Central Library, Visva-bharati
Tantralokah Vol. 4
Front matter
तमसो मा ज्योतिर्गमय
SANTINIKETAN
VISWA BHARATI
LIBRARY
17.362
हि..MR
N. 4
1
No text on this page.
No text on this page.
THE 'KASHMIR SERIES
OF
TEXTS AND STUDIES.
No text on this page.
WasJHI VIS KASHMIR SERIES OF TEXTS AND STUDIES. No. XXXVI. THE TANTRALOKA OF ABHINAVA-GUPTA With Commentary BY RĀJĀNAKA JAYARATHA Edited with Notes BY PANDIT MADHUSŪDAN KAUL, SHASTRI, M. A., M. O. L., SUPERINTENDENT OF THE RESEARCH DEPARTMENT, JAMMU AND KASHMIR STATE, SRINAGAR. PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS LIEUT.-GENERAL MAHĀRĀJA SIR PRATAP SINGH SĀHIB BAHADUR, G. C. S. I., G. C. I. E., G. B, E., LL. D., MAHĀRĀJA OF JAMMU AND KASHMIR STATE . VOLUME IV, NT JAMMU DEPARTMENT lo KAS HMIR 37.no . PRINTED AT THE BOMBAY : ТАТУА-VIVECHAKA 1922. PRESS.
श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गों
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य
टपरिमलो रअयन्सर्वदेश्यान्
देशेऽन्यस्मिन्नदृष्टो चुसृणविसरवत्सर्ववन्दव्यत्वमाप ॥१॥
तरत तरसा संसाराब्धि विधत्त पर पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे ।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सयुक्त्यान्तःसमुत्प्लवदायिनम् ॥ २॥
काश्मीर-संस्कृतग्रन्थावलिः । ग्रन्थाङ्कः ३६ श्रीतन्त्रालोकः। श्रीमन्महामाहेश्वराचार्यवर्य- “श्रीमदभिनवगुप्ताचार्यविरचितः । श्रीमन्महामाहेश्वराचार्य श्रीजयरथकृतविवेकाभिख्यटीकोपेतः। श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रत्नविद्याप्रकाश-(रिसर्च ) कार्यालये तदध्यक्ष-पण्डित-मधुसूदन-कौल-शास्त्रिणा उद्दिष्टकार्यालयस्थपण्डितसहायेन संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य मुम्बय्यां तत्त्वविवेचकाख्य-मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः (चतुर्थो भागः) ENT JAMMU DEPARTMENT SAKA. KHY3978 HASHME काराम Jivis संवत् १९७९ स्नेस्ताब्दः १९२२ काश्मीर-श्रीनगर (अस्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवयः स्वायत्तीकृताः सन्ति।)
(All rights reserved.)
Printed loy
Vithal Tanaji Modak ut The Tatva-Vivechaka " Press,
No. 3544, Parel Road, New Nagpada, oprosito
Richardsor & Crudus Office, Bombay.
and l’ublished by
The Research Department, Jammu and Kashmir State,
Srinagar.
मथ श्रीतन्त्रालोक-षष्ठाह्निक-मूलश्लोकानामकारा- धनुक्रमणिका ४८ १५६ , ६ ४ ८. श्लो. पृ. श्लोक पृ. अकारणं शिवं विन्दे १९३ १५९ | अर्कः प्रमाणं सोमस्तु १०२ अमिवेगेरिता लोके १४४ १२४ | अन्दुराहुसंघद्यात् १०४ ८९ अङ्गुलेष्विति षटिश २३२ १८८ अलमप्रस्तुतेनाथ २१ २१ अतः सामनसात्कालात् १६७ १४१ अवधानाददृष्टांशा ५५ अतद्रूढान्यजनता २० १८ अवेद्ययत्नो यत्नेन १८८ भतोऽध्वशब्दस्योक्तेयं ३३ ३२ अव्यक्तास्ये ह्याविरिश्चा १५० १२९ अदाढयशनात्प्राच्य १९ १८ अध्यात्रिंशं च तत्तत्त्वं १५१ अध्यर्धा किल संक्रान्ति २४३ १९७ अहानशं तदैक्ये तु २४५ १९९ अध्वनः कलनं यत्त आप्यायनात्मनैकैका ९३ अध्वा क्रमेण यातव्ये आमावास्यं यदा त्वध १०६ अध्वा समस्त एवायं ३ | आमुत्रिके झषः कुम्भो ११९ १०२ अनेन ज्ञातमात्रेण १९२ १५९ | आरभ्याहर्निशावृद्धि २०५ १७० अन्तःसंक्रान्तिगं ग्राह्य २११ १७४ | इकारोकारयोरादि २२० १७९ अन्त्यायां पूर्णमस्तुट्यां ११२ इति पञ्चाशिका सेयं २४९ २०१ अबाद्यव्यक्ततच्चान्ते १२. इति प्राणोदये योऽयं १२९ ११४ अबुद्धस्थानमेवैत इत्थं षटुिं शके चारे २३७ १९३ अन्दं पित्र्यस्त्वहोरात्र १३१ ११५ | इत्यमेव दिवारात्रि अमावस्यां विनाप्येष १०५ इत्येकस्मात्प्रभृति हि अमूर्तायाः सर्वगत्वा इत्येकादशधा बाय ८७ १६९ १४ ३ .(२) . क्षकारः सर्वसंयोग ग्यो. पृ. श्लो. पृ० इन्दमिमये मुख्ये १६४ कन्दाधारात्प्रभृत्येव ५० इयं सा प्राणनाशक्तिः १२ कादिपश्चकमावस्य २२२ १८० इह सर्वत्र शब्दाना ३१ कालशक्तिस्ततो बाह्ये १८३ १५३ ईश्वरः कानियती ३९ कालसंख्या सुसूक्ष्मैक २१० १७३ . वर प्राणमाता च कालामि वि संहती १४५ उर्फ श्रीकामिकायां च क्रमसंपूरणाशालि १११ उक्तः परोऽयमुदयो २२४ १८२ क्रमाक्रमात्मा कालश्व ६ उक्तः सूक्ष्मोदयलेधं २४० १९ क्रियाशक्तिः समस्तानां ३९ उत्पतिस्थितिसंहारान् ५९ ५१ करता सौम्यता वाभि ६४ उदिकाभोगकार्यात्म ३७ २३६ १९२ एककमर्धप्रहरं .२४१ १९६ क्षीयते तदुपासायां १९४ १६० एकैकवणे प्राणानां १९९ क्षीयेते यदि तद्दीक्षा एकेकहान्या तावद्भिः १३९ ११९ क्षोदिष्ठे वा महिष्ठे वा एको नादात्मको वर्णः २१७ खरसास्तिथ्य एकस्मि १२४ एतावच्छक्तितत्त्वे तु ११३ १३७ गर्भता प्रोदबुभूषिष्य ११७ १०१ एवं कलाः पश्चदश ८३ | गुणयित्वैश्वरं कालं १३६ एवं देवस्वहोरात्र १३७ ११८ प्रासमोक्षान्तरे स्नान एवं प्राणे विशति चित् ११० ९४ प्रास्यप्रासकताक्षाभ १०८ ९२ एवं बद्धा शिखा यत्र २८ चत्वार एते प्रलया १४४ एवमव्यक्तकालंतु १३३ / चन्द्रसूर्यात्मना देह ९५ ८१ एष वादयो रात्री चार एकत्र नात्र १७३ ऐहिकं प्रहणे चात्र ११३ ९६ चेष्टितान्यनुकुर्वाणो १९८ १६३ ऐहिकी उनैकव्या ५९ चैत्रे मन्त्रोदितिः सोऽपि १२५ १०७ भोतमोत्तात्मकः प्राण छादितप्रथिताशेष १५० ६५ . ४१ . श्लोक पृ० यो जन्म सत्ता परिणति १०१ तद्वासनाक्षये स्वषा १८. जीवादित्यो न चोद्गच्छेतू २५ २५ / तद्दिनप्रक्षये विश्व १५५ १३३ तत एव तमोरूपो १०३ ८८ तयोस्तु विश्रमोऽऽधे तत्क्रमान्नियतिः कालो १५४ १३३ | तल्लयो वान्तरस्तस्मा १५२ १४६ तत्क्रमेणव संक्रान्ति २०८ १७२ | तस्माद्विश्रमतुव्यर्धा तत्त्वमध्यस्थितात्कालात् ३८ ३६ | तां पुनस्त्रिंशता हत्वा तत्प्रमातरि मायीये ४१ ३८ तामेव बालमूर्खत्री १५ तत्र क्रियाभासनं यत् ३४ ३३ | तावती चैश्वरी रात्रि १५८ तत्र पञ्चदशी यासौ तावत्तत्पदमुक्तं नो २३. तत्र प्रातिपदे तस्मि १०० ८६ | तावदेवास्तमयनं तत्रापि तु प्रयत्नोऽसौ तावदहनहोरात्रं तत्राप्यहोरात्रविधि १२२ १०४ तावानेव क्षणः कल्पो तत्राप्यौपाधिका दात् १७६ १४८ तिथिच्छेद ऋणं कासो १०९ तत्रार्कमण्डले लीनः १०१ ८७ | तुटिः सपादाङ्गुलयुक् तत्साधकाः शिवेष्टा वा १७७ १४९ | तेनाहुः किल संवित्प्राक् १२ तत्सष्टी सृष्टिसंहारा १७३ १४७ | तेनोदानेऽत्र हृदयात् ११३ १४५ तथापानेऽपि हृदयात् १८६ १८६ १५५ ते चोक्ताः परमेशेन तथा पुरेष्वपीत्येवं तेषां तथा भावना चेत् १७ तदहति व यः कालो २०७ १७२ / तौ कृप्तौ यावति तया तदा श्रीकण्ठ एव स्या १४९ १२९ | त्रिकदयेऽत्र प्रत्येक तदीयेनाप्लुतं विश्वं १४४ १२४ दग्ध्वा लोकत्रयं धूमा १४१ तदेव पुंसो मायादि ३८ दशशतसहस्रमयुतं १६८ १४३ तदेव शून्यरूपत्वं दिनं कृष्णो निशा शुकः. ७६ " तदेवेन्दमत्रान्ये २२५ १८२ / दिन रात्रिश्च तत्काले १६५ १३० ८. ८८ १० (४) श्री. पृ. हो. पृ० ३ ७८ प्रहरद्वयमन्येषां नववर्गास्तु ये प्राहु- दिनरात्रिक्रम मे श्री दिनरात्र्यविभागे तु २४८ २०० दीर्घ प्लुतं क्रमाद्वित्रि २३४ १९० देवानां यदहोरात्रं ११७ देहमप्यनुवानास्त १९. १५८ द्विधा च सोध्वा कियया २२ २१ नक्षत्राणां तदन्येषा- ६० न भोक्ता ज्ञोऽधिकारे तु १५१ १३१ १९८ नवासुशतमेकैकं २०३ •नाख्यन्तराधिता नाडी: १९७ १६२ नादो नादान्तवृत्त्या तु १६२ १३७ निर्गमे दिनवृद्धिः स्यात् १२१ १०४ निर्गमेन्तर्निशेनेन्द् ६६ निशाक्षये.पुनः मूटिं १४५ १२५ नैमित्तिकी प्रसिद्धा च ३२ न्यूना स्यात्स्वात्मविश्रान्ति-८६ परः सुप्तं क्षये रात्रि- पितामहान्तं रुद्राः स्युः१२३ १०५ पित्र्यं वर्ष दिव्यदिन- १३८ ११९ पिवन्ति च सुराः सर्वे ८२ पुरा विचारयन्पश्चा- ८३ সন্ধায়ৰস্বায়া- प्रत्यङ्गुलं तिथीनां तु १२६ १०८ प्रधानान्तं नायकाश्च ६१ प्रधाने यदहोरात्रं १५३ १३२ प्रभुशक्तिः क्वचिन्मुख्या. ५३ प्रभोः शिवस्य या शक्तिः ५२ ४५ प्रमात्रभेदे भेदे ऽथ १८५ १५४ प्रवेशे खलु तत्रैव १२० १०२ प्रवेशे तु तुलास्थे ऽ ११६ ९९ ५८ प्रहराहर्निशामास- १२८ ११० प्राणचारेऽत्र यो वर्ण- २१६ प्राणनावृत्तितादात्म्य- १४ प्राणविक्षेपरन्ध्राख्य २४ २२ प्राणव्याप्तौ यदुक्तं त- २१२ प्राणशक्तिः क्वचित्प्राण. प्राणसंख्यां वदेत्तत्र १३४. ११६ प्राणे ब्रह्मबिले शान्ते १५९ १३६ बद्धा यागादिकाले तु २२ बिन्दुः प्राणो ह्यहश्चैव ब्रह्मणःप्रलयोल्लास- १४४ १२८ ब्रह्मणोऽहस्तत्र चेन्दाः १४० १२० ब्रह्मादयोऽनाश्रितान्ताः १०९ १५७ ब्रह्माद्यनाश्रितान्तानां १८७ १५६ मण्डलं स्थण्डिलं पात्र ३ २ मध्याहे दक्षविषुवत् २०२ १६७ मात्रा ह्रस्वाः पञ्च दीर्घा- २२६ १८३ . ८४ १६८ श्रीमातशे तथा धर्म ३४ / षट्रिंशदङ्गुले चारे . १७९ ओ को. पृ. माज्याहिकी मोक्षदा स्या. २६ २६ शतमष्टोत्तरं तत्र २०. मायाकालं परार्धानां १५७ १३३ शतानि षटसहस्राणि १२५ मायातत्त्वलये स्वते १७५ १४८ शिवशत्यविभागेन २३९ १९५ मुक्तौ च देहे ब्रह्माद्याः १९१ १५८ | श्रीमत्स्वच्छन्दशास्त्रे च १३६० ११८ यदत्तथान्तः संक्रान्ति- २०४ २२८ १८५ यदशाद्भगवानेका- श्वासप्रश्वासयो ली २२७ १८४ यस्तु मूर्त्यवभासांशः ३५ ५४ यावत्कुर्वीत तुल्यादे १९५ १६१ षट्प्राणश्चषकस्तेषां १३० ११४ येन रूपेण तद्वमः ४१ षट्सु षट्स्वङ्गुलेवकों ११४ रात्रिश्च तावतीस्येवं १४६ १२६ / षडिधादध्वनः प्राच्य ३७ ३५ लये ब्रह्मा हरी रुद्र. १४७ षण्ठार्णानि प्रवेशे तु २२१ लयोदया इति प्राणे १८२ १५२ षष्टयधिकं च त्रिशतं १३२ ११५ वामा संसारवमना ४९ । संक्रान्तित्रितये वृत्ते ११५ ,९८ वामा संसारिणामीशा संचरन् सर्वतादिक १९६ १६१ वामेतरोदक्सन्यान्य. २०१ १६७ संविन्मानं हि यच्छुदं विभुरधः स्थितो ऽपीश. १४२ १२३ संवेद्यजीवनाभिख्य. विश्रान्तावर्धमात्रास्य २३५ १९१ संवेद्यश्चाप्यसंवेद्यो ४२ विश्वात्मता च प्राणत्वं स एव खात्मा मेयेऽस्मिन् ११ १. वेदा मात्राधमन्यत्तु १८९ स काल: साम्यसंज्ञः स्या-१६६ १४० वेदाश्चाराः पञ्चमांश २५० २०१ स तु भैरवसद्भावो २१८ वेद्यवेदकसाम्यं तत् ८५ ७५ | सदाशिवः स्वकालान्ते १६१ व्याने तु विश्वात्ममये २१४ १७५ स ब्रह्मा विष्णुरुद्राया. १४९ व्यापिन्या तद्दिवारानं १६४ १३८ समाधौ विश्वसंहार- १८४ १५३ शक्तयः पारमेश्वयों ६१ । सर्वथा तन्मयीभूति- ४० (६) को. पृ. श्लो. पृ० १७१ स्थूलसूक्ष्माः क्रमात्तेषा ६२ १८६ स शर्वयुदयो मध्य २०६ सांख्यवेदादिसंसिद्धान् १५२ सा प्राणवृत्ति: प्राणाये- १४ सामावस्यात्र स क्षीण- सृष्टिः प्रविलयः स्थमा २१५ १३२ स्थूलेकाशीतिपदज २२९ १३ स्थूलोपायाः परोपाय- २३१ स्थूलो वर्णोदयः सोऽयं २५१ १७६ १८८ : २०२ हृदआरभ्य यत्तेन ९० सृष्टयादयश्च ते सर्वे ६० ५८ २३८ १९४ सृष्टयादितत्त्वमज्ञात्वा सैव संविद्वहिःस्वात्म- सोऽपि संविदि संविच्च स्थानप्रकल्पाख्यतया स्थानभेदविधा प्रोक्तः १८० हृदयात्प्रणचारश्च ५० हृद्यकारो द्वादशान्ते १५१ हृद्येष प्राणरूपस्तु हेये तु दर्शिते शिष्याः हस्वार्णत्रयमेकैक २२३ १८१ १ १ २१९ मथ श्रीतन्त्रालोक-सप्तमाह्निक-मूलश्लोकानांम- काराद्यनुक्रमणिका। श्लोक १ १९ ३ २८ ४ पृ० लो. १ ततोऽपि द्विगुणेऽष्टांश २० १७ तदभावश्च नो तावत् ३६ तदभावान विज्ञाना २९ तन्मन्त्रदेवता यनात् तावती तेषु वै संख्या ४३ तावानेको विकल्पः स्या- ३२ तेनास्तात एवैष प्रयोदशाणे द्वाषष्टचा ३८ त्रिके सप्त सहस्राणि ३ देहे प्रतिष्ठितस्यास्य ६ द्वात्रिंशके महाचके १५ द्वादशाख्ये द्वादशिते १६ द्वित्रिसप्ताष्टसंख्यातं ४२ १४ द्वित्रिश्चतुर्वा मात्राभिः न कालभेदजनितो न विकल्पश्च कोऽप्यस्ति ३५ ५ निरुद्धय मानसीवृत्ती- पश्चाणेब्धिसहस्राणि ३८ पदपिण्डस्वपमेण ६ अथ परमरहस्योऽय अन्यथा न स निर्वक्तुं .२६ अयुक्ताः शक्तिमार्गे तु अष्टोत्तरशते चक्रे आद्यन्तोदयनिर्मुक्ता- इत्ययत्नजमाख्यातं २ उदयं तत्त्वयोगज्ञः १६ उदयः सप्तशतिका एकानुसंधियत्नेन एकानविंशतिशतं १० एकाशीतिपदे चक्के कालस्तु भेदकस्तस्य २५ कालः समस्तश्चतुर ६९ क्रमेण प्राणचारस्य २२ चक्रचारगताद्यन्नात् ३९ चतुर्दशशती खाब्धिः १२ चतुर्विशतिगत्या तु चतुर्विशतिसंख्याके चाराधभागांधीनत्र ५ ५२ ३३ १५ २६ ५३ ४ (८) ो श्लो. पृ० : ४४ ४५ पदमन्त्राक्षरे चके पदमन्त्रेषु सर्वेषु पिण्डाक्षरपदैर्मन्त्र- पूर्ण समुदये स्वत्र प्रवेशविश्रान्त्युलासे भागषोडशकस्थित्या मन्त्रचोदयज्ञस्तु मालामन्त्रेषु सर्वेषु वस्तुतो छत एवेयं विकल्प: शिवतादायी विकार उपजायेत विज्ञानं तद्रिकल्पात्म- विदधत्परसवित्ती विन्दाना निर्विकल्पापि विभज्यते विभागक्ष विशेषचार्धाधिकायोगा- विश्वे मष्टिलयास्ते तु प. ३२ व्याप्तं तद्वत्तार- ३८ शक्तिस्थं नैव तं तत्र. शक्यन्तेऽध्वनि तत्स्पन्दा. ६४ शतद्वादशिका सप्त. १३ षण्णवस्यामधः षड्व- १२ षोडशाख्ये द्वादशिते षोडशाख्ये षोडशिते संविदेकव पूर्णा स्या २३ २३ स नाडीरूपतामेत्य सप्तके त्रिसहस्रं तु सप्तत्रिंशत्सहार्धन स स्पन्दे खे स तच्चियां ६३ सत्येको न भवेत्कश्चित् ३३. सा च स्यात्क्रमिकवेत्यं ३४ सा चेदुदयते स्पन्द- ५६ सिद्धामते कुण्डलिनी ३० ५३ ८ ५ ६५ ८ ३ २ २६ २६ ६१ Yo ३१ .
अथ श्रीतन्त्रालोके श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते श्रीजयरथकृतविवेकाख्यटीकोपेते षष्ठमाह्निकम् । कवलयितुं किल कालं कलयति यो व्यायतास्यंतां सततम् । जयति स सुजयः साक्षा- संसारपराकृतौ संजयः॥ इदानीमाणवोपायस्यैवाङ्गभूतमुच्चारादिप्रमे- यचतुष्टयानन्तरोद्दिष्टं स्थानकल्पनाख्यं परमं प्रमेयं द्वितीयानावतारयितुमुपंक्रमते स्थानप्रकल्पाख्यतया स्फुटस्तु बाह्योऽभ्युपायः प्रविविच्यतेऽथ॥१॥ १ ख० पु० सुजय इति पाठः । २० पु० प्रक्रमते इति पाठः ।
२ श्रीतन्त्रालोकः अथशब्दोऽधिकारे । तेनेतः प्रभृत्याद्वादशा- ह्निकं यत्किंचिदुच्यते तत्सर्वं स्थानकल्पनाधि- कारेण, इति पञ्चदशाहिकात्प्रभृति पुनरेतदेव बाह्यस्थण्डिलमण्डलायधिकृत्याभिधीयते, इत्याग्रन्थपरिसमाप्तेः प्राधान्यात् स्थानक- ल्पनस्यैव सकलोऽयं प्रपञ्च, इति ॥१॥ तदेवाह स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा। एषांमपि भेदान्तराणि सन्ति, - इत्याह प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः ॥२॥ मण्डलं स्थण्डिलं पात्र- मक्षसूत्रं सपुस्तकम् ।
श्लोक ५] ३ षष्ठमाह्निकम् लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च ॥ ३॥ इत्येकादशधा बाह्य पुनस्तबहुधा भवेत् । पुस्तं' लेपादिनिर्मिताकृतिः। मूर्तिर्वा- दिसंबन्धिनी। तदित्यानन्तर्याहाह्य, पुनरित्येका- दशविधत्वेऽपि, बहुधेति मण्डलादीनामप्येक- शूलत्रित्रिशूलादिक्रमेण नानात्वात् ॥३॥ एवं स्वरूपतः स्थानभेदमभिधाय तद्गतं वि- धिमप्युपदेष्टुं प्रतिजानीते तत्र प्राणाश्रयं ताव- द्विधानमुपदिश्यते ॥ ४॥ तदेवाह अध्वा समस्त एवायं पडिधोऽप्यतिविस्तृतः। १ क० पु. विधानमुपदिश्यत इति पाठः ।
४ श्रीतन्त्रालोकः यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः ॥ ५॥ वक्ष्यत इति भुवनाध्वप्रकाशनादौ । 'प्राण' इति सामान्यस्पन्दनात्मनि । यदुक्तम् षड्विधावविभागस्तु पाणैकत्र यथा स्थितः ।' (स्व० ४।२३२) इति । विशिष्टे पुनः पदमन्त्रवर्णात्मा त्रिविध एव । यद्वक्ष्यति 'षड्डिधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः । एष एव स कालाध्वा पाणे स्पष्टं प्रतिष्ठितः॥' (तं० ६।३७) इति ॥ ५॥ तदेवोपपादयति अध्वनः कलनं यत्त- क्रमाक्रमतया स्थितम् । - . १ क. पु. प्रकाशादाविति पाठः ।
G सो..] षष्ठमाह्निकम् क्रमाक्रमौ हि चित्रैक- कलना भावगोचरे ॥६॥ नन्वेतत्क्रमाक्रमात्मतयैव कस्मास्थितमित्या- शङ्कयाह क्रमेत्यादि । इह द्विधैव भावाना- मवभासः क्रमेणाक्रमेण च ; तत्र क्रमेण यथा कार्यकारणादौ, अक्रमेण यथा चित्रज्ञानादौ । स च चित्रे यदैकस्यैवैकदैव च कंचित्पूर्वकाल- भाविनं समानकालभाविनं च, भावमपेक्ष्य क्रमेणाक्रमेण चावभासः, -इति । तद्यां नाम भावनामेवं कलना' परिच्छित्तिः स एव क्रमाक्रमात्मा काल इति ॥ ६ ॥ ननु सर्वमिदं जगत्संविल्लंग्नमेवावभासतेऽ- न्यथा ह्यस्य भानमेव न भवेत् , संविदि च नित्यत्वात्कालयोगो नास्ति , इति कथमसौ १ ख. पु. क्रमाक्रमेति शोधितपाठः । २ क. पु. तया नामेति पाठः । ख० पु० भावनानामेवमिति मूल पाठः। ३ ख. पु० संलममिति पाठः ।
or श्रीतन्त्रालोकः तदनुषक्तस्य भावजातस्यापि स्यात् ? इत्या- शङ्कयाह क्रमाक्रमात्मा कालश्च परः संविदि वर्तते। नन्वेवं ‘क्रमाक्रमकथातीतं संवित्तत्त्वं सुनि- मलम् ' इत्यायुक्तं व्याहन्येत, सौंगतमतान्तः- पातश्च स्यात्, -इत्याशङ्कयाह काली नाम परा शक्तिः सैव देवस्य गीयते ॥ ७॥ यन्नाम परस्य प्रकाशस्य कालेन योगः सास्य 'शक्तिः' स्वेच्छावभासितस्य प्रमातृप्र- मेयाद्यात्मनो जगतस्तत्तद्रूपतया कलने सा- मर्थ्यं न पुनः स्वात्मनि कश्चिदक्रमः क्रमो वा, - इति, न ह्यग्नेर्दाहशक्तियोगे स्वात्मनि स्फोटाद्याविर्भावः ॥७॥ १ क. पु० सर्वः संविदीति पाठः ।
लो० ९] षष्ठमाह्निकम् तदाह सैवं संविद्वहिः स्वात्म- गर्भीभूतौ क्रमाक्रमौ। स्फुटयन्ती प्ररोहण प्राणदृत्तिरिति स्थिता ॥८॥ सैव कालशक्तियोगिनी संवित्स्वाविभागेना- वस्थितौ क्रमाक्रमौ बहिः प्ररूढतयावभासय- न्ती प्राणवृत्तिरिति स्थिता, प्राणनात्मतया प्र- स्फुरितेत्यर्थः ॥ ८॥ ननु कथं नामेयं प्राणवृत्त्यात्मना प्रस्फु- रिता, - इत्याशङ्कयाह संविन्मात्रं हि यच्छुई प्रकाशपरमार्थकम् । तन्मयमात्मनः प्रोज्झ्य विविक्तं भासते नमः॥९॥ १ क० पु० स्वैव संविदिति पाठः । ख० पु. संविस्पुनरिति पाठः । २ क. पु. प्राणेनात्मतयेति पाठः।
। श्रीतन्त्रालोकः यन्नाम हीदं प्रमातृप्रमेयात्मनो विश्वस्य स्वाविभागेनैवावभासनात्प्रकाशपरमार्थकम् ,अ- त एव तदारूषणाया अभावाच्छुद्धं संवि- न्मानं तत्स्वस्वातळ्यात् स्वात्मन्यपूर्णत्वावबि- भासयिषया स्वाविभागेनावस्थितं विश्वात्म मेयं' आत्मनः सकाशात् 'प्रोज्झ्य' पृथकृत्य 'विश्वस्मादुत्तीर्णोऽहम्' इत्यामृश्य 'विविक्तं नभोऽवभासते' सकलभावशून्यत्वान्निरावरण- रूपतया प्रस्फुरतीत्यर्थः ॥ ९॥ अत एवाह तदेव शून्यरूपत्वं संविदः परिगीयते। 'शून्यरूपत्वम्' इति शून्यप्रमातृत्वमि- त्यर्थः । शून्यत्वं चास्य सर्वस्य संवेद्यस्य संक्ष- १ क. पु. स्वातच्यात्मनि अपूर्णत्वाद्यवति पाठः । २ क. पु. स्वात्मनः इति पाठः । ३ क. पु० इत्याविमृश्य इति पाठः ।
श्लो. १० ] षष्ठमाह्निकम् यात् न तु संविदोऽपि, तथात्वे हि निखिलमि- दभनेलमूकप्रायं स्यात् । यदुक्तम् अशून्य शून्यमित्युक्तं शून्यं चाभाव उच्यते । अभावः स समुद्दिष्टो यत्र भावाः क्षयं गताः ॥ (स्व० ४।२९१) इति । सर्वालम्बनधर्मश्च सर्वसत्त्वैरशेषतः । सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥' इति च ॥ एतच्च परमुपेयमितो बाह्यानामित्याह नेति नेति विमर्शेन योगिनां सा परा दशा॥१०॥ सेयं 'न भावो नापि चाभावो मध्यमामतिपत्तितः।' इत्यायुक्तयुक्त्या भावाभावविषयेणे नेति नेति परामर्शद्वयेन मध्यमपदावेशशालिनां 'योगिनां १ ख० पु. भावः क्षयं गतः इति पाठः । २० पु० विषयत्वेन इति पाठः । ३ क. पु० प्रतिपदावेशति पाठः।
१० श्रीतन्त्रालोकः परा' शून्यातिशून्यरूपो ‘दशा' विश्रान्ति- स्थानमित्यर्थः । यदाहुः 'शून्यतावस्थितः पश्चात्संवेदनविवर्जितः। निर्वाणः कृष्णवर्मेव निरुपाख्यो भवत्यसौ ॥' इति ॥ १०॥ स एव च शून्यप्रमाता बहिर्मुखीभवन्प्रा- णप्रमातृतामासादयति, - इत्याह स .एव खात्मा मेयेऽस्मि- न्भेदिते स्वीक्रियोन्मुखः । पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः॥११॥ स एव च ' खात्मा' शून्यप्रमाता अभिलाषो मलोऽत्र तु ।' (स्व० ४-१०४) इत्याद्युक्तेरपूर्णम्मन्यतात्मकाणवमलयोगात्सा- काङ्कतया पुनस्तत्स्वीकरणोन्मुखः सन् स्वस्मात् १ क० पु० रूपदशा इति पाठः । २ ख० पु० सर्वेन्धनेति पाठः । .......
लो. १२] षष्ठमाह्निकम् ११ . भेदिते' पृथकृतेऽस्मिन् नीलसुखादिरूपे 'भेये समुच्छलत्त्वेन पतन्' बहिर्मुखीभवन् प्राणादिशब्दव्यपदेश्यो भवेदित्यर्थः । किंचिच्च- लनात्मनः स्वविमर्शरूपस्य स्पन्दनस्यैवायमांद्यः प्रसरः, - इत्युपचारात्तच्छब्दव्यपदेश्यो न तुस एवायं तस्य शून्यप्रमात्रुल्लासादप्यूचं भावात् । एवमूर्मिशब्दादावुत्तरत्रापि ज्ञेयम् ॥ ११ ॥ यदभिप्रायेणैव भट्टश्रीकल्लटादयोऽप्येवमूचुः,- इत्याह तेनाहुः किल संवित्प्रा- प्राणे परिणता तथा । अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ॥१२॥ यद्यपि शून्यतावभासनपुरःसरं संवित्प्राण- रूपतया परिस्फुरिता तथापि तदवभासनेऽस्या न कश्चिद्रूपान्तरोपग्रहः, इत्युक्तं 'प्रासंवि- १२ श्रीतन्त्रालोकः प्राणे परिणता' इति । तैरप्येतन्निर्मूलमेव नोक्तम् , - इत्यागमोऽपि संवादितः अन्तःकर- णेत्यादिना' । अन्तःकरणानां 'तत्त्वं' सार- भूता बुद्धिस्तस्य बुद्धिप्रमातुरित्यर्थः । तेन बुद्धि- प्रमातुः पूर्व प्राणोल्लासः, - इति सिद्धम् । अ- न्यथा कथं स तस्याश्रयः स्यात् ॥ १२ ॥ एवमयमेव परस्याः संविदःप्रथमः परिस्प- न्दः, इति तदभेदवृत्त्यैव सर्वत्रास्य व्यवहारः,- इत्याह इयं सा प्राणनाशक्ति- रान्तरोद्योगदोहदा। स्पन्दः स्फुरत्ता विश्रान्ति- जीवो हृत्प्रतिभा मता ॥१३॥ आन्तर ' आद्यो योऽसौ 'उद्योग' उद्य- १ क० पु० सारभूतं तस्य बुद्धिप्रमातुरित्यर्थः । २ ख. पु. जीवे इति पाठः ।
श्लो० १४ ] षष्ठमाह्निकम् . १३ न्तृतात्मा परिस्पन्दस्तत्र दोहदो'ऽभिलाषो यस्याः सा तदेकनिष्ठेत्यर्थः ॥ १३ ॥ नन्वेवमुल्लसिताया अस्याः किं प्रयोजनम् ? इत्याशङ्कयाह सा प्राणवृत्तिः प्राणायै रूपैः पञ्चभिरात्मसात् । देहं यत्कुरुते संवि- त्पूर्णस्तेनैष भासते ॥ १४ ॥ सेयं सामान्यपरिस्पन्दात्मा प्राणवृत्तिः प- श्वभिः प्राणापानाचे रूपैर्यत्तदन्तर्बहिष्करणा- द्याक्रान्तं पाञ्चभौतिकं 'देहमात्मसात्कुरुते' व्याप्यावतिष्ठते तेनैष देहो घटादिवत्संवेद्यत्वे- ऽपि संवित्पूर्णो भासते संवेत्तृतया प्रथत इ- त्यर्थः । अत एव मूढानामयं भ्रमो यचैतन्य- विशिष्टात्कायादन्यः कश्चिन्नास्ति इति । यदु- क्तम् क. पु. अवभासतेऽस्तवेद्यतयेति पाठः ।
श्रीतन्त्रालोकः 'चैतन्यखचितात्कायानात्मान्योऽस्तीति मन्वते ।' इति ॥ १४ ॥ तदाह प्राणनात्तितादात्म्य- संवित्खचितदेहजाम् । चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते ॥१५॥ 'मुग्धा' इति देहात्मनोविवेकमजानानाः। अयमेषां भावः-भूतान्येव हि मृदाद्यवस्थाया- मचेतनान्यपि सुराकारतया परिणता गुडपिष्टा- दय इव मदशक्ति, शरीराकारपरिणतानि चै- तन्यं प्रतिपद्यन्ते, कालान्तरे च परिणामविशे- षभाक्त्वाच्च तच्छून्यतामुपगच्छन्ति, तावन्तं च कालं चैतन्यानपायात्स्मृत्यनुसन्धानादिव्यवदा- रनिपुणतया चेष्टन्ते, - इति किमन्येन तंदति- रिक्तेनात्मनेति ॥ १५ ॥ , १ क. पु० मूढा इति पाठः । २ क० पु. मूढा इति पाठः ।
श्लो० १६ ] षष्ठमाह्निकम् एतदधिशयाना एव 'चार्वाका' इत्युच्य- न्ने, इत्याह तामेव बालमूर्खस्त्री- प्रायवेदितृसंश्रिताम् । मतिं प्रमाणीकुर्वन्त- .श्चार्वाकास्तत्त्वदर्शिनः ॥१६॥ तामेव मतिमिति, 'चैतन्यविशिष्टः कायः पुरुषः' इत्याद्युक्त्या चैतन्यखचितो देह एवा- त्मा न पुनस्तदतिरिक्तः कश्चित् , - इत्येवं- रूपाम् । बालादिसंश्रयेणास्या महाजनानुपसे- व्यत्वं दर्शितम् । प्रमाणीकुर्वन्त इति, देहादू- लमपि यदि कश्चित्तदतिरिक्त आत्मा संभवेत्त- त्तस्य पूर्वशरीरमपहाय शरीरान्तरमधितिष्ठत एतच्छरीरशैशवादिदशानुभूतार्थस्मरणवत् पूर्व- पूर्वशरीरानुभूतार्थस्मरणमपि भवेत् । न हि तस्य शरीरभेदेऽपि नित्यत्वात्स्मरणविशेषे का- रणं किंचिदुत्पश्यामो येनेह जन्मन्येवानुभूतं श्रीतन्त्रालोकः , स्मरति नान्यजन्मानुभूतम् , - इति तस्मादू- र्ध्वमन्यः कश्चिन्नात्मास्तीत्येव युक्तम् । यच्छु- तिरपि 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु- विनश्यति न प्रेस संज्ञास्ति' (बृ. आ० उ०४-५-१३) इति । अतश्च परलोकादिचिन्तामपास्य याव- जीवं सुखमेवासितव्यम्,- इत्येषां तत्त्वमि- त्युक्तं 'तत्त्वदर्शिन' इति । यदाहुः यावज्जीवं सुखं जीवेन्नास्ति मृत्युरगोचरः । भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥ इति.॥ १६ ॥ नन्वेवं तत्त्वमनुशीलयतामेषां किं स्यात् ? इत्याशङ्कयाह तेषां तथा भावना चे- हाळमेति निरन्तरम् । तद्देहभने सुप्ताः स्यु- रातादृग्वासनाक्षयात् ॥१७॥ ?
