The Asiatic Society, Kolkata
Mimamsaslokavartika Pt. 2
Front matter
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
TRIVANDRUM SANSKRIT SERIES,
No. XCIX.
šrî Setu Laksmi Prasadamala.
No, XI.
THE
MÎMÂMSAŠLOKAVÁRTIKA
WITII
THE COMMENTARY KASIKA
SUCARITAMIŠRA
EDITED BY
K. SÁMBAŠIVA SASTRI,
(urator of the Department for the Publication of
Sanskrit Manuscripts, Triranorum,
Part II.
. M...
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HER HIGHNESS THE MAHARANI REGENT OF TRAVANCORE.
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, OVERNMENT PRESS,
1929.
(All Rights Reserved.)
9029
ZN
cu 96 y
zb.181
S
अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ९९.
श्रीसेतुलक्ष्मीप्रसादमाला ।
प्रन्थाङ्कः ११.
मीमांसाश्लोकवार्तिकं
सुचरितमिश्रमणीत्या
काशिकाख्यया टीकया
ममेनम
मंस्कृतग्रन्थप्रकाशनकार्याध्यक्षण
के. माम्यशिवशान्त्रिणा
संशोधितम ।
द्वितीयः सम्पुटः।
तच
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशामनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितम् ।
कोलम्बान्दाः ११०४, ऊस्ताग्दाः १९२९.
୨0s
ଅ •
& ୧ ୨ 6 >
, 1S
S
PREFACE. This is the second part of the Kasika, a commentary by Upadhyaya Sucarita Miśra on the Mimāmsā ślokavārtika, and contains Nirālambana väda anil Sünya vīdit of the Autpattikasūtra. The printing of this part was delayed for want of sufficient manuscript materials: but fortunately, after the first three formes were struck off, al better manuscript was discovered at the library of Lrahmasri Idappalli Subra hmanya Valiya Raja. This mariuscript marked ar about three centuries old, ran up to the end of Sūny: vāda and :ilso contained at the end Sabdanityatádlikaruna and Ved: - pratyāyakatādhikaraņa. The first three formes already struck contained some lacunae :ind the portions filling them a found in the new manuscript an separately printed and prefixed to the work. The department haud already collected a manuscript about four centuries old from the library of the Raja of Kilimanur, and it may be mentioned here that it was this ancient manuscript marked * that prompteal to undertake the edition of the work. Trivandrum, 24-12-1104, K. SAMBAŠIVA SASTRI.
No text on this page.
निवेदना। अयम् उपाध्यायसुचरितमिश्रकृतायाः काशिकाख्याया मीमांसा- श्लोकवार्तिकव्याख्याया द्वितीयो भागः, यत्रौत्पत्तिकसूत्रे शून्यवादान्तो विषयः संघठितः। अस्य भागस्य प्रसाधने समुपक्रान्तेऽपि यत्सत्यं परिशुद्धं मातृकान्त- रमनुपलभमानैरस्माभिर्मनागिवोदासि । अथ दैवादनुकूलात् कृतभूरिपरिश्रमाणा- मस्माकं किमपि चक्षुषीव प्रभातं मातृकान्तरमेकमुपलब्धं, यद् इडप्पनिक- सुब्रह्मण्यवलियराजस्वामिकम् आदितोऽनुक्रमशः शून्यवादान्तेन भागेनान्त शब्दनित्यतावेदप्रत्यायकताधिकरणाभ्यां च सनाथ ख संज्ञितं त्रिशतवर्षवृद्धम् । अतश्च मातृकान्तराद् यथायथं समुद्धृतैर्भागैस्तत्र तत्र कासुचित् पनिषु मं- मुद्रितचरीषु दृष्टाः खिला भागाः प्रपूरिताः । एतदर्थ कापि लघ्वी पट्टिकापि साकमनेन समायोजि । क-संज्ञा कापि मातृका प्रागेवाम्मदधिकरणे सम्पादिता किळिमानूरराजसम्बन्धिनी माकी चतुःशतवत्सरीवृद्धा निकाममस्माकं प्रथम- मूलं स्वमिति सुतरामादराभिनन्दनयोः स्थानम् । अनन्तशयनम्, २४.१२-१०४. क. साम्बशिवशास्त्री.
No text on this page.
199AAA
श्री
श्रीपद्मनाभसेवि-
न्यखिलश्रीवर्धनी महाराज्ञी ।
श्रीसेतुलक्ष्म्यभिख्या
प्रत्यक्षा जयति वञ्चिभूलक्ष्मीः ।।
ग्रन्थावलिरियमिन्धे
प्रसाधिता तत्प्रसादगुणगुम्फा ।
श्रीसहितसेतुलक्ष्मी-
प्रसादमाला सुवर्णमणिचित्रा ॥
ran **S
द
No text on this page.
विषयानुक्रमणी। विषयः. २ سہ " ४ पृष्ठम्. औत्पत्तिकसूत्रम् ॥ ५ ॥ धर्मस्य प्रत्यक्षाद्यगम्यत्वेऽपि अभावगम्यत्वमाश्रित्य तन्निरसनपरतयौत्प- त्तिकसूत्रमवतारितं भाष्ये, तद्भाष्यस्य धर्मे चोदनैव मानमित्यव- धारणस्य चाक्षेपः । धर्माधर्मयोर्लोकप्रसिद्धिप्रदर्शनम् । पूर्वोक्ताक्षेपस्य समाधानम् । प्रसिद्धरायम्लेच्छविभागेनाव्यवस्थितत्वेन 'शास्त्रस्था वा तन्निमित्तत्वात्' इति न्यायाच्छास्त्रमूलकप्रसिद्धेरेव प्रामाण्यम् । सकलभावप्रमाणनिराकरणादभावनिराकरणाच धर्माधर्मयोश्चोदनैव प्रमा- णमित्यवधारणस्योपपन्नत्वप्रदर्शनम् । सूत्रस्थोपदेशपदस्य योग्यपदान्वयप्रदर्शनम् । उपदेशस्य धर्मे प्रामाण्यप्रकारप्रदर्शनम् । 'चार्थेऽनुपलब्धे' इति सूत्रांशस्य विमर्शः । चोदना, विधिः, उपदेशः, इत्येषामेकार्थवाचित्वकथनम् । शब्दविशेषस्य विधेरेव धर्मे प्रमाणत्वेनाश्रयणे चोद्यम् । विधिं विना यागादीनां पुरुषार्थसाधनत्वानवगतेस्तस्यैव प्रामाण्याश्रय- णमिति परिहारः । कृतिविधौ पुरुषार्थस्य साध्यत्वसिद्धिप्रदर्शनम् । विधिः शब्दभेदो लिङ्यदिस्तयापारातिशयो वा कोऽपि तदर्थभेदो वास्तु, सर्वथा कार्यविधौ पुरुषार्थस्य साध्यतालाभो न युक्त इत्याक्षेपः । अस्मिन् विषये मतान्तरोपन्यासः । नियोगविचारः । अत्रानुपपत्तिप्रदर्शनम् । १० अत्र ग्रन्थकर्तुरभिप्रायवर्णनम् । ११ ८ ९ २ विषयः. पृष्ठम्. यथावार्तिकमनुसन्धाय निष्कर्षः । १३ 'अनपेक्षत्वात्' इति सूत्रांशव्याख्यानम् । १६ वृत्तिकारग्रन्थः। 'वृत्तिकारस्त्वन्यथेमं ग्रन्थं वर्णयाञ्चकार तस्य निमित्तपरीष्टिमित्येवमा- दिम्' इति ‘एवमादि' इति च पाठद्वये साध्वसाधुविवेचनम् । वृत्तिकारमतरीत्या 'तस्य निमित्तपरीष्टिः' इत्यत्र नमोऽध्याहारकथनम् । सङ्करात् परिचोदनेत्युक्तस्य प्रपञ्चनम् । १७ भाष्यमुपादाय सत्प्रत्यक्षस्वरूपदर्शनेन निमित्तसूत्रकृतापरीक्षाप्रतिज्ञायाः प्रत्यक्षसूत्रे उपसंहार इति कथनम् । अयथार्थज्ञानावपया विचारः । तत्सत्पदयोव्यत्ययकरणेन सूत्रस्य सम्पूर्णलक्षणपरत्ववर्णनम् । २० ईदृशं प्रत्यक्षमिति कथनेनानीदृशं प्रत्यक्षाभासमिति लाभात् तयोविवेक- प्रदर्शनस्य शक्यत्वम् । पूर्वोत्तरयोनियोर्बाध्यबाधकभावे नियामकवर्णनम् । बाधाहते न मिथ्यात्वं मिथ्यात्वाधीनो बाध इतीतरेतराश्रयत्वमाशङ्क्य- तत्परिहारेण विषयभेदप्रदर्शनेन बहुधा बाधाबाधव्यवस्थापनम् । 'यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः' इति भेदेनोपन्यासस्य विषयप्रदर्शनम् । २३ निरालम्बनवादः। चोद्यपरिहारपूर्वकं भाप्यकारकृतस्य बाणार्थसद्भावसाधनस्य मीमांसाशा- स्त्रीययावदर्थविचारोपयोगित्वप्रपञ्चनम् । २४ तत्र विध्यर्थवादमन्त्रनामधेयविचारोपयोगित्वकथनम् । २५ द्वितीयार्थविचारोपयोगित्वकथनम् । २८ तृतीयतुरीयार्थविचारोपयोगित्वकथनम् । पञ्चमार्थविचारोपयोगित्वकथनम् । २९ षष्ठार्थविचारोपयोगित्वकथनम् । ३० उत्तरषट्कार्थविचारोपयोगित्वकथनम् । ३१ २१ .
३ विषयः. पृष्ठम्. ३२ अस्यैवार्थस्य निगमनम् । संवृतिसत्यं परमार्थसत्यमिति द्विविधसत्यागीकारेण प्रमाणादिव्यवहा. रोपपत्तौ पारमार्थिकबाह्यार्थसद्भावप्रतिपादनव्यसनं किमर्थमिति शङ्का। ३३ अस्याः सत्यभेदानुपपत्त्या दूषणम् । वृक्षसिंहयोवृक्षत्वस्येव मृषापरमार्थयोः संवृतिसत्यपरमार्थसत्ययोः सत्य त्वसामान्याभावः । ३५ " मिथ्यापर्यायोऽपि संवृतिशब्दः बौद्धैरनुद्वेगकरतया लोकवञ्चनार्थतया च लालायां वक्त्रासवशब्दवत् प्रयुक्त इति, कल्पनावाचोयुक्तिरपि स्वनास्तिक्यपरिहारार्थमेवेति च कथनं तन्निरसनं च । सत्यमसत्यं संवृतिसत्यं चेति त्रिधा तत्त्वविभागस्य सत्यद्वयकल्पनाया- श्वासङ्गतत्वकथनम् । बाह्यशुभाशुभफलोपभोगस्य स्वाप्नोपभोगतुल्यत्वनिरासार्थ बाह्यार्थसाधने प्रयास इति कथनम् । बाह्यार्थसद्भावविचारस्य सप्रयोजनत्वोपसंहारः । बाह्यार्थमपलपतां योगाचाराणामर्थापलापेन ज्ञानमप्यपलपतां माध्यमि- कानां च बाह्यार्थाभावस्य तुल्यत्वात् तदर्थसद्भावसाधनेनोभयेषां निराससम्भवादर्थसद्भावसाधन एव भाष्यकारस्य विशिष्य प्रयत्न इति तात्पर्यविवरणम् । प्रमाणतः प्रमेयतश्च द्विधा बाह्यार्थापह्नवस्य बौद्धैराश्रितत्वेऽपि प्रमाण- मूलकस्यैव तदपहवस्य प्रपञ्चने बीजकथनम् । तत्रापि प्राथमिकं प्रत्यक्षमुत्सृज्यानुमानतो विचारे बीजकथनम् । प्रकृतसङ्गतिप्रदर्शनार्थमनुमानभाष्यस्यावतारणम् । स्तम्भादिप्रत्ययो, निरालम्बनः प्रत्ययत्वात् स्वप्नादिप्रत्ययवदिति आप्य- तिरोहितानुमानोपन्यासः। 'सर्व एव' निरालम्बनः प्रत्ययः' इति भाष्यस्य जाग्रबुद्धिविवक्षयैव व्याख्येयत्वे बीजकथनम् । ३६ " ३७ " ३८ ४ . . ४३' विषयः. पृष्ठम्. 'प्रत्ययस्य हि निरालम्बनतास्वभाव उपलक्षितः स्वप्ने' इत्यादिभाष्य- स्यार्थविवरणम् । बौद्धोक्तनिरालम्बनत्वानुमाने तद्रीत्या हेतोः पक्षैकदेशतापरिहारः । . ४० एवं पूर्वपक्षं कृत्वा 'जाग्रतो हि बुद्धिः सुपरिनिश्चिता कथं विपर्य- . सिष्यति' इति सिद्धान्तभाष्यस्य विमर्शः, तस्य च विकल्पसम- तया वा वैधhसमतया वा जात्युत्तरमिदमित्याक्षेपः । ४१ अस्याक्षेपस्यैकेन मतेन समाधानम् । प्रतिज्ञादोष इति प्रत्यक्षबाध इति च प्रकारान्तरेणापि समाधानम् । उक्तस्य प्रत्यक्षबाधस्य विवरणम् । ४२ जाग्रत्प्रत्यक्षधियां बाधकप्रत्ययरहितानां स्वामप्रत्ययतो बलवत्त्वेन तासु सतीषु नानुमानमुदतुमलमिति कथनम् । एतस्यार्थस्य प्रपञ्चनम् । पूर्वोक्तानुमाने निरालम्बनत्वविशिष्टप्रत्ययानां साध्यत्वे बौद्धानां विशे- षणविशेष्ययोविवेकासिद्धयाप्रसिद्धविशेष्यविशेषणः पक्षोऽप्रसिद्धा- न्यतरो वेति दूषणम् । पञ्चधा स्ववाग्विरोध इत्यादिना, निरालम्बनत्वं धर्मिणो भिन्नमभिन्नं वेति विकल्पेन च बौद्धमते नानादूषणानि । अत्र बौद्धानां प्रत्यवस्थानम् , असतोऽपि सत्त्वकल्पनयानुमानादिव्यव- हार इति तदुक्तार्थस्य निरसनं च । कीदृश्यसतः कल्पनेति विकल्प्य सर्वथा तदुक्तकल्पनाया निरसनम् । ४५ प्रत्ययो निरालम्बन इति धर्मिनिर्देशकस्य प्रत्ययशब्दस्य भावकर्तृकरण- साधनत्वे स्ववाग्विरोधः, कर्मसाधनत्वे सिद्धसाधनमिति च प्रति- पादनम् । सिद्धसाधनत्वविवरणम् । कर्तृकरणपरत्वे दोषान्तरकथनम् । ४६ भावादिषु विरोधः स्यादित्युक्तार्थस्य विवरणम् । प्रत्ययपदस्याखण्डरूपत्वेऽपि दोषकथनम् । " ४४ ४७ ४८ ४९ ५० नम् । ५४ विषयः. पृष्ठम्. विस्तरेण धर्मिदूषणानन्तरं साध्यस्य निरालम्बनत्वस्य धर्मस्य विकल्प- पूर्वकं दूषणम् । सर्वथा वा केनचित् प्रकारेण वा निरालम्बनत्वस्य साध्यत्वे दूषणक- थनम् । द्विचन्द्रादिज्ञाने वैलक्षण्यकथनम् । इन्द्रियार्थसम्प्रयोगसदसत्तया ग्राह्यस्य सदसत्ताव्यवस्थाप्रदर्शनम् । बौद्धमते अस्य विभागस्यासम्भवप्रदर्शनम् । मत्र नानादूषणानि । निरालम्बनबुद्ध्युत्पत्तिमात्रस्य साध्यत्वाभ्युपगमेऽपि सिद्धसाधनत्वकथ- ५२ ताहशबुद्धयुत्पादनशक्तिविरहत्वस्य तथात्वाभ्युपगमे साध्याप्रसिद्ध्या- दिदूषण कथनम् । ५३ अस्य पक्षस्य पूर्वाभ्युपगमविरुद्धत्वकथनम् । अस्याप्ततमबुद्धाभिप्रायविरुद्धत्वकथनम् । सर्वलोकप्रसिद्धमहीमहीधरोदध्यादिनिषेधादस्य लोकविरुद्धत्वकथनम् । ५५ पक्षादिग्राहिव्यतिरिक्ता एव प्रत्यया निरालम्बना इति प्रतिज्ञाकरणेऽपि विकल्प्य दूषणम् । उक्तेषु सर्वेषु पक्षेषु विरुद्धाव्यभिचारित्वमनुमानविरोधो वेत्यनुगतदूषण- कथनम्। ५६ पूर्वपक्षे बाह्यार्थालम्बना बुद्धिः समीचीना बाधकापेतबुद्धित्वात् स्वमज्ञा- नादिबाधबुद्धिवद्रिति प्रतिसाधनवर्णनम् । ज्ञानास्तित्वभिन्नत्वक्षणिकत्वादिधियां सत्यत्वेऽनैकान्तिकत्वं, मिथ्यावे पक्षबाध इति कथनम् । तथाच ज्ञानाभावे शून्यत्वमेव प्रमाणार्थ इति बद्धमुक्ताद्यव्यवस्था, मो- क्षयत्नवैफल्यं चेति कथनम् । 'सर्वसविकल्पकज्ञानानां मिथ्यात्वे ज्ञानास्तित्वादिपक्षो दुर्लभ इत्यादिना दूषणम् । ५७ " पृष्ठम्. विषयः, एवं सति साङ्ख्यादिसिद्धान्तपरित्यागेन बौद्धसिद्धान्ते पक्षपातस्यायु- कत्वम् । मिथ्यात्वव्यापकस्य बाधकप्रत्ययस्याभावाद् जाग्रबुद्धीनां मिथ्यात्वा- . भावः । " ५९ " " बाधकप्रत्ययं विना मिथ्यात्वाभ्युपगमे अव्यवस्था । जाग्रज्ज्ञानं सत्यं तत्प्रतियोग्यपेक्षया स्वप्नादिज्ञानं मिथ्येति सम्यक्त्व- मिथ्यात्वयोः सप्रतियोगिकत्वेन, सर्वमिथ्यात्ववादिबौद्धमते बीजा- भावात् स्वमज्ञानस्यापि मिथ्यात्वासिद्धिः । जाग्रज्ज्ञानप्रतियोग्यपेक्षया स्वमते स्वप्मादिधियां मिथ्यात्वोपपत्तिप्रद- र्शनम् । योगिदृष्टया जाग्रद्धियां सप्रतियोगित्वसम्भावनया स्वप्नमिथ्यात्वा- शका। तत्र दूषणानि । जाप्रबुद्धयः सत्याः इदानीं महाजनस्याबाधात् पराभिमतयोगिबाध- बुद्धिवदिति प्रतिप्रयोगकथनम् । अत्र प्रत्ययत्वमुभयसिद्धो हेतुर्न भवतीति कथनम् । अन्तःकरणजन्मनः स्वामविभ्रमस्य बाह्यालम्बनत्वप्रतिपादनम् । बाह्येन्द्रियजन्मनां विभ्रमाणामपि बाह्यालम्बनत्ववर्णनम् । शाब्दविभ्रमविषयेऽपि गतिप्रदर्शनम् । सन्निकृष्टवर्तमानविषयकत्वस्य प्रत्यक्षधर्मत्वकथनम् । अत्र चोद्यपरिहाराः । स्वमतरीत्या निरालम्बनत्वस्वरूपप्रदर्शनम् । अभावालम्बनस्य ज्ञानस्य शङ्कानिरसनपूर्वकमालम्बनकथनं, परमते निरालम्बनत्वस्याभावालम्बनत्वस्य च दुर्निरूपत्वकथनं च । दृष्टान्ते साध्यहीनतां विवृत्य विरुद्धो हेतुरिति दूषणान्तरकथ- ६१ ६२ ६४ ६५ ६६ नम्। ६९ L वैधर्म्यदृष्टान्ताभावान्न्यूनः प्रयोग इति केषाञ्चिदनुयोगस्तस्यानव- सरत्ववर्णनं च।
७ , " ८१ विषयः. पृष्ठम्. प्रक्षीणनिखिलकुहेतुजालमेवंवादिनं प्रति मीमांसकस्यापहासः । निरालम्बनानुमाने हेतुप्रतिज्ञाविरोधाख्यस्य निग्रहस्थानस्यापादनम् । असत्याद्धेतोः सत्यार्थविषयबुद्धयभावकथनम् । रेखातो वर्णप्रतीतिवत् स्यादित्याशङ्का, तत्परिहारश्च । अत्रार्थे श्रुतिप्रक्रियया शङ्का तत्परिहारश्च । वासनाभेदनिबन्धनस्य विकल्पप्रविभागस्य तद्भेदनिमित्तासिद्ध्यानुपपत्ति- कथनम् । ज्ञानानां क्षणिकत्वेनासाहित्यान्न वासनेत्यस्यार्थस्य प्रपञ्चः । आनुरूप्यवासनापक्षनिराकरणम् । ज्ञानातिरिक्तवासनापक्षे दूषणम् । आश्रयदूषणेन वासनानिरासः । स्वमतरीत्या ज्ञातुः स्थायित्वाद् वासनोपपत्तिकथनम् । लाक्षोपसिक्तबीजपूरकुसुमवलक्षण्यप्रदर्शनेन वासनाभावोपसंहारः । तात्पर्यान्तरवर्णनेन निरस्तस्य वादिनः समाश्वासनम् । ८४ ८५ ९० शून्यवादः। ९२ ९३ 'शून्यस्तु' इति भाष्यस्याक्षेपपूर्वकं तात्पर्यवर्णनम् । पूर्वपक्षविवक्षया संवित्परीक्षावतारणम् । संवित्परीक्षास्वरूपप्रदर्शनम् । परीक्षायां फलविमर्शः । ज्ञानं वा नीलमर्थो वा नील इति परीक्षाया युक्तत्वप्रतिपादनम् । तत्राचे ज्ञानातिरिक्तबाह्यार्थासिद्धया सिध्यत्यद्वैतं, द्वितीये नीलादि- बाह्यार्थः तत्प्रकाशकं ज्ञानं चेति द्वैतसिद्धिरिति विचारे फल- भेदवर्णनम् । तत्र ज्ञानमेवाकारषद् इति पूर्वपक्षपरिग्रहः । बाह्यार्थस्यैव नीलाद्याकारत्वे ग्राह्यान्तरकल्पनागौरवमिति कथनम् । प्रमाणवती कल्पना युक्तैवेत्याशय कल्पनाया अप्रामाणिकत्वप्रति- पादनम् । ९५ ८ विषयः. पृष्ठम् . बौद्धमते ज्ञानस्य स्वच्छाकारत्वात् कथं ग्राह्यग्राहकाकाररूपिततया भानमित्याशङ्कायास्तन्मतरीत्या परिहारः । .९८ अर्थाकारकल्पनापेक्षयोभयवादिसिद्धज्ञानाकारकल्पनाया एव ज्याय- स्त्वमिति वर्णनम् । .९९ अत्र कारणवर्णनम् । ज्ञानं प्रकाशकमिति वदता मीमांसकेनापि ज्ञानाकारत्वस्यावश्याङ्गी- कर्तव्यत्वकथनम् । .१०२ बुद्धिज्ञानपूर्वकमेवार्थज्ञानमिति प्रतिपादनं तदुपसंहारश्च । १०४ निराकारासु बुद्धिषूपलब्धिर्नास्तीतिकथनम् । १०५ सहोपलम्भनियमान्मयमातृमानत्रयस्याभेदापत्तिकथनम् । १०६ मीमांसकैकदेशरीत्या सहोपलब्धिनियमासिद्धिमाशङ्कय तन्निरसनेन ज्ञानस्यैवाकारवत्तया बोध इति वर्णनम् । १०७ अर्थाकार एव ज्ञानं समारूढोऽतः साकारमिव ज्ञानमिति शङ्काया निरासः। १०९ अर्थाकारस्यैव ज्ञाने प्रतिबिम्बितत्वनिरासः । ११० रूपभिन्नस्पर्शादीनां प्रतिबिम्बितत्वायोग्यत्वकथनम् । बहिनायस इवार्थाकारेण ज्ञानस्य संसृष्टत्वनिरासः । अर्थेन ज्ञानस्य संसर्गस्य निष्प्रमाणकत्वमुक्त्वा ज्ञानवैचित्र्यार्थ विचि- त्रार्थकल्पनाया दूषणम् । ११३ भासमाननीलादेः ज्ञानार्थोभयाकारत्वोपन्यासः; तदूषणं च । ११५ द्विचन्द्रादिविभ्रम इव ज्ञानाकारताया एवौचित्यम् । ११६ प्रमदातनौ परिवाटकामुकशुनां कुणपकामिनीभक्ष्यबुद्धयनुरोधेन ज्ञाना- कारताया एवौचित्यम् । सिद्धान्तारम्भः । ११८ a एकमेव ज्ञानं ग्राह्यग्राहकोभयात्मकं न सम्भवति तत्र दृष्टान्ताभावा- दित्यस्यैवार्थस्य सिद्धान्तमूलभूतस्य प्रपञ्चनम् । ११९ घटादीन् प्रत्यग्न्यादेाहकत्वमेव चक्षुरिन्द्रियं प्रति ग्राह्यत्वमतो नैक- रूपेण तेषां ग्रामग्राहकत्वमिति विशदीकरणम् । १२५ ९ पृष्ठम् . १२६ १२७ १२८ १३१ १३३ १३४ विषयः. ज्ञानस्य स्वतो ग्राह्यत्वं प्राहकत्वं चात्मवत् स्यादित्याशयात्मनो वैलक्षण्यप्रदर्शनेन परिहारः । अहमित्यस्मत्प्रयोगसम्भिन्नबोधतयात्मनः ज्ञानकर्तृत्वमिदमिति भास 'मानतयार्थस्य ज्ञेयत्वमतो नैकस्य ज्ञानस्य यात्मकत्वमिति 'प्रपञ्चः । अत्र कुमारस्वामिवादिनामाक्षेपः । तन्निरसनेनात्मनोऽस्मत्प्रयोगसम्भिन्नबोधविषयत्वप्रतिपादनम् । इदं नीलमित्यत्र नीलमात्रभानात् करणवज्ज्ञानज्ञात्रोरभानादप्येकस्यो- भयात्मकत्वाभाववर्णनम् । 'स हि बहिर्देशसम्बद्धः' इत्यादिभाष्यस्य सिद्धान्तरीत्यार्थवर्णनम् । 'भवति हि कदाचिदेतद् यद् ज्ञातोऽर्थः सन्नज्ञात इत्युच्यते' इति भाष्यस्यार्थविवरणम् । प्रामग्राहकयोरभिन्नतायां दूषणानि । एकग्रहणेऽपरस्यापि ग्रहणमित्यत्र पूर्वपक्षिणां चोद्यम् । प्रायांशस्यैव ग्राहकत्वे कर्मणः कर्तृभावानुपपत्तिकथनम् । भावानां ग्रहणाग्रहणनियामकतयोद्भवाभिभवयोरुपगमेन यदा यस्योद्भवः तदा तस्यैवांशस्य पावत्वमिति कथनम् । अस्यार्थस्य दृष्टान्तेन विशदीकरणम् । रष्टान्तेषूक्तस्याभिभूताग्रहणस्य प्रकृते योजनम् । पूर्वपरिचोदनाया वस्तुन एकत्वेन कुतो योग्यत्वायोग्यत्वे उद्भवाभि- भी वेत्याक्षेपपूर्वकं परिहारः। रूपादीनां परस्परं द्रव्यतश्च भेदानभ्युपगमे परस्य क्लेश इत्युपपाद्य स्वभावादेव ते भियन्ते इत्येव साम्प्रतमिति वर्णनम् । सत्यपि यात्मकत्वे द्यात्मकं न गृह्यत इत्युक्तं निराकृत्य याकारमेव ज्ञानं गृयत इत्यपरैबौद्धैरुक्तस्य दूषणायोपन्यासः । भाकरमचये कथितस्य दोषस्य परिहारः । 'स्मरणाचानुमानिकी' इत्युक्तस्योपन्यासो दूषणं च । " १३५ : १३६ १३७ १३८ १४० १४३ १४५ १४६ पृष्ठम् . १४७ १४८ १५० .. " १५१ १५२ १५३ १० विषयः. एकाकारे ज्ञाने याकारकल्पनेऽप्रामाणिकत्वाविशेषात् सहस्राकारता- कल्पनापादनम् । सिद्धान्तहान्यास्य वादिनो निग्रहकथनम् । ग्राह्यग्राहकयोरत्यन्तभेदे सिद्धयति द्वैतमिति कथनम् । ज्ञानशब्दव्युत्पत्तौ सर्वथा वस्तुभेदसिद्धिकथनम् । अपरेषां बौद्धानां मतोपन्यासः, तदूषणं च । द्वयोर्यायग्राहकयोः ज्ञानं ज्ञानमित्यनुगतसामान्याभावः. ताभ्यां तव्यतिरेके दोषकथनं च तदव्यतिरेके दोषकथनम् । अपोहरूपसामान्याभ्युपगमे दोषाधिक्यम् । अपोहस्यैवासम्भवप्रदर्शनम् । अज्ञानप्रत्ययस्यागत्यार्थालम्बनत्वापत्त्याज्ञानवाचोयुक्त्यार्थस्यैव पराभिमतत्वप्रसञ्जनम् । अज्ञानम्याभावात्मकत्वे चोद्यपरिहारौ। ज्ञानं ज्ञेयमिति वस्तुभेदे सिद्धे ग्रायः ग्राहक इति व्यपदेशस्य यथारुचित्वाभ्यनुज्ञा । 'अर्थविषया हि प्रत्यक्षसिद्धिः न बुद्धिविषया क्षणिका हि सा न बुद्ध्यन्तरकालमवस्थास्यते' इति भाष्यार्थोपन्यासः । युगपद्भाविनोः कार्यकारणभावनिरासः । योगपद्येऽपि प्रदीपवत् स्यादिति शङ्का तन्निरसनं च । शक्त्यपणद्वारा पूर्वस्योत्तरज्ञानालम्बनत्वनिरासः । शक्त्यर्पणदूषणम् । ज्ञानस्य ग्राह्मैकखभावत्वं दूषयित्वा ग्राहकैकस्वभावत्वे दोष- कथनम् । ग्राह्यग्राहकयोर्भेदस्य प्रयोगेण प्रदर्शनम् । प्रकारान्तरेण पायग्राहकयोर्भेदप्रदर्शनम् । उभयवादिसिद्धत्वाज्ज्ञानाकारकल्पनायां लाघवमित्यादिपरोक्तस्य परिहारप्रपञ्चः । " १५४ १५५ १५६ १५७ १५८ १६० । १६१ १६२ १६३ १६५ विषयः. ८ पृष्ठम्. १६८ १७१ १७२ १७४ १७५ १७६ १७८ १८० १८१ प्रागनवगतानां स्मरणासम्भवकथनम् । भिक्षुणोक्तस्य प्रान्तभाषितत्वकथनम् । पूर्व ज्ञानमुपलभ्यते पश्चादर्थ इति परोक्तस्यायुक्तत्वप्रतिपादनम् ! मिथ्याज्ञानेष्वाकारासम्भवस्य परोक्तस्यानुभाषणपूर्वकं परिहारः अत्यन्तासम्भावनीयस्वशिरश्छेदादिविभ्रमेषु गतिप्रदर्शनम् । प्रान्तिज्ञानानामन्यथास्थितस्यार्थस्यान्यथावभासकत्वं नात्मपर्यव- सायित्वमित्युपसंहारः । तारकादिमतौ स्त्रीत्वादिलिङ्गप्रत्ययप्रसक्त्या लिनस्वरूपविचारः तत्र वृद्धसम्मतिप्रदर्शनं च । तत्र मीमांसकानां प्रत्यवस्थानम् । एकस्यामेव प्रमदातनौ परिव्राजकादीनां कुणपादिप्रत्यये परोक्त- • दूषणस्य परिहारः । एकगोचरे दीर्घादिप्रत्यये घटपार्थिवादिप्रत्यये चोपपत्तिप्रदर्शनम् । ज्ञानविलक्षणबाह्यार्थसद्भावसाधनस्योपसंहारः । इन्द्रियाणां प्राप्यकारित्वे तद्विपर्ययेऽपि ज्ञानस्य बाह्यार्थविषयत्व- वर्णनम् । परोक्तचोद्यान्तरपरिहारः । 'ननूत्पद्यमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरम्' इत्यादिभाष्य- स्याक्षेपः । आक्षिप्तस्य भाष्यस्य समाधानम् । 'तन्न, नयज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते' इत्यादिभाष्यस्याभि- प्रायवर्णनम् । एकदेशिमतोपन्यासः। 'ननूत्पन्नायामेव बुद्धावर्थो ज्ञात इत्युच्यते नानुत्पन्नायाम्' इत्यादि- भाष्यस्याक्षेपः । अत्याक्षेपस्म समाधानम् । 'सत्यं पूर्व बुद्धिरुत्पद्यते नतु पूर्व ज्ञायते' इति भाष्यस्यार्थ- विवरणम् । १८२ १८३ १८१ १८५ १८६ १८७ हाम्. १८८ १८९ 7 १२ विषयः. आक्षेपनिरसनपूर्वकमस्य भाष्यस्य फलद्वारेण प्रतिज्ञानिराकरण- परत्वकथनम् । 'काममेकरूपत्वे बुद्धेरेवाभावो न त्वर्थस्य प्रत्यक्षस्य' इति भाष्य- स्याक्षेपर्पूवकमर्थवर्णनम् । 'न चार्थन्यपदेशमन्तरेण बुद्धे रूपोपलम्भनमि'त्यादिभाष्यस्य विवरणम् । 'अपिच नियतनिमित्तस्तन्तुष्वेवोपादीयमानेषु पटप्रत्ययः' इत्यादि- भाष्यस्याक्षेपः । दोषपरिहारसाम्येऽन्यतरस्यानियोज्यत्वकथनम् । उक्तभाण्याक्षेपपरिहारः । विज्ञानव्यतिरिक्ताया वासनायाः शक्तिशब्दोदिताया दुर्निरूपत्वात् स्वकार्यनियमव्यवस्थापकत्वासम्भववर्णनम् । अस्यार्थस्य भाष्यकाराभिहितत्वकथनम् । एवजातीयकेऽर्थे आगमस्य व्यापाराभावकथनम् । शून्यतायामुपमानाप्रामाण्यकथनम् । तत्रार्थापत्तेरप्रामाण्यकथनम् । शून्यतायाः षष्ठप्रमाणगोचरत्वोक्त्या तन्निरसनोपसंहारः । एवं बाह्यार्थसिया माध्यमिकानामपि निरास इति कथनम् । तथाच ज्ञानशेययाथार्थ्यविदां मीमांसकानामेव धर्मविचारभारवहन- क्षमत्वोपवर्णनम् । १९० १९१ १९२ " १९३ ३ ॥श्रीः॥ मीमांसाश्लोकवार्तिकं सुचरितमित्रमणीतया काशिकाख्यया टीकया समेतम् । (द्वितीयो भागः।) औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञान- मुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं बादरा- यणस्यानपेक्षत्वात् ॥ (५) प्रत्यक्षादौ निषिद्धेऽपि ननु लोकप्रसिद्धितः। धर्माधर्मों प्रमास्येते ब्राह्मणादिविवेकवत् ॥१॥ अत्र भाष्यकारेण प्रत्यक्षाद्यनिमित्तत्वे प्रतिपादिते सदुपलम्भकप्रमाण- प्रत्यस्तम(य?यादमा)वप्रमेयतां धर्मस्याशङ्कय तन्निराकरणपरतयौत्पत्तिकसूत्र- मवतारितम् अभावोऽपि नास्ति यतः "औत्पत्तिकस्तु शब्दस्यार्थेन सम्ब- न्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्वार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यान- पेक्षत्वात्" इति । तच्च चोदनैवेत्यवधारणं चाक्षिपति-प्रत्यक्षादाविति। अयमर्थः- भावगोचरनिखिलप्रमाणाभावे ह्यभावः प्रमाणम् । नचह तथा, लोकप्रसिद्धरेवाभावात् । नच सा न प्रमाणं, ब्राह्मणादिवर्णविवेकस्य तदधीन- त्वात् । इतरथा तदभावात् । नखलु सुनिपुणमपि विलोकयमाना वयं क्षत्रि- यादिविलक्षणं ब्राह्मणशब्दवाच्यं पिण्डानुगतमपरं रूपमपरोक्षमीक्षामहे । तदवश्यं वर्णविवेकाय लोकप्रसिद्धिः स्वतन्त्रा प्रमाणमास्थया । अपिच सक- लशब्दार्थावधारणमेव तदायत्तं, तामन्तरेण प्रमाणान्तरासम्भवात् । अतो निषिद्धेऽपि प्रत्यक्षादौ नाभावश(का) । नच चोदनैवेत्यवधारणोपपत्ति- रिति॥१॥ C.P.T. 383. 500. 12-3-1022 B.
२ - मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । धार्मिकाधार्मिकत्वाभ्यां पीडानुग्रहकारिणौ। प्रसिद्धौ हि तथाचाह पाराशर्योऽत्र वस्तुनि ॥२॥ इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये । आचण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनम् ॥३॥ निर्मूलासम्भवादत्र प्रमाणैः सैव मृग्यते । कुतः पुनः प्रवृत्तेति प्रत्यक्षादि तु वारितम् ॥ ४॥ नचैतानि परित्यज्य पृथग् लोके प्रमाणता । प्रसिद्धिमेव दर्शयति- धार्मिकेति ह्यन्तेन । अनुग्रहकारिणि हिं लौकिका धार्मिकशब्दं प्रयुञ्जाना दृश्यन्ते । पीडाकारिणि चाधा(र्मिक- शब्दम् )। यश्च धर्ममाचरति स धार्मिकः । तद् यद्यनुग्रहो धर्मः तदेक्स- पपद्यते नान्यथेति । एतदेव भगवतो व्यासस्याप्यभिमतमिति दर्शयति तथेति प्रयोजनमन्तेन । नि(विषय)प्रयोगासम्भवात् तद्विषयमिदमा प्रतिनि- दिशति । तदयमर्थः-विशिष्टविषये पुण्यपापपदद्वये आचण्डालं मनुष्याणां विद्यमाने तेनैव धर्माधर्मप्रमितिसिद्धरनर्थकं शास्त्रमिति । नन्वेवं पुण्यपाप- प्रमाणको धर्माधर्मावुक्तौ, न लोकप्रमाण(कौ)। नैवम् । तत्प्रयोगस्यैष लोकायत्तत्वात् । तस्मादयमनुपालम्भ इति ॥३॥ एवमाक्षिप्य समादधाति -- निर्मूलेतीत्यन्तेन । अयमर्थः प्रसिद्धिर्हि प्रज्ञानम् । तच्च (ज्ञा)नद्रढिमा। नच निर्मूलं ज्ञानमात्मानं लभते प्रागेव ज्ञानद्रढिमा । तदेवं निर्मूलायाः प्रसिद्धरभावात् कुतः सा प्रवृ- तेति प्रमाणैरन्विष्यत इति । ननु च कार्यद्रढिम्ना मूलं कल्पयिष्यते, स्मृ- तिहाढिनेव श्रुतिरत आह–प्रत्यक्षादीति । सत्यम् । समूला प्रसिद्धिः प्रल- क्षादिमूलतया प्रत्यक्षसूत्रे निवारिता चोदना (मूल) भविष्यत्येवेति ॥४॥ ननु सन्निकृष्टार्थगोचरमेव सर्व प्रमाणम् । अतः प्रसिद्ध प्रमाणान्त- रागोचरार्थत्वं गुणः न दोषाय, अत आह-नचेति । नच प्रत्यक्षादीनि परित्यज्य लोको नाम प्रमाणगणे प्रमाणमुपसंख्यायते। वर्णविवेकसम्बन्धा- वधारणयोस्तु प्रत्यक्षादिप्रमाणत्वं वनसम्बन्धपरिहारयोरमिधास्याम इति ।
سم औत्पत्तिकसूत्रम् । संसारमोचकादेश्च हिंसा पुण्यत्वसम्मता ॥५॥ न पश्चात् पुण्यमिच्छन्ति केचिदेवं विगानतः । म्लेच्छार्याणां प्रसिद्धत्वं न धर्मस्योपपद्यते ॥६॥ .नचार्याणां विशेषोऽस्ति यावच्छास्त्रमनाश्रितम् । 'तन्मूलार्थप्रसिद्धिस्तु तत्प्रामाण्ये स्थिते भवेत् ॥ तस्मादभाववक्तृस्थौ धर्माधर्मों न शक्नुयात् । चोदना चेत् समुद्धर्तुं प्रस्तौ तेनैव पश्यताम् ॥ ८॥ ? ........ अपिच भवेदपि प्रसिद्धिः प्रमाणं, यदि व्यवस्थितैव प्रसिद्धिः स्यात् । सा त्वव्यवस्थिता । तथाहि-संसारमोचका नाम नास्तिका बाह्यहिंसामेव धर्ममाहुः । अन्ये तु तपः (प्र? प्राजापत्यादि पीडात्मकत्वात् परपीडावत् अधर्म.... स्तु विधिनिषेधप्रमाणको तद्विपरीतौ धौधौं साहरन्ते (१।) तदेवं म्लेच्छार्याणां परस्परविगानान्न लोकप्रसिद्धत्वं धर्माधर्मयोरुप- पद्यत इत्याह-संसारेति सार्धेन ॥६॥ नन्वनुमानाभाससकरेण प्रमाणमप्रमाणीभवति । नहि प्रत्यक्षामास- सकरात् प्रत्यक्षमप्रमाणं भवति । अथ तत्र कारणदोषसदसद्भावनिबन्धनः प्रमाणतदाभासविवेकः, सोऽत्राप्यविशिष्टः । अत्रापि स्मृतिकारैविवेकीपायो दर्शित एव । 'आचारश्चैव साधूनाम्' इत्यादिना । साधवश्वार्याः । स्वाभा- विककृष्णमृगचरणोपलक्षितार्यावर्तनिवासिनश्चार्यशब्दवाच्याः । अतस्तदा- चारो धर्मोऽन्योऽधर्म इति विवेको भविष्यति, अत आह- शास्त्रसदसद्भावनिबन्धनो ह्यार्यम्लेच्छविभागः तद(नाश्रयेण) त्वायम्लेच्छ- विभागो दुर्भणः । अत एव “शास्त्रस्था वा तन्निमित्तत्वात्" (१. ३. ९) इति वक्ष्यतीति । अस्तु तर्हि शास्त्रमूलार्थप्रसिद्धिः प्रमाणमत आह तन्मूलेति। न स्वतन्त्रायाः प्रसिद्धरेव प्रामाण्यं सिध्यतीत्यभिप्रायः ॥ ७॥ अतः सकलभावप्रमाणनिराकरणात् शङ्किताभावनिराकरणेन चोदनव धर्माधर्मयोः प्रमाणमित्युपपन्नमित्याह -तस्मादिति । पश्यतामिति । पछी चानादरे (२.३.३८) इत्यनादरे षष्ठीति ॥ ८॥ नचेति । - ४ मीमांसासोकवार्तिकं काशिकाटीकोपेतम् । उपदेशो हि भवति ज्ञानं तस्यति योज्यते । ज्ञायते येन तज्ज्ञानमेकाधिकरणत्वतः ॥ ९ ॥ औत्पत्तिकगिरा दोषः कारणस्य निवार्यते । अबाधोऽव्यतिरेकेण स्वतस्तेन प्रमाणता ॥ १० ॥ सर्वस्यानुपलब्धेऽर्थे प्रामाण्यं स्मृतिरन्यथा । अत्र भाष्यकारेण 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्यामिहो- त्रादिलक्षणस्य धर्मस्य निमित्तमित्युक्त्वा (कथमि)ति प्रश्नानन्तरम् 'उप- देशो हि भवतीति सौत्रमुपदेशपदं व्याख्यातं, तत्र न ज्ञायते केनास्य सम्बन्ध इति योग्यपदान्वयं, दर्शयति - उपदेश इति । तस्य धर्मस्यो- पदेशो ज्ञानं प्रमाणमिति । ननूपदेशो ग्रन्थसन्दर्भात्मा, ज्ञानं चाव- ग्रहः । कथमनयोः सामानाधिकरण्यमत आह-ज्ञायत इति । भाव- साधनो हि ज्ञानशब्दो नोपदेशशब्देन सामानाधिकरण्यं लभते । अयं तु ज्ञायतेऽनेनेति करणसाधन इति युक्तं सामानाधिकरण्यमिति ॥९॥ कथं पुनरुपदेशो धर्मे प्रमाणमत आह औत्पत्तिकेति । बाधकारणदोषाधीनं ह्यप्रामाण्यम् । तत्र सम्बन्धोत्पत्तिकत्वप्रतिपादनेन तद्वारा पुरुषानुप्रवेशाभावात् , पुरुषाश्रयत्वाच शब्दे दोषाणां कारणदोष- निवारणं तावत् कृतम् । तन्निराकरणेन सहाप्रामाण्यमनपोदितमित्य व्यतिरेकपदप्रयोजनमाह- अबाध इति । अव्यतिरेकपदेनाषाधः प्रति. पाद्यते नहि देशकालयोरुभयोरपि चोदनाजनितं ज्ञानं विपर्येतीति । तदेवं बाधकारणदोषनिराकरणे कृतेऽनपोदितमौत्सर्गिकं प्रामाण्यमिति तत् प्रमाण- मित्यनेनोक्तमिति दर्शयति-स्वत इति ॥ १० ॥ अत्र चार्थेऽनुपलब्ध इत्युच्यते । तदयुक्तम् । उपलब्धार्थविषयमपि प्रमाणं भवत्येव । अनुभूतिर्हि प्रमाणं प्रत्युत्पन्नेन्द्रियलिङ्गादिजनिता च संवि- दनुभूतिः । अत एवोन्मीलि(ताक्ष)स्यैकमावगोचराणां धारावाहिकसंविदा प्रामाण्यमुपपन्नं भवति । अन्यथा तन्न स्यात् । नहि तत्रानवगतं किञ्चिदनुम- यते। देशकालान्तरसम्बन्धोऽनुभूयत इति चेद्, न । एकदेशस्थेऽपि भावात्। ।
५ औत्पत्तिकसूत्रम् । चोदना चोपदेशश्च विधिश्चैकार्थवाचिनः ॥ ११ ॥ वाक्यान्तरे समर्थेऽपि किमर्थं विधिराश्रितः। कालस्तु परोक्षः । नच परोक्षापरोक्षसम्बन्धोऽपरोक्षो भवति, तरुमरुत्संयो- गवत् । अतो(ऽवगतार्थ)मनधिकार्थमपि ग्रहणं प्रमाणमिति वाच्यम् । न- चैवं स्मृतित्वापातः। स्मृतिर्हि पूर्वानुभवप्रभावितभावनावशलन्धसिद्धिर्नाधि. कमपेक्षते (ग्रहण+त्व?) नेन्द्रियसापेक्षमित्युक्तम् । अतएव गृहीतमपि पुन- गृह्यमाणं दृश्यत इति लौकिका व्यपदिशन्ति, नतु स्मर्यत इति । अतो न विद्यः किमर्थेऽनुपलब्ध इत्यनेन निरस्यत इति (अत आह-) सर्वस्येति। अयमर्थः ....- अनुपलब्धार्थविषयमेव सर्व प्रमाणम् । अन्यथा स्मृतित्वापा- तात् । नहि ग्रहणस्मरणयोगृहीतागृहीतगोचरयोहीतागृहीतगोचरगतो विशेष उपलभ्यते । यनु कारणभेदाद् भेद इत्युक्तम् सत्यम् । स्वरूपभेदौ- पयिकः कारणभेदः । स्वरूपं तु गृहीतागृहीतविषयत्वादेव भिन्नम् । अनु- भूतिम्रहणमिति चेद् , यद्यपि सोऽनुभूतिः अनुमानादिषु स्मृतित्वप्रसङ्गः । अतोऽवश्यं गृहीतागृहीतागोचरत्वमेव ग्रहणस्मरणयोर्भेदः। किमिदानीं धारा- वाहिकसंविदो न प्रमाणम् । नहि का++++ क्तम् । अत्रोच्यते । तत्राप्यु- त्तरोत्तरकालाकलितभावप्रत्याकलनादुपपन्नमेवाधिकगन्तृतया प्रामाण्यम् । नच वैशेषिकादिवत् परोक्षं कालमाचक्ष्महे । प्रत्यक्षमेव हि +++वर्तमानकाल- सम्बन्धान भावानुपलभामहे । कथमरूपं प्रत्यक्षमिति चेत् । आकाशवद् भवि- ध्यति । नहि रूपि प्रत्यक्षमिति नः प्रत्यक्षलक्षणम् अपितर्हि संविदेव परो- क्षापरोक्षनिर्भासोदीयमानेदं प्रत्यक्षमिदमप्रत्यक्षमिति विभजते। तदेवं विस्फा- रिताक्षस्य व्यक्तानुपलक्षितोत्तरोत्तरसूक्ष्मक्षणभेदभिन्नैकभाववि +++कापरो- क्षनिर्भासावभासोदयात् उपपन्ना प्रत्यक्षता प्रमाणता च । अतः प्रमाणान्तरा- नुपलब्धस्वगोचरप्रत्याकलनादुपपन्नमुपदेशप्रामाण्यमिति सूक्तमर्थेऽनुपलब्ध इति । अत्र भाष्यम् 'उपदेश इति विशिष्टस्य शब्दस्योचारणमिति । तत्र चोदना विधिपदपर्यायः शब्दविशेषो भाष्यकारस्यामिमतः इत्याह-चोद- नेति । एतदुक्तं भवति-विधायकशब्द उपदेश इति ॥ ११ ॥ अत्र चोदयति वाक्यान्तर इति द्वयेन । अयमर्थः- यदिदं शन्दविशेषस्य विषेर्धर्मे प्रमाणत्वमाश्रितम . अनेन वाक्यान्तरमपि हि वर्तar मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । साध्यसाधनसम्बन्धः सर्वाख्यातेषु गम्यते ॥१२॥ सर्ववाक्येषु चाख्यातं तेनाकाङ्क्षानिवर्तनात् । प्रवृत्तिसिद्धिरिच्छातः प्रतिषेधात् तु वर्जनम् ॥१३॥ विधावनाश्रिते साध्यः पुरुषार्थों न लभ्यते । । श्रुतस्वर्गादिबाधेन धात्वर्थः साध्यतां ब्रजेत् ॥ १४ ॥ मानोपदेशकं धर्मप्रमितौ प्रमाणमेव । श्रेयस्साधनं हि धर्मः । सच श्रेयसः स्वर्गादेः साधनेन यागादिना साध्यसाधनसम्बन्धः सर्वाख्यातेषु सम्भवति । 'स्वर्गकामो यजेते'त्यतोऽपि हि यागेन स्वर्गः सिध्यतीति गम्यत एव । यथा लोके ओदनं पचतीति पाकौदनयोः साध्यसाधनसम्बन्धबुद्धिः । स्यादेतत्-आख्यातमन्तरेण साध्यसाधनसम्बन्धो न सिद्ध्येत्, तदर्थो विधिरिति । तन्न । अनाख्यातवाक्यप्रयोगासनावात् । प्रयोजनाय हि वाक्यमुच्चार्यते । निराकाक्षं च वचः प्रयोजनक्षममाकाङ्क्षानिवर्तन चाख्याताहते न सम्भवति । इतरथा विधरप्यसम्भवात् । स्तुत्यापि ह्याख्यात- मेव खादिरादिवाक्येषु विधायकं परिकल्प्यते । अथोच्येत ---- अनुष्ठितो यागादिर्धर्मः, नचानुष्ठान (प्रवर्तकारते सम्भवति । नच विधिमन्तरे- णान्यः प्रवर्तयतीति । तन्न । इच्छानिवन्धनत्वात् प्रवृत्तेः । अनिष्टेषु विधि- शतेनाप्यप्रवृत्तेः । अतोऽनेनेदं सिध्यतीति संविदि वोपायार्थी स तत्र प्रवर्तत इति । नचाधर्मवर्जनाओं विधिः । प्रतिषेधादेव नास्तसिद्धेः । रागादिप्राप्तकर्तव्यतानुवादेन नव निषेधाधिकारे निवर्तकः । एषा हि तत्र वचनव्यक्तिः यद्धन्यात् तन्नेति । अतोऽनर्थको विधिप्रामाण्यप्रति- पादनप्रयासः । अपौरुषेयः शब्दः धर्मे प्रमाणमित्येतावदेव वंचनीयमिति ॥१३॥ परिहरति-विधाविति । अयमभिप्रायः --- सत्यमिच्छातः प्र- वृत्तिः । इच्छैव तु प्रेक्षावतां पुरुषार्थसाधनविषया । नच विधिना विना पुरुषार्थसाधनत्वं यागादीनां शक्यतेऽवगन्तुम् । अतएवौदुम्बरादीनां सत्यपि फलपदसम्बन्धे विधिविरहात् फलार्थत्वं नेत्यौदुम्बराधिकरणे व- क्ष्यते । ननु लौकिकपाकौदनादिवत् साध्यसाधनसम्बन्धसिद्धिरक्ता..
च्यते। ....... औत्पत्तिकसूत्रम् । विधौ तु तमतिक्रम्य स्वर्गादेः साध्यतेप्यते । तत्साधनस्य धर्मत्वमेवं सति च लभ्यते ॥ १५॥ सत्यमुक्ता । अयुक्ता सा । लोके प्रमाणान्तरावगतेः सिध्यत्यपि । नतु वेदे । प्रमाणान्तराभावात् । ननु स्वर्गकामपदसमभिव्याहारः प्रमाणं, न । तस्य श्रुत्या बाधात् । इहहि यजत इति साध्याकाङ्किणी भावनावगता सती समानपदोपादानश्रुत्युपनीतयो र्धात्वर्थसम्बन्धनिराकाङ्क्षा सती न. व्यवहितकर्तृविशेषणत्वोपयुक्तस्वर्गादिभाव्यसम्बन्धमनुभवति । सबिक- टालामे हि विप्रकृष्टोऽपि वैदिको भवति न सन्निकृष्ट, लभ्यते चेह धात्वर्थः सन्निकृष्ट इति न विप्रकृष्टफलपदसम्बन्धो युक्त इति ॥ १४॥ कृतिविधौ तर्हि कथं पुरुषार्थसाध्यसिद्धिरत आह-विधाविति। अयमभिप्रायः ----विधिर्हि चेतनप्रवर्तनात्मकार्थे फले व्यापारे शक्यते पुरुष प्रवर्तयितुम् । अतः समानप्रत्ययोपात्तविध्यवरुद्धा भावना विधेः प्रवर्तनाश- तिर्मा व्याघानीति सन्निहितमप्यपुरुषार्थवादय र्वमतिकम्य व्यवहितेनापि पुरुषार्थेन स्वर्गादिना साध्येन सम्बध्यते । धात्वर्थस्तु साध्य- त्वात् प्रच्यावितो भावनायामेव साधनाकाङ्गिण्यां साधनतया निव . तमावाक्यार्थों भवति यागेन स्वर्ग कुर्यादिति । अतः पुरुषार्थ- साधनस्य यागादेर्धमत्वसिद्धिरिति युक्तमुपदेशप्रामाण्यप्रतिपादनमिति । इदं त्विह वक्तव्यम् ---- का(य)विधौ पुरुषार्थः साध्यो लभ्यते । विधिर्हि शब्दभेदो वा लिङादिः, तद्व्यापारातिशयो वा, कोऽपि तदर्थ- भेदो वा । सर्वथा च न युज्यते । शब्दे हि प्रवर्तयितरि पुरुषार्थसम्बन्धे प्रमाणमस्ति । आते हि वुद्धिपूर्वकारिणि प्रवर्तके हितकार्ययं मामफले न प्र- वर्तयतीति बुद्ध्वा भवति प्रवृत्तिविषयव्यापारफलवत्ता(ध्य)वसायः । शब्द- स्त्वचेतनो नास्मिन् प्रवर्तयत्यपि पुरुषार्थफलप्रतिलम्भः । नहि प्रबलपवना- मिहतोऽवटे निपतत् फलं प्रतिलभते । आपच प्रमाणं शब्दः । प्रमाणानां प्रमेयोपदर्शनादन्यत्र व्यापारः । प्रत्यक्षं हि रूपादीनुपदर्शयति नतु प्रवर्त- यति । त्रेधा हि प्रामाणिकाः प्रमाणफलं विभजन्ते । हानमुपादानमुपेक्षा चेति । तदिदं प्रमाणानां प्रवर्तकत्वे नोपपद्यते । तदा छुपादानमेवैकं प्रमाण- पालमापयेत । कण्टकप्रत्यक्षेण हि कण्टकेषु प्रवर्त्यमानो जिहासमपि तान् ....
८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् - मृगीयात् । स्यादेतत्-शब्दप्रमाणधर्मोऽयं न प्रमाणान्तराणामिति । न, प्रमाणत्वाविशेषात् । एवंहि प्रयोगो भवति । शब्दो न प्रवर्तकः प्रमाणत्वात् प्रत्यक्षादिवत् । अस्तु वा प्रवर्तकः । नियमेन प्रवृत्तिप्रसङ्गः। नच लिङादिश्राविणो नियमेन प्रवर्तमाना दृश्यन्ते । प्रथमश्रुतादप्रवृत्तेः । अविदितसमयत्वादप्रवृत्तिरिति चेत्, किमिदानी सम्बन्धसंविदपेक्षया यदि शब्दः प्रवृत्तेः कारकः । नहि कारकाणि स्वरूपसंविदमप्यपेक्षन्ते । (प्रागेव समयसंविदं ?) मृत्सलिलप्रच्छन्नं हि बीजमविदितस्वरूपसामर्थ्यमपि स्वका- यमहरमारभमाणं दृष्टम् । एवमेव शब्दव्यापारो विधिरित्यपि निरसनीयम् । स्यान्मतम् अभिधेय एव लिङादीनां व्यापारो विधिः । अतो न पूर्वोक्तदोषप्रसङ्गः इति । न, अनिरूपणात् । स खलु प्रेषणादिलक्षणो वा स्याद् , अन्यो वा । न तावद् प्रेषणादिलक्षणः शब्दे सम्भवति । अचेतन- वात् । नचान्यस्तत्समर्थाचरणलक्षणः, तस्य कारीषादिवदनिरूपणात् । का- रीषस्य हि वह्नः शीतापनोदनोऽध्ययने दृष्ट(मु?उ)पकारः । न शब्दे तथा सम्भ- वति । प्रमाणान्तराभावात् । शब्दस्य चागृहीतसम्बन्धस्याप्रत्यायकत्वात् । यदि घूयाद् व्यापारान्तरकल्पने स्यादयं दोषः, क्लप्त एव तु लिङादीनामभि- धाभिधानलक्षणो व्यापारः शब्दान्तराणामिव स्वार्थप्रकाशनान्यथानुपपत्ति- प्रमाणकः प्रवृत्तिहेतुत्वप्रतिलब्धप्रवर्तनापरनामा विधिरिति प्रतिव्यादेनम् । स खलु व्यापारभेदोऽभिधेयो वा स्यादनभिधेयो वा स्यात् । अनभिधेये अश- स्यभावनासमभिव्याहारानुपपत्तिः । किञ्च सर्वशब्दानामेवानुमा- नेन स्वार्थगोचरो व्यापार उन्नीयते । नच तथावगतः । प्रवृत्तिहेतुभाव.... पाराः प्रवर्तयन्तीति चेद् , विशेषहेतुर्वाच्यः । यद्यर्थविशेषगोचरता विशेषहेतुः, स तीर्थभेदो विधिः, तदन्वयव्यतिरेकानुविधानात् । प्रवृ. वर्थभेदः । यदि भावना न, तस्या वर्तमानापदेशेष्वप्यविशेषात् । अन्यश्चेत् नैनमुपलभामहे प्रमाणाभावात् । अभिधीयत एव लिङादिभिरा- त्मीयमभिधानमिति चेत् । सर्वशब्देभ्यः प्रवृत्तिप्रसङ्गः शक्यते वारयितुम् । नच कार्योन्नेयमभिधानमभिधीयत इति साम्प्रतंम् । अनन्यलभ्यं हि शब्दाभिधेयमुपागमन् धीराः । किञ्च यदि व्यापारस्वरूपाभिधानं स .... प्रवर्तकत्वप्रसङ्गः। सोपश्लेषो विशेष इति चेद् , न। स्वरूपाभि- धानप्रसक्तेः । न धनभिधाय विशेषणं विशेष्याभिधानं सम्भवति । अपिचा. ........ .... ....
औत्पत्तिकसूत्रम् । or भिधाभिधानाभ्युपगमेन प विशेषहेतोरभावात् । अस्तु तबर्थ- भेदो विधिः । कः । कार्यम् । किं पुनः कार्यम् । कार्यमेव हि कार्यम् । नहीदं रूपान्तरेणानुभूयते । ननु न क्रियातिरेकि कार्य प्रमाणान्तरैरवग- म्यते । सत्यम् । अत एव शब्दप्रामाण्यसिद्धिः । अन्यथा प्रमाणान्तरगो- चरत्वेन सापेक्षवादप्रामाण्यं चोदनायाः । अपिच कालत्रयविपरिवृत्त्यर्थ- गोचराणि मानान्तराणि । कार्यं च परामृष्टकालभेदं स्वप्रमाणादवगम्यत इति न प्रमाणान्तरगोचरः । कारकव्यापारो हि यागादिः कालत्रयावच्छेद्यो नाधि कारः । यद्येवमसत्कार्यं कालत्रयापरामर्शात् शशविषाणवदापयेत । न । कालेनानेकान्तात् । कालो हि न तावत् कालान्तरपरिच्छिन्नः । नच नास्ति कालः । कालान्तरावच्छेदे त्वनवस्थापातः । अलब्धकालान्तरसम्बन्धोऽपि कालः प्रमाणसामर्थ्यादस्तीति चेत् । समानं हि कार्येऽपि । तदपि स्वप्रमा- णेभ्यो लिङादिशब्देभ्यः कालानवच्छिन्नमवगम्यमानं कथमसद् भविष्यति । प्रमाणसम्बन्धो हि सत्ता, न कालसम्बन्धः । कार्यमेव तु मनसि वर्तमानं नियुक्त इति नियोग इत्युच्यते । ननु नियोगो नियुक्तिः । स च नियोक्तृव्यापारः। नच वेदे नियो- तास्ति अपौरुषेयत्वात् । शब्दस्य चानियोक्तृत्वान्न तव्यापारो नियोगः । अदूरविप्रकर्षेण तु नियोगादिपदप्रयोगः । याथात्म्यवेदनायां तु लिङेव पठितव्यः । सा ह्यस्य प्रमाणम् । किमात्मकस्तयम् । उक्त कार्या- त्मेति । नच द्रव्याधनात्मकत्वादभावः, तद्वदेव कार्यमपि तद्विभक्तमेव देशकालनरावस्थान्तराविपर्ययात् स्वसंविसंवेद्यं नास्तीति शक्यतेऽवगन्तुम् । उदीयते खल्वपि लिङादिश्राविणां कार्यसंवित् । नचेयमनालम्बना, नच स्वांशालम्बनेति विज्ञानवादे वर्णितम् । अतो निर्विषया संविदात्मानमलभ माना स्वविषयभूतं कार्यमुपकल्पयति । नच प्रतिभामात्रमिदमिति वाच्यम् । अनियतनिमित्ता हि प्रतिपत्तिः प्रतिभा । नचेयमनियतनिभित्ता, शब्द- निमित्तत्वात् तदनन्तरमुत्पत्तेः । कथमनन्यगोचरे कार्यात्मनि व्युत्पत्तिः । तदभावे वा शब्दात् प्रतिपत्तिः कल्प्यताम् । लिङादीनां सकलेतरशब्द- 'विलक्षणः कोऽपि महिमा, यदविदितसम(या?या अ)पि स्वार्थ गमयन्ति । अथवा सर्वस्याकुमारमास्थविरं च कार्यावगतिः प्रवृत्तिहेतुरिति प्रसिद्धिः।
१० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् तदन्यमपि लिडादिशब्दश्रवणानन्तरं चेष्टाविशिष्टमुपलभ्याकलयति नून- मितः सकाशादस्य कार्यसंविदासीत् कथमपरथा प्रवर्तत इति । नन्वेवं क्रियामेव कार्यतया अज्ञासीदिति परस्यापि तगोचरामेव कार्यधियमुन्नयति । न । वर्तमानापदेशेषु सत्यपि कियाज्ञाने प्रवृत्त्यदर्शनात्, क्रियात्मनः कार्यस्य व्यभिचारात् प्रवृत्तावहेतुत्वात् । एतदेव फलेऽपि दर्शयित- व्यम् । अतो निर्मुक्ताखिलफलादिविकल्पमव्यभिचरितप्रवृत्तिसम्बन्ध कार्य- मात्र लिडादिभ्यः प्रयोज्यवृद्धेनावगतमिति व्युत्पद्यमानो जानाति । नहि कार्यावगतिर्भवति प्रवृत्तिश्च नेति सम्भवति । अतः कार्यमेव कार्यविधिरि. त्याचार्याः प्रतिपेदिरे । ननुच प्रेषणादयो लिङथीः । न, स्वसन्ताने प्रवृत्तिहेतुत्वेन तेषामनुपलब्धेः । वेदे च व्यभिचारात् । (ननु त)ीष्टाभ्यु- पायता लिङादीनामर्थों भविष्यति । सर्वो हि समीहितोपायमाकलय्य तत्र तत्र प्रवर्तत इति परमपि चेष्टमानमुपलभ्य जानाति नूनमिष्टो मव्यापारः शब्दश्रवणानन्तरं चाय चेष्टत इति शब्देनेष्टाभ्युपायता प्रति- पादिता भवति । स एव विधिः । प्रवर्तनारूपो हि सः। प्रवृत्तिहेतुं धर्म च प्रवदन्ति । अतः प्रेषणाध्येषणाभ्यनुज्ञातिरिक्तमप्रवृत्तप्रवर्तनं नियो- ज्यार्थकर्मगोचरं लोकवेदसाधारणं चोदनोपदेशपर्यायपदवाच्यं लिङादीना- मर्थों विधिरिति युक्तम् । हि त्य जैमिनिनोक्तम् उपदेश इति । भाष्यकारेण च 'उपदेश इति विशिष्टस्य शब्दस्योचारणमिति विवृतम् । पुरुषार्थोपायं किलानवगतमवगमयन् शब्दान्तरे दूरमुत्कृष्टो लिडादि- शब्दोऽविशिष्ट इत्युक्तम् । अतो लोकवेदतन्त्रान्तरानुगतोऽयमेव सिद्धान्त इति कैश्चिदुन्नीतम् । तदिदमनुपपन्नम् । तथाहि - संविदेव तावत् परिपन्थिनी । नहि लिडादिश्रवणसमनन्तरमिष्टाभ्युपायोऽयं व्यापार इति भवति मतिः । अपि तर्हि, प्रवर्तनावगतिः। ननु चेष्टाभ्युपायतैव प्रवर्तना प्रवृत्तिहेतुत्वात् । तन्न । एवं सति 'यस्य पर्णमयी जुहूर्भवति' इत्यत्रापि विधित्वप्रराङ्गः । 'तरति मृत्युमित्यत्रापि । भवति हि तत्रापि पर्णमयता 'अपापश्लोकश्रवणस्य' अश्व- मेधो वा ब्रह्महत्यातरणस्य साधनमिति प्रतिपत्तिः । यदि मतम् अस्येदं भवतीत्यन्वयमात्रमत्रावगम्यते न व्यतिरेकः, नच तमन्तरेण साध्यसाधन- , औत्पत्तिकसूत्रम् । ११ सम्बन्धोऽवगम्यते इति । कथं तर्हि 'स्वर्गकामो यजेते त्यत्रापि स्वर्गया- गयोः साध्यसाधनसंवित् । नहि तत्रापि सति यागे स्वर्गो भवति असति नेति मतिः । यागेनेति हि तृतीया साधनभावमवगमयतीति चेद् , न । तृतीयाश्रवणात् । विधेरयं महिमा यदतृतीयान्तोऽपि यजिः करणतया निर्दिश्यते । स चेदन्यो नाभ्युपगम्यते कथं स्वभावसाध्यो यजिः करणतया निर्दिश्यते । अपिच यत्र स्पष्टमिष्टाभ्युपायत्वमवगम्यते यागस्य यथेष्टाभ्यु- पायोऽयं यागः यागेन स्वर्गः सिध्यतीति वा, तत्रापि विधित्वप्रसङ्गः। किञ्च तद्वेषीति तत्कारि चायमेवं ब्रुवाणो दृश्यते । तथाहि प्रतिभा विधिरिति निरस्यतैतदुक्तं- "न निरालम्बनं ज्ञानं क्रिया साधनयोगिनी । समान्यस्मिन्" .इति । तदिदं तवापि समानमिति वर्णितम् । अपिच एवंवादिना साधु समर्थितं 'विधावनाश्रिते' इति । अत्र हि विध्यधीना यागादेरिष्टाभ्युपा- यता नतु सैव विधिरिति दर्शयति । तस्मादतिकुशलैरुपदेशापदेशयोरवि- शेष एवोपपादित इति निर्मुक्ताखिलोपाधिविधितत्त्वमतीन्द्रियमन्यदेवेति पूर्वोक्तमेव साधीयः । अत्र वदामः- नैवमपि यागस्वर्गयाः साध्यसाधनसम्बन्धसिद्धिः । नियोगो हि तदा साध्यः । नच साध्यद्वयमेकत्र समवैति, समत्वादसम्ब- न्धात् । ननु नियोगसिद्धिनान्तरीयकी स्वर्गसिद्धिः । अतएव साध्यविवृ द्विरियं नतु स्वर्गोऽपि स्वतन्त्रतया साध्यः । निरपेक्षं च साध्यद्वयमेकत्र विरुध्यते, नानुगुणम् । यथाह ---- "नियोगसिद्धौ सर्वं तदनुगुणम्" इति । केन नेष्यते । तस्मादविरोध इति । तदसत् । किं हि स्वर्गसिद्धि- मन्तरेण नियोगस्य न सिध्यति । नहि नित्याधिकारेषु नियोगः साध्या- न्तरमाकाङ्क्षति । कामाधिकाराः काम्यपर्यन्ता इति चेत्, को हेतुः । कमिसाध्यत्वावगतिः । तथाहि 'स्वर्गकामो यजेते'ति साध्यस्वर्गविशिष्टा- धिकारिसाध्यो नियोगोऽवगम्यते । स कथमसिध्यति स्वर्गे सिध्येत् । अतः स्वर्गसिद्धिरगम्यत इति नः साध्यस्वर्गविशिष्टोऽधिकारी । .
