Sringeri Sharada Peetham

Shika-upanyasa

Dr.keshava Chandra Das · 2005/03/10

PDF Proofread

Front matter

शिखा
(उपन्यासः)
विद्वन्मणिः
डा० केशवचन्द्रदाशः
लोकभाषाप्रचारसमितिः, पूरी

शिखा
(उपन्यास)
लेखक:-
डा. केशवचन्द्रदाशः
न्यायदर्शनविभागः,
श्रीजगन्नाथसंस्कृत विश्वविद्यालयः,
श्रीविहारः, पुरी-752002
अध्यक्षः,
प्रकाशिका-
लोकभाषा-प्रचार-समितिः,
शरधाबालि, पुरी-752002
प्रथमसंस्करणम्-1994
राष्ट्रियसंस्कृतसंस्थानस्य अर्थसाहाय्येन
प्रकाशितोऽयमुपन्यासः
-
श्रीनारायणप्रेस्, बालिसाहिः, पुरी।
मूल्यम्-रू०

शिखा ते वर्धते वत्स!
गुडूची श्रद्धया पिब ।
तैत्तिरीयोपनिषद्, ब्रह्मवल्ली-२३)

शिखा आलय आवश्यकः। अहरहो विरहः । अविरता विरुतिः। आलोके न पुलकम् । कामना लीना विलीना -। वासना विवसना। दृश्यानि साक्षात् धूसरभूषणानि । मनो वनभूमिरेव । 'तथापि तव नवनवनीततमुरेका ललितलता, रजनि-!' रजनी चिन्तयति । परमाश्रयः कुत्र ? आश्रयो नापेक्ष्यते । न वरणम् अपितु शरणमपेक्ष्यते । कि चरणरेणुः ? तदेव शरणम् ? न शरणम् अपितु सरणिः । आलय- निमित्तं मार्गः। आलये सहलय "सहलये महालयः। 'पितृलोकं परित्यज्य आगता ये महालये- उज्ज्वलं ज्योतिषां मार्ग प्रपश्यन्तु व्रजन्तु ते'- कुलमणिः दीपार्पणे मग्नः । कुलमणिः कुलीनः। सः शेषवयोनिवासी। वसने तस्य परम्परा । आसने संस्कृतिः । अशने प्रकृतिः । व्यसने विकृतिः। शयने स्वप्नो जागतिकः। चलने विश्वासो भौतिकः । स हि जनकः। पुत्रो 'विलासः' । कन्या 'रजनी' । किन्तु स विपत्नीकः। बाल्यसखी इदानीं तु मस्तकस्य शिखा । अपरा सखी इयं दीपशिखा । अद्य देहे न उत्तेजना। न इन्द्रिये शक्तिः । स्मृतितले समयस्य चपलता। सरलकुटिलपथे अतीतलहरी । अभितो जीवनम् । न सत् । न असत् । न सदसत् । न वा सदसद्भिन्नम्। केवलं प्रभिन्नम्।

६] - : : कुलमणिनयने इदानीं न सा प्राचीनकुटी। परितः प्रासादाः । वृक्षतले न छाया, न वा देवता। सर्वत्र उच्छिष्टस्तूपाः । नदीधारे न पुण्यतोयम् । अपितु शिल्पानां वजितम् । पवने न सुरभिः। केवलो धूमः । उत्तापो भवति । परं कर्द मं न शुष्यति । वृष्टिः भवति । किन्तु दूषितं न प्रधूयते । मुर्मो --! मुर्मो -! मुमुः सद्य उपस्थितो भवति । नित्यनैमित्तिकं प्रस्तौति । करणीयं पृच्छति । कुलमणिः शान्तो भवति । चिन्तान्तराले जृम्भते मुर्मोः इतिहास: महादेवमन्दिरनिकटे तद्दिने मुमु: रुदन् आसीत्। निकटे तस्य मातृशवः । यायावरी सा गिरिजनः। कम निमित्तं ग्रामाञ्चल- मागत्य मन्दिरस्य पश्चात् वसतिमकरोत् । मुर्मुः पितरं न दृष्टवान् । माता एव तदर्थं सर्वमासीत् । अज्ञातरोगे सा शेषश्वासं परित्यक्त- वती। दिनत्रयं यावत् शवः तस्याः तत्रैव पतति । तन्निकटे मुमुरपि तथा उपविशति । यदा क्षुधा बाधते तदा मुर्मुः प्रसादनिमित्तं मन्दिरमागच्छति । तद्दिने कुलमणिरपृच्छत् । कि- रे...! किमर्थं विषण्ण: ? भगवन् ! मम माता अस्वस्था । कदा प्रभृति ? दिनत्रयतः तत्क्षणमेव कुलमणिः मन्दिरस्य पश्चात् आगतः । पूतिमयं शवं विलोक्य स स्तब्धः । ततः त्वरया संस्कारनिमित्तं सर्वमायोजितवान् । चिताशिखायां मुमुः ग्रासस्यैव चित्रं विलोकयति स्म । यदा शिखा अवनता तदा मुमु: उच्चैः आक्रोशत् । भगवन् ! मातरं मे भस्मसात् कृतवान् ? कुलमणिस्तु गम्भीरभावेन स्मरति- 'नैनं दहति पावकः । पावकः पुनाति एव ।' मुमु: कातरभावेन तस्य चरणे शरणं गृह्णाति । तन मस्तकं निधाय विलपति-भगवन् ! मातरं मे प्रत्यर्पय । प्रत्यर्पय भगवन्!' कुलमणिस्तु गम्भीरभावेन तम् उत्थाप्य प्रत्यावर्त्तत। - . ।

[७ मुमु धृत्वा प्रतिष्ठते कुलमणिः । मुखे चिन्ताया गंभीरस्पर्शः। पश्चात् चिताया अवशेषः । परितः तस्य पादुकाशब्दः साक्षात् कालस्य अट्टहासः। तदनु मर्मुः सेवकः पुत्रः । दिननेपथ्ये इत्थं जीवनकथा अतीतग्रस्ता। विषयविस्तारे मुमुअद्य वयस्कः। परिवारे स आत्मीयः। लघुसमाजे च अविच्छिन्नसदस्यः । तदा प्रभृति मुर्मुः भ्राता। रजनी भगिनी। कर्मपरिसरः कुलमणे: निर्देशः। आशामूले प्रगतिः । विश्वासे श्रीकृष्ण रतिः । समस्यायाः अन्तःकरणे तथापि निगूढा संसारप्रीतिः । विलासो वणिक् । वाणिज्यनिमित्तं तस्य गृहसम्पर्कः छिन्नः । पिता कुलमणिः तन्निकटे दैन्यस्य उपासकः। दरिद्रता तदर्थं विलासः । अभावमूले ईश्वरो महीयान् । अभाव एव शान्तये मार्ग निर्माति । अभावे जन ईश्वर- मुपास्ते । शान्ति लभते । आधितो मुक्ति प्राप्नोति । अतः अभाव आवश्यकः । किन्तु विलासः अस्यैव मनोभावस्य विरोधी। तत्कृते तु अर्थनीतिरेव जीवनस्य मानदण्डः । यदि अर्थनीतिः न सुविन्यस्ता तहि सर्वाऽपि नीतिः वृथा। एतदर्थं विलासः बाल्यात् वाणिज्य- प्रणयी। वाणिज्ये हि वसति लक्ष्मीः। अद्य जनपदे विलासः प्रसिद्धो वणिक् । स मान्यः गण्यश्च । स नेता । सकलकर्मणि च जननायकः । अतः यत्र निवास: तत्र गृहम् । जन्मगृहं तु अख्यातनामे, यत्र पिता कुलमणिः शीर्यते, यत्र मूर्खमुमुः प्रतिदिनं घासं संगृह णातिकाष्ठानि आहर रतिगाश्चारयति सायंकाले च वृद्धं सेवते । यत्र च रजनी अद्यापि विधवा । रजनी विधवा " अशुभदर्शिनी पूर्वजन्मनो दुष्कृतिनिमित्तं सैका अभिशप्तसैकतशय्या"। एकस्मिन् गृहे रजनी - कन्या- भगिनी जाया जननी । अद्य जगति तदर्थं न किंचिदपि वर्तते द्रष्टुम् श्रोतुम् - स्वादयितुम् उपभोक्तु वा-। भुजच्छायातले सैका प्रत्यूषतारका कियत्क्षणकृते आविर्भूय पुनस्तिरो भविष्यति। कन्या गृहस्य। भगिनी साधारणजनस्य । जाया प्रेमपुरुषरसेश्वरस्य। जननी जीवमात्रस्य। .. जरज्जनकस्य सा ८] किन्तु सरलकामनातले रजनी तथापि एका ललितललना। मनसि तस्याः प्रच्छन्ना अभिलाषा अनेके । कर्मप्रेरणायां कृत्यं बहु । आस्वादन भावनायां पृथिवी बहुरूपा। ममत्वचेतनायाँ दिवसाः विचित्रवर्णाः परमद्य अश्रुधारे तस्या न परमपुरुषः न वा परपुरुषः "अपितु केवलः पुरुषः यः आगत आसीत् किंचित् निजत्वं वहन् किंचित् ममत्वं परिपोषयन् किंचित् ऐकात्म्यं द्रढ़यन् । घटना तु घटते । एतस्याः प्रतिरोधः अवरोधो वा सर्वमत्र घटनैव। सर्वश्च घटनावशः। इत्थं घटनाप्रवाहे स पुरुष आगतः विगतोऽपि । रजनी तु साक्षिणी । सा प्रतिभूः मनाक उच्छिष्टस्य.. परिशिष्टस्य मनाक् अवशिष्टस्य। अग्र परिशीलनाय परिसरः प्रशस्तः । अवसरश्च पुष्कलः । परं को लाभः ? कर्मपरिसरे सम्प्रति पितुनिर्देशः। शांतिनिमित्तं पूजा उपासना-उपवास:"। रजनी समाजविकला । सम्मुखे तस्या अद्यत्वे सहयायिन्य: सौभाग्यवत्यः। तासां वसने भूषणे च प्रतिदिनं रङ्गविचित्रा। व्यवहारे च नवीना भङ्गी। वचने नाना कथा प्रपञ्चिकाः। अहंकारे सामाजिकी प्रतिष्ठा लक्ष्य निगूढ़ा । अभिमाने मातृत्वगौरवं विषय विपुलम् । आभिजात्ये दाम्पत्यस्य परिवत्तितशैली मनाक् सान्द्रा। शम्पा एका सैकतरेखा। समाजे सा सम्मानिता सौभाग्यवती । सा शिक्षिता सभ्या । संसारस्य वार्ता तदर्थं मुक्ता । बहुजनसम्पर्कः तदर्थं मधुपर्कः । सा नेत्री परिवारस्य । उन्नती परिवेशस्य अभिनेत्री पारिपाश्विक सम्पर्कस्य । तस्याः समतलप्रवृत्तिप्रसरे नाना पदचिह्नानि....... विभिन्ना आकृतयः""अगण्याः प्रतिमाः अतुलानि रूपाणि पुनश्च मधुर- सम्बोधनानि । तथापि उच्चारणकलायां तन्निकटे प्रहेलिका अर्थस्य ललितनिह नुतिः; किन्तु परिचितनामानुक्रमणीषु तस्याः प्रियतम 'निशान्त' इति श्रद्धानाम । निशान्तः विलासस्य बन्धुः । दाम्पत्यस्य अभिषेकनेपथ्ये निशान्तः चतुरो लिपिकः । तस्य प्रथम- सेवावृत्तिः राज्यस्य सचिवालये । अतः राज्यस्य नीतिविषये स 18 निष्णातः । जनानां भाग्यविषये स भविष्यद् वक्ता । स जानाति, अत्र केन प्रकारेण धनमागच्छति । केन प्रकारेण च शासनं प्रचलति । धनोपार्जनमार्गः तन्निकटे सरलः । इतस्ततो विक्षिप्तपुस्तिकासु हि स राज्यस्य भाग्यलिपि नियमिततया पठति । अतो जनान् असौविध्ये निक्षेप्तु स कौशलं जानाति । तदपि कार्ये सम्यक् रूपयति । धनमु- पार्जयति । जनान् शोषयति । राज्यं दूषयति । निजकार्यमपि कलुषयति । अनेन स आनन्दं लभते । समृद्धयां समेधते नगरे क्षेत्राणि क्रीणाति । गृहाणि निर्मापयति । यानेन गमनागमनं करोति । तन्निकटे नीतिदुर्नीत्योः पार्थक्यं नास्ति । तस्य समग्रमनोवृत्तिषु जनानाम् असौविध्यसृष्टि रेव संकल्पः । जनपदस्य विलासपूर्णेषु अट्टशूलेषु वणिग्- बन्धूनां सम्मेलने रानियापनं तस्य जीवने महीयसी धारा । वृत्तिः सचिवालये। भोजनम् अट्टशूले । निजगृहाणि तु भाटकीयानि । न पत्तीचिन्ता, न वा निजचिन्ता। अवधाने केवलः सचिवालयः । आदिमधारायां कुलमणिः पेचकावतारः । अनुभवे तस्य दूषितदिवसाः। तथापि निष्ठायां सः अचलः । कौलिक- जीवनधारायां नितरां विश्वासी। सरललक्ष्ये तस्य यथाकथंचित् समस्यायाः समाधानमेव प्रतिज्ञा। विश्वासे प्रगाढ़ा कृष्णचेतना। पापपुण्यमूल्याङ्कने स सामाजिकः। सकलप्रतिज्ञायां सत्यमेव तस्य व्रतम् । आत्मविश्वासे पारिवारिकी शान्तिरेव तत्त्वसूची। तद्दिने स कुम्भमेलात: प्रत्यागतः। सर्वे वृद्धप्रतिवेशिनः तमुपगताः । गङ्गामाहात्म्य विषये चर्चा अभवत् । प्रत्येक: अपृच्छत् । किं गङ्गाजलमानीतं वा ? कुलमणिः सविश्वासं सगर्वं च अवदत् । कुम्भपूर्णमानीतम् । तहि, स्तोकं दीयताम् । कुलमणिः गङ्गाजलं सानन्दं व्यतरतु । वृद्धाः प्रसन्ना हृष्टाश्च अभवन् । अहो "भवतो भाग्यम्!! अस्मासु भवान्नेव पुण्यवान् । वयं पापात्मानः । पूर्वजन्मनि कानि दुष्कृतानि आचरितानि, न जानी- -। गङ्गाया दर्शनमपि न कृतम् । भवतु , भवान् भाग्यवान् इति वयमपि भवदीयभाग्यभोगिनः । समयेऽस्मिन् विलास उपस्थितः । अतिशयं च अकुप्यत् । - - - - १०] ...... W ....- किमानीतम् ? कुम्भमितं जलम् .. ? कुम्भमितजलनिमित्तं सहस्रनयं व्ययितम् । किमनेन पापानि धौतानि ? पापात्मा भवान् पुण्यात्मा संजातः ? किं मम सर्वमपि अजितम् अनेनैव मार्गेण व्ययीभविष्यति ? को लाभः अत्र ? यदि सहस्रनयं मन्निकटे अस्थास्यत् तहि व्यापारे मे महान् लाभोऽभविष्यत् । लाभांशेन व्यापारान्तरमपि अकरिष्यम् । नाऽहम् इतःप्रभृति किंचित् दास्यामि । भवान् निजयोजनां करोतु। निजवृत्त्या च जीवन निर्वाहयतु । कुलमणिः अगर्जत् । धूर्त ...! निशाचर"! इयान् ते साहसः ? किमहं ते वाणिज्यस्थली -? किमहं ते उत्पादनशीला शिल्पसंस्था ? अथवा ते वचस्करः ? यत्त्वं वदेः तदहं करिष्यामि ? नय ते धनम् । त्वत्तः जलमपि ग्रहीतु नेच्छामि । याहि ", शीघ्र गृहं परित्यज । अद्य प्रभृति न ते स्थान- मिह । गच्छ "", वाणिज्यभूमौ निवस । तत्रैव धनसंचयं कुरु । पितापुत्रयोः कलहे रजनी सहानुभवविधुरा । म्लानमनोमूले तस्या असंयतस्वप्नानां समष्टिः । उद्यतचिबुके स्थिरतरङ्गः। सम्मुखे गङ्गाजलस्य पुण्यतायां पुनः वियोगस्य पूर्वरङ्गः । मङ्गलमहोत्सवस्य आयोजने पिनाकिनो धनुर्भङ्गः साङ्गोपाङ्गः । पापपुण्य विचारे मुर्मू: मर्माहतः । कलहे दोषमन्विष्य स प्रश्न- पशुः-कुन दोषः ? गङ्गाजले ? धनव्यये ...? धनसंचये..? अथवा परोपजीवने ? तदा प्रभृति विलासः प्रवासी। जीवनधारा निजानुमता। कर्मश्री: स्वैरिणी। वचने वैपणीकता। व्यवहारे आपणि कस्य मधुपर्कः । सम्पर्को न ऐकिकः । धनाय स सतर्कः। व्यापारे सर्वोऽपि ग्राहकः । न तत्र गृहम् । न परिवारः । न बन्धुः, न वा कश्चित् आत्मीयः। सर्वोऽत्र पारिपाश्विकः केवलो व्यक्तिकैन्द्रिकः । विलासस्य गमनतः परं रजनी अवसन्ना । पुनर्विवाहस्य आशा तस्या मलिना । भौतिकी इच्छाऽपि अवदमिता। प्रवृत्त्यग्रे सम्प्रति दण्डायमाना गृहदेवता। आरतीशिखातले छायाप्रतिमः वृद्धपिता। द्वारदेशे मङ्गलशङ्खधमने मग्नः मुमुः। निजकरे तस्या मङ्गलारती।

[११ : अंगुल्यग्र आरत्रिकतैलम् । निमीलने ज्वलशिखा। उन्मीलने शुष्क- वत्तिका। ममकारे मुर्मुः मार्मिकः । स्नेहसाहित्ये तस्य रजनी एका मुग्धा माधवी। वैधव्येऽपि व्यवहारेण सा विदग्धा वधूः । पितुरभिधाने समस्या तस्या वैधानिकी । परं मुर्मोः निर्बोधबोधे विधिरयम् असाधुः । एकदा स कुलमणिमपृच्छत् । पित: ! किमर्थं भगिन्या पुनर्विवाह नायोजयति ? कुलमणिः विषण्ण- भावेन अवदत् । वरः कुत्रा ? - . - अहमन्वेषयिष्यामि। - तहि, अन्वेषय। यदि मिलेत्। तर्हि, अचिरं सम्पादयिष्यामः । मुमु: विस्मितः। स ज्ञातु न प्रभवति-किमर्थं वृद्धोऽयं निजपुत्रविलासं वरान्वेषणतो वारयति । कथं च सेवकं कार्येऽस्मिन् अनुमोदयति । तथापि तदा प्रभृति मुमु : रजनीनिमित्तं वरमन्वेषयति । अन्वेषणे तस्य अनेके धनिनः । बहवः सुन्दरपुरुषाः । नैके राजपुत्राः । किन्तु न कोऽपि उपयुक्तो दृश्यते । एकदा कुलमणिः तमबोधयत् । अरे मुर्मो ! त्वमपि निर्बोधः । विधवां कोऽपि परिणयति वा ? किमर्थं वृथा भ्रमसि ? अद्यत्वे तु अविवाहिताः कन्या विधवा इव जीवनं नयन्ति । यदा अनूढ़ानाम् एतादृशी दशा तर्हि विधवां को वा पृच्छेत् ? वैधव्यम् अभिशापः । प्राग्जन्मनः दुष्कृतेः परिणामः । अभिशापस्य किं निवृत्ति स्ति? - सम्भवेत् । किन्तु ? कोऽयमुपायः...? उपाय: उपासना । भगवति भक्तिः। प्रवृत्तेः निरोधः । पुनश्च संस्कारः। - १२] nema - ? कस्य संस्कारः? जनस्य, देशस्य, जातेः, समाजस्य, तव मम च । भवान् तु सर्वं जानाति । किमर्थं न करोति ? कुलमणिः गम्भीरोऽभूत। मनसि संलग्नानि संस्कारस्य विधानानि किन्तु स सहसा विहस्य अवदत् । अरे ! प्रथमतः गृहस्य संस्कार आवश्यकः। तदनन्तरं देहस्य । मुर्मोः अल्पप्राणमनस्तत्त्वे संस्कारपद्धतिः साक्षात् अरण्यस्य निष्क्रम विशालता । स किंचित् विशङ्कमानः अपृच्छत् । गृहसंस्कारः केन प्रकारेण भवेत् ? सत्येन। किमिदं सत्यम् निर्मल भावः । वचनेऽस्मिन् मुमु: द्विधाग्रस्तः। अवबोधे तस्य न किमपि प्रत्यफलत् । निजमूर्खतां धिक्कृत्य स पराङ मना अभूत् । कुलमणिः मनाग विहस्य तस्य पृष्ठे करमचालयत् । क्रमशश्च निजवक्षसि तस्य मस्तकं न्यवेशयत् । केशोपरि करं संचाल्य अवदत् । वृथा मा चिन्तय। त्वं मम पुत्रः। बाल्यात् त्वं मदंके परिवर्धितः । आवयोः पार्थक्यमिह गौणम् । अधुना ते शिक्षणस्य वयः। गृहमिदं शिक्षणस्य मुख्यस्थानम् । अत्र द्विधावसरः नास्ति । किमर्थं त्वं हीनमनाः? अपूर्ववात्सल्ये मुर्मू: नितरां प्रसन्नः। अनुभवे तस्य परमा- श्वस्तिः। नयने तु आनन्दाश्रु-'न कोऽपि कस्मै किंचित् ददाति, केवलो व्यवहारः परस्परकृते सेवामनोभावः। किंचित् त्यागः । साधारणं च आनुगत्यम् । साहाय्यनिमित्तं कृतज्ञता। अनुज्ञानि मिसं च मनाक प्रस्तुतिः। अननुमतस्यापि किंचित् स्वीकृतिः। एतत् सर्वं तु स्नेहबन्धनम् ।' मुम: चिन्तयति । कुलमणिश्च बोधयन् प्रवर्तते। समयेऽ- स्मिन् पूजां समाप्य उपगता रजनी । सा सामान्यमहसत् । • अरे मुर्मो! किमनुदिनं बालः संजायसे ?