लो. १८] षष्ठमाह्निकम् १७ सुप्ता' इत्यपवेद्यप्रलयाकलप्राया इत्यर्थः १७ तद्वासनाक्षये त्वेषां किं भवेत् ? इत्याश- ङ्कयाह तहासनाक्षये त्वेषा- मक्षीणं वासनान्तरम् । बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् ॥१८॥ नन्वेषां सांख्यादिभिरपि साम्यं यत्तेषाम- प्येवंप्रायैव मुक्तिः, पुनरपि तत्तद्वासनानुसारं विचित्रफलोपभोगस्योदयात् । यद्वक्ष्यति. .. 'सांख्यवेदादिसंसिद्धाञ्छ्रीकण्टस्तदहर्मुखे । सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥' ( तं०६-१९३) इति । तत्सर्वत्रास्यैव कथमवरतया निर्देशः । यदाहुः 'चार्वाकास्तु वराकाः प्रतिक्षेप्तव्या एव १ क. पु० पुनस्तस्मान इति पाठः । १ । १८ श्रीतन्त्रालोकः कः क्षुद्रतर्कस्य तदीयस्येह गणनावसर' इति । तत्किमेतत् ? इत्याशङ्कयाह अदाळशङ्कनात्प्राच्य- वासनातादवस्थ्यतः। अन्यकर्तव्यशैथिल्या- संभाव्यानुशयत्वतः ॥१९॥ अतढूंढान्यजनता- कर्तव्यपरिलोपनात्। नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् ॥२०॥ यदप्यस्मदपेक्षया दर्शनान्तराणां तुल्यमेव पापत्वं तथापि नास्तिक्यवासनायास्ततोऽप्यति- शयेन पापत्वं, यतः 'प्राच्या' अनिषेध्यत्वात्पू- १५० क० पु. आदाढ्येति पाठः । २ ख० पु० अतढ्यति पाठः । ३ क. पु० प्राहुरिति पाठः । ४ क० पु. यद्यपीति पाठः ।
षष्ठमाह्निकम् . १९ , श्लो २० ] र्वभाविनी येयमास्तिक्यवासना तस्यास्तादव- स्थ्य नहि नास्तिक्यवासनाया दाढर्येन प्ररोहोऽ- स्ति येतंदुपरमो भवेन्निर्मूलत्वेनादाढर्यस्या- त्राशयमानत्वात् । यथा परं ब्रह्म मूलत्वेनाव- लम्ब्य प्रपञ्चो मिथ्या, - इत्याद्युच्यमानं दा- व्येन प्ररोहमियान्नैवमेततः आत्मनो हि ना- स्तित्वे किमन्यदवशिष्यते यन्नामाजडं मूलभू- तमधिकृत्य सर्वमिदं सुव्यवस्थितं स्यात्; जडा- नामेव च परिणामो भवेदिति न चेतनत्वेना- सौ युज्यते,- इत्यन्यैर्वहूक्तमिति तत एवाव: धार्यम् । अत एवास्तिक्यवासनायास्तादवस्थ्येन 'अन्येषां' दर्शनान्तरस्थानाम् ‘अग्निहोत्रं जुहु- यात् , न हिंस्यात्सर्वभूतानि” इत्याद्यात्मना विधिनिषेधरूपेण 'कर्तव्येन' शैथिल्यमस्या जायने । यदात्मनोऽस्तित्वे यदि कैश्चित्पारलौ- किकं किंचिदनुष्ठीयते तद्यावदूरे आस्ताम् ; आत्मनः पुनर्नास्तित्वेऽप्यन्यैः कुशलप्रवृत्तिरकु- १ क. पु. तावद्यावदिति पाठः ।
२० श्रीतन्त्रालोकः शलविरतिश्च क्रियते,- इत्यत्र निमित्तं किंचि- संभवेत् , अन्यथा सर्व एव किमेवं कुर्युः अ- स्माकं च किंचिदपि कर्तव्यं नास्ति', - इत्य- स्थान एवास्माभिर्धान्तं , किमिदं व्यामूढेरि- वासितम्, - इत्येवमात्मा पश्चात्तापोऽप्यत्र सं- भावनीयस्तस्मिन्नुत्पन्ने सति सुखमेव न्यायो- पन्यासकदर्थनां परिहृत्य V 'सन्दिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेनास्तिको हतः ॥' इत्यादिना मित्रसंमतेनाप्युपदेशेन तस्या- मास्तिक्यवासनायां रूढयान्यया दर्शनान्तर- स्थया जनतयावश्यमेवास्याः परिलोपः कार्यः,- इति ॥ २०॥ तदेवमत्र प्रसक्तानुप्रसक्तिकया परदर्शन- कथा मा प्रसाङ्क्षीत् , -इति प्रकृतमेवानुसरति १ क० पु. निवृत्तिश्चेति पाठः ।२ क. पु० किमिदमिति पाठः । ३ क. पु० रूढायामन्ययोति पाठः ।
श्लो० २१] षष्ठमाह्निकम् २१. अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते। तदेवाह यावान्समस्त एवाय- मध्वा प्राणे प्रतिष्ठितः॥२१॥ द्विधा च सोऽध्वा क्रियया मूर्त्या च प्रविभज्यते। द्विधेति देशकालभेदेन । तत्र क्रियया का- लाध्वा प्रविभज्यते मूर्त्या च देशाध्वा । यदुक्तम् ' मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ । क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ।।' (ई० प्र० २।१।५) इति ॥ २१ ॥ ननु अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः । यत्तत्र नहि विश्रान्तं तनभाकुसुमायते ॥' (तं० ८।३) (२२ श्रीतन्त्रालोकः इत्यादिवक्ष्यमाणनीत्यास्य संविदि प्रतिष्ठितत्वं युक्तं न जडात्मनि प्राणे, - इत्याशङ्कयाह प्राण एव शिखा श्रीम- विशिरस्युदिता हि सा ॥२२ बद्धा यागादिकाले तु निष्कलत्वाच्छिवात्मिका । शिखा परिमिता शक्तिभैरवस्य तु कथ्यते । क्रियाशक्तिरिति ख्याता. .॥ इति ॥ २२ ॥ ननु को नामास्या बन्धो येन यागादौ नि- कलस्वाच्छिवात्मिकेयं स्यात् ? इत्याशङ्कयाह यतोऽहोरात्रमध्येऽस्या- श्चतुर्विंशतिधा गतिः ॥२३॥ प्राणविक्षेपरन्ध्राख्य- शतैश्चित्रफलप्रदा। १ क. पु. काले चेति पाठः ।
३ श्लो० २३ ] षष्ठमाह्निकम् . २३ यत्पष्टिघटिकासंख्याकस्य बाह्यस्याहोरात्रस्य मध्येऽस्याः प्राणरूपायाः पारमेश्वर्याः क्रिया- शक्तेः प्राणचाराणां रन्ध्राख्यारसंख्याकैर्नव- भिः शेतैरुपलक्षिता, अत एव चतुर्विंशतिभिः संक्रान्तिलक्षणैः प्रकारैरैहिकामुत्रिकभेदाच्चित्र- फलप्रदा गतिरूर्ध्वाधरवाहलक्षणश्चारो भवे- दित्यर्थः । अयमत्राभिप्रायः-इह खलु सर्वप्रा- णिनां 'मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । तथा प्रवर्तते प्राणस्त्वयनादेव सर्वदा ॥' (स्व० ७५७) इत्यायुक्त्या स्वरसत एव मध्यमः प्राणो वहं- ति, - इति बाह्येनाहोरात्रेण षद् शतानि वरारोहे सहस्राण्येकविंशतिः । अहोरात्रेण बाह्येन अध्यात्मं तु सुराधिपे ॥(स्व०७/५३) इत्याद्युत्त्यान्तः सषट्शता सहस्रकविंशतिः प्राणचाराणां भवेत् । तत्र प्रतिघटिकं 'शतानि त्रीण्यहोरात्राः षष्टिरेव तथाधिकाः । वर्षमेतत्समाख्यातं बाह्ये वै घटिका च सा ॥'(स्व०७/५१) १ क. पु० घटिकाख्यस्येति पाठः। २ ख. पु. नवभिलक्षैरिति पाठः।
' २४ श्रीतन्त्रालोकः . इत्याद्युक्त्या प्राणचाराणां सपष्टिस्त्रिशती, इति सार्धेन घटिकाद्वयेन नवशतानि भवन्ति, स एवं च संक्रान्तीनां प्रत्येकमुदयः । यदुक्तम् चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः । शतानि नव वै हंस एकामेकां वहेत्सदा ॥' ( स्व० ७१६८) इति । सार्धं च घटिकाद्वयं चतुर्विशतिधा गुणितं षष्टिर्घटिका भवन्ति, - इत्यहोरात्रमध्ये तत्संख्याकानामुदयः । यदुक्तम् .'बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने । चतुर्विंशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेत् ॥ अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः।। (स्व० ७१६६) इति । यद्यपीयन्तः प्राणचारा अहोरात्रमध्ये भवन्ति, - इत्येतावदत्र वक्तव्यं, तथापि तथा- त्वे तेषां गणनामानं प्रदर्शितं भवेत् न तु तत्त- द्विचित्रफलोदयनिमित्तत्वमपीत्येवमुक्तम् ॥२३॥ १ क. पु० समाख्यातः इति पाठः ।
श्लो० २४ ]
षष्ठमाह्निकम् .
२५
नन्वेवंविधः शिखाया बन्धः,-इति वक्तुं
प्रस्तुते किमिदमप्रस्तुतमभिधीयते यत्प्राणचा-
राणामियती गतिरिति । नैतत् , अयमेव हि
शिखाबन्धो यत्प्राणशक्तेः प्रतिचारमादिमध्या-
न्तेष्ववधानेन पुनः पुनः परामर्शनं नाम । यद-
भिप्रायेणैव
षट् शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥'
(वि. भै० १५६)
इत्याद्यन्यत्रोक्तं, तदाह
क्षपा शशी तथापानो
नाद एकत्र तिष्ठति ॥२४॥
जीवादित्यो न चोद्गच्छे-
तुट्यधैं सान्ध्यमीदृशम् ।
ऊर्ध्ववक्रो रविश्चन्द्रोऽ-
धोमुखो वह्निरन्तरे ॥ २५॥
२२६ श्रीतन्त्रालोकः माध्याह्निकी मोक्षदा स्या- व्योममध्यस्थितो रवि अनस्तमितसारो हि जन्तुचक्रप्रबोधकः ॥ २६ ॥ बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति। महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता॥२७ यदात्रैकत्र वामपार्श्वे द्वादशान्तादृदन्तं चरन्क्षपाशशी तिष्ठति हृदये निवृत्तगतिर्भवति प्राणादित्यश्च ततो नोद्गच्छति तदेशमपानी- यमन्त्यं तुट्यर्ध सान्ध्यं वक्ष्यमाणनीत्योद्गच्छत्प्रा- णार्काद्यतुव्यर्धसंमीलनया सचतुर्भागाङ्गुलद्वय- प्रमाणप्राणचाररूपा प्राभातिकी सन्ध्या भवे- दित्यर्थः । यदुक्तं तत्र १ क. पु० हृदयान्तमिति पाटः । पाठः। २ क. पु. र्कात् तुट्यर्धामति श्लो० २७] षष्टमाह्निकम् २७ वै 'स चन्द्रो विद्यमानोऽपि अपानो हृदि मध्यतः । यदा तूत्सन्नतां यानि जीवादित्यो न चोदमेत् ॥ पाभातिकीति विज्ञेया आत्मतत्त्वप्रबोधिनी । क्षपा शशी तथापानो नाद एकत्र तिष्ठति ।। तुट्यध ज्ञानमहसा सन्ध्या समुदाहृता ।' इति । तदनन्तरं च यदा प्राणात्मा रविरू- प्रमुखत्वेन चरंस्ताल्वाद्यात्मन्यन्तरे स्थितश्च- न्द्रश्चापानात्माधोमुखत्वेन, - इति तयोःप्रमा- णप्रमेयात्मनोः संघद्यात्प्रमातृरूपो. वह्निरुदिया- तदेयं माध्याह्निकी सन्ध्या मोक्षदा स्यात् ; यतो मध्यनाडीसंबन्धिनो 'व्योम्नः' सुषिरस्य 'मध्ये ' तालुस्थाने स्थितो बहिर्मुखत्वेन प्रमा- णत्वेऽपि प्रमातृरूपस्यानपायादनस्तमितसारो रविर्जन्तुचक्रस्य प्रकर्षेण ‘बोधकः' प्रमाण- प्रमेयमयत्वेऽपि प्रमातृरूपतयावभासक इत्यर्थः। यदुक्तं तत्र 'ऊर्द्धवक्रः स्थितो भानुश्चन्द्रश्चाधोमुखः स्थितः।' इत्युपक्रम्य २८ श्रीतन्त्रालोकः 'तदन्तराले उदितस्ताल्वाकाशान्तगोचरे । प्रमाणरहितो भाव्यः सुशान्तः शान्तबोधनात् ॥ व्योमवयोमवह्निस्तु तुट्यधं कालकल्पनात् । माध्याह्निकी तु विज्ञेया संध्या मोक्षपदायिका ॥ व्योममध्यस्थितः सूर्यः परादिसति कथ्यते । अनस्तमितसारो हि जन्तुचक्रमबोधकः ॥' इति । तदनन्तरं च बिन्द्वाद्यात्मना रविर्यदेकत्र द्वादशान्ते तिष्ठति' निवृत्तगतिर्भवति, अर्था- चापानचन्द्रश्च नोद्गच्छति तदा निःशेषविश्वो- पशमात्स्वप्रशान्तात्मिका, अत एवेयं महती सन्ध्या तृतीया ‘स्थिता' स्वरसोदितत्वेन वर्तमानेत्यर्थः । यदुक्तं तत्र बिन्दुः प्राणोऽप्यहश्चैव रविरेकत्र तिष्ठति । सुप्रशान्तं तु संतिष्ठेन्मनोव्यावृत्तिवर्जितः ॥ कृत्वा प्रशान्तभूमौ च स्वरूपं सन्धिदेशतः । महासन्ध्या तु विज्ञेया तृतीया परिकीर्तिता ॥ इति ॥ २७॥ एतच्चोपसंहारद्वारेण प्रकृते योजयति १ क. पु. ह्यहरिति पाठः ।
श्लो० २८ ] षष्ठमाह्निकम् २९ एवं बहा शिखा यत्र तत्तत्फलनियोजिका। एवमुक्तेन प्रकारेण क्रमेण यत्र यागादौ प्राणशक्त्यात्मिका शिखा बद्धा मार्गान्तरखि- लीकारेण मध्यधामन्येव निश्चलत्वमापादिता तत्र तस्य तस्य मनसंनिधानादेः फलस्य नियो- जिका भवेदित्यर्थः । तदुक्तं तत्र तया निबद्धया देहे संनिधानं गुणेश्वराः । विदध्युः साधकेन्द्राणां देवि नास्यत्र संशयः॥ इति ॥ एवं प्राणः पारमेश्वरी शक्तिरिति तत्र यद- ध्वनः प्रतिष्ठानमुक्तं तत्संविद्येव पर्यवस्येत्,- इत्याह अतः संविदि सर्वोऽय- मध्वा विश्रम्य तिष्ठति॥२८॥ १ ख० पु. प्राणः प्राण इति पाठः ।
३० श्रीतन्त्रालोकः नन्वमूर्तायां निष्क्रियायां च संविदि मूर्तः क्रमिकश्चाध्वा कथमास्ते ? इत्याशङ्कयाह . अमूर्तायाः सर्वगत्वा- निष्क्रियायाश्च संविदः। मूर्तिक्रियाभासनं य- त्स एवाध्वा महेशितुः ॥२९॥ एवमेवंविधायाः संविदो यन्नाम मूर्तिक्रिया- मनावभासनं स एव भुवनादिरूपो मन्त्रादि- रूंपो वाध्वा न त्वंतिरिक्तः कश्चिदाधेयो येनैव- मशिङ्का स्यात् ॥ २९॥ नन्वत्राध्वशब्दस्य प्रवृत्तौ किं निमित्तम् ? इत्याशङ्कयाह अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् । १ क. पु० तदतिरिक्त इति पाठः ।
३१ श्लो० ३०] षष्ठमाह्निकम् वैतिनां,भोग्यभावात्तु प्रबुद्धानां यतोऽद्यते ॥३०॥ यातव्ये पदे इति शिवतत्त्वात्मनि । भेददशायां हि तत्तत्तत्त्वोल्लङ्घनक्रमेण षटुिंश शिवतत्त्वं प्राप्यत्वेनोक्तम् । भोग्यभावादित्यद- नीयत्वात्; अधिगतसंवित्तत्त्वा हि सर्वं स्वात्म- सार्कुवन्तीति भावः । तेनाध्वैवावा, अद्यत इत्यध्वा चेति ॥३०॥ ननु सर्वशब्दानां समयमात्रादेवार्थप्रति- पादनं सिद्ध्येत्,-इति किमत्रानुन्विर्थ]स्मरणेन नहि सर्वत्र वैतत्संभवेत् ? इत्याशङ्कयाह इह सर्वत्र शब्दाना- मन्वर्थं चर्चयेद्यतः। यद्यप्यर्थाभिधाने शब्दानां त्रयी गतियों- गिकी रूढा योगरूढा च । तत्रापि यौगिक्या एव प्राधान्यं सनिमित्तं तत्र तस्याः प्रवृत्तेः, १ क. पु. सनिमित्तत्वमिति पाठः।
३२ श्रीतन्त्रालोकः अत.एवान्यवयमत्रैव यथाकथंचिदन्तर्भावनीयं येन सर्वत्रैवान्वर्थचर्चा पारं यायात् ॥ तदाह उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता ॥३१॥ नैमित्तिकी प्रसिद्धा चं तथान्या पारिभाषिकी । पूर्वत्वे वा प्रधान स्या- त्तत्रान्तर्भावयेत्ततः ॥ ३२ ॥ अतोऽध्वशब्दस्योक्तेयं निरुक्तिनोंदितापि चेत् । क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके ॥३३॥ प्रसिद्धति, सनिमित्तत्वेऽपि क्वचिदेव रूढेः । यदुक्तं तत्र १ ख. पु. चेत्तथेति पाठः । २ ख. पु. पुस्तकमिति पाठः ।
. श्लो० ३४ ] षष्ठमाह्निकम् संज्ञा हि त्रिविधा ज्ञेया शिवशास्त्रेषु सर्वदा । पारिभाषिकनैमित्ती सिद्धा चासौ प्रसिद्धिभाक् ॥ इंह भैमित्तिकी संज्ञा निमित्तात्तु समागता ।' इति । एवमिह सर्वसंज्ञानां निमित्तताप्यवश्यं वाच्येत्यत्रैवमुक्तमित्याह 'अत' इति । ननु यद्येवं तत्सर्वत्रव कस्मादेवं नोक्तमित्याशङ्कयाह नोदितेत्यादि । कियदिति, नह्यत्र शब्द- व्युत्पादनं प्रस्तुतमिति भावः ॥३३॥ ननु परस्याः संविदो मूर्तिक्रियाभासनम- ध्वेत्युक्तं तत्र क्रियावभासने कतरोऽध्वा मूर्त्यक भासने च कतर ? इत्याशङ्कयाह तत्र क्रियाभासनं य- सोऽध्वा कालाब उच्यते वर्णमन्नपदाभिख्य- मत्रास्तेऽध्वत्रयं स्फुटम्॥३४॥ ? १ ख. पु. कतम इति पाठः । ५ ३४ ४ श्रीतन्त्रालोकः . यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते । कलातत्त्वपुराभिख्य- मन्तर्भूतमिह त्रयम् ॥३५॥ ननु यदि नाम मूर्तिक्रिययोचित्र्यावभा- साद्देशकालभेदेनाध्वनो द्वैविध्यमुच्यते तदास्तां, तत्रापि प्रत्येकं त्रैविध्ये किं निमित्तम् ? इत्या- शङ्कयाह त्रिकहयेऽत्र प्रत्येक स्थलं सूक्ष्म परं वपुः। यतोऽस्ति तेन सर्वोऽय- मध्वा षड़िध उच्यते ॥३६॥ तेनेति, स्थूलसूक्ष्मपरत्वेन पदवर्णमन्त्रात्म- तया भुवनतत्त्वकलात्मतया च प्रत्येकं चैवि- ध्येन हेतुनेत्यर्थः । यदुक्तम् 'पदानि मन्त्रारब्धानि मत्रा वर्गकविग्रहाः । वर्णाः स्वनिष्ठा इत्येषां स्थूलसूक्ष्मपरात्मता ॥'
ओ० ३७ ] षष्ठमाह्निकम् । ३५ इति । तथा भुवनव्यापिता-तत्त्वेष्वनन्तादिशिवान्तके ।' (स्व० ४।९६) इति । तथा कलान्त विनस्ते वै निवृत्याद्यास्तु ताः कलाः॥ (स्व० ४।९७) इति ॥ ३६॥ तत्र प्रस्तुतं कालाध्वानं तावदवतारयति षड्डिधादध्वनः प्राच्यं . यदेतत्रितयं पुनः। एष एव स कालावा प्राणे स्पष्टं प्रतिष्ठितः ॥३७॥ प्राच्यमिति पूर्वोदिष्टं पदमन्त्रवर्णाख्यम् । 'प्राण' इत्युपलक्षणं, तेनापानादावप्येवमेव। ॥३७॥ नन्वेवं क्रमाक्रमात्मा काल उक्तः स एव किं तत्त्वानामन्तः परिगणितो न वा ? इत्याशङ्कयाह ३६ श्रीतन्त्रालोकः तत्त्वमध्यस्थिताकाला- दन्योऽयं काल उच्यते । .. अन्यस्तद्वैलक्षण्यात् ॥ तदवाह एष कालो हि देवस्य विश्वाभासनकारिणी॥३८॥ क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः। . 'परं वपुः' इत्युत्पत्तिस्थानम् , अत एवं 'विश्वावभासनकारिणी' इत्युक्तम् ॥ ३८ ॥ ननु परस्याः संविदो विश्वावभासकारित्वं नाम बहिरुन्मेष उच्यते तदेवमस्येश्वररूप- त्वमुक्तं स्यादित्याह एतदीश्वरतत्त्वं त- च्छिवस्य वपुरुच्यते ॥३९॥ १ क. पु० विश्वाभासकारिणीति पाठः । २ क. पु०भासनकारित्वं बहिरिति पाठः ।
श्लो० ४० ] षष्ठमाह्निकम् . ३७ । उद्रिक्ताभोगकार्यात्म- विश्वैकात्म्यमिदं यतः । 'तत' तस्माइहिरुन्मेषलक्षणाद्विश्वावभास- कारित्वाद्धेतोरेतदीश्वरतत्त्वमुच्यते, कालात्मनः क्रियाशक्तेरवैतद्विश्वकलनात्मकत्वं बहिर्मुखं रूपमित्यर्थः। ननु मायादीनामप्येवं रूपं संभा- व्यते,इत्येतदेव कथमुक्तमित्याशङ्कयाह 'शिवस्य वपुः' इति । बहिरोन्मुख्येऽपि स्वात्मन्येव विश्रान्तं, यत इदं बहिर्मुखत्वस्य धाराधिरूढ- त्वादुद्रिक्ताभोगम् , अत यद्विश्वं तस्य 'इदमहम्' इति प्रतीतेः 'ऐकात्म्यं' स्वात्मसात्कार इत्यर्थः । अत एव भेदाभेद- दशेयमिति सर्वरुद्धोष्यते ॥ ३९ ॥ नन्वेवमनेनैव विश्वकलनात्कालतत्त्वस्य पृथ- परिगणनं न प्राप्तमिति, 'एवं कालः प्रसर्तव्यस्तच्च तत्त्वमनिन्दितम् ।' एव कार्यात्म १ क. पु. कारित्वादेव इति पाठः ।
श्रीतन्त्रालोकः इत्यादिश्रुतिविरोध आपतेदिति किमेतत् ? इत्याशङ्कयाह एतदीश्वररूपत्वं परमात्मनि यकिल ॥४०॥ तत्प्रमातरि मायीये कालतत्त्वं निगद्यते। ननु मायाप्रमातरि किमेवं कालतत्त्वमेवोत तत्वान्तराण्यपि,-इत्याशङ्कयाह शिवादिशुद्धावान्त यच्छिवस्य स्वकं वपुः ॥४१॥ तदेव पुसा मायादि- रागान्तं कचुकीभवेत् । शिवादीत्यनेन शिवशब्देनानाश्रितभट्टारक उक्तः। स्वकं वपुरित्यानन्दादिशक्तिरूपत्वात् । १ क. पु० तेति पाटः ।
षष्ठमाह्निकम् .
३९ ।
श्लो० ४३]
'पुंस' इति शिवस्यैव स्वस्वातन्त्र्यागृहीतपशुभा-
वस्येत्यर्थः॥४१॥
एतदेव विभजते
अनाश्रितं यतो माया
कलाविद्ये सदाशिवः ॥४२॥
ईश्वरः कालनियती
सद्विद्या राग उच्यते।
यदुक्तं
शक्त्यादिस्तत्त्ववर्गस्तु कनुकत्वेन वै पशोः ।
शक्तिर्माया कला विद्या कालो नियतिरेव च ॥
सदाशिवेश्वरौ विद्या रागस्तु वरवर्णिनि ।
इति ॥४२॥
न केवलमेषामेवंरूपत्वमेव यावत्प्रमातृत्व-
मपि, इत्याह
अनाश्रितः शून्यमाता
बुद्धिमाता सदाशिवः ॥४३॥
१ श्रीतन्त्रालोकः . ईश्वरः प्राणमाता च विद्या देहप्रमाता। नन्वेषां शून्यादिप्रमातृत्वे किं निमित्तम् ? इत्याशङ्कयाह अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता ॥४४॥ विश्वात्मता च प्राणत्वं देहे वेद्यैकतानता। शून्यमिति, विश्वोच्छेदात्।ज्ञानमिति, सदा- शिवस्य ज्ञानशक्तिप्राधान्यात्। विश्वात्मता' इति बहिरुन्मेषरूपत्वात । वेद्यकतानतेति, तत्रैवाभि- वङ्गात् ॥४४॥ एवं प्राणे विश्वात्मत्वमस्ति,-इति तदेवात्र संप्रत्यभिधीयते, इत्याह २क० पु० १ क. पु. त्मकत्वं प्राणत्वं देहवेद्येति पाठः । विश्वात्मकत्वमिति पाठः ।
४१ लो० ४६ ] षष्ठमाह्निकम् तेन प्राणपथे विश्वा- कलनेयं विराजते ॥४५॥ येन रूपेण तहमः सद्भिस्तदवधीयताम् । येन रूपेणेति, कालात्मना ॥ ४५ ॥ ननु प्राणस्य सर्वशरीरव्यापकत्वेनावश्यमव- स्थानमस्ति, अन्यथा हि कानिचिदङ्गानि स्तम्भादिवत्स्तब्धान्येव भवेयुः, तदस्य श्रीस्व- च्छन्दशास्त्रादौ हृदयादारभ्यैव चारः कस्मा- दुक्त ? इत्याशङ्कयाह हादशान्तावधावस्मि- न्देहे यद्यपि सर्वतः ॥ ४६॥ ओतप्रोतात्मकः प्राण- स्तथापीत्थं न सुस्फुटः। Ve
.१२
श्रीतन्त्रालोकः
इत्थमिति, ओतप्रोतत्वेन । न सुस्फुट इति,
सर्वत्रैव देहे; कचिद्धि शरीरे सुस्फुटत्वेन प्राणोऽ-
वभासते क्वचिच्चास्फुटत्वेनेति ॥ ४६ ॥
अत एवाह
यत्नो जीवनमात्रात्मा
तत्परश्च द्विधा मतः ॥४७॥
संवेद्यश्चाप्यसंवेद्यो
द्विवेत्थं भिद्यते पुनः।
स्फुटास्फुटत्वाद्वैविध्यं
प्रत्येकं परिभावयेत् ॥४८॥
'यत्न 'इति प्राणीयः स्पन्दः । जीवनमात्रा-
त्मेति, स्वारसिको येनावयवानां स्तब्धतेव न
स्यात् । तत्पर इच्छापूर्वकः । प्रत्येकमिति,
चतुर्णा द्वैविध्येऽष्टधा प्राणीयो यत्न इति
सिद्धम् ॥ ४८॥
श्लो० ५० षष्ठमाह्निकम् ततः तत्र स्वारसिकः प्राणीयो यत्नः कन्दात्प्र- भृत्येव संवेद्यते किंत्वस्फुटत्वेन, इत्याह संवेद्यजीवनाभिख्य- प्रयत्नस्पन्दसुन्दरः। प्राणः कन्दात्प्रभृत्येव तथाप्यत्र न सुस्फुटः ॥४९॥ यदभिप्रायेणैव श्रीस्वच्छन्दशास्त्रे प्रभृति प्राणादेवस्थानमुक्तम्,-इत्याह कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते। स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् ॥५०॥ लेनति, प्राणस्य संवेद्यत्वेन हेतुनेत्यर्थः । यदक्तं तत्र १ क० पु. स्वच्छन्दादिशास्त्रे इति पाठः । नेन इति पाठः। २ ख. पु० व्यवस्था- श्रीतन्त्रालोकः 'नाभ्यधो मेटूकन्दे च स्थिता वै नाभिमध्यतः। तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये ॥ (स्व० ७८) इति ॥ ५० ॥ ननु यद्येवं तत्तत्रैव 'हृच्चक्रे तु समाख्याताः साधकानां हितावहाः । प्राणो वै चरते तासु अहोरात्रविभागतः ॥ तथा ते कथयिष्यामि प्रविभज्य यथा स्फुटम् ।' (स्व० ७।२१) इत्यादिना हृदयात्प्रभृति वितत्य पुनः प्राण- चारः कस्मादुक्त ? इत्याशङ्कयाह तत्रापि प्रयत्नोऽसौ न संवेद्यतया स्थितः । 'तत्र'कन्दाधारे ह्यसावपीच्छापूर्वकः प्रयत्नो न स्फुटं संवेद्यते,-इति न तत्र वितत्य प्राण- चार उक्तः। न हि स्वारसिकेन प्राणचारेणोक्तेन किंचित्फलं, स्वेच्छया हि चारितःप्राणस्तत्तत्सि- तु
श्लो० ५२]
षष्ठमाह्निकम् .
