S.P Collage

Patanjalis Yoga Dharshana

Jiwananda · 2013

PDF Proofread

Front matter

No text on this page.

(Vote
पातञ्जलदर्शनम्।
महर्षि वेदव्यासकृतभाष्यसहितम् ।
विज्ञानभिक्षुक्कतयोगवार्तिकव्याख्या समलमृतम् ।
पण्डितकुलपतिना,
वि, ए, उपाधिधारिणा
श्रीबीवानन्दविद्यासागरभट्टाचार्याण
संस्कृतं प्रकाशितञ्च ।
हितीय संस्करणम् ।
कलिकातानगऱ्याम्
सिद्धेश्वरयन्ते
मुद्रितम् ।
१८८७

No text on this page.

No text on this page.

No text on this page.

पातञ्जलद नदर्शनम् । समाधिपादः । ॐ अथ योगानुशासनम् ॥ १ ॥ * यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधाऽनुग्रहाय प्रक्षीण क्लेशराशिविषमविषधरोऽनेकवत्रः सुभोगी। सर्व ज्ञानप्रसूति जगपरिकरः प्रीतये यस्य नित्यम्, देवोऽहोश: स वोऽव्यात् सितविमलतनु-गदो योगयुक्तः ॥१॥ अथ इति अयमधिकारार्थः । योगानु- शासनं शास्त्रमधिकृतं वेदितव्यम् । योगः समाधिः स च सार्वभौमः चित्तस्य धर्मः । क्षिप्तं मूढ़ विक्षिप्तम् एकाग्रं निरुदम् इति चित्त- भृमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनी- भूतः समाधिन योगपचे वर्तते । चेतसि सङ्क तमथं प्रद्योतयति, क्षिणोति च के शान्, कर्मबन्धनानि श्लथयति, निरोधमभि- मुखं करोति, स सम्प्रजातो योग इति आख्या- स च वितानुगतो विचारानुगतः यस्तु एकाग्रे यते ।

२ पातञ्जलदर्शनम् । आनन्दानुगतः अस्मितानुगत इति उपरिष्टात् प्रवेदयिष्यामः । सर्वत्तिनिरोधे तु असम्प्रज्ञातः समाधिः ॥१॥ यश्चिन्मानरसोऽपि नित्यविमलोपाधर्गुणैरीखरो हेयैः क्लेशमुखैर्गुणेविरहितो मुक्तः सदा निर्गुणः । सोऽस्मान् बुद्धिगुण: स्वयं निगडितान् स्वांशान् कृपासागरो दीनान् मोचयतु प्रभुर्गणमयं पाशं दहन् लीलया ॥ १ ॥ श्रीपातञ्जलभाष्यदुग्धजलधिविज्ञानरत्नाकरो वेदव्यासमुनीन्द्र बुद्धिवनितो योगीन्द्रपैयामृतः । भूदेवैरमृतं तदत्र मथितु विज्ञानविज्ञैरिह श्रीमहार्तिकमन्दरो गुरुतरो मन्थानदण्डोऽयंते ॥ २ ॥ सर्ववेदार्थसारोऽत्र वेदव्यासेन भाषितः । योगभाथमिषणातो मुमुक्षूणामिदं गति: ॥ ३ ॥ गङ्गाद्याः सरितो यहदधेरंशेषु संस्थिताः । सांख्यादिदर्शनान्वमस्यैवांशषु कत्नशः ॥ ४ ॥ निर्विघ्नग्रन्थसमाप्तये योगप्रवर्तकमनन्तमौखरं स्मरन् शिष्याणां शास्त्रग्रहणानुष्ठानादावप्यप्रतिबन्धं तत्र एव प्रार्थयते । यस्त्यवति । य: स्वस्याद्यरूपं शेषाख्यं त्यक्त्वा स्वांशैस्ततो विभक्तो भूत्वा लोकानुग्रहार्थ बलरामादिरूपेणाविर्भवति स वो युष्मान् शिष्यान् पालयेत् शास्त्रार्थग्रहणादिप्रतिबन्धं निवारयत्वित्यर्थः । शेषं सुगमस् ॥ १ ॥ “अध्यात्मयोगाधिगमेन मत्वा देव धीरो हर्षशोको जहाति" "यतो निर्विषयस्यास्य मनसी मुक्तिरि- प्यते । अतो निविषयं नित्यं मनः कार्य मुमुक्षुणा” “तावदेव निरोदव्यं यावद्धृदि गतं क्षयम् । ऽन्यो ग्रन्यविशार" इत्यादिश्रुतिषु, “मुक्तिर्योगात्तथा योगः एतद् ज्ञानं च ध्यानं च शेषो- समाधिपादे-योगवार्तिकम् । ३ सम्यग्ज्ञानान्महीयते । तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिक” इत्यादिस्मृतिषु च योगो मोक्षहेतुतया विहितः, तत्र योग: किंखरूपः किमुपाय: केन वा हारण ज्ञानमोक्षयोः कारणमित्यादिकं मुमुक्षूणां विविदित्सितं भवति, ब्रह्ममीमांसा सायादिषु च ज्ञानमेव विचारितं बाहुल्येन ज्ञानसाधनमावस्तु योग: सङ्खपत:, ज्ञानजन्ययोगस्तु सझेपतोऽपि तेषु नोक्तोऽतो- ऽतिविस्तरेण हिविधं योगं प्रतिपिपादयिषुभंगवान् पतञ्जलि: शिष्यावधानायादौ योगानुशासनं शास्त्रमारभ्यतया प्रतिज्ञात- वान् । तदिदं सूत्रमारभ्य समग्रं शास्त्रं सर्वलोकहिताय भगवान् वादरायणो व्याचटे। अथेत्ययमधिकारार्थ इत्यादिना। अधि. कारशब्दो योगरूढ़तया आरम्भण एवं मुख्य इति शास्त्रस्याधि- कार्यत्वं मुख्यमेवास्ति। यत्र चार्थस्याधिकार्यत्वमुचते यथा अथैष ज्योतिरित्यादौ तत्राधिकार्यशास्त्र विषयतया गौणं तदि- त्याशयः । एतेन शास्त्रस्यानधिकार्यत्वमनिरूप्यत्वादित्यपास्तं प्रकृतभाष्यविरोधादिति। प्रश्नाद्यर्थकत्वमथशब्दस्य किं कुत्रापि नास्तीत्याशङ्कानिरासायोक्तमयमिति । अधिकारार्थोऽधिकार- वाचक इत्यर्थः । अथशब्दस्य चोञ्चारणमात्रेण मङ्गलत्वमपि बोध्यम् । शिष्टस्य शासनमनुशासनं तेन शास्त्रस्य गुरुमूलकतया सूत्रकारण प्रामाण्यं दर्शितं "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातन" इति योगियाज्ञवल्क्येन हिरण्यगर्मस्यादिगुरुत्वबोध- मादिति । सूबवाक्यार्थमुपसंहरति, योगस्यानुशासनं शास्त्र- मधिकृतं वेदितव्यमिति। शिष्यैरिति शेषः । वेदितव्यमिति- पूरणेन सूत्रस्य शिष्यावधानार्थकत्वं सूचित, योगस्य च फलं सूत्रभाष्ययोः स्थाने स्थाने वक्ष्यमाणं मयोत्तरसूत्रावतारिकाया- मपि संक्षेपादच्यते। योगलक्षणपरतया द्वितीयसूत्रमवतारयि- ॐ ४ पातञ्जलदर्शनम्। थति। तत्र युज समाधाविति योगलक्षणस्य प्रसिद्धत्वालक्षणा- न्तराकान्व नास्तीत्याशङ्कां तस्यातिव्याप्तत्वेनादावपाकरोति । योगः समाधिः स च सार्वभौमश्चित्तस्य धर्म इति । युज समाधा- वित्यनुशासनत: प्रसिद्धो योगः समाधि: चित्तवृत्तिनिरोधः सच सार्वभौमः सर्वासु वक्ष्यमाणासु क्षिप्ताद्यवस्थासु साधारण- श्चित्तस्य धर्मः स्वाभाविक: जलस्य द्रवत्ववत्, क्षिप्ताद्यवस्थाया- मपि हि यत्किञ्चिदृत्तिनिरोधोऽस्त्य वेति,तथाच अलक्ष्यास्ववस्थासु तल्लक्षणमतिव्याप्तमिति शेषः। कास्ताः सर्वाः चित्तभूमय इत्या- काझायामाह । क्षिप्तमित्यादि। क्षिप्तं रजसा विषयेष्वेव वृत्ति- मत् । मूढ़ तमसा निद्रादिवृत्तिमत्। क्षिप्ताहिशिष्टं विक्षिप्त सत्त्वाधिक्येन समादधदपि चित्तं रजोमात्रया अन्तरान्तरा विष- यान्तरवृत्तिमत्। एकस्मिन्नेव विषये अग्रं शिखा यस्य चित्त- दीपस्येत्येकाग्रं विशुद्धसत्त्वतयैकस्मिन्नेव विषये वक्ष्यमाणावधी- कृतकालपर्यन्तमचञ्चलं निवातस्थदीपवत्। तथा च क्षिप्तादि- त्रयेऽपि किञ्चिदैकाग्यसत्त्वेऽपि तत्र नातिप्रसङ्गः। निरुद्धञ्च निरुद्धसकलत्तिकं संस्कारमानशोषमित्यर्थः । रजोधर्मस्य रागादेः प्रतिघातादेव लोकानां तमोधर्मो विषादादिश्यत इति क्षिप्तात् पूर्व न मूढ़स्योपन्यासः । उक्तातिव्याप्ति प्रतिपादयितुमुक्त- भूमिषु लक्ष्यालक्ष्य विभागं करोति । तत्र विक्षिप्त इत्यादिना। तत्र तासु पञ्चसु मध्ये विक्षिप्ते चेतसि वर्तमानः समाधिरल्यो बहुलविक्षेपशेषोभूतत्वान्न योगपक्षे योगमध्ये प्रविशति क्लेश- हान्यहेतुत्वात् सुतरां तु क्षिप्तमूढयोश्चित्तयोर्वर्तमानौ समाध्या- भासावित्याशयः । अतो न क्षिप्तमूढभूम्योरलक्ष्यत्वाप्रतिपादन न्यूनतेति। विक्षिप्तमुखेनाद्यभूमिवयस्यालच्यत्वमुक्ता अन्त्यभूमि- इययेव लक्ष्यमित्याह । यस्त्व काग्रइति। यस्तु समाधिरेकाग्रे चेतसि वर्तमानोऽथ ध्येयं वस्तु सद्भूतं परमार्थभूतं प्रकर्षण समाधिपादे-योगवार्तिकम् । ५ इत्याह। द्योतयति साक्षात्कारयति ततश्च ल शानविद्यादीन् पञ्च क्षिणोति ततोऽपि च कारणोच्छेदाधर्माधर्मरूपाणि बन्धनानि बुद्धिपुरुषयोबन्ध कारणानि नथयति अदृष्टोत्पादनाक्षमाणि करोति तथा निरोधस सम्प्रज्ञातयोगमभिमुखं प्रत्यासन्नं करोति । परवैराग्यजनननति शेवः । स समाधिः सम्प्रज्ञातो योग इति कथ्यत इत्यथः । सम्यक् प्रज्ञायते साक्षात्क्रयते ध्य यमस्मिन्नि रोधविशेषरूप योग इति सम्प्रज्ञातो योगः। यद्यपि समाधिशब्दे. नकाग्रतातिशयरूपं निरोधहयरूपयोगद्दयस्याङ्गमव परिभाषि- प्यते तथापि योगदयमङ्गाङ्गिनोरभेदविवक्षयव समाधिशब्द नातमवमुत्तरोत्तरसूत्रेऽपि बोध्यम् । स च सम्प्रज्ञातश्चतुर्विध स चेति। न च वितानुगतादित्रिक साक्षात्कार- जनकत्वादिकं साक्षान्नास्ति अविद्यालेशसम्पर्कादिति वाच्यम् । सवितर्कादिक्रमणव साक्षात्कार या चरमभूमिकायामृतम्भर- प्रज्ञोदयेन भूमिका चतुष्टय एव साक्षात्कारसम्बन्धादिति । निरु- द्वभूमरपि लक्ष्य त्वमाह । सर्ववृत्ताति । सम्प्रज्ञातकालीना साक्षा- त्काररूपिणो या वृत्तिः तस्या अपि वक्ष्यमाणपरवैराग्येण निरोध जायमान त्वसम्प्रज्ञातयोग इत्यर्थः । वृत्तिनिरोधश्च चित्तस्य वृत्तिसंस्कारशपावस्था अभावम्याधिकरणावस्थाविशेषमात्ररूप- त्वात् निरुध्यन्त ऽस्यामवस्थायामिति व्युत्पत्ते ा, सा चावस्था संस्कारमात्रैः परिणामधारा। निरोधकाले संस्कारतारतम्य- रूपस्यैव चित्तपरिणामस्य सूत्रभाष्याभ्यां वक्ष्यमाणत्वादिति । नतु वृत्तिनिरोधो वृत्त्यभावमात्रमेकाग्रताविशेषो वा निरोध- स्याभावमात्रत्वे वक्ष्यमाणसंस्कारजनकत्वानुपपत्तेरैकाग्रतामात्र- रूपत्वे समाधिपादङ्गात् सम्प्रज्ञाताच्च भेदानुपपत्तेः । “उल्का- हस्तो यथा कश्चित् द्रव्यमालोक्य तास्त्यजेत्। बोधेन ज्ञानमा- लोक्य तथा बोध परित्यजेत्” इत्यादिस्मृतिषु ‘यावद्धृदि गतं ६ पातञ्जलदर्शनम्। क्षय' मिति पूर्वोक्त श्रुती चासम्प्रज्ञातस्य सकलवृत्तिशून्यत्वश्रव- णाच्च। ननु सम्प्रज्ञातासम्प्रज्ञातयो र्योगयो निरोधरूपयोः किं प्रयोजनं 'योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्याते' रितिसूत्रेण योगाङ्गस्यैव ज्ञानहेतुताया वक्ष्यमाणत्वात् सम्प्रज्ञा- तयोगकाले ज्ञानस्योत्पत्तेरेव शास्तोष्ववगमात् न तु तहेतुतायाः एककालकत्वेन हेतुहेतुमद्भावासम्भवाच्च । अस्तु वा विषयान्तर- साराख्यप्रतिबन्धनित्तिरूपतया ज्ञान हेतुत्वं सम्प्रज्ञातयोगस्य 'च गवृत्तेरभिजातस्येव मणेग्रहोटग्रहण ग्राहो षु तत्स्थतदञ्जन- तासमनापत्ति'रित्यागामिसूत्राच्च न तु असम्प्रज्ञातयोगस्यापि तस्य ज्ञानजन्य त्वात्, नच ज्ञानोत्पत्त्यनन्तरं मोक्षाय अन्यत् साधन- मपेक्षणीयं 'तस्य तावदेव चिरं यावन्न विमोच्येऽथ सम्पत्स्य' इत्वादि गुतिभिरन्थनिरपेक्षज्ञानस्य मोक्षहेतुत्व सिद्धेरविद्या- कासकर्मादिनिवृत्ती हेत्वभावेन पुन: संसारानुपपत्तेश्च । अत्री- च्यते। ज्ञाने जातेऽपि प्रारब्धकर्मणा देहधारणस्यावश्यकत्वेन तदानीमपि वाह्याभ्यन्तरवृत्तिभिर्यत् दुःखं न जायते एतदप्य- न्ततो योगदयस्य फलमस्ति । तथाहि वक्ष्यति भाष्यकारः सर्वा- चैता हत्तयः सुखदुःखमोहात्मिका अत एता: सर्वा वृत्तयो निरो- हव्या इति। किञ्च ज्ञानस्य कर्म न यहेतुत्वमस्ति तथा योग- स्यापि “विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि। प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात्” इत्यादिवाक्यशतेभ्यः । तथा च कर्मक्षयहारा ज्ञानस्येवासम्प्रज्ञातयोगस्यापि मोक्ष तुत्वं सिद्ध तत्र चासम्प्रज्ञातयोगनाखिलसंस्कारदाहकेन प्रारब्ध कर्माध्यतिक्रम्यत इति ज्ञानाविशेषः । ज्ञानस्य हि प्रारब्धनाश- कावे बाधिकास्ति “तस्य तावदेव चिर"मित्यादिश्रुति र्जीवन्मुक्ति- श्रुतिस्मृतयश्च । योगस्य प्रारब्धनाशकत्वे बाधकं नास्ति प्रत्युत दुग्धकर्मचयोऽचिरादिस्व स्मर्यते, अत: प्रारब्धमपि कर्म कर्म- समाधिपादे-योगवार्त्तिकम् । विपाकोक्तप्रायश्चित्तादिवदेवातिक्रम्य झटिति मोचनमेव योगस्य फलम्। अन्यच्च योगदयेनाखिलसंस्कारक्षये भोगसंस्काराख्य- सहकार्यभावात् प्रारब्ध कर्मापि यत् फलाचम भवति इदमपि योगफलम् । तदुक्तं मोक्षधर्मे, 'नास्ति सायसस झानं नास्ति योगसम बल'मिति । बलं प्रारब्धस्याप्यतिःमिग स्वेच्छया शीघ्र- मोक्षहेतुः । अपि च वृत्तिनिरोधात्मको योग एव दुःखनित्र- त्यात्मकमोक्षे साक्षाडेतुः पुरुषे दुःखस्य चित्तवृत्त्योपाधिकत्वात् उपाधिनिवृत्तिथीपाधिकनिवृत्तौ चरमकारणमतो जानन न योगस्यान्य थासिद्धिः ज्ञानवैराग्यकर्मक्षयादीनां वृत्तिनिरोधा- ख्यचरमकारणहारैव दुःखात्यन्तीच्छेदहेतुत्वात् वृत्त्यत्वन्तनिरो- धस्तु चरमासम्प्रज्ञात भवति यत्र संस्कारस्यात्यन्त क्षयेण चित्तस्य विलयान्मोक्षो भवति। तथा च हारहारिभावेनापि ज्ञानव सम्प्रज्ञातयोगस्यापि मोक्षहेतुत्वं सिद्धम्, असम्म ज्ञातयोगस्य च साक्षान्मोक्षहेतुत्वं 'तदा द्रष्टुः स्वरूपेऽवस्थान' मति सूत्र कारः स्वयं वक्ष्यति 'मुक्ति हित्वान्य याभावं स्वरूपेण व्यवस्थिति रित्या- दिवाक्यरात्यन्तिकस्य स्वरूपावस्थानस्यैव मोक्षवादिति दिवा ॥ तदेवं चित्तभृमिषु लक्ष्यालच्यविवेकपूर्वकं प्रसिद्धस्य योगलक्ष- स्यातिव्याप्तिं प्रदर्श्य योगलक्षणाकाका उपपादिता, अत:परं लक्षणपरतयोत्तरसूत्रमवतारयति। तस्य लक्षणाभिधिसयेति । तस्य विविधस्य योगस्य, उहातिव्याप्तिनिराकरणान्यथानुप- पत्त्या मूबद्दयेनेव लक्षणसमाप्तिर्मविष्यतीति सूचयितमभिधि- सयेत्युक्तमन्यथा हि तस्य लक्षणसूत्रं प्रववृते इत्येतावन्मान- मुच्येत ॥ १ ॥ तस्य लक्षणाभिधित्सया इदं सूब प्रववृते- * योगश्चित्तवृत्तिनिरोधः ॥ २॥ * पातञ्जलदर्शनम् । सर्वशब्दाग्रहणात् सम्प्रजातोऽपि योग इति आख्यायते। चित्तं हि प्रख्या प्रवृत्तिस्थितिशील- त्वात् त्रिगुणम् । प्रख्यारूपं हि चित्तसत्त्वम् रजस्तमोभ्यां संसृष्टम् ऐश्वर्यविषयप्रियं भवति। तदेव तमसा अनुबिडमधर्माऽज्ञानाऽवैराग्याs- नैश्वर्योपगं भवति। तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुबिद्धं रजोमात्रया धर्म- ज्ञानवैराग्येश्वर्योपगं भवति। तदेव रजोलेश- मलापतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्याति- मात्र धर्ममेघध्यानोपगं भवति। तत्परं प्रस- ढ्यानमित्याचक्षते ध्यायिनः । चितिशक्तिरपरि- णामिनी अप्रतिसंक्रमा दर्शितविषया शुद्धा च अनन्ता च, सत्त्वगुणात्मिका चेयम्, अतो विप- रीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि, तदवस्थं चित्तं संस्कारोपगं भवति, स निर्बीजः समाधिः, न तब किञ्चित् सम्पजायत इति असम्पज्ञातः विविधः स योगः चित्तवृत्तिनिरोध इति ॥ २॥ चित्तमन्तःकरणसामान्य मेकस्यैवान्तःकरणस्य वृत्तिभेदमा- वेण चतुर्धा अत्र दर्शने विभागात् तस्य यावलक्ष्यमाणा वृत्तयस्तासां निरोधस्तासां लयाख्योऽधिकरणस्यैवावस्थाविशेषोऽभावस्यास्म- समाधिपादे योगवार्त्तिकम् । न्मतेऽधिकरणावस्थाविशेषरूपत्वात, स योग इत्यर्थः। नन्विद लक्षणं सम्प्रज्ञातस्याव्यापकं तत्र ध्ये याकारवृत्तिसत्त्वादित्याशङ्का भाष्यकार आह। सर्वशब्द ति। सर्ववृत्तिनिरोध इत्यवचना- दित्यर्थः। नन्वेवं पूर्वोक्तातिव्याप्तिः क्षिप्तादिष्वपि यत्किञ्चिद- वृत्तिनिरोधादिति चेन्न । तदा द्रष्टुः स्वरूपेऽवस्थानमिति वक्ष्य- माणसूत्रमाहित्येनेवास्य लक्षणत्वात्। तथा च द्रष्टस्वरूपाव- स्थितिहतुश्चित्तवृत्तिनिरोधः क्षिप्ताद्यवस्थासु नास्तीति नाति- व्याप्ति:, सम्प्रज्ञातस्य च स्वरूपावस्थितिहेतुत्वमसम्प्रज्ञातबारा- स्त्ये वेति। पर तु क्षिणोति च क्ले शानिति पूर्वभाष्यानुसारेण क्ल शकर्मादिपरिपन्थित्वं निरोधविशेषणं पूरणीयं तथा च क्ल शकर्मादिपरिपन्थित्वे सति चित्तवृत्तिनिरोधत्वं योगदय- साधारणं लक्षणमित्याहुः । अस्य च लक्षणग्य क्षिप्तादिभूमि- त्रयेऽतियाप्ति स्तीत्यत्र हेतु' क्रमेण प्रतिपादयति। चित्त होत्यादिना। प्रख्या तत्त्वज्ञानमनेन सर्व सात्त्विका गुणा उप- लक्षिताः। प्रवृत्ति: कर्म, अनेन सर्वे राजसा गुणा ग्राह्याः । स्थिति त त्याख्यगतिशून्यता निद्रेति यावत्, अनेन सर्वे तामसा गुणा ग्राह्याः। एते क्रमात् सत्त्वरजस्तमाख्यानां द्रव्याणां धर्माः पराथितत्वात् रूपादिवद्गुणा इत्युच्यन्ते, तदाशयास्तु सत्त्वादिद्रयाणि रज्वारम्भकतन्तुवदेव गुणा इत्युच्यन्ते, तथा च प्रख्यादिस्वभावकत्वात् चित्तं विगुणं सत्त्वादिगुणत्रयनिर्मित रज्जुवदित्यर्थः। ततः किमित्यत आह । प्रख्यारूपं होति । हिशब्दो वाक्यालङ्कार अवधारण वा। चित्तसत्त्वमिति । चित्तस्य सत्त्वप्राधान्यप्रतिपादनाय पुनरुक्तं, प्रख्यारूपमिति च तेजः सत्त्वव्यावर्तनायोक्तं, तथा च प्रख्यास्वभावं चित्तरूपं मत्त्व स्वोपसर्जन नूताभ्यां रजस्तमोभ्यां संसर्गेण क्षिप्तावस्थायामणि- माखिये शब्दादिविषये चानुरक्तं भवतीत्यर्थः अत: क्षिप्ताव- १० पातञ्जलदर्शनम्। स्थस्य वृत्तिनिरोधस्य स्वरूपावस्थानाहेतुत्वात् रागादिल शा- परिपन्थित्वाहा न तत्रातिव्याप्तिरिति भावः । क्षिप्तावस्थाया- मतिव्याप्तिं परिहृत्य मूढ़ावस्थायामपि तां परिहरति। तदेव तमसेति । उपगमन्मख तत्प्रियमित्यर्थः । भावस्तु पूर्ववत् । विक्षिप्तावस्थायामतिव्याप्तिं परिहरति । तदेव प्रेक्षीणेति। मोहस्तमोद्रव्य कार्यकारणाभेदात् तदेव दर्पणस्य मलवच्चित्त- सत्त्वस्यावरणं प्रक्षीणं यत्र तत् प्रक्षीणमोहावरणं सर्वतः प्रद्योत- मानं सर्वविषयाकारवृत्तिमद् एवम्भूतं हिरण्यगर्भादीनां चित्तं रजोलेशन सम्भे दाविक्षिप्तं सद धर्मादिचतुष्टयप्रियं भवतीत्यर्थः । अत्रापि भावः पूर्ववदेव बोध्यः । अवस्थात्रयेऽतिव्याप्तिं परिहृत्य एकाग्रनिरुद्धावस्थयोलक्ष्ययोर्लक्षणं क्रमेण योजयति । तदेव रजोलेशेनेत्यादिना । विक्षेपहेतुना रजोलेशेनापि मलेनापेतमत एव स्वरूपप्रतिष्ठं स्वाभाविकेन रूपेण प्रसादादिना सम्यगवस्थितं निर्मलदर्पणवत् अतश्च सत्त्वपुरुषयोर्बुद्ध्यात्मनोविवेकख्याति- मात्रं तन्मात्रवृत्तिकं सत् धर्ममेघध्यानमात्रप्रियं भवति न तु क्ल शप्रियैश्वर्यप्रियमित्यर्थः । धर्ममेघध्यानं किमिक्षाकाङ्गाया- माह। तत्परमिति । तद्धर्ममेघाख्यं ध्यानं परम प्रसङ्घयानं तत्त्व- ज्ञानं विवेकख्यातेरेव पराकाष्ठेति योगिनो वदन्तीत्यर्थः । तथा चेयमेकाग्रता सत्त्वपुरुषान्यताख्यातिरूपिणी द्रष्टस्वरूपावस्थाने हेतुः लशकर्मादिपरिपन्थिनी चेति योगलक्षणाक्रान्तेति भावः । धर्ममेघसमाधिश्च सूत्रकारेणैव वक्ष्यते । यद्यप्यस्मितानुगत एव सम्प्रज्ञातयोगे सत्त्वपुरुषान्यताख्यातिरस्ति न वितर्कानुगतादौ तथाप्यनेनैव तेऽप्यपलक्षणीया एतदङ्गभूतत्वात्तेषामिति । निरु- द्धावस्थायामपि लक्षणं योजयन्नेव सकारणस्य निरोधस्य स्वरूप- माह । चितिशक्तिरित्यादिना । सम्प्रज्ञातकाले संसारहेतुत्वादि- दोषदर्शनादेव इतरवृत्तिनिरोधो जातस्तस्माच्च सिद्धायां विवेक- समाधिपादे-योगवार्तिकम्। ११ ख्यातिनिष्ठायां विवेकख्यातेरप्यनात्मत्वमाक्षात्करणात् तत्फल- सिद्धेश्च तत्रापि वैराग्यं भवति. ततः सर्ववृत्तिनिरोध इति प्रक्रिया। तत्र यादृश विवेक ख्यातिनिष्ठा विवेकख्यातिवैराग्य हेतुस्तामादौ दर्शयति। ख्यातिरितीत्यन्तेन। चितिशक्ति: पुरु- षाख्या न परिणामिनी पूर्वधर्मापाये धर्मान्तरोत्यत्तिः परिणाम- स्तद्रहिता कूटस्थनित्या परमार्थसत्येति यावत्। लोकऽर्थप्रका- शनरूपे फल एव चैतन्यशब्द: प्रयुज्यते चैतन्यफलोपाधानं च न सर्वदा सर्वपुरुषऽस्तोत्याशयेन शक्तिपदोपादानं, तथा च शक्ति- रूपेणावस्थिता चितिरित्यर्थः। चितिश्च न गुणः किन्तु प्रकाश- खरूपं द्रव्यमिति 'द्रष्टा दृशिवान' इति सूत्रे विस्तरत: प्रति- पादयिष्यामः । यतोऽपरिणामिनी अतएव चितिशक्तिरपति- संक्रमा असञ्चारा, यथा बुडिषियं गच्छति पदग्रहणार्थं नैवं चितिरक्रियत्वात् । अथ वा नास्ति प्रतिसंभ्रमः सङ्गो विषयेषु यस्या इत्यप्रतिसक्रमा निर्लपति यावत्। नन्वपरिणामित्वे चात्मनो विषयाकारत्व नावात् कथ' विषयस्फुरणं तबाह । दर्शितविषया, दर्शितो बुद्या निवेदितो विषयो यस्यै इति विग्रहः । विषयः सह बुद्दित्तिश्चिती प्रतिविम्बिता सती भासत इति भाव: । 'त्तिमारुप्यमितरते'ति सूत्रे चैतगतं भविष्यति । यतोऽपरिणासिनी अतएव शुधा अनन्ता च सुखदुःखमोहाद्यात्म- कागुडिरहिता पूणी च, उमाशः परिणामरूपत्वात् सक्रिय स्यैव परिच्छिन्नत्वाचेति। इयं विवेकख्याति: धर्मधय॑भेदात् तहतो वृत्ति: सत्त्वगुणामिका सत्त्वगुणस्य कार्या अतश्चितिशक्तितो विपरीता परिणासिनीखयमेव विवेकाकारिणी प्रतिसंक्रमवती दीपशिखावत् विषयेषु सर्पणात्तथा जड़ा तथा सुखदुःखाद्य शुद्धि- मती परिच्छिन्ना च इत्यतोऽनात्मत्वादिदोषदर्शनात् तत्फल- सिद्धेश्च विवेकख्यात्यां विरक्त प्रत्युत्पन्नालम्प्रत्ययं चित्त तामपि १२ पातञ्जलदर्शनम् । ख्यातिं निरुणद्धि आवृणोति विलापयतीति यावत् । परवैराग्येण हेतुना चित्तस्य सा वृत्तिः स्वयमेव विलीयते यथा निद्रादोषेण सुषुप्ती जाग्रदादिवृत्तिरिति शर्करास्वादेनैव गुड़दोषा अभिव्य- ज्यन्त इत्यतो विवेकख्याते र्दोषदर्शने पुरुषगुणदर्शनमुपयुज्यत इति भावः। तथा यावदत्तिदोषालिप्तत्वेन वृत्तिवैधयेंण वृत्तिमेदत आत्मा न दृश्यते तावद्दोषदर्शनेऽपि आत्मत्वनमात् वृत्तिवैराग्य' न घटते प्रात्मटे नेव परमप्रियत्वात् अत आत्म- वृत्त्योरुभयोरेव गुणदोषाभ्यां विविच्य दर्शनं वृत्तिवैराग्य हेतु- रित्याशयः। तदवस्थं निरोधावस्थं चित्तं संस्कारोपगं संस्कार- मात्रानुसारि संस्कारमात्ररूपेण प्रशान्तवाहि भवति सेयं प्रशा- न्तवाहिता स पूर्वोक्तो निर्वीजः समाधिः निरोधयोगो न किञ्चि- त्तत्र योगे ज्ञायते इति विग्रहेणासम्प्रज्ञातनामा चेति वाक्यार्थः। असम्प्रज्ञातयोगे चित्तवीजस्य संस्कारस्य तत्त्वज्ञानजन्यपर्यन्त- स्याशेषतो दाहान्निवर्वीजसंज्ञा तस्येति भावः । वौजदाहादेव चास्य निरोधस्य स्वरूपावस्थितिहेतुतया क्ल शकर्मादिपरिपन्थितया च लक्षणसङ्गतिरित्याशयः । सुषुप्तौ च निद्राख्य चित्तवृत्तिसत्त्वाबा- सम्प्रज्ञातलक्षणातिव्याप्तिस्तत्कालीनविरोधस्य क्ल शादिपरिपन्थि- त्वाभावाच। एतेन यदाधुनिकवेदान्तिबुवा असम्प्रज्ञातेऽपि निर्विकल्पमात्मज्ञानं स्वरूपसह द्धिवृत्तिरूपं तिष्ठतीति वदन्ति तदप्रामाणिकत्वेनैतद्भाष्यनिरोधेन चोपक्षणीयम् । “युञ्जौत योगी निर्जित्य त्रीन् गुणान् परमात्मनि। तन्मयश्चात्मना भूत्वा चिहृत्तिमपि सन्त्य जेदि"ति मार्कण्डेयपुराणादौ ऐश्वरयोगऽपि वृत्तिशून्यत्वावगमाञ्च। निर्विकल्प त्वात्मज्ञानं सम्प्रज्ञातकाल एव भवति शब्दार्थ ज्ञानविकल्पशून्यस्य सम्प्रज्ञातकालीनज्ञान- स्यैव निविकल्पकस्य लप्सपमानत्वात्। योगहयमुपसंहरति । विविध इति। ननु चित्तत्तिनिरोधे कः पुरुषार्थ इत्याकाइया समाधिपाद-योगवार्त्तिकम् । १३ योगलक्षणपूरणाय च प्रवर्त्तमानं योगस्य फलप्रतिपादक सूत्र मधिकप्रमुखेनोत्थापयति प्रसङ्गादात्मन: कौटस्थ्यमपि प्रति- पादयितुम् । तदवस्थ इति । ननु असम्प्रज्ञातावस्थे चेतसि सति बुद्धिबोधात्मा बुद्धिविषयकबोधस्वरूपो बुद्धिसाक्षी पुरुषः किंस्खभाव: केन रूपेण तिष्ठति किं व्युत्थान इव तदानीमपि प्रकाशरूप एव तिष्ठति वृत्त्याख्यदृश्याभावादेव तु न पश्यति अथ वा काष्ठवदप्रकाशरूप एव आत्मा तदा तिष्ठति व्युत्थान- काले तु निमित्तविशेषात् प्रकाशरूपेण परिणमते किं वा दशा- क्षये दीपववश्यतीत्यर्थः । एतेष्वाद्यपक्षं सूत्रेण सिद्धान्तयति ॥२॥ तदवस्थ चेतसि विषयाभावात् बुद्धिबोधात्मा पुरुषः किं स्वभावः, इति- * तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥ * म्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये, व्युत्थानचित्ते तु सति तथापि भवन्तौ न तथा ॥३॥ कथं तर्हि । दर्शितविषयत्वात्- तदाऽसम्प्रज्ञातयोगकाले द्रष्टु: चितिशक्त: पुरुषस्य स्वरूपे निविषयचैतन्य मात्रेऽवस्थानमित्यर्थः थः । यथा जपापाये स्फटिक- स्यालोहिते स्वखरूपऽवस्थानं तथा वृत्त्यपाये पुरुषस्य वृत्ति- प्रतिविम्बशून्ये खस्वरूपेऽवस्थानमिति भावः । यथा च तदा संस्कारशेषबुद्देर्भानं न भवति तथोत्तरसूत्रे वक्ष्यामः । तथा च कूटस्थ एव पुरुषो व्युत्थान व तदानीमपि प्रकाशवरूप एव तिष्ठति। योगलक्षणमप्येतबेतुनिरोधत्वमेव । तत्र च वृत्त्या- त्मकदुःखाभावः पुरुषार्थ इति भावः । मोऽयं पुरुषार्थो भाष्य कारण सूचितो यथा कैवल्य इत्यनेन । कैवल्ये हि दुःखनिहत्ति २ १४ पातञ्जलदर्शनम् । - रेव पुरुषार्थ इति वक्ष्य ति 'हेयं दुःखमनागत'मिति सूत्रेणेति । क्रमेण चरमासम्प्रज्ञातऽशेषसंस्कारक्षयात् चित्तेन सह वृत्तीना- मात्यन्तिकनिरोधे सत्यात्यन्तिकं स्वरूपावस्थानं मोक्षाख्य- मिति । ननु तदानीं दु:खाभावेऽन्यदा दुःखमस्तीत्यायातं तथा चापरिणामित्वानुपपत्तिरित्याशङ्करं परिहरति भाष्यकारः । व्युत्थानेति । व्युत्थानचित्तदशायां तु चितिस्तथाऽपि स्वरूपेण तिष्ठन्ती न तथा नासम्प्रज्ञातस्य कैवल्यस्य च समानरूपेत्यर्थः । सूत्रान्तरमवतारयितुं पृच्छति। कथं तीति। कूटस्थापि चितिः केन प्रकारेण तर्हि व्युत्थाने तिष्ठतीत्यर्थः। असम्प्रज्ञाता- पेक्षया सम्प्रज्ञातोऽप्यत्र व्युत्थानं बोध्यम्। अत्र प्रत्युत्तर सूत्र हेतुपदमध्याहृत्य पठति। दर्शितविषयत्वादिति ॥ ३ ॥ * वृत्तिसारूप्यमितरत्र ॥ ४ ॥ * व्युत्थाने याः चित्तवृत्तयः तद विशिष्टत्तिः पुरुषः । तथाच सूत्र "एकमेव दर्शनं ख्याति- रेव दर्शनम्” इति। चित्तम् अयस्कान्तमणि- कल्पं सन्निधिमावोपकारि दृश्यत्वेन खं भवति पुरुषस्य स्वामिनः । तस्मात् चित्तवृत्तिबोधे पुरु- षस्य अनादिसम्बन्धी हेतुः ॥ ४ ॥ इतरव व्यस्थाने चित्तेन सह द्रष्टुवती सारूप्यमित्यर्थः । व्युत्थाने हि विम्बप्रतिविम्बरूपयोबुद्धिपुषरुकृत्त्योः सारूप्यं, तदे- तयाचष्टे। व्युत्थानेति। इतरत्र व्युत्थाने याश्चित्तस्य वृत्तयो दीपस्य शिखा इव द्रव्यरूपा भङ्गरा अवस्थापरिणामा: मूषा- निषिक्तद्रुततामवत् खसंयुक्ताकारास्त्रिगुणकार्यत्वात् सुख- दुःखमोहाश्रयतया शान्तधोरमूढ़ाख्या भवन्ति तामिरविशिष्टा समाधिपादे-योगवार्तिकम् । १५ अंविलक्षणा वृत्तयो यस्य पुरुषस्य स तथा। वृत्तिश्च गुणो न भवति “भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थ सर्पती"ति साङ्ख्यसूत्रात् । भागो विभक्तांशोऽग्निविस्फुलिङ्गवदिति । कुतः पुनरपरिणामिनी वृत्तिस्तत्रोक्तं दर्शितविषयत्वादिति । बुद्ध्या निवेदितविषयत्वादित्यर्थः । निवेदनं च स्वारूढविषयस्य प्रति- विम्बरूपेण चित्याधानम् । “गृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति। अन्त:करणरूपाय तस्मै विश्वात्मने नम” इति विण पुराणादिभ्य: । एतदुक्तं भवति । यद्यपि पुरुषश्चिन्मात्री- ऽविकारी तथापि बुद्दे विषयाकारवृत्तीनां पुरुष यानि प्रति- विम्बानि तान्येवं पुरुषस्य वृत्तयः । नच ताभिरवस्तुभूताभिः परिणामित्वं, स्फटिकस्येवातत्त्वतोऽन्यथाभावादिति । तदुक्तं साझेय, जपास्फटिकयोरिव नोपराग: किन्वभिमान इति । सूत्रकारोऽपि वक्ष्यति 'चितेरप्रतिसंक्रमायास्तदाकारापत्ती खबुद्धिसंवेदन'मिति। एतेन मुखदुःखमोहगुणकवृत्तिसारू- प्याद व्यत्याने चितिरपि दुःखादिमतीव यद्भवति तदेव चिते- दु:खभोगो दुःखाभ्यवहरणरूपः, प्रतिविम्बरुपदुःखहानमेव चासम्प्रज्ञातस्य फलमिति सूत्रद्दयेन सिद्धम् । ये तु अहं सुखी- दुःखोत्यादिप्रत्ययादात्मन एव पारमार्थिकी वृत्तिमिच्छन्ति तएवं प्रत्याख्येयाः । स्वत एव चेदात्मन परिणामास्तहि सर्वाव. यवावच्छेदेन सर्वदा हत्तिप्रसङ्गादनिर्माक्षादिप्रसङ्गः। यदि मन:संयोगो निमित्तं तहि लाघवादेकेन मनस्त्वेनैव हेतुतास्तु आत्ममनम्तत्मंयोगानां त्रयाणां हेतुख गौरवात्। अनुमा- नञ्च अर्थाकारपरिणामसुखादिकमन्तःकरणोपादानकं बाधका. भाव मति तदन्वयव्यतिरकानुविधायित्वात् मनःसंयोगवदिति । भोगे व्यभिचारवारणाय सत्यन्तं, बुद्धः स्वभोक्तृत्वे च बाधक कई कर्मविरोधं सूत्रकारो वक्ष्य ति। अहं कर्ता सुखीत्यादि पातञ्जलदर्शनम्। प्रत्ययास्तु अहं गौर इत्यादिभ्रमशतान्त:पातित्वेनाप्रामाण्य ज्ञा- नास्कन्दिता नीतानुमानस्य बाधकाः, प्रत्युत “प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथात्मानमकतार' स पग्यति” इत्यादि स्मृत्युपोहलितेनोक्तानुमानेनैव बाध्यन्ते देहभिवात्मसाधकैरनुमानैरहं गौर इत्यादिप्रत्ययवदिति दिक् । खोते बुद्धिपुरुषयोईत्तिसारूप्ये पञ्चशिखाचार्य्यसूत्रं प्रमाणयति। तथा च सूत्रमिति। ख्यातिवृद्धिदर्शनं पुरुषस्य इत्यन्तञ्च सूत्रम्। तथा च ख्यातिरेव दर्शनमित्येकमेव एकाकारमेव दर्शनं भ्रमो लोकानामिति सूत्रार्थः । इतिशब्दश्चान्यो भाष्य- योजनार्थं पूरणीयः । ननु सविषवयवृत्तेः स्फुरणं चेतनसंयोगा- देव भवतु यथा सजलघटादिप्रकाश: सूर्यसम्बन्धात्, अतः किमर्थं चैतन्ये वृत्तिप्रतिविम्बं वृत्तौ वा वक्ष्यमाणचैतन्यप्रति- विम्ब कल्पाते। मुख्यहं जानामोति बुद्धिपुरुषयोरेकताभमस्तु परस्परप्रतिविम्ब विनापि दूरस्थवनस्पत्योरिव दोषवशादेव सम्भवति तत्कथ बुद्धिपुरुषयोईत्तिसारुप्यसिद्धिरिति। अत्री- च्यते। चेतने तावबुद्धिप्रतिविम्बमवश्य स्वीकार्यम् । अन्यथा कूटस्थनित्यविभुचैतन्यस्य सर्वसम्बन्धात्सदैव सर्व वस्तु सर्वै येत नहि सूर्यसम्बन्धे सति घटाद्यप्रकाशो दृष्ट इति । न चाज्ञानाख्यं ज्ञानप्रतिबन्धकं चेचन्य कल्पनीयं, नित्यज्ञानस्य प्रतिबन्धासम्भ- वात् “दुःखाज्ञानमया धर्माः प्रक्वतेस्ते तु नात्मन" इत्यादिभि- रात्मन्यज्ञानप्रतिषेधाच्च । अतोऽर्थभानस्य कादाचित्कत्वाद्युप- पत्तयेऽर्थाकारतवार्थहग्रणं वाच्यं बुद्धौ तथा दृष्टत्वात्, बुद्धावपि हि संयोगमात्रस्यार्थग्रहणत्वे अतीन्द्रियस्याप्यर्थस्य बुद्धिग्राह्यत्व- प्रसङ्गात् । सा चाकारता बुद्धौ परिणामरूपा स्वप्नादौ विष- याभावेन तत्प्रतिविम्बासम्भवात्, पुरुष च प्रतिविम्बरूपा विद्य- मानवृत्तिमात्रग्राहके पुंसि प्रतिविम्बेनैवीपपत्तेरिति। न केवलं समाधिपादे-योगवार्त्तिकम् । १७ । न चैव तर्कादेव चिति बुडेः प्रतिविम्बं कल्पाते किन्तु “तस्मिंश्चिद्दर्पण स्फार समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिविम्बन्ति सरसीव तटद्रुमाः । यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः । रञ्जका- द्युपधानेन तहत्परमपूरुष” इत्यादिस्मृतिशतैरपोति संस्कारशेषा बुद्धिः पुरुष प्रतिविम्बिता भायादित्यसम्प्रज्ञातयो- गानुपपत्तिरिति वाच्यम् । परमाणोरिव वृत्त्यतिरिक्तानां प्रति विम्बसमर्पणासामर्थ्यस्य फलबलेन कल्पनात्। अनादिखस्वामि- भावस्यैव प्रतिविम्बनियामकतया वक्ष्यमा णत्वात्तु न परवुद्धि- वृत्ते नम्। अतएव पुरुषार्थवत्येव बुद्धिः पुरुषस्य विषय इति सायसिद्धान्तो विवेकख्यातिविषयभोगौ च पुरुषार्थाविति । यथा च चिति बुद्दे: प्रतिविम्ब मेवं वुद्धावपि चित्प्रतिविम्ब स्त्री- कायमचथा चेतचन्य भानानुपपत्तेः खयं साक्षात्खदर्शने कर्म- कर्तृविरोधेन बुद्दयारूढ़तथैवात्मनो घटादिवज्ञयत्वाभ्युपग- मात्। तथा च वक्ष्यति सूत्रकारो 'द्रष्टदृश्योपरक्तं चित्तं सर्वार्थ'- मिति । बुदावात्मप्रतिविम्वमेव च तान्त्रिका बुथिच्छायापत्ति- रित्यात्माकारतति प्राहुः । प्रतिविम्ब उपाधी विम्बाकारो बुढे परिणाम एव म च माक्षिभास्य इति। एतेन नीरूपत्वाद् बुद्धि- पुरुषयोरन्योन्यं प्रतिविम्बनं न मम्भवतीत्यपास्तम्। उपयत्रोभया- कारबुद्धिपरिणामत्यैव प्रतिविवशदनान विवक्षितत्वात् । जनादावपि सूर्य्याद्याकार बुद्धिपरिणामस्येव सूयादिप्रतिविम्बि- तत्वाच्च। तदेवं बुड्यात्मनोः परसरतिविम्वरूपादोषादेवकता भ्रमोऽहं कत्ती सुखो जानाप्नीत्यादिरूप इति। तदेतत्परस्पर प्रतिविम्ब मालाकारिकायामिवशब्दाभ्यामुक्त “तस्मात्तत्मयो- गादचेतनं चेतनावदिव लिङ्गम्। गुणकर्तत्वे च तथा कर्तव भवत्युदामीन" इति दिक् । यच्चतश्चेतन्चे बुद्धितिमारूप्यमुक्त चैतन्यस्य बुझाकारतारूपम् । इदमेव चैतचस्या परक्तं हत्ति- ।

१८ पातञ्जलदर्शनम् । भानं तस्य चाकारोऽयं घट इत्यादिरूप एव, अन्यथा वृत्ति- सारूप्यानुपपत्तेः। न तु वृत्तिबोधस्य पृथगाकारोऽस्ति घटमहं जानामि दुःखितोऽहमित्यादिकं तु बुद्धेरेवाकारान्तरं पुरुष- स्यापरिणामित्वाद् अचान्तत्वाञ्चेति । तथा च सूत्रकारो वक्ष्यति 'चित्तेरप्रतिसंक्रामायास्तदाकारापत्ती खबुद्धिसंवेदन'मिति । ननु वृत्तितबोधौ यदि घटदीपाविवात्यन्तभिन्नौ न तु चिज्जड़ा- त्मकमविभक्तमेकं वस्तु मणिकान्तिवत् तर्हि तत्तच्चित्तवृत्तीनां प्रतिनियततत्तत्पुरुषमात्रबोध्यत्वे किं नियामकमित्याकाझायां प्रतिनियतयोरव चित्तात्मनोरनादिः स्वस्वामिभावसम्बन्धस्तनि- यामक इति प्रतिपादयति। चित्तमयस्कान्तेत्यादिना सम्बन्धी हेतुरित्यन्तेन। तत्राप्यादावनादिं स्वस्वामिभावं युक्त्योपपाद- यति। चित्तमिति । यथायस्कान्तमणिः स्वस्मिन्नेवायःसन्निधी- करणमात्रात् शल्यनिष्कर्षणाख्यमुपकारं कुर्वन् स्वामिनः खं भवति भोगसाधनत्वात् तथैव चित्तमपि अय:सदृशविषयजातस्य खस्मिन् सबिधीकरणमात्रात् दृश्यत्वरूपमुपकारं कुर्वत् पुरुषस्य खामिनः खं भवति भोगसाधनत्वात्। अतश्चित्तपुरुषयोरनादिः स्वस्वामिभाव: सम्बन्ध इति शेषः। ततः किमित्यत आह । तस्मादिति। तस्मात् स्वस्वामिभावस्य सिद्धत्वात्, स एवाना- दिसम्बन्धः पुरुषस्य चित्तवृत्तिदर्शने हेतुरित्यर्थः । अतो न पर- चित्तेन परस्य बत्तिसारूप्यं भवति, कदापि तत्त्यबोधेन तयोः स्वस्वामिसम्बन्धाभावात्। ननु स्वस्वामिभावस्य कथमनादित्वं स हि भोग्यभोक्तृभावरूपतया प्रलये न तिष्ठतीति। मैवम् । अभुज्यमानधनेऽपि सुषुप्तस्य स्वस्वामिभावेन स्वत्वस्वामित्वयो- रतिरिक्तपदार्थत्वात् स्वरूपसम्बन्धविशेषत्वाद्दा प्रतियोग्यनुयोगि- भाववत् । अय वा स्वभुक्तवत्तिवासनावत्त्वमेव बुद्धौ पुरुषस्य स्वत्वमोदृशो भोग्यभोक्तृभाव एव च तान्त्रिवैर्भाग्यभीत योग्य ते.

समाधिपादे-योगवार्त्तिकम् । १६ त्युच्यते। 'चिदवसानो भोग' इति साङ्ख्यसूत्रोक्तस्य सुखदुःखा- नुसवरूपभोगस्य पुरुषधर्मत्वादिति। स च स्वस्वामिभावश्चित्त- पुरुषयोरनादिरेव स्वीक्रियते न च महत्तत्त्वरूपस्य चित्तस्य कार्यतया कयं तद्धर्मस्यानादित्वमिति वाच्यम्। अन्तःकरणस्य वृक्षवत् कार्यावस्थायमिव महत्तत्त्वपरिभाषास्वीकारात् बीजा- वस्था तु प्रतत्यंशत्वरूपा नित्येव, अन्यथा धर्माधर्मसंस्कारादीना- माश्रयं विना प्रलयेऽवस्थानानुपपत्तेः प्रकृतिमात्रस्य तदाश्रयत्वे तत्कार्यभोगस्मृत्यादेरपि तनिष्ठत्वस्यैवौचित्यात् 'अन्तःकरण- कल्पनानर्थक्य पन्तःकरणधर्मत्वं धर्मादीना'मिति सायसूत्रस्य यथाश्रुतार्थानुपपत्तिश्चेति। अथैवं बुद्धितत्कारणयोरुभयोधर्मा- दिकल्पने गौरवमिति चेदृष्टानुसारितयाऽस्य गौरवस्य प्रामा- णिकत्वात् । यया हि परमाणुपयन्तमेव घटे पाकेन रूपं जायते तहटभङ्ग च तैरणुभिघटान्तरं तद्रूपकं भवति तथैव प्रकृति- पर्यन्तमेव बुद्धौ धर्मादिकमुत्पद्यते तद्बुद्धिनाशे च तत्प्रकृतिभिः तादृशधर्मादिमदेव बुद्ध्यन्तरमुत्पाद्यते कारणगुण प्रक्रमादिति दिक्। कृत्यादिलक्षणा अपि वृत्तयः सन्तोत्यागामिसूत्रस्य न्यूनतां परिहत्त चित्तस्येत्यन्तं पूरयित्वोत्तरसूत्रमवतारयति । ताः पुनरिति। चित्तस्य बहुवृत्तिकत्वे सत्यपि ता निरोद्धव्या वृत्तयः क्लिष्टाक्लिष्टरूपा वक्ष्यमाणा: पञ्चतय्य एवेति सूत्रेण सहा- न्वयः। प्रमाणादिरूपवक्ष्यमाणकृत्तिपञ्चकनिरोधेनैव तत्काया- णामन्यवृत्तीनां निरोधमिद्धिरिति भावः ॥ ४ ॥ ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य- * वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ ५॥ * क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः ।

२० पातञ्जलदर्शनम् । क्लिष्ट प्रवाहपतिता अपि अक्लिष्टाः, किष्टच्छिद्रषु अपि अकिष्टा भवन्ति अकिष्टच्छिद्रेषु किष्टा इति। तथा जातीयका: संस्काराः वृत्तिभिरेव क्रियन्ते संस्कारैश्च वृत्तय इति एवं वृत्तिसंस्कार- चक्रम् अनिशमावर्त्तते, तदेवम्भूतं चित्तमवसि- ताधिकारमात्मकल्पेन व्यवतिष्ठते, प्रलय वा गच्छति इति । ताः किष्टाश्च अकिष्टाश्च पञ्चधा वृत्तयः ॥ ५ ॥ यैः प्रमाणादिलक्षणव्यापारैः चित्तं जीवति ते तत्तय उच्यन्ते दिजादीनां याजनादिवत्। क्लिष्टाचाक्लिष्टाश्च क्लिष्टाल्लिष्टाः । निरोद्धव्या वृत्तयः क्लिष्टा वा अक्लिष्टा वा भवन्तु वक्ष्यमाणाः पञ्चतय्य: पञ्चप्रकारा एवेति सूत्रार्थः । वृत्तीनामसंख्यव्यक्ति- तयाऽवयवाथकत्वानुपपत्त्या तयपो लक्षणयात्र प्रकारवाचित्वं 'ता: पञ्चधा वृत्तय' इत्यागामिभाष्यात् इति । क्लिष्टवदलिष्ट- स्यापि हेयत्वप्रतिपादनाय लिष्टाक्लिष्ट विभागप्रदर्शनं, तत्र चायं क्रमोऽक्लिष्टा उपादाय लिष्टा निरोडव्यास्ततस्ता अपि परवैरा- ग्ये गेति। “सत्त्वेनान्यतमौ हन्यात्सत्त्व सत्त्वेन चैव ही"ति स्मरणात् । क्लिष्टा व्याचष्टे । क्लेशहेतुका इति । त्रिगुणात्मकतया सर्वासामेव वृत्तीनां क्लेशवत्त्वेन लिष्टालिष्टविभागो नोपपद्यत इन्यतः क्लेशसम्बन्धविशेषपरतया इत्थं व्याख्यायते । अत्र च हेतुः प्रयोजनं, क्लेशश्चात्र मुख्य एव ग्राह्यो दुःखाख्यः । तथा च क्लेश- हेतुका दुःखफलिका विषयाकारहत्तय इत्यर्थः । क्लेशजनकत्वे हेतुः कर्मेत्यादि। कर्माशयप्रचयानां धर्माधर्मवासनासमूहाना क्षेत्री

समाधिपाद योगवार्तिकम् ।
२१
भूता आलम्बनीभूताः, लिष्टा इत्यर्थः । विषयाकारवृत्तिजन्य-
कृष्णाद्यभिहतस्तद्धानाह यतमानः परपीड़ानुग्रहाभ्यां धर्मा-
धर्मावुपचिनोति ततश्च दुःखधारा भवतीति भावः। अक्लिष्टा
व्याचष्टे । ख्यातीति । अलिष्टा अल शफलिकाः ताश्च गुणाधि-
कारविरोधिन्यः गुणानां सत्त्वादीनामधिकारः कायारम्भण'
तविरोधिन्योऽविद्याकामकर्मादिरूपकारणनाशकत्वात्। ख्याति-
विषया विवेकख्यातिसम्बद्धा इत्यर्थः। ख्यातिसाधनस्यापि संग्र-
हाय विषयपदमिति। ननु सूत्रकारण तामसीनां सात्त्विकीनां
च विविधानामिव वृत्तीनां निरोडव्यत्वमुक्तं न तु राजसीनां
क्लिष्टाक्लिष्टरूपमिश्रवृत्तीनामिति न्यूनतेत्याशङ्का मिथवृत्तीना-
मुक्तास्वान्तर्भावमाह। लिष्टप्रवाहेति। क्लिष्टशेषोभूता अपि
अलिष्टरूपास्तदंशा यद्यपि लिष्टच्छिद्र षु सन्ति तथाप्यक्लिष्टा
एव अलिष्टशब्देन गृहीता भवन्ति । एवमक्लिष्टच्छिद्रष्वपि
लिष्टाः क्लिष्टशब्देन गृहीता इत्यर्थः । तथा च राजव्या मिश्र-
वृत्तेरंशाभ्यामंशिन्योः प्रवेश इति न न्यूनता। इदानी वृत्ति-
निरोधस्य फलं वक्तमादौ संसारानर्थबीजं संस्कारं दर्शयति ।
तथा जातीयका इति । क्लिष्टालिष्टजातीयकाः संस्कारा
इत्यर्थः । अस्य जीवनामक स्य वृत्तिसंस्कारचक्रस्य स्तम्भने प्रलये
च निरोध एवोपाय इत्याह। तदेवम्भूतमिति। तहत्तिसंस्कार-
चक्रात्मकं चित्तमेवम्भतं निरोधावस्थमवसिताधिकार क्रमण
समाप्यमानाधिकार सदात्म कल्पनात्माविभागेन निर्दु:खतया
तिष्ठति व्युत्थानपर्यन्तम् । अथ वाभ्यासपाटवेनाखिलसंस्कार-
क्षये सति प्रलयमात्यन्तिकलयमेव गच्छति विदेहकैवल्यं प्राप्नो-
तीत्यर्थः । निरोधसमाधे: पुनरनुत्थानमेव योगिनां मुक्तिरिति
भावः । पूर्वसूत्रेण सह योजनार्थं ताः क्लिष्टाचाक्लिष्टाश्च पञ्चधा
वृत्तय इति पूरयित्वोत्तरं सूत्रं पठति ॥ ५ ॥

२२ पातजलदर्शनम् । * प्रमाण विपर्ययविकल्पनिद्रास्मृतयः ॥६॥ तवं । प्रत्यक्षाऽनुमानाऽऽगमाः प्रमाणानि ॥७/* इन्द्रियप्रणालिकया चित्तस्य वाह्यवस्तूप- रागात् तद्विषया सामान्य विशेषात्मनोऽर्थस्य विशेषावधारण प्रधाना वृत्तिः प्रत्यक्ष प्रमाणम् । फलमविशिष्टः पौरुषयश्चित्तवृत्तिबोधः, बुद्धेः प्रति- संवेदी पुरुष इति उपरिष्टात् उपपादयिष्यामः । अनुमेयस्य तुल्यजातीयेषु अनुवृत्ती भिन्नजाती- येभ्यो व्यावृत्तः सम्बन्धो यः तविषया सामान्या- ऽवधारणप्रधाना वृत्तिः अनुमानम् । यथा देशा- न्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैववत् विन्ध्यश्चाप्रा- प्तिरगतिः। आप्तेन दृष्टोऽनुमितो वा अर्थः परत्र स्वबोधसंक्रान्तये शब्देन उपदिश्यते शब्दात् तदर्थविषया वृत्तिः श्रोतुरागमः, यस्यागमस्य अश्रद्धेयार्थी वक्ता न दृष्टानुमितार्थ: स आगमः प्लवते। मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लव: स्यात् ॥ ६-७॥ सुगम सूत्रम् । तत्रेति पूरयित्वोत्तरसूत्रमवतारयति। तत्र, तासु हत्तिषु मध्य। अनधिगततत्त्वबोधः प्रमा तत्करणं प्रमाणमिति प्रमाण- सामान्यलक्षणं सुगमत्वादकत्वैव विभागः कृतः। परोक्तानि चेतराणि प्रमाणानि एष्वेवान्तर्भाव्यानीत्याशय इति । प्रत्यक्ष समाधिपाद योगवाक्तिकम् । २३ च्याचष्टे । इन्द्रियति । इन्द्रियाण्येव प्रणालिका चित्तसञ्चरणमाग: तै: संयुज्य तह्रोलकद्वारा वाह्यवस्तुषूपरक्तस्य चित्तस्येन्द्रियसा- हित्येनैवार्थाकारः परिणामो भवति न केवलस्य चित्तस्य शङ्ख- पैत्त्याद्याकारतायां नयनादिगतपित्ताद्यन्वयव्यतिरीकाभ्यामतो रूपादिवत्तिषु चक्षुरादीनामपि कारणत्वं शास्त्रेषूच्यते। अत्रो- परागादित्यन्तेन वाह्यवृत्तेः कारणमा दर्शितं न तु तल्लक्षणे प्रवेशनीयम्। आत्मादिप्रत्यक्षाव्यापनादीश्वरप्रत्यक्षाव्यापनाच्च तस्याजन्यत्वात्। अर्थस्येत्यनेन समारोपितत्वप्रतिषेधान्न विप- ययेऽतिव्याप्तिः । विशेषावधारण प्रधानति विशेषणादनुमानागम- योर्ध्यावृत्ति: । स्मृतिव्यावर्त्तनाय तद्विषयेति । उपरक्तवस्तुविषये- त्यर्थः । सामान्यविशेषाभ्यामत्यन्तभिन्न एवार्थ इत्येतबिरासा- योक्तं सामान्यविशेषात्मन इति। अनेन चावयवी न निराकृतः किं त्ववयविनि सामान्चविशेषयोरविभागलक्षणं तादात्मामुक्त पश्चादवयविव्यवस्थापनादिति । “अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि”। “बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्" इत्यादिस्मृतिभ्यो रश्मिशाखादितुल्यतालाभात्। वृत्तिः प्रभा- वत् द्रव्यमेवेति प्रागबोक्तम् । सा वृत्तिरेव दीपप्रभावत् वाह्या- र्थमुपसृत्य चक्षुराद्यकोभावेन घटाद्याकारा भवति । स्वप्न- ध्यानादी घटाद्याकारतया चित्तवृत्त रनुभूयमानत्वाद् वाह्येऽपि ज्ञानाकार: सिध्यति। अत्रांशे बौद्धानामस्माक' चैकवाक्यत्वे- ऽपि न माम्यम् । अस्माभिर्वाह्यार्थस्यापि स्वीकारादिति । प्रत्य- क्षस्य लक्षणं कृतमिदानीं तस्य प्रमाकरणत्वेन प्रमाणत्वमुपपाद- यति । फलमिति। हत्तिरूपस्य करणस्य फलं पुरुषनिष्ठश्चित्त- वृत्तिविषयको बोध:, पुरुषार्थमेव करणानां प्रवृत्तेः। अयं च बोधो विषयदेश एव भवति विभुत्वात् । ननु अयं घट इति वृत बोधो घटमहं जानामीति रूपस्तस्य च पौरुषेयत्वे पुरुषस्य २४ पातञ्जलदर्शनम्। स्वतन्त्राकारेण परिणामित्वापत्तिरिति तवाह। अविशिष्ट इति । सच बोधश्चित्तवृत्त्या सहाविशिष्ट इति वृत्तिसारूप्य- सूत्रे उपपादित इत्यर्थः अयं घट इत्याकारा विम्बरूपा वृत्ति: कारणं तस्या एव वृत्तश्चैतम्ये प्रतिविम्बनाञ्चैतन्यमययं घट इत्याकारमिव सदोधाख्यं फलं भवतीति नात्र विशेषः शब्देन वक्तुं शक्यते, विवेकिभिरैवेतुक्षीरादिमाधुर्य्यस्येव स्वयं विशेषो- ऽनुभूयते दृग्दृश्यादिवैधादिति भावः । पौरुषेयो बोध इत्याधाराधयभावश्च गगने श्रोत्रमितिवदिशिष्टाविशिष्टभेदेनोप- पादनीयः करणलक्षणं चात्र फलायोगव्यवच्छिन्नकारणत्व- मिति । ननु रूपादिषु चक्षुरादीनामेव करणत्वं श्रुतिस्मृत्यो- रवगम्यत इति चेत्सत्यं, किन्तु बुद्धिवृत्त्याख्यप्रमान्तरं प्रत्येव तेषां करणत्वं न तु पौरुषेयबोधरूपां मुख्यप्रमा प्रति, प्रमादयं च साडचे सूत्रितं 'हयोरेकतरस्य वाप्यसनिलष्टार्थपरिच्छित्तिः प्रमे'ति। चक्षुरादीनां च वृत्तौ कारणत्वं व्यापारवत्करणत्वरूपं कुठारादाविवेति विशेषः । ननु विषयाकारतैव विषयग्रहण चित्तस्थले दृष्टं पुरुषस्तु कूटस्थो न वृत्त्याकारतां भजतेऽतः कथं पुरुषश्चित्तवृत्तिसाक्षी स्यात् कथं वाविशिष्टः पौरुषेयो बोध इत्याशङ्कायामाह। प्रतिसंवेदीति । संवैदिन्या बुद्धेः प्रतिसंवेदी तत्समानाकारः पुरुष इत्येतच्चतुर्थ पाद 'चितरप्रतिसंक्रमायास्त- दाकारापत्तौ स्वबुद्धिसंवेदन'मिति सूत्रे उपपादयिष्याम इत्यर्थः । यद्यपि चिते: स्वयमाकारो नास्ति तथापि प्रतिविम्बवशाव- त्याकारापत्त्या वृत्तिबोध इत्यस्माभित्तिसारूप्य प्रसङ्गन प्रागेव व्याख्यातम् । कश्चित्तु हत्त्याख्यकारणसामानाधिकरण्येन बुद्धा- वेव प्रमाख्यं फलं जायते, चेतन्यमेव हि बुद्धिदर्पणप्रतिविम्बितं बुद्धिवृत्त्यार्थाकारया तदाकारतामापद्यमानं फलं, तच्च चिच्छा- याख्यं चित्प्रतिविम्ब बुद्देरेव धर्म इति वदति । तन्न । पौरुषेय- समाधिपादे योगवार्त्तिकम्। २५ शब्दस्य यथाश्रुतार्थत्यागापत्त: प्रतिविम्बस्य तुच्छतया अर्थ- भानरूपत्वानुपपत्तश्च प्रतिबिम्बस्य प्रकाशाद्यर्थक्रियाकारितायाः क्वाप्यदर्शनाच्च। प्रतिबिम्ब हि तत्तदुपाधिषु बुद्धेविम्बाकार- परिणाममात्रमिति । किञ्च परस्परं प्रतिविम्बस्य श्रुतिस्मृति सिद्धतया चितेरेव वृत्तिप्रतिविम्बोपहितायाः फलत्वं युक्त ज्ञान- शब्देनात्मन एव प्रतिपादनात् 'सत्यं ज्ञानमनन्तं ब्रह्म' ज्ञान- मेव परं ब्रह्म' 'ज्ञानं बन्धाय चेष्यते' इत्यादिश्रुतिस्मृतिष्विति बुद्धेश्चिच्छायापत्तिश्च अहमित्यादिरूपैश्चितो भानार्थमेवेष्यते बुद्ध्या- रोहं विना साक्षात्स्वभाने कर्मकर्तविरोधादित्युक्तमेव । अपि च बुद्देरेव प्रमाटत्वे पुरुषो न सिध्य त् । वृत्तिसाक्षितया पुरुषसिद्धि- रिति चेत्, एवं सति वृत्तिद्रष्टुरेव वृत्त्यारूढार्थद्रष्टुत्वकल्पनो- चिता न तु विम्बप्रतिविम्बयोरुभयोरेव द्रष्टुत्वमर्थभेदेन कल्प- यितु युक्त, गौरवादिति। किञ्च जानामोत्येव बुद्धिवृत्तौ भास- मानं प्रतिविम्बचैतन्य स्वज्ञेयं न सम्भवति कर्मकर्तृविरोधादतो विम्बचैतन्येन भानमावश्यकमिति। अनायं प्रमानादिविभागः । प्रमाता चेतन: शुद्धः प्रमाणं वृत्तिरेव च । प्रमार्थाकारवृत्तीनां चेतने प्रतिविम्बनम् ॥ प्रतिविम्बितवृत्तीनां विषयो मेय उच्यते । वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥ साक्षाद्दर्शनरूप च साक्षित्वं सासासूनितम् । अविकारेण द्रष्टत्वं साक्षित्वं चापरे जगुः ॥ इति दिक् । पुरुष वृत्तिबोधरूपञ्च फलमनुमानादिसकल- वृत्तिष्वपि बोध्यम् । अनुमानं लक्ष्यति । अनुमेयस्येति । साध्य- विशिष्टः पक्षोऽनुमयः तस्य साध्यवत्त्वेन तुल्यजातीयेषु सपक्षेषु अनुवृत्तो विजातीयेभ्यो विपक्षेभ्यो व्यावृत्तो यः सम्बन्धोऽर्थात्त- वैवानुमेये पक्षत्तिरिति यावत्। तद्दिषया तनिबन्धना, षि ३ २६ T पातञ्जलदशनम् । बन्धने इत्यनुशासनात् तद्दिषयज्ञानजन्येति यावत् । एवम्भूता या सामान्यावधारणप्रधाना वृत्ति: सा अनुमानमित्यर्थः । सम्बन्ध इति पाठे पि सम्बध्यत इति सम्बन्धः तथा च स एवार्थः। सामान्येत्यादि प्रत्यक्षव्यावृत्तस्वरूपकथनमात्रं न तु लक्षणान्त- गतं वैयादिति। अनुमान वृत्तेरुदाहरणमाह। यथा देशा- न्तरप्राप्तरिति । अवान्वयव्याप्ती दृष्टान्तश्चैत्रवदिति । व्यतिरेक- व्याप्ती च दृष्टान्ती बिन्ध्यश्चाप्राप्तिरगतिरिति । अप्राप्तेरिति पञ्च- मोपाठस्तु लेखकप्रमादात् प्रत्यक्षसिद्धेऽनुमितिवेयर्थ्यादिति । आगमाख्यां वृत्तिं लक्षयति । आप्लेनेति। भ्रमप्रमादविप्रलिप्सा- करणापाटवादिदोषरहितेनेत्यर्थः । मूलवक्त्रभिप्रायेण श्रुतो वेति नोक्तं तदप्युपलक्षणीयम्। खबोधसंक्रान्तये स्वबोधसदृश- बोधोत्पत्त्यर्थमित्यर्थः । श्रोतुत्तिरिति व्युत्क्रमेणान्वयः । अत्रा- तोतार्थविषयिणी शब्दजन्या वृत्तिरित्येवागमप्रमाणस्य लक्षणं, शेषं तु आगमशब्दव्युत्पत्तिमानमाप्तादागच्छति हत्तिरित्यागम इत्याशयः । तदर्थविषयेत्यन्तविशेषणव्यावृत्त्याल्न अप्रमाण मागम- वृत्तिं दर्शयति। यस्थति। दृष्टानुमिताथकत्वाभाविनाश्वयार्थी- विद्यप्रतिपाद्यको यस्यागमस्य वला स आगम: शास्त्रं चैत्यं वन्देत स्वर्गकाम इत्यादिरूपं प्लवते, प्रमाण वृत्तिजननासमर्थ इत्यर्थः । नन्वेवं दृष्टानु मितार्थकवननिर्मितस्य श्रुतिमूल स्याधु- निकागमस्यापि प्लवः स्यादत आह। मूलेति ॥ ७ ॥ प्रमाणं लक्षयित्वा विपर्य्ययं लक्षयति । * विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥* न करमान्न प्रमाणम् । यतः प्रमाणेन बाध्यते भूतार्थविषयत्वात् प्रमाणस्य । तव प्रमाणन बाधनमप्रमाणस्य दृष्टम् । तद्यथा हिचन्द्रदर्शनं समाधिपादे योगवार्तिकम् । सहिषयेण एकचन्द्रदर्शनेन बाध्यते इति, सेय पञ्चपर्वा भवति अविद्या, अविद्याऽस्मिताराग- देषाऽभिनिवेशाः क्लोशा इति, अतएव वसंज्ञा- भिस्तमोमोहो महामोहस्तामित्रः अन्धतामिस्र इति, एते चित्तमलप्रसङ्गेन अभिधास्यन्ते ॥८॥ विपर्यय इति लक्ष्यनिर्दशो मिथ्याज्ञानमिति लक्षणं, मिथ्ये- त्यस्य विवरणमतद्रूपप्रतिष्ठमिति । न तद्रूपो न स्वसमानाकारो यो विषयस्तत्प्रतिष्ठं तविशेष्यकमित्यर्थः । भ्रमस्थले जानाकार- स्यैव विषये समारोप इति भावः । संशयस्याप्यत्रैवान्तर्भावः । अत्र च शास्त्रेऽन्यथाख्यातिः सिद्धान्तो न तु सावयवदविवेकमा- त्रम् 'अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्ये- त्यागामिसूत्रात् । वैशेषिकाच्चानायं विशेषो यहाह्यरजतादेर्ना- रोप: किन्वान्तरस्यैवेति, ज्ञानाकारमनुभवसिद्ध शुक्त्यादिक सनिलष्ट' विहाय दूरस्थरजतादिविषयकत्वकल्पने गौरवात् स्वप्ने दृष्टमिदानीं नास्तीति स्वरूपतो बाधानुपपत्तेश्च । तथा च ब्रह्म- सूत्रदयं 'सन्धे। सृष्टिराह हो ति 'तदभिध्यानादेव तत्तिरोहितं ततो ह्यस्य बन्धविपर्यया'विति चेति । ननु प्रतीतिबलेनैव विषयः सिध्यतु तथा च शक्तिरजतादिस्थ लेऽप्येतद्रूपप्रतिष्ठत्व मसिद्धमित्याशयेन पृच्छति । स कस्मादिति। परिहरति । यत इति । अबाधितानुभवेनैव विषयसिद्धिरिति भावः । ननु बाध्य बाधकभाव एव वैपरीत्येन कथन भवति तत्राह। भूता- ति । सदर्थविषयत्वेन प्रमाणस्य बलवत्त्वात् तत्त्व पक्षपातो हि धियां स्वभाव इति । अत्रोदाहरणमाह । तत्र प्रमाणेनेत्या- दिना। विपर्ययवृत्तरतियत्वख्यापनायाह । सेयमिति। पञ्च- " २८ पातञ्जलदर्शनम्। पर्वा याऽविद्या संसारानर्थबीज सा। इयमेव, मिथ्याज्ञानरूपा वृत्तिरेव, एतविशेष एवेति यावत्। अत इयमवश्य निरोद्ध- व्येति भावः । पर्वाणि गणयति। अविद्याऽस्मितेति। लशाः क्लेशाख्याः । क्लेशदत्वादिति भावः । रागादीनां मिथ्याज्ञान- त्वाभावेऽपि अविद्ययानुगतत्वादविद्यापर्वत्वं विपर्ययत्वं च, यथा- कुरस्य वीजपर्वत्वं वीजत्वं चेति बोध्यम् । नन्वविद्या विपर्ययो मोह इति पञया एवञ्च सति मोहकृत्योरमेदात् कथं शान्त- घोरमूढ़त्वं वृत्तीनामिति सिद्धान्तो घटेतेति चेत्, न । धर्मधर्म्य- भेटेनैवात्र वृत्तीनां विपर्ययादिरूपविभागकरणात् । वस्तुतस्तु वृत्तयो विपर्ययादिमत्य एवेति । अत्यन्तहेयत्वप्रतिपादनाया- न्वर्थसंज्ञापञ्चकं क्ल शानामाह । अतएवेति। स्वसंज्ञाभि: स्वानु- रूपसं ज्ञाभिः। तथा च विष्णुपुराणम् तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञक: । अविद्या पञ्चपर्वेषा प्रादुर्भूता महात्मनः ॥ इति । एतेषामेव च प्राधान्येनावान्तरविभाग: साधकारि- कायामुक्तः। भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्र: ॥ इति । अन्य तमह दहङ्कारपञ्चतन्मात्रेष्वनात्मस्वष्ट स्वात्मबुद्धि- रविद्या अष्टविधं तमः, ज्ञानावरकत्वात् । एतावेव देहाद्यात्म- बुद्दीनामन्तर्भावः, देहादीनामतदष्टककार्य्यत्वात्। शुक्तिरजतादि- विपर्ययाणां तु संसारहेतुतया नात्र गणना, 'विपर्ययादिश्यते बन्ध' इति पूर्वकारिकया बन्धहेतुविपर्य यस्यैव प्रकृतत्वादिति । मोहादिश्वप्येव बोध्यम् । अष्टस्वणिमाद्यैश्वर्येष्वनात्मसु आत्मी- यबुद्धिरस्मिता स्वत्वास्मितयो: पर्याय त्वात् सैव चाष्टविषयकतया अष्टविधो मोहो मुख्यत उच्यते । शेषं पूर्ववत्। तथा दृष्टानु- समाधिपाद योगवार्तिकम्। २६ विकभेदेन दशसु शब्दादिविषयेषु रागो दशविधी महामोहः। शेषं पूर्ववत् । तथाष्टैश्वर्यस्य विषयदशकस्य च परिपन्थिनि देषोऽष्टादशधा तामिस्र: शेषं पूर्ववत् । तथा ऐश्वर्याष्टक विषयदशकां च नश्यतीति यस्त्रासः सोऽष्टादशधाभिनिवेशो- ऽन्धतामित्रः । शेषं पूर्ववत्। एत इति। अविद्यादय इत्यर्थः । * शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥६॥ * स न प्रभा गोपारोहो, न विपर्ययोपारोही च, वस्तुशून्यलेऽपि शब्दज्ञानमाहात्मानिबन्धनो व्यवहारो दृश्यते । तट्यथा चैतन्य पुरुषस्य स्व- रूपमिति यदा चितिरेव पुरुषः तदा किमत्र केन व्यपदिश्यते भवति च व्यपदेश वृत्तिः यथा चैत्रस्य गौरिति। यथा प्रतिषिद्धवस्तुधर्मों निष्क्रियः पुरुषः तिष्ठति वाण: स्थास्यति स्थित इति गतिनिवृत्ती धात्वर्थमात्रं गम्यते। तथा अनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्य अभाव- मावम् अवगम्यते न पुरुषान्वयी धर्म: तस्मादि- कल्पितः स धर्मस्तेन च अस्ति व्यवहार दुति ॥६॥ शब्द ज्ञानानुपाती वस्तुशून्यः प्रत्ययो विकल्प इत्यर्घ: । शब्दश्च शाब्दजानं च ते अनुपातिनी यस्य स तथा। तथा च तदुभय- जनकः सर्वदैव बाधाबाधकालाविशेषणेत्याद्यविशेषणार्थः। जनु विकल्पस्य सवस्तुकत्वे प्रमाणेऽन्तर्भावः, निर्वस्तुकत्वे तु विपर्यये- ऽन्तर्भावस्तृतीयप्रकारासम्भवादित्याशङ्कां परिहरन्नेव विशेषण- पातञ्जलदर्शनम्। योावर्त्य माह। स नेति । उपारोहोऽन्तर्भावः । प्रमाणकोव्य- नन्तर्भाव हेतुर्व स्तुशून्यत्वेऽपीति विपर्ययकोव्यनन्तर्भावे च हेतुः शब्दज्ञानत्यादि। माहात्मा याथार्थ्य, तथा च यथार्थ- शब्देन यथार्थ ज्ञानेन च यादृशो व्यवहारो भवति शब्दज्ञानरूप- स्तादृश एव व्यवहारो विकल्पादपि दृश्यते विवेकिनामपौत्यर्थः विपर्ययस्तु नैवं, बाधोत्तरमिदं रजतमिति शब्दप्रत्यययोरभावा. दिति। एतेन विपर्याय लक्षणे शब्दज्ञानानानुपातित्वं विशेषण देवमिति भाव: । विकल्पस्योदाहरणमाह। तद्यथेत्यादिना। किं विशेष्यं केन विशेषणेन व्यादिश्यते अत्यन्ताभेदान्नास्त्यत्र विकल्पज्ञान विशेषणविशेष्यभावरूपोऽर्थ इत्यर्थः । वस्तुशून्यत्व- सुपपाद्य शब्द ज्ञानानुपातित्वमुपपादयति । भवति चेति चैत्तस्य गौरिति ययार्थशब्दवत् अत्रापि विशेष्यविश षणभाव व्यपदेश सति तथा वृत्तिर्बोधो विवेकिनामपि भवति चेत्यर्थः । अन्यान्यप्युदाहरण न्याह । तथेत्यादिना। शास्त्रैः प्रतिषिद्धा वस्तु- भूताः सुखादयो धर्मा यत्रेति प्रतिषिद्धवस्तुधर्मा पुरुषः, व्य वृत्तिरकसुदा हरदम् । अमावस्याधिकरणमात्ररूपत्वेनाधारा- धेयभावविरहादिति। निष्क्रिायः पुरुष इत्यन्यदुदाहरणम् । तोकिकामप्यदा हर गलयमाह। तिष्ठतीति। तिष्ठति वाण: स्वास्यति स्थित इति गतिनिवृत्ती गतिनिवत्तिविषयकविकल्पे वर्तमान वादिविशिष्टं स्थाधाबर्थमात्र पारमार्थिकतया प्रतीयते कर्तृत्वस्य वर्तमानवादिकं च प्रत्ययत्रयार्थस्तु विकल्पित इत्यर्थः । वाणे गतिनित्त्वजुकूलत्यभावादिति। उदाहरणान्तरमाह । तथा अनु यतीत्यादिना व्यवहार इतीत्यन्तेन। अनुत्पत्तिधर्मो यस्येत्य नुत्पत्तिधर्मा पुरुषः। स धर्मोऽनुत्पत्तिधर्मः । प्रमाणविप- र्य यातिरिक्तायां विकल्पवृत्ती बहुवादिविप्रतिपत्तेस्तबिरासाय बइन्युदाहरणानि । एव' खपुष्पश शशृङ्गप्रत्यया अपि विकल्प- ३१ समाधिपादे योगवात्तिकम् । मध्ये प्रवेशनीयाः । खपुष्प नास्तीति प्रत्ययानुरोधेन तादृश- प्रत्ययसिद्धः। विकल्प प्रत्ययास्तु वैशेषिकैराहार्य ज्ञानविशेष- तया एष्टव्या एव । विशेषस्तु, तैर्मिथ्याज्ञानमध्ये प्रवेश्यन्ते अस्मा- भिस्तु सविकल्पनिवि कल्परूपाभ्यां श्रुतिसिहयोगविभागार्थ पृथङ् निर्दिश्यन्त इति ॥८॥ * अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १० ॥ * सा च सम्बोधे प्रत्यवमर्शात्प्रत्ययविशेषः । कथं सुखमहमखास प्रसन्न मे मनः प्रज्ञां मे विशारदीकरोति । दुःखमहमखास स्त्यान मे मनो भ्रमत्यनवस्थितम् । गाढ़ भूढ़ोऽहमखास गुरूणि मे गात्राणि क्लान्तं मे चित्तमलसं मुषित- मिव तिष्ठतोति । स खलु अयं प्रबुद्धस्य प्रत्यव- मी न स्यात् असति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्दिषया न स्युः । तस्मात् प्रत्ययविशेषो निद्रा। सा च समाधावितरप्रत्ययवन्निरोद्धव्यति ॥ १० ॥ निद्राया वृत्तित्व रफ़टोकरणाय पुनहन्तिग्रहणम् । जाग्रत्- स्वप्नवृत्तीनानभावस्य प्रत्यय: प्रतिसंक्रमस्थानं कारणमिति यावत्। तच्च चित्तसत्त्वाच्छादकं तमोद्रव्यमन्धकारादिवत् तदे- वालम्बनं विषयो यस्याः सा तथा तादृशी वृत्तिनिद्रेत्यथः । बुद्धे हि त्रिगुणतया यदा सत्त्वरजसी अभिभूय समस्तकरणाव- रकं तम आविर्भवति तदा मलिनस्य चित्तसत्त्वस्य तम आका- रैव वृत्तिः स्वपिमीत्याकारा जायते, स्वापश्चात्र जाग्रत्स्वप्रवृत्त्य:

३२ पातञ्जलदर्शनम् । भावः । तां च निद्राख्यां वृत्तिमवबुध्यमानः पुरुषः सुषुप्तस्थानो- ऽन्तःप्रज्ञ इति श्रुतिभिरुच्यत इति । न च चित्तेन चित्तग्रहणे कर्मकर्तृविरोधः । वृत्त्या चित्तस्य ग्रहणेन कर्मकोंमदात् । न चैवमेकया वृत्त्या वृत्त्यन्तरग्रहणसम्भवे पुरुषकल्पनावैयर्थ्यम् । नियमन वृत्तिगोचरवृत्तिकल्पनेऽनवस्थायाः सूत्रेण वक्ष्यमाण- त्वादिति । ननु निरोधे कैवल्यप्रलयादिष्विव वृत्त्यभाव एव सर्वस्यां सुषुप्तौ कयं न स्वीक्रियते न तु तद् द्वितीयमस्ति ततो- ऽन्यविभक्तं यत्पश्येदिति सौसुप्तश्रुतावपि तदानीं ज्ञानाभाव- स्यैवावगमादित्याशङ्कयाह । सा तु समबोध इति । सातु निद्रा प्रत्ययविशेष एव, जागर स्मरणादित्यर्थः । अतएव 'त्रिषु धामसु यशोग्य भोक्ता भोगद्य यद्भवे'दित्यादिश्रुतयः सुषुप्तस्थानेऽपि भोग्यमस्तीत्याहुः। न चैवं श्रुत्योविरोध इति वाच्यम्। अर्द्ध- समग्रभेदेन सुषुप्त विध्यात् । 'मुग्धेऽईसम्पत्ति'रिति सुषुप्तिप्रक- रणस्थ वेदान्तसूत्रात् । अन्यथा श्रुत्योर्विरोधस्यापरिहार्यत्वाच कदाचिहाढ़तमसा चित्तसत्त्वस्य तमोगोचरवृत्तावग्यसामर्थ्य च सम्भवत्येवेति । यत्तु आधुनिका वेदान्तिब्रुवा आहुः, सुषुप्तौ तमः साक्षिभास्यमेव न तत्र हत्तिरस्तीति । तन्न । वक्ष्यमाणस्मरणानु- पपत्त: साक्षियपरिणामिनि संस्कारस्वत्योरनभ्युपगमात् । यच्च तदेकदेशी सुखुतारज्ञानाख्यप्रकृतेरेव वृत्तिमाह न तु चि- त्तस्य, तदपि हेयम्। एवं सति जाग्रत्वप्नयोरपि तस्या एव वृत्तिसन्भवे चित्तकल्पनावैयादिति । तस्माज्जाग्रत्वप्नयोरिव सुषुप्तेऽपि चित्तस्यैव वृत्तिः, 'जाग्रत्खनसुषुप्तं च गुणतो बुद्धि- वृत्तयः' इति स्मृतिभ्यच, तथा वित्तत्वेनैव वृत्तिसामान्य हेतु- तायां लाघवाञ्चेति । स्मरणाकारं पृच्छति। कथसिति । यस्यां सत्त्वसचिवं तम आविर्भवति तस्याः सात्त्विक्या निद्राया उस्थि- तस्य स्मरणाकारमाह । सुखमिति । प्रसन्न निर्मलं मनः स्वस्मिन् - समाधिपादे योगवार्तिकम् । जायमानां प्रज्ञां यथार्थवृत्तिं विशारदीकरोति सूक्ष्मार्थप्रति विम्बोदग्राहिणों करोतीत्यर्थः । विशारदां करोतीति पाठस्तु साधुः। यस्यां रजःसचिवं तमः आविर्भवति तस्या राजस्या निद्राया उत्थितस्य स्मरणाकारमाह। दुःखमिति । स्त्यानम- कर्मण्यं, तामस्या निद्राया उस्थितस्य स्मरणाकारमाह। गाढ़े- मिति । अनमत्यन्तं मुषितमिव परैरपहृतमिव तिष्ठतीत्यर्थः । अलसमिति पाठे तु स्त्यानता चित्तस्यातिचाञ्चल्येन कर्माक्षमता, आलस्य तु तमोधर्मगुरुत्वेन कर्माक्षमता कर्मण्यनिच्छा वेति भेदः। न तु भवतु प्रत्यवमर्श स्तथापि कथं सुषुप्तौ प्रत्ययसिद्धि- स्तवाह। स खल्विति। प्रत्ययानुभवे सूत्रोक्तस्याभावप्रत्ययस्या- नुभवे सति सोऽयं प्रत्यवमर्शः खलु न स्यादित्यर्थः। संस्कारा सम्भवादिति भावः । ननु वृत्ति विनापि सुखादिवत् सुषुप्ती वापस्य साक्षिभास्यत्वमभ्युपगम्य तत्स्मरणमुपपादनीयमित्या- शङ्कयाह । तदाश्रिता इति। तद्विषयाः प्रत्ययविषयिका स्मृत- योऽपि तदाश्रिताश्चित्ताथिता न स्युरन्यदृष्टस्यान्येनास्मरणादि- त्यर्थः । न च स्मरणमपि - साक्षिण्येवास्त्विति वाच्यम् । संस्कारासभवात् स्मृत्वाख्यपरिणामासम्भवाच्चेति। ननु निद्रा- वृत्तिरपि तमस्येकामा विषयदुःखशून्या चेति सा किमर्थ निरोडव्येत्याशङ्कयाह । चेति । इतरवृत्तिवत् सुखदुःख- मोहात्मकत्वेन समाधिप्रतिपक्षत्वेन च निद्रापि समाधी निरो- । तब सा इव्येत्यर्थः ॥ १० ॥ ॥ * अनुभूतविषयाऽसम्प्रमोषः स्मृतिः ॥११॥ * किं प्रत्ययस्य चित्तं स्मरति । आहोम्वित् विषयस्येति । ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणी- ।

३8 पातञ्जलदर्शनम् । भयाकारनिर्भासः तथा जातीयकं संस्कारमार- भते स संस्कारः स्वव्यञ्चकाचनः तदाकारामेव ग्राह्यग्रहगोभयात्मिकां स्मृतिं जनयति। तत्र ग्रहणाकारपूर्वा बुद्धिः ग्राह्याकारपूर्वा स्मृतिः । सा च हयौ भावितस्मतव्या चाभावितस्मर्तव्या च। स्वप्न भावितस्मर्त्तव्या। जाग्रत्समये तु अभावितस्मर्तव्येति । सर्वाः स्मृतयः प्रमाणविप- ययविकल्पनिद्रास्मृतीनाम् अनुभवात् भवन्ति । सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः सुख- दुःखमोहाश्च क्ल शेषु व्याख्येयाः सुखानुशयौ रागः दुःखानुशयी द्वेषः मोहः पुनः अविद्येति एताः सर्वा वृत्तयो निरोडव्याः आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवति असम्प्रजातो वेति ॥ ११ ॥ अथासां निरोधे क उपाय इति- भाष्यानुसारेणास्य सूत्रस्यायमर्थः । एवमनुभूती यो विषयौ हत्तितदारूढार्थी तयोरसम्प्रमोषोऽस्तेयमनपहरणं धर्मधर्म्य- भेदात् तद्दती तदुभयविषयिणीति यावत्, एवम्भूता वृत्तिः स्मृति- रिति । अत्र प्रत्यभिज्ञादिव्यावृत्तये संस्कारमात्रजन्यत्वमेव स्मृति- लक्षणं, सूत्रकारेण तु स्मृतेः प्रायिक स्वरूपमेवोक्त तेन प्रमुष्ट- तत्ताकस्मरणाव्याप्ति: । अथ वा सूत्रोक्तमेव लक्षणं तच्च संस्कार- मात्रजन्यत्वेन विशेषणीयं प्रमुष्टतत्ताकं तु संस्कारमात्रजन्यमपि ज्ञानमनुभवमध्ये प्रवेशनीयं, शब्दजन्यपदार्थोपस्थित्यादी स्मरा- عر समाधिपादे योगवार्त्तिकम्। मौति स्फुट व्यवहारादर्शनात्। प्रमाणेत्यादिवृत्तिविभागसूत्रे तु संस्कारमात्रजन्यत्वगुणेन तादृश' ज्ञानं स्मृतिशब्दगृहीतमनेन च सूत्रेण मुख्यस्मृतिर्लक्षितेति। स्मृतेर्वृत्तितर्थोभयविषयकत्वं सूत्रोक्तमवधारयितु भाष्यकारो विमृशति। किं प्रत्ययस्येति । स्मृत्यर्थधातुयोगात् कर्मणि षष्ठी। चित्तं किं पूर्वानुभवरूपं प्रत्ययमपि स्मरति आहोखित् विषयमात्रमित्यर्थः। तत्र स्मृते- रुभयविषयकत्वरूपमाद्यं पक्षं सिद्धान्तयितुमादावुभयस्मरणे कारणमुभयगोचरसंस्कारमुपपादयति । ग्राह्योपरक्त इत्यादिना। यतो ग्राह्योपरतो ज्ञानविशषणतया घटादिभिरण्याकारिती ऽतो ग्राह्यग्रहणोभयाकारनिर्भासस्तदुभयाकारतया प्रसिद्धी यः प्रत्ययो घट जानामौत्यनुव्यवसायः स तथा जातीयकं ग्राह्य- ग्रहणोभयाकारमेव संस्कारं जनयति समानाकारत्वेनैव लाघ- वादनुभवसंस्कारस्मृतीनां कार्यकारणभावादित्यर्थः। नन्वत्र व्यवसायरूपवृत्ते: स्वप्रकाशत्वमेव निर्भासान्तविशेषणार्थः कथं नेष्यत इति चेत्, न। कर्मकर्तृ विरोधेन वृत्तेः स्त्रविषयकत्वस्य सूचभाष्याभ्यां चतुर्थपादे निराकरिष्यमाणत्वात्। ननु कि व्यवसायस्य संस्कारजनकत्वमेव नास्ति । न नास्ति, किन्तु तत्संस्कारजन्यं ज्ञानं स्मृतिर्न भवति प्रमुष्टतत्ताकस्य पराभि- मतस्य स्मरणस्यास्माभिव्यवहारानुसारेणानुभवमध्य एव प्रवे- शनादिति । नन्वस्तु उभयविषयकसंस्कारस्तत: किमित्यत आह । स संस्कार इति। स चोभयविषयकसंस्कारो यदा स्वाभिव्यन- केन कालादिना अभिव्यक्तो भवति तदा तदाकारांस्वसमानाका. रामव ग्राह्य ग्रहणोभयात्मिकां तटुभयविषयिणीं स्मृति जनय- तीत्यर्थः । अनुभूतविषयासम्प्रमोष सूत्रोक्तं व्याख्यायानुव्यव- सायतज्जन्यस्मरणयोर्विशषमयाह । तत्र ग्रहण इति। पूर्व मुख्य विशष्थमिति यावत्। तयोः प्रत्ययस्मरणयोरत्यन्तं समा- । A पातञ्जलदर्शनम् । भाकारत्वं न मन्तव्यं यतस्तत्र तयोर्मध्ये बुद्धिरनुव्यवसायरूपा यथोक्तप्रत्ययो ग्रहणाकारविशष्थिका भवति घटमहं जानामी- त्यनुव्यवसाये ज्ञानस्य घटांश विशेष्यत्वात्, स्मृतिस्तु ग्राह्या- कारविश थिका भवति स घट इत्येव स्मरणात्। तत्ता च पूर्व- ज्ञानत्वरूपा। अतः स्मृलौ ज्ञानस्य ग्राह्य विशेष्यमिति । अयं चाकारमेदोऽनुभवसिद्ध इति भावः । स्मृतरवान्तरभेदं दर्शयति । सा च हयोति । भावित उद्भावितः सूचितः स्मर्तव्यार्थों ययेति भावितस्मतव्या तद्भिन्ना चाभावितस्मर्तव्या। तयोरुदाहरणे दर्शयति । स्वप्न इति। स्वप्नदर्शनमेव हि भाव्यर्थसूचकतया शास्त्र सिद्ध' न तु जाग्रत्कालोना स्मृतिरिति । ननु स्वप्ने पूर्व- दृष्टत्वास्मरणात् संस्कारमात्रजन्यत्वाभावाच्च कथं स्मृतित्वमिति चेन्न। अंशतस्तदुभयरूपत्वस्य स्वप्रज्ञानेष्वपि सत्त्वात् तादृशस्य स्वप्नांशस्यैवानोपन्यासादिति। सर्ववृत्त्यन्ते स्मृतिवृत्तेरुपन्यासस्य बीजमाह। सर्वा इति । अनुभवात्, अनुव्यवसायात्। अनु- भावादिति पाठे प्रभावादित्यर्थः । यथोक्तानां वृत्तीनां निरो- ध्यत्वे बीजमाह । सर्वाश्वेता इति । एताः सर्वाः प्रमाणादिवृत्तयो बुद्धिद्रव्यस्य सुवर्णस्थेव प्रतिमादिवहिषयाकारा द्रव्यरूपाः परि गाामाः सुखदुःखमोहगुणका इत्यर्थः । बुद्धिवृत्तिहि रूपादिमती भार्यव सुखादिमती पुरुषस्य भोग्य ति। अतो दुःखवत्त्वेन वृत्तयो निरोडव्या इत्युपसंहरिष्यति। ननु सुखवत्त्वेनोपादेय- त्वमेव कुतो न भवेदित्यत आह । सुखदुःखेति । क्लेश षु क्लेश- व्याख्यानसूत्रेषु व्याख्येयाः। व्याख्यानमेवाह । सुखानुशयो राग इत्यादि। सुखदुःखानुशयो सुखदुःखविषयकः । तथा च राग- जनकतया दुःखवत्सुखमपि हेयं, मोहस्त्वविद्यारूपतया शोका- द्यखिलदुःखनिदानत्वेन हेय इत्याशयः । दुःखात्मकत्वादेताः, सर्वा निरोदव्या इत्यर्थः । प्रकरणार्थमुप- एता इति । अतो समाधिपाद योगवार्तिकम्। ३७ संहरति । आसामिति। तदेवं सामान्यतो योगस्य लक्षणं कृत- मिदानीं तस्योपायं प्रतिपादयिष्यति सूत्रकारस्तत्र संक्षेपाद उपायसारसंग्राहक सूत्रमवतारयति । अथासामिति ॥ ११ ॥ * अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ * चित्तनदौ नाम उभयतो वाहिनी वहति कल्याणाय । वहति पापाय च । या तु कैवल्य- प्रागभाराविवेकविषयनिम्ना सा कल्याणवहा । संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा । तत्र वैराग्येगा विषयस्रोतः खिलौक्रियते विवेक- दर्शनाभ्यासेन विवेकस्रोत उहाय्यते इत्युभया- धौनश्चित्तवृत्तिनिरोधः ॥ १२॥ अभ्यासवैराग्ये व्याख्यास्यते। अभ्यासवैराग्ययोरवान्तरव्या- पारभेदेन निरोधजनने समुच्चय एव न विकल्प इत्याह । चित्त- नदीति । यथा नदी कदाचित् समुद्राभिमुखी वहति कदाचिच्च तपरीत्येन पृथिव्यभिमुखी वहति । अन्यथा समुद्रगमनमात्रेण शुष्येतैव । एवं चित्तनद्यपि उभयतोवाहिनी। उभयतो वह- नस्य प्रयोजनमाह। वहतीति। कल्याणं मोक्षस्तदर्थ, पाप मंसारस्तत्फलत्वात्तत्कारण त्वाद्दा तदर्थम् । तथा चोक्तम् । प्रत्यग्दृशां विमोक्षाय निबन्धाय परागट्टशाम् । अपामार्गलतेवायं विरुद्धफलदो भवः ॥ इति । प्रवाहवयं विशिष्य दर्शयति । या तु इति । प्रागभारा अभि- मुखी। विवेकविषयो निनो गमनमार्गो यस्था इत्यर्थः । जलस्य हि प्रवाहाभिमुखं वम नीचं भवतीति। तत्र चित्तनद्यां वैरा- ४ पातजलदर्शनम्। ग्येण विषयमार्गगं वृत्तिस्रोतः खिलौक्रियते अल्पीक्रियते विवेकः दर्शनस्याभ्यासेन च विवेकमार्गगं वृत्तिस्रोत उहाव्यते बलवत् क्रियते येन निरोधाख्ये कैवल्यसागरे विलीयत इत्यतोऽवान्तर- व्यापारभेदेनोभयाधीनश्चित्तवृत्तिनिरोध इत्यर्थः । तदुक्तं गीता- याम्। असंशयं महावाहो! मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यते ॥ इति । अत्र विवेकदर्शनमात्रस्याभ्यासः प्राधान्येनोक्तः। आगामि- सूत्रे निरोधसाधनानुष्ठानसामान्यस्यैवाभ्यासत्वावगमादिति । अवाभ्यासवैराग्ये क्रमाल्लक्षयति सूत्रजातन ॥ १२ ॥ * तत्र स्थिती यत्नोऽभ्यासः ॥ १३॥ * चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नो वौर्यमुत्साहः तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ॥ १३ ॥ तत्राभ्यासवैराग्ययोर्मध्ये । चित्तस्येति। प्रवृत्तिकस्य हत्त्यः न्तरशून्यस्य न तु वृत्तिसामान्याभाववतः, स्थित्यनन्तरं सम्प्रज्ञा- तस्य समापत्तिसूत्रे भाष्यकारैर्व्याख्येयत्वात् । प्रशान्तवाहितेति। वृत्त्यन्तराभावात् प्रशान्ता हर्षशोकादितरङ्गरहिता एकाग्र- वृत्तिधारेत्यर्थः । शान्तिय तन्वेषूक्ता । श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुत्ता प्रात्वा शुभाशुभम् । न हृष्यति ग्लायति च स शान्त इति कथ्यते ॥ इति। स्थितिशब्दार्थं व्याख्याय सप्तम्यर्थ व्याचष्टे। तदर्थ इति । तथा च चर्मणि दीपिनं हन्तीतिवदियं निमित्तसप्त- मौति । यत्नशब्दं व्याचष्टे । प्रयत्न इति। प्रयत्नमपि पर्या- समाधिपादे योगवात्तिक । ३८ याभ्यां विशदयति । वीर्यमुत्साह इति । तथापि अस्पष्टं मन्वानी- ऽतिविशेषत आह। तत्सम्पिपादयिषयति। तत्सम्पादनेच्छया श्रहावीर्यस्मृतिसमाधिप्रज्ञादीनां वक्ष्यमाणानां साधनानामनु- ठानमभ्यास इत्यभ्यासलक्षणं कृतम् । ननु व्युत्थानसंस्कारेणा- नादिना प्रतिबन्धात् कथमभ्यास: स्थिति सम्पादयतु इत्याका- झायामाह सूत्रकारः ॥ १३ ॥ स तु दीर्घकालनैरन्तय॑सत्कारासवितो दृढ़भूमिः ॥ १४ ॥ * दीर्घकालासेवितः निरन्तरासवितः तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्- कारवान् दृढभूमिर्भवति। व्युत्यानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥ १४ ॥ सत्कारासेवित इत्येतहिवृणोति । तपसेत्यादिना सत्कार- वानित्यन्तन । दृढभूमिरित्येतविणोति । व्युत्थानति । व्युत्थान- संस्कारण द्रागित्येव सहसा अनभिभूतः स्थितरूपो विषयो यस्य स भवतीत्यर्थः । अभ्यासं कृत्वोपरमे च कालक्रमादभिभवो भवत्येवेति प्रतिपादयितु द्रागित्येवेत्युक्तम् । अभ्यासं लचयित्वा धेराग्य लक्षयति ॥ १४ ॥ * दृष्टानुथविकविषयविटणस्य वशीकार- संज्ञा वैराग्यम् ॥ १५ ॥ * स्त्रियोऽन्नपानमैश्वव्यमिति दृष्टविषयविट- पणस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्ती आनुथविक- विषये विष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि ४० पातञ्जलदशनम् । चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलादना. भोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥ रामाभावमात्र दोषदर्शनजन्यो रागाभावो वा न निरोध- हेतुर्वैराग्य रोगादिनिमित्तकारुचितो योगानुदयात् । दोष- दर्शनजवैराग्यादनन्तरमपि विषयसानिध्येन चित्तक्षोभतः सौभUोगानिष्पत्तेश्च । अतोऽत्र वैराग्यस्य वैष्णामात्र न लक्षणं किन्तु यथोक्तविष्णस्य वशीकारसंज्ञेति । तदेतद् व्या- चष्टे । स्त्रिय इति । दृष्टविषयविष्णस्येति व्याख्याय आनु- अविकविषयविष्णस्येति व्याचष्टे । स्वर्गेति। स्वर्गश्च वैदेह्यञ्च प्रकृतिलयत्वञ्च तेषां प्राप्तिरेवानुशवाख्य वेदोक्तो विषयस्तत्व च विष्णस्येत्यर्थः । स्थूलदेहविरहेऽपि लिङ्गशरीरेणैव येषां देहाना भोगस्ते विदेहास्तदूपता च वै टेह्यम् । ये तु सावरण- ब्रह्माण्डाहहिरावरण प्रकृतौ लीनाः श्लिष्टाः लिङ्गदेहेन सह गता इति यावत्, तेषां भाव: प्रकृतिलयत्वं न तु प्रलय एवा- त्रोक्तः, करणं गतस्यैव श्रुतिस्मृत्योर्भोगवणात् । अन्यथा प्राक्त- तप्रलयवदपुरुषार्थत्वाच्च। प्रकृतिलयानाञ्च विदेहेभ्योऽयं मेदः । विदेहा: सावरणब्रह्माण्डान्तर्गता एवाल्पमैश्वयं मलिनञ्च विषयं भुञ्जते, प्रकृतिलयास्तु बहिर्गमनेन विदेहान् प्रत्यपीशते स्वस- इल्पमात्रेण तत्रैव निर्मलं कारणसत्त्वनिर्मितं विषयच भुञ्जते त ईश्वरकोटय उच्यन्त इति। षष्ठान्त हेतुगर्भविशेषणपद व्याख्याय वशीकारसंज्ञेति विशेष्यपद व्याचष्टे । दिव्यादिव्येति । अयमर्थः। आदौ विषयसान्निध्यरूपेऽवसरे दोषावरकाभावाद् दोषदर्शनेन वैतृष्णं भवति 'विरक्तिर्दोषदर्शनादिति स्मृतेः । तच त्रिविधं यतमानसंज्ञा व्यतिरेकसंज्ञा एकेन्द्रियसंन्नेति ।

समाधिपादे योगवार्तिकम् । ४१ एताश्च पश्चाद्याख्यास्यामः। एतस्माच्च त्रिविधवैष्णवादभ्यस्य- मानाविषयसंयोगकालेऽपि दोषदर्शनमप्रतिबद्धमुत्पद्यते 'वैरा- ग्याहोषदर्शन मिति स्मृत्यन्तरात्, कुतः पुनरप्रतिबन्धः । तत्रोक्तं, प्रसंख्यानबलात् दोषसाक्षात्कारस्य बलवत्वादिति । दोषसाक्षा- काररूपबलाभावात्तु सौभादेः प्राविरक्तस्यापि विषयसग्नि- करेण दोषदर्शनं प्रतिबध्य पुन: राग उत्पादित इति । एतस्माच्च दोषदर्शनोत्कर्षाहिषयसंयोगकालेऽपि या चित्तस्यानाभोगात्मिका आभोगरहिता एतस्य विवरणं हेयोपादेयशून्या रागद्देषशून्या वशीकारसंज्ञा या वितृष्णा सा वैराग्यमपरमिति शेषः । उत्तरसूत्रे तत्परमिति वचनादन्यापरत्वम् । तथा च रागहेषशून्यस्य विष- यसाक्षात्कारस्य योग्यता वशीकारसंज्ञाख्यं वैराग्यमिति पर्यव. सितम्। तेन सर्व दैतादृशविषयसंयोगभावेऽपि न निरोधास- म्भवः । तदेवमनेन सूत्रेण हेतुहेतुमद्भावरूपतस्तन्त्रान्तरसिद्ध वैराग्यचतुष्टयमेवोक्तम् । तत्र प्रथमभूमिका यतमानसंज्ञानाम्नी वितृष्णा ज्ञानपूर्व कं वैराग्यसाधनानुष्ठानम् । द्वितीयभूमिका व्यतिरेकसंज्ञा सा च जितान्येतानोन्द्रियाणि एतानि च जेतव्या- नीति व्यतिरेकावधारणयोग्यता। तीयभूमिका च एकेन्द्रिय संज्ञा सा च वाह्य न्द्रियविषयेषु रूपादिषु रागादिक्षये सति एकस्मिन्नेव मनसि मानापमानादिविषयकरागद्देषादिक्षयो रागद्देषज्ञानपूर्वक इति। चतुर्थभूमिका तु वशीकारसंन्ना स्पष्टमुक्तैवेति ॥ १५ ॥ अपरवैराग्यमुत्का परवेराग्यमाह । * तत्परं पुरुषख्यातेर्गुणवैतृष्णाम् ॥ १६ ॥* दृष्टानुविकविषयदोषदर्शी विरक्तः पुरु- ४२ पातञ्जलदर्शनम् । षदर्शनाभ्यासात् तच्छुद्धिप्रविवेकाप्यायितबुद्धि- गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति तद् वयं वैराग्यम् । तत्र यदुत्तरं तत् ज्ञानप्रसाद- मात्रम् । यस्योदये प्रत्युदितख्यातिरेवं मन्यते प्राप्तं प्रापणीयं क्षीणाः क्षेतव्याः क्लेशाः छिन्नः श्लिष्ट पर्वा भवसंक्रमो-यस्य अविच्छेदात् जनित्वा म्रियते, मृत्वा च जायत इति ज्ञानस्यैव परा- काष्ठा वैराग्यम्, एतस्यैव हि नान्तरीयकं कैवल्य- मिति ॥१६॥ अथ उपायहयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति । तदिति वैराग्यं परामृश्यते, तथा चात्महयान्यतरसाक्षा- काराभ्यासाडेतोरुत्पद्यमानं सकलगुणेषु वैष्ण' परं श्रेष्ठ वैराग्यमित्यर्थः। पूर्वसूत्रोक्तवेराग्याद स्य भेदं दर्शयति । दृष्टे- त्यादिना । पूर्वसूत्वे विषयदोषदर्शनाविषयेष्वेव वैराग्यमुक्तं न तु ज्ञान, तदानीं जानेऽपि विनाशित्वादिदोषदर्शनसाम्येऽपि नाल- म्बुद्धिरूपं वैराग्यं सम्भवति अविद्यानिवृत्त्याख्यप्रयोजनवत्त्वात्, अत्र तु सूत्रे ज्ञानेनाविद्यानिवृत्त्यादौ सिद्धे तेनैव दोषदर्शनेना- नात्मत्वदृष्ट्या च ज्ञानसाधारणेष्वखिलकार्य कारणेष्वात्मप्तस्यो- पेक्षेति वैराग्ययोर्मेद इति वाक्यार्थः। तच्छुडीति । पुरुषशुद्धि- प्रविवेकश्चितिशक्तिरपरिणामिनीत्यादिना दर्शितस्तेनाप्यायिता हता समाप्तपुरुषार्था बुड़ियस्येति विग्रहः । व्यक्ताव्यक्तति । व्यताव्यते स्थूलसूक्ष्मे कार्ये धर्मावाश्रिते येषु सत्त्वादिगुणेषु - समाधिपादे योगवार्तिकम् । ४३ तेभ्यः, तैः कार्याः सहितेभ्यस्तेभ्य इति यावत्। तहयमिति । तत्तस्मादुभयं परस्परभिन्नं वैराग्यमित्यर्थः । द्वितीयवैराग्यस्य परत्वे हेतुमाह। तत्र यदुत्तरमिति। ज्ञानप्रसादमानं वैराग्य- मित्यागामिनान्वयः । ज्ञानस्य प्रसादश्च स्वयं व्याख्यास्यते । ननु वैतृष्णा' वृष्णाविरहरूपं वैराग्यं सूत्रकारणोतं तहिाय कथं भाष्यकारेण ज्ञानरूपं तदुच्यत इति चेत्, न। शब्दभेदेऽप्यर्था- भेदात् । न ह्यभावोऽस्मन्मतेऽतिरिक्तोऽस्ति, अधिकरण्स्यावस्था- विशेषस्यैवाभावत्वात्। तथा च चित्तस्यैव तादृशौ ज्ञानावस्थैव बष्णाविरह इति । यदि च सुषुत्यादी तृष्णाविरहोऽपेक्षितस्तदा ज्ञानप्रसादयोग्यतैव परवैराग्यमुच्यतां योग्यता च निर्मलसत्त्व- तेति। अपि च भवतु वैष्णप्रमेव वैराग्यं तथापि ज्ञानप्रसादे- नैव वैतृष्णागतो विशेषोऽनुमीयत इति लिङ्गलिङ्गिनीरभेदोप- चारात् सूत्रभाष्ययोन विरोधः । विरामप्रत्ययाभ्यासपूर्व इत्यागा- मिसूबेऽपि परवैराग्यस्य प्रत्यय त्वलाभाच्चति । ज्ञानप्रसादस्य लक्षणमाह । यस्योदय इति । यस्य ज्ञानप्रसादस्योदये सति । एतस्यैव विवरणं प्रत्युदितख्यातिनिप्पन्नात्मन्नानो योगीति । प्रापणीयं ज्ञानं प्राप्त सिई यतः क्षीणा अविद्यादयः क्षेतव्याः नशाः । अतश्च श्लिष्टानि निःसन्धीनि पर्वाणि यस्य श्लिष्टपर्वा भवसंक्रमो देहाद्दे हान्तरसञ्चाराख्य: संसारश्छिन्नः, पुनर्न भवि- तेति यावत्। यस्य संमारस्याविच्छेदात् जन्ममरणप्रवाहोऽति- दुःखदो भवतीत्येव मन्यत इत्यन्वयः । ज्ञानप्रसादमात्रमित्युक्ती शब्दान्तरेण विवृणोति। ज्ञानस्यैवेति। ज्ञानस्य पराकाष्ठा च विवेकख्यातावलम्प्रत्ययो दुःखात्मिकेयमपि शाम्यतु इतिरूप इत्यर्थः । अस्य ज्ञान काष्ठात्वे हेतुमाह। एतस्यैवेति। एतस्यैव यतो ज्ञानप्रसादस्य कैवल्यं नान्तरीयकं नियतम् । एतस्मिन्नेव सति कैवल्यमावश्यकं नान्यस्मिन् ज्ञाने यमनियमादी वैराखे ४४ पातञ्जलदशनम्। वा तत्सत्त्वेऽप्यसम्प्रज्ञातानुदयनाशेषतः प्राचीनकर्मक्षयानिय- मतः कषायसम्भवतश्च मोक्षे विलम्बसम्भवादिति। तदेव सामा- न्यतो योगस्तत्साधनं चोक्तनिदानी विशेषतो योगतत्साधने वक्तव्ये तत्रादौ योगगतमवान्तरं विभागं दर्शयिष्यति सूत्रकार। तत्सूत्रावताराय पृच्छति। अथोपायेति । उपाययेन अभ्यास- वैराग्याभ्यां, निरुद्धराजसतामसवृत्तेः पुरुषस्य कथं कैः प्रकार- भेदैः सम्प्रज्ञातयोगः शास्त्रेषु कथ्यत इत्यर्थः। अत्र प्रत्युत्तर सूत्रम् ॥ १६ ॥ * वितर्कविचारानन्दाऽस्मितानुपगमात् सम्पज्ञातः ॥ १७॥ * वितर्कः-चित्तस्य आलम्बने स्थूल आभोगः । सूक्ष्मो विचारः । आनन्दो हादः । एकात्मिका संविट् अस्मिता। तत्र प्रथमः चतुष्टयानुगतः समाधिः सवितर्कः। द्वितीयो वितर्कविकल: सविचारः। तृतीयो विचारविकल: सानन्दः । चतुर्थस्तहिकलः अस्मितामात्र इति। सर्वे एते सालम्बनाः समाधयः ॥ १७॥ अथ असम्प्रज्ञातसमाधिः किमुपायः ? किं- स्वभावी वैति,- अस्यार्थः । साक्षात्कारविशेषषरूपैर्वितर्कादिभिरनुगमात् हेतोः सन्यक् प्रज्ञावत्त्वेन योगः सम्प्रज्ञातनामा भवति। वित- र्कादिभूमिभेदैश्चतुर्धा विभक्त इत्यर्थादिति। अत्र रूपानुगमा- दिति पाठः प्रामादिकत्वादुपेक्षणीयः । भाथे वितर्कविकलः स- समाधिपाद योगवार्त्तिकम् । ४५ विचार इत्यादिप्रयोगेषु रूपपदाप्रयोगात् आद्यसूत्रेऽपि भाष्य- कृता वितर्कानुगतो विचारानुगत इत्यादैरैव प्रयोगाच्च । यच्च तत्र पाठे वितर्कादीनां रूपैरनुगमादिति कस्यचिव्याख्यान तदपि वैयर्थादुपक्षणीयम्। वितर्कादिचतुष्टयं व्याचष्टे । वित- कश्चित्तस्येत्यादिना। योनिजं वा विराज वा चतर्भजादिकं वो स्थूलं षड़िशतितत्त्वसङ्घातमाश्रित्य प्रथमं भावना प्रवर्त्तते सालम्बनमदृष्टजातीयेषु चैतन्यपर्यन्तेषु विवेकेन पूर्व चिन्तना- सम्भवात्। योगबलादेव हि तानि पश्चात्साक्षात् क्रियन्त इति न तान्यालम्बनानि। तथा चैकस्मिन्नेवालम्बने क्रमेण चतुष्प्रकारः सम्प्रज्ञातो भवति । तत्रालम्बने विराटशरीरादौ प्रथमं यश्चि- त्तस्य स्थूलाकारत्वात् स्थूल आभोग: परिपूर्णता। स्थूलयोभू तेन्द्रिययोरदृष्टाश्रुतामताशेषविशेषसाक्षात्कारः सवितर्क इ- त्यर्थः। विशेषेण तर्कगमवधारगां वितस्तेनानगतो युक्तो निरोधो वितर्कानुगतनामा योग इति भावः। मवितर्कनिवि तौं चास्य वितर्कस्यावान्तरभेदी वक्ष्यति । तत्र च वितर्कशब्दी विपरीततर्कणार्थकः। शब्दार्थज्ञानविकल्पस्यैव तस्मिन् सूत्रे वितर्कशब्दार्थत्वावगमात्। सूक्ष्मो विचार इति। तत्रैवालम्बने कारणत्वादिनानुगता ये प्रकृतिमहदहङ्कारपञ्चतन्मात्ररूपा भूते- न्द्रिययोः सूक्ष्मा अर्थास्तदाकारत्वात् सूक्ष्मो यश्चित्तस्याभोगः सूक्ष्मगताश षविशेषसाक्षात्कार: सविचार इत्यर्थः। विशेषेण चरणं सूक्ष्मवस्तुपर्यन्तमिति विचारस्तेनानुगतो युक्तो निरोधो विचारानुगतनामा योग इति भावः । सविचारनिर्विचारौ चास्य विचारस्यावान्तरमेदौ वक्ष्यति । तत्र च विचारशब्दो मन्दचरणा- र्थकस्तान्त्रिकपरिभाषा वा। तद्भाष्ये सूक्ष्मविषयकसमाधे: का. ाद्युपरागस्यैव विचारशब्दार्थत्वावगमात्। आनन्दो बाद इति । तत्रैवालम्बने यश्चित्तस्य विचारानुगतभूम्यारोहात्सत्त्व- पातञ्जलदर्शनम् । प्रकर्षण जायमाने बादाख्यसुखविशेषे आभोगः साक्षात्कारी भवति स आनन्दविषयकत्वादानन्द इत्यर्थः । तेनानुगतो युक्तो निरोध आनन्दानुगतनामा योग इति भावः। तदानीं चानन्द. गोचर एवाहं सुखीति चित्रवृत्तिर्भवति न सूक्ष्मवस्तुष्वपीति विचारानुगतात् विशेषः । तथा च गौता मुखमात्यन्तिकं यत्तबुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ तं विद्याद दुःखसंयोगवियोगं योगसंज्ञितम् । इति । आनन्दस्य च सानन्दनिरानन्दत्वेन भेदो नास्ति सूत्रभाष्ययोरवक्ष्यमाणत्वादिति । अत्र कश्चित् ह्नादो हादवा- निन्द्रियवर्गः । तथा च इन्द्रियाकारत्वादिन्द्रियरूपो यश्चित्त- स्याभोग: साक्षात्कारः सं आनन्द इत्यर्थ वदति। तन्न। एता- दृशलक्षणायां प्रमाणादर्श नात्। इन्द्रियस्यापि स्थूलतया तत्रा- भोगस्यापि वितर्कमध्य एवं प्रवेशाच्च कारणत्वमेव सूक्ष्मत्वमिति भाष्ये वक्ष्यमाणत्वेन केवलविकृतित्वरूपस्य स्थूलत्वस्येन्द्रियसाधा- रण्यादिति। किञ्च । इन्द्रियगोचरसम्प्रज्ञातस्यानन्दानुगतत्वे सति परोक्तरीत्या तत्रापि वृत्त्य परागानुपरागाभ्यां सानन्द- निरानन्दरूपावान्तरविभागसम्भवात्तदवचनेनागामिसूत्रभाष्ययो- न्यूनता स्यात् । अस्मद्याख्याने चावान्तरविभागो न सम्भव- तीति न तदवचनन्यूनता। यत्तु ग्रहीटग्रहणग्राह्य षु तत्स्थ- तदञ्जनतासमापत्तिरितिसूत्रे ग्राह्यात् पृथगिन्द्रियेषु सम्प्रज्ञातो वक्ष्यते। तत्प्रकारान्तरेगा सम्प्रज्ञातस्याखिलविषयसङ्कलनार्थमेव न तु वितर्कानुगतविचारानुगताभ्यामिन्द्रियसमापत्तेरानन्दानु- गतरूपभेदमभिप्रेत्य तथा तात्पर्य ग्राहकलिङ्गाभावादिति दिक्। एकात्मिका संविदस्मितेति। एकशब्दोऽत्र केवलवाची एकात्मिका एक एवात्मा अस्यां विषयत्वेनास्तीत्येकात्मिका। तथा चीताम् ।

समाधिपादे यीमवार्तिकम्। एकालम्बने या चित्तस्य केवलपुरुषाकारा संवित् साक्षात्कारो- स्मित्येतावन्मात्राकारत्वादस्मितेत्यर्थः। सा च जीवात्मविषया परमात्मविषया चेति विधा वक्ष्यते तेनानुगतो युक्तो निरोधो- ऽस्मितानुगतनामा योग इनि भावः । अस्या अस्मिताया अपि सास्मितनिरस्थितरूपो विभागो नास्ति सूत्रभाष्ययोरवक्ष्यमाण- वात् केवलपुरुषज्ञानस्य निर्विकल्पकमात्ररूपतया विविधत्वा- सम्भवाच। देहेन्द्रियाद्युपरागे तु सविकल्पानां योगानां वित- र्कानुगतादिभूमित्रय एवान्तर्भावादिति। अत्र ईश्वरचेतनत्व- साक्षात्कारस्तस्यापि संग्रहः सोपाधिकेश्वरसम्प्रज्ञातस्य च विचा- रानुगते प्रवेशः। एताश्च सम्प्रज्ञातभूमय आनन्दानुगतं विचा- रानुगते प्रवेश्य मोक्षधर्मवाक्य नोक्ताः । वितर्कश्च विवेकश्च विचारचोपजायते । मुनेः समाधानस्य प्रथमं योगसादितः ॥ इति। प्रथमं योगं सम्प्रज्ञातं समादधानस्य कुर्वतः । श्रा- दितः क्रमाज्जायत इत्यर्थः योगारम्भे मूर्नहरिममूर्तमथ चिन्तयेत् । स्थूले विनिर्जितं चित्तं तत: सूक्ष्मे शनैर्नयेत् ॥ इति । स्मृतिदयं चास्मिन्त्रौत्सर्गिकक्रमे प्रमाणमिति । इदानीं 'संवेद्य केवले ध्यानं न कुर्याद्रघुनन्दने' त्यादिस्मृत्यनुसारण पूर्व- पूर्वभूमिकासु उत्तरोत्तरभूमिविषयस्य चिन्तनमुत्तरोत्तरभूमिषु व पूर्वपूर्वविषयस्य परित्यागं विदधाति । तत्र प्रथमचतुष्टयानुगत इत्यादिना। तत्र प्रथमः सवितर्क वितर्कानुगतः समाधिश्चतु- ष्टयानुगतो वितर्कादिचतुष्टयेनानुगतो भवति। तप्तायःपिण्ड- वदेकोभावेन स्थूलसाक्षात्कार पुरुषपर्यय न्तानां सर्वेषामेव भा- नात्। अत्र च विचारादित्रयविषयग्राहकतामात्रेण विचारा- दिवयानुगतत्वं विवक्षितमन्यथा सासऱ्यांपत्तेः । वितर्कानुगते पातञ्जलदर्शनम् । समाधी केवलात्मपर्यन्तसाक्षात्काराभावाच्च । एवमुत्तरेष्वपि बोध्यम् । द्वितीय इति द्वितीयो विचारानुगतो वितर्कविकलः वितर्कभूमिजयात्तत्यरित्यागेन तद्दिषयविकलः । तृतीय इति । तृतीय आनन्दानुगतो विचारविषवेणापि विकलः । चतुर्थ इति । चतुर्थोऽस्मितानुगतस्तहिकल आनन्देनापि विकल इत्यतोऽस्मि- तामात्र इत्यर्थः । असम्प्रज्ञातात्सअज्ञातस्य भेदमाह। सर्व एत इति । सालम्बना: साधारणा एकाग्रहत्तियुका इति यावत् । समाधयो योगा: कार्य कारणयोरमेदादिति प्रागेव व्याख्यातम् । क्रमप्राप्तमसम्प्रज्ञातमवतारयितु पृच्छति । अथेति ॥ १७ ॥ * विरामप्रत्ययास्य भ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८॥ * सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चि- त्तस्य समाधिरसम्प्रजातः । तस्य परं वैराग्यम् उपायः। सालम्बनो हि अस्यासः तत्साधनाय न कल्पत इति । विरामप्रत्ययो निर्वस्तुक आल. म्बनी क्रियते, स च अर्थशून्यः, तदभ्यासपूर्व चित्तं निरालम्बनमभावप्राप्तमिव भवति इत्येष नि- वौंज: समाधिरसम्पज्ञातः ॥ १८ ॥ स खलु अयं विविध उपायप्रत्ययो भवप्रत्य- यश्च, तत्र उपाय प्रत्ययो योगिनां भवति,- वृत्त्यापि विरम्यतामिति प्रत्ययो विरामप्रत्ययः परं वैराग्य जानेऽप्यलम्बुद्धिज्ञानमपि शाम्यतु इत्येवंरूया तस्या अभ्यासाव् पौनःपुन्याज्जायत इत्याद्यविशेषणार्थः । तथा चाद्य विशेषणे- समाधिपादे योगवार्तिकम् । 82. 1 मोपायकथन मध्येन लक्षणकथनमन्त्येन लक्ष्यकथनमन्योऽसम्प्र- जात इत्यर्थः। अन्त्य विशेषणहयं व्याचष्टे । सर्वेति । समाधि- ोगः। आद्यविशेषणस्य पर्यावमितार्थमाह। तस्य परं वैराग्य- मुपाय इति। नन्वेकाग्रतारूपोऽभ्यासोऽप्यत्र साक्षात्कारणं कथ न भवति सम्प्रज्ञात इवेत्याकाङ्क्षायामाह। सालम्बन इति । पुरुषपर्यन्तं कस्मिन्नण्यालम्बने चित्तस्यैकाग्रतारूपोऽभ्यासो न असम्प्रज्ञातस्य साक्षात्साधकोभवति आलम्बनवृत्त्वविरोधित्वात् । अतः पुरुषख्यातिपर्यन्तासु अखिलवृत्तिषु अलम्बुद्धिरूपो विरा- मप्रत्ययः परवैराग्याख्य एवासम्प्रज्ञानेन साधनतया अवलम्बनी- क्रियते आधीयते । स यतो निर्वस्तुको, नास्ति वस्तु चिन्तनीय यवेत्यर्थः । ननु तस्य निर्वस्तुकत्वं कथ तदाश्रयणे हेतुस्तताह । स च अर्थशून्य इति । सोऽप्यसम्प्रज्ञातो ध्येयार्थशून्यः अतो- खिलध्ये यवैराग्यमेव तत्र हेतुर्युक्त इत्यर्थः । सूत्रस्य फलितार्थ- माह। तदभ्यासेति। कृतवैराग्याभ्यासं चित्तं निरालम्बनं निर्विषययमभावप्राप्तमिव वृत्तिरूपका-करणात् मृतकवद्भवति इत्येषोऽवस्थाविशेष इत्यादेरयमर्थः । निर्वीज इति। संस्कार- हास जन्म वीज ज्ञानकर्म तच्छून्यावस्थेत्यर्थः । संस्काराख्यसंसार- वोजोन्मूलक इति वार्थः । असम्प्रज्ञातस्यापि निमित्तभेदात् है- विध्य सूत्राभ्यां सूत्रकारो वक्ष्यति। तदेव दैविध्य युक्तिसिन पूर्वाचा-क्तक्रमण दर्शयति तयोः सूत्रयोरवतारणाय। स खवयं विविध इत्ति। सोऽयमसम्प्रज्ञातः, आगामिसूत्रेऽस्य , प्रज्ञापूर्वकत्वदर्शनात्। उपायप्रत्ययो वक्ष्यमाणशहाद्युपायका- रणको योगिनामिह लोके भवति। इह लोके योगभ्रष्टानाञ्च देवताविशेषतापवानां देवलोके भवप्रत्ययो जन्ममात्रकारणक इति क्रमः। तत्रोपायप्रत्ययं विस्तरेण वदिष्यन् सूत्रकारः सूची- कसहन्यायनादौ भवप्रत्ययं वदिष्यतीति सूत्रभाष्ययोः क्रमभेदो 1 ५ ५० पातञ्जलदर्शनम् । न दोषायेति मन्तव्यम् । उत्पत्तिक्रमानुसारेण सौत्र क्रममा ल्लङ्घय पूरयित्वा सूत्रमुत्थापयति। तत्रेति। तत्रोपायप्रत्ययो योगिनां प्रकष्टयोगानां भवति। स च पश्चाहक्ष्यत इति शेषः ॥ १८॥ * भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१६॥ * विदेहानां देवानां भवप्रत्ययः, ते हि स्वसं- स्कारमानोपयोगेन चित्तेन कैवल्य पदमिव अनु- भवन्तः खसंस्कारविपाकं तथा जातीनकमतिवा- हयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलोने कैवल्यपदमिव अनुभवन्ति यावन्न पुनरावर्त्तते अधिकारवशाच्चित्तमिति ॥ १६ ॥ भवो जन्म तदेव प्रत्ययः कारणं यस्येति विग्रहः। विदेह- प्रकृतिलयानामिति विभज्य व्याचष्टे। विदेहानामिति । शरीर- नरपेक्ष्येण बुद्दित्तिमन्तो विदेहा इति विभूतिपादे स्पष्टीभवि- थति। ते च महदादयो देवास्तेषां साधनानुष्ठानं विनवासम्प- ज्ञातयोगो जन्ममावनिमित्तको भवति योनिसादगुण्ये नौत्पत्ति- कज्ञानात्। ते हि दैनन्दिनप्रलये कदाचिच्च सर्गकालेऽपि स्व- संस्कारमात्रीपगतेन चित्तेन संस्कारश षेण निरोधावस्थन चित्तेन कैवल्यपदमिव प्राप्न वन्तो व्यथानकाले च स्वसंस्कारस्य देवभावप्रापकसंस्कारस्य विपाकं फलमैखयं भोगं प्रारब्धकर्म- यन्त्रिता अतिवाहयन्ति अतिक्रामन्ति ततो मुच्यन्त इति शेषः । तथा प्रकृतिलया इति। ईश्वरोपासनया प्रकृतिदेवतोपासनया वा ये ब्रह्माण्ड सावरणं त्यत्वा लिङ्गशरीरेण सह प्रकृत्यावरण गताः तेऽत्र प्रकृतिलौना: तेऽपि च असमाप्तकायें चेतसि खेच्छ समाधिपादे योगवार्तिकम्। ५१ यैव प्रकतिलौने संस्कारशषे सति असम्प्रजातयोगे कैवल्यपद. मिव प्राप्न वन्ति यावदधिकारशेषवशात् चित्त पुनर्व्यत्थितं न भवति तस्यापि भवप्रत्यय इति शेषः । अधिकारसमाप्तौ च तेऽपि मुच्यत्त इत्याशयः । केचित्त, भवति अस्यामिति भवो- विद्या, तथा नेद सूत्रमिन्द्रियादिपक्लत्यन्तचिन्तकानामविद्या- कारणकममम्प्रज्ञातं वदन्तीत्याहुः । तन्न । परवैराग्यस्यासम्प्रज्ञात- हेतुतया तस्य अविषि असम्भवात् । यच्च वायुपुराणे दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकाश्च शतं पूर्ण सहन त्वाभिमानिकाः ॥ बौडा दश महस्राणि तिष्ठन्ति विगतज्वराः । पृणं शतमहसन्तु तिष्ठन्त्य व्यक्तचिन्तकाः ॥ निगणं पुरुषं प्राप्य कालसंख्या न विद्यते । इति वाक्यं तद् इन्द्रियाद्युपासकानामनुत्यत्रज्ञानानां कर्म- देवानां तत्तत्पदावस्थितिकालमेव परिच्छिनत्ति न तु तेषामस- प्रज्ञातमताधिकालान् देहाद्यभावेन वृत्त्यभावकालान् वा इन्द्रि- यादिचिन्तामात्रेणासम्प्रज्ञातान पपत्तेः वृत्त्यभावस्य कादाचि- कस्य प्रलयमरणादितुल्यत्वेनापुरुषार्थत्वाच्च इन्द्रियाद्युपासका- नामिन्द्रियाद्यभिमानिसूर्यादिपदप्राप्तेरेवान्यत्र फलवत्त्वश्रवणा- शेति । उपायप्रत्ययमसम्प्रज्ञातं तदधिकारिणञ्चाह । * श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥ * उपायप्रत्ययो योगिनां भवति, श्रद्धा-चेतसः सम्पसादः । सा हि जननौव कल्याणी योगिनं ५२ पावजलदशनम्। पाति, तस्य श्रद्दधानस्य-विवेकार्थिनो वीर्य- मुपजायते, समुपजातवीर्य्यस्य स्मृतिरुपतिष्ठते, स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते, समा- हितचित्तस्य प्रज्ञाविवेक उपावर्त्तते, येन यथा- ववस्तु जानाति, तदभ्यासात् तहिषयाच्च वैरा- ग्यादसम्प्रज्ञातः समाधिर्भवति ॥ २०॥ ते खलु नव योगिनो मृदुमध्याधिमात्रो- पाया भवन्ति । तद् यथा मृदूपायः, मध्योपायः, अधिमात्रीपाय-इति । तव मृटूपायोऽपि वि- विधो मृटुसंवेगः मध्यसंवेगः तीव्रसंवेग इति । तथा मध्योपायः तथा अधिमानोपाय इति । तत्र अधिमानोपायानाम् । इतरेषां विदेहप्रकृतिलयातिरिक्तानां देवानां वा मनुष्या. दीनां वा न जन्ममात्रादसम्प्रज्ञातो भवति किन्तु श्रद्धादिभ्यः प्रजापर्यन्तेभ्य इत्यर्थः । संक्षेपतः सूत्रवाक्यार्थमाह । उपायेति। उपायः श्रद्दादिः। श्रहादीन् पञ्च क्रमेण व्याचष्टे। श्रद्धा चेतस इत्यादिना। सम्प्रसादः प्रीति: योगो मे भूयादित्यभिलाषा। सा च समर्था मातेव योगिनं पाति प्रतिबन्धसहस्राणि तिर- स्कृत्य रक्षति, यथा योगभङ्गो न भवतीत्यर्थः । श्रद्धातश्च वीर्य भवतीत्याह। तस्य होति। श्रद्दधानस्य विवेके जीवेश्वरान्य- तरपुरुषतत्त्वज्ञाने योगसाधनेऽर्थितया वीयं प्रयत्नो धारणारूपो भवतीत्यर्थः । समुपजातेति । वीर्य्यतश्च स्मृतिर्ध्यानं ततश्च समा- धिर्योगस्य चरमाङ्ग भवति । तदेवं श्रद्धामूलकात् धारणाद्यन्त समाधिपादे योगवार्तिकम् । ५३ रङ्गत्रयात् सम्प्रज्ञातयोगे जायमाने प्रज्ञा जीवब्रह्मान्यतरात्मतत्त्व- साक्षात्काररूपो विवेक उपावर्त्तते उपजायते येन विवेकेन यथार्थ वस्तु जानाति विषयोकरोति विदानित्यर्थः । तदेवं श्रद्धा- दौन् व्याख्याय तत्पूर्वकत्वमसम्प्रज्ञातस्य व्याचष्टे । तदभ्यासा- दिति। प्रज्ञाया अभ्यासात् तत्सिया हिषयकादपि विरामप्र- त्वयरूपादलम्बुद्याख्यादैराग्यादसम्प्रज्ञातो भवतीति सूचार्थः । आसवसमाधिसिद्धौ तु अतिशयेनोपायानुष्ठानं हेतुरिति सूत्र- इयेन प्रतिपादनीयं, तयोरादिसूत्रमवतारयितुमपक्रामते । ते खल्विति । उपायः श्रद्वादिः। तस्य मृदुत्वमल्पता, मध्यत्व प्रसि हमेव, अधिमावत्वमतिप्रमाणता अतिशायतत्वमिति यावत् । संवेगश्वोपायानु हाने शवाम्। कश्चित्तु संवेगो वैराग्यमिति व्याचष्टे। तब। यागिना नवधात्वानुपपत्तेः। उपायकार्यतया वैराग्यस्योपायम त्वादिकं विहाय स्वातन्त्राण मृदुल्दाद्यसम्भ- वात् संवेगशब्दस्य वैराग्यवाचकत्वाभावाञ्चेति। तथा मध्येति । मृदुसंवेगत्वादिरूपस्त्रिविध इत्यर्थः तथाधिमानोपाय इति । अधिकप्रमाणकापायोऽपि मृटुसंवेगत्वादिरूपैस्विविध इत्यर्थः । तत्र तेषु नवसु मध्य, सूत्रेण सहान्वयः ॥ २० ॥ * तीव्रसवेगानामासन्नः ॥ २१ ॥ * समाधिलाभः समाधिफलञ्च भवति इति ॥२१॥ मवयोगिमध्ये चरमाणामवासन्नोऽसम्प्रज्ञातो भवतीत्यर्थः । समाधिलाभः, तनिष्पत्तिः । न केवलं समाधिरासन्नोऽपि तु मोषोऽपोत्याह । समाधिफलं चेति । 'विनिष्पवसमाधिस्तु मुक्ति तचैव जमान' इत्यादिविष्णुपुराणादिभ्य इति भावः। अत्र कचित् अधिमात्रोपायानामिति सूत्रमध्ये न प्रवेशयति । तन्न।

पातञ्जलदर्शनम्। तथा सति संवेगस्य विधा विभागनैव सूनोपपत्तौ भाष्ये नवधा विभाग प्रदर्शनवैयापत्तेः ॥ २१ ॥ ? * मृदुमध्याधिमाचत्वात् ततोऽपि विशेषः ॥ २२॥ * मृदुतीव्रो मध्यतीव्रो अधिमावतीव्र इति, ततोऽपि विशेषः । तविशेषात् मृदुतीव्रसंवेगस्य आसन्नः, ततो मध्यतीव्रसंवेगस्य आसन्नतरः, तस्मात् अधिमावतीव्रसंवेगस्य अधिमात्रोपाय- स्यापि आसन्नतमः समाधिलाभः समाधिफल- जेति ॥ २२॥ किमेतस्मादेव आसन्नतमः समाधिर्भवति अथ अस्य लाभे भवति अन्योऽपि कश्चिदुपायो न वा इति,- पूर्वसूत्रोक्तविशिष्टेऽन्तर्गतस्य तीव्रत्वस्य मृदुमध्यादिमान- त्वेन वैविध्यात्ततोऽप्यासन्नादपि विशेषस्तरतमरूपो भवति । पूर्वसूत्रोक्तस्य नवमयोगिन इत्यर्थः। एतदेव व्याचष्टे ततोऽपि विशेष इत्यन्तेन भाष्येण । फलितार्थमाह। तविशेषादपोति । तस्मादिश षादपि नवमस्य त्रिविधस्यान्तिमानामासन्नतम इ- त्यर्थः। अपिशब्द आगामिसूत्रस्थसाधनापेक्षया। अत्र तीव्राधि- मात्रसंवेगस्येत्यपपाठः । अधिमानतोत्र इत्युक्तभाष्थतोऽधिमात्र- तीव्रसंवेगस्येत्येव पाठादिति। सूत्रान्तरमवतारयितुं पृच्छति। किमेतस्मादेवेति । किमतस्मादेव तीतसंवेगस्याधिमात्रत्वादेवा:

समाधिपाद योगवार्तिकम् । ५५ सवतमः समाधिर्मवतीत्यादिरर्थः। न वैति वैकल्पिकत्वार्थः । विकल्पमेव सिद्धान्तयति सूत्रेण ॥ २२ ॥ * ईश्वरप्रणिधानाहा ॥ २३ ॥ * प्रणिधाना भक्तिविशेषाद् आवर्जित ईश्व- रस्तमनुगृह्णाति अभिध्यानमात्रेण, तदभिध्याना- दपि योगिन आसन्नतमः समाधिलाभः फलं च भवति इति ॥ २३ ॥ अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नाम इति। विशेष इत्यनेनान्वयः। प्रणिधानमत्र न द्वितीयपादवच्य- माणं किन्तु अमम्प्रज्ञातकारणीभूतसमाधिर्भावनाविशेष एव । तज्जपस्तदर्थभावनमित्यागामिसूत्रेणैवात्मप्रणिधानस्यात्र लक्ष- गीयत्वात्। तथा च सूत्रद्दयस्यायमर्थः । प्रज्ञान्तो यो योगो- पायो जीवात्मपरमात्मसाधारणविषयक उक्तः तत्र जीवात्मप्रज्ञा- न्तस्योपायस्याधिमावतीव्रसंवेगवे सत्येवासन्नतमोऽसम्प्रज्ञातो भवति। परमात्मप्रज्ञान्तस्योपायस्य तु अधिमानतीव्रसंवेगत्वा- भावेऽपि आसनतमोऽसम्प्रज्ञातो भवतीति। एवञ्च सति मुख्यकल्पानुकल्पभेदेन परमात्मजीवात्मप्रजयोर्योगमोक्षहेतुत्व बोध्यम्। उभयप्रनयोरेव देहाद्यभिभाननिवर्तकत्वेन परवैरा- ग्यदारकत्वसाम्येऽपि अतितीवाभ्यासं विनापि परमात्मप्रज्ञाया पासवतमयोगहेतुतया श्रेष्ठयात्। 'तत: प्रत्यक्चेतनाधिगमी- ऽप्यन्तरायाभावश्च' इत्यागामिसूत्रेणाधिकद्दारकीर्तनात् । अत- एव श्रुतिस्मृतीतिहासादिषु प्रायशो ब्रह्मज्ञानमेव मोक्षहेतुतयो:

५६ पातञ्जलदशनम्। पदिश्यते कदाचिदेव तु स्वातन्त्रण जीवतत्त्वज्ञानमिति । यदि च उभयोरेव तुल्यवहिकल्पः स्यात्तर्हि “तमेव विदित्वातिमृत्यु- मेति नान्यः प या विद्यतेऽयनाय” “तमेवैकं जानथ आत्मान- मन्या वाचो विमुञ्चयामृतस्यैव सेतु"रित्यादिश्रुतयो व्याकुय- रन् । तथा स ईखरो व्यष्टिप्तमष्टिरूपी व्यक्तस्वरूपाप्रकटवरूपः । सर्वेश्वरः सर्वविशेषवेत्ता समस्तशक्तिः परमेसरात्मा । प्रज्ञायते येन उदस्तदोषं शुद्ध परं निर्मलमकरूपम् । सन्दृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥ इत्यादि मुतयोऽपि व्याकुप्य रन् । मुख्यकल्पत्वे तु राजमार्ग एव मम इति वाक्यवत् तादृशवाक्यानां मुख्यसाधनपरतयोप- पत्तिरािते दिक् । ननु जीवप्रज्ञा आसन्नतमयोगोत्पादनार्थ- मभ्यासस्यातितीव्रत्वमपेक्षते ईखरप्रज्ञा तु नापेक्षते इत्यत्र का युक्तिरित्या काहायामाह। प्रणिधानादित्यादि। ब्रह्मात्मना चिन्तनरूपतया प्रमल क्षणभक्तिरूपाक्ष्यमाणात् प्रणिधानादाव- जितोऽभिमुखीकृत ईश्वरस्तं ध्यायिनमभिध्यानमात्रेण अस्य समाधिमोक्षी आसन्नतमौ भवतामितीच्छामात्रेण रोगाशक्त्या- दिभिरुपायानुठानमान्य ऽप्यनुग्रहाति आनुकूल्यं भजते अत- स्तस्मादामध्यानादपि प्रणिधाननिष्पत्त्यादिद्दारा योगिनामासन- तमौ समाधिमोक्षौ भवत इत्यर्थः । ननु प्रधानपुरुषातिरिक तत्त्व नास्तौति त्वयाप्यभ्युपगम्यते तत्र चेखरो न प्रधानं चेत- नत्वाद्यभ्युपगमात् । नापि पुरुषः, सर्वेषां पुरुषाणां चिन्मान- खरूपत्वने खरत्वानोश्वरत्वयोः स्वतोऽसम्भवात् । नहि वैशेषिका- दिवत् नित्येच्छादिमान् स्वत एवखरस्त्वयाप्यभ्युपगम्यते । औपाधिकवे तूपाधिमुक्त्या पुरुषाख्यजीवानामवश्वयमस्तु तत्य- रत्वेनैव श्रुतिस्मृत्युपपत्तेः। अत: प्रधानजौवातिरिक्त ईखरी समाधिपादे योगवार्तिकम्। नास्तीति सायाक्षेपनिरासकतयोत्तरसूत्रमवतारयति । अथ प्रधानेति । क इत्याक्षेपे। अथ वा प्रकृतिपुरुषातिरिक्तस्येश्व- रस्य किं लक्षणमिति प्रश्न लक्षणसूत्रमुत्थापयति। अथ प्रधा- नेति ॥ २३॥ * क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥* अविद्यादयः क्लैशाः, कुशलाकुशलानि कर्माणि, तत्फलं विपाकः, तदनुगुणा वासना आशयाः, ते च मनसि वर्तमानाः पुरुष व्यपदिश्यन्ते स हि तत्फलस्य भोक्ते ति, यथा जयः पराजयो वा योद्दार वर्तमानः खामिनि व्यपदिश्यते । यो हि अनेन भोगेन अपरामृष्टः स पुरुषविशेष ईश्वरः । कैवल्यं प्राप्तास्तहि सन्ति च बहवः केव- लिनः। ते हि वोणि बन्धनानि छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी, यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमी- श्वरस्य, यथा वा प्रकृतिलीनस्य उत्तरा बन्ध- कोटिः सम्भाव्यते नैवमौर खरस्य, स तु सदैव मुक्तः सदैवेश्वर इति ।

