश्चात् ॥ * ॥ अर्घोत्तरपदस्य च समासे ॥ * ॥ अर्होत्तरपदस्य च -समासे-अपरस्य पश्चभावो वक्तव्यः । दक्षिणपश्चाद्धः । उत्तरपश्चाईः ॥ 1*1। अर्द्ध च ॥ अर्दै च परतोऽपरस्य पश्चभावो वक्तव्यः । पञ्चाईः॥ [पश्चात् ]। एनबन्यतरस्यामदूरे पञ्चम्याः ।५।३॥३५॥ ।। * ॥ अपञ्चम्या इति प्रागसः ॥ * ।। अपञ्चम्या इति यदुच्यते प्रागसस्तद्रष्ट व्यम् । द्वेष्यं विजानीयात्-अविशेषेणेत उत्तरमपञ्चम्या इति; तदाचार्यः सुहृद्भूत्वाऽन्वाचष्टे-अपञ्चम्या इति प्रोगसरिति ॥ [एनबन्यतरस्यामदूरे ] ॥ दक्षिणादाच् ।५।३॥३६॥ किमर्थश्चकारः ? ॥ स्वरार्थः । 'चितोऽन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । एकाजयं, तत्र नार्थः स्वरार्थेन चकारेणाs- नुबन्धेन, प्रत्ययस्वरेणैव सिद्धम् ॥ विशेषणार्थस्तहि ॥ व विशेषणार्थेनार्थः ।। 'अन्यारादितरर्ते दिक्शब्दाञ्चत्तरपदाजाहियुक्त' ॥ [ दक्षिणादाच् ] । प्र.] अन्यादियोगे पञ्चमी बाधित्वा षष्ठी स्यात् । यदा ग्रामस्यापादानत्वं तदोपपदविभक्तः कारकविभक्तिबलीयसीति न्यायादप्रसङ्गः षष्ठयाः । [दक्षिणोत्तराभ्यामतसुच्] ॥ दक्षिणादा। विशेषणार्थइति।वाक्यस्मरणयोर्य आकारोननुबन्धकस्तब्यावृत्तय इत्यर्थः।। उ.सिद्धा, न च तदा षष्ठयाः प्रसङ्गः, पञ्चम्याः कारकविभक्तित्वादत आह-अन्यादीति। पश्चात् । भाष्ये-अपरस्येति । लिङ्गविशिष्टपरिभाषयाऽपराशम्दस्याऽपि । दक्षिणा- पश्चादिति । दक्षिणाया अपरस्याश्चाऽन्तरालं दिगिति विग्रहः। तस्यामित्यातिप्रत्ययः । . समासे इति । 'दिग्वाचकै रिति शेषः । अर्द्ध चेति । 'विनाऽपि दिग्वाचकपूर्वपद'- मिति शेषः ॥ [ पश्चात् ] ॥ ३२ ॥ दक्षिणादा। वाक्येत्यादि । यद्यपि स आकारो न प्रत्ययस्तथाप्यन्यादिसाहचर्याद- प्रत्ययस्य तस्यैव ग्रहणापत्तिरिति भावः ॥ [ दक्षिणादाच ॥ ३६ ॥ १ 'आच्च प्रत्ययः' पा०।२ अयमंशः क्वचिन्नास्ति ।३ 'प्रागसे:' पा० । ४ । 'चकार: स्वरार्थः 'प्रत्ययस्वरेण सिद्ध विशेषणार्थस्तहि ॥ ॥ वार्तिकानीमानीति गौडाः । , कैयट-विवरणसहितं [ सङ्ख्याया विधार्थ संख्याया विधार्थे धा ।५।३।४२। 'विधार्थ' इत्युच्यते को विधार्थो नाम ? ॥ विधाया अर्थो विधार्थः ।। यद्येवम्-एका गोविधा एका हस्तिविधा,-अनाऽपि प्रामोति । एवं तर्हि,- 1110 धाविधानं धात्वर्थपृथग्भावे || धाविधानं धात्वर्थपृथग्भाव इति वक्तव्यम् । का पुनर्धात्वर्थपृथग्भावः ? ॥ किं यत्तदेवदत्तः कंसपात्र्यां पाणिनौदन भुङ्क्ते इति ? | नेत्याह-कारकपृथत्तवमेतत् ॥ यत्तहिं तत्कल्ये भुङ्क्ते सायं भुङ्क्त इति ? ॥ नेत्याह-कालपृथक्त्वमेतत् ॥ यत्तहिं शीतं भुङ्क्ते उष्ण भुङक्त इति ? ॥ नेत्याह-गुणपृथक्त्वमेतत् ॥ कस्तर्हि धात्वर्थपृथग्भावः ? ॥ कार- काणां प्रवृत्तिविशेषः क्रिया । यद्येवं क्रियाप्रकारेऽयं भवति विधयुक्तगताच अ.] सङ्ख्या । यदा विधाशब्दः स्त्रीलिङ्ग उपादीयते तदा तस्यानेकार्थत्वादनिष्टेऽपि विषये प्रसङ्गः । यदा तु विधानं विध इति 'घञर्थे कविधान मिति के कृते पुंलिङ्गनिर्देशस्तदा तस्यै- कार्थत्वान्नानिष्टप्रसङ्गः। विधाया अर्थ इत्याचार्यदेशीयवचनम् । गोविधेति । अन्न-विधो- च्यते । कः पुनरिति । किं धातुकृतोऽर्थो धात्वर्थ इति कारक विवक्षितमथवा धातोरथों पात्वर्थः क्रिया विवक्षितेति प्रश्नः । कल्य इति । कल्यमहर्मुखमुच्यते । कालपृथग्भावा- पृथग्भावं मन्यते । कारकाणामिति। पूर्वपदार्थविषये एव प्रश्नप्रतिवचने । पृथग्भा- वस्य सुज्ञानत्वात्तद्विषयप्रश्नाऽयोगात्। तत्र पञ्चधा गच्छतीत्येकस्या गमनक्रियायाः शब्देन्त निवृत्तभेदायाः प्रकारलक्षणपृथग्भावप्रतिपत्तिः । यद्येवमिति । सूत्रन्यासेनैव सिद्धे वार्तिक नारम्भणीयमित्यर्थः । तथा हि सामान्यस्य भेदको विशेषः प्रकार उच्यते । न च गुणकाल- ४.]संख्याया वि। विधाशब्दार्थः प्रकार एव प्रसिद्ध इति संशयाऽनुपपत्तेराह-यदेति ।। एकार्थत्वादिति। प्रकाररूपपृथग्भावमात्रार्थकत्वादित्यर्थः । पृथग्भावः-भेदः। धातुकृत इति । धात्वर्थकृत इत्यर्थः। तेन कारकं कर्मादिव्यपदेशयुक्तं क्रियत इति तद्धात्वर्थकृत- मिति भावः । अत्र कारककालगुणेषु स्वतो भेदः, क्रियायान्तु स्वतोऽसम्भवात्प्रकारकृतः, कियाया धातुना निवृत्तभेदाया एवोक्तेरिति बोध्यम् । पृथग्भावं मन्यत इति । क्रियाया' इत्यादिः। उत्तरन्तु कालस्यैव पृथक्त्वं भेदो गम्यते, न तु तत्कृत:-क्रियाया इति । ननुः विशिष्टप्रश्ने विशेषणांशमात्र प्रत्युत्तरमयुक्तमत आह-पूर्वपदार्थेति । भाष्ये-प्रवृत्तिविशेष इत्यस्य विवरणं-क्रियेति । शब्देनेति । 'आख्यातशब्देनोपस्थिताया' इति शेषः । अनेन क्रियाया एकत्वं समर्थितम् । प्रकारलक्षणेति । पञ्चशब्देनेति भावः। एतेन पञ्चशब्दस्य क्रियापृथग्भाववृत्तित्वमुक्तम् । 'चैत्रमैत्रदेवदत्ताः पचन्तीत्यादौ विधेति न,शब्दत एकत्वेनोपा- स्थिताया यत्र सङ्कथया भेदप्रतिपादनं तत्रैव धाप्रत्ययोत्पत्तरिति बोध्यम् । तदुक्तं-निवृत्त- भेदाया इत्यादि । भेदको विशेष इति । पथसङ्ख्यारूपभेदकधर्मवद्गगनमिति बोधः । 'एकगोविधा' पा०१२ धात्वर्थः पृथग्भावः पा०।३ 'यद्देवदत्तः' ४ 'काल्ये 'काल्पे 'काले कल्पे' पा०। ५'तत्काल्ये (कल्ये) उष्णं मुळे सायं शीतं भुङ्क्ते' पा० । ..
। ५.३ पा./१ आ.४४ सू.] महाभाष्यम् प्रकारे भवन्ति । एवंविधम् । एवंयुक्तम् । एवङ्गतम् । एवंप्रकारमिति ।। एकाद्धो ध्यमुजन्यतरस्याम् ।५।३।४४। ॥ ॥ सहभाबे ध्यमुञ् ॥ * ॥ सहभावे ध्यमश्वक्तव्यः। ऐकध्यं राशि कुरु ॥ स तर्हि वक्तव्यः ? ॥ न वक्तव्यः। अधिकरणविचाले इत्युच्यते, प्र.]कारकपृथक्त्वे किं चित्सामान्यमुपात्तं यस्य प्रकारः स्यात्। ननु सूत्रन्यासे 'पञ्चधा श्लोका' इत्यादावपि प्रत्ययेन भाव्यं, वात्तिकन्यासे तु न भान्यम् ,एकधा भुङ्क्ते इति च पृथग्भावा- भावात्प्रत्ययस्य न प्रसङ्ग इति भिन्नं फलं सूत्रवार्तिकयोः। नैष दोषः । पञ्चधा श्लोका' इत्यादी क्रियापदाऽप्रयोगेऽपि अस्तीतिक्रियापदानुषङ्गादस्तिक्रियापृथग्भावः। 'एकथा भुङ्क्त'इत्यादा- बनेकप्रकारभुजिक्रियापेक्ष एकप्रकारस्य भुजेरस्त्येव पृथग्भावः । 'एकः पाक इत्यादौ प्रकार स्याऽविवक्षितत्वात्प्रत्ययाभावः। प्रकारविवक्षायां तु भवत्येव एकधा पाक इति । 'पञ्च पाका' इत्यादौ भिन्ना एव पाका न त्वेकस्य प्रकारवत्वं विवक्षितमिति प्रत्ययो न भवति । 'पञ्चधा- पाक' इत्यादौ तु भवत्येव । [ सङ्घयाया विधार्थे धा] । एकाद्धो। धाग्रहणेऽनुवर्तमाने पुनर्धाग्रहणं धामात्रस्यादेशार्थम् , अन्यथानन्तर्याद- धिकरणविचाल एव ध्यमुन्विज्ञायेत। ततश्च विधार्थे न स्यात्-'ऐकध्य भुङ्क्ते इति । सहभाव इति । अनेकस्यार्थस्यैकीकरणं सहभावः । इहाधिकरणविचालः एकस्य द्रव्यस्य विभागेना. वस्थापनम् , यथैकं राशिं पञ्चधा कुरु इति । ऐकध्यं राशिं कुर्वित्यत्र त्वेकस्य विभागा- वस्थापनाभावान्नास्त्यधिकरणविचाल इति मन्यते । वचनं तु विधार्थमेव स्यात् । धाग्रहणं उ.] नन्वेवं कारकादिपृथक्त्वेपि 'द्विधा चतुर्था भुङ्क्ते' इत्याद्यापत्तिरत आह-न च गुणेति। उत्तेष्विति भावः। पञ्चधा श्लोक इति। अस्य पञ्चप्रकारः भोक इत्यर्थः । अत्र भेदको विशेषश्छन्द आदिः । क्रियापदाऽनुषङ्गादिति । एवञ्च सत्तायाः पञ्चप्रकारत्वं कर्तुः पञ्चप्रकारत्वादेवेति श्लोकस्याऽपि तत्त्वमर्थसिद्धमिति भावः। अस्तीति, योग्यक्रियोपल. क्षणम् । एवञ्च सूत्रेऽप्यभिधानस्वाभाव्यास्क्रियाविषय एव प्रकारो गृह्यत इति भावः । 'द्विधा गच्छती त्यादावेकस्या एव क्रियाया अवान्तरप्रकारः प्रतीयत इति बोध्यम् । प्रकारस्याऽवि. वक्षितत्वादिति । पाकव्यक्तरेकत्वमेव विवक्षितं, न त्ववान्तरप्रकारभेदाऽभावेनैकप्रकार- कत्वमित्यर्थः । इत्यादौ विति । एकस्यैवाऽनेकप्रकारवत्त्वविवक्षणादिति भावः ॥ ४२।। एकाद्धोध्य ।धातुग्रहण इति । अनुवर्तमानस्य च पूर्वमेव विहितस्य पुनर्विधाना- ऽसम्भवात्स्थानित्वमेव विज्ञास्यत इति भावः । धामात्रस्येति । विधार्थे विहितस्याऽपी- त्यर्थः । एतदर्थमेव स्थान्यादेशभावाश्रयणम् । प्रत्ययान्तरेऽप्येतदोषात् । अनन्तरत्वादधिकरण- विचाल इत्यस्यैव सम्बन्धात् । ननु तत्रापि 'अधिकरणविचाले' इत्येव सिद्धमत आह- इहेति । नास्त्यधिकरणेति । एवञ्च 'अधिकरणविचाल' इत्यस्याऽसम्भवादत्राऽसम्बन्ध एवेति भावः । तदाह-वचनन्विति । नन्वेवं 'घ'इति व्यर्थमत आह-धाग्रहणन्विति । १ 'भवन्तीति' पा० । २ विचाले चेत्युच्यते' पा० । । ।
कैयट-विवरणसहितं [द्वियोश्च न चावश्यं स एवाधिकरणविचालो यदेकमनेक क्रियते, यदप्यनेकमेकं क्रियते सोऽप्यधिकरणविचालः। [एकाद्धो ध्यमुञन्यतरस्याम् ] ॥ दिव्योश्च धमुञ् ।५।३।४५॥ ॥ * ॥ धमुजन्तात्स्वार्थे डदर्शनम् ॥ * ॥ धमुजन्तात्स्वार्थे डो दृश्यते स च विधेयः। पथि द्वैधानि । संशेये वैधानि ।। याप्ये पाशम् ।५।३।४७ ॥ * ॥ पाशपि कुत्सितग्रहणम् ॥ * ॥ पाशपि कुत्सितग्रहणं कर्त्तव्यम् । वैयाकरणपाशः । याज्ञिकपाशः। यो हि यापयितव्यो पाप्यस्तन मा भूदिति।। अथ चैयाकरणः शरीरतः कृशो व्याकरणेन च शोमनस्तत्र केत्तव्यं स्यात्- वैयाकरणपाश इति?॥ न कर्तव्यम् ॥ कथम् ? ॥ यस्य भावाद्रव्ये शब्दनिवेश- स्तदभिधाने-तद्गुणे वक्तव्ये-प्रत्ययेन भवितव्यं न च कायस्य भावाद्रव्ये वैयाकरणशब्दः ॥ [ याप्ये पाशप् ] | प्र.] तूत्तरार्थमेव स्यात्-द्वयोरर्थयोर्धमुअर्थ,द्वैधं भुङ्क्त,एक राशि द्वैध कुर्विति। न चावश्य- मिति । अधिकरणं-द्रव्यमुच्यते । तस्य विचालोऽन्यथाकरणं,तच्चैकस्यानेकीकरणमनेकस्य वा एकीकरणमिति सूत्रेणैवेष्टसिद्धिरित्यर्थः। अनेकस्य यदेकीकरणं तत्र प्रकाराभावात्तदर्थमेवा. धिकरणविचाले चेति सूत्रम्।एकस्यानेकीकरणे प्रकारस्यापि संभवात् पूर्वेणैव सिद्धत्वादित्याहुः।। द्विन्योश्च । पथि द्वैधानीति । स्वार्थिकत्वेऽपि स्वभावात्सत्त्वबाचित्वाल्लिङ्ग- सङ्ख्यायोगस्तत्रैकशेषेण बहुवचनम् । क चित्तु मतिद्वैधानीति पाठः।[द्वियोश्वधमुज] याप्ये। याप्यशब्दोऽयमस्स्यपादानसाधनो यापिता अस्माद्गुणा इति याप्यः-कुत्सितः । अस्ति कर्मसाधनो-यापयितव्यो याप्यः,देशान्तरं प्रापयितव्य इत्यर्थः । तत्र विशेषानुपादाना- दतिप्रसङ्गं मत्वाह- पाशपीति। तद्गुण इति। कुत्सितत्वेन प्रतिपाथ इत्यर्थः । एतच्चा- उ. 'द्वित्र्योश्च धमुभित्यादौ । तत्रार्थद्वयेऽपि धः सम्भवादिति भावः। इत्याहुरिति । अत्राऽरुचिबीजन्त्वनेकस्यैकीकरणेऽपि प्रकारसम्भवः, अत एव 'एकति सिद्धिरित्यन्ये ।। द्वियोश्च ध। ननु धमन्तस्याऽव्ययत्वात्ततः स्वार्थे डे तदन्तस्याऽप्यसत्त्वधर्मतया 'द्वैधानी'त्ययुक्तमत आह-स्वार्थिकत्वेऽपीति। सत्त्ववाचित्वादित्यस्य-प्रकारवद्वाचित्वा- दित्यर्थः। बहुवचनं कथमत आह-एकशेषेणेति। पथि द्वैधानीत्यस्य-तद्विषये द्विप्रकाराणि ज्ञानानि । यदा पथिराशीन्द्वैधं कुर्वित्यर्थः । संशये द्विप्रकाराणि ज्ञानानीत्य- न्त्यार्थः ।। [द्वियोश्च धमुञ्] ॥४५॥ याप्ये पाश । भाष्ये तदभिधानेत्यस्य व्याख्या-तद्गुणे वक्तव्ये इति । ननु न 'धमुजन्ताच्च स्वार्थे पा०२ 'संशयद्वैधानि' पा०।३ 'शरीरेण' पा०।४ तत्रेति कचिनास्ति। ५'कर्तव्यंवैया''न कर्तव्यः' पा.। ६ प्रकाराभानात्' पा.१७'धासम्भवात्' 'धसम्भतात्' पा.।
? . १.१३ पा.। १ आ.। ४८ सू.] महाभाष्यम् पूरणामागे तीयादन् ।५।३१४८॥ पुरणग्रहणं शक्यमकर्तुम् ॥ [ कथं ? ॥ न ह्यपुरणस्तीयशब्दोऽस्ति यत्र दोषः स्यात् ॥ ननु चाऽयमस्ति-मुखतीयः पार्श्वतीय इति ॥ 'अर्थवद्रहणे नानर्थकस्येत्येवमस्य न भविष्यति ॥ उत्तरार्थ तर्हि पूरणग्रहणं कर्तव्यम् । प्रागेकादशभ्योऽश्छन्दसीति पूरणाद्यथा स्यात् ॥ [ पूरणाद्भागे तीयादन् ] । एकादाकिनिच्चाऽसहाये ।।३।५२॥ ।। * ॥ एकादाकिनिचि द्विवह्वर्थे प्रत्ययविधानम् ।। * ॥ एकादाकिनिचि द्विब. हये प्रत्ययो विधेयः । एकाकी एकाकिनौ एकाकिन इति ॥ किं पुनः कारण न सिध्यति ? ॥ एकशब्दोऽयं सङ्ख्यापदं, सङ्ख्यायाश्च सङ्ख्येयमर्थः ॥ ॥ * ॥ सिद्धं तु सङ्खथादेशवचनात् ॥ * ॥ सिद्धमेतत् ॥ कथम् ? ॥ द्विबह्वायाः सङ्ख्याया एकशब्द आदेशो वक्तव्यः । ।। असहायस्य वा ।।। असहायस्य वा एकशब्द आदेशो वक्तव्यः । असहायः, एकाकी। असहायो, एकाकिनौ । अ.] ऽन्तरङ्गत्वाल्लभ्यते। प्रवृत्तिनिमित्तस्य प्रत्यासन्नत्वात्कुत्साश्रयणस्य न्याय्यत्वात् । यत्र तु प्रवृत्तिनिमित्तस्य कुत्सा न संभवत्यश्वको देवदत्तकः सक इत्यादौ, तत्र तत्सहचरितगुण- क्रियाकुत्साश्रयेण प्रत्ययो भवत्येव। एवं च देवदत्तपाश इत्याद्यपि भवति यद्यभिधानमस्ति ।। एकादा । एकादाकिनिचीति । एकशब्द सङ्ख्यावाच्येवेति मन्यते । असहायग्रहणं च तदर्थस्य विशेषणत्वान्नाभिधेयनिर्देशो विद्यमानतुल्यजातीयैककायसहायार्थवाचिनः प्रत्ययो यथा स्यादेकमाकाशमित्यादौ मा भूदिति। कथं पुनर्दिबह्वर्थे प्रत्ययो विधीयते न टेक- शब्दो द्विबह्वर्थे वर्तत इत्याह-सिद्धस्विति । सङ्ख्यैवादेशः सङ्ख्यादेशः, सच द्विबहुशब्द- उ.] वैयाकरणत्वरूपे गुणेऽयं प्रत्ययः, प्रकृत्यैवेतरनिरपेक्षशक्तयोक्तत्वादत आह-कुत्सितत्वे. नेति। प्रत्यासन्नत्वादिति । शब्दवाच्यत्वेनेति भावः। कुत्साश्रयणस्येत्यस्य-तत्रे'त्यादिः। यत्र विति । जातौ कुत्साद्यसम्भवादिति भावः । देवदत्तक इत्यादौ 'कुत्सित' इति कन् । एकादा । नन्वसहायार्थकैकशब्दात्प्रत्ययविधानेन द्विबह्वोरपि सिध्यत्येवेल्यत आह- एकशब्द इति। प्रसिद्धतरत्वात्स एवाऽत्र, एकशब्दाऽनुवादे तस्यैव ग्रहणं न्याय्यम् , अन्यथा 'एकेऽल्पप्राणाः', 'तेनैकदि'गिति भाष्यसूत्राऽज्ञानमपि पूर्वपक्षिणः कल्प्यं स्यात् । नन्वेवमसहायग्रहणं किमर्थमत आह-असहायग्रहणमिति । तदर्थस्य विशेषण. स्वादिति । एकशब्दार्थविशेषणत्वादित्यर्थः। नाभिधेयनिर्देश इति । नैकशब्दार्थनिर्देश इत्यर्थः । अस्य 'माभूदित्यनेनाऽन्वयः । अर्थविशेषणत्वमुपपादयति-अविद्यमानेति अविद्यमानस्तुल्यजातीय एककार्ये सहायो यस्याऽर्थस्य तादृशार्थवाचिन इत्यर्थः । एवञ्च सम्प्रयोगवद्विप्रयोगस्यापि विशेषाऽवगतिहेतुत्वादेकमाकाशमित्यादिन्यावृत्तिरिति बोध्यम् । १ 'नान्तरेण पूरणं तीयान्तः शब्दोऽस्ति' पा० । २ गौडास्तु-14। उत्तरार्थ पूरण- ग्रहणम् ॥4॥ इति लुप्तस्य वार्तिकस्येदं व्याख्याभाष्यमित्याहुः ।३ 'पूरणशब्दग्रहणम्' पा०॥ । । ।
कैयट-विवरणसहित [ एकादाकिनि- असहाया एकाकिनः ॥ सिध्यति, सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवास्तु ।। ननु चोक्तमेकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानमिति ॥ नैष दोषः- अयमेकशब्दोऽस्त्येव सङ्ख्यापदं, तद्यथा,-एको हौ बहव इति ॥ अस्त्यन्यार्थे वर्तते; तद्यथा,-सधमादो घुम्ने एकास्ताः । अन्या इत्यर्थः । अस्त्यसहाय- वाची; तद्यथा-एकाग्नयः । एकहलानि। एकाकिभिः क्षुकैर्जितमिति । तधोऽसहायवाची तस्यैष प्रयोगः॥ 11 * ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहामाध्ये पञ्चमाध्यायस्य तृतीये पादे प्रथममाह्निकम् ॥५३।१।।।।।। अतिशायने तमबिष्ठनौ ।५।१५५॥ अतिशायन इत्युच्यते-किमिदमतिशायन इति ? ॥ देश्याः सूत्रनिबन्धाः क्रियन्ते । यावयाप्रकर्षेऽतिशय इति तावदतिशायन इति ॥ प्र.]योरसहायस्य वेत्यर्थः। द्विबहुशब्दयोरप्यसहायग्रहणं विशेषणमाश्रयणीयमेव। अयमेक- शब्द इति । उपलक्षणं चैतदर्थप्रदर्शनम् । प्राथम्येऽपि हि वर्तते 'एकेऽल्पप्राणाः' 'एको गोत्र' इति। समानार्थेऽपि वर्तते-'तेनैकदिगिति । साधारणेऽपि वर्तते-'देवदत्तयश. दत्तयोरेका मातेति । एकानय इति । अत्राकिनिचः कनो वा लुग्विज्ञेयः ।। ||इति श्रीकैय्यटविरचिते भाष्यप्रदीपे पञ्चमाध्यायस्य तृतीयपादे प्रथममाह्निकम् ।।* अतिशायने तमबिष्ट नौ। किमिदमिति । किमयं ण्यन्तस्य निर्देश आहोस्वि- दण्यन्तस्य ?, कश्चेह शेत्यर्थ इति सन्दिहानः पृच्छति । देश्या इति । देष्टव्या देश्याः, साधुत्वेन प्रतिपाद्या एते सूत्रे निबध्यन्ते प्रसङ्गेन साधुत्वप्रतिपादनार्थम् । ततो निपातना- दीर्घत्वमित्युक्तं भवति । यावदिति । यावत्तावच्छब्दौ परिमाणोपाधिकावपि परिच्छेद- साधादन्यत्रापि प्रयुज्यते। प्रकर्ष इति । अनेकार्थत्वाद्धातूनां शेतिरभिभवे, अतिशब्दस्तु उ.इत्याहेतिापूर्ववाक्तिकमसङ्गतमित्यत आहेत्यर्थः। आश्रयणीयमेवेति। द्वौकालाकाशा- वित्यादौ व्यावृत्त्यर्थमित्यर्थः। नन्वेकानय इति कथं, कनाकिनिचोः प्राप्तेरत आह-अत्रेति 'आकिनिच्चेति चेन 'मानपश्चङ्गयो रित्यतो लुगप्यनुकृष्यते,सच कनाकिनिचोरेव। विधान- सामर्थ्यात्पक्षे श्रवणं, तच्च भाष्यप्रयोगादभिधानाच्च व्यवस्थितमित्याहुः। भाष्ये-तद्योs- सहायेति । एवश्वाऽसहाय' इत्यभिधेयनिर्देश इति भावः ॥ [ एकादाकिनि ] ॥५२॥ ॥ इति नागोजीभट्टकृते भाष्यप्रदीपोयोते पञ्चमस्थ तृतीये प्रथममाह्निकम् ।।* अतिशायने तमबि । यद्यपि वृद्ध्या ण्यन्तनिर्देशनिश्चयस्तथाऽपि तत्राऽर्थाऽसङ्गति- रित्याशयेन सन्देह इत्याह-किमयमिति । ण्यन्तेऽर्थाऽसङ्गतिर्भाध्ये स्फुटीभविष्यति । अर्थाऽनुसारान्निर्णय इत्याशयेनोत्तर-देश्या इति । यत्तदेतेभ्यः परिमाणे वतुपो विधाना- दाह-यावदिति । यावत्तावच्छब्दाविमौ निपातावखण्डावित्यन्ये । कर्तरि ल्युडिक्ति १ 'तद्यथेति काचित्कम् । २ 'धुम्न्य एकाः' । ३ 'एका-अन्या' पा०। ४ 'क्षुद्रजितं' । ५.इदं न सार्वत्रिकम् । ६ 'अतिशायनमिति' पा०।
५.३ पा.३१ आ.।५५ सू.] महाभाष्यम् ४४३ कस्य पुनः प्रकर्षे प्रत्यय उत्पद्यते ? ॥ ड्याप्रातिपदिकादिति वर्तते, याप्रातिपदिकस्य प्रकर्षे ॥ ड्याप्रातिपदिकं वै शब्दो न च शब्दस्य प्रकर्षाऽपकर्षों स्तः॥ शब्देऽसम्भवादर्थे कार्य विज्ञास्यते ।। प्र.] घोतकस्तस्यैवाऽर्थस्य । यथा तिष्ठतिर्गतिनिवृत्तौ वर्तते । स एव गतावपि । प्रश-- ब्दस्तु तद्गतस्य प्रारम्भस्य धोतकः-प्रतिष्ठत इति । कस्य पुनरिति । द्रव्यवाचिनीह प्रकृतिर्न च द्रव्यस्य प्रकर्षोऽस्तीति मत्वा प्रश्नः । ड्याप्रातिपदिकादिति वर्तत- इति । ननु सुबन्तसमानाधिकरणवृत्तिभिरेतैस्तद्धितर्भवितव्यम् । यदुक्तं-'प्रियकुत्सना- दिषु ततः प्रवर्ततेऽसौ विभक्तयन्त' इति, 'घकालतनेषु कालनाम्म' इत्यलुग्विधानालिङ्गाच्च । नैष दोषः,-प्रकृतेरिदमुपलक्षणम् । सा च प्रकृतिः सुबन्ता वा भवतु, या प्रातिपदिक वेति विशेषे तात्पर्याभावः । न च शब्दस्येति । शब्दस्याभिधानत्वादभिधानस्य चाभिधेये गुणभावाद्गुणस्य च स्वोपकार प्रत्यनपेक्षत्वादिति भावः । यदा तु तस्य गुणभावो नास्ति तदा भवत्येव प्रकर्षयोगः,-उच्चतरः शब्दो, नीचतरःशब्द इति। ननु च यथा शुल्लतरः पट इति गुणस्याऽपि प्रकर्ष आधीयते द्रव्यप्रकर्षहेतुत्वेन तथा शब्दस्याप्याश्रीयताम् । नैतदस्ति, शुलादयो द्रव्यसमवेताः स्वयं प्रकृष्टा द्रव्यप्रकर्षहेतवो भवन्तीति युक्तस्तत्र गुणप्रकर्षानयः, शब्दस्तु वाचकत्वादभिधेयासमवायात्स्वगतेन प्रकर्षेणाभिधेयं प्रकर्षयुक्तं न शक्तोऽवगम. उ.]भावः । अतिशये इत्यत्र कतयच । ननु शेतेः कथम्प्रकर्षोऽर्थोऽत आह-अभिभवे इति । स्वाऽपेक्षयेतरस्य न्यूनीकरणरूपे इत्यर्थः । अत एव शुक्लमतिशेते इति सकर्मकत्वमुपपन्नम् । तस्यैवार्थस्येति । तद्भताऽत्यन्तिकत्वरूपार्थस्येत्यर्थः । दृष्टान्तोपपादनबलेन तथैव लाभात्। ननूपस्थितत्वात्प्रकृत्यर्थप्रकर्षे प्रत्यय उत्पत्स्यत इति 'कस्य पुनरिति प्रश्नोऽनुपपन्नोऽत आह- व्यवाचिनीति। द्रव्यस्य स्वतः प्रकर्षाऽभावमग्रेस्वयमेव वदिष्यति। ननु सुबन्तेति । सुबन्तेन समानाधिकरणा वृत्तिर्येषां तैरित्यर्थः। अनेन 'अतिशायने' इत्यस्य प्रकृत्यर्थ- विशेषणत्वं सूचयति । एतैस्तद्धितैरित्यनेनाऽत्यन्तस्वार्थिकानामन्येषाञ्चोक्तानां समाना- ऽधिकरणवृत्तित्वाऽभावं धवनयति । ननु शब्दस्याऽपि तारतारतरत्वादिप्रकर्षोऽस्त्येवेत्यतः आह-शब्दस्येति । अभिधानत्वादिति । अभिधायकत्वादित्यर्थः । अभिधेये गुण- भावादिति । अभिधेयप्रतिपादने व्यग्रत्वात्स्वगतप्रकर्षप्रतिपादने तस्य तात्पर्याऽभावादिति भावः। उच्चतर इति। अस्य हि शब्द एव वाच्य इति न तस्य गुणत्वमिति भावः। वस्तुतस्त्व- वाऽपि तद्गतगुणस्योच्चत्वादेरेव प्रकर्षों न तु स्वरूपतः शब्दे इति बोध्यम् । ननु गुणभूत. गुणादिप्रकर्षे यथा प्रत्ययस्तथा गुणभूतशब्दप्रकर्षेऽप्यरित्वति शङ्कते-ननु च यथेति । शब्दस्याऽपीति । वाचकस्याऽपीत्यर्थः। शुक्लादय इति । तेषां हि द्रव्याश्रितत्वेन तत्प्रकर्षस्य द्रव्यप्रकर्षप्रयोजकताया वक्तुं शक्यत्वेऽपि शब्दगतस्य तस्य तत्प्रकर्ष प्रत्यप्रयोजक- लादिति भावः। गुणप्रकर्षाप्रय इति । द्रव्यप्रकर्षहेतुत्वेन तदाश्रयणं युक्तमित्यर्थः। तत्प्र- कपम्प्रति-द्रन्यप्रकर्ष प्रति-अनपेक्ष एव-तदनुपपादक एवेत्यर्थः । यधपि शब्दार्थयोरफि १'शन्दे कार्यासम्भवात्' पा० । । .
. कैयट-विवरणसहित [ अतिशायने कः पुनाप्नोतिपदिकार्थः ? ॥दव्यम् ॥ न वैद्रव्यस्य प्रकर्ष इष्यते ॥ एवं तर्हि-गुणेः॥ प्र.] यितुमिति तत्प्रकर्षे प्रत्यनपेक्ष एव । द्रव्यमिति । यत्किचिदिदं तदितिसर्वनामपरा- मर्शयोग्यं वस्तु तद्रव्यत्वेन विवक्षितम् । तेन जातिगुणक्रिया अपि गृह्यन्ते । न वै द्व्य- स्येति । यद्वस्तु स्वातन्त्र्येणाभिधीयते तस्य प्रकर्षों नास्तीत्यर्थः । तथा हि-'शुक्रतरं रूपमित्यत्र गुणस्यापि प्राधान्येनाश्रयणाव्यस्याश्रितादेव निमित्तान्तरात्प्रकर्षः एवं तहीति । आश्रितोऽभिधेयधों गुणः, स च कश्चिच्छब्दप्रवृत्तिनिमित्त,-शुक्लतरः पट इति यथा। पटस्य स्वतो न शुकुस्य नाऽप्यशुक्लस्य शुक्लो गुणो व्यपदेशेहेतुरेवं स्वगत- प्रकर्षद्वारेण द्रव्यस्य स्वतोऽप्रकृष्टस्य प्रकृष्टव्यपदेशहेतुर्भवति । तदुक्तं हरिणा-'द्रव्यस्या- ऽव्यपदेश्यस्य य उपादीयते गुणः। भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते॥' 'अरूपं पररूपेण द्रव्यमाख्यायते यथा । अप्रकर्ष प्रकर्षेण गुणस्याऽपी- ध्यते तथा॥' इति । यद्यपि तत्र द्रव्ये बहवो गुणाः सन्ति तथाऽप्यन्तरगत्वात्प्रवृत्ति- निमित्तगुणप्रकर्षाश्रयः प्रत्ययः। क्रियाशब्देभ्यः पाचकादिभ्यः क्रियायाः प्रवृत्तिनिमित्त. उ.] तादात्म्याध्यासः 'तस्य भावः' इति सूत्रे कैयटेनोक्तः, पातञ्जलसूत्रतद्भाष्यादौ च स्पष्टः, शब्दालिङ्गितैव चाऽर्थप्रतीतिहादिभिरक्तेत्यस्त्येव तस्याऽप्यभिधेयसमवायस्तथापि स्वरूपत उच्चत्वादिरूपेण तद्गतप्रकर्षेण द्रव्यस्य प्रकर्षो न प्रतीयत इति तात्पर्यम् । न च शब्दस्य प्रकर्षाऽप्रकर्षाभ्यां तदर्थस्य प्रकर्षाऽप्रकर्षों स्तः-प्रतीतिविषयौ भवत इति भाष्याक्ष- रार्थः । ननु रूपादिशब्दानां गुणोऽप्यर्थ इति 'प्रातिपदिकार्थो द्रव्य'मित्यनुपपन्नमेवेत्यत आह- यत्किञ्चिदिदमिति। विशेष्यभूतमित्यर्थः । स्वातन्त्र्येणेति । प्राधान्येन विशेष्यत्वेनेत्यर्थः। ननु 'शुक्लतरं रूपमित्यत्र प्रधानस्य स्वतः प्रकर्षोऽस्त्येवेत्यत आह-गुणस्याऽपीति । प्राधा. न्येनाश्रयणात् द्रव्यरूपस्य गुणस्याऽपि आश्रिताद्रूपाश्रिताद्धर्मान्तरादेव प्रकर्षः। किम्पुनस्ता- न्त्रिकसम्मतद्रव्यस्येत्यर्थः । निमित्तान्तरादिति । गुणगतशुक्लत्वादिजातिसमानाधिकरण- नैर्मल्यादेरित्यर्थः । न तु स्वत एवेति भावः । 'एवन्तर्हि गुण' इति भाष्यस्य-'ड्या प्रातिपदि- कार्थ' इति शेषः । ननु गुणप्रकर्षे आश्रीयमाणे पाचकतरः' इति न स्यादत आह-आश्रित इति । स्वतः-विशेष्यभूतेन स्वरूपेण । न शुक्लस्य-न शुक्लव्यवहारविषयस्य । नाप्यशु- क्लस्य-नाऽपि तद्व्यवहारविषयस्य । शुक्लो गुण इति । प्रवृत्तिनित्तभूत इत्यर्थः । व्यप- देशहेतु:-'शुक्ल' इत्यादिव्यवहारहेतुः । स्वगतप्रकर्षद्वारेणेति। स्वाश्रिताश्रितत्वसम्बन्धे- नेत्यर्थः । प्रकृष्टव्यपदेशहेतुः-प्रकृष्टव्यवहारहेतुरित्यर्थः । अव्यपदेश्यस्य-धर्मयोग- मन्तरा स्वरूपेणाऽव्यवहार्यस्य । व्यपदेशाय-व्यवहाराय यो भेदको गुण उपादीयते तत्प्रकर्षस्तरबादिभिरभिधीयत इत्यर्थः । अरूपम्-स्वतस्तद्रूपाऽभाववत् स्फटिकादि, जपा- दिरूपेण रक्तत्वादिगुणमाख्यायत इत्यर्थः । यद्वाऽतिमते ब्रह्मैव द्रव्यं पररूपेण मायाकार्य- रूपादिसम्बन्धेन तत्तद्रूपादिमत्त्वेन व्यवहियत इत्यर्थः । क्रियायाः प्रवृत्तिनिमित्तत्वा- १'प्रातिपदिकार्थः 'थाप्रातिपदिकस्यार्थः' पा०1२ गुणस्य प्रकर्षे पा० ।
- . ५.६३ पा.३१ आ.।५५ सू.] महाभाष्यम् एवमपि गुणग्रहणं कर्त्तव्यम् । द्रव्यमपि झ्याप्प्रातिपदिकार्थो, गुणोऽपि, तत्र कुत एतत्-'गुणस्य प्रकर्षे भविष्यति न पुनद्रव्यस्या प्रकर्ष इति ? ॥ क्रियमाणे चाऽपि गुणग्रहणे समानर्गुणग्रहणं कर्तव्यं, 'शुक्लात्कृष्णे मा. भूदिति ॥ न तीदानीमिदं भवति-'अध्वर्युवे श्रेयान्' 'पापीयान्प्रति- प्रस्थाता' 'अन्धानां काणतम इति ? ॥ समानगुणे एषा स्पर्धा भवति,- प्र.] त्वात्तत्प्रकर्षे प्रत्ययः। जातिशब्देभ्यस्तु जातेः प्रकर्षाभावात्तत्सहचरितप्रसिद्धवाह दोहादिप्रकर्षे प्रत्ययः। उपाधिसंसर्गेण तु विना द्रव्यस्य न प्रकर्षो नाऽपि शब्दवाच्यत्व- मस्ति । तदुक्तम्-'सर्वस्यैव प्रधानस्य न विना भेदहेतुना । प्रकर्षों विद्यते नापि शब्दस्योपैति वाच्यताम् ॥' इति । तत्र वास्तवः प्रकर्षों द्रव्ये भवतु मा वा, आश्रितधर्मद्वारकस्तु तत्प्रकर्षः शब्देनाभिधीयते, न तु तन्निरपेक्षः स्वगतः । अद्रव्य- प्रकर्ष इति निषेध उपचरितगुणक्रियागतप्रकर्षद्रव्यविषयो द्रष्टव्यः । एवमपीति । यथा गुणस्य नित्यस्य नित्यद्रव्यसमवेतस्य कस्य चिन्महत्त्वादेः स्वतः प्रकर्षोऽनित्यस्य तु कारणकृतस्तथा द्रव्यस्यापीति मन्यते । समानगुणग्रहणमिति । द्वयोः परिपूर्णयोभिन्न- जातीययोर्गुणयोरेकस्य परिपूर्णतरत्वे सति प्रकर्षसद्भावात् 'कृष्णाच्छुक्लतर' इति मा भूदित्येवमर्थमित्यर्थः । अध्वर्युवे श्रेयानिति । अध्वयोः परिपूर्ण प्रशस्यत्वं, प्रतिप्रस्थातु- रपि पापत्वं, तयोः परस्परापेक्षः प्रकर्ष इति मन्यते । अन्धानां काणतम इति । अन्धा नेत्रद्वयेन न पश्यन्ति, काणस्त्वेकेनेति तदपेक्षं काणस्य प्रकर्ष मन्यते । समान- गुण इति । समाने गुणे भिन्नाश्रयवत्तिनि विवक्षिते तदाश्रया स्पद्धेत्यर्थः । कणिरय. उ.]दिति। प्रवृत्तिनिमित्तसम्बन्धप्रतियोगित्वादित्यर्थः। सम्बन्धेऽपि स्वतः प्रकर्षाऽसम्भवा-- तत्प्रतियोगिगतप्रकर्षाश्रयणमिति तात्पर्यम् । वाहदोहादीति । यथा गोतर इत्यादौ । ननु द्रव्यस्य स्वत एव प्रकर्षः किनाऽङ्गीक्रियतेऽत आह-उपाधीति । स्वभावादिति भावः । शब्देनेति । तरबादि नेत्यर्थः । शब्दशक्तिस्वभावादिति भावः। नन्वेवमद्रव्य- प्रकर्षे इत्यसङ्गतं स्यादत आह-अद्रव्यप्रकर्ष इति । उपचरितो गुणक्रियागतप्रकर्षेण प्रकर्षों यत्र तादृशद्रव्येत्यर्थः। 'उच्चैस्तरस्तरु'रित्युदाहरणम् । अत्र उच्चैःशब्द उच्चत्वादिविशिष्टद्रव्यपरः उच्चस्तमामित्यत्र त्वधिकरणशक्तिपर इति । अत्र उच्चत्वप्रकर्षेण तदाश्रयस्य प्रकर्षेऽपि तस्य न द्रव्यत्वम् , अधिकरणशक्तिप्रधानतया शक्तिविशेषणत्वेनैव तस्य भानेनाऽप्रधानतया सर्वनामपरामर्शाऽयोग्यत्वात् । एवञ्च 'पूर्वाल्लेतमा'मित्यादावपीति बोध्यम् । अत्राऽपि विभक्तयर्थसम्बन्धनिरूपिता विशेषणतैव तप्रत्कृत्यर्थस्येति वदन्ति । महत्त्वादेरिति । 'आकाशं परममहत्' 'परमाणु रित्यादिप्रयोगादिति भावः । कारण- कृत इति । रजनद्रव्यप्रकर्षकृत इत्यर्थः । ननु भिन्नजातीययोः कथं स्पर्द्धत्यत आह-द्वयो- रिति । भाष्ये-शुक्लात्कृष्णे इति। कृष्णाऽवधिकप्रकर्षे शुक्लशब्दान्मा भूदित्यर्थः। नन्व- ध्वोरन्येभ्यः प्रशस्येभ्यः प्रशस्यतरत्वमस्त्येवेत्यत आह-अध्वर्योरिति । तदपेक्षमितिः । १ 'प्रातिपदिकार्थः पा० १२ समानगुणग्रहण कर्त्तव्य मिति वात्तिकमिति गौडाः। .
- -- कैयद-विवरणसहितं. [ अतिशायने “अध्वयु श्रेयानन्येभ्यः प्रशस्येभ्यः' । 'पापीयान्प्रतिप्रस्थाताऽन्येभ्यः पापेभ्यः ॥ अन्धानां काणतम इति,-कणिस्यं सौम्ये वर्तते-सर्च इमे कि चित्पश्यन्त्ययमेषां काणतम इति ॥ 1॥ * ॥ अदूरविप्रकर्षे ।। अदूरविर्ष इति च वक्तव्यम् । इह माभूत्-महा- सर्षपः, महान्हिमवानिति ॥ * ॥ जीतेनं ।। * ॥ जातेनेति चे वक्तव्यम् । इह माभूत-वृक्षोऽयं प्लक्षोऽयमिति ॥ न तहीदानीमिदं भवति-गोतरः गोतरा अश्वतः अश्वतरेति?॥ नैष जातेः प्रकर्षः ॥ कस्य तर्हि ? ॥ गुणस्य । गौरयं यः शकटं वहति, गोतरोऽयं यः शकटं वहति सीरञ्च । गौरियं या समांसमा विजायते, गोत- रेयं या समांसमां विजायते स्त्रीवत्सा च । अधोऽयं यश्चत्वारि योजनानि गच्छति, अश्वतरोऽयं योऽष्टौ योजनानि गच्छति ॥ तथा-तिश्चे'त्यत्र क्रियाग्रहणं कर्तव्यम् । साधनप्रकर्षे मा भूत्॥ प्र.] मिति। ततश्चाऽन्धानामपि वास्तवं काणत्वं विद्यते न तु लोकप्रसिद्धम् । तत्र दर्शन- प्रकर्षाश्रयः प्रत्ययस्तथा च लोकेप्रसिद्धि:-'अन्धानां काणो राजे'ति। महान्हिमवानिति। सर्षपान्महीयान् हिमवानिति मा भूदित्यर्थः । जातेरिति । आश्रयप्रकर्षाजातेः प्रकर्ष मन्यते । कस्य तहाँति-प्रश्नः । गुणस्येति-परिहारः । अभिधेयसहचरितलोकप्रसिद्ध- गुणप्रकर्षाश्रयो द्रव्यस्य प्रकर्ष इत्यर्थः । के चित्तु गुणसमुदाये शब्दप्रवृत्तिं मन्यमानाः शब्दार्थान्तर्भूतस्यैवायं गुणस्य प्रकर्ष इत्याहुः । साधनप्रकर्षे मा भूदिति । ननु च साधनस्य गुणभावात् प्रधानस्य च क्रियायाः प्रकर्षसंभवात्तत्प्रकर्ष एवं प्रत्ययो भवि- ष्यति । एवं मन्यते,-प्रधानानि स्वगतेनापि धर्मेण तद्वत्त्वेन व्यपदिश्यन्ते, गुणगतेनापि । उ.वैजात्येऽपि प्रकर्ष मन्यत इति भावः । वास्तवं काणत्वमिति। दृष्टिसौक्षम्यमित्यर्थः 'अन्ध दृष्टयुपधाते' 'कण निमीलने' इति धात्वनुसारादिति भावः । न तु लोकेति । तैर्हि- एकचक्षुर्नाशवानेव काणत्वेन व्यवाहियते । तत्र अन्धा अल्पद्रष्टारः, काणोऽपि अल्पद्रष्टा, तत्राऽयं किञ्चिदधिकमल्पद्रष्टेति काणतम उच्यत इति भावः। अन्धकाणशब्दो पर्याया- वित्येषाऽपि समानगुण एव स्पर्द्धति तात्पर्यम् । दर्शनप्रकर्षेति । अल्पदर्शनप्रकर्षेत्यर्थः । 'अदर्शनप्रकर्षेतिपाठेऽपि-अदर्शनशब्देनाऽप्यल्पदर्शनमेव । भाष्ये-जातेनति । जातेः प्रकर्षे प्रत्ययो नेत्यर्थः। ननु जातौ कथं प्रकर्षोऽत आह-आश्रयेति। यथा आश्रितगुणप्रक- ट्रिव्यप्रकर्षः, तथा लब्धप्रकर्षद्रव्यगतत्वेन जातेः प्रकर्ष मन्यत इति भावः । अभिधेय- सहचरितेति । प्रवृन्तिनिमित्तजातिसहचरितेत्यर्थः । केचित्विति। पातञ्जला इत्यर्थः । 'स्त्रिया मिति सूत्रे भाष्येऽपि स्पष्टमेतत् । गुणसमुदाये इति । बाहदोहादिगुणसमुदाये इत्यर्थः। एवं मन्यत इति । स्वगतप्रकर्षसम्भवे गुणप्रकर्षेण तद्वत्त्वव्यवहार न मान- १इदं क्वाचित्कम् । २ 'अश्वतर इति' पा०।३महाहिमवान्। ४ अत्र 'तिङश्वेत्यत्र क्रिया- ग्रहणम् इति वार्तिकंलुप्तं । 'तथा तिङश्चेत्यादि तुतळ्याख्येति तु गौडा:: ५'लोके प्रसिद्ध'पा.
