Sanmati Library, Jaipur

Sanatanjaingranrhmala

Pannlalvanshidhar · 2009/11

PDF Proofread

Front matter

वदति पठति भक्त्या यः शृणोत्येकचित्तः स्वपरसमयतत्त्वावेदि शास्त्रं पवित्रम् । विदितसकलतत्त्वः केवलालोकनेत्र- स्त्रिदशमहितपादो यात्यसौ मोक्षलक्ष्मीम् ॥२॥ (अमितगतिः).

उपोद्धातः। कुवलयपतिरिव कुवलय- पतिः कला इव कलाश्च निदधदसौ। कमलं सुखयति कमलं न चन्द्रनाथः शुचन्द्रवयन् ॥१॥ सन्त्यद्यापि धरामभि भूयांसोऽपि विद्वांसः, परहितप्रतिपादनैक- मनसस्तत्र फेचनैव दरीदृश्यन्ते । न हि परार्थसाधनं कूपोदमण्ड्क- वत्कृतात्मचरणैरविदितपरतत्वार्थस रेविलुउदनविवेकलहरीसलिलनिधि- समयसारमन्तरा सर्वशाखावलोकनेनाऽनवगाहयद्भिरत एव गुणग्रामारा- मानपि परसमयाननालोक्यैवानादरयद्भिः, खसमय समयं मन्यमानैः, परम्परीणतत्त्वार्यार्थप्ररूपणाप्रखरकिरणः सूरिसूरैरादर्शितेऽपि तत्त्वपथे सन्तमसं प्रदोपमेव क्षपामार्ग सत्कुर्वद्भिः संभवितुमर्हति, यतः सदसच्छात्रावगाहनमन्तरेण सत्यार्थविवेचना दुर्घटा। श्रीभाग्योदयवशंवदत्वात्कालचक्रस्य चक्रम्यमाणत्वाच्च पुना रममाण रूपेण सोऽयं प्रधानः समयसमागमः परावर्त्तते यः पुरा सर्वलोकाना समीहितहितमसात्सीत्, यं भावयन्तोऽचिरादेव भूता अभूतपूर्वाणि कार्याणि चक्रुः, येन च सत्यार्थवर्तनाप्रवर्तकेन दुरितानि शास्त्रपरं- परीणनामशेषतां निन्यिरे, यसै च महर्षयः पुराणपुरुषोत्पादन- प्रधाननिदानत्वादधै विताविरति, यस्माइते लोकानां पातकाविरेकः प्रादुरभूत, यस्य च सदाप्तपरम्परामिदानीन्तना अपि तनीयांसो महान्तश्चानुकुर्वन्ति, यस्मिन्द पुरातने काले निष्पक्षचेतसो विद्वांसो भुवो मण्डलेऽपि प्रसताना सार्वज्ञासार्वज्ञानामत एव प्रशस्ताप्रशस्ता- नामपि. दर्शनानो मतानि समधीत्याऽध्याप्य च परस्परतोऽवगाहमान- सनातनजेनग्रन्थमालायाम् । त्वादसाधारणां निजवोधनैपुणीमलं प्रसारयामासुः। स हि कालो गतवा- पलायते वा निरपेक्षवन्धुतां वनतः श्री १०८ सप्तमएडवर्डमहोदयरा- ज्यशासनोदयात्, यस्मिन्नविमृष्यकारिणो निजान्येव दर्शनानि दर्शनीय- न्तोऽन्येषां सार्वज्ञानामपि दर्शनानां दर्शनेनैवापशब्दयन्ति । एवमविचा- रितरम्येण वोधेन प्रवुद्धा अपि तेऽदृष्टविपक्षतया सपक्षस्य समीची- नता प्रतिपादयितुमन्यान् संभावयितुं वा नालं मूढधियः खधिया, कूपस्थभेक इव मानसे मानससरसो वारिराशेर्वा विस्तीर्णताम्। महान्तो निरापेक्षभावं विभावयन्तु भवन्तो यदनयोः कालयोः कोऽन्यतरोऽवरो- रुह्यते समीचीनकक्षामुन्नतिकरतां चेति । अनालोकितरहस्यस्य परैः परसमयस्य खेन दर्शनेन सह मान्यताs- मान्यता चेति परीक्षितुं नालं, देवदत्तहस्तगतस्येवानर्घस्याल्पार्घस्य वा मणेर्दर्शनमन्तरा खस्य मणेर्महत्वममहलमनिदत्तेनेति सिद्धान्तितप्राय- मेतत् । परीक्षाभावे महत्वामहत्त्वनिर्णयाभावादास्साकीनमेव . दर्शनं दर्शनायते नान्येषामिति पुरस्ताल्लोकानां जनप्यमानता न हि लंजा- स्पदता किमु?। उक्तं च श्रीहरिचन्द्रेण महाकविना महाकाव्ये धर्मशर्माभ्युदये- "ऋते तमांसि घुमणिर्मणिवा विना न काचैःस्वगुणं व्यनक्ति" इति । इतोऽपि वैयर्थ्यमपश्यन्तो वल्गन्ति ये तेषां वचस्यादरोऽनादरो वा श्रेयस्करो विधेयश्चेति विद्वांसो वै विदन्तु । सादरं प्रतीक्ष्यते स समयोऽस्माभिर्यस्मिन्वयं सर्वेऽपि विधर्मिणः सधर्मिण इवं विश्रान्तमनसो युगपदेकत्रैकीभूय खेषां खेपां मान्यानि तत्त्वानि वाधावाधतया प्रतिपादयिप्यामः । अद्य खलु महासमयसमागमेऽन्येपो दर्शनग्रन्थानन्ये इव सह, असदीयदर्शनग्रन्थानपि वयं समर्पयामो विदुषां पुरेति मनसि सं- प्रधार्य "सनातनजैनग्रन्थमालानान्नो " ग्रन्थमालाया आदिम गुच्छं पुप्पवृन्तादादाय कतिपयपुष्पप्रकरं वायुरिव जैनसिद्धान्तान्ते उपोदातः। ५ रामदेऽपि पतिपरगारनियमाररानि ततो जरीया सर्वान्प्रमोद- शिनुमाः पुरतो हि सर्वेषां रानुपस्थिताः । फरः सत्यवापि पानिलीयशा चिरन्तनकरालकालचकचक- मनानेकपा गिनुपां मुदियोथो पनपक्षपातमण्डलेन निरायतोऽप्याय- तो मेपपटलमागनन्धकारमहलायर्या क्षणदायां विधुरिव सपनपन- पटनरतनो निष्फतरताकलाप सरायरोऽनुदपोतिततावार्यततितया प्रसरितमीमजन्तुरपरीखमापसमझामतया भीम भयप्रद जाध्यमूले टाटोपापऽविलन्तःसारनिराजेऽविचारित्यग्रंचाररने प्रयते सति र मुनिमनार इन जिनदर्शनसंचारेऽप्रचार सति पाचरं घराचराद्वि- वितरणमपि जनसान सम्मानिदर्शनानिय निरतं मरन्तोऽपि फेचन पतो तो कार "हस्तिना ताश्यमानोऽपि न गच्छेजिनम- न्दिरम्" इत्यादि पाश्यप्रमाणनिर्माण विदधतः पिदधतम सत्पर्य गरमागोदर विगत इति पारिपनिषकाहग्धादरपोजनिय जर्जरितरो- समारोई पुरत उत्पादकारणागापप्रायात, पूर्वमध्यार्यराण्टमपि व्याप्त- गिदं जनशासनमल्पीयस्या संन्यया राजतेऽभुना । सातारोऽपि अस्य माई नोपयान्ति रष्टिपमम् । एवं कटातिकोऽपि जिनधर्मजिन- वारानजिनशासनानुसाढतच्चारतारो दुमपलभ्यस्वेऽपि नास्यन्ताभाव- मधिजगुरिति तोपरति शोकपरवशानन्लान् सदयपुर अनदर्शनेप्य. दर्शनायितेयपि लक्ष्यायधीनां तर्फव्याकरणज्योतिपपुराणचरितमाहि- लादीनां प्रन्यानागुपलम्गो योमपीति, तेषां च यथाकालं दर्शयिष्यामो विकासम् विकाशकालोऽपि निकटचर एप नरीनति । सधः शिक्षाक्षालिताक्षिनिमलतया भूयमा विदुषां धिपणायाःपक्षपा. तरजो बिधूयतेऽधुना एवं पक्षपातरजो विधुन्वता विदुषां पुरतो नाव- हेलयिनुनलमहत्वतां शासनमिति दृढतरं गुसरीकुरुतेऽस्मान् निग- दितुम् । तकशासमियान्यानपि काव्यसाहित्यव्याकरणधर्मशालादिनन्यानr ६ सनातनजनप्रन्यमालायाम् धीयन्तो बुधाः प्रशंसिष्यन्तीति दृढतरं विश्वसामो वयम् । न च वयं सर्वेऽपि विद्वांसः खान्धर्मान् परिहत्य जिनधर्मपरा भवेयुरित्य- भिलपामो यतोऽविशेपितरूपेण " स्वधर्मे निधनं श्रेयः परध- मों भयावहः" इति सार्वजनीनं सिद्धान्तितं तथापि स्वधर्मेतरग्रन्था- नामध्ययनमपि पापीय इति सिद्धान्तं विदुषां हृदयानिष्कासयितुकामा इमान् प्रन्यान्प्रसारयितुं प्रयतामहे यानधीत्याध्येतॄणां बोधो निरवधि- को मणिकाचदाकलं परीक्षितुमलं भवेत् । लौकिकी पारमार्थिकी चेत्यु- भयथाप्युनतिः बन्धुभावेनकीभूय च परस्परेण नेहसंचारः खखाभि- मततत्त्वानां परिमर्पणं च शिखरमध्यारोहत्वित्साशास्महे । अन्मिन् गुच्छके चतुर्दश ग्रन्था नाना वृहत्स्वयम्भूस्तोत्रं, रत्नकर- ण्डश्रावकाचारः (गृहस्थाचारः), आप्तमीमांसा ( सटीका), युक्त्यनु- शासनं, समाधिशतकं, परीक्षामुखं, तत्त्वार्थसारः पुरुषार्थसियुपायः, समयसारकलशाः (अपरनामाध्यात्मतरङ्गिणी ), आत्मानुशासनम्, आप्तपरीक्षा, तत्त्वार्थसूत्रम्(तत्त्वार्थाधिगंममोक्षशास्त्रम्),आलापपद्धतिः, नयविवरणम् , इत्येवमुपनिबद्धाः । वृहत्स्वयंभूस्तोत्रं, रत्नकरण्डश्रावकाचारः, आप्तमी मांसा, युक्त्यनुशासनम् इत्येतेपां चतुर्णा ग्रन्थानां कर्ता स्वामी श्रीसमन्तभद्रोभगवान् १२५ विक्रमाव्दे वभूव । एतत्खाः मिनिमिता नाना गन्धहस्तिमहामाप्यं (तत्त्वार्थसूत्रमाप्यं चतुरशीति- सहस्रलोकपरिमितं), जिनसत्तालझारः, विजयधवलटीका, तत्त्वानु- शासनं, जिनशतकं, चिन्तामणिर्व्याकरणशास्त्रमित्येवमादयो प्रन्या- प्रदीप्यन्ते। समाधिशतकं ४०१ तमे विक्रमाब्दे देवनन्दीत्यपरनामा स्वामी श्रीपूज्यपादो भगवानिर्ममावन्यांश्च नाना पञ्चाध्यायी (जनेन्द्रव्याकरणसूत्राणाम्) इष्टोपदेशः, सिद्धप्रियस्तोत्रं, सर्वार्थसिद्धिः (तत्त्वार्थसूत्रटीका), श्रावकाचारः, पूजाकल्पं, जिनसंहिता इत्यादीच्या- उपोद्धातः। करणन्यायकान्यधर्मशास्त्रादिविषयकान्निर्माय अन्थान्सर्वशास्त्रेषु खस्या- साधारणं दाक्षिण्यं विदुषामजीजनत् । तत्त्वार्थसारः, पुरुषार्थसिद्धयुपायः, समयसारकल- शाः ( अध्यात्मतरङ्गिणी ) इतीमानि शास्त्राणि भगवानमृतचन्द्रसूरि- य॑धात् । अस्तिलकालश्च भगवतां ९६२ तमो विक्रमाब्दः ।समयसा- रटीका, प्रवचनसारटीका, पञ्चास्तिकायटीका इत्याद्यन्येऽपि बहवो ग्रन्था व्यधायिषत भगवता। परीक्षामुखसूत्राणि (न्यायसूत्राणि ), भगवान् श्रीमाणि- क्यनन्दी विक्रमराजस्य ५६९ तमे वर्षे रचयामास । एतेषां कृतरुपरि प्रमेयरत्नमाला-प्रमेयकमलमार्तण्डादयो बयोऽन्येषामाचा- र्यवराणां कृतयस्तिलकायन्ते । आलापपद्धतिः, विक्रमाब्दस्य ९९० तमे वर्षे श्रीदेवसेनाचा- येण कृता । प्राकृतं नयचक्र, प्राकृतं ज्ञानसार, प्राकृतं भावसंग्रह, प्राकृतं दर्शनसारं, अन्यांश्चैवं निर्ममौ भगवान् । नयविवरणस्य हि मुद्रणावसरे भ्रमात् प्रमादाद्वा सुस्पष्टतया तद्विषयविज्ञानाभावात् तदधस्तात् अस्य प्रन्थस्य कर्तुर्नाम कुत्रापि नोपलभ्यत" इति टिप्पणीयितं, तत्परं कथंचित्प्रयासवशतो ऽविसम्वादि निर्धारितं यन्नैतत् खातन्त्रयेण केनचित् कृतमस्ति, श्लोक- वार्तिकालङ्कारनाम्नस्तत्त्वार्थभाष्यादुद्धृतं परमिति विदाकुर्वन्तु बुधाः। आत्मानुशासनं भगवता गुणभद्राचार्येण विनिर्मितम- स्ति । कालनिर्णयो भगवतो विक्रमाब्दे ८०७ तमे । अन्येऽपि भग- वत्कृताः प्रवन्धा विलोभयन्ते मनांसि विदुषां नाना-श्रीजिनसेनाचार्य- कृतादिपुराणस्योत्तरो भागः, उत्तरपुराणं, भावसंग्रहः, टिप्पणीग्रन्थः, पूजाकल्पः, जिनदत्तकाव्य-मित्यादयः। आप्तपरीक्षा-श्रीविद्यानन्दाचार्यरुपनिबद्धा निर्माणकाल एकाशी- युतराष्टशत(८८)तमो विक्रमसंवत्सरः । विद्यानन्दपरीक्षा, प्रमावरीक्षा मानाTART सनातनजैनप्रन्थमालायाम् प्रमाणनिर्णय, तर्कपरीक्षा, पत्रपरीक्षा, प्रमाणमीमांसां, लोकवार्तिकाल- कारं (तत्त्वार्यसूत्रस्य वृहट्टीकां) अष्टसहवी, तत्त्वार्थालङ्कारं, देवागमाल- कृतिमन्यांश्च अन्यान्विरचय्यालमकार्डजिनधर्मधुरीणा जिनधर्मम् । उक्तं च "खण्डितुं मानिनां मानं मण्डितुं जिनधर्मिणाम् । विदुषां प्रीतये भूयाद्विद्यानन्दकृता कृतिः॥" तत्त्वार्थसूत्रं श्रीभगवदुमास्वामिभिर्विक्रमसंवत्सरस्य प्रथमशतान्यां विधे । अस्य जैनदर्शनग्रन्थस्य बहवः टीकाग्रन्या भाष्यानिच सन्ति । संकलितनानां ग्रन्धानां तत्कर्तृणां च चरिताख्यानं वहु वत्तव्यमत्ति, किन्तु मूलग्रन्थसंग्रहे चतुर्दशशास्त्रकर्तृणां विषये सुस्पष्टमेकदैव वनुमलं नोपढौकत इति संक्षिप्यात्र प्रशस्ति पुरस्तात्प्रतिपुस्तकं सटीक- मुद्रणावसरे जरीगृह्य विदुषां पुरत उपस्थास्याम इत्यध्यतृषु निवेदना। आशास्महे च सर्वे इदं ग्रन्थपठनोत्सुकमतयः समतयो भनिष्यन्स- स्मत्सम्मताविति। अधुना श्रीमन्तं सज्जनानां वरं तुकाराम जावजीति निर्णय सागरयन्त्राध्यक्षं संस्कृतप्राकृतपुरातनप्रन्धानां जीर्णोद्धरणे प्रणि- हितमानसमेतद्वन्थप्रकाशने प्रकाशं खामित्वमापन्नं विद्वद्वर्यश्रीरघुवंश- शर्मशानिणं श्रीजवाहिरलालजैनसाहित्यशास्त्रिणं च हृद्यं सादरं संस्मरामो यानभि संपादनशोधनादिकार्य नैविन्येन समवापत्समाप्यते च प्रस्तावः । पाठकानां पुरो निवेदनम् । एतत्संग्रहे कालसंक्षेपादृष्टिदोषाप्रमादादन्यैश्च बहुभिः कारणक लापरशुद्धयोऽजुखाराक्षरत्यागादयो जाताः, शुद्ध्यशुद्धिपत्रेणापि निर्वाह यितुं नालमपारीति दरीश्य खवुद्ध्या शुद्धं कुर्वन्तु क्षमापरायणाः । ते हिमहान्तः खतः परेषु चाध्ययनाध्यापनादिकं प्रचरीकृत्य परस्प- रेण धर्मादनपेतां मैत्रीमालभन्तां तथा समाश्रयन्तोऽपि पक्षपातित्वं पक्षं पातयन्तीति तत्पुरुषे संस्थाप्च तत्पुरुषजन्यपक्षपातिनः स्युर्वहुव्री- हितया पक्षपाविनो माभूवनिति कृतं पल्लवितेन । मुम्बची. विदुषामनुचरौ- १०-११-१९०५ पन्नालालवंशीधरौ। - ॐ अथ ग्रन्धानुक्रमणिका- प्रन्यनाम पृष्ठम् १ ... :: १५ ... ... .. ... ३३ ५२ ८५ .. १ वृहत्स्वयम्भूस्तोत्रम् २ रत्नकरण्डश्रावकाचारः... ३ पुरुषार्थसिधुपायः ४ आत्मानुशासनम् ५ तत्त्वार्थसूत्रम् (तत्त्वार्थाधिगममोक्षशास्त्रं ) ६ तत्त्वार्थसारः (तत्त्वार्थकारिका)... ७ आलापपद्धतिः ८ नाटकसमयसारकलशाः (अध्यात्मतरंगिणी) ९ परीक्षामुखसूत्राणि १० आप्तपरीक्षा ११ आप्तमीमांसा ( वसुनन्दिवृत्या सहिता) १२ युक्त्यनुशासनम् ... १३ नयविवरणम् १४ समाधिशतकम् (सटिप्पणीकं ) ... इति ग्रन्थानुक्रमणिका ... ... १५५ १६८ २०३ २१० २२० २६५ २७१ २८१ . ... ...

No text on this page.

अथ सनातनजैनग्रन्थमाला
प्रथमो गुच्छका
श्रीखामिसमन्तभद्राचार्यविरचितम्.
बृहत्खयम्भूस्तोत्रम् ।
स्वयम्भुवा भूतहितेन भूतले समञ्जसज्ञानविभूतिचापा।
विराजितं येन विधुन्वता तमः क्षपाकरेणेव गुणोत्करैः करैः ॥ १ ॥
प्रजापतियः प्रथमं जिजीविपुः शशास कृप्यादिषु कर्मसु प्रजाः ।
प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदांवरः ॥ २ ॥
'विहाय यः सागरवारिवाससं वधूमिवेमां वसुधाव● सतीम् ।
मुमुक्षुरिक्ष्वाकुकुलादिरात्मवान् प्रभुः प्रधवाज सहिष्णुरच्युतः ॥३॥
खदोषमूलं स्वसमाधितेजसा निनाय यो निर्दयभससाक्रियाम् ।
जगाद तत्त्वं जगतेऽर्थिने असा बभूव च ब्रह्मपदामृतेश्वरः ॥ ४ ॥
स विश्वचक्षुर्वृषभोऽर्चितः सतां समग्रविद्यात्मवपुर्निरञ्जनः।
पुनातु चेतो मम नाभिनन्दनो जिनो जितक्षुल्लकवादिशासनः॥५॥
इत्यादिजिनस्तोत्रम्.
यस्य प्रभावात्रिदिवच्युतस्य क्रीडास्वपि क्षीबमुखारविन्दः ।
अजेयशक्ति वि बन्धुवर्गश्चकार नामाजित इत्यवन्ध्यम् ॥ ६ ॥
अद्यापि यस्याजितशासनस्य सतां प्रणेतुः प्रतिमङ्गलार्थम् ।
प्रगृह्यते नाम परं पवित्रं स्वसिद्धिकामेन जनेन लोके ॥ ७ ॥
यः प्रादुरासीत्प्रभुशक्तिभून्ना भच्याशयालीनकलङ्कशान्त्यै।
महामुनिर्मुकघनोपदेहो यथारविन्दाभ्युदयाय भावान् ॥ ८ ॥

२ सनातनजैनग्रन्थमालायाम् येन प्रणीतं पृथुधर्मतीर्थ ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् । गाङ्ग हृदं चन्दनपङ्कशीतं गजप्रवेका इव धर्मतताः ॥ ९ ॥ स ब्रह्मनिष्ठः सममित्रशत्रुर्विद्याविनिर्वान्तकपायदोपः । लन्धात्मलक्ष्मीरजितोऽजितात्मा जिनः श्रियं मे भगवान् विधत्तां इत्यजितजिनस्तोत्रम्. त्वं शम्भवः संभवतपरोगैः संतप्यमानस्य जनस्य लोके । आसीरिहाकसिक एव वैद्यो वैद्यो यथा नाथ रुजां प्रशान्त्यै ॥११॥ अनित्यमत्राणमहं क्रियाभिः प्रसक्तमिथ्याध्यवसायदोपम् । इदं जगजन्मजरान्तकात निरसनां शान्तिमजीगमस्त्वम् ॥ १२॥ शतहदोन्मेपचलं हि सौख्यं तृष्णामयाप्यायनमात्रहेतुः । तृष्णाभिवृद्धिश्च तपत्यजत्रं तापस्तदायासयतीत्यवादीः ॥ १३ ॥ बंधश्च मोक्षश्च तयोश्च हेतुः पद्धश्च मुक्तश्च फलं च मुक्तेः । स्थाद्वादिनो नाथ तवैव युक्तं नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥१४॥ शकोऽप्यशक्तस्तव पुण्यकीतैः स्तुत्या प्रवृत्तः किमु मादृशोऽज्ञः। तथापि भत्त्या स्तुतपादपद्मो ममार्य देयाः शिवतातिमुच्चैः ॥१५॥ इति शंभवजिनस्तोत्रम्. गुणाभिनन्दादभिनन्दनो भवान दयाव● शान्तिसखीमशिश्रयत्। समाधितन्त्रस्तदुपोपपत्तये द्वयेन नैर्ग्रन्थ्यगुणेन चायुजत् ॥ १६ ॥ अचेतने तत्कृतबन्धजेऽपि ममेदमित्याभिनिवेशकग्रहात् । प्रभङ्गुरे स्थावरनिश्चयेन च क्षतं जगत्तत्त्वमजिग्रहगवान् ॥ १७ ॥ क्षुदादिदुःखप्रतिकारतः स्थितिर्न चेन्द्रियार्थप्रभवाल्पसौख्यतः। ततो गुणो नास्ति च देहदेहिनोरितीदमित्थं भगवान् व्यजिज्ञपत् १८ जनोऽतिलोलोऽप्यनुबन्धदोषतो भयादकार्येष्विह न प्रवर्तते । इहाप्यमुत्राप्यनुवन्धदोपवित्कथं सुखे संसजतीति चाब्रवीत्॥१९॥ स चानुबन्धोऽस्य जनस्य तापकृत्तपोऽभिवृद्धिःसुखतोन च स्थितिः। इति प्रभो लोकहितं यतो मतं ततो भवानव गतिःसंतांमतः॥२०॥ .

वृहत्खयम्भूस्तोत्रम् ३ इत्यभिनन्दनजिनस्तोत्रम्. अन्वर्थसंज्ञः सुमतिर्मुनिस्वं स्वयं मतं येन सुयुक्तिनीतम् । यतश्च शेपेषु मतेपु नास्ति सर्वक्रियाकारकतत्वसिद्धिः ॥ २१ ॥ अनेकमेकं च तदेव तत्वं भेदान्वयज्ञानमिदं हि सत्यम् । मृपोपचारोऽन्यतरस्य लोपे तच्छेपलोपोऽपि ततोऽनुपाख्यम्॥२२॥ सतः कचित्तदसत्त्वशक्तिः से नास्ति पुप्पं तरपु प्रसिद्धम् । सर्वस्वभावच्युतमप्रमाणं स्ववाग्विरुद्धं तव दृष्टितोऽन्यत् ॥ २३ ॥ नसर्वथा नित्यमुदत्यपति न च क्रियाकारकमत्र युक्तम् । नेवासतोजन्म सतो न नाशो दीपस्तमापुद्गलभावतोऽस्ति ॥२४॥ विधिनिषेधश्न कथंचिदिष्टौ विवक्षया मुख्यगुणव्यवस्था । इति प्रणीतिः सुमतेस्तवेयं मतिप्रवेकः स्तुवतोऽस्तु नाथ ॥ २५ ॥ इति सुमतिजिनस्तोत्रम पद्मप्रभः पनपलाशलेश्यः पभालयालिहितचारुमूर्तिः । वमी भवान् भव्यपयोल्हाणां पन्नाकराणामिव पनवन्धुः ॥ २६ ॥ यभार पधां च सरस्वती च भवान्पुरस्तात्प्रतिमुक्तिलक्ष्म्याः। सरस्वतीमेव समग्रशोभां सर्वज्ञलक्ष्मी ज्वलितां विमुक्तः ॥ २७ ॥ शरीररश्मिप्रसरः प्रभोस्ते वालारहिमच्छविरालिलेप । नरामराकीर्णसभा प्रभावच्छेलस्य पनाभमणेः स्वसानुम् ॥ २८ ॥ नभस्तलं पलवयन्निव त्वं सहस्रपत्राम्युजगर्भचारैः। पादाम्युजः पातितमारदो भूमौ प्रजानां विजहर्प भूत्यै ॥ २९ ॥ गुणाम्बुधेर्विग्रुपमप्यजस्रं नाखण्डलस्तोतुमलं तवः । मागेच माफिमुतातिभक्तिमी यालमालापयतीदमित्थम् ॥ ३० ॥ इति पद्मप्रभस्तोत्रम. स्वास्थ्यं यदात्यन्तिकमेप पुंसां स्वार्थो न भोगः परिभझुरात्मा । १ प्रमा वा इति पाठे तु स्वाथै वाशब्दो बोध्यः । २ अजस्येति पाठे न जायते नोत्पपते संसारसमुद्र न परिभ्रमतीति अजस्तरयेत्यर्थः । .

सनातननग्रन्थमालायाम् तृषोऽनुपङ्गान्न च तापशान्तिरितीदमाख्यद्भगवान सुपार्थः॥३१॥ अजङ्गमं जङ्गमनेययन्त्रं यथा तथा जीवतं शरीरम् । बीभत्सु पूति क्षयि तापकं च स्नेहो वृथात्रेति हितं त्वमाख्यः॥३२॥ अलंध्यशक्तिर्भवितव्यतेयं हेतुद्वयाविष्कृतकार्यलिङ्गा । अनीश्वरो जन्तुरहं क्रियातः संहत्य कार्येष्विति साध्ववादीः ॥३३॥ बिभेति मृत्योर्न ततोऽस्ति मोक्षो नित्यं शिवं वाञ्छतिनास्य लाभः। तथापि बालो भयकामवश्यो वृथा स्वयं तप्यत इत्यवादीः ॥३४॥ सर्वस्य तत्वस्य भवान्प्रमाता मातेव वालस्य हितानुशास्ता। गुणावलोकस्य जनस्य नेता मयापि भत्त्या परिणूयसेऽद्य ॥ ३५॥ इति सुपार्थजिनस्तोत्रम्. चन्द्रभ्रमं चन्द्रमरीचिगौरं चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्धं महतामृपीन्द्रं जिनं जितस्वान्तकपायवन्धम् ॥३६॥ यस्याङ्गालक्ष्मीपरिवेपभिन्नं तमस्तमोरेरिव रश्मिभिन्नम् । ननाश बाह्यं बहुमानसं च ध्यानप्रदीपातिशयेन भिन्नम् ॥ ३७॥ स्वपक्षसौस्थित्यमदावलिप्ता वासिंहनादेविमदाबभूवुः । प्रवादिनो यस्य मदागण्डा गजा यथा केशरिणो निनादैः ॥३८॥ यः सर्वलोके परमेष्ठितायाः पदं बभूवाहुतकर्मतेजाः । अनन्तधामाक्षरविश्वचक्षुः समेतदुःखक्षयशासनश्च ॥ ३९ ॥ स चन्द्रमा भव्यकुमुद्वतीनां विपनदोपानकलङ्गलेपः । व्याकोशवाइन्यायमयूखमालः पूयात्पवित्रो भगवान्मनो मे ॥४०॥ इति चन्द्रप्रभजिनस्तोत्रम्. एकान्तदृष्टिप्रतिपेधि तत्वं प्रमाणसिद्धं तदतत्स्वभावम् । स्वया प्रणीतं सुविधे स्वधाना नैतत्समालीढ़पदं त्वदन्यैः ॥४१॥ तदेव च स्यान तदेव च स्यात्तथा प्रतीतेस्तव तत्कथञ्चित् । नात्यन्तमन्यत्वमनन्यता च विधेनिषेधस्य च शून्यदोषात् ॥४२॥ नित्यं तदेवेदमिति प्रतीतेन नित्यमन्यत्प्रतिपत्तिसिद्धेः ।

वृहत्खयम्भूस्तोत्रम्
न तद्विरुद्धं बहिरन्तरङ्गनिमित्तनैमित्तिकयोगतस्ते ॥ ३ ॥
अनेकमेकं च पदस्य वाच्यं वृक्षा इति प्रत्ययवत्प्रकृत्या ।
भाकाइक्षिणः स्यादिति वै निपातोगुणानपेक्षे नियमेऽपवादः॥४४॥
गुणप्रधानार्थमिदं हि वाक्यं जिनस्य ते तद्विपतामपथ्यम् ।
ततोऽभिवन्यं जगदीश्वराणां ममापि साधोस्तव पादपमम् ॥४५॥
इति सुविधिजिनस्तोत्रम्
न शीतलाश्चन्दनचन्द्ररश्मयो न गाङ्गमम्भो न च हारयष्टयः।
यथा मुनेस्तेऽनघवाक्यरश्मयःशमांबुगर्भाः शिशिरा विपश्चितां॥४६॥
सुखाभिलापानलदाहमूञ्छितं मनो निजं ज्ञानमयामृताम्बुभिः ।
विदिध्यपस्त्वं विपदाहमोहितं यथा भिपग्मन्त्रगुणैः स्वविग्रहं ॥४७॥
स्वजीविते कामसुखे च तृष्णया दिवा श्रमात निशि शेरते प्रजाः।
स्वमार्य नक्तंदिवमप्रमत्तवानजागरेवात्मविशुद्धवर्मनि ॥ १८ ॥
अपत्यवित्तोत्तरलोकतृष्णया तपस्विनः केचन कर्म कुर्वते ।
भवान्पुनर्जन्मजराजिहासया त्रयी प्रवृत्तिं शमधीरवारुणात् ॥४९॥
त्वमुत्तमज्योतिरजः क निर्वृतः क ते परे बुद्धिलवोद्धवक्षताः ।
ततः स्वनिश्रेयसभावनापरैर्बुधप्रवेकैर्जिनशीतलेड्यसे ॥ ५० ॥
इति शीतलजिनस्तोत्रम्.
श्रेयान् जिनः श्रेयसि वर्मनीमाः श्रेयः प्रजाः शासदजेयवाक्यः ।
भवांश्चकाशे भुवनत्रयेऽसिन्नेको यथावीतघनो विवस्वान् ॥ ५१ ॥
विधिर्विपक्तप्रतिपेधरूपः प्रमाणमत्रान्यतरत्प्रधानम् ।
गुणो परो मुख्यनियामहेतुर्नयः सदृष्टान्तसमर्थनस्ते ॥ ५२ ॥
विवक्षितो मुख्य इतीप्यतेऽन्यो गुणो विवक्षो न निरात्मकस्ते ।
तथारिमित्रानुभयादिशक्तियावधिः कार्यकरं हि वस्तु ॥ ५३ ॥
दृष्टान्तसिद्धावुभयोविवादे साध्यं प्रसिद्धयेन तु तागस्ति ।
यत्सर्वथैकान्तनियामदृष्टं त्वदीयदृष्टिविभवत्यशेपे ॥५४॥

सनातनजैनग्रन्थमालायाम् ar एकान्तदृष्टिप्रतिपेसिद्धियायपुभिर्मोहरिपुं निरस्य । असि स कैवल्यविभूतिसम्राट ततस्त्वमहनसि मे सवाहः॥५५॥ इति श्रेयांसजिनस्तोत्रम्. शिवासु पूज्योऽभ्युदयक्रियासु त्वं वासुपूज्यदिशेन्द्रपूज्यः । मयापि पूज्योऽल्पधिया मुनीन्द्र दीपार्चिपा किंतपनो न पूज्यः॥५६॥ न पूजयार्थस्त्वयि वीतरागे न निन्दया नाथ विवान्तवरे । तथापि ते पुण्यगुणस्मृतिनः पुनातु चित्तं दुरिताञ्जनेभ्यः ॥ ५७ ॥ पूज्यं जिनं त्वार्चयतो जनस्य सावद्यलेशो बहुपुण्यराशौ । दोपाय नालं कणिका विपस्य न दूपिका शीतशिवाम्बुराशी ॥५०॥ यद्वस्तु बाह्यं गुणदोपसूतेनिमित्तमभ्यन्तरमूलहेतोः। अध्यात्मवृत्तस्य तदङ्गभूतमभ्यन्तरं केवलमप्यलं ते ॥ ५९ ।। . वाह्येतरोपाधिसमग्रतयं कार्यपु ते द्रव्यगतः स्वभावः । नैवान्यथा मोक्षविधिश्च पुंसां तेनाभिवन्धस्त्वमृपिव॒धानाम्॥६०॥ इति वासुपूज्यस्तोत्रम्. य एव नित्यक्षणिकादयो नया मिथोऽनपेक्षाः स्वपरप्रणाशिनः । त एव तत्त्वं विमलस्य ते मुनेः परस्परेक्षाः स्वपरोपकारिणः ॥६१॥. यथैकशः कारकमर्थसिद्धये समीक्ष्य शेपं स्वसहायकारकम् । तथैव सामान्य विशेपमातृका नयास्तवेष्टा गुणमुख्यकल्पतः ॥ ६२॥ परस्परेशान्वयभेदलिङ्गतः प्रसिद्धसामान्य विशेषयोस्तव। समग्रतास्ति स्वपरावभासकं यथा प्रमाणं भुवि बुद्धिलक्षणम्।।६३॥ - विशेषवाच्यस्य विशेपणं वचो यतो विशेष्यं विनियम्यते च यत् । तयोश्च सामान्यमतिप्रसज्यते विवक्षितात्स्यादिति तेऽन्यवर्जनम् ६४ नयास्तव स्यात्पदसत्यलान्छिता रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणिता हितैषिणः॥६५॥ इति विमलजिनस्तोत्रम्. अनन्तदोपाशयविग्रहो ग्रहो विपङ्गवान्मोहमयश्चिरं हृदि ।

वृहत्वयम्भूस्तोत्रम् यतो जितस्तत्त्वरुची प्रसीदता त्वया ततोभूभगवाननन्तजित्॥६६॥ कपायनान्नां द्विषतां प्रमाथिनामशेषयन्नाम भवानशेषवित् । विशोषणं मन्मथदुर्मदामयं समाधिभैषज्यगुणैर्व्यलीनयन् ॥ ६७ ॥ परिश्रमाम्बुर्भयवीचिमालिनी त्वया स्वतृष्णासरिदार्य शोपिता। असंगधर्मार्कगभस्तितेजसा परं ततो निर्वृतिधाम तावकम् ॥ ६८॥ सुहृत्वयि श्रीसुभगत्वमक्षुते द्विपन् त्वयि प्रत्ययवत्प्रलीयते । भवानुदासीनतमस्तयोरपि प्रभो परं चित्रमिदं तवेहितम् ॥ ६९ ॥ त्वमीदृशस्तादृश इत्ययं मम प्रलापलेशोऽल्पमतेमहामुने । अशेषमाहात्म्यमनीरयत्नपि शिवाय संस्पर्श इवामृताम्बुधेः ॥७॥ इत्यनन्तजिनस्तोत्रम्, धर्मतीर्थमनघं प्रवर्तयन् धर्म इत्यनुमतः सतां भवान् । कर्मकक्षमदहत्तपोऽग्निभिः शर्म शाश्वतमवाप शङ्करः ॥ ७ ॥ देवमानवनिकायसत्तमै रेजिपे परिवृतो वृतो बुधैः । तारकापरिवृतोऽतिपुष्कलो व्योमनीव शशलान्छनोऽमलः ॥७२॥ प्रातिहार्यविभवैः परिष्कृतो देहतोऽपि विरतो भवानभूत् । मोक्षमार्गमशिषनरामरान्नापि शासनफलैपणातुरः ॥७३॥ कायवाक्यमनसां प्रवृत्तयो नाऽभवंस्तव मुनेश्चिकीर्पया। नासमीक्ष्य भवतः प्रवृत्तयो धीर तावकमचिन्त्यमीहितम् ॥७४ ॥ मानुषीं प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः । तेन नाथ परमासि देवता श्रेयसे जिनवृष प्रसीद नः ॥ ७५ ॥ इति धर्मजिनस्तोत्रम्. विधाय रक्षा परतः प्रजानां राजा चिरं योऽप्रतिमप्रतापः। व्यधात्पुरस्तात्स्वत एव शान्तिर्मुनिर्दयामूर्तिरिवाघशान्तिम् ॥७६॥ चक्रेण यः शत्रुभयंकरेण जित्वा नृपः सर्वनरेन्द्रचक्रम् । समाधिचक्रेण पुनर्जिगाय महोदयो दुर्जयमोहचक्रम् ॥ ७७ ॥ राजश्रिया राजसु राजसिंहो रराज यो राजसुभोगतन्त्रः ।

सनातनजैनग्रन्थमालायाम् आर्हन्त्यलक्ष्म्या पुनरात्मतन्नो देवासुरोदारसभे रराज ॥ ७८ ॥ यस्मिन्नभूद्वाजनि राजचक्रं मुनौ दयादीधितिधर्मचक्रम् । पूज्ये मुहुःप्राञ्जलि देवचक्र ध्यानोन्मुखध्वंसि कृतान्तचक्रम्॥७९॥ खदोपशान्यावहितात्मशान्तिः शान्तर्विधाता शरणं गतानाम् । भूयाद्भवल्लेशभयोपशान्यै शान्तिर्जिनो मे भगवान् शरण्यः ॥८॥ इति शान्तिजिनस्तोत्रम्. कुन्थुप्रभृत्यखिलसत्त्वयैकतानः कुन्थुर्जिनोज्वरजरामरणोपशान्त्यै। त्वं धर्मचक्रमिह वर्तयसिस भूत्यै भूत्वा पुरा क्षितिपतीश्वरचक्रपाणिः तृष्णाषिः परिदहन्ति न शान्तिरासा. प्टेन्द्रियार्थविभवः परिवृद्धिरेव । स्थित्यैव कायपरितापहरं निमित्त- मित्यात्मवान्विपयसौख्यपराङ्मुखोऽभूत् ॥ ४२ ॥ बाह्यं तपः परमदुश्वरमाचरंस्व- माध्यात्मिकस्य तपसः परिवृंहणार्थम् । ध्यानं निरस्य कलुपद्वयमुत्तरसिन् ध्यानद्वये ववृतिपेऽतिशयोपपन्ने ॥ ८३ ॥ हुत्वा स्वकर्मकटुकप्रकृतीश्चतस्रो रत्नत्रयातिशयतेजसि जातवीर्यः। विभ्राजिपे सकलवेदविधेर्विनेता व्यः यथा वियति दीप्तरुचिर्विवस्वान् ॥ ८४ ॥ यसान्मुनीन्द्र तव लोकपितामहाद्या विद्याविभूतिकणिकामपि नामुवन्ति । तस्माद्भवन्तमजमप्रतिमेयमार्याः स्तुत्यं स्तुवन्ति सुधियः स्वहितैकतानाः ॥ ८५ ॥ इति कुन्थुजिनस्तोत्रम्. गुणस्तोकं सदुलंय तहहुत्वकथा स्तुतिः ।

९ वृहत्वयम्भूस्तोत्रम् आनन्त्यात्ते गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥ ८६ ॥ तथापि ते मुनीन्द्रस्य यतो नामापि कीर्तितम् । पुनाति पुण्यकीर्तेर्नस्ततो घूयाम किञ्चन ॥ ८७ ॥ लक्ष्मीविभवसर्वस्वं मुमुक्षोश्चक्रलान्छनम् । साम्राज्य सार्वभौमं ते जरत्तृणमिवाभवत् ॥ ८ ॥ तव रूपस्य सौन्दर्यं दृष्ट्वा तृप्तिमनापिवान् । व्यक्षः शक्रः सहस्राक्षो बभूव बहुविसयः ॥ ८९ ।। मोहरूपो रिपुः पापः कपायभटसाधनः । दृष्टिसम्पदुपेक्षास्वैस्त्वया धीर पराजितः ॥ २० ॥ कन्दपस्योद्वरो दर्पस्त्रैलोक्यविजयार्जितः। हैपयामास तं धीरे त्वयि प्रतिहतोदयः ॥ ९ ॥ आयत्यां च तदात्वे च दुःखयोनिनिरुत्तरा । तृष्णानदी त्वयोत्तीर्णा विद्यानावा विविक्तया ॥ ९२ ॥ अन्तकः क्रन्दको नृणां जन्मज्वरसखा सदा । स्वामन्तकान्तकं प्राप्य व्यावृत्तः कामकारतः ॥ ९३ ॥ भूपावेपायुधत्यागि विद्यादमदयापरम् । रूपमेव तवाचष्टे धीर दोपविनिग्रहम् ॥ ९४ ॥ समन्ततोऽङ्गभासां ते परिवेपेण भूयसा। तमो वाहमपाकीर्णमध्यात्मध्यानतेजसा ॥ ९५ ॥ सर्वज्ञज्योतिपोभूतस्तावको महिमोदयः। कं न कुर्यात् प्रणनं ते सत्वं नाथ सचेतनम् ॥ ९६ ॥ तव वागमृतं श्रीमत्सर्वभापास्वभावकम् । प्रणीयत्यमृतं यद्वत् प्राणिनो व्यापि संसदि ॥ ९७॥ अनेकान्तात्मदृष्टिस्ते सती शून्यो विपर्ययः । ततः सर्व भूपोक्तं स्यात्तदयुक्तं खधाततः ॥ ९ ॥ ये परस्खलितोनिद्राः स्वदोपेभनिमीलिनः ।

१० सनातननग्रन्थमालायाम् तपस्विनस्ते किं कुर्युरपानं त्वन्मतश्रियः ॥ ९९ ॥ ते तं स्वघातिनं दोपं शमीकर्तुमनीश्वराः । त्वद्विपः खहनो बालास्तत्त्वावक्तव्यतां श्रिताः ॥ १०॥ सदेकनित्यवक्तव्यास्तद्विपक्षाश्च ये नयाः । सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीहिते ॥ १०१ ॥ सर्वथा नियमत्यागी यथादृष्टमपेक्षकः । स्थाच्छन्दस्तावके न्याये नान्येपामात्मविद्विपाम् ॥ १०२॥ अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः । अनेकान्तः प्रमाणान्ते तदेकान्तोऽर्पितानयात् ॥ १०३ ॥ इति निरुपमयुक्तिशासनः प्रियहितयोगगुणानुशासनः । भरजिनदमतीर्थनायकस्त्वमिव सतां प्रतिवोधनायकः ॥ १०४॥ मतिगुणविभवानुरूपतस्त्वयि वरदागमदृष्टिरूपतः। गुणकृशमपि किञ्चनोदितं मम भवता दुरिताशनोदितम् ।। १०५॥ इत्यरजिनस्तोत्रम् यस्य महः सकलपदार्थप्रत्यववोधः समजनि साक्षात् । सामरमा जगदपि सर्व प्राञ्जलिभूत्वा प्रणिपतति स ॥ १०६ ॥ यस च मूर्तिः कनकमयीव स्वस्फुरदाभाकृतपरिवेपा। वागपि तत्त्वं कथयितुकामा स्यात्पदपूर्वारमयति साधून ॥१०७॥ यस्य पुरस्ताद्विगलितमाना न प्रतितीर्थ्या भुवि विवदन्ते । भूरपि रम्या प्रतिपदमासीजातविकोशाम्बुजमृदुहासा ॥ १०८ ॥ यस्य समन्ताजिनशिशिरांशोः शिष्यकसाधुग्रहविभवोऽभूत् । तीर्थमपि खं जननसमुदत्रासितसत्वोत्तरणपथोऽयम् ॥ १०९ ॥ यस्य च शुक्लं परमतपोऽग्निानमनन्तं दुरितमधाक्षीत् । तं जिनसिंह कृतकरणीयं मल्लिमशल्यं शरणमितोऽसि ॥ ११०॥ इति मल्लिजिनस्तोत्रम्, अधिगतमुनिसुव्रतस्थितिर्मुनिवृषभो मुनिसुव्रतोऽनघः ।

वृहत्स्वयम्भूस्तोत्रम्
मुनिपरिषदि निर्वभौ भवानुडुपरिपत्परिवीतसोमवत् ॥ १११ ॥
परिणतशिखिकण्ठरागया कृतमदनिग्रहविग्रहाभया।
भवजिनतपसः प्रसूतया ग्रहपरिवेपरचेव शोभितम् ॥ ११२॥
शशिरुचिशुचिशुक्तलोहितं सुरभितरं विरजो निजं वपुः ।
तव शिवमतिविस्मयं यते यदपि च वाङ्मनसोऽयमीहितम् ॥११३॥
स्थितिजनननिरोधलक्षणं चरमचरं च जगत्प्रतिक्षणम् ।
इति जिनसकलज्ञलान्छनं वचनमिदं वदतां वरस्य ते ॥ ११४ ॥
दुरितमलकलकमष्टकं निरुपमयोगवलेन निर्दहन् ।
अभवदभवसौख्यवान् भवान् भवतु ममापि भवोपशान्तये॥११५॥
इति मुनिसुव्रतजिनस्तोत्रम्.
स्तुतिस्तोतुः साधोः कुशलपरिणामाय स तदा
भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य च सतः ।
किमेवं स्वाधीनाजगति सुलभे श्रायसपथे
स्तुयानत्वा विद्वान्सततमपि पूज्यं नमिजिनम् ॥ ११६ ॥
त्वया धीमन् ब्रह्मप्रणिधिमनसा जन्मनिगलं
समूलं निर्भिन्नं त्वमसि विदुपां मोक्षपदवी ।
त्वयि ज्ञानज्योतिर्विभवकिरणीति भगव-
नभूवन् खद्योता इव शुचिरवावन्यमतयः ॥ ११७ ॥
विधेयं धार्य चानुभयमुभय मिश्रमपि तत्
विशेपैः प्रत्येक नियमविपर्यश्चापरिमितैः ।
सदान्योन्यापेक्षः सकलभुवनज्येष्ठगुरुणा
स्वया गीतं तत्त्वं बहुनयविवक्षेतरवशात् ॥११॥
भहिंसा भूतानां जगति विदितं ब्रह्म परमं
नसातत्रारम्भोस्त्यणुरपि च यत्राश्रमविधौ।
ततस्तत्सिव्यर्थ परमकरुणो ग्रन्थमुभयं
भवानेवात्याक्षीन च विकृतवेपोपधिरतः ॥ ११९ ॥

१२ सनातनजैनग्रन्थमालायाम् वपुर्भूपावेपव्यवधिरहितं शान्तिकरणं यतस्ते संचष्टे सरशरविपातकविजयम् । विना भीमः शस्त्रैरदयहृदयामविलयं ततस्त्वं निर्मोहः शरणमसि नः शान्तिनिलयः ॥ १२० ॥ इति नमिजिनस्तोत्रम् भगवानृषिः परमयोगदहनहुतकल्मपेन्धनम् । ज्ञानविपुलकिरणैः सकलं प्रतिवुध्य बुद्धः कमलायतेक्षणः ॥१२॥ हरिवंशकेतुरनवद्यविनयदमतीर्थनायकः । शीलजलधिरभवो विभवस्त्वमरिष्टनेमिजिनकुअरोऽजरः॥ १२ ॥ त्रिदशेन्द्रमौलिमणिरत्नकिरणविसरोपचुम्बितम् । पादयुगलममलं भवतो विकसत्कुशेशयदलारुणोदरम् ॥ १२३ ॥ नखचन्द्ररश्मिकवचातिरुचिरशिखराङ्गुलिस्थलम् । खार्थनियतमनसःसुधियः प्रणमन्ति मन्त्रमुखरा महर्पयः ॥१२४॥ धुतिमद्रथाङ्गरविबिम्बकिरणजटिलांशुमण्डलः । नीलजलजदलराशिवपुः सहवन्धुभिर्गरुडकेतुरीश्वरः ॥ १२५ ॥ हलभृच्च ते स्वजनभक्तिमुदितहृदयौ जनेश्वरौ । धर्मविनयरसिकौ सुतरां चरणारविन्दयुगलं प्रणेमतुः ॥ १२६ ॥ ककुदं भुवः खचरयोपिदुपितशिखरैरलकृतः । मेघपटलपरिवीततटस्तव लक्षणानि लिखितानि वज्रिणा ॥ १२७ ॥ वहतीति तीर्थमृपिभिश्च सततमभिगम्यतेऽद्य च । प्रीतिविततहृदयैः परितो भृशमूर्जयन्त इति विश्रुतोऽचलः॥१२८॥ बहिरन्तरप्युभयथा च करणमविघातिन थकृत् । नाथ युगपदखिलं च सदा त्वमिदं तलामलकवद्विवेदिथः॥ १२९॥ अत एव ते बुधनुतस्य चरितगुणमद्भुतोदयम् । न्यायविहितमवधार्य जिने त्वयि सुप्रसन्नमनसास्थिता वयं ॥१३०॥ ܝܢ܆

वृहत्खयम्भूस्तोत्रम्
१३
इत्यरिष्टनेमिजिनस्तोत्रम्
तमालनीलैः सधनुस्तडिदुणैः प्रकीर्णभीमाशनिवायुवृष्टिभिः ।
यलाहकैरिवरुपद्रुतो महामना यो न चचाल योगतः ॥१३॥
बृहत्फणामण्डलमण्डपन यं स्फुरत्तडिस्पिनरुचोपसर्गिणाम् ।
जुगृह नागो धरणो धराधरं विरागसन्ध्यातडिदम्बुदोयथा ॥१३२॥
स्वयोगनिस्त्रिंशनिशातधारया निशात्य यो दुर्जयमोह विद्विपम् ।
अवापदार्हन्त्यमचिन्त्यमद्भुतं त्रिलोकपूजातिशयास्पदं पदम्॥१३३॥
यमीश्वरं वीक्ष्य विधूतकल्मपं तपोधनास्तेऽपि तथा बुभूपवः ।
धनौकसः स्वश्रमवन्ध्यबुद्धयः शमोपदेशं शरणं प्रपेदिरे ॥ १३४ ॥
स सत्यविद्यातपसां प्रणायकः समग्रधीरुग्रकुलाम्बरांशुमान् ।
मया सदा पार्श्वजिनःप्रणम्यते विलीनमिथ्यापथदृष्टिविभ्रमः॥१३५॥
इति पार्श्वजिनस्तोत्रम्.
कीर्त्या भुवि भासि तया वीर त्वं गुणसमुच्छ्रया भासितया ।
भासोडुसभासितया सोम इव व्योनि कुन्दशोभासितया ॥ १३६॥
तव जिन शासनविभवो जयति कलावपि गुणानुशासनविभवः ।
दोपकशासनविभवः स्तुवंति चैनं प्रभाकृशासनविभवः ॥ १३७ ॥
अनवधः स्याद्वादस्तव दृष्टेष्टाविरोधतः स्याद्वादः ।
इतरो न स्याद्वादो सद्वितयविरोधान्मुनीश्वराऽस्याद्वादः ॥ १३८ ॥
स्वमसि सुरासुरमहितो ग्रन्थिकसत्वाशयप्रणामामहितः ।
लोकत्रयपरमहितोऽनावरणज्योतिरुज्वलद्धामहितः ॥ १३९ ।।
सभ्यानामभिरुचितं दधासि गुणभूपणं श्रिया चारुचितम् ।
मस खस्यां रचिरं जयसि च मृगलान्छनं स्वकान्त्या रुचितम् १४०
त्वं जिन गतमदमायस्तव भावानां मुमुक्षुकामदमायः ।
श्रेयान् श्रीमदमायस्त्वया समादेशि सप्रयामदमायः ॥ १४१ ॥

१४ सनातनजैनग्रन्थमालायाम् गिरिभित्यवदानवतः श्रीमत इव दन्तिनः श्रवद्दानवतः। तव शमवादानवतो गतमूर्जितमपगतप्रमादानवतः॥ १४२ ॥ बहुगुणसंपदसकलं परमतमपि मधुरवचनविन्यासकलम् । नयभक्त्यवतंसकलं तव देव मतं समन्तभद्रं सकलम् ॥ १४३ ॥ इति वीरजिनस्तोत्रम्. यो निःशेपजिनोकधर्मविषयः श्रीगौतमायैः कृतः सूक्ताथै रमलैः स्तवोयससमः स्वल्पैः प्रसन्नैः पदैः । तड्याख्यानमदो यथायवगतः किञ्चित्कृतं लेशतः स्थेयांश्चन्द्रदिवाकरावधि बुधप्रह्लादचेतस्थलम् ॥ १४४ ॥ इति वृहत्स्वयम्भूस्तोत्रं समाप्तम् । १ प्रकृष्टामा हिंसा प्रमा अपगता प्रमा अपगतप्रमा तस्या दानमभयदानं तदस्यास्तीति तस्य । २ नया भक्तयो भगास्ता एवाऽवतंसकं कर्णभूषणं तल्लातीति वा । ३ अन्तिमः श्लोकः स्वयम्भूस्तोत्रस्य न किन्तु टीकाकृतः ।

ॐ
श्रीमत्स्वामिसमन्तभद्राचार्यविरचितो
रत्नकरण्डश्रावकाचारः।
(२)
मङ्गलाचरणम्.
नमः श्रीवर्धमानाय निर्दूतकलिलात्मने ।
सालोकानां त्रिलोकानां यद्विद्या दर्पणायते ॥ १ ॥
धर्मोपदेशप्रतिज्ञा.
देशयामि समीचीनं धर्म कर्मनिबहणम् ।
संसारदुःखतः सत्त्वान्यो धरत्युत्तमे सुखे ॥२॥
धर्मस्य लक्षणम्
सदृष्टिज्ञानवृत्तानि धर्म धर्मेश्वरा विदुः ।
यदीयप्रत्यनीकानि भवन्ति भवपद्धतिः ॥ ३ ॥
सम्यग्दर्शनम्.
श्रद्धानं परमार्थानामातागमतपोभृताम् ।
त्रिमूढापोढमष्टाङ्गं सम्यग्दर्शनमसयम् ॥ ४ ॥
आप्तलक्षणम्.
आसनोच्छन्नदोपेण सर्वज्ञेनागमेशिना ।
भवितव्यं नियोगेन नान्यथा ह्याप्तता भवेत् ॥५॥
वीतरागकथनम्.
क्षुत्पिपासाजरातङ्कजन्मान्तकभयसयाः ।
न रागद्वेपमोहाच यस्याप्तः सः प्रकीर्त्यते ॥ ६ ॥

१६ सनातनजैनप्रन्थमालायाम् हितोपदेशिनः कथनम्. परमेष्ठी परंज्योतिर्विरागो विमलः कृती। सर्वज्ञोऽनादिमध्यान्तः सार्वः शास्तोपलाल्यते ॥ ७ ॥ अनात्मार्थ विनारागैः शास्ता शास्ति सतो हितम् । ध्वनन् शिल्पिकरस्पर्शान्सुरजः किमपेक्षते ॥ ८॥ शास्त्रलक्षणम्. आप्तोपज्ञमनुल्लध्यमदृष्टेष्टविरोधकम् । तत्वोपदेशकृत्सा शास्त्रं कापथघट्टनम् ॥९॥ गुरुलक्षणम्. विषयाशावशातीतो निरारम्भोऽपरिग्रहः। ज्ञानध्यानतपोरक्तस्तपस्वी सः प्रशस्यते ॥ १० ॥ सम्यक्त्वस्याष्टाङ्गानि । १ निःसाङ्किताङ्गम्. इदमेवेशमेव तत्त्वं नान्यन्न चान्यथा । इत्यकम्पायसाम्भोवत्सन्मार्गेऽसंशया रुचिः ॥११॥ २ निःकासिताम्. कर्मपरवशे सान्ते दुःखैरन्तरितोदये । पापबीजे सुखेऽनास्था श्रद्धानाकाङ्क्षणा स्मृता ॥ १२ ॥ ३ निर्विचिकित्सिताङ्गम्. स्वभावतोऽशुचौ काये रत्नत्रयपवित्रिते । निर्जुगुप्सागुणप्रीतिर्मता निर्विचिकित्सिता ॥ १३ ॥ ४ अमूढदृष्टयङ्गम्. कापथे पथि दुःखानां कापथस्थेऽप्यसम्मतिः । असम्पृक्तिरनुत्कीर्तिरमूढा दृष्टिरुच्यते ॥ १४ ॥ १ ज्ञानध्यानतपोरतमित्यपि ।

रनकरण्डश्रावकाचारः
।
५ उपगूहनानम्.
स्वयं शुद्धस्य मार्गस्य बालाशक्तजनाश्रयाम् ।
वाच्यतां यत्प्रमार्जन्ति तद्वदन्त्युपगृहनम् ॥ १५ ॥
स्थितिकरणानम्.
दर्शनाचरणाद्वापि चलतां धर्मवत्सलैः ।
प्रत्यवस्थापन प्राज्ञैः स्थितिकरणमुच्यते ॥ १६ ॥
वात्सल्याणम्.
वयूथ्यान्प्रति सद्भावसनाथापेतकैतवा ।
प्रतिपत्तियथायोग्य वात्सल्यमभिलप्यते ॥ १७ ॥
प्रभावनाङ्गम.
अज्ञानतिमिरव्याप्तिमपाकृत्य यथायथम् ।
जिनशासनमाहात्म्यप्रकाशः स्यात्प्रभावना ॥ १८॥
अष्टाधारिनामानि.
तावदानचौरोऽङ्गे ततोऽनन्तमती स्मृता।
उद्दायनस्तृतीयेऽपि तुरीये रेवती मता ॥१९॥
ततो जिनेन्द्रभक्तोऽन्यो वारिपेणस्ततः परः ।
विष्णुश्च वजनामा च शेपयोलेक्षतां गतौ ॥२०॥
अङ्गहीनदर्शनस्य व्यर्थत्वम्.
नाङ्गहीनमलं छेत्तुं दर्शनं जन्मसन्ततिम् ।
न हि मन्त्रोऽक्षरन्यूनो निहन्ति विपवेदनाम् ॥ २१ ॥
लोकमूढता.
आपगासागरमानमुचयः सिकताश्मनाम् ।
गिरिपातोऽग्निपातश्च लोकमूढ़ निगद्यते ॥ २२ ॥
देवमूढता.
वरोपलिप्सयाशावान् रागद्वेपमलीमसः ।
देवता यदुपासीत देवतामूढमुच्यते ॥ २३ ॥

१८
सनातनजैनप्रन्थमालायाम्
गुरुमूढता.
समन्थारम्भहिंसानां संसारावर्तवर्तिनाम् ।.
पाखण्डिनां पुरस्कारो ज्ञेयं पाखण्डिमोहनम् ॥ २४ ॥
अष्टमदनामानि.
ज्ञानं पूजां कुलं जाति बलमृद्धिं तपो वपुः ।
अष्टावाश्रित्य मानित्वं सयमाहुर्गतसयाः ॥ २५ ॥
मदस्यानिष्टत्वम्.
सयेन योऽन्यानत्येति धर्मस्थान् गर्विताशयः ।
सोऽत्येति धर्ममात्मीयं न धर्मो धार्मिकविना ॥ २६ ॥
यदि पापनिरोधोऽन्यसम्पदा किं प्रयोजनम् ।
अथ पापासवोऽस्त्यन्यसम्पदा किं प्रयोजनम् ॥ २७ ॥
सम्यग्दर्शनमहिमा.
सम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम् ।
देवा देवं विदुर्भसगूढाङ्गारान्तरौजसम् ॥ २८ ॥
श्वापि देवोऽपि देवः वा जायते धर्मकिल्विपात् ।
कापि नाम भवेदन्या सम्पद्धाच्छरीरिणाम् ॥ २९ ॥
भयाशास्नेहलोभाच्च कुदेवागमलिङ्गिनाम् ।
प्रणाम विनयं चैव न कुर्युः शुद्धदृष्टयः ॥ ३०॥
दर्शनं ज्ञानचारित्रात्साधिमानमुपाश्नुते ।
दर्शनं कर्णधारं तन्मोक्षमार्गे प्रचक्षते ॥ ३१ ॥
विद्यावृत्तस्य संभूतिस्थितिवृद्धिफलोदया।
न सन्त्यसति सम्यक्त्वे वीजाभावे तरोरिव ॥ ३२॥
गृहस्थो मोक्षमार्गस्थो निर्मोहो नैव मोहवान् ।
अनगारो गृही श्रेयान् निर्मोहो मोहिनो मुनेः ॥ ३३ ॥
न सम्यक्त्वसमं किञ्चित्रैकाल्ये त्रिजगत्यपि ।
श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनुभृताम् ॥ ३४ ॥

रत्नकरण्डश्रावकाचार: १९ आ-. सम्यग्दर्शनशुद्धा नारकतिर्यनपुंसकत्रीत्वानि । दुष्कुलविकृताल्पायुर्दरिद्रतां च ब्रजन्ति नाप्यवृतिकाः॥३५॥ भोजस्तेजोविद्यावीर्ययशोवृद्धिविजयविभवसनाथाः । महाकुलाः महार्था मानवतिलका भवन्ति दर्शनपूताः॥३६॥ अष्टगुणपुष्टितुष्टा दृष्टिविशिष्टाः प्रकृष्टशोभाजुष्टाः । अमराप्सरसा परिपदि चिरं रमन्ते जिनेन्द्रभक्ताःस्वर्गे॥३७॥ नवनिधिसप्तद्वयरत्ताधीशाः सर्वभूमिपतयश्चक्रम् । घर्तयितुं प्रभवन्ति स्पष्टदृशः क्षत्रमौलिशेखरचरणाः ॥३०॥ अमरासुरनरपतिभिर्यमधरपतिभिश्च नूतपादाम्भोजाः । दृष्टया सुनिश्चितार्था वृपचक्रधरा भवन्ति लोकशरण्याः॥३९॥ शिवमजरमरुजमक्षयमन्यावाधं विशोकभयशङ्कम् । काष्ठागतसुखविद्याविभवं विमलं भजन्ति दर्शनशरणाः॥४०॥ देवेन्द्रचक्रमहिमानममेयमानम् राजेन्द्रचक्रमवनीन्द्रशिरोऽर्चनीयम् ।। धर्मेन्द्रचक्रमधरीकृतसर्वलोकम् लब्ध्वा शिवं च जिनभक्तिरुपैति भव्यः॥४१॥ इति श्रीसमन्तभद्रस्वामिविरचिते रलकरण्डनाम्नि उपासकाध्ययने सम्यग्दर्शनवर्णनो नाम प्रथमः परिच्छेदः ॥ १॥ सम्यग्ज्ञानस्य लक्षणम्. अन्यूनमनतिरिक्तं याथातथ्यं विना च विपरीतात् । निःसन्देहं वेद यदाहुस्तज्ज्ञानमागमिनः ॥ ४२ ॥ प्रथमानुयोगकथनम्. प्रथमानुयोगमाख्यानं चरितं पुराणमपि पुण्यम् । बोधिसमाधिनिधानं बोधति बोधः समीचीनः ॥ ४३ ॥ २

२०
सनातनजैनप्रन्धमालायाम्
करणानुयोगकथनम्.
लोकालोकविभक्तर्युगपरिवृत्तेश्चतुर्गतीनां च ।
भादर्शमिव तथामतिरवैतिकरणानुयोगं च ॥ ४४ ॥
चरणानुयोगकथनम.
गृहमध्यनगाराणां चारित्रोत्पत्तिवृद्धिरक्षाङ्गम् ।
चरणानुयोगसमयं सम्यग्ज्ञानं विजानाति ॥ ४५ ॥
द्रव्यानुयोगकथनम्.
जीवाजीवसुतत्वे पुण्यापुण्ये च बन्धमोक्षौ च ।
द्रव्यानुयोगदीपः श्रुतविद्यालोकमातनुते ॥ ४६ ॥
चारित्रस्यावश्यकता.
मोहतिमिरापहरणे दर्शनलाभादवातसंज्ञानः ।
रागद्वेषनिवृत्त्यै चरणं प्रतिपद्यते साधुः ॥ ४७ ॥
रागद्वेषनिवृत्तेहिंसादिनिवतंना कृता भवति ।
अनपेक्षितार्थवृत्तिः कः पुरुषः सेवते नृपतीन् ॥ ४० ॥
इति श्रीसमन्तभद्रस्वामिविरचिते रलकरण्डनाम्नि उपासकाध्ययने
सम्यग्ज्ञानवर्णनो नाम द्वितीयः परिच्छेदः ॥ २॥
चारित्रकथन.
हिंसानृतचौर्येभ्यो मैथुनसेवापरिग्रहाभ्यां च ।
पापप्रणालिकाभ्यो विरतिः संज्ञस्य चारित्रम् ॥ ४९ ॥
चारित्रभेदौ.
सकलं विकलं चरणं तत्सकलं सर्वसङ्गविरतानाम् ।
अनगाराणां विकलं सागाराणां ससङ्गानाम् ॥ ५० ॥
विकल( गृहस्थ )चारित्रभेदाः.
गृहिणां त्रेधा तिष्ठत्यणुगुणशिक्षावतात्मकं चरणम् ।
पञ्चत्रिचतुर्भेदं त्रयं यथासङ्ख्यमाख्यातम् ॥ ५१ ॥

रनकरण्डश्रावकाचार: अणुव्रतम्. प्राणातिपातवितथव्याहारस्तेयकाममूर्छाभ्यः । स्थूलेभ्यः पापेभ्यो व्युपरमणमणुव्रतं भवति ॥ ५२ ॥ अहिंसाणुव्रतम् सहल्पास्कृतकारितमननाद्योगत्रयस्य चरसत्वान् । न हिनस्ति यत्तदाहुः स्थूलवधाद्विरमणं निपुणाः ॥ ५३ ॥ अहिंसाणुव्रतस्य पश्चातीचाराः. छेदनवन्धनपीढनमतिभारारोपणं व्यतीचाराः। आहारवारणापि च स्थूलवधायुपरतेः पञ्च ॥ ५४ ॥ सत्याणुव्रतम्. स्थूलमलीकं न वदति न परान् वादयति सत्यमपि विपदे । यत्तद्वदन्ति सन्तः स्थूलमृपावादवैरमणम् ॥ ५५ ॥ सल्याणुव्रतस्य पश्चातीचारा:. परिवादरहोभ्याख्या पैशन्यं कूटलेखकरणं च । न्यासापहारितापि च व्यतिक्रमाः पञ्च सत्यस्य ॥ ५६ ॥ अचौर्याणुव्रतम्. निहितं वा पतितं वा सुविस्मृतं वा परस्वमविसृष्टम् । न हरति यन्न च दत्ते तदकृपचौर्यादुपारमणम् ॥ ५७ ॥ अचौर्याणुव्रतस्य पञ्चातीचाराः. चौरप्रयोगचौरार्थीदानविलोपसदृशसन्मिश्राः । हीनाधिकविनिमानं पजास्तेये व्यतीपाताः ॥ ५० ॥ ब्रह्मचर्याणुव्रतम्. न तु परदारान् गच्छति न परान् गमयति च पापभीतेर्यत् । सा परदारनिवृत्तिः खदारसन्तोपनामापि ॥ ५९ ॥ ब्रह्मचर्याणुव्रतस्य पश्चातीचाराः. अन्यविवाहाकरणानङ्गक्रीडाविटत्व विपुलतृपाः ।

२२ सनातनजैनग्रन्थमालायाम् इत्वरिकागमनं चासरस्य पञ्च व्यतीचाराः ॥ ६ ॥ परिमितपरिग्रहाणुव्रतम्. धनधान्यादिग्रन्थं परिमाय ततोऽधिकेपु निस्पृहता। परिमितपरिग्रहः स्यादिच्छापरिमाणनामापि ॥ ६ ॥ परिमितपरिग्रहाणुव्रतस्य पश्चातीचाराः, भतिवाहनातिसंग्रह विस्सयलोभातिभारवहनानि । परिमितपरिग्रहस्य च विक्षेपाः पञ्च कथ्यन्ते ॥ ६२॥ पञ्चाणुनतफलम्. पञ्चाणुव्रतनिधयो निरतिक्रमणाः फलन्ति सुरलोकम् । यन्नावधिरष्टगुणा दिव्यशरीरं च लभ्यन्ते ॥ ६३.॥ पञ्चाणुव्रतिप्रसिद्धानां नामानि. मातङ्गो धनदेवश्च वारिपेणस्ततः परः। नीली जयश्च सम्माता: पूजातिशयमुत्तमम् ॥ ६४ ॥ हिंसादिपश्चपापेषु प्रसिद्धानां नामानि.. धनश्रीसत्यघोपौ च तापसारक्षकावपि । उपाख्येयास्तथा सश्रुनवनीतो यथाक्रमम् ॥ ६५ ॥ गृहमेधिनामष्टौ मूलगुणाः.. मद्यमांसमधुत्यागैः सहाणुवतपञ्चकम् । अष्टौ मूलगुणानाहुहिणां श्रमणोत्तमाः ॥ ६६ ॥ इति श्रीसमन्तभद्रस्वामिविरचिते रलकरण्डकनाम्नि उपासकाध्ययने अणुव्रतवर्णनो नाम तृतीयः परिच्छेदः ॥ ३ ॥ त्रीणि गुणव्रतानि. दिग्वतमनर्थदण्डव्रतं च भोगोपभोगपरिमाणम् । अनुबृंहणाद्गुणानामाख्यान्ति गुणव्रतान्यार्याः ॥ ६७ ॥ दिग्वतम्. दिग्वलयं परिगणितं कृत्वातोऽहं बहिर्न यास्यामि ।

रत्नकरण्डश्रावकाचार: m इति सङ्कल्पो दिग्वतमामृत्यणुपापविनिवृत्त्यै ॥ ६॥ दिग्वतस्य मादा. मकराकरसरिदटवीगिरिजनपदयोजनानि मर्यादाः । प्राहुर्दिशां दशानां प्रतिसंहारे प्रसिद्धानि ॥ ६९ ।। दिग्वतस्य माहात्म्यं. अवधेर्बहिरणुपापप्रतिविरतेर्दिग्नतानि धारयताम् । पञ्चमहाव्रतपरिणतिमणुक्तानि प्रपद्यन्ते ॥ ७० ॥ प्रत्याख्यानतनुत्वान्मन्दतराश्चरणमोहपरिणामाः। सत्त्वेन दुरवधारा महाव्रताय प्रकल्प्यन्ते ॥ ७१ ॥ महावतलक्षणम्. पञ्चानां पापानां हिंसादीनां मनोवचःकायैः । कृतकारितानुमोदैस्त्यागस्तु महाव्रतं महताम् ॥ ७२ ॥ दिग्वतस्यातीचाराः. अधिस्तातिर्यग्व्यतिपाताः क्षेत्रवृद्धिरवधीनाम् । विसरणं दिग्विरतरत्याशाः पञ्च मन्यन्ते ॥ ७३ ॥ अनर्थदण्डव्रतम्. अभ्यन्तरं दिगवधेरपार्थिकेभ्यः सपापयोगेभ्यः । विरमणमनर्थदण्डव्रतं च विदुतधरामण्यः ॥ ७४ ॥ अनर्थदण्डस्य भेदाः. पापोपदेशहिंसादानापध्यानदुःश्रुतीः पञ्च । पाहुः प्रमादचर्यामनर्थदण्डानदण्डधराः ॥ ७५ ॥ पापोपदेशः. तिर्यक्केशवणिज्याहिंसारम्भप्रलम्भनादीनाम् । कथाप्रसङ्गप्रसवः सर्तव्यः पाप उपदेशः ॥ ७६ ॥ हिंसादानम्. परशुकृपाणखनित्रज्वलनायुधशङ्गशङ्गलादीनाम् ।

सनातनजैनप्रन्थमालायाम् वधहेतूनां दानं हिंसादानं सुवन्ति युधाः ।। ७७ ॥ अपध्यानम्. वन्धवधच्छेदादेद्वैपादागाच्च परकलत्रादेः। आध्यानमपध्यानं शासिति जिनशासने विशदाः ॥ ७८॥ दुःश्रुतिः आरम्भसगसाहसमिध्यात्वद्वेपरागमदमदनैः। चेतःकलुपयतां श्रुतिरवधीनां दुःश्रुतिर्भवति ॥ ७९ ॥ प्रमादचा. क्षितिसलिलदहनपवनारम्भं विफलं वनस्पतिच्छेदम् । सरणं सारणमपि च प्रमादचयों प्रभापन्ते ॥ ८॥ अनर्थदण्डव्रतस्यातीचाराः. कन्दपै कौल्कुच्यं मौखर्यमतिप्रसाधनं पञ्च । असमीक्ष्य चाधिकरणं व्यतीतयोऽनर्थदण्डकृद्विरतेः ॥८॥ भोगोपभोगोपरिमाणवतम्. अक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम् । अर्थवतामप्यवधी रागरतीनां तनूकृतये ॥ ८२॥ भोगोपभोगभेदी. भुक्त्वा परिहातव्यो भोगो भुक्त्वा पुनश्च भोक्तव्यः । उपभोगोऽशनवसनप्रभृतिपान्चेन्द्रियो विषयः ॥ ८३ ॥ मधुमांसमद्यनिषेधः. सहतिपरिहरणार्थ क्षौद्रं पिशितं प्रमादपरिहृतये । मयं च वर्जनीयं जिनचरणौ शरणमुपयातैः ॥ ४४ ॥ अल्पफलवहुविधातनिषेधः. अल्पफलबहुविघातान्मूलकमाणि शृङ्गवेराणि । नवनीतनिम्बकुसुमं कैतकमित्येवमवयम् ॥ ८५ ॥ यदनिष्टं तद्रतयेद्यच्चानुपसेव्यमेतदपि जह्यात् ।

रत्नकरण्डश्रावकाचारः
२५
अभिसन्धिकृताविरतिर्विषयायोग्यातं भवति ॥ ८६ ॥
यमनियमकथनम्.
नियमो यमश्च विहितौ द्वेधा भोगोपभोगसंहारात् ।
नियमः परिमितिकालो यावजीवं यमो ध्रियते ॥ ८७॥
नियमविधिः.
भोजनवाहनशयनस्नानपवित्राङ्गरागकुसुमेषु ।
ताम्बूलवसनभूषणमन्मथसङ्गीतगीतेषु ॥ ८८ ॥
अद्य दिवा रजनी वा पक्षो मासस्तर्थरियनं वा ।
इति कालपरिच्छित्या प्रत्याख्यानं भवेनियमः (युग्म)॥८९
भोगोपभोगपरिमाणवतातीचाराः.
विषयविपतोऽनुपेक्षानुस्मृतिरतिलौल्यमतितृषानुभवौ ।
भोगोपभोगपरमाव्यतिक्रमाः पञ्च कथ्यन्ते ॥ ९० ।
इति श्रीसमन्तभद्रस्वामिविरचिते रत्नकरण्डकनाम्नि उपासकाध्ययने
गुणव्रतवर्णनो नाम चतुर्थः परिच्छेदः ॥ ४ ॥
चत्वारि शिक्षाब्रतानि.
देशावकाशिकं वा सामयिक प्रोषधोपवासो वा ।
वैश्यावृत्यं शिक्षावतानि चत्वारि शिष्टानि ॥ ९१ ॥
देशावकाशिकशिक्षाव्रतम्.
देशावकाशिकं स्यात्कालपरिच्छेदनेन देशस्य ।
'प्रत्यहमणुव्रतानां प्रतिसंहारो विशालस्य ॥ ९२ ॥
देशावकाशिकवतस्य क्षेत्रमर्यादा.
गृहहारिग्रामाणां क्षेत्रनदीदावयोजनानां च ।
देशावकाशिकस्य सरन्ति सीनां तपोवृद्धाः ॥ ९३ ॥
देशावकाशिकवतस्य कालमर्यादा.
संवत्सरमृतुरयनं मासचतुर्मासपक्षमृक्षं च ।
देशावकाशिकस्य प्राहुः कालावधि प्राज्ञाः ॥ ९४ ॥

सनातनजैनग्रन्थमालायाम् देशावकाशिकवतस्य सार्थकता. सीमान्तानां परतः स्थूलेतरपञ्चपापसंत्यागात् । देशावकाशिकेन च महाव्रतानि प्रसाध्यन्ते ॥ ९५ ॥ देशावकाशिकव्रतस्य पञ्चातीचारा:. प्रेपणशब्दानयनं रूपाभिव्यक्तिपुद्गलक्षेपौ । देशावकाशिकस्य व्यपदिश्यन्तेऽत्ययाः पञ्च ॥ ९६ ॥ सामायिकशिक्षाव्रतम्. भासमयमुक्तिमुक्तं पञ्चाधानामशेपभावेन । सर्वत्र च सामयिकाः सामयिकं नाम शंसन्ति ॥ ९७ ॥ सामायिकविधिः, मूर्धरुहमुष्टिवासोवन्धं पर्यवन्धनं चापि । स्थानमुपवेशनं वा समयं जानन्ति समयज्ञाः ॥ ९ ॥ एकान्ते सामयिक निाक्षेपे वनेपु वास्तुपु च । चैत्यालयेषु वापि च परिचेतव्यं प्रसन्नधिया ॥ ९९ ॥ व्यापारवैमनस्याद्विनिवृत्त्यामन्तरात्मविनिवृत्त्या । सामयिकं वतीयादुपवासे चैकभुक्ते वा ॥ १० ॥ सामयिक प्रतिदिवसं यथावदप्यनलसेन चेतव्यम् । व्रतपञ्चकपरिपूरणकारणमवधानयुक्तेन ॥ १०१ ॥ सामायिकशिक्षाव्रतस्य सार्थकता. सामायिके सारम्भाः परिग्रहा नैव सन्ति सर्वेऽपि । चेलोपसृष्टमुनिरिव गृही तदा याति यतिभावम् ॥ १०२॥ सामायिके परीषहसहनम्. शीतोष्णदंशमशकपरिपहमुपसर्गमपि च मौनधराः । सामयिक प्रतिपन्ना अधिकुर्वीरनचलयोगाः ॥ १०३ ॥ सामायिके किं विचार्य. अशरणमशुभमनित्यं दुःखमनात्मानमावसामि भवम् । .

रनकरण्डश्रावकाचार: २७ मोक्षस्तद्विपरीतात्मेति ध्यायन्तु सामयिके ॥ १०४ ॥ सामायिकस्य पंचातीचारा:. वाकायमानसानां दुःप्रणिधानान्यनादरासरणे । सामयिकस्यातिगमा व्यज्यन्ते पञ्चभावेन ॥ १०५॥ प्रोषधोपवासशिक्षाप्रतम्. पर्वण्यष्टम्यां च ज्ञातव्यः प्रोपधोपवासस्तु । चतुरभ्यवहार्याणां प्रत्याख्यानं सदिच्छाभिः ॥ १०६ ॥ प्रोषधोपवासे किं त्याज्यं. पञ्चानां पापानामलकियारम्भगन्धपुप्पाणाम् । सानाअननस्यानामुपवासे परिहृतिं कुर्यात् ॥ १०७ ॥ उपवासे किं कर्तव्यं. धर्मामृतं सतृष्णः श्रवणाभ्यां पिबतु पाययेद्वान्यान् । ज्ञानध्यानपरो वा भवतूपवसन्नतन्द्रालुः ॥ १०८ ॥ प्रोषधोपवासः. चतुराहारविसर्जनमुपवासः प्रोषधः सकृद्भुक्तिः । स प्रोषधोपवासो यदुपोण्यारम्भमाचरति ॥ १०९॥ प्रोषधोपवासस्य पश्चातीचाराः. ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरासरणे। यत्प्रोपधोपवासे व्यतिलचनपञ्चकं तदिदम् ॥ १० ॥ वैयावृत्त्यशिक्षाव्रतम्. दानं वैयावृत्यं धर्माय तपोधनाय गुणनिधये । अनपेक्षितोपचारोपक्रियमगृहाय विभवेन ॥ ११ ॥ पुनश्च. व्यापत्तिव्यपनोदः पदयोः संवाहनं च गुणरागात् । वैयावृत्य यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥ ११२ ॥ १ सदेच्छामिरित्यपि पाठः । .

२८
सनातनजैनग्रन्थमालायाम्
पुनश्च
नवपुण्यैः प्रतिपत्तिः सप्तगुणसमाहितेन शुद्धेन ।
अपसूनारम्भाणामार्याणामिप्यते दानम् ॥ १३ ॥
दानफलम्.
गृहकर्मणापि निचितं कर्म विमार्टि खलु गृहविमुक्तानाम् ।
अतिथीनां प्रतिपूजा रुधिरमलं धावते वारि॥ ११४ ॥
उच्चैर्गोत्रं प्रणते गो दानादुपासनात्पूजा।
भक्तेः सुन्दररूपं स्तवनात्कीर्तिस्तपोनिधिपु ॥ ११५ ॥
क्षितिगतमिव वटवीजं पानगतंदानमल्पमपि काले।
फलति च्छायाविभवं बहुफलमिष्टं शरीरभृताम् ॥ ११६ ।।
दानभेदाः.
आहारौषधयोरप्युपकरणावासयोश्च दानेन ।
वैयावृत्त्यं त्रुवते चतुरात्मत्वेन चतुरस्राः ॥ ११७ ॥
दानफलत्य प्रसिद्धभोक्तारः.
श्रीपेणवृपभसेनौ कोण्डेशः सूकरश्च दृष्टान्ताः ।
वैयावृत्त्यस्यैते चतुर्विकल्पस्य मन्तव्याः ॥ १८ ॥
वैयावृत्ये( दाने जिनपूजाविधानम्.
देवाधिदेवचरणे परिचरणं सर्वदुःखनिर्हरणम् ।
कामदुहिकामदाहिनि परिचिनुयादाहतो नित्यम् ॥ ११९ ॥
पूजायाः फलस्य दृष्टान्तः.
अहंचरणसपर्यामहानुभावं महात्मनामवदत् ।
भेकः प्रमोदमत्तः कुसुमेनैकेन राजगृहे ।। १२० ॥
वैयावृत्त्यस्य पञ्चातीचाराः.
हरितपिधाननिधाने घनादरासरणमत्सरत्वानि ।
वैयावृत्त्यस्यैते व्यतिक्रमाः पञ्च कथ्यन्ते ॥ १२१ ॥
इति श्रीसमन्तभद्रस्वामिविरचिते रलकरण्डकनाम्नि उपासकाध्ययने
शिक्षाव्रतवर्णनो नाम पचमः परिच्छेदः ॥ ५॥

रनकरण्डश्रावकाचार: २९ सल्लेखनालक्षणम् उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतीकारे । धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥१२२ ।। सहेखनाया आवश्यकता. अन्तःक्रियाधिकरणं तपःफलं सकलदर्शिनः स्तुवते । तसाद्यावद्विभवं समाधिमरणे प्रयतितन्यम् ॥ १२३ ।' समाधिमरणय विधिः. स्नेहं वैरं सझं परिग्रहं चापहाय शुद्धमनाः । स्वजनं परिजनमपि च क्षात्वा क्षमयेत्प्रियैर्वचनैः ॥ १२४ ॥ भालोच्य सर्वमेनः कृतकारितमनुमतं च निर्व्याजम् । आरोपयेन्महानतमामरणस्थायि निश्शेपम् ॥ १२५॥ शोकं भयमवसादं केदं कालुप्यमरतिमपि हित्वा । सवोत्साहमुदीर्य च मनःप्रसाद्यं श्रुतरमृतैः ॥ २६ ॥ भाहारं परिहाप्य क्रमशः सिग्धं विवर्द्धयेत्पानम् । सिग्धं च हापयित्वा खरपानं पूरयेत्क्रमशः ॥ १२७ ।। खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्या। पचनमस्कारमनातनुं त्यज्येत्सर्वयत्नेन ॥ १२८ ॥ सहेखनायाः पक्षातीचाराः. जीवितमरणाशंलाभयमित्रस्मृतिनिदाननामानः । सलेखनातिचाराः पञ्च जिनेन्द्रः समादिष्टाः ॥ २९ ॥ सल्लेखनायाः फलम्. निःश्रेयसमभ्युदयं निस्तीरं दुस्तरं सुखाम्बुनिधिम् । नि:पिवति पीतधर्मा सवैखैरनालीढः ।। १३०॥ मोक्षकथनम्. जन्मजरामयमरणैः शोकैदुःखैर्भयैश्च परिमुक्तम् । निर्वाणं शुदसुखं निःश्रेयसमिप्यते नित्यम् ।। १३ ।।

३० सनातनजैनग्रन्थमालायाम् विधादर्शनशक्तिखास्थ्यमहादतृप्तिशुद्धियुजः। निरतिशया निरवधयो निःश्रेयसमावसन्ति सुखम् ॥१३२॥ काले कल्पशतेऽपि च गते शिवानां न विक्रिया लक्षा। उत्पातोऽपि यदि स्याधिलोकसम्भ्रान्तिकरणपटुः ॥ १३३ ॥ निःश्रेयसमधिपन्नास्त्रैलोक्यशिखामणिश्रियं दधते । निकिट्टिकालिकाच्छविचामीकरभासुरात्मानः ॥ १३४ ॥ पूजार्थज्ञैश्वर्यैर्वलपरिजनकामभोगभूयिष्ठः । अतिशयितभुवनमद्भुतमभ्युदयं फलति सद्धर्मः ॥ ३५ ॥ इति श्रीसमन्तभद्रस्वामिविरचिते रनकरण्डकनान्नि उपासकाध्ययने सल्लेखनावर्णनो नाम पठः परिच्छेदः ।। ६ ॥ श्रावकस्यैकादश प्रतिमाः ( कक्षाः). श्रावकपदानि देवैरेकादश देशितानि येपु खलु । स्वगुणाः पूर्वगुणैः सह संतिष्ठन्ते क्रमविवृद्धाः ॥ १३६ ॥ १ दर्शनिकः. सम्यग्दर्शनशुद्धः संसारशरीरभोगनिर्विण्णः । पञ्चगुरुचरणशरणो दर्शनिकतत्त्वपथगृहः ॥ १३७ ॥ २नतिकः. निरतिक्रमणमणुव्रतपञ्चकमपि शीलसप्तकं चापि। धारयते निःशल्यो योऽसौ प्रतिनां मतो प्रतिकः ।। १३८॥ ३ सामयिकः. चतुरावर्तत्रितयश्चतुःप्रणामस्थितो यथा जातः । सामयिको द्विनिषद्यस्त्रियोगशुदस्त्रिसन्ध्यमभिवन्दी॥१३९॥ ४ प्रोषधनियमविधायी. पर्वदिनेषु चतुर्वपि मासे मासे वशक्तिमनिगुह्य । प्रोषधनियमविधायी प्रणधिपरः प्रोपधानशनः ।। १४०॥

रत्नकरण्डश्रावकाचारः ३१ ५ सचित्तविरतः. मूलफलशाकशाखाकरीरकन्दप्रसूनबीजानि । नामानि योऽत्ति सोऽयं स चित्तविरतो दयामूर्तिः ॥१४॥ ६ रात्रिभुकित्यागी. अन्नं पानं खाद्यं लेह्यं नानाति यो विभावर्याम् । स च रात्रिभुक्तिविरतः सत्त्वेष्वनुकम्पमानमनाः ॥ १४२ ॥ ७ ब्रह्मचारी. मलवीजं मलयोनि गलन्मलं पूतगन्धिवीभत्सम् । पश्यनङ्गमनङ्गाद्विरमति यो ब्रह्मचारी सः ॥ १४३ ॥ ८ आरम्भत्यागी. सेवाकृपिवाणिज्यप्रमुखादारम्भतो व्युपारमति । प्राणातिपातहेतोर्योसावारम्भविनिवृत्तः ॥ १४४ ॥ ९ परिचितपरिग्रहत्यागी. वाह्येषु दशसु वस्तुपु ममत्वमुत्सृज्य निर्ममत्वरतः । स्वस्थः सन्तोपपरः परिचितपरिग्रहाद्विरतः ॥ १४५ ॥ १० अनुमतित्यागी. अनुमतिरारम्भे वा परिग्रहे वैहिकेपु कर्मसु वा । नास्ति खलु यस्य समधीरनुमतिविरतः स मन्तव्यः॥१४६॥ ११ उत्कृष्टधावकः. गृहतो मुनिवनमित्वा गुरूपकण्ठे व्रतानि परिगृह्य । भैक्ष्याशनस्तपस्सन्नुत्कृष्टश्चेलखण्डधरः ॥ ४ ॥ श्रेष्टज्ञातुर्लक्षणम्. पापमरातिर्धर्मो बन्धु वस्स चेति निश्चिन्वन् । समयं यदि जानीते श्रेयो ज्ञाता ध्रुवं भवति ॥ १४८ ॥ उपसंहारः. येन स्वयं वीतकलाविद्या दृष्टिः क्रियारनकरण्डभावम् ।

RW सनातननग्रन्थमालायाम् नीतस्तमायाति पतीच्छयेव सर्वार्थसिद्धिस्त्रिपु विष्टपेषु ।। १४९ ॥ अन्तमगलम्। सुखयतु सुखभूमिः कामिनं कामिनीव सुतमिव जननी मां शुद्धशीला भुनक्तु । कुलमिव गुणभूपा कन्यका संपुनीता- जिनपतिपदपद्मप्रेक्षिणी दृष्टिलक्ष्मीः ॥ १५० ॥ इति श्रीसमन्तभद्रस्वामिविरचिते रलकरण्डकनान्नि उपासकाध्ययने एकादशप्रतिमावर्णनो नाम सप्तमः परिच्छेदः ॥ ७॥ समाप्तोऽयं ग्रन्थः।

श्रीपरमात्मने नमः
श्रीमदमृतचन्द्रसूरिविरचित्तः
पुरुषार्थसिद्ध्युपायः।
(३)
तजयति परं ज्योतिः समं समस्तैरनन्तपर्यायैः ।
दर्पणतल इव सकला प्रतिफलति पदार्थमालिका यत्र ॥१॥
परमागमस्य बीजं निपिद्धजात्यन्धसिन्धुरविधानम् ।
सकलनयविलसितानां विरोधमथनं नमाम्यनेकान्तम् ॥२॥
लोकत्रयैकनेत्रं निरूप्य परमागम प्रयत्नेन ।
असाभिरुपोध्रियते विदुपां पुरुषार्थसिद्ध्युपायोऽयम् ॥३॥
मुख्योपचारविवरणनिरस्तदुस्तरविनेयदुर्बोधा।।
व्यवहारनिश्चयज्ञाः प्रवर्तयन्ते जगति तीर्थम् ॥ ४ ॥
निश्चयमिह भूतार्थ व्यवहारं वर्णयन्त्यभूतार्थम् ।
भूतार्थवोधविमुखः प्रायः सर्वोऽपि संसारः ॥ ५ ॥
अबुधस्य बोधनार्थ मुनीश्वरा देशयन्त्यभूतार्थम् ।
व्यवहारमेव केवलमवैति यस्तस्य देशना नास्ति ॥ ६ ॥
माणवक एव सिंहो यथा भवत्यनवगीतसिंहस्य ।
व्यवहार एव हि तथा निश्चयतां यात्यनिश्चयज्ञस्य ॥७॥
व्यवहारनिश्चयौ यः प्रबुध्य तत्त्वेन भवति मध्यस्थः।
माप्नोति देशनायाः स एव फलमविकलं शिष्यः ॥ ८॥

सनातननग्रन्थमालायाम् - अस्ति पुरुपश्चिदात्मा विवर्जितः स्पर्शगन्धरसवणः । गुणपर्ययसमवेतः समाहितः समुदयव्ययध्रौव्यैः ॥ ९ ॥ परिणममाणो नित्यं ज्ञानविवत्तरनादिसन्तत्या। परिणामानां स्वेपां स भवति कर्ता च भोक्ता च ॥१०॥ सर्वविवतॊत्तीर्ण यदा स चैतन्यमचलमाप्नोति । भवति तदा कृतकृत्यः सम्यक्पुरुषार्थसिद्धिमापन्नः ॥ ११॥ : जीवकृतं परिणामं निमित्तमानं प्रपद्य पुनरन्ये । स्वयमेव परिणमन्तेऽत्र पुद्गलाः कर्मभावेन ॥ १२ ॥ परिणममाणस्य चितश्चिदात्मकैः स्वयमपि स्वकै वैः । भवति हि निमित्तमात्रं पौगलिकं कर्म तस्यापि ॥ १३॥ एवमयं कर्मकृतीवरसमाहितोऽपि युक्त इव । प्रतिभाति बालिशानां प्रतिभासः स खलु भववीजम्॥१॥ विपरीताभिनिवेशं निरस्य सम्यग्व्यवस्य निजतत्वम् । यत्तसादविचलनं स एव पुरुपार्थसिद्धयुपायोऽयम् ॥१५॥ अनुसरतां पदमेतत्करविताचारनित्यनिरभिमुखाः । एकान्तविरतिरूपा भवति मुनीनामलौकिकी वृत्तिः ॥१६॥ बहुशः समस्तविरति प्रदर्शितां यो न जातु गृह्णाति । तस्यैकदेशविरतिः कथनीयानेन बीजेन ॥ १७ ॥ यो यतिधर्मकथयन्नुपदिशति गृहस्थधर्ममल्पमतिः । तस्य भगवत्प्रवचने प्रदर्शितं निग्रहस्थानम् ॥१८॥ अक्रमकथनेन यतः प्रोत्सहमानोऽतिदूरमपि शिष्यः । अपदेऽपि संप्रतृप्तः प्रतारितो भवति तेन दुर्मतिना ॥१९॥ एवं सम्यग्दर्शनवोधचरित्रत्रयात्मको नित्यम् । तस्यापि मोक्षमार्गो भवति निपव्यो यथाशक्ति ॥२०॥ तत्रादौ सम्यक्त्वं समुपाश्रयणीयमखिलयनेन । तस्सिन्सत्येव यतो भवति ज्ञानं चरित्रं च ॥ २ ॥ . '.