१२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । कस्तर्हि । काम्यस्वर्गविशिष्टः । अतः स्वर्ग कामयमानः पुरुषो नियोगं साधयिष्यति । अन्यदिच्छतोऽन्यत्र क्रिया नोपपद्यत इति चेद्, न । नियोगसामर्थ्यादुपपत्तः । नियोगो हि प्रधानभूतः साध्यतयावगतः स्वर्ग मपि कामयमानमात्मन्याकर्षतीति किमनुपपन्नम् । अपिच सिध्यन्नपि स्वर्गों यागात् सिध्यतीति न नः प्रमाणम् । स्वर्गयागौ हि युगपदरुणैक- हायनीवदेकप्रधानकार्यान्वयिनौ नान्योन्यान्वयमनुभवतः । नचारुणिम्न इव द्रव्यावच्छेदशक्तिर्यजेरपि स्वर्गसाधनशक्तिरवधृता प्रमाणान्तरेण । ननु किमत्र प्रमाणान्तरेण । स्वर्गे याग एव प्रमाणम् । स हि स्वर्गकामं यागे नियुङ्क्ते । नचाकामोपाये कामी नियोक्तुं शक्यते । उक्तोत्तरमिदम् । किंहि भगवतो नियोगस्यालौकिकस्यासदृशमहिम्नो दुः(खत)या फलेऽपि नरं प्रवर्तयति । तस्य ह्यनुपाये कामिनं नियुञ्जानस्य किमिव हीयेत । यागे नियोगो नियुक्ते इति वदता नूनमिदमवधीरितम् । आरम्भे हि पुरुषो नियुज्यते न कर्मणीति । तस्मान्न स्वर्गयागयोः साध्यसाधन सम्बन्धसिद्धिः । यदपि च क्रियादिकार्ये व्यभिचारादनुपाधिके व्युत्पत्तिरित्युक्तं, तदयुः क्तम् । प्रतीतविषयत्वाद् व्युत्पत्तेः । नहि क्रियादिव्यभिचारात् शशवि- षाणं लिङाद्यर्थ इति शक्यते वक्तुम् । यदपि मन्यते क्रियाकार्य एव लोके व्युत्पन्नः फलसमभिव्याहाराद् वेदेऽन्यदविनाशि कार्य लिङाद्यर्थ इति प्रत्ये- प्यते । लोके तु संमुग्धेनापि व्यवहारसिद्धेन शब्दार्थतत्त्वनिरूपणम् । बहव एव गौणलाक्षणिकशब्दनिबन्धना लोके व्यवहारा दृश्यन्ते । वेदे तु 'स्वर्ग- कामो यजेते ति क्रियात्मनः कार्यस्य भङ्गुरत्वादामुष्मिकस्वर्गादिफलसाधना. शक्तेः कालान्तरस्थायिक्रियातो भिन्नं कार्यमुपेयते । वाक्यशेषांच्चैकत्र समुन्नीतः शब्दार्थो यववराहाद्यर्थवदन्यत्रासत्यपि वाक्यशेषेऽवगम्यते । नित्याधिकारेष्वसत्यपि फलपदसमभिव्याहारे तथाविधमेव कार्य लिङादी- नामर्थो भविष्यतीति । तदिदमन्यदेवाभ्यस्तमन्यचोपनिपतितम् । क्रिया- कार्ये (विप्पन्न?) स्थायिकार्य प्रतिपद्यते । नच क्रियायाः फलसाधन- ताशक्तेरशब्दार्थः सन् युक्तः कल्पयितुम् । कामं कर्मण एवाफलनिष्पत्तेः समस्ति रूपमिति कल्पयितुमुचितम् । नच पूर्वावगतशब्दार्थान्यथाकर- णम् । नहि कर्मण्यनुशिष्टा द्वितीया सक्तुषु तदसम्भवाद् विपरिवर्त्य करणमभिधत्त इति युक्तमभिधातुम् । सर्वशब्देष्वनाश्वासप्रङ्गात् । अतएव औत्पत्तिकसूत्रम् । १३ तत्र तत्र यथाश्रुतार्थसमन्वयानुपपत्तेः क्वचिद् गुणवादः कचिलक्षणा कचिद् विनियोगभङ्ग इति तन्त्रे व्यवहारः । नतु विनियोगभङ्गादभिधान- मेव शब्दानामन्यथा नीयते । अपिच श्रुतकर्मफलसम्बन्धानुपपत्तेरनवगत- पूर्वमपूर्व कार्य लिङर्थमुपयता साधु श्रुतमुपपादितम् । किं हि लिङापराद्ध यत् तस्यालौकिकमर्थमतिक्रम्य कर्मफलसम्बन्ध उपपाद्यते । ननु नाद्यापि लिङर्थों निश्चीयते । अयमेव हि निर्णयसमयः । अत्र च श्रुतफलप- दान्तरसमभिव्याहारोपपत्तयेऽतीन्द्रियमेव कार्यमिति निश्चीयते । अतो न किश्चिद्, विरोत्स्यत इति । किमिदानीं 'स्वर्गकामो यजेते'ति श्रुतेरप्रती- तिरव, लिङर्थे संशयो वा । अप्रतीतौ क्रियात्मनः कार्यस्य फलसम्बन्धानुप- पत्तिरित्येतदेव दुर्भणम् । संशयस्तु पक्षद्वयावलम्बी । नचालौकिके क्रियाति- रेकिणि कार्ये । लिङादयो निरूपितप्रयोगाः । नचात्यन्तापरिदृष्टापूर्वार्थगो- चरः संशयो दृष्टचरः । यवादिषु त्वायम्लेच्छप्रयोगनिबन्धनो दृष्टपूर्वार्थगो- चरः संशयो युक्त एव । अतएवात्र न वाक्यशेषानिणयः । सन्दिग्धे हि स वर्णितः । नच लिङर्थे संशयः । किन्तु लोके व्युत्पत्त्यनुसारेण क्रिया- त्मन्येव कार्ये निश्चयः । यदप्युच्यते कर्मफलसम्बन्धोपपत्तयेऽन्यत् कार्यमु- पलभ्यत इति । केन वा कर्मफलसम्बन्धो दर्शितः । नह्ययं वैनियोगिकः । नियोग एवात्र प्रमाणम् । स चेत् तदधीनसिद्धिः दुरुत्तरमितरेतराश्रयम् , सिद्धो हि नियोगो विषयीभूतस्य भावार्थस्य करणतामाह । तत्सिद्ध्या च नियोगात्मलाभ इत्यलमनेनापि । यथावार्तिकमनुसन्धास्यामः । एवंहि वार्त्तिककृता भावार्थाधिकरणे उक्तं 'लिङादिशब्दानां पुरुषं प्रति प्रयोजकव्यापारोऽभिधात्मिका भावना विधिरि'ति । द्वे किल भावने मीमांसकाः सङ्गिरन्ते शब्दात्मिकामर्था- त्मिकां च । तत्राात्मिका सर्वाख्यातसाधारणी स्वर्गादिफलधर्मिका यागा- दिधात्वर्थकरणिका स्ववाक्यप्रकरणान्यप्रकरणानारभ्यवादस्मृतिलोकाचार- प्राप्ततत्तदितिकर्तव्यतावती तत्र तत्र सिध्यति । शब्दात्मिका तु लिङादि- शब्दानां प्रयोजकानां प्रयोज्यपुरुषकर्मिकाभिधासम्बन्धज्ञानकारणिकार्थवा. दोदितप्राशस्त्येतिकर्तव्यतावतीति विवेचनीयम् । कथं पुनरभिधा शब्दा- मिका । शन्दव्यापारो हि सः । न। व्यापारतद्वतोरनतिभेदादुपपत्तेः । द्रव्य- १४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् मेव हि पूर्वावस्थातः प्रच्युतं परामवस्थामप्राप्तं पूर्वापरीभूतं व्यापारशब्द- वाच्यम् । कथं लिङादीनामभिधा पुरुषकर्मिका । नहि ते पुरुषमभिदधति भावनावचनत्वात् । सत्यम् । भावनैव तैरभिधीयमाना न स्वरूपमात्रेण व. र्तमानापदेशवदभिधीयते । किन्तु कुर्यादि(ति) प्रवृत्तिविषयतया । नच शब्दशक्तयोऽनुयोक्तुमर्हन्ति । तथाहि - लिङादिश्रवणानन्तरं प्रयोज्यवृद्धं चेष्टमानमुपलभ्य ततः प्रवृत्तिहतुप्रत्ययः प्रयोज्यस्यावगम्यत इति तावत् सर्ववादिसिद्धमविवादम् । प्रवृत्तिहेतुस्वरूपे तु बहुधा विवादः । तत्र क्रिया. फलादीनां व्यभिचारादप्रवृत्तिहेतुत्वात् , प्रमाणान्तरागोचरे तु प्रवृत्तिहेतौ व्युत्पत्त्यसम्भवात् , कर्मफलसम्बन्धानुपपत्तेश्च सकलेतरप्रकारासम्भवादविवा- दसिद्धमभिधेयप्रत्ययबलोन्नीयमानस्वरूपं लिङादीनामभिधानमेव प्रवृत्तिहेतु- रिति साम्प्रतम् । सा च प्रवर्तनेति स्थितम् । सा च प्रवर्त्यकर्मिका । प्रवर्त्यश्च पुरुष इति युक्तं पुरुषकर्मत्वमभिधायाः । लिङादिव्यापारोऽप्यभिधेयप्रत्यय- हेतुत्वादभिधेत्युच्यते । पुरुषं च प्रवर्तयन् प्रवर्तनेति गीयते । नच सर्वा- भिधासु प्रसङ्गः, शब्दशक्तिवैचित्र्यादित्युक्तम् । शक्तिर्हि कार्यदर्शनसमधि- गम्या । तद् यतः प्रवृत्तिदर्शनं तद्यापारः प्रवर्तना, प्रवृत्तिहेतुत्वात् । नच शब्दान्तरेभ्यः प्रवृत्तिरुपलभ्यत इति न तदभिधायास्तथात्वप्रसङ्गः । यश्चा- भिधाया अनभिधाने दोषः उक्तः, सोऽभिधानपक्षाभ्युपगमेनैव परिहतः । यत्तु कार्योन्नेयत्वादनभिधानत्वमुक्तं तदप्ययुक्तम् । किं हि कार्यमनुपपद्य- मानं प्रवर्तनामवगमयति । न तावद् भावनावगतिः, वर्तमानापदेशेष्वपि प्रसङ्गात् । अतोऽनन्यप्रमाणत्वादुपपन्नमभिधेयत्वमभिधायाः । यत्तुं अनन्य प्रमाणके व्युत्पत्त्यसम्भव इत्युक्तम् । न, अर्थापत्तिप्रमाणकत्वात् । नन्वर्था- पत्या प्रवर्तनापदेशसाधारणमभिधाया रूपमुन्नीयते । नच तावन्मानं प्रव- तना लडादिभ्योऽपि प्रवृत्तिसंवेदनप्रसङ्गात् । असाधारणस्तु कोऽपि विशेषो लिप्रवृत्तेः प्रमाणान्तरागोचर एवेति दुष्परिहरी व्युत्पत्तिविरहः । मैवम् । प्रवृत्तिहेतुत्वेनापत्तितस्तदवगमात् । तथाहि – यत्र तावत् लिङादिभ्यः प्रवृत्तिरुपलभ्यते, तत्र मया प्रवर्तितव्यमित्यन्तःसङ्कल्पमूलात्मा लिभवृ- त्तिविशेष उन्नीयते । अप्रवर्तमाना अपि प्रवर्तस्वेति मामयमाहेति लिङ्- श्राविणो वक्तारं निर्दिशन्ति । तदवसीयते प्रवृत्तिहेतुरभिहितो लिङा । स च. नर्ते व्यापारात् सिध्यतीत्युक्तमेव । नच किमात्मको लिळ्यापार औत्पत्तिकसूत्रम् । १५ . इति वाच्यम् । 'अन्तःसङ्कल्पमूलात्मा ह्यसाविति वक्ष्यति । नासावुदा- सीनः कदाचिदवगम्यते । प्रवृत्तिजनन एव हि भावभेदे व्युत्पत्तिरासीदिति स्वयमपि प्रवर्तितव्यमिति प्रतिपद्यमान एव हि लिङथ प्रतिपद्यते । नोदा- सीनमाख्यातान्तरवत् । नो हि फलादयः स्वरूपेणावगताः प्रवर्तयन्ति । अस्य वयमेवात्मा यत् प्रवृत्तिधियं जनयति । अपर्यनुयोज्यत्वाद् वस्तु- स्वरूपाणां नामाख्यातविभागवदुपपत्तेः । सोऽयमेवमात्मनि लिङर्थे व्युत्पन्नः स्वप्रतिपत्तिकाले न शब्दाहते तमर्थं बुध्यत इत्यनन्यप्रमाणकत्वम् । नतु प्रवर्तनास्वरूपमेवान्यतो नावगतं, येन मतान्तरवद् व्युत्पत्तिविरहश्चाद्येत । सम्प्रति तु न जातेखि व्यक्तिमन्यतः प्रवर्तनां प्रतिपद्यामह इत शाब्दी- मभिदध्महे । नचाभिधा नाभिधीयत इति वाच्यम् । अभिधाशब्दवदुप- पत्तेः । यदेव हि शब्दश्रवणानन्तरमनन्यलभ्यं बुद्धौ विपरिवर्तते तदभि- धेयम् । तथाच लिङादीनामभिधानमिति किं नाभिधीयते । उक्तं हि 'लिडादिभ्यः प्रवृत्तिहेतुरुपलभ्यत इति । नच लिङादीनामभिधात्मनो व्यापारादन्यः प्रवृत्तिहेतुः शक्यते निरूपयितुमिति । अतएव नानवस्था । नहि प्रवर्तनावत् तदभिधानमपि शब्दादवगम्यते, यत् तगोचरमपरमभिधान- मुपेयते । नच लिङादिस्वरूपाभिधानप्रसक्तिः, स्वयमेव तद्व्यापारवैलक्ष- ण्यात् । लिङपश्लेषे हि विशेषके विशेषणाभिधानमापादितम् । स्वगते तु विशेषे तदनवकाशमेव । सर्वे शब्दव्यापाराः खल्वपि स्वरूपेणैव व्यतिभि- धन्ते । अतएव विलक्षणाभिधेयप्रत्ययहेतुभावभाजः एकस्या अपि विधि- विभक्तेः क्रियाकालादिवन्नाभिधाभिधानमनुपपन्नम् । अतो लिङादीनामभिधा प्रवर्तना सोऽयं विधिः । आह च- "अभिधां भावनामाहुरन्यामेव लिङादयः ।" इति । तदनेनैवमात्मना विधिना सम्बद्धा भावना प्रवृत्तिविषयतयावगता फलवत्तया निश्चीयते, स्वसन्ताने फलवतः प्रवृत्तिविषयतयावगतेः । तथा- चावगतानुष्ठीयत इति विधिशक्तिमुपक्रान्तामवसीदन्तीमुत्तनाति फलवत्ता, न तु सैव विधिरिति । अतएवापुरुषार्थेषु सागरं तरेदित्येवमादिषु विध्यव- गतिः । तथा तत्र न स्यादितरथा तत्र न स्यात् अपुरुषार्थत्वात्(१)। लिङ्- व्यापारस्तु तत्राप्यविशिष्टः, निर्वाहिकायास्तु फलवत्तायाः प्रमाणामावाद् न - - स्वप्र. १६ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । स्वप्रत्ययान्तरापेक्षा स्यादनाप्तनरोक्तिषु । आप्तोत्तिषु नरापेक्षा नोभयं चोदनासु नः ॥ १६॥ अथ वृत्तिकारग्रन्थः । आदिशब्दो मकारान्तो लुकि क्लेशेन सङ्गतिः । नअध्याह्रियते सूत्रे सङ्करात् परिचोदना ॥ १७ ॥ निर्वहति । तदभावश्चानाप्तवाक्यत्वात् । वेदे त्वपौरुषेयत्वान्न पुरुषदोषाशङ्का पीत्युपपादितम् । 'विधौ तु तमतिक्रम्य'ति प्रपञ्चितश्च विधिरपि मनागित्युः परम्यते इति ॥ १५ ॥ (अपौरुषेयत्वात्?) अनपेक्षत्वादिति सूत्रावयवं व्याचष्टे त्ययेति । अनाप्तवाक्ये हि दृष्टव्यभिचारित्वात् तज्जनितात् प्रत्ययात् प्रत्य- यान्तरं स्वीयमर्थावधारणायापेक्षते । नच तत्राप्यनाप्तवचः प्रमाणमनुवाद- त्वात् । आप्तोक्तीनां तु प्रमाणविषयगोचराणां प्रामाण्यात् तस्यैवाप्तस्य नरस्यापेक्षा किमयमर्थोऽनेन प्रमाणेनोपलब्धो न वेति । नचेयमुभय्यप्यपेक्षा चोदनासु सम्भवति, अपौरुषेयत्वस्य वेदाधिकरणे वक्ष्यमाणत्वात् । तत उपपन्नं चोदनायाः प्रामाण्यमिति ॥ १६ ॥ अत्रानन्तरं वृत्तिकारमतारम्भभाष्यं - "वृत्तिकारस्त्वन्यथेमं ग्रन्थं वर्णयाञ्चकार तस्य निमित्तपरीष्टिः इत्येवमादिमि"ति । तत्रादिशब्दे तावद् द्वैविध्ये साध्वसाधुविवेकार्थमाह - आदिशब्द इति । मकारान्तोऽय- मादिशब्दः न लुगन्त इति । कारणमाह - लुकीति । सामान्यविवक्षायां तु नपुंसकलिङ्गता । अत्र च प्रथममेव ग्रन्थात्मके विशेषेऽवगते न सामान्य- विवक्षा युक्तेति । भित्त्वा तु वाक्यं सामान्यविवक्षायां क्लेशो भवतीति । अपरमपि वृत्तिकारमतेन परीष्टिसूत्रव्याख्यानार्थ भाष्यं 'न परीक्षितव्यं निमि- तमिति । तदयुक्तम् । सूत्रे नमोऽश्रुतत्वात् , अत आह - ननिति । इदं हि सूत्रं विधिनिषेधशून्यमपरिपूर्ण नजध्याहारेण परिपूर्यते । प्रसिद्धस्य धर्मनिमित्तस्य परीक्षाविधेरयोग्यत्वादिति व्याख्याते तु नजध्याहारेण परी- ष्टिसूत्रे प्रत्यक्षसूत्रमवतारयितुं भाष्यकृतोक्तं - 'ननु व्यभिचारातू परीक्षि- तव्यं निमित्तं शुक्तिका हि रजतवत् प्रकाशते यतः' इति । एवंद्यत्र परि- १७ औत्पत्तिकसूत्रम् । प्रमाणलक्षणाज्ञानाद् व्यभिचारात् परीक्षणम् । नैतत् प्रत्यक्षमित्येवमपरीक्षोपसंहृता ॥१८॥ तत्रान्यस्यायथार्थत्वं प्रत्यक्षे तु यथार्थता । चोदितं-न प्रसिद्धत्वं निमित्तापरीक्षायां हेतुः, प्रसिद्धतरस्य प्रत्यक्षस्य शुक्तिरजतवेदने व्यभिचारादिति । तदयुक्तं, नहि प्रत्यक्षं व्यभिचरति अपि- तर्हि तदाभांसम् । नचाभासव्यभिचार प्रमाणव्यभिचारपरिचोदना युज्यते । अत आह --- सङ्करादिति । प्रत्यक्षतदाभासयोरक्षजत्वेन सादृश्यान्मोहादा- भासव्यभिचारेऽपि प्रत्यक्षव्यभिचारं चोदयतीति ॥१७॥ तदेव प्रपञ्चयति-प्रमाणेति । वक्ष्यमाणपारमार्थिकप्रत्यक्षलक्षणा- ज्ञानाद् व्यभिचारात् परीक्षा कार्येति चोदयति । एतत्परिचोदनोत्तरतया प्रत्यक्षसूत्रमुपवर्णितं 'नैतदेवम् । यत् प्रत्यक्षं न तद् व्यभिचरति । यद् व्य- भिचरति न तत् प्रत्यक्षम् । किं तर्हि प्रत्यक्षम् । तत्सम्प्रयोगे पुरुषस्येन्द्रि- यीणां बुद्धिजन्म सत्प्रत्यक्षम् । यद्विषयं ज्ञानं तेनेन्द्रियाणां पुरुषस्य सम्प्रयोगे यद् बुद्धिजन्म तत् सत्प्रत्यक्षम्' । नचेदृशस्य व्यभिचारोऽस्ति । तदिदं वार्तिककारी दर्शयति -- नैतदिति । परीष्टिसूत्रेणापरीक्षा प्रतिज्ञाता प्रत्यक्षसूत्रेणोपपाद्योपसंहृतेति ॥ १८ ॥ कथं पुनरेवलक्षणकेऽपरीक्षा सिध्यतीत्यत आह- तत्र हि प्रत्यक्षलक्षने । यदनेवलक्षणकं तयथार्थम् । प्रत्यक्षं तु यथार्थ- मेव । अयथार्थाशङ्का तु परीक्षायां हतुरिति श्रुत्तमपरीक्ष्यत्वमिति । किं पुनरयथार्थज्ञानम् । शुक्ती रजामति । सा खलु दोपवशादन्या- कारेणावभासत इति भवति तोचरज्ञानमयशायम् । तदिदमयुक्तम् । नहि शुक्ती रजतमिति भासते । किं तर्हि इदामात शुक्तिरजतसाधरणात्मना पुरोवर्ति द्रव्यं गृह्यत । अनन्तरं च सदृशदर्शनोद्वावितप्राचीनरजतानुभव- प्रभावितभावनाबीजजन्मा दोपवशाल्लुप्ततदवमा रजतमिति स्मृतिरुदेति । तदेते द्वे एव ग्रहणस्मरणात्मक विज्ञान । तद्गोचरयाश्च दापवशादव भेदक- धर्मानवधारणम् । भेदाग्रहणादेव विभ्रमव्यवहारः, न पुनरन्यस्यान्यथा- मासनात् । इदमिह भासत इति प्रतीतिसाक्षिकम् । अतः कथं रजतरूप- रूपितस्य शुक्तिरालम्बनम् । इदमेव ह्यालम्बनस्यालम्बनलं यदात्माकार- तत्रेति । -- १८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । ज्ञानजननम् । अतो नातदाकारस्य तदालम्बनमिति ज्ञानमेव साकारमिति बलादापतितम् । न खलु रजतमिति शुक्तेराकारः । रजतं तु नासन्निहित- मक्षजज्ञानालम्बनमिति युक्तम् । अता बाह्यरहितं निरालम्बनमेव ज्ञान- मिति बलादापन्नम् । एवञ्च मुधैव निरालम्बनानुमानप्रत्याख्यानप्रयासः । आपच दोषनिबन्धनो विभ्रमः । दोषाश्च स्वकार्ये शक्तिविघातहेतवः । अतो युक्तं तदर्शन भंदकधर्मानवधारणं, न पुनरन्यस्यान्यथा भानम् । अपिच एवमयं विपरीतख्यातिवादी वक्तव्यः रजतधियः शुक्तिगोचरायाः किं निबन्धनमिति । न तावदिन्द्रियं प्राप्यकारित्वाद् , असन्निहितरजत- प्राप्त्यसम्भवात् । अन्यप्राप्तौ चान्यप्रकाशनेऽतिप्रसङ्गात् । प्रमाणान्तरं त्वस- म्भवादनुपन्यसनीयम् । अतो ग्रहणकारणाभावात् स्मृतिरियमिति निश्ची- यते । अस्ति हि स्मृतेः कारणं पूर्वानुभवप्रभावितोभयवादिसिद्धा भावना । नन्वसति तत्परामर्श स्मरणमपि नोपपन्नम् । न नोपपन्नम् । अनुभूतविषयं हि ज्ञानं स्मृतिः । न तदिति परामर्शः । तस्मादिदं रजतमिति ग्रहण- स्मरणयोरुभयोरपि यथार्थत्वाद् यथार्थायथार्थज्ञानविभागो दुर्भणः । अत्र वदामः-- यदि द्वे अप्यते यथार्थ, न तर्हि भ्रान्तिः । अयथार्थ- ज्ञानं भ्रान्तिीरति लौकिका मन्यन्ते । स्मरामीत्यग्रहो भ्रान्तिरिति चेत् । तन्न । भाध्यकारी हि "स एवासमीचीनः प्रत्यय' इति प्रत्ययमस- मीचीनं दर्शयति । अपिच कोऽयमंग्रहः । ग्रहणाभाव इति चेत् । अभावो नाम न कश्चिदायुष्मतां यो भ्रान्तिरित्युच्यते । ननु स्मरणमेव स्मरामीत्यु- लेखशून्यमग्रहणमाचक्ष्महे न तत्त्वान्तरम् । एवं तहिँ रजतमिति स्मृति- भ्रान्तिः । नच तद् युक्तम् । मिथ्या भ्रान्तिरिति पर्यायौ, न स्मृतिमिथ्या, यथावस्थितार्थविषयत्वात् । पूर्वानुभूतदेशकालाग्रही भ्रान्तिरिति चेत् । न । अन्यानवभासोऽवभासान्तरं मिथ्याकरोति, सर्वमिथ्यात्वप्रसङ्गात् । न कस्मिन् भासमाने सर्व भासते । अतो यद्यपि रजतस्य देशकालौ न स्मर्येते, रजतं तु यथावस्थितं स्मृत्या विषयीकृतमिति न भ्रान्तिः । अथ सापेक्षत्वात् स्मृतेरप्रामाण्यम् , अतो भ्रान्तिरिति चेत् । यद्येवं सर्वस्मृतीनां भ्रान्तित्वापातः, अविशेषात् । नच स्मरन् भ्राम्यतीत्युच्यते । अथ मतं- गृह्यमाणस्मयमाणयोर्विवेकाग्रहो भ्रान्तिरिति, उक्तमस्माभिः नाग्रहो नाम कश्चिदृते ग्रहणस्मरणाभ्याम् । तयोश्च न ग्रहणं भ्रमः, प्रमाणत्वात् । नच औत्पत्तिकसूत्रम् । १० स्मृतिः । व्यभिचारादतिप्रसङ्गाच्च । विवेकाग्रहे च विभ्रमे सर्वसंविदां भ्रान्ति- त्वप्रसङ्गः । अवश्यं हि येनकेनचिद् विवेको न · गृह्यते । स्यान्मतं - व्यवहारविसंवादो मिथ्यात्वमिति, तन्न । तद्धेतोरभावात् । यदि खल्विद- मिति ग्रहणं रजतमिति देशकालानवच्छिन्नं रजतस्मरणं, को व्यवहारहेतुः । नो खल रजतपदादनधिष्ठानं रजतं स्मरन रजतमिति व्यवहरत्यत्रेदमिति तद्विद्वान् । यो यदर्थी स तदुपादित्सया चेष्टते । अनधिष्ठानं तु रजतं जानतो न व्यवहारहेतुमुपलभामहे । अपिच कोऽयं नियमः स्मृतरजतम्तदर्थी शुक्ता- वेव प्रवर्तत इति। यदि ह्ययं तामेव रजतं जानीयात . ततस्तत्र प्रवर्तत इति यु- क्तम् । इतरथा लोष्टादावपि प्रवर्तत । नवयं शुतेरिव रजतं ततोऽपि विविनक्ति। अवश्यं स्थूलोऽपि विवेको जिघृ(क्षि? क्ष)तो नानुभूयते । अथोच्येत - ज्ञानद्वयमप्येतद् विवेकाग्रहणात् सत्यरजतसंविदो भिन्नमिति नावभासते । सा च व्यवहारहेतुतयावगता । ततोऽत्रापि प्रवर्तत इति । अहो दुरूहमिदमू- हितम् । इदं तु ब्रूमः-किमिह सत्यरजतसंविदो विवेको नावभासते, तद- भेदो वा भासते इति । पूर्वस्मिन् कल्पे पूर्ववत् प्रवृत्त्यभावः । उत्तरस्मिन विपरीतख्यातिवादः । संवित्ती भिन्ने अभिन्ने भासते वस्तुनी चेति न वि- शेषः । अथ सत्यरजतबोधतुल्यतां मन्यते न तत्त्वं, न तर्हि तद्वद्भावे तद्व्य- वहारः । नहि गवा सदृशं गवयं जानन् गौरयमिति व्यवहरति । व्यवहार- विसंवादे च भ्रान्तिहेतावतदर्थिनो व्यवहाराभावाद् भ्रान्त्यभावः । तस्यापि शब्दप्रयोगोऽस्तीति चेद्, न । निर्विकल्पकभ्रान्तौ तददर्शनात् । स्वत न्त्रस्मृतं च रजतमप्रसक्तं कथं शुक्तौ निषिध्यते नदमिति । प्राप्तिपूर्वको हि प्रतिषेधो भवति । स कथमसत्यां प्राप्तावात्मानं लभते । ननु नात्र किञ्चिद् बाध्यते । किन्त्वनवगतो विवेकोऽवगम्यते नेदं रजतमिति । कोऽर्थः । शुक्तेर्विविक्तं रजतमिति । अहो व्याख्यानकौशलं तवगवतां यत् संविदो- ऽप्यन्यथा व्यवस्थिता अन्यथा व्याख्यायन्ते । रजनव्यवहारो बाध्यत इति चेद्, न । तस्याप्यप्रसक्तेरुक्तत्वात् । अग्रसक्तव्यवहारस्य बाधविरह- प्रसङ्गात् । व्यवहारवाधोऽपि न राजाज्ञया । अपितर्हि, प्रसक्ततादृप्य- निवारणेन । अतोऽन्यदन्याकारेण प्रसक्तं वाध्यत इति साम्प्रतम् । अपिच स्पष्टीकृता ताद्रूप्यप्रसक्तिरिदं रजतमिति । नन्वनालम्बनता प्राप्नोतीत्यु- क्तम् । सत्यम, । यदन्यथासन्तमन्यथा प्रतिपद्यते तन्निरालम्बनं ज्ञानमि- . ... मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । यदाभासं हि विज्ञानं तत्संयोगे तदिष्यते ॥ १९ ॥ सम्पूर्णलक्षणं ह्येतत् तत्सतोर्व्यत्ययः कृतः। शोभनार्थस्तु सच्छब्दो यद्वाध्याहारकल्पना ॥२०॥ प्यते । किमिहाद्भुतं बाह्यानालम्बनता हि यत्नतो नः प्रतिषेध्या, सर्वत्र देशान्तरादिगतबाह्यालम्बनताभ्युपगमात् । कथमसन्निहितं ज्ञानमुत्पादय- तीति चेत् । किमयं प्रत्यक्षधर्मः सर्वज्ञानेष्वारोप्यते । प्रत्यक्षं हि सन्निहि- तवर्तमानगोचरं, न ज्ञानान्तराणि । नचेदं प्रत्यक्षमाभासत्वात् । यदप्यु- क्तं- कथमन्यसम्प्रयुक्तमिन्द्रियमन्याकारस्य ज्ञानस्य हेतुरिति । उक्त- मत्र भाष्ये ---- 'दोषो मिथ्याज्ञानस्य कारणमिति । तद्भावे हि मिथ्याज्ञानं भवति । असति तस्मिन् सम्यग्ज्ञानदर्शनात् । ननु दोषाः कार्य विघ्नन्ति, न कार्यान्तरं जनयन्ति । न । स्वप्ने मनोदोषादवर्तमानस्यापि वर्तमानवद् भानात् , कारणाधीनात्मलाभं हि कार्य तदोषे दुष्यतीति नानुपपन्नम् । एष च ज्ञानस्य दोषो यद्यन्यगोचरस्यान्याकारत्वम् । अतः सन्निहितमसन्निहित- रजताकारेणावलम्बते दुष्टकारणजंज्ञानमित्युभयालम्बनस्य ज्ञानालम्बनत्वम् । आत्मेन्द्रियमनोर्थसन्निकर्षो हि ज्ञानस्य हेतुः । सोऽसत्सु दोषेषु सम्यग्- ज्ञानहेतुः, , सत्सु तु विपरीतज्ञानहेतुरिति सूक्तो यथार्थायथार्थज्ञानविभाग इति । किं पुनः प्रत्यक्षस्य लक्षणं, येन तद् यथार्थमत आह-यदाभास- मिति । यदाकारं ज्ञानं तेनेन्द्रियाणां सम्प्रयोगे यत् पुरुषस्य बुद्धिजन्म तत् प्रत्यक्षमिष्यते । कथं तदयथार्थ भविष्यतीति ॥ १९ ॥ ननु लक्षणपरत्वे सूत्रस्यातिप्रसक्तिरुक्ता । नचाप्येतेन सूत्रेण प्रत्यक्ष लक्ष्यत इति वदता कथमिदानी लक्षणपरतया सूत्रं वर्ण्यते । अत . भाह सम्पूर्णेति । यथावस्थितं सूत्रमाभाससङ्करादलक्षणम् । वृत्तिकारमते तु व्यत्यस्तं शक्नोति लक्षणं लक्षयितुमिति, कथं पुनः सम्पूर्ण- मत आह-तत्सतेरिति । यथाश्रुते हि सूत्रे इन्द्रियसम्प्रयोगजत्वमा प्रत्यक्षलक्षणम् । तच्चाभासेऽप्यविशिष्टमित्यतिप्रसज्यते । व्यत्यस्तेन तु तदा बुद्धयाकारपरामर्शनाद् भासमानाकारेन्द्रियसम्प्रयोगे या बुद्धिः सा प्रत्यक्षमि- त्युपस्कारे शुक्तिरजतज्ञाने भासमानेन्द्रियसम्प्रयोगाभावान्न प्रत्यक्षमतिप्रस- ज्यत इति । उत्कृष्टस्य सच्छब्दस्यार्थमाह - शोमनार्थ इति । ननु पूर्व - औत्पत्तिकसूत्रम् । २१ अर्थापत्त्येतरेषां च प्रलाक्षासलक्षणम् । बाधकज्ञानलाोति पूर्वाना सम्भवेत् ॥ २१ ॥ स चास्तीत्यवोधलेमान्योन्यसंश्रयम् । 'नचानागतबाधेन प्रणालियते ॥ २२ ॥ वर्तमानार्थतया २. परमति शेषनाः सन्छन्दोमामातः । कथमिदानी शोभनार्थ इत्यात लप्रयोगावनमाम् : नागष्टे हि तस्मिन्नना- गतादिसम्प्रयोगजं योगायोगकृतं स्थापिति प्रागेवोक्तम् । तद्वृत्तेनापि व्यवहितपठितेन समासो दुष्प्रतिपादतरः । पुनरपि चेदृशं यतत्सम्यक्प्रत्य- क्षमिति तदपेक्षा विद्यत एवेति व्यत्ययेऽपरितुष्यन् प्रकारान्तरमाह-यद्वेति । द्वयोरपि तत्सतोरत्राध्याहारः । तत्र भासमानाकारपरामर्शार्थोऽध्याहृतस्त- च्छब्दः । परस्तु प्रत्यक्षरूपपरामर्शार्थः । सच्छब्दस्तु सम्प्रयोगसन्निधिपठित- स्तद्विशेषणार्थ एव । अध्याहृतस्तु शोभनार्थ इति विवेचनीयमिति ॥ २० ॥ ननुच आभासलक्षणाकथनान्न प्रत्यक्षतदाभासविवेको दर्शयितुं शक्यते, अत आह-अर्थापत्त्येति । ईदृशं प्रत्यक्षमित्युक्ते अर्थादनीश- माभासं भवतीति । अत्र भाष्यकारेण कथं तदतद्योगजत्वविवेकोऽवगम्यत इत्याशङ्कयोक्तं 'बाधकं हि यत्र ज्ञानमुत्पद्यते नैतदेवमिति तदन्यसम्प्रयोगे। विपरीतस्तत्सम्योगे' इति । तदयुक्तम् । किं हि कारण यदुत्तरेण पूर्व बाध्यते, पूर्वणैव जघन्यमुत्तरं बाध्यत इति युक्तमत आह --- बाधकेति । तद्धि बाधकं यदन्याबाधकमात्मानमेव न लभते । तथाचोत्तरम् । अत- स्तत् पूर्व बाधत इति युक्तम् । जघन्यमपि पूर्वानपेक्षं बलवदिति षष्ठे वक्ष्यते । यत्र पूर्वापेक्षमुत्तरं, तत्र पूर्व बलवदिति तृतीय उक्तमिति ॥२१॥ किं पुनरुत्तरेण मिथ्या सतः पूर्वस्य बाधः प्रमाणस्य वा । प्रमाणस्य बाधेऽतिप्रसङ्गः । मिथ्यात्वं तु नर्ते बाधात् सिध्यति, तदधीनो बाध इति इतरेतराश्रयमत आह स चेति । नखलु पूर्वमिथ्यात्वावधारणादुत्तरस्य जन्म, अपितर्हि । तन्निरपेक्षमुत्तरं स्वकारणादेवोत्पन्नम् । अतो नोत्पत्ता- वन्यापेक्षत्वम् । नच कार्यक्लप्तौ । अवबोधरूपत्वादवबोधस्य । तस्य च स्वगोचरप्रकाशनेऽन्यानपेक्षणात् । अतो नान्योन्याश्रयत्वमिति । यदि तर्हि पूर्वानपेक्षमुत्तरमिति तद् बाधकं, पूर्व वा किमुत्तरमपेक्षते येन बाध्यते ।
L -- २२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । निमित्तदोषबोधेन पश्चाद यत्राप्यबाधनम् । भवत्येव हि तत्रापि नरान्तरविपर्ययः ॥ २३ ॥ सर्वेषां सर्वदा यत्र धीः स्यात् तत्र न बाधनम् । नहि कारणदुष्टत्वबुद्धिस्तत्र बलीयसी ॥ २४ ॥ जात्यादिषु यदा जाता बुद्धिः पश्चादसम्भवात् । तदपि हि निरपेक्षमेव, अत आह नति । यद्यपि तदुत्तरानपेक्षं, तथा- प्यनागतोत्तरबाधकात्मकत्वेनानवमासान्न बाधकमिति ॥ २२ ॥ यत्र तर्हि नैतदेवमिति न वाधकोदयः, अपितर्हि निमित्तेदाषज्ञानं, तत्रे- तरेतराश्रयमपरिहार्यम् । निमित्तदोपेण तत्रोत्थाप्यो बाधः। स च पूर्वाप्रमाणत्वे शक्यत उत्थापयितुं, तदुत्थापनाच तदप्रमाणमिति नावकल्पते, अत आह निमित्तेति । प्रायेण हि शङ्खादिषु पीतादिविभ्रमाः पित्तादिदोषेभ्यः समु- सन्नाः पश्चाद् बाध्यन्ते । नेदं पीतं शुक्लोऽयमिति हि सम्प्रतिपत्तिः सम्भवति । अतोन तत्र निमित्तदोषबोधमात्रान्मिथ्यात्वम् । यत्र तु ज्ञातेऽपि निमित्त- दोषे तद्रूपप्रत्ययानुवृत्तेः पश्चादबाधनमेव, यथा दिङ्मूढस्य जानतोऽपि निमित्तदोषाद् दिङ्मोहो न निवर्तते। तत्रापि नरान्तरविपर्ययादन्यतः परिच्छे- दान्नेतरेतराश्रयमिति ॥२३॥ यत्र तर्हि न नरान्तरादिषु विपर्ययः तत्र कथं यथा जात्यादिविज्ञाने। नच तत् सत्यं, तेषां व्यतिरेकाव्यतिरेकविकल्पाक्षमत्वादत आह-सर्वेषा- मिति । यद्धि देशान्तरादिषु न विपयति तदबाध्यं सम्यगेवेति । ननु तत्रा- प्यनुपपत्तेर्बाधिका धीरुत्पाद्या, कथं सम्यक्त्वमत आह-नहीतिः । प्र- त्यक्षो ह्यविकलकरणस्य पिण्डात् पिण्डान्तरेषु पूर्वरूपावमर्शः । स कथं यौक्तिकेन बाधेन बाध्यते । यस्य ह्यव्युत्पद्यमानस्य बलवता मुखं निरु- ध्यते न तदात्मानं लभते। उक्तं च स्वयूथ्यैरपि - 'न प्रत्यक्षविरुद्धकारणवि- षयमनुमानमात्मानं लभते अग्नाविव शैत्यानुमानमिति ॥ २४ ॥ अयमसावितरेतराश्रयस्य व्यक्तो विषय इत्याह-जात्यादिष्वि- ति । अत्र हि जात्यादिज्ञानमिथ्यात्वाद् बाधकबुद्धयुदयः । तदुदये तन्मि- थ्यात्वम् । नच व्यक्तोदिता शुक्तिरजतज्ञानादिष्विव बाधिका धीरस्तीति ।
. औत्पत्तिकसूत्रम् । २३ नाश्यते युक्तिभिस्तत्र व्यक्तमन्योन्यसंश्रयम् ॥ स्वतः प्रामाण्यतश्चात्र निर्णयोऽस्तित्ववोधनात् । तद्रूपप्रत्ययोत्पत्तेस्तदसद्वादिनामपि ॥ २६ ॥ इति वृत्तिकारग्रन्थः । यदि तर्हि बाधकज्ञानमन्तरेण न कारणदोपमात्रान्मिथ्यात्वमवगम्यते, कथ- मुच्यते 'यस्य च दुष्टं करणं यत्र चं मिथ्येति प्रत्यय इति ' भेदन । तदा हि मिथ्यात्वप्रत्यय एवासमीचीनतायां हेतुरुक्तः स्यात् । तस्माद् वक्तव्यो विषयः । स उच्यते--- येन तर्हि प्रागेकश्चन्द्रोऽवधारितः सम्प्रत्यङ्गुली- निपीडितलोचनो द्वौ पश्यति । तस्य प्राचीनज्ञानानुसारेण जातविचिकि- त्सस्याधुना च व्यक्तं कारणदोषमवगतवतो भवति निर्णयः । यथा पूर्व ज्ञानमदुष्टकारणजम् । इदं च व्यक्तावगतकारणदापप्रभवम् । कारण- दोषनियतश्च कार्यदोषः । तस्मादसमीचीनम् । तदिह पूर्वानुभवो विचि- कित्सोदयहेतुः । कारणदोपावधारणादेव मिथ्यात्वावधारणम् । एवं बाह्यागमानामपि कारणदोषावधारणादव मिथ्यात्वावधारणम् । नहि तदर्थाः साक्षाद् बाध्यन्त । पौरुषेयत्वात् कारणदीपाशङ्कयव मिथ्यात्वं भवतीति युक्तमेव द्वैविध्यम् ॥ २५ ॥ ननु मा बाधि जात्यादिज्ञानम् । प्रमाणत्वं तु तस्य कथं, प्रमाण- तदाभासंसाधारणं हि ज्ञानत्वम् । अतो व्यभिचार दशनात संशया युक्तः । वृत्त्यादिविकल्पाश्चाप्रामाण्यमनापादयन्ताऽपि दत् प्रामाण्यं विघ्नन्ति । अत आह - स्वत इति । यदि ज्ञानत्वानुवन्धिनी प्रमाणत्वाप्रमाणवे द्वे अपि स्यातां, स्यादेवानिर्णयः । स्वतस्तु प्रमाणमित्युपपादितम् । अतो जात्याद्य- 'स्तित्वबोधादनपोदिता निर्णयो युक्तः । स चायं वांधा न परमस्माकमेव । येऽपि तु जात्यादीनपलपन्ति , तेपामप्यस्ति । तेऽपि हि न तद्बोधमनप- लपन्तो जात्यादीनपलपितुमर्हन्तीति ॥ २६ ॥ इत्युपाध्यायसुचरितमिश्रकृता काशिकाटाकाया वन्तिकारग्रन्थव्याख्या ॥ -- मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । अथ निरालम्बनवादः। प्रमाणत्वाप्रमाणत्वे पुण्यपापादि तत्फलम् । विध्यर्थवादमन्त्रार्थनामधेयादिकल्पना ॥ १ ॥ सर्वेषु लक्षणेष्वेवं स्वप्रमाणगणैः स्थितिः । वचनव्यक्तिभेदेन पूर्वसिद्धान्तपक्षता ॥ २ ॥ कर्मिभ्यः फलसम्बन्धः पारलौक्यैहलौकिके । सर्वमित्याययुक्तं स्यादर्थशून्यासु बुद्धिषु ॥ ३ अत्र भाष्यकारेण 'ननु सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः' इत्याक्षेपपुरस्सरं 'जाग्रतो हि बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यतीति बाघार्थसद्भावः प्रतिपादितः । तस्य प्रकृतवेदार्थविचारोपयोगं दर्शयति प्रमाणत्वेति चतुर्भिः । सर्वो ह्ययं मीमांसाप्रपञ्चो बाह्यार्थाश्रय एव । यथा तावचोदनैव धर्मे प्रमाणं, योगिप्रत्यक्षबुद्धागमाद्यप्रमाणमिति चोद- नासूत्रे प्रतिज्ञातं, तदसति घाटे चादनापदार्थे दुःस्थितमेव । प्रमाण- वोपन्यासेनैव तत्परिकरप्रथमपादोक्तसम्बन्धोत्पत्तिकत्वशब्दनित्यत्ववाक्या- र्थप्रतिपत्तिमूलसद्भावापौरुषेयवेदवाक्यरचनादिपरिग्रहः । अप्रमाणत्वोपन्या- सेन च प्रत्यक्षसूत्रनिर्दिष्टान्याप्रमाणत्वकारणोपादानमिति दर्शयितव्यम् । तथा यदपि चोदनासूत्र एव श्रुत्यार्थेन च पुण्यपापापरनाम्नोधर्माधर्मयोः स्वरूपं प्रतिज्ञातं, तदपि नासति आद्येऽथै शक्यं दर्शयितुम् । तत्र हि विधिनिषेधात्मकचोदनाप्रमाणकं पुण्यपापयोः स्वरूपमिति वर्णितम् । आदिशब्देन पुण्यपापोभयरूपरांहेतभशुभेभ्यो निवर्तनमुपादत्ते । यदर्थ- साधनं वस्तु तद्विपरीतं वा तत् पुण्यपापपदयोरास्पदम् । अशुभेभ्यो निव- तनं तु न सुखाय न दुःखायेत्युभयरूपरहितम् । एतदपि चोदनासूत्र- स्थेनार्थपदेन प्रतिपादितम् । तत्फलमिति च त्रिविधस्य पुण्यपापोदासाना- मनो वेदप्रमेयस्येष्टानिष्टात्मकं फलमुपादत्ते । एतदपि स्वरूपप्रतिज्ञान्तर्गत- मेव । नबनाश्रितफलसम्बन्धं धर्मादिस्वरूपमलुभवितुं शक्यमिति । तदेवं औत्पत्तिकसूत्रे निरालम्बनबादः । २५ तावद् बाबार्थसिद्धरस्ति प्रथमपादोक्तसमस्तोषयोगः । तथा वक्ष्यमाणोप- योगोऽपि । नहि विध्यर्थवादमन्त्राणां साध्यसाधनसम्बन्धविधिविधेय- स्तुतिविहितस्मृतिरूपार्था अर्थवादपादगोचरा बाद्यार्थं विना सिध्यन्ति । औदुम्बराधिकरणे हि 'औदुम्बरो यूपो भवत्यू|परुध्या' इत्यत्र विध्यमा- वान्न फलपदसम्बन्धः सिध्यत्यौदुम्बरत्वस्येति वक्ष्यते । तथार्थवादाधिकरणे- ऽर्थवादानां स्तुत्युपयोगो दर्शितः । एवंहि तत्रोक्तम् 'आम्नायस्य क्रियार्थ- स्वादानर्थक्यमतदर्थानाम् ' (१. २.१) इति । अस्यार्थः यानि हि क्रियां क्रियासम्बद्धं वा कश्चिदर्थं प्रतिपादयन्ति, तानि सन्तु प्रमाणम् । यानि त्वक्रियानि 'सोरोदीद् यदरोदीदि'त्यादीनि तानि न कश्चिद्धर्म प्रमिमते इति पूर्वपक्षिते उक्तं 'विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः' (१. २. ७) इति । अस्यायमर्थः-विधयानां स्तुतिरूपेणार्थनार्थवादाः प्रमाणं स्युरिति । कथं पुनः स्तुत्यर्थता । नानपेक्षिता स्तुतिर्थवादा- नामों भवितुमर्हति । न । अपेक्षितत्वात् । अपेक्ष्यते खल्वपि शब्दभावना- परनामधेयेन विधिना स्तुतिः । स हि पुरुषं प्रवर्तयन् प्रवृत्तिविषयप्राश स्त्वज्ञानमपेक्षते । अर्थवादाश्च स्वाध्यायविध्यध्यापितास्तदलेनैवाप्रयोजन- सम्पदो न पर्यवस्यन्ति । तत्रैव किं कर्तव्यमित्यपेक्षिते तच्छक्तिनिरूपणाया- मक्षरग्रहणादिक्रमेण कथञ्चित् प्ररोचनायां बुद्धावुसन्चायां तत्कार्यत्वमर्थ- वादानां निधीयते । विधिर्हि प्ररोचनामपेक्षते, ते च तां शक्नुवन्ति कथञ्चिदुत्पादयितुमित्यनन्यप्रयोजनतया मनसि विपरिवर्तमानास्त एव तत्र- योजनतया निश्चीयन्ते । तदेष शास्त्रार्थों भवत्यर्थवादैरेव प्ररेचितं कर्मा- भ्युदयाय घटत इति । विधिस्वरूपं च प्रागेवोक्तमिति नेह प्रतन्यते । मन्त्रार्थोऽपि मन्त्राधिकरणे वक्ष्यते । तत्र 'बर्हिर्देवसदनं दामी'त्यादिमन्त्रा- नुदाहृत्य विचारितं-किममी उच्चारणमात्रादेवादृष्टार्थाः, उतार्थप्रकाश- नार्था इति । तत्र 'तदर्थशास्त्रात्' (१. २. ३१) इत्याद्युपपत्तिभिरदृष्टार्थ- तया पूर्वपक्षितं यमेव अर्थ मन्त्रः प्रकाशयति तत्रैवायं बामणेन विनियु- ज्यमानो दृश्यते । यथा प्रथममन्त्रः 'उरु प्रथस्वेति पुरोडाशं प्रथयतीति । यदि चायमर्थपरः, लिङ्गेनैव तत्र विनियोगे सिद्धे विनियोगानर्थक्यम् । अतोऽविवक्षितवचना मन्त्राः इति पूर्वपक्षिते अभिहितम् -- 'अविशिष्टस्तु २६ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् | . वाक्यार्थः' (१. २. ४०) इति । यथा हि ब्राह्मणवाक्यानामर्थः प्रतीय- मानो नाविवक्षितो भवति तथा मन्त्राणामपि । तेऽपि ह्यनुष्ठानौपयिकमर्थ प्रकाशयन्तः किमविवक्षितवचना मन्त्रा भविष्यन्ति । दर्शपूर्णमासादयो ह्य- नुष्ठानकालेऽस्मृतानुष्ठानासम्भवादनु(ति)ठासितस्वपदार्थस्मृतिहेतुमपेक्षन्ते । मन्त्राचार्थवादवदेव स्वाध्यायाध्ययनविधिबलप्रतिलब्धाध्ययनसंस्कारसम्ब- न्धात् किंस्विदस्माभिः कर्तव्यमित्यपेक्षमाणा विलम्बन्ते । तत्राशक्तिके विनियोगासम्भवात् तच्छक्तिनिरीक्षणायां क्रत्वपेक्षितानन्यसाधितविहित- स्मृतिप्रयोजना निश्चीयन्ते । यथाहुः "अनुष्ठाने पदार्थानामवश्यम्भाविनी स्मृतिः । अनन्यसाधनानन्यकामन्त्रैनियम्यते ॥" इति । यतु विनियोगानर्थक्यमुक्तं, तन्न । अर्थवादार्थत्वाद् वाक्यस्य । प्रथनं हि तत्र भूयते । ईदृशमिदं प्रथनं प्रशस्तं यत् क्रियमाणमनेन मन्त्रेण क्रियत इति । सोऽयं विध्यर्थवादमन्त्राणामों नासति बाह्येऽथै सिध्यति । तथा 'उद्भिदा यजेत पशुकामः' इत्युदाहृत्य विचारितं किमयं गुणविधिः उत कर्मनामधेयमिति संशय्य, प्रवृत्तिविशेषकरतया गुणविधिरिति पूर्वपक्षि- तम् । गुणं हि विदधतां प्रवृत्तिविशेषकरत्वम् । इतरथा नाममात्रमनर्थकम् । शक्नुवन्ति चोद्भेदनक्रियायोगवशेन किञ्चित् खनित्राथर्थमभिधातुमिति गुण- विषय इति प्राप्ते उक्तं-न गुणविधयः । कर्मसमानाधिकरणा ह्येते, तृती- यानिर्देशात् । कर्म खल्विह 'उद्भिदा यजेत पशुकामः' इति पशुभावना- करणत्वेनाभिहितं यजेत पशुकाम इति । किमुक्तं, यागेन पशून् भावये- दिति । अत उद्भिदा यागेनेति व्यक्तमेव सामानाधिकरण्यम् । गुणविधौ यागस्योद्वित्त्वाभावादुद्भिद्वता यागेनेति मत्वर्थलक्षणया सामानाधिकरण्यं स्यात् । तत्र च लक्षणैव दोषः । नन्वेवं 'व्रीहिभिर्यजेते'त्येवमादावपि भाव- नाकरणेन यजिना समभिव्याहृता व्रीह्यादिशब्दाः कर्मनामधेयतां प्रतिपये- रन् । न । तेषां निरूढार्थत्वात् । अज्ञातसन्दिग्धार्थस्य हि पदस्य प्रसिद्ध- सामानाधिकरण्यादेवार्थों निश्चीयते । निरूढं तु स्वार्थान्न प्रच्यावयितुं शक्यते । आह च- "पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथक्श्रुति । निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥"
औत्पत्तिकसूत्रे निरालम्बनवादः । इति । अतः पशूनामुद्भेदनं प्रकाशनमनेन कर्मणा क्रियते इति योगादुद्विच्छ- ब्देन कर्माभिधीयते । गुणफलसम्बन्धविधानेवानातानामप्युपयोगोऽस्तीति नानर्थक्यम् । अतः सिद्धं कर्मनामधेयतयैवञ्जातीयकानां क्रियोपयोग इति । चित्रादिशब्दानां नामधेयत्वहेतवो विस्तरभयानानुक्रम्यन्ते । कचित् कर्मणः प्रापकशब्दान्तराभावाद् गुणविधित्वमेव । यथा आमेयोऽष्टाकपाल इत्या- मेय इति सगुणकर्मविधायिनः शब्दस्य । नहि तत्र द्रव्यदेवतासम्बन्धविधा- नात् प्राक् कर्मणो रूपमवगम्यते यस्याग्नेयशब्दो नामधेयं भवेदित्येवमादि नामधेयपादोक्तमादिशब्देनानुक्रान्तं वेदितव्यमध्यायान्तम् । यावत्स्मृतिपादो- कार्थोऽप्यनेनैवानुक्रान्तो वेदितव्यः । प्रत्यक्षवेदोपयोगप्रतिपादनप्रसङ्गेन चार्थवादाधुपयोगानन्तरं नामधेय- पादार्थोऽनुक्रान्तः । तत्रादिशब्देनानुक्रान्तः स्मृतिपादार्थः । तथाहि-अश्रूय- माणवेदानष्टकादीनुदाहृत्य तेषां धर्माधर्मत्वसंशये, 'धर्मस्य शब्दमूलत्वा- दशब्दमनपेक्ष्यं स्यात्' (१. ३. १) इति पक्षं परिगृह्य वेदमूलतया सिद्धा- न्तितं सर्वाः स्मृतयो हि नासति पूर्वज्ञाने आत्मानं लभन्ते । पूर्वज्ञानं च मूलभूतं विभ्रमो वा स्यात् , प्रत्यक्षानुभवो वा, पौरुषेयागमजन्यं वा, विप्रलम्भो वा, चोदनाजनितं वा । तत्र तावद् भ्राम्यतामाप्तानां मन्वादीनां स्मृतिनिबन्धनप्रणयनमयुक्तम् । ते हि तावद् ऋषयो भ्राम्यन्तीत्येतदेव दुर्भ- णम् । भ्राम्यतां तु यन्महाप्रबन्धरचनं तत् स्मृतिभ्यश्चाद्ययावदार्यैः पश्यद्भिः परि (ग्रह?गृह्यते) इति नैतदुत्प्रेक्षितुमपि शक्यम् । अनुभवश्वातीन्द्रिय- गोचरः प्रत्यक्षसूत्रे निराकृतः । पुरुषवाक्यमप्यसम्भवन्मूलमप्रमाणमेव । विप्रलम्भोऽपि भ्रान्तिवन्निराकार्यः । चोदना तु सम्भवद्वेदसंयोगिनां त्रैवर्णि- कानां स्मृतिमूलं भवतीति तत्कल्पनैव लघीयसीति । नन्वेवमग्निहोत्रादिचो- दनावदष्टकादिचोदना अपि किं नोपलभ्यन्ते । नेदमनुपपन्नम् । विप्रकीर्णा- नेकशाखाश्रया हि श्रुतयः क्रतुपुरुषार्थोपदेशसङ्कीर्णाः प्रमाद्यद्भिरद्यतनैर्न विवि- च्योपलभ्यन्त इति किं नोपपद्यन्ते । अतो यदश्रूयमाणमप्यष्टकादिधर्मस्य निमित्तं चोदनेति सिद्धमष्टकादयो धर्मा इति । तदेवं प्रत्यक्षश्रुत्यविरुद्धाभ्यः श्रुत्यनुमानम् । प्रत्यक्षश्रुतिविरोधे तु न श्रुतिरनुमातुं शक्यत इति विरोधा- -- २८ मीमांसालोकवार्तिकं काशिकाटीकोपेतम् । धिकरणे उक्तम् । उपरिष्टाचाचारप्रामाण्यं स्मृत्या च सह बलाबलपरीक्षे- त्यादि दर्शयितव्यम् । सर्वेषु च भेदादिलक्षणेषु स्वप्रमाणगणैः शब्दान्तरा- दिभिः सिद्धान्तस्थिति(?र)सति बाह्येऽर्थे न सम्भवति । 'सोमेन यजेत' 'दा- क्षिणानि जुहोति' 'हिरण्यमात्रेयाय ददाती ति यागहोमदानभावनानां शब्द- भेदादेव भेदो वक्ष्यते । तथाच 'समिधो यजती'त्येवमादीनां पञ्चानां प्रया- जानामसत्यपि शब्दभेदेऽभ्यासानर्थक्यप्रसङ्गाद् भेदो दर्शितः । 'तिस्र आहु- तीर्जुहोती'ति पृथक्त्वनिवेशित्वात् संख्याया आहुतीनां भेदो दर्शितः । 'अथैष ज्येतिरेतेन यजेते'ति ज्योतिष्टोमाज्ज्योतिरिति संज्ञान्तरेण कर्मभेदः । 'वैश्वदेव्यामिक्षा काजिभ्यो वाजिनमिति च उत्पत्तिशिष्टौतामिक्षाविशेषाद वाजिनं वैश्वदेवे कर्मणि निवेशमलभमानं स्वाश्रयं यागान्तरमुपकल्पयति । सोऽयं वाजिनगुणाद् भेदः । कुण्डपायिनामयने 'मासमग्निहोत्रं जुहोती'ति नयमिकामिहोत्रात् प्रकरणान्तरेण कौण्डपायिनहोमस्य भेदः । तदेवं षोढा कर्ममेदो द्वितीये । अन्यदुपोद्वातादिना । तृतीये तु पारार्थ्यलक्षणस्य शेषत्वस्य षोडैव विनियोगसिद्धिरुक्ता । यथा तावदरुणिनः तृतीयाश्रुत्वा क्रियाङ्गभावे सामान्यतोऽवगते 'अरुणया कीणाती'ति क्रियाविशेषलाभो वाक्यात् । लिङ्गविनियोगस्तु----यथाप्रकरणा- मानसामर्थ्यावधृतसामान्याङ्गभावस्य बहिर्मन्त्रस्य सामर्थ्यापरनानो लिङ्गाद् पहिलवने विनियोगः। प्रकरणविनियोगस्तु--इष्टिप्रकरणानातानां प्रयाजा- दीनां साध्याकाक्षिणामुपकाराकाक्षिण्या तया सह सम्बन्धः । उभयाका- क्षालक्षणमेव हि प्रकरणमाचक्ष्महे । क्रमविनियोगस्तु ----प्राकृतोपकार- निराकाङ्क्षायां विकृतौ सन्निधिसमानातानामङ्गानाम् । नहि तत्र प्रकरण- विनियोगः सम्भवति । उभयगामिनी ह्याकाङ्क्षा प्रकरणम् । अनाकाक्षा चेह विकृतिः प्राकृतोपकारद्वारपरिप्राप्तपदार्थपरिष्वक्ता वैकृतमेव त्वङ्गाना सन्निहितसमानानमनर्थकं मा भूदिति तत्सन्निधिपाठादेव तेषां तत्र विनि- योगो निश्चीयते । समाख्याविनियोगस्तु -- आध्वर्यवसमाख्यातेषु पदार्थे- ध्वध्वयारनेनामी कर्तव्या इति । चतुर्थेऽपि श्रुत्यादिमिरेवावधृताङ्गाङ्गिभावानां दध्यानयनामिक्षादीनां प्रयोज्यप्रयोजकत्वे वक्ष्येते । यद्धि श्रुत्यादिभिर्यच्छेषतयावगम्यते तत् तेन औत्पत्तिकसूत्रे निरालम्बनवादः । २९ प्रयुज्यत इति स्थापितम् । तदिह प्रयुक्तिलक्षणेऽपि श्रुत्यादिरेव प्रमाणगणः, शेषलक्षणेऽपि शेषिणां शेषाणामुभयेषां वा क्रमनियमः किञ्चिन्मात्रविशेष- मिन्नश्रुत्यादिभिरेव क्रियते । यथा तावद् ‘अध्वर्युगृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति' इति क्त्वाश्रुत्या क्रमनियमः। 'अग्निहोत्रं जुहोति यवागू पचति' इति पाठादन्यादृशेऽपि क्रमेऽवगम्यमानेऽर्थात् क्रमनियमविपर्ययः । होमो- तरकालं हि. पाकः क्रियमाणोऽनर्थकः स्यात् । होमोऽपि नासति हविषि सं(प्र)वर्तत इत्यर्थात् पाकोत्तरकालमेव निश्चीयते । तदिदं लिङ्गमेवार्थ इति नाममात्रभिन्नं, सामर्थ्यमेव हि भावानां लिङ्गमिति निश्चीयते । इहापि द्रव्यक्रिययोः शक्तिनिरीक्षणादेव क्रमनियमावधारणम् । पञ्चानां तु प्रया- जादीनां 'समिधो यजती'त्येवमादीनां पाठात् क्रमनियमः । बहूनां हि पदार्थानां युगपदेकेन कानुष्ठातुमशक्तेरवश्यम्भाविनि क्रमेऽवगमाधीनत्वा- दनुष्ठानस्य क्रमेण तूच्यमानेषु तथैवावगमादनुष्ठाने क्रमापेक्षायां स एव क्रमो निश्चीयते । प्रतीतहानाप्रतीतोपादानयोरनुपपत्तेः । अयमपि पाठापर- नामा स्थानेनैव क्रमनियमः । स्थानात् क्रमनियमो यथा-साधस्के कर्मणि 'सह पशूनालभते' इत्यमीषोमीयसवनीयानुबन्ध्यानां सवनीयस्थाने सहोप- लम्मे चोदिते कः प्रथमं प्रयुज्यतामित्यपेक्षायां स्थानात् सवनीयो बुद्धो भवन् प्रथमं नियम्यते । तस्य तदनुष्ठानस्थानम् । सोऽयमनुष्ठानसादेश्यल- क्षणः क्रमः । पूर्व तु पाठसादेश्यलक्षणः । द्वेधा च तायक्रमो विभक्तः । यथोक्तं- "तत्र क्रमो द्विधैवष्टा देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याद् विनियोगस्य कारणम् ॥" इति । प्रवृत्त्या च क्रमनियमो यथा- 'सप्तदश प्राजापत्यान् पशूनालभते' इति चोदितेषु पशुषु चोदकप्राप्तानां प्रोक्षणादीनां यत्रक्कचिदेकस्मिन्नेक- स्थानुष्ठाने द्वितीयादिषु किं प्रथमप्रवृत्त्यैव अथानियम इति संशये नियम- कारणाभावात् प्रथमप्रवृत्तश्चानियमात्मकत्वादनियमः इति पक्षं परिगृह्य प्रथमप्रवृत्त्यैव नियमो दर्शितः । प्रयोगवचनबलेन हि पशूनां योगपद्यमव- धारितम् । तच्चावर्जनीयाद् विलम्बनान्न व्यवधानान्तरमङ्गानामनुजानीते । साङ्गेषु हि पशुषु युगपदनुष्ठातव्यतया चोदितेष्वपीश्वरेणापि तथा सम्मा- ३० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । वयितुमशक्तेः अवर्जनीयव्यवधानं तु विधेरनुमतं भवति । तत्र च वैषम्य- कारणाभावात् सर्वेषां सदृशमेवाङ्गव्यवधानम् । प्रथमपदार्थकानुष्ठिते तदै- वाङ्गान्तरानुष्ठानाय तेनैव प्रधानेन चोद्यमाने कर्तरि प्रयोगवचनप्रमाण कयोगपद्यबलेन पश्वन्तरैराकृष्यमाणे तत्पदार्थमात्रस्य पश्चन्तरेष्वनुष्ठानं स पशुः प्रतीक्षते । तदन्ते च द्वितीयपदार्थानुष्ठानाय कर्तारमाकर्षति । एवं सप्तदशानां पशूनां षोडशमिरेकैकस्य व्यवधान विध्यनुमतम् । व्यवधानवि- शेषस्तु विशेषाग्रहणानाश्रयितुं शक्यम् । अतो द्वितीयादीनामप्यनुष्ठान तत एवारभ्येति सिद्धान्तात् क्रमनियमः । अयं च प्रकरणान्तर्गत एवाका- कप्रमाणकत्वादेकैकोऽपि पशुरव्यवधानेन पदार्थानुष्ठानमाक्षिपति । पदा- र्थश्च तत्सन्निधावात्मनोऽनुष्ठानम् । अत उभयाकाझ्या क्रमनियमो जाय- मानः प्राकरणिको भवति । मुख्यक्रमेण चांशानां क्रमनियमो यथा- 'सार- स्वतौ भवत' इति युगपदुत्पन्नयोः स्त्रीपुंदेवतयोः कर्मणोर्याज्याक्रमेणानुष्ठाने- ऽवगतेऽङ्गेषु क्रमापेक्षायां मुख्यक्रमेणैव क्रमो नियम्यते । नबङ्गानां प्रधा- नकालाद् बहिर्भावोऽस्ति । 'साङ्गं प्रधानमैकशब्यादि'ति वक्ष्यति । सोऽयं वाक्येनैव क्रमनियमः । साङ्गं हि प्रधानमेकवाक्यचोदितमेकोपक्रमावसान- मिति प्रधानक्रमेणैवाङ्गानां क्रमनियमो जायते । अत्रापि श्रुत्यादिरेव प्रमा- णगणः । एवमधिकारविचारादावपि शेषशेषिप्रपश्चार्थत्वात् शेषलक्षणोक्तान्येव श्रुत्यादीनि सिद्धान्तस्थितिहेतुतया दर्शयितव्यानीति । यथा तावदाद्य एव 'स्वर्गकामो यजेते'ति यागस्वर्गयोः कः शेषः को वा शेषीति चिन्तायां 'द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः' (६. १. १) इति स्वर्गस्य याग- शेषतया लिङ्गबलेन पूर्वपक्षः परिगृहीतः । तद्धि भूतस्य द्रव्यस्य सामर्थ्य यद् भाव्यं कर्म निष्पादयति । द्रव्यं च स्वर्गः, स्रक्चन्दनवासस्सु तत्त्र- योगात् सूक्ष्माणि वासांसि वग इति यथा । अतो द्रव्यमेव कर्मार्थ, काम- पदसम्बन्धश्च साधनविषयतया दर्शयितव्यः । यो हि यदर्थी स तत्साधन- मपि कामयत एवेति लिङ्गबलेन पूर्वपक्षिते विधिश्रुतिबलात् सिद्धान्तितम् । विधिर्हि चेतनप्रवर्तनात्मकः । नचानथै पुरुषः प्रवर्तयितुं शक्यते इति यागाथै स्वर्ग कर्मासाधकमापद्यते । यथोक्तम् 'असाधकं तु तादर्थ्यात्' (६. १. २) इति । अतो विधेः प्रवर्तनाशक्तिर्मा व्याघानीति कमैंव स्वर्गा- 0 औत्पत्तिकसूत्रे निरालम्बनवादः । ३१ थम् । नच द्रव्यं स्वर्गः । अन्वयव्यतिरेकाभ्यां प्रीतिवचनत्वावगमात् । तदेव हि द्रव्यमप्रीतिकरं न स्वर्गशब्देनोपचरन्तो दृश्यन्ते इति प्रीत्यन्वय- व्यतिरेकानुविधायित्वात् स्वर्गपदं तद्वचनामांत निश्चीयते । नच सर्वस्य- ष्टतमा प्रीतिरन्यनिष्पत्तये भवतीति साम्प्रतम् । अतो यदेव किञ्चित् प्रीत्या समाभिव्याहृतं तत् तदर्थमेवेति लिङ्गमपि विपरोता । अतः सिद्धं यागः 'स्वर्गार्थ इति सिद्धश्चाधिकार इति । परस्तादपि शेवभूतस्यैव कर्तुस्तत्राधि- कारो दर्शयिष्यत इति श्रुत्यादिवलेनवाधिकारलक्षणेऽपि सिद्धान्तस्थितिः । उत्तरषट्के तु शेषा एव किं सर्वत्रोपदेशेनैव सम्बध्यन्ते, अथ यथा- प्रकृति व्यवतिष्ठन्त इति श्रुत्यादिबलेनैव निर्णेष्यन्ते । औपदेशिके हि धर्म- सम्बन्धे नातिदेशः सिध्यति, पारिप्लवा हि तदा धर्मा भवेयुः । तदिहाति- देशोपोद्घातेनैव सप्तमाये यज्यपूर्वप्रयुक्तत्वं विचारितं यज्युद्देशेन धर्म- विधानात् यजेश्च सामान्यवचनत्वात् सर्वत्रेति प्राप्तम् , नच दर्शपूर्णमास- पदं नियामकं, परिसंख्यानाद् विशिष्टोद्देशेन विशिष्टानुवादादिति प्राप्ते निरू- पितं-नात्र 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'ति यागोद्देशेनाङ्गानि विधीयन्ते, किं तर्हि, साङ्गप्रधानविशिष्टापूर्वभावनैव चोद्यते । पश्चात् वेकभावनापरिगृहीतानामङ्गानां प्रधानानां चारुणैकहायनीवत् परस्परा- न्वयसिद्धिः । भियन्ते च शब्दान्तरादिभिः प्रतिप्रकरणमपूर्वभावनेति कुतो धर्मसङ्करः । सेयं श्रुत्यादिप्रमाणकविनियोगपरामर्शादेव व्यवस्था सिध्यति । यदा ह्यपूर्वभावनान्वयगर्भो विनियोगो धर्माणां न यागसामान्योद्देशेनेति सिद्धं भवति, तदा व्यवस्था सिध्यति । तत्सिद्धया चाश्रुतेतिकर्तव्यताकेषु सौर्यादिषु विध्यन्तापेक्षायां सामान्यातिदेशसिद्धौ प्रत्यक्षवचननामाव्यक्त- चोदनातदवयवद्रव्यदेवतासामान्यबाहुल्येन विशेषातिदेशसिद्धिः । यथेष्टौ 'समानमितरत् श्येनेनेति श्येनवैशेषिकाणां वाचनिकोऽतिदेशः । 'मास- ममिहोत्रं जुहोती ति कुण्डपायिनामयने होमनाना नित्याग्निहोत्रधर्माति- देशः । एकाहाहीनसत्राणामव्यक्तचोदनाचोदितत्वेन सोमसादृश्यात् तद्ध- मातिदेशः इत्यादि दर्शयितव्यम् । सर्वश्चायमतिदेशः श्रुत्या विनियोगा- 'नुसारेणैव शेषाणां सिध्यतीति तत्प्रमाणगणकारित एव । ऊहोऽपि षोढा विभक्तः। प्राकृतोपदेशानुसारेणैव मन्त्रादीनां सिध्यतीति सोऽपि श्रुत्यादि- प्रमाणंक एव । सोऽपि अपूर्वार्थों धर्मविनियोग इति सिद्धे सेत्स्यति । अत ३२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । तस्माद् धर्मार्थिभिः पूर्व प्रमाणैर्लोकसम्मतैः । अर्थस्य सदसद्भावे यत्नः कार्यः क्रियां प्रति ॥४॥ एवापूर्वप्रयुक्तिराये साधिता। बाधोऽपि श्रुत्यादिप्रमाणानुसारेणैव । तत्रापि प्राकृतशास्त्रातिदेशात् सर्वानुष्ठानेन पूर्वपक्षिते उपकारप्रधानत्वादतिद- शस्य तदभावेऽन्यतो वा तलाभे प्रतिषेधेन वा बाधो वक्ष्यते । यथा कृष्ण- लचराववघातस्य, खलेवालीशराभ्यां यूपबहिषोरित्यादि दर्शयितव्यम् । एतदपि प्रकृतावेवोपकारपर्यन्तश्रुत्यादिविनियोग इति निर्णीयते । (सि- ध्यति?) एतावांस्तु विशेषः प्रकृतौ पदार्थपरिग्रहपुरस्सर्युपकारकल्पना, प्राक् तदसिद्धेः । विकृतौ तु प्रकृतिपरिकल्पितोपकारसन्दर्शनेन तत्परिग्रहपुरस्सरं पदार्थपरिग्रहः । स एव हि विधिनापेक्ष्यते । स तु प्रकृतावसिद्धो(ऽपि) कल्पयित्वा गृह्यते । विकृतौ च प्रकृतिसिद्ध एवोपादीयत इति । अत एव शास्त्रपदार्थयोरनतिदेशः, तयोर्विध्यनपेक्षितत्वादिति । तन्त्रावापलक्षणेऽपि विशेषा एव प्रधानानां किं तन्त्रेणोपकारका उतावृत्त्येति शेषाणामेव विचा- र्यमाणत्वात् तत्प्रमाणगणानुसारी निर्णयो दर्शयितव्यः । तत्र हि देशकाल- फलादीनां तन्त्रसम्बन्ध आग्नेयादीन् प्रति प्रयाजादीनां तन्त्रानुष्ठाने हेतु- भविष्यति । स च श्रुत्यादिप्रमाणक एवेति तत्रापि स एव प्रमाणगणः । प्रस- अलक्षणेऽपि पश्वर्थानुष्ठितानां प्रयाजादिशेषाणां पशुतन्त्रमध्यपातिपुरोडा- शोपकारकत्वं देशादितन्त्रनिबन्धनमेवेति पूर्ववत् प्रमाणगणः । अतएव भाष्यकारेण प्रथमसूत्रे दशाध्याय एव शेषलक्षणशब्दः प्रयुक्तः । योऽपि वचनव्यक्तिभेदेन पूर्वपक्षसिद्धान्तविभागः यथा 'स्वर्गकामो यजेते'ति स्वर्गकामो यागं कुर्यादिति पूर्वः पक्षः यागेन स्वर्ग कुर्यादिति सिद्धान्त इति, सोऽपि नार्थशून्यासु बुद्धिषु सिध्यति । कर्मभ्यश्च दर्शपूर्णमासकारीर्या- दिभ्यः परलोके इहलोके भवत्स्वर्गवृष्टयादिफलसम्बन्धो बाह्याश्रय एव, जसति तस्मिन् दैविध्यानुपपत्तेः । अतः सर्वमिदं पायार्थसिद्धावसत्यामयुक्त मापयेतेति तदुपपादनाय धर्मार्थिभिर्मीमांसकैर्लोकप्रसिद्धैः प्रत्यक्षादिभिः प्रमाणैः पूर्वोत्तरपक्षविभागेनार्थस्य सदसद्भावयोर्यनः कार्यः । पूर्णपक्षविशुद्धा हि बुद्धिः सिद्धान्तकरी भवति । अतोऽनुमानेनैवार्थापह्नवपूर्वपक्षं कृत्वा प्रत्यक्षेण तत्सद्भावसिद्धान्तो दर्शयितव्यः। सर्वश्वायं प्रयासः सकललौकिक- - औत्पत्तिकसूत्रे निरालम्बनवादः । यदा संवृतिसत्येन सर्वमेतत् प्रकल्प्यते । ज्ञानमात्रेऽपि कस्माद् वो वृथाग्रहोऽर्थकल्पने ॥५॥ संवते तु सत्यत्वं सत्यभेदः कुतोन्वयम् । सत्यं चेत् संवृतिः केयं मृषा चेत् सत्यता कथम् ॥ संत्यत्वं नच सामान्यं मृषार्थपरमार्थयोः । विरोधान्नहि वृक्षत्वं सामान्यं वृक्षसिंहयोः ॥ ७ ॥ वैदिकक्रियां प्रति तत्सिद्ध्यर्थमिति यावत् । अन्यथा सर्वार्थक्रियाणामु- च्छेदो भवेत् । अतः प्रयोजनवद् बाह्यार्थप्रतिपादनम् । अक्रियाङ्गस्य तु प्रतिपादितस्याप्यनर्थ(त्व)मेवेति क्रियां प्रतीति युक्तमेवेति ॥ ४ ॥ अत्र चोदयति-यदेति । ज्ञानमात्रपक्षे हि बौद्धानामिव सर्वोऽयं प्रमाणादिव्यवहारः सिध्यत्येव । ते हि वदन्ति - "द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥" इति । अतस्तद्वदेव व्यवहारसिद्धौ किं पारमार्थिकार्थप्रतिपादनव्यसनेनेति॥५॥ अत्र दूषणमाह-संवृतेरिति । सत्यम् । संवृतिसत्येन सर्व- मिदं बौद्धैराश्रीयते । नत्वेतद् युक्तम् । सत्यभेदानुपपत्तेः । यः खल्वयं सत्यभेदो बौद्धराश्रितः संवृतिसत्यं परमार्थसत्यमिति, नायमुपपद्यते । संवृतेः सत्यत्वाभावात् । मिथ्यापर्यायो हि संवृतिशब्दः । कथं तस्य सत्यश- ब्दसमभिव्याहारः । नह्ययमक्षशब्द इव विभीतकादीनां संवृतिपरमा- र्थयोः साधारणः सत्यशब्दः । अतः सत्यभेदानुपपत्तिरिति । विरोधमेव व्यनक्ति-सत्यं चेदिति ॥ ६ ॥ विरोधादेव च मृषार्थपरमार्थयोः सामान्यमपि सत्यत्वं नाभ्युपगन्तुं शक्यम् । समानानां भावः सामान्यम् । कुतस्तस्य विरोधिनोरवकाशः । नहि भवति धर्माधर्मयोर्धमत्वमधर्मत्वं वा सामान्यमित्याह-सत्यत्व- मिति विरोधादन्तेन । अन्यमात्रयोरपि तत्परामर्शाभावाद् दुरुपगमं सामान्यं वृक्षसिंहयोरिव वृक्षत्वम् । किं पुनर्विरोधिनोस्तत् स्यादित्याह ३४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । तुल्यार्थत्वेऽपि तेनैषां मिथ्यासंवृतिशब्दयोः । वञ्चनार्थ उपन्यासो लालावक्रासवादिवत् ॥ ८॥ नास्तिक्यपरिहारार्थ संवृतिः कल्पनेति च। कल्पनापि त्वभिन्नस्य नैव निर्वस्तुके भवेत् ॥ ९॥ तस्माद् यन्नास्ति नास्त्येव यत् त्वस्ति परमार्थतः। तत् सत्यमन्यन्मिथ्येति न सत्यद्वयकल्पना॥१०॥ नहीति । अत्र चाक्षादिवत् साधारणशब्दता पूर्व सत्यशब्दस्य निराकृता इह गवादिवत् सामान्यशन्दतेति विवेचनीयमिति ॥ ७ ॥ अतो लोकं वञ्चयितुं मिथ्यापर्यायोऽपि संवृतिशब्दो बौद्धविदग्धै- रनुद्वेगकरतया मिथ्यात्व एव विवक्षिते स्वनास्तिक्यपरिजिहीर्षया प्रयुक्तो लालायामिव वक्रासवशब्द इत्याह -तुल्यार्थत्व इति संवृतिरन्तेन । वक्ष्यमाणेनेतिकरणेन सम्बन्ध इति । कल्पनावाचोयुक्तिरपि स्वनास्तिक्य- परिहारार्थमेव तैराश्रितेत्याह - कल्पनेति चेति । कल्पनामात्रकल्पितेन बाह्येन सर्वलौकिकव्यवहार इत्यपि निर्वस्तुके जगत्यभिन्नस्य चिन्मात्रस्य कल्पनाया भेत्तुमशक्यत्वाद् दुर्भणम् । क्वचिद्धि भिन्नमेव किञ्चिद् रूपा- न्तरं कल्पनास्पदं भवति शुक्ताविव रजतरूपम् । यस्य तु न किञ्चिद् मिन्नमस्ति, तत् केन रूपेण कल्प्यताम् । तदेतदाह -- कल्पनापीति ॥९॥ ननु त्रिधैव तत्त्वं विभजामहे सत्यमसत्यं संवृतिसत्यं चेति । संवृतं हि नात्यन्तमसद् भवति, व्यवहाराविसंवादात् । नापि सदेव, प्रमाणा- न्तरविरोधाज्जात्यादिवत् । अतो न संवृतिः प्रमाणं नाप्रमाणमिति विधा- न्तरमेवेदमिति युक्तस्तदाश्रयतया व्यवहार इत्यत आह -तस्मादिति। यतः खलु संवृतिमिथ्याज्ञानं न वस्तुक्लप्त्यै प्रभवति, तस्माद् यत् परमा- थतो नास्तीति निरूप्यते न तत् संवृत्या तद्रूपं भवितुमर्हति । नास्त्येव तत् । यत् तु तावद् व्यवहाराविसंवादि तदस्त्येव, नासतः सर्वदा व्यव- हारहेतुमावः सम्भवति । यदेवार्थक्रियाकारि तदेव च परमार्थसदिति का सिद्धान्तः । अतः कथमर्थक्रियाकारित्वे सत्यपि जात्यादीनामसत्यत्वम् । तस्माद् यदि व्यवहाराणतया बाबमस्ति, तत् तर्हि परमार्थत एवास्ति ।
औत्पत्तिकसूत्रे निरालम्बनवादः । ३५ स्वप्नादिभोगवच्चापि योपभोगत्वकल्पना । तन्निवृत्यर्थमेवह परमार्थे प्रयस्यते ॥ ११ ॥ नहि स्वप्नसुखाद्यर्थ धर्मे कश्चित् प्रवर्तते। यादृच्छिकत्वात् स्वप्नस्य तूष्णीमास्येत पण्डितैः ॥ परमार्थफलावाप्तिमिच्छद्भिस्तेन यत्नतः। प्रतिपत्तिर्विधातव्या युक्तिभिर्बाह्यवस्तुषु ॥ १३ ॥ तत्रार्थशून्यं विज्ञानं योगाचाराः समाश्रिताः । तदेव सत्यमित्युच्यते । अन्यत्तु संवृतिर्मिथ्येति । नतु सत्यद्वयकल्पनात्मानं लमते। तन्त्रेण तद्वृत्तस्य पूर्वापराभ्यां सम्बन्धः । परमार्थत इति च नास्तीति पूर्वेण सम्बध्यत इति ॥१०॥ अपिच स्वप्नावगता अप्यर्थाः केचिच्छोकहर्षादिव्यवहारहेतवो दृश्यन्ते । अतस्तेऽपि सांवृता एव । तद्वच्च बाह्याभ्युपगमे स्वप्नादिभोग- तुल्य एव शुभाशुभकर्मफलोपभोगो भवेत् । अतस्तन्निवृत्त्यर्थमपि परमार्थसत्ये बाह्य प्रयस्यते इत्याह-स्वमादीति ॥ ११॥ कः पुनः स्वमतुल्यत्वे दोषः, अत आह-नहीति । किमिति न प्रवर्तते अत आह यादृच्छिकत्वादिति । नहि स्वप्नसुखं मे भवतीति विद्वांसः प्रयस्यन्ति । यादृच्छिकं हि स्वप्नसुखमगणितसाम्परायिकैहिकनि- मित्तं, न तत् प्रयस्यतो भवतीति बुद्ध्वा विद्वद्भिस्तूष्णीमुदासीनैरेवास्येत, न कचित् प्रयत्नः क्रियतेत्यर्थः ॥ १२ ॥ अतोऽवश्यं पारमार्थिकी फलप्राप्तिमिच्छद्भिरुपपत्या बाह्यवस्तुविषया प्रतिपत्तिर्विधातव्येत्यस्ति विचारस्य प्रयोजनमित्युपसंहरति परमा- थेति ॥१३॥ अत्र भाष्यकारेण बाह्यार्थसद्भाव एव पूर्वपक्षपुरस्सरं प्रतिपादितः, नतु ज्ञानसद्भावः । तत् कस्य हेतोः । अस्ति हि तत्सद्भावविप्रतिपत्तिरपि। माध्यमिका हि ज्ञानमप्यपलपन्ति । अतस्तन्निराकरणमपि युक्तम् । यत् ३६ मीमांसालोकवार्चिकं काशिकारीकोपेतम् । तस्याप्यभावमिच्छन्ति ये माध्यमिकवादिनः ॥ १४ ॥ तत्र बाह्यार्थशून्यत्वं तुल्यं तावद् द्वयोरपि । निवृत्त्यास्य ततो ज्ञाने तद्वत् संवृतिकल्पना ॥१५॥ तस्मात् साधारणत्वेन तन्मूलत्वेन चाप्ययम् । बाह्यार्थसदसद्भावे यत्नो भाष्यकृता कृतः ॥ १६ ॥ बाह्यापहवे द्वैतमेकोऽर्थस्य परीक्षणात् । प्रमाणमाश्रितश्चैकस्तत्रास्तां यः प्रमेयतः॥ १७॥ प्रमाणस्थस्तु मूलत्वादिहेदानीं परीक्ष्यते । पुनस्तदुपेक्ष्यैव बाह्यार्थापलापो निराक्रियते, तत्र कारणं वक्तव्यमत आह- तत्रेति त्रयेण । अस्यार्थः -- योगाचारा हि ज्ञानमात्रमर्थशून्यं पारमा- र्थिकं मन्यन्ते । माध्यमिकास्तु ज्ञेयाभावादकर्मकज्ञानानुत्पत्तेर्ज्ञानस्याप्य भावमिच्छन्ति । तत्र द्वयोरपि वादिनोस्तावद् बाह्यार्थशून्यत्वं साधारणम् । अर्थनिवृत्त्यधीनत्वात् ज्ञाननिवृत्तेः । अतो द्वयोरपि साधारणो बाह्यार्थाप- लाप इति स एव निराक्रियते । अपिच तन्मूलो ज्ञानापह्नवः । ततस्त- स्मिन् निराकृते निराकृत एवेति बाह्यार्थसद्भावे पूर्वोत्तरपक्षविभागेन भाष्य कृता प्रयत्नः कृतः । आधस्तत्रशब्दो वाक्योपन्यासार्थः । द्वितीयस्तु पूर्वोक्तदर्शनभेदपरामर्शार्थः । तत्र मतभेदे इत्यर्थः ॥ १६ ॥ ननु बाह्यार्थापह्नवो द्विधैव बौद्धराश्रितः प्रमाणतः प्रमेयतश्च । तथा- हि-एवं तैरुक्तं-न तावदणवोऽतीन्द्रियाः प्रमाणविषयाः। न तत्समूहः, तस्य तदतिरेकिणोऽभावात् । नावयवी । तस्यावयवव्यतिरेकेणानुपलम्भात् । अव्यतिरेके च तन्मात्रापातात् । एवमान्त्यावयवेभ्यो विकल्प्य अवयदी निराकार्यः । ते त्वतीन्द्रिया एव । अतो न किञ्चन ग्राह्यमवतिष्ठते इति । तदेतत्परित्यागे किं कारणं, यत् प्रमाणत एव बाह्यापहव उपन्यस्यते निरस्यते चेति । अत आहबाह्यार्थेति सार्धेन । अयमर्थः-यद्यपि द्वेषा बाह्यापह्नवो बौद्धैराश्रितः, तथापि प्रमाणाश्रित एव मूलभूतत्वादिह विचा- यते । प्रमाणमूला हि प्रमेयस्थितिः । तद् यदि प्रमाणमनुगुणं, किं वस्तु. विकल्पैः । न तद्वलेन तदनुपपत्तिं परिहत्यार्थों व्यवस्थाप्यते । अथतु औत्पत्तिकसूत्रे निरालम्बनवादः । प्रस्तुतः स द्विधा चात्र प्रथमं स्वनुमानतः॥१८॥ प्रत्यक्षबाधने चोक्ते पश्चात् तच्छक्त्यवेक्षणात् । तत्रानुमानमाहेदं नत्वित्यस्य च सङ्गतिः ॥१९॥ तत्सम्प्रयोगजं नाम प्रत्यक्षमिति भाषितम् । तत्रेन्द्रियार्थसम्बन्धभेदो न परमार्थतः ॥२०॥ कल्पितः सम्प्रयोगस्तु स्वप्नादावपि विद्यते। तदतद्योगजन्यस्य विभागस्तेन दुर्लभः ॥१२॥ प्रमाणमवार्थ प्रत्याचष्टे, किं प्रमेयविकल्पैः कृतकरैरिति । इह शाबरे तन्त्रे । इदानीम् अस्मिन्नवसरे । प्रमाणस्थ एव बाह्यापह्नवो विचार्यत इति ॥ १७ ॥ ननु यदि प्रमाणस्थो विचारयितव्यः, ततः प्रत्यक्षस्य मुख्यत्वात् तदनुसारेणैव विचारो युक्तः । बौद्धैरपि प्रत्यक्षसामर्थ्यादेवैकं तत्त्वमाश्रि- तम् । नैकस्मिन्नाकारे भासमाने द्वैतमात्मानं लभते इति हि मन्यन्ते । अनु- मानं तु भ्राम्यतः प्रत्युक्तमिति किं तत्पुरस्सरीक्रियते अत आह स्तुत इति । एवंहि मन्यते-- यद्यपि प्रत्यक्षशक्तिनिरूपणमेव बाह्या- थसदसद्भावयोः प्रधानं, तथापि परैरनुमानमपि बाह्यापह्नवे दर्शितमिति तदपि निराकार्यम् । अनिराकृते हि तस्मिंस्तत्रैव केचिदास्थां प्रतिबध्नीयुः। अत्र चायमेवोपन्यासक्रमो युक्तः यत् प्रथममनुमानमुपन्यस्यते, ततस्तस्य प्रत्यक्षेण बाधेमुपन्यस्य तस्मिंश्चोक्ते पुनः प्रत्यक्षशक्त्यपेक्षणेन पूर्वोत्तरप- क्षावा(दावे ? द ए)व प्रत्यक्षशक्तिनिरूपणेन निर्णये कृतेऽनुमानस्योपन्या- सोऽनवसर एव स्यादिति ॥ १८ ॥ अनुमानभाष्यमिदानी प्रकृतसङ्गतिदर्शनार्थमवतारयति तत्रेति इत्यन्तेन । सङ्गतिमाह- अस्येति दुर्लभ इत्यन्तेन । अयमर्थः- यत् सूत्रकारेण तत्संयोगजं प्रत्यक्षमुक्तं तदाक्षेपेणैव सङ्गच्छते । काल्पनिको ह्ययमिन्द्रियार्थसम्प्रयोगः, इन्द्रियादेरभावात् । काल्पनिकश्च सकलमि- प्याज्ञानसाधारण इति तदतद्योगजत्वविभागो न युक्त इति सूत्रोक्ताक्षेप इति ॥ २१ ॥ - ३८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । मिथ्यात्वं यद द्विधैवोक्तं नान्यथेत्यत्र चोच्यते । सर्वस्यैव च मिथ्यात्वे किं विशिष्याभिधीयते ॥ स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात् तथाहि यः । प्रत्ययः स मृषा दृष्टः स्वप्नादिप्रत्ययो यथा ॥२३॥ सिद्धसाधनभावांशे दृष्टान्ताभाव एव च । मा भूतामेवशब्दश्च व्यर्थोऽशेषप्रसाधने ॥ २४ ॥ सर्व एवेति तेनात्र जाग्रबुद्धिपरिग्रहः । स्वांशाभ्युपगमाच्चापि बाह्यग्राह्यनिवारणम् ॥२५॥ स्वोक्ताक्षेपेण वा सङ्गतिरित्याह ---- मिथ्यात्वमिति । यदेतद्- त्तिकारग्रन्थान्त उक्तं - 'यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनप्रत्ययः नान्यः' इति तदनेनाक्षिप्यते । सर्वमिथ्यात्वे विशेषणो- पादानवैयर्थ्यमिति ॥ २२ ॥ भाष्यतिरोहितमनुमानमिदानीं विस्पष्टमुपन्यस्यति-स्तम्भादीति। स्तम्भादिप्रत्यय इति धर्मिनिर्देशः । मिथ्येति धर्मवचनं, प्रत्ययत्वादिति हेतुः । तथाहीति दृष्टान्तवचनमिति ॥ २३ ॥ अत्र भाष्यं सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः' इति । तद् यथा- श्रुतं सर्वेषामनालम्बनत्वं साधयति । तत्र चांशे सिद्धसाधनता स्यात् , विभ्र- माणामनालम्बनत्वात् । यद्विज्ञानमन्यथा सन्तमन्यथा बुध्यतेऽर्थ तन्नि रालम्बनमिष्यत एव । तथा सर्वस्मिन् पक्षीकृते स्वप्नज्ञानस्यापि तदन्त- र्भावाद् दृष्टान्ताभावः । सर्व एवेति चैवशब्दानुपपत्तिश्च । स हि विभक्त- प्रतिषेधे दृष्टः । यथेदं देवेभ्य इदं ब्राह्मणेभ्य इति विभक्ते भवति वचन सर्वमेवेदं ब्राह्मणेभ्य इति । तत्र विभागप्रतिषेधपर एवकारो दृश्यते। सर्वस्मि- स्तु पक्षे सर्व इत्याचक्षीत, नैवकारं प्रयुञ्जीत । अतो जाग्रदुद्धिविवक्षयैव भाष्यं व्याख्यातव्यमित्याह-सिद्धसाधनेति सार्धेन । नन्वेवमप्यवि- शेषितनिरालम्बनत्वोपादानेऽभ्युपगमविरोधः । स्वांशालम्बनत्वं ज्ञानानी बौद्धैरिष्यत एवात आहे - स्वांशेति । अतएव कारणाद् बाह्यविशेषणवि- शिष्टमनालम्बनत्वं साधनीयमित्यर्थः ॥ २५॥ .