[१३ रजनीवचनं निशम्य मुमुः कुलमणिवक्षसो मुखमपानयत् । अपूर्णयुवकस्य सुलभवचसा सः अवदत् । किमयं तवैव पिता? न मम रजनी स्फुटमहसत् । प्रसादं समर्प्य आदिशत् । अरे “याहि । काष्ठानि आहर । अन्यथा अध पाकरोधः। रजनी अन्त. प्राविशत्। मुमः काष्ठानि आहर्त, गृहोद्यानमगच्छत् । आहरणसमये बहिः कश्चित् शब्दापितवान् । मुर्मो! मुर्मो ! मुर्मुः अपश्यत्-वृतेः अपरपावें दण्डायमानः प्रतिवेशिनो भृत्यः 'मेघुः' । मुमु: तमुपागच्छत् । मेधुः आकारितवान् । वृतेः अपरपार्श्वमागच्छ। नहि। किं वदसि"वद। अद्य अहं गच्छामि । : - - कुत्र ? - - - - - गृहम् । किमर्थम् ? अद्य प्रभुपत्न्या सह कलहोऽभूत् । किमर्थम् ? सा तु सर्वदा मां ताड़यति', भर्त्सयति, यस्मिन् कस्मिन्नपि कर्मणि निन्दति, जुगुप्सते अपि । एतदर्थम् ...? नहि । अद्य अहं क्रुद्धः । सा मां बहिष्कृतवती । तहि, गृहं गत्वा किं करिष्यसि ? अन्यत्र कुत्राऽपि कर्मान्वेषणं करिष्यामि। मेघुः प्रस्थितः । पुनश्च भृत्यवृत्तिः पुनः तानम् 'एवें विचिन्त्य मुर्मुः स्कन्धे काष्ठानि निधाय पाकशालासमीपमागतः । काष्ठानि संस्थाप्य किंचित् त्वरया अवदत् । -- ... ....00- - - -- किमर्थम - - भगिनि...! भगिनि...! देहलीमाश्रित्य साक्षात् दण्डायमाना रजनी अपृच्छत् । किमभवत् ? अद्य मेघुः गृहं प्रत्यागतः । -? तस्य प्रभुपत्नी तं ताड़ितवती । तहि, स नूनं किमपि अननुमतं कृतवान् । एतदर्थं बहिष्कृतवती ? - हूं। किं वा अकरिष्यत् ? एकमेकदा मामपि त्वं बहिष्करिष्यसि ? रजनी अहसत् । मुमुः सरलरीत्या अवदत् तस्य गृहमस्ति । स तत्र गमिष्यति । मम तु तदपि नास्ति । अहं कुत्र गमिष्यामि ? अरे! इदं तु तव गृहम् । एतद् विहाय अन्यत्र गमनाय का आव- श्यकता? स तु अपरगृहे आसीत् । अतः निजगृहं प्रस्थितः । तव तु एतदेव सर्वम् । अन्यथा कथं चिन्तयसि ? रजनी निष्क्रान्ता । मुमु : वृद्ध पितरमन्विष्य बहिर्गतः । रजनीमनसि पूजापरपवित्रता । सम्पूर्ण गृहस्य ऐकिक विजन- तायां तस्या भावना तु राजसिकी। तत्र पुनः पुनः शाश्वतीभवति राधामाधवयोः विरहाकृतिः । उभयोर्मध्ये रहस्यमयः कश्चित् उपल- पथः । पथि अस्मिन् कथामयं प्रियस्य पाथेयम् । कति संकेताः । कति च चिह्नानि । तदनन्तरं चरणाङ्क: एकः द्वौ बहवः पुनरपि अन्तराले आध्यासिकी आकृतिः । तदर्थं मोहः। मोहे च ममता। ममतायाम् अस्थिरो भवति संचितरुधिरस्य कियन्निर्यासमयो बिन्दुः । तविमोचनाय प्रकारप्रपञ्चः । तदर्थमेका मनोवृत्तिः । काचित् शारीरिकी उद्दीप्तता । तुष्टये सृष्टये च प्रगल्भता । आत्मप्रसाराय विकल्पशून्यता। तदनु किंचित् विलीनता। ततो निमग्नभावे स्वयंकारस्य विक्लितिः । Peo- [१५ रजनी चूल्लिकायाम् अग्निशिखां पश्यति । धूमसम्मेलने नयने तस्या अथ्रलीला । धमनसमनन्तरं चिबुकतले श्वासराशेः स्वेदसंकेतः । पूर्णताम्बुलाकारलपने उष्णाम्बु यथा तुहिनोपलम् । एवं नित्यनैमि- त्तिकधूमधमने रजनीजीवनस्य कार्यशैली जलीयसी कुलमणिस्तु आवेगशिथिलः । पार्श्ववासिनः अग्रसरा अभवन् । तेषामपत्यानां समृद्धिः सम्प्रति मान्या । ते च पदवीस्थाः । ते अपि अधिकारिणः। भिन्नमूल्यबोधेऽपि ते सुखिनः । तेषां भावप्रकाशे संसारो गरिष्ठः । माहरणे च प्रवृत्तिः अर्थनैतिकी। विहरणे मर्यादा भौतिकी। विनिमये स्नेहो धनवहः । ते प्रभवः । एवं विकलकलनासु कुलमणिः दुष्कुलीनः । मनसि तस्य आघात:-पुत्रः विलासः चिरप्रवासी। कन्या रजनी चिराय निजाव- लम्बिनी। का वा दुष्कृतिः तस्य प्रगति प्रतिरुणद्धि ? केयं वा परम्परा आग्रहे सेतुकल्पनां करोति ? किं वा सत्यं कर्मपरिसरे प्रभावं वितनुते ? अतीते तस्य नश्वरस्य शेषांशः । भविष्यद्वारे महाभूतानां मिश्राणुः । द्विधागर्भवर्तमाने अनेकान्ता प्रकृतिः। इच्छाने अनेकबन्धः। तथापि लक्ष्ये मुक्तिः । मुक्तिः पातकिनाम् “पुण्यवतामपि । शिखातले तु तमसा। विलासो विलासी। वणिग्वृत्तौ आभिचारिकता तस्य सरणिः । अद्यत्वे स बन्धुनिशान्तस्य गृहे अतिथिः शम्पादेवी आतिथ्यं समर्प्य उपहारं गृह्णाति । अनेनैव उभयोः बन्धुत्वं चिरतरायते । इयं च रीतिः नैकवासरिकी। परं भावबन्धनस्मारकी चिराय-चिरतराय --- ...। अभ्यासगतसौजन्ये रीतिरियं शम्पानिकटे केवलं नवीभवति । विलासनिकटे आतिथ्य च तथा । शम्पा अपृच्छत् । किमर्थमद्य विलम्बः ? विलासः औदासीन्येन अवदत् । किमस्ति अस्माकम् ? सदैव तु कार्यप्रकार एकः । पुनश्च तस्य आवृत्तिः । अतः कर्म विरक्तिकरं भवति अपनोदनाय इतस्ततो भ्रमणे विलम्बो भवत्येव । अथवा अन्यदीयम् आतिथ्यं स्वीकृतम् ? wwe - १६] - तत्तु सर्वदा । परं निशान्तो मे आत्मीयः। हा", बन्धो! भवत्कार्या- लये कार्य मे स्थगितं मन्ये । निशान्तः कुटिलं विहस्य सामान्यसौजन्येन अवदत् । तत्तु इदानीमपि न मे हस्तगतम् । अपरस्य पावें वर्तते। यदा आगमिष्यति तदा कार्यसमापने कियनिमेष वा लगेत् ? किन्तु, पश्य", विना भोज्यं कार्यं न भवेत् । विलास: अहसत् । - HI ... स तु ! अरे -! विषयेऽस्मिन् मयि अविश्वासः ? जाने, त्वं वदान्यः । तथापि वक्तव्यं भवति । किमर्थमिति त्वं जानासि । साधारणकार्येऽपि सरलभावेन काचित् पुस्तिका मत्त उपरि न गच्छति । यथा मदर्थं व्यवस्था तथा तत्र अनुकूलमतम् । अन्यथा को वा किं कुर्यात् ? अधिकारी तु अस्माकम् मतानि गृहीत्वा आदेश प्रदास्यति । नोचेत् पुस्तिका तत्रैव तिष्ठेत् यदि अधिकारी एतादृशं कार्यं ते जानीयात् ? ज्ञात्वाऽपि स किं करिष्यति ? अधिकाधिक वर्षद्वयं वर्षत्रयं वा आसने उपविशेत । तदनु स्थानान्तरम् । अस्माकं कार्यनीतिषु यदि स स्नायात् तर्हि नूनं निमंक्ष्यति । शम्पा उभयस्य आलापे निजाभिजात्यम् अन्वेषयति । निशान्तः तथैव विजल्पति । बन्धो-! उपार्जनस्य मार्गास्ते नाना। तद्द्वारा पुष्कलं विशोष्य स्वल्पानि च उपकारनाम्ना वितीर्य त्वादृशा वदन्याः स्युः । किन्तु, वयं यदि उपकरिष्यामः तर्हि अस्मत्कृते भोजनं न मिलिष्यति । अतो यावत् अपकारः तावत् उपार्जनम् । यावत् पुस्तिकाया वक्रगतिः तावल्लाभः । इदं केन प्रकारेण...? यदि कार्ये विघ्नसृष्टिः तर्हि कश्चित् अस्मत समीपम् आगमिष्यति । धनं दास्यति । सम्मानमपि दास्यति । ततः कार्यसिद्धिः । बुद्धिमान् त्वम् । - बुद्धिस्तु केवलम् असौविध्यसर्जने । -... । । - - - - [१७ - अरे....! येन केन प्रकारेण धनं करगतं भवतु । ततः सुखम् । तदपि सम्मानस्य मूलम् । जनास्तु असौविध्ये निपतन्ति। नेयं नवीना कथा" - SM- , - apam- त्यज एतत् । एषा हि दैनिकी कथा । प्रतिदिनं केचन आगच्छन्ति । बाबो ! बाबो...! सम्बोधयन्ति । अनुनयन्ति । विनीता भवन्ति । धनं ददाति । ततः किंचित् कार्यं भवति । भवतु ! का ते योजना सम्प्रति? इदानीं कुत्रचित् महिलामङ्गलसमितेः स्थापनार्थं चिन्तयामि । सर्व- कारस्य, मन्ये, इयं नवीना योजना । सहसा कथमस्यां दिशि दृष्टिः निपतिता ? किंचित मङ्गलं विधातव्यं खलु ! अन्यथा नाम्नः प्रसारो न स्यात् । हा "बन्धो-! भवन्तो महान्तः । धनस्तूपस्य अधिकारिणः । यदा कदाचित यत किमपि कत्तु प्रभवः । सर्वाणि मङ्गलानि महतामेव । अनेन मम को लाभः ? नूनं लाभो भवेत् । त्वं सचिवालयस्य विधाता। यत किमपि भवत तवपथि सर्वमागमिष्यति । लाभो वा न भवेत् कथम् ? आत्मप्रौदिषु निशान्तः अहसत् । तहि, शीघ्र व्यवस्थापय । व्यवस्थापने सहाय आवश्यकः। तर्हि, किमिच्छसि ? प्रथमतः शम्पादेवी समितेः कार्यनिर्वाहिका भवतु । निशान्तः प्रसन्नः संजातः । तर्हि, कियद् वेतनम् ? आरम्भो नास्ति। वेतनचिन्ता...? नोचेत् कथं भवेत् ? सर्वकार नियमं त्वं तु जानासि । तदनुसारं भविष्यति । शम्पा पुल किता। प्रभुत्वपरिकल्पनायां सा व्यग्रा अभूत । आधिपत्यस्य आहुतिषु तस्याः कामनाशिखा आधारत उत्थातु चञ्चलाऽभवत । अधिकारस्य लिप्सा अभियानमुखी अभूत । - -- - १८] । विलासस्य कौशले शम्पा पुत्तलिका भवितु प्रवृत्ता। निशान्तस्य पुस्तिकानेपथ्ये सैव विघ्नस्य जननी। तस्य च संग्रह- प्रवृत्तिमूले सा आभिजात्यस्य प्रथमसामग्री। शम्पा सुन्दरी। पार्श्व- वासिनां नयनाकर्षिणी। उपरितन पदाधिकारिणां पुलककारिणी। तस्या एव तारुण्य निशान्तस्य सौभाग्ये कारणम् । यदा कदाचित् उच्चपदाधिकारिणां पुत्रजन्मोत्सवो भवति अथवा गृहप्रतिष्ठा भवति तदा निशान्तः सोपहारः सपत्नीक श्च गच्छति । शम्पया सह निशांतः तदा आत्मानं बहुमन्यते । पदाधिकारिभिः सह तस्याः परिचयं कारयति। शम्पा अपि मुक्ततया आत्मानं प्रदर्शयति । तैः सह समानीभवनं पुरस्कृत्य सा तथा व्यवहारं प्रदर्शयति । प्रफल्लतया बहु जानन्तीव अभिनयति । ते मुग्धा भवन्ति । शम्पा सन्तुष्यति। निशान्तोऽपि आत्मना पुष्कली भवति । यदा प्रभृति विलासः शम्पाहस्ते कार्य निर्वाहिकात्वेन दायित्वं समर्पयति तदारभ्य सा आत्मानं तथा वर्णयितु प्रतिवेशिद्वारं गच्छति । अद्य यदि एकस्य तर्हि अपरदिने अपरस्य गृहं गच्छति । महिलामङ्गल- समिति विषये प्रचोदयति । सा विवृणोति-महिला अद्यत्वे निर्यातिताः। पाकशालां विहाय अन्यत्र तासां स्थानं नास्ति । बहिर्गमने विपत् । गृहे च निर्यातना। कर्मक्षेत्र शातनम् । सर्वत्र भयम् । सर्वदा च शोषणाय जना भ्रष्टवत्तिकाः । एषा महती समस्या। प्रतिक्षेनं नारीणां स्थानं सुरक्षितमपि अरक्षितमिव । एतस्य कारणं स्पष्टम् । नार्यो हि न जागरूकाः। शिक्षिता अपि न चिन्ताशीलाः। सर्वासां ज्ञातसारे घटना तु अरुचिकरी भवति । किन्तु न काऽपि प्रतिवदति । नार्यः पण्या भवन्ति । परं न काऽपि स्वरम् उत्थापयति । सम्मुखे एव ता दासीभवन्ति । तथापि न काऽपि अभियुङ क्ते । एतस्य कारण नारीणामसाहित्यम् “संकीर्णस्वार्थपरता. ईपिरायणता। इदानीं समय उपगतः। विषयेऽस्मिन् चिन्ता कर्तव्या...। शम्पा एवं प्रवर्तते । निशान्तश्च निजमार्गे पूर्ववत् । यदा शम्पा जनसेवार्थं गृहान्निर्गच्छति तदैव जनानाम् अशुभ- कामनया निशान्तः कार्यालयं गच्छति। पथि जना मिलन्ति । तं नमस्कुर्वन्ति । असोविध्यं ज्ञापयन्ति। निशान्तस्तु उपेक्ष या अपरेण सह जल्पति । तस्य यदि किमपि कर्मविषये श्रृणोति तहि तमुपेक्ष्य [१९ सदस्यः । । अन्येन सह जल्पति । एवमालापद्वारा स' बहुकर्मव्यापृत इव अभिन- यति । आत्मप्रौढिं प्रदर्शयन् अनुज्ञावचनं व्याहरति । उच्चपदाधि- कारीव इतस्ततो निर्दिशति । मुखे तस्य अपेक्षामुद्रा। भङ्गीमध्ये पदाधिकारिणो मर्यादा । आश्वसनायां सतर्ककथा। अभिलाषे उत्कोचप्रथा। विलासनिकटे समयाभावः । जननयने स न केवलो वणिक् । अपितु नाना हितैषिसंस्थानां कतिपयलघुशिल्पानां संस्थापकः । कतियुवकल्याण समितीनां संयोजकः। पुनश्च कतिपय स्वायत्त शिक्षानुष्ठानानां सौजन्य-सम्पादकः। किन्तु निजायत्तपरम्परायां स्वय मेकं विभक्त- व्यक्तित्वम् । अट्टशूलतः अट्टशूलान्तरम् “एकविपणीत: अपर विपणीमिति संचरणे विलासो दूरचरः । सम्पर्कपरिसरे जना अनेके। स्नेहे मधुशाला विनोदझरी । निर्बन्धे केवलं धनम् । निजस्वमिति देहस्य परिधानम् । गृहं तु अनैकिकी शय्या । जीवने सत्यमनेकान्तम् । गृहपरित्यागात् परं न तथा प्रभावः गृहस्य तदुपरि । गृहे के सन्ति ? कथं सन्ति ? किं वा कुर्वन्ति ? सर्वमेतच्चिन्तयितु तस्य अवसरो नास्ति । यदा गृहकथा मानसम् आयाति तदा स क्रुध्यति । तथापि भगिनी रजनी तस्य भावनापथमारुणद्धि । गृहपरित्यागसमये सा कियती कातरा नासीत् ? विलासस्य मनसि एवमासीत् यत् स पुनः रजनी कस्मै अपि प्रदास्यति । अद्यत्वे विधवायाः किं तात्पर्यम् ? जनो जन्म लभते । म्रियते अपि । संसारार्थ सम्पर्कः। आनन्दाय च उपभोगः । यदि कश्चित आकस्मिकतया म्रियते तहि तस्य भोगसमाप्तिः। तस्यैव सम्पर्क स्मृतिरूपेण प्रपूज्य को वा किमर्थं दुःखमनुभवेत् ? कथं वा तदर्थम् आत्मानं समर्पयेत् ? जनस्तु मृतः। संस्क्रियानन्तरं किं वा अवशिष्यते ? किन्तु", एतनिमित्तं स्त्रीजनो नितरां पीड्यते । पुरुषस्तु यत्र कुत्रापि नवीनसम्पर्क स्थापयति । स वा पत्नीकृते किम् उत्सृजति ? किं च स्मृतिरूपेण संचिनोति ? यदि पुरुष एवमाचरति तहि नारी किमर्थं सीदेत् ? किन्तु रजन्याः पुनर्विवाहविषये पितुः सम्मति सीत् । स विलासस्य प्रस्तावं प्रत्याख्यातवान् । तस्य चक्षुषा समाजः संकीर्णः ।