पुरुषासिमपायः ३५ जीयाजीयादीनां तयार्थानां सदैव कर्तव्यम् । घद्धान विपरीताभिनिवेशवियिफमात्मरूपं तन् ॥ २२ ॥ सफलमनेकान्तात्मकमिदमुक्तं यस्तुजातमखिलझैः। किमु सत्यमसत्यं या न जातु शक्षति फर्तव्या ॥ २३ ॥ १६ जन्मनि विभवादीनमुन चभित्यकेशयत्वादीन् । एकान्तवाददूपितपरसमयानपि प नाकाहेत् ॥ २४ ॥ शुणाशीतोष्णप्रभृतिषु नानाविधेशु भायेषु । अन्येषु पुरीपानिए विजिकिरसा नव करणीया ॥ २५ ॥ लोके पानामा समयाभासे घ देयताभासे । नित्यमपि तस्यरधिना फतव्यममूटरष्टियम् ॥ २६ ॥ धर्मोऽभिवर्डनीयः सदात्मनो मार्दवादिभावनया। परदोषनिगानमपि विधेयमुपगंडणगुणार्थम् ॥ २७ ॥ कामोधमदादिपु पलायिनुमुद्रितपु पर्मनो न्यायात् । शुरामारमनः परस्य प युस्त्या स्थितिफरणमपि कार्यम् ॥२८॥ अनपरतगहिंसायां शियसुमलक्ष्मीनिवन्धने धर्म । सर्पप्वपि सर्मिपु परमं पारसल्यमालम्व्यम् ॥ २९ ॥ भारमा प्रमावनीयो रखनयतजसा सततमेव । दागतपोजिनपूनापियातिशया जिनधर्मः ॥ ३० ॥ इत्याधितसम्यपरयः सम्यग्ज्ञानं निरूप्य योन । भाडाययुनियोगः समुपास्यं नित्यमारमाहितः ॥ ३१ ॥ पृथगाराधनमिष्टं दर्शनसहभायिनोऽपि योधस्य । लक्षणभेदेन यतो गाना सम्भयत्यनयोः ॥ ३२ ॥ सम्यग्ज्ञानं कार्य सम्पपरवं कारणं वदन्ति जिनाः। शानाराधनमिष्टं सम्यक्रवानन्तरं तरमात् ।। ३३ ॥ HAPA १ . स्वभमिपुत्लपि पाठः, सनातननग्रन्थमालायाम् कारणकार्यविधानं समकालं जायमानयोरपि हि। दीपप्रकाशयोरिव सम्यक्त्वज्ञानयोः सुघटम् ॥.३४ ॥ कर्तव्योऽध्यवसायः सदनेकान्तात्मकेपु तत्वेषु । संशयविपर्ययानध्यवसायविविक्तमात्मरूपं तत् ॥ ३५ ॥ ग्रन्थार्थोभयपूर्ण काले विनयेन सोपधानं च । बहुमानेन समन्वितमनिन्हवं ज्ञानमाराध्यम् ॥ ३६ ॥ विगलितदर्शनमोहैः समंजसज्ञानविदिततत्वाधैः । नित्यमपि निःप्रकम्पैः सम्यक्चारित्रमालस्व्यम् ॥ ३७ ॥ न हि सम्यग्व्यपदेशं चरित्रमज्ञानपूर्वकं लभते । ज्ञानानन्तरमुकं चारित्राराधनं तसात् ॥ ३८ ॥ चारित्रं भवति यतः समस्तसावधयोगपरिहरणात् । सकलकपायविमुक्त विशदमुदासीनमात्मरूपं तत् ॥ ३९ ॥ हिंसातोऽनृतवचनात्स्तयादब्रह्मतः परिग्रहतः । कात्स्न्यैकदेशविरतेश्चारित्रं जायते द्विविधम् ॥४०॥ निरतः काय॑निवृत्तौ भवति यतिः समयसारभूतोऽयम् । या त्वेकदेशविरतिनिरतस्तस्यामुपासको भवति ॥ ४ ॥ आत्मपरिणामहिंसनहेतुत्वात्सर्वमेव हिंसैतत् । अनृतवचनादि केवलमुदाहृतं शिष्यवोधाय ॥ ४२ ॥ यत्खलु कपाययोगालाणानां द्रव्यभावरूपाणाम् । व्यपरोपणस्य करणं सुनिश्चिता भवति सा हिंसा ॥ ४३ ॥ अप्रादुर्भावः खलु रागादीनां भवत्यहिंसेति । तेपामेवोत्पत्तिहिसेति जिनागमस्य संक्षेपः ॥ १४ ॥ युक्ताचरणस्य सतो रागाद्यावेशमन्तरेणापि । न हि भवति जातु हिंसा प्राणव्यपरोपणादेव ॥ १५ ॥ व्युस्थानावस्थायां रागादीनां वशप्रवृत्तायाम् । १ प्रमादावस्थायान, पुष्पाथासध्यपायः ३७ नियतां जीवो मा चा धावत्यग्रे ध्रुवं हिंसा ॥ ४६ ॥ यसारसकपायः सन् हन्यात्मा प्रथममात्मनात्मानन् । पश्चातायेत न वा हिंसा प्राण्यन्तराणां तु ॥ ४७ ॥ हिंसायामविरमणं हिंसापरिणमनमपि भवति हिंसा। तसाटामत्तयोगे प्राणव्यपरोपणं नित्यम् ।। ४८ ॥ सूक्ष्मापि न खलु हिंसा परवस्तुनिवन्धना भवति पुंसः । हिंसायतननिवृत्तिः परिणामविशुन्द्रये तदपि कार्या ॥४९॥ निश्रयमयुध्यमानो यो निश्चयतस्तमेव संश्रयते । नाशयति करणचरणं स यहिः करणालसो बालः ॥ ५० ॥ अविधायापि हि हिंसां हिंसाफलभाजनं भवत्येकः । कृत्वाप्यपरो हिंसां हिंसाफलनाजनं न स्यात् ॥ ५१ ॥ एकस्याल्पा हिंसा ददाति काले फलमनल्पम् । अन्यस्य महाहिंसा स्वल्पफला भवति परिपाके ।। ५२ ।। एकस्य सब तीनं दिशति फलं सब मन्दमन्यस्य । ब्रजति सहकारिणोरपि हिंसा वैचित्र्यमन फलकाले ॥५३॥ प्रागेव फलति हिंसाऽक्रियमाणा फलति फलति च कृतापि। आरभ्य कर्तुमकृताऽपि फलति हिंसानुभावेन ॥ ५४॥ 'एकः करोति हिंसां भवन्ति फलभागिनो बहवः। बहवो विदधति हिंसां हिंसाफलभुग्भवत्येकः ॥ ५५ ॥ कस्यापि दिशति हिंसा हिंसाफलमेकमेव फलफाले। भन्यस्य सैव हिंसा विशत्यहिंसाफलं विपुलम् ॥ ५६ ॥ हिंसाफलमपरस्य नु ददात्यहिंसा तु परिणामे। इतरस्य पुनहिंसा दिशत्यहिंसाफलं नान्यत् ।। ५७ ॥ इति विविधभन्गहने मुदुस्तरे मार्गमूहदृष्टीनाम् । गुरवो भवन्ति शरणं प्रबुद्धनयचक्रसबाराः ॥ ५८॥ अत्यन्तनिशितधारं दुरासदं जिनवरस नयचक्रम् ।

सनातननग्रन्थमालायाम् खण्डयति धार्यमाणं मूर्धानं झटिति दुर्विदग्धानाम् ॥ ५९ ॥ भवबुध्ध हिंसहिंसकहिंसाहिंसाफलानि तत्त्वेन । . नित्यमवगृहमानैनिजशक्त्या त्यज्यतां हिंसा ॥ १० ॥ मद्यं मांसं क्षौद्रं पञ्चोदुम्बरफलानि यतेन । हिंसाव्युपरतिकामैर्मोक्तव्यानि प्रथममेव ॥ ६१ ॥ मद्य मोहयति मनो मोहितचित्तस्तु विसरति धर्मम् । विस्मृतधर्मा जीवो हिंसामविशङ्कमाचरति ॥ ६२ ।। रसजानां च बहूनां जीवानां योनिरिप्यते मद्यम् । मचं भजतां तेषां हिंसा संजायतेऽवश्यम् ॥ ६३ ।। अभिमानभयजुगुप्साहासारतिशोककामकोपाद्याः । हिंसायाः पर्यायाः सर्वेऽपि च शरकलन्निहिताः ।। ६४ ॥ न विना प्राणविधातान्मांसस्योत्पत्तिरिप्यते यसात् । मांसं भजतस्तस्मात्प्रसरत्यानिवारिता हिंसा ॥६५॥ यदपि किल भवति मांसंस्त्रयमेव मृतस्य महिपवृषभाः। तत्रापि भवति हिंसा तदाश्रितनिगोतनिर्मथनात् ॥ ६६ ॥ आमास्वपि पक्कास्वपि विपच्यमानासु मांसपेशीपु । सातत्येनोत्पादस्तजातीनां निगोतानाम् ॥ ६७ ॥ आमा वा पक्षां वा खादति यः स्पृशति वा पिशितपेशीम् । स निहन्ति सततनिचितं पिण्डं वहुजीवकोटीनाम् ॥ ६८ ॥ मधुशकलमपि प्रायो मधुकरहिंसात्मकं भवति लोके । भजति मधुमूढधीको यः स भवति हिंसकोऽत्यन्तम् ॥ ६९ खयमेव विगलितं यो गृहीयाद्वा छलेन मधुगोलात् । तन्नापि भवति हिंसा तदाश्रयप्राणिनां घातात् ॥ ७० ॥ मधु मद्यं नवनीतं पिशितं च महाविकृतयस्ताः। वलभ्यन्ते न वतिना तदर्णा जन्तवत्तत्र ॥ ७१ ॥ १ पन्नेन इत्यपि पाठः. २ निजगोलात् इत्यपि पाठः.

स्वातिापायः ३९ योनिग्नुपरयुग्मं सक्षमप्रोपिपलफरानि । असजीयानां सम्मापां लक्षणे हिंसा ॥ ७२ ॥ गानि गु पुनमंगयुः कालोससानि शुष्पाणि । भसमान्यपि मा पिशिटरागादिल्पा पार ॥७३ ।। भटानिष्टदुम्मरदुरिसायसनाम्पमूमि परिपज्यं । जिनधर्मदेशनाया मपन्ति पाग्राणि शुरधिपः ॥ ७ ॥ धर्ममहिसारूपं संपन्सोऽपि परिन्यगुम् । स्पायरयाममहाजमाहिसा नपि मुगन्नु ॥५॥ हमफारिनानुमननयोगायनगोभिरिप्यो नयधा। जागसगिकी नितिविचित्ररूपापयादिनी पंपा ॥ ७६ ॥ नोर्यकन्भिपपासादहिणो सम्पागोग्गधिषयाणाम् । पम्पावरमारगधिगणनपि भयति फरणीयम् ॥ ७ ॥ ১ায়ায় বলেনঃবন তা। अपलोप यानिशानामसमागमाफुलनं भवितव्यम् ॥ ७८ ॥ दमो भगवान धौ धामिन न दोषोनि । दनि धर्ममुग्धादया ना भूया शारीरिणी हिंस्याः ॥ ७९ ॥ धोवियताम्यः प्रभवति साभ्यः प्रदपमिह मयंम् । इति पियफलितां विषां न प्राप्य देहिनो हिस्साः ॥१०॥ पनिमितं पाने गादीनां न मोरपियोपाऽस्ति । इति मंधायं फार्य माउसिगरी सायसंपनम् ॥ ८ ॥ पसायपातजानितादानाहरमेकसरयघातोत्यम् । मन्याफलव्य कार्य न महासायरस हिंसनं जातु ॥ १२ ॥ रक्षा मयसि पहनामकम्पपास जीवहरणेन । इति माया मातम्यं न दिसनं हिसमाचानाम् ॥ ८ ॥ बहुमत्यपातिनोऽमी जीयन्त टपायन्ति गुरुपापम् । भगवान --...- - - .

सनातननग्रन्थमालायाम् . इत्यनुकम्पां कृत्वा न हिंसनीयाः शरीरिणो हिंस्राः ॥ ८४॥ वहुदुःखाः संज्ञपिताः प्रयान्ति त्वचिरेण दुःखविच्छित्तिम् । इति वासनाकृपाणीमादाय न दुःखिनोऽपि हन्तव्याः ॥ ४५ ॥ कृच्छ्रेण सुखावाप्तिर्भवन्ति सुखिनो हताः सुखिन एव । इति तर्कमण्डलायः सुखिनां धाताय नादेयः ॥ ८६ ॥ उपलब्धिसुगतिसाधनसमाधिसारस्य भूयसोऽभ्यासात् । स्वगुरोः शिष्येण शिरो न कर्तनीयं सुधर्ममभिलपता ॥ ८७ ॥ धनलवपिपासितानां विनेयविश्वासनाय दर्शयताम् । झटिति घटचटकमोक्षं श्रद्धेयं नैव खारपटिकानाम् ॥ ८८ ॥ दृष्ट्वा परं पुरस्तादशनाय क्षामकुक्षिमायान्तम् । निजमांसदानरभसादालभनीयो न चास्मापि ॥ ८९ ॥ को नाम विशति मोहं नयभङ्गविशारदानुपास्य गुरुन् । विदितजिनमतरहस्यः श्रयन्नहिंसां विशुद्धमतिः ॥ ९० ॥ यदिदं प्रमादयोगादसदभिधानं विधीयते किमपि । तदनृतमपि विज्ञेयं तद्भेदाः सन्ति चत्वारः ॥ ९ ॥ वक्षेत्रकालभावैः सदपि हि यस्मिन्निपिद्यते वस्तु । तत्प्रथममसत्यं स्यानास्ति यथा देवदत्तोऽत्र ॥ १२ ॥ असदपि हि वस्तुरूपं यत्र परक्षेत्रकालभावैस्तैः । उद्भाव्यते द्वितीयं तदनृतमस्सिन्यथास्ति घटः ॥ १३ ॥ वस्तु सदपि स्वरूपात्पररूपेणाभिधीयते यसिन् । अनृतमिदं च तृतीयं विज्ञेयं गौरिति यथाश्वः ॥ १४ ॥ गर्हितमवद्यसंयुतमप्रियमपि भवति वचनरूपं यत् । सामान्येन त्रेधामतमिदमनृतं तुरीयं तु ॥ ९५ ॥ पैशुन्यहासगर्भ कर्कशमसमञ्जसं प्रलपितं च । अन्यदपि यदुत्सूत्रं तत्सर्व गर्हितं गदितम् ॥ ९६ ॥ छेदनभेदनमारणकर्षणवाणिज्यचौर्यवचनादि ।

पुस्पासितापार १ मसाप गमागमागिराधापा प्रगति ॥ ९ ॥ भरविकर भीतिकरं गेवकर परसोयफलहकरम् । पदपरमपि तापफर परम्प सरसंगमप्रियं शेपम् ॥ ९८ ॥ सनियमिन, प्रमापोगय कर्म यर । गरपि राणालियर हिंसा ममपसरति ॥ १९ ॥ दगी समायोग निषि मकालाविशयनागाम् । हेगानुपानादेरनुपदनं भवति नासत्यम् ॥ 100 ॥ মীনামালখান নাযাবা মীম। पेमेऽपि मनं ममममपि नित्यनेय गुमन्त ॥10॥ rিiণর মশে থামিমে মাষীরা। प्रत्ययं मे पहिसा पण गुरयाग ॥ १०२॥ भयां नाम पपने प्राणा से पहिवराः पुंसाम् । एसप मामान् यो पर मनोहरपान ॥ १०३ ॥ हिसायो मोपरगनाप्याप्तिः मुषट एप सा परमान् । माणे प्रमापोगो इम्पम्प म्बीहामान्यः ॥ १० ॥ गानिपातिगपो ममसपोगरफारणविरोधात् । अपि कमांनुग्रहणे नीरागाणामविमानापार ॥ १० ॥ भसमा पनिपानतोयादिहरणयिनितिम् । गरपि समनमपरं नियम परिस्पाज्यम् ॥10॥ पदरागयोगान्मधुनमभिधीयते तदा । अवारविनय मा यधम्प सयंत्र सजायाग ॥ १० ॥ हिस्सा सिदनात्यांततायमि विनिदिते तिला यहम् । पारयो जीया योनी स्पिनी मधुन गइन् ॥ १० ॥ यदपि शियने किंचिन्मदनोग्नेकादनगरमणादि । समापि नयगि दिसा रागापुरपशिरापरयाय ॥१०॥ ये निजालयमार्ग परिद गायन्ति न हि मोहान् ।

४२ सनातनजन ग्रन्थमालायाम् निशेपशेपयोपिनिपेवणं तैरपि न कार्यम् ॥ १० ॥ या मूछी नामेयं विज्ञातव्यः परिग्रहो येपः । मोहोदयादुदीर्णो मूछा तु ममत्वपरिणामः ॥११॥ मूछीलक्षणकरणात्सुघटा व्यातिः परिग्रहत्वस्य । समन्थो मूच्छीवान् विनापि किल शेपसंगेभ्यः ॥ १२ ॥ यद्येवं भवति तदा परिग्रहो न खलु कोऽपि वहिरङ्गः। भवति नितरां यतोऽसी धत्ते मूर्छानिमित्तत्वम् ॥ १३ ॥ एवमतिव्याप्तिः स्यात्परिग्रहस्येति चेद्भवेनवम् । यसादकपायाणां कर्मग्रहण न मूछोस्ति ॥ १५४ ॥ अतिसङ्केपाविविधः स भवेदाभ्यन्तरश्च बाह्यश्च । प्रथमश्चतुर्दशविधो भवति द्विविधो द्वितीयस्तु ॥ १५॥ मिथ्यात्ववेदरागास्तथैव हास्यादयश्च पदोपाः । चत्वारश्च कपायाश्चतुर्दशाभ्यन्तरा ग्रन्थाः ॥ १६ ॥ अथ निश्चित्तसचित्तौ वाह्यस्य परिग्रहस्य भेदी द्वौ। नेपः कदापि सङ्गे सर्वोऽप्यतिवर्तते हिंसा ॥ ११७ ॥ उभयपरिग्रहवर्जनमाचायाः सूचयन्त्यहिंसेति । द्विविधपरिग्रहवहनं हिंसेति जिनप्रवचनज्ञाः ॥११॥ हिंसापर्यायवासिद्धा हिंसान्तरङ्गसङ्गेषु । बहिरङ्गेषु तु नियतं प्रयातु मूच्छेच हिंसात्वम् ॥ ११९ ।। एवं न विशेषः स्यादुन्दररिपुहरिणशावकादीनाम् । नैवं भवति विशेपस्तेषां मूछोविशेषेण ॥ १२० ॥ हरिततृणाकुरचारिणि मन्दा मृगशावके भवति मूछी। उन्दरनिकरोन्माथिनि माजीरे सैव जायते तीचा ॥ १२१ ॥ निर्वाध संसिद्ध्येत्कार्यविशेषो हि कारणविशेपात् । औधस्यखण्डयोरिव माधुर्य प्रीतिभेद इव ॥ १२२ ॥ माधुर्यप्रीतिः किल दुग्धे भन्दैव मन्दमाधुयें ।

४३ पुरुषार्थशिशुपायः सवोत्कटमाधुर्य सण्टे व्यपदिश्यते तीया ॥ १२ ॥ तापार्याघ्रद्धाने निर्युक्तं प्रथममेव मिथ्यात्यम् । सम्यग्दर्शनचौराः प्रथमकपायाश्च चत्वारः ॥ १२४ ॥ प्रविहाय च द्वितीयान् देशचरित्रस्य सम्मुखायाताः । नियतं ते हि फपाया देशचरित्रं निरुज्यन्ति ॥ १२५ ॥ निजशक्त्या शेषाणां सर्वपामन्तरमसंगानाम् । फर्तव्यः परिहारो मार्दवशौचादिभावनया ॥ १२६ ॥ पहिरमादपि संगाधरमायभवत्यसंयमोऽनुचितः । परिवर्जयेदशेपं तमचितं वा सचित्तं वा ॥ १२७ ॥ योऽपि न शक्तस्त्यपतुं धनधान्यमनुष्यवास्तुवित्तादि । सोऽपि तनृफरणीयः निषिरूपं यतम्नत्वम् ॥ १२० रानी मुभानानां यन्मादनिवारिता भवति हिंसा । हिंसाविरतस्तस्मात्यक्तध्या रानिमुक्फिरपि ॥ १२९ ॥ रागापुदयपरत्वादनिवृत्तिनातिवर्तते हिंसाम् । रामिंदियमाहरतः कथं हि हिंसा न सम्भवति? ॥ १३ ययेयं तर्हि दिया कर्तव्यो भोजनस परिहारः । भोकन्यं तु निशायां नेधं नित्यं भवति हिंसा ॥ १३ नवं वासरभु यति हि रागोऽधिको रजनिभुक्तौ । मराकपालस्य भुक्ता भुक्तापिय मांसकपलस्य ॥ १३२ अर्कालोकेन पिना भुझानः परिहरेत्कथं हिंसाम् । अपि योधितः प्रदीपे मोज्यनुपां सूक्ष्मजन्तूनाम् ॥ १॥ किं या बहुप्रलपितरिति सिद्ध यो मनोयचनकायः । परिहरति रात्रिभुक्ति सततमाहिंसां स पालयति ॥ इत्यत्र त्रितयात्मनि मार्ग मोक्षत्य ये स्वहितकामाः । अनुपरतं प्रयतन्ते प्रयान्ति ते मुक्तिमचिरेण ॥ १३५ १ वत्यार्थप्रहाने इत्यपि पाठः ।

*
I4M.
का-
सनातनजनप्रन्धमालायाम्
४४
परिधय इव नगराणि व्रतानि किलपालयन्ति शीलानि ।
व्रतपालनाय तस्साच्छीलान्यपि पालनीयानि ॥ १३६॥
प्रविधाय सुप्रसिद्धर्मर्यादा सर्वतोऽप्यभिज्ञानः।
प्राच्यादिभ्यो दिग्भ्यः कर्तव्या विरतिरविचलिता ॥ १३७
इति नियमितदिग्भागे प्रवर्तते यस्ततो पहित्तस्याः ।
सकलासंयमविरहाद्भवत्यहिंसाग्रतं पूर्णम् ॥ १३८॥
तत्रापि च परिमाणं ग्रामापणभवनपारकादीनाम् ।
प्रविधाय नियतकालं करणीयं विरमणं देशात् ॥ १३९ ॥
इति विरतो बहुदेशात्तदुत्यहिंसाविशेपपरिहारात ।
तत्कालं विमलमतिः प्रयत्यहिंसां विशेपेण ॥ ४० ॥
पापदिजयपराजयसंगरपरदारगमनचौयाद्याः।
न कदाचनापि चिन्याः पापफलं केवलं यस्मात् ॥१४॥
विद्यावाणिज्यमपीकृपिसेवाशिल्पजीविनां पुंसाम् ।
पापोपदेशदानं कदाचिदपि नैव वक्तव्यम् ॥१२॥
भूखननवृक्षमोटनशाहवलदलनाम्बुसेचनादीनि ।
निःकारणं न कुर्याद्दलफलकुसुमोच्चयानपि च ॥ १४३ ॥
असिधेनुविपहुताशनलाङ्गलकरवालकार्मुकादीनाम् ।
वितरणमुपकरणानां हिंसायाः परिहरेद्यत्नात् ।। १४४ ॥
रागादिवर्धनानां दुष्टकथानामवोधवहुलानाम् ।
न कदाचन कुर्वीत श्रवणार्जनशिक्षणादीनि ॥ ४५ ॥
सर्वानर्थप्रथनं मथनं शौचस्य सम मायायाः।
दूरात्परिहरणीयं चौर्यासत्यास्पदं द्यूतम् ॥ १४६ ।।
एवंविधमपरमपि ज्ञात्वा मुन्नत्यनर्थदण्डं यः।
तस्यानिशमनवा विजयमहिंसावतं लभते ॥ १७ ॥
रागद्वेपत्यागानिखिलद्रव्येषु सान्यमवलम्व्य ।
तत्वोपलब्धिमूलं बहुशः सामायिक कार्यम् ॥ ३४८ ॥

पुरुषार्थसिष्णपायः
४५
रजनीदिययोरन्ते तदवश्यं भावनीयमविचलिराम् ।
इतरत्र पुनः समये न कृतं दोपाय तहणाय कृतम् ॥ १४९ ॥
सामायिक श्रितानां समस्तसावधयोगपरिहारात् ।
भवति महागतमेपामुदयेऽपि चरित्रमोहस्य ॥ १५० ॥
सामायिकसंस्कारं प्रतिदिनमारोपितं स्थिरीकर्तुम् ।
पक्षार्धयो योरपि कर्तव्योऽवश्यमुपवासः ॥ १५१ ।।
मुक्तसमसारम्भः प्रोपधदिनपूर्वयासरस्साधैं ।
उपवासं गृहीयान्ममरवमपहाय देहादी ॥ १५२ ॥
नित्वा विविक्तवसति समन्तसायपयोगमपनीय।
सर्वेन्द्रियार्थविरतः कायमनोवचनगुप्तिभिस्तिठेत् ॥ १५३ ॥
धर्मध्यानाशको पासरमतिवाट विहितसान्ध्यविधिः।
शुचिसंस्तरे नियामां गमयेत्स्वाध्यायजितनिद्रः ॥ १५४ ॥
प्रातः प्रोत्थाय ततः परया तारकालिकं क्रियाकल्पम् ।
निवर्तयथयो जिनपूजां प्रासुकैद्रव्यैः ॥ १५५ ॥
उक्तन ततो विधिना नीत्वा दिवसं द्वितीयरानि च ।
अतिवाहयेत्प्रयनादधं च तृतीयदिवसस्य ॥ १५६ ॥
इति यः पोटा यामान्गमयति परिमुक्तसकलसावधः ।
तस्य तदानीं नियतं पूर्णमहिंसावतं भवति ॥ १५७ ॥
भोगोपभोगहेतोः स्थावरहिंसा भवेत्किलामीम् ।
भोगोपभोगविरहाद्भवति न लेशोऽपि हिंसायाः ॥ १५८॥
पारगुप्तेनीस्त्यनृतं न समतादानपिरहतः स्नेयम् ।
नाग्रह्म मैथुनमुचः सनो नाऽप्यमूर्छस्य ॥ १५९ ॥
इत्यमशेपितहिंसः प्रयाति स महायतित्वमुपचारात् ।
उदयति चरित्रमोहे लभते तु न संयमस्थानम् ॥ १६०॥
भोगोपभोगमूला विरताविरतस्य नान्यतो हिंसा।
अधिगम्य यस्तुतवं स्वशक्तिमपि तावपि त्याज्यौ ॥१६॥

४६ सनातनजेनग्रन्थमालायाम् एकमपि प्रजिघांसुः निहन्त्यनन्तान्यतस्ततोऽवश्यम् । करणीयमशेपाणां परिहरणमनन्तकायानाम् ॥ १६२ ॥ नवनीतं च त्याज्यं योनिस्थान प्रभूतजीवानाम् । यद्वापि पिण्डशुद्धौ विरुद्धमभिधीयते किञ्चित् ॥ १६३ ॥ अविरुद्धा अपि भोगा निजशक्तिमवेक्ष्य धीमता त्याच्याः। अत्याज्येप्वपि सीमा कार्यकदिवानिशोपभोग्यतया ॥ १६४ ॥ पुनरपि पूर्वकृतायां समीक्ष्य तात्कालिकी निजां शक्तिम् । सीमन्यन्तरसीमा प्रतिदिवसं भवति कर्तव्या ॥ १६५॥ इति यः परिमितभोगैः सन्तुष्टस्त्यजति बहुतरान् भोगान् । बहुतरहिंसाविरहात्तस्याऽहिंसा विशिष्टा स्यात् ॥ १६६ ॥ विधिना दातृगुणवता द्रव्यविशेषस्य जातरूपाय । स्वपरानुग्रहहेतोः कर्तव्योऽवश्यमतिथये भागः ॥ १६७ ॥ संग्रहमुच्चस्थानं पादोदकमर्चनं प्रणामं च । वाकायमनःशुद्धिरेपणशुद्धिश्च विधिमाहुः ॥ १६८ ॥ ऐहिकफलानपेक्षा शान्तिनिष्कपटतानसूयत्वम् । अविषादित्वमुदित्वे निरहङ्कारित्वमिति हि दातृगुणाः ॥१६९॥ रागद्वेपासंयममददुःखभयादिकं न यत्कुरुते । द्रव्यं तदेव देयं सुतपःस्वाध्यायवृद्धिकरम् ॥ १७० ॥ पात्रं त्रिभेदमुक्त संयोगो मोक्षकारणगुणानाम् । अविरतसम्यग्दृष्टिर्विरताविरतश्व सकलविरतश्च ॥ १७१ ॥ हिंसायाः पर्यायो लोभोऽन्न निरस्यते यतो दाने । तसादतिथिवितरणं हिंसान्युपरमणमेवेष्टम् ॥ १७२ ॥ गृहमागताय गुणिने मधुकरवृत्त्या परान्नपीडयते। वितरति यो नाऽतिथये स कथं न हि लोभवान् भवति ॥१७३॥ कृतमात्मार्थ मुनये ददाति भक्तिमतिभावितत्यागः । .

४७ पुरपाथीसच्युपायः भरतिविपादविमुक्तः शिथिलितलोभो भवत्यहिंसैव ॥ १७ ॥ इयमेकैय समर्था धर्मस्वं मे मया समं नेतुम् । सततमिति भावनीया पश्चिमसलेखना भक्त्या ॥ १७५ ॥ मरणान्तेऽवश्यमहं विधिना सलेसनां करिष्यामि । इति भावनापरिणतो नागतमपि पालयेदिदं शीलम् ॥ १७६ ॥ मरणेऽवश्यंभायिनि कपायसलेखनातनूकरणमाने । रागादिमन्तरेण व्याप्रियमाणस्य नात्मघातोऽस्ति ॥ १७७ ॥ यो हि कायाविष्टः कुम्भकजलधूमकेतुविपशखैः । व्यपरोपयति प्राणान् तस्य स्यात्सत्यमात्मवधः ॥ १७८ ॥ नीयन्तेऽत्र कपाया हिंसाया हेतवो यतम्ननुताम् । सलेखनामपि ततः प्राहुरहिंसाप्रसियर्थम् ॥ १७९ ।। इति यो प्रतरक्षार्थ सततं पालयति सफलशीलानि । परयति पतिवरेय स्वयमेव तमुत्सुका शिवपदश्रीः ॥ १८० ॥ अतिचाराः सम्यक्त्वे व्रतेपु शीलेषु पच पचेति । सप्ततिरमी यथोदितशुदिप्रतिबन्धिनो हेयाः ॥ १८१॥ शका तथव काक्षा विचिकित्सा संस्खयोऽन्यदृष्टीनाम् । मनसा घ तत्प्रशंसा सम्यग्दष्टेरतीचाराः ॥ १८२ ॥ छेदनताउनयन्धा भारस्यारोपणं समधिकस्य । पानासयोश्च रोधः पनाहिसा व्रतस्येति ॥ १८३ ॥ मिथ्योपदेशदान रहसोऽभ्याख्यानकूटलेखकृतीः । न्यासापहारवचनं साकारकमत्रभेदश्च ॥ १८ ॥ प्रतिरूपव्यवहारः स्खेननियोगसदाहतादानम् । राजविरोधातिमाहीनाधिकमानकरणे च ॥ १८५ ॥ सरतीनाभिनिवेशानमकीढान्यपरिणयनकरणम् । अपरिगृहीतेतरयोगमने चेत्वरिफयोः पञ्च ॥ १८६ ।। १विलुप्तः इत्यपि पाठः. +.

४८ सनातनजेनग्रन्थमालायाम् वास्तुक्षेत्राष्टापदहिरण्यधनधान्यदासदासीनाम् । कुप्यस्य भेदयोरपि परिमाणातिकमाः पञ्च ॥१८७ ।। अलमधस्तात्तिर्यग्व्यतिक्रमाः क्षेत्रवृद्धिराधानम् । स्मृत्यन्तरस्य गदिताः पञ्चेति प्रथमशीलस्य ॥ १८८ ॥ प्रेष्यस्य संप्रयोजनमानयनं शब्दरूपविनिपाती। क्षेपोऽपि पुद्गलानां द्वितीयशीलस्य पञ्चेति ॥ १८९॥ कन्दर्पः कौरकुच्यं भोगानर्थक्यमपि च मौखर्यम् । असमीक्षिताधिकरणं तृतीयशीलस्य पञ्चेति ॥ १९० ।। वचनमनःकायानां दुःप्रणिधानं त्वनादरश्चैव । स्मृत्यनुपस्थानयुताः पद्धेति चतुर्थशीलस्य ॥ १९ ॥ अनवेक्षिताप्रमार्जितमादानं संस्तरस्तथोत्सर्गः । स्मृत्यनुपस्थानमनादरश्च पञ्चोपवासस ।। १९२ ॥ आहारो हि सचित्तः सचित्तमित्रः सचित्तसम्बन्धः। दुःपकोऽभिपवोऽपि च पञ्चामी पष्टशीलस्य ॥ १९३ ॥ परदातृव्यपदेशः सचित्तनिक्षेपतत्पिधाने च । कालस्यातिक्रमणं मात्सर्य चेत्यतिधिदाने ॥ १९४ ॥ जीवितमरणाशंसे सुहृदनुरागः सुखानुवन्धश्च । सनिदानः पञ्चैते भवन्ति सल्लेखनाकाले ।। १९५ ॥ इत्येतानतिचारानपि योगी संप्रतयं परिवर्य । सम्यक्त्वव्रतशीलैरसलैः पुरुपार्थसिद्धिमत्यचिरात् ॥ १९६ ॥ चारित्रान्तर्भावात् तपोऽपि मोक्षाङ्गमागमे गदितम् । अनिहितनिजवीर्यस्तदपि निपेव्यं समाहितस्वान्तः ॥ १९७ ॥ अनशनमक्मौदय विविक्तशय्यासनं रसत्यागः । कायक्लेशो वृत्तः संख्या च निपेव्यमिति तपो वाह्यम् ॥ १९॥ विनयो वैयावृत्त्यं प्रायश्चित्तं तथैव चोत्सर्गः । स्वाध्यायोऽथ ध्यानं भवति निपव्यं तपोऽन्तरजामिति ॥१९॥ ..

पुरुषार्थसिध्धुपायः जिनपुश्पप्रवचने मुनीश्वराणां यदुक्तमाचरणम् । सुनिरूप्य निजां पदवीं शक्ति च निपेव्यमेतदपि ॥ २० ॥ इदमावश्यकपटकं समतान्नववन्दनाप्रतिक्रमणम् । प्रत्याख्यानं यपुपो व्युत्सर्गश्चेति फर्तव्यम् ॥ २०१॥. सम्यग्दण्यो यपुपः सम्यग्दण्टस्तथा च वचनस्य । मनसः सम्यग्दण्मो गुप्तितृतयं समनुगम्यम् ॥ २०२ ॥ सम्यग्गमनागमनं सम्यग्भापा तर्धेपणा सम्यक् । सम्यग्ग्रहनिक्षेपी प्युरसर्गः सम्यगिति समितिः ॥ २०३ ।। धर्मः सेव्यः क्षान्तिः मृदुत्वमृजता च शौचमय सत्यम् । आकिन्चन्यं ग्रह त्याग तपश्च संयमश्चेति ॥ २०४ ।। अनुवमशरणमेकरवमन्यताशीचमास्रयो जन्म । लोकनृपयोधिसंवरनिराः सततमनुप्रेक्ष्याः ।। २०५ ॥ क्षुत्तृष्णाहिममुष्णं नमत्वं याचनारतिरलाभः । दंशो मशकादीनामाकोशो च्याधिदुःखसंगमनम् ॥ २०६॥ स्पर्णश्च तृणादीनामज्ञानमदर्शनं तथा प्रज्ञा । सरकारपुरस्कारः शय्या चर्या वधो निपद्या स्त्री ॥ २०७॥ द्वाविंशतिरप्येते परिपोउव्याः परीपहाः सततम् । संलेशमुक्तमनसा संसशनिमित्तमीतेन ॥ २०८ ॥ इति रखत्रयमेतत्प्रतिसमयं पिकलमपि गृहत्येन । परिपालनीयमनिशं निरत्ययां मुक्तिमभिलपिता ॥ २०९ ॥ यदोयमेन नित्यं लध्वा समयं च योधिलामस्य । पदमवलम्व्य मुनीनां कर्तव्यं सपदि परिपूर्णम् ॥ २१०॥ असमनं भावयतो रसत्रयमन्ति फर्मवन्धो यः । सविपक्षकृतोऽवश्यं मोक्षोपायो न वन्धनोपायः ॥२११ ॥ येनांशेन सुरष्टिम्तेनांशेनास्य वन्धनं नास्ति । येनांशेन तु रागम्तेनांशेनास्य यन्धनं भवति ॥ २१२ ।। .

सनातनजनप्रन्यमालायाम् येनांशेन ज्ञानं तेनांशेनास्य बन्धनं नास्ति । येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ॥ २१३ ॥ येनांशेन चरित्रं तेनांशेनास्य वन्धनं नास्ति । येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ॥ २१४॥ योगात्प्रदेशवन्धः स्थितिबन्धो भवति यः कपायातु । दर्शनबोधचरित्रं न योगरूपं कपायरूपं च ॥ २१५ ॥ दर्शनमात्मविनिश्चितिरात्मपरिज्ञानमिप्यते बोधः । स्थितिरात्मनि चारित्रं कुत एतेभ्यो भवति यन्धः ॥ २१६॥ सम्यक्त्वचरित्राभ्यां तीर्थकराहारकर्मणो बन्धः। योऽप्युपदिष्टः समये न नयविदां सोऽपि दोपाय.॥ २१७ ।। सति सम्यक्त्वचरित्रे तीर्थकराहारवन्धको भवतः । योगकपायौ तस्मात्तत्पुनरसिनुदासीनम् ।। २१८ ।। ननु कथमेवं सियतु देवायुःप्रभृतिसत्प्रकृतिवन्धः । सकलजनसुप्रसिद्धो रत्नत्रयधारिणां मुनिवराणाम् ॥ २१९ ॥ रत्रत्रयमिह हेतुर्निर्वाणस्यैव भवति नान्यस्य । आस्रवति यत्तु पुण्यं शुभोपयोगोऽयमपराधः ।। २२० ॥ एकसिन्समवायादत्यन्तविरुद्धकार्ययोरपि हि । इह दहति धृतमिति यथाव्यवहारस्तादृशोऽपि रूढिमितः २२१ सम्यक्त्वचरित्रबोधलक्षणो मोक्षमार्ग इत्येपः । मुख्योपचाररूपः प्रापयति परं पदं पुरुपम् ।। २२२ ॥ नित्यमपि निरुपलेपः स्वरूपसमवस्थितो निरुपघातः । गगनमिव परमपुरुषः परमपदे स्फुरति विशदतमः ।। २२३ ॥ कृतकृत्यः परमपदे परमात्मा सकलविषयविषयात्मा। परमानन्दनिमग्नो ज्ञानमयो नन्दति सदेव ॥ २२४ ॥ एकेनाकर्षन्ती श्लथयन्ती वस्तुतत्वमितरेण । अन्तेन जयति जैनी नीतिर्मन्थाननेत्रमिव गोपी ॥ २२५ ॥ I

पुरुषार्थसिधुपायः
५१
वर्णैः कृतानि चिनैः पदानि तु पदैः कृतानि वाक्यानि ।
वाक्यैः कृतं पवित्रं शास्त्रमिदं न पुनरसाभिः ॥ २२६ ॥
इति श्रीमदमृतचन्द्रसूरीणां कृतिः पुरुषार्थसिध्धुपायोऽपरनाम
जिनप्रवचनरहस्यकोशः समाप्तः ॥ ३ ॥

श्रीपरमात्मने नमः श्रीगुणभद्राचार्यविरचितम् आत्मानुशासनम् (४) मङ्गलाचरणम् लक्ष्मीनिवासनिलयं विलीनविलयं निधाय हृदि वीरम् । आत्मानुशासनमहं वक्ष्ये मोक्षाय भव्यानाम् ॥ १ ॥ दुःखाद्विभेपि नितरामभिवान्छसि सुखमतोऽहमप्यात्मन् । दुःखापहारि सुखकरमनुशासि तवानुमतमेव ॥२॥ यद्यपि कदाचिदसिन् विपाकमधुरं तदा तु कटु किञ्चित् । त्वं तसान्मा भैषीर्यथातुरो भेपजादुग्रात् ॥३॥ जना घनाश्च वाचालाः सुलभाः स्युर्वृथोस्थिताः । दुर्लभा ह्यन्तरार्दास्ते जगदभ्युजिहीर्षवः ॥ ४ ॥ प्राज्ञः प्राप्तसमस्तशास्त्रहृदयः प्रन्यक्तलोकस्थितिः प्रास्ताशः प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः। प्रायः प्रश्नसहः प्रभुः परमनोहारी परानिन्दया घूयाधर्मकथां गणी गुणनिधिः प्रस्पष्टमिष्टाक्षरः ॥५॥ श्रुतमविकलं शुद्धा वृत्तिः परप्रतिबोधने परिणतिरुरुयोगो मार्गप्रवर्तनसद्विधौ। बुधनुतिरनुत्सेको लोकज्ञता मृदुता स्पृहा आत्मानुशासनम् ५३ यतिपतिगुणा यस्मिन्नन्ये च सोऽस्तु गुरुः सताम् ॥ ६ ॥ भव्यः किं कुशलं ममेति विमृशन् दुःखादृशं भीतिमान् सौख्यैपी श्रवणादिबुद्धिविभवः श्रुत्वा विचार्य स्फुटम् । धर्मं शर्मकरं दयागुणमयं युक्त्यागमाभ्यां स्थितम् गृह्णन् धर्मकथां श्रुतावधिकृतः शास्यो निरस्ताग्रहः ॥७॥ पापाहुःखं धर्मात्सुखमिति सर्वजनसुप्रसिद्धमिदम् । तस्माद्विहाय पापं चरतु सुखार्थी सदा धर्मम् ॥ ८॥ सर्वः प्रेप्सति सत्सुखातिमचिरात् सा सर्वकर्मक्षयात् सद्वृत्तात्स च तच्च वोधनियतं सोऽप्यागमात्स श्रुतेः । सा चाप्तात् स च सर्वदोपरहितो रागादयस्तेऽप्यत- सं युक्त्या सुविचार्य सर्वसुखदं सन्तः श्रयन्तु श्रियै ॥ ९ ॥ श्रद्धानं द्विविधं निधा दशविधं मौढ्यायपोढं सदा संवेगादिविवर्द्धितं भवहरं व्यज्ञानशुद्धिप्रदम् । निश्चिन्वन् नव सप्त तत्वमचलप्रासादमारोहतां सोपानं प्रथमं विनेयविदुपामायेयमाराधना ॥ १० ॥ आज्ञामार्गसमुद्भवमुपदेशात्सूत्रवीजसंक्षेपात् । विस्तारार्थाभ्यां भवमवगाढपरमावगाढ़े च ॥११॥ आज्ञासम्यक्त्वमुक्तं यदुत विरुचितं वीतरागाज्ञयैव त्यतप्रन्थप्रपञ्चं शिवममृतपथं श्रद्दधन्मोहशान्तः । मार्गश्रद्धानमाहुः पुरुपवरपुराणोपदेशोपजाता या संज्ञानागमान्धिप्रसूतिभिरुपदेशादिरादेशिदृष्टिः ॥ १२ ॥ आकर्ष्याचारसूत्रं मुनिचरणविधेः सूचनं श्रद्दधानः सुकासौ सूत्रदृष्टि?रधिगमगतेरर्थसार्थस्य बीजैः कैश्चिजातोपलब्धेरसमशमशाद्वीजदृष्टिः पदार्थात् १. मूढनयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शङ्कादयश्चेति दृग्दोषाः पश्चविंशतिः॥ .

५४ सनातनजनग्रन्धमालायाम् संक्षेपेणैव बुध्वा रुचिमुपगतवान्साधुसंक्षेपदृष्टिः ॥ १३॥ यः श्रुत्वा द्वादशाङ्गी कृतरुचिरथ तं विद्धि विस्तारदृष्टि संजातार्थात् कुतश्चित् प्रवचनवचनान्यन्तरेणार्थदृष्टिः। दृष्टिः साङ्गाङ्गवाह्यप्रवचनभवगाहोत्थिता यावगाढा कैवल्यालोकिताथै रुचिरिह परमावादिगादेति रूढा ॥ १४ ॥ शमवोधवृत्ततपसां पापाणस्येव गौरवं पुंसः । पूज्यं महामणेरिव तदेव सम्यक्त्वसंयुक्तम् ॥ १५ ॥ मिथ्यात्वातङ्कवतो हिताहितप्रायनाप्तिमुग्धस्य । वालस्येव तवेयं सुकुमारैव क्रिया क्रियते ॥ १६ ॥ विपयविपप्राशनोत्थितमोहज्वरजनिततीव्रतृष्णस्य । निःशक्तिकस्य भवतः प्रायः पेयाद्युपक्रमः श्रेयान् ॥ १७ ॥ सुखितस्य दुःखितस्य च संसारे धर्म एव तव कार्यः सुखितस्य तदभिवृधै दुःखभुजस्तदुपघाताय ॥ १८ ॥ धर्मारामतरूणां फलानि सर्वेन्द्रियार्थसौख्यानि । संरक्षतांस्ततस्तान्युच्चिनुयैस्तैरुपायैस्त्वम् ॥ १९ ॥ धर्मः सुखस्स हेतुर्हेतुर्न विरोधकः स्वकार्यस्य । तस्मात् सुखभङ्गभिया माभूधर्मस्य विमुखस्त्वम् ॥ २० ॥ धर्मादवाप्तविभवो धर्म प्रतिपाल्य भोगमनुभवतु । वीजादवाप्तधान्यः कृपीवलस्तस्य वीजमिव ॥ २१ ॥ संकल्प्यं कल्पवृक्षस्य चिन्त्यं चिन्तामणेरपि । असंकल्प्यमसंचिन्त्यं फलं धर्मादवाप्यते ॥ २२ ॥ परिणाममेव कारणमाहुः खलु पुण्यपापयोः प्राज्ञाः । तसात् पापापचयः पुण्योपचयश्च सुविधेयः ॥ २३ ॥ कृत्वा धर्मविघातं विपयसुखान्यनुभवन्ति ये मोहात् । आच्छिद्य तरुं मूलात्फलानि गृह्णन्ति ते पापाः ॥ २४ ॥ कर्तृत्वहेतुकर्तृत्वानुमतैः सरणचरणवचनेषु ।

आत्मानुशासनम् यः सर्वथाभिगम्यः स कथं धर्मो न संग्राह्यः ॥२५॥ धर्मों वसेन्मनसि यावदलं स ताव- द्धन्ता न हन्तुरपि पश्य गतेऽथ तसिन् । दृष्टा परस्परहतिर्जनकात्मजानां रक्षा ततोऽस्य जगतः खलु धर्म एव ॥२६॥ न सुखानुभवात्पापं पापं तद्धेतुघातकारम्भात् । नाजीण मिष्टान्नाननु तन्मात्राद्यतिक्रमणात् ॥ २७ ॥ अप्येतन्मृगयादिकं यदि तव प्रत्यक्षदुःखास्पदम् पापैराचरितं पुरातिभयदं सौख्याय संकल्पतः। संकल्पं तमनुज्झितेन्द्रियसुखैरासेविते धीधन- धर्मे (म्ये) कर्मणि किं करोति न भवान् लोकद्वयश्रेयसि ॥२८॥ भीतमूर्तीर्गतत्राणा निर्दोपा देहवित्तिका । दन्तलग्नतृणा प्रन्ति मृगीरन्येषु का कथा ॥ २९॥ पैशून्यदैन्यदम्भस्तेयानृतपातकादिपरिहारात् । लोकद्वयहितमर्जय धर्मार्थयशःसुखायार्थम् ॥ ३० ॥ पुण्यं कुरुष्व कृतपुण्यमनीडशोऽपि नोपद्वोऽभिभवति प्रभवेच्च भूत्यै । संतापयन् जगदशेपमशीतरश्मिः पोषु पश्य विदधाति विकाशलक्ष्मीम् ॥ ३१ ॥ नेता यस्य (यत्र) बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणो वारणः । इत्याश्चर्यबलान्वितोऽपि बलिभिनग्नः परैः संगरे तद् व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुपम् ॥ ३२ ॥ भारः कुलपर्वता इव भुवो मोहं विहाय स्वयं रतानां निधयः पयोधय इव व्यावृत्तवित्तस्पृहाः । स्पृष्टाः कैरपि नो नभोविभुतयाविश्वस्य विश्रान्तये .

सनातनर्जनग्रन्थमालायाम् सन्त्यद्यापि चिरन्तनान्तिकचराः सन्तः कियन्तोऽप्यमी ॥३३॥ पिता पुत्रं पुत्रः पितरमभिसंधाय बहुधा विमोहादीहेते सुखलवमबाप्तुं नृपपदम् । महो मुग्धो लोको मृतिजननदंष्ट्रान्तरगतो न पश्यत्यान्तं तनुमपहरन्तं यमममुम् ॥ ३४ ॥ अन्धादयं महानन्धो विषयान्धीकृतेक्षणः । चक्षुपान्धो न जानाति विषयान्धो न केनचित् ॥ ३५ ॥ आशागतः प्रतिप्राणि यसिन् विश्वमणूपमम् । कस्य किं कियदायाति वृथा वो विषयैपिता॥ ३६॥ आयुश्रीवपुरादिकं यदि भवेत्पुण्यं पुरोपार्जितम् स्यात्सर्वं न भवेन्न तच नितरामायासितेऽप्यात्मनि । इत्यार्याः सुविचार्य कार्यकुशलाः काव्येऽन्न मन्दोद्यमाः द्रागागामिभवार्थमेव सततं प्रीत्या यतन्तेतराम् ॥ ३७॥ का स्वादो विषयेप्वसौ कटुविषप्रख्येष्वलं दुःखिना यानन्वेष्टुमिव त्वयाशुचिकृतं येनाभिमानामृतम् । आज्ञातं करणैर्मनःप्रणधिभिः पित्तज्वराविष्टवत् कप्टं रागरसैः सुधीस्त्वमपि सन् व्यत्यासितास्वादनः ॥३०॥ अनिवृत्तेर्जगत्सर्व मुखादवशिनष्टि यत् । तत्तस्याशक्कितो भोक्तुं वितनोर्भानुसोमवत् ॥ ३९ ॥ साम्राज्यं कथमप्यवाप्य सुचिरात्संसारसारं पुन- स्तत्त्यक्त्वैव यदि क्षितीश्वरवराः प्राप्ताः श्रियं शाश्वतीम् । स्वं प्रागेव परिग्रहान्परिहर त्याज्यान गृहीत्वापि ते माभूभौतिकमोदकव्यतिकरं संपाद्य हास्यास्पदम् ॥ ४०॥ सर्व धर्ममयं क्वचित् क्वचिदपि प्रायेण पापात्मकम् क्वाप्येतद्वयवत्करोति चरितं प्रज्ञाधनानामपि । तसादेप तदन्धरज्जुवलनं सानं गजस्याथवा आत्मानुशासनम् मत्तोन्मत्तविचेष्टितं न हि हितो गेहाश्रमः सर्वथा ॥ ११ ॥ कृष्ट्वाप्स्वा नृपतीनिपेव्य बहुशो भ्रान्त्वा वनेऽम्भोनिधौ किं क्लिश्नासि सुखार्थमत्र सुचिरं हा कष्टमज्ञानतः । तैलं त्वं सिकता स्वयं मृगयसे वाग्छेद् विपाजीवितुं नन्वाशाग्रहनिग्रहात्तवं सुखं न ज्ञातमेतत्वया ॥ ४२ ॥ आशाहुताशनग्रस्तवस्त्वर्थी (स्तूच्चैः) वंशजां जनाः । हा किलैति (त्य) सुखच्छायां दुःखधर्मापनोद(दि)नः ॥ ४३ ॥ खातेऽभ्यासजलाशयाजनि शिला प्रारब्धनिर्वाहिणा भूयोभेदि रसातलावधि ततः कृच्छ्रात्सुतुच्छं किल । क्षारं वायुदगात्तदप्युपहतं पूतिकृमिश्रेणिभिः शुष्कं तच्च पिपासितोऽस्य सहसा कष्टं विधेश्चेष्टितम् ॥ ४ ॥ शुद्धैर्धनैर्विवर्द्धन्ते सतामपि न संपदः । न हि स्वच्छाम्बुभिः पूर्णाः कदाचिदपि सिंधवः ॥ ४५ ॥ स धर्मो यत्र नाधर्मस्तत्सुखं यत्र नासुखं । तज्ज्ञानं यत्र नाज्ञानं सा गतिर्यन नागतिः ॥ १६ ॥ वादिभिर्विपयलोलविचारशून्यः क्लिनासि यन्मुहुरिहार्थपरिग्रहार्थम् । तच्चेष्टितं यदि सकृत्परलोकबुद्ध्या न प्राप्यते ननु पुनर्जननादि दुःखम् ॥ ४७ ॥ संकल्प्येदमनिष्टमिष्टमिदमित्याज्ञातयाथात्मको वाये वस्तुनि किं वृथैव गमयस्यासज्य कालं मुहुः। अन्त:शान्तिमुपैहि यावददयप्राधान्तकप्रस्फुर- ज्वालाभीपणजाठरानलमुखे भसीभवेन्नो भवान् ॥ ४८ ॥ आयातोऽस्यतिदूरतोऽङ्ग ! परवानाशासरित्प्रेरितः १ कपकव्यापारीभूत्वा वीजं वापयित्वा. २ आयातोऽस्यतिदूरमङ्ग इत्यपि पाठः ५८ सनातननग्रन्थमालायाम् किन्नावैपि ननु त्वमेव नितरामेनां तरीतुं क्षमः । स्वातव्यं ब्रज यासि तीरमचिरानोचेडुरन्तान्तक-- ग्राहव्याप्तगभीरवनविपमे मध्ये भवाब्धेर्भवेः ॥१९॥ आस्वाद्याद्य यदुज्झितं विपयिभिया॑वृत्तकौतूहलै- स्तद्भूयोप्यविकुत्सयन्नभिलपत्यप्राप्तपूर्व यथा । जन्तो किं तव शान्तिरस्ति न भवान्यावदुराशामिमा- महासंहतिवीरवैरिपृतनाश्रीवैजयन्ती हरेत् ॥ ५० ॥ भक्त्वाभाविभवांश्च भोगिविपमान भोगान् बुभुक्षु शं मृत्वापि स्वयमस्तभीतिकरुणः सर्वाजिघांसुर्मुधा । यद्यत्साधुविगर्हितं हतमिति तस्यैव धिक्कामुकः कामक्रोधमहाग्रहाहितमनाः किं किं न कुर्याजनः ॥ ५ ॥ श्वो यस्याजनि यः स एव दिवसो हस्तस्य संपद्यते स्थैय्ये नाम न कस्यचिजगदिदं कालानिलोन्मूलितम् । भ्रातान्तिमपास्य पश्यसितरां प्रत्यक्षमक्ष्णोर्न किं येनात्रैव मुहुर्मुहुर्वहुतरं वद्धस्पृहो भ्राम्यसि ॥ ५२ ॥ संसारे नरकादिपु स्मृतिपथेऽप्युद्वेगकारीण्यलं दुःखानि प्रतिसेवितानि भवता तान्येवमेवासताम् । तत्तावत्सरसि (स) सरसितशितापाङ्गैरनगायुधै- ामानां हिमदग्धमुग्धतरुवधप्राप्तवानिर्द्धनः ॥ ५३॥ उत्पन्नोस्यतिदोषधातुमलव होसि कोपादिवान् साधिव्याधिरसि प्रहीणचरितोऽस्यस्यात्मनो वञ्चकः । मृत्युव्याप्तमुखान्तरोऽसि जरसा प्रस्तोसि जन्मिन् वृथा किं मत्तोऽस्यसि किंहितारिरहिते किं वासि बद्धस्पृहः ॥ ५ ॥ उपग्रीष्मकठोरधर्मकिरणस्फूर्जद्गभस्तिप्रभैः संतप्तः सकलेन्द्रियैरयमहो संवृद्धतृष्णो जनः । १ व्यावृतं विनष्टं कौतूहलं यैस्तैः । ।

आत्मानुशासनम् अप्राप्याभिमतं विवेकविमुखः पापप्रयासाकुल- स्तोयोपान्तदुरन्तकईमगतक्षीणोक्षवत् क्लिश्यते ॥ ५५॥ लव्धेन्धनोज्वलत्यग्निः प्रशाम्यति निरन्धनः । ज्वलत्युभयथाप्युच्चैरहो मोहाग्निरुत्कटः ॥ ५६ ॥ किं मर्माण्यभिदनभोकरतरो दुःकर्मागर्मुद्गणः किं दुःखज्वलनावली विलसितै लेढि देहश्विरम् । किं गर्जद्यमतूर्य (२) भैरवरवानाकर्णयनिर्णयन् येनायं न जहाति मोहविहितां निगामभद्रां जनः ॥ ५७ ॥ तादात्म्यं तनुभिः सदानुभवनं पाकस्य दुःकर्मणो व्यापारः समयं प्रति प्रकृतिभिर्गाहें स्वयं वन्धनम् । निद्राविश्रमणं मृतेः प्रतिभयं शश्वन्मृतिश्च ध्रुवं जन्मिन् जन्मनि ते तथापि रमसे तत्रैव चित्रं महत् ॥ ५८ अस्थिस्थूलतुलाकलापघटितं नद्धं शिरास्नायुभि- श्वर्माच्छादितमस्रसान्द्रपिशितैलिक सुगुप्तं खलः । कारातिभिरायुरुचनिगलालग्नं शरीरालयं कारागारमवेहि ते हतमते प्रीतिं वृथा मा कृथाः ॥ ५९॥ शरणमशरणं वो वन्धवो वन्धमूलं चिरपरिचितदारा द्वारमापद्ग्रहाणाम् । विपरिमृशत पुत्राः शत्रवः सर्वमेतत् त्यजत भजत धम्म निर्मलं शर्मकामाः ॥६०॥ तस्कृत्य किमिहेन्धनैरिव धनैराशाग्निसंधुक्षणैः सम्बन्धेन किमङ्ग शश्वदशुभैः सम्बन्धिभिर्वन्धुभिः । किं मोहाहिमहाबिलेन सदृशा देहेन गेहेन वा देहिन् याहि सुखाय ते समममुं मा गाः प्रमादं मुधा ॥ ६ 'आदावेव महाबलैरविचलं पटेन बद्धा स्वयं रक्षाध्यक्षभुजासिपअरवृता सामन्तसंरक्षिता । 1 सनातनजैनग्रन्थमालायाम् लक्ष्मीर्दीपशिखोपमा क्षितिमतां हा पश्यतां नश्यति प्रायः पातितचामरानिलहते वान्यत्र काशा नृणाम् ॥ १२ ॥ दीप्तोभयाग्रवातारि दारूदरगकीटवत् । जन्ममृत्युसमाश्लिष्टे शरीरे वत सीदसि ॥ ६३ ॥ नेत्रादीश्वरचोदितः सकलुपो रूपादिविश्वाय किं प्रेष्यः सीदति (सि) कुत्सितव्यतिकरैरहांस्यलं हयन् । नीत्वा तानि भुजिष्यतामकलुपो विश्वं विसृज्यात्मवा- नात्मानं धिनु सत्सुखी धुतरजाः सद्वृत्तिभिर्निर्वृतः॥ ६४ ॥ आर्थिनो धनमप्राप्य धनिनोप्यवितृप्तितः । कष्टं सर्वेऽपि सीदन्ति परमेको मुनिः सुखी ॥ ६५ ॥ परायत्तात्सुखाहुःखं स्वायत्तं केवलं वरम् । अन्यथा सुखिनामानः कथमासंस्तपस्विनः ॥६६॥ यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं सहाय्यः संवासः श्रुतमुपशमैकश्रमफलम् । मनो मन्दस्यन्दं पहिरपि चिरायाति विमृशन् न जाने कस्येयं बरिणतिरुदारस्य तपसः ॥ ६७ ॥ विरतिरतुला शास्त्रे चिन्ता तथा करुणापरा मतिरपि सदैकान्तध्वान्तप्रपञ्चविभेदिनी। अनशनतपश्चर्या चान्ते यथोक्तविधानतो भवति महतां नाल्पस्येदं फलं तपसो विधेः ॥ ६८ ॥ उपायकोटिदूरक्षे स्वतस्तत इतोऽन्यतः । सर्वतः पतनःप्राये काये कोऽयं तवाग्रहः ॥ ६९॥ अवश्यं नश्वरैरेभिरायुःकायादिभिर्यदि । शाश्वतं पदमायाति मुधा यातमवेहि ते ॥ ७० ॥ गन्तुमुच्छ्वासनिश्वासैरभ्यस्थत्येप सन्ततम् ।

आत्मानुशासनम् लोकः पृथगितो वान्छत्यात्मानमजरामरम् ॥ ७१ ॥ गलत्यायुः प्रायः प्रकटितघटीयन्त्रसलिलं खलः कायोप्यायुर्गतिमनुपतत्येप सततम् । किमस्थान्यैरन्यै(यमयमिदं जीवितमिह स्थितो भान्या नावि स्वमिव मनुते स्थास्नुमपधीः ॥ ७२ ॥ उच्छासखेदजन्यवाहुःखमेवान जीवितम् । तद्विरामे भवेन्मृत्युदृणां भण कुतः सुखम् ॥ ७३ ॥ जन्मतालदुमाजन्तु फलानि प्रच्युतान्यधः। अप्राप्य मृत्युभूभागमन्तरे स्युः कियचिरम् ॥ ७४ ॥ क्षितिजलिधिभिः संख्यातीतैर्वहिः पवनैत्रिभिः परिवृतमतः खे नाधस्तात्खलासुरनारकान् । उपरि दिविजान्मध्ये कृत्वा नरान्विधिमन्त्रिणा पतिरपि नृणां त्राता नैको खलंध्यतमोऽन्तकः ॥ ७५ ॥ अविज्ञातस्थानो व्यपगततनुः पापमलिनः खलो राहु खद्दशशतकराक्रान्तभुवनम् । स्फुरन्तं भास्वन्तं किल गिलति हा कष्टमपरं परिप्राप्ते काले विलसितविधेः को हि बलवान् ॥ ७६ ॥ उत्पाद्य मोहमदविह्वलमेव विश्वं वेधाः स्वयं गतघृणठगवद्यथेष्टम् । संसारभीकरमहागहनान्तराले हन्ता निवारयतुमत्र हि कः समर्थः ॥ ७७ ॥ कदा कथं कुतः कसिनित्यतयः खलोऽन्तकः । प्रामोत्येव किमित्याध्वं यतध्वं श्रेयसे बुधाः ॥ ७८॥ असामवायिक मृत्योरेकमालोक्य कञ्चन । देश कालं विधि हेतुं निश्चिन्ताः सन्तु जन्तवः ॥ ७९ ॥ अपिहितमहाघोरद्वारं न किं नरकापदा- सनातननग्रन्थमालायाम् मुपकृतवतो भूयः किं तेन चेदमपाकरोत् । कुशलविलयज्वालाजाले कलत्रकलेवरे कथमिव भवानत्र प्रीतः पृथग्जनदुर्लभे ।। ८० ॥ व्यापपर्वमयं विरामविरसं मूलेऽप्यभोग्योचितं विष्वक् क्षुत्क्षतपातकुष्टकुथिताधुग्रामयैः छिद्वितम् । मानुष्यं धुणभक्षितेखुसदृशं नान्नैकरम्यं पुन- नि:सारं परलोकवीजमचिरात्कृत्वेह सारी कुरु ॥ ८ ॥ प्रसुप्तो मरणाशङ्का प्रबुद्धो जीवितोत्सवम् । प्रत्यहं जनयत्येष तिष्ठेत्काये कियञ्चिरम् ॥ ८२ ॥ सत्यं वदात्र यदि जन्मनि वन्धुकृत्य- मातं त्वया किमपि बन्धुजनाद्धितार्थम् । एतावदेव परमस्ति मृतस्य पश्चात् संभूय कायमहितं तव भसयन्ति ॥ ३ ॥ जन्मसन्तानसंपादि विवाहादिविधायिनः । स्वाः परेऽस्य सकृत्प्राणहारिणो न परे परे ॥ ८४ ॥ रे धनेन्धनसंभारं प्रक्षिप्याशाहुताशने । ज्वलन्तं मन्यते भ्रान्तः शान्तं संधुक्षणे क्षणे ॥ ८५॥ पलितच्छलेन देहान् निर्गच्छति शुद्धिरेव तव बुद्धः। कथमिव परलोकार्थ जरी वराकस्तदा सरति ॥ ८६ ॥ इष्टार्थायदवाप्ततद्भवसुखेक्षाराम्भसि प्रस्फुर- नानामानसदुःखवाडवशिखासंदीपिताभ्यन्तरे । मृत्यूत्पत्तिजरातरङ्गचपले संसारघोराणवे मोहग्राहविदारितास्वविवराडूरे चरा दुर्लभाः ॥ ८७ ॥ अव्युच्छिन्नैः सुखपरिकरैालिता लोलरम्यैः श्यामागीनां नयनकमलैरचिता यौवनान्तम् । धन्योऽसि त्वं यदि तनुरियं लब्धवोधे मृगीभि- आत्मानुशासनम् दंग्धारण्यस्थलकमलिनीशङ्कयालोक्यते ते ॥ ८ ॥ बाल्ये वेसि न किञ्चिदप्यपरिपूर्णाङ्गो हितं वाहितं कामान्धः खलु कामिनीद्रुमघने भ्राम्यन्वने यौवने । मध्ये वृद्धतपार्जितुं वसुपशुः क्लिन्नासि कृष्यादिभि- वृद्धो वार्द्धमृतः क जन्मफलिते धर्मों भवेनिर्मलः ॥ ८९ ।। वाल्येऽसिन् यदनेन ते विरचितं सत्तुं च तन्नोचितं मध्ये चापि धनार्जनव्यतिकरसन्नापितं यत्त्वयिः । वार्द्धक्येप्यभिभूय दन्तदलनाद्यच्चेष्टितं निष्ठुरम् पश्याद्यापि विधेवंशेन चलितुं वान्छस्यहो दुमते ॥ ९० ।। अश्रोत्रीव तिरस्कृता परतिरस्कारश्रुतीनां श्रुतिः चक्षुर्वीक्षितुमक्षमं तव दशां दृप्यामिवान्ध्यं गतम् । भीत्येवाभिमुखान्तकादतितरां कायोऽप्ययं कम्पते निष्कम्पस्वमहो प्रदीप्तभवनेऽप्यास जराजर्जरे ॥ ९१ ॥ भतिपरिचितेप्ववज्ञा नवे भवेत् प्रीतिरिति हि जनवादः। त्वं किमिति मृपा कुरुपे दोपासत्तो गुणेवरतः॥ ९२ ।। हंसैन भुक्तमतिकर्कशमम्भसापि नो संगतं दिनविकाशि सरोजमिच्छन् । नालोकितं मधुकरण मृतं वृथैव प्रायः कुतो व्यसनिनो स्वहिते विवेकः ।। ९३ ।। प्र.व दुर्लभा सुष्टु दुर्लभा सान्यजन्मनि । तां प्राप्य ये प्रमाद्यन्ति ते शोच्याः खलु धीमताम् ॥ ९४ ॥ लोकाधिपाः क्षितिभुजो भुवि येन जाता- स्वमिन् विधौ सति हि सर्वजनप्रसिद्ध । शोच्यं तदेव यदमी स्पृहणीयवीर्य्या- मतेपां बुधाश्च यत किकरतां प्रयान्ति ॥ ९५ ॥ यस्मिन्नस्ति स भूभृतो धृतमहावंशाः प्रदेशः परः ६४ सनातनजैनग्रन्थमालायाम् प्रज्ञापारमितातोन्नतिघना मूर्दा ध्रियन्ते श्रियै भूयास्तस्य भुजङ्गदुर्गमतमो मार्गों निराशस्ततो व्यक्तं वक्तुमयुक्तमार्यमहतां सर्वार्थसाक्षात्कृतः ॥ ९६ ॥ शरीरेऽसिन् सर्वाशुचिनि बहुदुःखेऽपि निवसन् व्यरंसीनो नैव प्रथयति जनः प्रीतिमधिकाम् । इमं दृष्ट्वाप्यसाद्विरमयितुमेनं च यतते यतिर्याताख्यानैः परहितरतिं पश्य महतः ॥ ९७ ॥ इत्यं तथेति बहुना किमुदीरितेन भूयस्त्वयैव ननु जन्मनि भुक्तमुक्तम् । एतावदेव कथितं तव संकलय्य सर्वापदां पदमिदं जननं जनानाम् ॥ ९८॥ अन्तर्वातं वदनविवरे क्षुत्पाः प्रतीच्छन् कायत्तः सुचिरमुदरावस्करे वृद्धगृङ्ख्या । निप्पन्दात्मा कृमिसहचरो जन्मनि केशभीतो मन्ये जन्मिन्नपि च मरणात्तलिमित्ताद्विभेपि ॥ ९९ ॥ अजाकृपाणीयमनुष्ठितं त्वया विकल्पमुग्धेन भवादितः पुरा । यदन किंचित्सुखरूपमाप्यते तदाऱ्या विद्यन्धकवर्तकीयकम्॥१०॥ हा कष्टमिष्टव निताभिरकाण्ड एव चण्डो विखण्डयति पण्डितमानिनोऽपि । पश्याद्भुतं तदपि घोरतया सहन्ते दग्धुं तपोऽग्निभिरमुं न समुत्सहन्ते ॥ १०१ ॥ अर्थिभ्यस्तृणवद्विचिन्त्य विषयान् कश्चिच्छ्रियं दत्तवान् पापां तामवितप्पिणी विगणयन्नादात्परस्त्यतवान् । । प्रागेवाकुशलां विमृश्य सुभगोऽप्यन्यो न पर्यग्रही- देते ते विदितोत्तरोत्तरवराः सर्वोत्तमास्त्यागिनः ॥ १०२ ॥ विरज्य सम्पदः सन्तस्त्यजन्ति किमिहाद्भुतम् । 4 sam- आत्मानुशासनम् मावमीरिक जुगुप्सावान् सुभुक्तमपि भोजनम् ॥ १०३ ॥ श्रियं त्यजन जडः शोकं विसयं सात्विकं सताम् । करोति तत्वविचित्रं न शोकं न च विसयम् ॥ १०४ ॥ विमृश्योचर्गर्भात् प्रभृति मृतिपर्यन्तमखिलम् मुधाप्येतत् क्लेशाशुचिभयनिकाराघबहुलम् । बुधैस्त्याज्यं त्यागाद्यदि भवति मुक्तिश्च जडधीः स कस्त्यक्तुं नालं खलजनसमायोगसदृशम् ॥ १०५ ॥ कुबोधरागादिविचेष्टितैः फलम् स्वयापि भूयोजननादि लक्षणम् । प्रतीहि भव्यप्रतिलोमवर्तिभि- ध्रुवं फलं प्राप्स्यसि तद्विलक्षणम् ॥ १०६ ॥ दयादमत्यागसमाधिसन्ततः पथि प्रयाहि प्रगुणं प्रयत्नवान् । नयत्यवश्यं वचसामगोचरं विकल्पदूरं परमं किमप्यसौ ॥ १०७ ॥ विज्ञाननिहितमोहं कुटीप्रवेशो विशुद्धकायमिव । त्यागः परिग्रहाणामवश्यमजरामरं कुरुते ॥ १०८ ॥ अभुक्त्वापि परित्यागात्स्वोच्छिष्टं विश्वमासितम् । येन चित्रं नमस्तसै कुमारब्रह्मचारिणे ॥ १०९ ।। अकिञ्चनोऽहमित्यास्व त्रैलोक्याधिपतिर्भवेः । योगिगम्यं तव प्रोकं रहस्यं परमात्मनः ॥ ११०॥ दुर्लभमशुद्धमपसुखमविदितमृतिसमयमल्पपरमायुः । मानुष्यमिहैवतपोमुकिस्तपसैव तत्तपः कार्यम् ॥ १११ ॥ आराध्यो भगवान् जगत्रयगुरुर्वृत्तिः सतां सम्मता क्लेशस्तचरणस्मृतिः क्षतिरपि प्रप्रक्षयः कर्मणाम् । साध्यं सिद्धिसुखं कियान परिमितः कालो मनःसाधनम् सम्यक् चेतसि चिन्तयन्तु विधुरं किं वा समाधौ बुधाः ॥ ११२ ॥ द्रविणपवनप्राध्मातानां सुखं किमिहक्षते सनातनजैनग्रन्थमालायाम् किमपि किमय कामव्याधः खलीकुरुते खलः। चरणमपि किं स्पृष्टुं शक्ताः पराभवपांशवो वदत तपसोऽप्यन्यन्मान्यं समीहितसाधनम् ॥ ११३ ॥ इहैव सहजान रिपून्विजयते प्रकोपादिकान् गुणाः परिणमन्ति यानसुभिरप्ययं वाञ्छति । पुरश्च पुरुषार्थसिद्धिरचिरात् स्वयं योयिनी नरो न रमते कथं तपसि तापसंहारिणि ॥ ११ ॥ तपोवल्यां देहः समुपचितपुण्यार्जितफलः शलाटुने यस्य प्रसव इव कालेन गलितः । व्यशुष्यच्चायुष्यं सलिलमिव संरक्षितपयः स धन्यः संन्यासाहुतभुजि समाधानचरमम् ॥. ११५॥ अमी प्ररूढवैराग्यास्तनुमप्यनुपाल्य यत् । तपस्यन्ति चिरं तद्धि ज्ञातं ज्ञानस्य वैभवम् ॥ ११६ ॥ क्षणार्द्धमपि देहेन साहचर्य सहेत कः । यदि प्रकोप्टमादाय न स्याद्वोधो निरोधकः ॥ ११७ ॥ समस्तं साम्राज्यं तृणमिव परित्यज्य भगवा तपस्यन्निमाणः क्षुधित इव दीनः परगृहान् । किलाटेनिक्षार्थी स्वयमलभमानोऽपि सुचिरं न सोढव्यं किं वा परमिह परैः कार्यवशतः ॥ ११ ॥ पुरा गर्भादिन्द्रो मुकुलितकरः किङ्कर इव स्वयं सृष्टा सृष्टेः पतिरथनिधीनां निजसुतः । क्षुधित्वा पण्मासान् सकिल पुरुरप्याट जगती- महो केनाप्यसिन् विलसितमलवयं हतविधेः ॥ ११९ प्राक् प्रकाशप्रधानः स्यात् प्रदीप इव संयमी। पश्चात्तापप्रकाशाभ्यां भावानिव हि भासताम् ॥ १२० ॥ १ पायिनी इत्यपि पाठः.

आत्मानुशासतम् ६७ भूत्वा दीपोपमो धीमान् ज्ञानचारित्रभाखरः । स्वमन्यं भासयत्येष प्रोद्वमत्कर्मकजलम् ॥ १२१ ॥ अशुभाच्छुभमायातः शुद्धः स्यादयमागमात् । रवेरप्राप्तसन्ध्यस्य तमसो न समुद्गमः ॥ १२२ ॥ विधूततमसो रागस्तपःश्रुतनिबन्धनः । संध्याराग इवार्कस्य जन्तोरभ्युदयाय सः ॥ १२३ ॥ विहाय व्याप्तमालोकं पुरस्कृत्य पुनस्तमः । रविवदागमागच्छन् पातालतलमृच्छति ॥ १२४ ॥ ज्ञानं यत्र पुरस्सरं सहचरी लज्जा तपः संवलम् चारित्रं शिविका निवेशनभुवः स्वर्गा गुणा रक्षकाः । पंथाश्च प्रगुणं शमाम्बुबहुल: छाया दया भावना यानं तन्मुनिमापयेदभिमतं स्थानं विना विप्लवैः ॥ १२५ ॥ मिथ्या दृष्टिविषान्वदन्ति फणिनो दृष्टं तदा सुस्फुटं यासामर्द्धविलोकनैरपि जगद्दन्दह्यते सर्वतः । तास्त्वय्येव विलोमवर्तिनि भृशं भ्राम्यन्ति बद्धक्रुधः स्त्रीरूपेण विपं हि केवलमतस्तद्गोचरं मासगाः ॥ १२६ ॥ क्रुद्धाः प्राणहरा भवन्ति भुजगा दष्ट्दैव काले कचि- नेपामौपधयश्च सन्ति बहवः सद्योविपच्युच्छिदः । हन्युः स्त्रीभुजगाः पुरेह च मुहुः ऋद्धाः प्रसन्नास्तथा योगीन्द्रानपि तानिरौपधविपा दृष्टाश्च दृष्ट्वापि च ॥ १२७ ॥ एतामुत्तमनायिकामभिजनावज्यों जगत्प्रेयसी मुक्तिश्रीललनां गुणप्रणयिनी गन्तुं तवेच्छा यदि । तां त्वं संस्कुरु वर्जयान्यवनितावार्तामपि प्रस्फुटं तस्यामेव रतिं तनुष्व नितरां प्रायेण सेाः स्त्रियः ॥ १२८ ॥ वचनसलिलहीसखच्छेस्तरङ्गसुखोदरै- वंदनकमलै घरम्याः स्त्रियः सरसीसमाः ।

६८ सनातनजैनग्रन्थमालायाम् इह हि बहवः प्रास्तप्रज्ञास्तटेऽपि पिपासवो- विषयविपमग्राहग्रस्ताः पुनर्न समुद्गताः ॥ १२९ ॥ पापिटेर्जगती विधीतमभितः प्रज्वाल्य रागानलं क्रुद्धैरिन्द्रियलुब्धकैर्भयपदैः संत्रासिता सर्वतः । हन्तैते शरणैपिणोजनमृगाः स्त्रीछद्मना निम्मितम् घातस्थानमुपाश्रयन्ति मदनव्याधाधिपस्याकुलाः ॥ १३०॥ अपत्रपतपोऽग्निना भयजुगुप्सयोरास्पदं शरीरमिदमर्द्धदग्धशववन्न कि पश्यसि । वृथा व्रजसि किं रतिं ननु न भीषयस्यातुरो निसर्गतरलाः स्त्रियस्त्वदिह ताः स्फुट विभ्यति ॥ ३ ॥ उत्तुङ्गसंगतकुलाचलदुर्गदूर- माराद्वलित्रयसरिद्विपमावतारम् । रोमावलीकुमृतिमार्गमनङ्गमूढा कान्ताकटीविवरमेत्य न केऽत्र खिज्ञाः ॥ १३२ ॥ वर्चीगृहं विषयिणां मदनायुधस्य नाडीव्रणं विपमनिर्वृतपर्वतस्य । प्रच्छन्नपादुकमनङ्गमहाहिरन्ध्र- माहुर्बुधा जधनरन्ध्रमदः सुदत्याः ॥ १३३ ॥ अध्यास्यापि तपोवनं बत परे नारीकटीकोटरे व्याकृष्टा विषयैः पतन्ति करिणः कूटावपाते यथा । प्रोचे प्रीतिकरी जनस्य जननी प्राग्जन्मभूमि च यो व्यक्तं तस्य दुरात्मनो दुरुदितमन्ये जगद्वञ्चितम् ॥ १३४ ॥ कण्ठस्थः कालकूटोऽपि शम्भोः किमऽपि नाकरोत् । सोपि दन्दह्यते स्त्रीभिः स्त्रियो हि विषमं विषम् ॥ १३५ ॥ . तव युवतिशरीरे सर्वदोपैकपात्रे- रतिरमृतमयूषार्थसाधर्म्यतश्चेत् ।

आत्मानुशासनम् ६९ ननु शुचिषु शुभेषु प्रीतिरेष्वेव साध्वी मदनमधुमदान्धे प्रायशः को विवेकः ॥ १३६ ॥ प्रियामनुभवत्स्वयं भवति कातर केवलं परेष्वनुभवत्सु तां विषयिषु स्फुटं हादते । मनो ननु नपुंसकं त्विति न शब्दतश्चार्थतः सुधी कथमनेन सन्नुभयथा पुमान् जीयते ॥ १३७ ॥ राज्यं सौजन्ययुक्तं श्रुतवदुरुपतः पूज्यमत्रापि यसात् त्यक्त्वा राज्यं तपस्यन्नलघुरतिलघुः स्यात्तपः प्रोद्य राज्यम् । राज्यात्तस्मात्प्रपूज्यं तप इति मनसालोच्य धीमानुदग्रं कुर्यादार्यः समग्रं प्रभवभयहरं सत्तपः पापभीरुः ॥ १३८ ॥ पुरा शिरसि धाय॑न्ते पुष्पाणि विबुधैरपि । पश्चात् पादोऽपि नास्पाक्षीत् किं न कुर्याद्गुणक्षतिः ॥ १३९ ।। हेचन्द्रमः किमिति लान्छनवानभूस्त्वम् तद्वान् भवेः किमिति तन्मय एव नाभूः। किं ज्योत्स्नया मलमलं तव घोपयन्त्या स्वानुवननु तथा सति नासि लक्ष्यः ॥ १४० ॥ विकाशयन्ति भव्यस्य मनोमुकुलमंशवः । रवेरिवारविन्दस्य कठोराश्च गुरूक्तयः ॥ १४१ ॥ दोपान् कांश्चन तान् प्रवर्तकतया प्रच्छाध गच्छत्ययं सार्द्ध तैः सहसा म्रियेद्यदि गुरुः पश्चात् करोत्येप किम् । तस्मान्मे न गुरुर्गुरुर्गुरुतरान् कृत्वा लघूश्च स्फुटम् ब्रूते यः सततं समीक्ष्य निपुणं सोऽयं खलः सद्गुरुः ॥ १४२ ।। लोकद्वयहितं वक्तुं श्रोतुञ्च सुलभाः पुरा । दुर्लभाः कर्तुमद्यत्वे वक्तुं श्रोतुं च दुर्लभाः ॥ १४३ ॥ गुणागुणविवेकिभिर्विहितमप्यलं दूपणं भवेत्सदुपदेशवन्मतिमतामतिप्रीतये। . .

सनातननग्रन्थमालायाम् कृतं किमपि धाटयतः स्तवनमप्यतीर्थोपित- ने तोपयति तन्मनांसि खलु कष्टमज्ञानता ॥ १४४ ॥ त्यक्तहेत्वन्तरापेक्षौ गुणदोपनिवन्धनौ । यस्यादानपरित्यागौ स एव विदुपां वरः ॥ १४५ ॥ हितं हित्वाहिते स्थित्वा दुर्धार्दुःखायसे भृशम् । विपर्यये तयोरेधि त्वं सुखायिप्यसे सुधीः ॥ १४६ ॥ इमे दोपास्तेपां प्रभवनममीभ्यो नियमितो गुणाश्चैते तेषामपि भवनमेतेभ्य इति यः। त्यजस्त्याज्यान हेतून झटिति हितहेतून् प्रतिभजन् स विद्वान् सद्वृत्तः स हि स हि निधिः सौख्ययशसोः ॥ १४७ ॥ साधारणौ सकलजन्तुपु वृद्धिनाशी जन्मान्तरार्जितशुभाशुभकर्मयोगात् । धीमान्स यः सुगतिसाधनवृद्धिनाश- स्तब्यत्ययाद्विगतधीरपरोऽभ्यधायि ॥ १४८॥ कलौ दण्डो नीतिः स च नृपतिभिस्ते नृपतयो नयन्त्यर्थाथ तं न च धनमदोऽस्त्याश्रमवताम् । नतानामाचार्या न हि नतिरताः साधुचरिता- स्तपस्तेषु श्रीमन्मणय इव जाताः प्रविरलाः ॥ १४९ ॥ एते ते मुनिमानिनः कवलिताः कान्ताकटाक्षेक्षणै- रङ्गालमशरावसन्नहरिणप्रख्या भ्रमन्त्याकुलाः । सन्धत विषयाटवीस्थलतले स्वान्क्वाप्यहो न क्षमा- मावाजीन्मरुदाहतानचपलैः संसर्गमेभिर्भवान् ॥ १५० ॥ गेहं गुहा परिदधासि दिशो विहाय- संयानमिष्टमशनं तपसोऽभिवृद्धिः । प्राप्तागमार्थ तव सन्ति गुणाः कलत्र- मप्रार्थ्यवृत्तिरसि यासि वृथैव याञ्चाम् ॥ १५१ ॥ - - आत्मानुशासनम् ७१ . परमाणोः परं नाल्पं नभसो न महत्परम् । इति त्रुवन् किमद्राक्षीनिमौ दीनाभिमानिनौ ॥ १५२ ।। याचितुर्गौरवं दातुर्मन्ये संक्रान्तमन्यथा । तदवस्थौ कथं स्यातामेतो गुरुलघू तदा ॥ १५३ ॥ । अधो जिघृक्षवो यान्ति यान्त्यूद्धमजिघृक्षवः । इति स्पष्टं वदन्तो वा नामोन्नामौ तुलान्तयोः ॥ १५४ ॥ सस्वमाशासते सर्वे न स्वं तत्सर्वतर्प यत् । अर्थिवैमुख्यसंपादि सस्वत्वानिःस्वता वरम् ॥ १५५ ॥ आशाखनिरतीवाभूदगाधा निधिभिश्च या। सापि येन समीभूता तत्ते मानधनं धनम् ॥ १५६ ॥ आशाखनिरगाधेयमधाकृतजगत्रया । उत्सप्योत्सर्प्य तत्रस्थानहो सद्भिः समीकृता ॥ १५७ ॥ विहितविधिना देहस्थित्यै तपांस्युपबृंहय- मशनमपरैर्भचया दत्तं क्वचित् कियदिच्छति । तदपि नितरां लज्जाहेतुः किलास्य महात्मनः कथमयमहो गृह्णात्यन्यान्परिग्रहदुर्ग्रहान् ॥ १५८ ॥ दातारो गृहचारिणः किल धनं देयं तदत्राशनं गृह्णन्तः स्वशरीरतोऽपि विरताः सर्वोपकारेच्छया । लजैपैव मनस्विनां ननु पुनः कृत्वा कथं तत्फलं रागद्वेषवशीभवन्ति तदिदं चक्रेश्वरत्वं कलेः ॥ १५९ ।। आमुष्टं सहजं तव त्रिजगतीबोधाधिपत्यं तथा सौख्यं चास्मसमुद्भवं विनिहतं निर्मूलतः कर्मणा । दैन्यात्तद्विहितैस्त्वमिन्द्रियसुखैः सन्तृप्यसे निरपः स त्वं यश्विरयातनाकदशनैर्बद्धस्थितिस्तुष्यसि ॥ १६० ॥ । तृष्णा भोगेपु चेद्रिक्षो सहस्खाल्पं स्वरेव ते । प्रतीक्ष्य पाकं किं पीत्वा पेया भुक्ति विनाशयः ॥ १६ ॥ .