५८ तच्च तस्यैश्वर्या पातञ्जलदर्शनम् । योऽसौ प्रकृष्ट सत्त्वोपादानात् ईश्वरस्य शाश्व- तिक उत्कर्षः स किं सनिमित्तः, आहोखित् निनिमित्त इति । तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किं निमित्तं प्रकृष्ट सत्त्वनिमित्तम् । एतयोः शास्त्रोत्कर्षयोः ईश्वरसत्त्वे वर्तमानयोः अनादिः सम्बन्धः । एतस्मादेतद् भवति सदै- वेश्वरः सदैव मुक्त इति । साम्यातिशयविनिर्मुक्तं, न तावदैश्वयान्तरण तदतिशय्यते, यदेवातिशयि स्यात् तदेव तत् स्यात्. तस्माट् यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः। न च तत्समानमैश्वर्यमस्ति. कम्माद्, हयोः तुल्ययोः एकस्मिन् युगपत् कामितेऽर्थ नव- मिदमस्तु पुराणमिदमस्तु दूत्येकस्य सिद्धौ इत- रस्य प्राकाम्यविधातादूनत्वं प्रसक्तं वयोश्च तुल्य- योयुगपत् कामितार्थप्राप्तिः नास्ति अर्थस्य विरुद्ध- त्वात्, तस्माद् यस्य साम्यातिशयविनिमुक्त- मैश्वयं स ईश्वरः स च पुरुषविशेष इति ॥२४॥ किञ्च । पुरुषविशेष एवेखरः, तथा च ईश्वरस्य पुरुषऽन्तर्भावस्तटु- पाधेः प्रधान इति भावः । यच्चोक्तं सिहजीवमादायेखरप्रतिपा- दकश्रुतिस्मृत्योरुपपत्तिरिति तन्निराकरणार्थमपरामृष्ट इत्यन्तं समाधिपादे योगवार्तिकम् । ५९ विशेषणम्। क्लेशाद्यपरामृष्टतया श्रुतिस्मृतिगीत ईश्वरो न सिद्धजीवो भवितुमर्हति कादाचित्कलेशादिसम्बन्धादित्यर्थः । अपरामृष्टान्तं विशेषणं व्याचष्टे । अविद्यादय इति। अविद्या- ऽस्मितारागद्वेषाभिनिवेशाः क्ल शा इति वक्ष्यति । कुशलाकुशल- साधनत्वात् कुशलाकुशलानि धर्माधर्माः तयोः लशकर्मणोः फलं विपाक: स च जात्यायु गाः। भोगश्चात्त्र विषयसत्त्वादि- भिश्चित्तपोषणं शब्दाद्याकारहत्तिर्वा न तु सुखाद्यनुभवः, ते च मनसि वर्तमाना इति वक्ष्य माणत्वात् स हि तत्फलस्य भोतो. त्यनेन विपाकफलयोः सुखदुःखयोर्भोगस्य पुरुषे वक्ष्यमाणत्वा- चेति। चित्तभूमौ शरते इत्याशया वासनास्ताश्च विपाकानु- गुणाः तत्कारणानि, यतस्तत्तच्छरीरसाध्यभोगवासनामुद्दोध्य व कर्मणा विपाको दीयते इति। ननु ल शाद्यपरामृष्टत्वं सर्व- पुरुषसाधारणमित्याशङ्याह। ते च मनसोति ते च मनसोति। एकस्यैवान्तः- करणस्य वृत्तिमेदाच्चातुर्विध्यमित्याशयेन पूर्वञ्च चेतस्युक्ता अविद्या अव मनस्युक्तेति बोध्यम् । तथा च अयमर्थः । ते च अविद्यादयो यद्यपि मनस्येव सन्ति न कुत्रापि पुरुष तथापि पुरुष सांसारिके व्यपदिश्यन्त इति । व्यपदेशवीजं स्वामित्वा- परनामकं भोक्तृत्वमित्याह । स होति । हि यस्मात् स पुरुष- स्तस्य क्ल शादेः फलस्य सुखदुःखयोः स्वस्मिन् प्रतिविम्बितयो- भॊक्ता भवतीत्यर्थः । स्वामित्वसम्बन्ध नाधारत्व दृष्टान्तमाह। यथेति । तथा च राजा जयो पुरुषो धनीत्यादिवदेव पुरुषः के शादिमान् सुखो दुःखी मूढ़ इत्यादिविद्दयवहार इति भावः । समवायसम्बन्धन पुरुषे सुखादिमत्त्वबुहिरवाविद्येति । एवञ्च सत्त्वाख्येन क्ल शसम्पर्केण शून्यता नान्यपुरुषेऽस्ति किन्तु ईश्वर एवेत्याह। यो हि अनेनेति। अनेन भोगेन क्ल शादि- फलभोगनेत्यर्थः । अत्र अनेनेति विशेषणादीखरस्य भोगोऽस्ती- पातञ्जलदर्शनम् । न्यवधार्यते। सर्वविवेकग्रहणे सत्य व खोपाधिसुख साचि- तामात्रं चिदवसानो भोग इति साङ्ख्यसूत्रात् । तथाच उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्य तो देहेऽस्मिन् पुरुषः परः । इति गीताद्युक्त: परमेश्वर भोग उपपद्यत इति । अतएवे. खरस्यापि भोगप्रतिपादिका ऋतं पिवन्ताविति श्रुतिः यथा- श्रुतंवोपपद्यते। अननबन्यो अभिचाकशीति इति श्रुतिस्तु मुख्यमेव भोगं प्रतिषेधति, मुख्यभोगश्चाभिमानपूर्वकः सुखाद्य- नुभव:, लोकैस्तवेव भोगव्यवहारात् सत्त्वपुरुषयोरत्यन्तासी- र्णयोः प्रत्ययाविश षो भोग इत्यागामिसूत्रेण तस्यैव लक्षयि- तव्यत्वात्। अथ वा जीवभोग्यदुःखादिभोक्तृत्वमेवानश्नबिति- वाक्येन प्रतिषिध्यते। एकशरीरस्थत्वेन तद्भोगस्यैव प्रसक्तत्वा- दिति जीवन्मुक्तस्यापोखरसदृश एव भोगो दुःखभोगमात्रमीख- रादिलक्षणमिति। अपरामृष्ट त्वं परामर्शशून्यता, तत्र परा- मर्शशब्दफलं प्रतिपादयितु शकते। कैवल्यमिति । यदि ल शा. दिशून्य देखरः श्रुतिस्मृतिभ्य एष्टव्यस्तहि कैवल्यं ज्ञानं प्राप्ता बहवो हिरण्यगर्भादय: केवलिन: केवलानां जीवन्मुक्तानाम- ध्यक्षाः ल शादिशून्या: सन्ति त एवेखरतया श्रुत्यर्थाः सन्विति पूर्वपक्षिणो भावः। तथा च साङ्ख्यसूत्रं 'मुक्तात्मन: प्रशसासि- वस्य वे'ति । “आद्यस्तु मोक्षो ज्ञानेन द्वितीयो रागसङ्ग्यात् । कृच्छ्रक्षयानृतीयस्तु व्याख्यातं मोक्षलक्षणम्” इति पञ्चशिखा- चार्यकृतवाक्ये च ज्ञानस्यापि कैवल्यमोक्षादिशब्दार्थत्वात् हिर- स्यगर्भादयोऽपि कैवल्यमुक्त्यादिमन्त उच्यत्ते। केवलिन इति पाठे केवलस्यायमिति कैवलोऽत्र हितोयमोक्षी रागादिन श- शून्यतेति। परिहरति। ते होति। ते हि हिरण्यगर्भादयः प्राक्कतिकानि वन्धनानि पूर्वस्थितानि छित्त्वैव मुक्ता: न त ।

समाधिपादे योगवार्तिकम्। के शादिपरामशेशून्याः, ईश्वरस्तु सर्वदैव क्ले शात्मकबन्धनत्रय- शून्यतया श्रुत्यादिसिद्ध इत्यर्थः। ईश्वरस्य सदा क्ल शादिशू- न्यत्वे मानम् तत्र यः परमात्मा हि स नित्यं निर्गुण: स्मृतः । कर्मात्मा पुरुषो योऽसौ मोक्षबन्धः स युज्यते ॥ इत्यादिवाक्यशतानि। निर्गुणो गुणाभिमानशून्यः गीतायां गुणाभिमानशून्यतयैव गुणातीतत्ववचनात् । 'परस्तु निर्गुणः प्रोतो ह्यहङ्कारयुतोऽपर' इति नारदीयादिष्वपि ईखरजीवयो- रिच्छादिसाम्येऽपि तदनभिमानाभिमानाभ्यां निर्गुणसगुणत्व- सिद्धेश्च । बन्धनत्रयं चोक्तं साय, प्रकृतिलयानां प्राकृतिको बन्धः। विदेहानां वैकारिको बन्धः। दिव्यादिव्यविषयभाजां दक्षिणाबन्धः। तत्राद्योऽष्ट प्रकतिष्वभिमानरूपः । द्वितीयः शब्दादिविषयरागः। तृतीयो एहस्थानां कर्मदक्षिणादानाध्य- यनादिष्वनुरागः । तथा चोक्तम् 'प्रकृतेर्वत बन्धेन तथा वैका- रिकेण च। दक्षिणाभिस्तृतीयेन बद्दो जन्तुर्विवर्त्तत' इति । ईश्वरस्य क्षुद्रेवरेभ्यो वैलक्षण्य बन्धापरामर्शरूपं विवृणोति । यथा मुक्तस्येति। निरस्ताविद्यस्येत्यर्थः। प्रज्ञायते निश्चीयते सम्भाव्यत इति प्रकृतिलोनस्याभिमानसम्बन्धेन पश्चाबन्धसम्भा- वनेति भावः। सदैवमुक्त इति । दुःखशून्य इत्यर्थः । सदैवेश्वर इति। सदेवाप्रतिहतेच्छया युक्तः । अत्र केचित् सदैवेश्वर ऐश्वरशक्तिमानित्यर्थः । न हि वेदान्तिभिरिव प्रलये योगैरपि ईश्वरस्य नित्यमिच्छादिकमभ्युपगन्तु शक्यते प्रकृतेर्गुणसाम्य- रूपत्वाभ्य पगमविरोधात् इत्येकदेशिनः । तन्न। यतो 'नैवाह- स्तस्य न निशा नित्यस्य परमात्मन' इत्यादिवाक्यशतैरीश्वर- सत्त्वस्य नित्यमेव ज्ञानेच्छादिकं यथाश्रुतभाष्यानुरोधाच्च विसदृश- परिणामाभावरूपा च साम्यावस्था नित्येच्छेत्यादिमनित्यसत्त्व. ६ पातालदर्शनम् । व्यक्तिमत्त्वेऽप्य पपद्यत इति स्वकार्याकरणमेव च तस्य छिपरा- द्धान्तलय इति, किंबहुना 'आत्मा वा इदमेक एवाग्र आसी- नान्यत् किञ्चन मिषदि'ति श्रुत्या प्राक्लये परमात्मनोऽयंद्रष्टुत्वं सिहमत ईश्वरोपाधेानलक्षणा वृत्तिः प्रलयेऽप्यस्ति न चोपा- विवृत्ति विनैवेशस्य जाटत्वमेष्टव्यं बाधकं विना दृष्टानुसार- त्यागानौचित्यात् । ज्ञानशक्तिरहं परति प्रक्रत्यभिमानिटेवता- वाक्य विरोधाच्च। किं चेतत् 'तमो वा इदमेकमास तत्परे स्यात् तत्परणे रितं विषमत्वं प्रयाती'त्यादिश्रुतिष्वेव परमेश्वरप्रयत्न नैव गुणवैषम्य श्रूयते, तथा । प्रकृतिं पुरुषञ्चेव प्रविश्यात्मेच्छया हरिः । क्षोभयामास सम्प्राप्त समकाले व्ययाव्ययौ । इत्यादिना प्रकृतेर्वैषम्य हेतुः क्षोभोऽपीश्वरेच्छात एव । स्मयते च, अतः साम्यावस्थायामध्यगत्या इश्वरोपाधेानादि स्वीकार्यमिति । अपि च एवं सति प्रलये स्वसङ्कल्पेन स्वोपाधि खस्मादियोज्य ईश्वरः शेते पूर्व समायसङ्कल्पसंस्काराभ्याञ्च सर्गा- दावपाधिरोवरेण सह स्वयं संयुज्यते इत्यभ्युपेयं, तच्च अयुक्त तस्य हेरविद्येत्यागाकिसूत्रेणाविद्याया बुद्धिपुरुषसंयोगहेतुत्व. वचनेश्वरस्याप्य वित्त्वापत्त: । न व आहायज्ञानरूपोऽविद्यया संयोगः स्यात् सा च अविद्या मायेति न तस्या: ले शत्वमिति वाच्यम् । संयोगहेत्वविद्याया विवेकख्यातिनाश्यत्वबोधकसूत्र- विरोधात् । किञ्च सूत्रकारण होशकर्मविपाकाद्यैर्वासनाभिस्तथैव च । अपरामृष्ट मेवाह पुरुषं हीश्वरं श्रुतिः ॥ इति योगियाज्ञवल्कयादिभिश्वेश्वरोपाधौ संस्कारस्य प्रति- षिद्दत्वात् तदभ्यु पगमोऽपि तेषामपसिद्धान्त एव, तथा आगा- मिसूत्रप्रतिषिद्ध कालावटिबत्वं च ईशे स्यात् उपाधिवत्य समाधिपाद योगवार्तिकम्। ६३ भावनैवं चेतनस्य कालानवच्छिन्नत्वात् इत्यादीनि अव दूष- गानि सन्ति, तस्मात् प्रलय निरुतोऽप्यु पाधिः पूर्वसर्गीयसङ्कल्प- वासनाभ्यां स्वयं व्यस्थितो भवतीति यच्छास्त्रं तद्दनन्दिनप्रलये योगनिद्रया शयानस्य स्वयंम्भोरुपाधिपरमेव नं परमेश्वरोपा- धिपरमिति दिक्। शास्त्रप्रामाण्यसिद्धौ शास्त्रायथोक्तेश्वरसि- हिरीश्वरसिहौ चेतं प्रत्यक्षपूर्वकतया शास्त्रप्रामाण्यसिद्धिरित्य- म्योन्याश्रयं मन्वानो नास्तिक ईश्वर प्रमाणमस्ति न वेति पृच्छति। योऽसाविति। सर्बपुरुषाणां स्वत एकरूपतयैश्वर्य- मुपाधिधर्म एवेति प्रतिपादयितुं प्रकष्टसत्त्वोपादानादित्युक्तं, प्रकष्ट सत्त्वसम्बन्धात् तदोपाधिक: शाश्वतको नित्य उत्कर्ष ऐश्वय्यमित्यर्थः। ईश्वरस्य च उपाधी प्रमाणं 'कार्योपाधि. रयं जीवः कारणोपाधिरोखर' इति श्रुत्यादयः । 'तदेक्षत' 'सोऽकामयत' 'तदात्मानं स्वयमकुरुत' ‘स एको ब्रह्मण आनन्द' इति श्रुत्याद्युलस्य ब्रह्मणि स्वतोऽनुपपत्तिश्च । 'साक्षी चेता कैवलो निगणश्चे'त्यादिश्रुतिभिरीश्वरस्य निर्गुणत्व- चिन्मात्रत्वसिद्धेरिति । सनिमित्तकः सप्रमाणकः । उत्तरं, तस्य शास्त्र' निमित्तमिति । शास्त्रं श्रुतिस्मतीतिहासपुरा- णानि। पुन: पृच्छति । शास्त्र पुनरिति। शास्त्रस्यैव प्रामाण्यं कुत इत्यर्थः । उत्तरं, प्रकष्टस त्वनिमित्तमिति। ईखरस्यो- पाधिर्यत्पतष्टसत्त्व तत्पत्यक्षरूपवाक्यार्थज्ञागजन्यत्वात् शास्त्रस्य प्रामाण्यमित्यर्थः । ननु एवमन्योन्याश्रयः शास्त्रप्रामाण्ये सिद्दे प्रकष्टसत्त्वसिद्धिः तसिहौ च तन्मूनकतया शास्त्रप्रामाण्य सिद्धि- रिति चेत्र । मन्त्रायुर्वेदप्रामाण्यत ईखरसिद्धेः प्रागेव प्रामाण्य- सिहे: प्रकष्ट सत्त्वस्य च शास्त्रप्रामाण्यनिर्वाहकतामात्रमत्रोक्त- मिति। तथा च न्यायसूत्रं 'मन्वायुर्वेदप्रामाण्यवञ्च तत्या- मारण्य'मिति। एतयोरिति। विषयत्वेन समवायसम्बन्धन ४ पातालदर्शनम्। च परमेश्वरसत्त्व वर्तमानयोरेतयोः शास्त्रोकर्षयोरनादि- निमित्तनैमित्तिकभावः सम्बन्धः शास्त्र नैमित्तिकं सत्त्वोकर्षय निमित्त कारणत्वादित्यर्थः। ततः किमित्याकाकायामाह। तस्मादिति। सदैवेखरः प्रलयेऽपि ज्ञानेच्छाकृतिमान् सदैव मुक्तोऽनादिकाले क्लेशादिमुक्तश्चेत्यर्थः । ईश्वरस्याद्वितीयत्व- मपि प्रतिपादयति । तच्चेति । नास्ति साम्यमतिशयश्च यस्मात् तादृशमित्यर्थः। अतिशयनिर्मुक्ती हेतुमाह। न तावदिति । उक्त हेतुमाह। यदेवेति। यस्माईलोर्यदेवाति- शयि निरतिशयं तदेव तत् ऐश्वयं स्यादिति योजना। सातिशयत्वे सत्यैश्वर्यमेव न भवति अप्रतिहतेच्छत्वस्यैवा- भावात्। अतो यदेव निरतिशय तदेव मुख्यमैश्वर्य-- मित्यर्थः । उपसंहरति । तस्मादिति। ऐश्वर्येण यत्र काष्ठा प्राप्यते स ईखर इत्यर्थः। साम्यनिर्मुक्तौ हेतुमाह। न चेति । हयोरिति । नवमल्पकालस्थायि पुराणं दीर्घकाल- स्थायि। एवमस्त्वित्येवंरूपेणेकस्मिन्नर्थे क्वचिद्वाभ्यां तुल्या- भिमताभ्यां कामिते सति एकस्य सिद्धी सङ्कल्प सिद्धावितरस्य- च्छाविघातादूनत्वं न्यूनत्वं स्यादतो न समानानेकेश्वरसम्भव इत्यर्थः । ननूभयोः सङ्कल्पान्नवत्वं पुराणत्वं चोभयमेव भवतु तत्राह। हयोश्चेति तस्य पुरुषविशेषत्वमुपसंहरति। स चेति । स्यादेतत् । यदि प्रकष्टसत्त्वोपादानादेव शाश्वतिको जीवेभ्य उत्कर्षश्चतनविशेषस्य त्वयाऽप्यभ्युपगतस्तथा जीवाना- मप्यपकर्षो मलिनकार्यसत्त्वनिमित्तक इत्यादागतः । तथा च श्रुतिरपि 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वर' इति । सहि किमर्थं पुरुषविशेष ईश्वर इत्युच्यते एकस्यैवात्मन आका- शस्येवोपाधिमेदैर्जीवश्वरादिविभागसम्भवेन लाघवादैकात्मा- कल्पनस्यैवौचित्यात्' 'तत्त्वमसि' 'पहं ब्रह्मास्मि' 'भाकाशमक समाधिपादे योगवार्तिकम् । हिं यथा घटादिषु पृथग्मवेत्। तथात्मैको ह्यनेकचं जलाधा- रेष्विवांशुमानि'त्यादिश्रुतिस्मृतिशतैरात्मैक्यस्यैव प्रतिपादित- त्वाच्च । भेदाभेदोभयश्रुतिस्मृतिमध्ये भेदनिन्दया अभेदज्ञानस्य मोक्षफलकत्वकथनेन च अभेदवाक्याज्येव स्वार्थ पराणि भेद- वाक्यानि त्वंनुवादमात्राणीति। अत्रोचते। जीवेश्वरयोरं शांशिनोस्तावद्याप्यव्यापकभावस्वीकारगा जीवोपाधिना अवच्छे- द्यस्यात्मप्रदेश स्येश्वरोपाध्यवच्छिन्नत्वं वक्तव्यं, तथा च यथा ब्रह्माण्डाकाशस्य गर्दभमुखावच्छेटेन टु:स्वरत्वं यथा वा पायव- च्छेदेनोपाधिकं दुर्गन्धत्वमेवं कारण मत्त्वावच्छिन्नचिदाकाशस्या- पीश्वरस्य जीवोपाध्यवच्छेदेन संपारित्वं स्यात् । यदि च जीवेश्वरी चेतन्यस्येवांशी न तु जीव ईश्वरस्य सानादंशो ऽतो घटकुण्डाकाशवदेवान्योन्यव्याहत्ती जोविश्वरी स्वोक्रिये तां तदा- पीश्वरस्य जीवान्तर्यामिवानुपपत्ति: जीवप्रदेशेऽपीश्वरासत्त्वा- दिति। एवमेव सर्वजीवानामप्य का न सम्भवति एकस्यैव चिदाकाश स्यैकान्तःकरणादिमुक्तेऽपि प्रटेशे संसायन्तःकरणा- न्तरसम्बन्धात् बन्धप्रसङ्गेन श्रुत्युक्तबन्धमोक्षादिव्यवस्थानुपपत्त:, न हि आकाशस्य भग्नघटप्रदेशेषु अन्यघटसम्बन्धी न भवतीति नियमः मभवति प्रत्यक्षविरोधात् पर्यायश्चैकसिमन्नेव देशेऽनक- लिङ्गदेहसम्बन्धन्य समानदेगीयभोगनानुमानाच्च। तदेतदुक्त कपिलाचार्यः । 'जन्मादिव्यवस्थात: पुरुषबहुत्वम् उपाधिभेटे- ऽप्य कस्य नानायोग आकाशस्येव घटादि' रत्यादिसूरिति । ननूपाधिविशिष्टयोरव जीवेवरत्वे वक्तव्ये इति चेत्, न । विक- ल्पासहत्वात् विशिष्टानतिरेके जविश्वरत्वबन्धमोक्षादिमार्यता- दवस्थ्यात् । अतिरके तु तदनित्यं नित्यं वा । अाद्य विनाशि- तया तस्य बन्धमोक्षाद्यनुपपत्तिः । अन्त्ये वृश्चिकभियां पलाय- मानस्याथोविषमु खनिपातः । यदि हि विशिष्टा अनेके आत्मान: T.

पातञ्जलदर्शनम्। कल्पनीयास्तहि अस्मासु उपन्यस्तगौरवं भवतामप्यापतितमधि- कन्तु सामान्यैकात्मकल्पनमिति। न च आत्माहेतश्रुत्यनुरोधेन तदप्य चितमिति वाच्यम्। विशिष्टात्मभ्यः सामान्यात्मनोऽत्य- न्तभेदे तत्त्वमस्याद्यमेदवाक्यानुपपत्तितादवथ्यात् । अत्यन्तम- भेदे च विशिष्टातिरिक्तताविरोधात्। भेदाभेदे चास्मन्मतप्रवे- शादिति, अस्माभिरपि हि सामान्यरूपेणाभेदो वैधर्म्यलक्षण- अदनिरासायेष्यते विशेषतस्तु भेद इति। तथा चोक्तं कपिला- चार्यः । 'न अद्वैत श्रुतिविरोधो जातिपरत्वा'दिति। एवं तावद. वच्छेदवादो निरस्तः । प्रतिविम्बवादस्तु अत्यन्त विकल्पासहः । प्रतिविम्बस्य तुच्छत्वे प्रतिविम्बरूपजीवस्य ब्रह्मणा सहामेदा- नुपपत्तिः सदप्ततोरभेदानुपपत्तेः । अतुच्छत्वे च प्रात्मनाना- त्वस्य शब्दभेदेन स्वीकारापत्तिरदैताद्यनुपपत्तिश्चेति। अत्र च मूढ़ानामुपर्युपरि कक्षा: ब्रह्ममीमांसाभाष्येऽस्माभिनिराकृताः । तत्त्वमस्यादिवाक्यानि तत्र विस्तरेण व्याख्यातानि सपतस्तु अत्रापि व्याख्यास्यामः । न्यायानुग्रहेण बलवद्भिरग्निविस्फुलि- गादिभिः सांशदृष्टान्तः विरोधादाकाश सूर्य्यादिदृष्टान्ता अख- ण्डतापरा न भवन्ति किन्तु ब्रह्मणि सर्वजीवानामविभागलक्ष- णाभेदस्य सर्वकारस्थायितया पारमार्थिकत्वेऽपि यत्किञ्चिदव- च्छेदेन फेनबुबुदादिवत् अतिभङ्गरस्य विभागलक्षणभेदस्या- पारमार्थिकस्यौपाधिकत्वमात्र प्रतिपादयन्तीति। एतत भेद- निन्दावाक्यानि प्रकरणमेदैविभागवैधादिभेदपराण्येव । यच्चो- कमभेदज्ञानात् मोक्ष: श्रूयत इति तत्परम्परयैव न तु साक्षात् । अथात आदेशो नेति नेति न हि एतस्मादिति नेत्यतत्परमस्ति प्रधान पुरुषव्यक्तकालानां परमं हि तत् । पश्यन्ति सूरयः शुद्ध तद्विष्णोः परमं पदम् ॥ दत्वाद्यैः श्रुतिस्मृतिवाक्यैर्विवेकाख्यभेदज्ञानस्यैव मुख्यत्वात् ।

समाधिपादे योगवार्त्तिकम् ।। ६७ परमात्मात्मनोर्योगः परमोऽर्थ इतौष्यते । मिथ्यैतदन्यद द्रव्यं हि नैत्यन्यद्रव्यतां यतः ॥ इति विष्णुपुराणादिवु अत्यन्ताभेदस्यापि निन्दितत्वाञ्चेति किंबहुना अन्यश्च राजन् ! प्रवरस्तथान्यः पञ्चविंशकः । तत्स्थत्वाच्चानुपश्यन्ति एक एवेति साधवः ॥ इति मोक्षधर्मादिषु अन्योन्याभावाविभागरूपतयैव भेदा- भेदयोाख्यातत्वेन भेदवाक्यामेदवाक्ययोरर्थनिर्णये न आधु- निककुतर्कापेक्षेति दिक् । पुरुषान्तरेभ्य ईश्वरस्य निरतिशय- सार्वज्ञरूपविशेषान्तरं प्रतिपादयन् सूत्रमवतारयति। किञ्चेति ॥ २४॥ * तत्र निरतिशयं सर्वज्ञवीजम् ॥ २५ ॥ * यदिदमतीतानागतप्रत्युत्पन्न प्रत्येकसमुच्चया- तीन्द्रियग्रहगा मल्पं बहु इति तत् सर्वजवीजम् । एतद्धि वईमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञवीजस्य सातिशयत्वात् परिमाणवदिति । यव काष्ठाप्राप्तिः ज्ञानस्य स सर्वजः, स च पुरुषविशेष इति, सामान्य- मात्रीपसंहारे कृतोपक्षयम् अनुमानं न विशेष- प्रतिपत्ती समर्थम् इति तस्य संज्ञादिविशेषप्रति- पत्तिरागमतः पर्यन्वेष्या। तस्य आत्मानु- ग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्, ज्ञान- पातञ्जलदर्शनम्। धर्मोपदेशन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्दरिष्यामोति । तथा चोक्तम् “आदि- विहान्निर्मागचित्तमधिष्ठाय कारुण्याद्भगवान् पर- मर्षिरामुरये जिज्ञाससानाय तन्न प्रोवाच" इति ॥ २५॥ । यत्त वीज लिङ्ग सर्वज्ञानमापकं वक्ष्यमाणं यत् सातिशयजातीय ज्ञानं तत् तत्रेश्वरे निरतिशयमित्यर्थः । सार्वज्ञवीममिति पाठे. ऽप्ययमेवार्थः वीजं कारणं, तथा च सर्वज्ञत्वकारणं सत्त्व- मिति तस्यार्थ इति कश्चित् । तन्न। ज्ञानस्य बह्वल्पतयोरेव वीजतया अत्र भायकारेाख्यास्यमानत्वादिति, व्याचष्ट । यदिदमिति। यत् अनीतानागतवर्तमानानां प्रत्येकसमुचिता- नामतीन्द्रियार्थानामल्य बहु इति ग्रहणं ज्ञानमिदं सर्वज्ञवीज- मित्यर्थः । कथ वीजं तदाह। तदिति । एतत् सर्वज्ञवीज सातिशयज्ञानं विवईमानं यत्र निरतिशयं भवति स सर्वज्ञो- ऽन्यथानव स्थानादिति युक्ति रुका। प्रयोगमप्याह। अस्तीति । सर्वज्ञवो सातिशय ज्ञानं क्वचित् प्राप्तकाठं सातिशयत्वात् परि- माणवदित्यर्थः । अत्र धिकाभावे सतीति हेतुर्विशेषणीयस्तेन गुरुत्वसंस्काररूपादिषु न व्यभिचारस्तेषां चैकत्र काष्ठाप्राप्ती कार्यमाने अतिशयि चमेव बाधकंसामयाास्तारतम्याव्यवस्थित्या कार्यतारतम्ये व्यवस्थानुपपत्तेः । ज्ञाने छापरिमाणानान्तुं नित्यानामपि सिहतया क्वचित् काठाप्राप्तौ नास्ति बाधकम् । वस्तुतस्तु यथाश्रुतभाष्थादनवस्थापत्तेश्च गुरुत्वादिषु अप्यतिश: यानां क्वचित्काष्ठानुमीयते सामग्रौतारतम्यकाष्ठाया अप्यनवस्था- अस्यैवानुमानसाम्यात् अतो न तो विशेषणापक्षेति । अस्मिंश्चा- समाधिपादे योगवार्तिकम्। ६८ नुमाने श्रुत्यादिस्तक इति, सूत्रतात्पर्य्यमाह । यत्रेति। ननूक्ता- नुमानेन सामान्यत: सर्वज्ञपुरुषसिद्धापपि तस्य संज्ञाविशेषः कथमवधार्यत इत्याकाक्षायामाह। सामान्येति। सामान्यमा. वेणोपसंहारे निश्चये कृतपर्यवसानमनुमानं न संज्ञादिविशेष- प्रतिपादनक्षममित्यत इत्यादिरर्थः। संज्ञा ब्रह्मान्तर्यामिपर- मात्मादिरूपा आदिशब्देन पूर्णानन्दत्वपरमकारुणिकत्वपार- मार्थिकात्मत्वजगदाधारकारणत्वादयो.ग्राह्याः । हरिहरादिसंज्ञा- मूर्तयस्तु शक्तिशक्तिमदाद्यभेदेनोपासनार्थमेव परमेश्वरस्योच्यन्ते न तु साक्षादेव । ब्रह्मविणुशिवा ब्रह्मन् ! प्रधाना ब्रह्मशक्तयः । ततो न्यूनाश्च मैत्रेय ! देवा दक्षादयस्ततः । ब्रह्मविष्णुशिवादीनां यः परः स महेश्वरः । इत्यादिवाक्य भ्यः । आगमतो वेदान्तत: । यत्त आधुनिका. केचन परस्य साक्षादपि लीलाविग्रहं कल्पयन्ति। तदप्रामा- शिकं विष्णादीनामेव लीलावतारश्रवणात्। विश्वादीनाञ्च पर- मात्मन्येवाहम्भावात्तेषामवतारा एव परमेश्वरावतारतया श्रुति- स्मृतिषु उच्यन्ते तेन तु ते भ्रान्ताः 'न तस्य कार्य करणञ्च विद्यते' इत्यादिश्रुतिभ्यः परमेखरस्य कार्यकारणाख्यशरीर- हयप्रतिषेधात्। 'अनादिमत्परं ब्रह्म सर्वदेहविवर्जित'मित्या- दिस्मृतिभ्यश्चेति दिक् । ननु नित्यमुक्तश्चेदीश्वरस्तहि पुरुषार्था- भावात् तस्य प्रवृत्तिनं घटते । तथा च सायसूत्र 'स्वोपकारा- दधिष्ठानं लोकव'दितीति पूर्वपक्षः । तन्न । प्रवृत्त्यादिनित्यत्वात् सत्र निमित्तापेक्षा नास्तीतिमुख्यसमाधान सत्यपि प्रोड्या प्रका- रान्तरेणापिसमाधानमाह। तस्य आत्मेति । आत्मानुग्रहः खोप- कारः। तस्येवरस्य खोपकाराभावेऽपि भक्तान् पुरुषान् उहरि- पातञ्जलंदर्शनम् । थामोत्याशयेन ज्ञानधर्मयोरुपदेशतो भक्तभूतानुग्रहः प्रयोजनं, पुरुषाणां विशेषणं कल्पेत्यादि । कल्पप्रलयेषु दैनन्दिनप्रलयेषु म- हाप्रलयेषु प्राकृतप्रलयेषु च संसारिणः स्वकारणगामिनोऽतस्तदा मरणदुःखभाज इत्यर्थः । ननु वेष्टसाधनताज्ञानाभावे कथ व्यापार: स्यादिति चेन्न। टणारणिमणिन्यायेन स्वेष्टसाधनता- नानपरदुःख ज्ञानयोविजातीयेच्छादयं प्रत्येव फलबलेन हेतुतायाः कृप्तत्वात्। तथा च ब्रह्ममूत्रं 'लोकवत्तु लीलाकैवल्यम्' इति । ननु तथापि भतानेवानुगृह्णाति नान्यान् प्रत्युत तानिरह्ला- त्यपि स्वभक्तेश्वर्यदानेनेत्यतो वैषम्यादिना न ईश्वरस्य नित्य- मुक्तत्वं भवतीति चेत् । मैवम् । अग्नेरोष्णास्वाभाव्यवत् विशुद्ध- मत्त्वे भक्तवशतास्वभावस्यापर्यय नुयोज्यत्वात्। वैषम्यं च राग- हेषाभ्यामेव भवति न तु प्रवृत्तिमात्रेणेति। अत एव गीता समोऽहं सर्वभूतेषु न मे देष्योऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ इति । यच्च हिरण्यगर्भायैश्वर्यदानात् अन्येषां दु:खं भवति तत्रापि हिरण्यगर्भादोनामेव वैषम्य वीजम्। ईश्वरस्य तु परदुःख प्रहाणेच्छा विद्यमानापि भक्तवशतया कुण्ठिता स्वकार्याय विलम्बत इति सर्व समञ्जसम् । यच्च सर्वेश्वरस्य कर्मसापेक्षतया वैषम्यं नैण्यञ्च ब्रह्ममीमांसासूत्रेणापाकृतं तत्राप्ययमेवाशयः । लोकानां विहितनिषिद्धरूपाणि कर्माणि देवानां सुखदुःखसाधनानि अत ईश्वरेण स्वभक्त देवेषु अपराहाय यत् दुःखं दीयते अनपराद्वाय सुखं तद्भक्तपारवश्यनिमित्तक- मिति। स्वप्रयोजनाभावेऽघि विदुषां प्रवृत्ती पञ्चशिखाचार्य- वाक्य सांख्यस्थ प्रमाणयति। तथा चोक्तमिति। आदिविहान् स्वयम्भूः सर्गादावाविर्भूतो विष्णुर्निर्माणचित्तं योगबलेन समि- समाधिपाद योगवार्त्तिकम्। मितं चित्तमधिष्ठाय खांशेन प्रविश्य कपिलाख्यपरमर्षिर्भूत्वा कारुण्यात् जिज्ञासवे आसुरये तत्त्वं प्रोवाचेत्यर्थः । परमेश्वरस्यापरं विशेष प्रतिपादयति सूत्रकारः । *स एष पूर्वेषामपि गुरुः कालेनाऽनवच्छेदात् २६* पूर्व हि गुरवः कालेनावच्छेद्यन्ते, यत्राव- च्छेदार्थन कालो नोपावर्त्तते स एष पूर्वेषामपि गुरुः, यथा अस्य सर्गस्य आदी प्रकर्षगल्या सिद्ध- स्तथा अतिक्रान्तसर्गादिषु अपि प्रलोतव्यः ॥२६॥ पूर्वेषां पूर्वपूर्वसर्गाद्युत्पन्नानां ब्रह्मविष्णुमहेश्वरादीनामपि गुरुः पिता अन्तर्यामो विद्यया ज्ञानचक्षुःप्रदश्च । कुतः काले- नानवच्छेदात्। ब्रह्मादयोहि विपरादिकालेनावच्छिन्ना: कालानवच्छिन्नं गुरु विना न सम्भवन्तीत्यर्थः । 'यो ब्रह्माणं विदधाति पूर्व यो वे वेदांश्च प्रहिणोति तस्मै' इत्यादिश्रतिभ्य इति भावः । न च प्रतिस्वातन्त्राक्षतिः । निमित्तमप्रयोजक प्रकतोनामित्यागामिसूत्रात् निमित्तकारणस्येवरादेस्तत्वात- बाविघातकत्वात् । एतदेव व्याचष्टे। पूर्वे होति । अवच्छेदश- ब्दार्थनावच्छेदप्रयोजनेन कालो नोपावर्त्तते न सम्बध्यते। तात्यार्थमाह। यथास्येति । अस्य वत्त मानस्य सर्गस्यादौ पूर्व प्रकर्षगत्या ज्ञानोत्कर्षप्राप्ता स्वतः सिद्ध इत्यर्थः । अत्रेश्वरस्य मत्रजीवपिटत्ववचनात् श्रुत्युक्ताग्निविस्फुलिङ्गदृष्टान्तानुसारेण च जीवब्रह्मणोरंशांशिभावस्तयोरमेदश्च पितापुत्ववदेवेति भावः । सथा च म तिः । यथा दोपसहस्राणि दीप एक: प्रसूयते । तथा जीवसहस्राणि स एवैकः प्रसूयते । .

पातञ्जलदर्शनम्। सलिले करकाश्म व दीयोऽग्नाविव तन्मयः । जीवो मौन्यात् पृशमबुद्धो युक्तो ब्रह्मणि लीयते ॥ इत्यादिः। अयञ्चाभेदो नाखण्डता अपि तु अविभाग एव, अविभागो वचनादिति वेदान्तसूत्रेण जीवानां ब्रह्मण्यविभाग- लक्षणाभेदस्यैव वचनात् । अविभागश्च दुग्धं जलमभूदित्यादि- प्रत्ययनियामक: स्वरूपसम्बन्ध आधारतादिवत्, किं वा लक्ष- णानन्यत्वमिति । अनेन पित्वान्त-मित्वरूपेण गुरुत्वेन जीवा. नामप्यात्मेश्वर इति वेदान्तमहावाक्यार्थोऽपि सूचितः। यो हि यस्यांशी अधिष्ठाता वा भवति स तस्यात्मेति दृष्टं, यथा सूर्य- श्चक्षुषः यथा वा जीवो देहस्येति दिक् । ईखरशब्दार्थो विस्त- रेण व्याख्यात इदानीं तत्प्रणिधानं व्याख्यातुमादौ प्रणिधानाङ्ग मन्त्रं दर्शयति ॥ २६ ॥ * तस्य वाचकःमावः॥ २७॥ * वाच्य ईश्वरः प्रणवस्त्र । किमस्य सङ्कतकृतं वाच्यवाचकत्वम् अथ प्रदीपप्रकाशवदवस्थित- मिति । स्थितोऽस्व वाच्चस्य वाचकेन सह सम्बन्धः, सङ्केतस्तु ईश्वरस्य स्थितमेवार्थम् अभिनयति, यथावस्थितः पितापुत्रयोः सम्बन्धः सङ्केतेनावद्यो- ज्यते अयमस्य पुत्र इति। सर्गान्तरेषु अपि वाच्यवाचकशक्त्यपक्षम्तथैव सङ्केतः क्रियते ॥२७॥ सम्पतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते। विज्ञातवाच्यवाच- कत्वस्य योगिनः- समाधिपादे योगवार्तिकम्। ७५ सस्येवरस्य प्रणवो नामेत्यर्थः । अष्टविग्रहो देवो भावग्राघो मनोमयः । तस्यौद्धारः स्मृतो नाम तेनाइतः प्रसौदति । इति योगियाज्ञवल्कादिभ्यः। अदृष्टविग्रहोऽमृतशरीरी देव: परमात्मा भावनायो भक्तिमात्रग्राह्यो मनोमयो मनस्तुल्य- कारणोपाधिशवलोऽयःशवलाग्निवदित्यादिरर्थः । कर्तव्यविचा- रोपयोगिनमर्थ पूरयति । वाच्य ईखर इति । नित्य एव प्रणवेन सहेखरस्य वायवाचकभाव इति। श्रद्धातिशयोत्पादनाय संश- यपूर्वकमवधारयति । किमस्येति । ईश्वरप्रणवयोर्वाच्यवाचकता- शक्तिः किमस्येवरस्य सङ्केतेनाहायान्योन्याध्यासरूपेण कृता आगन्तुकी यथा पिक विशेषे देवदत्तादिनामवाच्यता पिसन्त- कता तहत् । अथवा प्रदीपस्य प्रकाशवत् स्वाभाविकी यावव्य- भाविनीत्यर्थः । विमृष्य सिद्धान्तमाह। स्थित इति। अर्थसम्ब- न्धमेवाभिनयति प्रकाशयतीत्यर्थः । आधाराधेयवत् स्वरूपसम्बन्धोऽतिरिक्तपदार्थ एव वास्तु घटा- दिनानामप्येवं बोध्य देवदत्तादिनाम्नां तु नैवं यतः पुरुषसङ्केत- भेदेनार्थमेदा भवन्तौति। सङ्घतेनेति । अयमस्य पितत्याद्येवं रूपणेत्यन्वयः। ननु शक्तिनित्यत्वेऽपि कदाचित् सङ्केतभेदा- द्देवदत्तादिशब्दवदर्थमेदोऽपि प्रणवस्य स्यादित्याशङ्कायामाह । सर्गान्तरेष्वपोति। अयं सङ्केतो लौकिको न भवति अपि तु सर्वज्ञाश्चेतनाशक्ति पूर्वसिद्धामनुसृत्यैव सङ्कतं कुर्वन्तोत्याशयः । सम्बन्धनित्यत्वे सम्प्रतिपत्त्याख्यकार्यनित्यत्वं प्रमाणयांत । सम्म- तिपत्तीति । देवदत्तादिशब्दवहाच्यवाचकभावस्यानित्यत्वे कदा- चित् सङ्कतवैपरौत्येन व्यवहारवैपरौत्यमपि स्यादित्याशयः । तथा च सति सर्वत्र शब्दार्थेनाश्वास: स्यादित्याममिनः प्रति- जानते अवधारयन्तौति समग्रवाक्यार्थेनान्वयः। प्रणिधानाङ्ग स च शतयाख्यसम्बन्ध ७४ प्रातजलदर्शनम्। मन्त्र प्रदर्श्य साङ्गप्रणिधानस्य स्वरूपं सूत्रकाले वक्ष्यति तत् सूत्र पूरयित्वोत्थापयति। विज्ञातेति। सूत्रेण सहान्वयः ॥ २७ ॥ * तज्जपस्तदर्थभावनम् ॥ २८ ॥ * प्रगावस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावना। तदस्य योगिनः प्रणवं जपतः प्रणवार्थ च भावयतश्चित्तमेकाग्रं सम्पद्यते तथाधोक्तम् । खाध्यायाद् योगमासौत योगात् स्वाध्यायमाम- नेत् । स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशत इति ॥ २८॥ किञ्चास्त्र भवति । सूत्रार्थ व्याचष्टे। प्रणवस्येति। प्रणवजपेन सह ब्रह्म- ध्यानं प्रणिधानं तच्च वाच्यवाचकभावं ज्ञात्वा कर्त्तव्यमिति समुदायार्थः । 'प्रणवेन परं ब्रह्म ध्यायोत नियतो यति'रिति स्मरणादिति। प्रणवार्थश्चावान्तरभेदैः श्रुत्यादिषु बहुधोक्तः संक्षेपात्तु गारुड़ोतीर्थोऽत्र कथ्यते । यथा गारुड़े व्यक्ताव्यते च पुरुषस्तिस्रो मात्राः प्रकीर्तिताः । अर्द्धमात्रा परं ब्रह्म ज्ञेयमध्यात्मचिन्तकैः इति। प्रणवार्थचिन्तनञ्च मुख्यतो विविधं, तवैकमंशांशि- कार्यकारणशक्तिशक्तिमदाद्यभेदन तप्ताय:पिण्डवदविभागलक्ष- कीभावादहं ब्रह्म सर्व खतु ब्रह्मेत्यादिरूपं भवति तमतमात्मा- नमोमिति ब्राह्मणैकीकृत्य ब्रह्म चात्मनोमित्येकीकृत्ये त्यादि श्रुतेः। सर्व सल्विदं ब्रह्म तज्जलानिति शान्त उपासौतेत्यादि- अतश्च । %3D समाधिपादे योगवार्त्तिकम् । एक: समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोऽन्यत्। सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ इत्यादिस्मृतेश्च। अपरं प्रकृतितत्का>पुरुषेभ्यो विवेकेन केवले ब्रह्मचिन्मात्र आत्मत्वचिन्तनम्। ओमित्येवं ध्यायथ श्रा- मानं खस्ति व: पाराय तमसः परस्मात् । अथात आदेशो नेति नेति न हि एतस्मादिति नेत्यन्यत्परमस्ति तमेवैकं जानथ आत्मानम् आत्मेत्येवोपासौतेति श्रुतेः । प्रकृतिं पुरुष स्थाप्य पुरुषं ब्रह्मणि न्यसेत् । अहं ब्रह्म परं ज्योतिः प्रसङ्ख्याय विमुच्यते ॥ यः सर्वभूतचित्तज्ञो यश्च सर्वहृदि स्थितः । यश्च सर्वान्तरे ज्ञेयः सोऽहमस्मीति चिन्तयेत् ॥ इति गारुडादिभ्यश्च । तथा 'आत्मेति तूपयन्ति ग्राहयन्ति चेति ब्रह्ममीमांसामूत्राच्च। अत्र गारुड़वाक्ये पुरुषस्य ब्रह्मणि न्यासो लय एव न तु अभेदः । विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ इत्यादिवाक्येष जोवविलापनेन ब्रह्मात्मचिन्तनस्य स्मरणात् प्रकृतिस्थापनसाहचर्याच्च। अम्बरदृष्टान्तश्च नाखण्ड त्वे यथाग्निरग्नौ संक्षिप्त: समानत्वमनुव्रजेत् । तथात्मा साम्यमभ्येति योगिनः परमात्मना ॥ इत्यादिवाक्योक्ता स्थाग्निवायुजलादिबहुबदृष्टान्तस्य साम्यस्य च विरोधात् न्यायानुग्रहेणाग्न्यालयादिदृष्टान्तानामेव बलव- त्वाच्च। किन्तु एकरूपस्यौपाधिकमिथ्याविभागनिवृत्तिमाले इति, विलापनेन च प्रकृत्यादिवत् जीवानामनात्मत्वमेव लभ्यते । नदुतां मात्स्ये पातच्चलदर्शनम्। तत्त्वैः सम्पादितं भुङ्क्त पुरुषः पञ्चविंशकः । ईश्वरेच्छावशात्सोऽपि जड़ात्मा कथ्यते बुधैः । इति मोक्षधर्मे च ते चैनं नाभिनन्दन्ति पञ्चविंशकमप्युत। षडिशमनुपश्यन्त: शुचयस्तत्परायणा: ॥ इति । एतेन प्रकृतिपुरुषौ विलाप्य यच्छिष्टं ब्रह्म तस्मि- ब्रेवाहम्भाववचनाच्च न जीवे मुख्योऽहंशब्द इति, अनयोश्चिन्तन- योर्मध्ये प्रथमचिन्तनमुपासना द्वितीयं तत्त्वज्ञानमिति । ब्रह्मा- मताज्ञानं चातिदुर्लभं मोक्षधर्मे चोक्तम् भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरामयाः । ऐकात्मय नाम कश्चिद्धि कदाचित्प्रतिपद्यते॥ इति दिक। ईश्वरप्रणिधानादिति पञ्चम्युक्तमसम्प्रज्ञात- पर्यन्तयोगहेतुत्वं तत्त्वप्रणिधानस्य येन द्वारेण तदाह । तद- स्येति । प्रणिधानादिभिश्चैकाग्री भवति ततश्च परमात्मसाक्षा- कारः ततः परवैराग्यादसम्प्रज्ञातयोग इति शेषः । स्वाध्याय- योगसम्पत्त्या परमात्मा प्रकाशत इति वक्ष्यमाणवाक्यस्वरसात् । उक्तार्थे स्वपितुर्वाक्यं विष्णुपुराणस्थं प्रमाणयति। तथा चोक्ता- मिति। योगजपयोरेकदा न सम्भव इति योगस्याद्यन्तयोयु- स्थानकाले जप उक्तः । ननु परमात्मसाक्षात्कारात् परवैराग्य भवतीति यदुक्तं तन्नोपपद्यते आत्मसाक्षात्कारेणैवाभिमाननि- वृत्त्या परवैराग्यसम्भवादिति। अत्रीच्यते। ब्रह्मज्ञानं ताटस्थ्य- मात्र न विवक्षितं किन्तु अात्मलेनैव, तथा च जीवात्मतत्त्व- ज्ञानात् बुद्धिपर्यन्तमभिमाननिवृत्तिवत् परमात्मज्ञानात् जीव- पर्यन्तेष्वभिमानो निवर्त्तते, पञ्चविंशतितत्त्वानि विलाप्य व सोऽहमित्यात्मतया अधिष्ठानब्रह्मसाक्षात्कारादिति। ननु एवं जीवस्याप्यनात्मत्वं प्रसक्तमिति चेत्, न। व्यावहारिकपार- समाधिपादे योगवार्तिकम्। ७ मार्थिकभेदेनात्मइयाभ्युपगमात्। आत्मत्वं हि सङ्घाताध्यक्षत्वं क्षेत्रनत्वच्च। तच्चेश्वरस्यैवास्ति ईखरत्ववत्, जीवात्मानां पर- तन्त्रबात् धर्माधर्माद्यज्ञात्वाच्च। जीवानाञ्च चितिशक्ति- मत्तामात्रेणैवात्मत्वं गौणं बुयाद्यापेक्षिकं च यथा हिरण्यगर्भा- दीनामौखरत्वं तवज्जीवानामात्मत्व ब्रह्ममोक्षभोगादिभागि- तया सिद्ध लोकव्यवहारगोचरतया च व्यावहारिकमेव । एव- मेवाहन्त्व'शब्दोऽपि परमात्मन्येव मुख्यो न तु जीव, प्रयोगादिषु खातन्त्राभावेन प्रयोक्वात्मत्वादिरूपस्याहमादिशब्दप्रकृत्तिनि- मित्तस्य जीवष्वभावादिति। तथा चोक्तम् । त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्वहिर्मूग्य अहोजजनताज्ञता ॥ इति । परमनात्मानम् । यद्यपि जीवो मुख्याता न भवति तथापि तज्ज्ञानादपि धर्माधर्मरागादिनिवृत्त्या मोक्षस्तु भव- त्येवेति। एतेन व्यवहारपरमाथभेदादकात्मानानात्मतावादी श्रुतिस्मृतिदर्शनेष्वविरुद्धावित्यपि सिद्धम्। अधिकन्तु ब्रह्म- मीमांसाभाष्ये विज्ञानामृते द्रष्टव्यमिति दिक् । तदिदमीखर- प्रणिधानाइत्यादिसूत्रगणोशमर्थजातं लिङ्गपुराणे स्पष्टं प्रदर्शि- तम्। यथा। अविद्ययेशस्य योगो नातीतो नाप्यनागतः । नाप्यस्त्यस्मितया चैवं रागणापि निकालतः ॥ कालेषु विष सम्बन्धस्तस्य देपण नो भवेत् । तथैवाभिनिवेशन सम्बन्धो न कदाचन ॥ कुशलाकुश लथे व सम्बन्धी नैव कम्मभिः । भवेत् कालवये शभोरविद्यामतिवर्जनात् ॥ विपाकैः कर्मणां तस्य न भवेदेव साहमः । कालेषु त्रिषु शर्वस्त्र शिवस्त्र शिवदायिनः ॥

पातञ्जलदर्शनम्। सुखदुःखैन संस्पृश्यः कालत्रितयवर्तिभिः । तथैव भोगसंस्कारैर्भगवानन्तकान्तकः ॥ घुविशेषः परो देवो भगवान् परमेश्वरः । चेतनाचेतनोन्मुक्तः प्रपञ्चादखिलात्परः॥ लीके सातिशयत्वेन ज्ञानेखवें विलोकिते। शिवे नातिशयित्वेन स्थिते आहुर्मनीषिणः ॥ प्रतिसगं वस्तुभानं ब्रह्मण: शास्त्रविस्तरम् । उपदेशात् स एष्टव्यः कालावच्छे दवर्त्तिनाम् ॥ कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः । सर्वेषामपि सर्वेशः कालावच्छे दवर्जितः ॥ अनादिरव सम्बन्धी विज्ञानोत्कर्षयोः परे। स्थितयोरीदृश: शव: परिशुद्धः स्वभावत: ॥ आत्मप्रयोजनाभावे परानुग्रह एव हि । प्रयोजनं समस्तानां क्रियाणां परमेष्ठिन: ॥ प्रणवो वाचकस्तस्य शिवस्य परमात्मनः । शिवरुद्रादिशब्दानां प्रणवो हि परः स्मृतः ॥ शम्भीः प्रणववाशय भारना तज्जपादपि । आशु सिद्धिः परा प्राप्या भवत्येव न संशयः ।। एकं ब्रह्ममयं ध्यायेत्सर्व विप्र ! चराचरम् । चराचरविभागं च त्यजेदहमिति स्मरन् । सप्ताण्डावरणान्याहुरण्डस्यात्माम्बजासनः। कोटिकोट्य युतानोशे चाण्डानि कथितानि तु ॥ तत्र तत्र चतुर्वका प्रमाणो हरयो भवाः । सृष्टाः प्रधानेन तथा प्राय्य शम्भोस्तु सन्निधिम् । असंख्याताश्च रुद्राख्या असंख्याताः पितामहाः। हरयश्चाव्यसंख्याता एक एव महेश्वरः समाधिपादे योगवार्त्तिकम्। ७८ ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् । पादिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ शिवतत्त्वमिति ख्यातं शिवादपि परं पदम् । इति । तदेवं जौवप्रज्ञाया इवेखरप्रणिधानादपि प्रज्ञाहारा योगस्तत्फलं मोक्षश्च भवतीत्युक्तमिदानीं तयोर्मध्ये ईश्वप्रणि- धामस्य मुख्य कल्पत्व' प्रतिपादयितु तत्र हाराधिक्य सूत्रेण प्रतिपादयति। किं चास्येति । अन्यच्च अस्य प्रणिधानिनो भव- तीत्यर्थः ॥ २८॥ * ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २६ ॥ * ये तावदन्तराया व्याधिप्रभृतयस्ते तावदी- श्वरप्रणिधानान्न भवन्ति, स्वरूपदर्शनमप्यस्य भवति, यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनु- पसर्गस्तथाऽयमपि बुद्धेः प्रतिसंवेदो यः पुरुष इति एवमधिगच्छति ॥ २६ ॥ अथ केऽन्तरायाः, ये चित्तस्य विक्षेपकाः, के पुनस्ते कियन्तो वैति । तत ईश्वरप्रणिधानात् तत्साक्षाकारद्वारा तदृष्टान्तेन जीव- तत्त्वमपि अनायासेन पूर्णतया साक्षाकिटात इति प्रथमद- लार्थः। अपिशब्द आसन्नतमरामाध्ययेच्या। यदापि प्रति प्रति वस्तु अञ्चति अनुगच्छतौति व्युत्पत्त्या असङ्कुचितसर्वानुगत: परमात्मैव मुख्यः पत्वशब्दार्थः । 'प्रत्यक् प्रशान्तं भगवच्छब्दसंनं अदासुदेवं कवयो वदन्ति' इत्यादि अपि ईश्वरे प्रत्यक्प्रयोग पातञ्जलदर्शनम्। दर्शनाच्च । तथापि ईखरादिशब्दवदेव प्रत्यक्शब्दोऽपि जीवे मौणो विभुत्वात्। अतएव प्रकृतिव्यावर्त्तनाय चेतनेत्युक्तम् । यदि च प्रत्यक्शब्दः पश्चिमवाची तथापि सर्वप्रलयावधिभूते ब्रह्मस्येव मुख्योऽन्यत्र गौण इति । अन्तरायाभाव एकाग्रता- सामान्यस्यैय फलमिति वक्ष्यते 'तत्प्रतिषेधार्थमकतत्त्वाभ्यास' इति सूत्रेणत्यतो विशिष्येश्वरप्रणिधानस्यान्तरायाभावफलकत्व- वचनमनुवादकतया व्याचष्टे । ये तावदिति। अनुवादस्य च फलमाधिक्य न विघ्ननिवर्तकत्वलाभः । 'तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्यषां स भवतीति श्रुत्या ब्रह्मात्म ताद- शिन इच्छाविघात देवादीनामप्यसामर्थ्यप्रतिपादनादिति। अत एवोकं नारदीयादिष्वपि । तस्मान्मुमुक्षोः सुमुखी मार्ग: श्रीविणुसंश्रयः । चित्त न चिन्तयानेन वञ्चाते ध्रु वमन्यथा ॥ धत्तं पदं त्वमविता यदि विघ्नमूनि इत्यादि। स्वरूपदर्शन मिति । अस्य प्रतीचो जीवस्य य- तात्त्विकं रूपं तस्य साक्षात्कारोऽपि भवतीत्यर्थः । अन्यप्रणि- धानेनान्यसाक्षात्कारऽदृष्टहारवत्, दृष्टहारमप्यस्तोति प्रतिपाद- यन्नेव खरूपदशनं विवृणोति । यथैवेति । बुद्ध : प्रतिसंवेदी बुद्धि- वृत्तिप्रतिविम्बोट्याही तत्साक्षीति यावत् इदञ्च जीवब्रह्मणो- रत्यन्ताभेदनिराकरणाय वैधयमुक्त, यथवेश्वरः शुद्धयादिगुण- कस्तथायमपि यो बुद्धेः साक्षी पुरुष इत्यवाधियच्छति अवधार- यति पुरुषत्वाविशेषादित्यर्थः । पुरुषश्चेतन: शुदः पापपुण्यविव- र्जितः प्रसन्नो निर्दु:ख: केवलश्चिन्मात्रोऽनुपर्यो जात्यायुभोग- रहित इति । तदेतदुक्तं नारदीये । मायाप्रवर्तक विष्णो दृढ़ा भक्तिः कृता नृणाम् । मुखेन प्रकृतर्भिनं खं दर्शयांत दोषवत् ।

समाधिपादे योगवार्तिकम् । ८१ इति यद्यपि अंशिस्वरूपावधारणेनांशस्वरूपावधारणव- दंशरूपावधारगोनाप्यंशिस्त्र रूपावधारणं भवति अंशांशिनोरेक- स्वरूपत्वस्यौत्सर्गिकत्वात्, प्रत्युत ईश्वरस्यावाङमनसगोचरतया खतत्त्वसाक्षात्कारादेव तदनुसारेणेवरे विवेकः सम्भवति ना- न्यथा। तथा च श्रुतिरपि । 'यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपो- पमेनेह युक्तः प्रपश्ये'दित्यादिः । तथापि जीवस्य पूर्णत्वनित्य- वाद्यंश ईश्वरानुसारेणैव सुखेन ज्ञातु शक्यत इत्याशयः। अत- एव 'तत्त्वमेव त्वमेव तत्' इत्यादिश्रुतयः परस्परमधावैधयं ल- क्षणाभेदं प्रतिपादयन्ति । अन्योन्यदृष्टान्तेनान्योन्यधर्माणामन्यो- न्यस्मिन् अवधारणायान्तरायस्वरूपप्रतिपादकं सूत्रमवतारयति । अथेति । व्याध्यादेरन्तरायत्वोपपादनाय सूत्रे चित्तविक्षपा इति वदिष्यति, तस्य व्याख्यानार्थ भाष्य वक्रोक्तिः। विक्षेपाः विक्ष- पकाः। सामान्येन दत्तोत्तरं विशेषसंख्याभ्यां पुन: पृच्छति। के पुनरिति ॥ २९ ॥ * व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्ति- दर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविहे. पास्तेऽन्तरायाः ॥ ३० ॥ * नव .अन्तरायाश्चित्तस्य विक्षेपाः, सहते चित्तवृत्तिभिर्भवन्ति एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । व्याधिः धातुरसकरणवैष- ग्यम् । स्त्यानम् अकर्मण्यता चित्तस्य । संशयः उभयकोटिस्पृग् विज्ञानं स्यादिदमेवं नैवं स्यादिति । प्रमादः समाधिसाधनानामभाव- ८२ पातञ्जलदर्शनम् । नम् । आलस्यम् कायस्य चित्तस्य च गुरुत्वाद- प्रवृत्तिः। अविरतिः चित्तस्य विषयसंप्रयोगाऽऽत्मा गईः । भ्रान्तिदर्शनम् विपर्यायज्ञानम् । अलब्ध- भूमिकत्वम् समाधिभूमेरलाभः । अनवस्थितत्वं यल्लब्धायां भूमी चित्तस्य अप्रतिष्ठा, समाधिप्रति- लम्मे हि तदवस्थितं स्याटु, इत्येते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा-योगाऽन्तराया इति अभिधीयन्ते ॥ ३० ॥ चित्तविक्षेपकतयैतानि ते पूर्वसूत्रोक्ता अन्तराया इत्यर्थः । व्याचष्टे । नवेति । अन्वयव्यतिरकाभ्यां चित्ते विक्षेप्रकत्वमेषां साधयति। सहैत इति। सूक्ष्मकालानाकलनेन सहेत्युक्तम् । एतेषामव्यवधाननेव व्याध्यादिगोचरा वा तनिवृत्त्युपायगोचरा वा चित्तस्य वृत्तयो भवन्ति योगदंशिका इत्यर्थः । व्याध्यादीन् नव क्रमेण व्याचष्टे । व्याधिरिति । शरीरधारकत्वात् धातूनां वातकफपित्तानां रसानामाहारपरिणामानां करणानां चक्षु- रादिमन आदीनां च वैषम्यं विसदृशभावो व्याधिः । अकर्म- ण्यता योगानुष्ठानाक्षमता। आमवातादिना देहस्याकर्मण्य- त्वेऽपि चित्तस्य योगाविरोधाञ्चित्तस्येत्युक्तम् । संशयाकारमाह । स्यादिति । इदं गुरुशास्त्रोक्तं ज्ञानतत्साधनादि । अभावनमननु- सन्धानम्। कायगुरुत्वं कफादिना चित्तगुरुत्व तमसा, ताभ्यां हेतुभ्यामप्रवृत्तिः समाधिसाधनाननुष्ठानम् । सम्प्रयोगात्मा सनिकर्षजन्यो गोऽभिलाषः। विपरीतं ज्ञानं गुर्वादिप्रमि- तार्थविपरीतनिश्चयः। समाधिभूमैरिति । वक्ष्यमाणानां मधु- मत्यादिभूमीनामेकतमस्या अपि साधनानुष्ठानेऽप्यलाभ इत्यर्थः ।

समाधिपादे योगवार्तिकम् । ८३ अप्रतिष्ठालामेऽपि मंशः । ननु लाभोत्तरं नशे का क्षतिरित्या- शङ्कायामाह। समाधिप्रतिलम्भे होति। प्रतिलम्भो निष्प- त्तियेयसाक्षात्कार इति यावत् । अयं भावः। साक्षात्कार- पर्यन्तमेव चित्तस्य तत्तङ्गम्यवस्थानमपेक्षितमतोऽकतसाक्षा- कारस्य योगारुढस्यापि भ्र'शोऽनवस्थितत्वमेव भवतीति । 'आरूढ़योगोऽपि निपात्यतेऽधः सङ्गेन योगी किमताल्पसिद्धि' रित्यादिस्मृतिश्चात्र प्रमाणमिति। एतेषां तान्त्रिकान् संज्ञा- भेदानाह। एत इति। न केवलमते व्याध्यादयो योगान्तराया अपि तु दुःखादिरूपेष्वन्तरायान्तरेष्वपि हेतवो भवन्ती. त्याह ॥ ३० ॥ क्षोभः । * दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विजे- पसहभुवः ॥ ३१ ॥ * दुःखम् आध्यात्मिकम्. आधिभौतिकम्, आधिदैविकं, च। येनाभिहताः प्राणिनस्तदुप- घाताय प्रयतन्ते तद् दुःखम् । दौमनस्यम् इच्छा- भिघाताच्चेतसः यदङ्गानि एजयति कम्पयति तद् अङ्गमेजयत्वम् । प्राणो यहाह्य वायुम् आचामति स श्वासः, यत्कौष्ठंय वायु निःसारयति स प्रश्वासः । एते विक्षेपसहभुवो विक्षिप्तचित्तस्य एते भवन्ति समाहितचित्तस्य एते न भवन्ति ॥ ३१ ॥ अष्टैते विचपाः समाधिप्रतिपक्षाः ताभ्या- पातञ्जलदर्शनम्। मेवाभ्यासवैराग्याभ्यां निरोद्धव्याः, तब अभ्यासस्य विषयमुपसंहरन्निदमाह । दुःखादीन्यत्र क्रमेण व्याचष्टे। दुःखमिति। आत्मानं स्वसङ्घातमधिकृत्य वर्तत इत्याध्यात्मिक, तच्च विविधं शारीरं मानसं च । शारीरं व्याध्यादिजनितं मानसं कामादिजम् । भूतानि प्राणिनो व्याघ्रादीन् लक्षीतत्य जायत इत्याधिमातिक व्याघ्राद्युत्थम् । देवानधिकृत्य जायत इत्याधिदैविक शीतोष्णा- द्युस्थमित्यर्थः । यद्यपि सर्वमेव विपक्षोद्भवं दुःख' मानसं तथापि प्राधान्येन मनोविकारजन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्व- विभाग: विषयगतदुःखेषु चित्तविक्षेपाणामहेतुत्वात् दुःखसा- मान्यस्य विधा विभागो न घटते घटपटादिदुःखानामसंग्रहात्, एवमन्यत्रापि। दुःखसामान्यलक्षणमाह । येनेति। क्षोभश्चा- ज्वल्यम् । यदङ्गानौति। अङ्गकम्योऽङ्गमेजयत्वमिति । प्राणेति । पुरुषायल विना स्वयमेव प्राणो यहाह्य वायुमतिशयेनाचा- मति पिवति शरीरान्तः प्रवेशयति स वासनामा विकार इत्यर्थः। कौष्ठयसुदररथ वायुं नि:सारयति बहिः करोति । शेष पूर्ववत् । सूक्वाक्वा व्याचष्टे । एत इति। विक्षेपसह- भुवो व्यावादिवियोवाः । तत्र हेतुमाह। विक्षिप्तेति । विक्षेपानन्तरमेव जायन्ते विशेषनिवृत्ती निवर्तन्त इत्यर्थः ननु एतेऽन्तरायाः सकायाः किमीश्वरप्रणिधानमात्र निरस्या अथ वा अन्योपायेगापि निरितुं शक्या इत्याकाङ्क्षायामुत्तरं प्रय- च्छति सूत्रान्तराक्ताराणाय । अथैत इति । अथ विक्षेपोत्यत्य- नन्तरमेते विशेषा अमामवैराग्याभ्यानित्यादिसूत्रोक्ताभ्यां सामा- न्याभ्यामेवाभ्याश्वैराग्याभ्यां निरस्था न त्वीवरप्रणिधानादेवेति नियम इत्यर्थः। एतत्प्रतिपादकतयोत्तरसूत्रमवतारयति । - - समाधिपाद योगवार्तिकम्। ८५ सत्रेति । तयोरभ्यासवैराग्ययोर्मध्ये अभ्यासविषयं जीवेखरादि- साधारणं पिण्डीक्वत्योपसंहरन् इदं मयोक्त वक्ष्यमाणसूत्रेणा- हेत्यर्थः । यदि होम्वरप्रणिधानमेव केवलमन्तरायाभावहेतुरिति वक्ष्यमाणसूत्रार्थः स्यात्तदा एकतत्त्वाभ्यास इति सामान्योप- संहारो न युज्येत निःसन्देहार्थमौखराभ्यास इत्येव वक्तुं युक्त- वादिति भावः ॥ ३१॥ * तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥ * विक्षपप्रतिषेधार्थमेकतत्त्वावलम्बनं चित्त- मभ्यसेत् । यस्य तु प्रत्यर्थनियतं प्रत्ययमावं क्षणिकञ्च चित्तं तस्य सर्वमेव चित्तमेकाग्रं नास्त्येव विक्षिप्तम्। यदि पुनरिदं सर्वतः प्रत्याहृत्य एकस्मिन्नर्थे समाधीयते तदा भवति एकाग्रमिति, अतो न प्रत्यर्थ नियतं, योऽपि सहभप्रत्ययप्रवाहेण चित्तमेकायं मन्यते तस्य यद्येकाग्रता प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवा- हचित्तं क्षणिकत्वाद्, अथ प्रवाहांशस्यैव प्रत्य- यस्य धर्मः स सर्वः सदृश प्रत्ययप्रवाही वा विस- दृशप्रत्ययप्रवाही वा प्रत्यर्थ नियतत्वादेकाग्र ए- वेति विक्षिप्तचित्तानुपपत्तिः । तस्मादेकमनेका- र्थमवस्थितं चित्तमिति, यदि च चित्तेनैकेना. नन्विताः म्वभावभिन्नाः प्रत्ययाः जायेरन् अथ कथमन्यप्रत्ययदृष्टस्यान्यः सार्ता भवेत्, अन्य- प्रातञ्जलदर्शनम् । प्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उप- भीता भवेत् । कथञ्चित् समाधीयमानमप्येतट् गोमयपाय- सीयं न्यायमाक्षिपति । किञ्च स्वात्मानुभवापङ्गवः चित्तस्यान्यत्वे प्राप्नोति, कथं, यदहमद्राक्ष तत् स्पृशामि यच्च अस्पान तत्पश्यामोत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिनि अभेदेनोपस्थितः, एक प्रत्ययविषयोऽयमभेदात्मा अहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्चमेक प्रत्ययिनमाश्रयेत् खानुभवग्राह्यश्चायमभेदात्मा अहमिति प्रत्ययः, न च न च प्रत्यक्षस्य माहात्मा प्रमाणान्तरेणाभिभूयते, प्रमाणान्तरं च प्रत्यक्ष- बलेनैव व्यवहारं लभते, तस्मादकमनेकार्थमव- स्थितञ्च चित्तम् ॥ ३२ ॥ यस्य चित्तस्य अवस्थितस्य इदं शास्त्रण परिकर्म निर्दिश्यते तत्कथम् । एकं स्थूलादि किञ्चित् । यत्तु एकतत्त्वशब्देनात्र परमेश्वर एवोक्त इति तन्न। बाधकं विना सामान्यशब्दस्य विशेषपरत्वा. नौचित्यात्। पूर्वसूत्रप्राप्तत्वेन पौनरुत्यापत्तश्च। सर्वमेव चित्तमेकाग्र नास्त्येव, विक्षिप्तमित्यागामिभाष्यानुपपत्तेश्चेति ।

समाधिपाद योगवार्त्तिकम् । उतयोविक्षेपैकाग्रतयोर्वक्ष्यमाणपरिकर्मणश्चोपपत्तये चित्तस्य स्थिरतां साधयिष्यन् चित्तस्य क्षणिकत्वादिकं दूषयति । यस्य तु इति। यस्य तु वैनाशिकस्य मते चित्त प्रत्यर्थनियतमर्था- दर्थान्तरं न गच्छति तथा प्रत्ययमात्र निराधारत्तिमात्र तथा क्षणिकञ्च भवति तस्य मते सर्वमेव चित्तमेकाग्रमतो विक्षिप्त- चित्तानुपपत्तिरित्यर्थः । तदनुपपत्तौ च तेषां स्वशिष्येभ्यः स्वशा- स्त्रेषु समाध्युपदेशो विफल एवेति भावः । एकस्य चित्तस्य क्रमेण नानार्थविषयकत्वस्वीकारे तु नायं दोष इत्याह । यदि पुनरिति । तत: किमित्यत आह। अतो नेति। योऽपि वैना- शिकविशेष उक्तदोषपरिहाराय मन्यते सदृशप्रत्ययप्रवाहरूपतैव चित्तस्यैकाग्रता प्रवाहमध्ये विसदृशत्वञ्च विक्षेप इति तस्य मतं योऽपीत्यादिना अनूद्य विकल्पा दूषयति । तस्येति । मत इति शेषः । क्षणिकत्वादिति। अत आश्रयाभावनैकाग्रतानुपपत्ति- रिति शेषः । ननु अतोतानागतवर्तमानासु सदृशप्रत्ययव्यक्तिषु त्रित्वादिवद्यासज्यहत्तिरेकाग्रता भवतु इति चेन्न । अन्योन्या- समानकालौनेषु व्यासज्यत्तित्वासम्भवात् । क्षणिकवादिनां सामान्यधर्माभावेन सादृश्यस्य दुर्वचत्वाच्चेति। प्रवाहांशस्य प्रत्येकव्यक्ती रित्यर्थः । दूषयति। स सर्व इति । स सवः प्रवा- हांशः सदृगप्रत्ययप्रवाहान्तःपाती वा विसदृशप्रत्ययप्रवाहान्त:- पाती वा भवतु उभयथैव एकाग्रः चित्तस्य प्रत्यर्थनियतत्वा- दित्यादिरर्थः। अतः स्वसिद्धान्तमुपसंहरति। तस्मादिति । अवस्थितं स्थिरम्। परमते दूषणान्तरमाह। यदि चेति । स्वभावभिन्नत्वेन नित्यभिन्नत्वेन त्वयाभ्युपगताः प्रत्यया योक- चित्तानाश्रिताः स्युरित्यर्थः। अथशब्दः प्रश्ने। अन्यप्रत्ययदृष्ट- स्येति। तन्मते चित्तातिरिक्तात्माभावादुक्तम् । उपचितस्य अर्जितस्य कर्माशयस्यादृष्टस्येत्यर्थः। नन्वेकसन्तानोत्पन्नत्वेनानु- ८८ चेति । पातञ्जलदर्शनम्। भवसंस्कारस्मृत्यादीनां कार्यकारणभावाभ्युपगमेनायं दोष: परिहर्तव्य इत्याशङ्कायामाह। समाधीयमानमिति। गोमय पायसं गव्यत्वादित्यादि न्यायमतदूषणं समाधीयमानमग्याक्षि- पति तिरस्करोति। तन्यायापेक्षयाप्ये तदूषणोद्धरणन्याय आभासीभूत इत्यर्थः । तत्र हि गव्यत्वं हेतुः प्रसिद्धोऽस्ति, अत्र तु एकसन्तानीयत्वरूपो हेतुरप्यप्रसिद्धः सन्तानस्यैकतानिर्वा- हकजात्याद्यनभ्युपगमादिति भावः । दूषणान्तरमाह। कि- खस्य बौद्धस्य य आत्मविषयकानुभवस्तस्याप्यपलाप- श्चित्तस्य प्रतिक्षणमन्यत्वे सति प्रसज्यत इत्यर्थः । पृच्छति । कथ- मिति । उत्तरं, यदिति। अव्ययमहमो विशेषणम् । तथा च योऽहमद्राक्षं सोऽहं स्पशामीत्यादिप्रत्ययेऽहमिति यः प्रत्ययांशः स सर्वस्य प्रत्ययस्य दर्शनस्पर्शनादिरूपस्यान्योन्य मैदे सति तदा. श्रये प्रत्ययिनि धर्मिणि अभेदाकारतयाऽनुभवसिद्धोऽस्तीत्यर्थः । आत्मानुभवं व्याख्याय तदपङ्गवं व्याचष्टे। एकप्रत्ययेति। अयञ्चकप्रत्ययविषयः प्रत्ययव्यक्तिमात्रगोचरको भवन्मते तो भेदाकारोऽहमिति प्रत्ययः कथं भवन्मतेऽत्यन्तभित्रेषु क्षणिक- चित्त षु विषयत्वेन वत्त मानः सामान्यमेकं विषयोकुर्यादित्यर्थः । सर्वप्रत्ययानुगतधर्मिणः स्थिरचित्तस्यानुभ्युपगमादिति मावः । तनु अभेदाकारोऽहम्प्रत्यय एवाप्रामाणिक इति, तत्राह । स्वानु- भवेति । अभेदात्मा अभेदाकारः । ननु यत् सत् तत् क्षणिकमिति सत्त्वेन क्षणिकत्वानुमानादुक्तप्रत्ययो बाधनीयस्तवाह। न च प्रत्यक्षेति। माहात्मा स्वार्थसाधकत्वं न तर्कादिशून्यप्रमाणा- न्तरेणाभिभूयते प्रतिबध्यते उपजीव्यजातीयत्वेन बलवत्त्वादि त्यर्थः । शङ्खः पीत इत्यादिप्रत्यक्षं तु तर्कयोगेन बलवता अनुमा- नेनैव बाध्यते । एवं देहाद्यात्मताप्रत्यक्षमपि निर्णीतप्रामाण्य न शास्त्रेण सन्दिग्धप्रामाण्यतया दुर्बलं बाध्यत इति। ननु चित्ता समाधिपादे योगवार्तिकम् । तिरितात्मानभ्युपगमिनामयं दोषो न च आस्तिकानाम् अह- म्प्रत्यस्य स्थिरात्मविषयकत्वाभ्यु पगमादतः स्वमते कथं चित्त- स्थैर्यसिद्धिरिति चेत्, पूर्वोक्तात् स्मृतिसंस्कारयोरेकाश्रयतानि- यमादित्यवेहि। तदिदं चित्तस्थैर्यमुपसंहरति । तस्मादिति। परिकर्मोपदेशान्यथानुपपत्त्यापि चित्तस्थैर्यमनुमीयते इत्याह । यस्येति। हेतुगर्भविशेषणेन, यस्य स्थिरचित्तस्येदमागामिसूत्र- वक्ष्यमाणपरिकर्म चित्तप्रसाधनं स्थितिदाय हेतुः परिष्कार: शास्त्रेषु निर्दिश्यते इत्यर्थः । सूत्रान्तरमुत्थापयितुं पृच्छति । कमिति। किमुपायकं किं खरूपं किं फलं वा परिकर्म भव- तीत्यर्थः ॥ ३२ ॥ अत्र सूत्रेणोत्तरम् । * मैत्रीकरुणामुदितोपक्षाणां सुखदुःखपुण्या- पुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥३३॥* तत्र सर्वप्राणिषु मुखसम्भोगापन्नेषु मैत्री भावयेत्, दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम्, अपुण्यात्मकेषु उपेक्षाम्, एवमस्य भावयतः शुक्लो धर्म उपजायते, ततश्च चित्त प्रसौदति, प्रसन्नमेकाग्र स्थिरपदं लभते ॥३३॥ प्रसादनं स्थितिनिबन्धनमित्यागामिटतोयसूत्रस्थेनान्वयः अन्यथा तत्र सूत्रे वाशब्दवैयर्थ्यात् । निबन्धनत्वञ्च स्थित्यभ्रंश- हेतुत्वं तच्च स्थितिहेतुश्रद्धाद्यप्रतिबन्धद्दारा तथैव आगामिसूत्र भाष्यव्याख्यानात्। श्रद्धावीर्यस्मृतिसमाधीनामेव स्थितिहेतूना- मुक्तत्वाच्च। अत्र सुखादिशब्दस्तबाहुल्यलाभाय धर्मधर्म्य- भेदात् सुखित्ववाची। भावना चोत्पादनं प्रसादनं समाधि 2. पातालदर्शनम् । बन्धकरागद्देषाधर्मादिमलापसारणं तोयादिप्रसादवदित्यर्थः । तव सर्वेति। मैत्री सौहार्दी करुणां निरुपधिपरदुःखप्रहर- णेच्छां मुदितां प्रीतिमुपेक्षामौदासीन्चं, सर्वत्र भावयेदित्यन्वयः । भावनानां चित्तप्रसादे हारमाह। एवमस्य ति । शुक्लः पापा- सम्भिन्नः ततो धर्मः, इतस्तमाक्षये चित्त निर्मलं भवतीत्यर्थः । अदृष्टहारकत्वं चेतन्मुख्यत उक्तं रागद्देषनिहत्तिरूपदृष्टहारकत्व- मपि बोध्यम् । तदुक्तं गीतायाम् । रागद्वेषविमुक्तस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यविधेयात्मा प्रसादमधिगच्छति ॥ प्रसवचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते । इति। ननु चित्तस्य प्रसादाख्य परिकर्मणेव किं कार्यमिः स्याकाझायामाह । प्रसन्न चित्तमकान भूत्वा स्थिरपदम् अभ्रंश- योग्यतां लभत इत्यर्थः । स्थितिपदमिति पाठे स्थितिः स्थैर्य- मित्यर्थः । एवं सर्वत्र प्रसादस्य साधनान्तरमाह ॥ ३३ ॥ * प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥* कौष्ठास्य वायो सिकापुटाभ्यां प्रयत्नविशे- पाद् वमनं प्रच्छर्दनं, विधारणं प्राणायामः, ताभ्यां वा मनसः स्थितिं सम्पादयेत् ॥३४॥ वाशब्दोऽप्यर्थे । आभ्यामपि चित्तस्य प्रसादनं कुर्य्यादि- त्यर्थः । नासिकापुटाभ्यामिति। एकतरपुटेनेत्यर्थः । प्रयत्नवि- शेषादिति। सूचनरुपण योगशास्त्रोक्तरीत्या, वमनं रेचनमि- त्यर्थः। विधारणं कुम्भकं तच्च अर्थात्यूरणानन्तरमिति बोध्यम् । रचनोत्तरं पूरणं विना विधारणासम्भवात्। प्राणायाम इत्युक्त राञ्च । “प्राणायामश्च विशेयो रेचकपूरककुम्भका' इत्यादिस्मृतिः समाधिपाद योगवार्त्तिकम् । ८१ - भिस्त्रयाणामेव मिलितानां प्राणायामत्वकथनादिति। प्राणा- याम इति। एतद् वयं पूरणगर्म प्राणायाम इत्यर्थः। प्रच्छर्दन- विधारणे व्याख्याय समग्रसूत्रार्थमाह। ताभ्यामिति । स्थिति भावयेत् । प्रसादबारेति शेषः। अत्र प्राणायामो यमादिनिर- पेक्ष एवोत्तमाधिकारिणो योगसाधनतयोक्तः। द्वितीयपादे च मन्दाधिकारिणो व्युस्थितचित्तस्य यमाद्यष्टाङ्गमध्ये प्राणायामो वक्तव्य इत्यपौनरुत्यम् । तथा च स्मृतिः । 'प्राणायामैर्दहेहोषान् धारणाभिश्च किल्विष मिति । प्रसादापेक्ष्या स्थितिनिबन्धन परिकर्मान्तरमाह ॥ ३४ ॥ * विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थि- तिनिबन्धनी ॥ ३५ ॥ * नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसं- वित् सा गन्धप्रवृत्तिः, जिह्वाग्रे रससंवित्, ता- लुनि रूपसं वित्, जिह्वामध्ये स्पर्श संवित्, जि- ह्वामूले शब्दसंवित्, इत्येताः प्रवृत्तय उत्पन्नाश्चित्तं स्थिती निवनन्ति, संशयं विधमन्ति, समाधि- प्रज्ञायाञ्च हारीभवन्ति इति। एतेन चन्द्रा- दित्यग्रहमणिप्रदीपरश्मयादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या । यद्यपि हि तत्तच्छास्त्रा- नुमानाचार्योपदेशैरवगतमर्थतत्त्व भवति एतेषां यथा भूतार्थप्रतिपादनसामर्थ्यात् तथापि यावदेकदेशोऽपि कश्चिन्न खकरणसंवेद्यो सङ्ग तमेव समर्थ ८२ पातञ्जलदर्शनम् । भवति तावत्सवें परोक्षमिवापवर्गादिषु सूक्ष्म छु अर्थेषु न दृढ़ां बुद्धिमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपदेशोपोहलनार्थ- मेव अवश्य कश्चिबिशेषः प्रत्यक्षीकर्तव्यः, तत्र तदुपदिष्टार्थे कदेशप्रत्यक्षत्वे सति सर्व सुसूक्ष्म- विषयमप्यपवर्गात् मुथडीतते, एदर्थ मेवेदं चित्त- परिकर्म निर्दिश्यते, अनियतासु वृत्तिषु तदि- षयायां वशीकारसंज्ञायामुपजातायां स्यात्तस्य तस्य अर्थस्य प्रत्यक्षीकरणायेति, तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्य अप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ॥ प्रकष्टा वृत्तिः प्रवृत्तिः साक्षात्काररूपा विषया गन्धादयः पञ्च विषयत्व नास्याः सन्तीति विषयवती। सा च स्वसाधना- दुत्पन्ना स्वाविषयेष्वपि विवेकपर्यन्तेषु श्रद्धाद्यप्रतिबन्धहेतुतया स्तितिप्रयोजिका भवतीत्यर्थः । वाशब्दः समुच्चये आवश्यक- तया भाष्ये वाच्यत्वात् । अत्र च मनस इति वचनात् मनश्चि- त्तयोरकतेति बोध्यम् । विषयवतीं प्रवृत्तिं पञ्चप्रकारां दर्शयति । नासिकाग्र इति । नासिकाग्रे गन्धोपलब्धिस्थाने धारणां कुर्वती योगिनो यो दिव्यगन्धसाक्षात्कारोऽल्पेनैव कालेन भवति सा गन्धप्रवृत्तिरिति तान्त्रिकपरिभाषा । एवं सर्वत्र व्याख्येयम् । ताल्वादयो रूपाद्युपलब्धिस्थानमिति शास्त्रप्रामाण्यादवधारणी यम्। स्थितिनिबन्धनीति व्याचष्टे। चित्तं स्थितौ निबध्नन्तीति अर्थान्तरेवतिसूक्ष्मेषु दृढ़स्थितियोग्यं कुर्वन्ति संस्कारद्वारेत्यर्थः ।

समाधिपाद योगवार्तिकम्। अन्यच्च कुर्वन्तीत्याह। संशयमिति। शास्त्रीयेऽर्थान्तरे संशयं निराकुर्वन्तीत्यर्थः। संशयविधमनप्रकारं च वक्ष्यति। समा- धिप्रज्ञायामिति। समाधौ जायते या प्रज्ञा सत्त्वपुरुषान्यता- साक्षात्कारस्तत्र वक्ष्यमाणवैराग्यहारोपकुर्वन्ति च इत्यर्थः । एतेनेति। यतो रूपप्रवृत्तिविषयवती एतेन हेतुना रूपप्रधान- त्वाच्चन्द्रादिप्रवृत्तयोऽपि स्थितिहेतुतया शास्त्रान्तरेषूच्यमाना अस्यामेव विषयवत्यां प्रवेशनीया इत्यर्थः। अतो न न्यूनतेति भावः। संशयं विधमन्तीति यदुक्त तत्र शङ्कां निराकुर्वन्नेव तहिवणोति । यद्यपि हौति । तैस्तैः शास्त्रैः स्वानुमानैराचार्यो- पदेशैश्च निर्णीतमर्थतत्त्व परमार्थभूतमेव भवतीति निश्चयान तत्र संशयः सम्भवतीति शेषः । संशयमुपपादयति । तथापीति । यावच्छास्त्रार्थंकदेशः स्वकरणैश्चक्षुर्मनादिभिर्न साक्षातक्रियते तावत्सव शास्त्रादि परोक्षमिव व्याजोक्तिवत् सन्दिग्धतात्पर्यय कं भवति इत्यतो नापवर्गादिषु निश्चयं जनयतीत्यर्थः तात्पर्य- संशयाहितो हि संशयो निर्णीतेऽप्यर्थे भवति। अत एव शास्त्र- मूलके अनुमानेऽपि संशयो भवतीत्याशयः । संशयमुपाद्य तदि- धमनप्रकारमाह । तस्मादिति । उपोद्दलनमत्र पूर्वावततात्पर्य संशयापसारणं, तत्र शास्त्रेषु श्रदीयते इदमित्वमेवेति विश्वस्यत इत्यर्थः । एतदथं निश्चयाख्यश्रद्धोत्पादनार्थ समाधिप्रज्ञायाः श्रद्धा द्वारीभवतीति यदुक्त तद्दिवणोति। अनियताखिति । अनिय- तासु अव्यवस्थितासु चित्तवृत्तिघु मध्ये तत्तहन्धादिप्रवृत्त्वा गन्धादीनां दोषदर्शनात् तद्दिषयके वशीकारसंन्नावैराम्ये जाते सति विक्षेपहासात् तस्य तस्योत्तरभूमिरूपस्यार्थस्य साक्षात्का- राय चित्तं समर्थ स्यादित्यर्थः । वैराग्यस्य हारं विक्षेपास्यप्रति- बन्धनिवृत्तिं स्वयं विवृणोति । तथाच सतीति । वशीकारसंज्ञावै- राग्ये च सतीत्यर्थः । चित्तस्यनिबन्धन परिकर्मान्तरमाह ॥३५॥ - ४ पातञ्जलदर्शनम्। * विशोका वा ज्योतिष्मती॥ ३६ ॥ * प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनौवन- वर्त्तते, हृदयपुण्डरीके धारयतो या बुद्धिसंवित्, बुद्धिसत्त्वं हि भाखरमाकाशकल्प, तब स्थितिवैशारद्यात् प्रवृत्ति: सूर्येन्दुग्रहमणिप्रभा- रूपाकारण विकल्पते, तथा अस्मितायां समापन्न चित्तं निस्तरङ्गमहोदधिकल्प प्रशान्तमनन्तमस्मि- तामात्र भवति, यत्रेदमुक्त "तमणुमात्रमात्मान- मनुविद्यास्मीत्येवं तावत् सम्प्रजानीते” इति । एषा हयौ विशोका विषयवती अस्मितामावा च प्रवृत्ति ोतिष्मतीति उच्यते, यथा योगिन- श्चित्त स्थि तिपद लभत इति ॥ ३६ ॥ विगतः शोको यस्या इति विशोकेति हेतुगर्मविशेषणं तथा च यतो विशोका अतो वक्ष्यमाणज्योतिष्मती श्रेष्ठा स्थिति- हेतुरित्यर्थः। द्विविधां विशोकां विवृणोति । हृदयेत्यादिना एषा दयो विशोकेत्यन्तेन। हृदयपुण्डरीकालम्बने चित्तं धार- यतो या बुद्धिसंवित् तत्साक्षात्कारो भवति यच्च वक्ष्यमाणरीत्या अस्मितामात्रमस्मीत्येतावन्मात्राकारं चित्तं भवति एषा इयो विशोका ज्योतिष्मतीत्युच्यते इत्यन्वयो भविष्यति, तत्र बुद्धि- संविदि ज्योतिष्मतीसंज्ञाया अन्वर्थतामाह। बुद्धिसत्त्व होति । बुद्धिरूपं सत्त्व भाखरं स्वपरप्रकाशकं तेजोवत् आकाशवद्विभु च भवति तत्र बुद्धौ स्थितिवैशारद्याद् निर्मलैकाग्रमात् बुद्धि- प्रहत्तिः सूर्यादिप्रभान्तसदृशाकारण विकल्पते विशेषणोत्पद्यत समाधिपाद योगवार्तिकम् । ८५ इत्यर्थः। अतो विषयस्य ज्योतिष्मत्त्व न विषयिणी प्रवृत्तिरपि ज्योतिष्मतीति भावः । अत्र चान्तःकरणस्य विभुखमाचार्य सिद्धान्तितम्। अन्त:करणस्य चेयं योगशास्त्रोक्ता प्रक्रिया। उदरोरसोर्मध्ये यत्पद्म तिष्ठति अधोमुखमष्टदलं तदेचकप्राणा- यामणोर्ध्वमुखं कृत्वा तस्मिन्त्रालम्बने चित्तं धारयेत्। तत्र हि चित्तं तिष्ठति। तद्यथा। पद्ममध्ये सूर्यमण्डलमकारो जाग- रितस्थानं तस्योपरि चन्द्रमण्डलमुकारः स्वप्नस्थानं तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानं तदुपरि परं ब्रह्म व्योमा- त्मकं नादस्तुरीयस्थानमस्ति यमईमात्रमुदाहरन्ति योगिनः । तत्कर्णिकायां विष्वग्व्यापिशाखासहस्रवत्या मनोवहनाया मूलं तिष्ठति तस्या अलाबुलतिकाया इव ऊर्ध्वमुखी एका शाखा सुषुम्नेति गीयते तया च शाखारूपया ब्रह्मनाया वाह्यान्यपि सूर्यमण्डलानि प्रोतानि सैव मनोवहा नाड़ी चित्तस्थानं भवति तस्यां चित्तं धारयतो योगिनश्चित्तसाक्षा- कारो जायते इति। तथास्मितायामिति। अस्मिता अत्र नाहकारः किन्तु अात्मतत्त्व तमणुमात्रमात्मानमनुविद्येत्यु- त्तरवाक्यात्। अस्मितात्मताहन्तानां पयायत्वाच्च । भावप्रत्य- यश्च निर्विशेषसामान्यमानताबोधनाय प्रयुक्तः । तथा चास्मि- तायां विविक्तचिन्मात्रे पुरुष समापन्न तद्रूपतापनमत एव निस्तरङ्गमहोदधिकल्प पुरुषाकारत्वात् स्वयमपि तत्कल्प तथा शान्तं शोकादिनिमित्तक्षोभरहितभनन्तं सर्वतोऽनाहत- मस्मितामात्रमस्मीत्येतावन्मात्राकारमन्याकारताशून्यं भवती- त्यर्थः। यात्मनधिज्जयोतिर्मयत्वात् तदाकारस्य ज्योतिष्मत्त्व स्पष्टमेवेति पुनर्नोल्लम्। नन्वनेनैवात्मसाक्षात्कारेणैव कृतार्थ- त्वात् कथमस्य स्थितिशेषतयोपन्यास इति चेत्, न। कृतात्म- साक्षात्कारणापि ज्ञाननिष्ठया परवैराग्यार्थमभ्यासापेक्षणादिति

प्रातञ्जलदशनम्
गन्धादिप्रवृत्तिभ्यथायमस्मिताप्रवृत्तेर्विशेषो थहन्धादिग्रहत्तयोऽ-
धान्तरेषु चित्तस्थैर्यहेतवोऽस्मिताप्रकृत्तिस्तु स्वविषय एवेति ।
अषिच जीवात्मसाक्षात्कारस्य परमात्मनि चित्तस्थितिहेतुत्वम-
स्तौति। अस्मिताशब्दार्थ पूर्वाचार्यमुखेन विवृणोति । यत्रेद-
मिति। अणुमात्रं सूक्ष्मतममनुविद्य श्रवणमननाभ्यामवधार्य
अस्मीत्येतावन्मात्राकारण साक्षात्करोतीत्यर्थः । एषा हयोति
विषयवती अस्मितामात्रा चेति द्विविधा विशोका ज्योति-
मतीत्युच्यते शास्त्र कृद्भिः । अनया योगिनश्चित्त स्थितियोग्यतां
प्राप्नोतीत्यर्थः । ननु गन्धादिप्रतिवद्बुद्धिसंविदोऽपि विषयव-
तोत्वे पूर्वसूत्रेणैव तद्हणं युक्तमिति चेत्, न। गन्धादिपञ्चक
एव विषयशब्दस्य मुख्यत्वात्तत्प्रवृत्तेरेव मुख्यविषयवत्याः पूर्व-
सूत्रेणोक्तत्वात् बुद्धौ च पुरुषसाक्षितया विषयशब्दो गौण एव,
असङ्गस्य पुरुषस्य बुद्धिवहन्धाभावेन सिधात्वर्थायोगात्। अतो
बुद्धिसंविदो गौणं विषयवत्त्वमत्र सूत्रे प्रोतमिति विशोकत्व
चास्मितासंविदः साक्षादेवास्ति 'तरति शोकमात्मवि'दिति
श्रुतेः । बुद्धिसंविदस्तु विशोकत्व सङ्कल्पसिया किं वा विवेक-
ख्यातिहारति बोध्यम् । चित्तस्थैय्यकारणं परिकर्मान्तरमाह
* वीतरागविषयं वा चित्तम् ॥ ३७॥ *
वीतरागचितालम्बनोपरक्त वायोगिनश्चित्तं
स्थितिपद लभत इति ॥ ३७॥
व्याचष्टे । बोहोति। वीतरागं यसनकादीनां चित्त तदे.
वालम्बनं तेनोपरक्त तद्धारणया नदाकारतापन्न योगिचित्त
विरक्तं सदालम्बनान्तरेऽपि स्थितियोग्यतां लभत इत्यर्थः ।
तथैव परिकर्मान्तरमाह ॥ ३७ ॥

समाधिपादे योगवार्तिकम्।
८७
* स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८॥ *
खपज्ञानालम्बनं निद्राज्ञानालम्बनं वा तदा-
कारं योगिनश्चित्तं स्थितिपदं लभत इति ॥३८॥
स्वप्रज्ञानं स्वप्नरूपं ज्ञानं तदालम्बनकं चित्त प्रपञ्चज्ञाने
खप्रदृष्टिमच्चित्तमिति यावत् । तथा चोक्तम् ।
दीर्घस्वामिमं विद्धि दीर्घ वा चित्तविभ्रमम् ।
इति। इयं च दृष्टि: कामदुघत्वादिगुणैर्वाचि धेनुदृष्टिवत्
क्षणभङ्गुरविषयकत्वादिगुणैर्जायज्ज्ञाने स्वप्नदृष्टिरूपेति। एत-
दपि वैराग्यद्वारा चित्तस्यैय्य हेतुरित्याशयः। निद्राज्ञानालम्बनं
वेति। निद्रारूपं ज्ञानमेवालम्बनं यस्य तत्तथा सर्वजीवेषु
विस्मृतात्मकेषु सुषुप्तदृष्टिमच्चित्तमिति यावत् । तदुक्तम् ।
ब्रह्माद्य स्थावरान्तञ्च प्रसुप्त यस्य मायया ।
तस्य विष्णोः प्रसादेन यदि कश्चित् प्रमुच्यते ।
चराचरं लय इव प्रसुप्तमिह पश्यताम् ।
किं मृषा व्यवहारेषु न विरक्त भवेन्मनः ।
इति । भाष्यञ्च सुगमम् ।
* यथाभिमतध्यानाहा ॥ ३८ ॥ *
यदेवाभिमतं तदेव ध्यायेत् । तत्र लब्धस्थि-
विकमन्यत्रापि स्थितिपदं लभत इति ॥ ३८ ॥
किं बहुना यदेवाभिमतं
हरिहरमूर्त्यादिकं तदेवादी
ध्यायेत् तस्मादपि ध्यानात्तत्र लब्धस्थितिकस्य चित्तस्यान्यत्रापि
विवेकपर्यन्तसूक्ष्मेषु विनैव साधनान्तरं स्थितियोग्यता भवती-
त्यर्थः। इत्यमेव व्याचष्टे । यदेवति। परिकर्मनिष्यत्तेलक्षण-
माह॥ ३८॥

पातञ्जलदर्शनम्। * परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥४०॥ सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थिति- पद लभत इति । स्थूले निविशमानस्य परम- महत्त्वान्तं स्थितिपद चित्तस्य । एवं तामुभयौं कोटिमनुधावतो योऽस्य अप्रतिघातः स परो वशीकारः, तद्दशीकारात् परिपूर्ण योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्म अपेक्षते इति ॥४०॥ अथ लब्धस्थितिकस्य चेतसः किंखरूपा किंविषया वा समापत्तिरिति । तदुच्यते। अस्य परिकर्मितचेतसः। परमं महत्त्व येषां पुरुषादीनां ते परममहत्त्वा: । व्याचष्टे। सूक्ष्म इति । सूक्ष्मेऽल्पपरिमाणे चित्तस्य निवेशनभवस्थानमभीप्सोरित्यर्थः । लभते योगौति इति । स्थू ले महत्परिमाणेऽन्यत् पूर्ववत् । एवं तामिति। एतत् स्थूलसूक्ष्म रूपं कोटिवयं पक्षद्वयं चरतोऽस्य चित्तस्य योऽप्रतिघात: केनापि अप्रतिबद्धता स वशीकारश्चि- त्तस्य विधेयत्वं भवतीत्यर्थः । परशब्दादपरोऽपि वशीकारोऽस्ति दोषदशनजन्यो वशीकारसंज्ञारूप इति भावः । तदपेक्षया अस्य परत्वे हेतुमाह। तहशीकारादिति । तस्मादशीकारात् परिपूर्ण समाप्तस्वयसाधनाका चित्तमन्यासान्तरसाध्य' परिष्कार न अपेक्षत इत्यर्थः। वशीकारसंन्नावैराग्यानन्तरं तु चित्तमभ्यास- छतं वशीकारमपेक्षत एवेति तदपरं निकष्टमिति भावः । तदे- वमभ्यासवैराग्यादिकं परिकर्मान्तं योगसाधनमभिहितं सामा- शेषः । स्थूल समाधिपाद योगवार्तिकम् । ८८ न्यतो योगद्वितयञ्च प्रोक्तमतः परं योंगयोः फल वक्तव्यं, नवादी सम्प्रज्ञातस्य फलं ध्यानादिव्यावृत्त प्रतिपादयन् सूत्रमवतार• यति । अथेति । अथशब्दः प्रश्न । समापत्तिः सम्यगालम्बना- कारत्वापत्तिः प्रत्यक्षवृत्तिरित्यर्थः। चित्तस्य चेयं प्रज्ञाख्यावस्था सम्प्रज्ञातेष्वेव भवति न तु धारणाध्यानसमाधिषु तेषु सामग्रो- णालम्बनाग्रहणात् साक्षात्कारस्यैव विशेषाकारत्वादिति ॥४०॥ * क्षौणवृत्तेरभिजातस्येव मणेहीटग्रहण- ग्राह्येषु तत्स्थतंदञ्जनतासमापत्तिः ॥ ४१ ॥ * क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः अभिजातस्येव मोः इति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात् तत्तयोपरक्त उपा- श्रयरूपाकारण निर्भासते तथा ग्राद्यालम्बनोप- रक्त चित्त ग्राहसमापन्न ग्राद्यस्वरूपाकारण निर्भासते, भूतसूक्ष्मोपरक्त भूतसूक्ष्मसमापन्न भूतसूक्ष्मखरूपाभासं भवति, तथा स्थूलालम्बनो- परक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति, तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति, तथा ग्रहणेष्वपि इन्द्रियेष्वपि द्रष्टव्यं, ग्रहणालम्बनोपरक्त ग्रहणसमापन्नं ग्रहणस्वरूपा- कारण निर्भासते, तथा ग्रहीटपुरुषालम्बनोप- रक्त ग्रहोटपुरुषसमापन्न ग्रहोटपुरुषस्वरूपाका- रेण निर्भासते, तथा मुक्तपुरुषालम्बनोपरतं मुक्तः- पातालदर्शनम् । पुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारण निर्भासते, तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीटग्रहण- ग्राह्येषु पुरुषेन्द्रियभूतेषु, या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः, सा समापत्तिरि- त्युच्यते ॥ ४१॥ त्यर्थः । क्षीण वृत्तरपगतवृत्त्यन्तरस्य चित्तस्येत्यर्थः अभिजातस्य निर्मलस्य मणेरिव ग्रहीवादिषु तस्थिततया तदञ्जनता सम्यक तदाकारता जायते, सा च समापत्तीति शब्दवाच्या भवती अत्र सम्प्रज्ञातफलभूतायाः प्रज्ञाया: समापत्तिरिति तान्त्रिको परिभाषापि प्रसङ्गादुक्ता । सा च असम्प्रज्ञातव्यावृत्तस्य सम्प्रज्ञातस्वरूपस्य परिचायकतयैव सम्प्रज्ञातयोग इति पश्चा- इक्ष्यते ता एव सवीज: समाधिरिति सूत्र इति । क्षीणवृत्त- रिति हेतुगर्भविशेषणस्यायमाशयः । चित्तस्य स्वत एव सर्वार्थ- साक्षात्कारसामर्थ्यमस्ति विषयान्तरव्यासङ्गदोषादेव तु तत्प्रति- बद्धमतो वृत्त्यन्तरप्रतिबन्धस्य नि:शेषतो विगम स्वत एव ध्येय- वस्तुसाक्षात्कारस्तद्रूपापत्त्याख्यो भवतीति भाथे प्रत्यस्तमि- तेति। प्रत्ययस्य प्रत्ययान्तरस्येत्यर्थः, समापत्तेरपि प्रत्ययत्वात् । उत्पत्तिक्रमानुरोधेन सौत्र पाठक्रममुल्लङ्घय ग्राह्यादिसमापत्तीः सदृष्टान्ता व्याख्यानायादौ स्वयं विवृणोति। यथेति। उपा- श्रयभेदाज्जपाकुसुमाद्युपाधिविशेषात् तद्रूपोपरक्तस्तत्प्रतिविम्बो- छाही सन् स्फटिक उपाधितुल्याकारतयैव निर्भासते प्रतीयते तथा ग्राह्यणालम्बनेनीपरक्तं समर्पितप्रतिविम्बं वृत्तः प्रत्यक्ष रूपतालाभाय ग्राह्यसमापनमिति ग्राह्यगतविशेषाकारमित्यर्थ- कमेवम्भूतं चित्त ग्राह्यान्यूनाकारणैव साक्षिणि निर्भासत समाधिपादे योगवार्तिकम् । १०१ इत्यर्थः । अत्र समापत्तिरूपस्य प्रत्यक्षस्यं प्रामाण्याय ग्राह्यरूपा- कारण निर्भासत इत्यनेन तत्फलमुक्तं पौरुषेयबोधस्यैव प्रमाण- फलत्वादिति । एवं सर्वत्र ग्राह्यसमापत्ताववान्तरं वैविध्यमाह। भूतेति। अत्र भूतसूक्ष्मशब्देन तन्मात्रादिप्रकृतिपर्यन्त गृहीतं सूक्ष्मशब्दस्य कारणार्थतया न अत्रेन्द्रियग्रहणं स्थूलशब्देन च महाभूतानि गृहीतानि विश्वभेदशब्द न च स्थावरजङ्गभादयो- ऽवान्तरमदा ग्राह्या: । अन्यत् पूर्ववत् । गृह्यतेऽनेनेति ग्रहण- मिन्द्रियं तत्र समापत्ती सूक्ष्म स्थूलविश्वभेदरूपं त्रैविध्यमतिदि- शति। तथा ग्रहणेष्वपीति । इन्द्रियाणां सूक्ष्म बुद्धग्रहङ्कारा- विति । भाष्यकारो वक्ष्यति । स्थूलञ्च चक्षुरादिकं विश्वभेदश्च स्थावरजङ्गमानां चक्षुरादिविशेषा इति। अवान्तरविभागमति- दिश्य ग्रहणसमापत्ति सामान्यतो दर्शयति। ग्रहणालम्बनेति । पूर्ववद्याख्येयम् । ग्रहोलसमापत्ति पूर्ववव्याचष्टे । तथा ग्रही- विति । ग्रहौढत्वं बुझेरपि व्यपदिश्यत इति तव्यावर्त्तनाय पुरुषपदम् । अत्र ग्रहणफलोपहितत्वं ग्रहोसत्वं खरूपयोग्य- तापरत्वे मुक्तपुरुषेषु पृथग्वचनानौचित्यात्, ईश्वरस्य च अत्रैव प्रवेश: । ग्रहणखरूपयोग्यमानेष्वपि समापत्तिं व्याचष्टे । मुक्तति । मुक्ता आत्यन्तिकालयं गताः शुकादयः । समग्रसूत्रार्थमाह तदेवमिति । सामान्यत: समापत्तिरुक्ता तत्र ग्रहोसमापत्ती स्थूलसूक्ष्मविषयत्वरूपविशेषाभावात् सा एकविधैव । ग्राह्य- ग्रहणसमापत्त्योस्तु तहिशेषसत्त्वात् तयोविशेषानाह विभिः सूत्रैः ॥ ४१ ॥ * तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवि- तर्का समापत्तिः ॥ ४२ ॥ * तद् यथा गौरितिशब्दो गौरित्यर्थः गौरिति- १०२ पातञ्जलदर्शनम् । ज्ञानम् इत्यविभागेन विभक्तानामपि ग्रहणं ह- ष्टम् । विभज्यमानाश्चान्य शब्दधर्मा अन्य अर्थ धर्मा अन्य विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थ: समाधिप्रज्ञायां समारूढ़: स चेत् शब्दार्थज्ञा- नविकल्पानुविध उपावत ते सा सङ्कीर्णा समा- पत्तिः सवितर्कत्युच्यते॥ ४२ ॥ यदा पुनः शब्दस तस्मृतिपरिशुद्धौ श्रुतानु- मानविकल्पशून्यायां समाधिप्रज्ञायां खरूपमा- तणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छि- द्यते सा च निर्वितर्का समापत्तिः । तत्परं प्रत्य- नम्, तच्च श्रुतानुमानयोर्वीजं, ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमानज्ञानसहभूतं तद्द- र्शनं, तस्मादसङ्कीर्ण प्रमाणान्तरेण योगिनो नि- वितर्कसमाधिजं दर्शनमिति, दर्श नमिति, निर्वितकीयाः समापत्ते रस्याः सूत्रेण लक्षणं द्योत्यते । तीयसूत्रे सूक्ष्मविषयकसमापत्तेः वक्ष्यमाणतया अस्य सूत्रदयस्य स्थूलविषयकत्वं परिशेषाल्लभ्यते। स्थूलं कायं सूक्ष्म कारणम् । तत्र स्थूलं विविधं, भूतानि तन्मात्राणां कार्याणि इन्द्रियाणि च अहङ्कारस्य कार्याणोति । तत्र च स्थूलसूक्ष्म- समापत्ती विविधे भवतः। तासु चतसृषु समापत्तिषु सविक मन्ये। समाधिपादे योगवार्तिकम्। १०३ ल्पिकायाः स्थूलविषयकसमापत्त लक्षकमिदं सूत्रं, तदेतद्व्या- चक्षाण आदी शब्दार्थज्ञानविकल्पमुदाहरति । तद्यथेत्यादिना दृष्टमित्यन्तन। इत्यविनिर्भागन एवमभेदेन विभक्तानां वस्तुतो भिन्नानामपि ग्रहणं विकल्पाख्यं लोके दृष्टं पूर्वोक्त विकल्पलक्षणा- क्रान्तवादित्यर्थः । ननु वस्तुशून्यत्वे सति विकल्पः स्यात् प्रतीतिबलात् त्वभेदोऽत्र वस्तु सन्नेव भवतु तबाह । विभज्यमा- नाथेति । अन्वयव्यतिरेकाभ्यां परीक्षकैविभज्यमाना विविय- माना अन्ये अर्थज्ञानधर्माभ्यां भिन्नाः शब्दधर्मास्तारत्वमन्दत्वा दयः। एवमर्थधर्माः जड़त्वमूर्तत्वादयः शब्दज्ञानधर्माभ्या- मन्ये। एवं ज्ञानधर्माः प्रकाशामूर्तत्वादयः शब्दार्थधर्माभ्या- इत्यय मेतेषां शब्दार्थज्ञानानां विभक्तोऽन्योन्यं भिन्नः पन्याः स्वरूपभेदोनयनमार्ग इत्यर्थः । समापत्तिव विकल्प- रूपेत्यतो विकल्पसङ्कीर्णत्वानुपपत्तिरित्याशयेनान्यथा सूत्रार्थ व्याचष्टे। तत्रेति। तत्र गवादो स्थलभूतन्द्रियेषु समापन्नस्य समाहितस्य योगिनः समाधिप्रज्ञायां समारूढ़ो यो गवाद्यर्थः स यदि शब्दार्थ ज्ञानविकल्पेन गौरियं भासते इत्येवं शब्दार्थ- ज्ञानानाममेदभ्रमणानुविदो विषयीकृतो भवति तदा सा सङ्कीर्णा विकल्पमिथिता विकल्पविषयोभवदर्थविषयिणीति यावत्। समापत्ति: सवितर्कसंज्ञा भवतीत्यर्थः। अत्र हि गौरयमित्वंशे शब्दार्थयोरमेदविकल्पः । भासत इत्यंशे चार्थ- ज्ञानयोरभेदविकल्पः। अर्थद्वारा च शब्दज्ञानयोरप्यभेदवि- कल्पः। एवं नारायणोऽयं भासत इत्यादिरूपैश्च सवितर्का समापत्तिर्भवति । अब शब्दादिविकवर्गथासम्भवमन्चेऽपि विकल्पा उपलक्षणीयाः । इयं च समापत्तिरपरं प्रत्यक्षमविद्या- लेशसम्बन्धादिति। सूत्रान्तरं योजयितु प्रथम तापन्निवितका स्थलसमापत्ति व्याचष्टे । यदा पुनरिति । अयं भावः । शब्दसङ्के- १०४ पातञ्जलदर्शनम् । तस्मरणपूर्वके तावत् क्रमेणागमानुमानज्ञाने भवतः । सङ्केतश्चार्य गौरिति शब्दार्थयोरितरतराध्यासात्मकः । 'एतदै तत्परमपरं च ब्रह्म यदोकार' इत्यादिश्रुतिषु 'अकारोकारमकारा ब्रह्म- विष्णुमहेश्वराः' इत्यादिस्मृतिषु 'अमरा निर्जरा' इत्यादिकोशेषु च सङ्केतस्य विकल्पिताभेदरूपत्वावधारणात् । ततश्च सङ्केत- ग्रहसमानाकारणव शाब्दबोधस्तन्मूलकानुमानञ्च भवतीत्यत आगमानुमानज्ञानयोरपि श्रवणमननरूपयोर्विकल्प श्रौत्सर्गिकः ततश्च तन्मूलिका या प्रथमं जायते समाधिप्रज्ञा सापि विकल्प- व्यामिश्रव भवतीति सा सवितर्का भवति। यदा पुनरर्थ- मात्रादरादर्थमात्रप्रवणेन चेतसा सङ्केतस्मृतिस्त्यज्यते तदा समाधौ तन्मूलको विकल्पो न जायत इति निर्वितर्का भव- तीति । तदिदमाह। शब्दस तेति । शब्द सङ्केतस्य स्मृतः परि- शुद्धिरपगमस्तस्यां सत्यां तत्स्मृतिनिमित्तकेन श्रुतानुमानज्ञान- कालीनविशल्पेन शून्यायां समाधियज्ञायामर्थस्वरूपाकारणेवा- वधार्यत इत्यादिरथः आरोपगन्धस्यापि सम्पर्को नास्तीति प्रतिपादनाय स्वरूपमात्रेणावस्थितोऽर्थ इत्युक्तम्। परमिति । आरोपसम्पर्काभावादिति भावः। अग्टहीतग्राहित्य निर्वितर्क- समापत्तेः प्रामाण्यप्रयोजकं दर्शयति। तच्चेत्यादिना दर्शन- मितोत्यन्तेन । शुतानुमानयोः श्रवणमननयोर्वीजं वीजशब्दार्थ ब्याचष्टे । तत इति। प्रभवत: प्रकर्षण भवतः गुरुणाऽशेष- विशेषसाक्षात्कारं विना असन्दिग्धाविपर्यस्तवस्तुस्वरूपप्रतिपाद- नासम्भवात्। अतः सवितकोनधिगतोऽपि विशेषोऽस्या विषय इत्यर्थः । नन्वेवं सर्वज्ञगुरुणा श्रुतिस्मृतिभ्यामेवाशेषविशेष- प्रतिपादनं स्यादितीयं व्यर्था निर्वितर्कसमापत्तिरिति तत्राह । न चेति। सहभूतं तत्कालीनं गुरोविशेषज्ञत्वेऽपि स विशेषः शब्देनाशेषो वक्तुं न शक्यते इक्षुक्षीरादिविशेषवत् 'इदं तदिति समाधिपादे योगवार्त्तिकम् १०५ निर्वेष्टु गुरुणापि न शक्यत' इति स्मृतः। अतः सर्वज्ञवाक्या- दपि निर्विकल्पकसमापत्तिसमानाकारं ज्ञान न सम्भवतीत्यर्थः । ततः किमित्यत आह। तस्मादिति। असङ्कीण गृहीतमात्रा- नवगाहि। तदेवमुत्तरसूत्रस्य लक्ष्यमवधार्य सूत्रमवतारयति । निर्वितर्काया इति। स्पष्टम् ॥ ४२ ॥ * स्मृतिपरिशुद्धी स्वरूपशून्येवार्थ मावनि- भीसा निर्वितका ॥ ४३ ॥ * या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृति- परिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञा- रूपं ग्रहणात्मकं त्यक्ता पदार्थ मात्रखरूपा ग्राह्य- खरूपापन्नेव भवति सा निर्वितका समापत्तिः । तथा च व्याख्याता, तस्या एकबुद्धापक्रमो हि अर्थात्मा अणुप्रचयविशेषात्मा गवादिर्घटादिवा लोकः । स च संस्थानविशेषो भूतसूक्ष्माणां साधा- रणो धर्म प्रात्मभूतः फलेन व्यक्तेनानुमितः स्व- व्यञ्जकाञ्जनः प्रादुर्भवति, धर्मान्तरोदये च ति. रोभवति, स एष धर्मोऽवयवीत्युच्यते । योऽसा- वेकश्च महाश्चाणीयाश्च स्पर्शवाश्च क्रियाधर्मकश्च अनित्यश्च, तेनावयविना व्यवहाराः क्रियन्ते । यस्य पुनरवस्तुकः स प्रचयविशेषः सूक्ष्मं च का- पातञ्जलदर्शनम्। रणमनुपलभ्यमविकल्पस्य तस्य अवयव्यभावात् अतद्रूपप्रतिष्ठ मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्त मिथ्याज्ञानमिति, तदा च सम्यग्ज्ञान- मपि किं स्यादिषयाभावाद्, यद् यदुपलभ्यते तत् तदवयवित्वेनाघ्रातं, तस्मादस्ति अवयवी यो महत्त्वादिव्यवहारापन्नः समापत्त निर्वितकीया विषयो भवति ॥॥ ४३ ॥ यतः स्मृतिपरिशुद्धौ सत्यां जायते तथा स्वरूपशून्यैव भवति अतोऽर्थमावस्य निर्भासो यवेत्यर्थमावनिर्भासा अखिलविकल्प- शून्या या समापत्तिः सा निर्वितत्यर्थः । पदानि क्रमशी व्याचष्टे । या शब्द ति। शब्दसङ्कतात् श्रृंतानुमानरूपज्ञाने या विकल्परूपा स्म तिः चिन्ता सवितर्ककालेऽप्यनुवर्तते तदप- गमे सतीत्याद्यपदार्थः। शब्दसङ्केतस्याच स्मृतिहेतुत्व' स्वगोचर- ज्ञानदारा बोध्यम्। सङ्केतश्च शब्दार्थयोः कल्पिताभेदमात्र इत्यत: सङ्कतस्मृतौ तन्मूलक ज्ञाने च अभेदविकल्प औत्सर्गिक इति । शब्दविकल्पशून्यत्वे हेतुमुक्त्वा ज्ञानविकल्पशून्यत्वे हेतु- माह। खमिवेति। इवकारो भिन्नक्रमेण त्यक्त्व तिपदानन्तर योजनीयः, त्यागसादृश्यञ्च अग्रहणमिति । तीयपदस्यार्थमाह। पदार्थमात्रेति। तस्याप्यर्थमाह। ग्राह्यस्वरूपापन्न व भवतीति। सा निर्वितत। एवं निर्भासा या समापत्तिः सा निर्वितर्क- त्यर्थः । तदेवं सूत्राभ्यां प्रतिपादितौ सवितर्कनिर्वितर्कयोगी सविकल्पनिर्विकल्पशब्दाभ्यामपि शास्त्रेषूच्यते। वितर्कविचारे- त्यादिसूत्रं च यः स्थूलविषयकाभोगो वितर्क इत्युक्त स एवात्र सक्तिकनिर्वितर्कसमापत्तिरूपेण विधोक्त इति। नन्वस्य निर्वि- समाधिपाद योगवार्तिकम्। तर्कसाक्षात्कारस्य विषयः किमवयवाः किं वा अवयवी, आद्य वक्ष्यमाणनिर्विचारसमापत्त्या सहकविषयत्वापत्तिः । अन्त्ये अव- यविनः कल्पितत्वेन तहोचरनिर्वितर्काया विकल्पशून्यत्वानुपप- त्तिरित्याशय अवयविनं व्यवस्थापयन् अवयविविषयकत्वमेव अस्य वृद्धवाक्यादवधारयति । तथा च इत्यादिना लोक इत्यन्तेन । व्याख्यातं पूर्वाचायरिति शेषः। तस्या निर्वितर्काया गवादि- घटादिवा लोक आलम्बनमित्यन्वयः। ननु अवयविनि कि प्रमाणं तत्राह। एकबुडुग्रपक्रम इति । एका गौरिति बुद्धिमुप- क्रमते आरभत इत्येकवुद्धा पक्रमः । अतो नावयवानामनेक- तया अवयविव्यवहारनिवाहकत्वमिति भावः । ननु एवमप्य क- प्रत्ययानुरोधादेकं विज्ञानमात्रमेव अवयविव्यवहारहेतुरस्तु तनाह। अर्थात्मेति । अर्धात्मा दृश्यस्वरूपः । विज्ञानमात्रत्वे खस्य स्वदृश्यत्वानुपपत्तिः कर्मक विरोधादिति भावः। ननु एवमवयवेभ्योऽवविनोऽतिरेके कपालं घटो जात इत्यादि- रूपोऽवयवावयविनोरभेदप्रत्ययो न स्यादित्याशङ्कामपाक- रोति। अणुप्रचय विशेषात्मेति। अणू नामेव प्रचयाख्यसंयोग- निमित्तको यो विशेष: परिणामरूपस्तत्वरूप इत्यर्थः । तथा च सामान्यविशेषयोर्भेदाभेदाङ्गीकारात् अभेदप्रत्ययोऽप्युपपत्र एवेति भावः। न व भेदाभेदयोर्विरोध इति वाच्यम् । भेद- स्थान्योन्याभावरूपत्वात् अभेदस्याविभागरूपत्वादिति । अयं चाविभागो न लक्षणानन्यत्वं लक्षणभेदकालेऽपि अभेदप्रत्ययात् किन्तु आधाराधेयभाववत् स्वरूपसम्बन्धविशेष एव दुग्धजलयरे- रिवेति । एतत्सर्व परिणामसूत्रे विशिष्य प्रतिपादयिष्यति भाष्य- कारः। ननु यद्यवयवी स्वीकृतस्तहि तस्यैकावयवनाशे नाशा- पत्त्या अनुपलब्धिप्रसङ्गः। किं चावयविनो नित्यत्वे सर्वदा कार्य- कारिताप्रसङ्गः, अनित्यत्वेऽसदुत्पादतः शशशृङ्गाद्यपि कारणव्या- १०८ यातञ्जलदर्शनम्। पारादुत्पद्येत इत्याशङ्कामपाकगेति। स चेति । स च स्थूलोऽ- वयवी स्वकारणानां भूतसूक्ष्माणां साधारण प्रत्येक परिसमा- नोति नतु हित्वादिवत्त्वादिवद्यासज्यवृत्तिः, एकावयवव्यवधान- ऽपि अप्रत्यक्षत्व प्रसङ्गात् । अत एकावयवनाशेऽपि अवयवान्तरे अवयव्यवस्थानात् तदुपलब्धिः । अवयवविभागविशेष एव अवयविनाशकः । स च विशेषो जातिरूपः फलबलात् कल्पात इति भावः । तथा आत्मभूतः सदैव भूतसूक्ष्मेष्वनुगत: नातः शशादौ शृङ्गाद्युत्पत्तिप्रसङ्गः । तत्र प्रमाणमाह। फलेन व्यक्त- नानुमित इति। अभिव्यक्तिलक्षणकायानुमितः । असदभि- व्यक्ती सर्वत्र सर्वाभिव्यक्तिप्रसङ्गात् । ननु तहि सर्वदेवाभिव्यक्तिः कुतो न भवति तत्राह । स्वव्यञ्जकेति । स्वाभिव्यक्तिहेतुर्यकारणं तदेवाञ्जनमभिव्यञ्जनं कारणं यस्य तथाभूत: सन् आविर्भवति वत्तमानावस्थां प्राप्नोति न सर्वदा । तथा धर्मान्तरोदयकाले च मुहरपातादिना तिरोभवति अतीतावस्थां प्राप्नोति । स एव अवयवानां धर्मोऽवयवीत्युच्यते इत्यर्थः । अतो नोक्तशङ्कावकाशः । कार्यनित्यत्वेऽपि अभिव्यकस्यैव कार्यस्य स्वकार्यकारित्वादिति भावः । स्यादेतत् । अभिव्यक्तिपि नित्या अनित्या वा। आद्ये सवदेवाभिव्यक्तिकार्यप्रसङ्गः। अन्त्ये अवयव्यादेरेव अनित्यत्वम- भिव्यक्तिवदस्तु व्यर्थमभिव्यक्तिकल्पनमिति । उच्यते । अतीताना- गतावस्थावत्त्वस्वरूपमनित्यत्व घटादौ अभिव्यक्ती चेष्यत एव आद्यन्तयोः कार्यस्यात्यन्तासत्त्वप्रतिषेधशय ध्वंसादिप्रतियोगित्व- स्वैव निषेधात् अतीताजागतावस्थयो प्रागभावस्थलाभिषेक- मात्र एवास्माकं विशेषात् । अभिव्यक्तिकल्पना च न व्यर्था घटोऽनागतो घटोऽतीत इति व्यवहारवत् घटो वर्तमान इति व्यवहारस्यापि घटमात्रेणासम्भवात् घटस्यावस्थात्रयसाधारण्ये- नातीतादिकालेऽपि वर्तमानत्वव्यवहारप्रसङ्गात्। न चैवमभि- - समाधिपादे योगवार्तिकम्। १०८ व्यतरप्यवस्थात्रयकल्पना भवत्येवेति वाच्यम्। वीजाङ्गुरादिवत् प्रामाणिकत्वेनादोषत्वस्य सांख्य सूत्रेणोक्तत्वात्। किञ्च सत एवाभिव्यक्तिरित्येव सत्कार्यवादिनो नियमः । अभिव्यक्तेश्चाभि- व्यक्त्यन्तराखीकारेण तस्या असत्या एवोत्पादेऽपि न क्षतिः । कार्याणामनागतावस्थ वाभिव्यक्तरप्यनागतावस्था सैव चाभि- व्यक्त्य त्यत्ती नियामिका अत: शशशृङ्गादिवैलक्षण्यम् । यथा परैरुत्पत्तेरुत्पत्तिरभावे चाभावः स्वरूपमवेष्यते तथैवाभिव्यक्तर- भिव्यक्तिः स्वरूपमवेत्यस्माभिरप्युपगन्तव्यम् । घटादेरतीताना- मतावस्थ तदभिव्यक्तरप्यतीतानागतावस्थ इति । अथैवमभि व्यक्तिरपि घटस्वरूपमेवास्ति इति चेन्न । अतीताद्यवस्थघटेनाभि- व्यक्तिव्यवहारप्रसङ्गस्योक्तत्वादिति दिक् । यत्तु वशेषिका: प्राग- भावमेव कार्योत्पत्तिनियामक कल्पयन्ति । तदसत् । अभावका- ल्पनापेक्षया भावकल्पने लाघवात् । दृष्टत्वात् अन्यानपेक्षत्वाच्च । अपि चाभावेषु स्वतोविशेषे भावत्वापत्तिः। प्रतियोगिरूप- विशेषथ प्रतियोग्यसत्ताकाले नास्ति अतो भावस्थाविशिष्टतया सर्वत्र सर्वोत्पत्तिप्रसङ्ग एवेति । अवयवेभ्योविज्ञानाच्चातिरिक्त- ताया हेतुभूतं ताभ्यां वैधय॑जातमवयविनि दर्शयति। योऽसा- विति । षड़ विशेषणानि यथासम्भवमवयवज्ञानाभ्यां वैधाणि, वैशेषिकैस्त्यणुकशब्देनोच्यन्ते य: परिणामविशेषः स एवात्र अणीयानित्युक्त: कार्येषु परमसूक्ष्मत्वाभावादिति। अवयवादि- विलक्षण-जलाहरणादि-व्यवहारकारितयाप्यतिरिक्तोऽवयवौति प्रतिपादयति । तेनावयविनेति । अवयवातिरिक्तोऽवयवी नास्ती- त्यवयवा एव निर्विकल्पसाक्षात्कारविषय इति वैनाशिकमतम- पाकरोति। यस्य पुनरिति। यस्य मते स. प्रचयनिमित्तको विशेषोऽवयव्याख्यो अवस्तुकस्तुच्छ: सूक्ष्मं चावयवाख्य कारणं न प्रत्यक्षगोचरं तस्य मतेऽवयव्यभावात् प्रायेण सर्वमेव मिथ्या- १० ११० पातञ्जलदर्शनम् । ज्ञानमित्यायातम् । यतोऽतद्रूपप्रतिष्ठमेव मिथ्याज्ञानमिति, तदा च सर्वस्य मिथ्याज्ञानत्वं सम्यग्ज्ञानमपि किं स्यात्, न स्यादेव विषयाभावेन क्वापि ज्ञानस्य सहिषयकत्वासिद्ध रित्यर्थः । तत्र हेतुः यद्यदिति । नन्ववयवज्ञानस्य सम्यग्ज्ञानत्व स्यादिति चेन्न । सूक्ष्मञ्चेत्यादिना अवयवानामप्रत्यक्षत्वस्योतत्वात्। अप्रत्यक्षेष्ववयवेषु लिङ्ग चावयव्य व तस्याभावात् पूर्वावयवज्ञानं प्रमाणाभावादेवासिद्धमित्याशयः । ज्ञानज्ञानस्य सम्यग्ज्ञानत्व कदाचित् स्यादित्याशयात् प्रायेणेत्युक्तम् । अवयव्यभावे सङ्घाताश्रितत्वेन परैरभ्युपगतस्य ज्ञानस्यापि रूपादिवन्मि- थ्यात्वे सर्व ज्ञानं भ्रमो ज्ञानत्वादित्यनुमानसम्भवाच्चेति । स्वसि- हान्तमुपसंहरति । तस्मादिति । सवितर्काया: कदाचित् विकल्पेनाप्युपपत्तिरित्याशयेन निर्वितर्काया इत्युक्तम् । तदेवं स्थूलविषये सूत्रद्दयन समापत्तेईिधा विभागं कृत्वा सूक्ष्मविष- येऽपि तस्या हैविध्यमतिदिशति । * एतयैव सविचारा निर्विचारा च सूक्ष्म- विषया व्याख्याता ॥ ४४ ॥ * तत्र भूतसूक्ष्मेषु अभिव्यक्तधर्मकेषु देशकाल- निमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते । तवाप्येकबुद्धिनिर्याह्यमेवो- दितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधि- प्रज्ञायामुपतिष्ठते। या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानु- पातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्वि- समाधिपादे योगवार्तिकम् । १११ चरित्युच्यते, एवं स्वरूपं हि तद् भूतसूक्ष्ममेते- नैव स्वरूपेणालम्बनीभूतमेव समाधिप्रज्ञाखरूप- मुपरञ्जयति, प्रज्ञा च स्वरूपशून्येवार्थमावा यदा भवति तदा निर्विचारेत्युच्यते, तत्र महद्दस्तु- विषया सविता निर्वितर्का च, सूक्ष्मविषया सविचारा निर्विचारा च, एवमुभयोरेतयैव नि- वितर्कया विकल्पहानियाख्याता इति ॥ ४४ ॥ एतया सवितकनिर्वितकरूपया स्थूलविषयकसमापत्त्या सूक्ष्म विषयाऽपि सविचारनिर्विचाररूपा समापत्तियो व्याख्या- ता अर्थोपरागानुपरागसाम्येनेत्यर्थः। वितर्कविचारेत्यादिसूत्रे सूक्ष्मविषयकाभोगो विचार इत्युक्तं स एवात्र सविचारनिर्वि- वाररूपेण विधा उच्यते इति स्मर्त्तव्यम्। कार्याद्युपरागानु- परागयुक्तां समापत्तिं विधा विभजते। तत्र भूतसूक्ष्मेष्विति । अत्र भूतशब्द इन्द्रियाणामप्युपलक्षक: सामान्यत एव सूक्ष्म- विषयत्व नास्याः समापत्त : भाष्ये व्याख्येयत्वात्। भूतेन्द्रियाणां यत् सूक्ष्म कारणं तन्मात्रादिप्रकृतिपर्यन्तं 'सूक्ष्मविषयत्व चालिङ्गपर्यवसान' मित्यागामिसूत्रात तेषु वर्तमानधर्मविशि- टेषु तथा देशकालनिमित्तैर्विशिष्टतया अनुभूयमानेषु या समा- पत्तिः सा सविचारेत्युच्यत इत्यर्थः । अत्र देश उपयंध:पा- प्रवादिः कालो वर्तमानादिः निमित्त परिणामप्रयोजकः पुरु- पार्थविशेष इति पूर्ववदेवात्राप्यवयवातिरिक्तस्तन्मात्रादिरूपो- ऽवयवी समापत्ते विषय इत्याह। अत्रापोति। उदितो वर्त- मानः, उपतिष्ठते आरूढ़ भवति । सविचारां व्याख्याय निर्वि- ११२ पातञ्जलदर्शनम्। चारां व्याचष्टे। या पुनरिति। या तु सर्वथा सर्वैः स्वरूप: सर्वतो देशकालाद्यनवच्छेदतः समापत्तिः शान्तोदिताव्यपदेश्य- धर्मानवच्छिन्नेषु अतीतवर्तमानभविष्यद्धमरनवच्छिन्नेषु अतो- तवर्तमानभूतसूक्ष्म षु जायते सा निर्विचारा अनवच्छिन्नशब्द- स्यासम्बद्धार्थत्वनिरासाय विशेषणवयं सर्वधर्मेत्यादि। सर्व- धर्माणामाश्रयेषु सर्वधर्माणामाश्रयेषु चेत्यर्थः । निर्वितर्कसाम्य- मस्याः प्रतिपादयति। एवं स्वरूपं होति । पूर्वसूत्रानुसार- णैतयाख्येयम् । उक्तस्य समापत्तिचतुष्टयस्य विषयविभागमाह। तत्रेति। महत् स्थूलं केवलविकृतिरिति यावत् । तेनेन्द्रियाणां भूतपरमाणूनाञ्च संग्रहः। भूतपरमाणूनाञ्च सूक्ष्ममध्ये प्रवेशो वक्तुं न शक्यते, आगामिसूत्रे पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्म इत्यादिना तन्मात्रादीनामेव सूक्ष्मत्वस्य वक्ष्यमाणत्वात्। सूक्ष्म त्वञ्च तत्त्वान्तरकारणत्वं तच्च जलादिचतुष्टयव्यावृत्त्यर्थं वहिरि- न्द्रियग्राह्यगुणराहित्येन विशेषणीयम् । वस्तुतस्तु अष्टप्रकृतिसि- द्वान्ताद्भूतान्युत्तरभूतेष्वाधारकारणान्येव न तु प्रकृतयः, अतोऽत्र तत्त्वान्तरप्रकृतित्वमेव सूक्ष्मत्वमिति। ननु शब्दार्थज्ञानविकल्प- सङ्गीणत्वमेव कथमेतयैवेत्यनेन नातिदिश्यते तत्राह। एवमुभ- योरेतयेव निवितकया विकल्पहानिर्व्याख्यातेति । एवं स्वरूप- मिव विकल्पहानिरपि यथोक्त विकल्पराहित्यमपि उभयोः सवि- चारनिर्विचारयोरेतयैव पूर्वोक्तया निवितर्कया यथोक्तविकल्प- शून्यया सूत्रकारण व्याख्यातनायेत्यर्थः। पूर्वभूमिकायां त्यता- विकल्पस्योत्तरभूमिकायामसम्भवादिति। सूक्ष्मविषयेत्युक्तं, तत्र सूक्ष्मो विषयः किम्पय॑न्त इत्याकाङ्क्षायामाह ॥४५॥ * सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥४५॥ * पार्थिवस्य अणोः गम्बतन्मात्र सूक्ष्मो विषयः, समाधिपादे योगवार्तिकम् । ११३ आप्यस्य रसतन्मात्र, तेजसस्य रूपतन्मात्र, वाय- वौयस्य स्पर्शतन्मावं, आकाशस्य शब्दतन्मात्र- मिति, तेषामहङ्कारः, अस्यापि लिङ्गमात्र सूक्ष्मो विषयः, लिङ्गमावस्याप्यलिङ्ग सूक्ष्मो विषयः, न चालिङ्गात्परं सूक्ष्ममस्ति, नन्वस्ति पुरुषः सूक्ष्म इति, सत्यं, यथा लिङ्गात् परमलिङ्गस्य सौक्ष्मा न चैवं पुरुषस्य, किन्तु, लिङ्गस्य अन्वयिकारणं पुरुषो न भवति हेतुस्तु भवतीति अतः प्रधाने सौक्षमा निरतिशयं व्याख्यातम् ॥ ४५ ॥ - सूक्ष्मश्चासौ विषयश्चेति सूक्ष्मविषयः, अलिङ्गं प्रकृतिस्तत्प- प्यन्तैव सूक्ष्मविषयते त्यर्थः। तत्र स्थूलमारभ्य प्रकृतिपर्यन्तस्य सूक्ष्मतायां क्रममाह। पार्थिवस्येति । स्थूलकाष्ठाः पञ्चविधा अणवस्तत्र पार्थिवाखपेक्षया गन्धतन्मात्रं समापत्तेः सूक्ष्मी विषयः । यद्यपि पार्थिवाणुजलविशिष्टगन्धतन्मात्रारब्धस्तथापि गन्धतन्मात्रस्य प्राधान्यात् तदेव पार्थिवाणोः सूक्ष्ममुक्तम् । एव- माप्यादीनां त्रयाणां पूर्वपूर्वभूतविशिष्टरमादितन्मात्र कार्यत्वे- ऽपि आकाशाणोथाहारविशिष्टशब्दतन्मात्रकार्यत्वेऽपि प्राधा- न्यादेकैकतन्मात्रमेव सूक्ष्ममित्युक्तमिति वेदितव्यम् । तेषामह- कार इति । तेषां पञ्चतन्मात्राणामहङ्कारः सूक्ष्मः कारणत्वात् । अत्र च तन्मावेरिन्द्रियाण्युपलक्षणीयानि। अस्यापीति । अह- झारस्थापीत्यर्थः । लिङ्गमानं महत्तत्त्वं तद्धि स्व कारणस्य प्रकृते- रनुमापकमात्रमगुरवत्। प्रकृतिगतविशेषाणामहङ्कारादिप्वेव प्रकटीभावात्। यथा अन्यत्र काण्डादिभिर्वीजगतविशेषाभि- .