२०) । तथाकथित-समाजपण्डिता भ्रष्टाः । जनश्च स्वार्थी। अद्यत्वे यदि कश्चित् किमपि अननुमतं स्वीकरोति तद् धनलोभेन एव । न कश्चित् जीवनस्य गुरुत्वमनुभवति । एषु विषयेषु चिन्तयित्वा कालक्षेपं न सहते विलासः । विचारोऽयं नाधुना तदुपरि। रजनी जानाति, सा किमुपास्ते, पिता च जानाति, रजनीभाग्ये किमस्ति । कस्यचिद् वस्तुनः संज्ञान्वेषण विशदविवरणं वा विलासनिकटे वृथा। अद्यतनप्रवाहे यद् आयाति तत् सर्वस्वम् । तस्य व्यसने घटनार्थं काचित् प्रतिक्रिया नाम मूढ़ता। तस्य विचारे स्वयं स सम्राट् । अन्यत् सर्वं प्रकीर्णम् . असंहतम् असंगतम् - अस्तव्यस्तम् । समूहलक्ष्ये न तस्य विश्वासः। अपितु यत् स विश्वसिति तदेव तस्य लक्ष्यम् । शम्पा विलासमनुसरति । विलासस्य वचने शम्पा एब सरस्वती। साऽपि विलासस्य प्रशंसायां निजवीणां नदति । तम् अन्वेषयति । साक्षात्कारे च आत्मानं प्रीणाति । एकान्ते उपविश्य रहस्यं मन्त्रयति । बन्धुता- वर्धनाय सा एवं प्रवर्त्तते येन आत्मीयतमा भवेत् । विलासमन्वेषयन्ती एकदा सा विलासस्य ग्रामे उपस्थिता। ग्राम्यपरिवेशे सा अभिनवा नागरी। ग्रामपथे तदुपरि अनेकदृष्टिः । ललनानां कटाक्षे तस्या वेशशैली चर्चावचनस्य उद्दीपिका । अल्प- शिक्षितानां कर्णेजपेषु सा सभ्या। शिक्षितानामुपेक्षावचने सा नागरी। रक्षणशीलानां नेत्रकुञ्चने सा दुष्कुलीना । दिनजीविनां साधारण- चिन्तायां सा परकीया परदेशिनी। कुलमणि: शङ्कितः। शम्पा अपृच्छत् । इदं विलासबाबोः गृहम् कमन्वेषयति भवती ? अत्र विलासबाबुः-- स तु नास्ति । कि कर्म तन्निकटे ? कार्यमासीत् । किन्तु • उपविशतु भवती। कुलमणिः मुखं विवर्त्य सम्बोधितवान् । ? - - - -- [२१ - - रजनि....! रजनि....!! मुर्मुः उपस्थितः। कुलमणिः आदिशत् । अरे "मुर्मो ! जलं देहि। देवी पादं प्रक्षालयतु । शम्पा उपेक्षया न्यवारयत् । न “न । मास्तु । मम समयो नास्ति । अहं सद्यः प्रत्यागमिष्यामि। समयेऽस्मिन् रजनी समागता। असर समुखे तस्याः शान्ति- रतिः। वसने सात्त्विकद्य तिः। वचने व्यसनं निरुपाख्यम् । किन्तु दृष्टयन स्पधिनी आसक्तेः काचित् लिप्तरेखा। विनीतभावेन सा उक्तवती। आगच्छतु भगिनी। अन्तरागच्छतु। अन्तः प्रविश्य शम्पा दाम्भिकतया अवदत् । मम तु बहुकर्माणि। अवसरो नास्ति । मनाग उपविशतु । शम्पा आसने उपविश्य अपृच्छत् । विलासबाबुः महिलामङ्गलसमितिविषये किमपि उक्तवान् वा ? महिलासमितिः..? विलासबाबु:-? स तु अनेकदिनतः गृहमिदं परित्यक्तवान् । न कदाचित् आगच्छति ? तस्य किमत्र वा कर्म ? तहि, भवती ..? अहं तस्य भगिनी। भवत्या अपि समितौ नान्तर्भावः ? न जाने, काऽसौ समितिः ? भवादृशीनाम् अनाथानां कृते इयं समितिः । रजनी चमत्कृता । शम्पा तु प्रगल्भवादिनी। अहमस्याः समितेः सम्पादिका । विलासबाबुः संस्थापकः । अन्न विध- वानां पुनर्विवाहः, अनूढानां विवाहव्यवस्था, दीनरमणीनां पुनः ? m- - - - २२] - ? , संस्थापनमिति केचन प्रकल्पाः स्वीकृताः । भवती अपि अत्र योगदान करोतु। किमहं तत्र करिष्ये ? यथाभिरुचि कर्म। अनाऽपि तथा करोमि । किं पार्थक्यम् ...? गृहेऽस्मिन् स्वातन्त्र्यं कुतः ? किं तहि भवती गृहं परित्यक्तवती ? वचनेऽस्मिन् शम्पा किंचित् शङ्किता; किन्तु आभिजात्य- व्याजेन वसनाञ्चलं प्रसार्य सहसा उपनेत्रं नयने निहितवती । द्वारम् आगम्य सा अवदत् । मद्विषये चिन्तामाऽस्तु । य: संस्थायाः संस्थापकः परिचालको वा तस्य महल्लक्ष्यमस्ति । तेन तस्य व्यक्तिगतजीवन प्रभावितं भवति । साधारणजनेन सह तस्य तुलना अनावश्यकी। मा अन्यथा चिन्तयतु । प्रथमत: समितेः सदस्या भवतु । अनन्तरं सर्वं ज्ञास्यति । भवतु अन्यत् अन्यदा। नमस्ते। शम्पा त्वरया प्रस्थिता । गतिताले तस्या अभिमानं स्फुटम् । उपनेत्रमार्गे आधुनिकता सुन्दरी । करचालने आत्मदर्शनलिप्सा वासस्विनी । अञ्चलरंगे तरङ्गःप्रासङ्गिकः । उद्धताङ्ग रङ्गः तथापि निःसङ्गः। अपरपावतो निग> कुलमणिः अपृच्छत् । रजनि...! केयं महिला-? एषा भ्रातरमन्विष्यति । कि कर्म-? स्पष्टं न वदति। विमुखतया कुलमणिः अस्फुटमाह । जाने, तस्य इयमेव गतिः भवेत् । अन्ततो अतिशयमनुतपेत् । तदा न कोऽपि आत्मीयः स्यात् किमपि श्रोतुम् । गच्छतु। कुपथस्तु तस्य जीवनम् । नष्टस्य को वा अन्यः पन्था भवेत् ? कुलमणिः कर्मणि व्यापृतः। मुमुः रजनीम् अपृच्छत् । । - me- [२३ ३ - भगिनि....! किमद्य कर्म....? अरे ! तैलं नास्ति । इन्धनं नास्ति । गृहे बहिश्च प्रक्षालनाय जलं नास्ति । अनुपदं गच्छामि । हँ--, शाकक्षेत्रे जलं न पतितम् । ग्रीष्मकालः। वृष्टिस्तु न भवति । वीजानि दिनत्रयत: उप्तानि । तथापि अंकुरो न दृश्यते । तदर्थं जलमपि आवश्यकम् । भवतु। तत् शीघ्र समापय । तैलादिकम् आनय । नोचेत रात्री दीपोऽपि न ज्वलेत् । मुमु: यथापूर्वं व्यापृतः । दिनभागो नम्रः। अवसानविरागी तपनः । पादपशिखरे ग्रीष्मलीला आश्वस्तिशरणा। रजनी सांध्यस्नानं समापितवती। इदानीं सरलवेशः । साधु- परिपाटी। अङ्गरागो निसर्गः । कर्मप्ररोहे निश्चपलः संसर्गः । पूजा- प्रारूपे आवेग एव अपवर्गः । घण्टानादेन सह रजनी दीपं सज्जीकृतवती । शिथिलपूजन प्रकारे नेतिवादः विपरिणतः । अनुरणन निवहे सा तल्लीना अभूत् । निमीलने आकृतिमान् अभूत् वैष्णवः कश्चित् राजकुमारः। निर्भर पुलिने स अश्वाद् अवातरत् । तत्रैव स मणिमाणिक्यादीन् प्लावयितु- मारब्धः। तदा रजनी निर्भरधारे अवगाहते स्म । मण्यादयः तस्याः पार्वे कुण्डली विधाय समतरन् । रजनी तदानीं नितरां पुलकिता। साश्चर्यं च इतस्ततः अपश्यत् । सहसा राजकुमार उपगतः आर्द्रवसना रजनी अकम्पत । किन्तु राजकुमारः निनिमेषं तामपश्यत् । ततः तामालिंग्य अचुम्बत् । ततश्च अश्वोपरि उपविश्य तामङ्कोपरि निधाय अधावत् । रजनी अतिशयं भीता। झटिति च अपश्यत् - दीपशिखा वत्तिमूलं ग्रसितवती । इष्टप्रकोष्ठे तमसा राजेश्वरी । सांध्यकुसुमेषु देवो राजसः। धूपधूमे द्वारदेशः अन्धः । अलिन्दकोणे नक्षत्रज्योतिः संध्याशेष सूचयति । विहगविरुतिः रात्रिरसिका। रजनी दीपमदीपयत् ।

२४] ? ....- जना प्रकाशे निलयो दीप्तः । रजनी नेत्रं व्यघूर्णयत् । पुनः प्रकाशः ? कि निमत्तम् ? केवलं गृहार्थम् ? गृहम् संसारस्य प्रथम कल्पनम् शरीरस्य नामान्तरम् “लयस्य निश्वसनम् विलयस्य आश्वासनम् अंकुरस्य रहस्यवृत्तिः पादपीभवनस्य मनोभूमिः महावृक्षस्य हृदय- तलम् छायाया अन्तरालम् प्रणवस्य अलक्ष्यकल्लोलम् । अन्वेषणे इदमेव प्रथमस्थलम् - उपभोगे आनन्दकुसुमस्य प्रथम दलम् “संचये दृश्यफलम् निश्चये आत्मबलम् संशये इदमेव छलम् । “कर्म निमित्तम् आलयः"श्रमनिमित्तम् आश्रयः"अपकर्मार्थ नरकः सुकर्मणि स्वर्ग: किन्तु निशान्तकृते गृहमिदम् असौविध्यस्य मण्डलम् । अत्र सः असौविध्यं सृजति । असौविध्ये पातनोपायं चिन्तयति । आगच्छन्ति । विघ्नजाले निपतन्ति । धनानि निष्कारणं हारयन्ति । वृथा विलपन्ति । गृहं प्रत्यागच्छन्ति । प्रतिश्रुतिः पापाय कल्पते । अतः ते अभिशप्ता इति चिन्तयन्ति । निशान्तमपि अभिशपन्ति । निशान्तस्य हासे तु नगरस्य विभिन्न स्थानेषु प्रासादा धवला दृश्यन्ते । संचितेषु यथेच्छं स्वीकृत्य व्ययीकृत्य च शम्पा आधुनिका भवति। नववसनेषु सा अभिनवायते । अलंकाराणां नवीनाकृतिषु शरीरं विभूषयति । महाजनानां समक्षे समाजसेविका भवति । विला- सस्य व्यसनेषु सा प्रेयसी, मद्यकूपीषु च स्रोतस्विनी संजायते । तद्दिने निशान्तः क्लान्तः । रात्रौ द्वादशवादने शम्पा गृहं प्रत्यागता । यथापूर्वं वसनं परि- वर्त्य शयितुमुपक्रान्ता । निशान्तः शय्यामधिरूढः । परं नेने निद्रा नायाति । स कुप्यन् अवदत् । कुत्र गता एतावत्कालपर्यन्तम् ? - सम्मेलनमासीत्। कि प्रतिदिनं सम्मेलनं भवति ? कि त्वमद्य न गतवान् मम तु सदा सम्मेलनं न भवति । कार्यालये कदाचित् कार्याधिक भवति । अत: विलम्बो भवति । तव तु न कार्यालयः, न वा किमपि कार्यमस्ति । - - ? - [२५ - - - - - - ? - me- - कि मम बान्धवान सन्ति ? सख्यो न सन्ति ? ममाऽपि सन्ति । किन्तु नाऽहं प्रतिदिनं तेषां गृहं गच्छामि । तेषां निकटे तव किमपि कर्म नास्ति। किं ते कर्म प्रतिनक्तम् ? मम कर्मविषये कथमद्य ते चिन्ता ? तव गतिरीतिषु इदानीं मे सन्देहः । निशान्तः -! वचनं संयम्य वार्तालाप कुरु कथम्- विवाहतो वर्षद्वयं गतम् । कस्मिन्नपि दिने तव अभियोगो नासीत् । अद्य किमर्थम् ? त्वं सुन्दरी इति किं यथेच्छं करिष्यसि ? विवाहतः प्राक् तथा मे आग्रह आसीत् । तदहम् उक्तवती । तदङ्गीकृत्य त्वं मां परिणीतवान् । अद्य पुनः कथं विवादः ? जाने,सर्वान्नपि आत्मीयान् तिरस्कृत्य त्वामहं परिणीतवान् । नायं तस्य अर्थो यत् यथा त्वं वदिष्यसि तथाऽहं प्रवत्तिष्ये । यदि एवं चिन्तयसि तहि निजव्यवस्थां कथं न सम्पादयसि ? किमस्यार्थः? अर्थस्तु स्फुट एव । तर्हि, किमपि वक्तं मे अधिकारो नास्ति ? नास्ति। मदर्थमेव हि त्वं सर्वेषां प्रीतिभाक् । तथापि त्वं मे पत्नी । पत्नी न सेविका, न परिचारिका, न वा धात्री। गृहेऽस्मिन् यथा ते अधिकारः तथा ममापि । कर्मणि अन्यत्र च यथा ते स्थानं तथैव ममाऽपि । किन्तु मम इच्छाविरुद्ध त्वम् आचरसि । त्वमपि तथा करोषि । तहि किं, "अहं ते दासानुदासो भवेयम् ? तथा त्वमेव इच्छसि मत्कृते । - - mo- - - - - २६] ? ? - - गृहरक्षार्थं परिचालनार्थं च त्वामहम् उपदिशामि । अन्यथा गृहरक्षा कथं स्यात् तवापि कर्तव्यपरिसरे गृहदायित्वम् अन्तर्भवति । इतः परं यदि इतस्ततो विहरिष्यसि तहिं गृहं विक्रेष्यामि । किमर्थम्...? मदर्थं गृहम् । अहमत्र अधिकारिणी। अहो अनेनैव दर्पण त्वं बहिः विहरसि ? मम गृहे अधिकारिणी भूत्वा अपरमपि अधिकारिणं कारयितु यतसे निशान्त ! सकृदहम् उक्तवती वाचं संयमय इति । मर्मकथने आघातो भवति ? कि मे मर्म....? विलासेन सह कस्ते सम्पर्कः ? स मे बन्धुः । कदारभ्य स तव बन्धुः सुप्यताम् । वृथालापो माऽस्तु । नास्ति मे समयः। निष्फलं मा जल्प। विलासनिकटे सम्प्रति आलापः सफलो भवति । अत्र कथं न निष्फलः on- - - - ? - - स्यात् ? MATHS - कथं सदा 'विलासः'.... 'विलासः' वदसि । किमिच्छसि ....? श्वः प्रभृति रात्रौ बहिर्गमनस्य ते विरामः । किमर्थम्? अयं मे आदेशः। कस्ते आदेशं पालयति? ये निम्नस्था:, ये च अधस्तनाः ये वा तव कुकर्मनिमित्तम् असौविध्ये निपतन्ति ते एव तव आदेश पालयिष्यन्ति, नाऽहम्। शम्पा-? विरम-गर्जने किमस्ति? त्वम् उद्धता स्वैरिणी वेश्या । त्वमपि किंकरः, पशुः, उच्छिष्टभक्षी" मद्यपः । - - -- - [२७ - - मम दासी भवितु तव योग्यता नास्ति। मम दासो भवितु त्वमपि अयोग्यः । याहि, गृहमिदं परित्यज। नान ते स्थानम् । तवेदं गृहम् ? कुतो धनमानीतवती ? पितुः गृहात् ? हीनपरि- वारस्य कन्या""जारजसंततिः "कुलटादुहिता । अत्र सर्वमपि आत्म- सात् कर्तुमिच्छसि, नहि ? द्रक्ष्यसि सद्यस्ते मस्तकं विच्छिद्य विलासनिकटे पातयिष्यामि । ततो विलासस्य मस्तकम्। विरम""। माऽधिकं वीरत्वं दर्शय । अद्य किंचित् अधिक मद्यं पीतम् । याहि - सुप्यताम्। शम्पा निजप्रकोष्ठं गतवती । त्वरया च कपाट पिहितवती । दीर्घश्वासं गृहीत्वा मुक्तभावेन शय्यायामालुलिता। नेत्रकोणे अश्रुधा- रद्वयं विगलितम् । सा नेत्रं न्यमीलत्। विद्युतप्रदीपस्य नीलप्रकाशे मुखं तस्या अधिक मलिनमासीत् । अपरप्रकोष्ठे पर्याकुलभावेन निशान्तः सुप्तः। काचवातायने सूर्यो बिम्बितः। प्रतिकूलपवने शम्पा गृहान्निर्गता। निशान्तस्तु मूकः। प्रतिरोद्धं, साहसः तस्य भग्नः । विरक्तमनोरथे वितृष्णभावः। त्यागपरिवर्तनयोः द्विधाभावे स विक्लवः। नयनमार्गे स एव सचिवालयः""निजनिर्मित- प्रासादाः --असौविध्यसृष्टिनिमित्तं कति पुस्तिकाः। प्रतिकार्य च अनिष्टान्वेषणे केचन उपायाः। पुनरपि मोहः निजाजितसंपत्कृते निजनिर्मितगृहाणां कृते - सचिवालयस्य वृत्तिकृते मधुसम्मेलनकृते। सः अचिन्तयत्- कुत्रेयं गमिष्यति? मधुबाला मधुशालामेव गमिष्यति। मधुकरनिकटे कुसुमलक्ष्मीरूपेण सौन्दर्यसम्भारं प्रसारयिष्यति । ततः मधु मधूनि । तदनु मदः "मोदा "प्रमोदः । ततः चुम्बनालिंगन- परिबन्धे पुनः पुनः नर्तनाय सा आत्मानं सज्जीकरिष्यति । ततः--? तत:....? निशान्तमनसि तु खेदो नासीत् । नान वैचित्र्यम् । इयं जीवनस्य काचित धारा । सम्पघृणिषु एवं जना भ्रमन्ति । कियन्तो वा विचारयन्ति-धूणिः कथं भवति ? किमर्थमन कश्चित् पर्णायते ? कोऽयं वा अवशेष: ? अवशेषस्तु अभावस्यत, स्वादविशेषः ।