सनातनजैनग्रन्थमालायाम् निर्धनत्वं धनं येषां मृत्युरेव हि जीवितम् । किं करोति विधिस्तेपां सतां ज्ञानकचक्षुपाम् ॥ १६२ ॥ जीविताशा धनाशा च येषां तेषां विधिविधिः। किं करोति विधिस्तेषां येपामाशा निराशता ॥ १६३ ॥ पर कोटिं समारूदी द्वावेव स्तुतिनिन्दयोः। यस्त्यजेत्तपसे चक्रं यस्तपोविपयाशया ॥ १६४ ॥ त्यजतु तपसे चक्र चक्री यतस्तपसः फलं सुखमनुपम खोतं (त्थं) नित्यं ततो न तदद्भुतम् । इदमिह महञ्चिनं यत्तद्विषं विषयात्मकं पुनरपि सुधीस्त्यक्तं भोक्तुं जहाति महत्तपः ॥ १६५ ॥ शय्यातलादपि तु कोऽपि भयं प्रपाता- तुङ्गात्ततः खलु विलोक्य किलात्मपीडाम् । चित्रं त्रिलोकशिखरादपि दूरतुङ्गा- द्धीमान्वयं न तपसः पतनाद्विमेति ॥ १६६ ॥ विशुद्यति दुराचारः सर्वोऽपि तपसा ध्रुवम् । करोति मलिनं तच्च किल सर्वाधरोऽपरः ॥ ५६७ ॥ सन्येव कौतुकशतानि जगत्सु किन्तु विसापकं तदलमेतदिह द्वयं नः । पीत्वामृतं यदि वमन्ति विसृष्टपुण्या: संप्राप्य संयमनिधि यदि च त्यजन्ति ॥ १६८॥ इह विनिहितवहारम्भवाडोरुशत्रो- रुपचितनिजशक्त परः कोप्यऽपायः । अशनशयनयानस्थानदत्तावधानः कुरु तव परिरक्षामान्तरान् हन्तुकामः ॥ १६९ ।। अनेकान्तात्मार्थप्रसवफलभारातिविनते वचः पर्णाकोणे विपुलनयशाखाशतयुते ।

आत्मानुशासन ७३ समुत्तुङ्गे सम्यक् प्रततमतिमूले प्रतिदिन श्रुतस्कन्धे धीमान् रमयतु मनोमर्कटममुम् ॥ १७ ॥ तदेव तदतद्रूपं प्रामुवन्न विरंस्यति । इति विश्वमनाद्यन्तं चिन्तयेद्विश्ववित्सदा ॥ १७१ ॥ एकमेकक्षणे सिद्धं ध्रौव्योत्पत्तिव्ययात्मकम् । अवाधितान्यतप्रत्ययान्यथानुपपत्तितः ॥ १७२ ॥ न स्थान न क्षणविनाशि न बोधमानं नाभावमप्रतिहतप्रतिभासरोधात् । तत्वं प्रतिक्षणभवत्तदतत्स्वरूप- माद्यन्तहीनमखिलं च तथा यथैकम् ॥ १७३ ॥ ज्ञानस्वभावः स्यादात्मा स्वभावावाप्तिरच्युतिः । तस्मादध्युतिमाकाङ्क्षन् भावयेज् ज्ञानभावनाम् ॥ १७ ॥ ७४ ॥ ज्ञानमेव फलं ज्ञाने ननु श्लाघ्यमनश्वरम् । अहो मोहस्य माहाल्यमन्यदप्यत्र मृग्यते ॥ १७५ ॥ शास्त्रानौ मणिवद्व्यो विशुद्धो भाति निर्वृतः । अङ्गारवत् खलो दीप्तो मली वा भस वा भवेत् ॥ १७६ ॥ मुहुः प्रसार्य सज्ज्ञानं पश्यन् भावान् यथास्थितान् । प्रीत्यप्रीती निराकृत्य ध्यायेदध्यात्मविन्मुनिः ॥ १७७ ॥ वेष्टनोद्वेष्टने यावत् तावद्धान्तिर्भवार्णवे। भावृत्तिपरिवृत्ताभ्यां जन्तोमन्थानुकारिणः ॥ १७८॥ मुच्यमानेन पाशेन प्रान्तिबन्धश्च मन्थवत् । जन्तोस्तथासौ मोक्तन्यो येनानान्तिरवन्धनम् ॥ १७९ ॥ रागद्वेषकृताभ्यां जन्तोर्बन्धः प्रवृत्त्यवृत्तिभ्याम् । तत्त्वज्ञानकृताभ्यां ताभ्यामेवेक्ष्यते मोक्षः ॥ १८० ॥ पानुरागबुद्धिर्गुणदोपकृता करोति खलु पापम् । द्विपरीता पुण्यं तदुभयरहिता तयोर्मोक्षम् ॥ १८ ॥ ३ सनातनजैनप्रन्थमालायाम् मोहवीजादतिद्वेपी वीजान मूलाराविव । तसाज ज्ञानामिना दाह्यं तदेतौ निर्दिधिक्षुणा ॥ १८२ ॥ पुराणोग्रहदोपोत्यो गम्भीरः सगतिः सरक । त्यागजात्यादिना मोहवणः शुद्ध्यति रोहति ॥ १८३ ॥ सुहृदः सुखयन्तः स्युःखयन्तो यदि द्विपः । सुहृदोऽपि कथं शोच्या द्विपो दुःखयितुं मृताः ॥ १८४ ॥ अपरमरणे मत्वात्मीयानलइयतमे रुदन् । विलपतितरां स्वसिन मृत्यौ तथास्य जडात्मनः ॥ विभयमरणे भूयः साध्यं यशः परजन्म वा । कथमिति सुधीः शोकं कुर्य्यान्मृतेऽपि न केनचित् ॥ १८५ ॥ हानेः शोकस्ततो दुःखं लाभाद्रागस्ततः सुखम् । तेन हानावशोकः सन् सुखी स्थात् सर्वदा सुधीः ।। १८६ ॥ सुखी सुखमिहान्यत्र दुःखी दुःखं समश्नुते । सुखं सकलसंन्यासो दुःखं तस्य विपर्ययः ॥ १८७ ॥ मृत्योर्मृत्य्वन्तरप्राप्तिरुत्पत्तिरिह देहिनास् । तत्र प्रमुदितान्मन्ये पाश्चात्ये पक्षपातिनः ॥ १८ ॥ अधीत्य सकलं श्रुतं चिरमुपास्य घोरं तपो। यदीच्छसि फलं तयोरिह हि लाभपूजादिकम् । छिनत्सि सुतपस्तरोः प्रसवमेव शून्याशयः । कथं समुपलप्स्यसे सुरसमस्य पकं फलम् ॥ १८९ ॥ तथा श्रुतमधीष्व शश्चदिहलोकपङ्क्षि विना शरीरमपि शोषय प्रथितकायसंक्लेशनैः । कषायविषयद्विपो विजयसे यथा दुर्जयान् शमं हि फलमामनन्ति मुनयस्तपःशास्त्रयोः ॥ १९० ॥ दृष्ट्वा जनं ब्रजसि किं विषयाभिला स्वल्पोप्यसौ तव महजनयत्यनर्थम् ।

आत्मानुशासनम् ७५ स्नेहाधुपक्रमजुपो हि यथातुरस्य दोषो निषिद्धचरणं न तथेतरस्य ॥ १९ ॥ अहितविहितप्रीतिः प्रीतं कलनमपि स्वयं सकृदपकृतं श्रुत्वा सद्यो जहाति जनोप्ययम् । स्वहितनिरतः साक्षाहोपं समीक्ष्य भवे भवे विषयविपवतासाभ्यासं कथं कुरुते बुधः ॥ १९२ ॥ आत्मन्नात्मविलोपनात्मचरितैरासीहुरात्मा चिरं स्वात्मास्याः सकलात्मनीनचरितैरात्मीकृतैरात्मनः । आत्मेत्यां परमात्मतां प्रतिपतन्प्रत्यात्मविद्यात्मकः स्वात्मोऽत्थात्मसुखो निपीदसि लसन्नध्यात्ममध्यात्मना ॥ १९३ ॥ अनेन सुचिरं पुरा त्वमिह दासवद्वाहित- स्ततोऽनशनसामिभक्तरसवर्जनादिक्रमैः । क्रमेण विलयावधिस्थिरतपोविशेपैरिदं कदर्थय शरीरकरिपुमिवाद्य हस्तागतम् ॥ १९४ ॥ आदौ तनोर्जननमत्र हतेन्द्रियाणि काङ्क्षन्ति तानि विषयान् विषमाश्च मानः । हानिप्रयासभयपापकुयोनिदाः स्यु- मूलं ततस्तनुरनर्थपरम्पराणाम् ॥ १९५ ॥ शरीरमपि पुष्णन्ति सेवन्ते विपयानपि । नास्त्यहो दुष्करं नृणां विषाद्वान्छन्ति जीवितम् ॥ १९६ ॥ इतस्ततश्च त्रस्यन्तो विभाव- यथा मृगाः। वनाद्विशन्त्युपग्रामं कलौ कष्टं तपस्विनः ॥ १९७ ॥ वरं गार्हस्थ्यमेवाद्य तपसोभाविजन्मनः।। सुस्वीकटाक्षलुण्टाकैलुप्तवैराग्यसंपदः ॥ १९८ ॥ स्वार्थभ्रंशं त्वमविगणयंस्त्यकलज्जाभिमानः संप्राप्तोऽस्मिन् परिभवशतैर्दुःखमेतत्कलनं ।

७६ सनातननग्रन्थमालायाम् नान्वेति त्वां पदमपि पदाद्विपलुब्धोऽसि भूयः सख्यं साधो यदि हि मतिमान्माग्रहीविग्रहेण ॥ १९९ ।। न कोऽप्यन्योऽन्येन व्रजति समवायं गुणवता गुणी केनापि त्वं समुपगतवान् रूपिभिरसौ। न ते रूपं ते यानुपचजसि तेषां गतमति- स्ततश्छेद्यो भेद्यो भवसि भवदुःखे भववने ॥ २०० ॥ माता जातिः पिता मृत्युराधिव्याधी सहोद्गतौ । प्रान्ते जन्तोर्जरा मित्रं तथाप्याशा शरीरके ॥ २० ॥ शुद्धोऽप्यशेषविषयावगमोऽप्यमूतों- प्यात्मन् त्वमप्यतितरामशुचीकृतोऽसि । मूर्त सदा शुचि विचेतनमन्यदन किं वा न दूपयति धिग्धिगिदं शरीरम् ॥ २०२ ॥ हा हतोऽसितरां जन्तो येनासिस्तव सांप्रतम् । ज्ञानं काया शुचिज्ञानं तत्यागः किल साहसम् ॥ २०३ ।। अपि रोगादिभिवृद्धैन मुनिः खेदमृच्छति । उडुपस्थस्य कः क्षोभः प्रवृद्धेऽपि नदीजले ।। २०४॥ जातामयः प्रतिविधाय तनी वलेद्वा नो चेत्तनुं त्यजतु वा द्वितयी गतिः स्यात् । लग्नाग्निमावसति वह्निमपोहा गेहं निहाय वा व्रजति तत्र सुधीः किमास्ते ॥ २०५॥ शिरस्थं भारमुत्तार्य स्कन्धे कृत्वा सुयत्नतः। शरीरस्थेन भारेण अज्ञानी मन्यते सुखम् ॥ २०६ ॥ यावदस्ति प्रतीकारस्तावत्कुर्यात् प्रतिक्रियाम् । तथाप्यनुपशान्तानामनुद्वेगः प्रतिक्रिया ॥ २०७ ।। यदा यदा भवेजन्मी त्यक्त्वा मुक्तो भविष्यति । शरीरमेव तत्त्याज्यं किं शेपैः क्षुद्रकल्पनैः ॥ २०८ ॥ - आत्मानुशासनम् - नयत्सर्वाशुचिप्रायं शरीरमपि पूज्यतां । सोऽप्यात्मा येन न स्पृश्यो दुश्चरित्रं धिगस्तु तत् ॥२०९॥ । रसादिराद्यो भागः स्यात् ज्ञानावृत्यादिरन्वितः। ज्ञानादयस्तृतीयस्तु संसार्येवं त्रयात्मकः ॥ २१० ॥ भागनयमिदं नित्यमात्मानं बन्धवर्तिनम् । भागद्वयात् पृथकर्तुं यो जानाति स तत्त्ववित् ॥ २११ ॥ । करोतु न चिरं घोरं तपः क्लेशासहो भवान् । चित्तसाध्यान् कपायारीन्न जयेद्यत्तदज्ञता ॥ २१२ ॥ हृदयसरसि यावनिर्मलेऽप्यत्यगाधे वसति खलु कपायग्राहचक्रं समन्तात् । श्रयति गुणगणोऽयं तन्न तावद्विशङ्क समदमयमशेपैस्तान् विजेतुं यतस्त्र ॥ २१३ ॥ हित्वा हेतुफले किलान सुधियस्ता सिद्धिमामुत्रिकी . वान्छन्तः स्वयमेव साधनतया शंसन्ति शान्तं मनः । तेषामाखुविडालिकेति तदिदं धिग्धिकलेः प्राभवं येनैतेऽपि फलद्वयप्रलयनाडूरं विपर्यासिताः ॥ २१४ ॥ उद्युक्तस्त्वं तपस्यस्यधिकमभिभवंस्त्वामगच्छन्कपायाः प्राभूदोधोऽप्यगाधो जलमिव जलधौ किन्तु दुर्लक्ष्यमन्यैः। नियूंढेऽपि प्रवाहे सलिलमिव मनाग्निनदेशेष्ववश्य मात्सर्य्यन्ते खतुल्यैर्भवति परवशाहुर्जयं तजहीहि ॥ २१५ ॥ चित्तस्थमप्यनवबुध्य हरेण जाड्या क्रुद्धा बहिः किमपि दग्धमनङ्गबुध्या । घोरामवाप स हि तेन कृतामवस्था क्रोधोदयाद्भवति कस्य न कार्यहानिः ॥ २१६ ॥ चक्रं विहाय निजदक्षिणबाहुसंस्थं यत्मानजन्ननु तदैव स तेन मुक्तः । 1 , सनातनजैनप्रन्यमालायाम् ७८ क्लेशं तमाप किल बाहुबली चिराय मानो मनागपि हतिं महती करोति ॥ २१७ ॥ सत्यं वाचि मतौ श्रुतं हृदि दया शौय्य भुजे विक्रमो लक्ष्मी नमनूनमर्थिनिचये मार्गे गतिनिर्वृते । येषां प्रागजनीह तेऽपि निरहकाराः श्रुतेर्गोचरा- श्चित्रं संप्रति लेशतोऽपि न गुणास्तेषां तथाप्युद्धताः ॥ २० ॥ वसति भुवि समस्तं सापि संधारितान्य- रुदरमुपनिविष्टा सा च ते चापरस्य । तदपि किल परेपां ज्ञानकोणे निलीनं वहति कथमिहान्यो गर्वमात्माधिकेपु ॥ २१९ ॥ यशोमारीचीयं कनकमृगमायामलिनितं हतोऽश्वत्थामोत्तया प्रणयिलघुरासीद्यमसुतः। सकृष्णः कृष्णोऽभूत्कपटबटुवेपेणनितरा- मपिच्छमाल्यं तद्विपसिव हि दुग्धस्य महतः ॥ २२० ॥ भेयं मायामहागान्मिथ्याघनतमोमयात् । यस्मिन् लीना न लक्ष्यन्ते क्रोधादिविषमायः ॥ २२॥ प्रच्छन्नकर्म मम कोऽपि न वेत्ति धीमान् ध्वंसं गुणस्य महतोऽपि हिमति संस्थाः । कामं गिलन् धवलदीधितिधौतदाहो गूढोऽप्यबोधि न विधुः सविधुन्तुदः कैः ॥ २२२ ॥ वनचरभयाद्धावन देवालताकुलबालधिः किल जडतया लोलो बालबजे विचलं स्थितः। बत स चमरस्तेन प्राणैरपि प्रवियोजितः परिणततृपां प्रायेणैवंविधा हि विपत्तयः ॥ २२३ ॥ विषयविरतिः संगत्यागः कपायविनिग्रहः शमयसदमास्तत्वाभ्यासस्तपश्चरणोधमः । .

आत्मानुशासनम्
७९
नियमितमनोवृत्तिर्मतिर्जिनेषु दयालुता
भवति कृतिनः संसाराब्धेस्तटे निकटे सति ॥ २२४ ॥
यमनियमनितान्तः शान्तवाद्यान्तरात्मा
परिणमितसमाधिः सर्वसत्त्वानुकम्पी।
विहितहितमितांशी क्लेशजालं समूलं
दहति निहतनिद्रो निश्चिताध्यात्मसारः ॥ २२५ ॥
समधिगतसमस्ताः सर्वसावद्यदूराः
स्वहितनिहितचित्ताः शान्तसर्वप्रचाराः।
स्वपरसफलजल्पाः सर्वसंकल्पमुक्काः
कथमिह न विमुक्त जनं ते विमुक्ताः ॥ २२६ ॥
दासत्वं विषयप्रमोर्गतवतामात्मापि येपां पर-
तेषां भो गुणदोपशून्यमनसां किं तत्पुनर्नश्यति ।
भेतव्यं भवतैव यस्य भुवनप्रद्योति रत्नत्रयं
भ्राम्यन्तीन्द्रियतस्कराश्च परितस्त्वं तन्मुहुर्जागृहि ॥ २२७ ॥
रम्येपु वस्तुवनितादिषु वीतमोहो
मुह्येदृथा किमिति संयमसाधनेषु ।
धीमान् किमामयभयात्परिहत्य भुति
पीचौपधं व्रजति जातुचिदप्यजीर्णम् ॥ २२८ ॥
तपः श्रुतमिति द्वयं वहिरुदीर्य रूढं यथा
कृपीफलमिवालये समुपनीयते स्वात्मनि ।
कृपीवल इवोत्थितं करणचोरव्याधादिभि-
स्तदा हि मनुते यतिः स्वकृतकृत्यतां धीरधीः ॥ २२९ ॥
दृष्टार्थस्य न मे किमप्ययमिति ज्ञानावलेपादमुं
नोपेक्षख जगन्नयैकडमरं निःशेपयाशाद्विपम् ।
पझ्याम्मोनिधिमप्यगाधसलिलं चावायते वाडवः
क्रोडीभूतविपक्षकस्य जगति प्रायेण शान्तिः कुतः ॥ २३०॥

८०
सनातनजैनग्रन्थमालायाम्
सेहानुबद्धहृदयो ज्ञानचरित्रान्वितोऽपि न लाध्यः ।
दीप इवापादयिता कमलमलिनस्य कार्यस्य ॥ २३ ॥
रतेररतिमायातः पुनारतिमुपागतः ।
तृतीयं पदमप्राप्य बालिशो वत सीदसि ।। २३२ ।।
तावहुःखाग्निततात्माऽयापिण्ड इव सीदसि ।
निवासिनिर्वृताम्भोधी यावत्त्वं न निमजासि ॥ २३३ ॥
मंक्षुमोक्षं सुसम्यक्त्वं सत्यंकारस्वलात्कृतं ।
ज्ञानचारित्रसाकल्यमूलेन स्वकरे कुरु ।। २३४ ॥
अशेषमद्वैतमभोग्यभोग्यं निवृत्तिवृत्त्योः परमार्थकोव्याम् ।
अभोग्यभोग्यात्मविकल्पबुद्ध्या निवृत्तिमभ्यस्यतु मोक्षकाही॥२३५
निवृत्तिं भावयेधावन्निवयं तदभावतः ।
न वृत्तिर्न निवृत्तिश्च तदेवपदमव्ययम् ॥ २३६ ।।
रागद्वेपौ प्रवृत्तिः स्यानिवृत्तिस्तनिपेधनम् ।
तौ च बाह्यार्थसम्बद्धौ तसात्तांश्च परित्यजेत् ॥ २३७ ॥
भावयामि भवाऽऽवत भावनाः प्रागभाविताः ।
भावये भावितानेति भवाभावाय भावनाः ॥२३८ ॥
शुभाशुभे पुण्यपापे सुखदुःखे च पत्रयं ।
हितमाधमनुष्टेयं शेपनयमथाहितम् ॥ २३९ ।।
तन्त्राप्याधं परित्याज्यं शेपौ न स्तः स्वतः खयम् ।
शुभं च शुद्ध त्यक्त्वान्ते प्राप्नोति परमं पदम् ॥ २४० ॥
अस्त्यात्मात्तमितादिबन्धनगतस्तद्वन्धनान्यात्र-
ते क्रोधादिकृताः प्रमादजनिताः कोदादयतेऽवतात् ।
मिथ्यात्वोपचितात् स एव समलः कालादिलब्धौ क्वचित्
सम्यक्त्ववतदक्षताकलुपतायोगैः क्रमान्मुच्यते ॥ २४१ ॥
ममेदमहमस्येति प्रीतिरीतिरिवोत्थिता ।
क्षेत्रे क्षेत्रीयते यावत्तावत्काशा तपःफले ॥ २४२ ॥

आत्मानुशासनम्
मामन्यमन्यं मां मत्वा भ्रान्तो भ्रान्तौ भवार्णवे।
नान्योऽहमहमेवाहमन्योऽन्योऽन्योऽहमस्ति न ॥ २४३ ॥
बन्धो जन्मनि येन येन निविडं निष्पादितो वस्तुना
बाह्यार्थैकरतेः पुरापरिणतप्रज्ञात्मनः साम्प्रतम् ।
तत्तत्तन्निधनाय साधनमभूद्वैराग्यकाष्टास्पृशो
दुर्बोधं हि तदन्यदेव विदुषामप्राकृतं कौशलम् ॥ २४४ ॥
अधिकः क्वचिदाश्लेपः कचिद्धीनः कचित्समः ।
कचिद्विश्लेप एवायं बन्धमोक्षक्रमो मतः ॥ २४५ ॥
यस्य पुण्यं च पापं च निष्फलं गलति स्वयम् ।
स योगी तस्य निर्वाणं न तस्य पुनरानवः ॥ २४६ ॥
महातपस्तडागस्य संभृतस्य गुणाम्भसा ।
मर्यादापालिवन्धेऽल्पामप्युपेक्षिष्ट माक्षतिम् ॥ २४७ ॥
दृढगुप्तिकपाटसंवृतिईतिभित्तिर्मतिपादसंभृतिः।
यतिरल्पमपि प्रपद्य रन्धं कुटिलैर्विक्रियते गृहाकृतिः ॥ २४८ ॥
स्वान्दोपान्हन्तुमुद्युक्तस्तपोभिरतिदुर्द्धरैः ।
तानेव पोपयत्यज्ञः परदोपकथाशनैः ।। २४९ ।।
दोपः सर्वगुणाकरस्य महतो दैवानुरोधात्वचि-
द्यातो यद्यपि चन्द्रलान्छनसमस्तं द्रष्टुमन्धोऽप्यलम् ।
दृष्टानोति न तावदस्य पदवीमिन्दोः कलकं जग-
द्विश्वं पश्यति तत्प्रभाप्रकटितं कि कोऽप्यगात्तत्पदम् ॥ २५० ॥
यद्यदाचरितं पूर्व तत्तदज्ञानचेष्टितम् ।
उत्तरोत्तरविज्ञानाद्योगिनः प्रतिभासते ॥ २५१ ॥
अपि सुतपसामाशावल्लीशिखा तरुणायते
भवति हि मनोमूले यावन्ममत्वजलाता ।
इति कृतधियः कृच्छ्रारम्भैश्चरन्ति निरन्तरं
चिरपरिचिते देहेऽप्यसिन्नतीव गतस्पृहाः ॥ २५२ ॥

८२ सनातनजैनप्रन्थमालायाम् क्षीरनीरवदभेदरूपतस्तिष्ठतोरपि च देहदेहिनोः। भेद एव यदि भेदवरखलं वाहवस्तुपु वदान का कथा॥ २५३ ॥ तप्तोऽहं देहसंयोगाजलं दानलसंगमात् । इह देहं परित्यज्य शीतीभूताः शिवैपिणः ॥ २५४ ॥ अनादिचयसंवद्धो महामोहो हृदि स्थितः । सम्यग्योगेन यैर्वान्तस्तेपामूर्ख विशुञ्चति ॥ २५५ ॥ एकैश्वर्य्यमिहकतामभिमतावाप्तिं शरीरच्युति दुःखं दुष्कृतनिष्कृतिं सुखमलं संसारसौख्यासनम् । सर्वत्यागमहोत्सवव्यतिकरं प्राणव्ययं पश्यताम् किं तयनसुखाय तेन सुखिनः सत्यं सदा साधवः ॥ २५६ ।। आकृष्योग्रतपोबलैरुदयगो (गं) पुच्छं यदानीयतं तत्कर्म स्वयमागतं यदि विदः को नाम खेदस्ततः । यातव्यो विजिगीपुणा यदि भवेदारम्भकोऽरिः स्वयं वृद्धिः प्रत्युत नेतुरप्रतिहता तद्विग्रह का क्षयः ॥ २५७ ॥ एकाकित्वप्रतिज्ञाः सकलमपि समुत्सृज्य सर्व सहत्वात् भ्रान्त्याचिन्त्याः सहायं तनुमिव सहसालोच्य किंचित्सलजाः। सजीभूताः स्वकार्ये तदपगमविधि बद्धपल्यवन्धाः ध्यायन्ति ध्वस्तमोहा गिरिगहनगुहा गुह्यगेहे नृसिंहाः ॥ २५८ । येषां भूपणमङ्गसंगतरजः स्थानं शिलायास्तलम् शय्या शर्करिला मही सुविहितं गेहं गुहा द्वीपिनाम् । आत्मात्मीयविकल्पवीतमत्यनुव्यत्तमोग्रन्थय- स्ते नो ज्ञानधना मनांसि पुनतां मुक्तिस्पृहा निस्पृहाः ॥ २५९ ॥ दूरारूढतपोऽनुभावजनितज्योतिः समुल्लर्पणै- रन्तस्तत्वमदः कथं कथमपि प्राप्य प्रसादं गताः । १ अत्रेवार्थे वाऽव्ययं यथा मणीवोष्ट्रस्येत्यत्र ।

भागानुशासनम् ३ विश्रब्धं परिणी बिलोलनयनरापीयमाना पने धन्याने गमयन्यचिन्त्यचरितर्धाराश्चिरं पासरान् ॥ २६० ॥ येपो युनिरक्ष्यमाणभिदयोराधारमनोरन्तरं गायोमीर विधाय भेदमनयोराराप्त विश्राम्यति । थेरन्तपिनियेशिताः शमधार पहियाप्तयः पो नोऽन पवित्रयन्तु परमाः पादोस्थिताः पशियः ॥ २६१ ॥ यरमाग्नन्मनि संचितं तनुभृता भामाशुभं घा शुभं तवं नदुदीरणादनुभयन् दुःप सुग्णं वागतम् । फुयायः शुभगेय सोप्यभिमतो यस्तूभयोजिराये सर्यारम्भपरिग्राग्रापरित्यागी स वन्यः सताम् ॥ २२ ॥ मुखं दुग्यं पारयादिप पिहितकदिययशात फुरा प्रीसितापः कुरा पति विकएपादि भवेत् । उदासीनतस्य प्रगलितपुराणं न हि नवं समास्यान्यत्येप स्फुरति सुविदग्धो मणिरिव ॥ २६३ ॥ सकलपिमलयोधो पेगेहे पिनियन् ज्यलग इय स पाएं निहुरं भाथिया । पुनरपि सदभाये प्रज्वलरयुज्यला सन् भयति हि यतिसं सर्वथाश्चर्यभूमिः ॥ २६ ॥ गुणी गुणमयमारय नाशनानाशयिष्यते। भराएर हिनियोणं शून्यमन्यर्षिकल्पितम् ॥ २६५॥ गातो नगारो मूरी: कर्या भोका सुखी धुधः । हमानो मरीमुको गत्यो माघमा प्रभुः ॥ २६६ ॥ स्वाधीन्यायमप्यासीसुग्रं यदि तपस्विनाम् । एयाधीनसुग्नसम्पमा न सिन्हा सुखिनः कथम् ॥ २६७ ॥ Pramar mantra १ 'अनुभपेर त्यपि पाठः ।

----- ८४ सनातनजैनग्रन्थमालायाम् इति कतिपयवाचां गोचरीकृत्य कृत्यं चरितमुचितमुच्चैश्चेतसां चित्तरम्यम् । इदमविकलमन्तः सन्ततं चिन्तयन्तः सपदि विपदपेतामाश्रयन्तु श्रियं ते ॥ २६८ ॥ जिनसेनाचार्यपादस्मरणाधीनचेतसाम् । गुणभद्रभदन्तानां कृतिरात्मानुशासनम् ॥ २६९ ॥ ऋपभो नाभिसूनुर्यों भूयास भविकाय वः। यज्ज्ञानसरसि विश्वं सरोजमिव भासते ॥ २७० ॥ इति श्रीगुणभद्रभदन्तकृतमात्मानुशासनन् ।

अथ आचार्यश्रीमदुमास्वामिविरचितं तत्त्वार्थसूत्रं (तत्त्वार्थाधिगममोक्षशास्त्रम् ) (५) सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ तावार्थश्रदान सम्यग्दर्शनम् ॥२॥ तमिलग्गादधिगमाद्वा ॥३॥ जीवाजीवा- स्रववन्धसंवरनिर्जरामोक्षान्तत्वम् ॥ ४ ॥ नामस्थापनाद्रव्यभावत- सन्न्यासः ॥५॥ प्रमाणनयैरधिगमः ॥ ६ ॥ निर्देशस्वामित्वसा- धनाऽधिकरणस्थितिविधानतः ॥७॥ सत्संख्याक्षेत्रस्पर्शनकालान्त- रभावाल्पबहुत्वैश्च ॥ ८ ॥ मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥९॥ तत्प्रमाणे ॥ १०॥ भाये परोक्षम् ॥ ११ ॥ प्रत्यक्षमन्यत् ॥ १२॥ मतिः स्मृतिः संज्ञा चिन्ताऽभिनियोध इत्यनान्तरम् ॥ ॥ १३ ॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥ भवग्रहहापायधा. रणाः ॥१५॥ वहुवहुविधक्षिप्राऽनिःसृताऽनुक्तध्रुवाणां सेतराणाम् ।। १६ ।। अर्थस्य ॥ १७ ॥ व्यञ्जनस्यावग्रहः ॥ १८ ॥ न चक्षुर- निन्दियाभ्याम् ॥ १९ ॥ श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् ॥२०॥ भवप्रत्ययोऽवधिदेवनारकाणाम् ॥ २१ ॥ क्षयोपशमनिमित्तः पड्- विकल्पः शेपाणाम् ॥ २२ ॥ ऋजुविपुलमती मनःपर्ययः ॥ २३ ॥ विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥ विशुद्धिक्षेत्रस्वामिविप- येभ्योऽवधिमनःपर्यययोः ॥२५॥ मतिश्रुतयोर्निवन्धो द्रव्येवस- र्वपर्यायेपु ॥ २६ ॥ रूपिप्ववधेः ॥ २७ ॥ तदनन्तभागे मनःपर्य- यस्य ॥ २८ ॥ सर्वदव्यपर्यायेपु केवलस्य ॥ २९ ॥ एकादीनि भा- ८६ सनातनजैनग्रन्थमालायाम् ज्यानि युगपदेकसिन्नाचतुर्व्यः ॥ ३० ॥ मतिश्रुतावधयो विपर्ययश्च ॥३१॥ सदसतोरविशेपायहच्छोपलब्धेन्मत्तवत् ॥ ३२॥ नैग- मसंग्रहव्यवहारसूित्रशब्दसमभिरुडैवंभूता नयाः ॥ ३३ ॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे प्रथमोऽध्यायः ॥१॥ औपशमिकक्षायिको भावी मिश्रश्च जीवस्य खतत्त्वमौदयिकपा- रिणामिकौ च ॥ १ ॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ सम्यक्त्वचारित्रे ॥३॥ ज्ञानदर्शनदानलाभमोगोपभोग- वीर्याणि च ॥ ४ ॥ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्विनिपञ्च भेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥ ५ ॥ गतिकपायलिङ्गमिथ्यादर्श- नाऽज्ञानाऽसंयताऽसिद्धलेश्याश्चतुश्चतुरुयेकैकैकैकपड्भेदाः ॥ ६ ॥ जीवभन्याऽभव्यत्वानि च ॥७॥ उपयोगो लक्षणम् ॥ ८॥ स द्विविधोऽष्टचतुर्भेदः॥९॥ संसारिणो मुक्ताश्च ॥ १०॥ समनस्काम- नस्काः ॥ ११ ॥ संसारिणस्वसस्थावराः ॥ १२॥ पृथिव्यप्तेजोवायु वनस्पतयः स्थावराः ॥ १३ ॥ द्वीन्द्रियादयस्त्रसाः ॥ १४ ॥ पञ्चे. न्द्रियाणि ॥ १५ ॥ द्विविधानि ॥ १६ ॥ निर्वृत्त्युपकरणे द्रव्येन्द्रि- यम् ॥ १७ ॥ लब्ध्युपयोगी भावेन्द्रियम् ॥ १८ ॥ स्पर्शनरसन. घ्राणचक्षुःश्रोत्राणि ॥ १९॥ स्पर्शरसगन्धवर्णशब्दातदर्थाः ॥२०॥ श्रुतमनिन्द्रियस्य ॥२१॥ वनस्पत्यन्तानामेकम् ॥ २२ ॥ कृमि- पिपीलिकाश्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २३ ॥ संज्ञिनः सम- नस्काः ॥ २४ ॥ विग्रहगतौ कर्मयोगः ॥ २५॥ अनुश्रेणि गतिः ॥ ॥ २६ ॥ अविग्रहा जीवस्य ॥ २७॥ विग्रहवतीच संसारिणः प्रा- कचतुर्व्यः ॥२८॥ एकसमयाऽविग्रहा ॥२९॥ एकं द्वौ त्रीन्वाऽना- हारकः ॥ ३० ॥ सम्मूर्छनगर्भोपपादा जन्म ॥ ३१ ॥ सचित्तशी- तसंवृताः सेतरा मिश्राश्चैकशस्तधोनयः ॥ ३२ ॥ जरायुजाण्डजपो- तानां गर्भः ॥ ३३ ॥ देवनारकाणामुपपादः ॥ ३४ ॥ शेपाणां सम्मूर्छनम् ॥ ३५ ॥ औदारिकवैक्रियिकाहारकतैजसकार्मणानि तत्त्वार्थाधिगममोक्षशास्त्रम् ८७ शरीराणि ॥ ३६ ॥ परंपरं सूक्ष्मम् ॥ ३७॥ प्रदेशतोऽसंख्येयगुणं प्राक्तैजसात् ॥ ३८ ॥ अनन्तगुणे परे ॥३९॥ अप्रतीघाते॥४०॥ अनादिसम्बन्धे च ॥४१॥ सर्वस्य ॥ ४२ ॥ तदादीनि भाज्यानि युगपदेकसिन्नाचतुर्व्यः ॥ ४३ ॥ निरुपभोगमन्त्यम् ॥४४॥ गर्भ- सम्मूर्छनजमाद्यम् ॥ ४५ ॥ औपपादिकं वैक्रियिकम् ॥ ४६ ॥ लब्धिप्रत्ययं च ॥ ४७ ॥ तैजसमपि ॥ ४८ ॥ शुभं विशुद्धमव्या- घाति चाहारकं प्रमत्तसंयतस्यैव ॥ ४९ ॥ नारकसम्मूर्छिनो नपुंस- कानि ॥ ५० ॥न देवाः ॥ ५५ ॥ शेषास्त्रिवेदाः ॥ ५२ ॥ औप- पादिकचरमोत्तमदेहाः संख्येयवर्षायुपोऽनपवायुपः ॥ ५३ ॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः ॥ २॥ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो घनाम्बुवाता- काशप्रतिष्ठाः सप्ताधोऽधः ॥ १॥ तासु त्रिंशत्पञ्चविंशतिपञ्चदश- दशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ॥२॥ नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥ परस्परोदी- रितदुःखाः ॥ ४ ॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः॥५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमु. दाः ॥ ७॥ द्विििवष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥॥ तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥९॥ भरतहैमवतहरिविदेहरम्यकहरण्यवतैरावतवर्षाः क्षेत्राणि । ॥.१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिपधनील- रुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११॥ हेमार्जुनतपनीयवैडूर्यर- जतहेममयाः ॥ १२ ॥ मणिविचित्रपार्था उपरि मूले च तुल्यवि. स्ताराः ।। १३ ॥ पद्ममहापातिगिन्छकेसरिमहापुण्डरीकपुण्डरीका हदास्तेषामुपरि ॥ १४॥ प्रथमो योजनसहनायामस्तदर्द्धविष्कम्भो हदः ॥ १५॥ दशयोजनावगाहः ॥ १६ ॥ तन्मध्ये योजनं पुष्क- ८८ सनातन नग्नन्थमालायाम् रम् ।। १७ ।। तद्द्विगुणद्विगुणा हदाः पुष्कराणि च ॥ १८॥ तन्नि- वासिन्यो देव्यः श्रीहीएतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः स- सामानिकपरिपत्काः ॥ १९॥ गङ्गासिन्धुरोहिद्रोहितास्याहरिदरि- कान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः स- रितन्मध्यगाः ॥ २०॥ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥ २५ ॥ शेषा- स्त्वपरगाः ॥ २२ ॥ चतुर्दशनदीसहसपरिवृत्ता गङ्गासिन्ध्वादयो नद्यः ॥ २३ ॥ भरतः पविंशतिपञ्चयोजनशतविस्तारः पदकोन विंशतिभागा योजनस्य ॥ २४ ॥ तड्विगुणद्विगुणविस्तारावपंधरवर्षा विदेहान्ताः ॥ २५ ॥ उत्तरा दक्षिणतुल्याः॥ २६ ॥ भरतैरावतयो- वृद्धिहासौ पदसमयाभ्यामुत्सप्पिण्यवसप्पिणीभ्याम् ॥२७॥ ताभ्या- मपरा भूमयोऽवस्थिताः ॥ २८ ॥ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरुवकाः ॥ २९ ॥ तथोत्तराः ॥ ३०॥ वि. देहेपु सङ्खयेयकालाः ॥३१॥ भरतस्य विष्कम्भो जम्बूद्वीपस्य नव- : तिशतभागः ॥ ३२ ॥ द्विआंतकीखण्डे ॥३३॥ पुष्करा? च ॥३४॥ प्राङ्मानुषोत्तरान्मनुष्याः ॥ ३५ ॥ आर्या म्लेच्छाश्च ॥ ३६ ॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तरकुरुभ्यः ॥ ३७॥ : नृस्थिती परावरे निपल्योपमान्तमुहूते ॥ ३८ ॥ तिर्यग्योनिजानां च॥ ३९॥ इति तत्त्वार्थाधिगमे मोक्षशास्ने तृतीयोऽध्यायः ॥ ३ ॥ देवाश्चतुर्णिकायाः ॥ १ ॥ आदितस्विषु पीतान्तलेश्याः ॥२॥ दशाप्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥३॥ इन्द्रसामा. निकनायस्त्रिंशपारिपदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकि- ल्विपिकाश्चैकशः ॥ ४॥ त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिप्का: ॥ ५॥ पूर्वयोन्द्राः ॥ ६॥ कायप्रवीचारामा ऐशानात् ॥७॥ शेपाः स्पर्शरूपशब्दमनःप्रवीचाराः॥ ८॥ परेऽप्रवीचाराः ॥ ९ ॥ भवनवासिनो सुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिकमा

तत्त्वार्थाधिगममोक्षशास्त्रम्
राः ॥ १० ॥ व्यन्तरा:किन्नरकिम्पुरुपमहोरगगन्धर्वयक्षराक्षस-
भूतपिशाचाः ॥ ११ ॥ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्र-
कीर्णकतारकाश्च ॥ १२ ॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥
तत्कृतः कालविभागः ॥१४॥ बहिरवस्थिताः ॥ १५ ॥ वैमानिका:
॥ १६ ॥ कल्पोपपत्राः कल्पातीताश्च ॥ १७ ॥ उपर्युपरि ॥ १८ ॥
सौधम्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहा
शुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु
विजयवैजयन्तजयन्तापराजितेपु सर्वार्थसिद्धौ च ॥१९॥ स्थितिप्र-
भावसुखद्युतिलेश्या विशुद्धीन्द्रियावधिविपयतोऽधिकाः ॥२०॥
गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१॥ पीतपद्मशुक्ललेश्या
द्वित्रिशेषेषु ॥ २२ ॥ प्राग्ग्रैवेयकेभ्यः कल्पाः ॥ २३ ॥ ब्रह्मलोका-
लया. लौकान्तिकाः ॥ २४ ॥ सारस्वतादित्यवहथरुणगर्दतोयतुपि-
ताव्याबाधारिष्टाश्च ॥ २५ ॥ विजयादिपु द्विचरमाः ॥ २६ ॥
भोपपादिकमनुष्येभ्यः शेषास्तियग्योनयः ॥ २७ ॥ स्थितिरसुरना-
गसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमा हीनमिताः ॥ २० ॥
सौधर्मेशानयोः सागरोपमे अधिके ॥२९॥ सानत्कुमारमाहेन्द्रयोः
सप्त ॥ ३० ॥ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥
॥ ३१ ॥ आरणाच्युतादूमकैकन नवसु अवेयकेषु विजियादिषु
सर्वार्थसिद्धौ च ॥३२ ॥ अपरा पल्योपममधिकम् ॥ ३३ ॥ परतः
परतः पूर्वापूर्वानन्तराः ॥ ३४ ॥ नारकाणां च द्वितीयादिषु ॥३५॥
दशवर्षसहस्राणि प्रथमायाम् ॥ ३६ ॥ भवनेषु च ॥३७ ॥ व्यन्त-
राणां च ॥ ३८ ॥ परा पल्योपममधिकं ॥ ३९ ॥ ज्योतिप्काणां
च॥४०॥ तदष्टभागोऽपरा ॥४१॥ लौकान्तिकानामष्टौ साग-
रोपमाणि सर्वेपाम् ॥ ४२ ॥
इति तत्त्वार्थाधिगगे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥४॥
अजीवकायाधधिकिाशपुद्गलाः ॥ ५॥ द्रव्याणि ॥२॥

सनानननन्यनारयान् जीवाद ॥३॥ नित्यावयितान्यल्पानि ॥ ४ ॥ रूपिना पहलाः ॥५॥ ना नासानादेकद्रव्याणि ॥ ६॥ निष्क्रियागि ॥४॥ असत्ययाः प्रदेशाः धधिम्कनोवानान् ॥ ८॥ नाकाशला- नन्ताः ॥ ९॥ सङ्ख्ययासयंचा पुतलानान् ॥ १०॥ नागोः ॥ . ॥1॥ लोचानाशेऽवगाहः || १२॥ धन्नांधन्नयोः हाले। एकपडेशादियु भाज्यः पुद्गलानाम् ॥ १४ ॥ असहयभागादिश जीवानान् ॥ १५ ॥ प्रदेशसंहारविसपास्यां प्रदीपबद् ॥ ६॥ गतिखित्युपग्रहों धम्मांधन्योत्पाः Isst आकाशलाबगाहः ॥ १८॥ शरीरवाइनमागापानाः पुदलानाम् ॥ १९॥ उन्ह:- खजीवितमरणोपग्रहाश ॥ २० ॥ परस्परोपग्रहो जीवानान् ॥२॥ वर्जनापरिणामक्रियापरवाररवंत्रज्ञालस ॥२२॥ सरलग- न्धवर्णवन्तः पुशलाः ॥ २३ ॥ शब्दबन्दसौदन्यत्सोल्यसंस्थानने- दतनडामाऽऽतपोद्योतदन्तश्च ॥ २४ ॥ अणवस्कन्धाळ ॥२५॥ भेदलवातेन्य उत्पद्यन्ते ॥ २६ ॥ भदावणुः ॥ २७ ॥ दसट्टा- तान्यां चानुपः ॥ २८ ॥ लद्रव्यलक्षणम् ॥ २९ उत्साहव्ययमा न्ययुनं सत् ॥ ३० ॥ नावाव्ययं नित्यन् ॥३३॥ निशान- पितसिदः।३२॥ निघल्लवाइन्धः ॥३३॥ न जवन्यगु- मानान् ।। ३८ ॥ गुणशान्ये सहशानात् ॥३५॥ इयधिकादिए। णानां ॥३६ ॥ बन्धेऽधिक पारिजानि च ॥ ३० ॥ गुरुप- वयवद्रव्यन् ॥ ३८॥ कालम ॥ ३९॥ लोऽदन्तसमयः॥४॥ . इच्याघ्रया नितुंगा गुणाः ॥ १०॥ तनावः परिजानः ॥४॥ इति तत्वादिने नोकशाले मनोन्याय::::: जायवाचनानन्नयोगः ॥ ॥सभातवः ॥२॥ शुनः गुग्य- सागुनः पापत्य ॥३॥ सपायानपाययोः सान्यायव्याप ययोः ॥१॥ इन्द्रियरुपायावतन्न्यिाः पञ्चवनुःपञ्चपञ्चविंशतिः संल्याः पूर्वस नेवाः ॥५॥तीनन्दज्ञाताज्ञातनाबाधिकरगवीर्य- तत्त्वार्थाधिगममोक्षशास्त्रम् विशेपेभ्यस्तद्विशेषः ॥ ६ ॥ अधिकरणं जीवाऽजीवाः ॥ ७ ॥ आधं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकपायविशेषैस्त्रिस्त्रिस्त्रिश्च तुश्चैकशः ॥ ८॥ निर्वर्तनानिक्षेपसंयोगनिसर्गाद्विचतुर्द्वित्रिभेदाः परम् ॥ ९॥तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाताज्ञानदर्श- नावरणयोः ॥ १० ॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मप- रोभयस्थानान्यसद्वेधस्य ॥ ११॥ भूतवृत्यनुकम्पादानसरागसंयमा- दियोगः क्षान्तिशौचमिति सद्वेद्यस्य ॥ १२ ॥ केवलिश्रुतसङ्घधर्म- देवावर्णबादो दर्शनमोहस्य ॥ १३ ॥ कपायोदयातीव्रपरिणाम- श्चारित्रमोहस्य ॥ १४ ॥ बहारम्भपरिग्रहत्वं नारकस्यायुषः ॥१५॥ माया तैर्यग्योनस्य ॥१६॥ अल्पारम्भपरिग्रहत्वं मानुषस्य ॥१७॥ स्वभावमार्दवं च ॥१८॥ निःशीलवतत्वं च सर्वेपाम् ॥ १९ ॥ सरागसंयमसंयमासंयमाऽकामनिर्जराबालतपांसि देवस्य ॥ २० ॥ सम्यक्त्वं च ॥ २१॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ ॥ २२ ॥ तद्विपरीतं शुभस्य ॥ २३ ॥ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यका- परिहाणिमार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥ ॥ २४ ॥ परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गो- त्रस्य ॥ २५ ॥ तद्विपर्ययौ नीचैर्वृत्यनुत्सेको चोत्तरस्य ॥ २६ ॥ विघ्नकरणमन्तरायस्य ॥ २७ ॥ इति तस्वार्थाधिगमे मोक्षशास्त्रे पष्ठोऽध्यायः ॥ ६ ॥ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतितम् ॥ १ ॥ देशसर्व- तोऽणुमहती ॥२॥ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥३॥ वाड्मनो- गुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥ ४ ॥ क्रोधलोभभीरत्वहास्यप्रत्याख्यानान्यनुवीचीभापणं च पञ्च ॥ ५ ॥ शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधाविसंवा- ९२ सनातनजैनग्रन्थमालायाम् . दाः पञ्च ॥ ६ ॥ खीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरता- नुसरणवृप्येप्टरसस्वशरीरसंस्कारत्यागाः पञ्च ॥ ७ ॥ मनोज्ञामनो- ज्ञेन्द्रियविपयरागद्वेपवर्जनानि पञ्च ॥ ८॥ हिंसादिविहामुत्रापा- यावद्यदर्शनम् ॥९॥ दुःखमेव वा॥१०॥ मैत्रीप्रमोदकारुण्यमा- ध्यस्थानि च सत्वगुणाधिकल्श्यिमानाविनयेषु ॥ ११॥ जगत्का- यस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ प्रमत्तयोगामाणव्यपरो.. पणं हिंसा ॥ १३ ॥ असदभिधानमनृतम् ॥ १४ ॥ अदत्तादानं स्तेयम् ॥ १५ ॥ मैथुनमब्रह्म ॥ १६ ॥ मूळ परिग्रहः ॥ १७ ॥ निःशल्यो व्रती ॥१८॥ भगार्यनगारश्च ॥१९॥अणुव्रतोऽगारी॥२०॥ दिग्देशानर्थदण्डविरतिसामायिकमोपधोपवासोपभोगपरिभोगपरि- माणातिथिसंविभागवतसम्पन्नश्च ॥ २१ ॥ मारणान्तिकोसल्ले-' खनां जोपिता ॥ २२ ॥ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्त- वाःसम्यग्दृष्टेरतीचाराः॥२३॥वतशीलेषु पञ्च पञ्च यथाक्रमम्॥२४॥ वन्धवधच्छेदातिभारारोपणानपाननिरोधाः ॥२५॥ मिथ्योपदेशर- होभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥ २६ ॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्र- तिरूपकव्यवहाराः ॥ २७ ॥ परविवाहकरणेत्वरिकापरिगृहीतापरि- गृहीतागमनानङ्गक्रीडाकामतीवाभिनिवेशाः ॥ २८ ॥ क्षेत्रवास्तुहि- रण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥२९॥ ज;-, धस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ॥ ३०॥ सानयन- प्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ ३१ ॥ कन्दर्पकौत्कुच्यमौ- खऱ्यांसमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥ ३२ ॥ योग- दुःप्रणिधानानादरमृत्यनुपस्थानानि ॥ ३३ ॥ अप्रत्यवेक्षिताऽप्रमा. जिंतोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥ २४ ॥ सचित्तसम्बन्धसन्मिश्राभिषवदुःपक्काहाराः ॥ ३५ ॥ सचित्तनिक्षे. पापिधानपरव्यपदेशमात्सर्यकालातिकमाः ॥ ३६॥ जीवितमर- - तत्त्वार्थाधिगममोक्षशास्त्रम् १३ - णाशंसामित्रानुरागसुखानुबन्धनिदानानि ॥ ३७ ॥ अनुग्रहार्थ खस्यातिस! दानम् ॥ ३८ ॥ विधिद्रव्यदातृपात्रविशेषात्त- द्विशेषः ॥ ३९॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे सप्तमोऽध्यायः ॥ ७ ॥ मिथ्यादर्शनाविरतिप्रमादकपाययोगा बन्धहेतवः॥१॥ सक- पायत्वाजीवः कर्मणो योग्यान्पुद्गलानादत्ते स बन्धः॥२॥ प्रकृ- तिस्थित्यनुभागप्रदेशास्तद्विधयः ॥ ३ ॥ आयो ज्ञानदर्शनावरणवे- दनीयमोहनीयायुर्नामगोत्रान्तरायाः ॥ ४॥ पञ्चनवद्ध्यष्टाविंशति चतुर्द्विचत्वारिंशविपञ्चभेदायथाक्रमम् ॥ ५॥ मतिश्रुतावधिमनः पर्ययकेवलानाम् ॥ ६ ॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानि- दामचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥ ७ ॥ सदसद्वद्ये ॥८॥ दर्श- नचारित्रमोहनीयाकपायकषायवेदनीयाख्यास्त्रिद्विनवषोडशमेदाः । सम्यक्त्वमिथ्यात्वतदुभयान्यऽकपायकपायौ हास्यरत्यरतिशोक- भयजुगुप्सास्त्रीपुनपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानपत्याख्यान- संज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ॥ ९॥ नारकतैर्य- ग्योनमानुषदैवानि ॥१०॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्ध- नसचातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपरघा- तातपोद्योतोच्छासविहायोगतयः प्रत्येकशरीरत्रसशुभगसुखरशुभ- सूक्ष्मपर्याप्तिस्थिरादेययश कीर्तिसेतराणि तीर्थकरत्वं च ॥ ११ ॥ उचैनीचैश्च ॥ १२॥ दानलाभभोगोपभोगवीर्याणाम् ॥ १३ ॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ १४ ॥ सप्ततिर्मोहनीयस्य ॥१५॥विंशतिर्नामगोत्रयोः॥ ॥ १६॥ त्रयस्त्रिंशत्सागरोपमाण्यायुपः॥ १७ ॥ अपरा द्वादशमु- हूर्ता वेदनीयस्य ॥ १८॥ नामगोत्रयोरष्टौ ॥ १९॥ शेषाणामन्त- मुहूर्ता.॥ २० ॥ विपाकोऽनुभवः ।। २१ ॥ स यथानाम ॥ २२ ॥ ततश्च निर्जरा ॥ २३॥नामप्रत्ययाः सर्वतो योगविशेपासूक्ष्मैकक्षे- सनातनजैनग्रन्थमालायाम् त्रावगाह स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २४ ॥ सद्वे- घःशुभायुर्नामगोत्राणि पुण्यम् ॥ २५॥ मतोऽन्यत्पापम् ॥ २६ ॥ इति तत्त्वार्थाधिगमे मोक्षशालेऽटमोऽध्यायः॥ ८॥ आनवनिरोधःसंवरः॥ १॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीप- हजयचारित्रैः ॥ २॥ तपसा निर्जरा च ॥३॥ सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ ईOभाषेपणादाननिक्षेपोत्सर्गाः समितयः ॥ ५॥ उत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ।। ६ । अनित्याशरणसंसारकत्वान्यत्वाशुच्यानवसंवरनिर्ज- रालोकवोधिदुर्लभधर्मस्वाख्याततत्त्वानुचिन्तनमनुप्रेक्षाः ॥ ७ ॥ मार्गाच्यवननिर्जराथ परिपोढच्याः परीपहाः ॥८॥ क्षुत्पिपासा- शीतोष्णदंशमसकनाट्यारतिस्त्रीचोनिपधाशय्याक्रोशवधयाना- लाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानाऽदर्शनानि ॥९॥ सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ।। १०॥ एकादश जिने ॥ ११॥ वादरसाम्पराये सर्वे ॥१२॥ ज्ञानावरणे प्रज्ञाज्ञाने ॥१३॥. दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४॥ चारित्रमोहे नाझ्यार- तिस्त्रीनिषद्याक्रोशयाच्जासत्कारपुरस्काराः ॥ १५॥ वेदनीये शेपाः ॥ १६ ॥ एकादयो भाज्या युगपदेकसिनेकोनविंशतिः ॥ १७ ॥ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसापराययथाख्यात- मिति चारित्रम् ॥१८॥ अनशनावमौदर्यव्रत्तिपरिसङ्ख्यानरसपरि- त्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः ॥ १९ ॥ प्रायश्चित्तवि- नयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥ नवचतुर्दशप- चद्विभेदा यथाक्रम प्रारध्यानात् ॥ २१ ॥ आलोचनप्रतिक्रमणत दुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥ २२ ॥ ज्ञानदर्श- नचारित्रोपचाराः ॥ २३ ॥ आचार्योपाध्यायतपस्विशैक्ष्यग्लानगण- कुलसङ्घसाधुमनोज्ञानाम् ॥ २४ ॥ वाचनापृच्छनानुप्रेक्षानायधर्मों पदेशाः ॥ २५ ॥ बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ उत्तमसंहननस्सै-

तत्त्वार्थाधिगममोक्षशास्त्रम्
९५
काग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् ॥ २७ ॥ आर्तरौद्रधर्म्य-
शुक्लानि ॥ २८ ॥ परे मोक्षहेतू ॥ २९ ॥ भर्तममनोज्ञस्य सम्प्र-
योगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥३०॥ विपरीतं मनोज्ञस्य
॥३५॥ वेदनायाश्च ॥ ३२ ॥ निदानं च ॥३३॥ तदविरतदेश-
विरतप्रमत्तसंयतानाम् ॥३४॥ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्र-
मविरतदेशविरतयोः ॥ ३५ ॥ आज्ञापायविपाकसंस्थानविचयाय-
धर्म्यम् ॥ ३६ ॥ शुक्ले चाये पूर्वविदः ॥ ३७॥ परे केवलिनः ॥
॥३८॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्ती-
नि॥३९॥त्र्येकयोगकाययोगायोगानाम् ॥४०॥ एकाश्रये सवित-
कवीचारे पूर्वे ॥४१॥ अवीचारं द्वितीयम् ॥ ४२ ॥ वितर्कः श्रुतम्
॥ ४३ ॥ वीचारोऽर्थव्यानयोगसंक्रान्तिः ॥४४॥ सम्यग्दृष्टि-
श्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्ष-
पकक्षीणमोह जिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४५ ॥ पुलाक-
वकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४६ ॥ संयमश्रुतप्रति-
सेवनातीर्थ लिङ्गलेश्योपपादस्थानविकल्पतः साध्याः॥ ४७ ॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः ॥ ९ ॥
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥ १ ॥
वन्धहेत्वभावनिर्जराभ्यां कृत्स्रकर्मविप्रमोक्षो मोक्षः ॥२॥ औप
शमिकादिभव्यत्वानां च ॥३॥ अन्यत्रकेवलसम्यक्त्वज्ञानदर्शन-
सिद्धत्वेभ्यः ॥ ४॥ तदनन्तरमूर्दू गच्छन्त्यालोकान्तात् ॥५॥
पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथा गतिपरिणामाञ्च ॥६॥ आविद्ध-
कुलालचक्रवद्व्यपगतलेपालाम्बूवरेण्डबीजवदग्निशिखावच्च ॥७॥
धर्मास्तिकायाऽभावात् ॥ ८॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्ये-
। कबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ॥९॥
इति तत्त्वार्थाधिगमे मोक्षशास्ने दशमोऽध्यायः ॥ १०॥

सनातननग्रन्थमालायाम् अक्षरमात्रपदस्वरहीनं व्यानसन्धिविवर्जितरेफम् । साधुमिरन मम क्षन्तव्यं को न विमुह्यति शास्त्रसमुद्रे ॥१॥ दशाध्याये परिच्छिन्ने तत्त्वार्थ पठिते सति । फलं स्यादुपवासस्य भापितं मुनिपुङ्गवैः ॥२॥ इति तत्त्वार्थसूत्रमपरनामतत्त्वार्थाधिगममोक्षशासं समाप्तम् ।

नमः सिद्धेभ्यः श्रीमदमृतचन्द्रसूरिकृतः तत्त्वार्थसारः जयत्यशेषतत्त्वार्थप्रकाशिप्रथितश्रियः । मोहध्वान्तौघनिभैदि ज्ञानज्योतिर्जिनेशिनः ॥ १ ॥ अथ तत्वार्थसारोऽयं मोक्षमार्गकदीपकः । मुमुक्षूणां हितार्थाय प्रस्पष्टमभिधीयते ॥२॥ स्यात्सम्यग्दर्शनज्ञानचारित्रत्रितयात्मकः । मार्गो मोक्षस्य भव्यानां युक्त्यागमसुनिश्चितः ॥३॥ श्रद्धानं दर्शनं सम्यग्ज्ञानं स्यादवबोधनम् । उपेक्षणं तु चारित्रं तत्त्वार्थानां सुनिश्चितः ॥ ४ ॥ श्रद्धानाधिगमोऽपेक्षा विषयत्वमिता ह्यतः। पोध्यामागेवतत्त्वार्था मोक्षमार्ग बुभुत्सुभिः ॥५॥ जीवोऽजीवानवौ बन्धः संवरो निर्जरा तथा । मोक्षश्च सप्त तत्वार्थी मोक्षमागैषिणामिमे ॥ ६ ॥ उपादेयतया जीवोऽजीवो हेयतयोदितः। हेयस्यासिनुपादानहेतुत्वेनासवः स्मृतः ॥ ७ ॥ हेयोपादानरूपेण बन्धः स परिकीर्तितः। संवरो निर्जरा हेयहानहेतुतयोदितौ । हेयप्रहाणरूपेण मोक्षो जीवस्य दर्शितः ॥८॥ (षट्पदम् ) -

सनातनजैनग्रन्थमालायाम्
तत्त्वार्था खल्वमी नामस्थापनाद्रव्यभावत्तः ।
न्यस्थमाना नयादेशात्प्रत्येकं स्युश्चतुर्विधाः ॥९॥
या निमित्तान्तरं किञ्चिदनपेक्ष्य विधीयते ।
द्रव्यस्य कस्यचित् संज्ञा तमाम परिकीर्तितम् ॥ १०॥
सोऽयमित्यक्षकाष्ठादेः संबन्धेनान्यवस्तुनि ।
यद्यवस्थापनामानं स्थापना साभिधीयते ॥ ११ ॥
भाविनः परिणामस्य यत्प्राप्ति प्रति कस्यचित् ।
स्थागृहीताभिमुख्यं हि तव्यं युवते जिनाः ॥ १२ ॥
वर्तमानेन यतेन पर्यायेणोपलक्षितम् ।
द्रव्यं भवति भावं तं वदन्ति जिनपुङ्गवाः ॥ १३ ॥
तत्त्वार्थाः सर्व एवैते सम्यग्बोधप्रसिद्धये ।
प्रमाणेन प्रमीयन्ते नीयन्ते च नयैस्तथा ॥ १४ ॥
सम्यग्ज्ञानात्मकं तत्र प्रमाणमुपवर्णितम् ।
तत्परोक्षं भवत्येकं प्रत्यक्षमपरं पुनः ॥ १५॥
समुपात्तानुपात्तस्य
प्राधान्येन परस्य यत् ।
पदार्थानां परिज्ञानं तत्परोक्षमुदाहृतम् ॥ १६ ॥
इन्द्रियानिन्द्रियापेक्षमुक्तमव्यभिचारि च ।
साकारग्रहणं यत्स्यात्तत्प्रतक्षं प्रचक्ष्यते ॥ १७॥
सम्यग्ज्ञानं पुनः स्वार्थव्यवसायात्मकं विदुः ।
मतिश्रुतावधिज्ञानं मनःपर्ययकेवलम् ॥ १८ ॥
स्वसंवेदनमक्षोत्थं विज्ञानं सरणं तथा ।
प्रत्यभिज्ञानमूहश्च स्वार्थानुमितिरेव वा ॥ १९ ॥
बुद्धिर्मेधादयो याश्च मतिज्ञानभिदा हि ताः ।
इन्द्रियानिन्द्रियेभ्यश्च मतिज्ञानं प्रवर्तते ॥२०॥
अवग्रहस्ततस्त्वीहा ततोऽवायोऽथ धारणा ।
बहोर्वहुविधस्थापि क्षिप्रस्थानिःसृतस्य च ॥ २१ ॥

तत्त्वार्थसारः
अनुक्तस्य ध्रुवस्येति सेतराणां तु ते मताः ।
व्यकस्यार्थस्य विज्ञेयाश्चत्वारोऽवग्रहादयः ॥ २२॥
ध्यानस्य तु नेहाचा एक एव ह्यवग्रहः ।
अप्राप्यकारिणी चक्षुर्मनसी परिवर्ण्य सः ॥ २३ ॥
चतुर्भिरिन्द्रियैरन्यैः क्रियते प्राप्यकारिभिः।
मतिपूर्व श्रुतं प्रोक्तभावस्पष्टार्थतर्कणम् ॥ २४ ॥
तत्पर्यायादिभेदेन व्यास्थाविंशतिधा भवेत् ।
परापेक्षां विना ज्ञानं रूपिणां भणितोऽवधिः ॥ २५॥
अनुगोऽनानुगामी च तदवस्थोऽनवस्थितिः ।
वर्द्धिस्नुहीयमानश्च पविकल्पः स्मृतोऽवधिः ॥ २६ ॥
देवानां नारकाणां च स भवप्रत्ययो भवेत् ।
मानुपाणां तिरश्चां च क्षयोपशमहेतुकः ॥ २७ ॥
परकीयमनःस्वार्थज्ञानमक्षानपेक्षया ।
स्थान्मनःपर्ययो भेदौ तस्यर्जुविपुले मती ॥ २८ ॥
विशुद्ध्यप्रतिपाताभ्यां विशेषश्चिन्त्यतां तयोः ।
स्वामिक्षत्रविशुद्धिभ्यो विषयाच सुनिश्चितः ॥ २९ ॥
साद्विशेषोऽवधिज्ञानमनःपर्ययवोधयोः ।
असहायं स्वरूपोत्थं निरावरणमक्रमम् ॥ ३० ॥
घातिकार्मक्षयोत्पन्नं केवलं सर्वभावगम् ।
मतेविषयसंबन्धः श्रुतस्य च निबुध्यताम् ॥ ३१ ॥
भसर्वपर्ययेष्वत्र सर्वगव्येषु धीधनैः।
असर्वपर्ययेप्विष्टो रूपिद्रव्येपु सोऽवधिः ॥ ३२ ॥
स मनःपर्ययस्येप्टोऽनन्तांशेऽवधिगोचरात् ।
केवलस्याखिलद्रव्यपर्यायेषु स सूचितः ॥ ३३ ॥
जीवे युगपदेकसिनेकादीनि विभावयेत् ।
ज्ञानानि चतुरन्तानि न तु पञ्च कदाचन ॥ ३४॥

१००
सनातननग्रन्थमालायाम्
मतिः श्रुतावधी चैव मिथ्यात्वसमवायिनः ।
मिध्याज्ञानानि कथ्यन्ते न तु तेषां प्रमाणता ॥३५॥
अविशेषात्सदलतोरुपलव्धेर्यदृच्छया।
यत उन्मत्तवज्ज्ञानं न हि मिथ्यादृशोऽअसा ॥ ३६॥
वस्तुनोऽनन्तधर्मस्य प्रमाणं व्यञ्जितात्मनः ।
एकदेशस्य नेता यः स नयोऽनेकधा मतः ॥ ३७ ॥
द्रव्यपर्यायरूपत्य सकलत्यापि वत्तुनः ।
नयावंशेन नेतारौ द्वौ द्रव्यपर्ययाधिकौ ॥ ३८ ॥
अनुप्रवृत्तिः सामान्यं द्रव्यं चैकार्थवाचकाः ।
नयस्तद्विपयो यः स्याज्ञयो द्रव्याथिको हि सः ॥ ३९
व्यावृत्तिश्च विशेपश्च पर्यायश्चैकवाचकाः ।
पर्यायविषयो यस्तु स पर्यायार्थिको मतः ॥ ४०॥
शुद्धाशुद्धार्थसंग्राही त्रिधा व्यार्थिको नयः।
नैगमसंग्रहश्चैव व्यवहारश्च संस्मृतः ॥ ११ ॥
चतुर्धा पर्यायार्थः त्यादृजुशव्दनयाः परे।
उत्तरोत्तरमनपा सूक्ष्मसूत्रार्थभेदतः।
शब्दः लमभिरूडैवंभूतो ते शब्दभेदगाः ॥ ४२ ॥
(पटपदकं)
चत्वारोऽर्थनया आद्यास्त्रयः शब्दनयाः परे।
उत्तरोत्तरमत्रैषां सूक्ष्मगोचरता मता ॥ १३ ॥
अर्थसंकल्पमात्रय ग्राहको नैगमो नयः।
प्रस्थोदनादिजस्तस्य विषयः परिकीर्तितः ॥ १४ ॥
भेदे नैक्यमुपानीय स्वजातेरविरोधतः ।
समस्तग्रहणं यस्मात्स नयः संग्रहो मतः ॥ ४५ ॥
संग्रहण गृहीतानामर्थानां विधिपूर्वकः ।
व्यवहारो भवेद्यसाद्व्यवहारनपस्तु सः॥ ४६ ॥

तत्त्वार्थसारः १०१ ऋजुसूत्रः स विज्ञेयो येन पर्यायमात्रकम् । वर्तमानैकसमयविषयं परिगृह्यते ॥ ४७ ॥ लिङ्गसाधनसंख्यानां कालोपगृहयोस्तथा । व्यभिचारनिवृत्तिः स्याद्यतः शब्दनयो हि सः॥ १८ ॥ ज्ञेयः समभिरूढोऽसौ शव्दो यद्विषयः स हि । एकस्मिन्नभिरूढार्थे नानार्थान्समतीत्ययः ॥ ४९ ॥ शब्दो येनात्मनाभूतस्तेनैवाध्यवसाययेत् । यो नयो मुनयो मान्यास्तमेवं भूतमभ्यधुः ॥ ५० ॥ एते परस्परापेक्षाः सम्यग्ज्ञानस्य हेतवः । निरपेक्षा पुनः संतो मिथ्याज्ञानस्य हेतवः ॥ ५१ ॥ आर्या छन्दः। . . - निर्देशः स्वामित्वं साधनमधिकरणमपि च परिचिन्त्यम् । स्थितिरथविधानमिति पद्व्यानामधिगमोपायाः ॥५२॥ ' अथ सत्संख्याक्षेत्रस्पर्शनकालान्तराणि भावश्च । अल्पबहुत्वं चाष्टावित्यपरेऽप्यधिगमोपायाः ॥ ५३॥ शालिनी छन्दः। सम्यग्योगो मोक्षमार्ग प्रपित्सुयस्ता नामस्थापनाद्व्यभावैः । स्थाद्वादस्थां प्राप्य तैस्तैरुपायैः प्राग्जानीयात्सप्ततत्वी क्रमेण ॥५॥ इति सप्ततत्त्वीपीठिकावन्धः ॥१॥ अनन्तानन्तजीवानामेकैकस्य प्ररूपकान् । प्रणिपत्य जिनान्मूा जीवतत्त्वं प्ररूप्यते ॥ १॥ भन्यासाधारणा भावाः पञ्चौपशमिकादयः। ख तत्त्वं यस्य तत्त्वस्य जीवः स व्यपदिश्यते ॥२॥ स्थादौपशमिको भावः क्षायौपशमिकस्तथा । क्षायिकश्चाप्यौदयिकस्तथान्यः पारिणामिकः ॥ ३ ॥ भेदौ सम्यक्त्वचारित्रे द्वाचौपशमिकस्य हि । L १०२ सनातनजैनग्रन्थमालायाम् अज्ञानत्रितयं ज्ञानचतुष्कं पञ्चलब्धयः ॥ ४ ॥ देशसंयमसम्यक्त्वे चारित्रं दर्शनत्रयम् । क्षायोपशमिकस्यैते भेदा अष्टादशोदिताः॥ ५ ॥ सम्यक्त्वज्ञानचारित्रवीर्यदानानि दर्शनम् । भोगोपभोगौ लाभश्च क्षायिकस्य नवोदिताः ॥ ६ ॥ चतस्रो गतयो लेश्याः पट् कपायचतुष्टयम् । वेदा मिथ्यात्वमज्ञानमसिद्धोऽसयंतस्तथा । इत्यौदयिकभावस्य स्युर्भेदा एकविंशतिः ॥ ७ ॥ (पटपदं) जीवत्वं चापिभव्यत्वमभव्यत्वं तथैव च । पारणामिकभावस्य भेदत्रितयमिप्यते ॥ ८॥ अनन्यभूतस्तस्य स्यादुपयोगो हि लक्षणम् । जीवोऽभिव्यज्यते तसादवष्टब्धोऽपि कर्मभिः ॥९॥ साकारश्च निराकारो भवति द्विविधश्च सः । साकारं हि भवेज्ज्ञानं निराकारं तु दर्शनम् ॥१०॥ कृत्वा विशेषं गृह्णाति वस्तुजातं यतस्ततः । साकारमिप्यते ज्ञानं ज्ञानयाथाम्यवेदिभिः ॥११॥ यद्विशेपमकृत्वैषं गृह्णीते वस्तुमानकम् । निराकारं ततः प्रोक्तं दर्शनं विश्वदर्शिभिः ॥ १२ ॥ ज्ञानमष्टविधं ज्ञेयं भतिज्ञानादिभेदतः । चक्षुरादिविकल्पाञ्च दर्शनं स्थाचतुर्विधम् ॥ १३ ॥ संसारिणश्व मुक्ताश्च जीवास्तु द्विविधा स्मृताः । लक्षणं तन मुक्तानामुत्तरत्र प्रचक्ष्यते ॥ १४ ॥ सांप्रतं तु प्ररूप्यन्ते जीवाः संसारवर्तिनः। जीवस्थानगुणस्थानमार्गणादिषु तत्त्वतः ॥ १५ ॥ मिथ्याक्सासनो मिश्रो संयतो देशसंयतः।

तत्त्वार्थसार: १०३ ३ . प्रमत्त इतरोऽपूर्वानिवृत्तिकरणौ तथा ॥ १६ ॥ सूक्ष्मोपशान्तसंक्षीणकपाया योग्ययोगिनौ । गुणस्थानविकल्पाः स्युरिति सर्वे चतुर्दश ॥ १७ ॥ मिथ्यादृष्टि वेजीवो मिथ्यादर्शनकर्मणा । उदयेन पदार्थानामश्रद्धानं हि यत्कृतम् ॥ १८॥ मिथ्यात्वस्योदयाभावे जीवोऽनन्तानुवन्धिनाम् । उदयेनास्तसम्यक्त्वः स्मृतः सासादनाभिधः ॥ १९॥ सम्यग्मिथ्यात्वसंज्ञायाः प्रकृतेरुदयाद्भवेत् । मिश्रभावतया सम्यग्मिथ्यादृष्टिः शरीरवान् ॥ २०॥ वृत्तमोहस्य पाकेन जनिताविरतिर्भवेत् । जीवः सम्यक्त्वसंयुक्तः सम्यग्दृष्टिरसंयतः ॥ २१ ॥ 'पाकक्षयात्कपायाणामप्रत्याख्यानरोधिनाम् । विरताविरतो जीवः संयतासंयतः स्मृतः ॥ २२ ॥ प्रमत्तसंयतो हि स्यात्प्रत्याख्याननिरोधिनाम् । । उदयक्षयतः प्रातः संयमाई प्रमादवान् ॥ २३ ॥ संयतो ह्यप्रमत्तः स्यात्पूर्ववत्प्राप्तसंयमः । प्रमादविरहाद्वृत्तेर्वृत्तिमस्खलितां दधत् ॥ २४ ॥ ! अपूर्वकरणं कुर्वन्नपूर्वकरणो यतिः । शमकः क्षपकश्चैव स भवत्युपचारतः ॥२५॥ कर्मणां स्थूलभावे न शमकः क्षपकस्तथा । अनिवृत्तिरनिर्वृत्तिः परिणामवशाभवेत् ॥ २६ ॥ सूक्ष्मत्वेन कषायाणां शमनाक्षपणात्तथा । स्यात्सूक्ष्मसापरायो हि सूक्ष्मलोभोदयानुगः ॥ २७ ॥ उपशान्तकपायः स्यात्सर्वमोहोपशान्तितः । भवेक्षीणकपायोऽपि मोहस्यात्यन्तसंक्षयात् ॥ २८॥ उत्पन्न केवलज्ञानो घातिकर्मोदयक्षयात् 1 . .

१०४ सनातनजैनग्रन्थमालायाम् सयोगश्चाप्ययोगश्च स्यातां केवलिनावुभौ ।। २९ ।। एकाक्षा वादराः सूक्ष्मा ब्यक्षाद्या विकलास्त्रयः । संज्ञिनोऽसंजिनश्चैव द्विविधा पझेन्द्रियास्तथा ॥३०॥ पर्याप्ताः सर्व एवैते सर्वेऽपर्याप्तकान्तथा। जीवस्थानविकल्पाः स्युरिति सर्वे चतुर्दशः ॥ ३१ ॥ आहारदेहकरणप्राणापानविभेदतः । वचोमनोविभेदाच्च सन्ति पर्याप्तयो हि पद ॥ ३२ ॥ एकाक्षेषु चतस्रः स्युः पूर्वाः शेषे पञ्च ताः । सर्वा अपि भवन्त्येताः संक्षिपञ्चेन्द्रियेषु तत् ॥ ३३ ॥ पञ्चेन्द्रियाणि वाकायमानसानां बलानि च । प्राणापानस्तथायुश्च प्राणाः स्युः प्राणिनां दश ॥ ३४ ॥ कायाक्षायूंपि सर्वेषु पर्याप्तेष्वान इष्यते । वाग्ब्यक्षादिषु पूर्णेपु मनः पर्याप्तसंज्ञिपु ॥ ३५ ॥ आहारस्य भयस्यापि संज्ञा स्यान्मैथुनस्य च । परिग्रहस्य चेत्येवं भवेत्संज्ञा चतुर्विधा ॥ ३६ ॥ गत्यक्षकाययोगेषु वेद क्रोधादिवित्तिपु । वृत्तदर्शनलेश्यासु भव्यसम्यक्त्वसंक्षिपु । आहारके च जीवानां मार्गणाः स्युश्चतुर्दशः ॥ ३७ ॥ (पटपदकम् ) गतिर्भवति जीवानां गतिकर्मविपाकजा । वनतियनरामर्त्यगतिभेदाच्चतुर्विधा ॥ ३८ ॥ इन्द्रियं लिङ्गमिन्द्रस्य तञ्च पञ्चविधं भवेत् । प्रत्येकं तद्विधाद्रव्यभावेन्द्रियविकल्पतः ।। ३९ ।। निवृत्तिश्योपकरणं द्रव्येन्द्रियमुदाहृतम् । बामाभ्यन्तरभेदेन द्वैविध्यमनयोरपि ॥ ४०॥ नेत्रादीन्द्रियसंस्थानावस्थितानां हि वर्तनम् ।

तत्त्वार्थसारः १०५ विशुद्धात्मप्रदेशानां तत्र निवृत्तिरान्तरा ॥ ४१ ॥ तेष्वेवात्मप्रदेशेषु करणव्यपदेशिषु । नामकर्मकृतावस्थः पुद्गलपचयोऽपराः॥ ४२ ॥ आभ्यन्तरं भवेत्कृष्णशुक्लमण्डलकादिकम् । बाहोपकरणं त्वक्षिपक्ष्मपत्रद्वयादिकम् ॥ ४३ ॥ लब्धिस्तथोपयोगश्च भावेन्द्रियमुदाहृतम् । सा लब्धिर्वोधिरोधस्य यः क्षयोपशमो भवेत् ॥ ४४ ॥ स द्रव्येन्द्रियनिवृत्ति प्रति व्याप्रियते यतः । कर्मणो ज्ञानरोधस्य क्षयोपशमहेतुकः ॥ ४५ ॥ आत्मनः परिणामो यः उपयोगः स कथ्यते । ज्ञानदर्शनभेदेन द्विधा द्वादशधा पुनः ॥ ४६ ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमतः परम् । इतीन्द्रियाणां पञ्चानां संज्ञानुक्रमनिर्णयः ॥ १७ ॥ स्पर्शी रसस्तथा गन्धो वर्णः शब्दो यथाक्रमम् । विज्ञेया विपयास्तेषां मनसस्तु मतं श्रुतम् ॥ ४८ ॥ रूपं पश्यत्यसंस्पृष्टं स्पृष्टं शब्दं शृणोति तु । बद्धं स्पृष्टं च जानाति स्पर्श गन्धं तथा रसम् ॥ ४९ ॥ यवनालमसूरादिमुक्तेन्द्रर्द्धसमाः क्रमात् । : श्रोत्राक्षिघ्राणजिह्वाः स्युः स्पर्शनं नैकसंस्थितिः ॥ ५० ॥ स्थावराणां भवत्येकमेकैकमभिवर्धयेत् । शम्बूककुन्थुमधुपमादीनां ततः क्रमात् ॥ ५१ ॥ स्थावराः स्युःपृथिव्यापस्तेजोवायुर्वनस्पतिः । स्वैः वैभैदैः समाह्येते सर्व एकेन्द्रियाः स्मृताः ॥ ५२ ॥ शम्बूकः शङ्ख शुक्तिर्वा गण्डूपदकपदकाः । कुक्षिक्रम्यादयश्चैते द्वीन्द्रियाः प्राणिनो मताः ।। ५३ ।। कुन्थुः पिपीलिका कुम्भी वृश्चिकश्चैन्द्रगोपकाः । .

सनातनजैनग्रन्थमालायाम् घुणमत्कुणयूकाद्यास्त्रीन्द्रियाः सन्ति जन्तवः ॥ ५४॥ मधुपः कीटको दंशमशको मक्षिकास्तथा । वरटी शलभाद्याश्च भवन्ति चतुरिन्द्रियाः ॥ ५५॥ पञ्चेन्द्रियाश्च माः स्युनीरकाखिदिवौकसः । तिर्यज्ञोऽप्युरगाभोगिपरिसर्पचतुष्पदाः ॥ ५६ ।। मसूराम्बूपृपत्सूचीकलापध्वजसन्निभाः । धराप्तेजोमरुत्काया नानाकारास्तहस्त्रसा:(2)॥५७ ॥ मृत्तिका वालुका चैव शर्करा चोपलः शिला। लवणोदयस्तथा तानं त्रपुः सीसकमेव च ॥ ५८ ॥ रौप्यं सुवर्णं वनं च हरितालं च हिङ्गुलं । मनःशिला तथा तुत्थमञ्जनं सप्रवालकम् ॥ ५९ ॥ फिरोलका के चैव मणिभेदाश्च वादराः । गोमेदो रुचकाङ्कश्च स्फटिको लोहितःप्रभः ॥ ६ ॥ वैडूर्य चन्द्रकान्तश्च जलकान्तो रविप्रभः । गैरिकश्चन्दनश्चैव वर्चुरोरुचकेस्तथा ॥ ६१ ॥ मोठोमसारगल्लश्च सर्व एते प्रदर्शिताः। पदिशत्पृथिवीभेदा भगवद्भिर्जिनेश्वरैः ॥ १२ ॥ अवश्यायो हिमविन्दुस्तथा शुद्धधनोदके । शीतकाद्याश्च विज्ञेया जीवाः सलिलकायिकाः ॥ ६३॥ ज्वालागारास्तथार्चिश्व मुर्मुः शुद्ध एव च । अग्निश्चेत्यादिका ज्ञेया जीवा ज्वलनकायिकाः । ६४ ॥ महान् घनतनुश्चैव गुजामण्डलिरुत्कलिः । वातश्चेत्यादयो ज्ञेया जीवाः पवनकायिकाः ॥ ६५ ॥ सूलाग्रपर्वकन्दोत्याः स्कन्धवीजरुहास्तथा । सम्मूर्छिनश्च हरिताः प्रत्येकानन्तकायिकाः ॥ ६६ ॥ सति वीर्यान्तरायस्य क्षयोपशमसम्भवे ।

तत्त्वार्थसारः १०७ योगो यात्मप्रदेशानां परिस्पन्दो निगद्यते ॥ ६७ ॥ चत्वारो हि मनोवाग्योगायोगानां चतुष्टयम् । काययोगाश्च सप्तैव योगाः पञ्चदशोदिताः ॥ ६८॥ मनोयोगो भवेत्सत्यो मृपासत्यमृपा तथा । तथा सत्यमृपा चेति मनोयोगश्चतुर्विधः ॥ ६९ वचीयोगो भवेत्सत्यो मृपासत्यमृपा तथा । तथा सत्यमृषा चेति वचोयोगश्चतुर्विधः ॥ ७० ॥ औदारिको वैक्रियकः कायश्चाहारकश्च ते । मिश्राश्च कार्मणं चैव काययोगोऽपि सप्तधा ॥ १ ॥ औदारिको वैक्रियकस्तथाहारक एव च । तेजसः कार्मणश्चैवं सूक्ष्माः सन्ति यथोत्तरम् ॥ ७२ ॥ असंख्येयगुणौ स्यातामाद्यादन्यौ प्रदेशतः । यथोत्तरं तथानन्तगुणौ तैजसकार्मणौ ॥ ७३ ॥ उभौ निरुपयोगौ तौ प्रतिघातविवर्जितौ। सर्वस्यानादिसम्बन्धौ स्यातां तैजसकार्मणौ ॥ ७४ ॥ तौ भवेतां वचिच्छुद्धौ क्वचिदौदारिकाधिकौ। क्वचिद्वैक्रियकोपेतौ तृतीयाययुतौ क्वचित् ॥ ७५ ॥ औदारिकशरीरस्य लब्धिप्रत्ययमिप्यते । अन्याहक तैजसं साधोपुवैक्रियकं तथा ॥ ७६ ॥ औदारिकं शरीरं स्यादर्भसम्मूर्छनोद्भवम् । तथा वैक्रियकाख्यं तु जानीयादीपपादिकम् ॥ ७७॥ अव्याघाती शुभः शुद्धः प्रासर्द्धर्यः प्रजायते । संयतस्य प्रमत्तस्य स खल्वाहारकः स्मृतः ॥ ७८॥ भाववेदस्त्रिवेदः स्यान्नोकपायविपाकजः। नामोदयनिमित्तस्तु दव्यभेदः स च त्रिधा ॥ ७९ ॥ द्रव्यानपुंसकानि स्युः श्वात्राः सम्मूर्छिनस्तथा।

१०८ सनातनजैनग्रन्थमालायाम् पल्यायुपो न देवाश्च त्रिवेदा इतरे पुनः ॥ ८ ॥ उत्पादः खलु देवीनामशानो यावदिप्यते । गमनं त्वच्युतं यावत् पुंवेदा हि ततः परम् ॥ ८ ॥ चारित्रपरिणामानां कपायः कपणानातः । क्रोधोमानस्तथा माया लोभश्चेति चतुर्विधः ॥ ८२ ॥ तत्वार्थस्यावबोधो हि ज्ञानं पञ्चविधं भवेत् । मिथ्यात्वपाककलुपमज्ञानं त्रिविधं पुनः ॥ ८३ ॥ संयमः खलु चारित्रमोहत्योपशमादिभिः। प्राण्यक्षपरिहार: स्यात् पञ्चधा स च वक्ष्यते ॥ ८४ ॥ विरताविरतत्वेन संयमासंयमः स्मृतः। प्राणिघाताक्षविषयभावेन स्यादसंयमः ॥ ८५ ॥ दर्शनावरणस्य स्यात् क्षयोपशमसन्निधौ। आलोचनं पदार्थानां दर्शनं तच्चतुर्विधम् ॥ ८६ ॥ चक्षुर्दर्शनमेकं स्यादचक्षुर्दर्शनं तथा । अवधिदर्शनं चैव तथा केवलदर्शनम् ॥ ८७ ॥ योगवृत्तिर्भवेल्लेश्या कपायोदयरक्षिता । भावतो दव्यतः कायनामोदयकृताङ्गरुक् ॥ ८॥ कृष्णा नीलाथकापोता पीता पद्मा तथैव च । शुक्ला चेति भवत्येषा द्विविधापि हि पद्धिधा ॥ ८९ ॥ भव्याभव्यविभेदेन द्विविधा सन्ति जन्तवः । भव्याः सिद्धत्वयोगाः स्युर्विपरीतास्तथापरे ॥ ९० ॥ सम्यक्तं खलु तत्त्वार्थश्रद्धानं तत्रिधा भवेत् । स्यात्सासादनसम्यक्त्वं पाकेऽनन्तानुबन्धिनाम् ॥ ९१ ॥ सम्यग्मिध्यात्वपाकेन सम्यग्मिथ्यात्वमिष्यते । मिथ्यात्वमुदयेनोकं मिथ्याद्दर्शनकर्मणः ॥ ९२ ॥ यो हि शिक्षाक्रियात्मार्थग्राही संज्ञी स उच्यते । .

तत्त्वार्थसारः १०९ अतस्तु विपरीतो यः सोऽसंज्ञी कथितो जिनैः ॥ १३ ॥ गृह्णाति देहपर्याप्तियोग्यान्यः खलु पुद्गलान् । आहारकः स विज्ञेयस्ततोऽनाहारकोऽन्यथा ॥ ९ ॥ अस्त्यनाहारको योगः समुद्रातगतः परम् । साशनो विग्रहगती मिथ्याष्टिखथावृतः ॥ ९५ ॥ विग्रहो हि शरीरं स्यात्तदर्थ या गतिर्भवेत् । विशीर्णपूर्वदेहस्य सा विग्रहगतिः स्मृता ॥ ९६ ॥ जीवस्य विग्रहगतौ कर्मयोग जिनेश्वराः। पाहुदेहान्तरप्राप्तिः कर्मग्रहणकारणम् ॥ ९७ ॥ जीवानां पञ्चताकाले.यो भवान्तरसंक्रमः। मुकानां चोर्ध्वगमनमनुश्रेणिगतिस्तयोः ॥ १८ ॥ सविग्रहाऽविग्रहा च सा विग्रहगतिविधा। अविग्रहैव मुक्तस्य शेपस्यानियमः पुनः ॥ ९९ ॥ भविग्रहकसमया कथितेषुगतिर्जिनैः। भन्या द्विसमया प्रोक्ता पाणिमुक्तकविग्रहा ॥ १० ॥ द्विविग्रहां त्रिसमयां प्राहुर्लाङ्गलिकां जिनाः । गोमूनिका तु समयैश्चतुर्भिः स्यानिविग्रहा ।। १०१ ॥ समयं पाणिमुक्तायामन्यस्यां समयद्वयम् । तथा गोमूनिकायां नीननाहारक इप्यते ॥ १०२॥ त्रिविधं जन्म जीवानां सर्वज्ञैः परिभाषितम् । सम्मूर्छनात्तथा गर्भादुपपादात्तथैव च ॥ १०३ ॥ भवन्ति गर्भजन्मानः पोताण्डजजरायुजाः। तथोपपादजन्मानो नारकास्त्रिदिवौकसः ॥ १०४ ॥ स्युः सम्मूर्छनजन्मानः परिशिष्टास्तथाऽपरे। योनयो नव निर्दिष्टास्तिविधयापि जन्मनः ॥१०५ ॥ सचित्तशीतषिवृता अचित्ताशीतसंवृताः।

११० सनातनजैनप्रन्थमालायाम् सचित्ताचित्तशीतोष्णौ तथा विवृतसंवृतः ॥ १०६ ॥ योनिन रकदेवानामचित्तः कथितो जिनः । गर्भजानां पुनर्मिश्रः शेषाणां विविधो भवेत् ॥ १०७ ॥ उष्णः शीतश्च देवानां नारकाणां च कीर्तितः। उष्णोऽग्निकायिकानांतु शेपाणां त्रिविधो भवेत् ॥ १०८ ॥. नारकैकाक्षदेवानां योनिर्भवति संवृतः। विवृतो विकलाक्षाणां मिश्रः स्यादर्भजन्मनाम् ॥ १०९ ॥ नित्येतरनिगोतानां भूम्यम्भोवाततेजसाम् । सप्त सप्त भवन्त्येषां लक्षाणि दश शासिनाम् ॥ ११०॥ पद तथा विकलाक्षाणां मनुष्याणां चतुर्दश । तिर्यनारकदेवानामेकैकस्य चतुष्टयम् । एवं चतुरशीतिः स्यालक्षाणां जीवयोनयः ॥ १११॥ (षट्पदन्) द्वाविंशतिस्तथा सप्त त्रीणि सत यथाक्रमम् । कोटीलक्षाणि भूम्यम्भस्तेजोऽनिलशरीरिणाम् ॥ ११२॥ वनस्पतिशरीराणां तान्यष्टाविंशतिः स्मृताः । स्युििनचतुरक्षाणां सप्ताष्ट नव च क्रमात् ॥ १३ ॥ तानि द्वादश सार्दानि भवन्ति जलचारिणाम् । नवाहिपरिसणां गवादीनां तथा दश ॥ ११४ ॥ वीनां द्वादश तानि स्युश्चतुर्दश नृणामपि । पड्विंशतिः सुराणां तु श्वाभ्राणां पञ्चविंशतिः ।। ११५॥ कुलानां कोटिलक्षाणि नवतिनवभिस्तथा । पञ्चायुतानि कोटीनां कोटिकोटी च मीलनात् ॥ ११६ ॥ द्वाविंशतिर्भुवां सप्त पयसां दश शाखिनान् । नभवतां पुनस्त्रीणि चीनां द्वासप्ततिस्तथा ॥ ११७ ॥ उरगाणां द्विसंयुक्ता चत्वारिंशत्प्रकर्पतः।.

तत्त्वार्थसारः १११ आयुर्वसहस्राणि सर्वेपां परिभापितम् ॥ ११८ ॥ . दिनान्येकोनपञ्चाशध्यक्षाणां त्रीणि तेजसः । पण्मासाश्चतुरक्षाणां भवत्यायुः प्रकर्षतः ।। ११९ ॥ नवायुः परिसर्पाणां पूर्वाङ्गानि प्रकर्पतः। अक्षाणां द्वादशाब्दानि जीवितं स्यात्प्रकर्पतः॥ १२०॥ असंज्ञिनस्तथा मत्स्याः कर्मभूजाश्चतुष्पदाः । मनुष्याश्चैव जीवन्ति पूर्वकोटिं प्रकर्पतः ॥ १२१ ॥ एक द्वे त्रीणि पल्यानि नृतिरश्वां यथाक्रमम् । जघन्यमध्यमोत्कृष्टभोगभूमिषु जीवितम् ॥ कुभोगभूमिजानां तु पल्यमेकं तु जीवितम् ॥ १२२ ॥ (पट्पदम् ।) एक त्रीणि तथा सप्त दश सप्तदशेति च । द्वाविंशतिस्त्रयस्त्रिंशद् धर्मादिषु यथाक्रमम् ॥ १२३ ॥ स्यात्सागरोपमाण्यायु रकाणां प्रकर्षतः। दशवर्पसहस्राणि धर्मायां तु जघन्यतः ॥ १२४ ॥ वंशादिषु तु तान्येकं त्रीणि सप्त तथा दश । तथा सप्तदश ब्यग्रा विंशतिश्च यथोत्तरम् ॥ १२५ ॥ भावनानां भवत्यायुः प्रकृष्टं सागरोपमम् । दशवर्षसहस्त्रं तु जघन्यं परिभाषितम् ॥ १२६ ॥ पल्योपमं भवत्यायुः सातिरेक प्रकर्षतः । देशवर्पसहस्रं तु व्यन्तराणां जघन्यतः ॥ १२७ ॥ पल्योपमं भवत्यायुः सातिरेकं प्रकर्पतः । पल्योपमाष्टभागस्तु ज्योतिप्काणां जघन्यतः ॥ १२८॥ द्वयोर्द्वयोरुभौ सप्त दश चैव चतुर्दश । पोडशाप्टादशाप्येते सांतिरेकाः पयोधयः ॥ १२९ ॥ समुद्रा विंशतिश्चैव तेषां द्वाविंशतिस्तथा। । ..

११२ सनातननग्रन्धमालायाम् . सौधर्मादिपु देवानां भवत्यायुः प्रकर्पतः ॥ १३ ॥ एकैकं वर्द्धयेदब्धि नवग्रैवेयकेप्वतः। नवस्वनुदिशेषु स्यावात्रिंशदविशेषतः ॥ १३ ॥ प्रयस्त्रिंशत्समुद्राणां विजयादिषु पञ्चसु । साधिकं पल्यमायुः स्यात्सौधर्मेशानयोईयोः ॥ १३२ ॥ परतः परतः पूर्व शेषेषु च जघन्यतः। आयुः सर्वार्थसिद्धौ तु जघन्यं नैव विद्यते ॥ १३३ ॥ भन्यन्नानपमृत्युभ्यः सर्वेषामपि देहिनाम् । अन्तर्मुहर्तमित्येषां जघन्येनायुरिप्यते ॥ ३४ ॥ असइयेयसमायुष्काचरमोत्तममूर्तयः । देवान नारकाचैषामपमृत्युन विद्यते ॥ ३५ ॥ धर्मायां सप्त चापानि सपादं च करत्रयम् । उत्सेधः स्यात्ततोऽन्यासु द्विगुणो द्विगुणो हि सः ॥ १३६ ॥ शतानि पञ्च चापानां पञ्चविंशतिरेव च । प्रकण मनुष्याणामुत्सेधः कर्मभूमिषु ॥ १३७ ।। एक: कोशो जघन्यासु द्वौ क्रोशो मध्यमासु च । क्रोशवयं प्रकृष्टासु भोगभूपु समुन्नतिः ॥ ३८ ॥ ज्योतिष्काणां स्मृताः सप्तासुराणां पाविंशतिः । शेषभावनभौमानां कोदण्डानि दशोमतिः ॥ १३९ ॥ द्वयोः सप्त द्वयोः षड् च हताः पञ्च चतुर्थतः । ततश्चतुर्पु चत्वारः सार्धाश्यातो वयोलयः ॥ १४० ॥ द्वयोस्रयश्च कल्पेषु समुत्सेधः सुधाशिनाम् । अधोवेयकेषु स्यात्साद हत्तद्वयं यथा ॥ १४१ ॥ हस्तद्वितयमुत्सेधो मध्यनवेयकेषु तु । अन्यत्रैवेयकेषु स्याद्धस्तोऽध्यर्द्धसमुन्नतिः। 'कहतसमुस । विजयादिषु पञ्चतु ॥ १४२ ॥ (षट्पदन् ) .