द्विनिमित्तं योगिनां स्यात् यदर्थमेवमुपदेशः।
तच्च हृदयात्प्रभृत्येव भवेत्, इति तत्रैवासौ
तथा निर्दिष्टः ॥
एतच्चास्माभिरप्येवमेवोच्यत,-इत्याह
वेद्ययत्नात्तु हृदया-
प्राणचारो विभज्यते ॥२१॥
वेद्ययत्नादिति, अर्थादिच्छापूर्वकस्य । 'विभ-
ज्यत' इति तुट्याद्यात्मना विभागेनोच्यत
इत्यर्थः ॥ ५१ ॥
ननु व्यापकत्वात्सर्वत्राविशेषेऽपि प्राणनस्य
क्वचित्स्फुटं तदीयो यत्नः संवेद्यते, कचिच्चान्यथे-
त्यत्र किं निमित्तम् ? इत्याशङ्कयाह
प्रभोः शिवस्य या शक्ति-
ामा ज्येष्ठा च रौद्रिका ।
सतदन्यतमावात्म-
प्राणौ यत्नविधायिनौ॥१२॥
श्रीतन्त्रालोकः इह खलु परमेश्वरसंबन्धिन्या तासां वामा- दीनां मध्यादन्यतमया शक्त्या सहभूतावात्म- प्राणौ यत्नविधायिनौ, प्रभुशक्तिरात्मा प्राणश्चेति त्रयः संमिलिताः प्राणस्पन्दं विदधतीत्यर्थः । यदुक्तं तत्रात्मा प्रभुशक्तिश्च वायुर्वै नाडिभिश्चरन् ।' - (स्व० ७७ इति ॥ ५२॥ एवमेषां समानेऽपि यत्नविधायित्वे क्वचित्क- स्यचिन्मुख्यत्वम् , इत्याह प्रभुशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे। आत्मशक्तिः क्वचित्कन्द- संकोचस्पन्दने यथा ॥५३॥ प्राणशक्तिः क्वचित्प्राण- चारे हार्दे यथा स्फुटम् ।
श्लो० ५४] षष्ठमाह्निकम् . त्रयं वयं वा मुख्यं स्या- द्योगिनामवधानिनाम् ॥५४॥ 'अङ्गमरुदीरणे' चक्षुःस्फुरणादौ । अत्र हि भाविशकुनाशकुनप्रकाशनाद्यर्थं प्रभुशक्तेरेव प्राधान्येन प्राणस्पन्दने कर्तृत्वम् । 'कन्दस्य' आनन्देन्द्रियस्य संकोचे विकासात्मनि स्पन्दने चात्मन एव प्राधान्यं, तत्र हि तदिच्छैव निब- न्धनम् । हृदि च प्राधान्येन प्राणस्यैव स्वरस- वाहित्वात्स्पन्दने कर्तृत्वम् , इतरद्वयं पुनः सर्व- त्रैव गुणभावेन स्थितमन्यथैवंभावाभावात्। एव- मेषां स्वारसिकत्वेन गौणमुख्यभावमुक्त्वा प्राय- निकत्वेनाप्यभिधत्ते त्रयम्' इत्यादिना। योगिनो हि तत्तत्फलेप्सवो यत्रैवावधानातिशयात्प्राणं योजयन्ति, तत्रैवात्मानं प्रभुशक्तिं तदन्यतमं वेति ॥ ५४॥ २ क. पु० फलममी- १ क. पु० विकासने चास्मन इति पाठः । प्सव इति पाठः।
श्रीतन्त्रालोकः न केवलमेषां गौणमुख्यभावो भवेद्यावद- न्यथापि,-इत्याह अवधानाददृष्टांशा- हलवत्त्वादथेरणात्। विपर्ययोऽपि प्राणात्म- शक्तीनां मुख्यतां प्रति॥५५॥ अवधानाद्यथा योग्यपि स्वावधानेनैव चक्षुः स्फारयेत्,-इत्यत्रात्मनः प्राधान्यम् । अदृष्टांशा- यथा गवामपि जन्मान्तरीयसंस्कारवशात् स्वार- सिक्यैव प्राणशक्त्या नियतमङ्गं स्फुरेत् येनात्र तस्या एव प्राधान्यम्। बलवत्वाद्यथा मल्ला- दीनां श्रमाद्यभ्यासादायत्तीकृतया प्राणशक्त्यैव तत्तत्लुत्यादिसिद्धिः । ईरणाद्यथा वाताभिभू- तानां प्राणस्य बलवत्त्वेऽपि प्रभुशक्त्यैव तत्तद- परिस्पन्दो भवेत्, इति तस्या एव मुख्यत्वम्। एवमेषां यत्रैवोद्रिक्तत्वेनावस्थानं तत्रैव प्राणी- १ ख० पु. विपर्ययेऽपि प्राणात्मा इति पाठः ४९ श्लो० ५६] पष्ठमाह्निकम् । यस्यापि यत्नस्य स्फुटतया संवेद्यत्वमन्यथा पुनरतथात्वमिति सिद्धम् ॥ ५५॥ ननु प्रभुशाक्तिर्यद्यात्मप्राणाभ्यां सह प्राणीयं यत्नं विदधाति तदस्तु नस्यास्तु त्रैविध्यं किम- थमुक्तम् ? इत्याशङ्कयाह वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी। ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका ॥५६॥ 'विधायिनी' इत्यर्थात्प्राणीयं यत्नं विद- धातीति ॥ ५६ ॥ अत्र किं निमित्तम् ? इत्याशङ्कयाह वामा संसारवमना ज्येष्ठा शिवमयी यतः । १ ख० पु. बुभुक्षूणां चेति पाठः ।
श्रीतन्त्रालोकः द्रावयित्री रुजां रौद्री रोडी चाखिलकर्मणाम्॥५७॥ वामाद्या हि प्राभव्यः शक्तयः सृष्टिसंहार- स्थित्यात्मिकाः, इति तथैषां प्राणीयं यत्नं विद- धति यथा संसारिणामधोधःपातो भवेत् , सुप्र- बुद्धानां शिवीभावापत्तिर्बुभुत्सूनां च शिवीभा- वोन्मुख्येन संसार एवावस्थानमिति । तदुक्तम् 'अणुं स्वरूपदृश्वानं वामाधो विनिपातयेत् । रौद्री सांसारिकानन्दं कदाचिद्वितरेदपि । ज्येष्ठा स्वातत्र्यलेशं तु तनुते ज्ञानकर्मणाः । इति ॥ ५७ ॥ नन्वेतत्स्वरसत एव सिद्ध्येदिति किमनेनैव- मुपदिष्टेन ? इत्याशङ्कयाह सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् । नन्वत्र किं प्रमाणम् ? इत्याशङ्कयाह श्लो० ६०] षष्टमाह्निकम् । उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् ॥५८॥ सर्वप्रकाशनादिति, सर्वस्य सृष्टयादेर्यथा- तत्त्वं परिज्ञानादित्यर्थः । नहि तदतिरिक्तम- न्यत्किंचित्संभवेदिति भावः ॥ ५८॥ अत एवाह उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः । न मुक्तास्ते तदज्ञान- . बन्धनकाधिवासिताः ॥५९॥ 'तदज्ञानं' सृष्टयादितत्त्वासंवित्तिः ॥ ५९॥ ततश्च प्रकृते किम् ? इत्याशङ्कयाह सृष्टयादयश्च ते सर्वे कालाधीना ने संशयः । स चे प्राणात्मकस्तस्मा- दुच्चारः कथ्यते स्फुटः ॥६॥ १ ख. पु० सर्वप्राणेति कल्पते स्फुट इति च पाठः । बन्धेनैवेति पाठः: ३ ग० पु. व्यवस्थिता इति पाठः । २ ग० पु० श्रीतन्त्रालोकः कालाधीना इति, सृष्टिः स्थितिः संहारश्चेति क्रमात्मकत्वात् । 'उच्चार'इति प्राणचारः, तत्क- थनेन हि सृष्टयादीनां यथातत्वं परिज्ञानं भवे- दिति भावः ॥ ६०॥ तदाह हृदयात्प्राणचारश्च नासिक्यहादशान्ततः। षटुिंशदङ्गलो जन्तोः सर्वस्य स्वाङ्गलक्रमात् ॥६१॥ नसते कुटिलं गच्छतीति नासिका शक्तिः, तस्या इदं (अयं) 'नासिक्यः' शाक्तो द्वाद- शान्तः। तदुक्तम् पष्ट्रिशदङ्गुलश्वारो हृत्पद्माद्याव शक्तितः। (स्व० ४।२३५ इति ॥ ६१॥ ननु यद्येवं तदतिक्षुद्रे मशकादिसंबन्धिन्य- तिमहति वा हस्त्यादिसत्के देहे कथमेतत्संग- च्छते ? इत्याशङ्कयाह १ ख० पु. सृष्टस्येति पाठः।
श्लो० ६२] षष्ठमाह्निकम् । ५३ : क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि। 'तादृशः' षट्रिंशदङ्गुल एव किंतु स्वाड- लापेक्षया ॥ न च सर्वस्य जन्तोः प्राणचार एव समो यावतीर्यादयोऽपि,-इत्याह वीर्यमोजो बलं स्पन्दः प्राणचारः संमं ततः ॥ ६२॥ अयमत्राशयः-संविद एव ह्ययं स्फारो यत्क्षोदिष्टो महिष्ठो वा जन्तुवर्गः समुजृम्भते, न च तस्याः क्वचित्कश्चिद्विशेषः । यदुक्तम् 'यैव चिद्गगनाभोगभूषणे भाति भास्वति । धराविवरकोशस्थे सैव चित्कीटकोदरे ॥' ( वासिष्टे ) इति । तदाहिताश्च वीर्यादयः-इति तेषामपि विशेषे न किंचिन्निमित्तमुत्पश्यामः । यत्पुनरेषां १ क. पु० यावत्तद्वीयति पाठः । २ ग० पु० यतः समा इति पाठः ।
श्रीतन्त्रालोकः तारतम्यमभिलक्ष्यते तत्र कर्मवैचित्र्यमपरा- ध्यति, यत्पुंसामप्यन्योन्यापेक्षया वीर्याद्यतिशा- ययतीति ॥ ६२॥ एवं सपीठिकाबन्धं प्राणस्य चारमानमभि- धाय तदानन्तर्येणानुजोद्देशोद्दिष्टमहोरात्राद्यपि विभक्तुमुपक्रमते पटुिंशदङ्गले चारे यद्गमागमयुग्मकम् । नालिकातिथिमासाब्द- तत्सङ्घोऽत्र स्फुटं स्थितः६३॥ 'गमागमौ' प्राणापानरूपावारोहावरोहो । तच्छब्देन नालिकादीनां सर्वेषामेव परामर्शः ॥ ६३॥ एतदेव क्रमेण विभजते तुटिः सपादाङ्गलयु- क्प्राणस्ताः षोडशोच्छ्रसन् । १ क० ख० पु० सङ्ग इतिपाठः ।
श्लो० ६५] षष्ठमाह्निकम् । निःश्वसंश्चात्र चषकः सपश्चांशेऽङ्गलेऽङ्गले ॥६॥ श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते। नवाङ्गुलाम्बुधितुटौ प्रहरास्तेऽब्धयो दिनम्॥६५॥ निर्गमेऽन्तर्निशेनेन्दू तयोः संध्ये तुटेर्दले। सचतुर्भागमङ्गुलयुग्मं तुटिरुच्यते, - इति तत्षोडशधा गुणितं षट्रिंशदङ्गलानि भवन्ती- त्युक्तं 'प्राणस्ताः षोडशोच्छुसन्' इति । अपा- नवाहेऽप्येवमित्युक्तम् ‘निश्वसंश्चेति' तेनो- भयत्र द्वात्रिंशत्तुटयः । यदुक्तम् 'प्राणापानाश्रिते वाहे द्वात्रिंशत्तुटयः स्थिताः ।' इति। तथात्र षट्रिंशदङ्गलात्मनि प्राणचारे सप- ञ्चभागमङ्गलं प्रति चषकः, - इति त्रिंशद्धा श्रीतन्त्रालोकः विभक्ते प्राणवाहे त्रिंशच्चषका भवन्ति, एवम- पानवाहेऽपि,-इति प्राणापानोभयमीलनेन चष- क्षष्टयात्मनो घटिकाया उदयः, - इत्युक्तं 'श्वासप्रश्वासयोर्नाडी प्रोक्ता 'इति । 'निर्गमे' प्राणस्य बहिरुल्लासे, 'नवाङ्गुलाम्बुधितुटौ' नवा- ङ्गलिस्थानासु चतसृषु तुटिषु प्रहरी, नवस्वङ्ग- लीष्वसावुदेतीत्यर्थः । यदुक्तम् प्रहरः स्यानवाङ्गुलः।' इति। ते इति नवाङ्गलिमानाः प्रहराः 'अब्धयः' चत्वारः, अन्तरित्यर्थादपानस्योदये। एवं नि- शापि चत्वारः प्रहराः। तदुक्तम् 'अहोरात्रस्त्वथोऽष्टभिः ........।' (स्व० ७।२८) इति । तावेव च प्राणापानौ 'इनेन्दू' सूर्याच- न्द्रमसौ भवत इत्यर्थः । यदुक्तम् 'वासरे तु चरेत्सूर्यो धारायां संचरञ्छशी । चन्द्रसूर्योदयो ह्येष........... ॥' (स्व० ७४०) इति । तयोः प्राणापानरूपयो रात्रिदिनयोरर्था- वादशान्ते हृदि च तुटेर्दले संध्ये । सायंप्रातः- - श्लो० ६५] षष्ठमाह्निकम् संध्ययोः प्रत्येक प्राणीयस्यापानीयस्य चान्त्य- स्यान्त्यस्य च तुव्यर्धस्य संमेलनया सकलैव तुटिरुदयस्थानमित्यर्थः । अत एव संध्ययोस्तु- टिद्वयमहोरात्रस्य च त्रिंशत्तुटयः । यदाहुः 'संध्याकालं विना त्रिंशत्तुटिकोऽहोरात्रः।' इति । यत्तु चतुर्थान्ते च देवेशि पाणमूर्यः सदास्तगः । सतोऽस्तमयसंध्यात्र तुट्यधु तु भवेत्प्रिये ॥' (स्व० ७।३६) इति । तथा 'हृत्पद्मं तु यदा प्राप्तः प्रभातसमयस्तदा । नुट्यधं तु वरारोहे पूर्वसंध्या भवत्ततः ॥' (स्व० ७।३९) इत्यायुक्तं तत्केवलमेव प्राणवाहमधिकृत्यापान- वाहं चेत्यधिगन्तव्यम् । एवं 'शक्तेमध्योलभागे तु तुट्यधं यत्प्रकीर्तितम् । पक्षसन्धिस्त्वसौ ज्ञेयः........॥' (स्व० ७६८ ) इत्यादौ पक्षसन्धिग्रन्थेऽप्ययमेवाशयो योज्यः । अन्यथा ह्येका तुटिरकृतविनियोगा स्यात् ॥६५॥ १ क. पु. संध्या तु इति पाठः । २ क. पु० हृद्यन्तमिति पाठः।
श्रीतन्त्रालोकः न केवलमत्र सूर्याचन्द्रमसोरेवोदयो याव वहान्तराणामपि, इत्याह केतुः सूर्ये विधौ राहु- भॊमादेर्वारभागिनः ॥ ६६ ॥ प्रहरहयमन्येषां ग्रहाणामुदयाऽन्तरा। केतुः सूर्येऽन्तर्भवति, एवं विधौ राहुः । तेन य एव सूर्याचन्द्रमसोरुदयः स एवानयोरित्यर्थः। यदुक्तम् 'राहुश्चरति सोमेन केतुश्चरति भास्वता।' (स्व० ७४२) इति । वारभागिनः पुनर्भीमादेर्यहस्य प्रहरद्वय- मुदयस्तस्य प्रत्यहोरात्रमाद्यन्तार्धप्रहरचतुष्टयो- पभोगात्, अन्येषां षष्ठपञ्चमानां ग्रहाणाम- न्तरा प्रहरं प्रहरं प्रत्येकमुदयः प्रत्यहोरात्रमर्ध- प्रहरद्वयोपभोगात्। तदुक्तम् श्लो०६८] षष्ठमाह्निकम् १९ 'पूर्वोऽष्टभागो दिवसाधिपस्य तथैव चान्ते दिवसस्य विद्यात् । शेषाः ग्रहाः षट्परिवर्तनेन भुञ्जन्ति होरा निशि पञ्चमेन ॥' इति ॥ ६६ ॥ अत्रैव प्रथमार्थप्रहरादारभ्य क्रमेण फलं निर्दिशति सिद्धिर्दवीयसी मोक्षोऽ- भिचारः पारलौकिकी॥६७॥ ऐहिकी दूरनकट्या- तिशया प्रहराष्टके। सिद्धिर्दवीयसीत्यादिना सप्त भेदाः ॥६७॥ ननुसंध्यायाश्चतु|दयोऽपि कथं द्विधैवोक्त ? इत्याशङ्कयाह मध्याह्नमध्यनिशयो- रभिजिन्मोक्षभोगदा ॥६८॥ १ क० ख० पु. विन्द्यादिति पाठः ।
६० श्रीतन्त्रालोकः अभिजयति सर्वान्विघ्नानित्यभिजिन्नक्षत्रवि- शेषः । यदुक्तम् मध्याह्ने चार्धरात्रे च उदयोऽभिजितो भवेत् । अभीप्सितं फलं तत्र साधकानां भवेदिह ॥ (स्व० ७/४७) इति। स च तालुनि, इत्यधिगन्तव्यम् । यदुक्तम् ...........मध्याह्नस्तालुमध्यतः ।' ( स्व० ७।३३) इति ॥ ६८॥ न केवलमत्राभिजितं एवोदयो यावदश्वि- न्यादीनामपि, इत्याह नक्षत्राणां तदन्येषा- मुदयो मध्यतः क्रमात् । तदन्येषाम्' इति राशितारादीनाम् । यदु- क्तम् 'ऋक्षाणि राशयश्चैव तारास्त्वंशास्तथैव च । पाणे वै उदयन्त्येते अहोरात्रेण सुव्रते ॥(स्व०७/३१) १ क. पु० चाभिजित उदयो भवेदिति पाठः ।
श्लो० ७१ ] षष्ठमाह्निकम् इति । अत्र च नक्षत्राणां सत्रिभागमङ्गलमुद- यस्थानम् , एवमन्येषामपि संख्यानुसारमुदय- स्थानं परिकल्पनीयम् ॥ प्रहराष्टके च न नक्षत्राणामेवोदयोऽपि त्व- न्येषामपि, इत्याह नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः ॥६९॥ प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः। सकलाद्याश्च कण्ठ्योष्ट्य- पर्यन्ता भैरवास्तथा ॥७॥ शक्तयः पारमेश्वर्यों वामेशा वीरनायकाः। अष्टावष्टौ ये य इत्थं व्याप्यव्यापकताजुषः ॥७१॥ १ ग० पु. श्वरा मर्त्य इति पाठः । २ क. पु. कण्ठोष्ठेति पाठः ।
२ ६२ श्रीतन्त्रालोकः स्थूलसूक्ष्माः क्रमात्तेषा- मुदयः प्रहराष्टके। :नागा' इत्यनन्तायाः। यदुक्तम् 'इनस्त्वनन्त इत्युक्तः सोमो वासुकिरुच्यते । तक्षकः कुज इत्युक्तः कार्कोटः सोमजो भवेत् ॥ सरोजो गुरुराख्यातो महाजः शुक्र उच्यते । शङ्खो मन्दगति यः सप्त नागाः ग्रहाः क्रमात् ॥ अष्टमः कुलिको नाम राहुः क्रूरग्रहो भवेत् । इति । एषां च ग्रहवदेव षट्परिवृत्त्यादिक्रमे- णोदयः किंतु कुलिकस्य शङ्खवन्मन्दगतिनेव सहोदयः । यदुक्तम् शनैश्वरस्य यः कालस्तं भुङ्क्ते कुलिकः प्रिये । सोऽपि दुष्टः समाख्यातः सर्वकर्मस्वसिद्धिदः ॥ इति । लोकेश्वरादीनां पुनराद्यार्धप्रहरक्रमेणे- वोदयोऽन्यथा सप्तानां ग्रहाणामष्टकैः सह संग- त्ययोगात् । एते च सर्व एवाष्टका भुवनाध्वनि वक्ष्यन्ते, - इति तत एवावधार्याः,- इति किं तयावर्णनग्रन्थविस्तरेण । व्याप्यव्यापकत्वे श्लो० ७२] षष्ठमाह्निकम् ६३ स्थूलसूक्ष्मत्वं हेतुः, स्थूलं हि सूक्ष्मेण व्याप्यत इति भावः । यथा ग्रहाणां नागा व्यापकास्ते- षामपि लोकेश्वराः, इत्याद्युत्तरोत्तरम् अत एव क्रमादित्युक्तम् । तदुक्तम् 'ये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते । मूर्तयश्चैव ते चाष्टावष्टौ ते च गणेश्वराः॥' (स्व० ७१४३) इत्यादि । एवमनेन 'तेन प्राणपथे विश्वाकलनेयं विराजते ॥' ( तं० ६।४५) इत्यादि यदुक्तं तत्स्मारितमित्यवसेयम् ॥ ७१ ॥ ननु यत्र प्रहराष्टके फलभेद उक्तस्तत्र दिननिशयोः कथं न? इत्याशङ्कयाह दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् ॥७२॥ ननु 'वासनाभेदतः प्राप्तिः सांध्यमत्रप्रचोदिता ।' १ ख० पु० महेश्वरा इति पाठः ।
४ श्रीतन्त्रालोकः इत्यादिदृशानुसन्धानभेदेनं फलमपि भिद्यते,- इति कथमेवं नियम एव भवेत् ? इत्याशङ्कयाह क्रूरता सौम्यतां वाभि- सन्धेरपि निरूपिता। तेन कदाचियत्ययोऽपि भवेदिति भावः ॥ ननु संध्याद्वयस्य फलं निर्दिष्टं सायंप्रातः- संध्ययोः पुनः किं न ? इत्याशङ्कयाह दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः॥७३॥ ते चोक्ताः परमेशेन श्रीमहीरावलीकुले । 'दिनरात्रिक्षये' इति सायंप्रातःसन्ध्ययोः । 'ते' इति व्याप्तिध्यानादयः ॥ ७३ ॥ तदेव पठति २ क. पु. सौम्यभावापि १ क० पु. भेदफलमिति पाठः । इति पाठः।
श्लो० ७५ ] षष्ठमाह्निकम् ६५ सितासितौ दीर्घहस्वी धर्माधर्मों दिनक्षपे ॥ ७४॥ क्षीयेते यदि तद्दीक्षा व्यात्या ध्यानेन योगतः । अहोरात्रः प्राणचारे कथितो मास उच्यते ॥७५॥ यदि नाम प्राणापानरूपौ सितासितो पर- स्परव्यावृत्या वर्तमानौ दीर्घहस्वादिशब्दव्य- पदेश्यौ शुभाशुभौ पक्षौ क्षीयेते अपोहा- त्मविकल्परूपताघट्टनेन निर्विकल्पात्मपरसंवि- द्रूपत्वेन परिस्फुरतस्तदेव व्याप्त्या ध्यानेन योगेन च दीक्षा, ज्ञानयोगक्रियात्मिकया दीक्षया नियन्त्रणमेव मुक्तिर्भवेदित्यर्थः । एत- देव हि व्याप्तिध्यानयोगानां मुख्य रूपं यत्सि- तासितादिपक्षयोः प्रक्षयो नामेति । तदुक्तं तत्र १ ख. पु. हीयेते इति पाठः ।
श्रीतन्त्रालोकः ~ सितासितौ च यो पक्षौ दीर्घहस्वी च कीर्तितौ । धर्माधर्ममयो पाशौ महाघोरौ भयानको ।। द्वयोर्यत्र भवेच्छेदः क्षयेन्माया तु योगिनी । क्षये शून्यं परं ज्ञेयं दीक्षा ह्येषा प्रकीर्तिता ॥ नान्यथा भवते दीक्षा रजसां पातने न तु । नैव शास्त्रैर्भवेन्मुक्तिर्यजने नैव याजने ॥ एषा ब्रह्मविदां दीक्षा नान्यथा तु वदाम्यहम् ।' इति । तथा 'सितासितौ कथिष्यामि नामपर्यायवाचकैः।' इत्युपक्रम्य अहः शुक्लस्तथा प्राणः.... इति। 'अधर्मश्च क्षपा चैव.. । इति । एवमहोरात्रमुपसंहृत्य मासमवतारयति अहोरात्र' इत्यादिना ॥ ७५ ॥ तमेवाह दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत् । . १ क० पु० शास्त्रे इति पाठः। ख० पु. नैव योजने इति पाठः ।
श्लो० ७७] पष्ठमाह्निकम् पूवर्वदिति, रात्रिन्दिनवत् । तेन कृष्णपक्षे क्रूरााण कर्माण्यन्यत्र च सौम्यानीति । तदु- क्तम् क्रूरकर्माणि तत्रैव कुर्वन्सिद्धिमवाप्नुयात् । शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते ॥' इति । तथा तदारभ्य च कर्माणि शुभान्याभ्युदयानि च । ध्यानमत्राभियुक्तस्य सिद्ध्यन्ते नात्र संशयः ॥ इति ॥ तत्रैव तिथिभागमाह याः षोडशोक्तास्तिथय- स्तासु ये पूर्वपश्चिमे ॥७६॥ तयोस्तु विश्रमोऽर्धेऽर्धे तिथ्यः पञ्चदशेतराः। उक्ता इति, प्राणवाहेपानवाहे वा । तयो- रिति, पूर्वपश्चिमयोस्तुट्योः । विश्रम इति, १ क. पु० विभागमिति पाठः । २ ग० पु० तुटय इति पाठः ।
श्रीतन्त्रालोकः पक्षसंधित्वेन वक्ष्यमाणः । अर्धेऽर्ध इति, प्राणीयेऽपानीये च । तयोश्च संमेलनात्तुटिर्विश्र- मस्थानं स्यान्नतु तुव्यर्धम् । 'इतरा' इति हृदि द्वादशान्ते च विश्रमस्थानत्वेनार्धाधिक- योक्तायाः षोडश्यास्तुटेरन्या इत्यर्थः । यदुक्तम् तुट्यर्ध चाप्यधश्चोर्व विश्रमः परिकीर्तितः । मध्ये पञ्चदशोक्ता यास्तिथयस्ताः प्रकीर्तिताः॥' स्व० ७६१) इति ॥ ७६ ॥ अत्राप्यहीरात्रविभागमाह सपादे बङ्गले तिथ्या अहोरात्रो विभज्यते ॥७७॥ प्रकाशविश्रमवशा- त्तावेव हि दिनक्षपे। 'विभज्यत' इति प्रकाशविश्रमात्मना विभा- गेन व्यवस्थाप्यत इत्यर्थः । क्वचित् ह्यत्र प्रका- शस्य प्राधान्यं, कचिच्च विश्रमात्मन आनन्दस्य;
श्लो० ७८] षष्ठमाह्निकम् aur तत्र प्रकाशप्राधान्ये दिनमन्यथा तु रात्रिरि- त्युक्तं 'तावेव हि दिनक्षपे' इति । तेनैकै- कस्यास्तुटेः साष्टभागाङ्गुलपरीमाणमाद्यमध प्रकाशरूपं दिनं, परं तु विश्रान्त्यात्मा रात्रि- रिति । तदुक्तम् 'प्रथमोदये हृत्पद्मात्तुट्यधु तु दिनं भवेत् । द्वितीये चैव तुटयर्धे यदा चरति शर्वरी ।। (स्व० ७६२) इति ॥ ७७॥ ननु यदहोरात्रस्य प्रकाशविश्रान्तितारत- म्येन दिननिशाविभाग उक्तस्तदास्तां को दोषः, यत्पुनर्वाह्याहोरात्रंक्रमातिक्रमेणाप्युक्त- मन्तः प्राणापानरूपं दिननिशाविभागमुल्लङ्घय तुट्यन्तरमितयोरवस्थानमुच्यते तदपूर्वमिव नः प्रतिभाति, - इत्याशङ्कयाह क. पु. रानाधतिक्रमेणेति पाठः ।
श्रीतन्त्रालोकः संवित्प्रतिक्षणं यस्मा- प्रकाशानन्दयोगिनी ॥७८॥ तौ कृप्तौ यावति तया तावत्येव दिनक्षपे। प्रतिक्षणमिति, सदैव प्रकाशानन्दमयी- त्यर्थः । अतश्च तथा संविद उदयः प्रमातॄणां वेद्यग्रहणपरत्वादेस्तारतम्यात्कस्यचित्क्षणः क- स्यचित्कल्पः कस्यचिनिमेषोऽपि वा स्यात्॥७॥ अत एवाह यावत्येव हि संवित्ति- रुदितोदितसुस्फुटा ॥७९॥ तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि । नन्वेवमपि भवतु को दोषस्तत्राप्यस्या वेद्य- ग्रहणपरत्वं स्वात्मनि विश्रान्तिपरत्वं वा किं तुल्यकक्ष्यतयैव भवेदुतान्यथापि, इत्याशङ्कयाह ७१ श्लो० ८१] षष्ठमाह्निकम् यावानेवोदयो वित्ते- वैद्यैकग्रहतत्परः ॥८॥ तावदेवास्तमयन वेदितृस्वात्मचर्वणम् । 'वित्तेः' इति संविदः । अस्तमयनमिति, वेद्यप्रकाशस्य न्यग्भावात् । ' चर्वणम्' इति विश्रान्तिः । एवकाराभ्यां च साम्यमेव द्योति तम् ॥८॥ ननु स्वात्मविश्रान्तिपरत्वेऽप्यन्तारूपाणां सुखादीनां वेद्यानां सद्भावात् तद्हणपरत्वं न हीयेत, - इति कथमनयोस्तुल्यकक्ष्यत्वं स्यात, इत्याशङ्कयाह वेद्ये च बहिरन्तर्वा द्वये वाथ द्वयोज्झिते॥८१॥ १.क. पु० एव निवेदितम् इति पाठः ।
७२ श्रीतन्त्रालोकः सर्वथा तन्मयीभूति- र्दिनं वेत्तृस्थता निशा। वेद्यं नाम बहिरस्त्वन्तर्वा, मा वा भूत्किम- नेन प्रयोजनं, यावता हि तन्मयीभावो नाम सर्वथा दिनं वेत्तृस्थता स्वात्मविश्रान्तिश्च निशा, - इत्यस्माकं विवक्षितं; तेन यावद्वेद्य ग्रहस्तावदिनमन्यथा तु रात्रिरिति । यदाहुः 'ततो यत्र यावत्तावदनया वेद्यग्रहवेदकविश्रा- न्तिभूमौ प्रकाशानन्दावाभास्यते तत्र तावद्रूपे एव दिननिशे' इति । अतश्च दिननिशयो- स्तुल्यकक्ष्यत्वमेव भवति, इति न कश्चिन्नियमः। 'द्वयोज्झिते' इत्यनेन वेद्यस्यानवक्लप्तिरेवोपोद्द- लिता न त्वेवमस्य संभवो दर्शितः, नानन्त- बहीरूपं वेद्यं किंचित्संभवेत् । ८१ ॥ ननु योऽयं संविदः प्रकाशविमर्शयोरेकतर- प्राधान्याद्विशेष उक्तः स किं प्रमातॄणामपि संभवेन्न वा ? इत्याशङ्कयाह श्लो. ८३] षष्ठमाह्निकम् वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः॥८२॥ वेदिता' इति ज्ञाता, 'वेत्ता' इति विचा- रयिता विम्रष्टत्यर्थः । तेनैकत्र प्रकाशप्राधान्य- मन्यत्र तु विमर्शस्य, - इति प्रमातुरपि द्वैवि- ध्यम् ॥ ८२॥ वेत्तापि द्विधा, - इत्याह पुरा विचारयन्पश्चा- त्सत्तामात्रस्वरूपकः । विमर्शनान्तरीयक एव हि स्वरूपलामो भवेदिति भावः । एवमत्र ज्ञानविचारसत्तार्थ- तया त्रिविधोऽपि विधिराश्रयणीयो येन प्रमातु- स्त्रैविध्यं सिध्येदिति भावः ॥ अत्रैव प्रसङ्गाजाग्रदादिस्वरूपमपि निरूप- यति श्रीतन्त्रालोकः - जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः ॥ ८३॥ परः सुप्तं क्षये रात्रि- दिनयोस्तुर्यमद्वयम् । जाग्रदिति, वेद्यविश्रान्तेरेव प्राधान्यात् । पुरातन इति, विम्रष्टुतात्मकः । स्वप्न इति, वेद्यस्य कथंचिदप्राधान्यात् । पर इति, सत्ता- मात्रनिष्ठः । सुप्तमिति, वेद्यक्षोभप्रक्षयात् । अद्वयमिति, प्रमातृभेदस्यापि विगलनात् । अनेन च 'विश्वात्मता च प्राणत्वम्' इत्या- द्युक्तं स्मारितम् ॥ ८३॥ ननु रात्रिदिनयोर्वहिः : कदाचित्साम्यं भवेत् कदाचिच्च वैषम्यमित्यत्र किं निमित्तम् ? इत्या- शङ्कयाह कदाचिद्वस्तुविश्रान्ति- साम्येनात्मनि चर्वणम्॥८४॥ १ क० पु. कदाचिद्वा वैषम्यमिति पाठः ।
७५ श्लो० ८५] षष्ठमाह्निकम् वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता । यन्नाम कदाचिद्वद्ये स्वात्मनि च तुल्यकक्ष्य- तया विश्रान्तिर्भवेत् तदेव वेद्यवेदकयोः साम्यं भवेत्, तदनुप्राणितं च रात्रिदिनयोस्तुल्यत्वं, यत्सर्व एव योगिनो महापुण्यं विषुवत्काल- माचक्षते । यदुक्तम् 'वेद्यवेदकसाम्येन वस्तुविश्रमचर्वणम् । यदा कदाचिद्भवति सा रात्रिदिनतुल्यता ।। विषुवत्कालयोगोऽसौ योगिभिः समुदाहृतः ।। इति ॥ ८४॥ एवं च वेद्यस्य वेदकस्य च विश्रान्तेरा- धिक्ये दिनस्य निशायाश्च दैर्घ्यं भवेदन्यथा त्वपचयः, तदाह वेद्य विश्रान्तिराधिका दिनदैर्ध्याय तत्र तु ॥ ८५॥ १ ख. पु० दिनयोश्चेति पाठः । २ ख० पु० विश्रामेति पाठः ।
श्रीतन्त्रालोकः ७६ न्यूना स्यात्स्वात्मविश्रान्ति- विपरीते विपर्ययः। स्वात्मौत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका ॥८६॥ न्यूनेति, अन्यथा हि वेद्यविश्रान्तेराधिक्य- मेव न स्यात् । स्यादित्यर्थाद्राव्यपचयनिमि- तम् , 'विपरीत' इति स्वात्मनो विश्रान्तेराधिक्ये वेद्यस्य चान्यथात्वे; यतः स्वात्मन्यौत्सुक्ये विश्रान्त्यभिलाषे विकस्वरतामुपेयुषि वेद्यवि- श्रान्तिरल्पीयसी भवेत् , येन निशाया दैर्घ्य दिनस्यापचयः । तदुक्तम् 'द्राधीयसी वेद्यवृत्तिर्दिनदैर्ध्याय कल्पते । तथैव स्वात्मविश्रान्तिवृत्तिः स्याद्रात्रिविस्तरः॥' इति ॥ ८६ ॥ अयमेव चात्र पक्षो युक्तः, इत्याह इत्थमेव दिवारात्रि- न्यूनाधिक्यक्रमं वदेत् । , श्लो० ८८] षष्ठमाह्निकम् नन्वन्तर्बहिश्च रात्रिदिनयोः स्थितेऽप्यौत्स- र्गिके क्रमे यथान्तरसावुक्तयुक्त्या प्रकाशविम- शयोरेकतरप्राधान्यात्प्रतिप्रमातृ विशिष्यते, तथा बहिरपि प्रतिभुवनं किं विशिष्यते न वा ? इत्याशङ्कयाह यथा देहेष्वहोरात्र- न्यूनाधिक्यांदि नो समम् ॥८७॥ तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम् । विशेषेणेति देहमधिकृत्य, तथात्वेन हि तत्कथितं तत्तत्फलसंपत्तिनिमित्तं स्यादित्या- शयः॥ ८७॥ नन्वेवं रात्रिदिनविभजने किं प्रमाणम् ? इत्याशङ्कयाह श्रीत्रयम्बकसन्तान- वितताम्बरभास्करः ॥ ८८॥ १ ख० पु. क्येनेति पाठः । २ क० पु० पुरीष्विति पाठः ।
७८ श्रीतन्त्रालोकः दिनरात्रिक्रमं मे श्री- शंभुरित्थमपप्रथत् । 'अत एवान्यथान्यैर्यत्तद्विभजनं कृतं तद- ग्राह्यमेव, इत्याह श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः ॥८९॥ हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् । तदसत्सितपक्षेऽन्तः प्रवेशोल्लासभागिनि ॥९॥ अबुद्धस्थानमेवैत- दिनत्वेनं कथं भवेत् । यन्नाम प्राच्यहृदयादारभ्य द्वादशान्तं यावत्तुट्यर्धपरीमाणं प्राणीयमाद्यं स्थानं बुद्धस्य १ क० ख० पु. नेति पाठः । ३ क. पु० दिनत्वं नेति पाठः । २ क० पु० तु इति पाठः ।
श्लो० ९२] षष्ठमाह्निकम् ७९ परं त्वबुद्धस्य, इत्युक्तं, तेनैव बुद्धाबुद्धस्थान- वदनेन समाख्यौचित्याद्वात्रिदिनयोरपि वि- भागः कृतो यहुद्धस्थानं दिनमबुद्धस्थानं. तु रात्रिरिति, तत्त्वयुक्तं; यदन्तःप्रवेशात्मन्य- पानवाहे स्थानस्याविशेषाद्रात्रित्वेन परिकल्पि- तमबुद्धस्थानमेव दिनं स्यात्, इति पूर्वापर- व्याहतत्वम् ॥ ९०॥ न चैतद्विद्वेषपूर्वमस्माभिरुक्तमिति न शिष्ट- निन्दा कृता स्यात् , - इत्याह अलं वानेन नेदं वा मम प्राङ्मतमत्सरः ॥ ९१ ॥ हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः। इदानीं प्रकृतमेवावतारयति व्याख्यातः कृष्णपक्षो ये स्तत्र प्राणगतः शशी ॥९२॥ २ ग० पु. अयामिति पाठः। १ ग० पु. गामिन इति पाठः । ३ ख० पु. प्राणयुतः इति पाठः ।
८० श्रीतन्त्रालोकः आप्यायनात्मनैकैकां कलां प्रतितिथि त्यजेत् । द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः॥९३॥ सामावस्यात्र स क्षीण- श्चन्द्रः प्राणार्कमाविशेत् । प्राणगत इति, तत्रास्य प्राधान्यात् । तेन तुटिस्थानावस्थितां यां तिथिं प्राणादित्य आक्र- मते तस्यां तस्यामपानचन्द्रः सुरादीनामपान- रूपेण हेतुना 'एकैकां कलां त्यजेत् ' एकैक- कलाहासक्रमेण क्षेण्यमासादयेत् ; यावत्स एव कलामात्रशेषत्वात्क्षीणः सन् द्वादशान्तसमीप- स्थायां पञ्चदशतुट्यात्मिकायाममावास्यायां 'प्राणार्कमाविशेत् ' तदन्तीनो भवेत्, यदे- वास्य बहिरस्तमय इत्युच्यते ॥ ९३ ॥ २ ख पु० प्राणयुत इति पाठः । १ ग० पुं० तुटीति पाठः । ३ ख. पु. एकामेकामिति पाठः ।
श्लो० ९४] षष्ठमाह्निकम् (१ न चैतन्निर्मूलमेवोक्तम्, इत्याह उक्तं श्रीकामिकायां च नोऽधः प्रकृतिः पग। अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी ॥९४॥ चन्द्रसूर्यात्मना देह पूरयेत्प्रविलापयेत् । इह खलु ‘परा' पूर्णा, अत एव 'शिव- रूपिणी' शक्तिमदवियुक्ता 'प्रकृतिः, विश्वो- त्पत्तिभूः संवित् 'माया स्वरूपगोपनशीला प्रथमं प्राणात्मतया समुच्छलन्ती 'द्विखण्डा प्राणापानात्मतया द्वैध्यमापन्ना सती नोर्ध्व एव नाध एव अपि तूर्वाधःप्रवाहात्मना 'अर्धाधे क्रमते' दक्षवामनाड्योरन्तः समप्रविभागेन प्रवहतीत्यर्थः । अत एव प्राणापानदशामधि- परा संविच्चन्द्रात्मनाप्यायकारितया ११ श्रीतन्त्रालोकः देहं प्रपूरयेत् सूर्यात्मना च चान्द्रीणामेव कलानामपचयात् 'प्रविलापयेत् ' शोषयोदि- त्यर्थः ॥ ९४ ॥ ननु चान्द्रीणां कलानामपचये किं निमि- त्तम् ? इत्याशङ्कयाह अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः ॥९॥ पिवन्ति च सुराः सर्वे दशपञ्च परांः कलाः। अमा शेषगुहान्तःस्था- मावास्या विश्वतर्पिणी ॥१६॥ यच्चन्द्ररूपेण षोडशधा भिन्नममृतं स्थितं तत्पुनर्द्विधा दृश्यमानसितरूपपश्चदशकला- त्मना तद्भित्तिभूतातिस्वच्छापकलात्मना चेत्यर्थः । तत्र पञ्चदश कलाः सर्व एव बहिः १० पु. छेदयेति पाठः । २ ग० पु० च ता इति पाठः ।