। चे ५.३ पा.।१ आ.।५५ सू.] महाभाष्यम् नैष दोषः। यत्तावदुच्यते-गुणग्रहणं कर्त्तव्यमिति,-न कतव्यम् । यस्य प्रकर्षोऽस्ति तस्य चे प्रकर्षे भविष्यति । गुणस्य चैव प्रकर्षों न द्रव्यस्य । कथं विज्ञायते ॥ एवं हि दृश्यते लोके,-इह समाने आयामे विस्तारे चे पटस्याऽन्योऽों भवति काशिकस्य, अन्यो माथुरस्य । गुणान्तरं च खल्वपि,-शिल्पिन उत्पादयमाना द्रव्यान्तरेण प्रक्षालयन्ति, अन्येन शुद्धं धौतकं कुर्वन्ति, अन्येन शैफोलिकमन्येन माध्यमिकम् ॥ अदप्युच्यते-क्रियमाणे चाऽपि गुणग्रहणे समानगुणग्रहणं कर्त्तव्यं शुक्ला- कृष्णे मा भूदिति,-न कर्त्तव्यम् । समानगुण एव स्पर्धा भवति-नह्यान्या- भिरूपी स्पर्द्धते । वाचकेन खल्वप्युत्पत्तव्यं, न च शुक्लात्कृष्णे प्रत्यय उत्पद्य- मानो वाचकः स्यात् ॥ यदप्युच्यते-'अदूरविप्रकर्षे इति च वक्तव्य मिति,-न वक्तव्यम् । अदूर- प्र.] तत्र साधनप्रकर्षाश्रये क्रियाप्रकर्षे प्रत्ययो मा भूत्स्वगते यथा स्यादित्येवमर्थ क्रियाग्रहणं कर्तव्यम् । नैष दोष इति । बहूनामपि दोषाणां प्रक्रमे सामान्यस्य विवक्षितत्वादेक- बचननिर्देशः । यस्य प्रकर्षोऽस्तीति । संभवव्यभिचारापेक्षवादपाधिनिर्देशस्येति भावः। काशिकस्येति । काशिषु भव इति उनिठयोरेकतरः प्रत्ययः । गुणान्तरमिति । पूर्वं मूल्यान्तरदर्शनाद्गुणप्रकर्षः प्रतिपादितोऽत्र तु प्रयत्नभेददर्शनादिति विशेषः । शुक्लादिति । कृष्णे प्रतियोगिनि विवक्षिते शुक्लशब्दात्प्रत्ययो मा भूदित्यर्थः । नह्या- ज्याभिरूपाविति । स्पर्धाहेतोगुणस्य शब्देनाऽनाश्रयणात् शब्दाश्रितस्प हेतुप्रकर्षे तु भवत्येव प्रत्ययः-'आन्याभिरूपयोराळ्यः श्रेया निति । शुक्लकृष्णयोरपि तदा भवति प्रत्यय:- 'उज्जलतरोऽयं कृष्णा'च्छुक्ल इति । न च शुक्लादिति । शुक्लतर इत्युक्ते शब्दप्रवृत्तिनि- मित्तप्रत्यासन्नशुक्लगुणान्तरापेक्षः प्रकर्षः, शुक्लगुणनिमित्तद्रव्यप्रकर्षावगमादिति भावः । उ.] मित्यत एवमुक्तिः । स्वगते इति । स्वगत एव यथा स्यादित्यर्थः। ननु द्रव्यस्य स्वतः प्रकर्षोऽस्त्वत आह-सम्भवेति । यदि तस्य स्वतः प्रकर्षस्तहिं सर्वस्याऽपीति व्यभिचारा. ऽभावः, अन्यथाऽसम्भव इति भावः। पूर्व मूल्यान्तरेति । यदि स्वत एव द्रव्ये प्रकर्षः स्यात्तदा देशभेदमात्रेण मूल्यान्तरं न स्यात्तदों यत्नभेदश्च न स्यादिति भावः । तस्माद्देशभेद- कृतगुणप्रकर्षकृतमेव मूल्यान्तरं, गुणप्रकर्षाय च यत्नभेद इति तस्यैव प्रकर्ष इति तात्पर्यम् । गुणप्रकर्ष इति । देशभेदकृतगुणप्रकर्ष इत्यर्थः । धौतकशैफालिकादयः प्रक्षालनवैजात्य- कृता वस्त्रस्य गुणविशेषाः। नन्वान्याऽभिरूपयोरपि प्रशस्यत्वे स्पर्धा भवत्येवेत्यत आह- स्पर्धाहेतोरिति । तत्प्रशस्यत्वस्य प्रकर्षे हि तदा प्रत्ययः । न च तदुपात्तमस्ति । आन्या. दभिरूपतर इति तु न भवत्येवेत्यर्थः। शब्द प्रवृत्तिनिमित्तेति । न तु कृष्णाऽवधिक- प्रकर्षेण द्रव्यप्रकर्षाऽवगम इत्यर्थः । शब्दप्रवृत्तिनिमित्तभूतमत एव प्रत्यासन्नं यच्छुक्छ- १चकारः काचित्कः। २धोतक-थोया हुआ। शैफालिक=पालिस किया। माध्यमिक माडील. गा। यद्वा धौतक धोती। शेफालिक-साडी। माध्यमिक-मऊ का गाढा-खादी।३ प्रशस्यप्रकर्षे'पा.। . . -- -- * कैयट-विवरणसहित [ अतिशायने विप्रकर्षे एव स्पर्धा भवति, नहि निष्कधनो शतनिष्क्रधनेन स्पर्द्धते ।। यदप्युच्यते-जाते ति चे वक्तव्यमिति, न वक्तव्यम् । जननेन या प्राप्यते सा जातिः,-न चैतस्याऽर्थस्य प्रकर्षाऽपकर्षों स्तः॥ यदप्युच्यते-'तथा तिङश्चेत्यत्र क्रियाग्रहणं कर्त्तव्यं साधनप्रकर्षे मा भूदिति,-न कर्तव्यम् । साधनं वै द्रव्यं, न च व्यस्य प्रकर्षाऽपकर्षों स्तः ॥ प्र.] नहि निष्कधन इति । अदूरान्तरयोरेव संप्रधारणविषयत्वादिति भावः । जननेनेति । अयललभ्यत्वप्रतिपादनपरमेतत् । नित्यानां परमाण्वादीनां जननाभावात्तद्गताया जातेजनने- नाऽप्राप्यत्वात्। अयत्नलभ्यश्चायमर्थः,-सत्तादिर्न प्रकर्षापकर्षभाक् । घटादिके च द्रव्ये यत्नेनो. त्पाधमाने पुरुषप्रयत्नेन विना नित्या जातयो व्यक्तिमायान्ति । यद्यपि बलाकादिगतस्य शोल्क्यादेरयत्नलभ्यत्वं तथाप्याश्रयभेदाद्गुणस्य भेदावगमादस्ति प्रकर्षापकर्षयोगो, जातेस्त्वा- अयभेदेऽपि भेदाभावात्प्रकर्षापकर्षाऽयोगः। साधनं वै द्रव्यमिति । ननु च शक्तिः साधनमस्ति च तत्प्रकर्षों यदाह साधकतमं करणमिति। नैष दोषः । पचति देवदत्त इति सामानाधिकरण्यदर्शनाच्छक्तिद्रव्ययोस्तिडन्तेन भेदस्यानवगमादभेदमाश्रित्य निर्देशः । न च प्रधानस्य क्रियायाः स्वतः प्रकर्षसंभवे गुणभूतसाधनप्रकर्षापेक्षाऽस्ति । 'पचतितरा’- मिति चोक्ते क्रियाप्रकर्षों गम्यते न तु साधनप्रकर्षः। प्रकर्षयुक्तऽपि साधने कदाचित क्रियाप्रकर्षाभावात क्रियाप्रकर्षे तु कार्यस्य कारणाव्यभिचारान्नियमेन साधनप्रकर्षानुमानात् उ.] गुणान्तरं द्रव्यान्तरीयशुक्ल गुणस्तदपेक्षः प्रकर्षोयस्य तादृशो यः शुक्लगुणस्तन्निमित्ते- त्यक्षरार्थः । अदूरान्तरयोरिति । अल्पविशेषयोरित्यर्थः । नित्यगतजातेर्जननेनाऽप्राप्य. त्वादाह-अयत्नेति । परमाणवादीनामिति । साङ्ख्यादिमते प्रधानाऽवयवसत्त्वादिपरमा- वो बोध्याः । 'प्रकर्षाऽपकर्षभा'गिति पाठः। व्यक्तिमायान्तीति। तत्राऽभिव्यक्ता भवन्तीत्यर्थः । अयनलभ्यत्वमिति । तथा च तद्वाचकादिष्टस्तरन्न स्यादिति भावः। ईश्वरयत्नस्तु सर्वत्राऽव्यावर्तक इति भावः । तथापीति । जननेन प्राप्यत्वोक्तया एकत्वं नित्यत्वमनेकवृत्तित्वञ्च सूचितमिति भावः। आश्रयभेदादिति । एवञ्च शुक्लगुणत्वाऽव- च्छिन्नस्याऽयत्नलम्यत्वाऽभावेन कचिद्यलेनाऽपकर्षे जाते तदपेक्षः प्रकषों बलाकाशौक्ल्ये इति तात्पर्यम् । भेदाऽभावादिति । आश्रतभेदकृतारोपविषयभेदस्याऽप्यभावादित्यर्थः। केचित्तु- 'जननेन प्राप्यत' इति लक्षणमद्वैतिमते, तेषां ब्रह्माऽतिरिक्तं सर्वं जन्यमेव । ब्रह्मणस्तु निर्धर्मकत्वात्तत्र जातिरेव नास्ति। जीवानामप्युपाधिजन्यत्वेन विशिष्टानां जन्यत्व- मेवेत्याहुः । भेदस्याऽनवगमादिति। द्रव्येणाऽभेदमापन्नैव शक्तिस्तिकाऽभिधीयत इति भावः । नन्वभेदेऽपि द्रव्याऽभेदाच्छक्तौ प्रकर्षाऽभावो वा कल्प्यः, शक्तथभेदाव्ये प्रकर्षो वा कल्प्य इत्यत्र विनिगमकाऽभाव इति चेन्न; शक्तिप्रकर्षेण द्रव्यप्रकर्षे 'परशुतरेणे त्यापत्तिः, करणे सर्वकारकेभ्यः प्रकर्षसत्त्वात् । तस्माच्छक्तिप्रकर्षो न द्रव्य- प्रकर्षकः, सुतरां तदुद्वारा न क्रियाप्रकर्षक इत्याशयात् । स्वयं युक्त्यन्तरमाह-न च प्रधान- १ इदं काचित्कम् । , उता- ५ अ।३ पा. १ आ.। ५५ सू.] महाभाष्यम् किं पुनरेकं शौक्ल्यमाहो स्विन्नाना ? ॥ किं चाऽऽतः? ॥ योकं प्रकर्षानोपपद्यते,नहि तेनैव तस्य प्रकर्षो भवति॥ अथ नाना?|| समा- वगुणग्रहणं कर्त्तव्यं-शुक्लात्कृष्णेमा भूदिति ॥ अस्त्वेकं शौक्लयं तत्तु विशेषवत् ।। म.] क्रियाप्रकर्ष एव प्रत्ययः। एको द्वौ त्रय इत्यादिकायाः सङ्ख्यायाः सर्वत्र परिच्छेदकत्वा- ऽविशेषात्प्रकर्षाऽभावः। बहुत्वसङ्ख्यायास्त्वनियतसङ्ख्येयत्वाद्भवति प्रकर्षः--बहुतरा इति । एवमुन्मानप्रमाणपरिमाणानामपि प्रकर्षाऽभावोऽपि विज्ञेयः। भाष्यकारेण तु जातिप्रकर्षाऽ- भावोक्तन्यायानुसारेण गम्यमानत्वान्नोक्तः । किं पुनरेकमिति। ननु समानधर्मो- पलम्भाद्विशेषाऽग्रहणाच्च संशयो, न चैकानेकयोर्विशेषाऽग्रहणम् । नैष दोषः । एकस्यापि भेदव्यवहारो दृश्यते । यथा परुद्भवान्पटुरासीत्पटुतरश्चैषमः, अन्यएवाऽयं संवृत्त इति । तथाऽनेकरिमन्नप्येकव्यवहारो दृश्यते, यथा भिन्नापि क्रिया निवृत्तभेदा आख्यातेनाभिधीयते इत्येकोच्यते । तत्त्वतो हि 'भवद्भिरास्यते' 'भवन्त आसत' इत्यादी भिन्नैः कर्तृभिः साध्यानि स्वसमवेतानि भिन्नान्येवासनानि । एकत्वं चाश्रित्योक्तं-'न तिङन्तान्येकशेषारम्भं प्रयो- जयन्ति क्रियाया एकत्वा' दिति । एवं च किमेकं शौक्ल्यमाश्रयभेदात्तपचरितभेदम् , नेकमेवेति संशयात्प्रश्न उपपन्नः। यद्येकमिति । एकत्वे जातिवद्गुणस्य प्रकर्षानुपपत्तिः । समानगुणग्रहणमिति । तेन तुल्ये भेदे यथा शौक्ल्यस्य शौक्ल्यान्तरापेक्षः प्रकर्ष एवं कृष्णाद्यपेक्षोऽपीति तदपेक्षे प्रकर्षे प्रत्ययनिवृत्त्यर्थं समानगुणग्रहणं कर्त्तव्यमित्यर्थः । ननु यस्याऽप्येकं शौल्क्यं तेनापि भिन्नगुणापेक्षे प्रकर्षे प्रत्ययस्य निवृत्तिर्विधेया। नैष दोषः। एकत्ववादिनो यथा शौरक्यस्यात्मापेक्षप्रकर्षानुपपत्तिरेवं गुणान्तरापेक्षोऽपि प्रकर्षा नोप- पद्यते, यथा गोत्वं नात्मापेक्षया नापि जात्यन्तरापेक्षया प्रकृष्यते। गुणभेदवादी तु भेद- निबन्धनं प्रकर्ष सर्वत्रेच्छतीति तेनैव समानगुणग्रहणं कर्त्तव्यम् । विशेषवदिति। ततो उ.]स्येति । प्रकर्षयुक्तेऽपीति । साधनप्रकर्षेण क्रियाप्रकर्षो न नियत इति न तत्प्रकर्षव्यव- हारेण क्रियाप्रकर्पव्यवहार इति भावः । उक्तन्यायेति । एकत्वरूपेत्यर्थः । 'वाचकेन खल्व- प्युत्पत्तव्यमिति न्यायेति वक्तुं युक्तम् । तत्तत्समूहरूपद्वित्वस्य भेदो नास्तीति न वक्तुं शत्यमित्यन्ये । समानधर्म:-साधारणधर्मः । विशेषो-वैधर्म्यम् । उक्तसंशयबीजचा- ऽत्र नाऽस्तीत्याह-न चैकाऽनेकयोरिति । एकत्वाऽनेकत्वरूपवैधय॑स्य स्पष्टत्वादिति भावः। एकत्वाऽनेकत्वयोवैधर्म्यत्वस्यैवाऽभाव इत्युत्तरयति-एकस्याऽपीति । एकत्वे इति । आश्रयभेदसत्वेऽपि न स प्रकर्पप्रयोजक इत्यभिमानः। भाष्ये-न हि तेनैवेति । तत्प्रतियोगिक एवेत्यर्थः । 'अस्मादयं शुक्लतर' इत्यस्यैतदृत्तिशुक्लगुणप्रतियोगिकाऽतिशयव- च्छुक्कगुणवानयमिति बोध इति भावः। ननु भिन्नयोः कथं प्रकर्षः, अन्यथा आन्याऽभिरूपयो- रपि स स्यादत आह-तुल्ये भेदे इति । प्रकर्षों नोपपद्यत इति । एकत्वं स्ववाच- कात्तरबुत्पन्तिनियामकप्रकर्षविरोधीति भावः। तदेव दृष्टान्तेनोपपादयति-यथेति । जात्य- १'व्यवहारा दृश्यन्ते' पा० । २ 'तथा' पा० । । ।
कैयट-विवरणसहितं [ अतिशायने किंकृतो विशेषः ? ॥ अल्पत्वमहत्वकृतः ॥ अथवा पुनरस्त्वेकं निविशेषं च ॥ ननु चोक्तं-'प्रकर्षों नोपपद्यते नहि तेनैव तस्य प्रकर्षों भवतीति ? ॥ गुणान्तरेण प्रच्छादनात्प्रकर्षों भविष्यति।। अथवा पुनरस्तु नाना ॥ ननु चोक्तं-'समानगुणग्रहणं कर्तव्यं शुक्लात्कृष्णे मा. भूदिति ॥ न कर्त्तव्यं, समानगुण एव स्पर्धा भवति, नह्याढ्याभिरूपौ स्पर्द्धते हैं. वाचकेन खल्वप्युत्पत्तव्यं, न च शुक्लात्कृष्णे उत्पद्यमानो वाचकः स्यात् ॥ किमन्तात्पुनरुत्पत्त्या भवितव्यम्. ? ॥ द्वितीयान्तादतिशय्यमानात् । शुक्लमतिशेते शुक्तरः । कृष्णमतिशेते कृष्णतरः॥ यदि द्वितीयान्तादतिशय्यमानात्,-कालोऽतिशेते काली-कालितर- म.] विशेषाश्रयत्वादन्यत्वादुपपन्नः प्रकपः। अल्पत्वमहत्वकृत इति । क चिदाश्रयेऽल्प शौच्यं क चित्तु महदित्यर्थः । गुणान्तरेण प्रच्छादनादिति । संभेदात्, मिश्रीकरणा- दित्यर्थः। यथा जात्युत्पलादिवासिताया मल्लिकायाः। किमन्तादिति । अतिशायन इति किं प्रत्ययार्थनिर्देश आहोस्वित्प्रकृत्यर्थस्य विशे- पणमिति समर्थविभक्तिप्रश्नद्वारेण विचारः। द्वितीयान्तादिति । यदा तिङन्तेन विस्प- टार्थ विग्रहवाक्यं प्रदश्यते तदा द्वितीयान्तादुत्पत्तिः। कृदन्तेन तु वाक्यप्रदर्शने षष्ठया भाव्य-शुक्थस्यातिशायन' इति । तदा षष्ठयादौ सन्देहो भवति, कर्तरि षष्ठी वा स्यात् , कर्मणि वा ? करणे ल्युट् स्यात् कर्तरि वेति । अथवा द्वितीयाग्रहणमुपलक्षणार्थमिति उ.न्तराऽपेक्षयेति। जातिवाचकात्तरवुत्पत्तिनियामकस्तदर्थगतः प्रकों नास्तीत्यर्थः। एतेन 'ब्राह्मणत्वाच्छूद्रत्वं प्रशस्ततरमिति प्रकर्षोऽस्त्येवे'त्यपास्तम् । सर्वत्रेति । सजातीये विजा- तीये चेत्यर्थः । विशेषाश्रयत्वादिति । स च प्रकर्षः सजातीयाऽपेक्ष एव, न तु विजा- तीयकृष्णाद्यपेक्ष इति भावः । 'रूपादि साऽवयव मिति साजथाऽनुसारेणेदम् । अत एवाऽल्पत्वमहत्त्वकृत इत्युक्तिः सङ्गच्छते। अग्रे-निर्विशेषमित्यस्य-निरवयवमित्यर्थः। सम्भेदादिति । गुणान्तरेण कृष्णादिना प्रच्छादितत्वादपकर्षः। औज्ज्वल्यादिगुणान्तरा- च्छादितस्य च प्रकर्ष इति भावः। न हि आब्याऽभिरूपौ' इति भाष्यं स्वभावमूलकतया प्राग्व्याख्यातम् । एबच भेदेऽपि स्वभावादेव सजातीयभिन्नाऽपेक्षयैव प्रकर्षो न तु भिन्न- जातीयाऽपेक्षः प्रकर्षः-शुक्लादिभ्यस्तरबुत्पत्तिनिमित्तमिति भावः । अत्र भगवता शुक्लादि.. गुणेष्वनेकपक्षकथनेन व्यवहारोपपादकपदार्थानामवास्तवत्वं सूचितम् । किम्प्रत्यया. थैति।आये द्वितीयान्तात् , अन्त्ये प्रथमान्तादिति बोध्यम् । नन्वतिशायनशब्दस्य कृदन्त. त्वात्तद्योगे षष्ठ्या भाव्यमिति 'द्वितीयान्तादित्यसङ्गतमत आह-यदा तिङन्तेनेति । कृद. न्तेन विग्रहे यथाऽस्पष्टार्थत्वं तथा दर्शयति-तदा षष्ठ्यादाविति । आदिना ल्युट षष्ठया- दिविषये इत्यर्थः । तत्र यद्यपि कर्तरि षष्ठी, करणे ल्युडिति पक्षे शुक्लुककाऽभिभवकरण- मित्यर्थः : स्यात् , स च शुलतरशब्दानाऽवगम्यते, तथापि लक्षणशरणस्य सन्देहः स्यादे- १'नोपपद्यते इति' पा०। २ 'प्रकर्षोऽस्तीति' 'प्रकर्षाप्रकर्षों स्तः' इति वा पा०।३ 'भविष्य- तीति इति पा०। ४ समानगुणयोरेव'पा०। ५'कालतरः' पा०। ६ विशेषाश्रयत्वादुपपन्नः पा. । ।
। ५ अ.३ पा.।१ आ.।५५सू.] ॐ महाभाष्यम् ® इति प्रामोति, 'कालतर' इति चेष्यते। तथा काल्यतिशेते कालं 'कालतरे ति प्रामोति, कालितरे ति चेष्यते। तथा गार्योऽतिशेते गन् 'गर्गतर' इति प्रासोति 'गाय॑तर' इति चेष्यते। तथा गर्गा अतिशेरते गाय 'गायतरा" इति प्राप्नोति 'गर्गतराः' इति चेष्यते ॥ एवं तर्हि प्रथमान्तात्स्वार्थिको भविष्यति-कालोऽतिशेते कालतरः। काल्य- तिशेते-कालितरा। गार्योऽतिशेते गाय॑तरः। गर्गा अतिशेरते गर्गतराः।। यदि प्रथमान्तात्स्वार्थिकः-कुमारितरा किशोरितरा,-अव्यतिरिक्तं वय इति कृत्वा वयसि प्रथम इति ङीप्रामोति ।। तरपोक्तत्वात्स्त्रीत्वस्य प्रत्ययो न भविष्यति ॥ टाबपि तर्हि न प्राप्नोति ॥ उक्तऽपि हि भवन्त्येते टाबादयः, उक्तमेतत्-'स्वार्थिकाष्टाबादय' इति । ङीबपि तर्हि प्रायोति ।। प्र.] षष्ठयपि गृह्यते। प्रत्ययार्थसामर्थ्य लभ्या च समर्थविभक्तिः। कालितर इति । 'घरूप- कल्पे'ति हस्वः। गर्गतर (इति) प्राप्नोतीति । वृत्तावपि लुम्विधानात्सङ्ख्याविशेषसं- प्रत्ययावहुवचनान्तात्प्रत्ययोत्पत्तिरविरुद्धा। अव्यतिरिक्तं वय इति । प्रत्ययार्थपक्षे त्वाथ्य - वयवप्रतिपत्तिः । वयःप्रकर्षेणैवासौ कुमारीमतिशेते न तु गुणान्तरेण, तस्य विप्रकर्षात् । शाब्दी तु बयःप्रतिपत्तिर्नास्तीति ङीपोऽप्रसङ्गः। स्वार्थिकत्वे तु शाब्येव वयःप्रतिपत्ति- रिति ङोप्प्राप्तिः । तरपोक्तत्वादिति । तरपः स्वार्थिकत्वात्सर्वः प्रकृत्यर्थस्तेन द्योत्य इति भावः। डीबपीति । टाबपवादत्वान्ङीप इति भावः । अन्ये त्याहुः-कुमारशब्दादुत्पन्नेन डीपा प्रथमवयोविशिष्टार्थगतस्य स्त्रीत्वस्याभिव्यक्तत्वात्तरबन्तात्स्त्रीत्वमात्रमभिव्यक्तव्यमिति उ.] वेति भावः। कर्तरि वेति। कर्तरि ल्युट् , कर्मणि षष्ठीत्यर्थः। अत एव आढ्यतमो देवदत्त' इति सामानाधिकरण्योपपत्तिः। अथ वेति । अत्र पक्षे कर्मणि षष्ठी कर्तरि ल्युडिति निर्णयो व्याख्यानादिति भावः । तदाह-प्रत्ययार्थति । ननु वृत्तावभेदैकत्वसङ्ख्याऽवग- मात्कथं बहुवचनान्तात्प्रत्ययोऽत आह-वृत्तावपीति । लुग्विधानादिति । यो लुग्दर्शनादित्यर्थः। वस्तुतः सङ्खयाविशेषाऽनवगमेपि गर्गाऽपत्यत्वेन बहुत्वप्रतीतिरिति बोध्यम् । भाष्ये-प्रथमान्तादिति। 'अतिशायने' इति कर्तृल्युडन्तम्प्रकृत्यर्थविशेषणमिति भावः । 'काल्यतिशेते' इत्यादेदीव्यत्यादिव द्विशेष्यविशेषणभावव्यत्यासादतिशयकी काली. त्यादिक्रमेणाऽर्थः । ननु प्रत्ययार्थपक्षेऽपि प्रवृत्तिनिमित्तगुणप्रकर्ष एव प्रत्ययोत्पत्तेस्तत्राऽपि वयोवाचकत्वं दुर्वारमत आह-प्रत्ययार्थेति । तत्र अतिशयितुर्विशेष्यत्वेन वयसस्तद्विशे- पणत्वाऽभावान प्रवृत्तिनिमित्तत्वमिति भावः । विप्रकर्षादिति । गुणान्तरस्य शब्दतोऽ- नुपस्थित्या विप्रकर्ष इति भावः। भाष्ये--अव्यतिरिक्तं वय इति । वयः-प्रकृष्टं वयः, केवलवयसोऽव्यतिरिक्तम्-अनतिरिक्तमित्यर्थः। तरपेति । वस्तुतस्तरपा-तत्प्रकृतिभूतेन सदन्नघटकेन कुमारीशब्दादिनेत्यर्थः। तेन वयोविशिष्टार्थगतस्त्रीत्वस्योत्तत्वेन तद्द्योतको ही पुनर्नेति भावः। स्त्रीत्वस्य । वयोरूपप्रवृत्तिनिमित्तविशिष्टार्थगतस्त्रीत्वस्येत्यर्थः । १ इतिः कचिन्न । २'स्त्रीप्रत्ययो न पा०1३ स्त्रिया'मित्यत्रोक्तम् ।
३ कैयट-विवरणसहित [ अतिशायने- एवं तर्हि गुणोऽभिधीयते । एवमपि लिङ्गवचनानि न सिध्यन्ति-शुक्ल- तरं शुक्लतरा शुक्लतरः शुक्लतरौ शुक्लतरा इति ॥ आश्रयतो लिङ्गवचनानि भविष्यन्ति । गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति । तद्यथा-शुक्वं वस्त्रं शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलो शुक्लाः कम्बला इति । यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यलिङ्गं वचनं च तद्गुणस्याऽपि भविष्यति ॥ अथवा क्रियाऽभिधीयते ॥ प्र.]टाबेव भविष्यति । यथा यत्र तत्रेत्यादौ त्रलाऽधिकरणस्याभिव्यक्तत्वात्तद्धितान्तात्सामयिकी प्रथमैवोत्पद्यते न सप्तमी। भाष्यकारस्तु-निमित्तस्य संनिधानादपवादेनैवात्र डीपा भाव्यं न तु टापेति पक्षान्तरमाश्रयति-एवं तर्हि गुण इति । अतिशेतेऽनेनेति अतिशायनो गुणोऽभिधीयते । करणे ल्युट । आश्रयद्रव्यवाचिनः स्वसमवेते गुणे प्रत्ययविधिः । ततो व्यतिरिक्तार्थाभिधानाद्धान्ताद्वयोलक्षणङीबभावः । गुणाभिधाने कालितर इति सामानाधिकरण्याभावाद्धादिष्विति हस्वो न प्राप्नोतीति चेद्वचनाद्वैयधिकरण्येऽपि- भविष्यति । एवमपीति । षष्ठीप्रसङ्गस्तु द्रव्यवचनान्न चोदितः । सोऽयमित्यभेदस्य गुण- गुणिनोः सर्वदाऽत्र विवक्षितत्वात्। सत्यामपि त्वभेदविवक्षायां मचा दिवत्स्वलिङ्गसङ्घचापरि- त्यागप्रसङ्गः। आभयत इति । विशेषणानां चाजाते'रिति वचनात् । तत्र हि विशे- षणशब्देन परोपकारायोपात्ता:-शेषभूता:-शुक्लादयो गुणा गृह्यन्ते । अथवा क्रियेति । उ.] तरबन्तस्य तु प्रकर्षः प्रवृत्तिनिमित्तमतस्तद्विशिष्टार्थगतस्त्रीत्वेन 'बयसी'ति डीबिति अत एव 'गोतरे'त्यादौ न छीप, तदाह-खीत्वमानमिति । नतु वयो- मात्रविशिष्टार्थगतं, तदेव हि 'वयसि प्रथम' इत्यस्य प्रवृत्ती निमित्तमिति भावः। यथेति। सा हि प्रातिपदिकेनोक्तेऽप्यर्थे भवतीति भावः। इममाशयमजानान आह-भाष्ये-टाबपीति। उक्तनैवाशयेनोत्तरम् । पुनस्तमजानान आह-डीबपीति । भाष्यकारस्त्विति। भाष्य- कारैकदेशी वित्यर्थः । गुणोऽभिधीयत इति । प्रकृष्टकालत्वादिगुण इति भावः । करणे ल्युडिति । अतिशायने गुणे प्रत्यय इत्यर्थः। शुक्लस्याऽतिशायनो गुण इति विग्रहः । शुक्लनिष्ठः स्वेतराऽभिभवकरणं शुक्लो गुण इत्यर्थः। एवञ्च न प्रागुक्ता दोषा इति तात्पर्यम् । ङीवभाव इति । बयोविशिष्टद्रव्यवाचकाद्धि ङीप् , न चाऽयं तथा, किन्तु वयोमात्र- बाचक इति भावः। वचनादिति । 'घरूपे ति सूत्रे घेति वचनादित्यर्थः। षष्ठीप्रसङ्गस्त्विति। 'न चोदित' इत्यत्राऽन्वयः। द्रव्यवचनात् पटादिशब्दात् पटस्य शुक्लतर इत्येवमित्यर्थः । तत्र हेतुमाह-सोऽयमिति । ननु सर्वथाऽभेदविवक्षायां कथं लिङ्गवचनाऽसिद्धिरत आह- सत्यामपि विति । मञ्चादिवदिति । मञ्चस्थस्त्रीणां मञ्चपदेन मचाऽभेदेन बोधना- दिति भावः । 'गङ्गायां घोष' इतिवच्चेत्यपि बोध्यम् । भाष्ये-आश्रयत इति । भेदसम्बन्ध- मूलकेन तत्वारोपेण लक्षणायामेव स्वलिङ्गाद्यत्यागः । अभेदेनैव तत्प्रतीतौ तु तत्त्याग इति भावः । तदुक्तम्-'अभेदस्य सर्वदाऽत्र विवक्षितत्वादिति । विशेषणानाञ्चेति । विशेष- १ 'भवन्ति' पा०।२चकारः काचित्कः । ३'प्रत्ययसिद्धिः पा० भावः। ।
। । ५.३ पा.६१ आ.।५५सू.] ॐ महाभाष्यम् एवमपि लिङ्गवचनानि न सिध्यन्ति ।। आश्रयतो लिङ्गवचनानि भवि. प्यन्ति ॥ एवमपि द्विवचनं प्रामोति, यश्च ह्यतिशेते यश्चातिशय्यते उभौ तौ तस्याश्रयौ भवतः ।। नैष दोषः । कथम् ? ॥ शेतिरकर्मकः ॥ अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति ॥ कर्मापदिष्टा विधयः कर्मस्थ. भावकानां कर्मस्थक्रियाणां वा भवन्ति, कर्तृस्थभावकश्च शेतिः ।। अथ यद्येव द्वितीयान्तादुत्पत्तिः प्रथमान्ताद्वा स्वार्थिकः; अथापि गुणोऽ- भिधीयतेऽथापि क्रिया किं गतमेतदियता सूत्रेण आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम् ? ॥ 'गत'मित्याह ॥ कथम् ?॥ यदा तावद् द्वितीयान्ता- दुत्पत्तिः प्रथमान्ताद्वा स्वार्थिकस्तदा 'कृत्यल्युटो बहुल' मित्येवमन ल्युङ्मवि. ष्यति । यदा गुणोऽभिधीयते तदा न्यायसिद्धमेव । यदाऽपि क्रिया-तदापि न्यायसिद्धमेव ॥ अथवाऽतिशाययतीत्यतिशार्यनः ॥ कः प्रयोज्यार्थः ? ॥ गुणा गुणिनं प्रयोजयन्ति गुणी वागुणान्प्रयोजयति ।। कः पुनरिह शेत्यर्थः?॥ प्र.] अतिशयोऽतिशायनमिति भावे ल्युड्विधानात् । आश्रयौ भवत इति । उभयोनिर्व- तकत्वादिति भावः । अकर्मका अपीति । अर्थान्तरवृत्तित्वात् । कर्मापदिष्टा इति । अतिशयक्रिया कर्तर्येव समवेता नतु कर्मणीति कर्माश्रयलिङ्गसङ्ख्याभाव इत्युक्तं भवति । कर्मादिष्टा इति । द्विवचनमिह कर्मापदिष्टो विधिः, कर्माश्रित्य तस्य चोदितत्वात् । आश्रयतो लिङ्गवचनानीत्यत्र समवाय्याश्रयो गृह्यते न तु निर्वर्तक इत्यर्थः। ल्युट भविष्यतीति । कर्तृसाधनः । कः प्रयोज्यार्थ इति । अचेतनत्वाद्गुणानां प्रयोजक- त्वानुपपत्ति मन्यते । गुणा गुणिनमिति। अस्माभिः प्रकृष्टैस्त्वमतिशवेति तत्समर्था- उ.]णानां गुणानां,युक्तवत्-स्वयुक्ताश्रयवल्लिङ्गवचनानीति तदर्थः। तदाह-तत्र हीति। परोपकाराय-परस्य द्रव्यस्येतरेभ्यो व्यवच्छेदाय । तस्यैव व्याख्यानं-शेषभूता इति । भावे ल्युडिति । शुक्लवृत्तिरितराऽभिभव इति बोधः । निर्वतकत्वादिति । तत्त्वमेव चाश्रयत्वमित्यभिमानः । अर्थान्तरेति । अभिभवार्थत्वादिति भावः । तरबादिविधेः कर्माऽपदिष्टत्वाऽभावादाह-अतिशयक्रियेत्यादि। एवञ्च पटाऽभिन्नः शुक्लवृत्तिरितराऽभि- भव इति बोधात्तगतलिङ्गसङ्खये। कत्रैवाऽभेदविवक्षा न तु कर्मणा स्वभावादिति तात्पर्यम् । भाष्याक्षराणि योजयितुमाह-द्विवचन मिहेति । तच्च यत्र कर्मण्यपि मुख्यव्यापाराश्र- यत्वविवक्षा तत्र भवति,-यथा-देवदत्ततण्डुलौ पचत इति, न चैवं प्रकृते इति तात्पर्यम् । भाष्ये-यदा गुण इति । करणे तदा ल्युट् । यदा क्रियेति । भावे तदा ल्युट् । तत्र कर्तरि ल्युटि प्राप्ताऽप्राप्त विवेकेनाऽभिभवकत्तृत्वस्यैव धोत्यत्वात्तस्य च विशेषणत्वात्- प्रकृत्यर्थविशेषणत्वोक्तिः । 'गुणोऽभिधीयत' इति पक्षं 'प्रथमान्ताद्वा स्वार्थिक' इति पक्षच प्रकारान्तरेण साधयति भाष्ये-अथ वेति । गुणोऽभिधीयत इति पक्षे प्रयोज्यार्थं दर्शयति- गुणा गुणिनमिति । प्रयोज्यार्थ इत्यस्य--प्रयोज्यत्वविशिष्टोऽर्थः प्रयोजनं यस्य स प्रयोजक इत्यर्थः। गुणानां प्रयोजकत्वेऽभिभवप्रेरणाकर्तरि गुणे प्रत्ययः। तत्समर्थाचरण- १ उभौ तस्याश्रयौ' पा.।२ 'कर्मापदिष्टाश्च' पा.। ३ 'क्रियाऽपि' पा.। ४ 'अतिशायनम्' पाः । - कैयट-विवरणसहित [ अतिशायने इह यो यन्त्र भवति शेतेऽसौ तत्र । गुणा गुणिनि शेरते ॥ 'शेत्यर्थः कारितार्थों वा निर्देशोऽयं समीक्षितः। शेत्यर्थे नास्ति वक्तव्यं कॉरितार्थ ब्रवीमि ते ॥१॥ गुणी वा गुणसंयोगाद्गुणो वा गुणिना यदि । अभिव्यज्येत संयोगात्कारितार्थों भविष्यति' ॥२॥ इहाऽस्थापि सूक्ष्माणि वस्त्राण्यस्याऽपि सूक्ष्माणि वस्त्राणीति,-परत्वा- दातिशायिकः प्रायोति ॥ * ॥ अतिशायने बहुव्रीहाबुक्तम् ।। * ॥ [ अतिशायने बहुव्रीहावुक्तम् ] ॥ किमुक्तम् ? ॥। “पूर्वपदातिशये आतिशायिकाद्बहुव्रीहिः सूक्ष्म- वस्त्रतरायणं [इति], उत्तरपदातिशये आतिशायिको बहुव्रीहेर्बह्वायतराद्यर्थः"[इति] 1 प्र.] चरणलक्षणश्चाचेतनानामपि प्रयोजकव्यापार इति कारकप्रकरणे प्रतिपादितम् । कः पुनरिति । शेतेरनेकार्थत्वात्प्रश्नः ।यो यत्रेति । स्थानार्थः शेतियथा-जलाशय इत्यत्रेति भावः । गुणा गुणिनीति। अवतिष्ठन्त इत्यर्थः । तान् गुणान् गुण्यतिशाययति अतिशयेनावस्थापयतीत्यर्थः। पूर्वं गुणानां प्रयोजकत्वमुक्तं पश्चाद्गुणिनः । शेत्यर्थ इति । प्रकृत्यर्थो ण्यर्थोपि वाऽत्र गृह्यत इत्यर्थः शेत्यर्थे नास्तीति । तस्य प्रसिद्धत्वात् । गुणी वेति। गुणसम्बन्धाद्गुणवानतिशेते गुणिसम्बन्धादुणो वा । अभिव्यज्यतेति ।प्रकृष्टत्वेनेतिभावः । कारितार्थ इति । गुणो गुणिनमतिशाययति गुण्यपि गुणमित्यस्ति ण्यर्थोपपत्तिः। परत्वा- दिति । 'सूक्ष्मतरवस्त्र' इति प्राप्नोति 'सूक्ष्मवस्त्रतर' इति चेष्यते । प्रकर्षस्याऽन्यपदार्थ प्रति विशेषणत्वस्य च युगपद्विवक्षायां विप्रतिषेधोपपत्तिः । आतिशायिकादिति । पूर्व- विप्रतिषेधेनेति भावः। उत्तरपदातिशय इति । परविप्रतिषेधेन तत्र स्वरे विशेषस्तरबन्तेन समासे 'बहोर्नवदुत्तरपदभूनीति बह्वायतरशब्दोऽन्तोदात्तो भवति । बहुव्रीहेस्तरपि सति उ.]लक्षणश्चेति । अचेतनत्वात्तद्विरुद्धानाचरणरूपमेवाऽत्र तत्समर्थाचरणं बोध्यम् । अन्त्ये उपपत्तिमाह-गुणी वेति । गुणिनः प्रयोजकत्वेऽभिभवप्रेरणाकर्तरि वर्तमानात्प्रत्यय इति बोध्यम् । कः पुनरिहति । 'गुणी वेति पक्ष इत्यर्थः । अभिभवार्थोऽत्र न सम्भवति, गुण- विशिष्टो हि गुणी स्ववृत्तिगुणसजातीयगुणविशिष्टमितरमभिभवति न गुणा इति प्रश्नः । अतिशयेनाऽवस्थापयतीति । अतिशयवैशिष्ट्येनाऽवस्थापयतीत्यर्थः। अतिशयवैशि. ष्टथेन गुणाऽवस्थापनकर्तरि गुणिनि वर्तमानात्प्रातिपदिकात्प्रत्ययः स्वार्थे इत्यर्थः । तथात्व. ञ्चाऽतिशयविशिष्टतया गुणबोध एवेति शब्दात्तत्प्रतीतिरुपपन्ना । कारितेति । हेतुमण्ण्य- न्तस्य प्राचां सब्ज्ञा भाष्ये। गुणी गुणेन संयोगात्-सम्बन्धात् ,गुणिनासंयोगात्सम्बन्धा. १ गुणाश्च गुणिनि' पा० । २ 'निदेशेऽयं' 'निर्देशो यःसमी' पा० । ३ 'कारितार्थे पा. । ४ 'गुणी वा गुणिना सह' पा.। ५ इदं व्याख्याभाष्यं लुप्तमित्यनुमिनुम इति गौडाः। ६ पूर्ववार्तिकावशिष्टांऽशोयमिति गौडाः । भाष्यकृस्कृतं स्मारणभाष्यमित्यन्ये । ७ 'वस्त्रतराद्यर्थः।।' पा० । ८ इदं वार्तिकद्वयं वार्तिककृता वर्णो वर्णेन (२.१.६९). इत्यत्रोक्तम् । ९ इदं कचिन्नास्ति। a . ५.३ पा.१आ.१५५सू.] महाभाष्यम् इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि, तत्र पूर्वमपेक्ष्य उत्तरे द्वे तरबन्ते, तग्न द्वयो स्तरबन्तयो रेकस्मात्प्रकर्षयुक्ताच्छुक्लारशब्दादुत्पत्तिः प्रासोति, शुक्लशब्दादेव चेष्यते ।। शुकुतरस्य शुक्लभावात्प्रकृतेः प्रत्ययविज्ञानम्॥*] [शुक्लतरस्य शुक्लभावात्प्रकृतेः प्रत्ययो विज्ञायते।] शुक्लतरशब्दे-शुक्लशब्दो. ऽस्ति तस्मादुत्पत्तिर्भविष्यति ।। नैतद्विवदामहे-शुक्लतरशब्दे शुक्लशब्दोऽस्ति नास्तीति ॥ किं तर्हि ? || शुक्लतरशब्दोऽप्यस्ति तत उत्पत्तिः प्रामोति । {I७॥ तदन्ताच स्वार्थे छन्दसि दर्शनं श्रेष्ठतमायेति ॥॥ तदन्तादातिशायिकान्तात्स्वार्थे छन्दस्यातिशायिको दृश्यते-'देवो वः सविता प्रापयतु श्रेष्ठतमाय कर्मणे' एवं तर्हि-मध्यमाच्छुक्लशब्दात्पूर्वपरापेक्षादुत्पत्तिर्वक्तव्या । मध्यमश्च अ.]तरपः पित्त्वादनुदात्तत्वान्मध्योदात्तत्वप्रसङ्गः,तथा कपि विशेषो बहाब्यतरक इति तरबन्तेन समासे भवति, बहुव्रीहेस्तु तरपि बह्वाट्यकतर इति स्यात् । यदा त्वत्रैव पूर्वपदार्थातिशय- स्तदा बहुव्रीहौ कृते तरब्बेदितव्यः। प्रकर्षापकर्षयुक्तानीति । अवयवधर्मेण समु- दायस्य व्यपदेशस्तत्र प्रथममपकर्पयुक्तं मध्यम पूर्वापेक्षया प्रकर्षयुक्तमन्त्यापेक्षयाऽप्रकर्षयुक्त- मन्त्यन्तु प्रकर्पयुक्तमेवेति योज्यम् । तत्रेति । पूर्वापेक्षया द्वयोरपि प्रकृष्टत्वाच्छुक्कुतरत्वं तयोस्त्वेकतरस्यान्यतरापेक्षया प्रकर्षविवक्षायां तरवन्तात्तरबुत्पत्तिप्रसङ्गः । शुक्लतरस्येति । न्यूनमध्यमोत्कृष्टानां सर्वेषां शौक्लयसम्भवाच्छुक्लव्यपदेशाच्छुक्लशब्दादेव तरबुत्पत्त्यत- इत्यर्थः । शुक्लतरशब्द इति । शुक्लतरः शब्दो वाचको यस्यार्थस्य तस्मिन्नर्थे शुक्लशब्दो वाचकत्वेनास्तीत्यर्थः । उत्पत्तिः प्रामोतीति । अनिष्टमपि प्राप्नोति सत्यामपीष्टसिद्धा- वित्यर्थः। श्रेष्टतमायेति । श्रेष्ठायेत्यर्थः । मध्यमादिति । मध्यमवाचिनः शुक्लादन्त्ये- उ.द्गुणो वा इतराऽभिभवकर्तृत्वेनाऽभिव्यज्येत-प्रतीयेतेत्यर्थस्तदाह-प्रकृष्टशब्देनेति । इतराऽभिभवकतत्वेन प्रतीयत इति ण्यर्थः प्रेरणाऽस्य स्पष्टवेत्याशयः । अत्र पक्षे निपा- तनाऽनाश्रयणम् । परत्वादिति । 'बहुव्रीह्यपेक्षयेति शेषः । ननु पूर्व तरपि बहुव्रीहौ वा न रूपे विशेष इत्यत आह-तत्र स्वरे इति । त्रयाणामपि प्रकर्षाऽपकर्षोभययोगः कथमत आह-अवयवधर्मेणेति । कचिदवयवे प्रकर्षयोगः, कचिदप्रकर्षस्यैव, कचिदुभयोरिति न्यात्मकसमुदाये तदुपपत्तिः। भाष्ये-प्रकर्षयुक्तादिति । प्रकर्षयुक्तवाचकादित्यर्थः । शब्दार्थयोरभेदाच्च भगवतः प्रायेणेदृशो व्यवहार इति बोध्यम् । ननु शुकतरशब्दे विद्य- मानशुक्लशब्दस्यैकार्थीभावापन्नत्वात्कथं तत उत्पत्तिप्रसङ्गोऽत आह-शुक्लतरशब्द इति । ननु श्रेष्ठतमायेत्यादावातिशायनिकात् दृश्यत एव स इति कथं तस्याऽनिष्टतेत्यतो भाष्ये- तदन्ताच स्वार्थे इति । एवञ्च लोकेऽन्यत्र च तरबाद्यन्तादतिशये तरबाद्यनिष्टमेवेति भावः । शुक्लादन्त्येऽभिधेये इति। अतिशय्यमानादतिशयकर्तरि प्रत्यय इति पक्षे इदम् । १ इदं काचित्कम् । २ 'शुलशब्दादेवेष्यते' पा० । ३ इदं व्याख्याभाष्यं वार्तिकं वा लुप्तमिति संधीभिश्चिन्त्यम् । ४ भविष्यति । -- ।