२८] अभिमानस्य अन्तराले जनस्त धनसर्वस्वः । कर्त्तव्यच्युतिः तदीयस्वार्थधारायां विशेषभूमिः । परं स ज्ञात न प्रभवति ---विच्युति- विलये अस्थिर रमाणुरिव स एव प्रध्वंसनुसंधत्ते । विलासनिकटे परिचरा अनेके । अचिरमेव नगरपालिकानिर्वाचनं भविता । तत्र विलासः प्रार्थी भवत इति पार्श्वचराणामाशयः नगरेऽस्मिन् न तादृशो नेता अस्ति। ये पुरातनाः सन्ति ते सम्प्रति स्वातन्त्र्यसंग्रामनाम्ना जीवन्ति । इतिहास श्रावयन्ति । कारावरणं च उदाहरन्ति । क्रान्तेः स्मृतिमुपस्थाप्य नेतृत्वं न्यस्यन्ति । तेषां मतेन ते प्रौढ़ाः । अतः अधिकः तेषामनुभवः । किन्तु विलासो युवकः । पार्श्वचराणां वचने स इदानीम् उदीयमानः। तस्य परिवारो नास्ति। जनसेवानिमित्तं स गृहं परित्यक्तवान् । तन्निकटे नाद्य वृद्ध पिता न वा विधवा भगिनी । किन्तु सहस्रशो दरिद्रपरिवाराः । सहस्रशो वृद्ध पितरः । लक्षशो विधवाभगिन्यः। अद्यत्वे सर्वकारीयकार्यालये कर्म न भवति । सर्वे च अधिकारिणः स्वल्पवेतननाम्ना अधिकं धनं संग्रहीतु यतन्ते । दरिद्रा म्रियन्ते । धनिनो लाभांशमाहत्तु कार्यालयं श्वशुरालयं मन्यन्ते । चिकित्सालये चिकित्सा न भवति। विद्यालये न छात्रः पठति न वा शिक्षकः पाठयति । देशेऽस्मिन् शिक्षाक्षेत्रे अधिकजना नियुक्ताः । परं सर्वतोऽवन तिः अस्मिन्नेव क्षेत्रे । चिकित्सका बहवः । परं सामान्यरोगोऽपि नोपशाम्यति । यन्त्रिणो बहुविधाः। किन्तु एकस्यापि मार्गस्य सुचारुतया निर्माण न सिद्ध्यति । एवं नाना समस्याः । युवकानां हस्ते यदि शासनं न तिष्ठेत् तहि कुत्रापि उन्नतिः न भवेत् । सर्वसम्मत्या विलासः नगरपालिकानिर्वाचन कृते प्रार्थित्वमङ्गो कृतवान् । जनानां कृते निर्वाचनप्रतिश्रुतिः निश्चिता । एतन्मध्ये दैन्यदूरीकरणम्, उद्योगसंस्थानां प्रतिष्ठापनम्, नगरतल- वासिनां कृते गृहनिर्माणम्, अनाथविकलाङ्गजनानां कृते वृत्तिः, कर्मक्षेत्रे महिलानामग्राधिकारः, शिशुविकाश योजनायाः प्रवर्त्तनम्, शिक्षितानामात्मनियुक्ति प्रकल्पस्य नवीकरणम्, नगरस्य सौन्दर्य- वर्धनम्, नगरे मन्दिराणां प्राचीनकीर्तीनां संरक्षणम्, पर्यटकानां निवासार्थ अत्याधुनिक करीत्या अट्टशूलानां निर्माणम्, प्रदूषणस्य निरोध- नम्, परिवेशस्य सुरक्षा च प्रामुख्येन प्रतिश्रुतयो घोषिताः। ततः [२९ विलासः चिन्तयति। निर्वाचनप्रचारनिमित्तं केचन विश्वस्तप्रचारकाः अपेक्ष्यन्ते । प्रतिगृहं उपगन्तु कतिचन नार्यः अपेक्ष्यन्ते । एतदर्थं निर्दिष्टधनराशेरपि अपेक्षा अस्ति । प्रतिश्रुतिमुखेन केषां चन धनिकबन्धूनां सहायता च आवश्यकी। यत्र प्रार्थित्वं तत्र अर्थः। यत्र अर्थः तत्र रङ्गः। यत्र रङ्गः तत्र अङ्गनाः। यत्न अङ्गना तत्र दुर्गभङ्गः। विलासः शम्पा- देवी स्मृतवान् । पुनश्च प्रतिपक्षेण सह चतुररीत्या अभियान निमित्तं स पार्श्वचरान् निरदिशत् । प्रतिस्तरं धनानि यथायोग्यं व्यतरत् । तद्दिने शम्पा व्यस्तभावेन विलासनिकटे उपस्थिता। मुख- मण्डलं घक्तिम् । कुन्तलं माल्यविहीनम् । पर्याकुलवसनभागे सौंदर्य विलुलितमिव । नेत्रान्ते जलकणः अणीयान् । तस्या व्यग्रभावमालक्ष्य विलासः किंचिदवनतस्वरेण अवदत् । अरे..! शम्पादेवी ? आगच्छतु आगच्छतु । शम्पा प्रविश्य उपाविरात् । विलासः जिज्ञासां प्रकटितवान् । कथयतु । बहु वक्तव्यमस्ति । अधुना अहं क्लान्ता । तहि, अतिथिप्रकोष्ठे किंचित् विश्राम्यतु । एकः परिचरो मार्ग निरदिशत् । शम्पा दीर्घश्वासं गृहीत्वा अतिथिप्रकोष्ठस्य द्वारं पिहितवती । विलासः पार्श्वचरैः सह विमर्श समापितवान् । क्लान्तः सन् अन्तरालमागतः। गृहस्य चतुर्वे नेत्रं विघूर्णयन् किंचित् हृष्टः संजातः। ततः परिचारकमाहूय आदिशत् । द्वयस्य कृते भोजनमायोजय। क्लान्तभावेन विलासः चित्रपटमेकं पश्यति । अयं महात्मा .."लब्धप्रतिष्ठो जनः । जीवनेऽयं बहु त्यक्तवान् । बहुत्र कार्यं कृतवान्। जनानां प्रगतये चिन्तितवान् । उन्नतिमूलककर्मणां नेतृत्वं प्रदत्तवान् । उत्सर्गनिमित्तं नाना संस्थाभिः सः सम्मानितः। परमद्य समयो भिन्नः । पुष्पमाल्यनिमित्तं पार्श्वचरा निर्मातव्या भवन्ति । कृतीना- मुद्घोषणार्थं विज्ञापनस्य आवश्यकता भवति । सम्मानप्राप्तये - - - - कियन्तो जनाः तत्तत्स्थलेषु स्थापनीया भवन्ति । न धर्माचरणम् न वा कर्मानुसरणम् । केवलं वाणिज्यम् । अर्थप्राप्तये संधिस्थापनम् । लाभाय च मैत्रीकरणम् । परिचारको न्यवेदयत् । भोजनं सन्नद्धम् । आगमनं भवतु । विलासः शम्पामाकारयितु निर्दिश्य भोजनस्थलीमुपगतः। आपूर्णा भोजनचत्वरिका। वातायनानि सूक्ष्मवसनेषु आच्छ- नानि अपि मुक्तानि इव । विद्युद्व्यजनेन सह बहिस्थपवनः तत्र तालं सम्मेलयति । परिचारकः पश्चात् तिरस्करिणी प्रसार्य अन्तर्गतः । विलासः शम्पाम् अपृच्छत् । कथमद्य असमये ? अहं भवतः प्रतिश्रुतिमिच्छामि । का प्रतिश्रुतिः ? महिला समितिविषये भवान् न किमपि करोति । नाम्ना एव अहं कार्यनिर्वाहिका । कार्यं कुत्र ? एतदर्थ व्यग्रा...? - नहि। तहि, किमन्यत् ? शम्पा दीर्घश्वासमग्रहीत् । अहं निशान्तं परित्यज्य मागता । किमर्थम्? तेन सह कलहोऽद्य तीव्रतरः । - - More - - कथम् ? me- तद्रानो सम्मेलनं समाप्य विलम्बन गृहमागता । तदानीं निशान्तः गृहे आसीत् । यदाऽहं गृहं प्रविष्टा तदा स कुपितसर्प इव मामा- क्रान्तुमुद्यतः। तमहं प्रतिरुद्धवती। नेयं नवीना घटना भवदीयजीवने । किन्तु यः रात्रौ - मन्ये, अधिकाधिकतया कलहः संजातः ।

[३१ - हाँ.....। तर्हि, समाधातु गमिष्यामि ? - नहि । पुनस्तत्र गन्तुन मे मनः। अहं त्यागपत्रं दास्यामि । - विलासः अहसत् । - ? - किमेतद् वदति ? भवान् चिन्तयति, केन प्रकारेण जीवनं नेष्यामीति नु ? नहि। तत्तु सुकरम् । किन्तु भवान् मां सहायितु नेच्छति ? कथं न? - तर्हि, महिलासमिति किमर्थं न स्थापयति ? अवश्यं स्थापयिष्यते । अग्रे निर्वाचनम् । तदर्थं महिलासमितिरपि ममैका प्रतिश्रुतिः। इदानीं तहि कस्य कार्यनिर्वाहिका अहम् ? -- - मम "। - विलासः अहसत् । शम्पानयने हर्ष मुकुलितम् । विलासः भोजने प्रवृत्तः। शम्पामपि अनुरुद्धवान् । भवतु"। प्रारभ्यताम् । उभौ भोजने प्रवृत्तौ। एकान्ते उपविष्ट: विलासः । निर्वाचनप्रचारस्य सकलयोजना . सद्यः समाप्ता। विशिष्टस्थानेषु निर्वाचन शिविरार्थं जनेभ्यो दायित्वं वितीर्णम् । प्रतिगृहमुपगन्तु प्रतिपरिवारं च अनुकूलयितु शम्पा भारमग्रहीत् । विलासः स्वयं अर्थ विनियोजने स्थानपरिदर्शने विशेषोद्बोधने च अधिकृतः । इदानीं विश्रामसमयः। वातायने विलासः आकाशं पश्यति । सम्मुखे श्वेतजलदस्य विविक्तांशः । चिन्तायां नारीत्रयम्। पश्चात् उपेक्षिता रजनी। मध्ये अट्टशूलस्य आतिथेयी रोजा। पुनश्च अग्रे शम्पा। तथापि न तृप्तिः। अन्तराले सम्प्रति कथैका मानसं विकलयति ।

स्मृतौ वर्षा वर्षीयसी। वर्षा ग्रामस्य नेत्रपेया बालिका। प्रथमयौवने सा चिन्मयस्य नेत्रान्ते मिलिता। उभयस्य कृते ग्रामसीमा स्नेहवत्सला अभूत् । तत्रत्य आम्रवनं, तड़ागः, तटिनी, गुल्मानि च उभयस्य रहस्य विहारे चुम्ब- नानि शाद्वलानि कुर्वन्ति स्म । चिन्मयः ग्रामप्रधानस्य पुत्रः । तस्य आभिजात्यनिकटे वर्षा विवाहयोग्या नासीत् । वर्षा हि दरिद्र कन्या । एकदा चिन्मयः कार्यार्थं मातुलगृहं गतवान् आसीत् । तत्र सः अनेकदिनपर्यन्तां स्थितः। तथापि पत्रमाध्यमेन तस्य स्नेहसम्पर्कः सजीव आसीत । किन्तु वर्षायाः पिता निरुपायः । स हि कस्यचित, अपरग्रामप्रधानस्य भृत्य आसीत् । ग्रामान्तरे तस्य जीविका वर्षायाः प्रीतिसम्पर्के सहायिका आसीत, । अत: वर्षा मनोऽनुकूलं वरं निश्चेतु प्रवृत्ता। तस्याश्च कल्पनास्तरे चिन्मय आगतः । वर्षायाः पिता तु कन्यायाः प्रीतिदृढतायां भीतः। समयेऽस्मिन् स ऋणग्रस्त आसीत् । निजमस्तकविनिमयेनाऽपि स ऋणपरिशोधं करिष्यतीति प्रभुनिकटे तस्य प्रतिज्ञा । प्रभुः तस्य कन्यायाः तारुण्यं ज्ञात्वा तामानेतुमादिष्टवान् । वर्षायाः पिता अनभिलष्यापि कन्यामानीय प्रभुनिकटे उपस्थितः । प्रभुः कन्यां स्वी- कृत्य तं ऋणतः विमोचितवान् । तदनु वर्षा ग्रामप्रधानस्य उपपत्नी- रूपेण जीवनम् अनयत् । चिन्मयः मातुलगृहात प्रत्यागतः । वर्षाविषयं ज्ञात्वा अतिशयेन स खिन्नः । परं किमपि कत्तु तस्य शक्तिर्नासीत् । तथापि वर्षाया दर्शननिमित्तं स बहुयत्नं कृतवान् । तस्या दर्शनं तु कष्टकरमभवत् । एकदा स सर्वेषामलक्ष्ये योगिवेशं धृत्वा इतस्तत: अभ्रमत् । अन्ततः स वर्षाया ग्रामं प्राप्तवान् । तत्राऽपि वर्षा चिन्मयस्य दर्शनार्थम् उत्कण्ठिता आसीत् । यदा योगी चिन्मयः तस्या द्वारे भिक्षामयाचत तदा वर्षा तस्य स्वरतः तं पर्यचिन्वत् । भिक्षां दातु पात्रं धृत्वा सा द्वारम् आगता। तदा उभयस्य नयने अश्रु परस्परप्रणयम् अभिव्यज्य कपोलतः न्यगलत् । तद्दिने योगी चिन्मयो निष्क्रान्तः । वृद्धपते उपपत्नीरूपेण जीवितु वर्षाया इच्छा नासीत् । यद्यपि बाह्यभूषया वधूगौरवे सा सुखिनी इति प्रतीयते स्म तथापि अन्तःकरणे तस्याः प्रीतिशिखा दाहसर्वस्वा आसो त् । पुनश्च कति- [३३ वयस्कपुत्राणां सम्बोधने सा माता आसीदिति प्रथेयं तस्या अनुभवे दारुण आसीत् । अपरदिने ग्रामे कोलाहलः श्रुतः । ग्राममध्यस्थवटवृक्षमूले हि कश्चित योगी मृतः। मरणसमये तन्निकटे कति जना उपविष्टा आसन् । प्रतिवचनं मुखे तस्या 'वर्षा' इति शब्दो झंकृत आसीत् । ग्रामे योगिनः शेषसंस्कारनिमित्तं प्रतिगृहं धनादानस्य व्यवस्था स्वीकृता। अन्ततः तस्या चिता सज्जीकृता। समयेऽस्मिन् वर्षा वार्तामिमां प्राप्तवती। तत्क्षणं सा कपाटमपावृत्य उन्मादिनी इव चितासमीपं प्राधावत् । गृहे सर्वे आश्चर्यान्विताः । वृद्धप्रभोः आदेशेन तत् क्षणमेव गृहपरिधेः। मुख्यद्वारं दृढतया पिहितम् । वर्षा तत्रैव व्याकुलतया मस्तकं व्रणितवती । रक्तस्नानं च कृतवती । अपरेधुः वर्षाया मृत्युवार्ता परितः प्रसारिता । तदनु जनवचने वर्षा सती। सा पतिप्राणा। सा रमणी- शिरोमणिः । सा स्वर्गीयप्रणयस्य अधिकारिणी। विलासो भावनामुक्तः। . इदानीं न काचित वर्षायाः स्थानमलं करोति । वर्षायाः प्रतिकृति- नेपथ्ये तु शम्पा अभिनयति । सा पुनः प्रतिष्ठाकामिनी । विलासस्य मनोमूले सम्प्रति वृद्धपिता जरत प्रतिकृतेः आभास एव । तस्य च रक्षणशोलप्रवृत्तौ रजनी अभिशप्ता वनकन्या। किन्तु एकस्मिन् विजनपरिवेशे विलासकृते रोजा एका स्वस्तिकरेखा । विलासस्य प्रथमप्रणये सैव नेदीयसी आसीत् । वाणिज्यस्य प्रथम- लाभांश विलास एकदा मधुचन्द्रिकामुपभोक्तुम् अट्टशूलमागतवान् । रोजा अट्टशूलस्य आतिथेयी। तद्दिने सा प्रथमतया विलासमुपगता। विलासमनसि रोजायाः दृष्टि: प्रीतिसंचारमकरोत् । रोजाऽपि मनाक् दुर्बला संजाता। रोजानिमित्तम् एतादृशः अतिथिः नवीनो नासीत् । किन्तु अतिथे: व्यवहारः पुरातनो नासीत् । विलासस्तु तदा रोजां पेपीयमान आसीत् । रोजा वारं वारं पृष्टवती । किमभिलषति भवान् ? विलास मुखे तु स्मितं विहाय नान्यद् आसीत् । स किंचित, दुर्बल- भावेन अपृच्छत । भवत्याः कार्यसमयः कियान् अत्र ? - ३४] inhink- - अष्टघण्टापर्यन्तम् । अद्य कतिवादने समाप्येत ? रात्रौ अष्टवादने । तदनन्तरम् आगन्तु शक्यते ? विशेषकर्म किम् ...? अस्ति कश्चित् विशेषः । रोजाया उच्छिष्टजीवनी अद्य तस्या मनसि पुलकमभरत । सा चञ्चला अभवत् । यथानिर्दिष्ट समये सा विलासनिकटे उप- स्थिता। विलास उपवेष्टु तामन्वनयत । पुनश्च अभिजातव्यवहारे रोजा कृतकृत्या अभूत । विलास आरभत । भवत्या विवाहः संजातः ? सरलभावेन रोजा अहसत । - नहि। कदा भवेत ? वक्तु न शक्नोमि । न किमपि चिन्तितवती ? का आवश्यकता? - सत्यम् उक्तवती। an- विलासः किंचित हतावेग: संजातः । वक्ररीत्या च अवदत् । अहं भवतीमिच्छामि इति चेत् वदेयम् ? रोजा सामान्यमहसत अहं विधर्मिणी । तन्न सम्भवेत । विमिणी नाम यवनी । तदहं जाने । - तहि, केन प्रकारेण सम्भवेत ? अयि ! काऽत्र वा सामाजिकता ? सर्वे वयं मनुष्याः । अस्माकं संपर्के धर्मः प्रतिबन्धक एव । अन्यथा प्रवृत्तिमुखे सर्वे समानाः । विलासस्य उदारतायां रोजा मनाक् प्रसन्ना- किं वा अस्ति धर्मेण ? तथाकथितधर्मपण्डिता अधुनाऽपि ललनासमूहं दासीरूपेण स्वीकृत्य यथेच्छं परित्यजन्ति । इच्छानुसारं व्यभिचरन्ति । धर्मनाम्ना अत्याचरन्ति । बहुरमणीश्च पत्नीच्छलनया स्वीकृत्य दुराचरन्ति ।