औत्पत्तिकसूत्रे निरालम्बमवादः । ३९ प्रत्ययस्येति साध्यांशव्याप्तहेतुर्निदर्शनम् । हेतुश्चोपनयेनात्र जाग्रतोऽपीति दर्शितः ॥ २६ ॥ अपरमपि भाष्यं 'प्रत्ययस्य हि निरालम्बनतास्वभाव उपलक्षितः स्वप्ने । जाग्रतोऽपि स्तम्भ इति वा कुड्य इति वा प्रत्यय एव भवति, तस्मात् सोऽपि निरालम्बनः' इति । तस्यार्थमाह --प्रत्ययस्येति । प्रत्य. यस्य हि निरालस्बनतास्वभाव उपलक्षितः स्वप्ने इत्येतावता भागेन तावत् साध्येन निरालम्बनत्वेन व्याप्तं प्रत्ययत्वं हेतुर्निर्दिश्यते । दृष्टान्तवचनमिति यावदिति । ननु न प्रत्ययत्वादिति हेतुरुपात्तः, कस्य व्याप्तिर्निर्दिश्यते । अत आह - हेतुश्चेति । यद्यपि प्रत्ययत्वस्य न व्यक्तं पञ्चम्या हेतुत्व- मुपात्तं, तथापि उपनयनाख्येन साधनवाक्यावयवेन जाग्रतोऽपीत्यादिना हेतुः प्रदर्शित एव । यदैव हि साध्यान्वितं प्रदर्शितं प्रत्ययत्वं पुनः प्रति- शार्थ उपनीयते, तदैव तदत्र हेतुरिति प्रदर्शितं भवत्येव । साध्यान्वितस्यैव पक्षस्थस्य हेतुत्वादिति । कः पुनरयमुपनयः । साधनवाक्यावयवविशेषः । पञ्चावयवं हि साधनवाक्यं प्रतिज्ञा हेतुरुदाहरणमुपनयो निगमनं चेति । तत्र साध्यनिर्देशः प्रतिज्ञा । यथा अनित्यः शब्द इति । उत्पत्तिधर्मकत्वा- दिति हेतुः । उत्पत्तिधर्मकं स्थाल्यादि द्रव्यमनित्यं दृष्टमित्युदाहरणम् । तथाचोत्पत्तिधर्मकः शब्द इत्युपनयः । स युदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनय इति वर्णितम् । किमुक्तं भवति । द्वेधा हि हेतुः साध्यं साधयति उदाहरणसाधाद् वैधाद् वा । तत्र साधर्म्य प्रद- र्शितम् । वैधयं तु यथा तस्यामेव प्रतिज्ञायां तस्मिन्नेवोत्पत्तिधर्मक- त्वादिति हेतौ अनुत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं दृष्टम् । नच तथा शब्दोऽनु- त्पत्तिधर्मक इति । तत्र योऽयं द्विविधोदाहरणापेक्षः साधर्योदाहते तथेति वैधयॊदाहृते न तथेति साध्यस्य शब्दस्य सम्बन्धितयोत्पत्तिधर्मकत्वस्यो. पसंहारवचनमुपुनयः, स चोदाहरणापेक्ष एव । उदाहरणद्वैतादेव तदुप- संहारद्वैतं भवति । वैधाँदाहरणेन च विरुद्धनिवृत्त्या साध्यसम्बन्धित्वेन हेनोरुपसंहारः । यथात्मादि द्रव्यं नित्यमनुत्पत्तिधर्मकम् , नच तथा शब्दः इत्यनुत्पत्तिधर्मकत्वप्रतिषेधेनोत्पत्तिधर्मकत्वमुपसंहियते । प्रकृते तु साधर्यो- मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । विपक्षाभावतश्चात्र व्यतिरेको न कथ्यते । सामान्यस्य च हेतुत्वान्न स्यात् पक्षकदेशता ॥ जापज्ज्ञाने विशेषोऽयं यतः सुपरिनिश्चयः । बाह्यालम्बनसम्बन्धो न प्रसिद्धः परं प्रति ॥२८॥ तस्माद् यद् भाष्यकारेण दत्तमुत्तरमत्र तु । विकल्पसमता वा स्याद् वैधर्म्यसमतापि वा ॥२९॥ दाहरणे तथैवेति हेतोरुपसंहार उपनयो वेदितव्यः । निगमनं तु हेत्वप- देशात् प्रतिज्ञायाः पुनर्वचनम् । तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति । निगम्यन्तेऽनेन प्रतिज्ञाहेतूदाहरणोपनया एकत्रार्थ इति निगमनम् । सम- यन्ते सम्बध्यन्ते इति यावत् । असति हि तस्मिन्ननभिव्यक्तसम्बन्धानामर्थ- प्रतिपादकत्वं न स्यात् । सति तु तस्मिन् सर्वेषामवयवानां तात्पर्यदर्श- नात् परस्परसम्बन्धः स्फुटो भवति । निगमनं सङ्गमनं सम्बन्धनमिति यावदिति ॥ २६॥ ननु नाव्यावृत्तो विपक्षाद्धेतुर्भवतीति वैधHदर्शनेन हेतोर्व्यतिरेको दर्शयितव्यः । नचात्र तथा दर्शितः, साधर्म्यमात्रवचनात् । अत आह विपक्षेति । निरालम्बनत्वे हि साध्यमाने सालम्बनत्वं विपक्षः । नच सर्वानालम्बनत्ववादिनस्तदस्तीति किं तद्व्यतिरेकप्रदर्शनेनेति । ननु प्रत्यये पक्षीकृते तस्मिन्नेव हेतौ प्रतिज्ञार्थंकदेशो हेतुरत आह-सामान्य- सेति । सामान्यविशेषात्मका हि प्रत्ययाः । तत्र विशेषे पक्षीकृते सामान्य हेतुरिति न प्रतिज्ञार्थंकदेशतेति ॥ २७ ॥ अत्र सिद्धान्तभाष्यं 'जाग्रतो हि बुद्धिः सुपरिनिश्चिता कथं विप. यसिष्यतीति । अनेन किल सुपरिनिश्चितत्वेन जाग्रद्धियां सालम्बनत्वं साध्यते । नच सुपरिनिश्चितत्वं बाह्यालम्बनसम्बद्धं परान् प्रति प्रसिद्धम् । अतो नानेनासिद्धावयवेनानालम्बनानुमानं पराणुयते, सप्रतिसाधनं वा भवति । तस्योभयप्रसिद्धावयवत्वात् । अस्य च तद्विपरीतत्वात् । अतो - औत्पत्तिकसूत्रे निरालम्बनवादः । दुष्टत्वात् पूर्वपक्षस्य जात्युक्तिः कैश्चिदाश्रिता। प्रतिज्ञादोषमेवाहुः केचित् प्रत्यक्षवाधनम् ॥ ३०॥ जात्युत्तरमेवेदं भाष्यकारेण दत्तमित्याक्षिपति ---जायज्ज्ञान इति द्वयेन । वैध→विकल्पसमयोश्च स्वरूपं शाब्द वक्ष्यामः । सत्येव प्रन्ययत्व सुपरि- निश्चितासुपरिनिश्चितधर्मान्तरविकल्पनात् मा यधर्मविकल्पापादनेन विकल्प- समता ! तथा साधर्म्य वादिना प्रयुक्त निरालम्बनानां स्वप्नज्ञानानामसु. परिनिश्चितत्वदर्शनात् साध्येषु जाग्रज्ञानपु सुपरिनिश्चितत्वेन वैधात प्रत्यवस्थानेन वैधhसमता । प्रपञ्चस्तु पश्चाद, भविष्यतीत्युक्तमिति ॥ २८, २९ ॥ एवमाक्षिप्तं भाष्यमेकेन मतेन समादधाति - दृष्टत्वादिति । एवं हि मन्यन्ते-दुष्टसाधनप्रयोगे दुष्टमेवानरं देयमिति, एवं हि तदा वादी प्रतिबोधितो भवति यथा भवान् मदीयं दूषणं दुष्टं मन्यत तथाहमपि त्वंत्साधनम् , अतोऽसौ स्वसाधनान्निवर्तते इति । इदं तु समर्थनं नोपपद्यते । निग्रहस्थानद्वयासक्तः । पर्यनुयोज्यापक्षणनिरनुयोज्यानुयोगात्मकनिग्रह- स्थानद्वयमेवंवादिनी भवेत् , यः सन्तं दोषमनुस्त्वान्यममन्तं जल्पति । नचै- वंवादिनः स्वसाधनदूषणावगमा भवति । परमेव । दुष्टदूगणप्रयोगणोपाल- भते । अतः पाशुपतोत्तरतुल्यमकजातीयकं वर्जनीयमित्यन्यथा समाधान- माह - प्रतिज्ञेति । नाननानुमानमुपन्यस्यत । किन्तु परोक्तानुमानस्य प्र. त्यक्षविरोधो वयंत । असनिकृष्ट र्थेऽनुमानं प्रमाणम् । इह तु सुपरिनि- श्चिताभिर्जाग्रबुद्धिभिनिश्चितसद्भावस्य बाह्यम्य प्रत्याख्यानानुमानं प्रत्य क्षेण मुखनिरोधान जायत एवाग्नाविव शैत्यानुमानम । यदि परं बाह्यस्य प्रयोगमात्रपर्यवसितमेव साधनवचनम् , अनुमिमानस्यापि स्फुटो बहिर्वि षयबोधि? धो) जायत एव । तथाविधम्यापि मिथ्यात्वं कः समाश्वासः । नन्वन मनुमानमनाश्वासनीयमव. न । तदभावात् . उक्तमेतत् प्रत्यक्ष परिपन्थिनि न तत्प्रतिपक्षमनुमानमात्मानं लभंत श्रोत इव विनियोग लैङ्गिकः । साधन- वाक्ये त्वयोग्यान्वयपदसान्निकर्षाद् वन्ध्यासुतवाक्यवत् मंसर्गज्ञानं भ्रान्तिरव । नतु कस्यचिद् लैङ्गिक स्तम्भादिष्वभावज्ञानमुत्पद्यते । ननु व्याप्नं प्रत्यय- स्वमनालम्बनत्वेन । व्याप्याच ज्ञातसम्बन्धस्य व्यापकज्ञानं नात्पद्यत इति १. 'केषां म', २. 'त' ख. पाठ:.
४२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । शक्ष्यामो यदि विस्पष्टं स्वांशग्राह्यनिवारणम् । तदा ते शुद्ध एव स्यात् पक्षो ग्राह्यनिवारणः॥ प्रत्यक्षादेश्च विषयो बाह्य एवावशिष्यते । तनिषेधकृतस्तस्य तैर्भवेत् पक्षबाधनम् ॥ ३२ ॥ सुनिश्चयेन चैतेषां बाधकप्रत्ययाहते। प्रमाणाभासता नास्तीत्येतस्मात् कथ्यते बलम् ॥ हठ एवायम् । न । व्याप्तिभङ्गात् । संविदन्नेव हि व्याप्तिमबाधितेन प्रत्य- क्षेण सर्वदेशकालादिभाविना न प्रत्ययत्वप्रयुक्तं मिथ्यात्वम् , अपितु पूर्वो- कहेतुद्वयप्रयुक्तमिति निश्चिनोति । तदिदमुक्तम् --- 'अन्यतस्तु स्वभप्रत्ययस्य मिथ्याभावो विसंवादादवगम्यते' इति ॥ ३० ॥ कथं पुनरत्र प्रत्यक्षबाधः । प्रत्यक्षं हि ग्राह्यमन्तरेणात्मानमलभमानं तन्मात्रमवस्थापयति न बाह्यम् । किं हि तस्य बाधेन विना न सिध्यति । ग्राह्यश्व स्वांशो बौद्धैरभ्युपगत एव । अतो न बाह्यापह्नवे प्रत्यक्षत्वादिवि- रोषः । अत आह - शक्ष्याम इति द्वयेन । अयमभिप्रायः शून्य- वादे हि प्रत्यक्षस्य स्वांशगोचरत्वं निराकरिष्याम एव । तन्निराकरणे च बाद्यविशेषणोपादानमनर्थकमेव, तद्व्यतिरिक्तग्राद्यान्तरासम्भवात् । अ- तोऽनालम्बनपक्षो ग्राह्यमात्रनिवारण एव भवति । प्रत्यक्षादेः स्वाशनिरा- कर(णा)द् बाह्य एव विषयोऽवशिष्यते । अतो बाह्यविशेषणेन विना ग्राह्य- मात्रापहवे भवति प्रत्यक्षादिभिः पक्षबाधः । सत्यपि कथञ्चिद् बाह्यविशेषणे प्रत्यक्षादेरपि बाह्यविषयावशेषात् तनिषेधं कुर्वाणस्य वादिनस्तैः प्रत्यक्षा- दिभिः पक्षबाधनं भवेत् । पूर्व तु प्रत्यक्षग्रहणमुपलक्षणार्थ सर्वप्रत्यक्षादि- विरोध एव त्वनालम्बनानुमानस्य दर्शयितव्य इति ॥ ३२ ॥ यत्तु सुपरिनिश्चयेन पाद्यालम्बनसम्बन्धः प्रसिद्धः । किं तदुपन्या- सेनेत्युक्तम् , अत आह-सुनिश्चयेनेति । उक्तमिदमस्माभिर्नायमनु- मानप्रयोग इति, किन्त्वनुमानेन जाग्रप्रत्यक्षधियां स्वमधीसामान्यं मन्य मानस्य तदैषम्यप्रदर्शनार्थ सुपरिनिश्चितत्वाभिधानम् । सुपरिनिधिता एते
औसत्तिकसूत्रे निरालम्बनवादः ।
दुष्टज्ञानगृहीतार्थप्रतिषेधो हि युज्यते ।
गृहीतमात्रबाधे तु स्वपक्षोऽपि न सिध्यति ॥३४॥
अग्राह्यत्वाच्च भेदेन विशेषणविशेष्ययोः।
अंप्रसिद्धोभयत्वं वा वाच्यमन्यतरस्य वा ॥ ३५ ॥
वक्तृश्रोत्रोश्च यज्ज्ञानं विशेषणविशेष्ययोः ।
तन्निरालम्बनत्वेन स्ववाग्बाधो द्वयोरपि ॥ ३६ ॥
प्रत्यया बलीयांसः । नैषु परिपन्थिष्वनुमानमात्मानं लभते । एतस्माद
अनुमानादित्यर्थः॥ ३३॥
एतदेव प्रपञ्चयति-दुष्टज्ञानेति । दुष्टनासुपरिनिश्चितेन गृही-
तोऽर्थः प्रतिषेधमर्हति नेतर इति । गृहीतमात्रबाधे तु वहवः साधनदोषा
भाष्यकारेणान्तर्णीताः । तान् प्रतिपादयिष्यन् पक्षाभावं तावदाह-गु-
होतेति । यदि गृहीतमात्रं मिथ्येत्युच्यते, तदा योऽयं निरालम्बनाः प्रत्यया
इति स्वपक्षः सोऽपि गृहीतत्वान्मिथ्या स्यात् । अतः शक्यं वक्तुं पक्ष
एवास्मिन् भवत्साधने नास्तीति ॥ ३४ ॥
अपिच, निरालम्बनतेन विशिष्टाः प्रत्ययाः साध्यन्ते । तदिह विशे-
पणविशेष्यभेदावग्रहस्यापि मिथ्यात्वान्न विशेषणविशेष्ययोविवेकः सिध्यति,
तदभावाच्च नक्तुं शक्यमप्रसिद्धविशेषणविशेष्यः पक्षोऽप्रसिद्धान्यतरो वेति ।
तदेतदाह-अग्राह्यत्वाचेति । अन्यतरस्य वा असिद्धिर्वक्तव्येत्यर्थः ।।
दूषणान्तरमाह-वक्तृश्रोत्रोरिति । पञ्चधा स्ववाग्विरोधः ।
भमियोचारणधर्मधर्म्युभयोक्तिभिः । तदिदमुभयोक्त्या स्ववाग्विरोधः ।
योरपि विशेषणविशेष्ययोनिरालम्बनत्वप्रत्यययोर्यद् वक्तुः श्रोतुश्च ज्ञानं
जायते, तदपि प्रत्ययत्वादनालम्बनमिति पक्षो न सिध्यतीते, तत्सालम्ब-
मत्वे चानैकान्तिकत्वान्न प्रत्ययानामनालम्बनत्वं भवेत् । सोऽयमुभयोक्त्या
स्ववाग्विरोध इति ॥ ३६॥
मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम । सम्भवो नच भेदस्य विशेषणविशेष्ययोः । तस्मान्निरूपणं नास्ति प्रतिज्ञार्थस्य शोभनम् ॥ निरालम्बनता नाम न किञ्चिद् वस्तु गम्यते । तेन तद्यतिरेकादौ प्रश्नो नैवोपयुज्यते ॥ ३८ ॥ यद्यवस्तु कथं त्वस्मांस्त्वं बोधयितुमिच्छसि। बुध्यसे वा स्वबुद्धया त्वं कल्पिता त्वथ साध्यते ॥ दूषणान्तरमाह सम्भवो नचेति । एवं हि विकल्पनीयम् । कि निरालम्बनत्वं धर्मिणो भिन्नमभिन्नं वा । न तावदभिन्नं विशेषणमहति । नच भेदग्राहिणो ज्ञानस्य मिथ्यात्वाद् भतुमईतीति । उपसंहरति-- तस्मा- दिति ॥ ३७॥ बौद्धानां प्रत्यवस्थानमाह --- निरालम्बननेति । एवं हि म. न्यन्त -... वस्तुनि व्यतिरेकादिविकल्पो युक्तः नावस्तुनि । यथाहुः "वस्तुन्येष विकल्पः स्यादिति । नचालम्बनप्रतिषेधो वस्तुनः किं तद्वयति- रेकादिप्रश्नेनेति ॥ ३८॥ दूषणान्तरमाह --यदीति त्वमन्तेन । यदि तावदवरतु, कथं तदस्मान् प्रतिबोधयितुमिच्छा भवतः । स्वयं वा तद्विषया बुद्धिः । न ह्यवस्तु बुद्धिविपयो भवति । तद्विषयत्वे च वस्तुत्वापातात् । अर्थक्रिया- लक्षणत्वाच्च सत्त्वस्थ । तलक्षणत्वाच्च वस्तुत्वस्येति । यदितूच्यते- यद्यपि निरालम्बनत्वं नाम न किञ्चित् परमार्थतोऽस्ति । तथापि तत्सत्त्वं कल्पयित्वा- नुमानव्यवहारः क्रियते प्रतिमायामिव देवतात्वमाराधनादिव्यवहार इति । तदयुक्तम् । असतः कल्पनायोगात् । अन्यत्र प्रसिद्धसद्भावा हि विष्ण्वाया देवता युक्तं यदन्यत्र कल्प्यन्ते । अत्यन्ताप्रसिद्धसद्भावं त्वनालम्बनत्वं न गगनकुसुमादिवत् कल्पनामर्हति । तदेतदाशङ्कया सहाह-कल्पितेति । ॥ ३९ ॥ . १. 'णमा'. 'ता' ख. पाठ:. .
,
औत्पत्तिकसूत्रे निरालम्बनवादः ।
असतः कल्पना कीहक् क्लुप्तौ वस्तु प्रसज्यते ।
कथमिष्टमभावे चेद् वस्तु सोऽपीति वक्ष्यते ॥४०॥
तथा प्रत्यय इत्येष कर्म भावादि वा भवेत् ।
भावादिषु विरोधः स्यात् कर्म चेत् सिद्धसाधनम ॥
प्रत्याश्यस्य हि रूपादेनिरालम्बनतेष्यते ।
अविज्ञानात्मकत्वेन किश्चिन्नालम्बते ह्यसौ॥४२॥
अपिच केयं कल्पना । यदि ज्ञानं, किं तेन ज्ञायते । यदि निरालम्ब-
नत्वम् , तत् तर्हि कल्पना ज्ञानोत्पत्ती व्याप्रियमाणा कथमवस्तु भविष्यति ।
अक्रियाकारित्वमेव हि वस्तुत्वं, ज्ञानोत्पादनमपिचार्थक्रियेत्यभिप्रायेणाह
क्लप्ताविति । अत्र चादयति - कथमिति । यद्यवस्तु न साध्यं, कथं तर्हि
भवतामपि मेघाभावन वृष्टयभावः साध्यत इति । परिहरति ---वस्त्विति ।
भवेदेवं यद्यभावा न वस्तु स्यात् । स वस्त्वित्यभावपरिच्छेद वक्ष्यत । यद्यपि
चाभावी न वस्तुशब्दवाच्यः लोकविरोधात् . तथापि नासौ निस्स्वभावः ।
प्रख्यायते ह्यसौ स्वसंवेद्यन भावातिरेकिणा रूपण । अताऽर्थक्रियाया एवं
पटिष्यत इति न किञ्चिदनुपपन्नमिति ॥ ४० ॥
किवेदमपि चात्र विकल्पनीयं-योऽयं धर्मिणा निर्देशकः प्रत्यय
शन्दः स किं भावे कर्तरि करणे वा व्युत्पद्यते, कर्मणि वा । पूर्वोक्तेषु तावत
कल्पेषु विरोधः, अकर्मकप्रत्ययासम्भवात् । नहि प्रतीतिरस्ति प्रत्येतव्यं
नास्तीति सम्भवति । तदनवष्टब्धस्य (कृ? त)पस्याप्रकाशात् । एवमेव
कर्तृकरणयोरपि वाच्यम् । यदि ज्ञानमेवार्थप्रकाश तज्जन्मनि वा कर्तृत्वेनो-
पर्यते करणत्वेन वा विवक्षाधीनत्वात् कारकाणां, तथापि तयोः प्रत्या-
य्येन कर्मकारकेण विनानुपपत्तिः । सोऽयं स्ववाग्विरोधः । प्रत्यय इत्युक्त-
मात्र एव तत्स्वभावपरामर्शात् प्रत्येतव्याभावः प्रतिषिध्यते माता मे वन्ध्येति-
बन्मातृत्वेन वन्ध्यात्वम् । अतो न प्रत्यय पक्षीकृते निरालम्बनत्वं साधयितुं
शक्यम् । कर्मव्युत्पत्तौ सिद्धसाधनमेव । तदेतत् सर्वमाह ...-नथेति ।।
सिद्धसाधनं विवृणोति- प्रत्याय्यस्येति । न खलु जडो रूपादिः
किविबालबत इति ॥४२॥
. मीमांसाश्लोकवार्षिकं काशिकाटीकोपेतम् | कर्तृत्वे करणत्वे वा पक्षत्वं शब्दयोरपि । तन्निरालम्बनत्वेन पक्षाभावः प्रसज्यते ॥४३॥ प्रत्याय्येन च भिन्नेन विना कायसम्भवः । प्रत्यये तन्निमित्ते वा बाधः स्ववचनेन ते॥१४॥ अथापि रूढिरूपेण प्रत्ययः स्यात् तथापि तु। ग्राहकं वस्तु सिद्धं नः प्रत्ययोऽन्यस्य वस्तुनः॥१५॥ तमभ्युपेत्य पक्षश्चेदभ्युपेतं विरुध्यते । विशेष्यस्याप्रसिद्धिश्च तवास्माकमतादृशे ॥ १६ ॥ कर्तृकरणपक्षे त्वयमपरो दोषः यद्धर्मधर्मिवचनयोः शब्दयोरपि निरा- उम्पनत्वं प्रतिज्ञायत । प्रतीते हि कर्ता करणं वा प्रत्ययः । यथाच कर्तृ- करणत्वे विवक्षावशाद ज्ञान भवतः, तथा शब्द इति । अत एव वक्ष्यति- "शब्दानां करणत्वं वा कर्तृत्वं वा निरूपितम् ।" इति । किश्वेदं शब्दयोरनालम्बनत्वम् अन्यदतोऽभिधेयाभावात् । तदभावे च पक्षाभावः प्रसज्यत इत्याह -- कर्तृत्व इति ॥४३॥ 'भावादिषु विरोधः स्यादिति यदुक्तं तद् विवृणोति ----प्रत्या. व्येन चेति । कादिभावो हि न प्रत्याय्यभेदमन्तरेण सम्भवति । अत- स्तत्प्रवृत्तिनिमित्ते प्रत्ययशब्दे स्ववचनविरोधः । स चायमस्माभिः प्रागेव विवृतः । वाशब्दोऽनन्तरविवृतकर्मव्युत्पत्त्यपेक्षयेति ।। ४४ ॥ यदि त्वविभक्तावयवो रूढिरूपेण प्रत्ययशब्द उपादीयते, तदर्थम पक्षीक्रियते, तथापि वस्त्वन्तरग्राहकस्यैव वस्तुतोऽस्माकं प्रत्ययत्वेन प्रसिद्धेः स्ववचनविरोध एव भवेत् , तदेतदाह-अथापीति । तथापीति । तथापि स्ववचनविरोध इति पूर्वेण सम्बन्ध इति । कथं स्ववचनविरोधः । अत आह-ग्राहकमिति ॥४५॥ वस्त्वन्तरस्यैव हि ग्राहस्य ग्राहकमात्मधर्माख्यं वस्त्वेव प्रत्यय इति नः प्रसिद्धम् । अतः कथं तस्यासति ग्राह्ये सिद्धिरिति दूषणान्तरमाह तमभ्युपेत्येति । एवमयमसाधनवादी वक्तव्यः किं यादृशोऽस्माभिः प्रत्यय औत्पतिकसूत्रे निरालम्बनवादः । आत्मधर्मस्वतन्त्रत्वकल्पनेऽपि तथा भवेत् । नच प्रत्ययमात्रत्वं किञ्चिदस्त्यनिरूपणात् ॥ ४७॥ शब्दार्थमात्ररूपेण यथान्येषां निरूपणम् । तथाच भवतो न स्याद वाच्यभेदमनिच्छतः ॥ 'निरालम्बनता चापि सर्वथा यदि साध्यते । विशेषणप्रसिद्धिश्च दृष्टान्तश्च न विद्यते ॥ ४९ ॥ - इष्यते स तथाविध एवाम्युपेत्य भवता पक्षीक्रियते, न वा । तत्राभ्युपगमे तावदभ्युपेनविरोध इति । अपि चैवं मति चाप्रसिद्धविशेष्यः पक्षो भवति, वन्मते बाह्यांग्राहिप्रत्ययानभ्युपगमादित्याह --- विशेष्यस्येति । अताशे तु स्वामिमते पक्षेऽस्माकमप्रसिद्धविशेष्यः पक्ष इत्याह - अस्माकमिति ॥४६॥ किश्च याहगात्मधर्मः प्रत्ययोऽस्माकमभिमतः, स पक्षा भवदभिमतो- ऽथवा स्वतन्त्रः । पूर्वस्मिन् कल्पे भवतोप्रसिद्धविशेष्यता । उत्तरस्मिन्न- स्माकमिति पूर्ववदेव दर्शयितव्यमित्याह - आत्मधर्मेति । यदि त्वनि- धारितविशेषं प्रत्ययमात्रं पक्षीक्रियत इत्युच्यते, तन्न । तथाविधस्यानिरूप- णादित्याह नचेति ॥४७॥ ननु शक्यमिदमन्येष्वपि पक्षीकृतेषु वक्तुं यथा - - किमाकाशगुणः शन्दः स्वतन्त्रं वा द्रव्यं पौद्गलाख्यं वा नित्यतया पक्षीक्रियत इति । अथ तत्राविवक्षितविशेष शब्दार्थसामान्योपलक्षितं रूपं पक्ष इत्युच्यते, तदिहापि समानमित्यत माह शब्दति । यथा शब्दार्थसामान्यरूपेणान्येषां 'पक्षाणां निरूपणं भवति, नैवमिह भवतः सम्भवति । असाधारणरूपातिरेकिणः सामान्यात्मनो वाच्यस्य भवतामनिष्टत्वादिति ।। ४८ ॥ एवं तावद् धर्मी विकल्प्य दूषितः । धर्ममिदानी निरालम्बनत्वं विकल्प्य दूषयति --निरालम्बनतेति । सर्वथा निरालम्बनत्वे सांध्ये- प्रसिद्ध विशेषणः पक्षो भवति । नहि सर्वथा निरालम्बनत्वं नाम किधि- मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । केनचिच्चेत प्रकारेण निरालम्बनतोच्यते । रसज्ञानस्य रूपादिशून्यत्वात् सिद्धसाधनम् ॥५०॥ अथ बुद्धिर्यदाकारा तदालम्बनवारणम् । स्वाकारस्याभ्युपेतत्वात् तदभावो विरुध्यते ॥ ५१ ॥ बाह्यानालम्बनत्वेऽपि बाह्य इत्याग्रहो यदि । स्तम्भादो नैव तद्बुद्धिरित्येवं सिद्धसाधनम् ॥५२॥ दस्ति । सर्वत्र देशकालान्तरावस्थितबाह्यालम्बनाभ्युपगमात् । यश्च स्वम- प्रत्ययो दृष्टान्ततयोक्तः, सोऽपि न सर्वथा निरालम्बनः । सर्वत्र यथा- कथञ्चिदालम्बनसिद्धर्वक्ष्यमाणत्वात् । अतो दृष्टान्ताभावोऽप्येवं सत्यापद्ये- तेति ॥ ४९ ॥ यदितु न सर्वथा निरालम्बनत्वं साध्यते । किन्तु सालम्बनस्यैव केनापि प्रकारेण निरालम्बनत्वमपीत्युच्यते, तदा रसादिज्ञानानां रूपाया- लम्बनशून्यतया सिद्धसाधनमित्याह --- केनचिदिति ॥ ५० ॥ ननु यदाकारा बुद्धिस्तन्नालम्बते इति साधयिष्यामः न सिद्ध- साधनं भविष्यतीति, तदेतदाशकते . - अथेति । एतदपि निराकरोति स्वाकारस्येति । अभ्युपगतो हि भवद्भिः स्वाकारो बुद्धेरालम्बनं यदाभांसं प्रमेयं तदिति वददिः । अतस्तदालम्बनामावोऽभ्युपेतेनैव विरुध्यत इति ॥५१॥ ननु किमापाय दूषणोद्भावनम् । बाखानालम्बनत्वं हि नः पक्षः । तथाच भाष्योपस्कारे वर्णितमेव । अतो नाभ्युपेतबाध इत्यत आह बाघेति । अयमभिप्रायः विकल्पनीयमिदं षाद्यानालम्बनत्वम् । किं बाधमित्यनेन रूपेण नालम्बत इत्येवं साध्यते, वस्तुतो वा बाह्यं नालम्बत इति । पूर्वस्मिन् पक्षे सिद्धसाधनम् । परम्मिन् दोषो वक्ष्यते । स्तम्भादि- पियो हि स्तम्भाषाकारतयैव स्वविषयमालम्बन्ते न बाह्यतयेति ॥ ५२ ॥ -- १. कारं प्रस. पाठ..
४९ . औत्पत्तिकसूत्रे निरालम्बनवादः। तथा स्तम्भादिरूपेण निरालम्बनतोच्यते । संवेदनस्य दृष्टत्वात् तद्विरोधः प्रसज्यते ॥५३॥ द्विचन्द्रादिषु तुल्यश्चेन्नेन्द्रियाप्राप्तितो हि नः । तत्रानालम्बनोक्तिः स्यानार्थसंवित्त्यभावतः ॥५४॥ सर्वत्रार्थेन्द्रियाणां नः संयोगसदसत्तया । संवित्तौ विद्यमानायां सदसग्राह्यतास्थितिः ॥५५॥ यदि तु स्तम्भानालम्बनत्वमेव साध्यते, ततस्तद्रूपसंवेदनस्य दृष्टत्वात् संविद्विरोध एवेत्याह-तथेति ॥ ५३॥ अत्र चोदयति-द्विचन्द्रादिष्विति । एवं हि मन्यन्ते समानोऽयमनालम्बनत्वाभिमतेषु द्विचन्द्रादिबोधेषु संविद्विरोधः । तत्रापि द्वावेव चन्द्रौ भासते । तदपह्नवे स्फुट एव संविद्विरोधः । अतः केन प्रका- रेण तेषामनालम्बनत्वं भविष्यतीति । परिहरति ---नेन्द्रियेति । अयमभि- प्रायः-यदि वयं प्रतिभासविपर्यासादन्यथात्वं ब्रूमः, तत एवमुपालभ्येमहि । न त्वेवम् । यदेव विज्ञानमिन्द्रियाप्राप्तमर्थं प्रकाशयति तदनालम्बनमिति नः सिद्धान्तः । तथाच द्विचन्द्रादिज्ञानम् । ततोऽनालम्बनमित्युच्यते । न . पुनर्द्विचन्द्रादिप्रतिभासापह्नवेन, अतो न नः संविद्विरोधः , नचानालम्बन- त्वस्याप्रसिद्धिरिति ॥ ५४॥ नन्वेवं संवेदनानपह्नवे यथावभासमर्थस्य सत्त्वात् सदसद्विवेको न स्यादत आह-सर्वत्रेति । अस्यार्थः -- इदं सद् ग्राह्यमिदमसद् ग्राह्य- मिति नायमर्थ इदमर्थ प्रकाशयति इदं नेति । किन्तर्हि । जायमानाया- मेवार्थगोचरायां संवित्ताविन्द्रियार्थसंयोगसदसत्त्वतोऽयं विभागः । यदिन्द्रि- यसम्प्रयुक्तमर्थ प्रकाशयति तत् सद् ग्राह्यम् । विपरीतमन्यत् । नच यथा- वमासमर्थस्य सत्त्वम् । बाधकदर्शनात् । अतो यद् देशान्तरस्थमिन्द्रिया- प्रासमर्थ गृह्णाति तद् असद् ग्राह्यम् । तस्यार्थो नास्तीत्युच्यते । कचिद्धि किञ्चित् प्रतिषिध्यते । न स्वरूपेणैव किञ्चित् । नेदं रजतमिति नायमर्थः II मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । भवतस्त्विन्द्रियादीनामभावाद् ग्रहणादृते । नालम्बनत्वहेतुः स्यानिषेधोऽतो न युज्यते ॥ ५६ ॥ बहिर्भावाप्रसिद्धत्वात् तेनानालम्बना मतिः। कथञ्चित् साध्यते नैष पक्षो हि ज्ञायते तदा॥ ५७॥ यथान्यबोधनाशक्ते प्रसिद्ध विशेषणे । पक्षसिद्धिस्तथैव स्याद् विशेषणविशेषणे ॥ ५ ॥ नाप्रसिद्ध पदार्थे हि वाक्यार्थः सम्प्रतीयते । रजतं नास्तीति । अस्ति हि तद् देशान्तरादिषु । किन्तु इह नास्तीति यत्रे- न्द्रियेण न प्राप्यते, इदमस्तीत्यपि यदेव यत्रेन्द्रियेण प्राप्यते तदुच्यते । इह घटोऽस्तीति प्रतीतिः न पुनर्घटोऽस्तीति ॥ ५५ ॥ नचैष विभागो बौद्धस्य सम्भवतीत्याह-भवत इति । नच बौद्धस्येन्द्रियादीनि सन्ति यत्प्राप्त्यप्राप्तिनिबन्धनं भावालम्बनालम्बनप्रति- षेधौ युज्यते इति ॥५६॥ दूषणान्तरमाह बहिर्भावेति साध्यतेन्तेन । न ह्यना- लम्बनज्ञानवादिनां बहिर्भावो नाम कश्चित् सिद्धः, येन विशिष्टमनालम्ब- नत्वं बुद्धेः साध्यत इति । किमिति न साध्यते, अत आह - नैष इति । पक्षप्रज्ञापनार्थ हि साधनवचनं, नचाप्रसिद्धपदार्थविशिष्टः पक्षो ज्ञापयितुं शक्यत इति ॥५७॥ किं पुनः पक्षो न ज्ञायते । अज्ञाते विशेषणविशेष्ये च विशिष्टो न ज्ञायते । तच्चोभयमपि प्रसिद्धमेवेति किं विशेषणविशेषणाप्रसिद्ध्या, अत आह-यथेति । विशेषणाप्रसिद्धावेव किम् । न तावत् पक्षसिद्धिः, तथा- विधमन्यो बोधयितुं न शक्यत इति चेत्, समानमिदं तद्विशेषणाप्रसिद्धा- वपीति तद्विशेषणाप्रसिद्धौ पक्षो न ज्ञायत इति सूक्तमिति ॥ ५॥ एतदेव प्रपञ्चयति----नाप्रसिद्ध इति । प्रतिज्ञावाक्यार्थों हि औत्पत्तिकसूत्रे निरालम्बनवादः । ५१ तत्पूर्वकत्वात् पक्षश्च वाक्यार्थः स्थापयिष्यते॥५९॥ पर्युदासे निषेधे वा व्यतिरिक्तस्य वस्तुनः । प्रमेयत्वाद्यभेदेन जगतः सिद्धसाधनम् ॥ ६ ॥ यदि चात्यन्तभेदेन निरालम्बनतोच्यते । कथञ्चिच्चेद विरुध्येत प्रापक्षः कल्पितेन ते॥ वस्त्वाद्याकारतश्चापि धीनिरालम्बनेष्यते । ग्राहकाच्चेदभिन्नत्वं शक्तिभेदो विरुध्यते ॥ ६२ ॥ पक्षः, स च पदार्थपूर्वकः । अतो बाह्यादिपदार्थासिद्धौ पक्षो न सिध्य- तीति ॥ ५९॥ दूषणान्तरमाह ... पर्युदास इति । (न? ना)व्यतिरिक्तालम्बनः प्रत्ययः, (व्यतिरिक्तं नालम्बते) इति हि द्वावौँ सम्भवतः पर्युदासप्रतिषे- धाभ्याम् । पर्युदासे हि नामयोगान्नोऽव्यतिरिक्तालम्बनः प्रत्यय इत्यर्थो भवति । निषेधे तु आख्यातयो(गाद्) व्यतिरिक्तं नालम्बत इति । उभयथा हि सिद्धसाधनम् । प्रमेयत्वादिना हि जगतो न भेदमातिष्ठामहे । अतः स्त- म्भादिज्ञानात् प्रमेयत्वादिनाव्यतिरिक्तं भवति । अतएवाभेदाद् व्यतिरिक्तं च न भवतीति सिद्धसाधनमिति ॥ ६० ।। किञ्च, इदमपि चात्र विकल्पनीयं किमत्यन्तभिन्नेन स्तम्भादिना निरालम्बनत्वं साध्यते, कथञ्चिद् भिन्नन वा । पूर्वस्मिन् कल्पे तावत् सिद्धसाधनमवेत्याह-यदीति । सिद्धसाधनमित्यतीतेन सम्बन्ध इति । कथञ्चिद् भिन्नेन तु निरालम्बनत्वे साध्यमाने प्राक् कल्पितेन पक्षविरोधः । इष्यते हि कथञ्चित् कल्पनामात्रकल्पितं भवद्भिरपि बाह्यालम्बनम् । अत- स्तनिषेधे भवति प्राक्कल्पितेन पक्षबाधः । तदेतदाह – कथञ्चिदिति ॥६१॥ अन्यथा सिद्धसाधनं दर्शयति ..... वस्त्विति । बुद्धिर्हि वस्त्वाया- कारेण जडरूपा न किञ्चिदालम्बत इति सिद्धमेव । असाधारणेन तु प्रका- ५२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । निरालम्बनबुद्धेश्च यद्युत्पत्तिः प्रसाध्यते। दृष्टत्वात् सेष्यतेऽस्माभिर्बाह्यग्राह्यविवर्जिता ॥३॥ सम्यक्त्वं पुनरेतस्यास्त्वं नेच्छास कथञ्चन । आत्मांशेऽवसिता ह्येषा मृगतृष्णादिबुद्धिवत् ।। चैत्रादिप्रत्ययानां च निरालम्बनता याद । धर्मभूता न गृह्येत साधनोत्थितया धिया ॥६५॥ शात्मना बाह्यमालम्बते । तत्राविशेषितोपादाने शक्यं सिद्धसाधनं दर्शयितु- मिति । ननु ग्राहकाद् ग्राह्यमभिन्नमितीदमत्र नः साध्यं, तत्र किं नाना- विकल्पैः । अत आह --- ग्राहकादिति । न तावन्निरालम्बनाः प्रत्यया इत्ययमर्थः ग्राहकाद् ग्राह्यमभिन्नमिति । एवं सत्यपि यद् द्विशक्तिकत्वं ज्ञानस्येष्टं ग्राह्यग्राहकशक्तिकं ज्ञानमिति तद् विरुध्यते, ग्राह्यापलापात् । यद्यपि न बौदैराश्रयातिरेकिणी शक्तिरिष्यते, तथापि शक्तिभेदद्वारेण यात्म- कत्वमेव दर्शयतीति द्रष्टव्यमिति ॥ ६२ ॥ यदि तु सर्वप्रकारासम्भवान्निरालम्बनबुद्ध्युत्पत्तिमात्रमेव प्रसाध्यते, तत्रापि च सिद्धसाधनमेव । उत्पद्यते हि निरालम्बनाः प्रत्यया इत्युक्ते निरालम्बनत्वबुद्धिः । न त्वियमर्थक्रियायै समर्था, अनर्थकत्वादित्यभिप्राये- णाह-निरालम्बनेति ॥ ६३ ॥ नचानर्थकत्वमेवास्या न सिद्धमिति वाच्यम् । तत्सत्यत्वे हेतोरनै- कान्तिकत्वप्रसङ्गात् । अतो मृगतृष्णादिज्ञानवदेवात्मांशपर्यवसायिनी बुद्धि- रियमभ्युपगन्तव्या । अस्माकमपि सर्वमिथ्यात्वग्राहिप्रत्ययमिथ्यात्वं सिद्ध- मेवेत्यावयोरविवादात् सिद्धमनालम्बनबुद्धरनर्थकत्वमित्याह-सम्यक्त्व मिति ॥ ६४॥ एवं चोत्पन्नायामप्यर्थशून्यायामात्मांशपर्यवसायिन्यामनालम्बनबुद्धौ चैत्रादिप्रत्ययानां पक्षीकृतानां धर्मतया निरालम्बनता न गृहीता साधनो- स्थितया धियेति, नानाविषयत्वात् प्रतियोगिना निरालम्बनत्वेनानिराकृता ५३ औत्पत्तिकसूत्रे निरालम्बनवादः । ततो विषय नानात्वात् प्रतियोग्यनिराकृता । रूपात् सालम्बनप्राप्तिः सती केन निवार्यते ॥ ६६ ॥ यदि प्रत्ययशब्दोऽपि प्रत्ययत्वेन गृह्यते। संवित्त्यालम्बनत्वेन वार्यते सिद्धसाधनम् ॥ ६७ ॥ बुद्ध्युत्पादनशक्तिश्चेद् वार्या साध्यं न सिध्यति । साधनस्य प्रयोगोऽत्र बोधकत्वाद् विना न ते॥६॥ सती चैत्रादिस्वरूपपर्यालोचनयालम्बनप्राप्तिः केन वारयितुं शक्या । स मानविषयोपनिपातिनोर्हि विरुद्धार्थगोचरयोः प्रत्यययोर्बाध्यबाधकमावो भ- वति, यथेदं रजतं नेदं रजतमिति चानयोः । नचेह तथा । चैत्रादिप्रत्यया हि स्वविषयं स्थापयन्ति । नच तन्निरालम्बनबुद्धिः प्रतिक्षिपति, अर्था- भावात् । स्वांशगोचरा हि सा । अतोऽस्याः स्वांशो विषयः । चैत्रादिप्रत्य- यानां च चैत्रादय इति स्पष्टो विषयभेद इति किं केन बाध्यत इत्युच्यते । तदेतदाह-चैत्रादीति द्वयेन ॥ ६५,६६ ।। किञ्च यत् तत् पूर्वमुक्तं कर्तृत्वे करणत्वे वा प्रत्ययत्वे शब्दोऽपि प्रत्ययशब्दवाच्य इति, तद् यदि तथैव प्रत्ययशब्दोऽप्यत्र प्रतीतिकर्तृकरण- वात्मना प्रत्ययत्वेनोपादीयते, तत्संवित्त्यालम्बनत्वं चैत्रादीनां वार्यते, चैत्रादयः प्रत्ययशब्दसंवित्त्यालम्बना न भवन्तीति । ततस्तस्याचेतनत्वेन तत्सवित्यालम्बनत्वं चैत्रादीनां नास्ति अंशे सिद्धसाधनमेवेत्याह-य- दीति ॥ ६७ ॥ अथ तु बुद्धयुत्पादनशक्तिविरहस्तस्यानालम्बनत्वमित्युच्यते प्रत्यय- शन्दो निरालम्बन इति, किमुक्तं भवति । न किञ्चिद्विषयां बुद्धिमुत्पाद- यितुं शक्यत इति । ततस्तेनाशक्तेन पक्षो न बोधित इनि साध्यं न सिध्य- 'तीत्याई -बुद्धथुत्पादनेति। साध्यासिद्धौ कारणमाह-साधनस्येति ॥
५४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । नचाभिधार्थसम्बन्धाहते भेदाच्च नास्त्यसौ। नचासौ तद्गतं भेदं बोधयन्त्या धिया विना ॥ ६९ ॥ प्राश्निकै गृहीते च वाक्ये सावयवे पृथक् । पक्षे हेतौ च दृष्टान्ते वादिनि प्रतिवादिनि ॥ ७० ॥ साधनस्याप्रयोगः स्यादभ्युपेत्योच्यते यदि । पूर्वाभ्युपगमेनैव प्रतिज्ञा साध्यते ततः ॥ ७१ ॥ धर्माधर्मादिभेदे च नासिद्धे परमार्थतः। शिष्यात्मनोश्च धर्मादेरुपदेशोऽवकल्पते ॥ ७२ ॥ तदनुष्ठानतो बुद्धरिष्टो भेदः स्फुटं च तैः । सूत्रान्तरेऽभ्युपेतत्वाद् भवेदागमबाधनम् ॥ ७३ ॥ पूर्वाभ्युपगमविरुद्धोऽप्ययं पक्ष इत्याह नचेति त्रयेण । न तावदनभिधायकेषु पदेषु साधनवाक्यं प्रयोगमर्हति । नचाभिधानमर्थसम्ब- न्धाहते पदानां सम्भवति । नच सम्बन्धो भेदमन्तरेण । नच भेदः शब्दार्थ- गतभेदं बोधयन्त्या धिया विना (न?) सम्भवति । तदत्र साधनं प्रयुञ्जानेन मिन्नौ शब्दार्थावभ्युपगन्तव्यौ । तथा सति प्राश्निकाः संभ्या गृह्णन्ति च सावयवं साधनवाक्यं पृथक् च पक्षहेतुदृष्टान्तान् वादिप्रतिवादिनौ चेति । यावदिदं नावस्थाप्यते न तावद् व्युत्थित प्रतिपादनाय साधनस्य प्रयोगो भवति । एतच्च सर्वमभ्युपेत्य निरालम्बनत्वे साध्यमाने भवति पूर्वाभ्युपगत- विरोध इति ॥ ६९-७१ ॥ आप्ततमत्वाभिमतबुद्धाभिप्रायविरुद्धोऽप्ययं पक्ष इत्याह -धर्मेति भेदोन्तेन । यावद्धि धर्माधौं भिन्नौ परमार्थौ न सिध्यतः शिष्यश्वोप- देश्यः आत्मा चोपदेष्टा, तावन्न धर्माधर्मोपदेशो घटत इति । उपदिष्टाश्च चै- त्यवन्दनादयः शिष्येभ्यो धर्मत्वेन बुद्धैः । अतश्चेष्टादर्शनेन सर्वमनुमतं बुद्धानामिति तेषामाशय उन्नीयते । अतस्तद्विपरीतवचने भवति तदभिप्राय- - औत्पत्तिकसूत्रे निरालम्बनवादः। सर्वलोकप्रसिद्धया च पक्षबाधोऽत्र ते ध्रुवम् । कृत्स्नसाधनबुद्धिश्च यदि मिथ्येष्यते ततः॥ ७४ ॥ सर्वाभावो यथेष्टं वा न्यूनता वाभिधीयते । तेषां सालम्बनत्वे वा तैरनैकान्तिको भवेत् ॥ ७५॥ तदन्यस्य प्रतिज्ञा चेत् तदन्यप्रत्ययो मृषा। तन्मिथ्यात्वप्रसङ्गे च सर्वं पूर्वं न सिध्यति ॥ ७६ ॥ स्तम्भादिसाधनज्ञानभेदो नाहि यथा भवेत् यावद् यावत् प्रतिज्ञेयं तदन्यस्य प्रतीयते ॥७७॥ विरोध इति । अपिच कचित् सूत्रविशेषे स्फुटमेव तैर्बाह्यार्थोऽभिमतः यदा- श्रित्य सौत्रान्तिकेन बाह्यार्थसद्भावोऽङ्गीकृतः, अतस्तदीयागमविरुद्धोऽप्ययं पक्ष इत्याह -- स्फुटमिति ॥ ७२, ७३ ॥ तथा सर्वलोकप्रसिद्धमहीमहीधरोदधिनिषेधाल्लोकविरुद्धोऽपीत्याह-- सर्वेति । अपिच सर्वज्ञानानामनालम्बनत्वे कृत्स्नसाधनज्ञानमिथ्यात्वात् सर्वसाधनाभावो वा यथेष्टं पक्षादिन्यूनत्वं वा शक्यमापादयितुमित्याह कृत्लेति । यदि तु न साधनज्ञानं मिथ्येत्युच्यते, ततः पक्षादिप्रत्ययैरेव हेतोरनैकान्तिकत्वमित्याह-तेषामिति ॥ ७४, ७५ ॥ यदि पक्षादिग्राहिव्यतिरिक्ता एव प्रत्यया निरालम्बनत्वेन प्रतिज्ञा- यन्ते, ततस्तव्यतिरेकग्राहिणः प्रत्ययस्य पक्षाद्यविषयत्वान्मृषात्वमापद्यत इत्याह-तदन्यस्येति । अभ्युपगमे दोषमाह --- तन्मिथ्येति । तदन्य- प्रत्ययमिथ्यात्वे हि यत् तेन पक्षादिप्रत्यय यतिरेकग्राहिणा गृहीतं तन्मि- ध्येति सर्वमिथ्यात्वमापद्यत इति ॥ ७६ ॥ कथं न सिध्यत्यत आह --स्तम्भेति । व्यतिरेकग्राहिप्रत्यय- मिथ्यात्वे हि न स्तम्भादिज्ञानेभ्यः साधनज्ञानस्य कश्चिद् विशेषः । तद्वदेव तु साधनज्ञानमपि मिथ्या भवेदिति । एतद्दोषपरिहारार्थ तु व्यतिरेकग्राहि- १. 'कि' क. पाठः.
५६ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । तावत् तावत् परेषां स्यान्मिथ्यात्वादन्यबाधनम् । विरुद्धाव्यभिचारित्वं बाधो वाप्यनुमानतः ॥७८ ॥ इत्थं सर्वेषु पक्षेषु वक्तव्यं प्रतिसाधनम् । बाह्यार्थालम्बना बुद्धिरिति सम्यक् च धीरियम् ॥ बाधकापेतबुद्धित्वाद् यथा स्वप्नादिबाधधीः । सापि मिथ्यति चेद् ब्रूयात् स्वप्नादीनामबाधनात् ॥ तस्मात् साधम्यैदृष्टान्तो भवतः साधनेऽधुना। विज्ञानास्तित्वभिन्नत्वक्षणिकत्वादिधीस्तथा ॥१॥ प्रत्ययव्यतिरिक्ता एव प्रत्यया यदि पक्षीक्रियन्ते, ततो व्यतिरेकग्राहिप्रत्यय- व्यतिरेकग्राहिणस्तव्यतिरेकान्मिथ्यात्वप्रसक्तौ सर्वपूर्वासिद्धिः, पुनरपि तदन्द- विशेषणेऽनवस्था । यत्रैव तु परः कचिदवतिष्ठते तन्मिथ्यात्वात् पूर्वपूर्वा- भावो दर्शयितव्य इत्याह यावदिति । किञ्चाद्यपक्षात् प्रभृति य एते तदन्यप्रतिज्ञादिभिः पक्षा दर्शिताः, तेषु सर्वेषु विरुद्धाव्याभिचारित्वमनुमान- विरोधो वेत्याह --विरुद्धेति ॥ ७७,७८ ॥ कथमेतदुभयमित्याह --- इत्थमिति । इत्थं वक्ष्यमाणप्रकारेण । अत्र प्रतिसाधनं वक्तव्यमिति । तदेव प्रतिसाधनं दर्शयति-बाह्येति । बाद्यार्थालम्बना बुद्धिरिति धीर्घर्मिणी । सम्यगिति साध्यो धर्मः, बाधका- पेतबुद्धित्वात् , स्वप्नज्ञानादिबाधबुद्धिवत् । इदं च प्रसिद्धावयवत्वेन निरा- लम्बनानुमानाद् बलवदिति तस्यानुमानबाधो भवति । यदि तुल्यबलत्व- मेव मन्यते, ततो विरुद्धाव्यभिचारित्वमिति विवेको दर्शयितव्यः । (स्वा- पिंकस्त्विति ?) यदि तु स्वप्नादिवाधबुद्धिरपि मिथ्येति ब्रूयात् , ततस्तेषा- मबाधितत्वादसत्यत्वे दृष्टान्ताभाव इत्याह - सापीति ॥ ७९-८०३ ॥ किच भिन्नं ज्ञानमात्रं क्षणिकमिति या बुद्धयः ताः सम्यक् मिथ्या वा. सत्यत्वे तावदनैकान्तिकत्वमित्याह-विज्ञानेति । तन्मिथ्यात्वाम्युपगमे ५७ औत्पत्तिकसूत्रे निरालम्बनवादः। सम्यक् चेदभ्युपेयेत तथा नैकान्तिको भवेत्। तन्मिथ्याभ्युपपत्तौ च पक्षबाधः प्रसज्यते ॥ ८२ ॥ तथाच बद्धमुक्तादिव्यवस्था न प्रकल्पते । ततश्च मोक्षयत्नस्य वैफल्यं वः प्रसज्यते ॥ ३ ॥ विकल्पोत्पद्यमाना च ज्ञानास्तित्वादिधीर्यदि । मृषेष्टा नच दृष्टात्र प्रमाणान्तरतो गतिः ॥ ८४ ॥ प्रमाणाभावतस्तेन ज्ञानास्तित्वादि दुर्लभम् । सर्वं चाप्यस्मदादीनां मिथ्याज्ञानं विकल्पनात् ॥८५॥ सान्निध्यविप्रकृष्टत्वे सत्वासत्त्वे च दुर्लभे । मिथ्याज्ञानाविशेषेऽपि साङ्ख्यादिपरिवर्जनात् ॥ तु सविशेषणपक्षीकृतज्ञानाभावात् पक्षबाध इत्याह- तन्मिथ्येति ॥ ८२॥ एवंचासति ज्ञाने शून्यताप्रमाणार्थ इति को बद्धः को वा मुक्तो भवेत् । तदेतदाह -तथेति । मोक्षयत्नोऽपि प्रव्रज्यादिरेवं सति विफल- स्तपस्विनामित्याह तत इति ॥ ८३॥ यदितूच्यते सविकल्पकेन ज्ञानमात्रपक्षो व्यवस्थाप्यते सर्व- विकल्पानां मिथ्यात्वाद् , निर्विकल्पकेन त्वात्मानं लभत इति । तदयुक्तम् । नहि ज्ञानमात्र विश्वं क्षणिका भावा इत्यादि निर्विकल्पकेन कस्यचित् प्रति- भाति । अनुमानेन त्वेवजातीयका अर्थाः साध्यन्ते । तच्च सविकल्पकत्वा- न्मिथ्यैवेति ज्ञानास्तित्वादिपक्षो दुर्लभः । अतो युक्तं मोक्षयत्नस्य वैफल्य- मित्याह-विकल्पेति सार्धेन । अत्र च निर्विकल्पकसत्यत्वे स्तम्भादि- धियामपि तथाविधानां सत्यत्वापत्तेर्न बाह्यार्थाभावः सिध्यतीति वक्तव्यम् । तदुपेक्ष्यैवोत्तरविभवात् परिहारान्तरमुक्तमिति ॥ ८४६॥ अपिच योगिभ्योऽर्वाचामस्मदादीनां सर्वमेव ज्ञानं कल्पनास्पदमिति मिथ्याज्ञानमेव । नहि प्रधानं जगत्कारणं पञ्चविंशतितत्त्वमित्यादिज्ञानेभ्यो ज्ञानमात्रं जगत् क्षणिकाः सर्वे भावा इत्यादिप्रत्ययानां कश्चिद्विशेषो दृश्यते । - ५८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । बौद्धदर्शन एकस्मिन् पक्षपातो न युज्यते । मृषात्वं यदि बुद्धेः स्यादु बाधः किं नोपलभ्यते॥८७॥ बाधा विनापि तच्चेत् स्याद व्यवस्था न प्रकल्पते। प्रतियोगिनि दृष्टे च जाग्रज्ज्ञाने मृषा भवेत् ॥८८॥ स्वप्नादिबुद्धिरस्माकं तव भेदोऽपि किकृतः । नचान्यत् प्रतियोग्यस्ति जाग्रज्ज्ञानस्य शोभनम् ॥ यार्शनेन मिथ्यात्वं स्तम्भादिप्रत्ययो व्रजेत् । सर्वस्य सविकल्पकत्वेन मिथ्याभ्युपगमात् । अतो गृह्यमाणविशेषेषु तीर्थकर- प्रवादेषु योऽयं साङ्खयादिसिद्धान्तपरिवर्जनन बौद्धसिद्धान्त एकस्मिन् पक्ष- पातः, तत्र न कश्चिद्धेतुरुपलभ्यते । नच कल्पनास्पदत्वाविशेषेऽपि अर्थ- सदसद्भावकृतमिन्द्रियसान्निध्यविप्रकृष्टकृतं वा सम्यमिथ्यात्वं सम्भवति । सर्वकल्पनानामसदर्थत्वात् । सर्वबाह्यापलापे चास्य विभागस्य दुर्लभत्वात् । तदेतदाह- सर्व चेति द्वयेन ॥८६॥ अपिच बुद्धीनां मिथ्यात्वं मृगतृष्णादिज्ञानेषु बाधकेन व्याप्तमुप- लब्धम् । नच जाग्रबुद्धयो बाध्यन्ते । अतो व्यापकनिवृत्त्या व्याप्यनिवृ- त्तिरित्यभिप्रायेणाह --- मृषात्वमिति ॥ ८७ ॥ विनापि बाधकं मृषात्वाभ्युपगमे क्षणभङ्गादिप्रत्ययमिथ्यात्वादव्यव- स्थेत्याह-बाधादिति । अपिच सम्यङ् मिथ्येति च प्रतियोगिसापेक्षम् । किचिद्धि सम्यगपेक्ष्येतरन्मिथ्या भवति, मिथ्या च किञ्चिदपेक्ष्य परं सत्यम् । तव तु सर्वमिथ्यात्वाभ्युपगमे किंकृतः सम्यमिथ्यात्वविभागः । अस्माकं तु जाग्रज्ज्ञानमेव सत्यं प्रतियोग्यपेक्ष्य स्वप्नादिज्ञानं मिथ्या भव- तीति युक्तं, तदेतदाह-प्रतीति ॥ ८८ ॥ न केवलं स्वप्नादिज्ञानानां प्रतियोग्यभावान्मिथ्यात्वं न सिध्यति, जाग्रज्ञानानामपि शोभनाभिधानसत्यप्रतियोग्यभावान्मिथ्यावं न सिध्यती- त्याह-नचेति ।। ८९ ॥ : 'स्व' ख. पाटः.
५९ औत्पत्तिकसूत्रे निरालम्बनवादः । स्वप्नादिप्रतियोगित्वं सर्वलोकप्रसिद्धितः ॥९॥ तदीयधर्मवैधाद बाधकप्रत्ययो यथा । योगिनां जायते बुद्धिर्बाधिका प्रतियोगिनी ॥ जाग्रस्तम्भादिबुद्धीनां ततः स्वप्नादितुल्यता। प्राप्तानां तामवस्थां च सर्वप्राणभृतामपि ॥ ९२ ॥ बाधोऽयं भविता तेन सिद्धा सप्रतियोगता । इह जन्मनि केषांचिन्न तावदुपलभ्यते ॥ ९३ ॥ योग्यवस्थागतानां तु न विद्मः किं भविष्यति । जाग्रज्ज्ञानप्रतियोग्यपेक्षया स्वमते स्वमादिधियां मिथ्यात्वमुक्तम् । तनवोपपत्तिमाह -स्वति । स्वप्नादिप्रत्ययविधर्माणो हि जाग्रप्रत्ययाः । सर्वलोकप्रसिद्धा हि ते । स्वप्नस्तु कस्यचिदेव निद्राक्रान्तान्तःकरणस्य भवति । अतो यथा तद्बाधके प्रत्यये सावलौकिके स्वप्नादिप्रतियोगित्वमेव- मन्येषामपि जाग्रत्स्तम्भादिज्ञानानां तत्प्रतियोगित्वं, तदपेक्षया च स्वमादि- धियां मिथ्यात्वमिति ॥९०६॥ अत्र चोदयति -- योगिनामिति । सत्यं प्रतियोगिसापेक्षं मिथ्यात्वं, जाग्रबुद्धीनामपि भावनाबलनिष्पन्नप्रतियोगिज्ञानापेक्षया मिथ्यात्वं भवि- ध्यति । सत्या हि सा विगलितनिखिलकल्मषस्य स्फुटाविकल्पप्रकाशा जा- यते । अतो युक्तं तदपेक्षया सांसारिकज्ञानानां मिथ्यात्वमिति ॥९१३ ॥ ननु कस्यचिदेव भावनाप्रकर्षकाष्ठाप्राप्तस्य योगिनो जाग्रबुद्धिपरिप- न्थिनी बुद्धिराविर्भवति। तास्तु सर्वलोकप्रसिद्धा एवेत्युक्तम् । अतः कथमेक- देशभुवा ज्ञानेन सावलौकिकाः प्रत्यया बाध्यन्ते, अत आह मिति । अयमभिप्रायः -- तावदेव हि संसारिणो न बाधं मन्यन्ते ,यावन बुद्धभूमिमधिरोहन्ति । प्राप्ततद्भूमयस्तु सर्व एव प्राणभृतो बाधं मन्यन्ते । अतो न बह्वल्पविषयतया कश्चिद् विशेष इति सिद्धं योगिज्ञानेन प्रतियो- गिना जाग्रबुद्धीनां मिथ्यात्वमिति ॥९२३ ॥ • भत्र दूक्षणमाह-इहेति ॥ ९३३ ।। -- प्राप्ताना.
मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । योगिनां चास्मदीयानां त्वदुक्तप्रतियोगिनी ॥९॥ त्वदुक्तविपरीता वा बाधबुद्धिर्भविष्यति । ईडक्त्वे योगिबुद्धीनां दृष्टान्तो न तवास्ति च ॥१५॥ दृष्टान्तस्त्वस्मदादीनां यो गृहीतः स विद्यते । अथ स्तम्भादिबुद्धीनां वदेत् सप्रतियोगिताम् ॥९॥ बाध्यत्वं चापि बुद्धित्वान्मृगतृष्णादिबुद्धिवत् । इष्टं सप्रतियोगित्वं मृगतृष्णादिबुद्धिभिः ॥ ९७ ॥ न तावद् वयमद्यत्वे कस्यचिज्जाग्रबुद्धिपरिपन्थिनं प्रत्ययमुपलभा- महे । योगिनस्तु किं भविष्यति न वेति न नः प्रमाणं क्रमत इति । विनैव तु प्रमाणेन योगिज्ञाने प्रतियोगिनीष्यमाणे शक्यमस्माकमपि वक्तुम् । अस्मदीयानां योगिनां त्वदुक्तप्रतियोगिनी विपरीता वा बाधबुद्धिर्भविष्यति स्वाच्छन्द्ये हि नियामकाभावादित्याह-योगिनामिति ॥ ९४३ ॥ बौद्धोक्तज्ञानमात्रपक्षविधर्मविविधविषयोपदर्शनेन प्रतियोगिनी सा- क्षादव वा नैतदेवमिति प्रतिक्षेपात् तद्विषयविपरीतेति । नचैवमावयोर- विशेष इति वक्तव्यम् । अनुमानेन हि वयं योगिबुद्धीनामीदृशत्वमुपपाद- यामः। य एव हि कश्चित् प्रमाता गृहीतस्तेनैव दृष्टान्तेन योगिनामपि बहि- विषयबोधोऽनुमीयते । सर्वस्याद्यतनस्य ग्रहीतुर्बहिर्विषयत्रोधात् । ज्ञानमात्र तु निर्मुक्ताखिलनीलादिविभागमवयन्ति योगिन इत्यदृष्टान्तः, तदेतदाह- ईक्त्वेति । भवति चात्र (प्रयोगः।) योगिनस्त्वदुक्तविपरीतबुद्धिमन्तः, बोद्धत्वाद् अद्यतनबोद्धवादिति ॥९५३ ।। ननु योगिनां जाग्रबुद्धिप्रतियोगिनी बुद्धिरुत्पयत इति न प्रमाणे क्रमत इति यदुक्तं तदयुक्तम् , कथमनुमाने जीवति तदप्रमाणकमिति श. क्यमभिधातुम् । एवंह्यत्रानुमीयते---- जाग्रबुद्धयः सप्रतियोगिन्यो बाध्या वा, बुद्धित्वान्मृगतृष्णादिबुद्धिवदिति, तदेतदाह-अथेति । प्रतियोगिता- बाध्यत्वे प्रागेव व्याख्याते इति ॥९६३ ॥ एतदपि दूषयति इष्टमिति (बाध्य)त्वमन्तेन । सत्यं जाग्रबुद्धीनां हि मृगतृष्णादिबुद्धयः प्रतियोगिन्यः, एतदपेक्षयासां सत्य- १. '' क. पाठः. २. 'क्तं क' स. पाठः.
औत्पत्तिकसूत्रे निरालम्बनवादः । ६१ तदात्मना च बाध्यत्वं ग्राह्यान्तरतयापि च । बाधकैश्चाप्यनेकान्तस्तदन्यत्वे च पूर्ववत् ॥ ९८ ॥ मिथ्याधीप्रतियोगित्वं स्वप्नादाविव ते भवेत् रागादिक्षययोगित्वनिमित्ताधिगतिस्तथा ॥ ९९ ॥ यावान् विशेष इष्टश्चेत् सर्वबाधाद् विरुद्धता । महाजनस्य वाबाधादिदानी बाधबुद्धिवत्॥१०॥ त्वावगतेः । अतः सिद्धसाधनं, बाध्यत्वमपि सिद्धम् । बुद्धिरूपेण हि सत्य- बुद्धयोऽपि न मिथ्याबुद्धिभ्यो भियन्ते। अतः तासु बाध्यासु ता अपि बाध्या भवन्तीति वाक्प्रवृत्तिरिति । अन्यथा सिद्धसाधनं दर्शयति-ग्राह्येति । सत्यबुद्धीनां ग्राह्यादन्यद् ग्राह्यान्तरं मिथ्याबुद्धीनां, तस्मिन् बाध्यमाने सर्वेषां ग्राह्यत्वेनाभेदात् सत्यधीग्राह्यमपि बाधितमेव भवति । अपिच या- न्येव योगिज्ञानानि जाग्रद्धियां बाधकानीष्यन्ते, तैरेव हेतोरनैकान्तिकत्व- मित्याह-बाधकैरिति । तदन्यविशेषणोपादाने च पूर्ववदनवस्था वाच्येत्या ह-तदन्यत्व इति ।। ९८ ॥ विशेषविरुद्धश्चायं हेतुरित्याह --मिथ्येति साधैन । स्वप्नादि- बुद्धीनां हि मिथ्याभूताः संसारिबुद्धयः प्रतियोगिन्यो दृष्टा इति प्रतिबन्ध- बलेन बुद्धित्वेन हेतुना जाग्रबुद्धीनां मिथ्याधीप्रतियोगित्वमेव साध्यते । तत्र यः प्रतियोगिनीनां धियां सत्यत्वं विशेष इष्टः, स बाध्यते । तथा रागा- दिक्षयनिमित्तासौ योगिनामधिगतिरिति यः प्रतियोगिन्या योगिबुद्धेर्वि- शेष इष्टः, तस्य सर्वस्य बाधाद् भवति विशेषविरुद्धो हेतुरिति । अयं च धर्मविशेषबाधाद् विरोधोऽनुसन्धातव्य इति ॥ ९९३ ।। दूषणान्तरमाह - महाजनस्येति । अयमभिप्रायः-शक्यते हिौ प्रतिसाधनं वक्तुं , जाग्रबुद्धयः सत्याः इदानीं महाजनस्याबाधात् पराभिमतयोगिवाधबुद्धिवदिति । इदं च यदि बाध्यत्वानुमानेन तुल्यबळ ततः सप्रतिसाधनम् । अथ तु प्रसिद्धावयवत्वेन बलवत् ततोऽनुमानवाष ६२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । वाच्योऽनुमानबाधो वा यदिवा प्रतिसाधनम् । पूर्वसाधनदोषाश्च सन्धेयास्तस्य चाधुना ॥ १० ॥ साध्याभेदादवाच्यत्वाद्धेतोभयसिद्धता। प्रत्ययत्वं च सामान्यं भिन्नाभिन्नं न विद्यते ॥१०॥ भवतोऽत्यन्तभिन्नं च मत्पक्षेऽपि कथञ्चन । सारूप्यान्यनिवृत्ती च नेत्येतत् साधयिष्यते॥१०॥ तस्माद्धेतुर्न सामान्यमस्ति सिद्धं द्वयोरपि । विशेषयोश्च हेतुत्वं पक्षतत्तुल्यसंस्थयोः ॥ १०४ ।। इति प्रागप्युक्तमेव । सर्वथा तावत् परसाधनं प्रतिबध्नातीत्यत्र तात्पर्यम् । योगिज्ञानेन बाधाद्धेतोरसिद्धिर्मा भूदिति इदानीमित्याह । योगिनां बाधबु- धेरप्यनागताया महाजनेनाबाधाद् व्याप्तिसिद्धिरिति ॥ १००३ ॥ मूलसाधने च ये धर्मादिविकल्पैर्दोषा उक्ताः, तेऽप्यत्रानुमानेऽनु- सन्धातव्या इत्याह-पूर्वेति । एवं पुनस्तत्पातनिकां कृत्वा तत्रैव दूषणान्तर- माह - तस्य चेति । तस्य च पूर्वसाधनस्याधुना दोषान्तरमभिध्महे । धर्मधर्मिणौ विकल्प्य दूषितौ । हेतुरपि तस्योभयसिद्धो नास्ति, साध्या- भेदात् । नहि प्रत्यय एष साध्ये स एव हेतुर्वाच्यो भवति , प्रतिज्ञार्थंक- देशवात् । अतो हेतुशून्यं साधनमिति । ननु सामान्यस्य हेतुतया पक्षक- देशवं प्रतिक्षिसमत आह - सामान्यमिति । उक्तमिदमस्माभिरुभयसिद्धो हेतु स्त्रीति । भिन्नाभिन्नं हि प्रत्ययत्वं तवासिद्धम् , अत्यन्ताभिन्नं च न नः किञ्चिदस्तीति सिद्धं नोभयसिद्धो हेतुरस्तीति ॥ १०२३ ॥ ... सारूप्यान्यनिवृत्तिरूपं तु सामान्यमुपरिष्टानिषेत्स्यत इत्याह साप्योति ॥ १०३॥ ... उपसंहरति- तस्मादिति। यदि तु मा भूतु सामान्यं, विशेष एव .
६३
भौत्पत्तिकसूत्रे निरालम्बनवादः ।
न स्यादन्वयहीनत्वादतद्धर्मतयापि च ।
नचार्थहीना तबुद्धिर्हेतुत्वेन भविष्यति ॥ १०५॥
आश्रयासिद्धिता चोक्ता विशेष्यस्याप्रसिद्धितः ।
तथा हेतोविरुद्धत्वं दृष्टान्ते साध्यहीनता ॥ १०६ ॥
विशेषणाप्रसिद्धयर्थविकल्पेनैव बोधिते ।
स्वप्नादिप्रत्यये बाह्यं सर्वथा नहि नेष्यते ॥ १०७॥
हेतुरुच्यते, तदयुक्तम् । अपक्षधर्मत्वादन्वयाभावाचेत्याह---- विशेषयोरिति।
द्वावत्र विशेषौ परिप्लवेते पक्षस्तत्तुल्यापरनामा सपक्षश्च । पूर्वत्र हेतोरन्वया-
भावः । परत्रापक्षर्धमत्वम् । पूर्व तु विशेषस्यैव हेतुत्वे साध्याभेदादवाच्यत्व-
मुक्तम् । इदानी विकल्प्य दूपणान्तराभिधानमिति । ननु माभूत् सामान्य-
विशेषात्मको हेतुः, बुद्धिरेव त्वर्थशून्या हेतुर्भविष्यति । उत्पद्यते हि नः प्रत्य-
यत्वादित्युक्तेऽनर्थिका काचिद् बुद्धिः । सर्व एवायं हेत्वादिव्यवहारो बुद्धि-
मात्रप्रभावित एवेति सौगता मन्यन्ते । अत आह-नचेति ॥ १०५ ।।
अतएव दोषद्वयान्नार्थशून्या बुद्धिर्हेतुर्भवति । नहि सा बुद्धयन्तरं
धर्मः । नहि क्षणिका साध्यान्वयभाजनमित्यप्रसिद्धाश्रयश्वायं हेतुर्विशेष्य-
ग्राहिप्रत्ययनिरालम्बनत्वेन तदप्रसिद्धरित्याह -आश्रयेति । अप्रसिद्ध-
विशेष्यं पक्षमाचक्षाणैरेवास्माभिर्हेतोराश्रयासिद्धताप्युक्तप्रायैवेत्यर्थः । तथा
'निरालम्बनता चेह सर्वथा यदि साध्यते' विशेषणाप्रसिद्धयर्थ यो विकल्पः
कृतः,
तेनैव हेतोविरुद्धत्वं दृष्टान्ते च साध्यहीनता द्वे एते बोधिते । स-
र्वथा निरालम्बनत्वे हि साध्ये तथाविधस्य कस्यचिदसिद्धेाप्तिबलेन यथा-
कथञ्चिनिरालम्बनत्वं सिसाधयिषतः सर्वथा निरालम्बनत्वविरुद्धं प्रत्ययत्व-
हेतुः साधयतीति विरुद्धत्वं, स्वप्नादिज्ञानानामपि सर्वथा निरालम्बनत्वा-
भावात् साध्यहीनो दृष्टान्तः । तदेतदाह-तथेति । साध्यहीनतां प्रपञ्च-
नेति-स्वमेति ॥ १०७॥
६४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम् । जन्मन्येकत्र भिन्ने वा तथा कालान्तरेऽपिवा । तदेशो वान्यदेशो वा स्वप्नज्ञानस्य गोचरः । अलातचक्रेलातं स्याच्छीघ्रभ्रमणसंस्कृतम् ॥ १०९॥ गन्धर्वनगरेऽभ्राणि पूर्वज्ञातं गृहादि च । पूर्वानुभूततोयं च रश्मितप्तोषरं तथा ।। ११० ।। किमिति नेष्यते, अत आह-सर्वत्रेति । अस्ति हि सर्वज्ञानेष्वेव देशान्तरादिस्थमालम्बनम् । यदेव हि क्वचिद् देशे काले वा दृष्टं तदेव देशा- न्तरादौ प्रतीयत इत्येतदेवानालम्बनत्वम् । नतु सर्वथा ग्राह्याभाव इति । ननु यदेव कचिद् देशे काले वाननुभूतपूर्व, तदपि स्वप्नज्ञाने प्रकाशते । अतः कथं तस्य देशान्तरादिस्थबाह्यालम्बनत्वमत आह -जन्मनीति । अयमभिप्रायः -- पूर्वानुभूतगोचरा हि मनोमात्रसहाया स्वप्नस्मृतिः । दोष- क्शाच प्रत्युत्पन्नबोधः । नचह प्रतिनियमः यदेकत्र जन्मन्यनुभूतमेव स्वमेऽवसीयत इति, जन्मान्तरानुभूतमपि कुतश्चिददृष्टाद् मनसि विपरिवर्त- मानमलमेव भवितुं गोचरः स्वप्नादिधियाम् । अतोऽस्ति तावद् विभ्रमाणा- मपि कथञ्चिदवस्थितं बाह्यालम्बनम् । एकत्रापि जन्मनि कालान्तर इ. त्यर्थः ॥ १०८३ ॥ एवमन्तःकरणजन्मनः स्वप्नविभ्रमस्यालम्बनमुक्तम् । बाह्येन्द्रिय- जन्मनां विभ्रमाणामिदानी बाह्यमालम्बनं दर्शयति- अलातेति धि- योऽन्तेन । अलातचक्रज्ञाने शीघ्रभ्रमणदूषितमलातमेवालम्बनम् । गन्धर्व- नगरविभ्रमे तु सन्निवेशविशेषावस्थितान्यभ्राण्येव दूरत्वात् पूर्वावगतगृहा. कारणालम्न्यन्ते । तदिह पूर्वदृष्टगृहाण्यभ्राणि च तत्सन्निवेशविशेषभाज्याल- म्बनम् । तदिह द्विप्रकारो विषयदोषो विभ्रमे कारणम् । मृगतोयज्ञाने पूर्वा- नुभूततोयमूषरं च सूर्यरश्मितप्तमेवालम्बनम् । उभयं हि विगाह्य भ्रान्ति- रात्मानं लभते, तदन्यतरापाये ह्यभावात् । इह चान्तःकरणविषयदोषाभ्या विनमः । पिपासादूषितान्तःकरणस्य हि सूर्यरश्मितसमूषरं तोयसदृशं तद्व- रामाति । शशविषाणबुद्धेस्तु मानसादेव कुतम्बिद् प्रमनिमित्तान्जाय- औत्पत्तिकसूत्रे निरालम्बनवादः । मृगतोयस्य विज्ञाने कारणलेन कल्प्यते । द्रव्यान्तरे विषाणं च शशस्थात्मा च कारणम् ।। शशशृङ्गाधियो मौण्ड्डां निषेधे शिरसोऽस्य च । वस्त्वन्तरैरसंसृष्टः पदार्थः शन्यताधियः ।। ११२ ।। कारणत्वं पदार्थानाममायाथकलाने । अत्यन्ताननुभृतोऽपि युद्धास यो श्रः पकायते ॥ मानाया गवादिद्रव्यान्तरगत विषाणसा-मा प्रशारणम् । उभय- भावभावित्वादेकतराप यऽपि चाणायादिति । नन विपाणं नास्तीति बुद्धेर्न किञ्चिदालम्बनं. न नाचत शशा विमा वा तयागो वास्याल- म्बनम् । प्रनिषेधरूपत्वान्नाभावः । श्वान्बानिर्मासात् । तथाहि -न वयं शशविषाणं नास्तीत्युक्त स्वतन्मभानसनगलापः । अतोऽवश्यमा- त्मालम्बनमेवेदं नास्तीति ज्ञानं वक्तव्यग, अत आहे मौण्ड्यमिति । अस्य शृङ्गस्य निषेध शशशिरामौण्ड्य कारणम् । एतदुक्तं भवति-... यद्यपि स्वतन्त्रोऽभावा न प्रतीयते, भावाश्रयम्त प्रतीयत एव । गतः शशमूर्ध- वर्तिनोऽवयवा उपयुपरि हीयमाना दीघढयान्नवशर (णा?ण)परिणता मौण्ड्यापरनामानः शृङ्गाभावात्मना ज्ञायन्त ! यदि यथा निर्भामते तत्तथैवा- लम्बनम् । अमावोऽपि पराधीन एवानुभूयमानस्लवालम्बनं भविष्यति । ज्ञानं तु सद्रूपं नास्या नास्तीतिबुद्धेरालम्बनं भवितुमर्हति । आहच ''भावरूपं च विज्ञानं नास्तीति कथमुच्यते ।" इति । यत्तीनाश्रितविषयं शून्यशब्दाज्ञानमुत्पद्यते तदनालम्बनं भवेत् , सर्वाभावस्य प्रत्येतुमशक्यत्वाद, विशेषाप्रकाशाच । अन आह. - व- स्त्विति । अयमभिप्रायः न स्वतन्त्रं शून्यज्ञानमुत्पद्यते किञ्चिद्धि कन- चित् शून्यमवसीयते । गृहं चैत्रेण जगद् वन्ध्यासुतेन । अतः केवलगृहा- घालम्बनमेव शून्यज्ञानं नानालम्बनं स्वांशालम्बनं वेति ॥ ११२ ॥ एवमङ्गुल्यादिवाक्यजनितशाब्दविभ्रमाणामपि सन्निधिदोषदूपिता एव पदार्थाः कारणमित्याह - कारणत्वमिति । यस्तयत्यन्ताननुभूत- - K SA- मीमांसाशोकवार्तिकं काशिकाटीकोपेतम् तस्योत्पत्ती कथञ्चित स्युः पृथिव्यादीनि कारणम् । एष प्रत्यक्षधर्मश्च वर्तमानार्थतैव या ॥ ११४ ॥ सन्निकृष्टार्थवृत्तिश्च न तु ज्ञानान्तरेष्वियम् । कथमुत्पादयेज् ज्ञानं तत्रासंश्चेत् कुतो न्वियम्॥ पूर्वः प्रधानादिरों बुद्धया सायादिभिः कल्प्यते, तत्र न किञ्चिज्ञानस्या- लम्बनमुपलभ्यते । विपाणादिर्हि कचिददृष्टः कचित्तृपलभ्यत इति युक्तम् । स्वरूपासतस्सु कथं कुत्र वा कल्पनमत आह अत्यन्तेति । पृथिव्यादि सूक्ष्ममेव हि तैः प्रधानमिति कल्प्यते । स्थूलस्य हि जगतो नाकस्मानि- पत्तिरुपपद्यत इति प्रधानं कल्प्यते । नच तदन्यत् परमाणुभ्यो घटत इति कथञ्चित् सूक्ष्मरूपावस्थिताः पृथिव्यादय एव प्रधान या गृह्यन्ते । सोऽयं सूक्ष्मरूपतया तपामग्रहणात् तद्व्यतिरिक्तः प्रधानभ्रमः । परमार्थ- तस्तु तत्स्थाने प्रधानपरिकल्पनादेव तदालम्बनं प्रकल्प्यत इति । अतः प्र- कृतं विपरिणतं प्रकल्पनं तस्येति परामृश्यत इति ॥ ११३. ॥ नन्वत्र प्रकरणे वर्तमान एवार्थों बुद्धया विषयीक्रियत इत्युक्तम् । तदयुक्तं, कथं हि वर्तमानाया बुद्धेरवर्तमानमालम्बनं भविष्यति । नाव- र्तमानघटविषयं वर्तमानघटज्ञानमुपलब्धम् अत आह एष इति । यदेव तद् वर्तमानार्थत्वमिन्द्रियसन्निकृष्टार्थविषयत्वं च । अयं प्रत्यक्षप्रमाणधर्मों न ज्ञानान्तराणाम् । न तु विभ्रमाः प्रत्यक्षं, तदाभासत्वादिति ॥ ११४३॥ ननु किमिदं प्रत्यक्षधर्म इति । नपत्र वैदिको विधिरस्त्येवन्धर्मणा प्रत्यक्षेण भवितव्यमिति । यथा त्ववर्तमानं न ज्ञानं जनयितुं क्षममिति प्रत्यक्षं वर्तमानविषयम् , एवमाभासमपि तथा भवितुमर्हति । कथं हि तत्रा- वर्तमानेन ज्ञानमुत्पादयितुं शक्यमसतः करणत्वायोगात् । तदेतदाशङ्कते तावत् - कथमिति । परिहरति कुत इति । अवर्तमानं ह्यर्थक्रिया- न्तरेष्वसमर्थ दृष्टं, ज्ञानं तु जनयत्येव । भूतभविष्यन्त्योरपि वृष्टयोरनुमानो- दये कारणभावात् । प्रत्यक्षं विन्द्रियसन्निकषानुविधायि । नचात्रावर्त- मानेनेन्द्रियं सन्निकृष्यत इति भवति वर्तमानविषयम् । दोषसहायेभ्य- स्त्विन्द्रियेभ्यः प्राचीनानुभवजनितसंस्कारवनावर्तमानमेव वर्तमानमिव भासत इति न नोपपन्नम् । ननूक्तमसतः कारणत्वानुपपत्तिरिति । शक्तिमद्धि -- १. 'णा'स. पाठ..