तत्त्वार्थसारः ११३ योजनानां सहस्रं तु सातिरेकं प्रकर्पतः । एकेन्द्रियस्य देहः स्याद्विज्ञेयः स च पद्मिनि ॥ १४३ ॥ निकोशः कथितः कुम्भी शो द्वादशयोजनः । सहस्रयोजनो मत्स्यो मधुपश्चैकयोजनः ॥ १४४ ॥ असङ्ख्याततमो भागो यावानस्त्यद्गुलस्य तु । एकाक्षादिपु सर्वेपु देहस्तावान् जघन्यतः ॥ ४५ ॥ घामसंज्ञिनो यान्ति वंशान्ताश्च सरीसृपाः । शैलान्ते च विहङ्गाश्च अञ्जनान्ताश्च भोगिनः ॥ १४६ ॥ तामरिष्टां च सिंहास्तु मघव्यन्तास्तु योपितः । भरा मरस्याश्च गच्छन्ति माधवीं तांश्च पापिनः ॥ १७ ॥ म लभन्ते मनुष्यत्वं सप्तम्या निर्गताः क्षितेः । तिर्यक्त्वे च समुत्पद्य नरकं यान्ति ते पुनः ॥ १४८ ॥ मन्या मनुष्यलाभेन पटया भूमेर्विनिर्गताः । संयमं तु पुनः पुण्यं नामुवन्तीति निश्चयः ।। १४९ ॥ निर्गताः खलु पञ्चम्या लभन्ते केचन व्रतम् । प्रयान्ति न पुनर्मुक्ति भावसंकेशयोगतः ॥ १५० ॥ लभन्ते निर्वृति केचिचतुर्थ्या निर्गताः क्षितेः । न पुनः प्रामुवन्त्येव पवित्रां तीर्थकर्तृताम् ॥ १५१ ॥ लभन्ते तीर्थकर्तृत्वं ततोऽन्याऽभ्यो विनिर्गताः । निर्गत्य नारका न स्युबलकेशवचमिणः ॥ १५२ ॥ सर्वे पर्याप्तका जीवाः सूक्ष्मकायाश्च तैजसाः । घायवो संज्ञिनश्चैपां न तिर्यग्भ्यो विनिर्गमः ॥ १५३ ॥ श्रयाणां खलु कायानां विकलानामसंज्ञिनाम् । मानवानां तिरश्च वाऽविरुद्धः संक्रमो मिथः ॥ १५४ ॥ . . भारकाणां सुराणां च विरुद्धः संक्रमो मिथः ।

११४ सनातनजैनग्रन्थमालायाम् नारको न हि देवः स्थान देवो नारको भवेत् ॥ १५५ ।। भूम्यापः स्थूलपर्याप्ताः प्रत्येकाङ्गवनस्पतिः । तिर्यग्मानुपदेवानां जन्मैपां परिकीर्तितम् ॥ १५६ ॥ सर्वेऽपि तेजसा जीवाः सर्वे चानिलकायिकाः। मनुजेषु न जायन्ते ध्रुवं जन्मन्यनन्तरे ॥ १५७ ॥ पूर्णासंज्ञितिरश्चामविरुद्ध जन्म जातुचित् । नारकामरतिया नृपु वा न तु सर्वतः ॥ १५८ ।। सङ्ख्यातीतायुषां मर्त्यतिरश्यां तेभ्य एव तु । सङ्ग्यातवर्पजीविभ्यः संज्ञिभ्यो जन्मसंमृतम् ॥ १५९ ।। सङ्ख्यातीतायुषां नूनं देवेप्वेवास्ति संक्रमः। निसर्गेण भवेत्तेषां यतो मन्दकपायता ॥ १६०॥ शलाकापुरुषा नैव सन्यनन्तरजन्मनि । तिर्यञ्चो मानुपाश्चैव भाज्याः सिद्धगती तु ते ॥ १६१ ॥ ये मिथ्यादृष्टयो जीवाः संज्ञिनोऽसंज्ञिनोऽथवा । व्यन्तरास्ते प्रजायन्ते तथा भवनवासिनः ।। १६२॥ सङ्घयातीतायुपो मास्तिर्यञ्चश्चाप्यसदृशः । उत्कृष्टास्तापसाश्चैव यान्ति ज्योतिप्कदेवताम् ॥ १६३ ॥ ब्रह्मलोक प्रजायन्ते परिव्राजः प्रकर्पतः। आजीवास्तु सहस्रारं प्रकर्षेण प्रयान्ति हि ॥ १६४ ॥ उत्पद्यन्ते सहस्रारे तिर्यञ्चो व्रतसंयुताः। अत्रैव हि प्रजायन्ते सम्यक्त्वाराधका नराः ॥ १६५ न विद्यते परं ह्यसादुपपादोऽन्यलिङ्गिनाम् । निग्रन्थश्रावका ये ते जायन्ते यावदच्युतम् ॥ १६६ ॥ धृत्वा निर्ग्रन्थलिङ्गं ये प्रकृष्टं कुर्वते तपः । अन्त्यप्रैवेयकं यावदभव्याः खलु यान्ति ते ॥ १६७ ॥ यावत्सर्वार्थसिद्धिं तु निर्ग्रन्था हि ततः परम् ।

तत्त्वार्थसारः ११५ उत्पद्यन्ते तपोयुक्ता रत्नत्रयपविनिताः ॥ १६८॥ भाज्या एकेन्द्रियत्वेन देवा ऐशानतभ्युताः । तिर्यक्रवमानुपत्वाभ्यामासहस्रारतः पुनः ॥ १६९ ॥ ततः परं तु ये देवासे सर्वेऽनन्तरे भवे । उत्पद्यन्ते मनुष्येपु न हि तिर्यक्षु जातुचित् ॥ १७० ॥ शलाकापुरुषा न स्युभीमज्योतिष्कभावनाः । भनन्तरभवे तेपां भाज्या भवति नितिः ॥ ११ ॥ ततः परं विकल्प्यन्ते यावद्भवेयकं सुराः । शलाकापुरूपत्वेन निर्वाणगमनेन च ।। १७२ ।। तीर्धेशरामचकित्ये निर्वाणगमनेन च । ध्युताः सन्तो विकल्प्यन्तेऽनुदिशानुत्तरामराः ॥ १७३ ॥ भाज्यास्तीर्थेशचक्रित्वे च्युताः सर्वार्थसिद्धितः । विकल्पारामभावेऽपि सिध्यन्ति नियमात्पुनः ।। १७४ ॥ दक्षिणेन्द्रास्तथा लोकपाला लौकान्तिकाः शची। शश्च नियमाश्युत्वा सर्व ते यान्ति निर्वृतिम् ॥ १७५ ॥ धर्माधर्मास्तिकायाभ्यां व्याप्तः कालाणुभिस्तथा । योनि पुद्गलसंछन्नो लोकः स्यात् क्षेत्रमात्मनाम् ॥ १७६ ।। अधो वेत्रासनाकारो मध्येऽसौ झरीसमः । ऊर्य मृदङ्गसंस्थानो लोकः सर्वज्ञवर्णितः ॥ १७७,॥ सर्वसामान्यतो लोकस्तिरश्चां क्षेत्रमिप्यते । श्वाश्रमानुपदेवानामथातस्तद्विभज्यते ॥ १७८ ॥ अधोभागे हि लोकस्य सन्ति रसप्रभादयः । धनाम्बुपवनाकाशे प्रतिष्ठाः सप्तभूमयः ॥ १७९ ॥ '. रलप्रमादिमा भूमिस्ततोऽधः शर्कराप्रभा। । स्थाद्वालुकाप्रभातोऽधस्ततः पहप्रभा मता ॥ १० ॥ ततो धूमप्रभाधस्तात्ततोऽधस्तात्तमःप्रभा। - ११६ सनातननग्रन्थमालायाम् तमस्तमःप्रभातोऽधो भुवामित्थं व्यवस्थितिः ॥ १८ ॥ त्रिंशनरकलक्षाणि भवन्त्युपरिमक्षिती । अधः पञ्जकृतिस्तस्यास्ततोऽधो दशपज्ञ च ॥ १८२॥ ततोऽधो दशलक्षाणि त्रीणि लक्षाण्यधस्ततः । पञ्चोनं लक्षमेकं तु ततोऽधः पञ्च तान्यतः ॥ १०३ ॥ परिणामवपुर्लेश्यावेदनाविक्रियादिभिः । अत्यन्तमशुभैर्जीवा भवन्त्येतेषु नारकाः ॥ १८४ ॥ अन्योन्योदीरितासह्यदुःखभाजो भवन्ति ते । संक्लिष्टासुरनिवृत्तदुःखाश्चो क्षितित्रये ॥ १४५ ॥ पाकालरकगत्यास्ते तथा च नरकायुपः। भुञ्जन्ते दुःकृतं घोरं चिरं सप्तक्षितिस्थिताः ॥ ६८६ ॥ मध्यभागे तु लोकस्य तिर्यक्प्रचयवर्द्धिनः। असङ्ख्याः शुभनामानो भवन्ति द्वीपसागराः ॥ १८७ ॥ जम्बूद्वीपोऽस्ति तन्मध्ये लक्षयोजनवितरः। आदित्यमण्डलाकारो बहुमध्यस्थमन्दरः ॥ १८ ॥ द्विगुणद्विगुणेनातो विष्कम्भेणार्णवादयः । पूर्व पूर्व परिक्षिप्य वलयाकृतयः स्थिताः ॥ १८९ ।। जम्बूद्वीपं परिक्षिप्य लवणोदः स्थितोऽर्णवः। द्वीपस्तु धातकीखण्डतं परिक्षिप्य संस्थितः ॥ १९० ॥ भावेष्टय धातकीखण्ड स्थितः कालोदसागरः। . आवेष्टय पुष्करद्वीपः स्थितः कालोदसागरम् ॥ १९ ॥ परिपाट्यानया ज्ञेयाः स्वयम्भूरमणोदधिः । यावजिनाज्ञया भव्यैरसङ्ख्या द्वीपसागराः ॥ १९२ ॥ सत क्षेत्राणि भरतस्तथा हैमवतो हरिः। विदेहो रम्यकश्चैव हैरण्यवत एव च । ऐरावतश्च तिष्ठन्ति जम्बूद्वीपे यथाक्रमम् ॥ १९३ ॥ (षट्पदन . तत्त्वार्थसारः ११७ पापु मणिभिश्चित्रा अधिस्तुल्यविस्तराः । तद्विभागकराः पद स्युः शैलाः पूर्वापरायताः ॥ १९ ॥ हिमवान्महाहिमवानिपधो नीलरुक्मिणौ । शिखरी चेति संचिन्त्या एते वर्पधरादयः॥ १९५ ॥ कनकार्जुनकल्याणवैडूर्यार्जुनकाशनैः । यथाक्रमेण निर्वृत्ताश्चिन्यास्ते पण्महीधराः ॥ १९६ ।। पनस्तथा महापास्तिगिछः केशरी तथा । पुण्डरीको महान् क्षुद्रो हदा वर्षधरादिपु ॥ १९७ ॥ सहस्रयोजनायाम आधस्तस्याई विस्तरः। द्वितीयो द्विगुणखसात्तीयो द्विगुणस्ततः॥१९८॥ उत्तरा दक्षिणैस्तुल्या निम्नास्ते दशयोजनीम् । प्रथमे परिमाणेन योजनं पुष्करं हृदे ॥ १९९ ।। द्विचतुर्योजनं ज्ञेयं तद्वितीयतृतीययोः । भपाच्यवदुदीच्यानां पुष्कराणां प्रमाश्रिताः ॥२०॥ श्रीश्च हीश्च तिः कीर्तिर्बुद्धिलक्ष्मीश्च देवताः । पल्योपमायुपस्तेपु पर्पत्सामानिकान्विताः ॥ २० ॥ गङ्गासिन्धू उभे रोहिद्रोहिताये तथैव च । तो हरिद्धारिकान्ते च शीताशीतोदके तथा ॥ २०२ ॥ खो नारीनरकान्ते च सुवर्णार्जुनकूलिके । रक्तारक्तोदके च स्तो द्वे द्वे क्षेने च निम्नगे ॥ २०३ ॥ । पूर्वसागरगामिन्यः पूर्वा नद्यो द्वयोर्द्वयोः । पश्चिमार्णवगामिन्यः पश्चिमास्तु तयोर्मताः ॥ २० ॥ गङ्गासिन्धुपरीवारः सहस्राणि चतुर्दश । नदीनां द्विगुणास्तिस्रस्तिसृतोऽर्द्धहापनम् ॥ २०५॥ दशोनद्विशतीभक्तो जम्बूद्वीपस्य विस्तरः । - ... - ११८ सनातनजैनग्रन्थमालायाम् . विस्तारो भरतस्यासौ दक्षिणोत्तरतः स्मृतः ॥ २०६ ॥ द्विगुणद्विगुणा वर्षधरवस्तितो मताः । भाविदेहात्ततस्तु स्युरुत्तरा दक्षिणैः समाः ॥ २०७ ॥ उत्सर्पिण्यवसर्पिण्यौ पट्समे वृद्धिहानिदे। भरतरावती मुक्त्वा नान्यत्र भवतः कचित् ।। २०८ ॥ जम्बूद्वीपोकसंख्याभ्यो वर्पा वर्पधरा अपि । द्विगुणा धातकीखण्डे पुष्करा? च निश्चिताः ॥ २०९ ॥ पुष्करद्वीपमध्यस्थो मानुपोत्तरपर्वतः। श्रूयते वलयाकारस्तस्य प्रागेव मानुषाः ॥ २० ॥ द्वीपेवर्धतृतीयेषु द्वयोश्चापि समुद्रयोः । निवासोऽत्र मनुष्याणामत एव नियम्यते ॥२११ ॥ आर्यम्लेच्छविभेदेन द्विविधास्ते तु मानुपाः। आर्यखण्डोद्भवा आर्या म्लेच्छाः केचिच्छकादयः । म्लेच्छखण्डोनवा म्लेच्छा अन्तरद्वीपजा अपि ॥ २१२॥ पट्पदम्। भावनव्यन्तरज्योतिवैमानिकविभेदतः । देवाश्चतुर्णिकायाः स्युर्नामकर्मविशेषतः ॥ २१३ ॥ दशधा भावना देवा अष्टधा व्यन्तराः स्मृताः। ज्योतिष्काः पञ्चधा ज्ञेयाः सर्वे वैमानिका द्विधा ।। २१४ नागासुरसुपर्णाग्निदिग्वातस्तनितोदधिः। द्वीपविद्युत्कुमाराख्या दशधा भावना स्मृताः ॥२१५॥ किन्नराः किम्पुरुषाश्च गन्धर्वाश्च महोरगाः। यक्षराक्षसभूताश्च पिशाचा व्यन्तराः स्मृताः ॥ २१६ ।। सूर्याचन्द्रमसौ चैव ग्रहनक्षत्रतारकाः । ज्योतिष्काः पञ्चधा द्वेधा ते चलाचलभेदतः ॥ २१७ ॥ . कल्पोत्पन्नास्तथा कल्पातीता वैमानिका द्विधा।

तत्त्वार्थसारः ११९ इन्द्राः सामानिकाश्चैव त्रायस्त्रिंशाश्च पार्पदाः ॥ २१०॥ मात्मरक्षास्तथा लोकपालानीकप्रकीर्णकाः । किल्विपा आभियोग्याश्च भेदाः प्रतिनिकायकाः ॥ २१९ ॥ ब्रायविंशैस्तथा लोकपालेविरहिताः परे । व्यन्तरज्योतिपामष्टौ भेदाः सन्तीति निश्चिताः ॥ २२० ॥ पूर्व कायप्रवीचारा व्याप्यैशानं सुराः स्मृताः। स्पर्शरूपध्वनिस्वान्तप्रवीचारास्ततः परे । ततः परेऽप्रवीचाराः कामक्लेशाल्पभावतः ॥ २२१ ॥ पदपदम् । धर्मायाः प्रथमे भागे द्वितीयेऽपि च कानिचित् । भवनानि प्रसिद्धानि वसन्त्येतेपु भावनाः ॥ २२२ ॥ रत्नप्रभाभुवो मध्ये तथोपरितलेऽपि च । विविधेप्वन्तरेवत्र व्यन्तरा निवसन्ति ते ॥ २२३ ॥ उपरिष्टान्महीभागात् पटलेपु नभोऽङ्गणे । तिर्यग्लोकं समाच्छाद्य ज्योतिप्का निवसन्ति ते ॥ २२ ॥ ये तु वैमानिका देवा अर्ध्वलोके वसन्ति ते । उपर्युपरि तिष्ठत्सु विमानप्रतरेविह ॥ २२५ ॥ अर्द्धभागे हि लोकस्य निपष्टिः प्रतराः स्मृताः। विमानैरिन्द्रकैर्युक्ताः श्रेणीबद्धः प्रकीर्णकैः ॥ २२६ ॥ सौधर्मशानकल्पौ द्वौ तथा सानत्कुमारकः । माहेन्द्रश्च प्रसिद्धौ द्वौ ब्रह्मब्रह्मोत्तरावुभौ ॥ २२७ ।। उभी लान्तवकापिष्टौ शुकशुको महाखनौ । द्वौ सतारसहस्रारावानतप्राणतावुभौ ॥ २२८ ॥ आरणाच्युतनामानौ द्वौ कल्पाश्चेति पोडश । अवेयाणि नवातोऽतो नवानुदिशचक्रकम् ॥ २२९ ॥ विजयं वैजयन्तं च जयन्तमपराजितम् । सर्वार्थसिद्धिरित्येपां पञ्चानां प्रतरोऽन्तिमः ॥ २३०.॥ . --- । ....

१२० सनातनजैनग्रन्थमालायाम् एषु वैमानिका देवा जायमानाः स्वकर्मभिः । थुतिलेश्याविशुद्ध्यायुरिन्द्रियावधिगोचरैः ॥ २३ ॥ तथा सुखप्रभावाभ्यापर्युपरितोऽधिकाः । हीनास्तथैव ते मानगतिदेहपरिग्रहः ॥ २३२ ।। इति संसारिणां क्षेत्रं सर्वलोकः प्रकीर्तितः। सिद्धानां तु पुनः क्षेत्रमूर्खलोकान्त इप्यते ॥ २३३॥ सामान्यादेकधा जीवो बद्धो मुक्तस्ततो द्विधा । स एवासिद्धनोसिद्धसिद्धत्वात् कीय॑ते त्रिधा ॥ २३४ ॥ श्वानतिर्यग्नरामर्त्य विकल्पात् स चतुर्विधः । प्रशमक्षयतद्वन्द्वः परिणामोदयो भवेत् ॥ २३५ ॥ भावः पञ्चविधत्वात्स पञ्चभेदः प्ररूप्यते। पण्मार्गगमनात्पोढा सप्तधा सप्तमङ्गतः ।। २३६ ।। अष्टधाष्टगुणात्मत्वादष्टकर्मकृतोऽपि च । पदार्थनवकात्मत्वानवधा दशधा तु सः। दशजीवभिदात्मत्वादिति चिन्त्यं यथागमम् ॥ २३७ ॥षट्पदम् इत्येतज्जीवतत्त्वं यः श्रद्धचे वेत्युपेक्षते । शेपतत्त्वैः समं पद्भिः स हि निर्वाणभाग्भवेत् ॥ २३८ ॥ इति जीवतत्त्ववर्णनम् ॥ २ ॥ अनन्तकेवलज्योतिःप्रकाशितजगत्रयान् । प्रणिपत्य जिनान् सर्वानजीवाः संप्रचक्ष्यते ॥ १ ॥ धर्माधर्मावथाकाशं तथा कालश्च पुद्गलाः। अजीवाः खलु पञ्चैते निर्दिष्टाः सर्वदर्शिभिः ॥२॥ एते धर्मादयः पञ्च जीवाश्च प्रोक्तलक्षणाः । पद द्रव्याणि निगद्यन्ते द्रव्ययाथात्म्यवेदिभिः ॥३॥ विना कालेन शेषाणि द्रव्याणि जिनपुङ्गवैः। पञ्चास्तिकायाः कथिताः प्रदेशानां बहुत्वतः ॥ ४॥ .

तत्त्वार्थसारः १२१ समुत्पादव्ययध्रौव्यलक्षणं क्षीणकल्मपाः । गुणपर्ययवद्रव्यं वदन्ति जिनपुङ्गवाः ॥ ५॥ द्रव्यस्य स्यात्समुत्पादश्चेतनस्खेतरस्य च । भावान्तरपरिप्राप्तिर्निजां जातिमनुज्झतः ॥ ६ स्वजातेरविरोधेन द्रव्यस्य द्विविधस्य हि। विगमः पूर्वभावस्य व्यय इत्यभिधीयते ॥ ७॥ समुत्पादन्ययाभावो यो हि द्रव्यस्य दृश्यते । अनादिना स्वभावेन तद्रौव्यं सुवते जिनाः ॥ ८॥ गुणो द्रव्यविधानं स्यात् पर्यायो द्रव्यविक्रिया। द्रव्यं खयुतसिद्ध स्यात्समुदायस्तयोर्द्वयोः ॥९॥ सामान्यमन्वयोत्सगौ शब्दाः स्युर्गुणवाचकाः । व्यतिरेको विशेपश्च भेदः पर्यायवाचकाः॥१०॥ गुणैर्विना न च द्रव्यं विना द्रव्याच नो गुणाः । द्रव्यस्य च गुणानां च तसादण्यतिरिक्तता ॥ ११ ॥ न पर्यायाद्विना द्रव्यं विना द्रव्याश पर्ययः । वदन्त्यनन्यभूतत्वं द्वयोरपि महर्पयः ॥ १२ ॥ न च नाशोऽस्ति भावस्य न चाभावस्य सम्भवः । भावाः कुर्युर्ययोत्पादौ पर्यायेपु गुणेषु च ॥ १३ ॥ द्रव्याण्येतानि नित्यानि तद्भावान व्ययन्ति यत् । प्रत्यभिज्ञानहेतुत्वं तद्धावस्तु निगद्यते ॥ १४ ॥ इयत्तां नातिवर्तन्ते यतः पडिति जातुचित् । अवस्थितत्वमेतेषां कथयन्ति ततो जिनाः ॥१५॥ शब्दरूपरसस्पर्शगन्धात्यन्तव्युदासतः। , पञ्च द्रव्याण्यरूपाणि रूपिणः पुद्गलाः पुनः ॥ १६ ॥ 'धर्माधर्मान्तरिक्षाणां द्रव्यमेकत्वमिप्यते । कालपुद्गलजीवानामनेकद्रव्यता मता ॥ १७ ॥ -

१२२
सनातनजैनग्रन्थमालायाम्
धर्माधर्मो नमः कालश्चत्वारः सन्ति निःक्रियाः।
जीवाश्च पुद्गलाश्चैव भवन्त्येतेषु सक्रियाः ॥ १८ ॥
एकस्य जीवद्गव्यस्य धर्माधर्मास्तिकाययोः।
असङ्ख्येयप्रदेशस्वमेतेपां कथितं पृथक् ॥ १९ ॥
सङ्घयेयाश्चाप्यसङ्ख्यया अनन्ता यदि वा पुनः ।
पुद्गलानां प्रदेशाः स्युरनन्ता वियतस्तु ते ॥ २० ॥
कालस्य परिमाणस्तु द्वयोरप्येतयोः किल ।
एकप्रदेशमानत्वादप्रदेशत्वमिप्यते ॥ २ ॥
लोकाकाशेऽवगाहः स्याद्रव्याणां न पुनर्वहिः ।
लोकालोकविभागः स्यादत एवाम्बरस्य हि ॥ २२ ॥
लोकाकाशे समस्तेऽपि धर्माधर्मास्तिकाययोः ।
तिलेपु तैलवत्याहुरवगाहं महर्षयः ॥ २३ ॥
संहाराच विसच प्रदेशानां प्रदीपवत् ।
जीवस्तु तदसंख्येयभागादीनवगाहते ॥ २४ ॥
लोकाकाशस्य तस्यैकप्रदेशादीतथा पुनः ।
पुद्गला अवगाहन्ते इति सर्वज्ञशासनम् ॥ २५ ॥
अवगाहनसामर्थ्यात्सूक्ष्मत्वपरिणामिनः ।
तिष्ठन्त्येकप्रदेशेऽपि बहवोऽपि हि पुद्गलाः ॥ २६ ॥
एकापवरकेऽनेकप्रकाशस्थितिदर्शनात् ।
न च क्षेत्रविभागः स्यान्न चैक्यमवगाहिनाम् ॥ २७ ॥
भल्पेऽधिकरणे द्रव्यं महीयो नावतिष्ठते।
इदं न क्षमते युक्ति दुःशिक्षितकृतं वचः ॥ २८ ॥
अल्पक्षेत्रे स्थितिदृष्टा प्रचयस्य विशेषतः।
पुद्गलानां बहूनां हि करीषपटलादिषु ॥ २९ ॥
धर्मस्य गतिरत्र स्यादधर्मस्य स्थितिर्भवेत्।
उपकारोऽवगाहस्तु नभसः परिकीर्तितः ॥ ३० ॥

तत्त्वार्थसारः
१२३
पुद्गलानां शरीरं वाक् प्राणापानौ तथा मनः।
उपकारः सुखं दुःखं जीवितं मरणं तथा ॥ ३१ ॥
परस्परस्य जीवानामुपकारो निगद्यते ।
उपकारस्तु कालस्य वर्तना परिकीर्तिता ॥३२॥
क्रियापरिणतानां यः स्वयमेव क्रियावताम् ।
मादधाति सहायत्वं स धर्मः परिगीयते ॥ ३३ ॥
जीवानां पुद्गलानां च कर्तव्ये गत्युपग्रहे ।
जलवन्मत्स्यगमने धर्मः साधारणाश्रयः ॥ ३४ ॥
स्थित्या परिणतानां तु सचिवत्वं दधाति यः ।
तमधर्म जिनाः प्राहुनिरावरणदर्शनाः ॥ ३५ ॥
जीवानां पुद्गलानां च कर्तव्ये स्थित्युपग्रहे ।
साधारणाश्रयो धर्मः पृथिवीव गवां स्थितौ ॥ ३६॥
आकाशान्तेऽन्न द्रव्याणि स्वयमाकाशतेऽथवा ।
द्रव्याणामवकाशं वा करोत्याकाशमस्त्यतः ॥ ३७ ॥
जीवानां पुद्गलानां च कालस्याधर्मधर्मयोः।
अवगाहनहेतुत्वं तदिदं प्रतिपद्यते ॥ ३८ ॥
क्रियाहेतुत्वमेतेपां नि:क्रियाणां न हीयते।
यतः खलु बलाधानमात्रमत्र विवक्षितम् ॥ ३९ ॥
स कालो यन्निमित्ताः स्युः परिणामादिवृत्तयः ।
वर्तनालक्षणं तस्य कथयन्ति विपश्चितः ॥१०॥
अन्तर्नातकसमया प्रतिद्रव्यविपर्ययम् ।
अनुभूतिः स्वसत्तायाः स्मृता सा खलु वर्तना ॥ ४ ॥
आत्मना वर्तमानानां द्रव्याणां निजपर्ययैः ।
वर्तनाकरणाकालो भजते हेतुकर्तृताम् ॥ ४२ ॥
'न चास्य हेतुकर्तृत्वं निःक्रियस्य विरुध्यते ।
यतो निमित्तमान्नेऽपि हेतुकर्तृत्वमिप्यते ॥ १३ ॥

सनातनजैनमन्धमालायाम् १२४ एकैकवृत्त्या प्रत्येकमणवस्तस्य निःक्रियाः। लोकाकाशप्रदेशेषु रनराशिरिव स्थिताः ॥ ४४ ॥ व्यावहारिककालस्य परिणामस्तथा क्रिया। परत्वं चापरत्वं च लिङ्गान्याहुमहर्पयः ॥ ४५ ॥ खजातेरविरोधेन विकारो यो हि वस्तुनः । परिणामः स निर्दिष्टोऽपरिस्पन्दात्मको जिनैः ॥ ४६ ॥ प्रयोगविलसाभ्यां या निमित्ताभ्यां प्रजायते । द्रव्यस्य सा परिज्ञेया परिस्पन्दात्मिका क्रिया ॥ १७ ॥ परत्वं विप्रकृष्टत्वमितरत्सन्निकृष्टता। ते च कालकृते ग्राह्ये कालप्रकरणादिह ॥४८॥ ज्योतिर्गतिपरिच्छिन्ना मनुष्यक्षेत्रवर्त्यसौ । यतो न हि बहिस्तस्माज्योतिषां गतिरिष्यते ॥ ४९ ॥ भूतश्च वर्तमानश्च भविष्यन्निति च त्रिधा । परस्परव्यपेक्षत्वाट्यपदेशो नेकशः ॥ ५० ॥. यथाऽनुसारतः पति बहूनामिह शाखिनाम् । क्रमेण कस्यचित् पुस एकैकाऽनोकुहं प्रति ॥ ५ ॥ संप्राप्तः प्रामुवन्प्राप्स्यन्व्यपदेशः प्रजायते । द्रव्याणामपि कालाणूंस्तथाऽनुसरतामिमान् ॥ ५२ ।। पर्यायं चानुभवतां वर्तनाया यथाक्रमम् । भूतादिव्यवहारस्य गुरुभिः सिद्धिरिष्यते ॥ ५३ ॥ भूतादिव्यपदेशोऽसौ मुख्यो गौणो घनेहसि। व्यावहारिककालोऽपि मुख्यतामादधात्यसौ ॥ ५४ ॥ भेदादिभ्यो निमित्तेभ्यः पूरणाद्गलनादपि । पुनलानां स्वभावज्ञैः कथ्यन्ते पुद्गला इति ॥ ५५॥ अणुस्कन्धविभेदेन द्विविधाः खलु पुद्गलाः । स्कन्धो देशः प्रदेशश्च स्कन्धस्तु विविधो भवेत् ॥ ५६ ॥ . -- Mr 'तत्त्वार्थसारः १२५ अनन्तपरमाणूनां संघातः स्कन्ध इप्यते । देशस्तस्यार्द्धमद्धि प्रदेशः परिकीर्तितः॥ ५७ ॥ भेदात्तथा च संघातात्तथा तदुभयादपि । उत्पद्यन्ते खलु स्कन्धा भेदादेवाणवः पुनः ॥ ५८ ॥ आत्मादिरात्ममध्यश्च तथाऽस्मान्तश्च नेन्द्रियैः । गृह्यते यो विभागी च परमाणुः स उच्यते ॥ ५९ ॥ सूक्ष्मो नित्यस्तथान्त्यश्च कार्यलिङ्गस्य कारणम् । एकगन्धरसश्चैकवर्णो द्विस्पर्शवांश्च सः ॥ ६० ॥ वर्णगन्धरसस्पर्शसंयुक्ताः परमाणवः । स्कन्धा भपि भवन्त्येते वर्णादिभिरनुज्झिताः ॥ १२ ॥ शब्दसंस्थानसूक्ष्मत्वस्थौल्यवन्धसमन्विताः । तम छायातपोधोतभेदवन्तश्च सन्ति ते ॥ १२ ॥ साक्षरोऽनक्षरश्चैव शब्दो भापात्मको द्विधा । प्रायोगिको वैससिको द्विधा भापात्मकोऽपि च ॥ १३ ॥ संस्थान कलशादीनामित्थं लक्षणमिप्यते । ज्ञेयमम्भोधरादीनामनित्थं लक्षणं तथा ॥ ६४ ॥ अन्त्यमापेक्षिकञ्चेति सूक्ष्मत्वं द्विविधं भवेत् । परमाणुपु तत्रान्त्यमन्यद्विल्वारुकादिपु॥६५॥ अन्त्यापेक्षिकभेदेन ज्ञेयं स्थौल्यमपि द्विधा । महास्कन्धेऽन्त्यमन्यच्च वदरामलकादिपु ॥ ६६ ॥ द्विधा वैनसिको बन्धस्तथा प्रायोगिकोऽपि च । तत्र वैससिको वहिविद्युदम्भोधरादिपु ॥ पन्धः प्रायोगिको ज्ञेयो जतुकाष्ठादिलक्षणः ।। ६७ ॥ षट्पदम् । कर्मनोकर्मबन्धो यः सोऽपि प्रायोगिको भवेत् । तमो दृप्रतिबन्धः स्यात्प्रकाशस्य विरोधि च ॥ ६८॥ 'प्राकाशावरणं यत्स्यानिमित्तं वपुरादिकम् । . ...

१२६
सनातनजैनप्रन्थमालायाम्
छायेति सा परिज्ञेया द्विविधा सा च जायते ॥ ६९ ॥
तत्रैका खलु वर्णादिविकारपरिणामिनी।
स्यात्प्रतिबिम्बमात्रान्या जिनानामिति शासनम् ॥ ७०॥
आतपोऽपि प्रकाशः स्यादुष्णश्चादित्यकारणः ।
उद्योतश्चन्दरतादिप्रकाशः परिकीर्तितः ॥ ७१ ॥
उत्करश्शूर्णिकाचूर्णः खण्डोऽनुचटनं तथा।
प्रतरश्चेति पड़ेदा भेदस्योक्ता महर्षिभिः॥ ७२ ॥
विसदृक्षाः सदृक्षा वा ये जघन्यगुणा न हि ।
प्रयान्ति सिग्धरूक्षत्वाद्वन्धन्ते परमाणवः ॥ ७३ ॥
संयुका ये खलु स्वसावयाधिकगुणैर्गुणैः ।
बन्धः स्यात्परमाणूनां तैरेव परमाणुभिः ॥ ७ ॥
बन्धेऽधिकगुणो यः स्यात्सोऽन्यस्य परिणामकः ।
रेणोरधिकमाधुर्यो दृष्टः क्लिन्नगुडो यथा ॥ ७५ ॥
ध्यणुकाद्याः किलाऽनन्ताः पुद्गलानामनेकधा ।
सन्त्यचित्तमहास्कन्धपर्यन्ता बन्धपर्ययाः ॥ ७६ ॥
इतीहाजीवतत्वं यः श्रद्धत्ते वेत्युपेक्षते ।
शेपतत्त्वैः समं पद्भिः स हि निर्वाणभाग्भवेत् ॥ ७७ ॥
इत्यजीवतत्त्ववर्णनम् ॥ ३॥
अनन्तकेवलज्योतिःप्रकाशितजगत्रयान् ।
प्रणिपत्य जिनान् सर्वानास्त्रवः संप्रवक्ष्यते ॥ १ ॥
कायवाड्मनसां कर्म स्मृतो योगः स आत्रवः ।
शुभः पुण्यस्य विज्ञेयो विपरीतश्च पाप्मनः ॥ २॥
सरसः सलिलावाहिद्वारमन जनैर्यथा ।
तदास्रवणहेतुत्वादास्रवो व्यपदिश्यते ॥ ३ ॥
आत्मनोऽपि तथैवैषा जिनर्योगप्रणालिका।
कर्मास्रवस्य हेतुत्वादास्रवो व्यपदिश्यते ॥ ४ ॥

तत्त्वार्थसारः ११७ जन्तवः सकपाया ये कर्म ते साम्परायिकम् । अर्जयन्स्युपशान्ताद्या ईर्यापथमथाऽपरे ॥५॥ साम्परायिकमेतत्स्यादाचर्मस्थरेणुवत् । सकपायस्य यत्कर्मयोगानीतं तु मूर्च्छति ॥ ६ ॥ ईयोपथं तु तच्छुककुख्यप्रक्षिप्तलोष्टवत् । अकपायस्य यत्कर्म योगानीतं न मूर्च्छति ॥ ७ ॥ चतुःकपायपञ्चाक्षस्तथा पञ्चभिरवतैः । क्रियाभिः पञ्चविंशत्या साम्परायिकमाश्रयेत् ॥ ८॥ तीव्रमन्दपरिज्ञातभावेभ्योऽज्ञातभावतः । धीर्याधिकरणाभ्यां च तद्विशेपं विदुर्जिनाः ॥९॥ तत्राधिकरणं द्वेधा जीवाजीवविभेदतः । त्रिःसंरम्भसमारम्भारम्भैर्योगैस्तथा त्रिभिः ॥ १० ॥ कृतादिभिस्त्रिभिश्चैव चतुर्भिश्च क्रुधादिभिः । जीवाधिकरणस्येति भेदादष्टोत्तरं शतम् ॥ ११ ॥ संयोगौ द्वौ निसर्गास्त्रीनिक्षेपाणां चतुष्टयम् । निवर्तनाद्वयं चाहुर्भेदानित्यपरस्य तु ॥ १२ ॥ मात्सर्यमन्तरायश्च प्रदोपो निहवस्तथा । आसादनोपघातौ च ज्ञानस्योत्सूत्रचोदितौ ॥ १३ ।। अनादरार्थश्रवणमालस्यं शास्त्रविक्रयः । बहुश्रुताभिमानेन तथा मिथ्योपदेशनम् ॥ १४ ॥ अकालाधीतिराचार्योपाध्यायप्रत्यनीकता । श्रद्धाभावोऽप्यनभ्यासस्तथा तीर्थोपरोधनम् ॥ १५ ॥ बहुश्रुतावमानश्च ज्ञानाधीतेश्च शाठ्यता । इत्येते ज्ञानरोधस्य भवन्त्यास्रवहेतवः ॥ १६ ॥ दर्शनस्यान्तरायश्च प्रदोपो निह्नवोऽपि च । मात्सर्यमुपधातश्च तस्यैवासादनं तथा ॥ १७ ॥ .

१२८
सनातनजैनग्रन्थमालायाम्
नयनोत्पाटनं दीर्घखापिता शयनं दिवा ।
नास्तिक्यवासना सम्यग्दृष्टिसन्दूपणं तथा ॥ १८ ॥
कुतीर्थानां प्रशंसा च जुगुप्सा च तपस्विनाम् ।
दर्शनावरणस्यैते भवन्यात्रवहेतवः ॥ १९ ॥
दुःखं शोको वधस्तापः क्रन्दनं परिदेवनम् ।
परात्मद्वितयस्थानि तथा च परपैशुनम् ॥ २० ॥
छेदन भेदनं चैव ताडनं दमनं तथा ।
तर्जनं भर्सनं चैव सद्यो विश्वसनं तथा ॥ २१ ॥
पापकर्मोपजीवित्वं वक्रशीलत्वमेव च ।
शस्त्रप्रदानं विश्रम्भघातनं विपमिश्रणम् ॥२२॥
शृङ्खलावागुरापाशरजुजालादिसर्जनम् ।
धर्मविध्वंसनं धर्मप्रत्यूहकरणं तथा ॥ २३ ॥
तपस्विगर्हणं शीलवतप्रच्यावनं तथा ।
इत्यसवेदनीयस्य भवन्त्यासवहेतवः ॥ २४ ॥
दया दानं तपः शीलं सत्यं शौचं दमः क्षमा ।
वैयावृत्यं विनीतिश्च जिनपूजार्जवं तथा ॥ २५ ॥
सरागसंयमश्चैव संयमासंयमस्तथा ।
भूतवृत्त्यनुकम्पा च सद्वेद्यास्त्रवहेतवः ॥ २६ ॥
केवलीश्रुतसंघानां धर्मस्य निदिवौकसाम् ।
अवर्णवादग्रहणं तथा तीर्थकृतामपि ॥ २७ ॥
मार्गसंदूपणं चैव तथैवोन्मार्गदेशनम् ।
इति दर्शनमोहस्य भवन्त्याखवहेतवः ॥ २८ ॥
स्यात्तीव्रपरिणामो यः कपायाणां विपाकतः ।
चारित्रमोहनीयस्य स एवासवकारणम् ॥ २९ ॥
उत्कृष्टमानता शैलराजीसदृशरोपता।
मिथ्यात्वं तीवलोभत्वं नित्यं निरनुकम्पता ॥ ३० ॥

तत्त्वार्थसारः
अजस्रं जीवघातित्वं सततानृतवादिता।
परस्वहरणं नित्यं नित्यं मैथुनसेवनम् ॥ ३१ ॥
कामभोगाभिलापाणां नित्यं चातिप्रवृद्धता ।
जिनस्यासादनं साधुसमयस्य च भेदनम् ॥ ३२ ॥
मार्जारतानचूडादिपापीयःप्राणिपोपणम् ।
नैःशील्यं च महारम्भपरिग्रहतया सह ॥ ३३ ॥
कृष्णलेश्यापरिणतं रौद्रध्यानं चतुर्विधम् ।
आयुपो नारकस्येति भवन्त्यास्रवहेतवः ॥ ३४ ॥
नैःशील्यं नित्तत्वं च मिथ्यात्वं परवञ्चनम् ।
मिथ्यात्वसमवेतानामधर्माणां च देशनम् ॥ ३५ ॥
कृत्रिमाऽगुरुक'रकुकुमोत्पादनं तथा ।
तथा मानतुलादीनां कूटादीनां प्रवर्तनम् ॥ ३६ ।।
सुवर्णमौक्तिकादीनां प्रतिरूपकनिर्मितिः ।
वर्णगन्धरसादीनामन्यथापादनं तथा ॥ ३७ ॥
तकक्षीरघृतादीनामन्यद्रव्यविमिश्रणम् ।
वाचान्यदुत्काकरणमन्यस्य क्रियया तथा ॥ ३८॥
कापोतनीललेश्यात्वमार्तध्यानं च दारुणम् ।
तैर्यग्योनायुपो ज्ञेया माया चास्रवहेतवः ॥ ३९॥
ऋजुत्वमीपदारम्भः परिग्रहतया सह ।
खभावमार्दवं चैव गुरुपूजनशीलता ॥ ४० ॥
भल्पसंक्लेशतादानं विरतिः प्राणिघाततः।
आयुपो मानुपस्येति भवन्यास्रवहेतवः ॥ ११ ॥
अकामनिर्जरा वालतपो मन्दकपायता।
सुधर्मश्रवणं दानं तथायतनसेवनम् ॥ ४२ ॥
सरागसंयमश्चैव सम्यक्त्वं देशसंयमः।
इति देवायुपो ह्येते भवन्त्यास्रवहेतवः ॥ ४३ ॥

सनातनजैनग्रन्थमालायाम्
मनोवाकायवक्रत्वं विसंवादनशीलता।
मिथ्यात्वं कूटसाक्षित्वं पिशुनास्थिरचित्तता ॥ ४४ ॥
विपक्रियेष्टकापाकदावाग्नीनां प्रवर्तनम् ।
प्रतिमायतनोद्यानप्रतिश्रयविनाशनम् ॥ ४५ ॥
चैत्यस्य च तथा गन्धमाल्यधूपादिमोपणम् ।
अतितीव्रकपायत्वं पापकर्मोपजीवनम् ॥ १६ ॥
परुपासह्यवादित्वं सौभाग्यकारणं तथा।
अशुभस्येति निर्दिष्टा नाम्न आस्वहेतवः ॥ ४७ ॥
संसारभीरतानित्यमविसंवादनं तथा।
योगानां चार्जवं नान्नः शुभस्यास्रवहेतवः ॥ १८ ॥
विशुद्धिदर्शनस्योचैस्तपस्त्यागौ च शक्तितः।
मार्गप्रभावना चैव संपत्तिविनयस्य च ॥ ४९ ॥
शीलवतानतीचारो नित्यं संवेगशीलता।
ज्ञानोपयुक्तताभीक्ष्णं समाधिश्च तपस्विनः ॥ ५० ॥
वैयावृत्त्यमनिहाणिः पड्विधाऽवश्यकस्य च ।
भक्तिः प्रवचनाचार्यजिनप्रवचनेषु च ॥ ५१ ॥
वात्सल्यं च प्रवचने पोडशैते यथोदिताः।
नान्नस्तीर्थकरत्वस्य भवन्त्यात्रवहेतवः ॥ ५२ ॥
असद्गुणानामाख्यानं सद्गुणाच्छादनं तथा।
स्वप्रशंसान्यनिन्दा च नीचैर्गोत्रस्य हेतवः ॥ ५३ ॥
नीचैर्वृत्तिरनुत्सेकः पूर्वस्य च विपर्ययः ।
उच्चैर्गोत्रस्य सर्वज्ञैः प्रोक्ता आसवहेतवः ॥ ५४ ॥
तपस्विगुरुचैत्यानां पूजालोपप्रवर्तनम् ।
अनाथदीनकृपणभिक्षादिप्रतिपेधनम् ॥ ५५ ॥
वधवन्धनिरोधैश्च नासिकाच्छेदकर्तनम् ।
प्रमादादेवतादत्तनैवेद्यग्रहणं तथा ॥ ५६ ॥

तत्त्वार्थसारः १३१ निरवद्योपकरणपरित्यागो वधोऽङ्गिनाम् । दानभोगोपभोगादिप्रत्यूहकरणं तथा ॥ ५७ ॥ ज्ञानस्य प्रतिपेधश्च धर्मविनकृतिस्तथा । इत्येवमन्तरायस्य भवन्त्यानवहेतवः ॥ ५४॥ व्रताकिलास्रवेत्पुण्यं पापं तु पुनरवतात् । संक्षिप्यास्रवमित्येवं चिन्त्यतेऽतो व्रताव्रतम् ॥ ५९ ॥ हिंसाया अनृताच्चैव स्तेयादब्रह्मतस्तथा । परिग्रहाच विरतिः कथयन्ति व्रतं जिनाः ॥६०॥ कात्स्येन विरतिः पुंसां हिंसादिभ्यो महानतम् । एकदेशेन विरतिर्विजानीयादणुव्रतम् ॥ ६१ ॥ व्रतानां स्थैर्य सिद्ध्यर्थ पञ्च पञ्च प्रतिव्रतम् । भावनाः संप्रतीयन्ते मुनीनां भावितात्मनाम् ॥ ६२ ॥ वचोगुप्तिर्मनोगुप्तिरीय समितिरेव च । ग्रहनिक्षेपसमितिः पानान्नमवलोकितम् ॥ १३ ॥ इत्येताः परिकीर्त्यन्ते प्रथमे पञ्च भावनाः । क्रोधलोभपरित्यागौ हास्यभीरुत्ववर्जने ॥ ६ ॥ अनुवीचिवचश्चेति द्वितीये पञ्च भावनाः । शून्यागारेपु वसनं विमोचितगृहेषु च ॥ ६५ ॥ उपरोधाविधानं च भक्ष्यशुद्धिर्यथोदिता । ससधर्माऽविसंवादस्मृतीये पञ्च भावनाः ।। ६६ ॥ स्त्रीणां रागकथाश्रावो रमणीयाङ्गवीक्षणम् । पूर्वरत्याः स्मृतिश्चैव वृष्येष्टरसवर्जनम् ॥ ६७ ॥ शरीरसंस्क्रियात्यागश्चतुर्थे पञ्च भावनाः । मनोज्ञा अमनोज्ञाश्च ये पञ्चेन्द्रियगोचराः ॥ ६८ ॥ रागद्वेपोज्झनान्येपु पञ्चमे पञ्च भावनाः । इह व्यपायहेतुत्वममुन्नावद्यहेतुताम् ॥ ६९॥..

१३२
सनातनजैनग्रन्धमालायाम्
हिंसादिषु विपक्षेपु भावयेच्च समन्ततः ।
स्वयं दुःखस्वरूपत्वाहुःखहेतुत्वतोऽपि च ॥ ७० ॥
हेतुत्वाहुःखहेतूनामिति तत्त्वपरायणाः ।
हिंसादीन्यथवा नित्यं दुःखमेवेति भावयेत् ॥ ७१ ॥
सत्त्वेषु भावयेन्मैत्री मुदितां गुणशालिपु ।
क्लिश्यमानेषु करुणामुपेक्षा वामदृष्टिपु ॥ ७२ ॥
संवेगसिद्धये लोकस्वभावं सुष्टु भावयेत् ।
वैराग्याथै शरीरस्य स्वभावं चापि चिन्तयेत् ॥ ७३ ॥
द्रव्यभावस्वभावानां प्राणानां व्यपरोपणम् ।
प्रमत्तयोगतो यत्स्यात् सा हिंसा संप्रकीर्तिता ।। ७४
प्रमत्तयोगतो यत्स्यादसदर्थाभिभाषणम् ।
समस्तमपि विज्ञेयमनृतं तत्समासतः ॥ ७५ ॥
प्रमत्तयोगतो यत्स्याददत्तार्थपरिग्रहः ।
प्रत्येयं तत्खलु स्तेयं सर्व संक्षेपयोगतः ॥ ७६ ॥
मैथुनं मदनोद्रेकादब्रह्मपरिकीर्तितम् ।
ममेदमिति संकल्परूपा मूर्छा परिग्रहः ॥ ७७ ॥
मायानिदानमिथ्यात्वशल्याभावविशेषतः।
अहिंसादिवतोपेतो व्रतीति व्यपदिश्यते ॥ ७८ ॥
अनगारस्तथाऽगारी स द्विधा परिकथ्यते ।
महानतोऽनगारः स्यादगारी स्यादणुवतः ॥ ७९ ॥
दिग्देशाऽनर्थदण्डेभ्यो विरतिः समता तथा।
सप्रोपधोपवासश्च संख्याभोगोपभोगयोः ॥ ८॥
अतिथेः संविभागश्च व्रतानीमानि गेहिनः ।
अपराण्यपि सप्त स्युरित्यमी द्वादश व्रताः ॥ ८ ॥
अपरं च व्रतं तेषामपश्चिममिहेष्यते ।
अन्ते सल्लेखनादेव्याः प्रीत्या संसेवनं च यत् ॥ ८२ ॥

तत्त्वार्थसारः
१३३
सम्यक्त्वनतशीलेपु तथासलेखनाविधी।
अतीचाराः प्रवक्ष्यन्ते पञ्च पञ्च यथाक्रमम् ॥ ८३ ॥
शङ्कनं कारणं चैव तथा च विचिकित्सनम् ।
प्रशंसा परदृष्टीनां संस्तवश्चेति पञ्च ते ।। ८४॥
पन्धो वधस्तथा छेदो गुरुभाराधिरोपणम् ।
अन्नपाननिषेधश्च प्रत्येया इति पञ्च ते ॥ ५॥
फूटलेखो रहोभ्याख्या न्यासापहरणं तथा ।
मिथ्योपदेशसाकारमन्त्रभेदौ च पञ्च ते ॥ ८६ ॥
स्तेनाहतस्य ग्रहणं तथा स्तेनप्रयोजनम् ।
व्यवहारप्रतिच्छन्दैमानोन्मानोनवृद्धता ॥ ८७ ॥
अतिक्रमो विरुद्ध च राज्ये सन्तीति पञ्च ते ।
अनङ्गक्रीडितं तीनोऽभिनिवेशो मनोभुवः ॥ ८ ॥
इत्वोंर्गमनं चैव संगृहीतागृहीतयोः ।
तथा परविवाहस्य करणं चेति पञ्च ते ॥ ८९ ॥
हिरण्यस्वर्णयोः क्षेत्रवास्तुनोर्धनधान्ययोः ।
दासीदासस्य कुप्यस्य
मानाधिक्यानि पञ्च ते ॥१०॥
तिर्यग्व्यतिक्रमस्तद्वदध अर्द्धमतिक्रमौ ।
तथा स्मृत्यन्तराधानं क्षेत्रवृद्धिश्च पञ्च ते ॥ ९ ॥
असिमानयनं देशे शब्दरूपानुपातनम् ।
प्रेव्यप्रयोजनं क्षेपः पुद्गलानां च पञ्च ते ॥ ९२ ॥
असमीक्ष्याधिकरणं भोगानर्थक्यमेव च ।
तथा कन्दर्पकौत्कुच्यमौखर्याणि च पञ्च ते ॥ १३ ॥
त्रीणि दुःप्रणिधानानि वामनःकायकर्मणाम् ।
अनादरोऽनुपस्थानं सरणस्येति पञ्च ते ॥ ९४ ॥
संस्तरोत्सर्जनादानमसंदृष्टापमार्जितम् ।
अनादरोऽनुपस्थानं सरणस्येति पञ्च ते ॥ ९५ ॥

૧૩૪ सनातनजैनग्रन्थमालायाम् सचित्तस्तेनसम्बन्धस्तनसंमिश्रितस्तथा। दुःपकोऽभिपवश्चैवमाहाराः पञ्च पञ्च ते ॥ ९६ ॥ कालव्यतिक्रमोऽन्यस्य व्यपदेशोऽथ मत्सरः । सचित्ते स्थापनं तेन पिधानं चेति पञ्च ते ॥ ९७ ॥ पञ्चत्वजीविताशंसे तथा मित्रानुरञ्जनम् । सुखानुबन्धनं चैव निदानं चेति पञ्च ते॥ १८ ॥ परात्मनोरनुग्राही धर्मवृद्धिकरत्वतः । खस्योत्सर्जनमिच्छन्ति दानं नाम गृहिव्रतम् ॥ ९९ ॥ विधिद्रव्यविशेषाभ्यां दातृपात्र विशेषतः । ज्ञेयो दानविशेषस्तु पुण्यावविशेषकृत् ॥ १० ॥ हिंसानृतचुराब्रह्मसंगसंन्यासलक्षणम् । व्रतं पुण्यास्रवोत्थानं भावेनेति प्रपञ्चितम् ॥ १० ॥ हिंसानृतचुराब्रह्मसंगसंन्यासलक्षणम् । चिन्त्यं पापानवोत्थानं भावेन स्वयमव्रतम् ॥ १०२ ॥ हेतुकार्यविशेषाभ्यां विशेषः पुण्यपापयोः । हेतू'शुभाशुभौ भावौ कार्ये चैव सुखासुखे ॥ १०३ ॥ संसारकारणत्वस्य द्वयोरप्यविशेषतः। न नाम निश्चये नास्ति विशेषः पुण्यपापयोः ॥१०४ ॥ इतीहास्रवतत्वं यः श्रद्धत्ते वेत्त्युपेक्षते । शेषतत्त्वैः समं पद्धिः स हि निर्वाणभाग्भवेत् ॥ १०५ ॥ इत्यास्रवतत्त्ववर्णनम् ॥ ४ ॥ अनन्तकेवलज्योतिःप्रकाशितजगत्रयान् । प्रणिपत्य जिनान्मू वन्धतत्त्वं प्ररूप्यते ॥१॥ बन्धस्य हेतवः पञ्च स्युमिथ्यात्वमसंयमः । प्रमादश्च कपायश्च योगश्चेति जिनोदिताः ॥२॥ ऐकान्तिकं सांशयिक विपरीतं तथैव च ।

तत्त्वार्थसारः १३५ भाज्ञानिकं च मिथ्यात्वं तथा चैनयिकं भवेत् ॥३॥ यत्राभिसनिवेशः स्यादत्यन्तं धर्मिधर्मयोः। इदमेवेत्थमेवेति तदैकान्तिकमुच्यते ॥ ४ ॥ किंवा भवेन वा जैनो धर्मोऽहिंसादिलक्षणः । इति यत्र मतिद्वैधं भवेत्सांशयिकं हि तत् ॥ ५ ॥ सग्रन्थोऽपि च निर्गन्धो पासाहारी च केवली। रचिरेवंविधा यत्र विपरीतं हि तत्स्मृतम् ॥ ६ ॥ हिताहितविवेकस्य यत्रात्यन्तमदर्शनम् । यथा पशुवधो धर्मसदज्ञानिकमुच्यते ॥ ७ ॥ सर्वेपामपि देवानां समयानां तथैव च । यन्न स्यात्समदर्शित्वं ज्ञेयं वैनयिकं हि तत् ॥ ८॥ पढ्जीवकायपञ्चाक्षमनोविषयभेदतः । कथितो द्वादश विधः सर्वविद्भिरसंयमः ॥ ९ ॥ शुद्ध्यष्टके तथा धर्मे क्षान्त्यादिदशलक्षणे । योऽनुत्साहः स सर्वज्ञैः प्रमादः परिकीर्तितः ॥१०॥ पोटशैव कपायाः स्यु!कपाया नवेरिताः । ईप दो न भेदोऽत्र कपायाः पञ्चविंशतिः ॥ ११ ॥ चत्वारो हि मनोयोगा वाग्योगानां चतुष्टयम् । पञ्च द्वौ च वपुर्योगा योगाः पञ्चदशोदिताः ॥ १२ ॥ यजीवः सकपायत्वात्कर्मणो योग्यपुरलान् । आदत्ते सर्वतो योगात्स वन्धः कथितो जिनैः ॥ १३ ॥ न कर्मात्मगुणोऽमूर्तेस्तस्य बन्धाप्रसिद्धितः । अनुग्रहोपघातौ हि नामूर्तेः कर्तुमर्हति ॥ १४ ॥ औदारिकादिकार्याणां कारणं कर्म मूर्तिमत् । न यमूर्तेन मूर्तीनामारम्भः क्वापि दृश्यते ॥ १५॥ न च बन्धामसिद्धिः स्यान्मूतैः कर्मभिरात्मनः।

१३६ सनातनजैनग्रन्थमालायाम् अमूर्त्तरित्यनेकान्तात्तस्य मूर्तित्वसिद्धितः ॥ १६ ॥ अनादिनित्यसम्बन्धात्सह कर्मभिरात्मनः। अमूर्तस्यापि सत्यैक्ये मूर्तत्वमवसीयते ॥ १७ ॥ बन्धं प्रति भवत्यैकमन्योन्यानुप्रवेशतः। युगपट्टावितः स्वर्णरौप्यवज्जीवकर्मणोः ॥ १० ॥ तथा च मूर्तिमानात्मा सुराभिभवदर्शनात् । नामूर्तस्य नमसो मदिरा मदकारिणी ॥ १९ ॥ गुणस्य गुणिनश्चैव न च बन्धः प्रसज्यते । निर्मुक्तस्य गुणत्यागे वस्तुत्वानुपपत्तितः ॥२०॥ प्रकृतिस्थितिबन्धौ द्वौ बन्धश्चानुभवाभिधः। तथा प्रदेशबन्धश्च ज्ञेयो बन्धश्चतुर्विधः ॥ २१ ॥ ज्ञानदर्शनयो रोधौ वेचं मोहायुपी तथा । नामगोत्रान्तरायौ च मूलप्रकृतयः स्मृताः ॥ २२ ॥ अन्याः पञ्च नव द्वे च तथाष्टाविंशतिः क्रमात् । चतनश्व निसंयुक्ता नवति च पञ्च च ॥ २३ ॥ मतिः श्रुतावधी चैव मनःपर्ययकेवले । एपामावृत्तयो ज्ञानरोधप्रकृतयः स्मृताः ॥ २४ ॥ चतुर्णा चक्षुरादीनां दर्शनानां निरोधतः । दर्शनावरणाभिख्यं प्रकृतीनां चतुष्टयम् ॥ २५ ॥ निद्रानिद्रा तथा निद्रा प्रचलाप्रचला तथा । प्रचला स्त्यानगृद्धिश्च ग्रोधस्य नव स्मृताः ॥ २६ ॥ द्विधा वेद्यमसद्वेधं सद्वेद्यं च प्रकीर्तितम् । त्रयः सम्यक्त्वमिथ्यात्वसम्यगमिथ्यात्वभेदतः॥२७॥ क्रोधो मानस्तथा माया लोभोऽनन्तानुबन्धिनः । तथा त एव चाप्रत्याख्यानावरणसंज्ञिकाः ॥ २८ ॥ प्रत्याख्यानरुधश्चैव तथा सश्वलनाभिधाः ।

तत्त्वार्थसारः १३७ हास्यं रत्यरती शोको भयं सह जुगुप्सया ॥ २९ ॥ नारीपुंपण्ढवेदाश्च मोहप्रकृतयः स्मृताः। श्वानतिर्यग्नदेवायुर्भेदादायुश्चतुर्विधम् ॥ ३० ॥ चतस्रो गतयः पञ्च जातयः कायपञ्चकम् । अङ्गोपाङ्गत्रयं चैव निर्माणप्रकृतिस्तथा ॥ ३१ ॥ पञ्चधा बन्धनं चैव सातोऽपि च पञ्चधा । समादिचतुरस्त्रं तु न्यग्रोधं सातिकुन्जकम् ॥ ३२ ॥ धामनं हुण्डसंजं च संस्थानमपि पड्विधम् । स्याद्वध्रर्पभनाराचं वज्रनाराचमेव च ॥ ३३ ॥ नाराचमर्द्धनाराचं कीलकं च ततः परम् । तथा संहननं पष्ठमसंप्राप्तास्पाटिका ॥ ३४ ॥ अष्टधा स्पर्शनामापि कर्कशं मृदु लम्वपि । गुरु सिग्धं तथा रूक्षं शीतमुष्णं तथैव च ॥ ३५ ॥ मधुरोऽम्लः कटुस्तिका कपायः पञ्चधा रसः । वर्णाः शुक्लादयः पञ्च द्वौ गन्धौ सुरभीतरौ ॥३६॥ श्वभ्रादिगतिभेदात्स्यादानुपूर्वीचतुष्टयम् । उपघातः परघातस्तथा गुरुलघुर्भवेत् ॥ ३७॥ उच्छास आतपोद्योती शस्ताशस्ते नभोगती। प्रत्येकत्रसपर्याप्तबादराणि शुभं स्थिरम् ॥ ३८ ॥ सुखरं सुभगादेयं यशः कीर्तिः सहेतरैः । तथा तीर्थकरत्वं च नामप्रकृतयः स्मृताः ॥ ३९ ॥ गोत्रकर्म द्विधा ज्ञेयमुच्चनीचविभेदतः । स्थाहानलाभवीर्याणां परिभोगोपभोगयोः ॥ ४० ॥ अन्तरायस्य वैचित्र्यादन्तरायोऽपि पञ्चधा। द्वे त्यक्त्वा मोहनीयस्य नान्नः पडूविंशतिस्तथा ॥ ११ ॥ सर्वेषां कर्मणां शेपा वन्धप्रकृतयः स्मृताः ।

.
१३८
सनातनजैनग्रन्थमालायाम्
अबन्धा मिश्रसम्यक्त्वे बन्धसङ्घातयोर्दश ॥ ४२ ॥
स्पर्शे सप्त तथैका च गन्धेष्टौ रसवर्णयोः।
वेद्यान्तराययोानहगावरणयोस्तथा ॥ ४३ ॥
कोटीकोट्यः स्मृतारिंशत्सागराणां परा स्थितिः।
मोहस्य सप्ततिस्ताः स्युर्विशतिर्नामगोत्रयोः ॥ ४४ ॥
आयुपस्तु त्रयस्त्रिंशत्सागराणां परा स्थितिः।
मुहूर्ता द्वादश ज्ञेया वेद्येष्टी नामगोत्रयोः ॥ १५ ॥
स्थितिरन्तर्मुहूर्तस्तु जघन्या शेपकर्मसु ।
विपाकः प्रागुपात्तानां यः शुभाशुभकर्मणाम् ॥ १६ ॥
असावनुभवो ज्ञेयो यथा नाम भवेश्च सः।
धनाङ्गुलस्यासङ्ख्ययभागक्षेत्रावगाहिनः ॥ ४७ ॥
एकद्विन्याद्यसङ्ख्येयसमयास्थितिकांस्तथा।
उप्णरुक्षहिमस्निग्धान्सर्ववर्णरसान्वितान् ॥ १८ ॥
सर्वकर्मप्रकृत्यहान् सर्वेष्वपि भवेषु यत् ।
द्विविधान् पुद्गलस्कन्धान सूक्ष्मान् योगविशेपतः ॥ १९ ॥
सर्वेष्वात्मप्रदेशेष्वनन्तानन्तप्रदेशकान् ।
आत्मसात्कुरुते जीवः सः प्रदेशोऽभिधीयते॥ ५० ॥
शुभाशुभोपयोगाख्यनिमित्तो द्विविधस्तथा ।
पुण्यपापतया द्वेधा सर्व कर्म प्रभिद्यते ॥५१॥
उच्चैर्गोत्रं शुभायूंपि सद्वेचं शुभनाम च ।
द्विचत्वारिंशदित्येवं पुण्यप्रकृतयः स्मृताः ॥ ५२ ॥
नीचैर्गोत्रमसद्वेधं श्वनायु म. चाशुभम् ।
यशीतिर्धातिभिः साई पापप्रकृतयः स्मृताः ॥ ५३ ॥
इत्येतद्वन्धतत्त्वं यः श्रद्धत्ते वेत्युपेक्षते ।
शेपतत्त्वैः समं पडभिः स हि निर्वाणभाग्भवेत् ॥ ५४ ॥
इति वन्धतत्त्ववर्णनम् ॥ ५ ॥

तत्त्वार्थसारः
१३९
अनन्तकेवलज्योतिःप्रकाशितजगत्रयान् ।
प्रणिपत्य जिनान् मर्धा संवरः संप्रचक्ष्यते ॥१॥
यथोक्तानां हि हेतूनामात्मनः सति संभवे ।
आस्रवस्य निरोधो यः स जिनैः संवरः स्मृतः ॥२॥
गुप्तिः समितयो धर्मः परीपहजयस्तपः ।
अनुप्रेक्षाश्च चारित्रं सन्ति संवरहेतवः ॥ ३ ॥
योगानां निग्रहः सम्यग्गुप्तिरित्यभिधीयते ।
मनोगुप्तिर्वचोगुप्तिः कायगुप्तिश्च सा निधा ॥ ४ ॥
तत्र प्रवर्तमानस्य योगानां निग्रहे सति ।
सन्निमित्तास्रवाभावात्सद्यो भवति संवरः ॥ ५॥
ई-भापैपणादाननिक्षेपोत्सर्गभेदतः।
पञ्चगुप्तावशक्तस्य साधोः समितयः स्मृताः ॥ ६॥
मार्गाद्योतोपयोगानामालम्व्यस्य च शुद्धिभिः ।
गच्छतः सूत्रमार्गेण स्मृतेर्या समितिर्यतेः ॥ ७ ॥
ध्यलीफादिविनिर्मुक्तं सत्यासत्यामृपाद्वयम् ।
घदतः सूत्रमार्गेण भापासमितिरिप्यते ॥८॥
पिण्डं तथोपधि शय्यामुद्गमोत्पादनादिना ।
साधोः शोधयतः शुद्धा खेपणा समितिर्भवेत् ॥ ९ ॥
सहसाएदुर्घष्टाप्रत्यवेक्षणदूपणम् ।
त्यजतः समितिज्ञेयादाननिक्षेपगोचरा ॥ १० ॥
समितिदर्शितानेन प्रतिष्ठापनगोचरा ।
त्याज्यं भूत्रादिकं द्रव्यं स्थण्डिले त्यजतो यतेः ॥ ११ ॥
इत्थं प्रवर्तमानस्य न कर्माण्यास्रवन्ति हि ।
भसंयमनिमित्तानि ततो भवति संवरः ॥ १२ ॥
क्षमामृदृजुते शौचं स सत्यं संयमस्तपः ।
यागोऽकिञ्चनता ब्रह्म धमों दशविधः स्मृतः ॥ १३ ॥

१४० सनातननग्रन्थमालायाम् क्रोधोत्पत्तिनिमित्तानामत्यन्तं सति सम्भवे । आक्रोशताडनादीनां कालुप्योपरमः क्षमा ॥ १४ ॥ अभावो योऽभिमानस्य परैः परिभवे कृते। जात्यादीनामनावेशान् मदानां मार्दवं हि तत् ॥ १५ ॥ वाडानकाययोगानामवक्रत्वं तदार्जवम् । परिभोगोपभोगत्वं जीवितेन्द्रियभेदतः ॥ १६ ॥ चतुर्विधस्य लोभस्य निवृत्तिः शौचमुच्यते । ज्ञानचारित्रशिक्षादौ स धर्मः सुनिगद्यते । धर्मोपबृंहणार्थ यत्साधु सत्यं तदुच्यते ॥ १७ ॥ ( पदमदन ) इन्द्रियार्थेपु वैराग्य प्राणिनां वधवर्जनम् । समितौ वर्तमानस्य मुनेर्भवति संयमः ॥ १८ ॥ परं कर्मक्षयार्थ यत्तप्यते तत्तपः स्मृतम् । त्यागस्तु धर्मशास्त्रादिविश्राणनमुदाहृतम् ॥ १९ ॥ ममेदमित्युपात्तेपु शरीरादिपु केपुचित् । भभिसन्धिनिवृत्तिर्या तदाकिञ्चन्यमुच्यते ॥ २० ॥ स्त्रीसंसक्तस्य शय्यादेरनुभूताङ्गनास्मृतेः । तत्कथायाः श्रुतेश्च स्थाब्रह्मचर्य हि वर्जनात् ॥ २१ ॥ इति प्रवर्तमानस्य धर्मे भवति संवरः । तद्विपक्षनिमित्तस्य कर्मणो नाखवे सति ।। २२ ।। क्षुत्पिपासा च शीतोष्णदंशमकुणनग्नते। अरतिः स्त्री च चर्या च निषद्या शयनं तथा ॥ २३॥ आक्रोशश्व वधश्चैव याचनालाभयोयम् । रोगश्च तृणसंस्पर्शस्तथा च मलधारणम् ॥ २४ ॥ असरकारपुरस्कार प्रज्ञाज्ञानमदर्शनम् । इति द्वाविंशतिः सम्यक् सोढव्याः स्युः परीषहाः ॥ २५ ॥ संवरो हि भवत्येतानसंक्लिष्टेन चेतसा ।

तत्त्वार्थसारः १४१ सहमानस्य रागादिनिमित्तास्रवरोधतः ॥ २६ ॥ तपो हि निर्जराहेत्तुरुत्तरत्र प्रचक्ष्यते । संवरस्यापि विद्वांसो विदुस्तन्मुख्यकारणम् ॥ २७ ॥ भनेककार्यकारित्वं न चैकस्य विरुष्यते। दाहपाकादिहेतुत्वं दृश्यते हि विभावसोः ॥ २८ ॥ भनित्यं शरणाभावो भवश्चैकत्वमन्यता। भशौचमास्रवश्चैव संवरो निर्जरा तथा ॥ २९ ॥ लोको दुर्लभता बोधिः स्वाण्यातत्वं वृपस्य च । अनुचिन्तनमेतेपामनुप्रेक्षाः प्रकीर्तिताः ॥ ३० ॥ कोढीकरोति प्रथमं जातजन्तुमनित्यता। धात्री च जननी पश्चाद्धिग्मानुष्यमसारकम् ॥ ३५ ॥ उपघातस्य घोरेण मृत्युव्याघ्रण देहिनः । देवा भपि न जायन्ते शरणं किमु मानवाः ॥ ३२ ॥ चतुर्गतिघटीयने सनिवेश्य घटीमिव । आत्मानं भ्रमयत्येप हा कष्टं कर्मकक्षिकः ॥ ३३ ॥ फस्याऽपत्यं पिता कस्य करयाम्बा कस्य गेहिनी। एक एव भवाम्भोधौ जीवो भ्रमति दुस्तरे ॥ ३४ ॥ अन्यः सचेतनो जीवो वपुरन्यदचेतनम् । हा तथापि न मन्यन्ते नानात्वमनयोजनाः ॥ ३५ ॥ नानाकृमिशताकीर्णे दुर्गन्धे मलपूरिते। आत्मनश्च परेषां च क शुचित्वं शरीरके ॥ ३६॥ . कर्माम्भोभिः प्रपूर्णोऽसौ योगरन्ध्रसमाहृतैः । हा दुरन्ते भवाम्भोधौ जीवो मजति पोतवत् ॥ ३७ ॥ योगद्वाराणि रुन्धन्तः कपाटैरिव गुप्तिभिः । आपतद्भिर्न बाध्यन्ते धन्याः कर्मभिरुत्कटः ॥ ३०॥ गाढोपजीर्यते यद्वदामदोपो विसर्पणात् ।

१४२ सनातनजैनग्रन्थमालायाम् तद्वनिर्जीयते कर्म तपसा पूर्वसञ्चितम् ॥ ३९ ॥ नित्याध्वगेन जीवेन भ्रमता लोकवर्मनि । वसति स्थानवत्कानि कुलान्यध्युपितानि न ॥ ४० ॥ मोक्षारोहणनिश्रेणिः कल्याणानां परम्परा । अहो कष्टं भवाम्भोधौ चोधि वस दुर्लभा ॥ ४ ॥ क्षान्त्यादिलक्षणो धर्मः स्वाख्यातो जिनपुङ्गवैः । अयमालम्बनस्तम्भो भवाम्भोधों निमजताम् ॥ ४२ ॥ एवं भावयतः साधोवेधर्ममहोद्यमः। ततो हि निःप्रमादस्य महान् भवति संवरः ॥ ३ ॥ वृत्तं सामायिक ज्ञेयं छेदोपस्थापनं तथा। परिहारं च सूक्ष्मं च यथाख्यातं च पञ्चमम् ॥ ४४ ॥ प्रत्याख्यानमभेदेन सर्वसावधकर्मणः । नित्यं नियतकालं वा वृत्तं सामायिकं स्मृतम् ॥ ४५ ॥ यत्र हिंसादिभेदेन त्यागः सावद्यकर्मणः । व्रतलोपे विशुद्धिर्वा छेदोपस्थापनं हि तत् ॥ ४६ ॥ विशिष्टपरिहारेण प्राणिघातस्य यत्र हि । शुद्धिर्भवति चारित्रं परिहारविशुद्धि तत् ॥ ४७ ॥ कपायेपु प्रशान्तेषु प्रक्षीणेप्दखिलेषु वा। स्यात्सूक्ष्मसाम्परायाख्यं सूक्ष्मलोभवतो यतेः ॥ ४॥ क्षयाचारित्रमोहस्य कायेनोपशमात्तथा । यथाख्यातमथाख्यातं चारित्रं पञ्चमं जिनैः ॥ ४९ ॥ सम्यक्चारित्रमित्येतद्यथास्वं चरतो यतः। साखवनिरोधः स्यात्ततो भवति संवरः ॥ ५० ॥ तपस्तु वक्ष्यते तद्धि सम्यग्भावयतो यते। स्नेहक्षयात्तथा योगरोधाद्भवति संवरः ॥ ५ ॥ इति संवरतत्वं यः श्रद्धत्ते वेत्युपेक्षते ।

तत्त्वार्थसार:
.
१४३
शेपतत्वैः समं पडिः स हि निर्वाणभाग्भवेत् ॥ ५२ ॥
इति संवरतत्त्ववर्णनम् ॥६॥
अनन्तकेवलज्योतिःप्रकाशितजगत्रयान् ।
प्रणिपत्य जिनान् मूर्धा निर्जरातत्त्वमुच्यते ॥३॥
उपात्तकर्मणः पातो निर्जरा द्विविधा च सा ।
आधा विपाकजा तत्र द्वितीया चाविपाकजा ॥२॥
अनादिवन्धनोपाधिविपाकवशवर्तिनः ।
फर्मारब्धफल यन्त्र क्षीयते सा विपाकजा ॥३॥
अनुदीर्ण तपः शक्त्या यत्रोदीर्णोदयावलीम् ।
प्रवेश्य वेद्यते कर्म सा भवत्यविपाकजा ॥ ४ ॥
यथाम्रपनसादीनि परिपाकमुपायतः ।
अकालेऽपि प्रपद्यन्ते तथा कर्माणि देहिनाम् ॥५॥
अनुभूय क्रमाकर्मविपाकप्राप्तमुज्झताम् ।
प्रथमास्त्येव सर्वपां द्वितीया तु तपस्विनाम् ॥ ६ ॥
तपस्तु द्विविधं प्रोक्तं वाह्याभ्यन्तरभेदतः।
प्रत्येकं पड्विधं तच्च सर्व द्वादशधा भवेत् ॥ ७ ॥
घावं तनावमोदर्यमुपवासौ रसोज्झनम् ।
धृत्तिसङ्ख्या वपुःक्केशो विविक्तशयनासनम् ॥ ८ ॥
सर्वं तदवमोदर्यमाहारं यन्न हापयेत् ।
एकद्विश्यादिभिर्मासैराग्रासं समयान्मुनिः ॥ ९॥
मोक्षार्थ त्यज्यते यस्मिन्नाहारोऽपि चतुर्विधः।
उपवासः स तद्भेदा सन्ति पाठाप्टमादयः॥ १०॥
रसत्यागो भवेत्तलक्षीरेक्षुदधिसर्पिपाम् ।
एकत्रिीणि चत्वारि त्यजतस्तानि पञ्चधा ॥ ११ ॥
एकवस्तुदशाङ्गारपानमुद्दादिगोचरः।
• सङ्कल्पः क्रियते यत्र वृत्तिसङ्ख्या हि तत्तपः ॥ १२ ॥

१४४ सनातनजनप्रन्धमालायाम् अनेकप्रतिमास्थानं मौनं शीतसहिष्णुता । आतपस्थानमित्यादिकायकेशो मतं तपः ॥ १३ ॥ जन्तुपीडाविमुक्तायां वसतौ शयनासनम् । सेवमानस्य विज्ञेयं विविक्तशयनासनम् ॥ १४ ॥ स्वाध्यायः शोधनं चैव वैयावृत्यं तथैव च। व्युत्सर्गो विनयश्चैव ध्यानमाभ्यन्तरं तपः ॥ १५॥ वाचनापृच्छनाम्नायस्खथा धर्मस्य देशना । अनुप्रेक्षा च निर्दिष्टः खाध्यायः पञ्चधा जिनः ।। १६ ॥ वाचना सा परिज्ञेया यत्पाने प्रतिपादनम् । ग्रन्थस्य वाथ पद्यस्य तत्त्वार्थस्योभयस्य वा ॥ १७ ॥ तत्संशयापनोदाय तनिश्चयबलाय वा । परं प्रत्यनुयोगाय प्रच्छनां तद्विदुर्जिनाः ॥ १८॥ मानायः कथ्यते घोपो विशुद्धं परिवर्तनम् । कथाधर्माधनुष्ठानं विज्ञेया धर्मदेशना ॥ १९ ॥ साधोरधिगतार्थस्य योऽभ्यासो मनसा भवेत् । अनुप्रेक्षेति निर्दिष्टः स्वाध्यायः स जिनेशिभिः ॥२०॥ मालोचनं प्रतिक्रान्तिस्तथा तदुभयं तपः। व्युत्सर्गश्च विवेकश्च तथोपस्थापना मता ॥ २१ ॥ परिहारस्तथाच्छेदः प्रायश्चित्तमिदा नव । आलोचनं प्रमादस्य गुरवे विनिवेदनम् ॥ २२ ॥ अभिव्यक्तप्रतीकारं मिथ्या से दुष्कृतादिभिः । प्रतिक्रान्तिस्तदुभयं संसर्गे सति शोधनात् ॥ २३ ॥ भवेत्तपोऽवमोदय वृत्तिसङ्ख्यादिलक्षणन् । कायोत्सर्गादिकरणं व्युत्सर्गः परिभापितः ॥ २४ ॥ अन्नपानौषधीनां तु विवेकः स्याद्विवेचनम् । पुनर्दीक्षाप्रदानं यत्सा युपस्थापना भवेत् ॥२५॥ --

तत्त्वार्थसारः
१४५
परिहारस्तु मासादिविभागेन विवर्जनम् ।
प्रवज्याहायनं छेदो मासपक्षदिनादिना ॥ २६ ॥
सूर्युपाध्यायसाधूनां शैक्ष्यग्लानतपस्विनाम् ।
कुलसङ्घमनोज्ञानां वैयावृत्यं गणस्य च ॥ २५ ॥
ब्याध्याधुपनिपातेऽपि तेपां सम्यग विधीयते ।
स्वशच्या यत्प्रतीकारो वैयावृत्यं तदुच्यते ॥ २८ ॥
वाखान्तरोपधित्यागाद् व्युत्स! द्विविधो भवेत् ।
क्षेत्रादिपधिर्वाह्यः क्रोधादिरपरः पुनः ॥ २९ ॥
दर्शनज्ञानविनयी चारित्रविनयोऽपि च ॥
तथोपचारविनयो विनयः स्याच्चतुर्विधः ॥ ३० ॥
यन्त्र निशक्षितत्वादिलक्षणोपेतता भवेत् ।
श्रन्दाने सप्ततत्त्वानां सम्यक्त्वविनयः स हि ॥३१॥
ज्ञानस्य ग्रहणाभ्याससरणादीनि कुर्वतः ।
बहुमानादिभिः सार्द्ध ज्ञानस्य विनयो भवेत् ॥ ३२ ॥
दर्शनज्ञानयुक्तस्य या समीहितचित्तता ।
चारित्रं प्रति जायेत चारित्रविनयो हि सः ॥ ३३ ॥
अभ्युत्थानानुगमनं वन्दनादीनि कुर्वतः ।
आचार्यादिपु पूज्येपु विनयो ह्यौपचारिकः ॥ ३४ ॥
आतै रौद्रं च धयं च शुक्लं चेति चतुर्विधम्।
ध्यानमुक्तं परं तत्र तपोऽङ्गमुभयं भवेत् ॥ ३५ ॥
प्रियभ्रंशेऽप्रियप्राप्ती निदाने वेदनोदये ।
आतै कपायसंयुक्तं ध्यानमुक्तं समासतः॥ ३६ ॥
हिंसायामनृते स्तेये तथा विपयरक्षणे ।
रौद्रं कपायसंयुक्तं ध्यानमुक्तं समासतः ॥ ३७ ॥
एकाग्रत्वेऽतिचिन्ताया निरोधो ध्यानमिप्यते ।
अन्तर्मुहूर्ततस्तच्च भवत्युत्तमसंहतेः ॥३०॥

१४६
सनातनजैनग्रन्थमालायाम्
आज्ञापायं विपाकानां विवेकाय च संस्थितेः।
मनसः प्रणिधानं यद्धर्मध्यानं तदुच्यते ॥ ३९ ॥
प्रमाणीकृत्य सार्वज्ञीमाज्ञामर्थावधारणम् ।
गहनानां पदार्थानामाज्ञाविचयमुच्यते ॥ ४० ॥
कथं मार्ग प्रपद्येरजमी उन्मार्गतो जनाः।
अपायमिति या चिन्ता तदपायविचारणम् ॥ ४१ ।।
द्रव्यादिप्रत्ययं कर्म फलानुभवनं प्रति ।
भवति प्रणिधानं यद्विपाकविचयस्तु सः॥ ४२ ॥
लोकसंस्थानपर्यायस्वभावस्य विचारणम् ।
लोकानुयोगमार्गेण संस्थानविचयो भवेत् ॥ ३ ॥
शुक्ल पृथक्त्वमाद्यं स्यादेकत्वं तु द्वितीयकम् ।
सूक्ष्मक्रियं तृतीयं तु तुर्य व्युपरतक्रियम् ॥४४॥
द्रव्याण्यनेकभेदानि योगायति यन्निभिः ।
शान्तमोहस्ततो खेतत्पृथक्त्वमिति कीर्तितम् ॥ ४५ ॥
श्रुतं यतो वितर्कः स्याद्यतः पूर्वार्थशिक्षितः।
पृथक्त्वं ध्यायति ध्यानं सवितर्क ततो हि तत् ॥ १६ ॥
अर्थव्यानयोगाना वीचारः सङ्गमो मतः।
वीचारस्य हि सद्भावात् सवीचारमिदं भवेत् ॥ ४७ ॥
द्रव्यमेकं तथैकेन योगेनान्यतरेण च ।
ध्यायति क्षीणमोहो यत्तदेकत्वमिदं भवेत् ॥४८॥
श्रुतं यतो वितर्कः स्याधतः पूर्वार्थशिक्षितः।
एकत्वं ध्यायति ध्यानं सवितकै ततो हि तत् ॥ १९ ॥
अर्थव्यानयोगानां विचारः सङ्कामो मतः।
वीचारस्य सद्भावादवीचारमिदं भवेत् ॥ ५० ॥
अवितर्कसवीचारं सूक्ष्मकायावलम्बनम् ।
सूक्ष्मनियं भवेड्यानं सर्वभावगतं हि तत् ॥ ५५ ॥

तत्त्वार्थसारः काययोगेऽतिसूक्ष्मे तद्वर्तमानो हि केवली। शुलं ध्यायति संरोढुं काययोगं तथाविधम् ॥ ५२ ॥ अवितर्कमवीचारं ध्यानं व्युपरतक्रियम् । परं निरुद्धयोगं हि तच्छैलेसमपश्चिमम् ॥ ५३ ॥ तत्पुना रुद्धयोगः सन् कुर्वन् कायत्रयासनम् । सर्वज्ञः परमं शुक्लं ध्यायत्यप्रतिपत्ति तत् ॥ ५४॥ सम्यग्दर्शनसम्पन्नः संयतासंयतस्ततः । संयतस्तु ततोऽनन्तानुवन्धिप्रवियोजकः ॥ ५५ ॥ इग्मोहक्षपकस्तसात्तथोपशमकस्ततः। उपशान्तकपायोऽतस्ततस्तु क्षपको मतः ॥ ५६ ॥ ततः क्षीणकपायस्तु घातिमुक्तस्ततो जिनः । दशैते क्रमतः सन्त्यसङ्खयेयगुणनिर्जराः ॥ ५७ ॥ पुलाको वकुशो द्वेधा कुशीलो द्विविधस्तथा । निर्ग्रन्थः सातकश्चैव निर्ग्रन्थाः पञ्च कीर्तिताः ॥ ५८ ॥ संयमश्रुतलेश्याभिलिङ्गन प्रतिसेवया । तीर्थस्थानोपपादैश्च विकल्पास्ते यथागमम् ॥ ५९ ॥ इति यो निर्जरातत्त्वं श्रद्धत्ते वेत्युपेक्षते । शेपतत्त्वैः समं पद्दभिः स हि निर्वाणभाग्भवेत् ॥ ६० ॥ इति निर्जरातत्त्वम् । भनन्तकेवलज्योतिःप्रकाशितजगत्रयान् । प्रणिपत्य जिनान्मूर्मा मोक्षतरवं प्ररूप्यते ॥ १ ॥ अभावाद्वन्धहेतूनां बन्धनिर्जरया तथा । कृत्स्नकर्मप्रमोक्षो हि मोक्ष इत्यभिधीयते ॥ २ ॥ बध्नाति कर्म सद्वेधं सयोगः केवली विदुः । योगाभावादयोगस्य कर्मबन्धो न विद्यते ॥ ३ ॥ .