श्लो. ९७ ] षष्ठमाह्निकम् सुरादयोऽन्तः करणानि कार्याणि चाप्यायलि- प्सया पिवन्ति येनासां प्रतिदिनमपचयः स्यात्। यदभिप्रायेणैव 'यस्मिन्सोमः सुरपितृनरैरन्वहं पीयमानः क्षीणः क्षीणः प्रविशति ..।'( साम्ब पं० ८ श्लो०) इत्याद्यन्यत्रोक्तम् । अमाख्या षोडशी पुनः कला सुराद्युपसंहृतकलापञ्चदशकावशिष्टस्वभावत्वा- च्छेषरूपा, अत एव गुहान्तरिव स्थितं वस्तु सुरक्षितत्वादक्षीणं स्यात्तथैवेयमपीत्यर्थः । यतः सा विश्वस्य पञ्चदशकलाक्रोडीकारितयाप्याय- कारिणी, अत एव येयममा सह योगपद्येन पञ्चदशानां कलानां वसनात् 'अमावास्या' तयपदेश्येत्यर्थः । तिथौ पुनस्तदधिष्ठितत्वा- दौपचारिकस्तद्व्यपदेश इत्याशयः ॥ ९६ ॥ एतदेव प्रकृते योजयति एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् ।
८४ श्रीतन्त्रालोकः आप्यायिन्यमृताब्रूप- तादात्म्यात्षोडशी न तु॥९७॥ षोडशी न तु क्षीयते, यदब्रूपतादात्म्या- दर्कस्तां क्षपयितुमक्षम इत्यभिप्रायः ॥ ९७ ॥ इदानीमेतदनन्तरभाविनं कृष्णस्य शुक्लस्य च पक्षस्य सन्धि दर्शयति तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः। तदूर्ध्वगं यत्तुट्यधैं पक्षसंधिः स कीर्तितः ॥९८॥ पञ्चदशी तुटिरित्यमावास्योदयस्थानम् , अत एव 'प्रक्षीणचन्द्रमा' इत्युक्तम् । यदिति, प्राणीयं षोडशतुटिसंबन्धि ॥ ९८ ॥ ननु संधियुभयोर्भवति, तत्कथमेकस्यैव प्रा- णीयस्य तुट्यर्धस्यासौ स्यात् ? इत्याशङ्कयाह श्लो० ९९] षष्ठमाह्निकम् तस्मादिश्रमतुव्यर्धा- दामावस्यं पुरादलम् । परं प्रातिपदं चार्ध- मिति संधिः स कल्प्यते ॥९९॥ तत्प्राणीयमन्त्यं विश्रमतुट्यर्धमवलम्ब्य 'पुरादलं' प्रथममर्धमामावस्यं तत्संलग्नं 'परं' द्वितीयं चापानीयमाद्यं तुट्यधु प्रातिपदं तत्सं- लग्नम् , इत्यनयोरुभयोरर्धयोः संमेलनात्प्रति- पदमावस्यान्तरालभूतोऽसावेकतुट्यात्मा सन्धिः कल्प्यते' तथा व्यपदिश्यत इत्यर्थः । तदुक्तम् स पक्षसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ।' (अ० को० ११४७) इति । इदमेवान्यत्र प्रधानतया पूजाकालत्वे- , नोक्तम् । यदुक्तम् 'न दिवा पूजयेद्देवं रात्रौ नैव च नैव च । अर्चयेदेवदेवेश दिनरात्रिपरिक्षये ॥' इति । अत्र विश्रमतुट्यर्ध एवार्धार्धिकया श्रीतन्त्रालोकः विभक्ते यदि सन्धिर्व्याख्यायते तत्सन्धिद्वय- स्याप्येकैव तुटिरर्धाधिकया स्यात्, - इत्येकस्या- स्तुटेर्विनियोगाभावादासमञ्जस्यं पर्यवस्येदि- त्यलं बहुना ॥ ९९ ॥ एवं प्राणे पक्षोदयं प्रदर्य सूर्यग्रहणमपि दर्शयति तत्र प्रातिपदे तस्मि- स्तुव्यर्धार्धे पुरादलम् । आमावस्यं तिथिच्छेदा- (कुर्यात्सूर्यग्रहं विशत् ॥१०॥ अर्धं चार्धं च अर्धाधु, तुटेरर्धाधु तुव्यर्धाधु, तस्मिन् सन्धित्वेन परिकल्पिते तुट्यर्धद्वय इत्यर्थः । तत्रैवं स्थिते सति तुट्यर्धद्वयमध्या- दामावस्यं पूर्वमर्धम् अर्थात्परस्मिन्प्रातिपदेऽर्धे वक्ष्यमाणादृणशब्दाभिधेयात् तिथिच्छेदाद्वि- १ क. पु० वियदिति पाठः ।
श्लो. १०१] षष्ठमाह्निकम् शत् सत् सूर्यग्रहणं कुर्यात्, प्रतिपदमावास्या- संघद्यात्सूर्यग्रहणं भवेदित्यर्थः ॥ १० ॥ नन्वेतावन्मात्रात्सूर्यग्रहणं भवेदित्यत्र 'क इवाशयः ? इत्याशङ्कयाह तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु । तप्तत्वात्तत्पिबेदिन्दु- सहभूः सिंहिकासुतः ॥ १०१॥ मध्वित्यमृतं । तप्तत्वादिति, यथायथमर्केण संनिकर्षात् । इन्दुसहभूरिति ‘विधौ राहुः' इत्याद्युक्त्या तत्सहचारित्वात्, अन्यथैषां त्रया- णामपि संघहो न भवेदिति भावः । यदुक्तम् 'रविबिम्बान्तरे देवि चन्द्रबिम्ब तदा भवेत् । तदन्तरे भवेद्राहुरमृतार्थी वरानने ॥ अमृतं स्रवते चन्द्रो राहुश्च ग्रसते तु तत् । पीत्वा त्यजति तद्धिम्बं तदा मुक्तः स उच्यते ।' (स्व० ७/७०) १तु तमिति मूलपाठः ।
श्रीतन्त्रालोकः इति ॥ १०१ ॥ ननु त्रयाणामप्येषां संघट्टे किं सतत्त्वम् ? इत्याशङ्कयाह अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ । राहुर्मायाप्रमाता स्या- तदाच्छादनकोविदः ॥१०२॥ तत एव तमोरूपो विलापयितुमक्षमः । प्रमाणप्रमेययोः 'आच्छादनं' स्वात्मसात्कारेण तिरोधानं न पुनरत्यन्तमेव विलयः, संस्कारात्मना पुनरपि बोधकमाहा- त्म्यात्तदुदयस्य भावात्, अत एवोक्तं 'विला- पयितुमक्षमः' इति । तत' इत्याच्छादक- त्वात् , तमसो ह्यावरकत्वमेव तत्त्वम् ॥ १०२॥ नन्वेवमेतद्विलापने कः क्षम? इत्याशङ्कयाह १ ख० पु० तदुभयस्यापि भावादिति पाठः । ' तयोः श्लो. १०४ ] षष्ठमाह्निकम् ८९ तत्संघट्टायोल्लासो मुख्यो माता विलापकः॥१०३॥ तेषां मातृमानमेयानां 'संघट्टः' सामरस्य ततः समुल्लसितमद्वयमेव मुख्यः प्रमाता विला- पकस्तत्त्रयसंघटनेन परसंचिन्मात्रसार एवेत्यर्थः। यदाहुः 'प्राणार्कमानहठघट्टितमेयचन्द्र- विद्रावितामृतरसोत्सुकितः खमाता । स्वर्भानुरावृणुत एव रविं रसं तु पुण्ये ग्रहेऽत्र रसयेत्त्रयघटनज्ञः॥' इति ॥ १०३॥ अत एव चायं कालो महापुण्यः, इत्याह अर्केन्दुराहुसंघट्टात प्रमाणं वेद्यवेदको। अहयेन ततस्तेन पुण्य एषं महाग्रहः ॥१०४॥ १ ख. पु. एव इति पाठः ।
श्रीतन्त्रालोकः 'अद्वयेन' चिन्मात्रात्मना भवन्तीत्यर्थः । तदुक्तम् " राहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा । दृश्यन्ते समवायेन तन्महाग्रहणं भवेत् ।। स कालः सर्वलोकानां महापुण्यतमो भवेत्।'स्व.७७३ इति ॥ १०४॥ नन्वयं सूर्यादीनां संघट्टः किं प्रतिपदमा- वस्यासंभेद एव भवेदुतान्यथापि ? इत्याश- याह अमावस्यां विनाप्येष संघदृश्चेन्महाग्रहः। यथार्के मेषगे राहा- वश्विनीस्थेऽश्विनीदिने ॥१०५॥ अमावस्यां विनापि शुद्धायामेव प्रतिपदि यद्येष संघट्टः स्यात् तदापीदं महद्वहणं भवे- देव । यथा बहिश्चन्द्रार्कराहणामश्विन्यामेवाव- स्थानादेकर्वेण वैशाखामावस्यायां प्रहरद्वयादूज़ श्लो० १०६] षष्ठमाह्निकम् ९१ शुद्धायामेव प्रतिपदि सूर्यस्य ग्रहणं संभवेत्, लम्बनस्य धनगतत्वाग्रहणस्थित्यर्धस्य लम्ब- नादूनत्वात् । एवं यत्र प्रतिपदमावास्यासंभेदेन सूर्यग्रहणं भवेत् तत्रामावस्यायां प्रग्रहणं मो- क्षस्तु प्रतिपदि, अन्यथा तूभयमपि प्रतिपद्येवे- त्यर्थसिद्धम् ॥ १०५॥ तदेवाह आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले। प्रतिपच्च विशुद्धा स्या- तन्मोक्षो दूरगे विधौ॥१०६॥ तन्मोक्षे च विधुदूरीभावो हेतुरित्युक्तं 'दूरगे विधौ' इति । तस्मिन् हि दूरीभूते तत्सहचारी राहुरपि तथा भवेदिति भावः ॥ १०६ ॥ अस्य च ग्रहणस्य महत्त्वे निमित्तं दर्शयति ९२ श्रीतन्त्रालोकः ग्रासमोक्षान्तरे स्नान- ध्यानहोमजपादिकम् । लौकिकालौकिकं भूयः- फलं स्यात्पारलौकिकम् ॥१०७॥ भूयःफलमित्यनन्तफलम् । यदुक्तम् तत्र स्नानं तथा दानं पूजाहोमजपादिकम् । यत्कृतं साधकैर्देवि तदनन्तफलं भवेत् ।। स्व ० ७७४ इति ॥ १०७॥ पारलौकिकत्वे निमित्तमाह ग्रास्यग्रासकताक्षोभ- प्रक्षये क्षणमाविशन् । मोक्षभाग्ध्यानपूजादि कुर्वश्चन्द्रार्कयोर्महे ॥ १०८॥ इह खलु योगी चन्द्रार्कयोहे सूर्यग्रहणे 'ग्रास्यग्रासकयोः' प्रमेयप्रमात्रोर्यः संबन्धस्तद्रूपो यः क्षोभः' तत्प्रक्षयात्मनि परस्मिन्प्रमातर्या- श्लो० १०९] षष्ठमाहिकम् ९३ . विशन्.परां वृत्तिमवलम्ब्य क्षणमात्रं ध्यानादि कुर्वन् मोक्षभागपवृज्यत एवेत्यर्थः । यदुक्तम् पक्षद्वयं परित्यज्य पूर्वोक्तकरणेन च । उन्मन्यन्ते स्थितो नित्यं परवृत्त्यवलम्बकः ।। परित्यज्य त्वधः सर्व ध्यानमास्थाय योजयेत् । तस्य मुक्तिर्न सन्देहस्त्वन्यथा सिद्धिभाग्भवेत् ।।' इति ॥ १०८ ॥ तिथिच्छेदादित्युक्तमधिकावापेन लक्षयति तिथिच्छेद ऋणं कासो वृद्धिनिःश्वसनं धनम् । अयत्नजं यत्न तु रेचनादथ रोधनात् ॥१०९॥ यन्नाम कासवशेन शीघ्रमेव प्राणस्य प्रसर- णात् सहसैवामावास्यो भागः प्रतिपद्भागमनु- प्रविशति तदुच्यते ऋणं, तिथिच्छेदयोः कार्य- कारणयोरभेदोपचारात्कासश्चेति । यन्नाम च निःश्वासवशादपानवाहस्य चिरेण प्रसरणात् श्रीतन्त्रालोकः तिथेरधिकीभावेन पूर्णतया पौर्णमास्युदयस्तदु- च्यते वृद्धिर्धनं निःश्वसनं च, इत्येतच्चोभयं सर्वेषामयोगिनामपि कासश्वासादिना स्वरसत एवोत्पद्यते, इत्युक्तम् 'अयत्नजम्' इति, यद्वशा- दन्तरा चन्द्रसूर्योपरागो भवन्नपि तैरनवधा- नान्न परं लक्ष्यते । योगिनां पुनश्चन्द्रसूर्योपरा- गयोग्यतत्प्राणस्य रेचकपूरकाद्यात्मना यत्नेन भवेदित्युक्तं 'यत्नजम्' इति । यदुक्तम् 'तिथिच्छेद ऋणं ज्ञेयं वृद्धौ चैव धनं भवेत् । ऋणं चैव भवेत्कासो निःश्वासो धनमुच्यते ॥' ( स्व० ७६४) इति । तथा 'तिथिच्छेदस्तथा वृद्धिः कासश्वासादि वा भवेत् । अयत्नजो यत्नजस्तु प्राणवृत्तिनिरोधतः ॥' इति ॥ १०९ ॥ एतदेवापानवाहेऽप्यतिदेष्टुमाह एवं प्राणे विशति चि- त्सूर्य इन्दुं सुधामयम्।
श्लो० १११] षष्ठमाह्निकम् ९५ एकैकंध्येन बोधांशु कलया परिपूरयेत् ॥ ११० ॥ क्रमसंपूरणाशालि- शशाङ्कामृतसुन्दराः। तुट्यः पञ्चदशैताः स्यु- स्तिथयः सितपक्षगाः ॥ १११॥ 'एवं पूर्वोक्तयैव गत्या प्राणे 'विशति' शक्ते- हृदन्तमवरोहति चिदात्मा प्राणसूर्यः प्रति- तुट्यैकैकध्येन प्रबुद्धांशुजालया कलया सुधाम- यमिन्दु परिपूरयेत्, येन प्रतिपद्येककलो द्विती- यस्यां द्विकलः-इत्याद्यात्मना क्रमेण संपूरणा- शालिनः शशाङ्कस्यामृतेन सुन्दरा एताः पञ्च- दश तुट्य एव सितपक्षगास्तिथयो भवेयुः । यदुक्तम् पाणहंसो यदा प्राप्तस्त्वधस्तात्पथमां तुटिम् । पूर्वमधैं त्वहः प्रोक्तं तुट्यर्धमपरं निशा॥'(स्व० ७७७) १ ख० पु. एकैकस्यैवेति पाठः । २ क० ख० पु. एवेति पाठः ।
श्रीतन्त्रालोकः इत्युपक्रम्य 'प्रतिपत्सा तु विज्ञेया चन्द्रश्चैककलो भवेत् । द्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु ॥ तिथयश्चैवमारभ्य यावत्पञ्चदशी तुटिः।' (स्व० ७/७९) इति ॥ १११॥ अत्रैव च पक्षसन्धिताद्यप्यतिदिशति अन्त्यायां पूर्णमस्तुव्यां पूर्ववत्पक्षसन्धिता। इन्दुग्रहश्च प्रतिप- सन्धौ पूर्वप्रवेशतः ॥११२॥ ऐहिकं ग्रहणे चात्र साधकानां महाफलम् । प्राग्वदन्यदयं मासः प्राणचारेऽब्द उच्यते॥११३॥ पूर्णी माश्चन्द्रो यस्यामेवंविधायां पञ्चदश्यां तुट्यां पूर्ववदिति, तुव्यर्धद्वयसंमेलनया। पूर्वेति, क. पु० इत्याद्यपेति पाठः । २ क० ख० पु० चान्द्रे इति पाठः ।
श्लो० ११४] षष्ठमाह्निकम् ९७ पूर्व पौर्णमासं सन्धिलक्षणं तुट्यधं तत्प्रवे- शात् । एतच्च यद्यपि पूर्ववदित्यतिदेशागतार्थ- मेव तथापि पूर्णिमाप्रतिपत्संभेदेनैवेन्दुग्रहो भ- वेत् न तु शुद्धायामेव प्रतिपद्यपि,-इति दर्श- यितुं साक्षादुक्तम् । ऐहिकमिति, सृष्टिप्राधा- न्यात् । प्राग्वदन्यदिति, मातृमेयसंघहादि । यदाहुः शक्तिसंस्नुतसुधारसक्रमात पूर्णमिन्दुमणुराहुराहरन् । छादयेदिह महाशुभे आहे द्रावितं पिवति तं महामुनिः ॥' इति । इदानीं मासमुपसंहरन्नब्दमवतारयति अयमित्यादिना ॥ ११३॥ तमेवाह षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु । १ क. पु० घद्दादिति इति पाठः । १३ ९८ श्रीतन्त्रालोकः तिष्ठन्माघादिकं षट्रं कुर्यात्तच्चोत्तरायणम् ॥११४॥ मकरादिष्वन्मिथुनान्तेषु, तेन षड्भिरङ्गुलैः षड्गुणितानि षट्रिंशद्भवन्तीति भावः । माघे हि मकरस्योदयो यावदाषाढे मिथुनस्य । यदुक्तम् षडगुलं च सङ्कामो मकरादिषु राशिषु । भानोर्माघाद्यापाढान्तं भवेत्तच्चोत्तरायणम् ।। इति ॥ ११४॥ अत्रैव विषुवत्सङ्कान्तिं दर्शयति संक्रान्तित्रितये वृत्ते भुक्ते चाष्टादशाङ्गुले। मेषं प्राप्ते रखौ पुण्यं विषुवत्पारलौकिकम् ॥११५॥ अष्टादशाङ्गुल इति प्रतिसंक्रान्त्यङ्गुलषट्रस्य भोगात् ।
श्लो० ११८] षष्ठमाह्निकम् ९९ 'हृदयादुदयस्थानात्सङ्क्रान्तिर्मकरे स्मृता । षडङ्गुलान्यधस्त्यक्त्वा कुम्भे सङ्क्रमते पुनः ॥ कण्ठो– यमुलं त्यक्त्वा मीने सङ्क्रमते पुनः । गलोर्खाद्यावत्ताल्वन्तं त्यक्त्वा मेषेऽथ संक्रमेत् ।। नासान्तं यावत्सङ्क्रान्तिरङ्गुलानि षडेव हि । एषा वै विषुसङ्क्रान्तिरुत्तरे संव्यवस्थिता ॥' (स्व० सं० ७९४) इति। विषं व्याप्ति साम्यमहति इति विषुवत् । 'विषुवत्पारलौकिकम्' इत्येतच्च यद्यपि निखि- लस्यैवोत्तरायणस्य संभवति तथाप्यत्र विशेषे- णेति स्वकण्ठेनैतदुक्तम् । यदुक्तम् मकराच्च समारभ्य मिथुनान्तं च सुव्रते । उत्तरायणमत्रैतदेहिकीसिद्धिवर्जितम् ॥' (स्व० तं० ७/९७) इति ॥ ११५॥ ननु यद्येतद्विषुवत्पारलौकिकं दक्षिणायन पुनः कीदृक् ? इत्याशङ्कयाह प्रवेशे तु तुलास्थेऽर्के तदेव विषुवद्भवेत् ।
१०० श्रीतन्त्रालोकः इह सिद्धिप्रदं चैत- इक्षिणायनगं ततः ॥११६॥ प्रवेश' इति शक्तितो हृदन्तम् । 'तदेव' इत्यष्टादशाङ्गुलोपभोगात्मसंक्रान्तित्रयानन्तर- भावीत्यर्थः । यदुक्तम् 'शक्त्यधो हृदये हंसः सङ्क्रामत्कर्कटे मिये । षडङ्गुलानि संयज्य सिंहे वै सङ्कमेत्पुनः ।। षडङ्गुलैः पुनस्यक्तैः कन्यां सङ्क्रमते पुनः । नासिकाग्रात्तु ताल्वन्तं त्यक्ते वै विषुवद्भवेत् ।। तुलासंक्रान्तिरेषोक्ता दक्षिणं विषुवद्भवेत् । ( स्व० ७।११३) इति । इह सिद्धिप्रदमिति, यदुक्तम् 'साधनं यत्कृतं तत्र इह जन्मनि सिद्धिदम् ' । इति ॥ ११६ ॥ ननु मकरादे राशिद्वादशकस्य सामान्येन पारलौकिकैहलौकिकत्वेऽपि प्रत्येकमस्ति कश्चि- द्विशेषो न वा ? इत्याशङ्कयाह श्लो० ११८] १०१ पष्ठमाह्निकम् गर्भता प्रोडुभूषिष्य- द्भावश्चाथोभूषुता। उद्भविष्यत्त्वमुद्भूति- प्रारम्भोऽप्युद्भवस्थितिः ११७ जन्म सत्ता परिणति- ईद्विींसः क्षयः क्रमात् । मकरादीनि तेनात्र क्रिया सूते सदृक्फलम्॥११८॥ 'गर्भता' आधानं, प्रोद्भवितुमेषिष्यन् ‘भावः' सत्ता यस्यासौ तथा आद्य इच्छापरिस्पन्दः। उद्भवितुमिच्छुरुभूषुस्तस्य भावस्तत्त्वं, उद्भव- नात्मकैषणीयसंयुक्तमिच्छामात्रमित्यर्थः। 'उद्भ- विष्यत्त्वम्' उद्भवनाय स्वात्मन्येवोच्छलत्त्वेनाव- स्थानम् । 'उद्भूतिप्रारम्भः' तत्रैव नैविड्यम् । 'उद्भवस्थितिः' तत्रैवोन्मुख्यम् । एवं मकरा- दिराशिद्वादशकं क्रमादिति, गर्भतादिरूपं यतो १०२ श्रीतन्त्रालोकः भवति तेन हेतुनात्र बाह्यबीजादिवजपादि- क्रियापि गर्भताद्यनुगुणमेव फलं 'सूते' ददा- तीत्यर्थः । यदुक्तम् 'आधानमिच्छा संयोग आनन्दो घनता स्थितिः । जन्म सत्ता परिणतिर्दृद्धिासः क्षयः क्रमात् ।। माघान्मासात्समारभ्य स्थितयः परिकीर्तिताः । साधकानां सिद्धिविधौ भावानां चापि संभवे ॥' इति ॥ ११८॥ अत्राप्यवान्तरोऽस्ति विशेष,:-इत्याह आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवेने। चतुष्कं किल मीनाद्य- मन्तिकं चोत्तरोत्तरम् ॥११९॥ प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् । १ क. पु० सेवनमिति पाठः ।
श्लो० १२५] षष्ठमाह्निकम् १०३ कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् ॥ १२० ॥ 'झषो' मकरः। एतौ चासिद्धमन्त्रस्य, असिद्धमन्त्रस्य तु मन्त्रादिसेवानिमित्तं मीनादि- चतुष्कं; 'प्रवेशे' इत्यपानवाहे । यदुक्तम् तस्मादारभ्य मकराद्ध्यानहोमजपादिकम् । परलोकनिमित्ताय तदनन्तफलं भवेत् ॥ पुरश्चर्यानिमित्ताय मत्रग्रहव्रतं च यत् । मीनादावारभेत्सर्व मन्त्रसिद्ध्यर्थमात्मनः ॥' (स्व० ७।१०३) इति । तथा 'तस्मादिहात्मसिद्ध्यर्थ पुष्टयर्थ चैव साधयेत् । दक्षिणायनजे काले यस्मात्सृष्टिः प्रजायते ॥' (स्व० ७११०) इति । एवमुत्तरायणस्य वेद्यग्रहणपरत्वम्,- इति यथायथं फलदानेऽप्यासन्नत्वं दक्षिणा- - १ ख० पु. अर्थसिद्धीति पाठः ।
१०४ श्रीतन्त्रालोकः यनस्य त्वन्तर्विश्रान्तिपरत्वम्, इति फलदाने यथायथं दूरत्वम् , अत एवोत्तरायणे दिनस्य वृद्धिर्निशाया ह्रासोऽत्र त्वन्यथा ॥ १२० ॥ तदाह निर्गमे दिनद्धिः स्या- द्विपरीते विपर्ययः। वर्षेऽस्मिंस्तिथयः पञ्च प्रत्यङ्गुलमिति क्रमः ॥१२१॥ तत्राप्यहोरात्रविधि- रिति सर्वं हि पूर्ववत् । ननु मासारब्धो वर्षः, इति तेषां प्रत्यङ्गुल- षट्रे उदय उक्तः; ते च तिथ्यारब्धा,-इति कथमत्र न तासाम् ? इत्याशङ्कयाह 'प्रत्यङ्गुलं पञ्च तिथय' इति । तत्षट्रे त्रिंशद्भवन्ति येन तत्र मासोदय उक्तः । तत्रापि' इत्यङ्गुल- श्लो० १२३] षष्ठमाह्निकम् १०५ पश्चांशे तेन प्रत्यङ्गुलदशांशं दिनं निशा च । सर्वं' पक्षादि, तेन पूर्वस्मिन्नङ्गुलत्रये कृष्ण- पक्षोऽन्यत्र तु परः । तदुक्तम् अङ्गुले ह्यङ्गुले ह्यत्र तिथयः पञ्च संस्थिताः । तस्याप्य दिनं पूर्वमपराधैं निशा भवेत् ॥ षट्पञ्चकास्तिथीनां ये तेऽहोरात्रास्तु मासिकाः । त्रिंशता तैरहोरात्रैर्द्विपक्षो मास उच्यते ॥ (स्व० ७९१) इति ॥ १२१॥ ननु प्रहराष्टकन्यायेन मासद्वादशकस्यापि किमधिष्ठातारः केचित्संभवन्ति न वा ? इत्या- शङ्कयाह प्राणीये वर्ष एतस्मि- कार्तिकादिषु दक्षतः॥१२२॥ पितामहान्तं रुद्राः स्यु- दिशाग्रेऽत्र भाविनः। यदुक्तम् १४
१०६
१
श्रीतन्त्रालोकः
दक्षनामा तु यो रुद्रः कथितोऽत्र महेश्वरि ।
कार्तिक मासमखिलं स तु भुङ्क्ते महेश्वरि ।।
चण्डो मार्गशिरोमासि हरः पौषे तु कीर्तितः ।
शौण्डी तु माघमासे च प्रमथः फाल्गुने तथा ।
भीमश्चैत्रे समाख्यातो वैशाखे मन्मथः स्मृतः ।
शकुनिज्येष्ठमासे तु आषाढे सुमतिस्तथा ॥
नन्दोऽथ श्रावणे मामि भाद्रे गोपालकस्तथा ।
पितामहश्च वीरेशो मासस्याश्वयुजस्य च ॥'
इति । अग्र इत्येकीकारप्रकाशनाहिके ॥१२२ ॥
एतदुपसंहरन्नन्यदवतारयति
प्राणे वर्षोदयः प्रोक्तो
द्वादशाब्दोदयोऽधुना ॥ १२३॥
खरसास्तिथ्य एकस्मि-
नेकस्मिन्नङ्गले क्रमात् ।
द्वादशाब्दोदये ते च
चैत्राद्या हादशोदिताः ॥ १२४॥
श्लो० १२५ ] षष्ठमाह्निकम् १०७ खरसा इति । खेति, शून्यं ' रसाः' षट्, एवं षष्टिः। तेन प्रत्यङ्गुलमृतुरङ्गुलानां त्रयेऽ यनं षटे वर्षः । एवमेकस्मिन्नेव प्राणचारे वर्षों- दये यथा प्रत्यङ्गलपटं द्वादशानां संक्रान्तीना- मुदयः एवमिहाब्दानामित्यभिप्रायः। यदुक्तम् सङ्क्रान्तयो द्वादशात्र यद्वदब्दे प्रकीर्तिताः । द्वादशाब्दोदये प्रोणे वत्सरास्ते प्रकीर्तिताः॥ (स्व० ७/१२६) इति ॥ १२४ ॥ ननु चैत्रस्य प्राक् तालुन्युदयः, इति ततः प्रभृति मन्त्रसेवादि कार्यमित्युक्तम् , इह तु हृदि तस्यैवोदय उक्तः, तदिदानीं साधकः कुत्र मन्त्रादिसेवी कुर्यात् ? इत्यशङ्कयाह चैत्रे मन्त्रोदितिः सोऽपि तालुन्युक्तोऽधुना पुनः। १ दयेकाले इति पाठः । २ क. पु. सेवादिकमिति पाठः।
१०८ श्रीतन्त्रालोकः तु हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयोऽपि हि ॥ १२५ ।। उक्त इत्यब्दोदये । अधुनेति, द्वादशाब्दो- दये ॥ १२५॥ एवं द्वादशाब्दोदयमभिधाय षष्टयब्दोदय- मप्यभिधत्ते प्रत्यङ्गुलं तिथीनां त्रिशते परिकल्पिते। सपञ्चांशाङ्गलेऽब्दः स्या- प्राणे षष्टयब्दता पुनः॥१२६॥ प्रत्यङ्गुलं तिथिशतत्रयमित्यङ्गुलपञ्चभागे पष्टिरहोरात्राः । एवं सपञ्चभागेऽङ्गुले षष्टयधिक- शतत्रयात्माब्द उदियात्। ततः सपञ्चांशाङ्गुलेऽ ब्दस्योदयात्प्रागुक्तचषकोदयस्थित्या प्राणापा- ५ ख० पु. परिकीर्तिते इति पाठः ।
श्लो. १२७ ] षष्ठमाह्निकम् १०९ नवाहात्मनि प्राणे षष्टयन्दता, षष्टिरब्दा भवन्तीत्यर्थः । यदुक्तम् । 'हृत्पद्माद्याव शक्त्यन्तं त्रिंशदब्दोदयो भवेत् ।' (स्व० ७११३४) इति॥ १२६ ॥ अत्रैवाहोरात्राणां संकलनां दर्शयति शतानि षट् सहस्राणि चैकविंशतिरित्ययम् । विभागः प्राणगः षष्टि- वर्षाहोरात्र उच्यते ॥ १२७॥ अनेन चात्र श्रोतॄणामपूर्वदर्शनात् संमोहो मा भूत,-इति बाह्याहोरात्रगतप्राणचारसंख्या- साजात्यमुद्भावितम् । तदुक्तम् 'विंशतिस्तु सहस्राणि सहस्रं षट्शताधिकम् । अहोरात्रास्तु षष्टयब्दे संख्यातास्तु वरानने ॥' (स्व० ७१३६) इति ॥ १२७ ॥ , न० पु० बर्षेहोरात्र एव चेति पाठः ।
ܘ ܐ ܕ श्रीतन्त्रालोकः नन्वेवं तिथिविभाजनेऽस्य किं प्रयोजनम् ,- इत्याशङ्कयाह प्रहराहर्निशामास- ऋत्वब्दरविषष्टिगः । यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने ॥१२८॥ अब्दरवीत्यब्दद्वादशकं 'छेदः' समाप्तिः, 'संधिः' संध्या । अयमत्राशयः- यन्नाम हि नित्यनैमित्तिकादि बाह्ये प्रयत्नशतैरपि पुरुषा- युषेण निष्पत्तिं यायात् न वा, तदन्तरेकस्मि- न्नेव प्राणचारे प्रहराहर्निशादिक्रमेण क्षणमात्र- मवधानात्सुखमेव योगिनः सिध्येदिति। यदुक्तम् चन्द्रसूर्योपरागे च पक्षमासायनेषु च । युगादिषु युगान्तेषु यच्च संवत्सरेऽप्यथ ।। वर्षद्वादशके चैव षष्टयन्देऽथ वरानने । स्नानदानेन यज्ञैश्च पूजाहोमजपेन च ॥
श्लो० १२८] षष्ठमाह्निकम् १११ ध्यानयोगतपोभिश्च बाह्ये कालेऽथ यत्कृतम् । अमुनोक्ते वरारोहे तत्कलं लभते महत् ॥ प्राणहंसगतिं चारे ज्ञात्वैकस्मिस्तु तद्भजेत् ।' (स्व० ७१४० ) इति । यदभिप्रायेणैवाह या अग्निहोत्राहुतयः सहस्र- द्वासप्ततिः स्युः पुरुषायुषेण । नाड्यंशयुक्त्या सकृदाशु जुह्वत् संपादयेद्यस्तव मार्गवित्सः ॥' इत्याद्यन्यैरुक्तम् । ननु भवतु नामैतद्यदन्तः क्षणमवधानमात्रायोगिनो जन्मकृत्यं सिद्ध्ये- दिति, इदं तु न नः प्रतिभाति यदन्तःप्राण- चारे नालिकाद्यब्दान्तं क्रमेणाभिधाय द्वित्रि- चतुरब्दादिक्रमव्यतिक्रमण निष्कारणमेव द्वादशाब्दाद्यभिहितमिति । तत्रापि द्वादशाना- मेवाब्दानामुदयो न त्रयोदशानां, षष्टिरेव न पुनरेकोनषष्टिरिति, तदधिकस्य चोदयानभिधा- नमिति न किंचिदत्र निमित्तमुत्पश्यामः, इति किमेतदिति न जानीमः । अत्रोच्यते-इह ताव- ११२ श्रीतन्त्रलोकः द्योगिनां प्राणे जिते सत्येतद्भवेत् न वन्यथा, प्राणजयश्च योगशास्त्राद्युक्त्या क्रमेणैव भवेत्। अत एव तत्र 'क्रामेदजितां मात्राम्' इत्याधु- तम् । ततश्चात्र तुव्यादिक्रमेणैव यथायथं तारत- म्यादब्दपर्यन्तं तदुदय उक्तः। एवं जितप्राणः कश्चिद्योगी यदि क्रममपहाय तत्र द्वादशानाम- ब्दानामुदयमनुसंदध्यात्, तत्तस्य निमित्तता- मियात् अत्यन्तमेव प्राणस्य जितत्वात्; न चेह ज्योतिःशास्त्रवत् संवत्सराणां क्रमः कश्चिद्वि- वक्षितो येनास्यातिक्रमः स्यात् ; यावता हि जितप्राणो योगी यन्नाम तत्रानुसंधत्ते तत्तस्य साक्षात्कृतं भवेत्,- इत्यभिधानीयं, तच्चैवमस्तु नैवं वा को विशेषः । न चात्र योगिनां प्राणं जेतुं किंचिदपेक्षान्तरमस्ति येन क्रमोऽवश्य- स्वीकार्यः स्यात् । न च सहसैवात्यन्तं विदूरेऽ प्यनुसन्धान कार्यम्, इत्यन्तरा सोपानकल्पतया १ ख० पु. व्यतिक्रम इति पाठः ।
श्लो० १२८ ] षष्ठमाह्निकम् ११३ द्वादशाब्दोदय उक्तः । एवं षष्टयब्दोदयेऽपि वाच्यम् । तस्माद्यथांशांशिकाक्रमेण विषं भक्ष- यन् कश्चिजीर्णविषः सन् अक्रमेण बह्वपि विषं भक्षयन् जरयेदेवमिहापि ज्ञेयम् । एतदेव च तदधिकस्याप्युदयानभिधाने निमित्तम् । एवं परां काष्टां प्राप्तो योगी यत्किंचित्तत्रानुसंदध्यात् तदेव साक्षात्कुर्यात्,- इत्यानन्त्यात्कियदन्यद- भिधीयते इति । न ह्यतोऽधिकेनोक्तेन किंचित्प्र- योजनान्तरमुत्पश्यामः। यदुक्तमनेनान्यत्र न षष्ट्यब्दोदयादधिकं परीक्ष्यते आनन्त्यात् (तं. सा. ६ आ० ) इति । यत्पुनरन्यत्र विंशत्यधिकोत्तराब्दशतो- दयोऽप्युक्तस्तदप्येवं प्रदर्शनपरमेवेत्येकस्मिन्नेव प्राणचारे कल्पोऽप्यनुपसहितःसाक्षात्कृतो भवेदे- व को नामात्र विरोधः। यत्तु द्वादशानामेवाब्दा- नां षष्टेरेव वा कथमभ्युदयोऽभिहितः, इत्युक्तं तद्यद्यपि शिंशपाचोद्यं तदन्याभिधानेऽप्येवंचो- १ ख० पु. कथमुदय इति पाठः ।
११४ श्रीतन्त्रालोकः द्यावकाशात् , तथापि अत्यन्तमेवापूर्वार्थदर्शनेन श्रोतृणामत्र संमोहोमा भूत्,-इति कारुण्याद्भ- गवता प्राच्यगणनाक्रमसजातीयमेवैतदुक्तमिति न कश्चिद्दोषः ॥ १२८ ॥ एवमन्तः कालस्य स्वरूपं निरूप्य बहिरपि निरूपयति इति प्राणोदये योऽयं कालः शत्येकविग्रहः । विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते॥१२९॥ प्राणोदय इत्यर्थादपानोदयेऽपि विश्वात्मत्वे हेतुः ‘शत्येकविग्रह' इति ॥ तदवाह षट् प्राणाश्चषकस्तेषां षष्टिर्नाली च तास्तथा।
षष्ठमाह्निकम् ११५ श्लो० १३२] तिथिस्तत्रिंशता मास- स्ते हादश तु वत्सरः॥१३०॥ अब्दं पित्र्यस्त्वहोरात्र उदग्दक्षिणतोऽयनात् । पितृणां यत्स्वमानेन वर्ष तद्दिव्यमुच्यते ॥१३१॥ षष्टयधिकं च त्रिशतं वर्षाणामत्र मानुषम् । तथेति षष्टिरेव । स्वमानेनेति मानुषात्मक- स्वकाहोरात्रकल्पनयेत्यर्थः। यत्पित्र्यं वर्ष तदेव दिव्यमुच्यते, येन पितृणां देवानामप्यहो- रात्रादि समानमेवेति भावः । तस्य च पित्र्यस्य दिव्यस्य वा वर्षस्य कियन्मानमित्युक्तं 'मानुषं षष्टयधिक वर्षशतत्रयम्' इति ॥ १३१ ॥ एतदेव विभजति १ क. पु० विवृणोतीति पाठः ।
श्रीतन्त्रालोकः २ तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते॥१३२॥ तां पुनस्त्रिंशता हत्वा- होरात्रकल्पना वदेत् । हत्वा तां चैकविंशत्या सहस्रः षट्शतेन च ॥१३३॥ प्राणसंख्यां वदेत्तत्र षष्टयाद्यब्दोदयं पुनः । तदिति, दिव्यं वर्ष ' द्वादशभिर्हत्वा, इति द्वादशभिर्विभज्य, तेनात्र मानुषवर्षत्रिंशदात्मा द्वादशो भागो मासः । तामिति, माससंख्यां त्रिंशता हत्वा' त्रिंशद्धा कृत्वा, तेनात्र मानु- षवर्षात्मा त्रिंशो भागो दिव्योहोरात्रः।तामिति, मानुषषष्टयधिकशतत्रयदिनामिकामहोरात्रक- ल्पनाम् 'एकविंशत्या सहस्रः षट्शतेन च , ग. पु. वहेदिति पाठः । २ ख० पु. द्वादशधा विभज्यति पाटः।
लो० १३५] षष्ठमाह्निकम् ११७ ? हत्वा' इति तथात्वेन भागशः कृत्वेत्यर्थः। एवं हि प्रति मानुषी नालिकां दिव्यः प्राणचारो भवेदिति भावः । एवमविशिष्टैव सर्वत्र प्रत्यह प्राणचारे संख्येत्याख्यातं स्यात् । तत्रेति प्राण- संख्यायां, पुनरित्यादाविवेत्यर्थः ॥ १३३ ॥ नन्वन्ये पित्र्यमेव वर्ष देवानां दिनमित्यु- क्तवन्तस्तत्कथमिह तयोः साम्यमुक्तं, किमत्र किंचित्साधकं प्रमाणमस्ति? इत्याशङ्कयाह उक्तं च गुरुभिः श्रीम- द्रौरवादिस्वत्तिषु ॥ १३४ ॥ तदेव पठति देवानां यदहोरात्रं मानुषाणां स हायनः। शतत्रयेण षष्टया च नृणां विबुधवत्सरः ॥ १३५॥ १ क. पु. आदावेवेति पाठः ।
११८ श्रीतन्त्रालोकः पित्र्यं दिनं मानुषाणां हायन इत्यविवादः। देवानामप्येवमित्युक्तेरनयोः साम्यमेव,-इत्य- थसिद्धम् । नृणामित्यत्र हायनानामिति शेषः॥ न केवलमेतद्गुरुभिरेवोक्तं यावदागमोऽप्येव- मेव, इत्याह श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते। पितॄणां तदहोरात्र- मित्युपक्रम्य पृष्ठतः ॥१३६॥ एवं दैवस्त्वहोरात्र इति क्यिोपसंहृतिः। पृष्ठत इति पश्चात् । यदुक्तं तत्र दक्षिणं चायनं रात्रिरुत्तरं चायनं दिनम् । पितॄणां तदहोरात्रमनेनाब्दस्तु पूर्ववत् ।। एवं दैवस्त्वहोरात्रस्तत्राप्यब्दादि पूर्ववत् ।' (स्व० ११।२०८) १ क. पु० उक्तेन तयोरिति पाठः । २ ग० पु. अपीति पाठः ।