११४ पातञ्जलदर्शनम्। व्यक्तिर्नाङ्गुरमात्रेणेति । अलिङ्ग प्रधानम् । अकार्यत्वेन कस्याप्य- ननुमापकत्वादिति । अलिङ्गपर्यवसानत्वं व्याचष्टे । न च अलि- ङ्गादिति। चोदयति। नन्विति। ननु पुरुषः प्रकृत्यपेक्षयापि सूक्ष्मोऽस्ति निर्धर्मकत्वादिति पूर्वपक्षं परिहरति । सत्यमिति । यथोपादानतया लिङ्गापेक्षितं सौक्ष्मय प्रधानस्यास्ति नैवं पुरुषस्य तस्यापरिणामित्वात् उपादानतया च सूक्ष्मत्वमत्र विवक्षित- मित्याशयः। ननु यदि पुरुषः कारणं न भवति तर्हि 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभि- संविशन्ति तद्ब्रह्म' 'तमेव चाद्यं पुरुष प्रपद्ये यतः प्रवृत्तिः प्रमृता पुराणी'त्यादि श्रुतिस्मृतिशतविरोध इत्याशङ्का परि- हरति । किन्तु लिङ्गस्येति। हेतुस्तु भवति किन्तु लिङ्गस्या- न्वयिकारणमुपादानकारणं पुरुषो न भवतीति व्युत्क्रमेणा- न्वयः। तत्र परमात्मनोऽधिष्ठात्वेन निमित्तकारणत्वं 'मया- ध्यक्षेण प्रकृतिः सूयते सचराचरम्' इति गोतावचनात् । प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्त्तते । नित्ययोापिनोश्चैव जगदादौ महात्मनोः । तत्क्षोभकत्वात् ब्रह्माण्ड सृष्टौ हेतुर्निरञ्जनः । अहेतुरिति सर्वात्मा जायते परमेश्वरः ॥ इत्यादि सकलस्मृतिषु तथा निर्णयाच्च। यत्तु ईश्वरस्या- धिष्ठानत्वरूपमुपादानत्वं यतो वा इमानि भूतानि जायन्त इत्याद्युत शुतिस्मृत्योर्गीयते । आकाशस्य वायूपादानत्ववत्, तदप्यत्र दर्षने निमित्तकारणतामध्य एव प्रवेश्यते पुरुषाणां विकारित्वधमनिरासायेति पुरुषार्थ प्रकृतेः प्रवृत्त्वभ्युपगमेन च जीवपुरुषाणामपि महदाद्यखिलसृष्टिहेतुत्वं संयोगमात्रेण नोपादानलेन। तथा चोक्तम् ।

समाधिपाद योगवार्त्तिकम् । ११५ बुद्यादयो विशेषान्ता अव्यक्तादोखरेच्छया। पुरुषाधिष्ठितादेव जज्ञिरे मुनिपुङ्गवाः ॥ सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ इत्यादिस्मृतिभिः। जीवानामधिष्ठानसंयोगमात्रम् अनु. मतिस्तु पूर्वकल्पीयकामकर्मादिरूपेति दिक् । तदेवं ग्राह्य ग्रह- णसमापत्त्योः सूक्ष्मविषयमेदेन विशिष्टाविशिष्टरूपतश्चतुर्विधवि- भाग उक्तः ग्रहीटसमापत्तौ च यः सविकल्परूपो विशेषः स एताखेव चतसृषु अन्तर्भूत: चेतनोपरागेणैव अचेतनेषु योगस्य व्यवस्थापितत्वात् । अतो ग्रहोसमापत्तौ सविकल्पाविकल्पा- दिविभागो नोक्तः। वितर्केत्यादिसूत्रेण पूर्व सम्प्रज्ञातस्य अवा- न्तरविभाग एव कृत इदानीं यथोक्तसमापत्त्याख्यकार्यमुखेन सवीजपरिभाषापूर्वक सम्प्रज्ञातस्य सामान्यलक्षणमनेनैव प्रसङ्गे- नाह॥४५॥ * ता एव सवीजः समाधिः ॥ ४६॥ * ताश्चतस्रः समापत्तयो वहिर्वस्तुवीजा इति समाधिरपि सवौजः, तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्म ऽर्थे सविचारो निर्विचार इति चतुर्बोपसङ्ख्यातः समाधिरिति ॥ ४६ ॥ ता एव ग्रहीटग्रहणग्राह्य षु समापत्तय एव सवीजः समाधिः सम्प्रज्ञातयोग इत्यर्थः । समापत्तिरूपसाक्षात्कारहेतुत्वादयोगस्य समापत्तित्वमुक्तम् । योगे स्वतोऽवान्तरविशेषाभावादिति । ननु ग्रहील-ग्रहणग्राह्य-समापत्तिभिर्वितर्कविचारास्मितानुगतास्त्रयः सम्प्रज्ञाता एव संग्टह्यन्ते न पुनरानन्दानुगत इति कथं ता एवे- पातञ्जलदर्शनम्। त्यवधारणमिति चेन्न। आनन्दस्य बुद्धिधर्मत्वेन ग्राह्यमध्ये प्रवे. शात्। ननु दुःखवीजसंस्कारहेतुतया समापत्तय एव सवीजाः न तु वृत्तिनिरोधात्मको योग इति कथमुच्यते ता एव सवीज- योग इति तत्राह भाष्यकारः । ताश्चतस्र इति । वहिर्वस्तूनि अनात्मधर्माः संस्कारधर्मादयो दुःखवीजानि जायन्त आभ्य इति बहिर्वस्तुवीजाः, सम्प्रज्ञातनिष्ठाया अपि संस्कारहेतुत्वात् धर्म- मेघत्वाच्च । तथा च वितर्कादिसूत्रोक्तरीत्या चतस्रः प्रकृते तु त्रिधा विभक्तास्ता ग्रहीत्रादिविषयिका: समापत्तयो वहिर्वस्तु- वीजा इत्यतस्ताभिः सम्बन्धात्समाधिः सम्प्रज्ञाताख्यो वृत्तिनि- रोधोऽपि सवीज उच्यत इत्यर्थः। ननु स्थ लसूक्ष्मसमापत्ते रेव चतुर्विधत्वादानन्दास्मितासमापत्तिभ्यां सह षट् समापत्तयो भवन्ति तत्कथमुच्यते चतस्र इत्याशङ्कामपाकरोति। तत्र स्थू ल इति । तत्र चतसृषु समापत्तिषु मध्ये स्थ लार्थ एक एव समा- धिरवान्तरभेदेनैव सवितर्कनिर्वितकरूपतो विधा । तथा सूक्ष्म- ऽर्थेऽप्य क एव समाधिरवान्तरभेदेनैव सविचारनिर्विचाररूपती विधा प्रोक्त इत्यतो वितर्कानुगतादिरूपैः पूर्व स सम्प्रज्ञातयोग- श्चतुड़ा उपसंख्यातः परिगणित इत्यर्थः । केचित्तु सूत्रस्थ एव- कारो भिन्नक्रमः। तथा च ताः सवितर्कनिर्वितर्कसविचारनि- विचाररूपाश्चतस्रः समापत्तयः सवौजसमाधिरैवेति सूत्रार्थः, तेन न ग्रहोत्रादिसमापत्तरपि सवीजत्वं भाष्ये प्रामुक्त विरु- ध्यत इत्याहुः । तन्न । ग्रहोत्रादिसमापत्तेः सवीजत्वानुक्त्या अत्र सूचकारस्य न्यूनतापत्तेः एषकारवैयर्थ्याच्च । यथाक्रमस्यैव एव- कारस्योपपत्तौ भिन्नक्रमत्वानौचित्याच्चेति । यच्चान्यत् तैरुक्त ग्राह्यविषये स्थूलसूक्ष्मभेदेन सवितर्कादिरूपाश्चतस्रः समापत्तयः ग्रहणाख्येषु च इन्द्रियेषु सानन्दनिरानन्दरूपे हे समापत्ती अहोटषु च सास्मितनिरस्मितरूपे ई समापत्ती इत्यष्टौ समा- समाधिपाद योगवाति कम् । ११७ पत्तयो बोध्याः युक्तिसाम्यादिति तदपि न। प्रमाणादर्शनात् । आनन्दानुगतास्मितानुगतयोनिरानन्दनिरस्मितत्वरूपविशेषास- भवाच्च। आनन्दो हि ह्वादमात्रोऽस्मिता च चैतन्यमानसंवि- दिति भाष्यकृता प्रोक्तम् । न तु इन्द्रियं बादशब्देन व्याख्येयं, लक्षणाप्रसङ्गात् । नापि अहङ्कारोपरक्तचैतन्यमस्मिताशब्देन व्याख्येयं लक्षणापत्तः। अत: कथं हादवत: सम्प्रज्ञातस्य ह्लाद- शून्यत्वं कथ वा विविक्तचिन्मात्रसंविद्युक्तस्य सम्प्रज्ञातस्य तच्छू- न्यत्वमिति दिक्। तस्मादवान्तरभेदेन पञ्चैव समापत्तयः, ग्राह्यग्रहणयोः स्थू लसूक्ष्मभेदेन सवितर्काद्याश्चतस्रः पञ्चमी च ग्रहीटष्विति सम्प्रज्ञातयोगस्तु आनन्दानुगतमादायावान्तरमेदेन षोवेति। उक्तासु समापत्तिषु निविचारायां विशेष कञ्चिदाह ॥४६॥ * निर्विचारवैशारोऽध्यात्मप्रसादः ॥४७॥ * अशुद्धयावरणमलापतस्य प्रकाशात्मनो बुद्धि- सत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थिति- प्रवाहो वैशारद्य, यदा निर्विचारस्य समाधर्व- शारद्यमिदं जायते तदा योगिनो भवति अध्या त्मप्रसादः भूतार्थविषयः क्रमाननुरोधी स्फुटप्र- जालोकः, तथा चोक्तं, “प्रज्ञाप्रसादमारुह्योऽ- शोच्यः शोचतो जनान् । भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति” ॥ ४७ ॥ समाम्यतो वैशारद्यमादौ व्याचष्टे । अशुद्धयति । रजस्तमो- ११८ पातञ्जलदर्शनम् । वृद्धिकारणं पापादिरशुद्धिः सैवावरणलक्षणो मलस्तस्मादपैत स्येति हेतुगर्भविशेषणम् । प्रकाशात्मन: प्रकाशस्वभावस्य बुद्दि- रूपसत्त्वस्य कारणापायादेव रजस्तमोभ्यामनभिभूतोऽतः खच्छ: ध्य यगताशेषविशेषप्रतिविम्बीदृग्राही स्थितिप्रवाह एकाग्रता- धारा चित्तस्य वैशारद्यमित्यर्थः । समग्रसूत्रार्थ व्याचष्टे । यदेति। आत्मनि बुद्धौ वर्त्तते इत्यध्यात्म तादृशः। प्रसादशब्दार्थं वि. णोति। भूतार्थेति। यथार्थविषयकः क्रमाननुरोधी युगपत्सर्वां- र्थताग्राही स्फुटः प्रत्यक्ष: स प्रज्ञाख्य आलोक इत्यर्थः । अत्रैव परमर्षिगाथामुदाहरति। तथा चेति । तरति शोकमात्मवि- दिति श्रुतेः । अशोच्यः अहं दुःखी पापीत्यादिरूपैः खस्याशीयः सन् सर्वानेव जनान् शोचतो दुःखितान् पश्यति। स्वयं शोच्यो हि पुरुषः स्वापेक्षया कञ्चित् सुखिनमिव पश्यति मौव्यात् । अशोच्यस्तु परमार्थतो दुःखसमुद्रमग्नं सर्व जीवजातं दुःखित- मेव पश्यति अमूढ़त्वादित्यर्थः। लोकानन्तरमितिशब्दः पूर- णीयः तथा च निर्विचारवैशारये जाते स्वयमेव प्रकृतिपुरुष विवेको वा परमेश्वरतत्त्वं वा साक्षात् क्रियते न तु तत्साक्षा- काराय पुनर्योगापेक्षेति निर्विचाराय उत्कर्षः। पूर्वसूत्रोक्त- सवौजसमाधौ जायमानायाः समापत्त्याख्यायाः प्रज्ञाया अन्वर्थी तान्त्रिकी संज्ञामपि दर्शयति ॥ ४७ ॥ ॥ * अटतम्भरा तत्र प्रजा॥४८॥ * तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति संज्ञा भवति, अन्वा च सा, सत्यमेव विभर्ति न तत्र विपर्यासगन्धोऽपि अ- स्तौति, तथा चोक्तम् “आगमेनानुमानेन ध्या- -समाधिपाद योगवार्त्तिकम् । ११८ नाभ्यासरसेन च। विधा प्रकल्प यन् प्रज्ञां लभते योगमुत्तमम्” इति ॥४८॥ सा पुनः, तस्मिन्विति। तत्रेत्यस्य विवरणं तस्मिन् समाहितचित्त- स्येति पूर्वोक्त सवीजयोग इत्यर्थः । न चाव्यवहितसूत्रोक्तं वैशा- रद्य प्रसादो वा कथं तत्रेत्यनेन न परामृष्यत इति वाच्यम् । द्वितीयसूबतोऽत्र समाधिप्रज्ञासामान्यपरत्वस्य लप्सयमानत्वात् । सुगममन्यत्। ननु संज्ञाकथनमात्रेण किं प्रयोजनमित्याश- झ्याह । अन्वर्थेति। विपर्यासरूपज्ञानं यद्यपि सवितर्कयोगज- प्रज्ञायां शब्दार्थज्ञानविकल्पऽस्ति तथापि ऋतम्भरजातीयत्वस्यै- वात्र विवक्षितत्वात् न तस्यामव्याप्तिः, साजात्यं च समाधिज- प्रज्ञावेन अथवा तत्र समाहितचित्ते जायमाना या प्रज्ञा सैव ऋतम्भरोच्यत इति सूत्रार्थः । लौकिकज्ञानेऽविद्यालेशसम्प- र्कावश्यम्भावादिति योगकाले प्रकृष्टा प्रज्ञा भवतीत्यत्र स्मृति प्रमाणयति । तथा चेति । ध्यानस्य चिन्तनस्य योऽभ्यास: पौन:- पुन्यं तत्र यो रस आदरस्तेन, तथा च श्रवणमनननिदिध्यासनै- स्त्रिर्मिर्हेतुभिः सवीजयोगकाले प्रज्ञा प्रकल्पयन् प्रकर्षेण विपर्या- सराहित्येनोत्यादयन् तत्प्रज्ञात: परवैराग्यहारा वक्ष्यमाणमुत्त- मयोगं निर्वी लभत इति श्लोकार्थः । ननु आगमानुमानयो- रपि प्रमाणत्वात्ताभ्यामेव तदर्थतत्त्वं गृह्यतां किं योगेनेत्याशङ्का- निरासायोत्तरं सूत्रं प्रवर्तते तद्योजयति । सा पुनरिति ॥४८॥ * श्रु तानुमानप्रज्ञाभ्यामन्य विषया विशेषा- र्थत्वात् ॥ ४६॥ * श्रुतम् आगमविज्ञानं, तत्सामान्यविषयं, १२० पातञ्जलदर्शनम् । न ह्यागमेन शक्यो विशेषोऽभिधातु, कस्मात् न हि विशेषेण कृतसङ्केतः शब्द इति । तथानुमानं सामान्यविषयमेव, यत्र प्राप्तिस्तत्र गतिर्यताप्रा- प्तिस्तत्र न भवति गतिरित्युक्तम्, अनुमानेन च सामान्येन उपसंहारः, तम्माच्छु तानुमानविषयो न विशेषः कश्चिदस्तीति, न चास्य सूक्ष्मव्यव- हितविप्रकृष्टस्य वस्तुनः लोकप्रत्यक्षेण ग्रहणं, न च अस्य विशेषस्य अप्रामाणिकस्याभावोऽस्तीति समाधिप्रज्ञानिग्राद्य एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा । तस्माच्छुतानु- मानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थ- त्वाद् इति ॥ ४६॥ समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते । सा तु समाधिसामान्यजा प्रज्ञा श्रुतानुमानरूपप्रज्ञाभ्यां श्रवणमननाभ्यामन्यविषया अतिरिक्तविषया विशेषार्थत्वात् विशेषोऽर्थो विषयो यस्याः सा तथा तत्त्वादित्यर्थः । समाधि- प्रज्ञायाः श्रवणमननाभ्यामतिरिक्तविषयत्वं विवृणोति । श्रुत- मागमेति । न हि विशेषेणेति । पदार्थतावच्छेदकरूपेणैव पदार्थः शाब्दबोधे भासतेऽन्यथातिप्रसङ्गात्। पदार्थतावच्छेदकन्तु घट- त्वादिसामान्यमेव न तु तत्तविशेषास्तेषामानन्त्य न सर्वेषामेक- दानुपस्थितेस्तत्तद्रूपैः शक्तिग्रहासम्भवात् विशेषाणामन्योन्यं समाधिपादे योगवार्तिकम्। १२१. व्यभिचाराच्च सामान्यतः श्रुतेऽपि अर्थे विशेषसंशयदर्शनाच्चेति । इत्युक्तमिति । अनुमानमित्यस्य विशेषणम् । अत्र हि व्यापक- तावच्छे दकन गतित्वादिसामान्येनैव अनुमानं भवति न तु क्रियादिगतविशेषरूपैरिति । अनुमानेन चेति सामान्योपसंहार इत्युक्त इत्यनुषङ्गः । ननु श्रुतानुमानागोचरोऽपि विशेषो लौ- किकप्रत्यक्षेणैव ग्राह्योऽस्तु किं योगजप्रत्यक्षेणेति तत्राह। न च अस्येति । ननु एवं तस्य विशेषस्य अप्रामाणिकत्वात् अभाव एवास्तु इत्याशङ्का प्रतिषेधति । न च अस्य विशेषस्येति । न हि निविशेष सामान्यमस्तौतिन्यायेन सर्वत्रैव वस्तुनि विशेषसिद्ध रिति भावः । अत: परिशेषात् समाधिप्रज्ञाग्राह्य एव स विशेष इत्युपसंहरति। इति समाधीति। स्थूलस्य विशेषः कदाचित् लौकिकप्रत्यक्षगोचरोऽपि स्यादिति स्थूलं परित्यज्य भूतसूक्ष्म- गत इत्युक्तम्। पुरुषगतो वेति । एतेन पुरुषेष्वपि विशेषादि- धर्मः स्वीकृतः धर्मनिषेधम्तु विशेषगुणद्रव्यत्वादिपरः । अथ वा स्वखोपाधिप्रतिविम्बा एव अतीतानागतवर्तमाजा मुक्तामुक्तसा- धारणाखिलपुरुषेषु अन्योन्य विशेष इति बोध्यम् । स्यादेतत् । व्यवहितादिषु सन्निकर्षाद्यभावात्कथं समाधिप्रत्यक्षग्राह्यत्वमपि स्यात्। अथ योगजधर्मस्यापि सन्निकर्षवं कल्प्यमिति चेन्न । संयोगादिभिरननुगमात् प्रत्यक्षे विषयस्य कारणत्वेन अतीतादि- प्रत्यक्षस्यैव असम्भवाञ्चेति । अत्रोच्यते । अस्माकमन्त:करणस्य विभुत्वेन अतीतादीनां स्वरूपतः सत्त्वेन च सदा सर्वार्थसन्नि- कर्षात्, योगजधर्मेण च व्यवहितातीतादिज्ञानप्रतिबन्धकं तम एव निरस्यत इति तदेतत्मायभाष्ये 'लीनवस्तुलब्धातिशयसम्ब- धाहा न दोष' इति सूत्रेऽस्माभिः प्रपञ्चितम् । उपसंहारमुखेन सूबवाक्यार्थमाह। तस्माच्छु तेति। एतेन दशमस्त्वमसीति- वत् शब्दादेव साक्षात्कार प्रात्मनो भवति निर्विशेषत्वेन चात्मनो ११ १२२ पातञ्जलदर्शनम् । न विशेषग्रहाथमपि योगजप्रत्यक्षापेक्षेति नवीनवेदान्तिप्रलापो ऽपसिद्धान्त एव, स्वशास्त्रानुक्तेऽर्थे समानतन्त्रसिद्धान्तस्यैव निद्वान्तत्वादिति । यथोक्तप्रज्ञायाः संस्कारजनकत्वमुत्तरसूत्रीप यागितया प्रतिपादयति । समाधीति। ननु तथापि प्रजोत्प. त्तिपर्यन्त योगापेक्षा अस्तु प्रज्ञोत्पत्त्यनन्तरं तु पुन: सम्प्रज्ञातः परम्परायाः किं फलमित्याशङ्कायामाह ॥ ४ ॥ * तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धौ ॥५०॥ * समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्का: राशयं बाधते, व्युस्थानसंस्काराभिभवात् तत्प्र- भवा प्रत्यया न भवन्ति, प्रत्ययनिरोधे समाधि- रुपतिष्ठते, ततः समाधिजा प्रज्ञा, ततः प्रज्ञा- कृताः संस्कारा, इति नवो नवः संस्काराशयो जायते, ततः प्रज्ञा ततश्च संस्कारा इति । कथ- मसी संस्कारातिशयश्चित्तं साधिकारं न करि- ष्यति इति, न ते प्रज्ञाकृताः संस्काराः क्लेशक्षय- हेतुत्वाच्चित्तमधिकारविशिष्ट कुर्वन्ति, चित्त हि ते स्वकार्योदवसादयन्ति, ख्यातिपयवसानं हि चित्तचेष्टितमिति ॥ ५० ॥ किञ्चास्य भवति । प्रविबन्धः कार्यविरोधित्वम् । इदमेव बाधशब्देन भाष्य- कारो वक्ष्यति । सर्वेषाञ्च संस्काराणां चिचनाशादेव नाश इत्यपि भाष्ये व्यक्तीभविष्यति। सूत्रा) व्याचष्टे, बाधत इत्यन्तेन ।

समाधिपादे योगवार्तिकम्। १२३ भाशेते इत्याशयः संस्कारश्चासावाशयश्चेति विग्रहात् संस्कारा शयमनुबुद्धसंस्कारमित्यर्थः । उबुढेसंस्कारस्य च बाधो न सम्भवति उद्योधप्रतिबन्धस्यैव बाधशब्दार्थत्वादिति भावः। ननु हत्तिनिरोधसंस्कारस्य व्युत्थानसंस्काराभिभावकत्वं वक्ष्यति तत् कथं समाधिप्रज्ञासंस्कारस्थापि व्यु त्थानसंस्काराभिभावकत्वमि- थत इति चेन्न। वृत्तित्वावच्छिन्नाभावस्यैव वक्ष्यमाणयुक्त्या संस्कारजनकत्वसिद्धर्न तु सम्प्रजातकालीनस्य यत्किञ्चिहत्ति निरोधस्यापि, स्मृतिहेतुतया सिद्धात् प्रज्ञासंस्कारादेव व्य स्थान- संस्काराभिवस्य वक्ष्यमाणप्रयोजनस्योपपत्तेः । ननु एकयैव प्रज्ञा- व्यक्त्या तत्सन्तानव्यक्त्या चोत्यादितन संस्कारेण व्यु स्थानसंस्कार- बाधसम्भवे किमर्थं पुन: पुनः सम्प्रज्ञातानुष्ठानं तत्राह । व्यु त्था- मसंस्काराभिभवादित्यादि ततश्च संस्कारा इत्यन्तेन। अभिभ. वात् । तत्करणात्। शेषं स्पष्टम् । अयं भावः । नेकदा सम्प- जातात् व्यु त्थानसंस्कारबाधः। श्रुतिस्मृतिसिद्धस्य पुन: पुनर्व्य- स्थानण्यानुपपत्तेः। उपदेशाद्यनुपपत्तेश्च । किन्तु सम्प्रज्ञात- परम्पराजन्येन दृढ़तरसंस्कारेणैव तहाध: अटैश्च प्राथमिक सम्प्रज्ञातसंस्कारैस्तस्य बाधाथै तनुता परम्परैव क्रियते तथा च संस्कारदायार्थ प्रजासंस्कारचक्रमपेक्ष्यत इति। एतेन प्रज्ञाया: साक्षादेव व्युत्थानसंस्कारवाधकत्वशङ्कायपास्ता । एकप्रन्नयैव संस्कारबाधे व्युत्थानासम्भवात्। प्रजासंस्कार तु दृढ़त्वरूपवैजा- त्यसम्भवेन तस्यैव व्युत्थानसंस्कारबाधकतावच्छेदकत्वकल्पनया व्युस्थानाद्युपपत्तिरिति । व्यु स्थानसंस्कारेषु मध्ये च अविद्या- संस्कारस्यायं विशेषः यत् सकृत् प्रजया जनितेनैव संस्कारण अविद्यासंरकारो बाध्यते न तत्र प्रजासंस्कारचक्रापेक्षेति । एतच्च 'ते प्रतिप्रसवहेया: सूक्ष्मा' इत्यागामिसूत्रदये प्रकटीभविष्यति इदमत्रावधेयम् । अस्मिन् सूत्रे शेषसूत्रे च अखिलसंस्कारदा- १२४ पातञ्जलदर्शनम्। हस्य योगफलत्ववचनात् प्रारब्धकर्मणोऽपि अतिक्रमणाशुतर मोक्षः केवलज्ञानासाध्यो योगयोरसाधारणं फलमिति। न हि भोगसंस्कारस्य नि:शेषतो दाहे प्रारब्धकर्मापि फलायालं, दृष्ट- कारणाभावात् । योगाग्निदग्धकर्मचयोऽचिरादित्यादिवाक्य सोचकप्रमाणाभावाच । ज्ञानाग्निः सर्वकर्माणीत्यादिषु अगत्या सङ्कोचः क्रियते तस्य तावदेव चिरमित्यादिज्ञानिविषयक श्रुतेः उपदेशाद्यन्यथानुपपत्तेश्च सांख्यवेदान्तसूत्रयोश्च ज्ञानिनामेव प्रारब्धभोगावश्यकतोता। ननु अईभुक्तप्रारब्धकर्मणां नाशे तत्फलस्य कालप्रतिनियमानुपपत्तिरिति चेन्न । शास्त्रोक्तनाशका- नाश्यकर्मस्व कालप्रतिनियमात् । अन्यथा कर्मविपाकोक्तप्राय- श्चित्तस्य शान्तिकर्मादेश्चाईभुक्तपापनाशकत्वानुपपत्तिः शास्त्रोक्त- नाशकानाश्यकर्मणां तु स्वावस्थितिपय॑न्तमेव फलदासत्वमिति दिक् । नन्वेवं प्रज्ञासंस्कारातिशयस्वीकारे ततोऽपि पुनर्जन्म भविष्यति । न च असम्प्रज्ञातयोगेन तस्य नाशो भवितेति वाच्यम् । असम्प्रज्ञाताभावेऽपि प्रारब्धसमात्यनन्तरं केवलज्ञानतो मोक्षाभ्युपगमादित्याशङ्कते। कथमसाविति। साधिकारं स्व- कार्यजननक्षमम् । परिहरति । न त इति । ते प्रज्ञासंस्कारा- श्चित्त स्वकार्यक्षम न कुर्वन्ति जन्मकारणस्य अविद्यादिलेशस्य विनाशनादित्यर्थः। कर्मनाशनादित्यपि बोध्यम्। कर्त्तव्यस- मापनादपि साधिकारं न कुर्वन्तीत्याह। चित्त होति । स्वका- Uदवसादयन्ति कर्त्तव्यशून्यं कुर्वन्ति तत्र हेतुः ख्यातीत्यादि। हि यस्माञ्चित्तस्य व्यापारो विवेकख्यातिपर्यन्त: विवेकख्याति- निष्यत्ती सत्या प्रवर्त्त कपुरुषार्थासम्भवात् सा च विवेकख्याति- रूपा प्रज्ञा तत्संस्कारातिशयेनानिशमुत्पद्य परवैराग्यजननहा- रेण समाप्यत इत्यर्थः। क्षीणवृत्तरित्यादिसूत्रैः सम्प्रज्ञातस्य फलादिकमुक्तमिदानीमसस्पज्ञातस्य फलादेः सूत्र प्रवर्तिथले ।

समाधिपादे योगवार्त्तिकम्। १२५ तत् सूत्रं प्रजासंस्कारातिशयस्य पुनर्जन्माहेतुत्वे हेत्वन्तरपरतया अवतारयति । किञ्च अस्येति । अस्य प्रज्ञासंस्कारस्यान्यच्च फल सर्ववृत्तितत्संस्कारयोनिरोधी भवतीति न पुनर्जन्मसम्भावने- त्यर्थः ॥ ५० ॥ * तस्यापि निरोधे सर्व निरोधान्निौज: स- माधिः ॥ ५१ ॥ * स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृ- तानां संस्काराणामपि प्रतिबन्धी भवति, क- स्माद्, निरोधजः संस्कारः समाधिजान् संस्का- रान् बाधत इति । निरोधस्थितिकालक्रमानुभ- बैन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम् । व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्य- भागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृती अवस्थि- तायां प्रविलीयते, तस्मात्ते संस्काराः चित्तस्या- धिकारविरोधिनो न स्थितिहेतवो भवन्तीति, यस्मादवसिताधिकारं सह कैवल्यभागीयैः सं- स्कारैश्चित्तं विनिवर्तते तस्मिन्निवृत्त पुरुषः ख- रूपप्रतिष्ठोऽत: शुद्धमुक्त इत्युच्यते ॥ ५१ ॥ इति पातञ्जले सायप्रवचने योगशास्त्र समाधिपादः प्रथमः ।

१२६ पातञ्जलदर्शनम्। पूर्वपूर्वासम्प्रज्ञाते तावत् प्र प्रज्जैव निरुध्यते प्रज्ञासंस्कारस्य तु तानवमात्र भवति। एवं क्रमेण तु तस्यापि प्रज्ञाकृतसंस्कार- स्यापि असम्प्रज्ञातपरम्परया निरोधेऽत्यन्ताभिभवे जायमाने चरमासम्प्रज्ञातो निर्वीजयोगस्य पराकाष्ठा भवति अपुन[स्थाने- त्यर्थः। सर्वनिरोधादितिसूत्रावयवेन निर्वीजत्वे हेतुरुक्तः । यतः प्रज्ञा तत्संस्कारश्च सर्वोऽपि अत्यन्तं विलयितोऽतो निर्वीजः । दुःखबोजैः संस्कारादिभि: शून्य इत्यर्थः । पूर्वपूर्वासम्प्रज्ञातव्यक्तिले च कामेण वीजतानवाहोणं नि:जत्वमसम्प्रज्ञातलक्षण पूर्व भाष्यतोतमिति स्मर्त्तव्य तथा च चरमासम्प्रज्ञाते सर्वे प्रज्ञा- संस्काराः क्षीयन्त इत्यतो न ते चित्त साधिकारं कुर्वन्तीति भावः । एतेनासप्रज्ञातपरम्पराया: प्रज्ञासंस्कारात्यन्तलयः फलं सूत्रेणोतं, सूत्रस्थस्यापि शब्दस्याधं भाष्यकारो व्याचष्टे। स न कोवलमिति। स सामान्यनिर्वीजयोगः न केवलं समाधिप्रज्ञाया विरोधी भावाभावरूपेण अपि तु क्रमेण प्रज्ञारुतसंस्काराणा- मपि प्रतिबन्धी अत्यन्तमभिभावक इत्यर्थः । ननु यदि प्रज्ञा- हातसंगकाराणामप्यसम्प्रज्ञातो बाधकस्तहि सक्दसम्म ज्ञातादेव सर्वसंस्कारबाधे व्युत्थानं कदापि कस्यापि न स्यादित्याशयेना- क्षिपति । कस्मादिति । परिहरति । निरोध इति । न निरोधः साक्षादेव प्रज्ञासंस्कारान् विलापयति किन्तु निरोधपरम्पराजन्यो दृढ़तर: संस्कार एवं प्रज्ञासंस्कारानत्यन्त विलापयतीत्यर्थः । दृढ़तरत्वञ्च जातिविशेष इत्युक्तम्। ननु ज्ञानस्यैव संस्कारजन- कत्वं दृष्टं निरोधस्तु न ज्ञानं संस्कारशेषचित्तावस्थाविशेषमात्र- बादतस्तस्य संस्कारजनकत्व किं प्रमाणमित्याशङ्कयाह । निरो- धस्थितीति । निरोधस्थिती असम्प्रज्ञातावस्थाने यो मुहर्ताहो- रात्रमासादिरूपः कालक्रमः क्रमेण कालविस्तद्दर्शनेन निरो- धात स्थचित्तजन्यः संस्कारोऽनुमेयः संस्कारधिव्यतिरेकेण तनि- ।

१२७ समाधिपाद योगवात्तिकम् । यामकासम्भवादित्यर्थः । सम्प्रज्ञातस्य तु कालवृद्धिः प्रज्ञासंस्कार- तारतम्य नैवोपपद्यत इत्यतो न सम्प्रज्ञातस्य संस्कारहेतुतेति । मनु प्रज्ञासंस्कारश्चरमासम्प्रज्ञातन अत्यन्त बाध्यतां निरोधसं- स्कारास्तु कुतः समुच्छिद्यन्ते तदनुच्छेदे च साधिकारत्वमेव चित्तस्येति मोक्षानुपपत्तिः । किञ्च प्रलीनानामपि संस्काराणां कदाचिद्योगोखरसङ्कल्पादिना दग्धवीजस्येव पुनरुदबोधोऽपि सम्भाव्यतेत्याशङ्कामयाकरोति। व्युत्थाननिरोधेति। असम्पज्ञा- तापेक्षया समाधिप्रज्ञापि व्युत्थानम् । अतो व्युत्थानं ज्ञानसामान्य निरोधसमाधिश्चासम्प्रज्ञातस्तदुभयप्रभवैः सह सहितैः कैवल्यभा- गोयैः कैवल्यहेतुकर्मसंस्कारैर्विशिष्टं चित्त स्वकीयप्रकृती नि- त्यायां स्वयमेव प्रलीयते दग्धेन्धनानलवदात्यन्तिकलयं गच्छति परिणामस्वाभाव्यात् तत्स्वामिपुरुषस्य भोगहेतुविसदृशपरिणाम एव हि पुनर्न भवति तदेतोः पुरुषार्थस्याभावादित्यर्थः । अथ वा कैवल्यभागीयैः कैवल्यपर्यन्तस्थायिभिव्युत्थानसंस्कारैः सहेति चित्तविशेषणम्। अनेन सूत्रेण शङ्कानिराकरणमुपपादयति । तस्मादिति । तस्मान्निरोधसंस्कारस्यापि क्षयात्त निरोधसंस्कारा इत्यादिरर्थः । ननु भवतु योगद्दयाच्चित्तस्यात्यन्तिकलयस्तथापि पुरुषार्थ: क: सिध्यतीत्याकाङ्क्षायामाह यस्मादित्यादि। यस्मा- चित्त निवर्तते अतस्तस्मिनिवृत्त सति पुरुषो मुक्त इत्युच्यते तत्र हेतुगर्भविशेषणानि स्वरूपेत्यादीनि। स्वरूपमात्रप्रतिष्ठः पर- रूपैः प्रतिविम्बितदुःखादिभिर्मुक्त: शुद्धः स्वत्वसम्बन्धेन पुण्यपाप- मुक्तः । भोगसाधनत्वस्यैव स्वत्वतया कूटस्थस्थापि संसारदशायां स्वत्वाभ्युपगमात्। एतादृशभुक्तेः साध्यत्वमुपप न केवल उपाधि- संयोगाख्यबन्धमुक्त इत्यर्थः। एवंरूपो मोक्ष एव योगस्य मुख्यं फलमित्याशयः । पारमार्थिको दुःखकर्मादिसम्बन्धी लेपाख्य- संयोगरूपसम्बन्धो वा लोके बन्ध इत्युच्यते तन्युक्तिश्च बुद्धरेव न ।

१२८ पातञ्जलदर्शनम् । कूटस्थस्यासङ्गस्य पुरुषस्येति प्रतिपादयितु मुक्त इत्युचत इत्युक्तं शास्त्रेषु मुक्त इति व्यवहारमात्र क्रियत इति तस्यार्थः । तदुक्तं सांख्य सूत्रेण 'वामात्र न तु तत्त्व चित्तस्थिते'रिति । पुरुष बन्धादिक वाङ्मान चित्त एव बन्धाद्यवस्थानादित्यर्थः । पुरुषा- थत्वञ्च पारमार्थिकमेव दुःखं मा भुञ्जीयेति प्रार्थनादिति भावः । सांख्यप्रवचन इति। सांख्य शास्त्रस्थैव प्रकर्षण वचनं सांख्य प्रव- चनं सांख्ये हि अभ्युपगमवादेनेवरं प्रतिषिध्य असम्पज्ञातयोगनैर- पेक्ष्येण च जीवतत्त्वज्ञानादेव मोक्ष उक्तोऽस्मिंस्तु शास्त्रे निरुप- द्रवसन्दिग्धच्छिकमुक्तिनियमाय परमेश्वरविद्या आशुमोक्षहेतु रसम्प्रज्ञातयोगश्च प्रदर्शित इति भावः ॥ ५१ । इति श्रीपातञ्चलभाष्यवार्तिके श्रीविज्ञानभिक्षुनिर्मिते प्रथमः समाधिपादः । अथ द्वितीयः साधनपादः । उद्दिष्टः समाहितस्य योगः, कथं व्युत्थित- चित्तोऽपि योगयुक्तः स्याद् इति एतदारभ्यते । * तपः स्वाध्यायेश्वरप्रणिधानानि क्रिया- योगः ॥ १॥ * न अतपखिनो योगः सिध्यति, अनादिकर्म- लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशु- दिनान्तरेण तपःसम्भेदमापद्यते इति तपस उपादानं, तच्च चित्तप्रसादनमबाधमानमनेन आसव्यमिति मन्यते । खाध्यायः प्रणवादिपवि- १२८ साधनपादे योगवार्तिकम् । वाणां जपः, मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणि- धानं सर्वक्रियाणां परमगुरौ अर्पणं, तत्फलस- नाासो वा ॥ १ ॥ स हि क्रियायोगः। ननु प्रथमपादेनैव योग: सोपायः सफलश्च अवान्तरभेदैः संह प्रोक्तः तत्किमपरमवशिष्यते यदथं द्वितीयपाद आरब्धव्य इत्याकाङ्क्षायामाह। उद्दिष्ट इति। समाहितचित्तस्य योगा- रूंढ़चित्तस्योत्तमाधिकारिणोऽभ्यासवैराग्यमानसाधनेनैष क्रिया- योगादिसकलाङ्गानां नैरपेक्ष्येण पूर्वपादे योग: प्रदर्शितः तेषां वहिरङ्गत्वं वक्ष्यति त्रयमन्तरङ्ग पूर्वेभ्य' इति सूत्रेण तदभावे- ऽपि भावादिति भाष्येण च । तथा चोक्तामाखमेधिके । अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः । ब्रह्मभूतश्चरन् लोके ब्रह्मचारीति कथ्यते ॥ इति । तथा गारुडेऽपि आसनस्थानविधयो न योगस्य प्रसाधकाः । शिशुपालः सिद्धिमाप स्मरणाभ्यासगौरवात् ॥ ते च अभ्यासवैराग्ये न सर्वेषां द्रागित्येव भवतः, अतो व्यथितचित्तो वहिर्मुखोऽपि योगारुरुक्षुः क्रमात् केनो- पायेन योगयुक्तः स्यादिति तमुपायं वक्तुमेतत् सूत्रजातमारभत इत्यर्थः। तदेवमधिकारभेटेन साधनमेदो गारुडादिष्वप्युक्तः । आरुरुक्षुयतीनाञ्च कर्मज्ञाने उदाहृते पारूढ़योगवृक्षाणां ज्ञानत्यागी परौ मतौ। इति । इति । व्यागो वाह्यकर्मणाम्। गीतायामपि । पातञ्जलदर्शनम् । आरुरुक्षोर्मुनर्योगं कर्म कारणमुच्यते । योगारूढ़स्य तस्यैव शमः कारणमुच्यते ॥ इति । कारणं योगस्य । योगोपायत्वाद योगः, क्रिया चासौ योगश्चेति विग्रहः तप- आदीनि तौणि क्रियायोग इत्यर्थः । ईश्वरप्रणिधानरूपो भक्ति- योगोऽपि अत्र क्रियायोगमध्य एव प्रवेशितः। अतो 'योगा- वयो मया प्रोता भक्तिज्ञानक्रियात्मका' इत्यादिस्मृतिषु त्रय एव योगोपायत्वाद्योगा उक्ताः, तत्र ज्ञानयोगो धारणाध्यानसमा- धिरूपः पूर्वपादे प्रोक्तः विस्तरस्तु अस्याग्रे भविष्यतीति। यद्यपि यमादयोऽपि क्रियायोगास्तथापि वक्ष्यमाणयमनियमादिषु मध्ये तपत्रादित्रयं प्रकृष्टतया आदौ पृथनिर्दिष्टं केवलेनैतेनापि तीव्र- तरेण योगो भवतीति सूचयितुमिति बोध्यम् । ननु स्वाध्याये- श्वरप्रणिधानञ्च तत्त्वज्ञानेश्वरानुग्रहाभ्यां योगोपकारकं स्यात् तपस्तु देहेन्द्रियशोषणात्मकं केन हारण योगस्योपकारकं भवतु प्रत्युत चित्तक्षोभकत्वेन योगविरोध्येवेत्याशय तपसो हार- माह। न अतपखिन इति। असिद्धौ हेतुमाह। अनादीति । अनादिल शकर्मवासनया हेतुना चित्रा नानाविधा अशुद्धिः पापाख्या प्रत्युपस्थापितविषयजालतया योगविरोधिनी तपो विना न सम्भेदं तनुतामापद्यत इत्यर्थः । इतीति। इत्यतः सा- धनमध्ये तपसो ग्रहणमित्यर्थः। योगविरोधशङ्कामपाकरोति । तचेति। तच्च तपश्चित्तप्रसादाविरोधि मृदु एवानेन योगिना कर्तव्यमिति परमर्षिभिर्मन्यत इत्यर्थः । पवित्राणां पापक्षय- हेतूनाम्। प्रथमपादोक्तप्रगिाधानादतिरिक्तमत्र प्रणिधानमाह। सर्वक्रियाणामिति। लौकिकवैदिकासाधारण्येन. सर्वकर्मणां परमेश्वरेऽन्तर्यामिणि अर्पणमित्यर्थः । नदुक्तं गीतायाम्।

साधमपाद योगवार्तिकम् । १३१ यत्करोषि यदनासि यच्नुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् ॥ इति । अर्पणच कामतोऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि सन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥ इत्यादिस्मृतिभिर्व्याख्यातमिति । त्वत्प्रयुक्तः करोम्यहमिति चिन्तनमेव सन्यास इत्यर्थः । अत्र प्रयोक्तत्वमन्तर्यामिविधयैव न तु श्रुतिहारा अशुभकर्मसु श्रुत्यभावादिति। एतदपेक्षयापि प्रक्लष्टं विविध कर्मार्पणान्तरं कौमें प्रोक्तम् । ब्रह्मणा दीयते देयं ब्रह्मण सम्प्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ नाहं कर्त्ता सर्वमेतत् ब्रह्मैव कुरुते तथा । एतत् ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ इति । तत्फलेति । एतदपि कौमें प्रोक्तम् । यहा फलानां सन्यास प्रकुर्यात् परमेश्वर । कर्मणामतदप्याहुब्रह्मार्पणमनुत्तमम् ॥ इति। कर्मफलानामोखरो भोक्तति चिन्तनं कर्मफलस- न्यासः । भोतारं यज्ञतपसां सर्वलोकमहेश्वरमित्यादिवाक्यात् । तदुक्तम्। 'करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत् तदिति। यज्ञादीनां हि इन्द्रादिभावापन्नस्यान्तर्यामिणो भोग एव मुख्यं फलं 'येऽप्यन्यदेवताभका यजन्ते श्रद्धयान्विताः। तेऽपि मामेव क्रोन्तय! यजन्त्यविधिपूर्वक मित्यादिवाक्येभ्य इति । ननु अत्र वाक्ये विष्णाख्यदेवताविशेषस्यैवेतरदेवतायजनेन यजनं प्रोक्तं न परमात्सन इति चेन्न । परं हि ब्रह्म कथितं योगयुक्तेन तन्मयेत्यनुगीतावाक्यत: श्रीकृष्णस्य भगवहीतायां परमात्मोप- देशस्यैव लाभादिति । यद्यपि ईश्वरस्य भोगो नित्यः तथापि १३२ पातञ्जलदर्शनम्। सिसृक्षाद्युत्पत्तिवत् तदुत्पत्तिगौणी। यज्ञादिसहकारेणैव फल- दाटतयेश्वरप्रीतेरभिव्यक्तः । ननु ईश्वरप्रणिधानमत्र पूर्वपादीत- भावनारूपमेव कथं न भवति तत्राह। स हि क्रियायोग इति । स हि स एव फलसन्यासः कर्मार्पणञ्च क्रियायोगो भवति कर्म- शेष वात् तज्जपस्तदर्थभावनमिति पूर्वोक्तञ्च भावनारूपं प्रणि- धानं ज्ञानमेव कर्मतच्छषत्वयोरभावादित्यर्थः । उत्तरसूत्रेण सहान्वये तुहिशब्दवेयर्थमिति बोध्यम् । तेषां योगद्दारमाह ॥१॥ * समाधिभावनार्थ: क्ले शतनूकरणार्थ श्च ॥२॥ * स हि आसेव्यमानः समाधिं भावयति, क्ल शांश्च प्रतनूकरोति, प्रतनूकतान् त शान् प्रस- ध्यानाग्निना दग्धवीजकल्यान् अप्रसवधर्मिणः करिष्यतीति, तेषां तनूकरणात् पुनः क्ल शैरपरा- मृष्टा सत्त्वपुरुषान्यताख्यातिः सूक्ष्मा प्रज्ञा समा- प्लाधिकारा प्रतिप्रसवाय कल्पिष्यते इति ॥ २ ॥ अथ के ते कशाः कियन्तो वैति । । उभयार्थत्वे हेतुमाह । स होति। श्रा सम्यक् निष्कामा- दिरूपेण सेव्यमानः स हि स एव गर्मयोगः कर्मातिरिक्तवि- षयेभ्यो निरुद्यवृत्तिकं निष्पाप चित्त करोति ततः क्रमेण सत्त्वोद्रकादेकाग्रमन्यत्रापि करोति। अविद्यादिकञ्च प्रकर्षण अनायासेन तनूकरोति सत्वशुधादिहारत्यर्थः । उत्तमाधिका- रिणश्च समाधियोग्यता को शतनुता च सिद्ध वेत्यतः पूर्वपादे तदुभयं योगसाधनतया नोक्तम्। ननु अविद्यादीनां लशानां साधनपादे योगवार्तिकम्। १३३ नाशेनैव संसारोच्छेदः प्रतनकरणेन तु किं प्रयोजनमित्याकाझा- यामाह । प्रतनू कतानिति । प्रतनूकतांश्च शुष्कन्धनतुल्यान् कृतान् क्ल शान् क्रियायोगः खयमुद्दीपितेन प्रसंख्यानाग्निना विवेक- ख्यातिवह्निना दग्धवीजवदप्रसवधर्मिणोऽप्रसवस्वभावान् संस्का- राजनकान् करिष्यति जीवन्मुक्तिदशायामिति शेषः । प्रसंख्या- नाग्निज्वालने तनूकरणस्य हारं वदन् पूर्वोक्तार्थमुपसंहरति । तेषामिति । अपरामृष्टा अनभिभूता, तथा च अनभिमव एव तनूकरणस्य हारमिति। सूक्ष्मेति। सूक्ष्मविषयत्वात् सूक्ष्मा साक्षात्काररूपिणी प्रज्ञा क्रमेण समाप्तकर्तव्या सती चरमा- सम्प्रज्ञाते प्रतिप्रसवाय प्रलयाय कल्पिष्यते विदेहकैवल्यदशाया- मिति शेषः। तदेवं क्रियायोगस्य मोक्षज्ञानादिव्यापारकथनात् कर्मयोगो ज्ञानादिसाधनतया ज्ञानाद्यङ्गमेव न साक्षान्मोक्षहेतु- रिति सिद्धान्त इति । उत्तरसूत्रावताराय पृच्छति। अथेति ॥२॥ * अविद्यास्मितारागद षाभिनिवेशाः पञ्च क्ल शाः ॥ ३ ॥ * क्ल शा इति पञ्च विपर्यया इत्यर्थः । ते स्य- न्दमाना गुणाधिकारं द्रढ़यन्ति, परिणाममव- स्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, पर- स्परानुग्रहतन्त्रीभूत्वा कर्मविपाकं चाभिनिह- रन्ति इति ॥३॥ पञ्च विपर्यया इति पूरयित्वा संक्षेपतः सूत्रार्धमाह । क्लेशा इतीति। इतिशब्दोऽविद्यादिपरामर्शी तथा च अविद्यास्मिता- रागद्देषाभिनिवेशा इति पञ्च विपर्ययाः क्ल शा इत्यर्थ इति यो- जमा। अत्र कियन्त इति प्रश्नस्योत्तरं पञ्चेत्यनेन। के ते इत्यस्य १२ १३४ यातचलदर्शनम् चोत्तरं विपर्यया इत्यनेनाह । पञ्च विपर्यया इति। अत्र यश्चेति अर्थादेव लश्च विपर्य या इति च पूरितं विशेषलक्षणस्य च सा: मान्यलक्षणपूर्वकत्वौचित्यात् विपर्ययशब्दश्च अत्र संसारहेतु, विपर्ययार्थकः अतो न शक्तिरजतविपर्यये क्लशलक्षणाति- च्याप्तिः रागादीनाञ्च विपर्य यकाय तया विपर्ययत्वं चेष्टम् । प्रकृतस्य संसारहेतुविपर्ययस्य लक्षणमदृष्टसामान्यहेतुमनोविशेष- गुणत्वमिति । ननु ल शशब्दो दुःखवाचौ किमिति अविद्यादिषु परिभाषित: किमर्थं वा तेषामुच्छेदीपेक्षित इत्याकाकायामाह। ते स्यन्दमाना इति । ते ल शा: स्यन्दमाना लब्धत्तिका दृष्टा- दृष्टद्वारा गुणानां सत्त्वादीनाम् अधिकार कार्यारम्भणसामर्थ्य द्रढ़यन्ति बलवत् कुर्वन्ति तथा गुणानां परिणामं वैषम्यरूप- मवस्थापयन्ति निवर्त्तयन्ति ततश्च महदादिरूपकार्यकारणप्रवा- हमुबमयन्ति प्रवर्तयन्ति । यदर्थमेतत् सर्व कुर्वन्ति तद्दर्शयति । परस्परेति । कर्मविपाकं जात्यायुभांगञ्च अभिनिहरन्ति निष्या- दयन्ति । किं स्वतन्त्रा एव, नेत्याह। परस्परानुग्रहतन्त्री भू- त्वेति । अविद्यातो रागो रागाच्च अविद्येत्येवमादिरूपान्योन्यानु- ग्रहाधीना भत्वेत्यर्थः । अन्योन्यसाहित्येनैव हि क्लेशानां स्थैर्य भवति येन स्थैर्येण विपाकपरम्परा निर्वहतीति भावः । तथा च के शाख्यदुःखदत्वात् अविद्यादीनां ले शपरिभाषा तान्त्रिकी तथा दुःखनिदानतया अविद्यादय: समुच्छेत्तव्या इति भावः । ले शानां स्थूलसूक्ष्माणां सर्वेषामेव ज्ञाननाश्यत्वं वक्ष्यमाणमुप पादयितुम् अविद्यामूलकत्वमन्यल शानामाह ॥ ३ ॥ * अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नो- दाराणाम् ॥ ४ ॥ * अत्र अविद्या क्षेत्रम् प्रसवभूमिः, उत्तरेषाम् तस्य साधनपाद योगवार्तिकम् । १३५ अस्मितादीनां चतुर्विधकल्पितानां प्रसुप्ततेनुवि- विच्छिन्नीदाराणाम्। तत्र का प्रसुप्तिः । चेतसि शक्तिमा–प्रतिष्ठानां वीजभावोपगमः प्रबोध आलम्बने सम्मुखीभावः, प्रसङ्ख्यानवतो दग्धर्फ शवीजस्य सम्म खीभूतेऽपि आलम्बने नासौ पुनरस्ति, दग्धवीजस्य कुतः प्ररोह इति, अतः क्षीणकेशः कुशलश्चरमदेह दूत्यु च्यते, तत्रैव सा दग्धवीजभावा पञ्चमी के शावस्था मान्य- वेति, सतां के शानां तदा वौजसामर्थ्य दग्ध- मिति विषयस्य सम्मु खोभावेऽपि सति न भव- त्येषां प्रबोध, दूत्यता प्रसुप्तिर्दग्धवौजानामप्र- रोहश्च । तनुत्वमुच्यते, प्रतिपक्षभावनोपहताः के शास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेन आत्मना पुनः समुदाचरन्ति इति विच्छिन्नाः, कथ, रागकाले क्रोधस्य अदर्शनात्, न हि रागकाले क्रोध: समुदाचरति, रागश्च क्वचिद् दृश्यमानो न विषयान्तरे नास्ति, नैकस्यां स्त्रियां चैत्रो रक्त इति अन्यासु स्त्रीषु विरक्त इति किन्तु तत्र रागो लब्धवृत्तिः अन्यत्र भवि- ष्यदृत्तिरिति, स हि तदा प्रसुप्ततनुविच्छि नो पातञ्जलदर्शनम्। भवति । विषये यो लब्धवृत्तिः स उदारः। सर्व एवैते के शविषयत्वं नातिक्रामन्ति। कस्तर्हि विच्छिनः प्रसुप्तस्तनुरुदारो वा केश इति, उच्यते, सत्यमेवैतत्; किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वं यथैव प्रतिपक्षभावनातो निवृत्त- स्तथैव खव्यञ्जकाञ्जनेन अभिव्यक्त इति, सर्व एव अमी के शा अविद्याभेदाः, कस्मात् सर्वेषु अवि- यैवाभिप्लवते, यदविद्यया वस्तु आकार्य्यते तदे- वानुशेरते के शाः, विपर्यासप्रत्ययकाले उपल- भ्यन्ते क्षीयमाणां चाविद्याम् अनुक्षीयन्त इति ॥४॥ तत्र अविद्याखरूपमुच्यते । निमित्तकारणस्यापि प्रसवभूमित्वं प्राधान्यमात्रेण गौण व्यताख्यास्यते । अत्रेति । अत्र एतेषु क्ल शेषु मध्ये चतुर्मेदानाम- स्मित्वादिलशानामित्यादिरर्थः । प्रसुप्तादीनां सर्वेषामेव अविद्या- सत्त्वे सत्त्वं तदभावे तदभाव इत्याशयः। तेषां चतुर्विधभेदं विकृणोति। तत्र का प्रसुप्तिरिति। चेतसि शक्तिमात्रेण अनाग- तावस्थया अवस्थितानामस्मितादीनां वीजभावोपगमः स्वकार्य- जननसामर्थ्य प्रसुप्तिरित्यर्थः । अस्माद्दाक्यात् कार्यस्य अनागता- वस्थैव कारणे कार्यशक्तिरिति लब्ध सैव च उपादानकारणति भावः। दग्धवीजभावां पञ्चमीमवस्थां व्यावर्त्तयितुं वीजभावोप- गम इत्युक्तं दग्धवीजभावानां च अस्मितादीनां पुनरप्रसवाद- विद्या न क्षेत्रमिति सा पञ्चमी अवस्था न लक्ष्येति भावः । कदा- साधनपादे योगवार्तिकम्। १३७ चित् प्रबोधसत्त्वे एव सुषुप्तिः सम्भवतीत्यतः प्रबोधमपि दर्शयति। तस्येति । तस्य सुप्त क्ले शस्य स्वस्त्र विषये सम्मुखीभावोऽभिव्यक्तिः प्रबोध इत्यर्थः । पञ्चमावस्थायामतिव्यात्यभावं प्रतिपादयति । प्रसंख्यानेति। प्रसंख्यानवती विवेकसाक्षात्कारिणो जीवन्मुक्तस्य दग्धत शवोजतया सम्मुखीभूते सन्निकृष्टेऽपि विषये असौ क्ल- शानां सम्मुखीभावः पुनर्न भवति। तत्र हेतुर्दग्धवीजस्य कुतः प्ररोह इतीति। कारणाभावादित्यर्थः । तत्र तस्य पुनः ल शा- प्ररोहे, शास्त्रप्रसिद्ध चरमदेहकत्वं प्रमाणयति। अत इति । पुनः प्ररोहे सति देहान्तरोत्पत्त्या ज्ञानिदेहस्य चरमत्वानुपप- त्तिरिति भावः। तथा च स्मार्यते । वीजान्यग्न्य पदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्ध स्तथा क्लेश त्मा सम्पद्यते पुनः ॥ इति । ज्ञानदग्धः ल शरूपवीजैर्हेतुभिरात्मा देहो न पुन- रुत्पद्यत इत्यर्थः । ल शाख्यवीजदाहादित्यर्थः । दग्धवीजभावाया अवस्थाया अपरिगणने वीजमाह। तत्रैवेति। तत्रैव चरमदेह एव दग्धवीजावस्था नान्यत्र पुनर्जन्माभावादित्यर्थः । अतो नास्ति दग्धवीजावस्थस्य प्रसवो नापि तत्प्रसवभूमिरविद्येति भावः । जीवन्मुक्तानां विषयसन्निकर्षेऽपि क्ले शानभिव्यक्तः क्ल शसंस्कार एव तदा नास्ति विदेहकैवल्य इवेति भ्रम निरस्यति। सता- मिति । सूक्ष्मरूपेण सतामेव लशानां तदा चरमदेहे वीज- सामर्थ्य कार्यजननसामर्थ्य दग्ध नाशितमित्यादिरथः। अग्न्यादी दाहादिशक्तर्यावव्यभावितादर्शनात् चित्तेन सहैव क शशक्त- रशेषतो नाशसम्भवात् । तच्च ते प्रतिप्रसवहेयाः सूझा इति सूत्रे व्यक्तीभविष्यति। उपसंहरति। इत्युक्ता प्रसुप्तिर्दग्धवीजानाम- प्ररोहश्चेति । शिष्यावधानाय क्रमप्राप्तं तनुत्वस्य निर्वचनं प्रति- जानीते। तनुत्वमुच्यत इति। प्रतिपक्षेति। लशप्रतिपक्ष: ।

१३८ पातञ्जलदर्शनम् । क्रियायोग: तस्य भावनमनुष्ठानं तेनोपहता: लो शास्तनवो विवे- कख्यातिप्रतिबन्धाक्षमा भवन्ति, एतदेव तनुत्वमिति शेषः । केचित्तु सम्यग्दर्शनं श्रवणादिरूपं परोक्षमविद्यायाः प्रतिपक्षः एवं भेददर्शनमस्मिताया अहेयानुपादेयताज्ञानरूपं माध्यस्थ्य रागद्वेषयो: उपकरणाख्यानुबन्धबुद्धिनित्तिरभिनिवेशस्य एतेषां भावनेनानुष्ठानेनोपहता इत्यर्यमाहुः। विच्छित्तिं व्याचष्टे । तथेति । लशानामन्यतमेनाभिभवादत्यन्तविषयसेवनाहा वि- च्छिद्य विच्छिद्य तेन तेनात्मना पूर्ववदतनुभावेनैव पुन: समुदा- चरन्ति आविर्भवन्तीत्यतो विच्छिन्नशब्दवाच्या भवन्तीत्यर्थः । अत्र वीप्सया विच्छेदसमुदाचारयोः पौन:पुन्यं दर्शयता प्रसुप्तात् भेद उक्तः । प्रसुप्तिहि लशानां व्यञ्जकविलम्बेनैकदित्रिजन्मादि- बहुकालं व्यापारानभिव्यक्तिः । विच्छिन्नता तु स्वल्पप्रतिबन्धत: क्ल शप्रवाहस्य अल्पकालमन्तरान्तरानभिव्यक्तिरिति भेदः, तेन तेनात्मनेत्यनेन च तन्ववस्थातो भेद उक्त इति। विच्छेदे प्रमाणं पृच्छति। कथमिति। उत्तरं, रागेति । उत्तरं, रागेति। रागकाले क्रोधस्य अदर्शनात् क्रोधस्य विच्छिन्दता सिध्यतीत्यर्थः । तदा क्रोधाभाव च पुन: क्रोधोत्पत्त्यसम्भव: असत्कार्यानभ्युपगमादिति भावः । एवं लशान्तरेऽपि द्रष्टव्यम् । रागकाले क्रोधस्य विच्छे दे च विरोधो वीजमित्याह । न हीति। कालिकविच्छेदं क्त शानाम् उदात्य दैशिकविच्छेदमप्युदाहरति । रागचेति। विषयान्तरे न नास्ति अपि तु विच्छिन्नावस्थस्तत्रापि अन्यथा असदुत्पादा- सम्भवादित्यर्थः । अतो विषयान्तरे तदा रागण विच्छिन्न इति भावः । तदेवं लोकव्यवहारेणाप्यवधारयति। नैकस्यामिति । तत्र एशयां स्त्रियामित्यर्थः । स हौति। स हि रागस्तदा अन्यत्र प्र- सुलो वा तनुवा विच्छिन्नो वा एकतरोऽवश्यं भवति तत्र विच्छि- बतामादाय अत्रोदाहत इत्याशयः । उदारतां व्याचष्टे । विषये साधनपाद योगवार्तिकम् । १३८ इति। लब्धवृत्तिलचस्वाभाविककृत्तिरित्यर्थः । तेन तनुव्या- वृत्तिः। ननु प्रसुप्तविच्छिन्नयोः कथं ल शत्वं दुःखाजनकत्वादि- त्याशङ्ख्याह। सर्व एवेत इति । क्ल शविषयत्वं लशजननयोग्यत्वं न अतिक्रामन्ति उदाराद्यवस्थायां प्रसुप्तादिरूपस्य धर्मिणो दुःखदत्वादित्यर्थः । ननु एवं सासामेव क्ल शव्यक्तीनां काल- भेदाच आनुरूप्ये कथं प्रसुप्तादिरूपेण ले शानां विभाग इत्याश- इते। कस्तीति । परिहरति । उच्यत इति। प्रसुप्तादिरूपण चतुणां लशानामेकत्वमिति सत्यमेतत् । तथापि अवस्थाभि- विशिष्टानामेव क्ले शानां विच्छिनादित्वं विवक्षितं यथैकस्यैव पुरुषस्य बालकतरुणवृद्धादिरूपो विभाग इत्यर्थः । उताया उदा- रावस्थायाः कारणं प्रदर्शयति हानाय। यथैवेति । स्वव्यञ्चकन विषयध्यानेनाञ्जनेन अभिव्यक्त उदारो भवति ल शः, अतो मुमुक्षुणा प्रतिपक्षभावनावद्दिषयसङ्गत्यागोऽपि कार्य इत्या- शयः । निमित्तकारणेऽपि क्षेत्रशब्दो येन गुणेन अत्र गौणस्त- माह। सर्व एवेति। ननु रागादीनां ज्ञानत्वाभावात् कथम- विद्याविषयत्वमित्याशयेन पृच्छति। कस्मादिति । उत्तरं, सर्वे- ष्विति । सर्वेषु एव स्खेतरल शेषु अविद्यैव व्यापिका भवति तत्र हेतुर्यदिति विषयोक्रियते । अनुशेरते अनुगता भवन्ति, शेष सुगम, तथा च वैशेष्यात् तहाद इति न्यायेन अविद्या- प्राचुर्यात् अविद्यामिथितेषु सर्वक शेषु अविद्याभेदवत्त्वमुपपन्न यथा सुवर्णादिषु पार्थिवांशमिश्चितेषु तेजोवैशेष्यात् तेजोभेदत्व- मिति भावः । अविद्यैव मूलं दुःखवीजम् इत्युक्तमिदानीं पञ्च ल शान् पञ्चभिः सूत्रैः क्रमेण लक्ष्यति ॥ ४ ॥ * अनित्याशुचिदुःखानात्मसु नित्यशुचिसु- खात्मख्यातिरविद्या ॥५॥ * ।

१४० पातञ्जलदर्शनम् । अनित्ये कार्यो नित्यख्यातिः, तद्यथा ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवी- कस इति। तथा अशुचौ परमबीभत्स काये उक्तञ्च "स्थानाद्वीजादुपष्टम्भानिस्पन्दान्निधनादपि। का- यमाधयशौचत्वात् पण्डिता ह्यशुचिं विदुः” इत्य- शुचौ शुचिख्याति श्यते, नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्र भित्त्वा निःसृतेव जायते नीलोत्पलपत्रायताची हावगीभ्यां लोचनाभ्यां जीवलोकमाश्वासय- न्तीवेति, कस्य केनाभिसम्बन्धी, भवति चैव- मशुचौ शुचिविपर्यासप्रत्यय इति । एतेनापुण्ये पुण्य प्रत्ययस्तथैवानर्थे चार्थप्रत्ययो व्याख्यातः । तथा टुःखे सुखख्यातिं वक्ष्यति "परिणामतापसंस्कार- दुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिनः" इति, तत्र सुखख्यातिरविद्या। त्मनि आत्मख्यातिः वाह्योपकरणेषु चेतनाचे- तनेषु, भोगाधिष्ठाने वा शरीरे, पुरुषोपकरणे वा मनसि, अनात्मनि आत्मख्यातिरिति, तथै- तदत्रोक्तं "व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेन अभि- तथा अना- साधनपादे योगवाति कम् । १४१ 7 प्रतीत्य तस्य सम्पदमनुनन्दति आत्मसम्पदं मन्यानस्तस्य व्यापदमनुशोचति आत्मव्यापदं मन्बमानः स सर्वोऽप्रतिबुद्ध” इति, एषा चतु- ष्पदा भवति अविद्या मूलमस्य कुशसन्तानस्य कर्माशयस्य च सविपाकस्य इति। तस्याश्चा- मित्रागोष्पदवद् वस्तु सतत्त्व विन्न यम्, यथा नामित्रो मित्राभावो न मित्रमावं किन्तु तद्विरुद्धः सपत्नः, यथावा अगोष्पदं न गोष्पदा- भावो न गोष्पदमावं किन्तु देश एव ताभ्याम- न्य वस्त्वन्तरम्, एवमविद्या न प्रमाणं न प्रमा- णाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमवि. R दोति ॥ ५॥ १ अनित्यादिचतुष्टये क्रमेण नित्यादिबुद्धिरविद्येत्यर्थः । अवि. द्याचतुष्टयं क्रमेण व्याचष्टे उदाहरणानि च दर्शयति। अनित्य इति । अनित्यत्वमसत्त्वं कालनिष्ठाभावप्रतियोगित्वमिति या- वत्। तस्यैव स्वरूपाख्यानं कार्य इति। नित्यत्वञ्च सत्त्वम् । तदुक्तं गारुडे। अनात्मन्यात्मविज्ञानमसतः सत्वरूपता। सुखाभावे तथा सौख्यं माया विद्याविनाशिनी ॥ इति। भगवहीतायाञ्च। नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः । इति। असतः प्रागभावप्रतियोगिनी भावोऽविनाशित्व' १४२ पातञ्जलदर्शनम्। भास्ति सतश्च अनादिभावप्य अमावो विनाशो नास्तीत्यर्थः । अविनाशि तु तहिडीत्याद्युत्तरवाक्यात् अब अभावप्रतियोगित्व- रूपानित्य त्वमेव सत्त्वमुक्तमिति । इमामवं असति सदबुद्धिरूपा- मविद्यामादाय प्रपञ्च आविद्यक इति श्रुतिस्मृतिडिण्डिमः । तथा प्रपञ्चज्ञानस्य असति सदाकारकत्वात् मत्वमपि शुक्तिरे- जतादिनानवहीयते इति उक्ताविद्यायाः प्रपञ्चमेवोदाहरणमाचा- Uऽप्याह । ध्रुवेति। वाचारम्भर्ण विकारो नामधेयं मृत्तिके- त्येव सत्यमित्यादिश्रुत्यापि प्रपञ्चस्य ईदृशमेवासत्यत्वमुक्तम् । परमबीभत्स इति । कुत्सितेऽपवित्र इंति यावत् । कायस्था- चित्वे श्रुतिं प्रमाणयति । उक्तञ्चेति । स्थान मूत्राद्युपहतं मातुरें- दर वीजं शुक्रशोणिते उपष्टम्भी माटभुक्तानादिरसः । निस्यन्दी नवद्वारे: रोमकूपादिभिश्च क्षरण, निधनं मरणम् । एवमन्येऽशु- दिहेतवः स्पष्टाः । तथा सानादिभिः शौचाधानादपि सदा खतोऽशुचित्वमनुमीयत इत्याह। आंधयशौचत्वादिति । ननु भवतु शरीरमशुचि तथापि तत्र शुचिख्याती किं प्रमाणमित्यौ- काझायामाह। अशुचौ शुचिख्यातिदृश्यते इति । मवीनशशा- सवदियं कन्या कमनीया मधुनोऽमृतस्य वा अवयवरंशैनिर्मितव दृश्यते। हाव: शृङ्गारजा लीला कस्य स्त्रीकायस्य निक्लष्टस्य केन चन्द्रकलादिना अतिनिर्मलेनाभिसम्बन्धः साधर्म्यम् । ना- स्त्य व विवक्षितसाधर्म्यमित्यर्थः । उपसंहरति । भवतीति । एते- नेति। एतेनाशुचौ शुचिख्यातेयाख्या तैनापुण्ये तप्तशिलारोह- गादी हिंसादौ वा पुण्यप्रत्ययस्तथा अनर्थे अर्जनरक्षणादिना दुःखबहुलतया अपुरुषार्थे धनादौ अर्थप्रत्ययोऽघि अविद्यात्वेन व्याख्यातः । शुच्यशुचिशब्दयोर्योगोत्कष्टसाधनासाधनमानीपल- क्षकवादित्यर्थः । भाष्योक्तमपि अविद्यायमन्यासामपि संसार हेतूनामविद्यानामुपक्षकमतोन न्यनता। तबेल्युत्तरपन्यन - साधनपादे योगवार्त्तिकम् । १४३ सोयामविद्यां व्याख्यातुमादौ वक्ष्यमाणसूत्रमुखेन तस्यौदाहरण प्रदर्शयति । तथा दुःख इति। तथेत्यस्य वत्र सुखख्यातिरविद्य- स्यनेनान्वयः। वच्यतीति। अदिति शेषः। तत्रेति। जग- द्रुपदुःख इत्यर्थः । अत्र च दुःखमेव सर्व विवेकिन इत्यागामि सूत्रे दुःखसाधनतया दुःखबहुलतया च दुःखत्ववचनात् दुःख- साधने दुःखनिवृत्त्यास्यतात्त्विकसुखसाधनत्वबुद्धिः तथा दुःख- प्रचुर सुखप्रचुरत्वबुद्दिम्ब बतीया अविद्येति बोध्यम् । अन्यथा केवलदुःखे सुखश्चमस्यासिद्धिरिति, चतुर्थीमविद्या व्याचष्टे । तथा अनात्मनीति। उदाहरणं वाह्य ति। वायस्य देहस्य उपकर- सोषु पुत्रादिषु अहंबुद्धिः तथा विषयभोगावच्छेदकतया अन्त:- करणस्योपकरणे शरीरेऽहंबुद्धिस्तथा भोग्यतया साक्षात् पुरुष- स्योपकरणेऽन्तःकरणेऽहबुद्धिरित्यर्थः । इमामेव चतुर्थी मविद्या- मादाय प्रपञ्चोऽविद्याकार्य इत्युच्यते। अहं कर्त्तत्याद्य भिमान, स्यैव धर्माधर्मोत्यत्तिद्दारा अखिलजगद्धे तुत्वात् इति । अत्र पञ्च- भिखाचार्यसंवादमाह। तथेति। यथा मयोक्तं तथा। अत्र चतुर्थे अविद्याविषये पञ्चशिखेनाप्येतदुक्तमित्यर्थः। व्यक्ताव्य व्यावताव्याकतं स्थूलमूक्ष्मरूपं बुद्धिसत्त्वमात्मतया गडीत्वा तस्य सत्त्वस्य सम्पत्तिं सत्यसङ्घल्यादिकं शुभवासनादृष्टादिकं चानु- नन्दत्यात्मसम्पदं मन्वानस्तथा तस्य विपत्तिम् इच्छाविघातादि । रूपादिकां च अनुशोचत्यात्मविपत्तिं मन्वान एवंविधो यः स सर्वोऽविद्दानित्येतदुक्तमित्यन्वयः। ननु शुक्तिरजतादिभ्रमरूपा- स्थामविद्यानां कथमत्र गणना न कृतेत्याशझ्याह । एषेति । पशो- रिव चत्वारि पदानि पादा अंशा प्रस्या इति चतुष्पदा एवम्भूतै- वैषा संसारस्य मूलं भवतीत्यर्थः । तथा च संसाराहेतुतया नान्यासामत्र गणनमिति भावः । ननु विग्रहतोऽविद्याशब्दस्य विद्याभिन्नत्वं विद्याशून्यत्वमत्युत्तमविद्यात्वं वा अर्थ: स्यात् न तु - 7 1 7 १४४ पातञ्जलदर्शनम्। विपरीतख्यातिरित्याशङ्कयाह । तस्याश्चेति । तस्याश्च अविद्यायाः सतत्त्वं तत्त्वं वस्तु एव विज्ञ यं न तु अभावोऽमित्रागोष्पदादि- शब्दवदित्यर्थः । दृष्टान्तं विभजते । यथा नामित्र इति। न मित्रामाव इति । अत्रामावशब्देन संसर्गान्योन्याभावी ग्राह्यौ न मित्रमात्रमिति । नास्ति मित्र यस्मादिति व्युत्पत्त्या केवलमित्र- मित्यर्थः । किन्तु तबिरुद्धो मित्रविरुद्ध इत्यर्थः । तथा च निरूढ़- लक्षणेति भाव: । किन्तु देश एवेति। विपुलो देशविशेषोऽगो- पद इति परिभाषितः ग्रमाणं विद्या। ज्ञानान्तरमिति । एतेन अविद्याशब्दस्य ज्ञानविशेषे रूढ़त्वावधारणात् आधुनिक वेदान्तिनामन्यार्थत्वोपवर्णनं स्वातन्त्रामात्रमवधेयम् । क्वाचित्- कस्तु त्रिगुणात्मकप्रकृती अविद्याशब्दो गौणः। अविद्याधर्मक- त्वात् अविद्यया आत्मन्यारोपितत्वात् जड़त्वाच्च । विद्याविद्याश- ब्दयो नाज्ञानवाचित्वेनात्मानात्मवाचित्वादिति । अस्मिंश्च दर्शने सांख्यान मिव पविवेको न अविद्याशब्दार्थः किन्तु वैशेषिका- दिवत् ।वाशटज्ञानमेवेति सूत्रभाथाभ्यामवगन्तव्यम् । अविद्या- नन्तरं तत्काये मस्मितां लक्षयति ॥ ५ ॥ ८.५4 •vo न्यिा। * टुग्दर्शनशक्त्योरकात्मतेवास्मिता ॥६॥ * पुरुषो दृक्शक्तिर्बुद्धिर्दर्शनशक्तिरित्येतयोः एकस्वरूपापत्तिरिव अस्मिता क्लेश उच्यते । भोक्तृ- भोग्यशक्त्योः अत्यन्त विभक्तयोरत्यन्ताऽसौर्णयोर- विभागप्राप्ताविव सत्यां भोगः कल्पते, खरूप- प्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग तथाचोक्तं "बुद्धितः परं पुरुषमाकार- इति ।

साधनपादे योगवार्त्तिकम् । १४५ शीलविद्यादिभिर्विभक्तमपश्यन् कुर्यात् तत्रात्म. बुद्धिं मोहेन” इति ॥ ६ ॥ दृग् द्रष्टा दृश्यतेऽनेनेति दर्शनं करणं बुद्धिः प्रलयादौ फलो- पधान नास्तीति शक्तिग्रहणं तयोरकात्मतेव स्वरूपतो धर्मतश्च अत्यन्तमेकाकारो विपर्ययोऽस्मिता अहङ्कार इत्यर्थः । एतदेव शब्दान्तरेणाह । पुरुष इत्यादिना। एकस्वरूपापत्तिरिव एका. कारो यः शः सोऽस्मिता उच्यत इत्यन्वयः । अविद्यातश्च अस्मि- ताया अयं भेदो यबुयादावादौ या सामान्यतोऽहंबुद्धिरथ च भेदाभेदेनाप्युपपद्यते अत्यन्ताभदाग्रहणात् सैव अविद्या न तु तदुत्तरकालीनः पुरुषे बुधादिगुणदोषारोप ईश्वरोऽहमहं भोगीत्यादिरूपः न वा दूरस्थवनस्पत्योरिव तयोरत्यन्तमकता- नमः। अस्मिता तु एतदुभयरूपिणीति, भ्रमत्वाविशेषे. ऽपि कार्यकारणरूपावान्तरविशेषादविद्यास्मितयोर्मेदेनोपन्यास इति । अनयोश्च कार्यकारणभावी लोकानुसारेणावधार्य ते, लोके हि आदी कलंत्रपुत्रभृत्यादिषु आत्मभावो जायते पश्चादेव तु तेषां सुखदुःखादिकमात्मनि अभिमन्यते तथा आदौ जला- दिषु उपाधिषु प्रतिविम्बादिरूपेण चन्द्राद्यारोपो भवति पश्चा- देव तु चन्द्रादिषु तद्वारा कम्पमालिन्याद्यारोपो भवतीति । अयञ्च कार्यकारणभाव: पूर्वसूत्रभाष्यस्थेन पञ्चशिखवाक्य ना- प्य तः । तथा सांख्यकारिकायामपि पाठक्रमेणोक्तः ॥ तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तव भवत्युदासीन: ॥ इति। ननु बुद्धिपुरुषयोरन्योन्यागीपेणेवाहं दुःखीत्यादि- व्यवहारोपपत्तौ एकात्मतारोपे कि प्रमाणं, परस्परारोपश्च यत्वरभेदग्रहं विनापिरगरजतयोरिव सम्भवत्येव अग्निलोह- १३ .

१४६
पातञ्जलदर्शनम्।
योर्दूरस्थवनस्पत्योश्च पुन: स्फुटैक्यप्रत्ययदर्शनादभेदारोपः सि-
ध्यति। आत्मबुद्दयोस्तु परमसूक्ष्मतया नास्ति स्फुटमैक्यप्रत्यक्ष-
मिति तत्राह। भोक्तभोग्यशक्त्योरिति। अत्यन्तविविक्तयोरि-
त्यत्र हेतुरत्यन्तासङ्कीर्णयोरत्यन्तविप्रकष्टधर्मकयोरिति। भोग्य
भोक्तृत्वे एव स्फुटे वैधर्म्य अन्यथा कमकर्तविरोधादिति भावः ।
एवम्भूतयोर्भोक्तृभोग्ययोः पुरुषबुयोरविभागप्राप्तौ इव सत्यामिक
स्वप्रत्यये सत्येव मोगः सम्भवति भेदग्रह तु तयोः कैवल्यमन्योन्य-
वियोग एव भवति परवैराग्यादित्यतः कथं भाग: स्यादित्यर्थः ।
तथा च भोगान्यथानुपपत्तिरेकात्मतारोपे प्रमाणमित्याशयः ।
अतएव सत्त्वपुरुषयोः प्रत्ययाविशेषो भोग इति सूत्रकहदिष्यति।
योऽहं सुखी सोऽहं तदनुभविता इत्येकाकारतैव च बुद्ध्यात्म-
प्रत्यययोरविशेषाद् यस्मिन् सत्येव च लोके भोगव्यवहार इति ।
जीवन्मुक्तस्य च गौण एव भोगः सुखादिसाक्षात्कारमात्ररूप
इति वक्ष्यामः । इदं चोपलक्षणं सुखदुःखज्ञानाद्याश्रयोऽहम्
एक एवेति प्रत्ययोऽपि एकात्मतारोपे प्रमाणं बोध्यम् । अस्मि-
तायाः स्वरूपे अविद्याजन्य त्वे च पञ्चशिखाचार्यवाक्यं प्रमाण-
यति । तथा चोक्तमिति। परमार्थतो बुद्धितः परं पृथक् कृतं
पुरुषं बुडेराकारगीलविद्यादिभिर्विविक्तमसंस्पृष्टमपश्यन् अवि-
वेको जनस्तत्र बुद्ध्याकारादिषु आत्मबुद्धिमस्मितां कुर्यात् ।
शान्ताद्याकारोऽस्मि जाग्रदादिशीलोऽस्मि विद्यादिमानस्मि
इत्येवंरूयां, मोहेन पूर्वसूत्रोक्ताविद्ययेत्यर्थः । अस्मितां लक्ष-
यित्वा तत्कायं राग लक्षयति ॥ ६ ॥
* मुखानुशयो रागः ॥ ७॥ *
मुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्मा-
धने वा यो गईस्तृष्णा लोभः स राग इति ॥७॥

साधनपादे योगवार्त्तिकम् । १४७ सुखानुशयो सुखतत्साधनमात्रविषयको यः क्लशः स राग इत्यर्थः । मात्रपदादविद्यादिव्यावृत्तिर्जीवन्मुक्तच्छाव्यक्तिः राग एव न भवति संसाराहेतुत्वादिति न तस्यामतिव्याप्तिः । रागस्य कारणं वदन्निममेवाथं भाष्यकारोऽप्याह। सुखाभिज्ञस्येति । सुखाभिज्ञस्य वा सुखानुस्मृतिपूर्वको वेत्यर्थः । तेन सुखसाक्षा- कारत: सुखस्मृतितश्च रागो भवतीति रागस्य कारणमुक्तम् । पर्यायैः रागशब्दार्थमवधारयति। गई इत्यादिना। रागप्रति- घातोत्यतया रागस्य पश्चाद्देषं लक्षयति ॥ ७ ॥ * दुःखानुशयो हेषः ॥८॥ * दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वी दुःखे तत्- साधने वा यः प्रतिघो मन्युजिघांसा क्रोधः स द्वेष इति ॥८॥ सर्वं पूर्ववत् । प्रतिहन्ति उद्देजयतीति प्रतिषः । अत्र जिघां- मेति वचनाद्देषोऽपीच्छाविशेष एवेत्याशयः। देषमूलकतया द्वेषस्य पश्चादभिनिवेशं लक्षयति ॥ ८॥ * स्वरसवाही विदुषोऽपि तथारूढ़ोऽभि- निवेशः ॥६॥ * सर्वस्य प्राणिन इयमात्माशीनित्या भवति मा न भूवं भूयासमिति, न च अननुभूतमरण- धर्मकस्यैषा भवति आत्माशीः, एतया च पूर्व- जन्मानुभवः प्रतीयते, स च अयमभिनिवेश: क्ल शः स्वरसवाही कृमेरपि जातमावस्य प्रत्यक्षा- - १४८ पातञ्जलदर्शनम् । नुमानागमैरसम्भावितो मरणवास उच्छेददृष्ट्या- त्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । यथा च अयमत्यन्तमूढेषु दृश्यते क्ले शस्तथा विदु- षोऽपि विज्ञातपूर्वापरान्तस्य रूढ़ः, कस्मात्, समाना हि तयोः कुशलाकुशलयोः मरणदुःखा- नुभवादियं वासनेति ॥ ६ ॥ स्वरसेन संस्कारमात्रेण वहतीति स्वरसवाही। अपिशब्द- समुच्चितमविदांसं तथेति तच्छब्दः परामृशति। रूढ़ः प्रसिद्धः, तथा च यथा अविहज्जनस्य तथा विदुषोऽपि स्वरसवाहित्वहे- तुना यः क्ल शोऽस्ति प्रसिद्धः सोऽभिनिवेश इत्यर्थः । अविद्याद- यस्तु विदुषि न सन्तीति न तेषु अतिव्याप्तिः। ननु एवं कथं पूर्वोक्तमविद्याव्याप्तत्वमभिनिवेशस्य घटताम्। अविद्यानाशेऽपि अभिनिवेशमत्त्वादिति चेन्न। संस्कारहेतुतावच्छेदकरूपेणैव विपर्यायव्याप्तत्वस्य विवक्षितत्वात् संस्कारहेतुत्वं मरणत्वासाति- रिक्तभयत्वेनैव फलबलादिति । अयञ्च ल शो भयाख्य इति वक्ष्यति भाष्यकारः । अभिनिवेशस्य अत्यन्तदुरन्तत्वप्रतिपादनाय विहदपरिहार्यत्वमुखेन लक्षणं कृतं भयसामान्यमेव तु अभिः निवेशो रागादिवदिह विवक्षित इति। तत्रादौ भाष्यकारो- ऽभिनिवेशस्य स्वरूपमाह । सर्वस्येति । सर्वस्य विदुषोऽविदुषश्चय- मात्मनि आशीः प्रार्थना इच्छाविशेषः सदैव भवति। तामेवाह । मा न भूवम् इति । मा अहमभावी भूवं भूयासं जीव्यासमित्येवं- रुपेत्यर्थः । इयमाशीरेव बासो भयमित्युच्यत इति भावः । विदु- षोऽपि अपरिहार्यत्वमुपपादयितु यथोक्तमभिनिवेशस्य कारण- मवधारयति। न चेति । अननुभूतो मरणस्य धर्मो दुःखाति- साधनपादे योगवार्तिकम्। १४८ शयो येन तस्येयमाशीर्न सम्भवति। धनादिनाशजन्यदुःखजस्यैव धनादिषु तादृशाशीर्दर्शनात्। धनं मे मा नश्यतु सदैव भूया- दिति। अतएव तयाशिषा पूर्वजन्मनि मरणदुःखानुभवस्तत्- कारणतया प्रतीयते अनुमोयत इत्यर्थः । एतेन जीवस्यानादि- त्वमपि प्रसङ्गात्साधितं, जन्म तु कूटस्थचिन्मात्रस्य तैस्तैर्देहे- न्द्रियबुद्धिवेदनादिभिराद्यः सम्बन्ध इति। यत्तु न जायते न नियत इत्यादिवाक्य तदात्मन उत्पत्तिविनाशी एतह हादेरिव प्रतिषेधतौति बोध्यम् । ननु इह जन्मनि एवानुमानादिना मर- ण दुःखानुभवेनाभिनिवेगाख्यं भयं भवतु किमर्थं पूर्वजन्मानुभवः कल्प्यत इत्याशङ्कामपाकरोति। स चायमिति। स चायमुक्ता- शीरूपोऽभिनिवेशः स्वरसवाही स्वाभाविकोऽत्यन्तमूढस्य कर्म- रपि मरणदुःखप्रत्यक्षादिभिरसम्भाव्यो मरणत्रास उच्छेददृष्ट्या- त्मक उच्छेददृष्टिकार्यः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । पूर्वजन्मनि मरणदुःखानुभवमनुमापयति । यदनुभवोस्थेन मरणवासेन जनितया वासनयेह जन्मनि मरणत्रासो भवतीति शेषः । मरणभयस्य देषरूपस्यापि संस्कारजनकत्वं निरोधस्येव अगत्या कल्प्यत इति। अभिनिवेशं तत्कारणञ्च व्याख्याय सूत्र- वाक्याथ व्याचष्टे । यथा चेत्यादिना रूढ़ इत्यन्तेन। विज्ञा- तेति। विज्ञातः सम्प्रज्ञातयोगेन साक्षात्कृतः प्रपञ्चस्य पूर्वा- न्तोऽपरान्तश्चाद्यन्तौ येन स तथा तत्त्वज्ञस्येत्यर्थः । कुशलाकुश- लयोरिति वक्ष्यमाणत्वात् इति। एतेन आद्यन्तयोरवशिष्यमाण- मेव वस्तु प्रपञ्चस्य तत्त्व तन्नु परं ब्रह्म विकारस्तु मध्ये वाचा- रम्भणमात्रमित्यस्माकमपि सिद्धान्त इति सिद्धम् । तथा चोक्त मोक्षधर्मेऽपि। अन्तेषु रेमिरे धीरा न ते मध्ये षु रेमिरे। अन्त प्राप्तिं सुखामाहुर्दु:खमन्तरमेतयोः । व य त । १५० पातञ्जलदर्शनम् । इति । सुखामाहुरित्यार्षम् । सुखायाहुरिति पाठस्तु साधुः । ननु तत्त्वज्ञस्य अविद्यास्मिताद्यभावात् कथं यथोक्ताशीरित्या- शयेनाशकते। कस्मादिति। संस्कारमात्रजन्यत्वेन परिहरति । समाना होति। इयं वासना एतदाशौहेतुवासनेत्यर्थः । इयञ्च बलवत्तरा वासना चित्तेन सह नश्यत एव ज्ञानेन च दह्यत इत्येतत् अविद्यादिसंस्कारेभ्यो विशेषः । ननु कुशलस्यात्मनित्यत्व- निश्चयात् कथं मा न भूवं भूयासमितीच्छा स्यात् सिद्धत्वज्ञानस्य प्रतिबन्धकत्वादिति चेन। विशेषदर्शने सत्यपि ईदृगिच्छादृष्ट्या फलबलेन तादृशसंस्कारस्य उत्तेजकत्वात् । एतेन यदाधुनिक- वेदान्तिब्रुवा आहुरात्मा सुखस्वरूपः निरुपाधियथोक्तेच्छाविष: यत्वात् वाह्य सुखवदित्यनुमानेनात्मनः सुखरूपता सिध्यतीति, तदप्यपास्तम् । पूर्वपूर्वजन्मसु यस्त्रासो जातस्तेन तदा जाता- यास्तद्दासनातो निरुपाधीच्छासम्भवात् । अन्यथापि पात्मत्वेनैव प्रियत्वकल्पनौचित्याच्चेति । क्रियायोग: ले शतनूकरणार्थ इत्युक्त तत्र क्लेशतनूकरणस्य फलं वक्तुमाह ॥ ८॥ * ते प्रतिप्रसवहयाः सूक्ष्माः ॥ १० ॥ ते पञ्च के शा दग्धवीजकल्पा योगिनश्चरिताधि- कार चेतसि प्रलौने सह तेनैव अस्तं गच्छन्ति ॥ २० ॥ स्थितानान्तु वीजभावोपगतानां- प्रसवाविरुद्धः प्रतिप्रसवः प्रलयः । तथा च प्रतिप्रसवेन चित्तस्य प्रलयेन सूक्ष्मा दग्धवीजभावा: क्लेशा हेया इत्यर्थः । तदेव भाष्यकार आह। ते पञ्चति। पञ्चमध्ये अभिनिवेशो मरणातिरिक्त एव योगिनो दग्धवोजकल्पो भवतीत्युक्तमेव । ननु साधनपाद योगवार्तिकम् । १५१ तनूकरणं दग्धवीजभाव: प्रलयश्चेत्येव क्रमः । अतो दग्ध वीज- भावप्रतिपादकमुत्तरसूत्रमेवादी उचितमिति चेन्न । मुख्य फल- तया प्रलयस्य अनादौ निर्वचनात् तंत्र हाराकाझ्या च दग्ध- वीजभावस्य पथाहच्यमाणत्वादिति। ननु ल शतहासनयोर्वक्ष्य- माणप्रसंख्यानेनैव नाशोऽस्तु किमर्थं तत्र चित्तनाशोऽपेक्ष्यत इति चेन्न। ज्ञानदग्धैस्तथा क्ल शरित्यादिशास्त्रप्रामाण्येन ज्ञानाग्नि- दाहस्यैव सिद्धेनं तु तत्राशस्य। युक्तिश्च अत्र प्रागवोक्ता कार- णेषु कार्यशक्तर्यावद्रव्यभावित्वदर्शनमिति । तथा च योगा- ग्निना व्युत्थानसंस्कारदाहवज्ञानाग्निनापि लशसंस्कारयो- र्दाह एव भवति न तु तन्नाश: । ननु एवमपि ल शसंस्कारदाहे- नैव संसारात्यन्तोच्छेदसम्भवे संस्कारसहितचित्तनाश: किमिति मोक्षाय अपेक्ष्यत इति चेन्मैवम् । योगिसङ्कल्पेन दृष्टवोजादि- वत् दग्धवीजशक्तिकादपि कदाचित् पुनरङ्कुरोत्यत्त्यापत्तेरिति । तनूकरणस्य हारं दग्धवीजभावं प्रतिपादयन् सूत्रं पूरयित्वा पठति। स्थितानामिति। तदृत्तय इति। समासान्तर्गततच्छ- ब्दस्यार्थ: क्लेशैः सहान्वयः। स्थितानामित्यस्य विवरणं वीज- भावोपगतानामिति । एतच्च सूत्रेण सह व्याख्यास्यामः ॥१०॥ * ध्यानहेयास्तवृत्तयः ॥ ११ ॥ * स्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तनूकताः सत्यः प्रसङ्ख्यानेन हातव्या, यावत् सूक्ष्मौकृता यावद् दग्ध वीजकल्पा इति । यथा च वस्त्राणां स्थूलो मलः पूर्व निर्धूयते पश्चात् सूक्ष्मो यत्नेनोपायेन च अपनीयते, तथा १५२ पातञ्जलदर्शनम् । खल्पप्रतिपक्षाः स्थूला वृत्तयः क्लोशानां, सूक्ष्मास्तु महाप्रतिपक्षेति ॥.११ ॥ क्ल शानामिति। स्थितानां वीजभावोपगतानां क्ले शानां या वृत्तयः स्थूला अभिव्यक्तावस्था: ता: प्रथमं क्रियायोगेन अल्यो- कताः सत्यः प्रसंख्यानेन समाधिजप्रज्ञारूपेण ध्यानेन ध्यानका- र्येण हातव्याः प्रतिबद्धोत्पत्तिका: कर्त्तव्याः यावत्सूक्ष्मीकताः, अस्यैव विवरणं यावद्दग्धवीजकल्पा भवन्तीत्यर्थः । एतच्च ते प्रति- प्रसवहया इति पूर्वसूत्रेणेवोक्त मिति। तनूकरणादिषु त्रिषु सुकरत्वदुष्करत्वरूपं विशेषं दृष्टान्तेनाह। यथा वस्त्राणामिति। निर्धू यते वाताहत्या निराक्रियते। यत्नेन पाषाणप्रहारादिना, उपायन क्षारसंयोगादिना। अवेदं दृष्टान्त साधनवयं दाटा- त्तिकेऽपि साधनवित्वाभिप्रायेणोक्तम्। स्वल्पेति। स्वल्पः क्रि- यायोग: प्रतिपक्षस्त नुता हेतुर्यासां स्थूलानामतनकतानां ता: तथा महानतिदुष्करः प्रसंख्यानाग्निरसम्प्रज्ञातयोगसाध्यचित्त- नाशश्च प्रतिपक्षौ दाहकनाशकौ यासामिति महाप्रतिपक्षा इ- त्ययः । अनेन सूत्रेण जीवन्मुक्तानां वृत्तिरूपोऽपि अविद्यालेश- स्तिति इत्यभ्युपगम आधुनिकानां वेदान्तिब्रुवाणामपसिद्धान्त इति निर्णयम्। तथा सति स्थ लानामपि प्रतिप्रसवहेयत्वापत्ते- रिति । इदानीं के शाः किमर्थ हया इत्याकाइयां क्ल शानां परम्परया दुःख निदानत्वं सूत्रत्रयेण वक्तव्यं, तत्रादौ लशानां दुःखोत्पादने साक्षाद्वारमाह ॥ ११ ॥ * क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेद- नीयः ॥ १२॥ तव पुण्यापुण्यकर्माशयः कामलोभमोहक्रो- १५२ साधनपादे योगवार्तिकम् । धप्रसवः । स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनी- यश्च, तब तीव्रसंवेगेन मन्त्रतप:समाधिभिनिर्व- र्तित ईश्वरदेवतामहर्षिमहानुभावानामाराधनादा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति। तथा तीव्रक्लो शेन भौतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपखिषु कृतः पुनः पुनरपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते । यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः, तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति। तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः, क्षौणलो शा- नामपि नास्ति अदृष्टजन्मवेदनीयः कमीशय इति ॥ १२ ॥ दृष्टादृष्टजन्मनी वर्तमानभविष्यती वेदनं भोग: कर्माशयो धर्माधर्मी तौ च दृष्टजन्मभोग्यौ वा अदृष्टजन्मभोग्यौ वा उभय- थैव क्लेशमूलको। क्लेशे सत्येव भवत इत्यर्थः । 'यस्य नाहफ़्तो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकान् न हन्ति न निबध्यते' इत्यादिवाक्यशतेभ्य इति भावः । यथा वा अधिका- रिविशेषतया लशानां धर्मादिजनकत्वं शौचादिवत् एवं तज्ज- नककर्मादिषु रागादिरूपैः प्रवर्तनादपोत्यपि बोध्यम् । क्लेश मूलकत्वं विवृणोति । तत्रेति । तत्र चित्ते लोभादिरूपदोष- १५४ पातञ्जलदर्शनम् । त्रयसत्त्वे एव पुण्यं पापरूपी कर्माशयौ भवत इत्यर्थः। रागद्देष- मोहाख्यानाञ्च दोषाणामदृष्टनियामकत्वं कौमें दर्शितम्। 'राग- द्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः। कार्यो ह्यस्य भवे- होषः पुण्यापुण्य मिति श्रुतिः। तद्दशादेव सर्वेषां सर्वटेहसमुद्भव' इति। दृष्टजन्मवेदनीयमुदाहरति । तत्र तीव्रति । सद्य इति । इह जन्मनीत्यर्थः । परिपच्यते कालेन परमेखरेण वा फलोष- हितीक्रियते। अदृष्ट जन्मवेदनौयं पुण्यमुदाहृत्य दृष्ट जन्मवेद- नौयं पापमुदाहरति । तथेति । य इत्यनुषज्यते। यथाक्रम- मुक्तयोः पुण्यपापयोदृष्टान्तावाह। यथा नन्दोखर इति । अट्ट टजन्मवेदनीयञ्च कर्म प्रसिद्धत्वान्नीदाहृतम्। प्रसङ्गती व्यति- रेकावपि उदाहरति। तत्र नारकाणामिति। नारकिपुरुषाणां धर्माद्यनुत्पत्त:। ननु स्वर्गिणामपि कर्म नोत्पद्यत इति कथ नारकिवचनमावमिति चेन। स्वर्गिणां भारतवर्षमागत्य लीला- मानुषविग्रहेण प्रयागादौ कर्मानुष्ठानस्य तत्फलस्य च श्रवणा- दिति। शेषं सुगमम् । न केवलं कार्भाशयेषु एव क्लेश: कारण- मपि तु तत्फलेषु अपि, अतस्तान्यपि दुःखोत्पादने क्ले शाना साक्षात् परम्परया हाराणीत्याह ॥ १२ ॥ * सति मूले तदिपाको जात्यायु गाः॥१३॥ * सत्सु क्लेशेषु कमीशयो विपाकारम्भी भवति, न उच्छिन्नक शमूलः । यथा तुषावनद्धाः शालि- तण्डुला अदग्धवीजभावाः प्ररोहसमर्था भवन्ति न अपनीततुषा दग्धवौजभावा वा, तथा कुशा- वनवः काशयो विपाक प्ररोही भवति न अप- नौतक शो न प्रसङ्ख्यानदग्धक शवीजभावो वेति ।

साधनपाद योगवार्तिकम् । १५५ स च विपाकस्विविधो जातिरायुर्भोग इति । तवेदं विचायते, किमेकं कर्म एकस्य जन्मनः कारणम्, अथैकं कर्म अनेक जन्म आक्षिपतीति, हितीया विचारणा, किमनेक कर्म अनेक जन्म निवर्तयति, अथ अनेक कर्म एक जन्म निवर्तयतीति । न तावदेकं कर्म एकस्य जन्मनः कारणं, कस्माद्, अनादिकालप्रचितस्य अस- ड्ययस्य अवशिष्ट कर्मणा: साम्प्रतिकस्य च फल- क्रमानियमादनाश्वासो लोकस्य प्रसक्तः स ध अनिष्ट दूति। न चैकं कर्म अनेकस्य जन्मनः कारणं, कस्माद्, अनेकेषु, कर्मम एकैकमेव कर्म अनेकस्य जन्मनः कारणमिति अवशिष्टस्य विपाककालाभावः प्रसक्तः, स च अपि अनिष्ट न च अनेक कर्म अनेकस्य जन्मनः कारणं, कस्मात्, तदने जन्म युगपत् न सम्भ- वतोति क्रमेण वाच्यं, तथा च पूर्व दोषानुषङ्गः, तम्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशय- प्रचयो विचित्र: प्रधानोपसर्जनभावन अवस्थितः प्रायेगाभिव्यक्त एकप्रघट्टकन मिलित्वा मरण प्रसाध्य सम्मूर्छित एकमेव जन्म करोति, तच्च इति ।

१५६ पातञ्जलदर्शनम् । जन्म तेनैव कर्मणा लब्धायुष्क भवति, तस्मिन्ना- युषि तेनैव कर्मणा भोगः सम्पद्यत इति, असौ कर्माशयो जन्मायुर्भागहेतुत्वात् विविपाकोऽभि- धीयत इति, अत एकमविकः कमाशय उक्त इति । दृष्टजन्मवेदनीयस्तु एकविपाकारम्भी भोग- हेतुत्वाद्, दिविपाकारम्भी वा आयुर्भागहेतुत्वाद्, नन्दीश्वरवत् नहुषवहा इति। केशकर्मविपाका- नुभवनिमित्ताभिस्तु वासनाभिरनादिकालसम्म - चितमिदं चित्त चित्रीकृतमिव सर्वतो मत्स्य- जालं ग्रन्थिभिरिव आततमित्येता अनेकभवपू- विका वासनाः । यस्तु अयं कमीशय एष एवैक- भविक उक्त इति। ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्च अनादिकालीना इति। यस्तु असावकभविकः काशयः स नियतविपाकश्च अनियतविपाकश्च। तत्र दृष्टजन्मवेदनौयस्य नियतविपाकस्यैव अयं नियमो न तु अदृष्टजन्म- वेदनीयस्य अनियतविपाकस्य, कस्माद्, यो हि अदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य बयो गतिः, कृतस्य अविपक्वस्य नाशः, प्रधानकर्मणि साधनपादे योगवार्तिकम् १५७ आवागमनं वा, नियतविपाकप्रधानकर्मणा अभिभूतस्य वा चिरमवस्थानम् इति । तत्र कृतस्य अविपक्वस्य नाशो यथा शुलकर्मोदयादिहैव नाशः कृष्णस्य, यवेदमुक्तम् । “हे हे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति । तदिच्छख कमाणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ति” । प्रधानकर्मणि पावा- पगमनम् यवेदमुक्तं "स्यात् खल्पः सङ्करः सप- रिहारः सप्रत्यवमर्षः, कुशलस्य नापकर्षाय अलं, कस्मात्, कुशलं हि मे बहु अन्यदस्ति यत्रायमा- वापं गतः स्वर्गऽपि अपकर्षमल्पं करिष्यति" इति । नियतविपाकप्रधानकर्मणा अभिभूतस्य वा चिरमवस्थानम्, कथमिति, अदृष्टजन्मवेदनीय. स्यैव नियतविपाकस्य कर्मणः समानं मरणमभि- व्यक्तिकारणमुक्तं, न तु अदृष्टजन्मवेदनीयस्य अनियतविपाकस्य, यत्तु अदृष्टजन्मवेदनीयं कर्म अनियतविपाकं तनश्येद्, आवापं वा गच्छद्, अभिभूतं वा चिरमपि उपासौत यावत्समानं कर्म अभिव्यञ्चकं निमित्तस्य न विपाकाभि- १४ १५८ पातञ्जलदर्शनम् । मुखं करोति इति, तहिपाकस्यैव देशकालनि- मित्तानवधारणादियं कर्मगतिर्विचित्रा दुर्वि- ज्ञाना चेति, नच उत्सर्गस्य अपवादान्नित्तिरिति एकभविक; कर्माशयोऽनुज्ञायत इति ॥ १३ ॥ शरूपे कर्माशयस्य मूले सत्येव कर्माशयस्य विपाकः फलं भवति ले शाश्च वासनारूपा एव जन्मादिविपाककारणम् । विपाकस्य स्वरूपमाह । जात्यायु गा इति। जातिर्जन्म आयु- र्जीवनकाल: भोगः सुखदुःखात्मकशब्दादिवृत्तिरित्यर्थः। न तु सुखादिसाक्षात्कार एवात्र भोगः, ते ह्लादपरितापफला इत्युत्तर- सूत्रे तस्य विपाकजन्यतावचनात् इति। स्यादेतत्। लशानां कर्मसहकारित्वे प्रमाणं नास्ति । “ज्ञानाग्नि: सर्वकर्माणि भस्म- सात् कुरुतेऽर्जुन !” इत्यादिवाक्येभ्यो हि ज्ञानस्य क्ल शक्षयहेतु- त्ववत् कर्मक्षयहेतुत्वमपि सिद्धम् । अतः ल शाभावकाले कर्मा- भावस्य आवश्यकत्वात् ततएव विपाकाभावः स्यादिति। अत्री- च्यते। विविधयोनिहेतुशुभाशुभकर्मसु सत्सु यत्र रागादिरन्त- काले उद्बुद्धस्तिष्ठति मरणोत्तरं तामव योनि जीवः प्राप्नोति न इतरामित्यन्वयव्यतिरेकाभ्यां कर्मवत् रागादिदोषोऽपि विपाक- हेतुः । तथा च श्रुतिः “तदेव सक्तः सह कर्मणेति लिङ्ग मनो यत्र निषिक्तमस्ये”ति । “तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चे”ति च । तथा गीतापि । “पुरुषः प्रकृतिस्थीहि भुत प्रकृति- जान् गुणान्। कारणं गुणसङ्गोऽस्य सदसयोनिजन्मसु” इति। न्यायसूत्रञ्च । 'वीतरागजन्मादर्शनात्' । नरकादिषु अपि रागा- द्यनुसारेणैव विपाको भवति। निषिद्धस्त्रमादिसक्तानामेव तप्त- लोहमयनारीसमालिङ्गनादिफलश्रवणात्, कशोऽपि अतः साधनपादे योगवार्तिकम् । १५८ खातन्त्रण विपाकारम्भे हेतुः, ज्ञानोत्तरञ्च प्रारब्धविपाकः समाप्यत एव न तु आरभ्यत इति न तत्र ले शापेक्षेति। अपि च अत्रैव सूत्रे भाष्यकता कर्माशयस्यापि प्रसंख्यानदग्धवीज- भावस्य वक्तव्यतया कर्माशयस्य दाह एव ज्ञानेन क्रियते न तु नाश इत्यवधार्यते। स च क्ले शाख्य सहकार्युच्छेद एव । ज्ञा- मस्य हि व्यापारवयं क्ले शाख्यहेतूच्छेदेन कर्मानुत्पादः प्राचीन- कर्मणां दाहश्च न तु कर्मनाश: प्रारब्धकर्मणोऽपि नाशप्रसङ्गात् । न चं प्रारब्धातिरिक्तकर्मत्वेन ज्ञाननाश्यता कल्प्य ति वाच्यम् । लाघवेन त शस्यैव विपाकारम्भहेतुत्वकल्पनौचित्यात् । प्रारब्ध- फलकस्य कर्मणो वीजशक्तिनाशऽपि फलं समाप्यत एव वीजदा- हेऽपि उत्पन्नाङ्गुरवदिति । अतएव 'ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधा: । योगाग्निदग्धकर्मचयोऽचिरात्' इति गीतावि- ष्णुपुराणयोर्ज्ञानयोगाभ्यां कर्मणो दाह एव श्रूयते न तु नाश इति। तदेकवाक्यतया च क्षीयन्ते चास्य कर्माणीत्यादिवाक्यानि अपि दाहपराणि एव। तथा “तदधिगम उत्तरपूर्वाधयोरश्लेष- विनाशी" इति ब्रह्मसूत्रेऽपि विनाशशब्दो निष्फलतार्थक एव मन्तव्यः । कर्माशयनाशस्तु ज्ञानवासनानाशवत् चित्तनाशादेव भवति धर्मिनाशस्य धर्मनाशहतुतायाः सामान्यत एव क्लृप्तत्वा- दिति । तस्मात् ज्ञानेन क्ले शाख्यहेतुदाहात् कर्मानुत्पादवत् प्राचीनकर्मविपाकानारम्भोऽपि भवति क्ल शाख्यदृष्टसहकार्य- भावात् । अतो ज्ञानात् क्ले शाख्यसहकार्युच्छेद एव कर्मदाह इति सर्व सुस्थम् । तदेतत् सर्वमभिप्रेत्य भाष्यकारः सूत्रमिदं व्याचष्टे। सत्सु ले शेषु इति । विपाकारम्भौति । प्रारम्भशब्दात् जीवन्मुक्तस्य आरधविपाकेषु न क्ले शाः कारणमित्युक्तं तस्य हि प्रारब्ध एव विपाकः कर्मणा समाप्यत इति । एतेन जीवन्मुक्तस्य भोगार्थमविद्यालेशकल्पनमज्ञानामुपेक्षणीयम्। आरब्धविपाके ।

क्ष्यति। पातञ्जलदर्शनम्। क्ल शानामहेतुत्वादिति । क्ले शानां कर्माशयसहकारित्वं ज्ञानाद- ग्धकौशयस्यैव विपाकारम्भहेतुत्वं च दृष्टान्तेन प्रतिपादयति । यथा तुषेति । ल शावनच इति । ज्ञानादग्धवीजभाव इत्यपि बो- ध्यम् । दृष्टान्तानुसारात् न प्रसंख्यानदग्धवीजभावो वा इत्युत्त- रवाक्याच्च । न अपनीतल श इति। स्वविपाकगोचरक्त शशून्य इत्यर्थः । अतो न प्रसंख्यानदग्धवौजभावो वा इत्यस्य क्लशसा- मान्याभावकालीनः कर्माशयोऽसङ्कीर्णोदाहरणमिति । जात्या- युर्मोगा इति व्याचष्टे। स च विपाक इति। कर्मणो जन्मका- रणत्वे कञ्चन विशेषमवधारयितुमाह। तत्रेदं विचार्यत इति । तत्र जन्मलक्षणविपाके, अस्य च विचारस्य प्रयोजनं खयमेव व- तत्र चत्वारो विकल्पा: कर्मेकत्वपदं ध्रुवं कृत्वा जन्मैकत्वानेकत्वरूपं प्रथमं विकल्पवयं कर्मानेकत्वं च ध्र वं कृत्वा जन्मानेकत्वैकत्वरूपमपरं विकल्पहयमिति। आक्षिपतीति। फलदानार्थमुत्पादयतीत्यर्थः । किमनेकमिति। अनेक कर्म मिलित्वा अनेक जन्म करोतीत्यर्थः । आद्यविकल्पे तु न मिलन- मुक्तमिति ततो विशेषः। तत्राद्यं विकल्पमपाकरोति । न ताव- देकमिति। पृच्छति। कस्मादिति। उत्तरम्। अनादीति । प्रचितस्य सञ्चितस्य अवशिष्टस्य अभुक्तस्य । अविशिष्टस्य इति पाठे अन्योन्यमभुक्तत्वेन अविशिष्टस्येत्यर्थः । साम्प्रतिकस्य ऐहि- कस्य, फलक्रमानियमादनाखास इति यथोक्तानामनन्तक- मणां मध्ये किं कर्म प्रथम फलं दास्यति किं वा पश्चादिति फल- क्रमे नियमो नास्ति अतो लोकानां पुण्यानुष्ठाने फलानाखास: स्यात् । भाव्यनन्तकालमध्ये भाविपापादिना अनुष्ठीयमानकर्मणी विनाशसम्भवात् झटिति भोगकामनयैव कर्मानुष्ठानाचेत्यर्थः । हितोयं विकल्प निराकरोति । न च एकमिति । अनेकजन्मसु किञ्चित् कृत्वा फलदानाय अनेकजन्मनः कारणमेकैकं कर्म साधनपादे योगवार्त्तिकम्। १६१ इत्यपि न भवतीत्यर्थः । अत्र हेतु पृच्छति । कस्मादिति । उत्त- रम्, अनेकेषु इति। अनेकेषु जन्मसु क्रियमाणं कर्म एकैक प्रत्येकमेव अनेकस्य असंख्यजन्मनः कारणम् अतोऽवशिष्ट स्य तदितरस्य तबिरुद्धफलस्य, कर्मण इति यावदिति । टतीय विकल्प निराकरोति। न च अनेक कर्मेति । पृच्छति । कस्मा- दिति । उत्तरम्, तदनेकमिति। तथा चेति। प्रथमपक्षोक्तदोषस्य अनाश्वासस्य प्रसङ्ग इत्यर्थः । तदेवं पक्षत्रये दूषिते चतुर्थपक्ष सिद्धान्तयति। तस्मादिति। तस्मात् जन्म आरभ्य आमरणप- यन्तकाले विहितनिषिद्धेर्यो धर्माधर्मसमूहो गुणप्रधानभावापन्न उत्पादितः समरणकाल आरब्धकर्मभोगसमात्या लब्धावसरः सन् एकप्रयत्नेन मिलित्वा स्वफलदानार्थ मरणं प्रसाध्य सम्म छिंत: प्रवृद्धवेग एकमेव जन्म गुणप्रधानभावापत्र: स्वफलयोग्य करोति न अनेकमित्यर्थः । मरणञ्च लिङ्गदेहस्य स्थूलदेहादुत्क्रमणं न तु नाशो गमन श्रुतेः, नाशस्य भोगाहेतुतया कर्माजन्यत्वस्वाभा- विकत्वयोभाष्ये वक्ष्यमाणत्वाच। ननु केवलजन्मना किं प्रयोजन तत्राह। तच्च जन्मेति। आयुषोऽपि न स्वतः पुरुषार्थत्वमत आह । तस्मिन् प्रायुषीति । असाविति। जन्महेतुरित्यर्थः । अन्यो हि कमात्रविपाको भवतीति वक्ष्यति । श्रोत्सर्गिकमुपसंह रति । अत इति । एको मवोऽस्मिन् कार्यतया अस्तीति एक- भविकः कर्माशयसमूहः । पूर्वाचार्यरुक्त इत्यर्थः । ऐकभविक इति पाठे तु एकभविक कर्म तज्जन्यादृष्टञ्च ऐकभविकमित्यर्थः । ननु एवं स्वर्गिनारकिणां कथं पुनर्जन्मादि स्यात् स्वर्गादिशरीरे धर्माद्यनुत्पत्तेः प्राचीनसर्वकर्मणाच्च तवैव समापनादिति चेत्, न । स्वर्गादिजनककर्मणामेव ब्राह्मणस्थावरादियोनिलाभ- पर्यन्तफलश्रवणात् शास्त्रानुक्तकालविशेषस्यैव फलस्यैकमविक- त्वनियमादिति। त्रिविपाकं कर्मोक्का एकदिविपाके कर्मणी । १६२ पातञ्जलदर्शनम् । प्राह । दृष्टजन्मेति। नन्दीश्वरवत् नहुषवच्चेति दृष्टान्तय पूर्वमुपन्यासक्रमेणोक्तम् अत्र तु व्युत्क्रमेण योजनीयं प्रतिज्ञा- क्रमेणोदाहरणौचित्यात् । नन्दीश्वरस्य हि अष्टवर्षावुर्मनुष्यज- न्मन: पुण्यविशेषेण आयुर्भोगरूपं विपाकवयं देवसम्बन्धि उत्पन्न च नहुषस्य च इन्द्रत्वसम्पादककर्मणैव दीर्घायुष्वस्य लाभात् पाप- विशेषेण केवलं सर्पभोगरूप एक एव विपाकोत्पन्न इति । तत्र च नन्दीश्वरनहुषयोर्मनुष्यशरीरस्यैव वाईकादिव(वसर्परूपपरिणा- मान्तरात् न जन्मान्तरमपूर्वदेहानुत्पादादिति । ननु एवं कर्मा- शयवज्ञानवासनापि एकभविको एव स्यात् तथाच तासामना- दित्वञ्च आशिषो नित्यत्वादित्यागामिसूत्र वासनानामनादि- त्ववचनं नोपपद्यत इत्याशङ्कां परिहरति । क्ल शकर्मेति । क्लेश- कर्मणोविपाकस्य योऽनुभवश्चित्तवृत्तिनिवहो ज्ञानरूपस्तै निष्या- दितामिर्ज्ञानरूपवासनाभिरनादिकालेषु सम्म छितमुपचित पुष्टमिति यावत् । अतएव विविधरूपाभिस्ताभिः पटवत् सर्वत- चित्रितमिव चित्त ग्रन्थि भिरायतं मत्स्यजालमिव वर्त्तते इत्यत एता वासना अनेकमवपूर्विका: स्वीक्रियन्ते अन्यथा मनुष्ययोन्य- नन्तरं देवतिय॑ग्योनिभोगानुपपत्तेः मनुष्यजन्मनि तहासनानु- पपत्त:। एकमववासानानाञ्च मनुष्यजन्मनैव क्षयादित्यर्थः । अत्र वासनानां जीवमत्स्यबन्धकचित्तजालग्रन्थितत्वेन रूप- णात्। 'भिद्यते हृदयग्रन्थिश्विद्यन्त सर्वसंशया' इत्यादिश्रुता. वपि हृदयग्रन्थिर्वासनैव न तु आधुनिककल्पिताहद्वारादिरिति सिद्धम्। कर्माशयाख्याइर्माधर्मरुपात् संस्काराबासनानां वैल- क्षण्यमाह। ये संस्कारा इति। ताश्च अनादिकालोना इत्युप- संहारः। श्रौत्सर्गिकमेकमविकत्वं क्वचिदपवदितु भूमिका रच- यति । यस्तु असाविति। नियतः स्वाभाविको विघ्नशून्यः ता- दृशो विपाको यस्य स तथा। स च अबन्ध्योऽनन्यशेषः कर्मान्त, तत्र एक- साधनपादे योगवार्तिकम् । रानभिभूतश्च कर्माशयस्तविपरीतश्च अनियतविपाक इत्यर्थः । अयञ्च अर्थोऽनियतविपाकत्रैविध्यभाष्ये व्यक्तीभविष्यति । अदृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियम इति । भविकत्वनियम इत्यर्थः । न तु अदृष्टजन्मवेदनीयस्य अनियत- विपाकस्य चेति, सुगमम् । दृष्टजन्मवेदनीयस्य भवाहेतुत्वेन एक- भविकत्वाभावः स्पष्ट एव इत्यतोऽनियतविपाकस्यैव एकमविक- त्वनियमाभावे हेतु पृच्छति । कस्मादिति । उत्तरं, यो हि अट्ट- टेति। दृष्टजन्मवेदनीयस्य एकमविकत्वशङ्का नास्तीत्याशयेन एवाह । अदृष्ट जन्मवेदनीय इति । स्वरूपाख्यानमात्रौं न तु दृष्ट- जन्मवेदनीयस्य अनियतविपाकत्वं नास्तीत्यादिः कश्चिदाशयः सम्भवति प्रयोजनाभावात्। यो हि अदृष्ट जन्मवेदनयोग्यो नियतविपाकभिन्नः स त्रिविध इत्यर्थः । यथाश्रुते वक्ष्यमाणस्य अविपक्कनष्टस्य संग्रहानुपपत्तेः । तिसृषु एकां गतिमाह । कृत- स्येति। अपरिपक्कस्य अदत्तफलकस्य विनाश इत्यर्थः। तथा च तस्य नास्ति एकमविकत्वमित्याशयः । द्वितीयामाह । प्रधानेति । प्रधानकर्मणा यागादिना सहैव तदङ्गानां पशुहिंसादीनां स्वफल- दानाय च फलप्राप्तिः प्रधानकर्मणि वापगमनं, यथा धान्य वीजैः सहोत्यवानां तृणवीजानां तैः स हैव कुसूलमध्यस्थापि- तानां धान्यवीजेन सहैव वपनप्राप्तिः न स्वातन्त्राण तहत् परो- पसर्जनतया अनुष्ठितत्वात् न स्वातन्त्रण फलदानमिति। तथा च प्रधानकर्मातिशयस्य यदा बलवत्तरकर्मान्तरेणाभिभवस्तदा तदुपसर्जनस्यापि नैकमविकत्वमित्याशयः। दृतीयां गतिमाह। नियतविपाकेति। तत्र प्रधानं नाङ्गि किन्तु बलवत्तरम् । निय- तविपाकेन प्रधानकर्मणा स्वविरुद्धफलदेनाभिभूतस्य प्रतिबदस्य चिरमवस्थानं द्वित्रिचतुरादिजन्मसु प्रसुप्ततया अवस्थानमित्यर्थः । तथाच तस्य नैकभविकत्वमित्याशयः । एतासु आद्यासुदाहरति ।

पातञ्जलदर्शनम्। तत्र कृतस्येति। शुक्लः कर्माशयः धर्म: कृष्णश्च अधर्म: तयोरा- येन उत्तरस्य नाशे श्रुतिमुदाहरति । यत्रेदमिति । पुण्यपापरूपे हे कर्मणी पुरुषैर्वेदितव्ये अवधारयितव्य । हे हे इति वीप्सा पुरुषभेदात् कर्मभेदमभिप्रेत्योता। यतः पुण्यक्तत: पुण्यनिर्मित एको मुख्यो राशि: समूहस्य समूहिकार्यत्वात् पापकस्य पाप- राशेरपहन्ति चोरस्य निहन्तीतिवत् कर्मणि षष्ठी। तस्मात् सुक्कतानि कर्माणि कर्तुमिच्छख तच्च कर्म इह लोके एव ते तुभ्यं कवयो वेदयन्त प्रतिपादयन्ते न तु लोकान्तरे इति श्रु- त्यर्थः । इच्छस्व इति.छान्दसत्वात् आत्मनेपदम् । द्वितीयां गति- मुदाहरति। प्रधानेति। यत्र यस्मिन् विषये पञ्चशिखाचार्य- णेदं वक्ष्यमाणमुक्तं तदेव प्रधानकर्मणि आवापगमनमित्यन्वयः । स्यात् स्वल्प इत्यादिवाक्यस्यायमर्थः । हिंसादिजन्यपापन यागा- द्यपूर्वस्य स्वल्प एव सङ्करः स्यात् सोऽपि सपरिहारः स्वल्पेनैव प्रायश्चित्त न परिहत्तुं शक्यते यदि च प्रमादतः प्रायश्चित्त न क्रियते सप्रत्यवमर्षः। बहुसुखमध्ये अन्यदुःख' मर्षणयोग्य भोजननान्तरीयकदुःखवत्। अतः कुशलस्य कर्मणोऽपकर्षाय हेयत्वाय नालं न पर्याप्तम् । सङ्कर इति। शेषं करिष्यतीत्यन्त पञ्चशिखवाक्यं सुगमम्। दृतीयां गतिमुदाहरति। नियतेति । उत्कटत्वरूपं बलवत्त्वमेव प्रधानत्वम्। ननु एवं कर्मविशेषस्य चिरमवस्थाने सति पूर्वोक्तसर्वकर्मणामकदैव प्रायणादभिव्यक्ति: कथमुपपद्यत इत्याशयेन शकते। कथमिति। सिद्धान्तमाह। अदृष्टेति । कर्मणः कर्मसामान्यस्य समानमेकम् । न तु अट्ट- टेति । अदृष्टजन्मवेदनीयस्येति प्रसङ्गादुक्तम् । विपाकस्य वेति वाशब्दः क्वचित्तिष्ठति स वाशब्दोऽप्यर्थः । गति- त्रयमुपसंहरति । यत्तु इति । उपासीत प्रतीक्षेत विपाकं विपा- कारम्भकं वा विरुद्धकर्मान्तरमिति शेषः । उपासनस्य अवधि- अत्र अनियत- साधनपादे योगवार्तिकम्। १६५ माह। यावदिति। अस्य समानमविरुद्ध कर्माभिव्यक्ती निमित्त यावन्नैतत्फलोन्मुखीकरोतीत्यर्थः । 'यद्यज्जन्मक्कतं पापं मया सप्तम जम्मसु । तन्मे रोगञ्च शोकञ्च मा करोत्विह जन्मनि' इत्यादिवाक्यानि। तथा कर्मगतदुर्विज्ञानत्ववचनानि च एता- दृशकर्मविषयाणि एवेत्याह। तद्दिपाकस्येति। अभिभूतकर्म- विपाकस्यैव कुत्र कदा केन निमित्तविशेषेण भविष्यतीति अव- धारयितुमशक्यत्वादियमभिभूतकर्मगतिश्चित्रा अद्भुतरूपा दुर्वि- जाना च इत्यर्थः । ननु एवमेकभविकत्वं क्षतमित्याशङ्ख्याह । नच उमर्गस्येति। निवृत्तिः क्षतिरित्यर्थः । क्वचिदपवादेऽपि एक- भविकत्वमौत्सर्गिकमेव अनुमन्यतेऽस्माभिरित्यर्थः । नच एवमपि अपवादाशङ्कया अनाश्खासतादवस्थ्यम् । अपवादस्य स्वानुष्ठान- मान्द्यनिमित्तकतया तत् हित्वैव शक्यपरिहारत्वादिति । यच्च आधुनिकवेदान्तिभिरेकभविकमतं व्यभिचारेण दूषितं तदज्ञा. नादेव श्रौत्सर्गिकतामात्रस्य भाष्यकृतीतत्वादिति सर्व सुस्थम् । इदानीमुक्ताभ्यां कर्मतद्दिपाकाभ्यां क्लशानां मुख्यफलमाह ॥१३॥ * ते लादपरितापफलाः पुण्याः पुण्यापुण्य- हेतुत्वात् ॥ १४ ॥ * ते जन्मायुर्भागाः, पुण्यहेतुकाः मुखफलाः, अपुण्यहेतुका दुःखफला इति । यथा चेदं दुःखं प्रतिकूलात्मकमेव विषयसुखकालेऽपि दुःख- मस्ति एव प्रतिकूलात्मकं योगिनः ॥ १४ ॥ कथं तदुपपाद्यते। ते विपाका: सर्व एव समुच्चितमुखदुःखफलकाः समुच्चित पुण्यपापहेतुकत्वादित्यर्थः । अत्र सुखावच्छेदेन पुण्यहेतुका पातञ्जलदर्शनम् । दुःखावच्छेदेन पापहेतुका इति । विभज्य प्रतिपादयति। ते जन्मायुरित्यादिना। सुखदुःखयोश्च फलत्वं भोग्यतयेति प्रागेव व्याख्यातं विपाकान्तरगतभोगश्च शब्दाद्याकारवृत्तिरैवेति त- स्यापि सुखदुःखहेतुत्वमुपपन्नम्। तदेवमनेकसूत्रैः प्रोक्तमवि. द्याया दुःखनिदानत्वं न्यायाचार्य्यरेकसूत्रेणैव अर्थादुक्तं, “दुःख- जन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापाया- दपवर्ग" इति। कारणनाशादेव हि कार्यानुत्याद इति । तदेवं दुःखनिदानतया लशानां हेयत्वमुक्तम् । ननु सर्वे विपाकाः कथं सुखदुःखफलका: ब्रह्मलोकादौ दुःखासम्भिन्नसुखसत्त्वादि- स्याशङ्कां परिहरति । यथा च इदमिति । यथा च इदं परि- दृश्यमानं रोगादिदुःख प्रतिकूलात्मकद्देष्यस्वभावं भवति एवं सर्वत्रैव विषयसुखकालेऽपि दुःख योगिनां प्रतिकूलात्मकं तिष्ठ- तीत्यर्थः । दुःखतत्साधनयोरेकरूपेण ग्रहणाय प्रतिकूलात्मकमि- त्युक्तम् । मूढ़ानां दुःखसमुद्रमग्नानां सुखनान्तरीयकसूक्ष्मदुःखेषु दृष्टिर्नास्तीति योगिन इत्युताम् । तथा च लौकिकदुःखमिव विषयसुखमपि दुःखशवलतया दुःखत्वेन हेयमेवेति भावः । यद्यपि स्वर्गादौ सुखमधिकं तथापि अल्पमपि दु:खं बलवद्देष- विषयो भवति। बलवत्वं च सुखाभिलाषाभिभावकत्वम् । तथा च सांख्यसूत्रम्। यथा दुःखाद् इषः पुरुषस्य ने तथा सुखाद- भिलाष इति । अस्मिन् सूत्रे सुखदुःखयोरेव कर्मविपाकफल- त्ववचनात् जीवन्मुक्तानामपि प्रारब्धविपाकेषु सुखदुःखे शारीरे भवत एव आभिमानिले तु न भवत: तत्कारणल शाभावादिति सिद्धान्तः । तथा च श्रुतिः। 'न ह वै सशरीरस्य प्रियाप्रिययो- रपहतिरस्ति' इति । 'आत्मानं चेद्विजानीयादयमस्मीति पूरुषः। किमिच्छन् कस्य कामाय शरीरमनुसंज्वरदिति च। स्मृतिश्च 'वीतरागभयक्रोधः स्थिरधीमनिरुच्यत' इति। सूत्रान्तरमव- साधनपादे योगवार्तिकम्। १६७ तारयितु सुखस्यापि ज्ञानिदृष्ट्या दुःखत्वे हेतु पृच्छति । कथ- मिति। तदुपपादकतयोत्तरसूत्रमवतारयति । तदुपपाद्यत इति ॥ १४ ॥ * परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥ * सर्वस्यायं रागानुवितश्चेतनाचेतनसाधना- धौनः सुखानुभव, इति तत्रास्ति रागज: कमा- शयः, तथा च दृष्टि दुःखसाधनानि मुह्यति चेति देषमोहकृतोऽप्यस्ति कमाशयः। तथा च उक्तम् । न अनुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कमाशय इति, विष. यसुखञ्च अविद्येत्युक्तम् । या भोगेषु इन्द्रियाणां हप्तेरुपशान्तिस्तत् सुख, या लौल्यादनुपशान्ति- स्तदुःखम् । न च इन्द्रियाणां भोगाभ्यासन वैतृष्णा कत्तुं शक्यं, कस्माद, यतो भागाभ्यास- मनुविवईन्ते रागाः, कौशलानि च इन्द्रियाणा- मिति, तस्मादनुपायः सुखस्य भोगाभ्यास इति, स खलु अयं वृश्चिकविषभीत इव आशीविषण दष्टो यः सुखार्थी विषयानुवासितो महति दुःख- पङ्के निमग्न इति। एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लि- पातञ्जलदर्शनम् । नाति । अथ का तापदुःखता। सर्वस्य देषानु- वितश्चेतनाचेतनसाधनाधीनस्तापानुभव, इति तत्रास्ति हेषजः कमाशयः, सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृह्णाति उपहन्ति च, इति परानु- ग्रहपीड़ाभ्यां धमाधम्मौ उपचिनोति, स कमा- शयो लोभात् मोहाच्च भवति, इत्येषा तापदुः- खता उच्यते । का पुनः संस्कारदुःखता । सुखा- नुभवात् सुखसंस्काराशयो, दुःखानुभवादपि दुःखसंस्काराशय इति, एवं कर्मभ्यो विपाकेऽनु- भूयमाने मुखे दुःखे वा पुनः कमाशयप्रचय इति । एवमिदमनादि दुःखस्रोतो विप्रसृत योगिनमेव प्रतिकूलात्मकत्वात् उद्देजयति, क- स्माद्, अक्षिपात्रकल्पो हि विहानिति, यथा जीतन्तुः अक्षिपावे न्यस्तः स्पर्शन दुःखयति नान्येषु गाचावयवेषु, एवमेतानि दुःखानि अ- क्षिपावकल्पं योगिनमेव लिनन्ति नेतरं प्रति- पत्तारम् । इतरन्तु स्वकर्मोपहृतं दुःखमुपातम् उपात्तम् त्यजन्तम् त्यतं त्यक्तमुपाददानमनादि- वासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्ध- साधनपादे योगवार्तिकम् १६८ मिव अविद्यया हातव्य एव अहङ्कारममकारानु- पातिनं जातं जातं वाह्याध्यात्मिकोभयनिमि- शास्त्रिपर्वाणस्वापा अनुप्लवन्ते । तदेवमनादि- दुःखस्रोतसा व्युह्यमानमात्मान भूतग्रामञ्च दृष्ट्वा योगी सर्वदुःखक्षयकारिणं सम्यग्दर्शन शरण प्रपद्यत इति । "गुणवृत्तिविरोधाच्च दुःख मेव सर्व विवेकिनः” प्रख्याग्रहत्तिस्थितिरूपा बुद्धि- गुणाः परस्परानुग्रहतन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेव आरभन्ते, चलञ्च गुणवृत्त- मिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृत्त्य तिशयाश्च परस्परेण विरुध्यन्त, सामा- न्यानि तु अतिशयैः सह प्रवर्तन्ते, एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्यया इति सर्वे सर्वरूपा भवन्ति, गुणप्रधानभावकृतस्तु एषां विशेष इति, तस्माद् दुःखमेव सर्वं विवेकिन इति। तदस्य महतो दुःखसमुदायस्य प्रभव- वीजमविद्या, तस्याश्च सम्यग्दर्शनमभावहेतुः, यथा चिकित्साशास्त्र चतुयूं हं, रोगः, रोगहेतुः, आरोग्यम्, भैषज्यम्, इति, एवमिदमपि शास्त्र चतु हमेव, तद्यथा, संसारः, संसारहेतुः, मोक्षः, १७० पातञ्जलदर्शनम् । मोक्षोपायः, इति । तत्र दुःखबहुलः संसारो हेयः, प्रधानपुरुषयोः संयोगो हेयहेतुः, संयोगस्य आत्यन्तिको निवृत्तिहनिं, हानोपायः सम्यग्द- शनं, तब हातुः खरूपमुपादेयं हेयं वा न भवि- तुमर्हति इति, हाने तस्य उच्छेदवादप्रसङ्गः उपादाने च हेतुवादः, उभयप्रत्याख्याने च शा- श्वतवाद इत्येतत् सम्यग्दर्शनम् ॥ १५ ॥ तदेतच्छास्त्र चतुव्यूहमित्यभिधीयते । परिणामश्च तापश्च संस्कारश्च तज्जानि दुःखानि तैः सम्ब- धात् तत्कारणत्वादिति यावत्। तथा गणवृत्त्यविरोधाच्च अर्थती दुःखसम्भिन्नत्वाच्च प्रकृतितत्कार्यसुखादिकं सर्व दुःखमेव विवे- किनः। सुखदुःखतत्त्वसाक्षात्कारिणो मतमिति वाक्यार्थः । प्रतिपदञ्च व्याख्या भाष्ये भविष्यति एवकारेण च अनुकलात्मक सुखरूपता व्यवच्छिन्ना। यद्यपि अयोगिनोऽपि दुःखमेव सर्व तथापि स मूढत्वात् सुखकाले दुःखतया न जानाति योगी तु सुखकालेऽपि तस्य दुःखात्मकत्वं पश्यतीति प्रतिपादयितु विवेकिन इत्युक्तम्। ननु सुखसाधनतया सुखसम्भिवतया च सुखमेव कथं सर्व न भवतीति चेत् न। दुःखेषु बलवद्वेष- स्योतत्वात्। सामान्यतो बाहुल्य स्यापि अत्र नियामकत्वाच्च वैशेष्यात् तहाद इति न्यायात्। तदुक्तं विष्णुपुराणे। “कल- नमित्नपुत्रार्थग्रहक्षेत्रधनादिकैः। क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम्” इति। संसार सुखापेक्षया च दुःखबाहुल्यं जैगीषव्यावव्यसंवादे व्यक्तीभविष्यतीति। तत्र परिणामदुःख- हेतुतया सुखस्थापि दुःखतां प्रतिपादयति। सर्वस्य अय- ।

मिति। + साधनपादे योगवार्त्तिकम्। १७१ उत्सर्गतः सर्वलोकस्य सुखानुभवकाले तत्र सुखे रागो जायते रागाच्च सुखमिदं मे स्थिरं भवतु परमेश्वर ! मा नश्यतु इत्यादि सङ्कल्पात्मको मानसः कर्माशयो धर्माधर्म- रूपो भवति कर्माशयाच जन्मादिदुःखमिति प्रागेवोक्तमित्यर्थः । सुखभोगकाले रागजकर्माशयवहेषमोहजोऽपि कर्माशयः परिणामदुःखहेतुरस्तोत्याह। तथा च दृष्टीति । तथा च सुख- भोगकाले तहिरोधितया दुःखसाधनानि देष्टि सुख,शे दुःखं मे मा भूयात् शत्रुश्च मे नश्यतु इत्यादिरूपेण । तथा दुःखसा- धनानि परिहर्तमशक्तो मुह्यति च इत्यतो देषमोहकृतोऽप्यस्ति कर्माशय इत्यर्थः । रागद्देषमोहानां च प्रवृत्त्यादिद्वारेणेव सा- क्षादपि अदृष्टहेतुत्वमस्तीति। तथा च उक्तमिति । सुखस्य रागानुविबद्दत्वं च मया एवोक्तं सुखानुशयी राग इति सूत्रे सुखाभिज्ञस्येत्यादिभाष्येण इत्यर्थः । मानसकर्माशयद्वारा सुखस्य परिणामदुःखत्वं प्रतिपाद्य शारीरकर्माशयहारापि तदाह । नानुपहत्येति। शारीर: कर्मानय इति। सुखभोगकाल इति शेषः । एताभ्याच मानसशारीराभ्यां कर्माशयाभ्यां वाचनिको- ऽपि कर्माशयः शापाशीर्वादज उपलक्षणीयः । सुखस्यापि परि- खामदुःखसम्बन्धेन दुःखत्वेऽविद्यासूत्र प्रमाणीकृत्योपपादयति । विषयसुखं चेत्यादिना । ननु सर्वदुःखान्त एवेदं वक्तुमुचितमिति चेन। सुखस्य अविद्यात्वोपपादनकाल एव दृष्टद्दारापि परि- णामदुःखमुपदेष्टुमादावेव विषयसुखस्य अविद्यात्वप्रतिपादनात् अत्र च वक्ष्यमाणपारमार्थिकसुखव्यावर्त्तनाय विषयेत्युक्तम् । अविद्याविषयपदार्थानां बुद्धिमावतया सुखमविद्या इत्यभेदनि- देशः । भोगेन सुखं भवतीत्येवंरूपा भोगजदुःखे सुखबुद्धिरविद्या, साच अविद्या न तत्सूत्रे विवेचिता अतोऽत्र तामविद्या प्रतिपाद- यन्नेव प्रकारान्तरेण परिणामदुःखं दर्शयति । या भोगेषु इति ।

१७२ पातजलदर्शनम्। तत्रादौ पारमार्थिक सुखदुःखे कथयति। तद्दुःखमित्यन्तेन । . अयम्भावः । विषयसुखं पारमार्थिकमुखं न भवति दुःखबहुल- त्वेन दुःखसम्भिवत्वेन च विवेकिनो निरुपाधिप्रियत्वाभावात् । सुखानुशयी राग इति सूत्रानुसारेण निरुपाधिप्रियत्वस्यैव सुख- लक्षणत्वादिति। अतः शान्तिश्चित्तस्य व्यापारोपरमस्तबिमि- त्तिका दुःखनिवृत्तिरिति यावत्। सैव पारमार्थिकं सुखं, सुखं दुःखसुखात्यय इति स्मरणात् । वृष्णादिदुःखासम्भिवतया विशेषदर्शिनामपि निरुपांधिप्रियत्वाच्च । तस्य च साधनं भोगेषु इन्ट्रियाणां कृप्तिरिच्छाविच्छेद एव। तथा च श्रुतिः। स एको ब्रह्मण अानन्दः। श्रोत्रियस्य च अकामहतस्येति । स्मृ- तिश्च । “न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्" इति। अत्र विषयसुखशब्देन चित्तस्य शान्तिनिमित्तकासादोऽपि गृहीत: तस्यापि दुःखसम्भिन्नत्वेन दुःखत्वस्य अविद्यालचणे विवक्षितत्वात् इति। या लौल्यादिति। या च इन्द्रियाणां लौल्यात् भोगटष्णातश्चित्तस्य अनुपशान्तिहत्तिचाञ्चल्वं तद दुःखं दुःखबाहुल्यतो विवेकिभिहेयत्वादित्यर्थः सुखदुःख योस्त साधनयोश्चैवं निर्णये सति विषयसुखस्य तत्साधनभोगस्य आविद्यकमेव सुखत्वं तत्साधनत्वञ्च लब्धम्। अतय विष- यसुखस्य परिणामदुःखत्वमित्येतत् प्रघट्टकेनाह। न च इन्द्रि- याणमित्यादिना मग्न इत्यन्तेन। भोगाभ्यासमन्विति। तथा चोक्तं, 'न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्मेव भूय एवाभिवर्द्धते' इति। वृश्चिकेति। वृश्चिकविष- भौत: कामादिक्षुद्रदुःखभौतस्तनिवृत्त्याख्यसुखार्थी स्त्रीपुत्रादि- भयमहादुःखसर्दष्ट इति दृष्टान्तार्थः। विषयानुवासित इति परिणामदुःखपङ्कमग्नातायां हेतुरुक्तः। विषयसंस्कारसंस्कृत इत्यर्थः। परिणामदुःखमुपसंहरन्नेव विषेकिन इति विशेषण- साधनपादे योगवार्तिकम्। १७३ व्यावर्त्यमाह । एषा परिणामेति। दुःखता दुःखसमूहो जन- तेतिवत् । प्रतिकूला इष्था सुखकालेऽपि योगिनमेव लिनाति दु:खाकरोतीत्यर्थः । भूते पश्यन्ति वर्वरा इति न्यायेन अयोगिन परिणामकाल एव विषयसुखं दुःखाकरोति योगिनन्तु स्वकाल एव अनर्थहेतुतादर्शनेन दुःखाकरोतीति भावः। क्रमप्राप्तं तापदुःखं व्याख्यातु पृच्छति । अथ केति। तापो दुःखं किं तापजन्यदुः- खसामान्यमित्यर्थः । उत्तरं, सर्वस्येति। पूर्ववदेव व्याख्येयम् । ५) पूर्व सुखानुभवो रागानुविद्ध उक्त इदानीच दुःखानुभवो दे॒षा- नुविध उच्यते इत्येव विशेष इति । स कर्माशय इति । सन्ताप- कालीन: कर्माशयो देषेणेष रागमोहाभ्यामपि पूर्ववत् मानसो भवतीत्यर्थः । मनसा परिस्पन्दनं यदुक्त तत् कायिकहिंसार्थ- मेव न तु स्वातन्त्रोण मानसकर्माशयहेतुरतो न पौनरुत्यम् । यद्यपि तापदुःखतायामपि परिणामदुःखतैव अत्र प्रदर्श्यते तथापि पूर्वकाले उत्तरकाले च सर्वदैव दुःखत्वात् तापजदुःखस्य परिणामदुःखात् पृथनिर्देशः। अतः परिणामात् दुःखं परि- णामदुःखमिति बोध्यम्। क्रमप्राप्त संस्कारदुःखं पृच्छति। का पुनरिति । सुखदुःखसंस्कारजन्यदुःखसामान्यमित्यर्थः । उत्तरम्, सुखानुभवादिति। अत्रेयं प्रक्रिया। आदौ सुखदुःखानुभवैस्त- त्संस्काराशयोऽनुबुद्धसंस्कारस्तत: कालादिविशेषैस्तदुबोधः, ततः स्मृतिस्ततो रागद्देषी, तयोश्च प्रवृत्तिः, ततश्च पुनर्दु:स्त- मिति । ज्ञानसंस्कारात् दुःखं प्रतिपाद्य धर्माधर्मरुपात् कर्म- संस्कारादपि दुःखं प्रतिपादयति। एवं कर्मभ्य इति । सुख- दुःखरूपे विपाक इत्यन्वयः । ननु इयमपि परिणामदुःखतैवेति चेत् सत्यं तथापि संस्कारपरम्पराया अनन्तदुःखप्रतिपादनाय गोवलोवर्दन्यायेन अस्य दुःखस्य पृथगुपन्यासो बोध्यः । विवे- किन इति विशेषणस्य अभिप्राय विस्तरतः सकलदुःखसाधारण- ।

१७४ पातञ्जलदर्शनम् । माह। एवमिदमिति । स्वाभाविकतया अनन्तत्वलाभाय अना- दीत्युक्त स्रोतसो विशेषणम्। विप्रसृतमिति । विस्तीर्णमित्यर्थः । अक्षणः पात्रेण आधारेण गोलकेन तुल्यो विदानित्युक्तं वित- णोति । यथा ऊर्णेति। एतानि भाविदुःखानि इतरमयोगिन प्रतिपत्तारं शब्दादिना परिणामदुःखज्ञातारमपि अविहांसमि- त्यर्थः । इतरन्तु वर्तमानकाल एव क्लिश्नन्तीत्याह । इतरं विति। इतरं त्वयोगिनं त्रिपर्वाणस्तापा अनु स्वोत्पत्त्यनन्तरमेव प्लवन्ते व्याप्नुवन्तीत्यन्चयः । न तु पूर्वमिति शेषः। आधिभौतिकाधि- दैविकाध्यात्मिकरूपाणि पर्वाणि येषां तापानां ते तथा त्रिपर्वत्वं हेतुगर्भविशेषणम् । वाद्येति । वाह्यशब्देन आधिभौतिकाधि- दैविकयोग्रहणम् इतरस्य विशेषणान्तरमनादौत्याद्यनुपातिन- मित्यन्तम् । अनादिवासनाभिर्विचित्रया नानारूपया चित्तवृत्त्या चित्तनिष्ठया अविद्यया अनुविद्ध' लिप्तमिव । अतएव हातव्येऽपि देहेन्द्रियादौ अहङ्कारसमकारवन्तमिवेत्यर्थः। आत्मनोऽविद्यास्मि- ताद्यभावप्रतिपादनाय इवेत्याद्युक्तम् । शेषमतिरोहितम् । परि- णामादिदुःखत्रयस्य साचिनो जानन यत् फलं तदपि प्रसङ्गादाह। तदेवमिति। सुगमम् । गुणवृत्तिविरोधाच्चेति हेतु व्याख्यातु- कामो योजयति । गुणेति । गुणानां सत्त्वादीनां ये वृत्त्यतिशया- स्तेषामेव विरोध एकदा अनवस्थानं न तु न्यूनाधिकभावन वृत्तीनां विरोधोऽस्ति अतः प्राधान्य न सत्त्वपरिणाम सुखात्मक- चित्तवृत्तावपि तदुपसर्जनतया रजोऽ'शपरिणामभूत दुःखमपि अल्पमस्ति एवेति दुःखसम्भिन्नत्वात् सर्व सुखाद्यपि दुःखमेव विवेकदृष्ट्येति तस्य दलस्यार्थः । गुणहत्तिविरोधादिति प्रामा- दिकपाठेतु गुणवृत्त्यतिशयस्यैव विरोधादित्यर्थः । तदेतत् व्याचष्टे। प्रख्याप्रवृत्तीति। प्रख्या प्रकाश: प्रवृत्तिः क्रिया स्थितिः स्तम्भः धर्मधर्म्यभेदात् तद्रूपाः सत्त्वादयो वृद्धिरूपेण परिणता गुणा:

साधनपादे योगवार्त्तिकम् । १७५ परस्यरसाहाय्याः सन्तः शान्त्यादिरूपं प्रत्ययं वृत्तिं त्रिगुणं सुख- दुःखमोहवन्तमेवारभन्ते सुखादीनां सत्त्वादिकार्यत्वात् । यः कश्चन प्रत्ययः शान्तो वा घोरो वा मूढ़ो वा भवति स सर्वोऽपि विगुण एव न एकैकमात्रगुणइत्यर्थः । शान्तादिपरिभाषात्रयञ्च सुखदुःखमोहाधिक्यमात्रेणेति। तथा च सुखवति अपि प्रत्यये दुःखमस्ति एव । अत एकप्रत्ययोपादानत्वेन सुखेऽपि दुःखस्य अविभागलक्षणाभेदो हरीतक्यामिव षस्मां रसानामिति। प्रत्य- यश्च बुडेत्तिः प्रदीपशिखावत् बुड़ेः शिखा द्रव्यरूपा 'भागगु- णाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थ सर्पती'ति सांख्यसूत्रात्। अतः प्रत्ययस्य सुखादिगुणवत्ता घटते इति । ननु सुखकाले सूक्ष्मो दुःखात्मको रजःपरिणामो नियमेन भवतीत्यत्र किं मानं तवाह। चलं चेति । प्रदीपावयवानामिव बुद्ध्यवयवानां गुणानां वृत्तं क्रिया चञ्चला प्रतिक्षणमन्यान्या च भवति न तु निर्व्या- पारा गुणास्तिष्ठन्ति अतस्तान्त्रिकश्चित्तं क्षिप्रपरिणाम्युक्तमि- त्यर्थः । यद्यपि सर्व जड़वस्तु प्रतिक्षणपरिणामि तथापि स्पष्ट- त्वाभिप्रायेण चित्तमिति विशेषवचनम्। तथा च चित्तगतस्य सत्त्वस्य वृत्तिकाले रजसो वृत्तिरावश्यकौति मावः । ननु एक एव प्रत्ययः कथं विरुद्वसुखादित्रयात्मकः स्यात् तत्राह । रूपाति- शया इति। बुद्ध रूपाणि अष्टौ भावा धर्मादयो धर्मज्ञानवैरा- ग्यैश्वर्याधर्माज्ञानावैराग्यान्नैश्वयाणि वृत्तयश्च द्रव्यरूपा: शा- न्तादिनामका: परिणामाम्तेषामतिशया उत्कर्षा एव परस्पर विरुध्यन्ते यदा धर्म उत्कृष्यते तदा न अधर्म उत्कृष्यते, एवं यदा ज्ञानादि तदा न अज्ञानादि, तथा शान्ताद्युत्कर्षकाले घो- राद्युत्कर्षश्च विरुध्यते सामान्यानि तु अपक्वष्टानि अतिशयैः सह प्रवर्तन्त एवेत्यर्थः । ननु भवतु चित्तस्य सुरक्षात्मकप्रत्यये दुःखत्वं सुखात्मकेषु शब्दादिविषयेषु कुतो दु:खत्वं येन सर्व दुःखं स्यादि- १७६ पातञ्जलदर्शनम् । त्यत पाह। एवमेत इति। यथा चित्तस्य प्रत्यया एवमेव सर्वे पदार्थाः सर्वरूपाः सुखदुःखमोहधर्मका भवन्ति अत एते गुणाः सत्त्वादयो घटादिरूपेणापि परिणताः परस्परसाहित्येनोत्यादि. तसुखदुःर खमोहात्मक प्रत्यया इतीत्यर्थः । न हि विषयगतविशेष विना विषयसम्बन्धमात्रेण सुखाद्यात्मकचित्तवृत्तिरुदेतुमर्हति अव्यवस्थापत्तेः। विषयगतविशेषस्य चित्तगतसुखादिनियाम- कत्वे विशेष: सुखादिरूप एव विषयेषु कल्प्यते कार्यानुरूपस्यैव कारण स्य औचित्यात्। अतो विषयेऽपि सुखादिधर्मान्सर रूपादिवत् सिध्यतीति भाव: । ननु सुखदुःखे रूपादिवहिषय- धौं स्यातां मोहस्तु ज्ञानरूपः कथं विषयधर्म: स्यादिति चेत्र । अतस्मिन् तदाकारतामात्रस्यैव मोहशब्दार्थत्वात्। सा च विष- येषु अप्यस्ति महदादिविकाराकारतायाः प्रकृती अपारमार्थि- कत्वात् तदुक्तं मोक्षधर्मे । जगमोहात्मकं विद्धि अव्यक्त व्यक्तसंज्ञकम् । इति । अपि च सर्वकार्याणां बुद्यात्म त्रिगुणात्मकमहत्त- त्वस्य परिणामत्वादपि मोहवत्त्वमिति। ननु सर्वे यदि सर्व- रूपास्तहि सर्व सुखात्मकमपि स्यादिति न दुःखस्यापि हेयत्वं स्यादित्याशङ्कायामाह। गुणप्रधानेति। तथा च दुःखबहुलतया दुःखप्राधान्यात् दुःखमेव सर्वमिदं सुखं वैशेष्यात् तहाद इति न्यायेनेति भावः । उपसंहरति। तस्मादिति। तस्मात् परि- णामेत्यादिसौलहेतुज्ञानादित्यर्थः । तदेवमत्र ध्यानादेव्यु स्थित- चित्तस्य योगसाधनं क्रियायोगमुक्त्वा तत्फलप्रसङ्गेन क्ल शास्त- द्वानोपायाश्च तेषां हेयत्वाय दुःखनिदानत्वं दुःखञ्च प्रतिपादितम् इदानीं संक्षेपेणोतः समग्रशास्त्रार्थी विस्तरेण सूत्रकारः पुनर्व- दति सूत्रजातैः शास्त्रसमाप्तिपर्यन्तैः, तानि अवतारयितु तेषां विषयजातमादौ सामान्यतः सङ्कलय्य दर्शयति। तदस्येति ।

साधनपादे योगवार्तिकम् । १७७ तत्तस्मात् अस्य दृश्यसामान्यरूपस्य दुःखसमूहस्य उत्पत्तेर्वीज मुख्य निमित्तकारणमविद्या प्रथमक्लेशः । तस्याश्च अविद्याया अत्यन्तीच्छेदहेतुस्तत्त्वज्ञानमतश्चिकित्साशास्त्रवदिदं योगशास्त्र चतुयूं हं चत्वारो व्यूहा हेयादीनां राशय: प्रतिपाद्या अस्मि- निति चतुयूं हमित्यर्थः। रोगादितुल्यत्वं प्रतिपादयब्रेव तेषां व्यूहानां स्वरूपाण्याह। तत्र दुःखेति। संसरति अस्मिबिति संसारोऽत्र प्रपञ्चः । ननु दुःखमेव हेयमिति वक्ष्यति तत्कथं संसारो हेय उच्यते तबाह । दुःखबहुल इति । दुःखबहुलत्वात् संसार एव दुःखमित्यर्थः । प्रधानेति। ननु अविद्या दुःखहेतु- रित्युत्ता अत्र संयोग कथं दुःखहेतुः साध्यत इति चेत्, व्यापार- कथनाय इत्यवेहि । अविद्या हि बुद्धिपुरुषसंयोगाख्यजन्महारैव दुःखहेतुः कार्यकारणाभेदेन च सैव बुद्धिरत्र प्रधानशब्दार्थः द्रष्टदृश्ययोः संयोगो हेयहेतुरित्यागामिसूत्रादिति। संयोगस्येति। उत्तासंयोगस्यात्यन्तिको निवृत्तिरेव हानं दुःखहानमिति यावत् । तच्चरमकारणावादित्यर्थः । हानोपाय इति। सम्यग्दर्शनमिति प्रकृतिपुरुषविवेकसाक्षात्कारी दुःखहानोपायो मोक्षोपाय इत्यर्थः । असम्पन्नातयोगस्तु पाशतरमोक्षार्थमेवापच्यत इत्या- शयः। येन योगो हानोपायतया अत्र नोक्तः । ये तु नास्तिका मन्यन्ते संयोगहानं न मोक्ष: किन्तु चित्तरूपस्यात्मनस्त्याग एव मोक्षः। किञ्च संसारिविज्ञानसन्तानोच्छेदेन जीवन्मुक्त विज्ञान- सन्तानलाभ एव मोक्ष इति तन्मतनिरसनपूर्वकं स्वशास्त्रस्यैव सम्यग्दर्शनत्वमवधारयति। तत्र होति। तत्र चतुयूं हमध्ये पात्मनो हानमुपादानं वा न पुरुषार्थ इत्यर्थः। इतिशब्दस्य हेतुवाद इत्यनन्तरमन्वयः । उतार्थे हेतुमाह। हाने तस्येति । तस्य हाने स्वत्यागे हि स्वोच्छेदवचनं प्रसज्येत मुख्यत्यागस्य भेद- तन्त्रत्वेनात्मनि असम्भवात् तच्चायुक्तं स्वनाशस्य लोके पुरुषार्थ- १७८ पातञ्जलदर्शनम् । त्वादर्शनात् स्वीयतयैव सुखदुःखाभावयोः पुरुषार्थत्वादित्यर्थः । स्वयं नियमाणोऽपि दुःखहानार्थमेवाग्निप्रवेशादौ प्रवर्तते न तु खनाशार्थमित्यर्थः। हेतुवाद इति । स्वरूपस्य स कारणतावादः स्यात्। तथा च भावकार्यत्वेन विनाशिवप्रसङ्ग इत्यर्थः। उभ- येति । इत्यतो हानोपादानोभयनिषेधे खयं नित्वतावाद एव परिशेषात् सिध्यतीति । अत एतदेव यथोक्तचतुयूं हशास्त्र सम्यग्दर्शनं सम्यग्दृश्यतेऽनेन इति व्युत्पत्ये त्यर्थः । इदानीं वय- माणसूत्रगणमवतारयति । तदेतदिति । तदेतच्छास्त्रं चतुर्पाह- मितिक्रमेणाभिधीयते प्रतिपाद्यते सूचकारणेत्यर्थः ॥ १५ ॥ * हेय दुःखमनागतम् ॥ १६ ॥ * दुःखमतीतमुपसम्भोगेन अतिवाहितं न हेयपक्षे वर्तते, वर्तमानञ्च खक्षणे भोगारूढ़- मिति न तत् क्षणान्तरे हेयतामापद्यते, तस्माद यदेव अनागतं दुःखं तदेव अक्षिपात्रकल्प योगिनं क्लि नाति न इतरं प्रतिपत्तार, तदेव हेयतामापद्यते ॥ १६ ॥ तस्माद् यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते। अनागतमितिविशेषणस्य फलमाह। दुःखमतीतमित्यादिना। प्रतिवाहितमतिक्रान्तमतः सिद्ध- तया तहानं न पुरुषार्थः तथा वर्तमानमपि स्वसत्ताकाले भुज्यत एवेति तथा वक्तुं न शक्यते । खोत्तरोत्पत्रगुणेन च वती- यक्षणे स्वयमेव भचयतीति तहानार्थः प्रयासो विफल इत्यर्थः ।