३५ m- यदिच्छामि तत. तेषामेव उच्छिष्टात रोजेयं जन्मलब्धवती। सैव इदानीं धर्मस्य अवांछितत्वं व्याहरति । ततः सा विचिन्त्य अवदत् । विषयेऽस्मिन भवान् पुनश्चिन्तयत । विलासः दाम्भिकरीत्या अवदत मम को वा विद्यते प्रतिवक्तु विषयोपरि ? स्वयमहं विचारकः । करोमि। रोजा विचारमूढ़ा आसीत, । हास्येन अभिलाष प्रकटयन्ती सा बहिर्गन्त मुद्यता। विलासो बलात तस्या हस्तमधरत । निज- ग्रीवातो हारमानीय तस्या गले आलम्बयत, मुद्रिकां च अंगुल्यां पर्यधापयत् । सकलविचारोपरि स्नेहपरिणतिः चुम्बनरूपेण तरलिता । वरलसाहित्ये नायकनायिकारतिः इन्द्रधनुषः रङ्गमन्वेषयत् । विमि- भावतले मधुचन्द्रिका साधा अभूत् । स्वस्तिकस्य चतु श्चरणे चन्द्रलेखा अभ्यादाने निमग्ना। रात्रिः अञ्चलं प्रसारितवती । रोजा आत्मपूर्णा संजाता। तदनु सा विलासस्य प्रतिश्रुति गणयन्ती दिनमनयत् । परं विलासः सर्व विस्मृतवान् । अनुभवे तस्य लक्ष्यमभूत, नूतनं मधु नवीनः स्वादः- अभिनवस्पर्शः। नवकल्पनायां पुनरपि नवीना"। अनुभवपरिसरे यद् आयाति तत् सर्वं सत .."सर्वं विकसितम् । सर्वत्र स्वादः । सर्वेषु वस्तु षु जीवद्रूपता मधुलिप्ता । जीवद्रूपमेव प्रभिन्नम् । इदं च प्रभिन्नं यथार्थम् । अत्र इतिकारः क्षणिकः । नेतिकार आपेक्षिकः । स्वस्तिकार ऐकिकः । विलासस्य लक्ष्ये अद्यत्वे शम्पा तादृशी महीयसी। स्वादाय एका मानचित्र रेखा । अस्तव्यस्तकार्यप्रपञ्चे सा सूत्ररूपा व्यसनशाखा। इन्द्रियगन्धेषु सैव परिधिहीना विस्तीर्णबालुका। कल्लोलगहने सैका विषमकलिका । निजकृते प्रहेलिका । अन्यस्य कृते रहस्यकुञ्चिका। निजपश्चिमं विस्मृतवती शम्पा ।

३६] सा विश्व सिति निजवर्तमानेषु निजकार्यपुजेषु निजलीनभावनासु ........। इदानीं सा निर्वाचनप्रचारे अभिनेत्री। द्वारं द्वारमुपगच्छति । जनान् बोधयति । महिलासमूहम् उद्बोधयति.... ... उदघोषयति- विलासः अस्माकं नेता । स एव अस्माकं हितं साधयितु योग्यः । नगरपालिकायाः परिसरं न केवला नगरी अस्ति । अपित कियन्तो ग्रामाः सन्ति यत्र नैके दरिद्रा निवसन्ति । नगरपालिका अत्र तु ग्राममयी। ग्रामाणाम् उन्नयनाथ नगरी प्रतिष्ठापिता। कार्यालयाः निर्मापिताः। कर्मचारिणो नियुक्ताः । ग्रामत आगम्य जना अत्र कर्म कुर्वन्ति । जनसंख्या अत्र वर्धते । नगरीपरिसरोऽपि वर्धते । तद्दिने नगरीपार्वे ये ग्रामा आसन् ते इदानीं नगरीरूपेण परिगण्यन्ते अस्माकं तु नगरी वस्तुतः जनपदमेव । जनपदं नगरीतिकथने गौरव- मनुभवति जनः। तथैव गौरवदृष्ट्या जनपदस्य केचन नेतारः चयनीयाः । ग्रामपुजे यथेयं नगरी तथैव जनेषु कश्चित् निश्चेतव्यः । अनेके अधुना प्रतिस्पर्धिनः । तेषु विलास उत्तमः । स एव ग्रामजन- पदयोः समन्वयं विधास्यति। अतः स विजयीकर्तव्यः । - - R- एवं प्रबोध्य संचरति शम्पा । एकदा निशान्तेन सह तस्याः साक्षात्कारः अभूत् । निशान्तः तामुपेक्षितुनाशकत् । किमपि वक्तु स तामुपगतः । शम्पा तमुपेक्ष्य गन्तुमुद्यता। किन्तु कुप्यन्ती अवदत् । किमर्थं मामनुसरसि ? निशान्त उपाहसत् । कि मे अधिकारः समाप्त: ? को नाम अधिकारः ? मम सर्वाऽपि सम्पत्तिः त्वया चोरिता । एतत्ते कपोलकल्पितम् । यन् मम आसीत् तन्मया गृहीतम् । का ते आपत्तिः ? अधुना समयः अस्ति। त्व प्रत्यागच्छ । किमर्थम् ....? गृहं मे रिक्तम् । तत्र मे किमस्ति ? सर्वम् । - - [३७ ७ यदि तत्र ममेति किंचित् अभविष्यत् तहिं गृहं परित्यज्य नागमिष्यम् । तहि, किमिच्छसि ? तव मार्गे त्वं निवस । अहं मम मार्गे तिष्ठामि । अहो ", एषा ते चिन्ताधारा अथवा अन्यस्य ? मम""ममैव...। न “न । चिन्तेयं विलासस्य । तं गृहीत्वा त्वं । विरम"। माऽधिकं जल्प । मम समयो नास्ति । गम्यताम् । समीचीनम्। तहिं गृहाण ते सम्पत्तिम् । निशान्तः विचारालयस्य निष्पत्तिपत्रं प्रसारितवान् । शम्पा तत्क्षणं तद् गृहीत्वा स्यूते न्यवेशयत् । विरक्तिकरस्वरेण अवोचत । इतः गम्यताम् । प्राप्तं मे त्यागपत्रम्। इतः प्रभृति निश्चिन्ततया निवस। धिक् ते धनम् । धिक् ते कार्पण्यम् । धिक् ते सर्वकारीय- माभिजात्यम् । धिक् ते सचिवालयजीविकाम् । शम्पा प्रस्थिता। । निशान्तः जनपदस्य एकस्मिन् तरुमूले उपविश्य धूमपानाय सन्नद्धोऽभ- वत् । सम्मुखे तस्य धूमशिखा कुण्डली विधाय ऊर्ध्वगामिनी । स्मृतितले तिक्तता। आवेगमूले कार्पण्यदोषः । हृदये कुण्ठा। मनसि अस्त- व्यस्तम् आत्मनः पुरागम् । अग्रे साधनार्थम् अस्पष्टा दिक् । विविक्तानुभवे तथापि मनाक् अन्वेषा। किन्तु प्रतिशोधाय अवसरो नास्ति। अनुशोचता च वृथा। धनमस्ति, तेन सर्वं मिलिष्यति। इयं समाश्वस्तिः। बुद्धिरस्ति, अनेन उपायो मिलिष्यति, इयं सान्त्वना। जीवितुम् अवलम्बनानि अनावश्यकानि। परमुपभोगाय संयोगः अपेक्ष्यते। सचिवालयस्य भार्गे पथिकोऽभूत् निशान्तः । अपरमार्गतो जनपदं प्राविशत् मुमुः। वृद्धकुलमणिः दिन- चतुष्टयतः अस्वस्थः । चरमं वयः। देहः पथ्याय न प्रतिपन्नः । जलमपि अनुकूलं न भवति। वायुश्च प्रतिकूलः। स्वादु न रोचते। अपथ्ये रुचिः भवति। संचरणे मनः । परं शरीरे न शक्तिः। इतस्ततो विजल्पति । आत्मानं धिक्करोति । पौरुषं निन्दति । वंशानुक्रमस्य अवनतये दुःखाकरोति । एवं नाना विकृतिकवलितो वृद्धः । ओषधिः हि नोपयुज्यते ।

३८] ८ ] तस्य ओषधिं नवीकृत्य विपणीतः प्रत्यागच्छति मुमुः। सरलभावराशिषु रजनी एकैव प्रतिमा । तस्या वैधण्यं मुमुकृते असहयौं भवति । तन्नयने तादृशललना हि सीमन्तिन्यः कर्मक्षमा गृहिण्यः । वैधव्यदोषपरिहाराय स मनसा बहु चिन्तितवान् । किन्तु उपायं न प्राप्नोति । बहुवारं स कुलमणिसमीपे पुनर्विवाहप्रस्ताव समानीतवान् । किन्तु वृद्धः सर्वं प्रत्याचष्टे । पुनश्च स यत् चिन्तयति तत्सर्वं तन्निकटे प्रकाशयितु साहसं न बध्नाति । तथापि तस्य इच्छा -रजनी वैधव्यदोषतो मुक्ति प्राप्नोतु। विषयेऽस्मिन् स वृद्धेन सह आलोचितवान् । वृद्धो वदति-मुक्तये उपायो वर्त्तते । वृद्ध; रोगी। तस्य कामना अद्यापि न पूर्णा । को वा पूरयितु शक्नुयात् । न गृहे कश्चित, उपार्जनक्षमः । यस्तु आसीत् स चिराय दूरंगतः। यद् वा उपार्जनं भवति तत सर्वं कृषिभूमितः । साधारणव्ययनिमित्तं गृहे सन्ति गावः। मुमु : गाः दोग्धि । दुग्धं च विपण्यां विक्रीणाति । शाकव्यञ्जनादिकम् अनेनैव प्रचति । अन्नं वसनं च साधारणतया धान्यादिशस्यविक्रयद्वारा सम्भवति। रजनी गृहस्य लक्ष्मीः । सा यत् किंचित् संचिनोति । तस्मात् सा विभज्य गृहव्ययं करोति । पित्रे ददाति । मुर्मोः बाह्य- व्ययार्थं च ददाति । पिता प्रतिवर्ष तीर्थाटनं करोति । तन्निमित्तमपि सैव प्रयच्छति । संचितधनेभ्यः अर्धाधिकं पितु: तीर्थाटने व्ययीभवति । तीर्थाटनतः प्रत्यावर्त्य पिता यदा अतिथिभोजनं कारयति तदाऽपि रजनी सर्वमपि व्ययभारं वहति । अनेनैव क्रमेण पित्रा सर्वमपि निकट- तीर्थं पर्यटितम् । अवशिष्यते पुरी। पुरीयं जगन्नाथपुरी। पिता चिन्तयति यदि देहः समीचीनः : स्यात् तर्हि ऐषमः पुरी यास्यति । तेन सह मुर्मुः रजनी च गमिष्यतः। एतदर्थं वर्षारम्भतो मुर्मुः सर्वमायो- जयितु प्रवर्तते । एषमो दीपावली कात्तिकपूर्णिमा च पुरीनगरे एव परिपालयिष्यते । रजनी ऐषमः पुरीं गत्वा प्रथमतया तत्र कात्तिकव्रतं पाल- यिष्यति । शरत्पूर्णिमातः कात्तिकपूर्णिमापर्यन्तं मासावधिवासः । रात्रौ उपवासः। प्रातः तारकास्नानम् । दिवा हरिकीर्तनम् । पुनश्च पुराणश्रवणम् । मध्याह्न विश्रामः । अपराह्न लघुतीर्थानां भ्रमणम् । तीर्थीभूतपुष्करिणीनां जलसंग्रहः । ततः स्नानम् । तदनु दीपदानम् । एवं नानाकर्मसम्पादन निमित्तं धनमावश्यकम् । गोविन्दमाता, कामिनी- [३९ नटवरस्य माता, रघोः पितामही, गोपालस्य मातामही, सनातनस्य मातुलानी, मायाधरस्य पितृष्वसा, गीताया मातृष्वसा, सीता-भगिनी, लतायाः भ्रातृजाया-ऐताः सर्वाः प्रतिवर्ष श्रीक्षेत्रं गच्छन्ति । प्रपितामही इदानीमपि प्रतिवर्ष पुरीं गच्छति । गङ्गाभगिन्या ननान्दा मालती विगतवर्षे विधवा अभवत्। वैधव्यस्य वर्षपूर्त्यनन्तरमेव सा ऐषमः पुर्यां पुण्यं करिष्यति। पञ्चतीर्थेषु स्नानं करिष्यति । अमा- वस्यायां दीपदानं करिष्यति । महोदधौ तिलतर्पणं करिष्यति । कात्तिकपूर्णिमायां शेषस्नानं विधाय गृहं प्रत्यागमिष्यति । अतिथि- भोजनं कारयिष्यति । गोभ्यो धान्यदानं करिष्यति । बालेषु मिष्टान्न- वितरणं करिष्यति । अनेन तस्या अपुत्रिकदोषः नश्येत् । सा च पुण्यवती भविष्यति । भगिनी सौदामिनी गतवत्सरे कात्तिकस्नानसमये दिवंगता। सर्वे वदन्ति सा मोक्ष प्राप्तवती । तस्या मृतपतिरपि यमदण्डतो मुक्तः । सञ्चितपुण्येन सा अवश्यं स्वर्गे निवसेत् । तथैव मृतकुशासनस्य वृद्धा पत्नी कादम्बिनी सकलतीर्थाटनं कृत्वा अन्ततः पुरीक्षेत्रे आश्रयं विधाय निवसति । हरिनामदीक्षां गृहीत्वा सा सम्प्रति संन्यासिनी । सा अपुत्रिका इति सकलसम्पत्ति विक्रीय तत्र अन्नभोजनादिकम् अनाथेभ्यो वितरति । पुण्यम् अर्जति । वर्षेऽस्मिन् बाबाजी-कैवतः दुहितुः विवाहं तत्र कारितवान् । धनाभावेऽपि वराक: सुचारुतया श्रीक्षेत्रे कन्यादानं कृत्वा पुण्यमार्जत् । जगन्नाथं साक्षीकृत्य तथैव हरि-तैलकारस्य कन्या वीणा स्वेच्छया पीतवास-स्वर्णकारस्य पुत्रेण सह पुरीमन्दिरे एव विवाहं कृतवती । अत्र जातिप्रथायाः विचारो नास्ति । केवलं मनोऽनुकूलता । इच्छानुकूलं सौख्यं च । कुलमणिः प्रतीक्ष्य उपविष्टः। मुखे केवलं 'हरि'-नाम । प्रतिश्वासं च 'हरे हरे'' "हरे'..। कुलमणिः वैष्णवः । एकदा कश्चित् साधुः सहसा उपगम्य तम् अनेनैव महामन्त्रेण दीक्षित्वान् । तदनु श्रवणे कीर्तने मनने च केवलं नाम । माङ्गलिकमिदं सकलकालिकम् । विश्रामविहीनजीवने मनाक् शान्तये इदमैश्वरिकम् । विश्वासफलके सरलमिदम् आक्षरिकम् । इदं युगे युगे संहतिस्वस्ति- ४०] । कम् । एकाग्रप्रवृत्तिमूले आत्ममयमिदं केवलमौलिकम् । भेदाभेदविवेक- वलये इदमभिन्नं संसर्गप्रतीकम् । निद्रितप्रज्ञाचक्रे इदं विवक्तं प्रतीति- साक्षिकम् । विक्षिप्तभाव विग्रहे पुनरिदं मसृणितप्रेमसंगणकम् । श्राङ्गारिकमिदं जगदेककम् । नादेषु इदमर्थवद्-विवत्र्तं प्रथमसंज्ञकम् । औषधीमानीय विलम्बेन अद्य गृहमागतवान् मुमुः। गृह परितः अन्धकारः। पर्यङ्क सुप्तः कुलमणिः । ज्वलन्ति दीपः । अपरपार्वे उपविष्टा रजनी । मुमु: रजनीहस्ते औषधि समर्प्य अवदत् । सम्प्रति जनपदे महान् सम्मर्दः । धीरस्वरेण रजनी अपृच्छत् । किमर्थम् ..? प्रगल्भभावेन मुमु : अवर्णयत् । जनपदे निर्वाचनं भविता। तदर्थ सभा भवति । जनाश्च भाषन्ते । शृणोमि, अस्माकं भ्राता विलासः तत्र नेता संजातः । स च निर्वाचने प्रार्थी । अन्यः कश्चन वृद्धः तस्य प्रतिस्पर्धी वर्त्तते । - वृद्धस्य हृत्कम्पः अभवत् । विरम । तस्य विषये अन विचारो माऽस्तु । तस्य नामग्रहणे सर्वम- पवित्रं भविष्यति । याहि, संकीर्तनमारभ्यताम् । मुमु: आस्तरं प्रसारितवान् । रजनी ग्राम्यवीणायां स्वरं संयोजयितुमारब्धा । मुमुः मृदङ्ग ध्वनिषु तालमन्वेषयत् । अर्चनं "वन्दनं प्रार्थनमिति सर्व नामगाने अन्तरभूत । 'राधे राधे राधे श्याम....! त्वमेव मे सर्वनाम ।' 'सत्यपथे धर्मपये गमय मां विधिवते।' प्लावय ते प्रेमपथे। इत्थं कीर्तने विलीनो मुर्मुः । नादस्रोतसि स्वरतन्त्रीम् उत्प्लावयति रजनी। उभयस्य अधरे हास्यधारः स्वर्गीयः । भक्तिरसे मुखविलासोदीर्घ- प्रियः। दृष्टिश्च दीर्घदर्शिनी। उभयत्र अपूर्वपूर्णता । न भेदो, चमत्कारोऽत्र अलौकिकः । क्षणाय आत्मिकः । अन्वेषान ब्रह्म न वा संसार, अपितु स्रोतः निश्चयेन प्रवाहः । जन्ममरणबन्धे आत्मलयः । सुन्दरमधुरयोः वेणुः । शान्तये परमाणुः । । रात्रिः स्थवीयसि ।