श्लो० १३९] षष्ठमाह्निकम् ११९ इति ॥ १३६ ॥ एवं पित्र्यं वर्ष देवानां दिनमिति यदन्यैरुक्तं तदयुक्तमेव, इत्याह तेन ये गुरवः श्रीम- स्वच्छन्दोक्तिहयादितः॥१३७ पित्र्यं वर्ष दिव्यदिन- मूचुर्भ्रान्ता हि ते मुधा। भ्रान्ता' इत्यत्र हेतुः ‘उक्तिद्वयादितः इति। पितृणामित्येकोक्तिः, एवं दैव इति द्वितीया, आदिशब्दागुरुवृत्तिकारोक्तिः ॥१३७॥ इदानीमेतदुपजीवनेनैव युगादिव्यवस्था- मप्याह दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः ॥१३८॥ एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः।
१२. श्रीतन्त्रालोकः . चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश ॥१३९॥ ब्रह्मणोऽहस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश। अर्का' द्वादश । युगेषु चतुर्वपि चतुरा- दित एकैकहान्येत्येषां विभागः; तेन कृते चत्वारि सहस्राणि, त्रेतायां त्रीणि, द्वापरे द्वे, कलावेकम्,-इति दिव्यानां वर्षाणां दशसह- स्राणि चतुर्ष युगेषु मानम् । अवशिष्टस्य सह- स्रद्वयस्य विभागमाह ‘तावद्भिरित्यादिना'। तावद्भिश्चतुख्यादिभिरेवाष्ट सन्धय इति चतुर्णा युगानामाद्यन्तयोर्भावात्, उभयमीलनया तु चत्वारः । एवं कलेरन्तंगं शतं कृतस्यादौ चत्वारि शतानीति कलिकृतयुगसंध्या पञ्च शतानि एवं कृतत्रेतयोः संध्या सप्तशतानि, त्रेताद्वापरयोः पञ्च, द्वापरकलियुगयोस्त्रीणि १ क० ख० पु. अन्तरगतिति पाठः।
श्लो० १३९] षष्ठमाह्निकम् १ २१ गणयित्वा सहस्रद्वयम्, इत्युभयतो दिव्यं वर्ष- सहस्रद्वादशकं चतुर्युगम् । तदुक्तम् द्वादशाब्दसहस्राणि विज्ञेयं तु चतुर्युगम् । चतुर्भिस्तु कृतं देवि सहस्रैस्तु यथाक्रमम् ॥ त्रेता ज्ञेया त्रिभिर्देवि द्वाभ्यां वै द्वापरः स्मृतः । सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः पिये ॥ (स्व० ११।२१०) इति । तथा शतानि चत्वारि कृते त्वादिरन्तश्च कीर्यते । त्रेते शतत्रयं ज्ञेयं द्वापरे तु शतद्वयम् ॥ कलौ चापि शतं ज्ञेयं संध्यामानमिदं स्मृतम् ।' ( स्व० ११।२१२) इति । त इति मन्वन्ताः । तत्रेति ब्राह्मेऽह्नि, चतुर्दशेति तेन प्रतिमन्वन्तरमेकैक इन्द्रः संहारं यातीत्यर्थः । तदुक्तम् दिनेनैकेन ब्राह्मण इन्द्राश्चैव चतुर्दश । राज्यं कृत्वा क्रमाधान्ति मन्वन्तरव्यवस्थया ॥' (स्व० ११।२२९) १६ १२२ श्रीतन्त्रालोकः इति । अत एवानेन संहारचित्रताया अप्यव- काशो दत्तः ॥ १३९ ॥ तदाह ब्रह्माहोऽन्ते कालवझे- ाला योजनलक्षिणी॥१४० दग्ध्वा लोकत्रयं धूमा- त्त्वन्यत्प्रस्वापयेत्त्रयम् । लोकत्रयमिति, निरयेभ्यः प्रभृति भूर्भुवः- स्वःपर्यन्तमित्यर्थः । यदुक्तम् सा दहेनरकान्देवि पातालानि समन्ततः । त्रींल्लोकांश्चैव दहति भूर्भुवःस्वापदान्तकान् ॥' (स्व० ११।२३७) इति । अन्यदिति, महोजनस्तपःसंज्ञम् ॥१४०॥ ननु सर्वेषां भुवनेश्वराणामधोऽध एव सर्वत्र सृष्टिसंहारकारित्वं श्रूयते; वक्ष्यते च पुरस्ता- तदिदं पुनः कस्मादन्यथोक्तम्, इत्याशङ्कयाह १ ख० पु० महजन इति पाठः ।
श्लो. १४२] षष्ठमाह्निकम् १२३ अस्य निरयेभ्यः पुरा काल- वर्तेर्व्यक्तिर्यतस्ततः ॥१४१॥ विभुरधःस्थितोऽपीश इति श्रीरौरवं मतम् । खलु निरयेभ्यः पूर्वं सृष्टिरिति तदधोऽवस्थानं न तु तदपकर्षात्; अतश्च तदधः- स्थितोऽपि विभुर्व्यापकत्वादूर्ध्वमपि संहारादौ स्वामीत्यर्थः । न चैतदस्माभिः स्वोपज्ञमेवो- क्तमित्याह ' इति श्रीरौरवं मतम्' इति । तदुक्तं तत्र नरकाणामधः पूर्व व्यक्तिरस्योपजायते । सर्वस्थानोऽपि संस्तस्मादधःस्थ इव लक्ष्यते ॥' इति ॥ १४१॥ न केवलमेवं विश्वमास्ते यावदेकार्णवीभावे- ऽपि,- इत्याह १ ग० पु. विभुरप्येष तदध इति पाठः ।
१२४ श्रीतन्त्रालोकः ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा॥१४२॥ तदीयेनाप्लुतं विश्व तिष्ठेत्तावन्निशागमे । ननु यद्येवं तत्तदा तेषां भुवनानामीश्वरा- स्तद्वासिनो वा जीवाः कुत्रासते? इत्याशङ्कयाह तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः ॥१४३॥ अग्निवेगेरिता लोके जने स्युर्लयकेवलाः। कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालये ॥१४४॥ 'सूक्ष्मदेहगाः' पुर्यष्टकरूपाः । तुशब्दो व्यतिरेके । अत एव क्रीडन्तीत्युक्तम् ॥१४४॥ निशाक्षये पुनः किं स्यात्, इत्याशङ्कयाह १ ख० पु० महदाह्वये इति पाठः ।
श्लो० १४५]
षष्ठमाह्निकम्
१२५
निशाक्षये पुनः सृष्टिं
कुरुते तामसादितः ।
तामसादित इति, यदुक्तम्
प्रथमं तामसी सृष्टिं करोति तमसोत्कटाम् ।'
(स्व. ११।२४४)
इत्युपक्रम्य
तमोरजःसमावेशान्मानवान्स सृजेत्पुनः ।
रजःसत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरान् ॥
गतनिद्रः प्रबुद्धः स सत्त्वाविष्टो जगत्पतिः ।
सृजेद्देवान्सलोकांश्च पूर्वयैव व्यवस्थया ॥'
(स्त्र० ११।२४६)
इति ॥
एवं प्रत्यहं कुर्वतो मन्वन्तराष्टाविंशत्यात्म-
काहोरात्रकलनया स्वकवर्षशतान्तेऽस्य संहारः-
इत्याह
स्वकवर्षशतान्तेऽस्य
क्षयस्तद्वैष्णवं दिनम्॥१४५॥
१२९
श्रीतन्त्रालोकः
रात्रिश्च तावतीत्येवं
विष्णुरुद्रशताभिधाः।
क्रमात्स्वस्वशतान्तेषु
नश्यन्त्यत्राण्डलोपतः ॥१४६
एतदेव यथोत्तरमतिदिशति तदित्या-
दिना' । तबाह्यं वर्षशतम् । 'अण्डलोपतः'
इत्यण्डलोपमवधिं कृत्वा, तेन तन्नाशाब्रह्मा-
ण्डोऽपि नश्यतीत्यर्थः । तदुक्तम्
विष्णोश्च तदिनं प्रोक्तं रात्रि तत्समा भवेत् ।
अनेन परिमाणेन तस्याब्दं तु विधीयते ॥
वर्षाणां च शते पूणे सोऽपि याति परे लयम् ।
विष्णोरायुर्यदेवोक्तं रुद्रस्यैतदिनं पिये ॥'
(स्व० ११।२६३)
इति ।
वत्सराणां शते पूर्णे शतरुद्रदिनक्षयात् ।
सोऽपि याति परं स्थानं........॥' (स्व० ११।२७१)
इति ।
श्लो० १४७] षष्ठमाह्निकम् १२७ शतरुद्राश्च देवेशि स्वान्दानां तु शतात्यये । ते प्रयान्ति परं तत्त्वं ततोऽण्डं च विनश्यति ॥ (स्व. ११।२७३) इति च । अण्डनाशाच्च कालाग्निरुद्रस्यापि नाशः,-इत्यर्थसिद्धम् । यदुक्तम् ततः कालाग्निरुद्रश्च कालतत्त्वे लयं व्रजेत् । (स्व० ११।२७७) इति ॥ १४६ ॥ अव्यक्तान्तमपीयमेव व्यवस्था, इत्याह अबाद्यव्यक्ततत्त्वान्ते- वित्थं वर्षशतं क्रमात् । दिनरात्रिविभागः स्यात् स्वस्वायुःशतमानतः॥१४७॥ एवं व्यवस्थयाव्यक्तस्थानां कियन्मानं दिनं भवेत्,-इत्याशङ्कयाह १ ग० पु० स्वमायुरिति पाठः ।
१२८ श्रीतन्त्रालोकः ब्रह्मणः प्रलयोल्लास- सहस्रेस्तु रसाग्निभिः। अव्यक्तस्थेषु रुद्रेषु दिन रात्रिश्च तावती ॥१४८ रसाग्निभिरिति, षट्विंशता । ब्रह्मण इति, बुद्धितत्त्वस्थस्य न तु सत्यलोकस्थस्य नहि तदा- युष्कलनयैतत्कलयितुमेव शक्यमिति भावः । तेन बुद्धितत्त्वस्थस्य ब्रह्मणो गुणतत्त्वशतरुद्रदि- नान्ते संहारस्तदिनारम्भे च सृष्टिः, इति तदीये- ऽब्दे तस्य सषष्टिशतत्रयं प्रलयोल्लासा भवन्ति, ते च शतेन गुणिताः षडिंशत्सहस्रसंख्याका भवे- युरित्युक्तं ' रसाग्निभिः प्रलयोल्लाससहलैरिति तावद्गुणपरीमाणं च गुणतत्त्ववासिनां रुद्राणा- मायुर्यदव्यक्तस्थानां दिनामित्युक्तम् 'अव्यक्त- स्थेषु दिनं रात्रिश्च तावती' इति । यदुक्तम् श्लो० १५० ] षष्ठमाह्निकम् २२९ षष्ट्रिंशत्तु सहस्राणि ब्रह्मणां प्रलयोद्भवाः । अव्यंक्ते च दिनं प्रोक्तं रुद्राणां तन्निवासिनाम् ।। (स्व० ११।२८९) इति । अस्याश्च व्यवस्थायाः शक्तितत्त्वान्तम- विशेषेऽप्यव्यक्तान्तमेवमातदेशस्येदमेव प्रयो- जनं यदत्र गुणतत्त्ववर्तिरुद्रायुरपेक्षया दिनमा- नस्य संख्यानयत्यमुत्पन्नमिति ॥ १४८॥ अत्र च सृष्टिसंहारादौ कस्याधिकारः,- इत्याशङ्कयाह तदा श्रीकण्ठ एव स्या- त्साक्षात्संहारकृत्प्रभुः। सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः ॥१४९ अव्यक्ताख्ये ह्याविरिश्चा- च्छ्रीकण्ठेन सहासते।
१३%
श्रीतन्त्रालोकः
साक्षान्न तु विरिश्चादिमुखेन, यतस्तदानी
विरिश्चात्प्रभृति प्रकृतिगर्भाधिकारिणः सर्व एव
तत्तद्भुवनेश्वररूपा रुद्रा अव्यक्ताख्ये मूले
प्रकृतितत्त्वे श्रीकण्ठेन सहासते, अर्थाच्छ्रीक-
ण्ठनाथमेव नायकतया प्रधानीकृत्य तिष्ठन्ती-
त्यर्थः । यदुक्तम्
प्रजाः प्रजानां पतयः पितरो मानवैः सह ।
सांख्यज्ञानेन ये सिद्धा वेदेन ब्रह्मवादिनः ॥
छन्दःसामानि चोङ्कारो बुद्धिस्तदेवताः प्रिये ।
अह्नि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः॥'
इति ॥ १४९ ॥
ननु
महाकल्पस्य पर्यन्ते ब्रह्मा याति परे लयम् ।
(स्व० ११।२६१)
इत्याद्युक्त्या तस्य परशिवे लय उक्तस्तत्कथ-
मसावास्ते,- इत्याशङ्कयाह
निटत्ताधःस्थकर्मा हि
ब्रह्मा तत्राधरे धियः॥१५०॥
श्लो० १५१] षष्ठमाह्निकम् १३१ न भोक्ता ज्ञोऽधिकारे तु वृत्त एव शिवीभवेत् । स एषोऽवान्तरलय- स्तत्क्षये सृष्टिरुच्यते॥१५१॥ यद्यसाववृत्तपरशक्तिपातस्तद्दुद्ध्यधोनिवृत्त- कर्मतया भोगाभावात्तत्र भोक्तान भवेत्,-इत्य- त्रैवास्ते, अन्यथा पुनर्यदि ज्ञानी साक्षात्कृता- त्मतत्त्वः स्यात् अधिकारनिवृत्त्यनन्तरं स 'शिवीभवेत् ' तदैकात्म्येनैव प्रस्फुरेदित्यर्थः । एवमन्येषामपि ज्ञेयम् । अवान्तरलय इति, ब्रह्माण्डलयस्योक्तत्वात्प्रकृत्यण्डलयस्य च वक्ष्य- मणत्वात् ॥ १५१॥ नन्वत्र 'बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वप्याहताः स्थिताः । स्थिता वेदविदः पुंसि त्वव्यक्ते पाश्चरात्रिकाः ॥ १ क. ग. पु० ज्ञाधिकारे इति तथा ख० पु. वृत्तेरेवेति पाठः । ग. पु. भोक्ता ज्ञान्यधिकारे तु इति पाठः ।
१३२ श्रीतन्त्रालोकः इत्याद्युक्त्या केचिदात्मानो मुक्ताः संभवन्ति, केचिच्च बद्धास्तत्कथमविशेषेणैवोक्तं 'तत्क्षये स्मृष्टिरुच्यते' इति, नहि मुक्तात्मनां पुनः संसृतिः स्यात्,-इत्याशङ्कयाह सांख्यवेदादिसंसिद्धा- ञ्छीकण्ठस्तदहर्मुखे । सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी॥१५२ इदानीं पूर्वोक्तयैव नीत्या यथोत्तरं वृद्धिक- मेण दिनादिव्यवस्थामतिदेशद्वारेण दर्शयति- प्रधाने' इत्यादिना 'सामनसे पदे' इत्यन्तम् प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः। श्रीकण्ठस्यायुरेतच्च दिन कञ्चुकवासिनाम्॥१५३॥ १ क० पु० मुक्तानामिति पाठः ।
१३३ श्लो० १५७] षष्ठमाह्निकम् तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी। यान्त्यन्योन्यं लयं तेषा- मायुर्गाहनिकं दिनम् ॥१५४॥ तद्दिनप्रक्षये विश्व मायायां प्रविलीयते । क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः ॥१५॥ एवमव्यक्तकालं तु परार्धेर्दशभिर्जहि। मायाहस्तावती रात्रि- भवेत्प्रलय एष सः ॥१५६॥ मायाकालं परार्धानां गुणयित्वा शतेन तु। १ क० ख० पु० मायाया इति पाठः ।
श्रीतन्त्रालोकः ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेजगत् ॥१५७ तावती चैश्वरी रात्रि- यंत्र प्राणः प्रशाम्यति । अहोरात्रमिति, गुणतत्त्ववर्तिरुद्रायुरपेक्षया ब्राह्मप्रलयोल्लासद्वासप्ततिसहस्रसंख्याकम्।तज- मिति, षष्टयधिकेन शतत्रयेण गुणयित्वा इत्यर्थः । एतदिति, वर्षशतपरीमाणं श्रीकण्ठी- यमायुः । कञ्चुकवासिनामित्यान्नियतितत्त्व- स्थानां वामदेवादीनां न तु कालतत्त्वादिगता- नामपि तदपेक्षया हि कालतत्त्वादौ यथोत्तरं वृद्धयादिव्यवस्था संभवेत्, अत एव 'क्रमाद- न्योन्यं लयं यान्ति' इत्युक्तम् । आगमोऽप्येवं 'ततो नियतिकालौ च रागो विद्या कला तथा । परस्परं लयं यान्ति क्रमात्सर्वे स्वमानतः ॥' (स्व० ११।२९२) इति । तेषामिति, कलातत्त्वस्थानां महादेवा- श्लो० ४५८] षष्ठमाह्निकम् १३५ दीनां न तु सर्वेषां कञ्चुकवासिनां; तथात्वे हि गाहनिकं दिनमव्यक्तकालसंख्यामपेक्ष्य पश्च दशस्थानावस्थितेन दशगुणेन परार्धेन वक्ष्य- माणं गुणनं सङ्गतिमियात् । तत्सर्वेषामेव कच- कवासिनां यथोत्तरमायुषो वृद्ध्या गाहानिकस्य दिनस्यानवच्छिन्नसंख्याप्रतिपादनार्थमेवं वक्ष्य- माणं सङ्गच्छते, इत्यलं बहुना । गणना तु ग्रन्थविस्तरभयान्न लिखिता, इति स्वयमेवा- भ्यूह्या । तावत्यामिति, वक्ष्यमाणदिनसमाना- याम् । जहीति गुणयेत्यर्थः । यदुक्तम् 'प्राधानिकपरार्धेन दशधा गुणितेन च । माया संहरते सर्व पुनश्चैव सृजेजगत् ॥ मायाकालपरार्धस्य शतधा गुणितस्य च । ईश्वरः कुरुते सृष्टिं संहेरच्चं पुनः सृजेत् ॥' (स्व० ११।२९७) इति । अनेन चात्रोत्तरोत्तरं कालः प्रकृष्यते,- इत्युक्तं स्यात्; एवमुत्तरत्रापि ज्ञेयम् । 'नाद' - १ पुनश्च संहरेजगदिति मूलग्रन्थपाठः ।
१३६ श्रीतन्त्रालोकः इति बहिरुन्मेषरूपतया नदनस्वभाव ईश्वरः । प्राणात्मेति, प्राणप्रमातृत्वात् । प्रशाम्यतीति, अत ऊर्ध्वं प्राणस्य प्राधान्याभावात्, विश्व- मिति तस्याप्यहन्तायां विश्रान्तेः ॥ १५७ ॥ न केवलमत्र नादात्मनः प्राणस्यैव प्रशमो यावद्विन्द्वाद्यात्मिकायाः संविदोऽपि भविष्यति,- इत्याह प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना ॥१५८॥ प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते । अंशांशिकातोऽप्येतस्याः सूक्ष्मसूक्ष्मतरो लयः॥१५९॥ गुणयित्वैश्वरं कालं परार्धानां शतेन तु ।
१३७
श्लो० १६३]
पष्ठमाह्निकम् ।
सादाशिवं दिनं रात्रि-
महाप्रलय एव च ॥ १६०॥
सदाशिवः स्वकालान्त
बिन्द्वर्धेन्दुनिरोधिकाः।
आक्रम्य नादे लीयेत
गृहीत्वा सचराचरम् ॥१६१॥
नादो नादान्तवृत्त्या तु
भित्त्वा ब्रह्मबिलं हठात् ।
शक्तितत्त्वे लयं याति
निजकालपरिक्षये ॥१६२॥
एतावच्छक्तितत्त्वे तु
विज्ञेयं खल्वहर्निशम् ।
शक्तिः स्वकालविलये
व्यापिन्यांलीयते पुनः॥१६३॥
श्रीतन्त्रालोकः व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते। परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते॥१६४॥ दिन रात्रिश्च तत्काले परार्धगुणितेऽपि च । सोऽपि याति लयं साम्य- संज्ञे सामनसे पदे॥ १६५॥ महाप्रलय इति, शुद्धाध्वनोऽपि संहरणात् । तदुक्तम् ततः सदाशिवो देवः स्वमानेन च संहरेत् । सृजते च पुनर्भूय आत्मीये देव्यहर्मुखे ॥ महाप्रलय एवोक्तः सादाख्ये तु दिनक्षये ।' ( स्व० ११।२९८) इति । १ ख. पु० एषोक्त इति पाठः । इ श्लो.. १६५] षष्ठमाह्निकम् । १३९ बिन्दु चैवार्धचन्द्रं च भित्त्वा चैव निरोधिकाम् । नादतत्त्वे लयं याति गृहीत्वा सचराचरम् ॥' (स्व. ११।३००) इति । नादान्तवृत्त्येति, नादान्तभूमिकामासा- येत्यर्थः । यदुक्तम् नादः सौषुम्नमार्गेण भित्त्वा ब्रह्मबिलं प्रिये । शक्तितत्त्वे लयं याति शक्तितत्त्वदिनक्षये ॥' ( स्व० ११।३०१) इति । एतावदिति, सदाशिवायुःसंख्यातम् । तदिति, यः शक्तिलयकालः । परार्धकोव्येति, यदुक्तम् 'शक्तिकालपरार्धस्य कोटिधा गुणितस्य तु अनाश्रितस्य देवस्य दिनमेकं प्रकीर्तितम् ॥' (स्व० ११।३०३) सोऽपीत्यनाश्रितः । तदुक्तम् 'अनेन परिमाणेन परार्धगुणितेन च । सोऽपि याति परं स्थानं कारणं समनाश्रयम् ॥' (स्व० ११।३०४) इति ॥ १६५ ॥ १ ख. पु० दिनमेतदिति पाठः १४० श्रीतन्त्रालोकः नन्वेवं समनाया अपि लयः कस्मान्नोच्य- ते,-इत्याशङ्कयाह • स काल: साम्यसंज्ञः स्या- नित्योऽकल्यः कलात्मकः । यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् ॥१६६॥ यतः स विश्वकलनाकारी कालः समना- ख्या येयं कला शक्तिस्तदात्मकोऽत एव नित्यो, न ह्यस्याः समनाख्यायाः शक्तेमहाप्रलयेऽपि नाशः,-इत्याशयः । यदभिप्रायेणैवान्यैः 'शंभुः पुरुषो माया नित्यम्'इत्याद्युक्तम् । अत एव पृथिव्यादेरनाश्रितान्तस्य विश्वस्याभेदात्मना साम्येनावस्थानात्साम्यशब्दाभिधेयः, अत एव भेदप्रथाया अभावात् 'अकल्यः' कलयितुमशक्य इत्यर्थः । शत्यन्तं हि विश्वसंहारे वृत्ते सकलोड यमणुवर्गः संभूय समनायामेवास्ते, इत्याह १० पु. इत्यर्थ इति पाठः ।
श्लो० १६७] षष्ठमाह्निकम् । 'यत्तत्सामनसं रूपं तद्विश्वगं साम्यम्'इति । न चैवमपि भेदवादिवदिदं परस्माद्ब्रह्मणोऽति- रिक्तमित्युक्तं 'ब्रह्म' इति, परब्रह्मरूपमित्यर्थः । तदुक्तम् स कालः साम्यसंज्ञश्च जन्ममृत्युभयापहः । तस्याप्यूर्ध्वममेयस्तु कालः स्यात्परमावधिः ॥ नित्यो नित्योदितो देवि अकल्यश्च न कल्यते ।' (स्व० १११३४६ ) इति ॥ १६६ ॥ न केवलमत्र प्रलयावसरे विश्वस्यावस्थान- मेव यावत्सृष्टिर(ष्टाव)पि, इत्याह अतः सामनसात्काला- निमेषोन्मेषमात्रतः। तुट्यादिकं परार्धान्तं सूंते सैवात्र निष्ठितम् ॥१६७॥ १ मृत्युजरापह इति मूलग्रन्थे पाठः । २ ख. पु० सामरसादिति पाठः । ३ ख. पु. उन्मेषरूपत इति पाठः । ४ क० ख० पु० सूत्रं चैवेति पाठः।
१४२ श्रीतन्त्रालोकः निमेषोन्मेषमात्रत इति, सदाशिवेश्वरद- शामधिशयानादित्यर्थः । यदुक्तम् स चाधः कलयेत्सर्व व्यापिन्यायं धरावधि । तुव्यादिभिः कलाभिश्च देव्यध्वानं चराचरम् ।।' (स्व० ११।३०७) इति । अत एव चान्यैरस्मच्छास्त्रप्रक्रियामजा- नानैः ‘शत्यन्तं महाप्रलये वृत्ते सकलोऽयम- णुवर्गःप्रलयान्त ऊोर्ध्वमवस्थितेरभिधानात्प- रिशिष्टं शिवतत्त्वमेवासादयेत् । तदासादनमेव च मुक्तिः, तदक्रमेण सर्वेषामनायासमेव सा सिद्धयेदिति किं शास्त्रानुष्ठानादिना' इत्यादि यच्चोदितं तदुत्थानोपहतमेव । न हि शक्त्यन्तं प्रलयेऽप्येषां शिवतत्व एवावस्थानं समनाया- मेवमभिधानात् समनान्तं वरारोहे पाशजालमनन्तकम् । (स्व० ४१४२९) इत्याद्युक्त्या तदन्तं च बन्ध एव,-इति को - १ क. पु. कलयेद्विश्वमिति पाठः ।
१४३ श्लो० १६९] षष्ठमाह्निकम् । नाम तत्र मुक्तेरवकाशः। न चैवमपि शंभुवत्स- मनाया अपि नित्यत्वादभेदवादक्षति|दमेवा- धिकृत्य सृष्टिप्रलयादिव्यवहारस्योत्थानात् ; व: स्तुतः पुनरभेदवादचर्चा प्रतिपदमिह दर्शिता दर्शयिष्यते च,-इत्यलं बहुना ॥१६७ ॥ एवमुक्तवक्ष्यमाणपरिमाणोपयोगिन्याः सं- ख्यायाः क्रमेण रूपं दर्शयति दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम् । खर्वनिखर्वे शंखा- जजलधिमध्यान्तमथ परार्धं च ॥ अब्जेति पद्मं, जलधीति सागरः ॥१६८॥ नन्वेवमवस्थानमेषां कथं स्यात् ? इत्या- शङ्कयाह इत्येकस्मात्प्रभृति हि दशधादशधा क्रमेण कलयित्वा।
१४४ श्रीतन्त्रालोकः एकादिपरार्धान्ते- प्वष्टादशसु स्थितिं ब्रूयात् ॥१६९ यंदुक्तम् 'एक दशगुणं पूर्व शतं दशगुणं तु तत् । शतं दशगुणं कृत्वा सहस्रं परिकीर्तितम् ।। सहस्रं दशधा चैवमयुतं तद्धि कीर्तितम् । दशायुतानि लक्षं तु नियुतं दश तानि तु ॥ दश तानि च कोटिः स्याद्दश कोठ्यस्तदर्बुदम् । अर्बुदैर्दशभिन्दं खर्व दशभिरेव तैः ॥ दशभिस्तनिखर्वं तु शङ्कः स्याद्दश तानि तु । शङ्कुभिर्दशाभिः पद्मं दश पनानि सागरः ॥ सागरैर्दशभिर्मध्यमन्तस्तैर्दशभिः स्मृतः । अन्तं दशाहतं कृत्वा परार्धे तु प्रकीर्तितम् ।। एवमष्टादशैतानि स्थानानि गणितस्य तु ।' इति ॥ १६९ ॥ एवमत्र सृष्टिप्रलयानामानन्त्येऽपि गौण- मुख्यभावं दर्शयितुमाह चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः ।
श्लो० १७१] षष्ठमाह्निकम्
१४५
भूमूलनैशशक्तिस्था-
स्तदेवाण्डचतुष्टयम् ॥१७॥
मुख्या इत्यवान्तराणामनन्तानां प्रलयानां
सर्गाणां चात्रैवान्तर्भावात् । 'तत्कला' इति
तेषां प्रलयानां सर्गाणां च ‘कलाः पृथि-
व्यादिभेदचतुष्टयरूपा अंशा इत्यर्थः । तदेवेति,
भूमूलादि । तदुक्तम्
निजशक्तिवैभवभरादण्डचतुष्टयमिदं विभागेन ।
शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा॥'
(प० सा० ४ श्लो०)
इति ॥ १७० ॥
अत्रैव स्रष्ट्रसंहर्तृविभागमपि दर्शयति
कालाग्निर्भुवि संहर्ता
मायान्ते कालतत्त्वराट् ।
श्रीकण्ठो
मूल एकत्र
सृष्टिसंहारकारकः ॥ १७१ ॥
श्रीतन्त्रालोकः तल्लयो वान्तरस्तस्मा- देकः सृष्टिलयेशिता। श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः ॥१७२॥ संहर्ता न पुनः स्रष्टा तद्धि ब्रह्मादीनामेव हि पूर्वमुक्तं, कालतत्त्वराडिति कालतत्त्वाधिपः श्रीकण्ठः। यदुक्तम् एकवीरः शिखोदश्च श्रीकण्ठः कालमाश्रितः।' ( मा० वि० ५।२७) इति। श्रीकण्ठ इत्यव्यक्तस्थः। एकत्रेपि त्रि- ध्वपि योज्यम् । तल्लय इति श्रीकण्ठकर्तृकः संहारः। यद्वा त्रिष्वपि पृथिव्यादिषु स्थानेषु परापररूपतामधिशयानः श्रीकण्ठनाथ एककः सृष्टिसंहारकारकः। यदुक्तम् श्रीकण्ठ एव परया मूर्त्या कालानिरुच्यते ।' इति । तथा त्रिष्वेव संस्थितो रुद्रः कालरूपी महेश्वरः ।
श्लो० १७४ ] षष्ठमाह्निकम् १४७ इति । 'शक्त्यन्त इति शुद्धाध्वनि । तदुक्तम् तदूर्वे शुद्धमध्वानं यावच्छत्यन्तगोचरम् । तत्सर्व संहरेखोरमघोरो घोरनाशनः ॥' इति ॥ १७२॥ न केवलं शक्त्यन्तं प्रलयस्यैव महत्त्वं याव- त्सृष्टेरपीत्याह तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः । अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता ॥ १७३ ॥ ननु पृथिव्यादितत्त्वप्रलये यैव तन्निवासि- नामणूनां व्यवस्था सैव किं तत्त्वेश्वरणां न वा ? इत्याशङ्कयाह लये ब्रह्मा हरी रुद्र- शतान्यष्टकपश्वकम ।
श्रीतन्त्रालोकः किं परमं पदम् ? इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तकेऽध्वनि ॥१७४ मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् । शुद्धाध्वव्यवस्थितानां पुनः इत्याशङ्कयाह मायोर्चे ये सितावस्था- स्तेषां परशिवे लयः ॥१७५॥ तत्राप्यौपाधिकाढ़ेदा- लये भेदं परे विदुः । तत्रापीति, परशिवे । परे विदुरिति, न पुन- रस्माकमिदं मतमित्याशयः ॥ १७५ ॥ नन्वेवमपवृक्तेषु पुनः सृष्टौ तत्र केषामधि- कारः ? इत्याशङ्कयाह १ ग० पु. गे इति पाठः । क. पु० तद्ब्रह्मोपेन्द्ररुद्राणामीशसादाख्यशक्तयः । इति अधिकः पाठः।
श्लो० १७८] षष्ठमाह्निकम् १४९ एवं तात्त्वेश्वरे वर्ग लीने सृष्टौ पुनः परे ॥१७६॥ तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते । तत्साधका इति 'लोकधर्मिणमारोप्य मते भुवनभर्तरि । इत्यादिना निरूपिताश्चर्यादिक्रमेण प्रेप्सिततत्त- झुवनैश्वर्याः। शिवेष्टा इति, नदिच्छामात्रानु- गृहीताः ॥ १७६ ॥ नन्वेवमप्येषां ब्रह्मादिशब्दप्रवृत्तौ किं निमि- त्तम् ? इत्याशङ्कयाह ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् ॥१७७॥ स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् ।
श्रीतन्त्रालोकः , 'अत'इति शक्तेः । तदुक्तम् ब्राह्मी च वैष्णवी शक्तिरधिकारपदं गता। यं चाधितिष्ठत्यात्मानं तत्संज्ञां स प्रपद्यते । तदाधिकारं कुरुते इच्छया परमात्मनः । (स्व० ११।२६५) इति ॥ १७७॥ ननु ब्राह्मी नाम यदि शिवस्यैव शक्तिस्त- कथमसावन्यं यायायेनायं ब्रह्मेत्युच्यते, न ह्य- न्यदीयधर्मस्यान्यत्रान्वयः संभवेत् ? इत्याश- शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् १७८ छादितप्रथिताशेष शक्तिरेकः शिवस्तथा। न ह्येतच्छिवलक्षणं शक्तिमन्तं विहायान्यं ब्रह्मादिलक्षणं शक्तिर्याति'इत्येवंविधमुक्तं, किं- वनन्तशक्तिखचितत्वेऽपि कांचिच्छक्तिं प्रच्छाद्य श्लो० १८१] षष्ठमाह्निकम् १५१ कांचिच्च प्रकटीकृत्यैक एव शिवस्तथा ब्रह्मवि- ष्ण्वाद्यात्मनावभासत इति ॥ १७८ ॥ ननु प्राणस्य परं तत्त्वं प्रत्युपायत्वमस्तीति प्रागुपक्रान्तं तत्तदनभिधायं तदाश्रयेण सृष्टि- संहारादीनामेव स्वरूपमुच्यते, इति किमेतत्? इत्याशङ्कयाह एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः ॥१७९॥ सोऽपि संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते। चिन्मात्रमेव देवीच सा परा परमेश्वरी॥१८॥ अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् । १ ख० पु. परंगतेति पाठः । २ क. पु. तदधिकारनिति पाठः । ५ क. पु. प्रागुपात्तमिति पाठः ।
१६२ श्रीतन्त्रालोकः संविदीति, तत्तन्नीलाद्याभाससंभिन्नायां प- रिमितात्मरूपायाम् । चिन्मात्रमेव चाष्टात्रिंशं तत्त्वमित्येतदन एवोपपादयिष्यते,-इति नेहा- यस्तम् । तस्थितमेवास्य चिन्मात्रविश्रान्तत्वं यद्वशादेवात्र नालिकादिषष्टयब्दोदयान्तं लयो- दययोर्वैचित्र्यमिति ॥ १८० ॥ तदाह तेन संवित्त्वमेवैत- स्पन्दमानं स्वभावतः॥१८१॥ लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम् । संवित्त्वमिति, ये नाम लयोदयास्तत्संवि- स्वातब्यम् , इत्येवं संविदधीनमेव सर्वमेत- त्कालीयं वैचित्र्यं, न पुनरस्वाधीनं किंचिद्रूपं बहिरस्तीत्युक्तं स्यात् ॥ १८१ ॥ अत आह १ ग. पु. षष्टयन्तेति पाठः।
श्लो० १८४ ] षष्ठमाहिकम् १५३ इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना॥१८२॥ कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः। नैतस्या नियतं वपुरिति, तथात्वे हि यत्रैक- चषकोदयस्तत्रैवाब्दोदयः कथं भवेदिति भावः ॥ १८२॥ ननु कथमतिपरिमितस्यापि कालांशस्य वै- तत्येनावभासो भवेत् ? इत्याशङ्कयाह स्वप्नस्वप्ने तथा स्वप्न सुप्ते संकल्पगोचरे ॥ १८३॥ समाधौ विश्वसंहार- सृष्टिक्रमविवेचने। मितोऽपि किल कालांशो विततत्वेन भासते ॥ १८४॥ * २० १५४ श्रीतन्त्रालोकः यत्रायां स्वाप्नीमेव दशां जाग्रदशात्वेन परि- कल्प्य द्वितीयां स्वप्नत्वेन कश्चिदभिमन्यते स स्वप्नस्वप्न उच्यते। एवं स्वप्ने क्षणेनैव हरि- श्चन्द्रस्येवानेककालिंकोऽप्यनुभवोऽभवदिति यु- कमुक्तं मितेऽपि काले वैतत्येनावभासः' इति। 'सुप्ते 'इति सुषुप्तदशायाम् तत्र हि क्षणमात्र- मपि मोहादौ 'चिरस्य गाढमूढोऽहमासम्' इत्याद्यभिमानोदयः । 'सङ्कल्पगोचरे'इति स्वत- विकल्पादौ तत्र हि क्षणेनैव कल्पपरिकल्प- नमपि शक्यम् । 'समाधौ' इति विश्वसाक्षात्का- रात्मनि । विश्वसंहारस्सृष्टिक्रमस्य ‘विवेचने' समनन्तरोक्तकालीयप्रमेयसंकलनाबुद्धावित्यर्थः। एतच्च कालीयं वैतत्यं स्वपरदृष्टत्वेनापि वैचि- व्यमियात्,-इत्याह प्रमात्रभेदे भेदेऽथ चित्रो विततिमाप्यसौ। , ख० पु० संकल्पनाबुद्धाविति पाठः । २ क० ख० पु० मानिति पाठः ।
श्लो. १८६) षष्ठमाह्निकम् १५५ अनेनैतत्स्वप्नादावनुभूतम्, इति प्रमात्रन्त- रैकीकारेण विततिम्रोऽवभासः; मयैवैतदसाधा- रण्येनानुभूतम्, इति वा ॥ इदानीं प्राणीयमेव कालंविभागमपानेऽप्य- तिदिशति एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः॥१८५ तथापानेऽपि हृदया- न्मूलपीठविसर्पिणि। यद्यपि द्वादशान्ताबृदन्तमपाने कालवैचि- त्र्यमुक्तं तथापि हृदयान्मत्तगन्धपर्यन्तं प्रसर- णेऽस्यैव प्राधान्यमित्येवमुक्तम् । तदुक्तम् अपानस्यापि संचारे सर्पितेयं मुविस्तृता । गुदं यावत्ततो वायुरधस्तादुपयाति हि ॥ इति ॥ १८५॥ नन्वत्रापि प्राणवत्कालवैचित्र्यं किं संचेत्यते न वा ? इत्याशङ्कयाह १५६ श्रीतन्त्रालोकः मूलाभिधमहापीठ- सङ्कोचप्रविकासयोः ॥१८॥ ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती। 'रासभी वडवा यद्वत्' (तं० ५।५८) इत्या- दिप्रागुक्तयुक्त्या जन्माधारोदितायाः शक्ते? सङ्कोचविकासौ तौ ब्रह्माद्यनाश्रितान्तस्य वि- श्वस्य सृष्टिसंहारादौ योगिनामनुभवसिद्धावि- त्युक्तं 'चिनुते सृष्टिसंहृती'इति ॥ १८६ ॥ ननु यद्येवं तत्सर्वत्र प्राणोदय एव प्राधा- न्येनेतत्कस्मानिर्दिष्टम् ? इत्याशङ्कयाह शश्वद्यद्यप्यपानोऽय मित्थं वहति किंत्वसौ ॥१८७ अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते।
श्लो० १८९] षष्ठमाह्निकम् १५७ ननु यद्यत्र ब्रह्मादीनां कारणानां सृष्टयादि संभवेत् तत्कुत्र कस्यावस्थानम् ? इत्याशङ्कयाह हृत्कन्दानन्दसंकोच- विकासद्वादशान्तगाः ॥१८८ ब्रह्मादयोऽनाश्रितान्ताः सेव्यन्तेऽत्र सुयोगिभिः । द्वादशान्तः ' शक्तेरुदयविश्रान्तिस्थानम् । सुयोगिभिरित्यन्तःप्राणे सावधानैर्न सामान्यै- स्तेषामपानस्यावेद्ययत्नतया तत्सेवनस्य यत्न- साध्यत्वात् ॥ १८८॥ ननु व्यापकत्वादेषां स्वरसत एव सर्वत्रा- वस्थानं सिद्धमित्यत्र विशेषाभिधाने किं प्रयो- इत्याशङ्कयाह एते च परमेशान- शक्तित्वाद्विश्ववर्तिनः ॥१८९॥ जनम् ?