१४८ सनातनजनप्रन्थमालायाम् ततो निर्जीनिःशेषपूर्वसञ्चितकर्मणः । आत्मनः स्वात्मसंप्राप्तिमोक्षः सद्योऽवसीयते ॥ ४॥ तथोपशमकादीनां भव्यत्वस्य च संक्षयात् । मोक्षः सिद्धत्वसम्यस्त्वज्ञानदर्शनशालिनः ॥५॥ आधं भावान्तभावस्य कर्मवन्धनसन्ततः । अन्ताभावः प्रसज्येत दृष्टत्वादन्तवीजवत् ॥ ६ ॥ दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाथुरः । कर्मवीजे तथा दग्धे न रोहति भवाङ्कुरः ॥ ७ ॥ अव्यवस्थानवन्धस्य गवादीनामिवात्मनः । कार्यकारणविच्छेदान्मिथ्यात्वादिपरिक्षये ॥८॥ जानतः पश्यतोच जगत्कारुण्यतः पुनः तस्य बन्धप्रसङ्गेन सर्वात्रवपरिक्षयात् ॥९॥ अकस्साच न बन्धः स्यादनिर्मोक्षप्रसङ्गतः। वन्धोपपत्तिस्तत्र स्यान्मुक्तिप्राप्तेरनन्तरम् ॥ १०॥ पातोऽपि स्थानवन्धत्वात्तस्य नास्रवतत्वतः । आस्रवाद्या न पात्रत्य प्रपातोऽधो ध्रुवं भवेत् ॥ ११॥ तथापि गौरवाभावान पातोऽस्य प्रसज्यते । वृन्तसम्बन्धविच्छेदे पतत्यानफलं गुरु ॥ १२ ॥ अल्पक्षेने तु सिद्धानामनन्तानां प्रसज्यते । परस्परोपरोधोऽपि नावगाहनशक्तिः ॥ १३॥ नानादीपप्रकाशेपु मूतिमत्स्वपि दृश्यते । न विरोधः प्रदेशेऽल्पे हन्तामूर्तेषु किं पुनः ॥ १४ ॥ भाकारभावतोऽभावो न च तस्य प्रसज्यते । अनन्तरपरित्यक्तशरीराकारधारिणः ॥ १५॥ १. 'जगत्कारुण्ययोगतः' इत्यपि पाठः । २. 'बन्धप्रसङ्गो न' इत्यपि प

तत्त्वार्थसारः
१४९
शरीरानुविधायित्वे तत्तद्भावाद्विसर्पणम् ।
लोकाकाशप्रमाणस्य तावन्नाकारणत्वतः ॥ १६ ॥
शरावचन्द्रशालादिगन्यावष्टम्भयोगतः ।
भल्पो महांश्च दीपस्य प्रकाशो जायते यथा ॥ १७ ॥
संहारे च विस च तथात्मानात्मयोगतः।
तदभावात्तु मुक्तस्य न संहारविसर्पणे ॥ १८ ॥
कस्यचिच्छृङ्खलामोक्षे तनावस्थानदर्शनात् ।
अवस्थानं न मुक्तानामू व्रज्यात्मकत्वतः ॥ १९ ॥
सम्यक्त्वज्ञानचारित्रसंयुक्तस्यात्मनो भृशम् ।
निरास्रवत्वाच्छिन्नायां नवायां कर्मसन्ततौ ॥ २० ॥
पूर्वार्जितं क्षपयतो यथोक्तः क्षयहेतुभिः ।
संसारची कात्स्न्येन मोहनीयं प्रहीयते ॥ २१ ॥
ततोऽन्तरायज्ञाननदर्शनम्नान्यनन्तरम् ।
प्रहीयन्तेऽस्य युगपत्रीणि कर्माण्यशेपतः ॥ २२ ॥
गर्भसूच्यां विनष्टायां यथा वालो विनश्यति ।
तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥ २३ ॥
ततः क्षीणचतुकर्मा प्राप्तोऽथाख्यातसंयमम् ।
वीजवन्धननिर्मुक्तः स्नातकः परमेश्वरः ॥ २४ ॥
शेषकर्मफलापेक्षा शुद्धो बुद्धो निरामयः ।
सर्वज्ञः सर्वदर्शी च जिनो भवति केवली ॥ २५ ॥
कृत्स्नकर्मक्षयादूई निर्वाणमधिगच्छति ।
यथा दग्धेन्धनो वहिनिरुपादानसन्ततिः ॥ २६ ॥
तदनन्तरमेवोर्खमालोकान्तात्स गच्छति ।
पूर्वप्रयोगासङ्गत्वाद्वन्धच्छेदो गौरवैः ॥ २७ ॥
कुलालचक्र ढोलायामिपी चापि यथेष्यते ।
पूर्वप्रयोगारकर्मेह तथा सिद्धगतिः स्मृता ॥ २८ ॥

१५७
सनातनजैनप्रन्थमालायाम्
मृल्लेपसङ्गनिमोक्षाच्या दृष्टाऽप्त्वलाम्वुनः ।
कर्मवन्धविनिर्मोक्षात्तथा सिद्धगतिःस्मता ॥ २९ ॥
एरण्डस्फुटदेलासु वन्धच्छेदाघथा गतिः
कर्मबन्धनविच्छेदाजीवस्यापि तथेष्यते ॥३०॥
यथास्तिर्यगूई च लोप्टवाय्वग्निवीचयः ।
स्वभावतः प्रवर्तन्ते तथो गतिरात्मनाम् ॥ ३ ॥
ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः ।
अधोगौरवधर्माणः पुद्गला इति चोदितम् ॥ ३२॥
अतस्तु गतिवैकृत्यं तेषां यदुपलभ्यते ।
कर्मणः प्रतिघाताच प्रयोगाच तदिप्यते ॥ ३३ ॥
अधस्तियक्तथोड़े च जीवानां कर्मजा गतिः।
अर्द्धमेव स्वभावेन भवति क्षीणकर्मणाम् ॥ ३४ ॥
द्रव्यस्य कर्मणो यद्वदुत्पत्यारम्भवीचयः।
समं तथैव सिद्धस्य गतिमोक्षे भवक्षयात् ॥ ३५ ॥
उत्पत्तिश्च विनाशश्च प्रकाशतमसोरिह ।
युगपद्भवतो यद्वत्तद्वनिर्वाणकर्मणोः ॥ ३६ ॥
ज्ञानावरणहानान्ते केवलज्ञानशालिनः।
दर्शनावरणच्छेदादुद्यत्केवलदर्शनाः ॥ ३७ ॥
वेदनीयसमुच्छेदादच्याबाधत्वमाश्रिताः ।
मोहनीयसमुच्छेदात्सम्यक्त्वमचलं श्रिताः ॥ ३८ ॥
आयुःकर्मसमुच्छेदात्परमं सौम्यमाश्रिताः।
नामकर्मसमुच्छेदादवगाहनशालिनः ॥ ३९ ॥
गोत्रकर्मसमुच्छेदासदाऽगौरवलाघवाः ।
अन्तरायसमुच्छेदादनन्तवीर्यमाश्रिताः ॥ ४० ॥
काललिङ्गगतिक्षेत्रतीर्थज्ञानावगाहनः ।
बुद्धबोधितचारित्रसङ्ख्याल्पबहुतान्तरः ॥ ११ ॥

तत्त्वार्थसारः १५१ प्रत्युत्पन्ननयादेशात्ततः प्रज्ञापनादपि । अप्रमत्तैर्बुधैः सिद्धाः साधनीया यथागमम् ॥ ४२ ॥ बादाम्यादुपयुक्तास्ते केवलज्ञानदर्शने । सम्यक्त्वसिद्धतावस्था हेत्वभावाच निःक्रियाः ॥ ४३ ॥ तोऽप्यूर्खगतितेपां कसानास्तीति चेन्मतिः । वर्मास्तिकायस्याभावात्स हि हेतुर्गतः परं ।। ४४ ॥ संसारविपयातीतं सिद्धानामव्ययं सुखम् । भन्याबाधमिति प्रोक्तं परमं परमर्पिभिः ॥ ४५ ॥ ग्यादेतदशरीरस्य जन्तोर्नष्टाष्टकर्मणः । कथं भवति मुक्तस्य सुखमित्युत्तरं शृणु ॥ ४६ ॥ झोके चतुर्विहार्थेषु सुखशब्दः प्रयुज्यते । वेपये वेदनाभावे विपाके मोक्ष एव च ॥ ४७ ॥ सुखो वह्निः सुखो वायुर्विपयेप्विह कथ्यते । दुःखाभावे च पुरुपः सुखितोऽसीति भापते ॥ ४० ॥ पुण्यकर्मविपाकाच सुखमिटेन्द्रियार्थजम् । कर्मक्लेशविमोहाच मोक्षे सुखमनुत्तमम् ॥ ४९ ॥ उपुप्तावस्थया तुल्यां केचिदिच्छन्ति निर्वृतिम् । दयुक्त क्रियावत्वात्सुखातिशयतस्तथा ॥ ५० ॥ अमक्लममदव्याधिमदनेभ्यश्च संभवात् । मोहोत्पत्तिविकारोध दर्शननस्य कर्मणः ॥ ५१ ॥ होके तत्सहशो यर्थः कृत्स्नेऽप्यन्यो न विद्यते। उपमीयेत तधेन तसानिरुपमं स्मृतम् ॥ ५२ ॥ लेगप्रसिद्ध सामान्यमनुमानोपमानयोः । अत्यन्त चाप्रसिद्धं यत्ततेनानुपमं स्मृतम् ॥ ५३ ॥ १ विपाकाच' इत्यपि पाठः।

१५२ सनातनजैनप्रन्थमालायाम् प्रत्यक्षं तद्भगवतामहतां तैः प्रभापितम् । गृह्यतेऽस्तीत्यतः प्राज्ञैर्न च्छमस्थपरीक्षया ॥ ५ ॥ इत्येतन्मोक्षतत्त्वं यः श्रद्धत्ते वेत्युपेक्षते । शेपतत्त्वैः समं पद्धिः स हि निर्वाणभाग्भवेत् ॥ ५५ ॥ रति मोक्षतत्ववर्णनम् । उपसंहारः प्रमाणनयनिक्षेपनिर्देशादिसदादिभिः। सप्ततत्वीमिति ज्ञात्वा मोक्षमार्ग समाश्रयेत् ॥ १॥ निश्वयव्यवहाराभ्यां मोक्षमार्गो द्विधा स्थितः । तत्रायः साध्यरूपः स्याद्वितीयस्तस्य साधनम् ॥ २ ॥ श्रद्धानाधिगमोपेक्षाः शुद्धस्य खात्मनो हि याः। सम्यक्त्वज्ञानवृत्तात्मा मोक्षमार्गः स निश्चयः ॥३॥ श्रद्धानाधिगमोपेक्षा याः पुनः स्युः परात्मना । सम्यक्त्वज्ञानवृत्तात्मा स मार्गो व्यवहारतः ॥४॥ श्रद्दधानः परद्रव्यं बुधमानस्तदेव हि। तदेवोपेक्षमाणश्च व्यवहारी स्मृतो मुनिः ॥५॥ स्वद्रव्यं श्रद्दधानस्तु बुग्यमानस्तदेव हि। तदेवोपेक्षमाणश्च निश्चयान्मुनिसत्तमः ॥ ६॥ आत्मा ज्ञातृतया ज्ञानं सम्यक्त्वं चरितं हि सः । स्वस्थो दर्शनचारित्रमोहाभ्यामनुपप्लुतः ॥ ७ ॥ पश्यति स्वखरूपं यो जानाति च चरत्यपि । दर्शनज्ञानचारित्रन्नयमात्मैव स स्मृतः ॥ ८॥ पश्यति स्वस्वरूपं यं जानाति च चरत्यपि । दर्शनज्ञानचारित्रत्रयमात्मैव तन्मयः ॥ ९ ॥ दृश्यते येन रूपेण ज्ञायते चर्यतेऽपि च ।

तत्त्वार्थसारः १५३ दर्शनज्ञानचारित्रत्रयमात्मैव तन्मयः॥ १०॥ यस्मै पश्यति जानाति स्वरूपाय चरत्यपि । दर्शनज्ञानचारित्रत्रयमात्मैव तन्मयः ॥ ११ ॥ यसात्पश्यति जानाति स्वं स्वरूपाचरत्यपि । दर्शनशानचारित्रत्रयमात्मैव तन्मयः ।। १२ ।। यस्य पश्यति जानाति स्वरूपस्य चरत्यपि । दर्शनज्ञानचारित्रत्रयमात्मैव तन्मयः ॥ १३ ॥ यसिन् पश्यति जानाति स्वस्वरूपे चरत्यपि । दर्शनज्ञानचारिनत्रयमात्मैव तन्मयः ॥ १४ ॥ ये स्वभावादृशिज्ञप्तिचर्यारूपक्रियात्मकाः। दर्शनज्ञानचारित्रनयमात्मैव तन्मयः ॥ १५॥ दर्शनज्ञानचारित्रगुणानां य इहाश्रयः । दर्शनज्ञानचारित्रत्रयमात्मैव स स्मृतः ॥ १६ ॥ दर्शनज्ञानचारित्रपर्यायाणां य आश्रयः । दर्शनज्ञानचारित्रत्रयमात्मैव स स्मृतः ॥ १७ ॥ दर्शनज्ञानचारित्रप्रदेशा ये प्ररूपिताः । दर्शनशानचारित्रमयस्यात्मन एव ते ॥१८॥ दर्शनज्ञानचारित्रागुरुलघ्वाह्वया गुणाः । दर्शनज्ञानचारित्रमयस्यात्मन एव ये ॥ १९ ॥ दर्शनज्ञानचारित्रध्रौव्योत्पादव्ययास्तु ये। दर्शनज्ञानचारित्रमयस्यात्मन एव ते ॥२०॥ स्यात्सम्यक्त्वज्ञानचारित्ररूपः पर्यायार्थादेशतो मुक्तिमार्गः । एको ज्ञाता सर्वदेवाद्वितीयः स्याद्रव्यार्थादेशतो मुक्तिमार्गः ॥२१॥ तस्वार्थसारमिति यः समधिर्विदित्वा निर्वाणमार्गमधितिष्ठति निःप्रकम्पः।

१५४ सनातनजनप्रन्थमालायाम् संसारबन्धमवधूय स धूतमोह- चैतन्यरूपमचलं शिवतत्त्वमेति ॥ २२॥ वर्णाः पदानां कारो वाक्यानां तु पदावलिः । वाक्यानि चास्य शास्त्रस्य कणि न पुनर्वयम् ॥ २३ ॥ इति श्रीमदमृतचन्द्रसूरीणां कृतिः तत्वार्थसारो नाम मोक्षशास्त्र समाप्तम् ।

श्रीमदेवसेनविरचिता आलापपद्धतिः। (७) गुणानां विस्तरं वक्ष्ये स्वभावानां तथैव च। पर्यायाणां विशेपेण नत्वा वीरं जिनेश्वरम् ॥१॥ भालापपद्धतिर्वचनरचनाऽनुक्रमेण नयचक्रस्योपरि उच्यते। साच किमर्थम् ? द्रव्यलक्षणसिध्यर्थम् स्वभावसिद्ध्यर्थञ्च । दव्याणि कानि ?. जीवपुद्गलधर्माधर्माकाशकालद्रव्याणि । सद्व्यलक्षणम् उत्पादव्ययध्रौव्ययुक्तं सत् । इति द्रव्याधिकारः। लक्षणानि कानि ? अस्तित्वं, वस्तुस्वं, द्रव्यत्वं, प्रमेयस्वं, भगुरुलधुत्वं, प्रदेशत्वं, चेतनत्वमचेतनत्वं मूर्तत्वममूर्तत्वं द्रव्याणां दश सामान्यगुणाः प्रत्येकमष्टावष्टौ सर्वेषाम् । [ एकैकद्रव्ये अष्टौ अष्टौ गुणा भवन्ति । जीवद्गव्ये अचेतनत्वं मूर्तत्वंच नास्ति, पुद्गलद्रव्ये चेतनत्वममूर्तत्वंच नास्ति, धर्माधर्मा- काशकालद्रव्येषु चेतनत्वं मूर्तत्वं च नास्ति । एवं द्विद्विगुणवर्जिते अष्टौ अष्टौ गुणाः प्रत्येकद्रव्ये भवन्ति ।। ज्ञानदर्शनसुखवीर्याणि स्पर्शरसगन्धवर्णाः गतिहेतुत्वं स्थितिहेतु- स्वमवगाहनहेतुत्वं वर्तनाहेतुत्वं चेतनत्वमचेतनत्वं मूर्तत्वममूर्तत्वं द्रव्याणां पोडश विशेषगुणाः । पोडशविशेषगुणेषु जीवपुद्गलयोः पढिति । जीवस्य ज्ञानदर्शनसुखवीर्याणि चेतनत्वममुर्तत्वमिति पद । पुद्गलस्य स्पर्शरसगन्धवर्णाः मूर्तत्वमचेतनत्वमिति पद । इतरेपां धर्माधर्माकाशकालानां प्रत्येकं त्रयो गुणाः । धर्मद्रव्ये १ सूक्ष्मा भवाग्गोचरा प्रतिक्षणं वर्तमाना आगमप्रामाण्यदभ्युपगम्या मगुरुलघुगुणाः । २ क्षेत्रत्वम् अविभागि पुद्गलपरमाणुनावष्टब्धम् । ३ इति खपुस्तकेऽधिकपाठः।

१५६ सनातनजनप्रन्थमालायाम् 1 गतिहेतुत्वममूर्तत्वमचेतनत्वमेते त्रयो गुणाः। अधर्मद्रव्ये स्थितिहे- तुत्वममूर्तत्वमचेतनत्वमिति । आकाशद्रव्ये अवगाहनहेतुत्वममूर्त- त्वमचेतनत्वमिति । कालद्रव्ये वर्तनाहेतुत्वममूर्तत्वमचेतनत्वमिति' विशेषगुणाः । अन्तस्थाश्चत्वारो गुणाः स्वजात्यपेक्षया सामान्यगुणा विजात्यपेक्षया तएव विशेषगुणाः । इति गुणाधिकारः। गुणविकाराः पर्यायास्ते द्वेधा स्वभावविभावपर्यायभेदात्।भगुरु- लघुविकाराः स्वभावपर्यायावे द्वादशधा पड्वृद्धिरूपाः पट्टानिरूपाः। अनन्तभागवृद्धिः, असंख्यातभागवृद्धिः, संख्यातभागवृद्धिः, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिः, अनन्तगुणवृद्धिः, एवं पङ्घ- द्धिरूपास्तथा अनन्तभागहानिः,असंख्यातभागहानिः,संख्यातभाग- हानिः, संख्यातगुणहानिः,अंसख्यातगुणहानिः,अनन्तगुणहानिः एवं पट्टानिरूपा ज्ञेयाः । विभावद्व्यव्यञ्जनपर्यायाश्चतुर्विधा नरनार- कादिपर्यायाः अथवा चतुरशीतिलक्षा योनयः। विभावगुणव्यञ्जन- पर्याया मत्यादयः । स्वभावद्व्यव्यञ्जनपर्यायाश्चरमशरीरात्किञ्जि- न्यूनसिद्धपर्यायाः । स्वभावगुणव्यञ्जनपर्याया अनन्तचतुष्टयस्वरूपा जीवस्य । पुद्गलस्य तु धणुकादयो विभावद्व्यव्यानपर्यायाः ।रस- रसान्तरगन्धगन्धान्तरादिविभावगुणव्यानपर्यायाः । अविभागि- पुद्गलपरमाणुः स्वभावद्व्यव्यअनपर्यायः । वर्णगन्धरसैकैकाविरुद्ध- स्पर्शद्वयं स्वभावगुणव्यञ्जनपर्यायाः। अनौद्यनिधने द्रव्ये वपर्यायाः प्रतिक्षणम् । उन्मजन्ति निमजन्ति जलकल्लोलवजले ॥१॥ धर्माधर्मनभःकाला अर्थपर्यायगोचराः। व्यञ्जनेन तु संबद्धौ द्वावन्यौ जीवपुद्गलौ ॥ २ ॥ इगाधिकारः । गुणपर्ययवद्द्व्यम् । • १ द्रव्यक्षेत्रकालभावांपक्षपा। २ स्वभावपर्यायाः सर्वद्रव्येषु विभावपर्या, या जीवपुद्गलयोश्च । ३ आघन्तरहिते। WWW आलापपद्धतिः १५७ स्वभावाः कथ्यन्ते । अस्तिस्वभावः, नास्तिस्वभावः,नित्यस्वभावः भनित्यस्वभावः, ऐकखभावः, अनेकखभायः, भेदस्वभावः, अभे- दखभावः,भव्यस्वभावः।भभव्यस्वभावः, परमस्वभावः, द्रव्याणा- मेकादश सामान्यस्वभावाः, चेतनस्वभावः, अचेतनस्वभावः, मूर्त- खभावः, अमूर्तस्वभावः, एकप्रदेशस्वभावः, अनेकप्रदेशस्वभावः, विभावस्वभावः, शुद्धस्वभावः, अशुद्धस्वभावः, उपचरितस्वभाव एते द्रव्याणां दश विशेपस्वभावाः । जीवपुद्गलयोरेकविंशतिः, घेतनस्वभावः मूर्तस्वभावः, विभावसभावः, एकप्रदेशस्वभावः, अशुद्धस्वभाव एतैः पञ्चभिः स्वभावैर्विना धर्मादिन्नयाणांपोडश ख- भावाः सन्ति । तन बहुप्रदेशं विना कालस्य पञ्चदश स्वभावाः । एकविंशतिभावाः स्युर्जीवपुद्गलयोर्मताः । धर्मादीनां पोटश स्युः काले पञ्चदश स्मृताः ॥३॥ ते कुतो ज्ञेयाः ? प्रमाणनयविवक्षातः । सम्यग्ज्ञानं प्रमाणम्। तवधा प्रत्यक्षतरभेदात् । अवधिमनःपर्ययावेकदेशप्रत्यक्षौ। केवलं सकलप्रत्यक्षं । मतिश्रुते परोक्षे । प्रमाणमुक्तं । तदवयवा नयाः। नयभेदा उच्यन्ते, पिच्छयववहारणया मूलमभेयाण याण सव्वाणं । १ स्वभावलाभादच्युतत्वादग्निदाहवदस्तिस्वभावः । २ परस्वरूपेणाभा- वान्नास्तिरवभावः । ३ निज निज नानापर्यायेपु तदेवेदमिति द्रव्यस्योपल- म्मानित्यस्वभावः । ४ तस्याप्यनेकपर्यायपरिणामित्वादनित्यस्वभावः । ५ स्वभावानामेकाधारत्वादेकस्वभावः । ६ गुणगुण्यादिसंशाभेदाझेदस्वभावः । ७ पारिणामिकभावप्रधानत्वेन परमस्वभावः । ८ असद्भूतव्यवहारेण कर्मनो- कर्मणोरपि चेतनस्वभावः । ९ जीवस्याप्यसभूतव्यवहारेणाचेतनस्वभावः । १. जीवस्याप्यसभूतव्यवहारेण मूर्तस्वभावः । ११ "तत्कालपर्ययाकान्तं वस्तु भावो विधीयते" १२ तस्य एकप्रदेशसम्मवात् । १३ निश्चयनया द्रव्यस्थिताः व्यवहारनयाः पर्यायस्थिताः । - १५८ सनातननग्रन्थमालायाम् । णिच्छय साहणहेओ दव्वयपजस्थिया मुणह ॥ ४ ॥ द्रव्यार्थिकः, पर्यायार्थिकः, नैगमः, सङ्ग्रहः, व्यवहारः,जुसूत्रा, शब्दः, समभिरूढः, एवंभूत इति नव नयाः स्मृताः । उपनयाश्च कथ्यन्ते । नयानां समीपा उपनयाः । सद्भूतव्यवहारःअसद्भूतव्यव- हारः उपचरितासद्भूतव्यवहारश्चेत्युपनयास्त्रेधा । इदानीमेतेपो भेदा उच्यन्ते । द्रव्यार्थिकस्य दश भेदाः । कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिको यथा संसारी जीवः सिद्ध- सहक शुद्धात्मा । उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्या- थिको यथा द्रव्यं नित्यम् । भेदकल्पनानिरपेक्षः शुद्धो द्रव्या- 'थिको यथा निजगुणपर्यायखभावाव्यमभिन्नम् । कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिको यथा क्रोधादिकर्मजभाव आत्मा। उत्पादन्ययसापेक्षोऽशुद्धद्रव्यार्थिको यथैकसिन् समये द्रव्यमुत्पादव्ययध्रौव्यात्मकम् । भेदकल्पनासापेक्षोऽशुद्धद्व्या- थिको यथात्मनो दर्शनज्ञानादयो गुणाः । अन्वयगव्यार्थिको यथा-गुणपर्यायस्वभावं द्रव्यम् । स्वद्योदिग्राहकद्रव्यार्थिको यथा-वद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति । परदव्यादिग्राहक- द्रव्यार्थिको यथा-परद्रव्योदिचतुष्टयापेक्षया द्रव्यं नास्ति । परम- भावग्राहकद्रव्यार्थिको यथा-ज्ञानखरूप आत्मा । अनानेक- स्वभावानां मध्ये ज्ञानाख्यः परमस्वभावो गृहीतः । इति द्रव्यार्थिकस्य दश मेदाः । , अथ पर्यायार्थिकस्य षड्भेदा उच्यन्ते, अनादिनित्यपर्यायार्थिको यथा पुनलपर्यायो नित्यो मेर्वादिः १ नया गृहीत्वा वस्तुनोऽनेकविकल्पत्वेन कथनमुपनयः । २ आदि शब्देन स्वक्षेत्रस्वकालस्वभावा ग्राह्याः । ३ सुवर्ण हि रजतादिरूपतयां नास्ति रजतक्षेत्रेण रजतकालेन रजतपर्यायेण च नास्ति ।

आलापपद्धतिः १५९ सादिनित्यपर्यायार्थिको यथा-सिद्धपर्यायो नित्यः। सत्तागौणत्वे- नोत्पादन्ययग्राहकस्वभावो नित्याशुद्धपर्यायाधिको यथा-समयं समयं प्रति पर्याया विनाशिनः । सत्तासापेक्षस्वभावो नित्याशु- वपर्यायाधिको यथा-एकस्मिन् समये नयात्मकः पर्यायः। कर्मों- पाधिनिरपेक्षस्वभावो नित्यशुद्धपर्यायार्थिको यथा-सिद्धपर्या- यसदृशाः शुद्धाः संसारिणां पर्यायाः। कर्मोपाधिसापेक्षस्वभावोs- नित्याशुद्धपर्यायार्थिको यथा-संसारिणामुत्पत्तिमरणे स्तः । इति पर्यायाधिकस्य पर भेदाः । नगमस्त्रेधा भूतभाविवर्तमानकालभेदात् । अतीते वर्तमानारोपणं यत्र स भूतनगमो यथा-भय दीपोत्सवदिने श्रीवर्द्धमानस्वामी मोक्षं गतः। भाविनि भूतवत्कथनं यत्र स माविनैगमो यथा- अर्हन् सिद्ध एव । कर्तुमारब्धमीपनिप्पन्नमनिप्पन्नं वा वस्तु निष्पन्नवकथ्यते यत्र स वर्तमाननगमो यथा-ओदनः पच्यते इति नैगमनेधा। सङ्ग्रहो द्विविधः सामान्यसङ्ग्रहो यथा-सर्वाणि न्याणि परस्प- रमविरोधीनि। विशेपसङ्कहो यथा-सर्वे जीवाः परस्परमविरोधिनः इति सङ्ग्रहोऽपि द्विधा । ध्यवहारोऽपि द्वेधा । सामान्यसहभेदको व्यवहारो यथा- द्रष्याणि जीवाजीवा। विशेपसङ्ग्रहभेदको व्यवहारो यथा-जीवा संसारिणो मुक्ताश्च इति व्यवहारोऽपि द्वधा । अजुसूत्रो द्विविधः । सूक्ष्मर्जुसूत्रो यथा-एकसमयावस्थायी पर्यायः । स्थूलर्जुसूत्रो यथा--मनुष्यादिपर्यायास्तदायुःप्रमाणकालं तिष्ठन्ति इति ऋजुसूत्रोऽपि द्वेधा। शब्दसमभिरूढेवभूतानयाः प्रत्येकमेकैका नयाः।शब्दनयो यथा - १ पूर्वपर्यायस्य विनाशः, उत्तरपर्यायस्योत्पादः, द्रव्यत्वेन ध्रुवत्वम् ।

१६० सनातनजनग्रन्थमालायाम् दारा भार्या कलनं जलं आपः । सममिरूठनयो यथा गौः पशुः। एवंभूतनयो यथा-इन्दतीति इन्द्रः। उक्ता अष्टाविंशतिनयभेदाः। उपनयभेदा उच्यन्ते-सद्भूतव्यवहारो द्विधा ।शुद्धसद्भूतन्यव- हारो यथा-शुद्धगुणशुद्धगुणिनोः शुद्धपर्यायशुद्धपर्यायिणोर्भेदक- थनम् । अशुद्धसद्भूतव्यवहारो यथाऽशुद्धगुणाऽशुद्धगुणिनोरशुद्ध- पर्यायाऽशुद्धपर्यायिणोर्भेदकथनम् । इति सद्भूतव्यवहारोऽपि वेधा । असद्भूतव्यवहारस्त्रेधा । स्वजात्यसद्भूतव्यवहारो यथा-परमा- णुर्वहुप्रदेशीति कथनमित्यादि । विजात्यसद्भूतव्यवहारो यथा मूर्त मतिज्ञानं यतोमूर्तद्रव्येण जनितम् । स्वजातिविजात्यसद्भूत- व्यवहारो यथा ज्ञेये जीवेऽजीवे ज्ञानमिति कथनं ज्ञानस्य विप- यात् । इत्यसद्भूतव्यवहारस्रधा । उपचरितासद्भूतन्यवहारस्नेधा। स्वजात्युपचरितासद्भूतव्यवहारो यथा-पुत्रदारादि मम । विजात्युपचरितासद्भूतव्यवहारो यथा- वस्खाभरणहेमरतादि मम । स्वजातिविजात्युपचरितासद्भूतव्यव- हारो यथा-देशराज्यदुर्गादि मम इत्युपचरितासद्भूतव्यवहारवेधा। सहभावा गुणोः, क्रमवर्तिनः पर्यायाः । गुण्यन्ते पृथक्रिय- न्ते द्रव्यं द्रव्यायैस्ते गुणाः । अस्तीत्येतस्य भावोऽस्तित्वं सद्रूपत्वम् । वस्तुनो भावो वस्तुत्वम् , सामान्यविशेषात्मकं वस्तु । द्रव्यस्वभावो दव्यत्वम् निजनिजप्रदेशसमूहैरखण्डवृत्या स्वभावविभावपर्या- यान् द्रवति द्रोष्यति भदुद्वदिति द्रव्यम् । सद्रव्यलक्षणम् , सीदति स्वकीयान् गुणपर्यायान् व्याप्नोतीति सत् । उत्पादव्यय- ध्रौव्ययुक्तं सत् । प्रमेयस्य भावः प्रमेयत्वम् प्रमाणेन खपरस्वरूप- परिच्छेद्यं प्रमेयम्। अगुरुलघोांवोऽगुरुलधुत्वम्। सूक्ष्मा वागगोचराः प्रतिक्षणं वर्तमाना आगमप्रमाणादभ्युपगम्या अगुरुलघुगुणाः । १ सिद्धपर्यायसिद्धजीवयोः ।२ अन्वविनः । ३ प्रामोति । ४ शाई योग्यम् । .

आलापपद्धतिः १६१ सूक्ष्म जिनोदितं तत्वं हेतुभिर्नेव हन्यते । आज्ञासिद्धं तु तद्राचं नान्यथावादिनो जिनाः" ॥५॥ प्रदेशस्य भावः प्रदेशत्वं क्षेत्रत्वं अविभागिपुद्गलपरमाणुनावष्ट- ब्धम् । चेतनस्य भावश्चेतनत्वम् चैतन्यमनुभवनम् । चैतन्यमनुभूतिः स्यात् सा क्रियारूपमेव च । क्रिया मनोवचःकायेप्वन्विता वर्तते ध्रुवम् ॥ ६ ॥ अचेतनस्य भावोऽचेतनत्वमचैतन्यमननुभवनम् । मूर्तस्य भावो मूर्तरवं रूपादिमत्वम् । अमूर्तस्य भावोऽभूतत्वं रूपादिरहितत्वम् । इति गुणानां व्युत्पत्तिः । स्वभावविभावरूपतया याति पर्येति परिणमतीति पर्याय इति पर्यायस्य व्युत्पत्तिः । स्वभावलाभाद- घ्युतत्वादस्तिस्वभावः। परस्वरूपेणाभावानास्तिस्वभावः। निज- निज-नानापर्यायेषु तदेवेदमिति द्रव्यस्योपलम्भालित्यस्वभावः । तस्याप्यनेकपर्यायपरिणामितत्वादनित्यस्वभावः । स्वभावानामे- काधारस्वादेकस्वभावः । एकस्याप्यनेकस्वभावोपलम्भादनेकस्व- भावः । गुणगुण्यादिसंज्ञाभेदाद् भेदस्वभावः । संज्ञीसंख्या- लक्षणप्रयोजनानि गुणगुण्यायेकस्वभावादभेदस्वभावः । भावि- काले परस्वरूपाकारभवनाद् भव्यस्वभावः । कालन्नयेऽपि परख. रूपाकाराभवनादभव्यखभावः। उक्तञ्च,- "अण्णोपणं पविसंता दिता उग्गसमण्णमण्णस्स । मेलंतावि य णिचं सगसगभावं ण विजहंति "॥७॥ पारिणामिकभावप्रधानत्वेन परमस्वभावः । इति सामान्य- स्वभावानां व्युत्पत्तिः। प्रदेशादिगुणानां व्युत्पत्तिश्चेतनादिविशेष- स्वभावानां च व्युत्पत्तिर्निगदिता। १ व्याप्तं । २ अनुभूतिजीवाजीवादिपदार्थानां चेतनमात्रम् । ३ रूपरसगन्धस्पर्श-वत्वम् । ४ गुणगुणीति संशा नाम । गुणा अनेक गुणी त्वेक इति संख्याभेदः। सद्गव्यलक्षणं । द्रव्याश्रया निर्गुणा गुणाः ।

१६२ सनातनजैनप्रन्थमालायाम् धर्मापेक्षया स्वभावा गुणा न भवन्ति । स्वद्रव्यचतुष्टयापेक्षया परस्परं गुणाः स्वभावा भवन्ति । द्रव्याण्यपि भवन्ति । स्वभावा- दन्यथामवनं विभावशुद्धं केवलभावमशुद्धं तस्यापि विपरीतम् । स्वभावस्याप्यन्यत्रोपचारादुपचरितस्वभावः । स द्वेधा-कर्मजस्वा- भाविकभेदात् । यथा जीवस्य मूर्तत्वमचेतनत्वं यथा सिद्धानां परज्ञता परदर्शकत्वं च । एवमितरेषां द्रव्याणामुपचारो यथा- सम्भवो ज्ञेयः। " दुर्नयैकान्तमारूढा भावानां स्वार्थका हि ते । स्वार्थिकाश्च विपर्यस्ताः सकलका नया यतः" ॥८॥ तत्कथं तथाहि-सर्वथैकान्तेन सद्रूपस्य न नियतार्थव्यवस्था- संकरादिदोपत्वात् तथा-सद्रूपस्य सकलशून्यताप्रसङ्गात्, नि- त्यस्यैकरूपत्वादेकरूपस्यार्थक्रियाकारित्वाभाव:, अर्थक्रियाका- रित्वाभावे द्रव्यस्याप्यभावः । अनित्यपक्षेऽपि अनित्यरूपत्वाद- र्थक्रियाकारित्वाभावः, अर्थक्रियाकारित्वाभावे दन्यस्याप्यभावः । एकस्वरूपस्यैकान्तेन विशेपाभावः, सर्वथैकरूपत्वात् विशेषाभावे सामान्यस्याप्यभावः। "निविशेष हि सामान्यं भवेत्सरविषाणवत् । सामान्यरहितत्वाच विशेषस्तद्वदेव हि ॥९॥ इति ज्ञेयः। भनेकपक्षेऽपि तथा द्रव्याभावो निराधारत्वात् माधाराधे- याभावाच्च । भेदपक्षेऽपि विशेषस्वभावानां निराधारत्वादर्थक्रियाका- रित्वाभावः, अर्थक्रियाकारित्वाभावे द्रव्यस्थाप्यभावः। अभेदपक्षेऽपि सर्वेषामेकत्वम् सर्वेषामेकत्वेऽर्थक्रियाकारित्वाभाव अर्थक्रियाकारि- त्वाभावे द्रव्यस्थाप्यभावः भव्यस्यैकान्तेन पॉरिणामिकत्वात् द्रव्य- स्य दन्यान्तरत्वप्रसङ्गात् सङ्करादिदोपसम्भवात् । सरव्यतिकर- १ स्वभावापेक्षया । २ यथा सिंहो माणवकः ( माणवको मार्जारः) ३ निरन्वयत्वादित्यपि पाठः। ४ भव्याभव्यजीवत्वानि, आलापपद्धतिः विरोधवैयधिकरण्यानवस्थासंशयाप्रतिपत्त्यभावाश्चेति । सर्वथाs- भव्यस्यैकान्तेऽपि तथा शून्यताप्रसङ्गात् स्वभावस्वरूपस्यैकान्तेन संसाराभावः । विभावपक्षेऽपि मोक्षस्याप्यभावः । सर्वथा चैतन्य- मेवेत्युक्त सर्वेपां शुद्धज्ञानचैतन्यावाप्तिः स्यात्, तथा सति ध्यानं ध्येयं ज्ञानं ज्ञेयं गुरुशिष्यायभावः । सर्वथाशब्दः सर्वप्रकार- वाची, अथवा सर्वकालवाची, अथवा नियमवाची, वा अनेकान्त- सापेक्षी वा? यदि सर्वप्रकारवाची सर्वकालवाची अनेकान्त- वाची वा सर्वादिगणे पठनात् सर्वशब्द एवंविधश्चेत्तर्हि सिद्धं नः समीहितम् । अथवा नियमवाची चेत्तर्हि सकलार्थानां तव प्रतीतिः कथं स्यात् ? नित्यः, अनित्यः, एकः, अनेकः, भेदः अभेदः कथं प्रतीतिः स्यात् नियमितपक्षत्वात्। तथा चैतन्यपक्षेऽपि सकलचैतन्योच्छेदः स्यात् , मूर्तस्यैकान्तेनात्मनो मोक्षस्यावाप्तिः स्यात् । सर्वथाऽमूर्तस्यापि तथात्मनः संसारविलोपः सात् । एकप्रदेशस्यैकान्तेनाखण्डपरिपूर्णस्यात्मनोऽनेककार्यकारित्व एव हानिः स्यात् । सर्वथाऽनेकप्रदेशत्वेऽपि तथा तस्यानर्थकार्यकारि- त्वं स्वखभावशून्यताप्रसङ्गात् । शुद्धस्सैकान्तेनात्मनो न कर्म- मलकलकावलेपः सर्वथा निरअनत्वात् । सर्वथाऽशुद्धैकान्तेऽपि तथात्मनो "न कदापि शुद्धस्वभावप्रसङ्गः स्यात् तन्मयत्वात् । उपचैरितैकान्तपंक्षेऽपि नात्मज्ञता सम्भवति नियमितपक्षत्वात् । तथात्मनोऽनुपचरितपक्षेऽपि परज्ञतादीनां विरोधः स्यात् । " नानाखभावसंयुक्तं द्रव्यं ज्ञात्वा प्रमाणतः । तच्च सापेक्षसिद्ध्यर्थे स्यान्नयमिश्रितं कुरु" ॥१०॥ स्वद्रव्यादिग्राहकेणास्तिस्वभावः । परद्रव्यादिग्राहकेण नास्ति- स्वभावः । उत्पादव्ययगौणत्वेन सत्ताग्राहकेण नित्यस्वभावः । १ अशुद्धस्वभावमयत्वात् । २ मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । - r ૧૬૪ सनातनजैनग्रन्थमालायाम् । केनचित्पर्यायाथिकेनानियस्वभावः । भेदकल्पनानिरपेक्षेणैकख- भावः । अन्वयद्व्यार्थिकेनैकस्याप्यनेकद्रव्यस्वभावत्वम् । सद्भूत- व्यवहारेण गुणगुण्यादिभिर्भेदस्वभावः । भेदकल्पनानिरपेक्षेण गुणगुण्यादिभिरभेदस्वभावः । परमभावग्राहकेण भव्याभव्य- पारिणामिकखभावः । शुद्धाशुद्धपरमभावग्राहकेण चेतनस्वभावो जीवस्य । असद्भूतव्यवहारेण कर्मनोकर्मणोरपि चेतनस्वभावः । परमभावग्राहकण कर्मनोकर्मणोरचेतनस्वभावः । जीवस्याप्यसद्भूतव्यवहारेणाचेतनस्वभावः । परमभावग्राहकेण: कर्मनोकर्मणोर्मूर्तस्वभावः । जीवस्याप्यसद्भूतव्यवहारेण मूर्त- स्वभावः । परमभावग्राहकेण पुद्गलं विहाय इतेरेपाममूर्त- खभावः । पुद्गलस्योपचारादपि नास्त्यमूर्त्तत्वम् । परमभावनाहकेण कालपुद्गलाणूनामेकप्रदेशस्वभावत्वम् । भेदकल्पनानिरपेक्षेणेतरे- पां धर्माधर्माकाशजीवानां चाखण्डत्वादेकप्रदेशत्वम् । भेदकल्पना- सापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वम् । पुनलाणोरुपचारतो नानाप्रदेशत्वं न च कालाणोः सिग्धरूक्षत्वाभावात् । अरूक्षत्वाचा- णोरमूर्तपुद्गलस्यैकविंशतितमो भावो न स्यात् । परोक्षप्रमाणापेक्ष. थाऽसद्भूतव्यवहारेणाप्युपचारेणामूर्तत्वं । पुद्गलस्य शुद्धाशुद्धद्रव्या- थिकेन विभावस्वभावत्वम् । शुद्धद्रव्याथिकन शुद्धखभावः। अशु- छद्रव्याथिकनाशुद्धस्वभावः । असद्भूतव्यवहारणोपचरितस्वभावः । "द्रव्याणां तु यथारूपं तल्लोकेऽपि व्यवस्थितम् । तथाज्ञानेन संज्ञातं नयोऽपि हि तथाविधः" ॥११॥ इति नययोजनिका। सकलवस्तुग्राहकं प्रमाणं, प्रमीयते परिच्छिद्यते वस्तुतत्वं येन ज्ञानेन तत्प्रमाणम्। तद्द्वधा सविकल्पेतरभेदात् । सविकल्पं मानस १ नयेन। २ जीवधर्माधर्माकाशकालानाम् ३ जीवपुद्गलयोः ४ निश्चीयते आलापपद्धतिः १६५ . 'तच्चतुर्विधम्। मतिश्रुतावधिमनःपर्ययरूपम् । निर्विकल्पं मनोरहित केवलज्ञानमिति प्रमाणस्य व्युत्पत्तिः । प्रमाणेन वस्तु संगृहीताथै- कांशो नयः, श्रुतविकल्पोवा, ज्ञातुरभिप्रायो वानयः, नानास्वभावे- भ्यो व्यावृत्य एकस्सिन्स्वभावे वस्तु नयति प्रामोतीति वा नयः। स द्वेधा सविकल्पनिर्विकल्पभेदादिति नयस्य व्युत्पतिः। प्रमाणनय- योनिक्षेप आरोपणं स नामस्थापनादिभेदेन चतुर्विध इति निक्षे. पस्य व्युत्पत्तिः। द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्यार्थिकः । शुद्ध- द्रव्यमेवार्थः प्रयोजनमस्येति शुद्धद्रव्यार्थिकः । अशुद्धद्रव्यमेवा- र्थः प्रयोजनमस्येति भशुद्धद्रव्यार्थिकः । सामान्यगुणादयोऽन्वय- रूपेण द्रव्यं द्रव्यमिति द्रवति व्यवस्थापयतीत्यन्वयगव्यार्थिकः । स्वद्रव्यादिग्रहणमर्थःप्रयोजनमस्येति वद्रव्यादिग्राहकः ।परद्रव्या. दिग्रहणमर्थः प्रयोजनमस्येति परद्रव्यादिग्राहकः । परमभाव- ग्रहणमर्थः प्रयोजनमस्येति परमभावग्राहकः । इति द्रव्यार्थिकस्य व्युत्पत्तिः । पर्याय एवार्थः प्रयोजनमस्येति पर्यायार्थिकः । अनादिनित्य- .पर्याय एवार्थः प्रयोजनमस्येत्यनादिनित्यपर्यायार्थिकः । सादिनित्य- पर्याय एवार्थः प्रयोजनमस्येति सादिनित्यपर्यायार्थिकः । शुद्ध- पर्याय एवार्थः प्रयोजनमस्येति शुद्धपर्यायार्थिकः । अशुद्धपर्याय एवार्थः प्रयोजनमस्येत्यशुद्धपर्यायार्थिकः । इति पर्यायार्थिकस्य व्युत्पत्तिः। नैकं गच्छतीति निगमः, निगमो विकल्पस्तत्रभवो नैगमः। अभे- दरूपतया वैस्तुजातं संगृह्णातीति सङ्ग्रहः । सङ्ग्रहेण गृहीतार्थस्य भेदरूपतया वस्तु व्यवहियत इति व्यवहारः । ऋजु प्रांजलं सूत्र- यतीति ऋजुसूत्रः । शब्दात् व्याकरणात् प्रकृतिप्रत्ययद्वारेण १ आदिशब्देन द्रव्यभावौ गृह्येते. २ सामान्य जीवत्वादि गुणा शाना दयः। ३ वस्तुसमूह।

१६६ सनातनजैनग्रन्थमालायाम् सिद्धः शब्दः शब्दनयः । परस्परेणादिरूढाः समभिरूढाः । शब्दभेदेऽप्यर्थभेदो नास्ति । यथा शक्र इन्द्रः पुरन्दर इत्यादयः समभिरूढाः। एवंक्रियाप्रधानत्वेन भूयत इत्येवंभूतः । शुद्धा. शुद्धनिश्चयौ द्रव्यार्थिकस्य भेदौ । अभेदानुपचरितया वस्तु निश्चीयत इति निश्चयः । भेदोपचारतया वस्तु व्यवहियत इति व्यवहारः । गुणगुणिनोः संज्ञादिभेदात् भेदकः सद्भूतव्यवहारः । अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणमसद्भूतव्यवहारः । असद्भूतव्यवहार एवोपचारः, उपचारादप्युपचारं यः करोति स उपचरितासद्भूतव्यहारः । गुणगुणिनोः पर्यायपर्यायिणोः स्वभाव- स्वभाविनोः कारककारकिणोर्मेंदः सद्भूतव्यवहारस्यार्थः । द्रव्ये द्रव्योपचारः, पर्याये पर्यायोपचारः,गुणे गुणोपचारः, द्रव्ये गुणोप- चारः, द्रव्ये पर्यायोपचारः, गुणे द्रव्योपचारः, गुणे पर्यायोपचारः, पर्याये द्रव्योपचारः, पर्याये गुणोपचार इति नवविधोऽसद्भूतव्यव- हारस्याओं द्रष्टव्यः। उपचारः पृथग् नयो नास्तीति न पृथक् कृतः।मुख्याभावे सति प्रयोजने निमित्तें चोपचारः प्रवर्तते सोऽपि सम्बन्धाविनाभावः। संश्लेपः सम्बन्धः। परिणामपरिणामिसम्बन्धः, श्रद्धाश्रद्धेयसम्बन्धः, ज्ञानज्ञेयसम्बन्धः, चारित्रचर्यासम्बन्धश्चेत्यादिसत्यार्थः असत्यार्थः सत्यासत्यार्थश्चेत्युपचरिताऽसद्भूतव्यवहारनयस्यार्थः । पुनरप्यध्यात्मभाषया नया उच्यन्ते। तावन्मूलनयौ द्वौ निश्चयो व्यवहारश्च । तन निश्चयनयोऽभेदविपयो व्यवहारो भेदविषयः। तत्र निश्चयो द्विविधः शुद्धनिश्चयोऽशुद्धनिश्चयश्च । तत्र निरुपाधिकगुण- गुण्यभेदविपयकोऽशुद्धनिश्चयो यथा-केवलज्ञानादयो जीवे इति । १ एवमित्युक्त कोऽर्थः क्रियाप्रधानत्वेनेति विशेषणम् । २ पुद्गलादौ । ३ स्वभावस्य ४ जीवादौ । ५ भेदेन ज्ञातुं योग्यः ।

भालापपद्धतिः १६७ सोपाधिकविपयोऽशुद्धनिश्चयो यथा-मतिज्ञानादयो जीव इति । व्यवहारो द्विविधः सद्भूतव्यवहारोऽसद्भूतव्यवहारश्च। तत्रैकवस्तु- विपयः सैद्भूतव्यवहारः, भिन्नवस्तुविपयोऽसद्भूतव्यवहारस्तत्रसद्भू- तव्यवहारो द्विविध उपचरितानुपचरितभेदात् । तत्र सोपाधिगुण- गुणिनोर्भेदविपयः उपचरितसद्भूतव्यवहारो यथा-जीवस्य मति- ज्ञानादयो गुणाः। निरुपाधिगुणगुणिनोर्मेदविषयोऽनुपचरितसद्भूत- व्यवहारो यथा-जीवस्य केवलज्ञानादयो गुणाः। असद्भूतव्यवहा- रो द्विविधः उपचरितानुपचरितभेदात् । तत्र संश्लेपरहितवस्तुसम्ब- न्धविपय उपचरितासद्भूतव्यवहारो यथा देवदत्तस्य धनमिति । संश्लेपसहितवस्तुसम्बन्धविपयोऽनुपचरितासद्भूतव्यवहारो यथा- जीवस्य शरीरमिति। इति सुखबोधार्थमालापपद्धतिः श्रीमद्देवसेनविरचिता परिसमाप्ता॥ १ उपाधिना कर्मजनितविकारेण सह वर्तत इति सोपाधिः । २ यथा वृक्ष एक एव तलमाः शाखा भिन्नाः परन्तु वृक्ष एव तथा सद्भूतव्यवहारो गुणगुणिनो दकथनम् । ३ 'देवदत्तस्य' इति च पाठः ।

श्रीमदमृतचन्द्रसूरिविरचित नाटकसमयसारकलशा (८) नमः समयसाराय स्वानुभूत्या चकाशते। चित्स्वभावाय भावाय सर्वभावान्तरच्छिदे ॥ १.! अनन्तधर्मणखत्वं पश्यन्ती प्रत्यगात्मनः । अनेकान्तमयी मूर्तिनित्यमेव प्रकाशताम् ॥२॥ परपरिणतिहेतोर्मोहनान्नोऽनुभावा- दविरतमनुभाज्यव्याप्तिकल्मापितायाः। मम परमविशुद्धिः शुद्धचिन्मात्रमूर्ते- भवतु समयसारव्याख्ययैवानुभूतेः ॥ ३ ॥ उभयनयविरोधध्वंसिनि स्यात्पदाङ्के जिनवचसि रमन्ते ये स्वयं चान्तमोहाः। सपदि समयसारं ते परं ज्योतिरुच्चै- रनवमनयपक्षाक्षुण्णमीक्षन्त एव ॥ ४ ॥ व्यवहरणनयः स्थायद्यपि प्राक्पदव्या- मिह निहितपदानां हन्त हस्तावलम्बः। तदपि परममर्थ चिञ्चमत्कारमानं परविरहितमन्तः पश्यतां नैष किञ्चित् ॥ ५ ॥ एकत्वे नियतस्य शुद्धनयतो व्याप्तुर्यदस्यात्मनः पूर्णज्ञानघनस्य दर्शनमिह द्रव्यान्तरेभ्यः पृथक् । सम्यग्दर्शनमेतदेवनियमादात्मा च तावानयम् तन्मुक्तानवतत्वसन्ततिमिमामास्मायमेकोऽस्तु नः ॥ ६।

नाटकसमयसारकलशा: १६९ मतः शुद्धनयायत्तं प्रत्यग्ज्योतिराति तत् । नवतरवगतत्वेऽपि यदेकरवं न मुञ्चति ॥७॥ चिरमिति नवतावच्छजमुखीयमानं कनकमिव निमनं वर्णमालाकलापे। अय सततविविक्तं पश्यतामेकरूपं प्रतिपदमिदमात्मज्योतिरुयोतमानम् ॥ ८॥ उदयति न नयधीरम्समेति प्रमाणं कचिदपि च न विमो याति निक्षेपचक्र । किमपरमभिदध्मो धानि सर्वकपेऽसि- अनुभवमुपयाते भाति न द्वैतमेव ॥९॥ आरमस्वभावं परभावमिनमापूर्णमाधन्तविमुक्तमेकं । विलीनसंकल्पविकल्पजालं प्रकाशयन् शुद्धनयोऽभ्युदेति ॥१०॥ न हि विदधति बद्धस्पृष्टभावादयोऽमी स्फुटमुपरितरन्तोऽप्येत्य यन प्रतिष्टां। भनुभवतु तमेय घोतमानं समंताज- गदपगतमोही भूयसम्यक्स्वभावं ॥११॥ भूतं भान्तमभूतमेव रभसा निर्भिय यन्धं सुधी- यंयन्तः किल कोऽप्यहो कलयति ध्याहत्य मोहं हठात् । भारमात्मानुभवैकगम्यमहिमा व्यक्तोऽयमास्ते ध्रुवं नित्यं फर्मकलकपक्षविकलो देवः स्वयं शाश्वतः ॥ १२ ॥ भारमानुभूतिरिति शुद्धनयात्मिका या ज्ञानानुभूतिरियमेव किलेति पुज्या । मात्मानमात्मनि निविश्य सुनिःप्रकम्प- मेकोऽस्ति नित्यमवयोधनः समन्तात् ॥ १३ ॥ अखण्डितमनाकुलं ज्वलदनन्तमन्तर्वहि- महः परममस्तु नः सहजमुद्विलासं सदा। .

१७० सनातनजनप्रन्थमालायाम् चिदुच्छलननिर्भर सकलकालमालम्बते यदेकरसमुल्लसल्लवणखिल्यलीलायितं ॥ १४ ॥ एप ज्ञानघनो नित्यमात्मा सिद्धिममीप्सुभिः। साध्यसाधकभावेन द्विधैकः समुपास्यताम् ॥ १५॥ दर्शनज्ञानचारित्रैस्त्रित्वादेकत्वतः स्वयम् । मेचको मेचकश्चापि सममात्मा प्रमाणतः॥ १६ ॥ दर्शनज्ञानचारित्रिभिः परिणतत्वतः । एकोऽपि त्रिस्वभावत्वाब्यवहारेण मेचकः ।। १७ ॥ परमार्थेन तु व्यक्तज्ञातृत्वज्योतिषैककः । सर्वभावान्तरध्वंसि स्वभावत्वादमेचकः ॥ १८ ॥ आत्मनश्चिन्तयैचालं मेचकामेचकत्वयोः ।, दर्शनज्ञानचारित्रैः साध्यसिद्धिर्न चान्यथा ॥ १९ ॥ कथमपि समुपात्तनित्वमप्येकताया अपतितमिदमात्मज्योतिरुद्गच्छदच्छम् । सततमनुभवामोऽनन्तचैतन्यचिह्नम् न खलु न खलु यस्मादन्यथा साध्यसिद्धिः ॥ २० ॥ कथमपि हि लभन्ते भेदविज्ञानमूला- मचलितमनुभूतिं ये स्वतो वान्यतो वा। प्रतिफलननिमन्नानन्तभावस्वभावै.. मुंकुरवदविकाराः संततं स्युस्त एव ॥ २१ ॥ त्यजतु जगदिदानी मोहमाजन्मलीढं रसयतु रसिकानां रोचनं ज्ञानमुद्यत् । इह कथमपि नात्मा नात्मनासाकमेकः किल कलयति काले कापि तादाम्यवृत्तिम् ॥ २२ ॥ अयि कथमपि मृत्वा तत्वकौतूहली स- अनुभव भवमूतैः पार्थवर्ती मुहूर्तम् ।

नाटकसमयसारफलशा: १७१ पृथगध विलसंतं वं समालोक्य येन त्यजसि झगिति मूर्या साकमेकत्वमोहं ॥ २३ ॥ कान्त्यैव स्रपयन्ति ये दशदिशो धान्ना निरन्धन्ति ये धामोदाममहस्विनां जनमनो मुष्णन्ति रूपेण ये। दिव्येन ध्वनिना सुखं श्रवणयोः साक्षारक्षरन्तोऽमृतम् चन्याम्नेऽष्टसहस्रलक्षणधरातीर्थेश्वराः सूरयः ॥ २४ ॥ प्राकारकवलितां वरमुपवनराजीनिगीणभूमितलं । पिवतीव हि नगरमिदं परिखावलयेन पातालं ॥ २५॥ नित्यमविकारसुस्थितसागमपूर्वसहजलावण्यं । भक्षोभमिव समुद्रं जिनेन्द्ररूपं परं जयति ॥ २६ ॥ एकरवं व्यवहारतो न तु पुनः कायात्मनो निश्चया- जुः स्तोत्रं व्यवहारतोऽस्ति वपुपः स्तुत्या न तत्तत्वतः। स्तोत्रं निश्चयतश्चितो भवति चित्स्तुत्यैव सैवं भवे. मातस्तीर्थकरतवोत्तरवलादेकरवमात्मानयोः ॥ २७ ॥ इति परिचिततत्वैरात्मकायैकतायां नयविभजनयुच्यात्यन्तमुच्छादितायाम् । अवतरति न योधो योधमेवाद्य कस्य खरसरमसकृष्टः प्रस्फुरनेक एव ॥ २८ ॥ अवतरति न यावद्द्वृत्तिमत्यन्तवेगा- दनवमपरमावत्यागहष्टान्तरष्टिः । झटिति सकलभावैरन्यदीयैर्विमुक्ता स्वयमियमनुभूतिस्तावदाविर्वभूव ॥ २९ ॥ सर्वतः स्वरसनिर्भरभावं चेतये स्वयमई स्वमिहक । नास्ति नास्ति मम कश्चन मोहः शुद्धचिद्धनमहोनिधिरस्मि ॥३०॥ इति सति सह सर्वरन्यमावैर्विवैके स्वयमयमुपयोगो बिभ्रदात्मानमेकं ।

१७२ सनातनजैनप्रन्थमालायाम् प्रकटितपरमार्थदर्शनज्ञानवृत्तैः कृतपरिणतिरात्माराम एव प्रवृत्तः ॥ ३३ ॥ मजन्तु निर्भरममी सममेव लोका आलोकमुच्छलति शान्तरसे समस्ताः। आप्लाव्य विभ्रमतिरस्करिणी भरेण प्रोन्मन्न एष भगवानववोधसिन्धुः ॥ ३२ ॥ शति रंगभूमिका ॥१॥ जीवाजीवविवेकपुष्कलदृशा प्रत्यावयत्पार्पदा नासंसारनिबद्धबन्धनविधिध्वंसाद्विशुद्ध स्फुटत् । आत्माराममनन्तधाममहसाध्यक्षेण नित्योदित धीरोदात्तमनाकुलं विलसति ज्ञानं मनो हादयत् ॥ ६ ॥ विरम किमपरेणाकार्यकोलाहलेन स्वयमपि निभृतः सन् पश्य पण्मासमेकं । हृदयसरसि पुंसः पुदलागिन्नधानो ननु किसनुपलब्धिर्भाति किं चोपलब्धिः ॥२॥ चिच्छतिव्याप्तसर्वखसारो जीव इयानयं । अतोऽतिरिक्ताः सर्वेऽपि भावाः पौगालिका अमी ॥ ३ ॥ सकलमपि विहायालाय चिच्छतिरिक्तं स्फुटतरमवगाह्य स्खं च चिच्छक्तिमानं । इममुपरि चरन्तं चार विश्वस्य साक्षात् कलयतु परमात्मात्मानमात्मन्यनन्तं ॥४॥ वर्णाद्या वा रागमोहादयो वा भिन्ना भावाः सर्व एवास्य पुंसः। तेनैवान्तस्तत्त्वतः पश्यतोऽमी नो दृष्टाः स्युदृष्टमेकं परं स्यात् ॥५ निर्वत्यंते येन यदन्न किंचित्तदेव तत्त्या कथंचनान्यत् । रुक्मेण निवृत्तमिहासिकोशं पश्यन्ति रुक्मं न कथंचनासिं ॥६ नाटकसमयसारकलशाः १७३ वर्णादिसामध्यमिदं विदन्तु निर्माणमेकस्य हि पुनलस्य । ततोऽस्त्विदं पुद्गल एव नात्मा यतः स विज्ञानघनततोऽन्यः ॥७॥ घृतकुम्भाभिधानेऽपि कुम्भो घृतमयो न चेत् । जीवो वर्णादिमजीवो जल्पनेऽपि न तन्मयः ॥८॥ भनाधनन्तमचलं स्वसंवेद्यमिदं स्फुटम् । जीवः स्वयं तु चैतन्यमुच्चैश्चकचकायते ॥ ९ ॥ वर्णाद्यैः साहितस्तथा विरहितो द्वेधास्त्यजीवो यतो नामूर्त्तत्वमुपास्य पश्यति जगजीवस्य तत्वं ततः । इत्यालोच्य विवेचकैः समुचितं नाव्याप्यतिव्यापि वा व्यक्तं व्यक्षितजीवतत्त्वमचलं चैतन्यमालम्ब्यतां ॥ १० ॥ जीवादजीवमिति लक्षणतो विभिन्न ज्ञानी जनोऽनुभवति स्वयमुल्लसन्तं । अज्ञानिनो निरवधिप्रविजृम्भितोऽयं मोहस्तु तत्कथमहो वत नानटीति ॥ ११॥ अस्मिन्ननादिनि महत्यविवेकनाट्ये वर्णादिमान्नटति पुद्गल एव नान्यः। रागादिपुद्गलविकारविरुद्धशुद्ध- चैतन्यधातुमयमूर्तिरयं च जीवः ॥ १२ ॥ 'इत्थं ज्ञानक्रकचकलनापाटनं नाटयित्वा जीवाजीवौ स्फुटविघटनं नैव यावत्प्रयातः। विश्वं व्याप्य प्रसभविकशव्यक्तचिन्मानशचया ज्ञातृगव्यं स्वयमतिरसाचावदुष्चैश्चकाशे ॥ १३ ॥ इति जीवाजीवाधिकारः॥२॥ . एका कर्ती चिदहमिह मे कर्म कोपादयोऽमी इत्यज्ञानां शमयदभितः कर्तृकर्मप्रवृत्ति ।

१७४
सनातनजैनग्रन्थमालायाम्
ज्ञानज्योतिः स्फुरति परमोदात्यमत्यन्तधीरं
साक्षात्कुर्वनिरुपधिपथग्द्व्यनिर्भासि विश्वं ॥ १ ॥
परपरिणतिमुज्झत् खंडयझेदवादा-
निदमुदितमखण्डं ज्ञानमुच्चण्डमुच्चैः ।
ननु कथमवकाशः कषुकर्मप्रवृत्ते-
रिह भवति कथं वा पौद्दलः कर्मवन्धः ॥ २ ॥
इत्येवं विरचय्य संप्रति परद्रव्यानिवृत्ति परां
खं विज्ञानधनस्वभावमभयादास्तिधुवानः परं ।
भज्ञानोत्थितककर्मकलनात् केशानिवृत्तः स्वयं
ज्ञानीभूत इतश्चकास्ति जगतः साक्षी पुराणः पुमान् ॥३॥
व्याप्यव्यापकता तदात्मनि भवेन्नैवातदात्मन्यपि
व्याप्यव्यापकभावसंभवमृत का कर्तृकर्मस्थितिः ।
इत्युद्दामविवेकघसरमहो भारेण भिन्दस्तमो
ज्ञानीभूय तदा स एष लसितः कर्तृत्वशून्यः पुमान् ॥४॥
ज्ञानी जाननपीमा खपरपरिणति पुद्गलश्चाप्यजानन्
व्याहव्याप्यत्वमन्तः कलयितुमसहौ नित्यमत्यन्तभेदात् ।
अज्ञानात्कर्तृकर्मभ्रममतिरनयो ति तावन्न याव-
द्विज्ञानार्चिश्वकास्ति क्रकचवददयं भेदमुत्पाद्य सद्यः ॥५॥
यः परिणमति स कर्ता यः परिणामो भवेत्तु तत्कर्म ।
या परिणतिः क्रिया सा त्रयमपि भिन्नं न वस्तुतया ॥ ६ ॥
एकः परिणमति सदा परिणामो जायते सदैकस्य ।
एकस्य परिणतिः स्यादनेकमप्येकमेव यतः ॥ ७ ॥
नोभौ परिणमतः खलु परिणामो नोभयोः प्रजायेत ।
उभयोन परिणतिः स्याद्यदनेकमनेकमेव सदा ॥८॥
नैकस्य हि कर्तारौ द्वौ स्तो द्वे कर्मणी न चैकस्य ।
नैकस्य च क्रिये द्वे एकमनेकं यतो न स्यात् ॥९॥

नाटकसमयसारकलशा:
१७५
आसंसारत एव धावति परं कुर्वेऽहमित्युच्चकै
दुर्वारं ननु मोहिनामिह महाहकाररूपं तमः
तद्भूतार्थपरिग्रहेण विलयं यद्येकवारं व्रजे-
त्तत्कि ज्ञानघनस्य बन्धनमहो भूयो भवेदात्मनः ॥ १० ॥
आत्मभावान्करोत्यात्मा परभावान्सदा परः ।
भासैव यात्मनो भावाः परस्य पर एव ते ॥११॥
अज्ञानतस्तु स तृणाभ्यवहारकारी
ज्ञानं स्वयं किल भवनापि रज्यते यः।
पीत्वा दधीक्षुमधुराम्लरसातिगृध्यां
गां दोग्धि दुग्धमिव नूनमसौ रसालम् ॥ १२ ॥
अज्ञानान्मृगतृष्णिकां जलधिया धावन्ति पातुं मृगा
अज्ञानात्तमसि दवन्ति भुजगाध्यासेन रजौ जनाः ।
अज्ञानाञ्च विकल्पचक्रकरणाद्वातोत्तरशाब्धिव-
छु ज्ञानमया अपि स्वयममी कीभवन्त्याकुलाः ॥ १३ ॥
ज्ञानाद्विवेचकतया तु परात्मनोर्यों
'जानाति हंस इव वापयसोचिशेपं ।
चैतन्यधातुमचलं स सदाधिरूढो
जानीत एव हि करोति न किन्चनापि ॥ १४ ॥
हादेव ज्वलनपयसोरोष्ण्यशैत्यव्यवस्था
हैनादेवोल्लसति लवणस्वादभेदव्युदासः ।
ज्ञानादेव स्वरसविकसन्नित्यचतन्यधातोः
क्रोधादेश्च प्रभवति भिदा मिन्दती कर्तृभावमा
मज्ञानं ज्ञानमप्येवं कुर्वन्नास्मानमसा।
साकचोरमारममावस्य परभावस्य न चिन॥19
माना ज्ञानं स्वयं ज्ञानं ज्ञानादन्यत्करोति कि।
परमावसं कतारमा मोहोऽयं व्यवहारिणाम् ॥ १७ ॥

१७६
सनातनजैनप्रन्थमालायाम्
जीवः करोति यदि पुनलकर्म नैव कस्तहि तत्कुरुत इत्यभिशक्येव ।
एतर्हि तीव्ररयमोहनिवर्हणाय संकीर्णते शृणुत पुद्गलकर्मकर्तृ १८
स्थितेत्यविना खलु पुद्गलस्य स्वभावभूता परिणामशक्तिः ।
तस्यां स्थितायां स करोति भावं यमात्मनस्तस्य स एव कर्ता ॥१९॥
स्थितेति जीवस्य निरन्तराया स्वभावभूता परिणामशक्तिः ।
तस्यां स्थितायां स करोति भावं यं स्वस्य तस्यैव भवेत्स कर्ता २०
ज्ञानमय एव भावः कुतो भवेद् ज्ञानिनो न पुनरन्यः ।
अज्ञानमयः सर्वः कुतोऽयमज्ञानिनो नान्यः॥२१॥
ज्ञानिनो ज्ञाननिर्वृत्ताः सर्वे भावा भवन्ति हि ।
सर्वेऽप्यज्ञाननिर्वृत्ता भवन्त्यज्ञानिनस्तु ते॥ २२ ॥
अज्ञानमयभावानामज्ञानी व्याप्य भूमिकाः ।
द्रव्यकर्मनिमित्तानां भावानामेति हेतुताम् ॥ २३ ॥
य एव मुक्तानयपक्षपातं स्वरूपगुप्ता निवसन्ति नित्यं ।
विकल्पजालच्युतशान्तचित्तास्त एव साक्षादमृतं पिबन्ति ॥ २४ ॥
एकस्य बद्धो न तथा परस्य चिति द्वयो-विति पक्षपाती ।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥२५॥
एकस्य मूढो न तथा परस्य चिति द्वयोाविति पक्षपाती।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिचिदेव ॥ २६ ॥
एकस्य रक्को न तथा परस्य चिति द्वयोाविति पक्षपातौ ।
यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ २७ ॥
एकस्य दुष्टो न तथा परस्य चिति द्वयोविति पक्षपाती।
यतस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥२०॥
एकस्य का न तथा परस्य चिति द्वयोःविति पक्षपाती।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥ २९ ॥
एकस्य भोक्ता न तथा परस्य चिति द्वयोविति पक्षपाती।
यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥३०॥

नाटकसमयसारकलशा:
एकस्य जीवो न तथा परस्य चिति द्वयोविति पक्षपाती।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥३१॥
एकस्य सूक्ष्मो न तथा परस्य चिति द्वयोविति पक्षपाती।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥३२॥
एकस्य हेतुर्न तथा परस्य चिति द्वयोविति पक्षपाती।
यस्तत्ववेदी च्युतपक्षपातस्तस्याति नित्यं खलु चिच्चिदेव ॥ ३३ ॥
एकस्य कार्य न तथा परस्य चिति द्वयोविति पक्षपातौ ।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ३४ ॥
एकस्य चैको न तथा परस्य चिति द्वयोःविति पक्षपाती।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिन्चिदेव ॥ ३५ ॥
एकस्य भावो न तथा परस्य चिति द्वयोविति पक्षपाती ।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥ ३६ ॥
एकस्य शान्तो न तथा परस्य चिति द्वयोाविति पक्षपाती।
यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥३७ ॥
एकस्य नित्यो न तथा परस्य चिति द्वयोविति पक्षपाती।
यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥ ३० ॥
एकस्य वाच्यो न तथा परस्य चिति द्वयोविति पक्षपाती।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ३९ ॥
एकस्य नाना न तथा परस्य चिति द्वयोविति पक्षपातौ ।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥ ४० ॥
एकस्य चेत्यो न तथा परस्य चिति द्वयोाविति पक्षपातौ ।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥ ४ ॥
एकस्य दृश्यो न तथा परस्य चिति द्वयोाविति पक्षपातौ ।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ४२ ॥
एकस्य वेद्यो न तथा परस्य चिति द्वयोाविति पक्षपाती।
यस्तत्ववेदी ध्युतपक्षपातस्तस्यास्ति नित्यं खलु चिचिदेव ॥ ४३ ॥

सनातनजैनप्रन्यमालायाम् एकस्य भातो न तथा परस्य चिति द्वयोहाविति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातखस्याति नित्यं खलु चिनिदेव ॥ ४ ॥ खेच्छासमुच्छलदनल्पविकल्पजाला- मेवं व्यतीत्य महती नयपक्षकक्षाम् । अन्तर्बहिस्समरसैकरसस्वभावं खं भावमेकमुपयात्यनुभूतिमात्रम् ॥ ४५ ॥ इन्द्रजालमिदमेवमुच्छलत्पुष्कलोच्चलविकल्पवीचिभिः । यस्य विस्फुरणमेव तत्क्षणं कृत्स्नमत्यति तदसि चिन्महः ॥४६॥ चित्स्वभावभरभावितभावा भावभावपरमार्थतयक । वन्धपद्धतिमपास्य समस्तां चेतये समयसारमपारं ॥ १७ ॥ भाकामनविकल्पभावमचलं पक्षनयानां विना सारो यः समयल्य भाति निभृतरावाचमानः स्वयम् । विज्ञानकरसः स एप भगवान पुण्यः पुराणः पुमान् ज्ञानं दर्शनमप्ययं किमथवा यत्किंचनेकोऽप्ययम् ॥ १८ ॥ दूरं भूरिविकल्पजालगहने भ्राम्यजिजौधाच्युतो दूरादेव विवेकनिनगमनान्नीतो निजौघं वलात् । विज्ञानकरसस्तदेकरसिनामात्मानमात्माहर- नात्मन्येव सदा गतानुगततामायात्ययं तोयवत् ॥ ४९ ॥ विकल्पकः परं कर्ता विकल्पः कर्म केवलं । न जातु कर्तृकर्मत्वं सविकल्पस्य नश्यति ॥ ५० ॥ यः करोति स करोति केवलं यस्तु वेत्ति स तु वेत्ति केवलं । यः करोति न हि वेत्तिस क्वचित् यस्तु वेत्ति न करोति स क्वचित् ५ ज्ञप्तिः करोतो न हि भासतेऽन्तर्जप्तौ करोतिश्च न भासतेऽन्तः ज्ञप्तिः करोतिश्च ततो विभिन्ने ज्ञाता न कतैतिततःस्थितं च ॥५२ का कर्मणि नाति नाति नियतं कापि तत्कतरि द्वन्द्वं विप्रतिषिध्यते यदि तदा का कर्तृकर्मस्थितिः ।

नाटकसमयसारकलशा:
ज्ञाता ज्ञातरि कर्म कर्मणि सदा व्यक्तेति वस्तुस्थिति-
नेपथ्ये बत नानटीति रभसान्मोहस्तथाप्येप किं ॥ ५३ ॥
कर्ता का भवति न यथा कर्म कर्मापि नैव
ज्ञानं ज्ञानं भवति च यथा पुद्गलः पुद्गलोऽपि ।
ज्ञानज्योतिज्वलितमचलं व्यक्तमन्तस्तथोच्चै-
श्विच्छतीनां निकरभरतोऽत्यन्तगम्भीरमेतत् ॥ ५४॥
इति कर्तृकर्माधिकारः ॥३
तदथ कर्म शुभाशुभभेदतो द्वितयतां गतमैक्यमुपानयन् ।
ग्लपितनिर्भरमोहरजा अयं स्वयमुदेत्यवबोधसुधाप्लवः ॥ १ ॥
एको दूरात्यजति मदिरा ब्राह्मणत्वाभिमाना-
दन्यः शूद्रः स्वयमहमिति नाति नित्यं तयैव ।
द्वावप्येतौ युगपदुदरान्निर्गतौ शूद्रिकायाः
शूद्रौ साक्षादथ च चरतो जातिभेदभ्रमेण ॥२॥
हेतुस्वभावानुभवाश्रयाणां सदाप्यभेदान्न हि कर्मभेदः ।
तद्वन्धमार्गाश्रितमेकमिष्टं स्वयं समस्तं खलु बन्धहेतुः ॥ ३ ॥
कर्म सर्वमपि सर्वविदो यद्वन्धसाधनमुशन्त्यविशेपात् ।
तेन सर्वमपि तत्प्रतिपिद्धं ज्ञानमेव विहितं शिवहेतुः ॥ ४॥
निपिद्धे सर्वस्मिन् सुकृतदुरिते कर्मणि किल
प्रवृत्त नै कम्ये न खलु मुनयः सन्त्यशरणाः ।
तदा ज्ञाने ज्ञान प्रतिचरितमेपां हि शरणं
स्वयं विन्दन्त्येते परमममृतं तत्र निरताः ॥ ५॥
यदेतद् ज्ञानात्मा ध्रुवमचलमाभाति भवन
शिवस्यायं हेतुः स्वयमपि यतस्तच्छिव इति ।
अतोऽन्यद्वन्धस्य स्वयमपि यत्तो बन्ध इति तत्
ततो ज्ञानात्मत्वं भवनमनुभूतिर्हि विहितं ॥ ६॥

१८०
सनातनजैनप्रन्थमालायाम्
वृत्तं ज्ञानस्वभावेन ज्ञानस्य भवनं सदा ।
एकद्रव्यस्वभावत्वान्मोक्षहेतुस्तदेव तत् ॥ ७ ॥
वृत्त कर्मस्वभावेन ज्ञानस्य भवनं न हि ।
द्रव्यान्तरस्वभावत्वान्मोक्षहेतुर्न कर्म तत् ॥ ८॥
मोक्षहेतुतिरोधानाद्वन्धत्वात्स्वयमेव च ।
मोक्षहेतुतिरोधायि भावत्वात्तन्निपिध्यते ॥ ९॥
संन्यस्तव्यमिदं समस्तमपि तत्कमैंव मोक्षार्थिना
संन्यस्ते सति तन का किल कथा पुण्यस्य पापस्य वा।
सम्यक्त्वादिनिजस्वभावभवनान्मोक्षस्य हेतुर्भव-
कर्मप्रतिबद्धमुद्धतरसं ज्ञानं स्वयं धावति ॥ १० ॥
यावत्पाकमुपैति कर्म विरतिर्ज्ञानस्य सम्यङ् न सा
कर्मज्ञानसमुच्चयोऽपि विहितस्तावन्न काचित्क्षतिः ।
किं त्वत्रापि समुल्लसत्यवशतो यरकर्म बन्धाय त-
न्मोक्षाय स्थितमेकमेव परमं ज्ञानं विमुक्कं स्वतः ॥ ११ ॥
मन्नाः कर्मनयावलम्बनपरा ज्ञानं न जानन्ति य-
न्मना ज्ञाननयैषिणोऽपि यदतिखच्छन्दमन्दोद्यमाः ।
विश्वस्योपरि ते तरन्ति सततं ज्ञानं भवन्तः स्वयं
ये कुर्वन्ति न कर्म जातु न वशं यान्ति प्रमादस्य च ॥ १२ ॥
भेदोन्मादं भ्रमरसभरानाटयत्यीतमोहं
मूलोन्सूलं सकलमपि तत्कर्म कृत्वा वलेन ।
हेलोन्मीलत्परमकलया सार्द्धमारब्धकेलि
ज्ञानज्योतिः कवलिततमः प्रोजजृम्भे भरेण ॥ १३ ॥
इति पुण्यपापाधिकारः ॥ ४॥
अथ महामदनिर्भरमन्थरं समररङ्गपरागतमात्र ।
भयमुदारगभीरमहोदयो जयति दुर्जयबोधधनुर्द्धरः ॥ ३॥

नाटकसमयसारकलशाः । १८१ भावो रागद्वेपमोहविना यो जीवस्य स्याद् ज्ञाननिवृत्त एव । रुन्धन्सर्वान् द्रव्यकर्मास्रवौघानेपो भावः सर्वभावास्रवाणाम् ॥२॥ भावात्रवाभावमयं प्रपन्नो द्रव्यास्रवेभ्यः स्वत एव भिन्नः । ज्ञानी सदा ज्ञानमयैकभावो निरास्रवो ज्ञायक एक एव ॥३॥ सन्न्यस्यन्निजवुद्धिपूर्वमनिशं राग समग्र स्वयम् वारंवारमबुद्धिपूर्वमपि तं जेतुं स्वशक्तिं स्पृशन् । उच्छिन्दन परवृत्तिमेव सकलां ज्ञानस्य पूर्णो भव- नात्मा नित्यनिरासवो भवति हि ज्ञानी यदा स्यात्तदा ॥ ४ ॥ सर्वस्यामेव जीवन्त्यान्द्रव्यप्रत्ययसंततौ । कुतो निरास्रवो ज्ञानी नित्यमेवेति चेन्मतिः ॥ ५ ॥ विजहति न हि सत्ता प्रत्ययाः पूर्वबद्धाः समयमनुसरन्तो यद्यपि द्रव्यरूपाः । तदपि सकलरागद्वेपमोहब्युदासा- दवतरति न जातु ज्ञानिनः कर्मबन्धः ॥ ६ ॥ रागद्वेपविमोहानां ज्ञानिनो यदसंभवः । तत एव न वन्धोऽस्य ते हि बन्धस्य कारणम् ॥ ७ ॥ अध्याय शुद्धनयमुक्तबोधचिह्न- मैकाग्यमेव कलयन्ति सदैव ये ते । : रागादिमुक्तमनसः सततं भवन्तः पश्यन्ति बन्धविधुरं समयस्य सारं ॥८॥ अच्युत्य शुद्धनयतः पुनरेव ये तु रागादियोगमुपयान्ति विमुक्तबोधाः । ते कर्मवन्धमिह बिभ्रति पूर्ववद्ध- दव्यास्त्रवैः कृतविचित्रविकल्पजालम् ॥ ९ ॥ इदमेवान तात्पर्य हेयः शुन्दनयो न हि। नास्ति बन्धस्तदत्यागात्तत्यागाद्वन्ध एव हि ॥ १०॥ । ६ १८२ सनातनजैनग्रन्थमालायाम् धीरोदारमहिन्यनादिनिधने बोधे निबन्नतिम् त्याज्यः शुद्धनयो न जातु कृतिभिः सर्वकपः कर्मणाम् । तत्रस्थाः स्वमरीचिचक्रमचिरात्संहृत्य निर्यवाहिः पूर्ण ज्ञानघनौघमेकमचलं पश्यन्ति शान्तं महः ॥ ११ ॥ रागादीनां झगिति विगमात्सर्वतोऽप्यास्रवाणां नित्योद्योतं किमपि परमं वस्तु सम्पश्यतोऽन्तः । स्फारस्फारैः स्वरसविसरैः प्लावयत्सर्वभावा- नालोकान्तादचलमतुलं ज्ञानमुन्मन्नमेतत् ॥ १२ ॥ इत्यास्रवो निष्क्रान्तः ॥ ५॥ आसंसारविरोधिसंवरजयकान्तावलिप्तात्रव- न्यक्कारात्पतिलब्धनित्यविजयं सम्पादयत्संवरम् । व्यावृत्तंपररूपतो नियमितं सम्यक् स्वरूपे स्फुर- ज्योतिश्चिन्मयमुज्ज्वलं निजरसप्राग्भारमुजृम्भते ॥१॥ चैद्रूप्यं जडरूपतां च दधतोः कृत्वा विभाग द्वयो- रन्तरुणदारणेन परितो ज्ञानस्य रागस्य च । भेदज्ञानमुदेति निर्मलमिदं मोदध्वमध्यासिताः शुद्धज्ञानघनौघमेकमधुना सन्तो द्वितीयच्युताः ॥२॥ यदि कथमपि धारावाहिना वोधनेन ध्रुवमुपलभमानः शुद्धमात्मानमास्ते । तदयमुदयदास्माराममात्मानमात्मा परपरिणतिरोधाच्छुद्धमेवाभ्युपैति ॥ ३ ॥ निजमहिमरतानां भेदविज्ञानशक्त्या भवति नियतमेपां शुद्धतत्त्वोपलम्भः । अचलितमखिलान्यद्रव्यदूरेस्थितानां भवति सति च तस्मिन्नक्षयः कर्ममोक्षः ॥ ४ ॥ सम्पद्यते संवर एप साक्षाच्छुद्धात्मतत्त्वस्य किलोपलम्भात् ।

नाटकसमयसारकलशाः ।
१८३
स भेदविज्ञानत एव तस्मात्त दविज्ञानमतीव भाव्यम् ॥५॥
भावये दविज्ञानमिदमच्छिन्नधारया।
तावद्यावत्पराच्छ्रुत्वा ज्ञानं ज्ञाने प्रतिष्ठते ॥ ६॥
भेदविज्ञानतः सिद्धाः सिद्धा ये किल केचन ।
तस्यैवाभावतो बद्धा बद्धा ये किल केचन ॥ ७ ॥
भेदज्ञानोच्छलनकलनाच्छुद्धतत्त्वोपलम्भा.
द्रागग्रामप्रलयकरणात्कर्मणां संवरेण ।
बिभ्रत्तोपं परमममलालोकमम्लानमेक
ज्ञान ज्ञाने नियतमुदितं शाश्वतोद्योतमेतत् ॥ ८ ॥
इति संवरो निष्कान्तः॥ ६ ॥
रागाद्यास्रवरोधतो निजधुरान्धृत्वा परः संवरः
कागामि समस्तमेव भरतो दूरान्निरुन्धन स्थितः ।
प्रारबद्धं तु तदेव दग्धमधुना व्याजृम्भते निर्जरा
ज्ञानज्योतिरपावृतं न हि यतो रागादिभिर्मूर्च्छति ॥ १ ॥
तज् ज्ञानस्यैव सामर्थ्य विरागस्यैव वा किल ।
यत्कोऽपि कर्मभिः कर्म भुसानोऽपि न बध्यते ॥ २ ॥
नाचते विषयसेवनेऽपि यत् स्खं फलं विषयसेवनस्य ना।
ज्ञानवैभवविरागताबलात्सेवकोऽपि तदसावसेवकः ॥ ३ ॥
सम्यग्दृष्टेर्भवति नियतं ज्ञानवैराग्यशक्तिः
स्वं वस्तुत्वं कलयितुमयं स्वान्यरूपातिमुक्त्या ।
यस्साजू ज्ञात्वा व्यतिकरमिदं तत्वतः खं परं च
स्वस्सिन्नास्ते विरमति परात्सर्वतो रागयोगात् ॥ ४ ॥
सम्यग्दृष्टिः स्वयमयमहं जातु बन्धो न मे स्था-
दित्युत्तानोत्पुलकवदना रागिणोऽप्याचरन्तु ।
आलम्बन्ता समिति परतां ते यतोऽद्यापि पापा
मात्मानामावगमविरहात्सन्ति सम्यक्त्वरिक्ताः ॥ ५॥

१८४ सनातनजैनग्रन्थमालायाम् आसंसारात्प्रतिपदममी रागिणो नित्यमत्ताः सुप्ता यसिन्नपदमपदं तद्विबुध्यध्वमन्धाः । एतैतेतः पदमिदमिदं यत्र चैतन्यधातुः शुद्धः शुद्धः खरसभरतः स्थायिभावत्वमेति ॥ ६ ॥ एकमेव हि तत्स्वाधं विपदामपदं पदम् । अपदान्येव भासन्ते पदान्यन्यानि यत्पुरः ॥ ७॥ एकनायकभावनिर्भरमहास्वादं समासादयन् स्वादन्द्वन्द्वमयं विधातुमसहः स्वां वस्तुवृत्ति विदन् । आत्मात्मानुभवानुभावविवशो अस्यद्विशेषोदयं सामान्यं कलयत्किलैप सकलं ज्ञानं नयत्येकतां ॥८॥ अच्छाच्छाः स्वयमुच्छलन्ति यदिमाः संवेदनव्यक्तयो निप्पीताखिलभावमण्डलरसप्रारभारमत्ता इव । यस्याभिन्नरसः स एप भगवानेकोऽप्यनेकीभवन् वलात्युत्कलिकाभिरगुतनिधिश्चैतन्यरत्नाकरः ॥ ९॥ किश्यन्तां स्वयमेव दुष्करतरैर्मोक्षोन्मुखैः कर्मभिः क्लिश्यन्तां च परे महावृततपोभारेण भन्नाश्चिरं । साक्षान्मोक्ष इदं निरामयपदं संवेद्यमानं स्वयं ज्ञानं ज्ञानगुणं विना कथमपि प्राप्तुं क्षमन्ते न हि ॥ १० ॥ पदमिदं ननु कर्मदुरासद सहजबोधकलासुलभं किल । तत इदं निजबोधकलाबलात्कलयितुं यततां सततं जगत् ॥ ११ ॥ अचिन्त्यशक्तिः स्वयमेव देवश्चिन्मानचिन्तामणिरेप यसात् । सर्वार्थसिद्धात्मतया विधत्ते ज्ञानी किमन्यस्य परिग्रहेण ॥ १२॥ इत्थं परिग्रहमपास्य समस्तमेव सामान्यतः स्वपरयोरविवेकहेतुं ।; अज्ञानमुज्झितुमना अधुना विशेपाझ्यस्तमेव परिह मयं प्रवृत्तः१३ पूर्वपद्धनिजकर्मविपाकाद ज्ञानिनो यदि भवत्युपयोगः । तद्भवत्वथ च रागवियोगानूनमेति न परिग्रहभावम् ॥ १४ ॥ .

नाटकसमयसारकलशाः। १८५ वेद्यवेदकविभावचलत्वाद्वेद्यते न खलु कासितमेव । तेन काङ्क्षति न किञ्चन विद्वान् सर्वतोऽप्यतिविरक्तिमुपैति ॥१५॥ ज्ञानिनो न हि परिग्रहभावं कर्मरागरसरिक्ततपैति। रङ्गयुक्तिरकपायितवस्त्रे स्वीकृतैव हि बहिटुंठतीह ॥ १६ ॥ ज्ञानवान् स्वरसतोऽपि यतः स्यात्सर्वरागरसवर्जनशीलः । लिप्यते सकलकर्मभिरेपः कर्ममध्यपतितोऽपि ततो न ॥ १७ ॥ यादृक् तादृगिहास्ति तस्य वशतो यस्य स्वभावो हि यः कर्तुं नैप कथंचनापि हि परैरन्यादृशः शक्यते । अज्ञानं न कदाचनापि हि भवेत् ज्ञानं भवेत्सन्ततम् ज्ञानिन् भुइक्ष्व परापराधजनितो नास्तीह बन्धस्तव ॥ १८ ॥ ज्ञानिन् कर्म न जातु कर्तुमुचितं किञ्चित्तथाप्युच्यते भुझे हन्त न जातु मे यदि परं दुर्भुक्त एवासि भोः। बन्धः स्यादुपभोगतो यदि न तत्कि कामचारोऽस्ति ते ज्ञानं सच्च सबन्धमेष्यपरथा स्वस्यापराधाब्रुवम् ॥ १९ ॥ कारं स्वफलेन यत्किल बलात्कमैव नो योजयेत् कुर्वाणः फललिप्सुरेव हि फलं प्रामोति यत्कर्मणः । ज्ञानं संतदपास्तरागरचनो नो बध्यते कर्मणा कुर्वाणोऽपि हि कर्म तत्फलपरित्यागैकशीलो मुनिः ॥ २० ॥ त्यक्तं येन फलं स कर्म कुरुते नेति प्रतीमो वयं किन्त्वस्यापि कुतोऽपि किञ्चिदपि तत्कर्मावशेनापतेत् । तसिनापतिते स्वकम्पपरमज्ञानस्वभावे स्थिती ज्ञानी किं कुरुतेऽथ किं न कुरुते कम्मति जानाति कः ॥ २१ ॥ सम्यग्दृष्टय एव साहसमिदं कर्तुं क्षमन्ते परं यद्वन्नेऽपि पतत्यमी भयचलत्रैलोक्यमुक्ताध्वनि । सीमेव निसर्गनिर्भयतया शां विहाय स्वयं १८६ सनातनजैनमन्थमालायाम् जानन्तः स्वमवध्ययोधवपुपं बोधाच्यवन्ते न हि ॥ २२ ॥ लोकः शाश्वत एप एक सकलत्यक्तो विविक्तात्मन- श्चिल्लोक स्वयमेव केवलमयं यलोकयत्येककः । लोको यन्न तवापरस्तदपरस्तस्यास्ति तगीः कुतो निःशङ्कः सततं स्वयं स सहजं ज्ञानं सदा विन्दति ॥ २३ ॥ एपैकैव हि वेदना यदचलं ज्ञानं स्वयं वेद्यते निर्भदोदितवेद्यवेदकबलादेकं सदानाकुलैः। नैवान्यागतवेदनैव हि भवेत्तद्धीः कुतो ज्ञानिनो निःशङ्कः सततं स्वयं स सहज ज्ञानं सदा विन्दति ॥ २४ ॥ यसन्नाशमुपैति तन्न नियतं व्यक्तेति वस्तुस्थिति- ज्ञान सत्स्वयमेव तत्किल ततस्नातं किमस्यापरैः । अस्यात्राणमतो न किञ्चन भवेत्तदीः कुतो ज्ञानिनो निःशङ्कः सततं स्वयं स सहज ज्ञानं सदा विन्दति ॥ २५ ॥ स्वं रूपं किल वस्तुनोऽस्ति परमा गुप्तिः स्वरूपेण य. च्छक्तः कोऽपि परः प्रवेष्टुमकृतं ज्ञानं स्वरूपं च नुः । अस्या गुप्तिरतो न काचन भवेत्तगीः कुतो ज्ञानिनो निःशङ्कः सततं स्वयं स सहजं ज्ञानं सदा विन्दति ॥ २६ ॥ प्राणोच्छेदमुदाहरन्ति मरणं प्राणाः किलास्यात्मनो ज्ञानं तत्स्वयमेव शाश्वततया नोच्छिद्यते जातुचित् । तस्यातो मरणं न किञ्चन भवेत्तगीः कुतो ज्ञानिनो निःशङ्कः सततं स्वयं स सहजं ज्ञानं सदा विन्दति ॥ २७ ॥ एकं ज्ञानमनाउनन्तमचलं सिद्ध किलैतत्स्वतो यावत्तावदिदं सदैव हि भवेन्नात्र द्वितीयोदयः। तन्नाकस्मिकमत्र किञ्चन भवेत्तदीः कुतो ज्ञानिनो १ ते इत्यपि पाठः।

नाटकसमयसारकलशाः ।
१८७
निःशङ्कः सततं स्वयं स सहज ज्ञानं सदा विन्दति ॥ २८॥
टोत्कीर्णस्वरसनिचितज्ञानसर्वस्वभाजः
सम्यग्दृष्टयदिह सकलं नन्ति लक्ष्माणि कर्म
तत्तस्यासिन्पुनरपि मनाक् कर्मणो नास्ति बन्धः
पूर्वोपात्तं तदनुभवतो निश्चितं निर्जरैव ॥ २९॥
रुन्धन्बन्धं नवमिति निजैः सङ्गतोऽष्टाभिरझैः
प्रारबद्धं तु क्षयमुपनयनिर्जरोज्जृम्भणेन ।
सम्यग्दृष्टिः स्वयमतिरसादादिमध्यान्तमुक्तं
ज्ञानं भूत्वा नटति गगनाभोगरङ्गं विगाह्य ॥ ३० ॥
इति निर्जरा निष्कान्ता ॥ ७ ॥
रागोदारमहारसेन सकलं कृत्वा प्रमत्तं जग-
क्रीडन्तं रसभारनिर्भरमहानाट्येन वन्धं धुनत् ।
आनन्दामृतनित्यभोजि सहजावस्थां स्फुटन्नाटय-
धीरोदारमनाकुलं निरुपधिज्ञानं समुन्मजति ॥ १ ॥
न कर्मबहुलं जगन्नचलनात्मकं कर्मवा-
ननेककरणानि वा न चिदचिद्वधो बन्धकृत् ।
यदैक्यमुपयोगभूः समुपयाति रागादिभिः
स एव किल केवलं भवति बन्धहेतुर्नृणाम् ॥ २ ॥
लोकः कर्म ततोऽस्तु सोऽस्तु च परिस्पन्दात्मकं कर्मत-
तान्यस्मिन् करणानि सन्तु चिदचियापादनं चास्तु तत् ।
एगादीनुपयोगभूमिमनयद् ज्ञानं भवेत् केवलं
बन्धं नैव कुतोऽप्युपैत्ययमहो सम्यग्गामा ध्रुवं ॥ ३ ॥
तथापि न निरर्गलं चरितुमिप्यते ज्ञानिनां
तदायतनमेव सा किल निरर्गला व्यावृतिः ।
भकामकृतकर्म तन्मतमकारणं ज्ञानिनां
द्वयं न हि विरुध्यते किमु करोति जानाति च ॥ ४ ॥

१८८ सनातनजैनग्रन्थमालायाम् जानाति यः स न करोति करोति यस्तु जानात्ययं न खलु तत्किल कर्मरागः। राग त्वबोधमयमध्यवसायमाहु- मिथ्याशः स नियतं स च बन्धहेतुः ॥ ५॥ सर्व सदैव नियतं भवति स्वकीय- कांदयान्मरणजीवितदुःखसौख्यम् । अज्ञानमेतदिह यत्तु परः परस्य कुर्यात्पुमान् मरणजीवितदुःखसौख्यम् ॥ ६॥ अज्ञानमेतदधिगम्य परात्परस्य पश्यन्ति ये मरणजीवितदुःखसौख्यम् । काण्यहंकृतिरसेन चिकीपवस्ते मिथ्यादृशो नियतमात्महनो भवन्ति ॥ ७ ॥ मिथ्यादृष्टेः स एवास्य बन्धहेतुर्विपर्ययात् । य एवाध्यवसायोऽयमज्ञानात्माऽस्य दृश्यते ॥ ८॥ अनेनाध्यवसायेन निःफलेन विमोहितः। तत्किञ्चनापि नैवाऽस्ति नात्माऽऽत्मानं करोति यत् ॥ ९॥ विश्वाद्विभक्तोऽपि हि याभावादात्मानमात्मा विदधाति विश्वम् । मोहककन्दोऽध्यवसाय एप नास्तीह येषां यतयस्त एव ॥१०॥ सर्वत्राध्यवसानमेवमखिलं त्याज्यं यदुक्तं जिनै- स्तन्मन्ये व्यवहार एव निखिलोऽप्यन्याश्रयस्त्याजितः। सम्यग्निश्चयमेकमेव तदमी निस्कम्पमाक्रम्य किं शुद्धज्ञानधने महिन्नि न निजे बक्षन्ति संतो तिम् ॥११॥ रागादयो बन्धनिदानमुक्तास्ते शुद्धचिन्मानमहोऽतिरिक्ताः। मात्मा परो वा किमु तन्निमित्तमिति प्रणुनाः पुनरेवमाहुः ॥१२॥ न जातुरागादिनिमित्तभावमात्माऽऽत्मनो याति यथार्ककान्तः । तसिन्निमित्तं परसङ्ग एव वस्तुस्वभावोऽयमुदेति तावत् ॥ १३ ॥ .