[४१ गृहस्य प्रहरिवृत्तिमामूलयन् द्वारदेशे शपनीयम् अभजत मुमुः। पितृ सेवा समनन्तरं निजद्वारम् अन्तरायीकृतवती रजनी। अन्तराले सा एकाकिनी । दीपालोकः सूक्ष्मः । प्रकाशस्तु अखण्डः । अवधाने तस्या मायामातनोति शयनकालः। शेषप्रार्थनायां आविर्भवति गोपीप्रियो रसविशालः । अवदमित-प्रवृत्तिसम्मुखे तथापि शृङ्गारी स एव मरालः । कलाप्रपञ्चमुज्जृम्भयन् ग्रासाय उद्यतः संसारोऽयं साक्षाद् व्यालः । केलिः यदर्थं कालस्य समन्वयप्रतिभूः । तथापि प्रतिनक्त- मिव इदानीमपि शयने रजनी सुश्रीः । अपरदिने निर्वाचनफलं घोषितम् । विलासो विजयी घोषितः । ग्रामतो जनपदपर्यन्तं सर्वत्र विलासस्य जयध्वनिः । सर्वत्र पुष्पमाल्येषु विलासस्य अभ्यर्थना । पार्श्वचराणां प्रशंसावचने विलासः अद्य महान् जनसेवी""जननायकः"जनपदस्य च सम्मान्यो नेता । .. मुर्मुः आगम्य विलासस्य विजय-विषयं कुलमणिसमीपे विज्ञापितवान् । वृद्धः कुलमणिः सहसा विस्मितः । आत्मना च विषण्ण:-अहो कालः ! प्रतिपक्षे वृद्धः कृपानिधिः। बहुकालतः सः अस्य जनपदस्य प्रतिनिधिः बहुजनपरिचितश्च केन प्रकारेण स पराजितः ? स नीतिवादी परोपकारी। जनसेवायां तस्य सर्वोऽपि कालो व्यतीतः । तस्य समवयस्कार बहवो धनिनः संजाताः । परं तस्य संप्रति तदेव पुरातनं गृहमस्ति । तदेव जनसम्मान तन्निकटे अद्यापि विद्यमानमस्ति । देवधर्मेषु साधुकर्मसु च तस्य विश्वास: अक्षुण्णः । तथापि स पराजितः ? विलासो भ्रष्टः। नाऽयं तस्य विजयः। विजयोऽयं धनस्य । तस्य च चातुर्यस्य । पुनश्च तस्य मिथ्याप्रतिश्रुतेः । जनस्तु अन्धः । स धने विश्वसिति । आकर्षणे अनुरज्यति । मिथ्यानिमित्तं संग्राम करोति । धनमोहे सर्व विस्मरति । अतः किमपि विचारयितुन शक्नोति । यत्र किंचित् प्राप्नोति तत्र निजत्वं विजहाति । इदानीं को वा कृपानिधिसदृशान् साधून् पृच्छति ? धनं यत्र तत्र चरित्नम् । तत्र आदर्शः। तत्र सर्वमपि मूल्यसम्पन्नम् । अद्य विलासस्य विजयो नाम भ्रष्टाचारस्य विजयः व्यभिचारस्य विजयः-अन्यायस्य छलनायाश्च विजयः। अद्य तस्य जयध्वनिः नाम शोषणस्य दूषणस्य प्रदूषणस्य ४२] जयध्वनिः, तस्येदं जयमाल्यं कुसंस्कारस्य बलात्कारस्य वचस्कर वृत्तेश्च । विषण्णभावेन विलासस्य विजयकथां रोमन्थयति कुलमणिः । उपगता रजनी। - - - पितः ! मुर्मुः वदति विलासभ्राता जनपदस्य नेता संजातः । स तु तदर्थं विजयी। न अस्मत्कृते । तस्य विजयो नाम अस्माकं विजयः । मैवं वद, जाते ! स इदानीं महान् । वयं तु । • विजयेऽस्मिन् अस्माभिः स उपगन्तव्य एव । नन। विजयस्य मोहविषयं न जानासि । अस्मिन् समये अस्मान् स परिचेतुमपि न शक्नुयात् । तं विहाय कियद्दिनपर्यन्तं वयमन पृथक् स्याम । यावत् शक्यम् । रजनि ! संसारमियं परिचेतु कुतस्ते वयः ? अस्य रूपमतीव सुन्दरम् । परमत्र सम्पर्क : न तथा मधुराय यथा तिक्ताय । तथापिः सः आत्मीय खलु ? एतन्न कोऽपि निषेधयेत् । किन्तु स एतन्न बुध्यति । वयं बोद्ध समर्था नु ? सत्यम् । परं किमत्र अस्माकं नास्ति ? गृहमस्तिः। कृषिभूरस्ति । मुमु सदृशः पुत्रवत् सेवकः अस्ति । शान्तिमयपरिवेशोऽपि विद्यते । तहि, किमर्थं वयं तदुपरि जीवन निर्वाहार्थं भारसदृशा भविष्यामः । किं जनपदे जीवनं अधिक सुखप्रदं भवेत् ? तत्र गन्तुनाऽहं वच्मि । किन्तु अस्माकं सम्बन्धः तिष्ठतु । बहुधा मया स बोधितः । स तु निर्बोधः । को वा अस्ति गृहे विवादाय? वृद्धोऽहं वर्षद्वये त्रये वा मरिष्यामि । मम तु सामान्य मितो व्ययः । तत्रापि तस्य असम्मतिः । गृहम् - भूमिः- चलनीया सम्पत् इति सर्व मयैव अजितम् । किन्तु लोभः तस्य । भवतु नाम । तथापि औद्धत्ये सीमा अस्ति । यदि प्रतिपदं सः अनुचितमाचरेत् तहि गृहे शान्तिः केन प्रकारेण वा तिष्ठेत् ? वरं स दूरे तिष्ठतु । धनमर्जयतु । यशः सञ्चिनोतु । तत्न अस्माकम् आनन्दः। उपगमने का आवश्यकता ? - (४३ यदि तस्य इच्छा अनुकूला भवेत् तर्हि स आगमिष्यति। नोचेत न"" । रजनी शनैः गृहं प्रविष्टा । विलासस्य प्रकृति विमृशन् कुलमणिः निविष्टः। किमर्थं विलास इयान् प्रकृतिकृपणः संजातः ? कथं च स्वभावसंकीर्णः अभवत् ? किमयं परिवर्तितकालस्य प्रभावः ? अथवा पारिपाश्विकस्थिते । दुष्प्रभावः ? अथवा मातृवियोगजनित- स्नेहाभावः ? अथवा पितापितामहानाम् अभिशापानुभावः ? किं वा असमयसुरतस्य कुप्रभावः ? -- कारणानि बहूनि । कार्यं तु एकम् । तदेव फलायते प्रभावं तनुते"अन्यदपि आक्रमते इतस्ततः संक्रमते पुनस्तत् कारणायते स्रष्टा संजायते । तदीयो भावः अन्यत्र पुष्प्यति । एवं विशालायते सूक्ष्मता। स्थूले च कारणसन्धानं मिथ्यायते । ततः शून्यं विद्योतते । अभावायते संसारः । अभावे सर्वमपि सम्भाव्यं सद् भवति । गृहे शान्तिस्थापनार्थं कुलमणिः निजजीवने बहु त्यक्तवान् । इयं शान्तिः तस्य आदिलक्ष्ये अन्यतमा। विलीना कालवक्षसि पत्नी। परमुभयस्य मध्ये एकदिनमपि कलहो नाऽभूत् । अभाव आगतः । कदाचिदपि धैर्यच्युतिः नाऽभवत् । केवलं शान्तये कन्या रजनी तन्निकटे चिरकुमारी। पुत्रो विलासश्च चिराय प्रवासी । पुनश्च मानवताया मूलसूत्रम् अन्विष्य स मर्मु मुखे हरिनाम अभरत दानी शान्तये स्पृहां जनयति । अद्य तु निजकृते जपमाला शान्ति- स्वरूपिणी । कन्यायाः कृते पूजामञ्जरी शान्तिप्रतिमा। निखिल- कर्मणो लक्ष्यमूले द्वयं शान्तिः तदर्थं सत्यस्य परावाक् । । तदि- पूर्वाकाशं दर्श दर्श पिनानि नयति कुलमणिः । जीवनारम्भतः पूर्वाकाशेऽस्मिम् तस्य अनेकप्रीतिः। किमर्थमिति स न जानाति । अत्र यथा शून्यरागः तथा मेघरङ्गः । तथैव च उज्ज्वलिमा । बाल्ये स प्राङ- मुखः सन् दीक्षामग्रहीत् । निर्नामसु अत्रैव मुख्यरूपमभजत नाम । ततो नाम्नि स सौन्दर्यमन्वेषयत् । रूपमादकतायां संसारो मधुरतमः अनु- भूतः । अद्य तु स एव पूर्वाकाशः। तथैव तत्र मेघः । तथा च रङ्गः । परं न रूपे माधुरी । न वा रंगे आवेगः । शिथिल प्रत्यङ्ग आश्रय लिप्सा महती। कल्पनासु नामलीला ऐश्वरिकी। निमीलने सूर्यः पारम्प- रिकः । उन्मीलने चन्द्रो विरतिरङ्कः । आशासु प्रस्थानं श्वासायते ।

४४] ध्र वायते प्लवमानता। निमेष दिनम् । निमेषे च रात्रिः । रतिमात्रा सूक्ष्मायते । वाजीभवने निजायते आत्मा। दाहार्थं प्रतीक्षते देहः । शिखायते संस्काररेखा । शेषभिक्षा पुनर्भवपरिक्षेपाय प्रेयसी। -- अवसरे मुमु: भावनाविलीनः । तन्नयने शोभामातनोति ग्राम- कुटीरस्य छदिः। तत्र च कुक्कुटानां के लि: । पुनश्च आर्द्र छदिषु धूमकुण्डली । तन्मानसं पुलकयन्ति ग्रामस्य उत्सवाः परिपार्श्व- कर्षकाणां समाचाराः। ऐषमो दामोदरस्य पुत्र विवाहो भविष्यति । आगामिनि वर्षे यदुमणेः कन्याविवाहो भविष्यति । नित्यानन्द- ब्राह्मणस्य उपनयनोत्सवो गतमासे अभूत् । सूर्यमणिनापितस्य मातृ- वियोगे अद्य शुद्धि दिवसः । गदाधरस्य भगिनी सद्यो विधवा संजाता दाशरथिमिष्टकारस्य कन्या पापगर्भ निपात्य बहुकष्टेन विवाहं कृत- वती। पूर्णतन्तुकारस्य भगिनी पतिपरित्यक्तारूपेण गृहे सीदति । गोपालदासः कन्याधननिमित्तं कलहेन पत्नीं व्यापाद्य अधुना कारागृहे कालं नयति । निधिब्राह्मणस्य विशालपरिवार ऐषमो विच्छिद्यः । भीमक्षत्रियः पापकर्म निमित्तं नितरां पीडितः । धरणीधरस्य पत्नी बन्ध्या इति सदा तयोः कलहः । नटवरस्य पत्नी अष्टमगर्भे पुत्रं प्रासूत । शङ्करमहाजनः ग्रामस्य मन्दिरनिर्माणार्थ किंचिदधिक धनं दास्यति इति प्रतिश्रुतवान् । हरिजना ऐषमः सर्वकारतः ऋणं लब्ध्वा आषाढ़ मत्स्या इव दृश्यन्ते । निर्वाचन निमित्तीकृत्य ग्रामः अधुना द्विधा विभक्तः। ज्योतिषिकः कृष्णदासो वदति -अस्मिन् वर्षे प्रचुरं शस्यं भविष्यति । गतवर्षे शस्यहानिरभूत् । अतो हानिसम्भावना नास्ति । किन्तु वृष्टिभयमस्ति । कीटभयमपि अस्ति । वर्षेऽस्मिन् करकापात- योगोऽपि वर्त्तते । इत्थं नाना कथाः। मुर्मू: यत्र गच्छति तत्र ग्राममेव चिन्तयति । ग्रामस्य परिसीमा तदर्थ चिराय अभिरामा। समयः सन्ध्या। अलिन्दे आलम्बमानो वृद्धः । कटस्य पार्श्वद्वये उपाधानोपरि मस्तकं चरणं च निधाय कुलमणिः श्रममपनुदति । निकटे उपविश्य चरणं संवाहयति मुमुः। तैलेन पृष्ठतः चरणपर्यन्तं आमर्दयति । मध्ये मध्ये [४५ गृहविषये, कृषि विषये ग्राममधिकृत्य स आलोचयति । आगामि दिनस्य कार्याणि च निरूपयति । प्रसंगक्रमेण मुमुः वदति । पितः ! हयः भास्करक्षत्रियः अश्वत्थवटद्र मयो विवाहं कारितवान् । लोकाः कथयन्ति-अनेन तस्य अपुत्रिकदोषो नश्यति । किमिदं सत्यम् ? - ? m हाँ । स वृक्षद्वयं मूलत समेधितवान् । तस्य आशा आसीत्, स पुत्रवान् भवेदिति । पुत्रस्तु न जातः। अधुना पुत्ररूपेण वृक्षद्धयं स्वीकृत्य शान्ति- माप्नोति । यदि कश्चित् मनुष्यमारोपयेत् तर्हि स किं प्राप्नुयात् मम तुपुत्रो विद्यते । किमहं प्राप्नोमि? वृक्षरोपणे फलं यदि न मिलेत् छाया तु नूनं मिलिष्यति । सत्यम् । पुनश्च केचन कथयन्ति-अस्मिन् वर्षे विजयमहाजन एकां पादपी परिणीतवान् । स तु विशालजनः । वराको वारत्रयं परिणीत- वान् । किन्तु तिस्रः भार्या मृताः । वराको मृतदारः संजातः । अस्मादेव दोषात् परित्राणाय स चतुर्थवार पादपी पर्यणयत् । तदा प्रभृति स सुखेन निवसति । तथैव यदि भगिनी पादपं परिणेष्यति तर्हि साऽपि वैधव्यदोषात् मुक्ता भविष्यति । मा पुनरपि सीमन्तिनी भवेत् । अनेन न कस्यापि हानिः । अपितु भगिनीमनसि दुःखस्य उपशमो भवेत् । सेवकस्य प्रास्ताविकतर्के वृद्धः चिन्ता निविड आसीत् । तं समाश्वस्य सः अभाषत । भवतु । विषयेऽस्मिन् विचारं प्रवर्तयिष्यामः । इदानीं गवां रात्रि- भोजनसमयः। याहि, रजनीम् माहूय शीघ्र तत् व्यवस्थापय । संवाहनं तत्रैव समाप्य मुमु: निजकर्मणि व्यापृतः। रजनी वृद्धस्य भोजनव्यवस्थां कृत्वा शय्यां प्रसारयत । रात्रिः रामेश्वरी अभूत् । अभ्युदये पूर्वाह्न मनोहरम् । विलासस्य अभिनन्दनपत्राणि सज्जीकरोति शम्पा । तदपि वाचयित्वा विलासं श्रावयति । उभयस्य मुखे हास्यम् ऐकिकम । विलासो वर्णयति। शम्पादेवि ! वस्तुतः, भवत्या एव अयं विजय।।

४६] न""न", भवत एव । - - ? ? M भवत्या अभियानं कौशलपूर्णमासी दिति सर्वे वदन्ति । विलासोऽयं नाम्ना विजयी। भवती तु कर्मणा। स्थापयतु वचनमिदम् आत्मनि । - किमर्थम् ...? किमिदं चाटुवचनम् ? अहं तु यथार्थं वच्मि । भवेत्। मम कर्त्तव्यं तु मया कृतम् । तदर्थम् इयती प्रशंसा ? भवती विहाय को वा अन्यः तथाभाक् सन्ति अनेके । नहि "द्वित्रा एव । किमेते आत्मीया? आत्मानुरूपाः। तेतां नामानि ? प्रथमनाम शम्पा""। • द्वितीयं-......? रजनी"। अहो, जाने , भवतो भगिनी किल ? भवतु, तृतीयं प्रश्नेऽस्मिन् सहसा विरतो विलासः । मनसि अभासत रोजा । सा एका मधुस्मृतिः । प्रथममृगयाकाले सा प्रथमस्थली । सरल- वाणिज्ये सा प्रथमपिपासा । दुर्बलमुहूर्तस्य अस्वस्थपाण्डुलिपिः । ? - विलासस्य अधरे हास्यरेखा उज्ज्वला । शम्पा साश्चर्यमपृच्छत् । नीरवता"। तदनु हास्यम् । किं चिन्तयति ? किमिदं तृतीये नाम".....? ....... कुत्रत्या इयम्...? महान् अयं विषयः । अन्यदा वदिष्यामि । इदानीं कः कार्यक्रमः ? कथयतु विषयमिमम् । -