8 कैयट-विवरणसहितं. [ अतिशायने शुक्लशब्दः पूर्वमपेक्ष्य प्रकृष्टः, परमपेक्ष्य न्यूनः । न च न्यूनः प्रवर्तते । अथ वोत्पद्यतां, लुग्भविष्यति । बाचकेन खल्वप्युत्पत्तव्यं, न च शुक्लतरशब्दा. दुत्पद्यमानो वाचकः स्यात् ॥ न खल्वपि बहूनां प्रकर्षे तरपा भवितव्यम् ॥ केन तर्हि ? ॥ तमपा ।। पूर्वेण स्पर्द्धमानो यो मध्येमो लभते सितः । परस्मिन्न्यूनतामेति न च न्यूनः प्रवर्तते ॥१॥ प्र.] ऽभिधेये प्रत्ययो वक्तव्यः,-शुक्लमतिशेते शुक्लतर इति । अनेन च वक्तव्येन तक्रकी-- ण्डिन्यन्यायेन तृतीयशुक्लवाचिनः शुक्लतरशब्दादुत्पत्तिर्बाध्यते । मध्यमश्च शुक्लः पूर्वापेक्षया शुक्लतरो भवति । तृतीयापेक्षया तु न्यूनत्वाच्छुक्ल एवं भवति न शुलतर इति शुक्लशब्दा. देव मध्यमशुक्लवाचिनः प्रत्ययो वक्तव्य इत्यर्थः । न च न्यूनः प्रवर्तत इति । स्वगत- प्रकर्षापेक्षायां तद्धितोत्पत्तावित्यर्थः । ततश्च पूर्वमतद्धितान्त एव शुक्लशब्दस्तृतीये शुक्लेऽभिधेये प्रत्ययमुत्पादयति । लुग्भविष्यतीति । गतार्थत्वादप्रयोग एव लुक् । एकेनैव तरपा आद्यमध्यमशुक्लापेक्षतृतीयप्रकर्षस्य प्रतिपादनात्। न चेति । शुक्लतरतरशब्दस्य प्रयोगाभावादवाचकत्वम् । न खल्वपीति । यदि तावत्रयाणामन्यतमस्य प्रकषों विवक्ष्यते' तदा 'शुक्लतम मिति भाव्यं न तु 'शुक्लतर मिति, अथ पूर्वमनपेक्ष्य द्वयोरन्यतस्य प्रकर्षविवक्षा तदा पूर्वानपेक्षायां मध्यमं शुक्कमेव भवति न तु शुक्लतरमिति शुक्लशब्दादेवोत्पत्तिः सिद्धा,-शुक्लतर इति न कश्चिद्दोषः । पूर्वोक्तार्थसङ्ग्रहश्लोकाः-पूर्वेणेति । सितः-शुक्लः उ.] तदेवाह-शुक्मतिशेते इति । नन्वेवमपि तरबन्तादुत्पत्तिः कथं वारितेत्यत आह- अनेन चेति । तृतीयशुक्लवाचिन:-तृतीयेनाऽतिशय्यमानशुक्नुवाचिन इत्यर्थः । वस्तुतः उभाभ्यामप्युत्पत्तिसिद्धाविदं वचनं नियमार्थ-शुक्लशब्दादेव न शुक्लतरादिति वक्तुं युक्तम् । न्यायस्तु नाऽनुवाद्यविषय इत्यसकृदावेदितम् । ननु मध्यमस्याऽपि पूर्वाऽपेक्षया प्रकृष्टत्वा- तरपा भाव्यमिति मध्यमः शुक्लशब्द एव दुर्लभोऽत आह भाष्ये-मध्यमश्चेति । तृतीया- पेक्षया तु न्यूनत्वादिति । विद्यमानोऽपि पूर्वापेक्षः प्रकर्षोऽकिञ्चित्करः, यथा राज- सन्निधावमात्यस्येति भावः । ननु न्यूनोऽतिशय्यमानवाचक एव प्रवर्त्तते-वृत्ति लभतेऽत्त' आह-स्वगतेति । पूर्वाऽभिभवकर्तृत्वेन विवक्षायां मध्यमेऽर्थे प्रथमवाचकात्प्रत्ययो नेत्यर्थः। 'प्रकृत्यर्थविशेषणमिति पक्षे आह भाष्ये-अथवेति । तयाचष्टे-एकेनैवेति । तृतीयादुत्प- नेनेत्यर्थः। मध्यमात्त न, विद्यमानस्याऽपि प्रकर्षस्योक्तरीत्याऽकिञ्चित्करत्वादिति भावः । ननु युगपदुपस्थितौ तृतीयाऽपेक्षाऽपकणाऽऽद्यापेक्षोत्कर्षस्य तिरोधानेऽपि क्रमेण प्रकर्ष विवक्षायां ततस्तरपि तदन्तात्पुनःस दुर्वारोऽतः पक्षान्तरमाह भाष्ये-वाचकेन खल्वपीति। वक्ष्यमाणेऽपीयमापत्तिर्दुर्वारेत्ययमेव समाधिमुख्यः। अत एवाऽये सङ्ग्रहश्लोकेषु तदनुक्तिः । एतदन्तेन समाप्तिश्चेति ध्येयम् । 'श्रेष्ठतमायेति तु च्छान्दसम्, लोके त्वसाधुरेवेति निष्कर्षः । १ स्पर्द्धमानोऽयमुत्तरो' पा० । २ ‘य उत्तरो लभते' पा० । , ५.३ पा.१ आ.। ५७ सू.] ॐ महाभाष्यम् अपेक्ष्य मध्यमः पूर्वमाधिक्यं लभते सितः परस्मिन्न्यूनतामेति यथाऽमात्यः स्थिते नृपे ॥२॥ अस्तु वापि तरतस्मानाऽपशब्दो भविष्यति । वाचकश्चेत्प्रयोत्तव्यो वाचकश्चेत्प्रयुज्यताम् ॥३॥ द्विवचनविभज्योपपदे तरबीयसुनौ ।५।३।५७ 'द्विवचन इत्युच्यते तत्रेदं न सिध्यति-'दन्तोष्ठस्य दन्ताः स्निग्धतराः' 'पाणिपादस्य पादौ सुकुमारतरौ' 'अस्माकं च देवदत्तस्य च देवदत्तोऽभिरू. पतर इति ॥ यदि पुनद्यर्थोपपद इत्युच्येत तत्राऽयमप्यर्थो-विभज्योपपदग्रहणं न कर्त्तव्यं भवतीहापि 'सावाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा' इति द्यर्थोपपद इत्येव सिद्धम् ॥ नैवंजातीयिको व्यर्थता शक्या विज्ञातुम्, इहापि प्र.] पूर्वेण स्पर्द्धमानः-तदपेक्षयोत्तरः प्रकर्ष लभते। तृतीयापेक्षया न्यून एवेत्यर्थः। अपे- क्ष्येति-पूर्वेण समानार्थी, दृष्टान्तोपादानाय तु पुनरुक्तः। नापशब्द इति । गतार्थत्वाल्लुग- भावात् वाचकश्चत्प्रयोक्तव्य इति त्वं मन्यसे तदा-'शुक्लतरतर मिति यदि वाचकस्ततः प्रयुज्यतां न तु वाचकः, तस्मान्न प्रयोक्तव्य इत्यर्थः । [अतिशायने तम] । द्विवचन । द्विवचनं च विभज्यं च द्विवचनविभज्यम् । निपातनाद्भजेर्विपूर्वाय. प्रत्ययः । द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः । तस्मिन्सति नुबन्तात्तिङन्ताचा. ऽतिशायने तरबीयसुनौ भवतः। तच्चोपपदं विग्रवाक्य एव प्रयुज्यते । वृत्तौ तु गतार्थ. त्वान्नाऽवश्यं प्रयुज्यते। एवं चोपपदग्रहणं विस्पष्टार्थम् । तत्रेदं न सिद्यतीति । पारिभाषिकद्विवचनाश्रयः पूर्वपक्षः । अर्थाश्रयस्तूत्तरः पक्षः । अस्माकं चेति । 'अस्मदो द्वयोश्चे'त्येकस्मिन् बहुवद्भावः। यदि पुनरिति । पूर्वोक्तेषूदाहरणेषु क्वचिद्राशिद्वया- पेक्षस्य कचिदर्थद्वयापेक्षस्य ब्यर्थस्य विद्यमानत्वात्प्रत्ययः सिद्ध इति भावः । इहापीति । - । उ.] अपेक्ष्येति-श्लोकस्य पौनरुक्तयमाशङ्कयाह-पूर्वेणेति । अस्तु वेति भाष्यस्य-प्राप्नोतु इत्यर्थः । क्रमेण प्रकर्षविवक्षायां प्राप्तिः। वाचको-लोके बोधकश्चेत्प्रयोक्तव्य इत्यस्य 'इतिसिद्धान्त' इति शेषः । अतो यदि बोधकः शिष्टसंमतस्तदा प्रयुज्यतां न तु तादृश इति न प्रयुज्यत इत्यर्थः । अनेन शास्त्रसिद्धोऽपि लोकाऽप्रयुक्तोऽसाधुरिति बोधितम् ॥ ५५ ॥ द्विवचनवि । निपातनादिति । एवञ्च लोके विभाज्यशब्दस्य साधुत्वं चिन्त्यम् , ण्यत्यपि विभाग्यमित्यस्यापत्तेः। वृत्तौ विति। द्वथर्थादेर्बुद्धिस्थत्व एव तरबुत्पत्तरिति भावः । नन्वस्माकमित्यस्य बहुत्वार्थकत्वात्कथं सिद्धान्तेऽपि तरवत आह-अस्मद इति । कचिदिति । 'दन्तोष्ठस्ये त्यादौ । क्वचित्-'अस्माकच देवदत्तस्ये त्यादौ । व्यर्थस्य-धर्थ- १ 'तरस्तस्मात्' पा० । २ इदं वार्तिकमिति गौडाः । ३ 'इत्युच्यते' पा० । ४'तत्राऽयमर्थः । ५'जातीयका' पा०1 । ।
8 कैयट-विवरणसहितं. [द्विवचनावि प्रसज्थेत-'साङ्कादयकानां पाटलिपुत्रकाणाञ्च पाटलिपुत्रका अभिरूपतमा इति ॥ अवश्यं खल्वपि विभज्योपपदग्रहणं कर्त्तव्यं, यो हि' बहूनां विभाग- स्तदर्थम् , 'साङ्काश्यकेभ्यश्च पाटलिपुत्रकेभ्यश्च माथुरा अभिरूपतरा' इति ।। तत्तहि द्यर्थोपपद इति वक्तव्यम् ? ॥ न वक्तव्यम् । नेदं पारिभाषिकस्य अ.] साङ्काश्यकपाटलिपुत्रकराशिद्वयसम्भवात् । साझाश्यकानामिति । अत्रापि राशि- द्वयस्य सद्भावात्तरप्स्यात् । साझाश्यकावयवः समुदायः साकाश्यकशब्देनोच्यते, पाटलि- पुत्रकावयवश्च पाटलिपुत्रकशब्देनोच्यते । एवं निर्धारणमुपपद्यते । बहूनां विभाग इति । बहूनां राशीनां मध्यादेकस्य राशेर्यत्र विभागस्तत्र राशिवयादिसद्भावात्तरम्न स्यात् । तत्तहीति । ननु चैवंजातीयिका द्वयर्थतेत्यादिनातिप्रसङ्गोद्भावनेनाऽस्य पक्षस्य दूषित- स्वात्कथं पुनरङ्गीकरणम् ? । नैष दोषः । इह राशिद्वयापेक्षा व्यर्थतामाश्रित्याचार्यदेशीयेन 'यदि पुन'रित्यायुक्तं, 'तत्रायमप्यर्थ' इति च । तत आचार्येणैवंजातीयिकेतिराशिद्वया- पेक्षा ध्यर्थता दूषिता । ततोऽन्याझ्यर्थताऽऽचार्यस्याभिमतेति शास्त्रा शिष्य आह-तत्तहाँति। आचार्य आह-न वक्तव्यमिति । इयमाचार्यस्य ध्यर्थताऽभिमता-इह दन्तोष्ठस्य पाणिपादस्येति तिरोहितावयवभेदः समूहः समासार्थः । तत्रैतस्यां वृत्तावभेदैकत्वसङ्घयो- पादायित्वादत्तिपदस्य परित्यक्तभेदाङ्गीकृताऽभेदलक्षणैकत्वसङ्घयदन्तोष्ठलक्षणार्थद्वयाश्रया द्ध्यर्थताऽस्ति । यदा वितरेतरयोगद्वन्द्वस्तदावयवार्थभेदसद्भाबाद द्वयर्थता नास्तीति तरम्न भवति-लक्षन्यग्रोधानां लक्षाः स्निग्धतमा' इति । 'अस्माकं च देवदत्तस्य चेत्यत्राप्यर्थद्वय- SMS उ.] शब्दस्य । ननु ‘साङ्काश्यकाना'मित्यत्र, साङ्काश्यकेभ्य इत्यत्र च बहुत्वाऽवगमात् कथं व्यर्थोपपदत्वमत आह-राशिद्वयेति । समुदाय इति। उद्भूताऽवयवभेद इत्यर्थः । अत एव बहुवचनम् । वस्तुतो राश्योद्वित्वात्तरबापत्तिः। तस्माद्वस्तुतो राशिद्वयगतद्वित्व- माश्रित्य न तरबिति 'विभज्योपदे'इत्यवश्यबाच्यमिति तात्पर्यम् । फलान्तरमपि तस्याह- भाध्ये-अवश्यं खल्वपीति । तयाचष्टे-बहूनामिति । तत्र आचार्याऽभिमतां व्यर्थता स्फुटीकृत्य दर्शयति-इयमित्यादिना। एतस्यांवृत्तौ-समाहारद्वन्द्ववृत्तौ । वर्तिपदस्य- दन्तपदौष्ठपदरूपस्य, अभेदैकत्वसंख्योपादायित्वात्-तदभिधायकत्वाद्विद्यमानस्यापि दन्ता- दिगतबहुत्वादेरप्रत्ययादु ब्यर्थतेत्यन्वयः । बहुत्वाऽप्रत्यायकत्वमेवोपपादयति-परित्यक्तेति । परित्यक्तो व्यक्तिगतो भेदो येन, अङ्गीकृतो धर्मकृतोऽभेदो येन तल्लक्षणैकत्वेत्यर्थः । व्यक्ती- नामभेदेन भानादेकत्वेन भानमिति व्यवहारो न तु तत्र सङ्ख्यारूपैकत्वभानमित्यनेन सूचयति । व्यर्थताऽस्तीति । वास्तवी व्यर्थताऽस्ति, न तु दन्तोष्ठयोत्विवैशिष्टयेन भानमिति भ्रमितव्यम्, सङ्कथाविशेषाणां सर्वथा भानाऽभावात् । पदद्वयोपस्थाप्यत्वेना थस्य द्वित्वव्यवहार इति तत्त्वम् । यदा विति । यत्र स्वित्यर्थः। तदा-तत्रेत्यर्थः । भवय- वार्थभेदसद्भावादिति। तत्कृतबहुत्वसङ्घथाभानादित्यर्थः । तत्रोदाहरणं दर्शयति-प्लक्ष. १ यो बहूनां विभागः' पा० । . ।
. १५ ला३ पा.१ आ.१९७ सू. महाभाव्यम् द्विवचनस्य ग्रहणम् ॥ किं तर्हि ? ॥ अन्वर्थग्रहणम्,-उच्यत इति वचनं, द्वयोरर्थयोर्वचन द्विवचनमिति । एवमेपि- ॥ * ॥ तरबीयसुनोरेकद्रव्यस्योत्कर्षापकर्षयोरुपसङ्ख्यानम् ॥ * ॥ तरबीयसुनो. रेकद्रव्यस्योत्कर्षापकर्षयोरुपसङ्ख्यानं कर्तव्यम् । 'परुद्भवान्पटुरासीत्पटुतर- प्र.]सद्भावादस्ति द्वयर्थत्वम् । 'साङ्काश्यकानां च पाटलिपुत्रकाणाश्च पाटलिपुत्रका अभिरूप. तमा' इत्यपरित्यक्तभेदाः समूहिनः शब्देन प्रत्याय्यन्ते, न च राशिद्वयापेक्षा व्यर्थता शब्देन प्रतिपादिता, राशिशब्दस्याप्रयोगादिति द्वयर्थत्वाऽभावात्तरबभावः । अथात्र यतश्च निर्धारण मिति कथं षष्ठी, यावता 'पञ्चमीविभक्त' इति पञ्चम्या तदपवादेन भाव्यम् । नैष दोषः। सर्वत्रैव निर्धारणे विभागोऽस्तीति विभक्तग्रहणसामर्थ्याचत्र विभाग एव शब्देन प्रतिपाद्यते स एव 'पञ्चम्या विषयः, स एव च विभज्योपपदनिमित्तस्य प्रत्ययस्य,-'माथुराः पाटलिपुत्रकेभ्य आन्यतरा' इति । समुदायशब्दप्रयोगे तु 'गर्वा कृष्णा संपन्नक्षीरतमे'त्येवमादौ विभागा- विभागसंभवान्न पञ्चमी, नापि तर प्रत्ययः । निर्धारणाश्रये तु षष्ठीसप्तम्यौ भवतो यस्मानि- र्धार्यते यश्चैकदेशो निर्धार्यते यश्च निर्धारणहेतुरेतत्रयसंनिधाने निर्धारणं भवतीति तत्रैव षष्ठीसमासप्रतिषेधः । इह तु नागानामुत्तमो नागोत्तम इति वयसंनिधानाभावात्संबन्ध- सामान्ये षष्ठोति समासो भवत्येव । 'सांकाश्यकानों पाटलिपुत्रकाणां च पाटलिपुत्रका अभिरूपतमा' इत्यत्रापि शब्देन समुदायस्य प्रतिपादनाद्विभज्यमानस्य द्विरुपादानाद्विभागा- ऽविभागसद्भावाद्विभागविषयकार्याभावः। प्रतियोग्यपेक्षत्वात्प्रकर्षस्य विकर्ष आक्षिप्त विभज्य- ग्रहणादिहाप्यवधारणमाश्रीयते। तेन समुदायशब्द उच्चार्यमाणे विभज्योपपदनिमित्तप्रत्यया- उ.] न्यग्रोधानामिति । 'अपरित्यक्तभेदाः समूहिन' इति पाठः । समूहिनः-अवयवाः। उद्भूताऽवयवभेदः समूह इति यावत् । समुदायशब्दप्रयोगे विति। तद्वोधकशब्दप्रयोगे त्वित्यर्थः । गवां कृष्णेत्यत्र-गोशब्द: समुदायबोधकः । प्रसङ्गादाह-यस्मानिर्धायत इति तत्रैव षष्ठीत्यादि । तत्रैव षष्ठीसमासप्रतिषेधश्चेत्यर्थः । विनाऽपि च तात्पर्यवशा- समुच्चयप्रतीतेः । समासश्च षष्ठीसमास एव, प्रत्यासत्तेः, निर्धारणे षष्ठोसमासनिषेधस्यैवो. क्तेश्च । तद्ध नयन्नाह-इह विति। ध्वनितं चेदं 'हलादिः शेषः' इति सूत्रे भाष्ये । सांकाश्यकानामिति प्रकृतोदाहरणे यथा षष्ठी तदाह-साङ्काश्यकानामिति । शब्देन समुदायस्येति। चशब्देनेत्यर्थः । 'चशब्देन समुदायस्येति पाठान्तरम् । द्विरुपादा- नादिति। विभज्यमानस्य निर्धार्यमाणस्य निर्धारणाऽवधिकोटावप्युपादानात्समुदायरूपे- णाऽविभागस्य, प्रत्येकरूपेण च विभागस्य सद्भाव इत्यर्थः । 'प्रतियोग्यपेक्षत्वात्प्रकर्षस्य विभागे आक्षिप्ते' इति पाठः । 'विकर्षे' इति पाठे विभागप्रयोजकीभूते धर्मे इत्यर्थः । सर्व वाक्यं साऽवधारणमिति न्यायेन व्याख्यानादिति भावः। विभज्यग्रहणादिति । विभागे इत्येव वाऽर्थः विकर्षे इत्यस्य, अत एव विकल्पः । अत एव वाह-वीति । विभज्यच्चान विभागाऽवधिभूतमेव गृह्यत इति बोध्यम् । ननु पाटवाऽतिशये प्रत्ययस्तच्च भिन्नमेवेति १ काचित्कमेतत् । २ 'तरश्चैषम' पा०। ३ 'निषेधो भवति' पा०। । ।
कैयट-विवरणसहित [ अजादी गुण- ऐषमः' इति । ॥॥ सिद्धं तु गुणप्रधानत्वात् ॥ * ॥ सिद्धमेतत् ॥ कथम् ? ॥ 'गुणप्रधानत्वात् । गुणप्रधानोऽयं निर्देशः क्रियते, गुणान्तरयोगाचाऽन्यत्वं भवति, तमेवं गुणान्तरयुक्तं वक्तारो भवन्ति-'अन्योऽयं भवान् संवृत्त इति ॥ अजादी गणवचनादेव ।५।३।५८। एवकारः किमर्थः ? ॥ नियमाथः । नैतदस्ति प्रयोजनम् । सिद्ध विधि- रारभ्यमाणोऽन्तरेणैवकारं नियमार्थो भविष्यति ।।*! इष्टतोऽवधारणार्थस्तहि ।'*। यथैवं विज्ञायेत-अजादी गुणवचनादेवेति, मैवं विज्ञायि-अजादी एवं गुण- वचनादिति ॥ किं च स्यात् ? ॥ न व्यञ्जनादी गुणवचनात्स्याताम् ॥ प्रशस्यस्य श्र: ।५।३।६०॥ इदमयुक्तं वर्तते । किमत्रायुक्तम् ? ॥ अजादी गुणवचनादेवेत्युक्त्वाऽ. गुणवचनानामप्यजाधोरादेशा उच्यन्ते। नैष दोषः। एतदेव ज्ञापयति-भवत एतेभ्योऽगुणवचनेभ्योऽप्यजादी इति यदयमजायोः परत आदेशं शास्ति । एवमपि तयोरिति वक्तव्य स्थान तयोः परत इति। यदि पुनरयं विधिविज्ञायेत [प्रशंस्यस्य श्र आदेशो भवति अजादी च भवत इति] ॥ नैवं शक्यं, प्र.] प्रसङ्गः । परुद्भवानिति । पाटवस्यातिशयेऽपि प्रतियोग्यपेक्षत्वात्प्रकर्षस्य स एवाय- मिति प्रत्यभिज्ञानाद्गुणिन एकत्वात्तस्यैव प्रतियोगित्वायोगात्प्रकर्षप्रत्ययाप्रसङ्गः । सिद्ध त्विति । यद्यपि शब्देन गुणी प्राधान्येनोच्यते, तथापि गुणाश्रयप्रकर्षनिमित्तत्वात्प्रत्ययोत्प- त्तेस्ता प्रति गुणस्य प्राधान्यमाश्रित्य गुणप्रधानत्वादित्युच्यते । तत्र गुणभेदेन गुणिनो भेदारोपादुपपपन्नो भेदाश्रयप्रकर्षनिमित्तः प्रत्ययः ॥ [ द्विवचनविभज्योपपदे ] अजादी। नियमार्थ इति । अन्यथा प्रकर्षेऽजाद्योविधानादप्रकर्षे विधिः स्यात् । सिद्ध विधिरिति । स्वरितत्वादतिशायनस्यानुवर्तनात्तत्रैव पुनर्विधानं नियमार्थमित्यर्थः ।। प्रशस्यस्य। एवमपीति । अन्यथा तरप्तमपोरादेशविधानं स्यादिति न शापकं स्याद. जादिभावस्य । यदि पुनरिति । 'अजादी' इत्यत्रानुवर्त्य प्रशस्यशब्दादजादी भवतः उ.व्यर्थमुपसङ्ख्यानमत आह-पाटवस्येति स्वस्यैव स्वगतधर्मातिशये प्रतियोगित्वाऽसम्भव इत्याह-स एवाऽयमितीत्यादि। गुणिन एकत्वे गुणस्याऽप्येकत्वात्स्वगतगुणस्य स्वतोऽति- शये प्रतियोगित्वाऽसम्भव इत्यपि बोध्यम्।प्राधान्येनेति। विशेष्यत्वेनेत्यर्थः। गुणस्याऽ. प्राधान्यमिति । आर्थ्यमित्यर्थः । वस्तुतः पाटवाऽतिशयेन द्रव्यस्याऽतिशये प्रतिपाद्ये प्रत्यय इति स्पष्टं पूर्वमुक्तमिति यथाश्रुतमेव भाष्यमित्यन्ये॥ [द्विवचनविभज्योपपदे ] प्रशस्यस्य श्रीभाष्ये-अगुणवचनानामिति । प्रशस्यशब्दस्य गुणकृतास्तुतिः, प्रवृ- त्तिनिमित्तं, न तु गुणा इति भावः। नन्वयमादेशस्य विधिरिति विज्ञायतेत्ययुक्तं, सिद्धान्तेऽपि १ काचित्कमेतत् । २ 'तद्यथा तमेव' पा०। ३ 'एवकारो नियमार्थः' इति वार्तिक- मेतदिति गौडाः। ४ इदं वार्तिकमिति गौडाः। भाष्यमेवेदमित्यन्ये।
- ५.३ पा.।१ आ.। ६० सू.] ॐ महाभाष्यम् ४६१ व्यञ्जनादी हि न स्यातामुपाधीनां च सङ्करः स्यात्पुनर्विधानाद- जाद्योः ॥ ननु चैते विशेषा अनुवर्तेरन् । यद्यप्येतेऽनुवत्तेरन् व्यञ्जनादी तर्हि न स्याताम् ॥ [ नैषदोषः ] एवं तर्हि आचार्यप्रवृत्तिापयति-भवत एतेभ्योऽप्य]गुणवचनेभ्योऽजादी'इति-यदयमजाधोरादेशं शास्तिाननु चोक्तं-- 'तयोरिति वक्तव्य मिति ॥ न वक्तव्यम्-प्रकृतमजादिग्रहणमनुवर्तते ॥ कप्रकृतम् ॥ 'अजादी गुणवचनादेवेति। तद्वै प्रथमानिर्दिष्टं सप्तमीनिर्दिष्टेन चेहाऽर्थः ।। अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा-'उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम् । 'देवदत्त मिति गम्यते । 'देवदत्तस्य गावोऽश्वा हिरण्यम् , आख्यो वैधवेयः। 'देवदत्त'इति गम्यते। पुरस्तात्षष्ठीनिर्दिष्टं सदा- प्र.] आदेशश्चेत्येवं व्याख्यानात् । व्यञ्जनादी इति विशेषविहिता मामलोदिश्यां बाधनात्। ज्ञापकत्वे तु नियमाऽप्रवृत्तिज्ञापनात्स्वाणैबाजायोविधानाध्यञ्जनायोर्बाधस्याऽप्रसङ्गः । द्विवचनविभज्योपपदे ईयतुनन्यत्रेष्ठ नित्यपाधिसंकरोऽपि न भवति। ननु चैत इति । अति- शायन इष्ठन् द्विवचनविभज्योपपदे ईयसुन्नित्यनुवत्तियत इत्यर्थः । व्यञ्जनादी तहीति । यदि च तरप्तमपावनुवर्तेयातां तदा तयोरपि श्रादय आदेशाः स्युः। तस्मात्तौ नानुवत्यौं । ततश्च विशेषविहिताभ्यां तयोर्बाधप्रसङ्ग एव । आचार्यप्रवृत्तिरिति । नियमाप्रवृत्तिज्ञाप- पनद्वारेण अजादिभावो ज्ञाप्यते न तु साक्षात्, अन्यथा पुनरपि व्यअनाद्योधिः स्यात् । व प्रकृतमिति । अजाद्योरिति सप्तम्यन्तं न प्रकृतं, यत्तु प्रकृतमजादी इति न तदेवात्र सम्बध्यतइति प्रश्नः । अर्थादिति । सामोदित्यर्थः । नतु चाजादी इति यथाश्रुतविभक्ति- सम्बन्धे अजादिविधानार्थे संभवति कथं विभक्तिविपरिणामः शक्य आश्रयितुम् ? । नैष दोषः। प्रशस्यस्येति षष्ठीश्रवणात्स्थान्यादेशभावावगमादादेशस्य विधीयमानत्वात्प्राधान्यं प्रतीयते । तत्राऽजादी इत्यनुवर्तनादादेशविधौ प्रत्यययोर्गुणभावः । ततः सामर्थ्याद्विभक्तिविपरिणामः । विभक्तिशब्देन विभक्तयन्तार्थ उच्यते । तस्य पूर्वशक्तित्यागेन शक्तयन्तरोपजनेन विप- रिणामव्यवहारः। प्रातिपदिकार्थ एव हि नानाशक्तियोगात्कर्मादिशब्दवाच्य इति स एव विशि- उ.] तद्विधित्वस्येष्टत्वादत आह-अजादी इतीति । ननु शापकेनाऽप्यजादिविधानेन तरप्तमपौ न स्यातामत आह-नियमाप्रवृत्तीति । उपाधिसंकरो नेति। अत्राऽपि नियमाऽ- प्रवृत्तिज्ञापनादित्येव हेतुः। न तदेवाऽत्र सम्बध्यत इति । अयोग्यत्वादिति भावः । गुणभाव इति । 'उचित' इति शेषः । ततः सामादिति । गुणभावौचित्यरूपा- सामर्थ्यादित्यर्थः। ननु प्रथमायाः सप्तमीरूपेण विपरिणामाऽसम्भवात् कथं विभक्तिविपरिणा- मोऽत्त आह-विभक्तिशब्देनेति । नन्वजादी इति प्रथमान्तस्य प्रातिपदिकार्थ एवाऽर्थो, न तु शक्तिविशिष्ट इति कथं पूर्वशक्तित्यागपूर्वकशक्त्यन्तरोपजननकृतो विपरिणामव्यव- हारोऽत आह-प्रातिपदिकार्थ एवेति । एवञ्च स्वरूपेण प्रातिपदिकार्थस्य कर्मादिव्यव- १ अयं पाठः काचित्कः । २ 'षष्ठो' पा०।३'विभक्तिपरिणामो' पा० । । ।
कैयट-विवरणसहितं [प्रशंसायाँ प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवत्येवमिहाऽपि पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्सप्तमीनिर्दिष्टं भविष्यति ॥ [प्रशस्यस्य श्रः] । प्रशसायां रूपप 1५/३।६६ स्त्रीलिङ्गेनाऽयं निर्देशः क्रियते एकवचनान्तेन च, तेन स्त्रीलिङ्गादेवोत्पत्तिः प्र.] ष्टशक्तियुक्तो विभक्त्यन्तरवाच्यः । अथ वा तात्त्विकेऽपि भेदे शब्दस्य सारूप्यात्तत्त्वाध्य- वसायाश्रयेण विभक्तिप्रत्ययत्यागोपादानाभ्यां प्रातिपदिकस्य विपरिणामव्यवहारोऽवसीयते। विभक्तस्तूपचरितो विपरिणामव्यवहारः। नहि प्रथमायाः सप्तमीरूपेण विपरिणामसंभवः । प्रशंसा । इह् प्रत्ययस्य विधीयमानतया प्राधान्यात्तदङ्गत्वाच्च प्रकृतेः प्रधानेन प्रशंसा- याः सम्बन्धस्य न्याय्यत्वात्तस्याः प्रत्ययार्थत्वं मत्वाह-स्त्रीलिङ्गनायमिति । ततश्च पटोः प्रशंसा पटुरूपेति प्राप्नोति । अथ पटुरूपो देवदत्त इति सामानाधिकरण्याऽप्रसङ्गः कस्मान्न चोदितः ? । तत्र के चिदाहुः-दोषोपलक्षणायैतदुक्तम् । अन्ये त्वाहुः-सोऽयमित्यभेदविव- क्षायां सामानाधिकरण्यं भविष्यति । भेदविवक्षा तु तथा लक्षणप्रयोगाभावान्न क्रियते । यद्येवं गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ती'त्यतिशायनप्रत्ययान्तबदभिमत- लिङ्गवचनयोगाद्दोषाभावः । अत्राहु:-प्रकृत्यर्थविशेषणपक्षस्योभयानुग्रहान्न्याय्यत्वादयं परि- उ.हारविषयत्वाऽभावेन सकलशक्तियुक्तः प्रातिपदिकबोध्यत्वात्प्रातिपदिकार्थः । ताः शक्त- यस्तु न सर्वदा तद्बोध्याः, सहकार्यभावादिति भावः । स एवेति। एवञ्च तदितरसकलशक्ति- परित्यागपूर्वकं यत्किञ्चिच्छक्तिवैशिष्ट्येन विभक्त्यन्तवाच्यः,-प्रथमाऽतिरिक्तविभक्तय- न्तवाच्य इत्यर्थः। एवञ्च कृते औपश्लेषिकाधिकरणशक्तिकत्वेन बोधाद्विपरिणामव्यवहार इति भावः । तात्त्विकैऽपि भेदे इति । प्रथमाप्रकृतेः सप्तमीप्रकृतेश्चेत्यर्थः। विभक्तीत्यादि। विभक्तिरूपप्रत्ययेत्यर्थः । एवञ्च प्रथमाविशिष्टस्य प्रातिपदिकस्य सप्तमीविभक्तिवैशिष्ट्येन विप- रिणाम इति भावः। उपचरित इति । प्रातिपदिकगतविपरिणामारोपाश्रय इत्यर्थः ॥६॥ प्रशंसायां रूपप। ननु स्वार्थिकत्वादेषां प्रकृत्यर्थ विशेषणत्वात्कथमेतदत आह-इहति। 'गुणानाञ्च परार्थत्वादसम्बन्धः समत्वादिति न्यायादिति भावः। यद्यपि भावे तस्याऽपत्यमि- त्यादौ लिङ्गवचनस्याऽविवक्षितत्वादियुक्तरीत्याऽत्रापि समाधानं कर्तुं शक्यम् तथापि वास्तव समाधानान्तरं वक्तुं पुनरत्रोपन्यासः। अभेदविवक्षायामिति । ईदृशलक्षणायाञ्च स्वलि- शादिपरित्यागोऽपीति पटुरूप इत्यादिसिद्धिरिति भावः । तद्भुनयन्नाह-भेदविवक्षा- विति । वक्ष्यमाणान्ये त्वित्यादि त्वरुचिग्रस्तमिति बोध्यम् । भाष्ये-स्त्रीलिङ्गादेवेत्या- दि पञ्चमी-हेतौ। फलचेह हेतुः। स्त्रीलिङ्गफलिकोत्पत्तिः प्राप्नोतीत्यर्थः। एकवचनान्तादि- पदानि धर्मपराणि । 'तथा लक्ष्यप्रयोगाऽभावादिति पाठः। 'तथालक्षणप्रयोगाऽभावादिति पाठे-भेदज्ञापकप्रयोगाऽभावादित्यर्थः । अतिशायनप्रत्ययान्तवदिति । गुणोऽभिधीयते क्रिया वाऽभिधीयत इति पक्षयोरित्यर्थः । दोषाऽभाव इति । 'पटुरूपति प्राप्नोतीति दोषा- ऽभाव इत्यर्थः । उभयाऽनुग्रहादिति । प्रकृतिप्रत्यययोरुभयोरप्याऽनुग्रहणादित्यर्थअनेन क ५.३पा.३१ आ.। ६६ सू.] महाभाष्यम् १६३ स्थादेकवचनान्ताञ्च, पुनपुंसकलिङ्गाद्विवचबहुवचनान्ताञ्च न स्यात् ॥ नैषदोषो, नायं प्रत्ययार्थः ॥ किं तर्हि ? ॥ प्रकृत्यर्थविशेषणमेतत्-'प्रशंसायां यत्प्रातिपदिकं वर्तते तस्माद्रूपब्भवति ॥ कस्मिन्नर्थे ? ॥ स्वार्थ इति । स्वार्थिकाच प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते ॥ * ॥ प्रकृतेलिङ्गवचनाभावा- त्तिप्रकृतेरम्भाववचनम् ।। * ॥ प्रकृतेलिङ्गवचनाभावात्तिप्रकृते रूपपोऽम्भावो वक्तव्यः । पचतिरूपं, पचतोरूपं, पर्चन्तिरूपमिति ॥ * ॥ सिद्धं तु क्रियाप्रधान- त्वात् ॥ * ॥ सिद्धमेतत् ॥ कथम् ? ॥ 'क्रियाप्रधानत्वात्। क्रियाप्रधान- प्र.]हारो भाष्यकारेण नाश्रितः । अन्ये स्वाहुः-प्रशंसामात्रे प्रत्ययविधानादन्तरङ्गत्वात् स्त्रीप्रत्ययेन भाव्यम्। पश्चात्तु-सोऽयमित्यभिसम्बन्धात्तद्वदभिधानेऽप्यन्तरङ्गः स्त्रीप्रत्ययो न निवर्तेत प्रत्ययार्थविशेषणपक्षे । प्रकृत्यर्थविशेषणपक्षे कुमारिरूपेत्यव्यतिरिक्तं वय इति ङीप् कस्मान्न भवति ? । कुमारशब्दादुत्पन्नेन ङोपा वयोविशिष्टार्थगतस्य स्त्रीत्वस्य द्योतित- त्वाद्रूपबन्तात् स्त्रीत्वमात्रमभिव्यक्तुं टाबेव क्रियते । नतु ङी पैव तदभिव्यक्तमिति टाम्न प्राप्नोति ? । नैतदस्ति-कुमारिरूप इत्युच्यमाने कुटीरादिवहिङ्गान्तरं प्रतीयत । तस्माद- वश्यमभिव्यक्तव्यं स्त्रीत्वमिति टाबुत्पद्यते । अयमेव च परिहार आतिशायिकप्रत्य- यानों स्वार्थिकत्वपक्षे कुमारितरेत्यादावभिधानीयः । तिङप्रकृतरिति । तिडप्रकृति- यस्य रूपपः, ततः परस्या विभक्तरम्भावो वक्तव्यः । एका च क्रियेति। आख्यातशब्दात् क्रियाभेदस्यानवगमारिक्रयाया एकत्वमुच्यते । भवद्भिरास्यत इत्यादौ तु केवलक्रिया- वचने द्विवचनबहुवचनाऽदर्शनात्, पचतः पचन्तीत्यादौ लकारवाच्यकर्तृसमवेतद्वित्वबहुत्वा. श्रयो वचनभेद इति न ततः क्रियाभेदसिद्धिः। एकत्वाच क्रियाया रूपप्प्रत्ययान्तात् द्विवचन- उ प्रकृत्यर्थविशेषणत्वे बीजं कथितम् । अन्यथा गुणत्वात्तेनाऽसम्बन्धः स्यादिति बोध्यम् । अन्येविति। इदमरुचिग्रस्तमित्युक्तमेव । स्त्रीत्वमात्रमिति । प्राशस्त्यविशिष्टार्थगतं स्त्री- त्वम्, न तु वयोमात्रविशिष्टार्थगतं स्त्रीत्वमित्यर्थः। अत एव 'गोरूपे'त्यादौ न ङीप् । तदभि- व्यक्तमिति। वयोविशिष्टार्थगते तस्मिन्नभिव्यक्ते उक्तं स्त्रीत्वमात्रमप्यभिव्यक्तमेवेत्यभिमानः। लिङ्गान्तरमिति । न च तादृशप्रतीतिरनुभवसिद्धेति टाबवश्यमुत्पाद्य इत्यभिमानः । मदुक्तव्याख्यानरीत्या तु शङ्खव नेति ध्येयम् । ननु साधनभेदाक्रियाया भेदेन कथमेका क्रिया, किश्च तस्यां सङ्खथाया अभावादेकेत्यप्ययुक्तमत आह-आख्यातशब्दादिति । आख्यातशब्दस्तिङन्ते शक्तो लोकव्यवहारात् । तेन-तदन्तशब्दादित्यर्थः । स्वतस्तस्यां भेदाऽनवगमेन द्वित्वाद्यभावः, एकत्वसत्ता च आकाश इवेति भावः । तत्र द्वित्वाद्यभावे एकत्वसत्त्वे च युक्तिमाह-भवद्भिरित्यादि। वचनाऽदर्शनादिति । एकवचन- दर्शनाचेत्यपि बोध्यम् । कत समवेतद्वित्वेति । तदारोपाश्रय इत्यर्थः । तस्यैवारोपः शब्द- शक्तिस्वभावात, न कालादिगतस्य, नाऽपि तद्वाच्यकारकगतस्य । अत एव 'दश दिनानि देवदत्तः पचति 'भवद्भिरास्यते 'तण्डुलान् पचती'त्येकवचनमेव, तत्कृतं रूपाद्यन्तात् द्विव- १ काचित्कमेतत् । - , । 8 कैयट-विवरणसहित [प्रशंसायां- साख्यातं भवति । एका च क्रिया । द्रव्यप्रधानं नाम ॥ कथं पुनर्जायते क्रियाप्रधानमाख्यातं [भवति द्रव्यप्रधानं नामेति ? ॥ यत्क्रियां पृष्टस्तिका- ऽऽचष्टे-'किं देवदत्तः करोति'-'पचती'ति । द्रव्यं पृष्टः कृताऽऽचष्टे-कतरो प्र.बहुवचनाऽभावः । द्रव्यप्रधानं नामेति,-प्रसङ्गेनोक्तं न त्वस्य कश्चित्प्रकृतोपयोगः । कि देवदत्तः करोतीति। करोतिरत्र क्रियासामान्यवचनः । तत्र विशेषपरिज्ञानाय किंशब्दः क्रियाविशेषणं प्रवर्तते, क्रियाविशेषणत्वाच्च किमित्येतदितीयान्तं नपुंसक च। प्रकारणादिवशाच क्रियाप्रश्नावगतिः । गुणद्रव्यविषयस्यापि प्रश्नस्य संभवात्,-बायकः किं शुक्लं वस्त्रं करोत्यथ कृष्णं ? तथा किं शाटकं करोत्यथ प्रावारकमिति । के चित्तु क्रियाप्रश्नेऽप्यभूततद्भाववचनं करोतिं मन्यन्ते । किं करोति-कां क्रियां निवर्त्तयतीत्यर्थः । तत्राख्यातवति प्रश्नवाक्ये प्रकरणादिवशात् क्रियाप्रश्नावगमादाख्यातेनैवोत्तरोपादाना- कालससथासाधनोपग्रहाभिधानेऽप्याख्यातस्य क्रियाप्रधानत्वाऽवगमः। एकपदोपात्तार्था- उपेक्षच क्रियाप्रधानत्वमभिधीयते । 'व्रीहीनवहन्ती'त्यादौ ब्रीहिद्रव्यसंस्कारार्थत्वाद- वघातस्याऽप्राधान्यम् । अथ वा. यद्ययार्थं वीहीणां प्राधान्यं तथापि साध्यत्वात्क्रियाया उ.] चनादि तु न, तस्य तिडैवोक्तत्वादिति भावः। एतेन 'ड्याप्रातिपदिका'दि सूत्रस्थया हरिभाष्यसंमतस्वोक्त्या विरुद्धोऽयं ग्रन्थ-इति परास्तम् । क्रियाया असत्त्वलिङ्गैकत्वेतरस- अचाराहित्यमेवेति बोध्यम् । भाष्ये-द्रव्यप्रधानं नामेति । नामशब्देन सुबन्तम्, तस्य सत्तालिङ्गसन्थाकारकद्रव्यार्थकत्वेन तदपेक्षया द्रव्यस्य प्राधान्यम् । तस्य विभक्त्यर्थसम्बन्ध- प्रति विशेषणत्वेन 'काण्डे' इत्यादौ विभक्त्यर्थप्रधानत्वोक्तिरविरुद्धा । ननु'देवदत्तः किं करोती ति कर्मविषयप्रश्ने कथं क्रियामात्रवाचकेनोत्तरम् ? । किच कृम उत्पत्त्यनुकूलव्या- पारवाचित्वेन तद्विषयप्रश्ने कथं पचती'त्युत्तरमत आह-करोतिरत्रेत्यादि। द्वितीयान्त- मिति। प्रथमान्तमिति वक्तुं युक्तम् , फलविशेषणत्वाऽभावेन मुख्यव्यापारविशेषणत्वेन च कर्म- त्वाऽप्राप्तः। प्रश्नाऽवगतिरिति । जिज्ञासाविषया देवदत्तकर्तृका क्रियेति बोधः । प्रकरणा- दिवशाच्चेत्यस्य कृत्यं दर्शयति-गुणद्रव्येत्यादि । अभूतेति । अभूततद्भावः-उत्पत्तिः, तदनुकूलो व्यापारो धात्वर्थः । कां क्रियामिति । किम्पदश्च कर्मपरम् । तच्च प्रकरणादित एव क्रियारूपकर्म परमिति भावः। उपग्रहः-परस्मैपदात्मनेपदनिमित्तविशेषः । अत एव 'भावकालकारकसकथाश्चत्वारोऽर्था आख्यातस्येति निरुक्तभाष्य उक्तम् । आख्यातेनोत्तरो. पादाने हेतु:-क्रियाप्रश्नाऽवगमः । तत्र हेतुः- प्रकरणादि । तत्र क्रियाप्रश्नाऽवगमेन प्रश्ने क्रियाप्रधानत्वाऽवगमः, तत एवोत्तरेऽपि तत्त्वाऽवगमः । 'पश्य मृगो धावती'त्यादौ धावना- द्यर्थस्य दृशिं प्रति विशेषणत्वादाह-एकपदोपात्तार्थाऽपेक्षञ्चेति। तदुपात्तकारकाऽपेक्षं प्राधान्यमित्यर्थः। तत्फलमन्यदप्याह-ब्रीहीति । तथाच भिन्नपदोपात्तत्रीद्यपेक्षयाऽप्राधान्ये- ऽपि न क्षतिः। नन्वेवं पच्यते' इत्यादौ स्वपदोपात्तकर्मकारकाऽपेक्षयाऽपीदृशमप्राधान्य दुर्वारमत आह-अथ वेति । क्रियाप्रधान'मित्यत्र शाब्दमेव प्राधान्यं विवक्षितमित्यर्थः। १ इदं कचिन्न। -- 3 1 । - ५.१३ पा. १ आ.६६ सू.) महाभाष्यम् देवदत्तः, यः कारको यो हारक इति ॥ यदि तर्खेका क्रिया द्विवचनबहुवचनानि नसिध्यन्ति-पचतः पचन्तीति । नैतानि क्रियापेक्षाणि ॥ किं तर्हि ? साधनाये- क्षाणि ॥ इहापि तर्हि प्रामुवन्ति-[पचतिरूपम् ] पचतोरूपं पचन्तिरूपमिति ॥ तिडोत्तत्वात्तस्याऽभिसम्बन्धस्य न भविष्यति ॥ एकवचनमपि तहिन प्राप्नोति ॥ समयाद्भविष्यति ॥ द्विचनबहुवचनान्यपि तहि समयात्प्रामु- वन्ति ॥ एवं तयेकवचनमुत्सर्गतः करिष्यते-तस्य द्विबहोरर्थयोर्द्विवचन- प्र.] शाब्द प्राधान्यं न तु व्रीहीणां, साधनत्वात् । द्रव्यं पृष्ट इति । यद्यपि यः पचती'ति तिङन्तेनापि उत्तरं भवति, तथापि सर्वनाम्ना परामृश्य पाकक्रियाया यः कर्ता स देवदत्त इत्यभिधानात्केत्रलेनाख्यातेनोत्तरस्याऽदानादाख्यातस्य साधनप्रधानत्वाऽप्रसनः । पदान्त. रेण हि द्रव्योपलक्षणार्थ गुणभावं क्रिया नीयते। यदि तहीति । क्रियागतसङ्ख्यापेक्ष वचनभेदं मन्यते । नैतानीति । लकारादिवाच्यकर्तृकर्मगतसङ्घयापेक्षो वचनभेद इत्यर्थः । तिडोक्तत्वादिति । 'उक्तार्थानामप्रयोग' इति न्यायात् । एकवचनमपीति 'पचतिरूपमित्यत्र तिडोक्तत्वादिति भावः । समयादिति । 'परश्चेति नियमान्न केवला प्रकृतिः प्रयोक्तव्येत्येवंरूपात् । द्विवचनबहुवचनान्यपीति । तैरपि समयस्य परि- पालनात् । यद्यपि प्राथम्यादेकवचनेनैव समयः पाल्यत इति परिहारसम्भवस्तथापि परि- हारान्तरमाह-एकवचनमिति । 'धेकयो िवचनैकवचने'इत्यत्रैकवचनग्रहणं न कर्तव्यं. उ.] यः कतैति। यत्कर्तृका पाकक्रिया स इत्यर्थः । परामृश्येत्यस्य-बुद्धिस्थीकृत्येत्यर्थः । इत्यभिधानादिति । इत्यर्थकस्योत्तरस्याऽभिधानात्कथनादित्यर्थः । स इत्यनेन पाक- क्रियाकर्तृत्वविशिष्टस्य बोधात । क्रियायाः प्राधान्याऽनुपपत्तिमाशङ्कयाह-पदान्तरेणेति । आख्यातपदे एव स नियम इति भावः । क्रियागतेति । 'अनारोपिते त्यादिः। सङ्ख्यापेक्ष इति । साधनगतसङ्ख्यारोपापेक्ष इत्यर्थः । यत्त्विदम्भाध्यमाख्यातार्थसङ्घयायाः कारकेऽन्वय इत्येवम्परतया व्याख्येयमिति, तन्न, प्रागुक्तेन 'एका क्रियेत्यनेन एकत्वस्य प्रकृत्यर्थेऽन्वय- लाभेन द्वित्वादीनां कारकेऽन्वये बैरूप्यापत्तेः। तस्मादारोपपरमेव भाष्यं व्याख्यातुमुचि- तम् । अत एव भाष्ये द्विवचनाधसिद्धिरेव शङ्किता न तु वचनमात्राऽसिद्धिरिति दिक् । तत्र 'गौणी मुख्या चोत्तरा सञ्जया पूर्वसङ्ख्या बाधते' इत्यइउणसूत्रभाष्योक्तेनं 'पचत' इत्यादौ स्वगतैकत्वप्रयुक्त कार्यमिति बोध्यम् । ननु क्रियाया एकत्वाश्रयत्वे 'तद्धितश्चेति सूत्रस्थेन-किंचिदव्ययं विभक्तथर्थप्रधान, किञ्चितिक्रयाप्रधानं, न चैतयोरर्थयोलिङ्गसङ्ख्याभ्यां योगोऽस्ती'त्यनेन विरोधः । अव्ययवाच्ययोरेतयोरर्थयोन ताभ्यां योग इति तदर्थेनाऽविरो- धात् । उक्तार्थानामिति। आरोपितसङ्ख्याया उक्तत्वान्न तदाश्रयं वचनं रूपाद्यन्तात्, किन्तु स्वगतैकत्वाश्रयमेवेति भावः । न केवलेति । प्रातिपदिकत्वेनाऽस्यापि तत्र प्रकृति- त्वादिति भावः। तैरपीति । अनुवादकविभक्तेाय्यत्वाच्चेत्यपि बोध्यम् । एवञ्च 'यद्यपी- त्यादि चिन्त्यम्। १ 'य' इति न सर्वत्र दृश्यते । २ इदं क्वचिन्नास्ति । ३ 'द्रव्योपलक्षणाय' पा०। - - ।
मवाऽत्र प्रशंसा, तस्य परिपूर्णत्वेन क्वचिन्निन्दाप्रतीतिस्तु प्रकरणादिवशागुम्येति न कैयट-विवरणसहित [प्रशंसाया बहुवचने अपवादौ भविष्यतः॥ एवमपि नपुंसकत्वं च वक्तव्यम् ॥ न वक्तव्यम् । ।। उक्तं वा ।।। किमुक्तम् ? || लिङ्गमशिष्यं लोकाश्रयत्वालिऑस्येति ॥1॥ ॥ * ॥ वृषलादिभ्य उपसङ्ख्थानम् ॥ * ॥ वृषलादिभ्य उपसङ्ख्यानं कर्त्तव्यम् । वृषलरूपः दस्युरूपः चौररूप इति ॥॥सिद्धं तु प्रकृत्यर्थवैस्पष्टयवचनात् ।। सिद्ध- प्र.] 'द्रयोविचन'मित्येव कर्तव्यम् । तत्र 'ह्याप्प्रातिपदिकात्स्वादयो भवन्तीति सङ्ख था. निरपेक्षमेकवचनमुत्सर्गो भवति । तस्य द्वित्वबहुत्वयोर्दिवचनबहुवचनयोरपवादयोनि- धानादेकत्ववत्यर्थे अभेदैकत्ववति च सङ्क्षचारहितेऽव्ययाद्यर्थे चाऽवस्थितमेकवचनम् । तस्मादेकवचनेनैवात्र समयः पाल्यते न तु द्विवचबहुवचनाभ्यां तिङोक्तार्थाभ्यामित्यर्थः । लिङ्गमशिष्यमिति । शास्त्रोपदेशेन विनापि सिद्धिलिङ्गस्य लोकव्यवहारगम्या। वृषलादिभ्य इति । वृषलादीनां निकृष्टत्वादुत्कृष्टविषयत्वाच्च प्रशंसायास्तत्राऽभावं मन्यते। न्यासान्तराश्रयेण सिद्धिं मत्वाह-सिद्धं त्विति । ननु प्रशंसायामित्येव सिद्धः प्रत्ययः, सर्वस्य हि वस्तुनः स्वव्यापारे ऽतिशयात् प्रशंसा क्रियते, वृषलादीनामप्यसावस्ति । एवं तर्हि यदा निन्दाप्रतिपादनाय चोररूप इत्युच्यते तदा प्रत्ययाऽप्रसङ्गाध्यापक वैस्पष्टयग्रहणमेव कर्त्तव्यम् । सत्येव पाटवादेवै स्पष्टये प्रशंसासद्भावाद्विवक्षावयाच्च येषामेव प्रशंसावाचित्वं तेषामेव निन्दावचनत्वं दृश्यते । यथा राक्षस इति,-पौरुषातिशयप्रतिपादने प्रशंसा गम्यते, निघृणत्वप्रतिपादने तु निन्दा । अथ तमबादीनां रूपपश्च को विषय- उ.] न कत्तव्यमिति । तद्धितश्चेति सूत्रत्वेकग्रहणं न कर्त्तव्यम्, एकवचनमित्येवाऽप्राप्त- प्रापणार्थ सूत्रं कर्त्तव्यमित्युक्तम् । 'पचतिरूपमित्यादौ सवैकवचनन्त्वनभिधानादारणीयं तत्पक्षे इति बोध्यम् । अभेदैकत्ववतीति । यथा 'राजपुरुष' इत्यादिवृत्तेरर्थबोधनाय प्रयुक्त 'राज्ञः पुरुष' इत्यादौ । नन्वेवं द्विशब्दादावप्युत्सर्गेणैकवचनेनैव समयपालनाद्विवचनाद्य- नापत्तिः, अनुवादकविभक्तेन्याय्यत्वे तु प्रकृतेऽपि तुल्यमिति चेन्न, द्वयोरेकस्य बहुषु 'णिजा त्रयाणा'मित्यादिनिर्देशैरुत्सर्गेणैव नियमपालनमिति नियमस्य सङ्ख्याशब्देऽनङ्गीकारेण तत्राऽर्थतो व्यवस्थयैवाऽनभिहितसूत्रोक्तया समयपालनाऽङ्गीकारेणाऽदोषात् । तदाह- एकवचनेनैवान समय इति । ननु वृषलत्वस्य पूर्णत्वे प्रशंसा भवत्येवेति सूत्रेणैव सिद्धमत आह-वृषलादीनां निकृष्टत्वादिति । न च वृषलत्वस्य जातित्वात्कथं निकृष्ट- त्वमिति वाच्यं, सहचरितधर्मनिकृष्टत्वेन तथा व्यवहारात्। वैस्पष्ट्यग्रहणस्य व्यापकत्वमुप- पादयितुं वैस्पष्ट्ये सत्येव प्रशंसेत्याह-सत्येवेत्यादि। सूत्रेणैवाऽमुमर्थं, साधयितुमाह- विवक्षावशाच्च येषामेवेति । एवञ्च प्रकृत्यर्थताऽवच्छेदकस्य तत्सहचरितगुणानां वा दोषः । प्रशंसापराणामपि निन्दावचनत्वे दृष्टान्तमाह-यथेति । उदाहरणे-पलाण्डुनेति- सहयोगे तृतीया । पलाण्डुभोजनेऽपि वृषलत्वं, तत्सहितसुरापाने तु तदधिकमिति बोध्यम् । १ अयं पाठः काचित्कः । २ इतिः कचिन्नास्ति । ३ 'चोर' पा०1४ 'वैशिष्टय' पा० । ५'वक्तव्यम् पा० । ६ अत्र 'अभेदैकल्ववत्यर्थे' इत्यधिकः पाठः कचित् । .