नाटकसमयसारकलशाः। १८९ इति वस्तुस्वभावं खं ज्ञानी जानाति तेन सः । रागादीनात्मनः कुर्यानातो भवति कारकः ॥ १४ ॥ इति वस्तुस्वभावं खं नाज्ञानी वेत्ति तेन सः । रागादीनात्मनः कुर्यादतो भवति कारकः ॥ १५ ॥ इत्यालोच्य विवेच्य तस्किल परद्रव्यं समग्रं यला- तन्मूलां बहुभावसन्ततिमिमामुन्द्वर्तुकामः समम् । आत्मानं समुपैति निर्भरवहत्पूर्णकसंविधुतम् येनोन्मूलितवन्ध एप भगवानात्माऽऽत्मनि स्फूर्जति ॥ १६ ॥ रागादीनामुदयमदयं दारयत्कारणानां काय यन्धं विविधमधुना सधएव प्रणुध । ज्ञानज्योतिः क्षपिततिमिरं साधु सन्नद्धमेत- तद्वद्यद्वत्प्रसरमपरः कोऽपि नास्यावृणोति ॥ १७ ॥ इति वन्धो निष्कान्तः ॥ ८ ॥ द्विधाकृत्य प्रज्ञाक्रकचदलनाद्वन्धपुरुपौ नयन्मोक्षं साक्षात्पुरुपमुपलम्भकनियतं । इदानीमुन्मजासहजपरमानन्दसरसं पर पूर्ण ज्ञानं कृतसकलकृत्यं विजयते ॥ १ ॥ प्रज्ञाच्छेनी शितेयं कथमपि निपुणः पातिता सावधानः सूक्ष्मेऽन्तःसन्धिवन्धे निपतति रभसादात्मकर्मोभयस्य । आत्मानं मन्नमन्तःस्थिरविशदलसद्धान्नि चैतन्यपूरे बन्धं चाज्ञानभावे नियमितमभितः कुर्वती भिन्नभिन्नी ॥२॥ भिस्वा सर्वमपि स्वलक्षणवलानेत्तुं हि यच्छक्यते चिन्मुद्रादितनिर्विभागमहिमा शुद्धश्चिदेवास्म्यहम् । भिद्यन्ते यदि कारकाणि यदि वा धर्मा गुणा वा यदि भियन्तां न भिदाऽस्ति काचन विभौ भावे विशुद्ध चिति ॥३॥ अद्वैताऽपि हि चेतना जगति चेदृग्ज्ञप्तिरूपं त्यजे- सनातनजैनप्रन्थमालायाम् १९० त्तत्सामान्यविशेषरूपविरहात्साऽस्तित्वमेव त्यजेत् । तत्त्यागे जढता चितोऽपि भवति व्याप्यो विना व्यापका- दात्मा चान्तमुपैति तेन नियतं दृग्ज्ञप्तिरूपास्तु चित् ॥ ४ ॥ एकश्चितश्चिन्मय एव भावो भावाः परे ये किल ते परेपाम् । ग्राह्यस्ततश्चिन्मय एव भावो भात्राः परे सर्वत एव हेयाः ॥ ५ ॥ सिद्धान्तोऽयमुदात्तचित्तचरितमोक्षार्थिभिः सेव्यता शुद्धं चिन्मयमेकमेव परमं ज्योतिः सदैवास्यहम् । एते ये तु समुल्लसन्ति विबुधा भावाः पृथग्लक्षणा- स्तेऽहं नाऽसि यतोऽन ते मम परद्रव्यं समग्रा अपि ॥ ६ ॥ परगव्यग्रहं कुर्वन् वद्ध्येतैवापराधवान् । वयेतानपराधो न स्वद्रव्ये संवृतो मुनिः ॥ ७ ॥ अनवरतमनन्तैर्वध्यते सापराधः स्पृशति निरपराधो बन्धनं नैव जातु । नियतमयमशुद्ध स्वं भजन्सापराधो भवति निरपराधः साधुशुद्धात्मसेवी॥ ८॥ अतो हताः प्रमादिनो गताः सुखासीनतां प्रलीनं चापलमुन्मूलितमालम्बनमात्म- न्येवालानितं च चित्तमा- संपूर्णविज्ञानघनोपलव्धेः ॥ ९॥ (2) यत्र प्रतिक्रमणमेव विपं प्रणीतम् तत्राप्रतिक्रमणमेव सुधा कुतः स्यात् । तरिक प्रमाति जनः प्रपतन्नधोऽधः किं नोमूर्द्धमधिरोहति निःप्रमादः ॥ १० ॥ प्रमादकलितः कथं भवति शुद्धभावोऽलसः कपायभरगौरवादलसता प्रमादो यतः । अतः स्वरसनिर्भरे नियमितः स्वभावे भवन

नाटकसमयसारकलशाः।
१९१
मुनिः परमशुद्धतां ब्रजति मुच्यते चाचिरात् ॥ ११ ॥
त्यक्त्वाऽशुद्धिविधायि तत्किल परद्रव्यं समग्रं स्वयं
खद्रव्ये रतिमेति यः स नियतं सर्वापराधच्युतः।
बन्धध्वंसमुपेत्य नित्यमुदितः स्वज्योतिरच्छोच्छल-
चैतन्यामृतपूरपूर्णमहिमा शुद्धो भवन्मुच्यते ॥ १२ ॥
बन्धच्छेदात्कलयदतुलं मोक्षमक्षय्यमेत-
नित्योद्योतस्फुटितसहजावस्थमेकान्तशुद्धम् ।
एकाकारस्वरसभरतोऽत्यन्तगम्भीरधीरं
पूर्ण ज्ञानं ज्वलितमचले स्वस्य लीनं महिम्नि ॥ १३ ॥
इति मोक्षो निष्कान्तः ॥ ९ ॥
नीत्वा सम्यक् प्रलयमखिलान्कर्तृभोनादिभावान्
दूरीभूतः प्रतिपदमयं बन्धमोक्षप्रलप्तेः ।
शुद्धः शुद्धस्वरसविसरापूर्णपुण्याचलार्चि-
टकोत्कीर्णप्रकटमहिमा स्फूर्जति ज्ञानपुनः ॥ १ ॥
कर्तुत्वं न स्वभावोऽस्य चितो वेदयितृत्ववत् ।
अज्ञानादेव कर्ताऽयं तदभावादकारकः ॥२॥
भकर्सा जीवोऽयं स्थित इति विशुद्धः स्वरसतः
स्फुरञ्चिज्योतिर्भिश्छुरितभुवनाभोगभवनः ।
तथाप्यस्यासौ स्याद्यदिह किल वन्धः प्रकृतिभिः
स खल्वज्ञानस्य स्फुरति महिमा कोऽपि गहनः ॥३॥
भोक्तृत्वं न स्वभावोऽस्य स्मृतः कर्तृत्ववचितः।
अज्ञानादेव भोक्ताऽयं तदभावादवेदकः ॥ ४ ॥
आज्ञानी प्रकृतिस्वभावनिरतो नित्यं भवेद्वेदको
ज्ञानी तु प्रकृतिस्वभावविरतो नो जातुचिद्वेदकः
इत्येवं नियमं निरूप्य निपुणैरज्ञानिता त्यज्यतां
शुद्धैकात्ममये महस्यचलितैरासेव्यतां ज्ञानिता ॥ ५ ॥

१९२ सनातनजेनग्रन्थमालायाम् ज्ञानी करोति न न चेदयते च कर्म जानाति केवलमयं किल तत्स्वभावं। जानन्परं करणवेदनयोरभावा- च्छुद्धखभावनियतः स हि मुक्त एव ॥ ६ ॥ ये तु कर्तारमात्मानं पश्यन्ति तमसा तताः । सामान्यजनवत्तेषां न मोक्षोऽपि मुमुक्षताम् ॥ ७ ॥ नास्ति सर्वोऽपि सम्वन्धः परद्रव्यात्मतत्त्वयोः । कर्तृकर्मत्वसम्बन्धाभावे तत्कता कुतः ॥ ८॥ एकस्य वस्तुन इहान्यतरेण सार्द्ध सम्बन्ध एव सकलोऽपि यतो निषिद्धः। तत्ककर्मघटनाऽस्ति न वस्तुभेदे पश्यन्त्वकर्तृमुनयश्च जनाः स्वतत्त्वं ॥ ९ ॥ ये तु स्वभावनियमं कलयन्ति नेम- मज्ञानमग्नमहसी बत ते वराकाः । कुर्वन्ति कर्म तत एव हि भावकर्म- कती स्त्रयं भवति चेतन एव नान्यः॥ १० ॥ कार्यत्वादकृतं न कर्म न च तज्जीवप्रकृत्योर्द्वयो- रन्यस्याः प्रकृतेः स्वकार्यफलभुरभावानुषङ्गाकृतिः । नैकस्याः प्रकृतेरचित्वलसनाजीवोऽस्य कर्ता ततो जीवस्यैव च कर्म तच्चिदनुगं ज्ञाता न यत्पुद्गलः ॥ ११ ॥ कमैव प्रवितर्काकर्तृहतकैः क्षित्वात्मनः कर्तृत कत्मैिप कथंचिदित्यचलिता कैश्चित्कृतिः कोपिता। तेषामुद्धतमोहमुद्रितधियां बोधस्य संशुद्धये स्थाद्वादप्रतिबन्धलब्धविजया वस्तुस्थितिः स्तूयते ॥ १२ ॥ मा कारममी स्पृशन्तु पुरुपं साङ्ख्या इवाप्याहताः कतारं कलयन्तु तं किल सदा भेदावबोधादधः ।

नाटकसमयसारकलशाः ।
जईतूदतबोधधाम नियतं प्रत्यक्षमेनं स्वयं
पश्यन्तु घ्युतकर्तृभावमचलं ज्ञातारमेकं परम् ॥ १३ ॥
क्षणिकमिदमिहकः कल्पयित्वात्मतत्त्वं
निजमनसि विधत्ते कर्तृभोक्त्रोविभेदम् ।
अपहरति विमोहं तस्य नित्यामृतौघेः
स्वयमयमभिपिञ्चश्चिचमरकार एव ॥ १४ ॥
वृत्यंशभेदतोऽत्यन्तं वृत्तिमन्नाशकल्पनात् ।
अन्यः करोति मुझेऽन्य इत्येकान्तश्चकास्तुं मा ॥ १५ ॥
आस्मानं परिशुद्धमीप्सुभिरतिव्याप्तिं प्रपद्यान्धकः
कालोपाधिबलादशुद्धिमधिकां तत्रापि मत्वा परैः ।
चैतन्यं क्षणिक प्रकल्प्य पृथुकैः शुद्धर्जुसूने रतै-
रात्मा व्युज्झित एप हारवदहो निःसूत्रमुक्तेक्षिभिः ॥ १६ ॥
कर्तुर्वेदयितुश्च युक्तिवशतो भेदोऽस्त्वभेदोऽपि वा
को वेदयिता च मा भवतु वा वस्त्वेव सञ्चिन्त्यतां ।
प्रोता सूत्र इवात्मनीह निपुणैर्भर्तुं न शक्या कचि-
त्तचिन्तामणिमालिकेयमभितोऽप्येका चकास्त्येव नः ॥ १७ ॥
व्यावहारिकहशेव केवलं कर्तृकर्म च विभिन्न मिप्यते ।
निश्चयेन यदि वस्तु चिन्त्यते कर्तृकर्म च सदैकमिप्यते ॥ १८ ॥
यहि ठति यद्यपि स्फुटदनन्तशक्तिः स्वयं
तथाप्यपरवस्तुनो विशति नान्यवस्वन्तरं ।
स्वभावनियतं यतः सकलमेव वस्त्विप्यते
स्वभावचलनाकुलः किमिह मोहितः किश्यते ॥ १९ ॥
वस्तु चैकमिह नान्यवस्तुनो येन तेन खलु वस्तु वस्तु तत् ।
निश्चयोऽयमपरी परस्य कः किं करोति हि वहिलठन्नपि ॥ २० ॥
यत्तु वस्तु कुरुतेऽग्यवस्तुनः किञ्चनापि परिणामिनः स्वयम् ।
व्यावहारिकरशैव तन्मतं नान्यदस्ति किमपीह निश्चयात् ॥ २१ ॥

१९४ सनातननग्रन्थमालायाम् - शुद्धद्रव्यनिरूपिणार्पितमतेस्तत्त्वं समुत्पश्यतो नेकद्रव्यगतं चकास्ति किमपि द्रव्यान्तरं जातुचित् । ज्ञानं ज्ञेयमवैति यत्तु तदयं शुन्द्वस्वभावोदयः किं द्रव्यान्तरचुम्बनाकुलधियस्तत्त्वाच्यवन्ते जनाः ॥ २२ ॥ शुद्धद्रव्यस्वरसभवनास्किं स्वभावस्य शेप- मन्यद्रव्यं भवति यदि वा तस्य किं स्यात्स्वभावः । ज्योत्स्नारूपं सपयति भुवं नैव तस्यास्ति भूमि- ज्ञान ज्ञेयं कलयति सदा ज्ञेयमस्यास्ति नैव ॥ २३ ॥ रागद्वेपद्वयमुदयते तावदेतन यावत् ज्ञानं ज्ञानं भवति न पुनर्बाध्यतां याति वोध्यं । ज्ञानं ज्ञानं भवतु तदिदं न्यकृताज्ञानभावं भावाभावौ भवति तिरयन्येन पूर्णस्वभावः ॥ २४ ॥ रागद्वेषाविह हि भवति ज्ञानमज्ञानभावा- तौ वस्तुत्वप्रणिहितशा दृश्यमानौ न किञ्चित् । सम्यग्दृष्टिः क्षपयतु ततस्तत्त्वदृष्टया स्फुटन्तौ ज्ञानज्योतिर्वलति सहज येन पूर्णाचलार्चिः ॥ २५ ॥ रागद्वेपोत्पादकं तत्वदृष्टया नान्यद्व्यं वीक्ष्यते किञ्चनापि । सर्वगव्योत्पत्तिरन्तश्चकास्ति व्यक्ताऽत्यन्तं स्वस्वभावेन यसात्॥२६॥ यदिह भवति रागद्वेषदोपप्रसूतिः कतरदपि परेषां दूषणं नास्ति तन । खयमयमपराधी तत्र सर्पत्यबोधो भवतु विदितमस्तं यात्वबोधोऽसि बोधः ॥ २७ ॥ · रागजन्मनि निमित्ततां परद्रव्यमेव कलयन्ति ये तु ते । उत्तरन्ति न हि मोहवाहिनी शुद्धबोधविधुरान्धबुद्धयः ॥ २८ ॥ पूर्णेकाच्युतशुद्धबोधमहिमा बोद्धा न बोध्यादयं पापात्कामपि विक्रियां तत इतो दीपः प्रकाशादिव । - नाटकसमयसारकलशाः। १९५ तद्वस्तुस्थितिबोधयन्धधिपणा एते किमज्ञानिनो रागद्वेषमयीभवन्ति सहजा मुञ्चन्त्युदासीनताम् ॥ २९ ॥ रागद्वेपविभावमुक्तमहसो नित्यं स्वभावस्पृशः पूर्वागामिसमस्तकर्मविकला भिनास्तदात्वोदयात् । दूरारूढचरित्रवैभववलाचञ्चञ्चिदर्चिप्मयीं विन्दन्ति स्वरसाभिषिक्तभुवनां ज्ञानस्य संचेतनां ॥३०॥ ज्ञानस्य संचेतनयैव नित्यं प्रकाशते ज्ञानमतीव शुद्धं । अज्ञानसंचेतनया तु धावन् योधस्य शुद्धि निरुणद्धि वन्द्यः ॥३१॥ कृतकारितानुमननैस्त्रिकालविपयं मनोवचनकायैः । परिहत्य कर्म सर्वं परमं नैष्कर्म्यमवलम्वे ॥ ३२ ॥ मोहायदहमका समस्तमपि कर्म तत्प्रतिक्रम्य । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वः ॥ ३३ ॥ मोहविलासविजृम्भितमिदमुदयरकर्म सकलमालोच्य । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वः ॥ ३४ ॥ प्रत्याख्यायभविष्यत्कर्म समस्तं निरस्तसम्मोहः । आत्मनि चैतन्यात्मनि निःकर्मणि नित्यमात्मना वः ॥ ३५ ॥ समस्तमित्येवमपास्य कर्म त्रैकालिकं शुद्धनयावलम्बी। विलीनमोहो रहितं विकारैश्चिन्मानमात्मानमथाऽवलम्बे ॥३६॥ विगलन्तु कर्मविपतरुफलानि मम भुक्तिमन्तरेणैव । संचेतयेऽहमचलं चैतन्यात्मानमात्मानं ॥ ३७॥ निःशेषकर्मफलसंन्यसनात्मनैवं सर्वक्रियान्तरविहारनिवृत्तवृत्तेः । चैतन्यलक्ष्म भजतो भृशमात्मतत्त्वं कालावलीयमचलस्य वहत्वनन्ता ॥ ३८॥ यः पूर्वभावकृतकर्मविपद्रुमाणां मुझे फलानि न खलु स्वत एव तृप्तः।

१९६ सनातनजनग्रन्थमालायाम् आपातकालरमणीयमुदरम्यं निःकर्मशर्ममयमेति दशान्तरं सः ॥ ३९ ॥ अत्यन्तं भावयित्वा विरतमविरतं कर्मणस्तत्फलाच प्रस्पष्टं नाटयित्वा प्रलयनमखिलाज्ञानसंचेतनायाः । पूर्ण कृत्वा स्वभावं स्वरसपरिगतं ज्ञानसंचेतनां स्वां सानन्दं नाटयन्तः प्रशमरसमितः सर्वकालं पिवन्तु ॥४०॥ इतः पदार्थप्रथनावगुण्ठनाद्विना कृतेरेकमनाकुलं ज्वलत् । समस्तवस्तुव्यतिरेकनिश्चयाद्विवेचितं ज्ञानमिहावतिष्ठते ॥ ४ ॥ अन्येभ्यो व्यतिरिक्तमात्मनियतं बिभ्रत् पृथक् वस्तुता- मादानोज्झनशून्यमेतदमलं ज्ञानं तथावस्थितम् । मध्यावन्तविभागमुक्तसहजस्फारप्रभाभासुरः शुद्धज्ञानधनो यथास्य महिमा नित्योदितस्तिष्ठति ॥ ४२ ॥ उन्मुक्तमुन्मोच्यमशेषतस्तत्तथात्तमादेयमशेषतस्तत् । यदात्मनः संहृतसर्वशक्तेः पूर्णस्य सन्धारणमात्मनीह ॥ १३ ॥ व्यतिरिक्तं परद्रव्यादेवं ज्ञानमवस्थितम् । कथमाहारकं तत्स्यायेन देहोऽस्य शङ्कयते ॥ १४ ॥ एवं ज्ञानस्य शुद्धस्य देह एव न विद्यते । ततो देहमयं ज्ञातुन लिङ्गं मोक्षकारणम् ॥ ४५ ॥ दर्शनज्ञानचारित्रत्रयात्मा तत्त्वमात्मनः । एक एव सदा सेव्यो मोक्षमार्गों मुमुक्षुणा ॥ १६ ॥ एको मोक्षपथो य एप नियतो दृग्ज्ञप्तिवृत्त्यात्मक- स्तत्रैव स्थितिमेति यस्तमनिशं ध्यायेच्च तं चेतति । तसिनेव निरन्तरं विहरति द्रव्यान्तराण्यस्पृशन् सोऽवश्यं समयस्य सारमचिरान्नित्योदयं विन्दति ॥ ४७ ॥ ये त्वेनं परिहत्य संवृतिपथप्रस्थापितेनात्मना लिङ्गे द्रव्यमये वहन्ति ममता तत्वावबोधच्युताः ।

नाटकसमयसारकलशाः। १९७ नित्योद्योतमखण्डमेकमतुलालोकं खभावप्रभा- प्राग्भारं समयस्य सारममलं नाचापि पश्यन्ति ते ॥१८॥ व्यवहारविमूढदृष्टयः परमार्थ कलयन्ति नो जनाः । तुपयोधविमुग्धबुद्धयः कलयन्तीह तुपं न तन्दुलम् ॥ ४९ ॥ द्रव्यलिमममकारमीलितैदृश्यते समयसार एव न । द्रव्यलिङ्गमिह यत्किलान्यतो ज्ञानमेकमिदमेव हि स्वतः॥५०॥ अलमलमतिजल्पैर्दुर्विकल्पैरनल्पै- रयमिह परमार्थश्चेत्यतां नित्यमेकः । स्वरसविसरपूर्णज्ञानविस्फूर्तिमात्रा- भखलु समयसारादुत्तरं किञ्चिदस्ति ॥५१॥ इदमेकं जगच्चक्षुरक्षयं याति पूर्णताम् । विज्ञानधनमानन्दमयमध्यक्षतां नयत् ॥ ५२ ॥ इतीदमात्मनस्तत्त्वं ज्ञानमानमवस्थितं । अखण्डमेकमचलं स्वसंवेद्यमबाधितम् ॥ ५३ ॥ इति सर्वविशुद्धिज्ञानाधिकारः ॥ १० ॥ अन स्याद्वादशुद्ध्यर्थ वस्तुतत्वव्यवस्थितिः । उपायोऽपेयभावश्च मनाग्भूयोऽपि चिन्त्यते ॥ १ ॥ याह्याथैः परिपीतमुज्झितनिजप्रव्यक्तिरिक्तीभव- द्विश्रान्तं पररूप एव परितो ज्ञानं पशोः सीदति । यत्तत्तत्तदिह स्वरूपत इति स्याद्वादिनस्तत्पुन- दूरोन्मनघनस्वभावभरतः पूर्ण समुन्मजति ॥ २ ॥ विश्वं ज्ञानमिति प्रतयं सकलं दृष्ट्वा स्वतत्वाशया भूत्वा विश्वमयः पशुः पशुरिव स्वच्छन्दमाचेष्टते । यत्तत्तत्पररूपतो न तदिति स्याद्वाददर्शी पुन- विश्वानिन्नमविश्वविश्वघटितं तस्य स्वतत्त्वं स्पृशेत् ॥ ३॥ बाह्यार्थग्रहणस्वभावभरतो विष्वग्विचित्रोल्लसद् १९८ सनातननग्रन्थमालायाम् ज्ञेयाकारविशीर्णशक्तिरभितखुट्यन्पशुनश्यति । एकद्रव्यतया सदाव्युदितया भेदभ्रमं ध्वंसयन- नेकं ज्ञानमवाधितानुभवनं पश्यत्यनेकान्तवित् ॥ ४ ॥ ज्ञेयाकारकलङ्कमेचकचिति प्रक्षालनं कल्पय- नेकाकारचिकीर्पया स्फुटमपि ज्ञानं पशु५च्छति । वैचित्र्येऽप्यविचित्रतामुपगतं ज्ञानं स्वतः क्षालितं पर्यायैस्तदनेकतां परिमृशन्पश्यत्यनेकान्तवित् ॥ ५ ॥ प्रत्यक्षालिखितस्फुटस्थिरपरगव्यास्तितावञ्चितः स्वद्रव्यानवलोकनेन परितः शून्यः पशुनश्यति । खगव्यास्तितया निरूप्य निपुणं सद्यः समुन्मजता स्थाद्वादी तु विशुद्धबोधमहसा पूर्णो भवन जीवति ॥ ६ ॥ सर्वद्रव्यमयं प्रपद्य पुरुष दुर्वासनावासितः स्वद्रव्यनमतः पशुः किल परद्रव्येपु विश्राम्यति । स्वाद्वादी तु समस्तवस्तुपु परद्रव्यात्मना नास्तितां जाननिर्मलशुद्धबोधमहिमा स्वद्रव्यमेवाश्रयेत् ॥ ७ ॥ भिन्नक्षेत्रनिपण्णबोध्यनियतव्यापारनिष्ठः सदा सीदत्येव बहिः पतन्तमभितः पश्यन्पुमांसं पशुः। वक्षेत्रास्तितया निरुद्धरमसः स्याद्वादवेदी पुन- स्तिष्ठत्यात्मनि खातबोध्यनियतव्यापारशक्तिर्भवन् ॥ ८॥ स्त्रक्षेत्रस्थितये पृथगधिपरक्षेत्रस्थितार्थोज्झना- तुच्छीभूय पशुः प्रणश्यति चिदाकारात्सहाथैर्चसन् । स्याद्वादी तु वसन् स्वधामनि परक्षेत्रे विदनास्तिता त्यतार्थोऽपि न तुच्छतामनुभवत्याकारकर्षी परान् ॥ ९॥ पूर्वालम्बितबोध्यनाशसमये ज्ञानस्य नाशं विदन् सीदत्येव न किञ्चनापि कलयनत्यन्ततुच्छः पशुः। अस्तित्वं निजकालतोऽस्य कलयन् स्याद्वादवेदी पुनः नाटकसमयसारकलशाः। १९९ पूर्णस्तिष्ठति बाह्यवस्तुपु मुहुर्भूत्वा विनश्यत्स्वपि ॥ १० ॥ भीलम्बनकाल एवं कलयन् ज्ञानस्य सत्वं यहि- ज्ञेयालम्बनलालसेन मनसा भ्राम्यन्पशुनश्यति । नास्तित्वं परकालतोऽस्य कलयन् स्याद्वादवेदी पुन- स्तिष्ठत्यात्मनि खातनित्यसहजज्ञानकपुनीभवन् ॥ ११ ॥ विश्रान्तः परभावभावकलनान्नित्यं बहिर्वस्तुपु नश्यत्येव पशुः स्वभावमहिमन्येकान्तनिश्चेतनः । सर्वसानियतस्वभावमभवन् ज्ञानाद्विभक्तो भवन स्याद्वादी तु न नाशमेति सहजस्पष्टीकृतप्रत्ययः ॥ १२ ॥ अध्यास्यात्मनि सर्वभावभवनं शुद्धस्वभावच्युतः सर्वत्राप्यनिवारितो गतभयः स्वैरं पशुः क्रीडति । स्थाद्वादी तु विशुद्ध एव लसति स्वस्य स्वभावं भरा- दारूढः परभावभावविरहव्यालोकनिष्कम्पितः ॥ १३॥ प्रादुर्भावविराममुद्रितवद्द्वानांशनानात्मना निज्ञानात् क्षणभङ्गसङ्गपतितः प्रायः पशुनश्यति । स्याद्वादी तु चिदात्मना परिमृशंश्चिद्वस्तु नित्योदितं रकोत्कीर्णघनस्वभावमहिमज्ञानं भवन् जीवति ॥ १४ ॥ टोत्कीर्ण विशुद्धबोधविसराकारात्मतत्त्वाशया वाम्छत्युच्छलदच्छचित्परिणतेभिन्नं पशुः किञ्चन । ज्ञानं नित्यमनित्यतापरिगमेऽप्यासादयत्युज्वलं स्थाद्वादी तदनित्यतां परिमृशंश्चिद्वस्तु वृत्तिकमात् ॥ १५ ॥ इत्यज्ञानविमूढानां ज्ञानमात्रं प्रसादयन् । आत्मतत्त्वमनेकान्तः स्वयमेवानुभूयते ॥ १६ ॥ एवं तत्वव्यवस्थित्या स्वं व्यवस्थापयन्स्वयम् । - १ 'महत्' इत्यपि पाठः ।

२०० सनातनजैनप्रन्धमालायाम् अलयं शासनं जैनमनेकान्तो व्यवस्थितः ॥ १७ ॥ इसाधनेकनिजशक्तिसुनिर्भरोऽपि यो ज्ञानमात्रमयतां न जहाति भावः। एवं क्रमाक्रमविवर्ति विवर्तचित्रं तव्यपर्ययमयं चिदिहास्ति वस्तु ॥ १८ ॥ नैकान्तसङ्गतहशा स्वयमेव वस्तु तत्वव्यवस्थितिमिति प्रविलोकयन्तः । स्थाद्वादशुद्धिमधिकामधिगम्य सन्तो ज्ञानीभवन्ति जिननीतिमलङ्घयन्तः ॥ १९ ॥ ये ज्ञानमात्रनिजभावमयीमकम्पा भूमि अयन्ति कथमप्यपनीतमोहाः । ते साधकत्वमधिगम्य भवन्ति सिद्धाः मूढास्त्वमूमनुपलभ्य परिभ्रमन्ति ॥ २० ॥ स्थाद्वादकौशलसुनिश्चलसंयमाभ्यां यो भावयत्यहरहः स्वमिहोपयुक्तः। ज्ञानक्रियानयपरस्परतीचमैत्री- पात्रीकृतः श्रयति भूमिमिमां स एकः ॥२१॥ चित्पिण्डचण्डिमविलासिविकासहास: शुद्धः प्रकाशभरनिर्भरसुप्रभातः । आनन्दसुस्थितसदास्खलितैकरूप- स्तस्यैव चायमुदयस्यचलाचिरात्मा ॥ २२ ॥ स्थाद्वाददीपितलसन्महासि प्रकाशे शुद्धस्वभावमहिमन्युदिते मयीति । किं बन्धमोक्षपथपातिभिरन्यभाव- नित्योदयः परमयं स्फुरतु स्वभावः ॥ २३ ॥ चित्रात्मशक्तिसमुदायमयोऽयमात्मा .

नाटकसमयसारकलशाः । २०१ सधः प्रणश्यति नयेक्षणखण्यमानः । तसादखण्डमनिराकृतखण्डमेक- मेकान्तशान्तमचलं चिदहं महोऽसि ॥ २४ ॥ योऽयं भावो ज्ञानमात्रोऽहमसि ज्ञेयो ज्ञेयज्ञानमानः स नैव । ज्ञेयो शेयज्ञानकलोलवलगद् ज्ञानज्ञेयज्ञातृवद्वस्तुमात्रः ॥ २५ ॥ कचिल्लसति मेचकं चिदमेचकामेचकं फचिस्पुनरमेचकं सहजमेव तत्वं मम । तथापि न विमोहयत्यमलमेधसां तन्मनः परस्परसुसंहृतप्रकटशक्तिचक्रं स्फुरत् ॥ २६ ॥ इतो गतमनेकतां दधदितः सदाप्येकता- मितः क्षणविभङ्गुरं ध्रुवमितः सदैवोदयात् । इतः परमविस्तृतं तमितः प्रदेशैनिजै. रहो सहजमात्मनस्तदिदमद्भुतं वैभवम् ॥ २७ ॥ कपायकलिरकतः स्खलति शान्तिरस्त्येकतो भवोपहतिरेकतः स्पृशति मुक्तिरप्येकतः । जगत्रितयमेकतः स्फुरति चिञ्चकास्त्येकतः स्वभावमहिताऽऽत्मनो विजयतेऽद्भुतादद्भुतः ॥ २८ ॥ जयति सहजतेजःपुलमजग्निलोकी- स्खलदखिलविकल्पोऽप्येक एव स्वरूपः। स्वरसविसरपूर्णाच्छिन्नतत्त्वोपलम्भः प्रसभनियमितार्चिश्चिचमत्कार एपः ॥ २९ ॥ अविचलितचिदात्मन्यात्मनात्मानमात्म- न्यनवरतनिमग्नं धारयद्ध्वस्तमोहम् । उदितममृतचन्द्रज्योतिरेतत्समन्ता- जवलतु विमलपूर्ण निःसपत्नस्वभावम् ॥ ३० ॥ यसाद्वैतमभूत्पुरा स्वपरयोर्भूतं यतोऽत्रान्तरं २०२ सनातनजेनग्रन्थमालायाम् रागद्वेपपरिग्रहे सति यतो जातं क्रियाकारकैः । भुनाना चयतोऽनुभूतिरखिलं खिन्ना क्रियायाः फलं तद्विज्ञानघनौघमनमधुना किञ्चिन्न किञ्चित्किल ॥ ३१ ॥ स्वशक्तिसंसूचितवस्तुतत्त्वैर्व्याख्या कृतेयं समयस्य शब्दैः। खरूपगुप्तस्य न किञ्चिदस्ति कर्तव्यमेवामृतचन्द्रसूरेः ॥ ३२ ॥ इति समयसारकलशाः समाप्ताः ।।

श्रीमन्माणिक्यनन्दिविरचितानि परीक्षामुखसूत्राणि (९) प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः । इति वक्ष्ये तयोलक्ष्म सिद्धमल्पं लघीयसः॥१॥ स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणं ॥ १ ॥ हिताहितप्राप्ति- परिहारसमर्थ हि प्रमाणं ततो ज्ञानमेव तत् ॥२॥ तनिश्चयात्मकं समारोपविरुद्धस्वादनुमानवत् ॥३॥ अनिश्चितोऽपूर्वार्थः॥४॥ दृष्टो- ऽपि समारोपात्तादृक् ॥५॥ स्वोन्मुखतयाप्रतिभासनं स्वस्थ व्यवसायः ॥ ६ ॥ अर्थस्येव तदुन्मुखतया ॥७॥ घटमहमात्मना वेभि ॥८॥ फर्मवत्कर्तृकरणक्रियाप्रतीतेः ॥९॥ शब्दानुच्चारणेऽपि स्वस्थानुभव- नमर्थवत् ॥१०॥को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् ॥११॥ प्रदीपवत् ॥३२॥ तत्प्रामाण्यं स्वतः परतश्च ॥१३॥ पति प्रमाणस्य स्वरूपोदेशः प्रथमः ॥ १॥ तद्धा॥३॥प्रत्यक्षेतरभेदात् ॥२॥ विशदं प्रत्यक्षं ॥३॥प्रतीत्यन्त- राज्यवधानेन विशेपवत्तया वा प्रतिभासनं वैशधं ॥४॥ इन्द्रियानि- न्द्रियनिमत्तं देशतः सांव्यवहारिकम् ॥ ५॥ नार्थालोको कारणं परि- च्छेद्यत्वात्तमोवत् ॥ ६ ॥ तदन्वयव्यतिरेकानुविधानाभावाच केशो- ण्डकज्ञानवन्नक्तंचरज्ञानवच्च ॥७॥अतजन्यमपि तत्प्रकाशकं प्रदीप- वत् ॥८॥स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्य- वस्थापयति ॥९॥ कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचारः .॥१०॥सामग्रीविशेपविश्लेपिताखिलावरणमतीन्द्रियमशेपतो मुख्य ॥११॥ सावरणत्वे करणजन्यत्वे च प्रतिवन्धसम्भवात् ॥ १२॥ इति प्रत्यक्षोदेशः द्वितीयः ॥ २ ॥ परोक्षमितरत्॥१॥ प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्वानुमान २०४ सनातनजनग्रन्थमालायाम् नागमभेदं ॥२॥संस्कारोबोधनिबन्धनातदित्याकारा स्मृतिः॥३॥स देवदत्तो यथा॥४॥ दर्शनस्मरणकारणक सङ्कलनं प्रत्यभिज्ञानं तदेवेदं तत्सदृशंतद्विलक्षणं तत्प्रतियोगीत्यादि ॥५॥ यथा स एवायं देवदत्ता गोसदृशो गवयः गोविलक्षणो महिप इदमसारं वृक्षोऽयमित्या- दि॥६॥ उपलम्भानुपलम्भनिमित्तंच्याप्तिज्ञानमूहः इदमसिन्सत्येव भवत्यसतिन भवत्येवेति च ॥७॥ यथानावेव धूमस्तदभावेन भवत्ये- वेति च ॥८॥साधनात्साध्यविज्ञानमनुमानं ॥९॥साध्याविनाभावि- स्वेन निश्चितो हेतुः॥१०॥सहक्रमभावनियमोऽविनाभावः॥११॥स. हचारिणोाप्यव्यापकयोश्च सहभावः॥१२॥ पूर्वोत्तरचारिणोः का. र्यकारणयोश्च क्रमभावः॥१३॥तर्कात्तनिर्णयः॥१॥इटमबाधितम- सिद्धं साध्यं ॥ १५॥ सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्थादित्यसिद्धपद॥१६॥ अनिष्टाध्यक्षादिवाधितयोःलाध्यत्वं माभूदि. तीष्टावाधितवचन॥१७॥न चासिद्धवदिष्टंप्रतिवादिनः॥१८॥प्रत्याय- नाय हीच्छा वक्तुरेव ॥ १९॥ साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी ॥२०॥पक्ष इति यावता२१॥प्रसिद्धोधर्मी॥२॥विकल्पसिद्धेतसि. सत्तेतरे साध्य॥२३॥अस्ति सर्वज्ञोनास्ति खरविपाणं ॥राप्रमाणो- भयसिद्धे तु साध्यधर्मविशिष्टता॥२५॥ अग्निमानयं देशः परिणामी शब्द इति यथा ॥२६॥व्याप्तौ तु साध्यं धर्म एव ॥२७॥अन्यथा तद. घटनात् ॥ २८ ॥ साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनं ॥ २९ ॥ साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥३०॥ को वा त्रिधा हेतुमुक्त्वा समर्थयमा. नो न पक्षयति ॥ ३१ ॥ एतद्वयमेवानुमानाङ्गं नोदाहरणं ॥३२॥ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेच व्यापारात् ॥ ३३ ॥ तदविनाभावनिश्चयार्थ वा विपक्षे बाधकादेव तत्सिद्धेः ॥ ३४ ॥ व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिखन्नापि तद्विप्रति- पत्तावनवस्थानं स्याद् दृष्टान्तान्तरापेक्षणात् ॥ ३५ ॥ नापि व्या पराक्षामुखसूत्राण। २०५ विस्मरणार्थ तथाविधहेतुप्रयोगादेव तत्स्मृतेः ॥३६ ॥ तत्परम- भिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति ॥३७॥ कुतो- अन्यथोपनयनिगमने ॥ ३८ ॥ न च ते तदङ्गे, साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् ॥ ३९ ॥ समर्थनं वा वरं हेतुरूप- मनुमानावयवो वाऽस्तु साध्ये तदुपयोगात् ॥४०॥ बालव्युत्पत्त्यर्थ तत्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् ॥ ४१ ॥ दृष्टान्तो द्वेधाऽन्वयव्यतिरेकभेदात् ॥४२॥ साध्यव्याप्तं साधनं यत्र प्रदाते सोऽन्वयदृष्टान्तः ॥ ४३ ॥ साध्याभावे साधनाभावो यन्त्र कथ्यते सव्यतिरेकदृष्टान्तः॥४ातोरुपसंहार उपनयः॥४५॥प्रतिज्ञायास्तु निगमनं ॥४६॥ तदनुमान द्वेधा ॥४७॥ स्वार्थपरार्थभेदात् ॥१८॥ स्वार्थमुक्तलक्षणं ॥४९॥ परार्थ तु तदर्थपरामर्शवचनाज्जातं ॥५०॥ सद्वचनमपि तदेतुत्वात् ॥५१॥ स हेतुविधोपलव्ध्यनुपलब्धिभेदात् ॥५२॥ उपलब्धिर्विधिप्रतिपेधयोरनुपलब्धिश्च ॥५३॥ अविरुद्धोपल- ब्धिर्विधौ पोढा व्याप्यकार्यकरणपूर्वोत्तरसहचरभेदात्॥५४॥रसादे- कसामयनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरांवैकल्ये ॥५५॥ न च पूर्वोत्तरचारिणो- स्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः ॥ ५६ ॥ भाव्यतीतयोर्मरणजाग्रदोधयोरपि नारिष्टोदोधौ प्रति हेतुत्वम् ॥ ५७ ॥ तव्यापाराश्रितं हि तद्भावभावित्वं ॥ ५८ ॥ सहचा- रिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच ॥५९॥ परिणामी शब्दः कृतकत्वाध एवं स एवं दृष्टो यथा घटः, कृतकश्चार्य, तस्मात्परिणामीति, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः, कृतकवायं, तस्मात्परिणामी ॥ ६०॥ अस्त्यत्र देहिनि दुन्दिाहारादेः ॥६१॥ अस्त्यन्न च्छाया छत्रात् ॥ १२ ॥ उदेष्यति शकटं कृत्तिकोदयात् ॥ ६३ ॥ उदगादरणिः प्राक् तत एव ॥६॥ अस्त्यत्र मातुलिझे रूपं रसात् ॥६५॥ विरुवतदुपल.

२०६ सनातनजैनग्रन्थमालायाम् - ब्धिः प्रतिपेधे तथा ॥६६॥ नास्त्यन्न शीतस्पर्श भौष्ण्यात् ॥१७॥ नास्त्यत्र शीतस्पर्शी धूमात् ॥ ६८ ॥ नासिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥६९॥नोदेष्यति मुहूतीन्ते शकटं रेवत्युदयात्॥७०॥ नोदगागरणिर्मुहूर्तात्पूर्व पुप्योदयात् ॥७॥नास्त्यत्र भित्ती परभागा- भावोऽर्वाग्भागदर्शनात् ॥७२॥अविरुद्धानुपलब्धिःप्रतिपेधे सप्तधा- स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलम्भभेदात्॥७३॥ ना- स्त्यन्न भूतले घटोऽनुपलब्धेः॥७॥ नास्त्यत्र शिंशपा वृक्षानुपलब्धेः ॥७५॥ नास्त्यत्राप्रतिवद्धसामोऽग्नि—मानुपलब्धे॥७६॥ नास्त्यत्र धूमोऽनग्नेः॥७७॥ न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदयानुपल- व्धे॥७॥नोदगादरणिर्मुहूर्तात्माक्तत एव॥७९॥नास्त्यत्र समतुला- यामुन्नामोऽनामानुपलब्धेः॥४०॥ विरुद्धानुपलब्धिर्विधौ त्रेधाविरु- द्धकार्यकारणस्वभावानुपलब्धिभेदात्॥८॥ यथासिन्प्राणिनि व्या- धिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः॥४२॥ भस्त्यत्र देहिनि दुःख- मिष्टसंयोगाभावात् ॥ ८३॥ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानु- पलब्धेः॥४॥परम्परया संभवत्साधनमत्रैवान्तर्भावनीयम् ॥८५|| अभूदन चक्रे शिवकः स्थासात् ॥८६॥ कार्यकार्यमविरुद्ध कार्योपल- उधौ॥८७॥नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् कारणवि- रुद्धकार्योपलब्धौ यथा|| व्युत्पन्नप्रयोगस्तुतथोपपत्त्याऽन्यथानु- पपत्यैव वा ॥४९॥ अग्निमानयं देशस्तथैव धूमवत्वोपपत्तेधूमवत्वा- नुपपत्ते ॥९०॥हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पन्नरवधार्यते॥९॥तावता च साध्यसिद्धिः॥१२॥ तेन पक्षस्तदाधारसूचनायोक्तः॥९॥आप्तवचनादिनिबन्धनमर्थज्ञा- नमागमः।।९४॥ सहजयोग्यतासङ्केतवशाद्धि शब्दादयो वस्तुप्रतिप. त्तिहतवः ।। ९५ ॥ यथा मेादयः सन्ति ॥ ९६ ॥ इति परोक्षप्रपञ्चस्तृतीयः समुद्देशः ॥ ३ ॥ सामान्यविशेषात्मा तदर्थो विषयः॥१॥अनुवृत्तव्यावृत्तप्रत्ययगो- परीक्षामुखसूत्राणि । २०७ चरवारपूर्वोत्तराकारापरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियो- पपत्तेश्च॥२॥सामान्य द्वेधा तिर्यगूर्वताभेदात् ॥३॥सदृशपरिणाम- तिर्यक् खण्डमुण्डादिपु गोत्ववत् ॥ ४॥परापरविवर्तव्यापिद्रव्यमू- चंतामृदिव स्थासादिषु ॥५॥विशेपश्च ॥६॥ पर्यायव्यतिरेकभेदात् ॥ ७ ॥ एकस्सिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया भात्मनि हर्पविपादादिवत् ।।८॥ अर्थान्तरगतो विसरशपरिणामो व्यतिरेको गोमहिपादिवत् ॥ ९॥ सति प्रमाणस्य विषयसमुद्देशश्चतुर्थः ॥ ४ ॥ भज्ञाननिवृत्तिानोपादानोपेक्षाश्च फलम् ॥ १॥ प्रमाणादभिन्न भिन्नं च॥२॥ यः प्रमिमीते स एव निवृत्ताज्ञानोजहात्यादत्त उपेक्षते घेति प्रतीतेः ॥३॥ इति प्रमाणस्य फलसमुदेशः पधमः ।। ५ ॥ ततोऽन्यत्तदाभासम्॥१॥ अस्वसंविदितगृहीतार्थदर्शनसंशया. दयःप्रामाणामासाशास्वविपयोपदर्शकत्वाभावात्॥३॥पुरुपान्तर. पूर्वार्थगच्छत्तॄणस्पर्शस्थाणुपुरुषादिनानवत् ॥ ४॥ चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच ॥५॥अवैशधे प्रत्यक्षं तदाभासं बौद्धस्याकसाळू- मदर्शनाद्वतिविज्ञानवत् ॥ ६ ॥ वैशयेऽपि परोक्षं तदाभास मीमांसकस्य करणज्ञानवत् ॥७॥ अतगिस्तदिति ज्ञानं सरणाभासं जिनदत्ते स देवदत्तो यथा ॥८॥ सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादिप्रत्यभिज्ञानाभासं॥९॥भसम्बद्ध तज्ज्ञानं तर्काभासं यावांस्तत्पुत्रः सश्याम इति यथा॥१०॥ इदमनुमानाभासम् ॥११॥ वनानिष्टादिः पक्षाभासः ॥१२॥ अनिष्टोमीमांसकस्यानित्यः शब्दः ॥१३॥ सिन्दः श्रावणः शब्दः॥ १४ ॥ बाधितःप्रत्यक्षानुमानागमलो- कस्त्रवचनैः ॥१५॥ तत्र प्रत्यक्षबाधितो यथा अनुष्णोऽनिर्दव्यत्वा- ज्जलवत् ॥१६॥भपरिणामी शब्दः कृतकत्वात् घटवत् ॥१७॥ प्रेत्या- सुखप्रदो धर्मः पुरुषानितत्वादधर्मवत् ॥१८॥शुचि नरशिरकपालं २०८ सनातनजैनग्रन्थमालायाम् प्राण्यङ्गत्वाच्छङ्खशुक्तिवत् ॥१९॥मातामे वन्ध्या पुरुपसंयोगेऽप्यग- भत्वात्प्रसिद्धवन्ध्यावत्॥२०॥हेत्वाभासा असिद्धविरुद्धानकान्तिका- किञ्चित्कराः॥२॥असत्सत्तानिश्चयोऽसिद्धः॥२२॥ भविद्यमानसत्ता- का परिणामी शब्दश्चाक्षुपत्वात् ॥२३॥ स्वरूपेणैवासिद्धत्वात् ॥२॥ अविद्यमाननिश्रयो मुग्धबुद्धिं प्रत्यग्निरन धूमात् ॥२५॥ तस्य बाप्पादिभावेन भूतसंघाते संदेहात् ॥२६॥ सांख्य प्रति परिणामी शब्दः कृतकत्वात्॥२७॥तेनाज्ञातत्वात्॥२८॥विपरीतनिश्विताविना. भावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात्॥२९॥ विपक्षेऽप्यविरुद्ध- वृत्तिरनैकान्तिकः॥३०॥निश्चितवृत्तिरनित्यः शब्दःप्रमेयत्वादूघटनत् ॥३॥आकाशे नित्येऽप्यस्य निश्चयात्॥३२॥शक्षितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वात् ॥३३॥सर्वज्ञत्वेन वक्तृत्वाविरोधात् ॥३॥ सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः ॥३५॥ सिद्धः श्रावणः शब्दः शब्दत्वात् ॥३६॥ किञ्चिदकरणात् ॥३७॥ यथाऽनुप्णोऽभिर्द्र- व्यत्वादित्यादौ किञ्चित्कर्तुमशक्यत्वात् ॥३०॥ लक्षण एवासौदोषो व्युत्पन्नप्रयोगस्य पक्षदोषेणैव दुष्टत्वात्॥३९॥दृष्टान्ताभासा अन्वयेऽ- सिद्धसाध्यसाधनोभया॥४०॥अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसु- खपरमाणुघटवत्॥४॥विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम्॥४२॥ विद्युदादिनाऽतिप्रसङ्गात् ॥४॥ व्यतिरेकसिद्धतव्यतिरेकाः परमा. ण्विन्द्रियसुखाकाशवत्॥४॥ विपरीतव्यतिरेकश्च यन्नामूर्त तनापौ- रुपेयम्॥४५॥ बालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता ॥४६॥अ- निमानयं देशोधूमवत्त्वात् तदित्थं यथा महानसः॥४७॥धूमवांश्चाय- मिति वा॥४८॥तसादग्निमान धूमवांश्वायम्॥४९॥स्पष्टतया प्रकृत- प्रतिपत्तरयोगात्॥५०॥ रागद्वेषमोहाक्रान्तपुरुपवचनाजातमागमा- भासम्॥५॥यथानधास्तीरे मोदकराशयःसन्ति धावध्वं माणवकाः ॥५२॥ अङ्गुल्योहस्तियूथशतमस्ति इति च॥५३॥ विसंवादात्॥५४ प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्याभासम्॥५५॥लौकायतिकस्य प्रत्य- NAAMRDaonmarvacare परीक्षामुखसूत्राणि । २०९ क्षतः परलोकादिनिपेधस्य परवुल्यादेश्वासिन्दरतद्विपयत्वात् ॥५६॥ सौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमाना. र्थापत्यभावरेकैकाधिकाप्तिवत्।।५७॥भनुमानादेस्तद्विपयत्वे प्रमा- णान्तरस्वम् ॥ ५८ ॥तर्कस्येव व्याप्तिगोचरत्वेप्रमाणान्तरत्वमममा. णस्याव्यवस्थापकत्वात् ॥५९॥प्रतिभासभेदस्य च भेदकत्वात् ॥६॥ विपयाभासःसामान्य विशेपोद्वयंवा स्वतंत्रम्॥६॥तथाप्रतिभास- नारकार्याकरणाच ॥६२॥ समर्थस्स करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥६॥परापेक्षणे परिणामित्वमन्यथा तदभावात॥६शास्वयमसमर्थ- स्याकारकत्वात्पूर्ववत् ॥६५॥ फलाभासं प्रमाणादभिन्न भिन्नमेव वा ॥६६॥ अभेदे तयवहारानुपपत्तेः॥६॥ध्यावृत्याऽपि न तत्कल्पना फलान्तराज्यावृत्याऽफलस्वप्रसंगात् ॥६॥ प्रमाणान्तराम्यावृत्त्येवा- प्रमाणत्वस्य ॥६९॥ तस्माद्वातयोऽभेदः॥७॥भेदे त्वात्मान्तरवत्त- दनुपपत्तेः॥७॥ समवायेऽतिप्रसङ्गः ॥७२॥ प्रमाणतदाभासौ दुष्टत- योद्भावितौ परिहतापरिहतदोपौ वादिनः साधनतदाभासौ प्रतिवा- दिनो दूपणभूपणे च ॥ ७३ ।। सम्भवदन्यद्विचारणीयम् ।। ७४ ॥ परीक्षामुखमादर्श हेयोपादेयतत्वयोः संविदे मारशो वाल: परीक्षादक्षवद्यधाम् ॥१॥ इति प्रमाणस्यामासोद्देशः पष्ठः ॥ ६ ॥ इति परीक्षामुखसूत्राणि समाप्तानि ।

आचार्यश्रीविद्यानन्दस्वामिविरचिता
आप्तपरीक्षा।
(१०)
प्रबुद्धाशेषतरवार्थवोधदीधितिमालिने ।
नमः श्रीजिनचन्द्राय मोहध्वान्तप्रभेदिने ॥ १ ॥
श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्टिनः ।
इत्याहुस्तद्गुणस्तोत्रं शास्त्रादौ मुनिपुङ्गवाः ॥२॥
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलव्धये ॥३॥
इत्यसाधारणं प्रोक्तं विशेपणमशेपतः ।
परसङ्कल्पितालानां व्यवच्छेदप्रसिद्धये ॥ ४ ॥
अन्ययोगव्यवच्छेदान्निश्चिते हि महात्मनि ।
तस्योपदेशसामर्थ्यादनुष्ठानं प्रतिष्ठितम् ॥ ५ ॥
तत्रासिद्धं मुनीन्द्रस्य भेत्तृत्वं कर्मभूभृताम् ।
ये वदन्ति विपर्यासात्तान्मत्येवं प्रचक्ष्महे ॥ ६ ॥
प्रसिद्धः सर्वशास्त्रज्ञस्तेषां तावत्प्रमाणतः ।
सदा विध्वस्तनिशेपवाधकास्त्रसुखादिवत् ॥ ७ ॥
ज्ञाता यो विश्वतत्वानां स भेत्ता कर्मभूभृताम् ।
भवत्येवान्यथा तस्य विश्वतत्वज्ञता कुतः ॥ ८॥
नास्पृष्टः कर्मभिः शश्वद्विश्वदृश्वास्ति कश्चन ।
तस्यानुपायसिद्धस्य सर्वथानुपपत्तितः ॥ ९॥
प्रणीतिर्मोक्षमार्गस्य न विनाऽनादिसिद्धितः ।
सर्वज्ञादिति तसिद्धिन परीक्षासहा स हि ॥ १०॥

आप्तपरीक्षा। २११ प्रणेता मोक्षमार्गस्य नाशरीरोऽन्यमुक्तवत् । सशरीरस्तु नाका सम्भवत्यज्ञजन्तुवत् ॥ ११ ॥ न चेच्छाशक्तिरीशस्य काभावेऽपि युज्यते । तदिच्छा वानभिव्यक्ता क्रिया हेतुः कुतोऽज्ञवत्॥ १२ ॥ ज्ञानशक्त्यैव निःशेपकार्योत्पत्तौ प्रभुः किल । सदेश्वर इति ख्यातेऽनुमानमनिदर्शनम् ॥ १३ ॥ समीहामन्तरेणापि यथा वक्ति जिनेश्वरः । तथेश्वरोऽपि कार्याणि कुर्यादित्यप्यपेशलम् ॥ १४ ॥ सति धर्मविशेपे हि तीर्थकृत्वसमाहये । चूयाजिनेश्वरो मार्ग न ज्ञानादेव केवलात् ॥ १५ ॥ सिद्धस्यापास्तनिःशेषकर्मणो वागसम्भवात् । विना तीर्थकरत्वेन नासा नार्थोपदेशता ॥ १६ ॥ तथा धर्मविशेपोऽस्य योगश्च यदि शाश्वतः। तदेश्वरस्य देहोऽस्तु योग्यन्तरवदुत्तमः ॥ १७ ॥ विग्रहानुग्रही देहं स्वं निमायान्यदेहिनाम् । करोतीश्वर इत्येतन्न परीक्षाक्षमं वचः ॥ १८ ॥ देहान्तराद्विना तावरस्वदेहं जनयेद्यादि । तदा प्रकृतकार्येऽपि देहाधानमनर्थकम् ॥ १९ ॥ देहान्तरात्स्वदेहस्य विधाने चानवस्थितिः । तथा च प्रकृतं काय कुर्यादीशो न जातुचित् ॥ २० ॥ स्वयं देहाविधाने तु तेनैव व्यभिचारिता । कार्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥ २१ ॥ यथानीशः स्वदेहस्य को देहान्तरात्मनः । पूर्वसादित्यनादित्वान्नानवस्था प्रसज्यते ॥ २२ ॥ तथेशस्यापि पूर्वसाइहादेहान्तरोद्भवात् । नानवस्थेति यो चूयात्तस्यानीशस्त्वमीशितुः ॥ २३ ॥ .

२१२
सनातनजैनग्रन्थमालायाम्
अनीशः कर्मदेहेवानादिसन्तानवर्तिना।
यथैव हि सकणिस्तद्वन्न कथमीश्वरः ॥ २४ ॥
ततो नेशस्य देहोऽस्ति प्रोक्तदोपानुपगतः।
नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥ २५ ॥
येनेच्छामन्तरेणापि तस्य कार्य प्रवर्तनम् ।
जिनेन्द्रवद् घटेतेति नोदाहरणसम्भवः ॥ २६ ॥
ज्ञानमीशस्य नित्यं चेदशरीरस्य न क्रमः ।
कार्याणामक्रमाद्धेतोः कार्यक्रमविरोधतः ॥ २७ ॥
तद्वोधस्य प्रमाणत्वे फलाभावः प्रसज्यते ।
ततः फलावबोधस्येष्टौ च स्वस्य मतक्षतिः ॥ २८ ॥
फालत्वे तस्य नित्यत्वं न स्यान्मानारसमुद्भवात् ।
ततोऽनुभवने तस्य फलत्वं प्रतिहन्यते ॥ २९ ॥
अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता ।
कार्यत्वादेमहेशेनाकरणेऽस्य स्वबुद्धितः ॥ ३० ॥
धुद्यन्तरेण तद्बुद्धः करणे चानवस्थितिः ।
नानादिसन्ततिर्युक्ता कर्मसन्तानतो विना ॥ ३१ ॥
अध्यापि च यदि ज्ञानमीश्वरस्य तदा कथम् ।
सकृत्सर्वत्र कार्याणामुत्पत्तिर्घटते ततः ॥ ३२ ॥
योकत्र स्थित देशे ज्ञानं सर्वत्र कार्यकृत् ।
तदा सर्वत्र कार्याणां सकृत्किन्न समुद्भवः ॥ ३३ ॥
कारणान्तरवैकल्यात्तथानुत्पत्तिरित्यपि ।
कार्याणामीश्वरज्ञानाहतुकत्वं प्रसाधयेत् ॥ ३४॥
सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः ।
अन्वयस्यापि सन्देहात्कार्यं तद्धेतुकं कथम् ॥ ३५ ॥
एतेनैवेश्वरज्ञानं व्यापि नित्यमपाकृतम् ।
तस्पेशवत्सदा कार्यक्रमहेतुत्वहानितः ॥ ३६ ॥

भाप्तपरीक्षा। २१३ भस्वसंविदितं ज्ञानमीश्वरस्य यदीप्यते । सदा सर्वज्ञता न स्यात्स्यज्ञानस्थाप्रवेदनात् ॥ ३७ ॥ ज्ञानान्तरेण तद्वित्ती तत्याप्यन्येन वेदनम् । वेदनेन भवेदेवमनवस्था महीयसी ॥ ३८ ॥ गरवा सुदूरमप्येवं स्वसंविदितवेदने । इप्यमाणे महेशस्य प्रथमं तागस्तु वः ॥ ३९ ॥ तत्स्वार्थव्यवसायात्मज्ञान मिन्नं महेश्वरात् । कथं तस्येति निर्देश्यगाकाशादिवदासा ॥ ४० ॥ समवायेन तस्यापि तदिन्नस्य कुतो गतिः । इहेदमिति विज्ञानादवाध्यायभिचारितम् ॥ ४ ॥ इह कुण्डे दधीत्यादिविज्ञानेन स विद्विपा । साध्ये सम्बन्धमाने तु परेपा सिद्धसाधनम् ॥ ४२ ॥ सत्यामयुतसिद्धी चेन्नेदं साधु विशेषणम् । शाखीयायुतसिद्धत्वविरहात्समवायिनोः ॥ १३ ॥ द्रव्यं स्वावयवाधारं गुणो द्रव्याश्रयो यतः । लौकिक्ययुतसिद्धिस्तु भवेहुग्धाम्भसोरपि ॥ १४ ॥ पृथगाश्रयवृत्तित्वं युतसिदिन चानयोः। सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः॥ ४५ ॥ ज्ञानस्यापीश्वरादन्यद्रव्यवृत्तिवहानितः । इति येऽपि समादध्युस्तांश्च पर्यनुयुज्महे ॥ १६ ॥ विभुद्रव्यविशेषाणामन्याश्रयविवेकतः । युतसिद्धिः कथं नु स्यादेकद्रव्यगुणादिपु ॥ १७ ॥ समवायः प्रसज्येताऽयुतसिन्धौ परस्परम् । तेषां तहितयासत्वे स्थायाघातो दुरुत्तरः ॥ ४८ ॥ युतप्रत्ययहेतुत्वाद्युतसिन्द्विरितीरणे । विभुद्रव्यगुणादीनां युतसिद्धिः समागता ॥ ४९ ।।

२१४
सनातनजनप्रन्थमालायाम्
ततो नायुतसिद्धिः स्थादित्यसिद्धं विशेषणम् ।
हेतोविपक्षतस्तावयवच्छेदं न साधयेत् ॥ ५० ॥
सिद्धेऽपि समवायस्य समवायिषु दर्शनात् ।
इहेदमिति संवित्तेः साधनं व्यभिचारि तत् ॥ ५ ॥
समवायान्तराद्वृत्तौ समवायस्य तत्त्वतः।
समवायिषु तस्यापि परसादित्यनिष्ठितः ॥ ५२ ॥
तद्वाधास्तीत्यबाधत्वं नाम नेह विशेषणम् ।
हेतोः सिद्धमनकान्तो यतोऽनेनेति ये विदुः ॥ १३ ॥
तेषामिहेति विज्ञानाद्विशेषणविशेप्यता।
समवायस्य तद्वत्सु तत एव न सिध्यति ॥ ५४ ॥
विशेषणविशेष्यत्वसम्बन्धोऽप्यन्यतो यदि ।
खसम्बन्धिषु दतत तदा बाधानवस्थितिः ॥ ५० ॥
विशेषणविशेष्यत्वप्रत्ययादवगम्यते । ।
विशेषणविशेष्यत्वमित्यप्येतेन दूपितम् ॥ ५६ ॥
तस्यानन्त्यात्मपत्तृणामाकांक्षाक्षयतोऽपि वा।
न दोष इति चेदेवं समवायादिनापि किम् ॥ ५७ ॥
गुणादिद्रव्ययोभिन्नद्रव्ययोश्च परस्परम् ।
विशेषणविशेष्यत्वसम्बन्धोऽस्तु निरङ्कुशः ॥ ५ ॥
संयोगः समवायो वा तद्विशेषोऽस्त्वनेकधा ।
स्वातन्ये समवायस्य सर्वथैक्ये च दोपतः ॥ ५ ॥
स्वतत्रस्य कथं तावदाश्रितत्वं स्वयं सतम् ।
तत्याश्रितत्ववचने खातयं प्रतिहन्यते ॥ ६० ॥
समवायिषु सत्स्खेव समवायत्य वेदनात् ।
आश्रितत्वे दिगादीनां मूर्तद्रव्याधितिर्न किम् ॥ ६ ॥
कथं चानाश्रितः सिधेत्सम्वन्धः सर्वथा कचित् ।
खसम्बन्धिपु येनातः सम्भवेनियमस्थितिः ॥ १२ ॥

आप्तपरीक्षा।
२१५
एक एव च सर्वत्र समवायो यदीप्यते ।
तदा महेश्वरे ज्ञानं समवैति न खे कथम् ॥ ६३ ॥
इहेति प्रत्ययोऽप्येप शहरे न तु खादिपु ।
इति भेदः कथं सिध्येसियामकमपश्यतः ॥ ६४ ॥
न चाचेतनता तत्र सम्भाव्येत नियामिका ।
शम्भावपि तदास्थानात्खादेस्तदविशेषतः ॥ ६५ ॥
नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलम् ।
समवायात्सदा ज्ञाता यपात्मैव स किं स्वतः ॥ ६६ ॥
नायमात्मा न चानात्मा स्वात्मत्वसमवायतः।
सदात्मैवेति चेदेवं द्रव्यमेव स्वतोऽसिधत् ॥ ६७ ॥
नेशो द्रव्यं न चान्द्रव्यं द्रव्यत्वसमवायतः।
सर्वदा द्रव्यमेवेति यदि सन्नेव स स्वतः ॥ ६८ ॥
न स्वतः सदसन्नापि सत्वेन समवायतः ।
सन्नेव शवदित्युक्ती व्याघातः केन वार्यते ॥ ६९ ॥
स्वरूपेणासतः सत्वसमवाये च खाम्बुजे ।
स स्यात्किन्न विशेपस्याभावात्तस्य ततोऽअसा ॥ ७० ॥
स्वरूपेण सतः सत्त्वसमवायेऽपि सर्वदा ।
सामान्यादी भवेत्सत्वसमवायोऽविशेषतः ॥ ७१ ॥
स्वतः सतो यथा सत्वसमवायस्तथास्तु सः ।
द्रव्यत्वात्मत्वयोद्धृत्वसमवायोऽपि तत्त्वतः ॥ ७२ ।।
द्रव्यस्यैवात्मनो बोद्धः स्वयं सिद्धस्य सर्वदा ।
न हि स्वतोऽतथाभूतस्तथात्वसमवायभाक् ॥ ७३॥
स्वयं ज्ञत्वे च सिद्धेऽस्य महेशस्य निरर्थकम् ।
ज्ञानस्ग समवायेन ज्ञत्वस्य परिकल्पनम् ॥ ७ ॥
तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः ।
कथंचिदीश्वरस्यास्ति जिनेशरवमसंशयम् ॥ ७५ ॥

२१६
सनातनजैनप्रन्थमालायाम्
स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते ।
सदेहः सर्वविनष्टमोहो धर्मविशेषभाक् ॥ ७६ ।।
ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते ।
शिवः कत्तोपदेशस्य सोऽभेत्ता कर्मभूभृताम् ॥ ७७ ॥
एतेनैव प्रतिव्यूडः कपिलोऽप्युपदेशकः ।
ज्ञानादर्थान्तरत्वस्याविशेषात्सर्वथा स्वतः ॥ ७८ ॥
ज्ञानसंसर्गतो ज्ञत्वमज्ञस्यापि न तत्त्वतः ।
व्योमवचेतनस्यापि नोपपद्येत मुक्तवत् ॥ ७९ ॥
प्रधानं ज्ञत्वतो मोक्षमार्गस्यास्तूपदेशकम् ।
तस्यैव विश्ववेदित्वाऽत्तृत्वात्फर्मभूभृताम् ॥ ८० ॥
इत्यसम्भाव्यमेवास्याचेतनत्वात्पादिवत् ।
तदसम्भवतो
नूनमन्यथा
निष्फल:
पुमान् ॥ ८१ ॥
भोक्तात्मा चेत्स एवास्तु कर्ता तदविरोधतः।
विरोधे तु तयो क्तः स्याद्धजो कर्तृता कथम् ।। ८२ ॥
प्रतानं मोक्षमार्गस्य प्रणेतृ स्तूयते पुमान् ।
मुमुक्षुभिरिति बूयाकोऽन्योऽकिञ्चित्करात्मनः ।। ८३ ॥
सुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः ।
विश्वतत्वज्ञतापायात्तत्त्वतः कपिलादिवत् ॥ ८४ ॥
संवृत्या विश्वतत्त्वज्ञः श्रेयोमार्गोपदेश्यपि ।
बुद्धो वन्यो न तु स्वमस्तादृगित्यज्ञचेष्टितम् ॥ ८५॥
यत्तु संवेदनाद्वैतं पुरुपाद्वैतवन्न तत् ।
सिद्ध्येत्स्वतोऽन्यतो वापि प्रमाणात्स्वेष्टहानितः ॥ ८६ ॥
सोऽहंन्नेव मुनीन्द्राणां वन्यः समवतिष्ठते ।
तत्सद्भावे प्रमाणस्य निर्वाधस्य विनिश्चयात् ॥ ८७ ॥
ततोऽन्तरिततत्त्वानि प्रत्यक्षाण्यहतोऽअसा ।
प्रमेयत्वाद्यथासादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥ ८८ ॥

भाप्तपरीक्षा।
२१७
हेतोन व्यभिचारोऽन दूराधमन्दरादिभिः ।
सूक्ष्मैवा परमाण्यायेस्तेषां पक्षीकृतत्वतः ॥ ८९ ॥
तत्यान्यन्तरितानीह देशकालस्वभावतः।
धम्मादीनि हि साध्यन्ते प्रत्यक्षाणि जिनेशिनः ॥ ९ ॥
न चारसाहक्समक्षाणामेवमहत्समक्षता ।
न सियेदिति मन्तव्यमविवादाद्वयोरपि ॥ ११ ॥
न चासिद्धं प्रमेयत्वं कात्यंतो भागतोऽपि वा।
सर्वथाप्यप्रमेयस्य पदार्थस्याव्यवस्थितेः ॥ १२ ॥
परि पभिः प्रमाणैः स्यात्सर्वज्ञः केन वार्यते ।
इति भुवनशेपार्थप्रमेयत्वमिहेच्छति ॥ १३ ॥
चोदनातश्च निःशेषपदार्थज्ञानसम्भवे ।
सिद्धमन्तरितार्थानां प्रमेयत्वं समक्षवत् ॥ १४ ॥
यसाहतः समक्षं तल प्रमेयं यहिर्गतः।
मिध्यकान्तो यथेत्येवं व्यतिरेकोऽपि निश्चितः ॥ ९५ ॥
सुनिश्चितान्ययादेतोः प्रसिद्धव्यतिरेकतः ।
ज्ञाताऽहन विश्वतत्त्वानामेवं सिध्येदबाधितः ॥ ९६ ॥
प्रत्यक्षमपरिच्छिन्दनिकालं भुवनत्रयम् ।
रहितं विश्चतत्वहन हि तदाधकं भवेत् ॥ ९७ ।।
नानुमानोपमानार्थापत्यागमबलादपि ।
विश्वज्ञाभावसंसिद्धिस्तेपां सद्विपयत्वतः ॥ ९॥
नाह निःशेपतत्त्वज्ञो वक्तृत्वपुरुपत्वतः।
घमादिवदिति प्रोक्तमनुमानं न वाधकम् ॥ ९९ ॥
हेतोरस्य विपक्षेण विरोधाभावनिश्चयात् ।
वक्तृत्वादेः प्रकऽपि ज्ञानानिहाँससिद्धितः ॥ १० ॥
नोपमानमशेपाणां नृणामनुपलम्भतः।
उपमानोपमेयानां तदाधकमसम्भवात् ॥ १० ॥

२१८
सनातनजनग्रन्थमालायाम्
नार्थापत्तिरसर्वज्ञं जगत्साधयितुं क्षमा ।
क्षीणत्वादन्यथाभावाभावात्तत्तदवाधिका ॥ १०२ ॥
नागमोऽपौरुषेयोऽस्ति सर्वज्ञाभावसाधनः ।
तस्य कार्ये प्रमाणत्वादन्यथानिष्टसिद्धितः ॥ १०३ ॥
पौरुपेयोऽप्यसर्वज्ञप्रणीतो नास्य बाधकः ।
तत्र तस्याप्रमाणत्वाद्धर्मादाविच तत्वतः ॥ १०४ ॥ .
अभावोऽपि प्रमाणं ते निपेध्याधारवेदने ।
निषेध्यस्सरणे च स्यानास्तिताज्ञानमञ्जसा ॥ १०५॥
चाशेपजगज्ज्ञानं कुतश्चिदुपपद्यते ।
नापि सर्वज्ञसंवित्तिः पूर्वं तत्सरणं कुतः ।। १०६ ॥
येनाशेषजगत्यस्य सर्वज्ञस्य निपेधनम् ।
परोपगमतस्तस्य निषेधे स्वेष्टवाधनम् ॥ १०७ ॥
मिथ्र्यकान्तनिषेधस्तु युक्तोऽनेकान्तसिद्धितः ।
नासर्वज्ञजगत्सिद्धः सर्वज्ञप्रतिपेधनम् ॥ १०८ ॥
एवं सिद्धः सुनिणेता सम्भवद्वाधकत्वतः ।
सुखवद्विश्वतत्त्वज्ञः सोऽहंन्नेव भवानिह ॥ १०९ ॥
स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्पतः।
यथा शीतस्य भेत्तेह कश्चिदुष्णप्रकर्पतः ॥ ११० ॥
तेपामागमिनां तावद्विपक्षः संवरो मतः ।
तपसा सञ्चितानान्तु निर्जरा कर्मभूभृताम् ॥ ११ ॥
तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि ।
तारतम्यविशेषस्य सिद्धरुष्णप्रकपंवत् ॥ १२॥
कर्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः।
द्रव्यकर्माणि जीवस्य पुदलात्मान्यनेकधा ॥ १३ ॥
भावकर्माणि चैतन्यविवर्तात्मानि भान्ति तु ।
क्रोधादीनि स्ववेचानि कथंचिच्चिदभेदतः ॥ १४ ॥

आप्तपरीक्षा। २१९ तत्स्कन्धराशयः प्रोक्ता मूभृतोऽत्र समाधितः । जीवाद्विलेपणं भेदः सन्तानात्यन्तसंक्षयः ॥ ११५ ॥ स्वात्मलाभस्ततो मोक्षः कृरसकर्मक्षयात्मनः । निर्जरासंवराभ्यां नुः सर्वसद्वादिनामिह ॥ ११६ ॥ नास्तिकानान्तु नैवास्ति प्रमाणं तन्निराकृती। प्रलापमात्रकं तेपां नावधेयं महात्मनाम् ॥ ११७ ॥ मार्गो मोक्षस्य चै सम्यग्दर्शनादिप्रयात्मकः । विशेपेण प्रपत्तव्यो नान्यथा तद्विरोधतः ॥ ११८ ॥ प्रणेता मोक्षमार्गरयावाध्यमानस्य सर्वथा । साक्षाय एव सञयो विश्वतत्वज्ञताश्रयः ॥ ११९॥ पीतनिम्शेपदोपोऽतः प्रवन्धोऽहन गुणाम्बुधिः । तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥ १२० ॥ मोहाकान्तान भवति गुरो मोक्षमार्गप्रणीति- मते तस्याः सकलकलुपध्वंसजा स्वात्मलब्धिः। तस्यै वन्द्यः परगुरुरिह क्षीणमोहस्त्वमहन् साक्षात्कुर्वनमलकमिवाशेषतत्त्वानि नाथ ॥ १२१॥ न्यक्षेणाप्तपरीक्षाप्रतिपक्षं क्षपयितुं क्षमा साक्षात् । प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीः क्षणाय संलक्ष्या ॥ १२२ ॥ श्रीमत्तत्त्वार्थशाखाद्भुतसलिलनिधेरिन्दरलोद्भवस्य प्रोत्थानारम्भकाले सकलमलभिदे शास्त्रकारः कृतं यत् । तोत्रं तीर्थोपमानं प्रथितपृथुपथं स्वामिमीमांसितं त- द्विद्यानन्दः स्वशत्या कथमपि कथितं सत्यवाक्यार्थसिध्यै ॥१२३॥ इति तत्वार्थशास्त्रादौ मुनीन्द्रस्तोत्रगोचरा। प्रणीतासपरीक्षेयं कुविवादनिवृत्तये ॥ १२४ ॥ इत्याप्तपरीक्षा समाप्ता। १ "विवादविनिवृत्तये" इत्यपि पठन्ति ।

श्रीसमन्तभद्रस्वामिविरचिता आप्तमीमांसा। श्रीवसुनन्दिसैद्धान्तिकविरचितया वृत्त्या सहिता। (११) - सार्वश्रीकुलभूपणं क्षतरिपुं सर्वार्थसंसाधन सन्नीतरकलइभावविधृतेः संस्कारकं सत्पथन् । निष्णातं नयसागरे यतिपति सानांशुसद्भास्कर भेत्तारं वसुपालभावतमसो वन्दामहे बुद्धये ॥१॥ लक्ष्मीमृत्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रदं कुशानातपवारणाय विधृतं छवं यथा भासुरन् । सज्ज्ञाननययुक्तिमौक्तिकफलैः संशोभमानं परं वन्दे तद्धतकालदोषममलं सामन्तभद्रं मतम् ॥ २॥ समीचीनासमीचीनोपदेशविशेषप्रतिपत्तये सकलदोपातीतानन्तचतुष्टयस- मेतप्रकटिताशेषद्रव्यपर्यायसामान्यविशेपपरमात्मपरीक्षाभिधायकमसंख्यातगु- णश्रेणिकर्मनिर्जरणोपायं निराकृतसामान्यान्यापोहशब्दार्थगृहीतविद्वन्मनःस- न्तोषकरं परमार्थभूतवाच्यवाचकसन्बन्धमनेकसूक्ष्मार्थप्रतिपादनचटुलं निःश्रे- यसाभ्युदयसुखफलं स्वभक्तिसम्भारप्रेक्षापूर्वकारित्वलक्षणप्रयोजनक्द्गुणस्तवं कर्तुकामः श्रीमत्समन्तभद्राचार्यः सर्वशं प्रत्यक्षीकृत्यैवमाचष्टे-हे भट्टारक संस्तवो नाम माहात्म्यस्याधिक्यकथनं । त्वदीयं च माहात्म्यमतीन्द्रियं मम प्रत्यक्षागोचरं । अतः कथं भया स्तूयते ? ॥ अत आह भगवान् । ननु भो वत्स यथाऽन्ये देवागमादिहेतोर्मम माहात्म्यमवयुध्य स्तवं कुर्वन्ति तथा त्वं किमिति न कुरुषे ?॥ अत आह,-अस्माद्धेतोर्न महान् भवान् मां प्रति । व्यभिचारित्वादस्य हेतोः । इति व्यभिचारं दर्शयति- देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ १ ॥ । ? - आप्तमीमांसा। वृत्तिः-देवास्त्रिदशारतेषां स्वर्गावतरणजन्मनिष्क्रमणकेवलशानोत्पत्तिमु- क्तिगमनस्थानेषु आगमनं आगमः अवतारः देवागमः । नभसि गगने हेम- मयाम्भोजोपरि यानं नभोयानम् । चामरादीनि चतुःपष्टिचामराणि । आदि- शब्देन अशोकवृक्षसुरदुन्दुभिसिंहासनादीनि परिगृह्यन्ते । एतेषां द्वन्दः । विभूतयः । मायाविष्वपि इन्द्रजालेप्वपि दृश्यन्ते । न अतः न अस्मात् । त्वमसि त्वं भवसि । नः अस्माकं महान् गुरुः ॥ किमुक्तं भवति । देवाग- मादिहेतो स्माकं भवान्गुरुर्भवति । यतो देवागमादयः पूरणादिष्वपि दृश्यन्ते। अनेकान्तिको हेतुः ॥ १॥ अथ मतम् । अयं तर्हि हेतुर्वहिरन्तरङ्गलक्षणो महोदयः पूरणादिवस. सम्भवी इत्ययमपि व्यभिचारी । तथैव प्रतिपादयति- अध्यात्म घहिरप्येप विग्रहादिमहोदयः। .दिव्यः सत्यो दिवौकस्वप्यस्ति रागादिमत्सु सः ॥ २ ॥ वृत्तिः-आत्मनि अघि अध्यात्म । सः अन्तः । क्षुत्पिपासाजरारुजाप- मृत्य्वाधभाव इत्यर्थः ॥ वहिरपि वायोऽपि । एषः प्रत्यक्षनिर्देशः। विग्रहो दिव्यशरीरमादियेषां तान्येव वा महोदयः । विभूतेः पूर्वावस्थाया अतिरेको- ऽतिशयो वा विग्रहादिमहोदयः अमानुपातिशय इत्यर्थः । दिवि भवो दिव्यः। सत्यः अवितथ: मायास्वरूपो न भवति । दिवि मोकः अवस्थानं येषां ते दिवौकसः नाकसदनाः तेप्वपि दिवौकस्स्वपि । अथवा दिवशब्दः अदन्तेनेष्टव्यः ॥ रागो लोभमायेत्यादिथेषां द्वेषादीनां ते रागादयः ते सन्ति येषां ते रागादिमन्तः, तेपु रागादिमत्सु अक्षीणकपायेष्वित्यर्थः । सः महोदय इति । अयं महोदयो यद्यपि समासेऽन्तर्भूतस्तथापि अध्यात्ममहो- एय इति सम्बन्धः कर्त्तव्यः अन्यस्य श्रुतत्वात् । अथवा बहिर्विग्रहादिमहो- दयः अध्यात्मं च ॥ किमुक्तं भवति । योऽपि विग्रहादिमहोदयो मायाविष्व. सम्भवी हेतुत्वेनोपन्यस्तः सोऽपि व्यभिचारी । स्वर्गिपु सम्भवात् ॥ २ ॥ द्वयोहेत्वोरनैकान्तिकत्वं प्रदय अन्यैर्यस्तीर्थकरत्वेनोपन्यस्तस्तस्य हेतोर- साधकत्वं सर्वासर्वशत्यं प्रदर्शयनाह- । ।

सनातनजैनग्रन्थमालायाम्
[वृत्ति-
तीर्थकृत्समयानां च परस्परविरोधतः ।
सर्वेपामाप्तता नास्ति कश्चिदेव भवेद्गुरुः ॥ ३ ॥
वृत्तिः-तीर्थ संसारनिस्तरणोपायं करोतीति तीर्थछन् । यतस्तीर्थकर
भवान् अतः सर्वशः । इत्ययमपि हेतुरनैकान्तिकः सुगतादिपु दर्शनात् इत्यनु-
तोऽपि द्रष्टव्यः । अस्मिन्नवसरे वैनयिकः प्राह-ष्टमस्माकं सर्वेषां सर्व-
शत्वम् । अत आह-समयानां च परस्परविरोधतः अन्योऽन्यविसंवादात्स-
वेंषामाप्तता नास्ति विश्वेषां सर्वशत्वं न भवति ॥ अथवा तीधकरत्वात्सर्वशो
न भवति, सुगतादिषु दर्शनात् । अतः सर्वे सर्वशाः सन्तु इत्येतत्सर्वमु-
क्त्वा पश्चादिदं वक्तव्यं सर्वेपामाप्तता नास्ति । कुतः । यतस्तीर्थकृतां तत्त-
मयानां च परस्परविरोधात् स्वरूपपदार्थविवाददर्शनात् ॥ अनावसरे सर्वज्ञा.
भाववादी प्राह-सत्यं युक्तमेव न कश्चित् सर्वदी इति । अत आह-
कश्चिदेव कोऽप्येव तेषां मध्ये भवेत् स्यात् गुरुः महान् स्वामी ॥ किमुक्त
स्यात् । न सर्वेपामाप्तता परस्परविरोधात्समयानामागमानाम् । एकोऽपि न
भवति प्रमाणाभावात् । अतः केनचिदेव भवितव्यम् । एवमत्यन्ताभावाभावः
कृतः । यदि परस्परविरोधात्सर्वज्ञभावो न भवति तहिं येषां सर्वशविच्छेदक:
सम्प्रदायस्तेषामाप्तता स्यात् अत आह-तीर्थकृदित्यादि । तीर्थ सर्वशं कृन्तन्ति
छिन्दन्ति इति तीर्थकृतः समया आम्नायाः सम्प्रदाया येषां ते तीर्थकृत्सम-
यास्तेषां अन्योऽन्यविरोधात् । सर्वं निरवशेपं अवगतं अगन्यावगमनं वा
इच्छन्ति अभ्युपगच्छन्ति इति सर्वेषां । तेषां सर्वेषां आप्तता परमार्थवादित्वं
नास्ति न विद्यते। कुतः कः आत्मजीवः चित् चेतनः न भवत्येव । एवकारः
अवधारणार्थः ॥ भवं संसारं यान्ति गच्छन्ति इति भवेतः तेषां भवेतां शक-
चक्रधरादीनामित्यर्थः । गुरु धः । भवेद्गुरुः भवेतां गुरुः । न च
लब्धात्मस्वरूपाणां ॥ किमुक्तं भवति-तीर्थकृच्छेदकानायानामपि सर्वमेकेन
प्रमाणेन पड्भिः (वौ) अभ्युपगच्छतां साप्तता गारिन परम्परविरोधात् ।
अतो यतिपतिरेव स्थानान्यः॥ ३॥

समेता.] आप्तमीमांसा। २२३ - पूर्वकारिकोपात्तमथै समर्थयन्तुपुष्कलहेतुमाह- दोपावरणयोहानिनिःशेपाऽस्त्यतिशायनात् । फचिधथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥ ४ ॥ वृत्तिः-दोषः अशानादि, कार्यरूपं । आवरणं कारणभूतं कर्म । अथवा मोहान्तराया दोषाः । शानदर्शनावरणे आवरणं । तयोहनिर्विनाशो विष्पो दोपावरणयोहानिः । सिद्धसाधनतानिराकरणार्थ निःशेपा समस्ता समूलतलपहाणिः श्त्युक्तं । अस्ति भवति । अतिशायनात् प्रकृप्यमाणा- मानहानेः पूर्वावस्थातिरेकात् । कचित् कस्मिंश्चित्पुरुपविशेषे । यथा शब्दः दृष्टान्तप्रदर्शनफलः । स्वस्य आत्मनो ऐतवः कारणानि ते तथाभूतास्तेभ्यः स्वोतुभ्यः । वहिः किटकादिकं अभ्यन्तरं कालिमादि तच्च तन्मलं च तस्य क्षयो विगमः विश्लेपः पहिरन्तर्मलक्षयः ॥ एतदुक्तं भवति । कस्मिंश्चि- दतिशायनादोपावरणयोर्हानिररित । यथा धातुपापाणस्य अन्तर्मलक्षयः । स कश्चिद्भवत्येव गुरुरिति सम्बन्धः ॥ एकत्र स्वहेतवः सम्यग्दर्शनादयः । अन्यत्र पिण्डीवन्धनप्रयोगादयः । तथा एकत्र बहिर्मल: शरीरेन्द्रियादिकं । अन्तर्मल: कर्म । अन्यत्र वहिर्मलः किट्टकादिकं । अन्तर्मल: कालिमादि । ननु विध्वस्तदोपोऽप्यात्मा कथं विप्रकर्षिणम) प्रत्यक्षीकुर्यात् ? । (इति शसायां) साधनान्तरस्य वाधकाभावस्य भावनिरूपणमाह- सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा। भनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥५॥ वृत्ति:-सूक्ष्माः स्वभावविप्रकृष्टाः । अन्तरिताः कालविप्रकृष्टाः । दूरा: देशविप्रकृष्टाः । ते च ते अर्थाश्च सूक्ष्मान्तरितदूरार्थाः । तथा च खभाव. विप्रकृष्टा मन्त्रीपधिशक्तिचित्तादयः । कालविप्रकृष्टाः लाभालाभसुखदुःख- ग्रहण रागादयः । देशविप्रकृष्टा मुष्टिस्थादिद्रव्यम् । दूरा हिमवन्मन्दरम- कराकरादयः । प्रत्यक्षाः अध्यक्षाः प्रत्यक्षशानगोचराः कस्यचित् । सामा- न्यकथनमेतत् । अनिर्दिष्टनामधेयस्य । यथा दृष्टान्तप्रदर्शकः । अनुमेया: अनुमानगम्याः। अथवा अनुगतं मेयं मानं येषां ते अनुमेयाः प्रमेया इत्यर्थः।

२२४ सनातनजैनग्रन्थमालायाम् [ वृत्ति- - तेषां भावस्तस्मादनुमेयत्वतः । अग्निः पावकः आदिर्यस्पसावन्यादिः । इत्येवमनेन प्रकारेण सर्वगस्य विश्वदर्शिनः संस्थितिव्यवसा सर्वशसंस्थितिः सर्वशास्तित्वमित्यर्थः ॥ भागासिद्धानेकान्तिकविरुड हेत्वाभासाभावात् । ये ये प्रमेयास्ते ते प्रत्यक्षाः । यथा अग्न्यादयः । प्रमेयाश्च त्वभावकालदेश- विप्रकृष्टा अर्थाः कस्यचित्पुरुपविशेषस्य तस्मात्तेऽपि प्रत्यक्षाः ॥ अथवा ये अनुमानगम्यात्ते प्रत्यक्षाः कास्यचित् । यथा अग्न्यादयः । अनुमानगन्याश्च सूक्ष्मान्तरितदरास्तिस्मात्तेऽपि प्रत्यक्षाः । सुनिश्चितासम्भववाधकप्रमाणस्य समर्थनमेतत् ॥ विगतकर्मकलकोऽपि विप्रकृष्टार्थदशी सामान्यन यः प्रपितः स इति विशेष दर्शयन्नाह- स त्वमेवासि निर्दोपो युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्ट ते प्रसिद्धन न वाध्यते ॥ ६ ॥ वृत्तिः स पूर्वप्रकान्तः (तच्छन्दः पूर्वप्रक्रान्तपरामशी) त्वमेव भवानेव नान्यः । अन्ययोगव्यवच्छेदफलः एवकारः । असि भवसि । निर्दोष अविद्यारागादिविरहितः क्षुदादिविरहितो वा अनन्तशानादिसम्बन्धन प्रत्यर्थः । कुत एतत् । युक्तिशास्त्राविरोधिवाक् यतः । युक्तिः अनुमानं न्यायः तत्स- होचरितं अध्यक्षमपि शास्र आगमः स्याद्वादः ताभ्यां अविरोधिनी अविसं- वादिनी वाक् वाणी वचनं यस्यासौ युक्तिशाखाविरोधिवाक् । वहिप्तिमन्त- रेण व्याप्त्यासिद्धं । यतः इयमेवान्यत्रापि प्रधाना । ननु वचनस्य अविरोधः कुतः । यावत् यत्र वचनं तत्र विरोधो दृश्यते । अत आह अविरोध: अविसंवादः । यत् यस्मात् । इष्टं मतं प्रवचनं । कुतो वीतरागस्य इच्छा ? उपचारेण, सयोगिध्यानवत् । इष्टशब्दस्यापि जहत्स्वार्थे वृत्तित्वार कुशल- शब्दवत् । ते तव । प्रसिद्धन परमतापेक्ष विदोपणमेतत् (परमतेन) अनेकान्तवस्तुत्वेन । अथवा व्यवहिताव्यवहितप्रसिद्धलक्षणवता प्रमाणेन । न वाध्यते अन्यथा न कियते तेनैव स्वरूपेण दृश्यत इत्यर्थः । किमुक्तं भवति । यो निदोषो विप्रकृष्टदशी च स त्वमेव भवसि । न्यायागमा- समेता.] आप्तमीमांसा। २२५ विसंवादिवचनं । यतः भविरोधोऽपि तव मतं न वाध्यते प्रसिद्धन यस्मात् । ननु भो वत्स मदीयं मतं न वाध्यते अन्येषां कि वाध्यते ? अत भाह- त्यन्मतामृतयाह्यानां सर्वथैकान्तवादिनाम् । आताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥७॥ वृत्ति:-त्वयुष्मन्मतमेव आगम एव अमृतं सर्वात्मप्रदेशसुखकारणं दुःसनिवृत्तिलक्षणस्य परमानन्दमुक्तिसुखस्य निमित्तं वा मतं अमृतं तस्मा- माया बहिर्भूता मिध्यादृष्टयः त्वन्मतामृतवाधाः तेषां त्वन्मतामृतबाधानां युप्मदागमद्विपतां । सर्वथा सर्वप्रकारैः स्वरूपपररूपविधिप्रतिषेधात्मकः एकान्तं एकं धर्म नित्यत्यादिकमेव वदितुं शीलं येषां ते सर्वथैकान्तवादिनः तेषां सर्वथैकान्तवादिना पकारवभावाभ्युपगच्छतान् । आप्ताः सर्वशाः इति अभिमानः गर्वः अहङ्कारः तेन दग्धाः भरमसात्कृताः प्रलयं नीताः तेषां आप्ताभिमानदग्धानाम् । खस्य आत्मनः इष्टं मतं स्वेष्टं भात्माभ्युपगत- प्रमाणफलं सर्ववरतु । दृष्टेन प्रत्यक्षेण प्रत्यक्षप्रमितेन अनेकान्तात्मवस्तुना वा । याध्यते विरोधमुपनीयते अन्यथा क्रियत इत्यर्थः ॥ किमुक्तं भवति ॥ भवदागमवावा आप्ताभिमानदग्धा सर्वथैकान्तवादिनः तेषां स्वेष्टं दृष्टेन वाध्यते । धर्मकीतिमतनिरासाथै अन्वयव्यतिरेकायुक्तवानाचार्यः ॥ द्रव्या- र्थिकपर्यायाथिकानुग्रहार्थ या॥ परवादिस्वेटरय दृटेन वाधं प्रदर्य श्दानी रखेटेन स्चेष्टस्य वाधां दर्श. यितुमाह- कुशलाकुशलं कर्म परलोकश्च न क्वचित् । एकान्तग्रहरक्तेपु नाथ स्वपरवैरिपु ॥ ८ ॥ वृत्तिः--कुशलं मुखनिमित्तं, अवाशलं दुःखहेतुकं, कर्म मिथ्यात्वा- संयमकपाययोगकारणसंचितपुद्गलप्रचयः । कुशलं चाकुशलं च कुशला- कुशलं कर्म शुभाशुभमित्यर्थः । परलोको भवान्तरगतिरन्यजन्म । च. शब्दोऽनुक्कसमुच्चयार्थः । तेन तत्फलबन्धमोक्षेहलोकादयो गृशन्ते । न २२६ सनातनजैनग्रन्थमालायाम् [वृत्ति- । - शब्दः प्रतिषेधार्थः । कचित् केपुचित् । एकः अन्तो धर्मः एकान्तः तस्य ग्रहणमन्युपगमो ग्रहः एकान्तग्रहः तस्मिन् तेन या रक्षा रजिताः प्रविष्टा भक्ता एकान्तग्रहरक्ताः । अथवा ग्रह इच ब्रहः तेन व्यालिताः तेषु एकान्तग्रहरकेपु । नाथ स्वामिन् अलावचनतन् । स्वश्वात्मा च परे चान्ये च स्वपरे तेषां वैरिणः शत्रवः तेषु त्वपरवैरिपु । किमुक्तं भवति?- हे नाथ भईन् एकान्तग्रहरपु स्वपरवैरिपु केपुचिदपि शुभाशुभं कर्म नास्ति । परलोकादयश्च न सन्ति । एकान्ततत्वग्रहणात् । यद्यमि पक्षान्त- भूतो हेतुस्तथापि पृथग्द्रष्टव्यः । अन्ताप्तिसंग्रहात् । न केवलमेकान्त- वादे कुशलाकुशलादिकं कर्म न घटते किं नु प्रमाणप्रमेयपक्षविपक्षहेतु- हेत्वाभासदूपणदृषणाभासादिकमपि सर्वधार्थक्रियायोगात् ॥ सामान्यनैकान्तवाधन्युपगतत्व वाचं प्रदश्वेदानी दूपयितुमनाः स्व. ल्पोऽपि शत्रुनोंपेक्षणीय इति न्यायमनुसरन्प्रथनतरं तावद्भावकान्तं भस्म- सात्कर्तुमाह- भावैकान्ते पदार्थानामभावानामपहवात् । सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥ ९॥ वृत्तिः-भाव एवेति सन्नेवेति एकान्तः असहायधर्मग्रहो भावकान्तः । सर्वधा सत्त्वाभ्युपगम इत्यर्थः । तस्मिन्मावेकान्ते ॥ पक्षाधीनां पंचविशति- तत्त्वानां चेतनाचेतनदेवमनुजपशुनारकत्तन्भकुन्भान्भःप्रभृतीनां वा अभा- वानां वस्तुधर्माणां हेत्वानां विशेषणमित्यर्थः । बहुवचनाञ्चत्वारोऽपि परिगृह्यन्ते । अपह्नवानिराकरणादित्यर्थः ॥ कि स्वालवै निरवशेषमात्मा त्वरूपं यस्य तत्सर्वात्मकं विश्वमेकस्वरूपमित्यर्थः ॥ आदिरत्पत्तिः पूर्वरिम- नसत्त्वमन्तोऽवसानं विनादो वा आदिश्चान्तश्चायन्ती तो न विद्यते यत्य तदनाद्यन्तमनायनन्तमित्यर्थः । स्वमात्मीयं रूपमाकारः स्व आत्मैव वा रूपं स्वरूपं न विद्यते तद्यत्य तदस्वल्पं । अभाव इत्यर्थः । तवेदं तावक न तावकमतावकं ॥ किनुक्तं भवति-पदार्थानां भावकान्तान्युपगमे अतावक सर्वाधात्मकमनाउनन्तमत्त्वरूपं त्या करनात्सर्वानावापहवात् ।।

समेता.] आप्तमीमांसा। २२७ -- अथ मतं केऽभावाः, कियन्तो वा, कान्यनाथनन्तानि ? कस्मादभावात् कि स्यादत आहः- कार्यद्रव्यमनादि स्यात्प्रागभावस्य निह्नवे । प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां ब्रजेत् ॥ १० ॥ वृत्ति-कार्य च द्रव्यं च कार्यद्रव्यं वस्त्वन्यथाभावः । घटादिकं क्रियत इति कार्यम् । अवस्थान्तरं द्रवति गच्छतीति द्रव्यम् । अनाघनन्तसर्वकालै- कस्वरूपं नित्यमादिरहितं स्याद्भवेत् । प्राक् पूर्वस्मिन्नमावः असत्त्वं प्राग- भावः। मृत्पिण्डे घटस्यासत्त्वमित्यर्थः । तस्य प्रागभावस्य निहवे विलोपे निराकरणे। प्रध्वंसस्य च विनाशस्य च घटस्य कपालनाशादय इत्यर्थः । धर्मस्य विशेषस्य गुणस्य प्रच्यवे अभावे निराकरणे । अनन्तस्य भावोऽन-' न्तता तामनन्ततामपर्यवसानं सर्वकालकार्यमिति सम्बन्धनीयम् ।व्रजेत् गच्छेत्।। किमुक्तं भवति-प्रागभावस्य निहवो यदि स्यात्कार्यद्रव्यमनादि स्यात् । प्रध्वंसाभावास्याभावस्य चाभावे तदेव कार्यद्रव्यमनन्ततां व्रजेत् ।। तृतीयचतुर्थाभावस्वरूपं तदभावे च यद्भवति- सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे । भन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ ११ ॥ वृत्तिः-सयों निरवशेषः आत्मा स्वरूपं यस्य तत् सर्वात्मकम् । तत् किञ्चिद्वस्तु विवक्षितरूपम् । एक अभेदरूपं स्यात् भवेत् । अन्यस्य अपरस्य अपोहो निराकरणं तस्य व्यतिक्रमः निहवः निराकृतिः स तथाभूतः तस्मि- नन्यापोहन्यतिक्रमे इतरेतराभावाभावे इत्यर्थः । अन्यत्र अत्यन्तामावाभावे । समवायेन मीलनेन समुदायेन । व्यपदिश्येत कथ्येत अभ्युपगम्येत । सर्वथा सर्वप्रकारैः। खरविषाणादि ॥ अथानयोरभावयोः को विशेप इति चेत्-घटे पटाभाव इतरेतराभावः । कदाचित्कालान्तरे तेन स्वरूपेण विद्यमानत्वात् । अत्यन्ताभावः पुनर्जीवत्वेन पुद्गलस्यामावः कदाचिदपि तेन स्वरूपेण न भवति । एतदुत्तं भवति-अन्यापोहळ्यतितामे सति, किचिदि- - - २२८ सनातनजैनग्रन्थमालायाम् [वृत्ति- । - वक्षितं सर्वात्मकमेकं भवति । अत्यन्ताभावाभावे पुनरैक्येन सर्वप्रकारैर्यप दिश्येत । ततो न विधित्स्यात् ।। भावकान्तपक्षे कुशलाकुशलकाईदेरघटनां प्रदश्य अभावकान्तपोऽपि भृशं न घटेतेति प्रदर्शयन्नाह- अभावैकान्तपक्षेऽपि भावापहववादिनाम् । योषवाक्यं प्रमाणं न केन साधनदूपणम् ॥ १२ ॥ वृत्तिः-अभाव इति असनिति एकान्तो मिथ्याभिप्रायोऽभावैकान्तः । स एव पक्षोऽभ्युपगमस्तस्मिन्नप्यभावकान्तपक्षेऽपि । न केवलं भाकान्ते, किं त्वभावैकान्तेऽपि भावस्य सत्त्वस्य अपहवः अभावो निराकरणं तं वदितुं शीलं येषां ते तथाभूतास्तेषां भावापहववादिनाम् । बोधो शानं स्वार्थानुमानं, वाक्यं आगमः परार्थानुमानम् । बोधश्च वाश्यं च बोधवा. क्यम् । प्रमीयतेऽनेनेति प्रमाणं स्वपरावभासकं ज्ञानम् । न प्रतिषेधवचनम् । केन कतरेण । साधनं च दूपणं च साधनदूपणं द्वन्द्वकवद्भावः । स्वपक्ष- सिद्धिः परपक्षनिराकरणं । भावापहववादिनामभावैकान्ते बोधवाक्ययोरप्यभाव. स्ततः प्रमाणाभावात् केन साधनं केन वा दूपणं क्रियत इति सम्वन्धः ।। भावाभावकान्ते विरोधं निरूप्योभयेकान्तवादिनामपि न किञ्चित्सङ्गच्छत इत्याह- विरोधानोभयेकात्म्यं स्याद्वादन्यायविद्विपाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ १३॥ वृत्तिः-विरोधाब्यभिचारात् पूर्वापरासङ्गतत्वात् । न प्रतिषेधवचनम् । एक आत्मा स्वमावो ययोस्ती तथा तयोर्भावस्तदेकात्म्यम् । उमयोः सत्त्वा. सत्त्वयोरैकात्म्यमुभयैकात्म्यं भावाभावैश्यमित्यर्थः । न्यायो युक्तिः प्रमाणेन प्रमेयस्य घटना । स्याद्वाद एव न्यायः स्याद्वादन्यायस्तस्मै विद्विपस्तं वा विद्विपन्तीति स्याद्वादन्यायविद्विपस्तेषां स्याद्वादन्यायविद्विषामनेकान्तवैरिणाम्। अथ भावाभावोभयकान्तपक्षदोपदर्शनादवाच्यतैकान्त आश्रीयते तथापि दोष एवात आह । उच्यत इति वाच्यं न वाच्यमवाच्यं तस्य भावोऽवाच्यता समेता.] आप्तमीमांसा। २२९ सेव एकान्तो विषाध्यवसायोऽवाच्यतैकान्तस्तस्मिन्नवाच्यतैकान्ते । अपि शब्दार्थयोरवाच्यवाचकत्वेऽपि । उक्तिर्वचनमवाच्यमित्यवक्तव्यमिति।न युज्यते न घटते । स्याद्वादन्यायविद्विषां वादिनामुभयेकात्म्यं न भवति । विरोधात् । विज्ञानशून्यवत् । तथावक्तव्यकान्तपक्षेऽपि अवाच्यमित्येवं या उक्तिः साऽपि न युज्यते । सर्वथाऽवाच्यत्वात् । एकशब्देन घटपटादिवत् ॥ एकहेलया यदि सर्वथा सदसदुभयावक्तन्यरूपं तत्त्वं नास्ति कथं तहोत्याह- कथञ्चित्ते सदेवेष्टं कथञ्चिदसदेव तत् । तथोभयमवाच्यं च नययोगान सर्वथा ॥१४॥ वृत्ति:-कथञ्चित्केनचित्मकारेण । ते तव सदेव भाव एव । इष्टं मतम- भ्युपेतम् । कथञ्चित्केनचित्प्रकारेण । असदेव अभाव एव । तत् यदेव सत् । तथा तेनैव केनचित्प्रकारेण । उभयं सदसदात्मकम् । अवाच्यमवक्तव्यम् । चकारात्काथगिदित्यर्थः । नयस्य वक्तुरभिप्रायस्य योगो युक्तिर्नययोगस्तरमा- नययोगादभिप्रायवशादित्यर्थः । न सर्वथा सर्वप्रकारैर्न ॥ किमुक्तं भवति- सदसदुभयावक्तव्यं वस्तु न भवति । किन्तु केनचित्प्रकारेण । सदेव रपश्यति अनवस्थांच निराकरोति उत्तरकारिकया- सदेव सर्व को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासान चेन्न व्यवतिष्ठते ॥ १५ ॥ वृत्तिः सदेव सत्त्वमेव सर्व निरवशेषं विश्वम् । को नेच्छेत्को न मन्यते कस्य नेष्टं ? किन्तु इष्टमेव सर्वस्य । स्वरूपमात्मरूपं स्वस्य वा रूम तदादिर्यस्य तत्स्वरूपादि तच्चैतच्चतुष्टयं चतुर्विकल्प तत्तथाभूतं । तस्मात्स्वरू- पादिचतुष्टयात् । किं तत् ? रवद्रव्यस्वक्षेत्रस्वकालस्वभावः तस्मात् । असदेव नास्तित्वमेव विपर्यासादस्वरूपादिचतुष्टयात् । अस्वद्न्यक्षेत्रकालमावात् । न चेधयेवं न व्यवतिष्ठते न घटते नात्मस्वरूपं लभत इत्यर्थः । किमुक्तं भवति- स्वरूपादिचतुष्टयात्सर्वं सदेव को नेच्छेत् ? । विपर्ययाद्विपर्ययं को । mammmmm.