६७ औत्पत्तिकसूत्रे निरालम्बनवादः । अर्थस्याविद्यमानस्य विज्ञानोत्पत्त्यशक्तता। बाह्यालम्बनतायां नौ विवादोऽर्थस्य सन्निधिः॥११६॥ यदि नास्ति किमेवं स्यादस्मत्पक्षनिवर्तनम् । कारणम् । नचासतः शक्तिसमवायः सम्भवति। न । सत्त्वात् । यदि तद- कान्तमसद् भवेद्, न ज्ञानं जनयेत् । अस्ति तद् देशान्तरादिपु रजतादीति न तस्य शक्तिसमवायोऽनुपपन्नः । सन्निधानं तु तस्य नास्तीति क्वचिदेवा- वर्तमानमाख्यायो । यत् तर्हि नास्त्येव स्वरूपतः यथा वृष्टयादि, तत् कथं ज्ञानस्य कारकमतीतमनागतं वा । तत्रापि सामान्यानुमानात् । तेना- मना सत एव कारकत्वम् । अथवा यदा तावत् तदासीत् यदा तावच्छक्ति- मता कारकीभूतेनात्मनि ज्ञानं जनितं , तेनापि संस्कारः, तदेवं परम्परया विषयशक्तिरात्मनि सङक्रान्ता । स चात्मा नित्य इति सदाश्रया शक्तिः कार्याण्यारभते । तीव चात्मसमवायिन्या शक्त्या स्मृत्यादिज्ञानेषु जायमा- नेष्वतीतानागताः कारणमित्युच्यत याग इव विनष्टोऽपि शक्तिद्वारण । भ- वतु तावदतीतस्मरण, अनागला(व)वोधे तु कथम् । तत्राप्यगृहीतपूर्वस्य सम्बन्धानमा मानस या वश्यं पूर्वानुमाऽगन्तव्यः । अत- स्तत्रापि परम्परथा कार्यशक्तिकान्तपपन्नं कारकत्वम् । नन्वन्य एव पूर्वानुभूतो विशेषोऽन्यसायं यः सम्प्रति भावयतया जायत । अतः कथ- मन्याहितशत्यान्यस्य कारकत्वम् । न । सामान्यामकत्वात् । तस्यैव च रूपस्यानुमेपलादिति ॥ १९५३ ।। नन्वेवमपि न तावद् यशाप्रतिमाः भवानवान्युपगतः । सन्नि- हितो हि प्रतिभासविषयः । संचासा तबल्य । । प्रतिभासविसंवादिवस्त्व- भ्युपगमे न किञ्चित् प्रमाणं पश्यामः । तथा सात हि स्मशालम्बनत्वं क- ल्पितं बाह्यालम्बनत्वं वा न कश्चिद् विशेषः, अत आह ... चायति । अयमभिप्रायः-ज्ञानस्य बाह्यविषयसदमुद्भावगोचरोऽयमावयार्विवादः। न च बाह्यसद्भावे प्रतिभासविसंवादः । भ्रान्तिज्ञानेश्वपि बहिरेव विषया भा- सन्ते । इदं तोयमिति मृगजलज्ञानं नाहं तोयमिति । अस्ति च तद्देशान्तरे। १. 'स्थ'ख. पाठा, ६८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् तस्माद् यदन्यथासन्तमन्यथा प्रतिपद्यते ॥ ११७ ॥ तन्निरालम्बनं ज्ञानमभावालम्बनं च तत् । भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात्॥११॥ भवतां द्वयमप्येतद् दुर्निरूपं सहेतुकम् । नहि बाधकेनापि बहिर्विदितस्तोयसद्भावा बाध्यते । नहि तत् तोयं ना- स्तीति भवति मतिः । किन्तु इदं न तोयमिति । किमुक्तं भवति । इह तोयं नास्तीति । तदिह क्वचिदेव तोयसंयोगो वार्यते न तोयम् । अतः सन्निधि- वाधे कः प्रतिभासविरोवः । नन्वेवमपि सन्निधिज्ञानमेवासत्सन्निध्यालम्बन- त्वेन निरालम्बनं भवेत् । न । सन्निधिरित्यूपरसंयोगस्तोयस्यापदिश्यते सोऽपि क्वचित् प्रसिद्ध एवेह प्रतिपिध्यत इति न किञ्चिदनालम्पनम् । अतो यथाप्रतिभासमेव सर्वमिदमुपदर्शितमिति न कचित् प्रतिभासविसं- वाद इति ॥ ११६३ ।। किमिदानीमनालम्बनं नाम, न किञ्चित् तत्रभवतां, यद्येवमपहुतः सत्यमिथ्यात्वविभागः । अत आह. ... लस्मादिति ज्ञानमन्तेन । बा- यमेवान्यथासन्तमन्यथाप्रतिपद्यमानमनालम्बनं ज्ञानमावक्ष्महे । नासद् ग्राह्यम् । तदेवं मिथ्योच्यत इति । अभावालम्बनस्य तर्हि ज्ञानस्य किमा- लम्बनं, न तावद् भावः, विरोधात् । नाभावः, तस्य भावाद् विविक्तस्या- स्वतन्त्रस्यानि सात् : अन लादनालम्बनगेवापतितमत आह वेति ॥ ११७३ अत्र कारणमाह मावति । सत्यं न स्वतन्त्रोऽभावोऽवसीयते, मावधर्मो ह्यसौ कथं स्वतन्त्रोऽपनीयेत । अतस्त्वदुक्तादेव स्वतन्त्रानिरूप- णात् कारणात् सदात्मनावस्थिते गवादी वस्त्वन्तराभावात्मना यज् ज्ञान- मुत्पयते तदभावालम्बनमुच्यत इति, इदं च प्रागप्युक्तमधुनोपपादितमिति विवेकः । बौद्धानां तु सर्वसंविदामात्मपर्यवसायित्वादर्थसन्निध्यसन्निधिकृत- विशेषाभावाच द्वयमपि निरालम्बनत्वमभावालम्बनत्वं च दुर्निरूपं, द्वय- हेतोरभावात् । सति हि हेतौ सहेतुकं सदेतन्निरूपयितुं शक्यते, न त्वेत. दस्तीत्याह- भवतामिति । भवन्मत इत्यर्थः ॥ ११८३ ।। अभा- %D औत्पत्तिकसूत्र निगलम्बनवादः । प्रतिज्ञादोषवच्चापि योज्या हतोर्विरुद्धता ॥ ११९ ॥ समस्तव्यस्तधर्मादिस्वरूपादिविपर्ययात् । दृष्टान्तदोषाः सर्वे च योज्या न ह्यकवस्तुनि ॥ तप साध्यांशहत्वंशव्याप्तधर्मादिसम्भवः । केचिद वैधर्म्यदृष्टान्तो नास्तीत्यप्यनुयुञ्जते ॥ १२१॥ तदभावादवृत्तेश्च नास्त्यत्रावसरस्तव । तदेवं तावद् दृष्टान्ते साध्यहीनता विवृता । इदानी विरुद्धो हेतु- रिति दूपणान्तरमाह --. प्रतिजति । यथा धर्मधर्मिबोधकप्रत्ययनिराल- म्बनत्वान्न ?ौं धमी नोभयमिति प्रतिज्ञादिदोषोऽभिहितः , तथा समस्त- व्यस्तयोधर्मधमिणााप्तिवलेन स्वरूपस्वविशेषौ विधन विरुद्धोऽपि प्रत्य. यत्वं हेतुर्गित ॥ ११९३ ॥ दृष्टान्तोऽपि न केवल साध्यहानः सर्व एव तु दृष्टान्तदोषास्तद्वचना- भावप्रभृति योजयितव्याः । नाकस्मिन् ज्ञानमात्रे वस्तुनि दृष्टान्तवच(सः) साध्यांशा निरालम्बनत्वं, हेत्वंशः प्रत्ययलं, न चासान्यांशेन व्याप्तिः दृष्टान्तधर्मिता व काव्यसाधनयोरि ति सवमिदपपद्यते । अतो यथे. टमेव दृष्टान्तम्य तन तन दिना न्यून भरा वक्तुमित्यभिप्राये- णाह ---- टाति ॥ १२० ।। वधदृष्टान्तन्यूनश्चायं प्रयोग इति का पदनुयुजत इत्याह कचिदिति । द्वधा हि दृष्टान्तवचनसमयः। केचिद् व्याप्त्या साधर्म्य उक्ते- ऽपि वैधय॑वचनं कार्यमिति मन्यन्ते । तदिदमेकपा मतेन परिचोदित- मिति केचिदित्युक्तामेति । ननु च विपक्षाद् हेतुं व्यावर्तयितुं वैधय॑वचनं, नचेह विपक्षानुवृत्तिः सम्भवति । साधनभाष्यस्य तदन्तरेण हेतोर्विपक्षाद् व्यावृत्त्यसिद्धेः । अ(न्ये तु ? न्यैस्तु) हेतोः साध्येन व्याप्तिं दर्शयितुं दृष्टान्तव- चनम् । तद् यदि सम्यक् साधर्म्यवचनादेव व्याप्तिरवगता, न सहभावमात्रं, नच विपरीतान्वयः, तदा किं वैधर्म्यवचनेनेति साधनभाष्यव्याख्यानावसरे वर्णितम् । उक्तं च परैरपि 'न वा तदभावात् तत्रावृत्तेरि'ति । अतो वैध- 1 . - . मीमांसाश्लोकवार्तिकं काशिकोटीकोपेतम् विधिरूपप्रतिज्ञायामेतद् वक्तुं हि शक्यते ॥१२२ ।। तत्रावस्तुविपक्षेऽपि प्रयोगस्य हि सम्भवः । यस्मिन्ननित्यता नास्ति कार्यतापि न विद्यते ॥१२३॥ स्मिन् यथा खपुष्पादाविति शक्यं हि भाषितुम् । Hस्यावचनमित्यदोषः । अत आह तदभावेति । तदभावादवृत्तिरिति यदेतत् तवाभिधानं तस्यात्र प्रकृतसाधनेऽवसरो नास्तीति ॥ १२१३ ।। कयमनवसरोऽत आह-विधिरूपेति । तदभावादवृत्तेरिति यदुक्तं तस्यायमर्थः भावे प्रतिज्ञाते विधिरूपेणाभावो विपक्षो भवति । तद- भावे च विपक्षेऽभावस्य निस्स्वभावत्वान्न तत्र हेतोवृत्तिः' सम्भवतीति न वैधयं वचनीयमिति । एतदपि बौद्धा वक्तुमशक्ता एव । नहि तेषां कचि- दपि प्रत्यक्षवद् विधिरूपेण हेतुः प्रकाशकः । व्यतिरेकप्रधानवादिनो हिते। सर्वत्र साध्यान्वितहेतुसंविदो दुर्लभत्वात् । अतो विपक्षव्यावृत्तिमुखेनैव सर्वत्र हेतोर्गमकत्वमाश्रितम् । नचासति वैधर्म्यवचने विपक्षव्यावृत्तिः शक्यते दर्शयितुम् । अतः सर्वत्रैव वन्मते वैधHदृष्टान्त एव वाच्यः । तदेतदुपे- त्यापि तावदुच्यते।भवतु विधिरूपप्रतिज्ञास्वभावस्य विपक्षत्वात् तदभावा- दवृत्तिः। आलम्बनाभावात्मकत्वे तु निरालम्बनत्वे वस्तुनि साध्ये प्रतिज्ञाते वस्त्वात्मकं सालम्बनमेव विपक्षः । तत्र च हेतोवृत्तिसम्भावनायां व्यति- रेको वक्तुमुचित एव । अतो वैधर्म्यन्यूनता सूक्तेति ॥ १२२ ।। विधिरूपप्रतिज्ञायामपि वैधर्म्यस्य प्रयोजनाभावमात्रम् । अवस्त्वा- मके तु विपक्षे वैधर्म्यस्य प्रयोगः सम्भवत्येव । क्रियते चानुमानकुशलैः । अतोऽवश्यं वाच्यं वैध, यन्नोच्यते तन्नोचितमित्याह-तत्रेति । तद्वृत्तेन विधिरूपप्रतिज्ञा परामृश्यते। हिशन्दो हेतौ । यस्मादवस्तुविपक्षे प्रयोगः सम्भवति, तस्मात् सर्वत्रैव वैधयं वाच्यम् । तदिहानवसरं प्रतिज्ञायोचर- लोके पूर्वोत्तरार्धाभ्यां हिशब्दद्वयेन हेतुद्वयमुक्तमिति प्रयोगसम्भवमेव दर्श- यति- यस्मिन्निति । शब्दोऽनित्यः कृतकत्वादित्युक्ते यदनित्यं न भवति तत्कार्यमपि न भवति यथा खपुष्पमिति शक्यमेव वैधर्म्यवचनम् । सर्वा- १. स. पाठ:.
भौत्पत्तिकसूत्रे निरालम्बनवादः । ७१ अत्र त्ववस्तुसाध्यत्वं वस्तुनश्च विपक्षता॥ १२४॥ तेन स्याद् व्यतिरेकोऽस्य वाच्यो यश्चापि दर्शयेत् । प्रतिषेधद्वयात् तेन विधिरेव प्रदर्शितः ॥ १२५ ॥ नच शक्यो विधिर्वक्तुं वस्तुन्यसति केनचित् । एवं स्थिते च सर्वज्ञनिषेधादावियं गतिः॥ १२६ ॥ प्रत्यक्षादेरसामर्थ्य तदीयस्यास्मदादिवत् । भावस्यावस्तुनि शक्यनिदर्शनत्वात् । भावो हि तत्र निदर्शयितुमशक्यः । विनाशाख्यक्रियासामान्यं चानित्यत्वमिति विधिरूपप्रतिज्ञा दर्शयितव्येति ॥ १२३ ॥ तदेवं तावदवस्तुविपक्षेऽपि प्रयोगसम्भवो दर्शितः । अत्र तु प्रकृत- साधने वस्तुन आलम्बनाभावस्य साध्यत्वं वस्तुनश्च सालम्बनस्य विपक्षता । वस्तुनि च हेतुवृत्तेः सम्भवाद् विपक्षाद् व्यतिरेकः प्रयोजनवत्त्वाद् वाच्य एवेत्याह-अत्र त्विति वाच्योन्तेन । यस्त्वत्रापि व्यतिरेकं दर्शयति तेनावश्यं यन्निरालम्बनं न भवतीति नत्रात्मनः प्रतिषेधदयात् सालम्बन- विधिरेव प्रदर्शितो भवति । नच सर्वस्मिन्नेवासति वस्तुन्यालम्बनविधिः शक्यो वक्तुम् । सेयमुभयतःपाशा रज्जुः । वैधर्म्यवचने वस्तुत्वापातः । अव- चने वाच्यावचनमिति । तदेतदाह-यश्चेति चिदन्तेन ॥ १२५३ ।। यदि तर्हि सर्वथैव वैधयं वाच्यं सर्वज्ञनिषेधे का वाती । तत्रापि पवस्तुनि साध्ये वस्त्वात्मनः सर्वज्ञविपक्षाद्धेतुावर्त्यः । तथाच तदभ्यु- पगमप्रसक्तिरत आह-एवमिति । एवंहि तत्र साध्यते बुद्धप्रत्यक्ष- मसर्व विषयं, प्रत्यक्षत्वादस्मदादिप्रत्यक्षवत् । सर्वविषयं तु न प्रत्यक्षं शब्द- वदिति । एवंतावद् व्यापकं वैधयं मन्वानानामनुयोगो दर्शितः । न त्वेवं मन्यामहे । वक्ष्यति हि- "व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यमपेक्ष्यते ।" इति ॥ १९६३ ॥ ---- १. 'इयं निरा' ख. पाठः.
७२ : मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् वैधासम्भवेऽप्येतदन्ये त्वाहुरदूषणम् ॥ १२७ ॥ विनैव तत्प्रयोगेण हेतुरैकान्तिको यतः। सर्वथा सदुपायानां वादमार्गः प्रवर्तते ॥ १२८ ॥ अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः । ननु सर्व भवत्सिद्धं मयेदं साधनं कृतम् ॥ १२९ ।। किमर्थं तदसिद्ध्या त्वं विकल्प्यात्रात्थ दृषणम् । विप्रलिप्सुरिवाहवं किमर्थं न्यायविद् भवान् ।।१३०॥ नाश्रीषीः साधनत्वं किं प्रसिद्धस्य द्वयोरपि । अनैकान्तिकाशङ्कानिराकरणं तु तदुक्तेः प्रयोजनमिह विपक्षाभावा- देव तन्न सम्भवतीति किं तद्वचनेनेत्याह -- वैधम् ति । एतदिति । प्रकृतसाधनम् । अदूषणम् । अविद्यमानदूपणमित्यर्थः ॥ १२७ ।। साधु तर्हि साधनमापन्नं सम्प्रतिपत्तिरेवोत्तरमत आह-मथेति । येषां हि साध्यसिद्धावुपायान्तराणि प्रतिज्ञाहेतुदृष्टा(न्तानि ? न्ताः) सन्ति, ते वादमार्गेष्वधिकृताः । सौगतास्तु न कथात्रये । अतो न नाम वैधर्म्यवचन- न्यूनता दूषणम् । अनुपायस्य हि कथं साध्यसिद्धिभविष्यति। वयं हि सा- धात् साध्यासद्धि मन्वाना वैधयं नाद्रियामहे । सर्वापलापवादी तु वादे नाधिकृत एव । प्रदर्शनमात्रं हि वादग्रहणम् । तिस्रो हि कथा भवन्ति । वादो जल्पो वितण्डा चेति । शिष्यविषयो हि वादः । व्युत्थितं तु शिष्यमाण- मर्थं प्रतिपादयितुं जल्पवितण्ड । तयोः स्वपक्षस्थापनाहीनं वचनं वितण्डा। तदत्र त्रयेऽपि शून्यवादिनोऽनधिकृता इति ॥ १२८३ ॥ सर्वपूर्वोक्तदोषपरिहारेणेदानी बौद्धः प्रत्यवतिष्ठते-नन्विति । सा- लम्बनवादिनं हि भवन्तं प्रतिबोधयितुमिदं साधनम् । ततस्त्वं प्रसिद्धरेव हेत्वादिभिः साध्यं बुध्यमानः किं मां प्रति बहुप्रकार प्रतिज्ञादि विकल्प्य दूषणमात्य ब्रवीषीति ॥ १२९३ ॥ मीमांसकः प्रक्षीणनिखिलकुहेतुजालमेवंवादिनमपहसति-विप्र- लिप्सुरिति । न्यायवित् किलासि । किमस्मान् विप्रलब्धुमेवंविधं भाषसे।' किं खलु कथास्वप्युभयसिद्धस्य साधनत्वमिति नाश्रौषीरिति ॥१३०३।।
जोत्पत्तिकसूत्रे निरालम्बनवादः । योऽपि तावत् परासिद्धः स्वयंसिद्धोऽभिधीयते ॥ भवेत् तत्र प्रतीकारः स्वतोसिद्धे तु का क्रिया। तं साधयन् विरुन्ध्याद्धि पूर्वाभ्युपगतं नरः॥ १३२ ॥ असाधिते तु साध्यार्थो न तेन प्रतिपद्यते । परासिद्धो न पर्याप्तः परेषां प्रतिपत्तये ॥ १३३ ॥ तेनासाधनता युक्ता स्वतोसिद्धे तु किंकृता। द्रयोः सिद्धस्य हेतुत्वं नादृष्टायोपदिश्यते॥ १३४॥ प्रत्येष्यन्ति स्वसिद्धेन साधनेन स्वयं यतः। वदेत् कथमसिद्धं चेदित्यनेनापि किं तव ॥ १३५ ॥ ननु परासिद्धस्तावद् हेतुः प्रयुज्यमानो दृष्टः । शब्दोऽनित्यः कार्य- त्वादिति । नहि मीमांसकस्य शब्दकार्यत्वं सिद्धम् । अथासिद्धमपि व्यापा- रानन्तरदर्शनादिभिः साध्यत इत्युच्यते, स्वासिद्धेऽपि तथाकरणे को दोषः, अत आह-योऽपीतिद्वयेन । परासिद्धे हि स्वयंसिद्धे प्रसाधनं प्रतीकारो भवति । स्वतोसिद्धे तु प्रतिक्रियैव नास्ति । तस्मिन् साध्यमाने पूर्वाभ्युप- गमविरोधो भवति । असाधितेन त्वसता न साध्यं साध्यत इति ॥१३२३॥ अत्र चोदयति-परेति । परप्रतिपादनार्थं हि साधनवचनम् । नचासौ परोऽसिद्धेन प्रतिपादयितुं शक्यते । अतः परासिद्धो न साधन- मिति युक्तम् । स्वासिद्धस्य तु किंकृतमसाधनत्वमिति न विम इति ॥ १३३॥ ननूभयसिद्धो हेतुरिति भववृद्धैरपि भाषितं तत् परित्यक्तम् , अत आह-योरिति । नायमदृष्टाय वृद्धोपदेशो दृष्टानुसारेण परासिद्ध- प्रतिषेधपरत्वमेवास्य निश्चीयते इत्याह-प्रत्येष्य(न्ती)ति । स्वसिद्धेहेत्वा- दिमिः परः साध्यं वक्ता तु स्वयमसिद्ध कथं वक्तुं शक्रोत्यत थाह 'वदेदिति ॥ १३५ ॥ १. 'चासिद्धीप' क. पाठः, मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् गृहीतमगृहीतं वा साध्यं वा साधनापि वा। मयोच्यते चेत् त्वसिद्धं किं त्वं न प्रतिपद्यसे ।। यत्र स्यात् पुरुषाधीना बुद्धिस्तत्रेदमुच्यते । कुतोऽस्य पूर्वविज्ञानमित्यत्रैतन्न युज्यते ॥ १३७ ॥ यदि चैवं भवेदत्र प्रतिज्ञामात्र एव हि । मदोषाज्ञानमात्रेण प्रतिपत्तिर्भवेत् तव ॥ १३८ ॥ यतस्तु साधनापेक्षा तेनास्यैव प्रमाणता । तत्स्मृत्युत्पत्तिमात्रे तु वाक्यव्यापार इष्यते॥१३९॥ तस्माद् यथैव साध्यांशव्याप्तहेतुनिदर्शनात् । साध्यं गृह्णन् न वक्तारमपेक्षेत तथा भवान् ॥१४०॥ प्रत्यक्षपरिदृष्टं हि साधनवाक्यं वक्तृप्रयुक्तं तद्दर्शनेन भवति काचित् प्रयुक्तिशक्तिकल्पना । किं तद्विशेषावधारणेन । तव तु साप्यप्रतिज्ञानार्थिनः साधनशक्तिपरीक्षैव युक्ता किमनेन कथं वक्त्रा साधनं प्रयुक्तमिति । एत- देव प्रपञ्चयति-गृहीतमिति ।। १३६ ॥ पुरुषाधीने हि निर्णये तत्प्रत्ययानुसारित्वान्निर्णयस्य तज्ज्ञानकारणा नुसरणमुचितं, नात्रानुमान इत्याह यति ॥ १३७॥ अत्रापि तु पुरुषाधीने निर्णये प्रतिज्ञामात्रादेव तदनुसारी निर्णयो भवेत् , न साधनापेक्षा स्यादित्याह-यदि चैवमिति ॥ १३८ । न त्वेतदस्तीति व्यतिरेकेण दर्शयति-यतस्त्विति । अस्यैव सा- धनस्यैवेत्यर्थः । किमिदानी वाक्यमनपेक्षिताथमेव, नेत्याह ---त(स्मृतीति)। साधनस्मरणार्थमेव वाक्यम् , अतस्तच्छक्तिरेव चिन्तनीया । किं पुरुषनिरू- पणेन । नबयमप्राप्तप्रत्ययानुसारी निश्चय इति ॥१३९ ॥ भतो यथा स्वार्थानुमाने न वक्तारमपेक्षते, एवमिहापि भवान् नापेक्ष- तैवेत्याह-तस्मादिति । यतः स्मारकं वाक्यमित्यर्थः ॥ १४० ॥ १. 'प्रहा' ख. पाठः,
औत्पत्तिकसूत्रे निरालम्बनवादः ।
.५
यञ्चापि भवतो ज्ञानं प्रत्यक्षादिः किमत्र ते।
मत्प्रसिद्धास्ति युक्तिर्वा साध्यं वात्र यथेच्छसि ॥
तस्मान्न विदुषामेतदुत्तरं युज्यते यतः ।
तवं हेतु सिद्धोऽयं मम तेन न साधनम् ॥१४२॥
सत्यं यदि ममैवात्र प्रतिपत्तिः फलं भवेत् ।
तदा त्वदप्रसिद्धेऽपि हेतो मां प्रति हेतुता॥१४३ ॥
यदा तु ज्ञानमात्रत्वप्रतिपत्तौ भवान् मया।
पृष्टः को हेतुरत्रोत तदैवं नोपपद्यते ॥१४४ ॥
स्वयं नह्यगृहीतेन मत्प्रसिद्धेन वा भवान् ।
हेतुना साध्यमेतत् तु प्रतिपन्नः कथञ्चन ॥ १४५ ॥
-
यदि तु सर्वप्रमाणेष्वेव पुरुषापेक्षेष्यते सा तर्हि प्रत्यक्षेणार्थमुपल-
(भ्य १ भ)मानस्य प्राप्नोति । नच मत्प्रसिद्धा युक्तिः साध्यं वा यत् प्रत्यक्षेण
परिच्छिद्यते । तत्रास्ति यथात्र साध्यस्य निरालम्बनत्वस्य प्रत्ययत्वस्य
हेतोः सिद्धिमिच्छसीत्याह-याचेति ॥ १४१ ॥
तस्मात् स्वयंसिद्धेनापि परासिद्धेन साध्यार्थप्रतिपत्तिर्न साहसास्पद-
मित्याह -तस्मादिति ॥ १४२ ॥
परिहरति सत्यमितिद्वयेन । अयमभिप्रायः स्यादेतदेवं
यदि मत्प्रतिपत्तिमात्रफलमेव साधनवचनं भवेत् । तथाहि - किं साधन-
वचनेनापि अवधायकत्वं बुध्यध्वामित्येतावदुपदिश्येत, सिद्धश्चायं भवतां
बानमात्रं जगदिति, तदा कुतः पुनरिदमवगतमिति पर्यनुयुक्ते त्वमेव जाना-
सीति नैवंविधमुत्तरमुपपद्यत इति ॥ १४४ ॥
कथं नोपपद्यते अत आह-स्वयमिति । ज्ञानकारणमनुयुक्ते
तदेव वक्तव्यं न मप्रसिद्धिः । एवं हि मप्रसिद्धिवचनमुपपद्यते यद्यगृही-
तेन मयसिद्धेन वा हेतुना साध्यमेतद् भवान् स्वयं प्रतिपन्नः । प्रतिपन्न
इति कर्तरि रूपम् । नत्वेतदुभयमप्यस्तीति ॥ १४५ ॥
मीमांसालोकवार्तिकं काशिकाटीकोपेतम् । नच व्याप्रियतेऽन्यत्र वचनं प्राश्निकान् प्रति । स्वनिश्चयाय यो हेतुस्तस्यैव प्रतिपादनात् ॥१४६॥ मत्प्रसिद्धत्वमेतस्य कुतश्चावगतं त्वया । कथं चेत्थं विवक्षा ते स्वयमर्थमजानतः॥१४७॥ मयि जिज्ञासमानेऽपि बुद्धिपूर्वाभिधायिनः । इति ज्ञात्वा च वो वृद्धैर्भाषितोभयसिद्धता ॥१४८॥ तेन यद्वन्ममैतेन त्वमाधिससि हेतुना। साध्यज्ञानं तथैवाहमज्ञानं तव दूषणैः ॥ १४९ ॥ किश्च भवदीयपरार्थानुमानलक्षणानुसारेणापि स्वप्रतिपत्तिप्रकाशन- फलमेव साधनवचनं येनैवमुक्तम् । परानुमानं तु स्वदृष्टार्थप्रकाशनमिति, अतोऽवश्यं स्वज्ञानकारणमवस्थापनीयमित्यभिप्रायेणाह-नचेति । स्व. निश्चयहेतोः प्रतिपादनादन्यत्र साधनवचनं न प्राश्निकान् सभ्यान् प्रति व्याप्रियते । ते हि प्रतिपाद्याः । व्युत्थितस्तु यदि वैयात्यादुपपादितमपि न बुध्यते, किमत्र विधेयम् । प्रानिकप्रश्ननिश्चयात् तु तत्त्वमित्यनादृत्य प्रतिवादिनं प्रानिकपदं प्रयुक्तवानिति ॥ १४६ ।। अपिच परबुद्धेरप्रत्यक्षत्वान्मत्रासिद्धत्वमपि भवतां दुरधिगममेवे. त्याह-मत्प्रसिद्धत्वमिति । किञ्च विदितपूर्वमर्थ विवक्षित्वा साधन- वाक्यं प्रयुज्यते । तव त्वजानतः किंकृता विवक्षा । नचातत्पूर्वा वाक्य- निष्पत्तिः सम्भवतीत्याह -- कथमिति । जिज्ञासमानेऽपीति । न तावदहं जिज्ञासमानः व्युत्थितत्वात् । अतस्त्वनिग्रह एव मम सर्वथा विधेयः । यद्यपि जिज्ञासुरहं, तथापि भवतो विवक्षाकारणं नोपलभ्यते पूर्व विज्ञाना- मावादिति । यत एव स्वासिद्धं वक्तुमशक्यम् , अत एव वृद्धैरपि भवदीयै- रुभयसिद्धहेतुत्वं भाषितं न परसिद्धिपरमित्याह-इतीति ॥१४८॥ यदि तु मत्रसिद्धिमात्रेण हेतुत्वं भवेत्, तेन तर्हि यथा त्वं मत्र- सिद्धेन हेतुना मम साध्यज्ञानमाधातुमिच्छसि । एवमहं मप्रसिद्धैरप्यमाभि- भवदसिद्धेहेत्वादिभिस्तत्तन्न्यूनतोद्भावनेन नानाविधैर्दूषणैस्तवाज्ञानमाधातु- मिच्छामि । मासिद्धा अपि हेत्वादयः तवासिद्धा इति ते. भवति दूषणम् ।
औत्पतिकसूत्रे निरालम्बनवादः । यथैव च भवानीदृक् साध्यमुक्त्वास्य साधनम्। साध्यानुरूपमज्ञात्वा विहतः प्रतिपादनात् ॥१५०॥ तथैव प्रतिपाद्योऽपि तादृक् साध्यबुभुत्सया । मन्वानः साधनं दुष्टं ततः साध्यं न बुध्यते॥१५१ ॥ संवित्या साधनं मत्वा तत्सद्भावे दृढे स्थिते । साध्यस्यासम्भवादेव त्वदुक्तं नावबुध्यते ॥ १५२ ॥ तेनाशेयं न कर्तव्या मोहादपि भयेरिते । साधने साधनं ज्ञात्वा पर एवावभोत्स्यते ॥ १५३ ॥ विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः । यमदृष्ट्वा परैरुक्तमदूषणमिदं किल ॥ १५४ ॥ को विशेषः यत् स्वयमसिद्ध साधनमुच्यते न दूषणम् । अतोऽनभिज्ञस्य परार्थानुमानप्रयोगानुपपत्तिरित्यभिप्रायेणाह -तेनेति ॥ १४९ ।। या चेयं भवतो मृष्टाशा स्वासिद्धेहेत्वादिभिः किल मया साध्यं बोद्ध- व्यमिति, साप्ययुक्ता । तवैव तत्साधनात् । साध्यं बुध्यमानस्य ममापि प्रतिघातो भवेत् । साध्यसाधनयोरितरेतरप्रतिघातावगमादित्याह-यति चतुर्मिः । निगदव्याख्यानाः श्लोका इति ॥ १५३ ।। हेतुप्रतिज्ञाविरोधाख्यमपि निग्रहस्थानमापद्यत इत्याह ---विश्प- ष्टयेति । अक्षपादेन हेतुप्रतिज्ञाविरोधो निग्रहस्थानमित्युक्तम् । उदाहृतं च, शब्दो नित्यः सर्वस्यानित्यत्वादिति । नित्ये हि शब्दे न सर्वानित्यत्वं सर्वानित्यत्वे वा न तदन्तर्गतस्य नित्यत्वमिति हेतुप्रतिज्ञयारितरेतरविरोधी निग्रहाधिकरणमिति, तदिदं भिक्षुणा दूषितम् । उक्तं च 'नायं हेतुः वैध. hवचनत्वात्' । यदाह- "दृष्टान्तोऽभिहितो धेष वैधय॒णासुशिक्षितैः ।" इति । हेतुर्हि पक्षधर्मो भवति । नच सर्वस्यानित्यता शब्दधर्मः, कथमसौ हेतुः वैधर्म्यदृष्टान्तस्त्वसौ नित्यत्वस्य । नहि ततोऽन्यः साध्यविपक्षभाग् १. 'धे' ग. पाठः. ----
-
मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम्
ननु लोकप्रसिद्धेन पूर्वमेतेन हेतुना ।
साध्यसिद्धिर्ममाप्यासीत् परमार्थोऽस्य नास्तिता ॥
योऽधुना परमार्थेन नास्तीत्येवं प्रकाशते ।
कथं पूर्वमसावासीदसंश्चेत् साधनं करम् ॥ १५६ ॥
भवति । इह च नित्यता साध्या, तद्विपक्षोऽनित्यता। तद् युक्तं सर्व वैधH-
दृष्टान्त एवेति । तदत्रेदमाकूतं --- यन्नित्यं न भवति तत् सर्व, नायं सर्व-
मतोऽसर्वत्वान्नित्यः शब्द इति । असर्वत्वं हेतुः, अतः सर्वस्यानित्यत्वमहेतु-
रिति न हेतुसाध्ययोर्विरोध इति । पुनश्चोक्तं---वैधर्म्यवचनमपि नेदं सम-
बसमभावनियमस्य विपरीतत्वात् हेत्वभावे ह्यत्र सर्वत्वे साध्याभावस्यानि-
त्यत्वस्य प्रदर्शनं कृतम् । साध्याभावे तु वैधय॑धान्ते हेत्वभावो दर्शयि-
तव्यः । व्याप्तिविपर्ययस्यानुमाने वक्ष्यमाणत्वात् । तदिहानित्यत्वस्य सर्व-
त्वादिति वक्तव्ये सर्वस्यानित्यत्वादिति वचनं सुशिक्षितत्वाद् वैधर्म्यवचन-
स्थेति। तदेतदयुक्तं, हेतावस्मिन् विवक्षितेऽक्षपादेन हेतुसाध्ययोर्विरोधोऽभि-
हितः। यत्त्वपक्षधर्मत्वान्न हेतुरिति, तद् दूषणान्तरं भविष्यति । असर्वत्वं वा
कथं हेतुः, तदपीह सर्वान्तगतेरसिद्धमेव । अतः कृत्वाचिन्तामात्रेणेदं नैयायि-
कैरुक्तं हेतावस्मिन् विवक्षिते हेतुप्रतिज्ञयोर्विरोध इति । मा भूदु वा तदुदा-
हरणम् । इह तु विस्पष्टो विरोधः, यमेतमदृष्ट्वा परैबौद्धैरुक्तं न प्रतिज्ञाहेतुर्वि-
रोधो दूषणमिति । किलशब्दोऽरुचौ । अत्रोदाहरणं विस्पष्टत्वाद् विरोधस्येति
॥१५४ ॥
अत्र चोदयति-नन्विति । संसारावस्थायामनुमानानुमेयव्यव-
हारः । अत्र च हेत्वादयो लोकप्रसिद्धा एव । लोक इति लौकिकसंवृति-
सत्यमपदिशति । अतः संवृतिसत्यसिद्धन हेत्वादिना साध्यसिद्धिरासीदेव
प्राक्, परमार्थावस्थायां तु सर्वाभावमाचक्ष्मह इत्यवस्थाभेदाददोष इति ॥
परिहरति --योऽधुनेति । यदि हि तद्बाधकबलेन नास्तीत्युच्यते,
प्रागपि नासीदेव । बाधकेन तत्प्रागपि प्रतिक्षिप्तं रजतमिव शुक्ताववगतिक्षणा-
दारभ्य । अतः बागप्यसतः कथं साधनत्वमिति ॥ १५६ ॥
औत्पत्तिकसूत्रे निरालम्बनवादः । साधनं चेदवश्यं च परमार्थास्तिता भवेत् । सिद्धि परमार्थेन परमार्थस्य युज्यते ॥ १५७ ।। न दृष्टा शशशृङ्गादेः सम्यग्ज्ञानादिहेतुता । बाष्पादिनाप्यधूमेन मिथ्या वयादिबोधनम् ॥ तस्मादसत्यहेतोर्या परमार्थे मतिस्तव । साप्यसत्या न सत्यं हि सत्याभासेन गम्यते ॥ येऽपि रेखादयो दृष्टा वर्णानां प्रतिपादकाः। न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः ॥ १६० ॥ वर्णात्मना न सत्याश्चेत सर्वभावेष्वयं विधिः । पदार्थान्तररूपेण न सत्यं किञ्चिदिष्यते ॥ १६१ ॥ सा- प्राक् साधनत्वाभ्युपगमे वा परमार्थास्तित्वमापधत इत्याह धनेति । कारणमाह सिद्धिरिति ॥ १५७ ॥ किमिति न युज्यत, अत आह---न दृऐति । नात्यन्तमसतः सा- धनत्वं दृष्टं शशविषाणवदित्यनुमानमन्तीतं, क्वचिद् दृष्टस्यापि रूपस्या न्यत्रोपचरितस्य परमार्थोपायता नास्ति । किमुतात्यन्तासतो हेत्वादेरित्या- ह -- बाष्पादिनेति ॥ १५८ ॥ उपसंहरति -..-- तस्मादिति ॥ १५९ ॥ ननु वर्णात्मना असत्यानामपि रेखादीनां परमार्थवीपायता दृष्टा, अतो नैकान्तिकोऽसत्यत्वं हेतुरत आह येडपीते । विपक्षवृत्तिर्हि हेतु- स्नैकान्तिको भवति । नच परमार्थोपायेषु रेखादिष्वसत्यत्वमस्ति, स्वरूप- सत्यत्वात् । तेन च रूपेण वर्णबोधोपायत्वात् । तद्दर्शिनी हि स्मृतसङ्केतस्य वर्णा बुद्धौ भवन्तीति ॥ १६० ।। ननु भवन्तु स्वरूपसन्तः । वर्णात्मना तावदसत्या एव, अत आह- वर्णेति । सर्वे हि भावाः स्वरूपेण सन्तः पररूपेणासन्तः । केनचिद् विशे- षेण रेखोदाहरणमिति ।। १६१ ।। - मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । स्वरूपे विद्यमाने तु यदप्येवं प्रकाशते । स्वरूपाभावक्लुप्तौ तु न सत्यं नाप्यसत्यता ॥ १६२ ॥ हेत्वादीनां तु भवतः स्वरूपेणाप्यसत्यता । तेन बाष्पादिवत् तेषामुपायत्वं न लेख्यवत् ॥ १६३ ॥ उपायानां स्वरूपं हि संवृत्यात्मकमेव नः । तथाच सत्यतेष्ट्रव स्वरूपासत्यता कथम् ॥ १६४ ॥ संवृत्या यत् स्वरूपं हि तद्वामात्रनिबन्धनम् । हेतुत्वं परमार्थस्य प्रतिपत्तुं न शक्नुयात् ॥ १६५ ॥ परमार्थाच्च लोकस्य न भेदे हेतुरस्ति ते । लौकिकोपायगम्यस्य केन स्यात् परमार्थता ॥१६६॥ नचैष प्रकारोऽत्यन्तासतां हेत्वादीनां सम्भवतीत्याह --स्वरूप इति । असत्यमपि केनचिद्रूपेण सदेव रूपान्तरेण भवति । नहि निस्स्वभावमिति नाप्यसत्यतेत्युक्तमिति ॥ १६२ ॥ एतदेव स्फुटयति --हेत्वादीनामिति । अत्र च षाप्पादीना- मिवाग्न्यादावुपायत्वं हेत्वादीनां, न परमार्थेन तु लेख्यवदित्याह-तेनेति । हेतुत्वाभावप्रतिपादनपरमिदमिति ॥ १६३ ॥ अत्र चोदयति-उपायानामिति । किमिदं निस्स्वभावत्वमुपा- यानामापद्यते । संवृत्यात्मका हि ते। तेन च रूपेण सन्त एवेति ॥१६४ ॥ परिहरति--संवृत्येति । सांवृतं हि रूपं वामात्रनिर्मितं, न पर- मार्थोपायो भवतीति ॥ १६५ ।। अपिच, परमार्थालोकस्य संवृतिसत्यस्य भेदे न हेतुरस्ति, तद्भेद- ग्राहिणोऽपि ज्ञानस्य मिथ्यात्वादित्याह . . परमार्थेति । अपिच यदि परमार्थोऽपि लौकिकोपायगम्यः, न तर्हि परमार्थः, लौकिकोपायगम्यत्वाद् पाष्पादिवाग्निरवगम्यमान इत्याह -लौकिकेति । पूर्व च सत्यमेदो निरा- कृतः । इदानी सांवृतस्य परमार्थोपायतेति विवेकः । नन्वसत एव श्रुत्यादि. प्रपश्चात् प्रपञ्चविलयात्मनो ब्रह्मणो निरूपणं वेदान्तविद्विरिष्यते । यथाहुः- औसत्तिकसूत्रे निरालम्बनवादः । ८१ नन्वसत्यपि बाह्येऽर्थे बुद्धघारूढे न सिध्यति । वासनाशब्दभेदोत्थविकल्पप्रविभागतः ॥१६७॥ "भेदप्रपञ्चविलयद्वारेण च निरूपणम् ।'' इति । "विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु ती| विद्ययामृतमश्नुते ॥" इति । किमुक्तम् । विद्यारूपं च ब्रह्म, अविद्यारूपं च श्रुत्यादि । तदुभय- मपि यः सह वेद सोऽविद्योपलक्षितं मृत्युं तीवी विद्यारूपेणोपलक्षितं ब्रह्मा- नन्दं प्रतिपद्यत इति । तदेवमविद्यात एव विद्याप्राप्तिरिष्यते इति । किम- पराद्धमेवं ब्रुवाणैरस्माभिः । नैष नः सिद्धान्तः यदसन्नेव श्रुत्यादिप्रपञ्चो ब्रह्मणि प्रमाणमिति । तेषामपि प्रत्यक्षादिप्रमाणसिद्धानामशक्यापह्नवत्वात् । यथा हि सोऽहमिति प्रत्यक्षसिद्धः प्रत्यगात्मा, एवं तेष्विति तद्वदेव सम्यञ्चो भवितुमर्हन्ति । तस्य च पूर्वोत्तरकर्मनिरोधानुत्पादाभ्यां विगलित- भोगभोगायतनस्य कैवल्यं मोक्षमाचक्ष्महे, न प्रपञ्चविलयम् । 'एकमे- वाद्वितीयमि'त्यादिवेदान्तास्त्वर्थवादान्तरवद् विषयवैराग्यप्रतिपादनपरतया कथञ्चिद् गमयितव्याः । स एष नेति नेती'तिकरणेनं स्पष्टमेव बहिर्वि- षयसद्भावमुपदर्शयति । एष इत्यपरोक्षनिर्दिष्टस्य ब्रह्मणो विषयविवेकमात्रं कथयति न तदभावम् । श्रुत्यादिषु चाविद्यावादो ब्रह्मणः प्रशंसार्थः । 'अपशवोऽन्ये गोश्वेभ्यः' इतिवत् पश्चन्तरेष्वपशुवादः । अतो न कचिद- परमार्थस्यं परमार्थोपायता । अस्तु वा नित्यनिर्दोषवेदान्तसिद्धमप्रपञ्चं ब्रह्म । नतु क्षणिकसंवेदनप्रवाहात्मकं द्वैतं कुतश्चित् प्रमाणादवगच्छाम इत्यलम- नेनापि ॥ १६६ ॥ प्रत्यवस्थानान्तरमिदानी बौद्धस्योपन्यस्यति-नन्विति । एवं हिं मन्यन्ते- यद्यपि बाह्यो हेत्वादिरौँ नास्ति, तथापि बुद्धयारूढेनैव हेत्वादिनानुमानानुमेयव्यवहारः सेत्स्यति । अनादिवासनोपप्लाविता हि हेत्वादिविकल्पविभागा भवन्ति हेतुरयं दृष्टान्तोऽयमित्यादयः । विकल्प इति सविकल्पिका बुद्धिमाचक्ष्महे । अतो वासनाभेदाद् बुद्धिभेदः, त - दाद्धत्वादिभेद इत्युक्तं भवति । अवश्याभ्युपगम(नियम १ नीय)श्वायं भव- द्भिरपि । बुद्धिनिबन्धनो धादिभेदः । न ह्यनित्यः शब्दः कृतकत्वादिति M ८२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । न्यायविद्भिरिदं चोक्तं धर्मादौ बुद्धिमाश्रिते । व्यवहारोऽनुमानादेः कल्प्यते न बहिःस्थिते॥१६८॥ अस्तीदं वचनं तेषामिदं तत्र परीक्ष्यताम् । भेदोऽसतः कथं हि स्याद् बुद्धिशब्दप्रकल्पनात् ॥ निर्वस्तुके कथञ्चित् स्यात् प्रसवो बुद्धिशब्दयोः । शब्दभेदोऽपि भवतस्तदभावान सिध्यति ॥ १७०॥ परस्परं धर्मिणो वा भिन्नयोहेतुसाध्ययोरवगतिरस्ति । अतो ज्ञानमेदनिव- न्धन एवात्र भिन्नत्वव्यवहारः । सर्वत्रैव च ज्ञानमेव भेदनिबन्धनम् । सुदूर- मपि गत्वा युक्तिभिरनुसंहितो भेदो ज्ञान एव पर्यवस्यति । अतोऽस्तु त निबन्धन एव सर्वत्र भेदः । देशादिभेदादपि हि भेदं ब्रुवाणस्तद्भेदं पर्यनु- युक्तो ज्ञानभेदमेवालम्बते । तावतापि व्यवहारसिद्धौ किं प्रकारान्तरेण भेदो- ऽनुस्सियत इति । अत्राप्यमिधूमादौ कृतकानित्यत्वविलक्षणः स्फुटो भेदा- वग्रहो भवति । तत्रापि न जातिभेदो निवन्धनमिति वाच्यम् । सोऽपि चामिधूमशब्दनिर्मित एव । नहि संवृतिकल्पनादन्येन प्रकारेण जातिभे- दमुपलभामहे । अतः शब्दभेदेऽर्थविकल्पविलासिता एवामित्वादय इति । इदं च बाह्यनिराकरणपरतयानास्थयोक्तम् । न शब्दभेदोऽपि विज्ञान- भेदाद् विना सम्भवति । सोऽपि ज्ञानमात्रप्रभावित एवाभ्युपेत्य बाह्यहेत्वा दिविकल्पविभागार्थमुक्त इति ॥ १६७ ॥ अयमेवास्मदीयतन्त्रकाराणां सिद्धान्त इत्याह न्यायविद्रि- रिति । न्यायविद्भिर्हि दिङ्नागाचारिदमुक्तं 'सर्व एवायमनुमानानुमेय- व्यवहारो बुद्धधारूढेन धर्मधर्मिन्यायेन बहिः सदसत्त्वमपेक्षत इति ॥१६६॥ एतदपि दूषयति-- अस्तीति । नासतः शशविषाणादेः शब्दनिब- न्धनः तज्जनितबुद्धिनिबन्धनो वा भेदो दृष्ट इति दुरुक्तमिदगपरेषां बुद्ध्या- रूढेनानुमानानुमेयव्यवहार इति ॥ १६९ ।। अपिच अस्तु बुद्धिशब्दभेदनिबन्धनो हेत्वादिभेदः, तयोरेवं तु कथ- मकस्मारकः । न बकारणिका कार्योत्पत्तिः सम्भवति । नच शून्ये बगति MY औत्पत्तिकसूत्रे निरालम्बनवादः । यदि वाविद्यमानोऽपि भेदो बुद्धिप्रकल्पितः । साध्यसाधनधर्मादेर्व्यवहाराय कल्प्यते ॥ १७१ ॥ ततो भवत्प्रयुक्तेऽस्मिन् साधने यावदुच्यते । सर्वत्रोत्पद्यते बुद्धिरिति दूषणता भवेत् ॥ १७२ ॥ यश्च मन्त्रस्त्वयोक्तोऽयं धादौ बुद्धिमाश्रिते । न बाह्यापेक्षया स स्यादसिध्यादौ मयरिते॥१७॥ बुद्धिप्रक्लुप्तिसिद्धिश्च भवतां व्यवहारिणाम् । मदुक्तं दूषणं सिद्धं त्वदुक्तं तु न साधनम् ॥ १७४ ॥ बाह्यार्थव्यवहारित्वज्ञानोत्पादे स्थितेऽपि नः । कथञ्चिन्नहि कल्प्येत व्यवहारोऽर्थवर्जितः ॥१७५॥ तयोः कारणमुत्रोक्षितुमपि शक्यत इत्याह-निर्वस्तुक इति । यश्चायं शब्दभेदो हेत्वादिभेदहेतुतयोपवर्णितः, सोऽपि तदभावादनुपपन्न इत्याह शन्देति ॥ १७० ॥ किञ्च यद्यविद्यमान एव बुद्धिमात्रकल्पितः साध्यादिभेदोऽनुमान- व्यवहाराय कल्प्यते, ततो दूषणव्यवहारोऽपि तद्वदेव स्यात् । उत्पद्यते खल्वस्मिन् साधने हेत्वादिन्यूनतोक्तिमात्रादेव दूषणबुद्धिरित्याह-यदि- वेति द्वयेन ॥ १७२॥ शक्यते च वदितुम् एवमपि सर्व एवायं दूष्यदूषणव्यवहारो बु- द्धधारूढेन दूष्यदूषणन्यायेन, न बहिः सदसत्त्वमपेक्षत इत्याह-यश्चेति ॥ १७३॥ नन्वेवमप्यावयाविशेष एव, यथा हि नो दूषणज्ञानमुत्पन्नम् एवं भवतोऽपि साधनज्ञानम् । अतः कथं विजयसे अत आह-बुद्धीति । अयमावयोर्विशेषः बुद्धिमात्रव्यवहारिणो भवतो मदुक्तदूषणं सिद्धमिति न ते पक्षः सिध्यति । त्वदुक्तं तु साधनमस्माकमसिद्धमिति न साध्यं प्रति- पद्यामह इनि ॥ १७४ ॥ कथं साधनमसिद्धमत आह बाह्येति । बाह्यार्थव्यवहारिणो हि वयं, न त्वमिव ज्ञानैकशरणाः। तत्र कथमसति पाये बुध्यामह इति ॥१७५।।
८४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । ननु यद्वन्मया हेतुर्नेष्यते दूषणं तथा । तेन मे दूषणाभावाददुष्टं साधनं भवेत् ॥ १७६ ।। नेदानीं दूषणैः कार्य साधनाभावतो यदि । त्वयैवास्मदभिप्रेता स्वपक्षासिद्धिराश्रितः॥ १७७॥ नचास्ति वासनाभेदो निमित्तासम्भवातुं तव । ज्ञानभेदो निमित्तं चेत् तस्य भेदः कथं पुनः॥१७८॥ वासनाभेदतश्चेत् स्यात् प्राप्तमन्योन्यसंश्रयम् । स्वच्छस्य ज्ञानरूपस्य नहि भेदः स्वतोऽस्ति ते ।। प्रमाणं वासनास्तित्वे भेदे वापि न विद्यते। कुर्याद् ग्राहकभेदं सा ग्राह्यभेदस्तु किंकृतः॥१८॥ , पुनरपि परचोदयति --- नन्विति । यथा हि मे साधनमसिद्धम् , एवं दूषणमपीति न दुष्टं साधनमिति ॥ १७६ ॥ मीमांसकस्तु पाशुपतोऽयमेवंवादी यद् विहाय साधनमभावाद् दूष- णस्याप्यदुष्टत्वमातिष्ठत इति सापहासमाह-नेदानीमिति ॥१७७॥ यश्च वासनाभेदनिबन्धनो विकल्पप्रविभागो वर्णितः, सोऽपि तद्भेद- निमित्ताभावादनुपपन्न इत्याह-नचेति । ननु ज्ञानभेदादेव वासनाभेदो भविष्यति, कथं निमित्ताभावः। न, तद्भेदस्यैव निर्निमित्तत्त्वाद् , वासनानि- बन्धने तु तद्भेदेऽन्योन्याश्रयत्वमित्याशङ्कया सहाह-ज्ञानेति । ननु स्वभा- वभिन्नमेव ज्ञानं वासनाभेदनिबन्धनं भविष्यति, कथमन्योन्याश्रयत्वमत आह-स्वच्छस्येति । स्वच्छस्य हि ज्ञानात्मनः स्वयमनुपलभ्यमानभेदस्या- नादिवासनोपप्लावितनीलाद्याकारकलुषितत्वमेव भेदकारणमिति बौद्धरात्रि तम् , अतो दुरुत्तरमितरेतराश्रयमिति ॥ १७९ ॥ नन्वनादित्वादेव बीजाकुरवदितरेतराश्रयपरिहारो भविष्यत्यत आह- प्रमाणमिति । प्रसिद्धात्मनोर्हि बीजाकुरयोरनादित्वाद् भवति दोष- परिहारः । वासना त्वस्ति भिन्ना चेति न किञ्चित् प्रमाणं क्रमते ।.यो हि ८५ औत्पत्तिकसूत्रे निरालम्बनवादः। संवित्त्या जायमाना हि स्मृतिमात्रं करोत्यसौ। क्षणिकेषु च चित्तेषु विनाशे च निरन्वये ॥ १८१॥ वास्यवासकयोश्चैवमसाहित्यान्न वासना। पूर्वक्षणैरनुत्पन्नो वास्यते नोत्तरः क्षणः ॥ १८२ ॥ उत्तरेण विनष्टत्वान्नच पूर्वस्य वासना । साहित्येऽपि तयो व सम्बन्धोऽस्तीत्यवासना ॥१८३॥ क्षणिकत्वाद द्वयस्यापि व्यापारो न परस्परम् । विनश्यच्च कथं वस्तु वास्यतेऽन्येन नश्यता॥१८४॥ बहिर्देशसम्बद्धं प्रत्यक्षमर्थमवजानीते, स कथं वासनामनुजानाति । तद- •नुज्ञाने वा किमपराद्धं भावान्तरैरिति । अपिच पूर्वानुभवप्रभावितं स्मरण- हेतुसंस्कारमेव वासनामाचक्ष्महे । तदसौ सत्यपि ग्राहकं ज्ञानमेव विविध- मुपकल्पयति । यत्तु विचित्रा बहिर्भावा भासन्ते तत् कस्य हेतरिति न ज्ञायत इत्याह-कुर्यादिति ।। १८० ॥ न ग्राह्यभेदे वासना कारणमित्यत्रोपपत्तिमाह-संवित्त्येति।स्मृति- हेतुर्हि वासना । नचानुभूतात् स्मृतिरधिकं मात्रयापि गोचरयति । नच बहिरत्यन्तासन्तो भावाः क्वचिदपि गृहीतपूर्वा इति न तान् वासना स्मार. यितुं प्रभवतीति । किञ्च, अतश्च वासना नोपपद्यते यत् कारणं क्षणिकानि ज्ञानानि निरन्वयविनाशीनि परस्परमसहितानि चेत्याह ----क्षाणकेष्विति । यथा तावत् क्षणिकानां निरन्वयविनाशिनां च न वासना, तथोपरिष्टाद् वक्ष्यतीति ॥ १८१३ ।। असाहित्यान्न वासनेत्युक्तार्थमेव प्रपञ्चयति-पूर्वेति । साहित्या- भ्युपगमेऽपि समवायाद्यन्यतमलक्षणसम्बन्धाभावाद् वासना नोपपद्यते । न ह्यसम्बन्धः कालागरुधूमोऽगारं वासयतीत्याह- - साहित्येति ॥ १८३ ।। 'क्षणिकत्वान्न वासनेत्युक्तम् , अत्र कारणमाह-क्षणिकत्वादिति । व्यापारनिबन्धनो हि वास्यवासकभावः कारकविशेषत्वात् तस्य । नच क्षणिक पूर्वमुत्तरं वा तयोरेव व्याप्रियत इति सम्भवति । ननु जन्मैव बुद्धरर्थ- ८६ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । अवस्थिता हि वास्यन्ते भावा भावैरवस्थितैः । अवस्थितो हि पूर्वस्माद् भिद्यते नोत्तरो यदि १८५॥ पूर्ववद् वासना तत्र न स्यादेवाविशेषतः । भगुरे पूर्वसादृश्या भिन्नत्वाच्चास्ति वासना॥१८६॥ परिच्छेदे व्यापार इत्युक्तम् , तद्वद् वासनायामपि भविष्यति । न, दुष्टत्वा- दुपपत्तेः । दृश्यते खलूत्पद्यमान(रे १)व बुद्धिरथ परिच्छिन्दन्ती । नयसौ क्षणमप्युदास्ते । न चार्थपरिच्छेदादन्यत्र व्याप्रियत इति युक्तम् । जन्मनैव व्यापारेण कारकत्वं, न ज्ञानान्तरं वासयन्ती जायमाना बुद्धिदृश्यत इति कथं वासनायां जन्मना कारणत्वम् । नच जन्मापि किञ्चिद् बौद्धा मन्यन्ते यन्निवन्धनः कारणभावो भवेत् । अस्माकं तु समवायिकारणदशाविशेषः कोऽपि कार्यस्य जन्मेति मतम् । स च जायमानान्नात्यन्तभिन्न इति युक्तं. क्रियाकार(का? क)भाव इति । निरन्बयविनाशित्वान्न वासनेत्युक्तम् । तत्र कारणमाह - विनश्यदिति । यद्धि स्वलक्षण एव निरुद्धं न केनचिद्रू- पेणान्वेति न तत्तदीयं वा रूपं वास्यत इति सम्भवति । तथा वासकमपि यन्निरन्वयविनष्टं तत् केनात्मना परं वासयति । अवस्थिता एव हि भावा गृहादयोऽवस्थितैरेवागरुधूमादिभिर्वास्यन्त इति दृष्टम् । अयं चावीतहेतु- भन्नेतव्य इति ॥ १८४३॥ अत्र चोदयति- अवस्थित इति । अवस्थान्तरोपजननापाययो- स्तदमिन्नस्यावस्थावतो नाशोत्पादाभ्यामवस्थितत्वानुपपत्तिः । अवस्थितत्वे का पूर्वावस्थायामिवोत्तरत्रापि अवासनाप्रसङ्ग इति । अस्मन्मते तु भार- मुत्तरं पूर्व च ज्ञानं, नावस्थितः कश्चिदेको ज्ञाताप्रच्युतप्राच्यरूपः । तदिह. मङ्गुरपक्षे पूर्वसादृश्यात् ततो भिन्नस्योत्तरस्य युक्तैव वासना । एषैव तु वा- सना यत् पूर्वसारूप्यमुत्तरस्य । यथा लाक्षारसोपसिक्ते बीजपूरकुसुमे फलं तदूपं जायमानं तत्त्वान्वितमित्युच्यते । यत्तु व्यापारविरहादकारकत्वमुक्तं, तदयुक्तम् । न व्यापारतः कारकत्वम् , अपितर्हि पूर्वभावात् । मावातिरकिणो व्यापारस्यानुपपत्तेः । यच्चेदं पूर्वस्योत्तरकारणत्वमिदमेव वासकत्वं पूर्वणो- औत्पत्तिकसूत्रे निरालम्बनवादः । नैतदस्त्यनुरूपं तु क्षणिकत्वे धियां तव । पूर्वज्ञानं स्वनुत्पन्नं कार्य नारभते क्वचित् ॥ १८७ ॥ न विनष्टं न तस्यास्ति निष्पन्नस्य क्षणं स्थितिः । तेनोत्पन्नविनष्टत्वान्नास्त्यारम्भक्षणोऽपि हि ॥१८८॥ निरन्वयविनष्टत्वादानुरूप्यं कुतः पुनः। न तदीयोऽस्ति कश्चिच्च धर्म उत्तरबुद्धिषु ॥ १८९ ॥ समानधर्मतां मुक्त्वा नानुरूप्यं च विद्यते। त्तरं वास्यत इति । कोऽर्थः । स्वरूपं जन्यत इति । अतो भङ्गुरवादिनामेव वासनोपपत्तिमती न स्थिरवादिनामित्याह भङ्गुर इति ॥ १८६ ॥ तदिह स्वमतसाधनमुपेक्ष्यैव तावत् परमतदूषणमभिधीयते । दूषिते हि तस्मिन् सुखेन सिद्धान्तोऽभिधीयते । तत्र यत्तावदुक्तं सदूपज्ञानजनक- त्वमेव वासनेति । तदयुक्तम् । यदि हि पूर्वज्ञानमुत्तरस्य जनकं भवति, ततोऽनुरूपं विरूपं वा जनयति । न तदुत्तरस्य जनकम् । अनुत्पन्नस्यासतो जनकत्वायोगात् । एवं विनष्टस्यापि, अजातातिवृत्तयोरनतिभेदात् । नच निष्पन्नस्य क्षणमप्यवस्थानमस्तीति कदा जनयिष्यतीति जनकत्वानुपपत्तौ दूरोत्सारितमनुरूपजननम् । नहि निरन्वयविनष्टस्य किञ्चिदनुरूपं सम्भवति, धर्मान्वयो हि आनुरूप्यम् । न पूर्वधर्मान्वय उत्तरज्ञानेऽस्ति, तदुपगमे निरन्वयविनाशायोगात् । नच समानधर्मतामन्तरेणास्ति स प्रकारो येनानु- रूप्यं भवतीति । तदेतत् सर्वमाह - तदस्तीति सार्धतृतीयेन । ननु पूर्वभावितैव कारकत्वमित्युक्तं किं क्षणान्तरावस्थानेन । नच व्यापार- कारणभावः येन तत्सम्बन्धार्थ क्षणान्तरावस्थानमिष्यते तदभावादियुक्त- मेव । मैवम् । नहि पूर्वभाविताभात्रं कारणत्वमिष्यते । मा भूद गवाश्व- स्यापि पौर्वापर्यमात्रात् कार्यकारणभाव इति पौर्वापर्यनियमे तु कार्यकारण- त्वम् । वचासौ क्षणिकेषु सम्भवति । व्यापारस्तु प्रत्यक्षादिप्रमाणको ना- पहोतुं शक्यत इति ॥ १८९३ ॥ १. 'णकत्वम्' क. पाठ.
८८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् यदि स्यादानुरूप्याच्च वासना गोधियो यदा॥१९॥ हस्तिबुद्धिर्भवेत् तत्र वैलक्षण्यान्न वासना । ततः परं च गोज्ञानं निर्मूलत्वान्न सम्भवेत् ॥ १९१ ।। सर्व विलक्षणं ज्ञानं न स्यादेव विलक्षणात् । बाह्यार्थानुग्रहाभावात् पारायंनावशीकृताः॥९१२॥ निरन्वयविनाशिन्यः कुर्युः कार्य कथं क्रमात् । विनाशे कारणस्येष्टः कार्यारम्भश्च नान्यथा ॥१३॥ तत्रैव ज्ञाननाशेन विनष्टाः सर्ववासनाः । दूषणान्तरमाह -यदीति सार्धेन । यद्यपि ह्यानुरूप्याद् वासने- त्युच्यते यदा तर्हि गोबुद्धेरनन्तरं हस्तिबुद्धिरुत्पद्यते तत्रैव वैलक्षण्याद वासना न स्यात् । ततोऽपि परस्ताद् गोज्ञानं निर्बीजं न सम्भवेदिति । प्रद- शनार्थं च गोहस्तिज्ञान उक्ते सर्वमेव विलक्षणाद् विलक्षणज्ञानं न स्यादि त्याह-सर्वमिति ॥ १९१ ॥ एवं तावदानुरूप्यवासनापक्षो निराकृतः । इदानीं पुनरपि ज्ञानाति- रिक्तवासनापक्षमेवोपसक्रम्य दूषणान्तरमाह-बाह्येति । बाह्यार्थवादिनां हि पूर्वज्ञानजनिता आत्मस्था वासनाः किञ्चिदेव सदृशदर्शनाद्यपेक्ष्य लब्धो- द्वोधाः कार्य जनयन्ति क्रमेणेति युक्तम् । ज्ञानमात्रवादिनस्तु न किञ्चिद् वासनानां कार्यजननेऽनुग्राहकमस्ति यदपेक्षया विलम्बन्ते । अतो युगपदेव सर्वाः सर्व कार्यमारमेरनिति न क्रमेण ज्ञानानि दृश्येरन् । एकदैव विश्व. ज्ञानमुत्पन्नमिति क्षणान्तरे न किञ्चित् स्यात् । नचासां किश्चिद्रूपमन्वेति यत् पुनः कार्य जनयेत् । निरन्वयविनाशित्वान्न कचिदन्यत्र वासनानां पा- रार्थ्य यथास्माकमात्मनि, संस्कार्यान्तराभावात् । अतः पारार्थेन वशीका- राभावादपि न क्रमो युक्तः । पारार्थेन ह्यस्माकमिव बोडरवधानाधपेक्षया स्मृतिक्रम इव ज्ञानक्रमो भवेदपि । न त्वेतत् सर्वमस्तीति कार्यक्रमानुपप- त्तिरिति ॥ १९२३ ॥ किवता वासनाः कचिदाश्रिता न वा। यद्याश्रिताः, ज्ञानातिरिक्तस्य . औत्पत्तिकसूत्रे निरालम्बनवादः । तेन सर्वाभ्य एताभ्यः सर्वाकारं यदुत्थितम् ॥१९४॥ ज्ञानमेकक्षणेनैव विनाशं गन्तुमर्हति । यद्याश्रयविनाशेऽपि शक्त्यनाशोऽभ्युपेयते ॥ १९५ ॥ क्षणिकत्वं च हीयेत नचारम्भोऽन्यथा भवेत् । वासनानां प्रवाहोऽपि यदि ज्ञानप्रवाहवत् ॥ १९६ ॥ वासमातस्ततो ज्ञानं न स्यात् तस्माच्च वासना । कुर्यातां तुल्यमेवैते नान्योन्यं तु कदाचन ॥ १९७॥ नान्यो विलक्षणो हेतुर्येनान्यादृक् फलं भवेत् । तस्मात् संवृतिसत्यैषा कल्पिता नास्ति तत्त्वतः॥ लचेदृशेन भावेन कार्यमुत्पद्यते क्वचित् । कस्यचिदभावात् तदाश्रिता वाच्याः। तत्रैकज्ञाननाशे सकलतदाधारवासना- विनाशः। कारणविनाशादेव कार्यारम्भ इति वः सिद्धान्तः, प्रकारान्तरकार- णत्वायोगात् । विनश्यदेव हि कारणं कार्य जनयतीति युगपन्नश्यन्तीभि- सिनाभिः सकृदेव सर्वाकारज्ञानमुत्थापितं तथावस्थितं च एकदैवैकक्षणे विनष्टमिति क्षणान्तरे न किञ्चिद् भवदित्याह विनाश इति द्वयेन ॥ १९४६ ॥ यदि त्वाश्रयभूतज्ञानविनाशेजप शक्तिर्वासना न नश्यन्तीत्युच्यते, ततः क्षणिकत्वसिद्धान्तहानिः । स्थिरस्य च क्रमयोगपद्याभ्यामर्थक्रियानुप- पत्तेः कार्यानारम्भप्रसङ्ग इत्याह --- यदीति ॥ १९५३ ।। यदि तु स्वतन्त्रा एव ज्ञानवद् वासनाः प्रवृत्ता इत्युच्यते, ततो ज्ञान- वासनयोरितरेतरकार्यकारणभावानुपपात्तरित्याह-वासनेति॥१९६६॥ किमिति ने स्यादत आह- कुर्यातामिति । सदृशमेव हि तदा ज्ञानवासने कार्यमारमेयातां ज्ञानं ज्ञानं वासना वासनां न पुनरन्योन्यमिति । ननु विजातीयकारणोपनिपाताद् विसदृशकार्योत्पादो भविष्यत्यत आह नान्य इति । द्वयातिरिक्तवस्त्वभावादिति भावः ॥ १९७३ ।। अतः संवृतिसत्यरूप इव वासना कल्पिता न परमार्थतः काचिद- - - . N ९० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । यस्य त्ववस्थितो ज्ञाता ज्ञानाभ्यासेन युज्यते ॥१९९॥ स तस्य वासनाधारो वासनापि स एव वा। कुसुमे बीजपूरादेर्यल्लाक्षाद्युपसिच्यते ॥ २० ॥ तद्रूपस्यैव सङ्क्रान्तिः फले तस्येत्यवासना ॥२००३ ॥ युक्त्यानुपेतामसती प्रकल्प्य यद्वासनामर्थनिराक्रियेयम् । आस्थानिवृत्त्यर्थमवादि बौद्ध- ग्राहं गतास्तत्र कथञ्चिदन्ये ॥ २०१३ ।। इति निरालम्बनवादः॥ स्तीत्याह तस्मादिति । नचैवञ्जातीयकं कस्मैचित् कार्याय घटत इति प्रागेव वर्णितमित्याह-नचेति ॥ १९८३ ॥ स्वमत इदानीं वासनामुपपादयति -- यस्य विति । अवस्थितो हि ज्ञाता यज्ज्ञानाभ्यासेन वासनाधारो भवति तद् युज्यते । क्षणिकं तु न वासयितुं शक्यम् । नच तद्वासना प्रयोजनवती, क्वचिदुपयोगाभावात् । न च वासितः पूर्वावस्थातोऽत्यन्तं गिद्यते, येनान्यत्वं प्रतिपद्यते । नच प्राग्व- दविशिष्टः, येन वासना न स्यात् । नचावस्थान्तरोत्पादेऽवस्थितत्वानुपपत्तिः, पूर्वापरयोरवस्थयोरनुगतस्य बोधुः प्रत्यभिज्ञानात् । तदिहावस्थातद्वतोरभेद- विवक्षायां पूर्वज्ञानाहितसंस्कारः पुमानेव वासना भवेत् । भेदविवक्षायां तदाधार इति ॥ १९९३ ॥ यत्त्वानुरूप्यवासनापक्षे लाक्षोपसिक्तं बीजपूरकुसुममुपवर्णितं, तत् तद्रूपसक्रान्तेरुपपन्नम् , नतु ज्ञानस्य किञ्चिद्रूपं ज्ञानान्तरं सामति निर- न्वयविनाशित्वादित्युक्तमेवेत्याह – कुसुमेति तस्यान्तेन । प्रकरणार्थ मुपसंहरति-इत्यवासनेति ॥ २००३ ।। किश्वेयं वासना तत्त्वदर्शिभिबौद्धैर्वस्तुतो वर्णितेति नेदं सम्भावयामः । असतीमेव तु युक्त्यानुपेतां युक्तिशून्यां वासनां विकल्प्य विषयेष्वास्था अथ शून्यवादः। एवमुक्तेऽनुमानस्य ज्ञानमाश्रित्य दूषणे। ज्ञानप्रवृत्त्यशक्त्या तु परः प्रत्यवतिष्ठते ॥१॥ निवर्तयितुमर्थनिराकरणमुक्तम् ‘एकमेवाद्वितीयम्' इत्याद्युपनिषद्भिरिव । त- त्रैव त्वर्वाचीनानां भ्रान्त्या सिद्धान्तावग्रह इति निराकृतं वादिनमाश्वासय- तीति-युक्त्येति ॥ २०१३ ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां निरालम्बनवादः समाप्तः ॥ अथ शून्यवादः । अत्र भाष्यं - 'शून्यस्तु। कथम् । अर्थज्ञानयोराकारभदं नोपलभा- महे । प्रत्यक्षा च नो बुद्धिः । अतस्तद्भिन्नमर्थरूपं नाम न किञ्चिदस्तीति पश्यामः' इति । तत्र यः शून्यो येन च शून्यः तदुभयानुपादानात् शू- न्यस्त्विति प्रतिज्ञावचनमसङ्गतार्थम् । यदि तु पूर्वसाधनवाक्यगतप्रत्ययश- ब्दानुषङ्गेण शून्यः प्रत्ययः तद्भिन्नमर्थरूपं नाम न किञ्चिदस्तीति चो- त्तरग्रन्थानुसारेणार्थेन शून्य इति व्याख्यायते, ततस्तेनैव गतार्थत्वमत आह-एवमिति । अयमेवात्र प्रतिज्ञार्थः प्रत्ययोऽर्थेन शून्य इति । न च गतार्थत्वं, प्रत्यवस्थानहेतुभेदात् । स एव निरालम्बनवादी नास्तिकः प्रत्यक्षादिविरोधदूषितस्वसाधनो दूषणपरिहारेणेदानी प्रत्यवतिष्ठते । बाह्या- थग्राहिज्ञानाश्रयणेन हि प्रत्यक्षादिविरोधोऽभिहितः । तत्रेदमुच्यते । न ज्ञानं बहिरर्थे प्रवर्तितुं शक्तमसम्बन्धात् । असम्बन्धप्रकाशने चातिप्रस- ङ्गात् । एकरूपोपलब्धेश्च ज्ञानप्रवृत्तिविषयासिद्धेः । एक हीदं नीलमिति नीलं प्रकाशते । तदेकमेव युक्तम् , विभागानवगमे तदभ्युपगमायोगात् । तदिद- मुक्तम् 'अर्थज्ञानयोराकारभेदं नोपलभामहे' इति । अत एवायमनादिकाली- नवासनोपप्लावितनिखिलनीलाद्याकारप्रकाशः । नात्र कनचिद् बाह्यमवस्था- प्येत, येन तदपलापे प्रत्यक्षादिविरोधो भवेत् । अतः स एवायं पक्षो दूप- णपरिहारेण पुनरनुप्राणितः । तदेतत् प्रागप्युक्तं "प्रत्यक्षबाधने चोक्ते पश्चात् तच्छक्त्यवेक्षणात् ।" इति ॥१॥ , ९२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । यत् तावन्मन्यमानेन प्रत्यक्ष भवतोच्यते । दूषणं तद्विरोधादि तदिदानी परीक्ष्यताम् ॥ २ ॥ प्रवर्तितुं हि किं शक्तं स्तम्भाद्यर्थे बहिः स्थिते । अथवात्मांश एवैतद् ग्राह्ये क्षीणं न वस्तुनि ॥३॥ तद्योतेन बाह्योऽर्थों गृह्यते दूषणं ततः। त्वदुक्तं सर्वमात्मांशे ग्राह्ये तन्नोपपद्यते ॥ ४॥ तत्र तावदिदं सिद्धं सर्वप्राणभृतामपि । ग्राह्यत्वं नीलपीतादिदीर्घाद्याकारवस्तुनः ॥ ५॥ अत्र पूर्वपक्षं विवक्षन् संवित्परीक्षां तावदवतारयसि-यत् ताव दिति । यद् यादृशं बाह्यार्थग्राहि प्रत्यक्षं मन्यमानेन भवता मीमांसकेन प्रत्यक्षविरोधादिदूषणं निरालम्बनसाधनस्योच्यते, तदिदानी परीक्ष्यताम् । प्रत्यक्षपरीक्षामुखेन चात्र संविन्मात्रपरीक्षैवोपक्षिप्ता । सर्वसंविदामेव बहि- विषयत्वानभ्युपगमात् । मुख्यतया तु प्रत्यक्षपरीक्षोपन्यास इति ॥२॥ कीदृशी पुनरियं परीक्षेति तत्स्वरूपं दर्शयति -प्रवर्तितुमिति । किमिदं प्रत्यक्षं बाह्ये प्रवर्तितुं शक्तम् आहोस्वित् स्वांशपर्यवसायीतीदृशी परीक्षा । परीक्षा च संशय्य पूर्वोत्तरपक्षबलनिरूपणमभिधीयते । तदनेन प्रथमस्य परीक्षापर्वणः स्वरूपमुपन्यस्तमिति वेदितव्यमिति ॥ ३ ॥ आह - वक्ष्यति भवान् संवित्परीक्षाम् । किमस्याः प्रयोजनमिति वक्तव्यम् । अप्रयोजनस्य हि सन्दिग्धस्य काकदन्तवदपरीक्षणीयत्वादत तद् यदीति । अयमभिप्रायः-सर्वपूर्वाक्षेपेणायं वाद उद्भवति । सर्वाक्षेपेषु च पूर्वाधिकरणस्यैव प्रयोजनम् । यथा वक्ष्यति - 'आक्षेपे पूर्वा- धिकरणस्य'ति । तद् यदि बाह्यार्थग्राहि प्रत्यक्षमुपपादयितुं शक्ष्यामः, ततो दूषणसिद्ध्या बाह्यार्थपरं वक्ष्यामः । यदि त्वात्मांश एव सर्वसंविदा ग्राह्यो भविष्यति, ततो दूषणबाधनात् साधनसिद्धौ नास्तिकस्य बाह्या- पैलापः सेत्स्यति । तदियं बाह्यार्थसिद्धावेव परीक्षोपयुज्यत इत्यवतार्यत इति ॥ ४॥ सा पुनरियमनाश्रया संविच्छक्तिपरीक्षेति नास्तिकैकदेशिनः प्रत्यव- आह
औत्पत्तिकसूत्रे शून्यवादः ।
न चाप्याकारभेदेन ज्ञानज्ञेयावधारणा।
नचान्यतरधर्मत्वं विस्पष्टं तत्र गृह्यते ॥६॥
तिष्ठन्ते । ते हि ग्राह्यवैधुर्यदुःस्थिताः संविदोऽपि न सन्तीति वर्णयाम्ब-
भूवुः । अतः शून्ये संसारे किं कुत्र प्रवर्तितुं शक्तमशक्तं वेति परीक्ष्यते ।
अत आह-तत्रेति । अयमभिप्रायः नायमुभयापलापः शक्यो वक्तुम् ।
सर्वप्राणिनामविगानसिद्धत्वान्नीलाद्याकारप्रतिभासस्य । इदं तु चिन्तनीयं
सर्वसंविदामवौपाधिको नीलिमा स्वाभाविको बाह्यस्येति । तुच्छे तु
संसारे निर्बीजप्रतिभासो नावकल्पते । अतः परीक्षणीयमिदं किं ज्ञानमेवा-
नादिवासनोपप्लावितनीलाद्याकारमात्मगोचरमेवेदं प्रकाशते, परमार्थसन्तं वा
बाबमर्थं प्रतिपादयितुं समर्थमिति । यदि तत्तावदुपस्थापयति, अतस्तद्बल-
भुवा प्रमाणान्तरेण तदपि सिध्यतीति । नीलपीतादिदीर्घादीति विविधाका-
रोपन्यासेन पूर्वपक्षबीजं दर्शयति । नायं व्यवस्थितैकस्वभावो नीलादिरा-
कारो दृश्यते, अव्यवस्थितस्यापि दीर्घादेरौपाधिकस्य दर्शनात् । तात्त्विके
वाव्यवस्थानुपपत्तिरिति । एतचोपरिष्टाद् व्यक्तीकरिष्यतीति ॥ ५ ॥
नन्वेवमस्तु यथाप्रतिभासमुभयं, तथापि कः परीक्षावसरः । नहि
प्रत्यक्षसिद्ध एवोभयस्मिन् परीक्षा युक्ता । अत आह -- नचति । अय-
मभिप्रायः - सिध्यत्युभयं यदि ज्ञानज्ञेययोराकारभेदो दृश्यते । तदा हि
विविक्ताकारमुभयं भासमानं न नेति शक्यमपलपितुम् । एक एव तु नी-
लादिराकारो भासते । अतः कथमुभयमविवादसिद्धं भवति यन्न परीक्ष्येत ।
सूक्ष्मः खल्वयं पण्डितैरुपवेदनीयोऽर्थो न्यायः येनैकत्राकारे भासमानेऽन्य-
दवस्थाप्यते । नायमपरीक्षकाणां सिध्यति । तदिदमुक्तम् 'अर्थज्ञानयोरा-
कारभेदं नोपलभामहे' इति भाष्ये । अतो न प्रत्यक्षकप्रमाणिका द्वैतसिद्धि-
रिति परीक्षावतरणीया। यथाच नोभयं प्रत्यक्षं तथोपरिष्टाद् वक्ष्याम इति ।
नन्वेवमाकारभेदानवसाये ज्ञानार्थयोरन्यतरस्य यस्यैवायमाकारो दृश्यते त-
स्यैवायमभ्युपगन्तुमुचितः, किमत्र परीक्षणीयम् अत आह - नचेति । भवे-
देवं यदि ज्ञानार्थयोरन्यतररयायमाकार इति विशदतरमवगम्येत । न
त्वन्यतरस्य धर्मता तस्य विस्पष्टा । अतो ज्ञानं वा नीलमों वेति युक्तैव
परीक्षेति ॥ ६॥
९४
॥
मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम्
गृह्यमाणस्य चास्तित्व नाग्राह्यस्याप्रमाणकम् ।
तस्मादाकारवद् वस्तु ग्राह्यत्वाद् विद्यते
ध्रुवम्
अतः परीक्षमाणानां ज्ञानमाकारवद् यदि ।
तन्मात्रे च प्रमा क्षीणा ततो नास्त्यर्थकल्पना॥८॥
यदि वाकारवत्ता स्याद् बाह्यस्यैवेह वस्तुनः ।
तदस्ति गृह्यमाणत्वाद् तत्सिद्धयैवास्ति धीरपि ।
-
-
नन्वसत्यप्याकारभेदावगमे द्वयोरन्यतरसिद्धयैवार्थादितरत् सिध्यति ।
तथाहि न तावज्जडस्यासति प्रकाशान्तरे प्रकाशः सिध्यतीति तत-
स्सिद्धिः । अकर्मकज्ञानानुत्पत्तेश्च 'ज्ञानाद् ज्ञेयसिद्धिरि ति द्वैतवाद एव
साधीयान् किं परीक्षयात आह - गृह्यमाणस्येति । अयमभिप्रायः
यदेतन्नीलमित्यत्र ग्रहणे साक्षात्कारिणि प्रकाशते, तस्यैवास्तित्वं नेतरस्यति
सौगता भ्राम्यन्ति । अप्रत्यक्षसिद्धेरप्रमाणकत्वात् । तथाहि न तावदा-
न्तरज्ञानाद् बहियसिद्धिः, असम्बन्धात् । असम्बन्धप्रकाशने चातिप्रस-
ङ्गात् । ज्ञेयाच ज्ञानसिद्धेरप्रमाणकत्वमनन्तरमेव वक्ष्यामः ‘ग्राहकं निष्प्र-
माणकमि'ति । अतः प्रत्यक्षावभासिनोरेवोभयोरात्मलाभः सम्भवतीति । न
चाकारभेदोपलम्भोऽरतीत्युक्तम् , अतोन स्फुटा द्वैतसिद्धिरिति परीक्षा. प्रति-
पादयितव्येति भावः । यतश्च गृह्यमाणस्यास्तित्वं, तस्मादेकमेवेदमाकारवद्
वस्त्विदं नीलमिति गृह्यते तदेकमेवापद्यते, न तु तत्त्वान्तरमाकर्षतीत्यमि-
प्रायेणाह-तस्मादिति ॥ ७ ॥
एवञ्च परेषु भ्राम्यत्सु नापरीक्ष्यनिरूपणं कर्तुं शक्यम् । तद् यदि .