। ५.३ पा.|आ १.६७ सू.] महाभाष्यम् मेतत् ॥ कथम् ? ॥ [ 'प्रकृत्यर्थवैस्पष्टयवचनात्' ] प्रकृत्यर्थस्य वैस्पष्टये इति वक्तव्यम्। वृषलरूपोऽयम्, अप्ययं पलाण्डुना सुरां पिबेत् । चौररूपोऽयम्,- अप्ययमक्ष्णोरञ्जन हरेत् । दस्युरूपोऽयम्, अध्ययं धावतो लोहितं पिबेत् ॥ ईषदसमाप्तौ कल्पब्दश्यदेशीयरः।५।३।६७। ॥* ईषदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनानुपपत्तिः ॥ * ॥ ईषदसमाप्तौ क्रिया- प्रधानत्वाल्लिङ्गवचनयोरनुपपत्तिः। पटुकल्पं पटुकल्पापटुकल्पः पटुकल्पौ पटु- कल्पा इति। एकोऽयमर्थ ईपदसमाप्ति म तस्यैकत्वादेकवचनं प्राप्नोति ॥ ॥*। प्रकृत्यर्थविशेषणत्वात्सिद्धम् ।।। सिद्धमेतत्। कथम् ? ॥ नायं प्रत्ययाः ।। किंतर्हि ? ॥ प्रकृत्यर्थविशेषणमेतत् , ईपदसमातौ यत्प्रातिपदिकं वर्तते तस्मा- प्र.] विभागो-यावता अतिशायनमपि पूजानिन्दाविषयम्-पटुतमः पापीयानिति। रूपप्प्रत्य- योऽप्युभयविषयः-पटुरूपः चोररूप इति ? । उच्यते । अतिशायनं समानप्रतियोग्यपेक्षं, वैस्पष्टयं तु तन्निरपेक्षमिति स्पष्ट एव विषयविभागः। 'अप्ययं पलाण्डुने त्यादौ गर्हाया- मपिशब्दः कर्मप्रवचनीयसंज्ञः ॥ [प्रशंसायों रूप] ॥ ईषदस । प्रत्ययानां विधेयतया प्राधान्यात्तदर्थत्वमीषदसमाप्तमत्वाह-ईपदसमा- साविति । ईषदसमाप्तौ यथेष्टं लिङ्गवचनाऽसिद्धिरित्यर्थः । एकवचन मिति। एकत्वा- दीपदसमाप्तः । षष्ठीप्रसङ्गं तु न चोदयति, गुणगुणिनोरिह सर्वदा सोऽयमित्यभेदसम्ब- न्धस्य विवक्षितत्वादिनिबन्धनायाः षष्ठया । अप्रसङ्गात् । यद्येवं गुणवचनानामाश्रयतो लिङ्गवचनानीति लिङ्गवचनदोषोऽपि नास्ति । नैवं शक्यम्-इह गुडकल्पा द्राक्षा बहु- गुडा द्राक्षेति, यदि ईपदसमाप्तेाक्षाश्रयत्वं तदा बहुगुड इति न सिध्यति। अथ गुडा- श्रयत्वं ततो गुडकल्पेति न सिध्यति । का पुनर्दाक्षायां गुडस्येषदसमाप्तिः १ । येन माधुर्येण गुणेन द्राक्षायां गुडशब्दो वर्तते, तस्येषदसमाप्त्या गुडस्येषदसमाप्तिः। प्रकृत्यर्थविशेषण- उ.] अपिहयाम्। सर्वत्र सम्भावनायां लिङ् । दस्युर्हिसकः सन् परस्वाऽपहर्ता वैस्पष्टयमिति । प्रशंसाया अप्युपलक्षणमेतत् ।। [प्रशंसायां रूप] ६६ ।। ईषदसमाप्तौ। भाष्ये-कियाप्रधानत्वादिति । स्त्रीत्वविशिष्ट क्रियाप्रधानत्वादि. त्यर्थः । ईषदसमाप्तिः--आरोपितेषदसमाप्तिः। भावे क्तिन्निति भावः । भाष्ये एकोऽयमथ इति । सूत्रे एकवचनान्तत्वेनोपादानादित्यर्थः । इद मुपलक्षणं 'स्त्रीलिङ्ग' इत्यस्यापि । “एकवचन मिति स्त्रीप्रत्ययस्याऽपि । षष्टीप्रसङ्गमिति । 'देवदत्तस्य पटुकल्प' इति स्या- दिति भावः । द्राक्षाश्रयत्वमिति । गुडस्येषदसमाप्तिरिति विग्रहः । गुडाश्रयत्वे वृत्तित्वं सम्बन्धः षष्ठयर्थः । द्राक्षाश्रयत्वे प्रतियोगित्वं सम्बन्धः । गुडकल्पेति न सिध्यतीति । गुडाश्रयत्वेऽनुभवविरोधोऽपि बोध्यः। का पुनरिति । द्रव्यस्येषदसमाप्त्यसम्मवादिति भावः । येन माधुर्येणेति। गुणशब्दप्रयोगप्रयोजकमाधुर्यगुणप्रतियोगिकत्वं सम्बन्धः षष्ठ्य- १ अयं पाठो लुप्त इदानीम् । २ इतिः काचित्कः। ३ 'पलाण्डुसरां'। ४ 'चोर । ५ धावन्त्याः' । ६ सिद्धन्तु प्रकृत्यर्थविशेषणत्वात्' पा०। ७ 'विशेषणन्तत् । - , कैयट-विवरणसहित [ ईषदसमाप्ती- कल्पबादयो भवन्ति ॥ कस्मिन्नर्थे ?॥ स्वार्थ इति। स्वार्थिकाच प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ ॥*॥ प्रकृत्यर्थे चेलिङ्गवचनानुपपत्तिः ॥७॥ प्रकृत्यर्थे चेल्लिङ्गवचनयोरनुपपत्ति:- गुडकल्पा द्राक्षा तैलकल्पा प्रसन्ना पयस्कल्पा यवागूरिति ॥ ॥ सिद्धं तु तत्सम्बन्ध उत्तरपदार्थे प्रत्ययवचनात् ॥ सिद्धमेतत् ॥ कथम् ? " प्रत्वादिति। उभयानुग्रहादेव हि प्रकृतिरप्यनुगृहीता भवति प्रत्ययोऽपि द्योतकत्वात्तस्याः। एवं च स्वार्थिकत्वात्प्रकृतितोलिङ्गवचनानि सिध्यन्ति । यत्र तु नेष्यते तत्र'णचःस्त्रियाम'भिक्ति ज्ञापकेन तदतिवृत्तिरिति वक्ष्यते । प्रकृत्यर्थे चेदिति । ननु गुडकल्पा द्राक्षेत्यादौ गुड- इयं द्राक्षेत्यभेदविवक्षायां गुडादयो द्राक्षायां वर्तमानाः प्रत्ययमुत्पादयन्तीति द्राक्षादिगत- लिङ्गवचनोपपत्ती नास्त्यव्याप्तिदोषः । नैतदस्ति । गुडादयः शब्दा इवार्थाभ्यन्तरीकरणेन सोयमित्यभेदसम्बन्धेन द्राक्षादिषु वर्तमाना अपरित्यक्तस्वलिङ्गसङ्खथा एव वर्तन्ते तत्र 'बहुगुडो द्राक्षे त्यादि सिध्यति । गुणशब्देभ्यश्च पटवादिभ्यः कल्पादिषु दोषाभावो, जाति- शब्देभ्यस्तु कल्पादिघु भिन्नलिङ्गसङ्ख्यजात्यभिधाने गुडकल्पा द्राक्षेत्यादौ दोषः । सिद्धं त्विति । यद्यप्युत्तरपदशब्दः समासावयवे रूढस्तथापीह प्रकृत्यर्थस्य पश्चात्प्रत्य- यार्थस्य भावात्प्रत्ययार्थविशेषवाचिनि द्राक्षादिपदे यौगिको वर्तते, तेन गुडादिभ्य उपमान- वाचिभ्य उपमेये द्राक्षादौ प्रत्यय इत्युक्तं भवति,-गुड इवेयं द्राक्षेषदसमाप्ता गुडकल्पेति । यद्यप्युपमानग्रहणं नोपात्तं तथापि सामर्थ्यादत्रोपमानोपमेयभाव आश्रीयते। पटवादिभ्यो- उ.] इति भावः। उभयाऽनुग्रहादिति । ईषदसमाप्तिपदं तद्विशिष्टे औपचारिकम् । एवं पूर्वत्र प्रशंसापदं बोध्यम् । यत्र विति। 'गुडकल्पा द्राक्षे'त्यादौ। अभेदविवक्षायामिति । तादृशविवक्षायां शुक्लादौ स्वगतलिङ्गादिपरित्यागदर्शनादिति भावः। इवार्थाऽभ्यन्तरीकर- णेनेति । अभ्यन्तरीकरणं-मूलत्वेनाश्रयणम्, इवार्थस्याऽभ्यन्तरीकरणं यत्रेत्यभेदस- म्बन्धेनेत्यस्य विशेषणम् । तन्मूलकाऽभेदसम्बन्धेनेति यावत्। सादृश्यमूलकातिरिक्ताऽभेद- सम्बन्धेन वृत्तौ हि तत्त्यागः। तन्मूलकाऽभेदसम्बन्धेनाऽन्यत्र वृत्तौ तु न स्वलिङ्गादित्याग इति भावः । गुणशब्देभ्यः पवादिभ्यश्चेति। तेषां त्रिलिङ्गत्वेनाऽपरित्यक्तलिङ्गादीनामेव प्रवृत्ते- रिति भावः। ईषन्यूनौ पटू पटुकल्पाविति द्विवचनादेरपि सिद्धिः । जातिशब्देश्यस्त्विति। प्रायेण ते नियतलिङ्गाः । ईषन्यूनो गुड इत्यर्थेऽपि 'गुडकल्पे द्राक्षे' इतीष्यत इति भावः । दोष इति । प्रकृतिलिङ्गातिक्रमो दोषः । वात्र्तिके-तत्सम्बन्ध इति बहुव्रीहिः । तद्धनय- व्याचष्टे भाष्ये-तत्सम्बन्धे इति। पश्चात्प्रत्ययार्थस्येति । प्रत्ययार्थस्य विशेष्यत्वमेवेति सूचयति । प्रत्ययार्थस्य द्रव्याऽभेदेनैव प्रतीतेराह-प्रत्ययार्थस्येति । प्रत्ययार्थविशेषवाचि- नीति। नन्वीषदसमाप्तिसम्बन्धेतरपदार्थे प्रातिपदिकात्प्रत्ययस्योपमानवाचकाऽतिरिक्तात्कर्तुम- शक्यत्वेनाह-तेनेत्यादि।गुड इवेयं द्राक्षेषदसमाक्षेति। ईषदसमाप्तेत्युक्तिबहुसादृश्यबो- धनाय। तद्धनयन् वक्ष्यति-ईषत्सादृश्ये प्रत्ययाऽभाव इति। सामर्थ्यादिति। अन्यपदस्यार्थे १ 'प्रत्ययविधानात्' पा०।२ 'द्राक्षादिषु पा० ।
५ अ.।३पा.।१आ.। ६८सू.] महाभाष्यम् तत्सम्बन्धे उत्तरपदार्थे प्रत्ययवचनात् । तत्सम्बन्धे-[ ईपदसमाहि- सम्बन्धे ]-उत्तरपदार्थे प्रत्ययो भवतीति वक्तव्यम् ॥ सिध्यति सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवास्तु॥ ननु चोक्तमीषदसमाशों क्रियाप्रधानत्वाल्लिङ्गवचनानुपपत्तिरिति ॥ परिहृतमेतत्-'प्रकृत्यर्थविशेषण- स्वासिद्ध मिति । ननु चोक्तं-'प्रकृत्यर्थे चेल्लिङ्गवचनानुपपत्ति रिति ॥ नैष दोषः आचार्यप्रवृत्तिापयति-स्वार्थिका अतिवर्तन्तेऽपि लिङ्गवचनानी ति यदयं 'णचः स्त्रियाम'जिति स्त्रीग्रहणं करोति ॥ यद्येतज्ज्ञाप्यते-बहुगुडो द्राक्षा बहुतैलं प्रसन्ना बहुपयो यवागूरित्यत्रापि प्राप्नोति ॥ नाप्यतिवर्तन्ते ॥ किं पुनरिहोदाहरणम् ?।। पटुकल्पो मृदुकल्प इति ।। नैतदस्ति-निर्जा- तस्याऽर्थस्य समातिर्वा भवति विर्समाप्तिर्वा । गुणाश्चाऽनिीतः ॥ इदं तर्हि गुडकल्पा द्राक्षा तैलकल्पा प्रसन्ना पयस्कल्पा यवागूरिति। द्रव्यमप्यनितिम्॥ इदं तर्हि कृतकल्पं भुक्तकल्पं पीतकल्पम् ।।। क्तान्तात्प्रत्ययविधानानुपपत्तिः प्र.] ऽपि तत्रैव प्रत्ययोत्पत्तिर्यस्य परिपूर्ण पाटवं स लोके पटुरिति प्रसिद्धः, तेन तुल्य ईषद- समाप्तः पटुकल्पो देवदत्त इति तत्सम्बन्ध इति वचनादीषत्सादृश्ये प्रत्ययाऽभावः । सिध्यतीति । यद्यप्यस्मिन्पक्षे बहुगुडो द्राक्षेत्यादि न सिध्यति, द्राक्षादिगतलिङ्ग- वचनप्रसङ्गात्तथाप्युक्तदोषपरिहारात सिध्यतीत्युक्तम् । स्त्रीग्रहणमिति । 'कर्मव्यतिहारे गच स्त्रिया मिति स्त्रीलिङ्गे भावे णचो विधानात्तदन्तादप्रत्ययः स्वार्थिकत्वास्त्रियामेव भविष्यतीति स्त्रीग्रहणं न कर्तव्यम् । तक्रियमाणं-लिङ्गवचनातिवृत्तिं ज्ञापयति । नापीति । उत्तरसूत्रे तुग्रहणाद्वक्ष्यमाणनियमार्थात्प्रकृतेय लिङ्गवचने ते एव बहुच्युत्पन्ने भवतः। अथ वा स्त्रीग्रहणेनानुवृत्तिनियमाऽभावो ज्ञाप्यते इत्यनुवृत्त्यतिवृत्ती यथाप्रयोग भवतः । अथ वा 'कासूगोणीभ्यां ष्टर चिति चित्करणेन स्त्रियां डीपर्थेनानुवृत्तिरपि ज्ञाप्यत इत्यु- भयसिद्धिः । किं पुनरिति । गुणशब्दानामनक्तपरिमाणविषयत्वाद्गुणसम्बन्धमात्रेण -मन्दमध्यमोत्कृष्टगुणे सर्वत्र वर्तनादीषदसमाप्तेरभावं मत्वा प्रश्नः । निर्मातस्येति । अयमेवेत्येवं निश्चितस्येत्यर्थः । विसमातिश्चेति । नगर्थे विशब्दः । गुणश्चानिात इति । इयदेव पाटवमितीयत्तया न ज्ञायते गुणः । द्रव्यमिदानीमुपन्यस्यति-इदं तहीति। नन्वत्र न गुडादय ईषदसमाप्ताः किं तहिं द्राक्षादय इति द्राक्षादिभ्य एव प्रत्ययेन भाग्यम् । उ.] अन्यपदात्प्रत्ययस्य सादृश्यमगर्भीकृत्याऽन्वयबोधने सामर्थ्यादित्यर्थः । वचनादिति। ईफ्त्सादृश्ये ईषदसमाप्तिसम्बन्धत्वाऽभावादित्यर्थः । अथ वेति । 'तु'ग्रहणप्रत्याख्यानपरम् । ननु शुक्लादीनामल्पत्वमहत्त्ववत् पाटवादीनामपि तत्त्वसम्भवादीषदल्पत्वमेवेषदसमाप्ति- रत आह-गुणशब्दानामिति । भाष्ये-निर्मातस्येति । एतावानेवेति निर्मातस्येत्यर्थः। तदाह-अयमेवेति । इयानेवेत्यर्थः । क्वचित्तु तथैव पाठः । अत एवाऽग्ने 'इयत्तया न शायते १सम्बद्ध पागर अपिः काचित्कः।३ यद्यप्येततापा०४'समाप्तिर्विसमाप्तिश्च भवति 'समाप्तिा विसमाप्तिा भवति'समाप्तिर्भवति विसमाप्तिर्वापा,1५ अनिर्शातश्च गुणः'। ६ अयं कचिन्न । । : । ।
। कैयट-विवरणसहितं. [ईपदसमाप्ती तस्य भूतकाललक्षणत्वात्कल्पादीनां चाऽसमाप्तिवचनात् ।। क्तान्तात्प्रत्ययविधेरनुप पत्तिः॥ किं कारणम् ?॥ तस्य भूतकाललक्षणत्वात्' । भूतकाललक्षणः क्तः । 'कल्पादीनां चाऽसमातिवचनात्' । विसमाप्तिवचनाश्च कल्पादयः । न चाऽस्ति संभवो यद्भूतकालश्च स्यादसमाप्तिश्चेति । ॥ * ॥ सिद्धं त्वाशंसायां भूतवद्वचनात् ॥ * ॥ सिद्धमेतत् ॥ कथम् ? ॥ आशंसायां भूतवच्चेत्येवमत्र तो भविष्यति ॥ इदं चाप्युदाहरणं-पटुकल्पो मृदुकल्प इति ॥ ननु चोक्त-निर्जातस्यार्थस्य समाप्तिा भवति विसमाप्तिर्वा गुणश्चाऽनि- ति' इति ॥ लोकतो व्यवहारं दृष्ट्वा गुणस्य निर्ज्ञानम् ; तद्यथा-पटुरयं ब्राह्मण प्र.] नैष दोषः । यदपेक्षया परस्येषदसमाप्तिर्भवति तद्वाचिनः प्रत्ययेन भाव्यम् । तत्रेवार्थ- मभ्यन्तरीकृत्याऽभेदोपचाराद्गुड इव गुडो द्राक्षेति माधुर्याद्राक्षायां गुडत्वस्यारोपादारोप- निमित्तस्य माधुर्यस्येषदसमाप्तत्वाद्गुडादिभ्यः प्रत्ययोत्पत्तिरविरुद्धा । द्रव्यमपीति । इयता माधुर्येण द्राक्षा गुड उच्यते इत्येवमपरिज्ञानाद्देशभेदेन च गुडस्य भेदात्कं गुडम- पेक्ष्य द्राक्षा गुड ईषदसमाप्त उच्यत इत्येवमपरिज्ञानम् । कृतकल्पमिति । आशंसायां भूतवद्भविष्यति प्रत्ययविधानादस्तिक्रियाया ईषदसमाप्तिरुपाधिरिति भावः । इतरो यथोक्तमभिप्रायमप्रतिपद्याह-तान्तादिति । क्रियाफलनिवृत्तौ क्रियापवों भवति, सति च क्रियापवर्गे कुतः क्रियाया ईषदसमाप्तिरित्यर्थः । सिद्धं त्विति । भविष्य- कालाया ईषदसमाप्तायाः क्रियाया आशस्यमानत्वादित्यर्थः । जीतः तो मतिबुद्धि पूजार्थे- भ्यश्चेति वर्तमानकालविषयत्तान्तादपि प्रत्ययैर्भाव्यं,-ज्ञातकल्पं पूजितकल्पमिति । तथा तिङन्तादपि-पचतिकल्पमिति । यदापि कियैकदेशापवर्गाश्रयेण भूते तो विधीयते तदापि कल्पादयो-भवन्ति,-कृतकल्पं वस्त्रमिति । एवञ्च कृताऽकृतादय एकदेशकरणाऽकरणाश्रयाः प्रयोगा उपपन्नाः। सकलक्रियापवर्गाश्रयभूतकालविषयक्तप्रत्ययापेक्षे तु चोधप्रतिसमा- धाने। एवञ्च कालत्रयविषयेभ्यस्तिङन्तेभ्यः कल्पादयो भवन्ति-पचतिकल्पं पक्ष्यतिकल्प- मपाक्षीत्कल्पमिति । लोकत इति । यावता माधुर्येण लोके द्राक्षायां गुडव्यवहारस्तावदा उ.] गुण' इति वक्ष्यति। अन्न-'गुडकल्पे'त्यादौ । ईषदसमाप्ता:-माधुर्येषदसमाप्त्याश्रयाः। किन्तहीति । द्राक्षादिगतमाधुर्येषदसमाप्तेरेव प्रतीतेरीषदसमाप्तमाधुर्यवती द्राक्षेति बोधादिति भावः। यदपेक्षयेति । यनिरूपितसादृश्यप्रयोजकधर्मस्येषदसमाप्तिस्तद्वाचिन इत्यर्थः। शब्द- शक्तिस्वभावादिति भावः । एवञ्च सूत्रवार्तिकयोः समफलता भवति। ईषदसमाप्तमाधुर्य- बद्गुडाऽभिन्ना द्राक्षेति बोध इति द्राक्षामाधुर्यस्याऽपीपदसमाप्तत्वमर्थलब्धमिति तयोः समफल. तेति दिक । ननु द्रव्यमक्तपरिमाणमिति कथं द्रव्यमनितिमत आह-इयतेति । स्वयमुदा- हरणान्तराण्याह-जीतः क्त इति । यदाऽपीति । यथा 'प्रकृतः कट'मित्यादौ । एक- देशाऽपवर्गेण भूते प्रत्यये मानमाह-कृताऽकृतेति । नन्वेवं भाष्योक्तशङ्कासमाधाने निईले अत आह-सकलेति। स्वोक्तेऽर्थे युक्त्यन्तरमाह-एवञ्चेति । तावदाश्रये इति । १ 'तस्य भूतलक्षणत्वात् पा०।२ असमाप्ति पा० । ३ समाप्तिर्भवति' पा० । ४ लोके' पा०। -- ९.३ पा.१ आ.६८ सू.] ॐ महाभाष्यम् इत्युच्यते यो लघुनोपायेनार्थान् साधयति । पटुकल्पोऽयमित्युच्यते यो न तथा साधयति ॥ इदं चाप्युदाहरणम्-गुडकल्पा द्राक्षातैलकल्पा प्रसन्ना पयस्कल्पा यवागूरिति ॥ ननु चोक्तं द्रव्यमप्यनिति'मिति ॥ लोकतो द्रव्यमपि नितिम्॥ विभाषा सुपो बहुच्पुरस्तात्तु ।५।३।६८) विभाषाग्रहणं किमर्थम् ? ॥ विभाषा बहुज्यथा स्याबहुचा मुक्त वाक्य- मपि यथा स्यात् ॥ नैतदस्ति प्रयोजन-प्रकृता महाविभाषा, तया वाक्यमपि भविष्यति ॥ इदं तर्हि प्रयोजनं-कल्पादयोऽपि यथा स्युरिति ॥ एतदपि नास्ति प्रयोजनम् । बहुजप्युच्यते कल्पादयोऽपि, तदुभयवचनाद्भविष्यति ॥ नैवं शक्यम्-अक्रियमाणे हि विभाषाग्रहणेऽनवकाशो बहुच्कल्पादीबाधेत ।। कल्पादयोप्यनवकाशास्ते बचनाद्भविष्यन्ति । सावकाशाः कल्पादयः॥ कोऽवकाशः? ॥ तिङन्तान्यवकाशः॥ अथ सुब्ग्रहणं किमर्थम् ॥ सुबन्तादुत्पत्तिर्यथा स्यात्प्रातिपदिकान्मा भूदिति ॥ नैतदस्ति प्रयोजनं,-नास्त्यन्न विशेषः,-सुबन्तादुत्पत्तौ सत्यां प्रातिपदिकाद्वा॥ यद्येवमिहापि नार्थः सुब्ग्रहणेन,-'सुप आत्मनः क्य' जिति, इहापि नास्ति विशेषः-सुबन्तादुत्पत्तौ सत्यां प्रातिपदिकाद्वा ॥ अयमस्ति विशेषः-सुबन्तादुत्पत्तौ सत्यां पदसंज्ञा सिद्धा भवति, प्रातिपदिकादु. प्र.] अय ईषदसमाप्तिसम्भवः । अथवा गुडगतमाधुर्याश्रयेण द्राक्षायां गुडत्वारोपागुडजात्य. भावाचेपदसमाप्तं गुडत्वं द्राक्षायां गुड इयं द्राक्षा गुडकल्पा द्राक्षेति प्रयोगः ।। विभाषा । अथ सुब्ग्रहणमिति । सुबन्तस्य प्रियकुत्सनादिषु वर्तनादर्थलभ्य सुबन्तत्वमिति प्रश्नः । प्रातिपदिकान्मा भूदिति । अन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्यया- नामिह शास्त्रेऽर्थवत्तापरिकल्पनात्प्रातिपदिकमपि स्वार्थादिपञ्चके प्रवर्त्तमानं प्रियकुत्सना- दिघु प्रवर्तत इति ततोऽपि प्रत्ययप्रसङ्ग इति भावः । नास्त्यत्र विशेष इति । ननु सुबन्तादुत्पत्ती सत्यां 'बहुसेच' इत्यादौ 'सात्पदाद्योरिति षत्वप्रतिषेधः सिध्यति, प्रातिपदिका- तृत्पत्तौ षत्वप्रसङ्गः । नैष दोषः । सुबन्तादुत्पत्ताववश्यं पदसंज्ञानिबन्धनकुत्वादिनिये. धार्थों यत्नः कर्त्तव्यः। बहुपूर्वस्य लुमता लुप्ते पदादिविधौ प्रत्ययलक्षणमिति,तन्नियमार्थ पदा- दिविधावेव न पदान्तविधा विति । एवञ्च प्रातिपदिकादप्युत्पत्तौ यत्नः करिष्यते-सात्पदाद्यो- इ.]तावन्माधुर्याश्रये इत्यर्थः। ईषदसमाप्तीति। माधुर्येषदसमाप्तीत्यर्थः। अथ वेति । अत्रपक्षे ईषदसमाप्तगुडत्ववती द्राक्षेति बोधः । सादृश्यन्तु पर्यवस्यति पश्चान्मानसबोधविषय इति तत्त्वम्। गुडत्वारोपादिति। आरोपविषयत्वमेवेषदसमाप्तत्वमिति भावः। आद्यमेव तुयुक्तम्।। विभाषा सुपो। सुबन्तस्येति । इदं च 'कुत्सित' इत्यत्र भाष्ये स्पष्टम् । ननु सुब. न्तस्यैवेषदसमाप्त्यादौ वृत्तिन प्रातिपदिकस्येत्यत आइ-अन्वयेति । शास्त्रकल्पितावन्वय- व्यतिरेको, तत्कल्पितार्थवत्ता च शास्त्रव्यवहारोपयोगिन्येवेति बोध्यम् । इति भाव इति । १'कल्पबादयः' पा०।२ एतदपीत्यादेःस्थाने 'ननु च बहुज' इति पाठा.। । - ।
8 कैयट-विवरणसहित [विभाषा सुपो- त्पत्तौ सत्यां पदसंज्ञा न ।प्राप्नोति ॥ ननु च प्रातिपदिकादप्युत्पत्तौ सत्यां पदसज्ञा सिद्धा ॥ कथम् ? ॥ आरभ्यते 'नः क्ये' इति, तचा- वश्यं वक्तव्य-सुबन्तादुत्पत्तौ सत्या नियमार्थ, तदेव प्रातिपदिकादुत्पत्तौ सत्यां विध्यर्थ भविष्यति ॥ [योवमिहाऽपि नार्थः सुब्ग्रहणेन, इहापि नास्ति विशेषः, सुबन्तादुत्पत्तौ सत्यां प्रातिपदिकाद्वा] ॥ इदं तर्हि प्रयोजनं-'सुबन्ता- दुत्पत्तिर्यथा स्यात्तिङन्तान्मा भूदिति ॥ एतदपि नास्ति प्रयोजनं, ड्याप्मा- तिपदिकादिति वर्त्तते ॥ अत उत्तरं पठति-॥ * ॥ बहुचि सुब्ग्रहणात्पूर्वत्र तिङो विधानम् ॥ * ॥ बहुचि सुब्ग्रहणं क्रियते॥ [किमर्थं ?॥ 'पूर्वत्र तिङो विधानम्'] पूर्वत्र तिङो विधिर्यथा विज्ञायेत ॥ नैतदस्ति प्रयोजनं, प्रकृतं तिङ्ग्रहण- मनुवर्तते ॥ व प्रकृतम् ? ॥ 'अतिशायने तमबिष्टनौ तिङश्चेति ॥ एवं तर्हि 1 *बहुचि सुब्ग्रहणं पूर्वत्र तिङोविधानात् ।। बहुचि सुब्ग्रहणं क्रियते ॥ किंकार- जेम्?। 'पूर्वत्र तिङो विधानात्'। पूर्वत्र 'तिङश्चेत्यनुवर्तते तदिहापि प्राप्नोति॥ ननु च तिङ्ग्रहणं निवर्तेत ॥ अवश्यमुत्तरार्थमनुवर्त्यम् ,-अव्ययसर्वनाम्नाम- कच्याक्टेरिति-पचतकि जल्पतकीत्येवमर्थम् ॥ यदि सुब्ग्रहणं क्रियते स्वरो न सिध्यति । बहुपटव एवं स्वरः प्रसज्येत । बहुपटव इति चेष्यते ॥ पठिष्यति ह्याचार्य:-चितः सप्रकृतेर्बकज मिति स्वरः कथम् ? ॥ 19॥ स्वरः प्रातिपदिकत्वात् ॥*] सुब्लुकिकृते प्रातिपदिकत्वात्स्वरो भविष्यति ॥ प्र.] बहुचश्चेति । अतएव तुल्यन्यायतया 'सुप आत्मनः क्यजित्यस्य नुग्रहणस्याक्षेपः। पूर्वत्र तिडो विधिरिति । अस्यैवार्थस्य ज्ञापनार्थमिह लुब्ग्रहणं, तेन पूर्वत्र प्रातिप- दिकान्तिङन्ताच्च कल्पादयः सिध्यन्तीत्यर्थः । नैतदस्तीति । ज्ञापकमन्तरेणापि तिडोऽ- नुवृत्तिः सिध्यतीत्यर्थः। एवं स्वर इति । जस उदात्तत्वं स्यात् । पटुशब्दोकारस्य चेष्यत इत्यर्थः। स्वरः प्रातिपदिकत्वादिति । बहुचि कृते प्रकृतिप्रत्ययसमुदायस्यार्थ- वत्वात्समुदायाच्च जसोऽविधानात्तस्याऽप्रत्ययान्तत्वात्प्रातिपदिकसंज्ञायां सत्यां पूर्वोत्पनाया विभक्तेलुकि कृते पटुशब्दस्योकारस्योदात्तत्वं भवति । या त्वन्या विभक्तिसत्पद्यते न सा प्रकृत्यवयव इति तस्या उदात्तत्वाऽप्रसङ्गः ननु समासग्रहणस्य नियमार्थत्वात्प्रकृतिः उ.] इत्यभिमान इत्यर्थः । नियममेव दर्शयति--पदादीति । अत एव तुल्यन्यायेति । तत्रत्येनाऽस्य तुल्यन्यायतां बोधयितुमित्यर्थः । आक्षेप: स्मारणम् । ननु चितोऽन्तोदा- तत्वविधानात्कथं जसः, कथं वा पटोस्कारस्वरोऽत आह भाष्ये-पठिष्यति होति । स्वरः कथमिति। हि यत इति पठिष्यत्यतो हेतोः सुग्रहणे कृते पटोस्कारस्य कथं स्वर इत्यर्थः । ननु तद्धितान्तत्वाऽभावात्कथं प्रातिपदिकत्वमत आह-बहुचीति । अप्रत्यय इति प्रतिषेध इति । स च प्रत्ययान्तविषय एव न प्रत्ययविषय इति भावः। एतच्च तत्रैव निरूपितम् । ननु 'तु'ग्रणेन पूर्वत्वस्य नित्यत्वं कथं बोधयितुं शक्यमवाचकत्वादित्यत १ कर्त्तव्यम्पा०। २ इदं कचिन्न दृश्यते। ३'प्रातिपदिकत्वात्सुब्लुकिकृते स्वरो भविष्यति'पा०। ।
ततश्च विभाषाग्रहणेन परस्ता'दित्यनेन विशेषणेन विशेषो निर्दिश्यते, ५.अ.।३ पा.। १ आ.। ६८ सू.] ॐ महाभाष्यम् अथ तुग्रहणं किमर्थम् ? ॥॥॥ तुग्रहणं नित्यपूर्वार्थम् ॥*! तुग्रहणं क्रियते [किमर्थम् ? ॥ नित्यपूर्वार्थम् ] नित्यं पूर्वो यथा स्याद्विभाषामा भूदिति ।। मैतदस्ति प्रयोजनम् । न विभाषाग्रहणेन पूर्वमिसम्बध्यते ॥ किं तर्हि ? ॥ बहुजभिसम्बध्यते-विभाषा बहुज्भवतीति । यदा च 'बहु'ज्भवति तदा नित्य पूर्वो भवाती]ति ॥ इदं तर्हि प्रयोजनम्-प्रागुत्पत्तेर्यल्लिङ्गं वचनं च तदु. स्पन्नेऽपि यथा स्यात्-बहुगुडो द्राक्षा बहुतैलं प्रसन्ना बहुपयो यवागूरिति । एतदपि नास्ति प्रयोजनं-स्वार्थिकोऽयं, स्वार्थिकाश्च प्रकृतितोलिङ्गवचना. न्यनुवर्तन्ते । एवं तर्हि सिद्धे सति यत्तुग्रहणं करोति तज्ज्ञापयत्याचार्यः- स्वार्थिका अतिवतन्तेऽपि लिङ्गवचनानीति ॥ किमेतस्थ ज्ञापने प्रयो- जनम् ? ॥ गुडकल्पा द्राक्षा तैलकल्पा प्रसन्ना पयस्कल्पा यवागूरित्येतत्सिद्धं भवति । ॥ * ॥ तमादिभ्यः कल्पादयो विप्रतिषेधेन ।। * ॥ तमादिभ्यः कल्पादयो- भवन्ति विप्रतिषेधेन । तमादीनामवकाश:-प्रकर्षस्य वचनमीषदसमाप्तेर- वचनं-पटुतरः। पटुतमः। कल्पादीनामवकाश ईषदसमाप्तेवचनं प्रकर्ष- स्याऽवचनं-पटुकल्पो मृदुकल्पः । उभयत्र वचने उभयं प्रामोति-पटुकल्पतरो मृदुकल्पतरः, कल्पादयो भवन्ति विप्रतिषेधेन ॥ यद्येवमीषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति प्रकृतेरेव च प्रकर्ष इष्यते ॥ ॥ * ॥ तमादिरीषत्प्रधा. प्र.] प्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा न प्राप्नोति । नैष दोषः । 'अप्रत्यय'इति प्रतिषेधो ज्ञापयति-'प्रकृतिप्रत्ययसमुदायस्य समासग्रहणेन प्रातिपदिकसंज्ञा न निवर्त्यते' इति,- अन्यथाऽप्रत्यय इति निषेधोऽनर्थकः स्यात् । नित्यपूर्वार्थमिति । पुरस्तादेवेत्येवमवधार. णार्थं तुग्रहणमित्यर्थः । अन्यथा प्रत्ययवत्पूर्व त्वस्यापि विधेयतया प्राधान्याद्विभाषाग्रहणेन सम्बन्धः स्यादिति भावः । किं तर्हि बहुजिति । बहुजेब विधेयत्वात्प्रधान विभाषाग्रहणेन ततश्च विभाषाग्रहणेन पुरस्तादित्यस्य गुणस्य सम्बन्धाभावो 'गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यादिति न्यायात् । प्रागुत्पत्तेरिति । तुशब्दो नियमार्थः, पुरस्तादेव सर्व भवतीति । तेन लिङ्गसंख्ये प्रकृतिगते भवतः, प्रयोगश्च प्राक्प्रकृतेः-पटुकल्पतर इति । ननु परत्वात्कल्पबादिभिर्वाधितत्वात्तरप्तमब्भ्यां न भाव्यम् । नैष दोषः । कल्पबादिभिः उ.] आह-पुरस्तादेवेति । विशेष इति । देशविशेष इत्यर्थः । ननु देशविशिष्ट- प्रत्ययस्य विधेयत्वात्तस्याऽपि विधेयतालक्षणं प्राधान्यमस्त्येवेत्यत आह-ततधेति । गुणस्येति। विधेयांशे विशेषणत्वाद्गुणस्येत्यर्थः। पुरस्तादेव सर्वमिति। यत्सर्वं लिङ्गादि प्रत्ययोत्पत्तेः पुरस्ताद्वर्त्तते तदेव सर्वं भवतीत्यक्षरार्थः । प्रयोगधेति । पुरस्तात्पदमावर्त्तत इति भावः । भाष्ये-यत्तग्रहणमिति । यदि तु पूर्वसूत्रोक्तरीत्या स्त्रीग्रहणमत्रार्थे ज्ञापकमित्युच्यते तदेदम्प्रत्याख्येयम् । उभयं प्रामोतीति । 'पटुतरकल्प' इत्यपि कदाचित्स्यादिति भावः । १ इदं कचिन्नास्ति।२ पूर्वत्वमभि'पा०।३'कल्पबादयः'पा०। ४ 'तमादिप्रत्ययः"तमादिभ्यःप्रपा ॥ - कैयट-विवरणसहितं [अव्ययसर्वनाम्ना- नात् ॥ * ॥ तमादिरीपत्प्रधानादपि भवन् यस्य प्रकर्षोऽस्ति तस्य प्रकर्षे भविष्यति ॥ कस्य च प्रकर्षोऽस्ति ? । प्रकृतेरेव ॥ [विभाषा सुपो ] । अव्ययसर्वनाम्नामकच्प्राक् टेः ।५।३१७१|कस्य च दः ॥५॥३॥७२॥ किमयं सुबन्तस्य प्राक टेर्भवत्याहो स्विन्ड्याप्रातिपदिकस्य ? ॥ कुतः सन्देहः ?॥ उभयं प्रकृतम्, अन्तरच्छक्यं विशेषयितुम् ॥ किं चातः ?॥ यदि सुबन्तस्य,-युष्मकाभिः अस्मकाभिः : युष्मकासु अस्मकासु युवकयोः आवकयोरिति न सिद्धयति । अथ प्रतिपदिकस्य, त्वयका मयका त्वयकि मयकीत्यत्रापि प्राप्नोति ॥ अस्तु सुबन्तस्य ॥ कथं युष्मकाभिः अस्मकाभिः । युष्मकासु अस्म- कासु। युवकयोः आवकयोरिति ? ॥ * अनोकारसकारादाविति वक्तव्यम् ।। * [अनोकारसकारादाविति वक्तव्यम् ]|||अकच्प्रकरणे तूष्णीमः काम् ॥* अकप्रक- रणे तूष्णीमः काम्बक्तव्यः । आसितव्यं किल तूष्णीकाम् [एतत्पर्यंत चिन्ति- तम् ] ॥ * ॥ शीले को मलोपश्च ॥ * ॥ शीले को मलोपश्च वक्तव्यः । तूष्णीं शीलः तूष्णीकः॥ प्र. प्रकर्षस्याऽद्योतनात्पुनः प्रसङ्गविज्ञानात्कल्पबाद्यन्तात्प्रकर्षज्ञापनाय तरप्तमपौ भवतः। प्रकृ. तेरेवेति । कल्पबादीनां या प्रकृतिः पवादिः तदर्थस्यैव प्रकर्षः सम्भवति, नत्वीषदसमाप्तेः । असमाप्तिप्रकर्षे समाप्तावीषदर्थाभावान्नास्तीपदसमाप्तेः प्रकर्षः ॥ [विभाषा सुपो बहुच ] अव्यय । अन्यतरदिति । प्रातिपदिकस्य प्राक् टेरकज्भवति, सुबन्तस्य वा प्राक्टे- रित्येवं प्राक्टेरित्यनेनान्यतरच्छक्यते विशेषेऽवस्थापयितुमित्यर्थः । तूष्णीमः कामिति मित्त्वादचोऽन्त्यात्परः काम्भवति । अज्ञाताद्यर्थाविवक्षायां तूष्णीमित्येव भवति। शीले क इति। शीलं स्वभावो नियमश्च । अज्ञाताधपवादः शीलं। शब्दशक्तिस्वभावाच्च तद्वांस्तूष्णीक उच्यते। उ.]भाष्ये-तमादिरीषत्प्रधानत्वादिति। कल्पान्तस्येषदसमाप्तिप्रत्यायकत्वादित्यर्थः। प्रधा- नत्वन्तु कल्पप्रयोगस्य तन्मात्रबोधकफलकत्वादिति बोध्यम् । तत्र च प्रकर्षाऽसम्भवात्तत्प्र- कृत्यर्थप्रकर्षे एव तमादिः प्रत्यय इत्यर्थः । न स्वीषदसमाप्तेरिति । न हीपदर्थस्याऽस- माप्तेर्वा प्रकर्षे ईषदसमाप्तिर्भवतीति भावः ॥ [विभाषा सुपो] ॥ ६८ ॥ अव्ययसर्व। भाष्ये-उभयं प्रकृतमिति। एकमधिकारात् , सुबन्तन्तु सामर्थ्यादिति बोध्यम् । ननु 'प्राक्टे' रित्यस्य सुबन्तं प्रातिपदिकं वा विशेषणम् , न तु 'प्राक्टेरित्येतत्तस्ये- ति,-अन्यतरच्छक्यं विशेषयितु' मित्यसङ्गतम् ,'अन्यतरेणशक्यं विशेषयितु'मित्युचितमत आह -विशेषेऽवस्थापयितुमिति। तत्र नुबन्तस्येति युष्मदस्मद्विषयकमेव, अन्यत्र तु प्रातिपदि- कस्यैव टेरिति बोध्यम् , उदाहरणपरभाष्यप्रामाण्यात् । अज्ञाताद्यपवादः शीलमिति । तक्रकौण्डिन्यन्यायादिति भावः। विधेयविषयत्वात्तस्य न्यायस्येदं चिन्त्यम् । यदि नेष्यते तत्र १'प्रधानत्वात्' पा०। २ 'प्राक्टेभविष्यत्याहोस्वित्' पा० । ३ याप्राति' पा० ४ 'एतत्पश्यति' पा०। [] एतदन्तर्गतः पाठः काचित्कः । .0 ।