[४७
शम्पामनसि द्विधाभावः । किन्तु प्रीतिपूर्ण नेत्रेण सा विलासस्य
मुखमपश्यत् । रतिनिवेदनस्य अपूर्वभंग्या सा किमपि छल यितुमुद्यता।
विलासस्तु अभिज्ञः। अनुभवे तस्य गतानुगतिका इन्द्रियप्रीतिः ।
तन्निकटे देहो विशालः रसालः केलितरलः । शम्पाया: चिबुके
अंगुलीं संतरयन् स अवदत् ।
प्रिये - ! परिहासविजल्पितमिदम् ।
- नहि नहि , वदतु नु।
-
समयेऽस्मिन् निशान्तस्य अभिनन्दनपत्रम् उन्मोचितवती
शम्पा। सहसा स्तब्धा । हृदयस्य स्पन्दनं तस्याः शरीरमाक्रमत । सा
पत्रमिदं निह्नोतुमयतत । विलासः; किन्तु, सन्देही भूत्वा अपृच्छत् ।
किं तत्र निह नुतम् ?
निशान्तस्य प्रलपितम् । न तत्र किमपि अस्ति । त्यजतु ।
न"न", वाचयतु ।
- नहि ।
महय ददातु । स्वयं पठिष्यामि ।
बलात् पत्रमगृह्णतु विलासः । वाचयितुच आरब्धः ।
'विलास-!
अभिनन्दनम् । त्वं मे बन्धुः । मदर्थं अनेकं कृतम् । कथं वा
विस्मरिष्यामिः? कर्मपरिसरे त्वमागतः । लाभांशं गृहीतवान् । अन्ततो
वाणिज्यच्छलेन सर्व मे चोरितवान् । अद्य अभिनन्दनस्य मूल्यं
किय दिति त्वं सम्यक् जानासि । अयं विजयो न तव । विजयो धनस्य
~~~.."तव वणिग्वृत्तेश्च । यद् भवतु नाम, शम्पा इदानीं त्वन्निकटे
नूनं सुखिनी स्यात् । अहमिह तु रुग्णः संजातः। अद्य सहायनिमित्तं
न कोऽपि निकटे । यदि रोगपीड़ा अधिका भवेत् तहि सहायार्थ
करं प्रसारयिष्यामि । मम करप्रसारे त्वं सहायो भविष्यसि इति
आशासे।
त्वदीयो बन्धुः
निशान्तः।

४८] पत्रं पठित्वा दीर्घश्वासमगृह्णात् विलासः । काचित् विकृति- रेखा कपाले तस्य स्पष्टा अभवत् । शम्पा तु तस्य मुखां विलोक्य वाक्शून्या आसीत् । इदानीं हृदये तस्या अतीतस्य स्पन्दनम् । मनसि अनुतापस्य क्षीणरेखा । किमर्थं सा निशान्तं परित्यक्तवती? को वाऽत्र विशेषः ? यं सा प्रीणयति स्म स तु अन्यत्र लग्नः । आत्मनि आधुनिक- प्रवृत्ति वहन्ती यत् सा अद्य प्राप्नोति तत्र किं मूल्यम् ? केवलो बहुजनसम्पर्कः किंचित प्रभुत्वम् - किचिन नेतृत्वम् । अत्र सा किं पुनः प्राप्तवती ? अपरं तु उभयस्य हानि सम्पादितवती । निशान्तस्य धनलिप्सां सैव वधितवती। विलासस्य यशोलिप्सां सैव अग्रे कृतवती । एवमनुचिन्तया शम्पा खिन्ना । -- - कथं स्यात मनोभावं विपरिवर्त्य विलासः अवोचत । अयि ! किं विभावयसि ? उ--न किमपि । अनुचिन्तया किम् ? जनपदनिर्वाचने विजयः किं विजयः ? मास- द्वयाभ्यन्तरे राज्यस्य निर्वाचन भविष्यति । तत्र यदि विजयो न स्यात् तर्हि धनस्य पुनरागमः ? सामान्यनिर्वाचने यद् व्ययितं तत्तु नष्ट मिति चिन्तय । इदानीं वातावरणम् अनुकूलम् । जनाः परिचिताः। पार्श्वचराः प्रसन्नाः । सम्प्रति पुनरभियानं कर्त्तव्यम् । किम् एतावति भवती क्लान्ता ? नाऽहं क्लान्ता। अथवा काऽपि प्रार्थना अस्ति? अस्ति। प्रार्थनया किम् ? यद् अजितं यद् वा उपार्जनं भवेत् तत्सर्वस्य का वा अधिकारिणी ? किमर्थं वा मया इयान् यत्नः क्रियते ? कथं च एतदायोजनम् ? को वा एतद् अवबुध्येत् । - - शम्पा तु चिन्तारूढा । तथैव च स्थिरा। विलासः प्रगल्भ- भावेन वदति। - संसारेऽस्मिन् न कश्चिन् मे तथा आत्मीयः। वाणिज्यं करोमि । धनमुपार्जयामि । जीवामि केवलं जीवामि । मम सकलकर्मणः प्रेरणामूले भवती एव दण्डायमाना । इदानीं तु....। R-....- [४९ - चिन्ता माऽस्तु । मदुपरि यद् दायित्वं तदहं चारुतया सम्पादयिष्यामि। वचनेऽस्मिन् विलासः समाश्वस्तः। किंचित उदासीनतया अवदत् । - शम्पादेवि ! इदानीं भवती श्रममपनयतु । अस्माकं प्रकल्पविषये पुनरपि विचारयिष्यामः । शम्पादेवी अलसभावेन उत्थाय अपरप्रकोष्ठं गतवती । मनसि तथापि निशान्तो जालं विस्तारयति । इतः पुनः विलासः प्रियतरः प्रतिभाति । सा अनुभवति-नयनद्वयमध्ये सा यथैका सेतूयमाना नासिका "एका अन्तःशून्या प्रणाली गन्धमात्मसात्कुर्वाणा उच्छिष्ट- प्रणालतटे एका निमग्नदूर्वा विलासो गम्भीरः। अपराह्नस्य कृष्णजलदः सूर्यमाच्छादयत् । कश्चित् परिचारक आगम्य व्यज्ञापयत् । बाबो ! निर्दाचने ववान् विजयी। किन्तु शिल्पायनस्य कर्मकराणां कृते भवतः प्रतिश्रुतिः न पूर्णा । ते असन्तुष्टाः। इतस्ततश्च कोलाहलं कुर्वन्ति । आगामिसप्ताहे कर्मरोधो भविष्यति । विलासः सतर्कमवदत् । याहि । अवबोधय तान् । यदि कर्म न करिष्यन्ति तहि वेतनं न मिलिष्यति । किन्तु आगामिसप्ताहे तेषां प्रार्थना पूर्णा स्यात् । - तदनु अन्य कश्चित् न्यवेदयत् । . वाज्यिसंस्था अचला भवेत् । भवान् तु निर्वाचन निमित्तं संस्थाया मूलधनं स्वीकृतवान् । इत: कर्मकरा उपवासेन व्याकुलाः । ते यदि वेतनं न प्राप्स्यन्ति तहि संस्थातः सर्वमपि चोरयिष्यन्ति । भवतु, सप्ताहाभ्यन्तरे एव तेषां वेतनं मिलिष्यति । अपरः कश्चित् प्रार्थितवान् ।

५०] -- भवान् विजयी इति अभिनन्दनम् । किन्तु अस्माकं संस्थाया ऋणधनं कदा मिलिष्यति? चिन्ता कथम् ? अचिरमेव सर्वं समर्पयिष्यते। ततः केचन जनाः सम्मिलिताः । ते प्रार्थयन् । अस्माकं वसतौ पानीयं नास्ति विद्यालयो नास्ति " चिकित्सायाः सौविध्यं नास्ति मार्गोऽपि समीचीनो नास्ति । भवान् युवा । सर्वमपि कतु प्रभवसि । तर्हि, कदा अस्माकम् उपरि दृष्टि:...-। सर्वं करिष्यते । एतदर्थं समयः अपेक्ष्यते खलु । सर्वं लिपिबद्धम् । भवन्तो गच्छन्तु । यथाशीघ्र सर्वं सम्पादयिष्यन्ते । - . ? केचन निर्वाचनकर्मकराः प्रतीक्षमाणा आसम् । ते अवदन् । अस्माकं पारितोषिक कुत्र ? वयं तु नाधिकं कामयामहे । किंचित् पानीयम् । भवतु । किमर्थं केवलं तत् ? सर्वे अहसन् । कर्म कराः प्रस्थिताः । अपरे व्यज्ञापयन् । अस्माकं भूमि विवादः इदानीमपि तथैव वर्तते । कदा समाधान भवेत् ? भवान् छन्दाकलनसमये समाथानाय उक्तवान् । परं दर्शनं नास्ति । अन्याश्च समस्याः सन्ति । तासामपि समाधानम् अपेक्ष्यते । अतो भवान् अस्माभिः सह आगच्छतु । नूनं गमिष्यामि । अचिरमेव सर्वस्य समाधानं भवेत् । अधुना समयो विरलः । आगामिसप्ताहे आगच्छन्तु भवन्तः । - ? - युवसंघस्य केचन युवकाः समागताः। ते उच्चराक्रोशन् । विलासभ्रातः ! अस्माकं पारितोषिक कुत्र दास्यते । भवान् तु जानाति - वयं कीदृशाः । चिन्तयामः, अस्माकं भाग्ये नियुक्तिः नास्ति । उपाधिः व्याधिः भवति । अस्माकं जनपदे तु बहिस्थाः नियुज्यन्ते । केयं नीति: ? पुनश्च ते भृशम् उत्कोचं गृह्णन्ति । कार्यालयद्वारे अस्मत्पादस्थापनमात्रेण तेषां कोपः वर्धते ।

[५१ यथेच्छं ते भर्सयन्ति । व्यवहारमपि न जानन्ति । तेषां विताडनं प्रथमतः कर्त्तव्यम् । भवन्तः किं कुर्वन्ति ? अस्मद्वारा तन्न सम्भवेत् । कथं न सम्भवेत् । भवन्तो युवानः । यथेच्छं कत्तु समर्थाः । यत् कर्तव्यं क्रियतां नाम । अहं पश्चाद् अस्मि । एवं प्रतिश्रुतिषु प्रपूर्यते दिवा। सन्ध्या समायाति । मधु- समारोहे सहचरैः सह व्यतीयते रात्रेः प्रथमप्रहरः । ततः सहचराः प्रशंसावचनैः शुभानि अभिवर्षन्ति । परामर्शच्छलेन ते हिताकांक्षिणः संजायन्ते। ततो विलासः निजत्वं विस्मरति । यो यद् वदति तदेव तन्निकटे सत्यायते । अन्यत आत्मनो विरोधाचरणं श्रुत्वा क्रमशः स हिंस्रो भवति । सकलविचारः केवलं प्रतिशोधकर्मणि पर्याप्तिमेति । प्रतिशोधप्रकल्पे धनव्यय निमित्तं योजना स्थिरा भवति । निशार्धे आसर उद्यापितो भवति उन्मत्त विलासः मद्यकूपीतः शेष बिन्दु समापयति । ततः शम्पायाः प्रकोष्ठं प्रविशति । प्रातः आयाति। मनोज्ञवर्षणस्य शेषभागे शरत्सरित स्थिरायते। अंकुरान् पादपयति धरणी। नीवारमस्तके लहरी सन्तरयति समीरः । कुमारीयति सरणिः । वेलायते गुल्ममाला। शैवालानि जलानि पिवन्ति भग्नमन्दिरस्य निश्चूर्णप्राकारे । अलिन्दमूले भूकीटा: कपटपटवः । कात्तिमासो निकटायते । मुमु : आयोजने मग्नः । स पुरीं गमिष्यति । जगन्नाथस्य दर्शनं करिष्यति । पापं क्षालयिष्यति । महोदधौ स्नानं करिष्यति ।दुष्कृतानि नाशयिष्यति । साधुसज्जनानां सम्मेलने कियत्कालं यापयिष्यति । मनः परिवर्तनं करिष्यति । इदानीं तत्र मासावधिवासः । व्रतं च दिनपूर्णम् । कीर्तनमपि तथा । सदैव कर्म । कदा वा क्षान्ति ? संप्रति विश्रामो मिलिष्यति । स्तोकं निश्वासाय कालः । किंचित् उपवेशनाय ५२] अवसरः । सेवापूजार्थं च अवसरः । धनधर्मादीनामर्जनार्थं न पुनः काल आगमिष्यति । यन्नभवेत् वयसि अस्मिन तन्न भवेत काले कस्मिन् । 1 वराको नीलमणिः ऐषमो गन्तु न प्रभवेत् । वृद्धः कियन्न मनस्यति स्म ? रोगात् उत्थितोऽपि स पुनश्च रुग्णः संजातः । भाग्ये नास्ति । स किं करिष्यति ? यदि जगन्नाथस्य करुणा न भवेत् तर्हि मनुष्यः किं कुर्यात् ? दैवायत्तं जगत् सर्वम् । भवतु, आगामिनि वर्षे गमिष्यति । किन्तु अस्माभिः सह गन्तु तस्य मनः । किं भवेत्, ईश्वरो जानाति । तथैव इन्दुमति वृद्धा सदा पृच्छति- 'अरे ! पुरी प्रति गम्यते ।' वराकी ग्रामेऽस्मिन जीवनमतिवाहितवती । सकृदपि पुरी न गतवती। को वा जानाति किं तस्या भाग्ये अस्ति । वृद्धा प्रतिवर्ष गमनार्थं धनं संचिनोति । किन्तु तस्याः पुत्रः कलहं कृत्वा सर्वं नयति । मध्ये मध्ये साऽपि कन्यागृहं गत्वा अवशिष्टं धनं तस्यै दत्वा प्रत्या- गच्छति । कन्यायां वृद्धाया महान् स्नेहः । सा प्रतिमासं कन्यागृहं गच्छति । कन्या अपि तथा । सा मातरं सेवते । जामाता च श्रद्धते। प्रायः, वृद्धा तत्रैव मरिष्यति । श्रीक्षेत्रदर्शन किं सर्वेषां भाग्ये अस्ति? ये पुण्यवन्तः ते गच्छन्ति । केवलम भिलाषमात्रेण किं भवेत् ? इच्छा तु ईश्वरस्य एवं चिन्याबाहुल्ये चञ्चलो भवति मुर्मुः । शरतपूर्णिमा निकटायते। तत्पूर्वेधुरेव यात्रारम्भो भविष्यति । ततः पूर्वं मासव्यय- मितं तण्डुलं, चिपिटकं, लवणं तथा च नाना द्रव्याणाम् आयोजनं कर्तव्यं भवति । कुलमणिस्तु दिनान् गणयति । विलासो न प्रत्यागतः। न प्रत्यागच्छतु नाम । स कार्यस्य प्रतिबन्धको भवेत् । मुमुः अस्ति । स इह सहायकः । रजनी प्रथमतया पुरी गमिष्यति । तदर्थं स्वतन्त्र निवासः अपेक्ष्यते । इयद्धनं व्ययीकृत्य भाटकरूपेण स्वतन्त्रगृहव्यवस्था तु सहनीया न भवति । गृहमिव एक- स्मिन्नेव प्रकोष्ठे कार्य चलिष्यति । सा च प्रथमवारं कात्तिकव्रत पालतिष्यतीति तदर्थं स्वतन्त्र दृष्टि रपेक्ष्यते । कन्या सा संप्रति प्रकृष्ट- [५३ वर्त्मनि । अतः प्रवृत्तेः भयं नास्ति । तीर्थस्थाने तु चौरा असंयता पुरुषाश्च सदा सन्ति । अनिष्टमपि कारयन्ति । सावधानतया यत् कर्तव्यं भवेत् । तदर्थं मुमु : आदेष्टव्यो भवेत । भवतु, यथा योगः तथा भोगः। एतद् विचिन्त्य कुलमणिः गम्भीरः । कात्तिकमासे महालया श्राद्धः । पितापितामहानां दृष्टिः तत्रैव । ते एकवर्षे सकृत अस्मिन्नेव समये गृहमागच्छन्ति । गृहं पावयन्ति। तेषां स्वागतनिमित्तं कश्चन समारम्भः कल्पयितव्यः अन्यथा ते असन्तुष्टा भवेयुः । इयमस्माकं परम्परा। वयं यदि तान पूर्वजान् नोद्धरेम के वा अन्ये तत् कत्तु समर्थाः ? प्राग् वयम् अकुर्म । इदानीं किमर्थं परित्यक्ष्यामः । पुण्यक्षेत्रे तेषां श्राद्धः अवश्यं समापनीयः । अस्मत्परं यद् भवतु नाम संप्रति अस्माकं पितापितामहानां मातामातामहीनां स्मरणे का हानिः । परस्य अनिष्टचिन्तया कालो गच्छति । परम्परायाः स्मरणमात्रं कथं न सम्भवेत् ? अनेन सत्यरक्षा स्यात् । व्रतानुकूलप्रतिश्रुतेश्च वरिपालन भवेत् । अनेनैव माध्यमेन सानसिकी शान्तिः पवित्रता च उत्पद्यते। तत आधिनाशः । जीवनस्य च भारसाम्यम् । समयः पलितः। प्रतिक्षण: रतिप्रतीतिः। सर्वत्र तदेव नाम, सैव च आकृतिः । नेन्द्रियं न वा शरीरमद्यत्वे प्रवृत्तिपथे। अवयवे भंगी आत्मिकी। उद्देश्यमूले प्रीतिः पारमाथिकी। नयने विरहवंशी। मनसि कदम्बमूलस्थ वसन- राशिः। हृदये गोपीभावः स्थायी । मन्थररोमन्थने जप एव विषयी। निकटे दृश्यराशिः न विकृतिः अपितु प्रकृतिः स्वयं महती । रजनी शिथिला""पुरतः परितश्च । जननयने रजनी उन्मादिनी। सा विकृतस्वभावा । सा काम- रोगपीड़िता। सा आधिव्याकुला । ""न कुत्र गच्छति । न कया सह जल्पति । न वा स्वभावसुलभकर्माणि करोति । केवलं हरि भजति । नाम जपति । हे कृष्ण -! हे कृष्ण इति गायं गायं नृत्यति । अपरे वदन्ति-वृद्धकुलमणिः सन्न्यासिनमाहूय तामदीक्षयत् । तदनु सा सन्न्यासिनी । गृहं सा मठरूपेण पर्यणमयत । अन्ये कथयन्ति ५४] कश्चित् तान्त्रिकः तां वशीकृत्य इत्थमुन्मादयति । अतः सा हसति--- विलपति नृत्यति गायति । गिरिजन बालको ममुरपि तया सह प्रमत्तः संजायते । को जानाति, का वा शान्तिः मन्त्रे वर्त्तते यया एते सर्वे उन्मादिता? कृष्णशृङ्गारे रजनी प्राणपूर्गा । अद्यत्वे नित्यकर्मणि न तस्याः स्पृहा। अतः सर्वत्र विलम्बः । सदा च अलक्ष्येन अवहेला । किं पुनः कर्मणि अस्ति ? निष्कर्मणि सा शान्ति प्राप्नोति । गतानुगतिकं कर्म तदर्थं न रुचिकरं भवति । अतः इष्टकुटीरे कालं यापयति। दिनं विस्मरति । स्वप्नमपि परित्यजति । वचनमात्रं कृष्ण! कृष्ण ! । अतो मुर्मू: पाकशालातो गोशालापर्यन्तं सर्वाणि कर्माणि करोति। स्वयं पचति । स्वयं च भोजयति। रजनी अद्यत्वे तदर्थं देवी। वृद्धः कुलमणिश्च महादेवः । स्वयं स गृही गृहस्थः “गृहपतिः । एकपार्वे जरतु पिता। अपरपावें स्वभावशिथिला भगिनी। मध्यस्थः स प्रभुः स्नेहस्य आदरस्य"उदारचरितस्य। स लालयति पालयति... निभालयति। शरत्पूर्णिमायाः पूर्वेद्युः । मुमु: चञ्चलः । मनसि नाना चिन्ताः। जगन्नाथः तन्निकटे कुतूहलस्य विषयः। जगन्नाथो निखिलस्य निभालकः। तत्समीपे जातिभेदो नास्ति। स्पृश्यास्पृश्यचिन्ता न वर्तते। उच्छिष्टानुच्छिष्ट विचारो नास्ति। धनिनो दरिद्राश्च एकस्मिन् पात्रे खादन्ति । तमेव प्रपूज्य विमिणोऽपि संसारात् तीर्णाः । पापिजना मुक्ति प्राप्तवन्तः । देवदास्य तस्मिन् च विलीनाः। अपरे वदन्ति यः पापात्मा तत्कृते जगन्नाथ आत्मानं न दर्शयति । तस्य प्रसादश्च तदर्थ विषायते । पुनरपि, यः पतित:, किन्तु भक्तः, स तस्य पतितपावनपताकां दृष्ट्वा मुक्ति प्राप्स्यति । इत्थमने के मुक्ता इति किंवदन्ती। स्वयं जगन्नाथः सैनिकरूपेण युद्धे अवतरति इति पुण्यकथा सर्वेषां मुखे शोभते । पिता तु कथयति-प्रतिमात्रयं तन विद्यते । एतेषु एकः संसारः। अपरः परमार्थः । मध्य देवी माया। सा उभयमध्ये यवनि का।