नः परीक्षमाणानां परोक्ताभिर्युक्तिभिर्ज्ञानमेवाकारवदिति समर्थनमभविष्यत्
ततस्तन्मात्र एव प्रत्यक्षप्रमा क्षीणेति नार्थोऽवकल्पिष्यते । अथ तु बाह्यमेव
वस्त्विदमिति प्रतिभासानुसारेणाकारवदिति समर्थ्यते, ततस्तत्तावत् प्रत्यक्ष-
गृह्यमाणमस्तीति स्थिते तत्सिद्धयन्यथानुपपत्त्यैव वक्ष्यमाणप्रकारे(ण) बुद्धि-
सिद्धौ मम द्वैतं सिंध्यतीत्यभिप्रायेणाह अत इति दयेन ॥९॥
९५ औत्पत्तिकसूत्रे शून्यवादः। किं तावदत्र युक्तं स्याज्ज्ञानमाकारवत् कुतः । एकमाकारवद्वस्तु ग्राह्यमित्यध्यगीष्महि ॥ १० ॥ तद् यद्याकारवानर्थों बाह्यः कल्प्येत तस्य च । ग्राह्यत्वमन्यथा न स्यादिति ग्राहककल्पना ॥११॥ तेनाकारवतः क्लुप्ताद ग्राह्यादाकारवर्जितम् । बस्त्वन्तरं प्रकल्प्यं स्याद् ग्राहकं निष्प्रमाणकम् ॥ एवं तावत् प्रत्यक्षपरीक्षां प्रस्तुत्य तत्त्वरूपप्रयोजनारम्भाक्षेपसमा- धानाद्युक्त्वा पूर्वपक्षं ग्रहीतुकामो मीमांसकः स्वगात्रानुसारेण स्वयमालोच- यति-किमिति स्थादन्तेन । इदानीं पूर्वपक्षं गृह्णाति --ज्ञानमाकारव- दिति । कथं पुनरिदमिति विस्पष्टे परप्रकाशे प्रत्यगात्मन्याकारवत्त्वमभिधीयत इति सिद्धान्ताभिप्रायेण पृच्छति - कुत इति । अयं च 'कथमि'ति भाष्य- प्रश्नानुसारेण प्रश्नो व्याख्यातव्य इति । पुनरपि 'अर्थज्ञानयोराकारभेदं नोप- लभामहे' इति भाष्याभिप्रायेणैव ज्ञानस्याकारवत्तायामुपपत्तिमाह ---- एक- मिति । अयमभिप्रायः--एकमेव हि नीलाद्याकारं तत्त्वमधिगतवन्तो वयम्। अतस्तन्मात्रमेवाश्रयामः, न पुनरुभयमाश्रयितुमुत्सहामह इति ॥१०॥ 'नन्वस्त्वेकमाकारवत् , तथापि कुतोऽयं निश्चयः ज्ञानमाकारवन्नार्थ इत्यत आह-तबदीति । यदि बाह्यमेव वस्त्वाकारवदिव्यते, ततस्तस्य जडस्य प्रकाशायोगाद् ग्राहकान्तरं कल्पनीयमापयेत । ज्ञानं तु प्रकाशस्व- भावमनपेक्षितप्रकाशान्तरमेव साक्षात्कार प्रकाशत इति नानुपपन्नम् । अतो ज्ञानमेवाकारवदित्यभिप्रायः ॥ ११ ॥ ननु प्रमाणबलादापतन्ती ग्राहकान्तरकल्पना युक्तैवात आह लेनेति । अयमभिप्रायः-भवेदेवं यदि प्रमाणवती कल्पना भवेत् । निष्प- माणं तु निराकारं वस्तु ज्ञानाभिधानमाकारवतो बाह्यात् कल्पनीयं भवेत् ।। बाह्यं हि तेनाविदितप्रति(ष ? सम्बन्धन तत्तावदनुमापयति, अतिप्रसङ्गात् । नच नित्यपरोक्षज्ञानवादिनः क्वचिदपि बुद्ध्या व्याप्तिसिद्धिः । अपिच अर्थों
मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम्
ज्ञानानुमाने लिङ्गमर्थधर्मों वा । पूर्वस्मिन् कल्पे व्यभिचारी हेतुः, असत्यपि
ज्ञानेऽर्थभावात् । अज्ञातस्य च लिङ्गतानुपपत्तिः एकदेशदर्शनादित्यभ्युप-
गमात् । ज्ञातस्तु नासति ज्ञानज्ञाने लिङ्गं भवति, अगृहीतविशेषणस्य
ज्ञातत्वायोगात् । ज्ञातो हि लिङ्गं न स्वरूपेण, व्यभिचारादित्युक्तम् ।
किञ्चेदं ज्ञातत्वम् अन्यदतो ज्ञानसम्बन्धात् । तदवश्यं ज्ञान जिज्ञासमान-
स्थापनमग्रे ज्ञानसंवेदनं ज्ञानमज्ञानं वा ज्ञातस्य । ननु न ब्रूमः स्वरूपेणार्थों
लिङ्गं ज्ञानविशिष्टो वा । व्यक्तस्तु वेषयो लिङ्गम् । ननु सा व्यक्तिंबुद्धि-
खे विषयस्य, तदसिद्धौ तदुपाधिको व्यक्तो विषयः कथं हि सेत्स्यति ।
न व्यक्तिबुद्धिरात्मेति चेत् . स बुद्धिजन्मा न वा । न तावत् तज्जन्मा,
असम्बद्धया बुद्ध्यर्थे धर्मान्तराधानायोगात् । अतजन्मनश्चातल्लिङ्गत्वात् ,
हेतुतद्वतोरसति तादात्म्थेऽप्रतिबन्धात् । यथाहुः 'स किं वा बुद्धि-
जन्मापे न बुद्धिं गमयेत् प्रतिबन्धाभावात्' इति । अर्थधर्मश्चाज्ञातुरपि सा-
धारणः अविशेषात् परबुद्धिमप्यनुमापयेत्। उक्तं च--'अर्थात्मनश्व साधा-
रणत्वादन्यबुद्धेरप्यनुमानप्रसङ्गः' इति । स्यादेतत् । नेदमनुमानम् , अर्थाप-
तिस्तु । साचागृहीतसम्बन्धस्यापि जायत एवेति। तन्न तावत् प्रमाणान्तरम् ।
यथाहुः -- तद् द्विविधं सम्यग्ज्ञानं प्रत्यक्षमनुमानं चेति । प्रमाणस्य
सतोऽत्रैव शब्दादेरन्तर्भावात् प्रमाणे एवेति च । अस्तु वा प्रमाणान्तरम् ।
कयानुपपत्त्यार्थों ज्ञानं गमयति । स हि स्वकारणसामग्रीतो लब्धात्मा ।
किं तस्यासति ज्ञाने नोपपद्यते । अस्ति खल्बसावज्ञातोऽपि । सत्यं, ज्ञातता
तु तस्यानुपपन्ना । नासावन्या ज्ञानसम्बन्धादित्युक्तमेव । अर्थधर्मत्वे
चातिप्रसङ्गो वर्णितः । स प्रमाणान्तरेऽपि समानः । परस्परस्याप्यर्थगतानु-
पलभ्यमानधर्मदर्शिनः परबुद्ध्यर्थापत्त्युपपत्तेः । अपिच प्रमाणान्तरप्रती-
घातोऽनुपपत्तिः। तत्र केन प्रमाणेन ज्ञातो विषयः प्रतिहन्यते, यज्ज्ञानकल्प-
नयोपपद्येत । अतो नाप्रत्यक्षा बुद्धिः सिध्यतीति । यस्तु वदति सत्यमप्र-
त्यक्षा धीन सिध्यति । तद्वदेव त्वर्थोऽपि प्रत्यक्षसिद्ध एव । एकस्मिन्नेव हि
प्रतिभासे मेयमातृप्रमाप्रकाशः नीलमहं जानामीति । अतः प्रत्यक्षबलसिद्ध-
मेव द्वैतमिति । तदुपरिष्टान्निराकारष्यामः 'नचोपलब्धिरस्तीहे'ति । अतोऽर्था-
काराभ्युपगमे निष्प्रमाणकं वस्त्वन्तरं कल्पनीयमिति सूक्तमिति ॥१२॥
भौत्पत्तिकसूत्रे शून्यवादः । तस्याकल्पकमिच्छंश्चेदर्थे ग्राहकां वदेः । संज्ञामात्रे विसंवादः सिद्धा त्वेकार्थकल्पना ॥ १३ ॥ ग्राह्यग्राहकयोरैक्यं सर्वथा प्रतिपद्यते । बाह्याभ्यन्तररूपश्च परिकल्पो मृषेष्यते ॥१४॥ मत्पंक्षे यद्यपि स्वच्छो ज्ञानात्मा परमार्थतः। तथाप्यनादौ संसारे पूर्वज्ञानप्रसूतिभिः॥१५॥ स्यादेतत् । अप्रकाशात्मन्यर्थेऽप्रमाणिका वस्त्वन्तरकल्पना भवेत् , अन्यथार्थप्रकाशासम्भवात् । अर्थमेव तु प्रकाशस्वभावमेषिष्यामः, न वस्त्व- न्तरं कल्पयिष्याम इत्यत आह-तस्येति । अयमभिप्रायः -- एकमेव वस्तु ग्राह्यग्राहकाकारमिति नः प्रतिज्ञा । तद् यद्यर्थ एव तादृशो भवता- श्रीयते, सिद्धो नः पक्षः, अद्वैतसिद्धान्तसिद्धेः । संज्ञामात्रे त्वावयोर्विसं- वादो भवेद् न वस्तुनि । उभयोरप्येकत्वाभ्युपगमात् । कथं पुनरत्र संबा- मात्रे विसंवादः । अर्थवादी हि स्थिरमर्थमनुजानाति । ज्ञानवादी तु क्षणि- कम् । सत्यम् । अन्याऽय विशेषः तत्त्वं तावदेकमेवापद्यते । एतदेवात्र निरूपणीयम् । अन्यत्त्वेतद् यत् स्थिरमस्थिरं वेति ।। १३ ।। एतदेव विवृणोति-ग्राह्येति । नन्वस्त्ययं विशेषः बाह्योऽर्थो ज्ञान- मान्तरमिति । अतः कथं न वस्तुभेदः । अत आह - बाह्येति । अयमभि- प्रायः --- नायं बाद्यान्तरविवेकः पारमार्थिकस्तत्त्वाभेदे सिध्यति । भेदे हि तथा भवेदेकं बाह्यमेकमान्तरमिति । अभिन्ने तु तत्त्वे किमपेक्ष्य किं बाह्य किमान्तरं वा भविष्यति । अतो मृषैवायं ज्ञानमात्रनिर्मितः परिकल्पः कल्पन- मिति ॥ १४॥ ननु बौद्धानामपि स्वच्छाकारमेकमेव ज्ञानम् । अतः कथमस्मिन् नीलादिरूपं ग्राह्यग्राहकाकारशबलं विभक्तमिदं नीलमहं जानामीति निरू- प्यते । नहि स्वच्छस्य नीलादिता सम्भवति । नचैकस्य ग्राह्यग्राहकता नीलमहं जानामीति, स्वात्मनि क्रियाविरोधात् । अत एव न प्रविभागः इदं जानामीति । अतः प्रतिभासानुगुणोऽर्थीकारपक्ष एव न्याय्यः, अत आह- ॥
मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । चित्राभिश्चित्रहेतुत्वाद् वासनाभिरुपप्लवात् । स्वानुरूप्येण नीलादिग्राह्यग्राहकरूषितम् ॥ १६ ॥ प्रविभक्तमिवोत्पन्नं नान्यमर्थमपेक्षते । अन्योन्यहेतुता चैव ज्ञानशक्त्योरनादिका ॥ १७ ॥ मत्पक्ष इति सार्धद्वयेन । अयमर्थः-यद्यपि स्वच्छो ज्ञानात्मा-एक एव, तथाप्यनादौ संसारे यानि पूर्वज्ञानानि तान्येव प्रसूतिः प्रसवो यासां वास- नानां ताभिः नीलपीतादिविचित्रज्ञानहेतुत्वाद् विचित्राभिः आत्मानुरूपेण तस्य स्वच्छस्य ज्ञानात्मन उपप्लवात् । उपप्लवो भ्रान्तिज्ञानं, किमुक्तं भ- वति । यादृशी वासना तादृशं स्वानुरूपं विभ्रमं जनयति । नीलवासना नीलं, पीतवासना पीतमिति यावत् । एवं च स्वानुरूप्येणोपप्लवाद् ज्ञानात्मनि नी- लादिरूपं तावत् प्रकाशते । तच ग्राह्यग्राहकाकारशबलं तदाकारवासनोपप्लवा- देव। ग्राह्यग्राहकाकारशबलैर्हि पूर्वज्ञानस्तदाका(र?रा)एव वासना आहिताः। अतो नीलाद्याकारवत् तदाकारप्रकाशो नानुपपन्नः । विभक्ताकारवासना- वशादेव च विभक्तप्रतिभासो वर्णनीयः । एवंच वासनावशादेव नीलादिरूपं ग्राह्यग्राहकाकाररूषितं प्रविभक्तमिवेदं नीलमित्युपपन्नमिति न पारमार्थिकं बहिःसन्तमाश्रयभूतमपेक्षते । एकस्मिन्नेव हि तत्त्वे त्रितयं समाप्तं प्रमितिः प्रमाता प्रमेयं चेति । यथाहुः "अविभक्तोऽपि बुद्धधात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥" इति । आह-सन्तु तावद् वासनानिबन्धनाः संविदां नानासमुल्लासाः । तद्वैचित्र्यमेव कुतः । ननूक्तं विचित्रज्ञानहेतुत्वाच्चित्राभिरिति । न, अन्यो- न्याश्रयापत्तेः । तथाहि-वासनाभेदाद् ज्ञानभेदस्तद्भेदाद् वासनाभेदः इति दुरुत्तरमितरेतराश्रयमिति । अंत आह-अन्योन्येति । अयमर्थः । नेदमितरेतराश्रयम् । अनादिरयं वासनाज्ञानयोः कार्यकारणभावः बीजाकुर. योरिव । नात्रान्यतरस्यापि पूर्वकोटिः प्रसङ्ख्यायते । अतो वासनातो ज्ञानं ततो वासनेति किमनुपपन्नम् । शक्तिरिति वासनामपदिशति । सा.हि ज्ञान- शक्तिरिति प्रसिद्धा । अयं चानादितयेतरेतराश्रयपरिहारः अनादौ संसार इत्यत्र सूत्रितोत्र विवृत इत्यनुसन्धातव्यमिति ॥ १७॥ - . औत्पत्तिकसूत्रे शून्यवादः । अनेककल्पनायाश्च ज्यायसी ह्येककल्पना । शक्तिमात्रस्य भेदश्च वस्तुभेदाद् विशिष्यते ॥ तस्मादुभयसिद्धत्वाज्ज्ञानस्याकारकल्पना । ज्यायसी भवतस्त्वर्थं कल्पयित्वा भवेदियम् ॥ तदसिंद्धावशक्तत्वात् तेनैवं विप्रकृष्टता। प्रत्यासन्नं च सम्बद्धं ग्राह्यं मम भविष्यति॥ २० ॥ प्रायः - एवं तावदुपपादितं ज्ञानमाकारवदिति । इदानीं तत्रैव कारणान्तर- माह- अनेकेति द्वयेन । कल्पनागौरवं हि द्वैतवादिनामापद्यते, नास्माक- मेकत्ववादिनामिति भावः । ननु तवापि शक्तिकल्पनया द्वैतमेव, असत्यां हि.तस्यां पूर्वोक्तविभागानुपपत्तिरत आह - शक्तिमात्रस्येति । अयमभि- न वासना नाम काचिद् वस्तुतो ज्ञानातिरेकिण्यस्ति या द्वैतमा- वहति । संवृतिसत्यकल्पिता हि सा । नच काल्पनिकं वस्तु द्वैतमापादयति । अपिच बहिर्वस्तुवादिनामपि तदुपेत्य तत्समवाय्यन्यः शक्तिभेदः कल्पनीय एव तत्तत्कार्यभेदोपपादनाय । तदियं शक्तिकल्पना साधारणी । ज्ञानवादि- नस्तु ज्ञानशक्तिकल्पनैव केवलेत्यस्ति विशेषः । एतच्च पारमार्थिक शक्ति- भेदमभ्युपेत्योक्तम् । नच तथा सौगता मन्यन्ते, चिन्मात्रं तु सदित्य- भ्युपगमादिति । इतश्च ज्ञानमाकारवदित्याह-तस्मादिति ज्यायस्य- न्तेन । उभयोरपि द्वैताद्वैतवादिनोः सिद्धं ज्ञानमतस्तस्यैवाकारकल्पना न्याय्या सिद्धाश्रयत्वादिति । तस्माद् वस्तुभेदादाकृष्येत्यर्थः । तव त्वस्मा- कमसिद्धराश्रयान्तरकल्पनापुरस्सरी तदाकारकल्पना स्यादित्याह-भवत इति ॥ १९॥ अत्र कारणमाह - तदसिद्धावशक्तत्वादिति । नीलादिहीदं नीलमिति क्वचिदाश्रितो दृश्यते । नासावाश्रयमन्तरेणोपपद्यते । तद् यदि ज्ञानाश्रय, इष्यते सिद्धाश्रयो भवति, इतरथा साध्याश्रय इति विशेष इति । अपिचैवमर्थाकाराश्रयणे तेन विज्ञानेन विप्रकृष्टता नीलादेराकारस्यापद्येत ।
१०० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । ततश्च तेन तत्प्रकाशायोग इत्यभिप्रायेणाह - तेनेति । अनेन च 'संवेद- नादिति बौद्धोक्तो हेतुरन्तीतः । एवं हि तेनोक्तं नानात्मनः संवेदनं भवति नीलवित्तौ पीतवत् । आत्मभूतस्य तु स्वात्मवदेव प्रकाशो नानु- पपन्नः । तदिदमुक्तम् 'अनर्थान्तरत्वे तु नीलादेरनुभवात् तदात्मभूतः प्रका- शते, तथा नीलाद्यनुभवः स्यादिति । तथेति यथा ज्ञानात्मेत्युक्तं भवति । अतः संवेदनादेव तु भासमानस्य नीलादेस्तत्संविदश्वाविवेकः सिद्ध इति । अपरमपि 'ग्राह्यलक्षणयोगादिति बाह्यापलापे बौद्धोक्तं हेतुमुपन्यस्यति । प्रत्यासन्नमिति । अयमभिप्रायः- मम हि ज्ञानात्मभूतमेकान्तप्रत्यासन्नं नी- लादि युक्तं यद् ग्राह्यतां प्रतिपद्यते । असम्बद्धस्य तु ग्राह्यलक्षणायोगः । नन्वियमेवार्थस्य ग्राह्यता यत् ततो ज्ञानस्योत्पत्तिः तत्सारूप्यं च । बाह्य- नीलाद्याभासं हि ज्ञानम् । तत्स्वरूपं तावत् ततश्चोत्पद्यते कदाचित् ज्ञान- कार्यव्यतिरेकात् । यथोक्तं ---- 'सत्सु समर्थेष्वन्येषु हेतुषु ज्ञानकार्यानु- त्पत्तिः कारणान्तरवैकल्यं सूचयति । स बाह्योऽर्थः स्यादिति । सौत्रान्ति- कमते सन्ति खल्वालोकेन्द्रियमनस्कारादयः । ते च ज्ञानहेतवः । नच ज्ञानं जायत इति दृष्टम् । तदिदं बाह्यार्थसन्निकर्षादेवोत्पद्यत इति तसिद्धिः। एवंचोत्पत्तिसारूप्याभ्यामेवार्थवेदनमित्युच्यते (अर्था ग्रा? अर्थो गृ)ह्यत इति च। अत उत्पत्तिसारूप्ययोरेव ग्राह्यलक्षणत्वाद् ग्राह्योऽर्थो नापहोतुं शक्यते। मैवम् । एवं सत्यनन्तरमेव विज्ञानं तुल्यविषयं विषयः प्राप्नोति ज्ञानानां तत्सारूप्यात् तदुत्पत्तेश्च समनन्तरप्रत्ययाधीनजन्मत्वादुत्तरेषाम् ।' अपिच नार्थज्ञानयोः सारूप्यं, ज्ञानप्रतिभासिनः स्थूलाकारस्य परमाणुष्वभावात् । एकश्चायमाकारो ज्ञानसन्निवेशी । बहूनि च सञ्चितानि रूपादीनि । कथम- नयोः सारूप्यम् । नचापि स्थूल एको विषयोऽवयव्यस्ति, तस्यावयवेभ्यो- ऽव्यतिरेकात् , तन्नानात्वे नानात्वापत्तिः । एकावयवकम्पे च सर्वावयविकम्प. प्रसङ्गः । एकावृतौ चाभेदात् सर्वावृतिः न वा कस्यचिदित्यविकलोपलम्भ- प्रसङ्गः। अवयवस्यावरणं नावयविन इति चेद्, न । अभेदे तदनुपपत्तेः । भेदे वा तदावरणेऽप्यनावृतत्वात् प्राग्वदस्य दर्शनप्रसङ्गः । कस्माच्च भिन्नो- ऽवयवज्ञानाधीनज्ञानः, न खलु घटसंवित् पटसंविदमपेक्षते । वस्तुस्वभावा. दिति चेद् , न । अन्यतमानुपलम्भेऽनुपलम्भप्रसङ्गात् । कतिपयावयवप्रति- 1. 'थात्मज्ञा' ख. पाठः,
औत्पत्तिकसूत्रे शून्यवादः ।
१०१
पत्तौ वा (दर्शने?) अङ्गुल्यग्रदर्शनेऽपि स्थूलोपलम्भप्रसङ्गः । अतो नास्ति
कश्चित् स्थूल एकोऽर्थः यो ज्ञानं सरूपयति । किञ्च इदमेकेन वा केनचिदा-
मना ज्ञानार्थयोः सारूप्यं सर्वात्मना वा । एकदेशसारूप्ये नीलमपि पीत-
संविदः सरूपम् उभयोः क्षणिकत्वादसाधारणत्वाचेति तदपि ग्राह्यं भवेत् ।
एवं च सर्वः सर्ववित् स्यात् । अतदुत्पत्तेरग्राह्यत्वमिति चेद् , न । प्रमाणा-
भावाद् नीलबुद्धिनलिपतिाभ्यां सदृशी नीलादेवोत्पद्यत इति न नः प्रमाणं
क्रमते । अपिच नीलादप्युत्पत्तौ न प्रमाणमित्यनन्तरमेव वक्ष्यामः । समं
च सारूप्यमिति न ग्राह्येतरविवेकः । सर्वात्मना तु सारूप्यमातिष्ठमानो
जडत्वमप्यर्थस्य बुद्धावादध्यात् । एवं चान्ध्यमेव जगतः । यथाहुः
"एकदेशेन सारूप्ये सर्वः स्यात् सर्ववेदकः ।
सर्वात्मना तु सारूप्ये ज्ञानमज्ञानतां व्रजेत् ।।"
इति । नच तदधीना ज्ञानोत्पत्तिः, उपादानविशेषाभावादेव कार्यव्यतिरेक-
सिद्धेः । कार्यदर्शनबलेन हि वयं समनन्तरप्रत्ययमेव वासनापरनामानमु-
तरबुद्धीनां कारणमाचक्ष्महे । तत्कायव्यतिरेके तदभावमुन्नयामः । नहि
समग्रं च कारणं कार्य च न भवतीति सम्भवति । अत उपादानमेव
तन्नामदशामनुपगतं यन्न कार्यमारब्धवदिति किमर्थग्रहणेन । यथोक्तं
"यथाकथञ्चित् तस्यार्थरूपमुक्त्वावभासिनः ।
अर्थग्रहः कथं सत्यं न जानेऽहमपीदृशम् ॥
इति । सिद्धः सत्स्वपि हेत्वन्तरेषु कार्यव्यतिरेकः । तस्मान्नोत्पत्तिसारूप्ये
ग्रापलक्षणम् । नचागृह्यमाणोऽर्थः सिध्यतीति सिद्धं
"नान्योऽनुभाव्यो बुद्ध्यास्ति त(स्य ? स्या) नानुभवोऽपरः ।
ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥"
इति । ग्राघलक्षणायोगात् तावन्नान्योऽनुभाव्योऽस्ति । अत एव तस्या ना-
नुभवोऽपरः । तेनापि तद्ग्रहणानुपपत्तेः । अतः स्वप्रकाशा धीरेवैका मोदत
इति सिद्धम् । यस्त्वसम्बद्धस्यैव ज्ञानेनार्थस्य प्रकाश्यतामातिष्ठते, सोऽस-
म्बद्धेनापि दीपेन घटस्य प्रकाश्यतामातिष्ठत इति विवृतं हेतुद्वयम् । सहोप-
लम्मनियम उपरिष्टाद् विवरिष्यत इति ॥ २० ॥
१०२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् ।
इतश्चाकारवज्ज्ञानं यस्मात् तद्वत् प्रकाशकम् ।
स्वयं प्रकाशहीनस्य बाह्यस्योपायसम्मतम् ॥ २१ ॥
नचागृहीते ज्ञानाख्ये प्रकाश्योऽर्थोऽवधार्यते ।
तदधीनप्रकाशत्वाद् दीपाभासे यथा घटः ॥ २२ ॥
उत्पन्नेष्वपि चार्थेषु प्रकाशाभावतः कचित् ।
प्रतिबन्धकयोगाद वा संवित्तिर्नोपजायते ॥ २३ ॥
ज्ञानस्योत्पद्यमानस्य प्रतिबन्धो न कश्चन ।
नचाप्रकाशरूपत्वं येनास्याग्रहणं भवेत् ॥ २४ ॥
अपरमपि ज्ञानस्यैवाकारवत्तायां कारणमाह -इतश्चेति । युष्माकं
मीमांसकानां तज्ज्ञानं प्रकाशकमिति सिद्धान्त इति । कस्य प्रकाशकमत
आह- स्वयमिति । बाह्यस्य जडात्मनः स्वयं प्रकाशहीनस्य तदुपायतया
सम्मतं, अन्यथा तत्प्रकाशायोगात् ॥ २१ ॥
किमतो यद्येवमत आह-नचेति । यद्धि यस्य प्रकाशकं तद्
गृहीतमेव प्रकाशयति । तद् यदि ज्ञानमर्थस्य प्रकाशकमेतदपि नागृहीतं
तत् प्रकाशयेत् । अतोऽवश्यं ग्रहीतव्यम् । नच तदनाकारं ग्रहीतुं श-
क्यम्, नचार्थज्ञानयोराकारभेदोपलम्भः । अतोऽवश्याभ्युपगन्तव्यं ग्रहणस्य
ज्ञानस्यैवायमाकार इति साम्प्रतमित्यभिप्राय इति । तदधीनप्रकाशत्वादिति
ज्ञानाधीनः प्रकाशः प्रतिभासो यस्येत्यर्थः ॥ २२ ॥
एवं तावदवश्यग्राह्यतया ज्ञानस्यैवाकारः अवश्यग्राह्यता च प्रकाश-
कतयेत्युक्तम् । इतश्वावश्यग्राह्यतेत्याह --- उत्पन्नेष्विति द्वयेन । द्वेषाधु-
सन्नं वस्तु न गृह्यते प्रकाशकाभावात् प्रतिबन्धाद् वा । यथान्धकारतिरोहितो
घटः कुड्यादिप्रतिबन्धाद् वा यथा लोके । स एव चैतद्भयमपि ज्ञाने
सम्भवति । अतो ग्रहणकारणासम्भवादुत्पद्यमानमेव ग्रहीतव्यम् । एवं च
तस्यैव साकारत्वापत्तिरित्युक्तमेवेति ॥ २४ ॥
औत्पत्तिकसूत्रे शून्यवादः ।
१०५
प्राक् चार्थग्रहणादिष्टा तस्योत्पत्तिस्तदैव च।
संवेदनं भवेदस्य नचेत् कालान्तरेऽपि न ॥ २५ ॥
किं हि तस्य भवेदूर्ध्वं प्राक् च नासीन्न येन तत् ।
पूर्व गृहीतं पश्चाच गृहीतमिति भाष्यते ॥ २६ ॥
ज्ञानान्तरस्य चोत्पत्तिं प्रकाशो न प्रतीक्षते ।
तस्य तस्यापि चान्येन संवित्तावस्थितिर्भवेत् ।।
यदि त्वर्थप्रकाशात् प्राग ज्ञानं नोत्पद्येतैव, ततोऽसतो ग्रहणासम्भ-
वान गृह्येत, न त्वेवं भवद्भिरपीध्यते । उत्पन्नायामेव बुद्धावर्थस्य ज्ञातवा-
भ्युपगमात्। ततः प्रागुत्पन्नस्याग्रहणकारणाभावादावश्यकं तादात्विकं ग्रहण-
मित्याह प्राक् चार्थेति अस्थान्तेन । यदि तूत्प(नं? न) प्रतिबन्धं
च• केनापि न गृह्यत इत्युच्यते नित्यासंवेद्यतैव तापद्येत । ततश्चाभाव-
एव ज्ञानस्य भवेदित्यभिप्रायेणाह-नचेदिति ॥ २५ ॥
किं पुनः कालान्तरे न ग्रहणमित्यत आह ---किमिति । अगृह्य-
माणे विशेष प्रागग्रहणं परस्ताच ग्रहणमित्यनुपपन्नामिति ॥ २६ ॥
ननूत्पन्नस्यापि संविदन्तरापेक्षया ग्रहणमिति किं नोपपद्यते अत
आह ज्ञानेति । युक्तं यदप्रकाशकोऽर्थः प्रकाशाय ज्ञानान्तरमपेक्षते ।
ज्ञानं तु स्वयमेव प्रकाशरूपमिति किं तस्य प्रकाशान्तरापेक्षया। अतः सहसैव
प्रकाशेतेति । तुल्यजातीयान्तरापेक्षायामनवस्था । यथाहुः- 'ज्ञानान्तरेणा-
नुभवे हीष्टा' इति । नच ज्ञानं न ज्ञायत एवेति साम्प्रतम् । अभाव-
प्रसङ्गात् । उत्तरकालं च स्मृतिदर्शनात् सहैव हि विज्ञानेन पूर्वदृष्टमर्थ
स्परन्तो दृश्यन्ते ज्ञातोऽसावर्थों मयेति । नचाज्ञातस्य ज्ञानस्य स्मृतिरुप-
पद्यते । उक्तं च परैः- 'तत्रापि च स्मृतिः' इति । एवं चापरापरज्ञाना-
पेक्षायामेकविषयसंवित्तावेवायुः पर्यवस्येत् न विषयान्तरसञ्चारो जायेत ।
तत्र च दृष्टं ज्ञानम् । यथाहुः
"विषयान्तरसञ्चारस्तथा न स्यात् स चेष्यते ।"
इति । तदेतत् सर्वमभिप्रेत्याह - तस्येति ॥ २७ ॥
. १०५ मीमांसालोकवार्तिकं काशिकारीकोपेतम् । ज्ञानप्रष्ठेन योऽप्यूर्ध्वमर्थाभावेऽपि दृश्यते । परामर्शोऽर्थरूपस्य स कथं वोपपद्यते ॥२८॥ तद्रूपमर्थमालिख्य यदि धीर्नोपजायते । भूतकाले च यद्यर्थस्तत्पूर्व नोपलक्षितः ॥ २९ ॥ वक्तारश्चापि दृश्यन्ते वर्तमानार्थबुद्धिषु।. नीलोऽर्थोऽयं यतो मेऽत्र तद्रूपा जायते मतिः ॥३०॥ तस्मात् पूर्वगृहीतासु बुद्धिष्वर्थोपलम्भनम्। इतश्च प्राग् ज्ञानं ज्ञायते ज्ञानाकारश्च नीलादिः, येन ज्ञानपुरस्सर- मेवावगतपूर्व निरुद्धमर्थ स्मरन्तो दृश्यन्ते ज्ञातो मयातिकान्तोऽमुको रा- जेति । यदि ह्यर्थस्याकारो भवेत् , असत्यर्थे सता कथं धीरनुरज्येत । अतो बुद्धिरेव तदाकारमर्थमालिख्योपजायत इति युक्तम् । यदि चातीते काले ज्ञानपुरस्सरमर्थो नोपलक्षितो भवेत् , कथमिदानी तथा स्मर्येत । यथाव- गतग्राहिण्यो हि स्मृतयः कथं मात्रयापि पूर्वानुभूतमतिकामन्ति । तस्मा- ज्ज्ञानाकारो नीलादिः ज्ञानपूर्वकश्वार्थानुभव इत्याह-ज्ञानति द्वयेन । तत् पुनरिदं परस्परविरुद्धमिवोभयं साध्यमुपलभ्यते । तथाहि । ज्ञानपूर्वमर्थो- ऽनुभूयत इत्यर्थमङ्गीकरोतीति लक्ष्यते। ज्ञानाकारसाधनेन च निराकरोति इति तद्विषयमनृतम् । मैवम् । नात्र ज्ञानपुरस्सरमर्थोऽवसीयत इति तात्पर्यम् । एवं तु मन्यते---- अङ्गीकारयामि तावदेनं श्रोत्रियमनुभवानुभवपुरस्सरी- मर्थस्थितिम् । एष हि छान्दसो द्वैतसिद्धिमेवमप्यविगुणां मन्यमानोऽभ्यनु- जानाति तावत् प्रथमं ज्ञानसंवेदनम्। ततोऽनाकारोपलम्भासम्भवादेकाकारो- पलम्भाच्चानायासमेवार्थापलापं वक्ष्याम इति च । तथा भाष्यकारेणापि 'ननूत्पन्नायामेव बुद्धौ अर्थो ज्ञात इत्युच्यते' इति छमनैवार्थाभ्युपगमो द- र्शितः। वार्तिककारेणापि तथैवानुविहितम् । अतो न दोष इति ।। २९ ॥ इतश्च ज्ञानानुविधाय्यर्थः । तथाहि भवन्ति वक्तारः नीलोऽय- मर्थः तद्पानुभवादिति । ज्ञाननिरपेक्षे त्वर्थनिश्चये नैतदुपपयते । तदेत- वक्तार इति ॥ ३०॥ अतः सिद्धं बुद्धिज्ञानपुरस्सरमर्थज्ञानमित्युपसंहरति-तस्मादिति । - दाह . औत्पत्तिकसूत्रे शून्यवादः । १०५ नचोपलब्धिरस्तीह निराकारासु बुद्धिषु ॥ ३१ ॥ अत्रैके वदन्ति --- किमिदमनिष्टमापाद्यते ज्ञानमनुभूयत इति । प्र- तीमो हि वयमेकस्यां संविदि त्रितयं प्रमाता प्रमितिः प्रमेयं चेति, नीला- द्याकारं प्रमेयं प्रमितिमनाकारां प्रमातारं च । तथा हीदृशीयं प्रतीतिः नील- महं जानामीति । तदिह नीलपदास्पदं प्रमेयं मितिमा॑नायुपात्ता । प्रमाता तूत्तमपुरुषेोपात्तः। किं पुनरत्र त्रितये प्रमाणम् । प्रत्यक्षम् । साक्षात्कारिणी हि प्रतीतिः प्रत्यक्षम् । अस्ति चास्यामर्थवित्तौ त्रितयस्य साक्षात्कारः । तत्रापि मातृमेययोः पराधीनः प्रकाशः । न मितेः, स्वयम्प्रकाशत्वात् । इतर- योस्तु न स्वयम्प्रकाशत्वं, सतोरपि स्वप्नादौ तददर्शनात् । अस्ति खल्वयं पुरुषः, स्वापे जागरायां च प्रत्यभिज्ञानात् । एवमेव विषयाः । नच तदा प्रकाशन्ते । तत् कस्य हेतोः. यदि विषयाणामात्मनश्च स्वयम्प्रकाशता सं- विदस्तु स्वापादावसम्भवादेवाप्रकाशः, नाप्रकाशत्वात् । अपिच मेयमातृ- गोचरा फलभूता संविदवगम्यते नतु तस्या अपि भिन्ना संविदपरा, यदसा- वपि परायत्तप्रकाशाश्रीयते । तदिह स्वप्रकाशा संवित् । तद्गोचरौ मातृमेयौ । संविद्गोचरत्वाविशेषेऽपि नात्मनः कर्मभावः, गन्तृवदुपपत्तेः । यथा खलु समानेऽपि क्रियाफलसंयोगविभागभागित्वे ग्रामादेः कर्मभावो, न गन्तुः । एवं प्रमाणफलसंवित्तिसम्बन्धाविशेषेऽप्यात्मनः कर्तृता । तत् कस्य हेतोः । परसमवायिक्रियाफलभागिता हि कर्मता | सावयवानां गन्तव्यानां च देहे गतिसमवायाद् आत्मनि ज्ञानसमवायात् । तत्रासौ ग्रामः कर्म । तथाच विषया इति ते तथा । अतो निराकारैव संवित् स्वमहिम्ना सिध्यन्ती मातृ- मेयावपि व्यवस्थापयति । किमिदानी प्रमत्तवचस्सत्यं पूर्व बुद्धिरुत्पद्यते नतु पूर्व ज्ञायत इति । न, बुद्धयपदेशात् तस्याश्चानुमेयत्वात् । अस्ति वा बुद्धि- संविदोर्भेदः । अस्तीति ब्रूमः । का तर्हि बुद्धिः, का च संवित् । आत्ममन- रसंयोगो बुद्धिः । बुद्धिीनमित्यनर्थान्तरम् । फलभूता संविदनुभवादियदा- स्पदम् । तया चात्ममनस्संयोगः कारणभूतोऽनुमीयत इति किमनुपपन्नम् । अदूरविप्रकर्षादन्यतरत्रान्यतरपदप्रयोगः। नन्वेवं संविदि संवेद्येषु च संवेद्य- मानेषु संवेधद्वयोपलब्धिप्रसङ्गः । नचैवम् , एकाकारसंवेदनात् । उक्तमत्रैक एवाकारः संवेद्यः अनाकारा संवित् प्रकाशत इति । किमिदानीमसंवेद्यैव १. 'ह', २. 'दि संवेद्यमा' ख. पाठः. .
मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । विवेकबुद्ध्यभावाच्च साकारस्य च दर्शनात् । साकारवत्तया बोधो ज्ञानस्यैव प्रसज्यते ॥३२॥ संवित् । न बमोऽसंवेद्यति । संवि(भक्त ? त्त)यैव हि संवित् संवेद्यते न संवेद्य- तया । केयं वाचोयुक्तिः । इयमियं नास्याः कर्मभावो विद्यत इति, स्वयम्प्र- काशत्वात् । नचैवमसंवित् । न, अतन्मूलत्वात् संवेद्यभावस्य सर्वभावानां, सा हि सर्वभावानां सिद्धिः नचासञ्चतिता सिध्यतीति कथं तेऽपि सिध्येयुः। अतः संवित्प्रकाश एव द्वैतं साधयतीति किं सिद्धसाधनेन । संविदुपारूढो हि नीलादिरद्वैतमापादयति । संविदैव त्वनाकारसंविदितया व्यतिरेचितो नीला- दिर्नाद्वैताय घटत इति सिद्धं प्रमाता प्रमितिः प्रमेयं चेति । तान् प्रत्याह नचेति । अयमभिप्रायः-श्रोत्रियदृष्टयैव तावद् बुद्धिरनुमेयेति लक्ष्यते । यदेवमाह.---- 'ज्ञाते त्वनुमानादवगच्छती'ति । यत्तु ज्ञानाभिप्रायं तद् न संविदभिप्रायमिति । तन्न । पर्यायत्वादनयोः । चेतना बुद्धिः ज्ञानं संविदि- त्यनान्तरमिति लौकिका बुध्यन्ते । नचात्ममनसोः संयोगश्चेतना, रूपादि- तुल्यगुणत्वात् । तचेतनात्वे च मनसश्चैतन्यप्रसङ्गः । तस्यात्ममनसोः सा- धारणत्वात् । अचेतना बुद्धिरित्यलौकिकम् । यथाहुः --- 'बुद्धिश्चेतनैव हि "म्यते' । इति । अतो यैवासावनाकारा संविद् भवताभिमता सैव तावद् द्धिः, तदभिप्रायमेव बुद्धयनुमेयत्वाभिधानम् । न त्वनाकारा संविदपरोक्ष- मनुभूयते बुद्धिश्वानुमीयत इति साम्प्रतम् । तदयमर्थः -- यासौ लौकिकी बुद्धिर्नासावनाकारा अपरोक्षमुपलभ्यते । तस्मात् प्रत्यक्षबुद्धिवादिनायमा- कारो ज्ञानसन्निवशी वाच्यः । यथास्माभिरुक्तम् । यथावार्तिकं वा सि- द्धान्तः अर्थ एव प्रत्यक्षो न बुद्धिरिति । तत्र चोक्ता बुद्धयनुमाने लिङ्गा- नुपपत्तिः । अतोऽसिद्धमनिराकाराया बुद्धेरनुपलम्भात् संविदेव द्वैतं साध- यतीति ॥३१॥ अपिचैवं सहोपलम्भनियमात् त्रयस्याभेदापत्तिरित्याह-विवेक- बुद्धधभावाचेति । त्रयाणां विवेकबुद्धयभावादेकस्यैवं ज्ञानस्याकार- वत्तया बोधः प्रसज्यत इति वक्ष्यमाणेन सम्बन्धः । ज्ञानग्रहणमुपलक्षणा- र्थम् । एकमेव तत्त्वमाकारवद् भवेदिति विवक्षितम् । यो हि मेयमातृप्रमासु सहोपलम्भमातिष्ठते तस्यान्यतरविविक्तान्यतरबुद्धधमावादभेद एक त्रयस्या- औत्पत्तिकसूत्रे शून्यवादः । १०७ पयेत, भेदे नियमायोगात् । भिन्नानां हि घटादीनामनियतः सहोपलम्भः । ते हि सहभावेन विवेकेन चोपलभ्यन्ते । अतोऽनियमव्याप्तो भेदो नाईति व्यापकविरुद्धोपलब्धौ भवितुं धूम इवाग्निना व्याप्तोऽनग्नौ । भिन्नावभासाद् भेद इति चेद् , न । अनेकान्तात् । तत्रैतत् स्याद् , एकदापि हि त्रितय- मनुभूयमानं भिन्नमेवावभासते घटकुड्यादिवदतो भिद्यत इति । तन्न । अनै- कान्तिकत्वादः भेदोपलम्भस्य भेदे । उपलभ्यते खलु द्विचन्द्रादिबोधेऽभिन्न- श्चन्द्रः । नचैकस्माद् भिद्यते । तत् कस्य हेतोः । सहोपलम्भनियमादेव । स हि मुख्येन नियतसहोपलम्भः, तन्न ततो मिद्यते । तदनियतसहोप- लम्भा एव भावा भेदेनावसीयमाना भियन्ते नेतरे । यथाहुः- 'न भिन्ना- वभासित्वेऽप्यर्थान्तररूपत्वं नीलस्यानुभवात् तयोः सहोपलम्भनियमाद् द्विचन्द्रादिवदिति । ननु भिन्नयोरपि रूपालोकयोः सहोपलम्भनियमो दृष्टः । अनालोकोपलम्भा न रूपबुद्धिर्यतः । तन्न, केवलस्यापि क्वचिदालोकस्य दर्शनात् । रूपस्य च प्राणिविशेषेष्वनालोकस्य । सन्ति हि केचित् प्राणिनः येऽन्धकार एव रूपमालोकयन्ते । आलोके तु प्रतिहन्यन्ते । मातमेयसंवेद. 'नानि तु सहैवोपलभ्यन्त इति न भेदमर्हन्ति । नहि नीलाद् भिन्न पीतं तेन सह नियमेनोपलभ्यते । अतः सहोपलम्भनियमादभिन्नं त्रयमापद्यते इति । ननु चायमुपालम्भोऽस्तु सहोपलम्भनियमवादिनामेकेषां मीमांसकानाम् । ये तु विषयवित्तिपुरस्सरी बुद्धिसंविदमातिष्ठन्ते, तेषामसिद्धः सहोलम्भनि- यमः । सदैव हि विषयसंवेदनोत्तरकालमेव संविदुपलभ्यते । यथाहुः "पूर्व संगृह्यते पश्चाज्ज्ञानं तज्ज्ञाततावशात् ।" इति । तान् प्रत्याह -- सेति त इत्यन्तेन । अयमभिप्रायः ..... इदं तावद- विवादं साकारं वस्तु दृश्यत इति । साकारदर्शनं चेदमप्रत्यक्ष संवेदने नोप- पद्यते, विषयः सन्मात्रतया न प्रकाशते यतः । तथा सति नित्यप्रकाशा- पत्तेः । अतो विषयोपलम्भसत्तयैव विषयप्रकाशः, न तत्स्वरूपसतया । विषयोपलम्भसत्ता चासिद्धा न सत्तानिबन्धनव्यवहाराय घटत इति तात्स- द्धिरास्थया । नच वित्तरन्या सिद्धिर्भावानां तद् यथुपलम्मो विदितो- ऽसिद्धः, तदसिद्धौ विषयासिद्धिः, येन स एव तत्सिद्धिरिति विश्वमस्त- मितम् । अतोऽस्मात् साकारस्यैव वस्तुनो दर्शनादनुपपद्यमानादवगम्यते यदस्ति सहोपलम्भ इति । अन्यथा तद्दर्शनायोगात् । यथाहुः- १०८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । नह्येवं कल्पना शक्या निराकारादितो मतिः । गृह्यतेऽर्थस्ततः पश्चात् साकारः सम्प्रतीयते॥३३॥ आकारवत्त्वभेदोऽत्र ज्ञात्वा शक्येत भाषितुम् । प्राग्बुद्धिग्रहणादर्थे संवित्तिर्नेति साधितम् ॥३४॥ . O . "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।" इति । अतः सिद्धं सहोपलम्भनियमाज्ज्ञानस्याकारवत्तया बोधः नास्ति तत्त्वतो भेद इति ॥ ३२ ॥ आह --- यापलम्भासिद्धावुपलभ्योऽपि न सिध्यति, अस्तूपलम्भा- सिद्धिः । उपलम्भान्तरेण तु सिद्ध उपलभ्यं साधयिष्यति । एवमपि सहो- पलम्भनियमासिद्धिरित्युपलम्भसिद्धिपूर्वकत्वादुपलभ्यसिद्धेः । उपलभ्यसिद्धि- पुरस्सरी तूपलम्भसिद्धिः प्रतिक्षिप्ता, सिद्धरसिद्धौ साध्यासिद्धः । सिद्धि- सिद्धिपूर्विका तु साध्यसिद्धिः किं नेष्यते । अतोऽसिद्ध एवायं हेतुरत आह-नहीति । अस्यार्थः ---- नेयभोदशी कल्पना सम्भवति यदनाकारा संविदादावनुभूयते ततश्च पश्चात् साकारोऽर्थ इति । निराकारबुद्ध्यनुपल- धेरुक्तत्वात् । इतश्च नैवं कल्पना युक्ता । कथं हि स्वोपलम्भकाले संभि- नोऽर्थः स्वोपलम्भोपलम्भावसरे संवेद्येत, यो ह्युपलभ्यमान एव न सिद्धः सोऽन्योपलम्भावसरेऽनुपलभ्यमान एव सेत्स्यतीति सुव्याहृतम् । आपच अन्येन संवेदनोपलम्भे सोऽप्यसिद्धस्तत्साधनाय न प्रभवतीत्यपरापरापेक्षा- यामनवस्था । एकासिद्धौ सर्वासिद्धिः । कचिद्वा स्वप्रकाशेऽन्येऽपि तथा स्युरविशेषात् । अतः स्वात्मानं विषयाकारं च युगपज्ज्ञानमुपलभत इति सिद्धः सहोपलम्भनियमः । एकव्यापारे क्रमायोगात् । एकः खल्वयं संविदः स्वात्मनि विषयाकारे च व्यापारः, प्रकाशात्मा नायं क्रमभावी न सम्भव- तीति ॥ ३३॥ ननु मा भूदनाकाराया बुद्धरुपलम्भः । सापि त्वाकारवत्येवोपलप्स्यते अर्थश्च । तस्माद् द्वयोराकारवत्त्वं भविष्यति । ततश्चोपलभ्यत इति किमनुप- पन्नमत आह-आकारेति । अस्यार्थः --- योऽयं ज्ञानार्थयोराकारवत्त्वभेदः यद्ययं ज्ञातः स्यात् , तथा(सी? सोति ज्ञात्वा भाषितुमपि शक्येत । नील- औत्पत्तिकसूत्रे शून्यवादः । १०९ नचाकार एवायं ज्ञानारूढः प्रतीयते । नहि सोऽन्तः प्रवेशाय पर्याप्तो नार्थहानये ॥३५॥ इत्थम्भावे प्रमाणं च तस्य वक्तुं न शक्यते। तदीयप्रतिबिम्बत्वमेतस्मादेव नेष्यते ॥ ३६ ॥ पीतभेदवत् । नचैवं भाषितुं शक्यम् ईदृशो ज्ञानाकार ईदृशोऽर्थाकार इति, नीलाद्याकारमात्रज्ञानादिति । एवं हि सर्व समञ्जसं भवति । यदि बुद्धिग्रहणात् प्रागेव साकारोऽर्थः सिध्यति, ततो हि तत्सिद्ध्यन्यथा- नुपपत्त्या ज्ञानमपि कदाचित् सिध्येदिति सिध्यति द्वैतम् । अत्र पुनरगृही- तायां बुद्धावर्थो(नु ? न)सिध्यतीति 'साकारस्य च दर्शनादित्य'त्र साधि- तम् । अतो नकथञ्चिद् द्वैतसिद्धिरित्यभिप्रायेणाह-प्रागिति ।। ३४ ॥ अन्यन्मतं - सत्यमाकारवद् ज्ञानं , किन्तु अथैनायमाकारो ज्ञान आधीयते । अयमेवार्थज्ञानयोः ग्राह्यग्राहकभावः, यदर्थस्य ज्ञाने स्वाकार- समर्पणम् । कथमपरथा क्षणिकत्वादतीतोऽसमसमयभाव्यर्थो ज्ञानालम्बनं भवेत् । यथाहुः "भिन्नकालं कथं ग्राह्यमिति चद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ इति । एतद् दूषयति-नचेति । किमिति नैवमत आह -नहीति। अर्थाकारो ह्यर्थधर्मः । नच धर्मः स्वाश्रयं हातुमाश्रयान्तरं वोपगन्तुं प्रभ- वति, स्वरूपहानापत्तेरिति ॥ ३५ ।। अपिच प्रमाणान्तरप्रसिद्धेऽर्थस्याकारवत्त्वे भवेदप्येवम् । नच तस्याकारस्येत्थम्भावेऽर्थधर्मत्वे प्रमाणमस्ति, हेत्वन्तरसम्भवेऽपि कार्यानि- पत्तिः कारणान्तरवैकल्यं सूचयतीति तु निराकृतमुपादानविशेषादेव कार्य- सिद्धेरक्तत्वादित्यभिप्रायेणाह -- इत्थमिति । ये तु वदन्ति कारोऽर्थ हातुमाश्रयान्तरं वोपगन्तुं प्रभवति । अर्थस्यैव प्रतिबिम्बमिदं शुद्धादर्शप्रतीकाशे स्वच्छे ज्ञानात्मनि दृश्यत इति । तान् प्रत्याह -- तदी- येति । एतस्मादेवेति । अर्थाकारत्वे प्रमाणाभावादित्यर्थः ॥ ३६ ॥ :. 'तुं शक्तः प्र' ख. पाठ:. मा नामा- ११० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । निश्चन्द्रे बिम्बरूपं हि दृष्टं येन दिवा जले। स रात्रौ खे च तं दृष्ट्वा जानाति प्रतिबिम्बताम् ॥ विज्ञाने न कदाचित्तु प्रानिराकारदर्शनम् । बाह्येवाकारवत्ता धीर्येनैवं कल्पना भवेत् ॥ ३८॥ शब्दगन्धरसानां च कीदृशी प्रतिबिम्बता । ज्ञाने च गृह्यनाणस्य कथं स्यादर्थधर्मता ॥३९॥ बाह्याभ्यन्तरदेशत्वान्न चार्थज्ञानयोमिथः । सम्पर्कोऽस्ति यतो मोहादविवेकमतिर्भवेत् ॥ ४० ॥ असम्मूढस्य चादृष्टे न सम्भोहप्रकल्पना । कल्प्यमानेऽथवाप्येवं न द्वयोरवतिष्ठते ॥४१॥ तानेव प्रसिद्धप्रतिबिम्बोदाहरणेन प्रतिबोधयति --निश्चन्द्रति । तमिति योग्यतया चन्द्रः प्रतिनिर्दिश्यते । खे च जले चेत्यर्थः ॥ ३७॥ नचैष न्यायोऽत्र सम्भवतीत्याह-विज्ञानेति ॥ ३८॥ अपिचास्तु रूपवत्सु प्रतिबिम्बकल्पना, अरूपाणां तु शब्दादीनां प्रतिबिम्बकल्पना न कथञ्चित् सम्भवतीत्याह-शब्देति । अपिच नीला- धाकारा संविदुपलभ्यते । तत् किमपराद्धमनया, यत्तामनादृत्यायमाकारो- ऽर्थधर्मतयाभ्युपगम्यते प्रतिबिम्बवच्च दर्शनमित्यभिप्रायेणाह-ज्ञाने(चे)ति ॥३९॥ यस्तु वदति--- नाकारो ज्ञाने सामति । नचार्थस्थः प्रतिबिम्बो दृश्यते । किन्तु ज्ञानमर्थेनायोगोलकमिवाग्निना संस्पृष्टम् । अतोऽयसीव भास्वराकारो मोहादकारो ज्ञाने दृश्यत इति । तं प्रत्याह-बायेति । अयस्तेजसोर्हि सन्निकर्षाद् युक्तो मोहादविवेकभ्रमः । बाह्याभ्यन्तरदेशी तु ज्ञानार्थावसम्पृक्तौ । ततः कथमनयोर्मोहादविवेकभ्रम इति ॥४०॥ अपिच कश्चिदेकः सम्मूढो भवति जगतस्तु सम्मोहकल्पना सम्मोह एव । नचात्र कश्चित् कदाचिदसम्मूढो दृश्यते । सर्वस्य विवेकादर्शनात् ।
औत्पत्तिकसूत्रे शून्यवादः । १११ संसर्गधर्म आकारस्तस्मादेव न युज्यते । देशभेदादसंसर्गो मूर्तामूर्ततया तथा ॥४२॥ त्रैलोक्येन प्रसङ्गाच्च संसर्गों नैककालता। नचाप्याजवतः स्थानं ज्ञानेनार्थस्य विद्यते॥४३॥ सर्वथा कल्पनायां च चक्षुषापि रसादयः। गृह्येरन् सर्वभावानामण्वाकाराश्च तद्गताः ॥ ४४ ॥ अतो न सम्मोहकल्पना युक्त्याह ---- असम्मूढस्येति । यदि तु ज्ञाना- थयोर्विविक्तयोरदर्शनेऽपि सम्मोहः कल्प्यते, तर्हि द्वयोरेव नावतिष्ठेत । एवं हि यथेष्टमेव तत्त्वानि प्रसङ्ख्याय सम्मोहोऽभिधीयतां, किं विशेषादित्याह कल्प्यमान इति ॥ ४१ ।। अन्यद् दर्शनं-- नाकारो मोहाज्ज्ञानेऽवगम्यते । किन्तु सांस- र्गिकोऽयमाकारश्चूर्णहरिद्रयोरिवारुणिमेति । तदप्यत एव बाह्याभ्यन्तरदेश- त्वादनुपपन्नमित्याह - - संसर्गेति । तदेव प्रकटयति -- देशभेदादिति । अपिच, अमूर्त ज्ञानं मूर्तोऽर्थः कथमनयोः संसर्गधर्म आकारो भवेत् । घटा- काशादावदर्शनादित्याह -- मूर्तामूर्ततया तथेति ॥ ४२ ॥ नन्वसत्यप्येकदेशत्वे एककालतया संसर्गों भविष्यतीत्यत आह त्रैलोक्येनेति । त्रैलोक्यं हि ज्ञानेन समकालतया संस्पृष्टं संसर्गजन्माकारं प्रतिभासयेत् । नचैवमस्ति । तस्मादतिव्याप्ते ककालतया संसर्ग इति । नन्वार्जवावस्थानं ज्ञानार्थयोः संसर्गों भविष्यतीत्यत आह निर्मुखस्यार्जवाभावाद् न ज्ञानेनार्थस्यार्जवावस्थानम् । सर्वतोदिक्पदार्थ- बोधेन सर्वतोमुखत्वे वा सर्वार्थसंसर्गप्रसङ्गात् सर्वाकारोपलब्धिः । नहि सर्व- तोमुखं कस्यचिदेकस्याभिमुखं युक्तमिति ॥ ४३ ॥ अपिचं, येनैवार्थेन ज्ञानस्य संसर्गः कल्प्यते, सर्वथैव तेन संसर्गः कल्पयितव्यः, निर्भागत्वात् । एवं च चक्षुषैकत्र भावेऽनुभूयमाने तेनैव तद्तरसाधुपलब्धिप्रसङ्गः, तद्गतसूक्ष्माकारोपलब्धिश्चेत्याह सर्वथेति ॥४४॥ नचेति । - ..
११२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । नचापि विषयत्वेन स्थाने संसर्गकल्पना। विषयत्वं हि कीदृक् स्यात् प्रागाकारोपलम्भनात् ॥ नह्यसंचेतितो भावो विषयत्वेन कल्प्यते । विषयत्वात् तदाकार आकाराद् विषयश्च सः॥४६॥ द्वयोराकारनिर्मुक्तं सत्त्वं संसृष्टता तथा । स्वरूपतः परिच्छिद्य वक्तुमित्यादि युज्यते ॥ नचाप्यस्येह सद्भावः प्राग् गृहीतो नचोपरि । नह्याकारविनिर्मुक्तं ग्राह्यमस्तीति भाषितम् ॥ १८ ॥ ननु यदेव तदर्थस्य ज्ञान प्रति विषयतयावस्थानं सोऽनयोः संसर्गों भविष्यतीत्यत आह --नचेति । अत्र कारणमाह --विषय(त्व)मिति। अयमभिप्रायः संसर्गाकारवादिना हि प्रागेवाकारोपलम्भनात् संसर्गो वक्तव्यः । नच विषयत्वमाकारोपलम्भनात् प्रागस्ति । अतः कथं तन्निव- न्धनाकारा संविद् भवति ॥ ४५ ॥ किमिति न स्यादत आह नहीति । संवेद्यमान एव हि भावो विषय इति विषयविदः । अत उपलम्भोत्तरकालमेव विषयभावान्न तन्निब- न्धन आकारबोधः शक्यतेऽङ्गीकर्तुमिति । एवं तु कल्प्यमान इतरेतराश्रयं प्राप्नोतीत्याह-विषयेति । नीलत्वविषयत्वेन संसर्गात् तदाकारो निष्प- यते । तदाकारनिष्पत्त्या च तस्य विषयभाव इति दुरुत्तरमितरेतराश्रय- मिति ॥४६॥ दूषणान्तरमाह द्वयोरिति । अयमभिप्रायः यदि ज्ञानार्थ- योद्धयोरप्याकारशून्यं स्वरूपमवगतं स्यात् , पुनश्च कदाचित् संस्पृष्टत्वेना- कारसंवित्तिः, तदा भवेदपि संसर्गधर्माकारकल्पना । नचैवमस्तीति व- क्ष्यामः॥४७॥ नचार्थस्य ज्ञानाद् विविक्तस्य सद्भावो गृहीतपूर्वः । नच ज्ञानस्यो- परि गृह्यते येन चूर्णहरिद्रयोरिव विविक्तगृहीतयोरनयोः संसर्गः कल्प्यत इत्याह-नचेति । कारणमाह-नहीति । संसर्गधर्मत्वे बाकारस्य औत्पत्तिकसूत्रे शून्यवादः । ११३ तस्मादर्थेन संसगों निष्प्रमाणक एव ते ज्ञानवैचित्र्यसिद्धयर्थ नचास्त्यर्थस्य कल्पना॥१९॥ तदधीनं हि वैचित्र्यं क दृष्टं येन कल्प्यते । निराकारेण चोत्पत्तिर्वैचित्र्याकारयोः कथम् ॥५०॥ प्रथमं योरप्यनाकारबोधेन भवितव्यम् । नचाकारशून्यं ग्राह्यमस्तीति पूर्व- मुक्तमिति ॥४८॥ उपसंहरति--तस्मादिति । किं पुनरिदमर्थस्य सद्भावो न गृहीत इति। ज्ञानवैचित्र्यानुपपत्तिरेव ह्यर्थस्य सद्भावे प्रमाणम् । स्वच्छाकारस्य हि ज्ञानस्य न कारणान्तरमन्तरेणाकारसम्बन्धस्तद्वैचित्र्यं चोपपद्यते । अतोऽस्ति कश्चिज् ज्ञानातिरिक्तो हेतुर्येनेदं वैचित्र्यमाधीयत इत्यभ्युपगन्तव्यम् । न चेन्द्रियाण्येव तत्र कारणमिति युक्तं , तेषामेकरूपत्वेन कार्यवैचिच्यानुप- फ्तेः । नच समनन्तरप्रत्ययादेव केवलाद् विचित्राकारदर्शनमुचितं, विसदृश- प्रत्ययानन्तरमेव हि वयमेकान्तविसदृशं प्रत्ययमुपादीयमानमुपलभामहे । तत् तद्धेतुकत्वेऽनुपपन्नम् । यथाकार्यदर्शनं तु विचित्रा एव हेतवः कल्प्यन्त इति युक्तम् । ते चार्थशब्दवाच्याः । एवञ्च प्रसिद्धसद्भावोऽर्थः ज्ञानं चा- विवादसिद्धमेवेति प्रसिद्धसद्भावयोाय्य एव संसर्गः, अत आह --ज्ञान- वैचित्र्येति ॥४९॥ किमिति न कल्पना, अत आह -तदिति । यदि वैचित्र्यमर्था- धीनतया विदितप्रतिबन्धं भवेद् , एवमर्थमनुमापयेत् । अत्यन्तापरिदृष्टपूर्वेण वर्थेन न कचिद् वैचित्र्याधानं दृष्टमिति न तद्दर्शनेन तदनुमानं युक्तम् । कार्यदर्शनबलेन कुतश्चिदेव समनन्तरप्रत्ययविशेषात् किश्चिदाकारं ज्ञानं जायत इति न नोपपन्नम् । विलक्षणा हि ते उपादानविशेषा विलक्षण- शक्तय इति न किञ्चिद् दुष्यतीति कार्यदर्शनबलानुसारिण्यामेव च कारण- व्यवस्थायां सुष्वा(१)पादावप्याकाराभावसिद्धिः । कार्याभावेन कारणाभा- वानुमानात् । भवति तु तास्वपि दशासु स्वच्छसंवित्सन्तानः परस्ताज् ज्ञान- दर्शनादः, अनुपादानकारणस्य तस्यानुपपत्तेः । कथमनाकारादाकारवतो निष्पत्तिरिति चेत्, कथं विसदृशाद् विसदृशस्योत्पत्तिः । तत्रापि शक्तिभेद एव कार्यदर्शनबलानुमेयो निबन्धनम् । कश्चिदेवेह मूर्छादावन्ते प्रत्ययमेद Q ११४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । निराकाराच्च विषयाद् बुद्धयाकारोऽतिविस्मयः । स्मृतिस्वप्नादिबोधेन स्यादनाकारता तव ॥५१॥ नहि तत्रार्थसंसर्गः केवला वासनैव तु। हेतुवेनोपपन्नेति सैव जाग्रद्धियामपि ॥ ५२ ॥ आविरस्ति, यः परस्तान्मूर्योच्छेदे नीलाद्याकारप्रत्ययमुपजनयति । स त- स्याममचिन्तनीयो महिमा कार्यदर्शनप्रमाणको न मीमांस्यत इति सूक्त- मर्थसद्भावो न गृहीत इति । अपिच यदि साकारोऽर्थः तदधीनं च ज्ञा- नानां वैचित्र्यं, कथं तर्हि मूर्छादावन्तिमेन निराकारेण ज्ञानेन परस्ताद् भाविनो ज्ञानजातस्याकारो वैचित्र्यं वोपपद्यते । नहि तदुभयमप्यर्थजन्यं, सत्येव तस्मिन्नभावात् । मूछीयामपि ह्यर्थ आसीदेव । नच तेनासावाकारो दर्शितः । अतो व्यभिचारिणः समनन्तरप्रत्ययविशेषादेव निराकारादपि वैचित्र्याकारयोरुत्पत्तिरभ्युपगन्तव्या। एवञ्च सर्वत्रैव तथाभ्युपगन्तुमुचितम् । किमर्थग्रहण । पठन्ति च । 'अर्थग्रहः कथं सत्यमिति । तदेतदाह-नि- राकारेणेति ॥ ५० ॥ अपिच, साकारा नीलादयो विषया ज्ञानं सरूपयन्तु निराकारस्तु गगनकुसुमशशविषाणवन्ध्यासुतादिविषयः कथं बुद्धावाकारमादध्यात् । न हि तत्र विषयाकारो नाम कश्चिदस्ति । बलात् तत्र बुद्धिरेव साकारेति वक्तव्यम् । तद् व्यापकमस्तु । किमर्धजरतीयेनेत्यभिप्रायेणाह-निरा. कारादिति । अपिच पूर्वानुभूतेषु स्मर्यमाणेषु असम्बन्धरवभावेषु स्वप्नादि- पोधे चात्यन्तानन्ताननुभूतस्वशिरश्छेदादिविषये विषयाकाराभावादनाकार- स्तद्वादिनां ज्ञानमापद्यत इत्याह स्मृतीति ॥५१॥ अत्र कारणमाह-नहीति । सता सतेति भावः । कथं तर्हि तत्राकारासम्बन्धः अत आह केवलेति । वासनेति । समनन्तरण- त्ययमेवोपादानापरनामानमुपादत्ते । नतु ज्ञानातिरोक........पूर्व चिरन्तन- बौद्धमतेन वासनाभेदो वर्णित इति वेदितव्यमिति । एवञ्च जाग्रबुद्धि- ध्वपि वासनाहेतुक एवाकारप्रतिमासो युक्त आश्रयितुं, किमर्धजरतीयेनेत्य- मिप्रायेणाह-इतीति ।। ५२॥ १. 'स्वापादि' क.पाठः - - ११५ औत्पत्तिकसूत्रे शून्यवादः । अन्वयव्यतिरेकाभ्यामेवं ज्ञानस्य गम्यते। आकारो नहि बाह्यस्य ज्ञानापेतो निदर्यते ॥५३॥ बाह्योपेतो मया यद्वत् तस्मात् संसर्गवागियम् । निराकारऽपि विज्ञाने वासनास्वेव युज्यते ॥ ५४ ॥ द्वयोरप्येक आकार इत्येतस्याप्रमाणता। देशभेदादसंसर्गाद् द्वयोश्चानवधारणात् ॥ ५५ ॥ किञ्च, अन्वयव्यतिरेकाभ्यां ज्ञानाकारकल्पनैव साधीयसीति दर्श यति- अन्वयेति । एवंशब्दो युक्तयन्तरोपन्यास इति । कथमवगम्यते, अत आह -- नहीतिवदन्तेन । अस्यार्थः-असत्यपि बाह्ये स्वप्नादौ ज्ञान- मात्रान्वयादेवाकारान्वयो दृश्यमानो ज्ञानप्रभावित एवावसीयते । न त्वे- वमर्थवादिनो ज्ञानापेतमर्थर पाकारान्वयं दर्शयितुं शक्ताः । असति ज्ञान आकारप्रतिभासायोगादिति । अतः सिद्धं तावद् वासनानिमित्त एवायं ज्ञानाकारो नार्थसंसर्गधर्म इति । यदित्ववश्यं सांसर्गिकोऽयमाकारो व. क्तव्यः, परमस्तु स्वभावनिराकाराणां ज्ञानानां वासनासंसर्गनिबन्धनत्वे- नाकारस्य संसर्गवाक्प्रवृत्तिरित्याह तस्मादिति ॥ ५४॥ प्रत्यूढः संसर्गधर्मपक्षः । अन्यन्मतं- नीलादिराकारो भासत। न चायं ज्ञानार्थयोरन्यतराश्रयतया निर्धारयितुं शक्यते । तदयमगृह्यमाणे वि- शेषे एक एव द्वयं साकारयतीत्याश्रीयते लाक्षाराग इव सन्निहितं मणियुग- लम् । तदेतदुपन्यस्य दूषयति ---द्वयोरिति । कथमप्रमाणमत आह देशभेदादिति । अन्तःस्थं हि ज्ञानं बहिरर्थः । नानयोः सन्निकर्पोऽस्तीति नेदमुभयमेकमाकारमुपजीवितुमुत्सहते । मणियुगलं तु सन्निहितमेको लाक्षा- रागोऽनुरञ्जयतीति न नोपपन्नमिति । ननु भिन्नदेशयोरपि कुतश्चित् संसृष्ट- योरेकाकारोपजीवनं भविष्यतीत्यत आह .... असंसर्गादिति । उक्तमिदं ना- नयोः कदाचित् संसर्गो गम्यते मणरिव प्रमाणाभावादिति । अपिच पृथगवधारितसद्भावस्य द्वयस्य साधारण आकारो भवेत् , नत्वत्र विभक्ता- कार द्वयमुपलभ्यते । सर्वदैवैकाकारोपलम्भात् । उक्तं च 'अर्थज्ञानयारा- कारमेदं नोपलभामहे' इति । तदेतदाह ---- द्वयोरिति ॥ ५५ ॥ -- - मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । एवमेवार्थबुद्ध्योः स्यात् सादृश्यानाविभक्तता । भेदे ज्ञाते हि सादृश्यं नाज्ञाते स्यात् खपुष्पवत् ॥ तथा द्विचन्द्रमायादावन्यथार्थे व्यवस्थिते । या स्यादाकारसंवित्तिर्नासावर्थनिबन्धना ॥ ५७ ॥ नक्षत्रं तारका तिष्यो दारा इत्येवमादिषु । नैकत्रार्थे विरुद्धत्वाल्लिङ्गानेकत्वसम्भवः ॥५८॥ परिव्राट्कामुकशुनां कुणपादिमतिस्तथा । दीघेहूस्वत्वबुद्धिश्च ह्येकस्मिन्नप्यपेक्षया ॥ ५९ ॥ अन्यद् दर्शनं-विभक्ताकारमेवेदमुमयमत्यन्तसुसदृशत्वेन त्वाकार- विवेको न लक्ष्यते नीलोत्पलवन इव कादम्बकानामिति । एतदुपन्यस्य दूष- यति-एवमिति । सादृश्यादविभक्तता न स्यादित्यन्वय इति । कारण- माह-भेद इति । नितिभेदयोहीन्दीवरकादम्बयोः सादृश्यादविवेकाभि- धानं युक्तम् । पृथगनवगतपूर्वस्य त्वर्थस्य खपुष्पतुल्यस्य सादृश्यादविवेक इति महानयमविवेक इति । सर्वे चैते बाह्यार्थवादिबौद्धकदेशिपक्षा उप- न्यस्य दूषिता इति वेदितव्यमिति ॥ ५६ ॥ इतश्च ज्ञानस्याकार इत्याह -तथेति । द्विचन्द्रादिविभ्रमेष्वन्य- थार्थे व्यवस्थितेऽन्याकारा बुद्धिरुपजायते । तचार्थनिबन्धनत्वे त्वाकारस्य नोपपद्यते । कथं ह्यन्याकारोऽर्थो ह्यन्याकारां धियमुपजनयेत् । तदवश्य- मसत्यप्यर्थे भासमान आकारो ज्ञानस्यैव वक्तव्यः । अतः सर्वत्रैव तथा. वधारणं युक्तमित्यभिप्रायः ॥ ५७ ॥ किञ्च यदेतद् विरुद्धानेकलिङ्गत्वमेकस्य नक्षत्रं तारका तिष्यो दारा इत्यादिषु तदाकारत्वे नोपपद्यते विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वेनार्थ- भेदापत्तेः । भिन्नान्येव तु विचित्रवासनानिबन्धनानि विचित्रार्थज्ञानानि जायन्त इति युक्तम् । तदेतदाह -नक्षत्रमिति ॥ ५८ ॥ यथैकस्यामेव प्रमदातनौ येयं परिवादकामुकशुनां कुणपं कामिनी- मक्ष इति कल्पना भवति, साप्येकात्मत्वादेकस्यार्थस्यार्थवादिनां नोपपवत औत्पत्तिकसूत्रे शून्यवादः। ११७ घटत्वपार्थिवद्रव्यसंज्ञेयादिमतिस्तथा । युगपद् ग्राहकाणां च न स्यादैकात्म्यवत्तया ॥६॥ नार्थे ह्येकत्र युगपद् विरुद्धाकारसम्भवः प्रत्ययानां च भिन्नत्वाद् भवेच्छक्त्यनुसारतः॥१॥ . . :। .. इत्याह-परिवाडिति । अत्र नार्थनिबन्धनेत्यनुषञ्जनीयमिति । इदं चापरं बाह्यार्थवादिनां नोपपद्यत इत्याह दीर्घति एकैव हि प्रदोश- न्यकुष्ठमध्यमाङ्गुल्यपेक्षया दीर्घह्रस्वतयावगम्यते, तचैतदैकात्म्ये तस्यार्थवा- दिनां नोपपद्यते । पूर्वं च प्रमात्रपेक्षयानेकाकारसंविदुक्ता । अत्र तु न केवलं भिन्नानां प्रमातृणामेकत्रानेकाकारबुद्धिः, एकस्यापि तूपाधिभेदादने- काकारबोधो दृश्यत इत्युक्तमिति ॥ ५९ ॥ न केवलमौपाधिको नानाकारः प्रत्ययः । किन्तु घटोऽयं पार्थिवो- ऽयमित्यादिरेकत्रैवार्थे युगपदनेकेषां ग्राहकाणां विकल्पो दृश्यते । तचेदं पारमार्थिकार्थसद्भावे नोपपद्यते तस्यैकात्मत्वात् । एकोऽर्थ एकात्मक इति सवैरेव स तथावगम्यते । न चैवम् । अती बुद्धिमात्रविलसितमेवेदमने- काकारत्वमिति साम्प्रतम् । तदेतदाह --घटत्वति । अत्र च प्रातिलो- म्येनान्त्यसामान्यात् प्रभृति परसामान्यं यावदुपन्यासः कृत इत्यनुसन्धा- तव्यम् । ज्ञेयता तु न सामान्य ज्ञानसम्बन्धोपाधिकत्वात् । अयमपि च प्रतीतिप्रकारो दृश्यत इति प्रदर्शनार्थमुक्तम् । यद्यपि चात्र घटत्वादीनां दी- पत्वादीनामिव विरोधो न दृश्यते, तथाप्येकात्मकत्वादेकस्य निर्भागस्यार्था- मनो नानाकारप्रतिभासोऽनुपपन्न इत्युक्तमिति ॥ ६ ॥ किमिति न स्यादत आह नेति । न तावदेकत्रार्थ एकात्मन्य- नेकाकारत्व एवं न्याय्यः । यथाः "अन्यथकस्य भावस्य नानारूपावभासिनः । सत्यं कथं स्युराकारास्तदेकत्वस्य हानिनः ॥" इति । नतरां विरुद्धाकारसम्भवः । स च प्रागेवोक्तोऽनुसन्धातव्य इति । ज्ञानवादिनस्तु नानाप्रत्यया नानाप्रकारा भवन्तीति युक्तमित्याह --- प्रत्य- पानामिति । किं पुनरेषां तथात्वे कारणमत आह शक्त्यनुसारतः। - .
मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । निरपेक्षं स्वरूपेण तस्माज्ज्ञानं यदाकृति । तथार्थो न यथार्थं तु ज्ञानमुत्पद्यते क्वचित् ॥६२॥ इत्थं विज्ञानतन्त्रत्वे कोन्वर्थ कल्पयिष्यति । धीरनारोपिताकारा स्वात्मन्येवोपयोक्ष्यते ॥६३ ॥ नेतदस्ति त्वयकं हि ग्राह्यं ग्राहकमिष्यते । - ..... शक्तिरिते समनन्तरप्रत्ययमेवापदिशति, तदधीनत्वाज्ज्ञानकार्यनिष्पत्तेः । तदतिरिक्ता तु शक्तिरप्रमाणिकैवति न बौद्धरिष्यत एवेति ॥ ६१ ॥ अतः सिद्धं तावद् भासमान आकारो ज्ञानस्यैव न त्वर्था(क्षेपः ? पेक्षः) अर्थनिरपेक्षमेव तु स्वरूपेण यादृशं ज्ञानं यदि तदनुसायर्थोऽभ्युप- गन्तुमिष्यते सोऽस्तु नाम । न पुनर्यथार्थं ज्ञानं नाम किञ्चिदस्तीत्याह- निरपेक्षमिति ।। ६२ ॥ अस्तु ताह ज्ञानानुसार्येवार्थः, न, एवमपि द्वैतहानिरित्यत आह- इत्यभिाते । अयमभिप्रायः गलजिबिकयेदमस्माभिरुक्तं तथार्थ इति । नतु ज्ञानाकारत्वेऽयों नाम कश्चित् सिध्यति । आकारभेदानुपलम्भात् । अतोन विज्ञानतन्त्रत्वेऽर्थकल्पना शक्यते कर्तुम् । अथैनानारोपिताकाराधी- रेव पात्मन्येवोपयोक्ष यते । खात्मानमेव प्रकाशयति न त्वर्थविषया । यद्येवं सर्वसंविदामनर्थकत्वात् किंकृतः प्रमाणेतरविवेकः । अर्थक्रियाकारिप्रत्यय- सदसद्भावकृत इति ज्ञात्वा शाम्यतु भवान् । व्यवहारसंवादापेक्षया हि प्र- माणं ताद्वसंवादादप्रमाण मिति सांव्यवहारिकी प्रमाणस्थितिः । पारमार्थिक तु प्रमाण चिन्तामयीमेव प्रज्ञामनुशीलयन्तः केचिदेव कृतिनो निधूतनिखि- लनीलाद्युपरागमामेमुखोकुर्वन्तीति तत् तुरीयं प्रत्यक्षमाचक्षते ॥६३॥ सिद्धान्तमिदानीमारभते-- नेति। अस्यार्थः----- एक हि ज्ञानं ग्राह्य- ग्राहकमिति वः सिद्धान्तः । नचैकस्योभयात्मकत्वे कश्चिद् दृष्टान्त इति । तत्पुनारेदं पूर्वापरयोरनवहितस्येव भाषितम् । तथाहि - न तावद् ग्राह्य- ग्राहकाकारं ज्ञानमिति बौद्धरिष्यते । अपितर्हि प्रलीनग्राह्यग्राहकोग्राई चिन्मात्रमेव स्वयंप्रकाशमिति । उक्तं हि .
औत्पतिकसूत्रे शून्यवादः । - ११ "ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ।" इति । बौद्धगन्धिमीमांसकैरप्युक्तं--... 'संवित्तयैव हे संवित संवेद्यते न तु संवेद्यतया नास्याः कर्मभावो विद्यते' इति । दृष्टान्ताभाववचनमपि चासम- र्थम् । वहीदानीमनुमानतो बौद्धस्य प्रत्यवस्थानं, येन दृष्टान्ताभाववचनेनो- पालभ्यते । निरालम्बनानुमानस्य प्रत्यक्षबाध उक्त सम्पति प्रत्यक्षशक्ति- परीक्षयैव प्रत्यवस्थितं न ज्ञानं बहिरर्थे प्रवर्तितुं शक्तं ग्राह्य लक्षणायोगादि- त्यादिभिः । अतः किं दृष्टान्ताभाववचनेनोपालग्यते । अत्रोच्यते - - एवं हि मन्यते । अवश्यमयं ग्राह्यग्राहकभावः संविदा बौद्धैरन्युपगन्तव्यः, कथ- मन्यथा सैव सिध्यति । न ह्यग्रहणकर्मणः करपचित् सिद्धिरस्ति । ननु स्वप्रकाशः प्रकाशः किमस्य प्रकाशान्तरेण । वप्रकाश इंते कोऽर्थः । स्वयमेव प्रकाशते नतु प्रकाशान्तरमपेक्षत इति । किं पुनरिदं प्रकाशत इति प्रकाशादर्थान्तरवचनं, न वा । यद्यन्तिरवचनम् , अस्ति तर्हि संविदोऽप्यपरः प्रकाशः । अन्यथा प्रकाशत इत्यनधिकार्थमवचनीयमेव । स्वरूपं हि संवित्पदेनैवोपात्तम् । अतः प्रतीतिकर्मतैव संविदः प्रकाश- तेपदार्थों घटः प्रकाशत इतिवत् । स्यादेतत् । कर्तृप्रतिनिर्देशोऽयं नातः कर्मभावोऽवसीयत इाते । नैवम् । एवमपि प्रकाशतेपदार्थस्य कर्तृभावो वाच्यः । नासावसाते प्रकाशभेदे सेध्याते, अद्वितीयरय भेनुमशक्यत्वात् । अतो नाप्राप्तस्य सिद्धिरस्ति । नचापि कर्मणः प्रातिरस्तीति सत्याः सं- विदोऽवश्यं प्राप्यकर्मता भावान्तरवद् वक्तव्या नान्या गतिरित । नन्वर्थः कर्म, आत्मा कर्ता, संवित्तु फलं, तत् कथं कर्गत्युच्यते । न । फलस्या- प्यप्रतीतिकर्मणः सिद्धयसम्भवात् । अन्यथा मातृमेययोरपि स्वप्रकाशापा- तात् किं तत्सिद्धयर्थं संविदभ्युपगमेन । न प्रयोजनतः संविदं सङ्गिरामहे , अपितु प्रतीतितः । प्रतीमो हि वयं मातृमेयगोचरां फलभूतां संविदम् । न ततोऽपि भिन्नामपरामिति तावत्येव व्यवतिष्ठामहे । मैवम् । निराकृतमिदं नानाकारा धीस्मलभ्यत इति । नहि नः संविप्रकाशवदर्थप्रकाशोऽपि भा- सते, नीलायाकारमात्रप्रकाशात् । नन्वप्रकाशात्मानो घटादयः प्रकाशान्तर- मपेक्षन्ताम् । संविदरतु तद्रूपायाः किमिति प्रकाशान्तरापेक्षया । न, अतद्रू- पत्वात् । संविदोऽपि हि न स्वात्मप्रकाशात्मत्वं, अर्थप्रकाशो ह्यसौ ।
१२० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । वक्ष्यति च-'ईदृशं वा प्रकाशत्वं तस्येति । अतोऽवश्याभ्युपगन्तव्यः सं- वित्सिद्धये प्रकाशभेदः । किमिदानीमसिद्धैव संवित् संवेद्यं साधयति संवि- दन्तरसिद्धा वा । न तावत् पूर्वः कल्पः । अप्रसिद्धा ह्यसती न संविद् व्यव- हाराय घटत इत्युक्तम् । संविदन्तराधीनायां तु सिद्धावव्यवस्थापात इत्यु- क्तम् । सत्यम् । न संविदन्तराधीनसिद्धिः संवित् संवेद्यं साधयति । स्वरू- पसत्येव तु । कथमधीविषया सतीति चेद् , न धीविषयभावः सत्ता । किन्तु सामान्यमुत्पत्त्युत्तरकालभावि तद्वताम् । अतो मृत्सलिलप्रच्छन्नबीजादिवद- विदितस्वरूपसामयैव संविद् विषयं व्यवस्थापयति । स च व्यवस्थितः सत्यां जिज्ञासायां संविदं संविदन्तराधानेन साधयति । नन्वियं विषयसा- मर्थ्येन संविसिद्धिः प्रत्युक्ता 'वस्त्वन्तरं प्रकल्प्यं स्यात्' इत्यत्र यथा न प्रत्युच्यते तथानन्तरमेव वक्ष्यामः "यावजिज्ञासितज्ञानादव्यवस्थापि नापतेत्।" इति । अतएव सहोपलम्भनियमोऽपि परैरुक्तोऽस्मान् प्रत्यसिद्ध एव । विषयवित्तिकाले संविदोऽनुपलम्भात् । विषयमात्रमेव हि इदं नीलमिति नश्चकास्ति, नाहं नीलमिति । संवित्प्रकाशे च तथा प्रकाशानुपपत्तिः । नहि स्वगोचरा संवित् परनिरूपणात्मिका भवति, स्वपरवेद्ययोरिदमहङ्कारयोरवि- शेषापत्तेः । अयं स्वात्मानमहमिति प्रतिनिर्दिशति परमिदमिति । नवभेदेने दकारमहङ्कारं चोभयमेकत्र प्रयुङ्क्ते । अतो नास्तीदं नीलमित्यत्र संविदुपलम्भ इत्यसिद्धो हेतुः । स्वप्रकाशसंविद्वादिनामेव त्वयमुपालम्भ इत्युक्तम् । स्यादेतत् । अज्ञातो ज्ञापकहेतुः कथं ज्ञापयतीति । नायं दोषः । अज्ञातस्यापि चक्षुषो ज्ञानजननोपलब्धेः । ननु चक्षुरकुरस्येव बीजं ज्ञानस्य कारकमेवेति युक्तमज्ञातस्यापि जनकत्वम् । मैवम् । ज्ञानहेतोरेव ज्ञापक- त्वसमाख्यानात् । अपिच न ज्ञानं ज्ञापकहेतुः ज्ञानत्वात् । ज्ञानस्य हि जनका धूमादयो ज्ञापकाः न ज्ञानमेवेति कथमज्ञापकस्य ज्ञापकधर्मा आपा- चन्ते । स्वरूपसत्यैव संविदा विषयः साध्यते । सा तु पश्चाज्ज्ञानान्तरेण साध्यत इति । असति तु ग्राह्यत्वे संविदेव न सिध्येदित्यापाय पाप- ग्राहकत्वमेकत्वे दूषणमुच्यते 'नैकत्राद्वितीये तत् सिध्यतीति । यदपि च. संवेदनमसत्यभेदे नीलसंवेदनयोरनुपपन्नमिति । तदप्यनेनैव निराकृतम् ।
औत्पत्तिकसूत्रे शून्यवादः । १२१ , , विपरीतमिदमुच्यते -- ऐकाम्ये संवेदनमिति, भेदाश्रयत्वाद् ग्राह्यग्राहक- मावस्य, स्वप्रकाशत्वनिषेधाच । एकं हि तत्वमविभागं नात्मनि वर्तितुम- हति । स्वात्मनि क्रियाविरोधात् : न ह्यङ्गुल्यग्रमात्मनात्मानं स्पृशति सूच्यग्रं वा विभ्यति । कर्मकर्तारो हि तद्धर्मभेदाश्रयगेनवोभयथा विवक्ष्यन्ते केदा- रादयो लवनादौ न वेकान्तमेकात्मानः । आत्मनोऽपि ग्राह्यग्राहकभावम- नन्तरमेव समाधास्यतीति सिद्धं नैकस्य ग्राह्यग्राहकभाव इति । यत्तु भेदे ग्राह्यलक्षणायोग इति । तद् यद्युत्पत्तिसारूप्याभिप्रायेण तदनुमन्यामह एव उक्तदोषत्वादेवंविधस्य ग्राह्यत्वस्य । यत्तु ज्ञानोत्पत्तौ सञ्चे(? त्योते तद् ग्राह्य, कयमनात्मभूतमसम्बद्धं सञ्चेत्यते । एवं ह्येकमेव ज्ञानं विश्वं गोचरयेद् , असम्बन्धाविशेषात् । अस्ति वा ऐकात्म्ये नीलसंवेदनयोः सम्बन्धः । नन्वसौ भेदाधिष्ठानः कथमेकत्राविभाग आस्पदं लभते । स्या- देतत् । ऐकाम्येऽपि किंसम्बन्धन, स ह्येकात्मा स्वप्रकाश एवाते । मैवम् । उक्तो हि स्वात्मनि वृत्तिविरोधः । तस्माद् भिन्नमेव संवेदनान्नीलं ग्राह्यल- क्षणमुपनिपततीति तद्ग्रहे भेदमातिष्ठामहे । अभेद एव तूक्तेन प्रकारेण ग्रा- ह्यलक्षणायोगः । यदा तु ज्ञानार्थयोः सारूप्यनिराकरणार्थ स्थूलानुपपत्तिश्च- लाचलोपलम्भादिभिरापादिता, तां वनोपन्यासावसरे परिहरिष्यामः । सारू- प्येण तु ग्राह्यतामनातिष्ठन्तो नेह स्थूलसिद्धावाद्रेियामहे । तदेकप्रकाराभिहत. मेव हेतुत्रयम् । कथमिदानीमसम्बद्धं प्रकाशते । तत्प्रकाशे वा नातिप्रसङ्गः । नासम्बद्ध प्रकाशते । इन्द्रियाणि हि प्रकाशकानि । तानि च प्राप्यकारित्वाद- फैन सम्बद्धान्येवार्थविषयमात्मनि ज्ञानं जनयन्ति । तैश्चासन्निहितमवर्तमान वा न प्राप्यत इति नातिप्रसक्तिः । ज्ञानं तु न प्रकाशकं प्रकाशत्वात् । प्रकाशकं च नासम्बद्धं प्रकाशकं प्रदीपवदिति तत्प्रकारजुपामिन्द्रियाणामिष्ट एव सम्बन्धः । तत् किमसम्बन्ध एव ज्ञानार्थयोः। यद्येवं कथं घटस्य ज्ञान नासम्बन्धः । विषयविषयिभावोऽपि सम्बन्ध एव । स चास्ति ज्ञानार्थयोः। संयोगस्तु नेष्यते समवायो वा । कोऽयं विषयार्थः । येयं प्रतीतिकर्मता । प्रतीतिरिति हि क्रिया। अस्यामात्मा कती । इन्द्रियागि करगन् । अब कम। तद् येयमर्थस्य प्रतीतौ कर्मकारकता तदेव तस्य विषयत्वं तच्च रूपं प्रतीतेः प्रागभूतं परस्तानिष्पद्यत इत्यवश्यमाश्रयणीयम् । अन्यथा ज्ञाताज्ञातयोरविशे- R - १२२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । पापत्तेः । तदेव ज्ञातता(ति? दि)पदास्पदं ज्ञानज्ञाने लिङ्गं, कथं पुनस्तद- प्रतीतायां प्रतीतौ प्रतीयते । ज्ञानविशिष्टता हि ज्ञातता । सा कथमज्ञाते विशेषणे ज्ञायते । अज्ञाता वा लिङ्गमनुपपद्यमाना वा न ज्ञानं गमयति । न. ह्यज्ञातं लिङ्गमनुपपद्यमानं वा लिङ्गिनमुपपादकं वोपस्थापयति । तदितरेतरा. श्रयं, ज्ञानज्ञाततयोरितरेतराधीनसिद्धित्वात् । स्वरूपमात्रेण त्वर्थो न लिङ्ग. (मि१ मतिप्रसङ्गादित्युक्तमेव । भवेदेवं यदि ज्ञानप्रतीतौ ज्ञातः प्रतीतो भवेत् तदुत्पतौ तु स प्रतीत इत्युच्यते । अतः स्वयं सिद्धो ज्ञानं साधयति । यत्तु ज्ञानविशिष्टता ज्ञाततेति । तन्न । तत्कर्मता हि सेत्युक्तमेव । तत्कर्मभाव- श्वार्थस्य न तत्प्रतीतौ सम्भवति । किन्तर्हि । तदुत्पत्तौ । तदयमुत्पत्त्यैव ज्ञानस्याप्राप्तपूर्वो विषयः सम्प्रति प्राप्तो ज्ञानमुपकल्पयति । एष हि प्राग् ज्ञानोत्पत्तेः सुस्वापादावन्ध इवासीत् , न कश्चिद् विषयमज्ञासीत् । तत् केयमाकस्मिकी विषयाणां प्राप्तिरिति चिन्तयति नहि कदाचिद् भुवा- मकस्माद् भावः सम्भवति । अहेतुसापेक्षस्य गगनवन्नित्यभावापत्तेः । अभावो वा तत्कुसुमवदिति भवितव्यमस्य कदाचिद्भवतोऽर्थसन्निकर्षस्य केनापि कारणेन । न ह्यसौ तथाविधः स्वरूपेणैव, नित्यतथात्वापत्तेः । नन्द्रियवशेन । तेष्वपि सत्सु सुस्वापादावदर्शनाद् अर्थतथात्वस्य जागरायां चाव्याप्रियमाणेषु । अस्तु तर्हि तद्व्यापार एव तथाले हेतुरर्थस्य । न, सत्यप्यभावात् । अस्ति खल्वस्य नानाथैः सन्निकृष्यमाणानामिन्द्रियाणा- मसाधारणो व्यापारः । किञ्चिदेव तु कदाचिज्ज्ञातं भवति । एवमेवात्म- मनसोरपि सतोरर्थतथात्वादर्शनादहेतुत्वं तथात्वेन । नन्वव्यभिचारी मनसो योगस्तद्भावे हेतुर्भविष्यतीति । कस्य इन्द्रियाणामात्मनो वा । तन्न ताव- दिन्द्रियाणाम् । यदेव हि किञ्चिद् बहिरिन्द्रियं चक्षुरादि कार्यदर्शनवशा- न्मनसा संयुक्तमित्यवगतं तदेव किञ्चिज् ज्ञापयति । नेतरत् तदिन्द्रियमनो- योगहेतुकत्वेन युज्यते ज्ञातत्वस्यति तद्योगो न हेतुत्वेन कल्प्यते । आत्म- न्यपि मनोयुक्त कस्य हेतोः किञ्चिदेव ज्ञातं नापरम् । येनेन्द्रियं सन्नि- कृष्यते चक्षुरादि तदात्ममनोयोगाज्ज्ञातं भवतीति चेद्, न । उक्तव्यभि- चारत्वात् । चक्षुस्सन्निकृष्टमपि हि किञ्चिदेव कदाचिज्ज्ञातं भवति नापरं, तदसति विशेषे नावकल्पते । अपिच ज्ञानकर्मता ज्ञातत्वं चेतना ज्ञानमिति चानान्तरमिति लोक- सिद्धम् । तद् यद्यात्ममनोयोगश्चेतना, मनश्चैतन्य । तस्योभयसाधारण्याद् .