४७५ ५ अ.३ पा.१ आ.।७२ सू.] महाभाष्यम् इह भिनत्ति च्छिनत्तीति,-भमि कृते शप्राप्नोति ॥ बहुकृतम् बहुभुक्तं बहु- पीतं, बहुचि कृते कल्पादयः प्राप्नुवन्ति ॥ उच्चकैः नीचकैः, अकचि कृते कादयः प्रामुवन्ति ॥ ननु च नम्बहुजकचोऽपवादास्ते बाधका भविष्यन्ति ।। ॥ नम्बहुजकक्षु नानादेशत्वादुत्सर्गप्रतिषेधः ।।७।। नम्बहुजकक्षु नानादेशत्वादुत्स- गस्य प्रतिषेधो वक्तव्यः समानदेशैरपवादैरुत्सर्गाणां बाधनं भवति नानादेश- वान प्राप्नोति ॥[11 नवोक्तत्वादुक्तार्थानामप्रयोग इति । | नम्बहुजकक्ष्क्तत्वात्त- स्यार्थस्यपुनरुत्पत्तिने भविष्यति ] ॥ * ॥ कविधेस्तमादयः पूर्वविप्रतिषिद्धम् ॥ * ॥ कविधेस्तमादयो भवन्ति पूर्वविप्रतिषेधेन । कविधेरवकाशः-कुत्सादीनां वचनं प्रकर्षस्यावचनं-पटुकः मृदुकः । तमादीनामवकाशः-प्रकर्षस्य वचनं कुत्सादीनामवचनं-पटुतरः पटुतमः। उभयवचने उभयं प्रामोति-पटुतरकः पटुतमकः-तमादयो भवन्ति पूर्वविप्रतिषेधेन * ॥ कदा चिच्छिन्नकतरादयः।।४। कदाचिच्छिन्नकतरादयो भवन्ति [पूर्व विप्रतिषेधेन। छिन्नकतरं छिन्नकतमम् ।। ॥ * ॥ एकदेशिप्रधानश्च समासः ॥ * ॥ एकदेशिप्रधानश्च समासः कविधेर्भवति पूर्वविप्रतिषेधेन । अर्द्धपिप्पलिका अर्द्धकोशातकिका ॥ ॥ उत्तरपदार्थप्रथानश्च संज्ञायां कन्विध्यर्थम् ॥ * ॥ उत्तरपदार्थप्रधानश्च समासः कविधेर्भवति पूर्ववि- प्रतिषेधेन ॥ किं प्रयोजनम् ? ॥ 'संज्ञायां कन्विध्यर्थम्। संज्ञायां कन् यथा स्यात् । नवग्रामकम् । नवराष्ट्रकं । नवनगरकम् । ॥ * ॥ कदाचिदुद्वन्द्वः ॥ * ॥ कदाचिद् द्वन्द्वः कविधेर्भवति पूर्वविप्रति- षेधेन । लक्षकन्यग्रोधको प्लक्ष न्यग्रोधकाविति वा॥ प्र.] इह भिनत्तीति । भिन्नदेशत्वाद्विरोधाभावादनेकेनापि प्रत्ययेन प्रदीपेनेव घटादेर्या- यण्यां ष्फडीभ्यां स्त्रीत्वस्येवाज्ञातादेरेकस्यार्थस्य द्योतनम विरुद्धं मन्यमानो बार्तिककार उत्सर्ग प्रतिषेधं शास्ति । भाष्यकारस्तु विरोधमन्तरेणापि सामान्यविधेर्बाधक विशेष विधिमन्यत्रादी. दृशत् । कविधेरिति । अज्ञातः प्रकृष्टः पटुरित्यर्थद्वय विवक्षायां पटुतमक इति भवति । छिन्नकतरमिति । 'अनत्यन्तगतौ क्तादिति कनि कृते तरम् । अर्द्ध पिप्पलिकेति । कुत्सितमर्द्धपिप्पल्या इत्याद्यर्थविवक्षायां समासे कृते ततः कप्रत्ययः। नवग्रामकमिति । समासात्संज्ञायां कनिति कुत्सायां हस्वत्वे वा कनि सत्याधुदात्तत्वं भवति । पूर्व तु कनि सति पश्चात्समासे क्रियमाणेऽन्तोदात्तत्वप्रसङ्गः। अत्र संज्ञा कुत्सनादिहेतुका विषयभावे- उ.]कस्तदाऽनभिधानान्न । तद्वानिति । 'शीले' इत्यर्श आद्यजन्तं बोध्यम् । तूष्णीक इति । 'कोण' इति हस्वाऽभावः, अणन्ताद्विहिते के एव हस्वविधानात् । भाष्यकारस्त्विति । 'सत्यपि सम्भवे बाधनं भवती'त्यादिना । कुत्सितमद्धमिति । अन्यथा 'अर्द्धकपिप्पली'ति स्यादिति भावः। पूर्व समासे स्वरे विशेषं दर्शयति-समासादिति। 'दिक्सङ्घथे संज्ञा- या मिति समासः । यद्वा नवश्चासौ ग्रामश्चेति समासः । संज्ञायां कनिति सूत्र- १इदं कचिन्ना २'पटुतमकःमृदुतरक'इति पा०३ उत्तरपदप्रधानश्च'पा०१४'प्लक्षन्यग्रोधौ पा. । - ।
३७६ कैयट-विवरणसहित कुत्सिते । कुत्सिते ।।३।७४। इह कुत्सितकः अनुकम्पितक इति स्वशब्देनोक्तत्वात्तस्यार्थस्य प्रत्ययो न प्राप्नोति । नैष दोषः कुत्सितस्यानुकम्पायाम्भविष्यत्यनुकम्पितस्यकुत्सायाम्।। अथवा- स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् । समवेतस्य च वचने लिङ्गं वचनं विभक्तिं च ॥१॥ अ.नास्ति, सामानाधिकरण्यं च पदयोरिति युगपत्कार्यद्वयप्रसङ्गादस्ति विप्रतिषेधः। अव्यय] कुत्सिते । स्वशब्देनोक्तत्वादिति । अनिर्धारितविशेषेऽर्थे यदा प्रकृतिवर्तते तदा तद्विशेषद्योतनाय स्वार्थिकः प्रत्ययो विधीयते, यदा तु नितिविशेष एवार्थे कुत्सितादयः शब्दा वर्तन्ते तदा विशिष्टस्यार्थस्याप्रतीतत्वाच्चरितार्थत्वात् प्रत्ययाऽप्रसङ्गः । प्रतीतप्रत्यायने- नवस्थाप्रसङ्गादिति भावः । कुत्सितस्येति । अर्थान्तराश्रयः प्रत्यय इत्यर्थः । अथ वेति कुत्सितकुत्सायामपि कुत्सितक इति भवतीत्यर्थः । स्वशब्दोऽत्रात्मीयवचनोऽर्थशब्दो ऽभिधेयवचनः । स्वोऽर्थः-स्वार्थः । स चानेकप्रकारो जातिगुणक्रियासम्बन्धस्वरूपलक्षणः । गौः : शुक्लः पाचको राजपुरुषो डिस्थ इति । तं स्वार्थमभिधाय तेन स्वार्थेन समवेत सम्बद्धं द्रव्यमाह शब्दो निरपेक्ष इत्यनेनैतद्दर्शयति-यथा द्रव्येऽभिधातव्ये स्वार्थों पेक्ष्येते न तथा स्वार्थे ऽभिधातव्येऽर्थगतं निमित्तान्तरमपेक्ष्यते। द्रव्यशब्देन च 'इदं त- उ.द्वयम् , एकं 'कुत्सिते' इत्युत्तरम्, अपरं 'हस्वे' इत्युत्तरम् । कुत्सायां हस्वत्वे च कन्भ- वति, तदन्तेन चेत्संज्ञा गम्यत इति तयोरर्थः। उभयोर्युगपत्प्राप्तिमुपपादयति-अत्र संक्षेति। कुत्सिते । नन्वेषां स्वार्थिकत्वेन प्रकृत्युक्त एवाऽर्थे एते प्रत्यया इति किमुच्यते स्वश- ब्देनोक्तत्वादत आह-अनिर्धारितेति । विशेषा:-कुत्सादयः । अश्वादयश्च जातिविशिष्ट- मेवाऽर्थ कप्रत्ययरहिताः प्रतिपादयन्तीति भावः । तत्र कुत्साविशिष्टार्थबोधकताद्योतकः प्रत्यय उचितो न प्रकृते, प्रत्ययं विनाऽपि तद्विशिष्टार्थबोधकत्वादिति तात्पर्यम् । चरितार्थत्वा- दिति । उक्तार्थत्वादिति भावः । अनवस्थेति । पुनः पुनः कप्रत्ययापत्तिरिति भावः । कुत्सितकुत्सायामपीति । अपिनाऽनुकम्पायाम् । जातीति । 'नाऽगृहीतविशेषण'न्या- येन तस्यैव पदशक्यत्वादिति भावः । क्रियासम्बन्धेति । यद्यपि पाचकशब्देऽपि क्रिया- सम्बन्ध एवं प्रवृत्तिनिमित्तमिति तस्य भाव इति सूत्रे उक्तम्, तथापि वसिष्टब्राह्मणन्यायेन 'क्रियासम्बन्धे'त्युक्तिः । स्वरूपेति । स्वरूपपदेन' पदस्वरूपं व्यक्तिस्वरूपञ्चेति बोध्यम् । 'सम्बद्ध'मित्यर्थकस्य नियमेन प्रतियोगिसाकाङ्क्षत्वादाह-तेन स्वार्थेनेति । समवेतं- समवायेन सम्बद्धमित्यर्थः । यथा द्रव्ये इति । शब्दान्निष्प्रकारकोपस्थितेरभावादित्यर्थः । स्वार्थेऽभिधातव्ये इति । विशेषणतयेत्यर्थः । केचित्त्वेवं व्याख्याने त्वोऽनुपपत्तिः, नहि प्रातिपदिकमात्रात्प्रक्रियादशायामपि प्रवृत्तिनिमित्ततदानययोः क्रमेण बोधो भवति, तस्मात्स्वार्थ-जात्यादिकं, शब्दस्तद्विषयकाऽभिधाग्रहविषयो भूत्वा निरपेक्षस्तच्छक्ति- १ 'भविष्यतीति क्वचिन्नास्ति । २ 'अपेक्षते' मा० । - - ५.३ पा.११ आ.७४ सू.] ॐ महाभाष्यम् अभिधाय तान्विशेषानपेक्षमाणश्च कृत्स्नमात्मानम् । प्रियकुत्सनादिषु पुनः प्रवर्ततेऽसौ विभक्तयन्तः ॥२॥ प्र.] दिति परामर्शयोग्यं वस्त्वमिधियते । तत्र जातिशब्दो यदा जाती वर्तते तदाऽऽरोपित- स्वरूपां स्वरूपेणैकीकृतां जातिमाहेति तदा तेषां स्वरूपं स्वार्थः, जातिस्तु द्रव्यम् । यदा तु जातिविशिष्टं द्रव्यमाह तदा जातिः स्वार्थः। शुक्लादयो यदा तु गुणजातौ वर्तन्ते तदा तेषां स्वरूपं स्वार्थः,-जातिव्यम् । यदा तु गुणे वर्तन्ते तदा गुणसामान्य स्वार्थों, गुणो द्रव्यम् । यदा द्रव्ये वर्तन्ते तदा गुणः स्वार्थः ॥ समवेतस्य द्रव्यस्याभिधाने सति लिङ्गं वचनं विभक्तिं चाहेति सम्बन्धः । तान्विशेषानिति । लिङ्गादीनामेव परामर्शः। लिङ्ग- स्त्रीत्वादि, वचनं संख्या, विभक्तिः कारक कर्मादि । क चिल्लिङ्गसंख्याकारकाण्येव स्वार्थो यथा-स्त्री पुमानपुंसकम् , एको द्वौ बहवः, कर्म करणं सम्प्रदानमिति । प्रवृत्तिनिमित्तलिङ्ग- सङ्ख्याव्यतिरिक्तलिङ्गसङ्ख्याभिधानं यत्र-यथा-स नपुंसकोऽभवत् , गावो-विंशतिरिति,- तत्राऽयमेव क्रमो, यत्र तु प्रवृत्तिनिमित्तव्यतिरिक्तलिङ्गसंख्याऽसम्भव:-स्त्री पुमानेको द्वौ बहव इति,-तत्र पुनलिङ्गसजथयोरभिधानाभावः । यद्यपि लोके पदादुच्चरितायुगप- त्पश्चार्थाः प्रतीयन्ते शब्दस्य विरम्य व्यापाराभावात्तथाप्यन्वयव्यतिरेकाभ्यां शास्त्रे संव्य- वहाराय कल्पिताभ्यां प्रातिपदिकस्याऽप्रयोगार्हस्य कल्पितामर्थवत्तां कल्पितन्यायवशात्क्रम- वतीमाश्रित्येदमुच्यते । तथा हि-'नागृहीतविशेषणा विशेष्ये बुद्धिरिति न्यायात्पूर्व स्वार्थाभिधानेन भाव्यम् । पश्चात्तद्विशिष्टस्य लिङ्गाद्याश्रयस्य द्रव्यस्याभिधानेन, ततो उ.] ग्रहेतरानपेक्षःसम्बद्धं द्रव्यमाहेत्यर्थः । तस्यैव शक्तिग्रहविषयत्वेन तत्रैव स्वार्थत्वव्यवहार' इत्याहुः । स्वरूपेण-शब्दस्वरूपेण । एकीकृतामिति । मिश्रीकृता, तादात्म्येन विशिष्टा- मित्यर्थः । जातिप्राधान्येऽपि यथा भावप्रत्ययाऽनुत्पत्तिस्तथोक्तम्। 'घटसम्बन्धी धर्म' इत्येवं बोधाऽननुभवाच्च न तदुत्पत्तिः। गुणसामान्य-गुणगता जातिरित्यर्थः । समवेतस्येति । सम्बद्धस्य समवायिन इत्यर्थः । तदभिधाने सति तत्प्रत्ययसापेक्षो लिङ्गाद्याहेत्यन्वयः । लिङ्गादीनामेवेति । स्वार्थद्रव्ययोविशेषत्वाऽभावादिति भावः । यत्र यथेति । नपुंसकपदस्य प्रवृत्तिनिमित्तं नपुंसकत्वं, तब्यतिरिक्तश्च पुंस्त्वम् । एवं विशति- रित्यत्रैकत्वम् । यत्र प्रवृत्तिनिमित्ताऽतिरिक्तलिङ्गाद्यभिधानं यथा 'नपुंसक'इत्यादि तत्राऽयमेव क्रम'इत्यन्वयः । तत्र पुनर्लिङ्गेत्यादि । तत्र तु प्रवृत्तिनिमित्ताऽति- रेकेण लिङ्गाद्यभिधानाऽभाव इत्यर्थः । कल्पितन्यायवशादिति । 'अर्थवत् प्रातिपदिक प्रातिपदिकान्ङीप, ड्यन्तात्स्वादयः' इत्येवं कल्पितन्यायलब्धक्रमेत्यर्थः । यद्वा प्रत्यक्षस्थले किञ्चिदंशे दृष्टक्रमस्याऽत्रारोपेण क्रमवत्त्वाऽभिमान इति भावः। नाऽगृहीतेति । 'नाऽ- गृहीतविशेषणा बुद्धिर्विशेष्ये उपजायते' इति न्यायादिति भावः। तद्विशिष्टस्येत्यनेन उक्त द्रव्यस्य लिङ्गादितः प्रथममभिधाने बीजकथनम्। लिङ्गाद्याश्रयस्येति । न चैवमुक्त- न्यायेन लिङ्गस्याऽपि प्रथमतो बोधापत्तिः । 'रमे'त्यादौ लिङ्गस्य प्रत्ययं विना बोधाऽभा- १ 'पेक्ष्यमाणश्च' पा०॥ २ "पेक्षमाणस्य' पा०। ३'लिङ्ग संख्या कारकाण्येब' पा० । , कैयट-विवरणसहितं [कुत्सिते प्र. भेदापेक्षबहिरङ्गसंख्यापेक्षया लिङ्गमन्तरजामिति तदभिधीयते । ततः सङ्ख्या। सा हि. विजातीयक्रियापेक्षसाधनापेक्षया तुल्यजातीयापेक्षाऽन्तरङ्गा । सङ्ख थाविधानानन्तरं तु कारकाभिधानम् । एतान्विशेषानभिधाय स्वार्थादिपञ्चकवृत्तं कृत्स्नमात्मानमपेक्षमाणः शब्दः प्रियकुत्सनादिषु विभक्त्यन्तः पुनः प्रवर्तते । पुनःशब्दस्तुशब्दस्यार्थे वर्तते । विभक्त्यन्तस्त्वित्यर्थः। तत्र कुत्सितशब्दप्रवृत्तिनिमित्तव्यतिरिक्तायां कुत्सितत्वस्य कुत्सा- यां कप्रत्यय उपपन्नो भवति । यथा प्रकृष्टतम इति । प्रकृष्टस्य प्रकर्षे तमप्प्रत्ययः । तथा कुत्सितत्वं यदा कुत्स्यते,-नास्य सम्यकुत्सितत्वमिति,-तदा प्रत्ययः । अन्ये त्वाहुः-अनिर्धारितविशेषधर्मनिबन्धना कुत्सा कुत्सितशब्दप्रवृत्तिनिमित्तं, ब्रह्महत्यादिविशेषनिबन्धना तु कुत्सा प्रत्ययनिबन्धनम् । अनुकम्पितक इत्यत्रापि प्रयोक्त- धर्मेऽनुकम्पायां प्रवृत्तिनिमित्तव्यतिरिक्तायां कप्रत्ययः। के चित्त-निरपेक्षत्वं शब्दस्य स्वार्थादिपञ्चकाभिधाने मुख्यसत्तानपेक्षणाद्रुच्युपारूढोपचरितार्थसत्तामात्रापेक्षणाव्याचक्षते । तन्न परिसमाप्तस्वार्थादिपञ्चकस्य पदस्य कुत्सादिषु प्रवृत्तिर्यस्मात्स्वार्थादयः कुत्सादि- हेतवः । तथा हि कश्चित्स्वार्थ कुल्लया कुत्स्यते-पटुकः पण्डितक इति । कश्चिल्लिङ्गेन-'यथा प्राप्य गाण्डीवधन्वानं विद्धि कौरवकान् स्त्रिय'इति । कदा चित्सङ्ख्यया,-यथेदमेककमेव शतमिति । 'शतभरणे यदुःखं तदेकस्य भरणे इति शतत्वारोपेण कुत्सा । यत्र तु प्रवृत्तिनिमित्तकुत्सा न सम्भवति,-देवदत्तको डित्थक इति,-तत्राभिधेयसहचरित- धर्मान्तराश्रयकुत्साश्रयः प्रत्ययः । उ.] वेन तस्य प्रथमतो बोधस्य वक्तुमशक्यत्वमिति भावात् । 'तुल्यजातीयाऽपेक्षान्तरङ्गेति पाठः। एकत्वमपि द्वित्वादिव्यवच्छेदबुद्धिजननात्तदपेक्षमिति बोध्यम् । स्वार्थादिपञ्चके-वृत्तं- बत्तनं वृत्तियस्येत्यर्थः । रूपमर्थश्च शब्दस्यात्मेति तज्ज्ञाने कृत्स्नात्मलाभ इति भावः । 'प्रिय- कुत्सनादिबोधनाय कृत्स्नमात्मानं यतोऽपेक्षमाणो भवत्यतस्ताविशेषानभिधाय तद्गतकुत्स- नादिबोधनाय विभत्तयन्तस्तु प्रवर्तते' इत्यन्वयः । अनेन 'पञ्चकं प्रातिपदिकार्थ' इत्युक्तम् । विभक्त्यन्तस्त्विति । तत्तत्प्रयुक्तकार्यस्याऽन्तरङ्गत्वात्पूर्वं प्रवृत्तेरिति भावः । अत्रैवार्थे- 'घकालतनेषु' इति लिङ्गम् । प्रवृत्तिनिमित्तकुत्सातिरिक्तायामिति । यथा सर्वोऽपि शब्दः स्वार्थव्यतिरिक्त स्वार्थादिगतां कुत्सामभिधातुं प्रत्ययं लभते तथाऽयमपीत्यर्थः माऽस्य सम्यक्कुत्सितत्वमिति । कुत्साप्रयोजकसकलानाचरणादिति भावः अन्ये वाहुरिति । अत्राऽरुचिर्भाष्यस्वरससिद्धत्वाऽभावः । केचित्विति । एत- न्मते 'अनपेक्षमाण' इत्यस्य बहिःसत्तामनपेक्षमाण इत्यर्थः । तत्तत्प्रत्ययाऽनपेक्षत्वस्यैव 'अपेक्षमाणश्च कृत्स्नमात्मान'मितिमाष्यतो लाभादिदमप्यरुचिग्रस्तम् । स्वार्थादिपञ्चक- पूर्णस्येतरत्र वृत्तिरित्युपादानस्य प्रकृतोपयोगं दर्शयति-तन्त्र परिसमाक्षेत्यादि । कुत्सा- दिहेतव इति । 'आश्रयतयेति शेषः । स्वार्थः-प्रवृत्तिनिमित्तम् । यथा गाण्डी- वेति । तत्र हि 'अर्जुनसन्निधौ किमेते पुमांस' इति प्रतीयत इति भावः । यन्न प्रवृत्तिनि- १'तुल्यजातीयक्रियापेक्षाऽन्तरङ्गा' पा०।२'तस्मात्' पा०। ३ 'एकमेव पा० ।
.. ५२.३ पा.६१ आ.।७४ सू.] महाभाष्यम् कथं पुनरिदं विज्ञायते-कुत्सितादीनामर्थ इति, आहो स्वित्कुत्सितादि- समानाधिकरणात्प्रातिपदिकादिति ? ॥ कश्चात्र विशेषः । ॥ * ॥ कुत्सितादी- नामर्थे [इति] चेल्लिङ्गवचनानुपपत्तिः॥४॥ कुत्सितादीनामर्थे [इति] चेल्लिङ्गवचनयो. रनुपपत्तिः,-पटुकं पटुका पटुकः पटुको पटुका इति । एकोऽयमर्थः कुत्सितं नाम तस्यैकत्वादेकवचनमेव प्रामोति ॥ अस्तु तर्हि-'कुत्सितादिसमानाधि- करणात्प्रातिपदिका दिति । ॥ * ॥ कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो यथा टाबादिषु ॥ * ॥ कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो भवति यथा टाबादिषु ॥ कथं च टाबादिषु ? ॥ उक्तं तत्र-'स्त्रीसमानाधिकरणादिति चेद्भूतादिष्वतिप्रसङ्ग'इति। एवमिहापि[कुत्सितादिसमानाधिकरणादिति चेत्] प्र.] कथं पुनरिति । यदा कुत्सित शब्दो भावसाधनः-कुत्सा कुत्सितमिति,-तदा प्रत्ययार्थ- पक्षः । यदा तु कर्मसाधनः-कुत्स्यत इति कुत्सितं,-मत्यादिसूत्रेचकारस्यानुक्तसमुच्चयार्थ- त्वावर्त्तमाने क्तः,-क्रियावयवव्यपवर्गाश्रयो भूते वा,-तदा कुत्सितार्थवाचिनः कप्रत्ययो भवतीति सामानाधिकरण्यपक्षोपपत्तिः । कः पुनर्वक्ष्यमाणस्य प्रकृत्यर्थविशेषणपक्षस्य सामानाधिकरण्यपक्षस्य च विशेषः ? । उच्यते, समानाधिकरणपक्ष उपान्तकुत्सोऽनुपात्त- कुत्सो वा कुत्सितत्वोपलक्षितार्थवृत्तिः प्रत्ययमुत्पादयति । प्रकृत्यर्थविशेषणपक्षे त्वङ्गीकृत- कुत्सादेव प्रत्ययेन भाव्यम् । तत्र प्रकृत्यर्थविशेषणपक्षेऽनुगृहीतकुत्र्सपदसामानाधि- करण्येऽव्ययसर्वनामशब्दभ्यः प्रत्ययेन न भाव्यम् ,-पटुको नीचैरयं देवदत्त इति। यदा त्वङ्गीकृतकुत्सपदान्तराऽप्रयोगः तदा तेभ्य एवाश्रितकुत्सेभ्यः प्रत्ययो भवति,-नीचकैर- सकौ देवदत्तक इति । लिङ्गवचनानुपपत्तिरिति । यथेष्टं लिङ्गवचनानुपपत्तिरित्यर्थः । एतच्चोपलक्षणं, कुत्सनमात्रस्य प्रत्ययेनाभिधाने षष्ठयपि द्रव्यवाचिनः प्राप्नोति । यद्यपि उ.] मित्तेति । इदं लिङ्गादीनामुपलक्षणम् । एवं प्रकृतेऽपि कुत्सितशब्दार्थनिष्ठकुत्सान्तर- विवक्षायां प्रत्ययः सुलभ इति भावः। पक्षद्वयोपपत्तिद्वारेण संशये बीजमाह-यदेति । ननु 'कुत्सित मिति भूते क्ते अतीतकुत्सा प्रतीयते, अश्वकादिशब्दैश्च विद्यमानकुत्सस्य प्रतीति- रिति विरोधोऽत आह-वर्तमाने क्त इति । क्रियाऽवयवेति। यस्य कस्यचिदवयवस्य भूतत्वेन समुदाये भूतत्वमारोप्य क्तः। तत्रारोपितभूतत्वेऽपि केषाञ्चिदवयवानां वास्तव- वर्त्तमानत्वेन न क्षतिरिति भावः। उपात्तकुत्स इति। वाच्यत्वेनाऽङ्गीकृतकुत्स इत्यर्थः । अङ्गीकृतेति । 'वाच्यत्वेने'त्यादिः। प्रकृत्यर्थेति । वस्तुगत्या कुत्साविशिष्टोयोऽर्थस्तत्प्र- तिपादकेभ्य इति तत्पक्षे सूत्राऽर्थः । अनुगृहीता-वाच्यत्वेन स्वीकृता कुत्सा येन तादृश- पदसामानाधिकरण्ये इत्यर्थः । तेनैव कुत्साया उक्तत्वात्प्रकृतेः कुत्सादिविशिष्टवाचकत्वाऽ- भावादव्ययादिभ्यो न भवति प्रत्यय इति भावः । नन्वेवमव्ययसर्वनाम्नामित्यस्य वैयर्थ्यमत आह-यदा त्वङ्गीकृतेति । आश्रितकुरसेभ्यः-वाच्यत्वेनाश्रितकुत्सेभ्यः । यथेष्टं १ काचित्कोऽयं पाठः। २'कःप्रत्ययः' पा०।३ 'सामानाधिकरण्यपक्षे पा०। ४ ('अ)गृहीतकुत्सापद'। ५ 'प्रत्ययेन भाव्यं पा० । ६ 'यथेष्ट । । -- ।
कैयट-विवरणसहितं [ठाजादाबू अतिप्रसङ्गो भवति-इदं घृतमिदं तैलम् ,-इदंशब्दादपि प्राप्नोति ॥ ॥ सिद्धं तु येन कुत्सितादिवचनं तद्युक्तात्स्वार्थे प्रत्ययविधानात् ।। || सिद्धमेतत् ॥ कथम् ? ॥ ['येन कुत्सितादिवचनं तद्यक्तात्स्वार्थे प्रत्ययविधानात् ॥ येन कुत्सितादयोऽर्था गम्यन्ते । तद्युक्तात्स्वार्थे प्रत्ययो भवतीति वक्तव्यम् ॥ सिध्यति सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं 'कुत्सिता- दीनामर्थे चेल्लिङ्गवचनानुपपत्ति'रिति ॥ नैष दोषः। नायं प्रत्ययार्थः ।। किं तर्हि ? ॥ प्रकृत्यर्थविशेषणमेतत्-'कुत्सितादिषु यत्प्रातिपदिकं [वर्तते] तस्मात्कादयो भवन्ति ।। कस्मिन्नर्थे ? ॥ स्वार्थे इति । स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ ठाजादावूवं द्वितीयादचः ।५।३।८३॥ ॥ * ॥ चतुर्थात् ॥ * ॥ चतुर्थाल्लोपो वक्तव्यः-बृहस्पतिदत्तकः बृहस्पतिकः। प्रजापतिदत्तकः प्रजापतिकः ॥ * ॥ अनजादौ च ॥ * ॥ अनजादौ च लोपो वक्तव्यः। देवदत्तको देवकः । यज्ञदत्तको यज्ञकः ॥ * ॥ लोपः पूर्व पदस्य च ॥*।। पूर्वपदस्य च लोपो वक्तव्यः । देवदत्तको दत्तकः । यज्ञदत्तको दत्तकः । 11 अप्रत्यये तथैवेष्टः ॥ * ॥ देवदत्तो दत्तः । यज्ञदत्तो दत्तः ॥ * ॥ उवर्णाल्ल इलस्य च ॥ * ॥ उवर्णादिलस्य च लोपो वक्तव्यः । भानुदत्तको भानुलः । वसुदत्तको चसुलः॥ अथ उग्रहणं किमर्थ, न-इके कृतेऽजादावित्येव सिद्धम् ? ॥ प्र.] गुणगुणिनोरत्र सर्वदा सोऽयमित्यभेदसंबन्धेन षष्ट्या अप्रसङ्गो गुणवचनानां चाश्रयतो लिङ्गवचनानी'ति दोषपरिहारोऽस्ति तथापि निर्दोषप्रकृत्यर्थविशेषणपक्षसंभवात्प्रत्ययार्थपक्षो भाष्यकारेण नाश्रितः । इदंशब्दादिति । कुत्सितत्वयुक्तार्थवृत्तित्वात्तस्य । सिद्ध विति । येन धर्मेण कुत्सादयस्तद्धर्मयुक्तार्थाभिधायिनः स्वार्थे प्रत्ययविधानमित्यर्थः ।। ठाजादा। अप्रत्यय इति। प्रत्ययाभावेऽपि पूर्वपदोत्तरपदयोरन्यतरस्य वा लोप इत्यर्थः। भाष्ये तु पूर्वपदलोप उदाहरणमात्रम् । उवर्णादिति । लोपस्य ल इति पूर्वाचार्यसंशा। उ.] लिङ्गेति । कुत्सितशब्दाभिधेयस्य नपुंसकत्वात्स्त्रीपुंलिङ्गानुपपत्तिरित्यर्थः । षष्टय- पीति। 'देवदत्तस्य पटुक' इत्यादौ। येन धर्मेणेति । यथाऽश्वक इत्यादौ अश्वसाध्य धावनादेः सम्यगननुष्ठानादिनेत्यर्थः । घृतादिशब्दसन्निधाने इदंशब्दः प्रत्यक्षविषयत्वेनैक तद्बोधको न तु कदघृतत्वादिनेति भावः । [ कुत्सिते] ॥ ठाजादा। लोपः पूर्वपदस्य चेति-अजाद्यनजादिसाधारणम् । चेनोत्तरपदसङ्ग्रहः । पूर्वोत्तरपदयोरिति । लक्ष्यानुसारेण च ब्यवस्था । चेति । चेनोत्तरपद- स्याऽपि । सन्निपातेति । ठग्रहणे कृते तु तत्सामर्थ्यादिकादेशात्पूर्वमेव लोप इति भावः । १'घृतक 'तैलका २ लुप्तमेतत्। ३ क्वाचित्कमेतत् । ४ श्लोकवार्तिकमेतत् । ५ लुप्तास्यव्याख्या। - भाष्ये-इलस्य .. प. द्वितीयत्वे कविधियथा स्यात् । ५अ । ३ पा.१२ आ. ८३ सू.] ॐ महाभाष्यम् ॥ * ॥ ठग्रहणमुको द्वितीयत्वे कविधानार्थम् ॥*। ठग्रहणं क्रियते ॥ [किमर्थम् ? वायुदत्तको वायुकः । पितृदत्तकः पितृकः ॥ * ॥ अजादिलक्षणे हि माथिति- कादिवत्प्रसङ्गः ॥ * ॥ अजादिलक्षणे हि माथितिकादिवत्प्रसज्येत । तद्यथा,- मथितं पण्यमस्य माथितिक इत्यकारलोपे कृते तान्तादिति कादेशो न भवति । एवमिहापि न स्यात् ।। द्वितीयादचो लोपे सन्ध्यक्षरद्वितीयत्वे तदादे- लोपवचनम् ॥ * ॥ द्वितीयादचो लोपे कर्तव्ये सन्ध्यक्षरद्वितीयत्वे तदादेलोपो वक्तव्यः । लहोडः लहिकः । कहोडः कहिकः ॥ [ ठाजादावूर्वं द्वितीयादचः ] ॥ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ।५।३।८४ ।। * ॥ वरुणादीनां चे तृतीयात्स चाऽकृतसन्धीनाम् ॥ * ॥ वरुणादीनां चं तृतीयालोप उच्यते स चाऽकृतसन्धीनां वक्तव्यः । सुपर्याशीर्दत्तः-सुपरिकः । सुपरियः। सुपरिलः ॥ इह षडङ्गुलिः पडिक इत्यै जादिलोपे कृते पदसंज्ञा न प्राप्नोति ॥ तत्र को दोषः ? ॥ जश्त्वं न स्यात् ।।*। पडिके जश्त्व उक्तम् ॥६॥ पडिके जश्त्वे उक्तम् ॥किमुक्तम् ?॥ सिद्धमचःस्थानिवत्त्वादिति ॥ यद्येवम्,- प्र.] तत्रादेः परस्येतीकारलोपः । कादेशो न भवतीति । संनिपातलक्षणपरिभाषाया आ- श्रयणात् । यदा च देवभान्वादिभ्यष्ठविधीयते तदेकदेशाभावादजादिलक्षणलोपाप्रसङ्गा. त्तदर्थमपि ठग्रहणम् । तदादेरिति । सन्ध्यक्षरात्परस्य लोपे प्राप्ते तदादेर्लोपवचनम् ।। शेवल। वरुणादीनामिति । आदिशब्दः प्रकारे । एकसूत्रोपात्तत्वं च सादृश्य- निमित्तम् । सुपरिक इति। संहिताकार्ये तु कृते लोपे सति सुपर्थिक इति स्यात् । जश्त्वं न स्यादिति। भसंशया पदसंज्ञाया अन्तर्वर्तिविभक्त्याश्रयायास्तद्धिताश्रयायाश्च द्विविधाया अप्येकसंज्ञाधिकाराद्वाधितत्वात् । सिद्धमच इति। पडङ्गुलिशब्देऽङ्गुलि- शब्दस्यानेन लोपे कृते यस्येति चेत्यकारलोपः क्रियते। तस्य स्थानिवत्वाद्भसंशां प्रत्य. कारान्तमेतद्भवति । अन्तर्वतिविभक्त्याश्रया तु षकारान्तस्य पदसंज्ञा, ततो भिन्नावधिक- उ.]एतेन 'व्यचश्चित्त्वस्य सामान्याऽपेक्षशायकत्वेनेकस्य सर्वतः पूर्वं प्रवृत्तिरत एव शौवस्ति- कादिसिद्धि'रिति परास्तम् । ज्ञापकसिद्धस्याऽसार्वत्रिकत्वाच्च । एवञ्च फलान्तरमपि सम्भ- वतीत्याह-यदेति । [ ठाजादाबूलम् ] ॥ ८३ ॥ शेवलसु। कृतसन्धिकार्यादित्यर्थकप्रथमादित्यधिकारादाह (भाष्ये)-अकृतसन्धीना. मिति । सुपर्यिक इति । सुपर्याशीर्दत्तशब्दात्प्रत्यये इत्यर्थः । भाष्ये-अजादिलोपे कृत इति । 'एकाक्षरपूर्वपदाना मिति वक्ष्यमाणवचनेनेति भावः । द्विविधाया अपीति । समानाश्रयत्वादिति भावः । अङ्गुलिशब्दस्याऽनेनेति । 'अजिनान्तस्योत्तरपदलोपश्चेति १ द्वितीयत्वे पा०। २ इदं काचित्कम् । ३ 'यथा पा०। ४चः काचिरकः । ५ 'सुपर्याशीः' पा० ॥ ६ 'इति ठाजादि' पा० । ७ 'जश्त्वमुक्तम्'। ८ अयं पाठो लुप्तः। , । । -- ॐ कैयट-विवरणसहित [ ठाजादावूध्व ॥ * ॥ वाचिकादिषु पदवृत्तप्रतिषेधः ॥ * ॥ वाचिकादिषु पदवृत्तस्य प्रतिषेधो वक्तव्यः ॥ वागाशीः-वाचिक इति । ॥ * ॥ सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोप- वचनात् ॥ * ॥ सिद्धमेतत् ॥ कथम् ? ॥ [ 'एकाक्षरपूर्वपदानामुत्तरपदलोप- वचनात् ।] एकाक्षरपूर्वपदानामुत्तरपदस्य लोपो वक्तव्यः। वाचिकः । इहाऽपि तर्हि प्राप्नोति,-षडङ्गुलिः पडिक इति । ॥ * ॥ षषष्ठाजादिवचनात् सिद्धम् ।। * ॥ षषष्टाजादिवचनासिद्धमेतत् ॥ [कथम् ? ।। 'ठाजादिपूर्वपदा- द्वितीयादच' इति । ] [ ठाजादादूर्ध्वं द्वितीयादचः ] । प्र. त्वाद्भसंशया पदसंज्ञा न बाध्यतइति तन्निबन्धनजत्वप्रवृत्तिः। या तु स्वादौ पदमितिपद- संज्ञा सैवैकावधिकत्वाद्भसंज्ञया बाध्यते । न च पदान्तविधि प्रति न स्थानिवदिति स्थानि- बत्त्वनिषेधोऽत्रावतरति, विधिशब्दस्य भावसाधनस्य तत्राश्रयणात् , इह पदान्तस्य कस्य चिदविधेयत्वात् । पदवृत्तप्रतिषेध इति । पदस्य यद्वृत्तं कार्यं तत्प्रतिषेध इत्यर्थः । सिद्धमिति। उत्तरपदस्याऽज्झल्समुदायत्वात्तल्लोपस्यानजादेशत्वादस्थानिवत्त्वात्तुल्यावधि- कया भसंशया द्विविधापि पदसंज्ञा बाध्यत इति पदनिबन्धनकार्याऽप्रसङ्गः। अत्रेदं चोद्यते- संज्ञाशब्दैकदेशे लुप्ते संशास्वरूपानुपलम्भात्कथं संशिनोऽवगमः ? । नहि यस्य देवदत्त इति संज्ञा कृता सा देवशब्दादत्तशब्दाद्वा प्रतीयते । नचैकदेशेन समुदायोऽनुमीयते समुदायस्त्वर्थ- वाचक इति युक्तं कल्पयितुम् ; उच्चार्यमाणस्य प्रत्यायकत्वात् । एवं तर्खनुनिष्पन्नत्वादवयवाना. मपि संज्ञात्वम् । तत्र वर्णानामनुनिष्पादिनां शास्त्रेणाऽनन्वाख्यानादसाधुत्वम् । पदानामेव तु संशैकदेशानां साधुत्वमिष्यत इति लोपविधानद्वारेण तदभ्यनुज्ञायते । यदुक्तम्- 'तुल्यायामनुनिष्पत्तौ 'देयसो' इत्यसाधवः । न ह्यन्वाख्यायते शास्त्रे तेषु दत्तादिवत्स्मृतिः ॥ इति ॥ उ.] सूत्रे एकदेशे स्वरितत्वप्रतिज्ञानादुत्तरपदांशमपहाय लोपपदमात्रमनुवर्तते । न च सवितृशब्दा? 'तृ' शब्दस्य लोपापत्तिः, उपेन्द्रदत्ते 'चतुर्थादच' इति लोपापत्तिः। अनभिधा- नेनाऽतिप्रसङ्गनिरासादिति भावः। इह पदान्तस्येति । जश्त्वस्य पूर्वमेव निष्पन्नत्वेने. दानी विधेयत्वाऽभावादिति भावः । वस्तुतोऽत्रैकादेशपर्यन्तं तत्तत्सपादसताध्यायीस्थकार्य- प्रवृत्तियोग्यतया न पूर्वं जश्त्वमितीदं चिन्त्यम् । तस्माद्वितीयाद च ऊर्ध्वं लोपविधायक- सामर्थेनाऽत्र भत्वेन स्थानिवत्त्वप्रतिषेध इति तात्पर्यम् । षषष्ठेति-भाष्ये । अत एव सूत्रे 'ऊर्ध्वं द्वितीयादच' इति चरितार्थम् । अन्यथा 'यच' इत्येव उत्तरपदलोपग्रहणाऽनु. वृत्त्या सिद्धे तद्वैयर्थ्यं स्पष्टमेव । अन्यत्र त्वनभिधानात्त्वयाऽपि नेष्यत एवेत्याहुः । न हि यस्येति।सा देवशब्दाद्दत्तशब्दादोच्चारितान्न प्रतीयते-न श्रोत्रेन्द्रियजन्यज्ञान- विषया भवतीत्यर्थः। 'न हि यस्य देवदत्त इति संज्ञा कृता स देवशब्दादित्यादि क्वचि- त्पाठः। अनुमीयते इति । स्मर्यत इत्यर्थः । परोक्षत्वसादृश्यादनुमितिरेव स्मृतिरुक्ता- ऽत्रेत्याहुः । उच्चार्यमाणस्य प्रत्यायकत्वादिति । एतच्च 'अणुदि'त्सूत्र उपपादितम् । १'वागाशीदत्तः'पा०।२'क्षरपदाना पा०।३ अयंपाठः क्वचिदपि नास्ति । ४काचित्कमेतत् ।