साधनपाद योगवार्तिकम्। १७८ ननु एवमनागतस्यापि हेयत्वं न घटते परचित्तदुःखस्य स्वचित्ते खत एव अभावात्। खचित्तवृत्तेश्च अनागतदुःखस्यावश्यम्भावि- त्वात् । अन्यथा सत्वे प्रमाणाभावादिति चेन। स्वचित्तस्यैव अनागतदुःखस्य कारणोच्छेदेनानुत्पत्त्या हेयत्वात् वर्तमानलक्ष- णमप्राप्तस्यापि अनागतदुःखस्य चित्तनाशेन नाशात् कदाचिद- वर्तमानोऽपि च अनागतधर्मोऽनुमानात् सिध्यति सर्व सर्वा- त्मकमिति भाष्यकारेण दृतीयपादे सर्वत्रैव परिणामिवस्तुनि विकारजननशक्तोः कार्यानागतावस्थारूपाया जलभूम्यादिट्ट- ष्टान्तैः शान्तोदिताव्यपदश्येत्यादिसूत्रेऽनुमेयत्वादिति, शेषं पूर्व- सूत्रे व्याख्यातप्रायम् । अस्माच्च सूत्रादात्यन्तिको दुःखनिवृत्ति रेव मोक्ष इति सिद्धम्। अस्मिन् सूत्रे दुःखं मुख्यमेव ग्राह्य मुख्यस्यैव स्वतो हेयत्वात् । तद्वानञ्च समवायसम्बन्धेन यद्यपि पुरुष नित्यसिद्ध तथापि भोग्यतारूपस्वत्वसम्बन्धन धनादीना- मिव तहानं न नित्यसिद्धमिति। तेन सम्बन्धेन तद्धानं पुरुषार्थ इत्याशयः । तथा हि वक्ष्यति तस्मिन्निवृत्ते पुरुष: पुनरिदं ताप- वयं न भुतो' इति । तदेतदुक्तं सांख्यन्याययोः विविधदुःखा- त्यन्तनिवृत्तिरत्यन्तपुरुषार्थ इति। दुःखात्वन्तविमोक्षोऽपवर्ग इति । यत्तु आनन्द ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितमित्येवं- विधवाक्यजातं तत् दुःखनिवृत्त्याख्यमुखपरमेव तदानीमभोग्य- सखस्य अपुरुषार्थत्वात्। सुखं दुःखसुखास्यय इति परिभाषया रूढ़िबाधनाच। हेयस्य सूत्रं व्याख्याय क्रमप्राप्तहेयहेतुप्रति- पादकं सूत्रमवतारयति । तस्मात् यदेव हेयमिति ॥ १६ ॥ * ट्रष्टदृश्ययोः संयोगो हेयहेतुः ॥ १७॥ * द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः, दृश्याः बुद्धि- सत्त्वोपारूढ़ाः सर्वे धमाः, तदेतद् दृश्यमयस्का- २८० पातञ्जलदर्शनम् । न्तमणिकल्प सन्निधिमात्रोपकारि दृश्यत्वेन भवति पुरुषस्य खं दृशिरूपस्य स्वामिनः, अनु- भवकर्मविषयतामापन्नमन्यखरूपेण प्रतिलब्धा- त्मकं म्वतन्वमपि परार्थत्वात् परतन्त्रम्, तयो- दृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुः दुःखस्य कारणमित्यर्थः। तथा चोक्तं तत् संयो- गहेतुविवर्जनात् स्यादयमात्यन्तिको दुःखप्रती. कारः कस्मात्, दुःखहेतोः परिहार्यस्य प्रतीकार- दर्शनात्, तद्यथा, पादतलस्य भेद्यता, कण्ट- कस्य भेत्तृत्वम्, परिहारः कण्टकस्य पादानधि- ष्ठानम्, पादत्राणव्यवहितेन वाधिष्ठानम्, एतत् वयं यो वेद लोक स तत्र प्रतीकारमारभमाणो भेदज दुःखं नाप्नोति, कस्मात्, त्रित्वोपलब्धि- सामर्थ्यादिति, अत्रापि तापकस्य रजसः सत्त्व- मेव तप्यं, कस्मात्, तपिक्रियायाः कर्मस्थत्वात्, सत्त्वे कर्मणि तपिक्रिया न अपरिणामिनि निष्क्रिये क्षेत्रने, दर्शितविषयत्वात् तप्यमाने तदाकारानुरोधी पुरुषोऽनुतप्यत इति दृश्यते ॥१७॥ दृश्यखरूपमुच्यते। सत्त्वे तु साधनपाद योगवार्त्तिकम् । १११ द्रष्टुपदार्थमाह । द्रष्टेति। बुद्धेः प्रतिसंवेदनं संवेदनस्य बुद्धि- वृत्तेः प्रतिविम्बः । प्रतिध्वनिवदयं प्रयोगः । सोऽस्यास्तीति बुद्धि- साक्षीति फलितार्थः। दृश्यपदार्थमाह । दृश्या बुद्धिसत्त्व ति। बुद्धिसत्त्वस्यापि दृश्यत्वेन अत्र विशेषणं विवक्षितं धर्माय इति च बुद्यारूढ़त्वेन बुद्धिधर्मत्वमभिप्रेत्योक्त न तु बुद्धिकार्यत्वाभि- प्रायेण प्रधानादेरपि दृश्यत्वेन तत्त्यागानौचित्यात् उत्तरसूत्रे प्रधानस्यैव मुख्यतो दृश्यत्ववचनाच। यद्यपि बुद्धद्यारूढ़ो भवन् पुरुषोऽपि दृश्यः तथापि तस्य निर्दुःख तया तदर्शनं न हेयहेतु: रित्याशयेनात्र दृश्यमध्ये पुरुषं न गणयिष्यतीति । तथा च सुख दुःखमोहात्मकदृश्य वत्या बुया सह द्रष्टुः साक्षिणः काष्ठा- ग्निवत् सम्बन्धो बन्धाख्य: पुरुषस्य दुःखहेतुरिति सूत्रार्थः । न तु बुद्दयारूढर्ट श्यैर्द्रष्टुर्ज्ञानरूप: संयोगो हेयहेतुरत्र विवक्षितः स्वस्खामिश त्योः स्वरूपोपलब्धिहेतुः संयोग इत्यागामिसूत्रेण अस्य संयोगस्य ज्ञान हेतुत्वेनेव लक्षणीयत्वात् न तु ज्ञानरूपत्वे- नेति। अस्माच्च सूत्राट् बुद्दयात्मसंयोगवत् घटाद्यात्मसंयोगोऽपि मोगहेतुर्बोध्यः । भोक्तृभोग्यमयोगस्यैव सामान्यतो भोगहेतु- तया लाघवेनौचित्यात् । विषयभोगे च बुधवच्छेदेन विषय- संयोगस्य हेतुत्वान्नातिप्रसङ्ग इति। अस्य च संयोगस्य पुरुषार्थो हेतुरिति वक्तं सकलपुरुषार्थवत्त्वरूपं स्वत्वं बुद्धौ पुरुषस्य प्रति- पादयति । तदेतदिति। नच तस्य हेतुरविद्या इत्यागामिसूत्रे- णैव संयोगस्य कारणं वक्ष्यत इति नास्ति संयोगकारणापेक्षेति वाच्यम् । अविद्याया अपि पुरुषार्थासमाप्तिहारैव बन्धहेतुताया वक्ष्यमाणत्वात् इति। तदेतदित्यादेरयमर्थः। तबुद्धिसत्त्वम् एतज्जगदृश्यं यत्र अस्तीत्येतदृश्यम् अतोऽयस्वान्तवत् सविधि- मात्रेणोपकारितया स्वयं दृश्यतया च ज्ञानमात्रखरूपस्य स्वा- मिनः पुरुषस्य स्वमात्मीयं भवतीति । ननु बुद्धेः कथमन्यः स्वासो १६ १६३ पातञ्जलदर्शनम्। खोक्रियते सैव अपरतन्त्रा स्वयं द्रष्ट्री खार्थेव भवतु तत्राह। अनुभवकर्मेत्यादि। यत: कर्मकर्तृविरोधेन खदृश्यत्वानुपपत्त्या अनुभवाख्यं यत्पुरुषस्य कर्म तहिषयतामापन्न सदेव अन्यरूपेण पुरूषचैतन्येन प्रतिलब्धात्मकं सिद्धसत्ताकम्, अन्यरूपेणान्यप्रयो. जनेन लब्धस्थितिकं वा अतः स्वतन्त्र पुरुषानाश्रितमपि प्रराय- त्वात् परतन्त्र परस्य स्वमित्यर्थः । तदेवं दृश्याख्यभोग्यात्मका: खिलपुरुषार्थस्य बुद्धिनिष्ठत्वे सिरे स एव पुरुषार्थोऽनागतावस्थो बुद्धिपुरुषयोः संयोग हेतुरिति वदन् सूत्रवाक्यार्थमाह। तयो- रिति। तयोः स्वखामिनोः, दृश्यते अनयेति दर्शनं बुद्धिः । अनाः दिश्चात्र प्रवाहरूपेण पुरुषार्थक्कतत्ववचनात्। ननु पुरुषार्थसंयो- गाङ्गीकार सत्यपरिणामित्वभङ्ग इति चेन्न। सामान्यगुणाति: रिक्तधर्मोत्पत्तेरेव व्यवहारानुसारेण परिणामशब्दार्थत्वावधार- णात्। घटाद्यसंयोगाद्येराकाशस्य हित्वादिभिश्च पुरुषस्य परि- णामव्यवहाराभावात्। पद्मपत्रस्थतोयेन पद्मपत्रस्यापरिणामा- संयोगादिश्रवणाच। संयोगविभागसंख्यादयस्तु द्रव्यसामान्य- गुणा इति। अपि च श्रुतिस्मृत्योः सुखादिरूपाः परिणामा एक पुरुष नाभ्युपगम्यन्त, मनोऽन्वयव्यतिरेकेण मनस्येव लाघवत: स्तत्कल्पनात् मनसोऽवच्छेदकत्वं परिकल्प्य अन्यत्र तत्कल्पने गौरवात्। संयोगादिकं प्रति तु द्रव्यत्वेनैव हेतुतया पुरुष: स्यापि तत्सम्भवात् । पुरुषस्य द्रव्यत्वं च अनाश्रितत्वत: परि- माणतश्च सिद्धमिति। यद्यपि कारणावस्थबुद्धिः पुरुषश्च विभुः । तथापि तयोः संयोग: परिच्छिन्द्रगुणान्तरावच्छेदेन सम्भवत्येव महदाद्यखिलपरिणामानां त्रिगुणसंयोगं विना अनुत्पत्तेः, सच संयोगजः संयोगः न तु कर्मजः, अवयवसंयोगादवयविसंयोग: वदवच्छेदकीभूतगुणसंयोगादेव विभुनोः संयोगोत्पत्तेः। भूत- लस्य घटसंयोगेन घटावच्छिन्नाकाशसंयोगोत्पत्तिवत् वैशेषिक साधनपाद योगवाति कम् । १६३ शास्त्र विभुनोः संयोगश्चं साक्षादेव निषिद्धः नं तु संयोगजः संयोग इति । यदि चात्मनः संयोग ऐव नास्तीति स्वीक्रियेत तहि प्रतिपुरुषसंयोगात् सृष्टिस्तहियोगतश्च प्रलयं इति श्रुति- स्मृतिसूत्राणि नोपपोरन् । नच भोक्तभोग्ययोग्यतैव औपचारि- कोऽत्र संयोगो वक्तव्यः तस्याः स्वस्वामिभावरूपत्वेन अनादितया कार्यत्वंस्य अञ्जसानुपपत्तेः। किञ्च तस्या अविनाशित्वे ज्ञाने- नाश्यत्वंवचनविरोध: नाशित्वे परिणामः पुरुषस्य स्यादिति । ननु संयोगस्वीकारे पुरुषस्यासङ्गताक्षतिरिति चेन्न। पुष्करपत्रे पुरुषदृष्टान्ते संयोगसत्त्वेऽपि असेङ्गताभ्युपगमात् । स्वाश्रय- विकारहेतुसंयोगस्यैव सङ्गत्वात् । पुरुषे च तादृशसंयोगात्रीका- रादिति । तस्मात् पुरुषार्थनिमित्तको बुद्धिपुरुषयोः संयोगो भवति स एव चं जन्मरूपतयां दु:खहेतुरिति सिद्धम् । स च संयोगविशेषः परमेश्वरस्य योगमाया योगीन्ट्रैरपि अचिन्त्या श्रुतिस्मृतिगम्या न विशेषतस्तर्कगोचरा भवति । यया खलु नित्य- मुक्तमसङ्गमविद्यादिरहितं विभु चिन्मानमात्मानं जीवजातमी- खरो निबध्नाति। तथा चोक्तम् । 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्' इति । 'सेयं भगवती माया यन्वयेन विरु- ध्यते। ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्' इति च । संयोगस्य दुःखहेतुत्वे पञ्चशिखाचार्यस्य संवादमाह। तथा च उक्तमित्यादिना प्रतीकार इत्यन्तेन। तयाबुद्धिपुरुषयोः संयोगो दुःखहेतुस्तस्य परिवर्जनात् अत्यन्तीच्छेदात् दुःखस्यात्यन्तिकः प्रतीकार उच्छेदः स्यादित्यर्थः । ननु अमादिकालप्रवृत्तस्य दुःख- हेतुसंयोगस्य उच्छेदो न शक्यसम्भावन इत्याशयेन पृच्छति प्रस- ङ्गात् तच्छक्यत्वमवधारयितुम्। कस्मादिति। उत्तरम् । दुःख- हतोरिति । परिहार्यस्य इत्यनेन प्रकृत्यादिनित्यव्यावृत्तिः । तथा च दुःखहेत्वनित्यत्वलिङ्गन संयोगस्य शक्योच्छेदकत्वम् अनु- १८४ पातञ्जलदर्शनम्। मेयमित्याशयः । दुःखहेतोः प्रतीकार्यत्वे लौकिकमुदाहरण- माह। तद्यथेति । भेद्यत्वं भेदजदुःखभागित्वं भेत्तृत्वञ्च भेद- द्वारा दुःखहेतुत्वं पदा अनधिष्ठानं पादेन अनारोहणम् । पाद- वाणमुपानत् । तावहितेन वा पदा कण्टकस्य आरोहणमि- त्यर्थः। एतत् त्रयं दुःखाश्रयदुःखहेतुतत्परोहारोपायरूपमि- त्यर्थः । यो वेदेत्यनेन एतत्वयज्ञानस्य प्रतीकारहेतुत्वं वदन् एतत् वयं मुमुक्षुभिर्जेयमित्यपि सूचितवान् । ननु तापो दु:खमिति पायः तथा च दृष्टान्त यथा भेद्यभेत्तप्रतीकाररूपं त्रितय- मस्ति नैवं दार्शन्तिके तत्रैकस्या बुद्ध रेव तप्यतापकोभयरूपता. भ्युपगमात् पुरुषस्य निर्दुःखत्वादित्याक्षिपति। कस्मादिति। सिद्धान्तमाह। त्रित्वोपलब्धीति। वाह्यदुःख स्थले उक्तत्रयोष- लब्धिबलात् अन्तर्दुःखस्थानेऽपि त्रयसिद्धिरिति भावः । तस्य प्रकारमाह । अत्रापोति । अत्रापि दार्शन्तिकेऽपि । अयं भावः । बुद्धे रेकत्वेऽपि त्रिगुणात्मकत्वात् अंशत्रयमस्ति । तत्र रजोऽ'श- स्तापकः सत्त्वांशस्तप्यो बुद्धिपुरुषयोवियोगश्च दुःखप्रतीकार इति त्रयमुपपत्रमिति । ननु पुरुष एव कथं न तप्यो भवतीत्या- शयेन पृच्छति। कस्मादिति । सिद्धान्तमाह। तथापीत्यादिना क्षेवन इत्यन्तेन । कर्मस्थत्वात् कर्मतन्त्रत्वात् सकर्मकत्वादिति यावत् । कर्मत्वञ्च क्रियाव्याप्यत्वं दुःखव्याप्यत्वं वा अपरिणामिनि न सम्भवतीत्यर्थः। वृत्तिव्याप्यत्वं तु विषयतारूपमपरिणामिनि अपि सम्भवतीति अतो ज्ञानक्रियाकर्मत्वं पुरुषस्थोपपद्यत इति विशेषः। यच्च पुरुषस्य स्वज्ञेयत्वं तदपि स्वप्रतिविम्बितबुधि- वृत्तिव्याप्यत्वमेवेति न तत्रापि परिणामापेक्षेति। ननु एवं कथं दुःखनिवृत्तिः पुरुषार्थः परदुःखस्याहेयत्वात् । न च पुरुषनिष्ठ- त्वभ्रमात् दुःखं हेयं स्यादिति वाच्यम्। विदुषामपि दुःखहा. नार्थमसम्प्रजातार्थितायाः स्वीकारादित्याशङ्का समाधत्ते । दर्शि- साधनपाद योगवार्तिकम्। १८५ तविषयत्वात् इत्यादिना। पुरुषो यतो दर्शितविषयो बुद्धिस- त्वेन निवेदितविषयोऽतः सत्त्वे तप्यमाने प्रतिविम्बरूपण बुद्धि- सत्त्वसमानाकारी भवन् ननु तप्यत इति मूढैदृश्यते अनुतप्यत वेत्यर्थः । न हि स्वाकारप्रतिविम्बनातिरिक्त विषयनिवेदनम- परिणामिनि सम्भवति प्रतिपादितं चैतद वृत्तिसारूप्यमितरत्रेति सूत्रे, तथा च प्रतिविम्बरूपेण भोगाख्यसम्बन्धेन विदुषामपि दुःखस्य हेयत्वान्न पुरुषार्थासम्भवदोष इति भावः। ये तु पुरु- षस्य भोक्तृत्वमपि न इच्छन्ति तेषामेव आधुनिकवेदान्तिब्रुवाणा- मयं दोषः। इदानीं द्रष्टदृश्यसंयोगानां त्रयाणामेव स्वरूपं सूत्रकारो वक्ष्यति। तत्र दृश्यरूपप्रतिपादकं सूत्रमवतारयति । दृश्यस्वरूपमुच्यत इति । अत्र पाठक्रमवैपरीत्येन आदी दृश्य- कथनस्येदं वो दृशिमान इत्यागामिसूत्रे मात्रशब्देन अखिल- दृश्यभेदतो द्रष्टा प्रतिपादनीयः। तत्र च प्रतियोगिनां दृश्यानां ज्ञानमादी अपेक्ष्यत इति। पूर्वसूत्रे च प्राधान्बादादौ द्रष्टुरुप- न्यास इति बोध्यम् ॥ १७ ॥ * प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मक भोगापवर्थ दृश्यम् ॥१८॥ प्रकाशशीलं सत्वं, क्रियाशीलं रजः, स्थिति- शीलं तम इति, एते गुणा: परस्परोपरक्त प्रवि- भागाः परिणामिनः संयोगविभागधर्ममाण इतरे- सरोपाश्रयेण उपार्जितमूर्तयः परस्पराङ्गाङ्गित्वे- ऽपि असम्भिन्नशक्तिप्रविभागाः तुल्यजातीयातुल्य- जातीयक्तिभेदानुपातिनः प्रधानवेलायामुप- १८६ पातचलदर्शनम्। दर्शितसन्निधाना गुणत्वेऽपि च व्यापारमावेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणः अयस्का- न्तमणिकल्पाः प्रत्ययमन्तरेण कतमस्य वृत्तिमनु- वर्तमानाः प्रधानशब्दवाच्या भवन्ति, एतद् दृश्यमित्युच्यते। तदेतत् दृश्यं भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते, तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति । तत्तु न अप्रयोजनम् अपि तु प्रयोजनमुर- रोकृत्य प्रवर्तत इति भोगापवगार्थं हि तत् दृश्यं पुरुषस्येति तत्र दृष्टानिष्टगुणखरूपावधारणम् अविभागापन्नं भोगः, भोक्तुः स्वरूपावधारणमप- वर्ग इति, योरतिरिक्तमन्यद् दर्शनं नास्ति, तथा चोक्तं-"अयन्तु खलु त्रिषु गुणेषु कर्तृषु अकर्तरि च पुरुष तुल्यातुल्यजातीये चतुर्थे तत् क्रियासाक्षिणि उपनौयमानान् सर्वभावान् उपपन्नाननुपश्यन् अदर्शनमन्यत् शङ्कत इति । तावती भोगापवर्गों बुद्धिकृतौ बुद्धी एव वर्त- मानौ कधं पुरुषे व्यपदिश्यते इति, यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यप- साधनपादे योगवार्त्तिकम् । १८७ दिश्येते, स हि तस्य फलस्य भोक्तेति, एवं बन्ध- मोक्षौ बुद्धौ एव वर्तमानौ पुरुष व्यपदिश्येते स हि तत्फलस्य भोक्तोति, बुद्धेरेव पुरुषार्थाप- रिसमाप्तिर्बन्धः, तदर्थावसायो मोक्ष इति । एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषे अध्यारोपितसद्भावाः स हि तत्फलस्य भोत ति ॥ १८॥ दृश्यानां तु गुणानां स्वरूपभेदावधारणार्थ- मिदमारभ्यते- प्रलये प्रकाशादिकार्याभावात् शीलपदोपादानं प्रकाशो बुयादित्तिरूपालोको भौतिकालोकश्च । क्रिया यत्नश्चल- नञ्च । स्थिति: प्रकाशक्रियाभ्यां यथोक्ताभ्यां शून्यत्वं तया: प्रति- बन्ध इति यावत्। तच्छोलं गुणत्रयमिति. विशेष्यपदमत्रोत्तर- सूत्रे गुणपर्वाणोति विभागवचनात् लभ्यते, अतएव भाष्यकारैरेते गुणा इति व्याख्यास्यन्ते । तादृशेषु गुणेषु प्रमाणमाह । भूतेति । भूतेन्द्रियात्मकं स्थूलसूक्ष्मरूपाणां भूतानां स्थूलसूक्ष्मरूपाणां च इन्द्रियाणां कारणं तेन महदाद्यखिलकार्यकारणत्वमेव लब्ध तञ्च गुणेषु तेषां प्रकाशादिरूपाणां चेन्द्रियाणां त्रिगुणात्मकानां जड़कार्याणां त्रिगुणात्मकजड़कारणं विना अनुपपत्तेरिति । गुणानां कार्यमुक्का स्वरूपसत्ताप्रयोजक प्रयोजनमाह। भोगा- पवर्गार्थमिति । भोगापवर्गप्रयोजनवदिति सूत्रार्थः । ननु एवं गुणत्रयस्यैव दृश्य त्वं प्राप्तं न तु विकाराणामिति चेन्न। गुण- १८८ पातञ्जलदर्शनम्। अवतया उत्तरसूत्रेण तेषामपि संग्राह्यत्वादिति। तदेतत् सूत्र ख्याचष्टे । प्रकाशशोलमिति । ननु सत्त्वादिगुणा एव चेत् प्रका- शादिशीला दृश्य त्वेन अत्रोतास्तहि प्रकृत्यवचनात् सूत्रकारस्य न्यूनता। तथा सत्त्वादिगुणानामेव भूतेन्द्रियात्मकत्वस्वीकारात् प्रकृतिसदान्तचतिर्वैयर्थ्यादित्याशय गुणा एव प्रकृतिशब्दवाच्याः न तु तदतिरिक्ता प्रकृतिरस्तोत्यवधारयति। एते गुणा इति । सत्त्वादयो गुणा एते प्रकृतिशब्दवाच्या भवन्ति प्रधीयतेऽस्मिन् कार्यजातमित्यादिव्युत्पत्त्या प्रधानप्रकत्यादिशब्दरुच्यन्त इत्य- न्वयः। तथा च सांख्य सूत्रं 'सत्त्वादीनामतधर्मत्वं तद्रूपत्वात्' इति । सत्त्वादिषु गुणत्वञ्च पुरुषोपकरणत्वात् तद्बन्धकत्वाच न तु प्रकाशक्रियादिवत् परसमवेतत्वादिति भावः। प्रधानशब्द- वाच्यत्वोपपादनाय गुणानामेव जगत्कारणत्वनित्यत्वादिकं हेतु- गर्मविशेषणैरुपपादयति। परस्परति। सत्त्वस्य प्रविभागोऽधि- कभाग: स्वल्पाभ्याञ्च रजस्तमोभ्याम् उपरक्तः संसृष्टः। एवं रजस: तमस इत्येवं परस्यरोपरक्तप्रविभागाः । तथा संयोगवि- भागधर्माण: परस्परं संयोगविभागस्वभावाः। एतेन गुणानां द्रव्यत्वं सिद्धम् । तथा इतरेतरसाहाय्येन उत्पादिताक्यविनः कार्यकारणाभेदेन च आरम्भवादाविशेषः । ननु यदि इतरसा- हाय्येन सर्व गुणा: सर्वकार्यकारणानि तर्हि सत्त्वादेरपि क्रिया- दिहेतुत्वेन सक्रियत्वाद्यापत्त्या प्रकाशादिशक्तिसार्यमिति परस्पराङ्गाङ्गित्वेऽपोति । अन्योन्याङ्गाङ्गिभावन उत्पादितऽपि द्रव्ये प्रकाशगुणः सत्त्वस्यैव क्रियागुणो रजस एव स्थितिगुणस्तमस एवेत्यतो न प्रकाशादिशक्तिविभागस्य सम्भेदः सम्मिश्रणमित्यर्थः। तथा तुल्यजातीयातुल्यजातीयशक्तिमेदा- मुपातिनः सत्त्वत्वादिजात्या सजातीया विजातीयाश्च ये सह- कारिशक्रिविशेषाः तदनुपातिनस्तेषामविशेषेणोपष्टम्भकखभावा तत्राह।

साधनपादे योगवार्तिकम् । १८८ तथा प्रत्यय- इत्यर्थः । एतेन सत्त्वादीनि व्यक्तिरूपेण अनन्तानि। विगुण- त्वांदिव्यवहारस्तु सत्त्वत्वादिजातिमात्रेण वैशेषिकाणां नवद्रव्य- व्यवहारवदिति सिद्धम् । अतएव लघुत्वादिधर्मरन्योन्यं साधर्म्य वैधम्यञ्च गुणानामिति सांख्यसूत्रेण सत्त्वादीनां साधर्म्यवैधये लघुत्वादिरूपे प्रदर्शिते इति। तथा प्रधानवेलायां स्वस्वप्राधान्य- कालेऽभिव्यक्तसानिध्या विकारेषु भवन्ति तथा गुणत्वेऽपि इत- रोपसर्जनतादशायामपि व्यापारमात्रेण तथा विषयविधया अयस्कान्तमणिवञ्चित्तस्याकर्षकाः। वक्ष्यति हि। । वक्ष्यति हि। अयस्कान्त- मणिकल्या विषयाः अयःसधर्मकं चित्तमिति । मन्तरेण अभिव्यक्ति विना खानभिव्यक्तिकाल इति यावत् । तदानीमेकतमस्य यस्य कस्यचित् गुणान्तरस्य वृत्तिमनु सूक्ष्म- वृत्तिमन्तः वृत्त्यतिशयानामेव विरोधस्योक्तत्वादिति विशेषणव- ईर्थः । एतदृश्यमित्युच्यत इति। एतद्गुणत्रयमेव कार्यका- रणभावापर्व दृश्यमुच्यते नास्ति ततोऽतिरिक्त दृश्यान्तरमि- त्यर्थः । अतएव च गुणा न्यायवैशेषिकाभ्यां द्रव्याष्टकरूपेण विभज्यन्ते। वेदान्तिभिस्तु माया इत्युच्यते। मायां तु प्रकृति विद्यादिति श्रुतेः। तदुक्तं वृहद्दाशिष्टे । 'नामरूपविनिम्त यस्मिन् सन्तिष्ठते जगत्। तमाहुः प्रकृति केचित् मायामन्य परे त्वणूनि'ति। स्यादेतत्। यदि त्रिगुणातिरिक्ता प्रकृति- र्नास्ति तदा अजामेकां लोहितशुक्ल कृष्णामित्यादिश्रुत्युक्त प्रक्क- सेरेकवादिकं व्याहन्यते । तथा। 'हेतुमदनित्यमव्यापि सक्रिय- मनेकमाश्रित लिङ्गम्। सावयवं परतन्त्र व्यक्तं विपरीतमव्य- ताम्' इत्यादिनोतो व्यापकत्वाक्रियत्वनिरवयवत्वादिरूपश्च सां- ख्यादिसिद्धान्तो व्याहन्येत। तथा । 'एते प्रधानस्य गुणास्त्रयः स्युरनपायिन' इत्यादिस्मृतिपरम्पराम प्रधानस्य गुणानां चाधा- राधेयभावहेतुहेतुमद्धावयोर्वचनंनोपपद्येत। तथा 'सत्त्वं रजस्तम १६० पातञ्जलदर्शनम् । इति गुणाः प्रततिसम्भवा' इति गीतादिवाक्योक्त सत्त्वादः क्त- तिकार्यत्वं चानुपपन्नम्। तथा अष्टाविंशतितत्त्वपक्षोऽपि नोप- पद्येतेति। अबोच्यते। पुरुषभेदेन सर्गभेदेने च भेदाभाव एवं प्रततरेकत्वमजादिवाक्ये स्तन्मूलकसांख्यादिभिश्च प्रतिपाद्यते अजावाक्ये तथा तात्पर्यावधारणात्। भोग्यभोक्कोहि मध्ये भोग्या गुणा भोग्यत्वाभोग्यत्वाभ्यां संर्गभेदेन भिद्यन्ते। एतै भोगार्हा एते च नेति मुक्त पुरुषोपकरणानामपि अन्यपुरुषभोग्य- त्वात्। भोक्तारस्तु पुरुषाः भोक्तृत्वाभोक्तृत्वाभ्यां सर्गभेदेन भि- द्यन्त पूर्वसर्गमुक्ता न उत्तेरसगै भोक्तार: किन्तु अन्य .ऐवैति । अत: प्रकतिरेका पुरुषस्तु अनेक इत्युच्यते। तथा तएवं गुणाः सर्वसर्गेषु स्रष्टारो भवन्ति महदादिविकाराणान्तु संर्गभेदेन भिन्नत्वं स्पष्टमेव अतोतव्यक्त: पुनरनुदयस्य वक्ष्यमाणत्वादिति । यदि तु प्रकतिरेकैव व्यक्तिः स्यात् तदा निमित्तमप्रयोजक प्रक्त- तीनामिति प्रकृतिबहुत्वसूत्रविरोध इन्द्रो मायाभिः पुरुरूप ईयत इत्यादिश्रुतिविरोधश्चेति। व्यापकत्वञ्च प्रकृतेः कारणत्व- सामान्येनैव बोध्यम् । कारणशून्यप्रदेशाभावात् गन्धादेः पृथि- व्यादिव्यापकत्ववत्। महदादिकन्तु सामान्य नापि न व्याप- कमिति । अतएवांशभेदेन प्रकृतेर्व्यापकत्वपरिच्छिन्नत्वयोरभ्यु- पगमात् जात्यन्तरपरिणामः प्रकृत्यापूरादित्यागामिसूवीक्तः प्रकत्यापूरो घटत इति। प्रकृतेरक्रियत्वं च अध्यवसायाभिमा- नादिरूपप्रतिनियतकार्यशून्यत्वमेव न तु चलनादिकर्मशून्यत्वं 'प्रधानात् क्षोभ्यमाणाञ्च तथा पुंस: पुरातनात्। प्रादुरासीत् महद्दीजं प्रधानपुरुषात्मकम्' इत्यादिस्मृतिषु प्रक्तैरपि चलमा- परनामकक्षोभावगमात् । 'प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मा- मवि !। चेष्टा यत: स भगवान् काल इत्यभिधीयते' इति स्पष्टं क्रियास्मरणाच्च । यत्तु कचित् पुरुषस्यापि क्षोभः श्रूयते स संयो- साधनपाद योगवार्तिकम् । १८१ गोन्मुखत्वेन गौणः प्रकृतिकर्मणैव संयोगोत्पत्तेरिति । प्रतते- निरवयवत्ववाक्यानि च पारम्भकावयवनिषेधकानि न तु वनां शवृक्षतुल्यानामंशानां निषेधकानि। एतेन एते प्रधानस्य गुणा इत्यादिवाक्यान्यपि उपपादितानि वनतुल्यस्य प्रधानस्यांशिनः पनसाम्रदाडिमादितुल्यस्य गुणद्रव्यस्यांशत्वाभ्युपगमात् इति । यच्च सत्त्वादीनां प्रकृतिकार्यववचनं तावहाराभिप्रायेण प्रका- शादिफलोपहिततयैव हि सवादिव्यवहारो दृश्य ते इति अन्यथा गुणनित्यत्वसिहान्तव्याघातात्। अखण्डे कप्रकृतर्विचित्रपरिणा- मासम्भवाञ्च सम्भवे वा महदादिकायान्तराणामपि केवलप्रकृते- रेव सम्भवात् गुणकल्पनावैयर्थ्यम् । ननु गुणरूपावच्छेदमेदादेव तत्सम्भव इति चेत्, न। तथा सति गुणभ्य एव सर्वकार्योप- पत्त्या तदतिरिक्तप्रवतियर्थ्य म्। किच्च यदि गुणत्रयातिरिक्ता प्रकृति: स्यात् तदा गुणसाम्यमनुदितमन्यूनच महामते !। उच्यते प्रातिर्हेतुः प्रधानं कारणं परम् ॥ इत्यादिस्मृतिषु सत्त्वरजस्तमसां साध्यावस्था प्रततिरिति सांख्यसूत्रे च साम्यावस्थगुणानां प्रकृतित्ववचनमानस्थेन नोप- पद्येत, नोपपद्यत च 'विशेषाविशेषलिङ्गमात्रालिङ्गानि गुण. पर्वाणि' 'ते व्यक्तसूक्ष्मा गुणात्मानः' 'परिणामक्रमसमाप्तिणु: णाना'मित्यादिसूत्रेषु भाष्य च गुणानामेव मूलकारणत्ववचनः मित्यादिदूषणं स्यादिति । साम्यावस्था च न प्रकृतिलक्षणे वि. शेषणमपि तु यदा कदाचित् सम्बन्धेनोपलक्षणम्। काकवन्ती देवदत्तस्य ग्टहा इतिवत्, सा च न्यूनाधिकभावेन असंहनना- वस्था अकार्यावस्थेति यावत्। वदपलक्षितगुणत्वं च प्रकृति- लक्षणं महदादिव्यावृत्त तेन सर्गकालेऽपि गुणानां प्रकृतित्वोप- । १८२ पातञ्जलदर्शनम् । पत्त्या न प्रकृतिनित्यताक्षतिः नापोखरस्य सदैकरूप्येण साम्या- वस्थाऽशून्यत्वेऽपि तत्र प्रकृतिलक्षणातिव्याप्तिरिति दिक् । गुणेषु प्रमाणोपदर्शकं भूतेन्द्रियात्मकमिति विशेषणं व्याचष्टे । तदेतद्भूतेति । भूतभावन इत्यस्य विवरणं पृथिव्यादिनति । तत्रापि अवान्तरविशेषमाह। सूक्ष्मस्थूलेनेति। तन्मात्राणि सूक्ष्माणि पृथिव्यादीनि महाभूतानि स्थूलपृथिव्यादीनि । इन्द्रि- यभावेन इत्यस्य विवरणं श्रोत्रादिनेति । तत्रापि अवान्तरवि- शेषमाह। सूक्ष्मस्पलेनेति। महदहङ्कारौ सूक्ष्मेन्द्रियमेकादश च स्थूलेन्द्रियाणि। इन्द्रियस्य सङ्घाते ईश्वरस्य कारणत्वादिः त्यर्थः। भोगापवर्गार्थमिति गुणस्यैवापरं विशेषणं, मोक्षोप- पादकं व्याचष्टे तत्तु न अप्रयोजनमित्यादिना। तद्गुणत्रयं न प्रयोजनशून्य सत् भूतेन्द्रियरूपेण प्रवर्तते अपि तु प्रयोजन खोक्लत्यैव प्रवर्तत इत्यतस्तादृशं गुणत्रयं पुरुषस्य भोगापर्वार्थ हि भोगापवर्गपालकमवेत्यर्थः । भोगापवर्गी व्याचष्टे । तत्र दृष्टा- निष्टेति। इष्टानिष्टगुणा: सुखदुःखात्मकाः शब्दादयः तत्खरू- पावधारणं तदाकारा बुद्धिवृत्ति: न तु पुरुषनिष्ठः साक्षात्कारः बुद्धिनिष्ठताया वक्ष्यमाणत्वात् । स हि तत्फलस्य भोक्तत्यनेन पुरुषनिष्ठस्य भोगान्तरस्य वक्ष्यमाणत्वात् . पुरुषनिष्ठभोगस्य चित्तरूपतया नित्यत्वेन न फलत्वमञ्जसा अस्तीति भावः । शब्दादिवत्तिकाले विवेकख्यातिसत्त्वे वक्ष्यमाणापवर्ग एवेति तादृक्शब्दादिव्यावृत्त्यर्यमविभागापनमिति विशेषणं पुरुषेण सहाविविक्तम् । अहङ्कारेण मर्मत्यात्मनिष्ठतया अभिमन्यमान- मिति यावत्। जीवन्मुक्तस्य भोगाभास एव। अहं शृणोमी- त्याद्यभिमानगर्भेषु एव शब्दादिवत्तेगुणेषु भोगव्यवहारात्। भोक्तुरिति । भोक्तुः पुरुषस्य यत्स्वरूपमुपाधिविविक्तचैतन्य तदा- कारा बुद्धिरपवर्गः ।

साधनपादे योगवात्तिकम् । २८३ पादौ तु मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् । कच्छत्रयात् तीयस्तु व्याख्यातं मोक्षलक्षणम् ॥ इति। पञ्चशिखवाक्यात् । अपवृज्यतेऽनेनेति व्युत्पत्तेर्वे- त्यर्थः। ननु भोगापवर्गातिरिक्तार्थमपि दृश्यं कथं न भवती त्याकाङ्क्षायामाह । तयोरिति । दर्शनं बुद्धित्तिः । अविभागा- पबतायां पञ्चशिखाचार्यसंवादमाह। तथा चोक्तमिति । अयं लोकेषु गुणेषु सर्वकर्तृषु सत्सु गुणवयापेक्षया चतुर्थे तुरीये पुरुषे गुणव्यापाराणां जाग्रदादीनांसाक्षिमान कर्त्तरि उपनीयमानान् बुया समय माणान् गुणपरिणामान् तत्रैव पुरुष उपपवान् युक्तिसिहानिव पश्यन् मूढो न गुणभ्योऽन्यदर्शनं चैतन्य शङ्कते सम्भावयत्यपीत्यर्थः । अत्र विवेकाग्रहणे भिनत्वे च हेतुस्तुल्या- तुख्यजातीय इति। पुरुषविशेषणम्। बुद्धिपुरुषयोईयोरपि खच्छत्वसूक्ष्मत्वादिना साम्याद्गुणपुरुषयोस्तुल्यजातीयत्वं जड़ा- जड़त्वपरिणामित्वापरिणामित्वादिभिश्च वैजात्यमित्याशयः । अत्र भाष्ये गुणवयापेक्षया पुरुषस्य चतुर्थत्ववचनात् अन्यान्यपि तुरीयवाक्यानि जाग्रदाद्यवस्थसत्त्वादिगुणत्रयापेक्षया साक्षित्वमेव पुरुषस्य तुरीयावस्थां वदन्ति इति सिहम् । तथा च स्मयते । सत्त्वाज्जागरणं विद्याद्रजसा स्वप्रमादिशेत् । प्रस्खापनं तु तमसा तुरीयं त्रिषु सन्ततम् ॥ इति। ननु उक्तयोर्भोगापवर्गयोर्गुणकार्यतया गुणनिष्ठत्वेन कथं पुरुषस्य भोगापवर्गा| दृश्यमित्युक्तमित्याशते । तावता- विति। यतो बुद्धिक्कतौ अन्वयव्यतिरेकाभ्यां बुद्धिकार्यो अतो लाघवेन बुडावेव वर्तमानौ न तु पुरुषनिष्ठी इत्यादिरथः । दृष्टा- न्तप्रदर्शनपूर्वकं परिहरति। यथेत्यादिना। पुरुषे स्वामित्वाज- यादिवत् तौ व्यपदिश्यते इति वाक्यार्थः । बन्धमोक्षौ यथोक्त- भोगापवर्गौ। स हि तत्फलस्येति। बुद्धिगतयोविषयावधारण- १७ १८४ पातञ्जलदर्शनम्। पुरुषावधारणयोः फलस्य सुखादिरूपस्य भोक्ता स्वप्रतिविम्बि- तस्य साक्षी अतस्तयोः स्वामीत्यर्थः । अत्र पुरुषस्थापि खात- न्वेषण भोगस्योक्तत्वात् स्वरूपप्रतिष्ठा वा चितिशक्तिरिति शा- स्त्रप्रान्तसूत्र पुरुषस्य खतोऽपि मोक्षस्य वक्ष्यमाणत्वाच्च पुरुषस्य भोगापवौं न निराक्रियेते बुद्धिगतभोगापवर्गयोः स्वतोऽपुरु- धार्थत्वाच्च करणव्यापारस्य पुरुषार्थतासिद्धान्ताच्च, अपितु परिणामरूपी यथोक्तभोगापवर्गों एव पुरुषस्य निराक्रियेते। अतएव तावेतौ इत्यनेन भोगापवर्गौ विशेषितौ भाष्यकारणति । पुरुषाणाञ्च संसारिणां मुख्य एव भोगो बुद्धिवृत्त्यविविक्तः सुखा- दिसाक्षात्कारः। जीवन्मुक्तोखरयोस्तु गौणो भोगः सुखादि- साक्षात्कारमात्ररूप इतीश्वरलक्षणसूत्रे प्रतिपादितमस्माभि- रिति । यदि च पुरुषे पृथग्भोगमोक्षौ न खौक्रियेते तदा। कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोतृत्वे हेतुरुच्यते ॥ मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः । इत्यादिवाक्यानि नोपपद्येरनिति दिक् । बुडे रेव परमौ बन्धमोक्षौ अपि दर्शयति । बुद्धेरेवेति। बुद्धिरूपेण परिणतानां गुणानामेवेत्यर्थः। तदर्थावसायो विवेकख्यात्याः पुरुषार्थस माप्तिः। तथा च यथोक्तभोगापवर्गरूपैः पुरुषार्थैः सम्बन्धी बुड़े- बन्धी वियोगश्च मुक्तिरिति भावः । एतौ च बुद्धेः परमबन्धपरम- मुक्ती। पूर्वोक्तौ तु भोगापवर्गों अपरबन्धजीवन्मुक्ती इत्यकि- रोधः। एतेनेति। एतेन शब्दादिविषयभोगविवेकख्यात्योः पुरुषेषु औपचारिकत्वेन ग्रहणादयोऽपि पुरुषेषु उपचरितस- त्ताका वेदितव्या इति शेषः । ग्रहणं स्वरूपमात्रेण अर्थज्ञानं, धारणा चिन्तनम् ऊहोऽर्थगतविशेषाणां वितर्कणम, अपोहो वितर्कितमध्ये विचारतः कियतां निराकरणम् तत्त्वज्ञानं वित- साधनपादे योगवार्तिकम् १८५ किंतमध्ये एव विचारत: कियविशेषावधारणम् अभिनिवेशस्तदा- कारतापत्तिरिति । प्रकृतस्य योगस्य भूमिकारूपतयैव चित्त- परिणामा अत्र गणिता एतैश्चान्येऽपि इच्छाकत्यादय उपलक्ष- णीया इति। ननु अनेन सूत्रेण गुणानामेव दृश्यत्वं प्रोक्तं न तु विकाराणमिति न्यूनतानिरासाय प्रवर्त्तमानं सूत्रान्तरमवतार- यति। दृश्यानां विति। वरूपभेदावधारणार्थम् अवान्तरभेद- प्रतिपादनार्थमित्यर्थः ॥ १८॥ * विशेषाविशेषलिङ्गमाचालिङ्गानि गुणप- वाणि ॥१८॥ तत्र आकाशवायग्नुपदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मावाणामविशेषाणां वि- शेषाः। तथा श्रीवत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धी- न्द्रियाणि, वाक्पाणिपादपायूपस्थानि कर्मेन्द्रि- याणि, एकादशं मन: सर्वार्थम्, इत्येतानि भ- स्मितालक्षणस्य अविशेषस्य विशेषाः। गुणा- नामेष षोड़शको विशेषपरिणामः षड् अवि शेषाः, तद्यथा शब्दतन्मात्रं, स्पर्शतन्मावं, रूप- तन्मावं, रसतन्मात्रं गन्धतन्मात्रञ्च, दूत्येकहि- विचतुष्पञ्चलक्षणाः शब्दादयः पञ्च अविशेषाः, षष्ठश्च अविशेषोऽस्मितामात्र दूति, एते सत्ता- मावस्यात्मनो महतः षड्विशेषपरिणामाः, यत् १८६ पातालदर्शनम् । तत्परमविशेषेभ्यो लिङ्गमात्र महत्तत्त्वं तस्मिन्नते सत्तामावे महत्यात्मनि अवस्थाय विवृद्धिकाष्ठा. मनुभवन्ति, प्रतिसंसृज्यमानाश्च तमिन्नेव सत्ता- मावे महति आत्मनि अवस्थाय यत्तत् निःसत्ता- सत्तं निःसदसद् निरसद् अव्यक्तमलिङ्गं प्रधानं तत्प्रतियन्तीति, एष तेषां लिङ्गमात्र: परिणामः, निःसत्तासत्तञ्च अलिङ्गपरिणाम इति, अलिङ्गा- वस्थायां न पुरुषार्षी हेतुः, न अलिङ्गावस्था- यामादौ पुरुषार्थता कारणं भवतीति न तस्याः पुरुषार्थता कारणं भवतीति, न असौ पुरुषा- थकृतेति नित्या आख्यायते, बयाणान्तु अवस्था- विशेषाणामादौ पुरुषार्थता कारणं भवति स चार्यों हेतुर्निमित्त कारणं भवतीति अनित्या आख्यायते, गुणास्तु सर्वधर्मानुपातिनो न प्रत्य- स्तमयन्ते न उपजायन्त व्यक्तिभिरेव अतीता- नागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजना- पापधर्मका व प्रत्यवभासन्त, यथा देवदत्तो दरिद्राति, कस्मात्, यतोऽस्य मियन्त गाव इति, गवामेव मरणात् तस्य दरिद्राणं न खरूप- हानादिति समः समाधिः। लिङ्गमात्रम् साधनपादे योगवात्तिकम् । १९७ ङ्गस्य प्रत्यासन्न तत्र तत्संसृष्ट विविच्यते क्रमा- नतिवृत्तेः, तथा षड़विशेषा लिङ्गसावे संसृष्टा विविच्यन्ते, परिणामक्रमनियमात् तथा तेषु अविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्त, तथा चोक्त पुरस्तात्, न विशेषेभ्यः पर तत्त्वा- न्तरमस्ति इति विशेषाणां नास्ति तत्त्वान्तरपरि- गामः, तेषान्तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥ १६ ॥ व्याख्यातं दृश्यम्, अथ द्रष्टुः खरूपाव- धारणार्थमिदमारभ्यते- गुणात्मको वंशस्तस्य अलिङ्गादिविशेषान्तपर्वचतुष्टयं वीजा- मुरवत् अवस्थामेदाः नात्यन्तं भिन्ना अतो गुणेषु एव सर्वदृश्याना- मन्तर्भाव इति सूत्रकारस्याशयः । कार्ये: कारणानि अनुमीयन्ते इत्याशयेन विशेषादिक्रमेण पर्वगणनम्। तत्र यस्य यस्य अवि- शेषस्य यो यो विशेषस्तमाह। तत्र आकाशेति । आकाशादीनि भूतानि शब्दादितन्मात्राणां शान्तादिविशेषशून्यशब्दादिधर्मक- सूक्ष्मद्रव्याणामतएव अविशेषसंज्ञकानां विशेषा अभिव्यक्तशान्ता- दिविशेषका: परिणामाः, यथाक्रममिति शेषः । तथेति । विशेषा इत्यागामिनान्वयः। मनस इन्द्रियमध्यप्रवेश हेतुगर्भविशेषणं सर्वार्थमिति । सर्वेषां दशेन्द्रियाणामर्था एवार्था यस्येति मध्यमप- दलोपी समासः । मन:सहकारेणैव श्रीवादीनां.शब्दादिग्राहक- त्वादिति। अहवारस्य अविशेषत्वे हेतुगर्भविशेषणम् । अस्मिता- लक्षणस्येति । अभिमानमात्रधर्मकस्य श्रवणस्पर्शनदर्शनादिरूप- - १८८ पातजलदर्शनम् । विशेषरहितस्याहारस्येति शेषः । पिण्डीकृत्य विशेषपर्वोपसं- हरति । गुणानामिति । एवं पञ्चभूतैकादशेन्द्रियगणः षोड़शसं- ख्याको गुणानां विशेषाख्यः परिणाम इत्यर्थः । ननु इन्द्रियवत् तन्मात्राणिं अहङ्कारस्य विशेषाः कथं नोताः शब्दस्पर्शादिविशेष- वत्त्वादिति चेन्न। विशेषमात्रस्यैवात्र विशेषपरिभाषणात् तन्मा. वाणि तु भूतानामविशेषा अपि भवन्तीति। अविशेषपर्व व्या- चष्टे । षड़विशेषा इति। षड् गणयति । शब्दतन्मात्रमित्या- दिना अस्मितामात्र इत्यन्तेन । एकदितीति। लक्ष्यतेऽनेन इति लक्षणं धर्म: तन्मात्राणां द्रव्यत्वलाभाय लक्षणपदं तथा चोत्तरो- त्तरतन्मात्रेषु पूर्वपूर्वतन्मात्राणां हेतुत्वात् शब्दतन्मात्रं शब्दमात्र- धर्मकं तत्वार्यतया स्पर्शतन्मात्र शब्दस्पर्शाभयधर्मकम्, एवं क्रमेण एकैकलक्षणधर्महद्धिरित्यर्थः । एतेषु च मात्रशब्दैः शा- न्तादिविशेषस्यैव व्यावृत्तिनं तु गुणान्तरसम्पर्कस्य एकदिवादि- लक्षणत्ववचनात्। तन्मात्रायविशेषाणि अविशेषास्ततो हि ते। न शान्ता नापि घोरास्ते न मूढ़ाश्चाविशेषिणः । इति विष्णुपुराणाञ्चेति । ननु तन्मात्रेषु परस्परं कार्यका- रणभाव सिद्ध एव कारणगुणक्रमणोत्तरोत्तरं गुणवृद्धिः सेत्स्यति तत्रैव तु किं प्रमाणं श्रुतिस्मृत्योः स्थूलभूतेषु एव आकाशादिक- मेण कारणतासिडे रिति चेत्, आकाशादिस्थूलभूतेभ्यो वायाधु- त्यत्तिदर्शनेन सूक्षोऽपि भूते तथा कार्यकारणभावकल्पनस्यौ चित्यमिति। एतानि च तन्मात्राणि तामसाहकारात् शब्दादि- क्रमेणोत्पद्यन्त इति बोध्यम् । अस्मितामानोऽभिमानवृत्तिकः, तेन इन्द्रियमावापबाहकारव्यात्तिः। एते सत्तामात्रस्येति। सत्ता विद्यमानता व्यक्ततेति यावत् । व्यक्ततामावं महत्तत्त्वमा- यकार्यत्वात् । प्रलये हि सर्व विकारद्रव्यम् अतीतानागतरू;

साधनपादे योगवार्तिकम् । १८८ पाभ्यामेव तिष्ठति न तु विद्यमानतया, अत आद्यविकारोऽङ्गुर- वद् यो महान् सर्गादौ सत्तां लभते स सत्तामात्रमुच्यते। स च ससामान्यतया सत्तामात्रमुच्यते सदिशेषाणामहङ्कारादीनां तदानीमभावात्। अतएव यास्कमुनिना जन्मादिषड्भावविका रमध्ये जन्मोत्तरमस्तितैव विकार उक्तः । तथा च संसारवृक्ष- स्थास्तितामात्रपरिणामो महत्तत्त्व वृद्धिपरिणामस्तु अहङ्कारा- दिरिति। एवम्भूतस्य सर्वविकाराणामात्मनः स्वरूपस्य महतो महत्तत्त्वस्य बुद्धयाख्यस्य परिणामाः षट् अविशेषसंज्ञका इत्यर्थः अविशेषत्वं च सामान्यत्वम् । यद्यपि षोड़शविशेषाणां सामान्यत्वं महत्तत्त्वप्रकृत्योरप्यस्ति तथापि अविशेषशब्दः पङ्कजादिशब्दवत् योगरूढ़ः षट्स एवेति। अत्र षण्मध्ये तन्मात्राणां बुद्धिपरि- णामित्वमहङ्कारहारैव मन्तव्यं सूक्ष्म विषयत्वं चालिङ्गपर्यवसान- मिति सूत्रे भाष्येण तथा व्याख्यातत्वादिति । लिङ्गमाचपर्व व्याचष्टे । यत्तत्परमिति । अविशेषेभ्यो यत्परं पूर्वोत्पन्न वंशस्य उद्भित्पर्ववज्जगदडुरो महत्तत्त्व तल्लिङ्गमात्रमित्यर्थः । लिङ्ग- मखिलवस्तूनां व्यञ्जकं तम्मानं महत्तत्त्वम् । महत्तत्त्वं हि स्वय- म्भोरादिपुंसः कार्यब्रह्मण उपाधिभूतं सर्गादौ सर्व जगद्भासय- देवोदेति सुप्तोत्थितचित्तवत् । ज्ञानातिरिक्तस्तु व्यापारः पश्चा- देव अहङ्कारादुत्यत्रो भवति अतो लिङ्गमात्रमित्युच्यते । तथा च स्मृतिः। ततोऽभवन्महत्तत्त्वमव्य तात् कालचोदितात् । विज्ञानात्मात्मदेहस्थ विश्वं व्यजंस्तमोनुदः ॥ इति। कश्चित्तु लयं गच्छतोति लिङ्गपदस्यार्थमाह। तत्तु प्रमाणादर्शनादुपेक्षितम् । अहङ्कारादेरपि लयगमनेन महत्तत्त्व मात्रे लिङ्गमात्र प्रयोगानौचित्याच्च । तथा लिङ्गमात्रमिति मात्र शब्दार्थानुपपत्तेथति। तस्मिंस्तत्त्वे महच्छब्दप्रयोगवीजम् अह- २०० पातञ्जलदर्शनम् । काराद्यखिलविकाराधारत्वमाह। तस्मिन्निति। तस्मिन् सूक्ष्म- रूपे ते पूर्वोक्ता अविशेषविशेषाः पदार्थाः अवस्थया अनागताव- स्थया स्थित्वा उत्तरोत्तरवंशपर्वाणीव विवृद्धिकाष्ठां स्थावरजङ्ग- मतां प्राप्नुवन्ति महान् प्रादुरभूद् ब्रह्मा कूटस्थो जगदगुरः । इति स्मृतः। तथा प्रतिसंसृज्यमानाः प्रलीयमानाश्च ते तस्मिन्नेव अवस्थया अतीतावस्थया अनुगता भूत्वा तेनैव सह यत्तत्प्रसिद्धसाम्यावस्थगुणत्रयरूपमलिङ्गं तत् प्रधानाख्यमूलका- रणं प्रतियन्ति प्रकृती लोयन्त इत्यन्वयः। एतेन महत्तत्त्वोपा. धिकस्य कार्यब्रह्मणोऽपि जगत्सृष्टिस्थितिलयहेतुत्वं प्रसङ्गाद व्याख्यातम् । प्रधानस्यालिङ्गत्वोपपादनाय अव्यक्तमिति विशेषणं, स्वयमव्यततया न परस्य व्यञ्जकमित्यलिङ्गमित्याशयः । पुरुषा- त्यराभिमतशशशृङ्गादिभ्यश्च व्यावर्तनाय निःसत्तासत्त विशेष- णम्। निर्गते पारमार्थिक सत्तासत्ते यस्मादिति विग्रहः । कूट- स्थनित्यत्वादि पारमार्थिकं सत् । सतोऽस्तित्वं च नासत्ता नास्तित्वे सत्यता कुतः तस्मान विज्ञानमृतेऽस्ति किञ्चित् क्वचित् कदाचिट्विज ! वस्तुजातम् । यच्चान्यथात्वं दिज ! याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥ इति गारुड़वैष्णवादिवाक्य भ्यः असत्तासामान्यामावस्यैव पारमार्थिकसत्तात्वसिद्धेः, तच्च सत्त्वं प्रधाने नास्ति महदाद्य- खिलविकाररूपैः प्रलयेषु असत्त्वात् । सूक्ष्मदृष्ट्या तु परिणमि. तया प्रतिक्षणं तत्तधर्मरूपेणापायाच्च। तथा च श्रुतिस्मृतयः 'चैतन्यं चिन्मानं सत्' 'क्षणं न सन्तिष्ठति जीवलोकः क्षयोद- याभ्यां परिवर्तमानः' इत्याद्या इति। यथा च सत्तया वर्जित- ॥ साधनपाद योगवार्तिकम् । २०१ मेवासत्तयापि पारमार्थिक्या वर्जितं सत्तासामान्याभावस्यैव पार- मार्थिकासत्त्वात् । तच्च प्रधाने नास्ति नित्यत्वादर्थक्रियाकारि- त्वात् श्रुतिस्मृत्यनुमानसिहत्वाच्च। इस्थमेव च सदसद्भग्रामनि- वचनीयं त्रिगुणात्मक मायाख्यं प्रधानमिति वेदान्तसिहान्तोऽ- प्यवधारणीयः । नासद्रूपा न सद्रूपा माया नैवोभयात्मिका। सदसयामनिर्वाच्या मिथ्याभूता सनातनी इति आदित्यपुराणादिषु मायाख्यप्रकृते: पारमार्थिकसत्त्वा- दिरूपेण अनिरूप्यत्ववचनात् । न तु प्रपञ्चस्य अत्यन्ततुच्छता अत्यन्तविनाशिता वा वेदान्तसिद्धान्तः 'नाभाव उपलब्धेः' 'भावे चोपलब्धेः' इति वेदान्तसत्वाभ्यामेव अत्यन्ततुच्छताया निरा- करणात् । 'सत्त्वाचावरस्य' 'असहापदेशादिति चेत्र धर्मान्त- रेण वाक्यशेषात्' वैधाच्च 'न स्वप्नादिवत्' इत्यादि यथाश्रुत- वेदान्तसूत्रेभ्यः प्रपञ्चस्य सदसदूपताया असिद्देश्च । धर्मान्तरेण अतीतानागतधर्मेण । शास्त्रेषु स्वप्नादिदृष्टान्ताच क्षणभङ्गरत्व- पारमार्थिकासत्त्वांशेनैवेति बोध्यम् । न हि स्वप्नगन्धर्वनगरादयो ऽप्यत्यन्तासन्तः स्वप्नादावपि साक्षिभास्यमानसपदार्थाभ्युपग- मात् । अन्यथा ‘सन्ध्ये सृष्टिराह हौति' वेदान्तसूत्रेणैव स्वप्ने मृध्यवधारणं विरुध्ये त न स्वप्रादिवदिति वेदान्तसूत्रञ्च जाग्रत्- प्रपञ्चस्य केवलमानसत्वमेव निराकरोति । एतेन स्वप्रादिदृष्टान्तैः प्रपञ्चस्य मनोमावत्वाभ्युपगमी नवीनवेदान्तिनामपसिहान्त एव। वेदान्तसूत्रेणापि स्वप्रतुल्यत्वाभावनिर्णयात्। तस्मात् यथोलमेव प्रपञ्चस्वासत्त्वं ब्रह्ममीमांसाया अपि सिद्धान्त: समा- मतन्त्रसिद्धत्वाचेति दिक्। कचित्त अत्र उत्तरविशेषणे चार्थकि- याकारित्वमेव सत्त्व विवक्षितं तच्च प्रलये प्रकृतितहिकारयो- मौस्तीत्याह। तब। ईखरान्यपुरुषस्याप्येवससत्तया तया- २०२ पातञ्जलदर्शनम् । त्यसम्भवात् । जीवेष्वपि हि विषयप्रकाशनव्यापारोपरम एवा- सत्ता लयः स्वाप प्रलयेऽस्तोखरप्रकरणे श्रुतिस्मृतिषु प्रसिद्ध इति प्रधानस्य पारमार्थिकसदसत्त्वाभावोपपत्तये तविकाराणामपि पारमार्थिक्यौ सदसत्ते न स्त इति प्रतिपादयितुं प्रधानस्य विशे. षणान्तरं निःसदसदिति । निर्गते सदसती यस्मादिति विग्रहः । निःसविरसदिति पाठेऽप्ययमेवार्थः । प्रधानवृत्ति हि यहिकार- जातं तत्यारमार्थिकसन्न भवति परिणामित्वेन खधर्मः प्रतिक्षण- विनाशात्। आद्यन्तयोळक्त्यवस्थयाप्यसत्त्वाच्च। 'वाचारभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्। 'अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत !। अव्यक्तनिधनान्येव तत्र का परिदेवना' इत्यादिश्रुतिस्मृतयश्च विकाराणां नित्यतारूपं सत्त्वं निराकु- वन्ति । अत्र च श्रुतौ विकाराणामाद्यन्तयोर्नाममात्रावशेषत्वेन अस्थिरतयैव तदपेक्षया स्थिरत्वरूपं मत्यत्वं कारणस्य विवक्षि- तम् । 'नित्यो नित्यानां सत्यस्य सत्य'मिति श्रुत्यन्तरे तादृशार्थ- सिद्धेः। न पुनर्विकाराणामत्यन्ततुच्छता मृद्विकारस्य ब्रह्मवि- कारदृष्टान्तत्वानुपपत्तेः । न हि लोके मृविकारस्यात्यन्ततुच्छत्वं सिद्धमस्ति येन ब्रह्मकार्यप्रपञ्चतुच्छत्वे दृष्टान्तता तस्य स्यादिति। यथा प्रधानत्तिकार्यजातमत्यन्तसन भवति एवमत्यन्तासवपि न भवति अतीतानागतादिरूपैः सदा सत्त्वात् । 'तडेदं तमं- व्याक्कतमासीत्। भासौदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतळमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ इत्यादिश्रुतिस्मृतिभ्य इति। नन्वेवं सविकारस्य प्रधानस्य सदसत्त्वप्रतिषेध सति प्रकृतेः सदसदात्मकताप्रतिपादक श्रुतिस्मृ- तिशतव्याकोप: सदनबाधाबाधाभ्यामिति सांख्यसूत्रविरोध- श्चेति। मैवम् । तथाविधवाक्यानां व्यक्ताव्यक्तरूपव्यावहारिक- । साधनपादे योगवार्त्तिकम् । २०३ सदसत्तापरत्वात्। सांख्यसूत्रे च बाधाबाधौ रूपभेदेन सार्वका- लिकाविति । तदुक्तं जगन्मयो धान्तिरियं न कदापि न विद्यते । विद्यते न कदाचिच्च जलवुडुदवत् स्थितम् ॥ इति । भ्रान्तिरिति पारमार्थिकभ्रममाश्रित्य ज्ञानन्ययो- रमेदविवक्षयोक्तम् । अतएव गौतमसूत्रं 'तत्त्वप्रधानभेदाच मि- च्याबुद्धे विध्योपपत्ति'रिति। तात्त्विकमिथ्याबुदिरनित्यपदार्थ- ज्ञानं प्रधानं मिथ्याज्ञानं प्रसिद्धमिथ्याज्ञानं भक्तिरजतादिज्ञान- मिति। पारमार्थिकधमलक्षणं च तदभाववति तनकारत्वम- सहिषयकता वा तदुभयमपि परिणामिनित्यपदार्थबुद्धिषु अप्यस्तौति, व्यावहारिकपारमार्थिकभेदेन सत्तादिदैविध्यञ्च विष्णुपुरणादिषु प्रसिद्ध यथा सद्भाव एषो भवते मयोतो ज्ञानं यथा सत्यमसत्यमन्यत् । एतच्च यत् संव्यवहारभूतं तथापि चोक्तं भुवनाश्रितं तत् ॥ इति । हतीया च लोकसिद्धा प्रातिभासिक्यापि सत्ता शुक्ति- रजतवाप्रपदार्थानां मनोमात्रपरिणामानामिति। यत्तु पर- मात्मचैतन्यस्यैव सत्त्वं न तु जीवचैतन्यानामपि इति वेदान्तर- हस्यं 'नान्योऽतोऽस्ति दृष्टा श्रोता मन्ता बोद्धे'त्यादि श्रुति- सिद्ध तनु लयशून्यत्वरूपामतिपारमार्थिकसत्तामभिप्रेत्यैव बो- ध्यम्। प्रलये हि परमात्मनि प्रकृतिपुरुषयोापारोपरमरूपो लयो भवति । प्रक्वतिः पुरुषचोभौ लीयेते परमात्मनीत्यादि- वाक्येभ्यः, परमात्मा च सदा जाग्रत्खरूपतया लयशून्य इति स एव परमार्थसब प्रक्ततिपुरुषौ इति वेदान्तमहावाक्यमर्यादा। एतेन सदसत्त्वयोर्विरोधादेकवासम्भव इत्यपि अपास्तम्। व्यव- हारपरमार्थभेदेन कालभेदेन अवच्छेदभेदेन स्वरूपमेदेन प्रकार- भेदेन च तयोरविरोधादिति। तदेवं श्रुतिन्यायसिद्ध सत्यत्व- २०४ पातञ्जलदर्शनम्। मिथ्यात्वविभागमविदुषामाधुनिकवेदान्तिबुषाणां प्रपञ्चात्यन्ता- सत्यत्वादिरूपा अपसिद्धान्ता नास्तिकमतानुसारिणो मुमुक्षु- भिटूरत: परिहरणीयाः समानन्यायेन अन्यत्र सिद्धान्तानामेव ब्रह्ममीमांसासिद्धान्तत्वादिवि सर्व समन्त्रसम्। लिङ्गमावपरि- णाममुषसंहरति। एष तेषामिति। तेषां गुणानामित्यर्थः । अलिङ्ग पर्व व्याचष्टे। निःसत्तासत्त' चेति। नि:सत्तासत्तमि- त्युक्तो यः पदार्थ: सोऽलिङ्गनामा गुणानां परिणामः स च मा- म्यावस्थानामको गुणेभ्योऽतिरिक्त इति तस्य गुणपरिणामत्वमुप- पद्यते । तस्याञ्च साम्यावस्थायां प्रधानवाचिशब्दो धर्मधर्म्यभेदेन महदादिव्यावृत्त्वर्थमेवान श्रुतिस्मृत्योश्च प्रयुज्यते। परमार्थतस्तु गुणा एव तदुपलक्षिता: प्रधानम् । भाष्य गुणानामेव प्रधानत्व- स्योक्तत्वादिति । इदानीं पर्वणां गुणानाञ्च परस्परवैधयमदी व्युत्पादनीय: तत्रादौ अलिङ्गावस्थारूपस्य पर्वण: प्रर्वत्रयाद्गु- णेभ्यश्च वैधयं प्रतिपादयति । अलिङ्गावस्थायामिति। पुरुषार्थो विषयभोगविवेकख्याती तत्कायौं सुखदुःखाभावी च स पुरु- षार्थो नालिङ्गावस्थां प्रति हेतुः यतोऽलिङ्गावस्थायामादौ सृष्टः प्राक् पुरुषार्थता पुरुषार्थसमूहः कारणं कारणत्वाभिमतो नोप- पद्यत इत्यर्थः । दुःखनिवृत्तिव्यावर्त्तनाय कारणमित्युक्तम् । प्रल- यकाले दुःखनिवृत्त : कर्मक्षयादेवोपपत्तेः प्रलयाप्रयोजनतया दुःखनिवृत्ति: प्रलयकारणं न भवतीत्याशयः । उपसंहरति । न तस्या इति । एतदुक्तं भवति। व्यक्तावस्थायां गुणेभ्यः शब्दाद्युप- भोगादिरूपः पुरुषार्थो जायते अतः स तस्यामनागतावस्थ: कारणं मवतु साम्यावस्थायान्तु न तज्जन्यः कश्चन पुरुषार्थोऽस्तीत्यतो नास्त्राः पुरुषार्थः कारणमिति । एतावता किमित्यत आह । न असौ पुरुषार्थकतेति । नित्या व्याख्यायत इति। शास्त्र षु इति प्रोषः। नित्या स्वावाविकी अनैमित्तिकत्वेन पर्वत्रयापचया साधनपादे योगवार्तिकम् । २०५ खिरा स्वाभाविकत्वेऽपि धर्मादिभिः प्रतिबन्धान गुणानां साम्य- रूपः परिणाम इति भावः। अव्यक्तावस्थायाश्च स्वाभाविकत्वेन व्यक्तावस्थापेक्षया बहुकालावस्थायित्वमेव नित्यत्वं सत्यत्वापर- नामक व्यवहारे सिद्धम्। 'धर्मो नित्यः सुखदुःखे त्वनित्ये' इत्यादिभारतादिव्यवहारात्। ईदृशनित्य वं च गीतादिषूक्तम् । अव्यक्तादीनि भूतानि व्यतमध्यानि भारत !। अव्यक्तनिधनान्येव तत्र का परिदेवना॥ इत्यादिभिरिति। अथ वा सर्वदा सत्त्वरूपं नित्यत्वभवापि अवार्थोऽस्तु सर्गेऽपि गुणसाम्यस्यात्यन्ततोऽनुच्छेदात् । अंशत एव वैषम्येण आवरणरूपस्य गुणसाम्यस्य सर्वदा सत्त्वात् । अन्यथा साम्यावस्थाया अत्यन्तोच्छेदे पर्वत्वानुपपत्तेश्च । अनेन हि सूत्रेण । ऊर्द्धमूलमधःशाखम् इत्यादिगोताम् अव्यक्तमूलप्रभव इत्यादिमोक्षधर्मादिकञ्च अनुसृत्य संसाररूपो गुणवृक्ष एव चतु- पर्वतया निरूपितः । तस्य च वंशतुल्यस्य गुणवृक्षस्यावरणानां पूर्वपूर्वतत्त्वानामंशत एवोत्तरतत्त्वरूपेण परिणामो भवति समुद्र- स्थांशतः फेनादिरूपतावत् म तु दना दुग्धस्येव पूर्वपूर्वतत्त्वस्य सर्वाचन परिणाम उत्पन्न कार्यस्थ कारणेन पुनरापूरणार्थ तु कारणानां स्वकार्यावरकतया अवस्थानं सिध्यति। तस्मात् सर्गकालेऽपि वहिरलिङ्गावस्थावस्थानात् तस्या निव्यत्वमिति । ननु प्रकृतिमादाय अष्टौ एवावरणानि ब्रह्माण्डस्य श्यन्ते न तु तन्मात्राण्यपीति चेन्न। सूक्ष्मस्थूलयोरेदादविवक्ष्या अष्टधा आवरणवचनात् अतएव भागवतद्वितीयस्कन्धे परब्रह्मगती पञ्चभूतानां वहिस्तन्मात्रावरणे गतिरुता। इन्द्रियाणि च अका- रणत्वाबावरणानि तेषामुत्पत्तिस्तु तन्मात्रसमानदेशा. यथा तिल, समानदेशा सूक्ष्मतैलोत्पत्तिरिति दिक् । इतरस्मिन् अवस्थाये वनित्यत्वरूपं वैधय॑माह। त्रयाणामिति। आदी उत्पत्ती १८ २०६ पातञ्जलदर्शनम्। उपादानकारणत्वव्यवच्छेदार्थमाह। स चार्थ इति । अभिला त्रिधा अवस्थेति शेषः, शेषं सुगमम् । पर्वसु नित्यानित्यत्वरूपं वैधय॑ मुक्ता पविणां गुणानां पर्वभ्यो वैधय॑ माह । गुणास्त्विति। गुणास्तु सत्त्वादयः । सर्वविकारेषु अनुगता अत उत्पत्तिविनाश- शून्या अनुपचरितनित्या इत्यर्थः । अलिङ्गावस्थापि हि नैवं नित्येति। ननु त्रिगुणात्मकप्रकृतेर्नित्यत्वे प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः। क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ तस्मादव्यतामुत्पन्न त्रिगुणं दिजसत्तम !। इत्यादिस्मृतिषु प्रकृतेर्व्ययोत्पत्तिवचनं कथमुपपद्येत तबाह । व्यक्तिभिरेवेति । गुणान्वयिनीभिगुणधर्मः कार्यव्यक्तिभिरवाती- ताद्युपचयान्तपरिणामवतीभिर्हेतुभिर्जन्मविनाशवन्त इव ते गुणाः प्रतीयन्ते कार्यकारणविभागात् न तु तेषां खतो जन्मविनाशी स्त इत्यर्थः । तथा च स्वानुगतानां व्ययादिनैव गुणात्मकप्रकृते- ययादिव्यवहार इत्याशयः । परिणामस्तु प्रकृतेः, पारमार्थिकत्वे सति व्याप्यानामुत्पत्तिविनाशयोः व्यापकेषु व्यवहारे दृष्टान्त- माह। यथेति। दरिद्राति क्षीणो भवति। इति समः समान धिरिति। इदं समाधानं दार्शन्तिकेऽपि समानमित्यर्थः। ननु तथापि प्रकृतेनित्यत्वं नोपपद्यते 'भूयश्चान्त विश्वमायानिवृत्तिः' 'प्रकृतिः पुरुषयोभौ लौयेते परमात्मनि' इत्यादिवाक्य भ्य इति चेत्। दत्तोत्तरत्वात् कार्यविनाशेन तत्रापि तन्निवविवचनात् । व्यापारोपरमाख्यलयस्यैव पुरुषसाहचर्येण तनावधारणाच्च । वियोजयत्यथान्योन्यं प्रधानपुरुषावुभौ। प्रधानपुंसोरनयोरेष संहार ईरितः ॥ इति कौर्मवाक्याच्च। अन्यथा न्यायानुग्रहण बलवतीभिः प्रकृतिनित्यताश्रुतिभिर्विरोधाच्च। एवमेव प्रकृतिपुरुषयोः पुरा, साधनपाद योगवार्तिकम्। गेषु श्रूयमाणोत्यत्तिरन्योन्यसंयोगेनाभिव्यक्तिरेव बोध्या । संयो- गलक्षणोत्पत्तिः कथ्यते कर्मजा तयोरिति स्मृतेः । तथा चोक्तम् । न घटत उद्भवः प्रकृतिपुरुषयोरजयो- रुभययुजा भवन्त्य सुभृतो जलवुहुदवत् । त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधनि लिल्युरशेषरसाः ॥ इति। इदानी प्रकृत्यादौन् स्वस्वकार्येरनुमापयितु पर्व- शब्दसूचितमलिङ्गादीनामविरलक्रमं दर्शयति लिङ्गमाव- मिति । प्रत्यासत्रमव्यवहितकार्यम् । तत्रेति । तत् हि लिङ्गमात्र तवालिङ्गे अलिङ्गावस्थप्रधान अध्यक्तरूपेणाविभक्तमित्यतस्ततो विविच्यते विभक्तं भवति । तत्र हेतुः क्रमति । क्रमस्य पौर्वा- पर्ययस्य कदापि अनतिक्रमादित्यर्थः । यदि हि कारणे हि अना. गतावस्थाभिरसतामप्य त्पत्तिः स्यात् तईि अविशेषात् सवें सर्व- वोत्योत तथा अतीतमप्यु त्पद्येत । न च प्रागभावः कारणम् । अभावस्थासिद्धः। किञ्च अभावस्य निमित्तकारणत्वाभ्युपगमे तस्यैवोपादानकारणत्वमपि स्यात्, तथाच जितं शून्धवादिभिः । अथाभावस्योपादानत्वं न दृष्टमिति चेत्, तुल्यं निमित्तत्वेऽपि। अत उपादानतावनिमित्तत्वमपि नामावस्य । तस्मात् कार्यजनन- शक्तिरेव अनागतावस्थारूपिणी कार्यरूपेण परिणमत इति । सदनेन भाष्येण सत्कार्यवादः प्रसाधितः। तथेत्याद्यप्य वं व्या- ख्येयम्। महदादिभिः प्रकत्याद्यनुमानप्रकारश्च सांख्यसूत्रैरुती- ऽस्माभिरपि तद्वाथे प्रपञ्चितो विस्तरभयात्तु नेह प्रस्तूयत इति । तथा चोक्तम्। पुरस्तादिति । यथा अविशेषेभ्योऽवान्तरभेद- भिवा विशेषा जायन्ते तथा पुरस्तादस्यैव सूवस्यादौ उक्तमि- त्यर्थः । ननु कथं गुणपर्वणां चतुधी विभागः सूत्रकारेण कृतः ब्रह्माण्डस्थावरजङ्गमरूपैः पर्वणामानन्त्यादित्याशय ब्रह्माण्डाः २०८ पातञ्जलदर्शनम् । दीनां सर्वेषां विशेषकार्याणां विशेषेषु एव अन्तर्भावमाह। न विशेषेभ्य इति। विशेषेभ्यः परमुत्तरभावि तत्त्वान्तरं तत्त्वभेदः नास्ति अतो विशेषाणां तत्त्वान्तरपरिणामो नास्तीत्यर्थः। अतो ब्रह्माण्डादिकं सर्व विशेषपर्वणैव ग्टहीतमिति भावः। तत्त्वत्वं च द्रव्यत्वं तत्त्वान्तरस्वञ्च वाहत्तिद्रव्यत्वसाक्षायाम्यजातिम- त्त्वम् । पञ्चविंशतितत्त्वेषु पञ्चविंशतिजात्यनङ्गीकार च तत्त्वा- न्तरत्वं स्वात्तिद्रव्यविभाजकोपाधिमत्त्वमिति । ननु एवं तत्त्वमे- दात् कथमन्तःकरणस्यैकत्वं तत्र तत्रोक्तं घटेतेति। उच्यते । यथा विशेषाख्यपञ्चतत्त्वात्मिका एकैव पृथिवी प्रागुत्पद्यते ततः तस्याः खननमन्यनादिना पार्थिवे जलतेजसी अभिव्यक्तमात्र भवत एवं तत्त्वत्रयात्मक एवादी महान् जायते पश्चाच्च तस्याह- कारादित्तिभेद इति । तहि किं विशेषाणां परिणामा एव न सन्ति, नेत्याह। तेषां विति। व्याख्यास्यन्त इति। सूत्रकार- णोत्तरपाद इति शेषः। स्यादेतत् । महदादिक्रमणोत: सृष्टि- प्रकार आकाशादिक्रमबोधकश्रुतिविरोधात् हेयः श्रुतौ तमा- वाद्यश्रवणेन ते पदार्थाश्च कल्पिताः मन्वादिस्मतयच सांख्यक- ल्पनानुवादेन धर्मादिपरा एव न प्रकृत्यादिपरा इति न स्मृति- भिरपि प्रकृत्यादिसिद्धिरिति । अत्रोच्यते। गुणत्रयात्मिका प्रक- तिस्तावत् मूलकारणतया मैत्रेयोपनिषदि श्रूयते। यथा। 'तमो वा इदमेकमास तत्परं स्यात् तत्परणेरितं विषमत्वं प्रयाति एतदै रजसो रूपं तद्रजः खलु ईरितं विषमत्वं प्रयाति एतदै सत्त्वस्य रूपं तत्सत्त्वमेव ईरितं तमसः सम्प्रास्रवत् तत्सां. शोऽयं यतामात्रः प्रतिपुरुष क्षेत्रन्नः सङ्कल्पाध्यवसायलिङ्गः प्रजापतिस्तस्य प्रोक्ता अस्यास्सनवो ब्रह्मा रुद्रो विष्णु रित्यादि। तथा गर्भोपनिषदि चतुर्विंशतितत्त्वानि अनेन क्रमेणोक्तानि, यथा। 'अष्टौ प्रकृतयः षोड़शविकाराः शरीर' इति । तथा साधनपादे योगवार्त्तिकम्। २०८ प्रश्नोपनिषदि च। ‘एवं ह वैतत्सर्व परे अात्मनि सम्प्रतिष्ठते पृथिवी च पृथिवीमावा च आपश्चापोमावा च तेजश्च तेजोमावा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च' इत्यादिना परमात्मनि सर्व वयोविंशतितत्त्वं तिष्ठति समुद्र नदनदीवदि- त्युक्तम् अत: चतुर्विंशतितत्त्वानि प्रत्यक्षश्रुत्या स्मृत्यनुमेयश्रुत्या च सिहानि। अबैत श्रुतिस्तु न तासां बाधिका व्यवहारपरमार्थ- भेदेन विषयभेदात् । व्यावहारिकाहैत श्रुतीनां च अविभागलक्ष- गाभेदपरताया एव नदीसमुद्रादिदृष्टान्तैरवगमादिति । तेषाञ्च महदादीनां सृष्टिक्रमोऽपि श्रुतौ पाठक्रमादवधार्यते। एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुोतिरापः पृथिवी विश्वस्य धारिणी ॥ इत्यादिषु । यच्च तैत्तिरीयके वियदादिसृष्टिः श्रूयते तत्र वियतः प्राग्बुयादिसृष्टिः पूरणीया स्मृत्युब्रेयश्रुत्येकवाक्यतया छान्दोग्य वियहायुपूरणवदिति। किञ्च सांख्योक्तसष्टिक्रमे स्पष्टव श्रुतिरस्ति । यथा गोपालतापनीये। 'एकमेवाद्वितीय ब्रह्मासीत् तस्मादव्यक्तमेवाक्षरं तस्मादक्षरान्महत् महतो वै अहसारस्तम्मादेवाहङ्कारात् पच्च तन्मात्राणि तेभ्यो भूतादीनि' इति। वेदान्तसूत्रैरपि बुड्यादिक्रमेणैव सृष्टिरुक्ता तत्र नवी- नानां कुव्याख्या च अस्माभिस्तद्भाष्य एव अपास्तेति। तदेव सांख्यशास्त्र प्रपञ्चितानि चतुर्विशतितत्त्वानि अत्र संक्षेपतः सूत्रहयेनोक्तानि। एतेषां च स्वरूपादिकं तत्रैव प्रदर्शितं संक्षे- पतस्तु अत्राप्युच्यते। पञ्च भूतानि एकादशीन्द्रियाणि च प्रसि- द्वानि एव तन्मात्राणि भूतानां साक्षात् कारणानि शब्दादिमत्- सूक्ष्मद्रव्याणि अतस्तानि सूक्ष्मभूतान्यपि क्वचिदुच्यन्ते। महदह- शारौ च मोक्षधर्मे लक्षितौ। यथा ।

२१० पातञ्जलदर्शनम् । हिरण्यगर्भी भगवानेष बुद्धिरिति स्मृतः । महानिति च योगेषु विरिञ्चिरिति चाप्य त ॥ धृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना। तथैव विश्वरूपत्वाविश्वरूप इति श्रुतः ॥ एष वै विक्रियापन्नः सृजत्यात्मानमात्मना। अहकार महातेजाः प्रजापतिमहङ्कृतम् ॥ इत्यादि। अत्र चोपासनार्थ शक्तिशक्तिमदभेदेनोपाध्यो - मादिकमुषाधिमत्त्वेन तयोरुक्तं मनुष्यपश्खादिनामरूपादिवत् । स्मृत्यन्तरेषु सांख्ययोगयोश्चाविवेकतो जड़वस्तुन्येव तयवहारः । ज्ञानवर्यादिरूपमहत्तत्त्वस्याभिमानरूपाहङ्कारस्य चान्तःकरण- धर्मत्वादिति । प्रकृतिस्तु त्रयोविंशतितत्त्वकारणानि सत्त्वादि- नामकसूक्ष्मद्रव्याणि असंख्यानि गुणशब्दश्च तेषु पुरुषोपकरण- वात् पुरुषबन्धकत्वाच्च प्रयुज्यते । तच्च गुणत्रयं सुखदुःखमोह- धर्मकत्वात् सुखदुःखमोहात्मकमुच्यते। पुरुषाणां सर्वार्थसा- धकत्वात् राजामात्यवत् प्रधानमुचते जगदुपादानत्वात् प्रकृति- जगमोहकत्वाच्च माया इत्युच्यते । वैशेषिकादिभिश्च स्वस्त्रपरि- भाषया परमाण्व ज्ञानादिशब्देश्वोच्यते इति तदुक्तं वाशिष्ठ । नामरूपविनिर्मुक्तं यस्मिन् सन्तिष्ठते जगत् । तमाहुः प्रकृति केचिन्मायामेके परे त्वणून् ॥ इत्यादिनेति। एषु च त्रयोविंशतितत्त्वानि सर्गादौ स्थूल- सूक्ष्मशरीरदयरूपेण परिणमन्ते। तत्र स्थूलं पञ्चमूतेभ्यः सूक्ष्म च शेषेभ्यः तयोश्च सूक्ष्म काष्ठवच्चैतन्याभिव्यचकत्वात् पुरुषस्य लिङ्गशरीरमित्युच्यते । तच्च अहङ्कारस्य बुद्धौ प्रवेशात् सप्तदशाव- यवकं सांख्यशास्त्र प्रोक्त 'सप्तदशैकं लिङ्गम्' इति । अत्र एकत्वं समध्यभिप्रायेणोतम् । 'व्यक्तिभेदः कर्मविशेषात्' इत्युत्तरसूत्रेण साधनपाद योगवार्तिकम् । २११ व्यक्तिरूपत एकस्यैव लिङ्गशरीरस्य व्यक्तिभेदवचनात् । अयञ्च व्यष्टिसमष्टिभावो न वनवृक्षवत् किन्तु पितापुत्रवदेव । तच्छरीरसमुत्पन्नः कार्य्यस्तैः करणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥ इति मन्वादिवाक्यैर्हिरण्यगर्मस्य शरीरदयांशैरेवाखिलपुंसां शरीरहयोत्पत्तिरिति सिद्धः। वनवृक्षयोस्तु नैवं कार्यकारण. भावोऽस्तीति दिक। सूत्रान्तरमवतारयति । व्याख्यातमिति । * ट्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥ * दृशिमात्र इति दृक्शक्तिरेव विशेषणापरा- मृष्ट त्यर्थः, स पुरुषो बुद्धेः प्रतिसंवेदी, स बुद्धेर्न सरूपो नात्यन्तं विरूप इति, न तावत् सरूपः, कस्माद, जाताजातविषयत्वात् परिणामिनी हि बुद्धिः, तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्च अज्ञातश्चेति परिणामित्वं दर्शयति, सदा ज्ञात- विषयत्वन्तु पुरुषस्य अपरिणामित्वं परिदीपयति, कस्माद्, न हि बुद्धिश्च नाम पुरुषविषयश्च स्याट् ग्रहीता अग्रहीता च, इति सिद्ध पुरुषस्य सदा ज्ञातविषयत्वं ततश्च अपरिणामित्वमिति, किञ्च परार्था बुद्धिः संहत्यकारित्वात्, खार्थः पुरुष इति, तथा सर्वार्थाध्यवसायकत्वात् विगुणा २१२ पातञ्जलदर्शनम् । बुद्धिः, त्रिगुणत्वाद् अचेतनेति, गुणानान्तु उप- द्रष्टा पुरुष इति, अतो न सरूपः । अस्तु तर्हि विरूप इति। नात्यन्त विरूपः, कस्मात्, ऽपि असो प्रत्ययानुपश्यो यतः, प्रत्ययं बौद्धमनु- पश्यति, तमनुपश्यन्न तदात्मापि तदात्मक इव प्रत्यवभासते। तथा चोक्तम् अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तदृत्तिमनुपतति तस्याश्च प्राप्त- चैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्त्य विशिष्टा हि ज्ञानवृत्तिरित्याख्यायते॥२० दृशिरत्र न गुण: किन्तु प्रकाशखरूपं द्रव्यम् ज्ञानं नैवात्मनो धर्मो न गुणो वा कथञ्चन । ज्ञानवरूप एवात्मा नित्यः सर्वगतः शिवः ॥ इत्यादिस्मृतः । अग्न्योष्णादिषु च भेदाभेदी एव । औष्णया- ग्रहणेऽपि चक्षुषा अग्निग्रहणात् पुरुषस्तु ज्ञानग्रहणं विना न गृह्यत इति । मानशब्देन पूर्वसूत्रोक्तप्रकाशक्रियादिगुणव्यावृत्तिः तेषु एव च सर्वेषां शेषगुणानामन्तर्भाव: शुद्धशब्देन च भूतेन्द्रिया- त्मकत्वव्यावृत्तिः। शुद्धेऽपि बुद्धाभेदनमोपपादनाय शेषविशेष- णम्। अत्र च परिणामित्वपारा.चेतनवादीनि बुद्देरशुद्धिः तद्राहित्यञ्च पुरुषस्य शुद्धिरिति भाष्ये व्यक्तीभविष्यति। प्रत्ययानु- पश्यः प्रत्ययसमानाकारतापन्न इव सन् बुद्धित्तिसाक्षीत्यर्थः । अनेन विशेषेण द्रष्टरि प्रमाणं चोक्तमिति। शुद्धोऽपीत्यादिभागस्य फलान्तरं च भाष्यकारो व्याख्यास्यति। दृशिमात्रशब्दार्थमाह ।

साधनपादे वीगवार्तिकम्। २१३ दृक्शतिरैवेति । प्रलयमोक्षादौ जीवानां दर्शनाख्यचैतन्यफलोप- धानं नास्तीति शक्तिपदोपादानम्। एवशब्दार्थमाह। विशेष- णापरामृष्टेति। विशिष्यते व्यावय॑ते द्रव्यान्तरादेभिरिति विशे- षणानि विशेषगुणाः वैशेषिकशास्त्रोक्ताः तैः कालत्रयेऽपि असम्बदा इत्यर्थः । तेन संयोगसंख्यापरिमाणादिमत्त्वेऽप्यक्षतिः। द्रष्टेति लक्ष्यपद बुद्धिव्यावृत्ततया व्याचष्टे । स पुरुष इति। संवेदिन्या बुद्दे: प्रतिसंवेदी पुरुषः संवेदनमाकारवृत्ति: तस्याः प्रतिसंवेदनं प्रतिध्वनिवत् प्रतिविम्ब यत्र स पुरुष इत्यर्थः । बुद्दे: साक्षीति तु पर्यवसितोऽर्थः । एतेन प्रतिविम्बरूपया आरोपित- क्रियया कल्पितं दर्शनकर्तत्वं द्रष्टत्वमित्यपि सूचितम्। पात्मनी ज्ञानखरूपत्वच यथा दीप: प्रकाशात्मा स्वल्यो वा यदि वा महान् । ज्ञानात्मानं तथा विद्यादात्मानं सर्वजन्तुषु ॥ इत्यादिवाक्यशतानुग्रहेण लाघवतर्कानुग्रहेण च आत्मत्वा- दिरूपव्यतिरक्यादिलिङ्रनुमयं ज्ञानाश्रयत्वकल्पने धर्मधर्मिभा- वापबवस्तुद्दयकल्पनागौरवात्। अहं जानामौतिप्रत्ययस्तु आई गौर इति भ्रमशतान्त:पातितया अप्रामाण्यशङ्कास्कन्दितत्वेन यथोक्तानुमानापेक्षया दुर्बल इति दिक्। बुद्धिपुरुषयोविवेक- प्रतिपादनाय तयोरभेदभ्रमोपपादनाय च तयोर्वरुप्यसारूप्य- प्रतिपादकतया क्रमेण शुद्धोऽपीत्यादिविशेषणहयं व्याचष्टे । स न बुद्धः सरूपो नात्यन्त विरूप इति। पारमार्थिकसारूप्य- स्थाभाव: शुद्धोऽपौत्याद्यदलार्थः । प्रतिविम्बरूपापारमार्थिक- सारूप्यञ्च शेषदलार्थः। तथा च परिणामित्वादिरूपबुद्धिसारू- प्याभाव एव शुद्धिः बुद्दित्तिसारूप्यमेव च प्रत्ययानुपश्यत्वमि. त्यायातम् । सारूप्याभावसारूप्य क्रमेण प्रतिपादयति। न तावदित्यादिना। कस्मादित्यस्योत्तरं परिणामिनी हि बुद्धि- २१४ पातञ्जलदर्शनम् । रिति । परिणामित्वे हैतुनीताज्ञातविषयत्वादिति । ज्ञातत्या- द्युक्तं विवृणोति । तस्याश्चेति। तस्या बुद्धेः चो हेतौ। गवादि- रिति । गोशब्दः शब्दवाची। अतो गवादिघटादिपदाभ्यां धर्मधर्मिसामान्यपरतया धर्मधर्मिरूपाणामशेषाणां बुद्धिविशे- षाणां ग्रहणम् । ज्ञातो वृत्तिव्याच्यस्तदन्यश्चाज्ञातः। दर्शयति अनुमापयतीत्यर्थः । अयं भावः । यदा बुद्धिः परिणामिनी स्यात् तदैव कदाचित् बुद्धिः शब्दाद्याकारा भवति कदाचिच्च न इत्युप- पद्यते। न च पुरुष इव बुद्धौ अपरिणामित्वेऽपि विषयस्य प्रति- विम्बनमेव विषयाकारता अस्तु ततश्च प्रतिविम्बकादाचित्कत्वेन जाताज्ञातविषयत्वमुपपद्यतेति वायम् । स्वप्नध्यानादौ विषया- सान्निध्ये न त प्रतिविम्बासम्भवात्, शास्त्रेषु बुद्धी विषयप्रति- विम्बवचनं तु तत्ससानाकारपरिणाममात्रेण अतो बुद्ध रर्थग्रह. णस्यानित्यतया तस्या अर्थाकारपरिणामोऽनुमीयते इति । बुद्धः परिणामित्वं दर्शयित्वा तदभावं पुरुषे दर्शयति। सदा- ज्ञातेति । सदा ज्ञातो विषयो बुधित्तिरूपो येन तस्य भावः सदाज्ञातविषयत्वं, परिदीपयति अनुमापयति । यदि हि पुरुषः परिणामी स्यात् तदा जाड्यपरिणामेन कदाचित्युरुषस्य विषयो बुद्धिवृत्तिरजातापि तिष्ठेत् ततश्च वर्तमानाया अपि घटादि- वृत्तेरज्ञानसम्भवात् घटादिकं निश्चिनोमि न वैत्यादिसंशयः स्यात्। तथा योग्यानुपलब्धधा घटादिज्ञानाभावनिश्चयश्च न स्यात्। अज्ञातवृत्तिसत्तासम्भवादिति भावः। ननु एतावता भोतु नं परिणामो मा अस्तु सुखादिपरिणमाभावस्तु कथं तेन अनुमाप्यत इति चेत्। उच्यते । शब्दादिनिश्चयरूपस्य परि- णामस्य बुद्धौ सिधव तत्कायाणाम् इच्छाकृतिसुखदुःखादृष्ट- संस्कारादीनां बुद्धिधर्मत्वेनैव सिद्धः। सामानाधिकरण्यप्रत्या- सत्त्या कार्यकारणभावे लाघवादिति। ननु न पुरुषस्यापि साधनपाद योगवार्तिकम् । २१५ इति। सदानातविषयत्वं प्रलयादौ स्वविषयस्य बुद्दिवत्तेरदर्शनादित्या. चिपति। कस्मादिति। समाधत्ते। न हीति । न हि पुरुष- विषयो बुद्दित्तिरपि शब्दादिवत् स्याच तिष्ठेच्च । अथ च अट- होता ग्रहीता च कालभेदेन भवतीत्यर्थः । तथा च मयते । न चिदप्रतिचित्रारित दृश्याभावादृते किल । क्वचिवाप्रतिविम्बेन किलादर्शोऽवतिष्ठते। तथा च प्रलयादी वृत्त्याख्यविषयाभावादेव तां न पश्यतीति भावः । उपसंहरति । इति सिद्धमिति । परिणामि त्ववदेव परार्थत्वापरार्थत्वरूपमपि वैधयं बुद्धिपुरुषयोर्दर्शयति । किञ्चेति। बुद्धिः परार्था खभिन्नस्य भोगादिसाधनं संहत्यकारि त्वात् सहकारिसापेक्षव्यापारकत्वात् शय्याशनशरीरादिवत् । पुरुषश्च स्वार्थः स्वस्य च भोगादिसाधनम् उक्तहेत्वभावात् यन्त्रैवं बत्रैवं यथा स एव दृष्टान्त इत्यर्थः । बुद्धेहि व्यापारो विषयग्न- हणादिरिन्द्रियादिसापेक्ष: शय्यादीनामपि शयनादिकार्य भूम्यादिसापेक्षं, पुरुषस्य सुखादिप्रकाशनं च व्यापार एव न भवति स्वरूपतो नित्यत्वात् । नापि सुखादिसत्त्वे तत्प्रकाशार्थ पुरुषः सहकारिणमपेक्षत इति भावः । बुद्यादेः परार्थत्वे च श्रुतिः । 'न वा अरे सर्वस्य कामाय सर्व प्रियं भवति आत्मनस्तु कामाय सर्व प्रियं भवती'त्यादि। अत्र कश्चित् स्वार्थ इति सा- ध्यस्य न परार्थ इत्यर्थमाह । तन्न। भृत्यचेतनस्यापि स्वामि- चेतनाथ त्वदर्शनात्। परार्थत्वमेव तु परमात्रार्थत्वमिति चेत- नाचेतनत्वरूपं वैधान्तरमाह । तथा सर्वावेति । सुखदुःख- मोहात्मकांस्त्रिगुणान् सर्वार्थान् गृह्वती बुद्धिरपि तदाकारतया त्रिगुणा सत्त्वादिगुणत्रयमयीत्यनुमीयते । त्रिगुणत्वाञ्च पृथिव्या दिवदचेतनेति सिद्धम् । गुणानां तूपद्रष्टा पुरुषो द्रष्टुबुद्धिमान बिध्ये न बुद्दित्तिप्रतिविम्बमात्रतो गुणद्रष्टा भवति न गुणा- २१६ पातञ्जलदर्शनम् । कारपरिणामेन बुद्धिवदिति अतो न स त्रिगुणः, ततश्चेतन इति शेषः। उपसरति । अत इति। अतो वैधयं त्रयान बुद्धि- सरूप: पुरुष इत्यर्थः । एतावता शुद्ध इति व्याख्यातम् । ननु सर्वाभिमान निवृत्त्यर्थ सामान्यत एव दृग्दृश्यविवेकः प्रतिपादा- नीयः तकिमिति बुद्धिपुरुषयोरेव वैषम्य प्रतिपाद्यत इति चेन्न । बुद्धिरेव पुरुषस्य साक्षादृश्या बुयारूढ़तयैव अन्येषां दृश्यत्वात् तस्यामेव साक्षादभिमानः तत्सम्बन्धादेव अन्यत्राभि- मानात्। मृतदेहे सुघुत्यवस्थप्राणे च चैतन्याभावस्य स्पष्टत्वात् । एकैकेन्द्रियघातेऽपि चैतन्योपलब्ध इन्द्रियाणामपि अचैतन्यस्य स्पष्ट त्वात् । अतो बुद्विविवेकादेव सर्वाभिमाननिवत्तिरित्या- शयन बुद्धिवैधर्म्य मेव पुरुषेषु प्रायश: प्रतिपाद्यते । किञ्च बुद्धा- तिरिक्तभ्य आत्मविवेकस्य न्यायवैशेषिकाभ्यामेव सिद्धत्वेन बुद्धिती विवेक एव सांख्ययोगयोरसाधारणं कृत्यमिति। अत्यन्तवैरूप्यं निराकर्तुमुत्थापयति। अस्तु त_ति। यत इत्यस्य पूर्वेणा- न्वयः। प्रत्वयानुपश्य इत्येतद्याचष्टे । प्रत्ययं बौद्दमिति । बुद्धि- हत्तिमनुपश्यतीत्यर्थः । ननु बुद्धिद्रष्टुत्वेऽपि कथं नात्यन्त बुद्धि- वैरूप्य तत्राह। तमनुपश्यन्निति । यतस्वमनुपश्यन्नतः पुरुषो- ऽतदात्मापि परमार्थतो बुद्धासरूपोऽपि तत्सरूप इव प्रकाशते तदनुकारी भवति स्फटिक इव जपासरूप इत्यर्थः । अर्थाकार- वस्येव अथग्रहणरूपतायाः बुद्धिस्थले सिद्धत्वादित्यर्थः। प्रति- विम्बरूपेण च मिथ्यासारूप्यण न पारमार्थिकासारूप्यविरोधः । यथोक्तयोः सारूप्यवरूप्ययोः पञ्चशिखाचार्यवाक्य प्रमाणयति । तथा चोक्तमिति। भोक्तृशक्तिर्बुद्दिवत्परिणामिनी न भवति तथा बुद्धिवत् स्वविषये संक्रान्ता उपरतापि न भवति विकार- हेतुसंयोगस्यैवोपरागत्वात् बुद्धिविकारप्रतिविम्ब नैवोपपत्तौ पुरु- यस्य विकारकल्पनावैद्यर्थ्यात्। आभ्यां विशेषणाभ्यां वैरूप्य साधनपादे योगवार्तिकम् । २१७ दर्शितम् । इदानी सारूप्यं दर्शयितुम् आदौ बुद्धेश्चिद्रूपत्वमुपपा- दयति। परिणामिन्यर्थ इति। परिणामिनि स्वस्खार्थे विषये बुद्धौ प्रतिविम्बरूपेण संक्रान्तेव उपरतेव सतो तवृत्तिं विषया- द्याकारामनुपतति चेतनामिव करोति यथा सू- जले अनुपतन् जलं सूर्य मिव करोति तहत् । अनेन बुद्ध रूपं दर्शयित्वा पुरु- षस्य बुद्धिसारूप्य दर्शयति । तस्यायेति। हिशब्दोऽवधारणे । तस्था अपि भोक्तृशक्तनिवृत्तिर्ज्ञानरूपा वृत्तिर्बुद्धिवृत्त्यविशिष्टैव इत्याख्यायते इत्यन्वयः । अत्र हेतुः प्राप्तेति । उपग्रह उपरागः, उक्तरीत्या प्राप्तचैतन्योपरागकल्याया बुद्धिवृत्तेरनुकारिणी प्रति- विम्बोदग्राहिणी तन्मात्रतयेति ज्ञानवृत्त विशेषणम् । तथा च परस्परप्रतिविम्बात् इयोरपि चेतनत्वसुखादिपरिणामकत्वरूपं सारूप्यमित्यर्थः । पाख्यायत इत्यनन्तरमितिशब्द: पूरणीयः । तदनेन सूत्रेण जीवेश्वरसाधारण्येनैव चिन्मात्रत्वमुक्तम् । तथाच श्रुतिस्मृती। 'चेतामात्र: प्रतिपुरुषं क्षेत्रज्ञः' । ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते। ज्ञानात्मकमिदं विश्वं न जानाविद्यते परम् ॥ इति। ये तु वैशेषिकादयो ज्ञानाश्रयमात्मानं मन्यन्ते ते श्रुतिस्मृतिविरोधेन उपेक्षणीयाः । किं च लाघवात् प्रतिपुरुष- मकैकमावव्यक्तिनित्यज्ञानसिहौ तस्याश्चयो गौरवात् न कल्पाते जानामीति प्रत्ययस्व संयोगसम्बन्धेनैवोपपत्तः। यथाहि इन्धनं तेजस्वीति प्रत्ययः संयोगसम्बन्धेन प्रमा तथैव बुद्धौ ज्ञानाख्य- द्रव्यसंयोगसम्बन्धेन ज्ञानवत्त्वप्रत्ययः प्रमैव लोकानामहमिति- प्रत्यये च अवश्यं बुद्धिरपि भासते अनादिमिथ्याज्ञानवासनाख्य- दोषस्य प्रतिबन्ध मानाभावात् । अतोऽहं जानामौत्यविदुषां प्रत्ययोऽहमंशे धमो ज्ञानवत्त्वांचे प्रमा इत्यावयोः समानमेव । विदुषां तु जानामीति प्रत्ययोऽसिद्ध एव। परमेखरस्य सर्वज्ञ १८ ।

२१८ पातञ्जलदर्शनम्। वादिव्यवहारस्तु लोकव्यवहारादिति । अधिकं तु सांख्य- भाष्यादी प्रोक्तमिति दिक् । बुद्धातिरितो द्रष्टरि प्रमाणमाह सूत्रकारः ॥२०॥ * तदर्थ एव दृश्यस्यात्मा ॥ २१ ॥ * दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्य- मिति तदर्थ एव दृश्यस्यात्मा स्वरूपं भवतीत्यर्थः । तत्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगाप- वर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति, खरूपहानादस्य नाशः प्राप्तो, न तु विनश्यति ॥ २१ ॥ तस्य पुरुषस्यार्थः प्रयोजने भोगापवर्गों एवार्थ: प्रयोजनं यस्य स तथेति मध्यमपदलोपो समासः । भोगापवर्गप्रयोजनकमेव दृश्यस्य स्वरूपं कार्यकारणात्मकं गुणाभयं न खार्थमित्यर्थः । तथा च गुणाः परार्थाः संहत्यकारित्वात् भव्यादिवदित्यनुमानेन बुद्धवाद्यतिरिक्तस्य पुरुषाख्यत्व परस्य सिद्धिरिति भावः । इदच्च अनुमानं पूर्वसूत्रे व्याख्यातम् । तदर्थमेव दृश्यमिति एतावन्मा- त्रणेव निर्वाहेपि आत्मपदं धात्वर्थे दर्शने तदर्थवान्वयनमनि- रासाय प्रयुक्तमिति। तदर्थत्वे युक्ति वदन् सूत्र व्याचष्टे । दृशि- रूपस्येति। यतो दृशिरूपस्य पुरुषस्य यत् कर्मव कर्म दर्शन तद्दिषयतां गतमेव वस्तु दृश्यं भवति दर्शनञ्च सर्ववस्तूनां प्रयोज- नमिति सर्वसम्मतम् अतस्तदर्थमेव दृश्यस्य गुणादेः स्वरूपं भवति तिष्ठतीत्यर्थः। न हि परप्रयोजनकं वस्तु परप्रयोजन विना क्षणमपि स्थातु क्षमते नित्यमनित्यं वा प्रयोजनं विना कस्यापि परार्थस्यावस्थानादर्शनेन पुरुषार्थस्य तत्स्थितिहेतुत्वसिद्धेरिति साधनपादे योगवात्तिकम् । २१८ भावः। अनेन च सूत्रेण चैतन्याधीना सत्ता दृश्यस्य न खत इति सिद्धम् । सूत्रान्तरमवतारयितुमुपक्रमते । तत्स्वरूपमिति । ननु दृश्यखरूपं यदि परस्य पुरुषस्य रूपेण दर्शनेन निमित्तन तदर्थं प्रति लब्धात्मकं लब्धसत्ताकं तर्हि भोगापवगार्थतायां भो- गापवर्गरूपे पुरुषस्य अर्थसमूहे कृते सति पुरुषेण न दृश्यत इति कृत्वा स्वरूपत्यागानाश: अत्यन्तोच्छेदः अस्य गुणादेः प्रसक्त इत्यर्थः । प्रयोजनसमात्या हि प्रयोजनकारि नाश्यत इति धर्माधर्मवासनाचित्तादिस्थले दृष्ट तथा च प्रतिनित्यत्वसृध्या- दिप्रवाहानुच्छेदनित्यैश्वयादिसिहान्तहानिरिति पूर्वः पक्षः । अत्र सिद्धान्तमाह । न तु विनश्यतीति । पृच्छति । कस्मादिति। अत्र प्रत्युत्तरं सूत्र पठति ॥ २१ ॥ कस्मात्, * कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारण- त्वात् ॥ २२॥ * कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाश प्राप्तमपि अनष्टं तत्, अन्यपुरुषसाधारणत्वात् । कुशलं पुरुषं प्रति नाश प्राप्तमपि अकुशलान् पुरुषान् प्रति अकृतार्थमिति तेषां दृशः कर्मविष- यतामापन्नं लभत एव पररूपेण आत्मरूपमिति, अतश्च दृग्दर्शनशक्योर्नित्यत्वात् अनादिः संयोगो व्याख्यात इति, तथाचोक्तं धर्मिणामनादिसंयो- गाद् धर्ममावाणामपि अनादिः संयोग इति॥२२ व्याचष्टे। कृतार्थमिति। बुद्ध्या कृतः समापितोऽर्थो य.

२२० पातञ्जलदर्शनम् । स्येति कृतार्थमेकं कञ्चिन्मुक्तपुरुषं प्रति गुणादिकं नष्ट प्रयोजना- करणात् रानो राज्यवबष्टमपि सामान्यतो न नष्ट तस्मिन् कृतार्थे अन्यपुरुष च तस्य साधारणत्वादित्यर्थः । योजितं सूत्र तात्पर्य्यतो व्याचष्टे। कुशलमित्यादिना रूपमितीत्यन्त न । कुशलं कल्याणमुक्तम्। अकतोऽर्थो येनेति अवतार्थ, शेषं व्या- ख्यातप्रायम्। सोऽयं सूत्रार्थ: श्रुत्यापि अनुग्रहीती, यथा अजामेकां लोहितशुक्लक्ष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्य को जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः । इति। तदनेन सूत्रेण प्रकृतिनित्यत्वं पुरुषबहुत्वं च प्रति- पादितम्। तथा पुरुषभेदात् प्रकृतेर्बहुत्वं नास्तीत्येवंरूपं प्रक्क- तेरेकत्वं च प्रतिपादितं विज्ञानवादादिनिरासायेति। नन्वेवं 'यथा घटोकुम्भकमण्डलुस्थमाकाशमेकं बहुधा हि भिन्नम् । तथा सुवाहुः स च काशिपोऽहमन्ये च देहेषु शरीरमेदैः' इत्येवंविध- श्रुतिस्मृतिशतोक्तं सर्वात्मनामैक्य विरुद्धमिति चेन्न। तादृश- वाक्य : प्रकरणमेदेन क्वचिदवैधयं लक्षणाभेदप्रतिपादनात् । सर्वात्मनामवैधयं ज्ञानेनैव अपरिणामितया बुद्याद्यभिमाननि- वृत्तितो मोक्षसिद्धेः । क्वचिच्च अविभागलक्षणाभेदप्रतिपादनात् । ततश्चैकस्यैव परमात्मनो मुख्यात्मता सिध्यतीति । ब्रह्ममीमांसाभाष्ये श्रुतिभाष्यादिषु च प्रपञ्चितमस्माभिः । न पुनस्तादृशवाक्यानां जीवात्मपरमात्माखण्डतापरत्वं सम्भवति बन्धमोक्षानुपपत्तिरूपसत्तर्कानुग्रहेण बलवद्भिर्मेदग्राहकश्रुति- स्मृतिशतैर्विरोधात् । 'अधिकं तु भेददर्शनात्' 'अंशो नानाव्य- पदेशात्' इति ब्रह्ममीमांसामारभ्य सर्वदर्शनसूत्रैरतिस्फुटमात्म- भेदप्रतिपादनेन भेदस्यैव श्रुत्यर्थत्वावधारणाच्च । अपि च सर्वात्म- नामैक्यमात्रज्ञानान्न संसाराभिमाननिवृत्तिः सम्भवति । एकस्मि- नेव आकाशेऽवच्छेदभेदेन शब्दतदभाववत् एकस्मिन्नेव आत्मनि एतच्च सर्व साधनपाद योगवार्तिकम् । २२१ अवच्छेदेन संसारासंसारयोः सम्भवात्। विवेकज्ञानापेक्षणे च तत एवाभिमाननिवृत्तेरैक्यज्ञानस्य न दृष्टद्वारा मोक्षहेतुलं स्यात् नापि आत्मक्यज्ञानात् सर्वात्मब्रह्मोपासनं सम्भवति। साक्षात् कुक्क रत्वादिदृष्ट्या अत्र ब्रह्मणो निन्दाया एव प्रसङ्गात् । जड़वर्गेषु अविभागलक्षणाभेदेनोपासनाया अवय कल्प्यत्वेन चेतनवर्गषु अपि तथैव औचित्याच्च। तस्मात् प्रयोजनाभावात् न आत्मा- खण्डताप्रतिपादने श्रुतिस्मृत्योस्तात्पर्यम् । अधिकन्तु ब्रह्ममी- मांसायामस्माभिराधुनिकवेदान्तिब्रुवमतखण्डनावसरे प्रतिपा- दितमिति दिक्। तदेवं विशेषाविशेषेत्यादिसूत्रगणेन द्रष्टुः पुरुषस्य स्वतएव दर्शनशक्तश्च बुद्धे कारणरूपेण नित्यत्वे सिद्दे तयोः संयोगः प्रवाहरूपेण अनादिरिति शास्त्रेषु व्याख्यातमुप- पवमित्याह । अतश्चेति। विनाशित्वेऽपि भावरूपाणां गुणाना- मनादित्वं न घटेत ततश्च तत्कायबुद्धे : ततश्च बुद्धिपुरुषसंयोग- स्येति भावः । बुद्धिपुरुषसंयोगस्य प्रवाहरूपेण अनादित्वे पञ्च- शिखाचार्यसंवादमाह। तथा चोक्तमिति। धर्मिणां गुणानां पुरुषैः सह अनादिसंयोगादिति तु गुणनित्यत्वं विना धर्मसामा- न्यानां बुड्यादीनां संयोगानादित्वं न घटत इति प्रतिपादनाय प्रदर्शितम्। तदेवं प्रकाशप्रवृत्तीत्यादिसूत्रैः पञ्चविंशतितत्त्वानि अव संक्षेपतो विवेकेनोतानि विस्तरस्तु सांख्यदर्शने द्रष्टव्यः । प्रकृतिपुरुषविवेकम्वैव मुख्यतस्तत्र प्रतिपादनात् अत्र योगस्यै- वेति । द्रष्टदृश्ययोः स्वरूपमुक्तम् इदानीं तत्संयोगस्य स्वरूप- प्रदर्शक सूत्रमुत्थापयति। संयोगस्वरूपेति द्रष्टुदृश्ययोः संयोग- सामान्यं न हेयहेतुः प्रलयमोक्षादिसाधारण्यात् अत: संयोग- गतविशेषावधारणायेदं सूत्रं प्रवकृत इत्यर्थः ॥ २२ ॥ संयोगखरूपाभिधित्सयेदं सूत्रं प्रवहते ॥

२२२ पातञ्जलदर्शनम्। *खखामिशक्त्योः स्वरूपोपलब्धिहेतुसंयोगः॥२३॥* पुरुषः स्वामी दृश्येन खेन दर्शनार्थं संयुक्तः, तस्मात् संयोगाद् दृश्यस्य उपलब्धि- स भोगः, या तु द्रष्टुः खरूपोपलब्धिः सोऽपवर्गः। दर्शन- कार्य्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तं, दर्शनमदर्शनस्य प्रतिद्वन्द्वीति अद- र्शनं संयोगनिमित्तमुक्त, नात्र दर्शनं मोक्षकार- णम्, अदर्शनाभावादेव बन्धाभावः स मोक्ष इति, दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनज्ञानं कैवल्यकारणमुक्तम्, किञ्च दूदमदर्शनं नाम, किं गुणानामधिकारः आहोखिद् दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः, स्वस्मिन् दृश्ये विद्यमाने दर्शनाभावः । किमर्थवत्ता गुणानाम् । अथा- विद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्य उत्प- त्तिवीजम् । किं स्थितिसंस्कारक्षये गतिसंस्का- राभिव्यक्तिः, यत्र इदमुक्तं प्रधानं स्थित्यैव वर्त्त- मानं विकाराकरणादप्रधानं स्यात्, तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात्, उभयथा चास्य प्रवृत्तिः प्रधानव्यवहारं लभते नान्यथा, २२३ साधनपादे योगवार्त्तिकम् । कारणान्तरेषु अपि कल्पितेषु एव समानश्चर्चः । दर्शनशक्तिरेवादर्शनमित्येके प्रधानस्य आत्म- ख्यापनार्थी प्रवृत्तिः इति श्रुतेः, सर्वबोध्यबोध- समर्थः प्राक् प्रवृत्तेः पुरुषो न पश्यति, सर्व- कार्यकरणसमर्थ दृश्यं तदा न दृश्यत इति । उभयस्यापि अदर्शनं धर्म दूत्येके, तवेदं दृश्यस्य खात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शन दृश्य- धर्मत्वेन भवति, तथा पुरुषस्य अनात्मभूतमपि दृश्यप्रत्ययापक्षं पुरुषधर्मत्वेनेव दर्शनमवभासते। दर्शनज्ञानमेवादर्श नमिति केचिदभिदधति, इत्येते शास्त्रगता विकल्पाः, तत्र विकल्प- बहुत्वमेतत्सर्वपुरुषाणां गुणसंयोगे साधारण- विषयम् ॥ २३ ॥ स्वशक्तिदृश्यं भोग्यतायोग्यत्वात्। स्वामिशक्तिद्रष्टा मोक्तृ- योग्यत्वात् तयोः स्वरूपोपलब्धी हेतुर्यः संयोगविशेष: स एव द्रष्टदृश्यसंयोगोऽत्र हेयहेतुरुक्त इत्यर्थः । विभुना द्रष्टदृश्यसंयोग- सामान्यस्य सार्वकालिकत्वेन हेयाहेतुत्वादिति भावः। स च संयोगविशेषो बुद्धिहारक: दृश्या बुधिसत्त्वोपारूढ़ा: सर्वे धर्मा इति पूर्वभाथात् । अतो दृश्यवत्या बुद्ध्या संयोग एव अत्र संयोगविशेषः। आत्मेन्द्रियमनोयुक्तं भोक्तत्याहुर्मनीषिणः । इति। एवंविधश्रुत्यादिभ्यो लिङ्गदेहात्मसंयोगादेवात्मनो २२४ पातञ्जलदर्शनम् । विषयदर्शनावणमादिति। एतेन भोक्तभोग्ययोग्यतेव दृष्टदृश्य- योरनादिः सम्बन्धः संयोगाङ्गीकार पुरुषस्य परिणामित्वापत्ते. रिति कस्यचित् प्रलापः सूत्रखरसाद्दे यः। तथा सति स्वस्वामि- भावः संयोग इत्येव सूबौचित्यात् संयोगस्य अनाद्यकव्यक्तित्वे सति आगामिसूत्राभ्याम् उत्पत्तिविनाशवचनानुपपत्तेश्च चेतनत्वा- चेतनत्वातिरिक्तस्य प्रतिनियतस्य योग्यत्वस्य ज्ञानावच्छेदकस्य अनिरूपणाच्च। तयोश्च मोक्षकालसाधारण्येन हेयाहेतुत्वात् । यदि च स्वभुतत्तिवासनावत्त्व प्रवाहरूपेण च वासनाया अनादित्वं तदेव च संयोग इत्युच्यते । तथापि तादृशसंयोगस्य भाष्यवक्ष्यमाणम् अविद्यावासनाजन्यत्वादिकं न घटेतैव यथा- श्रुतसंयोगत्यागानौचित्यादिकं चेति । यच्च उक्तं संयोगेन परि- णामित्वमिति तत्परिणामलक्षणाज्ञानात् संयोगविभागमात्रेण आकाशादौ परिणामव्यवहाराभावेन सामान्यगुणातिरिक्तधर्मो- त्पत्तिरेव परिणाम इत्युक्तत्वात् अन्यथा च प्रतिसगं प्रकृति- पुरुषयोः संयोगविभागौ श्रुतिस्मृत्योः श्रूयमाणो विरुध्येताम् । न हि प्रतिसगं योग्यतोत्पादविनाशी घटेतां पुरुषस्य परिणाम- प्रसङ्गात् । यथाश्रुतसंयोगविभागयोरेव उत्पादादिक्रमौचित्या- ञ्चेति दिक् । सूत्रार्थ विवृणोति। पुरुष इत्यादिना सोपवर्ग इत्यन्तेन । संयुक्त इति। भवतीति शेषः। सूत्रे स्वरूपपदं च विवेकख्यातिपर्यन्तस्य दर्शनसामान्यस्य संयोगजन्यत्वप्रतिपाद- नाय इति । इदानीं विवेकख्यातिरविलवा हानोपाय इति तस्य हेतुरविद्येति च धागामिसूत्रद्दयार्थोऽनेनैव सूत्रेणोपपादित इत्येतत्क्रमेण प्रतिपादयति । दर्शनकार्येत्यादिना। कृत- कत्यस्य प्रयोजनाभावेन अवस्थानासम्भवेन दर्शनरूपकायाव- सान: संयोग इत्यतो दर्शनं द्रष्ट स्वरूपोपलब्धिर्वियोगकारणमर्था- दनेन सूत्रेणोतमुपपादितं तथा दर्शनमदर्शनस्य प्रतिहन्दि साधनपादे योगवार्तिकम् । २२५ नात्र दर्शन- विरोधीत्यतोऽदर्शनं संयोगहेतुरित्यपि अर्थादुक्तमुपपादितम् । दर्शनादर्शनयोविरोधेन विरुद्धयोरेव वियोगसंयोगयोस्तदुभय- कार्यत्वौचित्यादित्यर्थः । ननु प्रदर्शनं संयोगकारणं तहि अद- नाभावादेव संयोगविनिवृत्त्यात्मको मोक्षो भविष्यति कथं दर्शनमपि मोक्षहेतुरुच्यते इत्याशङ्कायामाह । मिति। अस्मच्छास्त्रे दर्शनं तत्त्वज्ञानं न मोक्षकारणं गौरवात् निरोधादिभिव्यवधानेन मोक्षाव्यवहितप्राकाले ज्ञाननियमा- सम्भवात् किन्तु अदर्शनस्य वच्यमाणरूपस्याभावादेव द्रष्टुदृश्य- संयोगाभावः स एव मोक्ष इत्यर्थः । एतेन मोक्षस्य अनिमित्तक- तया स्वाभाविकत्वरूपं नित्यत्वं लब्धम् । नन्वेवं विवेकख्याति- रविप्लवा हानोपाय इत्यग्रिमसूत्रविरोधी दर्शनं वियोगस्व कारणमिति स्वोक्तिविरोधश्च तत्राह। दर्शनस्य भाव इति । सुगमम्। उक्तं शास्त्रे। तथा च तत्त्वज्ञानं मोक्षे प्रयोजक- मात्रमिति। उत्तरसूत्रेण असाधारणं संयोगहेतुमदर्शनम् अव- धारयितुमुक्तादर्शनं विकल्पा पृच्छति। किं चेदमिति। किं पुनः संयोगकारणत्वेनोक्तम् अदर्शनमित्यर्थः । नामेति वाक्या- लङ्कार। यद्यपि संयोगोऽदर्शनकारणमिति सूत्रणाद्दर्शनस्या- नुत्पाद एव संयोगहेतुतया अत्र प्रसतो नान्यः । तथापि तत्सम- नियततया अन्येषामपि संशयकोटित्वं बोध्यम्। तत्र प्रथमो विकल्पः किं गुणानामिति। गुणानां सत्त्वादीनाम् अधिकार: कार्यारम्भणसामर्थ्यम्। ज्ञानाग्न्यदग्धा कार्यविशेषजमनशक्ति- रित्यर्थः । ततोऽपि हि संसारहेतुसंयोगविशेषो जायत इति द्वितीयं विकल्पं परित्यज्य सर्वविकल्पेषु बन्धकत्वगुणयोगेन प्रदर्शनशब्दो गौणः । द्वितीयं विकल्पमाह। आहोस्विदिति प्रदर्शनमित्यत्र दर्शनशब्दस्य करणसाधनत्वप्रतिपादनाय दृशि- रूपस्य स्वामिनो दर्शितविषयस्येति चित्तविशेषणं दृशिवरूपाय २२६ पातञ्जलदर्शनम् । स्वामिने दर्शितो विषयो येन तस्येत्यर्थः । उक्तमेव विहणोति । स्वस्मिबिति। स्वस्मिंश्चित्ते पुरुषार्थरूपेण दृश्ये शब्दादिवृत्ती सत्त्वपुरुषान्यतात्तौ च सति यो दर्शनाभावश्चित्तवृत्त्यभाव इत्यर्थः। मोक्षकालीनं दर्शनाभावं व्यावर्त्तयितु सत्यन्तम् । संयोगाहेतुतया तु तादृशमदर्शनं नात्र विचारणीयं चित्ते हि पुरुषार्थसत्तायामेव अदर्शनं संयोगहेतुर्भवति इति भावः । व्यर्थतया द्वितीयविकल्पस्य विशष्यभागपरित्यागमात्रेण तीयं विकल्पमाह। किमर्थवत्तेति। सत्कार्यसिचे विभोगापवर्ग- योरव्यपदेश्ययोः स्वकारणेषु गुणेषु अवस्थानमित्यर्थः । चतुर्थ विकल्पमाह। अथ अविद्येति । पञ्चपर्वा अविद्या प्रलयकाले ख- चित्तेन सह गुणेषु लीना वासनारूपेण स्वाश्चयचित्तस्य उत्पत्ति- वीजमित्यर्थः । तथा च अविद्यावासनैव प्रदर्शन मिति । अयमेव पक्ष: सिद्धान्तो भविष्यति । पञ्चमं विकल्पमाह। किं स्थितीति। प्रधाननिष्ठस्य साम्यपरिणामहेतोः स्थितिसंस्कारस्य क्षये सति गतिसंस्कारस्य महदादिरूपविसदृशपरिणामहेतोरभिव्यक्तिरि- त्यर्थः । तयैव हि प्रवतिक्षोभहारा पुम्प्रकृत्योः संयोगो जन्यते इति। तदुभयसंस्कारसद्भावे मतान्तरं प्रमाणयति । यत्र इद- मिति । स्थित्वै गत्य इति तादर्थ्य चतुथ्यौँ। एवकारौ च तयोः पवादध्याहाय्यौं स्थित्या एव इतिपाठे तु विशेषणे टतीया इति। तथा च प्रधानं चेत् स्थितिमात्रेण वर्त्तत तदा विका- राजनकत्वाब प्रधानं स्यात् मूलकारणत्वं हि प्रधानत्व- मिति । तथा गतिमात्रेण चेहर्तत तदा महदादीनामपि प्रकृतिवदेव नित्यत्वापत्त्या किं कस्य मूलं स्यादिति न व्यवहारः सम्भवति अत उभयथा एव स्थितिगतिभ्यामेव प्रधानस्यावस्थानं प्रधानव्यवहारं लभते कार्य्यतया न पुनरन्यथा इत्यर्थः केवलं मूलकारण एवायं स्थितिगत्योः कालभेदेन निर्णायको साधनपादे योगवार्तिकम् । २२७ विचारः किन्तु कल्पितेषु विकाररूपेषु कारणभेदेषु अपि मह- दादिषु एष चर्चा विचारः समान इति प्रसङ्गादवधारयति नास्तिकानां कुर्वद्रूपतावादमपाक कारणान्तरेषु अपोति स च चर्चा यथा मृदादिकं यदि स्थित्यैव निवृत्त्वैव वर्तेत तर्हि कदापि घटानुत्पादनेन कारणवहानिः । यदि गत्यैव प्रवृत्त्य व वर्तत तदा मृट्वटयोईयोरेव तुल्यकालतया कार्यकारण व्यवस्था- नुपपत्तिरतो विकाररूपकारणमपि स्थितिगत्युभयवदेवेति षष्ठ- विकल्पमाह। दर्शनशक्तिरेवेति। पुरुषायात्मानं दर्शयितु या क्षमता सा दर्शनशक्तिः सैव च अदर्शनमित्यर्थः इयञ्च शक्तिविवेकख्यात्यनुत्यादरूपा संयोगहेतुस्तथाचोक्त साय- कारिकया। 'दृष्टाहमित्युपरमत्यन्ये ति। पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पन्धवदुभयोरपि संयोगस्तत्वतः सर्गः ॥ इति। द्वितीयविकल्पस्थस्य शब्दादिबत्त्यनुत्पादस्य त्यागात् अस्य ततोऽभेदः । प्रधानस्य दर्शनशक्तौ श्रुतिं प्रमाणयति। प्रधान- स्येति। काललुप्तशाखास्थेयं श्रुतिः। सप्तमं विकल्पमाह । सर्व- बोध्येत्यादिना अवभासत इत्यन्तेन। सर्वबोधे समर्थोऽपि पुरुषः प्रधानप्रवृत्तेः प्राक् न पश्यति इत्येकमदर्शनं पुरुषनिष्ठमपरञ्च सर्वकार्याणां करणे उत्पादने समर्थं स्वरूपयोग्यमपि दृश्यं प्रधानं तदा.प्राक् प्रधानप्रवृत्तेः पुरुषेण न दृश्यत इति दृश्यनिष्ठमदर्शन- मित्येवमुभयस्यापि प्रदर्शनं धर्म इत्येके आहुरित्यर्थः। एतदेव अत्र अदर्श नमिति शेषः। ननु जड़ानामदर्शनात्मकत्वात् कथं तेषामदर्शनं धर्मः स्यात् अभावस्याधिकरणखरूपत्वात् अव्य. भिचारेण लाघवात् एकतासिद्दश्च कथं वा दृशिखरूपस्य पुरुषस्य ॥

२२८ पातञ्चलदर्शनम्। अदर्शनं घटते प्रकाशरूपस्याप्रकाशरूपत्वासम्भवात् इति प्राशय समाधत्ते । तवेदमिति । तत्र अदर्शनद्दयमध्ये इदमेकमदर्शनं दृश्यस्वरूपभूतमपि दृश्यधर्मत्वेन विशिष्ट भवति तत्र हेतुः पुरुषप्रत्ययापेचमिति। पुरुषप्रत्ययं बोधमपेक्ष्य तदविषयतयेति यावत्। तथेति। तथा पुरुषस्य निर्धमत्वात् सदा प्रकाशरूप- त्वात् च अनात्मभूतनपि अदर्शनं पुरुषधर्मत्वेनैव लौकिकबुद्ध्या अवभासते तत्र हेतुः दृश्यप्रत्ययापेक्षमिति। दृश्यप्रत्ययमपेक्ष्य दृश्यगोचरप्रत्ययाभावेनेति यावत् । अष्टमविकल्पमाह। दर्शनं ज्ञानमिति। ज्ञानं वासनारूपं तस्यापि दृश्यसंयोगहेतुत्वात् न तु भोगापवर्गरूपमनागतावस्थं दर्शनमत्रोक्तम् अर्थवत्तया पौनरुक्त्यादिति। उपसंहरति । इत्येत इति। शास्त्रेषु एते अज्ञानमेदास्तान्त्रिकैरुच्यन्त इत्यर्थः संयोगमेदेन सर्वेषामेव अदर्थ नानां हेतुत्वं सिद्धान्तयवेव संयोगविशेष हेत्वदर्शन- विशेषपरतया उत्तरसूत्रमवतारयति। तत्र विकल्पेति। तत्र अदर्श ने विकल्पबहुत्वं भेदबाहुल्यमेतत्पुरुषसामान्यस्य गुणसा- मान्यस्य च पुरुषार्थहेतुसंयोगसामान्य प्रति कारणतायां बो- ध्यम् । यस्तु प्रत्येकचेतनस्य तत्तचेतनस्य स्वबुद्धिसंयोगो हेय- हेतुः स्वस्खामोत्यादिप्रकृतसूत्रेणोक्त: तस्य हेतुरविद्या चतुर्थवि. कल्परूपमदर्शनमेवेति सूत्रेण सहान्वयः। प्रत्यक्चेतनस्येति पाठे स्वस्वबुद्धधनुगमशीलचेतनस्येत्यर्थः । अयं भावः । अविद्या- क्षयोत्तरमपि जीवन्मुक्तस्य भोगार्थ विषयरूपेण परिणतैगुणैः सह संयोग उत्पद्यते अतो न अविद्या गुणपुरुषसंयोगसामान्य हेतुः किन्तु यथोक्तो गुणाधिकारादिरेव खबुद्धिसंयोगस्तु जन्मा- परनामा अविद्यां विना न भवतीति बुद्धिपुरुषसंयोग एव असा- धारण्येन अविद्याहेतुर्भवति सैव च बुद्धिसंयोगहारा दृष्टदृश्य- संयोगहेतुर्विद्योच्छेद्या च भवतीत्याशयेन सैवोत्तरसूत्रेण सूचते - २२८ साधनपादे योगवार्तिकम्। न गुणाधिकारादिः तस्य ज्ञानानुच्छेद्यत्वात् एकस्य पुंसो मुक्ता- वपि पुरुषान्तराथं गुणाधिकारादितादवथ्यात् यदेव च पुरुषेण छत्तुं शक्यते तदेव हेयनिदानमत्र प्रतिपादनीयम् अन्यथा कालकमखरादीनामपि हेयहेतुसंयोगकारणतया तेषामप्यत्र प्रतिपाद्यतापत्तेरिति ॥ २३ ॥ यस्तु प्रत्यक्चेतनस्य खबुद्धिसंयोगः- * तस्य हेतुरविद्या ॥ २४ ॥ * विपर्ययज्ञानवासनेत्यर्थः । विपर्ययज्ञान- वासनावासिता न कार्यनिष्ठां पुरुषख्याति बुद्धिः प्राप्नोति साधिकारा पुनरावर्त्तते, सा तु पुरुषख्यातिपर्यवसाना कार्य निष्ठां प्राप्नोति चरिताधिकारा निवृत्तादर्शना बन्धकारणा- भावान्न पुनरावर्तते। अत्र कश्चित् पण्डकोपा- ख्यानेनोहाटयति मुग्धया भार्यया अभिधीयते पण्डक ! आर्यपुत्र ! अपत्यवती मे भगिनी किमर्थं नाहमिति,स तामाह मृतस्ते अहमपत्यमुत्पादयि- ष्यामीति, तथदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति विनष्टं करिष्यतीति का प्रत्याशा, तत्राचार्य्यदेशीयो वक्ति ननु बुद्धिनिवृत्तिरेव मोक्षः, अदर्शनकारणाभावाद् बुद्धिनित्तिः, तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते। तत्र २० २३० पातञ्जलदर्शनम्। चित्तनिवृत्तिरेव मोक्षः, किमर्थमस्थान एवास्य मतिविभ्रमः ॥२४॥ तस्य द्रष्टदृश्यसंयोगस्य बुद्धिपुरुषसंयोगहारा हेतुरविद्येन त्यर्थः। भाष्यकारेण च सूत्रकारतात्पर्याभिप्रायेणैव तस्येत्यस्य बुद्धिसंयोगस्येत्यर्थ उक्त: न तु साक्षादेव द्रष्टुर्स्ट श्यसामान्यसंयो- गस्यैव पूर्वसूत्रे प्रक्ततत्वात्। बुद्धिसंयोगस्येति। अविद्या चाच अनात्मनि आत्मबुद्धिमान तस्य न बुद्धिसंयोगहेतुत्वात् अनि- त्यादौ नित्यादिबुद्धिरूपाणामविद्यानां वक्ष्यमाणविवेकख्यातिना- श्यत्वानुपपत्तेश्च । सा च अविद्या बुद्धिसंयोगजन्यतया तदव्यव- हितप्राक्काले न सम्भवतीत्यत आह भाष्यकारो विपर्ययेति । सर्गान्तरोयाविद्यायाः स्वचित्त न सह निरुद्धायाः प्रधाने या वासना स्थिता तया वाजितं प्रधानं तत्पुरुषसंयोगिनी तादृशी- मेव बुदि सृजतीत्यनादित्वान्न दोषः। अविद्यावासनायां बुद्धि- पुरुषसंयोगहेतुत्वे युक्तिमाह। विपर्ययेति । विपर्ययज्ञानवास- नाबलात् पुरुषख्यातिरूपां कार्यनिष्ठां स्वकत व्यचरमावधिं न प्राप्नोति बुद्धिरतः साधिकारतया पुनरावर्त्तते पुरुषेण संयुज्यते सा तु बुद्धिः पुरुषान्यताख्यातिपर्यन्ता सती कार्यसमाप्तिं प्राप्नोति परवैराग्योत्पादात्। ततश्च चरिताधिकारा निष्पादितकार्या निवृत्ताविद्या सती संयोगाख्यबन्धस्य कारणाभावात् न पुन: पुरुषेण संयुज्यत इत्यर्थः । तथा चान्वयव्यतिरेकाभ्यां विपर्यय- वासना बुद्धिपुरुषसंयोगहेतुरिति भावः । पुरुषख्या त्या चित्तस्य निवृत्तिरिति यदुक्त तत्र नास्तिकाक्षेपं निराचिकीर्षुस्त प्रदर्श- यति । अत्र कश्चिदिति । पण्डकोपाख्यानेन दृष्टान्तेनोद्घाटयति आक्षिपतीत्यर्थः । नपुंसकाख्यानमेवाह। मुग्धयेत्यादिना उत्पा- दयिथतीत्यन्तेन । स पण्डकस्तां भार्याम् । विनष्टमिति । वि.

साधनपादे योगवात्तिकम्। २३१ नष्टे परवेराग्येण निरुह ज्ञानं चित्तनिवृत्तिरूपं मोक्षं करिष्य- तीति नास्ति प्रत्याशेत्यर्थः । उपेक्षासूचनाय पूर्वाचार्यमुखेन अत्र सिद्धान्तमाह। तत्रेति। ईषदसमाप्त आचार्य आचार्य- देशीयः । उपेक्षणीये प्रत्युत्तरदानमात्रेण आचार्यदेशीयत्वम् । प्राचार्यश्च वायौ प्रोक्तः । आचिनोति च शास्त्रार्थमाचार स्थापयत्यपि । खयमारभते यस्मादाचार्यस्तेन चोयते ॥ इति। नन्विति सम्बोधने। तदुक्त भवति । ज्ञानं न साक्षान्मोक्षहेतुरस्माभिरिष्यते किन्तु अविद्याख्यादर्शननिवृत्ति- तत्कार्यनिरोधयोगद्दारा। तथा च विनष्टमपि ज्ञानं बुद्धिपुरुष- वियोगरूपमोक्षव्यापारद्वारा कारण सम्भवत्येवेति । ननु यद्यय माचार्यदेशोयः तर्हि किं बुद्धिचित्तादिनामकान्तःकरणनित्ति- र्मोक्ष एव न भवतीत्याशङ्कायामाह। तत्र चित्तेति। चित्तनि- वृत्तिर्मोक्षो भवत्येव किन्तु तत्रास्थान एव अस्य नास्तिकस्य बुद्धिव्यामोहो व्यर्थ इत्यतोऽत्र उपेक्षणीये समाधावत्वादेव पा. चार्यदेशीय उक्त इत्यर्थः । तदेवं हैयहेयहेतुरूपं व्यूहद्दयं व्याख्याय टतोयव्यूहस्य सूत्रमवतारयति । हेयमिति । निमित्त- मविद्या ॥ २४ ॥ हेयं दुःखं हेयकारणं च संयोगाख्यं स नि- मित्तमुक्तमतःपरं हानं वक्तव्यम् । * तदभावात् संयोगाभावो हानं तद् दृशः कैवल्यम् ॥ २५ ॥ * तस्य अदर्शनस्याभावाद् बुद्धिपुरुषसंयोगा- भावः आत्यन्तिको बन्धनोपरम इत्यर्थः, एतद् २३२ पातञ्जलदर्शनम्। हानं, तद् दृशे: कैवल्यं पुरुषस्यामिश्रीभावः, पुन- रसंयोगो गुणैरित्यर्थः । दुःखकारणनिवृत्तौ दुःखो- परमो हानं, तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् ॥ २५ ॥ तस्या अविद्याया अभावात् विनाशात् बुद्धिपुरुषसंयोगनि- वृत्तिहारा द्रष्टदृश्यसंयोगनिहत्तिः दुःखहानमित्युच्यते कार्यका- रणयोरभेदोपचारात् तस्य पुरुषार्थत्वायोक्तं तदृशः कैवल्य- मिति, तदेव च हानं पुरुषस्य कैवल्यमित्यपि उच्यत इत्यर्थः इममेव सूत्रार्थ भाष्यकारः प्रकारान्तरेणाह। तस्येति । बुद्धि- पुरुषसंयोगशब्देन कार्यकारणाभेदात् द्रष्टदृश्यसंयोगोऽपि ग्राह्यः प्रलयकालीनवियोगव्यावर्तनायात्यन्तिक इति विशेषणं बन्धनोपरमस्य । एतद्धानमिति। पूर्वेण सहान्वेति। तदृशेः कैवल्यमित्येतद्याचष्ट । तददृशेरिति । तहानं गुणैः बुद्धिगुणः दुःखादिभिः पुनरसंयोगः प्रतिविम्बरूपेण असम्बन्ध इत्यर्थः । स एव च दु:खभोगनिवृत्तिरूपः स्वतः पुरुषार्थरूप इति सूत्रस्य फलितार्थमाह। दुःखेति हानमित्यन्तेन । व्याख्याते कैवल्यशब्दार्थे 'तदा द्रष्टुः स्वरूपेऽवस्थान' मिति गतसूत्र प्रमाण यति। तदेति। तदा दुःखनिवृत्तौ। अस्य च हानव्यूहस्य चतुर्थपादे विस्तरोभविष्यतीति अत्र दिङ्मात्रेण अतः परं हानोपायव्यूहश्चतुर्थपादस्यापि कियत्प- र्यन्तं वाच्यस्तत्र चतुर्थव्यूहप्रतिपादनमूत्रमवतारयति । अथेति । बुद्धिसंयोगनिवृत्तिरेव साक्षाद्दुःखहाने कारणं विधेकख्यातिस्तु बुद्धिसंयोगहेत्वविद्यानिवर्तकत्वेन परम्परया इति प्राप्तिशब्देन सूचितम् ॥ २५ ॥ अथ हानस्य कः प्राप्तापाय इति । भावः। स उक्तः।

साधनपादे योगवार्तिकम्। २३३ * विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ * सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः, सा तु अनिवृत्तमिथ्याज्ञाना लवते, यदा मिथ्याज्ञानं दग्धवीजभावं बन्ध्यप्रसवं सम्पद्यते तदा विधूत- ले शरजसः सत्त्वस्य पर वैशारदो परस्यां वशी- कारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो नि- मलो भवति, सा विवेकख्यातिरविप्लवा हानस्यो- पायः, ततो मिथ्याज्ञानस्य दग्धवीजभावोपगमः पुनश्चाप्रसवः, इत्येष मोक्षस्य मार्गों हानस्योपाय इति ॥ २६ ॥ साक्षात्कारनिष्ठारूपत्वलाभाय अविप्लवेति विशेषणम् । तत्र अविप्लवशब्दात् कथमेतल्लभ्यते इत्याकाङ्क्षायामाह । प्लवते। मिथ्या- ज्ञानसंस्कारवशात् मिथ्याज्ञानेन अन्तरान्तरा अभिभूयत इत्यर्थः यदेति । यदा तु साक्षात्कारदशायां सूक्ष्म मियाज्ञानमनागता- वस्थं दग्धवीजतुल्यावस्थ तस्य विवरणं बन्ध्य प्रसवं बन्ध्यप्रसव- सामर्थ्य भवति तदा विधूतक्लेशाख्यधूलेबुद्धिसत्त्वस्य अतएव परवेशारो वैलक्षण्य अस्यैव विवरणं परस्यां वशीकारसंज्ञायां 'परमाणुपरममहत्त्वान्तोऽस्य वशीकार' इति नूवोक्तायामिच्छा- प्रतिघातरूपायां वर्तमानस्य विवेकख्यातिप्रवाही निर्मलो मिथ्याज्ञानाकलुषितो भवति अतः सा विवेकख्यातिरविप्लवा उच्यते। सा परमसाक्षात्काररूपिणी हानोपाय इत्यर्थः । केन द्वारण हानोपाय इत्याकाङ्क्षायामाह। तत इति। ततो विवेक ख्यातः कारणात् मिथ्याज्ञानस्य सूक्ष्मरूपस्य दग्धवीजताप्राप्तिः ।

२३४ पातञ्जलदर्शनम् । ततश्च पुनरप्रसव इति कृत्वा एष विवेकख्यातिरूपश्चित्तनिवृत्या. दिरूपमोक्षस्य पन्थाः, अस्य विवरणं हानोपाय इत्यर्थः । ननु एवं जानादेव दुःखहानाख्य मोक्षवचनात् असम्प्रज्ञातयोगस्य किं प्रयोजनमिति चेन्न । परवैराग्यजासम्प्रजातयोगस्याप्यत्र ज्ञानहारतया मोक्षहेतुत्वाशयादिति । तस्या विवेकख्यातेरवि. प्लवाख्यनिष्ठाया लक्षणमाह ॥ २६ ॥ * तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ * तस्येति प्रत्युदितख्याते: प्रत्यानायः सप्तधेति अशुद्यावरगमलापगमाच्चित्तस्य प्रत्ययान्तरानु- त्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति, तद्यथा परिक्षातं हेयं नास्य पुनः परिज्ञेयमस्ति । क्षीणा हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति । साक्षात्कृतं निरोधसमाधिना हानम् । भावितो विवेकख्यातिरूपो हानोपायः । इत्येषा चतुष्टयो कार्या विमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयो चरिताधिकारा बुद्धिः । गुणा गिरिशिखरकूट- च्युता व ग्रावाणो निरवस्थानाः खकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति, न चैषां विप्रलीनानां पुनरस्त्युत्पादः प्रयोजनाभावा- दिति । एतस्यामवस्थायां गुणसम्बन्धातीतः खरूपमात्रज्योतिरमलः कैवली पुरुष इति । एतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः साधनपादे योगवात्तिकम्। २३५ कुशल इत्याख्यायते, प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति ॥ २७॥ अन्यथा न च अत्र तस्य विवेकख्यातिरूपहानोपायस्य प्रान्तभूमिकारूपिणी प्रज्ञा सप्तधा इत्यर्थः । तदेतद्याचष्ट। तस्येतीति। तच्छब्दो- तहानोपायस्य स्वरूपाख्यानं प्रति उदितख्यातेरिति । तस्येति पुंलिङ्गानुपपत्तेः । प्रत्याम्नायः परामर्श: प्रत्युत्पन्नख्याते: पुरुषस्य परामर्श इत्यर्थः सम्भवति पुरुषस्य पूर्वसूत्रेषु अप्रस्तुतत्वात्। सप्तधा इत्येतद्याख्यातु गृह्णाति । सप्तधा इतीति। अशुद्धौति । अशुद्धिविपर्ययाख्या अविद्या तत्- कार्यपापादिकं चोत्तरसूत्रभाष्यात् सैवावरणरूपो मलस्तदप- गमाञ्चित्तस्य प्रत्ययान्तराणां विवकख्यात्यन्येषामनुत्पादे सति परवैराग्यजाबिरोधयोगादुत्थानदशायां सप्ताकारा प्रज्ञा विवे- किनो निष्पन्नज्ञानस्य लिङ्ग भवतीत्यर्थः । एवकारो योगव्यव- च्छेदे प्रकारन्यूनता नास्तीत्यर्थः। एकस्या एव प्रज्ञायाः सप्त- प्रकारत्वमुदाहरति। तद्यथा इत्यादिना। प्रथमं प्रकारमाह । परिजातमिति । परिजातं साक्षात्कृतं मुमुक्षुभिर्हेयं न अस्याव. शिष्ट पुनर्जेयमस्तीत्यर्थः । द्वितीयं प्रकारमाह। क्षौणा इति । हेयहेतवोऽविद्याकामकर्मादयो विवेकसाक्षात्कारण मम क्षीणा इत्यादिरर्थः। दृतीयं प्रकारमाह। साक्षात्कृत- मिति। ततथ अविद्यादिक्षयादुत्पन्नेन निरोधसमाधिना हेतुना व्युस्थानकाले दुःखहानरूपो माविमोक्षो मया साक्षात्कृतः देह- पातानन्तरमेतादृशो मे मोक्षो भवितेति सजातीयमाक्षात्कार- एव सजातीयान्तरसाक्षात्कारविशेषे परिचितः । सम्प्रज्ञात- योगदृष्टान्तेन कैवल्यमपि दृष्टप्रायमिति फलितायः : यथाश्रुति ततश्व .