औत्पत्तिकसूत्रे शून्यवाद। १२३ प्रसङ्गो वर्णितः । न ज्ञानं चेतना, अपितु संवेदनमिति चेत् । अस्ति वानयोर्विशेषः । नन्वेवं नीलं जानाति संवेत्तीति च सह प्रयुज्येत, अर्थ- भेदेनापयित्वादिति नात्ममनस्संयोगो ज्ञानम् । अतो न तप्रभावितं भावानां ज्ञातत्वम् । सोऽयमहेतुकः प्राप्यकर्मभावोऽथस्य ज्ञाततात्माजन्यो नावकल्पते । हेत्वभावेन कार्याभावप्रतिबद्धेन तदनुमानात् । सेयं प्रत्यक्षा- दीनामनुमानविरोधानुपपत्तिः । तानि ह्यर्थ प्रापयन्ति । हेत्वभावानुमानं च त- प्राप्ति प्रतिक्षिपति । सेयमनुपपत्तिनिकल्पनया समाधीयते । अस्ति कश्चिदा- त्मसमवायी ज्ञानसंवेदनादिपदपर्यायवाच्यो जानातिधातूपादानः क्रियाभेदो यस्मिन्नर्थानां प्राप्यकर्मतेति । ननु ज्ञानं गुणः गुणकाण्डे पाठात् न तु क्रिया। अतः कथं तस्यार्थः कर्मेत्युच्यते । नहि विभोरात्मनः स्पन्दसमवायः स- म्भवति । नचापरिस्पन्दात्मिका क्रिया, पञ्चानामपि कर्मणां स्पन्दात्मकत्वात् । न।धात्वर्थमात्रस्य क्रियात्वात् । वक्ष्यति च–'क्रिया धात्वर्थमात्रं स्यात्' इति । बुध्यत इत्यादिभ्यश्च शन्देभ्यः क्रियाप्रत्यय एवोपजायमानो दृश्यते पूर्वापरीभावावगतः । अतो युक्तैव ज्ञानकर्मता विषयाणां ज्ञानाकारवादि- नाम् । अपिचावश्यमप्राप्तपूर्वस्य नीलादेः प्राप्तिर्वक्तव्या । अन्यथा प्रागि- वोत्तरकालमप्यप्रतिभासमाने विषयाकार आन्ध्यमेव जगतो भवेत् । भासते विषयाकारो न केनचित् प्राप्यत इति चेत्, कस्य भासते । यदि न कस्य- चित्, किंकृतो व्यवहारभेदः । एको हि नीलं विद्वांस्तदुपाददानो दृश्यते। नापरो विद्वान् । सोऽयं स्वतन्त्रे नीले किंकृतो विशेषः । नहि स्वतन्त्रो भासमानः सर्व(स्या ? स्य)स्यान्न वा कस्यचिद् वनवह्निरिवानुपलभ्यमानः केनापि । अतोऽवश्यमस्य कचित् सन्ताने प्राप्तिर्वक्तव्या । तथाच 'यदाभासं प्रमेयं तदिति पठन्ति । नचाप्रमाकर्मणः प्रमेयता सम्भवति । अस्त्ययं प्रमे- यादिविभागः, किन्तु भ्रान्तिपरिकल्पितः । तथाचोक्तम् - "अविभत्तोऽपि बुद्ध्यात्मा" इति । सत्यमुक्तम् । अयुक्तं तु तत् । एवंहि न किञ्चित् पार- मार्थिकं नाम भवेत् । चिन्मात्रतापि हि प्रतीतिवशादेवाश्रीयते । तद्वदेव तु विषयाकारोऽपि भासमानः कथम पारमार्थिको भवेत् । तद्विपर्यस्तत्वे वा कथं संवित्स्वरूपमविपर्यस्तं भवेत् । उभयत्रापि बाधादर्शनात् । अतः संविदेवा- मनो भिन्नमर्थमिदमिति दर्शयन्ती नान्यथा वक्तुं शक्यत इति सिद्धमिद- मिति बहिः प्रसिद्धो विषयो ज्ञानं साधयतीति ।
१२४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । यत्तूक्तमर्थस्था धर्मः परेणापि ज्ञातो ज्ञानं गमयेदिति । तदयुक्तम् । अर्थो हि ज्ञातोऽनुपपद्यमानो ज्ञानकल्पनायां हेतुरुक्तः । नचासौ सर्वस्य. तथा भवति । यस्यैव तु ज्ञानमुत्पन्नं तस्यासौ ज्ञात इति प्रतीतिसाक्षिकमेव । यथा यस्यैव गमनं तस्यैव देशान्तरप्राप्तिर्भवति असत्यपि गतिज्ञाने । किमा- मकः पुनरर्थस्थो धर्मः । उक्तं कर्मकारकतेति । ननु कर्मशक्तिरप्रत्यक्ष- सिद्धा कथं ज्ञानं गमयति । न कर्मशक्त्या ज्ञानं कल्पयामः । कर्मणा त्वर्थेन, स तु प्रत्यक्षसिद्ध ख । तस्य चाप्रत्यक्षायामपि शस्तौ कारकान्तरवत् प्रत्य' क्षतोपपत्तिः । कारकान्तरशक्तयोऽपि ह्यप्रत्यक्षा एव । न चैतावता तेषामप्र- त्यक्षभावः । अतः प्रत्यक्षादिप्रमाणप्राप्तो विषयो ज्ञानकल्पनायां हेतुः । प्राप्तिश्चार्थस्याभूतपूर्वावस्था सर्वस्य स्वसंवेधेत्येके । अन्ये तु हानादिव्यव- हारयोग्यतैवार्थस्य प्राप्तिरित्याहुः । सैव हि ज्ञातत्वम् । तदेव हि ज्ञान- फलम् । क्रियाफलभागिता च कर्मत्वम् । सर्वथा सिद्धं ज्ञातादर्थाज ज्ञानानु- मानम् । येऽपि प्रत्यक्षैव संवित् स्वात्मानं विषयवदवस्थापयतीति मन्यन्ते, तैरपि ज्ञानोत्पत्तेः प्रागभूतः परस्ताद् भाव्यर्थगतो धर्मभेदोऽभ्युपगन्तव्यः । नतु ज्ञानप्रत्यक्षतैवार्थप्रत्यक्षता । न ह्यन्यस्मिन् प्रत्यक्षेऽन्यत् प्रत्यक्षं भवति, अतिप्रसङ्गात् । यदि संवित्प्रत्यक्षतैवार्थप्रत्यक्षता भवेद् , अनुमेयादीनाम- प्यापद्येत । अनुमानसंविदोऽपि प्रत्यक्षत्वात् । अतोऽवश्यं स्वगत एवार्थस्य विशेषो वक्तव्यः, येन प्रत्यक्षतरते व्यवतिष्ठते । अतः सिद्धं नाप्रमाणिका ज्ञेयसिद्धौ ज्ञानकल्पनेति द्वैतसिद्धिः । सर्वसंविसं त्वानर्थक्ये विषयाकार- प्रत्यभिज्ञा निर्निबन्धनैव भवेत् । एष हि पूर्वयुद्देष्टमर्थमपरेद्युः प्रत्यभिजा- नाति । तज्ज्ञानेन सह निरुद्धस्याकारस्य नोपलभ्यते । अन्यः खल्वयमद्य भुवो ज्ञानस्याकारः । अन्यश्चासौ यः प्राङ् निरूपितानरुद्धः । कतरदत्र प्रत्यभिजानीमः । प्रमाणेतरविभागोऽपि सर्वसंविदामानर्थक्येऽनुपपन्नः । न चार्थक्रियाकारिज्ञानसदसद्भावनिबन्धनोऽसाविति युक्तम् । वनपरिदृष्टेष्व- प्यर्थेषु (का? कोचिदर्थक्रियाकारिज्ञानोदये प्रामाण्यप्रसङ्गात् । बाध्यते स्वप्न- ज्ञानमनन्तरम् , अतो न प्रमाणमिति चेत्, जाग्रज्ज्ञानमपि योग्यवस्थायां बाध्यत एवेति कथं प्रमाणम् । अथ तच्चिरेण बाध्या इत्युच्यते, नैतावता विशेषेण सत्यमिथ्यात्वे भवतः। नहि मायासुवर्णज्ञाने चिरेग विसंवादो दृश्यत १. 'मन्त' स.पाठः. .
औत्पत्तिकसूत्रे शून्यवादः । १२५ नचैकस्यैवमात्मत्वे दृष्टान्तः कश्चिदस्ति ते॥१४॥ अग्न्यादयो घटादीनां प्रसिद्धा ये प्रकाशकाः। न ते प्रकाश्यरूपा हि प्रकाशस्यानपेक्षणात् ॥६५॥ ग्राह्यत्वं तु यदा तेषां तदाक्षं ग्राहकं मतम्। अक्षग्रहणकाले तु ग्राहिका धीभविष्यति ॥ ६६ ।। इति तत् प्रमाणम् । अतो यत् प्रमाणं तत् प्रमाणम् , अप्रमाणं चाप्रमाणं न त्वर्धजरतीयमुपपद्यते । अतः सिद्धं ज्ञानाद् भिन्न एवार्थो ग्राह्यलक्षणानुयायी ज्ञानं च साधयतीति । दृष्टान्ताभाववचनमपि नानुमानदूपणार्थ, किन्तु स्वा- भिप्रेतानुमानदूषणपरिहाराय । एवं ह्यत्रानुमानमन्तणीतं नाविभागं यात्मकम् अविभागत्वाद् अन्यतरांशवदिति । यदि च कश्चित् कदाचिदग्न्यादिषु दर्श नादनकान्तिकतां ब्रूयात् , तदर्थमिदमुक्तं 'नचैकस्यैवमात्मत्वे दृष्टान्तः क- श्चिदस्ति ते' इति । तचैतदुपरिष्टात् प्रपञ्चयिष्यतीति ॥ ६४ ॥ नन्वग्न्यादीनामेकात्मनामेव प्रकाश्यप्रकाशकता दृष्टा । अतोऽनैका- न्तिको हेतुरत आह- अनीति । अयमर्थः- येऽग्न्यादयः प्रकाशक- तया प्रसिद्धाः ते घटादीनां न स्वात्मन इति, न प्रकाशरूपाः प्रकाशात्मनः स्वरूपस्येति । किं पुनः स्वात्मनः प्रकाशस्य न ते प्रकाशकाः । नहि ते- ऽप्रकाशिताः सिध्यन्ति । नच तत्सिद्धयर्थमपरसजातीयापेक्षा दृश्यते । नहि प्रदीपः प्रदीपान्तरमपेक्षते । अत आह --- अनपेक्षणादिति । अयमभि- न ते स्वप्रकाशाय स्वात्मानमपेक्षन्ते. स्वात्मनि वृत्तिविरोधात् । स्वस्य स्वस्मिन् प्रकाशायोगादिति ॥ ६५ ॥ किमिदानीमप्रकाशिता एव प्रकाशन्ते, नैवमपि । केन तर्हि प्रकाश्यन्त इत्यत आह ग्राह्यत्वमिति । चाक्षुषेण हि तेजसा प्रकाशितास्ते गृ- ह्यन्ते । तत् तेषां ग्राहयितृ न ग्रहीत । इन्द्रियचैतन्यप्रसङ्गात् । नन्वेवं तेजसस्तेजोन्तरापेक्षायां सजातीयापेक्षेत्यनवस्था । मैवम् । उक्तात्र नायनस्य तेजसः कार्यदर्शनानुसारिणी रूपसिद्धौ शक्तिसिद्धिः । बहिस्तेजसो रूप- प्रकाशकत्वदर्शनाद् देहेऽपि वर्तमानं तदेव रूपस्य प्रकाशकं भूतान्तराणां तेजसस्य च । नचेह सजातीयापेक्षा । अवान्तरजातिभेदात् । अत एवा- प्रायः १२६ मीमांसाश्लोकवार्चिकं काशिकाटीकोपेतम् । तस्यां तु गृह्यमाणायामन्या धीर्याहिकेष्यते। नन्वात्मा ग्राहको ग्राह्यो भवताभ्युपगम्यते ॥६७॥ कथञ्चिद् धर्मरूपेण भिन्नत्वात् प्रत्ययस्य यत् । ग्राहकत्वं भवेत् तत्र ग्राह्यं द्रव्यादि चात्मनः॥६॥ यस्तु नात्यन्तभेदोऽत्र व वासाविष्यते मया । प्रत्यासत्तिनिमित्ता तु प्रत्यगात्मप्रवृत्तिता ॥ ६९ ॥ न्धस्य प्रदीपादयो न बुद्धिविषयाः । स्वप्रकाशत्वे च तेषामन्धस्यापि धीगो- चरा भवेयुरिति । अक्षमपि रूपरूपिरूपैकार्थसमवायिना प्रकाशकं न स्वा- त्मनः, तद्ग्रहणकाले बुद्धरेवान्यथानुपपत्तिप्रमाणिकाया ग्राहकत्वमित्याह- अक्षेति ॥ ६६ ॥ बुद्धिस्तु बुझ्यन्तरवेद्येत्यनन्तरमेवोपपादितमित्याह-तस्यामिति । अत्र चोदयति- नन्विति । आत्मनो हि ग्राहकान्तराभावादवश्यमेकस्या- भयरूपता वक्तव्या । नबसावन्येन गृह्यते । ग्राहकानन्त्यप्रसङ्गात् । अत- स्तद्वदेवैकस्यैव ज्ञानात्मनो ग्राह्यग्राहकभावो नानुपपन्न इति ॥ ६७ ॥ परिहरति - कथश्चिदिति । अयमभिप्रायः - निर्भागं हि ज्ञान- मिति वः सिद्धान्तः । नचैवंविधस्य द्वैरूप्यमुपपन्नम् । आत्मा तु केनचिदा- स्मना ग्राहकः । केनचिदात्मना ग्राह्य इति किं नोपपद्यते । तथाहि - अस्यार्थसंयुक्तेन्द्रियसंयुक्तमनस्संयोगिनः प्रत्ययो नाम धर्मभेदो जायते । स चास्मात् कथञ्चिद् धर्मरूपेण भिन्नः । तेन चायं ग्राहकः। यत् तस्य पृथि- व्यादिद्रव्यान्तरसाधारणं द्रव्यादिरूपं तद् ग्राह्यम् । ज्ञानस्य तु नैवंविधः" कश्चिद् विभागो बौद्धैरिष्यते । अतः कथं तस्य द्वैरुप्यमिति ॥ ६८ ॥ नन्वेषमपि तावदत्यन्तभेदो ग्राह्यग्राहकयोरनिष्ट एव, अभेदस्यापि धर्भधर्मिणोरिष्टत्वादत आह- यस्त्विति । अत्यन्तभेदो हि घटागन्यादी- नामप्यस्माभिर्नेष्यते एव । द्रव्यादिरूपेणाभेदात् । अतः कथञ्चिद् भिन्नयोरेव सर्वत्र प्रकाश्यप्रकाशकत्वमित्यात्मनोऽपि नानुपपन्नमिति । यदि तर्हि प्रत्य- .
१२७ औत्पत्तिकसूत्रे शून्यवादः । अस्मत्प्रयोगसम्भिन्ना ज्ञानस्यैव च कर्तरि । यांशो ग्राहकः द्रव्यांशो ग्राह्यः, कथं तर्हि भाष्यकारः 'प्रत्यगात्मनि चैतद् भवति न परत्रे ति प्रत्यगात्मवृत्तितामात्मनो मन्यते । नन्वेवं परगोचर एवाई- प्रत्ययो भवेत् । परं हि प्रत्ययात्मनो द्रव्यादिरूपमत आह--प्रत्यासत्तीति । येयमात्मनः प्रत्यगात्मवृत्तिता भासते नायं दोषः । सर्वमेव हि नोऽनेका- न्तेन परत्र प्रवर्तते । आत्मा त्वत्यन्तप्रत्यासन्नग्राह्यग्राहकधर्मकः प्रत्यगात्म- वृत्तितया भासते । अत्यन्तप्रत्यास(नो ? नौ) हि नरस्य जलाजलात्मानौ तयोरसौं साधारणो ग्राह्यग्राहक इत्यभिधीयते इति न कश्चिद् दोष इति ॥६९ ॥ अपिच, अहमिति योऽयमस्मत्प्रयोगः तत्सम्भिन्ना विशदतरमात्म- गोचरा संविदुत्पद्यमाना दृश्य(न्ते ? ते।) ज्ञानं तु न स्वगोचरं जातु जाय- मानमुपलब्धम् । अतो नात्मदृष्टान्तेन ज्ञानस्योभयरूपता वक्तुं शक्या। नहि तदहं नीलमिति कदाचिदुत्पद्यमानं दृश्यते । सर्वदेदम्प्रयोगसम्भिन्नबोधात् । अत उपपन्नैवात्मकर्तृकात्मनि संवित्तिः नतु ज्ञान इत्याह- अस्मत्प्रयो- गसम्भिन्नेति । अत्रैके वदन्ति कुमारस्वामिवादिनः - नात्मास्मप्रयोग- सम्भिन्नबोधवेद्यः । नहि वयं कार्यकारणसङ्घातातिरेकिणमयमस्मीति पुरुष बुध्यामहे । पृथिव्यादिद्रव्यानुभव एव स्वप्रकाशः स्वमात्मानं स्वप्रकाश्य- मात्मानं मेयं च द्रव्याद्यवस्थापयति । नहि विषयवित्तावप्रतिसंहिते पुरुषे स्वपरवेद्ययोरतिशयः सिध्यति । अतो विषया न बोद्धर्यनवभासमाने भासन्ते। नासौ तेषु । अत एव विषयवेदनोपरमे जडाकाशादिवदात्मनोऽवस्थानं स- निरन्ते । यदा खल्वयं पुरुषः प्रक्षीणाशेषकर्माशयो मुच्यते, तदा ज्ञानकार- णानामिन्द्रियादीनामभावादसति विषयवेदने चिद्रहितः खवदवतिष्ठते । निश्शेषवैशेषिकात्मगुणोच्छेदलक्षणमेव हि मोक्षं मन्यन्ते । नचैवमपुरु- पार्थत्वं, दुःखोपरमस्यापि पुरुषेणार्थ्यमानत्वात् । संसारिणो हि दुःखेनो- द्विग्ना अत्यन्ताय तदुच्छेदमभिसन्दधाना गृहेभ्यः प्रव्रजन्तो दृश्यन्ते । ननु सुखमप्यात्मनो वैशेषिको गुणः । तस्योच्छेदादपुरुषार्थत्वमपि भवेत् । मैवम् । सुखमपि संसारिणो नानाविधानेकदुःखसङ्कलं नातिचिरमनुवर्तत इति महान्तस्तदपि दुःखपक्ष एव निक्षिपन्तो मोक्षायोत्तिष्ठन्ते । अतो नास्ति १२८ मीमांसाश्लोकवार्तिकं कााशकाटीकोपेतम् विषयवेदनोपरमे नरस्य चैतन्यम् । अत एवायमहरहस्सुखापे सन्मात्रतया- वतिष्ठते । न पुनः किञ्चिज्जानाति । तत्र चानुभवे स्वप्नपरिचितानामिवा- र्थानामुपरिष्टात् स्मरणं भवेत् । नचैतदस्ति । अतो नानवभासमानेषु विष- येषु बोद्धा प्रख्यायते । नच विषयवित्तावस्मत्प्रयोगसम्भेदः इदम्प्रयोग- सम्भेदादिति नास्मत्सम्भेदे विषयानवग्रहादात्मग्रहः । नापि विषयवित्तावा- त्मग्रहे अस्मत्प्रयोगसम्भेद इत्यसमञ्जसमस्मत्प्रयोगसम्भिन्नेति । अंत आह- ज्ञानस्येति । अयमभिप्रायः --- अस्मत्प्रयोगसम्भिन्नोऽस्ति बोधो न वा । यदि नास्ति, जितमनुत्तरा गुरवः । सतस्तु किमालम्बनमिति वक्तव्यं शरीरमि- न्द्रियाणि वा। न तावच्छरीरं, ज्ञातृगोचरत्वात् । अहं जानामीति ज्ञातारमहं- प्रत्ययोऽवलम्बते । नच शरीरं चेतयते भौतिकत्वाद् भूतानां चाचेतनत्वात् , कारणगुणपूर्वकत्वाच कार्यगुणानाम् । अत एव नेन्द्रियाणि ज्ञातृणि । नच ज्ञानं, प्रत्यभिज्ञानात् । अयं हि पूर्वेधुदृष्टमर्थमुत्तरेधुः प्रत्यभिजानानः पूर्वा- परसाधारणमात्मानमनुसन्दधाति अहमिदमदर्शमिति । तत्तु ज्ञानगोचरत्वे- ऽनुपपन्नम् । अन्यो हि तदा यः पूर्वेद्यदृष्टवान् , अन्यश्चायं योऽद्य पश्यति, क्षाणिकत्वाज् ज्ञानानाम् । अतः "बुद्धीन्द्रियशरीरेभ्यो भिन्नोऽहङ्कारगोचरः । संवित्सामर्थ्य सिद्धत्वान्न जहात्युक्तरूपताम् ॥" इति । तदिदमुक्तं ---ज्ञानस्यैव च कर्तरीति । ज्ञानकर्तुहीयमस्मत्प्रयोग- सम्भिन्ना संवित्तिः, न चान्यो ज्ञानस्य कर्तेत्युक्तम् । अतः संविद्वलादेवो- भयरूपतात्मनः सिध्यति "न त्वेवमात्मैवात्मानं ज्ञानं जानाति जातुचित् । तद्धीदं नीलमिति यत् सर्वदा परगोचरम् ॥" यत्तु न कार्यकरणसङ्घातातिरेकिणं प्रतिपद्यामहे इति । किमेवं देहाद्यालम्ब- नोऽहंप्रत्ययः । तत् तावत् प्रत्युक्तमेव । नचानालम्बनोऽयम् , अत्रत्य- सिद्धान्तात् । तदयमनालम्बनमात्मानमलभमानः स्वगोचरं ज्ञातारमाक- पति । स प्रतीतिबलसिद्धोभयरूपः पुरुषो न नोपपद्यते । देहेन्द्रियादि- सङ्कीर्णस्तु न विविच्योपलक्षयितुं शक्यते अयं नामासौ पुरुष इति । न चैतावता न गृहीतो भवति । नहि क्षीरोदकसंसर्गे विवेकेनागृहीते इति - औत्पत्तिकसूत्रे शून्यवादः । १२९ न गृहीतमुभयम् । एवमिहापि संमुग्धबुद्धः पुरुषः प्रत्याहारादिकं योग- मभ्यस्यद्भिर्नित्यनैमित्तिकमात्रानुष्ठायिभिरकुर्वद्भिनिषिद्धं भोगप्रक्षीणाशेषक- माशयैरयमस्मीति विविच्यापरोक्षीक्रियते । न त्वयं विषयवित्तावप्ययं ना- मेति विविच्यते । येऽपि विषयवेदनावसर एव नरो गृह्यते इत्यास्थिताः, तैरप्यस्य विवेको दर्शयितुमशक्य एव । अतो नायं दोषः विवेको नावग- म्यत इति । न त्वयं विषयवेदनावसरे ज्ञायते । नहि तदा तदतिरेकिणः कस्यचित् प्रतीतिरस्तीत्यनन्तरमेव वक्ष्यते न त्वत्रेत्यनेन । संविदेव ता- वत् तदा नावभासते, यदायत्तो भावानां भेदः प्रागेव संवेत्ता । यत्त्वेवं स्व- परवेद्ययोरनतिशय इति । तन्न । यस्य हि ज्ञानमुत्पन्नं, तस्य विषया भासन्ते इत्युक्तमेव । अतः कथमुत्पन्नज्ञानेन संविदितमन्योऽनुभवेत् तेन वा ज्ञातं तदन्यः । नहि बोडसंवेदनकृतः स्वपरवेद्ययोर्भेदः, येनैवमापद्येत । एता- वतैव ह्येकस्यासौ वेद्यः, नापरस्य, यत् तस्य ज्ञानमुत्पन्नम् । एवमपि भवेदेतद् यद्यसत्यां बोवृवित्तौ विषया न विदिता भवेयुः । तद्वित्तिरेव वा विषयवेदनं भवेत् । न त्वेवं, केवलविषयावग्रहात् । अन्यगोचरज्ञानस्या- न्यविषयत्वासम्भवात् । एवं चासत्यां विषयवित्तौ पुरुषो न प्रकाशत इ- त्यपि दुरुक्तम् । एवं ह्युपरतकरणग्रामस्य मोक्षो मरणमेव शब्दान्तरेणानु- ज्ञातो भवेत् । न खल्वपि ज्ञानात्मनः पुरुषस्य सदसत्त्वयोरस्ति विशेषः । तदयमपवर्गदशायां प्रकाशत एव । केन पुनरयं तदा प्रकाश्यते । न केनचित् । स्वप्रकाश एवेत्येके । नत्वेवं, स्वप्रकाशत्वनिषेधादविभागस्य । तदापि त्वयं धर्मधर्मित्वविभागाश्रयणेन प्रत्ययात्मना ग्राहको द्रव्यादि- रूपेण ग्राह्य इति वाच्यम् । किमस्ति तदा धर्मधर्मिभेदः । को दोषः । श्रुति- विरोधः । श्रूयते हि 'एकमद्वितीयमिति । न । व्यतिरिक्तग्राह्यनिषेधात् । अन्यथा ह्यात्मभेदोऽपि न सिध्येत् । नचासौ नेष्यते, मुक्तेतराविभागा- पत्तेः । अपिच अर्थावग्रहनिवृत्त्यर्था एवं विसंवादा इति तत्र तत्रोक्तम् । अतोऽपवर्गेऽपि ग्राह्यग्राहकाकार एवात्मा । श्रूयते च 'जानात्येवायं पुरुषो ज्ञातव्यं तु न वेदेति । 'नहि तदा ज्ञातुर्विपरिलोपो विद्यते । नतु विभक्तमस्त्यन्यद् यतो द्वितीयं जानीयादि'ति । तस्माज्जानातिपदप्रयो- गादवगच्छामः यदस्ति मोक्षेऽपि कर्मभावः पुरुषस्येति । जानातेरकर्मक- • स्याप्रयोगात् । इयांस्तु विशेषः यदयं भूतेन्द्रियवशो विषयोपरागात् तन्छ . १० १३० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । यामेदान् प्रतिपद्यमानोऽविभक्तज्ञानशक्तिरामासते । निजैव त्वस्य चिति- शक्तिः । सा असते विषयोपराग आत्मगोचरैवावतिष्ठते । कथमकरणिका. ज्ञानोत्पत्तिरिति चेद्, मैवम् । तदानीमपि मनसो भावात् । नित्यं हि तदात्म- वदुपेयते । आह च - "प्रत्याहारादिकं योगमभ्यस्यन् विहितक्रियः । मनःकरणकेनात्मा प्रत्यक्षेण प्रतीयते ॥" इति । नचैवं विषयवेदनप्रसङ्गः, मनसो बाहरस्वातन्त्र्यात् । विषयवि- तीनां च सुखदुःखहेतुत्वेन कर्मजन्यत्वादसति कर्मसंस्कारेऽनुपपत्तेः । आत्म- ज्ञानं च न कर्मजन्यमिति विगलितनिखिलकर्माशयस्यैव निष्पद्यते । केवल- ज्ञाननिराकरणेऽपि विषयवेदनान्येव प्रत्युक्तानि नात्मज्ञानम् । आह च "निजं यत्त्वात्मचैतन्यमानन्दोऽध्यक्ष्यते च यः । यच्च नित्यविभुत्यादि तेनात्मा नैव मोक्ष्यते ॥" इति । सुस्वापेऽपि त्वात्मसंविदस्त्येवेति केचित् । अत एव सुषुप्तप्रतिबुद्धः सुखमहमस्वाप्समित्यात्मानं प्रतिसन्धत्ते । अथवा तत्र कर्माशयानुवृत्तेस्तत्पर- तन्त्रं मनो न केवलमात्मानं प्रकाशयति, न विषयवित्तिविरहात् । अतो न विषयसंवेदन एवात्मसंवेदनम् । अपिचैवं मेयमातृगोचरायामेकस्यां सं- विदि भासमानयोः किंकृतः कर्मकर्तृभावः । एवं हि तद्विकर्मकं ज्ञानं भवेत् । यत्तूक्तं परसमवायिक्रियाफलभागिता कर्मतेति, तदयुक्तम् । यदेव हि ज्ञानोत्पत्तावाप्यते तत् प्राप्यं कर्म । तथाचात्मेति कर्थमस्याकर्म- त्वम् । अपिच केयं क्रिया, यत्समवायात् तत्फलभागितया आत्मनः कर्तृ- त्वम् । किंपुनस्तत् । उक्तम् आत्म(म)नोयोग इति । नन्वस्य मनस्यपि समवायात् तस्यापि कर्तृत्वप्रसङ्गः । तत्फलसम्बन्धश्चोभयोरप्यविशेषादा- पद्यते । तत्र चोक्तो मनश्चैतन्यप्रसङ्ग इति सिद्धं न विषयवित्तरेव त्रयसिद्धि- रिति । यच्चास्मिन् दर्शने दुःखोपरतिरेव मोक्ष इत्युक्तम् । तदप्ययुक्तम् , आनन्दश्रुतेः। श्रूयते हि विज्ञानमानन्दं ब्रह्म' 'आनन्दं ब्रह्मणो रूपम्' इति च । 'तदेतत् प्रेयः पुत्रादिति च । नच दुःखनिवृत्तिरेवानन्दः, अश्मादौ प्रसङ्गात् । स्यादेतत् । प्रत्यग्वृत्तिरुपलभ्यमाना दुःखाभावात्मना सुखम् । नचात्मा किञ्चित् प्रत्यग् जानाति अचेतनत्वादिति नासौ दुःखायते सुखा- यते वा। मैवम् । एवमपि देहिनो भिन्नावयवसंयोगी सुखदुःखसाधन १३१ औत्पत्तिकसूत्रे शून्यवादः । भवन्ती तत्र संवित्तियुज्येताप्यात्मकर्तृका ॥ ७० ॥ नत्वत्र करणज्ञानग्राहकाकारवेदनम् । ग्राह्यत्वं येन बुद्धेः स्यादभिन्नत्वेऽपि पूर्ववत् ॥७१॥ अंन्याकारापि संवित्तियद्यन्यविषयेष्यते । ज्ञानाकारापि संवित्तिः कस्मानार्थस्य कल्प्यते ॥ जन्मा युगपत् सुखदुःखभोगो न स्यात् । दुःखायमान एव ह्येकत्र भागे परत्र सुखायते । तद् दुःखनिवृत्तौ सुखेऽनुपपन्नम् । प्रदेशान्तरे दुःखामावः सुखमिति चेद्, न । स्वसंवेद्यत्वादालादावशेषस्य, प्रदेशान्तरे दुःखाभावे च सुखे नरकान्तरे दुःखामावान्नरकान्तरे सुखित्वप्रसङ्गः । तत्तावद् दुःखनिवृत्तिः सुखम् । नचास्यामानन्दवादो गौणः, प्रमाणाभावात् । नद्यानन्दश्रुत्यर्थे मुख्ये गृह्यमाणे किश्चिदनुपपन्नं, येन गौणतया व्याख्यायते । अतो विज्ञानमानन्दं ब्रह्मेति प्रतिजानीमहे । असञ्चतितस्त्वानन्दोऽप्यसत्कल्प एवेति सिद्धमन्तरणैव विषयवेदनमस्मत्प्रयोगसम्भिन्नायां संवित्तावात्मा प्रकाशत इति ।। ७०॥ यथा चास्मत्प्रयोगसम्भिन्नसंविसंवेद्य आत्मा द्विरूपो नैवं ज्ञानम् । नहीदं नीलमिति ज्ञाने करणानामिन्द्रियाणां ग्राहकस्यात्मनो ज्ञानस्य वा- कार उपलभ्यते, नीलमात्रप्रकाशादिति न पूर्ववदात्मवदभिन्नत्वेऽपि नील- ज्ञाने तबुद्धाह्यत्वम् । नीलमेव तु तया गृह्यते । सा तु ततो ज्ञातादव- गम्यत इत्युपपादितमेव, तदेतदाह -- नस्विति । दृष्टान्तार्थ करणग्राहकयो- रुपादानम् । यथेदं नीलमित्यत्र करणमिन्द्रियं ग्राहकः पुरुषो न ज्ञा- यते, एवं ज्ञानमपि । कर्मैव तु केवलमत्रावगम्यते । नच कर्तृकरणक्रियमिति ॥७१ ॥ स्यादेतत् । ज्ञानसंवित्तिरवेयमिदं नीलमिति । पररूपनिरूपणाकारत्वं तस्या वासननिबन्धनम् । अनादिर्हि वासना संसारिणां, तद्वशेन स्वात्मा- नमपि परमिव निरूपयति परेषामिव परं देहमात्मतया अहमिति ! अत आह--अन्याकारेति । अयमभिप्रायः - संविनिष्ठा हि नो वस्तुव्यव- १३२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । अभिन्नत्वं यदा चेष्टं ग्राह्यग्राहकवस्तुनोः। तदान्यतरसंवित्तौ याकारं ग्रहणं भवेत् ॥ ७३ ॥ यदा तु ग्राह्यमाकारं नीलादि प्रतिपद्यते । न तदा ग्राहकाकारा संवित्तिदृश्यते क्वचित् ॥७४॥ तस्मादभिन्नता चेत् स्यात् तस्याप्यनुभवो भवेत् । ग्राह्यो वा नानुभूयेत ग्राहकाननुभूतिवत् ॥ ७५ ॥ ग्राहकग्रहणेऽप्येवं ग्राह्यसंवेदनं भवेत् । शुद्धमेव निराकारं ग्राहकं संविदस्ति हि ॥७६ ॥ ग्राह्यादभिन्नतायां च सा संवित्तिन युज्यते । ग्राहको वा न गृह्येत तमाशाननुभूतिवत्॥७७ ॥ स्थितयः । संविञ्चदमिति बहिर्विषयप्रकाशात्मा जायमाना दृश्यते । यदि त्वियमवरूपाप्यन्यविषया ज्ञानविषयेष्यते, एवं तर्हि ज्ञानाकारा संवित्ति- रंथविषयास्माभिः कस्मान्न कल्प्यते । (नचासति बाधके परगोचरत्वं भ्रान्तिरिति युज्यते कल्पयितुम् । वासना च प्राचीनज्ञानजन्मात्माश्रयः संस्कारोऽभिधीयते । नासावस्ति नास्तिकानां, नैरात्म्यसिद्धान्तात् । नापि ज्ञानमाधारो वासनायाः, क्षणिकत्वात् । नापि समनन्तरप्रत्ययो वासना, तस्य तथात्वेनाप्रसिद्धः। असावपि स्वगोचरो न परं परगोचरतया दर्शयितुं शक्रोति । अतद्रूपत्वात् ताद्रूप्यनिष्पत्त्ययोगात् । इतरथानुभवरूपतापि तस्य न स्यात् । अनुभवाकारतां धुत्तरस्य समनन्तरप्रत्ययो वितनुते । तत् कस्य हेतोः । स्वरूपानुरूपकार्यारम्भस्थितेः । अत एव नात्मगोचरादिदमिति परसंवेदनो- त्पत्त्युपपत्तिः । परत्राहम्मानकल्पना तु भ्रान्तिः, ज्ञातृगोचरत्वादहङ्कारस्ये- त्युक्तमेव । न विह बाह्यालम्बनत्वे ज्ञानस्य किञ्चिदनुपपन्नं येनात्मगोचर- तावश्यं कल्प्यत इति सिद्धं बाह्यालम्बनमेव ज्ञानमिति) ॥७७ ।।
औत्पत्तिकसूत्रे शून्यवादः । १३३ यथा च ग्राह्यसंवित्तौ ग्राहकग्रहणेऽपि वा। ग्राह्यग्राहकसंवित्तिर्नास्त्येव स्याद् द्वयोरपि ॥७८ ॥ स बहिर्देशसम्बद्ध इत्यनेन निरूप्यते । ग्राह्याकारस्य संवित्तिाहकानुभवाहते ॥ ७९ ॥ परं प्रति न साध्यत्वादर्थस्थाकारसिद्धये । बहिर्देशेन सम्बन्धो न हेतुत्वाय कल्पते ॥ ८० ॥ तस्माद् बहिरितीहेदं निष्कृष्टं ग्राहकांशतः। संवेद्यं नीलपीतादि प्रत्यक्षादेरुदाहृतम् ॥ ८१ ॥ एवं तावदन्यतराग्रहणेऽन्यतरो न गृह्यत इत्युक्तम् । तद्वदेव द्वयो- रप्यग्रहणमिति समाहृत्य दर्शयति कथा चेति । अस्यार्थः-यथा ग्राह्यग्रहणे ग्राहको न गृह्यते ग्राहकग्रहणे च ग्राह्यः । एवं च द्वयोरप्यग्रहणं भवेत् । नतु ग्राहकमात्रस्य वा ग्राह्यमात्रस्य वा । पूर्वं त्वन्यतराग्रहणदृष्टा- न्तेनेतरस्याग्रहणमापादितम् । इदानीं समाहृत्योभयोरुच्यत इति प्रयोगभेद इति ॥ ७८ ॥ एतच्च ग्राह्यमात्रस्य ग्रहणं ग्राहकरहितं ‘स बहिर्देशसम्बद्धः' इत्या. दिना भाष्येणाक्तमित्याह स इति । अयं च भाप्यार्थः स एवं केवलो बाह्यार्थः प्रत्यक्षमवगम्यते । न पुनर्ग्राहक इति ॥ ७९ ॥ आञ्जस्येन त्वाकारो नीलादिरित्येतत्सिद्धये बहिर्देशसम्बन्धो हेतु- तया लक्ष्यते, तन्नानुमन्यामह इत्याह-परमिति । नहि परस्य बहिर्देशो नाम कश्चित् सिद्धः योऽर्थसाकारत्वे हेतुतयोपन्यस्येत । सर्वस्य ज्ञानाका- रत्वेनाभ्युपगमात् । अतो बहिर्देशस्तत्सम्बन्धश्च बौद्धं प्रति साध्य एव, न हेतुरिति ॥ ८०॥ तस्माद् 'यथोक्त एव भाष्यस्यार्थ इत्याह तस्मादिति । अस्यार्थः बहिरित्यादी भाष्ये इदंशब्देनेदं नीलमिति विकल्पस्थेन निष्कृष्टं ग्राहकांसात् प्रत्यक्षादेः प्रमाणगणस्य संवेद्यमुदाहृतं नीलादि- मात्रम् । एतदुक्तं भवति । न स्वगोचरं ज्ञानं बहिःप्रकाशाद् , इदमिति -
४
१३४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् ।
न पूर्व ज्ञायते बुद्धिरित्यत्रैतद् वदिष्यते ।
ग्राहकस्यैव संवित्तिर्लक्ष्यते ग्रहणे क्वचित् ॥ ८२ ॥
न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति हि ।
स्मरन्ति ग्राहकोत्पादं ग्राह्यरूपविवर्जितम् ॥ ८३ ॥
तस्मादभिन्नतायां च ग्राह्येऽपि स्मरणं भवेत् ।
ग्राहकस्मृतिनिर्भासात् तत्राप्येषैव गृह्यते ॥ ८४ ॥
परनिरूपणात् । स्वगोचरे हि नेदमिति प्रकाशो भवेत् , किन्त्वहमिति ।
तदिह बहिर्देशसम्बन्धोपन्यासेन परगोचरतैव संवितरुच्यत इति ॥८१॥
तथा केवलग्राहकसंवित्तिरपि सत्यम् पूर्व बुद्धिरुत्पद्यते नतु पूर्व ज्ञा-
यते इत्यत्रोक्तेत्याह नेति । अत्र हि पूर्वमुत्पन्नापि बुद्धिर्न प्रागवग-
म्यते, किन्तु पश्चादिति वदता ग्राह्याकारविनिर्मुक्तस्यैव ग्राहकस्य संवित्ति-
रुक्तेति ॥ ८२ ॥
प्राग बुद्धरग्रहणसिद्धयर्थं भाष्यकारेणोक्तं भवति हि कदाचिदेतद्
यज्ज्ञातोऽर्थः सन्नज्ञात इत्युच्यते' इति । तस्यार्थः-ज्ञातपूर्वोऽर्थः कदा-
चिदरमर्यमाणोऽज्ञातवदभिधीयते । ज्ञानमात्रं तु तगोचरं स्मर्यते । एवं हि
वक्तारो भवन्ति- अस्याः श्रुतेरों मया गुरुणा व्याख्यायमानो ज्ञातः,
इदानीं प्रस्मृतवानस्मि । ज्ञानं त्वेतद्वोचरं पूर्व जातं स्मरामीति । यथा चास्या
बुद्धेरग्रहणे हेतुत्वं तत्फलाभिप्रायेण परस्ताद् वक्ष्यति ‘फलत्वाद् ग्रन्थव-
र्णने' इत्यत्र । तस्मादपि केवलं ग्राहकस्मरणाद् ग्राह्याकारविविक्तग्राहकबोधः
सेत्स्यतीत्याह नेति ॥ ८३॥
अभेदे तु ग्राह्यग्राहकयोहकवद् ग्राह्यस्यापि स्मरणं भवेदित्याह:
तस्मादिति । तस्माद् ग्राहकादित्यर्थः । यतस्तु ग्राहकमात्रस्यैव स्मृत्या-
त्मको निर्भासो भवति न ग्राह्यस्य, अतोऽवगच्छामः यदनुभवकालेऽप्येषा
बुद्धिरेव केवला गृहीता कथमन्यथा केवला स्मर्यंत । तदेतदाह
ग्राह-
केति । ग्राहकमात्रस्य स्मृतिनिर्भासात् कारणात् तत्र ग्राहकग्रहणकाले के
वला बुद्धिगुह्यते इत्यर्थः ॥ ८४ ॥
१३५ औत्पत्तिकसूत्रे शून्यवादः । तदत्यन्ताविनाभावान्नैकाकारं हि जायते । अन्वयव्यतिरेकाभ्यां सिद्धैवं भिन्नता तयोः॥८५॥ ग्राह्यांशो ग्राहकांशेन गृह्यते ग्राहकः पुनः । गृह्यतेति न वक्तव्यं ग्राहकान्तरवर्जनात् ॥ ८६ ॥ ग्राह्यांशेनाप्यशक्तत्वान्न तस्य ग्रहणं भवेत् । ग्राहकत्वेन चैतस्य हीयेतैव द्विरूपता ॥ ८७॥ ग्राहके गृह्यमाणे च ग्राह्यमात्रप्रसञ्जनम् । न स्यादाकार एकश्चेदितरस्यापि नास्तिता ॥८॥ - कस्मादेवमत आह तदिति । तत् स्मरणम् । अत्यन्ताविना- भावाद् ग्राह्यग्राहकयोरेकाकारं न जायत इत्यर्थः । तदेवमन्यतरांशान्वये- ऽन्यतरविवेकात् सिद्धो ग्राह्यग्राहकयोर्मेद इत्याह अन्वयेति ॥८५॥ अत्र चोदयति-ग्राह्येति । अयमर्थः- यदेतद् भवता ग्राह्यग्राह- कयोरभेदमभ्युपेत्यान्यतरग्रहणेऽन्यतरग्रहणमापाद्यते , तदयुक्तम् । नहि यद् यतो न भिद्यते तदवश्यं तद्ग्रहणे गृह्यते । नहि शब्दादभिन्ना नित्यानित्या- दयो धर्माः शब्दग्रहणे गृह्यन्ते । अभेदेऽपितु यस्यांशस्य यदा योग्यता स तदा गृह्यते नेतर इति किमनुपपन्नम् । ग्राह्यांशश्च ग्राहकांशसद्भावाद् ग्रहणयोग्यः, न ग्राहकांशः, तदतिरिक्तग्राहकान्तराभावात् । अतो न ग्राह्यग्रहणे ग्राहकग्रहणप्रसक्तिरिति ॥८६॥ स्यादेतत् । ग्राह्यांश एवास्य ग्राहको भविष्यतीति । तन्न, कर्मणः कर्तृभावानुपपत्तेरित्यभिप्रायेणाह - ग्राह्येति । अपिच ग्राह्यग्राहकभाव- भेकस्य ज्ञानस्याभ्युपेत्य भवतोभयग्रहणमापाद्यते । यदि च ग्राह्यांशोऽपि ग्राहको भवेद् द्वैरूप्यमेव हीयेत । ग्राहकैकस्वभावत्वापत्तेरित्याह केति ॥ ८७॥ अथवा ग्राह्यांशस्तावद् ग्राह्य एव, यदि च ग्राहको गृह्येत, ततो प्राबैकात्मत्वं भवेदित्याह - ग्राहक इति । अत्यल्पं चेदमस्माभिरुच्यते उभयग्रहणे एकरूपतेति । सापि तु न सिध्यत्येव । ग्राह्याभावे ग्राहका- •, भावात् तदमावे ग्राह्याभावादित्याह- न स्यादिति ॥८८॥ ग्राह- १३६ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । उद्भवाभिभवाभ्यां च ग्राह्याग्राह्यत्वदर्शनम् । यथा दीपप्रभादीनां रूपमात्रोपलम्भनम् ॥ ८९ ॥ दिवा चाग्नेः समीपस्थैः स्पर्श एवोपलभ्यते । गन्धवद्रव्यवृत्तौ च गन्धस्यैवोपलम्भनम् ॥९॥ .. एवं तावद् ग्राहकान्तरवर्जनाद् ग्राहको न गृह्यत इत्युक्तम् । अपि चोद्भवाभिभवौ भावानां ग्रहणाग्रहणकारणतया सिद्धौ । अतो य. एवांशो यदोद्भूतो भवति, तदा स एव गृह्यत इति न नोपपन्नमित्याह उद्भ- वेति । अत्रैव दृष्टान्तमाह यथेति !! ८९ ॥ रात्रौ हि दीपप्रभादीनां रूपमात्रमुपलभ्यते, न स्पशैः । अभिभूतत्वा- दित्याह --दिवेति । स्पर्शरूपयोश्च नक्तन्दिवमभिभवे चन्द्रमसः शीत- स्पर्शः प्रबलं च तारणं तेजः कारणमिति । एवं तावदभिभवे कारणान्तर- सन्निधानादभिभूतस्याग्रहणमुक्तम् । इदानीं स्वयमपि सूक्ष्मत्वादभिभूतं न गृह्यते इत्युदाहरणेन दर्शयति -- गन्धवदिति । यदा खलु वायुना प्रेर्य- माणाः सूक्ष्मा द्रव्यभागा घ्राणेन्द्रियगोचरा भवन्ति, तदा तेषु वर्तमानेष्वपि गन्धमात्रमेवोपलभ्यते न द्रव्यमभिभूतत्वात् । सा पुनरियं द्रव्यसङ्क्रान्ति- रयुक्तेति मन्यन्ते । यदि खलु तिलादिषु चम्पकादिद्रव्यमेव सङ्कामेद् एवं मृद्यमानेषु तेषु चम्पकगन्धो नश्येत् पुष्पस्थ इव । चम्पकादिद्रव्येषु मृद्य- मानेषु तद्गन्धस्य नाशो दृष्टः । एवं तिलस्थकुसुमावयवमर्दनेऽपि भवेत् । यः खलु स्थूलेष्वेव कुसुमेषु मृद्यमानेषु नश्यति, स कथं सूक्ष्मावयवस्थं न नक्ष्यतीत्युत्प्रेक्ष्यते । अतश्चम्पकादिसन्निधानाद् गन्धान्तरमेव तिलादिषु जायते इति मन्यते । एवमप्स्वग्निसंयोगाद् गुणान्तरागमो वक्तव्यः। नाग्नि- सङ्क्रान्तिरनुपलम्भनात् । स्पर्शमात्रमेव हि तत्राग्नेर्वयमुपलभामहे, नाग्निम् । अपिचायं तपस्वी द्रव्यसङ्क्रान्तिमातिष्ठमानः सुराधाणे पतेत्. । सुरात्रस- रेणूनां घ्राणोदरेण वक्त्रसञ्चारात् । अत आत्मवधायैवेयं द्रव्यसङ्क्रान्तिराश्रिता भवेत् । अत्राभिधीयते न तावत् स्वाश्रयपरित्यागेनाश्रयान्तरं गन्धो गच्छतीति सम्भावयामः । गुणानामस्वतन्त्रत्वात् । आश्रयपारतन्यमेव हि तल्लक्षणम् । गुणान्तरमपि न तावत् सन्निहितेष्वाकाशानिलादिषु कुसुमसम्प.
औत्पत्तिकसूत्रे शून्यवादः । १३७ न गुणान्तरसंवित्तिर्यथात्राभिभवात् तथा। नाकारान्तरसंवित्ति ह्यग्राहकबुद्धिषु ॥९१॥ ग्राह्यादनन्यभूतोऽपि कश्चिन्नैवोपलभ्यते । नित्यानित्यादयो धर्माः शब्दादिग्रहणे यथा ॥ ९२ ।। अभेदं वाभ्युपेत्यायं प्रसङ्गो यदि गीयते । कोज्जायते इति वाच्यम् । तेषु गन्धस्यात्यन्ताभावात् । नापि नासिकाया- मेव गन्धान्तरं जायत इति वक्तव्यम् । अतिदूरत्वेन कुसुमासंसर्गात् । अतः कुसुमावयवा एव दृष्टतद्गन्धसम्बन्धा वायुना प्रेर्यमाणा घ्राणोदरं यावदागता गृपन्त इति प्रमाणवती कल्पना । योऽपि मर्दने गन्धनाश उक्तः, सोऽप्य. युक्तः । सूक्ष्मा हि तत्र कुसुमावयवाः सक्रान्ताः । न ते मृद्यन्ते । अतो गन्धो न नश्यतीत्युक्तम् । योऽपि गन्धाघ्राणे सुरापानदोषोऽभिहितः, नासौ । पानं हि सुराया निषिद्धं, नाघ्राणम् । अल्पस्तु तदाघ्राणे दोषः नच सुरां जिघ्रन् पिबतीत्युच्यते । अतो न सूक्ष्मावयवानां नासिकासनि- धानमात्रात् सुरापानापत्तिरिति सिद्धं गन्धवदेव द्रव्यं तत्र वर्तते सूक्ष्म- त्वात् तु नोपलभ्यत इति ॥ ९० ॥ एवं दृष्टान्तेष्वभिभूतस्याग्रहणमुक्त्वा प्रकृते योजयति-नेति । यथा दीपप्रभादिषु गुणान्तरसंवित्तिर्नास्ति, यथा च गन्धवद्व्यवृत्तौ द्र- व्यस्य, एवं ग्राह्यांशबुद्धौ ग्राहकांशबुद्धौ वाकारान्तरसंवित्तिर्न भविष्यतीति ॥ ९१ ॥ इदं चापरं ग्राह्यादभिन्नमेव न गृात इत्याह -ग्राह्यादिति । मस्ति कश्चिद् धर्मभेदः यो ग्राह्यात् शन्दादभित्रोऽपि नोपलभ्यते नित्यत्वा. दय इव शन्दग्रहण इति ॥ ९२ ॥ इदं तु चिन्तनीयम-कस्येदं प्रत्यवस्थानं 'पायांशो ग्राहकांशेने- त्यादि । न वावद् बौद्धस्य । स विभक्तस्यैव बुद्धपात्मनो ग्राह्यग्राहक- संवितिमेदमिनस्य ग्रहणमातिष्ठते । यदाह "अविभक्तोऽपि बुद्धधात्मा विपर्यासितदर्शनैः। प्राधग्राहकसंवित्तिमेदवानिह लक्ष्यते ॥" T १३८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । एकस्मिन् गृह्यमाणेऽशे न गृह्यतापरः कथम् ॥९३॥ तस्मात् यत् स्याउदा योग्यं तस्यैव ग्रहणं तदा । द्वयं च त्वदुपन्यस्तं शक्त्यभावान्न गृह्यते ॥ ९४ ॥ कुतोऽयमेकवस्तुत्वे योग्यायोग्यत्वसम्भवः । उद्भवाभिभवात्मत्वं कथं चैकस्य कल्पितम् ॥१५॥ इति । अतत्याकारस्यैव ज्ञानस्यानुभवात् कथमन्यतरांशाग्रहणेन प्रत्यव- तिष्ठते । भ्रान्तिकल्पितं तु ग्राह्यादिविभागं बौद्धा मन्यन्ते, न त्वगतिमान- मेव तेषाम् । अतः कस्येदं प्रत्यवस्थानमिति । सत्यम् । नात्र बौद्धश्चोद- यिता । पार्श्वस्थवचनमिदम् । एवं हि कश्चिदत्र पार्श्वस्थो वदति -कि- मिदं ग्रामग्राहकमावमभ्युपेत्यैव भवता द्विरूपग्रहणमापाद्यते । नहि ग्राह- कस्य ग्राहकान्तरं विद्यते तद्ग्रहणे च रूप्यहानिः तच्चाभ्युपेतमेवेति कथं तद्विपरीताभिधानं मीमांसकस्य । दृष्टा चाभेदेऽप्युद्भवाभिभवादिकृता ग्रहणा- ग्रहणव्यवस्थेति । स एवेदानीं बोद्धाभिप्रायेणाह --- अभेदमिति । ग्राह्य- ग्राहकयोहि पारमार्थिको भेदो नेष्यत एव । एकरूपस्यैव तु बुद्ध्यात्मन- स्तथा प्रकाशाभ्युपगमात् । अतो योऽयं बुद्धयात्मनः प्रकाशः स एव तयोरिति किमिति तद्हणे न गृहीतं भवति । अपिच, अभेदमभ्युपेत्यास्मान् प्रति प्रसको गीयते कथमभेदे ग्राघग्राहकव्यवस्थेति । तच्चायुक्तम् । कथं यमिन्नस्य तत्त्वस्य किश्चिदगृहीतं नाम सम्भवति । यदि त्वभेदो नाभ्युपेयते, नायं प्रसङ्गो गातुं शक्यते । भिन्नत्वादेवाग्रहणोपपत्तेरिति ॥ ९३ ॥ पूर्वपरिचोदनामिदानीमुपसंहरति --- तस्मादिति । यद्धि ग्रहण- योग्यं तद् गृह्यते यस्य च ग्राहकसद्भाव उद्भवो वा तद् ग्रहणयोग्यम् । अतः पूर्वोपन्यस्तस्य ग्राह्यग्राहकात्मनो द्वयस्य किञ्चिदेव ग्रहीतुं शक्यं नेतरदिति ग्रहणशक्त्यभावान्नोभयं चोदनीयमिति ॥ ९४ ॥ अत्र परिहारमाह ----कुत इति । अयमभिप्रायः --न तावद्धान्ति- कल्पितो ग्राहकादिविभागः, बाधविरहात् । तथापिवा भ्रान्तित्वे संवि- दूपेऽपि तत्प्रसङ्गादभावात्मतापत्तिः । तदयं वास्तवो ग्राह्यादिविभागो नैकस्मिन्नद्वितीये ज्ञानात्मनि सम्भवतीति प्रथममुक्तं 'नैतदस्ती'त्यादिना ।
. भौत्पत्तिकसूत्रे शून्यवादः। १३९ एकांशाभिभवे च स्यादितराभिभवोऽपि ते । तथा तस्याभिभूतत्वाद् ग्राह्यत्वं नच युज्यते॥१६॥ अयोग्यता विकल्प्यैवं दृष्टान्ता येऽत्र कीर्तिताः । रूपादिभेदात् तत्र स्यादुद्भवाभिभवायपि ॥ ९७ ॥ यदाप्यकान्ततो भेदो रूपादेर्न परस्परम् । तदापि द्रव्यरूपस्य परिणामस्तथा तथा ॥ ९८ ॥ पुनश्च 'अभिन्नत्वं यदा चेष्टमि'त्यादिना एकस्यैव द्वैरुप्यमङ्गीकृत्योभय- ग्रहणप्रसक्तिरापादिता । तत्र नैष परिहारो घटते अयोग्यत्वादभिभूतत्वाद- न्यन्न गृह्यते इति । न कस्मिन् ज्ञानात्मनि योग्यायोग्यत्वविभाग उद्भवा- भिभवात्मत्वं वा सम्भवति । अतोऽवश्यमभिन्नत्व इष्टेऽन्यतरसंवित्तौ द्वया- कारग्रहणेन भवितव्यमिति ।। ९५ ॥ किं पुनरेकस्योद्भवाभिभवात्मत्वं न सम्भवतीत्यत आह-एकेति । एकं हि ग्राह्यग्राहकाभिधानं तत्त्वम् । तत्र यदि ग्राहकांशोऽभिभूतः कथं तद- भिन्नो ग्राह्यांशो नाभिभूत इति शक्यते वक्तुं, विरुद्धधर्माध्यासेन भेदापत्ते- रिति । एवं चोभयाभिभवे ग्राह्यांशस्यापि ग्राह्यत्वं न स्यादिति न किश्चित् तत्त्वं सम्भवेदित्याह -- तथेति ॥ ९६ ।। एषमयोग्यतापि विकल्पनीया किमुभयमयोग्यमेकं वा । यधुभयं न किविद् गृह्यत इति शून्यतैवापद्येत । यदि त्वेकमयोग्यमितरन्नेत्युच्यते तदे- कत्राद्वितीये नोपपन्नमित्याह -- अयोग्यतेति । ये पुनरत्र दृष्टान्ता उक्ताः प्रदीपप्रभादिषु रूपादयः, तत्रोद्भवाभिभवाभिधानं युज्यते । रूपादीनां परस्परभेदेन तत्रोद्भवाभिभवोपपत्तेः । भिन्नं हि स्पर्शादूपं, तद्रात्रौ रूपोद्भवे- ऽभिभूतस्पर्शी न गृह्यत इति किमनुपपन्नम् । तदेतदाह- दृष्टान्ता इति । आदिशन्दाद् योग्यायोग्यभेदोऽपीति । स्वरूपभेदानुविधाय्युद्भवाभिभवादि- भेदोऽपीत्यर्थः ॥ ९७॥ ननु नास्ति रूपादीनां पारमार्थिको भेदो महान् खल्वयं क्लेशः यद् द्रव्यादेव तेषां भदोऽभिधीयते । परस्परभेदास्तु क्लेशतरेणोपपायन्ते । अत एक- मेव द्रव्यादिरूपं ग्राहकभेदाद् रूपादिभेदभिन्नमाभासते मुखमिवादर्शभेदा- १४० मीमांसासोकवार्तिकं काशिकाटीकोपेतम् । अभिनवेऽपि न ग्राममिति यच्चाब्रवीद् भवान् । कृतकत्वादिधर्माणां धीभेदेऽनन्यता कथम् ॥ ९९ ॥ नान्यत् प्रत्ययादस्ति भिन्नाद् ग्राह्यस्य भेदकम् । नचेयत्तैव भेदस्य देशतो मूर्तितोऽपि वा ॥ १० ॥ दिति मन्यन्ते । अतस्तत्राप्यभेद एवोद्भवादिव्यवस्था दृष्टेति न कश्चिद् विशेषः । अत आह-यदापीति । अयमभिप्रायः - यदि तावदस्म- सिद्धान्तो रूपादावाश्रीयते, ततस्ते द्रव्यात् परस्परतश्च भिडन्त एव । अथ मतान्तरेण, तथापि न तावदेकस्योद्भवाभिभवावपि सिध्यतः । अतोऽस्म- न्मतेऽपि हि यथैकमेव मृद्रूपं घटशरावादिपरिणामभेदभिन्नमेवमेकमेव द्रव्य- रूपं रूपादिभिः परिणामभेदैर्मियत इत्याश्रयणीयम् । यत्तु एकस्यैव द्रव्य- रूपस्य ग्राहकमेदाद् भेद इति, तदतिस्थवीयः । युक्तं हि मुखेषु प्रत्यभि- ज्ञानादौपाधिकमेदाश्रयणमादर्शभेदाश्रयणेन । न विह तथेति वरं परि- णामवाद एव । तत्र च नैकस्योद्भवादिव्यवस्था लोके दृश्यते । यस्त्वयमा- कस्मिको रूपस्य स्पर्शात्मना परिणामः पुनस्तस्यैव रूपात्मना, स निर्नि- मित्तो न वक्तुमुचितः। एकस्यैव च द्रव्यस्यैकं रूपं दिवा गुणान्तरोद्भवेना- भिमूतं यद् नक्तं पुनर्बुध्यते, तन्नोपपन्नम् । परिणामे नहि दध्यात्मना परि- णतं क्षीरं पुनः क्षीरात्मना परिणतं दृश्यते । अतः स्वभावादेव द्रव्यात् परस्परं च रूपादयो मिचन्ते इत्येतदेव साम्प्रतम् । यथा चासत्यपि देशा- दिभेदे भेदः सिध्यति तथानन्तरमेव वक्ष्यति । तदुपेक्ष्यैव तावत् परि- णामवादमभिदध्महे नैवमप्येकस्योद्भवाभिभवाविति ॥ ९८ ।। यदपीदमपरमुक्तम् ग्राह्यादभिन्नमपि किञ्चिन्नानुभूयते शब्दादौ नि- त्यत्वादीति, तदनुभाष्य दूषयति-अभिनेति । यथा हि बुद्धिमेद- निषन्धनो रूपादीनां भेदः, एवं कृतकत्वादिधर्माणां शब्दाद् धर्मान्तरेभ्यब धीभेदकृतं भेदमभिदधाना न दण्डेन वारयितुं शक्या इति ॥ ९९ ॥ किं पुनरेषां भेदे कारणमत आह- नहीति । द्रव्यगुणकर्मा- ण्येव तावद् भिवन्त इति किमत्र कारणमन्यदतः प्रत्ययभेदात् । स चाय- मविशिष्टः कृतकत्वादिधर्मभेदेऽसीति तत्कारणकस्तेषां भेद इति । ननु .
औत्पत्तिकसूत्रे शून्यवादः ।
१११
कारकाणां हि सम्बन्धः कार्यैः कृतकतोच्यते ।
विभागोऽवयवानां च भवेत् कचिदनित्यता॥१०१॥
बुद्धयादेरात्मरूपादिस्थानं नाशित्वमुच्यते ।
नित्यत्वं सर्वदा सत्ता वस्तुत्वं सैव कीर्त्यते॥१०२॥
प्रमाणज्ञानसम्बन्धः प्रमेयज्ञयतोच्यते ।
सर्वत्र चात्र भिन्नत्वमस्ति केनचिदात्मना ॥ १०३ ॥
नामीषां देशभेदो वा मूर्तिभेदो वा दृश्यते । अतः कथं ते भिन्नाः, अत
आह-नचेति । न नः पारिभाषिको भावानां भेदः । संविदेकशरणा
हि वयम् । सा च भिन्ना मेदमभिन्ना चाभेदं व्यवस्थापयति । न तु देशतो
मूर्तितो वा भेद इति इयत्तैव परिभाष्यत इति ।। १०० ॥
कीदृशी पुनरियं कृतकता, या बुद्धिभेदभिन्नावगम्यते अत आह-
कारकाणामिति । योऽयं कार्यद्रव्याणां घटादीनां कारकैः कुलालादिभिः
सम्बन्धः, सा कृतकता । 'कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्या-
मिति स्मृतेः । सेयमीदृशी कृतकता कथं शब्दादभिन्नेत्युच्यते । अन्यो हि
तदा शब्दो गकाराद्याकारः । अन्या चेयं कृतकता तस्य तत्कारकैः स-
म्बन्ध इति । अनित्यता तु सावयवानां घटादीनां तावदवयवविभागात्मिके-
त्याह-विभाग
विभाग इति ॥
॥ १०१॥
निरवयवानां तु बुद्धयादीनामवयवविश्लेषात्मकानित्यत्वासम्भवाद्
योऽयमात्मनोऽपरिणामरूपेणावस्थानं तन्नाशित्वमित्याह-बुद्धीति । ना-
शिवमनित्यतेति नित्यतायाः स्वरूपं दर्शयति-नित्यत्वमिति । वस्तुत्वस्य
सत्तातः केचिद् भेदं मन्यन्ते, तत् तु नेष्यत इत्याह - वस्तुत्वमिति ।
सत्तैव वस्तुत्वं नापरं किचिदित्याकृतिग्रन्थे वक्ष्यत इति ॥ १०२ ॥
प्रमेयताज्ञेयते अपि प्रमाणज्ञानसम्बन्धात्मिक शब्दाद् भिन्ने एवेत्या-
ह-प्रमाणेति । ज्ञानत्वं प्रमाणेतरज्ञानसाधारणमिति भेदेन ज्ञानसम्ब-
न्धप्रभाविता ज्ञेयतोक्तेति । सर्वत्र चाचासत्यपि देशादिभेदावसाये केनापि
• स्वसंवेधेनालना मेदोऽवसीयत इत्याह-सर्वत्रेति ॥ १०३ ॥
१४२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । तस्माद् यथैव रूपादेर्देशभेदादिभिर्विना। बुद्धिभेदेन भेदोऽस्ति तथैवात्र प्रतीयताम् ॥ १०४॥ अत्यन्तभिन्नतास्माभि व कस्यचिदिष्यते । सर्व हि वस्तुरूपेण भियते न परस्परम् ॥ १०५॥ सर्वं च कृतकत्वादि क्रियाहेत्वाद्यपेक्षया । गृह्यते तदसंवित्तावभेदेऽपि न गृह्यते ॥१०६ ॥ ज्ञाने नैवंविधो भेदो नापेक्षान्यत्र विद्यते । परस्परेण चापेक्षा स्याच्चेत् सन्निहितश्च सः॥१०७॥ अतो यथैवास्मन्मते बुद्धिभेदमात्रप्रभावितो रूपादीनां भेद इष्यते असत्यपि देशादिभेदे, तथैवैतेष्वपि शब्दादिधर्मभेदेषु भेदोऽस्तीत्युपसं- हरति - तस्मादिति ॥ १०४ ॥ नन्वेवमपि तावदत्यन्तभेदो नैषामिष्यते, कथञ्चिद् भेदात् । अतः सिद्धमभिन्नस्योद्भवादय इति । न सिद्धम् । अत्यन्तभिन्नता हि नास्माभिः कस्यचिदिष्यते, सर्वस्य सदायात्मनाभेदात् । अस्ति तु केनापि रूपेण भेद इति तदाश्रयणेनैव विरुद्धधर्मसम्बन्धः समाधीयते । नचैतद् बौद्धसिद्धान्ते ज्ञानस्य सम्भवतीत्यभिप्रायेणाह - अत्यन्तेति ॥१०५॥ किंपुनः कारणमभिन्नस्यापि शब्दात् कृतकत्वादेरग्रहणमिति । भेद- स्यापि विद्यमानत्वादितिचेद्, हन्तैवमभेदोऽपि वास्तव इति किन्न शब्द- ग्रहणे गृह्यते, अत आह-सर्व चेति । यदेतत् कृतकत्वादिधर्मजातमुप- न्यस्तं तत् सत्यपि शब्दाभेदे क्रियाहेत्वायपेक्षया गृपते । नहि वस्त्वस्ती. त्येव ग्रहणं भवति । अपितु ग्रहणेतिकर्तव्यतासापेक्षम् । कृतकत्वस्य च क्रिया कुलालादिव्यापारः। तद्धेतुश्च कुलालादिः। जिघृक्षा च ग्रहणकारणम्। अतस्तदसंवित्तावभेदेऽपि शब्दान्न ग्रहणं कृतकत्वादीनाम् । अत्यन्ताभेदे तु ग्रहणादिव्यवस्था न सिध्येत् । नचासावस्माभिरिष्यत इति ॥ १०६ ॥ नचायं धर्मधर्मिकृतो भेदो ज्ञाने सम्भवति । अद्वितीयत्वात् तस्य । नापि क्रियाहेत्वादितुल्यमपेक्षणीयान्तरमस्ति यत्कृता ग्रहणाग्रहणव्यवस्था . .
-- भौत्पत्तिकसूत्रे शून्यवादः । १४३ ननु ग्राहकमित्येवं ग्राह्यमित्यपि वा मतिः । नीलादिग्रहणे नास्तीत्यपेक्षा कथमुच्यते ॥ १०८ ॥ मा भूदेवं तथाप्यत्र याकारं ग्रहणं भवेत् । एवं चागृह्यमाणे वा ज्ञाने याकारता कथम् ॥१०९॥ उत्तरोत्तरविज्ञानविशेषाद् या प्रकल्प्यते । ग्राहकाकारसंवित्तिः स्मरणाच्चानुमानिकी ॥११॥ भवेत् । ज्ञानातिरिक्तवस्त्वन्तराभावादित्याह – ज्ञान इति । अन्यत्रानपे- क्षेत्यसहमानः प्रत्यवतिष्ठते परस्परेणेति । अयमभिप्रायः अपेक्षार्थ एव तावद् दुष्प्रतिपादः । अभिन्ने तत्त्वे किं केनापेक्ष्यते । उपेत्यापि ब्रूमः । य एव कश्चिदपेक्षिष्यते ग्राहको वा ग्राह्यो वा, स एव सन्निहितः । अत्य- न्ताभेदात् तयोः । अतो नाग्रहणकारणमन्यतरस्यापीति यात्मकग्रहणप्रसङ्गः ॥१०७॥ अत्र चोदयति नन्विति । यदेतदपेक्षामभ्युपत्य भवतोच्यते सन्निहित इति, तदयुक्तम् । नहि नो नीलादिग्रहणे ग्राह्यमिदं ग्राहको वाय- मिति बुद्धिरुत्पद्यते । अतो ग्रापग्राहकत्वेनानवगमात् कथं तयोः सन्नि- धानमपेक्षा कथमुच्यत इत्यपेक्षाभ्युपगमो न युक्त इत्यर्थः ॥ १०८ ॥ परिहरति--मा भूदिति । यद्यपि ग्राह्योऽयं ग्राहकोऽयमिति वा न विकल्प्यते, तथापि तावदेकात्मनः सर्वेणैवात्मना गृहीतत्वाद् यदेवापेक्षित तदेव लभ्यत इति युक्तमेव वक्तुम् । अन्योऽयं ग्राह्योऽयं ग्राहकोऽयमिति शब्दविकल्पः । अन्यच्च ज्ञानरूपम् । तचेत् समग्रं गृहीतं, किमपरमपेक्षणीयं यदग्रहणादुभयांशबोधो न भवेदिति । एवमपिचेदुभयात्मकं न गृह्यते, कथं यात्मकं भविष्यति । अतः सिद्धं न यात्मकं ज्ञानमित्यभिप्रायेणाह .. एव- मिति ॥ १०९॥ एवंतावद् यदुक्तं सत्यपि यात्मकत्व न यात्मकं गृधत इति, तन्नि- राकृतम् । इदानी व्याकारमेव ज्ञानं गृह्यत इति यद् बौद्धरुक्तं तद् दूषयितु- मुपन्यस्यति- उत्तरोत्तरेति । एवं हि बौद्धा मन्यन्त स्वसंवेद्यै- ज्ञानस्य द्विरूपता । तद्धि जानामि घटमित्येवोत्पद्यते । तत्र जानामीति . १५४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । एकाकारं किल ज्ञानं प्रथमं यदि कल्प्यते । ततस्तद्विषयाप्यन्या तपैव मतिर्भवेत् ॥ १११ ॥ घटविज्ञानतज्ज्ञानविशेषोऽतो न सिध्यति । प्राहकाकारसंवित्तौ त्वाकारप्रचयो भवेत् ॥ ११२ ॥ जायते पूर्वविज्ञानं झ्याकारं तत्र यत् परम् । तस्यात्मीयश्च पूर्वी च विषयस्थावुपप्लुतो॥ ११३ ॥ ग्राहकांशः। घटमिति च ग्राह्यांशः। तदेवं स्वसंवेद्येऽपि ज्ञानस्य विरूपत्वे यो नाम मूढो न सम्प्रतिपद्यते, तत्प्रतिबोधनार्थमुत्तरोत्तरविज्ञानविशेषनिर्देशो बौ- दैरभिमतः। एवं हि निर्दिशन्ति घटज्ञानं जानामीति । तदिह पूर्वेण विषयाका- रेण ग्राहकाकारेण च रूषितो द्वितीयज्ञानस्य ग्राहकाकारः प्रचितो निर्भासते। तदाद्यस्य द्विरूपत्वे घटते । यदि त्वाद्यं ग्राह्याकारमात्रं वा ग्राहकाकारमात्र वा भवेत् , ततो द्वितीयाधपि तगोचरं तदाकारमेव भवेत् । तत्राद्यस्य ग्राह्य- मात्रत्वे द्वितीयमपि ज्ञानं घट इत्येवोत्पद्यते। तत्र शन्दत्रयेण निर्देशो नोपप- येत घटज्ञानं जानामीति । नबनातुराणामनर्थको नाम निर्देशो भवति। एवं च तृतीयादिज्ञानेषु चतुष्टयादिभिर्निर्देशो दर्शयितव्यः । तस्मादुत्तरोत्तरज्ञानविशे- षादवगम्यते अस्ति ग्राहकाकारसंवित्तिरपीति । यदपि चेदमपरं ब्याकारवेदने कारणमुक्तं "स्मृतेरुत्तरकालं च नासावविभावितः ।" इति । यथा खल्वयं स घट इति ग्राह्यं स्मरति, एवं घटज्ञानमज्ञासिषमिति जानातिवाच्य ग्राहकांशमपि । नचानवगतपूर्वार्थविषया स्मृतिः सम्भवतीति पूर्वानुभवप्रतिबन्धात् स्मरणादानुमानिकी पूर्व ग्राहकाकारसंवित्तिः कल्प्यत इत्याह स्मरणादिति ॥ ११० ॥ तदेव प्रपञ्चयति एकाकारमिति सार्धेन । इदं च प्रागेव व्याख्यातमिति । यदि तु ग्राहकाकारो गृह्यते इत्याश्रीयते, तदाकारप्रचय- दर्शनमुपपन्नं भवेदित्याह ग्राहकेति ॥ ११२॥ कथमुपपन्नमित्यत आह जायत इति । पूर्व हि घटं जानामीति ज्ञानं ग्राह्यग्राहकाकारम् । तत्र तस्मिन्नेव विषयभूते । यत् परं घटज्ञानं जा. नामीति ज्ञानम् । तस्यात्मीयश्च ग्राहकाकारः । पूर्वी च स्वविषयभूतप्राण्य- औत्पत्तिकसूत्रे शून्यवादः । १४५ परेष्वाकारवृद्धयवं पूर्वेभ्यो भिन्नता तथा। ग्राह्यवत्स्मरणात् पश्चात् संवित्तौ ग्राहकः पुरा ॥ न तावदेवमाकारान् पश्यामः प्रचयान्वितान् । विषयव्यपदेशाच्च नर्ते ज्ञाननिरूपणम् ॥११५॥ ज्ञानस्थौ 'ग्राह्यग्राहकाकारावुप लुतौ भवतः । एवं १कारवेदनमुपपन्न भवतीति ॥ ११३ ॥ अनेनैव प्रकारेण तृतीया।५ वाप ज्ञानेष्वाकारवृद्धया पूर्वपूर्वयो ।मे- नता सिध्यति । इतरथा तु पूर्वस्य केवलमायाकारत्वे स्वाकारसमपणन विषयभावादुत्तरमपि तत्सदृशं घटात्मकमेव भवेदित्ययुतम् । एवं कंवलग्राह- काकारत्वे पूर्वस्योत्तरस्यापि ताद्रूप्यान्न वैलक्षण्यं सिध्येत् । "निराकारत्वपक्षेऽपि तुल्यतैव प्रसज्यते । निराकारत्वसामान्यात् प्राचीनोत्तरसविदोः॥" इत्यभिप्रायेणाह --- परेष्विाते । एवं तावदुत्तरोत्तरविज्ञानविशेषादित्येतत् प्रपञ्चितम् । स्मरणाचानुमानिकीत्येताददानी प्रपञ्चयाते --- ग्राह्येति । इदं च प्रागेव व्याख्यातमिति ॥ ११४ ॥ आकारप्रचये तावत् परिहारमाह नेति । अयमथः-- नोत्तरो- त्तविज्ञानेषु प्रचयान्विता आकारा दृश्यन्ते, नालाद्याकारमात्रप्रतिभानात् । सर्वदा हि नो विषय एवेदमिति बहिनिर्भासते। कदाचिदेव तूझंतजिजा- सस्थानाकारज्ञानप्रतिभानमिति वर्णितमसकृत् । अतो न ज्ञानारूढमाकारद्वयं दृश्यत इति संवित्प्रमाणकमहं नीलामत्यनवगतः । कस्ताह घटं जानामीति जानात्यर्थः । नावश्यं विषयबोधेषु जानातिः प्रवर्तते । घटोऽयमित्येव प्र. तीतेः । यदा तु ज्ञानमेव जिज्ञासितं भवति तदार्थस्य ज्ञाततावशेन ज्ञान- मपि प्रतीयत । तत्र चायं जानातियोगः । न चैतावता ज्ञानमेव द्वयाकारं भवति, विदित बहिपियाकारे पृथगवेदमनाकारज्ञानमिति । यद्यनाकार- स्यैव ज्ञानस्य संवेदनं, कथन्तार्ह नोलाकारं पाताकारं ज्ञानमिति व्यप- देशोऽत आह विषयेति । अयमाभप्रायः- न तावज् ज्ञानमाकारव- तया दृश्यते, बहिराकारत्ववेदनादित्युक्तम् । यस्तु नीलाकारं ज्ञानमिति व्यपदेशः, न तेनाकारवत्ता ज्ञानस्य तिव्यति । विपयो ।हे नीलादिव्यप- 'देशभाजनम् । तद्व्यपदेशेनैव च ज्ञानं व्यपदिश्यते न तु तन्नालम् । - १४६ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । तस्माज ज्ञानात्मकत्वे ग्राह्यभेदनिबन्धनः। संवित्तिभेदः सिद्धोऽत्र किमाकारान्तरेण नः॥११६॥ निराकारत्वसाम्येऽपि यथाकारवतां ध्रुवम् । भेदः स्वाभाविकस्तद्वज्ञानानां किन्न सिध्यति ॥ स्मृतरुत्तरकालं चेत्येतन्मियैव गीयते। तदैव ह्यस्य संवित्तिरर्थापत्त्योपजायते ॥ ११८ ॥ कस्य हेतोः परव्यपदेशेन प्यपदिश्यत इति चेद् , न । तं विना व्यपदेष्टु- मशक्यत्वात् । नहि तपदेशमन्तरेण निरूपयितुं शक्यमीदृशं नामेदं ज्ञानमिति, स्वयमनाकारत्वात् संविदामिति ॥ ११५ ॥ यत्तु निराकारत्वपक्षे सर्वसंविदां तुल्यतैव प्रसज्यत इत्युक्तं , तदयु- क्तम् । अनाकारत्वेऽपि ग्राह्यभेदप्रमाणकत्वाद् भेदस्य, ग्राह्या हि विषयाः संवित्तौ प्रमाणम् । ते च भिन्ना दृश्यमाना भिन्ना एव संवित्तीरवस्थापय- न्तीति । अतस्तद्भेदसिद्धये तत्समवेताकारान्तराभ्युपगमो न युक्त इत्याह तस्मादिति । ग्राह्यभेदनिबन्धनस्तप्रमाणक इत्यर्थः ॥ ११६ ॥ नन्वस्तु ग्राह्यभेदो भेदे प्रमाणम् । अनाकाराणां तु केनात्मना भेद इत्येव दुष्प्रतिपादमत आह निराकारत्वेति । अयमभिप्रायः -के- मिदमनाकारत्वं संविदाम् । यादे निस्स्वभावत्वं, तन्नेव्यते विषयवशोन्नीय- मानप्रकाशस्वभावत्वात् । अथ नीलाद्याकारविरहः, न । आकाशकालात्म- दिकर्मसु तदमावेऽपि भेदाभ्युपगमात् । अतो यथा नीलाद्याकारा एव भावा आकारवत्त्वेनाभिन्ना अपि परस्परेण भिन्ना भासन्ते, एवमनाकारत्वेनामिन्ना- न्यपि ज्ञानानि ग्राह्यभेदोन्नीयमानेनात्मना भेत्स्यन्ते स्वभावादेवेति ॥११७॥ 'स्मरणाचानुमानुकी ति यदुक्तं तदिदानीमुपन्यस्य दूषयति-स्मृ- तेरिति । मिथ्येवैतद् बौद्धैर्गीयत इत्यर्थः । कथं मिथ्या अत आह तदैवेति । तदैव खल्विदं ग्राहकाकारं ज्ञानं संवेद्यते । घटो हे तत्र स्मयते । तत्स्मरणान्यथानुपपत्त्या च तत्कारणभूतं ज्ञानमर्थापत्त्या कल्प्यते । नूनं मया घटो ज्ञातः, कथमन्यथा स्मर्यते । तत्रैव चार्थापत्तिवेद्ये ज्ञानेज्ञासि- पमिति पदप्रयोगः, नतु ज्ञानमपि पूर्व गृहीतमिति ॥ ११८॥ १. 'धेऽज्ञासि' ख. पाठः, . .