। "५ अ.३ पा.२आ. १८५ सू.] ॐ महाभाष्यम् अल्पे ।५।३८५। इस्वे ५॥३२८६ किमर्थमिमावुभावों [प्रेति निर्दिश्यते न यदल्पं ह्रस्वमपि तद्भवति यच्च हस्वमल्पमपि तद्भवति ? ॥ नैतयोरावश्यकः समावेशः,-अल्पं घृतमल्पं तैल- मित्युच्यते, न कश्चिदाह-दूस्वं घृतं, ह्रस्वं तैलमिति। तथा इस्वः पटः हस्वः शाटक इत्युच्यते, नाहि]कश्चिदाह-अल्पः पटः अल्पः शाटक इति । कुटीशमीशुण्डाभ्यो रः ।५।३।८८। !! * ॥ कुटीशमीशुण्डाभ्यः प्रत्ययसंनियोगेन पुंवद्वचेनम् ॥ * ॥ कुटीशमीशुण्डा- भ्यः प्रत्ययसंनियोगेन पुंवद्भावो वक्तव्यः। कुटी-कुटीरः। शमी-शमीरः । शुण्डी-शुण्डार इति ।। किं पुनः कारणं न सिध्यति ? ॥ स्वार्थिकोऽयं, स्वार्थि- काश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते । ॥ * ॥ उक्तं वा ।। * ॥ किमुक्तम् ? । 'स्वार्थिका अतिवर्तन्तेऽपि लिङ्गवचनानी'ति ।। [कुटोशमीशुण्डाभ्यो रः]। वत्सोक्षाश्चर्षभेभ्यश्च तनुत्वे ।५।३।९१। ।। * ॥ वत्सादिभ्यस्तनुत्वे कार्य प्रतिषेधः ।। * ॥ वत्सादिभ्यस्तनुत्वे कार्य अ.] दृष्टश्चायं लोके व्यवहारो यत्समुदायस्य संज्ञात्वे तदेकदेशः प्रयुज्यते । तत्र समुदायस्य मुख्य संशात्वमवयवानां त्वनुनिष्पन्नम् । [ शेवलसुपरि ] ॥ अल्पे । किमर्थमिति । बंशादिष्वल्पत्वहस्वत्वयोः समावेशदर्शनादन्यतरोपादानेन सिध्यतीति प्रश्नः । न कश्चिदाहाल्पःपट इति । ननु चोच्यत एव अल्पः पट इति? । यद्यप्युच्यते तथाप्यायामविस्तारहीनोऽल्प उच्यते यस्त्वायामहीनो विस्तीर्णश्च सहस्त्र उच्यते न त्वल्पोऽपि तु महान् । [अल्पे] । कुटी। पुंवद्वचनमिति । प्रकृतिप्रत्ययसमुदायस्यायं पुंबद्भावो न तु प्रकृतेरिति स्त्रीप्रत्ययो न निवर्तते । कुटीशमी] । उ.] देयसो इति । देवस्याऽऽयं 'दे' इति, यज्ञदत्तस्य 'य' इति, सोमस्य 'सो' इति । तेषु- वर्णेषु । दत्तादिवत् । तेष्विव शास्त्रे स्मृतिरन्वाख्यायकं वचनम् । अन्वाख्यायते-क्रियत इत्यर्थः । तदेकदेश इति । 'देवदत्तो' 'दत्त' इत्यादौ । [ शेवलसुपरि] ॥ ८४ ।। अल्पे । नैतयोरिति । दीर्घत्वप्रतिद्वन्द्वि ह्रस्वत्वम् , महत्त्वप्रतिद्वन्द्रि अल्पत्वमिति भेद इति भावः ॥ [अल्पे ] ॥ कुटीशमी । ननु पुंवद्वचने स्त्रीप्रत्ययनिवृत्तिरपि स्यादत आह-प्रकृतीति कुटीशमीशुण्डाभ्यो यः प्रत्ययस्तत्सन्नियोगेन-तत्सम्बन्धेन विशिष्टस्य शब्दस्य पुंवदिति वात्तिकार्थः । गमकत्वात्सापेक्षत्वेऽपि वृत्तिः ॥ [ कुटीशमीशुण्डाभ्योरः] ॥ ८८ ॥ १ काचित्कोऽयं पाठः।२ तदविष्यति' पा० । ३ 'शाटक उच्यते पा० । ४ 'पुंवद्भावे वचनं पा०॥ . 1 ।
8 कैयट-विवरणसहित [किंयत्तदो- प्रतिषेधो वक्तव्यः। कृशो वत्सो वत्सतर इति मा भूदिति ॥ स तर्हि प्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः । यस्य गुणस्य हि भावाव्ये शब्दनिवेशस्तदभिधाने-तस्मिन् गुणे वक्तव्ये-प्रत्ययेन भवितव्यं, न क. काश्यस्य भावाड्रव्ये वत्सशब्दः ॥ [ वत्सोक्षाश्चर्षभेभ्यश्च तनुत्वे ] । किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् ।५।३।९२। वा बहूनां जातिपरिप्रश्ने डतमच ।५।३।९३। ॥ * ॥ किमादीनां द्विवह्वर्थे प्रत्यय विधानादुपाध्यानर्थक्यम् ।। * ॥ किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाधिग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ बहिर्धा- रणं निर्धारणमिति; यावता द्वयोरेकस्यैव बहिर्धारणं भवति ।। अपर आह-'बहूनां जातिपरिप्रश्ने डतम जित्यन्त्र बहुग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ किमित्येतत्परिप्रश्ने वर्तते, परिप्रश्नश्चाऽनिर्मातेऽनिति च बहुषु । येकयोः पुनर्निति, नितित्वात् येकयोः परिप्रश्नो न, परिप्रश्नाभावास्किमेव नास्ति कुतः प्रत्ययः? ॥ [ कियत्तदोः ] प्र.] वत्सोक्षा । कार्य प्रतिषेध इति । तनुत्व इति सामान्येनोपादानादतिप्रसङ्ग इति भावः । यस्य गुणस्येति । अन्तरङ्गत्वात्प्रवृत्तिनिमित्तस्यैव तीनवे प्रत्यय इति भावः । किंयत्त । उपाध्यानर्थक्यमिति । अयं भावः-दयोरित्यनर्थकं, बहूनामपि निर्धारणे डतरच इष्टत्वादजातिपरिप्रक्षेऽपि कतमशब्ददर्शनाद्वा बहूनामित्यत्र जातिपरिप्रश्नग्रह न कर्त्तव्यम् । अथ वा द्वयोरित्यस्य निर्धारणषष्ठयन्तत्वादेकस्येति न बक्तव्यम् । बहु- अहणमिति । डतमच उत्सर्गस्य द्वयोरेकस्य निर्धारणे डतरचोऽपवादस्य विधानाबहूना- उ.] वत्सोक्षा । शरीरकाश्य प्राप्नोतीति प्रतिषेधारम्भः । प्रवृत्तिनिमित्तकाश्य एवेष्यत इत्युत्तरम् । [ वत्सोक्षावर्षभेभ्यश्च तनुत्वे ] ॥ किंयत्तदो। इष्टत्वादिति । 'बहुध्वासीनेषु कश्चित्कञ्चित्पृच्छति-कतरो देवदत्त' इति 'प्रत्यय' इति सूत्रे भाष्यप्रयोगादिति भावः । अजातिपरिप्रश्नेऽपीति । 'कतमा कतमा एषामान्यता' इति 'प्रकारे गुणवचनस्येति भाष्ये प्रयोगादिति भावः । वार्तिके द्विबह्वर्थे इत्युपलक्षणमिति तात्पर्यम् । ननु द्वयोरित्यस्य वैयर्थ्यपरतया भाष्यव्याख्याने किं कारणम् , 'बहिर्धारणमित्यादिभाष्याऽसङ्गतिः, न हि तेन ग्रन्थेन 'द्वयो रित्यस्य प्रत्याख्यानं लभ्यते किन्त्वेकग्रहणस्येति चेन्न, तस्य भाष्यपाठस्याऽसा- प्रदायिकत्वमित्याशयेनैवं व्याख्यानात् । तं पाठमभ्युपगम्याऽप्याह-अथ वेति । इदं चिन्त्यं, 'प्रत्यय'सूत्रस्थभाष्यप्रयोगविरोधात् , प्रकृतवार्तिके 'द्विबह्वर्थे प्रत्ययविधानादिति हेतूपादानस्याऽसङ्गत्यापत्तेश्च । 'अपर आहे'ति भाष्यं पूर्वसूत्रस्थोपाधिसत्त्वमाश्रित्यैतत्सू- अस्थोपाधिप्रत्याख्यानपरतया व्याचष्टे-डतमच इति । केचित्तु-'द्विबह्वर्थे' इत्यस्य १ रेव तस्येव बहि' पा० । २. 'पुनर्निशांतत्वात्' पा०।३ तनुत्ने ।
१९३.१३पा.१२आ.। ९४सू.] ॐ महाभाष्यम् एकाच प्राचाम् ।५।३।९४॥ प्राग्वचनं किमर्थम् ? ॥ विभाषा यथा स्यात् । ॥ * ॥ प्राग्वचनानर्थक्यंच विभाषाप्रकरणात्।। प्राग्वचनमनर्थकम् ॥किं कारणम् ? 'विभापाप्रकरणात् । प्रकृता महाविभाषा तयैव सिद्धम् ॥[ एकाच प्राचाम् ] । अवक्षेपणे कन् ।५।३।९५। अवक्षेपणे कन्विधीयते कुत्सिते कः, क एतयोरर्थयोर्विशेषः ? ॥ अव. क्षेपणं करणं,कुत्सितं कर्म।। अवक्षेपणं वैकुत्सितं करणं, तेन यत्कुत्स्यते तदपि कुत्सितं भवति, तत्र कुत्सित इत्येव सिद्धं भवति ॥ एवं तर्हि यत्परस्य कुस्सार्थमुपादीयते तदिहोदाहरणं-व्याकरणकेन नामायं गर्वितः,याज्ञिक्यकेन नामाऽयं गर्वितः । यत्स्वकुत्सार्थमुपादीयते तत्तन्नोदाहरणम्-देवदत्तकः यज्ञदत्तकः ॥ [ अवक्षेपणे कन् ] । लुम्मनुष्ये ।५।३।९८१ किमर्थं मनुष्ये लुबुच्यते न लुगेवोच्येत ? ॥ * ॥ लिङ्गसिद्ध्यर्थं लुम्मनुष्ये ॥1॥ लिङ्गसिद्ध्यर्थ मनुष्ये लुबुच्यते। चञ्चेव चञ्चा। बधिकेव बधिकाराखरकुटीव खरकुटी। प्र.] मेव निर्धारणे डतमभविष्यतीत्यर्थः। 'किं कारणं किमेतदित्यादिरिहाऽग्रन्थः। 'किमः सङ्ख्यापरिमाणे डति चेत्यत्रत्य एवायं ग्रन्थ इत्याहुः। नहीह सञ्जाथाग्रहणमस्ति येनास्य अन्यस्योपयोगः स्यात् । अत्यन्तासम्बद्धश्वेहायं ग्रन्थः-एकद्विविषयस्यापि प्रश्नस्य सम्भवात्- 'को भवान्’ 'कतरो भवतोः कठ' इति । [किंयत्तदोनिर्धारणे] । अवक्षे । क एतयोरर्थयोविशेष इति । यद्यपि ककनोः स्वरभेदस्तथाप्यसत्यर्थ- भेदे 'कुत्सिते कश्चेत्येव वक्तव्यम् । न तु पृथग्योगद्वयम् । पृथग्योगकरणात्तु नूनमनयोरर्थयो- मेंदः स तु न निश्चीयते इति प्रश्नः। अवक्षेपणमिति । येनावक्षिप्यते निन्द्यते तद्वाचिनः कन्प्रत्ययो, यस्तु स्वयं कुत्स्यते ततः क इति विषयविभागः । अवक्षेपणं वे कुत्सितमिति। न हि स्वयमकुत्सितमवक्षेपणं भवतीत्यवक्षेपणस्यापि कुत्सितत्वमस्तीत्यर्थः। यत्परस्य कुत्सार्थमिति । व्याकरणादिकं स्वयमकुत्सितमप्याश्रयविशेषे मदमुपाहरदव- क्षेपणं परस्य भवतीति तद्वाचिनः कन्प्रत्ययः। [ अवक्षेपणे कन् ] ॥ लुम्मनुष्ये। लिङ्गसिद्धयर्थमिति। वचनं त्वभिधेयवदेव भवति, 'चञ्चेव मनुष्यौ'- .] द्वयोर्विहितस्य बह्वर्थेऽपि विधानदर्शनार्थे विहितस्य यर्थेऽपि विधानदर्शना'दित्यर्थेन 'बहुग्रहणप्रत्याख्यानपरमपीदं वार्तिकम् । तद्ध नयन्नाह भाष्ये-अपर आहेति-'इत्याहुः । अवक्षेप । परस्येति । आश्रयस्येत्यर्थः । [अवक्षेपणे कन् ] । लुम्मनुष्ये। ननु युक्तवद्भावेन लिङ्गवचनयोरुभयोविधानालिङ्गमात्रग्रहणमयुक्त- १ 'प्रकरणम्' पा० । २ 'कुत्सितमित्येव पा० । ३ 'कुल्साद्यर्थः' पा०॥ ४ 'गर्वित' इत्यस्य कचिदेव पाठः । ५ गर्व कुर्वत् । - " । कैयट-विवरणसहितं. | जावकार्थे चा जीविकार्थे चाऽपण्ये ।५।३।९९। 'अपण्ये' इत्युच्यते तत्रेदं न सिध्यति-शिवः स्कन्दः विशाख इति ? ॥ किं कारणम् ? ॥ मौय हिरण्यार्थिभिरर्चाः अंकल्पिताः॥ भवेत्तासु न स्याद्यास्त्वेताः संप्रति पूजार्थास्तासु भविष्यति ॥ [जीविका ]:- समासाच्च तद्विषयात् ।५।३।१०६॥ 'त'दित्यनेन किं प्रतिनिर्दिश्यते ॥ छः॥ कथं पुनः समासोनाम च्छवि. षयः स्यात् ॥ एवं तहीवार्थः॥ यदि तहि समासोऽपीवार्थे प्रत्ययोऽपि,- समासेनोक्तत्वात्प्रत्ययो न प्राप्नोति ॥ एवं तर्हि द्वाविवाौँ। कथम्? ॥ काका- प्र.] इति। तदुक्तम्-'हरीतक्यादिषु व्यक्ति'रिति। लुकि मनुष्यलिङ्गप्रसनः। लुम्मनुष्ये] ॥ जीविकार्थे । यास्त्वेता इति । याः परिगृह्य गृहाद्गहमटन्ति तास्वित्यर्थः । यास्तु विक्रीयन्ते तासु न भवति-'शिवकान्विक्रीणीते' इति ।। [जीविकार्थे चापण्ये ] समासा। तदित्यनेनेति। इवार्थश्छश्च प्रकृत इति कस्य सर्वनाम्ना परामर्श इति प्रश्नः। आचार्यदेशीय आह-छ इति । कथं पुनरिति । अनेनैव छस्य विधानाच्छविषयस्यानुः वादानुपपत्तिरित्यर्थः । एवं तहीवार्थ इति । प्रधानस्यापि च्छस्य परामर्शस्याऽयुक्तत्वा- गुणभूतस्यैवेवार्थस्य परामर्शः । छे च विधीयमानेऽस्मादेव शापकादिवाथै समासः, सुप्सुपेति वा । समासेनोक्तत्वादिति। वचनसामर्थ्यात्स्यादिति चेच्छस्त्रीश्यामादिभ्यो- 3.] मत आह-वचनन्विति । हरीतक्यादिश्वस्य पाठादिति भावः। 'मनुष्यलुपि प्रतिषेध' इति विशेषणविषयमिति बोध्यम् । [ लुम्मनुष्ये ] जीविकार्थेचा। मौर्या:-विक्रेतुं प्रतिमाशिल्पबन्तः। तैरर्चाः कल्पिताः-विक्रेतु'- मिति शेषः । अतस्तासां पण्यत्वात्तत्र प्रत्ययश्रयणप्रसङ्ग इति भावः । तत्र प्रत्यय श्रवण- मिष्टमेवेति वदन् सूत्रस्योदाहरणं दर्शयति भाष्ये-भवेदित्यादि। यास्त्वेता इति च । सम्प्रति पूजार्थाः । सम्प्रति-स्वनिर्माणसमकालमेव फलजनिका या पूजा-जीविका- प्रदत्वेन-तदर्था इत्यर्थः । तदाह-याः परिगृह्योति। यास्तु गृहे पूज्यन्ते शिष्टस्तासु शिवाऽभेदबुद्धः सत्त्वेन सादृश्यबुद्ध्यभावेन प्रत्ययस्यैवाऽभावः । एवं चित्रेष्वपि द्रष्टव्यम् ।। समासाच्च । आचार्यदेशीय इति । छस्य विधेयतया प्रधान्येन तस्यैव परामशों युक्त इत्यभिमानः । छविषस्येति । समासस्येत्यर्थः । शस्त्रीश्यामादीनां वक्ष्यमाणरीत्यो- दाहरणत्वासम्भवादाह-छे च विधीयमानेऽस्मादेवेति। छप्रत्ययविषय एव ज्ञापक- सिद्धः समासः, सन्नियोगशिष्टत्वात् 'नुप्लुपे'त्ययं चाऽभिधानस्वाभाब्यादित्यर्थः । सुप्सुपेति वेति । अत्राऽपि पक्षे इवार्थाऽन्तर्भावेण वृत्तौ ज्ञापकमेवाश्रयणीयम् , पूर्वत्रोभयोपिकसिद्धत्वाश्रयणमिति विशेषः । अतिप्रसङ्ग इति । यद्यत्यन्तस्वार्थिक इति १ 'कल्पिताः' पा० । २ देवपथादिभ्यश्चेत्यनन्तरम्-'अर्चालु पूजनार्थातु चित्रकर्म- ध्वजेषु च । इवे प्रतिकृतौ लोपः कनो देवपथादिषु ॥ इति शोकवात्र्तिकं वार्तिकपाटे। ।
। ५.३ पा.२ आ.११८सू.] ॐ महाभाष्यम् गमनमिव तालपतनमिव काकतालं, काकतालमिव काकतालीयम् ।। अभिजिद्विदभृच्छालावपिछरखाचच्छमीयदूर्णायच्छुमदणी यज् ॥ ||अणो गोत्राद्गोत्रवचनम्।।। अणो गोत्राहोत्रग्रहणं कर्त्तव्यम् । गोत्रादिति वक्तव्यम् । इह मा भूत्-आभिजितो मुहूर्तः। आभिजितः स्थालीपाक इति । गोत्रइति च वक्तव्यम् । किं प्रयोजनम् ?।। आभिजितकः ।। प्र.]ऽतिप्रसङ्गः। एवं तहीति । शस्त्रीश्यामादीनां त्वन्तर्भूतेवार्थानामुपमेयप्रधानानामुप- मेयान्तरेण सम्बन्धाभावाच्छस्य प्रसङ्गः। काकागमनमिवेति । वृत्तिविषये काकतालशब्दो काकतालसमवेतक्रियावाचिनौ । तत्र काकागमनं देवदत्तागमनस्योपमानं, तालपतनं दस्यूपनिपातस्य । तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमानमिति वधादिः काकतालीयादिशब्दवाच्यः संपद्यते ॥ [समासान्च तद्विषयात् ] ॥ अभिजि। अणो गोत्रादिति । गोत्रेणाऽविशेष्यते । गोत्रे यो विहितोऽण्तदन्तेभ्योऽभि- जिदादिभ्यो यज्यथा स्यात् । आभिजित इति। एकत्र नक्षत्रेण युक्तः काल इत्यण् । अप- रत्र-सास्य देवतेति । गोत्रमिति च वक्तव्यमिति । एवं मन्यते-गोत्रचरणाद्रुभित्यत्र गोत्रग्रहणस्य स्वरितत्वाद्गोत्रे कुआदिभ्यः फजिति गोत्राधिकारविहितप्रत्ययस्य ग्रहणे सति अस्य यजो ग्रहणं न स्यात् । गोत्रत्वातिदेशात्तु भवति । आभिजितक इति । आभिजित्य- उ.] भावः । नन्वेवमपि शस्त्रीश्यामादौ दोषोऽत आह-शस्त्रीति । यद्यपि शस्त्र्युपमित. देवदत्तस्याऽन्यत्रोपमानत्वं वक्तुं शक्यं,तथापि तत्र यदि श्यामत्वेनैव सादृश्यं तर्हि शस्त्री- श्यामपदप्रयोगेणैव सिद्धावितरवैयर्थ्यम् , धर्मान्तरेण तु सादृश्यं न प्रतीयत इति भावः । किञ्च तद्विषयादित्यस्येवार्थविषयसर्वाऽवयवकादित्यर्थः । शस्त्रीश्यामेत्यादौ पूर्वपदमेव इवार्थविषयमिति न दोषः । वृत्तिविषय इति । तत्रायोपमाया उपमेयं गम्यम् , तच्च कृताच्यक्रियारूपमेव, क्रियोपमेयत्वस्य क्रियायामेव सम्भवात्तदाह-तत्रेति पूर्वोत्तरपदयोः काकागमनसदृशतालपतनसदृशयोर्लक्षणा, सामानाऽधिकरण्येन च तद- र्थयोरन्वयः । एतेन 'पूर्वोत्तरपदयोरनन्वयेनाऽसामर्थ्यात्समासो दुर्लभ' इत्यपास्तम् । उपमेयवाचकतत्तत्पदनमभिव्याहारेण कदाचित्काकमरणे कदाचित्तत्कृतोपभोगे लक्षणा, उपमानमात्रवाचकाऽभावाच्चेदृशे विषये उपमानलोपव्यवहार आलङ्कारिकाणाम् । तदाह- तालेन स्विति । अतर्कितोपनतत्वञ्च साधारणधर्म इति बोध्यम् । [समासाच] | अभिजिद्विद । अणन्तप्रकृतिकगोत्रप्रत्ययान्तादित्यर्थभ्रमं वारयति-गोत्रेणेति । अत्र गोत्रमपत्यमात्रम् , अपत्याधिकारादन्यत्वात् । ननु स्वार्थिकत्वादेवास्य गोत्रत्वं सिद्ध- मत आह-एवं मन्यत इति । 'गोत्रमिति वक्तव्य'मिति पाठः, गोत्रवदिति तदर्थः 'गोत्र इति वक्तव्य मिति पाठे गोत्रे यः प्रत्ययस्तद्वदिति वक्तव्यमित्यर्थः । भाष्ये-वुज्यथा १ काचित्कोऽस्य पाठः । २'काकतालपतनं, काकतालपतनमिव' पा० । ३. 'गोनमिति' इति पा०॥ ४ 'आभिजितकम्' पा० । ५ पूर्ववार्तिक व्याख्यैषा । । अत्र ।
कैयट-विवरणसहित [पादशतस्य- ~~rom [गोन्नाश्रयो बुञ् यथा स्यात् ॥ गोन इति शक्यमकर्तुम् ।। कथमाभिजि- तक?] गोत्रादयं स्वार्थिको गोत्रमेव भवति। * इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्चमाध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ।। पादश्च समाप्तः ।।*11 पादशतस्य संख्यादेवींप्सायां वुन्लोपश्च ।५।४।१। ।। पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् ॥॥ पादशतग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ 'अन्यत्रापि दर्शनात्' । अन्यत्रापि हि वुन् दृश्यते,-द्विमोद- किकां ददाति ॥ त्रि मोदकिकां ददातीति । [पादशतस्य सङ्ख्यादेः ] ।। स्थूलादिभ्यः प्रकारवचने कन् ।५।४।३। ॥ * ॥ कन्प्रकरणे चञ्चबृहतोरुपसङ्ख्यानम् ।। * ॥ कन्प्रकरणे चञ्चबृहतोरुपस त्यानं कर्त्तव्यम् । चञ्चत्कः बृहत्कः ॥ [ स्थूलादिभ्यः प्रकारवचने कन् ] । अनत्यन्तगतौ क्तात् ।५।४।४। ॥ * ॥ अनत्यन्तगती तात्तमादयः पूर्वविप्रतिषिद्धम् ॥ * ॥ अनत्यन्तगतो म.]स्यायमिति बुञ्। 'आपत्यस्य च तद्धितेऽनातीति यलोपः । गोत्रादयमिति । 'गोत्र- चरणादु। जित्यत्र गोत्रग्रहणेनार्थों गृह्यते तेन तदाचिनः प्रत्ययो विधीयमानोऽस्मादपि यत्रो भवति । गोत्राधिकारविहितप्रत्ययग्रहणे त्वौपगवक इत्यादावणायन्तादुञ् न स्यात् ॥११८॥ इत्युपाध्यायकैय्यटकृते भाष्यप्रदीपे पञ्चमस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम् ।। पादशतस्य । पादशतग्रहणमिति । द्वौ द्वौ मापौ ददातीत्यादावतिप्रसङ्गो न भवत्यनभिधानात् । यस्येतिलोपेन सिद्धे पुनर्लोपविधानमपरनिमित्तकत्वार्थम् । तेन लोप- स्याऽस्याऽस्थानिवत्त्वात् द्विपदिकेत्यादौ 'पादः प'दिति पद्भावः सिध्यति । स्थूला । चञ्चत्क इति। सादृश्यस्य द्योतकः कन्प्रत्ययः । अचञ्चन्नपि यश्चञ्चन्निव लक्ष्यते स चचत्को यथा मणिः, स्यन्दमानप्रभत्वात् । अबृहन्नपि बृहन्निव प्रसतप्रभत्वाद्यो दृश्यते स बृहत्कः ॥ [ स्थूलादिभ्यः] ॥ उ.]स्यादिति । ननु 'जातिलक्षणो ङीष् , आपत्यत्वप्रयुक्तो याश्चेत्ति डीव्यथा स्या'दित्यपि वक्तुं युक्तमिति चेन्न, मण्डूकप्लुत्याऽस्त्रियामित्यस्याऽनुवृत्तेः स्त्रियामेतदप्रवृत्तेरित्याशयात् । स्पष्टचेदं वृत्तौ । ॥१॥ इति श्रीनागोजीभट्टकृते भाष्यप्रदीपोयोते पञ्चमस्य तृतीयेपादे द्वितीयमाहिकम् । पादश्च तृतीयः ।।।। पादशतस्य । परनिमित्तकस्वार्थमिति । सहविधाने हि तत्त्वं न, नियमतः पूर्ववर्तिबुद्धिविषयस्यैव निमित्तत्वादिति 'धिन्विकृण्वोरिति सूत्रे भाष्ये स्पष्टम् ॥ स्थूलादभ्यः। सूत्रे प्रकार शब्देन सादृश्यं यते तदाह-सादृश्यति। चञ्चनि- वेति । विद्युदिव क्षणदृश्यमानप्रभ इत्यर्थः । स्यन्दमानेति । गलत्प्रभवादित्यर्थः । १ 'गोत्रमिति' पा० । २ 'जितक' पा०। [] एतदन्तर्गतः पाठः काचित्कः । ३॥॥ 'गोत्रादयं स्वार्थिकः ॥ यावता गोत्रादयस्वार्थि पा०1४'कान्तात्' पा०। n ।
। ५ अ.। ४ पा. १ आ.।४ सू.] महाभाष्यम् तात्तमादयो भवन्ति पूर्वविप्रतिषेधेन । अनत्यन्तगतौ तात्कन्भवतीत्यस्या ऽवकाशः-अनत्यन्तगतर्वचनं प्रकर्षस्याऽवचनं-छिन्न भिन्नकम् । तमादीनाम- बकाश:-प्रकर्षस्य वचनमनत्यन्तगतेरवचन-पटुतरः पटुतमः। उभयवचने उभयं प्रासोति-भिन्नतरकं छिन्नतरकम्-तमादयो भवन्ति पूर्वविप्रतिषे. धेन । ॥ * ॥ तदन्ताचे स्वार्थे कन्वचनम् ॥ * ॥ तदन्ताच स्वार्थे कन्वक्तव्यः । भिन्नतरकं छिन्नतरकम् ॥ [ अनत्यन्तगतौ क्तात् ] ॥ न सामिवचने ।५।४।५। ॥ * ॥ सामिवचने प्रतिषेधानर्थक्यं प्रकृत्यभिहितत्वात् ॥ * ॥ सामिवचने प्रति- षेधोऽनर्थकः॥ किं कारणम् ? ॥ 'प्रकृत्यभिहितत्वात्। प्रकृत्याऽभिहितः सोऽर्थ इति कृत्वा कन्न भविष्यति ॥ [न सामिवचने] । अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः ।५।४।७। प्र.] अनत्यन्त । भिन्नतरकमिति । भेदस्य प्रकर्षानत्यन्तगत्योर्युगपद्विवक्षायां पूर्ववि- प्रतिषेधात्तरपि कृते कान्तत्वाभावात्कन्न प्राप्नोतीत्याह-तदन्ताञ्चेति । स्वार्थः पुनरनत्यन्त. गतियुक्त एव न तु शुद्धः । शुद्ध हि स्वार्थे कनि सत्यनत्यन्तगतिर्न छोतिता स्यात् । नन्वेष स्वार्थमात्रे कन्प्रतिपादितो दृश्यते चासो,-यथैवं सूत्रम भिन्नतरकं भवति, बहुतर के व्याप्यते, सुकरतरकं मन्यत इति । एवं तर्हि 'न सामिवचने'इति प्रतिषेधेन स्वार्थिक: कन्नस्तीति ज्ञाप्यते । नहि सामिकृतादिभ्योऽनत्यन्तगतौ क्तादित्यस्य कनः प्रसङ्गोऽसमासे सामिव चनेनैवानत्यन्तगतेद्योतनात् । समासेभ्यस्तु क्तान्तत्वाभावाच्च कृद्रहणे गतिकारक- पूर्वस्यापि ग्रहणमिति वचनात्सामिशब्दस्य गतिकारकत्वाभावात् । तस्मात्स्वार्थिकस्यैवासौ कनो निषेधः स्वार्थिकं हि कनं शापयति ।। [अनत्यन्तगतौ तात् ] ॥ अनत्यन्त । भेदस्य प्रकर्षेति । भेदगतप्रकर्षत्याद्यर्थः । इत्याहेति । अत आहेत्यर्थः । नन्वेष इति । तदन्ताच्चेति वचनविहितः । स्वार्थमात्रे इति । न त्वनत्यन्तगतियुक्त इत्यर्थः। दृश्यते चेति । तदयुक्तेऽपि स्वार्थमात्रे इत्यर्थः । समासेभ्य इति । समास- रूपेभ्यः सामिकृतादिभ्य इत्यर्थः । तान्तत्वाऽभावाच्चेति । प्रत्ययग्रहणपरिभाषयेति भावः । चेनाऽसमासोक्तहेतोः सङ्ग्रहः । गतिकारकत्वाभावादिति । एवञ्च 'कृद्हणे इति न्यायेनाऽपि न समासे तान्तत्वमिति भावः । अस्य क्रियाविशेषणत्वात् कारकत्वम- स्त्येवेति चिन्त्यम् । ज्ञापयतीति। ननु 'न सामीति सूत्रस्य प्रत्याख्यास्यमानत्वा- कथमेतज्ज्ञापकमिति चेन्न, तस्य भाष्यस्य पूर्वसूत्रविहितस्य नाऽयं निषेध इत्यर्थमात्रतात्पर्य कत्वात् । तत्रसूत्रे 'प्रकृत्यभिहितत्वादिति भाष्यस्य प्रकृतिसहचरितसामिशब्देनाऽभिहित. स्वादित्यर्थः। 'सुकरतरक मित्यादौ यावादेराकृतिगणत्वात् कानः सिद्धया शापकस्य नोपयोग इत्यन्ये । [अनत्यन्तगतौ कात् ] ॥ ४ ॥ १ 'कान्तात्' पा०। २ तदन्तास्वार्थे पा०। sha ४९० कैयटनववरणसहित [ अषडक्षा- 11*1) अध्युत्तरपदात्प्रत्ययविधानानुपपत्तिविग्रहाभावात् ।|| अध्युत्तरपदात्प्रत्यय विधेरनुपपत्तिः ॥ किं कारणत् ? | 'विग्रहाभावात्' । विग्रहपूर्विका तद्धितोत्प. त्तिर्न चाऽध्युत्तरपदेन विग्रहो दृश्यते॥॥॥ तस्मात्तत्रेदमिति सधीनेर् ॥७॥ तस्मा- त्तत्रेदमित्यस्मिन्नर्थे सधीनप्रत्ययो भवतीति वक्तव्यम् । राजनीदं राजा- धीनम् ॥ यदि सधीनक्रियते सकारस्येत्संज्ञा न प्राप्नोति, इह च श्यधीनो अधीन इत्यङ्गस्येतीयङवङऔ स्यातां, सूत्रञ्च भिद्यते ॥ यथा- न्यासमेवास्तु ॥ ननु चोक्तमध्युत्तरपदात्प्रत्ययविधानानुपपत्तिर्विग्रहाभावादिति ।। नैष दोषः,-अस्ति कारणं येनाऽत्र विग्रहो न भवति ॥ किं कारणम् ? ॥ नित्यप्रत्ययोऽयम् ।। के पुनर्नित्यप्रत्ययाः ? ॥ 'तमादयः प्राकनः । ज्यादयः प्राग्वुनः। आमादयः प्राङमयटः। बृहतीजात्यन्ताः समासान्ताश्चेति ॥ प्र.] अषड । विग्रहाभावादिति । अन्यत्र विग्रहपूर्विका वृत्तिदृश्यते । यथा यावो यावक इति । यत्र तु विग्रहो नेष्यते तत्र नित्यग्रहणं क्रियते,-यथा 'ओमम्नित्यमिति। इह तु महा. विभाषाधिकारस्य न किं चिन्निवर्त्तकमस्तीति विग्रहः प्राप्नोति, न चासौ दृश्यत इति प्रत्यय- विधानं नोपपद्यत इत्यर्थः। सूत्रमुपालभ्य न्यासान्तरं पठति-तस्मात्तत्रेदमिति । तत्र महाविभाषाधिकारात्पक्षे वाक्यं भवति-राजनीदमायत्तमिति । पक्षे प्रत्ययः-राजाधीन- मिति । भाष्यकारो न्यासान्तरं दूषयति-यदीति । पदसंज्ञा नलोपाद्यर्थमवश्यमभ्युपेया। तमादय इति । 'अवक्षेपणे कनित्यस्मात्कनः प्रागित्यर्थः। शुक्ल इत्युक्ते सामान्यशब्द त्वात् प्रकर्षस्यानवगमात्प्रकर्षाद्युपाधिद्योतनायावश्यप्रयोज्यास्तमादय इति सामर्थ्यात्त नित्याः । आमादय इति । किमेत्तिङव्ययघादित्यारभ्य 'तत्प्रकृतवचने मय'डित्यस्मात् प्रागित्यर्थः । बृहतीजात्यन्ता इति । बहुवचननिर्देशादेतत्सूत्रविहितस्य खस्य ग्रहणम् । उ.] अषडक्षा । ननु वृत्त्यभावो न विग्रहाऽभावनियतः, नित्यसमासादीनां दर्शनादत आह-अन्यत्रेति । नोपपद्यत इति । नित्यपदाऽभावान्न नित्यं प्रत्ययः, विकल्पस्तु नेष्यत इत्यनुपपत्तिरिति भावः । नन्वधीनप्रत्यय एवास्त्वत आह-पदसंज्ञा चेति । सा च सित्त्वं विना दुर्लभेति भावः । 'अभ्युपेयेति पाठे ईडो देवादिकादचो यति रूपम् । नन्वधीनर् सिच्चेति न्यासः कार्य इत्यभिप्रायेण भाष्ये दोषान्तरमाह-इह चेति । 'तमा. दयः प्राकन' इति प्रायिकम्, 'विभाषा सुप' इति सूत्रे महाविभाषया वाक्ये सिद्ध 'विभाषेति कल्पाद्यर्थमिति भाष्येण, 'एकाच प्राचा'मिति सूत्रे 'महाविभाषयैव सिद्धे प्राचांग्रहणं न कर्तव्यमिति भाष्येण च तथा बोधनात् । शुक्ल इत्युक्त इति । सामान्यशब्दात्- सामान्यबोधकादस्माच्छब्दात् प्रकर्षानवगमादित्यर्थः। 'सामान्यशब्दत्वादिति कचित्पाठः। सामर्थ्यात्ते नित्या इति तु चिन्त्यमेव, प्रकरणादिसत्वे तन्मात्रादपि तादृग्बोधस्य वक्तुं शक्यत्वात् , तुल्यन्यायात्पाशादीनामपि नित्यत्वापत्तेश्च । तस्माद्भाष्योक्त्या वाचनिकमेषां नित्यत्वं बोध्यम् । नन्वधिशब्दस्याधिकरणशक्तिप्रधानत्वात्सामानाधिकरण्याद्यभावेन १ 'सधीनन्' पा०। २ 'मिति सधीनप्रत्ययो वक्तव्यः' पा०।३ 'स्त्र्यधीन' पा० । । .