१५८ श्रीतन्त्रालोकः देहमप्यनुवानास्त- कारणानीति कामिके। तत्कारणानीति, तस्य देहस्य कारणानि तत्त- दधिष्ठानद्वारेणोत्पत्तिनिमित्तमित्यर्थः ॥ १८९॥ कामिकीयमेव ग्रन्थं पठति बाल्ययौवनवृद्धत्व- निधनेषु पुनर्भवे ॥ १९॥ मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः। तहाल्ये ब्रह्मणोऽधिष्ठानकारित्वं, यावन्मुक्ता- वनाश्रितस्यति ॥ १९० ॥ नन्वस्मदर्शने मुक्तेः किमनाश्रिताधिष्ठानं युक्तम् ? इत्याशङ्कयाह १ क. पु० उपपत्ति इति पाठः । २ ख. पु० विधानेषु इति पाठः । ३ क० पु० मुक्ते इति पाठः ।
श्लो० १९२] षष्ठमाहिकम् १५९ तस्यान्ते तु परा देवी यत्र युक्तो न जायते॥१९१॥ अनेन ज्ञातमात्रेण. दीक्षानुग्रहकृद्भवेत्। अन्त इति, यदुक्तम् षट्त्यागात्सप्तमे लयः ।' ( स्व० ४।२६७) इति । 'युक्त'इत्यर्थाद्गुरुणा योजितः ॥ १९१ ॥ नन्वपानस्य कालवैचित्र्याभिधाने प्रक्रान्ते किमनेनोपदिष्टेन ? इत्याशङ्कयाह समस्तकारणोल्लास- पदे सुविदिते यतः ॥१९२॥ अकारणं शिवं विन्दे- द्यत्तद्विश्वस्य कारणम् । हेये हि सुष्टु ज्ञाते सुखमुपादेये विश्रान्ति- भवेदिति भावः॥ १९२॥ १ क० पु० यत्तु विश्वेति पाठः।
१६० श्रीतन्त्रालोकः ननु प्राणक्रमेण 'द्वादशान्ते परः शिवः' इत्याद्युक्त्या तत्तत्कारणोल्लङ्घनेन तत्र शिवे वि- श्रान्तिः स्यादिह पुनः सा कुत्र यत्रैवं स्यात् ? इत्याशङ्कयाह अधोवत्रं त्विदं दैत- कलङ्घकान्तशातनम् ॥१९३॥ क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः। यत्र नामापानस्य विश्रान्तिस्तदिदं द्वैतक- लङ्कापहम् 'अधोवनं' षष्ठस्रोतोरूपं योगिनी- वक्रमित्युच्यते; यतोऽयमद्वैतार्थोपदेशिनां रहस्य- शास्त्राणामुदयो, येन द्वैतापहतत्वेन हेतुना तत्र विश्रान्तिभाजाम् ‘ऊर्ध्वाधरडम्बरः' शाम्येत् चिदानन्दैकघनपरशिवैकात्म्यमुल्लसेदित्यर्थः ॥ ॥ १९३॥ नन्वत्रैवं विश्रान्तिः किं प्राणवत्तुट्यादि- क्रमेणैव भवेदुतान्यथापि ? इत्याशङ्कयाह श्लो. १९६] षष्ठमाहिकम् अत्रापानोदये प्राग्व- षष्ट्यब्दोदययोजनाम् १९४॥ यावत्कुर्वीत तुव्यादे- युक्ताङ्गलविभागतः। युक्तं तुव्यनुगुणमङ्गुलविभागमाश्रित्य तुव्या- देरारभ्य षष्टयब्दोदययोजनां यावत् प्राग्व- दत्रापानोदयेऽर्थाद्योजनां कुर्वीत, येनैवं विश्रा- न्तिः स्यात् ॥ १९४॥ न केवलमेतदपाने यावत्समानेऽपि इत्याह एवं समानेऽपि विधिः स हि हार्दीषु नाडिषु ॥१९५॥ संचरन्सर्वतोदिकं दशधैव विभाव्यते। हार्दीषु, हृदि तासामभिव्यक्तेः, वस्तुत- स्त्वासां नाभेरुदयः। यदुक्तम् क. पु० तासामिति पाठः १९२ श्रीतन्त्रालोकः नाभ्यधो मेढ़कन्दे च स्थिता वै नाभिमध्यतः । तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये ॥ चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः । (स्व०७८) इति । समानस्यापि मुख्यया वृत्त्या नाभिरेव स्थानम् । यदुक्तम् हृदुदे नाभिकण्ठे च सर्वसन्धौ तथैव च । प्राणाद्याः संस्थिता ह्येते........।" (स्व० ७।३०१) इति ॥ १९५॥ नन्वेवं व्यपदेशस्य किं निमित्तम् ? इत्या- शङ्कयाह दश मुख्या महानाडीः पूरयन्नेषे तद्गताः ॥ १९६ ॥ नाड्यन्तराश्रिता नाडीः क्रामन्देहे समस्थितिः। मुख्या इति प्रधानाः। तदुक्तम् 'इडा च पिङ्गला चैव सुषुम्ना च तृतीयिका । गान्धारी हस्तिजिह्वा च पूषा चैवार्यमा तथा ।। . १ क० ख० पु. एवेति पाठः ।
लो० १९८] षष्ठमाह्निकम् अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता । एता प्राणवहाः मोक्ताः प्रधाना दश नाडयः॥ (स्व० ७१६) इति । 'तद्गताः' इति तद्भेदरूपद्वासप्ततिसह- स्त्रसंख्याकाः। नाड्यन्तरेति, तंदुपभेदरूपाणि । यदुक्तम् 'द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः। पुनर्विनिर्गताश्चान्या आभ्योऽप्यन्याः पुनः पुनः ॥' (स्व० ७।९) इति । अत एव देहे समननात्समाननामाय- मित्युक्तं 'समस्थितिः' इति ॥ १९६ ॥ ननु यदि नामायं दश नाडीराक्रम्य वर्तते तावतास्य किमायातं येन दशधात्वमुच्यते ? इत्याशङ्कयाह अष्टासु दिग्दलेष्वेष कामंस्तदिक्पतेः क्रमात् १९७ चेष्टितान्य कुर्वाणो रौद्रः सौम्यश्च भासते। १ क. पु० अपि कुर्वाण इति पाठः। , ११४ श्रीतन्त्रालोकः तदिक्पतेरिति, इन्द्रादेः। चेष्टितानीति, स्त- म्भादिरूपाणि । रौद्रो याम्यादौ, सौम्यश्च वारुण्यादौ; अत एव पुंसां प्रतिक्षणं क्रोधहर्षा- द्याविर्भावः । यदुक्तम् पद्मस्याष्टदलस्येत्थं तन्मध्ये भोगभुक्सदा । संस्थितः सर्वगोऽप्यस्मात्कारणात्सुपतीयते ।। येनाशु विषयान्दृष्ट्वा विचारयति सादरम् । शोकः क्रोधो विषादो वा विस्मयस्ताप एव च ॥ हर्षी वाप्यथ संचिन्त्य हृदयेनैव भाव्यते ।' इति ॥ १९७॥ एवमस्य सर्वत्र साम्येनावस्थानेऽपि मुख्यया वृत्त्या नाडीत्रय एव चारः, - इत्याह स एव नाडीत्रितये वामदक्षिणमध्यगे ॥१९८॥ इन्हर्काग्निमये मुख्ये चरस्तिष्ठत्यहर्निशम् ।
~ श्लो० २००] षष्ठमाहिकम् नाडीत्रितये इति, इडापिङ्गलासुषुम्नात्मके । यदुक्तम् 'दक्षिणे तु स्थितः सूर्यो वामे सोमो विराजते । पाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः ।।' ( स्व० ७५२) इति यदुक्तम् दशानां तु परं देवि नाडीत्रयमुदाहृतम् । बिन्दुनादात्मिके द्वे वै मध्ये शक्त्यात्मिका स्मृता ।। इति ॥ नन्वत्र कथमसावहर्निशं चरन्नास्ते ? इत्या- शङ्कयाह सार्धनालीद्वयं प्राण- शतानि नव यस्थितम् ॥१९९॥ तावहहन्नहोरात्रं चतुर्विंशतिधा चरेत्। 'पद्माणाश्चषकस्तेषां पधिर्नाली तथा तिथिः।'
११९ श्रीतन्त्रालोकः इत्यायुक्त्या बाह्यायां घटिकायामन्तः प्राण- चाराणां सषष्टिशतत्रयमुदियात्, इति बाह्येन सार्धेन घटिकाद्वयन नवशतानि वहन् षष्टि- घटिकात्म बाह्यमहोरात्रं चतुर्विंशतिभिः प्रका- रैरर्थात् स एव समानश्चरेत्, येनात्र सषट्शत- सहलैकविंशत्यात्मकप्राणचाराश्रयेण चतुर्विंश- तिः संक्रान्तीनामुदियात् । यदुक्तम् चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः । शतानि नव वै हंस एकामेकां वहेत्सदा ॥' ( स्व० ७।१६८) इति। 'बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने । चतुर्विशतिसंक्रान्तीः पाणहंसस्तु संक्रमेत् ॥ अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः।' ( स्व० ७१६६) इति च ॥ १९९ ॥ एतदेव विभजते
१६७
लो० २०३] षष्ठमाहिकम्
विषुवहासरे प्रातः
सांशां नाली स मध्यगः॥२०॥
वामेतरोदक्सव्यान्यैः
विसंक्रान्तिपञ्चकम् ।
एवं क्षीणासु पादोन-
चतुर्दशसु नालिषु ॥ २०१॥
मध्याह्ने दक्षविषुव-
नवप्राणशती वहेत् ।
दक्षोदगन्योदग्दरैः
पुनः संक्रान्तिपञ्चकम् ॥२०२॥
नवासुशतमेकैकं
ततो विषुवदुत्तरम् ।
पञ्चके पञ्चकेऽतीते
संक्रान्तेर्विषुववहिः ॥२०३॥
श्रीतन्त्रालोकः यहत्तथान्तः सङ्क्रान्ति- नवप्राणशतानि सा। 'विषुवद्वासरे' रात्रिन्दिनसाम्यात्मनि मेष- संक्रान्तिदिने प्रातः सार्धशतचतुष्टयप्राणचारा- त्मिकां सचतुर्भागां घटिकां मध्यगः सौषुम्न- मार्गावस्थितः सन् स समानस्तावद्वामेतरोद- क्सव्यान्यैर्वामदक्षनाड्योः प्रत्येकं साधं नाली- द्वयं पञ्चधा गमागमैश्चरेत् यावद्वषादिकन्यान्तं संक्रान्तिपञ्चकं भवेत्, येन सभागत्रयासु त्रयो- दशसु घटिकासु व्यतीतासु मध्यनाड्यां मध्या- ह्नसमये दक्षविषुवत्तुलासंक्रान्तिनवप्राणशती वहेत्, सार्धं घटिकाद्वयमुदियादित्यर्थः । ततोऽ पि दक्षोदगन्योदग्द:र्दक्षवामनाड्योः समा- नस्य पञ्चधा गमागमैः पुनरेकैकं नवासुशतं प्रत्येकं साधं नालीद्वयं वृश्चिकादिमीनान्तं सं- क्रातिपञ्चकमुदेतीत्यर्थः । तदनन्तरं च मध्य- नाड्यां सायमुत्तरं मेषसङ्क्रान्तिरूपं विषुवत् लो० २०४] षष्ठमाह्निकम् १६९ प्राग्वत्सार्धशतचतुष्टयप्राणचारात्म सचतुर्भागे- कघटिकोदयं भवेद्येन त्रिंशद्धटिकात्मनि दिने सङ्क्रान्तिद्वादशकमुदियात् । तत्र सक्रान्ती- नामेकादशकमखण्डम् , एका तु सायंप्रातरर्धा- किया, तस्य चार्धद्वयस्य पक्षसन्धिवद्रात्रीयार्ध- द्वयसंमेलनेऽप्यखण्डत्वम्, इति सायंप्रातरुत्तर विषुवढ्यं मध्याह्नार्धरात्रयोश्च दक्षविषुवद्य- मिति । यद्वक्ष्यति राम्यन्तदिनपूर्वाशौ मध्याह्नो दिवसक्षयः । स शर्वर्युदयो मध्यमुदक्तो विघुतेदशी ॥' ( तं० ६।२०४) इति । एतच्च दक्षविषुवदिनोदयाभिप्रायेण दक्षिणादुत्तरं याति उत्तरादक्षिणं यदा । दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते ।। दक्षिणस्यां यदा नाड्यां संक्रामेत्तु यदोत्तरम् । यावदधं तु तत्रस्थं मध्येनोत्तरतो वहेत् ॥ तोवत्तु विषुवमोक्तमुत्तरं तूत्तरायणे १ ख. पु० तावत्तत् इति पाठः ।
१७० श्रीतन्त्रालोकः उत्तरादक्षिणायां तु संक्रामन्स वरानने ॥ यावदध वहेत्तत्र अर्ध दक्षिणतो वहेत् । विषुवदक्षिणं तावदक्षिणायन प्रिये ॥ ( स्व० ७१६३) इत्यादि श्रीस्वच्छन्दशास्त्रेऽभिहितम् । ने चा- न्तरपूर्व एवायं संक्रान्तीनामुदय इत्याह पञ्चक' इत्यादि। सङ्क्रान्तिरिति, विषुवद्रूपा। निव प्राणशतानि सा' इत्यनेन यथोक्तमेव मानं स्मारितम् ॥ २०३ ॥ एतदेवान्यत्राप्यतिदिशति एवं रात्रावपीत्येवं विषुवदिवसात्समात् ॥२०४॥ आरभ्याहर्निशारद्धि- हाससङ्क्रान्तिगोऽप्यसौ। इत्येवं बाह्येनाहोरात्रेण संक्रान्तिचतुर्विंशते- रुदयादि सर्व समात्रिंशद्धटिकाद्विषुवदिवसा- १ क. पु. नवान्तरेति पाठः । २ ग० पु० सः समिति पाठः ।
श्लो० २०६ ]
षष्टमाह्निकम्
१७१
दारभ्योक्तम्, अन्यथा ह्यहर्निशयोवृद्धिहासौ न
स्यातां, येन संक्रान्तिष्वपि नयापचयाभ्याम्
अहनि द्वादश संक्रान्तयो रात्रौ च, इत्येक
विभागनियमो नोक्तः स्यात् ॥ २०४ ॥
अत्र च विषुवत्संक्रान्तीनां विभागं स्फुटयति
रात्र्यन्तदिनपूर्वांशी
मध्याह्नो दिवसक्षयः॥२०५॥
स शर्वयुदयो मध्य-
मुदक्तो विषुतेदृशी।
मध्यमित्यर्थाच्छवर्याः। 'उदक्तः' इति उत्त-
राद्विषुवत आरभ्येत्यर्थः । यदुक्तम्।
पूर्वाह्ने विषुवत्त्वेकं मध्याह्ने तु द्वितीयकम् ।
तृतीयं चापराह्ने वै अर्धगत्रे चतुर्थकम् ।।
चतुर्धा विपुवमोक्तमहोरात्रेण मुक्तिदम् ॥'
(स्व० ७।१६७)
इति ॥ २०५॥
१७२ श्रीतन्त्रालोकः . नन्वासां चतस्तृणां संक्रान्तीनामेवं व्यपदेशे किं निमित्तम् ? इत्याशङ्कयाह व्याप्तौ विषेर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते ॥२०६॥ तदर्हति च यः कालो विषुवत्तदिहोदितः। वृत्तिरिति, विषु व्याप्तौ' इति पाठात् । 'अर्हति' इत्यर्हेऽर्थे वतेः प्रयोगात् ॥ २०६ ॥ ननु विषुवत्संक्रान्तौ यद्येवं नियमस्तत्तदि- तरासु का व्यवस्था ? इत्याशङ्कयाह विषुवत्प्रभृति हास- वृद्धी ये दिनरात्रिगे ॥२०७॥ तत्क्रमेणैव संक्रान्ति- ह्रासही दिवानिशोः। तत्क्रमेणेति, रात्रिदिनवृद्धिहासपरिपाट्या ।
श्लो० २१०] षष्ठमाह्निकम् १७३ तेन पञ्चत्रिंशद्धटिके दिने चतुर्दश संक्रान्तयः, पञ्चविंशतिघटिकायां रात्रौ दशति ॥ २०७४ तदेवोपसंहरति इत्थं समानमरुतों वर्षद्वयविकल्पनम् ॥२०८॥ चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् । वर्षद्वय इति, संक्रान्तिचतुर्विशतेरुदयात् । एकत्रेति, न तु प्राग्वत्प्राणापानात्मनि चारद्वये . ॥ २०८॥ ननु किमत्र वर्षद्वयमेवोदियादुतान्यदपि?इ- त्याशङ्कयाह समानेऽपि तुटेः पूर्व यावत्षष्ट्यब्दगोचरम्॥२०९॥ कालसंख्या सुसूक्ष्मैक- चारगा गण्यते बुधैः । म. पु. पदत इति पाठः । २क० ख० पु. बन्धनमिति पाठः।
२७४ श्रीतन्त्रालोकः सुसूक्ष्मत्वे हेतुः 'एकचारगा'इति । पूर्व हि तुटयाद्युदयश्चारद्वये प्रोक्तः;-इत्येतदपेक्षया तत्र स्थौल्यं संभाव्यमिति भावः ॥ २०९ ॥ नन्वत्राप्येवं विभागेन कोऽर्थ ? इत्याशङ्कयाह संध्यापूर्वाह्नमध्याह्न- मध्यरात्रादि यत्किल ॥२१०॥ अन्तःसंक्रान्तिगं ग्राह्य तन्मुख्यं तत्फलोदितः। एतदुपसंहरन्नन्यदवतारयति उक्तः समानगः काल उदाने तु निरूप्यते ॥२११॥ तदेवाह १ क० पु. बाझमिति पाठः।
१७५ . श्लो० २१४ ] पष्टमाह्निकम् प्राणव्याप्तौ यदुक्तं त- दुदानेऽप्यत्र केवलम् । नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोलधामनी ॥२१२॥ तेनोदानेऽत्र हृदया- न्मूर्धन्यहादशान्तगम् । तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत्॥२१३॥ यदि परमत्रानयोः प्राणोदानयोरियान्विशेषो यत्प्राणस्य ब्रह्मरन्ध्रवर्तिनासिक्यद्वादशान्तमु- दयस्थानमस्य तु ऊर्ध्वधामवर्तिशक्तिद्वादशान्त- मिति । तेनेति,शक्तिद्वादशान्तं यावदुदानव्याप्तेः ॥२१३॥ नन्वेवं कालीयो विभागः किं व्याने संभवेन्न वा ? इत्याशङ्कयाह व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते।
१७६ श्रीतन्त्रालोकः રકા सूक्ष्मसूक्ष्माच्छलद्रूप- मात्रः कालो व्यवस्थितः ॥२१४॥ सूक्ष्मसूक्ष्मति, स्पन्दमात्रात्मेत्यर्थः । अत्रैव विश्वात्ममयत्वादिविशेषणद्वारेण हेतुत्रयम् अत एव चास्य व्यापकत्वात्मना विशेषेणाननाया- नत्वम् ॥ २१४॥ एषां च क्रमेण सृष्टयादिपञ्चकृत्यकारित्वम- . स्ति, इत्याह सृष्टिः प्रविलयः स्थेमा संहारोऽनुग्रहो यतः। क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः ॥२१५॥ तं तमिति, प्राणादिकम् । तत्रेति, सृष्टया- दिकारित्वे ॥२१५॥ एवं प्राणे चारमानादि सर्वमभिधाय तदा- नन्तर्येणानुजोद्देशोद्दिष्टं वर्णोदयं वक्तुमुपक्रमते श्लो० २१७] षष्ठमाह्निकम् १७७ प्राणचारेऽत्र यो वर्ण- पदमन्त्रोदयः स्थितः। यत्नजोऽयत्नजः सूक्ष्मः परः स्थूलः स कथ्यते॥२१६॥ इह तावत्प्राणचारे वर्णानां पदानां मन्त्राणां चोदंय इति स्थितम् । स तु द्विधा स्वारसिकः प्रायनिकश्चेति । तत्राद्यो वर्णानां तेषां नैयत्येन सर्वत्रैवाविशेषात्; द्वितीयस्तु पदानां मन्त्राणां च, ते हि वर्णवदपरिगणितत्वादनियताः,इति योगी- च्छानिबन्धन एवैषामुदयः। यो हि यस्याभिप्रेतो मन्त्रादिः स तस्योदयं कारयेत; अतश्च परेच्छा- धीनत्वादेषां प्रायनिक एवोदयः स च समनन्त- राह्रिके प्रतिपादयिष्यते । यद्वक्ष्यति इत्ययत्नजमाख्यातं यनजं तु निगद्यते ।' (तं०७।२) इति ॥२१६॥ इह पुनर्वर्णोदय एवायत्नजः परसूक्ष्मस्थू- लात्मतया त्रिप्रकारोऽभिधीयते। तत्र परस्यापि २३ १७८ श्रीतन्त्रालोकः वर्णोदयस्य तरतमभावेन द्वैविध्यमिति परतमं तदुदयमभिधातुमुपक्रमते एको नादात्मको वर्णः सर्ववर्णाविभागवान्। सोऽनस्तमितरूपत्वा- दनाहत इहोदितः ॥२१७॥ इह खल्वेक एव सर्ववर्णसामान्यात्मा सत- तोच्चरद्रूपत्वादनाहतशब्दाभिधेयो नादात्मको वर्ण उदितः सततमेवोदयमान आस्त इत्यर्थः ॥ २१७॥ स एव च परमुपेयः, इत्याह स तु भैरवसद्भावो मातृसद्भाव एष सः। परा सैकाक्षरा देवी यत्र लीनं चराचरम्॥२१८॥ द्वितीयं परतरमपि एषामुदयमभिधातुमाह . क. पु० भिधो य इति । ख० पु० नदनात्मक इति पाठः ।
श्लो० ० २२१ ] षष्ठमाह्निकम् ह्रस्वार्णत्रयमेकैकं व्यङ्गलमथेतरत्। प्रवेश इति षडर्णाः सूर्येन्दुपथगाःक्रमात्॥२१९॥ इकारोकारयोरादि- सन्धौ संध्यक्षरहयम् । एओ इति प्रवेशे तु ऐऔ इति हेयं विदुः ॥२२०॥ षण्ठार्णानि प्रवेशे तु हादशान्तललाटयोः। गले हृदि च बिन्दर्ण- विसर्गों परितःस्थितौ॥२२१॥ रव्यङ्गुलम्' इति द्वादशाङ्गलम्; अत एवाकारादेईस्वत्रयस्योदयात्प्राणवाहे षटिंश- १ ग० पु० युगमिति पाठः । २ क. पु० परतः स्थितौ इति पाठः ।
१८० श्रीतन्त्रालोकः दमुलानि भवन्ति । इतरदिति, दीर्घत्रयम् । षडुर्णा इति, अकारायूकारान्ताः। क्रमादिति, सूर्यपथेह्रस्वानां त्रयमिन्दुपथे च दीर्घाणामिति। आदिसंधाविति, अकारेणाकारेण च 'संधौ' संधिकार्ये कृते सतीत्यर्थः । अस्यैव संध्यक्षर- द्वयस्यादिसंधावितरत्संध्यक्षरद्वयम् । एषां च प्रत्येकमष्टादशाङ्गुलमुदयो येन प्राणापान- वाहयोर्व्याप्तिः सिद्ध्येत् । प्रवेश इति न तु नि- र्गमेऽपि । द्वादशान्तति न तु समचतुर्भागक- लेनया, तेन द्वादशान्ते ऋकारः, इत्यादिक्रमः। 'परितः' इति सर्वतः । तेन प्राणे बिन्दोः षट्रिशदलात्मन्यभ्युदयो विसर्गस्य त्वपाने, द्वयोरपि बिन्दुनादात्मकत्वात् ॥ २२१ ॥ एतदेवान्यत्राप्यतिदिशति कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम्। .क.पु. कल्पनयेति पाठः ।
श्लो० २२३] षष्ठमाह्निकम् १८१ एवं.सस्थानवर्णाना- मन्तः सा सार्णसन्ततिः॥२२२॥ अन्तरिति, तेन यदेवाकारस्योदयस्थानं तदेव कवर्गस्येति। सस्थानवर्णानामितीकारा- दीनां सा सेति चवर्गादिका, तदिकारोदय- स्थाने चवर्गस्य यकारशकारयोश्चोदय इत्या- दिक्रमः ॥ २२२॥ ननु सर्वत्रायं नियमः किं संभवेन्न वा ? इत्याशङ्कयाह हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः । बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः ॥२२३॥ यद्यपि सस्थानतया सकारस्य दन्ता उद- यस्थानं हकारस्य च कण्ठस्तथापि प्राणात्मजी- १० पु. चवर्गात्मिकेति पाठः । २ ख. पु. पूरणात्माभिध इति पाठः । ग. पु. प्रेरणात्माभित इति पाठः ।
१८२ श्रीतन्त्रालोकः वनरूपत्वात्सकारो हृद्युदेति हकारश्च प्रकाशा- त्मकत्वात्सर्वत इति ॥ २२३ ॥ एतदुपसंहरन्नन्यदवतारयति उक्तः परोऽयमुदयो वर्णानां सूक्ष्म उच्यते । सूक्ष्मश्च विधेति, तत्र सूक्ष्मसूक्ष्मं तावदुद- यमाह प्रवेशे षोडशोन्मुख्य खयः षण्ठवर्जिताः॥२२४॥ तदेवेन्दमत्रान्ये वणाः सूक्ष्मादयस्त्वयम् । षोडशेति, अपानवाहस्यानन्दप्राधान्यात्; अत एव परोदयेऽप्यपानवाह एव षण्ठवर्णाना- मुदय उक्तः ।'ओन्मुख्ये' इति निर्गमे । तेनापाने प्रत्येक सचतुर्भागमङ्गुलद्वयमुदयः प्राणे पुनरङ्कुलत्रयमिति । तदेव वर्णानां षोड- श्लो० २२६ ] पष्ठमाह्निकम् १८३ शकं द्वादशकंवावलम्ब्यान्ये सस्थानाः कवर्गाद्या इन्द्वकं प्राणापानविषये समुदयन्ति,-इत्यत्र सूक्ष्मेऽपि वर्णोदये सूक्ष्मोऽयमुदय इत्यर्थः।।२२४॥ एवं सूक्ष्मसूक्ष्मं वर्णोदयमभिधाय सूक्ष्म- स्थूलमायाह कालोऽर्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते ॥ २२५॥ मात्रा ह्रस्वाः पञ्च दीर्घा- ष्टकं द्विस्त्रिःप्लुतं तुल। दीर्घाष्टकमिति, संध्यक्षरैः सह । द्विरिति, द्विमात्रं, त्रिरिति त्रिमात्र, दीर्घापांच प्लुतत्वेऽपि तन्नोक्तं तस्योच्चारणापेक्षत्वात; नह्येषां दीर्घत्व- वत्प्लुतत्वमपि स्वाभाविकमिति भावः । एवं लकारस्यापि प्लुतत्वमेव स्वभावः, इति दीर्घ- त्वापरिगणनेन तदेवेहास्य प्राधान्येनोक्तमिति १ क. पु. अपेक्षितत्वात् इति पाठः श्रीतन्त्रालोकः ? न कश्चिद्दोषः । तेन कादीनां त्रयस्त्रिंशदर्ध- मात्राः ह्रस्वानां दश, दीर्घाणां द्वात्रिंशत्, प्लु- सस्य षडित्येकाशीतिरर्धमात्राणामिति ॥२२५॥ नन्वेवं विभाजने किं प्रमाणम् ? इत्या- शङ्कयाह एकाशीतिमिमामर्ध- मात्राणामाह नो गुरुः॥२२६॥ तस्याप्येवमभिधाने क इवाशयः ? इत्याश- याह यहशाद्भगवानेका- शीतिकं मन्त्रमभ्यधात्। यद्वशादिति, अस्याः परस्या मन्त्रमातुरे- काशीतिमात्रासद्भावात्। एकाशीतिकमिति, ता- वत्संख्याकपदारब्धत्वात् ॥ ननु भगवतो व्योमव्याप्यभिधानेऽप्येतन्नि- मित्तमित्यत्र किं प्रमाणम् । इत्याशङ्कयाह पो. २२८ ] षष्ठमाह्निकम् एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका ॥२२७ श्रीमातङ्गे तथा धर्म संघातात्मा शिवो यतः। शक्तिरिति, व्योमव्यापिरूपा । प्रोक्तेति, श्रीमातङ्गे । यदुक्तं तत्र 'एकाशीतिपदा देवी या सा शक्तिः शिवात्मिका ।' (म. तं. ११७३१) इति । तथा मन्त्राश्च शक्तिगर्भस्थाः शक्तिर्वै पारमेश्वरी । कालानलान्तमध्वानं शिवान्यातं यया मुने । एकाशीतिपदोपेता विद्यापादे मयोदिता ।' (म० त०) इति। नन्वस्या व्योमव्यापिरूपिण्याः पार- मेश्वर्याः शक्तेस्तत्तद्धृदादिमन्त्रात्मकत्वेऽपि कथं शिवात्मकत्वमपि स्यात् ? इत्याशङ्कयोक्तं 'तथे- त्यादि' । यत्तथोक्तेन प्रकारेण धर्माणां 'पत्युर्धर्माः शक्तयस्तु. ( मत. १।२०) इत्याद्युक्त्या शक्तीनामेकाशीत्यात्मा यः संघात- ? , २४ १८६ श्रीतन्त्रालोकः . स्तदात्मा शिवः, इति सामस्त्येनास्यास्तदात्म- कस्वम् । तदुक्तं तत्र एकत्रैव समस्तानि एकाशीतिपदानि तु । अष्टषष्टयधिकं प्रोक्तं वर्णानां तु शतत्रयम् ॥ अची तु देवदेवस्य समस्तव्यस्तरूपिणी ।' इति । 'एकोऽपि वर्णो देवानां वाचकः परिकीर्तितः । सर्वेऽप्येकस्य युज्यन्ते यतस्ते विश्वमूर्तयः ॥' इति च ॥ न चैतदागमेनैव सिद्धं यावद्युक्तितोऽपि,- इत्याह तथा तथा परामर्श- शक्तिचक्रेश्वरः प्रभुः॥२२८॥ स्थूलैकाशीतिपदज- परामर्शेर्विभाव्यते। शक्तिमतः खलु शक्तिरनन्या' इत्यायुक्त- युक्त्या वस्तुतः सर्वशक्त्यविभिन्नस्वभावोऽपि 'प्रभुः' परमेश्वरः शिवस्तसद्वारब्धत्वात् स्थू-
श्लो० २३०]
पष्ठमाहिकम्
१८७
लानि यान्येकाशीतिपदानि तजा ये प्रणवाद्याः
परामर्शास्तैस्तथा तथा सर्वात्मानन्तादितया प-
रामर्शो यस्यैवंविधो यद्धृदादिशक्तिचक्रं तस्य
ईश्वरः ' संयोजनवियोजनकारी 'विभाव्यते
एवं यस्य ज्ञप्तिः क्रियते इत्यर्थः। अत एव चात्र
सर्वात्मादीनां यावता परामर्शः सिद्ध्येत् ताव-
त्येवं पदत्वं,येनकाशीतित्वं स्यात् ॥ २२८ ॥
तदाह
तत एव
परामर्शो
यावत्येकः समाप्यते॥२२९॥
तावत्तत्पदमुक्तं नो
सुप्तिङ्यिमयाब्रितम्।
नो सुप्तिड़ियमः, तथात्वे हि
नमः शिवायेति पदं षडर्ण प्रणवादिकम् ।'
इत्यायुक्तयैकत्वेऽप्यस्य पदस्य त्रिपदत्वमाप-
तेदिति गणना विसंवदेत् ॥ २२९ ॥
१८८ श्रीतन्त्रालोकः -- ननु यद्येवं तदेकाशीत्यर्धमात्रात्मिकेयमेव भगवती परा शक्तिरवस्थितति किमनेनैतत्स- मंव्याप्तिकेन व्योमव्यापिनोपदिष्टेन ? इत्याश- ङ्कयाह एकाशीतिपदोदार- विमर्शक्रमबृंहितः ॥२३०॥ स्थूलोपायः परोपाय- स्त्वेष मात्राकृतो लयः। 'लयः' इति स्वात्ममात्रविश्रान्तिः । स्थू- लोपायः, इत्यनेनोपदेश्यभेदादुपदेशस्यापि भेदः,-इति प्रकाशितम् ॥ २३०॥ एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति अर्धमात्रा नव नव स्युश्चतुषु चतुर्षु यत् ॥२३१॥ अङ्गुलेष्विति षट्त्रिंश- त्येकाशीतिपदोदयः।
श्लो० २३३ ] षष्ठमाह्निकम् १८९ प्रत्यङ्गुलचतुष्टयं नवार्धमात्राः,-इत्यङ्गुलष- दिशदात्मनि प्राणचारेऽर्धमात्राणामेकाशीति- रुदियात्॥ २३१ ॥ आसां चोदये विभागान्तरमस्ति-इत्याह अङ्गले नवभागेन विभक्ते नवमांशकाः॥२३२॥ वेदा मात्रार्धमन्यत्तु द्विचतुःषङ्गणं त्रयम्। एकैकस्मिन्नङ्गुले नवधा विभाजिते षट्विंश- तोऽङ्गुलानां सचतुर्विंशतिशतत्रयं मानं भवेत् । भागानां तत्रैकैकस्यार्धमात्रात्मनो व्यञ्जनस्य चत्वारो नव भागा उदयस्थानमित्युक्तं 'नव- मांशका वेदाः मात्रार्धम् ' इति । अन्यत्पुनई- स्वदीर्घप्लुतलक्षणं त्रयं द्विचतुःषड्गुणं, इस्वस्यै- , १ क० पु. विभकेन नवांशकाः इति पाठः ।
१९० श्रीतन्त्रालोकः कमात्रत्वादष्टौ नव भागा उदयस्थानं, दीर्घस्य द्विमात्रत्वात्षोडश,प्लुतस्य त्रिमात्रत्वाच्चतुर्विंशतिः॥ एतदेव संकलयति एवमङ्गुलरन्ध्रांश- चतुष्कहयगं लघु ॥२३३॥ दीर्घ प्लुतं क्रमावित्रि- गुणमर्धं ततोऽपि हल। 'रन्ध्रांशानां' नवभागानां 'चतुष्कद्वयम् अष्टौ नवभागा इत्यर्थः । लघुिति, हुस्वं ततो' लघोरपीत्यर्थः । तेन पञ्चानां हस्वानां प्रत्येक- मष्टसु भागेषूदयाच्चत्वारिंशन्नव नव भागा भवन्ति, दीर्घाणामष्टानां प्रत्येकं षोडशभागक- लनया साष्टाविंशति शतम् इति । प्लुतस्य चतुर्विंशतिस्त्रयस्त्रिंशतां हलां प्रत्येकं भागचतु- ष्टयकलनया द्वात्रिंशदधिकं शतमिति । यद्यप्ये- काशीतेरर्धमात्राणां प्रत्येकमङ्गुलीयाश्चत्वारो नव श्लो० २३५] षष्ठमाह्निकम् १९१ भागा .उदयस्थानमित्येव स्पष्टमभिधातव्यं, तथाप्येवमभिधानेऽयमाशयः - यदादौ ह्रस्वा- नामुदयस्तदनन्तरं दीर्घाणां प्लुतस्य व्यञ्ज- नानां च, इति क्रमः प्रदर्शितो भवेदिति॥२३३॥ नन्वेतन्मध्ये क्षकारश्चेद्गण्यते तदा किय- त्योऽर्धमात्रा अधिकीभवन्ति, तथात्वे वासां कथमुदयः ? इत्याशङ्कयाह क्षकारख्यर्धमात्रात्मा मात्रिकः स तथान्तरा॥२३४॥ विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति। अङ्गुलार्धेऽद्रिभागेन वर्धमात्रा पुरां पुनः ॥२३॥ १ क० पु. कल्पित इति पाठः । २ ख० गपु० भागोने इति पाठः । ३ ग० पु. पुनरिति पाठः ।
श्रीतन्त्रालोकः क्षकारः सर्वसंयोग- ग्रहणात्मा तु सर्वगः। सर्ववर्णोदयाद्यन्त- सन्धिषूदयभाग्विभुः ॥२३६॥ कथमस्य व्यर्धमात्रात्मकत्वमित्याशयोक्तं 'मात्रिकः' इत्यादि । ककारसकारात्मकार्धमा- त्राद्वयारब्धत्वात् । अन्तरा विश्रान्ताविति, क- कारान्तरमर्धमात्रीयं कालं विश्रम्य सकारस्यो- चारात् । 'कलिते' इत्येकाशीत्या, तेनार्थ- मात्राणां चतुरशीतिरिति । 'अद्रि' इति सप्त । अङ्गुलार्धे हि सप्तधा विभक्त प्रत्यङ्गलं चतुर्दश भागाः-इति षट्रिंशतोऽङ्गुलानां सचतुष्टयं शत- पञ्चकं भागानां भवेत् । तेनार्धाङ्गलीयेषु षट्सु सप्तभागेष्वर्धमात्रेति षट्त्रिंशदलात्मनि प्राण- चारे चतुरशीतेरर्धमात्राणामुदय इति । नन्वेव- मेकाशीतिकलोदयपक्षेक्षकारस्य नास्त्येवोदयः- १ क० ख० पु०कल्पित इति पाठः ।
श्लो० २३७ षष्ठमाह्निकम् १९३ इत्युक्तं स्यादित्याशङ्कयाह पुरेत्यादि । सर्वसं- योगग्रहणात्मेति, संयोगान्तलक्षणपरत्वात्. । यदुक्तं प्राक् 'योनिरूपेण तस्यापि योगे क्षोभान्तरं विदुः । तनिदर्शनयोगेन पञ्चाशत्तमवर्णता ॥ ( तं० ३।१८१) इति । अनुत्तरविसर्गानुप्राणितयोः ककार- सकारयोः प्रत्याहारतयोपादाने निखिलस्य वर्णजातस्य गीकारात् , अत एवायं सर्ववर्णा- नामादावन्ते परस्परं संमेलनात्मनि 'संधौ' चोदयभासर्ववर्णानुस्यूततयोदियात्, यतोऽयं विभुः' व्यापक इत्यर्थः ॥ २३६ ॥ नन्वेवं वर्णोदयेनाभिहितेन कोऽर्थः? इत्या- शङ्कयाह इत्थं षदिशके चारे वर्णानामुदयः फले। क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम्॥२३७॥ २५
श्रीतन्त्रालोकः
'वर्णानाम्' इत्यकारादीनां, उदय इत्य-
द्धृदयावादशान्तम् । 'क्रूरे' इति मुक्तिलक्षणे,
'सौम्ये' इति तत्तत्सिद्ध्यात्मनि भोगलक्षणे।
'विलोमेन' इत्यर्थादपानोदये । विलोममेवाह
'हादि यावदपश्चिमम्' इति । तदुक्तम्
अधः प्रवहणे सिद्धिहृत्पनं यावदागतः ।
मुक्तिश्चैव भवेद्ये परतत्त्वे तु सुव्रते ॥' ( स्व०७।५६)
इति । वस्तुतस्त्वकारस्य हृद्युदयस्थानं, हका-
रस्य तु द्वादशान्त इति ॥ २३७ ॥
एवमेतदुपजीवनेनैव सूक्ष्मपरमपि वर्णाना-
मुदयमाह
हृद्यकारो द्वादशान्ते
हकारस्तदिदं विदुः ।
अहमात्मकमद्वैत
यः प्रकाशात्मविश्रमः॥२३८॥
लो० २३९] षष्ठमाह्निकम् १९५ अद्वैवमिति, प्रत्याहारक्रमेणाशेषवर्णान्तः- कारात् । प्रकाशेति, यदुक्तम् 'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः।' (अ० प्र०सि० २२) इति ॥ २३८॥ एतच्चापानोदयेऽप्यतिदेष्टुमाह शिवशत्यविभागेन मात्रैकाशीतिका त्वियम् । द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् ॥२३९॥ शिवशक्त्योरविभाग इति, बिन्दुनादात्म- प्राणापानोभयमेलनायामित्यर्थः । एकाशीति- रित्युपलक्षणं, तेन चतुरशीतिरपि । द्विगुण- त्वेनेति, षट्रिंशतोऽङ्गुलानाम् ॥ २३९ ॥ एतदुपसंहरन्नन्यदवतारयति ॥
श्रीतन्त्रालोकः १९. उक्तः सूक्ष्मोदयस्वैधं द्विधोक्तस्तु परोदयः। अथ स्थूलोदयोऽर्णानां भण्यते गुरुणोदितः ॥२४०॥ अथ इत्यानन्तयें। गुरुणोदित इति सर्वशेषः॥ तत्र वर्गक्रमेण तावद्वर्णानां स्थूलमुदयमाह एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः। रात्रौ च ह्रासयत्र केचिदाहुन केऽपि तु॥२४१॥ ह्रासवृद्धीति, वाह्यमहोरात्रमपेक्ष्यानपेक्ष्य वा ॥ २४१ ॥ तत्र बाह्याहोरात्रानपेक्षिमते साम्येनैवैषामु- दयः, -इत्याह
श्लो० २४३]
षष्ठमाहिकम्
एष वर्गोदयो रात्रौ
दिवा चाप्यर्धयामगः।
'अर्धयामग' इति, प्रतिवर्गसार्धचतुरङ्गुल-
मुदय इत्यर्थः॥
एवं बाह्याहोरात्रानपेक्षिमतमभिधाय तदि-
तरेषामपि दर्शयति
प्राणत्रयोदशशती
पञ्चाशदधिका च सा॥२४२॥
अध्यर्धा किल संक्रान्ति-
वर्गे वर्गे दिवानिशोः।
सेति प्राणचारीया सार्धत्रयोदशशती।
'अध्यर्धा' इति सार्धा, प्रतिसंक्रान्ति नवानां
प्राणचारशतानामभिधानात् । तेन दिने द्वाद-
शानां संक्रान्तीनामुदयः, इति साष्टशतं सहस्र-
दशकं प्राणचाराणां भवेत् । रात्रावप्येवं सषट्-
शतसहस्रकविंशतिः ॥ २४२ ॥
१९८ श्रीतन्त्रालोकः अहोरात्रमेलनायां पुनः प्रतिसंक्रान्तित्रय- मेकैकस्य वर्गस्योदयः, इत्याह तदैक्ये तूदयश्वार- शतानां सप्तविंशतिः॥२४३॥ एवं प्रागुक्तसंक्रान्तिद्वयवहाशाहोरात्रहास- ध्यनुसारं वर्गाष्टकोदयस्यापिहासवृद्धी भवतः,- इति सिद्धम्, अन्यथा प्रतिवर्गोदयं प्राणचा- राणां नैयत्यं न स्यात् ।। २४३॥ ननु क्षकारेण सह नव वर्गाः,-इति येषां मतं तत्रैषामुदये प्राणचाराणां कीदृग्विभागः ? इत्याशङ्कयाह नव वर्गास्तु ये प्राहु- स्तषां प्राणशती रवीन् [विः] सत्रिभागैव संक्रान्ति- वर्गे प्रत्येकमुच्यते ॥२४४॥ न
षष्ठमाह्निकम्
१९९
.