२३६ पातञ्जलदर्शनम्। निरोधसमाधौ हानसाक्षात्कारानुपपत्तित्त्वभावादिति असम्प- ज्ञातकालीनश्च दुःखाभावो योग्यानुपलब्धमा व्युत्थाने साक्षात्- क्रियते, यदि हि असम्प्रज्ञातेऽपि दुःखं स्यात् तदा अनुभूत ततश्च सुप्तोत्थान इव व्युत्थाने स्मातेति। अथवा निरोधसमा- धिना निष्पाद्य हानं मोक्षो हानगोचरसम्प्रज्ञातन साक्षात्कृत- मित्यर्थः । चतुर्थं प्रकारमाह। भावित इति। ततश्च फलनि- ष्पत्त्या विवेकख्यातिरूपो हानोपायो भावितो मिष्यादितः फल- निष्यत्त्य व साधनस्य सिद्धेरिति। वस्तुतस्तु भावित इत्यादिप्र- कारस्य द्वितीयस्थल एव पाठ आञ्जस्येन क्रमोपपत्तः। एषेति। एषा प्रान्तभूमिप्रज्ञाया विषयो हेयज्ञानसमात्यादिरूपा चतुष्टयो प्रज्ञायाः प्रज्ञाख्यतत्त्वज्ञाननिमित्तात् पुंसां कार्यमुक्तिः काया- विमुक्ति: कर्त्तव्यसमाप्तिः जीवन्मुक्तिरित्यर्थः । इयं परवैराग्यरूपा चित्तनाशस्य आद्यभूमिकारूपा। चित्त ति। चित्तादिमुक्तिः चित्तविमुक्तिः परममुक्ति: सापि प्रान्तभूमिप्रज्ञाया विषयः त्रि- विधा भवति। चित्तविमुक्तिस्तु स्वयमेव भवति न तत्र साधना- पेक्षेत्याशयेन पृथगुपन्यास: । तत्राद्यां चित्तविमुक्तिमाह। चरि- ताधिकारा बुद्धिरिति । समाप्तभोगापवर्गा भवति बुद्धिरित्यर्थः । इयं परवैराग्यरूपा चित्तनाशस्य आद्यभूमिकारूपा। द्वितीया- माह । गुणा इति। बुढेगुणाः संसारसुखदुःखादयः स्वकारण सत्त्वादित्रिगुणमयप्रकृतौ लौयमानास्तेन चित्त न सहात्यन्तलयं गच्छन्ति । तत्र दृष्टान्तो गिरोति। गिरिशिखरकूटात् च्युताः शिला इव अवस्थातुमक्षमा इत्यर्थः । एषा च लिङ्गशरीरस्य विन- श्यदवस्था द्वितीयभूमिका। तीयामाह। न चैषामिति । न संस्कारसुखादीनां पुनरुद्भवोऽस्ति पुरुषार्थसमात्या प्रयोजना- भावात् इत्यत एतस्यामवस्थायां पुरुषो बुद्धयादिगुणसम्बन्धवि- शेषशून्यः स्वरूपमावज्योतिः निविषयकचिज्जयोतिःस्वरूपोऽमल साधनपादे योगवार्तिकम्। औपाधिकतमोमालिन्धरहितः केवली केवलेषु मुक्तोषु अविभागों भवतीत्यर्थः । इयं चात्यन्तिकलयनिष्यत्तिरूपा विदेहकैवल्यस्य चरमभूमिका इमां विविधां चित्तमूमिं भाविनीमेव जीवन्मुक्त- दशायां विशुद्धचित्ती योगी साक्षात्करोतीति बोध्यम् । तदेवं सप्तविषयत्वात् सप्तप्रकारा प्रज्ञा व्याख्याता। इदानीं सूत्रतात्य- यार्थमाह । एतां सप्तविधामिति । प्रज्ञावानित्यनुत्ता प्रज्ञामनु- पश्यन्निति निरभिमानताप्रतिपादनायोक्तं, बुद्धिवृत्तिं प्रज्ञां साक्षि- भावनैव जीवन्मुक्त: पश्यति न तु अभिमन्यत इत्याशयः । कुशल: कल्याणोऽकल्याणबुद्धिपत्नीपरित्यागादिति। ज्ञानिनो जीवन्मु- तस्य लक्षणं मूत्रेणोक्त तत्प्रसङ्गात् स्वयं परममुक्तस्य ततो विशे- षमाह। प्रतिप्रसव इति । चित्तस्यात्यन्त लयेऽपि कुशल इत्येव भवति सुखदुःखादिभिः सत्त्वादिभिश्च अकुशलगुणैरत्यन्तवियो- गादित्यर्थः। एवकारेण जीवन्मुक्तदशायामपि बाधितमकुशल तिष्ठतीत्युक्तम्। अतएव चाख्यायत इत्यनेन जीवन्मुक्तावस्थायां गौणं कुशलत्वं व्याख्याय अत्र भवतीत्यनेन मुख्यं कुशलत्व- मुच्यत इति। यत्तु गीतायां "सर्वारम्भपरित्यागी गुणातीत: स उच्यत” इति ज्ञानिनोऽपि गुणातीतत्वमुक्त सद्गुणाभिमान- शून्यतामात्र परमेश्वरस्य निर्गुणत्ववदिति । अतः परं शास्त्र- समाप्तिपर्यन्त हानोपायव्यूहस्य अशेषविशेषास्त प्रसङ्गेनैव च हानव्यूहस्य विशेषाश्च व्याख्येया: । तत्रादौ विवेकख्यात्युपाय- प्रतिपादकं सूत्रजातमवतारयति । सिद्देति। सिद्धा निष्य ना अविप्लवेति यावत् ॥ २७ ॥ ८ सिद्धा भवति विवेकख्यातिनिोपायः, न च सिद्धिरन्तरेण साधनमित्येतदारभ्यते ।

२३८ पातञ्जलदर्शनम् । * योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा- विवेकख्यातेः ॥ २८॥ योगाङ्गानि अष्टौ अभिधायिष्यमाणानि, तेषामनुष्ठानात् पञ्चपर्वणो विपर्यायस्याशुद्धिरूपस्य क्षयः नाशः, तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः, यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्व- मशुद्धिरापद्यते, यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवईते, सा खल्वेषा विवृद्धिः प्रकर्षमनुभवति आ विवेक- ख्याते: आ गुणपुरुषखरूपविज्ञानादित्यर्थः । योगाङ्गानुष्ठानमशुद्धेवियोगकारणं यथा परशु- श्छेद्यस्य, विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः मुखस्य, नान्यथा कारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति । नवैवेत्याह, तद्यथा उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः । वियो- गान्यत्वकृतयः कारणं नवधा स्मृतम् इति । तत्र उत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थिति- कारणं मनसः पुरुषार्थता, शरीरस्येवाहार अभिव्यक्तिकारणं यथा रूपस्यालोक- तथा रूपज्ञानम् । विकारकारणं मनसो विष- इति ।

साधनपादे योगवार्त्तिकम् । २३८ यान्तरं, यथाग्निः पाक्यस्य । प्रत्ययकारणं धूम- ज्ञानमग्निज्ञानस्य । प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः। वियोगकारणं तदेवाशुद्धेः । अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः। एव- मेकस्य स्त्रीप्रत्ययस्य अविद्या मूढ़त्वे देषो दुःखत्वे, रागः सुखत्वे, तत्त्वज्ञानं माध्यस्थ्ये। धृतिकारणं शरीरमिन्द्रियाणां तानि च तस्य, महाभूतानि शरीराणां तानि च परस्परं सर्वेषां तैयंग, यौन- मानुषदैवतानि च परस्परार्थत्वात्, इत्येवं नव कारणानि । तानि च यथासम्भवं पदार्थान्तरे- ध्वपि योज्यानि, योगाङ्गानुष्ठानं तु द्विधैव कार- गावं लभत इति ॥ २८॥ ८ मामान्यतो ज्ञानं श्रवणमननाभ्यामपि भवतीति दीप्तिपदं, दीप्तिश्च अत्राश्रुतामतविशेषग्रहणम्। अत्र योगाङ्गानुष्ठानादि- त्यनेन वच्यमाणयमादीनां योगाङ्गत्वमपि ज्ञानाङ्गतावदेव विव. क्षितम्। अन्यथा “तदपि वहिरङ्ग निर्वोजस्य” इत्यागामि- मूत्रे योगाङ्गतायां विशेषस्याप्रकृताभिधानताप्रसङ्गात् । ननु योगाङ्गानि योगसाधनानि तानि च पूर्वोक्ततया पुनर्नाकावान्ते इति चेन्न । कथं व्यस्थितचित्तोऽपि योगयुक्त: स्यादित्यादिभाष्ये णेव दत्तोत्तरप्रायत्वात् । पूर्वपादे हि उत्तमाधिकारिणाम् अभ्या- मवैराग्य एव योगयो: साधनमुक्त ततश्च मध्यमाधिकारिणां तपःस्वाध्यायेश्वरप्रणिधानान्यपि केवलानि एतत्पादस्यादी २४० यातजलदर्शनम्। उक्तानि । अत: परं मन्दाधिकारिणां यमादीन्यपि योगसाधनानि वक्तव्यानि ज्ञानसाधनप्रसङ्गेन इति अपोनरुक्त्यम् । यद्यपि ज्ञान- मपि असम्प्रज्ञातयोगसाधनतया अस्मिन् शास्त्र प्रतिपादित तथापि तदद्योगसामान्य अङ्ग न भवति सम्प्रज्ञाताहेतुत्वात् । अतो योगसामान्यस्य ज्ञानस्य चोभयोरेव तुल्यवदङ्गतया अत्र यमादीनि अष्टौ एव योगाङ्गतया प्रतिपादयिष्यन्त इति । सूत्र व्याचष्टे । योगाङ्गानोति। विपर्ययस्येति। योगाङ्गतया विपर्ययशब्द न तत्कायं पापादिकमपि ग्राह्यं तस्यापि अशुद्धि- रूपत्वात्। ज्ञानमुत्पद्यते पुंसः क्षयात्यापस्य कर्मण: । यथादर्शतले प्रख्ये पश्यन्त्यात्मानमात्मनि ॥ इति स्मृतेः । नाशश्चात्र तनुता। तथा तथा तनुत्वमशुद्धि- रापद्यत इत्युत्तरवाक्यात् ले शतनूकरणार्थश्चेत्युक्तसूत्राच्च । अतो न ज्ञानेनैव लशानामत्यन्तोच्छेद इति सिद्धान्तव्याघातः। अनु- रोधिनी अनुसारिणौ दीप्तिः सूक्ष्मग्राहिता । गुणपुरुषेति । गुणा- स्त्रयः सत्त्वादयः पुरुषश्च जीवखरौ इत्यर्थः । एतेन जिज्ञासा- माबहारा यमनियमान्तर्गतसर्वकर्मणां ज्ञानहेतुत्वं जिज्ञासान न्तरश्च कर्म त्याज्यमनुत्पन्नज्ञानेनापीति वेदान्तिब्रुवाणां मत दुर्मतं मन्तव्यम्। विपर्ययतानवद्वारा यमनियमान्तर्गतकर्मणां ज्ञानहेतुत्वसिद्धेरिति । अतएव कर्मणा सहिताज् ज्ञानात् सम्यग्योगोऽभिजायते । जानञ्च कर्मसहितं जायते दोषवर्जितम् ॥ इति कौर्मादिषु कर्मणां ज्ञानमाहित्येनानुष्ठानं सिद्धम् । यद्यपि विषयान्तरसञ्चाराख्य प्रतिबन्धनिवृत्तिरूपतया सम्प्रज्ञातो- ऽपि जानकारणं तथापि अशुदिक्षयद्वारा योगाङ्गानुष्ठानानामेव ज्ञानदीप्तिहेतुत्वमस्ति न योगस्येति अङ्गपदोपादानमिति । ननु साधनपाद योगवार्तिकम् । २४१ नान्यथा- नानाविधकार्यकारणभावदर्शनात् योगाङ्गान्यशुद्धिक्षयं प्रति ज्ञानं प्रति च कीदृशं कारणमित्याकाङ्क्षायामाह। योगाङ्गानु- ठानमशुद्धेरिति । अशुद्ध: कारणं वियोगरूपेणातिशय नेत्यर्थः । अयं भावः । सतएव वस्तुनोऽतिशयहेतुः कारणमुच्यते असदुत्पा- दस्यानभ्युपगमात् । तथा च सत्येव अशुद्धिवियोगाख्येन अती. तावस्थारूपेणातिशयन योगाङ्गानां कार्यति। एवं दृष्टान्तऽपि बोध्यम्। विवेकख्यातस्तु प्राप्तिकारणमिति। प्राप्तिरूपाति- शयाधायकतया विवेकख्याते: कारणमित्यर्थः । प्राप्तिश्चोत्पत्ती प्रतिबन्धनिवर्तनम् । तत्र दृष्टान्तमाह। यथेति । कारणमिति। न वैशेषिकाणामिवोत्पत्तिकारणमस्मम्मते । धर्मा- दीनां निमित्तकारणानां प्रतिबन्धनिवृत्तिकारणत्वसिद्धान्तादि- त्याशयः। 'निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु. ततः क्षेविकवदिति सूवे चैतत् व्यक्तीभविष्यति। विवेकख्यातेर त्पत्तौ च चित्तमेव कारणं स्वत एव सर्वार्थग्रहणसामर्थ्यादिति। पृच्छति। कति चैतानीति। उत्तरं नवैवेत्याहेति । पूर्वाचार्टी गण इति शेषः। कारिकोतानि नव कारणानि। यथोक्त क्रम मुदाहरति । तत्रेति। ज्ञानस्य वृत्तिरूपस्योत्पत्तिरूपातिशयेन मनः कारणं सम्भवति उपादानत्वादित्यर्थः। प्राप्तिकारणं च नोत्पत्तौ साक्षात्कारणं किन्तु प्रतिबन्धनिवृत्तिहारति। घटा दिषु दण्डादीनि च पूर्वोक्ताप्तिकारणमध्य एवं प्रवेशनीयानि, उत्पत्तिकारणत्वमुपादानकारणत्वमिति । स्थितीति । भोपाप- वर्गरूपं पुरुषार्थसामान्यं मनसः स्थितिरूपातिशयेन कारण भवति पुरुषार्थसमाप्तौ मनस: स्वयमेव लयादित्यर्थः । प्राधान्येनैव मन उदाहृतं पुरुषार्थस्य सर्वभोग्यानामेव स्थिति- हेतुत्वादिति। अभिव्यक्तीति । पालोको रूपज्ञानञ्च रूपस्य अभिव्यक्तिरूपातिशयेन कारणमित्यर्थः । अभिव्यत्तिश्च बुद्धि २१ अत्र २४२ पातञ्जलदर्शनम् । वृत्तिः पौरुषेयबोधश्च तत्र बुद्धिवृत्तौ आलोकः कारणं पौरुषेय- बोधे च रूपज्ञानं बुद्धिवृत्तिरूपमिति विभागः। विकारकारण- मिति। एकाग्रस्य मनसो विषयान्तरं खगोचररागादिविकार- रूपातिशयेन कारणं भवतीत्यर्थः । प्रत्ययकारणमिति। प्रत्ययः सम्प्रत्ययः प्रामाण्यनिश्चय इति यावत्, तथा च पर्वते वह्निर- स्तौति शब्दादिना यदग्निज्ञानं तस्य सम्प्रत्ययकारणं पर्वते धूमदर्शनमित्यर्थः। यथाश्रुतेऽग्निज्ञानस्ये त्यत्र ज्ञानशब्दवैय- ोत्। आनुमानिकज्ञानस्यापि अभिव्यक्तिमध्य एव प्रवेशाच्च। प्राप्तिकारणमिति। प्राप्तिः प्राप्तिरित्येक एवार्थः, एतयाख्या- तम्। वियोगेति। एतदपि व्याख्यातम्। ननु वियोगकारणे कारणव्यवहार एव नास्तीति चेन्न । मशकार्थोऽयं धूम इत्यादि- व्यवहारदर्शनात् । कर्मकार्ययोरेकार्थतया अशेषधातुकर्मणामेव कार्यत्वाचेति। अन्यत्वकारणमिति। रूपभेदकारणमित्यर्थः । ननु विकारकारणात् अस्य को भेद इति चेत्, उच्यते । सुवर्णादेः कटकादिरूपतात्यागेन कुण्डलादिरूपतायां यत्कारणं तत्सुव- देविकारकारणमुच्यते तदेव च कारणं कटकादेरन्यत्वकारण. मुच्यते कटकादिविनाशपूर्वकमन्येषां कुण्डलादीनामुत्पादनात् अतः कार्य मेदेन एकस्यैव वस्तुनो विधा कारणत्वमिति । सुवर्ण- स्येति । सुवर्णपिण्डादेरित्यर्थः । सुवर्णस्य सर्वविकारानुगतत्वेन सुवर्णान्यत्वाकारणत्वात्। अतोऽस्य विकारकारणात् भेदः सुवर्णपिण्डं कुण्डलं करोति इत्यादिप्रत्ययश्च अस्यां कारणतायां प्रमाणमिति । वाह्यमन्यत्वकारणमुदाहृत्य प्रान्तरमपि अन्यत्व- कारणमुदाहरति । एवमेकस्येति । स्त्रीप्रत्ययस्य स्वयाकारपरि- रणतबुद्धिद्रव्यस्य वृत्त्याख्यस्य एकस्यैकजातीयस्य मूढत्वादिधर्मा- णामन्यत्वे भिन्नत्वे अविद्यादिचतुष्टयं कारणमित्यर्थः। तत्र मोहः कर्त्तव्याकर्त्तव्यशून्यता दुःखत्वसुखत्वे दुःखित्वसखित्वे साधनपादे योगवार्तिकम् । २४३ माध्यस्थ्यं रागहेषमोहशून्यता। धृतिकारणमिति। शरीर- मिन्द्रियाणाम् आश्रयविधया धारकं तानि चेन्द्रियाणि तस्य शरीरस्य योगक्षेमनिर्वाहकत्वेन धारकाणि । एवं पृथिव्यादीनि महाभूतानि आधारतयैव शरीराणां धारकाणिं । तानि च पर- स्परं सर्वेषामिति। तानि च महाभूतानि अन्योन्यं सर्वेषां सर्वाणि धारकाणि अाकाशं वायोर्धारकं चक्रवात्या च छिद्राकाशस्य धारिका छिद्रस्य तत्तन्त्रत्वात् तदाश्रितत्वाच्च । एवं वायुस्ते- जसो धारकः तेजश्चं आवरणादिरूपमण्डान्तर्वर्त्तिवायूनां धार- कमित्यादिरूपेण व्याख्येयम्। तथा तैयंग्यौनमानुषदैवतानि च शरीराणि परस्परं धारकाणि आश्रयायिभावाभावेऽपि यन्नवृष्यादिभिरन्योन्यमुपकारकत्वात्। 'देवान् भावयतानेन ते देवा भावयन्तु वः' इत्यादिभ्य इत्यर्थः । अथैवं स्थितिकारणात् धतिकारणस्य कथं भेद इति, उच्यते। कार्यानुप्रवेशाप्रवेशा- भ्याम् अवान्तरभेदात् स्थितिहेतुर्हि पुरुषार्थाहारादिर्मतः शरी- राद्यविभक्त: सन्नेव तानि स्थापयति धृतिहेतुश्च शरीरादिरि- न्द्रियादीन् अननुप्रविश्यैव तानि धारयतीति महान् विशेष इति । उपसंहरति । इत्येवमिति । यथायोग्यमभिरेव कार- णत्वैरविद्याकर्मजीवेश्वरादीनां सर्वकारणत्वप्रतिपादिकाः श्रुति- स्मृतयो व्याख्येया इत्याशयवान् श्राह। तानि च यथासम्भव- मिति। आधुनिकास्तु उत्पाद्यविका-प्यसंस्काररूपैश्चतुर्विधं कार्यमाहुः । तैस्तु नवानामेव कार्याणां चतुर्धा विभागः कृत इति । प्रकृतमुपसंहरति। योगाङ्गेति। सूत्रान्तरमवतार- यति । तत्रेति ॥ २८ ॥ - तव योगाङ्गानि अवधाय॑न्ते- २४४ पातञ्जलदर्शनम्। * यमनियमासनप्राणायामप्रत्याहारधारणा- ध्यानसमाधयोऽष्टावङ्गानि ॥ २६ ॥ * यथाक्रममेतेषामनुष्ठानं खरूपं च वक्ष्यामः ॥ २६ ॥ पूर्वपादोक्तानि अन्तरङ्गानि अभ्यासवैराग्यश्रद्धाप्राणायामा- दौनि अस्य पादस्यादी उक्तानि मध्यमसाधनानि तपःखाध्याये- खरप्रणिधानानि अत्यन्तवहिरङ्गरनुक्तसाधनैः सह पिण्डीकृत्य योगज्ञानोमयसाधनतया अत्रोच्यन्त इति अपौनरुक्त्यम्। क्रिया- साधननिरूपणं तु उत्तममध्यमाधमाधिकारमेदात् । नत्र वैरा- ग्यस्य सन्तोष प्रवेशः श्रद्धादीनां च तप-आदिषु परिकर्मणाच्च धारणादित्रिक इति श्रवणमननयोश्च प्रमाणविधयैव ज्ञानहेतुत्वं साक्षादस्तीत्याशयेन अशुक्षियहारकेषु ज्ञानसाधनेषु न ते परिगणिते इति मन्तव्यम्। भाष्ये यथाक्रममेषामनुष्ठानमिति- कर्तव्यमिति शेषः । अयं तत्सर्ग एव ईश्वरप्रसादाज्जितोत्तर भूमिकस्य नाधरभूमिषु विनियोग इति भाष्ये वक्तव्यत्वात् । अन्यथा वहिरङ्गान्तरङ्गविभागप्रतिपादनवैयपित्तश्चेति। उत्त- रसूत्रजातमवतारयति । स्वरूपं चेति । स्वरूपञ्च यथाक्रम- मेषामतः परं वक्ष्याम इत्यर्थः ॥ २८ ॥ * अहिंसासत्यमस्तेयब्रह्मचापरिग्रहा यमाः ॥३०॥ तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामन- भिद्रोहः, उत्तरे च यमनियमास्तन्मूलास्त- सिद्धिपरतया तत्प्रतिपादनाय प्रतिपाद्यन्ते, २४५ साधनपादे योगवार्त्तिकम् । तदवदातरूपकरणायैवोपादौयन्ते । तथा च उक्तं स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसा- निदानेभ्यो निवर्तमानस्तामेव अवदातरूपाम- हिंसां करोति सत्यं यथार्थ वाङ्मनसे, यथा दृष्टं यथा अनुमितं यथा श्रुतं तथा वामनश्चेति, परव खबोधसंक्रान्तये वागुक्ता सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिबध्या वा भवेदिति, एषा सर्वभूतोपकारार्थ प्रवृत्ता न भूतोपघाताय, यदि च एवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्, पापमेव भवेत्, तेन पुण्याभासन पुण्यप्रतिरूपकेण कष्टतमं प्राप्नुयात्, तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् । स्तेयम् अ- + शास्त्रपूर्वकं ट्रव्याणां परतः खीकरणं, तत्पति- षेधः पुनरस्पृहारूपमस्तेयमिति। ब्रह्मचर्य गुप्तेन्द्रियस्य उपस्थस्य संयमः । विषयाणामर्जन- रक्षणक्षयसङ्गहिंसादोषदर्शनात् अखीकरणम- परिग्रह, इत्येते यमाः ॥ ३० ॥ योगाङ्गभूतां प्रकृष्टामहिंसां लक्षयति। तत्र अहिंसा सर्व- थेति। बाथमविहितनित्यकर्माविरोधेनेति विशेषणीया शौ- चादिषु क्षुद्रजन्तुहिंसाया अपरिहार्यत्वात्। अतएव योगिनां २४६ पातञ्चलदर्शनम्। तथा प्राणायामादिकं तत्पापक्षालनाय नित्यतया शास्त्र विहित- मिति । अहिंसाया अविरोधेनैव सत्यादयो यमनियमा अनु- ष्ठेया इति प्रतिपादनाय तस्याः श्रेष्ठत्वमाह। उत्तरे चेति । तन्मूला इति। सैव मूलं प्रयोजनं येषामिति विग्रहः । अतो हिंसासिद्धिपरतयैव शास्त्रषु इतरयमनियमाः प्रतिपाद्यन्त इति तसिद्धिपरतयैवेत्यस्य विवरणम्। तत्प्रतिपादनायेति। सत्या. दिभिरहिंसा सिध्य नीति प्रतिपादनायेति तस्यार्थः । तदवदातरूपकरणाय अहिंता निर्मलीकरणायैव योगिभि- रुपादीयन्तेऽनुष्ठीयन्ते चेत्यर्थः। शौचतप आद्यकरण च नर- कादिना हिंसापि अन्ततोऽस्तीति मन्तव्यम्। तथा चेत्यादि, सुगमम् । तथा मोक्षध ऽप्यक्तम् यथा नागपदेऽन्यानि पदानि पदगामिनाम् । सर्वाय वापि धीयन्ते पदजातानि कौञ्जरे ॥ एवं सर्वमहिंसायां धर्मार्थमपि धीयते । इति। सत्यं लक्षयति । सत्यमिति। यथार्थत्वं व्याचष्टे । यथा दृष्टमिति। दर्शनादीनां प्रमाल्वमपि विवक्षितम् । भ्रान्ती इति वक्ष्यमाणत्वात्। अज्ञाननिमित्तकपापान्तरवत् भ्रान्तिनि- मित्तका सत्यस्यापि पापत्वौचित्यात् । मनश्चेति। मनश्च तथा तात्पर्ययुक्तमित्यर्थः । तेन यदा दृष्टादिविपरीतार्थबोधने ता- त्ययं तदा यथार्था वागसत्यैव भवति यथा अश्वत्थामा हत इति युधिष्ठिरवाक्यं, तत्र हि गजविषये वाक्यस्य सत्वत्वेऽपि मनसो न सत्यत्वं दृष्टविपरीतद्रोणपुत्रहनने तात्पादिति । सत्यस्य उदाहरणं सामान्यत अाह। परत्र इत्यादिना इती- त्यन्तेन। इतिशब्दात् पूर्व तदा सत्यमिति पूरणीयम्। स्व- विमोदाय गीतावाक्यादीनां परप्रतिपत्तिबध्यत्वादौ अपि न अप्सत्यत्वमित्यतस्तदारावर्तनाथं परत्न स्वबोधसंक्रान्तये इत्यु- साधनपादे योगवात्तिकम् । २४७ । तम् । वञ्चिता विपरीतार्थबोधनेच्छया प्रयुक्ता भ्रान्ता समेण प्रयुक्ता प्रतिपत्तिबन्ध्या अप्रसिद्धपदादिभिन बोधजननक्षमेत्यर्थः यथोक्तसत्यलक्षणे लोकहितत्वमपि विशेषणं देयमित्याह । एषेति । एषा वाक् प्रवृत्ता ब्रह्मणा निर्मिता। अतो यदि च, एवमपि यथार्थापि, अभिधीयमाना उच्चार्यमाणे त्यादिरर्थः । सा च वाक् यथा दस्युभि: सार्थगमनं पृष्टस्य साथगमनाभिधानम् इत्यादिरूपा, पुण्याभासेन पुण्यवत्प्रतीयमानेन। तत्र हेतुः पुण्यप्रतिरूपकेणेति पुण्यसदृशेनेत्यर्थः । कष्ट दुःखात्मकं तमो नरकमित्यर्थः । सत्यं यथाथं ब्रूयादित्यर्थः । अत्र च असत्यनि- वृत्तिमात्र सत्यशब्देन विवक्षितं तस्यैव तत्त्वसम्भवा अन्यथा असत्यस्य वचनेऽपि यमप्रसङ्गाच्चेति । अस्तेयं लक्षयितुमभावस्य प्रतियोगिनिरूपणाधीननिरूपणतयादी स्तेयं लक्षयति । स्तेय- मिति। प्रतिग्रहव्यावर्तनायाशास्त्रपूर्वकमिति। अत्र चौर्य- यापि स्वत्वं जायत इति अवगम्यते। अथ वा स्वीकरणं ममति बुद्धिमानं भ्रमसाधारणमिति तत्प्रतिषेधस्तन्नित्तिस्तयापि अस्पृहामुपलक्षयित्वाह। अस्पृहारूप इति। ब्रह्मचर्य लक्ष- यति। गुप्तेति । गुप्तेन्द्रियस्येति स्वोक्तस्य विवरणमुपस्थ स्येति । संयम इति अवोपसर्गण अन्येन्द्रियसाहित्यमुपस्थस्य ग्राह्यं तेनो- पस्थस्य विषये सर्वेन्द्रियव्यापारोपरम इति लक्षणम् । तथा चोक्तं दक्षसंहितायाम् । ब्रह्मचर्य सदा रक्षेदष्टधा लक्षणं पृथक् । स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥ समल्योऽध्यवसायश्च क्रियानित्तिरेव च । एतनीथुनमष्टाङ्ग प्रवदन्ति मनीषिणः ॥ इति। प्रकृष्टमोक्षणं प्रेक्षणं रागपूर्वकं दर्शनमित्यर्थः । अप रिग्रई लनयति । विषयागामिति। परिग्रहे हिमाद्या अपि २४८ पातञ्जलदर्शनम्। दोषास्तेषां दर्शनादिति विशेषणं दम्भाशक्त्यादिनिमित्तकास्त्री- करणेऽतिव्याप्तिनिरासाय इति। हिंसा च अत्र दाटप्रभृतीनां बोध्या। उक्तानां यमानां विशेषप्रतिपादकं सूत्र पूरयित्वा पठति । ते त्विति ॥ ३० ॥ ते तु- * जातिदेशकालसमयानवच्छिन्नाः सार्व- भीमा महाव्रतम् ॥ ३१ ॥ * तत्र अहिंसा जात्यवच्छिन्ना मत्स्यबन्धकस्य मत्स्येषु एव नान्यत्र हिंसा, सैव देशावच्छिन्ना न तीर्थे हनिष्यामौति, सैव कालावच्छिन्ना न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति, सैव विभिरूपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति, यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यवेति । एभिर्जातिदेशकाल- समयैः अनवच्छिन्ना अहिंसादयः सर्वथा एव परि- पालनीया, सर्वभूमिषु सर्वविषयेषु, सर्वथा एव अविदितव्यभिचाराः सार्वभौमा महाव्रतमित्यु- च्यते ॥ ३१ ॥ समयः सङ्केतो वक्ष्यमाणनियमविशेष इति यावत् । जात्या- दिभिश्चतुर्भिरनवच्छिनास्त यमाः सार्वभौमाः सर्वासु अवस्थासु अनुगता अतो महाव्रतमितिसंजिता इत्यर्थः । अन्वर्थसंज्ञायाः फलच्च प्रकृष्टयोगिभिरेवमनुष्ठानमिति । मुख्यमहिंसाख्ययम- साधनपादे योगवार्तिकम् । ३४८ - माश्वित्व जात्यवच्छिबादीन् व्याचष्टे । तत्र अहिंसेति। जाति- मत्स्यत्वादिः तया परम्परया अवच्छिन्ना मत्स्याद्यतिरिक्तस्य अहिंसेत्यर्थः । एवमुत्तरासु अपि परम्परया एवावच्छिन्नत्वं बोध्यम् । सैव देशेति । सैव अहिंसैव एवमुत्तरयोरपि। त्रिभि- रुपरतस्येति। सार्यनिरासायोक्तम्। त्रिभिर्जात्याद्यवच्छेदैः परम्परया शून्यस्य पुरुषस्येत्यर्थः । समयावच्छिन्नस्य उदाहरण- इयमाह। देवेति। यथा चेति । यथा वेत्यर्थः । अहिंसाया इव अन्येषामपि यमाना जात्याद्यवच्छिनत्वमूहनीयमित्याशयः । सूत्रतात्पर्य्याथमाह। एभिरिति। सार्वभौमशब्दस्यार्थमाह सर्वभूमिषु इति। सर्वभूमिषु इत्यस्य विवरणं सर्वविषयेषु इति । विषया जात्यादयो यथोक्ताः। अस्यापि विवरणं सर्वथैव इत्यादि। ननु कुशसमिदाहरणादिवैधहिंसानामपि परित्यागे नित्यकर्म- बाधेन प्रत्यवायापत्तिरिति, मैवम् । सर्वाणि भूतानि मुखे रमन्ते सर्वाणि दुःखेषु तथोहिजन्ति । तेषां भयोत्पादनजातखेदः कुर्यात्र कर्माणि हि जातवेदः ॥ इति मोक्षधर्मादिवाक्येर्जातवेदस्योत्पत्रात्मज्ञानस्य योगिनः कारुणिकस्य वाह्यकर्मत्यागानुजया अयोगिनामेव वाह्यकर्मा- करणे प्रत्यवायात् योगरूपस्यैव नित्यकर्मणो मन्वादिभिर्विहित- त्वाच्च । यथा मनी एतानेके महायज्ञान् यजशास्त्रविदो जनाः । अनोहमानाः सततमिन्द्रियेष्व व जुह्वति ॥ इति । अतएव वशिष्ठेन वाह्याभ्यन्तरकर्मणोर्विकल्प उक्तः । वाह्यमाभ्यन्तरं चेति विविधं कर्म वैदिकम् । तयोरन्धतरत् कुव्यानित्यं कर्म यथाविधि ॥ इति। तयोश्चाभ्यन्तरं कर्म हिंसाद्यभावात् ऐकाग्रारूप- त्वाच्च श्रेष्ठ गीतादिषूक्तम् ‘श्रेयान् द्रव्यमयादयन्नाज्ज्ञानयज्ञः २५० पातञ्जलदर्शनम् । परन्तपे'त्यादिना। भाष्यकारश्च वैधहिंसाया अपि पापहेतुत्वमग्रे प्रतिपादयिष्यति 'शौचादिषु चापरिहार्या हिंसा चाश्रम- विहितैवेति न तया व्रतलोपः खाश्रमधर्माविरोधित्वेन विशे- षितत्वादिति ॥ ३१ ॥ * शौचसन्तोषतपःखाध्यायेंश्वरप्रणिधानानि नियमाः ॥ ३२ ॥ * तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहर- णादि च वाह्यम् । आभ्यन्तरं चित्तमलानामा. क्षालनम् । सन्तोषः सन्निहितसाधनादधिकस्य अनुपादित्सा । तपः इन्दसहनं, इन्दश्च जिघत्मा- पिपासे, शीतोष्णे, स्थानासने, काष्ठमौनाकार- मोने च,व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायण- सान्तपनादीनि । स्वाध्यायः मोक्षशास्त्राणामध्य- यनं, प्रणवजपो वा। ईश्वरप्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणं, "शय्यासनस्थोऽथ पथि व्रजन् वा स्वस्थः परिक्षीणवितर्कजालः। संसार- वीजक्षयमीक्षमाणः स्यान्नित्यमुक्तोऽमृतभोग- भागी”। यत्रेदमुक्तं "ततः प्रत्यक्चेतनाधि- गमोऽप्यन्तरायाभावश्च" इति ॥ ३२ ॥ यमान् व्याख्याय नियमान् व्याचष्टे । स्थूलशरीरस्यैव वाह्यान्तररूपेणादौ विविधं वाह्यशौच दर्शयति। मृज्जलेति। मेध्य गोमूत्रयवाग्वादि तेषां भक्षणं साधनपादे योगवार्तिकम् । २५१ मेध्याभ्यवहरणम् अादिशब्देनोपवासादयो ग्रायाः । मानसमपि शौचमाह। आभ्यन्तरमिति। सत्त्व खभावस्य चित्तस्य मला रागद्वेषादयस्तेषां मैत्रधादिना प्रक्षालनं प्रसाद इति प्रागुक्त- मित्यर्थः । सन्तोषं व्याचष्ट। सन्निहितेति। अत्यावश्यकप्रा- णयानानिर्वाहकविद्यमानसाधनादतिरिक्तस्य अलिप्स त्यर्थः द्वन्हान्याह। जिघत्से ति। जिघत्सा वभुक्षा, यद्यपि शीतोष्णा- दिवत् परस्परविरुद्धत्वं वुभुक्षाषिपासयोर्नास्ति तथापि मिथुन- वदेव पारिभाषिकदन्द्वता। स्थानमूर्भावस्थानम् । आसनं चोप- वेशनम्। काष्ठमौनमिङ्गितेनापि स्वाभिप्रायाप्रकाशनम् । श्रा- कारमौनं त्ववचनमात्रम् । एतानि शास्त्रोक्त व्रतेनैव सोढ़व्यानि न तु वृथा इत्याशयेनाह। व्रतानि च एषामिति । स्वाध्याय- व्याख्या सुकरा। तज्जपस्तदर्थभावनमिति प्रथमपादोक्तप्रणि- धानव्याहत्त्वयं द्वितीयपादाद्यसूत्रवाक्यार्थमेव प्रणिधानशब्दार्थ स्मारयति । तस्मिन् परमगुरौ सर्वकर्मार्पणमिति । एतच्च तत्वैव व्याख्यातम् । ननु एवं तदर्थभावनरूपमेव प्रणिधानमर्थो भवतु । न । वहिरङ्गताया वक्ष्यमाणत्वात्। ईश्वरभावनं हि ध्यानरूप- तया योगस्यान्तरङ्गमेव। तत्चयमन्तरङ्गमिति वक्ष्यमाणसूत्रात् मवकर्मार्पणमेव मुख्यतो ध्येयं न तु ईश्वरतत्त्वम् । 'कुर्यात् कर्म सन्यासचिन्तन'मिति योगियाज्ञवल्क्यवाक्यात् । नाहं कर्ता सर्वमतन्मनसा कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः इति कौर्माच्च। ईश्वरस्तु सामान्यतस्तविशेषणतामात्रेण कर्तृत्वारोपेण च ध्येय इत्यतो युक्ता तस्य योगवहिरङ्गतेति । तदेवं सूत्रगणोक्ता यमनियमा विष्णु पुराणादिषु अपि दर्शिताः। ब्रह्मचय्यमहिंसां च सत्यास्तेयपरिग्रहान् । मेवेत योगी निष्कामो योग्यतां मनसो नयन् ॥ ॥ ।

२५२ पातनलदर्शनम्। स्वाध्यायशौचसन्तोषतासि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ॥ इत्यादिभि: । एतेषु दशषु मध्ये ईश्वरप्रणिधानस्य मुख्यतो योगाङ्गत्वमिति प्रतिपादनाय निर्विघ्नपरमात्मयोगहेतुत्वं तस्याह लोकेन। शय्यासनेति । ईश्वरप्रणिधानी तदनुग्रहात् सदैव योगयुक्त: स्यादिति श्लोकार्थः । स्वस्थ: परमात्मनिष्ठः परमात्मा- पितकर्मणां मुख्यतस्तद्योगस्यैव कल्पनौचित्यात् वितर्कजालो यो वक्ष्यमाण: स वक्ष्यमा प्रतिपक्षभावनां विनापि परिक्षीणो यस्य स तथा । संसारवीजानां संस्कारादीनां क्षयमनुदिनमुप- लभमान: तथामृतभोगभागी जीवन्मुक्ति सुखानुभवितेत्येवम्भूती नित्ययुक्तः स्यादित्यर्थः । न केवलमौखरेऽपितकर्मण ऐश्वरयोग एव भवति अपि तु ईखरसाक्षात्कारद्वारा पूर्णत्वादिना जीव- तत्त्वसाक्षाकारोऽपोत्युक्तमेव स्मारयति। यत्र इदमुक्तमिति । यत्र ईश्वरयोग। ननु यमनियमयोर्मध्ये यजदानाद्यवचना- न्यूनतेति चेत्, न । देवट्विजगुरुप्राज्ञ पूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ इत्यादिवाक्येभ्योऽवानुक्तकर्मणां तपस्येवान्तर्भावात्। एवं योगिनामन्तर्यागाभयदानादेरपि तपस्येवान्तर्भावः । देव- ब्राह्मणार्थहिंसाया अपि त्याज्यवचनेन च प्रकष्टयोगिनां वाद्य- कर्मणाम् अभावसिद्धिरिति। तदेवं यमाः पञ्च नियमाश्च पञ्च सर्वस्मृतिसिद्धा: प्रोक्ताः। ननु यमानामभावरूपतया कालाद्यन- वच्छिनत्वसम्भवात् सार्वभौमत्वमुक्तं नियमानान्तु प्रतिनियत- कालावच्छिन्नतया न सार्वभौमत्वं सम्भवति अतो नात्र महा- व्रतरूपो विशेष उक्त इति। यथोक्तयोश्च यमनियमयोर्मध्ये निवृत्तिरूपतया शक्यसम्पादनत्वेन यमा एव परमहंसानामाव-

साधनपादे योगवार्तिकम्।
२५३
श्यका जड़भरतादीनामपि अहिंसापालनस्य विष्णुपुराणादौ
स्मरणात् । न तु नियमाः प्रवृत्तिरूपतया योगान्तरायत्वात् ।
तदुक्तं भागवते
यमानभीक्ष्ण सेवेत नियमान् मत्परः क्वचित् ।
इति। उक्तेषु यमनियमेषु वक्ष्यमाणविघ्नस्य निवृत्त्य पाय-
प्रतिपादकं सूत्र पूरयित्वावतारयति। एतेषां यमनियमाना-
मिति ॥ ३२॥
एतेषां यमनियमानां
वितर्कबाधने प्रतिपक्षमावनम् ॥ ३३ ॥
यदा अस्य ब्राह्मणस्य हिंसादयो वितर्का
जायेरन् हनिष्याम्यहमपकारिणम्, अन्तमपि
वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु
च अस्य व्यवायी भविष्यामि, परिग्रहेषु च अस्य
स्वामी भविष्यामीति । एवमुन्मार्गप्रवणवितर्क-
ज्चरेण अतिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्
भावयेत् घोरेषु संसाराङ्गारेषु पच्यमानेन मया
शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः,
स खल्वहं त्यक्ता वितर्कान् पुनस्तानाददान-
स्तुल्यः श्ववृत्तेन इति भावयेत्, यथा श्वा वान्ता-
वलेही तथा त्यक्तस्य पुनराददान इति । एव-
मादि सूत्रान्तरेषु अपि योज्यम् ॥ ३३ ॥

२५४ पातञ्चलदर्शनम्। वच्यमाणवितर्यमादिबाधने सति वच्यमाणं प्रतिपक्षभावन कुयादित्यर्थः । तदेतद्याचष्टे । यदास्येति । विपरीतास्तर्का विचारा येषु इति वितर्कसंज्ञा हिंसादिषु तान्त्रिको। तर्क- श्चात्र विशेषणं, तथाच वितयं माणो हिंसादिर्वितर्कः तेन बाधने स्वाभिमुखीकरण प्रतिपक्षभावनम्। उत्तरसूबवक्ष्यमाणं कुर्यादित्यर्थः । विपरीततर्कस्याकारमाह । हनिष्यामोत्या- दिना इतीत्यन्तेन। एवं नियमपञ्चकेऽपि त्यक्ष्याम्यहं शौच- मित्यादयो वितर्काः द्रष्टव्याः युक्तिसाम्यात्। सूत्रतात्पर्य्यार्थ- माह। एवमिति । एवमुन्मार्गाभिमुखेन हिंसादिगतेन वितर्क- ज्वरेण ज्वलितेन बाध्यमानो योगी वितर्कविरोधिज्ञानविषय- तया वितर्कप्रतिपक्षान् दुःखादिफलकत्वादीन् भावयेत् चिन्त- येत् इत्यर्थः । प्रतिपक्षभावनं व्याचष्टे। घोरेषु इत्यादिना भावयेदित्यन्तेन। वितर्कान् हिंसादीन् । अत्र दुःखफलत्व- चिन्तनं वाक्यतात्यार्थः । तुल्यत्वमेव विवृणोति। यथेति। एवमादीति। वितर्कबाधने प्रतिपक्षभावनमित्येवमादिकं सूत्रा- न्तरेषु आसनप्राणायामसूत्रेषु अपि योजनीयम् । आदिशब्दन अस्य सूत्रस्य व्याख्या उत्तरसूत्रच ग्राह्यम्। आसनादिषु च वितर्का आसनादिकं त्यक्ष्य इत्यादिरूपा इति शेषः । इदानीं ये वितर्काः ये वा वितर्कस्य प्रतिपक्षाः यादृशं वा तच्चिन्तन तत्वयमाह ॥३३॥ *वितर्का हिंसादयः कृतकारिताऽनुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखा- ज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥३४॥ * तव हिंसा तावत् कृता कारितानुमोदि- २५५ साधनपाई योगवार्तिकम्। तेति विधा, एकैका पुनस्विधा लोभेन मांस- चर्मार्थन, क्रोधेन अपकृतमनेनेति, मोहेन धर्मों मे भविष्यतीति, लोभक्रोधमोहाः पुनस्विविधाः मृदुमध्याधिमात्रा इति, एवं सप्तविंशति भेदा भवन्ति हिंसायाः, मुटुंमध्याधिमात्राः पुनस्वेधा, मृदुमृदुः, मध्यमृदुः, तौमृदुरिति, तथा मृदु- मध्यः मध्यमध्यः, तीव्रमध्य इति, तथा मृदुतीव्रः, मध्यतीव्रः, अधिमावतीव्रः, इति, एवमेकाशीति- भेदा हिंसा भवति, सा पुनर्नियमविकल्पसमु- चयभेदादसंख्येया, प्राणभृद्भेदस्यापरिसंख्येयत्वा- दिति। एवमनृतादिषु अपि योज्यम् । ते खलु अमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनं, दुःखमज्ञानञ्च अनन्तफलं येषा- मिति प्रतिपक्षभावनं, तथा च हिंसकः प्रथम तावद् बध्यस्य वीर्यमाक्षिपति, तत: शस्त्रादि- निपातेन दुःखयति, ततो जीवितादपि मोच- यति, ततो वौ-क्षेपादस्य चेतनाचेतनमुप- करणं क्षीणवौयं भवति, दुःखोत्पादानरक- तिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यप- रोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो २५६ पातञ्जलदर्शनम्। मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाक- वेदनीयत्वात् कथञ्चिदेवोच्छृसिति, यदि च कथ- ञ्चित् पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्ती भवेदल्पायुरिति, एवमनृतादिषु अपि योज्यं यथासम्भवम् । एवं वितर्काणां च अमुमेवानु- गतं विपाकमनिष्टं भावयन्न वितर्केषु मनः प्रणि- दधीत। प्रतिपक्षभावनाद् हेतोर्हे या वितर्काः ॥ ३४ ॥ हिंसादय इति। वितर्काणां स्वरूपकथनं विशेषणत्रयेण । तत्तहतविशेषाणां कथनं सर्वथैव हेयत्वप्रतिपादनाय । दुःखादि- फलकत्वकथनं च प्रतिपक्षकथनम्। प्रतिपक्षान् भावयेदिति- पूर्वस्वीयभाष्यानुपपत्त्या प्रतिपक्षभावनमित्यन्तकर्मधारया- सम्भवात् । शेषेण च भावनकथनमिति । दुःखाज्ञाने एव अनन्ते फले येषामिति विग्रहः। विशेषणत्रयोक्तान् विशेषान् विव- णोति। तत्र हिंसेति। ततेति। कता वा कारिता वा अनुमो- दिता वेत्यर्थः । तत्र तता स्वयं निष्यादिना कारिता कुर्वित्युक्ता अनुमोदिता परैः क्रियमाणा साधु साध्वित्यङ्गीकृता। दीनामपि द्वितीयविशेषणोक्तं वैविध्य व्याचष्टे । एकैकेति। लोभेन इत्यस्य व्याख्या। मांसचर्मार्थेन मांसचर्मादिप्रयोजनेन तथा अपकृतमनेन इत्येवंक्रोधेन तथा मोहन यज्ञार्थहिंसया निर्दोषो धर्मो भविष्यतीत्येवं रूपेणत्यर्थः । यद्यपि सृदुमध्याधि- मावा इति हिंसादिविशेषणं सूबेऽस्ति तथापि लोभादेमंदु- वादिनैव हिंसादेमंदुत्वादिकमत्र विवक्षितमर्थसौष्ठवाय इत्याश. कृता- साधनपाद योगवार्तिकम् । २५० येन लोभादिविशेषणतया मृदुत्वादीन् व्याचष्टे। लोभक्रोध मोहा इति । लोभक्रोधमोहा एकैका: पुनस्त्रिधा मृदुमध्याधि- मात्रा इत्यर्थः । एवमित्यादि हिंसाया इत्यन्तमेकं वाक्यं मृदु- मध्याधिमानत्वात् ततोऽपि विशेष इति पूर्वपादीयसूत्रा- नुसारेण । यौक्तिकान् अपरान् विशेषान् स्वयमाह। मृदु- मध्याधिमानाः पुनस्विधेति । सर्वत्र तीव्रत्वमधिमानता, शेष स्पष्टम्। सा पुननियमति । मत्स्येषु एव हिंसेत्यादिनियमः । एकस्मिन् दिवसे स्थावरस्य जङ्गमस्य वा अन्यतरस्यैव हिंसा नोभयोरित्यादिर्विकल्पः । स्थावरजङ्गमयोरुभयोरेव अव्यवस्थया हिंसेत्यादिः समुच्चयः । इत्येवं नियमविकल्प समुच्चयानाम् अानन्त्यात् हिंसा असंख्येयभेदेत्यर्थः । नियमाद्यानन्त्य हेतुः, प्राणभृदिति। हिंसकानां हिंस्यानां वा असंख्यतया निय- मादीनामनन्तप्रकारत्वमित्यर्थः । एवमिति। हिंसायामिव अनृ तादिरूपवितर्केषु अपि कृतकारिता इत्यादिविभागा योज- नीया इत्यर्थः । अज्ञानं चेति । अज्ञानं सम्मोहः हिंसातो दुःखाज्ञाने यथा भवतस्तदाह । तथा चेति। तथा होत्यर्थः वौयाक्षेपो बलात् नियमनम्। एवं त्रिप्रकारहिंसनात् त्रिप्र- कारमेव दुःखं हन्ता प्राप्नोति कर्मानुरूपफलोदयादिति प्रति पादयति। ततो वीर्य ति। परस्य वौयाक्षेपात् तस्य हन्तु- रपि चेतनाचेतनमुपकरणं स्त्रीपुत्रधनादिकं क्षीणवीर्य कार्या- क्षम भवति। तथा परस्य शस्त्रादिना दुःखोत्पादनात् हन्तापि नरकादिषु याम्यशस्त्रादिना दुःखमनुभवति । जीवितव्यपरोपणात् प्राणवियोजनात् तत्कापि प्रतिक्षणं जीवितात्ययं रोगादिना मरणावस्थां सम्मोहमयीमापन्नो मरण- मिच्छन्नपि कथञ्चिदव जीवति। ननु तदानोमव कथौं मरणं न भवति तबाह । दुःखविपाकस्येति। दुःखरूपस्य विपाकस्य तथा परस्य २५८ पातञ्चलदर्शनम्। प्रतिनियतजन्मादिविपाकैरेव भोग्यत्वादित्यर्थः। तदेतत् हिंसाया अनन्तदुःखाज्ञानफलकत्वं गौतायामप्य तम् मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषत: क्रूरान् संसारेषु नराधमान् ॥ क्षिपाम्यजसमशुभानासुरीष्वव योनिषु । इति । पुना हि अग्निविस्फुलिङ्गवत् पितुरंशाः । 'आत्मा वै जायते पुत्र' इति श्रुतेः । अत ईश्वरांशजोवेषु देष ईखरहेष एव। किञ्च जीवानामप्यात्मा परमेश्वरः। अतः शरीरहेषेण शरीरि- द्वेषवत् जीवद्वेषण परमेश्वरस्य देषो भवतीति भावः । पुण्या- वापगतेति। पुण्यकर्मरूपस्य सुवीजस्थ चित्तभूमौ आवपने गता सहावापितेत्यर्थः । धान्यवीजवपने तृणवीजानां वपनव- दिति भावः। भवेदल्पायुरिति । ननु 'अहिंसन् सर्वाणि भूता- न्यन्यत्र तीर्थेभ्यः' 'तस्माद्यन्ने बधोऽबध' इत्यादिश्रुतिस्मृतिभि- वैधहिंसातिरिक्तहिंसाया एव प्रतिषेधात् कथं वैधहिंसाया अनिष्टसाधनत्वमुच्यत इति। अबोच्यते। कार्यत्वमिष्टसाध- नत्वं वा विध्यर्थो न पुनरनिष्टाननुबन्धित्वमपि। राजत्वादि- प्रापककर्मणां गर्मवासजन्याद्यनर्थहेतुतायाः सर्वसम्मतत्वात् । न च बलवदनिष्टाननुबन्धित्वमपि विध्यर्थो वक्तुं शक्यते । अनि टेषु पुरुषाणां बलवद्वेषस्थाव्यवस्थितः। दुःखमेव सर्व विवे- किन इत्युक्तत्वात्। किञ्च बलवदनिष्टाननुबन्धित्वस्य विध्यर्थ- त्वेऽपि यज्ञादिनान्तरीयकहिंसाया: सामान्यती अनिष्टजनकत्व- श्रुत्यविरोधः । अपि च अवैधहिंसात्यागस्य स्वर्गादिसाधनता- बोधकविधिभिर्वेधहिंसायाः स्वर्गादिसाधनताबोधकविधिभिव सह हिंसाया मृत्याद्यनिष्टहेतुताबोधकश्रुतिस्मृतौनां नास्त्य व विरोधो येन तासु सङ्कोच: कल्प्येत अतो युक्तमुक्तं पुण्यावा- पगतानामपि हिप्तानामनिष्टहेतुत्वम्। पुण्खावापगतहिंसासु साधनपाद योगवार्त्तिकम्। २५६ अपि युधिष्ठिरादीनां प्रायश्चित्तश्रवणादपि अयमेव सिद्धान्त उबीयते । तस्माद् यास्याम्यहं तात ! दृष्ट्वे मं दुःखसन्निधिम् । बयोधर्ममधर्माब्यकिम्पाकफलसन्निभम् ॥ इति मार्कण्डेयादिस्मृतिश्रुत्यादिभ्यश्च । अतएव स्मर्यते- ऽपि। सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखेषु तथोदिजन्ति । तेषां भयोत्पादनजातखेदः कुयान कर्माणि हि जातवेदः ॥ इति मोक्षधर्मादिषु इति । वधोऽवध इत्यादिवाक्यन्तु वधा- भासतापरमिति दिक् । एवमिति। अनृतादिषु अप्येवं दुःखा- ज्ञानफलकत्वं यथासम्भवं मरणादिकं विहाय योज्यमित्यर्थः प्रतिपक्षभावनस्य प्रयोजनमाह । एवं वितर्काणामिति । अनु- गतं नियतमेवमनिष्टं विपाक वितर्काणां कार्यमेव चिन्तयन् योगी न वितर्केषु मन: प्रणिदधीत ददातीत्यर्थः। यमनियम- निष्पत्तिसूचिकानां सिद्धीनां प्रतिपादकानि सूत्राणि अवतार- यति। प्रतिपक्षेति। हेया हातुमर्हा एवम्भूता वितर्का यदा अस्त्र योगिनः प्रतिपक्षभावनातो विषयसान्निध्यकालेऽपि अप्र- सवस्वभावा भवन्ति तदा तत्कृतं वितर्कहानिकतमैश्वर्य यमा- दिनिष्पत्तिसूचकं भवतीत्यर्थः । तविष्यत्त्यवधारण च तत्तभूमिषु यत्न विहाय भूमिकान्तरेषु योगी यत्नमातिष्ठेत इत्येतत्प्रतिपाद- यितु सर्वेषु योगाङ्गेषु सिद्धिकथनम् । यथा॥ ३४॥ यदा अस्य स्युरप्रसवधर्माणस्तदा तत्कृत- मैश्वयं योगिनः सिद्धिसूचकं भवति, तद्- यथा,- तयथा तदैवयं २६० पातञ्जलदर्शनम् । * अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥३५॥* सर्वप्राणिनां भवति ॥ ३५ ॥ प्रतिष्ठायां स्थैर्य उक्तवितरसंस्पर्श इति यावत् । तस्यां सत्यां तत्सविधिस्थानां सर्वप्राणिनां मार्जारमूषकादीनामन्योन्य- वैरत्यागो भवतीत्यर्थः ॥ ३५ ॥ * सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥ * धार्मिको भूया इति भवति धार्मिकः, स्वर्ग प्राप्नुहि इति खगं प्राप्नोति, अमोघा अस्य वाग्- भवति ॥ ३६ ॥ सवप्राणिनां भवतीत्यत्रापि शेषः। क्रिया धर्मः तस्य फलं स्वर्गादिः तयोराश्रयत्वं सर्वप्राणिनां सत्यप्रतिष्ठस्य वचनाद्भवती- त्यर्थः। तदेतद्याचष्टे । धार्मिक इति । धार्मिको भूया इति वचनात् सम्बोध्यो धार्मिको भवतीत्यादिरर्थः । अमोघेति । एवम्प्रकारेणास्य योगिनो वाक् सत्या भवतीत्यर्थः । अत्र वाक् मनसोऽप्यु पलक्षणम् ॥ ३६ ॥ * अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३०॥ * सर्वदिक्स्थानि अस्य उपतिष्ठन्ते रत्नानि ॥३७॥ सर्वाभ्यो दिग्भ्यो रत्नोपस्थानं सर्वरत्नोपस्थानम्। तदेतत् व्याचष्टे। सर्वदिक्कानीति ॥ ३७ ॥ * ब्रह्मचर्य प्रतिष्ठायां वीर्य्य लाभः ॥ ३८॥ * यस्य लाभादप्रतिघान् गुणानुत्कर्ष यति, साधनपाद योगवार्तिकम्। सिद्धश्च विनेयेषु ज्ञानमाधातु समर्था भवतीति ॥ ३८॥ वीर्य शक्तिविशेष लक्षयति । यस्येति । यस्य वीर्यस्य ला- भात् प्रतौघातवर्जितान् गुणान् ज्ञानक्रियाशक्तीत्कर्षयति योगी वईयति तथा सिद्धः स्वयं ज्ञानी भूत्वा शिष्येषु ज्ञानाधानसमर्थश्च भवतीत्यर्थः ॥ ३८॥ * अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ ३८ ॥* अस्य भवति, कोऽहमासं, कथमहमासं, किं खिदिदं, कथं खिदिदं के वा भविष्यामः, कथं वा भविष्यामः, इति, एवमस्य पूर्वापरान्त- मध्येषु आत्मभावजिज्ञासा स्वरूपेण उपावर्त्तते । एता यमस्थैर्य सिद्धयः ॥ ३६ ॥ अपूर्वेण देहेन्द्रियादिसङ्घातन ज्ञानहेतुः सम्बन्धो जन्म तस्य कथन्ता किम्पकारता तयोः सम्बोध: साक्षात्कारो जन्मकथन्ता- सम्बोधः । तथा च शान्तोदिताव्यवदेश्यानां जन्मना खरूपतः प्रकारतश्च जिज्ञासामात्रेण साक्षात्कारोऽपरिग्रहस्थैर्य भवती- त्यर्थः । तदेतद्याचष्टे । अस्य भवतीति । इदं सूत्रेण सहान्वति । कोऽहमासं कथमहमासमिति अतीतजन्मन: स्वरूपप्रकारयो- जिज्ञासा । किंस्विदित्यादिवयं वर्तमानजन्मन: स्वरूपप्रकारजि- ज्ञासा । के वा भविष्याम इत्यादिद्दयं च भाविजन्मन इति । पूर्वापरान्तमध्या: भूतभविष्यवर्तमानकाला: तेषु अस्य योगिनः खजन्मजिज्ञासोत्पत्रमावस्वरूपेण स्वविषयेण ज्ञानेन उपावर्त्तते विशिष्टा भवति नास्त्यत्र साधनापेक्षेत्यर्थः । स्वतः सर्वार्थ ग्रहण- ।

२६२
पातञ्जलदर्शनम् ।
योग्यस्यापि चेतसोऽतीतादीनां स्वावस्थानाम् अग्रहरी परिग्रह-
व्यासङ्गदोषात् अतोऽपरिग्रहस्थैर्यात् ताः क्षण प्रणिधानमावे-
णैव ग्रान्त इति भावः ॥ ३८ ॥
नियमेषु वक्ष्यामः-
* शौचात् वाङ्गजुगुप्सा
परैरसंसर्ग:
॥ ४० ॥ *
खाङ्गे जुगुप्सायां शौचमारभमाणः काया-
वद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च
परैरसंसर्ग: कायस्वभावावलोको स्वमपि कार्य
जिहासुर्मुज्जलादिभिराक्षालयन्नपि कायशुद्धि-
मपश्यन् कथं परकायैरत्यन्तमेवाप्रयतैः संमृज्येत
॥ ४० ॥
शौचात् शौचस्थैर्य्यात्। अनेन सूत्रेण वाह्यशोचस्थैर्यस्य
सिद्धिरुच्यते, जुगुप्सा कुत्सा अशुचित्वदोषदर्शनं तस्य अशेषतः
साक्षात्कार इति यावत् । शौचात् स्वाङ्गजुगुप्सायां युक्तिमप्याह ।
वाङ्ग इति। यतः पूर्वमल्पजुगुप्सया शौचमभ्यस्तम् अतोऽति-
शयितजुगुप्सा शौचफलं युक्तोत्याशयः। जुगुप्सां विवृणोति ।
कायेति । अवद्यं दोषः । तज्ज्ञानस्य फलमाह। कायानभि-
वङ्गीति। शेषं सुगमम् । अत: शौचस्य सिद्धिसूचकं सूत्रमव-
तारयति । किञ्चेति ॥ ४०४
किञ्च-
सत्त्वशुद्धिसौमनस्यैकाग्रन्द्रियजयात्मदर्शन-
योग्यत्वानि च ॥ ४१ ॥

साधनपादे योगवात्तिकम्। २६३ भवन्तीति वाक्यशेषः । शुचः सत्त्वशुद्धिः, ततः सौमनस्य, तत ऐकाया, तत इन्द्रिय- जयः, ततश्च आत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवति, इत्येतत् शौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥ एतेषु क्रमं दर्शयति । शुचेरिति । क्षालितचित्तमलस्य सत्त्व- शुद्धिः । सत्त्वोद्रेको भवति ततः सौमनस्यं प्रीतिः स्वत एवानन्दी जायते । ततश्च प्रौतचित्तस्य अविक्षेपादैकाग्रं तत इन्द्रियजयः ततश्च आत्मदर्शनयोग्यत्वमिति। सूत्रद्दयार्थमुपसंहरति । एत- दिति । एतत्सूबद्दयोक्त शौचसामान्यस्य स्थैर्यात्प्राप्यते इत्यर्थः ॥ ४१ ॥ * सन्तोषादनुत्तममुखलाभः ॥ ४२ ॥ * तथाचोक्तम् यच्च कामसुखं लोके यच्च दिव्यं महत्मुखम् । तृष्णाक्षयसुखस्यै ते नार्हतः षोड़शी कलाम् ॥ इति ॥४२॥ नास्त्युत्तमं सुखं यस्मात् तादृशसुखस्य लाभः सन्तोषस्थै- Uद्भवतीत्यर्थः । तृष्णाक्षयो हि सन्तोषः कृष्णाप्रतिबन्धापगमे च चित्तस्य स्वाभाविकसत्त्वाधिक्य निमित्तिका सुखस्वभावता स्वत एवाविर्भवति न तत्सुखे विषयापेक्षेति तत्रिविषयं शान्ति- सुखम् आत्मसुखमुच्यते । 'ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्ये त्यादिश्रुतेः ईखरस्य पूर्णकामत्वात् श्रोत्रियस्य च ज्ञानेन कामचयादुभयोरेव वैव- पातञ्जलदर्शनम् । ष्णास्य तुल्यतया समानं सुखमित्याशयः । बुद्धेः सत्त्वात्मकतया सुखस्वभावत्वेन जीवेऽपि नित्यं सुखमिदमेव गीयते स्वाभा- विकस्य यावद्व्यभावित्वात् तमसा पिहितत्वेन च सदानभि- व्यक्तत्वात् न पुनश्चितिरेव सुखस्वरूपिणी चिन्मात्रत्व श्रुतिस्मृति- सूत्रविरोधादेरुतत्वात् इति । सन्तोषादभिव्यक्तसुखस्यानुत्त- मत्वे स्मृतिमुदाहरति । तथा चोक्तमिति। कामसुखं कामभ्यो लौकिकविषयेभ्यः सुखं दिव्यं सङ्कल्पमात्रोत्थविषयजं 'सङ्कल्पा- देवास्य पितरः समुत्तिष्ठन्ती'त्यादिश्रुतेः। तृष्णाक्षयसुखस्य - षणाक्षयाभिव्यक्तसुखस्येत्यर्थः । विदेहकैवल्ये तु सुखवाक्यानि दुःख निवृत्त्या गौणानीति ॥ ४२ ॥ * कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥४३॥ * निर्वय॑मानमेव तपो हिनस्ति अशुद्यावरण- मलं, तदावरणमलापगमात् कायसिद्धिः अणि- माद्या, तथेन्द्रियसिद्धिः दूराच्छ्रवण दर्शनाद्येति ॥४३॥ व्याचष्टे। निर्वत्य मानमिति। अशुद्धिरधर्मस्तामसो गुणः सैव अणिमादिशक्तरावरको मत इत्यर्थः । अणिमादिसिद्धीवि- भूतिपादे व्याख्यास्यति। शेषं सुगमम् ॥ ४३ ॥ * स्वाध्यायादिष्टदेवतासप्रम्प्रयोगः ॥ ४४ ॥* देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्त इति ॥ ४४ ॥ सम्प्रयोगो दर्शनं यां देवतां द्रष्टुमिच्छति सैव दृश्या भवती- स्यर्थः । सुगम भाष्यम् ॥ ४४ ॥ ॥

साधनपाद योगवाति कम् । २६५ * समाधिसिद्धिरौश्वरप्रणिधानाद् ॥ ४५ ॥ * ईश्वरार्पितसर्वभावस्य समाधिसिद्धिः, यया सर्वमौसितमवितथं जानाति देशान्तरे काला- न्तरे च, ततोऽस्य प्रज्ञा यथाभूतं प्रजानातीति ॥४५॥ व्याचष्टे। ईखरेति। ईखरेऽर्पितः सर्वभावः सर्वव्यापारी येन तस्य समाधिसिडियोगनिष्पत्तियथा येन प्रकारेण ईश्वरानु ग्रहतो भवति तदुच्यते, आदी तावद्देशाद्यन्तरस्थमपि ध्येयं सर्व श्रवणमननकाले यथार्थमेव जानाति । गुरुवाक्यादविपर्यस्त भवति। ततोऽस्य योगिनः प्रज्ञा समाधिकालेऽपि यथार्थमेव साक्षात्करोतीत्यर्थः । एवं सम्प्रज्ञातसिद्धौ असम्प्रज्ञातसमाधिः स्वयमेव सिध्यतीति तत्र प्रदर्शितम्। न च ईखरप्रणिधानादेव योगनिष्पत्ती इतराङ्गवैयर्थमिति वाच्यम्। ईश्वरप्रणिधानस्य मोहमात्रनिवृत्तिहारत्ववचनात् । हारान्तरेण तु अङ्गान्तराणां समाधिसाधनत्वसम्भवात् । अपि च ईश्वरप्रणिधानेनैव निर्विघ्न सर्वाण्यङ्गानि सम्पाद्य समाधिं जनयतीति न अन्याङ्गवैफल्यम् । अथ वा अन्यान्यङ्गानि ईश्वरप्रणिधानद्दारा समाधिं निष्पाद- यन्ति इतराङ्गानाञ्च खतो न एतादृशी शक्तिरस्ति इत्याशयेन ईश्वरप्रणिधानस्यैव तु मुख्यत: समाधिसाधकत्वं सूत्रितमिति वहिरङ्गत्वं त्वस्य संयमदारकतया अनावश्यकतया च वक्ष्यतीति। सूत्रान्तरमवतारयति। उता इति ॥ ४५ ॥ उक्ताः सहसिद्धिभिर्यमनियमाः, आसना- दीनि वक्ष्यामः । MY पातालदर्शनम् । तत्र--- * स्थिरसुखमासनम् ॥ ४६ ॥ * तद्यथा-पद्मासनं, वीरासनं, भद्रासनं, खस्तिकं, दण्डासनं, सोपाश्रयं, पर्य्यङ्क, क्रौञ्च- निषदनं, हस्तिनिषदनम्, उष्ट्रनिषदनं, सम- संस्थानं, स्थिरमुखं, यथासुखं च, इत्येवमादीनि ॥४६॥ स्थिरं निश्चलं सुखकरं च यत्तदासनम् श्रास्यतेऽनेन प्रकारण इत्यासनमित्यर्थः । आसनस्य भेदानाह। तद्यथेति । तत्र पद्मा- घासनचतुष्टयस्य लक्षणं वशिष्ठ नोक्तम् । अङ्गुष्ठौ सब्रिबध्नीयात् हस्ताभ्यां व्युत्क्रमेण तु । ऊर्वोरुपरि विप्रेन्द्र ! कृत्वा पादतले उमे॥ पद्मासनं भवेदेतत् सर्वेषामेव पूजितम् । एकपादमथैकस्मिन् विन्यस्योरौ च संस्थितः ॥ इतरस्मिंस्तथा पादं वीरासनमुदाहृतम् । अस्यैवाईमहासनमप्युच्यते, तथा । गुल्फी च वृषणस्याधः सौवन्या: पार्श्वयोः क्षिपेत् । पावपादौ च पाणिभ्यां दृढ़ बडा सुनिश्चलः ॥ भद्रासनं भवैदेतत्सर्वव्याधिविषापहम् । जानूर्वोरन्तर सम्यक् कृत्वा पादतले उभे ॥ ऋजुकायः सुखासीन: स्वस्तिकं तत्प्रचक्षते । इति। इतराणि आसनानि योगप्रदीपायुक्तानि संक्षेपात् कथ्यन्ते । दण्डासनम् उपविश्य लिष्टाइलिको लिष्टगुल्फो भूमि- शिष्टजनोरुपादौ प्रसार्य दण्डवच्छयनम्। सोपाश्रयं योगपष्ट- साधनपाद योगवार्तिकम् । २६७ योगेनोपवेशनम् । पर्यञ्च जानुप्रसारितबाहोः शयनम् । क्रौञ्च- निषदनादीनि क्रौञ्चादीनां निषस्थानां संस्थानदर्शनात् प्रत्ये- तव्यानि। जान्वोरुपरि हस्तौ कत्वा कायशिरोग्रोवाणामवक्र- भावनावस्थानं समसंस्थानम्। स्थिरसुखं च सूत्रीपातं, तस्य व्याख्यानं यथासुखमिति। आदिशब्देन मायूराद्यासनानि ग्रा- ह्याणि । यावन्त्यो जीवजातयस्तावन्त्येव आसनानीति संक्षेपः । आसनस्थैर्यस्योपायमाह ॥ ४६ ॥ * प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥ * भवतीति वाक्यशेषः। प्रयत्नोपरमात् सिध्यत्यासनं येन नाङ्गमेजयो भवति, अनन्ते वा समापन्नं चित्तमासनं निवर्तयतीति ॥ ४७॥ प्रयत्नशैथिल्यस्य हारमाह। येन न अङ्गेति। बहुव्यापारा- नन्तरं चेदासनं क्रियते तदाङ्गकम्पनात् आसनस्थैर्य न भवती- त्याशयः । अनन्तेति । अथ वा प्रयत्नशालित्वेऽपि पृथिवीधा- रिणि स्थिरतरशेषनाग समापन्नं तद्धारणया तदात्मतापन्न चित्तमासनं निष्पादयतीत्यर्थः । तच्च अनन्तानुग्रहात् वा सजा- तीयभावनावशात् वा अदृष्टविशेषवशात् वा इत्यन्यदेतत् । आ- सनप्रतिष्ठायां सिद्धिमाह ॥४७॥ * ततो द्वन्द्वानभिघातः ॥ ४८॥ * शीतोष्णादिभिईन्दैरासनजयान्नाभिभूयते ॥४८॥ भाष्यं सुगमम् । क्रमप्राप्तं प्राणायाममाह ॥४८॥ * तस्मिन् सति वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः॥४६॥* २६८ पातञ्जलदर्शनम्। सति आसनजये वाद्यस्य वायोराचमनं श्वासः, कोष्ठास्य वायोनिःसारणं प्रश्वासः, तयोर्गतिवि- च्छेदः उभयाभावः, प्राणायामः ॥ 8 ॥ वक्ष्यमाणचतुर्विधप्राणायामस्यैवं सामान्यलक्षणं गतिवि- च्छेदः । शास्त्रोक्तरीत्या स्वाभाविकगतेः प्रतिषेध इत्यर्थः । स च रेचकपूरककुम्भकेषु अनुगतः। नन्वे वं प्रत्येकस्यापि प्राणायाम- त्वापत्त्या त्रिभिर्मिलित्वैकप्राणायाम इति 'प्राणायामस्तु विज्ञेयो रेचकपूरककुम्भकै रित्यादिवाक्योक्त व्याहन्येतेति चेन्न । त्रयाणां पौर्वाप>ण प्रथमभूमिकायां सहानुष्ठाननियमादेकत्वव्यवहा- रोपपत्तेः । न तु तादृशवाक्य षु मिलितानामेव प्राणायामत्वं विवक्षितम्। रेचकं पूरकं त्यक्त्वा सुखं यदायुधारणम् । प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः । इति वाशिष्ठसंहितादौ केवलकुम्भकस्यापि प्राणायामत्ववच. नादिति। इदं सूत्रं व्याचष्टे। सत्यासन इति । यथा यमनि- यमयोरन्यकालक्कतयोर्योगाङ्गत्वं नैवमासनस्य किन्तु प्राणाया- माद्यङ्गपञ्चकसाहित्येनेति एतत् प्रतिपादयितु सत्यासने इति विशेषणं तथा च सत्यासन इति समाधिसूनपर्यन्तम् अनुवर्त्त- नीयम्। गीतादौ आसनोपरागणैव ध्यानादिस्मरणादिति । अतएव चासनादीनां षड़ङ्गानां सहानुष्ठेयत्वेनारादुपकारकतया- न्तरङ्गत्वमित्याशयन स्मृत्यादिषु क्वचित् षडङ्गो योग उच्यते । यमनियमयोः कालान्तरीयतया अत्यन्तवहिरङ्गत्वादिति । आ- चमनमन्तःप्रवेशः । नन्वेवं प्रवेशनिर्गमरूपयोः श्वासप्रश्वासयोः गतिरेव नास्तीत्याशयेनाह। उभयाभाव इति । तथा च गति- शब्दार्थोऽत्र न विवक्षितः स्वाभाविकश्वासप्रश्वासयोः प्रतिषेधः साधनपादे योगवार्त्तिकम्। २६८ प्राणायाम इत्येवार्थः। अवान्तरभेदप्रतिपादकमुत्तरसूत्रं पूर- यित्वोत्थापयति। स विति ॥ ४८ ॥ * वाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥* यत्र प्रश्वासपूर्वको गत्यभावः स वाह्यः, यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः, तृतीयः स्तम्भवृत्तिर्यत्र उभयाभावः सकृत् प्रयताद् भवति, यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोच- मापद्यते तथा इयोर्युगपद् भवत्यभाव इति । वयोऽप्येते देशेन परिदृष्टाः इयानस्य विषयो देश इति, कालेन परिदृष्टाः क्षणानामियत्ता अवधा- रणनावच्छिन्ना दूत्यर्थः । संख्याभिः परिदृष्टाः एतावद्भिः प्रवासप्रश्वासैः प्रथम उहातः, तदन्नि- गृहीतस्य एतावद्भिईितीय उहातः, एवं तृतीयः, एवं मृदुः, एवं मध्यः, एवं तीव्रः, इति संख्या- परिदृष्टः, स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥५०॥ स तु प्राणायामी वाद्यवृत्तिराभ्यन्तरवृत्तिःस्तम्भवृत्तिरिति त्रिविधः रेचकपूरककुम्भकभेदात् । तदुक्तं विष्णुपुराणे । परस्परेणाभिभवं प्राणापानौ यदानिली। कुरुतः स विधा तेन टतीयः संयमात्तयोः ॥ स च त्रिविधः । प्राणायामो देशकालसंख्याभिः परिदृष्टो निर्णीतो नियमितो भवति तदाभ्यासवशात् क्रमेण इति ।

। २७० पातञ्जलदर्शनम् । दीर्घसूक्ष्मसंज्ञको भवतीति सूत्रार्थः । तदेतद्याचष्टे । यत्रेति । विशेषाणां सामान्यनिष्ठत्वात् इयं सप्तमी। यत्र प्राणायाम गति- विच्छेदे प्रश्वासपूर्वकगत्यभावः प्रश्वासेन रेचकेन गतिविच्छेदः स वाह्यो वाहात्तिः प्राणायामो रेचकनामत्यर्थः । न च रेचनं वाह्य इत्येवास्त्विति वाच्यम् । प्राणस्यायामः प्राणायाम इति योगादरेणायामाख्यनिरोधस्य विशेष्यीकरणादिति। यत्र खा- सेति । यत्न श्वासन पूरकेण गत्यमावः स आभ्यन्तरः आभ्यन्तर- वृत्तिः प्राणायामः पूरकनामेत्यर्थः। स्तम्भवृत्तिरिति। यत्रोभ- याभाव: श्वासप्रश्वासयोरभावः सत्प्रयत्नादेवाभ्यासनिरपेक्षा- द्भवांत स स्तम्भत्तिः प्राणायाम: कुम्भकनामेत्यर्थः । वक्ष्यमाणस्य कुम्भकभेदस्य चतुर्थप्राणायामस्य व्यावर्त्तनाय सतत्प्रयत्नादिति विशेषणम् । स हि प्रयत्नबाहुल्येनैव भवतीति तत्रैव प्रतिपाद- यिष्यति। एकदैव वाह्याभ्यन्तरप्राणविलापने दृष्टान्तमाह। यथा तप्त इति। हयोर्वाह्याभ्यन्तरदेशयोः। देशकालसंख्याभिः परिदृष्ट इति विशेषणस्यायमर्थः । एतावद्देशेन वा एतावत्कालेन वा एतावन्मानसंख्याभिर्वा अवच्छिन्नो मया रेचकादिः कर्तव्य इत्येवमवधारित इति। तदेतदिभज्य व्याचष्टे । त्रयोऽप्येत इति। त्रयो रेचकपूरककुम्भकाः । इयानिति। नासाग्रात् प्रादेश हादशाङ्गुलहस्तादिपरिमितो वाह्यदेशो रेचकस्य विषयः स चेषोकातूलादिक्रियानिश्चयः। पूरकस्य च आपादतलमा. मस्तकमाभ्यन्तरो विषयः स च पिपीलिकास्पर्शसदृशेन स्पर्शन निश्चयः। कुम्भकस्य रेचकपूरकरयोः वाह्याभ्यन्तरदेशी समु- ञ्चितावेव विषयः उभयत्रैव प्राणस्य विलयात्। स च तूलस्य क्रियाया उक्तस्पर्शस्य चानुपलब्धया निश्चय इति। कालेनेति । चक्षुर्निमेषावच्छिन्नस्य कालस्य चतुर्थभागः क्षणः तेषामियत्ताव धारणेनावच्छिनाः एतावत्क्षणरेचकादिः कर्त्तव्य इति निय- साधनपादे योगवार्त्तिकम् । २७१ स्मृत इत्यर्थः । मिता इत्यर्थः । संख्याभिरिति। मात्राणां हादशादिसंख्याभि- रित्यर्थः । यद्यपि संख्याभिरपि कालनियम एव क्रियते । तथापि प्रकारभेदानेद इति । यत्र हि शङ्खध्वन्यादिना कालनियमः क्रियते स कालेन परिदृष्टः यत्र च वक्ष्यमाणमात्रासंख्याभिः कालनियमः क्रियते स संख्याभिः परिदृष्ट इति । संख्याथं मात्रा च मार्कण्डेयप्रोता। निमेषोन्मेषणे मात्रा तालो लघुक्षरं तथा। प्राणायामस्य संख्या) स्मृतो हादशमात्रिकः ॥ इति। निमेषादिलघुक्षरान्त मात्राप्रमाणं तदेव दर्शयत्यु- त्तराईन हादशमात्रिको हातशगुणितो यः कश्चनः निमेषादिरयं पदार्थः प्राणायामस्य संख्यार्थ एवं प्रणवादयो- ऽपि मात्रा वशिष्ठयाज्ञवल्कयादिभिरुताः। पूरकादित्रय एव हादशमात्रेत्ययमधमः कल्पः। यतः पूरकादिषु प्रत्येक मात्रायाः संख्याभेदो वशिष्ठसंहितायामुक्तः । एवं ज्ञात्वा विधाने च प्रणवेन समाहितः । प्राणायामवयं कुर्यात्पूरकुम्भकरेचकः ॥ आवष्य श्वसनं वाह्यात् पूरयेदिड़योदरम् । शनैः षोडशमात्राभिरुकारं तत्र संस्मरन् । मकारं मूर्तिमत्रापि संस्मरन् प्रणवं जपेत् । धारयेत् पूरितं पश्चात् चतुःषध्या तु मात्रया ॥ यावद्दा शक्यते तावद्धारणं जपसंयुतम् । पूरितं रेचयेत्पश्चात् प्रणवं ह्यनिलान्वितम् । शनै: पिङ्गलया पुत्र ! हात्रिंशन्मात्र या पुनः । ध्यायवाद्याक्षरं तत्र प्रणवस्य समाहितः ॥ इति। अकारोकारमकाराणां मूर्तयो ब्रह्मविष्णुरुद्रशरी- राणि तमतं पुराणाद्युक्त मात्राभेदं सामान्यतो भाष्यकार आह ।

२७२ पातञ्जलदर्शनम् । एतावद्भिरित्यादिना। एतावद्भिः षोड़शादिभिः मावाख्यैः पदार्थः निमेषोन्मेषणादिभिः । श्वासप्रवेश: पूरकः प्रथम उहातः। वायोरुवनन गतिनिरोध इति यावत्। तथा निग्टहीतस्य स्तम्भितस्य वायोरेतावद्भिश्चतुःषध्यादिभिर्निमेषोन्मेषणादिभिः कुम्भको द्वितीय उवातः । एवं टतीय उदातोऽर्थाद्रेचकः, एतावद्भित्रिंशदादिभिर्निमेषोन्मेषणादिमिरित्यर्थः । अत्र प्रथ- मादिशब्दैः पूरकादिनये क्रमवचनात्सौत्रः पाठक्रमोऽनुष्ठाने- नादर्तव्यः । तथा च पूरककुम्भकरचका इत्येव औत्सर्गिकोऽनु- ठानक्रम: पुराणादिषु बाहुल्येन दर्शनाच्च। सृष्टौ महदादिक्रम- वदिति । प्रकारान्तरेणापि संख्यापरिदृष्टत्वमाह। एवं मृदुरि- त्यादिना । एवम् एतावद्भिर्मात्राप्रमाणेदुः प्राणायामः एवम् एतावद्भिर्मध्यमः एवमेतावद्भिस्तीवः प्राणायाम इत्यपि संख्या परिदृष्टो मवतीत्यर्थः । तदुक्त कोर्मे । मात्राद्वादशको मन्दश्चतुर्विशतिमात्रकः । मध्यमः प्राणसंरोध: षत्रिंशन्मारकोऽन्तिमः ॥ इति। अत्र पूरकादिविशेषावचनात् विष्वपि प्राणायामेषु हादशहादशमात्रादिरूपैकैव संख्या इत्येवं पृथक्कल्पः। देश- कालसंख्याभिः परिदृष्ट इत्यत्र चेच्छाविकल्प एव न तु समुच्चयः उदाहृतवशिष्ठवाक्यादौ केवलमात्रासंख्यायामपि प्राणायामदर्श- नात्। समुच्चयानुष्ठाने तु फलभूमा भवत्य व भूयसि भूय इति न्यायादिति। दीर्घसूक्ष्म इति दलं व्याचष्टे। स खल्विति । स वाह्याभ्यन्तरस्तम्भत्तिस्त्रिविधः प्राणायामः। एवं देशाद्यव- धारणैरभ्यस्तः स दीर्घसूक्ष्मसंज्ञको भवतीत्यर्थः । दीर्घश्चासौ सूक्ष्मश्चेति सान्वया इयं संज्ञा देशाद्यन्यतमनियमेन हि प्रत्यह- मभ्यस्यमानः क्रमेण कालवृद्ध्या दौघकालव्यापित्वेन दी? भवति वायुसञ्चारस्यातिसूक्ष्मतया च सूक्ष्म इति । यद्यपि साधनपादे योगवार्तिकम् । २७ AU अभ्यस्त इति सूत्रे नास्ति तथापि दीर्घसूक्ष्मसंज्ञया अर्थाक्षिप्त एव भाष्यकारण व्याख्यात इति । तदेवं प्राणायामस्य रेचक- कुम्भकपूरकाख्य विशेषत्रयमभ्यासाख्यगुणयोगेन तेषां दीर्घसू- क्ष्मत्वं चोक्तम् इदानीं केवलकुम्भकरूपं प्राणायामस्य चतुर्थ विशेषमाह ॥ ५० ॥ * वाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ * देशकालसंख्याभिर्वाद्यविषयः परिदृष्ट आ- क्षिप्तः तथा आभ्यन्तरविषयः परिदृष्ट आक्षिप्तः उभयथा दीर्घसूक्ष्मः तत्पूर्वको भूमिजयात् क्रमेण उभयोगत्यभावश्चतुर्थः प्राणायामः। दृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसंख्याभिः परिदृष्टा दीर्घसूक्ष्मः, चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात् क्रमेण भूमि- जयाटुभयाक्षेपपूर्वको गल्यभावश्चतुर्थः प्राणायाम इत्ययं विशेषः ॥ ५१ ॥ वाह्याभ्यन्तरविषयको वाह्याभ्यरवृत्ती पूर्वसूत्रोक्तौ रेचक- पूरको तयोराक्षेपी अतिक्रमो तावतिक्रम्य त्यत्वा स्वयमेव केवलो वर्तत इति यावत्। एवम्भूतो य: प्राणायामः स चतुर्थ इत्यर्थः । अस्य च केवलकुम्भक इति संज्ञा वशिष्ठवाक्यावती- भविष्यति। पूर्वसूत्रोक्तस्तम्भत्तिस्तु नियमेन रेचकपूरकयोर- न्तराल एव वर्तत इति न तदतिक्रमी, रेचकपूरकविषयाति- क्रमस्यापि लाभाय विषयघटितं लक्षणमुक्तम् । न तु रेचका- तिक्रमीत्य वं सूवितम्। अयञ्च कुम्भको न रेचकपूरकदेशेन २७४ पातञ्जलदर्शनम् । परिच्छिन्नः व्यापकत्वात्, नापि कालसंख्याभ्यां परिच्छिनः स्खे- च्छया माससंवत्सरादिकालस्थायित्वात्। स च प्राणायामो ध्रुवस्य विष्णुपुराणे श्रूयते । तस्य हि तपसि प्राणनिरोधेन सर्व- जीवप्राणनिरोधोऽभवदिति तत्रोक्तम् । अतस्तस्य कैवलकुम्भक आसीदिति । अयं चतुर्थः प्राणायामः सोपायो वशिष्ठसंहिताया- मुक्तः। यथा । प्रस्खेदं जनयेद्यस्तु प्राणायामो हि सोऽध्मः । मध्यमः कम्पनात्प्रोक्त उत्थानं चोत्तमे भवेत् ॥ पूर्व पूर्व प्रकुर्वीत यावदुत्तमसम्भवः । निश्वासोच्छासको देहे स्वाभाविकगुणावुभौ ॥ तथापि नश्यतस्तेन प्राणायामोत्तमेन हि। तयोर्ना समर्थ: स्यात् कर्तुं केवलकुम्भकम् ॥ रेचकं पूरकं त्यक्त्वा मुख्यं यहायुधारणम् । प्राणायामोऽयमित्युक्त: स वै केवलकुम्भकः । सहितं केवलं वापि कुम्भकं नित्यमभ्यसेत् । यावत्केवलसिद्धिः स्यात् तावत्सहितमभ्यसेत् ॥ केवले कुम्भके सिद्ध रेचपूरकवर्जिते । न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ॥ इति। आकाशगमनादिशक्त्याविर्भावन कामगमत्वादिक स्यादित्यर्थः। चतुर्थस्योत्पत्तिक्रमं कथयति। देशकालेति । वाह्यविषयो रेचको देशकालसंख्याभिरादौ परिदृष्टः पश्चाच देशादिभिः सहैवाक्षिप्तोऽतिक्रामितो भवतीति शेषः। अतश्च सूत्रे देशवाचको विषयशब्दः कालसंख्ययोरप्यु पलक्षणमित्या- शयः। तथा आभ्यन्तरविषयः पूरकोऽपि देशादिभिरादौ परि- दृष्टः पश्चाह शादिभिः सहैव सोऽपि आक्षिप्तो भवति। तच्चाक्षि- समुश्यथा दीर्घसूक्ष्मो विविधो दीर्घसूक्ष्मचिरकालं देशादिभि- साधनपादे योगवात्तिकम् । २७५ रभ्यस्तो रेचकपूरको इति यावत् । तत्पूर्वक: तदुभयाक्षेपपूर्व- कस्तदुभयमाक्षिपब्रिति यावत्। अवान्तरालिकभूमिकाजयात् कालक्रमेण न तु शीघ्रम् उत्पद्यमान एवम्भूत उभयो: खास- प्रवासयोः गतिविच्छेदश्चतुर्थः प्राणायाम इत्यर्थः। स्तम्भवृत्त्या- ख्यतीयप्राणायामात् मिथकुम्भकात् अस्य वैलक्षण्यमाह। टतोयस्तु इति। तीयस्तु गत्यभावः स्तम्भवृत्तिविषयेण देशेन तदुपलक्षितकालसंख्याभ्यां चानालोचितोऽनवधारितः सक्कदा- रब्धोऽभ्यासबाहुल्य विनैवोत्पद्यमानश्च भवति। तथा स एव तीयो देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मश्च भवतीति सा- मान्यविशेषाभ्यां टतीयस्य रूपदयमुक्तम् । चतुर्थस्य तविपरीत- तामाह। चतुर्थस्तु इति। चतुर्थस्तु श्वासप्रश्वासयो: रेचकपूर- कयोर्देशाख्यविषयाद्यवधारणानन्तरं क्रमिकभूमिजयाडेतोः पूर- करचकाक्षेपपूर्वको गत्यभाव इत्ययं चतुर्थप्राणायाम ढतीयात् विशेष इत्यर्थः । प्राणायामस्य चापरे सगर्भागर्भादयो विशेषाः पुराणादिषु द्रष्टव्याः। ‘जपध्यानयुतो गर्भो त्वगर्मस्तदिवर्जित' इत्यादिवाक्य रिति दिक् । योगे जनयितव्ये प्राणायामस्य व्याः पारं तसिद्धिसूचकमाह ॥ ५१ ॥ * तत: क्षीयते प्रकाशावरणम् ॥ ५२ ॥ * प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म, यत्तदाचक्षते-महा- मोहमयेन इन्द्रजालन प्रकाशशौलं सत्त्वमात्य तदेवाकार्ये नियुङ्क्ते इति । तदस्य प्रकाशा- वरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद टुर्बलं भवति, प्रतिक्षणं च क्षीयते। तथा चोक्तं

पातञ्जलदर्शनम् ।
तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां
दीप्तिश्च ज्ञानस्य इति ॥ ५२ ॥
तत: प्राणायामात्। सूत्रं व्याचष्टे। प्राणायामानिति।
विवेकज्ञानावरणीयं विवेकज्ञानावरकम्, अथवा कोपनीयेत्या-
दिवत् अत्रापि कर्तरि कृत्यप्रत्ययः भव्यगयप्रवचनीयादीनां क.
तरि निपातनस्य दिङ्मात्रप्रदर्शनपरत्वात्। कर्मेति । कर्माधर्मः
तस्य ज्ञानप्रतिबन्धकत्वमेव ज्ञानावरकत्वम् एतादृशं कर्म क्षीयत
इत्यर्थः । कर्मणो ज्ञानावरकत्वे पूर्वाचार्यवाक्य प्रमाणयति ।
यत्तदा आचक्षत इति। यत्तत्कर्म एवमाचक्षते। महामोहो
रागस्तन्मयेन तत्प्रचुरेण इन्द्रजालतुल्येन शब्दादिविषयेन हारेण
प्रकाशशीलमपि बुद्धिसत्त्वमावृत्य तदेव कर्मैवाकार्य संसार-
हेतुव्यापार एव नियुक्त इत्यर्थः । दुर्बलं प्रकाशावरणाक्षम
भवति। तथा प्रतिक्षणं क्षीयतेऽपचीयते चेत्यर्थः। तदुक्तं
मनुना।
दह्यन्ते मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्त दोषा: प्राणस्य निग्रहात् ॥
इति। दोषाः पापानि तत्कायें तमोमलविपर्यायौ च ।
तपः पापनाशकं कर्म। पापक्षये सति यद्भवति तदाह ।
तत इति । तत: पापाख्यकारणामावान्मलानां तमसां तत्कार्य-
विपर्ययाणां चापगमे ज्ञानदीप्तिश्चेत्यर्थः। ननु तपसैव पाप-
क्षय इत्युक्तं तर्हि किं प्राणायामेनेति चेन्न। ज्ञानावरकपापक्षये
प्राणायामस्य श्रेष्ठोपायत्वात् । अत एव पूर्वपादे प्रकष्टाधि-
कारिण: प्राणायाम एव साधनमुक्त विक्षेपकतया तपोऽन्तरा-
भावेऽपि तेनैव योगनिष्पत्तिसम्भवादिति ।
अन्यच्च भवती-
त्याह॥५२॥

साधनपादे योगवार्तिकम्। ७ २७७ किञ्च, * धारणासु च योग्यता मनसः ॥ ५३ ॥ * प्राणायामाभ्यासादेव । प्रच्छर्दनविधारणाभ्यां वा प्राणस्य इति वचनात् ॥ ५३ ॥ प्राणायामाभ्यासादेवेति सूत्रेण सहान्वयः । प्रच्छदनेत्यादि- प्रथमपादीयसूत्रेण प्राणायामस्य धारणायोग्यतारूपस्थितिहेतु- तावचनादित्यर्थः । एतेन तस्मिन्नपि सूत्रे पूरकादित्रयात्मक: प्राणायाम एवोक्त इत्यवधारणीयम् । प्रत्याहारसूत्रमवतारयति । अथ क इति ॥ ५३॥ अथ कः प्रत्याहारः, * स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इन्द्रियाणां प्रत्याहारः ॥ ५४ ॥ * म्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार इवेति चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरीन्द्रियजयवदुपायान्तरमपेक्षन्ते,यथा मधुकर- राजं मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमान- मनुनिविशन्ते, तथेन्द्रियाणि चित्तनिरोध निरु- द्धानि, इत्येष प्रत्याहारः ॥ ५४ ॥ इन्ट्रियविषयासम्प्रयोगकाले इन्द्रियाणां चित्तस्वरूपानु- कारितेव या भवति सा इन्द्रियाणां प्रत्याहार इत्यर्थः । जिते. न्द्रियस्य हि ध्यानकाले चक्षुरादीच्यपि ध्येयवस्त्वाकारण चित्तेन तुल्याकाराणीव भवन्ति न स्वातन्वाण विषयान्तरं मनसा एकी. २४ पातन्त्रलदर्शनम् । भूय सङ्कल्पयन्ति । तथा चित्त निरोधोन्म खे सति प्रयत्नान्तर विनैव निरुतानि भवन्ति अतस्तस्य इन्द्रियाणि चित्तानुकारीणि इत्युच्यन्ते। अजितेन्द्रियस्य तु चक्षुरादीनि तदानीमपि रूपा- दिषु मनसैव धावन्ति अतश्चित्तमेवेन्द्रियानुकारि भवति । इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतौन्द्रियम् । तेनास्य द्रवते प्रज्ञा दृतेः पादादिवोदकम् ॥ इति स्मृतरित्याशयः । अजितेन्द्रियस्यापि इन्द्रियाणि विषयभोगकाले चित्तानुकारीणि भवन्ति एवेति तह्यावर्त्तनाय खविषयासम्प्रयोग इत्युक्तं ध्यानकाले च चाक्षुषादितुल्या वृत्ति- श्चित्तस्य एव भवति न तु चक्षुरादीनां तेषां तु तदतिरिक्तवृत्त्य- भावमात्रमतोऽनुकार इवैत्युक्तम् । अत एव । पिवन्निव च चक्षुभ्यां पादौ संवाहयबिव । चित्तेन्द्रियैक्यतो ध्यायेत्तन्मूर्ति विजितेन्द्रियः ॥ इत्यादिस्मृतिषु अपि इवशब्द एव प्रयुक्त इति। तदेतद्याचष्टे। स्वविषयेति। इवेतीत्यन्तस्य एष प्रत्याहार इत्यागामिनान्वयः । अनुकार्यस्य कार्य्यरूपं लक्षणमाह। चित्तनिरोध इत्यादिना अपेक्षन्त इत्यन्तेन। चित्तस्य वृत्तिनिरोधकाले यत् स्वयमेवेन्द्रि- यत्तिनिरोधो भवति इदमेव परमवश्यत्वं प्रत्याहारकार्यत्वात् तल्लक्षणमिष्याशयः । निरूहानि भवन्तीति शेषः । नेतरैन्द्रिय- जयवदिति । इतरे उक्त परमवश्यत्वादतिरिक्ता द्वितीयसूत्रवक्ष्य- माणा इन्द्रियजयाः। तेषु सत्सु अपि स्वनिरोधार्थ यथेन्द्रियाणि प्रत्याहारादिकमपेक्षन्ते नवं यथोक्तप्रत्याहार सति स्वनिरोधार्थ चित्तनिरोधातिरिक्तमपेक्षन्त इत्यर्थः । इन्द्रियाणां चित्तानुकारं दृष्टान्तेन प्रतिपादयति । यथा मध्वित्यादिना निरुद्धानोत्य- न्तेन । दार्टान्तिके दृष्टान्तोतोत्पतनतुल्यो निरोधः । तेन च निवेशनतुल्यं ध्यानमप्युपलक्षणीयम् अन्यथा दृष्टान्तदान्ति:

सौधनपादे योगवाति कम्। ২৩৫ कयोः साधयादिप्रदर्शने न्यूनतापत्तेः । एष प्रत्याहार इति । पुरैवं व्याख्यातम्। सोऽयं प्रत्याहारः सप्रयोजनो विष्णुपुराणे प्रोतः। शब्दादिष्वनुरक्तानि निरह्याक्षाणि योगवित् । कुयाञ्चित्तानुकारीणिं प्रत्याहारपरायण: ॥ वश्यता परमा तेन जायते निष्कलात्मनाम् इन्द्रियाणामवश्यस्तैन योगी योगसाधकः । इति। अतश्च प्रत्याहार इन्द्रियधर्म इति। योग प्रत्या- हारस्य अवान्तरव्यापारभूतं तत्सिविसूचकमाह ॥ ५४ ॥ * ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥ * शब्दादिषु अव्यसनमिन्द्रियजय इति केचित्, सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति । अविरुद्धा प्रतिपत्तिया॑य्या। शब्दादिसम्पयोगः स्वेच्छये- त्यन्ये । रागद्वेषाभावे सुखदुःखशून्यं शब्दादि- ज्ञानमिन्द्रियजय इति केचित् । चित्तैकाग्रा- दप्रतिपत्तिरेवेति जैगीषव्यः, ततश्च परमा तु इयं वश्यता यच्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥ ५५ ॥ इति पातञ्जले साधननिर्देशो नाम द्वितीयः पादः ।

२८० पातञ्जलदर्शनम् । तत: प्रत्याहारादिन्द्रियाणां परमो जयो भवतीत्यर्थः । तत्र परमजयप्रतिपादनार्थ बहुविधान् पक्षानाह। शब्दादिषु इत्यादिना। व्यसनशब्दार्थमाह। सक्तिरिति। सक्तिः सङ्गो येन शास्त्रविरुद्धेऽपि विषयभोगे इन्द्रियाणि प्रवर्तन्ते। व्यस्यति क्षिपति निरस्यत्येनं श्रेयस इति व्युत्पत्त्य ति शेषः। एवं च सति शास्त्राविरुद्धा प्रतिपत्तिरेष भोगी न्याय्या एवेति पूर्वोक्तेन केचिदित्यनेनान्वयः । मतान्तरमाह। शब्दादौति । इन्द्रियवि- षययोः सम्प्रयोगे तदपारतन्वामित्यर्थः । मतान्तरमाह। राग- देषेति। रागद्देषनिमित्तकाभ्यां सुखदुःखाभ्यां शून्यो विषय- स्तथेत्यर्थः । तेनाभिमानिकसुखदुःखशून्यत्वं लब्ध कायिकसुख- दुःखानां योगावस्थां विना परिहारासम्भव इति भावः। एतेषु त्रिषु उत्तरोत्तरमुत्कर्षेऽपि नैते परमा इन्द्रियजया एतावन्मात्रै- रिन्द्रियवृत्त्यनिरोधात् । अतः सूत्रकारसम्मतं परममाह। चित्तै- काग्रमादिति। चित्तैकाग्रमा तोरिन्द्रियाणां या अप्रतिपत्ति- त्तिनिरोधस्तयोग्यता स एव जय इति जैगीषव्य इत्यर्थः । तत इति। इयञ्च वश्यता ततो हेतोः परमा वश्यता। यत् यतः चित्तनिरोधेनेत्यादिरर्थः । कालादिव्यावर्त नाय तथा च पूर्वसूत्रोक्तचित्तानुकारस्य फलं लक्षणं च । या समाधी चित्तेन सहन्द्रियाणां वृत्तिनिरोधयोग्यता सैव पर- मवश्यताख्यो जयोऽनेन सूत्रेणोक्त इति। एतादृशवश्यताभावे- नैव सौभरिप्रभृतीनां योगभ्रशादियं वश्यतापि योगनिष्पत्ति- हेतुः । अतएव गौता। यततोह्यपि कौन्तेय ! पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसमं मनः ॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ प्रयवक्त- मिति ।

साधमपादे योगवार्त्तिकम्। २८९ इति । तदेवं ज्ञानसाधनमुखेन योगस्यापि वहिरङ्गानि यमादिप्रत्याहारान्तानि ससिद्धीत्यत्र पादे प्रोतानि धारणादि वयस्य सिद्धिबाहुल्यात्तु सिद्धिभिः सह तत्प्रतिपादनार्थमेव समग्रस्तृतीयपादो भविष्यति ॥ इति श्रीपातञ्जलभाष्यवार्ति के विज्ञानभिक्षुनिर्मित साधननिर्देशो नाम द्वितीयः पादः । अथ तृतीयः विभूतिपादः । उक्तानि पञ्च वहिरङ्गानि साधनानि धारणा वक्तव्या, * देशबन्धश्चित्तस्य धारणा ॥ १ ॥* नाभिचक्रे, हृदयपुण्डरीके, मूर्ध्नि ज्योतिषि, नासिकाग्रे, जिह्वाग्र, इत्येवमादिषु देशेषु, वाद्ये वा विषये, चित्तस्य वृत्तिमावेण बन्ध इति धारणा॥ १ ॥ योगाङ्गेषु मध्ये कियन्ति पूर्वपादे प्रोक्तानि कियन्ति चात्र पादे इत्यत्र नियामकं वदन्नेव क्रमप्राप्तं धारणासूत्रमवतारयति । उक्तानीति । वहिरङ्गान्तरङ्गत्वे अपि पादभेदेन निरूपणे निया- मक इत्यर्थः। यत्र देश ध्येयं चिन्तनीयं तत्र ध्यानाधारदेशविषये चित्तस्य स्थापनं तदैकाग्रंप धारणेत्यर्थः। तदेतद्याचष्टे। नाभीति । .

॥ २८२ पातञ्जलदर्शनम्। मूहि मूर्द्धस्थे ज्योतिषि आदिशब्देन गारुड़ायुक्तदेशान्तराणि प्रामाणि, यथा गारुडें । प्राङ्नाभ्यां हृदये चाथ टतीये च तथोरसि । कण्ठ मुखे नासिकाग्रे नेत्रभूमध्यमूर्द्ध सु ॥ किञ्चित्तस्मात्परस्मिंश्च धारणा दश कीर्तिताः । मुखे जिह्वाये। किञ्चित्तस्मात्परस्मिबिति मूर्ध्न उपरि हाद- शाङ्गुलपरिमिते देशे लिङ्गशरीरस्य सप्राणस्य तावत्पर्यन्तं प्रदौ- पशिखावदवस्थानात् अवहितैस्तावत्पर्यन्तमेव लिङ्गशरीरानु- गतोमोपलभ्यते वाक्यानामुपलम्भाच्च। तदुक्त कौमे । शिखाये हादशाङ्गल्ये कल्पयित्वाथ पङ्कजम् । इत्यादिनेति। एतानि च नाभ्यादीनि जीवेखरयोमुख्य- स्थानानि एव रानः सिंहासनवत्। जीवखरव्यञ्जकस्य लिङ्ग- शरीरस्य मुख्यस्थानत्वात् अत एतानि धारणायाः प्रकृष्टदेशा उक्ताः । आध्यात्मिकान् ध्यानदेशानुक्त्वा वाह्यानपि संक्षेपत आह । वाह्ये वा विषय इति। चन्द्रसूर्याग्न्यादौ ईश्वरदेवतादिध्यान- देश इत्यर्थः । वृत्तिमात्रेणेति। वृत्तिमात्रेण न तु ध्येयकल्पनये- त्यर्थः। तेन ध्यानादिव्यावृत्तिः। तदुक्तमोखरगीतायाम् । हृत्पुण्डरीके नाभ्यां वा मूनि पर्वतमस्तके। एवमादिप्रदेशेषु धारणा चित्तबन्धनम् ॥ देशावस्थितमालक्ष्य बुद्धेर्या वृत्तिसन्ततिः । वृत्त्वन्तरेरसंस्पृष्टा तद्यानं सूरयो विदुः ॥ एकाकारसमाधिः स्याह शालम्बनवर्जितः । प्रत्ययो बर्थमात्रेण योगसाधनमुत्तमम् ॥ इति । बन्ध इतीत्यन्तेन देशबन्धशब्द व्याख्याय सूत्रवाक्या- थमुपसंहरति। बन्ध इति। ईदृशो बन्धो धारणेत्यर्थः । इदञ्च धारणालक्षणं प्राथमिकपरिच्छिन्नयोगाभिप्रायेण सचितं यत्र विभूतिपादे योगवार्तिकम्। २८३ प्रथमत एवेखरानुग्रहात् अपरिच्छिन्नतया जीवब्रह्मयोगो भवति तत्र देशालम्बनधारणानुपयोगात्। अतो धारणाया अन्यदपि लक्षणं गारुड़ादौ अप्य तम्। यथा गारुडे । प्राणायामैत्रदशभिर्यावत्कालः कृतो भवेत् । स तावत्कालपर्यन्त मनो ब्रह्मणि धारयेत् ॥ इत्यादि । एतदेव तु धारणासामान्यलक्षणम् । अन्यथा क्षण- मात्रेणापि धारणापत्तेः । अतः सूत्रोक्त विशेषलक्षणमपि प्राणायामहादशकालावच्छिन्नत्वेन विशेषणीयमिति । धारणा- साध्य ध्यानमाह ॥ १॥ * तत्र प्रत्ययकतानता ध्यानम् ॥ २॥ * तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्यैकता- नतासहश: प्रवाह: प्रवाहः प्रत्ययान्तरेण अपरामृष्टो ध्यानम् ॥२॥ भाष्यं सुगमम्। इदमपि ध्यानलक्षणं प्राथमिकौत्सर्गिक- ध्यानाभिप्रायेण सर्वत्र ध्यान देशानियमात् । अतोऽस्य गारुड़े लक्षणान्तरमुक्त तस्यैव ब्रह्मणि प्रोक्तं ध्यानं हादशधारणेत्यनेन । तस्यैव हादशप्राणायामकालेन धारितचित्तस्य द्वादशधारणा- कालावच्छिन्नं चिन्तनं ध्यानं प्रोक्तमित्यर्थः । अनेन च पूर्ववत्सू- वोतं विशेषलक्षणं विशेषणीयम् । ध्यानसाध्य समाधिं लक्ष- यति ॥ २॥ * तदेवार्थमावनिर्भासं स्वरूपशून्यमिव स- माधिः ॥ ३॥ * ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन २८४ पातञ्जलदर्शनम् । स्वरूपेण शून्यमिव यदा भवति ध्येयखभावा- वेशात्तदा समाधिरित्युच्यते ॥ ३ ॥ मात्रपदस्यार्थः स्वरूपशून्यमिवेत्यनेन स्वयं विवृतः । तदेतद् व्याचष्ट। ध्यानमेवेति । तदा तदेव ध्यानं ध्येयस्याकारेणैव माक्षिणि निर्भाप्तते न तु प्रत्ययाकारनिर्भासं चित्तस्य ध्येय- खरूपावेगेनाहमिदं चिन्तयामीत्येवं प्रत्ययाकारवृत्त्यन्तरानुद- यात् । तदा ध्यानमेव समाधिरुच्यत इत्यर्थः । ध्यानस्वरूपस्य वस्तुत: सत्त्वादिव शब्दप्रयोगः । तथा च ध्यासुध्येयध्यानकल- नावत् ध्यानं तद्रहितं च समाधिरिति ध्यानसमायोविभागः । इदच समाधिलक्षणं पूर्वसूत्रोक्तध्यानविशेषतया देशघटितत्वेन अपरिच्छि बसमाध्ययापकम् अतोऽर्थमात्रावभासनं चिन्तनमि- त्येव समाधिसामान्यलक्षणम् । उदाहृतेश्वरगीतावाक्य तल्ल- क्षणसिद्धेः । अथ वा गारुडोक्त यथा । ध्यानं हादशपर्यन्त मनो ब्रह्मणि योजयेत् । तिष्ठेत् तल्लयतो युक्तः समाधिः सोऽभिधीयते ॥ इतीति। अत्रापि सूत्रोक्त विशेषलक्षणं ध्यानद्दादशगुणि- तकालावच्छिन्नत्वेन विशेषणीयमिति । अस्य च समाधिरूप- स्याङ्गस्याङ्गियोगसम्प्रज्ञातयोगादयं भेदो यदत्र चिन्तारूपतया नि:शेषतो ध्य यखरूपं न भासते अङ्गिनि तु सम्प्रज्ञाते साक्षा- कारोदये समाध्यविषया अपि विषया भासन्त इति। तथा च साक्षात्कारयुक्तकापाकाले सम्प्रज्ञातयोगोऽन्यदा तु समाधि- मात्रमिति विभागः । अष्टानां चाङ्गानां फलदयं सम्प्रज्ञातयोग- स्तहारा असम्प्रज्ञातयोगश्चेति । ध्यानादित्रयस्य परिभाषासूत्रम् तदेतद् धारणाध्यानसमाधिवयमेकत्र संयमः ।

विभूतिपादे योगवात्तिकम्। २८५ * वयमेकत्र संयमः ॥ ४॥ * एकविषयाणि वीणि साधनानि संयम इत्युच्यते, तदस्य वयस्य तान्त्रिकी परिभाषा संयम इति ॥४॥ अस्मिन्नेव पादे प्रोततया त्रयशब्देन धारणादित्रवमेव ल- भ्यते । माष्यं सुगमम्। धारणाध्यानसमाधीनां मिलितानां तत्र तत्र सूत्रेऽनया संज्ञया ग्रहणं भविष्यति । तेषु च प्रातिस्त्रि- करूपैस्त्रयाणामुच्चारण ग्रन्थबाहुल्यं स्यादित्याशयेन तन्त्रान्तर- सिद्दसंज्ञाप्रतिपादकमिदं सूत्रम्। संयमसिद्धयोऽग्रे विस्तरतो वक्ष्यन्ते साम्प्रतं संयमस्य योगाङ्गताप्रयोजकं हारमाह ॥ ४ ॥ * तज्जयात्मज्ञालोकः ॥ ५ ॥ * तस्य संयमस्य जयात् समाधिप्रजाया भवत्या- लोकः, यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदो भवति ॥ ५ ॥ तज्जयः संयमस्य जयः स्थैय्यं सात्स्यमिति यावत्। तस्मात् प्रज्ञाया आलोको दौप्तिद्धिः क्रमेण भवतीत्यर्थः। तदेतद्या- चष्टे । तस्येति। खोक्त विवृणोति । यथेति । वैशारद्य चाति- सूक्ष्मव्यवहिताद्यर्थानां परप्रत्यक्षीकरणसामर्थ्यमिति। संयम- स्यानुष्ठाने विशेषमाह ॥ ५ ॥ * तस्य भूमिषु विनियोगः ॥ ६ ॥ * तस्य संयमस्य जितभूमेर्या अनन्तरा भूमि- स्तव विनियोगः, न हि अजिताधरभूमिरनन्तर- २८६ पातञ्जलदर्शनम् । भूमिं विलय प्रात्तभूमिष, संयम लभते, तद- भावाच्च कुतस्तस्य प्रज्ञालोकः, ईश्वरप्रसादा- ज्जितोत्तरभूमिकस्य च नाधरभूमिष, परचित्त- जानादिषु संयमो युक्तः, कस्मात्, तदर्थस्यान्यत एवावगतत्वाद्, भूमेरस्या इयमनन्तरा भूमि- रित्यत्र योग एव उपाध्यायः कथम्, एवमुक्तं "योगेन योगी ज्ञातव्यो योगो योगात् प्रवर्तते । योऽप्रमत्तस्तु योगेन स योगे रमते चिरम्” इति तस्य संयमस्य स्थूलादिपूर्वपूर्वभूमिकाजयानन्तरं सूक्ष्मादिषु उत्तरोत्तरभूमिकासु नियोजनं योगिना कर्तव्यमित्यर्थः । एत- देव व्याचष्टे भाष्यकारस्तस्येति। अनन्तरा अव्यवहिता। क्रमेण भूमिकारोहे युक्तिमाह। न होति। प्रान्तभूम्यपेक्षया अधरा- ऽधःस्था भूमिरजिता येन सोऽजिताधरभूमिर्योगी न हि अन- न्तरभूमिमव्यवहितभूमिं विलय प्रान्तभूमिषु व्यवहितोत्तर- भूमिषु संयम लभते। धनुर्धरादिषु स्थूलवेधाद्यनन्तरमेव सूक्ष्म वेधादिदर्शनात् सोपानारोहणादिषु च क्रमेणैव आरोहादिदर्श- नात् अन्यथा अध:पातात् तदभावाच्चेति । ततश्च संयमालाभात् कुतः प्रज्ञालोकस्तत्तभूमिषु स्यादित्यर्थः । तथा चोक्त गारुडे। स्थित्यर्थं मनसः पूर्व स्थूलरूपं विचिन्तयेत् । तत्र तबिवलीभूतं सूक्ष्मेऽपि स्थिरतां व्रजेत् ॥ इति। अयञ्च भूमिकारोहे क्रमश्चौत्सर्गिकः कदाचिदपो- द्यतेऽपौत्याह। जितान्तरति। ईखरप्रसादात् पादाक्व वशीक्त- विभूतिपादे योगवार्तिकम् । २८७ सप्रकतिपूरुषविवेकादिभूमिकस्य योगिनो नाधोभूमिषु परचि- सज्ञानादिषु परचित्तप्रत्ययादिषु प्रत्यये परचित्तज्ञानमित्याद्यागा- मिसूत्रवाच्येषु विराडादिस्थूवेषु वा संयमोयुक्त इत्यर्थः । पृच्छति। कस्मादिति। उत्तरं, तदर्थस्येति। अधरभूमिसंयमप्रयोजनस्य उत्तरभूम्यारोहणस्येवरानुग्रहादेवावगतत्वात् प्राप्तत्वादित्यर्थः ननु उत्सर्गासिद्ध क्रममुल्लङ्गय प्रथममुत्तरभूमिकासु संयमारम्भ एव न युक्तः तत्कथमादौ तज्जयो घटेतति चेन्न । युञ्जमानेनादौ एव सर्वोत्कृष्टभूमिकायां स्वचित्तस्य परीक्षणीयत्वात् । तत्संयमा- योग्यतां वस्यानुसूयैव अधरमूमिषु वयोग्यतामवधाय॑ चित्तस्य धारणीयत्वादिति। नन्वेवमधिकारिपुरुषभेदेन भूमिकाक्रम भेदात् कथं स्वयोग्यो भूमिकाक्रमो योगिभिरवधारणीय इति तत्राह। भूमरस्या इति। उपाध्यायो गुरु: योगबलादेव स्वयं जानातीत्यर्थः। अत्र प्रमाणं पृच्छति। कथमिति। उत्तरम् । एवमुक्तमिति । अप्रमत्त: सियलम्पट: । रणार्थं योगाङ्गेषु अवान्तरविशेषमाह मूत्राभ्याम् ॥ ६ ॥ * त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७॥ * तदेतद् धारणाध्यानसमाधित्रयम् अन्तरङ्गं सम्पज्ञातस्य समाधेः पूर्वेभ्यो यमादिसाधनेभ्य इति ॥ ७॥ आगामिसूत्रानुरोधात् अत्र सम्प्रज्ञातसमाधेरिति पूरयित्वा व्याचष्टे। तदेतदिति। अत्र सम्प्रज्ञातस्येत्यत्र प्रज्ञाया विशेषण- तया ज्ञानस्यापि अन्तरङ्गत्वमेतत्त्रये विवक्षितम् वौजसाम्यात् ज्ञानप्रकरणपाठाच्च। अन्तरङ्गत्वे च वीजमिदं यययातिरिक्त- वृत्तिनिरोधरूपे सम्प्रज्ञाते ध्ये यसंयमः साक्षादेव कारणं विष. यान्तरसञ्चाररूपत्वात् एवं ध्य यसाक्षात्कारेऽपि साक्षादेव विष- आवश्यकत्वाद्यवधा- २८८ पातञ्जलदर्शनम् । यान्तरसञ्चाराख्यप्रतिबन्धनिवृत्तिहारा कारणमिति प्रत्याहा- रान्तं त्वङ्गपञ्चकं चित्तस्थैर्यहारेण परम्परया एवोभयोः कारण- मिति अतएव यस्य जड़भरतादेः स्वतएव प्राचीनकर्मवशाञ्चित्त संयमयोग्य भवति तस्य नास्तीतरागावश्यकत्वमित्युक्त गारुड़ा- दिषु। आसनस्थानाविधयो न योगस्य प्रसाधकाः । विलम्बजननाः सर्वे विस्तराः परिकीर्तिताः । शिशुपालः सिद्धिमाप स्मरणाभ्यासगौरवात् । इत्यादिना। अतएव जड़भरतादीनां समाधिविघ्नतया वा- ह्यकर्मत्यागोऽपि श्रयते। अतएव गीतायां संयमाशक्तायैव अ- भ्यासकर्मादीनि विशेषत उपदिष्टानि । मय्येव मन आधत्स्व मयि बुद्धि निवेशय । निवसिष्यसि मय्येव अत उङ्घन संशयः । अथ चित्त समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तु धनञ्जय ॥ अभ्यासेऽप्यसमर्थोऽसि मकर्मपरमो भव । इत्यादिना। अभ्यासश्चात्र व सूत्रितः। स्थिती यनोऽभ्यास इति। तथा ब्रह्ममीमांसायामपि। समाधिविरोधे सति गुण- लोपेन गुणिन इति न्यायसिद्धा वाह्यकमानपक्षोक्ता । अतएव चाग्नीन्धनाद्यनपेक्षेति सूत्रण 'यच्च विद्यां चाविद्याञ्च यस्तद्देदी- भयं सह। अविद्यया मृत्यु तोर्खा विद्ययामृतमश्रुते' इति श्रुत्या ज्ञानकर्मणोः साहित्यमुक्त तत्राङ्गाङ्गिनोरौत्सर्गिक सहा- नुष्ठानमेवाभिप्रेतं न तु मोक्षाख्यफले तयोः तुल्यवत्समुच्चयः । अविद्यया मृत्यु तोवंत्यनेन ज्ञानविप्लवनिवृत्त्याख्यमृत्युतरणदा- रेण विद्यायामेव मोपदायिन्यां कर्मण उपयोगावगमात् ।

विभूतिपादे योगवार्तिकम्। २८९ न केवलेन योगेन प्राप्यते परमं पदम् । ज्ञानं तु केवलं सम्यगपवर्गप्रदायकम् । इत्यादिवाक्य ोगशब्दोक्तकर्मनिरपेक्षात् ज्ञानयोगादपि मोक्षसिद्धेः। अङ्गत्वञ्च पूर्वजन्मनि अनुष्ठितानामपि कर्मणां जड़भरतादिषु सिद्धमिति । एतेन । उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां लभते परमं पदम् ॥ इत्यादि वाक्यानि अङ्गाङ्गिनोरोत्सर्गिकसहानुष्ठानपराण्येव न मोक्ष प्रति समुच्चयबोधकानोति दिक् ॥ ७ ॥ * तदपि वहिरङ्गं नि:जस्य ॥ ८॥ * तदपि अन्तरङ्ग साधनवयं, निर्वोजस्य यो- गस्य वहिरङ्गं. कस्मात्, तदभावेऽभावादिति ॥८॥ निर्वोजयोगस्य असम्प्रज्ञातस्य तदपि त्रयं वहिरङ्गमेव विवे- कख्यातिपरवैराग्यद्वारा परम्परया हेतुत्वेनावश्यकत्वाभावादि- त्यथः । एतदेवाह। तदभावे भावादिति। पूर्वोतविदेहप्रकृति- लयानां देवविशेषाणामोत्पत्तिकज्ञानवैराग्याणां संयमनरपेक्ष्ये- णैव दैनन्दिनप्रलयादी असम्म ज्ञातोदयादित्यर्थः। तथाच स्मृतिः । योगनिद्रां यदा विष्णु जगत्येकार्णवीकृते । आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः । इति। तदेतत्प्रागुक्तं भवप्रत्ययो विदेहप्रकृतिलयानामिति मृतणति । ज्ञानोपायप्रसङ्गेन योगाङ्गानि विस्तरत: प्रोक्तानि इदानीमङ्गभूतस्य समाधरङ्गिनोश्च योगयोः स्वरूपभेदावधार- गाय तत्तदवस्थागता विशेषा वक्तव्याः । तावतैव तयोरङ्गाङ्गिनोः प्रयोजनमपि प्रतिपादितं भविष्यति। तत्र अङ्गसमाधिनो योग- दयम्य विशेषावधारकसूत्रमुत्थापयति प्रश्नमुखेन। अथेति । । २५ २९. पातालदर्शनम् । निरोधचित्तक्षगोषु निरोधावस्थचित्तक्षणेषु योगदयक्षणेषु इति यावत् । गुणव्यापारस्यास्थिरत्वात् चिगुणात्मकस्य चित्तस्य निरो- धक्षणेष्वपि परिणामधारा आवश्यको स च परिणामः कीदृश इति प्रश्नः ॥८॥ अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः । * व्युस्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावी निरोधक्षनाचित्तान्वयो निरोधपरिणामः ॥६॥ * व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरूद्धा, निरोधसंस्कारा अपि चित्तधर्माः, तयोरभिभवप्रादुभीवी व्युत्थान- संस्कारा हीयन्ते, निरोधसंस्कारा आधीयन्ते, निगेधक्षणं चित्तमन्व ति, तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः। तदा संस्कारशेष चित्तमिति निरोधसमाधी व्याख्यातम् ॥६॥ असम्प्रज्ञातापेक्षया मम्प्रजातोऽपि व्युत्थानं तथा च व्युत्थानं निरोधश्च योगदयसाधारण एवात्र ग्राह्यः केवलस्य असम्प्रज्ञातरू- पस्य निरोधस्य अत्र ग्रहण सम्प्रज्ञाताख्यनिरोधस्य परिणामकथ- नाचूनतापत्तेः । व्युत्थानसंस्काराभिभवश्च क्रमेण हासो न तु दाहः। निरोधसंस्कारप्रादुर्भावश्च वृड़ितो निरोधपरिणामो निरोधका. लौनपरिणामः स च निरोधक्षणचित्तान्वयः प्रत्येक निरोध- विभूतिपादे योगवार्त्तिकम् । २८१ क्षणेषु एकस्मिन् स्थिरे चित्तेऽन्वित इत्यर्थः। एतच्च विशेषणं योग- काले प्रतिक्षणमतादृशपरिणामलाभाय चित्तस्यै र्यलाभाय चोक्तम् । अत्र निरोधकाले जायमान: संस्कार एव निरोधसं- स्कार इत्युक्तः । तेन सम्प्रज्ञातरूपनिरोधस्य संस्काराजनकत्वेऽपि सत्कालीनप्रजाजन्यमंस्कारस्यैव निरोधसंस्कारत्वमुपपन्नमिति चित्तधर्मिणो धर्मपरिणामोऽयमिति प्रतिपादनाय भाष्यकार आह । व्युत्थानसंस्काराश्चित्तधर्मा इति। ननु वृत्तिनिरोधेनैव तत्कायतया तत्संस्काराणामपि निरोधी भवतु तन्तुनिरोधेन पटनिरोधवत्। अतो नं पृथग्व्युत्थानसंस्काराभिभवापेक्षेत्या- शङ्कां समाधत्ते। न ते प्रत्ययात्मका इति । न प्रत्ययोपादा- नकाः। अतो न व्युत्थानसंस्कारा: प्रत्ययनिरोधेऽपि निरुद्धा भवन्तीत्यर्थः । निमित्तकारणत्वादेव प्रत्ययस्येति भावः । तस्मात् प्रत्ययनिवृत्तौ अपि तत्संस्कारनिवृत्तिकारणं पृथगेवापेक्ष्यत इति। शेषं भाष्यं सूत्रव्याख्ययैव व्याख्यातप्रायम् । निरोधसंस्कारा: कल्प्यन्ते इत्याकाङ्कायां निरोधसंस्कारप्रमाण- माह ॥८॥ ननु किमर्थ * तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥ * निरोधसंस्कारात् निरोधसंस्काराभ्यासपाट- वापेक्षा प्रशान्तवाहिता चित्तस्य भवति, तत्- संस्कारमान्ये व्युत्थानधर्मिणा संस्कारेण निरोध- धर्मसंस्कारोऽभिभूयत इति ॥ १० ॥ तस्य निरोधावस्थचित्तस्य प्रशान्तवाहिता निश्चलनिरोध- धारया वहनं निरोधसंस्कारबलादेव भवतीत्यर्थ: । अतो निरो- धसंस्कारस्तप्रादुर्भावश्चावश्यमेष्टव्य इति भावः। अन्वयव्यति- २८२ पातञ्जलदशनम्। रेकाभ्यां कार्यकारणभावं प्रतिपादयति। निरीधेत्यादि भार्थ सुगमम् । निरोधरूपयोगदयकार्य: परिणामो व्याख्यातः इदानीं तद्विलक्षणं योगाइसमाधिकार्य परिणामं दर्शयति॥१०॥ * सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥ * सर्वार्थता चित्तधर्मः, एकाग्रता चित्तधर्मः, सर्वार्थतायाः क्षयः तिरोभाव इत्यर्थः, एकाग्रताया उदय आविर्भाव इत्यर्थः, तयोर्धर्मित्वेनानुगतं चित्तं, तदिदं चित्तमपायोपजननयोः स्वात्म- भूतयोर्धर्मयोरनुगतं समाधीयते स चित्तस्य स- माधिपरिणामः ॥ ११ ॥ सर्वार्थता विक्षिप्तता एकाग्रता एकमात्रविषयता तयोर्यथा- क्रम क्षयोदयौ चित्तस्य समाधिकालीनपरिणाम इत्यर्थः । अत्रापि प्रतिक्षणमित्यनुषञ्जनीयं युक्तिसाम्यात् तदेतद्याचष्टे । सवार्थतेति। सर्वार्थताया अत्यन्तोच्छेद एकदा न भवति। नापि एकाग्रताया निष्पत्तिरेकदा भवति किन्तु क्षणक्रमेणैवातः क्षयोदयौ तिरोभा- वाविर्भावार्थकतया व्याचष्टे । क्षय इत्यादिना तिरोभाव इत्यर्थ इत्यन्तेन। अत्र तिरोभावाविर्भावौ हासवृद्धी । थतैकाग्रतयोधर्मी कथ चित्तस्येत्युच्येते तत्राह । तयोर्धर्मित्वे- नानुगतं चित्तमिति । तयोः सर्वार्थतैकाग्रतयोः । तथा च धर्म- परिणामेऽपि धर्मद्वारा धर्मिण एव भवतीत्यर्थः। उत्तरसूत्रव- क्ष्यमाणपरिणामात् व्यावर्त्य प्रकतसूत्रवाक्यार्थभूतं परिणाम व्याचष्टे । तदिदमिति । तदिदमित्यस्य विवरणम् अनुगत- ननु सर्वा- विभूतिपादे योगवाति कम्। २८३ मित्यन्त तथा च चित्तं स्वात्मभूतयोः स्वकार्ययोः सर्वार्थ- तैकाग्रतयोर्धर्मयोरपायकाले उपजन्मकाले चानुगतं यत्समा- धीयते स समाधिपरिणाम इत्यर्थः । समाहितचित्तस्य तु परि- णामः शेषसूत्रेण वक्ष्यत इति भावः । इदानीमङ्गसमाधी एव परिणामान्तरमुक्तपरिणामकालीनमाह ॥ ११ ॥ * ततः पुनः शान्तोदिती तुल्यप्रत्ययो चित्त- स्यैकाग्रतापरिणामः ॥ १२ ॥ * समाहितचित्तस्य पूर्वप्रत्ययः शान्तः, उत्तर- स्तत्सदृश उदितः, समाधिचित्तमुभयोरनुगतं पुन- स्तथैव, आ समाधिभेषादिति, स खल्वयं धर्मिणश्चित्तस्य एकाग्रतापरिणामः ॥ १२ ॥ ततः सर्वार्थतायाः निःशेषत: क्षये सति शान्तोदिती अती- तोत्पद्यमानौ तुल्यप्रत्ययौ एकाकारप्रत्ययो चित्तस्यैकाग्रताका- लीन: पुन: परिणामो भवति सजातीय एकैकः प्रत्ययो नश्यति अन्योन्य उत्पद्यत इत्येवं परिणामो भवतीत्यर्थः । तदेतद्याचष्टे । समाहितेति। समाध्यारूढस्य चित्तस्येत्यर्थः । अनेन पूर्वसूत्रो- तचित्तावच्छेदः कृतः । तत्र समाधीयमानचित्तस्यैव परिणाम- स्योतत्वादिति पुनस्तथेत्यनेन धारावाहिक एकाग्रतासन्तान उक्तः । अवधिमाह। आसमाधीति। भ्रषो भ्रंशः । तदेवं योग- तदङ्गयोः परिणामरूपवैलक्षण्य तपोविवेकाय प्रदर्शितम । अनयैव दिशा व्युत्थानकालौना अपि चित्तपरिणामा व्याख्यात- प्रायाः । इतः परिणामत्रयसंयमादित्यागामिसूत्रोपोहातसङ्गत्या सर्वत्र वैराग्याग्निप्रज्वलनाय च चित्तवदेवान्चेष्वपि अतिदेशनव परिणामान् व्याचष्टे सूत्रकारः ॥ १२ ॥ - ।

२६४ पातञ्जलदर्शनम् । * एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरि- गामा व्याख्याताः ॥ १३॥ * एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणा- वस्थारूपेण, भूतेन्द्रियेषु धर्मपरिणामो लक्षण- परिणामोऽवस्थापरिणामश्चोतो वेदितव्यः । तत्र व्युत्थाननिरोधयोधर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः, लक्षणपरिणामश्च निरोधस्त्रि- लक्षण स्त्रिभिरध्वभिर्युक्तः, स खल्वनागतलक्षण- मध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्त- मानं लक्षणं प्रतिपन्नो यत्रास्य स्वरूपणाभि- व्यक्तिः, एषोऽस्य द्वितीयोऽध्वा । न घातीता- नागताभ्यां लक्षणाभ्यां वियुक्तः । तथा व्युत्थानं विलक्षणं विभिरध्वभिर्युक्तं वर्तमानं लक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम्, एषोऽस्य दृतीयोऽध्वा, न चानागतवर्तमानाभ्यां लक्षगाभ्यां वियुक्तम् । एवं पुनद्युत्थानमुप- सम्पद्यमानमनागतं लक्षणं हित्वा धर्मत्वमनति- शान्तं वर्तमानं लक्षणं प्रतिपन्नम्, यत्रास्य खरूपाभिव्यक्ती सत्यां व्यापार:, एषोऽस्य द्वितीयो- ऽध्वा, न चातीतानागताभ्यां विमुक्तमिति ।

२८५ विभूतिपादे योगवार्त्तिकम्। एवं पुनर्निरोध एवं पुनर्युत्थानमिति। तथा- वस्थापरिणामः तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्यु त्थानसंस्कारा इति, एष धर्माणामवस्थापरिणामः । तत्र धर्मिणो धर्मः परिणामो, धर्माणां लक्षणैः परिणामः, लक्षणा- नामप्यवस्थाभिः परिणाम इति। एवं धर्म- लक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुण- वृत्तमवतिष्ठते, चलञ्च गुणवृत्त गुणस्खाभाव्यन्तु प्रवृत्तिकारगामुक्तं गुणानामिति । एतेन भूते- न्द्रियेषु धर्मधर्मभेदात् विविधः परिणामो वेदितव्यः, परमार्थतस्त्वेक एव परिणामः, धर्मि- खरूपमात्रोहि धर्मो धर्मिविक्रियैवैषा धर्महारा प्रपञ्चाते इति । तत्र धर्मस्य धर्मिणि वर्त- मानस्यैवाध्वसु अतीतानागतवर्तमानेषु भावा- न्यथात्वं भवति न द्रव्यान्वथात्वं, यथा सुवर्णभाज- नस्य भित्त्वा अन्यथा क्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति । धर्मानभ्यधिको धर्मों पूर्वतत्त्वानतिक्रमात्, पूर्वा- परावस्थाभेदमनुपतितः कौटस्थोन विपरिव- तंत यद्यन्वयी स्यादिति । अयमदोषः, कममात्, अपर आह २८६ पातञ्जलदर्शनम् । एकान्तानभ्युपगमात्, तदेतत् वैलोक्यं व्यक्त- रपैति, कस्मात्, नित्यत्वप्रतिषेधाद। अपेत- मप्यस्ति विनाशप्रतिषेधात् । संसर्गाच्चास्य सौक्ष्मा, सौक्ष्मयाच्चानुपलब्धिरिति। लक्षण- परिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीत- लक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्याम- वियुक्तः, तथा अनागतोऽनागतलक्षणयुक्तो वर्त- मानातीताभ्या लक्षणाभ्यामवियुक्तः, तथा वर्त- मानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति। यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति। अब लक्षणपरिणामे सर्वस्य सर्वलक्षणायोगादध्वस- ङ्करः प्राप्नोतीति परैर्दोषश्चोद्यत इति, तस्य परिहारः धर्माणां धर्मत्वमप्रसाध्यं, सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम्, एवं हि न चित्तं रागधर्मक स्यात् क्रोधकाले रागस्यासमुदाचारादिति । किञ्च, त्रयाणा लक्षणानां युगपदेकस्या व्यक्ती नास्ति सम्भवः क्रमेण तु खव्यञ्जकाञ्जनस्य भावो भवेदिति । उक्तं च रूपातिशया वृत्त्यतिशयाश्च यथा रागस्यैव विभूतिपादे योगवार्त्तिकम्। २८७ परस्परेण विरुध्यन्ते सामान्यानि तु अतिशयः सह प्रवर्तन्ते तस्मादसङ्करः । क्वचित्समुदाचार इति न तदानीमन्यत्राभावः, किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तव तस्य भावः, तथा लक्षणस्येति। न धर्मी बाधा धमीस्तु बाधानः ते लक्षिता अल- क्षिताश्च तां तामवस्थां प्राप्नुवन्तोऽन्यत्वे न प्रति- निर्दिश्यन्ते अवस्थान्तरतो न द्रव्यान्तरतः, यथैका रेखा शतस्थाने शतं दशस्थाने दशैकं चैकस्थाने, यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च खसा चेति। अवस्थापरिणामे कौटस्थाप्रसङ्ग- दोष: कैश्चिदुक्तः, कथम्, अधुनो व्यापारण व्यवहितत्वाद् यदा धर्म: खव्यापारं न करोति तदा अनागतो, यदा करोति तदा वर्तमानो, यदा कृत्वा निवृत्तस्तदा अतीतः, इत्येवं धर्मधर्मि- णोर्लक्षणानामवस्थानां च कौटस्था प्राप्नोतीति परैर्दोष उच्यते, नासी दोषः, कस्माद्, गुणि- नित्यत्वेऽपि गुणानां विमर्दवैचित्रद्यात् । यथा संस्थानमादिमद् धर्ममावं शब्दादीनां विनाश्य- विनाशिनाम्, एवं लिङ्गमादिमद् धर्ममावं २८८ पातञ्जलदर्शनम्। सत्त्वादीनां गुणानां विनाश्यविनाशिनां, तस्मिन् विकारसंक्षेति। तत्रेदमुदाहरणं मृट् धर्मी पिण्डाकाराट् धर्माद धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाकार इति, घटाकारो- ऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रति- पद्यत इति लक्षणतः परिणमते. घटो नवपुरा- गतां प्रतिक्षणमनुभवन्नवस्थापरिणाम प्रति- पद्यत इति । धर्मियोऽपि धर्मान्तरमवस्था धर्म स्यापि लक्षणान्तरमवस्योति एक एव ट्रव्य- परिणामो भेदेनोपदर्शित इति। एवं पदा- थान्तरेषु अपि योज्यमिति। एते धर्म लक्षणा- वस्थापरिणामा धमि स्वरूपमनतिक्रान्ता दूत्येक एव परिणामः सर्वानमून् विशेषानभिप्लवते । अथ कोऽयं परिणामः। अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्ती धर्मान्तरोत्पत्तिः परिणामः ॥१३॥ धर्मलक्षणैरवस्थाभिश्च परिणामा धर्मलक्षणावस्थापरिणामा एते च भाष्ये व्याख्येयाः, एत एव परिणामाः भूतेन्द्रियेषु न तु तत्त्वान्तरपरिणामा इति असाधारणाशयेनैवात्र प्रवत्यादिष्विति नोक्तम् । तेन तत्त्वान्तरपरिणामवदेतेऽपि परिणामाः सर्व एव यथायोग्य प्रकृत्यादिष्वपि अवगन्तव्याः । वक्ष्यति एवं धर्मलक्षणावस्थापरिणामः शून्य क्षणमपि न गुण- तथा च भाष्यकारी । विभूतिपाद योगवार्त्तिकम्। २८८ वृत्तमवतिष्ठते इत्येतेन सर्ववस्तुषु परिणामत्रयमिति। सूत्रं व्याचष्टे। एतेनेति । ननु चित्तपरिणाममात्र पूर्वसूत्रे षूक्तं न तु धर्मलक्षणावस्थापरिणामा इत्याशङ्का तहिभागप्रदर्शनेन अपा- कर्तुमुपक्रमते । तत्र व्युत्थानेति । तत्र तेषु मध्ये व्युत्थाननि- रोधयोरभिभवप्रादुर्भावी एव चित्ते धर्मिणि धर्मपरिणामः प्रथ- मसूत्रेणैवोक्त इत्यर्थः । अवस्थितस्य धर्मिण: पूर्वधर्मतिरोभावे धर्मान्तरप्रादुर्भावस्यैव धर्मपरिणामत्वमिति भावः । यद्यपि प्रथमसूत्र व्युत्थाननिरोधसंस्कारयोरेवाभिभवप्रादुर्भावी उक्ती तथापि व्युत्थाननिरोधयोरपायोपजननावपि अर्थालब्धाविति । धर्मश्च द्रव्यं गुणो वेत्यन्यदेतत्। तथा तेनैव सूत्रे णाभिभवप्रादु- र्भावशब्दाभ्यां धर्मस्य लक्षणपरिणामोऽप्य क्त इत्याह। लक्षण- परिणामश्चेति। लक्षणपरिणामो हि अवस्थितस्य धर्मस्य अना- गतादिलक्षणत्याग वत्तमानादिलक्षणलाम: स चाभिभवप्रादु- र्भाववचनेनैव लब्धः। अतीततावत मानतयोरेवाभिमवप्रादुर्भा- वत्वादिति भावः । तत्रादौ निरोधरूपस्य धर्मस्य प्रादुर्भावश ब्दोक्त लक्षणपरिणाममुदाहरति। निरोधस्त्रिलक्षण इति । एतस्यैव विवरणं विभिरध्वभिर्युक्त इति क्रमेण सम्बन्धादध्व- तुल्यतया अनागतादिभावोऽध्वेत्युच्यते । तथा धर्मिणोधर्माणां चान्योन्य व्यावर्त्तनात् लक्षणशब्देन च तन्त्रे परिभाषित इति । ततः किमित्यत आह । स खल्विति । स खल, निरोधः प्रादु- भवकाले अनागतलक्षणरूपमध्वानं हित्वेत्यादिरर्थः । मत्कार्योपपत्तये धर्मपरिणामत्वोपपादनाय च धर्मत्वमनति- क्रान्त इत्युक्तम् । स्वरूपेणावस्थितस्यैव धर्मस्य रूपान्तरापाये रूपा न्तरोत्पत्ती धर्मपरिणामव्यवहारादिति । वर्तमानावस्थामितरा- वस्थाहयादिविच्य दर्शयति । यो ति। स्वरूपेणार्थक्रियाकारि- त्वेनाभिव्यक्तिरुपलबिरित्यर्थः । स च अनागतापेक्षया हिती- - अत्र - पातञ्जलदर्शनम् । योऽध्धेति शिष्यव्युत्पादनाय प्रसङ्गादाह । एषोऽस्येति । असदु. त्यादमहिनाशयोः प्रतिषेधायाह। न चेति। निरोधक्षण एव निरोधस्य लक्षणपरिणामं दर्शयित्वा व्युत्थानस्यापि दर्शयति । तथा व्युत्थानमिति। सर्व पूर्ववत् विशेषस्तु वर्तमानतां हित्वा अतीततां प्राप्त इति टतीयोऽध्वेति च । एवं व्युत्थानका लेऽपि व्यस्थाननिरोधयोः लक्षणपरिणामो क्रमेण दर्शयति । एवं पुन- व्यत्थानमुपसम्पद्यमानमिति। उपसम्पद्यमानं जायमानं तच्च व्यक्त्यन्तरम् अतीतव्यक्तेरनुत्पादस्य वक्ष्यमाणत्वात्। अन्यत् सर्व पूर्ववत् । एवं पुननिरोध इति। अत्र एवमित्यनेन तथा व्युस्था- नमित्यादिवाक्योता निरोधस्य टतीयाध्वप्रक्रिया निर्दिष्टा अतो न निरोधरतीयावस्थाकथनाभावशून्यतेति । इदञ्च व्युत्थानः निरोधपरिणामचक्रम् अपवर्गपर्यन्तमेवेति संक्षेपणाह। एवं पुनर्व्यस्थानमिति। व्युत्थानादिरित्यर्थः। चित्तधर्मस्य लक्षण- परिणामं प्रदर्श्य तल्लक्षणस्यावस्थापरिणामं तस्य प्रशान्तवाहिता संस्कारादिति सूत्र व्याख्यातं दर्शयति । तथा अवस्थापरिणाम इति। उच्यत इति शेषः । संस्कारयोर्बलवत्त्वदुर्बलत्वे च घटस्य नवपुराणतादिवत् हतिहासौ उत्पत्तिविनाशरूपत्वे लक्षणपरि- णामाझेदानुपपत्तेः। लक्षणस्यैव नवपुराणत्वादिना अवस्थापरि- णाम इति वक्ष्यमाणत्वाच्च । ननु व्यस्यैव वृद्धिक्षयौ दृष्टी न गुणस्येति चेन्न। रूपादीनामपि वृद्धिह्रासानुभवात् रूपभेद- कल्पने च गौरवात् तदेव रूपमिदानी प्रवृद्धमिति प्रत्यभिज्ञा- नुपपत्तेश्चेति । तस्मात् संस्कारस्यादृष्टादेश्चास्ति अवस्थापरिणामः ज्ञानेच्छादिषु चोत्यत्तिविनाशानुभवात् क्षणदयमात्र स्थायित्वे- ऽपि द्वितीयक्षण वर्तमानलक्षणस्यावस्थापरिणामो भवति क्षण- त्वेनैव परिणामहेतुत्वात् अन्यथा सर्ववस्तूनां प्रतिक्षणपरिणा- मस्य वक्ष्यमाणस्थानुपपत्त: । एतनोत्तरत्तिविभुविशेषगुणस्यैव विभूतिपादे योगवार्त्तिकम् । ६०१ ज्ञानादिनाशकचे ने काग्रतादशायामपि ज्ञानस्य बहुक्षणस्थायि- त्वाबावस्थापरिणामसम्भव इत्यपास्तम्। तदेवं परिणामत्रयं व्याख्याय तेषामाधारव्यवस्थामाह। तत्र धर्मिण इत्यादिना। लक्षणानामपि अवस्थाभिरिति । यद्यपि अवस्थानामपि बाल्या- दीनां लक्षणपरिणामोऽस्ति तथापि यथोक्तक्रमे न काप्यनुप- पत्तिः। ननु वर्त्तमानलक्षणस्य नवपुराणाद्यवस्थापरिणामोऽस्तु अनागतातीतलक्षणयोस्तु कीदृशोऽवस्थाभेदः स्यादिति । उच्यते । शीघ्रभविष्यत्ताविलम्बभविष्यत्तादिरूपो विशेषस्तयोरपि लक्षणयोरनुमीयते सत्त्वादिवदेव गुणत्वेन प्रतिक्षणपरिणामित्व- सिद्धेरिति। यथोक्तैश्चित्तपरिणामैः सर्ववस्तूनां परिणाममति- दिशन् वैराग्याग्निप्रज्वलनाथं तेषां प्रतिक्षणपरिणामित्वं दर्श- यति। एवं धर्मलक्षणेति। तदुक्त मन्वादौ । घोरेऽस्मिन् हतसंसारे निव्य सततघातिनि । कदलीस्तम्भनिःसारे संसार सारमार्गणम् । यः करोति स सम्मूढ़ी जलवुडुदसबिभे । इति। गुणवृत्त गुणानां सत्त्वादीनां व्यापारः स्वकार्ये- धर्मादिपरिणामः क्षणमपि शून्य नावतिष्ठते। प्रतिक्षणं परि- णामं जनयतीत्यर्थः। ननु व्यापाराभावदशायामपरिणामित्व स्यात् तत्राह । चलच्च गुणवृत्तमिति। चलमिति भावप्रधानो निर्देशः । चाञ्चल्यं हि गुणानां स्वभाव इत्यर्थः । ननु प्रतिक्षणं चाञ्चल्ये प्रमाणं किमित्याकाङ्क्षायामाह। गुणखाभाव्यं विति। राज्ञो हि गुणानामुपकरणानां भृत्यादीनां स्वाम्यर्थं प्रतिक्षण मेव व्यापारो दृश्यते अतो गुणस्वभावतैव पुरुषगुणानामपि सत्त्वादीनां प्रतिक्षणप्रवत्ता प्रमाणमुक्त पूर्वाचार्य्यरित्यर्थः । गुण- त्वञ्च परस्यैव भोगापवर्गहेतुत्वमिति। चित्तदृष्टान्ते परिणाम त्रयं व्याख्याय दार्टान्तिकेऽपि तयाख्यातुमारभते। एतेनेति । २६ ३०२ पातञ्जलदर्शनम्। धर्मधर्मिमेदादिति। धर्मधर्मिभेदमाश्रित्येत्यर्थः । तत्र पृथिव्या- दीनां धर्मिणां घटादिर्धर्मपरिणामः घटादीनां धर्माणां वर्त. मानातीतते लक्षणपरिणामः वर्तमानादिलक्षणानां च त्रया- णामपि बाल्ययौवनादिरवस्थापरिणाम इति । ननु वयोऽपि कथं परिणामा भूतेन्द्रियेषूच्यन्त तेषु धर्मिषु धर्ममात्रपरिणामा- दिति, तत्राह। परमार्थतस्तु इति । एक एव परिणामः त्रयोऽपि धर्मिपरिणाम एव यतो धर्मिस्वरूप एव धर्मोऽतो धर्मिपरिणाम एवैष लक्षणादिपरिणामो धर्मादेरित्यवान्तरमेव विभज्यत इत्यर्थः। इदानीं प्रतिक्षणपरिणाम क्षणिकतादि- प्रसङ्गमपाकत परिणामवयं क्रमेण परीक्षणीयम् । तत्रादौ धर्मपरिणाम: परीक्ष्यते । तत्र धर्मस्येत्यादिना। तत्र तेषु परि- णामेषु मध्ये धर्मिणि सत एव धर्मस्य प्रतीताद्यवस्थासु धर्मिणी भावान्यथात्वं धर्मान्यथात्वमेव भवति न द्रव्यान्यथात्वं स्वरूपान्य. थात्वे हि प्रतिक्षणं परिणामेन क्षणिकतापत्त्या प्रत्यभिज्ञाद्य- नुपपत्तिरिति भावः। सुवर्णस्य भावान्यथात्व भाजनादिरूप- धर्मापाये कटकादिधर्माभिव्यक्तिरिति, प्रत्यभिज्ञाबलेन च सुवर्णसामान्यस्य सर्वविकारानुगतस्य सिद्धिः । तत्सामान्य चाव- यविरूपो धर्मोति वैशेषिकास्तु सुवर्णस्यान्यथात्वे अवयव- संयोगनाशात् पूर्वसुवर्णव्यक्तिनश्यत्येव प्रत्यभिज्ञा तु जातिवि- षयेति । तन्न। एवं सति प्रतिक्षणमवयवोपचयाभ्यामवय- वसंयोगविभागस्यावश्यकत्वेन शरीराद्यखिलवस्तूनां क्षणिक- त्वापत्ते ब्रह्मणापि अपरिहार्यत्वात्। जात्यैव सर्वत्र प्रत्य. भिज्ञोपपत्तौ प्रत्यभिज्ञया घटादिस्थय मिति स्वसिद्धान्तविरो- धापत्तश्च । तस्मादवयवसंयोगनाशो न द्रव्यनाशहेतुः किन्तु वयादौ तणारणिमण्यादिवदव्यवस्थितमेव फलबलात्कारणं कल्पनीयम्। अथ वा विजातीयोऽवयवविभागविशेष इति ।