: स्वगतलिङ्गाऽत्यागाच्छक्तिप्रधाने सामान्ये नपुंसकत्व नु लक्षणयाऽऽधेयप्रधानत्वेऽपि ७ ॥४ पा.१ आ.७सू. महाभाष्यम् एवं तर्हि नायं प्रत्ययविधिरूपालभ्यते ।। किं तर्हि ? | प्रकृतिरूपालभ्यते- अध्युत्तरपदा प्रकृति स्ति । किं कारणम् ? 'विग्रहाभावात् । विग्रहपूर्विका समासप्रवृत्तिर्न चाऽधिना विग्रहो दृश्यते ।। एवं तर्हि बहुव्रीहिभविष्यति ॥ किं कृतं भवति ? ॥ भवति वैकश्चिदस्व. पदविग्रहो बहुव्रीहिः-तद्यथा-शोभनं मुखमस्याः सुमुखीति ॥ नैवं शक्यम्- इह हि 'महदधीन मित्यात्वं कप च प्रसज्येयाताम् ॥ एवं तयव्ययीभावो भविष्यति ॥ एवमप्यधेः पूर्वनिपातः प्राप्नोति ॥ राजदन्तादिषु पाठः करिष्यते । अथवा सप्तमीसमासोऽयम् । अधिः शौण्डादिषु पठ्यते ॥ [अषडक्षाशितङ्गलं] । प्र.] किं तर्हि प्रकृतिरिति । प्रकृत्यभावात्प्रत्ययोऽपि न प्रामोति । एतच्च शौण्डादिध्वधि- शब्दस्य पाठमनपेक्ष्योच्यते । एवं तर्हि बहुव्रीहिरिति । वृत्तिविषये ससाधनक्रिया वाचित्वादधिशब्दस्य राजाधिकृतो यस्मिंस्तद्राजाधीनमिति बहुव्रीहिःकरिष्यते। विशेषणत्व- विवक्षया च राजादोनां पूर्वनिपातः । यद्यधिखटादिवद्राजानमधिगत इति तत्पुरुषः क्रियते तदाऽधेः पूर्वनिपातः स्यात् । कप्चेति । 'शेषाद्विभाषे'त्यनेन । तस्मिंश्च सत्यध्युत्तरपदत्वा- भावात्खो न स्यात् । एवमप्यधेरिति । यथाऽधिस्त्रीति । राजदन्तादिष्विति । ननु विभक्तयर्थवृत्तेरधेरव्ययीभावो विधीयमानोऽधिकरणप्रधानः स्यान्नाधेयप्रधानः । नैष दोषः । साहचर्यादाधेयप्रधानो भविष्यति । खप्रत्यये च कृते कुटीरादिवद्यथेष्टं लिङ्ग- सवयं भविष्यति, राजदन्तादिषु चाधेयेऽधिरित्येवं विशिष्य पठितव्यं, तेनाधिस्त्रीत्यादावधि- करणप्रधानत्वेऽधेः परनिपाताभावः। अधिः शौण्डादिष्विति । 'अधिरीश्वर' इत्यधेः कर्मप्रवचनीयत्वाद्यस्य चेश्वरवचन मितिसप्तम्यन्ता राजादयोऽधिना समस्यन्ते । एवं च वाक्यमपि भवति । यथाधिब्रह्मदत्ते पञ्चाला इति,एवं राजन्यधि राजाधीन मिति । वृत्तिविषये चाधिशब्द ईशितव्ये वर्त्तते । अथ वाऽधिकरण एव सप्तमी, वृत्तिविषये च ससाधनक्रिया. उ.] कथं बहुव्रीहिरत आह-वृत्तिविषये इति । ससाधनेति । क्रियाविशिष्टसाधन- वचनादित्यर्थः । विशेषणत्वविवक्षयेति । 'राजदन्तादित्वादिति वक्तुं युक्तम् । तस्मिश्व सत्यध्युत्तरपदत्वाऽभावादिति । समासाऽवयवत्वे कस्य तच्चरमाऽवयवत्वेनाऽ. धेस्तचरमाऽवयवत्वाऽभाव इति भावः। साहचर्यादिति । अधिकरणत्वशक्तेराधेयाऽविना स्यादत आह-कुटीरादिवदिति । नन्वेवमधिस्त्रीत्यादावप्यधेः परनिपातापत्तिरत आह- राजदन्तादिषु चेति। नन्वधियोगे कथं सप्तमीत्यत आह-अधिरिति । राजाऽधीनो देवदत्त' इति सामाना- ऽधिकरण्यसिद्धये आह-वृत्तिविषये चेति । अथवा अधिकरण एवेति । 'कर्तृकर्मणो' रिति सूत्रस्थभाष्यरीत्याऽधिकृतार्थत्वेऽप्यधेस्तदर्थस्य कारकविभक्तथर्थान्वयप्रयोजकक्रिया- १ 'नास्तीति' पा०।२ इतिः काचित्कः । ३'आत्त्वकपौर पा०। -- ४९२ [विभाषाधेर - 8 कैयट-विवरणसहित विभाषाऽञ्चेरदिक स्त्रियाम् ।५।४।८। दिग्ग्रहणं किमर्थम् ? ॥ अस्त्रियामितीयत्युच्यमाने 'प्राचीना ब्राह्मणी' "प्राचीनाशिखेत्यत्रापि प्रसज्येत, दिग्ग्रहणे पुनः क्रियमाणेन दोपो भवति । अथ स्त्रीग्रहणं किमर्थं ने थावता दिक्शब्दः स्त्रीविषय एंव ॥ भवति वै कश्चिद्दिकशब्दोऽस्त्रीविषयोऽपि,-तद्यथा,-प्राक्प्राचीनम् । प्रत्यक-प्रती चीनम् । उदक-उदीचीनम् । णचः स्त्रियामज ५।४।१४॥ स्त्रीग्रहणं किमर्थं, न स्वार्थिकोऽयं स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्य- नुवर्तन्ते ? ॥ एवं तर्हि सिद्ध सति यत्स्त्रीग्रहणं करोति तज्ज्ञापयत्याचार्यः- 'स्वार्थिका अतिवर्तन्तेऽपि लिङ्गवचनानी ति॥ किमेतस्य ज्ञापने प्रयोजनम् ?॥ गुडकल्पा द्राक्षा तैलकल्पा प्रसन्ना पयस्कल्पा यवागूरित्येतत्सिद्धं भवति ॥ एकस्य सकृच ५।४।१९। सकृदादेशेऽभ्यावृत्तिग्रहणं निवय॑म् ॥ किं प्रयोजनम् ? ॥ पुनः पुनः प्र.] वचनोऽधिर्न तु वाक्ये इत्यस्वपदेन विग्रहो,-राजान्यधिकृतं राजाधीनं । राजायत्तमित्यर्थः। विभाषाञ्चे । इह विभाषाग्रहणं पूर्वस्य विधेनित्यत्वज्ञापनार्थम् । 'द्वयोविभाषयो- मध्ये नित्या विधय' इति न्यायात् । दिग्ग्रहणमिति । अञ्चत्यन्तः स्त्रियां वर्तमानो दि श्ये- व वर्तत इति प्रश्नः । प्राचीना ब्राह्मणीति । क्रियानिमित्तको दिग्देशकालनिमित्तको वा ब्राह्मण्यादौ स्त्रियां वर्तत इति खस्य प्रतिषेधाऽभावः । प्रागिति । प्राचीशब्दादिग्वाचिनो दिवशब्देभ्य इत्यस्तातेरुत्पन्नस्याटुंगिति लुक । ततोऽव्ययत्वात् स्त्रीत्वाभावः। खे तु कृते शब्दान्तरत्वान्नपुंसकत्वम्। [विभाषाऽञ्रदिक ] ॥ एकस्य । सकृदादेश इति । अभ्यावृत्तिगणने सकृच्छब्दस्याऽसामर्थ्यात् पुनः पुनरावृत्तिक्रियायाःक्रियाभ्यावृत्तिस्तद्गणने वर्तमानात् सङ्ख्याशब्दात्कृत्वनुजित्येवं पूर्वसूत्रार्थ- मानित्येदमुच्यते । यदा त्वभिमुखी वृत्तिरभ्यावृत्तिर्जन्मलक्षणोच्यते तदा तदनुवृत्तावपीह उ.] त्वाऽभावाच्चिन्त्यमिदम् । तस्मात्समासाऽलौकिके सप्तम्यन्तेन समासविधानात्सप्तमी- स्थितिरिति बोध्यम् । [अषडक्षा] । विभाषाऽञ्चे। द्वयोरिति । 'पादशतस्ये त्यादौ महाविभाषाधिकारादिति भावः। नन्वञ्चत्यन्तस्य दिग्देशकालबोधकस्य कथं ब्राह्मण्यां वृत्तिरत आह-क्रियानिमित्तक इति। प्रकर्षेणाऽश्चतीति क्रियानिमित्तक इत्यर्थः । दिग्देशेत्यादि । तत्तद्दिगादिस्थे लक्षणेति भावः । स्त्रीत्वाभाव इति । एवञ्च नाऽयं स्त्रीविषय इति भावः ॥ एकस्य सकृञ्च । नन्वभ्यावृत्तिर्जन्म, तद्वणने सकृच्छब्दस्याऽपि वृत्तिसम्भवादाह- १ 'अबाचीना' पा०।२ किमर्थं यावता' पा०।३'एव भवति' पा०। 'स्त्रीवचनं पा० । ५ 'भ्यासप्रवृत्तिग्रहणं निवृत्त्यर्थम्' पा० । ६ 'दिक्ष्वेव' पा० । - . -- ५।४ पा.१ आ.।१९ सू.] महाभाष्यम् रावृत्तिरभ्यावृत्तिन चैकस्य पुनः पुनरावृत्तिर्भवति॥ अथ क्रियाग्रहणमनुवर्तते उताहो न ? ॥ किं चार्थोऽनुवृत्त्या ? ॥ बाढः मर्थः,-इह मा भूत्-‘एको भुङ्क्ते इति ॥ अथाऽनुवर्तमानेऽपि क्रियाग्रहणे इह कस्मान्न भवति-'एकः पाक' इति । पूर्वयोश्चापि योगयोः कस्मान भवति- द्वौ पाको, त्रयः पाकाः, चत्वारः पाकाः, पञ्चपाकाः, दश पाका इति?॥ म.] दोषाभावः । अस्मिन्पक्षे धात्वर्थस्यानुवादक आङ । यथा 'अधिपरी अनर्थका विति । किं प्रयोजनमिति । अभिमुखीवृत्तिरभ्यावृत्तिरित्यर्थे न दोष इति प्रश्नः। न चैकस्येति । ननु चैकस्यैव पुनः पुनरावृत्तिर्यथा-पञ्चकृत्वो मुझेइति । एकैवात्र भुजिक्रिया निवृत्तभेदा- ख्यातेनाभिधीयते। तस्याः पञ्चावृत्तयः पञ्चसङ्ख्यया गण्यन्ते। सत्यमेवमेतत् । अयं त्वत्रार्थ:-- न चैककालस्य पुनःपुनरावृत्तिर्भवतीति । इह सकृद्भुङ्क्ते इति भोजनमेककालं विवक्षित तस्यैकस्यैककालस्यैकशब्दवाच्यस्य कालभेदादप्यलब्धभेदस्य पुनरावृत्त्यभावादभ्यावृत्त्य- भावस्तत्र यथा साधु पचतीति भवत्येव'मेकं भुङ्क्ते'इति प्राप्ते सकृच्छब्दप्रयोगार्थमिदं सूत्रम्। अथ क्रियाग्रहणमिति । प्रधाने निवर्तमाने गुणस्यापि निवृत्त्या भाव्यमिति मत्वा प्रश्नः। किं चार्थ इति। यदि प्रयोजनमस्ति ततः स्वरितत्वात् क्रियाग्रहणं निवर्तमानेऽप्यभ्या- वृत्तिग्रहणेऽनुवतिष्यत इति भावः । एको भुङ्क्तइति । अनेकोऽपि भुजा इति तन्निवृत्त्यर्थ- मेकशब्दप्रयोगः। अथानुवर्तमानेऽपीति । यथा 'तुमुन्ण्वुलौ क्रियायां क्रियार्थाया'- मित्यादिपु क्रियाप्रदेशेषु पाकादेर्ग्रहणं भोक्तुं पाक इत्यादिसिद्ध्यर्थं तथेहापि ग्रहणेन भाव्य- मिति मत्वा प्रश्नः। द्वौ पाकाविति । यदैकमेव पाक्यं द्विष्पाकं तदैतदुदाहरणं-नुव- उ.] पुनःपुनरिति । अभिमुखीति । व्यवहाराऽभिमुखी वृत्तिर्जन्मेत्यर्थः । नन्वत्रार्थे आङपादानं व्यर्थमत आह-अस्मिन् पक्ष इति । एकैवाऽत्रेति । एकत्वविशिष्टैवाss. ख्यातेनाऽभिधीयत इत्यर्थः, शब्दशक्तिस्वभावादिति भावः । पञ्चावृत्तय इति । कृत्वमुजादिसमभिव्याहारे सङ्ख्याशब्दानां तत्सङ्ख्याजन्मपरता, तत्सङ्ख्याऽऽवृत्तिपरता वेत्यर्थः । इतिभोजनमिति । सकृच्छब्देनेत्यर्थः । तस्यैकस्येति । निवृत्तभेदस्यैवा- ख्यातेन प्रत्यायनादिति भावः। एककालस्येति । अस्य प्रयोजनं-कालभेदादप्यलब्ध- भेदस्येति । अत एव-पुनरावृत्त्यभावादिति । इदं सूत्रमिति। तत्र चाभ्यावृत्त्यसम्भवा- तन्निवृत्तिरावश्यकीति भावः । एकस्येति भाष्यस्य,-एककालस्य एकशब्दबोध्यस्य चेत्यर्थ इति तात्पर्यम् । प्रधाने-अभ्यावृत्तिपदे । स्वरितत्वादिति । एकदेशे स्वरितत्वप्रतिज्ञाना- दित्यर्थः। ननु 'भुङ्क्ते' इत्येकवचनेनैव कāकत्वमतीतेः 'एक' इति व्यर्थमत आह-- अनेकोऽपीति। तादृशप्रयोगस्याऽपि दर्शनादिति भावः । ननु घअन्तवाच्यस्य द्रव्य- रूपत्वेन क्रियात्वाभावात्कथं तत्र कृत्वसुचः प्राप्तिरत आह-यथा तुमुन्ण्वुलाविति । ननु पाक्यद्वयस्य पाकद्वयेऽभ्यावृत्त्यभावात्प्रत्ययप्राप्तिरेव नेत्यत आह-यदैकमेवेति । 'यदैकमेव पाक्यं द्विपाक'मिति पाठः। द्विपाकमिति-बहुव्रीहिः । 'द्विष्पाक'मिति १ इतिः काचित्कः। ।
४९४ कैयट-विवरणसहित एकस्यसकृच नैतक्रियागणनम् ? किं तर्हि ?॥ द्रव्यगणनमेतत् ॥ कथम् ?|| 'कृदभि. हितो भावो द्रव्यवद्भवतीति । इहापि तर्हि द्रव्यगणनान प्रामोति-'सकृ- द्भुक्ता' 'सद्भोक्तु'मिति । पूर्वयोश्चाऽपि योगयो:-द्विभुक्ता द्विर्भोक्तुम् पञ्चकृत्वो भुक्ता पञ्चकृत्वो भोक्तुम्, दशकृत्वो भुक्ता दशकृत्वो भोक्तुमिति दुव्य- गणनान प्राप्नोति ॥ यदि खल्वपि पुनः पुनरावृत्तिरभ्यावृत्तिरािवृत्तः सेक- दिति स्यात्रिरावृत्तेर्द्विरिति । प्र.]र्णस्य द्वौ पाकाविति। एवमभ्यावृत्तिर्भवति,तद्देदाच पाक्यस्य भेदः। यदा तु पाक्य- द्रव्यभेदात्पाकभेदस्तदाभ्यावृत्त्यभावादेव पूर्वयोगाभ्यां प्रत्ययाऽप्रसङ्गः। नैतक्रिया- गणनमिति । अभ्यावृत्तिग्रहणादेव क्रियासंप्रत्ययः सिद्धः। नहि द्रव्यगुणयोः स्वभाव- सिद्धयोः शब्देन प्रतिपाद्यमानयोरभ्याबृत्तिः संभवति,साध्यार्थविषयत्वात्तस्याः।तस्मात् क्रिया. विशेषप्रतिपत्त्यर्थं क्रियाग्रहणं कृतं, तेन साध्यस्वभावैव क्रिया गृह्यते । पाकादिभिस्तु शब्दैः सिद्ध स्वभावाऽभिधीयते । सिद्धतायां घमादिविधानात् । यद्यपि धातुनाऽत्र साध्यस्वभावा क्रियाऽभिधीयते तथापि प्रत्ययार्थस्य प्राधान्यात्साध्यत्वं गुणभूतमिति क्रियाग्रहणादिह सिद्धताधर्मयुक्तपाकाद्यग्रहोऽन्यत्र तु धातुवाच्यक्रियाश्रयं पाकादिष्वपि कार्यं भवति। यादृशी च पूर्वसूत्रे क्रिया गृहोता तादृश्येवेहानुवर्तत इत्येकः पाक इत्यत्राप्ययं परिहार उपपन्नः ।। यथोक्तन्यायमप्रतिपद्य कृदभिहित इति सामान्येनाभिधानाद्धादीनामव्ययकृतां च विशेषमबुद्धा पृच्छति-इहापि तहीति । दोषान्तरं चाह-यदि खल्वपीति आधा हि क्रियाप्रवृत्तिरभ्यावृत्तिर्न भवति किं तांभिमुखोति । एतच्चाभिग्रहणालभ्यते। उ.] त्वपाठः। 'द्विष्पक्क'मिति क्वचित्पाठः । नन्वेकस्य पाकद्वयं व्यर्थमत आह-तद्भेदा- चति । पाकभेदाच पाक्यभेदः, तत्कृतः पाक्यस्य विशेष इत्यर्थः । नन्वेकपाक्यस्य वारंवार पाके क्रियागणनस्य सम्भवादाह-अभ्यावृत्तिग्रहणादेवेति । द्रव्यगुणयोन गणना- योग्यं पुनः पुनर्जन्म, यत एकैव तेषामुत्पत्तिः, क्रियायास्तु धातुतो निवृत्तभेदाया एत्र प्रत्ययेन भवति पुनः पुनरुत्पन्ने ति प्रतोतिः, आवृत्तिश्च । द्रव्यस्य त्वनिवृत्तभेदस्यैव शब्दे- नोपादानात्, न पुनः पुनरुपपत्तिः, नाऽप्यावृत्तिः, पुनः पुनर्जन्मयोग्यस्य जन्मैव चाऽस्या- वृत्तिपदेनोच्यते; अभिमुखोत्यर्थ काभिपदस्वारस्यादिति भावः । तदाह-न होति। स्वभाव- सिद्धयोः शब्देनेति । सिद्धनया शब्देन प्रतिपाद्यमानयोरित्यर्थः। तस्यापि श्वेतत इत्यादेः शब्दात्साध्यत्वेन प्रतीतौ सम्भवत्येवाऽभ्यावृत्तिरित्येवमुक्तम् । केचित्तु-साध्य- स्वविशिष्टा धातुना, सिद्धत्वविशिष्टा घनोच्यत इति वदन्ति, तन्मते शकते यद्यपीति । साध्यस्वभावेति । सैवेत्यर्थः । साध्यत्वं-तद्विशिष्टा क्रिया । गुणभूतमित्यत्र हेतुः । प्रत्ययार्थप्राधान्यादिति । सिद्धत्वसाध्यत्वधर्मभेदेन तस्मिन् विशेष्यताविशेषणतयोः स्वीकारादिति भावः। क्रियाग्रहणादिहेति । प्रधानतया भासमानसाध्यक्रियामहणा- दित्यर्थः । आद्या हीति । आवृत्तिशब्दस्य द्वितीयादिप्रवृत्तावेव रूढत्वादिति भावः । 'नतुचोक्तम्-इहापि तर्हि' पा० । २ 'द्विरावृत्तिः सवदितिस्यात् , दिरावृत्तिस्त्रिरावृत्तिः । । - - ५अ./४ पा.१ आ.१९ सू.) महाभाष्यम् एवं तानुवर्ततेऽभ्यावृत्तिग्रहणं, न तु पुनःपुनरावृत्तिभ्यावृत्तिः ॥ किं तर्हि? । अभिमुखी प्रवृत्तिरभ्यावृत्तिः। पूर्वा च परे प्रत्यभिमुखी, परेच पूर्वा प्रत्यभिमुख्यौ ॥ यदप्युच्यते-"अनुवर्तमानेऽपि क्रियाग्रहणे इह कस्मान्न भवति-एकः पाकः इति। पूर्वयोश्चापि योगयोः द्वौ पाको नयः पाकाः चत्वारः पाकाः पञ्च पाका दश पाका इति"-परिहत्तमेतत् । नैतक्रियागणनं ? ॥ किं तर्हि ? ॥ द्रव्यगणनमेतत् ॥ कथं ॥ कृदभिहितो भावो द्रव्यवद्भवतीति ।। ननु चोक्तम्-"इहापि तर्हि द्रव्यगणनान प्रामोति सकृद्भक्त्वा सकृद्भोक्त- प्र.] अन्यथा हि क्रियावृत्तिगणन इति ब्रयात् । पूर्वा चेति । अस्ति हि तासां प्रवृत्तीनामेक- साधनानां परस्परापेक्षा,-एतावत्य एताः प्रवृत्तय इति । सकृद्भुले इत्यादौ त्वेकस्या अपि वृत्तेः स्वरूपलाभ प्रत्याभिमुख्यमस्ति । द्रव्यवदपीति । यथा द्रव्यं लिङ्गसङ्ख्यासाधनैः सम्ब. ध्यते तथा घनाघभिहितो भाव इत्यर्थः। अव्ययकृदभिहितस्तु भावो लिङ्गसङ्ख्यासाधनसम्ब- न्धाभावात् साध्यस्वभाव एव प्रतीयते न तु सिद्ध स्वभाव इति क्रियावदेवासौ भवति न तु द्रव्यवदिति तत्र क्रियाभ्यावृत्तिसद्भावाद्भवत्येव प्रत्ययः। अविप्रतिपत्तिविषयाख्यातवाच्य. क्रियापेक्षश्चक्रियावदित्यतिदेशः। पूर्वसूत्रे सङ्ख्याग्रहणमनियतविशेषवाचिभूर्यादिनिवृत्त्यर्थम् । ते हि बहुगणशब्दाभ्यां नियमाभ्यां सञ्जयाप्रदेशेषु निषिद्धग्रहणाः॥ अभ्यावृत्तिग्रहण किमर्थं ? पञ्चपाका इत्यत्र क्रियामात्रगणने माभूत् । अभ्यावृत्तिग्रहणे च क्रियमाणे क्रिया. ग्रहणाक्रियाया विशेषो गृह्यते नान्यथा । तदेवं यदैकस्या एव क्रियाया जन्मलक्षणाः प्रवृत्तयो उ.] एतावत्य एताः प्रवृत्तय इति । 'प्रवृत्तयो जन्मानीति व्यवहारे' इति शेषः । एकसाधनानामित्यनेन-भिन्नकर्मकर्तृकत्वे आवृत्तिव्यवहाराऽभाव इति सूचितम् । नन्वेवमपि वृत्त्यन्तराऽपेक्षत्वादाभिमुख्यस्यैकप्रवृत्तावभावात्कथमत्राऽनुवर्तत इत्युक्ति रत आह-सकृद्भुङ्क्त इत्यादौ विति । स्वरूपलाभमिति । स्वरूपमात्रप्रयुक्ते. दृशव्यवहारलाभम्प्रतीत्यर्थः। जन्मार्थकाऽभ्यावृत्तिग्रहणादेकः पाको द्वौ पाकावित्याद्यपि सिद्धमिति । एतदजानान एकदेश्याह-यदपीत्यादिना क्रियावदित्यन्तेन । 'द्वौ पाका'. वित्यादौ न जन्मगणने यादीनां वृत्तिः, तथा सति 'पाका वित्यादौ द्विवचनाद्यनापत्तिरिति तत्त्वम् । 'द्रव्यवदपि क्रियावदपीति भाध्य--लक्ष्यभेदेन व्यवस्थितमित्याह-यथेति । साधनैरिति । साधनपदेन शक्तिः। ननु तस्याऽपि क्रियात्वे 'क्रियाव दिति वतिरनुपपन्नोऽत आह-अविप्रतिपत्तीति। द्रव्यवदिति--वतिरप्येवम् । ननु गणने वृत्तिः सङ्ख्याशब्दा- नामेवेति पूर्वत्र सङ्ख्याग्रहणं व्यर्थमत आह-पूर्वसूत्रे इति । अनियतविशेषवाचीति । अनियतसङ्घयाविशेषवाचीत्यर्थः । निषिद्धग्रहणा इति । वस्तुतस्तेषां सङ्ख्यात्वमेव नेत्युक्तं बहुगणेति सूत्रे । अभ्यावृत्तिग्रहणं किमर्थमिति । सङ्घयायाः क्रियागणन इत्युक्तावपि निवृत्तभेदायाः क्रियायाः स्वरूपेण गणनाऽसम्भवादभ्यावृत्तिद्वारकगणन एवं भविष्यतीति किं तेनेति प्रश्नः । क्रियाविशेष इति । स चोत्तरूपः। यदैकस्या १ इदं क्वाचित्कम् । 1 . । ।
। ४९६ कैयट-विवरणसहितं [ देवतान्तात्ता- मिति,पूर्वयोश्चापि योगयोः-द्विभुक्ता द्विभॊक्तुं, त्रिभुक्ता निर्भोक्तुं, पञ्चकृत्वो- भुक्ता पञ्चकृत्वो भोक्तुं, दशकृत्वो भुक्ता दशकृत्वो भोक्तुमिति द्रव्यगणनाच प्रामोति" इति । नैष दोषः । क्रियागणनाद्भविष्यति ।। कथम् ? ॥ कृभिहितो भावो व्यवदपि क्रियावेदपि भवति ॥ [ एकस्य सकृच्च ] ॥ देवतान्तात्तादर्थं यत् ।५।४।२४। 'देवतान्तादित्युच्यते तत्रेदं न सिध्यति-पितृदेवत्यमिति,-नहि पितरो प्र.]गण्यन्ते तदा कृत्वसुजादयो भवन्ति नान्यदा। यदि तहिं धनाद्यन्तप्रयोगे कृत्वसुजादयो न भवन्ति कथं 'द्विरावृत्तिः द्विःप्रयोगो द्विवचन'मित्यादयः प्रयोगाः ? । 'द्विवचनेची ति ज्ञापकाक्वचिद्धनाद्यन्तप्रयोगेऽपि कृत्वोऽर्थप्रत्ययो भवतीत्यदोषः । गणनग्रहणं यत्र साक्षा- दभ्यावृत्तिगणनं तत्र प्रत्ययार्थम् , अन्यथा क्रियाभ्यावृत्तावित्युच्यमाने सप्तदशप्राजापत्या- नजांस्तूपरानेकवर्णानालभेतेत्यत्राप्यालम्भनक्रियाया आभिमुख्येन प्रवृत्तिसम्भवात् साधन- भेदसामर्थ्यप्रतिपन्नभेदालम्भनक्रियाभ्यावृत्तिविषये साधनगणनवाचिनोपि सप्तदशशब्दात प्रत्ययः स्यात् । इह 'पञ्चकृत्वः पाक' इत्यादौ करोल्यादिक्रियापेक्षः प्रत्ययः । यथा 'पञ्चकृत्वः पटो रक्त' इति ॥ [ एकस्य सकृञ्च ।। देवतान्ता । नहि पितर इति । देवताशब्दस्य जातिविशेषवाचित्वाद्भिन्नजातीयाभिधा- उ.]एवेति। एतेन ‘पञ्चकृत्वः पच्यते' इत्यादौ जन्मभेदेन क्रियाभेदाद्वहुवचनं स्या'दित्यपास्तम्। जन्मभेदेऽपि क्रियाया एकत्वेनैव प्रतीतेः, शब्दशक्तिस्वभावेन जन्मगतसंख्यायास्तत्राऽना. रोपात् । क्वचिदिति । तेन 'सिद्धान्वाख्यानमेवेति सूचितम् । एतेन 'साध्यस्वभावैव यत्र क्रिये'त्या दिग्रन्थस्य प्रागुक्तस्याऽयुक्तत्वं सूचितं स्वयमेवेति दिक् । ननु गणनग्रहणं व्यर्थं, यावती सङ्ख्या गणनात्मिकैव । न च 'शतं वारान् भुङ्क्ते' इत्यादौ प्रत्ययव्यावृत्त्यर्थं, बारशब्देनाऽभ्यावृत्तेरुक्तत्वेन सङ्ख्याशब्दस्य तद्वृत्तित्वाऽभावादत आह-गणनग्रहण- मिति । सप्तदश प्राजापत्यानिति । अभिमुखी प्रवृत्तिर्जन्म । साधनभेदेति तद्भेदेन सामर्थ्यादर्थतो न तु शब्दतः प्रतिपन्नो भेदो यया तादृशी या-आलम्भनक्रिया तदभ्यावृत्तिविषय इत्यर्थः । शब्दतस्तदभ्यावृत्त्यप्रतीतावप्यर्थतस्तत्प्रतीतिरस्त्येवेति तत्राऽपि कृत्वमुजाद्यतिप्रसङ्ग इति भावः । न चालम्भनक्रियायाः प्रतिपशु वस्तुतोऽभ्यावृत्ति- सत्त्वेऽपि सप्तदशपदस्य न तद्वृत्तित्वमिति वाच्यं, तदभावेऽभ्यावृत्तिविषये सङ्ख्यावाचका- त्प्रत्यय इत्येवार्थः स्यादिति तद्भावात् । एवञ्च 'शतं वारान् भुक्ते' इत्यपि प्रत्युदाहरणं बोध्यम् । केचित्तु व्याख्यानतोऽभ्यावृत्तिरूपसङ्घथेये वर्तमानात्सङ्ख्यावाचकात्प्रत्यय न प्रागुक्ता दोषाः। तस्माद्गणनायां ये प्रसिद्धाः सङ्ख्यावाचकास्तहणार्थम् । तेन उभशब्दाधुग्मशब्दाच्च न कृत्वसुच् , न ोक उभौ त्रय इति लोके गण्यत इत्याहुः । ज्ञापकस्य सुज्विषयत्वादाह-इह पञ्चेति । पटो रक्त इति । नियत इति शेषः । । १ इदं कचिन्न । २ 'द्रव्यवदपि भवति क्रियावदपीति' इति पा० ।
५।४ पा.। १ आ.।२७ सू.] महाभाष्यम् देवता ॥ नैष दोषो दिवेरैश्वर्यकर्मणो देवस्तस्मात्स्वार्थे तल । एवंच कृत्वा देवदेवत्यमपि सिद्धं भवति ॥ [ देवतान्तात्तादर्थे यत् ] || देवात्तत्।५।४।२७ ॥ * ॥ तलि स्त्रीलिङ्गवचनम् ॥ * ॥ तलि स्त्रीलिङ्गं वक्तव्यम् । देवता॥ किं पुनः कारणं न सिध्यति ? | देवशब्दोऽयं पुल्लिङ्गः, स्वार्थिकश्चार्य, स्वार्थिकाच प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते । ॥ * ॥ उक्तं वा ॥ * ॥ [ उक्तं वो ] ॥ किमुं. क्तम् ? | 'स्वार्थिका अतिवर्तन्तेऽपि लिङ्गवचनानी ति ॥ [ देवात्तल् ] । लोहितान्मणौ ।५।४॥३०॥ ॥ * ॥ लोहिताल्लिङ्गबाधनं वा ॥ * ॥ लोहिताल्लिङ्गबाधनं वेति वक्तव्यम् । लोहितिका लोहिनिका ॥ * ॥ अक्षरसमूहेच्छन्दस उपसंख्यानम् ।। * ॥ अक्षर- समूहे च्छन्दस उपसङ्खथानं कर्त्तव्यम् । 'ओ श्रावयेति चतुरक्षरमस्तुश्रौषडिति चतुरक्षरं येयजामह इति पञ्चाक्षरं यजेति ब्यक्षरं यक्षरो वषट्रारः,-एष वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिर्यज्ञमनुविहितः ॥ ॥ * ॥ छन्दसि बहुभि- सव्यरुपसङ्ख्यानम् ॥ * ॥ छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानं कर्त्तव्यम् । हस्तौ पृणस्व बहुभिर्वसव्यैः । ।। * ॥ अग्निरीशे वसव्यस्येति ।। * ॥ अग्निरीशे वसन्यस्ये. त्युपसङ्ख्यानं कर्त्तव्यम् । अग्निरीशे वसव्यस्य । प्र.] यिना सामानाधिकरण्याभावात् समासाभावात्प्रकृतिरेव नास्ति कुतः प्रत्यय इत्यर्थः । दिवेरिति । क्रियाशब्दो देवताशब्दो न तु जातिवाचीत्यर्थः । देवदेवत्यमिति । नाति- शब्दत्वे तु देवताशब्दस्य द्वयोः पर्यायत्वाद्युगपत्प्रयोगो न स्यात् । देवतान्तात्तादय] ।। लोहिता। लोहितादिति । प्रतिपदविधेर्बलवत्त्वात्पूर्वमेव कन् स्यात् । तथा च उ.] देवतान्तात्ता । ननु पितृणामपि श्राद्धादौ देवतात्वमस्त्येवेत्यत आह-देवताशब्द- स्येति । क्रियाशब्द इति । तेन त्यज्यमानहविरुद्देश्यत्वं, मन्त्रस्तुत्यत्वञ्च देवतात्वमिति भावः । द्वयोः-देवदेवताशब्दयोः । [ देवतान्तात्तादयें ] । लोहितान्मणौ। ननु सुबन्तात्तद्धितोत्पत्तेः पूर्वं लिङ्गबोधकप्रत्यये ततः कनि लोहिनिकेति सिद्धम् , स्त्रीप्रत्ययस्य डीपो वैकल्पिकत्वेन तदभावे 'लोहितिकेति चेति, किमर्थं वचनमत आह-प्रतिपदेति । यद्यपि 'लोहितक' इत्यत्र चारितार्थ्यादिदमप्रयो- जकं, तथाऽप्यर्थाऽन्तराऽभावेन 'कुत्सित' इति सूत्रोक्तन्यायाऽप्रवृत्त्याऽस्मादेव वा वचना- ज्ज्ञापकादत्यन्तस्वार्थिकानां सुबुत्पत्तेः प्राक प्रातिपदिकादेवोत्पत्त्यङ्गीकारेण परत्वाद. न्तरङ्गत्वाच्च कना नित्यं स्त्रीप्रत्ययबाधनं प्राप्तमिति विकल्पेन तद्वाधबोधनार्थ वचनमाव- श्यकमिति तात्पर्यम् । एतज्ज्ञापकादेव चाऽत्र झ्याप्पदस्याऽसम्बन्धः । तेन 'एतिके - त्येवेति प्रपश्चितं 'ड्याप्सूत्रेऽस्माभिः । भाष्ये-बहुभिर्वसव्यैरिति । इदं छन्दसि दृश्यमानयत्प्रत्ययान्तोपलक्षणं, १ 'तलि च लिग' पा० । २ अयं पाठः क्वाचित्कः ।
- ७ १९८ कैयट-विवरणसहितं. [लोहितान्मणौ ।। * ॥ उक्तं वा ॥ * ॥ [ उक्तं वा] ॥ किमुक्तम् ? ॥ ॥ * ॥ स्वार्थ- विज्ञानासिद्धमिति ।। * ॥ अपस्यो वसानाः अपो वसानाः । स्व ओक्यः स्व ओकः । कव्योऽसि हव्यसूदन, कव्योऽसि हव्यसूदन, कविरसि । रौद्रेणा नीकेन कव्यताये, कवितायै । आमुष्यायणस्याऽमुष्यपुत्रस्य क्षेम्यस्येशे, क्षेम- स्थेशे । क्षेम्यमध्यवस्थति, क्षेमेमध्यवस्यति । वायुर्वचस्यम् वर्च एव वर्चस्यम् । निष्केवल्यं निष्केवलम् । उक्थ्यम्, उक्थम् । जन्यन्ताभिः सजन्यं ताभिः । जनं ताभिः सजनं ताभिः । स्तोमै नयामि नव्यं, नवम् । प्रणो नव्येभिः, नवैः। ब्रह्मपूयं, पाथः पूर्णं, तनुषु पूयं, पूर्व, पूाहः, पूर्वाहः । पूाः विशः, पूर्वा विशः। पूर्यासः, पूर्वासः। स प्र पूर्व्यः, स प्र पूर्वः । अग्निं वः पूर्व्य, पूर्वं । तं जुषस्व यविष्ठ्य, यविष्ठ । होत्रवाहं यविष्ठ्यं, यवि- टम् । त्वं ह यद्यविष्ट्य, यविष्ठ । समावद्वसति समावद्हाति, समं वसति समं गृह्णाति। समावद्देवयज्ञे हस्तौ, समं । समावद्वीर्यावहानि, समानि । समावद्वीर्याणि करोति, समानि । य ई वते लोके, य इवते ब्रह्मणे, य इवते । प्र.] 'लोहिनिके'ति न सिध्येदिति वचनं नित्ये लिङ्गार्थप्रत्ययवाथे प्राप्ते विकल्पार्थम् । स्वार्थविज्ञानासिद्धमिति । 'वसोः समूहे चे त्यत्रोक्तम् । अपस्योवसाना इति । अप्शब्दाद्वितीयाबहुवचनान्तायत्प्रत्ययो विभक्तेश्चाऽलुक् । [लोहितान्मणौ]। उ.] 'तद्धनयन्नुदाहरति-ईशे वसव्यस्येति । तदेतद्वचनद्वयम्-'अक्षरसमूहे च्छन्दस' इति 'छन्दसि बहुभिर्वसव्यैः' इति च-प्रत्याचष्टे-उक्तं वेति । कोक्तं तत्राह-वसोः समूहे चेति । अस्यार्थः-यथा छन्दस्यन्यत्राऽपि स्वार्थिकाः प्रत्ययाः 'यत्' 'य' 'आ' 'व'दादयो दृश्यन्ते, यथा वा ईवत' इत्यादौ दीर्घः, तथाऽत्रापि स्वार्थिकस्तत एव सिद्ध इतीदं वचनं व्यर्थमिति । तदेव ध्वनयन्-प्रयोगान्दर्शयति-अपस्योवसाना इति । यत्तु कैयटेन चतुर्थशेषे 'स्वार्थविज्ञानादित्यस्य 'वसोरिति योगविभागात्स्वार्थे भविष्यतीति व्याख्यानं कृतं; तच्चिन्त्यम् , तावताऽपि 'अपस्य' इत्याद्यसिद्धः। विभक्तेश्वाऽलुगिति । छान्दसत्वा- दिति भावः । अत एव यदन्तात्प्रथमैकवचनं पुंल्लिजन्ता च । केचित्त-'वसो रिति योगविभागेन स्वार्थिकयता 'वसन्यै रिति 'वसव्यस्येति च सिद्धम् , वार्तिके 'बहुभिर्वसव्यै रिति वनशब्दस्यैवोपलक्षणम् । स्वार्थविज्ञानादित्यस्य कैयटोक्तैव व्याख्या । अपस्य इत्याद्यर्थच वार्तिकान्यारभ्याण्येवेति व्याचख्युः । तन्मते गौरवं स्पष्ट. मेव, भाष्ये तत्साधकवचनाऽनुक्तेरुदाहरणमात्रोपन्यासाच्च । 'आमुष्यायणस्यामुष्य- पुत्रस्य क्षेम्यस्येशे' इति वाक्ये 'क्षेभ्यस्येत्युदाहरणम् । आमुष्यायणाऽमुष्यपुत्रयोरलुक् 'आमुष्यायण' इत्यादिवातिकात् , मनोज्ञादिपाठाच्च । अत्र क्षेम्ये यप्रत्ययः, अन्तोदात्तस्येष्ट- त्वात् । अन्यथा 'यतोऽनाव' इत्याधुदात्तत्वं स्यात् । समावदिति । समशब्दात्स्वार्थे १ भाष्यमेवेदमित्यन्ये। २ 'ओक्ये ओके पा०। ३ 'कन्यवाहन' पा०। ४ नीके कन्यतायै' पा० । ५ कचिलुप्तमेतत् । ६ 'वच'। ७ ‘य ईयते' 'ईवते' पा० । । , है ५१.४ पा.।१ आ.|३६ सू.] महाभाष्यम् ॥ * ॥ नवस्य नू नप्तनप्खाश्च ॥ * ॥ नवस्य 'नू'इत्ययमादेशो वक्तव्यस्नप्तन- खाश्च प्रत्यया वक्तव्याः । नलं नूतनं नवीनम् ।।। * ।। नश्च पुराणे प्रात् ।। * !! नश्च पुराणे प्राद्वक्तव्यस्तधनप्खाश्च प्रत्यया वक्तव्या। प्रणं प्रत्नं प्रतनं प्रीणम् ॥ तद्युक्तात्कर्मणोऽण् ।५।४।३६॥ ''दित्यनेन किं प्रतिनिर्दिश्यते ? ॥ वागेव । यदेव बाचा व्याहियते- तत्कर्मणा क्रियते ॥ ॥ * ॥ अण्प्रकरणे कुलालवण्डनिषादचण्डालाऽमित्रेभ्यश्छन्द. न्युपसङ्ख्यानम् ॥ ॥ अण्प्रकरणे कुलालवरुडनिषादचण्डालाऽमित्रेभ्यश्छन्द- स्युपसङ्ख्यानं कर्त्तव्यम्। कौलालः। वारुडः। नैषादः । चाण्डालः । आमित्रः ।। ॥ * ॥ भागरूपनामभ्यो धेयः ।। भागरूपनामभ्यो धेयो वक्तव्यः। भाग. 'धेयं रूपधेयं नामधेयम् ॥ * ॥ मित्राच्छन्दसि ॥ * ॥ मित्राच्छन्दसि धेयो वक्तव्यः। मित्रधेये यतस्व । ॥ ॥ अणमित्राच्च ।।*। अणमित्राच्चेति वक्तव्यम् । मैत्रम्। आमित्रः ॥ * ॥ सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोनवैयातवैकृतवारिव- स्कृतामायणाग्रहायणसान्तपनानि । ॥ * ॥ [ साहाय्यानुजावरानुषूकचातुष्प्राश्य- राक्षोन्नवैयातवैकृतवारिवष्कृतामायणाग्रहायणसान्तपनानि ] निपात्यन्ते । सान्चोययः। आनुजावरः। आनुपूकः। चातुष्प्राश्यः। राक्षोन्नः। चैयातः । चैकृतः। वारिवस्कृतः । आग्रायणः । आग्रहायणः । सान्तपनः ॥ * ॥ आग्रोध- साधारणादञ् ॥ * ॥ आग्नीध्रसाधारणादवक्तव्यः। आग्नीध्रम् । साधारणम् । [ill स्त्रियां ङीप् ॥ स्त्रियां ङीब्वक्तव्यः । आग्नीध्रो साधारणी।] ॥ अर्य- बसमरुद्भयां छन्दसि ॥ * ॥ अयसमरुङ्गयां छन्दस्यब्बतव्यः । आयवसे चद्धन्ते । मारुतं शधः । प्र.] तयुक्तात् । यदेव वाचेति । 'इदं त्वया कर्तव्यमिति सन्देशवाचं श्रुत्वा यत्कर्म क्रियते तत्कार्मणमित्यर्थः । [ तद्युक्तात्कर्मणः ] ॥ उ.] वतुप् , छान्दसत्वाद्दीर्घः। तदपि छन्दस्यन्यत्रावश्यकमित्याह-~य ईवत इति । तद्यक्ताक । इदं त्वयेति । 'यदेव वाचा व्याहियते' इति भाष्यस्य-सन्देशदारा प्राप्यत इत्यक्षरार्थः । एवञ्च व्याहृतार्था वाक् तच्छब्देन पराश्यत इति भावः । पर- नित्वदं वागेवेति भाष्यस्थैवकारविरुद्धम् । व्याहियत इत्यस्य कथ्यत इत्येवार्थ उचितः, अन्यथा 'वाचो व्याहृतार्थायामित्यस्यैव प्रक्रान्तत्वात्प्रश्नस्योत्तरस्थैवकारस्य चाऽसङ्गतेरि. त्यन्ये। वात्तिके सान्नाय्यग्रहणमन्तोदात्तार्थम् , रूपन्तु 'पाय्यसान्नाय्य' इत्येव सिद्धम् । अनुजादवर इति । अत एव निपातनात्समासः । चातुष्प्राश्यम्-आधाने ब्रह्मौदनस्य नाम । आग्रायणं-कर्मविशेषः । १ लुप्तोऽयं पाठः सम्प्रति गौडैरुद्धृतः । २ 'सानाय्यम्' पा० । ३ आनुष्टुभः' पा० । ४ 'अपवस' 1 ५ 'वद्धते । ६ शब्दः, 'छन्दः पा। ।
। कैयट-विवरणसहितं [बह्वल्पार्था- ॥ * ॥ नवसूरमर्त्तयविष्ठेभ्यो यत् ॥ * ॥ नवसूरमयविष्ठेभ्यो यद्वक्तव्यः । नव्यः । सूर्यः। मयः । यविष्ठयः ॥ * ॥ क्षेमायः ॥ * ॥ क्षेमाद्यो वक्तव्यः । क्षेभ्यस्तिष्टन् प्रतरणः सुवीरः॥ तद्युक्तात्कर्मणोऽण् ] बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।।४।४२। ॥ * ॥ बह्वल्पार्थान्मङ्गलाऽमङ्गलवचनम् ॥ * ॥ बह्वल्पार्थान्मङ्गलाऽमङ्गलवचन कर्तव्यम् । बहुशो देहि । अनिष्टेषु श्राद्धादिषु मा भूदिष्टेषु प्राशिनादिषु यथा स्यात् । अल्पशो देहि । इष्टेषु प्राशिवादिषु मा भूदनिष्टेषु श्राद्धादिषु यथा स्यात् ॥ [ बह्वल्पार्थात् ] । प्रतियोगे पञ्चम्यास्तसिः ५।४।४४॥ ॥ * ॥ तसिप्रकरणे आद्यादिभ्य उपसङ्ख्थानम् ॥ * ॥ तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानं कर्तव्यम् । आदितः मध्यतः अन्ततः ॥ कृभ्वस्तियोगे संपद्यकर्तरि चिः ।५।४।५०। ॥ * ॥ च्विविधावभूततद्भावग्रहणम् ॥ * ॥ विविधावभूततद्भावग्रहणं कर्त- व्यम् । इह मा भूत्-संपद्यन्ते यवाः संपद्यन्ते शालय इति ॥ अथ क्रियमा णेऽपि वै अभूततद्भावग्रहणे इह कस्मान्न भवति-संपद्यन्तेऽस्मिन् क्षेत्रे शालय इति ? ॥ * ॥ प्रकृतिविवक्षाग्रहणं च ॥ * ॥ प्रकृतिविवक्षाग्रहणञ्च कर्त्तव्यम् ॥ प्र.] कृम्वस्तियोगे सं। विविधाविति । अभूततद्भावग्रहणं वात्तिके दृष्ट्वाऽन्यैः सूत्रे प्रक्षि शम्। संपद्यन्तेऽस्मिन्निति । अभूत्वा भवन्ति संपद्यकरिश्चेति विप्रसङ्गः। एत- बोपलक्षणम् ,-कृभ्वस्तियोगाभावादत्र च्वेरप्रसङ्गात् । तस्मादिदमुदाहरणं-भवन्त्यस्मिन् क्षेत्रे शालय इति । प्रकृतिविवक्षाग्रहणं चेति । तेनात्र प्रकृतेरविवक्षितत्वाच्च्वेरभावः । यदा तु प्रकृतिरेव विकारात्मतामापद्येमाना विकारभेदेन भवन क्रियायां की विवक्ष्यते तदा च्चिप्रत्ययः, अङ्कुरीभवन्ति यवा'इति। अत्राऽभूततद्भाव एव प्रकृतिविवक्षाग्रहणेन व्याख्यातः उ.] बह्वल्पा। अनिष्टेष्विति । अनिष्टश्राद्धादिदानेषु विषये बहूनि श्राद्धादिदानानि देही- त्यर्थे 'बहुशो देही ति मा भूत। प्राशित्रम्-पुरोडाशादीनि । तत्साध्यकर्मविषयदानानि बहूनि देहीत्यर्थे यथा स्यादित्यर्थः । एवमग्रेऽपि । [बह्वल्पार्थाच्छस् ] ॥४२॥ कृस्वस्तियोगे सं। एतच्चोपलक्षणमिति । सम्पद्यन्ते यवा इत्यप्येवं । भवन्ति यवा इत्युदाहरणं बोध्यम् । 'सम्पद्यकर्तरी'त्यत्राऽस्मादेव निपातनात्कर्तरि पाघ्रादित्वाऽभावेपि शः। दिवादित्वाच्छयन् । सम्पद्यमाने-भ्वाद्यर्थकर्तरीत्यर्थः । कर्मधारयः समासः । प्रकृतिवि- वक्षेति । प्रकृतेरुपादानकारणस्याऽन्यरूपेण विवक्षेत्यर्थः। प्रकृतेरविवक्षितत्वादिति । प्रकृतेरन्यरूपेणाऽविवक्षितत्वादित्यर्थः। तदाह-यदा विति । 'विकाराऽभेदेनेति पाठ उचितो "विकारात्मना सम्पद्यमाने त्यस्य व्याख्यारूपत्वात् । "विकारभेदेनेति पाठे तु- १ मङ्गलवचन' इत्येन कचित् पा०।२विकारात्मना संपद्यमाना पा० । H । ५।४ पा.१ आ.।५७ सू. ॐ महाभाष्यम् ॥ * ॥ समीपादिभ्य उपसङ्ख्थानम् ॥ * ॥ समीपादिभ्य उपसङ्ख्यानं कत. व्यम् । समीपीभवति । अभ्याशीभवति । अन्तिकीभवति ।। किं पुनः कारणं न सिध्यति ? ।। न ह्यसमीपं समीपं भवति ॥ किं तर्हि ? | असमीपस्थं समीपस्थं भवति ॥ तत्तर्हि वक्तव्यम् ॥ न वक्तव्यम् । तात्स्थ्यात्ताच्छब्दयं भविष्यति ॥ [ कृभ्वस्तियोगे सम्पद्यकर्तरि चिः ] । अव्यक्तानुकरणाव्यजवरा दनितौ डाच ।५।४।५७। किमर्थश्वकारः ? ॥ स्वरार्थः । चितोऽन्तउदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात् ।। नैतदस्ति प्रयोजनम्,-एकाजयं, तन्त्र नार्थः स्वरार्थेन चकारेणानुब- न्धेन, प्रत्ययस्वरेणैव सिद्धम् । अत उत्तरं पठति || डाचि चित्करणं विशेषणार्थं [ लोहितादिडाभ्यः क्यषिति ] ॥ * ॥ डाचि चित्करणं क्रियते ॥ [किं प्रयो. अ.]इत्याहुः। येन रूपेण प्रागभूतं कारणं तेन रूपेण तस्य भावोऽभूततद्भाव इत्याश्रयणादति- प्रसङ्गाभावः। संपद्यकत्र्तृत्वादेवाभूततद्भावे लब्धे पुनस्तदुपादानाद्यथोक्तविशेषलाभोऽथ वा जन्मग्रहणे कर्तव्येऽभूततद्भावग्रहणाद्यथोक्तार्थपरिग्रहः । विकारशब्दाच प्रकृतिविकारभेद. विवक्षायां प्रकृतौ विकारावस्था प्राप्नुवत्यां वर्तमानात्स्वार्थे च्चिप्रत्ययः। समीपादिभ्य इति । प्रकृतिविकारभावाभावान्न प्राप्नोतीति वचनम् । तात्स्थ्यादिति । असमीपस्थस्य तस्य समीपस्थत्वभावात्सिद्धः सूत्रेण प्रत्यय इत्यर्थः। [कृम्बस्तियोगे] । उ.] भेदघटितसादृश्येनेत्यर्थः । अनेन विकारशब्दस्य स्वसदृशप्रकृतिपरत्वं गोण्या वृत्त्येति मूचितम् । अत एवौत्सूत्रे, 'आन्महत' इति सूत्रे च 'गोऽभवत्' 'महद्भूत' इत्यादौ प्रगृह्यसंशा, आत्त्वं च गौणमुख्यन्यायेन वारितम् । भाष्ये-अभेदेनेति । सादृश्यमूलकाऽभेदेनेति व्याख्येयम् । तेन रूपेण तस्य भाव इति । अत एव विकृतिवाचकादेव प्रत्यय इत्याहुः। नवजातस्य जन्मभाव इत्येव शब्दात्प्रतीयत इति कथं तत इयदर्थलाभोऽत आह-- सम्पद्यति । नन्वाधिक्यरूपेऽर्थेऽपि सम्पत्तिरित्यादौ सम्पदेः प्रयोगदर्शनान नियमेनोक्ता- र्थलाभस्ततोऽत आह-अथ वा जन्मेति। प्रकृतिविकारभेदविवक्षायामिति तद्धटितसादृश्यविवक्षायामित्यर्थः । 'अभेदेति पाठे-सादृश्यमूलकाऽभेदविवक्षायामित्यर्थः। "विकाराऽवस्था प्रामुवत्या प्रकृतौ वर्तमाना दित्यन्वयः । गोण्या वृत्त्येति भावः। एवञ्च व्यन्ते प्रकृतेरेव कर्त्त त्वमित्युक्तं भवति । 'ब्रह्मीभूत' इत्यादि तु च्छान्दसम् । 'कारणीभूत' इत्यादि वसाध्वेवेति बोध्यम् । समीपस्थत्वभावादिति। समीपस्थत्वसादृश्यभावादित्यर्थः । मुख्यसमीपस्थत्वे तु नेष्यते प्रत्यय इति भावः ॥ [कृभ्वस्तियोगे] ॥५०॥ अव्यक्ताऽनु। भाष्ये-इत्येवमेतस्येति । 'सूत्रे ग्रहण मिति शेषः । इदंतर्हि नाभा पृथिव्या इति । अत्र डेर्डादेशे 'नामा' इति, तदनुकरणे पटपटायतीत्यादाविव च नाभा इति भवतीत्यर्थे क्यषो वारणायेति भावः ।। १ अयमंशो लुप्तः सम्प्रति । २ 'करण' । ३ 'विकारावस्थायां पा० । । ।
१२०२ कैयट-विवरणसहितं [ मद्रात्परि जनं ? ॥ 'विशेषणार्थम् ॥क विशेषणार्थेनार्थः ? 'लोहितादिडाऽभ्यः क्य' पिति। 'डा'इति ह्यच्यमाने 'इडा'अतोऽपि प्रसज्येत ॥ 'अर्थवद्हणे नानर्थ कस्येतीत्येवमेतस्य न भविष्यति ॥ इदं तर्हि नाभा पृथिव्या निहितो दविद्यु तत् ॥ तस्माञ्चकारः कर्तव्यः ॥ [अव्यक्तानुकरणात् ] ॥ मद्रात्परिवापणे ।५।४।६७। ॥ * ॥ भद्रोच्च ॥ * ॥ भद्राच्चेति वक्तव्यम् । भद्राकरोति ।। [मद्रात्परि] समासान्ताः ।५।४।६८ अन्तग्रहणं किमर्थम् ? ॥ अन्तो यथा स्यात् ।। नैतदस्ति प्रयोजनं, प्रत्यय परत्वेनाप्येतत्सिद्धम् ॥ इदं तर्हि प्रयोजन-॥ * ॥ तद्हणेने ग्रहणम् ॥ * ॥ तन्द्रहणेन ग्रहणं यथा स्यात् ॥ कानि पुनस्तद्रहणस्य प्रयोजनानि ? ॥ * ॥ प्रयोजनमव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः ।। अव्ययीभावः प्रयोजनं प्रतिराजम् । उपराजम्। अव्ययीभावश्च समासो नपुंसकलिङ्गो भवतीति नपुंसकलिङ्गता यथा स्यात् ।। नैतदस्ति प्रयोजनं * 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य * इदं तर्हि प्रयोजनं 'नाव्ययीभावादतोस्त्वपञ्चम्या'इत्येष विधियथा स्यात् । अव्ययीभावः। द्विगु:-द्विगुसंज्ञा च प्रयोजनम् । पञ्चगवं दशगवम् । द्विगुश्च समासो नपुंसकलिङ्गो भवतीति नपुंसकलिङ्गता यथा स्यात् ॥ नैतदस्ति प्रयोजन * लिङ्गमशिष्यं लोकाश्रयत्वालिङ्गस्य *। इदं तर्हि प्रयोजन-द्विपुरी त्रिपुरी । द्विगोर- कारान्तादितीकारो यथा स्यात्॥ एतदपि नास्ति प्रयोजनम् । पुरशब्दोऽयम- कारान्तस्तेन समासो भविष्यति। आतश्चाकारान्तः। एवं ह्याह-क्षेमे सुभिक्षे प्र.] समासान्ताः । अन्तग्रहणमिति । समीपवचनमन्तशब्दं मत्वा प्रश्नः। अवयत्र- उ.] समासान्ताः । भाष्ये-पुरशब्दोऽयमकारान्त इति । 'ऋक्पूरिति सूत्रे पूर्ग्रह- णञ्च न कार्यम् , तेन च न समासोऽनभिधानादिति भावः । द्विधरी त्रिधुरीति । न चाऽकारान्तोत्तरपदत्वाभावात् कथं स्त्रीत्वम् । लिङ्गस्य लोकाश्रयत्वेनादोषात् । लिङ्गप्रकरणं युदाहरणमात्रं, न नियम इति बोध्यम् । अतएव 'द्विनावमधखारमित्यादौ परवल्लिङ्ग- शास्त्रसत्त्वेऽपि नपुंसकत्वं दृश्यते । यत्तु द्विधुरी'त्यादौ वाचनिकस्त्रीत्वाभावेऽपि धूःशब्दस्य स्वाभाविकस्त्रीत्वात्परवलिङ्गताऽभिप्रायमिदं भाष्यमिति तन्न, तस्य ‘स नपुंसक'मित्यनेन बाधा- दिल्याहुः। द्वन्द्वति । अत्र चाऽत इति वर्त्तत इति भावः । भाष्ये-निर्धर इति । न चाऽत्र समासाऽवयवत्वेऽपि परत्वात्पूर्वं पूर्वपदप्रकृतिस्वरे ततः समासान्ते सति शिष्टत्वात्समासान्तस्व. रस्यैवाऽवास्थितिरिति वाच्यं, समासान्तानां समासात्प्रागलौकिकवाक्ये प्रवृत्त्याऽन्तरङ्गत्वात् । तत्र समासाऽनवयवत्वे पूर्वपदप्रकृतिस्वरप्रयुक्तनिघातस्योत्तरपद एव प्रवृत्तिः स्यात्, न तु १'दविद्यत् पा०।२ इदं सम्प्रति लुप्तम् । ३ अस्य वार्तिकस्य सम्प्रति 'अव्ययीभावद्विगुद्वन्द्वतत्पुरु- घबहुव्रीहिसज्ञाः प्रयोजनम्'इति व्याख्याभाष्यं लुप्तं स्यादिति केचित्। ४ 'समासान्त: पाक । ५.४ पा.१आ.१६९ सू.] महाभाष्यम् ५०३ कृतसंचयानि पुराणि राज्ञां विनयन्ति कोप'मिति ॥ इदं तर्हि प्रयोजनं-- द्विधुरी। त्रिधुरी । द्विगोरकारान्तादिति ङीब्यथा स्यात् । द्विगु ॥ द्वन्द्व-द्वन्द्वसंज्ञा च प्रयोजनं-वाक्तचं स्वेक्तचम् । द्वन्द्वश्च समासो नपुंसकलिङ्गो भवतीति नपुंसकलिङ्गता यथा स्यात् ॥ नैतदस्ति प्रयोजनं- ॥* 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' *॥ इदं तर्हि प्रयोजन,-कोशश्च निषञ्च कोशनिषद, कोशनिषदिनी। 'द्वन्द्वोपतापगत्प्रिाणिस्थादिनि रितीनिर्यथा स्यात् । द्वन्द्व ॥ तत्पुरुष-तत्पुरुषसंज्ञा च प्रयोजन-परमधुरा उत्तमधुरा । 'परवल्लिङ्ग द्वन्द्वतत्पुरुषयो'रिति परवल्लिङ्गता यथा स्यात् ॥ नैतदस्ति प्रयो. जनम्-उत्तरपदार्थप्रधानस्तत्पुरुषः॥ इदं तर्हि प्रयोजनम्-अर्द्धधुरा ॥ एतदपि नास्ति प्रयोजनं,-* 'लिङ्गमशिष्यं लोकाश्रयत्वालिङ्गस्य' ॥ इदं तर्हि-निर्धरः। अव्ययं तत्पुरुषे प्रकृतिस्वरं भवतीत्येष स्वरो यथा स्यात् । तत्पुरुषः । बहुव्रीहि-बहुव्रीहिसंज्ञा च प्रयोजनम् ,-उच्चधुरः नीचधुरः। बहुव्रीही प्रकृत्या पूर्वपदं भवतीत्येष स्वरो यथा स्यात् ॥ [ समासान्ताः] ॥ न पूजनात् ।५।४।६९॥ इदं विप्रतिषिद्धम् ॥ को विप्रतिषेधः?॥ परिगणिताभ्यः प्रकृतिभ्यः समासान्तो विधीयते न च तत्र का चित्पूजनान्ता प्रकृतिनिर्दिश्यते ॥ नैत- द्विप्रतिषिद्धं, नैवं विज्ञायते-'याभ्यः प्रकृतिभ्यः समासान्तो विधीयते न चेत्ताः पूजनान्ता भवन्तीति । कथं तर्हि ? ॥ न घेत्ताः पूजनात्परा भव- न्तीति । || पूजायां स्वतिग्रहणम् ॥ * ॥ पूजायां स्वतिग्रहणं कर्तव्यम् । सुराजा अतिराजा ॥ क मा भूत् ? ॥ परमगवः उत्तमगवः ॥ प्रारबहुव्रीहिग्रहणं च ||} प्राग्बहुव्रीहिग्रहणं च कर्तव्यम् । इह माभूत-स्वक्षः अत्यक्ष इति । प्र.] वचनाश्रयेणोत्तरमाह-अन्तो यथा स्यादिति । इतरोऽगृहीताभिप्राय आह-नैतद- स्तीति । इतरोऽभिप्रायं प्रकाशयन्नाह- इदं तीति । [समासान्ताः] । उ.] समासान्ताऽकारस्यापीति स्वरद्वयश्रवणाऽप्राप्तिर्दोषः । इत्येष इत्यस्य-एष एवेत्यर्थः । ननु यावतः पदत्वं भावि तावति सन्निहिताज्मात्रस्य निघात इति सिद्धान्तात्तस्याऽपि निघात: सूपपाद इति वाच्यं, 'तत्पुरुप' इत्यादि श्रुत्या तत्संज्ञप्रकृतिकसुबन्तपदस्यैव ग्रहणात् । यद्यपि प्रकृते न तस्य पदत्वं कदाचिदपि, तथापि पदत्वयोग्यमित्यर्थो भविष्यति । न चैवमपि समासान्ते तत्प्रयुक्तनिघाते च पूर्वपदस्योदात्तस्वरितयोगित्वाऽभावात् कथं पूर्वपदप्रकृति- स्वरप्राप्तिरिति वाच्यं, डचश्चित्त्वेन समासान्तविधावायुदात्तश्चेत्यस्याऽसम्बन्धशापनेनाऽदो. पात् । अस्वरकस्यैवाऽकारस्य श्रवणं स्यादिति च दोष इति दिक् । [समासान्ताः] ॥ न पूजनात् । न चेत्ताः पूजनात्परा इति । पूजनात्परो यः शब्दस्तदन्ता इत्यर्थः । १ 'सुक्' पा० । २ 'देश्यते' पा० । ३ चः काचित्कः । । .