लो० २४६]
अहर्निशं तदैक्ये तु
शतानां श्रुतिचक्षुषी।
रखीनिति द्वादश । सत्रिभागेति प्राणश-
तत्रयस्याधिक्येनोपादानात् । तेन प्रतिवर्ग प्राण-
चाराणां शतद्वादशकम,-इति वर्गनवके साष्टशतं
सहलदशकं भवेत् 'तदैक्ये' इत्यहर्निशमेलने ।
श्रुतिचक्षुषी' इति चतुर्विंशतिः ॥
एवं वर्णानां वर्गक्रमेण स्थूलमुदयमभिधाय
क्रमान्तरेणाप्याह
स्थूलो वर्गोदयः सोऽय-
मथार्णोदय उच्यते ॥२४५॥
तदाह
एकैकवणे प्राणानां
द्विशतं षोडशाधिकम्
बहिश्चषकषट्रिंश-
दिन इत्थं तथा निशि ॥२४६॥
२००
श्रीतन्त्रालोकः
चषकपर्दिशदिति, प्रतिचषकं षण्णां प्राण-
चारणामुदयात् । तेन पञ्चाशतो वर्णानां साष्ट-
शतं सहस्रदशकं प्राणचाराणां स्यात् ॥२४६॥
अत्र चोदये विशेष दर्शयति
शतमष्टोत्तरं तत्र
रौद्र शाक्तमथोत्तरम्।
यामलस्थितियोगेतु
रुद्रशक्तयविभागिता॥२४७॥
'यामलस्थितियोगे' इत्युभयसंमेलनायाम्
॥ २४७॥
एतदेव चाहोरात्रसंमेलनायां द्विगुणी-
भवेत्, इत्याह
दिनरात्र्यविभागे तु
हरवलयब्ध्यसुचारणाः।
सपश्चमांशा नाडी च
बहिर्वर्णोदयः स्मृतः ॥२४८॥
श्लो० २५०] षष्ठमाह्निकम् २०१ दृग्वाब्धिरिति, द्वात्रिंशदधिकं शतचतुष्ट- यम् 'असुचारणाः' इति प्राणसंचारणाः। सपञ्च- मांशा नाडीति, चषकदिशतो द्वैगुण्यात्॥२४८॥ एतदुपसंहरन्नन्यदवतारयति इति पञ्चाशिका सेयं वर्णानां परिचर्चिता । एकोनां ये तु तामाहु- स्तन्मतं संप्रचक्ष्महे॥२४९॥ तदाह वेदाचाराः पञ्चमांश- न्यून चारार्धमेकशः । वर्णेऽधिकं तद्विगुण- मविभागे दिवानिशोः ॥२५०॥ 'वेदा'श्चत्वारः । पञ्चमांशेनात्किंचिदं- शेन 'न्यून' रहितम् । अधिकमिति, षोडशा- १० ख० पु. गं परिभागः इति पाठः । २६ २०२ श्रीतन्त्रालोकः धिकशतद्वयस्योपरीत्यर्थः । तेनैकोनपञ्चाशतो वर्णानां प्रत्येकं षोडशाधिकशतद्वयात्मकत्वात् चतुरशीतिशतपञ्चकाधिकं सहस्रदशकं प्राण- चारा भवन्ति, अधिकैश्च प्रत्येकं चतुर्भिः सष- प्रणवतिशतम्, अनेन च चाराणां सार्धचतुर्वि- शतेः किंचिदंशन्यूनं पञ्चभागं विंशति (?) साष्टशतं सहस्रदशकम् ॥ २५० ॥ एतदेवोपसंहरति स्थूलो वर्णोदयः सोऽयं पुरा सूक्ष्मो निगद्यते। सूक्ष्म इत्यर्थात्परोऽपि पुरा निगदित इत्यर्थः ॥ २५१ ॥ इदानीमाह्निकार्थमार्यायाः प्रथमार्धेनोपसं- हरति इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् ।
२०३ श्लो० २५१] घष्ठमाझिकम् मुखागमेति शैवी मुखमिहोच्यते' (वि०भै० २० श्लो०) इत्यादिन्यायेन परतत्त्वप्रवेशोंपाय- त्वाद्गुरुस्तस्य ‘आगमो' वचनमित्यर्थः । सि- द्धमिति यतः शास्त्रक्रमात्तज्ज्ञगुरुपज्ञानुशीलनात् । आत्मप्रत्ययितं ज्ञानं पूर्णत्वाभैरवायते॥'(तं०४१७७) इत्याद्युक्तयुक्त्या पारिपूर्येन लब्धसिद्धीति शिवम् ॥ प्राणापानसमाश्रय- चारप्रविचारचातुरीनिष्ठः । षष्ठाहिके वरिष्ठां विवृतिमिमां जयरथश्चक्रे ॥ इति श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्तविरचिते तत्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते कालतत्व- प्रकाशनं नाम षष्ठमाह्निकम् ॥ ६ ॥ श्रीमत्सतापभूभर्तुराज्ञया प्रीतये सताम् । मधुसूदनकौलेन संपायेदं प्रकाशितम् ॥
No text on this page.
अथ
श्रीतन्त्रालोके
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकोपेते
ECE
सप्तममाह्निकम् ।
तत्तन्मन्त्राभ्युदय-
प्रगुणीकृतचण्ड भैरवावेशः।
विद्रावितभवमुद्रो
द्रढयतु भद्राणि जयरुद्रः ॥
इदानीं कालतत्त्वानुषक्तमेव द्वितीयार्धन
चक्रोदयं वक्तुमुपक्रमते
अथ परमरहस्योऽयं
चक्राणां भण्यतेऽभ्युदयः॥१॥
चक्राणामिति मन्त्राद्यात्मनाम् ॥ १॥
श्रीतन्त्रालोकः तु ननु सर्वमन्त्रसामान्यभूताया भगवत्या मातृ- कायाः समनन्तरमेवोदय उक्तः, तत्तद्विशेषरू- पाणां मन्त्राद्यात्मनां चक्राणामप्युदयाभिधाने किं निमित्तम् ? इत्याशङ्कयाह इत्ययत्नजमाख्यात यत्नजं निगद्यते । नन्वेतन्निगदनेन कोऽर्थः ? इत्याशङ्कयाह बीजपिण्डात्मकं सर्व संविदः स्पन्दनात्मताम् ॥२॥ विदधत्परसंवित्ता- वुपाय इति वर्णितम् । सर्वमिदं बीजपिण्डात्मकं मन्त्रजातम् अर्था- प्राणान्तरुदयत् संविदः स्पन्दनात्मतां शाक्त- स्वरूपावेशं विदधत् परसंवित्तावुपायः पारम्प- र्येण शाम्भवमपि रूपमाविशेत, इत्याणवोपाये वर्णतत्त्वान्तर्वणितं तन्नास्यानर्थक्यमित्यर्थः॥२॥ १ ख. पु. उदयादिति पाठः।
लो० ५] सप्तममाह्निकम् नन्विह मन्त्राणां प्राणान्तरेवमुदयः,-इत्य- भिधातुं प्रक्रान्तं, स च यत्नजः, इति तत्र यत्ने क्रियमाणे तदेव सिद्ध्येत् नान्यदिति कथमत्रैक परसंविदुपायत्वमप्येषां स्यात् ? इत्याशङ्कयाह यथारघट्टचक्रान- घटीयन्त्रौघवाहनम् ॥ ३॥ एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् । एकानुसंधानबला- जाते मन्त्रोदयेऽनिशम् ॥४॥ तन्मत्रदेवता यत्ना- त्तादात्म्येन प्रसीदति । इहारघट्टवाहकस्य यन्त्रमात्रवाहनक्रियाविष- यत्वात् एकेनैवानुसंधानेन अरघट्टचक्राग्रगतघ- टीसंबन्धिनो यन्त्रस्यौघेन नैरन्तर्येण वाहनं यथा १ ग० पु० वशादिति पाठः ।
श्रीतन्त्रालोकः 'चित्रं यत्रोदयं भजेत्' ऊर्ध्वाधोमुखरिक्तपूर्ण- घटीचक्रात्मना वैचित्र्येण निष्पत्तिमियात्, तथा साधकस्यानिशं मन्त्रोदयविषयेणैकेनवानुसंधा- नेन न केवलमेतदुदय एव सिध्येत् यावत्तन्नान्त- रीयकतया प्रयत्नान्तरमन्तरेण एतन्मनदेवतापि तादात्म्येन प्रसीदतीति । इदमत्र तात्पर्यम्- यथा हि. यन्नं वाहयन् अरघट्टवाहकस्तत्र वैचि- त्र्यान्तरमपि प्रयत्नान्तरनिरपेक्षमासादयेत्, एवं साधकोऽपि मन्त्रोदय एव प्रयतमानः परसंवि- दैकात्म्यमिति। एवं चक्रोदयः परसंविदासादने निमित्तमित्यावश्याभिधेयः, इत्युक्तं स्यात्॥४॥ तदाह 'खे रसैकाक्षि नित्योत्थे तदर्धं हिकपिण्डके ॥५॥ १ ख. पु० तन्मनेति पाठः। २ ख० पु. निरपेक्षमेवेति पाठः। ३ क. पु. परं परसंविदिति पाठः । ४ क० ख० ग० पु. पिण्डगे इति पाठः।
६ लो. ९] सप्तममाह्निकम् त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः। चतुष्के तु सहस्राणि पश्च चैव चतुःशती ॥६॥ पश्चार्णेऽब्धिसहस्राणि त्रिशती विंशतिस्तथा। षट्रे सहस्रत्रितयं षट्शती चोदयो भवेत् ॥७॥ सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् । शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते ॥८॥ चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत्।
श्रीतन्त्रालांक: अधिषष्टयेकविंशत्या शतानां दशवर्णके ॥९॥ एकानविंशतिशतं चतुःषष्टिः शिवार्णके। अष्टादश शतानि स्यु- . रुदयो द्वादशार्णके ॥१०॥ त्रयोदशाणे हाषष्ट्या शतानि किल षोडश । त्रिचत्वारिंशता पञ्च- दशेति भुवनार्णके ॥११॥ चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके ॥ त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते ॥१२॥ १ क० पु. वर्णगे इति पाठः ।
श्लो० १६ ] सप्तममाहिकम् ७ शतहादशिका सप्त- दशाणे सैकसप्ततिः। अष्टादशाणे विज्ञेया शतहादशिका बुधैः ॥१३॥ चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् । सप्तविंशतिसंख्याते तूदयोऽष्टशतात्मकः ॥१४॥ हात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः। हिचतुर्विंशके चक्रे सार्धा शतचतुष्टयीम् ॥१५॥ उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् । १ ग० पु० संख्याते इति पाठः । २ ख. पु० तत्त्वयोगज्ञ इति पाठः ।
श्रीतन्त्रालोकः चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् ॥१६॥ सप्तत्रिंशत्सहार्धन त्रिशत्यष्टाष्टके भवेत् । अर्धमत्रिभागश्च षट्षष्टिर्दिशती भवेत् ॥१७॥ एकाशीतिपदे चके उदयः प्राणचारगः । चक्रे तु षण्णवत्याख्य सपादा द्विशती भवेत् ॥१८॥ अष्टोत्तरशते चके द्विशतस्तूदयो भवेत् । खे इति द्वे शून्ये, रसाः षट्, अक्षीति द्वयं, नित्योत्थ इति स्वरसत एव हि सततं प्रवहतः १ ख० ग० पु० मत इति पाठः ।
श्लो० १९] सप्तममाह्निकम् प्राणस्य सषट्शतसहस्रैकविंशत्या तिः] चाराणां भवेदिति भावः । एवमेकपिण्डात्मनो मन्त्रस्य प्रतिप्राणचारं तदानुगुण्यात् तत्संख्याक एवो- दयः; तेन प्रतिप्राणचारमेकैकस्य पिण्डस्य वर्णस्य वोदयात् यादिपिण्डवर्णात्मना मन्त्राणां नित्योदितप्राणचारार्धत्रिभागक्रमेण न्यूनसं- ख्याक उदयः, इत्याह 'तदर्धं द्विकपिण्डके' इति । तस्याः सषट्शतायाः सहकविंशतेर) साष्टशतं सहस्रदशकम् । अत्र हि स्वारसिकप्रा- णचारद्वयकालस्यैकप्राणचारतयोदयस्य चिकी- र्षितत्वं; 'जपः प्राणसमः कार्यः' इति हि सर्व- त्राविशेषेणोद्धोष्यते, अत एवेह यत्नजत्वमुक्तम्। सप्त सहस्राणि द्विशतीति, स्वारसिकप्राणचार- त्रयकालस्यैकप्राणचारतयोदयस्य कर्तुमभिप्रे- तत्वात् । एवमुत्तरत्रापि अवसेयम् । अब्धीति चत्वारः । षडशीत्यधिकमिति भूम्ना, एवं हि चारद्वयमधिकं भवेत् , तेनात्र प्रतिचारं किंचि- १ क. पु. इत्यत आहेति पाठः । २ १० श्रीतन्त्रालोकः दंशन्यूनता कार्या येन गणनासाम्यं स्यात् । न चैतदस्माभिः स्वोत्प्रेक्षितमुक्तमिति साक्षा- दागम एव पठितः, अस्माभिरप्यत्र गणना विभज्य न दर्शिता ग्रन्थविस्तरभयादनुपयो- गाच्च । अधिकषष्टिरकविंशतिशती तया दशव- र्णगं इत्युदयः। 'शिवाः' रुद्रा एकादश, चतु:- षष्टिरिति. भूम्ना, एवं हि चारचतुष्टयमधिकं भवेत्। द्वाषष्टयेति भूम्ना, षण्णां प्राणचारा- णामतिरेकात् । त्रिचत्वारिंशतोत भूम्ना, चार- द्वयाधिक्यात् । पञ्चदशेति शतानि । भुवनेति चतुर्दश। खाब्धिरिति चत्वारिंशत् । सैकसप्त- तिरिति भूम्ना चारसप्तकातिरेकात् । न चात्र संख्यायाः कश्चित्क्रमो विवक्षितः, इत्येकोन- निशादीनां चक्राणामन्तरानुपदेशे न कश्चि- दोषो, यावता हि अत्र प्रतिप्राणचारमेकैकस्य चक्रस्योदये यत्नः कार्यः,-इत्यभिधित्सितं तच्चै- वमपि सियोदिति । 'द्विचतुर्विशके' इत्य- १ क० ख० ग० पु. वर्णभाग इति पाठः ।
श्लो० १९]
सप्तममाह्निकम्
ष्टाचत्वारिंशदात्मक इत्यर्थः । 'अष्टाष्टके' इति
चतुःषष्टयात्मके। सहार्धेनेति येनावशिष्टा द्वात्रिं
शत्प्राणचारा भवन्ति । अर्धमिति अर्धत्रिभाग
इति, येन सार्धाश्चत्वारिंशत्प्राणचारा भवेयुः
सार्धास्त्रयोदश चेत्युभयथा चतुःपञ्चाशदिति
गणनासाम्यं स्यात् । तदुक्तं श्रीयोगिनीकौले
'निसोदिते सहस्राणि एकविंशच्छतानि षट् ।
द्विके दश सहस्राणि तथाष्टौ च शतानि तु ॥
त्रिके सप्त सहस्राणि द्विशतीत्युदयः स्मृतः ।
चतुष्के तु सहस्राणि पञ्च तुर्यशतानि तु ॥
पञ्चाक्षरे सहस्राणि चत्वारि त्रिशतोदयः ।
विंशाधिकः समाख्यातो ज्ञेयश्चोदयवाहिभिः ।।
षदे तु त्रिसहस्राख्यः षट्शतान्तोदयः स्मृतः ।
सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् ॥
इत्यादि ।
अष्टोत्तरशते चक्रे मत्रपिण्डाक्षरात्मके ।
द्विशतात्मा पुनः प्रोक्त उदयः सर्वसिद्धिदः ॥'
इत्यन्तम् ॥
१ ख. पु. वादिभिरिति पाठः ।
१२ श्रीतन्त्रालोकः न चैतावतैव विरन्तव्यमित्याह क्रमेणेत्थमिदं चक्र षट्कृत्वो द्विगुणं यदा॥१९॥ ततोऽपि हिगुणेऽष्टांश- स्यार्धमध्यर्धमेककम् । ततोऽपि सूक्ष्मकुशलै- रर्धार्धादिप्रकल्पने ॥२०॥ भागषोडशकस्थित्या सूक्ष्मश्वारोऽभिलक्ष्यते। इत्थं 'वक्ष्यमाणेन प्रकारेणेदमष्टोत्तरशता- त्मकं चक्रं क्रमेण षट्कृत्वो द्विगुणं, प्रथमं षोड- शाधिकशतद्वयात्मकं यावदन्ते सद्वादशशतन- वकाधिकषट्सहस्त्रात्मकं यदा भवेत् तदा तस्मि- न्नपि द्विगुणे सचतुर्विंशतिशताष्टकाधिकसहस्र- त्रयोदशात्मके चक्रेऽध्यर्धमत्रति कृत्वा सार्धमे- १ क. पु. कृत्वेति पाठः । २ क. पु० अप्यर्धमिति पाठः ।
श्लो० २१ ] सप्तममाह्निकम् १३. , ककं प्राणस्य चरणमष्टांशस्यार्धं षोडशो भाग- श्चोदयो भवेदित्यर्थः । तदनन्तरमपि भागषो- डशकस्थित्याांर्धादिकल्पने. कृते सति 'सूक्ष्म कुशलैः' परधाराधिरूढैयोगिभिः 'सूक्ष्मो'ऽति- परिमितः प्राणीयश्चारांशोऽ'भिलक्ष्यते' ज्ञायते इत्यर्थः । इदमत्र तात्पर्यम्-एवंकलनायां हि प्राणचारीयः षोडशो भागः सषट्शतपश्चचत्वा- रिंशत्सहस्राधिकलक्षत्रयात्मनश्चक्रस्योदयःस्यात तस्याप्यर्धकल्पने सशतद्वयैकनवतिसहस्राधिक- लक्षषट्रात्मनश्चक्रस्य द्वात्रिंशो भागः; तस्याप्येवं कल्पने सचतुःशतयशीतिसहस्राधिकत्रयोदश- लक्षात्मनश्चक्रस्य चतुःषष्टितमी भागः, इत्य- न्तमेव परिमितः प्राणचारीयो भागो योगिना मभिलक्ष्यो भवतीति ॥ नन्वेवमभिलक्षणेन योगिनां किं स्यात् ? इत्याशङ्कयाह १४ श्रीतन्त्रालोकः - एवं प्रयत्नसंरुद्ध- प्राणचारस्य योगिनः ॥२१॥ क्रमेण प्राणचारस्य ग्रास एवोपजायते। ग्रास इति विरुद्धतया पुनरनुदयात् ॥ अतोऽप्यस्य किं स्यात् ? इत्याशङ्कयाह प्राणग्रासक्रमावाप्त- कालसंकर्षणस्थितिः ॥२२॥ संविदेकैव पूर्णा स्या- ज्ज्ञानभेदव्यपोहनात् । ज्ञानभेदापोहनमेवोपपादयति तथा हि' प्राणचारस्य नवस्यानुदये सति ॥२३॥ १ ग. पु. तथापीति पाठः ।
श्लो० २४ ] सप्तममाह्निकम् १५ न कालभेदजनितो ज्ञानभेदः प्रकल्पते । कालस्य हि साक्षात् प्राणोऽधिष्ठानमिति प्राणस्यानुदये कालोऽपि नोदियात्,-इति तस्या- भावात् तज़नितोऽपि ज्ञानस्य भेदो न भवेत्,- इति युक्तमुक्तम् ‘एकैव पूर्णा संवित्स्यातू'इति॥ ननु प्राणग्रासक्रमेण कालस्यापि ग्रासो वृत्तः, इति तदाहितश्चेत्संविदि भेदो नास्ति तज्ज्ञेयाहितो भविष्यति येनेदं नीलज्ञानमिदं पीतज्ञानमिति विभागः,-इत्येतावतैव कथमे- कत्वमस्याः सिद्ध्येत् ? इत्याशङ्कयाह संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् ॥२४॥ नहि एकान्ततः संवेद्यभेदः संविदं भिन्द्यात्। एवं हि तत्तद्गृहाणां नामादिवेद्यभेदेऽपि कथमे- कमेव नगरादिज्ञानं स्यादित्युक्तं 'शिखरिवृत्त- ?
१६
श्रीतन्त्रालोकः
वत्' इति । उन्नतप्रदेशावस्थितस्य हि पुंसस्त-
त्तदाभासमय एक एव प्रकाशो भवेदिति भावः।
यदाहुः
'तस्मात्सत्यपि बाह्येऽर्थे धीरेकानेकवेदनात् ।
अनेकसदृशाकारा नानेकेव प्रसज्यते ॥'
इति। तस्मादस्य काल एव भेदकः, स नाति-
सूक्ष्मक्षणात्माभिमतो येन ज्ञानस्योत्पादानन्तरं
निरोधो भवेत् ॥२४॥
तदाह
कालस्तु भेदकस्तस्य
स तु सूक्ष्मः क्षणो मतः।
तुशब्दो हेतौ। स इति कालः ॥
ननु चास्य सौम्ये कोऽवधिः ? इत्या-
शङ्कयाह
सौक्ष्म्यस्य चावधिर्ज्ञानं
यावत्तिष्ठति स क्षणः ॥२५॥
श्लो, २६ ] सप्तममाह्निकम् १७ तेन नियतोभयान्तपरिच्छिन्ना ज्ञानीयैव स- त्तास्य सत्तेत्यर्थः । नन्वस्य परोपाधिकः कस्मादेवंनिर्देशः.? इत्याशङ्कयाह अन्यथा न स निर्वक्तुं निपुणैरपि पार्यते अन्यथेति 'अभेद्यो निरंशः काललवक्षणः' इत्यादिना साक्षाल्लक्षणेनेत्यर्थः। एवं हि उत्पा- दानन्तरं निरोध इत्येवमुच्यमाने तस्याद्यन्तौ कथितौ स्यातां तत्सद्भावे च मध्यमप्यवश्य- संभाव्यम् ,-इत्यस्यादिमध्यावसानैख्यंशत्वमा- पतेदिति निरंशत्वेऽभिधित्सिते सांशत्वमभिहितं स्यात् । यदाहुः 'यथान्तोऽस्ति क्षणस्यैक्मादिमध्यं च चिन्त्यताम् । आत्मकत्वात्क्षणस्यैवं न लोकस्य क्षणे स्थितिः॥ इति । इत्थम् १ क. पु० विरोध इति पाठः । ३ १८ श्रीतन्त्रालोकः , आदिमध्यावसानानि चिन्त्यानि क्षणवत्पुनः।' इत्यांद्युक्तयुक्त्यादिमध्यान्तरूपाणां तदंशाना- मप्येवंविचारे क्रियमाणे स एव पर्यनुयोगः, इत्यनवस्थानात् न किंचित्सियेत् , - इत्यति- निपुणैरपि तस्य लक्षणं कर्तुं न शक्यं, कृतं वा न प्ररोहमियात् ॥ ननु यद्येवं तज्ज्ञानस्यापि कोऽवधिर्येनैतन्नि रूपितं भवेत् ? इत्याशङ्कयाह ज्ञानं कियद्भवेत्तांव- तदभावो न भासते ॥२६॥ कियदिति, क्षणिकत्वेऽपि किंपरिमाणमि- त्यर्थः । तदभावः' इति ज्ञानाभावः, तेन याव- त्तदभावो न वृत्तस्तावदेकमेव तज्ज्ञानं भवेदि- ति भावः । अभावश्च प्रत्यक्षग्राह्यः कार्यश्चेति अन्यत्रोपपादितमिति तत एवावधार्यम् ॥२६॥ १ ग० पु. यावदिति पाठः ।
लो० २७] सप्तममाह्निकम् १९ ननु यद्येवं तत्तदभावोऽपि कदा जायते येन ज्ञानस्याप्यवधिः ? इत्याशङ्कयाह तदभावश्च नो ताव- द्यावत्तत्राक्षवम॑नि । अर्थे वात्मप्रदेशे वा न संयोगविभागिता ॥२७॥ ज्ञानस्य च तावदभावो न जायते यावदि- न्द्रियाणामर्थस्य प्रमातुर्वा संयोगविभागौ न स्यातां, तदविरतेन्द्रियव्यापारस्य प्रमातुर्नीला- दिविषये ज्ञाने जायमाने यदा नीलादिना वि- भाग उत्पद्यते, पीतादिना वा संयोगस्तदा तद- भाव इति। ननु प्रदीपादिवत् प्रतिक्षणं करणो. पयोगात् ज्ञानस्य क्षणिकत्वे सर्वेषां तावदविवा- दोऽन्यथा विततकरणव्यापारस्यापि प्रमातुर्नी- लादिज्ञानं न स्यात् तत्किमेतदुक्तं यदिन्द्रियाणां , ग. पु. अत इति पाठः । २ कारणेति पाठः।
२०
श्रीतन्त्रालोकः
यावन्न संयोगविभागोदयस्तावदेकमेव ज्ञान-
मिति; एवं हि धारावाहिनां विज्ञानानामभावोऽ-
भिहितो भवेत्। सत्यं, किंतु भवदभिरुचितं
निरन्वयविनाशात्म क्षणिकत्वं ज्ञानस्य न स्यात् ,
इत्यभिदध्मः । अनन्तरं हि त्रिचतुरादिक्षणा-
वस्थायि ज्ञानं भवेदिति समनन्तरं क्षणनिर्ण-
येनैवोपपादितम् । तस्मादेकरसेऽपि नीलादि-
विषये विज्ञानेऽन्तरा चक्षुरादीन्द्रियविभागा-
दिना तदभावादि स्थितमेव किंतु न तथा
संचेत्यते; तेन धारावाहिनां विज्ञानानामप्य-
भावो न स्यादिति न कश्चिद्विरोधः ॥२७॥
ननु संयोगविभागितापि किं सकारणिका
भवेत् न का? इत्याशङ्कयाह
सा चेदुदयते स्पन्द-
मयी तत्प्राणगा ध्रुवम्
भवेदेव ततः प्राण-
स्पन्दाभावे न सा भवेत्॥२८॥
श्लो० २९ ] षष्टमाह्निकम् २१ स्पन्दमयीति, स्पन्दः प्रकृतिर्मूलकारणं यस्याः सा स्पन्दाधीनैव इत्यर्थः । देशाद्देशा- न्तरं हि चलवस्तु वस्त्वन्तरेण संयुज्यते वियु- ज्यते वेत्यभिप्रायः। स्पन्दश्च प्राणाश्रयः, इति पारम्पर्येण संयोगविभागितापि प्राणगतैव निश्चितं भवेत, इति प्राणस्पन्दाभावे सा न भवेतः निमित्ताभावे नैमित्तिकस्याप्यभावः, इतिनीत्या तद्भावोऽपि कुतस्त्य इत्यर्थः ॥२८॥ ननु भवतु नाम संयोगविभागिता मा वा भूत् किमनया नश्चिन्तया, यावता ह्यत्र प्राण- ग्रासक्रमेण कालपासे वृत्ते एकैव पूर्णा संवि- स्यादित्युपक्रान्तं तदेव कथं निर्वहेत् इत्यु- च्यताम् ? इत्याशङ्कयाह १ ख. पु० संयोज्यते इति, ग० पु० विभज्यते चेति पाठः। २ ख० पु० संयोगवियोगभागितेति पाठः । ३ क. पु. निश्चितैवेति पाठः । ४ ख. पु० वियोगितेति पाठः।
२२ श्रीतन्त्रालोकः तदभावान्न विज्ञाना- भावः सैवं त सैव धीः । तस्याः संयोगविभागिताया अभावाद्विज्ञान- स्याप्यभावो न स्यात्, यद्धि यदन्वयव्यतिरे- कानुविधायि तत्तत्कार्य भवेदिति भावः। एवं हि सति सा प्राच्या या धीः संवित्सैवेयं नतुं संविदन्तरमेकैव पूर्णा संवित्स्यादित्यर्थः। नन्वेवमेकस्या एव संविदः किं पूर्वापरेकी- काराद्वैतत्येनावभासो भवेत् ? इत्याशङ्कयाह न चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् ॥२९॥ असाविति धीः दीर्घत्यर्थान्न सूक्ष्मापि, दैर्ध्यादि हि कालाधीनं, न चास्यास्तत्स्पर्श एवास्ति अकालकलितत्वात् ॥ २९ ॥ तदाह १ ख. पु० वियोगभागिताया इति पाठः ।
श्लो. ३०]]
सप्तममाह्निकम्
२३
'वस्तुता ह्यत एवय
कालं संविन्न संस्टशेत् ।
एवं वस्तुतो नित्यत्वमप्यस्या न संभवेत्,
तद्धि कालत्रयानुगामित्वमुच्यते नतु सदा-
भासमानत्वम्, एवं हि त्रिषु कालेषु भासमान-
त्वमुक्तं स्यात् । यदाहुः
'न सदा न तदा न चैकदे-
त्यपि सा यत्र न कालधीभवेत् ।
तदिदं भवदीयदर्शनं
न च नित्यं न च कथ्यतेऽन्यथा ॥'
( उ० स्तो० १२१५)
ननु यद्येवमकालकलिता वस्तुत एकैव संवि-
दस्ति तत्कथमयं बहिर्भेदनिष्ठो व्यवहारः सि-
येत् ? इत्याशङ्कयाह
अत एकैव संवित्ति-
र्नानारूपे तथातथा ॥३०॥
२४ OC श्रीतन्त्रालोकः विन्दाना निर्विकल्पापि विकल्पो भावगोचरे। अतः कालसंस्पर्शाभावात् एकैव निर्विक- ल्पापि संवित्तिर्नानारूपेऽनेकाभाससंमूर्छनात्म- नि भावविषये तथातथा नीलानीलादिरूपतया विन्दाना विमृशन्ती विकल्प इत्युच्यते, इति न बाह्यस्यापि व्यवहारस्य विप्रलोपः ॥ ननु तथातथाविमर्शेऽप्यस्याः कथमेकत्वमेव ? इत्याशङ्कयाह स्पन्दान्तरं न यावत्त- दुदितं तावदेव सः ॥ ३१ ॥ तावानेको विकल्पः स्या- द्विविधं वस्तु कल्पयन्। तत्तस्मात्पूर्वोक्तात्तत्तदर्थादिसंयोगविभागो- त्पादलक्षणात् हेतोर्यावद्विकल्प्यवस्त्वन्तरविषयं स्पन्दान्तरं नोदितं तावन्नानाप्रकारं वस्तु कल्प- श्लो० ३३] सप्तममाह्निकम् २५ यन्नपितावान्दीर्घदीर्घ एक एव विकल्पः स्यात् न पुनरनेक इत्यर्थः । यत्तदनेकाभाससंमूर्छना- स्मतया विकल्प्यमानेऽपि नीलादौ विकल्पस्यै- क्यमेव तावत एकस्यैवानुसंधानस्य भावात् अन्यथा पुनरस्य स्वरूपलाभ एव न भवेदिति भावः ॥ तदाह ये त्वित्थं न विदुस्तेषां विकल्पो नोपपद्यते ॥ ३२॥ स ह्येको न भवेत्कश्चित् त्रिजगत्यपि जातुचित् । ये इति बौद्धाः, इत्थमिति स्पन्दान्तरोदय एव विकल्पान्तराणामुदयो नत्वेकस्मिन्नेव स्पन्दे इत्यर्थः । एक इति, येन स्मृत्यपलापा- द्यनेकाश्रयनिबन्धनो बाह्यो व्यवहारः सिद्ध्येत्। एतदेव दर्शयति २६ श्रीतन्त्रालोकः शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते ॥३३॥ सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् । घट इत्यपि नेयान्स्या- डिकल्पः का कथा स्थितौं ॥३४॥ न विकल्पश्च कोऽप्यस्ति यो मात्रामात्रनिष्ठितः । कथ्यते इति भवद्भिः । यदुक्तं 'अभिला- पसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना' इति। सेति शब्दारूषणा, क्रमिकेति वाचः क्रमभावित्वात् , इत्थं ऋमिकत्वाद्विकल्पस्यो- दितानां तत्क्षणानां प्रध्वस्तत्वान्नवानां चानु- दयात् को न कश्चित्कल्पितोऽपि विकल्पात्मा प्रमाता किमुत्पन्नप्रध्वस्तप्रकल्प्यं पूर्वापरानुसं- धानांदेरभावाच्च कथं विकल्पयेत् विकल्पस्य
लो० ३५]
सप्तममाह्निकम्
२७
स्वरूपलाभ एव न भवेदित्यर्थः। अत एव
घकारोच्चारकाले टकारस्याभावात्तदुचारकाले च
तस्य प्रध्वस्तत्वात् यत्र 'घट' इत्येतावन्मात्रोऽपि
विकल्पो न सिध्येत् तत्र व्यवहारादिचिन्ता दूर
एवास्तां तदवस्थानमात्रेऽपि का वार्तेत्यर्थः ।
नहि । तन्मते
कोऽप्येवंविधो विकल्पोऽस्ति
यस्यांशमात्रेऽपि परिनिष्ठितत्वं । तथात्वे ह्येषां
क्षणभङ्गवतविलोपो भवेदिति भावः ॥
नन्वेकमेव मालासूत्रवत्सर्वत्रानुयायि ज्ञानं
किंचिन्नास्ति, इत्यस्माकं मतं नतु क्षणभङ्गु-
राण्यनेकानि ज्ञानानि न सन्तीतिः तत्तान्येव
समुदितानि बाह्यव्यवहारनैपुण्यभाञ्जि भवि-
प्यन्ति, इति को दोषः? इत्याशङ्कयाह
न च ज्ञानसमूहोऽस्ति
तेषामयुगपस्थितेः ॥ ३५॥
अयुगपस्थितेरिति, उत्पादानन्तरं तन्निरो-
धस्याभिधानात् ॥ ३५॥
२८ श्रीतन्त्रालोकः तस्माद्वैकल्पिकः : सकल एवायं व्यवहारस्त- न्मते न सिद्ध्येत, इत्याह तेनास्तङ्गत एवैष व्यवहारो विकल्पजः। तेनास्मत्पक्ष एव ज्यायानित्याह तस्मात्स्पन्दान्तरं याव- नोदियात्तावदेककम् ॥३६॥ विज्ञानं तहिकल्पात्म- धर्मकोटीरपि स्टशेत् । तद्यावद्विकल्पान्तरनिष्ठं स्पन्दान्तरं नोदेति तावद्गोत्वशुक्लत्वचलत्वाद्यात्मकं धर्मोंधमपि वि- कल्पयेत् एकमेवैतद्वैकल्पिकं ज्ञानं स्यात् येनै- कानुसंध्यनुप्राणितः समग्र एवायं व्यवहारः सिध्येत् ॥ न चैतदपूर्वतया स्वोपज्ञमेवोक्तमित्याह .