विभूतिपादे योगवार्त्तिकम् । स्वरूपान्यथात्ववादिबौद्धैर्धर्मिपरिणाम प्रोक्तं दूषणं निराकर्तुम- स्थापयति। अपर आहेति। धमी धर्मेभ्योऽतिरिक्तो न भवति अत्यन्ताभिन्न इत्यर्थः । अत्र हेतुः पूर्वतत्त्वानतिक्रमात् पूर्वतत्त्वस्य धर्मिणोऽनतिक्रमापत्तः कौटस्थ्यापत्ते रिति यावत्। एतदेव विवृणोति। पूर्वापरेति। धर्मी यद्यन्वयी धर्मेषु स्यात्तर्हि पूर्वापर- सकलावस्थाभेदेषु अनुगततया अतीताद्यवस्थायामपि सत्त्वप्रस- ङ्गात् कौटस्थ्येनैव तिष्ठेत् चितिशक्तिवत् नित्यत्वकूटस्थत्वयो- रेकार्थत्वात् तच्च तवापि अनिष्टमित्यर्थः। परिहरति। अय- मदोष इति। एकान्ततेति । एकान्तनित्यत्वानभ्युपगमादि- त्यर्थः । एकान्तेने सर्वथा स्वरूपतो धर्मतश्च नित्यत्वमेव कौट- स्थ्यमस्माभिरभ्यर्पयते। तच्च चितिशतरेव न तु धर्मरूपेणानि- स्यस्य धर्मिण इत्यर्थः । विकारव्यावृत्त प्रकृतेनित्यत्वं स चाती- तानागतावस्थाशून्य त्वम् इति स्वरूपतो धर्मतश्च नित्यानित्यो- भयरूपत्वं प्रपञ्चस्यति प्रतिपादयति । तदेतदिति। तदेतत् त्रैलोक्य कार्यकारणात्मकं चतुर्विंशतितत्त्वानि सकायाणीति यावत्, यथायोग्य धर्मरूपेण स्वतश्च व्यक्तवत्तमानावस्थातोऽपैति नित्यत्वप्रतिषेधात् । 'नैवेह किञ्चनाग्र आसीत्' 'असहा इद- मग्र आसीत्' इत्यादिश्रुतिभिः 'व्यक्ताव्यतात्मिका तस्मिन् प्रततिः सम्प्रलीयत' इत्यादिस्मृतिभिः यत्सावयवं तदनित्यं घटादिवदित्यनुमाननेत्यर्थः । नन्वेवमत्यन्तोच्छेद एवास्तु तत्राह। अपतमिति। अपेतमतीतमपि प्रकृत्यादि धर्मिरूपणातीतरू- पण चास्ति विनाशप्रतिषेधात् अत्यन्तोच्छेदप्रतिषेधात् तदैक आहुरसदेवेदमग्र आसौदिति अत्यन्तोच्छेदमाशङ्ख्य कथमसतः सज्जायेत सत्त्वेव सौम्येदमग्र आसौदिति श्रुत्या तत्प्रतिषेधा- दित्यर्थः । विनाशित्वे सति अनादिभावत्वानुपपत रिति। यद्यपि सत्त्वेवेति श्रुतौ सच्छब्दार्थः परमात्मैव तदैक्षतेत्युत्तर- पातञ्जलदर्शनम्। वाक्यात् । तथापि सदेकोभावेनेदमासीदितिवचनादस्य प्रपञ्च- स्यापि प्रलये सत्त्वं सिद्धमेव। एवं तद्देदं तहिं अव्याकृतमासीत् तमसैवेदमावृतमासीत् आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् इत्यादिश्रुतिस्मृतयोऽपि अत्यन्तोच्छेदनिषधिका उदाहायाः। युक्तिश्चासदुत्पादे शशशृङ्गाद्युत्पत्तिप्रसङ्गबन्धमोक्षाद्यनुपपत्त्यादिः रूपा ग्राह्या। ननु अपेतमपि चेदस्तिं कथं नोपलभ्यते तत्राह। संसर्गाच्चेति । अस्य विकारजातस्य स्वस्वकारणेषु प्रकृत्यादिषु संसर्गादविभागाख्यात् कार्यस्य सौक्ष्मामव्यक्तता तस्माच्चास्या- नुपलब्धिः सूक्ष्मताया लौकिकसाक्षात्कारप्रतिबन्धकवादित्यर्थः । तदेवं कार्यकारणाभेदेन प्रक्कत्यादीनां सर्वेषां परिणामिनां प्रकारभेदेन नित्यानित्योभयरूपत्वव्यवस्थापनात्तेषां सदसद्रू- पत्वं सिद्धान्तितम् । सदसत्ख्यातिर्बाधाबाधाभ्यामिति सांख्यसूत्रा नुसारात्। इदमेव च जड़ानां व्यावहारिकं सत्त्वं पुराणादौ गीयते। यच्च निःसत्तासत्तं प्रधानमिति भाष्यकारैः प्रागुक्त तत् पारमार्थिकसत्त्वासत्त्वाभिप्रायेणवेति अस्माभिस्तत्रैव व्याख्या- तम्। एतेनात्मैव सन् अन्यत्सर्वमसदिति श्रुतिस्मृतिवादा अप्य- विरुद्धा एकान्तनित्यत्वस्यैव पारमार्थिकसत्तात्वात् तच्च कूटस्थ- नित्यस्यैवास्ति असत्तासम्पर्कराहित्यात् न तु व्यवहारसत्ता प्रक- व्यादीनामिति । इत्थमेव च नासद्रूपा न सद्रूपा माया नैवोभयात्मिका सदसयामनिर्वाच्या मिथ्याभूता सनातनी ॥ इत्यादिवाक्यान्यपि सङ्गच्छन्ते न पुनराधुनिकवेदान्ति- ब्रुवाणामनिर्ववनीयतावादेऽपि, तैर्हि मायाख्यजगत्कारणस्यापि विनाशोऽत्यन्ततुच्छत्वमेव वा परमार्थत इष्यते तन्मते च सना- तनत्ववचनविरोध इति दिक् । धर्मपरिणामं परीक्ष्य लक्षण- परिणामः परीक्ष्यते। लक्षण परिणाम इति । अध्वसु वर्तमान विभूतिपादे योगवार्तिकम् । ३०५ न शेषामु इति। धर्माणां नित्यत्वमुक्तं नित्यत्व विना अतीतानागत- लक्षणयोगासम्भवात् । अत्र एकैकलक्षणाभिव्यक्तिकालेऽपि धर्मों लक्षणान्तराभ्यां सूक्ष्माभ्यां वियुक्तो न भवतीति समुदायार्थः । तथा धर्मा इव लक्षणान्यपि नित्यान्येवेति नात्यन्तासदुत्पत्ति- सदत्यन्तोच्छेदयोः प्रसङ्ग इति भावः। नन्वेकलक्षणाभिव्यक्ति- काले लक्षणान्तरयोरनुपलम्भादभाव एव युक्त इत्याशङ्कायां तयोरुपलब्धिमानुमानिकों दर्शयति यथेति । विरक्त इति। रागस्य मावित्वे सति विरक्तव्यवहारादर्शनात् तथा चैकविषयकरागाभिव्यक्तिकालेऽपि विषयान्तररागस्या- त्यन्तमभावो नास्ति अतो रागस्य एकलक्षणाभिव्यक्तिकाले अन्ययोः सत्ता सिध्यत्यनुमानादित्यर्थः। लक्षणपरिणामेऽपि परोक्तदूषणमुद्भावयति। अत्रेति । सर्वस्थानागतावत मानादि- सर्वलक्षणयोगादनागतादिकमपि वर्तमान स्यादित्यध्वनां सङ्करः प्रसक्त: क्रमिकत्वे चासदुत्पादप्रसङ्ग इति शेषः। अतो वर्तमान- मात्रलक्षणकं सर्व वस्तु पूर्वोत्तरकालयोस्तु तस्याभावमात्रम् । अभावप्रतियोगित्वादेव चातीतत्वादिव्यवहार इति। तत्रादौ धर्मेषु लक्षणत्रयसम्बन्धमेव व्यवस्थापयति । धर्माणामिति। धर्माणां तावत् धर्मत्वं प्राक्साधितत्वान्न साधनोयम्। सिद्धे च धर्मत्वे धर्माणां लक्षणभेदो लक्षणबहुत्वमपि वक्तव्यं न पुनरईवैना. शिकोक्तं वर्तमानमात्रमकं लक्षणम् । यतो न वर्तमानसमयमात्रे अस्य धर्मस्य धर्मत्वं किन्तु अतीतादिसमयेऽपोति शेषः । हेतुमाह। एवं होति। हि यस्मात् एवं वर्तमानकाल एव धर्मत्वे सति सर्वमेव चित्त न रागधर्मकं विरक्तमिति यावत् । विरक्त- व्यवहारयोग्यं स्यात् क्रोधकाले रागस्यासमुदाचारात् अनावि- र्भावादित्यर्थः । अयं भावः । यथा यदा कदाचिद्रागसत्त्व न भव- न्मते चित्त रक्तमिति व्यवहारः तथा यदा कदाचिद्रागाभावेन अत्र - ३०६ पातञ्जलदर्शनम्। चित्तं विरक्तमिति व्यवहारः स्यादिति। अतोऽतीतादिकाले- ऽपि रागादेश्चित्तादिधर्मत्वात् धर्माणां विलक्षणकत्वं सिद्धम् । यच्च तैरुच्यते अभावप्रतियोगितामात्रेणातीतादिव्यवहार इति, तदपि हेयम्। असति घटे ध्वसप्रतियोगित्वादिरूपस्यातीत- त्वस्य वृत्त्यनुपपत्त : संयोगित्वादिवत्प्रतियोगित्वादेरपि सम्बन्धि- यसत्त्वं विनानुपपत्त: सदसतोः सम्बन्धादर्शनात्। ध्व'सप्राग भावयोरसिद्देश्च । घटो वर्तमान इतिवत् घटोऽतीतो भवि- ष्यन्निति प्रत्ययाभ्यां घटावस्थाविशेषयोरेव सिद्धेः। अन्यन्या अमावाभावस्याप्यतिरिक्तत्वादिप्रसङ्ग इत्यादयश्च दोषाः खय- मूहनीयाः । तदेवं धर्माणां लक्षणत्रयं व्यवस्थाप्य इदानीं तत्सा- इयं परिहरति। किञ्चेति। त्रयाणामनागतादिलक्षणानाम- कदा एकस्मिन् वस्तुनि सम्भवोऽभिव्यक्तिर्नास्ति किन्तु स्वाभि- व्यञ्जक दण्ड चक्रादिवस्त्वञ्जनतुल्यं यस्य एवम्भूतस्य लक्षणस्य क्रमेण भावोऽभिव्यक्तिर्भवेदिति नाभिव्यक्ती सार्या स्वरूपतस्तु सार्य मिष्यत एवेत्यर्थः । अव्यक्तयोलक्षणयोर्व्यक्तेन लक्षणेन सह नास्ति विरोध इत्यत्र पञ्चशिखवाक्य प्रमाणयति। उक्तञ्चेति । धर्माद्यनैश्वर्यान्तान्यष्टौ चित्तस्य रूपाणि वृत्तयश्च ज्ञानाद्या. श्रयाः शान्तघोरमूढाश्चित्तपरिणामास्तेषामतिशयोऽभिव्यक्ति- रूपा उत्कटतेति । इदञ्च वाक्यं गुणवृत्त्वविरोधाच्च दुःखमेव सर्व- मिति सूत्र व्याख्यातम् । उपसंहरति । तस्मादिति। असङ्कर दृष्टान्तमाह। यथेति। रागस्यैवेति । धर्माणां लक्षणत्रयसम्बन्धे उदाहृतस्यैव रागस्यैवेत्यर्थः । क्वचिद्दिषये अन्यत्र विषयान्तर- ऽभावः सामान्याभाव इत्यर्थः । दार्टान्तिकमाह । तथा लक्षणस्ये- तीति । क्वचित् समुदाचार इत्यादिरर्थः । अयञ्च लक्षणपरिणामो न धम्भिण: किन्तु धर्माणामवेत्येवं धर्मपरिणामात् विशेषमाह । न धर्मीति । नन्वयं लक्षणपरिणामो लक्षणेऽस्ति न वा, आद्य विभूतिपादे योगवार्तिकम् । अनवस्था अन्त्ये लक्षणपरिणामे परिणामलक्षणासम्भवः पूर्वलक्ष- णातीततायां लक्षणान्तराभिव्यक्तरेव लक्षणपरिणामत्वादिति, मैवम् । वोजाङ्गुरव प्रामाणिकत्वेनास्या अवस्थाया अदोषत्वात् । अन्यथा धर्मस्य धर्मस्तस्यापि धर्म इत्याद्यनवस्थाया अपि दोष- त्वापत्त्या धर्माधर्मिभावादिरपि न सिध्ये दिति। अधिकन्तु निर्वि- तर्केति सूत्रे प्रोक्तम् । तदेकं सर्वधर्माणां सदैव लक्षणत्रयसम्बन्धी- ऽस्ति अभिव्यक्तिस्तु त्रयाणां क्रमिकोति सिद्धम् । स्यादेतत्। लक्ष- णाभिव्यक्तेरपि नित्यत्वात् कथं क्रमिकत्वं तत्र क्रमिकत्वसम्भव वा किमपराई लक्षणक्रमिकत्वेन । अत्रीच्यते । नित्यानित्योभय- रूपत्वस्योक्ततया नित्यत्वेऽपि सर्वकार्येषु अनित्यरूपेण क्रमः सम्भवति लक्षणानामपि क्रमश्वेष्यत एव लक्षणाभिव्यक्तिक- मस्तु लक्षणासाकाय प्रकृते प्रदर्शितः । अधिकस्तु निर्वितर्कस- मापत्तिसूत्रेऽस्माभिः प्रोक्त इति दिक् । लक्षणपरिणामं परीक्ष्या- वस्थापरिणाम परीक्षितुं धर्मगतं विभागमाह। ते लक्षिता इति। लक्षिता व्यता वर्तमाना इति यावत् अलक्षिता अव्यक्ता अतीतानागता इति यावत्। तां तां बाल्ययोवनवार्धकाद्यवस्था प्राप्नुवन्तोऽन्योन्यमन्यत्वेन भेदेनोच्यन्ते बालोऽयं न युवेत्यादि- रूपेण । स च निर्देशोऽवस्थान्तरतोऽवस्थाभेदादेव न तु द्रव्यमे- दादित्यर्थः । तथाच पूर्वावस्थापाये अवस्थान्तरप्राप्ति: सिद्धा सैव चावस्थापरिणाम इति भावः । यद्यप्येतादृशोऽवस्थापरिणामो- ऽनागतातीतलक्षणयोरपि पूर्वमुक्तः । तथापि वर्तमानलक्षणस्यै- वावस्थापरिणामः स्फुटमुपलभ्यत इत्याशयेन वर्तमानलक्षणमा- लम्बैधव स उदाहृत इति। धर्मिण एकत्वेऽपि निमित्तभेदेनान्य- व्यवहारे दृष्टान्तमाह। यथै केति । यथा एकत्वव्यक्षिका रेखा अङ्गविशेषो यदा विन्दुद्दयोपरि तिष्ठति तदा शतमिदं नैकमिति व्यवयिते। तयोरेकविन्दुलोपे च दशेदं न शतमिति व्यव- ३०८ पातञ्जलदर्शनम्। मिति । ह्रियते अवशिष्टविन्दुस्थाने चैकत्वव्यञ्जकरखान्तरदाने सति एकादशेदं न दशेतीत्यर्थः। दृष्टान्तान्तरमाह। यथा चेति । उच्यत इति। पुत्रपिचाभिर्जनकत्वादिनिमित्तमेदा देनेति शेषः। अवस्थापरिणामेऽपि बौद्धोक्तं दूषणमुदाहरति। अव- स्थेति अवस्थापरिणामाभ्युपगमे धर्माधर्मिलक्षणावस्थानां चतसृणामेव कौटस्थ्यापत्तिरित्यर्थः । तत्र हेतु पृच्छति। कथ- उत्तरम्। अध्वनो व्यापारण व्यवहितत्वादिति । व्यापारनिमित्तेनैव सर्ववस्तुषु अनागताद्यध्वनामन्योन्यं व्यवहित- त्वाभ्युपगमात् विभागाभ्युपगमात् न तु भावरूपेण धर्मलक्ष- णयोः सदा सत्त्वस्येष्टत्वादित्यर्थः । अधुना विभागस्य व्यापार- निमित्तकत्वं विवृणोति। यदा धर्म इत्यादिना तदा अतीत इत्यन्तेन। धर्मशब्दोऽत्राश्रितमानवाची न करोति न करि- ष्यतीत्यर्थः । आद्यन्ताध्वनोविभागस्य व्यापारनिमित्तकत्वं व्यापाराभावनिमित्तकत्वेन परम्परयेति भावः । एवं च सति पूर्वधर्मातीततायां धर्मान्तराभिव्यक्तिरित्येवंरुपपरिणामलक्षणा- नित्यत्वमवस्थानामपि भवद्भिर्वक्तव्यं न तु विनाशः। अवस्थानां च नित्यत्वे किमप्यनित्यं न स्यादित्येवं धर्माधादिकं सर्व जगत् कूटस्थं स्यादिति परैर्दोष उच्यत इति उपसंहारः । नित्य- त्वमानं न कौटस्थ्य किन्तु एकान्तनित्यत्वमित्याशयेन पूर्ववदुक्त दोषं परिहरति। नासौ दोष इति। कौटस्थ्यदोषो नास्ती- त्यर्थः । गुणिनित्यत्वेऽपोति। धर्मिनित्यत्वेऽपि धर्माणां विम- दस्य विनाशस्य कूटस्थतो वैचित्रमात् वैलक्षण्यादित्यर्थः । अप- रिणामनित्यतैव कौटस्थ्य तच्च पुरुषातिरिते नास्तीति भावः । गुणिनित्यत्वेऽपि गुणानां विमर्दमुदाहरति। यथेति। यथेति न दृष्टान्त किन्तूदाहरणे। संस्थानमिति । अर्थविनाशेना- विनाशिनां शब्दादितन्मात्राणां पञ्चभूतरूपं संस्थानं धर्ममात्र विभूतिपादे योगवार्तिकम्। ३०१ । स परि- मादिमत् इत्यतो विनाशीत्यर्थः। एवमित्याद्यप्येवं व्याख्येयम् । लिङ्गं महत्तत्त्वम् । एवमहङ्कारादयो घटादयश्च स्वविनाशेना- विनाशिनां कारणानां धर्ममात्राणि विनाशिन इति बोध्यम् । तदेतच्छ्रुत्योक्तम्। 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य'मिति। सत्यं विकारापेक्षया स्थिरमित्यर्थः । तस्मि- विति। तस्मिन् धर्मे विकारसंज्ञा परिणामसंज्ञेत्यर्थः । अतो धर्मिणां परिणामितया न कौटस्थ्य सुतरां तु धम्मलक्षणा- वस्थानामिति भावः । परिणामत्रयं विस्तरेण परीक्षितम् । इदानीं भूतेन्द्रियेषु परिणामत्रयं क्रमेण दर्शयति। तत्रेदमुदा- हरणमिति। धर्मत इति। धर्मेण परिणमत इत्यर्थः। धर्म- परिणामस्य स्वरूपं दर्शयति । वटाकार इतीति णामो घटाकार इत्यर्थः। नवपुराणतामिति। नवीनतान- न्तरं पुराणतां प्राप्नुवन्नित्यर्थः । धर्मादीनां सर्वेषामेवावस्थात्वा- विशेषेऽपि गोवलीवर्दन्यायेनैवैषां तान्त्रिको भेदनिर्देश इत्याह । धर्मिणोऽपीति। लक्षणस्य च पुराणत्वादिकमवस्थेति प्राप्त- त्वादेव नोक्तम् । एक एवेति। अवस्थामात्र एवेत्यर्थः । एव- मवस्थालक्षणयोरपि धर्ममत्वाधर्मपरिणामोऽपि गोवलीवर्दन्याय- नैव बोध्यः। एवं पदार्थान्तरेष्वपीति। भूतान्तरेषु इन्द्रियेषु प्रकृत्यादिषु चेत्यर्थः । अपरं विशेषं परिणामेषु पूर्वोक्तं स्मार- यति। त एत इति । त्रयोऽपि परिणामाः धमिस्वरूपमनति- कान्ताः धर्मिण्येवानुगता अतो धर्माधर्म्यभेदात् धर्मिपरिणाम- मात्रमेकमेवेति सामान्यतो भवति धर्मी। स एव च सर्वान् परिणामानभिप्लवते व्याप्नोति। सूत्रस्थ परिणामशब्दार्थ प्रश्न- पूर्वकं व्याचष्टे। अथ कोऽयं परिणाम इति । उत्तरम् । स्थितस्येति। संस्कारेऽपि परिणामस्योक्तत्वात्। द्रव्यस्येति । धर्मिण इत्यर्थः। धर्मशब्दश्चाश्रितमात्रवचन: निवृत्त्युत्पत्ती अव- ३१० पातञ्जलदर्शनम् । अतीततावर्तमानते। ननु धर्मातिरिक्तो धर्मी नानुभूयते यस्य धर्मादेः परिणाम: स्यादिति बौद्धाशङ्कायां धर्मादिविच्य धर्मी सूत्रकारेण प्रतिपादयिष्यते। तत् सूत्र तत्रेति पूरयित्वा पठति। तत्रेति। तत्र तेषु परिणामेषु तेषां परिणामानामिति यावत्। धर्मीति सूत्रेण सहान्वयः ॥ १३ ॥ तत्त्र-- * शान्तोदिताव्यपदेश्यधमानुपाती धर्मों ॥ १४ ॥ * योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः, स च फलप्रसवभेदानुमितसद्भावः एकस्यान्यो- न्यश्च परिदृष्टः। तत्र वर्तमानः खव्यापारमनु- भवन् धर्मो धर्ममान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्ये- भ्यश्च भिद्यते, यदा तु सामान्येन समन्वागतो भवति तदा धर्मिखरूपमावत्वात् कोऽसौ केन भिद्येत । तत्र वयः खलु धर्मिणो धमाः शान्ता उदिता अव्यपदेश्याश्चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः, सव्यापारा उदिताः, ते चाना- गतस्य लक्षणस्य समनन्तरा, वर्तमानस्यानन्तरा अतीताः, किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वपश्चिमताया अभावात्, यथा अनागतवर्तमानयोःपू र्वपश्चिमता नैवमतीतस्य, विभूतिपादे योगवार्तिकम् । ३१२ तस्मान्नातीतस्यास्ति समनन्तरः, तदनागत एव समनन्तरो भवति वर्तमानस्येति। अथाव्यप- देश्याः के। सर्व सात्मकमिति। यत्रोक्त जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थाव- रेषु दृष्ट तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेषु इति, एवं जात्यनुच्छेदेन सबै सवी- त्मकमिति। देशकालाकारनिमित्तापबन्धान खलु समानकालमात्मनामभिव्यक्तिरिति। य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेषु अनुपातौ सा- मान्यविशेषात्मा सोऽन्वयौ धर्मी। तस्य तु धर्मामाबमेवेदं निरन्वयं यस्य यस्य भोगाभावः, कस्मात्, अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत् कथं भोक्तत्वेनाधिक्रियेत, तत् स्मृत्यभावश्च नान्यदृष्टस्य स्मरण मन्यस्यास्तौति, वस्तुप्रत्यभि. ज्ञानाच्च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वम- भ्युपगतः प्रत्यभिज्ञायते। तस्मान्नेदं धर्ममावं निरन्वयम् इति ॥ १४ ॥ अतीतवर्तमानानागतधर्मेष्वनुपाती वर्तमानरूपेणानुगतो धमीत्यर्थः । अत्र अव्यपदेश्येति विशेषणं धांधमिणोविवेकप्रद- शनाय। तथा च वर्तमानत्वावर्त्तमानत्ववैधज्रेण धर्मिणो धन मनस्य च विवेक इति भावः । धर्मशब्दार्थ ल्याचष्टे। योग्यः ३१२ पातञ्जलदर्शनम् । तेति। दग्धशक्तेरपि संग्रहाय योग्यतावच्छिन्नेत्युक्तम् । वर्तमा- नता स्वरूपयोग्यतेत्यर्थः । तेन अतीतादिसाधारण्यलाभः । एवकारी वर्तमानादिविशेषव्यवच्छेदार्थः शक्तित्वं चानागन्तुक- त्वम्। तथा च अग्नेर्दाहशक्तिवद्धर्मा अपि धम्मिणि यावद्रव्य- भाविनः न हि शक्तिवियोग: शक्तिमतोऽस्ति शक्तिशक्तिमतोरभे- दादिति भावः। धर्मशब्दार्थमुक्ता तस्य शान्तादितोपपादनाय अनभिव्यक्तिदशायामपि सत्तां साधयति । स चेति । स च धर्म शक्तिरूपः फलप्रसवात् तदानुमिताव्यतावस्थक इत्यर्थः । आकस्मिकत्वे हि मृद्येव घटस्तन्तुष्वेव पट इत्यादिभेदः फलस्य प्रसवे न स्यात् अतोऽनादित्वं वक्तव्यम् अनादित्वाच्चानन्तत्व- मिति भावः । एकानेकत्ववैधयेणापि धर्माधर्मिविवेकायाह । एकस्येति। स च धर्म एकस्य धर्मिणाऽनेकोऽपि दृष्ट सूत्रतात्पर्यविषयं धर्माद् धर्मिणो विवेकमुपपाद्य आदी धर्माणामेव अन्योन्य विवेक प्रतिपादयति। तत्रेति। तेषु धर्मेषु मध्ये वर्तमानो धर्मो धर्मान्तरेभ्यो वर्तमानातिरिक्ता- धर्मेभ्यः शान्ताव्यपदेश्यरूपेभ्यो भिद्यते विविच्यते वर्तमानत्वा- वर्तमानत्ववैधादिति शेषः। वर्तमान इत्यस्य विवरणं स्वव्यापारमनुभवविति। नन्वेवं किं धर्माणामन्योन्यमत्यन्त- मेव मेदो न तु भेदाभेदी, नेत्याह। यदा विति। यदा तु शान्ताव्यपदेश्यावस्थायां धर्मः सामान्येनाभिव्यक्तविशेषराहित्येन धर्मिणि अनुगतो विलौनो भवति तदा धर्मिस्वरूपमावतया अवस्थानात् धर्म्य विभागादिति यावत्। कोऽसौ धर्मः केन व्यापारण भिद्येत अयोगिभिविविच्येत धर्मस्य तल्लक्षणस्य वा अनुपलम्भादतस्तदानीमविभागलक्षणाभेदोऽपि भवतीत्यर्थः । एतेन च भाष्यकता ब्रह्माद्वैतमपि वेदान्तोक्तं व्याख्यातप्रायम् । प्रलये सर्ववस्तनां परमात्मन्यविभागात् यथाकाशेऽभ्राणामिति ।

विभूतिपादे योगवार्त्तिकम्। ३१३ ह तथा च श्रुतिः। स यथा सर्वसामपां समुद्र एकायनमित्या- दिना समष्टिजीवस्य प्रलयं प्रदर्श्य आत्माईतमाह । यत्र हि हैत- मिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवा- भूत् तत् केन कं पश्येदिति। इदानीं शान्तोदिताव्यपदेश्यश- ब्दार्थ व्याचष्टे। तत्र त्रय इति। तदिदं व्याख्याय तस्य पाठ- क्रमात् क्रमभ्रम परिहतमाह। ते चानागतस्येति। एव वक्ष्यमाणाव्यपदेश्येऽपि पाठक्रमो नादर्तव्य इत्याह । वर्तमान- स्यानन्तरा अतीता इति पाठक्रमः। कथं त्यज्यत इत्याशयेन पृच्छति। किमर्थमिति। उत्तरम्। पूर्वपश्चिमताया अभावा- दिति । पूर्वपश्चिमहारादित्यर्थः। तदेव विवृणोति । यथेति । नैवमतीतस्येति । वर्तमानेन सहेति शेषः। तथा चानागता- वस्थायाः प्रागभावस्थानीयाया वर्तमानावस्थायां हेतुत्वादतीता- वस्थानन्तरं वर्तमानावस्था न भवतीत्यर्थः । उदिताव्यपदेश्य- रूपपाठक्रमत्यागेऽपि इदमेव वीजमिति भावः । उपसंहरति । तस्मादिति। समनन्तरः पश्चिमो लक्षणभेद इति शेषः । तत्त्व- तोऽनागत एव वर्तमानस्य समनन्तरः पूर्वो भवतीत्यर्थः । एतेन मत्कार्यवादेऽपि पूर्वाभिव्यक्ती घटादिन पुनरुत्पद्यत इति सि- द्वान्तः स्मत व्यः । ननु अनागतवर्तमानयोः कार्यकारणभाव एव किं प्रमाणमिति चेत्, शृणु । यदि अतीतस्य पुनवर्तमानता स्यात् तर्हि अनिर्मोक्ष: स्यात् । विनष्टान्त:करणाविद्याकर्मा- दीनां पुनरुद्भवेन मुक्तस्यापि संसारोदयसम्भवात् । किञ्च यद्य- तीतोऽपि घट: पुनर्वतमानः स्यात्तदा म एवायं घट इति कदाचित् प्रत्यभिज्ञायत अती योग्यानुपलब्धता अतीतव्यक्त्यनु- न्मज्जनं निर्णायत इति । अत्र अनागतातीतावस्थयोः प्रागमाव- वसरूपयो: कार्योत्पादकानुत्पादकत्ववैधय॑वचनात् अव्यक्ता- वस्थाया एव अवान्तरभेदी अनागतातीतते परस्परविलक्षणे २७ ३१४ पातञ्जलदर्शनम्। इति मन्तव्यम् । ननु एवमतीतस्य पुनरनुव्यादात् अतीतसत्त्व कल्पना व्यथेति चेन्न । लोकान् अतीतान् ददृशे वदेह इत्या- दिवाक्यशतसिद्धयोगिप्रत्यक्षान्यथानुप्रपत्त्या तसिद्धेः विषयः तत्सन्निकर्षयोः प्रत्यक्षहेतुत्वात् । न चातीतार्थस्मरणमेवास्तु इति वाच्यम् । पूर्वाननुभूतस्यापि योगिना दर्शनात् । ये तु योगजधर्मस्यापि सन्निकर्षत्वमिच्छन्ति तेषामपि असत्पदार्थ सन्निकर्षानुपपत्तिः प्रत्यक्ष प्रति सत्रिकर्षनानात्वेन अननुगमन हेतुताग्रहानुपपत्तिश्च । ज्ञानादेविषयतादिरूपोऽपि सम्बन्धी- इसति न सम्भवति सतोरव सम्बन्धदर्शनादिति। प्रत्यक्षादिषु संयोगादिरव प्रत्यासत्तिः योगजधर्मण चाधर्मतम आदिप्रति- बन्धमानं क्रियत इति दिक् । शान्तोदिती व्याख्याय अव्यप- देश्यं व्याख्यातुं पृच्छति। अथ अव्यपदेश्या: के इति। ये व्या- पारं करिष्यन्ति ते व्यपदेश्या इति वक्तुं न शक्यते अकरिष्य- माणव्यापारकस्यापि केवलानागतलक्षणस्य वस्तुनः स्वीकारा- दित्यतः प्रकारान्तरेण अव्यपदेश्य लक्षयति। सर्व' सर्वात्मक- मिति। सर्वात्मकं सर्वशक्तिकं, तथा च सर्वत्र परिणामिनि अवस्थिताः सर्वविकारजननशक्तय एव अव्यपदेश्या इत्यर्थः । ननु वर्तमानातीतावस्थयोरनुभवस्मरणे प्रमाण स्तः शक्त्याख्यायां तु अनागतावस्थायां किं प्रमाणं किंवा सर्वत्र सर्वशक्तिमत्त्वे प्रमा- रणमित्याकाहायामाह। यत्रोक्तमिति। अभिव्यक्तिरितीत्यन्तेन अन्वयः। यत्र सर्वं सर्वशक्तिमदिति अनाथै पूर्वाचार्य्यरिदं वक्ष्य- माणं प्रमाणमुक्तमित्यर्थः । तत्रादौ प्रत्यक्षस्थले शक्तिमनुमापयति । जलभूम्योरिति। स्थावरेषु रसादिभिः मधुराम्नसुरभ्यसुरभि- मृदुकठिनत्वादिभिर्यदनन्तरूपत्वं तज्जलपृथिव्योः परिणाम- निमित्तकमित्यन्वयव्यतिरेकाभ्यां प्रत्यक्षतो दृष्टम् अतो जल- भूमी स्थावरात्मिके स्थावरशक्तिमत्यौ इति भावः। शक्ति वि- विभूतिपादे योगवार्तिकम्। ३१५ नापि कार्यकरणेऽतिप्रसङ्गात् तथा जङ्गमेषु यदेश्वरूप्य तत् स्थावराणां परिणामनिमित्तकं दृष्टं मनुष्यादीनां धान्यांदिस्था- वरकार्याणां धान्यादिविशेषैः रूपादिविशेषदर्शनात्। तथा स्थावराणां यदेवरूप्यं तज्जङ्गमानां परिणामनिमित्तकं दृष्टम् । गीमयदुग्धादिभिर्धान्यचम्पकादीनां स्थावराणां विचित्ररूपरसा- दिदर्शनादित्यर्थः । एवमादिदृष्टान्तः सर्वेषु वस्तुएं सर्वविकार- जननशक्तिः सिध्यतीत्याह। इत्येवमिति । यथा जलादिस्थाव- राद्यात्मकम् एवमन्यदपि सर्व विकारात्मक तच्छक्तिमत् । ननु अतीतकार्य शक्तिमत्त्व नास्ति भाविवस्तूनामिति अत उक्तम् । जात्यनुच्छेदेनेति। यद्यपि अतीतकार्यव्यक्तय उच्छिवास्तथापि तज्जातीयसर्वस्यानुच्छेदादित्यर्थः । तथा च सर्वात्मकत्वं सर्वजा- तीयशक्तिमत्त्वमेवात्र विवक्षितमिति भावः । एतेन अन्यद्रव्यस्य परिणामव्यक्तीनामन्यनाभावेऽपि न नियमभङ्गः तज्जातीयव्य- क्वन्तरजननशक्तिमत्त्वसम्भवादिति । तदेतदुक्तं विष्णुपुराणे । यथा च पादपो मूलस्कन्धशाखादिसंयुतः । आदिवीजात् प्रभवति वीजान्यन्यानि वै ततः ॥ सम्भवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः । तेऽपि तल्लक्षणद्रव्यकारणानुगता मुने ! ॥ एवमव्याक्ततात् पूर्व जायन्ते महदादयः । सम्भवन्ति सुरास्तेभ्यस्त भ्यश्चाखिलजन्तवः ॥ इति। यदि च सर्वत्र सर्वसजातीयवस्तुजननशक्तिर्न खोक्रि- यते तदा कथमेकस्मादेव चतुर्मुखशरीरादखिलदेवदानवनर- पवादिसमुद्भवः कथं वा अगस्त्यजाठराग्ने: समुद्रशोषणं कथं वा ब्रह्मविष्णुरुद्रपार्वतीशरीरादिषु विश्वरूपदर्शनम्। योगिनाच स्वशरीरमनसोरनन्ता विभूतय उपपद्येरन्, किं बहुना पन्नाः। ३१६ पातञ्जलदर्शनम् । उपदेष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः । इत्यादिवाक्यैः सर्वप्राणिशरीर सर्वजातीयवस्तुसत्तावचन शक्तिरूपतां विना आञ्जस्येन नोपपद्येत। अर्जुनादिभिश्च शक्ति- रूपेणावस्थितं भाविभीष्मबधादिकमेव कृष्णादिशरीरे काला- त्मके दिव्यचक्षुषा दृष्ट योगिभिरतीतानागतमिवेति । एतेन स इदं सर्व भवति तस्मात् सर्वमभवदिति श्रुतेः ब्रह्मविदः सर्वभाव- रूपा श्रुत्युक्ता सिद्विरुपपादिता। तथा जीवोपाधौ अपि या महखयशक्तिमत्त्वाज्जीवानामीश्वरत्वप्रतिपादकश्रुतिस्मृतय उप- तथा त एते सत्या अनृतापिधाना इति श्रुतिरपीति मन्तव्यम् । ननु एवं सर्वत्र सर्वजातीयशक्त्यङ्गीकारे कथमकदा न नानाविकारोत्पत्ति: कथं वा शिलाशकलादपि नाङ्गुरोत्पत्ति- रस्मदादिशरीराच्चतुर्मुखादिवत् सङ्कल्पमात्रेण नाखिलप्राण्य- त्यत्तिरित्याशङ्कां परिहरति । देशकालेति । देशो भूलॊकादिः काल: कलियुगादिराकारः संस्थानम् अवयवसंयोगविशेषः नि- मितमधर्मादिस्तैरपबन्धात् प्रतिबन्धात् एकदा कारणेषु न विरुद्वानामात्मभूतशक्तौनामभिव्यक्तिवर्तमानलक्षणपरिणाम इ- त्यर्थः । एतेन च प्रतिबन्धवचनेनान्या अपि उक्ताशङ्काः परि- हृताः सहकारिविरहादित्यर्थ इत्यपि कश्चित् । तस्यापि प्रति- बन्धनिमित्तकविलम्बे पर्यवसानं 'निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु तत: क्षेत्रिकवत्' इत्यागामिसूत्रे सर्वेषां निमित्तका- रणानां स्वतन्त्रायाः प्रकृतेः परिणामेषु प्रतिबन्धनिवर्तकतामा- वावगमादिति। अत: शिलाशकलानाङ्गुरोत्पत्तिरवयवसंयोग- विशेषस्याङ्गुरोत्पत्तिप्रतिबन्धकत्वात् अस्मदादिशरीरानाखिल- ।

विभूतिपादे योगवार्त्तिकम् । प्राण्युत्पत्तिरधर्मप्रतिबन्धात्। ब्रह्माण्डादिशक्तिमतश्च घटादेब्र- याण्डाद्युत्पादनं विनैव प्रायशों नाशदर्शनात् सा शक्तिः समु- त्पद्य घटादिना सहैव नश्यति आधारनाशात्। कदाचित् नहुषशरीरादीनां सर्पादिभाववत् परमेखरादिसङ्कल्पतो घटा- दीनामपि प्रतत्यापूरवशात् अव्यवस्थिताखिलपरिणामो भव- त्येव । तथा चोक्तं लौकिकैरपि विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमौखरेच्छया । इति । एतेन तथाज्ञानन पुरुषार्थसमात्या चित्तस्यात्यन्ति- कलयकाले अनागतदुःखमपि शक्तिरूपं चित्तेन सहैव नश्यति अतो हेयं दुःखमनागतमिति सूत्रोक्तमनागतदुःखस्य हेतुत्व- मुपपन्नम् । एवञ्च सति विकाराणां क्वचिल्लक्षणहयमपि भवति अनागतातीततारूपमिति वक्तव्यम् । अन्यथा अनागतदुःखस्य हेयत्वानुपपत्तेः। परेषामनागतदुःखस्य हानं हि सिदित्वान्न पुरुषार्थः । अस्मिंश्च अनागतदुःखमभावितया न घटेतेति । पदा- र्थान् व्याख्याय समग्रं सूत्रार्थमाह। य एतेष्विति। अन्वयी सर्वधर्मान्वयी स्थिर इत्यर्थः । तथा चाभिव्यक्तानभिव्यक्तत्ववैधर्म्यण धर्मधमिणोविवेक इति सूत्रतात्पयार्थः । तदेवमन्योन्यवैधात् धर्मेभ्योऽतिरिक्ततया धर्मी प्रसाधितः । इदानीं तदनभ्युपगमे भाष्यकारो बाधकमप्याह । यस्य विति। धर्ममात्रमित्यनेनैव क्षणिकत्वमप्यायातम् । अनेकक्षणस्थायित्वे हि क्षणसम्बन्धरूप- धर्मवत्त्वमेव पदार्थमावस्य स्यादिति। धर्म मात्रमित्यस्य विव- रणं निरन्वयमिति, निर्धर्मिकमित्यर्थः । धर्मिनिराकरणादात्मा क्षणिकविज्ञानमित्यायातं तथा च प्रथमपादोक्तमेव दूषणमाह । तस्य भोगाभाव इति। शेषं सुगमम् । ननु अस्तु धर्मी धर्माति- रिक्त: तथापि एकस्य धर्मिण एक एव परिणामोऽस्तु एकस्य नानापरिणामाङ्गीकार सहकारिभेदकल्पनागौरवादित्याशङ्का- ३१८ पातञ्जलदर्शनम् । यामकस्य धर्मिण: परिणामभेदं साधयति । एकस्य धर्मिण आगामिसूत्रवक्ष्यमाणपरिणामत्रयसिद्धये ॥ १४ ॥ * क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥ * एकस्य धमिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति, तद् यथा चूर्णमृत्, पिण्डमृत्, घटमृत्, कपाल- मृत्, कणमृत्, इति च क्रमः। यो यस्य धर्मास्य समनन्तरो धर्मः स तस्य क्रमः, पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः, लक्षण- परिणामक्रमो घटस्यानागतभावात मानभाव- क्रमः, तथा पिण्डस्य वर्तमानभावादतीतभाव- क्रमः, नातीतस्यास्ति क्रमः, कस्मात्, पूर्वपर- तायां सत्यां समनन्तरत्वं सा तु नास्ति अतीतस्य, तस्मात् इयोरेव लक्षणयोः क्रमः। तथावस्था परिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुरा- णता दृश्यते सा च क्षणपरम्परानुपातिना क्रम- गाभिव्यज्यमाना परां व्यक्तिमापद्यत इति धर्म- लक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति। त एते क्रमाः, धर्माधमि भेदे सति प्रतिलब्धस्वरूपाः, धर्मोऽपिधर्मी भवति अन्यधर्म- खरूपापेक्षयेति, यदा तु परमार्थतो धर्मिणि ३१२ विभूतिपादे योगवार्त्तिकम् । अभेदोपचारस्तद्दारेण स एवाभिधीयते धर्म- स्तदा अयमेकत्वेनैव क्रमः प्रत्यवभासते। चित्तस्य हये धमाः परिदृष्टाश्च अपरिदृष्टाश्च, तत्र प्रत्यया- त्मकाः परिदृष्टा, वस्तुमात्रात्मका अपरिदृष्टाः, ते च सप्तैव भवन्ति अनुमानेन प्रापितवस्तुमाव- सद्भावाः, निरोधधर्मसंस्काराः परिणामोऽथ जीवनम्। चेष्टाशक्तिश्च चित्तस्य धमा दर्शन- वर्जिता इति ॥ १५ ॥ एकस्य धर्मिण: परिणामनानात्वे क्रियाभेदो हेतुर्लिङ्ग- मित्यर्थः । आशङ्कापूर्वकं सूत्रं व्याचष्टे। एकस्येति । तीति सिद्धान्त इति शेषः । हेतुत्व प्रतिपादयितुमादौ धर्म- परिणामविषये धर्मिण: क्रम दर्शयति। चूर्णेति। एकैव मृत् प्रथम चूर्णमृत्तिष्ठति ततः पिण्डमृद्भवति ततश्च घटमृदिति घटोत्पत्ती मृद्धर्मिणः क्रम प्रतिपाद्य घटलयेऽपि मृदः क्रम- माह। कपालमृत् कणमृदिति। चशब्देनान्यपरिणामविषये- ऽपि क्रमः समुच्चीयते। सर्वत्र मृच्छब्दो मृद्धर्मिण एकत्वप्रति- पादनार्थः । एकस्य सामान्यात्मकस्य मृद्धर्मिणोऽनङ्गीकार मृदित्यनुगतप्रत्ययो न स्यादिति भावः । ननु धर्माणामेव क्रमः पौर्वापर्य्यात्मा सम्भवति न तु धर्मिण इत्याशङ्कायां प्रकृते क्रम लक्षयति। यो यस्येति । यस्य धर्मिणो धर्मान्तरस्य सम- नन्तरो यो धर्मः स एव तस्य धर्मिण: क्रम इत्यर्थः । तथाच मृदेकैव चूर्ण भूत्वा पश्चात् पिण्डो भवतीत्येकः क्रमः । पश्चाच्च घट इत्यादिक्रमैम्मेिण एव क्रमबहुत्वमिति भावः। धर्माणां ३२० पातञ्जलदर्शनम् । क्रमस्यैवात्र विवक्षितत्वे तु तेषां क्रमनानात्वेऽपि एकस्य धर्मिण: परिणामबहुत्व न सिध्यतीति भाष्यकाराशयः । परिणामत्रये. ऽपि क्रममुदाहरति । पिण्डः प्रच्यवत इत्यादिना। नातीत- स्यास्ति क्रम इति । लक्षणात् लक्षणान्तरप्राप्तिरूपः क्रमो नातीतस्येत्यर्थः। धर्मपरिणाम इवावस्थापरिणाम प्रतिक्षण- क्रमो न प्रत्यक्षौक्रियत इति तमनुमानेन साधयति। घट स्याभिनवस्येति। प्रान्ते इति शेषः । प्रान्ते इति शेषः। सा चेति । सा च पुरा- णता क्षणपरम्परानुपातिना प्रतिक्षणं भिन्बेन स्वरूपसता क्रम- समूहेनवाभिव्यज्यमाना भवन्तौ चरमावस्थायां स्फुटप्रत्यक्षगो. चरतामेति। अतः पुराणताभिव्यक्ति हेतुतया प्रतिक्षणमवस्था- परिणामोऽनुमीयत इति शेषः । प्रतिक्षणपरिणामतो यत् सिध्यति तदाह। धर्मलक्षणाभ्यामिति । विशिष्टोऽतिशयितः । धर्मलक्षणपरिणामयोः प्रतिक्षणमनुत्पादादवस्थापरिणामस्य च प्रतिक्षणमुत्पादादित्यर्थः । तथा चोक्त मनुना घोरेऽस्मिन् हन्त संसारे नित्य संसारघातिनि । इति । स्मृत्यन्तरेषु च। नित्यदा ह्यङ्गभूतानि भवन्ति न भवन्ति च । कालेनालक्ष्य वेगेन सूक्ष्मत्वात्तत्र दृश्यते ॥ इत्यादि च । पुराण चात एव चतुर्विधः प्रलय उक्तः । नित्यो नैमित्तिकश्चेति प्राकृतात्यन्तिको तथा। इति। नित्यः प्रतिक्षणं जायमानः। एतेन स्वप्नमायादिट्ट- ष्टान्ता अपि प्रपञ्चस्य क्षणभङ्गुरत्वेनैव श्रुतिस्मृतिष्वभिप्रेता इति । सूत्रतात्पर्य्यार्थमाह। त एत इति । प्रतिलब्धस्वरूपाः प्राप्तसम्भवा इतरथा तु नेत्यर्थः । ननु धर्मिणोऽपि घटादेः कपालादिधर्म- त्वात् कयं धम्मधर्मिणो द इति तत्राह । धर्मोऽपोति । तथाच यो यस्य धर्मी स तस्माद्भिन्न इत्येव नियम इत्यर्थः । ननु एवं धर्म- विभूतिपादे योगवाति कम्। ३२१ 4 अत्र प्रधान- धर्मिलक्षणानां परिणामभेदे कथमकस्याः प्रततः सर्वे परिणामा इति श्रूयते 'इत्येषा प्रततिः सर्वा व्यक्ताव्यक्तस्वरूपिणी'त्यादि स्मृतिषु तत्राह। यदा विति। यदा तु परमार्थधर्मिणि प्रधा- नेऽमेदोपचारेण निमित्तेन सर्वोऽपि धर्मः स एवाभिधीयते तदायं क्रम एकत्वेन एकनिष्ठत्वेनैव प्रतीयत इत्यर्थः । परमार्थधर्मित्व च साक्षात् परम्परया सर्वविकाराश्रयत्वं तच्च प्रधानस्यैवास्तीत्यन्ये । अपारमार्थिकधर्मिण आपेक्षिकत्वात् । यथा परिणामिनां सत्यत्वं यथा वा ब्रह्ममीसांसायां जीवानामात्मत्वमपारमार्थिक तयोरपि शशशृङ्गदेहाद्यापेक्षिकत्वादिति भावः । स्यैव पारमार्थिकधर्मिकत्व वदद्भिः भाष्यकारैः परमात्मन एव निरतिशयसतोऽनापेक्षिकात्मनश्च पारमार्थिकसत्त्व पारमार्थि- कात्मत्वं च श्रुतिस्मृतिसिद्धमनमतं न्यायसाम्यादिति ध्येयम् । तथा अभेदोपचारवचनात् धर्मधर्मिणो द एव पारमार्थिकः । अविभागमानं तु अभेद इत्यप्युक्तमिति। तदित्थं सूत्रगणन प्रपञ्चः प्रकृतिपरिणाम इति सिद्धान्तितम् । तत्र च प्रारम्भवादिभिः सह अस्माकं धर्मधर्म्यभेदमत्कार्ययोरव विरोधी न तु प्रपञ्चस्य अचेतनसूक्ष्मद्रव्योपादानकत्वेऽपि तैरभेदप्रत्ययनियामकस्थावि- भागलक्षणस्वरूपस्यानगोकारात् प्रागभावध्वंसयोरङ्गीकाराच्च । ये तु प्रपञ्चस्य ब्रह्मविवर्त्ततावादिनस्तैः सह च नास्माकं विरो- धलेशोऽपि वर्तते । मायापरिणामस्य प्रपञ्चस्य परमात्मनि अता- त्त्विकताया अस्माभिरपोष्टत्वात्। 'इन्द्रो मायाभि: पुरुरूप यते'। बहुरूप इवाभाति मायया बहुरूपया। रममाणो गुणेष्वस्या ममाहमिति बध्यते ॥ इत्यादिश्रुतिस्मृतिषु मायाविकारस्यैव परमात्मनि अध्यारो- पावगमात् । शुक्तो बुद्धिपरिणामरजतारोपवत् बध्यत इति ३२२ पातञ्जलदर्शनम् । अंशत इत्यर्थः । यदि च मायायामपि विवर्त्तत्वं प्रपञ्चस्य कश्चि- हदेत् तदपि परमार्थाभिप्रायेणेष्यत एव अस्माभिः मायापेक्षया तत्कायाणामनित्यत्वेन तामपेक्ष्य मिथ्यात्वात वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव संत्यमित्यादिश्रौतदृष्टान्तैरेवमेव सिध्येदिति। तदेवं चित्तपरिणामप्रसङ्गेन सर्ववस्तु नां भूतेन्द्रिय- शब्दोपलक्षितानां विविधः परिणामः सूत्रकारेण प्रतिपादितः । तत्र सूत्रकारैश्चित्तस्य निरोधव्युत्थानसंस्काररूपी एव परिणामौ प्रतिपादितौ। न सर्व इति न्यूनता तस्याः परिहाराय परि- गामात्मकान् चित्तधर्मान् अशेषतः प्रकरणसमास्यवसरे दर्श- यति । चित्तस्य हय इति । परिदृष्टापरिदृष्टाः प्रत्यक्षाप्रत्यक्षाः । प्रत्ययात्मका इति। प्रत्ययो वृत्तिपरिणामविशेषों यः साक्षिणि प्रतिविम्बाधानक्षमः स च ज्ञानेच्छाकृतिसुखदुःखादिमान् प्रदी- पशिखांवद् द्रव्यरूपः परिणामविशेषः तदात्मकाः तद्रूपा इत्यर्थः । वस्तुमात्रेति । परमाणुतद्रूपवत् प्रतिविम्बाधानाक्षम- तया साक्षिण्याभासमाना इत्यर्थः । ते च अपरिदृष्टाः । अनुमा- नेनेति । अनुमानेन साधिता वस्तुमानतया सत्ता येषां सप्ताना- मित्यर्थः । सप्त दर्शयति । निरोधेति। निरोधी वृत्तिनिरोधः संस्कारजनकत्वेन निवत्तियत्नवद्भावरूपोऽनुमोयते इति प्रागेवो- कम्। धर्मश्च अदृष्टसामान भोगवैचित्रवादनुमीयते संस्कारख स्मतिहेतुतयानुमीयते परिणामश्चित्तस्योपचयापचयादिः वृत्त्यु - कर्षापकर्षादिभिरनुमीयते । एतच्च छान्दोग्य स्पष्टम् 'अन्नमयं हि सौम्य मन' इत्यत्र । जीवनं प्राणनादिरूपव्यापारविशेषः सुषुप्तौ अपि श्वासप्रश्वासाभ्यामनुमीयते चेष्टा चित्तस्य सञ्चारः स च जाग्रत्वप्रसुषुत्यादिहेतुभ्यां चित्तस्य चक्षुरादिदेशसंयोग- वियोगाभ्यामनुमीयते। यद्यपि चित्तस्य विभुत्वं तथापि वाह्य- सत्त्वाद्य पष्टम्भेनोपचयापचयवच्छ्रोत्रस्येव औपाधिको क्रियापि

।
विभूलिपादे योगवार्त्तिकम्।
३२३
अस्तीति भावः । शक्ति: ध्यानादिसामध्ये तच्च तत्का>णानुमी-
यते । यद्यपि कार्यजननशक्तिः सर्वपरिणामिषु अनुमेयैव भवति
तथापि चित्तस्याखिलधर्म प्रसङ्गेन चित्तमधिकृत्योता। पाद-
समाप्तिपर्यन्तानि संयमसिद्धिसूत्राणि अवतारयति । अतो यो-
गिन इति । ज्ञानसाधनानि योगाङ्गानि विस्तरेण व्याख्यातानि
योगकालोनावस्थाश्च चित्तस्य परिणामरूपा योगनिष्यत्त्याद्यव-
धारणाय दर्शिताः।
अतः परं बुभुत्सितानां योगिभिर्जिज्ञास
तानामर्थानां साक्षात्काराय यमादिसाधनसम्पन्नस्य योगिनः
संयमविषय उपक्षिप्यते । यत्र संयमाद् यथा सिद्धिर्भवति तत्
सर्व विशिष्य प्रदर्श्यते पादसमाप्तिपर्यन्तमित्यर्थः । अत्र बुभु-
सितार्थप्रतिपत्तय इति वचनात् तत्तविभूतिकामैरेव ते संयमाः
कतव्याः । केवलमुमुक्षुभिस्तु सत्त्वपुरुषान्यतामात्रसंयमः कर्त्तव्यः
परवैराग्यायेति सूचितम् । एताश्च विभूतयः संयमसिद्धिसूचिका
अपि ज्ञेयाः ॥ १५ ॥
अतो योगिन उपात्तसर्वसाधनस्य बुभुत्मि-
तार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते-
* परिणामत्रयसंयमादतीतानागतज्ञानम्
॥ १६ ॥ *
धर्मलक्षणावस्थापरिणामेष संयमा यो-
गिनां भवत्यतीतानागतज्ञानम् । धारणाध्यान-
समाधिवयमेकत्र संयम उक्तः, तेन परिणाम-
वयं साक्षाक्रियमाणमतीतानागतज्ञानं तेषु
सम्पादयति ॥ १६॥

३२४ पातञ्जलदर्शनम् । अस्य धर्मिणोऽयं धर्म परिणामस्तस्य च अयं लक्षणपरि- गामः लक्षणस्य चायं नवपुराणाद्यवस्थापरिणाम इत्येवमनुक्षणं यत्र कुत्रचिदर्थ संयमात् तत्साक्षात्कार सति तदितरार्थानामपि धर्मादिपरिणामेषु अतीतानागतज्ञानं सङ्कल्पमात्रेण प्रणिधान- लेशादेव भवतीत्यर्थः। अन्यविषयकसंयमात् प्रतिनियतपदा- र्थान्तरसाक्षात्कारश्च योगजधर्म बलाद्भवतीति शास्त्रप्रामाण्यात् अवधार्यते धर्म विशेषात् स्वर्गविशेषवत् तपोजन्य सिद्धिवत् भुवनज्ञानं सूयें संयमादिति वक्ष्यमाणसिद्धिवच्च। कश्चित्तु स- मानविषयत्वानुरोधात् संयमविषययोरेवातीतानागतयोः साक्षा- कारो भवतीत्यर्थ इत्याह। तन्न । तर्हि तत्संयमात् तज्ज्ञान- मित्येव सामान्यत: सूत्रं युज्येत संयमस्य स्खविषयगोंचरसाक्षा- कारजनकल्लनियमात् । अपि च परिणामत्रयं साक्षाक्रिय- माण तेषु अतीतानागतज्ञानं सम्पादयतीति भाष्थे पौनरुत्य- मपि स्यादिति। भाष्ये तेष्विति । धर्म लक्षणावस्थापरिणामेषु सर्ववस्तुसाधारणेषु इत्यर्थः । शेष सुगमम् । संयमान्तरस्य सिद्धा- न्तरमाह ॥ १६ ॥ * शब्दार्थप्रत्ययानामितरतराध्यासात्मकर- स्तत्पविभागसंयमात्सर्वभूतरुतज्ञानम् ॥१०॥ * तत्र वाग् वर्णष्वेवार्थवती, श्रोत्रं च ध्वनि- परिणाममात्रविषयम्, पदं पुननादानुसंहार- बुद्धिनिग्राह्यम् इति । वणी एकसमयासम्भ- वित्वात् परस्परनिरनुग्रहात्मानस्ते पदमसंस्पृश्य अनुपस्थाप्य आविर्भूतास्तिरोभूताश्चेति प्रत्येकम- ३२५ विभूतिपादे योगवार्त्तिकम्। पदम्वरूपा उच्यन्ते। वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवणान्तरप्रति- योगित्वाद्वैश्वरूप्यमिवापन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽथसङ्केतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृत्ता गकारीकारविसर्ज- नौयाः सानादिमन्तमर्थं द्योतयन्तीति । तदे- तेषामर्थसङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनि सस्तत्पदं वाचकं वाच्चस्य सङ्के- त्यते। तदेकं पदमेकबुद्धिविषय एकप्रयत्ना- क्षिप्तम् अभागमक्रममवणं बौद्धमन्त्यवर्ण प्रत्यय- व्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्ण- रेवाभिधीयमानः श्रूयमाणैश्च श्रोटभिरनादिवाग्- व्यवहारवासनानुविद्वया लोकबुद्धया सिद्धवत् सम्प्रतिपत्त्या प्रतीयते, तस्य सङ्केतबुद्धितः प्रवि- भाग एतावतामेवं जातीयकोऽनुसंहार एकस्या- थस्य वाचक इति। सङ्केतस्तु पदपदार्थ यो- रितरतराध्यासरूपः स्मृत्यात्मको, योऽयं शब्दः सोऽयम: योऽर्थः स शब्द इत्येवमितरतरा- ध्यासरूपः सङ्कतो भवति, इत्येवमेते शब्दार्थ- २८ ३२६ पातञ्जलदर्शनम् । प्रत्यया इतरेतराध्यासात्सङ्घीणी:, गौरिति शब्दो, गौरित्यर्थों गौरितिज्ञानम् । य एषां प्रविभा- गजः स सर्ववित् । सर्वपदेषु चास्ति वाक्यशक्तिः, वृक्ष इत्युक्तेऽस्तौति गम्यते न सत्तां पदार्थो व्यभि- चरतीति। तथा न हि असाधना क्रियास्तीति, तथाच पचतीत्युक्तो सर्वकारकाणामाक्षेपो निय- मार्थोऽनुवादः कर्तृकर्मकरणानां चैत्राग्नितण्डु लानामिति, दृष्टं च वाक्यार्थे पदरचनं श्रोत्रिय- श्छन्दोऽधीते जीवति प्राणान् धारयति। तत्र वाक्ये पदार्थाभिव्यक्तिः ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं कारकवाचकं वा, अन्यथा भवति अश्वः अजापय इत्येवमादिषु नामाख्यातसा- रुप्यादनिजातं कथ क्रियायां कारके वा व्याक्रि- येत इति। तेषां शब्दार्थ प्रत्ययानां प्रविभागः, तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेत: प्रासाद इति कारकार्थ: शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश्च, कस्मात्, सोऽयमित्यभिसम्बन्धा- देकाकार एव प्रत्ययः सङ्केते इति, यस्तु श्वेतो- ऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः, स हि खाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतो न विभूतिपादे योगवार्त्तिकम्। ३२७ बुद्धिसहगतः । एवंशब्दः एवम्प्रत्ययों नेतरेतरसह- गत इंति। अन्यथा शब्दोऽन्यथार्थोऽन्यथाप्रत्यय इति विभागः। एवं तत्पविभागसंयमाद् योगिनः सर्वभूतरुतज्ञानं सम्पद्यते इति ॥ १७ ॥ गौरित्यादिः शब्दो गौरित्यादिरों गौरित्यादिः प्रत्ययः तेषां वक्ष्यमाणसङ्केतरूपादध्यासात् सङ्करो विवेकाग्रहणं भवति। वस्तुतस्तु तेषां भेदोऽस्ति अतस्तेषां प्रविभाग भेदे संयमात्मा- क्षात्कृते सति सर्वभूतानां रुतानि ज्ञायन्ते । अयं काकादिरिम- मर्थमेवं प्रतीत्यानन शब्देन कथयतीत्येवमित्यर्थः । यद्यपि सा- क्षात्कृते सतीति सूत्रे नास्ति तथापि संस्कारसाक्षात्करणादि- व्युत्तरसूत्रेण साक्षात्कारपर्यन्तस्यैव संयमस्य सिद्धिकथनात् सर्वत्र सूत्रे संयमस्य साक्षात्कारहारकत्वं व्याख्येयम्। अतएव भाष्यकारोऽपि अनेकसूत्रे दृग्दर्शनार्थसाक्षात्कारपर्यन्ततां संय- मस्य व्याख्यास्यति । त्रिविधैरव शब्दैरर्थप्रत्यययोस्तषां शब्दाना मन्योन्यं च सङ्कर' दर्शयितु शब्दानामेवादी वैविध्य दर्शयति भाष्यकार: । तत्र वागिति। तत्र शब्दमध्ये वागिन्द्रियं वर्णषु एव प्रयोजनवत् शब्द षु मध्ये वागिन्द्रियजन्यः शब्दी वर्ण एव न तु शृङ्गादि शब्दो नापि वाचकं पदमित्यर्थः । उर आदिषु उत्पद्यमानः शब्दो वर्णः । अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ इति स्मरणात्, वागिन्द्रियस्य च शरीराबहित्तिर्नास्ति अतो न श्रोत्रग्राह्यवक्ष्यमाणशब्दो नापि तदनन्तरं श्रोटबुद्धि- ग्राह्यो वाचकशब्दो वागिन्ट्रियकार्य: थोरथोत्रदेशे वक्तृवागि- न्ट्रियासम्बन्धेन थोत्रग्राह्यशब्दोत्पादकत्वासम्भवात् इति । वागि- तस्य हि ३२८ पातञ्जलदर्शनम्। न्द्रिवजन्याच्छब्दाच्छब्दान्तरमाह। श्रोत्रं चेति। ध्वनि- र्नाम वागिन्द्रियशङ्खादिष्वभिहतस्योदानवायोः परिणाममेदः येन परिणामेनोदानवायुर्वक्तृदेहादुत्थाय शब्दधारां जनयन् श्रोथोत्रं प्राप्नोति तस्य ध्वनेः परिणामभूतं वर्णावर्णसाधारण नादाख्यं शब्दसामान्यमेव श्रोत्रस्य विषय: न तु ध्वन्यपरिणाम- भूतं वाचकं पदमित्यर्थः । स च शब्दो वर्णजातीयत्वेन वर्ण इत्युच्यते। टतीयं शब्दमाह। पदं पुनर्नादानुसंहारबुद्धि- निर्याह्यमिति। यथा प्रतीतिसिद्धान्नादाख्यान् गकारादिवर्णान् प्रत्येक ग्रहीत्वा अनु पश्चाद या बुद्धिः संहरति एकत्वमापादयति गौरित्येकं पदमिति तया बुद्दया निर्ग्राह्य वर्णभ्योऽतिरितमखण्ड- मेकदैवोत्यद्यमानं वक्ष्यमाण स्फोटाख्यमिति शेषः । तथा चायं हतीयः शब्दोऽन्तःकरणस्यैव ग्राह्य इत्यर्थः पदस्य श्रोत्रग्राह्यत्वे अनुसंहारबुद्धेरन्त:करणनिष्ठायाः वैयधि- करण्येन हेतुत्व स्यात् तच्चायुक्त, सामानाधिकरण्यस्य प्रत्या- सत्तितायां लाघवात्। न चानुसंहारबुद्धिरपि थोत्रादेरेवास्तु इति वाच्यम्। असम्भवात् । वर्णानां बैक्यापादनमानुपूर्व्य क्यात् सा चानुपूर्वी गकारोत्तरौकारादिरूपिणी नानेकवर्ण- पटेषु श्रोत्रण ग्रहोतु शक्यते। आशुविनाशितया वर्णानां मेलनाभावात् पूर्वपूर्ववर्णसंस्काराणां तत्स्मृतीनां चान्त:करण- निष्ठानामन्तःकरणसहकारित्वमेवोचितम् । स्मृतानां वर्णानां मनसैवानुपूर्वी ग्रहीतु शक्यत इति भावः । ननु स्फोटाख्यः शब्दः कीदृश: किङ्कारणकः किम्प्रमाणक इति । अत्रोच्यते । यथा वीजामुराद्यनेकावस्थो वृक्षधर्मी क्रमिका- भ्यस्ताभ्योऽतिरिक्तः पल्लवादिरूपाशेषावस्थया व्यज्यते अयमान- वृक्षो न वृक्षान्तरमेवंरूपेण स च वीजादिभ्यो भिन्नाभिन्नः भेदामेदयोरनुभवात्। तथैव गकारौकाराद्यनेकावस्थो गौरि- अतः ..

विभूतिपादे योगवार्तिकम्। ३२८ त्यादिरखण्डः स्फोटशब्दः क्रमिकाभ्यो गकाराद्यवस्थाभ्योऽति- रिक्त आनुपूर्वीविशेषविशिष्टया विसर्जनीयादिरूपचरमावस्थया व्यज्यते इदं गौरिति पदं न तु गौर इतीत्यादिरूपेण, तच्च स्फोटपदं गकारादिवत् तेभ्यो भिन्नाभिन्नं भेदाभेदयोरनुभवात् । स च पदाख्यः शब्दोऽर्थस्फुटीकरणात् स्फोट इत्युच्यते । स्फोट- शब्दस्य च कारणम् एकप्रयत्नजन्यो ध्वनिविशेषः प्रयत्नभेदेनो- च्चारण व्यवधाने सति एकपदव्यवहाराभावात्। गौरित्येकपद- मिति व्यवहारस्तु स्फोटे प्रमाण वर्णानामनेकत्वेन तैरेकत्व- व्यवहारस्याञ्जस्येनानुपपत्तेः । तथा प्रत्येकवर्णादनुत्पद्यमान- स्याथप्रप्रत्ययस्य हेतुत्वं च स्फोटे प्रमाणम्। यदि चानुपूर्वी. विशिष्टसमूहस्यैकत्वादेकत्वव्यवहार: तेनैव रूपेणार्थप्रत्ययहेतुत्वं च स्वीक्रियते तर्हि संयोगविशेषावच्छिन्नावयवसमूहादेवैकत्व- व्यवहारजलाद्याहरणयोरुपपत्त्या घटाद्यवयविमानोच्छेदप्रसङ्गः युक्तिसाम्यात् । नन्वेवं युक्तिसाम्यादाक्यमपि स्फोटरूपम् एकैकं स्यात् इति चेत्। बाधकाभावे सतीष्टत्वादिति दिक् । भाष्यकारस्तु सपतो वर्णानां पदत्वं निराकारोति । वर्णा एकति। अनेकवर्णा एकसमयस्थित्यनहत्वात् परस्परं निरनु- ग्रहात्मानोऽसम्बद्धस्वभावा अतस्ते पदमसंस्पृश्य पदत्वमप्राप्य अतएवार्थमनुपस्थाप्य याविभू येव क्षणात्तिरोभूताश्चेति कृत्वा प्रत्येकमपदस्वरूपा विवेकिभिरुच्यन्त इत्यर्थः । अत्र स्वरूपग्रह- णादवस्थावस्थावतोरभेदेन वर्णानां पदत्वं न निराकृतम्। ननु यदि वर्णाः पदस्वरूपा न भवन्ति तर्हि कयमियन्तो वर्णाः क्रमविशेषावच्छिन्ना अस्थार्थस्य वाचका इति लोकः सङ्केत्यन्ते इत्याशङ्कां परिहरति । वर्ण: पुनरित्यादिना सङ्केत्यत इति पर्यन्तेन इत्येकवाक्येन। अयमर्थः । यद्यपि वर्णाः पदात् भिन्ना- स्तथापि अवस्थावस्थावतीरभेदस्यापि सत्त्वादेकैकोऽपि वर्ण; - भवति । ३३० पातञ्जलदर्शनम् । पदात्मा पदाभिन्नो भवति वीजामुरादिरिव वृक्षाभिन्नोऽतएव पदरूपेण सर्वपदार्थाभिधानयोग्यतासम्पन्नः। अत्र हेतुमाह । सहकारोति । पदभाव सहकारीणि यानि वर्णान्तराणि तत्प्र- तियोगित्वात् तत्सम्बन्धित्वात् अनन्तपदरूपतामिव आपत्रो वशब्दोऽत्र वैश्वरूप्ययोग्यतामात्रप्रतिपादनार्थः । वैश्वरूप्यप्रकारमाह। पूर्वो गकारः उत्तरेणौरिति वर्णदयेन गण इत्यादिपदात् व्यावय॑ते उत्तरश्च विसर्जनीयः पूर्वेण गौरिति वर्णवयन गौर इत्यादिपदेभ्यो व्याव_विशेषे गौरिति स्फोट- शब्दे अखण्डे तादात्मनावस्थापितो भवति इति हेतोरवंरूपा बहवो वः क्रमानुरोधिन प्रानुपूर्वीविशेषसापेक्षाः पदामेद- तोऽर्थसङ्केतनावच्छिन्ना नियमिता भूत्वा . सर्वाभिधानसमर्था अपि इयन्त एतावत्संख्यका एते गकारादयो गावमेवोपस्थाप- यन्ति इत्यतस्तु तेन प्रकारेण वर्णमुखेन तत्पदमेव अविवेकतः सङ्केल्यत इत्यन्वयः । तत्र हेतुर्वायस्य वाचकमिति पदमेव हि वाच्यस्य वाचकमुपस्थापकम् अन्यस्यान्यरूपेण सङ्केते हेतुरेतेषा- मित्यादि निर्भास इत्यन्तम् । यः पदाख्यो बुद्धिमात्रग्राह्यः स्फोट एतेषां वर्णानाम् अर्थसङ्केतैनावच्छिन्नानां तथा समाप्ती ध्वनिजन्यः क्रम आनुपूर्वी विशेषो येषां तादृशानाम् एकोऽभिन्न इति पदस्य स्वरूपाख्यानम् । समाप्तो वाक्यार्थः । अयं भावः । यथा संयुक्तं कपालयं जलाहरण हेतुरित्यविवेकतो बालकेभ्य उपदिश्यते पटादिभ्यो घटस्य व्यावर्तकान्तरासम्भवात्। ततश्च बालकः कपालाविवेकेन घटस्वैव जलाहरणहेतुत्वं गृह्णाति एव- मेव स्फोटान्तरव्यावर्त्तनाय वर्णाविवेकनैव स्फोटे सङ्केतोपदेश: सङ्केतग्रहश्च भवतीति न वर्णेषु सङ्केततानुपपत्तिरिति । त्रिविधं शब्द प्रदयंदानी तेषां मध्यात्सतकारण प्रतिपादयति । तदे- कमिति । प्रतीयत इत्यनेनान्वयः । अयमर्थः । यद्यपि तत्पद विभूतिपादे योगवार्त्ति कम्। स्फोटाख्यम् एकमेव न तु वर्णवदनकम् एकत्वे प्रमाणमैकबुद्धि- विषयमिति तथा वक्तुरेकेनैव प्रयत्नेन ध्वन्यादिद्दारोत्यादित वर्णास्तु प्रयत्नभेदेनाप्युत्पद्यन्त तथा अभागं निरंशं, वर्णव्यूहस्तु वनवत् सांश: तथा अक्रमम् एकदैवोत्पद्यमानं न तु वर्णवत् क्रमण, अत एभिर्हेतुभिवर्णभिन्नं किञ्च बौद्धं बुद्धिमानग्राह्य तथा- न्त्यवर्णस्य प्रत्ययरूपव्यापारणाभिव्यक्त वर्णास्तु नैवं तथापि पर- प्रतिपिपादयिषया वक्तृभिरभिधीयमानैः थोटभिच श्रूयमाणैर्व- गैरवंरूपैः सिद्धवत्परमार्थवदन्योन्यसम्प्रतिपच्या संवादेन प्रती यते व्यवद्यिते न तु वर्णेभ्योऽन्येन रूपेण, तत्र हेतुरनादि- वाग्व्यवहारवासनावशीकतया लौकिकबुद्ध्यति। अत्राभिधी- यमानरित्यनेन वागिन्द्रियविषयवर्णाविवेकः पदस्थेति। श्रूय माणरित्यनेन श्रोत्रविषयकशब्दाविवेकः पदस्येति बोध्यम् । तदेवं विविधशब्दानामन्चोन्चाध्यासात्सङ्करो दर्शितः । इदानीं विविधशब्देनार्थप्रत्यययोरध्यासं प्रतिपादयितु शाब्दव्यवहारस्य सङ्केतग्रहमूलकत्वमाह। तस्येति । तस्य पदस्य प्रविभागो विषयव्यवस्था सङ्केतग्रहादेव भवति । प्रविभागमेवाह । एता- वतामिति। एतावतां वर्णानाम् एवंजातीयक एवमानुपूर्वीको- ऽनुसंहारो मिलनमतस्यार्थस्य वाचक उपस्थापक इत्येवंरूपो विभाग इत्यर्थः । एकस्यार्थस्येति पाठेऽर्थविशेषस्येत्यर्थः । सङ्केत- शब्दार्थमाह। सङ्केतस्त्विति। अध्यास: सङ्केतकर्तु राहा-- रोपः। आरोपिताभेद इति यावत्। तस्यैव च ज्ञानं पदार्थोप- स्थापकं तबाधुनिकनामादिकल्पनाव्यावर्त्तनाय स्मृत्यात्मक इति विषयविषयिणोरभेदात् पाणिन्यादिस्मृत इत्यर्थः । न च कल्पि- ताभेदस्यासत: कथं सङ्कतत्वमिति वाच्यम् । असत्यात्यनभ्यु- पगमेनान्यत्र सत एवाभदस्यान्यत्र कल्पनादिति। अध्यामम्या सङ्केतत्वे प्रमाणमाह। योऽयं शब्द इत्यादिना भवतीत्यन्तेन !

३३२ पातञ्जलदर्शनम् । ओमित्येकाक्षरं ब्रह्मेत्यादिः शास्त्रेषु कम्बुग्रीवादिमान् घट इत्यादिर्लोके च पदपदार्थयोरभेदारोप एव सङ्घतो दृश्यते इत्यर्थः । ओमित्यादिशब्दवाच्यत्वलक्षणायां प्रमाणाभावादिति । अतएव कोषेषु अमरा निर्जरा देवा इत्यादिना शब्दार्थयोरारी- प्यमाणाभेद एव सङ्कतो दृश्यत इति। अतएवैतेनानाद्यभेदारी- पेणागमिनो मन्त्रार्थयोरभेदोपासनामुपदिशन्ति । मीमांस- काश्च मन्त्रमयों देवतामाहुः । या तु अस्माच्छब्दादयमों बोद्धव्य इतीखरेच्छाविषयत्व शक्तिरिति तन्त्रान्तरे लक्षिता सा अप्रामाणिको लक्षणादिसाधारणी च । अपि चेखरमजा- नतोऽपि शब्दार्थप्रत्ययो दृश्यते तथा पदपदार्थयोरभेदेन सङ्घतो- ऽपि न युज्यतेत्यादिदोषो बोध्यः । इदानीमुक्तसङ्कतबुद्धिनिमि- त्तकः त्रयाणां सङ्कत इत्याह । एवमेत इति । एवं सङ्केत- बुद्धेः कारणात् एते विविधाः शब्दा अर्थप्रत्ययौ च सङ्कीणीव- विविक्तौ च तत्र सतग्रह एव शब्दार्थयोरितरतराध्यासः शब्दार्थयोस्तु प्रत्ययेन सहकाकारत्वादन्योऽध्यासः प्रसिद्ध एवेति भावः । सङ्कराकारमाह। गोरिति । य इति । स एव शब्दा- दीनां तत्त्वज्ञो नान्य इत्यर्थः। वर्णध्वनिपदानामन्धीन्धसङ्कर- वदिदानी पदवाक्ययोस्तदर्थयोश्च सङ्करेणापि शब्दार्थप्रत्ययानां सङ्करं दर्शयति। सर्वपदेष्विति । वाक्यशक्तिः पदार्थान्तरसह- कारण वाक्यभवनशक्तिः । तथाच वृक्ष इत्यादिपदानां वृक्षोऽस्ति वृक्षश्चलति वृक्षश्छिद्यत इत्यादिवाक्यैः सङ्करोऽविवेक इति भावः। पदेषु वाक्यशक्तिमुदाहरति। वृक्ष इत्युक्त इति। वृक्ष इत्युक्ते सति आकाङ्क्षापूरणार्थं योग्यतादिवशादस्तीति शब्दो गम्यतेऽध्यानियत इत्यर्थः । तथाच पदे वाक्यसङ्कर इति भावः । ननु शब्दाध्याहारो न सम्भवति एकस्मिन्नेवार्थे शब्दानामान- त्यात् शब्दविशेषानुमापकलिङ्गाद्यनुपस्थि तेरिति चेत्र। स्वे विभूतिपादे योगवार्त्तिकम् । च्छया स्वयं कल्पितेन केनापि आकाङ्गापूरकशब्देन वक्तृतात्पर्य- विषयार्थबोधसम्भवात्। अर्थविशेषानुमाने तु योग्यताकाझाता- त्पादिकमेव लिङ्गमस्ति, एतदेवाह । न सत्तामिति । योग्य- ताप्रदर्शनेन आकाशातात्पर्य्यादयोऽप्यु पलक्षिताः केवलयोग्य- ताया अर्थान्तरसाधारण्यादिति । उदाहरणान्तरमाह । तथा न होति। आक्षेपोऽनुमानम्। नन्वेवं कारकवाचकपदानां कुत्रापि प्रयोगो न स्यादिति अत्राह। नियमार्थ इति । योग्य- तादिभिः सर्वत्र अर्थविशेषानुमानं न सम्भवति अत: कारकाणां सामान्यतोऽनुमितानामपि नियमार्थः कारकान्तरव्यावृत्त्वर्थचैत्रा- ग्निना भर्जनमित्यादिपदैश्चैत्राग्निभर्जनानां कर्त्तकरणकर्मणा- मनुवाद इत्यर्थः । इदानीमध्याहारं विनापि पदवाक्ययोः सङ्कर- ममेदनिमित्तकं दर्शयति । दृष्टश्चेति। छन्दोऽधीत इति वाक्यस्यार्थे श्रोत्रिय इति पदस्य तथा प्राणान् धारयतीति वाक्य- स्थार्थ जीवतीतिपदस्य च वचनमित्यर्थः । जन्मना ब्राह्मणो ज्ञेयः संस्काराद् दिज उच्यते विद्यया याति विप्रत्वं त्रिमिः श्रोत्रिय उच्यते ॥ इतिस्मृतेः । जीवबलप्राणधारणयोरित्यनुशासनाच्चेति । ननु यदि वाक्यार्थप्रतिपत्तिः पदादपि भवति तहि गुरुतरस्य छन्दो- धीत इति वाक्यस्य वचनं कदापि न स्यादित्याशङ्कायामाह। तत्र वाक्य इति। अतएव पदवाक्ययोः साक्षात् संशयस्थले पदं वाक्येन विवरणीयमिति। प्रसङ्गादाह । तत इति। यतो वाक्यार्थेऽपि पदरचना भवति अत: सन्देहस्थले पदमंशभेदैः वाक्येन विवरणीयमित्यर्थः। अव्याकरणे अर्थाप्रत्ययादाक्यव्यव- हरणमेव व्यर्थ स्यादित्याह। अन्यथेति। भवतीति प्रयुक्त नामाख्यातयोः सारूप्याद्भवति घटो' 'भवति भिक्षां देही'त्यर्थः दयसन्देहेऽनवधारितं पदं किमर्थं क्रियायां कारके वा व्याक्रि- - ३३४ पातञ्जलदर्शनम् । येत श्रोतुरर्थप्रत्ययासम्भवात् । एवमख इति प्रयुक्त खासमका- र्षीर्घोटको वेति संशयो नामाख्यातसारूप्यात् । तथा अजापय इति प्रयुक्त छाग्या: पयः विदन् शत्रून् पराभावितवान् वेत्यर्थ- संशयो नामाख्यातसारूप्यादित्यर्थः। तदेवं शब्दार्थप्रत्ययानां सङ्करं प्रदर्घ्यदानी प्रविभागं दर्शयति । तेषामित्यादिना। त- बादौ शब्दभेटेऽपि अर्थप्रत्यययोरभेदेन शब्दार्थयोर्मेदं दर्श- यति । खेतत इत्यादिना प्रत्ययश्चेत्यन्तेन । क्रिया साध्यरूपो- अर्थो यस्य स क्रियार्थः । खेतत इति शब्दः तथा कारकः सिद्ध- रूपोऽर्थो यस्य स कारकार्थः खेत इति शब्द एतौ शब्दो भिन्नौ एतयोरर्थस्तु क्रियाकारकरूप एक एव खेतगुणमात्रः। एवं प्रत्ययोऽपि। क्रियाकारकात्मकगुणाकारत्वे प्रमाणं पृच्छति । कस्मादिति। उत्तरम्। सोऽयमित्यभिसम्बन्धादिति। श्वेतनं या क्रिया सोऽयं खेतरूपः कारको गुणा यश्च खेतत इति अ- स्मात् खेताकारप्रत्ययः सोऽयं खेत इति अस्मादपि खेताकारः प्रत्यय इत्यमेदप्रत्यभिज्ञानादित्यर्थः । कथं तर्हि अभेदेन शब्दा- र्थयोः सङ्केत इति तत्राह । एकाकार इति। एकाकार आरोप- रूपः प्रत्यय एव सङ्कत आरोपितामेद एव सङ्केतो न तु पारमा- र्थिकाभेदरूप इत्यर्थः। ननु शब्दार्थयोरभेदप्रत्ययेन प्रत्यभिजैव कथन बाध्यते तत्राह। यस्त्विति । यस्तु खेतोऽर्थः शब्दप्रत्य- ययोर्विषयत्वात् स्वाभिः शब्दादिव्यावृत्ताभिरवस्थाभिनवपुरा- णादिभिर्विक्रियमाणत्वाच्च न शब्दप्रत्यययोः सहगती न कालत: सहचरो वैयधिकरण्यादित्यर्थः । एवं देशतो न सहचरो यतः शब्द आकाशे प्रत्ययो बुद्दी अर्थस्तु खेतगुणादिः प्रासादादिष्विति भावः । एवमिति। एवं शब्दोऽपि स्वावस्थाभिः विक्रियमाणो नापि अर्थबुद्धयोः सहचर एवं प्रत्ययोऽपौत्यर्थः । उपसंहरति । इत्यन्यथेति। सूत्रार्थसुपसंहरति । एवं तत्प्रविभागति।

विभूतिपादे योगवार्त्तिकम्। ३३५ एवं मनुष्यविषये शब्दार्थप्रत्ययेषु प्रविभागसंयमात् साक्षात्कार- पर्यन्तात् सर्वभूतानां रुतं तदर्थप्रत्ययञ्च योगी जानाति योग- जधर्मास्याचिन्त्यशक्तित्वात् धर्माणां स्वसदृशफलदानस्य श्रौत्स- गिकत्वाच्चेत्यर्थः। अस्मदादीनां च शब्दार्थप्रत्ययमेदसाक्षात्कार सत्यपि तस्य साक्षात्कारस्य संयमाजन्यत्वान सर्वभतरुतज्ञान भवति संयमस्यैव होयं सिद्धिरिति। एवमुत्तरसूत्रेषु अपि यथा- स्थलमिदमेव समाधानम् ॥ १७॥ * संस्कारसाक्षात्कारणात्पूर्वजातिज्ञानम् ॥ १८॥ * हये खल्वमौ संस्काराः, स्मृतिक्लेशहतवो वासनारूपाः, विपाकतवो धर्माधर्मरूपाः, ते पूर्वभवाभि संस्कृताः परिणामचेष्टानिरोधशक्ति- जीवनधर्मवदपरिदृष्टाश्चित्तधमाः, तेषु संयमः संस्कारसाक्षाक्रियायै समर्थः, न च देशकाल- निमित्तानुभवैर्विना तेषामस्ति साक्षात्करणं, तदिस्य संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमु- त्पद्यते योगिनः । परवाप्येवमेव संस्कारसाक्षात्- करणात्परजातिसंवेदनम् । अत्रेदमाख्यानं शू- यते भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद दशमु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत्, अथ भगवानावट्य- स्तनुधरस्तमुवाच दशसु महासर्गेषु भव्यत्वादन- पातञ्जलदर्शनम् । भिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसम्भवं दुःखं सम्पश्यता देवमनुष्य'षु पुनः पुनरुत्पद्य- मानेन सुखदुःखयोः किमधिकमुपलब्धमिति, भगवन्तमावय्य जैगीषव्य उवाच दशसु महा- सर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरक- तिर्यग्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत्किञ्चिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि, भगवानावय्य उवाच यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषमुखं किमिद- मपि दुःखपक्षे निक्षिप्तमिति, भगवान् जैगीषव्य उवाच विषयसुखापेक्षयैवेदमनुत्तमं सन्तोषसुख- मुक्तं कैवल्यापेक्षया दुःखमेव, बुद्धिसत्त्वस्य अयं धर्मस्त्रिगुण:, त्रिगुमश्च प्रत्ययो हेयपक्षे न्यस्त इति, दुःखस्वरूपस्तृष्णादुःखसन्तापापगमात्तु प्रस- नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति ॥१८॥ संस्कारसंयमेनेति सूत्रस्यादी पूरणीयं संयमसिद्धिप्रकरण- त्वात्। अत्र ज्ञानसंस्कारवत् रागादिवासना धर्माधर्मों अपि ग्राह्यौ इत्याह । हय इति। अभी सूत्रोक्ताः। स्मृति नविशेषः क्लेशोऽत्र रागादिरेव अविद्यास्मितयोः स्मृतिमध्यप्रवेशात् । न च अविद्या अतएव रागादिसम्भव तत्संस्कार प्रमाणं नास्ति इति वाच्यम् । अविद्यासाम्य ऽपि कस्यचिद्दुग्ध एव प्रीतिर्न दनि कस्यचिपरीत्यमिति अत्र वासनां विना नियामकान्तरा- विभूतिपादे योगवार्त्तिकम् । भावेन तसिद्धेः । तेषां दृष्टान्तेन अप्रत्यक्षवमनात्मधर्मत्वं चाह । त इति। अभिसंस्कृता उपचिताः परिणामादिजीवनान्तचित्त- धर्मवन्न साक्षिभास्याः । चित्तधर्माश्च अनात्मधर्मा इत्यर्थः । एतेन धर्मादयः प्रलयेऽपि चित्त एव तिष्ठन्ति तेन चित्त वीजरूपेण नित्यमिति आयातम् । संस्कारसाक्षात्कारकारणतया संयम व्याचष्टे । तेषु संयम इति । ननु अज्ञाते संस्कार संयमो न घटते झाते च व्यर्थ इति चेन्न। शब्दानुमानाभ्यां सामान्यतो जात विशेष- ज्ञानफलकस्य संयमस्य सम्भवात् । संस्कारसाक्षात्कार जायमाने पूर्वजन्मज्ञानं भवतीति अत्र युक्तिमप्याह। न च इत्यादिना साक्षात्करणमित्यन्तेन । देशो जन्मभूमिर्नगरादिः कालो युगादिः निमित्त मातापित्रादिः । एतेषां संस्कारविषयतया तदनुभवैविना तानि अविषयोकत्य संस्काराणां साक्षात्कारो न सम्भवति सविषयकगुणग्रहणस्य विषयोपरारीणैव ज्ञानेच्छादि- स्थले दृष्टत्वात् अत: संस्कारसाक्षात्कारे पूर्वजन्मनां देश- कालनिमित्तादिरूपाशेषविशिष्टानामपि साक्षात्कारो भवति विषयविधयेत्यर्थः। सूत्राथें व्याचष्टे । तदित्थसिति। न केवल संस्कारसाक्षात्कारात् पूर्वजातिज्ञानमेव अपि तु भाविजन्म- ज्ञानमपीति स्वयं पूरयति । परवापोति। भाविजन्मसंस्कारा- णामनागतावस्थानां साक्षात्कारादिति विशेषः। संस्कारसाक्षा- करणात् पूर्वादिजन्मानि अशेषविशेषै यन्त इत्यत्र प्रमाणतया जैगोषव्यावव्ययोः संवादमाह। अत्रेदमाख्यानमिति । पूर्वजादिज्ञानविषये महासर्गेषु प्रावतसर्गेषु जन्मक्रम बाल्य- यौवनवाईकादिरूपं तत्परिणामक्रम च साक्ष क्षात्कुवैतो जैगी- षव्यस्य तारकं सर्वविषयमिति आगासिसूवलक्षणीयं विवेकज ज्ञानमुदभूत् । अथानन्तरं तमाह आवमानामा योमो लिङ्गशरी. रमात्रविहारी परीक्षार्थ तनुधरो निर्माणकार्य धृत्वा पप्रच्छे. अत्र २८ पातञ्जलदर्शनम्। त्यर्थः। भव्यत्वात् कुशलत्वात् अनभिमूतवृत्तिसत्त्वेन इत्यस्य अधिकं किमुपलब्धमित्यनेनान्वयः। यथाश्रुते भव्यत्वाख्यजीव- न्मुक्त्यनन्तरम् आकाशादिगमनासम्भवादिति। सम्पश्यता उप- भुञ्जानेन देवतामनुष्येषु जायमानेन इत्यनेन च तत्रत्यसुख- मुपभुञ्जतेत्युपलक्षितं सुखदुः :खयोर्मध्ये संसार किं बहुलमिति पृष्टः स दुःखबहुत्वप्रतिपादनाय सर्वमेव दुःखमित्याह । दशसु इति । अनुभूतं सुखमिति शेषः । सुखस्यापि दुःखत्वं गुणवृत्त्य- विरोधाच्चेति अननोक्तम्। प्रधानवशित्वं स्वेच्छया प्रकृतिनियो- तृत्वं तत्कार्यत्वात् तद्रूपम् ऐश्वर्यमुखं तथा सन्तोषसुखं सन्तोषोत्थं स्वावाविक सुखं प्रधानवशित्वेन हि कामसमास्या विषयेषु अलम्प्रत्ययरूपं वैटष्णपाख्यं सन्तोषमुत्याद्य चित्तस्य खामाविकं सुखसभिव्यज्यत इति। कैवल्यापेक्षया दुःखमुप- पादयति। बुद्धिसत्त्वस्येति । वुद्धिसत्त्वस्यायं धर्म: सन्तोषाख्यो- ऽलम्प्रत्ययः त्रिगुणः सुखादिगुणत्नयवान् सुखादिगुणवांश्च प्रत्ययो बुद्धिपरिणामो हेयपक्षे दुःखपक्षे सास्ती मधुविषसम्पृक्तानवदि- त्यर्थः । कैवल्यस्य च सुखत्वम् आत्यन्तिकदुःखनिहत्तिरूपत- योताम् । सुखं दुःखसुखात्यय इति मोक्षशास्त्र परिभाषणात् । निरुपाधिप्रियत्वस्यैव सुखत्वाच्चेति यथा वा अत्र कैवल्ये सुखशब्दो दुःखनिवृत्त्यादिपरतया निर्णीत एवं श्रुतिस्मृत्योरपि निर्णयः सर्व- शास्त्रेषु एकरूपव्यवहारौचित्यादिति। ननु एवं नाथं सन्तोष- सुखस्य अनुत्तमत्वं श्रुतिस्मृत्युक्तमुपपद्येत तत्राह। दुःखरूप इति। दुःखसाधनतया दुःखरूपस्तृष्णाख्यस्तन्तुर्बन्धकरज्जुहेतु- स्ततः दृष्टोऽर्थो बन्धरूपो यः सम्यक्तया उद्देजकस्तस्यापगमात् प्रसनं वैषयिकदु:खाकलुषितम् अबाधमक्षयं यावबुद्धिस्थायि सर्वेषामेव अनुकूलं प्रियमिदं सन्तोषोत्थ प्रधानवशित्वमूलक सुखमुक्त शास्त्रेषु इत्यर्थः ॥ १८ ॥ - विभूतिपादे योगवार्तिकम् । ३३६ * प्रत्ययस्य परिचित्तज्ञानम् ॥ १६ ॥ * प्रत्यये संघमात् प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम् ॥ १८ ॥ * न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥ * रक्त प्रत्ययं जानाति अमुभिन्नालम्बने रक्त- मिति न जानाति, परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नालम्बनीकृतं परप्रत्ययमात्रन्तु योगिचित्तस्यालम्बनीभूतमिति ॥ २० ॥ व्याचष्टे। प्रत्यय इति । प्रत्ययस्य रागादिमत्याः स्वकीय- चित्तवृत्तेः संयमेन आश्रयादिरूपैरशेषविशेषैः साक्षात्करणात् ततस्तस्माञ्चित्तात् परस्य भिन्नस्य चित्तान्तरस्यापि अशेषविशे- षतो ज्ञानं सङ्कल्पमात्रेणैव भवतीत्यर्थः । ननु यथा संस्कारसा- क्षात्कार तद्विषयदेशादिकमपि साक्षात्क्रयते किमेवं चित्ता- न्तरसाक्षात्कार तद्दिषयोऽपि नियमेन साक्षाक्रियते न वेति जिज्ञासायामाह। न च सालम्बनमिति । तत् परचित्तज्ञानं साल- म्बनं न नियमेन भवति तस्य परिचित्तालम्बनस्य संयमविषयेण स्वचित्तेनाविषयीकरणादित्यर्थः। तत्प्रतिपादकशास्त्राभावाच्चे- न च सालम्बनमित्युक्त विवृणोति। रता- मिति । तस्येत्यादि हेतु विवृणोति। परप्रत्ययस्येति। उप- संहरति । परप्रत्ययेति। तस्मात् परप्रत्ययमात्र योगिचित्तस्य आलम्बनीभूतं न तु परचित्तस्य आलस्वनमपीति तु शब्दार्थ; ॥ १८-२०॥ त्यपि दृष्टव्यन् । ।

३४० पातञ्जलदशनम्। * कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भ चक्षु :प्रकाशासम्प्रयोगेऽन्तानम् ॥ २१ ॥ * कायरूपे संयमाद् रूपस्य या ग्राह्या श- क्तिस्तां प्रतिबध्नाति, ग्राह्यशक्तिस्तम्भे सति चक्षुःप्रकाशासम्प्रयोगे अन्तर्धानमुत्पद्यते योगिनः। एतेन शब्दाद्यन्तर्धानमुक्त वेदितव्यम् ॥ २१ ॥ कायस्येति। स्वशरीरस्य रूपे संयमात् अशेषविशेषतः कारणादिभिः साक्षात्कृते सति सङ्कल्पमात्रेण स्वकीयरूपस्य दृश्यताशक्तिं परचक्षुःसंयोगयोग्यतां प्रतिबध्नाति ततश्च परचक्षुः- प्रकाशैस्तत्किरणैरसंयोगेऽन्त नमुत्पद्यते योगिनः। दिवान्धे- नेव केनापि असो न दृश्यत इत्यर्थः । सूत्रकारस्य न्यूनतां परि- हरति। एतेनेति । एतेन रूपान्तर्दानेन शास्त्रान्तरसिद्धं श- ब्दाद्यन्तहानमप्युपलक्षितं वेदितव्यमित्यर्थः । यदा कायस्य शब्द- स्पर्शरसगन्धसंयमात् तेषां ग्राह्यशक्तिस्तम्भो भवति तदा श्रोत्रा- दिसन्निकर्षप्रतिबन्धाद्योगिनः शब्दादिकं बधिरेणेव केनापि न श्रू यत इति भावः ॥ २१॥ * सोपक्रमं निरूपक्रमं च कर्म तत्संयमाद- परान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ * आयुर्विपाकं कर्म विविधं सोपक्रमं निरुप- क्रमं व, तब यथा आईवस्त्र वितानितं लघी- यसा कालेन शुष्येत् तथा सोपक्रम, यथाच तदेव सम्पिण्डितं चिरेण संशुष्य त् एवं निरुपक्रमम् ।

विभूतिपादे योगवार्त्तिकम्। ३४१ यथा वा अग्निः शुष्क कक्ष मुक्तो वातेन समन्ततो युक्तः ई पीयसा कालेन दहेत्तथा सोपक्रम, यथा वा स एवाग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्त- श्चिरेण दहत्तथा निरुपक्रमम् । तदैकभविक- मायुष्करं कर्म हिविधं सोपक्रम निरुपव्रामं च, तत्संयमात् अपरान्तस्य प्रायणस्य ज्ञानम् । अरि- ष्टेभ्यो वेति विविधमरिष्टमाध्यात्मिकमाधिभौ- तिकमाधिदैविकं चेति, तत्राध्यात्मिकं घोष खदेह पिहितकर्णो न शृणोति, ज्योतिर्वा नेत्रे- ऽवष्टब्धे न पश्यति, तथाधिभौतिक यमपुरुषान् पश्यति, पितॄनतीतानकस्मात् पश्यति, आधि- देविकं वर्गमकस्मात् सिद्धान् वा पश्यति, विपरीतं वा सर्वमिति, अनेन वा जानाति अपरान्तमुपस्थितमिति ॥ २२ ॥ व्याचष्टे । आयुरिति। आयुष्करकर्मज्ञानादेव झटित्य- झटितिरूपाभ्यामपरान्तस्य मरणस्य ज्ञानं भवति अतः क- मणो विशेषणमायुर्विपाकमिति। सोपक्रम तीव्रवेगेन फल- दाट। यथा कलिकालीनप्रजासु बाल्ययौरनवाईकाम्यवस्थानां झटित्येव प्रारम्भकमायुष्करं कर्मेति । निरुपक्रमञ्च मन्दवेगेन फलदाट । यथा सत्यादिकालीनप्रजासु बाल्ययौवनवाईकाद्यव- स्थानां विलम्बेन प्रारम्भकम् आयुष्करं वार्मेति। तथा च सोप- क्रमस्य साक्षात्करणात् शीघ्रमरणस्य ज्ञानं निरुपक्रमस्य सा- ३४२ पातञ्जलदर्शनम्। क्षात्करणाच्च विलम्बेन मरणस्य ज्ञानं भवतीति विभागः। सोपक्रमनिरुपक्रमकमणोदृष्टान्तमाह। तत्र यथेत्यादिना । वितानितं विस्तारितम्। लघीयसा स्वल्पेन। यथाक्रममुभयो- रपरं दृष्टान्तहयमाह। यथा वा अग्निरित्यादिना। कक्षे ढणे, क्षेपोयसा शीघ्रण। उपसंहरति । तदैकेति। जन्मान्तरभोगस्य कर्मणो ज्ञानं वर्तमानदेहस्यापरान्तज्ञानहेतुरत उक्तमैकभविक- मिति। भुज्यमानकर्मभिः सहेकभविकमित्यर्थः । सूत्रार्थमाह । तत्संयमादिति। ऐकभविकायुष्करकर्मसंयमात् सोपक्रमा- दिरूपविशेषावधारणे सति पूर्वान्तापक्षया अपरान्तस्य मरणस्य शीघ्रत्वाशीघ्रत्वरूपैर्ज्ञानं भवति अरिष्टेभ्यो वेत्यर्थः । अरिष्ट- ज्ञानस्यापीदं फलमिति सूत्रे प्रसङ्गादेवोक्तं संयमसिद्धीनामव प्रकृतत्वात् अरिष्टानि मरणचिन्नानि च योगिना समाध्यवधा- नार्थम् अवधारणीयानि। तानि व्याचष्टे। विविधमिति पिहितकर्णः स्वदेहान्त?षं वह्निज्वलनशब्दवच्छब्दविशेष' न शृणोति इत्येकमरिष्टमाध्यात्मिकम् । अवष्टब्धे अङ्गुल्यादिना भ्रामिते चक्षुषि वह्निकणतुल्य ज्योतिन पश्यति इत्यपरम् । अन्यान्यपि विविधानि अरिष्टानि वशिष्ठमार्कण्डेयादिभिरुतानि 'दिलसाससंवत्सरादिभेदैर्मृत्युचिङ्गानि संक्षेपत आह। विपरीतं वा सर्वमिंति। सर्व खासप्रश्वासादिकमिति । अनेन वा अरिष्टेन वेलर्थ ॥ २२० * मैद्यादिषु बलानि ॥ २३ ॥ * मैत्री करुणा मुदितेति तिस्रो भावनाः, तत्र भूतेष, सुखितेष मैत्रौं भावयित्वा मैत्रीबलं ललते, दुःखितेषु करुणां भावयित्वा करुणाबलं ।।

विभूतिपादे योगवार्तिकम् । ३४३ । लभते, पुण्यशीलेषु मुदितां भावयित्वा मुदिता- बलं लभते, भावनातः समाधिर्यः स संयमस्ततो बलान्यबन्ध्यवीर्याणि जायन्ते, पापशीलेष पेक्षा न तु भावना, ततश्च तस्यां नास्ति समाधिरिति, अतो न बलमुपेक्षातस्तव संयमाभावादिति ॥२३॥ मैत्रवादिषु संयमात् बलानि अवध्यानि वीर्याणि भवन्ति परेषु मैयाद्यर्थ प्रयत्नो विफलो न भवतीति यावत् । तदेतद व्याचष्टे । मैत्रीकरुणेति । मैत्रधादित्रयविषयिण्य स्तिस्रो भावना: संयमा भवन्ति तत्र सुखितेषु मैत्री एवं खरूपा एवमादिसाध- निति अशेषविशेषैर्मेत्रीं भावयित्वा साक्षात्कृत्य च व्याख्यातं मैत्रीबलं लभत इत्यर्थः। एवं करुणामुदितयोरपि व्याख्येयम् । यद्यपि भावनाशब्दः सूत्रे नास्ति तथापि तन्वान्तरानुसारात स्वयं व्याख्यातः। प्रथमपादोतभावनाशब्दवत् अत्रापि उत्याद- नार्थमिति भ्रमो माभूत् इत्येतदर्थं प्रकते तन्त्रान्तरीयभाव- नाशब्दस्यार्थ स्वयमाह । भावना समाधिरिति। भाव्यते फल- मनति व्युत्पत्त्या भावनाचिन्तनयोरेकार्थतया वेति भावः । ध्यानधारणयोः संग्रहाय पुनराह । यः स संयम इति। यः स पूर्वेषु सूत्रेषु प्रक्रान्त इत्यर्थः। भावनाशब्दोक्तसमाधिना ध्यानधारणयोरपि ग्रहणं तन्त्रान्तर इति भावः । समाधिरिति पाठे तु अतः सूत्रात् पूर्वाचार्योतात् अत्र भावना समाधिरेवेत्यर्थः । बलशब्द विकृण्वान: सूत्रार्थमुप- संहरति। ततो बलानीति ननु प्रथमपादोतापक्षा कथ मैत्रधादिषु इति अवादिशब्देन न संग्रहोता तत्राह। पाय- शोलेषु इति। पापशोलेषु मैयादिशून्यतारूपम् उपहामानम् भावनातः

३४४
पातञ्जलदर्शनम् ।
न तु तस्यामभावरूपिण्यामुपेक्षायां प्रतियोगितत्त्वातिरिक्तः
कश्चन विशेषोऽस्ति यस्य साक्षात्कारार्थ भावना स्यात् अतश्च
तस्यामुपेक्षायां नास्ति समाधिः संयमोऽपचित इत्यर्थः । शेष
सुगमम् ॥ २३ ॥
* बलेषु हस्तिबलादीनि ॥ २४ ॥ *
हस्तिवले संयमाद् हस्तिबलो भवति, वैन-
तेयबले संयमाद् वैनतेयबलो भवति, वायुबले
संयमाद् वायुवल इत्येवमादि ॥ २४ ॥
हस्त्यादिबलेषु संयमात् हस्त्यादिबलानि भवन्तीत्यर्थः ।
भाष्यं सुगमम् ॥ २४ ॥
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितवि-
प्रक्वष्टज्ञानम् ॥ २५॥ *
ज्योतिष्मती प्रवृत्तिरुता मनसस्तस्या य
आलोकस्वं योगी सूक्ष्मे वा व्यवहिते वा विप्र-
कृष्ट वा अर्थ विन्यस्य तमर्थमधिगच्छति ॥ २५ ॥
व्यवहितमावृतं विप्रकृष्टं दूरवति । व्याचष्टे । ज्योतिष्म-
तीति। ज्योतिष्मती बुद्धिपुरुषान्यतरसाक्षात्काररूपिणी मनसः
प्रवृत्तिः प्रथमपादोता तस्या य आलोकस्तत्कालीनो यः सत्त्व-
प्रकाशस्त योगी सूक्ष्माद्यर्थेषु विन्यस्य च साक्षात्करोतीत्यर्थः ।
अन न्यासमात्रवचनात् तेषु संयमापेक्षा नास्ति चक्षुासमा-
रेण घटदर्शनवविशुद्धसत्त्वप्रतिसन्धानमात्रेणैव सूक्ष्मादिसाक्षा-
कारी भवतीति भावः ।
परम्परया बुयादिविषयकसंयमसा-
ध्यत्वेनैव चास्याः सिद्धेः संयमसिद्धिमध्ये निर्वचनमिति ॥ २५ ॥

विभूतिपादे योगवार्तिकम् । * भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥ * तत्यस्तारः सप्तलोकाः, तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्वेष भूर्लोकः, मेरुपृष्ठादारभ्य आधुवाद ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः, तत्परः खाकः पञ्चविधो, माहेन्द्रस्तृतीयो लोकः, चतुर्थः प्राजापत्यो महाकः, त्रिविधी ब्राह्मः, तद् यथा जनलोकस्तपोलोकः सत्यलोक इति। ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान् । माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजा इति संग्रहश्लोकः तत्र आवीचेरुप- [परिनिविष्टाः षट् महानरकभूमयो घनसलि- लानलानिलाकाशतमःप्रतिष्ठाः महाकालाम्ब- रोषरौरवमहारौरवकालसूत्रान्धतामिस्राः, यत्र खकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टमायु- दीर्घमाक्षिप्य जायन्त, ततो महातलरसातला- तलसुत्लवितलतलातलपातालाख्यानि पातालानि, भूमिरियमष्टमी सप्तहीपा वसुमती, यस्याः सुमेरुमध्ये पर्वतराजः काञ्चनः, राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि, तत्र वैटूर्यप्रभानुरागात् नौलोत्पलपवण्यामो सप्त तस्य ३४६ पातञ्जलदर्शनम्। नभसो दक्षिणः भागः, वेत: पूर्वः, स्वच्छ: पश्चिमः, कुरुण्डकाम उत्तरः, दक्षिणपाखें चास्य जम्बूः यतोऽय जम्बूहीपः, तस्य सूर्यप्रचाराद राविन्दिवं लग्नमिव विवर्त्तते, तस्य नौलश्वत- शृङ्गवन्त उदीचौनास्त्रयः पर्वता हिसहस्रायामाः, तदन्तरेषु बौणि वर्षाणि नव नव योजनसाह- स्राणि-रमणकं हिरण्मयमुत्तराः कुरव इति । निषधहेमकूटहिमशैला दक्षिणतो दिसहस्रा. यामाः, तदन्तरेषु वीणि वर्षाणि नव नव योजन- साहस्राणि---हरिवर्ष किम्युरुष भारतमिति । सुमेरोः प्राचीना भद्राश्वा माल्यवत्सीमानः, प्रतीचौनाः केतुमाला गन्धमादनसौमानः, मध्ये वर्षमिलावृतं, तदेतद् योजनशतसहस्रं सुमेरो- दिशिदिशि तदर्द्धन ब्यूद, स खल्वयं शतसहस्रा- यामो जम्बूद्दीपस्ततो द्विगुणेन लवणोदधिना बलयाकृतिना वेष्टितः, ततश्च दिगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलमगधपुष्करद्वीपाः ससुद्राश्च सर्षपराशिकल्पाः सविचित्रशैलावतंसा इक्षु रसमुरासर्पिर्दधिमण्डक्षीरखाटूदकाः । सप्त- समुद्रवेष्टिता बलयाकृतयो लोकालोकपर्वत- सप्त विभूतिपादे योगवार्तिकम् । ३४७ परिवारा: पञ्चाशद्योजनकोटिपरिसङ्ख्याताः । तदेतत् सर्वे सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढ़म्, अण्डं च प्रधानस्यागुरवयवो यथाकाशे खद्योतः, तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया असुरगन्धर्वकिन्नरकिम्पुरुष-यक्षराक्षसभूतप्रेतपि- शाचापस्मारकासरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति, सर्वेषु दीपेषु पुण्यात्मानो देवम- नुष्याः, मुमेरूस्बिदशानामधानभूभिः, तत्र मिश्र- वनं नन्दनं चैवरथं मुमानसमित्युद्यानानि, सुधर्मा देवसभा, सुदर्शनं पुरं, वैजयन्तः प्रासादः । ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलचितप्रचाराः सुमेरोरुप- र्युपरि सन्निविष्टा विपरिवर्तन्ते । माहेन्द्रनिवा- सिनः षट् देवनिकायाः, विदशा अग्निष्वात्ता याम्याः तुषिता अपरिनिर्मितवशवर्तिनः परि- निर्मितवशवर्तिनश्चेति, सर्व साल्पविद्धा अणि- मादोश्वोपपन्नाः कल्पायुषो वृन्दारकाः काम:- भोगिन औपपादिकदेहा उत्तमानुकूलाभिरप्स- रोभिः हातपरिवाराः। महति लोके प्राजा- पत्ये पञ्चविधो देवनिकायः, कुमुदाः अभवः १४८ पातञ्जलदर्शनम्। प्रतर्दना अञ्जनामा प्रचितामा इति, एते महा- भूतवशिनो ध्यानाहारा कल्पसहस्रायुषः । प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्म- पुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति, एते भूतेन्द्रियवशिनः। द्वितीये तपसि लोके विविधो देवनिकायः, अभाखरा महाभा- खरा सत्यमहाभाखरा इति। एते भूतेन्द्रिय- प्रकृतिवशिनो द्विगुणद्दिगुणोत्तरायुषः सर्वे ध्याना- हारा ऊर्द्धरेतस अर्द्धमप्रतिहतज्ञाना अधर- भूमिषु अनावृतज्ञानविषयाः । तीये ब्रह्मणः सत्यलोके चत्वारो देवनिकायाः, अच्युताः शुद्ध- निवासा सत्याभाः संज्ञासंजिनश्चेति। अकृत- भवनन्यासाः खप्रतिष्ठा उपर्युपरिस्थिताः प्रधान- वशिनो यावत्सर्गायुषः। तवाच्युताः सवितर्क- ध्यानसुखाः, शुद्धनिवासाः सविचारध्यानमुखाः, सत्याभा आनन्दमाबध्यानसुखाः, संज्ञासंजि- नश्चास्मितामात्रध्यानमुखाः, तेऽपि बैलोक्यमध्ये प्रतितिष्ठन्ति, त एते सप्त लोकाः सर्व एव ब्रह्म- लोकाः। विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्ते न लोकमध्ये न्यस्ता इति। एतद् योगिना । विभूतिपादे योगवार्तिकम्। ३४८ साक्षात्कर्त्तव्यं सूर्यद्वारे संयमं कृत्वा, ततोऽन्य- वापि, एवं तावदभ्यसेद् यावदिदं सर्व दृष्ट- मिति ॥ २६ ॥ भुवनशब्दार्थं व्याचष्टे । तत्प्रस्तार इत्यादिना। भुवन- विस्तारः कथ्यत इति शेषः । तत्र चतुर्दशसु लोकेषु व्यक्तेष्वादौ सप्त लोकानाह। सप्त लोका इति । सप्त लोकान् विभजते तत्रेति अवौचिर्नाम नरकविशेष: सर्वलोकानामधास्थानं तदादाय सुमेरुपृष्ठपर्यन्त भूर्लोकः । मेरुपृष्ठमारभ्य मेरुपृष्ठो- पलक्षितभूलॊकस्योपरि ध्रुवपर्यन्त भुवर्लोकः। तदुपरि क्रमेण पञ्चविधः स्वर्लोकः । एतेन विलोकव्यवस्थापि दर्शिता। पञ्चानां सामान्यत: स्वर्लोकत्वेनैक्यात्। पञ्चानामवान्तरभेदा- नाह। माहेन्द्र इत्यादिना। माहेन्द्रो लोकः स्वरितिनामको भूर्भुवर्लोकापेक्षथा ढतीयः । एवमुत्तरत्रापि। उक्तव्युत्क्रमेण सप्तलोकानां संग्रहश्लोकं पठति । ब्राह्म इति । जनादित्रि- भूभिको ब्रह्मलोकः । ततोऽध: प्रजापतिलोको महान् महरिति- नामा। ततोऽध: स्वरितिनामा इन्द्रलोक: । ततोऽधस्तारालोको द्यौरिति भुव इति चोच्यते। तदधश्च प्रजानां मनुष्याणां लोको भूरितिनामेत्ययः । इदानीं पृथिव्या अधःस्थितान् सप्त नरकान् भूर्लोकांशतया प्रतिपादयति। तत्रेति। तत्र भूर्लोके सर्वनर- काध:स्थितादवी चिनरकादुपर्य्यपरिस्थिताः षट् महानरकभूमयो घनादौनामुत्तमोत्तमानाम् आधारा महाकालादिसंज्ञकास्तिष्ठ- न्तीत्यर्थः। घनाः शिलाशकलादयः पार्थिवपदार्थाः तमश्चान्ध- कारः। अत्र महानरकशब्दादन्येऽप्युपनरकाः कुम्भीपाकादयो- ऽनन्तास्तत्रैव तिष्ठन्तीति प्रतिपादितम् । दुःखवेदना: दुःख- भोगिन पाक्षिप्य गृहीत्वा भूरादिसप्तलोकानुक्ता महातलादी- ३० । - माह। ३५० पातञ्जलदर्शनम्। नन्यान् सप्तलोकानाह। ततो महेति। ततोऽवीचरध इत्यर्थः । तदेवं चतुर्दश लोका भवन्तीति सूचयति। भूमि- रियमष्टमीति। अत्र भूमेरष्ट्रमौत्ववचनात् सर्वाधःस्थितात् महातलादुपर्युपरि क्रमेण सप्त पातालानीत्यवगन्तव्यम् । सङ्केप- तश्चतुर्दश लोकानुत्वा विस्तरेण विवक्षुरादौ मूर्लोकस्य विस्तार- सप्तहीपति। तस्य राजतेति पूर्वादिप्रदक्षिणक्रमण इत्यादिः, दक्षिणभागाकाशस्य वैदूर्य प्रभाव्याप्तताया वक्ष्यमाण- त्वात्। श्वेतो रजतवर्ण: स्वच्छ: स्फटिकवत्प्रतिविम्बोद्ग्राही कुरण्डकं वर्णवर्णः पुष्पविशेषः । दक्षिणति। अस्य सुमरोरु- परि दक्षिणपाई जम्बूनामा वृक्षः। यतो यन्नामा लवणोदधि- वेष्टितो जम्बूद्वीपो जम्बूद्दीपनामेत्यर्थः । तस्यति । निरन्तरं सूर्येण प्रदक्षिणीकरणात्तस्य सुमेरोरवच्छेदेन रात्रिन्दिवसंयुक्त- मिव सद् वर्तते चमति। तथा तस्य मेरोरुत्तरदिशि नौलाद्या- स्त्रयः पर्वताः प्रत्येकं दिसहस्रयोजनविस्तारास्तिष्ठन्ति । तेषा- मवकाशेषु त्रीणि वर्षाणि प्रत्येकं नवयोजनसहस्रविस्ताराणि । तत्र नीलगिरिमरुलग्नः नीलस्योत्तर रमणकं खेतस्योत्तर हिरण्मयं शृङ्गवत उत्तरे समुद्रपर्यन्तमुत्तराः कुरव इत्यर्थः । दक्षिणदिश्यपि सनिवेश एवं बोध्यः । मुमैरोः प्राचीना इति । मेरो: पूर्वदिशि तत्संयुक्तो माल्यवान् पर्वत: तमेव सीमानं कृत्वा समुद्रपर्यन्तं भद्राश्वनामदेशाः तत्र भद्राखनामकमेव वर्षम्। एवं मेरो: पश्चिमदिशि तत्संयुक्तगन्धमादनसीमानः समुद्रपयन्ताः केतुमालनामदेशाः वर्ष चैकमेव केतुमालसंज्ञक- मित्यर्थः मध्य इति। छत्राकारसुमेरोरधोभागे वर्षमिला- वृतं चतुर्दिक्षु च पर्वताश्छवपाखंस्थावरणवास इव मेरुपाखेषु एव संसक्ता इति। तदेवं जम्बूद्दीपस्य नव वर्षाणि प्रोक्तानि पर्वतैः सह समग्र जम्ब दीपस्य प्रमाणमाह। तदेतदिति। तदे- विभूतिपादे योगवार्त्तिकम्। ३५१ ॥ सनम्बहोपाख्यस्थान योजनशतसहस्रमितम् । अतच सुमेरो- चतुर्दिक्षु पञ्चाशत्पञ्चाशद्योजनसहस्रेण व्यूढ़ सङ्क्षिप्त परिसंख्यात- मित्यर्थः। सुमेरुमादायेति शेषः। सुमेरो: परिमाणं च विष्णु- पुराणे प्रोताम्। चतुरशीतिसाहस्रर्योजनरस्योच्छ्रायः । प्रविष्टः षोडशाधस्तात् हात्रिंशन्मनि विस्तृतः । मूले षोड़शसाहस्रो विस्तारस्तस्य भूभृतः ॥ मेरोचतुर्दिशस्तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभाग ! चत्वारस्तत्र पर्वताः इति। एतेन मेरो: पार्ख हये इलाकृतस्याष्टादशसाहस्र- तया लक्षप्रमाणता जम्बूद्दीपस्य सिद्धेति। जम्बूद्दीपस्य वेष्टनं लवणसमुद्रमाह। स खल्विति। अत्र । जम्ब द्वीप समात्य लक्षयोजनविस्तृतः । मैत्रेय ! बलयाकारस्थितः क्षारोदधिर्वहिः ॥ इति विष्णुपुराणात्। समुद्रस्य हीपहिगुणत्व' पार्खयेन वोध्यम्। ततो हिगुणा इति। जम्ब हीपाद द्विगुणः शाक- होप इत्ययः । शाकाच द्विगुणः कुशदीपः । एवं क्रमेण वृद्धिः । समुद्राचेति। स्वखहीपापेक्षया दिगुणा: समुद्राणां विशेषण- वयं सर्षपेत्यादि। सर्षपराशिवन्मध्ये किञ्चिन्मात्रीच्छूनाः मध्ये तरङ्गबाहुल्यात्। तथा कूलद्दयस्थितैविचित्रशैलैरवतंस- कल्पैः सहिता: तथा इक्षुरसादितुल्योदका इत्यर्थः । सप्त- होपानां समुद्रादिसहितानां मिलित्वा परिमाणमाह। सप्तेति । एते सप्त होपाः समुद्रसहिताः सप्तसमुद्रावहिःस्थितेन लोका- लोकपर्वतेन परिवृताः पञ्चाशद्योजनकोटिपरिमिता इत्यर्थः चलोकभूमिसहिता इत्यपि बोध्यम्। समग्रभूगोलस्यैव पञ्चा- शत्कोटिपरिमितत्वस्य पुराणेष्ववगमादिति। तदेतदिति। तदेतत्सर्वे भूगोलकं सुप्रतिष्ठितमसकोण पञ्चाशत्कोटिपरिमित ३५२ पातञ्जलदर्शनम् । स्याण्डस्य मध्ये व्यूढ़ सङ्क्षिप्तम्। इदं च शतकोटिविस्तार- मण्डं सप्तावरणसहितमपि प्रकृतेरणुरंश इत्यर्थः। तदुक्तं विष्णु पुराणे प्रकृतिं प्रकृत्य । अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च । इति। सौरे च । ब्रह्माण्डमेतत्सकलं ब्रह्मणः क्षेत्रमुच्यते । क्षेत्रज्ञश्च स एवोक्ती विरिञ्चिश्च प्रजापतिः ।। सहस्रकोटयः सन्ति ब्रह्मण्डास्तिर्यगूछ गाः । ब्रह्माणो हरयो रुद्रास्तत्र तत्र व्यवस्थिताः ॥ आतया देवदेवस्य महादेवस्य शूलिनः । ब्रह्माण्डानामसंख्यानां ब्रह्मविष्णुहरात्मनाम् ।। उद्भवे प्रलये हेतुर्महादेव इति श्रुतिः । इति। नारदीये च। सृष्टिस्थित्यन्तकरणे ब्रह्मविष्णुमहेश्वराः । यस्यायुतायुतांशांशास्तद्ब्रह्मेत्यभिधीयते ॥ इति। न च अस्मिन् वाक्य परमात्मांशत्वमेव अण्डशरी- राणां गम्यते न तु प्रकृत्यंशत्वं ब्रह्माण्डस्येति वाच्यम्। शक्ति- शक्तिमतोरंशांशिभावन शक्त्योरपि अंशांशिभावसिद्धेः। अग्नि- विस्फुलिङ्गादिश्रौतदृष्टान्तेषु तथा दर्शनात् मायां तु प्रकतिं विद्यात् मायिनं तु महेश्वरम् । अस्यावयवमूतैस्तु व्याप्त सर्वमिदं जगत् ॥ इति श्रुतश्चेति। इदानीं तत्तल्लोकवासिनी देवादीन् कथयति। तत्र पाताल इति । देवनिकायाः देवसमूहा असुरादयश्च प्रतिवसन्तीत्यर्थः । देवाश्च मनुष्याश्च देवमनुष्याः। भूलॊकस्थानुका भुवर्लोकस्था- ॥

३५३ विभूतिपादे योगवार्तिकम्। नाह । ग्रहनक्षत्रेति। नक्षत्राणि अखिन्यादिसप्तविंशतिरित- राणि क्षुद्रज्योतींषि तारकाः। एते ग्रहादयः सर्वोपरिस्थिते मेढिकाष्ठवनिश्चलतया स्थिते अतएव ध्रुवसंज्ञके ज्योतिर्विशेष वायुरज्ज्वा बडा गाव इव हलिकतुल्यचक्रवायोः प्रतिनियत- सञ्चारण कालविशेषैरवतगतयः सुमेरोरुप[परिभावन सन्नि- विष्टा भुवर्लोके चमन्ति इत्यर्थः । ननु एवं सुमेरोरुपरि ज्योति- मण्डलस्य भ्रमणे कथ' मेरुणा ज्योतिश्चक्रावरणं येन रात्रिदिन- व्यवस्थितिरिति चेन। वृक्षण सूर्यव्यवधानवत् मेरोरेकपार्व- स्थसूर्यादेः पार्खान्तरेण व्यवधानसम्भवादिति। स्वर्लोकस्था- नाह। माहेन्द्र इति । विदशादयो देवानां जातिभेदाः कल्या. युषः। कल्पो ब्रह्मणो दिनं तदायुषः सङ्कल्पमात्रेण कत्तुं क्षमाः सङ्कल्पसिद्धाः वृन्दारकाः देवा औपपादिकदेहाः पित्रोः संयोग विना क्षणमात्रेणोत्पद्यमानशरीरा इत्यर्थः । महर्लोकस्थानाह। महतीति। महाभूतानां परिणामने स्वतन्त्रा: ध्यानाहारा ध्यानत एव टप्ताः । जनलॊकस्थानाह। प्रथम इति । भूतेन्द्रि- यवशिन इति । इन्द्रियाणां परिणामने स्वातन्त्र पूर्वापेक्षयै- षामधिकम् । हिगुणेति । विगुणं दिगुणरूपमुत्तरमधिकमा- युर्वेषां ते तथा। ब्रजपुरोहितानामायुः कल्पसहस्रात् पूर्वोक्ताद दिगुणं तदुत्तरस्य तद्दिगुणमेवं क्रमण वृद्धिरित्यथः। तपोलो- कस्थानाह। द्वितीय इति । ते भूत इति । मृतेन्द्रिययोः प्रकृते- रहवारस्यापि वशिन इति पूर्वापक्षयषामाधिक्यम् । अत्र अह- द्वारणान्तःकरणसामान्य ग्रहणम्। एतन स्वेच्छयान्यपरयोनि- र्माणचित्तोत्पादनादौ समर्या इति। विगुणति। पूर्वानुसारेण व्याख्येयम् । ऊर्छ रेतम इति। प्राणायामवशादूई मेव रतांसि सूक्ष्माणि भूत्वा गच्छन्ति न सूखलन्ति सम्भोगाभावाद यषां ते तथा ऊर्छ सल लान जानमप्रतिहतं शक्य' येषां ते - ३५४ पातजलदर्शनम्। चाइ। तथा अधोलोकेषु अनावृतो ज्ञानविषयो येषां ते तथेत्यर्थः । सत्यलोकस्थानाह। दृतीय इति। आदौ चतुणां साधारणानि विशेषणान्याह। अकृतति । न कृती भवनन्यासी एहनि- र्माणं यैस्ते तथा स्वस्मिन्नेवात्मनि रहे प्रतितिष्ठन्तीति स्वप्रतिष्ठा आत्मवासाः। उपर्युपरिस्थिता इति । अच्युतानामुपरि स्थिताः शुद्धनिवासाः, एवंक्रमणेत्यर्थः । तथा च सत्यलोकेऽप्यवान्तर- लोकभेदाः सन्तीत्यायातम् । प्रधानवशिनः प्रकृती स्वतन्त्रा ईखरा दिपरार्द्धायुषः । तेषां चतुणां संज्ञाभेदमवान्तरविशेष तत्वाच्युता इति । अच्युतसंज्ञकाः सवितर्कयोगेनैव • सुखिन: शुद्धनिवासादयोऽप्येवं व्याख्येयाः। तेऽपि चत्वारोऽपि त्रलोक्यमध्ये चतुर्दशभुवनमध्य एव तिष्ठन्ति न ब्रह्माण्डाहहि- रित्यर्थः। नन्वेवमण्डस्य सर्वजीवसाधारण्यात् कथं ब्रह्माण्ड- संज्ञेत्याकासायामाह। त एव इति । त एते सप्तलोका अवा- न्तरं चतुर्दशधा भिन्नाः सर्व एवादिपुरुषस्य ब्रह्मणो लोका ब्रह्मणो हिरण्यगर्भस्य लिङ्गदहन सर्वलोकव्यापनात् पितापुत्र- वदंशांशिभावेन सर्वजीवानां ब्रह्माभेदाच्चेति भावः । ननु अस- म्प्रज्ञातसुखिनौ यो विदेहप्रकतिलयो ‘भवप्रत्ययो विदेहप्रकृति- लयाना'मिति सूत्रोतो तयोकिः कथं नोक्तः तत्राह। विदे- हेति । तेषां मुक्त प्रायत्वादीश्वरकोटित्वाच्च ब्रह्माण्डस्यान्तर्वहिः स्वातन्त्रोण व्यायारवत्तया शास्त्रे न ते लोकमध्ये लोकवासि- जनमध्य गणिता इत्यर्थः । तदेवं संक्षेपतो भुवनशब्दार्थ व्या- ख्याय सूत्रवाक्यार्थमाह। एतयोगिनति। सूर्ये सूर्यद्दार संयम हत्वा योगिनैतमुवनं साक्षात्करणीयम्। अत्र योगशा- स्त्रान्तरदर्शनेन हारशब्दः पूरित इत्युन्बीयते सूर्यहारं च ब्रह्मणो लोकहारभूतं 'सूान्तश्चित्रं स आदित्यमाछति तस्मै स तत्र विजिहोते। यथा भास्करस्य खं तेन स अर्धमाक्रमत' इति .