२३० सनातनजैनमन्धमालायाम् [वृत्ति- नेच्छेत् । यदि पुनयेनैव सत्त्वं तेनवासत्त्वमिति स्थान किचिदपि स्यात् ।। शेषभगमरूपणार्थमाह- क्रमाप्तिद्वयाट् द्वैतं सहावाच्यमशक्तितः । भवक्तव्योत्तराः शेपानयो भङ्गा स्वहेतुतः ॥ १६ ॥ वृत्ति:-क्रमेण परिपाट्या अर्पितं विवक्षितं क्रमापितं तच्च तहवं द्वितयं क्रमापितद्वयं तस्मात्क्रमापितद्वयात् । दाभ्यामितं द्वीतं द्वीतमेव द्वैत द्वयात्मक- मस्तित्वनास्तित्वस्वरूपंक्रमविवक्षितत्वपरचतुष्टयादस्तित्वनास्तित्वल्पमित्यर्थः। सह युगपदेकहेलया विवक्षितस्वपरचतुष्टयादित्यर्थः । यद्यपि द्वयशब्दः समा. सान्तर्भूतस्तथापि तेन सन्वधोऽन्यस्याश्रुतत्वात् । अवाच्यमवक्तव्यमुञ्चारयितु- मशक्यमित्यर्थः। कुतोऽशक्तितोऽसामात् । अवक्तव्यमवाच्यमुत्तरं परं येषां भङ्गानां तेऽवक्तव्योत्तराः शेषा अन्ये त्रयो भगाखयो विकल्पाः। त्वहेतुतः स्वकीयकारणात् । के ते स्वहेतवः स्वरूपादिचतुष्टयात्सहविवक्षितस्वरूपादिच- तुष्टयाचास्ति चावक्तव्यं तथा परस्पादिचतुष्टयाधुगपद्दर्शितस्वपररूपादिचतुष्ट- याच नास्ति चावाच्यम् । तथा क्रमाप्तिस्वरूपादिचतुष्टयाधुगपद्विवक्षितस्व- पररूपादिचतुष्टयाचास्ति नास्ति चावक्तव्यं च ॥ किमुक्तं भवति ? वहेतोः १ स्यादस्ति । २ स्यान्नास्ति । ३ स्यादस्ति नास्ति च । ४त्यादवक्तव्यम् । ५ त्यादस्ति चावक्तव्यम् । ६ स्यानास्ति चावत्तव्यन् । ७ त्यादस्ति नास्ति चावक्तव्यं च वस्तुत इत्यर्थः ।। अस्तित्वादीन् धर्मान् युक्तितः समर्थ्य, अधुना तेषामेकस्मिन्नधिकरणेऽव. स्थानस्य विरोधमन्तरेण परस्परपरिहारेण रूपादीनामिव युक्तितः समर्थनार्थ- माह- अस्तित्वं प्रतिपेध्येनाविनाभाध्येकधार्मिणि । विशेषणत्वात्साधय यथा भेदविवक्षया ॥ १७ ॥ वृत्ति:-अस्तित्वं प्रतिषेध्येन नास्तित्वेन अविनाभावि नास्तित्वेन विना न भवति पृथग्भूतं नोपलभ्यत इत्यर्थः । धर्मा अस्य सन्ति धर्मी एकश्चासौ धर्मी च तस्मिन्नेकर्मिणि । विशेषणत्वात् । उपाधिवशात् । समानो धर्मः :

समेता.]
-
आप्तमीमांसा ।
२३१
सधर्मरतस्य भावः साधर्म्यमन्वयः । यथा दृष्टान्तप्रदर्शकः । भेदस्य विवक्षाs.
पंणा तया श्त्यर्थः ॥ एकमणि शब्दादी अस्तित्वं नास्तित्वाविनाभावि
कुतो विशेषणत्वात् । यथा कृतकत्वादी साधर्म्य वैधम्येण विना न भवति ।
यद्विशेषणं तत्प्रतिषेध्याविनाभावि यथा साधन्य व्यतिरेकविवक्षया । द्रुमादी
विशेषणं चास्तित्वं । तस्मात्प्रतिषेध्यधर्माविनामावि ॥
तथा-
नास्तित्वं प्रतिपेध्येनाविनाभाव्यकामणि ।
विशेपणत्वावधयं यथाऽभेदविवक्षया ॥ १८॥
वृत्तिः- नास्तित्वं प्रतिषेध्येनास्तित्वेनाविनाभावि विशेषणत्वात् । यथा
वैधय॑मभेदविवक्षया ॥ यत्किचित् विशेषणं तत्सर्वमेव प्रतिपक्षधर्माविनाभावि
यथा वैधम्य साधय॑विवक्षया । हेतोविशेपणं च नास्तित्वम् ॥
पुनरप्यविरोध दर्शयन्नाह-
विधेयप्रतिपेध्यात्मा विशेष्यः शब्दगोचरः ।
साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥ १९ ॥
वृत्तिः-विधेयशब्दवाच्यः साध्य इत्यर्थः । प्रतिपेध्यो निराकरणीयः।
बन्दः । तावात्मा स्वरूपं यस्य स विधेयप्रतिपेध्यात्मा विशेष्यो धर्मी पक्ष
प्रत्येकार्थः ॥ शब्दगोचरः शब्दविषयः । साध्यस्य धर्मः साध्यधर्मः । यथा
दृष्टान्तप्रदर्शकः। हेतुः साधनमहेतुरसाधनन् । अपिः सम्भावनायाम् । अपे-
क्षया विवक्षया॥ विशेप्यो विधेयप्रतिपध्यात्मा शब्दगोचरत्वात् । यथा साध्य.
धों हेतुश्चाहेतुश्च भवति विवक्षया । अग्निमत्वे साध्ये धूमो हेतुर्भवति
जलवत्त्वे साध्येऽहेतुरेकस्मिन्धर्मिणि । एवमत्रापि-यो यः शब्दविषयः स
सवोऽपि विधेयप्रतिपेध्यात्मा विशेष्यः यथा । साध्यधमों हेतुरहेतुश्चापेक्षया ।
शब्दविषयश्च विशेष्यः तस्माद्विधेयप्रतिपेध्यात्मा ॥
शेषमझान् समर्थयन्नाह-
शेपभङ्गाश्च नेतच्या यथोक्तनययोगतः ।
न च कश्चिद्विरोधोऽस्ति मुनीन्द्र तव शासने ॥ २० ॥

२३२ सनातनजैनग्रन्थमालायाम् [वृत्ति- वृत्तिः- शेपभनाश्च अवतन्यादयो नेतच्या शातच्या योजनीयाः ॥ यथोक्तश्चासो नयश्च यथोक्तनयः तस्य योगरतरमात विशेषणत्वादिति हेतोरि- त्यर्थः । विरोधोऽपि न कश्चित् । उपलक्षणमेतत् । विरोध इति संशयविरोधवैय- धिकरण्योभयदोपप्रसङ्गसकरावस्थाऽभावानाक्षिपति एते दोपा न सन्ति । कस्मादनेकान्तत्वाद्वस्तुनः ॥ जीवादिपदार्थयाथात्म्यमननान्मुनयत्तेपामिन्द्रो भगवान् केवळी तस्य सम्वोधनं हे मुनीन्द्र तव शासने युप्मन्मते अनभि- लाप्यादयोऽपि धर्माः कचिदकधर्मिणि प्रत्यनीकस्वाभावाविनाभाविनो विशेष. णत्वात् पूर्वोक्तमुदाहरणम् ॥ अनेकान्तात्मकं तत्त्वं व्यवस्थाप्यैकान्तं निराकर्तुमाह- एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् । नेति चेन्न यथाकार्य बहिरन्तरुपाधिभिः ॥२५॥ वृत्तिः-एवमनेन प्रकारेण । विधिनिषेधाभ्यामस्तित्वनास्तित्वाभ्याम् । अनवस्थितमनवधारितं यद्वस्तु तदर्थकारि भवति । नेति चेत् यथेवं न भवति । न । यथाकार्य यथाभूतं कार्यमुपलभ्यते तस्य कारकं न त्यात् ॥ बहिरन्तरुपाधिमिः वाह्याभ्यन्तरहेतुभिः सहितरपि । अथवा अनवस्थितं शून्यं अयथाकार्यम् ॥ अथ मतं स्यादस्तीत्यनेनैव स्याच्छन्देन सर्वे भगा गृहीताः । किमेतेपा । प्रपञ्चोऽत आह- धर्मे धर्मेऽन्य एवार्थों धर्मिणोऽनन्तधर्मणः । अङ्गित्वेऽन्यतमान्तस्य शेपान्तानां तदङ्गता ॥ २२ ॥ वृत्तिः-धौ धौ धर्मनिर्देशे । भङ्गे भङ्गे इति वा पाठान्तरम् । अन्य एवार्थोऽपूर्वार्थः । कुतो धर्मिणो वस्तुनः । अनन्ता धर्माः स्वभावा यस्य सोऽनन्तधर्मा तस्यानन्तधर्मणः । अनित्वे प्रधानत्वे । अन्यतमान्तस्यास्ति- त्वादीनां मध्ये एकतमस्य । शेपान्तानां परिशेषधर्माणां नास्तित्वादीनाम् । तत्तस्मात् । अझता अप्रधानता । अथवा तदाता इति पाठान्तरम् । तदा समेता.] भाप्तमीमांसा । २३३ तस्मिन्काले। शेषाणामप्रधानता । अतः पुनरक्तता नास्ति । अथवा सुनय- सप्तमजीनिरूपणार्थमियं कारिका, सोपार्धा चेयम् । सप्तभनी योजयनाइ- एकानेकविकल्पादावुत्तरनाऽपि योजयेत् । प्रक्रियां भङ्गिनीमेनां नयनयविशारदः ॥ २३ ॥ वृत्तिः-नयविशारदो नयः प्रमाणपरिगृहीतायैकदेशे वस्त्वध्यवसागस्त- रिमन्कुशलः । नयैः स्वदेतुभिर्विशेषणत्वादिभिः । एना प्रक्रियाम् । भगिनी भगवती भावालान् । उत्तरवापि यह ऊर्ध्वमपि । योजयेदुद्घाटयेत् ।। फ एकश्च अनेकाश्च तावेव विकल्पो तावादिर्यस्य तस्मिन्नेकानेकविकल्पादौ । कथं रयादकः । स्यादनेकः । स्यादेकश्चानेकाश्च रयादवक्तव्यः । स्यादेकश्चा- वक्तव्यः । स्यादनेकश्वावतन्यश्च । स्यादेकाश्चानेकाश्चावक्तव्यश्च । एवमनेन देतादतादिपु योज्यम् ॥ सदापेकान्तेषु दोपमुन्नाग्यवमतैकान्तं दूपयितुमाह:- अद्वैतकान्तपक्षेऽपि दृष्टो भेदो विरुध्यते । कारकाणां क्रियायाश्च नकं स्वस्मात्प्रजायते ॥ २४ ॥ वृत्तिः-अद्वैतमेवेत्येकान्तोऽसद्ग्रहः स एव पक्षो जिशासितविशेपो धमी तस्मिन्नपि दृष्टो भेदः प्रत्यक्षप्रमाणपरिच्छिन्नं नानात्वं लोकप्रसिद्ध था । विरुध्यते मिथ्या भवेत् । कारफाणि कर्नादीनि क्रिया आकुञ्चनादिका पाकादिका वा एतेपां परस्परेणेयं मिया इमानि कारकाणि “ इदं कर्तृकारक. मिदं कर्मेत्यादि । श्यं दहन क्रिया इयं पचनक्रियेत्यादि । चशब्दादिदं प्रमाण- मिदं परिच्छेधं वस्तु" इति भेदो न स्यात् । कुतः । नेति एकान्तप्रतिपेधव- चनम् । एकमसहायम् स्वस्मादात्मनः । प्रजायत उत्पद्यते ॥ तथैवमपि- कर्मद्वैतं फलद्वैतं लोकतं च नो भवेत् । विद्याऽविद्याद्वयं न स्यात् बन्धमोक्षद्वयं तथा ॥ २५ ॥ वृत्तिः-शुगकर्माशुभकर्मेति द्वयं न रयात् । पुण्यमिदं पापमिदं इह- - सनातनजैनप्रन्थमालायाम् [वृत्ति- - लोकः परलोको शानमज्ञानं बन्धो मोक्षश्च जीवप्रदेशकर्मप्रदेशान्योन्यारेपो बन्धः अष्टविधकर्ममोक्षो मोक्ष इत्येवमादि न स्यात् ॥ प्रमाणादद्वैतं निराकर्तुमाह- हतोरद्वैतसिद्धिश्चेद्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वामावतो न किम् ॥ २६ ॥ वृत्तिः अद्वैतस्य सिद्धिः किं हेतोराहोस्विवचनमात्रात् ? यदि हेतोरिद साधनमिदं साध्यमिति द्वैतं स्यात् ।। साधनमन्तरेणाद्वतस्य सिद्धिश्वेदेवं वच. नमात्राद्वैतं कस्मान्न स्यादिति समानम् ॥ पुनरप्यद्वैतं निराकर्तुमाह--- अद्वैतं न विना द्वैतादहेतुरिव हेतुना। सन्जिनः प्रतिपेधो न प्रतिपेध्याहते क्वचित् ॥ २७ ॥ वृत्तिः-द्वैताद्विना न भवत्यद्वैतं । यथा अहेतुहेतुमन्तरेण न भवति ॥ संशिनो नामवतः प्रतिपेध्यमन्तरेण प्रतिषेधो यस्मात् कचिदपि न भवति ॥ यो यः संशी तस्य तस्य प्रतिषेध्यमन्तरेण प्रतिपेधो न भवति । यथा कुसुम- मन्तरेणाकाशादौ कुसुमस्य । संशि चादैतं तस्माद्वैतेन विना प्रतिषेधो न भवति ॥ - अधुना सर्वथासर्वपदार्थपृथक्न्वैकान्तवादिवैशेषिकादिमतकदर्थनार्थमाह- पृथक्त्वैकान्तपक्षेऽपि पृथक्त्वादपृथक्कृतौ । पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो यसौ गुणः ॥ २८॥ वृत्तिः यद्यप्यद्वैतैकान्तपक्षे दोपचयात् पृथक्त्वमित्येकान्तपक्षोऽभ्युपग- भ्यते तथापि पृथग्गुणात्तावदपृथग्भूतावभ्युपगन्तव्यौ गुणगुण्यादी । अन्यथा तस्मादपि यदि तौ पृथक् मिन्नौ स्यातां तदानीं पृथक्त्वादिर्गुणो न स्यात् । कुतः। यतोऽनेकस्थो ह्यसौ गुणो दृष्ट इत्यर्थः ॥ न च तयोः पृथक्त्वगुणः पृथग्गतिः सर्वेपामभावः स्यात् । तस्मात् भेदपक्षोऽपि न श्रेयान् ॥ इदानी पृथक्त्वैकान्तवादिविशेपमायासु क्षणिकत्वैकान्तकदर्थनार्थमाह- -- : समेता.] आप्तमीमांसा २३५ सन्तानः समुदायश्च साधयं च निरङ्कुशः। प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिहवे ॥ २९ ॥ वृत्तिः-एकत्वस्य सादृश्यस्य कथंचित्तादात्म्यस्य । निद्ववोऽपह्रतिनिरा- करणम् । अथवा एकशब्दो द्रव्यवचनोऽयं ततः स्वार्थिकस्त्वप्रत्ययः तस्मि- नेकत्वनिहवे । क्रमभाविना कारणतद्वतामालीनकमन्दकमधुरकादीनां गोरस- जातिमजहतामुत्तरोत्तरपरिणामप्रवाहः सन्तानो न स्यान्न भवेत् तथा रूपर- सादीनां धर्माणां सहभुवां नियमतो युगपदुत्पादव्ययभाजामेकस्मिन्नवस्थानं समुदयो न स्यात् यधनेकान्तात्मकं द्रव्यं न स्यात् ॥ तथा शब्दघटादीनां साधय च न स्यात् । मृत्वाऽमुत्र प्राणिनः प्रादुर्भावः प्रेत्यभावः सोऽपि न स्यात् । निरङ्कुशो निर्वाधोऽस्खलितरूपः सर्वत्र सम्बन्धनीयः ॥ चशब्देन प्रत्यभिज्ञानादयोऽपि न स्युः ॥ तदेतत्सर्वं न स्यादिति समुदायेन निर्देशात यथायोग्यं सम्बन्धो भवति । सामान्यनिर्देशान्नपुंसकलिङ्गता ।। पुनरपि भेदैकान्ते दूपणमाह- सदात्मना च भिन्नं चेत् ज्ञानं ज्ञेयाविधाऽप्यसत् । ज्ञानाभावे कथं ज्ञेयं वहिरन्तश्च ते द्विपाम् ॥ ३०॥ वृत्ति-तथा चैतन्यस्वरूपेण शेयात्प्रमेयात् ज्ञानमववोधो भिन्नमन्यच्चे. यदि सदात्मना चास्तित्वरूपेणापि पृथक् स्यात् । द्वेधाऽपि शानं शेयं चास- स्यात् । कुतः । शानाभाव बोधशून्ये कथं शेयम् । वहिर्वायं । अन्तः अन्तरङ्गं च । ते द्विपां तुभ्यं द्विपतां मिथ्यादृशाम् । यस्माज्ज्ञाने सत्ति शेयं विपयत्वात् शेये सति ज्ञानं च भवति तत्परिच्छेदकत्वात् । तस्मात शानं कथचिदभिन्नमेपितव्यं सदाधात्मनाऽन्यथाऽवस्तु स्यात् ।। सार्थविशेषस्य वाच्यवाचकतेप्यते तस्य पूर्वमदृष्टत्वात्सामान्य वपदिश्यते शब्दरित्यभिप्रायवतो मतमाश्रित्य तत्कदर्थयितुमाह- सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते । सामान्याभावतस्तेपां मुपैव सकला गिरः ॥३१॥ वृत्तिः-अथ मतं सामान्यमस्माभिरिष्यते किंतु शब्दगोचरत्वादवस्तु, शिति- ૨૨૬ सनातनजनप्रन्यमालयाम् मत माह । सामान्य विकल्पनेघोडश वाघ्यो या तासानान्याची निरो वाचः अन्येषां मिध्यादृशां । यतन्तानिर्विशेषो चायान्यं स्वलानं नामिल. प्यते ये सामान्यं तमामवलु लतत्तसाभावाल्लकालः समला गिरो पत्रनानि नृपवासत्यल्पा एवं सतो न पान्यन् नापि वाचोऽनुमा. नानावः (?) उभयकान्तं निराकर्तुकानः प्राह- विरोधान्नोभकाम्यं त्याद्वादन्यायविद्विषाम् । भवाच्यतैकान्तेऽम्युक्तिनांवाच्यनिति युज्यते ॥ ३२ ॥ वृतिः-अथ न यकके दोष उनकाल्पमितव्यमिति दूधनमाह । एकत्वस्थक्त्वपरमत्स्नीकलभावद्वयसन्मवोनि सन्मादि बत्तिलनास्ति- त्वपत् प्रतिभार । एकनैकल्य निराकृतत्वात् ॥ अथावान्यमिष्यते तदपि न । बवाच्यत्वे यनुतिः तानि नजन्मपति निष्पाइशान्॥ सामान्यविशेषौ पत्त्तरानपेक्षावन्यान्युपगता निरस तौ सापेशी तन्तः वर्थक्रियां कुरत प्रत्यत्सार्थत्य प्रतिशदनार्थनाद- ननपेक्षे पृथक्लैत्ये वस्तुट्टयहेनुतः। तदेवयं पृथक्त्वं च स्वभेदैः साधनं यथा ॥३३॥ वृत्तिः-परस्परानपेक्षे पृथक्लैन्ये ज्ञानान्यविदोषाववत्तु अर्थक्रियाकारि न भवति यहेतोान्यां । कथं यद्यद्विशेषभून्यं तत्तनाति यथा सरविमान सामान्यं च तथा परपरिकल्लितं । तस्मान्नान्ति विशेष: सामान्यन्यवाद । सरविपापविशेषवदित्यनेन हेतुद्येन सामान्यविशेषयोरवततं साधनीयन् । तदेव क्त्तु । ऐक्यं नानान्यं विशेषश्च पृथक्वं च इयान कुत्तोऽविरोधात् । यथा नापनहेतुज्ञानं वाच्यं वा लभेदैः स्वपन: पक्षपान्वयन्यतिरेकादिनि- मिन्नने भवति ॥ ननु तदेवयं पृथकतंत्र कथं दायता विरुद्धनेतत्- सत्सामान्यातु सवैक्यं पृथक् द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारणहेतुवत् ॥ ३४ ॥ - समेता.] । आप्तमीमांसा। २३७ वृत्तिः-सतोऽस्तित्वस्य सामान्यं यत्तत्तथा तस्माच सर्वस्यैक्यमेव । द्रव्यादिभैदैन्यपर्यायगुणादिभेदैरथवा द्रव्यक्षेत्रकालभावभिन्नं पृथक्त्वादेव । भेदश्चाभेदश्च तयोर्विवक्षायां क्रियमाणायामसाधारणहेतुः श्रावणत्वप्राणादिमत्वा- दिस्तदत् ॥ यद्यप्यत्रान्वयो नास्ति तथाप्यन्यथानुपपत्तिवलेन सिद्धमिति ।। केपचिद्वियमानस्याविवक्षाऽविधमानस्यैव विवक्षा, अन्येषां वैयाकरणानां विधमानस्यैव विवक्षा नाविषमानस्स, अन्येषां विवक्षा नास्तीत्येतन्मतनिराक- रणायाह- विवक्षा चाविवक्षा च विशेप्येऽनन्तधर्मिणि । सतो विशेषणस्यान नासतस्तैस्तदर्थिभिः ॥ ३५ ॥ वृत्तिः-सतो विद्यमानस्य विशेषणस्यास्तित्वादेविवक्षा चाविवक्षा च । नासतो नाविधमानस्य क्रियते । कैस्तदर्थिभिर्विवक्षाप्रयोजनवद्भिः। अत्रैक- स्मिन् । कुतो लोकप्रसिद्धमेतत् ॥ कस्यचिद्भेदः संवृतिकल्पितोऽन्यस्याभेदः संवृतिकल्पित इत्येतां दुरागम- घासनाजनितां विप्रतिपत्ति निराकर्तुमाह- प्रमाणगोचरी सन्तौ भेदाभेदी न संवृती। तावेकनाविरुद्वी ते गुणमुख्यविवक्षया ॥ ३६॥ वृत्तिः---भेदाभेदी प्रमाणगोचरौ प्रमाणविपयो सन्तौ भवन्तौ संवृतिरूपा- वपरमार्थो न प्रमाणविषयत्वात् ॥ अतस्तवागमे तावकत्रैकस्मिन् धर्मिणि न विरुद्धौ । गुणविवक्षया अप्रधानविवक्षया । मुख्यविवक्षया प्रधानविवक्षया । दृश्यते च लोके प्रधानाप्रधानविवक्षा । यथाऽनुदरा कन्येत्यादि । नित्यत्वैकान्तं निराकर्तुकाम आह- नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते । प्रागेव कारकाभावः क प्रमाणं क तत्फलम् ॥ ३७॥ वृत्तिः-उक्तपक्षदोपभयानित्यत्वैकान्तपक्ष आश्रीयते तत्रापि सतो भाव- रयान्तरावाप्तिर्विक्रिया सा नोपपयते न घटत मत्यर्थः । अत एव कारणात् कारकाणि कर्नादीनि तेपामभावः शून्यता । प्रागेव पूर्वमेव । तस्मिन्नभावे - २३८ सनातनजैनग्रन्थमालायाम् [गृत्ति- । । । कारकविशेषप्रमाणवस्तुयाथात्म्यप्रतिपादकं क तस्मिन् किंतु न कचिदपि । तदभावे क प्रमाणफलमुपेक्षाहानोपानादिकम् ॥ माभूतिक्रिया व्यङ्ग्यव्याकभावो भविष्यत्यत आह- प्रमाणकारकैयक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्य किं साधोस्ते शासनाद्वहिः ॥३८॥ वृत्तिः-प्रमाणानि प्रत्यक्षादीनि । कर्तृकर्मकरणसंप्रदानापादानाधिकर- णानि कारकाणि तैर्व्यक्तं प्रकाशितं व्यजितं कृतं व्यक्तं महदादि । यथेन्द्रियै- श्चक्षुरादिभिरथों विपयः। चेद्ययेवं । ते च व्यङ्ग्यव्यजके नित्ये अविच- लितैकरूपे । किं विकार्य यावता हि विकारो यो वस्तुन्यन्यभाभावो व्यक्ति- रप्यन्यथाभावः । अव्यक्ताव्यक्तमन्यत् । तव शासने पुनः सर्व सुघटम् ॥ पुनरपि कदर्थयितुमाह- यदि सत्सर्वथा कार्य पुंवनोत्पत्तुमर्हति । परिणामप्रक्लप्तिश्च नित्यत्वैकान्तवाधिनी ॥ ३९ ॥ वृत्ति:-~-असत्किचिदपि नोपपपत्ते सर्व सर्वत्र सर्वस्मादत आह । यदि सर्वथा विश्वप्रकारैर्यथाशक्त्यात्मना एवं व्यक्तात्मनापि कार्य घटादिकं सत् विद्यमानं पुमानिव पुंवत् सांख्यपरिकल्पितपुरुपवत् । नोत्पत्तुं नो प्रादुर्भवि. तुमर्हति योग्यं भवति । यद्यत्सर्वथा सत् न तदुत्पद्यते यथा सांख्यपुरुषः सच्च सर्वथाऽकार्य तस्मान्नोत्पद्यते ॥ अथ व्यवस्था तस्य द्रव्यस्य धर्मान्तर- त्यागधर्मान्तरोपजनितः परिणाम इप्यतेऽत आह परिणामस्य प्रकृप्तिः कल्पना समर्थनं च सर्वस्य नित्यत्वमिति योऽयमेकान्तस्तस्य बाधिनी निराकरणशीला विरोधिनी इत्यर्थः । अतो बन्धमोक्षादिकमत्र न सम्भवति नित्यत्वात्प्रकृतिपुरुषयोस्तव मते पुनः सम्भवतीत्याह- पुण्यपापक्रिया न स्यात् प्रेत्यभावः फलं कुतः । बन्धमोक्षौ च तेषां न येपां त्वं नासि नायकः ॥ ४० ॥ वृत्तिः-मैत्रीप्रमोदकरुणादिक्रियाभावे कुतः पुण्यहेतुत्वात् पुण्यं । हिं. ' -

समेता.]
आप्तमीमांसा।
२३९
।
-
सादिरशुभपरिणामः पापहेतुत्वात्पापं । तयोः क्रिया क्षयोपार्जनं न स्यान्न
भवेत् । अत एव क्रियाऽभावे कुतः प्रेत्यभावो जन्मान्तरफलं च सुखदुःखा-
दिरूपं कुतः । वन्धः कर्मणाऽस्वतन्त्रीकरणं मोक्षः स्वात्मोपलब्धिः एतौ च
द्वौ तेषां न येपां त्वं नासि न भवसि नायकः प्रभुः। किमुक्तं भवति एतत्सर्व
स्वच्छासन एव नान्येषां नित्यत्ववादिनां कुतो विक्रियाऽभावात् ॥
न केवलं नित्यैकान्त एतेपामभावः किन्तु-
क्षणिकैन्तिपक्षेऽपि प्रेत्यभावाद्यसम्भवः ।
प्रत्यभिज्ञायभावान कार्यारम्भः कुतः फलम् ॥ ४५ ॥
वृत्ति:-क्षणिको निरन्वयविनाशः स एवैकान्तपक्षस्तस्मिन्नपि प्रेत्यभा-
वादीनां जन्मान्तरादीनामसम्भवोऽभावः । प्रत्यभिशा स एवायमिति ज्ञानं
सा आदिउँपां ते प्रत्यभिशादयस्तेपामभावस्तस्मान कार्यारम्भ ओदनघटादेरा-
रम्म आदिक्रिया। अतः कुतः फलं समर्पणादिकं परिहारोऽनिष्टस्य । अस्मा-
देतत्कार्य भविष्यति नान्यस्मादेतदपि न सम्भवत्येव । आदिशब्देन पर्यालो.
चनाध्यवसायादीनां ग्रहणं । यदि कश्चित् स्थिरः कर्ता स्यादुपादानादीन्यपि
यदि स्थिराणि सन्त्यस्य कार्यस्य । एतयोग एव । तनिराकरणमपि कथंचियदि
कार्यरूपेण परिणमनमपि तदा सर्व सुघटं नान्यथा ॥
तन कारणे कार्य मनागपि नास्तीति चेदत आह-
यद्यसत्सर्वथा कार्य तन्माजनि खपुष्पवत् ।
मोपादाननियामोभून्माऽऽश्वासः कार्यजन्मनि ॥ ४२ ॥
वृत्ति:-सर्वथा शक्तिव्यक्तिस्वरूपेण यदसदविधमानं तत्काय माजनि
माभूत् । खपुष्पं गगनकुसुमं तदिव खपुष्पवत् । उपादानं मृत्पिण्डतत्वादिकं
तस्य नियामोऽस्मादेतत्कार्यं भवतीति निश्चयः सोऽपि माभूत् । आश्वासोs-
स्मादेतद्भविष्यत्ययमपि माभूत् । कार्यजन्मनि कायोत्पत्तौ ॥
पुनरपि दोषमुद्भावयितुमाह.
न हेतुफलभावादिरन्यभावादनन्वयात् ।
सन्तानान्तरवलेकः सन्तानतद्वतः पृथक् ॥४३॥

२४० सनातनजैनग्रन्थमालायाम् [वृत्ति- वृत्ति:-क्षणिकैकान्तपक्षे हेतुः कारणं फलं काय तयोर्भावोऽस्तिन आदिर्यस्य स हेतुफलभावादिरुपादानोपादेयस्वरूपं कार्यकारणभावो वाच्यवा- चकमावश्च न स्यात् । कुतोऽन्वभावादत्यन्तपृथक्त्वात् । तदपि कुतोऽनन्वया- देकस्य पूर्वापरावसाऽभावात्। तथा सन्तानान्तरे प्रस्तुतसन्तानादन्यः सन्तान: सन्तानान्तरं तस्मिन्यथा न सन्भवति कार्यकारणभावः मृत्पिण्टाटश्व । अभ्युपगन्येतदुक्तं परमार्थतस्तु सन्तानिभ्यो मिन्नेभ्यः पृथग्भूतेषु । ततो न कश्चिदेकः सन्तानोऽनुगतकाकारः । अन्यानन्यभावाभ्यां निराकृतत्वात् ॥ तस्मान्न सन्तानो नापि सन्तानिन इति ॥ पुनरपि तस्य दूषणमाह- भन्यवनन्यशब्दोऽयं संवृतिनै मृपा कथम् । मुख्यार्थः संवृतिर्नास्ति विना मुख्यान संवृतिः ॥ ४४ ॥ वृत्ति:-सत्यं सन्तानिभ्यो व्यतिरिक्त तन्तानो नास्ति किन्तु अन्येषु पृथग्भूतेषु योऽयमनन्यशब्दोऽनन्यबुद्धिश्च सन्तानः सा संवृतिरुपचारः। यवं कथं सा न मृपा व्यलीका भवेत् । न च मुख्यार्थः संवृतिरस्ति तस्यास्तुच्छरूपत्वात् संवृतित्तूपचारः। न च मुख्यार्थमन्तरेण संवृतिः, सति मुख्याथै तस्याः सम्भवो यथा सिंहोऽयं माणवकः, सति मुख्यसिंह माणवके सिंहकल्पना । न चैवं संवृतेरस्ति मुख्यार्थ इति ॥ अधैवं परिकल्प्यते- चतुष्कोटविकल्पस्य सर्वान्तेपूक्तयोगतः । तत्त्वान्यत्वमवाच्यं च तयोः सन्तानतद्वतोः ॥ ४५ ॥ वृत्तिः- यथा सर्वधर्मषु चतन्त्रः कोट्यो सत्त्वैकत्वादिषु विभागा यस्यासी चतुष्कोटिविकल्पस्तस्य सदसदुभयादिभेदभिन्नस्य विकल्पत्य । उक्तिर्वचनं तस्या अयोगोऽसम्भवः । तयोः सन्तानतद्वतोश्चतुष्कोटेविकल्पस्य वचनस्यायोगात्त- खान्यत्वमेकत्वानेकत्वमवाच्यम् ।। चेदत आह- । । - समेता.] आप्तमीमांसा। २४१ अवक्तव्यचतुष्कोटिविकल्पोऽपि न कथ्यताम् । असान्तमवस्तु स्यादविशेष्यविशेषणम् ॥ ४६ ॥ पृत्तिः- सवितव्यचतुप्फोटिविकल्पोऽपि यः सोऽपि न कथ्यतां नो. च्चता गाभाणीदित्यर्थः । अन्यथा भेदाभेदोभयानुभयरवरूपेणाभिलप्यत्वे काग्निदनभिलप्यत्वं स्यात् ॥ अन्यचैवं सति असर्वान्तं सर्वविकल्पाती- तगवरतु स्यात् । विशेष्यत इति विशेष्यतेऽनेनेति विशेषणं तयोरभावात् ।। अन्य प्रतिषेधोऽपि न घटते, तत्कममत आह- दव्याधन्तरभावेन निषेधः सन्जिनः सतः । भस दो न भावस्तु स्थानं विधिनिपेधयोः ॥ १७ ॥ वृत्ति:-द्रव्यमादियेषां ते द्रव्यक्षेत्रकालभावारतेभ्योऽन्यानि द्रव्याघ- न्तराणि सेपामभावरतेन परद्रव्यपरक्षेत्रपरकालपरमावस्वरूपेण यः प्रतिषेधः सतो विद्यमानस्य । सन्मिनो नामवतो भवति । यः पुनरस दो भाववि- शेपः परपरिकल्पितो गासी भावः खलक्षणं । विधिनिषेधयोररितत्वनारित- त्वयोः । सानमारपदं । कुतः सर्वधा तरय तुच्छत्वात् । तस्माद्भाव एव विधिनिषेधयोरवसानं तस्यैव खपररूपेणारितत्वनास्तित्वम् ॥ । यतः- । अवस्वनभिलाप्यं स्यात् सर्वान्तः परिवर्जितम् । वस्येवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥४८॥ वृत्तिः- सर्वान्तः सर्वधर्मः । परिवर्जितं विरहितं । सर्वथा यत्तदन- मिलाप्यमवाच्यं वस्तु स्यात् न किचिदपि भवेत् परपरिकल्पितं । कथं तर्वावरतुत्वमत आह-परत्वेवावस्तुतां याति अर्थक्रियायाः । सर्व एव पदार्थों भवति कुतः प्रक्रियायाः स्वरूपादिचतुष्टयलक्षणायाः । विपर्ययात्पररूपादि- चतुष्टयाए । तरमाघदवतु तदनमिलाप्यं यथा न किचित् । यत्पुनरभिला- प्यं तदरतु यथा खपुष्पं । तरमादेतदेवकत्योपलब्धिर्यदन्यस्यानुपलब्धिरिति ॥ पुनरप्यवत्ताव्यवादिनमुपालभते. - २४२ सनातनजनप्रन्थमालायाम् [वृत्ति- सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः । संवृतिश्चेन्सपैवैपा परमार्थविपर्ययात् ॥ ४९ ॥ वृत्तिः-यदि सर्वान्ताः सर्वधी अवक्तव्या अवाच्यास्तेषां मतानां यदेतद्वचनमुक्तिः “सर्वथा प्रतिक्षणं निरन्वयविनाशिनो निरंशाः सजाती- यविजातीयव्यावृत्ता इत्यादिकं " पुनः पुनरावर्तमानं किमर्थ स्यात् । अध मतं परमार्थ न तद्भवेत्किन्तु संवृतिः । यद्येवं मृपैवैपाव्यलीकैव सा । कुतः । परमार्थस्य तत्त्वरूपस्य विपर्ययोऽभावः संवृति मोपचारः । न च सा पर. मार्थमन्तरेण भवति ॥ अशक्यत्वादवाच्यं किमभावारिकमबोधतः । आद्यन्तोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटम् ॥५०॥ वृत्तिः-इदं तावदवक्तव्यवादी प्रष्टव्यः । किमशक्यत्वादसामर्थ्यादवा- च्यम् ? आहोस्विदभावात् ? किमशानात् ? विकल्पवयम् । न तावदशक्य- त्वादशनागसहस्रवलत्वाद् बुद्धस्य । नाप्यज्ञानात्सर्वशत्वेन परिकल्पितः । यतो यस्मादाधुक्तिरादिविकल्पोऽन्तोक्तिस्तृतीयविकल्प एतद्वयं न भवेत् । तस्मारिक व्याजेन छमना । उच्यतां मण्यतामभावादेवावाच्यं स्फुटमिति । न चैतदभा- वमानं प्रमाणसिद्धं प्रमाणस्याप्यभावात् ॥ क्षणिकैकान्तवादिकल्पिता हिंसा पञ्चभिः कारणैः प्राणप्राणिजनव्याघात- चित्ततद्गतचेष्टाप्राणवियोगैन । बन्धमोक्षादिश्च न घटत इत्याह-- हिनस्त्यनभिसन्धातृ न हिनस्त्यभिसन्धिमत् । बद्धयते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥ ५५ ॥ वृत्तिः-क्षणिककान्तवादेऽभिसन्धिमन्मारणाभिप्रायवत् । चित्तं तत्प- रिकल्पितरूपज्ञानं जीवसदृशं तत्प्राणिनं न हिनस्ति न मारयति । यच्च हिनस्ति तदनभिसन्धात अनभिप्रायवत् । बध्यते च कर्मणा तवया- पतम् ॥ तवचनविरोध दर्शयति- । . - समेता.] आप्तमीमांसा । २४३ अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः । चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥५२ ।। वृत्तिः–यो हिंसाया हेतुनिमित्तं नासौ हिंसकः प्राणवियोजकः कुतोऽ- हेतुकत्वान्नाशस्य । यदेतत्प्राणिनो मरणनिमित्तं यश्च मोक्षस्तैरभ्युपगतः चि- त्तानां रूपविज्ञानक्षणानां सन्ततिनैरन्तयं तस्य नाशः क्षयः प्रदीपनिर्वाण- रूपो वा । अष्ट अङ्गान्यवयवा यस्य स हेतुर्यस्यासौ अष्टाङ्गहेतुकः । कानि तान्यष्टाङ्गानि सम्यक्त्वसंशासंशिवाकायकान्तायामस्मृतिसमाधिलक्षणानि। सोऽपि न स्यात् । कुतः स्वत एव हेतुमन्तेरणाभ्युपगतत्वात् ॥ अथ मतं स्वभावविनाशार्थ न निमित्तमस्माभिरिष्यते, किन्तु विभागा. मित्यत आह- विरूपकार्यारम्भाय यदि हेतुसमागमः। आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥ ५३ ॥ वृत्तिः-विरूपकार्य विभागसन्तानः कपालादिस्तस्यारम्भस्तस्मै विरूप- कार्यारम्भाय । यदि हेतोः समागमः कारणापेक्षणं । तीसौ विरूपकार्या- रम्भ आश्रयिभ्यामुत्पादविनाशाभ्यामनन्योऽभिन्नः कुतोऽविशेषादभेदात् । अविशेषेणाभेदोपलब्धिराश्रयिभ्यो यतः। अयुक्तवत् ग्राखग्राहकाकाराभ्यां अयुतसिद्धयोः ।। चित्तविशेषरूपरसादिवद्धान् प्रागुत्पादादीनभ्युपगम्य क्षणिकवादे दूपणम. माणि । साम्प्रतं तु तेपामुत्पादादीनामसम्भवमेव दर्शयन्नाह- स्कन्धाः सन्ततयश्चैव संवृतित्वादसंस्कृताः। स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविपाणवत् ॥ ५४ ॥ वृत्तिः स्कन्धा रूपवेदनाविज्ञानसंज्ञासंस्कारास्तेषां सन्ततयश्च कार्यका- रणयोरविच्छेदाः । एवकारोऽवधारणार्थः । असंस्कृता एवापरमार्था एव । कुतः संवृतित्वान्मिथ्यारूपत्वात् । अतस्तेषां स्थितिः। सदवस्थानमुत्पत्तिर्घटा- वस्था विनाशः कपालादिरूपस्ते न स्युन भवेयुः खर विपाणवत् । तथा खरविपाणस्य स्थित्युत्पत्तिव्यया न सन्त्येवमेतेपामभावं प्रत्यविशेषात् ।

सनातनजैनग्रन्थमालायाम् [वृत्ति- - - यत्पुनः संस्कृतं तत्परमार्थसत् यथा स्वलक्षणन् । न तथा स्कन्धाः सन्तत- यश्च । ततः स्थित्युत्पत्तिक्रिहस्ततोऽपि विभागसन्तानोत्पत्तये विनाशहेतु. रिति पोप्लूयते ।। यस्य मिध्यादृश उभयेकान्तपक्षस्तन्निरासार्थमाह- विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विपाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ५५ ॥ वृत्तिः-उभयकात्म्यं नित्यानित्यैकान्तद्वयमयुक्तमङ्गीकतु कुतो मिथ्यादृशां तद्विरोधात् । अनभिलाप्यमपि न युक्तमनेकान्तवैरिणान् ॥ एकान्तवादिपक्षं निरस्यानेकान्तं समर्थयन्नाह- नित्यं तत् प्रत्यभिज्ञानानाकसात्तदविच्छिदा। क्षणिक कालभेदात्ते बुद्ध्यसञ्चरदोपतः ॥ ५६ ॥ वृत्तिः-तच्छब्देन तत्त्वमुच्यते प्रस्तुतत्वात् तत्त्वं कथञ्चिन्नित्यं । प्रत्यभि. शानात्।वस्तुनः पूर्वापरकालव्याप्तिः प्रत्यभिज्ञान। यथा स एवायं देवदत्त इत्यादि। तस्मात्प्रत्यभिज्ञानात् । तस्य प्रत्यभिज्ञानस्य अविच्छिदा अविच्छेदोऽन्वयः। सोऽकस्मादहतोर्न भवति यस्मात् । न च नित्यत्वमेव । कालभेदात्परिणाम वशात् क्षणिकं नश्वरं । तवाईद्भट्टारकस्य नान्यस्य क्षणिकाक्षणिकवादिनः । वुद्धरसंचारोऽसंचरणमन्यत्रागमनं स एव दोपस्तस्मात् । न हि एक पदार्थ विज्ञायान्यस्य पदार्थस्य परिच्छित्तिः सम्भवति । उभयैकान्ते पुनः सुघटा ॥ तदेव दर्शयति- न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्ते सहकत्रोदयादि सत् ॥ ५७ ॥ वृत्तिः--कथमनेकान्ते त्रयमेकस्मिन् संभवतीति चेदत आह । सामा• न्यात्मना द्रव्यरूपेण नोदेति नोत्पद्यते न व्येति न विनश्यति कुतोऽन्वयात् सर्वपर्यायेप्वनुगतेकाकारण वर्तनात् व्यक्तं स्फुटमेतत् । विशेषात्पर्यायरूपे- जोत्पद्यते विनश्यति च । तवाहतः । सह युगपदेकत्रैकस्मिन् वस्तुनि । उद- यादि सत् उत्पादविनाशस्थितयः सत्यो विरोधाभावात् ॥

समेता.] आप्तमीमांसा। २४५ - -- कथं य एवोत्पादः स एव विनाशो यावेव विनाशोत्पादौ तावेव स्थिति रित्यत आह- कार्योत्पादः क्षयो हेतोर्नियमाल्लक्षणास्पृथक् । न तो जात्यायवस्थानादनपेक्षाः खपुष्पवत् ॥ ५८ ॥ धृत्तिः-योऽयं कार्यस्योत्पादः स एव हेतोरुपादानकारणस्य क्षयो विनाशो नियमानिश्चयात् । लक्षणात्पुनः पृथग्भिन्नौ स्वरूपभेदात् । जात्यादेरवस्थाना- तू सत्त्वप्रमेयत्वादिना न तो मिन्नौ कुतस्तेन रूपेणेकत्वात् ।अनपेक्षाः परस्प- रापेक्षामन्तरेण ते स्थित्युत्पत्तिविनाशाः खपुष्पसमानाः । तस्मादेते कथञ्चित् पररपरमभिन्नाः कथचिद्भिन्नाश्च भवन्ति । लौकिकदृष्टान्तेन स्पष्टयन्नाह- घटमौलिसुवर्णार्थी नाशोत्पादस्थितिप्वयम् । शोकप्रमोहमाध्यस्थ्यं जनो याति सहेतुकम् ॥ ५९ ॥ वृत्ति:-अयं जनत्रितयाथी यो घटार्थी स तस्मिन् भन्ने शोकं याति । यश्च मौल्यथी स तस्मिन्नुत्पन्ने हर्षे याति । यश्च सुवर्णार्थी स माध्यस्थ्य याति सुवर्णसद्भावात् । नचैतदहेतुकं किन्तु सहेतुकमेव । तदेव सुवर्णद्रव्यं घटस्वरूपेण विनश्यति तदेव मौलिस्वरूपेणोत्पयते सुवर्णस्वरूपेणानुगतेकाका. रस्वरूपेण तिष्ठति । एवं सर्व वस्तु ॥ पुनरपि लोकोत्तरदृष्टान्तेन पोषयति- पयोचतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्त्वं ब्रयात्मकम् ॥ ६०॥ वृत्तिः यस्य पयो दुग्धमेवाहं भुञ्ज इति व्रतं नियमो नासौ दध्यत्ति दपि मुझे । यस्य च दध्यहं भुख इति व्रतं नासौ पयोऽत्ति दुग्धं भुके। यस्य चागोरसमहं भुञ्ज इति व्रतं नासावुभयमत्ति । कुतो गोरसरूपेण तयो- रेकत्वात् । दुग्धव्रतस्य दधिरूपेणाभावात् । दधिव्रतस्य पयोरूपेणाभावात् । अगोरसवतस्य दधिदुग्धरूपेणाभावात् । तस्मात्तत्त्वं वस्तु त्रयात्मकं स्थित्युत्प- त्तिव्ययात्मक सुघटमेतदनेकान्ते जैनमत इति स्थितम् ।।

२४६ सनातनजनप्रन्थमालायाम् [वृत्ति- - , द्रव्यपर्यायरूपं तत्त्वं व्यवस्थाप्य नैयायिकवैशेषिकमतमाशय दूपयि- तुकामः प्राह- कार्यकारणनानात्वं गुणगुण्यन्यताऽपि च । सामान्यतद्वदन्यत्वं चैकान्तेन यदीप्यते ॥ ६ ॥ वृत्तिः–कार्य घटादिरूपं कारणं मृत्पिण्टादिकं तयो नात्वं भेद इप्यते चेत् गुणो रूपादिर्गुणी द्रव्यं तयोरपि यधन्यतेप्यते सर्वथा भेद इप्यते सामान्य बुद्धयभिधानप्रवृत्तिलक्षणं तद्वत्सामान्यवत् व्यक्तयः। तयोश्च यधन्य- तेप्यते सर्वथैकान्तेन ॥ तदानीं किं स्यादत आह- एकस्यानेकवृत्तिन भागाभावादहूनि वा । भागित्वाद्वाऽस्य नैकत्वं दोपो वृत्तेरनाहते ॥ १२ ॥ वृत्तिः-एकस्यावयच्यादेः कार्यस्य घटादेरनेकेषु स्वारम्भकावयवेषु वृत्तिर्वर्तनं सा न स्यात् कुतो भागाभावात् निरवयवत्वात् । अवयविनो अर्थे वर्तन्ते। अवयववहुत्वं स्यादनिष्टं चैतत्।अथास्य भागाः परिकल्प्यन्त एवं सति नैकत्वमस्य भागित्वात् । तस्मादनाहते मते वृत्तेविकल्पस्य सर्वात्मनैकदेशेन दोप एव । आईते पुनर्मते सर्व युक्तमनेकान्तात् । पुनरपि भेदपक्षे दूषणमाह-- देशकालविशपेऽपि स्यादृत्तिर्युतसिद्धवत् । समानदेशता न स्यात् मूर्तकारणकार्ययोः ॥ ६३॥ वृत्तिः-देश: क्षेत्रं कालः समयादिकः तयोर्विशेषो भेदस्तस्मिन्नपि तयो- रवयवावयविनोर्या वृत्तिर्वर्तनं स्यात् युतसिद्धानामिव पृथग्भिन्नानामिव युत- सिद्धवत् घटपटादिवदित्यर्थः । अन्यच्च समानदेशता न स्यात् तयोरवय- वावयविनोरेकस्मिन्नवस्थानं न स्यात् मूर्तिमत्त्वात् यथा खरकरभयोः ।। पुनरपि भेदवादिनं प्रति दूपणमाह- आश्रयाश्रयिभावान खातन्त्र्यं समवायिनाम् । इत्ययुक्तः स सम्बन्धो न युक्तः समवायिभिः ॥ ६४ रामेता.] आप्तमीमांसा। २४७ वृत्ति:-रयानव्यं स्वप्रधानता वेषां नास्ति कुतः आश्रयाः स्वारम्मका- यया आश्रयी अपनी कार्यादितगोभीवरसारमार । यरमात् आश्रयमन्तरेण नाथपी यतले नामक्षिणमन्तरेणाभयः परस्परप्रतिबन्धात् । तस्मान कालादिगे. देन गतिस्ता समवायिनो कार्यकारणानामिति चदनोत्तरमाह । सोऽयुक्तः सम्बन्धः सगवामिभिः सहन युक्तः सगवायसम्बन्धः पररिष्टः कार्यकारणा- दिभिः साहस न घटते विनार्यमाणायोगात् ।। अनवस्थादिदोपादिति ॥ सन विपढयभाह- सामान्यं समवायचाप्येककन समाप्तितः। अन्तरेणाश्रयं न स्वासाशोत्पादिपु को विधिः ॥६५॥ वृत्ति:--सामान्य मियभित्रकारणं । समवाय रहेदं प्रत्ययलक्षणं । मकान कस्मिभवयं व्यतो वा। समातितः समाप्ताप्यस्थितत्वादित्यर्थः। आश्यमन्तरण परमात्तयोरवस्थान नाति एवं सति। नाशोत्पादा विषन्ते गषां तेषु नाशोत्पादियु मण्मुण्टपटपटादिपु को विधिः कः क्रमः किन्तु न पाक्षिदपि मात् ॥ पुनरपि सम्बन्धस्य दूपणमाह- सर्वथाऽनभिसम्बन्धः सामान्यसमवाययोः । ताभ्यामों न सम्बन्दस्तानि त्रीणि खपुष्पवत् ॥ ६६ ॥ वृत्ति:- -पररपरण सर्वथा सर्वप्रकारणानमिसम्बन्धोऽसंयोगोऽतस्ताभ्यां सामान्यसमवायाभ्यां अथा गुणगुण्यादिन सम्बको न लग्नोऽतस्तानि त्रीण्यपि सामान्यसमवायारूपाणि सपुष्पसमानानि ॥ सत्यमेवैतर समवायादीनां दोषः । अरमाकं पुनः परमाणूनामेकान्तना- नन्यत्वगिच्छता न दोष इत्यत्र दुपणमाह- अनन्यतैकान्तेऽणूनां सझातेऽपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रान्तिरेव सा ॥ ६७ ॥ वृत्ति:- परमाणूनां द्वितीयविभागरहितानां सहातेऽपि प्रचयऽपि असं- एतत्वं स्यात् विभागवत् यथा घटपटयोः । नान्यताऽनन्यता संवैकान्तस्तस्मिन् - २४८ सनातनजैनग्रन्थमालायाम् [वृत्ति- - । परमाणूनामन्यथास्वरूपेण परिणामायोगार । एकदेशन सर्वात्मना वा तथा वृत्तिविरोधात् । सहस्राणुमात्रपिण्डप्रसझादणोः । तस्मात्प्रविरलत्व [प्रविकल- त्व?] मणूनां ततो धारणाकर्षणादयो न स्युः । भूतानां पृथिव्यादीनां चनुणी भावश्चतुष्कं सा भ्रान्तिः स्यात् भूतचतुष्टयं प्रान्तं त्यादित्यर्थः ।। सत्यमेव नैतत्प्रमाणं भावात् (१) पुनरपि दूषणमाह- कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच न ॥ ६८ ॥ वृत्तिः-अणूनां यदेतत्कार्य स्थूलघटपटादिकं तस्य यदि भान्तिविभ्रम- स्तदानीं कार्यभ्रान्तरणूनामपि प्रान्तिः । यतः कार्यलिङ्गं कारणं कार्यद्वारेण कारणस्यावगमो नान्यथाऽतोऽन्यतराभावे उभयोरप्यभावोऽविनाभाविनियमाव। उभयाभावाच तयोः स्थितं गुणो रूपादिर्जातिः सामान्यमितरच क्रिया एत. समुदितं न स्यात् । न चैतदिष्टं सर्वप्रमाणप्रसिद्धत्वात् ।। एकत्वेऽन्यतराभावः शेपाभावोऽविनाभुवः । द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृपैव सा ॥ ६९ ॥ वृत्ति-कार्यकारणयोरेकत्वे द्वयोर्मध्येऽन्यतराभावस्तस्य चाभावे द्विती. यस्य चाभावः । कुतोऽविनाभावनियमात् । न येकमन्तरेणापरं भवति ॥ द्वित्वमिति च या संख्या तस्याश्च विरोधोऽघटना । अथ मतं संवृत्या सर्व युक्तं सा संवृतिमपैव व्यलीकैव ततो न किंचित् स्यात् वन्ध्यासुतपरिकल्पित रूपव्यावर्णनवत् ॥ उभयैकान्तवादिनं प्रत्याह- विरोधानोभयकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युकिर्नावाच्यमिति युज्यते ॥ ७० ॥ वृत्तिः-अवयवावयविध्यतिरेकाव्यतिरेकैकान्तौ न यौगपधेन सम्भविनी विरोधात् स्ववचनविरोधात् । अनभिलप्यैकान्तोऽपि न सम्भवति । स्यादादा- भ्युपगमे तु न दोषः कथंचित् तथाभावोपलब्धः ।। तथैव स्पष्टयति- समेता. ] आप्तमीमांसा। २४९ - द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेपाच शक्तिमच्छक्तिभावतः ॥ ७१ ॥ वृति:-कारणं गुणी सामान्य वस्तु द्रव्यमित्युच्यते, कार्य गुणो विशे- पः पर्याय इत्युच्यते,तयोरक्यमकेत्वं कुतस्तयोरव्यतिरेकतो द्रव्यपर्याययोरव्य- तिरेकोपलम्भात् । एतेनास्य हेतोः प्रतिज्ञार्थंकदेशासिद्धत्वं प्रत्युक्तम् । परि- णामः कारणस्यान्यथाभावः वाग्गोचरोऽतीतस्तस्य विशेपश्च तस्मात्परिणामवि- शेपाच तयोरैक्यं । शक्तयो विद्यन्ते यस्य तच्छक्तिमत् द्रव्यं परिणामि । प्र- तिनियतकार्यसम्पादनसामर्थ्य विशेषाः शक्तयो यथा घृतादेः लेहतर्पणबृंहणा- दयः । तयोर्भावस्तस्मात् तयोरैक्यमिति वेदितव्यम् ।। कथंचिद्भेदनिरूपणार्थमाह- संज्ञासंख्याविशेपाच स्खलक्षणविशेपतः । प्रयोजनादिभेदाच तन्नानात्वं न सर्वथा ॥ ७२ ॥ वृत्तिा-संशा नाम, संख्या एकादिका, तयोविंशेपो भेदस्तस्मात्तयो- नानात्वं भेदो दृश्यते । च संज्ञाभेदः ऊढाऽत्र वधूः प्रमदा कामिनी क्रोधव- ती भामा। द्वित्वादकत्वं संख्याभेदोऽपि प्रतीतः। स्वमसाधारणं लक्षणं स्वरूप यस्य स चासो विशेपस्तस्मात्तयोर्नानात्वं । तथा च द्रव्येणान्यत्प्रयोजनं पयीयणान्यत् वृक्षपत्रपुष्पवत् ॥ अपेक्षानपेक्षकान्तप्रतिक्षेपार्थमाह- यद्यापेक्षिकसिद्धिः स्थान द्वयं व्यवतिष्ठते । अनापेक्षिकसिद्धौ च न सामान्यविशेषता ॥ ३ ॥ वृत्तिः-अपेक्षैव प्रयोजनमेपामर्थानां तेषां सिद्धिनिष्पत्तिनिश्चितिर्वा । अथवाऽऽपेक्षिकी चासो सिद्धिश्च सा यदि स्यात् । कार्यकारणादि युगपर्यं न व्यवतिष्ठते न घटते । एकेनैकस्य प्रतिहतत्वात् ॥ यदि पुनरनापेक्षिकसि- द्धिस्तस्यामभ्युपगम्यमानायां सामान्यं च विशेषश्च तयोर्भावः सामान्यविशे- पता सा न स्यान भवेत् । तस्मात्स्वरूपेण खत एव सिद्धेन भवितव्यम् ।। धर्मिधर्मभावश्च परस्परापेक्षः॥ .

२५० सनातनजैनग्रन्थमालायाम् - [वृत्ति- - - उभयैकान्तं दर्शयन्नाह- विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विपाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७४ ॥ वृतिः- अपेक्षानपेक्षकान्तोभयं नास्ति विरोधात् । नाप्यवाच्यमवाच्य- त्वेनापि वाच्यत्वात् ॥ तयोरनेकान्तं दर्शयन्नाह- धर्मधयविनाभावः सिद्धयत्यन्योऽन्यवीक्षया। न स्वरूपं स्वतो ह्येतत् कारकज्ञापकाङ्गवत् ॥ ७५ ॥ वृत्ति:-क्रममावि पिण्डादि कार्य सहभावी रूपादिर्गुणो विसदृशपरि- णामलक्षणश्च विशेषो धर्मोऽत्र कथ्यते । कारणादिव्यपदेशं द्रव्यं धी। स्वध- मर्मापेक्षया द्रव्यस्य धर्मिव्यपदेशः स्वधर्म्यपेक्षया च रूपादेश्व धर्मव्यपदेशस्तयो- योऽविनाभावोऽन्यभिचारोऽवश्यं सोऽन्योऽन्यापेक्षया सिद्धयति भासते उत्पाथ ते वा। स्वरूपमसाधारणं रूपं तयोर्न परतः। कुतो यस्मात्स्वत एव तत्सिध्यति । यथा कारकशापकाने कारकक्रियाया अझं शापकक्रियाया अझं निवन्धनं तयो. रिव तद्वत् कर्तृकर्मकवोध्यवोधकवदित्यर्थः । अथवा अङ्गशब्दो विशेपाथों द्रष्टव्यो यथा कर्मकर्तृव्यपदेशाविनाभावो वोध्यवोधकव्यपदेशाविनाभावश्च सि. ध्यत्यन्योन्यापेक्षयैवमत्रापीत्यर्थः । उपेयतत्त्वं व्यवस्थाप्योपायतत्त्वव्यवस्थापनार्थमाह- सिद्धं चेहेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्व विरुद्धार्थमतान्यपि ॥ ७६ ॥ वृत्तिः- यदि सर्व हेतुतो निमित्तात्सिद्धमवगतं तर्हि प्रत्यक्षादितः प्रत्यक्षागमादेर्गतिरवगमो न स्यात् । दृश्यते चैन्द्रियकस्याशनपानादेरर्थस्याती- न्द्रियस्य मलयकाश्मीरादेरत्र क्रमेण प्रत्यक्षादाप्तोपदेशतश्च गतिरिति ।। अथा- गमादाप्तोपदेशात्सर्व चेप्यते ततो विरुद्धार्थानि यानि गतानि तात्यपि सिद्धि- मुपगच्छेयुरिति ॥ - समेता.] आप्तमीमांसा। २५१ उभयकात्म्यकान्तं निराफतुमाह- विरोधानोभयकात्म्प स्याद्वादन्यायविद्विपाम् । अवाच्यतैकान्तेऽप्युकिर्नावाच्यमिति युज्यते ॥ ७७ ॥ वृत्तिः-उभयेकान्तत्वं नारित विरोधात् । अवाच्यमपि न ॥ पुनरप्यनेकान्तनिरूपणार्थमाह- वक्तर्यना यदेतोः साध्यं तदेतुसाधितम् । मासे वक्तरि तद्वाक्यात साध्यमागमसाधितम् ॥ ७८ ॥ वृत्ति:-यो यत्राविसंवादकः स तत्राप्तः । ततः परोऽनाप्तः । अनाप्ते यक्तरि तत्त्वस्योपदेष्टर हेतोरनुमानापत्साध्यं शक्त्याऽभिप्रेतं प्रसिद्धं तद्धेतु- साधितं लिमात्मतिपादितं । आप्ते यत्तरि वाक्यावचनापत्साध्यं तदागमसा- धितं प्रवननप्रतिपादितं प्रमाणमृतं वचनं हि तत् । अनाते पुनर्विसंवादकं तरमातुमन्तरेण न तत्सेत्स्यति ॥ अन्तस्तत्वमेव तत्त्वगिति यंपां मतं तनिराकरणायाद-- अन्तरार्थतकान्ते बुद्धिवाक्यं मृपाऽखिलम् । प्रमाणाभासमेवातस्तत्प्रमाणाहते कथम् ॥ ७९ ॥ वृत्तिः अन्तरभ्यन्तरमन कारणं यस्य सचासावर्थश्च तस्य भावोऽन्त. रमार्थता सेवकान्तो मिथ्यात्वं तस्मिन् । बुद्धिश्च वहिरर्थपरिच्छेदिका । वाक्यं चानुमाननिमित्तं परा) । द्वन्दकवद्भावः । तदखिलं निरवशेष शृपा मिथ्या। प्रमाणमिव भासत इति प्रमाणामासमेव । यद्येवं कथं मुख्यप्रमाणमन्तरेण तत्प्रमाणाभासं यस्मात्सति प्रमाणे प्रमाणाभासो नान्यथा । अथ मतं सबै वायाभ्यन्तरं शानमेवैतस्य मतस्य निराकरणार्थमाह- साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता। न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोपतः ॥८॥ वृत्ति:-साध्यत इति साध्यं शक्यमभिप्रेतमप्रसिद्ध पक्षधर्मः । साध्यते- अनेनति साधनं प्रकृतेनाविनाभाति तयोराकारो विशप्तिर्विज्ञानं तस्या यदि विशप्तिमात्रता मानमानलं । न साध्यं न च हेतुः चकारानापि दृष्टान्तः । ।

२५२ सनातनजैनग्रन्थमालायाम् [वृत्ति- कुतः प्रतिशादोपाढेतुदोपाच्च । निरंशत्वमभ्युपगम्य सभेदं साधयेदभ्युपगम. हानिः । प्रतिशास्तुदोषोऽतः प्रतिशादोपे हेतुदोषेऽकिचित्कराख्यः । अथवा प्रतिशव हेतुः स दोपस्तस्मात् । यस्मान तदेव साध्यं तदेव साधनं निरं- शत्वात्तस्य । अथान्तरङ्गार्थतैकान्ते दोपदर्शनाद्वहिरणार्थोऽभ्युपगम्यते तत्रापि दोषं दर्शयति- बहिरङ्गार्थतैकान्ते प्रमाणाभासनिहवात् । सर्वेषां कार्यसिद्धिः स्याद्विरुद्धार्थाभिधायिनाम् ॥ ८ ॥ वृत्तिः-वहिरणार्थतैकान्तो वाह्याथैकान्तस्तस्मिन्नभ्युपगम्यमाने विरुद्धा. थाभिधायिनां प्रमाणान्तरवाधितार्थप्रकाशकानां सर्वेपां निरवशेषाणां कार्यस्य सिद्धिनिष्पत्तिः स्यात्स्वव्यवहारसिद्धिर्भवेदित्यर्थः । कस्मात्प्रमाणाभासनिहवात् प्रमाणस्याभासो मिथ्यात्वं तस्य निहवो निराकरणं तस्मात् । एतदपि कुतोऽ न्तस्तत्वे सति बहिरर्थस्य सिद्धिरसिद्धिश्च नान्यथा ॥ उभयैकान्तप्रतिक्षेपायाह- विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विपाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ८२॥ वृत्तिः-पूर्ववत् ॥ भाव एव तत्त्वं नाभाव इति यस्य मतं तनिराकरणायाह- भावप्रमेयापेक्षायां प्रमाणाभासनिसवः । बहिःप्रमेयापेक्षायां प्रमाणं तनिभं च ते ॥ ८३॥ वृत्ति:-भावो शानं तदेव प्रमेयं तस्य तस्मिन्वाऽपेक्षाऽभ्युपगमस्तस्या मभ्युपगम्यमानायां । प्रमाणाभासस्य निवो लोपः । कुतो शानस्य तदेतत्मा माण्यमप्रामाण्यं च वाह्यापेक्षायां भवति नान्यथा इति ॥ एतच्च मतं सर्वं वचो विवक्षामात्रसूचकमित्यस्य निराकरणायाह- जीवशब्दः सबाह्यार्थः संज्ञात्वाद्धेतुशब्दवत् । मायादिनान्तिसंज्ञाश्च मायायैः खैः प्रमोक्तिवत् ॥ ८४ ॥ . - -- Kavya समता.] आप्तमीमांसा। २५३ वृत्ति:-जीवस्य शब्दः संशा देशामर्शकत्वाद्धदादिसंशाः परिगृह्यन्ते । सह बायेनार्थेन वर्तत इति सवायार्थः । कुतः सम्भावात्सनामत्वाखेतुशब्द- वर । शय्दस्यार्थविधा पहिरों घटाघाकारः रवाों वा । तथाचोक्तम् । स्वार्थमभिधाय काऽप्यन्यत्र वर्तत इति ॥ यद्येवं भ्रान्तिसंशा यास्ताः कथं । ता अपि वैरात्मस्वरूपैरफायाधैर्माया स्वप्मेन्द्रजालादिः । भ्रान्तिसंशाः स्वार्थवत्यः प्रमाया उक्तियथा प्रमाणशब्दः प्रमाणाभासशब्दश्च यथा स्वार्थ- प्रतिपादकः। अथवा सम्यक् शायतेऽनयेति सम्शा तस्या भावः सन्शात्वम् ।। तस्मादेशामर्शकत्वादन्येषामपि ग्रहणं प्रमाणतनिवन्धनविचाराभ्यासदानफ. लादीनाम् । एतेषामन्यथाऽनुपपत्तेजीवादिशब्दः सवासार्थः। अन्यथा एतेषाम- भावः स्यात् ॥ सिसाध्यतापरिहारबारेणामुमेवार्थ प्रकटयन्नाह- बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो वुष्यादिवाचिकाः। तुल्या पुण्यादिबोधाश्च त्रयस्तत्प्रतिविम्बकाः ॥ ८५॥ वृत्तिः-बुद्धिश्च शब्दश्चार्थश्च बुद्धिशब्दार्थास्तेषां संशास्तिस्रलिसंख्याः ।। बुद्धिरादियेषां ते युद्धयादयस्तेषां वाचिकाः प्रतिपादिकाः । तुल्याः समाः केन बुद्धयायर्थप्रतिपादकत्वेन। बुद्धयादीनां वोधाश्च शानानि च बुद्धयाद्यर्थस्य प्रति- निधययस्तेऽपि तुल्या अर्थप्रतिपादकत्वेन ॥ किमुकं भवति-गौरिति जानीतेतीयं युद्धेर्वाचिका संज्ञा। तस्याश्च श्रोतुः पुरुपस्य स्वाथे बोधे वोधको बोधो भवति । गौरित्याहतीयंशब्दस्य रवस्यैव रूपस्य वाचिका संशा । तस्याश्च श्रोतुः पुरुपस्य स्वार्थ शब्दस्य स्वस्मिन्नेव रूपे बोधको वोधो भवति । गामा- नय दोहार्थमितीयं संशा वासार्थस्य वाचिका भवति । तस्याश्च श्रोतुः स्वार्थे सालादिमति पिण्डे चोधको बोधो भयति । ततो बुद्धवाधर्थवाचकत्वेन संज्ञा- रितस्त्रः समा एव युद्धयादीनां शब्दार्थानां प्रयोऽपि बोधका वेदका बोधा बुख्यादिशब्दार्थप्रतिभासकाश्च समा एव तत्प्रतिमासकत्वेन ॥ पुनरप्याशक्य तमेव वायार्थ प्रतिपादयन्नाह- २५४ सनातनजैनग्रन्थमालायाम् [वृत्ति- . वक्तृश्रोतृप्रमाणां वाक्यवोधप्रमाः पृथक् । भ्रान्तावेव प्रमाभ्रान्तौ वाद्याथी तादृशेतरौ ॥ ८६ ॥ वृत्तिः--वक्ता च श्रोता च प्रमाता च वनोत्प्रमातारस्तषां वक्तृश्रोतृप्रमातॄणां वाचकनावकज्ञापकानां । यथासंख्यं वाच्यं च बोधश्च प्रमा च वाक्यवोधप्रमाः शब्दशाब्दप्रत्यक्षानुमानानि । पृथकव्यवस्थितलक्ष. णानि । भ्रान्तावेव यदि भ्रान्तिस्वरूपे व्यवतिष्ठेरन् न तु वर्तेरनिति वाक्य- शेषः । ततः को दोषः स्यादित्याह--प्रमानान्तौ सर्वेषां प्रमाणानां वाह्यापे. क्षायां वैविध्ये सति प्रमाणयोः प्रत्यक्षाप्रत्यक्षयोः प्रत्यक्षानुमानयोर्वा भ्रान्ती भ्रान्तिस्वरूपतायां सत्यामपि । वाह्यार्थी बाह्यविशेषौ दृश्यानुमेयाख्यो। तादृशात्प्रस्तुताभान्तस्वरूपादितरावन्यावभ्रान्तस्वरूपौ क्रमाक्रमानेकान्तात्मको सन्तौ विभावनीयौ स्याताम् ॥ अथ वा प्रमाभ्रान्तौ वाद्याथी भ्रान्तावेव तत इदं नान्तमिदमभ्रान्तमिति विचारोऽनर्थकः स्यात् ।। बाह्याथें सति प्रमाणमप्रमाणं च युज्यते नान्यथाऽत आह- बुद्धिशब्दप्रमाणत्वं वाक्यबोधप्रमाः पृथक् । सत्यानृतव्यवस्थैवं युज्यतेऽर्थात्यनाप्तिपु ॥ ८ ॥ वृत्तिः-बुद्धिश्च शब्दश्च तयोः प्रामाण्यमर्थप्रतिपादकत्वं वाद्याथें सति भवत्यसत्यविद्यमाने च न भवति । सत्यमवितथमनृतं वितथं तयोर्व्यवस्था अर्थस्याप्त्यनाप्तिपु अर्थग्रहणाग्रहणेषु सत्सु युज्यते नान्यथा । वचनस्य तदा सत्यता भवति यदा वाह्याथै तादृग्भूतं प्रापयति । अन्यथाऽसत्यम् ॥ तस्य वाह्यार्थस्य कथं प्राप्तिर्भवतीति पृष्टे कश्चिदाह दैवादेव, कश्चित्पुनः पौरुपादेवैतत्पक्षद्वयं विघटयन्नाह- दैवादेवार्थसिद्धिश्वेदेवं पौरुषतः कथम् । दैवतश्चेदनिर्मोक्षः पौरुपं निष्फलं भवेत् ॥ ८८ ॥ वृत्तिः-अर्थस्य कार्यस्य प्रशस्ताप्रशस्तशरीरेन्द्रियादेस्तथा ज्ञानसुखादे- रज्ञानदुःखादेर्वा सिद्धिनिष्पत्तिर्यदि दैवादेव सर्वथा स्यात् तदेवं कर्माख्यं पौरुषान्मनोवाकायव्यापारलक्षणाच्छुभाशुभरागादिप्रायापुरुषकारात्तहिं कथं - समेता.] आप्तमीमांसा। २५५ स्यात् । अथ देवान्तरादेव दैवं स्यादित्यत्रोच्यते । देवतश्चैयदि देवादेव देवं स्यात्तदानीमनिमोक्षोऽसिद्धिः स्यात् । देवस्य कारणभूतस्य कार्यभूतस्य च सततं सन्ततितो विच्छेदं प्रत्युपायासम्भवात् तदा दानशीलप्रव्रज्यार्थः कृष्या- पर्यश्च पुरुषकारोऽप्यनर्थः स्यात् ।। पौरुपादेव सिद्धिश्चेत् पौरुपं देवतः कथम् । पौरुपाचेदमोघं स्यात् सर्वप्राणिपु पौरुपम् ॥ ८९ ॥ वृत्तिः-अथ पौरुपादेव सिद्धिश्चेत् सर्वथा यदि पौरुपमात्रादेवार्थसिद्धिः स्यात् । तत्पौरपं देवदिवप्रामाण्यात्कथं सफलं स्यात् । तथाहि समानमेव सहमानानां केनिदर्थेषु युज्यन्ते केचिन्न प्रसिद्धमेतत् । अन्यथा दैवमन्तरण पौरुपादेव पीरुपस्य प्रवृत्ती सत्यां सर्वप्राणिपु पौरुपममोधमेव सफलमेव स्यात् दैवहीनानामपि तद्भवति ॥ उभयकान्तेऽपि न युक्तम्- विरोधान्नोभयेकात्म्यं स्याद्वादन्यायविद्विपाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥ ९० ॥ वृत्तिः-उभयदोपप्रसंगात् । अवाच्यत्वदोपाच ॥ देवात्केवलापौरपाच केवलादर्थसिद्धिर्यदि न भवति कथं तहिं स्यादत आह- अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदेवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुपात् ॥ ९१ ॥ वृत्ति:-बुद्धिर्विचारः पूर्व प्रथम कारणं यस्याः सा तथा न बुद्धिपूर्वा अबुद्धिपूर्वी सा चासावपेक्षा च आलोचनं च सा तया तस्यामतर्कितोपस्थि- तन्यायेनेत्यर्थः । इष्टमभिलपितं सुखादि अनिष्टमनमिलपितं दुःखादि । खंदैवतः स्वपुण्यपापफलात्पूर्वजन्मनिबद्धकर्मणः ।. यद्यपि पौरुपमा विद्यते तथापि मुख्याभावो विवक्षितो नात्यन्ताभावः ॥ तथा बुद्धिपूर्वव्यपेक्षायां वि- चारपूर्वकत्वेनानुष्ठानादिष्टमनिष्टं च स्वपौरुषात्स्वकीयपुरुषकारात्। अत्रापि दै.

२५६ सनातननग्रन्थमालायाम् [वृत्ति- वमप्रधानत्वेन विवक्षित नात्यन्ताभावत्वेन । परस्परापेक्षयव कार्यसिद्धिर्यतो देव आत्मा तस्य कर्म दैवमिति ॥ ननु परदुःखे पापं तस्यैव सुखे पुण्यं स्वदुःखात्पुण्यं स्वतुखात्पापमित्येवं कैश्चिदभाणि न देवादिति तन्मतनिराकरणायाह- पापं ध्रुवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतनाकपायौ च बध्येयातां निमित्ततः ॥ १२ ॥ वृत्तिः-परेऽन्यस्मिन्प्राणिनि दुःखमात्रायदि पापं स्यात् । तस्मिन्नेव सुखमात्राच्च पुण्यं यदि स्यात्। तदानीमचेतनो विपशलादिरकपायो वीतराग: तावपि वध्येयातां कर्मवन्धस्य कर्तारौ भवतः। निमित्तत्वात् । प्रत्ययमन्तरेणापि भावप्रधानत्वान्निर्देशस्य ॥ तथा- पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि । वीतरागो मुनिर्विद्वांस्ताभ्यां युज्यानिमित्ततः ॥ ९३ ॥ वृत्तिः-स्वस्मिन् दुःखात् ध्रुवं निश्चितं पुण्यं यदि स्यात्तस्मिन्नेवात्मनि सुखाद्धेतो वं पापं च यदि स्यात् । ततः किं स्यात् । ताभ्यां वीतरागो मुनियुज्यावद्धो भवेत् । कुतो निमित्तत्वात् ।। अथोभयैकान्तस्तद्भयादिभ्यते तत्रापि दोप एव विरोधात् । नाप्यवाच्यत्वं विर विरोधान्नोभयेकात्म्यं स्याद्वादन्यायविद्विपाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९४ ॥ वृत्ति:-सुगमम् ॥ कथं तात आह- विशुद्धिसंक्लेशाङ्गं चेत् खपरस्थं सुखासुखम् । पुण्यपापास्रवौ युक्तौ न चेद्वयर्थस्तवाहतः ॥ ९५ ॥ वृत्तिः-स्व आत्मा परोऽन्यस्तयोस्तिष्ठतीति स्वपरस्थं सुखं चासुख च ५ धात समेता.] आप्तमीमांसा। २५७ सुखासुखं जीवप्रदेशावादनानासादनं । विशुद्धिः प्रमोदादिशुभपरिणामः । यद्यपि निरवशेषरागादिविरहलक्षणायां विशुद्धौ विशुद्धिशब्दो वर्तते तथापि कुशलशब्दवत् शुभपरिणामादौ वर्तमानो विशुद्धिशब्दो गृह्यते संकेश आर्त- रौद्रध्याने तयोरगं कारणं विशुद्धिसंछेशाङ्गम् । चेयदि स्वपरस्थं सुखासुखं विशुद्धिसंक्लेशालम्बनं यदि भवति तदा पुण्यं च पापं च तयोरास्रवौ युक्तौ । न चेदेवं ययेवं न स्यात् । पुण्यासवः पापात्रवश्च व्यों निष्फलः । अर्हतो वीतरागरय तवेव वा शुष्ककुड्यनिपतितचूर्णमुष्टिवत् बन्धाभावात् । एतेन मस्करिपूरणमतं निराकृतं भवति । सिद्धेषु संक्लेशकारणाभावात् ॥ अथ पुण्यपापासवकारणमज्ञानमिष्यते चेत्तन्मतनिराकरणायाह- अज्ञानाचे वो बन्धो ज्ञेयानन्त्यान्न केवली । ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद्वहुतोऽन्यथा ॥ ९६ ॥ वृत्तिः-यघशानाजाज्यस्वरूपाबन्धो ध्रुवो न केवली मुक्तः । कुतो शेयानन्त्यात्प्रमेयस्यानन्त्यं यतः । अथ कदाचित् ज्ञानस्तोकादोधनिहाँसान्मो- क्षोऽभ्युपगम्यते चेबहुतो विपुलादशानापन्यथाऽन्येन प्रकारेणातिशयनेन विमोक्षः स्यादिति सम्बन्धः । अथवा प्रागुक्तान्मोक्षप्रकारादन्येन प्रकारेणापि सह जन्मनो योगः स्यात् । तथा च सति न बन्धो नापि मोक्षस्तस्य विचाराक्षमत्वात् ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विपाम् । भवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥ ९७ ॥ वृत्तिः-उमौकान्तावक्तव्यमपि दुष्टं विरोधात् ॥ कथं तहि तौ स्यातामत माह- अज्ञानान्मोहतो बन्धो नाज्ञानाहीतमोहतः । ज्ञानस्तोकाच मोक्षः स्यादमोहान्मोहितोऽन्यथा ॥ ९८ ॥ वृत्तिः-अज्ञानात्पुनरपि किं विशिष्टात् मोहतो मिथ्यात्वरूपाइन्धो भवति विनष्टमिध्यात्वरूपादशानात्पुनर्न बन्धो भवति ज्ञानस्तोकादपि मोक्षः स्थायद्यमोहाद्भवेत् यदि पुनमोहितः स्यात्तस्य मोक्षाभाव एव ।। .

२५८ सनातनजैनप्रन्थमालायाम् [वृत्ति- - अथ कदाचिन्मनुपे न दैवान्नापि पौरुपान्न झानान्नाप्यशानात किंतु ईश्व- र प्रेरणादित्यस्य मतस्य निराकरणायाह-अथवा कामादीनां कर्मणश्च वैचित्र्य- मनादित्वं च दर्शयितुमाह--- कामादिप्रभवश्चित्रः कर्मवन्धानुरूपतः । तच कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ ९९ ॥ वृत्तिः-कामादीनां रागादीनां प्रभव उत्पादः कार्यरूपश्चित्रो नानाप्र- कारः । कर्मवन्धानुरूपतः शानावरणादिकर्मणः कारणाद्भवति । तच्च कर्ग ज्ञानावरणादिकं स्वहेतुभ्यो भवति कुत एतदनाविन्धवन्धहेतुसन्तानो वीजां- कुरवत् न पुनरीश्वरादेस्तस्यावस्तुत्वात् विरागाक्षमत्वेन । ते भगवतोऽहतो जीवा द्विप्रकाराः संसारिणः सन्ति। कुतः शुद्धयशुद्धितो भन्याभन्यशक्तः । अत एव न सर्वेषां मोक्षः । एतेनान्यदपि मतान्तरं निराकृतं वेदितव्यम् ॥ शुद्धयशुद्धिस्वरूपप्रतिपादनायाह- शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् ॥ साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥ १०॥ वृत्तिः-शुद्धयशुद्धी ये शक्ती भव्याभव्यत्वरूपे ते अनादितत्त्वार्थश्रद्धा- नाश्रद्धानयोग्यके कटकेतरमुद्गपाक्यापाक्यशक्तिवत् तयोर्भव्यत्वाभव्यत्वशक्त्यो- र्व्यक्ती तत्त्वार्थश्रद्धानप्रियधर्मत्वादिपरिणत्यपरिणती साधनादी। कुतोऽयं शक्ति. भेदोऽतर्कगोचरः स्वभावो यतः ॥ एवं तावत्प्रमाणपरतन्त्रप्रमेयविचारः कृतः । अधुना प्रमाणतत्त्वनिरूपणा. र्थमाह-- तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥ १०१॥ वृत्तिः-~-तत्त्वज्ञानं परार्थवोधः पुनरपि कथंभूतं युगपत्सर्वार्थमवभासत इति युगपत्सर्वभासनमक्रमेण परिच्छेदात्मकमित्यर्थः तत्प्रमाणमेव । क्रममावि च यज्ज्ञानं छद्मस्थीयं चक्षुरादिकं चकारादक्रमभावि च दीर्घशष्कुल्यादिभक्षणे सम्भवात्। सर्वथासदसदेकानेकनित्यानित्यादिसकलैकान्तप्रत्यनीकानेकान्ततत्त्व - .

समेता.] आप्तमीमांसा। २५९ - विषयः स्याद्वादो जातियुक्तिनिवन्धनो वितको नयस्ताभ्यां संस्कृतं प्रमाणगोचरं नीतं तदपि प्रमाणं स्याद्वादनयसंस्कृतं यतस्ते तव ।। प्रमाणफलं दर्शयन्नाह- उपेक्षा फलमाद्यस्य शेपस्यादानहानधीः । पूर्व वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥ १०२ ॥ वृत्तिः- आधस्य प्रमाणस्य केवलज्ञानस्य फलमुपेक्षा रागमोहाभावः। शेपस्य प्रमाणस्य छमस्थीयशानस्य, आदानं ग्रहणं हानं त्यागस्तयोर्बुद्धिः त- त्फलं पूर्व वा उपेक्षेत्यर्थः । सामान्यापेक्षायां नपुंसकलिङ्गता। पूर्वा वेति पाठान्तरं वा । अज्ञाननाशः फलं समानतेत्यर्थः । सर्वस्यास्य मत्यादिभेदमि- नस्य हिताहितभेदभिन्ने स्वगोचरे स्वविपये वर्तमानस्यात्सर्गिकं फलमशानना. श इत्युक्तम् ॥ प्रस्तुतस्याद्वादाख्यपरार्थसाधनसमर्थनार्थमाह- वाक्येप्वनेकान्तद्योती गम्यम्प्रतिविशेपकः । स्थानिपातोऽर्थयोगित्वात्तव केवलिनामपि ॥ १०३ ॥ वृत्तिः- पदानां परस्परापेक्षाणां निरपेक्षाः समुदाया वाक्यानि तेषु 'वाक्येष्वनेकान्तं द्योतयति प्रकटयतीति अनेकान्तयोती । स्याच्छब्दो निपा- तोऽव्ययं । गम्यमभिधेयमस्ति घट इत्यादिवाक्येऽस्तित्वादि तत्प्रतिविशेषकः समर्थकः । अथवा गम्यं हेयादेयभेदभिन्नं वस्तु यथा यदवस्थितं तथैव तस्य विशेषकः । अर्थस्य तत्तदात्मकस्य योगित्वं घटनं तस्मादन्येषां पुनर्धर्माणां गुणीभूतत्वात् । तव भवत एतदुक्तं केवलिनां श्रुतकेवलिनां च अपिशब्दा- त्तच्छिष्यप्रशिष्याणां च नान्येषां तथाभूतस्य वस्तुभावात् ॥ पुनरपि तदेव समर्थयति- स्थाद्वादः सर्वथैकान्तत्यागाकिंवृत्तचिद्विधिः । ससभङ्गग्नयापेक्षा हेयादेयविशेषकः ॥ १०४ ॥ वृत्तिः-स्याद्वादोऽर्थप्रकरणादीना घटादिशब्दार्थविशेषस्थापनहेतूनाम- नुकूलः। कुतः सर्वथैकान्तत्यागात्तेपामर्थप्रकरणादीनां प्रतिकूलस्यैकान्तरय त्या- .

-we-.- २६० सनातननग्रन्थमालायाम् [ति- - - गात् । अथ कथम्प्रकारः रयाबादः किंवृत्तचितिथिः किमो वृत्तं किं निष्पन्न वृत्तं किंवृत्तं च तच्चिच्च किंवृत्तचित् तदेव विधिः प्रकारो यस्य कचित् कुतश्चिदित्यादि । सप्तभङ्गाश्च ते नयाश्च तानपेक्षत इति स्यादरित स्यानास्त्यादि। हेयादेययोर्विशेपकः गुणमुख्यकल्पनया॥ स्याद्वादकेवलज्ञानयोः कथधित्सामान्यं दर्शयताह- स्थाद्वादकेवलज्ञाने सर्वतत्वप्रकाशने । भेदः साक्षादसाक्षाच्च गवस्त्वन्यतमं भवेत् ॥ १०५॥ वृत्तिः- सर्वाणि च तानि तत्त्वानि च जीवाजीवादीनि तानि प्रकाशत इति सर्वतत्त्वप्रकाशने के ते स्याद्वादश्च केवलशानं च ते द्वे प्रमाणे । तयो- मध्येऽन्यतमं परैः परिकल्पितमवस्तु भवेद्यतः कथं तयोमेंदः साक्षात्प्रत्यक्षा- दसाक्षादप्रत्यक्षात् ॥ प्रमाणं चर्चितमथ को नयो नामेत्याह- सधर्मणैव साध्यस्य साधादविरोधतः । स्थाद्वादप्रविभक्तार्थविशेपव्यञ्जको नयः ॥ १०६ ॥ वृत्ति--समानो गुणो यस्य स सधर्मा तेन सधर्मणैव सपक्षेणैव एक्का- राद्विपक्षनिराकरणं साध्यस्यानित्यत्वादेः शक्याभिप्रेताप्रसिद्धस्य । सधर्मणो भावः साधर्म्य तस्मात्साधात् । स्याद्वादः श्रुतशानं तेन प्रविभक्तो विष- यीकृतोऽर्थस्तस्य विशेषो नित्यत्वादिस्तन्यशक: प्रकटको घोतको नयो युक्ति- तोऽर्थपरिग्रहः । इत्यनेनान्वयव्यतिरेकपक्षधर्मा उक्ताः । अविरोधादित्यनेना- न्यथानुपपत्त्येकलक्षणो हेतुः प्रदर्शितः । किमुक्तं भवति- अन्तर्व्याप्तिमन्तरेण विलक्षणो हेतुर्न गमक इति ॥ अथ को नयप्रमाणयोर्विशेषोऽनेकान्तप्रतिपत्तिः प्रमाणं, एकधर्मप्रतिपत्तिर्नयः ॥ तद्विषयस्य द्रव्यस्य स्वरूपप्रतिपादनार्थमाह- नयोपनयैकान्तानां त्रिकालानां समुच्चयः । अविभ्राटू भावसम्बन्धी द्रव्यमेकमनेकधा ॥ १०७ ॥ वृत्तिः~नया नैगमादयःसप्त उपनयास्त दोपभेदार्थपर्यायास्तएवैकान्ताः ..

समेता. ] आसमीमांसा । २६१ - । - प्रधानधर्मास्तद्वायत्वात्तन्यपदेशः । त्रयः काला विपयो येपां ते तथाभूतास्तेषां समुच्चय एकस्मिन्नवस्थानम् । अविभाट् अपृथक् भावसम्बन्धः सत्तासम्बन्धो यस्य स तथाभूतस्तद्रव्यमेकमभेदापेक्षया भेदापेक्षया पुनरनेकप्रकारम् ॥ तदर्थ चोपपरिहारायाह. मिथ्यासमूहो मिथ्या चेन्न मिथ्र्यकान्तताऽस्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥ १०८ ॥ वृत्तिः-नित्यानित्यारितत्वादीनां मिथ्याधर्माणां योऽयं समूहः समुदायः स मिथ्याऽसत्यरूप इति चेदेवं भवतोऽभिप्रायः। मिथ्येत्येकान्तः संग्रहस्तस्य भावो मिथ्यकान्तता सा नोऽस्माकं नास्ति न विद्यते । कुतो यतो निरपे. क्षा नया मिथ्या परस्परमपेक्षा घटना तस्या निर्गताः पृथग्भूता धर्मा व्यली- काः। सापेक्षाः परस्परसम्बद्धास्ते नया वस्तु परमार्थतत्त्वं यतोऽर्थकृत क्रमा. क्रमाभ्यामर्थकारित्वादतो न चोधस्यावतारः ॥ पुनरपि तमर्थ समर्थयनाह- नियम्यतेऽर्थों वाक्येन विधिना वारणेन वा । तथाऽन्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥ १०९॥ वृत्तिः-वाक्येन, अस्ति घटो नास्ति वेति विधिप्रतिपेधरूपेणार्थो नियम्यते नियन्च्यते विशेषविपयं नीयते तस्मात्सोऽर्थस्तथा च तदतदात्मक इत्यभ्युप- गन्तव्यः । यदि पुनरन्यथाऽन्येन प्रकारेणकान्तरूपेणाभ्युपगम्यते तदानीगवि. शेयत्वमवस्तुत्वं रयादेकधर्माकान्तत्वेन वस्त्वस्ति यतः ॥ वाक् निविषया न भवतीत्यस्य निराकरणायाह- तदतद्वस्तु वागेपा तदेवेत्यनुशासति । न सत्या स्थान्मृपावाक्यैः कथं तत्वार्थदेशना ॥ ११ ॥ वृत्तिः-एपा वागतद्वचनं सर्वाभ्युपगतं तच्चातच तदतत् अस्तित्वना- रितत्वात्मकं वस्तुतत्त्वं तदेव तादृग्भूतमेव नैकान्तात्मकमेवेत्येवमनुशासति कथयति प्रतिपादयति यदि न सत्या न सद्भूता स्याद्भवेत् । एवं सति मृपा- वानयानि असत्यरूपाणि वाक्यानि स्युः । तथा सति तत्त्वार्थस्य परमार्थस्य - .