औत्पत्तिकसूने शून्यवादः । गृहीतभिति यच्चोक्तं तदभेदान्न तद् यतः। नास्माभिर्वाक्यवृत्तेस्त्वं निमित्तमनुयुज्यसे ॥ ११९ ॥ ग्राह्यग्राहकतैवास्य केनचिन्नोपलभ्यते । प्रत्यक्षज्ञानपक्षे च नैषा स्यादानुमानिकी ॥ १२० ॥ एकाकारे च विज्ञाने यद्यन्योऽप्यत्र कल्प्यते । सहस्राकारतैकस्य कस्मान्न परिकल्प्यते ॥ १२१ ॥ ग्रायग्राहकयोदो नन्वस्त्येव परस्परम् । सिद्धो नः पक्ष एवं स्यान्न ज्ञानत्वादभेदतः ॥१२२॥ यत् पुनाकारवेदने पूर्वमुक्तमभेदं चाभ्युपेत्यायमित्र कथमेक- रिमन् गृह्यमाणे परो न गृह्यत इति । तद् दूपयति-गृहीतमितीति । यदस्माभिरंशद्वयाग्रहणे निमित्तमनुयुक्तो भवान् किमुभयात्मकं न गृह्यत इति, नानेना साकं वाक्यप्रवृत्तिमात्रमेव भवतोऽभिमतं यथा तथा वा ताव- दभ्यधास्त्वमिति । आपे तु अग्रहणकारण वा त्वया वक्तव्यम् । वास्तवं वाग्रहणं, न त्वभेदाद् द्वयात्मकं गृहीतभिति वाक्प्रवृत्तिमात्रेणास्माभिर्नु- च्यस इते ॥ ११९॥ परमार्थतरतु ग्राह्यग्राहकाकारवेदनं नास्तीत्युक्तमेवेत्याह-ग्राह्येति। रयादेतत् । मा नाम प्रत्यक्षेण द्वयात्मकं गृह्यताम् । अनुमानेन तूमयां- कारवेदनं साधयामः । ग्राहकात्मा गृहीतो ग्राह्याभेदात्, तदात्मवदित्यत आह-~प्रत्यक्षेति । अयमभिप्रायः --- प्रत्यक्षं ज्ञानमिति वः पक्षः । न चास्मिन् पक्षेऽनुमानेन ग्रहणसाधनं युक्तम् । यदि हि द्वयाकारं ज्ञानमुत्पन्नं भवेत् , तथैव प्रकाशेत । अतो नपा द्वयाकारोपलावरानुमानिकी प्रत्यक्ष- ज्ञानपक्षे स्यात् । नच प्रत्यक्षेण द्वयाकारं ज्ञानं कैश्चिदुपलभ्यत इति न द्वयाकारता ज्ञानस्येति ॥ १२० ॥ यादे वेकाकार एव ज्ञाने व्याकारता कल्प्यते, एवं सत्यप्रमाण- करवाविशेषात् सहस्राकारतैव किं न कल्प्यते इत्याह - एकते॥१२१॥ अत्र चोदयति-पायेति । अयमभिप्रायः-- यदेतदन्यतरांश- ग्रहणेजमेन्नत्वादपरस्यापि ग्रहणमापादितं भवता तदयुक्तं, अभेदे हि सत्ये ॥
न
१४८ मीमांसाश्लोकवारिक काशिकाटीकोपेतम् ।
भिन्नाभिन्नत्वमेकस्य कुतोऽत्र परिकल्पितम् ।
वया साङ्ख्यनतेनैवमुक्त्वा बुद्धस्य शासनम् ॥
एकं चेद् ग्राहकं ग्राह्य कुतो भिन्नत्ववागियम् ।
मिन्नं चेत् कथमुच्येत तस्यकत्वं पुनरत्वया ॥१२४॥
एकज्ञानादनन्यवाद् ग्राह्यवाहक मिथः ।
एकत्वेन भवेज्ज्ञानं ग्राह्यं ग्राहकमेव था ॥ १२५ ॥
तत् स्यात् । नतु ग्राह्यग्राहकांशयोः परसरमभेदः । ज्ञानं हि तत्राभिन्नमंशो
च पर-सरं भिन्नावव । अतो यथैन्द्रवायवादिग्रहाः परस्परं भिन्ना ओ ज्योति-
यो(म? माङ्गत्वेन न भिद्यन्त इ.ते मीमांसका मन्यन्ते, एवं ज्ञानस्यापि
स्वात्मनाभेदेशयोः परस्परं भेदान्न ग्रहणसङ्करपरिचोदनावकाश इति
निराकास्वपक्षरप चौद्धश्य प्रत्यवस्थानमिति । सिद्धान्तवादी तु
तावदयमेकान्तवाद। बौद्धा भिन्नाभिन्नत्वमभ्युपेत्य ग्राह्यग्राहकयोर्भेदममिवत्त
इति सम्भवति, तन्नूनीकान्तक एवानेन ग्राह्यग्राहकयो दोऽभिहित इति
मन्वान आह ---- सिद्ध इति । इतरः स्वामित्रायमा१ कर्तु परपक्षनिषेधं
तावदाह ---- नेति । कारणभाह - ज्ञानत्वादभेदतः । अयमर्थः --नैवमपि
भवत्पक्षसिद्धिः, ज्ञानत्वनाशयोरभेदादिन्युक्तमेवेति ॥ १२२ ॥
इतर इदाना सिद्धान्तहानिमापादयंस्तमेवंवादिनं निगृह्णाति-भि-
नेति । साङ्ख्या हि प्रकृतिविकारयोरत्यन्तभेदमानेच्छन्तो विकारात्मना प्रकृती
भेदं तदात्मना च विकाराणामभेदं सङ्गिरन्ते । तद् यथा साङ्खयमतेन भि-
नाभिन्नात्मकं वस्तु पारेकल पते, तथा कथं या भ्रान्तचित्तेन बुद्धशासन-
मुक्त्वा ।मन्नाभिन्नत्वमेकस्य ज्ञानात्मनः परिकल्पितम् । अस्माकं त्वनकान्त-
वादिनामुपपन्नो ज्योतिष्टोमे तथाभ्युपगम इति ॥ १२३ ॥
भवतरतु यदि ग्राह्यग्राहकात्मकं द्वयं ज्ञानात्मनैकं, ततो भिन्नत्व-
वागनुपपन्ना, नांचेदेकत्वमित्याह --- एकमिति ॥ १२४ ॥
एवं चात्र भव- प्रताश्रयणेनकात्म्यमापादयितुं शक्यमित्याह
एकेति । ग्राह्यग्राहकायेकात्मानौ, एकरूपात् ज्ञानात्मनोऽभेदात् । तदात्म-
वदेव । ग्राखग्राहकयोर्मिथः परस्परमेकत्वेन कारणेन ज्ञानं ग्रामात्मकं ग्रा-
हकात्मकं वा भवेदिति ॥ १२५ ॥
औत्पत्तिकसूत्रे शून्यवादः ।
१४९
तत्र चान्यतरामाये द्वितीयापायतः पुनः ।
ज्ञानस्यांशद्वयासत्वान्नरस्वमायादमावता ॥ १२६॥
भिन्नावाप्याभेन्नत्वा दो ज्ञानात्मनो भवेत् ।
तत्स्थात्मनस्ततश्चैवं सिद्धं वस्तुद्वयं हि नः॥१२७ ॥
तयोश्च यदि संज्ञेयं ज्ञानभित्यस्त्वथापि वा।
ज्ञानं ज्ञायत इत्लयों धीमा करगेऽपि का ॥ १२८ ॥
सर्वथा वस्तुभेदो नः सिद्धः शब्दो यथासाचे ।
प्रवर्तता न नस्तंत्र काचिद् विप्रतिपन्नता ॥ १२९ ॥
तत्र चैकात्मकत्व आपने ग्राह्यग्राहकयोरजत सापाये जाते परस्या-
पातविधुररपानुपपत्तेरंशद्वयासत्त्वमेव ज्ञानस्य भवेत् । एवं च निःस्वभाव-
मभावात्मकं ज्ञानमापनमिाते शू-ता प्रमाणार्थयोः स्यादित्याह-तत्रेति
॥ १२६॥
एवं तावदभिन्नात्मना ज्ञानादभेदादंशयारभेद आपादितः । इदानी
भिन्नाभ्यां वा शाभ्यामभिन्नत्वात् ज्ञानात्मनो भेदमापादयाते-भिन्ना-
भ्याभिाते। एवं चात्यन्तभेदे ग्राह्यग्राहकयोः सिद्धं द्वैतभित्यभिप्रायेणाह-
ततश्चेति ॥ १२७॥
एवं द्वैतसिद्धौ याद ज्ञानमिति संज्ञामात्रमेव ग्राह्यग्राहकयोः कर्तुभमि-
मतं भवतां, तदभ्युपगच्छाम एवोते सोपहासमाह ---तयोरिति । अथवा
किं पारिभाषिकेण ज्ञानशब्देन, अरमाकामेवक एवायं ज्ञानशब्दोऽक्षादेिवत्
साधारणतयार्थज्ञानयोर्युत्पत्तिभेदेन वर्तत इत्याह – अथापि वेति । यदि
ज्ञायत इति ज्ञानं कमाणे ल्युडन्तो ज्ञानशब्दोऽनुशिष्यते, ततोऽर्थों ज्ञानम् ।
अथ तु ज्ञार्ज्ञानं ज्ञायतेऽनेनेति वा भावकरणयोर्युत्पाद्यते, ततो धारेव
ज्ञानमित्युभयज्ञानतोपपांतरिते ॥ १२८ ॥
सर्वथापे हि ज्ञानशब्दव्युत्पत्तौ वरतुंमंदस्तावत् सिद्ध एव । शब्दस्तु
यथारुचि ज्ञानार्थयोरन्यतरत्र प्रवर्तताम् । नात्र नो विप्रतिपत्तिरित्याह
सर्वथेति ॥१२९ ॥
१५० मीमांसाश्लोकवार्तिकं काशेिकाटीकोपेतम् । अथ सत्यपि भिन्नत्वे ग्राह्यं ज्ञानान्तरं भवेत् । ज्ञानत्वे तस्य का युक्तिः पूर्वोक्ता तस्य सेष्यते ॥ ज्ञानं ज्ञानभितीदं तु न द्वयोरनुवर्तते । व्यतिरिक्तं च सामान्य त्वया नाभ्युपगम्यते॥१३१॥ व्यतिरेके तयोर्मानान्न ज्ञानात्मकता भवेत् । तद्रूपरहितत्वे च ज्ञानाभावः प्रसज्यते ॥ १३२ ।। अत्रापरे बौद्धा वदन्ति - सत्यमस्ति ग्राह्यत्राहकयोर्भेदः । नैवमपि बहिरर्थः सिध्यतीति, ज्ञानस्यैवातीतस्थोत्तरज्ञानग्राह्यत्वात् । अत एवेद- म्भावः, परगोचरत्वात् संविदः । कथमतीतं ग्राह्यमिति चेद् , न । हेतुत्व- स्यैव ग्राह्यत्वात् । यदेतदुत्तरज्ञानजनने स्वाकारसमर्पणेन पूर्वस्य हेतुत्वं तदेव तस्य ग्राह्यत्वम् । यथाहुः "मिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥" इति । अयं च सौत्रान्तिकवैभाषिकयोः साधारणः श्लोकः । तदेतदुपन्य- स्यति-अथेति । यद्यपि ग्राहकाद् भिन्नं ग्राह्यं, तथापि ज्ञानान्तरमेव तद- तीतं न वर्थ इति । एतदपि दूषयति --- ज्ञानव इति । तस्य ग्राह्यत्वाभि- मतस्य ज्ञानस्य ज्ञानत्वे युक्तिर्न काचिदस्तीति भाव इति । यदि तु पूर्वो- क्तया कर्मव्युत्पत्त्या ज्ञानं तदिष्यते तदनाभिरिष्यते इत्याह - पूर्वेति ॥ १३०॥ ज्ञानं ज्ञानमित्यनुगतं तु रूपं न द्वयोयग्राहकयोरवगम्यत इत्या- ह-ज्ञाननिति । अक्षादिवत् साधारणशब्दतामभ्युपगच्छामः नत्वाकृति- शब्दतामिति । उपेत्यापि ब्रूमः । तत् खलु सामान्यं पूर्वोत्तरयोरनुयायि ताभ्यां भिन्नमभिन्नं वा । न तावद् भिन्नं तैरुपेयत इत्याह-यतिरिक्तमिति ॥ १३१॥ अयं चापरो व्यातेरेके दोष इत्याह----व्यतिरेक इति। तयोः पूर्वो- तरयोग्राह्यग्राहकयोः । ज्ञानसामान्याद् व्यतिरेके इंटे, तस्मिस्ताम्यां मिन्न इति यावत् । तयोर्ज्ञानात्मकता न रसात् , तेनैव रूपेण ज्ञानत्वाभ्युपगमा-. - १ औत्पत्तिकसूत्रे शून्यवादः । १५१ ताभ्यां च तस्य सम्बन्धे प्रत्येक व्यतिषज्य वा । भेदे सावयवत्वादिदोषो शेषिकादिवत् ॥१३३॥ यथा हि तेषां जात्यादौ दोषा युक्ताः परैरमी । तथैवैषां प्रसज्यन्ते भिन्नाभिन्नार्थसङ्गतौ ॥ १३४ ॥ ताभ्यामव्यतिरेके वा भेदः पूर्वोक्त एव ते । साहश्यापोहसामान्यकल्पना वारयिष्यते ॥१३५॥ वस्त्वन्तरस्थ चाभावात् त्वयापोहोऽपि दुष्करः। नाज्ञानं नाप किश्चित् स्यादपोह्यं ज्ञानवादिनः ॥ दिति । किमतो यद्येवमत आह --- तद्रूपति ज्ञानरूपराहेतत्वे सत्यज्ञाना- मनो वरतुनोऽभावात् पूर्वोत्तरयोज्ञानयोरभाव एवापद्यत इति ॥ १३२ ॥ अपिच तत्सामान्य ताभ्यां सम्बध्यमानं प्रत्येकं कास्न्यन सम्ब- ध्यते भूतकर्मगुणवत् , व्यतिषज्य वा मालागुणवत् । पूर्वस्मिन् कल्पे भेदः । उत्तरस्मिन् सावयवत्वमिाते वैशेषिकादिवद् दोपप्रसञ्जनं कर्तव्य- मित्याह-ताभ्यामिति ॥ १३३ ॥ वैशेषिकादिवादेत्येतद् विवृणोति --- धाति । यथैव वैशेषेकादीनां परैबौद्धैरेव जात्यांदावते दोषा उक्ताः, तथैवैषां बौद्धादीनामा भिन्नयोः पूर्वोत्तरज्ञानयोरभिन्नस्य ज्ञानसामान्यस्य सङ्गतौ सम्बन्धे एते दोपा इाते ॥१३४॥ यदि तु ताभ्यामव्यतिरिक्तं सामा धमिष्यते, ततो योऽसौ भिन्नाभ्या- मभिन्नत्वात् प्राग् भेद आपादितः स एवापद्यत इत्याह नाभ्यामिति । अपिच किमात्मकं तत् सामान्यमित्यपि चिन्तनीयमेव । तत्रास्मदभिमत- सामान्याश्रयणे तावदुक्तः प्रसङ्गः । सादृश्यरूपमपोहरूपं च सामान्य परस्ता- निराकरिष्यत इत्याह - सादृश्यति ।। १३५ ।। अपिचानापोहरूपसामान्याभ्युपगमेऽधिको दोष इत्याह -- वरस्व- न्तरस्योते । एतदेव विवृणोति-नेति । अज्ञाननिवृत्या ज्ञानं ग्रहीत- 'व्यम् । नच ज्ञानमात्रवादिनोऽज्ञानं नाम किश्चिदपोह्यमस्तीति ।। १३६ ॥ .
१५२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । अपोहो नह्यभावस्य कथञ्चिदुपपद्यते । वस्त्वन्तरमभावः स्यादपोह्यत्वाच्च वस्तुता ॥१३७॥ तेनाज्ञाननिवृत्ती हि ज्ञानन्यार्थः प्रसज्यते । कल्पितं स्यादपोह्यं चन्नात्यन्तासत्यकल्पना॥१३८॥ बुद्धिज्ञाननिर्भासा तवाशानं प्रकालतम् । ततश्च ज्ञानमेवैकमपोह्यत्वेन सम्मतम् ॥ १३९ ॥ नचात्मापोह एवास्ति कचित् सामान्यकल्पने । वृक्षस्य नह्यपोह्यत्वं वृक्षणव कदाचन ॥ १४०॥ नचात्यन्तासत एवापोहो घटते इत्याह अपोह इति । अयममि- प्रायः -यदि ज्ञानाभावमात्रमज्ञानं तत्तद्यवस्तुरूपं कथमपोहक्रियाकर्म भ- विष्यतीति । अपोह्यत्वाभ्युपगमे वा अभावस्यापि वस्त्वन्त(रा? रता)पत्तिार- त्याह वस्त्वन्तरमिाते । कारणमाह मोहत्वाच वस्तुतेति । चशब्दो हेताविति ।। १३७ ॥ अतोऽवश्यं ज्ञानाभावस्थानीयवादज्ञानानवृत्ती ज्ञाने इष्यमाणे ज्ञानादन्यदज्ञानमर्थ एव ते प्रसज्यत इ.पाह तेनात। अत्र किञ्चिदाश- कते-कतिमिति । ज्ञेयादिशब्देषु हि बौद्धैरुकम् - "अज्ञेयं कल्पितं कृत्वा ज्ञेयशब्दः प्रवर्तते ।" इति । तदिहापि समानम् । अज्ञानकल्पनया तदपोहेन ज्ञानशब्दो वर्तिष्यते । तेन नापोह्याभावो नच वस्त्वन्तरतापत्तिरिते । एतदपि दूषयति - नेति । यदेव हि कचिद् दृष्टं तदेवान्यत्र कल्पते । अत्यन्तासतस्तु ज्ञानादन्यस्या- बुद्धिविषयस्य कल्पना केति ॥ १३८ ।। तदेवं कल्पनीयान्तराभावादज्ञानाकार बुद्धिरवाज्ञानतया कल्पनीया- पनेत्याह-बुद्धिरिति । तत्र चायं दोष इत्याह-ततके.ते॥१३९॥ किनतो यद्येवमत आह नचेति । न ज्ञानान्तर,पोहेन ज्ञानमेव ग्रहीतुं शक्यत इाते । अत्रैव दृष्टान्तमाह - वृक्ष त । नाहे वृक्षायों वृक्षापोहेन प्रत्येतुं शक्यत इति ॥ १४० ॥ - - --- -- . औत्पत्तिकसूत्रे शून्यवादः । १५३ अपोह्ये चैव विज्ञाने ज्ञानत्वं न भवेत् तव । वृक्षत्वं न पोह्येषु घटत्वादिषु युज्यते(?) ॥ १४१॥ ततश्चाज्ञानमेवार्थ इत्यभिन्नार्थता भवेत् । अज्ञानप्रत्ययश्चायं किमालम्बन इष्यते ॥ १४ ॥ न तावज्ज्ञाननिर्मुक्तमज्ञानं ग्राह्यमस्ति ते । ननु वस्तु निषिद्धं तदभावः किं न गृह्यते॥१४३ ॥ भावो न गृह्यते येन तस्याभावेषु का कथा । स्वांशपर्यवसानं च तुल्यमत्रापि कारणम् ॥ १४४ ॥ अपिच यासावज्ञाननिर्भासा बुद्धिरज्ञानतया कल्पिता, तस्या ज्ञानत्वं न भवेत् । नहि यदूपं यदपोहेन प्रतीयते तत्रैव तद् भवति । वृक्षत्वस्या- वृक्षेष्वपोधेषु घटादिष्वभावादित्याह अपोह्य इति ॥ १४१॥ एवञ्च तस्याज्ञानत्वाभिमतस्य ज्ञानत्वाभावादर्थत्वमेवापन्नम् । अतो- ऽज्ञानवाचोयुक्त्यार्थ एवाभिमत इत्यभिन्नार्थत्वमित्याह --- ततश्चेति । किञ्चैवमपिचायमज्ञानापोहवादी वक्तव्यः किमालम्बनोऽयमज्ञानप्रत्यय इति। न तावद् बाह्यालम्बनं किञ्चिद् भवद्भिनिमिष्यते । नचास्य स्वांशा- लम्पनत्वं. ज्ञानान्तरालम्बनत्वं वा सम्भवतीत्यनन्तरमेव वक्ष्यतीत्यभिप्राये- णाह ----अज्ञानेति । तन्न तावद् ज्ञानमात्रवादिनामज्ञानं नाम किश्चिदस्ति यदस्यालम्बनं स्यादित्याह नेति । अत्र चोदयति नन्विति । अ- स्यार्थः--- वस्त्वात्मकं हि ज्ञानातिरिक्तमरमाभिनिषिद्धम् । अभावात्मकं त्व- जानं किमज्ञानप्रत्ययेन नावलम्ब्यत इति ॥ १४३ ॥ परिहरति भाव इति । अयमभिप्रायः --- येन तावदाबाल- मास्थविरं च प्रसिद्धा महीमहीधरोदधिप्रभृतयो ग्राह्या अपलपिताः, तस्य किमिति सूक्ष्मन्यायवेदनीयो भावो ग्राह्यो भविष्यति तन्मते च सर्यो- पाख्यानविरहलक्षण इति । अपिच यद् भावधियां स्वांशपर्यवसाने कारण- मुक्तं, तदभावबुद्धेरप्यविशिष्टम् । अतः कथमसौ बाह्याभावालम्बनं स्यादि- .त्याह-स्वांशेति ॥ १४४ ।।
. 4 १५४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । तेन ज्ञानान्तरं वा स्याद ग्राह्यमात्मांश एव वा । स्वरूपविपरीतं च कथं ग्राह्यं प्रतीयते ॥ १४५॥ यथोष्णेऽनुष्णधीर्नास्ति ज्ञानेऽप्यज्ञानधीस्तथा । तेन न ज्ञानमात्रत्वे स्यादपोचं कथञ्चन ॥ १४६ ॥ ग्राह्यग्राहकयोश्चातो न ज्ञानात्मसमानता। तस्मादन्यतरत्रेदं ज्ञानत्वं संप्रतीयते ॥ १४७॥ अत्राप्युभयसिद्धत्वाद् ग्राहकस्यति गम्यते । वस्तुभेदे प्रसिद्धे च व्यपदेशो यथारुचि ॥१४८॥ ज्ञानमस्तूभयं वार्थो ग्राहको वार्थ उच्यताम् । तदवश्यं पारिशेष्यादज्ञानप्रत्ययस्यापि ज्ञानान्तरं वा स्वांशो वा ग्रा- घोऽभ्युपगन्तव्य इत्याह तेनेति । अस्तु तदेव ग्राह्यं, को दोषोऽत आह स्वरूपेति । ज्ञानान्तरं स्वात्मा वा ज्ञानस्य ज्ञानस्वभावत्वान्नाज्ञान- प्रत्ययेन विषयीकर्तुं शक्यते । स्वरूपविपरीतस्याग्राह्यत्वाद् यदाकारो हि प्रत्ययस्तदाकारमेव ग्राह्यमवस्थापयति । अज्ञानाकारश्च प्रत्ययः कथं ज्ञान- मालम्बनीकर्तुं शक्नोति । स्वरूपविपरीतं न ग्राह्यमिति ॥ १४५ ॥ एतदेव दर्शयति -- यथेति । अतः सिद्धं न ज्ञानमात्रत्वेयोहम- स्तीत्याह -- तेनेति । एवंचासत्यपोह्येऽपोहस्वरूपस्याप्यभावान्न तेनात्म- नापि ग्राह्यग्राहकयोनियोर्ज्ञानात्मना समानत्वमित्याह-ग्राह्यग्राहकयो- रिति । एवञ्चोभयोः साधारणरूपाभावाद् ग्राह्यग्राहकयोरन्यतरत्र ग्राह्ये ग्राहके वा ज्ञानत्वमभ्युपगन्तुं युक्तमित्याह --- तस्मादिति ॥ १४७ ॥ तथापि को निश्चयः ग्राहकं ज्ञानं नतु ग्राह्यमित्यत आह- अत्रेति । उभयसिद्धं हि ग्राहकस्य ज्ञानत्वं ग्राह्यस्य त्वस्माकमसिद्धमिति । एवं तावद् ज्ञानं ग्राहकमों ग्राह्य इति साधितम् । अथवा किं नोऽनेन व्यसनेन । तत्त्वभेदो हि नो द्वैतानुगुणतया साध्यः । स तावत् सिद्धः । सिद्धे च तस्मिन् यथारुचि व्यपदेशोऽस्तु नामेत्याह---वस्त्विति ॥१४८॥ यथारूचि व्यपदेशमेव दर्शयति-ज्ञानमिति । उभयं वा ज्ञान- शब्द वाच्यमस्तु अर्थों ज्ञानं चं । अर्थ एव वा ज्ञानशब्दवाच्यः न ज्ञान- . - औत्पत्तिकसूत्रे शून्यवादः । १५५ बुद्ध्योरयुगपद्भावान द्वयोर्मेयमानता ॥ १४९ ॥ क्षणिका हीत्यनेनोक्तमर्थों ह्येकः प्रसज्यते । अन्योन्यनिरपेक्षत्वाद् युगपञ्चापि जन्मनि ॥१५०॥ मानमेयत्वनास्तित्वं क्रियाकारकवर्जनात् । अर्थविज्ञानयोरत्र या मितिं प्रति सङ्गतिः ॥१५१॥ मित्यर्थः । ग्राहक एव वार्थशब्दवाच्योऽभिधीयताम् । नैवमपि काचित पक्षक्षतिः । सिद्धत्वाद् द्वैतस्येत्यभिप्रायेणाह-ग्राहक इति । भाष्यकारण त्वतीतबुद्धग्राह्यत्वनिराकरणार्थ क्षणिकत्वं कारणमुक्तं येनैवमाह - 'अर्थ- विषया हि प्रत्यक्षबुद्धिः, न बुद्धिविषया । क्षणिका हि सा. न बुद्धयन्तर- कालमवस्थास्यते' इति । तदुपन्यस्यति -- बुद्धयोरिति । अतीता हि पूर्वा बुद्धिर्नासावुत्तरया ग्रहीतुं शक्यते । तत्कालेऽसत्या वर्तमानवद् ग्रहीतु- मशक्यत्वाद् ग्राह्यस्य चेदं नीलमिति वर्तमानवद्भासादिति । अतः क्षणि- कत्वात् कारणाद् बुद्धेः ग्रहीतुमशक्यत्वात् अस्मन्मताश्रयणेनार्थात्मकतैव बुद्धरुपेयेत्याह - अर्थ इति । यदि तूच्यते मा भूदतीताया युद्धाह्यत्वं, सहभाविनोस्तु ज्ञानयोग्राह्यग्राहकलं न नोपपन्नमिति । तदयुक्तं सहभावा- नुपपत्तेः । कथं हि समनन्तरप्रत्ययाधीनात्मलाभमुत्तरं तेन सहोत्पद्यत इति सम्भावयामः । सहत्वेऽपेक्षानुपपत्तेः । अस्तु वा जन्मयोगपy ज्ञा- नयोः । एवमपि न मानमेयता सम्भवति । हेतुत्वमेव हि ग्राह्यत्वमुक्तम् । नचासति पौर्वापर्ये तत् सम्भवति, सहजन्मनोरन्योन्यनिरपेक्षत्वात् । तदिदमाह --- अन्योन्येति । कथं निरपेक्षमत आह --क्रियति । यदि हि ज्ञानयोः कश्चित् क्रियाकारकसम्बन्धो भवेत् , एवमपेक्षा भवेत् । नचासौ सहोत्पत्तौ सम्भवति । स्वाकारार्पणेन हेतुत्वं निराकृतमेवेति । ननु तवा- प्यर्थज्ञानयोः कार्यकारणभावे क्रियाकारकसम्बन्धः कः, अत आह- अर्थति। येन व्यापारण, बुद्धेः प्रमाणत्वं सा मितिः कश्चासौ । यदेतद् बुद्धिजन्मेति प्रत्यक्ष उक्तम् । तदस्यां मितौ यार्थविज्ञानयोः सङ्गतिः । सानयोः कार्य: कारणभावः । सा हि बुद्धयर्थाभ्यां सहिताभ्यां भाव्यते । यावद्धि नार्थों धीविषयः, तत्कर्म भवति । बुद्धिश्च जन्मनि की । न तावन्निविषया अक- . मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । कार्यकारणभावोऽयं नान्यत्रैवं च दृश्यते । नियमश्च न लभ्येत सव्यदक्षिणशृङ्गवत् ॥ १५२॥ इदं कार्यमयं हेतुईयं नान्योन्यसंश्रयात् । तद्भावभावितामात्रं हेतुः केनैव कल्प्यते ॥ १५३ ॥ पौर्वापर्यविनिर्मुक्तं कार्यकारणलक्षणम् । गवाश्वस्य यथा नास्ति पौर्वापर्येऽपि तत् तथा॥१५४॥ युगपज्जायमानेऽपि सन्तत्यन्तरजे क्षणे । र्तृका चोत्पत्तिः सम्भवति । तदनेन क्रियाकारकसम्बन्धेनास्ति ज्ञाना- र्थयोः कार्यकारणभावः । तदेतदर्थस्य बुद्धेरुत्पत्तौ कर्मकारकत्वमेतदेवास्य ज्ञानकारणत्वम् । अत्रेति । मीमांसकसिद्धान्त इत्यर्थः । नचैष प्रकारो बौद्धमते सम्भवति, युगपज्जन्मनोनियोर्जन्मन एवाभावाद् ज्ञानातिरि- क्तस्य योगपधे चान्यतरोक्तावन्यतरस्य कारणत्वासम्भवादित्यभिप्राये- णाह-नेति । अपिच, इदं कार्यमयं हेतुरित्यपि नियमो यौगपद्ये दुरधि- गमः अनपेक्षत्वाविशेषात् । नखलु सव्येतरविषाणयोर्युगपज्जन्मनोः श- क्यमवगन्तुमिदं कार्यमिदं कारणमित्यगृह्यमाणे विशेषे, तदेतदाह नियम इति । नन्वगृह्यमाणे विशेषे उभयस्योभयं कारणं भविष्यतीत्यत आह-द्वयमिति । यदि पूर्वमुत्तराधीनात्मलाभम् , उत्तरं च पूर्वाधीवं, ततो दुरुत्तरमितरेतराश्रयमिति ॥ १५२३ ॥ नन्वत्रापि तद्भावभावितैव कार्यकारणभावे चिह्नम् । अस्ति च युगपज्जन्मनोरपि विज्ञानयोस्तद्भावभावः, पूर्वज्ञानसम्भवक्षण एवोत्तरस्य भावात् । अतः कुतो यौगपधे न हेतुहेतुमत्ता, अत आह-तदावेति । सत्यम् । तद्रावभाविता कार्यकारणत्वे लक्षणं न पुनः पौर्वापर्यरहिता । तन्नियमसहितमेव तु तद्भावभावहेतुकं कार्यकारणभावे लक्षणमाहुः । नच यौगपये पौर्वापर्य, नतरां नियम इत्यकार्यकारणतेति ॥ १५३३ ।। परस्परसहितमुभयं कार्यकारणलक्षणं न वनपेक्षितमित्यत्रैव निदर्शन- मुपन्यस्यति -गवाश्वस्येति । नखल कदाचिदश्वात् पूर्व गवि जाते
औत्पत्तिकसूत्रे शून्यवादः ।
१५७
रूपादिषु घटे यद्वत् तस्मात् पूर्वमवस्थिते ॥१५५॥
यो यस्माज्जायते पश्चात् स तत्कार्यमितीष्यते ।
हेतुहेतुमतां सिद्धं योगपद्यनिदर्शनम् ॥ १५६ ॥
यत् प्रदीपप्रभायुक्तं सूक्ष्मः कालोऽस्ति तत्र नः ।
दुर्लक्षस्तु यथा वेधः पद्मपत्रशते तथा ॥ १५७ ॥
पश्चाज्जायमानोऽश्वः पौर्वापर्यात् तत्कारणको भवति । तथैकसन्तानक्षण
भाविनः सन्तत्यन्तरजस्य क्षणस्य न तद्भावमात्रात् तत्कार्यत्वमसति पौर्वा-
पर्ये । एवं घटेन सहोत्पद्यमानेषु रूपादिषु नान्योन्यं कार्यकारणभाव इष्यते।
नयवयविद्रव्यस्य रूपेऽवयवी कारणम् , अश्वादिरूपाणामेव प्राक् सतां
क्रमेण तत्र कारणत्वात् । एतौ च स्वमतपरमतभेदेन व्याख्येयो दृष्टान्तौ ।
आवयोरेव तद्भावभावितामात्रं न कार्यकारणत्वे लक्षणमित्युक्तं भवतीति ।
तस्माद् यो यस्मिन् नियमेन पूर्वमवस्थिते जायते, स तत्कारणका नान्य
इत्याह - तस्मादिति ॥ १५५३ ॥
यत् पुनरत्र परैयौंगपद्येऽपि कार्यकारणभावो दृश्यत इति प्रदीप-
प्रभादिसिद्धवनिदर्शनमुक्तं, तन्न । न सिद्धं, तत्रापि सूक्ष्मस्य कालभेदस्य
विद्यमानत्वात् । प्रदीपकार्या हि प्रभा नासौ प्रदीपेन सहैव निष्पद्यते ।
एकदा प्रदीपे जातेऽनन्तरमेव निष्पद्यते प्रभा। तस्माद् न कचिदपि योगपद्य
कार्यकारणभाव इत्याह - हेत्विति । यद्यस्ति कालभेदः कस्मान्न लक्ष्यते,
अत आह - दुर्लक्ष इति । यथा निरन्तरमुपर्युपरिभावेन स्थित पद्मपत्र-
शते भिद्यमाने कालभेदो दुर्लक्षः, एवं प्रदीपप्रभयोरपि । यथाच तत्र ना-
(न)न्तरिता सूची भिनत्तीति तत्र कालभेदे प्रमाणम् , एवं नानिप्पन्ने प्रदीप
तत्तेजो विसरतीति समानमुभयत्रापि प्रमाणं कालभेदे । तुलान्तनमनोन्नमन-
योस्तु न परस्परं कार्यकारणभावो द्वयोरप्येकहेतुत्वात् । तोलयिता हि तत्र
सहभुवोर्द्वयोरपि कारणम् । कक्ष्यासूत्रसन्निवेशविशेषो वा । सूत्रं हि तत्र
मध्ये भवत् समं तौ धारयति । एकतरत्र भवद् विषमं प्रवर्तयति । नच
पुनरुनामहेतुर्नामः नच नामहेतुरुन्नाम इति न क्वचित् सहजन्मनोः कार्य-
कारणभाव इति ॥ १५७॥
१५८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । भागयोर्योगपद्येन तथैव स्यान्निराक्रिया। नच शक्त्यर्पणद्वारं क्रमेणालम्बनं भवेत् ॥ १५८ ॥ ग्राह्यं तदा ह्यतीतं स्यात् ताद्रूप्यं चाप्रमाणकम् । अतीतत्वानुविद्धो हि स्मृत्या ग्राह्योऽनुभूयते॥१५९॥ यथा च पूर्वोत्तरज्ञानयोयौंगपद्येन कार्यकारणभावः एवं ज्ञानभागयो- रपि ग्राह्यग्राहकात्मनोः कार्यकारणभावो निराकार्यः । नचाकारणभूतस्य ग्रा- ह्यता सम्भवतीति यौगपद्ये प्रसङ्गेन भागावुपसङ्क्रम्य दर्शयति-भागयो- रित । मानमेयत्वनिराक्रियेत्यर्थः । यदि तूच्यते मा भूदु यौगपद्ये पूर्व- मालम्बनमुत्तरस्य, क्रमेणैव तु भविष्यति । कथमसतोऽतीतस्यालम्बनत्वमिति चेद , न । शक्त्यर्पणद्वारेणोपपत्तेः । पूर्वं हि ज्ञानमुत्तरस्मिन् वासनापरना- मानं शक्तिमर्पयति । ततस्तद्रूपं तज्जायमानं तदालम्बनमित्याख्यायते, अत आह नचेति ॥ १५८ ॥ किमिति न भ(वः ? वेत् ।) अत आह ---- ग्राह्यमिति । शक्त्य- पणेन हि पूर्वस्य ग्राह्यत्वे ग्राह्यमतीतं भवेत् । अतीतमेव हि तद्वासना- वशादुत्तरेणालम्ब्यते स्मृत्येव पूर्वज्ञानमिति । भवत्वतीतं ग्राह्यं को दोषः अत आह--ताद्रूप्यमिति । ताद्रूप्यमतीतरूपत्वं वर्तमानावभासिनो ग्राह्यस्य संविद्विरुद्धमप्रमाणकं भवेत् । कथं ह्यतीतमबाधितया बुद्ध्या वर्तमानतया गृह्येत । तथावागृह्यमाणमतीतं भवेदिति । कथं तादूप्यमप्रमाणकमत आह ---- अतीतति । अयमभिप्रायः -- पूर्वज्ञानाहितवासनावशेन जायमान- मुत्तरं स्मृतिरूपमेव भवेत् । स्मृत्या च स इत्यतीतत्वानुविद्ध एव स्वगोचरो- ऽनुभूयते । नचेह तथानुभूयते, प्रत्युत्पन्नवदिदमिति संवेदनात् । अतः कथमसंवेद्यमेव तादूप्यं प्रमाणवद् भविष्यति । एतच्च ज्ञानातिरिक्तवासना- भ्युपगमेनोक्तम् । नतु ज्ञानमात्रवादिनां तदतिरिक्ता वासना च काचि- दस्ति । नचोपपद्यते, अनाधारवा(सना)नुपपत्तेः । न चातीतमसद् वासना- धारः सम्भवति । न चोत्तरमनागतम् , असत्त्वादेव । नच परस्य जन्म- कालं यावत् पूर्वमवतिष्ठते येन तस्मिन् वासनामाधाय नश्यतीति शक्यते- ऽवगन्तुम् । क्षणिकत्वात् । नच सन्तानिभ्योऽतिरिक्तः सन्तानो नाम कश्चिदस्ति यो वासनाधारो भवेत् । नचानाधारैव शक्तिरात्मानं लभेत ।
औत्पत्तिकसूत्रे शून्यवादः । १५९ तद्वदेव भवेत् तत्र स्वप्ने न स्याद् विपर्ययात् । तत्र ह्यवर्तमानोऽपि गृह्यते वर्तमानवत् ॥ १६ ॥ बाधज्ञानादिदं भ्रान्तं न त्वत्रैवं विपर्ययः । तस्मात् प्रत्यक्षबुद्धीनां नातीतो विषयो भवेत् ॥ अंतीतत्वाद यथैवासां वृत्तौ जन्मान्तरेषु यः । तद्रूपत्वेन वा ज्ञानं हेतु विवदुच्यते ॥ १६२ ॥ भणितश्चायं वासनामङ्गो निरालम्बनानुमाननिराकरणावसर इत्यलमनेनेति । अत्र चोदयति - - स्वप्ने न स्यादिति । यदुक्तं भवतातीतत्वानुविद्धस्मृत्या- नुभूयत इति । तन्न । स्वप्ने प्रत्युत्पन्ननिर्भासात् । नच न स्मृतिः स्वप्न इति साम्प्रतं प्रत्युत्पन्नकारणान्तराग्रहणात् । नहि तत्रेन्द्रियलिङ्गादि ज्ञान- कारणं किञ्चिदुपलभ्यते । नचाकारणिका ज्ञानोत्पत्तिः सम्भवति । अतोऽवश्यं स्मृतिरेव सेति वक्तव्यम् । स्मृतिरपिच वर्तमानवनिर्भासत इति तद्वदिहापि भविष्यतीति । परिहरति... विपर्ययादिति । सत्यम् । अतीतलन स्वप्ने बोधो न भवति । किन्तु विपर्ययादसौ तथावभासः । (विपर्ययज्ञानं हि ?) तद्वि- पर्ययश्चान्याकारवस्तुगोचरोऽन्याकारो युक्त एवेति नानेन प्रमाणज्ञानानां तुल्यत्वमवगन्तुं शक्यत इति । कीदृशः पुनः स्वप्ने विपर्ययः । तद् दर्श- यति--तत्रेति ॥ १६० ॥ कथं पुनरिदमवगम्यते विपर्ययोऽसाविति । अत आह-बाधति । बाधकं हि तत्र ज्ञानमुत्पद्यते नैतदेवमिति । तज्जानीमोऽवर्तमानमेव तत्र वर्तमानतया भासत इति । एतावच विपर्ययस्य तत्त्वं यदन्यादृशस्यान्यथा- प्रकाशनमिति सूक्तं विपर्ययादिति । नचायमेवम्प्रकारो विपर्ययो जाग्रज्ज्ञानेषु शक्यवचनः। 'सुपरिनिश्चिता हि तत्र जाग्रद्धियः' इत्युक्तमित्यभिप्रायेणा- ह-नेति । एवमुपपादितमतीतविषया न प्रत्यक्षबुद्धय इति । इदानीं प्र. योगेण दर्शयति -- तस्मादिति । अतीतो न प्रत्यक्षविषयः, अतीतत्वात् । जन्मान्तरानुवृत्तवदिति । नच यागिप्रत्यक्षणानकान्तिकत्वं, तन्निराकरणा- दिति । तस्मिन्नेव साध्ये हेतुदृष्टान्तान्तरमाह - - तद्रूपेति । अतीतोऽर्थो न प्रत्यक्षबुद्धिविषयः, तद्रूपत्वेनाज्ञानात् । यन्न स्वरूपेण संवेद्यते तन्न प्रत्यक्ष- धीविषयः यथा भाव्यर्थ इति ॥ १६२॥ .
१६० मीमांसालोकवार्तिकं काशिकाटीकोपेतम् । अतीतत्वेऽपि नार्थोऽयं धीरेषेत्यत्र का प्रमा। अतीतं यच्च विज्ञानं ग्राह्यत्वेन प्रकल्पितम् ॥१६३॥ तत् स्याद् ग्राहकरूपं वा ग्राह्यं वोभयथापि वा। ग्राह्याकारत्वमा स्यादर्थः शब्दान्तरेण ते ॥१६४॥ स्वकाले चाथ संवित्तेन स्याच्छक्त्यर्पणं ततः। यथैवानागताज्ज्ञानात् सन्तत्यन्तरजादपि ॥१६५ ॥ दृढत्वेनाप्यविज्ञातात् तथोत्पन्नाद् विनश्यतः । केवलग्राहकत्वे तु विषयत्वं न युज्यते ॥ १६६ ॥ अस्तु वातीतस्य ग्राह्यत्वं, तथापि सौत्रान्तिकान् पराजित्य तद् वक्तुं युक्तं यज्ज्ञानमेवातीतं ज्ञानेनालम्ब्यते नत्वर्थ इति । ते हि सदशा- परापरोत्पत्तिरूपेण सन्तन्यमानेषु भावेष्वतीतक्षणालम्बनमेव ज्ञानमास्थिताः । वरं तदेव युक्तमाश्रयितुम् । तथाहि -- न तावदत्यन्तमलौकिकी ग्राह्य- ग्राहकसिद्धिरुक्ता भवतीत्यभिप्रायेणाह अतीतेति । किञ्च, एतद- प्यतीतगोचरत्वे ज्ञानस्य विकल्पनीयं यत्तच्छक्त्यर्पणद्वारेण ग्राह्यतया क- ल्पितमतीतं ज्ञानं, तत् किं ग्राबैकस्वभावमाहोस्विद् ग्राहकैकस्वभावमुभय- स्वभावं वेति । सर्वथा नोपपद्यत इत्यभिप्रायेणाह -- अतीतमिति । तत्र ग्रा कस्वभावत्वे तावदर्थ एव शब्दान्तरेणाभ्युपगतो भवतीत्यभिप्रायेणाह- ग्राह्येति । ग्राबैकस्वभावं हि ज्ञानं जडात्मकमर्थ एव शब्दान्तरेणोपपादितो भवतीति ॥ १६४॥ अपिच शक्त्यर्पणे नोत्तरग्राह्यतेष्यते । नच ग्राह्यमात्रात्मनोऽसं- चेतितस्य शक्त्यर्पणं सम्भवति । अननुभूयमानस्य स्मृतिबीजाधानानुपपत्ते- रित्यभिप्रायेणाह --... स्वेति । शक्त्यर्पणाभावमेव प्रयोगेण दर्शयति-य- थेति । नोत्पद्यविनष्टाद् दृष्टासंविदिताच्छक्त्यर्पणं, दृढत्वेनाज्ञानादेव पटुतर- मननुभवादिति यावत् । पठन्ति हि 'वस्तुधर्मो ह्येषः यदनुभवः पटीयान् स्मृतिबीजमाधत्ते' इति । यदनेवंविधं न तेन शक्त्यर्पणं, यथानागतादननु भूतपूर्वात् तथाविधादेव तु सन्तानान्तरजादिति । उक्तो ग्राह्यमाने प्रसङ्गः ।
औत्पत्तिकसूत्रे शून्यवादः । किमपेक्ष्य च तस्येदं ग्राहकत्वं प्रकल्प्यते । द्वयाकारता निरस्तैव संवेद्यत तदैव च॥१६७॥ ततश्चोत्तरविज्ञानं न प्रतीक्षेत बोधकम् । द्वयाकारकल्पनायां च परस्यात्मांश एव ते॥१६८॥ प्रमापर्यवसानेन नातीतो विषयो भवेत् । पूर्वग्राह्यसरूपत्वे ग्राहकत्वं प्रहीयते ॥ १६९ ॥ ग्राहकाकारमात्रे स्याद् विषयो नासरूपतः । नच शक्त्यर्पणस्यात्र व्यापार उपलभ्यते ॥१७० ॥ ग्राहकैकस्वभाव इदानीं दर्शयति- केवलेति । यत् खलु ग्राहकैकस्वभावं तत् खलु कथमुत्तरस्य ग्राह्यं भविष्यति । तथा सति स्वभावनाशादभावा- पत्तेरित्यभिप्रायः ॥ १६६ ॥ किञ्चेदं ग्राहकैकस्वभावत्वं दुरधिगममित्याह --किमिति । ग्राह्या- पेक्षं हि ग्राहकत्वं तदेकस्वभावस्य । न तावत् स्वात्मा ग्राह्यो न ज्ञानान्तरं, तस्याप्येवमेव ग्राहकैकस्वभावत्वादिति । उभयाकारतायां दूषणमाह ब्या- कारता निरस्तैवेति । नैतदस्तीत्यादिना निषिद्ध इत्यर्थः । अपिच, व्याका- रत्वे पूर्वज्ञानं तदैव स्वकाल एव संवेद्यत । तत्रास्य स्वसंवित्तये बोधका- न्तरज्ञानापेक्षा न युक्तेत्याह - संवेद्यतेति ॥ १६७ः ।। अपिच यदि पूर्वज्ञानं द्वयाकारम् , एवं सति परस्यापि तद्भुव. स्तथात्वादात्मांश एव प्रमा पर्यवसितेति किमतीतविषयतयेत्याह-या- कारेति । ग्राबैकस्वभावत्वे च पूर्वस्यायमपरी दोष इत्याह पूर्वेति । 'तदतपिणो भावास्तदतद्रूपहेतुजाः' । इति स्थितिः ॥ १६९॥ अथ कथं पूर्वस्य ग्राह्यमात्ररूपत्वे तज्जन्मनश्चोत्तरस्य ग्राहकत्वं भ- विष्यतीति । यदि तु पूर्व ग्राहकाकारमात्रम् एवं सति नोत्तरस्य विषयो भवेत् , सारूप्यनिबन्धनत्वाद् विषयविषयिभावस्य । पूर्वोत्तरयोश्च पूर्वं ग्राह- काकारमात्रमुत्तरं तु द्वयाकारामेति वैरूप्यमिति न पूर्वविषयतात्तरस्य(न ?) IY
१६२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् ।
शक्त्यर्पणस्य चाभावो युष्मत्पक्षे प्रसाधितः ।
सन्तानान्तरवच्चैषां निषेध्या हेतुसाध्यता ॥ १७१ ॥
वास्यवासकभावश्च ज्ञानत्वादेकसन्ततौ ।
तस्माद् यद् ग्राहकं रूपं तद्रायात् तस्य भिन्नता ॥
तत्संवित्तावसंवित्ते रसादिग्राहकं यथा।
सिध्येत् । तदेतदाह- ग्राहकेति। पूर्वं च केवलग्राहकत्वे ग्रहणकतया
विषयभावो निराकृतः । इह तु वैरूप्यादिति विशेष इति । यच्छक्यपण-
द्वारेण पूर्वस्यालम्बनत्वमुक्तं, तत्तावत् प्रत्युक्तमेव । तत्रैव स्मृत्वा पुनरपि
किञ्चिद् वदति -- नचेति । केनचिद् व्यापारेण कश्चित् कञ्चिदर्पयति ।
नच विज्ञानस्य शक्तयर्पणं प्रति कश्चिद् व्यापारो दृश्यते । क्षणिकत्वाद्
व्यापारकालं यावदनवस्थानाद्, व्यापारान्तरानभ्युपगमाचेति ॥ १७० ॥
किञ्चायं शक्त्यर्पणस्याभावो बौद्धपक्षे निरालम्बनवाद एव प्रपञ्चेन
साधित इत्याह-शक्तयर्पणस्येति । इदानीं यत्तत् पूर्वमुक्तं न पूर्वो-
त्तरज्ञानयोर्हेतुसाध्यत्वमिति, यच्च वास्यवासकभावनिराकरणम् , उभयत्र
प्रयोगमाह- सन्तानेति । क्वचिदेकस्यां सन्ततौ विमतिपदास्पदीभूतायां
न ज्ञानयोहतुहेतुमत्ता, ज्ञानत्वात् , सन्तानान्तरज्ञानवत् । सन्तानान्तर-
ज्ञानानि न सन्तानान्तरहेतुमन्ति, तेषां तत्रानारम्भकत्वात् । एवमेव वास्य-
वासकभावनिराकरणेऽपि प्रयोगो दर्शयितव्यः । इह च ज्ञानान्येव धर्मीणि
समानायां सन्ततावहेतुभूतानीति साध्यो धर्मः । ज्ञानत्वादिति हेतुः । स-
न्तानान्तरज्ञानवदिति दृष्टान्त इति ॥ १७१३ ॥
ग्राह्यग्राहकयोरुपपादितं भेदं प्रयोगेणेदानी दर्शयति
तस्मा-
दिति। यत एव न कथञ्चिद् ज्ञानस्य स्वगोचरत्वं, तस्मात् । यद् रूपस्य
ग्राहकं तत् तु अतो ग्राह्याद् भिन्नं, तत्संवित्तावसवित्तेः । यन्न तत्संवित्तौ
संवेद्यते तत् ततो भिन्नं, रसादिग्राहकवत् । तत्संवित्तावसंवित्तिश्च प्रागेव
साधितेति नासिद्धयाशङ्का । रसादिग्राहकं यथेति चास्य भिन्नमिति वक्ष्य-
माणेन सम्बन्ध इति ॥ १७२६॥
औत्पत्तिकसूत्रे शून्यवादः । १६३ ग्रायं तद् ग्राहकाच्चैव तत्परामृशता यतः ॥१७३॥ न परामृश्यतेऽवश्यं रसादिग्राहकं यथा। द्वयं परस्परेणेवं भिन्नं साध्यं रसादिवत् ॥ १७४ ।। ऐकरूप्येण विज्ञानात् सन्तानान्तरबुद्धिवत् । ज्ञानं स्वांशं न गृह्णाति ज्ञानोत्पत्तेः स्वशक्तिवत् ॥ ग्राह्यत्वप्रतिषेधश्च द्वयहीना द्विवासना । एवमेव ग्राह्यं पक्षीकृत्य ग्राहकाद् भेदो दर्शयितव्य इत्याह ग्राथमिति । अत्रापि रसादिग्राहकमेव दृष्टान्तः । यथा हि तद्रूपग्राहका- नुभवेऽननुभूयमानं ततो भिद्यते, एवं तद्ग्राह्यमपि रूपं, तदपि स्वग्राहक- परामर्शे न परामृश्यत एव । तदपि न स्मरामी'त्यत्र दर्शितमिति । एवमैकै- कश्येन ग्राह्यग्राहकयोमैदं प्रसाध्येदानीमुभयोरपि समाहृत्य दर्शयति द्वयमिति । ग्राह्यग्राहकद्वयं परस्परभिन्नम् । इतरेतरपरामर्श इतरेतरापराम- शीद् रसादिवत् । यथा रूपरसादयोऽन्योन्यपरामर्शेऽपरामृश्यमानाः पर- परेण भिद्यन्ते, एवमेतदपि द्वयमिति ॥ १७४ ॥ प्रकारान्तरेणेदानी ग्राह्यग्राहकयोर्मेदं दर्शयति - ऐकति । ग्राह्यं ग्राहकाद् भिन्नं तेन सहैकरूप्येणाज्ञानात् । यद् येन सहैकरूपेण न ज्ञा- यते तत् ततो भिद्यते यथा सन्तानान्तरघुद्धिः । नचासिद्धो हेतुः, नीलादि- रूपत्वाद् ग्राह्यस्यानाकारस्य च ग्राहकस्य संवेदनात् । एवमेव ग्राहक पक्षीकृत्य हेतुर्दर्शयितव्य इति । प्रयोगान्तरमाह- ज्ञानमिति । ज्ञानं धर्मि, न स्वांशं गृह्णातीति साध्यं, ज्ञानोत्पत्तेरिति हेतुः । तद्धि समनन्तर- प्रत्ययादुत्पद्यत इाते बौद्धा मन्यन्ते । यद् ज्ञानादुत्पद्यते न तत् (पा? स्वां)शं गृह्णाति । यथा ज्ञानस्य स्वशक्तिः । स्वशक्तिरिति ज्ञानज(न्याद् ? न्यां) वासनामपदिशतीति ॥ १७५ ॥ एवमेव ग्राह्यत्वप्रतिषेधप्रयोगो दर्शयितव्य इत्याह ग्राह्येति । ज्ञानं स्वांशेन न गृह्यत इति दर्शयितव्यम् । तावेव हेतुदृष्टान्ताविति । नच साध्यविकलो दृष्टान्तः । द्वयहीनवासनाभ्युपगमात् । बौद्धानां हि स्वांशं न गृहाति । नच तेन गृह्यते । एतच्च चिरन्तनबौद्धाभिप्रायेण ज्ञानातिरिक्त- १६४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । चैत्रज्ञानं तदुतज्ञानांशग्राह्यबोधकम् ॥ १७६ ॥ ज्ञानत्वान्न भवेद् यद्वत् तस्य देहान्तरोद्भवम् । एतयैव दिशा वाच्या शक्तिद्वयनिराक्रिया ॥१७७॥ प्रमाणान्तरसिद्धत्वादन्यत्रानेकशक्तिता। नत्वत्र कारणं ताहक्छक्तिभेदकृदस्ति ते ॥ १७८॥ तस्मादुभयसिद्धत्वाल्लाघवाद्यपरिग्रहः । वासनापक्षे स्थित्वोक्तमिति द्रष्टव्यम् । नतूपादानापरनाम्नो विशिष्टात् सम- नन्तरज्ञानादन्यां काञ्चिद् वासनामर्वाचीना मन्यन्ते। तन्निरासोऽपि चास्मा- भिरुक्त एवेति । अन्यथा ग्राह्यग्राहकयोर्भेदं दर्शयति ---चैत्रेति । चैत्रज्ञानं धर्मि । तच्चैत्रोद्भूतो यो ज्ञानांशो ग्राह्यस्तस्य बोधकं न भवतीति साध्यम् । ज्ञानत्वात् । यद् यद् ज्ञानं न तत् तद्बोधनं यथा देहान्तरोद्भवमिति । ग्राह्यग्राहकशक्तिनिराकरणं चैतेनैव प्रकारेण दर्शयितव्यमित्याह - एतयै- वेति । एषा चात्र दिक् । न ज्ञानं द्विशक्तिकं, ज्ञानोत्पत्तेः, स्वशक्तिवत् । तथा न ज्ञानं द्विशक्तिकं, ज्ञानत्वादन्यतरांशवत् । अन्यतरांशो हि ज्ञान- मेव । नचासौ द्विशक्तिकः, द्वैविध्याभ्युपगमात् । इतरथा चातुर्विध्यप्रसङ्ग इति ॥ १७॥ ननु शक्यमनेनैव प्रकारेण (ना? आ)त्मनोऽपि वस्तुत्वाद् घटवद् द्वि- शक्तिकत्वं वारयितुमत आह-प्रमाणेति । दर्शितं ह्यस्मत्प्रयोगसम्भिन्न- बोधबोध्यत्वादात्मनो द्विरूपत्वम् । न तदनुमानेन वारयितुं शक्यते, प्रत्यक्ष- बाधकप्रसङ्गादिति भावः । ज्ञाने तु नात्मवद् द्विशक्तिकत्वं शक्यते कल्प- यितुं, प्रमाणान्तराभावादिति । एतदप्युक्तमित्याह-नत्वत्रेति । यत एव-. मेकस्य द्विरूपत्वमनुपपन्नम् , अतोऽवश्यमेव ज्ञानाद् भिन्नं नीलादि ग्राह्य- मेष्टव्यम् , एवञ्च प्रमाणबलादापद्यमानो वस्तुभेदो न कल्पनागौरवमापाद- यतीति ॥ १७८॥ यदुक्तमनेककल्पनाया एककल्पना ज्यायसीति, तत् परिहृतं, नखलु प्रत्यक्षसिद्धोऽर्थः कल्पनीयः । नच तद्बलभाविनी ज्ञानकल्पना शक्यते वार- यितुम् । प्रमाणवन्ति सुबहून्यप्यदृष्टानि कल्पनीयान्येव । अत एवोमय औत्पत्तिकसूत्रे शून्यवादः । १६५ उपायत्वाञ्च यत् तस्य पूर्वग्रहणकल्पनम् ॥ १७९ ॥ चक्षुरादीन्द्रियैरत्र तदनैकान्तिकं भवेत् । यदप्यप्रतिबद्धत्वादुत्पत्तौ गृह्यतामिति ॥ १८० ॥ तत्रात्मना न शक्यं तन्नान्योत्पत्तिस्तदस्ति वा। तेनैतत् कारणाभावात् तदानीं नानुभूयते ॥१८१॥ सिद्धत्वाद् ज्ञानस्याकारकल्पना न्याय्येति यदुक्तं तदपि प्रत्याख्यातम् । यदि हि वयमाकारं दृष्ट्वा कस्यायमिति तदाश्रयमन्विच्छेम तदोभयसिद्ध- त्वाद् ज्ञानाकारोऽयमित्युच्येतापि । प्रतिष्ठिताश्रयमेव तु प्रत्यक्षसामर्थ्या- दाकारमवगच्छन्तो नास्याश्रयान्तरमीहामहे । नचैवास्माकमसिद्धेऽर्थाकारे ज्ञानमपि सिद्धं येनोभयसिद्धं भवेत् । नहि तन्निराकारमनुभूयते । प्रत्यक्षे- णार्थ एव हि बातस्तस्य प्रमाणं भविष्यति । स चेदनिष्टो नास्य कल्प- नायां प्रमाणमस्तीति कथमुभयसिद्धत्वं, तदेतदाह -तस्पादिति। आदि- शब्देन शक्तिमात्रस्य भेद इति यदुक्तं तदुपादत्त इति । उक्तदोषपरि- हारप्रपञ्चम् अतः परमारममाणः यत्तावदुक्तमुपायत्वाद् ज्ञानमेव प्रथममव- गन्तव्यमुपायाधीनसिद्धिवादुपेयानाम् , नच तदाकारमन्तरेण प्रतीयत इति ज्ञानाकार एवायमिति, तत् तावत् परिहरति उपायेति । सत्यम् अर्थ-. सिद्धावुपायो ज्ञानं, न ववश्यमुपायग्रहणाधीनमुपेयावधारणम् । नहि चक्षू रूपपरिच्छेदोपाय इति. ततः पूर्वमनुभूयते । यत्तूपायत्वात् प्रथममव- गन्तव्यमिति, तत् तैरेव चक्षुरादिभिरनैकान्तिकमिति नोपायस्थ सतो ज्ञा. नस्य पूर्वानुभवं साधयितुमलमिति ॥ १७९ ।। यत्पुनरुक्तम् - उत्पन्नस्य सतोऽप्रतिबद्धस्य ज्ञानस्य नाग्रहणकार- णमस्ति अतो ग्रहीतव्यमिति, तदनुभाष्य परिहरति- यदपीति । अय- मभिप्रायः - सत्यं ज्ञानमुत्पन्नमप्रतिबद्धं केनचित् । नत्वतावतैव ग्रहीतव्यं भवति, ग्राहकाभावेनाग्रहणोपपत्तेः । न तावदिदमात्मनात्मानं ग्रहीतुं शक्य- मित्युक्तम् । अन्यच, ज्ञानं तदा नोत्पन्नमेव अर्थापत्तिर्हि सा । सा च पश्चा- देव भविष्यतीत्यतः सतोऽपि ज्ञानस्थ ग्रहणकारणाभावादग्रहणं युक्तमेवे- त्याह तेनेति ।। १८१ ॥ , .