विभूतिपादे योगवार्तिकम् । ३५५ श्रुतौ, 'सूर्यहारेण ते विरजा: प्रयान्ति यत्रामृत: स पुरुषो यव्ययात्मेति श्रुतौ च तद्भाष्यकता तथा व्याख्यातत्वात् । अनन्ता रश्मयस्तस्य दोपवद्यः स्थितो हृदि। ऊर्द्ध मेकस्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ॥ ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् । इति स्मरणाच्चेति। न केवलं सूर्यहारसंयमस्यैव भुवनज्ञानं फलं किन्तु योगशास्त्रोक्तसंयमान्तरस्यापि इत्यतो रागक्षयार्थम् । अन्यत्र संथमेनापि समग्रभुवनं साक्षात्करणीयम् इत्युपदिशति । ततोऽन्यत्रापीति । ततः सूर्यद्वारादन्यत्रापि एवं संयमं तावत् अभ्यसेत् यावदिदं भुवनं दृष्टं भवेदित्यर्थः ॥ २६ ॥ * चन्द्रे ताराव्यूहज्ञानम् ॥ २० ॥ * चन्द्रे संयसं कृत्वा ताराव्यूह विजानीयात् ॥ २७॥ भाष्य सुगमम् ॥ २७॥ * ध्रुवे तगतिज्ञानम् ॥ २८ ॥ * ततो वे संयसं कृत्वा ताराणां गतिं जानी- यात्, अर्द्ध विमानेषु कृतसंयमस्तानि विजा- नौयात् ॥ २८॥ ताराखरूपाणि ज्ञात्वैव तासां गतिज्ञानं सम्भवतीत्याशयेन ताराव्यूहज्ञानानन्तरमित्यर्थः । भाष्य सुगमम् । अस्मिन्नेव प्रसङ्गे योगशास्त्रान्तरोक्तत्वात् भुवर्लोक- स्थवस्वन्तरसंयमात् सिद्धि स्वयं पूरयति। ऊर्द्वति। ऊई विमानेषु आदित्यादिरधेषु कृतः माक्षात्कारपर्यन्तः संयमो येन स तानि विमानानि रथान् जानौयादित्यर्थः । न तु विमान भाष्ये तत इत्युक्तम् ।

३५६ पातञ्जलदर्शनम्। संयमस्यैव विमानसाक्षात्कारः सिद्धिरत्रोता साक्षात्कारपर्यन्त- स्यैव संयमस्य सर्वत्र सिद्धिकथनात् संयमानां वस्खविषयसा. क्षात्कार हेतुतायाः सामान्यत एव सिद्धत्वाच ॥ २८ ॥ * नाभिचको कायव्यूहज्ञानम् ॥ २६ ॥ * नाभिचक्रे संयमं कृत्वा कायव्यूहं विजा- नीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः सन्ति, धातवः सप्त त्वग्लोहितमांसनायस्थिमज्जाशु- क्राणि, पूर्वं पूर्वमेषां वाह्यमित्येष विन्यासः ॥२६॥ शरीरमध्यवर्ति नाभिकन्दरूपं चक्रं कदलीमूलवत् पादौ उत्पन्न यतः शाखापल्लवादिवच्छिर:पादादिकमवयवजातम् जई मधश्च आविर्मवति। तस्मिन्वाभिचक्रे संयमात् साक्षात्कृते कायस्थ पदार्थव्यूह वातपित्तत्वगसृगादिरूपं साक्षाक्रियत इत्यर्थः। भाष्य वाह्यमिति । शुक्रस्य मज्जा वाद्येति । एव- मादिरेषां सप्तानां क्रम: विन्यास: शरीरसंस्थानम् ॥ २८ * कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ * जिह्वाया अधस्तात् तन्तुः, ततोऽधस्तात् कण्ठः, ततोऽधस्तात् कूपः, तत्र संयमात् क्षुत्पि- पास न बाधते ॥ ३० ॥ तन्तोरधस्तादिति। अनेनोपरि छिद्रं वारितं कूपादध उर- सोत्यागामिभाष्येण च उरःपर्यन्तत्वं कण्ठकूपस्य लप्सात तथा च जिह्वाधःस्थस्य तन्तो लादारभ्य उरःपर्यन्तं छिद्र कण्ठ कूपः कूपाकारं छिद्रसिति । तत्रेति। तस्मिन् प्रदेशे संयमादशेष. विशेषतः साक्षात्कृते सति क्षुत्पिपासानिवृत्तिरूपा सिद्धिर्भवती- विभूतिपादे योगवार्तिकम्। ३५७ त्यर्थः। एवंविधेषु च संयमेषु भावनाप्रकारो योगशास्त्र विशे- षात् गुरुमुखाच्च प्रत्येतव्यः ॥ ३० ॥ * कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥ * कूपादध उरसि कूर्माकारा नाड़ी, तस्यां कृतसंयमः स्थिरपद लभते, यथा सो गोधा वेति ॥ ३१॥ कूर्माकारति। कुण्डलितसर्पवत् अवस्थिततया कूर्माकार हृदयपुण्डरीकाख्यं नाडीचक्र' तब कृतसंयमो योगी स्थिरपद स्थिरां चित्तवृत्ति लभत इत्यर्थः। नाद्याः कुर्माकारत्वे दृष्टान्त- इयं यथा सो गोधा वेति कुण्डलित इति शेषः ॥ ३१ ॥ * मूईज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥ * शिरःकपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिः, तत्र संयमात् सिद्धानां द्यावापृथिव्योरन्तराल- चारिणां दर्शनम् ॥ ३२॥ शिर इति। शिरःकपालमध्ये ऽन्तश्छिद्र छिद्रस्यान्त: प्रभाखरं स्वप्रकाशक ज्योतिरस्तीत्यादिरथः । शिरः कपाल- मध्ये छिद्र प्रभास्वरत्वाज्जयोतिरिति प्रामादिकपाठेऽपि अय- मेवार्थो लक्षणया कार्यः । शेषं सुगमम् ॥ ३२ ॥ * प्रातिभाहा सर्वम् ॥ ३३ ॥ * प्रातिभं नाम तारकं, तद्विवेकजस्य ज्ञानस्य पूर्वरूपं, यथोदये प्रभा भास्करस्य तेन वा सर्व- - पातजलदर्शनम् । मेव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्ता- विति ॥ ३३ ॥ प्रातिभमिति। प्रातिभ स्वप्रतिभोस्थम् अनौपदेशिक ज्ञान संसारतरणोपायत्वात् तारकमिति। तारकं सर्वविषयमिति सूत्रे व्याख्यास्यते। तच्च विवेकजस्य वक्ष्यमाणस्य सार्वजस्य पूर्वलिङ्गम्। तत्र दृष्टान्तो यथा। सूर्योदयस्य पूर्वलिङ्गं प्रभेति तेन वा प्रातिभज्ञानेन सर्व पूर्वोक्तमतीतानागतादिसिद्धपर्यन्त योगी जानाति पूर्वोक्तान् संयमान् विनापौत्यर्थः। तेनेत्येत- हिवणोति। प्रातिभस्य ज्ञानस्योत्पत्ताविति । द्दारान्तरापेक्षा नास्तीति भावः । यद्यपि तारकं सर्वविषयमित्यागामिसूत्रे विवेकजज्ञानमेव प्रातिभं तारकं च व्याख्यास्यते तथाप्यत्र प्राति- भादिति हेतुत्ववचनात् विवेकजज्ञानस्य पूर्वरूपमेव लक्षणया प्रातिभं तारकं चेति व्याख्येयम् । ननु संयमसिद्धिमध्ये कथ प्रातिभज्ञानजा सिद्धिरुच्यत इति चेत्, न । प्रातिभस्यापि क्षण- तत्क्रमादिसंयमादिजन्यतया वक्ष्यमाणत्वेन उक्तसिद्धरपि पर- म्परया संयमसिद्धित्वादिति। संयमस्य क्षुद्रसिद्धय उक्ता इदानीं संयमस्य सत्त्वपुरुषान्यताख्यातिरूपां मुख्यां सिद्धिं विवक्षुरादौ तसंयमहेतुभूतायाश्चित्तसंविदः कारणमाह ॥ ३३ ॥ * हृदये चित्तसंवित् ॥ ३४ ॥ * यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीक वेश्म तत्र विज्ञानं तस्मिन् संयमाच्चित्तसंवित् ॥३४॥ हृदयपद व्याचष्टे। यदिदमिति। अस्मिन् ब्रह्मण: पर- मात्मनो जीवस्य च पुरे शरीरे यदिदं दहरं सगतं पुण्डरीका- विभूतिपादे योगवात्तिकम्। ३५८ कारं ब्रह्मणो वेश्म तत्र विज्ञानं विज्ञानहत्तिकमन्तःकरणं ब्रह्मणः सिंहासनकल्प तिष्ठति अतस्तस्मिन् हृदयाख्ये वेश्मनि संयमाञ्चित्तसाक्षात्कारो भवतीत्यर्थः। चित्ते जाते चित्तादिवे. केनात्मसाक्षात्कारो भवतीति क्रमानुसारेणाह ॥ ३४ ॥ प्रत्यया- * सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः विशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुष- ज्ञानम् ॥ ३५ ॥ * बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतं तम्माच्च सत्त्वात् परिणामिनोऽत्यन्त- विधर्मा शुद्धोऽन्यश्चितिमात्ररूपः पुरुषः, तयो- रत्यन्तासौर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य, दर्शितविषयत्वात्, स भोगप्रत्ययः सत्त्वस्य परा- र्थत्वाद् दृश्यः, यस्तु तस्मादिशिष्टश्चितिमावरूपो- ऽन्यः पौरुषेयः प्रत्ययस्तव संयमात् पुरुषविषया प्रज्ञा जायते, न च पुरुषप्रत्ययेन बुद्धिसत्त्वा- त्मना पुरुषो दृश्यते पुरुष एव प्रत्ययं खात्मा- वलम्बनं पश्यति, तथायुक्तं, "विज्ञातारमरे केन विजानीयादिति” ॥ ३५ ॥ मत्त्वाधिक्यात्सत्त्वं बुद्धिः । परार्थादिति पञ्चमी चान्यपद. मध्याहृत्य व्याकरिष्यति। तथाच बुद्धिपुरुषयोरत्यन्तविधर्मयो:

पातञ्जलदर्शनम् । प्रत्ययहयाविवेको भोगशब्दार्थः। तयोः प्रत्यययोर्मध्ये परार्था- दिवेकेन स्वार्थ पौरुषेयप्रत्यये संयमात् साक्षात्कृते सति स्वय- मेव पूर्णत्वाद्यशेषविशेषैः पुरुषस्य साक्षात्कारो भवति तादृश- संयमाभावेऽपोत्यर्थः । यद्यपि पौरुषेयः प्रत्ययः पुरुषातिरिक्तो न भवति तथापि दृश्योपरागण परिच्छिद्रोंऽश एव प्रत्ययः श्रोत्रादिवत् पुरुषस्त्वपरिच्छिन्नो महाकाशवत् इत्यनयोर्भेद इत्यतः प्रत्यये साक्षात्कारपर्यन्तसंयमस्यापरिच्छिन्नत्वाद्यंश- मात्राधिक्येन फलं पुरुषसाक्षात्कार उक्त इति। नन्वत्र सूत्रे भोगलक्षणस्य किं प्रयोजनमिति चेत् । उच्यते। भोगरूपे- णैव बुद्धिपुरुषधर्मयोरविवेकात् धर्मिणोः सायंमती भोगमध्य एव तद्धर्मयोविवेकाय संयम: कार्य इति प्रतिपादयितुम् अनेन सूत्रेण भोगोऽपि लक्षितः तदेतद्याख्यातुमादावत्यन्तशब्दस्याभि- प्रेतमर्थ प्रकटयति। बुद्धिसत्त्वमित्यादिना। अयमर्थः । न केवलं वाह्याद्याकारबुड्या सहासङ्कीर्णः पुरुषोऽपि तु यद् बुद्धि- सत्त्वं प्रख्याशीलतया समानसत्त्वाधीनवृत्तिके रजस्तमसी अभिभूय सत्त्वपुरुषान्यतासाक्षात्काररूपेण परिणतं भवति । तस्माच्च। तस्मादपि प्रकष्टज्ञानश्वर्यानन्दादिमयाह द्विसत्त्वा- दात्माकारतयात्मकल्पात् परिणामिनोऽत्यन्तविधर्मा पुरुषो विशुद्धः परिणामशून्योऽतोऽन्यशितिमात्ररूप इति । शब्दार्थ व्याख्याय भोगप्रतिपादक सूत्रांशं व्याचष्टे । तयोरिति । तयोबुद्धिपुरुषयोरत्यन्तविक रवि प्रत्ययाविशेष: प्रत्यययो- विविच्याग्रहणं भोगः । अहमदका प्रत्ययाविति यावत् । अयसप्यविवेको बुद्धिधम बात का व्यम् । तत्र बुद्धेः प्रत्ययः सुखादिमती विषयाद्याकारचितहतिः पुरुषस्य प्रत्ययो बुट्वि- हत्तिप्रतिविम्बावच्छिनचैतन्यांश: सुखाद्यात्मकशब्दाद्यनुभव- नामा। तयोरविवेके हेतुमाह। अत्यन्त- पुरुषस्य दर्शितविषयत्वा- विभूतिपादे योगवार्त्तिकम् । ३६१ दिति। यतो बुद्ध्या पुरुष प्रतिविम्बमर्पितं ततो जपास्फटि- कयोरिव धर्मसङ्खरापत्तेरविवेक इत्यर्थः । तथाच स्मयते शुहोऽप्यात्मातिसामीप्याट्टश्यधर्मान् पृथग्विधान् । कर्तृत्वभोक्तृत्वमुख्यान् मन्यते स्वान् स्ववीक्षितान् ॥ जीवो वहिरितीक्षित्वा स्फुटभिन्नानपि स्वतः । नेमान् वेत्त्यन्तरासवान् मुखसतां मसीमिव ॥ इति। स्फुटभिवानपि इमानर्थान् जीव ईक्षित्वा स्वस्मा- इहिरिति स न वेत्ति यत ईक्षणान्यथानुपपत्त्या स्वान्तरासन्नान् प्रतिविम्बितान्, तत्र दृष्टान्तो मुखलग्नां मसीमिवेत्यर्थः । परा- र्थादित्याद्युत्तराई संयमसिद्धिप्रदर्शकं व्याचष्टे। स भोगप्रत्यय इत्यादिना जायते इत्यन्तेन। सोऽविभागापन उभयात्मको भोगाख्यः प्रत्ययः सत्त्वस्यांशः परार्थत्वात् परप्रयोजनकत्वात् दृश्यः । यस्तु तस्मात् परार्थादन्यो विशिष्टः स्वार्थ: परस्य बुया- देरदृश्य: साक्षादृश्यश्च चैतन्यमानः पौरुषेयः पुरुषांशः प्रत्ययः भोगाख्यः तत्र यथोक्तविवेकेन संयमात्माक्षात्कारपर्यन्तात् पुरुष- माक्षात्कारो भवतीत्यर्थः । अत्रान्यपदाध्याहारः कृतः तदनेन सूत्रेण,भोगापवर्गौ अपि व्याख्यातो स्वयं च मुख्य एव भोगोऽवि- विक्तप्रत्ययहयात्मको लोकव्यवहारसिद्धः विवेकग्रहे सति परकी- यसुखादिसाक्षात्कार इव स्वीयसुखादिसाक्षात्कारेऽपि भोगव्यव- हारायोगात् सोऽयं भोगोऽविवेकप्राधान्येन कुत्रचित् बुहेरेवे- त्यपि उच्यते । तथा सोऽयं मोगोऽशभेदेनोभयोरव भवति । तत्रैव गौणो भोग: सांख्य प्रोक्त: 'चिदवसानो भोग' इति । सच पुरुषस्यैव न बुद्धेः पुरुषोऽस्ति भोक्तभावादिति सांख्यवाक्यात् । अन्यस्तु विपाकान्तर्गतो भोगः शब्दाद्याकारहत्तिः स च बुद्धेरेव तावेती भोगावौ बुद्धौ एव वर्तमानौ इति भाष्यात्। स हि तत्फलस्य भोक्तेति तत्र तत्र भाष्यकृता विपाकफलस्य सुख- ३१ - पातञ्जलदर्शनम्। टुःखादे गान्तरत्ववचनाच्चेति स्मर्त्तव्यम्। ननु पुरुषज्ञानं भव- तीत्युक्त तत् पुरुषज्ञानं किं बुद्धिसत्त्वस्य भवति, किं वा पुरु- षस्य भवति, आद्ये बुद्धेरपि चेतनत्वापत्तिः स्त्रोक्तपरादृश्यत्वा- नुपपत्तिश्च । तथा ते तं न पश्यन्ति स पश्यते तान् इत्यादि- वाक्यशतविरोधश्च । अन्त्ये स्वस्य स्वज्ञेयत्वेन कर्मकर्तविरोधः सदैव स्वज्ञानप्रसङ्गश्च । पुरुषस्य अपरिणामिचिन्मावत्वादिति तामिमामाशङ्कां परिहरति। न च पुरुषस्येति । पुरुषाकार- प्रत्ययेन बुद्धि तत्त्वधर्मेण पुरुषो न दृश्यते न भास्यते तस्य जड़- त्वात् । अपि तु पुरुष एव तं प्रत्ययं स्वस्वरूपाकारं पश्यति बुद्ध्यारूढ़मात्मानं पश्यतीत्यर्थः । स्वस्मिन् प्रतिविम्बितमिति शेषः । तथा च स्वप्रतिविम्बितस्वाकारबुद्धिवत्तिदर्शनमेव पुरुषस्य पुरुषज्ञानम्। यथा स्वप्रतिविम्बितघटाकारबुद्धिदर्शनमेव पुरु षस्य घटदर्शनमिति । न चात्र कर्मकर्तृविरोधः । कर्मकर्तृवि- रोधे हि स्वस्मिन् स्वसम्बन्धानुपपत्तिरेव वौज प्रकाशसम्बन्धस्यैव प्रकाश्यतारूपत्वात् । अनुभवप्रास्योरेकार्थत्वाच्च । स च सम्बन्ध एकस्मिन्नपि विम्बप्रतिविम्बाख्यरूपभेदेनोपपन्न इति। अथैव- मपि परसमवेतक्रियाफलभागित्वरूपं कर्मलक्षणं पुरुषे न घटत इति चेन्न। विशिष्टाविशिष्टरूपण ज्ञाज्ञेययोर्भदसत्त्वात् । आत्माकारवृत्त्यवच्छिन्नस्य ज्ञाटत्वात् केवलस्य ज्ञेयत्वात् । न च एवमेकवृत्त्यवच्छिन्त्रबुद्धेर्तृत्त्यन्तरावच्छिन्नबुद्धिग्नाह्यत्वसम्भवात् पुरुषकल्पना व्यर्थेति वाच्यम् । अनवस्थादिदोषैः सूत्रेण निरस्त- त्वादिति। यत्तु आधुनिकवेदान्तिब्रुवानुसारेण अस्मदीयोऽपि कश्चित् आत्मनो ज्ञेयत्वाभावमेव वदति तत् यथाश्रुतसूत्रभाष्य- विरोधात् उपेक्षणीयम् । स्वप्रकाशत्वं चात्मनः स्वज्ञेयत्वमेव 'चेत- नात्मा स्ववेदन' इत्यादिस्मृत्यनुसारात् । शब्दस्य योगार्थपरित्या- गानौचित्याच्च । बुद्ध्यादिजड़वर्गव्यावृत्तेस्तेनैव सम्भवाच्चेत्यादिक विभूतिपादे योगवार्तिकम् । ब्रह्ममीमांसायां प्रतिपादितमस्माभिः। यदपि वृत्तिव्याप्यत्व- मात्मनोऽभ्युपेत्य फलव्याप्यत्वं वेदान्तिब्रुवैरपलप्यते तदपि मोहा- देव फलव्याप्यत्वस्य सामान्यतो व्यवहारहेतुताया: क्ल तत्वेन चैतन्याख्यफलव्याप्यतां विना चैतन्यव्यवहारानुपपत्ते: । अन्यथा घटादिव्यवहारस्यापि वृत्तिव्याप्यत्वेनैवोपपत्तौ विश्वप्रकाशक- तया चैतन्यकल्पनावैयर्थ्यात् । 'यतो वाची निवर्तन्त अप्राप्य मनसा सह' इत्यादिवाक्यानि च लौकिकमन आदिवृत्त्यगोच- रत्वमेव प्रतिपादयन्ति। मनसैवानुद्रष्टव्यमित्यादित्य श्रुन्तरात् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति इत्या- दिश्रुत्या योगिमनोविषयत्वावगमाच्च । न तु फलव्याप्यत्वं निराकुर्वन्ति मन आदीनां जड़त्वेन फलानाधारत्वात् । फल विना शास्त्रादीनां ब्रह्मणि प्रमाणत्वादिदोषासम्भवादिति दिक् । पुरुषस्यैव स्वज्ञाटत्वमित्यत्र श्रुतिं प्रमाणयति। तथा हि उक्त- मिति। ईश्वरेणेति शेषः । आत्मा यदि न नित्यज्ञानरूप- स्तहि केन ज्ञानान्तरेण विज्ञातारमात्मानं लोको विजानीया- दित्यर्थः । यहा मोक्षकाले बुद्ध्यादिविलयात् केन करणेन तदानीं विज्ञातारमात्मानं पुरुषो विजानीयादित्यर्थः । अत्र हि श्रुतौ करणेन पुरुषस्यैव स्वज्ञेयत्वमवगम्यते । अज्ञेयत्वे च विज्ञातार को विजानीयादित्येव उच्यतेति । इयं श्रुतिः पुरुषस्य सर्वदैवा- जेयत्वं वदतीति कश्चित् तन्न । यतो न प्रेत्य संज्ञास्तीति पूर्व- वाक्ये याज्ञवल्क्य न मोक्षकाले ज्ञानस्वरूपोऽपि पुरुषो न जानातीत्युक्तम् अखिलदुःखभोगनिवृत्तिरूपपरमपुरुषार्थ मोक्षं प्रदर्शयितुम् । तत्र विरोधं दृष्ट्वा मूढ़ाया मैत्रेय्यास्तविरोधपरि- हारायैवेदं वाक्यं प्रवर्तते न तु पुरुषस्य अजेयत्वप्रदर्शनाय अप्रताभिधानप्रसङ्गादिति । ननु भवन्मतेऽपि पराज्ञेयत्वेन कथ मैत्रेय्या: शङ्का अपगच्छतौति चेन्न। 'यत्र त्वस्य सर्वमात्मैवा;

पातञ्जलदर्शनम् । भूत् तत्केन कं पश्येदिति पूर्वश्रुत्यैव विरोधस्य परिहतत्वात् । स्वयं ज्ञानस्वरूपोऽपि सर्वकरणविलयात् मोक्षकाले किमपि म विजानातीति तत्र च मैत्रेय्या कदाचिदाशयत मोक्षकाले- ऽनभिव्यक्त्या आत्मा ज्ञानवरूप एव मास्तु इति तत्रोत्तरं वाक्यं प्रवर्तते येनेदं सर्व विजानाति तं केन विजानीयात् विज्ञातार- मरे केन विजानीयादिति। आत्मा यदि ज्ञानखरूपो न भवति तविषयकज्ञानान्तरकल्पनेऽनवस्थादिकमिति श्रुतेराशयः । स्वा- र्थप्रत्ययसंयमेन पुरुषसाक्षात्कार जाते सति तल्लिङ्गरूपाणि विवे- कजज्ञानस्य च पूर्वरूपाणि प्रतिभाद्याः सिद्धयो भवन्ति ताश्च पुरुषैकाग्रतापरिपन्थित्वेन असम्प्रज्ञातयोगविघ्नभूता एवेति प्रतिपादयितुमादौ ता: प्रदर्शयति ॥ ३५ ॥ * ततः प्रातिभश्रावणवेदनादर्शीवादवार्ता जायन्ते ॥३६ ॥ * प्रातिभात्मूक्ष्मव्यवहितविप्रकृष्टातीतानागत- ज्ञानं, श्रावणाद् दिव्यशब्दश्रवणं, वेदनाद् दिव्यस्पर्शाधिगमः, आदर्शाद् दिव्यरूपसंविद्, आखादाद् दिव्यरससंविद, वार्तातो दिव्यगन्ध- विज्ञानम्, इत्येतानि नित्यं जायन्ते ॥ ३६ ॥ ततः पुरुषसाक्षात्कारात् मन आदीनां प्रातिभादिसंज्ञिकाः सिद्धयः सामर्थ्य विशेषरूपा भवन्ति यस्मात् सामर्थ्यात् मन आ- दिषु व्यवहितादिज्ञानं भवतीत्यर्थः । अत्र कश्चित्। तत इति तच्छब्देन पुरुषज्ञानं न परासश्यते। सद्दर्शनप्रत्यनीकत्वादि- व्यागामिसूत्रभाष्ये पुरुषदर्शनप्रतिबन्धकत्ववचनादपि तु स्वार्थ- संयम एव परामृश्यते तथा च पूर्वसूत्रोक्तसंयमस्यैवेदं पुरुषत्रा विभूतिपादे योगवार्त्तिकम् । नात् प्राक्तनं सिद्धान्तरमिति । तन्न। एकस्याः पुरुषज्ञानरूप- सिद्धे रुक्ततया चकाराद्यमावेन सिद्धान्तराकाझाविरहात् । पुरु- षज्ञानस्यैव मुख्यतयोपस्थितत्वेन परामर्शीचित्याच्च । अतस्तच्छ. ब्देनात्र पुरुषज्ञानस्यैव परामर्शः पुरुषसाक्षात्काररूपपुरुषैका- प्रताप्रत्यनौकतया तु भाष्यकारः प्रातिभादेरसम्प्रज्ञातसमाधी एवोपसर्गत्वं वक्ष्यतीति। प्रातिभादिशक्तीः स्वकार्येलक्षयति भाष्यकारः । प्रातिभादिति। प्रतिभा उपदेशादिनरपेक्ष्येण सूक्ष्मा- दीनां मानसं यथार्थ ज्ञानं तत्सामर्थ्य प्रातिभम् एवं श्रावणाद्यपि व्याख्येयम्। वेदनाद्यास्तु संज्ञाः त्वक्चारसनवाणानां सामhषु बोध्याः। नित्यमिति । कामनां विनापि जायन्त इत्यर्थः समाधी विघ्नरूपासु एतासु उतेक्षां कृत्वा पुरुषदर्शनाभ्यास एव कत्त व्य इत्येत् प्रतिपादयितुमाह ॥ ३६ ॥ * ते समाधावुपसगी व्युत्थाने सिद्धयः ॥३७॥ * ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसगाः तद्दर्शनप्रत्य नौकत्वाद, व्युत्थितचित्तस्य उत्पद्यमानाः सिद्धयः ॥ ३० ॥ ते प्रातिभादयः समाधिनिष्पत्ती असम्प्रज्ञातरूपायाम् उप- सर्गा अन्तराया अतो व्युत्थानापेक्षयैव एते सिद्धयः पुरुषार्था इत्यर्थः । भाष्ये तद्दशनति। तस्य समाहितस्य यद्दर्शनं पुरु- षकाया तत्प्रतिबन्धकवादित्यर्थः । तदवं ज्ञानादिरूपाः संय- मसिद्धोः प्रदश्य क्रियादिरूपा अपि विभूती: संयमफलान्याह सूत्रजातन ॥ ३७॥ * बन्धकारण शैथिल्यात् प्रचारसंवेदनाच चित्तस्य परशरीरावेशः ॥ ३८॥ * पातञ्जलदर्शनम्। लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्मा- शयवशाबन्धः प्रतिष्ठेत्यर्थः, तस्य कर्मणो बन्ध- कारणस्य शैथिल्यं समाधिबलाद भवति, प्रचार- संवेदनं च चित्तस्य समाधिजमेव, कर्मबन्धक्षयात् खचित्तस्य प्रचारसंवेदनाच्च योगी चित्तं स्वशरी- रान्निष्कृष्य शरीरान्तरेषु निक्षिपति, निक्षिप्तं चित्तं चेन्द्रियाण्यनु पतन्ति, यथा मधुकरराज मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनु- निविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्त- मनुविधीयन्त इति ॥ ३८ ॥ बन्धशब्दार्थमाह। लोलीभूतस्येति । चञ्चलखमावस्य अत एव अप्रतिष्ठस्यैकत्र अनवस्थितस्यापि मनसो धर्माधर्मवशादेव शरीर या प्रतिष्ठा ज्ञानहेतुः सम्बन्धविशेष: स बन्ध इत्यर्थः । संयमसिद्धित्वोपपादनायाह । तस्येति। तस्य कर्मण: शैथिल्यं भावनेन दृढ़बन्धनाक्षमता समाधिसामान्यबलाद्भवतीत्यर्थः। तथा च प्रागुक्त कर्मबन्धनानि श्लथयतीति । प्रचारैति । अनया नाड्या एवम्प्रकारेण चित्त शरीरे प्रविशति निर्गच्छति चेत्यादिविशेषै- श्चित्तगतिसाक्षात्कारः प्रचारसंवेदनम् । तदपि समाधिसामा- न्यादेव भवतीत्यर्थः। सूत्रवाक्यार्थमाह। कर्मेति। कर्मनिमि- त्तकस्य निर्गमप्रतिबन्धसंयोगविशेषस्य क्ष्यादित्यर्थः । शेषं सुग- मम् । योगशास्त्रोक्तसंयमविशेषेणोदानजया त्स दिमाह ॥ ३८ ॥ * उदानजयाज्जलपकण्ट शादिष्वसङ्ग उत्- क्रान्तिश्च ॥ २६ ॥ * ।

AU विभूतिपादे योगवार्त्तिकम्। ३६७ समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयो प्राणो मुखनासिकागतिरा- हृदयवृत्तिः, समं नयनात् समानश्चानाभिवृत्तिः, अपनयनादपान आपादतलवृत्तिः, उन्नयनादु- दान आशिरोवृत्तिः, व्यापी व्यान इति, तेषां प्रधानः प्राणः । उदानजयाज्जलपङ्ककण्टकादि- ष्वसङ्ग, उत्क्रान्तिश्च प्रयाणकाले भवति, तां वशित्वेन प्रतिपद्यते ॥ ३८ ॥ उदानं विवेचयितुं प्राणादीन् पञ्चैव स्वरूपतोऽवान्तरभेद- तश्च प्रतिपादयति। समस्तेति । जीवननाम्नी सर्वेन्द्रियाणां वृत्तिः प्राणनापाननादिरूपेत्यर्थः । अत्रेन्द्रियशब्दन स्थूलसूक्ष्मो- भयपरतया करणमात्रग्रहणम्। समस्तशब्दोऽपि सामान्य- वचन: सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्चेति सांख्ये दर्शनात्। तेन सुषुप्तौ चक्षुराद्युपरमेऽपि प्राणादिवत्तयो जीवन- योनियत्नवशादन्तःकरणस्यैव भवन्ति निद्रावृत्तिवदिति। न चैवं चित्तमात्रस्यैव लाघवात् प्राणादित्तिकत्वमस्तु इति वाच्यम्। चक्षुराद्युपचयापचयाभ्यां प्राणानामुपचयापचयदर्शनात् । अथवा सुषुप्तेऽपीन्द्रियाणां ज्ञानकमल जणवृत्त्वोरेव प्रतिषेधात् प्राण- नादिवत्तिसत्त्वेऽप्यक्षतिः। ना या ह्यवायुभिरन्तःप्राणानां समान- लक्षणत्वात् वायुसंस्थान विधा व प्राणाः सन्तु किमर्थं कर- णानामपि वायुतुल्यः मायादिः कपात इति चेन। 'प्राणा- च्छ्रहां खं वायु'रित्यादि वायाः प्राणकार्यत्वश्रवणात् 'न वायुक्रिये पृथगुपदेश। चूत्रे वायुतत्सञ्चाराभ्यामति- पातञ्जलदर्शनम्। रेकस्य प्राणेऽवधारणाच्च। श्रुतिस्मृत्यनुराहोता युक्तिश्चात्रास्ति यदि करणप्राणौ भिन्नौ स्यातां तदा करणवियोगेऽपि मृतदेहवत् कदाचित्पाणा अपि तिष्ठेरन्। किं चान्तःकरणस्य शोकादिना प्राणस्य कम्पादिदृश्यते तत्र लाघवात्सामानाधिकरण्येनैव कार्य- कारणभावो युक्तोऽन्यधर्मेणान्यपरिणामऽतिप्रसङ्गात् । अदृष्टकल्प- नापत्तेश्च । अपि च लिङ्गशरीरस्य देहशृङ्खलया बन्ध एव कर्मादीनां हेतुत्वं कल्पाते न तु वायुबन्धनेऽपि, गौरवात् । उगारादिवायूनां जीवदेहपरित्यागदर्शनाच्च वायुगतवैजात्यादिकल्पनायां चाति- गौरवादिति लिङ्गशरीरस्योोधःसञ्चारादुत्पद्यमानेन वायुना सहाविवेकात्तु तप्तायःपिण्डवप्राणेषु वायुव्यवहारः। अनेनैव व्यवहारण सांख्येऽपि प्राणाद्या वायवः पञ्चत्युक्तम् । अपिच श्रुतिस्मृत्योः करणप्राणयोः भेदव्यवहारो वृत्तिभेदादेव मन्तव्यः । ऊर्ध्वाधोगतिलक्षणाः करणानां परिणाममेदाः प्राणा इत्युच्यन्ते। तत्र च वायुरधिष्ठात्री देवता सूर्यश्चक्षुर्वात: प्राण इत्यादिश्रुतेः । ज्ञानादिहेतुपरिणामास्तु करणानि उच्यन्त इति विभागः । अतो देवतया सह अभेदादपि सूर्यश्चक्षुरितिवत् वायुः प्राण इति व्यवहारो युक्त इति। कश्चित्त अत्र प्राणादिजीवनशब्दाभ्यां प्राणनादिनामकवायुक्रियाविशेषहेतुः प्रयत्नभेद एवोक्तः स च करणनिष्ठ इति भाष्यार्थमाह । तन्न। विवरणभाष्ये प्राणादीनां गत्यादिवचनस्य विरोधात् अवापि सांख्यकारिकाब्रह्ममीमां- रोकवाक्यत्वौचित्यात् । वायोः प्राणत्वस्य क्वापि दर्शने सूत्रका रानुक्तत्वाच्च । अतएव च लिङ्गशरीरमध्ये प्राणा न गण्यन्त करणेऽप्रवेशादिति । तस्येति। तस्य करणसामान्यस्य साधा- रणी क्रिया पञ्चतयो क्रियोपलक्षितपरिणामभेदः पञ्चतय इत्यर्थः । समं नयनादिति । सममनुरूपं नाड़ीषु रसानां नयनात् स- मानः । अस्य च हृदयात्राभिपर्यन्तं वृत्तिः। अपेति। मूत्र- विभूतिपादे योगवार्त्तिकम् । पुरोषगर्भादीनामपसरणहेतुरपानः । अस्या नाभेः पादतलप- र्यन्त वृत्तिः। उन्नयनादिति। ऊर्ध्वगतिप्रदत्वात् रसायूद्ध नयनाच उदानः। अस्य च मुखनासिकादिकमारभ्य ब्रह्मर- न्धुपर्यन्त वृत्तिः। व्यापीति। सर्वदेहव्यापित्तिको बलवक महेतुक्नः । ननु सर्वेषां वृत्तिभेदात् कथ पञ्च प्राणा इत्यु- यन्ते तत्राह। एषामिति । प्राणो यदनाति पिकति तेनैव अन्येषां धारणं भवतीति कृत्वैतेषां प्राणो मुख्यः । अतो मुख्यस्य नामादिभिर्गौणानां व्यवहारो राजानुगतेषु राजव्यवहारवदिति भावः । तदेवमुदानं व्याख्याय सूत्र व्याचष्टे। उदानजया- उदानसंयमादन्यसंयमाहोदानवायोः स्वायत्ततायां सत्यां जलपङ्ककण्टकादीनाम् उपरि सञ्चरतोऽपि तेषु असङ्गो भवति तैर्विकारहेतुः संयोगो न भवति तथा अर्चिरादिमार्ग गमनाय स्वेच्छयोत्क्रान्तिर्भवतीत्यर्थः । प्रसङ्गादाह । तामिति । तामूईमुत्क्रान्तिमुदानवशित्वं विना न लभते इत्युदानजयी स्यादित्यर्थः ॥ ३८॥ * समानजयाज्ज्वलनम् ॥ ४० ॥ * जितसमानस्तेजस उपमानं कृत्वा ज्वलति दिति । क ॥ ४० ॥ संयमविशेषजात् समानजयात् ज्वलनं भवतीत्यर्थः । भाष्ये उपध्यानम् । उत्तेजनं कृत्वा ज्वलति सतीवत् स्वशरीरं दहती- त्यर्थः ॥ ४०॥ * श्रोबाकाशयोः सम्बन्धसंयमाद् दिव्य श्रोत्रम् ॥ ४१ ॥ * सर्वश्रोत्राणामाकाशं प्रतिष्ठा, सर्वशब्दानां पातञ्जलदर्शनम् । च। यथोक्तं "तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवति" इति। तच्चैतदाकाशस्य लिङ्गम्, अनावरणं चोक्तम् । तथा अमूर्त्तस्यानावरणदर्शना- विभुत्वमपि प्रख्यातमाकाशस्य, शब्दग्रहणानु- मितं श्रोत्रं. वधिरावधिरयोरेकः शब्दं गृह्णाति अपरो न गृह्णातीति तस्माच्छ्रोत्रमेव शब्दविष- यम् । श्रोत्राकाशयोः सम्बन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ॥ ४१ ॥ ॥ आदौ आकाशशब्दार्थ तत्र प्रमाणं च दर्शयति । सर्वचीत्रा- णामिति । यद्यपि इन्द्रियाणि आहङ्कारिकाणि एव न भौति- कानि इन्द्रियाणां प्रकाशात्मकतया प्रकाशात्मकान्तःकरणोपा- दानकत्वस्यैव औचित्यात् । तथापि आकाशाश्रिततया श्राका- शप्रतिष्ठत्वं यथा अन्नाश्रिततया मनसोऽन्नमयत्वमिति। एतेन अन्येषामपि इन्द्रियाणां भौतिकत्व श्रुतिस्मृत्युदितं व्याख्यातम् । तत्ततसंसृष्टतया इन्द्रियोत्पत्त्या तत्तद्भूतेभ्य एव तत्तदिन्द्रि- याभिव्यक्तः। अतएव दिगात्मकाकाशादीनि पृथिवीपर्य- न्तानि पञ्च श्रोत्रादिदेवा: श्रूयन्त इति। शब्दानां चाका- शोपादानत्वमेवास्ति तथा च श्रोत्रशब्दयोराश्रय आकाश- श्रोत्राणामाकाशाश्रयत्वे पूर्वाचार्यसम्मतिमाह। यथोक्तमिति। कालमेदेन तुल्यदेशानि श्रवणाख्यज्ञानानि येषां पुंसां तेषामेकश्रुतित्वमेकदेशावच्छिन्नथोत्रकत्वं तत्त- काले भवतीत्यर्थः । स च एको देश आकाशमेवेति भावः । आकाशे प्रमाणमम्याह । तच्चैतदिति। तच्चैतत् श्रोत्र शब्द मित्यर्थः ।

विभूतिपादे योगवार्त्तिकम्। ३७१ वाकाशस्य लिङ्गमनुमापकं न हि सूक्ष्ममिन्द्रियमनाश्चय स्थातुमर्हति गन्धवत् कर्णशष्कुली च न तस्याधारो लोकान्त- रगमनादिकाले कर्णशष्कुल्यभावात् कर्णविवरपिधानेऽपि शब्द- श्रवणप्रसङ्गाच्च। न च विवरपिधाने सति शब्दा एव श्रोत्रे च गच्छन्तीति वाच्यम्। भित्त्यादिवत् कर्णच्छिद्रस्थद्रव्याणामपि शब्दागमनाप्रतिबन्धकत्वात् । नापि शून्यमाधारः, अभावानभ्युप- गमात् । अभावस्य भावाधारवासम्भवाच्च। नापि कर्णशष्कु ल्य- वच्छिनः पुरुषादिराधारः, विवरपिधानऽपि तदवच्छेदन चैतन्या- द्यभिव्यक्त्या पुरुषादेरनावृत्ततया शब्दग्रहणप्रसङ्गात् । तस्मात् पिधानयोग्यमेकं द्रव्यं थोत्राधारतयापेक्षितं तच्च परिशेषात् कर्णशष्क ल्यवच्छिन्न नभ एव श्रोत्रगोलकतया सिध्यतौतिभावः । शब्दाधारतायामप्य वं परिशेषः कर्तव्यः। तथा हि अवकाशस्य शब्दकारणत्वं तावत् सर्वसिद्धम् अवकाशश्च न आवरणाभावमा- वम् अभावस्य भावानाधारत्वात् अन्यथा सर्ववस्तू नामभावमात्र- मूलकत्वापत्त:। नापि पुरुषादिः । तेषां स्वस्वव्यापारप्रच्यवेन अवकाशासम्भवात्। आवृतत्वाभिमतदेशेऽपि शब्दाद्युत्पत्ति- प्रसङ्गाच्च। नापि वायुः । द्रव्यान्तरपूरितेऽपि वेण्खादी वायु- संयोगेन शब्दप्रसङ्गात् । न च छिद्रवायुसंयोगोऽपि शब्दकारणं, तथा सति संयोगाधारतया छिद्रस्य द्रव्यत्वसिद्धौ तस्यैव शब्दा- श्रयत्वं युक्त शब्दोत्यत्तौ अवकाशस्यैवाधिक्येनोपयोगदर्शना- दिति। तस्मात् आवरणीयतया आकाशद्रव्यं सिध्यतीति। अनावरणं च आकाशस्य लिङ्ग पूर्वाचार्यरु तमित्याह। अना- वरणं चेति । अनावरणमवकाशः। यदि हि अवकाशरूपमा- काशं न स्यात् तदा मूत्त द्रव्येषु स्थाल्यादिषु अन्तस्तेजश्रादि- प्रवेशो न स्यात्। अथाभाव एव अवकाशस्तहि अभावस्य भावाश्रितत्वनियमन आकाशसिद्धेः। अस्माभिरभावानभ्युप- ३७२ पातञ्जलदर्शनम् । गमाच्च । आत्मादिश्च अवकाशो न सम्भवति आवरणासम्भवा- दित्युक्तमिति। आकाशस्य विभुत्वमपि प्रसङ्गात् साधयति। तथेति। मूर्त त्वं परिच्छिन्नत्वम् अनावरणमनावृतत्वम् अस- मानदेशत्वमिति यावत् । तथा च अन्यत्र पृथिवीजलादिस्थले मूर्त स्य परिच्छिबस्य मूर्त्तान्तरासमानदेशत्वदर्शनात् घटादि- समानदेशकस्य आकाशस्य विभुत्वं सिध्यति आकाशस्य परि- च्छिन्नत्वे मूर्तयोः समानदेशताविरोधादित्यर्थः । क्वाचित्कस्तु तथामूर्त स्यापोति अपिशब्दः प्रामादिकोऽर्थासम्भवात् । आका- शस्य विभुत्वे च 'आकाशवत् सर्वगतश्च नित्य' इति श्रुत्यादयः प्रमाणमिति। ननु आकाशस्य विभुत्वे कथं कार्यत्वं घटते कथं वा आगामिभाष्येऽपि आकाशपरमाणुकथनमिति चेत् । उच्यते । आकाशं हि अन्तःकरणवत् वैशेषिकाणां पृथिव्यादिवत् कार्य- कारणरूपेण विविधं तत्र कारणाकाशं तमोगुणविशेषतयैव व्यवयिते तदानोमाकाशताव्यञ्जकशब्दादिविशेषगुणाभावात् कारण पृथिव्यादित् तच्च कारणाकाशं गुणान्तरोऽयमृद्धे सत् अंशत आदौ शब्दजननयोग्यार्थरूपेण परिणमते क्षीराब्धिरिवा- मृतमथनेऽ'शतो दधिरूपेण ततश्च अणुसकातेन पृथिवीवदेव महाभूताकाशमहङ्कारापेक्षया परिच्छिन्नं वायोरावरणम् उत्पद्यते इति । एतेन अन्त:करणोत्पत्तिरपि व्याख्याता इत्थमपि श्रुति. स्मृतिप्रसिद्ध प्रकृते कार्यकारणरूपत्वमवगन्तव्यम्। आकाश प्रसाध्य श्रोत्रे प्रमाणं दर्शयति। शब्दग्रहणानुमितमिति । तदेव विवृणोति । वधिरति । एतेन चक्षुरादिषु अन्वयव्यतिरेको प्रमाणमिति सूचितम्। अन्तःकरणे तु स्मृत्याद्यन्वयव्यतिरेको प्रमाणमिति । इदानीं सूत्रं योजयति। श्रोत्रेति । सम्बन्धश्च अस्माभिर्व्याख्यातः । उपलक्षणं चैतत् त्वग्वातयोश्चक्षुस्तेजसो रक्षनोदकयोाणवृथिव्योः सम्बन्धसंयमाहिव्यं त्वगादीत्यपि बो- - विभूतिपादे योगवार्तिकम्। ३७३ ध्यम् । दिव्यत्वं च तन्मात्रादिसूक्ष्मगोचरसंयमनरपेक्ष्येण स्व- भावादेव तन्मानादिरूपसूक्ष्मशब्दादिग्राहकत्वमिति ॥ ४१॥ * कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमा- पत्तश्चाकाशगमनम् ॥ ४२ ॥ * यत्र कायस्तत्र आकाशं तस्य अवकाश- दानात् कायस्य, तेन सम्बन्धः प्राप्तिः, तत्र कृत- संयमो जित्वा तत्सम्बन्धं लघुषु वा तूलादिषु आपरिमाणुभ्यः समापत्ति लब्धा जितसम्बन्धी लघुः, लघुत्वाच्च जले पादाभ्यां विहरति, तत- स्तूर्णनाभितन्तुमावे विहृत्य रश्मिषु विहरति, ततो यथेष्टमाकाशगतिः अस्य भवतीति ॥ ४२ ॥ चकारोऽत्र विकल्पार्थक: । कीदृशः सम्बन्ध इत्याकाझाया- माह। यत्रेति । यत्र शासनादौ शरीरं तिष्ठति तत्र शरीरावच्छे- देनापि आकाशं तिष्ठति। तत्र हेतुः तस्य आकाशस्यावकाशदा- ढत्वादिति, अतः कायस्य आकाशेन सम्बन्ध: प्राप्तिरूपो व्याप- नमिति यावत् इत्यर्थः । तत्रति। तत्र सम्बन्धे तसंयमः तत्स- म्बन्धं जित्वा साक्षात्कारेण स्वेच्छाधीनं कृत्वा लघु मवतीत्यागा- मिनान्वयो भविष्यति । द्वितीयहेतु व्याचष्टे । लघुषु वा इत्या- दिना जितसम्बन्ध इत्यन्तेन । समापनि तत्स्थतदञ्जनतां जित- मम्बन्धः स्वायत्तीक़तकायाकाशसम्बन्ध इत्यर्थः । आकाशगती उपाययमाधारणं क्रममा ह । लघुरित्यादिना। प्रथमं लघु- भवति । ततो लघुतया जले पृथिव्यामिव पद्धयां सञ्चरतीत्वादिः क्रम इत्यर्थः । सुगममन्यत् ॥ ४२ ॥ ३२ ।

३७४ पातञ्जलदर्शनम् । * वहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः॥४३॥ * शरीरात् वहिर्मनसो वृत्तिलाभो विदेहा नाम धारणा, सा यदि शरीरप्रतिष्ठस्य मनसो वहित्तिमात्रेण भवति सा कल्पिता इति उच्यते, या तु शरीरनिरपेक्षा वहिर्भूतस्यैव मनसो वहित्तिः सा खलु अकल्पिता, तत्र कल्पितया साधयति अकल्पितां महाविदेहामिति, यया परशरीराणि आविशन्ति योगिनः, ततश्च धार- णातः प्रकाशात्मनो बुड्विसत्त्वस्य यदावरणं क्लेश- कर्मविपाकवयं रजस्तमोमूलं तस्य च क्षयो भवति ॥ ४३॥ योगशास्त्रोक्तसंयमविशेषात् वक्ष्यमाणा वहिरकल्पिता वृत्तिमहाविदेहाख्या सिद्धिर्भवति। ततश्च सत्त्वप्रकाशावरणभङ्ग इत्यर्थः। महाविदेहां व्याख्यातुमादौ सामान्यविदेहामाह। शरीरादिति। मनसो वहित्तिलाभोऽत्र स्वशरीरस्येव वहि- वस्तूनां सङ्कल्पादिवशता सा च वहिरधिष्ठानरूपा धारणा विदेहासामान्यमित्यर्थः। धारणेति च तान्त्रिको संज्ञा तस्या अवान्तरभेदमाह । सा यदीति। शरीरनिरपेक्षेति त्यक्तशरीरे- त्यर्थः। अनयापि परशरीरावशो लिङ्गदेदहस्य भवतोति प्रस- ङ्गादाह । ययेति । तत इत्यादि सूत्रावयवं व्याचष्टे । ततश्चेति । ल शेति। ल शाश्च कर्मच विपाकत्रयं च यद्रजस्तमीमूलकं सत्त्व स्थावरकं तस्य च समूलस्य क्षयो भवतीत्यर्थः । तेषां क्षये च विभूतिपादे योगवाति कम्। ३७५ निरावरणं योगिन: चित्त खेच्छया विहरति विजानाति चेति, चशब्दः स्वोक्त परशरीरावेशं समुच्चिनोति । तदेवं परिणामत्रय- संयमादित्यारभ्योच्चावचविषयकसंयमानां जानक्रियारूपाः सिद्धय उक्ता इदानी वितर्कविचारेत्यादिसूत्र : स्वशास्त्र मुख्यतः प्रकृतेषु ग्रहीग्रहणग्राह्येषु ये संयमास्तेषां सिद्दयो वक्तव्याः तत्र ग्रही- ग्रहणयोः ग्राह्यनिरूप्यत्वादादौ ग्राह्यविषयकसंयमस्य सिद्धिमाह ॥४३॥ * स्थूलखरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूत- जयः॥४४॥* तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहा- कारादिभिर्धमैः स्थूलशब्देन परिभाषिताः, एतद् भूतानां प्रथमं रूपम्। द्वितीयं रूपं स्वसामा- न्यम्, मूर्तिभूमिः, स्नेहो जलं, वह्निरूष्णता, वायुः प्रणामी, सर्वतो गतिराकाश इति, एतत् स्वरूप- शब्देन उच्यते, अस्य सामान्यस्य शब्दादयो विशेषाः। तथा चोक्तम् “एकजातिसमन्विता- नामेषां धर्ममात्रव्यावृत्तिः” इति। सामान्य- विशेषसमुदायोऽत्र द्रव्यं, द्विष्ठी हि समूहः प्रत्य- स्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वन- मिति। शब्देनोपात्तभेदावयवानुगत: समूहः उभये देवमनुष्याः, समूहस्य देवा एको भागो मनुष्या हितीयो भागः, ताभ्यामेव अभिधीयते

पातन्त्रलदर्शनम् ।
समूहः । स च भेदाभेदविवक्षितः, आमा
वनं ब्राह्मणानां सङ्घः,
आम्रवनं ब्राह्मणसङ्घ
इति, स पुनर्दिविधो युतसिद्धावयवोऽयुतसिद्धा-
वयवश्च, युतसिद्धावयवः समूहो वनं सङ्घ इति,
अयुतसिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणु-
रिति । अयुतसिद्धावयवभेदानुगतः समूहो ट्रव्य-
मिति पतञ्जलिः, एतत्खरूपमित्युक्तम् । अथ
किमेषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैको-
ऽवयवः परमाणुः सामान्यविशेषात्मायुतसिद्धा-
वयवभेदानुगतः समुदाय इति, एवं सर्वतन्मा-
वाणि, एतत्तृतीयम्। अथ भूतानां चतुर्थं रूपं
ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानु-
पातिनोऽन्वयशब्देन उक्ताः। अथैषां पञ्चमं
रूपमर्थवत्त्वं, भोगापवर्गार्थता गुणेषु अन्वयिनी
गुणास्तन्मावभूतभौतिकेषु इति सर्वमर्थवत् ।
तेषु इदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात्तस्य
तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति, तत्र
पञ्च भूतखरूपाणि जित्वा भूतजयी भवति,
तज्जयाट् वत्मानुसारिण्य व गावोऽस्य सङ्क-
ल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥

विभूतिपादे योगवार्तिकम्। ३७७ स्थूलं च स्वरूपं च सूक्ष्म च अन्वयश्च अर्थवत्त्व चेति स्थूल- खरूपसूक्ष्मान्वयार्थवत्त्वानि तेषु संयमात् साक्षात्कारपर्यन्तात् तत्तद्रूपाणां जयो वशवर्त्तिता भवतीत्यर्थः। स्थूलं व्याचष्टे । तत्रेति। सामान्य विशेषसमूहरूपाणां पृथिव्यादिपञ्चभूतानाम् एकदेशा: शब्दादयो विशेषाः धर्मधर्म्यभेदाः तदन्तः पदार्था वक्ष्यमाणैराकारादिधर्मः सह स्थूलशब्देन शास्त्रे परिभाषिता इत्यर्थः । तन्मात्रव्यावर्तनाय विशेषपदं, ते च विशेषा: षड्- जगान्धारादयः शीतोष्णादयो नौलपीतादयो मधुराम्लादयः सुरभिदुर्गन्धादयश्चेति । एते हि नामकर्मभिरवान्तरं विभज्यन्त इति विशेषाः । आकारादयश्च धर्मा पृथिव्यादीनां क्रमेण शास्त्र परिपठिताः। यथा आकारो गौरवं शैक्ष्य वरणं स्थैर्य मेव च । वृत्तिर्भेदः क्षमा काश्यं काठिन्यं सर्वभोग्यता ॥ नेहः सौक्ष्मा प्रभा शोला मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं सन्धानं चोदका गुणाः ॥ अङ्घ भाक् पाचकं दग्ध पावकं लघु भास्वरम् । प्रध्वस्योजस्वि वै तेजः पूर्वाभ्यो भिन्नलक्षणम् ॥ तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता रोक्ष्यं वायोधर्माः पृथग्विधाः ॥ सर्वतोगतिरव्यूहोऽविष्टम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याता पूर्वपूर्वविलक्षणा: ॥ इति। आकारोऽवयवसंस्थानं वृत्ति: सर्वभूताधारता मेदो विदारणं क्षमा सहिष्णुता धारणं सामर्थ्य मिति यावत् । रक्षा आवरणादिना रक्षकत्वम् आक्षेपः पातनं सर्वतोगतिविभुत्वम् अव्यूहः सर्वपदार्थानां प्रविरलीकरणम् अविष्टम्भोऽवकाश इति । प्रथमं रूपमिति। सूत्रोक्तं पञ्चरूपेष्वाद्य रूपमित्यर्थः । स्थूल पातञ्जलदर्शनम्। व्याख्याय स्वरूपं व्याचष्टे। द्वितीयं रूपमिति । स्वसामान्यं स्वस्वसामान्यमिति साधारणं लक्षणम्। कस्य किं सामान्य तद्दर्शयति। मूतिर्ममिरित्यादिना। मूर्तिः सांसिद्धिकं काठिन्यं ताझ्या पृथिवीत्वजाति: कार्यरूपेणाकाशस्यापि अनेकत्वादिति। अत्र सामान्यविशेषयोरभेदप्रतिपादनाय मूर्तिभूमिरित्याद्यमेद- निर्देशः कस्य विशेषस्येद सामान्यमित्याकाङ्क्षायामाह। अस्येति । शब्दादय: पूर्वोक्ता: स्थूलतारमन्दादिमेदेन सामा- न्यस्य जातेरेकदेशाद्यावर्तकतया विशेषा इत्यर्थः। अत्र पूर्वा- चार्यसंवादमाह। तथा चोक्तमिति । एकजातिसमन्विता- नामषां पृथिव्यादीनां शब्दादिधर्ममात्रेण व्यावृत्तिः सजाती- यान्तरादित्यर्थः । एकजातिसमन्वितानामिति। समूहे समू- हित्यभिप्रायेण प्रयोगः। यत्तु वैशेषिका: सामान्यविशेषयो- राश्रयमेव द्रव्यं मन्यन्ते न तु तयोरभेदमपि, तन्मतादिविय खसिद्धान्तमाह। सामान्येति। अत्र दर्शने सामान्य विशेषयोः समूहो द्रव्यम् अतिरिक्तावयव्यभ्युपगमेऽपि तयोरभेदस्यापि अभ्युपगमात् । अन्यथा घटो मृत् तन्तुः पट: शुक्लः पट इत्या- द्यमेदप्रत्ययानुपपत्तेरित्यर्थः । ननु समूहमात्रस्य द्रव्यत्वे वन- स्याप्येकद्रव्यत्वापत्तिरित्याशङ्कां परिहर्तुमादौ समूहस्य हैविध्य- माह। विष्ठो होति। दाभ्यां प्रकाराभ्यां तिष्ठतीति विष्ठः । तत्रैक प्रकारमाह। प्रत्यस्तमितेति । प्रत्यस्तमित: शब्देनानु- पस्थापितो भेदोऽवान्तरविभागो बेषामवयवानां तादृशेषु अवय वेषु अनुगत इत्यर्थः। तस्योदाहरणचतुष्कमाह । शरीरमिति । आद्य हयमेकद्रव्यरूपस्य समूहस्योदाहरणमन्त्यहयमनेकद्रव्य- रूपसमूहस्येति भेदः । यूथादौ च विशिष्ट स्थातिरिक्तवाभिप्राये- शणावयवानुगतत्वमुपपादनीयम्। द्वितीयं समूहस्य प्रकारमाह ब्द नोपात्तेति । अस्योदाहरणम् उभयेति। अत्रोभयशब्द। - - विभूतिपादे योगवार्त्तिकम्। ३७८ वाच्यस्य समूहस्यावान्तरभेदौ देवमनुष्यशब्दाभ्यामुपात्ती बहु- वचनाभ्यां च तयोरप्यनेकभेदा उपात्ता इति शब्द नोपात्तभेदत्वं सङ्घपात् स्वयमाह। समूहरूपस्य देवा इति । भागो मेदः, ताभ्यां भेदाभ्याम् । स चेति । स च विविधोऽपि समूहो भेदा- भेदाभ्यां प्रयोक्तृभिर्विवक्षितो भवति, आम्राणां वनमिति षष्ठया भेदेन आम्रवणमिति च कर्मधारयादभेदेन विवक्षा। एवमन्च- नापि, तथाच समूहसमूहिनोभेदाभेदौ स्त इति प्रतिपादितम् । स पुनरिति। स विविधोऽपि समूहः पुनहिविधो भवति। हैविध्य- भवाह। युतेति । हालिकादिष्वपि संयुक्ततया सम्बद्धतया सिद्धा अवयवा यस्य समूहस्य यूथवनादे: स तथा। अयुतेति । अयुत- सिद्धावयव: समूहः सङ्घातस्तस्य विवरणं शरीरमित्यादि। लौकिकेष्वसंयुततया एकोभावेनैव सिद्धा अवयवा यस्य समूहस्य शरीरवृक्षादेः स तथेत्यर्थः । परमाणुरिति। परमाणनामपि पञ्चचतुरादितन्मात्रासमूहताया वक्ष्यमाणत्वादिति भावः । तदेवं समूहभेदान् प्रदर्श्य तेष्ववयविद्रव्यरूपं समूहं विशिष्यावधार- यति। अयुतेति। संयोगविशेषावच्छिन्नेष्ववयवविशेषषु अनु- गतः सामान्यविशेषसमूहोऽवयव्याख्यं द्रव्यमित्यर्थः । अवयव- साधारणं तु सामान्यतो द्रव्यलक्षणं सामान्यविशेषसमुदायत्व- मात्रमिति, उपसंहरति। एतत्स्वरूपनिचुक्तमिति। एतत्सा- मान्य स्वरूपशब्द न परिभाषितमित्यर्थः । स्वरूपपरिभाषा च स्थिरतामात्रेण विशेषा हि आगमापायितया न द्रव्यस्य स्वरूपा- णोति। यत्त पूर्वपादे स्थूलखरूपे एकीकत्यावयविद्रव्यमेव वितर्कानुगतयोगस्य विषयः स्थू मित्युक्तं तलौकिकस्थूलव्यव- हारानुसारण। अत्र तु तान्त्रिक व्यवहारेण तस्यैव हिधा विभागः। एवमेव विचारानुन तविषयस्य सूक्ष्मस्यैवात्र सूक्ष्मा- दित्रैविध्य वक्ष्यतीति द्रष्टव्यम्। स्वरूपं व्याख्याय सूक्ष्म ३८० पातञ्जलदशनम् । । व्याख्यातु पृच्छति। अथेति। एषां भूतानाम् । उत्तरं, तन्मात्रमिति। तत्र सूक्ष्मपरिभाषावीजमाह । भूतकारण- मिति। साक्षात्कारणत्वमेव हि सूक्ष्मत्वमत्र विवक्षितमित्या- शयः। भूतकारणत्वप्रकारं दर्शयति । तस्येति । तस्य भूतस्य एकश्चरमोऽवयव: परमाणु: सोऽपि च घटादिवदेव सावयवः। अन्यथा स्थूलत्वानुपपत्तः। शान्तघोरमूढत्वरूप- विशेषानुपपत्तश्च इत्येवमित्यतः सर्वतमावाणि एव भूतकार णानि अवयवान्तरासम्भवादित्यर्थः । उपसंहरति। एतत्तृतीय- मिति । एतत्तन्मात्र तोयं भूतानां रूपमित्यर्थः। अन्वयाख्यं चतुर्थ रूपं व्याचष्टे । अथेति। अथानन्तरमुच्यत इति शेषः । विविधा गुणा एवान्वयशब्देनोक्ताः तत्र हेतुः कार्यस्वभावानुपा- तिन इति। कार्य रूपो यः स्वीयो भावः स्वात्मकः पदार्थः तत्र अनुगता अतोऽन्वया इत्यर्थः । ननु भूतेषु प्रख्याशीलस्य सत्त्व- स्यानुगमे किं प्रमाणमिति चेत् 'अन्नमयं हि सौम्य मन' इत्या- दिश्रुतयोऽन्वयव्यतिरेको चेति प्रतीहि। प्रशाशात्मकतया सा- त्त्विकानि हि मनश्चक्षुरादीनि अबरसाद्युपचयापचयाभ्यामुप- चयापचयवन्ति दृश्यन्ते अतः पृथिव्यादिभूतेषु मनादिकं तदुप- टनकसत्त्वं वा अनुगतमित्युबीयत इति। पञ्चमं रूपमाह । अथैषामिति । गुणेषु वर्तमानं यशोगापवर्गजातं भोगविवेकख्या- तिरूपं तदेव पञ्चमं रूपमर्थवत्त्वाख्यमित्यर्थः । नन्व वं गुणेषु वर्तमानमर्थवत्त्वं कथं भूतानां रूपं स्यात् तत्राह । गुणास्तन्मा वेति। ननु भोगापवर्गों शब्दाद्युपलब्धिविवेकख्याती ते चान्तः- करण एव वर्तते न साक्षादगुणेषु इति चेन्न अनागतावस्थया वासनारूपेण वा तयोरपि प्रलयकाले गुणेषु एवावस्थानात् का- रणक्रमेणैव कार्येषु अनुगतयोरभिव्यक्तरिति। पञ्चरूपाणि व्याख्याय सूत्रवाक्यार्थमाह । तेविति। इदानीं भूतेषु इदानी- विभूतिपादे योगवार्तिकम्। ३८१ - मुत्पत्रेषु इदानीन्तनेषु स्थूलभूतेषु इत्यर्थः । तन्मात्रादिषु पञ्च- रूपत्वाभावात् इदानीं भूतेषु इत्युक्तं स्वरूपदर्शनं च संयमस्य जयहेतुत्वे हारमुक्तं जयो वशीकारः। तत्र पञ्चेति। एकैक- मात्रजये हि गौणो मूतजयः सामग्रेण अजयादिति भावः । वशीकारमेव कार्य द्वारा लक्ष्यति । तज्जयादिति। भूतप्रक्ली- तयो भूतकारणानि विगुणतत्स्थपुरुषार्थपर्यन्तानीत्यर्थः, न तु तन्मात्राण्येव केवलानि गुणपुरुषार्थयोरपि संयमेन साक्षात्कृत- त्वादिति। भूतजयस्य फलं प्रतिपादयति ॥ ४४ ॥ * ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मा- नभिघातश्च ॥ ४५ ॥ * तत्र अणिमा भवति अणुः, लघिमा लघु- र्भवति, महिमा महान् भवति, प्राप्तिः अङ्गुल्य- ग्रेणापि स्पेशति चन्द्रमसम्, प्राकाम्यम् इच्छान. भिघातो, भूमावुन्मज्जति निमज्जति यथोदके, वशित्वं भूतभौतिकेषु वशीभवति, अवश्यश्चा ऽन्येषाम्, ईशित्वं तेषां प्रभवाप्ययव्यूहानामौष्टे, यत्र कामावसायित्वं सत्यसङ्कल्पता, यथा सङ्क- ल्पस्तथा भूतप्रकृतीनामवस्थानं, न च शक्तोऽपि पदार्थविपर्यासं करोति ; कस्मात्, अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु सङ्क- ल्पादिति, एतानि अष्टौ ऐश्वर्याणि। काय- सम्पद वक्ष्यमाणा। तबमानभिघातश्च पृथ्वी ३८२ पातञ्जलदर्शनम् । मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुप्रविशतीति, नाप: स्निग्धाः लोद- यन्ति, नाग्निरुणो दहति, न वायुः प्रणामी वहति, अनावरणात्मकेऽपि आकाशे भवति आवृतकायः, सिद्धानामपि अदृश्यो भवति ॥४५॥ तत्र त्रिषु मध्ये, अणिमाद्यष्टसिद्दीयाचष्टे । अणिमेति । खेच्छया यदणुपरिमाणशरीरो भवति तदणिमा। सङ्कल्पमा- वेण तत्क्षणादेव अवयवापचयेन सौक्ष्मा देहस्य भवति, भूत- प्रतिवशित्वादिति। एवं सर्वत्र अणिमाद्याश्च शास्त्रे गणिताः । अणिमा महिमा चैव लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्य श्रुतदृष्टेषु शक्तिप्रेरणमौशिता ॥ गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति । इति । लघिमानमाह। लघरिति । गुरुतरशरीरोऽपि ईषौकातूलवल्लघुर्भवतीत्यर्थः । स्पृशतीति। भूमिष्ठ एवेति शेषः । अवयवोपचयेनाङ्गलिदैादिति । एताश्चतस्रः स्थूलसंयमसि- इयः । स्वरूपसंयमस्य सिद्धिमाह। प्राकाम्यमिति। इच्छान- भिघात इति । सत्यामिच्छायां नास्य रूपं भूतस्य रूपैमूर्त्या- दिभिर्विहन्यते, भूतस्वरूपाणां जितत्वादित्यर्थः। तस्योदाहरणं भूमाविति। उन्मज्जति जलमिव भूमिमुद्भिद्योत्तिष्ठति निम- जति जल इव भूमौ प्रविशति चेत्येवमादिः प्राकाम्यमित्यर्थः । सूक्ष्मसंयमस्य सिद्धिमाह। वशित्वमिति। मूतभौतिकेष्विति । भूतेषु व्यष्टिषु भौतिकेषु तत्कार्येषु समष्टिमहाभूतेषु ब्रह्माण्डा- दिषु चेति व्याख्येयम् । जगद्यापारवर्जमिति वेदान्तसूत्रेण सिद्धेषु आदिसर्गसामर्थ्याभाववचनादिति । वशीभवति खेच्छया विभूतिपाद योगवार्तिकम्। ३८३ परिणामने समर्थो भवति तत्कारणतन्मात्रविजयात् । तथा तेषा- मवश्योऽपि भवति । रागादित्यर्थः । अन्वयसंयमस्य सिद्धिमाह। ईशित्वमिति। तेषामिति। तेषां भूतानां तन्मात्रहारकोत्पत्ति- विनाशयोयूं हाख्यसंस्थानविशेषे च समर्थो भवति भूतानां मूल प्रकृतिविजयादित्यर्थः। अर्थवत्त्वसंयमस्य सिद्धिमाह। यत्रेति । यत्र कामावसायित्वमिति। तान्त्रिकी परिभाषा पुराणेष्वपि एवमवगमात् । भूतप्रक्लतीनां गुणतन्मात्रादीनामवस्थानं परि- णामविशेषः । विजितार्थसम्बन्धी हि योगी यद्यदर्थतया यट्- यहस्तु सङ्कल्पयति तत्तवस्तु तदर्थकमेव भवति विषमपि अमृ- तस्थार्थ सङ्कल्प्य भोजयन् जीवलोकं सुखाकरोतीति। नन्वे वं योगी जलमपि तेजः कुर्यात् धर्ममपि अधर्म कुर्यात् इति अव्यवस्थैव स्यादित्याशङ्कयाह । न च शक्तोऽपीति । पूर्वपूर्वयो- गिव्यवहारानुसारेणैव योगी व्यवहरति अन्यथा तुल्यबलविरो- धेन व्यवहारासम्भवात्। विरोधमेव दर्शयति। अन्यस्येति । पूर्वेषां तथाभूतेषु यथादृष्टेषु एव सवल्यादिति वाक्यार्थः । तथा च श्रुतिः। 'धाता यथापूर्वमकल्पयदिति । स्वनियमपालनार्थ- मन्तर्यामिणा तथैव सिद्धः प्रेर्यत इति द्रष्टव्यम् । उपसंहरति । इत्यष्टी ऐश्वर्याणीति। अणिमाद्यष्टसिद्धिव्याख्यापूरणायैव प्रा- काम्यमत्र भाष्यकारैः कथितं न तु अत्र सूत्रे प्राकाम्यमणिमा- दिमध्य विवक्षितं तद्धर्मानभिघात इत्यनेनैव प्राकाम्यग्रहणेन पोनरुक्त्यापत्ते रिति। कायसंयमादित्यादि सुगम, प्रसिदत्वात् सिद्धिदयविवेचनानपेक्षया केवलां कायसम्पदं सूत्रकारो वित- णोति ॥ ४५ ॥ * रूपलावण्यबलवचसंहननत्वानि सम्पद ॥ ४६ ॥ * काय-

३८४
पातञ्जलदर्शनम् ।
दर्शनीयः कान्तिमान् अतिशयबलो वज-
संहननश्चेति ॥ ४६ ॥
वज्रस्येव संहननं प्रहारो यस्येति वज्जवविविडो दृढ;
सङ्घातो यस्येति वा वज्रसंहननः । भाष्यं सुगमम् । ग्राह्य-
संयमस्य सिद्धय उक्ताः। ग्रहणसंयमस्य सिद्धौराह॥ ४६॥
* ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादि-
न्द्रियजयः ॥ ४७॥ *
सामान्यविशेषात्मा शब्दादिर्गाह्यः, तेषु
इन्द्रियाणां वृत्तिग्रहणं, न च तत्सामान्यमाव-
ग्रहणाकारं कथमनालोचितः स विषयविशेष
इन्द्रियेण मनसा अनुव्यवसौयेतेति। खरूपं पुनः
प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोर-
युतसिद्धावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम्।
तेषां तृतीयं रुपमस्मितालक्षणोऽहङ्कारः, तस्य
सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थ रूपं
व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः,
येषामिन्द्रियाणि साहकाराणि परिणामः ।
पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थ वत्त्वमिति ।
पञ्चमु एतेषु इन्द्रियरूपेषु यथाक्रमं संयमः
तत्र तत्र जयं कृत्वा पद्धपजयादिन्द्रियजयः
प्रादुर्भवति योगिनः ॥ ४७ ॥

तथा चोक्त विभूतिपादे योगवार्त्तिकम्। ३८५ ग्रहणं च खरूपं चास्मिता चान्वयथार्थवत्त्वं च तेषु संयमात् साक्षात्कारपर्यन्तात् तद्रूपाणामिन्द्रियाणां जयो भवतीत्यर्थः । ग्रहणं व्याचष्टे। सामान्येति। वृत्तिरालोचनं विषयाकारपरि- णामविशेषः चिन्तावधारणाभिमानसंशयरूपादन्तःकरणानाम- साधारणवृत्तिचतुष्कादिलक्षणो दर्शनस्पर्शननामा यद्यपि सोऽपि स्मरणाद्यनुरोधनान्तःकरणस्यैव। तथापि चक्षुराद्युपष्टम्भेनैव भवतीति कृत्वा दर्शनादिश्चक्षुरादीनामुच्यते । सांख्ये सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात्त्रिविधं करणं हारि वाराणि शेषाणि ॥ इति । न तु आलोचनशब्दार्थो निर्विकल्पकं ज्ञानं चक्षुरा- दिमात्रवृत्त्य वेति कल्पनीयम् । एवं सति चक्षुरादिनैव वैशिष्ट्य स्यापि ग्रहणसम्भवात् सर्व वृत्तीनां चित्तनिष्ठत्वस्य भाष्ये प्रोक्त- त्वाच्च। ये तु बौद्दा विशेषस्य मनोमात्रस्य गोचरत्वमभ्युपग- म्येन्द्रियवृत्तिं सामान्यमात्रविषयिणीमाहुस्तान् प्रत्याचष्टे। न रेति। न च तत् इन्द्रियं सामान्यमात्रेण ग्रहणमाकारी रूपं यस्य तथा भवतीत्यर्थः। तत्र हेतुः कथमित्यादि। स विषय- गतो विशेष इन्द्रियेणानालोचितः कथं मनसा अनुव्यवसीयेत गृह्येत मनसो वहिरस्वातन्वयात् अन्यथा चक्षुराद्यगोचरा- र्थानां मनसा विशेषग्रहणप्रसङ्गादित्यर्थः । इन्द्रियाणां द्वितीयं रूपमाह। स्वरूपमिति। प्रकाशात्मनो बुद्धिसत्त्वस्य कार्या येऽयुतसिहा अवयवभेदाः सात्त्विकाहकाररूपास्तेष्वनुगतः मामाचविशेषरूपयोः समूहो द्रव्यमिन्द्रियमित्यर्थः । दिशेषा: ग्रहणरूपः नीलपीताद्याकारा: परिणामभेदाः सामान्य च चक्षुष्ट्वादौति । ननु पूर्वसूत्रवदवापि स्वरूपं केवलं सामान्य- मेवोचितम् अन्यथा ग्रहणाख्यप्रथमरूपस्याप्यत्रैव प्रवेशापत्ते- तत्र महत्तत्त्व- ३८६ पातञ्जलदर्शनम् । रिति चेत् सत्यम् । सामान्यप्राधान्येनैव खरूपत्वमवापि विव- क्षितम्। तथापि भूतवदिन्द्रियस्यापि सामान्यविशेषाभ्या- मत्यन्तनिषेधप्रतिषेधायैव समुदायो समुदायो द्रव्यमित्युक्तम् । तेषां तृतीयं रूपमिति। तेषामिन्द्रियाणां तृतीयं रूपम् । अवयव शब्देनोतोऽहङ्कारः तत्राभिमानाख्यवत्तिनमनिरासायास्मिता- लक्षण इति विशेषणम् अस्मितात्तिक इत्यर्थः। ननु कथ- महङ्कार इन्द्रियाणां रूपमित्याकाझायामाह। तस्येति। यथा तन्मात्रस्य सामान्यस्य भूतानि विशेषा एवमहङ्कारस्य सामा- न्यस्य चक्षुरादीनि विशेषाः कार्यत्वात् । अत इन्द्रियेष्वनु- गततया अहङ्कार इन्द्रियाणां रूपं भूतानां तन्मात्रवदिति भावः । इन्द्रियाणां चतुर्थ रूपमाह। चतुर्थमिति। स्यापि चतुर्थरूपमध्ये प्रवेशाय व्यवसायात्मका इति गुणानां विशेषणं व्यवसायाख्यबुद्धिरूपेण परिणतास्तदिशिष्टा इत्यर्थः एतेन पूर्वोक्तभूतजयसूत्रेऽप्यन्वयाख्यचतुर्थरूपमध्ये महदहङ्का- रयोः प्रवेश इत्युन्नेयं युक्तिसाम्यादिति। येषामिति। साह- ङ्काराणि सान्त:करणानि । पञ्चमं रूपमाह। गुणेष्विति। इन्द्रियप्रकृतिगुणवित्यर्थः। सूत्रवाक्याथें व्याचष्टे। पञ्चस्विति । यथाक्रमं ग्रहणादिक्रमेण संयमः कार्य इति शेषः । तत्र जयं कृत्वा पञ्चरूपजयात् सर्वरूपैरिन्द्रियजयस्तहशोकारो भवतीत्यर्थः । । ततश्च वत्मानुसारिण्य इव गावोऽस्य सङ्कल्पानु- विधायिन्य इन्द्रियप्रकृतयो भवन्तीति शेषः । इन्द्रियजयात् सिद्धौराह ॥ ४७॥ * ततो मनोजवित्वं विकरणभावः प्रधान- ततश्च तत्र जयश्च ॥४८॥ कायस्य अनुत्तमो गतिलाभो मनोजवित्वं विभूतिपादे योगवार्तिकम्। विदेहानामिन्द्रियाणाम् अभिप्रेतदेशकालविष- यापक्षो वृत्तिलाभो विकरणभावः, सर्वप्रकृति- विकारवशित्वं प्रधानजय इति, एतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते, एताश्च करणपञ्चक- रूपजयादधिगम्यन्ते ॥ ४८॥ व्याचष्टे। कायस्येति। अनुत्तमो मनोवच्छीघ्रतरः कर्म- न्द्रियवृत्तिविजयाद्भवति। विकरणभावस्य स्वरूपमाह। विदे- हानामिति। स्थूल देहसम्पर्करहितानामित्यर्थः। इन्द्रियाणा- मिति। करणसामान्योपलक्षणम् । विकरणभावशब्दस्य योगा- धमाह अभिप्रेतेति। अभिप्रेतकालदेशविषयापेक्षस्तदपरि- त्यागी यत्रैव देशादिषु वृत्तिलाभ दृष्यते तत्रैव भवतीत्यर्थः । तथाच विकरणभावो विकोणतास्वभावो व्यापितेति यावत्। य एवंविधकरणभावोपपना योगिनस्त एव स्थान स्थाने विदेहा इत्युक्ताः। सर्वेति। सर्वासां व्यक्तिभेदेनानन्तानां भूतेन्द्रिय- प्रकृतीनां सत्त्वादिगुणानां तहिकाराणां च सर्वेषां स्वेच्छयानु- विधानं प्रधान जय इत्यर्थः । ननु भूतप्रकतिजयो भूतजयो वा कथमिन्द्रियजयादिति चेत् न। भूतजयरूपपूर्वभूमिकायामेव तयोर्जितत्वेनोत्तरभूमिकायामकीकृत्य सर्वजयकथनादिति। अतएव च प्रधानजयिन: पूर्व स्थाने स्थाने प्रकृतिलया इत्युक्ताः प्रकृत्या सहैकतां गता इति प्रकृतिलयाः प्रकृतिवशिनः। एता- स्तिन इति। अत्र सिद्दिविशेषाणामेव मधुप्रतीकसंज्ञावगमाद् योगभूमिचतुष्टयस्य पृथगेव पश्चादक्ष्यमाणत्वाञ्च। योगमूमे- मधुप्रतीकसंजेति कस्य चियाख्यानमबोधमूलत्वादुपेक्षणीयम् । तत इति सौत्रं पदं व्याचष्टे। एताश्चेति। नन्विन्द्रियजये कथं ३८८ पातञ्जलदर्शनम् । प्रकृतिमहदहङ्काराणां जय इति चेत् । इन्द्रियरूपेष्वन्तिमरू- पत्रयत्वात्तेषामिति । तदेवं ग्राह्यग्रहणसंयमयोः सिद्धिमुक्ता ग्रहीटसंयमस्य सिद्धिमाह ॥ ४८ ॥ * सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावा- धिष्ठातृत्वं सर्वज्ञात्वं च ॥ ४८ ॥ * निडूंतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशा- रो परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्व- पुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधि- ष्ठाटत्वं, सर्वात्मानो गुणा व्यवसायव्यवसया- त्मकाः खामिनं क्षेत्रनं प्रति अशेषदृश्यात्मत्वेनोप- तिष्ठन्त इत्यर्थः । सर्वज्ञात्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानाम- क्रमोपारूढ़ विवेकजं ज्ञानमित्यर्थः । इत्येषा वि- शोका नाम सिद्धिः यां प्राप्य योगी सर्वजः क्षोणलेशबन्धनो वशी विहरति ॥ ४६॥ मात्रशब्देन संयमरूपा ख्यातिलब्धा तथा सत्त्वपुरुषान्यता- संयमस्य धर्मधर्म्यभेदात् तहतश्चित्तस्य सर्वभावेषु प्रततितत्कार्य- पुरुषेषु अधिष्ठाटत्वं स्वेच्छया विनियोक्तृत्वं खदेह इव भवति । तथा प्रकृतिपुरुषादिसर्वज्ञात्वं च भवतीत्यर्थः । अत्रापि संयमः माक्षात्कारपर्यन्तो बोध्यः संयमनिष्पत्तेरेव सिद्धिहेतुत्वात् । ननु परार्थात् स्वार्थसंयमादिति सूत्रोक्तसंयमतोऽस्य को भेदः येन तत्र पुरुषज्ञानं सिद्धिरत्र अन्या सिद्धिरिति सिद्धिभेदः स्यात् । उच्यते । तत्र पौरुषेयप्रत्यये सुखाद्यनुभवरूपे परिच्छिन्न एव विभूतिपादे योगवार्तिकम्। ३८८ संयम उक्तः न तु अपरिच्छिन्ने पुरुष। अत्र तु तेन संयमेन ज्ञाते परिपूर्णे पुरुषे बुद्धिविवेकसंयम उच्यते इति विशेष इति । ननु सत्त्वेति विशेषवचनमनुचितं गुणपुरुषान्यतेत्याद्य व वक्त- मुचितमिति चेन्न। रजस्तमोभ्यां पुरुष साक्षादविवेकाभावात् बुद्धिसत्त्वाविवेकहारैव देहेन्द्रियादिषु अविवेकात् स्वप्नबाधि- ाद्यवस्थासु चेतने देहेन्द्रियादिविवेकस्य योगारम्भकाल इव बालकैरपि अवतत्वाञ्चेति । तदिदं सूत्र व्याचष्टे । निर्धू तेति । परवेशारद्यं परमस्वच्छता अतिसूक्ष्मवस्तुप्रतिविम्बोदग्रहणसा. मर्थ्य मिति यावत्। परमवशीकारसंज्ञा च परमाणुपरममह- त्त्वान्तोऽस्य वशीकार इत्युक्ता। रूपेण प्रतिष्ठस्य रूपप्रतिष्ठस्य । सर्वभावाधिष्ठाटत्वं विवृणोति। सर्वात्मान इति। सर्वात्मान इत्यस्य विवरणं व्यवसायव्यवसेयात्मका इति करणतविषया- मका इत्यर्थः । अशेपदृश्यति । सङ्कल्पमात्रेण पुरुषैः संयुक्ता असंयुक्ताश्च अशेषभोग्यवस्त्वाकारेण परिणता भूत्वोपतिष्ठन्त योगिनं, तत्र हेतुगर्भविशेषणं स्वामिनं क्षेत्रमिति। यतोऽसौ भोक्तृत्वात् प्रेरकोऽतस्तम् अयस्कान्तलोहवदुपतिष्ठन्त इत्यर्थः । यदा यतोऽसौ स्वामी ईश्वर: क्षेत्रज्ञश्च परिणामक्षेत्राणि गुणा- दीनि प्रवर्त्त यति परिणामनप्रकारैर्जानाति चेत्यर्थः । यद्यपि सर्वे पुरुषाः सर्वगुणानामविशेषेण स्वामिनस्तथापि पापादिप्रति- बन्धात् सर्व गुणाः सर्वदा सर्वपुरुषान्न भोग्यत्वेनोपतिष्ठन्त इति भावः । तथा च श्रुतिः । ‘स यदि पिटलोककामः सङ्कल्पादेव अस्य पितरः समुत्तिष्ठन्तो' त्यादिरिति। क्रियैश्वर्यरूपां सिद्धिं व्याख्याय ज्ञानवर्यरूपां व्याचष्टे। सर्वज्ञात्वमिति। सर्वा- त्मनां सर्वपुरुषाणा बइमुक्तेखराणां शान्तादिरूपधर्मविशिष्टगु- णानां चकदैव ज्ञानं सर्वज्ञात्वमित्यर्थः। तस्य संज्ञा विवेकज- मिति । विवेकेन जायमानं यथार्थसाक्षात्कार इति यावत् ।

३८. पातञ्जलदर्शनम्। अथ वा प्रकृतिपुरुषविवेकाज्जायमानमित्यर्थः । सान्वयेयं सं- नेति । विशेषसंज्ञाया अन्वर्थतामाह। यां प्राप्येति । क्षीणलश- वन्धनत्वात्-शोकशून्यतेति भावः । सर्वसिद्धिमूईन्यं विवेकख्याति- रूपसंयमस्य परवैराग्यहारा मोखाख्यं सिधन्तरमाह ॥ ४८ । * तवैराग्यादपि दोषवीजक्षये कैवल्यम् ॥५०॥ * यदा अस्य एवं भवति क्लो शकर्मक्षये सत्त्वस्य अयं विवेकप्रत्ययो धर्मः, सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति एवम् अस्य ततो विरज्यमानस्य यानि ल शवीजानि दग्धशालिवोजकल्पानि अप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति, तेषु प्रलौनेषु पुरुषः पुनरिदं तापत्रयं न भुक्तो, तदैतेषां गुणानां मनसि कर्मक्लो शविपाकस्वरूपेण अभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्य आत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूपप्रतिष्ठा चिति- शक्तिरेव पुरुष इति ॥ ५० ॥ अपिशब्दः कैवल्यमित्यनेनान्वेति । तथा च विवेकख्याति. निष्ठात एव विवेकख्यातौ तस्या यथोक्तसिौ च वैराग्ये सति सम्प्रज्ञातयोगेन दुःखदोषस्य वीजानामखिलवासनाकर्मणां चित्त न सह लये सति पुरुषस्य कैवल्यं पुनर्गुणासंयोगरूपमपि भवतीत्यर्थः । वैराग्यकारणमाह। यदेति। क्लेशकर्मक्षयरूप- कर्त्तव्यसमाधौ यदा योगिन एवं भवति एवं विचारो भवति । एवंशब्दार्थमाह। सत्त्वस्येत्यादिना सत्त्वादीत्यन्तेन । वैराग्य:

विभूतिपादे योगवार्त्तिकम् । ३८१ कारणमुक्त्वा कैवल्ये पुरुषार्थ प्रतिपादयति। एवमस्येत्यादिना न भुङ्क्त इत्यन्तेन। अत्र न भुङ्क्त इति वचनात् भोगाभाव एव पुरुषार्थ इति स्मर्त्तव्यं, दुःखाभावस्तु परम्परया पुरुषार्थ इति भावः । इदानीं सूत्रार्थ व्याचष्टे । तदेतेषामिति। तत् तदा यदेत्युक्तेनान्वयः । तदा परवैराग्यावस्थायां संस्कार- रूपाणां दुःखवीजगुणानां सत्त्वादिगुणस्थानां कार्य्यावस्थमनसि ले शादिरूपेणाभिव्यक्तिस्वभावकानां चरितार्थानां समाप्तपुरु- षार्थानां प्रतिप्रसवे मनसा सह लये सति पुरुषस्यात्यन्तिको गुणवियोग: कैवल्याख्यो भवतीत्यर्थः । मोक्षेण पुरुषस्य परि- णाममपाकरोति। तदेति। कैवल्याख्य सिहार्थिनो योगिनी यथोक्तवैराग्यवदेव साधनान्तरमाह, अथ वा सम्प्रति कैवल्य- प्रसङ्गतः कैवल्यसाधने प्रवृत्तस्य योगिनस्तत्प्रत्यूहसम्भवे तविरा- करणप्रकारमाह ॥ ५० ॥ स्थान्युपनिमन्त्रणे सङ्गम्मयाकरणं पुन- रनिष्टप्रसङ्गात् ॥ ५१ ॥ * चत्वारः खलु अमी योगिनः प्रथमकल्पिकः, मधुभूमिकः, प्रज्ञाज्योतिः, अतिक्रान्तभावनीय श्चेति। तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः । ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः, सर्वेषु, भावितेषु, भावनौयेषु, कृतरक्षाबन्धः कृतकर्त्तव्यसाधनादिमान् । चतुर्थो यस्तु अति- क्रान्तभावनौयस्तस्य चित्तप्रतिसर्ग एकोऽर्थः सप्त- विधा अस्य प्रान्तभूमिप्रना । तत्र मधुमती भूमि * ३८२ पातञ्जलदर्शनम्। साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्व- शुद्धिमनुपश्यन्तः स्थानरुपनिमन्त्रयन्ते भी दूहा- स्यतामिह रम्यतां, कमनीयोऽयं भोगः, कमनी- येयं कन्या, रसायनमिदं जरामृत्युं बाधते, वै- हायसमिदं यानम्. अमी कल्पद्रुमाः, पुण्या मन्दाकिनी, सिद्धा महर्षयः, उत्तमा अनुकूला अप्सरसः, दिव्ये श्रोवचक्षुषी, वज्जोपमः कायः, स्वगुणैः सर्वमिदमुपार्जितमायुघ्नता, प्रतिपद्यता- मिदमक्षयमजरममरस्थानं देवानां प्रियमिति । एवमभिधीयमानः सङ्गदोषान् भावयेत् घोरेष संसाराङ्गारेषु पच्यमानेन मया जननमरणान्ध- कारे विपरिवर्त्तमानेन कथञ्चिदासादितः क्लश- तिमिरविनाशो योगप्रदीपः, तस्य चैते तृष्णा- योनयो विषयवायवः प्रतिपक्षाः, स खलु अहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चित- स्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानम् इन्ध- नौकुर्य्यामिति। स्वस्ति वः स्वप्नोपमेभ्यः कृपण- जनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत् । सङ्गमकृत्वा स्मयमपि न कुर्य्यात् एवमहं देवानामपि प्रार्थनीय इति, ३८३ विभूतिपादे योगवार्त्तिकम् । स्मयादयं मुस्थितम्मन्यतया मृत्युना केशेषु, ए- हीतमिवात्मानं न भावयिष्यति, तथा च अस्य छिद्रान्तरप्रेक्षी नित्यं यत्नोपचयः प्रमादो लब्ध- विवरः क्ले शानुत्तम्भयिष्यति ततः पुनरनिष्ट- प्रसङ्गः, एवमस्य सङ्गमयावकुर्वतो भावितोऽर्थो दृढ़ीभविष्यति, भावनीयश्चार्थोऽभिमुखीभविष्य- तौति ॥ ५१॥ । स्थानिन: स्वर्गादिलोकाधिकारिणो देवा इन्द्रादयः तेषां खर्लोके नयनाय योगिनो निमन्त्रणे सति तत्र सङ्गस्मयाकरण- मुपायः । सङ्गे स्मये च का क्षतिस्तत्राह सङ्ग स्मयाभ्यां पुनरपि संसारप्रसङ्गात् । सङ्गः प्रीतिः स्मयश्च देवानां प्रार्थनेन आत्मनि कृतार्थताभिमान इत्यर्थः। तत्र यस्यां भूमिकायां स्थान्युपनिम- न्त्रणं भवति तां वक्तुं योगिनां मूमिकाचतुष्टयमाह। चत्वार इति । प्रथमकल्पिकस्य स्वरूपमाह। तत्र अभ्यासीति । प्र- त्तमात्रं न तु निष्पन्नज्योतिजानं यस्य स तथा सवितर्कादिरूपा- परप्रत्यक्षवान् न तु ऋतम्भरप्रज्ञ इत्यर्थः । मधुभूमिकस्य स्वरू- पमाह । ऋतम्भरति । ऋतं सत्यमेव विभीति व्युत्पत्त्या परप्रत्यक्षमेव ऋतम्भरा प्रज्ञान विवक्षिता सा च परिशेषात् निर्वितकरूपा भूमिका एव तदुत्तरभूमिकानां तृतीयादौ एव अन्तर्भावादिति। प्रज्ञाज्योतिषः स्वरूपमाह । भूतति । ऋत- भरप्रज्ञातोऽस्य विशेषमाह। सर्षेषु इति । सर्वेषु भावितैषु उत्पादितेषु निवितर्कादियोगेषु कृतो रक्षारूपो बन्धो येन म तथा, भावनीयेषु उत्पादनीयेषु विशोकादिसियादिषु असम्प- जातपर्यन्तेषु विहितसाधनवानित्यर्थः । अतिक्रान्तभावनौयस्थ ३८४ पातञ्जलदर्शनम् । स्वरूपमाह। चतुर्थ इति । चित्तप्रतिसर्गोऽसम्प्रज्ञातसमाधिना चित्तविलयमात्र कर्त्तव्यमवशिष्यत इत्यर्थः । प्रज्ञाज्योतिषोऽस्य विशेषमाह। सप्तविधेति । प्रज्ञा जातेति शेषः । उक्तासु योग- भूमिषु स्थान्युपनिमन्त्रणस्य भूमिमवधारयति । तत्रेति । प्रथम- भूमिकायां तावन्महेन्द्रादीनामेतादृशानुग्रह एव न भवति हती- यचतुर्थभूमिकयोस्तु देवादय उपेक्षणीया एव भवन्ति अतो मधुभूमिकायां द्वितीयायामेव निमन्त्रणं भवतीत्याशयः । साक्षा- कुर्वतः स्वस्येयं मधमती भूमिका जातेत्यनुभवतः। अनेन भूमिनिष्पत्तिरुता, निष्पन्नमधुमूमिकस्येत्यर्थः। उपनिमन्त्रण- प्रकारमाह। भो इहे त्यादिना देवानां प्रियमित्यन्तेन । सङ्ग- स्मयाकरणं व्याचष्टे । एवमभिधीयमान इति । सङ्गदोषान् विष- यप्रीतिजान् । दोषचिन्तनप्रकारमाह। घोरेष्वित्यादिना कुर्या- मित्यन्तेन। सङ्गं त्यक्त्वा यत् कर्त्तव्यं तदाह। स्वस्तीत्यादिना । भावयेत् कुर्यात् । स्वयं विवानस्तत्कारणदोषमाह । एव- महमिति । न भावयिष्यति न चिन्तयिष्यति यत्नोपचयंः यत्न- प्रतिकार्यः । सङ्गयाकरणस्य फलमाह। एवमस्येति। सर्व- ज्ञत्वेऽपि वैराग्यान्मोक्ष इत्युक्त यदि च रागस्तिष्ठति तदा तद्रागनिवृत्तये पूर्ववत् सर्वज्ञतासाधकं संयमान्तरमाह ॥५१॥ * क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५२॥* यथा अपकर्ष पय्यन्तं द्रव्यं परमाणुरेवं परमाप- कर्ष पर्यन्तः कालः क्षणः, यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यात् उत्तरदेशमुप- सम्पटोत स कालः क्षण:, तत्यवाहाविच्छेदस्तु क्रमः, क्षणतत्क्रमयोनास्ति वस्तुसमाहार इति ३६५ विभूतिपादे योगवार्त्तिकम् । बुद्धिसमाहारो मुहताहोरावादयः, स खल्वयं कालो वस्तुशून्यो बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानांव्युत्थितदर्शनानां वस्तुखरूप व अव- भासते, क्षणस्तु वस्तुपतितः क्रमावलम्बी, क्रमश्च क्षणानन्तर्यात्मा, तं कालविदः काल इत्या- चक्षते योगिनः । न च ही क्षणी सह भवतः, क्रमश्च न हयोः सहभुवोरसम्भवात्, पूर्वस्मादत्तर- भाविनो यदानन्तयं क्षणस्य स क्रमः, तस्माद् वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति, तस्मान्नास्ति तत्समाहारः । ये तु भूतभाविनः क्षणास्ते परिणामान्विता व्याख्येयाः, तेन एकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति, तत्- क्षणापारूढ़ाः खलु अमी धर्माः, तयोः क्षण- तत्क्रमयोः संयमात् तयोः साक्षात्करणं, ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ॥ विवेकात् पूर्वसूत्रोक्तात् सत्त्वपुरुषान्यताख्यात् जायमानं विवे- कजं ज्ञानम् इतरव्यात्ततया सर्ववस्तूनामशेषविशेषैः साक्षात्क- रणमिति यावत् । तत्क्षणतत्क्रमयोः संयमादपि भवतीत्यर्थः । प्रतिक्षणं सर्व वस्तु परिणमते अतः क्षणेषु तत्क्रमेषु च संयमेन माक्षात्कार सति सर्ववस्तूनां सर्वपरिणामतत्क्रमयोरपि ज्ञानात् सर्वस्य वस्तुनो विवेकेन ज्ञानं भवतीति भावः । यद्यपि अपि- पातञ्जलदर्शनम्। शब्द: सूत्रे नास्ति तथापि ततश्च विवेकजं ज्ञानमित्यागामि- भाष्यगम्य: । क्षणशब्दार्थ दृष्टान्तेन प्रतिपादयति । यथेति । यथा लोष्टादेर्भिद्यमानस्थ यस्मिन्नवयवे परिमाणापकर्षकाष्ठा सोपक- विधिः सत्त्वादिगुणविशेषः परमाणुः । एवं कालस्यायकर्षा- वधिभूतोऽवयवविशेषः पूर्वापरांशशून्य इत्यर्थः । क्षणस्य लक्ष- णान्तरमाह। यावता वेति । जह्यादित्यनेनैक लक्षणं सम्पद्य- तेति च लक्षणान्तरम् । अन्यथा वैयर्थ्यात् । अवयविद्रव्यस्य देशत्यागो बहुक्षणेनापि कदाचिद्भवति अवयवानां क्रमेण सञ्चा- रादित्युक्तम्। परमाणुरिति। अवयविनो देशस्य क्रियया अनेकक्षणेन जनितं देशत्यागादिकं व्यावर्त्तयितु चलित इत्यु- कम् अत्र दृष्टान्तादिना परसूत्रेण च साक्षादेवाचार्येण परमा- णुवचनात् । वैशेषिकोतपरमाणवोऽपि अस्माभिरभ्युपगम्यन्त ते च अस्मद्दर्शने गुणशब्दवाच्या इत्येव विशेषः । न च अनेकात्म- कपृथिव्यादिभूतपरमाणुरेरात्र वाक्य परमाणुशब्दार्थो युक्तः । अत्र भूतरूपविशेषस्याप्रकततया द्रव्यशब्दस्य विशेषपरत्वे प्रमा. णाभावात् सावयवस्य पृथिव्यादिपरमाणोनिरवयवकालपरमा. दृष्टान्तानुपपत्तेश्च । न च प्रकृतेरणुपरिमाणासिद्धिः । पर- म्परया पृथिव्यादिभावापनानां गुणानां परिमाणाकाबायां न्यायवैशेषिकसिद्धाणुपरिमाणस्यैव ग्रहणौचित्यात् स्वशास्त्रानु- ततया परोक्तमविरोधि चेति न्यायेन परोक्तपरिमाणस्यैव श्राद- त्त व्यत्वात्। न च अस्मद्दशने गुणाख्यप्रकतेविभुत्वमेवावग- म्यत इति वाच्यम् । अन्तःकरणाकाशहेतुगुणानां विभुत्वेन तदुप- पत्त: । सर्वगुणानां विभुत्वे सति आद्यपरिणामहेतुक्षोभसंयोगा- द्यमम्भवादिति। तस्मासिद्धमणुपरिमाणा अपि गुणाः सन्तीति तेष पृथिवीत्व व्यञ्जकगन्धाद्यनङ्गीकारण अम्मसिद्धान्त पृथिवी- त्वादिकं नास्तीति विशेष इति। क्षणं व्याख्याय क्रमं व्याचष्टे ।

विभूतिपादे योगवार्तिकम्। ३८७ - तत्प्रवाहेति। तेषां क्षणानां यः प्रवाह उत्तरोत्तरमावेनाव. स्थानं तस्य अविरलता क्रम इत्यर्थः । इदानी क्षणातिरिक्तः कालो नास्ति मुइ दिरूपो महाकालपर्यन्त इति प्रसङ्गात् स्वशास्त्र सिद्धान्तमवधारयति। क्षणतत्क्रमयोरिति। क्षणेषु तत्क्रमेषु च अव्यवहितानन्तर्यरूपेषु वस्तुभूत: समाहारो मि- नं नास्ति अतो मुहर्ताहोरात्रादयो बुद्धिकल्पितसमाहार एवे. त्यर्थः । ननु एवं स्थूलकालाभावे कथं लोकानां तद्यथार्यबुद्धि- रिति तत्र विकल्पतया समाधत्ते । स खल्वयमिति । नन्वे व क्षणोऽपि विकल्पमात्रो भवतु कालव्यवहाराविशेषात् क्षणव्य वहारस्य च परमाणुक्रियादिभ्य एव सम्भवादिति तनाह । क्षणस्त्विति। क्षणाख्यस्तु कालो वस्तुकोटौ प्रविष्टः यत: क्रमा- वलक्षी क्रमेण अवलक्ष्यते आधीयते क्षणरूपप्रतियोग्यनुयोगिघ- टितत्वात् क्रमस्येत्यर्थः। तत्र हेतुमाह। क्रमवेति । क्रमो हि आनन्तर्यरूप इत्यर्थः । ननु य: क्षणो वस्तुभूतः स किंवरूप इत्याकाकायामाह। तं कालेति। तस्य च कालस्य क्षणहया- वस्थायिद्रव्यान्तरेव्यो विभाग इति भावः। कालनित्यत्वश्रुति- स्मृतयश्च प्रवाहरूपकालपराः। स च क्षणाख्यः कालः सत्त्वा- दीनां द्रव्यरूपः परिणामविशेष इति । बौद्धमताचास्माकमयं विशेषो यदस्माभिर्धर्मिग्राहकप्रमाणबलात् क्षण एव अस्थिर इष्यते। क्षणस्वैयप्रत्यभिज्ञाद्यभावात् न क्षणातिरिक्तः क्षणिक: पदार्थः कश्चिदिष्यते तैस्तु क्षणमावस्थाय्येव पदार्थः सर्व इष्यत इति। तच्च स्थाने स्थाने निराकृतं कार्यकारणव्यवस्थानुपपत्त्या- दिभिरिति । तदस्मिन् शास्त्रे क्षण एव काल इति सिद्धान्तः । कालोऽव नाभ्युपगम्यत इति कस्यचित् प्रलापस्तु भाथा- विवेकमूल इति। यत्तु पूर्वटेशसंयोगाद्यवच्छिन्न: परमाणु- क्रियादिश्व क्षण: कालस्तु तदति रत्तो नित्य इति वैशेषिका ३४ .

३६८ पातञ्जलदर्शनम् । तन्न। आहुः। विशिष्टस्यातिरेकानतिरेकयोरुभयोरुभयतः पाशादतिरेके स्वसिद्धान्तविरोधात् अस्मन्मतप्रवेशाच्च । अस्माभि- स्तादृशस्यैव गुणपरिणामस्य क्षणत्ववचनात् । अनतिरेके विशे. षणविशेष्यतत्सम्बन्धानां त्रयाणामपि स्थिरत्वेन क्षणव्यवहार- जननाक्षमत्वात् नित्यकालेऽपि च प्रमाणं नास्ति प्रदानीमि- त्याद्यखिलव्यवहाराणां खण्डकालमानविषयकत्वात् कार्यका- रणभावादीनामपि क्षणघटितत्वादिति। एतेन नित्या दिगपि अप्रामाणिको व्याख्याता, सामान्यतो दिग्व्यवहाराभावात् । पूर्वादिव्यवहारस्य च पराभ्युपगतदिगुपाधिभिरेव सम्भवात् सा- मान्यतः कालदिगव्यवहारसत्त्वेऽपि आकाशादेव तदुपपत्तेच, अन्यथा पृथिवीजलतेजादिभिरुपाधिभिर्देशाद्यतिरिक्तपदार्थः स्यादिति, कालाच्च दिशि अयं विशेषः यत् काल: क्षणरूप इष्यते दिक् तु सर्वथैव नेष्यत इति । शास्त्र दिक्सामान्यव्यव- हारस्तु पूर्वपश्चिमनियामकोपाध्यवच्छिन्नाकाशेन बोध्यः स्थि- त्याधारत्वेन देशव्यवहारवदिति । अतएव श्रुत्यादिषु कुत्रचि- दाकाशाच्छोतं क्वचिच्च दिशः श्रोत्रमिति वचनमन्योन्यमवि. रुद्धं दिगाकाशयोरेकत्वादिति दिक् । क्षणतत्क्रमयो स्ति वस्तुसमाहार इति यत् प्रागुक्तं तत् प्रपञ्चयति। नच इत्यादिना नास्ति तत्समाहार इत्यन्तेन। सहभावाभ्युपगमेऽपि क्रमो न सम्भवतीत्याह । क्रमश्चेति। असम्भवे हेतुमाह। पूर्वस्मादिति । तस्मात्सर्वदैव वर्तमानलक्षण: स तु एक एव क्षणस्तिष्ठति न पूर्वोत्तर क्षणा इत्यती नास्ति तयोः क्षणतत्क्रमयोर्वास्तवं मिलनं मुइ दिरूपमित्यर्थः। वक्ष्यमाणोपपादकमादौ वक्ति। ये तु इत्यादिना सर्व धर्मा इत्यन्तेन। ये पुनर्भूतभाविन: क्षणास्त सर्वेऽपि सर्ववस्तुपरिणामाधारा एकदैव वार्धकाद्यदर्शनत: क्षण- पर्यायकालत्वेनैव परिणामहेतुत्वादित्युत्तरपादे क्षणप्रतियोगी- विभूतिपादे योगवार्तिकम्। ३८८ त्याद्युत्तरसूत्रे व्याख्येयाः, तेन हेतुना एकैकेन क्षणेन कत्रो लोकः परिणाममनुभवति प्राप्नोति । यत: तत्क्षणोपारूढ़ा एकैकक्षणोपारुढ़ा: धर्माः पदार्था इत्यर्थः। ततः किमित्यत आह । तयोः क्षणति । ततश्चेति । ततश्च क्षणतत्क्रमसाक्षा- कारादखिलपरिणामतत्क्रमसाक्षात्कारद्वारा सर्ववस्तूनामन्यो- न्यव्यावृत्ततया स्वरूपावधारणं भवतीति सूत्रार्थ उक्तः । उत्तर- सूत्रमवतारयति। तस्येति। तस्य विवेकजज्ञानस्य सर्वविष- यकस्य शिष्यव्युत्पादनाय एकमुदाहरणमुपन्धस्यत इत्यर्थः ॥ ५२॥ तस्य विषयविशेष उपक्षिप्यते-- * जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययो- स्ततः प्रतिपत्तिः ॥ ५३॥ * तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वड़वेयमिति । तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं, कालाक्षी गौः म्वस्तिमती गौरिति । द्वयोरामलकयोर्जातिलक्षणसारूप्याद् देशभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तरमिति । यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेत- दिति प्रविभागानुपपत्तिः, असन्दिग्धेन च तत्त्वज्ञानेन भवितव्यम्. इत्यत इदमुक्तं ततः प्रतिपत्तिः, विवेकजज्ञानादिति। कथम्, ४०. पातञ्जलदर्शनम् । पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षण- देशाभिन्नः ते चामलके खदेशक्षणानुभवभिन्ने, अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति । एतेन दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरस्य पर- माणोस्तद्देशानुपपत्तौ उत्तरस्य तद्देशानुभवो भिन्नः सहक्षणभेदात् तयोरीश्वरस्य योगिनोऽन्य- त्वप्रत्ययो भवतीति । अपरे तु वर्णयन्ति येऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति, तत्रापि देश- लक्षणभेदो मूर्त्तिव्यवधिजातिभेदश्च अन्यत्वहेतुः, क्षणभेदस्तु योगिबुद्धिगम्य एवेति, अत उक्तं "मूर्त्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्- त्वम्” इति वार्षगण्यः ॥ ५३ ॥ - जातिलक्षणदेशैरन्यतानवच्छेदात् भेदावधारणस्थासम्भवात् ततो विवेकज्ञानादेव प्रतिपत्तिर्विवैकेन साक्षात्कारः पौरुषेयो भवतीत्यर्थः । तत्रादौ जात्या अन्यतावच्छेदस्य असङ्कीर्णमुदाह- रणमाह। तुल्ायोर्देशति। कालभेदेन समानदेशस्थयोहि समान- रूपयोर्गोगवययो)दो जातिभेदात् एवानुमातु शक्यत इति । अत्र वड़वाशब्देनातिसारूप्याद्वयो लक्षितः सारूप्याधिका वड़वा एवेति । लक्षणेनान्यत्वावच्छेदनस्यासङ्कीर्णोदाहरणमाह । तुल्य देशति। लक्षणमभिव्यक्तो धर्मभेदः। देशेनान्यत्वावच्छेद- नस्वासजीर्णोदाहरणमाह। इयोरिति। देशभेदप्रकारमाह।

- विभूतिपादे योगवात्तिकम्। ४०१ पूर्वमिदमुत्तरमितीति। इदानीं जात्यादिभियंत्रान्यतानुमानं न सम्भवति तादृशविवेकजन्नानस्य असङ्कीर्णमुदाहरणमाह । यदा तु इति। यदा तु पूर्वदेशस्थितमामलकं विषयान्तरव्य- ग्रस्य ज्ञातुविवेकं करिष्यतो योगिन उत्तरस्मिन् देशे उपावर्त्तते सम्बध्यते देवादिना तदा योरामलकयोरेकदेशत्वे सति पूर्व देशोपलक्षितमिदमुत्तरदेशोपलक्षितं चेदमिति विवेकानुप- पत्तिः। आमलकयोर्जात्यादित्रिकसाम्यात् । असन्दिग्धतत्त्व नानं चोद्देश्यम् इत्यत उक्त सूत्रकारण ततो विवेकजज्ञानात् प्रतिपत्तिरितीत्यर्थः । ननु क्षणतत्क्रमयोः संयमात् कथमामल- कयोविवेकन्नानमिति पृच्छति। कथमिति। उत्तरं, पूर्वेति । आमलकस्य क्षणेन सह वर्तत इति आमलकसहक्षण: चैत्रसहो- दर इतिवत्। एवंविधः पूर्वो देश आमलकान्तरेण सहक्षणा- दुत्तरदेशाब्रिोऽतः स्वदेशक्षणप्राप्त्या ते आमलके भिन्ने एकस्य एकदा विरुडदेशसम्बन्धासम्भवादिति । एवं तयोर्मेदं प्रसाध्यैक- देशसम्बन्धदायां विवेकग्रहणोपायमाह। अन्येति । अन्ययो- भित्रयोः पूर्वोत्तरदेशसम्बन्धक्षणयोरनुभव: साक्षात्कारस्तु प्राम- लकयोरन्यत्वे हेतुर्यथोक्तविवेकग्रहे कारणमित्यर्थः । अत्र च उदाहरण क्षणसंयमादेव विवेकज ज्ञानं दर्शितम् एतदनुसारेण क्षणक्रमसंयमादपि विवेकजज्ञानस्य उदाहरणमुन्नेयमिति भावः । तद्यथा द्वित्रिक्षणमात्रेण ज्येष्ठकनिष्ठयोज्येष्ठ कनिष्ठता- विवेकज्ञानं क्षणक्रमसाक्षात्कारं विना न सम्भवति अत: क्षण- क्रमसंयमसूत्रकरणमिति । एतेनैव स्थूलदृष्टान्तेन परमसूक्ष्म वपि क्षणतत्क्रमानुभवात् विवेकज्ञानमनुमैयमित्याह । एते- नेति। तुल्यजातिलक्षणदेशस्य परमाणुसामान्यस्य अन्योन्यम् अन्यत्व प्रत्ययो विवेकप्रत्ययः पूर्वयोः परमाणुदेशसाहित्यक्षणयो: माक्षात्करणात् ईश्वरस्य प्रकृत्यादिप्रेरणमभीप्सोयां गिनो भवती

-
-
पातन्त्रलदर्शनम् ।
त्यन्वयः । तत्र हेतुरुक्त उत्तरस्य परमाणोरित्यादिना। यत
उत्तरस्य परमाणोः पूर्वदेशानुपपत्त्या उत्तरस्य स्वदेशप्राप्तिः पूर्वस्य
स्वदेशप्राप्तितो भिन्ना तयोः सहक्षणभेदात् साहित्यक्षणयोर्भिन्न-
वादित्यर्थः। तदेवं जात्यादिभेदात् देशसम्बन्धक्षणभेदाच्च तुल्य-
योरन्यताप्रत्ययं प्रतिपाद्य परमतेऽपि एतत्समानमिति प्रतिपा-
दयितु तन्मतमाह। अपर त्विति । अपर वैशेषिका वदन्ति नित्य-
व्यवृत्तयोऽन्त्या विशेषा इति। अन्त्याः प्रलयकालस्थाः मुतोषु
हि आत्मसु सर्वेषु तुल्यजातिलक्षणदेशेषु अन्योन्यं विभाजका-
न्तरासम्भवेन विशेषनामा भेदकः कश्चन पदार्थोऽवश्य वाच्यः ।
तथा च परमाण्वादिष्वपि स एवान्यताप्रत्ययं करोतीति तेषा-
माशयः। तत्रापीति। तन्मतेऽपि देशादीनां योगबुद्धिगम्यक्ष-
णान्तानां भेदोऽपि अखादौनामन्यत्वे हेतुरस्ति एवेति समान-
मित्ययः। मूर्तिः संस्थानं व्यवधिः व्यवहितता एवढयमधिक-
मत्रोक्तम् । अत इति। यतो मूर्ति व्यवधिजात्यादिनित्यद्रव्येषु
अप्यस्ति भेदकोऽत: परैरुक्त मूलपृथक्वं मूलेषु नित्यद्रव्येषु
विशेषपदार्थो नास्ति मूर्ति व्यवधिजातिभ्यो भेटेनातिरेकेण पृथ-
वस्य अभावात् तैरेव पृथक्त्रव्यवहारोपपत्ते रिति वार्षगण्य
आचार्यो मन्यत इत्यर्थः। ननु वार्षगण्यमते मुक्तपुरुषेषु मूा-
द्यभावात् कथं विभागव्यवहारः स्यादिति चेन्न। बरावस्थायां
ये मूर्त्यादयः स्थितास्त एव मुक्त्यवस्थायामपि योगिभिर्गुह्यमाणा
अन्योन्यभेदव्यवहारं जनयन्तीति अभ्युगमसम्भवादन्यदेशादिरू-
पाणां तु परमारवादीनां प्रलये भेदव्यवहारः स्वगतसूक्ष्मकार्य-
भेदात् यथोतक्षणभेदादिभ्यश्चेति। अत्र वार्षगण्यमतस्य अप्र-
तिषेधादिदमेव स्वमतमिति मन्तव्यम्। विवेकजज्ञानस्यैकं
विषयं प्रदर्श्य इदानीं सहेतुकां विवेकजज्ञानस्य मोक्षोपयोगि-
तामाह॥५३॥

विभूतिपादे योगवार्त्तिकम्। * तारकं सर्वविषय सर्वथा विषयमक्रम चेति विवेकजं ज्ञानम् ॥ ५४ ॥ * . तारकमिति स्वप्रतिभोत्थमनौपदेशिकमि- त्यर्थः, सर्वविषय न अस्य किञ्चिदविषयीभूत- मित्यर्थः, सर्वथा विषयम् अतीतानागतप्रत्युत्पन्न सर्व पर्यायैः सर्वथा जानातीत्यर्थः, अक्रममिति एकक्षणापारूढ़ सर्वं सर्वथा गृह्णातीत्यर्थः, एत- विवेकजं ज्ञानं परिपूर्णम्, अस्य एवांशो योग- प्रदीपः, मधुमती भूमिमुपादाय यावदस्य परि- समाप्तिरिति ॥ ५४॥ इतिशब्दो हेत्वर्थे । यतो विवेकज ज्ञानं सर्वविषयादि- रूपम् अत: सर्वत्र दोषसाक्षात्कारेण उक्तवैराग्यहारा संसार- तारकं भवतीत्यर्थः । एतेन विवेकजज्ञानस्येदं लक्षणं बोध्यम् । अतएव अनेन लक्षणेन सत्त्वपुरुषान्यताख्यातिजन्यसर्वज्ञताया अपि संग्रहात्तव सूत्रे सापि विवेकजज्ञानशब्देन भाष्यकारैरु- कोति। तत्र भाष्यकार: प्रत्येक विशेषणानि व्याचक्षाण: तारक- शब्दस्यापत्तिलब्धमर्थमाह। तारकमितीति। लौकिकसा- मग्री विनैव यथार्थज्ञानसामर्थ्य सत्त्वपुरुषान्यतासंयमक्षणतत्- क्रमसंयमाभ्यामुबोधितं प्रतिमा तदुत्थ स्वप्रतिभोत्यं तदेव हि संसारतारकं घटते अतोऽर्थापत्त्या स्वप्रतिभोत्थमेव तारकश- ब्दार्थः । प्रतिभोत्थत्वे हेतुमाह। अनौपदेशिकमिति। न हि सर्वथा सवविषयकं ज्ञानं शाब्द भवितु युज्यते शब्दस्य सामा न्यमानविषयकत्वात् परिच्छिन्नविषयकत्वाञ्चेति। सर्वविषय- ४०४ पातञ्जलदशनम् । मित्यत्र सर्वशब्दोऽसङ्कुचित इत्याह। सर्वविषयमिति। सर्व- विषयकत्ववचनादित्यर्थः । अतीतेति । अतीतादिरूपं सर्वमि- त्यनुवादोऽन्वयार्थः पायैः स्वगतविशेषैः सर्वथा निःशेषैः विष- योकरोतीत्यर्थः । नास्ति क्रमः पौर्वापर्य यत्र ज्ञान इत्यक्रमम् । अक्रमान्तविशेषणैलब्ध वाक्यतात्पयार्थमाह एकक्षणोपा- रूढ़मित्यादिना। आरोहोऽत्रार्थादबुद्धिवृत्तौ इति। विवेकज- ज्ञानस्याखिलसियन्ते निर्वचनस्य वीजमाह । एतदिति । परि- पूर्णशब्दार्थ व्याचष्टे । अस्यैवांश इति। अस्यैव सूर्यतुल्यस्य विवेक- जज्ञानस्यांशो योगप्रदीपः, क इत्याकाङ्क्षायामाह । मधुमतीति । स्थान्यपनिमन्त्रणसूत्रे ऋतम्भरप्रज्ञाख्यद्वितीयभूमौ योगी मधु- भूमिक इत्युक्तं सैव च भूमिका अत्र मधुमतीति निर्दिष्टा ताम् आदाय सप्तधा प्रान्तभूमिप्रति पूर्वोक्तं सम्प्रज्ञातसमाप्तिपर्यन्त- भूमिकाजातं योगप्रदीप इत्यर्थः। ते हि भूमिव्यूहा विवेकज- ज्ञानविषयैकदेशप्रकाशका अतोऽशा इति भावः । ननु सवि- तर्कादिरूपास्तथा परिणामत्रयसंयमादिरूपाश्च याः सम्प्रज्ञात- योगभूमयः पूर्वोक्तास्ताः कथं योगप्रदीपतया विवेकजज्ञानांश- तया च न निर्दिष्टा इति चेन्न। योगवह्निकणत्वेन तेषाम् अत्यल्पत्वस्य विवक्षितत्वात् । प्रकष्टभूमितया योगप्रदीपाना- मासामंशत्वेनैव च कणतुल्यभूमीनामंशांशत्वमपि प्राप्तमिति भावः। विष्णुपुराणे च सर्वेषामेवेतरज्ञानानां प्रदीपतुल्यत्वविव- क्षया ब्रह्मविवेकजज्ञानस्य सूर्य्यतुल्यत्वं प्रोक्तम् अन्धं तम इवानानं दोपवच्चेन्द्रियोद्भवम् । यथा सूर्यास्तथा ज्ञानं यद्विप्रर्षे ! विवेकजम् ॥ इति। इन्द्रियोद्भवमित्यन्येषामपि ज्ञानानामुपलक्षणम् । तदेवं संयमानां सिद्धिरूपा विभूतयोऽतोतानागतज्ञानाद्या विवे- कजज्ञानान्दा ज्ञानक्रियैश्वर्यरूपा विस्तरेणोक्ताः । तत्त्रायं विभूतिपादे योगवार्तिकम् । ४०५ संशयः किमतासां विभूतीनामनन्तरमेव मोक्षो भवति आहो- खिदेतहातिरेकेणापि इति। तत्र निर्णयकतया उत्तरसूत्रमव- तारयति। प्राप्तविवेकेति। सूत्रेण सहान्वयः। विवेकजज्ञानाख्यो- त्तमसिद्दापक्षयैव सुतरामितरसिद्दानपेक्षा कैवल्य इति भाष्या- शयः ॥ ५४॥ प्राप्तविवेकजज्ञानस्य अप्राप्तविवेकजज्ञानस्य वा- * सत्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५॥ * यदा नि तरजस्तमोमलं बुद्धिसत्त्वं पुरुष- स्थान्यताप्रत्ययमात्राधिकारं दग्धक्के शवोजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवापन्नं भवति, तदा पुरुषस्य उपचरितभोगाभावः शुद्धिः, एतस्यामव- स्थायां कैवल्यं भवतीश्वरस्य अनीश्वरस्य वा विवेकजज्ञानभागिन दूतरस्य वा, न हि दग्ध- के शवीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति, सत्त्व- शुद्धिहारण एतत्समाधिजमैश्वर्यं च ज्ञानञ्च उपक्रान्तम्, परमार्थतस्तु ज्ञानात् अदर्शनं नि- वर्त्तते तस्मिन्निवृत्ते न सन्त्युत्तरे के शाः, केशा- भावात् कर्मविपाकाभावः, चरिताधिकाराश्च एतस्यामवस्थायां गुणा न पुरुषस्य पुनदृश्यत्वेन ४०६ पातञ्जलदशनम्। उपतिष्ठन्ते, तत् पुरुषस्य कैवल्यं, तदा पुरुषः खरूपमावज्योतिरमलः केवलोभवति ॥ ५५ ॥ इति पातञ्जलभाष्यप्रवचने विभूतिपादः तृतीयः । बुद्धिसत्त्वस्य पुरुषेण सह समाना यदा शुद्धिर्वक्ष्यमाणरूपा विवेकसाक्षात्काराद्भवति तदैव मोक्षो न तत्र सिद्धापेक्षेत्यर्थः । क्वचिदितिशब्दः सूत्रान्ते तिष्ठति स च हानोपायव्यूहसमाप्ति- सूचनार्थः। शुद्धिसाम्यं हेतुत: स्वरूपतश्च व्याचष्टे । यदेति । निर्दू तो रजस्तमोद्रव्यरूपी मलो यस्य तत्तथा । अत एव विवेक- ख्यातिमात्रे अधिकारः कर्तव्यता यस्य न तु सियादी तत्तथा ततश्च दग्धानि अनागतले शरूपाणि विपाकाख्यसंसारवीजानि यत्र तत्तथा। एवं यदा बुद्धिसत्त्वं भवति तदा शुद्धया पुरुषस्य खरूपमिव तत् भवति अनेन शुद्धिसाम्ये हेतुरुक्त: बुद्धेदुःखाद्या- स्मकत्वात्रात्यन्तं शुद्धिसाम्यं कदापि इत्येतत्प्रतिपादनाय इवशब्द- प्रयोगः । यस्मिन् अंशे साम्यं तदाह। पुरुषस्येति। बुनिधर्म- त्वात्पुरुषे उपचरितमानस्य प्रत्ययाविशेषास्त्रभोगस्याभावः पुरु- षस्य शुडिः बुद्देरपि जीवन्मुक्तदशायां विवेकित्वेन तादृशो भोगो नास्तीति शुद्धिसाम्यमित्यर्थः । अत्र साक्षितामावरूपभोग- व्यावर्त्तनायोपचरितेत्युक्त पुरुषस्य प्रत्ययाविशेषरूप एव हि भोग उपचरितोऽविवेकस्योपाधिधर्मत्वात्। चिदवसानता- रूपस्तु सांख्यसूत्रोक्तो भोग: स्वत इति, तथाच साक्षी निरभि- मान एवं चित्तस्य निरभिमानत्वमेव मोक्षहेतु नैखादिक- मिति पर्यवसितोऽर्थः । एतस्यामिति। एतस्यां शुद्धिसाम्याव- स्थायां जातायां प्रारब्धप्रतिबन्धनित्यनन्तरं कैवल्यं भवति

विभूतिपादे योगवार्त्तिकम्।
४०७
क
पा
प्ति-
ता
क.
ईखरानीश्वरादिसाधारण्येनेत्यर्थः । स्वतन्त्रजानक्रियाशक्तिमान-
वेखरः। जाने पुनरिति। ज्ञानान्तर काप्यपेक्षा नास्तीत्यर्थः
ननु विवेकसाक्षात्कारहेतौ तत्संयमे सति अवश्यमेव सार्वज्ञादिक
भविष्यति तत्कथमनौखरस्य वेत्युच्यत इति चेत् न। संयम
सत्यपि कामनां विना सिद्यनुत्पत्त: यागे सत्यपि स्वर्गानुत्य-
त्तिवत्। किञ्च यमनियमाद्यङ्गवैगुण्यादपि सिद्यनियम: ताह-
शाङ्गवैगुण्येऽप्यभिमाननिवृत्त्याख्यदृष्टहारा कदाचिन्मोक्ष: सम्भ-
वत्येवेति। ननु चेत् कैवल्ये सिडापेक्षा नास्ति तर्हि किमर्थ
मोक्षाख्यहानस्थोपायमध्ये सिद्धीनां कथनमित्याशङ्कायामाह।
सत्त्वशहिदारणेति। सत्त्वस्य बुद्विसत्त्वस्य शुचिराग्यादि
तहारेण मोक्षोपयोगितयेति शेषः। ऐश्वर्या क्रियाशक्तिरणि-
मादि ज्ञानं विवेकज्ञानान्तमुपक्रान्त प्रोक्त सूत्रजातन। पर-
मार्थतस्तु सत्त्वपुरुषान्यताज्ञानादेवाज्ञाननिवृत्त्यादिदृष्टवारा कै-
वल्यमित्यर्थः। अब चरिताधिकारा इत्यादिना कैवल्यस्वरूप-
मुक्तं कैवल्ये पुरुषार्थमाह। तदेति। तदा सुखदुःखमोहात्मक
सत्त्वादिगुणादर्शने चित्तज्योतिर्वियोगात् स्वरूपमात्रज्योतिरतो
दुःखादिप्रतिविम्बरूपमलरहितः सन् केवलोभवति केवलेषु
मुक्तेषु नित्यमुक्त ईखर वा अविभागं गच्छतौत्यर्थः। तथाच
दाखभोगनिवृत्तिरेव पुरुषार्थ इति । व्याख्यातानि हानीपायस्य
विवेकख्याते: साधनानि योगस्य चाङ्गानि यमादीनि ससिहोनि
॥ ५५॥
।
या
द.
म.
गो
इति श्रीपातञ्चलभाष्यवाति के श्रीविज्ञानभिक्षुनिर्मिते
विभूतिपादस्तृतीयः ॥ ३॥

४०८ पातञ्जलदर्शनम् । अथ चतुर्थः कैवल्यपादः । हानोपायान्त व्यूहनयमतिविस्तरत: पादहयेन व्याख्याय हानं तु स्वरूपत एव तत्र सङ्घपादुक्त न तु तस्याशेषविशेष- रूपो व्यूह इत्यतो हानविस्तरार्थ चतुर्थपादारम्भः। तत्रादौ कैवल्ययोग्यं चित्त निर्धारयितु पञ्चप्रकारां सिद्धिमाह। अने- नैव प्रसङ्गेन जन्मादिसिद्धापेक्षया यथोक्तसमाधिसिबेरुत्कर्षोऽपि सेत्स्यति । * जन्मौषधिमन्त्रतप:समाधिजाः सिद्धयः ॥ १ ॥ * देहान्तरिता जन्मना सिद्धिः, औषधिभिः असुरभवनेषु रसायनेनेत्येवमादि, मन्वैः आका- शगमनाणिमादिलाभः, तपसा सङ्कल्पसिद्धिः, कामरूपी यत्र तत्र कामग इत्येवमादि, समा- धिजा: सिद्धयो व्याख्याताः ॥ १ ॥ क्रमेण सिद्धीक्चष्टे। देहान्तरितेति। ऐहिकेन कर्मला देवादिदेहान्तरे जन्ममात्रेण भवन्ती अणिमादिसिद्धिजन्मने- त्यर्थः ओषधिजसिद्धिमाह। ओषधिभिरिति असुरभव- नेषु रसायनं यदोषधिद्रव्यं तदुद्भवेत्येवमादिः सिद्धिरोषधिभि- रित्यर्थः । असुरमवनेष्विति प्रायिकाभिप्रायेणोक्तम् । अत्रापि ओषधिभिः सुवर्णादिसिद्धीनां भावात्। शेषं सुगमम् । पञ्च- विधसिद्धिसाधारण्यास पूर्वपादी विचारितः। सिद्धिप्रकारो. ऽस्मिन्नेव प्रसङ्ग कियद्भिः सूत्रः प्रतिपादनीयः तत्रादौ निर्माण- - कैवल्यपाद योगवात्तिकम् । ४० कायनिर्माणेन्द्रिययोरुत्पत्तिप्रकारप्रतिपादक सूत्र पूरयित्वोस्था- पयति। तत्र काय इति । निर्माणचित्तोत्पत्तिप्रकारस्य सूत्रा- न्तरेण वक्ष्यमाणत्वात् अत्र कायेन्द्रिययोरेव ग्रहणम् ॥ २ ॥ तत्र कायेन्द्रियाणामन्यजातीयपरिण तानाम्- * जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥ * पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेषा- मपूर्वावयवानुप्रवेशाद् भवति कायेन्द्रियप्रकृत- यश्च खं खं विकारमनुगृह्णन्ति आपूरेण धर्मादि- निमित्तमपक्षमाणा इति ॥ २॥ मनुष्यादिजातिरुपः परिणामः स प्रकृत्यापूराद्भवति न तु मङ्गल्पमात्रादित्यर्थः। मनुष्यादिजातिरूपेण पूर्व परिणम्य स्थितानां कायेन्द्रियाणां कामरूपतादशायां यो देवतियगादि- जातिपरिणाम: स प्रकृत्यापूराद्भवति न तु सङ्कल्पमात्रादित्यर्थ इति व्याख्यान्तरम् । अणिमादिरूपपरिणामविशेषश्च प्रकत्यप- गमादित्यपि बोध्यम् । अत्र च जात्वन्तरशब्देन योगिनां गज- तुरङ्गादिवैभवं तथा कायव्यूहादिकपि ग्राह्यम् । आपूरशब्द- नापि प्रकृतीनां संहननमपि ग्राह्यम्। कायव्यूहे च श्रुति: "स एकधा भवति विधा भवति पञ्चधा शतं दश चैकश्च सहस्राणि च विंशति"रित्यादिरिति । प्रकृया पूरे हेतु वदन् सूत्रं व्याचष्टे । पूर्वपरिणामेति। यतो लोके वल्मीकादीनां क्षुद्रपरिणामापाय सदुत्तरमहापरिणामोत्पत्तिर्भूतप्रकृतीनामनुप्रवेशाद्भवतीति ह. टम् । अतो योगीश्वरादीनामपि टहन्द्रिययो परिणामान्तर- काले धर्मादिमापक्षाः कास्ट्रिय प्रकृतयः स्वं स्वं विकारमनु- गृह्णन्ति स्वस्वजातीयां कायादिप्रकृतिमुपकुर्वन्ति आपूरेणानु- ३५ ४१० पातञ्जलदर्शवम्। प्रवेशेनेत्यर्थः। तत्र कायप्रक्ततिः पञ्चभूनानि इन्ट्रियप्रक्ततिश्व अस्मितेति । दृष्टश्च लोके ढणराशिनिक्षिप्तस्य वह्निकणस्य क्षणा- देव प्रकृत्यापूरण गगनव्यापी परिणामविशेष इति । एतेन वामनाद्यवतारादीनां क्षणादेव त्रिभुवनव्यापित्वविखरूपत्वादिक मार्कण्डेयादिभ्यो विष्णुना मायाप्रदर्शनं च प्रकत्यापूरैण तड़ि- न्मालायामिव क्षणभङ्गुरणेति व्याख्यातम्। अगस्त्यादीनां समु- ट्रपानादिकं च तोयादिप्रक्तत्यपसारणेनेति व्याख्येयम् । एवमेव विश्वं परमेश्वरस्य मायेति गीयते। ऐन्द्रजालिकवत् क्षणेनैव प्रक- त्यापूरापसारणादिभिर्जगदन्यथयितुमुत्यादयितु विलापयितु च परमेखरः सङ्कल्पमात्रेण शक्नोति सूक्ष्मदृष्ट्या तु प्रतिक्षणं तथा करोत्येवेति पश्यन्तु योगिनो भगवन्नृत्यमिति दिक् । ननु योग- जधर्मबलात् प्रतय आवष्यन्त इति प्रकृतिस्वातन्वासिहान्त- हानिः । तथा स यदि पिटलोककामो भवति सङ्कल्पादेव अस्य पितरः समुत्तिष्ठन्तीत्यादिश्रुतेरपि प्रकृतिस्वातन्त्राहानिरित्या- शङ्कायामाह ॥२॥ * निमित्तमप्रयोजक प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥ * न हि धर्मादिनिमित्त प्रयोजकं प्रकृतीनां भवति, न कार्येण कारणं प्रवर्त्यत इति, कथ तर्हि, वरणभेदस्तु ततः क्षेत्रिकवट् यथा क्षेविकः केदारादपां पूरणात् केदारान्तरं पिप्लावयिषुः समं निम्न निम्नतरं वा नापः पागिाना अप- कर्षति आवरणं तु आसां भिनत्ति, तस्मिन् पर पा- दकं म नेव भ कैवल्यपाद योगवार्तिकम् । ४११ भिन्ने स्वमेव आप: केदारान्तरमालावयन्ति तथा धर्मः प्रकृतीनामावरणमधर्म भिनत्ति तस्मिन् भिन्ने स्वयमेव प्रकृतयः स्वं खं विकारमालाव. यन्ति, यथा वा स एव क्षेविकः तस्मिन् एवं केदार न प्रभवति औदकान् भीमान् वा रसान् धान्यमूलानि अनुप्रवेशयितुं किन्तर्हि मुहगवे- धुकश्यामाकादीन् ततोऽपकर्षति, अपकृष्टेषु तेषु खयमेव रसा धान्यमूलानि अनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य, शुद्धाशुद्धयो- रत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्ती धर्मों हेतु- भवतीति । अव नन्दीश्वरादय उदाहार्य्याः, विपर्यययेणाप्यधर्मो धर्म बाधते, ततश्चाशुद्धिपरि- णाम इति, तवापि नहुषाजगरादय उदाहायऱ्याः व्याचष्टे । न हौति । धर्मादिरूपाणां निमित्तानां प्रकृत्या- घूरकत्वे युतिमाह। न कार्येणेति। परतन्वं खतन्त्रस्य प्रव- संकमयुक्तमित्यर्थः । किञ्च आकाश द्रव्याणामनारम्भिकापि अमुक्षणमणूमा क्रिया सर्वसम्मता। न च तत्र धर्मोऽधर्मो वा वारणं कस्यापि भोगाहेतुत्वात्। नापि तत्रेश्वरादिसङ्कल्पादिः कारणं गौरवात्। अतो निरन्तराणुक्रियोपपत्तये लाघवेन गुणत्वेनैव सामान्यतः प्रवृत्तिकारणत्वात् प्रकृतिस्वातन्वं सिद्धम् । अपि च कदाचिद्दण्डचकादिक विमापि योगिसङ्कल्पादेव घटो क्षात्कारणत्वसम्भवः । ४१२ पातञ्जलदर्शनम् । जायते आदिसर्गे च ईखरसङ्कल्पेन वीजान्तराणि विनैव सर्वाणि वीजानि उत्पद्यन्त इति परस्परव्यभिचारानिमित्तानां न सा- टणारणिमादिषु च अग्न्यादिकार- णत्वे अन्योन्यव्यभिचारी लोकसिद्ध एवास्ति अत: सहकार्य- प्रयुक्ता प्रकृतिरेव परिणामे कारणं स्वतन्वेति सिचम्। ननु प्रकृतिश्चेत् स्वतन्वा केन प्रकारेण तर्हि धर्मेश्वरयोगिसङ्कल्पादीनां प्रकतिपरिणामहेतुत्वमिति पृच्छति। कथं तहीति। सूत्रार्द्ध- नोत्तरमाह। वरणभेदस्तु ततः क्षेत्रिकवदिति। अपां पूर्णा- दद्भिः पूर्णत्, केदारान्तरस्य विशेषणं सममित्यादित्रिकम् । अपकर्षति क्षिपति प्रावरणमालवालम् । खं खं विकारमिति । स्वस्खसजातीयं विकारं व्याप्नुवन्ति विकारप्रसूतीनां परिणामा- न्तरमित्यर्थः। प्रकृतकायेन्द्रिय प्रकृत्यभिप्रायेणोक्तं गुणादगुणा- न्तरमालावयन्तीत्यपि वोध्यम् । क्रियावदारम्भकसंयोगोऽपि प्रातः खतएव भवतीत्यपि तेनैव दृष्टान्तेन प्रतिपादयति । यथा चेति । न तु प्रकृतिप्रवृत्ती इति । संयोगविशेषेष्वपीति बोध्यम् । तथा च अधर्मादिप्रतिबन्धनिवृत्तिबारेणैव धर्मादिः परिणाम- कारणमिति सिद्धम् । अयं भावः । . यधा संस्कार एव स्मृति- हेतुः सदृशादृष्टचिन्तादयस्तु अननुगततया संस्कारस्योद्योधक- सात्राः । उह्वोधश्च निद्रादिदोषरूपावरणभङ्गः । तथैव प्रकृति- रेव जमत्कारणं कालकसंखरादयस्तु प्रकृतेः कार्यजननशक्त्यु- बोधकाः तत्र धर्माधौ वधर्मविरुद्घधर्मान्तररूपावरणभनो. होधको ईश्वरस्तु साम्यपरिणामादिरूपाखिलावरणभङ्गेनोहो- धकः कालादयस्तु धर्याधुबोधकतया दण्डादयस्तु कार्यान्तरा भिव्यक्तिप्रतिबन्धकतयेत्येवं यथायोग्यमूहनीयम् । एतदेव नि- मित्तकारणतेति गीयते अव्यभिचारात्तु संयोगस्य समवायिका- रणत्व मिष्यत एव हारत्वात् न तेन प्रकृतेः स्वातन्वाहानिरिति ।

कैवल्यपादे योगवार्तिकम्। ४१३ धर्मस्य अधर्मरूपप्रतिबन्धापसारणहारा कायेन्द्रियपरिणाम- निमित्तत्वे उदाहरणमाह। अत्र नन्दीति । नन्दिनामा मनुष्य ईखरो जात इति नन्दीखरः । एवं नहुषाजगरोऽपि व्याख्ययः । सिद्धादीनां कायेन्द्रियपरिणामश्चिन्तितः। इदानीं सिद्धानां चित्तपरिणामनिणायक सूत्रमवतारयति । यदेति । एकमनस्का निर्माटमनोमात्रेणैव व्यवहारभाजः। अनेकमनस्काः निर्माट- मनोऽतिरिक्तप्रातिखिकमनीमाजः ॥ ३ ॥ यदा तु योगी बहून् कायान् 'निर्मिमीते तदा किमकमनस्कास्ते भवन्ति अथ अनेकम- नस्का इति,- * निर्माणचित्तान्चस्मितामात्रात् ॥ ४ ॥ * अस्मितामात्रं चित्तकारणमुपादाय निर्माण- चित्तानि करोति, ततः सचित्तानि भवन्ति ॥४॥ स्वसङ्कल्पेन निर्मितचित्तानि निर्माणचित्तानि उच्यन्ते तानि बहूनि निर्माणदेहसमसंख्यानि भवन्ति तेषां कारणमाह । अस्मितामावादिति। अहङ्कारादित्यर्थः । मावशब्देन मनो- व्यावृत्तिः सङ्कल्पमात्रेण मनसो निमित्तमावत्वादिति। अब चित्तशब्दो मनोमानवाची अहङ्कारप्रकृतिकत्ववचनाद्बुद्धग्रह- कारा अपि अनेक स्वप्रकतिप्रधानबुड्यापूराद्भवन्तीति प्रत्येतव्यं युक्तिसाम्यादिति । भाष्ये सचित्तानि शरीराणीत्यर्थः, शेषं सूत्र एव व्याख्यातम् । ननु निर्माबचित्तस्य एकस्यैव प्रदीपवदिसा- रितया कायव्यूहेषु वृत्तिसम्भवात् किमर्थं देहभेदेन अन्तःकरण- भेदोऽभ्युपगम्यते। न हि नैयायिकानामिव अस्माकम् अन्त:- करणमेदेनकदा अनवहितनानाशरीराधिष्ठानं न सम्भवेदिति।

४१४ पातञ्जलदर्शनम्। अनोच्यते। समाधिभोगयो नाचानयोश्चैकदा एकस्मिंश्चित्ते विरोधन चित्तभेदः सिध्यति। अतएव सर्वज्ञस्यापि विष्णोः लसङ्कल्पनिर्मितचित्तभेदेन रामशरीरे कियत्कालमज्ञानमुपपन्न- मिति । यदा तु योगी जीवभेदान् एव खदेहानिर्मितेषु देहेन्द्रियसङ्घातेषु अनेकेषु योजयति तदा पुनः सुतरामैव अने- कान्तःकरणमपेक्षत इति कदाचित्तु योगिनामकान्तःकरणे- नैव नानादेहेषु व्यवहारं न निराकुर्मः स्वतन्त्रेच्छस्य नियन्तु- मशक्यत्वादिति। अथैवं सत्यात्मनानात्वकल्पना व्यर्था चित्तभेदे- नैव ज्ञानाज्ञानाद्युपपत्ते रिति। मैवम्। वृत्तितनिरोधादीना- मौपाधिकत्वेनाविरोधेऽपि विषयानुभवाननुभवयोः स्वप्रति- विम्बितदुःखभोगतदभावयोर्बन्धमोक्षयोश्च साक्षाचेतननिष्ठयो- विरोधेनैव आत्मनानात्वप्सिबेरिति दिक् । तदेतच्छरीरमेदेन नानाचित विरुद्धनानाकार्यकारित्वं योगिनां स्मर्यते । एकस्तु प्रभुशत्या बहुधा भवतीश्वरः। भूत्वा यस्मात्तु बहुधा भवत्येकः पुनस्तु सः॥ तस्माच्च मनसो भेदा जायन्ते चैत एव हि। एकदा तु विधा चैव त्रिधा च बहुधा पुनः । योगीश्वरः शरीराणि करोति विकरोति च । प्राप्नुयाविषयान् कैश्चित् कैश्विदुग्रं तपश्चरेत् ॥ संहरेच्च पुनस्तानि सूर्यो रश्मिगणानिव। इति। अनेकचित्तनिर्माऽपि विशेषमाह ॥ ४॥ वै * प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५॥ * बइनां चित्तानां कथमेकचित्ताभिप्रायपुर:- कैवल्यपादे योगवार्त्तिकम् । ४१५ सरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्त- मेकं निर्मिमौते, ततः प्रवृत्तिभेदः ॥ ५ ॥ व्याचष्टे । बहनामिति। तेषां बहूनां कथमकचित्ताभि- प्रायानुसारिणी प्रवृत्तिः स्यादित्याशयेन योगी पूर्वसिद्धं यञ्चित्तं तदेव सर्वचित्तानां प्रयोजकं निर्मिमीते नियामकं करोति ततस्तु चित्ताभिप्रायात् तेषामवान्तरचित्तानां प्रवत्तिरित्यर्थः । ऐश्वर्यनिर्वाहार्थमनकचित्तेष्वन्तर्यामिविधया स्थितमेकं चित्त तेषामुत्पत्तिस्थितिसंहारं करोतीति अत्र च प्रमाणं प्रागव दर्शितं 'संहरच पुनस्तानि सूर्यो रश्मिगणानि ति। एतेन विष्णादीनामंशावतारा अपि व्याख्याता: तेषु ह्यात्मन एकत्ले- ऽपि अंशांशिव्यवहार उपाध्योरंशांशिभावनौषाधिक: न पुन- रितरजीवेष्विव खत एवेति। तदेवमुक्तेषु पञ्चसु सिद्धचित्तेषु मध्ये ऽपवर्गयोग्यचित्तमवधारयति ॥ ५ ॥ * तब ध्यानजमनाशयम् ॥६॥ * पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपः- समाधिजाः सिद्धय इति, तत्र यदेव ध्यान चित्तं तदेव अनाशयं तस्यैव नास्ति आशयो रागादिप्रवृत्तिनीतः पुण्यपापाभिसम्बन्धः, क्षीण- क्लेशत्वाद् योगिन इति, इतरेषान्तु विद्यते कर्मा- शयः ॥ ६॥ ध्यानजं ध्यानसंस्कृतम् आशया: क्लेशकर्मवासना: न सन्त्य- स्मिनित्यनाशयं ध्यानसिद्ध चित्तमेवानाशयं भवति योगेनैव ज्ञानोत्पत्त्या वासनोच्छेदसम्भवात् न मन्वादिभिरित्यर्थः ।

४१६ - पातञ्जलदर्शनम्। व्याचष्टे । पञ्चविधमिति। निर्माणचित्तमत्र निर्माणक्षयचित्त न निर्मीयमाणं चित्तं तस्य सिद्धकार्यत्वेन सिद्धत्वानियमात् । अनाशयमित्यस्यार्थमाह। तस्यैवेति। रागादेः प्रवृत्तिर्यस्मात् संस्कारात् सरागादिप्रकृत्तिराशयस्तस्यैव नास्तीत्यनाशयमित्यर्थः । अनाशयत्वस्य किं प्रयोज्यमित्याकाङ्क्षायामाह। नात इति। अभिसम्बन्ध उत्पत्तिः। ततश्चापुनर्जन्मरूपो मोक्ष इति शेषः । पापपुण्यानुत्पत्ती हेतुमाह। क्षीणल शत्वादिति । दग्धत शकर्म- वासनत्वादित्यर्थः । अष्टोत्पत्तावग्यदृष्टान्तरं कारणमष्टरूपस्य कर्माशयस्य कार्यमाने हेतुत्वात्। तत्रेति निहारणसप्तम्यर्थ- माह। इतरेषामिति । मन्त्रादिसिद्धचित्तानामित्यर्थः । अत्रैव हेतुपरतयोत्तरसूत्रमवतारयति। यत इति ॥ ६ ॥ यतः- * कौशुक्लाकृष्ण' योगिनस्त्रिविधमितरे- षाम् ॥ ७॥ * चतुष्यात् खलु इयं कर्मजातिः, कृष्णा, शुकृष्णा, शुक्ला, अशुका अकृष्णा चेति, तत्र कृष्णा दुरात्मनां, शुक्लकृष्णा वहिःसाधनसाध्या, तत्र परपीड़ानुग्रहहारेण कमीशयप्रचयः, शुका तपःस्वाध्यायध्यानवतां, सा हि केवले मनसि आयतत्वादवहिःसाधनाधीनानपरान् पीड़यित्वा भवति, अशुक्ला अकृष्णा सन्यासिनां क्षीणलशानां चरमदेहानामिति। तत्राशुक्ल योगिन एव फल- कैवल्यपादे योगवार्त्तिकम् । ४१७ सन्यासात् अकृष्णं चानुपादानात्, इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति ॥ ७ ॥ योगिनो निष्पन्नयोगस्य क्षीणत शस्य कर्म कायादिव्या- पारोऽशुक्लाकृष्णः पुण्यपापाहतुः । इतरेषामयोगिनां जन्मादि- सिद्धानामपि विविधम् । यथायोग्य कर्म शुल्ककष्णयोः प्रत्येक- समुच्चयाभ्यां विविधमित्यर्थः । तदेतत् व्याचष्टे। चतुष्यादिति । कर्मसामान्यं चतुरंशकमित्यर्थः । क्रमेण निर्दिशति । कृष्णेति । कृष्णा दुःखफलदा तमोवर्धकत्वात् । शुक्लकृष्णा सुखदुःखफलदा रजोवर्धकत्वात्। शुक्ला सुखफलदा सत्त्ववईकत्वात् । अशुक्ला- कणा च सुखदुःखफलशून्या गुणाहेतुत्वादिति । अत्र अशुल्ला- कृष्णयोः सुखदुःखफलस्यैव प्रतिषेधन योगिकर्मणामपि सत्त्व- शुद्धिः फलं न निराक्रियते न च ज्ञानेनैव सत्त्वशुद्धयाख्यः पापक्षयो भविष्यतीति वाच्यम् । तथापि कर्मणामपि ज्ञानाङ्ग- तया सत्त्वशुद्धिहेतुत्वात्। आत्मक्रीड़ आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठ इति साहित्यश्रुतेः । कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्ग त्यत्वात्मशुद्धये ॥ इति स्मृतेश्च । अन्यथा वशिष्ठादीनां ज्ञानिनां कर्मानुपप- त्तेश्च । न च लोकसंग्रहार्थं तेषां कर्म, लोकसंग्रहस्य स्वतो- ऽपुरुषार्थतया कैवल्यहेतुसत्त्वशुद्धिहारैव पर्यवसानादिति । चतुविधं कर्म क्रमेणोदाहरति। दुरात्मनां पापिनां, बहिःसा. धनसाध्य ति । देहेन्द्रियमनोभ्यो वहिर्यानि साधनानि तत्सा- ध्ये त्यर्थः । अज्ञानां सकामानामित्याल्लभ्यते । ज्ञानिनां निष्का- मामा, कर्म सामान्यमेव अशक्लाकृष्णमिति वक्ष्यमाणात् । ननु वहिःसाधनसाध्यानामपि वेदोक्ततया कथं कृष्णसङ्करस्तनाह !