२६२ सनातननग्रन्थमालायाम् [वृत्ति- प्रमाणहेतुफलप्रतिपादकस्य येयं देशना कथनं परप्रतिपादन कथं स्यात् किन्तु न भवेदेव। तथाच विशीण प्रमाणादिलक्षणवर्त्म ।तरमाधरसत्तदनेकान्तात्मक हेतुज्ञानं प्रमाणवदिति वचनरय प्रामाण्यमेपितव्यम् ॥ पुनरपि वचोलक्षणमाह- वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कुशः। आह च स्वार्थसामान्य तादृग्वाच्यं खपुप्पवत् ॥ १११ ॥ वृत्तिः-वाचः स्वभाव आत्मीयं रूपमन्येषां वाच्यत्वेनाभिप्रेततराणां वाग्वचनं तस्या अर्थस्तस्य प्रतिषेधो निराकरणं तरिमन् निरङ्कुगः पटादीनां निराकरणं करोति स्वार्थ च प्रतिपादयति अतोऽनेकान्तो, यदि पुनः सर्वथा रवस्य ज्ञानार्थस्य वाह्यार्थस्य सामान्यं परापररूपमपोहं चार्वाक आह आचष्ट इत्यभ्युपगमः स्यात् तादृगवाच्यं विशेपरहितं सामान्यं खपुष्पवत् गगनकुलु- मसमानमतो न किञ्चित्स्यात् ।। ननु सामान्यमेव वचोऽर्थों यदुत विशेपे वर्तते सामान्यऽयक्रियाभावादिति संसर्गवोधमतं तनिराकरणार्थमाह-- सामान्यवाग्विशेपे चेन्न शब्दार्थो मृपा हि सा । अभिप्रेतविशेपातः स्यात्कारः सत्यलान्छनः ॥ ११२॥ वृत्तिः-सामान्यसम्बन्धिनी वाक् विशेपे वर्तते विशेषमाचष्टे तत्त्वार्थ- क्रियाभावात् चेदेवं भवतोऽभिप्रायः तर्हि शब्दस्यार्थोऽभिधेयः कुतः तादृग्गूता वाक् मृपा अलीका सा । यस्मान्न छन्यस्य वाचकोऽन्यमाह घटशब्दः पटार्थ. स्य न कदाचिदपि प्रतिपादकः नाप्यपोहोऽस्यार्थोऽपोहो हि परन्यावृत्तिः सा तुच्छा ततो भेदक्षणिकैकान्तपक्षे न वाच्यं नापि वाचको नानुमान नाप्यागमः सर्वाभावोऽतः स्यात्कारः स्याद्वादः सत्यलान्छनः सत्यभूतोऽभि- प्रेतविशेषस्यानिमित्तमिष्टार्थप्राप्तिहेतोराश्रयणीयः सर्वदोपकलकातीतत्वात् । तस्यैव स्वरूपमाह- विधेयमीप्सितार्थानं प्रतिपेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥ १३ ॥ - .

समेता.] भाप्तमीमांसा। २६३ - वृत्तिः-विधेयमस्तीत्यादि प्रतिषेध्यस्य नास्तित्वादेरविरोधेनाविरुद्ध यत्तदीप्सितार्थस्याभिप्रतकायस्याचं कारणम्। तथैवादेयं वस्तु ऐयात्त्याज्यादवि. द्धन् । इत्यनेन प्रकारेण स्याद्वादस्य संस्थितिः सर्वप्रमाणरविरुद्धा सिद्धिरिति प्रमाणहेतुदृष्टान्ताभासाः परवादिपरिकल्पितप्रमाणहेतुदृष्टान्ता वेदितव्याः। कुत तलक्षणाभावात् । वस्त्वपि तैर्यत्परिकल्पितं तदपि नास्ति लक्षणाभावात् । तरमापदनेकान्तात्मकं तत्सत्यं लक्षणयोगादिति ।। शास्त्रार्थोपसंहारकारिकामाह- इतीयमाप्तमीमांसा विहिता हितमिच्छता । सम्यलिथ्योपदेशार्थविशेपप्रतिपत्तये ॥ ११४ ॥ वृत्तिः-इत्यनेन प्रकारेणेयं प्रत्यक्षतश्च योऽयमुपदेशस्तस्यार्थः स्वरूप तस्य विशेपो याथात्म्यं तस्य प्रतिपत्तिरवगमस्तस्यै सम्यगुपदेशोऽयं मिध्येति सर्वशेन शायते यरमात् ॥ कृतकृत्यो नियूढात्त्वप्रतिश आचार्यः श्रीमत्समन्तभद्रकेसरी प्रमाणनयती- क्ष्णनखरदंष्टाविदारितप्रवादिकुनगमदविलकुम्भिकुम्भस्थलपाटनपरिदमाह- जयति जगति केशावेशप्रपञ्चहिमांशुमान् विहतविपमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मताम्बुनिधेलवान स्वमतमतयस्ती• नाना परे समुपासते ॥ १५ ॥ वृत्तिः यस्य भट्टारकास्य मताम्बुधेरागमोदधेलवान् कणान् अधृष्टानख- रीकृतान् परे नाना तीर्थ्याः प्रवादिनः सुगतादयः स्वमते मतियेषां ते स्वम- तमतयः कृतात्मयुद्धयः समुपासते सेवन्ते सोऽजो जातिजरामरणरहितो यति- पतिः प्रधानस्वामी जयति त्रैलोक्यस्वामित्वं करोति वाह्याभ्यन्तरशत्रून् निह- त्य जयति लोके । पुनरपि किंविशिष्टः शेशस्य दुःखस्यावेशः कदर्थना तस्य प्रपथो विस्तारः स एव हिमं प्रालेयः तस्यांशुमानादित्यः। एकान्त एव ध्वान्तं तमः विषमं च तदेकान्तध्वान्तं च विपमैकान्तध्वान्तं प्रमाणं च नयाश्च प्रमाणनया उत्तालक्षणा विहतं निराकृतं विषमैकान्तध्वान्तं यस्ते २६४ सनातनजैनग्रन्थमालायाम् [वृत्ति- तथाभूतास्ते च ते प्रमाणनयाश्च त एवांशवः किरणास्ते विद्यन्ते यस्य स तधाभूत इति यतिपतेर्विशेषणम् ॥ श्रीमत्समन्तभद्राचार्यस्य त्रिभुवनलब्धजयपताकस्स प्रमाणनयच. क्षुपः स्याद्वादशरीरस्य देवागमाख्यायाः कृतेः संक्षेपभूतं विवरणं कृतं श्रुतविस्मरणशीलेन वसुनन्दिना जडमतिनाऽऽत्मोपकाराय ।। समन्तभद्रदेवाय परमार्थविकल्प (ल्पि)ने । समन्तभद्रदेवाय नमोऽस्तु परमात्मने ॥१॥ सुखाय जायते लोके वसुनन्दिसमागमः ॥ तस्मात् विसेव्यतां भव्यैर्वसुनन्दिसमागमः ॥ २ २॥ इति श्रीवसुनन्याचार्यकृता देवागमवृत्तिः समाप्ता।

अथ समन्तभद्रस्वामिविरचितं युक्त्यनुशासनम् । (१२) कीया महत्या भुवि वर्द्धमानं त्वां वर्द्धमानं स्तुतिगोचरत्वं । निनीपयः सो वयमय वीरं विशीर्णदोपाशयपाशवन्धम् ॥ ॥ याथात्म्यमुलक्ष्य गुणोदयाख्या लोके स्तुति रिगुणोदधेस्ते । भणिठमप्यंशमशमुवन्तो वक्तुं जिन त्वां किमिव स्तुयाम ॥ २ ॥ तथापि वैयात्यमुपेत्य भक्त्या स्तोताऽसि ते शक्त्यनुरूपवाक्यः । इप्टे प्रमेयेऽपि यथास्वशक्ति किनोत्सहन्ते पुरुषाः क्रियाभिः॥३॥ वं शुद्विशत्तयोरुदयस्य का तुलाध्यतीत जिन शान्तिरूपां। भवापिय ब्रह्मपथस्य नेता महानितीयत्प्रतिवक्तुमीशाः ॥ ४ ॥ कालः कलिर्वा कलुपाशयो वा श्रोतुः प्रवक्तुर्वचनानयो वा। स्वच्छासनकाधिपतित्वलक्ष्मीप्रभुत्वशक्तेरपवादहेतुः ॥ ५ ॥ दयादमस्यागसमाधिनिष्ठं नयनमाणप्रकृताअसाथै । अधुप्यमन्यैरखिलैः प्रवादर्जिन त्वदीयं मतमद्वितीयं ॥ ६ ॥ अभेदभेदात्मकमर्थतत्वं तव स्वतन्त्रान्यतरत् खपुप्पम् । अवृत्तिमरवारसमवायवृत्तेः संसर्गहानेः सकलार्थहानिः ॥ ७ ॥ भावेपु नित्येपु विकारहानेने कारकव्यापृतकार्ययुक्तिः । न बन्धभोगी न च तद्विमोक्षः समन्तदोपं मतमन्यदीयं ॥ ८॥ अहेतुकत्वं प्रथितः स्वभावसस्सिन क्रियाकारकविभ्रमः स्यात् । आयालसिन्द्वेर्विविधार्थसिद्धिर्वादान्तरं किं तदसूयतां ते ॥ ९ ॥ येपामवक्तव्यमिहात्मतत्त्वं देहादनन्यत्वपृथक्त्वकृतेः ।

२६६ सनातनजैनग्रन्थमालायाम् तेषां ज्ञतत्वेऽनवधार्यतत्वे का बन्धमोक्षस्थितिरममेये ॥ १० ॥ हेतुर्न दृष्टोऽन्न न वाऽप्यदृष्टो योऽयं प्रवादः क्षणिकात्मवादः । न ध्वस्तमन्यत्र भवेद्वितीये संवानभिन्ने नहि वासनाऽस्ति ॥११॥ तथा न तत्कारणकार्यभावा निरन्वयाः केन समानरूपाः । असत् खपुष्पं नहि हेत्वपेक्षं दृष्टं न सिद्ध्यत्युभयोरसिद्धम् ॥ १२ ॥ नैवास्ति हेतुः क्षणिकात्मवादे न सनसन्वा विभवादकस्मात् । नाशोदयैकक्षणता च दुष्टा सन्तानभिन्नक्षणयोरभावात् ॥ १३ ॥ कृतप्रणाशाकृतकर्मभोगौ स्यातामसंचेतितकर्म च स्यात् । आकस्सिकेऽर्थे प्रलयस्वभावोमार्गो न युक्तोवधकश्च न स्यात् ॥१४॥ न वन्धमोक्षौ क्षणिकैकसंस्थौ न संवृतिः साऽपि मृपावभावा । मुख्याहते गौणविधिन दृष्टो विभ्रान्तदृष्टिस्तव दृष्टितोऽन्या ॥१५॥ प्रतिक्षणं भङ्गिपु तत्पृथक्त्वान्न मातृघाती खपतिः स्वजाया। दत्तग्रहो नाधिगतस्मृतिर्न न क्त्वार्थसत्यं न कुलं न जातिः ॥१६॥ न शास्तृशिष्यादिविधिव्यवस्था विकल्पवुद्धिर्वितथाऽखिला चेत् । अतत्त्वतत्त्वादिविकल्पमोहे निमजतां वीतविकल्पधी का ॥ १७ ॥ अनथिका साधनसाध्यधीश्चेद्विज्ञानमात्रस्य न हेतुसिद्धिः । अथार्थवत्त्वं व्यभिचारदोषो न योगिगम्यं परवादिसिद्धम् ॥१८॥ तत्त्वं विशुद्धं सकलैर्विकल्पैर्विश्वामिलापास्पदतामतीतं । न स्वस्थ वेचं न च तनिगधं सुषुल्यवस्थं भवदुक्तिबाह्यं ॥ ११ ॥ मूकात्मसंवेद्यवदात्मवेद्यं तन्म्लिष्टभाषाप्रतिमप्रलापं । अनङ्गसंज्ञं तदवेद्यमन्यैः स्यात्त्वविषां वाच्यमवाच्यतत्त्वं ॥ २० ॥ अशासदांसि वचांसि शास्ता शिष्याश्च शिष्टा वचनैर्न ते तैः । अहो इदं दुर्गतमं तमोऽन्यत् त्वया विना श्रायसमार्य किं तत् २१ प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्गगम्यं न तदर्थलिङ्गम् । वाचो न वा तद्विषयेण योगः का तद्गतिः कष्टमशृण्वतां ते ॥२२॥ रागायविद्याऽनलदीपनं च विमोक्षविद्यामृतशासनं च ।

युक्त्यनुशासनम् । २६७ न भिद्यते संवृतिवादिवाक्यं भवत्प्रतीपं परमार्थशून्यं ॥ २३ ॥ विद्याप्रसूत्यै किल शील्यमाना भवत्यविद्या गुरुणोपदिष्टा । अहो त्वदीयोक्त्यनभिज्ञमोहो यजन्मने यत्तदजन्मने तत् ॥ २४ ॥ अभावमात्रं परमार्थवृत्तेः सा संवृतिः सर्वविशेपशून्या । तस्या विशेषौ किल बन्धमोक्षौ हेत्वात्मनेति त्वदनाथवाक्यं॥२५॥ व्यतीतसामान्यविशेपभावाद्विश्वाभिलापार्थविकल्पशून्यं । खपुष्पवत् स्यादसदेव तत्त्वं प्रबुद्धतत्वाद्भवतः परेपां ॥ २६ ॥ अतत्स्वभावेऽप्यनयोरुपायाद्गतिर्भवेत्तौ वचनीयगम्यौ । सम्बन्धिनौ चेन विरोधि दृष्टं वाच्यं यथार्थ न च दूपणं तत् ॥२७॥ उपेयतत्त्वानभिलाप्यतावदुपायतत्त्वानभिलाप्यता स्यात् । अशेपतत्त्वानभिलाप्यतायां द्विपां भवथुत्यभिलाप्यतायाः ॥२८॥ अवाच्यमित्यत्र च वाच्यभावादवाच्यमेवेत्ययथाप्रतिज्ञम् । स्वरूपतश्चेत्पररूपवाचि स्वरूपवाचीति वचो विरुद्धं ॥ २९ ॥ सत्यानृतं वाप्यनृतानृतं वाप्यस्तीह किं वस्त्वतिशायनेन । युक्तं प्रतिद्वंब्यनुवन्धिमिश्र न वस्तु तादृक्त्वहते जिनेहक् ॥ ३० ॥ सहक्रमाद्वा विपयाल्पभूरिभेदेऽनृतं भेदि न चात्मभेदात् । मात्मान्तरं स्यानिदुरं समं च स्थाचानृतात्मानभिलाप्यता च ॥३॥ न सच्च नासच न दृष्टमेकमात्मान्तरं सर्वनिषेधगम्यं । दृष्टं विमिदं तदुपाधिभेदात् स्वमेऽपि नैतत्त्वदृपेः परेषां ॥ ३२॥ प्रत्यक्षनिर्देशवदप्यसिद्धमकल्पकं ज्ञापयितुं शक्यं । विना च सिद्धच लक्षणार्थो न तावकद्वेपिणि वीर सत्यं ॥३३॥ कालान्तरस्थे क्षणिके ध्रुवे वाऽपृथक्पृथक्त्वावचनीयतायां । विकारहानेन च कर्तृकार्ये वृथा श्रमोऽयं जिन विद्विषां ते ॥३१॥ मद्याङ्गवद्भूतसमागमे ज्ञः शस्यन्तरव्यक्तिरदैवसृष्टिः। इत्यात्मशिनोदरपुष्टितुष्टैर्निहींभयहीं मृदवः प्रलब्धाः ॥ ३५ ॥ दृष्टेऽविशिष्टे जननादिहेतौ विशिष्टता का प्रतिसत्वमेपां।

सनातननग्रन्थमालायाम् खभावतः किं न परस्य सिद्धिरतावकानामपि हा प्रपातः ॥३६॥ स्वच्छन्दवृत्तेर्जगतः स्वभावादुञ्चैरनाचारपथेवदोपं । निर्युष्य दीक्षासममुक्तिमानास्त्वदृष्टिवाह्या वत विनमंति ॥ ३७॥ प्रवृत्तिरक्तैः शमतुष्टिरिक्तैरुपेत्य हिंसाऽभ्युदयाङ्गनिष्ठा । प्रवृत्तितः शान्तिरपि भरूढं तमः परेषां तव सुप्रभातं ॥ ३८॥ शीर्पोपहारादिभिरामदुःखैवान्किलाराध्य सुखाभिगृद्धाः । सिध्यन्ति दोपापचयानपेक्षा युक्तं च तेषां त्वमृपिन येपां ॥ ३९॥ स्तोत्रे युत्तयनुशासने जिनपतेरिय निःशेपतः संप्राप्तस्य विशुद्धिशक्तिपदवीं काठां परामाश्रितां । निर्णीतं मतमद्वितीयममलं संक्षेपतोऽपाकृतं तद्वायं वितथं मतं च सकलं सद्धीधनैर्बुध्यतां ॥ ४० ॥ सामान्यनिष्ठा विविधा विशेपाः पदं विशेषान्तरपक्षपाति । अन्तर्विशेपान्तरवृत्तितोऽन्यत् सामान्यभावं नयते विशेपं ॥४१॥ यदेवकारोपहितं पदं तदखार्थतः स्वार्थमवच्छिनत्ति। पर्यायसामान्यविशेपसर्व पदार्थहानिश्च विरोधिवत्स्यात् ॥ ४२ ॥ अनुक्ततुल्यं यदनेवकारं व्यावृत्त्यभावानियमद्वयेऽपि । पर्यायभावेऽन्यतराप्रयोगस्तत्सर्वमन्यच्युतमात्महीनं ॥ ४३ ॥ विरोधि चाऽभेद्यविशेपभावात् तद्दयोतनः स्याद्गुणतो निपातः। विपाद्यसन्धिश्च तथाङ्गभावात् अवाच्यतानायसलोपहेतुः ॥ ४४ ॥ तथा प्रतिज्ञाशयतो प्रयोगः सामर्थ्यतो वा प्रतिषेधयुक्तिः । इति त्वदीया जिन नागदृष्टिः पराप्रपृष्या परधर्षिणी च ॥ ४५ ॥ विधिनिषेधोऽनभिलाप्यता च त्रिरेकशस्त्रिद्विश एक एव । त्रयो विकल्पास्तव सप्तधामी स्याच्छन्दनेयाः सकलेऽर्थभेदे ॥४६॥ स्थादित्यपि स्याद्गुणमुख्यकल्पैकान्तो यथोपाधिविशेपवीक्ष्यः। तत्वं त्वनेकान्तमशेपरूपं द्विधाभवार्थव्यवहारवत्त्वात् ॥ ४७ ॥ न द्रव्यपर्यायपृथग्व्यवस्थाद्धयात्म्यमेकार्पणया विरुद्धं । .

युक्तयनुशासनम्। २६९ धर्मश्च धर्मी च मिथस्त्रिधेमौन सर्वथा तेऽभिमतौ विरुद्धौ ॥४८॥ दृष्टागमाभ्यामविरुद्धमर्थप्ररूपणं युत्तयनुशासनं ते । प्रतिक्षणं स्थित्युदयव्ययात्मतत्त्वव्यवस्थं सदिहार्थरूपं ॥ १९ ॥ नानात्मतामप्रजहत्तदेकमेकात्मतामप्रजहच नाना । भङ्गाङ्गिभावात्तव वस्तु तद्यत् क्रमेण वाग्वाच्यमनन्तरूपं ॥ ५० ॥ मिथोऽनपेक्षाः पुरुपार्थहेतुन शा न चांशी पृथगस्ति तेभ्यः। परस्परेक्षाः पुरुपार्थहेतुदृष्टा नयास्तद्वदसि क्रियायां ॥५१॥ एकान्तधर्माभिनिवेशमूला रागादयोऽहंकृतिजा जनानां । एकान्तहानाच स यत्तदेव स्वाभाविकत्वाच्च समं मनस्ते ॥ ५२ ।। प्रमुच्यते च प्रतिपक्षदूपी जिन त्वदीयैः पटुसिंहनादैः। एकस्य नानात्मतयाऽज्ञवृत्तेस्तो बन्धमोक्षी स्वमतादबायौ ॥ ५३ ।। आत्मान्तराभावसमानता न वागास्पदं स्वाश्रयभेदहीना। भावस्य सामान्यविशेपवत्वादेक्ये तयोरन्यतरनिराम ॥ ५५ ॥ अमेयमश्लिष्टममेयमेव भेदेऽपि तवृत्त्यपवृत्तिभावात् । वृत्तिश्च कृत्स्नाशविकल्पतो न मानं च नानन्तसमाश्रयस्य ॥ ५५ ॥ नानासदेकारमसमाश्रयं चेदन्यत्वमद्विष्टमनात्मनो छ । विकल्पशून्यत्वमवस्तुनश्चेत्तसिन्नमेये क खलु प्रमाणं ।। ५६ ।। व्यावृत्तिहीनान्वयतो न सिद्धयेद्विपर्ययेऽप्यद्वितयेऽपि साध्यं । अतब्युदासाभिनिवेशवादः पुराभ्युपेतार्थविरोधवादः ॥ ५७ ॥ अनात्मनानात्मगतेरयुक्तिर्वस्तुन्ययुक्तर्यदि पक्षसिद्धिः । अवस्तुयुक्त प्रतिपक्षसिद्धिर्न च स्वयं साधनरिक्तसिद्धिः॥ ५८ ॥ निशापितस्तैः परथुः परतः स्वमूर्ति निर्भेदभयानभिज्ञैः । वैतण्डिकैयः कुसूतिः प्रणीता मुने भवच्छासनहक्प्रमूढैः ॥ ५९ ॥ भवत्यभावोऽपि च वस्तुधर्मों भावान्तरं भाववदहतस्ते । प्रमीयते च व्यपदिश्यते च वस्तुव्यवस्थाङ्गममेयमन्यत् ॥ ६ ॥ विशेपसामान्यविपक्तभेदविधिव्यवच्छेदविधायि वाक्यं ।

२७० सनातनजैनग्रन्थमालायाम् अभेदबुद्धरविशिष्टता स्याद्यावृत्तिबुद्धश्च विशिष्टता ते ॥ ६ ॥ सर्वान्तवत्तद्गुणमुख्यकल्पं सर्वान्तशून्यं च मिथोऽनपेक्षं । सर्वापदामन्तकर निरन्तं सर्वोदयं तीर्थमिदं तवैव ॥ २ ॥ कामं द्विषन्नप्युपपत्तिचक्षुः समीक्षतां ते समदृष्टिरिष्टं । त्वयि ध्रुवं खण्डितमानङ्गो भवत्यभद्रोऽपि समन्तभदः ॥ ६३॥ न रागानः स्तोत्रं भवति भवपाशच्छिदि मुनी न चान्येषु द्वेषादपगुणकथाभ्यासखलता । किमु न्यायान्यायप्रकृतगुणदोपज्ञमनसा हितान्वेषोपायस्तव गुणकथासङ्गगदितः ॥ ६४ ॥ इति स्तुत्यः स्तुत्यैत्रिदशमुनिमुख्यैः प्रणिहितैः स्तुतः शक्त्या श्रेयःपदमधिगतस्त्वं जिन मया। महावीरो वीरो दुरितपरसेनामिविजये विधेया मे भक्तिः पथि भवत एवाप्रतिनिधौ ॥ ६५॥ स्थेयाजातजयध्वजाप्रतिनिधिः प्रोद्भूतभूरिप्रभुः प्रध्वस्ताखिलदुर्नयाद्विपदिभः सन्नीतिसामर्थ्यतः । सन्मार्गस्त्रिविधः कुमार्गमथनोऽर्हन्वीरनाथः श्रिये शश्वत्संस्तुतिगोचरोऽनघधियां श्रीसत्यवाक्याधिपः ॥१॥ श्रीमद्वीरजिनेश्वरामलगुणस्तोत्रं परीक्षेक्षणैः साक्षात्स्वामिसमन्तभद्रगुरुभिस्तत्त्वं समीक्ष्याखिलं । प्रोक्तं युक्त्यनुशासनं विजयिभिः स्याद्वादमार्गानुगै. विद्यानन्दबुधैरलंकृत्तमिदं श्रीसत्यवाक्योधिपैः ॥२॥ इति श्रीसमन्तभद्रखामिविरचितं युक्त्यनुशासनं समाप्तम् । १ ॥ अर्चितैः इत्यपि पाठः ।

अथ नयविवरणम् ॥ (१३) सूत्रे नामादिनिक्षिसतत्त्वार्थाधिगमः स्थितः । कायंतो देशतो वापि सप्रमाणनयैरिह ॥१॥ प्रमाणं च नयाश्चेति द्वन्द्व पूर्वनिपातनम् । कृतं प्रमाणशब्दस्याभ्यर्हितत्वेन बह्वचः ॥२॥ प्रमाणं सकलादेशि नयादभ्यर्हितं मतम् । विकलादेशिनस्तस्य वाचकोऽपि तथोच्यते ॥ ३ ॥ स्वार्थनिश्वायकत्वेन प्रमाणं नय इत्यसत् । स्वार्थकदेशनिर्णीतिलक्षणो हि नयः स्मृतः ॥ ४ ॥ स्वार्थाशस्यापि वस्तुत्वे तत्परिच्छेदको नयः । प्रमाणमन्यथा मिथ्याज्ञान प्राप्तः स इत्यसत् ॥ ५॥ नाय वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥ ६ ॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । समुद्रबहुता वा स्यात्तत्वे वास्तु समुदवित् ॥ ७ ॥ तत्रांशिन्यपि निःशेषधर्माणां गुणता गतौ । द्रव्यार्थिकनयस्यैव व्यापारान्मुख्यरूपतः॥ ८ ॥ धर्मिधर्मसमूहस्य प्राधान्यार्पणया विदः । प्रमाणत्वेन निर्णीतेः प्रमाणादपरो नयः ॥ ९॥ नाप्रमाणं प्रमाणं वा नयो ज्ञानात्मको यतः । स्यात्प्रमाणैकदेशस्तु सर्वथाप्यविरोधतः ॥१०॥ १ अस्य ग्रन्थस्य कर्तु म कुत्रापि नोपलभ्यते ।

२७२ सनातनजैनप्रन्धमालायाम् प्रमाणेन गृहीतस्य वस्तुनोंऽशे विगानतः । संप्रत्ययनिमित्तत्वात्प्रमाणाचेन्नयोजि(चि )तः॥ ११ ॥ नाशेपवस्तुनिर्णीतेः प्रमाणादेव कस्यचित् । ताइक्सामर्थ्यशून्यत्वात्सनयस्यास्ति सर्वथा ॥१२॥ मतेरवधितो वापि मनःपर्ययतोऽपि वा। ज्ञातस्यार्थस्य नांशेऽस्ति नयानां वर्त्तनं ननु ॥ १३॥ निःशेपदेशकालार्था गोचरत्वविनिश्चयात् । तस्येति भापितं कैश्चिद्युक्तमेव तथेष्टितः ॥ १४ ॥ त्रिकालगोचराशेषपदार्थाशेषु वृत्तितः। केवलज्ञानमूलत्वमपि तेषां न युज्यते ॥ १५॥ परोक्षपरतावृत्तेः स्पष्टत्वात्केवलस्य तु । श्रुतमूला नयाः सिद्धाः वक्ष्यमाणाः प्रमाणवत् ॥ १६ ॥ निर्दिश्याधिगमोपायं प्रमाणमधुना नयान । व्याख्यातुं नैगमेत्यादि प्राह संक्षेपतोऽखिलान् ॥ १७ ॥ सामान्यादेशतस्तावदेक एव नयः स्थितः । स्थाद्वादप्रविभक्तार्थविशेपव्यञ्जकात्मकः ॥ १८ ॥ संक्षेपावौ विशेषेण द्रव्यपर्यायगोचरौ। द्रव्यार्थो व्यवहारान्तः पर्यायार्थस्ततोऽपरः ॥ १९॥ विस्तरेण तु सप्तते विज्ञेया नैगमादयः। तथातिविस्तरेणैतनेदाः संख्यातविग्रहाः ॥२०॥ नयो नयौ नयाश्चेति वाक्यभेदेन योजिताः । नैगमादय इत्येवं सर्वसंख्याभिसूचनात् ॥ २५ ॥ निरुक्त्या लक्षणं लक्ष्यं तत्सामान्यविशेषतः। नीयते गम्यते येन श्रुतार्थीशः स नो नयः॥ २२॥ १ "नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूडैवंभूता नयाः" (तत्त्वर्था- धिगमे शाले.)

नयविवरणम् ।
२७३
तदंशी द्रव्यपर्यायलक्षणौ सव्यपेक्षणौ ।
नीयेते तुर्यकाभ्यां तु तौ नयाविति निश्चित्तौ ॥२३॥
गुणः पर्यय एवान सहभावी विभावितः।
इति तद्गोचरो नान्यस्तृतीयोऽस्ति गुणार्थकः ॥२४॥
प्रमाणगोचरार्थीशा नीयन्ते यैरनेकधा।
ते नया इति विख्याता ज्ञाता मूलनयद्वयात् ॥ २५ ॥
द्रव्यपर्यायसामान्यविशेपपरिवोधकाः ।
न मूलं नैगमादीनां नयाश्चत्वार एव तु ॥ २६ ॥
सामान्यस्य पृथक्त्वेन द्रव्यादनुपपत्तितः ।
सादृश्यपरिणामस्य तथा व्यअनपर्ययात् ॥ २७ ॥
वैसादृश्यविवर्त्तस्य विशेपस्य च पर्यये ।
अन्तर्भावाद्विभाव्येते द्वौ तन्मूलनयाविति ॥ २८ ॥
नामादयोऽपि चत्वारस्तन्मूलं नेत्यतो गतम्।
द्रव्यक्षेत्रादयस्तेपां द्रव्यपर्यायगत्वतः ॥ २९ ॥
भवान्विता न पञ्चैते स्कन्धा वा कीर्तिताः परैः।
रूपादयो त एवंह तेऽपि हि द्रव्यपर्ययौ ॥३०॥
तथा द्रव्यगुणादीनां पोढात्यं न व्यवस्थितम् ।
पट् स्युर्मूलनया येन द्रव्यपर्यायगा हि ते ॥ ३१ ॥
ये प्रमाणादयो भावाः प्रधानादय एव वा ।
ते नैगमादिभेदानामर्थानां परनीतयः ॥ ३२ ॥
तन्न संकल्पमात्रस्य ग्राहको नैगमो नयः ।
सोपाधिरित्यशुद्धस्य द्रव्यार्थस्य भिदा मतः ॥ ३३ ॥
संकल्पो नैगमस्तन भवोऽयं तत्प्रयोजनः । .
यथा प्रस्थादिसंकल्पस्तदभिप्राय इष्यते ॥ ३४ ॥
नन्वयं भाविनी संज्ञा समाश्रित्योपचय॑ते ।
अप्रस्थादिपु तद्भावस्तन्दुलेन्वोदनादिवत् ॥ ३५ ॥

सनातनजैनग्रन्थमालायाम् २७४ इत्यसद्धहिरर्थेषु तथानध्यवसानतः । स्ववेद्यमानसंकल्पे सत्येवास्य प्रवृत्तितः ॥ ३६ ॥ यद्वा नेक गमो यत्र स सतां नैगमो मतः । धर्मयोद्धर्मिणोर्वापि विवक्षा धर्मधर्मिणोः ॥ ३७ ॥ प्रमाणात्मक एवायमुभयग्राहकत्वतः । इत्ययुक्तमिह ज्ञप्तेः प्रधानगुणभावतः॥ ३८ ॥ प्राधान्येनोभयात्मानमर्थं गृह्णद्धि वेदनम् । प्रमाणं नान्यदित्येतत्प्रपञ्चेन निवेदितम् ॥ ३९ ॥ संग्रहे व्यवहारे वा नान्तर्भावनमीक्ष्यते । नैगमस्य तयोरेकवस्त्वंशप्रवणत्वतः ॥ ४० ॥ नर्जुसूत्रादिपु प्रोतहेतोरेवेति पण्णयाः । संग्रहादय एवेह न वाच्याः प्रपरीक्षिकैः ॥४१॥ सप्तवेते तु युज्यन्ते नैगमस्य नयत्वतः । तस्य त्रिभेदताख्यानात्कैश्चिदुक्ता नय नव ॥ ४२ ॥ तत्र पर्यायगस्त्रेधा नैगमो द्रव्यगो द्विधा । द्रव्यपव्यगः प्रोक्तश्चतुर्भेदो ध्रुवं बुधैः ॥ १३ ॥ अर्थपर्याययोस्तावद्गुणमुख्यस्वभावतः। कचिद्वस्तुन्यभिप्रायः प्रतिपत्तुः प्रजायते ॥ ४४ ॥ यथा प्रतिक्षणध्वंसिसुखसंविच्छरीरिणि । . इति सातार्थपर्यायो विशेषणतया गुणाः ॥ ४५ ॥ संवेदनार्थपर्यायो विशेष्यत्वेन मुख्यताम् । प्रतिगच्छन्नभिप्रेतो नान्यथैवं वचो गतिः ॥ १६ ॥ सर्वथा सुखसंवित्यो नात्वेऽभिमतिः पुनः । स्वाश्रयाचार्थपर्यायनैगमाभोऽप्रतीतितः ॥ ४७ ॥ कश्चिध्यानपर्यायौ विपयीकुरुतेऽञ्जसा । गुणप्रधानभावेन धर्मिण्येकन्न नैगमः ॥४८॥ .

नयविवरणम् ।
२७५
सञ्चैतन्यं न रीत्येवं सत्त्वस्य गुणभावतः ।
प्रधानभावतश्चापि चैतन्यस्याभिसन्धितः ॥ १९ ॥
तयोरत्यन्तभेदोक्तिरन्योऽन्यं स्वाश्रयादपि ।
ज्ञेयो व्यअनपर्यायनैगमाभोऽविरोधतः ॥५०॥
अर्थव्यानपायौ गोचरीकुरुते परः।
धार्मिके सुखजीवत्वमित्येवमनुरोधतः॥ ५१ ॥
भिन्ने तु सुखजीवत्वे योऽभिमन्येत सर्वथा।
सोऽर्थव्यञ्जनपर्यायनैगमाभास एव नः ॥ ५२ ॥
शुद्धं द्रव्यमशुद्धं च तथाभिप्रेति यो नय।
स तगम एवेह संग्रहव्यवहारजः ॥ ५३ ॥
स द्रव्यं सकलं वस्तु तथान्वयविनिश्चयात् ।
इत्येवमवगन्तव्यस्त दोक्तिस्तु दुर्नयः॥ ५४ ॥
वस्तुपर्यायवद्रव्यं गुणवद्वेति निर्णयः।
व्यवहारद्वयाजातः सोऽशुद्धद्रव्यनैगमः ॥ ५५ ॥
तद्भेदैकान्तवादस्तु तदाभासोऽनुमन्यते ।
तथोक्तेर्बहिरन्तश्च प्रत्यक्षादिविरोधतः ॥ ५६ ॥
शुद्धद्व्यार्थपर्यायनैगमोऽस्ति परो यथा ।
सत्सुखं क्षणिक सिद्धं संसारेऽसिनितीरणम् ॥ ५७ ॥
सत्वं सुखार्थपर्यायाद्भिनमेवेति संमतिः ।
दुर्नीतिः स्यात्सवाद्यत्वादिति नीतिविदो विदुः ॥ ५८ ॥
क्षणमेकं सुखी जीवो विषयीति विनिश्चयः ।
विनिर्दिष्टोऽर्थपर्यायाशुद्धद्व्यगनैगमः ॥ ५९ ॥
सुखजीवभिदोक्तिस्तु सर्वथा मानवाधिता।
दुर्नीतिरेव बोद्धव्या शुद्धबोधैरसंशयम् ॥ १० ॥
गोचरीकुरुते शुद्धद्रव्यव्यानपर्ययौ ।
नैगमोऽन्यो यथासद्वित्सामान्यमिति निर्णयः ॥ ६ ॥

.
२७६
सनातनजैनप्रन्थमालायाम्
विद्यते चापरोऽशुद्धद्रव्यन्यानपर्ययो ।
अर्थीकरोति यः सोऽन्न नागुणीति निगयते ॥१२॥
भेदाभिसन्धिरत्यन्तं प्रतीतेरपलापकः।
पूर्ववन्नैगमाभासः प्रत्येतव्यो तयोरपि ॥६३ ॥
नवधा नैगमस्यैवं ख्याते पञ्चदशोदिताः ।
नयाः प्रतीतिमारूढाः संग्रहादिनयैः सह ॥६४ ॥
एकत्वेन विशेषाणां ग्रहणं संग्रहो नयः ।
विजातरविरोधेन दृष्टेष्टाभ्यां कथंचन ॥६५॥
समेकीभावसम्यक्त्वे वर्तमानो हि गृखते ।
निरुक्त्या लक्षणं तस्य तथा सति विभाज्यते ॥ ६६ ॥
शुद्धद्रव्यमभिप्रेति सन्मानं संग्रहः परः।
स चाशेपविशेपेपु सदोदासीन्यभागिह ॥ ६७ ॥
निराकृतविशेपस्तु सत्वाद्वैतपरायणः ।
तदाभासः समाख्यातः सनिष्टेष्टबाधनात् ॥ ६ ॥
अभिन्नं व्यक्तभेदेभ्यः सर्वथा बहुधानकम् ।
महासामान्यमित्युक्तिः केषांचिहुर्नयस्तथा ॥ ६९॥
शब्दब्रह्मेति चान्येपा पुरुषाद्वैतमित्यपि ।
संवेदनाद्वयं वेति प्रायशोऽन्यत्र दर्शितम् ॥ ७० ॥
द्रव्यत्वं सकलद्रव्यव्याप्यभिप्रेति चापरः ।
पर्यायत्वं च निःशेषपर्यायव्यापि संग्रहः ॥ ७१ ॥
तथैवावान्तरान्भेदान्संगृह्मैकत्वतो बहुः ।
वर्ततेऽयं नयः सम्यक् प्रतिपक्षा निराकृतिः ।। ७२ ॥
स्वव्ययात्मकतैकान्तस्तदाभासोऽप्यनेकधा ।
प्रतीतिबाधितो बोध्यो निःशेपोऽप्यनया दिशा ॥ ७३ ॥
संग्रहेण गृहीतानामर्थानां विधिपूर्वकम् ।
योऽवहारो विभागः स्याद् व्यवहारनयः स नः ॥ ७ ॥

नयविवरणम् । स चानेकप्रकारः स्यादुत्तरः परसंग्रहात् । यत्सत्तद्रव्यपर्यायाविति प्रागृजुसूत्रतः ।। ७५ ॥ कल्पनारोपितद्रव्यपर्यायप्रविभागभाक् । प्रमाणबाधितोऽन्यस्तु तदाभासोऽवसीयताम् ॥ ७६ ॥ अजुसूत्रः क्षणध्वंसि वस्तु सत्सूत्रयेजुः । प्राधान्येन गुणीभावाव्यस्यानर्पणात्सतः ॥ ७७ ॥ निराकरोति यो द्रव्यं व्यवहारश्च सर्वथा। तदाभासोऽभिमन्तव्यः प्रतीतेरपलापकः ॥ ७० ॥ कार्यकारणता नास्ति ग्राह्यग्राहकतापि वा। वाच्यवाचकता चेति कार्थसाधनदूपणम् ॥ ७९ ॥ लोकसंवृतिसत्यं च सत्यं च परमार्थता। कैवं सिद्धयेद्यदाश्रित्य वौद्धानां धर्मदेशना ॥ ८० ॥ सामानाधिकरण्यं च विशेषणविशेष्यता। साध्यसाधनभावो वा काधाराधेयतापि च ।। ८१ ॥ संयोगो विप्रयोगो वा क्रियाकारकसंस्थितिः । सादृश्यं वैसादृश्यं वा वसन्तानेतरस्थितिः ॥ ८२ ॥ समुदायः क प्रेत्यभावादिव्यस्य निहवे । चन्धमोक्षव्यवस्था वा सर्वदेष्टा प्रसिद्वितः॥ ८३ ।। कालादिभेदतोऽर्थस्य भेदं यः प्रतिपादयेत् । सोऽत्र शब्दनयः शब्दप्रधानत्वादुदाहृतः ॥ ८४ ॥ विश्वदृश्वास्य भविता सूनुरित्येकमाता। पदार्थ कालभेदेऽपि व्यहारानुरोधतः ॥ ८५॥ करोति क्रियते पुप्यस्तारकापोऽम इत्यपि । कारकव्यक्तिसंख्यानां भेदोऽपि च परे जनाः ॥ ८६ ॥ एहि मन्ये रथेनेत्यादिकसाधनभिधपि । संतिठेत प्रतितेत्याधुपग्रहभेदने ।। ८७ ॥ .

२७८
सनातनजैनप्रन्थमालायाम्
तन्न श्रेयापरीक्षायामिति शब्दः प्रकाशयेत् ।
कालादिभेदनेऽप्यर्थाभेदनेऽतिप्रसंगतः ॥ ८८ ॥
तथा कालादिनानात्वकल्पनं निष्प्रयोजनम् ।
सिद्धेः कालादिनैकेन कार्यस्येष्टस्य तत्वतः॥ ८९ ॥
कालाद्यन्यतमस्यैव कल्पनं तैर्विधीयताम् ।
येपां कालादिभेदेऽपि पदार्थकत्वनिश्चयः ॥ ९० ॥
शब्दः कालादिभिर्मिन्नोऽभिन्नार्थप्रतिपादकः ।
कालादिभिन्नशब्दत्वात्ताहकूसिद्धान्यशब्दवत् ॥ ९ ॥
पर्यायशब्दभेदेन भिन्नार्थस्याभिरोहणात् ।
नयः समभिरूढः स्यात्पूर्ववच्चास्य निर्णयः ॥ ९२ ।।
इन्द्रः पुरन्दरः शक इत्याद्या भिन्नगोचराः ।
शब्दा विभिन्नशब्दत्वाद्वाजिवारणशब्दवत् ॥ ९३ ।।
तक्रियापरिणामोत्थस्तथैवेति विनिश्चयात् ।
एवंभूतेन नीयेत क्रियान्तरपराङ्मुखः ॥ ९४ ॥
यो यक्रियार्थमाचष्टे नासावल्यक्रियां ध्वनिः ।
पचतीत्यादिशब्दानां पाठाद्यर्थप्रसंजनम् ॥ ९५ ॥
इत्यन्योऽन्यमपेक्षायां सन्तः शब्दादयो नयाः ।
निरपेक्षाः पुनस्ते स्युस्तदाभासा विरोधतः ॥ ९६ ॥
तत्रर्जुसूत्रपर्यन्ताश्चत्वारोऽर्थनया मताः ।
त्रयः शब्दनयाः शेषाः शब्दवाच्यार्थगोचराः ॥ ९७ ॥
पूर्वः पूर्वनयो भूमविषयः कारणात्मकः ।
परः परः पुनः सूक्ष्मगोचरो हेतुमानिह ॥ ९८ ॥
सन्मात्रविषयत्वेन संग्रहस्य न युज्यते ।
महाविषयता भावा-भावार्थान्नैगमानयात् ॥ ९९ ॥
यथाहि सति संकल्पस्तथैवासति विद्यते ।
तत्र प्रवर्त्तमानस्य नैगमस्य महार्थता ॥ १० ॥

नयविवरणम् ।
२७९
संग्रहास्यवहारोऽपि स्याद्विशेषावबोधकः ।
न भूमविपयोऽशेपसत्समूहोपदर्शिनः ॥ १०१ ॥
नर्जुसूत्रः प्रभूतार्थो वर्तमानार्थगोचरः।
कालत्रितयवृत्यर्थगोचरा व्यवहारतः ॥ १०२ ॥
कालादिभेदतोऽप्यर्थमभिन्नमुपगच्छतः ।
नर्जुसूत्रान्महार्थोऽत्र शब्दस्तद्विपरीतवित् ॥ १०३ ॥
शब्दात्पर्यायभेदेनाभिन्नमर्थमभीच्छतः ।
न स्यारसमभिरूढोऽपि महार्थस्तद्विपर्ययः ॥ १० ॥
क्रियाभेदेऽपि चाभिन्नमर्थमभ्युपगच्छतः ।
नैवंभूतः प्रभूतार्थनयः समभिरूढतः ॥ १०५॥
नेगमप्रातिकूल्येन संग्रहः संप्रवर्तते ।
ताभ्यां वाचामिहाभीष्टा सप्तभङ्गी विभागतः॥ १०६ ॥
नैगमव्यवहाराभ्यां विरुद्धाभ्यां तथैव सा ।
स्यान्नैगमर्जुसूत्राभ्यां तादृग्भ्यामविगानतः ॥ १०७ ॥
सशब्दानैगमादन्यायुक्तात्समभिरूदतः ।
सैर्वभूताच सा ज्ञेया विधानप्रतिपेधगा ॥ १०८॥
संग्रहादेश्च शेपेण प्रतिपक्षेण गम्यताम् ।
तथैव व्यापिनी सप्तभङ्गी नयविदा मता ॥ १०९॥
विशेपैरुत्तरैः सवर्डयानामुदितात्मनाम् ।
परस्परविरुद्धार्थैर्द्वन्द्ववृत्तिर्यथायथम् ॥ ११० ॥
प्रत्येया प्रतिपर्यायमविरुद्धा तथैव सा ।
प्रमाणसप्तभङ्गीव तां विना नाभिदागतिः ॥ १११॥
सर्वे शब्दनयास्तेन परार्थप्रतिपादने ।
स्वार्थप्रकाशने मातुरिमे ज्ञाननयाः स्थिताः ॥ ११२ ॥
तैर्नीयमानवस्वंशाः कथ्यन्तेऽर्थनयाश्च ते ।
त्रिधैव व्यवतिष्टन्ते प्रधानगुणभावतः ॥ ११३॥

--- २८० सनातनजैनग्रन्थमालायाम् यत्र प्रवर्ततेऽर्थीशे नियमादुत्तरो नयः । पूर्वः पूर्वो नयस्तन वर्तमानो न वार्यते ॥ ११४ ॥ सहस्त्रेऽष्टशती यद्वत्तस्यां पञ्चशती मता। पूर्वसंख्योत्तरन स्यात्संख्यायामविरोधतः ॥ ११५ ॥ पूर्वत्र नोत्तरा संख्या यथा जातु प्रवर्तते । तथोत्तरनयः पूर्वनयाथै सकले सदा ॥ ११६ ॥ नयार्थेषु प्रमाणस्य वृत्तिः सकलदेशिनः । भवेन तु प्रमाणाथै नयानामखिलेऽञ्जसा ॥ ११७ ॥ संक्षेपेण नयास्तावझ्याख्याताः सूत्रसूचिताः। तद्विशेपाः प्रपञ्चेन संचिन्त्या नयचक्रतः॥ १६८॥ शार्दूलविक्रीडितम् । वालानां हितकामिनासतिसहापापैः पुरोपार्जितै- माहात्म्यात्तमसः स्वयं कलिवलात्सायो गुणद्वपिभिः । न्यायोऽयं मलिनीकृतः कथमपि प्रक्षाल्यते नीयते सम्यग्ज्ञानजलैर्वचोभिरमलं तत्रानुकम्पापरैः ॥ ११९ ॥ इति नयविवरणं समाप्तम् ।

श्रीमत्पूज्यपादस्वामिविरचितं समाधिशतकम्। सटिप्पणीकम् । (१४) सिंह जिनेन्द्रमलमप्रतिमप्रवोध निर्वाणमार्गममलं विबुधेन्द्रवन्धम् । संसारसागरसमुत्तरणप्रपोतं वक्ष्ये समाधिशतकं प्रणिपत्य चीरम् ॥१॥ श्रीपूज्यपादखामी मुमूक्षणां मोक्षोपायं मोक्षखरूपं चोपदर्शयितु- कामो निर्विघ्नतः शास्त्रपरिसमास्यादिकं फलमभिलपनिष्टदेवताविशेषं नमस्कुर्वनाह- येनात्माऽबुध्यतात्मैव परत्वेनैव चापरम् । अक्षयानन्तबोधाय तस्सै सिद्धात्मने नमः॥१॥ १ उत्थानिकाकारस्येदं मङ्गलाचरणम्. २ अत्र च पूर्वार्द्धन मोक्षोपाय उत्तरार्धेन च मोक्षस्वरूपमुपदर्शितम् । सिद्धात्मने सिद्धपरमेष्ठिने सिद्धः सकलकर्मविप्रमुक्तः सचासावात्मा च तस्मै नमः । येन किं कृतं अयुध्यत पातः कोऽसौ आत्मा कथं आत्मैव । अयमर्थः--येन सिद्धात्मनात्मैवात्मत्वे. नैवावुध्यत न शरीरादिकं कमोपार्जितसुरनरनारकतिर्यगादिजीवपर्याया- दिकथ । तथा "परत्वेनैव चापरं" अपरध शरीरादिकं कर्मजनितमनुष्यादि- जीवपर्यायादिकच परत्वेनैवात्मनो भेदेनाबुध्यत तस्मै । कथंभूताय " अक्ष- यानन्तवोधाय" अक्षयोऽविनश्वरोऽनन्तो. देशकालापरिच्छिन्नसमस्तार्थपरि- च्छेदको वा बोधो यस्य तस्मै । एवंविधयोधस्य चानन्तदर्शनसुखवीर वि. ।

२८२ सनातनजैनग्रन्थमालायाम् - - अथोकप्रकारसिद्धखरूपस्य तत्प्राप्युपायस्य चोपदेष्टार सकलात्मा- नमिष्टदेवताविशेषं स्तोतुमाह- जयन्ति यस्यावदतोऽपि भारती- विभूतयस्तीर्थकृतोऽप्यनीहितुः। शिवाय धाने सुगताय विष्णवे जिनाय तसै सकलात्मने नमः ॥२॥ ननु विकल्पेतररूपमात्मानं नत्वा भवान् किं करिष्यतीलाह- श्रुतेन लिङ्गेन यथात्मशक्ति समाहितान्तःकरणेन सम्यक् । समीक्ष्य कैवल्यसुखस्पृहाणां विविक्तमात्मानमथाभिधासे ॥३॥ येन विविक्तमात्मानमिति विशेप्योच्यत इत्याशझ्याह- बहिरन्तः परश्चेति त्रिधात्मा सर्वदेहिषु । उपेयात्तन परमं मध्योपायाद्वहिस्त्यजेत् ॥ ४॥ तत्र कुतः कस्योपादानं कस्य वा त्यागः कर्तव्य इत्यत आह । तत्र वहिरन्तः परमात्मानं प्रत्येकं लक्षणमाह- नामावित्वसामर्थ्यादनन्तचतुष्टयरूपायेति गम्यते । ननु चेप्टदेवताविशेषस्य पञ्चपरमेष्ठिरूपत्वादत्र सिद्धात्मन एव कस्माद् ग्रन्थकृता नमस्कारः कृत इति चेत् ग्रन्थस्य कर्तुाख्यातुः श्रोतुस्तदर्थानुष्ठातुश्च सिद्धस्वरूप प्राप्त्य- र्थित्वात् । यो हि यत्स्वरूपप्राप्त्यर्थी स तद्गुणसम्पन्नं पुरुषविशेष नमस्कुर्वा- णो दृष्टो यथा कश्चिद्धनुर्वेदपरिशानार्थी धनुर्वेद विदः सिद्धस्वरूपप्राप्त्यर्थी च समाधिशतकशास्त्रस्य कर्ता व्याख्याता श्रोता तदर्थानुष्ठाता चात्म- विशेषस्तस्मासिद्धात्मानं नमस्करोतीति सिद्धशब्देनैव चाहंदादीनामपि ग्रहणम् । तेषामपि देशतः सिद्धस्वरूपोपेतत्वात् । १ निष्कलेतर-' इति पाठान्तरम् । ।

समाधिशतकम् । २८३ । यहिरात्मा शरीरादौ जातात्मभ्रान्तिरान्तरः । चित्तदोपारमत्रिधान्तिः परमात्मातिनिर्मलः ॥ ५ ॥ तद्वाचिका नाममाला दर्शयन्नाह,- निर्मलः केवलः सिदो विविक्तः भुरक्षयः । परमेष्ठी परीत्मेति परमात्मेश्वरो जिनः ॥ ६ ॥ इदानी यहिरात्मनो देहस्यात्मत्वेनाध्यवसाये कारणमुपदर्शयन्नाह,- यहिरात्मेन्द्रियद्वाररात्मज्ञानपरामुखः । स्फुरितश्चारमनो देहमात्मस्वेनाध्यवस्यति ॥ ७ ॥ नरदेहस्थमात्मानमविद्वान्मन्यते नरम् । तिर्यजं तिर्यगास्थं सुरामस्थं सुरं तथा ॥ ८॥ नारकं नारकाजस्थं न स्वयं तत्त्वतस्तथा। अनन्तानन्तधीशक्तिः स्वसंवेद्योऽचलस्थितिः ॥९॥ खदेह एवमध्यवसायं कुर्वाणो बहिरात्मा परदेहे कथंभूतं करोतीत्याह,- स्वदेहसदृशं दृष्ट्वा परदेहमचैतनम् । परात्माधिष्ठित मूढः परत्वेनाध्यवस्यति ॥१०॥ एवंविधाध्यवसायाकि भवतीत्याह,- स्वपराध्यवसायेन देहेप्वविदितात्मनाम् । वर्तते विनमः पुंसां पुनभार्यादिगोचरः ।। ११ ॥ एवंविधविभ्रमाच किं भवतीत्याह- अविद्यासंज्ञितस्तस्मात्संस्कारो जायते दृढः । येन लोकोशमेव स्वं पुनरप्यभिमन्यते ॥ १२ ॥ १ आदिशब्दाद्वाशनसोहणं. २ विगता भ्रान्तिः. ३ कर्ममलरहितः. ४ प्रक्षीणाशेपकर्ममलः, ५ परमविशुद्धिसमन्वितः. ६ प्रक्षीणाशेपकर्ममल:. ७ स्वामी. ८ अव्ययः, ९ इन्द्रादिपदे तिष्ठतीति. १० संसारिजीवेभ्य उत्कृष्टात्मा. ११ इन्द्रापसंभाविनान्तरजवहिरगण परमैश्वर्येण सम्पन्नः. १२ तत्त्वतो निश्चयेन स्वयमात्मा चतुर्गतिमयो न भवति. १३ देहं. १४ अन्यत्वेन. १५ विपरीतत्वमू. १६ प्रतिवासितः । - २८४ सनातनजैनप्रन्थमालायाम् - - एवं मन्यमानश्वासी किं करोतीत्याह- देहे स्वबुद्धिरात्मानं युनत्तयेतेन निश्चयात् । खात्मन्येवात्मधीस्तसाद्वियोजयति देहिनम् ॥ १३ ॥ देहेष्वात्मानं योजयतश्च वहिरात्मनो दुर्विलसितोपदर्शनपूर्वकमा. चार्योऽनुशयं कुर्वनाह- देहेष्वात्मधिया जाताः पुत्रभार्यादिकल्पनाः । सम्पत्तिमात्मनस्ताभिर्मन्यते हा हतं जगत् ॥ १४ ॥ इदानीमुक्कमर्थमुपसंहत्यात्मन्यन्तरात्मनोऽनुप्रवेशं दर्शयन्नाह- मूलं संसारदुःखस्य देह एवात्मधीस्ततः । त्यक्त्वैनां प्रविशेदन्तर्बहिरव्यावृतेन्द्रियः ॥ १५ ॥ आत्मीयां वहिरात्मावस्थामनुस्मृत्य विषादं कुर्वनाह- मत्तश्युस्वेन्द्रियद्वारैः पतितो विषयेष्वहम् । तान्प्रपद्याहमिति मां पुरावेदन तत्वतः॥१६॥ अथात्मनो ज्ञप्तौ उपायमुपदर्शयन्नाह- एवं त्यक्त्वा बहिवाचं त्यजेदन्तरशेपतः । एप योगः समासेन प्रदीपः परमात्मनः ॥ १७ ॥ कुतः पुनर्वहिरन्तर्वाचस्त्यागः कर्तव्य इत्याह- यन्मया दृश्यते रूपं तन जानाति सर्वथा। जानन दृश्यते रूपं ततः केन ब्रवीम्यहम् ॥ १८ ॥ एवं वहिर्विकल्पं परित्यज्यान्तर्विकल्पं परित्याजयन्नाह- यत्परैः प्रतिपाद्योऽहं यत्परान्प्रतिपादये। उन्मत्तचेष्टितं तन्मे यदहं निर्विकल्पकः ॥ १९॥ तदेव विकल्पातीते खरूपं निरूपयन्नाह- यदग्राह्यं न गृह्णाति गृहीतं नापि मुञ्चति । जानाति सर्वथा सर्व तत्स्वसंवेद्यमस्यहम् ॥ २० ॥ पूर्व कीदृशं मम चेष्टितमित्याह- -- समाधिशतकम् । २८५ उत्पन्नपुरुपनान्तेः स्थाणो यद्वद्विचेष्टितम् । तद्वन्मे चेष्टितं पूर्व देहादिप्वात्मविभ्रमात् ॥ २१ ॥ साम्प्रतं तत्परिज्ञाने सति कीदृशं मे चेष्टितमित्याह- यथासौ चेटते स्थाणी निवृत्ते पुरुपाग्रहे । तथाचेष्टोऽसि देहादी विनिवृत्तात्मविनमः ॥ २२ ॥ अथेदानीमात्मनि ख्यादिना लि.कादिसंख्याविभ्रमनिवृत्त्यर्थं तद्वि- विक्तासाधारणखरूपदर्शनार्थ चाह- येनात्मनानुभूयेऽहमात्मनैवात्मनात्मनि । सोऽहं न तन सा नासौ नैको न द्वौ न वा बहुः ॥ २३ ॥ येनात्मना त्वमनुभूयसे स कीदृश इत्याह- यदभावे सुपुप्तोऽहं यदावें व्युत्थितः पुनः । अतीन्द्रियमनिर्देश्यं तत्स्वसंवेद्यमस्म्यहम् ॥ २४ ॥ तत्खरूपं खसंवेदयतो रागादिप्रक्षयान कचिच्छत्रुमित्रव्यवस्था भवतीति दर्शयन्नाह- क्षीयन्तेऽत्रैव रागाद्यास्तत्वतो मां प्रपश्यतः । बोधात्मानं ततः कश्चिन्न मे शत्रुर्न च प्रियः ॥ २५ ॥ यदि त्वमन्यस्य कस्यचिन्न शत्रुर्मिनं वा तथापि तवान्यः कश्चि- द्भविष्यतीत्याशङ्कयाह- मामपश्यन्नयं लोको न मे शत्रुर्न च प्रियः। मां प्रपश्यनयं लोको न मे शत्रुर्न च प्रियः ॥ २६ ॥ वहिरात्मत्यागे परमात्मप्राप्तौ चोपायत्वं दर्शयन्नाह--- त्यक्त्वैव बहिरात्मानमन्तरात्मन्यवस्थितः । भावयेत्परमात्मानं सर्वसङ्कल्पवर्जितम् ॥ २७ ॥ तद्भावनायाः फलं दर्शयन्नाह- सोऽहमित्यात्तसंस्कारस्तसिन् भावनया पुनः । तत्रैव दृढसंस्कारालभते यात्मनि स्थितिम् ॥ २०॥ - --- सनातनजेनग्रन्थमालायाम् २८६ - कथं कस्यचित्तत्र प्रवृत्तिरित्याशकां निराकुर्वनाह- मूढामा यत्र विश्वस्तस्ततो नान्यद्यास्पदम् । यतो भीतस्ततो नान्यदभयस्थानमात्मनः॥ २९ ॥ कस्यात्मनः कीदृशस्तत्प्रतिपत्त्युपाय इत्याह- सर्वेन्द्रियाणि संयम्य स्तिमितेनान्तरात्मना । यत्क्षणं पश्यतो भाति तत्तत्वं परमात्मना ॥ ३० ॥ कस्मिन्नाराधिते तत्वरूपप्राप्तिर्भविष्यतीत्याशङ्कयाह- यः परात्मा स एवाहं योऽहं स परमस्ततः । अहमेव मयोपास्यो नान्यः कश्चिदिति स्थितिः ॥ ३१ ॥ एवं खरूप एवाराध्याराधकभावव्यवस्था। एतदेव दर्शयन्नाह,- प्रच्याव्य विषयेभ्योऽहं मां मयैव मयि स्थितम् । बोधात्मानं प्रपन्नोऽसि परमानन्दनिर्वृतिम् ॥ ३२ ॥ एवमात्मानं शरीराद्भिनं यो न जानाति तं प्रत्याह- यो न वेत्ति परं देहादेवमात्मानमव्ययम् । लभते न स निर्वाणं तस्वापि परमं तपः ॥ ३३ ॥ ननु परमतपोऽनुष्ठायिनां महहुःखोत्पत्तितो मनःखेदसद्भावात्कथं निर्वाणप्राप्तिरिति वदन्तं प्रत्याह- आत्मदेहान्तरज्ञानजनिताहादनिर्वृतः । तपसा दुष्कृतं घोरं भुजानोऽपि न खिद्यते ॥ ३४ ॥ खेदं गच्छतामात्मस्वरूपोपलम्भाभावं दर्शयन्नाह- रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम् । स पश्यत्यात्मनस्तत्वं तत्तत्त्वं नेतरो जनः॥ ३५॥ किं पुनस्तत्त्वशब्देनोच्यते इत्याह- अविक्षिप्त मनस्तत्त्वं विक्षिप्तं भ्रान्तिरात्मनः । धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्ततः ॥ ३६ ॥ कुतः पुनर्मनसो विक्षेपो भवति, कुतश्चाविक्षेप इत्याह- - - - समाधिशतकम् । २८७ अविद्याभ्याससंस्काररवशं क्षिप्यते मनः । तदेव ज्ञानसंस्कारः स्वतस्तत्त्वेऽवतिष्ठते ॥ ३७ ॥ नित्तस्य विक्षेपेऽविक्षेपे च फलं दर्शयन्नाह- अपमानादयस्तस्य विक्षेपो यस्य चेतसः । नापमानादयस्तस्य न क्षेपो यस्य चेतसः ॥ ३०॥ अपमानादीनां चापगमे उपायमाह- यदा मोहाप्रजायेते रागद्वेपी तपस्विनः । तदेव भावयेत्स्वस्थमात्मानं शाम्यतः क्षणात् ॥ ३९ ॥ तत्र रागद्वेषयोविषयं विपक्षं च प्रदर्शयन्नाह- यत्र काये मुनेः प्रेम ततः प्रच्याव्य देहिनम् । चुप्या तदुत्तमे कार्य योजयेत्प्रेम नश्यति ॥ ४० ॥ तस्मिन्नष्ट किं भवतीत्याह- आत्मविश्रमज दुःखमात्मज्ञानात्प्रशाम्यति । नायताखन निर्वान्ति कृत्वापि परमं तपः ॥ ४१ ॥ अन्तरात्मा च किं करोतीत्याह- शुभं शरीरं दिव्यांश्च विपयानभिवाग्छति । उत्पन्नात्ममतिदेहे तत्वज्ञानी ततश्श्युतिम् ॥ ४२ ॥ तत्त्वज्ञानीतरयोरबन्धकत्ववन्धकत्वे दर्शयन्नाह- परवाहमतिः स्वसाध्युतो बनात्यसंशयम् । स्वस्सिन्नहमतिश्युत्वा परसान्मुच्यते बुधः ॥ ४३ ॥ यत्राहमतिर्वहिरात्मनो जाता तलेनकथमध्यवसीयते चान्तरात्मन.. स्तत्तेन कथमित्याशङ्कयाह- दृश्यमानमिदं मूढखिलिङ्गमवबुध्यते । इदमित्यवबुद्धस्तु निप्पन्नं शब्दवर्जितम् ॥ १४ ॥ ननु अन्तरात्मैवमात्मानं प्रतिपद्यते तदा कथं पुमान् गौरोऽहमित्या- दिरूपं तस्य कदाचिदभेदभ्रान्तिः स्यादिति वदन्तं प्रत्याह- - - -- - १ मनएच. २ अयलपरा:.

am- २८८ सनातननग्रन्थमालायाम् जाननप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि । पूर्वविश्रमसंस्काराद्रान्ति भूयोऽपि गच्छति ॥ ४५ ॥ भूयो भ्रान्ति गतोऽसौ कथं तां त्यजेदित्याह- अचेतनमिदं दृश्यमदृश्यं चेतनं ततः । क रुप्यामि क तुप्यामि मध्यस्थोऽहं भवाम्यतः ॥ ४६ ॥ इदानीं मूढात्मनोऽन्तरात्मनश्च त्यागोपादानविषयं दर्शयन्नाह- त्यागादाने बहिर्मूढः करोत्यध्यात्ममात्मवित् । नान्तर्बहिरुपादानं न त्यागो निष्ठितात्मनः ॥ १७ ॥ अन्तस्त्यागोपादाने कुर्वाणोऽन्तरात्मा कथं कुर्यादित्याह-- युमीत मनसात्सानं वाकायाभ्यां वियोजयेत् । मनसा व्यवहारं तु त्यजेद्वाकाययोजितम् ॥ १८॥ ननु पुत्रकलत्रादिना सह वाकायव्यवहारे सुखोत्पत्तिः प्रतीयते कथं तत्त्यागो युक्त इत्याह- जगदेहात्मदृष्टीनां विश्वासी रम्यमेव वा । आत्मन्येवात्मदृष्टीनां क विश्वासः क्व वा रतिः ॥ ४९ ॥ नन्वेवमाहारादावप्यन्तरात्मनः कथं प्रवृत्तिः स्यादित्याह- आत्मज्ञानात्परं कार्य न बुद्धौ धारयेचिरस् । कुर्यादर्थवशात्किञ्चिद्वाकायाभ्यामतत्परः ॥ ५० ॥ तदनासक्तः कुतः पुनरात्मज्ञानमेवबुद्धौ धारयेन शरीरादिकमित्याह- यत्पश्यामीन्द्रियैस्तन्मे नास्ति यन्नियतेन्द्रियः। अन्तः पश्यामि सानन्दं तदस्तु ज्योतिरुत्तमम् ॥ ५ ॥ ननु सानन्दं ज्योतिर्यद्यात्मनो रूपं स्यात्तदेन्द्रियनिरोधं कृला तदनु भवतः कथं दुःखं स्यादित्याह- सुखमारब्धयोगस्य बहिर्दुःखमथात्मनि । बहिरेवासुखं सौख्यमध्यात्म भावितात्मनः ॥ ५२ ॥ तद्भावनां चेत्थं कुर्यादित्याह- समाधिशतकम् । २८९ - तयात्तत्परान्पृच्छेत्तदिच्छेत्तत्परो भवेत् । येनाविधामयं रूपं त्यक्त्वा विधामयं ब्रजेत् ॥ ५३ ॥ ननु वाफायव्यतिरिक्तरसात्मनोऽसम्भवात्तस्यादित्याययुक्तमिति वद- न्तं प्रत्याह- शरीरे वाचि चात्मानं संधत्ते वाक्शरीरयोः । भ्रान्तोऽभ्रान्तः पुनस्तत्वं पृथगेपां विबुध्यते ॥ ५४ ॥ एवमबुध्यमानो मूढात्मा येपु विषयेप्वासक्तचित्तो न तेषु मध्ये .किश्चित्तस्योपकारकमस्तीत्याह--- न तदस्तीन्द्रियार्थेषु यत् क्षेमङ्करमात्मनः । तथापि रमते बालस्तत्रैवाज्ञानभावनात् ॥ ५५ ॥ तथानादिमिथ्यासंस्कारे सत्येवंभूता वहिरात्मानो भवन्तीत्याह- चिरं सुपुप्तास्तमसि मूढात्मानः कुयोनिषु । अनात्मीयात्मभूतेषु ममाह मिति जाग्रति ॥५६॥ ततोऽयहिरात्मस्वरूपं परित्यज्य स्वशरीरमित्थं पश्यदित्याह- पश्यनिरन्तरं देहमात्मनो नात्मचेतसा । अपरात्मधियान्येपामात्मतत्वे व्यवस्थितः ॥ ५७ ॥ नन्वेवमात्मतत्त्वं खयमनुभूय मूढात्मनां किमिति न प्रतिपायते येन तेऽपि तजानन्तीति वदन्तं प्रत्याह- अज्ञापितं न जानन्ति यथा मां ज्ञापितं तथा । मूढामानस्ततस्तेपां वृथा मे ज्ञापनश्रमः ॥ ५८ ॥ किञ्च- यद्वोधयितुमिच्छामि तन्नाहं यदहं पुनः । ग्राह्यं तदपि नान्यस्य तरिकमन्यस्य बोधये ॥ ५९॥ बोधितोऽपि भ्रान्तस्तत्वे वहिरात्मनो तत्रानुरागः संभवति मोहो- दयात्तस्य पहिरर्थ एवानुरागादिति दर्शयन्नाह- पहिस्तुप्यति मूढात्मा पिहितज्योतिरन्तरे । तुप्यत्यन्तः प्रबुद्धात्मा बहिावृत्तकौतुकः ॥६० ॥ - १

सनातनजैनग्रन्थमालायाम्
कुतोऽसौ शरीरादिविषये निवृत्तभूपगमण्डनादिकौतुक इलाह-
न जानन्ति शरीराणि सुखदुःखान्यबुद्धयः ॥
निग्रहानुग्रहधियं तथाप्यत्रैव कुर्वते ॥ ६१ ॥
चावच शरीरादावात्मवुद्ध्या प्रवृत्तिस्तावत्संसारखदभावान्मुक्ति-
रिति दर्शयन्नाह-
स्वबुद्ध्या यावद्गृह्णीयात् कायवाक्चेतसा त्रयम् ।
संसारस्तावदेतेपां भेदाभ्यासे तु निवृतिः ॥ १२ ॥
शरीरादावात्मनो भेदाभ्यासे च शरीरढतादौ नात्मनो दृढतादिक
मन्यत इति दर्शयन् 'धने' इत्यादि श्लोकचतुष्टयमाह-
घने वस्त्रे यथात्मानं न धनं मन्यते तथा ।
घने खदेहेऽप्यात्मानं न घनं मन्यते बुधः ॥ ६३ ॥
जीणे वस्ने यथात्मानं न जीर्ण मन्यते तथा।
जीणे स्वदेहेऽप्यात्मानं न जीण मन्यते बुधः ॥ ६ ॥
नष्टे वस्त्रे यथात्मानं न नष्टं मन्यते तथा।
नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुधः ॥ ६५ ॥
रक्त वस्ने यथात्मानं न रकं मन्यते तथा ।
रक्त स्वदेहेऽप्यात्मानं न रक्तं मन्यते बुधः ॥ ६६ ॥
एवं शरीरादिभिन्नमात्मानं भावयतोऽन्तरात्मनः शरीरादेः काष्टा-
दितुल्यताप्रतिभासे मुक्तियोग्यता भवतीति दर्शयन्नाह-
यस सस्पन्दमाभाति निष्पन्देन समं जगत् ।
अप्रज्ञमक्रियाभोगं स समं याति नेतरः॥ ६७ ॥
तद्विलक्षणो बहिरात्मा सोऽप्येवं शरीरादिभ्यो भिनमात्मानं किमिति
न प्रतिपद्यत इत्याह-
शरीरकचुकेनामा संवृतो ज्ञानविग्रहः।
नात्मानं बुध्यते तसाद् भ्रमत्यतिचिरं भवे ॥ ६ ॥

समाधिशतकम् ।
२९१
-
यद्यात्मखरूपमात्मतत्त्वेन वहिरात्मानोन बुध्यन्ते तदा किमात्मत्वेन
ते बुध्यन्ते इत्याह-
प्रविशद्लता व्यूहे देहेऽणूनां समाकृतौ।
स्थितिभ्रान्त्या प्रपद्यन्ते तमात्मानमवुद्धयः ॥ ६९ ॥
ततो यथावदात्मस्वरूपप्रतिपत्तिमिच्छन्नात्मानं देहाद्भिग्नं भावयेदि-
स्याह-
गौरः स्थूलः कृशो चाहमित्यङ्गेनाविशेपयन् ।
आत्मानं धारयेन्नित्यं केवलं ज्ञप्तिविग्रहम् ॥ ७० ॥
यस्त्वेवंविधमात्मानमेकाग्रमनसाभावयेत्तस्यैवमुक्तिर्नान्यस्येत्याह-
मुक्तिरेकान्तिकी तस्य चित्ते यस्याचला तिः ।
तत्य नैकान्तिकी मुक्तिर्यस्य नास्त्यचला तिः ॥ ७१ ॥
लोकसंसगै परित्यज्यात्मनः स्वरूपस्य स्वसंवेदनानुभवे सति स्याना-
न्यधेति दर्शयनाह
जनेभ्यो वाक् ततः स्पन्दो मनसश्चित्तविभ्रमाः ।
भवन्ति तस्सारसंसर्ग जनोगी ततस्त्यजेत् ॥ ७२ ॥
यतः एवं ततस्तस्माद्योगी त्यजेत् कं संसर्ग सम्बन्धं कैः सह जनैः।
तहि तैः संसर्ग परित्यज्याटव्यां निवासः कर्त्तव्य इत्याशङ्का निराकुर्वन्नाह-
ग्रामोऽरण्यमिति द्वेधा निवासोऽनात्मदर्शिनाम् ।
दृधात्मनां निवासस्तु विविक्तात्मैव निश्चलः ॥ ७३ ॥
अनात्मदर्शिनो दृष्टात्मनश्च फलं दर्शयन्नाह--
देहान्तरगते/जं देहेऽसिन्नात्मभावना ।
वीज विदेहनिप्पत्तरात्मन्येवात्मभावना ॥ ७४ ॥
तर्हि मुक्तिप्राप्तेर्हेतुः कश्चिद्गुरुभविष्यतीति वदन्तं प्रत्याह-
नयत्यात्मानमात्मैव जन्म निर्वाणमेव वा ।
गुरुरामात्मनस्तस्सान्नान्योऽस्ति परमार्थतः ॥ ७५ ॥

२९२ सनातनजनप्रन्थमालायाम् - नान्यो गुरुरस्ति परमार्थतो व्यवहारेषु तु यदि भवति तदा भवतु । देहे खबुद्धिर्मरणोपनिपाते किं करोतीलाह- दृढात्मबुद्धिदेहादावुत्पश्यन्नाशमात्मनः । मित्रादिभिर्वियोगं च विभेति मरणादृशम् ॥ ७६ ॥ यस्तु खात्मन्येवात्मबुद्धिः स मरणोपनिपाते किं करोतीलाह- आत्मन्येवात्मधीरन्यां शरीरगतिमात्मनः । मन्यते निर्भयं त्यक्त्वा वस्त्रं वस्त्रान्तरग्रहम् ॥ ७७ ॥ एवं च स एव बुध्यते यो व्यवहारे अनादरपरो यस्तु तत्रादरपर. स न बुध्यते इत्याह- व्यवहारे सुपुप्तो यः स जागांत्मगोचरे। जागर्ति व्यवहारेऽस्मिन् सुपुप्तश्चात्मगोचरे ॥ ७८ ॥ यश्चात्मगोचरे जागति स मुक्ति प्राप्नोतीलाह- आत्मानमन्तरे दृष्ट्वा दृष्ट्वा देहादिक वहिः । तयोरन्तरविज्ञानादभ्यासादच्युतो भवेत् ॥ ७९ ॥ प्रारब्धयोगावस्थायां निष्पन्नयोगावस्थायां च कीदृशं जगत्प्रतिभा- सत इत्याह- पूर्व दृष्टात्मतत्त्वस्य विभात्युन्मत्तवजगत् । स्वभ्यतात्मधियः पश्चात्काष्टपाषाणरूपवत् ॥ ८०॥ ननु स्वभ्यस्तात्मधिय इति व्यर्थ शरीराद्भेदेनात्मनस्तत्वल्पविद्भयः श्रवणात्स्वयं चान्येपा तत्स्वरूपप्रतिपादनान्मुक्तिर्भविष्यतीसाशङ्कयाह- शृण्वन्नप्यन्यतः कामं वदन्नपि कलेवरात् । नात्मानं भावयेद्भिनं यावत्तावन्न मोक्षमाक् ॥ ८॥ मोक्षभाजनं तावन्न भवेदात्मा। तद्भावनायां च प्रवृत्तोऽसौ कि करोतीयाह- तथैव भावयेदेहाट्यावृत्त्यात्मानमात्मनि । यथा न पुनरात्मानं देहे स्त्रमेऽपि योजयेत् ॥ ४२ ॥ -- समाधिशतकम् । २९३ - - - यथा च परमौदासीन्यावस्थायां खपरविकल्पस्त्याज्यस्तथा व्रतवि- कल्पोऽपि । यतः-- अपुण्यमवतैः पुण्यं प्रतैर्मोक्षस्तयोय॑यः । अवतानीव मोक्षार्थी प्रतान्यपि ततस्त्यजेत् ॥ ८३ ॥ कये तानि त्यजेदिति तेषां त्यागक्रमं दर्शयन्नाह-- भवतानि परित्यज्य व्रतेपु परिनिष्ठितः। त्यनेतान्यपि संप्राप्य परमं पदमात्मनः ॥ ८४ ॥ कुतोऽवतप्रतविकल्पपरित्यागे परमपदप्राप्तिरित्याह- यदन्त ल्पसंपृक्तमुत्प्रेक्षाजालमात्मनः । मूलं दुःखस्य तन्नाशे शिष्टमिष्टं परं पदम् ॥ ८५॥ तस्य चोत्प्रेक्षाजालस्य नाशं कुर्वाणोऽनेन क्रमेण कुर्यादित्याह- भवती बतमादाय व्रती ज्ञानपरायणः । परात्मज्ञानसम्पन्नः स्वयमेव परो भवेत् ॥ ८६ ॥ यथा च व्रतविकल्पोमुक्केतुर्न भवति तथा लिङ्गविकल्पोऽपीत्याह- लिङ्ग देहाश्रितं दृष्टं देह एवात्मनो भवः। न मुच्यन्ते भवात्तसादेते लिङ्गकृतामहाः ॥ ८७ ॥ येऽपि वर्णानां ब्राह्मणो गुरुरत एव परमपदयोग्य इति वदन्ति तेऽपि न मुक्तियोग्या इत्याह-- जातिदेहाश्रिता दृष्टा देह एवात्मनो भवः । न मुच्यन्ते भवात्तसादेते जातिकृतामहाः ॥ ८८ ॥ जातिाह्मणादिदेहाधितेत्यादि सुगमं । तर्हि ब्राह्मणादिजातिवि- शिष्टो निर्वाणादिदीक्षया दीक्षितो मुकिं प्रापोतीति वदन्तं प्रत्याह- जातिलिङ्गविकल्पेन येपां च समयाग्रहः। तेऽपि न प्रामुवन्त्येव परमं पदमात्मनः ॥ ८९ ॥ तत्पदप्राप्त्यर्थ जातिविशिष्टे शरीरे निर्ममत्वसिध्यर्थ भोगेभ्यो व्यावृत्त्यापि पुनर्मोहवशात् शरीर एवानुवन्धं कुर्वन्तीत्याह- - २९४ सनातनजैनग्रन्थमालायाम् यत्यागाय निवर्तन्ते भोगेभ्यो यदवाप्तये । प्रीतिं तत्रैव कुर्वन्ति द्वेषमन्यन मोहिनः ॥ ९० ॥ तेषां देहे दर्शनव्यापारविपर्यासं दर्शयन्नाह- अनन्तरज्ञः संधत्ते दृष्टिं पङ्गुर्यथान्धके । संयोगादृष्टिमङ्गोऽपि संधत्ते तद्वदात्मनः ॥ ९ ॥ अन्तरात्मा किं करोतीत्याह- दृष्टिभेदो यथा दृष्टिं पङ्गुरन्धेन योजयेत् । तथा न योजये हे दृष्टात्मा दृष्टिमात्मनः ॥ ९२ ॥ वहिरन्तरात्मनोः काऽवस्था का भ्रान्तिः का वाऽभ्रान्तिरित्याह- सुप्तोन्मत्तायवस्थैव विश्रमो नात्मदर्शिनाम् । विमाक्षीपदोपस लावस्थामदर्शिनः ॥ १३ ॥ ननु सर्वावस्थात्मदर्शिनोऽप्यशेषशास्त्रपरिज्ञानानिद्रारहितस्य मुक्ति भविष्यतीति वदन्तं प्रत्याह-- विदिताशेषशास्त्रोऽपि न जाग्रदपि मुच्यते । देहात्मदृष्टिांतात्मा सुप्तोन्मत्तोऽपि मुच्यते ॥ ९४ ॥ सुप्तावस्थायामप्यात्मस्वरूपसंवित्त्यवैकल्यात् कुतस्तदा तदवैक यमित्याह- यत्रैवाहितधीः पुंसः श्रद्धा तत्रैव जायते । यत्रैव जायते श्रद्धा चित्तं तत्रैव लीयते ॥ १५ ॥ आसकं भवति के पुनरनासक्तं चित्तं भवतीयाह-- यत्रैवाहितधीः पुंसः श्रद्धा तसान्निवर्तते । यसान्निवर्तते श्रद्धा कुत्तश्चित्तस्य तल्लयः ॥ ९६ ॥ यत्र च चित्तं विलीयते तद्धयेयं भिन्नमभिन्नं च भवति। तत्र भिन्न स्मनि ध्येये फलमुपदर्शयन्नाह- भिन्नात्मानमुपारयात्मा परो भवति तादृशः । वर्तिोपं यथोपास्य भिन्ना भवति तादृशी ॥ ९७ ॥ - . - समाधिशतकम् । २९५ - - - इदानीमभिन्नात्मन उपासने फलमाह- उपास्यात्मानमेवात्मा जायते परमोऽथ वा। मथित्वात्मानमात्मैव जायतेऽनिर्यथा तरुः ॥ ९८ ॥ उक्तमर्धमुपसंहृत्य फलमुपदर्शयन्नाह- इतीदं भावयेन्नित्यमवाचागोचरं पदम् । स्वत एव तदामोति यतो नावर्तते पुनः ॥ ९९ ॥ नन्वात्मनि सिद्धे तस्य तत्पदप्राप्तिः स्यात् । न चासौ तत्त्वचतुष्टया- मकाच्छरीरात्तत्त्वान्तर्भूतः सिद्ध इति चार्वाकाः । सदैवात्मा मुक्तः सर्वदा स्वल्पोपलम्भसम्भवादिति सांख्यास्तान्प्रत्याह- अयलसाध्यं निर्वाणं चित्तत्त्वं भूतजं यदि । अन्यथा योगतस्तस्मान दुःखं योगिनां कचित् ॥ १० ॥ कथं सर्वदास्तित्वं सिध्येदिति वदन्तं प्रत्याह- स्वमे रटे विनटेऽपि न नाशोऽस्ति यथात्मनः । तथा जागरदृष्टेऽपि विपर्यासाविशेपतः ॥ १०१॥ नन्येवं प्रसिद्धस्याप्यनाद्यनिधनस्यात्मनो मुक्त्यर्थं दुर्द्धराजुष्टानक्लेशो पर्थो ज्ञानभावनामात्रेणैव मुक्तिप्रसिद्धरित्याशझ्याह- अदुःखभावितं ज्ञान क्षीयते दुःखसन्निधौ । तलायथायलं दुःखैरात्मानं भावयेन्मुनिः ॥ १०२ ॥ तिष्ठति नियमेन तिष्ठेदिति वदन्तं प्रत्याह- प्रयतादात्मनो वायुरिच्छाद्वेपप्रवर्तितात् । वायोः शरीरयन्त्राणि वर्तन्ते स्वेपु कर्मसु ॥ १०३ ॥ तान्यात्मनि समारोप्य साक्षाण्यास्ते सुखं जडः । त्यक्त्वारोप पुनर्विद्वान् प्राप्नोति परमं पदम् ॥ १०४ ॥ समारोपं शरीरादीनामात्मन्यध्यवसायं कथमसौ तं त्यजतीत्याह- मुक्त्वा परन परवुद्धिमहंधियं च संसारदुःखजननी जननाद्विमुक्तः ।

सनातनजैनग्रन्थमालायाम् . ज्योतिर्मयं सुखमुपैति परात्मनिष्ठ- स्तन्मार्गमेतदधिगम्य समाधितनम् ॥ १०५ ॥ प्रशस्तिः। येनात्मा बहिरन्तरुत्तमभिदा त्रेधा विवृत्यादि ते मोक्षोऽनन्तचतुष्टयामलवपुः सद्धयानतः कीर्तितः। जीयात्सोऽत्र जिनः समस्तविपयः श्रीपादपूज्योऽमलो भव्यानन्दकरः समाधिशतकः श्रीमत्प्रभेन्दुः प्रभुः ॥१०६॥ इति श्रीमत्पूज्यपादखामिविरचितं समाधिशतकं समाप्तम् । alooteocote समाप्तोऽयं प्रथमोगुच्छकः।

अस्य गुच्छकस्य शुयशुद्धिपत्रम् । पृष्ठम् पतिः ४० १६ निषिद्यते ४८ अशुद्धपाठः शुद्धपाठः ९ परिणममाणस्य परिणममानस्य ३४ १५ निरभिमुखाः निरभिमुखा १९ यतिधर्मकथयन्नुपदिशति यतिधर्ममकथयन्नुपदिशति ३९ ३ कालोच्छन्नत्रसानि कालोच्छिन्नत्रसानि निषिध्यते ४१ १४ हिंसायां हिंसायाः ४३ १९ भुक्तौ भुक्तः ४६ २५ भक्तिमतिभावितत्यागः भक्तमिति भावितस्त्यागः २. लेखकृती: लेखकृती १९ इत्येतानतिचारानपि योगी इत्येतानतिचारानपरानपि ४९ ६ मुप्तितृतयं समनुगम्यम् गुप्तीनां त्रितयमनुगम्यम् १४ व्याधिदुःखसंगमनम् व्याधिदुःखमामलम् ४९ २० मुक्किमभिलषिता मुक्तिमभिलपता ५० १२ तस्मात्तत्पुन- १२. देहवित्तिका देहवित्तिकाः १० पूतिकृमिश्रेणिभिः पूतिक्रमिश्रेणिभिः ५८ २० कोपादिवान् कोपादिमान् २ काशा कासा ६०. १५ पहिरपि वहिरपि ६० १६ परिणति- परिणति- ६३ २३ स्तमिन् स्तस्मिन् ૬૮ १० त्रियस्त्वदिह स्त्रियस्तदिह ४९ नासति तत्पुन- - .

सनातनजैनग्रन्थमालायाम् २ ७८ १३ भेतव्यं ८० - - - - ६९ ७ श्रुतवदुरुपतः श्रुतवदुरु तपः ७५ १६ विषमाश्च मानः विषयाश्च मान- १४ मपिच्छमाल्यं मपिच्छमाऽल्पं १८ हिमेति संस्थाः। हि मेति मंस्थाः। ७९ भेत्तव्यं २६ काशा का सा ८५ ५ तत्त्वार्थश्रद्धान तत्त्वार्थश्रद्धानं ९१ २५ -वीचीभापणं वीचिमापणं S२ ११ मारणान्तिकी मारणान्तिकी १३ १७ वर्णानुपूर्व वर्णानुपूर्व्या S४ १ सद्वेद्यः शुभायु- सद्वेद्यशुभायु- १३ सूक्ष्मसाम्परायछद्मस्थ- सूक्ष्मसाम्परायच्छन्नस्थ- ९५ २२ -लम्वूवरेण्डवीज -लाम्बूवदेरण्डवीज- २क्षन्तव्य क्षमितव्यं ९७ १२ सुनिश्चितः सुनिश्चितम् ९७ १९ हेयोपादानरूपेण हेयस्यादानरूपेण ९८ १ सल्वमी सन्नी ९ ८२ नस्यमाना नयादेशात् न्यस्यमानतयादेशात् १८ १८ प्रतक्षं प्रत्यक्षं ९९ ६ प्रोक्तभाव प्रोक्तमवि ९९ ७ व्यास्याद्विशतिधा व्यासाविंशतिधा ९९ ९ अनुगोऽनानुगामी अनुगोऽननुगामी १० वर्द्धि- वर्द्धिष्णु- ९९ १३ खार्थज्ञाननक्षानपेक्षया । स्थार्थज्ञानमन्याऽनपेक्षया। 58 १९ घातिकार्म घातिकर्म 100 १४ नैगम- नैगमः - शुद्धयशुद्धिपत्रम् । ३ - ३ १०० २३ भेदे नैक्य- भेदेनैक्य- १.१ १३ पदव्या- पतत्त्वा- १०१ २४ क्षायौपशमिक क्षायोपशमिक १०२ ७-सिद्धोऽसयंतस्तथा । सिद्धोसंयतस्तथा । १०२ ११ पारणामिकमावस्य पारिणामिकभावस्य १२ १८ यद्विशेषमकृत्वैपं यद्विशेषमकृत्वैवं ४ मिथ्यादर्शनकर्मणा मिथ्यादर्शनकर्मणः ०३ १५ संयमद्धि संयमद्धि १०३ २२ शमनाक्षपणात्तथा। शमनात्क्षपणात्तथा। १०४ ३ द्विविधा द्विधा १०४ ५ चतुर्दशः चतुर्दश १०४ ११ प्राणापानस्तथायुश्च प्राणापानौ तथायुश्च १०४ १६ वेद क्रोधादिवित्तिपु! वेदक्रोधादिवित्तिपु!! १०५ ऽपरा १०५ २३ समाते १०५ २६ वृश्चिकश्चन्द्रगोपकाः वृश्चिकश्चन्द्रगोपकः १०६ ९ लवणोदयस्तथा लवणोऽयस्तथा १०६ १२ क्रिरोलका के किरोलकाभ्रके १०६ १७ पड्विंशत् पष्ट्रिंशत् १०७ २ मनोवाग्योगयोगायोगानां मनोयोगा वाग्योगानां १०७ १४ निरुपयोगी निरुपभोगौ १०८ २ देवीनामैशानो देवीनामशानं १०८ ४ कपणान्गतः कपणान्मतः १०८ ९ प्राण्यक्षपरिहारः प्राणस्य परिहारः १०८ २१ सिद्धलयोगा सिद्धलयोग्याः १०८ २२ सम्यक्तं सम्यक्वं ३ ऽपराः समा खेते सनातनजैनग्रन्थमालायाम् १०८ २५ मिथ्याद्दर्शन ११३ १९ ततोऽन्याऽभ्यो १२६ ९ स्निग्धरूक्षत्वाइन्धन्ते १२९ ९ निवृत्तत्वं १३२ ३ तत्त्वपरायणाः १३४ २३ वन्धतत्त्व १३५ ९ धर्मस्तद- १३६ ४ भवत्यैक- १३८ १३ उष्णरुक्ष- १४३ १७ तत्रावमोदर्यमुपवासौ १४५ २ प्रवज्याहायन १४६ २ यद्धर्मध्यानं १५५ टि. -प्रामाण्य- १६० २३ -लघुलम् । सूक्ष्मा १६१ १३ परिणामितत्वा- १६१ १९ उग १६६ ४ अभेदानुचरितया १७० ३ सिद्धिममीसुभिः १७६ २२ यतस्तत्त्ववेदी १८३ १३ तदेव १८३ २५ समिति परतां १८६ २ एप एक १९१ २३ माज्ञानी १९४ १ -निरूपिणा- १९७ ८ श्चेत्यता १९८ १९ विष्ठयात्मनि खात- मिथ्यादर्शन ततोऽन्याभ्यो स्निग्धरूक्षत्वाइन्धं ते निर्वृतत्वं तत्त्वपरायणः वन्धतत्त्वं धर्मस्तदा भवखैक्य- उष्णरूक्ष- तनावमौदर्यमुपवासो प्रवज्याहापनं यद्धय॑ध्यान प्रामाण्या- लघुत्वं सूक्ष्मा =परिणामित्वा- उग्गा अभेदानुपचारतया सिद्धिमभीप्सुभिः यस्तत्ववेदी तदैव समितिपरता एक एप अज्ञानी -निरूपणा- चिन्यता तिष्टत्यात्मनिखात- - - -- -

Sanatanjaingranrhmala

Author
Pannlalvanshidhar
Title
Sanatanjaingranrhmala
File name
Sanatanjaingranrhmala
Text
OCR done
Citation
1905
Published
2009/11
Publisher
Mumbai, Nirnayasagar Press
Language
Sanskrit
Pages
309
Library
Sanmati Library, Jaipur
Classification
Jain granthamala
DLI number
344248
Barcode
99999990234123.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
Rights
Copyright permitted
VMLT id
JhsGMZIfTBk
Download PDF

Sanatanjaingranrhmala