कैयट-विवरणसहितं [किमः क्षेपे किमः क्षेपे ।५/४७०॥ क्षेप इति किमर्थम् ? ॥ कस्य राजा किंराजः ॥ ॥ * ॥ क्षेप इति शक्य मकर्तुम् ।।*] क्षेप इति शक्यमकतम् ॥ कस्मान्न भवति-कस्य राजा किराज इति ? ॥ * 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति * ॥ [ किमः क्षेपे] । बहुव्रीहौ सङ्ख्येये डजबहुगणात् ।५।४।७३। ॥ * ॥ डच्प्रकरणे सङ्ख्यायास्तत्पुरुषस्योसङ्ख्थानं निस्त्रिंशाद्यर्थम् ।। * ॥ डच्प्रकरणे सङ्ख्यायास्तत्पुरुषस्योपसङ्ख्यानं कर्तव्यम् ॥ किं प्रयोजनम् ? ॥ 'निस्त्रिंशाद्य- र्थम् । निस्विंशानि वर्षाणि निश्चत्वारिंशानि वर्षाणि । ॥ * ॥ अन्यत्राधिक- लोपात् ॥*।। अन्यत्राधिकलोपादिति वक्तव्यम् । इह मा भूदेकाधिका विंशतिः एकविंशतिः । ब्यधिका विंशतिः द्वाविंशतिः । ॥ * ॥ अव्ययादेः ।। * अन्य. यादेरिति चे वक्तव्यम् । इह मा भूत्-गोत्रिंशत् । गोचत्वारिंशदिति ॥ तत्तर्हि वक्तव्यम् ?॥ यद्यप्येतदुच्यते, अथवैतर्हि 'अन्यत्राधिकलोपादित्येतन्नक्रियते॥ ऋक्पूरब्धःपथामानक्षे ।५।४।७४। अनक्ष इति कथमिदं विज्ञायते-न चेदक्षधूरन्तः समास इति, आहो. स्विन्न चेदक्षः समासार्थ इति ? ॥ किं चातः ? ॥ यदि विज्ञायते-'न चेदक्ष- धूरन्तः समास' इति,-सिद्धमक्षस्य धूः अक्षधूरिति, इदं तु न सिध्यति- दृढधूरयमक्ष इति ॥ अस्तु तर्हि-'न चेदक्षः समासार्थ' इति । सिद्धं दृढधूरक्ष भ.] ऋक्पूरब्धू । कथमिदमिति । यद्यक्ष इति स्वरूपग्रहणमक्षे पूर्वपदे धूरन्तात्समासा- न्तो न भवतीति तदा 'न चेदक्षधूरन्तः समास' इत्ययं पक्षो भवति, यदा त्वक्ष इत्यर्थग्रहणं तदा 'न चेदक्षः समासार्थ' इत्ययं पक्षः । उभयथा च दोषप्रसङ्ग इति प्रश्नः । 'अक्षधूरन्त' इत्यस्यायमर्थोऽक्षशब्दस्य यः समीपे धूःशब्दस्तदन्तः समास इति । न चेदक्षस्य उ.]प्राग्बहुव्रीहिग्रहणमिति । 'बहुव्रीही संख्येये' इत्यतः प्राक् समासान्तविधेरभावादहु. ब्रीहौ सक्थ्यक्ष्णोरित्यतः प्रागित्यर्थः। [न पूजनात् ] ॥ ६९ ॥ बहुव्रीहौ संख्येये। संख्यायास्तत्पुरुषस्येति। सङ्क्षयान्तस्य तत्पुरुषस्य समासान्तो डजित्यर्थः । निस्त्रिंशाद्यर्थमित्यादिशब्दः प्रकारे, तेन यत्र डित्त्वफलसम्भावना तत्रैवे- दम् । तेन 'अतिद्विरित्यत्र न । भाष्ये-तत्तहीति। अव्ययादेरित्येतदित्यर्थः । अथवैत- हीति-एवं तहीत्यर्थक, तथापीत्यर्थकं वा । अत्र-अन्यत्राधिकलोपादित्येतदेकविंशतिरि- त्यादौ तत्पुरुषस्वीकर्तृवार्तिकनये । तत्र द्वन्द्व एवेति भाष्यमते तु तदनावश्यकमेवेल्याहुः ।। अक्पूरब्धः । सन्देहोपपत्तये पक्षद्वयबीजं दर्शयति-यधक्ष इति । 'अक्षधूरन्त' इति भाष्यस्यार्थमाह-अक्षशब्दस्य समीपे इति। इदमर्थकथनं न तु विग्रहः, समीपपदार्था- १ वास्तिकमेतदिति केचित् । २ अयं पाठः क्वाचिरकः । , .
५ अ.१४ पा.११ आ.१७६ सू.] महाभाष्यम् इति, इदं तु न सिध्यति-अक्षस्य धूरक्षधूरिति ॥ एवं तर्हि नैवं विज्ञायते 'न चेदाधूरन्तः समास' इति, नापि 'न चेदक्षः समासार्थ' इति ॥ कथं तर्हि ? न चेदक्षस्य धूरिति । एवं च कृत्वा,-नाऽपि न चेदक्षधूरन्तः समास' इति विज्ञायते नापि 'न चेदक्षः समासार्थ' इत्यथ चोभयोन भवति ॥ अक्ष्णोऽदर्शनात् ।५।४७६॥ 'अदर्शनादित्युच्यते तत्रेदं न सिध्यति-कम्बराक्षम् ॥ अदर्शनादिति शक्यमकर्तुम् ॥ कथं ब्राह्मणाक्षि क्षत्रियोक्षि?॥ [॥ * ॥ अप्राण्यङ्गात् ।। * ।। ] अप्राण्यङ्गादिति वक्तव्यम् ॥ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्कसामवाङ्मनसाक्षिध्रुवदार- गवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिःश्रेयसपुरु- पायुषव्यायुषत्र्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः । ।। * आद्यास्त्र यो बहुव्रीहयः, *ll-अद्रष्टा चतुर्णामचतुरः। विद्रष्टा चतुणों विचतुरः। सुदृष्टा चतुणों सुचतुरः । ततः परे एकादश इन्द्राः-स्त्रीस । धेन्वनडुह । ऋक्साम । वाङ्मनस । अक्षिध्रुव । दारगव। ऊर्वष्टीव । पदष्ठीव । नक्तन्दिव । रात्रिन्दिव । अहर्दिव । ततोऽव्ययीभावः-सह रजसा सरजसम् । ततस्तत्पुरुषः- निश्चित्तं श्रेयो निःश्रेयसम् । ततः षष्ठीसमासः-पुरुषस्यायुः पुरुषायुषम् । प्र.] धूरिति । अक्षस्य धूरपेक्षयाऽधिकरणत्वादनक्ष इत्यधिकरणसप्तमी। चक्रसंबद्धः काष्ठविशेषः शकटावयवोऽक्षः ॥ [ऋक्पूरब्धूः अक्षणो। अदर्शनादितिवचनादक्षीवाक्षीत्यक्षिसदृशार्थवृन्तिरिहाऽक्षिशब्द उपात्तः। लवणाक्षमित्यायुदाहरणम् । दर्शनवाचित्वे तु ब्राह्मणाक्षीत्यादौ समासान्ताभावः। कम्बरा- क्षमिति । अश्वानां बहुच्छिद्रं मुखावरणमुच्यते । तेनाश्वाः पश्यन्तीति दर्शनत्वात्समासा- न्ताऽप्रसङ्गः । एवं गवाक्षेपि । अप्राण्यङ्गादिति । तेन गवाक्षकम्बराक्षे सिध्यतः। अच। अद्रष्टा चतुर्णामिति । अर्थप्रदर्शनमेतत् अदृश्यानि चत्वार्यस्येति अन्यपदार्थ. बहुव्रीहय आद्यास्त्र यः कर्तव्याः। [अचतुर] उ.]ऽन्वयेऽसामर्थ्यात्समासाऽप्राप्तः। तस्मात्समीपेऽवयवत्वारोपेण समासः। समीपे इति आरोपबीजकथनम् । अक्षपूर्वपदको धूरन्त इति मध्यमपदलोपी समासो वा । भाष्ये-न चेदक्षस्येति । अधिकरणत्वाऽविवक्षायां तन्मूलकाऽवयवाऽवयविभावसम्बन्धविवक्षया षष्ठो॥ अक्षणोऽद । नन्वक्षिशब्दस्य दर्शनवोधकत्वादक्ष्णोऽदर्शनादित्ययुक्तमत अह-अदर्श नादिति वचनादिति।लवणाक्षमिति । लवणमक्षीवेति विग्रहः। अप्राण्यङ्गादितीति। सूत्रस्थदर्शनशब्दो व्याख्यानेन चक्षुःपर्याय इति भावः । [अक्ष्णोऽदर्शनात् ] ॥७६॥ अचतुरवि । अद्रष्टा चतुर्णामित्यर्थे बहुव्रीह्यसम्भवादाह-अर्थप्रदर्शनमिति । १ 'कबराक्षम् पा०॥ २ काचित्कमेतत् । ३वार्तिकमेतलुप्तमित्यन्ये । ४वात्तिकान्येवैतानीत्यन्ये। ।
वर्चसः ।५।४।७८) ५०६ कैयट-विवरणसहित [ब्रह्महस्तिभ्यां ततो द्विगू-द्वे आयुषी घ्यायुषं, त्रीण्यायूंषि न्यायुषम् । ततो द्वन्द्वः-ऋक्च यजुश्च ऋग्यजुषम् । ॥ * ॥ जातादय उक्षान्तीः समानाधिकरणाः ॥ * ॥ जात उक्षा जातोक्षः । महानुक्षा महोक्षः । वृद्ध उक्षा वृद्धोक्षः । ततोऽव्ययी- भावः-शुनः समीपमुपशुनम् । ततः सप्तमीसमासः-गोष्ठे श्वा इव गोष्टश्वः ॥ ॥*! चतुरोऽप्रकरणे न्युपाभ्यामुपसङ्ख्यानम् ॥॥ चतुरोऽप्रकरणे त्र्युपाभ्या- मुपसङ्ख्यानं कर्तव्यम् । त्रिचतुराः उपचतुराः ॥ [ अचतुर ] ॥ ब्रह्महस्तिभ्यां ॥ * ॥ पल्यराजभ्यां च ॥ * ॥ पल्यराजभ्यां चेति वक्तव्यम् । पल्यवर्चसम् राजवर्चसम् ॥ [ब्रह्महस्तिभ्यां वर्चसः ] ॥ अहःसर्वेकदेशसङ्ख्यातपुण्याच्च रात्रे ५।४।८७। ।। * ॥ अहम्रहणं द्वन्द्वार्थम् ॥ * ॥ अहग्रहणं द्वन्द्वा) द्रष्टव्यम् ॥ किमुच्यते द्वन्द्वार्थमिति, न पुनस्तत्पुरुषार्थमपि स्यात् ? ॥ ॥ * ॥ तत्पुरुषाभावात् ॥ * !! नहि राज्यन्तोऽहरादिस्तत्पुरुषोऽस्ति ॥ [ अहःसबैकदेश ] ॥ अहोऽह्न एतेभ्यः ।५।४।८८। ||| अहोह्रवचनानर्थक्यं चाऽष्टखोनियमवचनात् ॥७॥ अह्नोऽलवचनजानर्थ- प्र.] अहो । अह्नोलवचनानर्थक्यमिति । 'अह्न एतेभ्य'इत्येतावत्सूत्रमज्विधानार्थ कर्तव्यम् , टजचोरन विशेषाभावात् । 'रात्राहाहाः पुंसीति वचनास्त्रियां वृत्त्यभावात्तत्रा- उ.] अहर्दिवेत्यनाऽस्मादेव निपातनाइन्द्रः। त्रिचतुरा इत्यत्र 'सङ्खथयाऽव्ययेति बहुब्रोहौ डजपवादोऽच् । [अचतुर ] ॥७७॥ अहः सर्वैक । भाष्ये-न हीति । अन्यतरस्य गौणत्वेन प्रकारान्तरेण वा सम्भवेऽपि न तथा प्रयोगोऽस्तीति भावः । [अहःसबैंकदेश] ॥८७|| अह्नोऽह । स्त्रियां वृत्त्यभावादिति । अयं भावः-यद्यपि 'द्वयोरहोर्भवा' इत्यर्थे सङ्घयापूर्वस्य स्त्रीत्वसम्भवः । 'रात्राहाहा' इत्यस्य रात्राहशब्दघटितसमासमात्रार्थनिमित्त. लिङ्गस्याऽन्तरङ्गस्य सार्वत्रिकस्य च बाधेनोपपत्तौ बहिर्भूततद्धितार्थनिमित्तलिङ्गबाध- कत्वे मानाऽभावात् , तथाऽपि तत्र ङीवभाव एव, उपसर्जनत्वात् । 'पुण्याह'मित्यत्र 'उत्तमै- काभ्याश्चेति निषेधाद्विशेषाऽभाव एव, पुण्यसुदिनाभ्यामहः क्लीबत्वस्य सत्त्वाच्च । सर्वैकदेशसङ्ख्याताऽव्ययपूर्वपदस्य तु 'रात्राहाहा' इति वचनास्त्रीत्वमेव नास्तीति केचित् । अन्ये त्वेवं सत्युपस्थितराबाहाहशब्दार्थविशेष्यत्वप्राप्तलिङ्गस्यैव बाध: स्यान्न तु बहिर्भूत. समाहारविशेष्यत्वप्राप्तस्येति, अत्राऽन्तरङ्गन्यायाऽप्राप्तिरेवेति, तद्धितार्थद्विगुरपि न स्त्रीलिङ्ग- इति कैयटाशयमाहुः । परेतु सूत्रमतेऽप्यस्य टजपवादाऽजह्लादेशोभयविधायकत्वमेव, 'समा. १ वात्तिकमेतदित्यन्ये । २ चकारः काचित्कः।
२ अ.१४ पा.१ आ.।१०३ सू.] ॐ महाभाष्यम् कम् ॥ [ किं कारणम् ? ॥] अष्टखोनियमवचनात् । अलखोरेवेत्येतन्नियः मार्थ भविष्यति ॥ [ अह्नोऽह्न एतेभ्यः] ॥ अनसन्तानपुंसकाच्छन्दसि १५४१०३। ॥ * ॥ अनसेन्तानपुंसकाद्वा ।। * || 'अनसन्तानपुंसकाच्छन्दसि वेति वक्त- च्यम् । ब्रह्मसामम् ब्रह्मसाम । देवच्छन्दसं देवच्छन्दः॥ [अनसन्तानपुंसका] बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् ।५।४।११३। किमर्थं पच्प्रत्ययान्तरं विधीयते, न टच्प्रकृतः सोऽनुवर्तिप्यते ? । अत उत्तरं पठति-1॥ * ॥ पचि प्रत्ययान्तरकरणमनन्तोदात्तार्थम् ॥ * ॥ पचि प्रत्ययान्तर क्रियते॥ किं प्रयोजनम् ?॥ 'अनन्तोदात्तार्थम्'। अनन्तोदात्ताः प्रयोजयन्ति । चक्रसैंक्थं चक्रसक्थि॥ द्वित्रिभ्यां ष मूर्ध्नः ५४|११८॥ किमर्थं मूनश्च षः प्रत्ययान्तरं क्रियते न पच्प्रकृतः सोऽनुवर्तिप्यते । प्र.]ऽहष्टखोरेवेति नियमाडिलोपाभाबादल्लोपेन पूर्वाह्लादयः सिद्धा इति नार्थोऽह्लादेशविधा- नेनेत्यर्थः। [अबोह्र एतेभ्यः] बहुव्रीहौ । अनन्तोदात्तार्थमिति । 'सक्थं चाक्रान्तादिति विभाषाऽन्तोदात्तत्वं विधीयते । तत्रान्तोदात्तान्डीब्डीपोर्नास्ति विशेषः। ङीप उदात्तनिवृत्तिस्वरेणान्तोदात्तत्वात् । यदा तु पूर्वपदप्रकृतिस्वरेणानुदात्तत्वं तदा डीषि सतीकारस्योदात्तत्वं भवति, डीपि तु सत्यनुदात्त ईकारः स्यादित्यर्थः । चक्रसक्थीति । अयुक्तोऽयं पाठोऽत्र ह्यकान्तादिति विकल्पनिषेधाच्चित्वान्नित्येनान्तोदात्तत्वेन भाव्यम् । तस्मात् 'गौरसक्थी'त्यन्तोदात्तत्वा- ऽभावपक्ष उदाहार्यः। [ बहुव्रीहौ सक्थ्यक्ष्णोः] । द्वित्रिभ्याम् । द्विमूर्द्ध इति। यद्यत्र पच स्यात्तदा चित्त्वान्नित्यमन्तोदात्तत्वं स्यात् । उ.] सान्ता' इत्यनुवृत्तस्य विभक्तिविपरिणामे मानाऽभावात्, नियमाऽस्मरणमूलकं सूत्रमित्यु- भयोराबश्यकम् । अच्प्रकरणाऽस्मरणमूलकत्वञ्चाऽधिकं त्वया कल्प्यम् । 'टज चोरित्यादि- कैयटस्तु स्वरूपनिरूपणपर इत्याहुः । [अह्रोह्र एतेभ्यः] ॥ ८८ ॥ बहुब्रीही सक्थ्य । भाष्ये-न टच्प्रकृत इति। टचि चित्त्वादन्तोदात्तत्वे ङोप्यप्यु- दात्तनिवृत्तिस्वरेणाऽन्तोदात्तत्वं भविष्यतीति भावः । ननु टजन्तो नित्यान्तोदात्त इत्यन- न्तोदात्तार्थ इत्ययुक्तमत आह-सक्थञ्चेति । कृतसमासान्तः सक्थशब्दोऽन्तोदात्तो वा भवति चक्रशब्दान्तात्परश्चेन्न भवतीत्यर्थः । गौरसक्थीति । 'चक्रसक्थीति भाष्ये पाठः। 'वञ्च प्रलम्भने' इत्यस्य निष्ठायां रूपमित्यन्ये । [ बहुव्रीही सक्थ्यक्ष्णोः ] ॥१३॥ द्वित्रिभ्यां ष । तदा चित्त्वादिति । चित्त्वसामर्थेन चित्स्वरस्य पूर्वपदप्रकृतिस्वर- १ इदं क्वाचित्कन् । २ इदं क्वचिदपि न । ३ 'सोऽनुवर्तेत' पा० । ४. 'वक्रसक्थम्'। ५'वक्तसक्थीति' चक्रसक्थी-इति 'वझसक्थीति' पा० । । । ।
.. वक्त कैयट-विवरणसहितं [अप्पूरणी- ॥9॥ मूर्तश्च षवचनम् ॥७॥ [मर्धश्चै षवचनं]॥ किम् ?॥ अनन्तोदात्तार्थमित्येव। द्विमूर्द्धः त्रिमूर्द्धः ॥ [ द्वित्रिभ्यां ष मूर्ध्नः ] ॥ अप्पूरणीप्रमाण्योः ।५।४।११६॥ ॥ * ॥ अपि प्रधानपूरणीग्रहणम् ॥ * ॥ अपि प्रधानपूरणीग्रहणं कर्तव्यम् । प्रधानं या पूरणीति वक्तव्यम् । इह मा भूत-कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः॥ अथेह कथं भवितव्यं-कल्याणी पञ्चमी आसां रात्रीणामिति ? ॥ कल्याणीपञ्चमा रात्रय इति भवितव्यम् । रात्रयोऽत्र प्रधानम् । ॥ नेतुर्नक्षत्रे उपसङ्ख्यानम् ।।॥ नेतुनक्षत्रे उपसङ्ख्यानं कर्त्तव्यम् । पुष्यनेत्राः। मृगनेत्राः ॥ * ॥ छन्दसि च ॥ * ॥ छन्देसि च नेतुरुपसङ्ख्यानं कर्तव्यम् । बृहस्पतिनेत्राः सोमनेत्राः । ॥ * ॥ मासामृतिप्रत्ययपूर्वपदा- दृज्विधिः ।। * ॥ मासाद्धृतिप्रत्ययपूर्वपदाढविधेयः । पञ्चकमासिकः । षट मासिकः । दशकमासिकः । [ अप्पूरणीप्रमाण्योः] अनासिकायाः संज्ञायां नसं चास्थूलात् ।५।४।११८। प्र.] द्वित्रिभ्यां पादमूर्द्धसु बहुव्रीहाविति तु विभाषान्तोदात्तत्वं यदा समासान्तविधेर नित्यत्वा. द्दिमूद्धेति समासान्ताभावस्तदा सावकाशम् । षे तु सति समासान्तपक्षेऽपि पक्षन्तोदात्तत्वं पक्षे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वमिति स्वरद्वयसिद्धिः। [द्वित्रिभ्यां प]। अप्पूरणी । कल्याणपञ्चमीकः पक्ष इति । अत्र वर्तिपदार्थ एव पूरणी न त्वन्य- पदार्थः । पक्षस्य तिरोहितावयवभेदस्यान्यपदार्थत्वात् । यथा वृक्ष इत्यस्य शब्दस्यावयव्य- भिधेयो न तु शाखादयोऽवयवा अनुमीयमानस्याऽशब्दार्थत्वादित्यप्राधान्यं पूरण्याः । कल्याणीपञ्चमा इति । अत्रावयवेन विग्रहः समुदाय उद्भूतावयवभेदः समासार्थ इति रात्रिषु पञ्चम्या अन्तर्भावादन्यपदार्थत्वात्प्राधान्यं पूरण्याः । पञ्चकमासिक इति । पञ्च भृतिरस्य मासस्य पथको मासः। 'सोऽस्यांशवस्त्रभृतय'इति संख्यायाः कन् । पञ्चको मासोऽस्येति बहुव्रीहौ कृते स्वार्थे ठच् । अन्नासि । खरखुराभ्यामिति । आदेशप्रत्यययोः प्रसङ्गे केवलादेशविधानार्थ वचनं उ.] बाधकत्वादिति भावः । ननु 'द्वित्रिभ्यां पाइन्' इति विकल्पः सामर्थ्याच्चित्स्वरस्य बाधकः स्यादत आह-द्वित्रिभ्यामिति । अनित्यत्वादिति । अत्र चेदमेव षविधानं ज्ञापकमिति भावः । षे तु सतीति । न च तदा मूर्धन्शब्दोत्तरपदकबहुव्रीहेरभावः, समासान्तानां समासाऽवयवत्वेन तदक्षतेः । [द्वित्रिभ्यां ष मूनः ] ॥११५॥ अप्पूर। ननु पक्षस्य पञ्चदशतिथ्यात्मकत्वेन पूरण्यपि प्रधानमेवेत्यत आह-पक्षस्येति। अवयवेन-तद्वोधकेन । विग्रहः-वर्तिपदार्थबोधनम् । तद्वोधनस्यैव विग्रहफलत्वात् ।। १ इदं कचिदपि नास्ति ।२ इदं काचित्कम् । ।
५.४ पा.३१ आ.। ११९ सू.] ॐ महाभाष्यम् , खुरणाः ।। * शितिना अर्चना अहिना इति नैगमाः । शितिनाः। अर्चनाः ।अहिनाः। उपसगाच ।५।४।११९ ॥ [वेगः ॥] वेर्को वक्तव्यः । विप्रः ।।ा ख्यश्च ॥ख्यश्च वक्तव्यः । विख्यः । उधसोनङ् ।५।४।१३१॥ 11* ऊधसोनङि स्त्रीग्रणम् ।।{ऊधसोऽनङि स्त्रीग्रहणं कर्त्तव्यम्। इह मा भून्महोधाः पर्जन्य इति ॥ [ ऊधसोऽनङ् ] । गन्धस्यदुत्पूतिसुसुरभिभ्यः ।५।४।१३५। ॥ * ॥ गन्धस्येत्त्वे तदेकान्तग्रहणम् ।।* गन्धस्यत्त्वे तदेकान्तग्रहणं कर्तव्यम् । इह मा भूत्-शोभना गन्धा अस्य सुगन्ध आपणिक इति ॥ अथाऽनुलिप्ते कथं भवितव्यम् ? ॥ यदि तावद्यदनुगतं तदभिसमीक्षितं 'सुगन्धि'रिति भवितव्यम् । अथ यत्प्रविशीर्णं-'सुगन्ध' इति भवितव्यम् ।। शेषाद्विभाषा ।५।४।१५४। शेषादित्युच्यते कः शेषो नाम ? ॥ याभ्यः प्रकृतिभ्यः समासान्तो न विधीयते स शेषः । किमर्थं पुनः शेषग्रहणं क्रियते ? ॥ याभ्यः प्रकृतिभ्यः समासान्तो विधी- प्र.] उप । विग्र इति । विगता नासिका यस्य स विग्रः ॥ [ उपसर्गाच्च] ॥ गन्धस्ये। गन्धशब्दोऽस्ति द्रव्यवाची-गन्धान्पिनष्टीति । अस्ति च गुणवाची,-चन्दन. गन्ध इति । तत्र गुणवाचिग्रहणार्थ माह-गन्धस्येत्त्व इति । रूपादिसमुदायात्मकस्य द्रव्यस्य गन्धलक्षणो गुण एकान्तो भवति । रूपादिव्यतिरिक्तावयविद्रव्यवादिपक्षे त्वेकान्त इवैकान्तस्तत्स्थस्योपलम्भादित्याश्रीयते । यदनुगतमिति । अनुगतं निलीनमविभागा. पन्नं कुङ्कुमादिर्यदा देवदत्तादेर्भवति तदा तत्स्थत्वाद्गन्धस्यैकान्तत्वादित्त्वं भवति । प्रवि. शीर्णमिति । विभागेनावस्थितं देवदत्तादेः पृथगुपलभ्यमित्यर्थः ॥ [गधस्येदुत्पूति ] शेषाद्विः । कः शेष इति । अनेकस्योपयुक्तत्वात्किमपेक्षः शेष आश्रीयतइति प्रश्नः । इतरः सामान्येनाह-याभ्य इति । समासान्तविशेषस्तु न प्रदर्शितः। किमर्थमिति । उ.] गन्धस्येदु । नन्वेकान्तशब्देनाऽवयव उच्यते, गुणश्च कथमवयवोऽत आह-रूपा- दीति । 'अयुतसिद्धाऽवयवाऽनुगतस्तत्समूहो द्रव्य'मिति पतञ्जलेमतम् । न्यायनये आह-रूपादिव्यतिरिक्तति । तत्स्थस्येति । ततो भेदेनाऽगृह्यमाणस्येत्यर्थः तत्स्थत्वात्ततो भेदेनाऽगृह्यमाणत्वात् । [ गन्धस्येदुत्पूति ] ॥१३५॥ शेषाद्विभाषा। किमपेक्ष इति। किं कबपेक्षः, उत समासान्तमात्राऽपेक्षः, उता- ऽनन्तरबहुव्रीह्माधिकाराऽपेक्ष इत्यर्थः । सामान्येनेति । समासान्तमात्राऽपेक्षत्वेनेत्यर्थः । १ इदं भाष्यमेव न वात्तिकमित्यन्ये । २इदं क्वचिन्न।३ एतदने देखो वक्तव्यः। विरवः' इति पा०॥ .
कैयट-विवरणसहितं. [ शेषाद्विभाषा यते ताभ्यः कन्माभूदिति ॥ नैतदस्ति प्रयोजनं, ये प्रतिपदंविधीयन्ते तेऽत्र- बाधका भविष्यन्ति । अनवकाशा हि विधयो बाधका भवन्ति सावकाशाच समासान्ताः ॥कोऽवकाशः ? ॥ विभाषा कप , यदा न कप्सोऽवकाशः । कपः प्रसङ्गे उभयं प्राप्नोति ॥ परत्वात्कप्प्राप्नोति । तस्माच्छेषग्रहणं कर्तव्यम् ॥ किं पुनरिदं शेषग्रहणं कबपेक्षं-'यस्माद्वहुव्रीहेः कब्न विहित इति, आहो- स्वित्समासान्तापेक्षं-'यस्माद्बहुव्रीहेः समासान्तो न विहित' इति ? ॥ किं चातः ? ॥ यदि विज्ञायते कबपेक्षम्-अनुवो बह्वच इत्यत्रापि प्रामोति।। अथ समासान्तापेक्षम् अनुक्कं साम बढक्कं सूक्तमितिन सिध्यति ॥ अस्तु कब- पेक्षम् ॥ कथमनृचो बह्वच इति? ॥ विशेष एतद्वक्तव्यम्-* अनुचो माणवे'। 'बढचश्चरणाख्याया'मिति । * ॥ इदं तर्हि ऊधसोनङि स्त्रीग्रहणं चोदितं तस्मिन् क्रियमाणेऽपि प्राप्नोति ॥ एवं तर्हि नैव कबपेक्षं शेषग्रहणं, नापि समासान्ता. प्र.] सामान्येन विभाषा कब्बिधीयताम् । तस्य विशेष समासान्ता बाधका भविष्यन्तीति प्रश्नः । परत्वात्कप्प्रामोतीति । उपदशा उपविशा इत्यादिषु नित्यं डजादय इध्यन्ते । किं पुनरिति,-पूर्वं याभ्यः प्रकृतिभ्य इति सामान्येनोक्तं ततो विशेषज्ञापनाय प्रश्नः । यद्यपि कबपेक्षे शेषत्वे शेषग्रहणमनर्थकमन्तरेणापि शेषग्रहणमशेषान्नित्यं कबिधानसामर्थ्याद्विभा- षितक प्रसङ्गाभावाच्छेषादेव कब्बिकल्पविज्ञानात्, तथापि विचारमात्रं क्रियते । अनृच इति । ऋगन्तात्कन्न विहित इति शेषत्वात्पक्षे परत्वात्क प्रसङ्गः । कबभावपक्षेऽस्त्वकारस्या- वकाशः समासान्तरं च । विशेष एतदिति। तत एव विशेषविशेषविषयावचनादन कम्न भविष्यतीत्यर्थः । तस्मिन् क्रियमाणेऽपीति । अक्रियमाणे स्त्रीग्रहणे कुण्डोनीत्यत्र पक्षे परत्वात्कप्राप्नोति । क्रियमाणेऽपि स्त्रीग्रहणे तस्य पुन्नपुंसकनिवृत्त्यर्थत्वात् पक्षे परत्वा- कपः प्रसङ्ग एव । एतच्चोदाहरणमात्रम् । उपदशादिषु पक्षे कप्प्रसङ्गात् । नैव कबपेक्ष- उ.]न प्रदर्शित इति । अग्रे तु वक्ष्यति । ननु शेषपदार्थप्रदर्शनेनैव फलमप्युक्तप्रायमिति 'किमर्थ'मिति प्रश्नोऽनुपपन्नोऽत आह-सामान्येनेति । उपदशा इत्यादि । इदं चिन्त्यम् अस्य बहुव्रीहेः शेषाऽधिकारस्थत्वाऽभावात् । स्पष्टचेदमुक्तं बहुव्रीहिप्रकरणे भाष्ये स्वयश्च । 'स्वक्ष इत्यादौ नित्यं पजिष्यत' इति वक्तुमुचितम् । विशेषज्ञापनायेति । गुरुणा विशेष ज्ञापयितुमित्यर्थः । भाष्ये-अथ समासान्ताऽपेक्षमनृक्कमिति । प्रियपथिकादेरुपल- क्षणमिदम् । ननु विशेषवचनसत्त्वेऽपि पक्षे ककुतो नेत्यत आह-तत एवेति । विनिग- मनाविरहेण-'अनुचो माणवे एव' 'माणवेऽनृच एवेत्युभयविधनियमाश्रयणादिति भावः । ऊधसोनङि दोष इत्युक्ते स्त्रीग्रहणेन पुनर्विधानार्थेन कपो बाध इति कश्चिद्धाम्येदतो भाष्ये-स्त्रीग्रहणं चोदितम् । 'तस्मिन्क्रियमाणेऽपी'त्युक्तं, तत्र अपिशब्दार्थमाह-अक्रिय- माणे इति। क्रियमाणे प्रागुक्ताऽनुपपत्तिपरिहारायाह-तस्य पुनपुंसकेति । एवञ्च पुनर्विधाने मानाऽभाव इति भावः । उपदशा इत्यत्र दोषश्चिन्त्यः, शेषाऽधिकारस्थत्वाऽ. १ वार्तिकमेतदिति परे। ।
५ अ.१४पा.११ आ.।१५६ सू.] महाभाष्यम् ऽपेक्षम् ॥ किन्तर्हि ? ॥ अनन्तरो यो बहुब्रीह्यधिकारः सोऽपेक्ष्यते-'अनन्तरे बहुव्रीह्यधिकारे यस्माबहुव्रीहेः समासान्तो न विहित' इति ॥ कथमन्चो बढच इति ? ॥ वक्तव्यमेवैतत्- * अनुचो माणवे' 'बह्वचश्चरणाख्यायाम्' *॥ इति । ईयसश्च ५।४।१५६। ॥ ईयस उपसर्जनदीर्घत्वं च ॥॥ ईयस उपसर्जनदीर्घत्वं चेति वक्तव्यम् । बह्वयः श्रेयस्योऽस्थ बहुश्रेयसी, विद्यमानश्रेयसी ॥ * ॥ पुंवद्वचनासिद्धम् ।। १ ।। प्र.] मिति। शेषग्रहणानर्थक्यप्रसङ्गात् । यस्माद्धि नित्यः कबिहितस्तस्माद्विभाषा न प्राप्नोति विरोधादिति पूर्वोक्तन्यायात समासान्तापेक्षमपि न भवति । अनृकं बकमित्यत्र कपोऽप्रसङ्गात् । अनन्तरे बहुव्रीह्यधिकार इति। एवं चोधसोऽनडित्यनन्तरे बहुव्रीय- धिकारेऽनको विधानात्कुण्डोनीत्यादौ स्त्रियां कम्न भवति । कथमन्च इति । बहुब्राह्य- धिकारात्प्रागकारविधानाच्छेषत्वात्पक्षे क प्रसङ्गः। वक्तव्य मेवैतदिति । यद्येवं समा- सान्तापेक्षेपि शेषत्वेऽनृचबह्वचयोर्विशेषवचनादन्यत्रानृकबढुक्कयोः पक्षे कपः सिद्धत्वात्कस्य चिद्दोषस्याप्रसङ्गाकिमर्थमनन्तरबहुब्रीह्यधिकारापेक्षः शेष आश्रीयते। बहुव्रीहधिकाराच तत्पुरुषादिभ्यः कपोऽप्रसङ्गः। किं चोपदशा इत्यादौ पक्षे कप्प्राप्नोति, अनन्तरे बहुवीह्य- धिकारे डचोऽविधानात् । तथा प्रियपथः प्रियधुर इत्यत्रापि प्राप्नोति । तस्मात्समासान्ता- पेक्षमेव शेषत्वमाश्रयणीयमिति चिन्त्यमेतद्भाष्यम् ॥ [ शेषाद्विभाषा ] | ईयस । उपसर्जनदीर्घत्वमिति।हस्वापवादो दीर्घत्वं विधेयम् । पुवद्वचनादिति। उ. भावेन तत्र कपोऽप्राप्तः। आनर्थक्यप्रसङ्गादिति । प्रागुक्तदोषाचेत्यपि बोध्यम् । अनन्तरे इति । उपदशा इत्यादिबहुव्रीहेस्तु शेषाधिकारस्थत्वाऽभावान्न ततः कप् , अत एव 'दक्षिणपूर्वा' 'सपुत्र' इत्यादौ न कबिति भावः। चिन्त्यमेतद्भाव्यमिति । वस्तुतस्तु पूर्वोक्तपक्षोपमर्देनैवाऽस्य भाष्यस्य प्रवृत्तेरनन्तरबहुव्रीह्यपेक्षया शेषग्रहणमेवोचितम् । 'प्रियः पन्था यस्य' इत्यर्थे प्रियपथिक इत्यादेः पक्षे सिद्धिरेव च प्रयोजनम् , भाध्यादिष्टत्व- स्यैव लाभात्। 'समासान्ता इतिसूत्रस्थ 'उच्चधुर' इति प्रयोगस्तु कवभावपक्षे बोध्यः । न च समाससामान्यापेक्षत्वेन 'ऋत्पूरित्यादेरन्तरङ्गत्वात्कपं बाधित्वा तस्यैव प्रवृत्यापत्ती कथं प्रियपथिक' इष्ट इति वाच्यं, तस्यापि प्रकृतिविशेषाऽपेक्षत्वेन समत्वात् । सामान्याऽपेक्ष- त्वेन अन्तरङ्गत्वस्य भाष्ये क्वाप्यनाश्रयणाच्च । न च 'बहुव्रीहौ सक्थ्यक्ष्णो'रित्यतः पूर्वमेव कप्रकरणपाठेन विशेषविधिमिः परत्वाद्वाधेनैव सिद्धौ तदर्थकशेषग्रहणं व्यर्थमिति वाच्यं, 'विभाषा श्यावेत्यांपये पक्षे कवापत्तेः, मम त्वनुक्तसमासान्तबहुव्रीहित्वाऽभावान्न दोष इति सुधियो विचारयन्तु । [ शेषाद्विभाषा] ॥ १५४ ।। ईयसश्च । इस्वाऽपवाद इति ! 'गोस्त्रियो रित्येतद्भस्वेत्यर्थः । अत एव वार्तिके उप- सर्जनपदं चरितार्थम् । तेन हि उपसर्जनत्वप्रयुक्त दीर्घविधानमिति लभ्यते। न चैत्र imimmmm HARTIपाध्यायजैटवटयुवकय्यदकृते भाष्यप्रदीपे पञ्चमाध्यायस्य चतुर्थ पादे ५१२ कैयट-विवरणसहित [ईयसश्च पुंवद्वचनासिद्धमेतत् । पुंवद्भावोऽन्न भवति- ईयसो बहुव्रीहौ पुंवद्वचनमिति॥ ॥ * ॥ इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्चमाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥ पादोऽध्यायश्च समासः ।५।२। ॥ * ॥ समाप्तोऽयं पञ्चमोऽध्यायः। प्र.] 'गोस्त्रियोरुपसर्जनस्येति हस्वः प्राप्तः पुंवद्भावेन विनिवर्त्यते । यथा पुंविषयस्येकारस्य हुस्वो न भवत्येवमीयसः परस्येति श्रवणं भवति। बहुश्रेयसीत्यत्र हल्ङचादिलोपे विवदन्ते। केचिदाहुः-(तदादिनियमात् हल्ड्यादिलोपेन न भाव्यम् । ड्यापोः स्त्रीप्रत्यययोर्ग्रहणात् , स्त्रीप्रत्यये चानुपसर्जने तदादिनियमाभावादत्रोपसर्जनत्वान्डीपस्तदादिनियमाद्धल्ङयादिलो- पस्य प्रसङ्गाभावात् । अन्ये त्वाहुः-दीर्घग्रहणं तत्र हस्वनिवृत्त्यर्थं कृतम् , अतिखट इत्यत्र लोपो मा भूदिति । यदि चोपसर्जने तदादिनियमः स्यात्तदा हस्खाल्लोपस्य प्रसङ्गाभावा- त्तद्ध्यावृत्तये दीर्घग्रहणं न कुर्यात् , कृतं तु यथेष्टमुपसर्जनादपि दीर्घाल्लोपं शापयतीति बहुश्रेय- सीति सिद्धमिष्टम् । प्रथममाह्निकम् ।। पादोध्यायश्च समाप्तः॥ * अस्मिन्नध्यायेऽष्टावालिकानि । उ.] वचनेन वचनप्रत्याख्यानमयुक्तं, नपुंसकहस्वप्रतिबन्धाय तदावश्यकमित्याशयात् । अतः एव तत्र 'पुंव दित्युक्तम् । अन्यथा 'ने'त्येव वदेदित्याहुः । केचिदाहुरिति । अत्राऽरुचि- बीजन्तु ड्याबन्तान्तात्परत्वसत्त्वेन लोपप्रवृत्तेरक्षतत्वात् । अत एव दीर्घग्रहणंचरितार्थमित्या- शयमाहुः। अन्ये त्वाहुरिति । लोपं ज्ञापयतीति । स्वादीनां प्रत्ययत्वेन ङयापोश्च प्रत्य- यत्वेन द्वेधा यस्माद्विहितस्तदादेरुपस्थित्या तदन्तविधिद्वयेन पूर्वोक्तार्थज्ञापनद्वारेति भावः ।। * इति श्रीशिवभतुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोयोते पञ्चमाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् । पादोऽध्यायश्चाऽयं समाप्तः ॥५४॥२॥ * मरुमण्डलमार्तण्डस्नेहिरामजिशास्त्रिणाम् । पौत्रेणाऽयं महाभाष्यजीर्णोद्धारः प्रवर्तितः ।।