४१६
पातञ्जलदर्शनम् ।
तवं परति । वहिर्यागोपकरणसम्पादने पिपीलिकादीनामपि
अन्ततोऽपरिहा- पीडा भवतीत्यस्ति तत्र पापकर्माशयः देव-
तादीनामाराधनादिना अनुग्रहात्
पुण्यकर्माशयस्तु प्रसिद्ध
एवेति सायमिर्त्यर्थः । अन्तर्यागरूपायां शुक्लायां पापोसाईये
वीजमाह। सा होति । सन्यासिनामिति । संन्यासस्त्यागः।
अभिमानफलयोस्त्यागिनामित्यर्थः ।
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन !।
संङ्ग त्यत्वा फलं चैव से त्यांगः सात्त्विको मतः ।
इत्यादिस्मृतेः । न तु सन्यासाश्चमिमात्राणामविद्यादिलेश-
सत्त्वे तेषामपि धर्माधर्मोदयात् क्लेशक्षयं च गृहस्थादिकर्मणा-
मपि अशुक्लाकृष्णत्वाचेति सन्यासिकर्मणामलावष्णवे हेतु-
माह । क्षीण क्लेशानामिति । ल शमूल: कर्माशय इत्युक्तत्वा-
दिति भावः । चरमदेहानामिति, स्वरूपाख्यानम्। खोक्त
सन्यासिनामिति हेतु वितखान: सूत्र व्याचष्टे । तवेति ।
तंत्र चतुर्विधकर्ममध्ये योगिन एव अशुक्लमकृष्णं च कर्म फल-
त्यागात् अहरोमोति अस्वीकाराच्चैत्यर्थः । विहितं हि काम-
मायां सत्यामेव स्वर्गादिफलं ददाति विहितं निषिद्ध चोभय-
मप्युपादानाख्याभिमाने सत्येव फलं ददातीति भावः ।
त्यक्त्वा कर्म फलासङ्गनित्य टप्तो निराश्रयः।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः॥
यस्य नाहफ़्तो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥
इति शास्त्रमत्र प्रमाणम्। ननु तिष्ठतु अयोगिनां कर्म
तथापि वासनानभिव्यक्त्वादिनापि कदाचिन्मोक्षः स्यादिति
किमर्थ नियमन ध्यानजस्यानाशयचित्तस्यापेक्षेत्यत आह ॥ ७ ॥

कैवल्यपादे योगवार्तिकम् । ४२८ * ततस्तद्दिपाकानुगुणानामेवाभिव्यक्तिवी- सनानाम् ॥८॥* तत इति त्रिविधात् कर्मणः, तहिपाकानु- गुणानामेवेति यज्जातीयस्य कर्मणो यो विपाक- स्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते वासामेवाभिव्यक्तिः, न हि दैवं कर्म विपच्य- मानं नारकतिर्यमनुष्यवासनाभिव्यक्ति निमित्तं भवति, किन्तु दैवानुगुणा एव अस्य वासना व्यज्यन्ते, नारकतिर्य्यमनुष्येषु वेवं समान- श्वर्चः ॥८॥ तत इतिपदं व्याख्याय तद्दिपाकानुगुणानामवेति गृहीत्वा व्याचष्टे। यज्जातीयस्येति । कर्मविपाकमनुशरत इति अनुकु- वन्ति तन्मुखनिरीक्षका इति यावत्। विपच्यमानं फलोदुखं चर्चा विचारः। बहुजन्मव्यवहितानामपि वासनानामभिव्यक्ति कर्मफलान्यथानुपपत्तिप्रमाणेन साधयति ॥८॥ * जातिदेशकालव्यवहितानामपि आनन्तर्य स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ६ ॥ * वृषदंशविपाकोदयः खव्यञ्जकाञ्जनाभिव्यक्तः स यदि जातिशतेन वा दूरदेशतया वा कल्प- शतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एव उदिया दागिन्येव पूर्वानुभूतवृषदंशविपाकाभि- ४२० पातञ्जलदर्शनम्। संस्कृता वासना उपादाय व्यज्येत, कस्माद, यतो व्यवहितानामपि आसां सदृशं कमाभि- व्यञ्जकं निमित्तीभूतमिति आनन्तर्यमेव, कुतश्च, स्मृतिसंस्कारयोः एकरूपत्वाद् यथानुभवास्तथा संस्काराः, ते च कर्मवासनानुरूपाः, यथा च वासनाः तथा स्मृतिः, इति जातिदेशकालव्यव- हितेभ्यः संस्कारेभ्यः स्मृतिः, स्मृतेश्च पुनः संस्काराः, इत्येते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशात् व्यज्यन्ते, अतश्च व्यवहितानामपि निमित्तनैमि- त्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥६॥ जात्यादिभिर्व्यवहितानामपि वासनानामानन्तर्यमव्यव- हितवत् कार्यकारित्वं भवति अन्यथा कर्मफलानुपपत्तेः स्मृति- संस्कारयोरकरूपत्वादित्यर्थः । एकरूपत्वमेकाकारत्वमिति । तत्रादौ भाष्यकारो जात्यादिव्यवहितत्वमुदाहरनेवानन्तव्य कारणं प्रदर्शयति। वृषेत्यादिना। प्रारम्भ एवाचनस्यापेक्षणात् उदयपदं तथा च वृषदंशविपाकारम्भः खव्यञ्जकेनवाभिव्यक्तो वर्तमानावस्थो भवति न तु पूर्वदेहत्यागमात्रेण झटित्येवेति नियमोऽतः स यदि जातिशतादिव्यवधानेन व्यनकं प्राप्य उदि- यात् तदा द्रागित्येव शीघ्र पूर्वप्राप्तवषदंशविपाकेन जनितान् संस्कारान् ग्टहीत्वैव व्यक्ती भवति व्यवहितानामपि वासनानां सदृशकर्मव्यङ्गयत्वादित्यत आनन्तर्यमेवार्थाद्भवतीत्यर्थः । सादृश्य च अत्रैकजातीयफलक त्वम् । अभिव्यञ्जकमिलस्य च विवरणं निमित्तीभूतमिति म क रेवोपादानलादिति भावः । पान- व्याचष्टे कैवल्यपादे योगवार्तिकम् ४२१ न्तयं तत्कारणं च व्याख्याय तत्र प्रमाणं पृच्छति। कुल इति । कुतः प्रमाणादित्यर्थः । सूत्रावयवेनोत्तरमाह। स्मृतिसंस्कारयो- रिति। ननु मनुष्यजन्मनि एवाव्यवहिते वृषदंशवासनास्तु तत्राह। यथानुभवा इति। नन्वेवं सति मनुष्यवासनयैव वृषदंशविपाको भवतु अव्यवहितत्वादिति तत्राह। ते चेति। ते च संस्काराः कर्माशयानुरूपा एवापेक्षिता इत्यर्थः । नन्वेवमपि मनुष्यसंस्का- रादेव वृषदंशविपाकनिर्वाहिका स्मृतिरस्तु तथापि कर्माशयानु- रूपस्मृतिहेतुत्वेन कर्मानुरूपोपपत्तिरिति तत्राह। यथेति । एक- रूपत्वं प्रसाध्य सूत्रतात्पर्य्यार्थ । इति जातीति । ननु मजातीयवासनैव चेद्विपाकनिर्वाहिका तर्हि एकविपाककाल एव स्मृत्युत्पादेन पूर्वसंस्कारनाशात् कथं पुनस्तज्जातीयं विपा- कान्तरमित्याशयेनोक्तं, स्मृतेश्च पुनः संस्कारा इति । परमार्थतस्तु स्मृतेर्न संस्कारनाशकत्वम् इत्यपि पूर्वोक्त स्मर्तव्यं, स्मृतिसं- स्काराः स्मृतिहेतुसंस्काराः कर्माशयत्तिलाभात् कर्माशयोहोधा दिति। नन्वेवं सकलजन्मार्थमेव वासनाखौकारे नवस्थाप्रसङ्ग इत्याशङ्कामपाकरोति ॥ ८॥ * तासामनादित्वं च आशिषो नित्यत्वात् ॥ १० ॥ * तासां वासनानामाशिषो नित्यत्वादना- दित्वं, येयमात्माशी मी न भूवं भूयासमिति मर्वस्य दृश्यते सा न स्वाभाविको, कस्मात्, जात- मात्रस्य जन्तोरननुभूतमरगाधर्मकस्य द्वेषदुःखा- नुस्मृतिनिमित्तो मरणवासः कथं भवेत्, न च निमित्तम्पादत्ते, तस्माद- स्वाभाविक बत्त ४२२ १ पातञ्जलदर्शनम्। नादिवासनानुविद्वमिदं चित्त निमित्तवशात् काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगाय उपावत त इति। घटप्रासादप्रदीपकल्पं सङ्कोच- विकाशि चित्तं शरीरपरिमाणाकारमात्रमित्य- परे प्रतिपन्नाः, तथाचान्तराभावः, संसारश्च युक्त इति। वृत्तिरीवास्य विभुनः सङ्कोचविकाशि- नौत्याचार्यः । तच्च धर्मादिनिमित्तापेक्ष, नि- मित्त च विविधं वाह्यमाध्यात्मिकं च, शरी- रादिसाधनापेक्ष वाह्यं स्तुतिदानाभिवादनादि, चित्तमात्राधीनं श्रद्धादि आध्यात्मिकं, तथा चोक्तं "ये चैते मैत्रवादयो ध्यायिनां विहारास्त वाह्य- साधननिरनुग्रहात्मानः प्रकृष्टं धर्ममभिनिर्वर्त्त- यन्ति तयोमानसं बलीयः,कथं, ज्ञानवैराग्ये केना- तिशय्येते, दण्डकारण्यं चित्तबलव्यतिरेकेण कः शारीरेण कर्मणा शून्यं कर्तुमुत्सहेत, समुद्रमग- त्यवद् वा पिवेत् ॥ १० ॥ व्याचष्टे । तासामिति नित्यत्वात्प्रतिजन्मनियतत्वादित्यर्थः । अनादित्वं च प्रवाहरूपेण बोध्यम् । • यद्यपि आशीनित्यतया तहेतुवासनाया एव अनादित्वं सिध्यति न तु भोगहेतुवासनानां तथापि तत्रानवस्थायाः प्रामाणिकत्वेनादोषत्वे तदृष्टान्तेना- न्यासामपि अनादित्वमनुमेयमित्याशयः। ननु अग्न्योष्णावदि- यमाशौश्चित्तस्य स्वाभाविक्य व भवतु तनाह । येयमिति।

६ कैवल्यपाद योगवार्त्तिकम्। '४२३ आशीनित्यत्वे तंहासनानादित्वे तथाशिषोंऽखाभाविकत्वे वा युक्ति पृच्छति। कस्मादिति । तत्रादौ आशीनित्यत्वेन वासना- नादित्वं यथा सिध्यति तदाह। जातेति। जातमात्रोऽनुमा- माद्यसमर्थो बालको यदि न पूर्वजन्मन्यनुभूतमरणधर्मकः स्यात् तथा कथं तस्य वेषतत्कारणमरणदुःखस्मरणाभ्यामेवोत्याद्यो मरणत्रासो यथोक्ताशीरूप: सम्भवेत् पूर्वपूर्वभवीयमरणदुःखवा- सनां विनेति शेषः । अस्वाभाविकत्वे तु युक्तिमाह। न चेति । नापि स्वाभाविक वस्तु निमित्तसापेक्ष भवति भयरूपा तु यथो- ताशीः खड्गप्रहारदर्शनादिनिमित्तमपेक्षते अन्यदानुपपत्तेरतो न स्वाभाविकौति शेषः। सूत्रत्रयार्थ शिष्यावधारणायोपसंह- रति। तस्मादनादीति। निमित्त विपाकोन्मुखं कर्म प्रति- लभ्य गृहीत्वा। ननु वासनाया अनादित्वं तदा भवेत् यदि तदाश्रयं चित्त नित्यं स्यात् प्रतिशरीरं च भिन्न न स्यात् । तदेव तु न पुम्पकत्यतिरिक्तस्य सर्वस्य कार्यत्वाभ्य पगमात् । अणुमहच्छरीरयो: परिणामभेदेन भेदवच्छरोरतुल्यपरिणाम- चित्तस्यापि मेदसिद्धेश्चेति। तबादी सांख्यपरिमाणमाह। घ- टेति। प्रतिपुरुषं सर्वशरीरसाधारणमेकैकमेव चित्त तथापि घटप्रासादरूपस्वल्पमहदाययभेटेन प्रदीपवत् स्वल्पमहच्छरीर- भेदेन चित्त स्वल्पं महत्परिमाणं भवति तथा च नित्यत्वमपि तस्य प्रदीपपरमाणुवदेव द्रष्टव्यम्। तच्च परमाणुतुल्यसूक्ष्माव- स्थायां प्रकृतेः सत्त्वरूपांशविशेषतां प्राप्नोतीति न प्रकृतिपुरुषा- तिरिक्तस्य नित्यतेति भावः। एवमपर सांख्या आहुरित्यर्थः । ननु विभु एव चित्त कथं नेष्यत इत्याकाकायामाह । तथा च इति । तथा च अणुत्वस्यापि सम्भवात् । पूर्वापरसर्गयोरन्तरा प्रलयेऽभावो लयः सम्भवति। तथा संसारः संसरणम् इहलोक- परलोकसञ्चारश्च सक्रियत्वात् सम्भवति विभुत्वे चैतदुभयं न ४२४ पातन्त्रलदर्शनम्। घटेतेत्यर्थः । स्वशास्त्रसिद्धान्तमाह। वृत्तिरेवेति। विभु आका- शवञ्चित्त प्रतिनियतपुरुषभोग्यत्वात् पुरुषभेदेनानन्तच्च । चित्ताकाशं चिदाकाशमाकाशं च कृतीयकम् । दाभ्यां शून्यतमं विद्धि चिदाकाशं वरानने ! ॥ इत्यादिभिः शास्त्रेषु चित्तविभुत्वावगमात् । अन्यथा परि- च्छित्रत्वे सति ईखरोपाधरपि परिच्छिन्नत्वापत्त्या ईश्वरस्य विभुत्वश्रुतिस्मृतियुक्तिविरोधात्। यथा तु वैशेषिका नैयायि- काच आकाशस्य विभुनित्यस्यापि थोत्रादिरूपण कार्यता देहेन सह गमनादिकं च औपाधिकतयाभ्यु पगच्छन्ति तथैव विभुनित्यानां जीवचित्तानां मलिनदर्पणवत् अविद्याकामकर्मा- वृतप्रकाशशक्तीनां मन्दप्रकाशस्वभावानां वा वाह्यसत्त्वान्तरोप- ष्टभाज् ज्ञानादिहेतुः परिणामविशेषः सर्गादौ जायते 'कार्यो- पाधिरखं जीवः कारणोपाधिरोखर' इति श्रुतेः स एव परि- णाम: स्वल्पमहच्छरीरमेदेन सङ्कोचविकाशशीलो भवति इत्येव- माचार्य: पतञ्जलिरभ्युपगच्छतीत्यर्थः अत्र च वृत्तिः प्रदीप- शिखावव्यरूप: परिणाम इति प्रागेवोक्तम् । न तु क्षणहयाव- स्थायी ज्ञानेच्छादिगुण: सर्गाद्युत्पन्नचित्तस्य प्राकृतप्रलयपर्यन्ता- वस्थानस्य इहलोकपरलोकगमनादेश्च श्रवणादिभिरस्वा वृत्ते- घंटपटाद्याकारतैवान इच्छाज्ञानशब्दवाच्येति। तदेवं वैशेषि- काणामाकाशवत् अस्माकं चित्तमपि नित्यानित्योभयरूपमिति सिद्ध, विशेषस्तु अयं यत्तैराकाशस्य श्रोत्ररूपेण जन्यता कर्ण- शष्कुल्यौपाधिकोष्यते अस्माभिस्तु गुणान्तरसम्भेदात् यथार्थ एव महदादिरूपेण प्रकृत्याख्यसूक्ष्मचित्तस्य परिणाम दृष्यत इति एतेन विभुनित्यत्वेऽपि आकाशस्य कार्यत्वमपि व्याख्यातम् । शब्दादिहेतुपरिणामविशेषरूपेण कार्यत्वं श्रुतिस्मृतिसिहं वि- रोधाभावादिति दिक्। ये तु वैशेषिकाश्चित्तम् अण्खे व सर्वदा कैवल्यपादे योगवार्तिकम्। ४२५ अभ्युपगच्छन्ति । तन्मते एकदा पञ्चेन्द्रियैः पञ्चवृत्त्यनुपपत्तिः चक्षुःश्रोवादेविरुद्ददेशतया अणोस्तदुभयसम्बन्धस्य एकदानी- चित्यात् इत्यादीनि दूषणानि ऊह्यानि। युगपज्ज्ञानानुत्पत्ति- मनसो लिङ्ग मिति न्यायसूत्रे च सदा सर्वज्ञत्वाभाव एव मन- आख्यकरणे लिङ्गत्वेनोपन्यस्तो न तु एकदेन्द्रियदयवृत्त्यभाव: हेत्वसिद्धिदोषापत्तेरिति । वृत्ती सोचविकाशयोः कारणमाह। तच्चेति। तच्च सङ्कोचविकाशनं धर्माधर्मादिरूपनिमित्तापेक्षया भवति अनादित्वाच्च अत्र नान्योन्याश्रय इति । ननु धर्मादरेव चेच्चित्तवृत्तिविकाशस्तहि शरीरादिधर्मः स्तुतिदानादिभिरेव ज्ञानादिसम्भवे दुष्करयोगापेक्षा न युक्तत्याशङ्कायामाह। नि- मित्त चेति । अभिवादनादीति आदिशब्देन निन्दापरस्वादाना- तिक्रमादीनि अधर्मसाधनान्यपि ग्टहीतानि। श्रद्धादीति श्रद्धा- दयः पूर्व व्याख्याता: श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाः तद्दिपरीताश्चा. श्रद्धादय इत्यर्थः । ननु श्रद्धादिमात्रस्य धर्मनिवर्तकत्वे किं प्रमाण तत्राह। तथा चोक्तमिति। विहारा अयत्नसाध्याः निष्पाद्य- धर्मनिवृत्ती हेतुः वाह्यसाधनेति। वाह्यसाधननिरपेक्षस्वभावा इत्यथः । तयोरिति । तयोश्च वाह्याध्यात्मिकयोर्मध्ये मानसं कर्म बलोयः। यतो मानसं कर्म ज्ञानवैराग्यरूपतया सर्वातिशा- यीत्यर्थः । निरतिशयत्वमुदाहरति । दण्डकारण्य चेति । दण्ड- कदेशस्तद्रान्जि क्रोधान्विते शक्रः सप्तदिनशिलावृष्ट्या जनशून्य चकार । अन्यत् सुगमम् । तथाच श्रद्धादिसाधनजन्यो योग- धर्मो यथा चित्तविकाशसाधनं तथा वाह्यधम इति योगधर्म- स्यापेक्षेति। तदुक्तं याज्ञवल्कोन सर्वधर्मान् परित्यज्य मोक्षधर्म समाश्रयेत् । सर्वे धर्माः सदोषाः स्युः पुनराहत्तिकारकाः ॥ इति ।

४२६ पातञ्जलदर्शनम्। इज्याध्ययनदानानि तपः स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगनात्मदर्शनम् ॥ इति च । गीतायामपि। एषा तेऽभिहिता सांख्ये बुड़िोगे विमां शृणु । खल्पमप्यस्य धर्मस्य वायते महतो भयात् ॥ इति। यतश्च मानसं कर्मैव बलीयोऽत एव जड़भरतादेः समाधिनिष्ठतैव श्रूयते । सर्वविज्ञानसम्पन्नः सर्वशास्त्रार्थतत्त्ववित् । अपश्यत् स च मैत्रेय ! आत्मानं प्रकृतेः परम् ॥ न पपाठ गुरुप्रोक्तां कृतोपनयन: श्रुतिम् । न ददर्श च कर्माणि शास्त्राणि जरहे न च ॥ इत्यादिनेति। तदेवं मोक्षयोग्य चित्तं तत्प्रसङ्गेनेतरचि- त्तस्य बन्धप्रकारश्च दर्शितः पुरुष चित्तहारकबन्धस्य स्वामा. विकत्वे मोक्षासम्भवात् कर्मवासनादिमूलकत्वे तु तदुच्छेदतो मोक्षो घटत इति इदानीं मोक्षोपपत्तये अनाद्यसंख्यानामपि वासनानामत्यन्तोच्छेद उपपाद्यते ॥ १० ॥ * हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषाम- भावे तदभावः ॥ ११ ॥ * हेतुः धर्मात् सुखमधर्माद् दुःखं, मुखाद रागो दुःखाद् द्वेषः, ततश्च प्रयत्नः, तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुराति उपहन्ति वा ततः पुनर्धर्माधर्मों सुखदुःखे राग- वेषौ इति प्रवृत्तमिदं षडरं संसारचक्रम्, अस्य च प्रतिक्षणमावर्त्तमानस्य अविद्या नेत्री मूलं ४२७ कैवल्यपादे योगवार्त्तिकम्। सर्वक्लेशानाम्, इत्येष हेतुः। फलन्तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न हि अपूर्वोपजनः, मनस्तु साधिकारमाश्रयो वासनानां, न हि अव- सिताधिकारे मनसि निराश्रया वासनाः स्था- तुम् उत्सहन्ते । यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम्, एवं हेतुफलाश्रया- लम्बनैरतैः सङ्ग्रहीताः सर्वा वासनाः, एषामभावे तत्संश्रयाणामपि वासनानामभावः ॥ ११ ॥ वासनाहेतुः संसारचक्रं तस्यापि हेतुरविद्येत्यतोऽविद्यैव हेतुशब्दार्थ इत्याह। हेतुरित्यादिना इत्येष हेतुरित्यन्तेन । हेतुः संसारचक्रमित्यन्वयः । संसारचक्रस्य ज्ञानकर्मवासना- हेतुत्वे हेतुगर्भविशेषणं प्रवृत्तमिदं षड़रमिति। धर्माधर्मसुख- दुःखरागद्देषरूपेणारषट्कैण अविद्यादण्डप्रेरितेन मामितं भवती- त्यतो वासनाहेतुरित्यर्थः। कुलालचक्रस्य हि दण्डेन शलाका- प्रेरणे कृते वेगाख्यः संस्कारो भवति येन कियत्कालं स्वयमपि भ्रमति तहदेव भ्रामित संसारचक्र वासनाहेतुरिति भावः । चक्रप्रवर्तकं दण्डमाह। अस्य चेति । नेत्री भ्रामिका तथाच सर्ववासनोदये अविद्यैव मूलकारणम् । अविद्याक्षये च विहित- निषिद्धकर्मणां सत्त्वेऽपि संसारचक्रममणान वासनोदय इत्या- शयः । हेतुमुपसंहरति । इत्येष हेतुरिति । अविद्या हेतुर्वास- नाया इत्यर्थः । फलं त्विति। यं पुरुषार्थमुद्दिश्य धर्माद्युत्पन्न तदेव वासनानामपि फलं कर्मवासनयोरन्योन्यसहकारित्वा- दित्यथः। ननु फलेन कथं कारणस्य नियमरूपः संग्रहः काथं - ४२८ पातञ्जलदर्शनम् । वा फलाभावे कारणाभावः फलाभावकालेऽपि कारणस्य सत्त्वा- दित्याशङ्कायामाह। न ह्यपूर्वोपजन इति। अपूर्वस्य सत उप- जनो जन्म हि नास्तीत्यर्थः । तथाच सत्कार्यस्वीकारणानाग- तावस्थफलेन व्याप्तो वर्तमानहेतुर्भवत्येवेति भावः। आश्रय- माह। मनस्त्विति । साधिकारं पुरुषार्थवत् । अत्र प्रलये वासनासत्त्वस्यानुरोधेन वासनाश्रयमनसो नित्यत्वमभिप्रेत्य साधिकारमिति विशेषणम् अन्यथा अधिकारसमाप्तौ मन एव न तिष्ठतीति विशेषणं व्यर्थमिति। आलम्बनमाह। यद- भिमुखमिति। मोक्षकाले कामिनीरूपादीनां रागवासनाव्य- ञ्जकानां सत्त्वेऽपि आलम्बनाभावीपपादनायाभिमुखमिति विशे- षणं तथाच सन्निकृष्ट वासनाव्यञ्जकमत्रालम्बनमित्यर्थः । हेत्वा- दीन् व्याख्याय सूत्रवाक्यार्थमाह। एवमिति। संग्रहीताः व्याप्ताः । अत एषामभाव अत्यन्तीच्छेदे विदेहमुक्तिसमये तदा- श्रयाणां तन्नियतानां वासनानामत्यन्तोच्छेद इत्यर्थः । तथाच वासनानामनादित्वेऽपि मोक्षः सम्भवतीत्याशयः। सत्कार्या- भ्युपगमात् वासनानामत्यन्तोच्छेदो न सम्भवतीति शङ्कयोत्तर- सूत्रमवतारयति। नास्तीति। द्रव्यत्वेन सम्भवन्त्यः वस्तुत्वेन तिष्ठन्त्यः ॥ ११ ॥ नास्त्यसतः सम्भवो, न चास्ति सतो विनाशः, इति ट्रव्यत्वेन सम्भवन्त्यः कथं निवर्तिष्यन्ते वा- सना इति। * अतीतानागतं स्वरूपतोऽस्ति अवभेदाट धर्माणाम् ॥ १२ ॥ * भविष्यद्यक्तिकमनागतम्, अनुभूतव्यक्तिक- कैवस्वपादे योगवात्तिकम्। ४२८ मतीतम्, खव्यापारोपारूढं वर्तमानं, वयं च एतहस्तु ज्ञानस्य ज्ञेयं, यदि च एतत् स्वरूपतो न अभविष्यत् नेदं निर्विषयं ज्ञानमुदपत्स्यत, तस्मादतीतानागतं स्वरूपतोऽस्तीति । किञ्च भोगभागीयस्य वा अपवर्गभागीयस्य वा कर्मणाः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्दे शेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत । सतश्च फलस्य निमित्त वर्तमानोकरणे समथं न अपू- र्वोपजनने, सिद्धं निमित्त नैमित्तिकस्य विशे- षानुग्रहणं कुरुते, न अपूर्वमुत्पादयति। धर्मी चानेकधर्मस्वभावः, तस्य च अध्वभेदेन धर्माः प्रत्यवस्थिताः, न च यथा वर्तमानं व्यक्तिविशे- षापन्नं द्रव्यतोऽस्त्येवमतीतमनागतं वा, कथं तर्हि, खेन एव व्यङ्ग्य न स्वरूपण अनागतमस्ति, खेन च अनुभूतव्यक्तिकेन स्वरूपेण अतीतमिति, वर्तमानस्यैव अध्वनः स्वरूपव्यक्तिरिति न सा भवति अतीतानागतयोरध्वनोः, एकस्य च अध्वनः समये द्वौ अध्वानी धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२ ॥ भवेदप्ययं दोषो यदि स्वरूपापायो वासनानामस्माभिरुच्चन किन्तु अत्यन्तातीततामात्र यतोऽतीतानागतं वस्तु स्वरूपतो ४३० पातंजलदर्शनम् । ऽस्ति । नन्वेकदा विरुध्यमानानां धर्माणां कथमेकत्र सत्ता घटेत तवाह। अध्वमेदाधर्माणामिति । भिवावकत्वादविरोध इत्यर्थः । वर्तमानलक्षणानामेव धर्माणाम् एकदा विरोध इति भावः । अतीतानागतयोः स्वरूपानपायें प्रमाणं दर्शयति माथे- कारः । भविष्यदिति। भविष्यन्ती व्यक्तिरभिव्यक्तिर्यस्य तत्तथा। त्रयमिति । त्रयमप्येतहस्तु स्वरूपसत् यतो योगिनां प्रत्यक्ष- ज्ञानस्य ज्ञेयं विषयः । अत्र तर्कमाह। यदि चेति। नेद- मिति । शशशृङ्गादीनां ज्ञानादर्शनादिति भावः । तथा चोक्त ब्रह्ममीमांसासूत्रेण 'नाभाव उपलब्धे रिति । ननु शुक्तिरजता- दिवत् बुद्धिपरिणामविशेष एव योगजधर्मादिजन्योऽतीतादि- स्थले साक्षिज्ञानविषयोऽस्त्विति चेन्न। योगिना पूर्वानुभूताती- ताटेः कालान्तरेऽपि प्रत्यभिज्ञायमानत्वात् । बाधकाभावेऽपि वस्तूनां बुद्धिमानत्वे वर्तमानावस्थवस्तनामपि बुद्धिमानताप्रस- गाच्च । न च अनुपलम्भों बाधकः। योगिप्रत्यक्षसिंहस्य सौ- क्षमाणानुपलम्भोपपत्तेः। तथा च सांख्यसूत्रं 'सौक्ष्मयात्सदनुप- लब्धि'रिति। ननु अतीताद्यवस्थायां नास्तीति प्रत्ययो बाधक इति। मैवम् । योगिप्रत्यक्षेण लौकिकप्रत्यक्षस्य बांधनात् ई- दानी घटोऽतीत इत्यादिप्रतीतिबलात् नास्तीति प्रत्ययस्य अतीतादिविषयकत्वाञ्चेति । अतीतानागतसत्त्वस्वीकार वीजा- न्तरमाह। किञ्चेति । भोगभागी यस्य भोगसाधनस्य निरुपा- ख्यमसत् तदुद्दे शेनेत्यस्य विवरणं तेन निमित्तेनेति कुशलो निपुण:, कुशलो योगी अनागतं साक्षात्कृत्य तहत मानत्वाय यतते यथार्जुन: कृष्णशरीरे कालात्मके भौमादिप्रवेशं भाविनं दृष्ट्वा युद्धे प्रवृत्त इति । नन्वेवं कारणव्यापारो विफलः कार्यस्य नित्यत्वादित्याशशां परिहरन्नेव परमते दूषणान्तरमाह। सत- श्चेति। तथा च अव्यक्तावस्थया सतो वत्त मानतायां कारण- कैवत्वपादे योगवार्तिकम्। ४३१. व्यापारसाफल्यं दृष्टं च कारणव्यापारण सदेवाभिव्यज्यत इति यथा पाषाणेषु सतामेव प्रतिमापद्मादीनां लौकिकव्यापारणा- भिव्यक्तिमात्रमिति। तदुक्त वाशिष्ठ सुषुप्तावस्थया चक्रपद्मरेखा शिलोदरे । यथा स्थिता चितेरन्तस्तथेयं जगदावली॥ इति। चैतन्ये च जगदावली प्रकतिपुरुषयोस्तप्तायःपि- ण्डवदविवेकेन प्रकृतिहारोपासनार्था श्रुतिस्मृत्योरुच्यते सर्वक र्तृत्वसत्यसङ्कल्यत्वादिवत् । अथ वा गगने वायोरिवाधारत्वम- सङ्गेऽनेनैव चैतन्ये जगत उच्यते इति। ननु तथापि कारणनि- त्यत्वेन अतीताद्यवस्थादपि कारणात् सदैव कार्याभिव्यक्तिः स्यात् तत्राह। सिद्धमिति। सिद्धं वर्तमानमेव निमित्तमि- त्यादिरथैः, सत: कार्यस्योत्पत्ती कारणवैफल्यशङ्कानिरासायोक्तं विशेषानुग्रहणमिति। परमतं निषेधति। नापूर्वेति। अतो नापूर्वमुत्पादयतीत्यर्थः । अपूर्वोत्यादने च शशशृङ्गाद्यपि का- रणव्यापाराद्युत्पद्येत। उत्पत्त: प्राक् शशशृङ्गादिभ्यो घटादीनां वैलक्षण्याभावादिति अधिकं तु प्रागुक्तम् । अध्वभेदादिति सू- वावयवं व्याचष्टे। धर्मी चानेकेति। अतो न विरोधी इत्याह । न चेति । अभिव्यक्तिरूपेण विशेषेणैव धर्माणां विरोधो न स्वरू- पत इति वाक्यार्थः । द्रव्यत: स्वक्रियाकारित्वेन । पृच्छति, कथं तहीति। उत्तरं, खेनैवेति । व्यङ्गयन भाविव्यक्तिकेन । वर्तमानस्यैवेत्यादिरध्वनोरित्यन्त उपसंहारः। षष्ठी च अत्र सप्तम्यर्थ । ननु तथापि एकाध्वसमयेऽपराध्वाभावादध्वन्येव सत्कार्यहानिरित्याशङ्कायामाह। एकस्य चाध्वन इति । एतच्च एते भूतेन्द्रियेष्वित्यादिसूत्रे सम्यगुपपादितमस्माभिरिति । अभूचा अस्थित्वा त्रयाणामध्वनां लक्षणानामिति । तदेवं मोक्षयोग्य चित्त तदन्यचित्तानां बन्धप्रकार उक्त- । 7 पातञ्जलदर्शनम् । स्तस्य च मोक्षानुपपत्तिः परिहृता इतः परं मोक्षकारणस्व विवेकज्ञानाख्यसम्यग्ज्ञानस्य विषयो लक्षणादिकं चाति- विस्तरेण प्रतिपादनीय विशेषदर्शिन इत्यादिसूत्रवयपर्यन्तैः सूत्रैः तत्र चादौ सदसत्त्ववैधय॒ण कार्यकारणयोविवेकं सम्यग्- ज्ञानविषयैकदेशं दर्शयति ॥ १२ ॥ * ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३॥ * ते खलु अमी बाध्वानो धर्मा वर्तमाना व्यक्तात्मानो अतीतानागताः सूक्ष्मात्मानः सर्वमिदं गुणानां सन्निवेशविशेषमावमिति पर- मार्थतो गुणात्मानः, तथा च शास्त्रानुशासनं "गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्त दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम्” इति ॥ १३ ॥ ते धर्मा यद्यपि नित्यास्तथापि कालभेदेन व्यक्ताः सूक्ष्मा वा भवन्तु सर्व एव गुणात्मानः सत्त्वादिगुणमात्रखरूपा एव भवन्ति सदा वर्तमानत्वेन गुणा एव तदपेक्षया सत्या इत्यर्थः । व्याचष्टे । ते खल्विति। अत्र सूक्ष्मात्मान इत्यस्यानन्तरं षड- विशेषा इति पाठः क्वचित्तिष्ठति स तु प्रामादिकत्वादुपेक्षणीयः । सर्वविकाराणामेव गुणात्मकत्वस्य वक्तव्यतया षड़विशेषमाननिर्दे- शानौचित्यादिति। अयमर्थः । ते धर्मा व्यक्तस्वरूपाः सूक्ष्मखरूपाश्च महदादिघटपटान्ताः परमार्थती गुणात्मानो गुणरूपेणैव सन्तो न तु स्वरूपेण यतः सर्वमिदं धर्मजातं सत्त्वादीनां सबिवेश: मयोगस्तविशेषमात्रं तद्दिलये विलयात् तहतमानतायां वर्त- मानत्वात् तबियतमिति। तदुक्तम् । आद्यन्तयोर्यदसतोऽस्ति कैवल्यपाद योगवार्तिकम् । ४३३ । सदेव मध्ये इति विगुणात्मकमायैव जगत्परमार्थ इति च । अपार मार्थिकत्वं चानित्यतामात्ररूपासत्त्वम् अन्यथा सृष्ट्यादिप्रतिपा- दकसूत्रादिविरोधात् । अत्र अवयवसंयोगातिरिक्तो धर्मो ना- स्तीति न भाष्यार्थः । अवयविद्रव्यस्यातिरिक्तस्य स्थाने स्थाने व्यवस्थापितत्वादिति । उक्तार्थे शास्त्र प्रमाणयति । तथा चेति । परमं पारमार्थिकं नि यमिति यावत् । मायेव लौकिकमाया- वत् क्षणभङ्गरम् अतः सुतुच्छकम् अत्यन्ततुच्छम् अल्पसारं स्थिरां- शाभावादिति। अत्र सुशब्देन परिणामितया गुणानामपि तुच्छत्वं सूचितं गुणा एव परिणामितया कूठस्थनित्यापेक्षया तुच्छाः। गुणकार्य तु दृश्यमानं गुणापेक्षयापि तुच्छम् । अत: मुतुच्छमिति। यद्यपि मायाशब्दो मिथ्यावस्तूनां कारणे मुख्यः 'मायां तु प्रकृतिं विद्यादिति श्रुतेः । 'विश्वस्य वीजं परमासि माये'तिस्मृतेश्च । मायालं हि मृषाविकारण व्यामोहकत्वं तच प्रकतावेव मुख्यं 'प्रका सवैमेवेदं जगदन्धीक्कतं विभो' रिति । 'जगन्मोहात्मकं विद्धि अध्यक्तं व्यक्तसंजक'मिति मार- तात् । तथापि काय कारणाभेदात् मायाशब्दः कायऽपि प्रयुक: 'दैवी ह्येषा गुणमयो सम्म माया दुरत्यया' इत्यादावि- वेति मन्तव्यम्। ननु वं प्रपत्रोऽपि प्रकृत्याख्यमूलमायाका- यत्वात् मायैव अन्यथा मम योनिमहब्रह्म तम्मिन् गर्म दधाम्यहम् । मूलमायाभिधानं तत सा शक्तिमयि तिष्ठति । इति कौमादिषु सूलेतिविशेषणवैयर्थ्यात्। तत् कथमिव- शब्दः प्रयुता इति मेवम् । लौकिकस्येन्द्रजालादेरेवान दृष्टा- तत्वेनेवशब्दौचित्लादिति। प्रयष्य मूलकारणमात्रत्वे श्रुति- रपि वाचारम्भणं विकारो नामयं मृत्तिकेत्येव सत्यमित्यादि- कटात व्या। तथा विकासनपि ४३४ पातञ्जलदर्शनम्। शिविका दारुसङ्गातो रचना स्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ठ ! तनेदे शिविका त्वया ॥ एवं छत्रशलाकादिपृथग्भावो विमृश्यताम् । क्व जातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥ इत्यादि। एवंविधषु च वाक्येषु विकाराणामनित्यतयैव विवेकवैराग्ययोस्तात्पर्य न तु कार्यखण्डने कार्यकारणभाव- प्रतिपादकवाक्यविरोधात् । न च तदनुवादमात्र महदादि- सृष्टेलौकिकप्रमाणनधिगतत्वेन अनुवादासम्भवात्। प्रमाणान्तर- मत्त्वे च तेन सहापि विरोधस्थान्याय्यत्वात्। किञ्च सर्वविका- रस्व मिथ्यात्वे प्रमाणस्यापि मिथ्यात्वनिश्चयेन श्रुतिप्रमाणवते- ऽपि कारणत्वाभिमतब्रह्मादी पुन: संशयः स्यात् प्रामाण्यसंश- याहितार्थसंशयादिवदिति दिक्। सूत्रान्तरमवतारयति। य- देति। यदि सर्वे विकारा अनेकगुणमात्राः तदा कथमेकं शब्द तन्मात्रम् एकं चक्षुरिति लोकशास्त्रयोर्व्यवहार इति शङ्कावा- क्यार्थः। तत्र सिद्धान्तसूत्रम् ॥ १३ ॥ यदा तु सर्व गुणाः कथमेकः शब्द एक- मिन्द्रियमिति,- * परिणामैकत्वाद् वस्तुतत्त्वम् ॥ १४ ॥ * प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणा- मकानां करणभावेन एकः परिणामः श्रोत्र- मिन्द्रियं, ग्राह्यात्मकानां शब्दभावेन एकः परि- णामः शब्दो विषय इति, शब्दादीनां मूर्ति- समानजातीयानामेकः परिणामः पृथिवीपर- कैवल्यपादे योगवार्तिकम् । ४३५ माणुस्तन्मावावयवः, तेषां च एकः परिणामः पृथिवी गौवृक्षः पर्वत इत्येवमादिः, भूतान्तरेषु अपि स्नेहोष्णाप्रणामित्वावकाशदानानि उपा- दाय सामान्यमेकविकारारम्भः समाधेयः । ना- स्त्यर्थो विज्ञानविसहचरोऽस्ति तु ज्ञानमर्थविसह- चरं स्वप्नादौ कल्पितमित्यनया दिशा ये वस्तु- खरूपमपमुवते ज्ञानपरिकल्पनामावं वस्तु स्वप्न- विषयोपमं न परमार्थतोऽस्तौति ये आहुः ते तथेति प्रत्युपस्थितमिदं स्वमाहात्मन वस्तु कथ- मप्रमाणात्मकैन विकल्पज्ञानबलेन वस्तुस्वरूप- मुत्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः॥१४॥ परिणामस्यैकत्वात् वस्तूनां गुणानां तत्त्वमेकत्वमिति यो- जना। परमार्थतो नानात्वेऽपि व्यावहारिकेण अनित्येन परि- णामरूपेण वस्तूनां गुणानामेकत्वव्यवहार इत्यर्थः । श्रुतिर्व्यावहारिकस्याग्न्याद्यवयविन एकस्य अवयवविभागे सति नानात्वमेव पारमार्थिकमुक्तवती 'यदग्ने रोहितं रूपं तेजस- स्तद्रूपं यच्छल तदपां यत् कृष्णं तदनस्य अपागादग्नेरग्नित्वं बीणि रूपाणीत्येव सत्यमिति। परिणामस्यैकत्वं भाष्यकारी दर्शयति । प्रख्येति। ग्रहणात्मकानां सात्त्विकान्त:करणरूपेण परिणतानां वाह्यकरणभावेन श्रोत्रमित्येकः परिणाम इत्यर्थः तेन महदहङ्काररूपेणापि परिणामैकत्वकथनान्न न्यूनता। अत्र श्रोत्रशब्द नान्यान्यपि ज्ञानेन्द्रियाणि उपलक्षणीयानि । ग्राह्या- मकानामिति। तामसान्तःकरणरूपेण परिणतानामित्यर्थः । अतएव - ४३६ पातालदर्शनम्। अत्र शब्द इति। शब्दतमात्ररूपं द्रव्यं मूर्ति समानजातीयाना- मित्यागामिभाष्येण द्रव्यत्वलामात्। एतदपि रसादितन्मात्रा- णामुपलक्षणम्। एवं कर्मात्मकानां राजसान्त:करणरूपेण परि णतानां करणान्तर्भावनैकैकः परिणामो वागादीन्द्रियमित्यपि बोध्यम् । अतः परं स्थूलभूतरूपेणैक "परिणाम दर्शयति । शब्दादीनामिति। मूर्तिः काठिन्यं पृथिवीत्वमिति यावत् । मूल सजातीयानां शब्दादितम्मात्राणाम् एकः परिणामः पृथिवीपरमाणु: स्थूलपृथिव्याः परमसूक्ष्मावस्थेत्यर्थः । इदं चाग्रे प्रतिपादमिष्यामः । अयमेव सूक्ष्मशब्देन सांख्ये प्रोक्तः। 'सूक्ष्मा मातापिढजाः सहप्रभूतैस्त्रिधा विशेषाः स्यु'रित्यत्र । अयञ्च परमाणुंर्वशषिकैस्त्रसरेणुशब्दे नोच्यते। अस्माभिस्तु प्रत्यक्ष- थिव्याः परमसूक्ष्मत्वात् पृथिवीपरमाणुरिति । गुणेषु पृथिवी- त्वादिव्यवहाराभावेनाणुत्वेऽपि न पृथिव्याद्यणुव्यवहार इति । तस्य च पार्थिवपरमाणोनिरवयवत्वभ्रमनिरासाय पञ्चतन्मात्रा ण्येवावयवा इत्याह । तन्मात्रावयव इति। बहुव्रीहिविग्रहः । महाभूतादिरूपपरिणामेषु अपि एकत्वं दर्शयति । तेषामिति । एवमिति। एवं भूतान्तरेषु अपि जलादिषु नेहादिजातीयानि जलत्वतेजस्त्ववायुत्वाकाशत्वजातीयानि तन्मात्राणि गृहीत्वा सामान्य सजातीयानामनेकेषां धर्मभूत एकधिकारारम्भभूत उपपादनीय इत्यर्थः। तदयथा । गन्धतन्मात्र वर्जयित्वा चतु- स्तन्मात्राणां नेहजातीयानाम् एकः परिणामो जलपरमाणु- स्तेषां च महाजलादिः। एवं गन्धरसौ वर्जयित्वा औष्णाजाती- यानाम् त्रितन्मात्राणां तेजोऽणुस्तेभ्यो महातेजादि। एवं गन्धरसरूपाणां वर्जनाद हाभ्यां वायुणस्त भ्यो महावायादिः । एवं शब्दतन्मात्रादहङ्कारांशसहकतादाकाशाणुस्त भ्यो महाका- शादिरिति । इदमवावधेयम्। शब्दादीनां मूर्ति सजातीया- कैवल्यपाद योगवार्तिकम् । ন समान- नामित्यादिवाक्यादव दर्शनेऽयं सिद्धान्तः शब्दादितमानपञ्चक काठिन्यनेहादिव्ययाः पृथिवीत्वादिजातयः सन्ति । पृथिवीजातीयैः शब्दादिगन्धान्तपञ्चतन्मात्रैः पृथिवीपरमाणुरा- रभ्यते पृथिव्यां पञ्चगुणाषलम्भात्। एवं जलजातीयैः शब्दादि- रसपर्यन्तैश्चतुस्तन्मात्रैजलपरमाणु: । एवं तेजोजातीयैः शब्दा- दिरूपान्तत्रितन्मात्रैस्त जःपरमाणुः । एवं वायुजातीयाभ्यां शब्द- स्पर्शतन्मात्राभ्यां वायुपरमाणुः । एवमाकाशजातीयाच्छब्दतन्मा- त्रादहङ्कारसहलतादाकाशाणुर्जायते। एवं परमाणुगणोत्यत्त्य नन्तरं तेभ्य एव आकाशादिक्रमेण पञ्चमहाभूतानि उत्पद्यन्ते । श्रुतौ चाकाशादिक्रमेण महाभूतोत्पत्तिसिद्धेरिति । तन्त्र न्यायेन च सांख्येऽपौत्थमव सिद्धान्त उन्नीयते। विष्णुपुरा- णादौ तु शब्दतन्मात्रादाकाशमाकाशात् स्पर्शतन्मात्रं तस्माद वायुरेवं क्रमेण सृष्टिः स्मर्यते । यथा विष्णुयुराणेऽहङ्कारमध्य- नन्तरं यथा प्रधानेन महान् महता स तथावृतः । भूतादिस्तु विकुर्वाणः सर्ग तन्मात्रिकं ततः । ससर्ज शब्दतन्मानादाकाशं शब्दलक्षणम् । शब्दमानं तदाकाशं भूतादिः स समावणात् ॥ आकाशस्तु विकुर्वाण: स्पर्शमात्र ससर्ज है। बलवानभवद्वायुस्तस्य स्पर्शी गुणा मतः॥ इत्यादिक्रमेण पञ्चभूतसृष्टिरुता। तस्या अयमर्थः । सोऽह- झारो महताहतः आपूरित: यथा पृथिवी जलेनानुविद्या भवति तहत्। ततो महतापूरणाद्वाभ्यां मिलित्वा भूतादिस्तामसाह- शारः तन्मात्रिकं सगं तन्मात्राणां सृष्टिं ससर्ज चकार। तदतन्तरं स एव भूतादिः शब्दतन्मात्रात् स्खदितीयात् शब्दगुणकम् आकाशं ससर्जेत्यनुषज्यते । तथा चाहङ्कारशब्दतमात्राभ्यां मि- ४३८ पातबलदर्शनम् । लित्वाकाशं सृज्यते न तु तम्मानान्तरमपश्यत इति सिहम् । तच शब्दगुणकमाकाशं भूतादिनाहङ्कारेणापूरितं भूत्वा स्पर्श- मात्र ससर्ज, अन्न चाकाशेऽहङ्कारस्याधि कारणत्ववचनादपरभूत- चतुष्कऽपि तत्तन्मात्राणामहङ्कारसहितानामेव हेतुत्वमवगम्यते युक्तिसाम्यात् । एतत्सूचनायैव भूतादिशब्द नाहकारोपन्यासः ततश्च स्पर्शतमात्राद् बलवान् महावायुरभवदिति। एवंक्रमण तत्तन्मानाधिक्य न तेज आदिभूतत्रयोत्पत्तिवाक्यान्यपि तत्र व्याख्येयामि । कार्यकारणयोविवेकप्रकारः प्रदर्शितः । इदानीं यथोक्त कार्यकारणरूपं सर्व वस्तु असत् चित्तकल्पितमात्रं स्वप्न- वदिति ये आहुस्तानिषिध्य चित्ततदर्थयोर्विवेकप्रकारं दर्शयि- थति सूत्रकारः। तत्सूत्रमवतारयितुमुपक्रमते। नास्त्यर्थ इति। विज्ञानवादिन आहुः। वाह्यवस्तुनः प्रातौतिक्येव सत्ता परमार्थतस्तु गुणा वा तत्परिणामो वा अतीतादिकं वा किमपि नास्ति । न निरोधो न चोत्यत्तिन बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ यथा रथादयः स्वप्ने भान्त्य व नैव सन्ति ते। तथा जाग्रदवस्थायां भूतानि च न सन्ति वै॥ इत्यादिश्रुतिस्मृतिपम्परयैव वाद्यवस्तुनिराकरणात् । तथा युक्तिरप्यस्ति । स्वप्नादौ तावत् विषयं विनापि ज्ञानमुभयवादि- सिद्धमनुभवविषयत्वं विना हि विषयः परैरपि न खोक्रियते अत उभयवादिसिद्धेन ज्ञानेनैव स्वप्नादिवत् सर्वव्यवहारोपपत्ती ज्ञानातिरिक्तार्थकल्पने गौरवमिति तामिमां युक्ति प्रदर्शयन् खमतमुपन्यस्यति। नास्त्यर्थ इत्यादिना। विज्ञानविसहचरी विज्ञानाभावकालीनोऽर्थ उभयसिद्धी नास्ति । ज्ञानं तु अर्था- भावकालीनं खपादौ कल्पितमुभयवादिसिद्धमित्यनया दिशा कैवल्यपादे योगवार्तिकम् । 8३८ एतद्युतिमार्गरण ये बस्तुखरूपमत्वन्तमपडवते । थे इत्याद्यप वत्त इत्यन्तं विशाति। ज्ञानत्यादिना माहुरित्यन्तेन। दिक- शब्दसूचिताच पराभिप्रेतश्रुत्यादयः पूर्वोक्ताः तथा युक्त्यन्त- 1 राणि च। सहोपन्नम्भनियमादभेदोबीततदियोः ।, भेदश्च धान्तिविज्ञान श्य इन्दाविवादयः । इत्यादीनि। तन्मतं खयमादौ निराकरोति। ते तथेति। ते विज्ञानवादिन एवासन्त इत्यर्थः । तत्र हेतुमाह। प्रत्युप- स्थितमित्यादिना स्युरित्यन्तेन । अस्यार्थः । इदं सर्व वस्तु स्वमा हात्मान सन्त्रिकर्षादिनैवोपस्थितं न तु दोषादिना स्वप्नवदत्यन्त- बाधादर्शनात्। अतः कथं वस्तुस्वरूपं गृहीत्वा अपि अप्रमाण- रूपेण स्वप्नज्ञानरूपदृष्टान्तबलेन वस्तुखरूपमपलपन्तः श्रद्धेय- वचनाः स्युः । तेषां ज्ञानस्यापि भ्रमत्वेन तहाक्यस्य यथार्थ- वाक्यार्थज्ञानाजन्यत्वात् तदाक्यार्थस्यापलापाच्च। तद्दाक्यस्य अश्रद्धेयत्वमित्यर्थः । न हि जाग्रज्ञानस्य स्वप्नदृष्टान्तेन विष- यापलाप क्रिययमाणे स्वाभिप्रेतस्य यत्किञ्चिज्ञानस्य विषयः सन् इत्यपि अभ्युपगन्तं शक्यते प्रामाणिकरित्यतस्ते एव नास्ति- का: न पुनरर्थो नास्तीति भावः । एतेन आधुनिकानां दृष्टि- सृष्टिवादिनां वेदान्तिब्रुवाणामपि मतं प्रच्छन्द्रनास्तिकतयो- पेक्षणीयम् । स्वप्नादिदृष्टान्तेन श्रीहर्षादीनामसत्खण्डनेन च वेदान्ततज्जन्यज्ञानयोरपि भ्रमत्वापत्त्या वेदान्तप्रामाण्यासिद्धी तत्प्रतिपाद्यब्रह्मासिद्धिासङ्गादिति । ननु अनुभवस्वरूपस्यात्मनः स्वप्रकाशत्वात् न तत्र प्रमाणापेक्षेति चेत् न। वेदान्तश्रवणवैयपित्तेः। अथ अपूर्णत्वसहितीयत्वभ्रमनिरा- साधं श्रवणापेक्षेति चेत् न। अप्रमाणीभूतन वेदान्तेन अपूर्ण- वायभावस्य असियापत्तेः। ननु श्रुत्या स्वार्थे बोधित सति तथा सति ४४० पातमलदर्शनम् । पश्चात्तहाधेऽप्यक्षतिः श्रुतिप्रवृत्तेः प्राक् अबाधितमेव सर्वमिति। मैवम्। श्रुतिप्रामाण्यग्राहकानुमानादीनामपि अप्रामाण्ये स्त्र- प्रमाणीभूतां बाधितां च श्रुतिम् उत्पादितज्ञानामपि प्रामाण्य- संशयाहितः स्वार्थसंशयः कथन अजागलस्तनवत् विफलीकुर्या- दिति दिक् । विज्ञानवादे दूषणान्तरपरतयोत्तरसूत्रमवतार- यति। कुतश्चेति। चशब्दो हेत्वन्तरे कुतोऽपीत्यर्थः ॥ १४ ॥ कुतश्चैतदन्याय्यम्, * वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः ॥ १५ ।। * बहुचित्तावलम्बनीभूतमेकं वस्तु साधारणं, तत् खलु न एकचित्तपरिकल्पितं, नापि अनेक चित्तपरिकल्पितं, किन्तु खप्रतिष्ठं, कथं, वस्तु- साम्ये चित्तभेदात् धर्मापेक्षं चित्तस्य वस्तुसाम्ये- ऽपि मुखज्ञानं भवति, अधर्मापेक्ष तत एव दुःखज्ञानम्, अविद्यापेक्षतत एव मूढ़तानम्, सम्यग्दर्शनापेक्ष तत एव माध्यस्थ्यज्ञानमिति, कस्य तच्चित्तेन परिकल्पितं, न च अन्यचित्त- परिकल्पितेन अर्थन अन्यस्य चित्तोपरागो युक्तः, तस्माद् वस्तुज्ञानयोाह्यग्रहणभेदभिन्नयोविभक्तः पन्था नानयोः सङ्करगन्धोऽपि अस्तौति। साय- पक्षे पुनर्वस्तु विगुणं चलं च गुणवृत्तमिति धर्मा- केवख्यपादे योगवार्तिकम् । ४४१ दिनिमित्तापक्ष चित्तैरभिसम्बध्यते, निमित्तानु- रूपस्य च प्रत्ययस्य उत्पद्यमानस्य तेन तेन आ- त्मना हेतुर्भवति ॥ १५ ॥ एकस्मिन्नेव विषये चित्तान्तरवियोग चित्तान्तरालम्बनदर्शनात् तयोश्चित्तार्थयोविभक्तः पृथगेव पन्थाः स्वरूपभेदीवयनवम विरु- हधर्मद्दयरुपमेकानिकत्वरूपमित्यर्थः । क्षणिकविज्ञानमेव परषां चित्तमित्यतः चित्तानेदेनैव विज्ञानभेदोऽर्थेषु सिद्ध इति भावः । तवादी भाष्यकारोऽनुभवबलात् हेतु साधयति। बहुचित्तालम्ब- नीभूतमेकं वस्तु साधारणमिति । प्रत्यभिज्ञासिद्धमिति शेषः । सौत्रऽनुमाने तर्कमादौ दर्शयति। तत् खल्वित्यादिना प्रतिष्ठमि त्यन्तेन। नैकेति। न एकमात्रौयपुरुषचित्तात्मक तथा नानेक- पुरुषोयचित्तात्मकम् अपि स्वप्रतिष्ठ चित्तातिरेकेणैव स्वातन्त्र णैव स्थितमित्यर्थः । सिद्धहेतु योजयितु पृच्छति । कथमिति उत्तरं, वस्तु इति । आदौ एकपुरुषीयचित्तकल्पितत्वानुपय- त्तिमुक्तहेतुना प्रतिपादयति। धर्मापेक्षमिति। पुरुषभेटेनैक- सिमबेव योषिवस्तुनि धर्मनिमित्तात् सुखज्ञानं सुखवती स्त्रया कारत्तिभवति। अधर्मनिमित्ताञ्च दुःखवती स्त्रयाकारकृत्ति- रित्येवमादिरूपैश्चित्तभेदोऽस्ति अतः कस्य पुरुषस्य चित्तेन तत् कल्पितं स्यात् न कस्यापीत्यर्थः । नन्वेवं भवतु अनेकपुरुषचित्त परिकल्पितमिति द्वितीयः पक्ष: तत्राह। न चान्येति । नाप्यन्य- पुरुषचित्तात्मकेन वस्तुना अन्यस्य चित्ते उपरागः, सम्भवति परस्वतस्य परेण अज्ञानादित्यर्थः । तकं प्रदर्श्य सूत्रार्थं व्याचष्टे । तस्मादिति। ग्राह्यग्रहणयोर्भेदेन वैधhण भिन्नयोरित्यर्थः ननु चित्तातिरिक्तार्थवादिनाम् अर्थस्य स्थिरत्वाविरन्तरमेव कथं ज्ञानं न भवति। कथं वा एक एवार्थः स्वप्नादिभेदभिन्नासु - - ४४२ पातञ्जलदर्शनम् । वृत्तिषु हेतुः स्यात्। न हि अविलक्षणात् कारणात् कार्यभेदों घटत इत्याशङ्कायामाह। सांख्यपक्ष इति । सांख्यानुसारिमते सुखदुःखमोहात्मकं भवति वस्तु चलं चलस्वभावमती धर्मादि- निमित्तवशात् सुखाद्यर्थमेव चित्तर्वस्तु सम्बध्यत इति न सर्वदा ज्ञानं तथा धर्मादिनिमित्तानुरूपं सुखाद्यात्मकप्रत्ययं प्रति सु- खाद्यात्मकत्वेनैव वस्तु हेतुर्भवतीति कारणतावच्छेदकभेदात् न द्वितीयोऽपि दोष इत्यर्थः । बौद्धवादान्तरनिरासकसूत्रान्तर- मवतारयितु तन्मतमुपन्यस्यति । केचिदाहुरिति । केचिदाहुः । अस्तु ज्ञानाशिवोऽर्थः तथापि ज्ञानसमकालीन एव सीऽस्तु अन्यथा प्रमाणाभावात्, प्रयोगश्चायं ज्ञानसहभृरेवार्थो भोग्य- त्वात् सुखादिवदिति । अत्र सुखदृष्टान्तस्तन्मतेनैव अस्मन्मते सुखस्यापि विषये स्थिरत्वात् । रागद्वेषादिश्च उभयसिहो दृष्टान्त इति। अर्थस्य ज्ञानसहभावित्वेन यत् सिध्यति तदाह । त एत- येति। ते च एतेन अनुमानेन विषयस्य पुरुषान्तरसागरण्य बाधमाना ज्ञानपूर्वोत्तरक्षणेषु विषयमपलपन्तीत्यर्थः। ततश्च अननुभूयमानतया न मोक्षसिद्धिरिति भावः । तत्र प्रत्युत्तर सूत्रमिदम् ॥ १५ ॥ केचिदाहुः ज्ञानसहभूरेवार्थी भोग्यत्वात् सुखादिवदिति, त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरेषु क्षणेषु वस्त रूपमेव अप- हु वते। * न च एकचित्ततन्वं वस्तु तदप्रमाणक तदा किं स्यात् ॥ १६ ॥ * एकचित्ततन्त्र चेट् वस्तु, स्यात् तदा चित्ते कैवल्यपाद थोगवार्त्तिकम्। ४४३ व्यग्रे निरुद्दे वा स्वरूपमेव तेन अपरामृष्टमन्यस्य अविषयीभूतमप्रमाणकम् अग्रहीतखभावक केन चित् तदानौं किं तत् स्यात्, सम्बध्यमानं च पुनश्चित्तेन कुत उत्पोत, ये च अस्यानुपस्थिता भागास्त चास्य न स्युः, एवं नास्ति पृष्ठमित्युदर- मपि न गृह्येत, तस्मात् खतन्त्रोऽर्थः सर्वपुरुष- साधारणः, स्वतन्त्राणि च चित्तानि प्रतिपुरुष प्रवर्त्तन्ते, तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोग इति ॥ १६ ॥ वृत्त्याख्यज्ञानातिरिक्तं तेषां चित्त नास्तीति ज्ञानमेवात चित्त तत्तन्त्र तन्नियतं तथा च नापि वस्तु एकज्ञाननियत- मिति प्रतिज्ञा। तत्र हेतुः, तदित्यादि। तदा तर्हि तच्चित्त- प्रमाणकं वस्तु किं स्यात् चित्तापाये कुत्र विलीयेत न कुत्रापि इत्यतो वस्तु स्थिरमिति शेषः । अयं भावः। यदि चित्तस्य कारणे विलोयत इत्युच्यते तदा घटादिरूपार्थानां लाघवात् चित्ताभेदापत्त्या विज्ञानवादिमतएव प्रवेश: तच्च दूषितं यदि च मृदादिषु उच्येत. तदा विनाशकारणाकाक्षायां परिदृष्टस्य मुहरपाताटेरेव नाशकारणत्वेन चित्तनाशसमकानं घटादिवस्तु- नाशानुपपत्तिरिति। हेतपदस्थेममैवार्थ भाष्यकार एकेति। एकचित्तनियतं चेद्दस्तु स्यात् तदा तश्चित्ते विषया- न्तरसञ्चारिणि निरुद्दे वा सति अस्वरूपमेव तहस्तु अतस्तदानीं तत्कि स्यात्, शेषमस्वरूपत्वे हेतुः । अप्रमाणकमित्यस्य विव- रणं केनचिदग्रहोतखभावकमिति। खयमधिकं पूरयति । थाहा - ४४४ पातञ्जलदर्शनम्। सम्बध्यमानं चेति । चित्तेन समकालं मावित्वात् कुत उत्पद्यतन कुतोऽपीत्यर्थः । पूर्ववत् अयं भाव: । यदि चित्तस्य कारणादेवो- त्यत्तिरुच्यते तदा चित्ताभेद एव स्यात् यदि च वाह्यकारणात् भेदात् चित्तव्यभिचार्यपि स्यात् स्वतन्वकारणेनोत्पादनात् परि दृष्टानां दण्डचक्रादीनामेव कारणत्वौचित्येन चित्तव्यभिचार- सिद्धिश्चेति । बाधकान्तरमाह। ये च अस्येति । अस्यार्थस्य गृह्यमाणस्य अप्रतीयमाना ये च पृष्ठाद्यंशास्तेऽपि अप्रामाणिक- त्वादसन्तः स्युः। एवञ्च पृष्ठाद्यभावादुदरं प्रतीयमानमपि न सोत, सत्यतयेति शेषः । उदरस्य पृष्ठादिव्याप्ततया पृष्ठाद्य- भावनोदराभावसिद्धेरिति भावः । परमतमपाकृत्य खमतमुप- पन्नतयोपसंहरति । तस्मादिति। उभयत्र स्वतन्त्रशब्दोऽन्यो- न्यनरपेक्ष्यबोधनाय। भोग इति। वियोगाच्चानुपलब्धिर्मोक्ष इति शेषः । चित्ततदर्थयोविवेकप्रकारो दर्शितः। इदानीं ज्ञातविषयत्वसदाजातविषयत्वाभ्यां चित्तात्मनोविवेकप्रकारमाह सूत्राभ्याम् । अस्यैव च मोक्षहेतुज्ञानविषयस्य विवेकस्योपो- हातसङ्गत्या कार्यकारणयोश्चित्तार्थयोय विवेकः पूर्व दर्शितः यावद्धि कार्यभिन्न कारणं न सिध्यति न तावहत्तिकारणतया चित्तं स्थिरं सिध्यति येन ज्ञाताज्ञातविषयत्वं चित्तस्य स्यात् यावत् वा चित्तार्थयोर्मेदोऽपि न सिध्यति न तावदपि चित्तस्य ज्ञाताज्ञातविषयत्वं सिध्यति ततः कुतो ज्ञाताज्ञातविषयत्वसदा- ज्ञातविषयत्वाभ्यां चित्तात्मनोविवेक इति भावः ॥ १६ ॥ * तदुपरागापेक्षित्वाच्चित्तस्य वस्तु, ज्ञाता- ज्ञातम् ॥ १७॥ * अयस्कान्तमलिकल्या विषया अयःसधर्मक चित्तमभिसम्बध्योपरञ्जयन्ति, येन च विषयेण कैवल्यपादे योगवार्तिकम्। ४४५ उपरक्तं चित्तं स विषयो जातस्ततोऽन्यः पुनर- ज्ञातः, वस्तु नो ज्ञाताजातवरूपत्वात् परि- गामि चित्तम् ॥ १७॥ चित्तस्य कालमेदेन ज्ञातमज्ञातं च वस्तु भवति । कुतः । अर्थाकारतारूपोपरागसापेक्षत्वात् अर्थज्ञान इति शेषः । अतो ज्ञाताज्ञातविषयतया चित्त परिणाम्यपीति भावः। ननु अर्था- कारतातिरिक्त किं बुडेनिमस्ति यत्र तस्या अपेक्षोच्यत इति चेन्न । भूतप्रकाशवत् सत्त्वस्यापि कश्चन प्रकाशोऽस्ति सुषुत्या. दिव्याहत्तोऽनुभवसिद्धः तस्यैव अन्धाकारावच्छिन्नस्य बुद्धिधर्म- जानत्वादिति। उपरागकारणप्रदर्शनपूर्वकं सूत्र व्याचष्टे । अयस्कान्तेति। अयस्कान्तमणिवदक्रिया एव विषया अयोवत् क्रियाशीलं चित्त स्वमहिम्ना आवष्य स्वस्मिन् संयोज्य तदुपर- जयन्ति स्त्राकाराकारयन्तीति लाक्षारस इव वस्त्रम् अतो येन विषयेणोपरक्त यच्चित्त स विषयस्तस्य ज्ञात इत्यर्थः । इतरे च अज्ञाता इत्यर्थः । यद्यपि चित्तस्य जड़त्वान्न ज्ञानं चैतन्य- स्यैव ज्ञानत्वात् तस्य च पौरुषेयत्वात् उभयत्र जानकल्पने गौरवात् सत्त्वस्य प्रकाशरूपता च प्रतिविम्वग्रहणक्षमनैर्मत्य- मात्र तथापि तप्तायोवयवहारतो बुद्धिसत्त्वप्रकाशोऽपि ज्ञान- शब्देनोक्तः। सूत्रतात्ययविषयं पुरुषादैवान्तरं हेयताया विवेकस्य च वीजं चित्तस्य च दर्शयति। वस्तुन इति। अतो ज्ञातानातवस्तुकत्वान्यथानुपपत्त्या चित्तस्योपरागाख्यपरिणामः सिह इत्यर्थः । घटादीनामपि साक्षात्पुरुषविषयत्वे पुरुषस्यापि ज्ञातानातविषयत्वं स्यादित्याशयेन पूरयित्वोत्तरसूत्रमुत्थाप- यति । यस्य विति ॥ १७॥ यस्य तु तदेव चित्तं विषयस्तस्य- ४४६ पातञ्जलदर्शनम् । * सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्या- परिणामित्वात् ॥ १८॥ * यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत तत- स्तद्विषयाश्चित्तवृत्तयः, शब्दादिविषयवत् ज्ञाता- ज्ञाताः स्युः, सदा ज्ञातत्वं तु मनसस्तव्यभोः पुरुष- स्यापरिणामित्वमनुमापयति ॥ १८ ॥ यस्य तु तदेव विषयोपरक्तमेव चित्त विषयो नान्यत् अतः स्तस्य तत्प्रभोश्चित्तसाक्षिण: पुरुषस्य विषयाश्चित्तवृत्तयः सदा- ज्ञाताः पुरुषस्य अपरिणामादित्यर्थः। परिणामित्वे हि कदाः चित् पुरुषस्य आन्ध्यापत्त्या विद्यमानापि चित्तवृत्तिन ज्ञायत। तदा च तस्या अपि ज्ञाताज्ञातोभयरूपत्वे अहं सुखौ न वा दुःखी न वा इच्छामि न वा इत्यादिसंशयः स्यात् । एतादृशश्च संशयो न दृश्यते अतो वृत्त रजातसत्ता नास्ति ततश्च पुरुषो अपरिणामीत्यायातम्। ननु पुरुषस्य अपरिणामित्वस्य व्यव- स्थापने किमिति सांख्ययोगयोराग्रह इति चेत् शृणु। यदि हि पुरुषस्य ज्ञानादिलक्षणधर्म: कश्चन मोक्षे नश्येत् तदा व्ययदोषेण दारिद्रावत् मोक्षो न परमपुरुषार्थ: स्यादिति अ- स्मिन् सूत्रे बुद्धित्तिरव पुरुषस्य विषय इति लब्धम् । अतएव 'पुरुषो विषयी नित्यं सत्त्वच विषय: स्मृत' इत्यनुगीतायां नित्यमित्यनेन सत्त्वाख्याया बुद्धिवृत्त रेव पुरुषविषयत्वमुक्तम् । सूत्रतात्पर्य विषयं चित्ताधर्म्य भाष्यकार पाह। यदीति भाष्य सुगमम् । ननु यदि चित्तमेव पुरुषस्य विषयस्तर्हि शब्दा- दिप्रकाशः कथं स्यात् चित्तस्याचेतनत्वेन विषयतामात्रेण प्रका-

कैवल्यपादे योगवार्तिकम्
४४७
।
शासम्भवादिति चेव। चित्तारूढ़तयैव शब्दादीनां पुरुषे भाना-
दिति। ननु सर्वसम्बद्दत्वाविशेषेऽपि चित्तमेव पुरुषस्य विषयो
मान्य इत्यत्र का युक्तिरिति चेच्छृणु। अर्थाकारतैव विषयविष-
यिभावो न तु संयोगमात्रम् अतीन्द्रियेषु संयोगसत्त्वेऽपि चित्त-
विषयत्वाभावात् सा चाकारता प्रतिबिम्बरूपैव पुरुषे स्त्री-
का- खतोऽपरिणामित्वस्य साधितत्वात् अत: पुरुष प्रति-
विम्बसमर्पणसामध्यं वृत्तिमत्वचित्तस्यैव फलबलात् कल्पाते
यथा जलादौ प्रतिविम्बनसामर्थ्य
रूपवत्स्थूलद्रव्यस्यैवेति
तदेताभ्यां सूत्राभ्यां चित्तविधर्मतया चित्तातिरितो मोक्षभागी
पुरुषः प्रतिपादितः। आभ्यां च सूत्राभ्यामज्ञानमिच्छादिवि-
कारजातं च चित्तनिष्ठमेव न तु पुरुषनिष्ठमित्यवगन्तव्यम् ।
ननु पुरुषस्य सदाज्ञातविषयत्वेन ज्ञानपरिणामो मास्तु इच्छा-
सुखादिपरिणामे तु किं बाधकमिति चेच्छृणु। पुरुषस्य सदा-
ज्ञातविषयत्वे सिद्धे लाघवाचिप्रकाशखरूपमकैकमेवात्मद्रव्यं
सिध्यति ततश्चाज्ञानस्य चित्तधर्मतया अज्ञानकायं धर्मादिकं
तत्कायं चेच्छासुखादिकमपि चित्तस्यैव सामानाधिकरण्यप्रत्या-
सत्तौ लाघवादिति भावः ।
चित्तस्यैव स्वग्राहकतया सदा-
ज्ञातविषयकत्वं चित्तभोक्तुरसिहमित्याशङ्कानिरासकं सूत्रान्तर-
मवतारयति। स्यादाशङ्कति। वैनाशिकानां चित्तात्मवादिना-
मिति शेषः। चित्तमेव स्वस्य विषयस्य च प्रकाशकमग्निवद्भ-
विष्थति कतमपरिणामिना अन्येनेत्याशङ्का वैनाशिकानां स्यादि-
त्यर्थः । अत्राग्निचित्तयोः साधारणं प्रकाशकत्वम् अखण्डोपाधिः
प्रकाश इति व्यवहारहेतुः स्वाभासतारूपसाध्ये प्रवेशनीयः ।
तेनाग्निचेतनयोरेकरूपप्रकाशाभावेऽपि न क्षतिः। तथाच
श्रुतिस्मृत्योरपि आत्मनि नाग्न्यादीत्यादिदृष्टान्तानुपपत्तिरिति
तामिमामाशङ्खां सूत्रेण परिहरति ॥ १८ ॥

४४८ पातञ्जलदर्शनम्। स्यादाशङ्का चित्तमेव स्वाभासं विषयाभासं च भविष्यति अग्निवत्, * न तत् खाभासं दृश्यत्वात् ॥ १९॥ * यथेतराणौन्द्रियाणि शब्दादयश्च दृश्यत्वान्न खाभासानि तथा मनोऽपि प्रत्येतव्यं, न चाग्नि- रत्र दृष्टान्तः, न हि अग्निरात्मस्वरूपमप्रकाशं प्रकाशयति, प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः, न च स्वरूपमावेऽस्ति संयोगः। किञ्च खाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति श- ब्दार्थः। तद्यथा खात्मप्रतिष्ठमाकाशं न पर- प्रतिष्ठम् इत्यर्थः, खबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्रवृत्तिश्यते क्रुद्धोऽहं भौतोऽहममुत्र मे रागोऽमूत्र मे क्रोध इति, एतत् खबुझेरग्रहणे न युक्तमिति ॥ १६ ॥ व्याचष्टे। यथेतराणीति। अन्तःकरणस्यैक्याञ्चित्तमेव मन इत्युक्तवान् । अनायं प्रयोगः । चित्त न स्वाभासं स्वगोचरहत्त्य- भावकाले न स्वप्रकाश्यं दृश्यत्वात् इन्द्रियशब्दादिवदिति । तथा च स्वगोचरवृत्त्यभावकाले चित्तभानार्थ पुरुषः सिध्यतीति भावः। वृत्तिभानार्थ नियमेन वृत्तिकल्पने चानवस्थां सूत्रकार एव वक्ष्यति, स्वप्रकाश्यत्वं च पुरुष प्रसिद्धम्। पुरुषस्य वज्ञेयः- तायाः प्रागुक्तत्वेन व्यभिचार: स्यादतः साध्ये काल इत्यन्तम् । अग्न्यादौ च स्वाभासत्वमेव नास्तीति वक्ष्यति । अतो न तथापि तथाच कैवल्यपादे योगवार्त्तिकम्। ४४८ व्यभिचार:, दृष्टान्ते च सर्वदैव स्वप्रकाशसत्त्वाभावोऽस्ति इति। अत्र च कर्मकर्तृविरोधो विपक्षबाधकस्तर्कः कम- कर्तृविरोधे च स्वस्मिन् स्वसंयोगानुपपत्तिस्तर्कः । वक्ष्यति। प्रकाशश्वायं प्रकाश्यप्रकाशसंयोगे दृष्टो न स्वरूपेऽस्ति संयोग इति। तथा परसमवेतक्रियाफलभागित्वरूपकर्मत्वं न क्रियाश्रये कर्तरि सम्भवतीति। आधुनिकवेदान्तिब्रुवास्तु चित्तादिकं न द्रष्टदृश्यत्वादित्येवं प्रयुञ्जते। पुरुषस्तु कर्मकर्त- विरोधाद् दृश्य एव न भवति पुरुषगोचरस्तु व्यवहारः पुरुषसत्तै व पुरुषेण भवति प्रकाशगोचरव्यवहार प्रकाशान्तरानपेक्षादश- नादित्याहुः। तन्न। चित्तवृत्तावप्य वं परैरदृश्यत्वस्य सुवच- तया चित्तातिरिक्तपुरुषसिद्धानुपपत्तेः । वृत्तिगोचरव्यवहार- स्यापि वरूपसत्या वृत्त्यैव वक्तुं शक्यत्वात् प्रकाशगोचरव्यवहार- मात्रे प्रकाशानपेक्षेत्येव हि दृष्टं तत्र चित्त वा पुरुषो वेति न कश्चन विशेषः । अपि च स्वप्रकाशं निरञ्जनमित्यादिश्रुति- स्मृत्युक्त वप्रकाशत्वमप्यदृश्यत्वे सति पुरुषस्य यथाश्रुतं नोप- पद्येत यौगिकार्थत्यागात् । किं च पुरुषनिष्ठफलाजनकत्वेना- त्मतत्त्वाकारा चित्तवृत्ति: प्रमाणमेव न स्यादित्यादिदोषप्रसक्ति. रिति। कर्मकर्तृविरोधस्तु पुरुषस्य ज्ञेयत्वेऽपि नास्ति चेत. मप्रतिविम्बितबुद्धिवृत्तिव्याप्यत्वरूपस्यैव जेयत्वस्य परादिवदेव बुद्धिवृत्त्यारूढ़रूपो दृश्यो दर्पणारूढ़मुखवत् केवलस्तु द्रष्टेति प्रकारभेदात्कथं कर्मकर्तृविरोध इति दिक् । कर्मकर्तृविरो- धस्तु बौद्धमत एव भवति चित्तातिरिक्तद्रष्ट्रनभ्युपगमेन करणा- न्तरानभ्युपगमेन च द्रष्टरि साक्षादेव स्वप्रतिविम्बादेरनुपपत्त- रिति चित्तस्य स्वाभासत्वेऽग्निवदिति परोक्तदृष्टान्तस्यासिद्धि- न चाग्निरनेति। अत्र खाभासत्वे न ह्यग्निरिति यद्यग्निः पूर्व तमसा पिहितः पश्चादात्मानं प्रकाशयतीति क्वचित् माह।

४५० पातञ्जलदर्शनम् । दृष्टं स्यात् तदाग्नेः स्वप्रकाश्यत्वं पुरुषस्येव सिध्येत् तदेव तु नास्तीत्यर्थः । ननु पुरुषोऽपि प्रकाशवरूप एव सर्वदा तमस्तु बुद्धिवृत्त रेव प्रतिबन्धकमिति चेत्सत्यम् । तथापि बुद्धिवृत्त्याख्य- करणाभावकाले स्वात्मानमविषयीहत्य करणकाले विषयौकरी- तीत्ययमग्नितो विशेषोऽस्त्येव अतः प्रकाशखरूपतादिसाम्येऽपि पुरुषः खप्रकाश्यो नाग्निरिति न केवलं प्रमाणाभावादेव अग्नेः खप्रकाश्यत्वाभावोऽपि तु प्रकाश्यत्वव्यवहारकारणाभावादपी- त्याह । प्रकाशश्च अयमिति। प्रकाशोऽत्र प्रकाश्यत्वव्यवहारो- ऽन्यथा प्रकाशसंयोगस्यैव प्रकाश्यत्वरूपतया तस्य संयोगजन्यत्वा- नुपपत्तिरिति संयोगः प्रतिविम्बसाधारणसम्बन्धो यदि चाग्नौ साक्षादेव स्वप्रतिविम्बादिरिष्यते तदा दृष्टविरोध इति भावः । अग्नेः स्वप्रकाशत्वं तु प्रकाशान्तरनरपेक्ष्येण स्वतएव प्रकाशरूपत्वं घटादयस्तु प्रकाश सम्बन्धादेव प्रकाशन्ते अग्निदृष्टान्तेन चेदृश- मेव खप्रकाशत्वं पुरुषस्य शास्त्रेषु उच्यते चित्तादिवेकाय चि- त्तस्य हि प्रकाश: पुरुषोपाधिक एव अयसो दग्धृत्ववदिति । यत्तु श्रीवत्व सति अपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वमित्या. धुनिकवेदान्ति सुवाणां प्रलपनं तत् प्रागैव निराकृतम् । विस्तर- तस्तु ब्रह्ममीमांसायामपोति दिक्। ननु एवमप्रकाश्यत्वरूपमेव खाभासत्वं चित्तस्य अस्माभिरभ्युपेयं तथा चाग्निदृष्टान्त उप- पन्न: स्यात् तलाह। किञ्चेति । शब्दार्थः स्वाभासशब्दार्थः सम्भ- वतीति शेषः । एवञ्च सति इदं दूषणमित्याह। स्वबुद्धिप्रचार- त्यादिना। बुद्धेः प्रचारो वृत्तिः तस्याः संवेदनात् क्रोधाद्यनुभ- वात् तद्धानाथं सत्त्वानां प्राणिनां प्रवृत्ति श्यते तच्च स्वबुद्ध्य- ग्रहण युक्तं न भवतीति बुद्धे ाह्यत्वमवश्यं वक्तव्यमित्यर्थः । ननु अहं क्रुद्ध इत्यादिप्रत्यये पुरुषस्यापि ग्रहणात् स्वाभासत्व न स्यादिति चेत् सत्यम् । अग्राह्यत्वरूपस्य स्वाभासत्वस्य पुरुषेऽपि कैवल्यपादे योगवाति कम्। ४५१ .. अनङ्गीकारादिति। यद्यपि आदी क्रोधादौनां स्वरूपती निर्विकल्प एव बोध: पौरुषेयो भवति क्रुद्धोऽहमित्यादिस्तु अहङ्कारस्यैव हत्तिः पुरुषस्य भ्रान्तत्वात् कूटस्थतया बुद्धिवृत्त्या- कारातिरिक्ताकारासम्भवाच्च तथापि पौरुषेयेण क्रोधनिर्विक- ल्येन जनिता क्रुद्धोऽहमिति या अन्तःकरणस्य विशिष्टत्तिस्तत्मा- क्षिको बोधश्च तद्ग्राह्यत्वेनैवात्र चित्तस्य अग्राह्यत्वं प्रतिषिध्यते क्रोधादीनां पौरुषेयनिर्विकल्पकस्य शब्दागोचरत्वेनोपन्यस्तुमश- क्वत्वात् पुरुषसाधकं तु चित्तग्रहणं वृत्तिगोचरनिर्विकल्पकम नुमानगम्यमेव तस्य हि चित्तधर्मत्वं सम्भवति नियमेन सर्व- वृत्तिगोचराया जन्यनिर्विकल्पकधारायाः स्वीकार अवनवस्था- पत्तः। अज्ञातत्ति स्वीकार च क्रुद्धोऽहं न वा इत्यादिसंशया- द्यापत्तेः। क्रोधादिगोचरनित्यनिर्विकल्पकैक ज्ञानस्वीकार च विशिष्टप्रत्यक्षसामग्रमा बलवत्याः प्रतिबन्धात् संशयाद्यभावः । सम्प्रज्ञातयोगऽपि वृत्तिः स्वरूपतो भासत एवेत्यभ्युपेयमिति । चित्तस्य स्वाभासतावादिमते तन्मतमालम्बधवान्यदूषणमाह ॥१८॥ * एकसमये चोभयानवधारणम् ॥ २० ॥ * न चैकस्मिन् क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद् भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः ॥ २० ॥ सूत्रार्थमाह । न च इत्यादिना युक्तमित्यन्तेन । न च नाप्य- कस्मिनुत्पत्तिक्षण एव स्वपरावधारणं युक्तं पूर्व सत एव प्रत्यक्ष- गोचरत्वात् स्वस्य च प्रागसत्त्वादित्यर्थः नववं खोत्पत्त्यन- न्तरं खग्रहणमस्तु तत्राह। क्षणिकेति। क्षणिकवादिमते या वस्तुन उत्पत्ति: सैव क्रिया तस्य कार्य सैव च तस्य कादि- कारकवर्गः तन्मते सर्ववस्तूपत्तिमात्रफलकं निर्हेतुकं स्वयमेव ४५२ पातजलदर्शनम् । भवतीति सिद्धान्तः। तथा चोक्त 'भूतिर्येषां क्रिया सैव कारक सैव चोच्यत' इति । अत्र उत्पत्त्यनन्तरं चित्तस्य स्वग्रहणार्या क्रिया न सम्भवतीत्यर्थः । अस्मन्मतेऽपि शब्दबुद्धिकर्मणां विरम्य व्यापाराभावादेकस्या वृत्तेहार्थग्राहकत्वं न सम्भवतीति भावः । उत्तरसूत्रमवतारयति । स्यान्मतिरिति। मतिरभ्युपगमः । ननु खाभासशब्देन वसन्तानभास्यत्वं वक्तव्यं तथा च खरसेन विना. शस्वभावेन निरुद्ध नष्टमपि चित्तमुत्तरोत्तरमुत्पन्नेन चित्ता- न्तरेण ग्राह्यमित्यभ्युपगम: स्यादिति न कर्मकर्तृविरोधादिदोष इत्यर्थः । तत्र सिद्धान्तसूत्रम् ॥ २० ॥ स्यान्मतिः खरसनिरुद्ध चित्त चित्तान्तरण गृह्यत इति। * चित्तान्तरदृश्ये बुद्धिबुझेरतिप्रसङ्गः स्मृति- सकरश्च ॥ २१ ॥ * अथ चित्त चेच्चित्तान्तरेण गृह्येत, बुद्धिबुद्धिः केन गृह्यते साप्यन्वया साप्यन्ययेत्यतिप्रसङ्गः, स्मृतिसङ्करश्च यावन्तो बुद्धिबुद्धीनामनुभवास्ता- वन्त्यः स्मृतयः प्राप्नुवन्ति, तत्सङ्कराच्चैकस्मृत्यनव- धारणं च स्यात्, इत्येवं बुद्धिप्रतिसंवेदिनं पुरुष- मपलपद्भिवैनाशिकैः सर्वमेव आकुलीकृतं, ते तु भोक्तृखरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते केचित्, सत्त्वमात्रमपि परिकल्पास्ति स सत्त्वो य एतान् पञ्च स्कन्धान् निक्षिप्यान्यांश्च कैवल्यपादे योगवार्तिकम्। ४५३ प्रतिसन्दधातीयुक्ता तत एव पुनस्वस्यन्ति, तथा स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्य चरिष्यामीत्युक्ता सत्त्वस्य पुनः सत्त्वमेवापङ्ग वते। साङ्ख्ययोगा- दयस्तु प्रवादाः स्वशब्देन पुरुषमेव खामिनं चि- तस्य भोक्तारमुपयन्ति, इति ॥ २१ ॥ वृत्तिरूपचित्तान्तरण वृत्तिरुपचित्ते दृश्येऽभ्युपगम्यमाने तु बुद्धिबु ईत्तिवृत्तरतिप्रसङ्गोऽनवस्था। एतद्याचष्टे। अथेति । बुद्धिबुद्धिश्चित्तगोचरं चित्त' परेषां वृत्त्यतिरिक्तचित्तामावेन वृत्तिचित्तयोः पर्यायत्वात् । ननु नेयमनवस्था सर्वमेव चित्त ग्रहीतव्यमिति नियमाभावादिति चेन्न। वृत्तरजातसत्ताङ्गी- कारे जानामि न वा इत्यादिसंशयापत्तः। योग्यानुपलब्धया ज्ञानाद्यभावप्रत्यक्षानुपपत्तेश्व। किञ्च मा भवंतु अनवस्था वृत्तिगोचरानन्तत्तिकल्पनागौरवं त्वपरिहार्यमेव । अस्माभि- लाघवेन सकलत्तिगोचरैकविभुज्ञानकल्पनादिति। एतेन चित्त- नित्यत्वाभ्युपगमिनामपि न्यायवैशेषिकाणामुत्तरोत्तरजानन पूर्वपूर्वज्ञानग्रहणकल्पना परास्ता अनवस्थागौरवाभ्यामिति मन्तव्यम् । अतिप्रसङ्ग व्याख्याय स्मृतिसङ्करं व्याचष्टे । स्मृति- सङ्कारश्चेति । बुद्धिबुद्धेरिति शेषः। सङ्करशब्दार्थमाह। यावन्त इति। विषयानुभवकाले ज्ञानधारा जातेति विषयस्मृतिकाले- ऽपि अनन्तानां तज्ज्ञानानां स्मृतिरेकदा एव भविष्यति । घटो मया पुरा ज्ञातो घटज्ञानं तज्ज्ञानं चेत्येवमनन्ताकारः सोऽयं स्मृतिसङ्करः प्राप्त इत्यर्थः । अस्मन्मते च पौरुषेयबोधस्य नित्य- तया निर्विकल्पमात्रतया च न स्मृतिहेतुत्वमिति। ननु एता.

४५४ पातञ्जलदर्शनम् । दृशसङ्कर को दोष इति तत्राह। तत्सङ्कराञ्चति । सङ्कराम्युप- गमे च घटो मया ज्ञात इत्ये कमानाकारस्मृत्यनुभवो न स्यादि. त्यर्थः । अन्यान्यपि दूषणानि सूचयवास्तिकमतं तिरस्करोति । एवं बुद्धीति। सर्व बन्धमीक्षधर्माधर्मादिव्यवस्थादिकम् । तदेवं चित्तादिविच्य मोक्षी व्यवस्थापितः पित्तस्य च खाभा- सत्वं निराकृतम्। इदानीं परषामिष्टोक्तात्मतत्त्वावधारणस्य खाभ्यु पगमविरोधेनापि अन्यायतामाह। ते विति। भोक्तस्त्र- रूपं न न्यायेन सङ्गच्छन्ते न्यायविरुद्धा इत्यर्थः । तेषां विज्ञान- वादः शून्यवादश्चेति मुख्य मतदयं तत्रादौ विज्ञानवादिनां क्षणिकताख्यखाभ्यु पगमविरोधात् न्यायविरुद्धाइयं दर्शयति । केचिदिति। सत्त्वमा क्षणिकविज्ञानरूपं चित्तमान परि- कल्प्य स्वीकृत्य तस्यैव मोक्ष वदन्ति । अस्ति स सत्त्वविशेषो य एतान् सांसारिकान् पञ्च स्कन्धान् हित्वा अन्यांश्च पञ्च स्कन्धान् युक्तोऽनुभवतीति ततश्च तत एव स्वाभ्यु पगमात् पुनस्त्रस्यन्ति चित्तस्थैर्यापत्त्य त्यर्थः । अतो.न्यायविरुद्धास्त इति, पञ्चस्कन्धाश्च विज्ञानवेदनासंज्ञानरूपसंस्काराख्याश्चित्तस्यैव शाखाभेदा न तु चित्ताभित्राः। तत्र विज्ञान विषयानुभव: । वेदना दुःखम् संज्ञारूपे शब्दार्थौ इति यावत् । संस्कारो वासना। एतेषु एषा- मपि सुखादीनां प्रवेश इति अखिलं वस्तु चित्तमेवेति । शून्य- वादेऽप्याह । तथेति । तथा अन्ये केचित् स्कन्धानां महविर्वेदाय महानिर्वेदाख्यवैराग्याय अपुनर्जन्मरूपप्रशान्तये च जीवन्मुक्तस्य गुरोरन्तिके ब्रह्मचर्य ब्रह्माभ्यासं साक्षात्कारपर्यन्तं करिष्यामी- त्युक्ता शिष्यतामापना नास्तिका गुरुपदेशात् सत्त्वस्य अहंश- ब्दार्थस्यापि सत्तामपलपन्ति शून्यवादिनो भवन्ति इत्यर्थः । तेऽपि न्यायविरुवा भोक्तः सत्त्वस्यापलापेन स्वाभिप्रेतस्य मोक्षस्त्र अहंशब्दार्थस्य ब्रह्मचर्यादीनां वा सत्तास्वीकारात् मेयमुद्देश्य- कैवल्यपाद योगवार्तिकम् । ४५५ यत्तु अवे. विस्मृतिः कथं मूढ़ान्न लज्जयतीति। एतेन आधुनिकवेदान्ति- ब्रुवा अपि न्यायविरुद्धा मन्तव्याः। तेऽपि हि मोक्षाद्यर्थ गुरु- मुपासवा ब्रह्मातिरिक्तं सर्व शुक्तिरजतवत् अत्यन्ततुच्छमिति गुरूपदेशात् मोक्षतत्साधनादिकमेवापलपन्तीति। अपि चोप- देशानन्तरमक्तसाक्षात्का स्य मननादिसाधनाद्यनुष्ठानाभ्युप- गमोऽपि तेषां न न्याय्यः उपदेशेन फलतत्साधनेषु सर्वेषु एव अविश्वासात् । अथ पि फलानुदयाच्च । किं बहुना श्रुत्याद्रिप्रामाण्यबाधने ज्ञानप्रामाण्यसंशयाद्याहितः संशयो योगान्तेऽपि ब्रह्मणि स्यात्। न च स्वप्रकाशतया ब्रह्मणि न प्रमाणापेक्षेति वाच्यम्। प्रकाशतस्तस्य तत्सिद्धौ कर्मकर्तृविरो- धादितिसांख्यसूत्रोक्तदोषात् स्वाभ्युपगतश्रवणादिवैयर्थ्यापत्तेश्च मोक्षसाधनविषयस्य विवेकस्याखप्रकाशत्वाच्च । द्यत्वेऽपि प्रत्यक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वमिति प्रलपनं तत् शशृङ्गवन्मन्तव्यम्। वेदनस्य व्यवहारं प्रति सामानाधिकर- ण्येन हेतुत्वात् द्रष्टव्यत्वादिश्रुतिविरोधाच्चेति। सैषा अतिनास्ति- कता दृश्यतेऽपि वहिर्मुखाना यतिमानिनामिति। आधुनिकानां वेदान्ते विवर्त्तवादो यथा यथा विचार्यते तथा तथा न्यायविरो- धेन सिकतासेतुवविदीर्यते। स्वमते तु नास्त्ययं न्यायविरोधः मोक्षभागिनोऽहंशब्दार्थस्य भोक्त: स्थिरस्य स्वीकारादित्याह । सांख्ययोगादयस्त्विति । आदिशब्देन ब्रह्ममीमांसादयो ग्राह्या: । प्रकष्टा वादाः प्रवादा: स्वशब्देनाहं स्वमात्मेत्यादिशब्दजातेन न तु अन्यः । कथमन्यस्यात्माहमित्यादिहत्तिगोचरः स्यात् तत्राह । चित्तस्य स्वामिनमिति। स्वामी ह्यात्मा लोके व्यवतियते यच्चा- मोति यदादत्ते इत्यादिशास्त्रे चेति। अपरिणामिनि यथेष्ट- विनियोक्तृत्वाभावात् कथं स्वामित्वं तत्राह। भोक्तारमिति । अत्र च खतोऽपि पुरुषस्य भोगोऽस्तीत्यवधारणीयम् । प्रकृतोप- ४५६ पाप्तञ्जलदर्शनम् । पत्तये चित्तस्य खाभासत्वं निराकृतम् इदानीं सदाज्ञाताश्चित्त- वृत्तयस्तप्रभोः पुरुषस्यापरिणामादिति सूत्रस्योपपादकं सूत्र- मेतेनैव प्रसङ्गनोस्थापयति। कथमिति। ननु अपरिणामित्वे विषये सञ्चाराभावात् तदाकारपरिणामाभावाच कथं चित्त- झाटत्वरूपं चित्तभोक्लत्वं पुरुषस्य स्यात्। चित्तस्थले हि घटादि- विषयग्रहणं चित्तस्य सञ्चारात् तदाकारपरिणामाच्च दृष्ट- मित्यर्थः । तत्र सिद्धान्तसूत्नम् ॥ २१ ॥ कथम्,- * चितरप्रतिसङ्घमायास्तदाकारापत्ती खबु- तिसंवेदनम् ॥ २२ ॥ * अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्घमा च परिणामिन्यर्थ प्रतिसङ्ग्रान्तेव तदृत्तिमनुपतति, तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनु- कारिमावतया बुद्धिवृत्त्वविशिष्टा हि ज्ञानवृत्ति- राख्यायते। लथाचोक्त “न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधौनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमवि- शिष्टां कवयो वेदयन्ते” इति ॥ २२ ॥ अप्रतिसञ्चाराया अपि चिते: स्वीयबुद्धित्तिदर्शनं बुद्धि- वृत्त्याकारतापत्त्वैव भवतीत्यर्थः। अयं भावः । ज्ञातुः सञ्चारो न साक्षादेव ज्ञाने हेतुः किन्तु अर्थाकारता हेतुः सन्त्रिकर्षहारा। अन्यथा स्वप्नादौ मनःसञ्चाराभावेन अर्थभानायोगात् । अतो विभुत्वेनैव सर्वत्र सन्निक्लष्टस्यात्मनः सञ्चारो न अपेक्ष्यत इति ।

कैवल्यपाद योगवार्तिकम्। ४५७ आपत्तिग्रहणं च पुरुषस्य पारमार्थिकाकारप्रतिषेधार्थम् । यथा हि विषयासन्निकर्षकालेऽपि स्वप्नादौ तद्भानाय अगत्या चित्तस्य तदाकारः परिणाम इष्यते नैवं पुरुषस्य चित्तहत्त्यभावेऽपि तद्भानं भवति येन पुरुषेऽपि वृत्त्याकार: परिणाम दृष्येत किन्तु स्फटिके सनिकृष्ट जपालौहित्यस्येव चित्तवृत्त: प्रतिविम्बमेव लाघवादिश्यते। उभयत्र आकाराख्यपरिणामकल्पने गौरवात् स्फटिकदर्पणादेः स्वप्रतिविम्बितवस्तुप्रकाशकत्वस्य सिद्दत्वाच्चेति। तदिदं वृत्तिविम्बितमेव वृत्त्वाकारापत्तिरित्युक्तं सूत्रकारणेति । भाष्यकारः पुरुषस्य बुद्ध्याकारतां प्रतिपादयितुमादौ बुद्देरेव रूप- माह । अपरिणामिनीति। भोक्तृशक्ति: पुरुषाख्या अपरिणामिनी अतो नापि गतिमती ततो न स्वप्नजाग्रतोश्चित्तस्येव पुरुषस्य त्रानं सम्भवति किन्तु हत्तिसरूपपरिणामिनी अर्थ चितिः प्रतिसंक्रान्तेव प्रतिविम्वरूपेण सञ्चरितेव सतो तदृत्तिमनुपतति तदृत्ति चेतनवत्करोतीत्यर्थः अन्यथा हि घटमहं जाना- मोति वुद्धिवृत्त्यनुपपत्ति: बुद्धेरनहन्त्वात् अचेतनत्वाच्चेत्युत्तरसूत्रे वक्ष्यति। अथ अविवेकादेव एतादृशी बुद्धिवृत्तिरिति चेत्सत्यं, तथापि अविवेक एव प्रतिविम्बमूलक: दोषान्तराभावात् तथा चेतनभानार्थमपि वृत्तौ तत्प्रतिविम्बः कल्प्यते बुद्यारूढ़तयैव शब्दादिवत् अात्मनोऽपि भानादिति। इदमेव प्रतिविम्बं बुद्दे. श्चिच्छायापत्तिरित्युच्यते तथा हराकारतावत् आत्माकारते- त्यपि उच्यत इति म तयम् । यद्यपि घटाद्याकारपरिणामवत् प्रात्माकारपरिणाम एव बुद्दे भवति तथापि प्रतिविम्बतुल्यतया स एव प्रतिविम्ब मप्युच्यते । बुद्धे : रूपं प्रदर्श्य पुरुषस्य तदाकार- तापत्ति दर्शयति । तस्यायेति । हिशब्दोऽत्रावधारणे, तस्या अपि पिज्ञानरूमा वृत्तिबुद्धिहत्यविशिष्टैव इत्याख्यायते व्यव- प्रात्यादि। प्राप्तश्चैतन्योपग्रहश्चैतन्यप्रति- - ४५८ पाप्तञ्जलदर्शनम्। विम्ब येन एतादृशं रूपं यस्या बुद्धिवृत्तेस्तदनुकारिमावतया तत्प्रतिविम्बाधारतामात्रेणेत्यर्थः । दृष्टा दृशिमात्र इति सूत्रेऽपी- दमेव वाक्य भाष्यकारैः प्रमाणत्वेनोपन्यस्तं, वृत्तिसारूप्यमि- तरत्र इत्यत्रापि एतदुक्तमिति स्मर्त्तव्यम् । ननु जानाम्यहं क्रुहो- ऽहं भीतोऽहमित्यादिरूपता वृत्त रेवेति प्रागेवोक्तं तर्हि निर्वि. कल्पकस्य वृत्तिबोधस्य स्वरूपं कौशभिति। उच्यते। यादृशं ज्ञानक्रोधादिवृत्तीनां रूपं तादृशमेव विम्बप्रतिविम्बोद्ग्रहणात् तदेव वृत्तिबोधस्य रूपं, स च वृत्तिबोधी वृत्ताविवेकेन जाना- मोतिवृत्त्यन्तरस्य विषय एव भवति ज्ञानचितिबोधादिशब्दानां पव्यत्वादिति। एकाकारतापत्तौ आगममपि प्रमाणयति । तथा चोक्तमिति। न पातालमित्यादेरयमर्थः । गुहाहितं गह्व- रेष्टं पुराणमित्यादिश्रुतिस्मृतिषु यस्यां गुहायां गुह्यं शाश्वतं ब्रह्म अंशांश्यभेदात् आत्मसामान्यं निहितं सङ्गुप्तम् इति गीयते । मा गुहा न पातालादि किन्तु ब्रह्मवृत्त्यविशिष्टां बुद्धित्तिमेव कवयः पण्डिताः पश्यन्तीति। अविशिष्टता च परस्परं प्रतिविम्बना- दुभयोरेव विषयाकारत्वचेतनसाम्यमित्युक्तम् । अतो विविय ग्रहणायोग्यतया अवस्थितिरेवात्मन: सङ्गोपनं बुद्धौ इति श्लोक तात्पयार्थः । तदेतत् एकाकारत्वमादित्यपुराणेऽप्यु लम् नित्यः सर्वगतो ह्यात्मा बुद्धिसनिधिसत्तया । यथा यथा भवेबुद्धिरात्मा तहदिहेष्यते ॥ इति। ननु भवतु चिते: स्वबुद्धिसंवेदनं शब्दादिसंवेदेनं तु कथं भवेत् बुद्धिवच्छब्दादीनामपि चितौ प्रतिविम्बनसामाङ्गी- कार सर्वदेव सर्वार्थभानप्रसङ्गात्। कथं वा चिते: स्वसंवेदनम् । उता हि अनवस्था चित्तवत् पुरुषेऽपि समानेत्याशङ्कानिरासायो- त्तरसूत्रं प्रवर्तिप्यते तत्सूत्र भाष्यकारः प्रकारान्तरेणापि उत्था- पयति । अतश्चेति । अतो बुरिपुरुषयोवैद्यवेत्तृभावाच्च तदन्यथा- ४५८ कैवल्यपादे योगवार्तिकम् । नुपपत्तेश्चेति यावत्। एतत् आगामिसूत्रप्रतिपाद्यम् । अङ्गी- क्रियत इत्यर्थः । चकारोऽस्मदुक्त प्रयोजनसमुच्चयार्थः ॥ २२ ॥ अतश्चैतदभ्युपगम्यते- * द्रष्टुदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ * मनो हि मन्तव्येनार्थेनोपरत ततः स्वयं च विषयत्वाद्विषयिणा पुरुषेण आत्मीयया वृत्त्या- भिसम्बद्धं तदेतच्चित्तमेव द्रष्टुदृश्योपरत विषय- विषयिनिर्भासं चेतनाचेतनखरूपापन्नं विष- यात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थ मिति उच्यते, तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः अपरे चित्तमात्रमेवेदं सर्व नास्ति खल्वयं गवा- दिर्घटादिश्च सकारणो लोक इति, अनुकम्पनी- यास्ते, कस्मात्, अस्ति हि तेषां भ्रान्तिवीज सर्वरूपाकारनिर्भासं चित्तमिति, समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिविम्बीभूतस्तस्यालम्बनीभूतत्वा- दन्यः, स चेदर्थ श्चित्तमात्रं स्यात् कथ प्रज्ञयैव प्रज्ञारूपमवधायेत, तस्मात् प्रतिविम्बीभूतो- ऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति । एवं ग्रहोटग्रहणग्रान्धखरूपचित्तभेदात् वयम- ४६. पांतनलदर्शनम् । प्येतत् जातितः प्रविभजन्ते ते सम्यग्दर्शिनः तैरधिगतः पुरुष इति ॥ २३ ॥ सर्वे ग्रहीग्रहणयाद्याः पुरुषस्या भोग्या अस्मिविति सर्वार्थम्। अयं घट इत्यनन्तरं घटमहं ज्ञानामौति बुद्धेदृत्तान्तरस्य ग्रहीटग्रहणग्राह्याकारस्यायं घट इति वृत्तिवदेव साक्षिभास्यस्य प्रायशो दर्शनात्। सर्वार्थत्वे हेतुः द्रष्टदृश्योपरक्तमिति। द्रष्टु- दृश्योभयाकारमित्यर्थः । बाधकं विना सबिष्टवस्त्वाकारता- खाभाव्यस्य चित्ते सर्वसम्मतत्वादिति भावः । तथा च बुद्धि- संवेदनमेव बुद्धिस्थस्य शब्दादेः स्वस्य च संवेदनं यहि शब्दादि- पुरुषोभयाकारा बुद्धित्ति: पुरुषे प्रतिविम्बिता भासते इदमेव शब्दादे: पुरुषस्य च दृश्यत्वं बुद्धेदृश्यत्ववदित्यतो न पुरुषदर्श- नार्थ द्रष्ट्रन्तरापेक्षा नापि कर्मकर्ट विरोधोऽन्तःकरणहारत्वा- दिति भावः । एतेन सर्वार्थत्वेन भाष्यकारोक्तं बुद्धिपुरुषयोरवि- शिष्टाकारत्वमपि सिद्धम् । बुद्धेः पुरुषाकारतातिरेकेण पुरुष- वत्त्वासम्भवात्। पुरुषस्य बयाकारतायाश्च पूर्वसूत्रेण वोक्ता- त्वादिति। वेद्यत्वान्यथानुपपत्ता य: सिध्यति तं बुद्धौ पुरुषोप- रागं प्रतिपादयन् समग्रसूत्र व्याचष्टे। मनो होति । उपरता तदाकारम्। अन्यथा ग्रहणानुपपत्तेः । युक्तिपूर्वकं द्रष्टुपराग- माह। यत्स्वयं चेति। तन्मन: स्वयमपि पुरुषस्य विषयत्वात् खोयचैतन्य लक्षणवृत्तिविशिष्टेन पुरुषेण विषयिणा सम्बहम् आकारितं सन्निकर्षस्य ग्रहणहेतुत्वात् । बुद्धिवृत्तौ च पुरुषस्य असङ्गस्य प्रतिविम्बातिरेकेण अनित्यसविकर्षासम्भवादिति । तस्मात् एतच्चित्तमेवोभयोपरततया शब्दादिविषयरूपेण विष- यिपुरुषरूपेण च निर्भासते। साक्षिणि प्रतिविम्बितं सदिति विषयविषयिनिर्भास, तत्र हेतुः चेतनाचेतनरूपापन्न तदा । - कैवल्यपादे योगवार्तिकम् । ४६१ कारम् । एतदेव विवृणोति। विषयात्मकमणि अविषयात्मक मिवेति अचेतनमपि चेतनमिवैति । इवशब्दार्थ दृष्टान्तेनाह। स्फटिकमणिकल्पमिति। यथा एक एव स्फटिकमणिः पार्ख- इयस्थयोर्जवेन्द्रनौलयोः प्रतिविम्बनात् स्वीयरूपेण सह विरूप इव भवतीति। एवं चित्तमपि विषयात्मनोः प्रतिविम्बनात् ग्रहीग्रहणग्राद्यात्मकरूपत्त्रयवदिव भवति, अतः सर्वार्थमि- त्युच्यत इत्यर्थः । चित्तमेवेत्येवकारण अन्येषां सन्निकर्षसत्त्वेऽपि आकारग्रहणसामर्थ्य नास्तीत्युक्तम् । अत्र स्फटिकदृष्टान्तो न सर्वाशे बुद्देः स्वार्थाकारपरिणामस्यैव स्वप्नानुरोधेनेष्टत्वात् स्फ- टिके च प्रतिविम्बमात्रस्य स्वीकारात्। किन्तु तत्तवस्तुसनिक- र्षण तत्तद्रूपतया प्रतीयमानतामात्रांशे स्फटिकस्य दृष्टान्त इति मन्तव्यम् । यदेतदुक्तं चित्तस्थ द्रष्टदृश्यसारूप्यम् इदमेव भव- वीजाविवेकस्य कारणमिति प्रतिपादयति । तदनेनेति । केचित् वाह्यार्थवादिन: चित्तातिरिक्तचेतनानभ्युपगन्तारो वैनाशिकाः । अपरे विज्ञानवादिनः । लोक्यत इति लोकः । तदुक्त विज्ञान वादिभिः । अभिन्नोऽपि हि बुद्धयात्मा विपर्यासति दर्शने । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति । तेषाच्च वादिनामयं भावः । चित्तस्य चेत् सर्वरू- पता स्वीकता तर्हि अलं पुरुषेण वाह्यार्थेन वा अनादिवासना- वशात् स्वतएव चित्तस्यानन्तपरिणामस्वीकारसम्भवात् । दुग्धस्य दधिरूपतावदिति । अनुकम्पासुखेन तेषु समाधानमाह । अस्ति होति। इत्यन्त वीजमित्यर्थः । एतेन यदाधुनिका वेदान्ति- बुवा पाहुः। विषयदोषात् करणदोषाहा चैतन्ये नमो न भवति विषयकरणदोषयोभ्रममात्रकल्पितत्वेन भ्रमात् पूर्व तयोरभावात् अपि त्वनिर्वचनीयाविद्यामानादिति। नहे- -- ४६२ पातनलदर्शनम्। यम् । चैतन्येऽपि चित्तवदेव सकलवस्तुप्रतिविम्बेन सारूप्यस्यैव विषयगतदोषस्य प्रपञ्चा,पहेतुतालाभात् सर्ववस्तूनां भ्रम- मात्रकल्पितत्वस्य चासिडे: शक्तिरजतादिस्थले लाप्लेन सारूप्य- दोषणैव अध्यासोपपत्तौ अध्यासहेतुतया तदभिप्रेतानाद्यविद्यायां कल्पनानवकाशाच्चेति। तत्रादौ विज्ञानवादिनं बोधयति। समाधीत्यादिना रूपमवधार्यत इत्यन्तन। नमस्थले यार्थस्य चित्तमात्रताया अस्माभिरभ्यु पगमात्। समाधिप्रज्ञायां प्रज्ञेय इत्युक्तमर्थस्य सत्यत्वलाभाय। तथा चायमर्थः। विवादगोचरी- ऽयश्चित्त प्रतिविम्बितो योऽनुभूयते स तस्य चित्तस्यालम्बनी- भूतत्वाच्चित्तादन्यः । तत्र हेतुः । स चेदिति । स चेदर्थश्चित्ताका- रमात्रं स्यात् कथं तहि प्रज्ञयैव प्रज्ञाकारो रह्यत कर्मकर्तृ- विरोधात् पुरुष न्यानङ्गीकारात् । पुरुषप्रजया पुरुषसिद्धिरर्थ- प्रनया अर्थ स्यापि सिद्यौचित्यादिति। अतो विज्ञानातिरिक्तो विज्ञ योऽर्थः सिद्धः । अनयैव युक्त्या पुरुषानभ्युपगन्तारं वाह्यार्थ- वादिनमपि बोधयति । तस्मादिति । तस्मात् प्रज्ञारूपस्य प्रज्ञा- ग्राह्यत्वाभावादेव प्रज्ञायां प्रतिविम्बीभूतः प्रतिविम्बरूपेण जातोऽर्थो ज्ञानाकारो येन ग्राह्यते स पुरुष इत्यपि सिद्धमित्यर्थः । ननु स्वमग्टहीत्वैव स्वस्य प्रज्ञारूपं ग्टह्णातु आकाशाग्रहणेऽपि शब्दवदिति चेन्न । शब्दवत् केवल स्य आकारस्याग्रहणात् । अयं घट इति ज्ञानमभूदित्यादिरूपण रूपादिवद्धर्मिपुरस्कारेणैव आकारानुभवादिति । ननु कर्मकर्तृ विरोध: सूत्रकारेणैवोक्तो न तत्वाभासमित्यनेन अतो भाष्यकारस्य पौनरुत्यमिति, मैवम् । तत्र चित्तस्य चित्तग्राह्यत्वं निराकतमत्र चित्ताकारस्य वित्तग्राह्यत्वं निराक्रियते इति विशेषादिति । पुरुषचित्ततद- र्थानां यथोक्तप्रकारविवेकज्ञानमेव तत्त्वज्ञानमिति वेदान्तोतो- पासनादिव्यावृत्तार्थ नास्तिकादिज्ञाननिरसनार्थ चावधारयति ।

१७ - कैवल्यपादे योगवार्तिकम् । ४६३ एवं ग्रहीविति। ग्रहीवादित्रितयं परस्परविजातीयतया ये विभजन्ति विवेचयन्ति तएव सम्यग्दर्शिन: तैरेव पुरुषो लब्धः । अन्ये तु चान्ता इत्यर्थः। तथा च श्रुतिः । यन्मनसा न मनुते येनार्मनसो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ 'अथात आदेशो नेति नेति' 'न ह्येतस्मादिति नत्यन्यत्पर- मस्ती'त्यादिः । स्मृतिश्च । अव्यक्ताद्ये विशेषात्ते विकारऽस्मिंश्च वर्तिते चेतनाचेतनान्यत्वज्ञानन ज्ञानमुच्यते ॥ इत्यादि। 'आत्मैवेदं सर्व' 'ब्रह्मैवेदं सर्व' 'वासुदेव: सर्वमि'. त्यादिश्रुतिस्मृतयस्तु शक्तिशक्तिमदाद्यभेदेनवोपासनार्थ प्रवर्तन्त इति न तद्विरोधः । एतेन जीवात्मप्रकरणेषु आत्मैक्यश्रुतीनाम- वैधर्म्य लक्षणाभेटेन विवेक एव तात्पर्यमिति द्रष्टव्यम्। विवेक- ज्ञानस्यैव सभ्यग्ज्ञानतया मोक्षहेतुत्ववचनात् । रणं तु जीवादपि विवेकेन परमात्मन एवस्यैव श्रात्मत्वे तात्य- यमिति मन्तव्यम् । हितोयपादे विवेकख्यातिरविप्लवा हानो- पाय इत्येवोतम् । अत्र तु विवेकज्ञानस्यैव सम्यगजानन्दोपपा- दनेन मोक्षहेतुत्वं प्रभाषितम् । विवेकवरूपं च परीक्ष्यत इति विवेकः। चित्तादात्माविवेके हेत्वन्तरप्रदर्शकतया सूत्रमवतार- यति। एतश्चेति । इतश्च चित्तातिरिक्त: पुरुष इति शेषः ॥ २३ ॥ कुतश्चैतत्,- * तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थसंह- त्यकारित्वात् ॥ २४ ॥ * तदेतच्चित्तमसङ्घययाभिर्वासनाभिरेव चित्री- परमात्मप्रक- पातञ्जलदर्शनम्। कृतमपि परार्थ परस्य भोगापवर्गार्थ न खार्थ संहत्यकारित्वाद् गृहवत्, संहत्यकारिणा चित्तेन न खार्थेन भवितव्यं, न सुखचित्तं सुखार्थ न ज्ञानं ज्ञानार्थम्, उभयमप्येतत्परार्थ, यश्च भोगेनापवर्गण चार्थनार्थवान् पुरुषः स एव परो न परः सामान्यमाव, यत् तु किञ्चित्परं सामा- न्यमावं स्वरूपेणोदाहरेकैनाशिकस्तत्म संहत्य- कारित्वात् परार्धमेव स्यात्, यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥ २४ ॥ तथा च यदुक्त चित्तस्य सर्वात्मकत्वाङ्गीकारे असंख्यवासनावशात् खतएव चित्तस्यापि परिणामोऽस्तु किं पुरुषेणेति। तव । यत- स्त च्चित्तमसंख्येयवासनाभिश्चित्रितमपि परा) परस्यान्यस्य भो- गापवर्गायैव विना तौ न स्थातु परिणमितु वा क्षमते संहत्य- कारिपदार्थानां लोके परमानार्थत्वदर्शनादित्यर्थः । पुरुषार्थसमाप्तौ चित्तविलयेन मोक्षोपपत्तिरित्यत्रापि सूत्रता- त्पर्यम् । सूत्रं व्याचष्टे । तदेतदिति । भोगावर्गार्थ सुखादि साक्षात्कारार्थम् । संहत्यकारित्वात् इतरसाहाय्येनार्थक्रियाका रित्वात् गृहवदिति। गृहं हि शयनादिकार्यमास्तरणशरी- रादिसाहाय्येनैव करोति पुरुषस्तु नित्यचैतन्यरूपतया चैतन्यार्थ नान्यमपेक्षते अन्या चार्थक्रिया पुरुषस्य नास्तौति स न संहत्य- कारीत्याशयः । यत्तु सङ्घातपाराादिति सांख्य प्रोक्तम्। तत्र संहननमारम्भकसंयोगो विवक्षितः स चावयवावयव्यभेदात् भय्या- सनग्रहादिषु सत्त्वादिषु चास्ति न तु पुरुष इति। ननु चित्त कैवल्यपाद योगवार्तिकम् । ४६५ संहत्यापि करिष्यति स्वार्थमपि भविष्यति कः खलु विपक्षबाधक- स्तर्क इत्याकाङ्क्षायामाह । संहत्यकारिणति। न सुखचित्तमिति सुखचित्त भोगचित्त न सुखार्थं न चित्तस्य मोगार्थ तथा तत्त्व- ज्ञानचित्तमपवर्गचित्त न चित्तस्यापवर्गार्थ चित्तस्य भोगापवर्ग- योरपि कार्यतया सार्थकत्वनियमेन अनवस्थाप्रप्तङ्गात् । यत्कार्य तत्मार्थकमिति हि सर्वसम्मतम् । अतश्चित्तस्यैतदुभयमपि परार्थ- मित्यर्थः । पुरुषस्य च भोगावौ स्वरूपचैतन्यरूपतया न कार्यो इति न अनवस्था पुरुषार्थत्ववादिनामिति भावः। पुरुषस्य भोगो हि सुखादिसाक्षात्कारः । अपवर्गव विवेकख्यातिसाक्षात्कारोवा स्वरूपावस्थानो वा सर्वथैव चैतन्यमाचा एव अपरिणामित्वात् निईमत्वाच्चेति । ननु परार्थतामात्रेण न पुरुषसिद्धिविनाशादी- नामपि परार्थत्वसम्भवात् विनाशार्थमेवोत्यत्ते: परैरभ्यु पगमा- दित्याशङ्कायामाह। यश्चेति। भोगापवर्गार्थवान् एवात्र पर: साध्य प्रविष्टोऽतो न सामान्येन येन केनचित्परेण सिद्धसाधन मर्थान्तरं चेत्यर्थः । स्वोत्तरोत्पवक्षणिकचित्तस्य भोगार्थकतया पराभिप्रेतं सिद्धसाधनमपाकरोति। यत्तु किञ्चिदिति । स्वरू- पेण आत्मरूपेण भोतृतयेति यावत् । यस्त्विति । यस्त्वसौ विशेष: पुरुषाख्यः परः स कूटस्थनित्यत्वात् न संहत्यकारीति न तस्व परार्थत्वापत्तवानवस्थितिरित्यर्थः। तदेवं बुद्धिपुरुषविषयाणां विवेकं प्रदर्य एतज्ज्ञानादाद्यं मोक्षमादौ प्रतिपादयति ॥ २४ ॥ ॥ * विशेषदर्शिन आत्मभावभावनाविनि- वृत्तिः ॥ २५ ॥ * यथा प्राकृषि तृणाकुरस्योद्धे देन तहौजसत्ता- नुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षा, ४६६ पतिजलदर्शनम् । श्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनवौजमप- वर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते, तस्य पात्मभावभावना स्वभाविकी प्रवर्तते, यस्या- भावादिदमुक्त खभावं मुक्ता दोषाद येषां पूर्व- पचे रुचिर्भवति अरुचिश्च निर्णये भवति तत्र आत्मभावभावना कोऽहमासं कथमहमासं किं- खिद् इदं कथंम्विदिदं के भविष्यामः कथं वा भविष्याम इति, सा तु विशेषदर्शिनो निवर्त्तते, कुतः, चित्तस्यैव विचित्रः परिणामः, पुरुषस्त्व- सत्यामविद्यायां शुद्धश्चित्तधर्मेंरपरामृष्ट इति, ततोऽस्य आत्मभावभावना कुशलस्य निवर्तत दूति ॥ २५॥ मात्वमानमैयात्मकस्थाखिलप्रपञ्चस्य सप्तायःपिण्डवदेकोभा- वापत्रस्य यथोक्तप्रकारैरन्योन्यं विशेषदर्शिनो विवेकसाक्षात्का- रिणश्चित्तस्यात्मभावे भावना स्वसत्ताजिज्ञासा कोऽहमासमित्या- दिरूपा भाष्ये व्याख्येया। तस्या भयशोकप्रकृत्तिनिवृत्त्याद्य- नर्थहेतोनिवृत्तिराद्यो मोक्षो भवतीत्यर्थः । खर्गनरकमोक्षादि- मिहि विचित्ररूपता चित्तस्यैव भवति न तु सदैकरूपचिमावस्य न ममत्यवधारणे सति नैवात्मभावचिन्तोदेतीति भावः । तथाच श्रुतिः । एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरव'मितीत्यादिः। तदेतदुक्त पञ्चशिखाचर्ये राद्यस्तु मोक्षो ज्ञानेनेति। अत्रादौ भाष्यकार आत्मभावभावनामेव कैवल्यपादे योगवर्त्तिकमा । ४६७ सकारणां प्रतिपादयति । यथेत्यादिना । तत्रापति । पुरुष इति शेषः। विशेषदर्शनवीजमिति । आत्मभावजिज्ञासाहारैति शेषः । इत्यनुमीयत इति। विविदिषन्ति यज्ञेनेत्यादिश्रुतेः । पापक्षयात् शुद्धमतिर्वाह्यति ज्ञानमुत्तममिति स्मृतेश्चेति शेषः । तस्य यथोक्तकर्मवतः स्वाभाविकी ऐहिकसाधननिरपेक्षा, तथाच यथोक्त कर्म आत्मभावनाया: कारणम्। तत्र च नैहिकत्वनि- यम इत्यायातम् । ऐहिकसाधनशून्यस्य प्राक्तनतथाविधकर्मा- भावे च सा भावना नोदेति प्रत्युत देहाद्यात्मतायामकरुचिर्भव- तीति, अव पूर्वाचार्यवाक्यं प्रमाणयति। यस्याभावादिति । यस्य कर्मणो भावादिदं वक्ष्यमाणं फलमुक्तं पूर्वाचार्य:। तदे- वाह। खभावमिति। स्वभावमात्मभावं सवा एषां सत्कर्म- शून्यानां पूर्वपक्षे नित्यदेहाद्यात्मतायामिव रुचिः श्रद्धातिशयो भवति। अरुचिश्च तत्त्वनिर्णय इत्यर्थः । आत्मभावनायाः कार- णमुक्त्वा स्वरूपमाह। तत्रात्मेति । कोऽहमासं किं नरादिरूप आसं कथमासं दुःखेन दंशनवासं किंखिदिदं वर्तमानमपि मम स्वरूपं किं देहो वा मन आदिर्वा कथंखिदिदं केन वा प्रकारेण पुण्यपापादिना तिष्ठतीत्यादिरर्थः। के भविष्याम इत्याधेकत्व एव बहुवचनं, तयाच यज्जिज्ञासीत्यभयादिनिवृत्तये विशेषदर्शनं पुरुष: सम्यादयति सैवात्मभावनेत्यर्थ: । आत्मभावनामशेषतो व्याख्याय सूत्रवाक्यार्थमाह । सा विति। विशेषदर्शनात्कुतो निवृत्तिरिति प्रश्नस्योत्तरमाह। चित्तस्येति। एष भावरूपी विचित्रः परिणाम आत्मनो न भवति किन्तु चित्तस्यैवाविद्या- जन्यत्वात् अविद्यायाय चित्तधर्मत्वात् पुरुषस्त्वविद्याशून्चत्वा- छुहः पापपुण्यविवर्जितः । ततश्च चित्तधर्मर्जन्ममरणसुखदुःखा- दिभिरपरामृष्टः कदाप्यसम्बद्ध इति । तत इति विशेषदर्शना दस्य कुशलस्यात्मभावना निवत इत्यर्थः । तनिवृत्तेः स्वर्ग- ४६८ पातजलदर्शनम्। नरकादिषु रागद्देषादिनिवृत्तिः फलमिति । तस्य विशेषदर्शिनो लक्षणं सम्प्रज्ञातयोगं वक्ष्यमाणमुक्तश्च कारणभूतमाह ॥ २५ ॥ * तदा विवेकनिम्न कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ * तदानौं यदस्य चित्तं विषयप्राग्भारमन्नान- निम्नमासीत्तदस्य अन्यथा भवति, कैवल्यप्राग्भारं विवेकजज्ञाननिम्नमिति ॥ २६ ॥ कैवल्ये प्राम्भारो यस्य तत्कैवल्यप्राग्भारम्। कैवल्याभिमुख- मिति यावत्, व्याचष्टे । तदानीमिति । तदानीं विशेषदर्शना- वस्थायां स्वर्गादिवैराग्यवशात् चित्तमन्यथा भवतीत्यनेनान्वयः । विषयप्राग्भार विषयाभिमुखम् अज्ञाननिम्नमज्ञानमार्गसञ्चारि एवमुत्तरत्र, न चानेन कोमलकण्टकवत् उत्पन्नमात्रेण विशेष- दर्शनेनैव कृतकृत्यता भवति पूर्वसंस्कारवशात् अन्तरान्तरा मोहाख्यानां भवदुःखवीजवृत्तीनामनुवृत्त रित्याह ॥ २६ ॥ * तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७॥ * प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्याति- मात्रप्रवाहिणश्चित्तस्य तच्छिद्रेषु प्रत्ययान्तराणि अस्मीति वा, ममेति वा, जानामौति वा, न जानामीति वा । कुतः, चौयमाणवौजेभ्यः पूर्व- संस्कारभ्य इति ॥ २७॥ व्याचष्टे। विवेकेति । विवेकप्रत्ययनिम्नस्येत्यस्य विवर कैवल्यपादे योगवार्तिकम्। ४६८ सत्त्वेत्यादि। सत्त्वपुरुषान्यतामात्रेण प्रवहणशीलस्येत्यर्थः । सच्छिद्रेषु स्थानेषु अविद्यारूपाणां प्रत्ययानामाकारा अस्मीत्या- द्याश्च प्रदर्शिताः। अस्मीति । देवमनुष्यादिरूपोऽस्मीत्यर्थः । केवलास्मितायाः सम्प्रजातयोगेऽपि सत्त्वात् क्षीयमाणेभ्यो वीजेभ्यः क्षीयमाणवीजेभ्यः । एतस्य विशेष्य पूर्वसंस्कारभ्य इति । ननु ज्ञाने जातेऽपि चेत् पूर्वसंस्कारवशात् व्युस्थानदशायां कदाचिद- विद्योदयः कथं तर्हि सम्प्रचातप्रवाहेणापि अविद्यानिवृत्तिः स्यात् तत्राह ॥ २७॥ * हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ * यथा क्लेशा दग्धवीजभावा न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धवीजभावः पूर्व- संस्कारो न प्रत्ययप्रसूर्भवति, ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशरत इति न चिन्त्यन्ते ॥ २८॥ एषां संस्काराणां हानं दाहः स्वकार्यासामयं लशानामिः चोक्त पूर्वाचाय॒रित्यर्थः । 'ध्यानहेयास्तदृत्तयः' 'ते प्रतिप्रसव- हेयाः सूक्ष्मा' इति सूत्राभ्यां स्थूलसूक्ष्म क्लेशानां तत्त्वज्ञानचित्त- लयाभ्यां दाहनाशौ प्रोक्तो तथा तत्संस्काराणामपोति फलि. सार्थः । एतदेव व्याचष्टे । यथेति। यथा सम्प्रज्ञातयोगिनी व्युत्थानदशायां पूर्वसंस्कारजा: लशा अविद्यादिवृत्तयो दग्ध वीजतुल्या: सत्यो न संस्कारं जनयन्ति तथा पूर्वसंस्कारा अपि सम्पन्नातपरम्पराजनितेन निष्ठारूपेण ज्ञानाग्निना दग्धवीज- तुल्या: सन्तः प्रत्ययं म प्रसवल इत्यर्थः । पूर्वसंस्कारः प्राचीन: क शसंस्कारः ज्ञानकाले ज्ञानसंस्कारण प्रतिबन्धात् संस्कारो ४० ४७० पातञ्जलदर्शनम्। नोत्पद्यत इत्याशयेन पूर्वपदम्। अत्र ज्ञाननाशोऽपि क्लेश- वदुपलक्षित इति । ननु एकदा चेदृष्टं मम जन्म मरणं दुःखा- दिकं नास्तीति तहि कदाचिदन्तरान्तरा मोहेऽपि तहानार्थ प्रवृत्तिर्नोपपद्यते मोहस्यापि चित्तधर्मताया: पूर्व निश्चितत्वा. दिति चेन्न। चित्तस्य मोहसत्त्वे पुनश्चित्तस्य भवदुःखोत्पत्त्या पुरुषस्य दुःखभोगः स्यादित्याशयेनैव ज्ञानिभिरपि चित्तस्यात्य- न्ततो मोहनिवृत्त्यर्थं यतनात् भोगश्च चिन्मात्रस्यैवेत्यसक्कदा- वेदितमिति। ननु संस्कारत्वाविशेषात् तत्त्वज्ञानसंस्कारा अपि किं सम्प्रज्ञातनिष्ठया नश्यन्ति, नेत्याह । ज्ञानसंस्कारास्त्विति । अविरुद्धत्वादिति शेषः। तहि कथं तेषां नाश: स्यादिति, तत्राह। इति तच्चिन्त्यन्त इति। अधिकारसमाप्तौ चित्तेन सहव तेषां नाशात् तसाधनचिन्ता नास्तीत्यर्थः। आश मुमुक्षूणां त्वसम्प्रज्ञातेनापि तन्नाशश्चिन्तित इति भावः । उक्तस्य संस्कार- हानस्य प्रकारमाह सूत्रदयेन ॥२८॥ प्रसङ्ख्यानेऽप्यकुसौदस्य सर्वथा विवेक- ख्यातेर्धर्ममेघः समाधिः ॥ २६ ॥ * यदायं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसौदः ततो- ऽपि न किञ्चित्यार्थयते, तवापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति, संस्कारवीजक्षया- नास्य प्रत्ययान्तराणि उत्पद्यन्ते, तदा अस्य धर्म- मेघो नाम समाधिर्भवति ॥ २६ ॥ प्रसंख्यानं विवेकसाक्षात्कारः तत्रापि योऽकुसौदः कृषी- वलवत् सर्वभावाधिष्ठात्वादिरूपां सिद्धि न प्रार्थयते तस्य योगविघ्नाभावेन सर्वथा निरन्तरं विवेक ख्यालु दयाद धर्ममेध;

कैवल्यपाद योगवार्त्तिकम्। नाम्नी सम्प्रज्ञातयोगस्य परा काष्ठा भवतीत्यर्थः । तदेतद्या- चष्टे। यदेति। तत्रापि तत्फलेऽपि, सर्वथाशब्दार्थमाह। संस्कारति। संस्काररूपस्य वीजस्य क्रमेण क्षयात् दाहात् हीयमानात् हेतोः प्रत्ययान्तराणि अविद्यान्तराणि यदा न जायन्त तदा धर्म मेघसमाधिरित्यर्थः । क्लेशकर्मादीनां नि:शे- घेणोन्मूलकं धर्म मेहति वर्षतीति धर्ममेघः । अस्याः समाधर्धर्म- हारकफलं द्वितीयमोक्षमाह ॥ २८॥ * ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ * तल्लाभादविद्यादयः लोशाः समूलकार्ष कषिता भवन्ति, कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति, सोशकर्मनिहत्तौ जीव- नेव विद्वान् विमुक्तो भवति, कस्मात्, यस्मा- विपर्ययो भवस्य कारणं, न हि क्षीगविपर्ययः कश्चित् केनचित् क्वचिज्जातो दृश्यत इति ॥३०॥ निवृत्तिर्दाहसमाप्ति:, व्याचष्टे । तल्लाभादिति। समूलकाष- मिति। मूलं क्ल शसंस्कारास्तैः सह क्लेशा अभिनिवेशातिरि- लाच्छिन्ना भवन्ति अतएव कर्माशयाच प्रारब्धातिरिक्ताः क्तशा- ख्यमूलेन सह हताः स्युरतो न पुनरुत्पद्यन्त इत्यर्थः । नतु दुःखात्यन्तनिवृत्तिरेव मोक्षो जीवतश्च अवश्यं दुःखम् । 'न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति' इति श्रुतेः, तत्कथं जीव- न्मुक्तिरित्याशयेन पृच्छति। कस्मादिति। उत्तरं, यस्मादिति । तथा च दुःखनिदानात्यन्तोच्छेदस्य गौणमुक्तित्वमिति भावः । अत्र प्रमाणमनुपलब्धिमाह। न हौति। तदुक्तं गौतमाचार्य: 'वीतरागजन्मादर्शना'दिति। अयमपि मोक्षः पञ्चशिखाचार्य- ४७२ पातब्बलदर्शनम् । रुक्तो द्वितीयो रागक्षयादिति । अत्र जीवन्मुक्तस्य सवासन- के शात्यन्तदाहनिर्णयात् आधुनिकवेदान्तिनामविद्यालेशस्वी- कारोऽविद्यामूलक एवेति स्मर्तव्यम्। इदानीमुक्तस्य जीव- न्मुक्तस्य परममुक्तिप्रकारमाह सूत्रद्दयेन ॥३०॥ * तदा सर्वावरणमलापतस्य ज्ञानस्य आन- त्याज्ञयमल्पम् ॥ ३१ ॥ * सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्य आ- नन्त्यं भवति, आवरण तमसा अभिभूतमात- ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थ भवति, तब यदा सर्वैरावरणमलै- रपगतमलं भवति तदा भवति तस्य भानन्तं, ज्ञानस्य आनन्तात् ज्ञेयमल्पं सम्पद्यते, यथा आकाशे खद्योतः, यवेदमुक्तं अन्धो मणिमविध्य- त्तमनगुलिरावयत् । अग्रीवस्तं प्रत्यमुञ्चत्तम- जिह्वोऽभ्यपूजयत् प्रति ॥३१॥ तदा तस्यां जोन्मुक्तावस्थायां लशकर्मणोजानावरकमलयो- रपगमेन हेतुना ज्ञानस्य सत्त्वप्रकाशस्यानन्त्यात् विभुत्वात् ज्ञेयं प्रकाश्यमल्प तदपेक्षया भवतीत्यर्थः। यदि हि पञ्चविंशति- तत्त्वातिरिक्तमन्यदपि वस्तु तिठेत् तदा तदपि प्रकाश्येत ज्ञेय- स्यैव तु अल्पतया अन्यन्न प्रकाश्यते नतु सत्त्वस्याल्पतयेति भावः । तदेतद्याचष्टे । सर्वैरिति। अनन्त स्वभावतो व्यापक ज्ञान- सत्त्वमिति भूतसत्त्वव्यावर्त्तनायोक्त' प्रवर्तितमिति अस्व विव- रणम् सुघाटितमिति। शेषं भाष्यं सुगमम् । अत्र तमोऽभि- कैवल्यपादे योगवार्तिकम्। ४७३ भवनानन्तरमेव वृत्त्युत्पत्तिवचनादृत्त स्तमोनाशकत्वमाधुनिक- वेदान्तिनामपसिद्धान्त इति स्मर्तव्यम्। एतादृशं सर्वज्ञत्वं लोकेऽतीवाश्चर्यमन्धमणिवेधादिवदिति बौद्धोपहासमुखेन दर्श- ययि। यत्रेदमिति। यत्र क्षुद्राणामपि जीवानां योगबलात् एतादृशसार्वज्ञे बौरिदं दृष्टान्तजातमसम्भवदर्शनायोतामुपहस- द्भिरित्यर्थः । किं तत् तदाह । अन्ध इत्यादि । अविध्यत् सच्छिद्र. मकरोत् तं मणिमङ्गुलिहीनोऽवावयत् ग्रथितवान् तं मणिं ग्रीवाशून्यः प्रत्यमुच्यत कण्डाभरणमकरोत् तं कण्ठाभरणं जि- द्वाशून्यः स्तुतवानितीत्यर्थः । दृष्टान्तचतुष्टयस्यायमाशषः। अना- द्यविद्यामूढ़चित्तः सांख्याद्यभिमतसूक्ष्मार्थानामवधारणरूप वैधनमेवादावशक्य ततश्च तस्य सूमार्थस्य अविरलहत्तिसन्तान- सूत्रेण ग्रथनमपि अशक्यम्। ततोऽपि सर्वथा विवेकख्यातिरतीव अशक्या ततश्च तादृशचित्तस्य परिपूर्णज्ञानत्वेन स्तुतिरपि अश- क्येति। आस्तिकैस्तु श्रुतिस्मृतिप्रामाखेन एतत्सर्वं श्रद्धेयमिति भावः । यथोक्तसार्वज्ञात् परवैराग्योदयेन असम्प्रज्ञातपरम्परा- जन्यं प्रारब्धभोगसमाप्तिजन्यं वा टतीयं मुख्यमोक्षमाह ॥ ३१ ॥ * ततः कृतार्थानां परिणामक्रमसमाप्तिगु- गानाम् ॥ ३२ ॥ * तस्य धर्ममेघस्योदयात् कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते, न कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते ॥३२॥ ततो धर्ममेघोदयात् केशकर्मनिवृत्त्या ज्ञानस्यानन्त्ये सति परवैराग्यन पुरुषार्थसमात्या कृतार्थान् पुरुषान् प्रति गुणानां सत्त्वादीनां परिणामक्रमः समाप्यते कृतार्थपुरुषाणां भोगौप- ४७४ पातञ्जलदर्शम् । यिकः परिणामः पुनर्न भवतीत्यर्थः क्रमश्च अविरलाधारेत्यु- तरसूत्रेण व्याख्यास्यते । तत इतिपदं व्याचष्टे । तस्य धर्ममेघस्य उदयादिति । कृतार्थानामिति । पुरुषाणामिति शेषः । तथा च कृतार्थपुरुषखामिको गुणानां परिणामक्रमः समाप्यत इ- त्यर्थः । न तु गुणानामखिलस्य परिणामक्रमस्य समाप्तिरत्रोक्ता कतार्थ प्रति नष्टमण्यनष्टमित्युत्तरसूत्रादिति । ससाप्तौ हेतुमाह। न होति। न हि सत्त्वादयो गुणाः कृतभोगापवर्गा अतएव समा- प्सक्रमाः तं पुरुषं प्रति क्षणमप्यवस्थातु समर्थाः स्थितिहेतुपुरु- षार्थाभावादिति । यदि च सूत्रभाष्ययोर्गुणशब्देनात्र बुयादय एव पुरुषोपकरणानि उच्यन्ते तदा यथाश्रुतमेव व्याख्येयम् । अत्र अचेतनानां चेतनार्थतया चैतन्याधीनसत्ता वेदान्तिभि- रुच्यमाना सिद्धेति स्मर्त्तव्यम् । इयमपि तौया मुक्तिः पञ्चशिखा- चार्यकक्ता 'कर्मक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षण मिति । अतएव तत्त्वसमाससूत्रं 'विविधो मोक्ष' इति । इदमत्रावधेयम् । यदेताभ्यां सूत्राभ्यां ज्ञानस्य आनन्तात् सार्वज्ञाख्यात् मोक्ष उच्यते इदं मुख्यकल्पाभिप्रायेणोतं वैराग्यादेव सुखेन मोच- सिद्धेः, न तु सार्वज्ञादिकं विना मोक्षो न भवतीत्याशयेन । यत: सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति सूत्रे माथकता ईखरस्यानीखरस्य प्राप्तविवेकज्ञानस्येतरस्य वा इत्यनेनासर्वज- स्यापि अभिमाननिहत्तिमात्रादेव मोक्ष उक्त इति। तथा चोक्तं 'विवेकख्यातिरविप्लवा हानोपाय' इति। 'सति मूख तहि- पाको जात्यायु गा' इति च । संसारवीज हि अनात्मनि श्रा- त्मरूपा अविद्या रागद्वेषधर्माधर्सतहिपाकादिहेतुत्वात् सा चेदि. वेकख्यात्या नाशिता तर्हि तत एव संसाराच्छेदे सार्वज्ञाद्यपेक्षा नास्तीति। तथा च विष्णुपुराणम् अनात्मन्यात्मबुद्धिर्याऽनर्थे स्वमिति या मतिः ।

कैवल्यपादे योगवार्तिकम् ४७५ पविद्यातरुसंसूतिवीजमेतद्दिधा स्थितम् ॥ इति । ननु परिणामसमाप्तिरिति वक्तव्ये क्रमशब्दः परि- शामानां प्रतिक्षणमुत्पादविनाशकथनेन वैराग्योत्पादनाय प्र. युक्ताः। स चायमर्थः कथं क्रमशब्दालभ्यते क्रमशब्दस्य पौर्वा- पर्यमाबवाचित्वादित्याशयेन क्रमशब्दार्थ पृच्छति। अथेति । अयमेतत्सूत्रीयः। पत्र प्रत्युत्तरं सूत्रम् ॥ ३२ ॥ अथ कोऽयं क्रमो नामेति, * क्षणप्रतियोगी परिणामापरान्तनिर्याद्यः क्रमः॥ २३ ॥ * क्षणानन्तर्यात्मा परिणामस्य अपरान्तेन अवसानेन गृह्यते क्रमः नयननुभूतक्रमक्षणा नवस्य पुराणता वस्त्रस्यान्ते भवति, नित्येषु च क्रमो दृष्टः, द्दयो चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च, तत्र कूटस्थनित्यता पुरु- षस्य, परिणामिनित्यता गुणानां, यस्मिन् परि- णम्यमाने तत्त्वं न विहन्यते तन्नित्यम्, उभयस्य च तत्त्वानभिघातान्नित्यत्वम्, तत्र गुणधर्मेषु बुद्धया- दिषु परिणामापरान्तनिग्राह्यः क्रमो लब्धपर्यव- सानो, नित्येषु धर्मिषु गुणेषु अलब्धपर्यवसानः, कूटस्थनित्येषु खरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु खरूपास्तिता क्रमेणैवानुभूयत इति तवाप्पलब्ध- पर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित पातजलदर्शनम् । इति । अथास्य संसारस्य स्थित्या गत्या च गुणेष वर्तमानस्यास्ति क्रमसमाप्तिनं वेति । अवच- नौयमेतत्, कथम् अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यति, अभी इति । अथ सर्वो मृत्वा जनिष्यत इति विभज्य वचनौयमेतत् प्रत्युदितख्यातिः क्षीणष्णः कुशलो न जनिष्यत इतरस्तु जनिष्यते। तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः, पशूनुद्दिश्य श्रेयसी देवानृषौश्चाधिकृत्य नेति । अयं तु अवचनीयः प्रश्नः संसारोऽयमन्तवानथा- नन्त इति, कुशलस्यास्ति संसारक्रमसमाप्तिर्नेतर- स्येति, अन्यतरावधारणेऽदोषः, तस्माद् व्याकर- गीय एवायं प्रश्न दूति ॥ ३३ ॥ क्षणप्रतियोगी क्षणस्य अवसरस्य विरोधी क्षणेनापि अन. न्तरित इति यावत् । एवंरूपोऽत्र क्रमो विवक्षितो न तु पौ- वीपर्यमानमिति विशेष्यदलार्थः । परिणामश्च पूर्वधर्मापाये धर्मान्तरोत्यत्तिरित्युक्तमेव ईदृशे च क्रमे प्रमाणप्रदर्शनपरं परि- णामापरान्तनिाह्य इति विशेषणम्। भाष्यकारस्तु क्षणप्रति- योगोत्यस्य पर्यवसितमर्थमाह। क्षणानन्तर्यात्मेति। क्रम इत्युत्तरेणान्वयः क्षणानन्तर्यात्मा क्षणानन्तर्यधर्मकः । पान- न्तर्य चाव्यवधानं क्रमस्तु पूर्वापरीभावः। तथा च क्षणाव्यव- हितपरिणामधारा पूर्वसूत्रे परिणामक्रमशब्दार्थः । अनवच्छिन्न कैवल्यपादे योगवार्तिकम् । ४७७ धारायाः प्रमाणप्रदर्शक सूत्रावयवं व्याचष्टे । परिणामस्येति । पूर्वान्तापक्षया वस्त्रादिरूपस्य परिणामस्य अपरान्तेन चरमा- वस्थया अनवच्छिन्त्रपरिणामधारा अनुमीयत इत्यर्थः । युक्तिमाह । न होति । अननुभूतोऽप्राप्तो यथोक्तक्रमो यैरेवम्भूताः क्षणा यस्याः सा अननुभूतक्रमक्षणा पुराणता, तथा च वस्त्रस्य अन्तकाले दृश्यमाना पुराणता न हि अननुभूतक्रमक्षणा सम्भ- वतीत्यर्थः । अत: पुराणताया: सूक्ष्मतमसूक्ष्मतरसूक्ष्मस्थूलादि- रूपैः परिणामक्षणेषु अविरलः क्रमोऽनुमीयत इति । ननु अप- रान्तेन अनित्येष्व व क्रमः सिद्धो न तु प्रधानेऽपि तस्य चरमाव- स्थाया अभावात् अतो गुणानां परिणामक्रमे किं प्रमाणं येन तत्समाप्तिः पूर्वसूत्रोक्ता घटेत तवाह। नित्येषु चेति। नित्येषु खतोऽपरान्ताभावेऽपि विकाराणामपरान्त रेव प्रतिक्षणपरि- सामो दृष्टोऽनुमित इत्यर्थः । धर्मिविक्रिया एवैषा धर्मद्वारा प्रप- श्वात इति प्रागुक्तत्वादिति भावः। ननु परिणामक्रमाङ्गीकारे नित्यत्वहानिरित्याशङ्कायामाह। यी चेति। तथा च परि- णामित्वेन कूटस्थनित्यतैव विरुध्यते न नित्यतासामान्यमित्या- शयः । नित्यस्य सामान्यलक्षणमाह। यस्मिन्निति। तत्त्व न विहन्यते स्वरूपं नातीतं भवति अत्र च अतीतताशून्यत्वमाव नित्यस्य सामान्यलक्षणमिति बोध्यम्। तच्चोमयसाधारणमि- त्याह । उभयस्येति। गुणपुरुषयोरित्यर्थः। पूर्वसूत्रे परिणाम- शब्देन व्यावत्यै स्वरूपास्तिताक्रमं दयितु क्रमसामान्य विभ- जते। तवेति। बुद्दादिषु महदादिषु लब्धपर्यवसानी विना- शित्वादित्यर्थः । गुणेषु इति । अत्रापि परिणामापरान्तनिर्णाह्य इत्यन्वेति। परिणामस्य क्रम विधा व्याख्याय ढतीयं स्वरूपास्ति- तायाः क्रममसङ्कीर्णोदाहरणेनाह। कूटस्थेति । बवानां चित्ता- विवेकेन कदाचित्परिणामाध्यासोऽपि स्यादित्याशयेन स्वरूपमात्र पातजलदर्शनम् । प्रतिष्ठेष्वित्युक्त तस्यैव स्वरूपाख्यानं मुक्तपुरुषेषु इति । स्वरूपा स्तिता च तत्तत्क्षणमात्र तत्क्रमश्च पुरुषेषु अप्यस्ति । इदानीं स्थित्वा पश्चात् स्थास्यतीति व्यवहारात्। अन्यथा सर्वकालस- म्बन्धरूपनित्यतानुपपत्तेश्च यतस्तवापि अलब्धपर्यवसान इति, क्रम इति शेषः। नन्वेवमात्मनोऽपि अस्तिताक्रमस्वीकार षड्भावविकारशून्यत्वसिद्धान्तविरोध इत्याशङ्कां परिहरति । शब्दपृष्ठेनेति। स च क्रमोऽस्त्याख्यक्रियामादायैव शब्दपृष्ठेन शब्दानुसारिणा व्यवहवा कल्पितो भवति। न तु जन्मोत्तरका- लोनमस्तितापरिणाममादायेत्यर्थः। तथा च अस्तित्वाख्यक्रियैव षड्भावविकारान्तर्गता पुरुष निषिद्धत्याशयः । सा च क्रिया- रूपिणि अस्तिता वृद्धिहेत्ववयवोपचयरूपेति विभागः। गुणेष्व- लब्धपर्यवसानः परिणाम इति श्रुत्वाक्षिपति। अथेति। अस्य संसारस्य जन्मादिपरिणामजातस्य स्थित्या गत्वा च गुणेषु वर्त्त- मानव सृष्टिप्रलयप्रवाहणावस्थितस्य क्रमसमाप्तिरस्ति म वा। आद्यपलब्धपर्यवसानोक्तिविरोधः। अन्ये परिणामक्रमसमावि- गुणानामिति पूर्वसूत्रविरोधः, तथा भूयश्चान्ते विश्वमायानिवृत्ति- रितिश्रुतिविरोधश्च ति। पूर्वसूत्रे कृतार्थपुरुषं प्रत्येव परिणाम- क्रमसमाप्तिगुणानामुक्ता न तु सामान्यत इत्याशयेन समाधत्ते । अपचनीयमेतदिति। प्रत्युत्तरानहमेतद्भववचनमित्यर्थः। उक्त- प्रश्नस्योत्तरानहत्व प्रतिपादयितुम् आदावुत्तराहं विविधप्रयं दर्शयति । अस्ति अन्न इति । सर्वो जातो मरिष्यतीति एकान्त- वचनीयोऽविभज्यवचनीयः प्रश्नः । अस्य च अम्भो इति प्रति- वचनं सत्यौं भी इत्यर्थः । श्री मो इति पाठस्तु समीचीनः । पविभज्यवचनीयं प्रश्न प्रदर्श्य विभज्यवचनीयं प्रश्नान्तरं प्रद- यति । अथ सर्वो मृत्वा जनिष्यतीति विभागेन वचनं प्रत्यु- त्तरं दर्शयति। प्रत्युदितति। विभज्यवचनीयप्रश्न लौकिक- कैवल्यपादे योगवार्तिकम्। ४७८ मपि दर्शयति। तथा मनुष्थेति। उक्त प्रश्नस्तु यथाश्रुत एका- न्तत एवावचनीय इत्याह। अयं विति। अयमित्युक्त विशि- थाह। संसार इति। अवचनीयत्वमेवोपपादयति। कुशलस्ये- त्यादिना दोष इत्यन्तेन। कुशलस्य कुशले गुणकृतस्य संसार- क्रमस्य समाप्तिरस्ति नेतरस्मिनित्यतो गुणसृष्टिप्रलयप्रवाहो- च्छेदानुच्छेदान्यतरावधारणे दोषः। आधे बाधोऽन्त्य कस्यापि मुक्तिर्नास्तीति शिष्यमोहापत्तिरित्यर्थः । अस्यापि प्रश्नस्य विक- ल्पयोत्तरं देयमित्याह। तस्मादिति । तस्मादुत्तरदानार्थमादौ विकल्पेन व्याख्येयोऽयं प्रश्न इत्यर्थः । तद्यथा। यदि च गुणानां सृख्याधुच्छेदः पृच्च्यते तदा नास्तीत्येव वक्तव्यम् । अनादिर्भगवान् कालो नान्तोऽस्य विज ! विद्यते । अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥ इत्यादिवाक्यशतेभ्यः सृष्टिप्रवाहस्यानादित्ववदनन्तत्वस्यापि सिद्धेः शुष्कतर्कस्याप्रयोजकत्वात्। अन्यथा संसारहेत्वदृष्टस्य सर्व- स्यैव सादित्वात् संसारस्थानादित्वमपि तर्कविरोधन न सिध्येत् । भूयश्चान्ते विश्वमायानिवृत्तिरिति श्रुतिश्च मायाख्यप्रकते: प्रलये व्यापारोपरमाख्यां निवृत्तिमेव वदति। एतेन सर्वमुक्तिरप्रामा- णिकीति सिद्धम् । यदि पुरुषस्य संसारोच्छेदः पृच्च्यते तदा कुशलस्यास्ति नेतरस्येति प्रश्नवाक्य विकल्पा प्रतिवचनं सम्भव- तौति उत्तरसूत्रमवतारयति । गुणाधिकारैति। गुणाधिकारः परिणामविशेषस्तत्क्रमपरिसमाप्तौ कैवल्यमिति। ततः कृता- नासित्यादिसूत्रेण तात्पर्यतः प्रोक्त तस्य कैवल्यस्य स्वरूप मवधार्यत इत्यर्थः ॥ ३३ ॥ गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तं तत् खरूपमवधार्यते,- - ४८० पातञ्जलदर्शनम्। * पुरुषार्थशून्यानां गुणानां प्रतिप्रसर कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥३४॥ कृतभोगापवर्गाणा पुरुषार्थशून्यानां यः प्रति प्रसवः कार्यकारणात्मनां गुणानां तत्कैवल् स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसम्बन्धात् पुरु- षस्य चितिशक्तिरेव केवला, तस्याः सदा तथै- वावस्थानं कैवल्यमिति ॥ ३४ ॥ इति श्रीपातञ्जले योगशास्खे सायप्रव- चने कैवल्यपादश्चतुर्थः॥ क्वतकर्त्तव्यतया पुरुषार्थशून्चानां गुणानां पुरुषीपकरणा लिङ्गशरीरात्मकानां प्रतिप्रसवः स्वकारणे अत्यन्तविलयः स बुएं कैवल्यम् एतदेव च प्रधानस्यापि ज्ञानिपुरुष प्रति कैवल्यमुर तेन पुरुषेण सह पुनरसंयोगात् या तु धर्मधर्म्यभेदाञ्चितिर्शा स्वरूपिणी स्वरूपप्रतिष्ठा बुद्धिसत्त्वोपाधिकरूपशून्यतारूपा जप पाये स्फटिकस्य रूपप्रतिष्ठावत् सा पुरुषस्य कैवल्यमित्यर्थ परस्परवियोगो हि उपाध्य पाधिमतोरुभयोरेव केवलता एक किता भवति ते चोभे एव दुःखभोगनिवृत्त्याख्यपुरुषार्थसा भवत इति । एव कैवल्ये लक्षिते तयोश्चाद्यं कैवल्यं पुरुषस्योप चरितमित्युक्त सांख्यकारिकायाम् । तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति पुरुषः । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ इति। न तु स्वरूपप्रतिष्ठारूपं कैवल्यं दुःखभोगात्यन्तनि- वृत्तिरूपो वा पुरुषार्थः पुरुषस्य तत्र निराकृतः मोचस्यान्य- TE कैवल्यपाद योगवार्तिकम् । ४८१ त मावनिष्ठत्वे पुरुषार्थत्वे मोक्षार्थं प्रवृत्त्यनुपपत्तेः पुरुषार्थ हि करणानां प्रवृत्तिरिति। इतिशब्दः शास्त्रसमाप्तिसूचनार्थः । भाष्ये कार्यकारणात्मनामिति कार्यकारणभावापन्नानां महदा- दिसूक्ष्मभूतपय॑न्तानां लिङ्गशरीरघटकानामित्यर्थः। न तु कार्यमत्र स्थूलशरीरं तसत्त्वेऽपि कैवल्योदयादिति । ननु स्वस्य खप्रतिष्ठत्वानुपपत्त्या कथं स्वप्रतिष्ठत्वं तबाह । स्वरूपेति। पुरु- षस्य पुनर्बुद्धिसत्त्वासम्बन्धात् केवला चितिशक्तिर्रव स्वरूपप्रति- ठेत्यर्थः। तस्या इति। स्वरूपप्रतिष्ठायां सदैवावस्थानं पुनर- प्रच्यतः कैवल्यं द्वितीयमिति शेषः ॥ योगग्रन्थसहस्राणां सर्वोपनिषदां तथा । सतां च यत्र तात्पर्य सोऽर्थो व्यासेन भाषितः । व्याख्यातश्च यथाशक्ति निर्मत्सरधिया गया। एतेन प्रीयतामोशो य आत्मा सर्वदेहिनाम् ॥ इति श्रीविज्ञानभिक्षुविरचिते पातञ्चलभाष्यवार्तिके कैवल्यपादश्चतुर्थः । समाप्त चेदं दर्शनम्।

Patanjalis Yoga Dharshana

Author
Jiwananda
Title
Patanjalis Yoga Dharshana
File name
Patanjalis Yoga Dharshana
Text
OCR done
Citation
1897
Published
2013
Publisher
Sri Jiwananand Vidyasagar Bhattacharya Sanskritam Prakishit
Language
Sanskrit
Pages
486
Library
S.P Collage
Classification
Language. Linguistics. Literature
DLI number
242133
Barcode
99999990879876.00
Scanning centre
Allama Iqbal Library, University of Kashmir
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
JaqeyHVuRl7
Download PDF

Patanjalis Yoga Dharshana