१६६ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । नान्यथा ह्यर्थसद्भावो दृष्टः सन्नुपपद्यते। ज्ञानं चेन्नेत्यतः पश्चात् प्रमाणमुपजायते ॥ १८२ ॥ नचापि प्रतिबन्धेन केवलेनाग्रहो भवेत् । विशिष्टकारणाभावेऽप्यों नैवानुभूयते ॥ १८३ ॥ व्यापृतं चार्थसंवित्तौ ज्ञानं नात्मानमृच्छति। तेन प्रकाशकत्वेऽपि बोधायान्यत् प्रतीयते ॥१८४॥ ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम् । यदि स्त्रकाले नावगतं, कथं तर्हि पश्चादवगम्यते । अत आह- नान्यथेति । अस्ति हि खलु पश्चाद् ज्ञानावधारणे प्रमाणमर्थापत्तिः । ज्ञातार्थान्यथानुपपत्तिप्रभवा सा प्रागज्ञातेऽर्थे न जायते, पायादुपजायत इति युक्तमेव प्रमाणसद्भावादुत्तरकालमेव ग्रहणम् । परिचोदनापरिहारश्वोक्त ए- वेति नेह प्रतन्यत इति ।। १८२ ॥ नन्वस्तु तावत् परस्तात् प्रमाणसद्भावः, पूर्वमपि त्वप्रतिबन्धस्य क- स्मादग्रहणमत आह-नचेति । नाप्रतिबन्धमित्येव वस्तुपलभ्यते । अप्रति- बन्धस्याप्यनुपलम्भनात् । कारणसामग्रीविशेषसमवधानसम्पादितं हि भावानां ग्रहणम् । तदप्रतिबन्धानामपि तदभावे न भवति । किमनुपपन्नमिति ॥१८३॥ का पुनानग्रहणे सामग्री। यदि ज्ञानं, केम(न्य ? स्य)ज्ञानान्तरेण । नन्विदमेव स्वभावतो ज्ञानं प्रकाशात्मकम् , अप्रकाशात्मनां तु भावान्तरा- णामप्रतिबद्धानामप्यस्तु प्रकाशान्तरापेक्षा । अत एवोकं 'नचाप्रकाशरूप- त्वम्' इति । अतो नोत्पन्नस्य ज्ञानस्याग्रहणे कारणमुपलभामहे आह-व्यापृतामिति । सत्यम् प्रकाशकं ज्ञानं , तथापि नात्मानं प्रकाशयति अर्थसंवित्तौ व्यापृतत्वात् । नहि बहिर्विषयप्रकाशने व्यापृतः प्रदीपः आत्मानमपि प्रकाशयति । तत्प्रकाशने चक्षुषोऽप्रेक्षणात् । अतो युक्तमेव प्रकाशात्मनोऽपि स्वबोधायान्यापेक्षणमिति ॥ १८४ ॥ अथवा प्रकाशकं ज्ञानमित्येव कुतः, अर्थापरोक्षीभावो हि तस्य तथात्वे प्रमाणम् । ततश्वार्थानुभवस्वभावमेव तत् सिध्यतीति न स्वात्मान- मपि प्रकाशयतीत्याह ईदृशमिति । एवमपि स्वात्मानं प्रकाशयेद् अत - ॥ औत्पत्तिकसूत्रे शून्यवादः । १६७ नचात्मानुभवोऽस्त्यस्येत्यात्मनो न प्रकाशकम् ॥ सति प्रकाशकत्वे च व्यवस्था दृश्यते यथा । रूपादौ चक्षुरादीनां तथात्रापि भविष्यति ॥१८६ ॥ प्रकाशकत्वं बाह्येऽर्थे शक्त्यभावात् तु नात्मनि । अन्येन वानुभावेऽसावनवस्था प्रसज्यते ॥ १८७ ।। तत्र तत्र स्मृतिं दृष्ट्वा सर्वानुभवकल्पना । एकेन त्वनुभूतत्वे सर्व तत्रैव सम्भवेत् ॥१८८॥ तत्रापि स्मृतिरित्येतन्न लोकानुमतं वचः। नहि विज्ञानसन्तानं कश्चित् स्मरति लौकिकः ॥ यद्यर्थवद् ज्ञानात्मापि ज्ञानजन्मन्यनुभूयते, न वसावनुभूयते इत्युक्तमेवे- सभिप्रायेणाह-नचेति । नच यदेकस्य प्रकाशकं तेन सर्वस्यैव प्रकाश- केन भवितव्यम् । नहि चक्षुरादीनीन्द्रियाणि प्रकाशकान्यपि विषयतः सकीर्यन्ते, व्यवस्थाया उक्तत्वात् । एवमिहापि बाह्यस्य प्रकाशकं ज्ञानं, नात्मन इति न नोपपन्नमित्याह --- सति सार्धेन । प्रकाशकपदोपचारस्तु कथञ्चित् प्रकाशे कर्तृभावमाश्रित्य वक्तव्यः । अन्यथा हि प्रकाशानन्त्यं भवे- दित्युक्तमेवेति ॥ १८६३ ॥ यसूक्तं "तस्य तस्यापि चान्येन संवित्तावस्थितिर्भवेत् ।" इति, तद् दूषयितुमनुभाषते--अन्येनेति सार्धेन । एवं हि पररुक्तं यदि किल ज्ञानान्तरेण ज्ञानं ज्ञायते, ततस्तरय तस्य ज्ञानस्य स्मरणात् पूर्वानु- भवकल्पनायामनवस्था भवेत् । एकेन तु ज्ञानेन विषयाकारे स्वाकारे च 'प्रवेदिते सर्वमेव ग्राह्यग्राहकाकारस्मरणं तत्रैव स्यात्। तथाचानवस्था परि- हृता भवति । तस्मान्न ज्ञानान्तरेण वेद्यं ज्ञानमिति ।। १८८ ।। एवमनुभाषिते दूषणमाह --- तत्रापीति । यदेतदुच्यते तत्र तत्र स्मरणदर्शनेन सर्वत्रानुभवकल्पनायामनवस्थेति, तदयुक्तम् । स्मृत्यसिद्धेः । गृहीतविषया हि स्मृतिर्भवतीति नागृहीतं ज्ञानं स्मर्तुं शक्यम् । गृहीत- स्मरणे तु यावद्ग्रहणमेव स्मरणव्यवस्थानानानवस्थेति वक्ष्यते । भवति हि १६८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । घटादावगृहीतेऽर्थे यदि तावदनन्तरम् । अर्थापत्त्यावबुध्यन्ते विज्ञानानि पुनः पुनः ॥१९०॥ यावच्छूमं ततः पश्चात् ताव त्येन्त्ये)व स्मरिष्यति । तदा त्वकल्पितेऽप्येवं स्मृतिवन्ध्यासुतादिवत् ॥ स्मृतिभ्रान्तिश्च याप्यत्र पश्चाज्ज्ञानेषु जायते । तदैवार्थस्मृतेरेषां तज्ज्ञानादिप्रमाणता ॥ ११२ ॥ यावच्छूमं च तद्बुद्धिस्तत्प्रबन्धे महत्यपि । श्रमाद् रुच्यान्यसम्पाद् विच्छेदो विषयेष्विव ।। कदाचिदेतद् द्वित्राणि ज्ञानान्यनुभूतपूर्वाणि स्मर्यन्त इति । विज्ञानसन्तान- स्मरणं त्वलौकिकमेवेति ।। १८९ ।। यदि त्वर्थज्ञाततान्यथानुपपत्त्या ज्ञानमवगम्य पुनस्तज्ज्ञाततावशेन तद्विषयं ज्ञानान्तरं कल्पयति, पुनश्चानेनैव क्रमेण यावच्छूमं ज्ञानानि ज्ञा- तानि । ततो यावज्ज्ञातस्मरणाद् नानवस्थेत्याह-घटादाविति सार्धेन । यत्तु प्रागनवगतानामेन ज्ञानानां स्मरणमुच्यते, तद् वन्ध्यासुतादिस्मरण- तुल्यमशक्यमेव वक्तुमित्याह ---- तदेति ॥ १९१ ।। यत्तु भिक्षुणा सिद्धवत् तत्रापि स्मृतिरित्युक्तं , तद् भ्रान्तभाषित- मेव । अस्ति च भ्रान्तौ निबन्धनम् । अर्थो हि तत्र स्मयते । ततमरणान्यथा- नुपपत्त्या च तस्य प्राग् ज्ञातत्वमेव कल्प्यते । ततोऽपि प्राचीनज्ञानकल्पना । तदिह संसर्गमोहितधियां ज्ञानेऽपि स्मृतिविभ्रमः । न त्वाद्यज्ञानस्मरणम- प्याशङ्कयम् । प्रागेव सन्तानस्मरणं, तदेतदाह स्मृतिभ्रान्तिरिति। अर्थस्मृतेः खल्वियं तज्ज्ञानादिप्रमाणता विलसति, यदेतज्ज्ञानेऽपि स्मृतिभ्रमो भवति । अर्थस्मृत्या हि ज्ञाने प्रमीयमाणे स्मृतिविषयार्थसन्निकर्षाद् ज्ञानेऽपि . स्मरणमिति भ्राम्यति । आदिशब्देन चात्र ज्ञानज्ञानमुपादीयत इति ॥१९२॥ स्मृत्यापि ज्ञानप्रमायां यावच्छूमं तद्ग्रहणाद् विषयान्सरसञ्चारोप- पत्तिरित्याभिप्रायेणाह यावदिति । अयमभिप्रायः --- न तावन्ति ज्ञा- नानि जायन्ते यदि तु ज्ञातुमिष्यन्ते यावच्छूमं तबुद्धिर्भविष्यति या. वन्ति ज्ञानानि बुध्यमानो न श्राम्यति । स्मृत्यनुसारेणापि तावद् भोत्स्यते औत्पत्तिकसूत्रे शून्यवादः । १६९ तत्रापि स्मृतिरित्येषा प्रथमे प्रत्यये यदि। तन्मात्रग्रहणादेवं नानवस्था प्रसज्यते॥१९४॥ स्मरणं त्वथ सर्वेषु तत्सिद्धयै ग्रहणं तथा। प्रमाणवत्त्वादायातः प्रवाहः केन वार्यते॥१९५॥ अथ तान्यायविज्ञानविषयाणीति कल्प्यते । इत्यभिप्राय विवृणोति तत्प्रबन्ध इति । यावच्छूमं तावद् बुद्धयो ज्ञा- यन्ते, ततो महत्यपि बुद्धिप्रबन्धे ज्ञाते श्रमाद् वा विषयान्तराभिलाषेण वा- न्यसम्पर्काद् बुद्धिज्ञानाद् विच्छेदो भवति । यथा विषयेष्वेव रमणीयेषु गीतादिष्वनुभूयमानेषु विषयान्तराभिलाषात् पूर्वविषयविच्छेदो भवतीत्यनु- पपन्नं विषयान्तरसञ्चारो न स्यादिति ॥ १९३ ॥ किञ्च यदेतदुक्तं तत्रापि च स्मृतिरिति, तत् किं प्रथमज्ञानाभिप्रा- येण, उत तत्रतत्रेति वीप्सामभिप्रेत्य । पूर्वस्मिन् कल्पे नानवस्था । एको हि प्रथमः प्रत्ययः । अतः का तद्ग्रहणेऽनवस्था, तदेतदाह तत्रेति ॥ १९४ ॥ यदितु संविप्रवाहमेवाभिप्रेत्य तत्रापि स्मृतिरित्युच्यते, तन्न ताव- दस्तीत्युक्तम् । उपेत्यापि ब्रूमः । यदि बहून्येव परस्ताद् ज्ञानानि स्मर्यन्ते, ततो ग्रहणकारणत्वात् स्मृतेस्तसिद्धये ग्रहणान्यपि कल्पयिष्यामः । कथ- मपरथा गृहीतविषया स्मृतिर्भविष्यति । न त्वेवमपि ज्ञानान्तरनिरपेक्षमेव ज्ञानमवसीयत इति युक्ता कल्पना, स्वसंवित्तिप्रतिषेधात् । अतो वरं प्रमा- गवलादायातः संविप्रवाहः, नपुनः स्वसंवित्तिकल्पनेत्यभिप्रायेणाह स्मरणमिति । पूर्व च घटादौ गृहीत इत्यत्र यद्येवं स्याद् , एवं सति तत्रापि स्मृतिरित्युपपद्येत । तथा नानवस्था, यावदवगतस्मरणात् । न त्वेत- दप्यस्तीति तद् दर्शितम् । इदानीं तु यद्युत्तरोत्तरविषयाः स्मृतयो दृश्यन्ते ततस्तदर्शनाद् ग्रहणप्रवाहकल्पनैव प्रमाणवती, न स्वसंवित्तिकल्पनेति विवेक इति ।। १९५॥ यदि तूच्यते, सत्यम् अस्त्ययं ग्रहणप्रवाहः । किन्वाद्यज्ञानगोचरा- ण्येव तानि ग्रहणानि । ज्ञानमेव हि तत्रायं नार्थः । ज्ञानमेव विषयाकारेण
१७० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतन् ।
नोत्तरोत्तरबुद्धीनां विशेष उपपद्यते ॥ १९६ ॥
विज्ञानविषयत्वं च यस्य सर्वासु बुद्धिषु ।
घटविज्ञानतज्ज्ञानविशेषस्तेन दुर्लभः ॥ १९७ ।।
स्मरन् यथैव विज्ञानं निराकारं स्मरत्ययम्,
तथा स्मरन् गृहीतार्थ निराकारतया स्मरेत् ॥
स्वाकारेण च निरूप्यते । तद्विषयं च तस्मरणमन्यत् । एवमेवापरमिति
न किश्चिदर्थविषयज्ञानमित्याशङ्कया सहाह- अथेति । अयमभिप्रायः-
सारूप्येण हि विषयभावः । तद् यदाधविज्ञानविषयमेकम् , एवं सति
तत्तावत् ततोऽविलक्षणं प्रथमवद् घट इत्येव भवेत् । एवं तृतीयाधपीति
नोत्तरोत्तरबुद्धयो भिघेरन् । अर्थवादिनस्तु प्रथममर्थविषयं घट इति ज्ञानं,
द्वितीयं तु.ज्ञानविषयं, तृतीयज्ञानं तु ज्ञानज्ञानविषयम् । अनाकारलेऽपि
चाकारवतामिव स्वाभाविकः संविदां भेद इत्युक्तमेवेत्याकारप्रचयदर्शनमुप-
पद्यते ज्ञानेषु जिज्ञासितेषु, नतु बौद्धस्येति विपरीतप्रसङ्गोऽभिहितः । एतच्च
प्रथमज्ञानस्य स्वसंवित्तिमभ्युपेत्योच्यते । प्राङ् निराकृतोऽप्ययं ज्ञानविष-
यत्वपक्ष इदानीं दूषणान्तराभिधित्सया पुनरुपक्षिप्त इति ॥ १९६ ॥
अयं चापरो विज्ञायते न विषये बुद्धीनां दोष इत्याह-विज्ञा-
नेति । अयमर्थः-यस्य सर्वा बुद्धयो विज्ञानविषयाः, तस्य घटज्ञानं घट-
ज्ञानज्ञानं वा विज्ञानविषयत्वान्न भिद्यत इति ॥ १९७ ।।
अविशेषमेव दर्शयति-स्मरनिति । एष हि ज्ञातपूर्वमर्थ कदाचित्
प्रस्मृतवान् विज्ञानमनाकारं स्मरति अर्थ च सर्वदा साकारं घट इति, तन्नोप:
पद्यते । प्रस्मृतार्थविषयविज्ञानस्मरणं ह्यनाकारमेव दृष्टम् । एवं स घट इत्यपि
स्मृतिविज्ञानं विज्ञानविषयमेवेति तदप्यनाकारमेव भवेत् । साकारत्वे वा
प्रस्मृतार्थविज्ञानस्मृतेरपि साकारत्वप्रसङ्गोऽविशेषात् । अतो योऽयं घटविक
यस्य स्मृतिविज्ञानस्य प्रस्मृतघटविज्ञानविषयस्य च स्मृतिविज्ञानस्य विशेषः,
स विज्ञानविषयले बुद्धीनां न भवेत् । अतः काचिद् विज्ञानविषया काचि-
दर्थविषयेति साकारानाकारभेदसिद्धिरिति ॥ १९८॥
औत्पत्तिकसूत्रे शून्यवादः । १७१ ज्ञानप्रष्ठेन योऽप्यूवं परामर्शो भवत्यसौ । तस्यार्थेष्वभ्युपायत्वान्न तु ग्राह्यत्वकारितः॥ १९९ ॥ प्रत्यासन्नत्वसम्बन्धी ग्राह्यत्वासम्भवाच्च्युतौ। विषयत्वेन वाप्येतौ स्तः किं देशाविभागतः॥२०॥ यदपि प्राग ज्ञानस्य संवेदनमित्यत्र कारणमुक्तं ज्ञानप्रष्ठेने परामर्श- दर्शनं, तदपि न युक्तम् । न ह्ययं ज्ञानप्रष्ठेन परामर्शो ज्ञानस्य ग्राह्यताकृतः। किन्त्वर्थस्थितौ ज्ञानमभ्युपाय इति तदनुसार्यर्थकथनं ज्ञातोऽसावर्थो मयेति । तदिदानीमेव च स्मृतस्तत्र ज्ञानानुमानम् । न तु प्रागेव ज्ञानपुरस्सरमसौ ज्ञातः । यदा तु कश्चित् तथाविधार्थसदसद्भावयोः पर्यनुयुक्त, तदा ज्ञानो- पायत्वादर्थस्य ज्ञानपुरस्सरमर्थस्थापनं भवत्यासीदसावर्थः यस्मान्मया पूर्व- मवगत इति । अतो नानेन ज्ञानस्य पूर्वोपलब्धिः शक्या कल्पयितुम् । तदेतदाह-ज्ञानप्रष्ठेनेति ॥ १९९ ॥ यत्तूक्तं ज्ञानाकारपक्षे प्रत्यासन्नं सम्बद्धं ग्राह्यं भवति, इतरथास- म्बन्धमतिदूरवर्ति च ग्राह्यमभ्युपगतं भवतीति । तत् परिहरति सन्नेति । अयमभिप्रायः -- यथाकथञ्चिन्नैकाम्ये ग्राह्यग्राहकभावः सम्भ- वतीत्युक्तम् । तदा किं कुर्मोऽसम्बन्धमसन्निहितं च ग्राह्यमनुजानीमो न खल दूरदेशा(न्दी ? दि)वार्ताभ्यो हृदयमनुविपरिवर्तमाना भावा न गृह्यन्त इति शक्यते वक्तुं संविद्विरोधादिति । एवं तावदसम्भवादासत्तिसम्बन्धी न स्यातामित्युक्तम् । न वा हीयेत । नहि देशाविभाग एव सर्वत्र सम्बन्धः। विषयविषयिभावोऽपि हि सम्बन्ध एव । अस्ति चासौ ज्ञानार्थयोः । ज्ञानो- सत्तौ तदवासेरिदमेव च तस्य सन्निधानमर्थेन यदुत्पन्ने तस्मिन्नर्थों मासत इत्यभिप्रायेणाह-विषयेति । किं पुनरिदमर्थो भासत इति । न ज्ञानाद- न्यदर्थस्य भासनम् । संवित्तौ वा कथं विषयाकारो भासते । एवंतर्हि नास्ति तदभावे चान्यानवमासनादभाववाद एव । तदवश्यास्थेयमिदं ज्ञानो- सत्तावभूतपूर्वो भावानां कोऽपि भेदः सकलप्रमातृप्रत्यात्मवेदनीयः । ते तु भावा ज्ञानाकारा बहिर्वेत्यन्यदेतत् । येऽपि फलभूतामर्थसंविदं स्वप्रका- शामाहुः, तैरपि कोऽप्यनिर्वचनीयोऽर्थगतो विकारो दर्शयितव्य एव । कय- प्रत्या- १७२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । अर्थाकारस्य योऽप्युक्तो मिथ्याज्ञानेष्वसम्भवः । देशकालान्यथामात्रसम्भवः केषुचित् कृतः ॥२०१॥ प्रत्यक्षादन्यविज्ञानमतीतानागतैरपि । मन्यथा संविप्रकाशेऽर्थः सिध्येत् । न ह्यन्यप्रकाशेऽन्यत् सिध्येद् , अति- प्रसङ्गात् । अन्या च संविदान्तरा, अन्यो बहिरर्थः । सोऽपि भासत इति चेत् , तद्वदेव तर्हि सोऽपि स्वप्रकाश एव । संविदायत्तो न स्वप्रकाश इति चेद्, नन्विदमेवास्माभिर्जिज्ञास्यते किमस्य संविदायत्तत्वमिति । स्वरूपं तावत् स्वकारणसामग्रवायत्तमेव । प्रकाशोऽपि तस्य संविदेव न तदायत्तः । तदवश्यमप्राप्तपूर्वस्य काचित् फलोत्पत्तावस्ति प्राप्तिरित्यास्थेयं यदायत्तोऽस्य संवेदनं नान्यस्येति विवेकः । सैव चास्माभितितादिपदै- रभिधीयते । अतः सिद्धं विषयत्वेनापि प्रत्यासत्तिसम्बन्धौ स्त इति ॥२०० ॥ योऽपि मिथ्याज्ञानेष्वकारसम्भव उक्तः, तमनुभाष्य परिहरति अर्थेति । अयमर्थः - योऽयं द्विचन्द्रादिबोधेष्वाकारासम्भव उक्तः, सोऽयुक्तः । तथाहि । सम्यग्ज्ञानेषु तावन्नाकारासम्भवः । केषुचित्तु मिथ्याज्ञानेषु देशान्यथात्वमात्रेण कालान्यथात्वमात्रेण वार्थाकारसम्भवो- ऽस्माभिः कृतः निरालम्बनवादे वर्णित इति यावत् । अतो न कचिदर्था- कारासम्भवः तत् पुनरिदं प्रतिभासविपरीतमभिधीयते । देशान्तरादिस्थो- ऽर्थों भासते, अन्यत्र स्थितश्चार्थोऽन्यत्रालम्ब्यत इति संविदनुसारेण हि भवन्तो बहिरर्थमवस्थापयन्ति । सा च देशान्तरादिगोचरा कथमन्यत्रार्थमा- लम्बत इति शक्यते वक्तुम् । एवं हि स्वांशालम्बनत्वेन किमपराद्धं येन तन्निराक्रियते । मैवम् । उक्तमस्माभिर्निरालम्बनवाद एव बाधकानुसारिणी हि मिथ्यात्वकल्पना । बाधकं च देशादिसंसर्गमेव वारयति, नहि बहि- वस्तुसत्ताम् । तद्धि न द्वौ चन्द्राविति चन्द्रद्वित्वं निषेधति, न द्वित्वं चन्द्र वेति कथं तौ पहिर्भासमानावपहास्यामः । अतो नेह संविद्विपरीतं किञ्चि- दिति ॥ २०१॥ स्यादेतत् । कथमतीता अर्था असन्तो ज्ञानावलम्बनमिति । उक्त- परिहारत्वात् । उक्तं हि प्रत्यक्षधर्मों वर्तमानसनिहितविषयता ज्ञानान्तराणां - औत्पत्तिकसूत्रे शून्यवादः । १७३ जन्यतेऽर्थे भवन्तीषु वासनास्वसतीषु वा ॥ २०२ ॥ यः पुनर्नानुभूतोऽर्थो न चाप्यनुभविष्यते । वासनाभावतस्तत्र तवाप्यनुभवः कथम् ॥ २०३ ॥ विनापि वासनातश्चेद् बुद्धिरुत्पद्यते ततः। नेति निरालम्बन एव, तदेतदाह -प्रत्यक्षादिति । यत्तावल्लैङ्गिकमतीता- दिगोचरं ज्ञानं तत् प्रत्युत्पन्नलिङ्गादिजनकमसतीष्वेव वासनासु भवति । यत्त्वन्यज्जाग्रत्स्मृति ज्ञानं स्वप्मज्ञानं वा, तद् भवन्तीषु वासनासु भवति प्रत्युत्पन्नकारणान्तराभावादिति ॥ २०२ ॥ ये छत्यन्ताननुभूता अर्था अनुभूयन्ते, तत्र वासनादिकारणान्तरा- सम्भवान्नास्ति ज्ञानाकारत्वादन्या गतिरत आह य इति । अयमभि- प्रायः -- तवापि तथाविधानुभवे किं कारणं, बौद्धोऽपि वासनामेव ज्ञान- कारणं मन्यते । नचात्यन्ताननुभूतपूर्वेऽर्थे वासना सम्भवति, अर्थज्ञानाहि- तसंस्काराभिधानत्वाद् वासनाशब्दस्य । स्यादेतत् । न ज्ञानजन्मा संस्कारो वासना । किन्तु ज्ञानमेव किञ्चिदनवगतपूर्वार्थसंवेदनकार्योन्नेयशक्तिभेद- मिति । तन्न । लोके तथानवगमात् । ज्ञानयोनिरेव संस्कारो वासनेति लौकिका मन्यन्ते, न ज्ञानमेव । अपिच, समनन्तरज्ञानमतदाकारं, तत् कथं तदाकारां धियमुपजनयितुमलं "तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।" इति वः सिद्धान्तः । यदि त्वयमपि कार्यकारणभावो नेष्यते, अस्तु तर्हि कादाचित्कमप्यनपेक्षमेव ज्ञानम् । किं समनन्तरप्रत्ययाधीनव्यसनेन । अ- तोऽवश्याश्रयणीया काचिज्ज्ञानाद् भिन्ना वासना, योद्भूता सती विसदृश- सन्तानतिरोधानेन सदृश मेव ज्ञानमारभत इति भवद्भिरप्यास्थेयम् । नचा- सन्ताननुभूतेषु सा सम्भवतीति तुल्यत्वमावयोः । नचाप्यनुभविष्यत इत्या- यन्तिकवासनासम्भवप्रकटनाथ, नतु भविप्यतोऽनुभवस्य कश्चिद् वासना- यामुपयोग इति ॥ २०३ ॥ यदि तु अनादृत्यैव वासनां ज्ञानोत्पत्तिराश्रीयते, एवन्तर्हि यचिरन्तनै- .- १७४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । वासनायां निमित्तत्वमभ्युपेतं विरुध्यते ॥ २०१॥ वासना चेद् भवेत् तत्र सा च संवित्तिपूर्विका । तथा सति च पूर्वत्र गृहीतः काप्यसौ ध्रुवम् ॥२०५॥ एवं च नैव वक्तव्यमत्यन्ताभवनं क्वचित् । अन्यथानुपपत्त्या हि सिद्धा जन्मान्तरेऽस्तिता॥२०६॥ दुष्टत्वेन च विज्ञानमन्यथापि व्यवस्थितम पृथिव्यादिषु गृह्णीयादाकारं तन्निबन्धनम ॥ २०७॥ बौद्धर्वासनायां निमित्तत्वमाश्रितं तद् विरुध्यत इत्याह-विनेति॥२०४॥ तत्रापि तु वासनाभ्युपगमे तस्याः संवित्कारणत्वादसावननुभूतो- ऽप्यर्थ इह जन्मनि कापि जन्मान्तरादावनुभूत इत्यभ्युपेय इत्याह-वास- नेति ॥ २०५॥ किमतो यद्येवमत आह एवंचेति । अभवनमभावः । दुःस्वप्ने- उनुभूयमानस्य संसर्गस्य न कस्यचिदत्यन्ताभाव इति । किं पुनस्तद्भावे प्र- माणमत आह - अन्यथेति । ज्ञानं हि कार्य न तावदकारणकं निष्पद्यते । न चास्य प्रत्युत्पन्नेन्द्रियादिकारणं किञ्चिदुपलभ्यते । स्वप्ने न चेदु वासनापि कारणं न स्यादेव । न चासौ पूर्वज्ञानमन्तरेण भवति । तद् यदि नेहासा- वर्थो ज्ञातः, नूनं जन्मान्तरेऽनुभूत इति ॥ २०६ ।। ये तीत्यन्तासम्भावनीयज्ञानार्थाः स्वशिरश्छेदादयः, तेऽसम्भव- द्वासनाः कथमवसीयन्ते । अतस्तत्र ज्ञाना(कार)कल्पनैव साधीयसी नार्था- कारकल्पना, अत आह दुष्टत्वेनेति । अयमभिप्रायः यदा न कथ- श्चित् स्वसंवेदनं ज्ञानमित्युक्तं तदा य एवैते पृथिव्यादयोऽर्था बहिरवस्थिता गृह्यन्ते, तेप्वेव कुतश्चित् कारणदोषाद् दुष्टं विज्ञानमन्यथास्थितमाकार गृह्णाति । अदुष्टं तु यथावस्थितम् । न कचिदपि ज्ञानाकारानुभवः । तन्निव- न्धनमिति । पृथिव्यादिनिबन्धनमित्यर्थः । पृथिव्यादिसूक्ष्माण्येव हि स्थला- रम्भ कारणम् । एतेन कल्पनानिबन्धनत्वं प्रधाननिबन्धनलं च निराकरोति । न तावत् कल्पनानिबन्धनत्वमबाधितत्वात् । न प्रधाननिबन्धनत्वमप्रमाण- कत्वात् । दृश्यते तु सूक्ष्मतरादिक्रमेण पृथिव्यादीनामेव कार्यद्रव्येष्वारम्भ- ... औत्पत्तिकसूत्रे शून्यवादः । १७५ तानपास्य तु नैवार्थे क्वचिदाकारकल्पना। नं ज्ञानं ह्यनवष्टम्भमात्मानं लब्धुमर्हति ।। २०८ ॥ विज्ञानस्यैव वाकारो यद्येषोऽन्ये च कल्पिताः । विशेषः कोऽत्र येनायमत्यन्तासन्नितीष्यते ॥ २०९॥ तस्माद् भ्रान्तिरपि त्वेषां कल्पयन्त्यर्थमेव नः। कल्पयत्यन्यथा सन्तं न त्वात्मानं व्यवस्यति ॥२१०॥ ततश्च बाधकज्ञानाद् वाचोयुक्तिरियं भवेत्। अर्थेऽन्यथापि सत्येष धियाकारः प्रतीयते ॥ २११ ॥ कत्वमिति तदेव ह्यणुकादिक्रमेणाश्रीयते । शिरश्छेदश्चान्यगोचरोऽवगतः स्वसम्बन्धितयावगम्यत इत्यन्यथा व्यवस्थानमिति ।। २०७ ॥ तांस्तु पृथिव्याधर्थानपास्य न क्वचिदर्थान्तरे शब्दात्मके ज्ञानात्मके वाकारकल्पना युक्तेत्याह - तानिति । कारणमाह - - नेति । पृथिव्यायु- पष्टम्भशून्यं न किञ्चिज्ज्ञानमात्मानं लभते । किञ्चिद्धि पृथिव्यादिद्रव्यगा- चरं, किञ्चिद्धि रूपादिगुणविषयं, किञ्चिद् गवादिसामान्यगोचरम्, चोत्क्षेपणादिकर्मगोचरमवगतमिति ॥ २०८ ॥ अपिच यदि सर्वोऽयं ज्ञानमनुभासमान आकारो ज्ञानस्यैवान्ये च पृथिव्यादयो भावाः कल्पिताः, एवन्तर्हि सर्वसंविदामेवात्यन्तासन्नर्थ इति केन विशेषेणायं स्वमादिप्रमाणामत्यन्तासन्नर्थ इष्यते येनैवमुपालभ्येमहि कथमत्यन्तासन्नर्थः स्वमादिविज्ञानेऽवसीयते इति तदेतदाह - विज्ञा- नस्येति । अत्र स्वप्नादिज्ञान इत्यर्थः ॥ २०९॥ अतः सिद्धं प्रान्तिज्ञानान्यप्यर्थमेवान्यथा स्थितमन्यथा कल्पयन्ति, न पुनरात्मानमवस्यन्तीत्याह - तस्मादिति ।। २१० ॥ यदितर्हि सर्वसविदामेव बाह्यालम्बनलं, किं तर्हि बाधकेन बाध्यते भत आह-ततश्चेति । बाधकेन न बाचं प्रतिक्षिप्यते, किन्तु बाधके सतीयं वाचोयुक्तिर्भवति यदन्यथा सत्यप्यर्थेऽयमाकारो दुष्टकारणजनितया घिया प्रतीयते न त्वर्थिकेयं धीरिनि ।।२११ ।। अन्य- १७६ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । द्विचन्द्रादावपि त्वेवं तारकादिमतौ तथा। स्त्रीत्वायन्यत्र दृष्टं स्यात् कथञ्चिद् वेह सम्भवेत् ॥ शब्दमात्रप्रतीत्या वा दृष्टेर्वा कैश्चिदिङ्गनात् । संस्त्यानप्रसवस्थानैर्यथा पातञ्जले मते ॥२१३॥ एवं तावद् वासनानिबन्धनेषु स्वप्नादिविभ्रमेषु अर्थाकारो दर्शितः । बाधकप्रत्ययार्थश्व व्याख्यातः । एतदेवेन्द्रियविभ्रमेषु द्विचन्द्रादिविषयेष्वति- दिशति ---द्विचन्द्रादावपित्वेवमिति । यत्तूक्तं नैकत्राथै लिङ्गाने- कत्वं सम्भवतीति । तत्र परिहारमाह -- तारकादीति स्यादन्तेन । अयम- भिप्रायः - तारकादिमतावपि स्त्रीत्वादिप्रत्ययो भ्रान्तिरेव । प्राणिध. मत्वालिङ्गभेदानामप्राणिष्वसम्भवाद् भ्रान्त्यैवान्यत्र दृष्टमन्यत्रारोप्यते । अतोऽन्यत्र दृष्टमेव स्त्रीत्वादि तारकादिमतावालम्बनमिति । कथं पुनस्ता. रकादिषु स्त्रीत्वादिप्रत्ययो भ्रान्तिरित्युच्यते । न छत्र द्विचन्द्रादिबोधेष्विव पाधको दृश्यते । तमन्तरेण तु भ्रान्तिवादिनामेव भ्रान्तिरापावेत, अत आह- कथमिति । अयमभिप्रायः सत्यम् । न भ्रमस्तारकादिषु, वास्तवाना- मेव स्त्रीत्वादीनां सम्भवात् । ते हि स्त्रीपुन्नपुंसकलिङ्गेभ्यस्तारका तिष्यो नक्षत्रमिति शब्देभ्यः प्रतीयन्ते । नच प्रतीयमाना न सन्तीति युक्तं वक्तुम् । यत्तु प्रमाणान्तरान्नावगम्यते, नायं दोषः । शब्दैकप्रमाणकत्वात् । नचैक- प्रमाणावगतोऽर्थः प्रमाणान्तरेणानवसीयमानोऽसन् भवति । अतो येयं शब्द- मात्रादुपजाता प्रतीतिस्तयैव स्त्रीत्वादयः संविदिता इति पारमार्थिका एवेति । भयमपि तु शब्दैकप्रमाणकत्वपक्षोऽतितुच्छ एव । न खलु पदतद्भागानाम गृहीतसम्बन्धानां प्रतिपादकत्वमस्ति । नच प्रमाणान्तरावेद्येन वस्तुना सम्बन्धो ग्रहीतुं शक्यः । अतो मन्द एवायमपि पक्ष इत्यपरितुष्यन् परि- हारान्तरमाह-दृष्टैरिति । न तारकादावदृष्टपूर्व लिङ्गं, दृष्टैरेव कैश्चिद्रूपैरिङ्ग- नात् । वक्ष्यमाणान्येव दृष्टानि रूपाणि लिङ्गमिति यावदिति । किं पुनदृष्टं रूपं येनात्मना स्त्रीत्वादीनीष्यन्ते अत आह-संस्त्यानप्रसवस्थान(रिति।) सत्त्वरजस्तमसां गुणानां यथोत्तरमुपचयः संस्त्यानप्रसवस्थानानि । ते च गुणाः प्राण्यप्राणिसद्भावसाधारणा एव सर्वेषु तद्रूपप्रत्यभिज्ञानात् । सुख- औत्पत्तिकसूत्रे शून्यवादः । १७७ तेन लिङ्गत्रयस्थात्र सद्भावः स्यात् प्रमाणवत् । अपेक्षाभेदतश्चात्र विरोधोऽपि न विद्यते ॥ २१४॥ दुःखमोहादिभेदवन्तो हि सर्वे भावाः आश्रयतया जनकत्वेन च प्राणिनः भाश्रयतयाप्राणिनः जनकतया रमणीयादिभावव्यवस्थिता हि विषया अप्रार्थिनोऽपि सुखयन्ति दुःखयन्ति मोहयन्ति च । सुखादयश्च सत्त्वादि- धर्माः, तदर्शनात् त्रैगुण्यं सर्वभावानामवसीयते । तद् यदा सत्त्वोपचयः संस्त्यानाभिधानाऽवगम्यते तदा पुंस्त्वं प्रतीयते । रजसस्तूपचये प्रसवे गम्यमाने स्त्रीत्वं, तमस उपचये स्थाने नपुंसकत्वम् । सा, चोदासीनावस्था भावानां न कस्यचित् कार्यस्य सवित्री स्वरूपावस्थानमात्र, तचैतद्रूपं दृष्टमेव सर्वभावेषु । प्राणिनो हि पुमांसः सत्त्वोत्कटा दृश्यन्ते । रजोमय्यो नार्यः । तमोमयाः पण्डाः संमुग्धनिरुद्धाखिलचेष्टाः । एवं तिष्यादीनाम- प्यापेक्षिकः सत्त्वादीनामुपचयो दर्शयितव्यः । अल्पप्रकाशनक्षत्रान्तरापेक्षया हि पटुप्रकाशः पुमानिति तिष्यो लक्ष्यते । यदा तु तस्यैव रजस उद्भवो लक्ष्यते तदा स्त्रीत्वन तारकेति । तमसस्तूपचये नक्षत्रमिति नपुंसकत्वेन । एवमेव तटस्तथी तटमित्यादिष्वपि गुणोपचयापचयात्मा लिङ्गभेदोऽनुस- न्धातव्यः । एवञ्च संवत्रेव पारमार्थिकं लिङ्गत्रयमुपपन्नं भवति । बाध- विरहोऽप्यत एवेति सिद्धं नानर्थकास्तारकादिषु लिङ्गप्रत्यया इति । अत्रैव वृद्धानुमति दर्शयति- यथेति । पतञ्जलिना हि किं पुनरिदं लिङ्गमिति पृष्ट्वा बहुधा विकल्प्य प्राण्यप्राणिपु दर्शनादविपर्यया(चो? चो)भयत्र यथोक्तमेव लिङ्गमुपवर्णितमिति ।। २१३ ॥ एवञ्चोपपन्नं लिङ्गत्रयमपीत्याह तेनेति । नन्वस्त्वेवमात्मको भिन्नाधिकरणो लिङ्गभेदः, एकाधिकरणं तु लिङ्गभेदं न मृध्यामहे यस्य हि यत् स्वरूपमुचितं तेनैव तन्नित्यं व्यपदिश्येत । अत आह अपेक्षेति । तत्तद्भावभेदापेक्षया हि तस्य तस्य गुणस्योपचये लक्ष्यमाणे नैकत्रापि लिङ्गभेदावसायोऽनुपपन्नः पुत्रादिभाव इवैकस्य पुंस इति । तत् पुनरिदमुक्तप्रकारं लिङ्गस्वरूपं नानुमन्यामहे पारमार्थिकमप्रा- णिषु लिङ्गमनुपलभमानाः । प्राण्यवान्तरजातिमेव तु लिङ्गं सङ्गिरामहे । पश्यामो हि वयं नराश्वमहिपगोवराहादिभेदभिनाने कपाणिगणसापारणं - Y १७८ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् स्त्रीत्वादिभेदभिन्नं विविधमवान्तराकारमप्राणिभ्यो व्यावृत्तं यमानन्दसाध- (ना? न)स्तनवदनादिसन्निवेशविशेषा दर्शयन्ति। नच ते अप्राणिष्विति न लिङ्गभेदं प्रतिपद्यामहे । किमिदानीमप्राणिषु लिङ्गावगमो भ्रान्तिरेव । ननु साप्यसति बाधकोदये दुर्भणैव । सत्यम् । गौणत्वप्राणिषु लिङ्गवादःप्रस्तरै- ककपालयोरिव यजमानवादो माणवक इव ज्वलनवादः । नबसौ भ्रान्तिः, अभ्राम्यतामेव तथावभासात् । कः पुनर्गुणः यतोआणिषु गौणो लिङ्ग- वादः । पैङ्गल्यादयो ह्यमिगुणा माणवके वर्तमाना गुणवादहेतवः । नत्विह तथा प्राणिगुणाः केचिदप्राणिषु दृश्यन्ते यदशेन गुणवादः समाश्रीयते । मैवम् । इहापि गुणावगतेः । उपचयापचयधर्माणौ हि स्त्रीपुमांसौ, अतस्त- द्धर्मविवक्षया स्त्रीलिङ्गादिशब्दप्रयोगोआणिष्वपि यथेहैव प्रकृते वर्णितम् । अपेक्षाभेदतवाविरोधः समान एव । अत्यन्तापचयविवक्षया च नपुंसक- लिङ्गशब्दप्रयोगः, तद्रूपत्वात् तातेः । स्यादेतत् – नाप्राणिषु गौणाव- गतिरतः कथं गौणत्वमिति । अस्ति वा प्राण्यप्राणिनेः समानाकारा बुद्धिरायु- मताम् । शब्दसल्लापमात्रादेव हि नो वाक्सगादिषु स्त्रीत्वादिमतिरावि- रस्ति । नतु प्राणिष्विव तेष्वप्यनुस्यूत आकारो दृश्यते । अतः शन्द- संव्यवहारमात्रसिद्ध्यर्थभप्राणिषु लिङ्गानुशासनम् । किं पुनर्लिङ्गानां वाच- कम् । न तावदेतदवोपयुज्यते , तत्सद्भावमात्रस्य प्रकृतौपयोगिकत्वात् । यदि तु प्रयोजनमभिधीयते श्रूयताम् । ये तावदप्राणिवाचिनः स्त्रीलिङ्ग- तया स्मर्यन्ते, तेष्वनुशासनकाररेवेयं स्त्री अयं पुमानिदं नपुंसकमिति गुण- पादेनैव स्त्र्यादिशब्दाः प्रयुक्तास्तद्वचनपदान्तरसमभिव्याहारसिद्धयर्थम् । ते तु स्वभावतः स्वार्थमात्रमभिदधति । गुणवाद एव स्मर्तृणामत्यन्तं निरू- ढतया लिङ्गेऽपि वाचकान्तिमेव जनयति । एषा च निर्भागपदेषु स्थितिः वाक्नुवादिषु । सभागेषु तु तारकादिशब्देषु प्रत्ययभागः स्त्रीत्वमभिधाय प्रकृत्यर्थे तदसम्भवाद् गौण्या वृत्त्या तत्समभिव्याहारं लभते । गुणवाद- समाधान चोक्तमेव । येऽपि नक्षत्रमित्यादिषु प्रत्ययविकारविशेषास्तेष्व- पीयमेव स्थितिः । विकाराणां नपुंसकलिङ्गेऽनुशासनादम्भीवादीनाम् , 'अतोऽम्' (७. १. २४) इति यथा । ये प्राणिवाचिनोऽश्वोऽश्वेत्येवमा- दयः, तेषां सीप्रत्ययान्तेषु तावत् स एव प्रत्ययः स्त्रीत्वमभिदधाति । स च औत्पत्तिकसूत्रे शून्यवादः । १७९ कुणपादिमतौ चैवं सार्वरूप्ये व्यवस्थिते । वासनाः सहकारिण्यो व्यवस्थाकारदर्शने ॥ २१५॥ स्वप्रत्ययानुकारो हि बह्वाकारेषु वस्तुषु । सम्भवत्स्वार्थो मुख्ययैव वृत्त्या प्रकृत्या समभिव्याहियते । अश्व इत्यादावपि प्रत्ययविकारादेव लिङ्गविशेषावगतिः । प्रातिपदिकवाच्या एव स्त्रीत्वादयः प्रत्ययेन द्योत्यन्ते इति नानुज्ञायते । प्रत्ययोपजनापाययोरेव लिङ्गावगतः सदसनावदर्शनात् । प्रकृतेश्चान्वयव्यतिरेकनिर्धारितस्वार्थमात्रवचनत्वात् । अतः स्त्रियामभिधेयायां (धात्वा ? टाबा)दयः इत्येतदेव साम्प्रतम् । वार्ति- ककारेण च 'स्त्रीत्वादन्यत्र दृष्टं स्यादिति वदता प्राणिषु दृष्टं लिङ्गमभिद- धतां शब्दानां गौण्यैव वृत्त्याप्राणिवाचिप्रकृतिसमभिव्याहारोऽभिहित इति वेदितव्यम् । न पुनरन्यत्र दृष्टारोपेण भ्रान्तिरुक्ता। अता वाधकामावोऽपि न परिचोदनीयः । गौंण तद्दर्शनात् । अतस्तारकादिमती तथा 'स्त्रीत्वा- दन्यत्र दृष्टं स्यादि'त्ययमेव परिहारः साधीयान् । परयोस्तु कथञ्चिच्छब्द- परमतत्वोपन्यासाभ्यामेवासाधुता प्रकटितेत्यवधातव्यमिति ।। २१४ ॥ यत् पुनरुक्तम् - एकस्यामेव प्रमदातनौ कथं परिव्राजकादीनां कुणपादिप्रत्ययाः सदा भविष्यन्तीति । तत् परिहरति ---- कुणपा- दीति । अस्यार्थः - नानाकारं वस्तु नानाकारमेवानुभूयत इति नानुप- पन्नम् । यस्तु कश्चिदेव व्यवस्थया कञ्चिदाकारं प्रतिपद्यते न सर्वं सर्वः, तत्र सहकारिवासनासदसद्भावो निबन्धनम् । परिव्राजकादीनां हि कस्य- चिदेव काचिद् वासना कुतश्चिदभ्यासाद् हृदयमनुविष्टोद्भता सती कश्चि- देवाकारमेकस्यामेव प्रमदातनौ दर्शयति । परिवाजको हि दहाद् विविक्त- मात्मानमभ्यस्यस्तद्वासनावासितान्तःकरणो मृतशरीरवत् कुणप इत्येवं का- मिनी चिन्तयति । कामुकस्तु कामाभ्यासाहितवासनासहाया देहात्मनो- विवेकमपश्यन् देह एवाहकृतः कामिनीति । श्वानन्तु जात्यनुबन्धिपिशि- ताशनाभ्यासातिशयाहितवासनासनाथाः पृथुलनितम्बोरुग्थलप्रस्तनशालिनी कबलयितुमभिलषन्ति कामिनीमिति वासनाव्यवस्थानुनारिणी संविधव स्थैकविषया परिव्राजकादीनामिति ॥ २१५ आह-किमपराद्धमस्माभिर्वासनानिबन्धनं नीलाद्याकारोपप्लवं वि- जाने वदद्भिः। भवद्भिरपि वासनैवाकारदर्शनहेतुतथा वर्णिता । अत आह- ।
१८० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । निर्धारणे भवेद्धेतु पूर्वाकारकल्पने. ॥२१६॥ तथा दीर्घघटत्वादौ भिन्नापेक्षानिबन्धना। आकारभेदसंवित्तिरविरुद्धा भविष्यति ॥ २१७ ॥ नानेकाकारसंवित्तनिराकारत्वकल्पना। युक्ता प्रतीतिभेदात् तु बह्वाकारत्वसम्भवः ।। २१८॥ संवित्तेश्चाविरुद्धानामेकस्मिन्नप्यसम्भवः । एकाकारं भवेदेकमिति नेश्वरभाषितम् ॥ २१९ ॥ स्वेति । अयमभिप्रायः न वासना (ना)मान्या काचित् समनन्तर- प्रत्ययरूपेति भाणितमसकृत् , यस्यैव च प्राचीनप्रत्ययजनितस्य संस्कारस्य तेनैव प्रत्ययेनानुकारः सादृश्यं स एव वासनेति चारिका मन्यन्ते, स च संस्कारो बहाकारे वस्तुन्येकस्याकारस्याभ्यस्तपूर्वस्य निर्धारणे कारणं भवति इति युक्तम् । न त्वननुभूतमेवाकारमसन्तं वासना दर्शयतीति साम्प्रतम् । यथा भवन्तो मन्यन्त इत्यस्ति महानावयोर्विशेष इति ॥ २१६ ॥ दीर्घादिप्रत्ययोऽप्येकगोचरोऽपेक्षाभेदादेव परिहर्तव्य इत्याह तथेति । दीर्घहखबोधे भिन्नोपाध्यपेक्षा । घटपार्थिवादिभेदे तु कालाद्यपेक्षा- एकोऽपि हि कदाचिद् घट इति तमर्थ बुद्धयते कदाचित् पार्थिवोऽय- मिति । भिन्नकालाद्यपेक्षया बोधचियोपपत्तिरिति ॥ २१७ ।। अपिच, इयमपूर्वा युक्तिः यत् किलानकाकारात्मकं भासते, तस्मा- दनाकारमेव वस्तु ज्ञानाकार एवायमिति । एवं हि प्रतीतिभेददर्शनादनेका कारकल्पनैवाश्रयितुमुचिता । न त्वनाकारकल्पनेत्याह-नति ॥२१८॥ स्यादेतत् । सन्त्वेकस्मिन्नप्यविरुद्धानेकाकाराः, कथं तु विरुद्धा- नामनेकेषां सम्भवोऽत आह -- मंरित्तेरिति । इदमनेन विरुध्यत इति संवित्साक्षिकं तद् यत्रैव भवतो विरुद्धाभिमानः तत्र संविबलादविरोधमेव वक्ष्याम इत्यभिप्रायः। एतच्चान्वारुह्यवचनमपेक्ष्य, भेदात् त्वविरोधो दर्शित एवेति । भवेदप्यनेकाकारदर्शनादेकस्यानाकारकल्पना ययेकमेकाकारमित्यत्र .
. औत्पत्तिकसूत्रे शून्यवादः । १८१ तथाहि तदुपेतव्यं यद् यथैवोपलभ्यते । न चाप्यैकान्तिकं तस्य स्यादेकत्वं च वस्तुनः॥ तस्माद् देशादिसद्भावनिमित्तैः प्रत्ययैः पृथक् । वस्त्वाकाराः प्रतीयेरन्नुद्भवाभिभवात्मकाः॥२२१॥ युगपद् ग्राहकाणां च यो यदाकारवाचिनम्। शब्दं स्मरति तेनासावाकारः सम्प्रतीयते ॥ २२२ ।। नित्यं सत्सु तथा लोके रूपादिषु घटे पृथक् । चक्षुराद्यनुरोधेन संवित्तिय॑वतिष्ठते ॥ २२३ ॥ युक्तिर्भवेत् । तामन्तरेण त्विदमीश्वराज्ञातुल्यमेव भाषितं भवेत् । तच्चायुक्त- मित्यभिप्रायेणाह- एकाकारमिति ॥ २१९ ॥ संविदेकाधीनता हि वस्तूनां व्यवस्थितिः । अतो यदेव येनात्मना संविदा व्यवस्थाप्यते तत् तेनैव रूपेणाभ्युपेतव्यमित्याह - तथाहीति । किञ्चकत्वेऽपि वस्तुनो नास्माकमेकान्तवादः येनैवमुपालभ्येमहि कथमेक- मनेकाकारमिति । तदपि कानकात्मकमवानकान्तवादिनामस्माकमित्या- ह-न चेति ॥ २२० ॥ अतः सिद्धं देशकालावस्थोपाधिसद्भावनिमित्तः प्रत्ययविद्यमाना एव वस्त्वाकारा उद्भवाभिभवात्मकाः पृथग भेदेन गृह्यन्त इत्युपसंहरति तस्मादिति । देशादयश्चाकारोद्भवाभिभवद्वारेण प्रत्ययानां निमित्तमिति ॥ २२१ ॥ ये तर्हि युगपदेव ग्रहीतॄणां घटत्वाद्याकारा निर्भासन्ते तत्र कथम् । न हि त आपेक्षिकाः, स्वाभाविकत्वाभ्युपगमात् । उक्तं च 'घटत्वपार्थिव- द्रव्येति । तत्र कः परिहारः अत आह-युगपदिति । यद्यप्यत्र नौ- पाधिकत्वान्न चोद्भवाभिभवौ, तथापि नानाकारे वस्तुनि यो यस्य वस्तु- (नि? नः) (यो १) यस्य वस्तुभागस्य शब्दं स्मरति, स तं विकल्प्यामको- ऽयमिति जानाति नेतर इति व्यवस्थासिद्धिरिति ॥ २२२ ।। अत्रैव दृष्टान्तमाह नित्यमिति । रूपादयो हि घटे नित्यं सन्त - १८२ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । एवमेव घटत्वादौ सर्वान् प्रति भवत्यपि । वाचकस्मृतिभेदेन संवित्तिर्व्यवतिष्ठते ॥ २२४ ॥ तस्माद् बहिः स्थितोऽप्यात्मा नराणां चक्षुरादिभिः। प्राप्य वाप्राप्य वा बुद्धेविषयत्वेन कल्प्यते॥२२५॥ वदन्ति लौकिका यच्च याग् ज्ञानं तथा बहिः। तेऽपि न ज्ञानसंवित्त्या तथार्थ प्रतिजानते ॥२२६ ॥ ग्राहकत्वेन विज्ञानं यथार्थ नः समर्पयेत् । ताहगर्थः स इत्येव तेषां वा तदुपायतः ॥ २२७ ॥ एव, तथापि न सर्वे सर्वैरनुभूयन्ते ग्राहकाणां चक्षुरादीनां विषयव्यवस्था- नादिति ॥ २२३॥ एवं दृष्टान्ते दर्शयित्वा दार्शन्तिके योजयति- एवमिति ।।२२४॥ ननु बहिर्देशमर्थं तावादिन्द्रियाणि न प्राप्नुवन्ति अप्राप्यप्रकाशे नै- वानवस्था । अतो न बहिस्सतोऽर्थस्य कथञ्चिदवगतिरुपपद्यते, अत आह तस्मादिति । अयमभिप्रायः सिद्धं तावत् प्रतीतिबलाद् बाह्यालम्बनं ज्ञानमिति, स बाह्योऽर्थात्मा प्राप्यैवेन्द्रियः प्रकाश्यत इत्युक्तम् । प्राप्यकारिता चोपपादिता यदि कृतं न निर्वहति कामं, तथापि नानालम्बनं ज्ञानं, सं- विद्विरोधात् । अप्राप्यकारिणामेवेन्द्रियाणां कञ्चित् कार्यवशोन्नीयमानमतिशयं वक्ष्यामः, यद्बलेनाप्राप्तमपि बाह्यमर्थ प्रकाशयन्ति, न पुनः स्वांशालम्बन ज्ञानमिति कल्पना प्रमाणवतीति ॥ २२५ ॥ यदप्युक्तं 'वक्तारश्चापि दृश्यन्ते' इति, तत् परिहरति वद- न्तीति । यदेतल्लौकिका वदन्ति नीलोऽयमर्थो यतस्तद्रूपा मतिरुत्पद्यते इति, तेऽपि न ज्ञानाकारपरिचयपुरस्सरोऽर्थसम्बोध इति तथा वदन्तीतिः। २२६ ॥ कथनाम वदन्ति अत आह -- ब्राहकत्वेनेति । विदिते खलु नीलेऽन्येनोत्यापिताशकः स्वयं वा जातविचिकित्सः प्रमाणतथात्वनिश्चय- पुरस्सरमर्थतथात्वं निश्चिनोति, नेदमन्यादृशं हि ज्ञानं नोऽर्थानां ग्राहक तद् यथार्थ समर्पयति तथासौ तदुपाषिकत्वात् तस्य । इह च प्रथमं ताव- - औत्पत्तिकसूत्रे शून्यवादः । १८३ लैङ्गिकासत्त्वमप्राप्तैरेतैर्बाह्यार्थवादिभिः । ज्ञानानुभवमुत्क्रम्यबाह्य एव प्रयत्यते ॥ २२८ ।। यथा लोके च तदबुद्धिर्वाच्यमेवं परीक्षकैः । न याहगन्तराकारस्ताहग् बाह्योऽवकल्पते ॥ २२९ ॥ उत्ययमाना गृह्येत धीरथग्रहणे यदि । पूर्वपक्षस्थ किं सिद्धं कथं चार्थान्तरं वदेत् ॥ २३०॥ ज्ञानेन नीलं समर्पितम् । तथैव चाद्ययावदनुवर्तमानं ज्ञानमस्ति यन्नी- लमेव प्रकाशते । तस्मानीलमेवेदमित्युपायतथा पश्चादपि ज्ञातं ज्ञानं पुर- स्सरीकरोतीति नानेन ज्ञानस्थ पूर्वग्रहणमापादयितुं शक्यत इति ॥२२७ ।। एवं तावत् परीक्षिता प्रत्यक्षशक्तिः। नितिं च यथा बाह्य एव प्रवर्तितुं शक्तमिति । एवं चानुमानस्य प्रत्यक्षबाधे सिद्ध लेङ्गिक तावद् बाह्यासत्त्वमप्राप्तं बाघार्थवादिभिः । अतश्च तदभावद्वारिकां ज्ञानानुभवक- ल्पनामतिक्रम्य तेर्बाह्य एव यत् प्रयत्यते तद् युक्तमित्याह - लैङ्गिके- ति ॥ २२८॥ स्यादेतत् -बहिस्सन्तमेवार्थ लौकिका बुध्यन्ते, परीक्षकास्तु यु- क्तितोऽवस्थापयितुमशक्नुवन्तः स्वांशालम्बनत्वं संविदा प्रतिपद्यन्ते अत माह यथेति । अयमर्थः यथा तस्यार्थस्य लोके बुद्धिरुत्पद्यते, परी- क्षकैरपि तथैव वाच्यम् । अयथार्थ ज्ञानं हि वदन्तो न परीक्षका एव भ- वेयुः । इदं तु परीक्षकाणां तत्त्वं यत् प्रमाणशरणत्वम् , असति तस्मिंस्तत्त्वहा- निरेव तेषामिति । लौकिकाश्च नान्तराकारवद् बाह्यं वस्तु बुध्यन्त इति । अंतीतिमेवानु(सा? स्मा)रयति न यादगिति। अन्तराकारो यागवगम्यते न तादृशो पाद्यार्थः स बयमिदमिति पररूपेण निरूप्यत इत्युक्तम् । अन्तराकारस्य त्वहमिति निरूपणं भवेदस्माकमिवात्मन इति ॥ २२९ ॥ अत्र भाष्यं 'ननूपयमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपव- दिति यधुच्येते'त्येवमादि, तदाधिपति-उत्पद्येति । अयमभिप्रायः - १८४ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । बाह्यार्थवादिनं ब्रूते भवान् किं नैवमिच्छति । प्रतिबन्धो न तस्यास्ति गृह्णात्यर्थान्तरं यदा॥२३१॥ उत्तरं ग्राहकाभावाल्लिङ्गाभावाच्च नास्ति नः। तदा ग्रहणमित्येतदन्यतर्केषु चोच्यते ॥ २३२ ॥ तेषु तर्केषु विज्ञानमर्थकालेऽवगम्यते । तद् बाह्यापलापवादिना वक्तव्यं यत् तदभावानुगुणम् , इह चोत्पद्यमा- नाया बुद्धेरर्थस्य च अहणमा चक्षाणो नामावं दर्शयतीति नेदं पूर्वपक्षवा- दिनो वक्तुमुचितमिति । स्यादेतत् । नेदं पूर्वपक्षानुगुणतयोच्यते, किन्त्वि- दमर्थान्तरभूतमपरमेव बुद्धावागतं सिद्धान्तिनोऽसम्मतमित्येतावतैवोच्यते सिद्धान्तान्तरमस्य दूपयितुमत आह कथमिति । पूर्वपक्षानौपयिकमर्था- न्तरं ब्रुवाणस्य सिद्धान्तान्तरदूषणं निग्रहस्थानमिति भावः ॥ २३० ।। एवमाक्षिप्य समादधाति-पायति । इदमनेन ग्रन्थेन बाह्यार्थवा- दिनं पूर्वपक्षवादी मीमांसकं ब्रूते - किं भवान् बाह्यार्थग्रहणसमये ज्ञानस्य प्रतिबन्धाभावं नेच्छति येनार्याकारोऽयमिति ब्रवीति । कथं ह्यप्रतिबन्ध स्याग्रहणं भविष्यति । कथंचानाकारस्य ग्रहणम् । अतो ज्ञानाकारक- ल्पनैव साधीयसीत्यभिप्रायः ।। २३१ ॥ अत्रोत्तरं भाष्यं 'तन्न । न ह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते । ज्ञात त्वनुमानादवगच्छती'त्यादि । तस्यामभित्रायमाह- उत्तरमिति । अस्यार्थः-विदितपूर्वपक्षवायभिप्रायः सिद्धान्तवादी वदति । सत्यमु- त्पत्तौ बुद्धरप्रतिबन्धः, ग्राहकाभावात् तु तदानीमग्रहणं, तदभावश्च तत्का- रणस्य लिङ्गस्य ज्ञाततादिपदास्पदस्याभावादिति । अन्यथोत्पद्यमानैवेत्यादि- भाप्याभिप्रायमाह- अन्येति । अन्यतर्केषु स्थित्वेदं भाष्यकारेणोच्यते उ. त्पद्यमानैवेत्यादि । एतदुक्तं भवति बाह्यार्थवायेकदेशिमतोपन्यासोऽयं भाष्यकारेण कृतस्तनिराकरणार्थमिति ॥ २३२ ।। एकदेशिमतमेवोपन्यस्यति-ते(चिति ।) तर्कान्तरेष्वर्थज्ञान- काल एव ज्ञानमवगम्यत इतीष्यते । एवं हि मन्यन्ते स्वप्रकाशमेव विज्ञान- औत्पत्तिकसूत्रे शून्यवादः । १८५ तथा सत्यर्थनाशः स्यादित्येतदुपदिश्यते ॥ २३३ ॥ नन्वित्येतदसम्बद्धं परेष्टस्यैव चोदनात् । पौर्वापर्यविभागोऽपि प्रागुक्तेन विरुध्यते ॥ २३४ ॥ क्षणिकत्वेन युक्तं स्याज्ज्ञातत्वमथ चेत् तदा । भूतकालाश्रयाद् ब्रूयाद् वृथोक्तस्य पुर्नवचः॥२३५॥ मात्मानं विषयं च व्यवस्थापयतीति । एतच्चास्माभिः प्रागेव प्रपञ्चितमिति । ययेवं किमस्य निराकरणे प्रयोजनम् । एवमपि द्वैत सिध्यत्येवात आह तथेति। यदि हि समसमयमुभयमुपलभ्यत इत्याश्रीयते, ततो बुद्धरनाकाराया बोधुमशक्यत्वादेकाकारोपलम्भाच एकमेव साकारं भवेत् सहोपलम्भनिय- माचाभेदः परोक्तो नापाकर्तुं शक्यते। तत्रार्थनाश एवापयेत । नपभ्युपगम- मात्रेणार्थः सिध्यतीत्येतन्मतनिराकरणं भाष्यकारेणोपदिश्यत इति ॥२३३ ।। अपरमपि - 'ननूत्पन्नायामेव बुद्धावर्थो ज्ञात इत्युच्यते नानुत्पबा- याम् । अतः पूर्व बुद्धिरुत्पद्यते पश्चाद् ज्ञातोऽर्थ' इति भाष्यं, तदाधि- पति नन्वितीति । परिचोदना हि नामानिष्टापादनेन भवति । न चेदमनिष्टं मीमांसकस्य यदुत्पन्नायां बुद्धावर्थो ज्ञात इति । तस्मादनुपपन्ना परिचोदनेति । पूर्व बुद्धिर्भवति पश्चाद् ज्ञातोऽर्थ इति च पौर्वापयर्याभिधानं पूर्वोक्तेन युगपदुपलम्भेन विरुध्यते इत्याह पौर्वापर्येति । 'उत्पबमानवा- सावि'त्यादिना भाष्येण युगपद् ज्ञानार्थयोरुपलम्भोऽभिहितः । तत् कथमि- दानी पौर्वापर्यमभिधीयते इति ।। २३४ ॥ यदि तूच्यते--पूर्वमुत्सद्यमानैव बुद्धिर्ज्ञायते ज्ञापयति चार्थमित्यु- क्तम् , इह च बुद्ध्युत्पत्तिसमयेऽर्थो ज्ञायते इत्युच्यते । उत्पन्नायां त्वसौ ज्ञातः सहैव ज्ञानेनातिक्रान्त इति यावत् । क्षणिकत्वेन हि धर्मेणासौ युक्तः कथमच यावदवस्था(प्य ? स्य)ते । अयं चार्थो ज्ञात इति निष्ठार्थभूतका- लाश्रयणेन भाष्यकारेणोक्तः । अतो न कश्चित् पूर्वापरविरोध इति, तथा- प्युक्तस्यार्थस्य पुनर्वचनमनर्थकं भवेत् । एवमपि प्रकारान्तरेण स एवार्यवा- z - १८६ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । अत्रापि न स्वसिद्धान्तमूचे वाक्यात् परस्य तु । भ्रान्तत्वादन्यथा पक्षं गृहीत्वेति स्म पृच्छति ॥२३६॥ सहोत्पत्त्युपलब्धा हि ज्ञानस्यैकान्ततः स्थितिः । प्रागवं वार्थसंवित्तेर्युगपद् वेति चिन्त्यते ॥ २३७ ॥ एष चार्थस्य संवित्तेः पश्चाद् ज्ञानावबोधनम् । ब्रवीति नूनमेतस्य पश्चादुत्पद्यतेऽपि तत् ॥ २३८ ॥ नचेतच्छक्यते तस्मादुत्पत्तेरपकर्षणम् । नयोर्युगपदुपलम्भोऽभिधीयते । स चोक्त एव । न चास्य प्रकारान्तरवच- नस्य स्वरूपेण कश्चिदुपयोगः तदेतदाह-क्षणिकत्वेनेति ॥ २३५ ।। एवमाक्षिप्य समादधाति अत्रापीति । अयमर्थः - यथोत्प- धमानैवासावित्यत्र न पूर्वपक्षिणा स्वसिद्धान्तस्थित्या पूर्वपक्षितम् , एवमि- हापि न बौद्धः स्वसिद्धान्तमुक्तवान् यदुत्पन्नायां बुद्धावर्थस्य ज्ञाततामाह । एवं हि परमतमेवाभ्युपगतं भवेदिति । केनाभिप्रायेण त_दमुक्तमत आह- वाक्यादिति । अयमर्थः -यदा परेण सिद्धान्तिना इदमुक्तं न पूर्व बुद्धिर्ज्ञायत इति, तदास्य तद्वाक्यश्राविणो भ्रान्तिर्जाता यदयं सिद्धान्ती बुद्धेः पूर्व ज्ञान प्रतिषेधति, तदस्य मन्ये बुद्ध्युत्पत्तिरपि न प्रागनुमता । नहि भवति स्वप्रकाशं सूत्पन्नमपि न गृह्यते । तदेवं परस्य सिद्धान्तिनो वाक्याज्जातविभ्रमः सिद्धान्तिमतमेवान्यथा बुद्ध्वा ननूत्पन्नायां बुद्धावि- तीदृशं पृच्छति स्म । श्रुतं मया प्राग् वो मीमांसकानां बुद्ध्युत्पत्तिः सम्मता। तत् किमित्येवं यन्न प्राग् बुद्धमिति ॥ २३६ ॥ पूर्वपक्षवाघभिप्रायमेव विवृणोति • सहेत्यदर्शनमन्तेन । इयं किलास्य पौद्धस्य मृष्टाशा सहैव ज्ञानस्योत्पत्त्युपलम्भौ, उत्पन्नानुपलब्ध- स्यासम्भावनीयत्वात् । तदिहैतावदेव विमतिपदं किं नो बुद्धरुत्पत्त्युप- लम्भावर्थवित्तेः प्रागवं वा आहोस्वित् सहैवार्थवित्त्येति । एष च मी- मांसकः पचादर्थवित्तानस्यावबोधमाह । तन्नूनमतस्य ज्ञानं पश्चादेवो- पद्यते । कथमपरथा प्रकाशस्वभावस्याग्रहणम् । तदेनमितः पक्षाभासाद् व्यावर्तयामीति प्राक् तावदुत्पत्तेरपकर्षणं करोति । नहींदं शक्यते वक्तुं - मौत्पत्तिकसूत्रे शून्यवादः । १८७ करोमि तावत् तत्काला संवित्तिरपि सेत्स्यति॥२३९॥ प्राक् च तद्ग्रहणे सिद्धे बाह्याभ्यन्तरयोध्रुवम् । विवेकादर्शनं तस्मादिदं पूर्वं च चोदितम्॥२४॥ युगपद् गृह्यमाणेऽपि नाकारोऽर्थस्य लक्ष्यते । तस्मादर्थस्य संवित्तिः पूर्व यत्नेन साध्यते ॥ २४१ ॥ यस्त्वेतस्योत्तरो ग्रन्थः प्रागेवासौ निरूपितः । तस्मा- यदनुत्पन्नायामेव बुद्धावर्थों ज्ञातो भवतीति, अतिप्रसङ्गात् । एवं च प्रागु- त्पन्नस्य तदैव संवित्तिरिति सुसाधमेव । प्राक् च तत्संवित्तौ सिद्धायां ध्रुव- मापनं बाह्याभ्यन्तराभिमतयोस्तत्त्वयोविवेकादर्शनम् । अर्थ एव हि प्राग् बुद्धेः साकारे तत्सामर्थ्यादनाकारा संवित्तिः । अतो विविक्ताकारता सिध्यति । इतरथा त्वाकारविवेकस्यानुपलब्धत्वादद्वैतं सिद्धमेवेति । युगपद्ग्रहणपरिचोदनाप्येवमभिप्राया शक्या वर्णयितुमित्याह दिति ॥ २४० ॥ एतदेव विवृणोति- युगपदिति । ज्ञानेन सह युगपद् गृह्य- माणेऽप्यर्थे नार्थस्याकारो लक्ष्यते । उक्तं हि 'नाकारविवेको लक्ष्यते' इति । मपिचैवं सहोपलम्भनियमो बौद्धस्यानिवारितप्रसरो ज्ञानाद् भिन्नं साका- रमर्थ निराकरोतीत्युक्तमेवेति । यत एव प्राक् समकालं वा ज्ञानानुभवेऽर्थ- नाशो भवति, तस्मादर्थसंविद एव प्राग्भाविता भाष्यकारेण सिद्धान्तावसरे यत्नेन साध्यत इत्याह तस्मादिति ॥ २४१॥ एवं तावद् 'ननूत्पन्नायामित्यादिभाष्याक्षेपपरिहारौ वर्णितौ । अय- मपरोऽस्योत्तरग्रन्थः 'सत्यम् । पूर्व बुद्धिरुत्पद्यते न पूर्व ज्ञायते । भवति हि कदाचिदेतद् यज्जातोऽर्थः सन्नज्ञात इत्युच्यते' इति । तस्य पथाश्रुतगृहतिस्य तावदर्थमाह - यस्त्विति । योऽस्याः परिचोदनायाः सिद्धान्तग्रन्थः स प्रागेव निरूपितः केवलग्राहकग्रहणप्रतिपादनावसरे । एवं हि तत्रोक्तं- "न पूर्व ज्ञायते बुद्धिरित्यत्रैतद् वदिष्यते । प्राहकस्यैव संवित्तिलक्ष्यते ग्रहणे कचित् ॥" - - . १८८ मीमांसा श्लोकवार्तिकं काशिकाटीकोपेतम् । न त्वेतत् साधनं साक्षात् पूर्व बुद्धेरबोधने॥२४२॥ न परामृश्यतेऽर्थात्मा ज्ञातोऽप्यज्ञातवद् यतः । तस्मान्न ग्रहणं पूर्व बुद्धः किं केन सङ्गतम् ॥२४३॥ अतः पूर्वोपलब्ध्या यो बुद्धयाकारोऽत्र वाञ्छितः। तन्निराकरणेनैव फलत्वाद् ग्रन्थवर्णना ॥.२४४ ॥ कामं बुद्धेरिति त्वेतदर्थाधीनत्वमुच्यते । इति । तदिदमुक्तं 'भवति हि कदाचिदेतद् यद् ज्ञातोऽर्थः सन्नज्ञात इत्यु- भ्यत' इति । अर्थाकारविविक्तं ज्ञानमात्रमेव स्मर्यत इति यावत् । उक्तं च 'न स्मरामी'ति । एवमुक्तार्थ भाष्यमाक्षिपति न त्वेतदितिसार्धेन । 'सत्यम् । पूर्व बुद्धिरुत्पद्यते नतु पूर्व ज्ञायते' इति प्रतिज्ञायामयं हेतुरुक्तः 'यत् किल ज्ञातोऽप्यर्थः कदाचिदज्ञातवन्न स्मर्यते, तस्मान पूर्व बुद्धिीयते' इति । इदं च बालप्रलंपितप्रायम् । किं खल्वत्र केन सम्बध्यते यज्ज्ञातो न स्मयते तत्र पूर्व बुद्धिर्न ज्ञायत इति, तस्मान्न तावदेतस्यां प्रतिज्ञायां साक्षात् साधनमिति ॥ २४३ ॥ तत् किं हेयमेवेदं भाष्यं, नेत्याह-अत इति । सत्यम् । नेदमस्यां प्रतिज्ञायां साक्षात् साधनं, किन्त्वनेन ग्रन्थेन फलद्वारेण प्रतिज्ञानिराकर- णमुक्तम् । पूर्वपक्षवादिनाप्यत्र ज्ञानस्य पूर्वोपलब्ध्या बुद्धयाकारो वा- छितः । तदनेन निराक्रियते । यदि बुद्धिः साकारा भवेत् सा तर्हि तथैव स्मयेत । नचैवं केषुचिदवसरेषु , केवलग्राहकस्मरणात् । अतः किं मुधा मुग्धैः प्रागुपलब्धौ प्रयस्यते । एवमपि हि धीरनाकारैव यदसावाकारवियुक्ता स्मयते न पूर्व ज्ञायत इति । किमुक्तं भवति । नानेन प्रकारेण सिसायि- पितं बुद्धेः साकारत्वं सिध्यति, अनाकारस्मरणात् कदाचिदिति ॥२४४ ॥ भत्रापरं भाष्यम् 'अपिच काममेक(रूप)त्वे बुद्धरेवाभावो न त्वर्थस्य प्रत्यक्षस्येति । तदयुक्तम् । कथं हि द्वैतसिद्धान्ती ज्ञानापलापमाह । एव- मपि हि न तस्य पक्षः सिध्यति । न चासति ज्ञाने निष्प्रमाणिका अर्थ- सिद्धिरवसातुं शक्यते । अतो व्याख्येयमेतदत आह- काममिति । नात्र .
. औत्पत्तिकसूत्रे शून्यवादः । १८९ न चार्थरूपाद् भेदेन धियामस्ति निरूपणम् ॥२४५॥ पररूपनिरूप्यं च न मेयं मृगतोयवत् । असग्राह्यानुसारेण ज्ञानसंवेद्यता तव ॥ २४६ ॥ स्वच्छत्वात् तु स्वरूपस्य कल्पिता ग्राह्यता धियाम् । वासनोपप्लवात् तेन न मेयं पारमार्थिकम् ॥ २४७॥ निमित्तनियतत्वं तु समानमुभयोरपि । बुद्धयभावे तात्पर्य , किन्तु नासत्यर्थे बुद्धिः सिध्यतीत्येवंपरमिदम् । वर- मेकरूपत्वे बुद्धिरपढ्नुता यदसौ प्रत्यक्षायसामर्थ्यसमधिगम्या । यदधीना बुद्धिर्न तस्यैव प्रत्यक्षसिद्धस्यार्थस्य तामादायाभाववर्णनामांत । अपरमपि 'न चार्थव्यपदेशमन्तरेण बुद्धेः रूपोपलम्भनम् । तस्मान्नाव्यपदेश्या बुद्धिः । अव्यपदेश्यं च नः प्रत्यक्षं तस्मादप्रत्यक्षा बुद्धिरि' ति भाष्यम् । तद् व्या- चष्टे-~-नचेति । बुद्धयो हि नार्थरूपाद् विना निरूप्यन्ते । नहि जातु नीलरूपादियं नामेति विविच्य बुद्धिरुपलभ्यते । अर्थाकारेणैव तु नीलादिना व्यपदिश्यते नीलज्ञानं पीतज्ञानमिति । एवञ्च नित्यपररूपनिरूप्या बुद्धिः कथं प्रत्यक्षप्रमेयं भविष्यतीति । नहि मृगजलज्ञाने ऊपरं जलत्वेन ज्ञायमानं प्रत्यक्षप्रमेयमिष्यते, भ्रान्तिविषयत्वात् । तस्याश्चाप्रत्यक्षत्वात् । अर्थस्तु नित्यं स्वरूपेण संवेद्यमानः प्रत्यक्ष इति युक्तमव्यपदेश्यं च नः प्रत्यक्ष- मिति पररूपाव्यपदेश्यमिति भाष्यार्थ इति ॥ २४५३ ।। एवं तावत् सतापि पररूपेण निरूप्यमाणं न प्रत्यक्षमित्युक्तम् । त्व- 'न्मते चायमपरो दोषः, यदसद्ग्राह्याः यानुसारेणैव तद् ज्ञानं संवद्यते, स्वभाव- स्वच्छत्वात् ज्ञानस्य, नीलाद्याकारेण ग्राह्यता वासनोपप्लवात् कल्पितैव यत. स्तदेतदाह असदित्युपप्लवादन्तन । अतो न कथञ्चिज्ज्ञानमेव प्रत्यक्षप्रमेयं पारमार्थिकं वक्तुं शक्यत इत्याह --तेनेति ।! २४७ ।। अत्रापरम् 'अपि च, नियतनिमित्तस्तन्तुष्वेवोपादीयमानेषु पटप्रत्ययः इतरथा तन्तूपादानेऽपि कदाचिद् घटबुद्धिरविकलेन्द्रियस्य स्यादिति भाष्यं, तदाक्षिपति-निमित्तेति । यदेतन्निमित्तानां तन्त्वादीनां नियतत्वं कार्येषु 1.2 १९० मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । निजशक्त्यनुसारित्वाज ज्ञानबाह्यार्थवादिनोः॥२४८॥ तन्त्वथैरपि कस्माद् वः क्रियते केवलः पटः। नारभ्येत घटः किं तैर्मृत्पिण्डार्थेन वा पटः॥२४९॥ तन्तुमृत्पिण्डविज्ञाने ह्यनुयोज्ये मते यदि । अर्थपर्यनुयोगोऽपि तद्वदेव प्रसज्यते ॥ २५०॥ अर्थारम्भव्यवस्था चेत् सामर्थ्यनियमाश्रया। ज्ञानारम्भव्यवस्थायां सामर्थ्य केन वार्यते ॥२५१॥ तस्माद् यत्रोभयोर्दोषः परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यस्तागर्थविचारणे ॥ २५२ ॥ देशकालनिमित्तानि व्यञ्जकान्यर्थवादिनः। किञ्चिदेव निमित्तं किञ्चिदेव कार्यमुपजनयति नापरमिति, तदुभयोरपि ज्ञान- बाह्यार्थवादिनोः समानम् , उभयोरपि निजशक्त्यनुसारित्वात् कार्यसिद्धः । निजयैव हि शक्त्या किञ्चिद् विज्ञानं तन्त्वाद्याकारं किञ्चिदेव तु पटाद्याकार ज्ञानं जनयति तन्तव इव पटम् । नचात्रान्यतरः शक्योऽनुयोक्तुमिति भावः ॥ २४८॥ तुल्यतामेवानुयोगस्य विवृणोति तन्त्वथै रितिद्वयेन । निगद- व्याख्यानौ ग्रन्थाविति ॥ २५० ।। यदि तु सामर्थ्यनियममाश्रित्यार्थानां तन्त्वादीनां कार्यव्यवस्थोच्यत इति, तज्ज्ञानानामपि ज्ञानान्तरारम्भे न दण्डवारितमित्याह ॥२५१॥ अतो दोषपरिहारसाम्ये नान्यतरः शक्योऽनुयोक्तुमित्याह त- स्मादिति ॥ २५२॥ अत्र परिहारमाह --देशेति । अयमभिप्रायः--यदपि यस्य कारणं तदपि कदाचिदेव कार्यमारभमाणं दृष्टं न सर्वदा बीजमिवाडरम् । नहि तत् कुसूलाधिकरणमङ्करमारभते, किन्तु देशविशेष क्षेत्रादि कालविशेष च ग्रीष्मादि निमित्तविशेषमुदकादिमासाद्य कदाचिदेव देशादिव्यङ्गयत्वात् अर्थति . - १९१ - औत्पत्तिकसूत्रे शून्यवादः ! शक्तीनां कारणस्थानां स्वकार्यनियमं प्रति॥२५३॥ शक्तयोऽपि च भावानां कार्यार्थापत्तिकल्पिताः । प्रसिद्धाः पारमार्थिक्यः प्रतिकार्य व्यवस्थिताः ॥ भवतस्तु न विज्ञानाद भिन्नाभिन्ना निरूप्यते । शक्तिः संवृतिसद्भावमुत्सृज्य परमार्थतः ॥ २५५॥ वासनैव च युष्माभिः शक्तिशब्देन गीयते। निमित्तनियतत्वं च वासनाया यदुच्यते ॥ २५६ ॥ कारणशक्तीनाम् । नैतद् ज्ञानवादिनां सम्भवतीति वक्ष्यते । अतः कस्य- हेतोरुत्पन्नमृत्पिण्डविज्ञानस्यापि कदाचिदेव घटप्रत्ययो न सर्वदा । कस्मा- चोत्पन्नव्रीहिबीजपरिचयस्यापि ज्ञातुर्भाव्यडराकारपरिचयः । नहि तत्र दण्डोदकादि किश्चिदस्ति कारणशक्तीनां व्यञ्जकं, यदपेक्षया कारणानि वि- लम्बन्ते । स्यान्मतं मा भूवन् बाणा देशादयः । तज्ज्ञानान्येव च कारणानामनुग्राहकाणि भविष्यन्तीति । तन्न, क्षणिकत्वेनानुग्राह्यानुग्राहकयोः साहित्यासम्भवादिति ।। २५३ ।। न केवलं कारणशक्तीनां व्यञ्जकान्यर्थवादिनां सन्ति, शक्तयोऽपि कार्यार्थापत्तिप्रमाणिकाः प्रतिपटादिकार्यं तन्त्वादीनां व्यवस्थिताः प्रसिद्धा इत्याह.-शक्तयोऽपीति ॥ २५४ ॥ भवतस्तु बौद्धस्य (ना १ न वि)ज्ञानाद् भिन्ना अभिन्ना वा पारमार्थिकी शक्तिनिरूप्यते येन कार्यारम्भव्यवस्था घटत इत्याह भवत इति । संवृतिसद्भावमुत्सृज्येति । संवृत्या यः सद्भावस्तमुत्सृज्य न पारमार्थिकी यक्तिरस्ति । नच संवृतिसत्तया व्यवस्थायाः सिद्धिरित्युक्तं निरालम्बन- वाद इति ।। २५५ ॥ अपिच शक्तिरिति वासनामव भवन्ती गायन्ति । सा च पूर्वानु- भवयोनिन तत्सदृशज्ञानान्तरोपजननादन्यत्र समर्थत्यभिप्रायेणाह-वास- नेति । ननु वासनानुसारेणैव निमित्तानां तन्त्वादीनां कार्यविशेषनियतत्वं भविष्यति शब्दवासनानामिवार्थबुद्धी भवन्मत, अत आह-निमित्तेत्ये- तदन्तेन । वासनाया इति हेतौ पञ्चमी । यदेतद् वासनाहेतुकं निमित्तनिय- १९२ नीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । तस्याश्चासम्भवेनतदपारार्थ्याच्च दुर्लभम् । देशकालनिमित्तादि नच तेऽस्ति नियामकम् ॥ मत्वैतदपिचेत्याह भाष्यकारः परं प्रति । तस्मादपरिहारोऽयं तन्तुभ्यस्ते यथा पटः ॥२५८॥ तथा मे तन्तुबुद्धिभ्यः पटबुद्धिरितीहशः । एवमाद्यप्रमाणाभ्यां न तावद् बाह्यशून्यता॥२५९॥ आगमस्य तु नैवेह व्यापारोऽतोऽन्यथापि वा। नोपमा सहशाभावान्नार्थापत्तिर्विपर्ययात् ॥ २६० ॥ तत्वं तद् वासनाया एवाभावादयुक्तम् । तदभावश्च क्षणिकत्वेनासाहित्याद् वास्यवासकयोरनाश्रित(त्वा? वा)सनाभावा(दा)श्रयानुपपत्तिश्चोक्ता । दु- लभमिति वक्ष्यमाणेन सम्बन्ध इति । अपिचेयं वासना न परस्य कस्य- चिदनुग्रहे वर्तते । अस्थिरानुग्राह्यानुग्राहकत्वानुपपत्तेः । अतः स्वतन्त्रैव कार्यमारभमाणा सर्वान् प्रत्यारमेताविशेषादित्यभिप्रायेणाह- अपारार्थ्या- दिति । एवं तावत् शक्त्यभावादेव न तत्कृता कार्यव्यवस्थेत्युक्तं, येऽपि चास्माकं देशकालादयः कारणशक्तीनां व्यञ्जकत्वेनाभिमताः, तेऽपि तन्नि- यामका न सन्तीत्याह -देशेति ॥ २५७॥ सर्व चेदमभिप्रेत्यापिचेत्यादि भाष्यकारेणाभिहितमित्याह -मत्वै- तदिति । एवं चेत् परिहतं पर्यनुयोगतुल्यत्वमित्युपसंहरतिः- तस्मादिति । एवं चानुमानदूषणात् प्रत्यक्षस्य च स्वस्मिन् वर्तितुमशक्तेन तावद् भव- दभिमताभ्यामाद्याभ्यां प्रमाणाभ्यां बाह्यशून्यता सिध्यतीत्याह - एक- मिति ।। २५९॥ आगमस्त्वनुष्ठाननिष्ठो नैवजातीयके प्रमाणमित्याह आगम- स्रोति । न बाबसद्भावे अभाव चेत्यर्थः । उपमानं तु सिद्धवस्तुनः सार- श्यविषयं न वस्तुसदसद्भावयााप्रियते, नच किञ्चिच्छून्यं नाम ज्ञाना- तिरेकि सिद्धं यच्छ्न्यतया ज्ञानमुपमीयते गृहेणेव प्रोषितचैत्रेण शून्यं मन्दि- .
१९.३ मौत्पत्तिकसूत्रे शून्यवादः तस्मादभावगम्यत्वं शून्यतायाः स्थितं हि नः । एवं प्रमाणतोऽसिद्धा यैः प्रमेयाश्रयोच्यते ॥ २६ ॥ बापस्याणुसमूहादेाह्यस्थासम्भवेक्षणात । तैरान्तरासम्भवतो यथोक्ता ज्ञेयं स्वमन्यस्य बलादुपेय : ग्राह्या नचेष्टाः परमाणवोऽनः सत्यः समूहः प्रतिपादनीयः॥ २६२ ।। - रान्तरमित्यमिप्रयिणाह नोपमेति । अर्थापत्त्या तु तत्तद्भावभेददर्शनानु- पपत्तिप्रभवया पृथिव्यादयो भावा व्यवस्थाप्यन्त एवति सा परिपन्धिन्येव शून्यतायामित्याह --- अर्थापत्तिरिति ॥ २६०॥ एवं चापन्नं षष्ठप्रमाणगोचरत्वं शून्यताया इत्याह--तम्मादिति । एवं तावन्न प्रमाणानुसारेण शून्यता सिध्यतीत्युक्तम् । इदानीं यत्तदुक्तं 'तत्रास्तां यः प्रमेयतः' इति, तदुपन्यस्य दूषयति - एवमित्युपयमन्तेन । अयमर्थः ---- न तावज्ज्ञानालम्बनाः परमाणवः अतीन्द्रियत्वात् । तत्सद्भावे प्रमाणाभावाच । न तत्समूहः, तदतिरिक्तस्यानिरूपणात् । अवयविनश्च वृत्तिविकल्पातिरिक्तादिपरिचोदनादूरीकृतनिरूपणत्वात् । अतो बाह्यस्या- पवादेः ग्राह्यस्यासम्भवादेव पारिशेष्यसिद्धमात्मालम्बनत्वं सर्वमंविदामिति प्रमेयाश्रया च शून्यता यैरुच्यते, तैरपि वादिभियथाक्तादान्तरस्य ग्राह्य- स्थासम्भवात् स्वात्मनि वृत्तिविरोधादिदमिति च पररूपनिरूपणादवश्यमवा- न्यस्य ज्ञानाद् ग्राह्यत्वं बलादुपेयमनालम्बनज्ञानासम्भवादिति : (द्वयोरपि समानो निराकरणमार्ग इत्याह ?) स्वांशवदण्वादयोऽपि प्राधा न सम्भवन्ती- व्युक्तमत आह ग्राह्या इति । अयमभिप्रायः यत्नावः नामग्राह्यत्वं तदस्माकमपि सिद्धमेवेति किं तन्निराकरणन । समूहो पि वादितुल्योऽन- भ्युपगमनिराकृत एवेति । यस्तु समूहापग्नामावयवी स यथा सत्यः, तथा बनोपन्यासावसरे प्रतिपादयिष्याम इत्याद सत्य इति ।। २६२६ - --- १९५ मीमांसाश्लोकवार्तिकं काशिकाटीकोपेतम् । इति बहिर्विषयप्रतिपादना- न तदभावकृता मतिसंवृतिः। उभयतत्वविदो परमार्थतः क्षममिदं धुरि धर्मविचारणे ॥ २६३१ ॥ एवं तावद् बाह्यसिद्धिरुक्ता । इदानीं यत्तन्माध्यमिकमते. बाह्य- जेयामावाद् ज्ञे(या? यज्ञा)नाभावोऽपीत्युक्तं, तच्च बाह्यसिद्धिप्रतिपादनेन परिहतमित्याह --- इतीति । बाह्याभावकृता मतौ संवृतिकल्पना नास्ती. त्यर्थः । य एव तु ज्ञानज्ञेयात्मकस्योभयस्य तत्त्वं परमार्थतो जानन्ति मीमां- सकाः, तेषामेव चेदं धर्मविचारणे धुरि समर्थमित्याह - उभयेति । अय- ममिप्रायः- धर्मो रथोऽस्यावयवो युगापरपर्यायो धूर्विचारः । तेन हि धर्म- रथो घटितः, तद्वहनाय चेदं ज्ञानज्ञेयात्मकमुभयं तत्त्वतो ज्ञातं क्षमं भवति । संवृतिकल्पितं तु न धुरं वोढुं क्षममिति धर्मरथोऽवसीदेत् । नबसमर्थाभ्यां धुर्याभ्यां धूरुह्यते । नहि परमार्थतोऽसतोः संविसंवेद्ययोः सामर्थ्यमस्ति । अतो यदुक्तं 'यदा संवृतिसत्येने'ति, दूषितं च 'संवृतेन तु सत्यत्वमिति तदेवात्रोपसंहृतमित्यनुसन्धातव्यमिति ॥ २६३३ ।। इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां शून्यवादः समाक्षः ॥ शुभ मया।
स्मृतग्रन्थाधनुक्रमणी। -eakine- पृष्ठम् वाक्यानि प्रन्यनाम कतनाम .. स्मृतिः श्रुतिः ३ 'आचारश्चैव साधूनाम्' ६. 'स्वर्गकामो यजेत' ११ । न निरालम्बनं ज्ञानं 'नियोगसिद्धी सर्व तदनुगुणम्' २२ 'न प्रत्यक्षविरुद्ध कारणविषयमनुमा- ... नम्' श्रुतिः श्रुतिः २५ । 'औदुम्बरो यूपो भवति 'सोऽरोदीद् यदरोदीत' 'बहिंदेवसदनं दामि' 'अनुपाने पदार्थानां' २८ हिरण्यमात्रेयाय ददाति' 'अरणया क्रीणाति २९ 'अध्वर्युर्गृहपति दीक्षयित्वा' 'अग्निहोत्रं जुहोति यवागू पचति' 'समिधो यजति ३१ 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' 'मासमाग्निहोत्रं जुहोति' ३३ वे सत्ये समुपाश्रित्य " " " " ... ... ... अक्षपादः ... भिक्षुः ८१ ... ... श्रुतिः 'नायं हेतुर्वैधर्म्यवचनत्वात्' 'भेदप्रपञ्चविलयद्वारेण' 'विद्यां चाविद्यां च 'स एष नेति नेति' 'अपशवोऽन्ये गोऽश्वेभ्यः 'स किं वा बुद्धिजन्मापि' " } 'अर्थात्मनश्च साधारणत्वात्' 'तद् द्विविधं सम्यग्ज्ञानं' ९८ अविभक्तो हि बुद्ध्यात्मा' १०१ । 'एकदेशेन सारूप्ये' ... ... ... -- पृष्ठम् वाक्यानि प्रन्थनाम कर्तृनाम ... ... ... ... . कुमारस्वामी १०१ 'नान्योऽनुभाव्यो बुद्धयास्ति' १०३ विषयान्तरसञ्चारः' १०७ । 'पूर्वं समृह्यते पश्चात् 'अप्रत्यक्षोपलम्भस्य' १०९ 'भिन्नकालं कथं ग्राह्यं ११७ । 'अन्यथैकस्य भावस्य' १२७ १२८ । 'बुद्धीन्द्रियशरीरेभ्यः 'न त्वेवमात्मैवात्मानम्' १२९ । 'एकमद्वितीयम्' 'जानात्येवायं पुरुषः' 'नहि तदा ज्ञातुर्जप्तेः' १३० 'प्रत्याहारादिकं योगम्-' 'निजं यत्त्वात्मचैतन्यम्' १५२ . 'अज्ञेयं कल्पितं कृत्वा' १६१ तदतद्रूपिणोभावाः' १६८ श्रुतिः " ... " ... ... बौद्धाः ... ... भिक्षुः ... .... पतञ्जलिः खिलपूरणी। पृष्टम् पाक खिलांशः पूरितांशः ३ १२ अधर्म + स्तु (हण + स्व?) नेन्द्रि १६ नहि का+ + क्तम् १८ हि + + + वर्त २२ वि+ + + का ७ यो... धी च्यते १५ य..वैम १७ निव. तमावा अधर्ममाहुः । अर्यास्तु ग्रहणं तु प्रत्युत्पश्चेन्द्रि नहि तत्र विषयो भिद्यत इत्युक्तम् । हि वयं वर्त विपयानेका योग्ययागादिधा लाभे लभ्यते यं योग्यं धात्वर्थम निशिते तदेष वा न प्र ७ १ ८ . २. उदा. स्य ब्दार्थस्य " २१ पा . २६ चेत् . . . स २८ स. प्र २ | मेन प..वि वं भजते लिहादिव्यापा वृत्ते: कश्वासाव चेत् नवमपि स सर्वव्यापाराणां प्र मेऽनवस्थापात: वि टे.पायोऽयं व्या स्ति प्रवर्तनाम् । अतः ९ मव्या . १३ ष्टो १६ /न्ति अतः १८ क्तम् । हि त्य कम् । एतदेव.भिप्रेत्य .
No text on this page.
LIST OF SANSKRIT PUBLICATIONS FOR SALE. RS. s. '. HH3 Bhaktimanjari (Stuti) by H. H. Svāti Śrī lāma Variua Mahārāja. 1 0 0 स्यानन्दूरपुरवर्णनप्रबन्धः Syanandurapuravarnanaprabandha (Kavya) by H. H. Svāti Sri Rāna Varina Mahārā ja, with the commentary Sundarī of Rājară jil Varma Koil Tampuran. 2 0 0 Trivandrum Sanskrit Series. No. 1-97 Daiva (Vyäkaruņa) by Deva with Puruşakāra of Kronalīlāśukamuni (out of stock). 1 0 0 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ Abhinavakaustubhamala and Dakshinamurtistava by Krşnalīlāśukainuni (out of stock). 0 2 0 No. 3-TOIRITT: Nalabhyudaya (Kavya) by Vámana Bhatti Bāņa (second edition). O No. 1-Prestaura: Sivalilarnava (Krāvya) by Nīlakantha Dikṣita (met of stock). 200 No. 5-fanfararen: Yyaktiviveka (Alankara) by Mahima-Bhatt:t with commentary (out of stock). 2 12 0 -zela: Durghatavrtti (Vyākurana) by Sarañadeva (out of stock), 2 2 0 0 No. 7 guarantet Brahmatattvaprakasika (Vedānta) by Saclāśivendrasarasyati (out of stock). 2 2 4 0) No. 8-Janar Pradyumnabhyudaya (Nățaka) by Ravi Varma Bhūpa (out of stock). 1 0 0 2 RS. AS. P. No. 9-विरूपाक्षपञ्चाशिका Virupakshapanchasika (Vedanta) by Virūpakşanātha with the commentary of Vidyāçakravartin (out of stock). 080 No. 10-A1asetat Matangalila (Gajalakşaņa) by Nilakantha (out of stock). 0 8 0 No. 11-guiria umh Tapatisamyarana (Nataka) by Kulasekhara Varma with the commentary of Sivarama (out of stock). 2 4 0 No. 12--ITATFAITÆ Paramarthasara (Vedanta) by Adišeşa with the commentary of Rāghavă nanda (out of stock). 0.8 0 No. 13-HT3 Subhadradhananjaya (Nataka) by Kulasekhara Varma with the commentary of Sivarāma (out of stock). 200 No. 14-offert: Nitisara (Niti) by Kāmandaka, with the commentary of Sankarārya (out of stock). 3 3 8 0 No. 15- FETECH Svapnavasavadatta (Nataka) by Bhāsa (second edition). 1 8 0 No. 16-afarartet TITTA Pratijnayaugandharayana (Nataka) by Bhāsa (out of stock). 1 8 0 No. 17–79TTA Pancharatra (Nātaka) by Bhāsa (out of stock). 1 0 0 No. 18-ATRIOTTA Narayaniya (Stuti) by Nārāyana Bhatta with the commentary of Desainangalavārya (out of stock). 4 0 0 No. 19-ATAAutor: Manameyodaya (Mīmāmsā) by Nárāyaṇa Bhatta and Närāyaṇa Pandita (out of stock). 1 4.0 No. 20 - franca Avimaraka (Națaka) by Bhāsa (out of stock). 1 8 0 No. 21-acrt Balasha rita (Nataka) by Bhasa (out of stock). 1 0 0 3 RS, AS. 1'. (0) No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारो- Futa Madhyamavyayoga-Duta - vakya-Dutaghatotkacha-Karnabhara and Urubhanga (Nātika) by Bhāsal (out of stock). 1 8 0 No. 23-arrefusardiena: Nanartharnavasam - kshepa (Košil) by Kesalvusvamin (Part I, 1st and 2nd Kāndas). (out of stock). 11: No. 24-Hiftort: Janakiparinaya (Kāvya) by Cakra Kavi (out of stock). 1 100 No. 25-Turn Street At Kanadasiddhantachandrika (Nava) by Gangādharasuri (out of stock). ( 12 No. 26-31 Abhishekanataka by Bhisa (out of stock). 01:0 No. 27-Arceria: Kumarasambhava (Kävya) by Kalidasa with the two commentries, Prakásikā of Arunigirināthu. and Vivaraņu of Narāyana Pandita (Part I, 1st and 2nd Sargas) (out of stock)1 120) No. 28-- arteriga: Vaikhanasadharmaprasna (Dharmasatra) by Vikhanas (out of stock). 0 8 0 No. 29-arareturrieta: Nanartharnavasam - kshepa (Los) by Keśuvasvámin (Part II, 3rd Kānda) (out of stock). 24 0 No. 30-areglare Vastuvidya (Silp:l) (out oj stock). () 12 ( No. 31-arefuleriana: Nanartharnavasam - kshepa (Kośa) by Kesavasyāmin (Part III, 4th, 5th and 6th Kandas). 1 3 0) No. 32-Area: Kumarasambhava (Kavya) by Kalidāsa with the two colamentaries, Prakāsikā of Aruņagirinatha and Vivarana of Nárāyana Pandita (Part II, 3rd, 4th and 5th Sargas) (out of stick). 2 8 8 0 Hohen RS. AS. P. No. 33-atroYararuchasamgraha (Vyākaraña) with the commentary Dīpaprabhā of Nārāyana (out of stock). O 0 80 No. 34-Aforator: Manidarpana (Nyāya) by Rājaçudāmaņimakhin. 1 4 () No. 35-AOTETT: Manisara (Nyāya) by Gopinātha. 1 80 No. 31~HTCerita: Kumarasambhava (Kavya) by Kalidasa with the two commentaries, Prakāsikā of Arunagirinātha and Vivaſaņa of Nārāyaṇa Pandita (Part III, 6th, 7th and 8th Sargas). 3 0 0 No. 37-itale** Asauchashtaka (Sinști) by Varruci with commentary. O t. (). No. 38-ITHER Namalinganusasana (Kośa) by Amarasimha with the commentary Tikäsarvasva of Vandyaghatīya Saryānanda (Part I, 1st Kända). 200 No. 39-eroa Charudatta (Nāļaka) by Bhāsa (out of stock). 0 12 0 No. 40_RES Alankarasutra by Rājānaka Ruyyaka with the Alankärasarvasya of Mankhuka and its commentary by Samudrabardha (second edition). 2 8 0 No. 41-TEUTCH 2004 _Adhyatmapatala (Vedanta) by A pastamba with Vivaraña of Sri Sankara-Bhagavat-Pāda (out of stock). O 0 4 0 No. 42—AAT Pratimanataka by Bhāsa (out of stock). 1 No. 43-arafonigareta Namalinganusasana (Koba) by Amarasimha with the two commentaries, Amarakośodghatana of Kşīras vāmin and Tīkāsarvasva of Vandyaghatiya Sarvānanda (Part II, 2nd Kanda, 1-6 vargas). 2 8 0 No. 44-PIYEH Tantrasuddha by Bhattāraka Vedottama. 0 4 0 1 8 29 C 5 RS. AS. P. 1 0 0 0 No. 45-999184 Prapanchahridaya. No.'46_ofthrreter: Paribhashayritti (Vyakaraņa) •by Nilakantha Dîkşita. 0 8 0 No. 47-fograf ETETA Sidhantasiddhanjana (Vedānta) by Krşņānanda Sarasvati (Part I.) 1 12 0 No. 48-सिद्धान्तसिद्धाजनम् Do. Do. (Part II). 20 No. 49–Toetformit Goladipika (Jyotişa) by Parameśvara. 0 4 0 No. 50 -Trufagine: Rasarnayasudhakara (Alankâra) by Singa Bhūpä la. 3 0 0 No. 51-नामलिङ्गानुशासनम् Namalinganusasana (Koša) by Amarasimha with the two commentaries, Amarakośodyhātına of Kşirasvāmin and Tīkāsarvasva of Vandyaghatīya Sarvänanda (Part III, 2nd Kanda, 7-10 vargas)2 0 0 No. 52-Ahogarea Namalinganusasana (Koša) by Amarasimha with the commentary Tîkâsarvasva of Vandyaghatîya Sarvânanda (Part IV, 3rd Kaņda). 1 8 0 No. 53-recaurer: Sabdanirnaya (Vedânta) by Prakâsâtınayatîndra. 0 12 0 No. 54fmitefangrirfarar: Sphotasiddhinyayavichara (Vyâkaran.). 0 4 0 No 55-मत्तविलासप्रहसनम् Mattavilasaprahasana (Nâtaka) by Mahendravikramavarınan. 0 8 No. 56mAguiar Manushyalayachandrika (Silpa) (out of stock). No. 57-gerafina Raghuviracharita (Kâvya). 1 4 () No. 58-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vedânta) by Krsnananda Sarasvati (Part III). 2 0 0 6 RS. AS. P. No. 59– Titrert Nagananda (Nataka) by Hargadeva with the commentary Vimarsini of Sivarâma (out of stock). 340 No. 60afa: Laghustuti by Laghubhattâraka with the commentary of Raghavânanda, 0 8 0 No. 61-fagtraf Tera Siddhantasiddhanjana (Vedânta) by Kțşnânanda Sarasvati (Part IV).' 1 4 0 No. 62-ACEITE: Sarvamatasamgraha. 08 09 No 63-facratater Kiratarjuniya (Kavya) by Bharavi with the commentary Sabdârthadîpikā of Citrabhânii (1, 2 and 3 Sargas). 28 ( No. 64–harmaat: Meghasandesa by Kalidāsa with the commentary Pradipa of Dakşiņâvartanātha. 0 12 0 No. 65—AA Mayamata (Šilpa) by Mayamuni (out of stock). 3 4 0 No. 66%HET Maharthamanjari (Darsana) with the commentary Parimala of Maheśvarânanda. 2 4 0 No. 67- TATAY:Tantrasamuchohaya (Tantra) by Nûrîyana with the coinmentary Vimarsinſ of Sankara (Part I, 1-6 Pata las) (out of stock). 3 4 0 No. 68-72: Tattvaprakasa (Āyama) by Śrī Bhojadeva with the commentary Tatpuryadîpikâ of Śri Kumāra 1 12 0 No. 69 afregnearefa: Isanasivagurudevapaddhati (Tantra) by Isảnasiva gurudevamisra (Part I, Sâmānyapâda) 1 8 0 No. 70-pasayfrom ea: Aryamanjusrimulakalpa (Part I). 2 8 0 No. 71-Janey: Tantrasamuchchaya(Tantra) by Narayana with the commentary Vimarsinī of Sankara(Part II, 7-12 Patalas) (out of stock). 3 8 0 2 7 0 Ks.'As. p. No. 72-aaragandang fa: Isanasivagurudovapaddhati (Tantra) by Isa nativagurudevamisra (Part II. Mantrapāda), 40 No. 73-fatalagerint: Isvarapratipattiprakasa (Vedānta) by Madhusadangsarasvati. 0 4 0 No. 74-Tecprala: Yajnavalkyasmrti with the commentary Balakrida of Viśvarů pâcârya. (Part I - Acara and Vyavahâra Adhyâyas). 3 4 0 No. 75%Facyce Silparatna (Šilpu) by Srikunnârii (Part I). 2 12 () No. 76—34pfasesfirmen: Aryamanjusrimulakalpa (Part II). 3 0 0 No. 77-rapragaarafa: Isanasivagurudevapaddhati (Tantra) by Isanasiyagururlevamisra (Part III, Kriyä pāda 1--30 Patalas). 3 0 0 No. 78 - 37792cluca Asvalayanagrhyasutra with the commentary Anāvila of Haradattācārya. 2 6 0 No. 79—37farah Arthasastra of Kautulya with commentary by Mahūmahopadhyāya T. Ganapati Sastri (Part 1-1 & 2 Adhikaranas). 3 12 0 No. 80-quared Do. Do. (Part 11—3—7 Adhikaranas). 4 0 0 No. 81–preala:Yajnavalkyasmrti with the commentary Balakrida of Viớyarūpācārya (Part II. Prayascittâdhyaya). 2 0 0 ANO. 82—37erer Arthasastra of Kautalya with commentary by Mahāmahopādhyāya T. Ganapati Sastri (Part III, 8-15 Adhikaranas). 3 4 0 No. 83-rafavagoanga: Isanasivagurudevapaddhati (Tantra) by Ibanaśivagurudevamisra (Part IV, Kriya - pâda 31–64 Patalas and Yogapada). 3 8 0 8 RS. AS. P. 1 . No. 84—pfhayatta heq: Aryamanjusrimulakalpa (Part III). 2 0 0 No. 85-ercussitear Visnusamhita (Tantra). 2 8 0 No. 86-wearacca Bharatacarita (Kavya). by Krşņakavi. 1 8 0 No. 87- KITEATAR: Sangitasamayasara (Sangīta) of Sangitåkaru Pârsvadeva. 1 2 () No. 88- 6494757: Kavyaprakasa (Alankara) of Mammatabhatta with two commentaries the Sampradāyaprakāśini of Śrī Vidvācakravartin and the Sâhityacândâmani of Bhattagopala (Part I, 1-5 Ullásas). 3 No. 89—-Ftefare: Sphotasiddhi (Vyākaraña) by Bharatamiśra. 0 8 *0 No. 90—HIHIATtenallert Mimamsaslokavartika with the commentary Käsikā of Sucuritamišra (Part I). 8 0 No. 91-True Horasastra of Varāhamihirācārya with the Vivarana of Rudra. 3 0 0 No. 92–Tefarea Rasopanishat. 2 0 0 No. 93–Erra FCHT Vedantaparibhasha (Vedānta) of Dharmarājādhvarindra with the commentary Prakasika of Peddādīkṣita. 1.80 No. 94-Taft Brihaddesi (Sangita) of Matangamuni. 1 s 0 ani, No. 95-Turetrait Ranadipika (Jyotişa) of Kumaraganaka. O od 0 No. 96-vitar Rksamhita with the Bhāşya of Skandasvāmin and the commentary of Venkatamadhavárya (Part I, 1st Adhyāya in 1st Aştaka). 1 8 0 9 RS. AS. P. No. 97-Tatuagefa Naradiyamanusamhita (Smrti) with Bhāsya of Bhavasvāınin. 2 0 0 No. 98-Faretta Silparatna (Silpa) by Śrikumăra. 2 8 0 No. 99-Arniere Mimamsaslokavartika (Mīmāmsa) with the commentary Kātikā of Sucaritamisra (Part II). 300 Apply to:- The Curator for the publication of Sanskrit Manuscripts, Trivandrum
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.