श्लो० ३८] सप्तममाह्निकम् २ o/ एकाशीतिपदोदार- शक्यामर्शात्मकस्ततः ॥३७॥ विकल्पः शिवतादायी पूर्वमेव निरूपितः। तत उक्तानेकधर्मपरामर्शकत्वेऽप्येकत्वलक्ष- णाद्धेतोव्योमव्यापिरूपः शुद्धविद्यात्मा विक- ल्पस्तत्तदनेकहृदादिशक्त्यामर्शकत्वेऽप्येकत्वात् पार्यन्तिकफलरूपां शिवतामेव ददातीति पूर्व- मेवास्माभिरुक्तम् ॥ नन्वेवमेकस्मिन्नेव प्राणचारे एकपिण्डात्म- काच्चकादारभ्य सचतुःशतद्व्यशीतिसहस्राधिक- त्रयोदशलक्षात्मकचक्रायन्तं यावच्चक्राणां स्वा- रसिक एवोदयो वर्तते,-इति योगिनां प्रतिनि- यतचक्रविषयः कथमवगमो भवेत् ? इत्याशङ्कां दृष्टान्तोपदर्शनेनोपशमयति २ ख. ग० पु. १ख० पु. मर्शात्मकत्वे इति पाठः । मर्शात्मकरवे इति पाठः।
३० श्रीतन्त्रालोकः यथा कर्णौ नर्तयामी- त्येवं यत्नात्तथा भवेत् ॥३८॥ चक्रचारगताद्यत्ना- तहत्तच्चक्रगैव धीः। कर्णी नर्तयामीत्येवमिच्छापूर्वकात्प्राणीया- द्यत्नात् यद्वद्योगिनस्तथा भवेत् , गोस्फुरितादि- न्यायेन कर्णद्वयमेव नृत्यत्स्यात् तद्वदेकपिण्डा- दिचक्रप्रधानो यः प्राणीयश्चारस्तद्गतादपि य- त्नात्तच्चकगैव धीः प्रारिप्सितोदयप्रतिनियतच- क्रनिष्ठ एवावबोधो भवेदित्यर्थः । अयमत्र भावः-इह खलु योगिना यत्र क्वापि कर्मणि यस्य कस्यचिन्मन्त्रस्यावश्यं प्राणसाम्येनोच्चारः कार्यः, अन्यथा हि न कार्यसिद्धिः स्यात् । तदुक्तम् जपेत्तु माणसाम्येन ततः सिद्धिर्भवेद्भुवम् । नान्यथा सिद्धिमामोति हास्यमामोति सुन्दरि ॥' १ ख. ग. पु. प्रजपेदिति पाठः ।
श्लो० ४०] सप्तममाह्निकम् इति । सतश्चैकपिण्डात्मनोऽन्यस्य वा चक्र- स्योदये तुल्य एव विधिः प्राणसाम्यस्य सर्व- त्राविशेषात् ॥ तदाह जपहोमार्चनादीनां प्राणसाम्यमतो विधिः ॥३९॥ होमेति, तत्रापि मन्त्रोच्चारस्य भावात् । अत इत्युक्ताच्चक्रोदयाद्धेतोः, संख्यायास्तु स्वार- सिकप्राणचाराभिप्रायेण वर्णभूयस्त्वाभूयस्त्वनि- बन्धनं तथात्वमिति न कश्चिद्विरोधः ॥ किमत्र प्रमाणम् ? इत्याशङ्कयाह सिद्धामते कुण्डलिनी- शक्तिःप्राणसमोन्मनां । उक्तं च योगिनीकौले तदेतत्परमेशिना ॥ ४० ॥ १ ख. पु. सर्वत्रैवेति पाठः । २ क० ख० पु. श्रीत्रिकसारे- चेति पाठः ।
श्रीतन्त्रालोकः तदेतत्परमेशिनाश्रीसिद्धयोगीश्वरीमते श्री- योगिनीकोले चोक्तमिति संबन्धः । तत्तदेक- पिण्डाद्यात्मकमन्त्ररूपतया बहिरूल्लसन्ती वर्ण- कुण्डलिन्याख्या पारमेश्वरी शक्तिर्यदि नाम प्राणसमा प्राणसाम्येनोदयमियात् तदुन्मना शिवैकात्म्येन प्रस्फुरेदित्यर्थः । यदुक्तं तत्र कुर्यात्माणसमं जप्यं होमं प्राणसमं कुरु । एवं प्राणसमा शक्तिः कुण्डलाख्या मनोन्मनी ॥' इति ॥ ४०॥ श्रीयोगिनीकौलग्रन्थं पठति पदमन्त्राक्षरे चक्र विभागं शक्तितत्त्वगम् । पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् ॥४१॥ पदप्रधानानि मन्त्राक्षराणि यत्रैवंविधे चके पदेषु शक्तितत्त्वगं विभागं कृत्वा एकैकं पदं १ ख० ग० पु. मनोन्मनेति पाठः ।
लो० ४२] सप्तममाह्निकम् प्रतिप्राणचारं प्रविभागेनोदयं कारयित्वा जप- होमादौ मन्त्रोदयं जानानो योगी फल- भाग्भवेत् , यथोचितं फलमानुयादित्यर्थः॥४१॥ ननु कोऽसौ विभागः किं वा फलम् इत्याशङ्कयाह हित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् । इह चक्राणां प्रागुक्तवदेकद्वित्रिसप्ताष्टादि- पदपिण्डसंख्यातम् , अर्थात् शतिकोदयमनेक- पदपिण्डात्मकचक्रपर्यन्तं विभागमाश्रित्य, अर्थात् प्राणचारं लोपयेत् प्राणग्रासं कुर्या- दित्यर्थः । एतदेव हि मुख्यं फलं योगिनां यदकालकलितायां परस्यां संविद्यनुप्रवेश इति॥ एवं चात्रैवावधातव्यमित्याह इति शक्तिस्थिता मन्त्रा विद्यावा चक्रनायकाः॥४२॥ १ ग० पु० द्विस्त्रिःसप्तेति पाठः । २ क. ख. पु० इत्थमिति.पाठः । ३ ग० पु. नायिका इति पाठः । , ५ ३४ श्रीतन्त्रालोकः पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये । नत्यादये महातत्त्वे उदयस्थे सदाशिवे ॥ ४३ ॥ अयुक्ताः शक्तिमार्गे तु न जप्ताश्योदयेन ये। ते न सिद्धयन्ति यत्नेन जप्ताः कोटिशतैरपि ॥४४॥ इति प्रागुक्तं सर्वं ज्ञात्वा चक्रप्रधाना मन्त्रा विद्या वा पदपिण्डस्वरूपेण समनन्तरोक्तपद- पिण्डादिगत्या 'शक्तिस्थिताः' प्राणसाम्येनो- दिताः सर्वकालं जपादौ योज्या येन यथो- चिता योगिनां सिद्धिः स्यात् । अन्यथा हि नित्योदयेऽत एव परमुपेयत्वान्महातत्त्वे, सृष्टि- प्राधान्यादुदयस्थेऽत एव तसिद्धिप्रदायित्वात्
३५
मा० ४५]
सप्तममाह्निकम्
सदैव श्रेयोरूपे शक्तिरूपे मध्यधाम्न्ययोजिताः,
तथा प्राणस्योदयेन निर्गमेन अर्थात्प्रवेशेमापि
ये मन्त्रादयो न जप्तास्ते कोटिशतैर्यत्नेनापि
जप्ता न सिद्धयन्ति, तां पूर्णां दातुं न शक्ता
इत्यर्थः । यदुक्तम्
'न विन्दति यदा मन्त्री सृष्टिसंहारवर्मनी ।
उदयास्तमरूपेण मन्त्रा अल्पफलपदाः ॥
भोगं मोक्षं न यच्छन्ति जप्ता ध्यातास्तु पूजिताः ।
ईपत्फलं प्रयच्छन्ति शिवाज्ञासंप्रचोदिताः ।।
इति। मन्त्रा विद्या वेत्यनेनानुजोद्देशोदिष्टो
मन्त्रविद्याभेदोऽप्यासूत्रितः ॥४४ ॥
ननु सर्वेषां मन्त्रादीनामविशेषेणैव किमियं
व्यवस्था किमन्यथा वा ? इत्याशङ्क्याह
मालामन्त्रेषु सर्वेषु
मानसो जप उच्यते।
उपांशुर्वा शक्त्युदयं
तेषां न परिकल्पयेत् ॥४५॥
३६ श्रीतन्त्रालोकः सर्वेष्विति विद्यास्वपि,मानस इति। तदुक्तम् ." आत्मा न शृणुते यं स मानसो जप उच्यते । आत्मना शृणुते यस्तु तमुपांशु विजानते ।। परे शृण्वन्ति यं देवि स शब्दः स उदाहृतः। (स्व० २।१४७) इति । वेति विकल्पे । सशब्दस्यार्थसिद्धो निषेधः॥ ननु समनन्तरमेवोक्तं यच्छक्तिवर्मन्ययो- जिता मन्त्रा न सिद्धयन्तीति तत्कथमिद- मुच्यते 'शक्त्युदयं तेषां न परिकल्पयेत्' इत्या- शङ्कयाह पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् । शक्यते संततं युक्तै- स्तावज्जप्यं तावती तेषु वै संख्या पदेषु पदसंज्ञिता। तु साधकैः ॥४६॥ Indutnuarram .----- १ क. पु. संज्ञेति पाठः।
श्लो० ५०]
सप्तममाह्निकम्
३७
तावन्तमुदयं कृत्वा
त्रिपदोक्त्यादितः क्रमात्॥४७॥
द्वादशाख्ये हादशिते
चक्रे साधं शतं भवेत्।
उदयस्तद्धि सचतु-
श्चत्वारिंशच्छतं भवेत् ॥४८॥
षोडशाख्ये हादशिते
हानवत्यधिके शते।
चारार्धन समं प्रोक्तं
शतं द्वादशकाधिकम् ॥४९॥
षोडशाख्ये षोडशिते
भवेच्चतुरशीतिगः।
उदयो द्विशतं तद्धि
षट्पञ्चाशत्समुत्तरम् ॥५०॥
३८ श्रीतन्त्रालोकः चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्बुधाः। अष्टाष्टके द्वादशिते पादाधैं विंशतिं वसून् ॥५१॥ उदयः सप्तशतिका साष्टा षष्टिर्यतो हि सः। पदप्रधानेषु सर्वेषु विद्यादिरूपेषु मन्त्रेषु पदानां प्राणशक्तेश्च साम्यं गतं तजपादि अभियुक्तैः साधकांवत्कर्तुं शक्यते तावदेव सर्वकालं जपनीयं, येन तेषु पदेषु विपदो- त्यादिकं क्रममवलम्ब्य 'त्रिषु बहुत्वं परिस- माप्यते' इत्यादिनीत्या क्रमेणैकैकं पदं बहु- पंदतया विभज्य समस्तस्य पदस्य प्राणचार- साम्येन सकृदुच्चारयितुमशक्यत्वात् तावन्तं पदांशपरीमाणं प्राणशक्तावुदयं कृत्वा तावती .१ क० ख० पु. उदयं सप्तशतिकमिति पाठः ।
श्लो० ५२] सप्तममाह्निकम् ३९ पदांशपरिमाणैव पदसंज्ञिता जपस्य संख्या स्यादिति । अयमत्र भावः न केवलमनेक- पदस्य मन्त्रस्य प्राणशक्तौ सकृदुच्चारयितुम शक्यत्वं यावद्वह्वर्णतया तत्पदस्यापीति त- स्याप्यंशांशिकया विभागः कार्यों येन शनैः शनैरेकमेकं तदंशं प्राणसाम्येनोच्चारयतां यो- गिनां लक्षजपादि सिद्ध्येदिति । तदुक्तं तत्र 'पदमत्राक्षरे चक्रे विभागं शक्तितत्त्वगम् । पदेषु कृत्वा मन्त्रज्ञो जपं नित्यं तु कारयेत् ।। द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् । इति शक्तिस्थिता मत्रा विद्या वा चक्रनायकाः ॥ पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये । नित्योदये महातत्त्वे उदयस्थे सदाशिवे ।। अयुक्ताः शक्तिमार्गे तु अजप्ताश्चोदयेन तु । नैव सिद्ध्यन्ति यत्नेन... इति । तथा मालामन्त्रेषु सर्वेषु मानसो जप उच्यते । शक्त्योदयं तु वै तेषु न कदाचित्प्रकल्पयेत् ॥ .......... . १ ख. पु० प्राणचारेणेति द्वितीयः पाठः ।
श्रीतन्त्रालोकः यतस्तेषां वरारोहे मानसस्तु जपः स्मृतः । कचिच्चैव उपांशुः स्याजपः शास्त्रेषु कीर्तितः ॥ महामन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् । शक्यते सततं युक्तैः प्रजप्तुं साधकोत्तमैः ।। तावती तेषु वै संख्या पदेषु पदसंज्ञिता। तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् ।।' इति । अतश्च सामस्त्येन मालामन्त्रादीनां प्राणशक्तावुदयं कर्तुं न शक्यते,-इत्युक्तमेषां शक्त्युदयं न परिकल्पयेदिति । न तु सर्वस- विकया, तथात्वे हि जपस्याल्पफलप्रदत्वादध- मत्वं स्यात् । यदुक्तम् अधमस्तु जपः प्रोक्तः प्राणसंख्याविवर्जितः।' इति । पदविभागमेव दर्शयति द्वादशेत्या- दिना । — द्वादशाख्ये' द्वादशपदात्मके माला- मन्त्राद्यात्मनि चक्रे 'दादशिते' संजातद्वादश- संख्याके प्रत्येकं पदद्वादशकस्य द्वादशधावि- भागे कृते सति द्वादशानां चतुश्चत्वारिंशदधिकं शतं भवेत् येन तस्यापि प्रत्येकं सार्धं शतं प्राण- चाराणामुदयः,-इति सषट्शता सहस्रकविंश-
श्लोक ५२]
सप्तममाह्निकम
११
तिः प्राणचाराणां स्यात् । तथा षोडशपदात्मके
चके द्वादशधा कृते तदंशानां द्वानवत्यधिकं शतं
पण्णवतेरवशिष्टत्वादयं चोदयः। तथा षोडशाख्ये
एव चक्रे षोडशधा कृते षोडशांशानां षट्पञ्चा-
शदधिकं शतद्वयं भवेदिति भावः । तस्य प्रत्येकं
प्राणचाराणां चतुरशीतिः षण्णवतेरेवावशिष्ट-
त्वात् चाराष्टभागैरयमुदयो भवेत् । तथाष्टाष्टके
चतुःषष्टिपदात्मके चक्रे द्वादशधा कृते प्रतिपदं
द्वादशकं प्राणचाराणां विंशतिवसूनष्टाविंशति
तथा षण्णवतेरर्धावशिष्टत्वात पादार्धमष्टभाग-
मुदयो यतश्चतुःषष्टयात्मनश्चक्रस्य द्वादशभिर्गु-
णनात् अष्टषष्टयधिकशतसप्तकलक्षणा सा
संख्या भवेदित्येवमत्र सर्वत्र प्राणचाराणां
सषट्छता सहलेकविंशतिरेव भवेत् ॥
एतदेवोपसंहरति ।
एष चक्रोदयः प्रोक्तः
साधकानां हितावहः ॥५२॥
४२ श्रीतन्त्रालोकः ननु प्राणचारोदयानुसारं चक्राणामुदय इति स एव कीदृक् येन सोऽपि स्यात् ? इत्या- शङ्कयाह निरुद्ध्य मानसीरीत्ती- श्चक्रे विश्रान्तिमागतः। व्युत्थाय यावद्विश्राम्ये- त्तावच्चारोदयो ह्ययम् ॥५३॥ इह खलु योगी संकल्पात्मिका मानसीवृत्ती- 'निरुद्धय' अन्तर्मुखीकृत्य 'चक्रस्य' एकपिण्डा- द्यात्मनो मन्त्रस्य 'विश्रान्ति' मध्यधामैकात्म्य- मागतः सन् यावदुत्थाय हृद आरभ्य द्वादशा- न्तपर्यन्तं निर्गम्य पुनरन्तःप्रविश्य हृद्येव विश्रा- म्येत् तावदयं प्राणस्योदयो भवेदित्यर्थः ॥५३॥ अत्रैव त्रैरूप्यं निरूपयन् सिद्ध्यादिविभा- गमप्याह पूर्णे समुदये त्वत्र प्रवेशैकात्म्यनिर्गमाः।
श्रो ५६ ] सप्तममाह्निकम् ४३ जय इत्यत एवोक्तः सिद्धी मध्योदयो वरः॥५४॥ अत्र पुनः सम्यक् मध्यधामैकात्म्येन प्रवे. शपर्यन्तं प्राणस्योदये निर्गमे पूर्णे' यथोक्त- गत्या परिपूर्ति प्राप्त प्रवेशैकात्म्यनिर्गमलक्षणा- स्त्रयः प्रकाराः सन्तीत्यतः प्रकारत्रयमध्यात्सि- द्धिनिमित्तमैकात्म्यलक्षणो मध्योदय एव प्रवेशादपि 'वरः' श्रेष्ठ उक्त इत्यर्थः ॥ ५४ ॥ नन्वेवचने किं प्रमाणम् ? इत्याशङ्कयाह आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः। मन्त्रविद्याचक्रगणाः सिडिभाजो भवन्ति हि॥५५॥ मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित् ।
OC श्रीतन्त्रालोकः क्षिप्रं सिद्धयेदिति प्रोक्तं श्रीमद्विंशतिके त्रिके ॥ ५६ ।। 'आद्यन्तोदयो' निर्गमप्रवेशो, 'मध्यमोद- यो' मध्यधामकात्म्यम् । हिहेतौ । तेनैवं मन्त्र- विद्याचक्रोदयं जानानो योगी निर्विलम्बमेव सिद्धिभाग्भवेदित्यर्थः ॥ ५६ ॥ ननु जितप्राणस्यारुढस्य योगिनः किं नामा- साध्यं यन्न प्राणगं कुर्यात् , प्राणं जयतः पुन- रारुरुक्षोः कथमेतत्सिध्येत् ? इत्याशङ्कयाह द्विस्त्रिश्चतुर्वा मात्राभि- विद्यां वा चक्रमेव वा। तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा ॥ ५७ ॥ पिण्डाक्षरपदैर्मन्त्र- मेकक शक्तितत्त्वगम्।
श्लो० ५९] सप्तममाह्निकम् OC बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा ॥५८॥ शक्तिस्थं नैव तं.तत्र विभागस्त्वोंनमोन्तगः। आरुरुक्षुः पुनर्योगी नित्यं द्विःत्रिश्चतुर्वाभ्या- सतारतम्यानुसारमेकट्यादिक्रमेण 'त्रिीनुवेष्टनान्मात्रा त्रिगुणच्छोटिकात्रयात् ।' ( मा० वि० १७/१२) इति लक्षिताभिर्मात्राभिरनेकाक्षरां विद्या- मनेकपिण्डं वा चक्रमनेकपदं वा मन्त्रमेकै पिण्डाक्षरपदैः पृथग्भूतमेकमेव पिण्डमक्षरं पदं वा पूर्वोक्तयुक्त्या प्राणशक्तितत्त्वगतं कृत्वा तत्त्वो- दययुतं मध्यधामैकात्म्येन सदा जपेत् , लक्ष- जपादि कुर्यादित्यर्थः । अत एव पदादि- विभागशून्यो बहक्षर एव यः पुनर्मन्त्रादिस्त- मारुरुक्षुर्योगी तावतः प्राणनिरोधस्याशक्यत्वात् शक्तिस्थं नैव कुर्यात् शक्त्युदयमेषां न परिक- , ४६ श्रीतन्त्रालोकः कल्पयेदित्यर्थः । ननु यद्येषां बहक्षरतया साम- स्त्येन प्राणशक्तावुदयं कर्तुं न शक्यते तत्सम- नन्तरोक्तक्रमेण व्यस्ततयैतदस्तु,-इत्याशङ्कयो- क्तं तत्रेत्यादि । ओनमोन्तग इति, नतु मन्त्रा- न्तरवत् पदपिण्डादिक्रमेणैषां विभागोऽस्ति येनांशांशिकयापि शक्तावुदयः सिद्धयेत् ; अत- श्चारुरुक्षुभिरेवंविधानां मन्त्राणां जप एव न कार्यः,-इत्युक्तं स्यात् ॥ आरूढस्य पुनयोगिनो न केवलं पूर्ण एव समुदये प्रवेशादित्रैविध्यं यावत्तदंशेष्वपीत्याह अस्मिंस्तत्त्वोदये तस्मा- दहोरात्रस्त्रिशस्त्रिशः ॥ ५९॥ विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः । तस्मात्पूर्वोक्ताद्धेतोः, अस्मिन् प्रक्रान्ते 'तत्त्वोदये कार्यकारणयोरभेदोपचारात् चक्रोदये श्लो० ६१] ४७ सतममाह्निकम् प्राणापानात्माहोरात्रस्त्रिशस्त्रिशो विभज्यते, के- वल एव प्राणोऽपानो वा प्रवेशकात्म्यनिर्गमा- मना प्रकारत्रयेण विभागमापद्यते इत्यर्थः। तेन षट्रिंशदात्मनोरुभयोरपि प्राणापानवाहयोः प्रत्येक प्रवेशादित्रैविध्यमिति प्रवेशादेः प्रत्यं- गुलद्वादशकमुदयः । एवमात्मा विभागोऽपि पुनस्त्रिशस्त्रिश एव, प्रवेशाद्यपि प्रवेशनिर्गमैका- त्म्यलक्षणप्रकारत्रयभाग्भवेदित्यर्थः । तेन प्रत्यं- गुलचतुष्टयमपि प्रवेशादीनामुदयः, इति सि- द्धम् ; तदारूढस्य योगिनः परिमिते प्राणचा- रीयेऽप्यंशेऽप्येवं चक्रोदयः सिद्धयेदित्यभिप्रायः॥ एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा ॥ ६ ॥ विशेच्चाधिकायोगा- त्तदोक्ता|दयो भवेत् । १ ख० ग० पु. दयेऽपीति पाठः । ३ ख० पु० र्धादिकेति पाठः ।
४८ श्रीतन्त्रालोकः यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् ॥६१॥ प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा। तस्मात् 'पूर्वस्मिन्' प्रधाने मध्यधामात्मनि 'उदये विश्रम्य' तदैकात्म्येन स्थित्वा 'यदा द्वि- तीयेन' निर्गमात्मना प्रकारेण 'उल्लसेत्' प्राण- क्रमेणोज़ गच्छेत् , अर्थात्तृतीयेनापि प्रवेशा- त्मना प्रकारेण 'विशेत् ' अपानक्रमेण हृदन्तं प्रवेशं कुर्यात् तदा प्राणापानयोः प्रत्येकमर्धा- किया संबन्धात् सपछतसहस्रकविंशत्या- त्मन उक्तस्य कालस्यार्धन प्राणचाराणां साष्ट- शतं सहस्रदशकमुदयो भवेत् । यदा पुनः 'पूर्णः' सपछतसहस्रकविंशतिरूपो योऽसावु- दयस्तदात्मा कालः प्रवेशविश्रान्त्युल्लासाख्ये त्रिकें साम्येन स्फुरत् तदा प्रवेशादीनां प्रत्येक .
श्लो० ६३ ] सप्तममाह्निकम् 'स्वः' आत्मीयो यः सशतद्वयसहस्रसप्तकात्मा त्र्यंशः' तस्योदयो भवेदित्यर्थः॥ ननु प्राक् 'अन्तः संविदि सर्वोऽयमध्वा विश्रम्य तिष्ठति । (तं०६।२८) इति प्रतिज्ञातं तत्कथमिह कालाध्वनः प्रापा एवैवं प्रतिष्ठितत्वमुच्यते ? इत्याशङ्कयाह इत्येष कालविभवः प्राण एव प्रतिष्ठितः ॥ ६२ ।। स स्पदे खे स तच्चित्यां तेनास्यां विश्वनिष्ठितिः। 'प्राण' इति प्राधान्यात्.तेनापानादावपि । स इति प्राणः । 'स्पन्दे' इति सामान्यात्मि- कायामाद्यप्रसररुपायां प्राणनावृत्तौ । 'खे' इंति शून्यप्रमातरि । स इति मेयौत्सुक्येन बहिः- समुच्छलन्प्राणस्पन्दादिशब्दव्यपदेश्यो भवे- दिति भावः । तदिति खं, चित एव स्वात- ५० श्रीतन्त्रालोकः . - त्र्याच्छून्यरूपत्वेन परिस्फुरणात् । तेनेत्युक्तेन पारम्पर्येण हेतुना, विश्वेति पडिधस्याध्वनः । यद्वक्ष्यति अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः । यत्तत्र न हि विश्रान्तं तनभःकुसुमायते ॥ संविद्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च । नाडीचक्रानुचक्रेषु वहिदेहेऽध्वसंस्थितिः (त०८४) इति ॥ एवं संविदधीनावेव विश्वस्य सृष्टिसंहारा- वित्याह अतः संवित्प्रतिष्ठानौ यतो. विश्वलयोदयौ ॥६३ ॥ शक्त्यन्तेऽध्वनि तत्स्पन्दा- संख्यातां वास्तवी ततः । अतः कालस्य पारम्पर्येण संविद्येव निष्ठित- त्वात् संवित्कर्तृकावेव यतो विश्वस्य सृष्टिसं- श्लो० ६५] सप्तममाह्निकम् ५१ हारौ, ततः शक्त्यन्तेऽध्वनि तेषां प्रागुक्तानां सृष्टिसंहाराद्यात्मनां स्पन्दानां 'तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः । अन्तर्भूता ततः शाक्ती महासृष्टिरुदाहृता ।' इत्याद्युक्तयुक्त्यावान्तराणां स्पन्दानामन्तर्भा- वात् असंख्यातापि वास्तवी सन्मात्रैकरूपत्यात् पारमार्थिकीत्यर्थः । यो हि नाम बहिः कश्चन परिस्पन्दः स संवित्सतत्त्व एव, इत्यभिप्रायः॥ न चैतदस्मदुपज्ञमेव यावदागमेऽपि एव- मित्याह उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् ॥६४॥ विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम्। इह खलु परसंविदावेशशालिनो योगिनो यत्रैव कुत्रचिच्चक्षुरादौ गात्रे 'सर्वो ममायं श्रीतन्त्रालोकः विभवः' इत्यादिसंकल्पपूर्वक उपजायमानो यो विकारः स्पन्दस्तस्य यत्तत्त्वं सर्वभावानां स्वा- विभागेनावभासनं तदुत्तमं तत्वं, संविदनतिरे- कात्परः परमार्थ इत्यर्थः । तदुक्तं तत्र 'यत्रैव कुत्रचिद्गात्रे विकार उपजायते । संकल्पपूर्वको देवि तत्तत्त्वं तत्त्वमुत्तमम् ॥” (मा०वि० । १८१४२) इति । ननु भवतु नामैतत् तत्राप्यस्य प्राणस्य देहनिष्ठत्वेन कस्माद्रूपमुच्यते ? इत्याशङ्कयाह प्राणे प्रतिष्ठितः काल- स्तदाविष्टा च यत्तनुः ॥६५॥ देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते । तदाविष्टेति, तच्छब्देन प्राणपरामर्शः । तत इति, प्राणस्थ तनावाविष्टत्वात् ॥ ननु कथं नाम देहस्य तदावेशः ? इत्या- शङ्कयाह लो०६७] सप्तममाह्निकम् ५३ चित्स्पन्दप्राणवृत्तीना- मन्त्या यास्थूलता सुषिः॥६६॥ सा नाडीरूपतामेत्य देहं संतानयेदिमम्। प्राङ्किरूपितस्वरूपाणां चिदादीनां कार्यज- ननोन्मुख्यादन्त्या, अत एव चिदादेरन्तःकर- णात् सुषिशब्दव्यपदेश्या या स्थूलता बहीरू: पतया श्यानीभावः सा 'पादाङ्गुष्ठाग्रतो व्यक्ता नाभितो हृदयं गता । सुषुम्ना नाम सा ज्ञेया ब्रह्मरन्ध्राब्जनिर्गता। प्राणिनां प्राणसंचारे निर्मिता परमेष्ठिना ॥' इत्यायुक्त्या प्रथमं मध्यस्थूणान्यायेन मध्य- नाडीरूपतामाश्रित्य वक्ष्यमाणप्रमाणमिमं देहं संतानयेत् सर्वतो भेदोपभेदरूपतया नाड्यन्त- रोपजननात् जालवत्संतानवन्तं कुर्यादित्यर्थः ॥ अतश्चागमोऽप्येवमित्याह श्रीतन्त्रालोकः श्रीस्वच्छन्देऽत एवोक्तं यथा पर्ण स्वतन्तुभिः ॥६७ ॥ व्याप्तं तद्वत्तनुर्दार- हारिभावेन नाडिभिः। यथा पलाशपत्रं मध्यतन्त्ववलम्बिंभिरात्मी- येस्तन्त्वन्तरैः सर्वत्र व्याप्तं तथा शरीरमपि भेदोपभेदरूपत्वेन द्वारद्वारिकया मध्यनाडिसं- लग्नाभिर्गुणप्रधानभावेनावस्थिताभिर्नाडीभि- रित वाक्यार्थः । यदुक्तं तत्र ' नाभ्यधो पेटूकन्दे च स्थिता वै नाभिमध्यतः । तस्माद्विनिर्गता नाड्यस्तिर्यगूलमधः प्रिये ॥ चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः। द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः ॥ पुनर्विनिर्गताश्चान्या आभ्योऽप्यन्याः पुनः पुनः । यावत्यो रोमकोट्यस्तु तावत्यो नाडयः स्मृताः ॥ यथा पर्ण पलाशस्य व्याप्तं सर्वत्र तन्तुभिः । (स्त्र ० ७।११) इति ॥
श्लो० ७० ] सप्तममाह्निकम् ५५ . ननु, 'मारुतापूरिताः सर्वाः' इत्यायुक्त्या सर्वा एव तावन्नाडयः प्राणवहाः, ताभिश्च नि- खिलमेव शरीरं व्याप्तमिति नास्त्यत्र विमतिः; तत्कथं हृदयावादशान्तं मत्तगन्धस्थानं वा यावत्षट्रिंशदङ्गुल एव प्राणचार उक्तः ? इत्या- शङ्कयाह. पादाङ्गष्ठादिकोर्ध्वस्थ- ब्रह्मकुण्डलिकान्तगः॥ ६८॥ कालः समस्तश्चतुर- शीतावेवाङ्गलेष्वितः। हादशान्तावधि किंचि- त्सूक्ष्मकालस्थितिं विदुः॥६९॥ षण्णवत्यामधः षडूहि- क्रमाच्चाष्टोत्तरं शतम् । उर्ध्वस्था ब्रह्मकुण्डलिका ब्रह्मबिलं, समस्तः प्रायुक्तः कालश्चतुरशीतावङ्गुलेष्विति सार्धत्रि- .
५६ श्रीतन्त्रालोकः हस्तात्मकत्वात् .देहस्य । इत इति, गतः स्थित इत्यर्थः। षण्णवत्यामङ्गलेष्विति पूर्वतो योज्यम् । तथात्वे च द्वादशानामङ्गुलानामाधिक्येनो- पादानात् सूक्ष्मशब्दसन्निधेः पूर्वापरयोर्मानयोः स्थूलत्वं परत्वं चार्थसिद्धम् । अध इति पादाङ्ग- ष्ठात् । षड्विक्रमादिति, षण्णां द्विर्योऽसौ द्वाद- शाङ्गुलात्मा क्रमस्तस्माद्यदूर्ध्व इवाधोऽपि द्वादशान्तः संभवेदिति भावः ॥ नन्वेवं देहस्य मानवैचित्र्ये प्राणादेरपि क- श्चिदतिशयो न वा ? इत्याशङ्कयाह अत्र मध्यमसंचारि- प्राणोदयलयान्तरे ॥७॥ विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् । अत्र त्रिप्रकारप्रमाणावच्छिन्ने देहे प्राधा- न्यान्मध्यवाहिनः प्राणस्थ ये उदयलया निर्गम- श्लो० ७१] सप्तममाह्निकम् प्रवेशास्तदन्तराले विश्वे प्रागुक्तकलना एक सर्वे सृष्टिसंहारा भवन्ति, किंत्वेषामपानवाय्य- न्तरक्रमादेव प्राग्वद्वैचित्र्यं नतु देहवैचित्र्या- दित्यर्थः॥ इदानीमाह्निकार्थमेव श्लोकस्य प्रथमार्धे- नोपसंहरति इत्येष सूक्ष्मपरिम- र्शनशीलनीय- श्चक्रोदयोऽनुभवशास्त्र- दृशा मयोक्तः॥ ७१॥ सूक्ष्मपरिमर्शनेत्यनेन अत्यन्तमस्यावधानग- म्यत्वमुक्तमिति शिवम् ॥ प्रतिनियतमन्त्रसमुदय- चारभिदनुभवनिभालनोयुक्तः । सप्तममाह्निकमेत- व्याकृतवाञ्जयरथाभिख्यः ॥
श्रीतन्त्रालोकः इति श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्तविरचिते तत्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते चक्रोदय- प्रकाशनं नाम सप्तममाह्निकम् ॥ ७ ॥ श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् । मधुसूदनकौलेन संपायेदं प्रकाशितम् ।। श्रीसाम्बशिवार्पणं भूयात् ।
No text on this page.
No text on this page.
No text on this page.