[५५ यदा यवनिका अपैष्यति तदा मोक्षः । पुनश्च सः कथयति-जगन्नाथ- कल्पना एका नदी-कल्पना । सुभद्रा स्वयं नदी प्रवाहरूपा । बलभद्रः जगन्नाथश्च मिलित्वा कूलद्वयम् । यदा प्राणी मायावशो भवति तदा जन्म लभते । यदा च मायातो विमुच्यते तदा मोक्षं प्राप्नोति । वस्तुतो जीवः नद्यामेव सन्तरति । तदर्थं संसारधारा मोहिनी संजायते । - ------ भविष्यच्च पुरुषस्य पितुरुपदेशं श्रावं श्रावं भगिनी वदति- संसारनदी भयङ्करी । अस्याः पारनिमित्तं नामैव नौका । नामाऽत्र त्रयस्य । बलभद्रः, सुभद्रा, जगन्नाथ इति त्रितयं नाम । नाम्नो मूलाक्षरं वीजम् । 'ब-सु-ज' इति नामत्रितयस्य ऐकात्म्येन प्रतीतिः। अन्ततो 'वसुजाय नमः' इति जपे आनन्दः। पिताऽपि गम्भीरभावेन उपदिशति- जगन्नाथस्य तत्त्वं गहनम् । जगन्नाथः स्वयं पुरुषोत्तमः । क्षेत्रमिदं पुरुषोत्तमक्षेत्रम् । कोऽयं विशेष इति प्रश्ने स वदति-'पुरुष एवेद यद् भूतं यच्च भाव्यम्'...। वर्तमानम् अतीतं परिचयः :। पुरुषो नाम त्रिकालस्य समष्टि: । संसारे पुरुषद्वयस्य प्रसिद्धिः । एकः क्षरपुरुषः । अपरः अक्षरपुरुषः। क्षरो नश्वरः । अक्षरो आपेक्षिकनश्वरः। उत्तम- पुरुषस्तु अन्यः । स परमात्मा। सः अन्तिमः । अत्र उत्तमपदार्थः अन्तिमार्थ प्रकाशयति । न तु श्रेष्ठ पर्याये कोऽपि अर्थः उत्तमशब्दार्थः। पुनश्च उत्तमपुरुष इतिकथने अन्तिमपुरुषः प्रतीयते । यथा-भवान् प्रथमपुरुषः। त्वं मध्यमपुरुषः । अहम् उत्तमपुरुषः । मत्तः परं कोऽपि तथा पुरुषो नास्ति । अत्र अहमास्पदता उत्तमपुरुषस्य आधारभूः । सर्वत्र अहमास्पदतायाः स्वतन्त्रता अस्ति । यदा कश्चित् 'अहम्' इति उच्चारयति तदा स सर्वतो विच्छिन्नो भवति स्वतन्त्रो भवति । इदं च स्वातन्त्र्यं त्रिकालस्य परिधिमध्ये विद्यते । अत: 'अहम्' इति उच्चारणं कालमिह अङ्कीकरोति । कालिकं च संजायते । परं जगन्नाथः कलयति । अतः कालस्योपरि कश्चन नियन्ता सः अन्यः उत्तमपुरुष: अन्तिमपुरुषः । नैर्मल्यमत्र पुरुषोत्तम-दर्शनस्य सारांशः । यो जगन्नाथे अनु- रज्यति स निर्मलो भवति । नैर्मल्यं च जगन्नाथोपासकस्य शेषस्थितिः । इदमेव नैर्मल्यं जीवनमात्रस्य लक्ष्यम् । निद्रित आकाशो हिमाद्रिः। ........

५६] कुज्झटिका वाटिकायते। पल्वलस्य परितटे दर्दु ररावो भयङ्करः । निष्पुष्टप्रत्यूषे मार्गः अस्पष्टः । पादस्पर्श नम्रघासाः सायन्ते । चरणं शिशिरीकरोति आद्यो हेमन्तः। शरन्नदी विपथयितु वदान्या । पेटिकादिकं सज्जीकृत्य मस्तके निधाय च यानस्थानं पुरःसर ति मुमुः। अनुसरतः रजनी वृद्धकुलमणिश्च । मुमुस्कन्धे दोलायते मृदङ्गः । रजनीहस्ते इष्टस्थाली । वृद्धस्य करे स्यूतम् दक्षिणकरेण स यष्टिमव- लब्ध्य चलति । वृष्टिप्रपातो नीहारजन्यः । यानस्थाने मुमु: चकितः। प्रात: जनसम्मर्दो नास्ति । यथास्थानं यानानि गन्तव्यनिमित्तं स्थापितानि । मर्मु-मनसि तु संभ्रमः । किं कुत्र गच्छेत् इति निश्चेतु न शक्नोति । सर्वत्र हि प्राकारपत्राणि । यानानामग्रे पश्चाद्भागे च विज्ञापन रूपेण तानि स्थापितानि । सर्व- मेतद् विलोक्य तस्य सन्देहोऽभवत् । किं यानेषु प्रचारपत्राणां स्थापने कि अधिकलाभो भवति ? कं वा एतत् पृच्छेत् ? इदानीं तु प्रतिस्थानं नेतृ णां जनाः। वचनमान ते आक्रमे रन् । पुनश्च अयं जनपदः । अत्र जनाः चतुराः। निमेषमात्र ते नयने धूलि निक्षिप्य पलायेरन् । भद्रा अन चौराः। रक्षकाश्च तस्कराः। को वा विश्वासभाक् ? स मान्य- मार्गपृच्छायाम् इतस्ततो निर्दिशन्ति । गुरुतरविषये किं न कुयुः ? ? एवं विचारे मुमु: याने उपविष्टः। पार्वे वृद्धपितरं भगिनीं च उपावेशयत् । पुरीमभ्यगमन् यात्रिणः । शम्पा निर्वाचनप्रचारे जनपदवायुमण्डलं नितरामुष्णम् । अभियाने अभिमानिनी। भंगीषु तस्या न वराभयमुद्रा अपितु अञ्जलिः शोभते । जनतानिकटे तस्याः प्रार्थना। प्रार्थनायां विषयो विजयः। नात्मनः अपितु विलासस्य । विजयार्थं नीतिदुर्नीत्योः विचारो नाम मूर्खता । येन केन उपायेन विजयार्थ जनता बोद्धव्या प्रचोदयितव्या "आयत्तव्या। शिक्षितः चतुरः। तस्य स्वार्थ निमित्तं स यतते । साधारणवचने स आत्मानं न विस्मरति । अतः प्रतिपक्षस्य दौर्बल्यं चरित्रसंहारश्च तत्कृते विचारणीयं वस्तु भवति। अनेनैव माध्यमेन जनपदस्य शिक्षिता उद्बुद्धा भवन्ति । गुणं विहाय दोषमेव स्वी- कुर्वन्ति । पुनश्च प्रतिश्रुतिभिः ते वशीभवन्ति । सामान्यजनानां कृते [५७ अर्थविनियोगः पर्याप्तः। इत्थं बहुविधयोजनासु अवगाह्य शम्पा सह- योगिनीभिः सह संचरति । निर्वाचनप्रचारस्य शेषपर्याये शम्पा पीड़िता। विलासस्य गृहे सा एकाकिनी। परिचारकः सेवते । किन्तु सा निःसङ्गतामनुभवति । विलासो बहिर्ऋमति । निर्वाचन विषये इतस्तत आत्मानं व्यापारयति । कुत्र मन्त्रयति। कुत्र पार्श्वचरान् नियोजयति । अतः गृहमागन्तुन शक्नोति । शम्पायाः अवस्थां जानन्नपि स तत्समीपे स्थातु न शक्नोति । शम्पाया दुखं तु वर्धते । सर्वे स्वार्थिनः। सर्वे निजसौविध्यं कांक्षन्ते । असमये न कश्चित् सहायते। निशान्तकथा सम्प्रति मानस- मायाति । स यद् वा भवतु, प्रियतमाया एतादृशीमवस्थां न सहते । रात्रौ निद्रां विहाय तथैव निकटे उपविशति । करचरणं सम्मर्दयति । वारं वारं च प्रयोजनीयं पृच्छति । प्रतिनिमेषं बोधयति । नानाकथा- मुखेन मानसं प्रसादयितु गतते । इत्थं तन्निकटे कतिपयरजन्यो व्यतीताः । दिवसाश्च पीड़ाविहीना आसन् । इदानीं तु निर्वाचने विलासस्य रतिः । अनेन स यशस्वी भवितु चिन्तयति । किन्तु श्रमः अन्येषाम् । अधिकारी तु फलस्य स एव । केयं चिन्ता...? शम्पा पुरुषात पुरुषान्तरमभजत् । तथापि सन्ततेः मुखं नापश्यत् । एतदर्थं न सा दुःखिनी। कुमारीकाले सा हि गर्भविनाशं कृतवती । सा शिक्षिता सभ्या " । जनसंख्या वृद्धिविषये सा सम्यक् जानाति । अद्यत्वे जनसंख्यावृद्धिरेव सकलदुःखस्य कारणम् । एतद् विज्ञाय तया अनेकाः प्रतिबोधिताप्रचोदिता अपि । जनसंख्याया ह्रासनिमित्तं बहुन सा भाषणं कृतवती। परमद्य तस्या भाषणस्य मूल्यं नास्ति । न वा निजकर्मणः फलमस्ति । गर्भविनाशः तन्निकटे वैधः । परं सा अनुनप्ता। भावावेगे सैव प्राचीना आकांक्षा तामिदानी कवलीकरोति । सा पीड़ामनुभवति । सा यन्त्रणायां ज्वलति। सा जीवनस्य व्यर्थताम् अनुभवति । यौनसम्पर्क निमित्तीकृत्य कुमारीकालत इदानीं यावत तत्कृते कुत्साया समाप्तिः न भवति । किन्तु तस्या मनसि स एव प्रश्नः- यौनसम्पर्के किं नारी एव कलुषिता भवति ? तस्या मर्यादा नश्यति ? सैव पतिता भवति ? किन्तु कलुषस्य मार्ग निर्माति कः ? गुप्त- संभोगस्य नीड़ रचयति कः ? प्रगतिनाम्ना व्यभिचरति कः ? - ५८] । समाजेऽस्मिन् नारी न कदाचित् प्रगतिशीला भवितुमर्हति । पुरुषो हि राक्षसः । येन केन प्रकारेण तां ग्रसितु सन्नद्धः । प्रतिपदार्थमेका तमोदिशा वर्तते । किन्तु प्रकाशदिगेव दृग्- गोचरा भवति। इयं च पर्याप्तेः पर्यायवाक् । एतन्निमित्तं सन्तुलनं त नश्यति । जनो हि विचारयितुन प्रभवति । अतः अशान्तिः प्रशास्ति । सम्पर्के दूरत्वं दीर्घागते। परिवारो नश्यति । जीवनं वृथाऽनुभूयते । दिगियं हि मरीचिका। । इत्थं चिन्ताबाहुल्ये शम्पाया मनः अधिकं विकृतं भवति । सा प्रजल्पति विलपति - विलपति"आत्मानं निन्दति । पीडाऽतिशयमनु भवति । किन्त, तस्याः प्रलापं श्रोतु न कोऽपि निकटे वर्त्तते । परि- चरस्तु परिचर एव । आशङ्कायां विलासो व्याकुलः। निर्वाचनेऽस्मिन् पराजयः सुनिश्चितः। पार्श्वचरा विश्वासघातमकुर्वन् । सहचरा ईालवः संजाताः। अधीनस्थाः असहिष्णवः अभूवन् । अर्थलोभिनः कर्मकरा उदासीना अभवन् । अनेकत्र कार्याध्यक्षाः अधीक्षकाश्च प्रतिपक्षं समर्थ्य जनान् प्राचोदयान् । अर्थेन विश्वस्ताः क्रीताः । पक्षजना विषकुम्भपयोमुखनीतिमन्वस रन् । अत इतिहासः कलुषितः । तस्य च पुनरावृत्तिः अवश्यम्भाविनी भवति । तथापि विलासः प्रत्याशी। यया कया वा रीत्या अग्र- सरणीयः । प्राचुर्यम् आवश्यकम् । सम्पत्तिः संरक्षणीया। वञ्चनैव समृद्धये अकृष्टसरणिः। शङ्कामंकुरयति प्रहरः। विलासस्य उद्वेगो वर्धते । निर्वाचनस्य फल मद्य उद्घोषितं भवति । कति पार्श्वचराः परिवेष्टिताः। घोषणास्थले च उपस्थिताः केचन आत्मीयाः आत्मनः स्पन्दनं गणयन्ति । कपोले कर निधाय विलास उपविष्टः। अन्येषां मुखे नैराश्यं जृम्भते। कति सहचरा आश्वास- यन्ति । पुनः केचन सान्त्वयन्ति । परं विलासो बोद्ध न प्रभवति ।

मुखेन स हसति । हृदयेन खिद्यति । नयनेन केवलं पश्यति । मुखमण्डले तस्य वैफल्यारोहः क्रमशः स्पष्टीभवति । पूर्णतया निर्वाचनस्य फलम् उद्घोषितम् । प्रतिपक्षस्य जयघोष दिङमण्डलं प्रकम्पितम् । प्रतिमार्ग विस्फोटकैः ध्वनिसंकुलमभूत् । प्रतिपक्षस्य जययात्रा विलासस्य गृहनिकटे व्यसनमतनुत । प्रतिपक्ष- स्पर्धी पुष्पमाल्येषु सर्वेभ्यो नमोवाकं व्याहरत । वाद्यनादैः मालोक- सज्जायां च रात्रिः शरत सुन्दरी संजाता। विलासः पराजितः । रात्रिः गम्भीराऽभवत् । समवेदना समनन्तरं परिजनाः प्रस्थिताः । विलासः अन्तःप्राविशत् । शम्पा सुप्ता वर्तते । ज्वराशयेन सा मूच्छिता इव। विलासः तन्निकटे उपाशित् । तस्या शरीरोपरि करं संचाल्य ज्वरतापं निरीक्षितवान् । शनैश्च समबोधयत् । किन्तु सा न प्रत्युदत- रत् । विलासः तां दुःखयितुनच्छत् । शनैरुत्थाय निजशय्यामागच्छत् । मनो भाराकान्तम् । हृदयं क्लिन्नम् । चिन्ता च क्रमशो बहुगुणिता । भवति । किन्तु निशीथे को वा सान्त्वयितु समागच्छेत् ? केन सम्बन्धेन वा कश्चित् आत्मीयतां पुरस्कुर्यात् ? आधिं को वा प्रक्षालयेत् ? नारी वा-? नरोत्तमो वा -? अद्य नयनाग्रे रोजा हसति । विकृतमुखेन सा तस्य उपरि ष्ठीवति । दोषान् उपस्थाप्य सा भर्त्सयति । दुर्बलमुहूर्ते रोजा उपगता। प्रतिश्रुतिषु स्नापिता । सबल प्रहरे च परित्यक्ता। पराजयमुररीकृत्य श्वः शम्पा अपि अभिशपेत् । व्यभिचारमारोप्य निन्देत् । भ्रष्टवृत्तिमुपस्थाप्य पुनः दूषयेत् । का वा अन्या समानुभवं प्रकटयेत् ? रजनी ? भगिनी....? सा किमर्थं स्मरेत् ? तस्या वा कः संपर्कः अद्यत्वे ? । विनिन्द्रनयने रजनी विगलिता। अपरेछु : शम्पा मनाक् स्वस्था। दुर्बलशरीरे मनसि च विलासस्य पराजयो न तथा प्रभावमातनोति । परिचरतो निखिलवृत्तान्तं निशम्य ।

MP- ६०] सा गम्भीरा। विलासो विषण्णभावेन शम्पामुपगतः । पार्वे उपावि- शत् । शनैः अपृच्छत् । उपशमः किंचित् ? शम्पा केवलं तमपश्यत् । विलासः पुनरपृच्छत्। खिन्नाऽसि....? शम्पा दृष्टिमवानमयत् । विलासो विचार्य अवदत् । . मन्ये, पराजयवार्ता श्रुता। शम्पा दृष्टिमुत्थापितवती । नयने तस्या अश्रु । शीर्णमुखे कातरभावः । अधरे अनपेक्षितः कम्पः । - तस्या लोतकमपमृज्य विलासः अहसत् । अयि...! वैफल्यं तु जीवनस्य नावान्तरम् । किमर्थं चिन्ता ? कि निर्वाचनमस्माकं सर्वस्वम् ? एतत्तु अस्मत्कृते क्रीडा एव । क्रीडायां कश्चित जयति । कश्चिच्च पराजयते । दुःखार्थमत्र अवसरः कियान् ? धनहानिनिमित्तं वा चिन्ता ? अयि ! उपार्जननिमित्तं नाना दिशः सन्ति । अस्मत्कृते किमपि वा गोप्यमस्ति ? किं वयमसमर्थाः ? त्यज, दुर्भावनां परित्यज । आगच्छ । - शम्पामुथाप्य विलासः सभाजनप्रकोष्ठं नयति । समयेऽस्मिन् पत्रदो दूरभाषपत्रमेकं प्रासारयत्। पत्रमिद न कदाचित् अभिनन्दनस्य। नूनमेतत् किमपि गुरुत्वपूर्णमिति विभाव्य शम्पा अनुरुद्धवती । पठतु। पत्नमुन्मोच्य विलासो निर्वाक् । शम्पा साश्चर्यम् अपृच्छत । किमिदम् ? - अशुभेयं वार्ता। किमभवत -? अधुना विषयेऽस्मिन चिन्ता न कर्त्तव्या। कथयतु नु ? - - -- [६१ शम्पा अधीरा अभवत् । विलासः पत्रमदर्शयत । शम्पा उन्मादिनी इव प्रालपत । कि निशान्तो मृतः दिवंगतः। पञ्चत्वं प्राप्तवान - निशान्त:-? सोऽये निशान्तः -- ? इत्थं विह्वलभावेन प्रलप्यविलप्य च शम्पा मूच्छिता । तामुत्थाप्य विलासः शयनकक्षं समानयत् । चिकित्सकं च दूरध्वनिना आकारित- वान । परिचरा यथोपदिष्टमसेवन्त । चिकित्सकः समागतः। अभय- वाणी श्रावयित्वा स प्रस्थितः । शम्पायाः दौर्बल्यमेव मूीयाः कारणमिति सिद्धान्तिम् । विलासस्य विश्वासे संप्रति न नारी न वा ईश्वरो लक्ष्य निमित्तं ध्रु वायितु शक्नोति । मनुष्य एकाकी। स पशुः । स कीटः । वंश वर्धननिमित्तं केवलो जीवः दुर्बलः अविश्वस्तः अधमः विचार शून्यः । इत्थं दुश्चिन्तयन् विलासो मद्यगन्धे आत्मानं स्नपयितु- मारब्धः । आरक्तनेत्रेण विश्वं द्रष्टुमारभत । विश्वस्य ध्वंसकामनया केवलं मद्यमपिवत् । कात्तिकमासोऽयं समुपासकः । शीतप्रवाहः प्रारम्भिकः । अतिप्रत्यूषे स्नानं विधाय तुलसीमूले व्रत माचरति रजनी। चित्रचयेन सा तुलसी सज्जीकरोति । दीपं दीपयति नैवेद्यमर्पयति । आचमनीयं विदधाति आरात्रिकं दर्शयति । नामानि जपति । ततो नमस्करोति । पूजाप्रारम्भं समापयति । ततः कुलमणिः पुराणपाठमारभते । रजनी मननं करोति । मुमुश्च शृणोति । पठनसमये आवश्कीयं बोधयति कुलमणिः । पलित- वचसि तस्य नेत्रं निमील्य रजनी विलीना भवति । श्रावं श्रावं मुर्मुश्च दुरितनाशं कामयते । अध्यायं समाप्य पूजाम् उपरमरयति वृद्धः। मुमु: हविषान्नं प्रस्तौति । .

६२] ६ कुलमणिः विश्राम्यति । रजनी जपे निमज्जति । एकस्मिन् प्रकोष्ठे जनत्रयस्य कर्माणि पृथक् । तथापि संहतिः सम्यक् । मुमु: पचति । सकल कर्माणि च निभालयति । अतः तस्य चिन्ता-रजनी किमर्थम् उपास्ते ? किं वा पुनः उपलब्धुम् अवशिष्यते ? क्रमशो वय उत्तीर्यते । शरीरं च शीर्यते । प्रभुकृपया को वा तथा पुरुषः रजनीं कामयेत ? को वा आगम्य स्वेच्छया विवाहं कुर्यात ? नारीजीवने एतद् विहाय किं वा पुनः सुखम् ? उपासनायां तादृशं सुखं कुतो वा लभ्यते । यदि वा सा पतिमङ्गलमिच्छति तर्हि तस्य जीवनसमये किमर्थं न कृतवती ? मरणोत्तरविधाने किं वा भवेत, ? मुम: व्यथितो भवति । । ग्रामं विहाय नगरे स्थित्वा मुर्मुः प्रसन्नः । संप्रति तस्य दृष्टि- भंगी परिवर्तते । अतः स भोजनादिकं समाप्य विश्रामसमये नगरस्य मार्गेषु वीथीषु च संचरति । अभिनवानि वस्तूनि पश्यति । जनानां चलने चमत्कृति लक्षयति। अतः सोऽपि इच्छति-कात्तिकमासानन्तरं उभयं गृहे परित्यज्य नगरेऽस्मिन नूतनवृत्तिमन्वेषयिष्यति, अत्रैव जीवन निर्वाहयिष्यति । नगरस्य सौख्यम् अनुभविष्यति । क्रमशो नगरस्य परिक्रमायां मुमुः विमुह्यते । तस्य सिद्धान्ते नगरमेव सुखस्य स्थलम् । एतदर्थं विलासभ्राता ग्रामं परित्यक्तवान् । नगरे स सम्मानस्य अधिकारी अभवत । जनानां नेता संजातः । पुष्कलं धनं संगृहीतवान् । यदि निकटे धनं तर्हि अन्नं मिलिष्यत्येव । एवं विचिन्त्य मुर्मुः। दिवसान गणयति-कदाऽयं मास: समाप्ति यास्यति? कुलमणिः जगन्नाथदर्शने व्रती। दर्शनं नाम अनुभवः। अनुभवे तु प्रतिमा माध्यमभूमिः । अयमनुभव आत्मानुभवः । आत्मा जीवसज्ञायां परिच्छिन्नः। परिच्छिन्नपरिधिरत्र तस्य आलयः। महालयस्तु व्याप्तिमान । स इह चराचरस्य गृह- विशेषः । अन्तकरणस्य आलोके न कश्चिदेनम् अभिजानाति । कुलमणेरनुभवे तु न तीर्थजलं न वा कर्मफलमद्य प्रभावं तनुते। सर्वमिह समतलम् । महालयस्य विकृतहिल्लोलम् । जन्ममरणप्रपञ्च- नाम्ना सर्वमिदं विकलम् । महालयस्य तत्त्वं तु सदैव निर्मलम् ।

[६३ शीतस्नाने वृद्धस्तु जीर्णः। जीवनदर्शने तथापि उदृङ्किता भवति तस्य काचित् मानविकी: दुर्बलता । स पुत्रवान् अपि अपुत्रिकः । स्रष्टा व्यथितो भवति । सृष्टिः हि तदनुगामिनी न भवति । सृष्टिरपि आपेक्षिकतया स्रष्टा भवति । सा वा किमर्थं निजकारणस्य अनुगामिनी स्यात् ? स्रष्टा तु एतद् बोद्ध न प्रभवति । कुलमणेः दौर्बल्यस्य अन्तराले विलासः पुनरपि स्मृति रुणद्धि । अनुभवे मुर्मुः रहस्यं संचिनोति । वात्सल्ये कुलमणिस्तु मु, विलासयोः पार्थक्यं न पश्यति । तथापि विलासो निजकैन्द्रिकः । अद्यत्वे सभाजनप्रकोष्ठे स उपविशति । वातायने केवलं पश्यति । प्रतीक्षते च कश्चित् आगमिष्यतीति धिया। आगम्य जनाः तस्मिन्नेव पथि अपसरन्ति । विलासस्तु पूर्वाभ्यासवशात् प्रातरेव स्नानादिकर्म समाप्य प्रतीक्षते । वृत्तपत्रं पठति । मनाक् वाचयति । मनाक् च बहिः पश्यति । बहिरागम्य इतस्ततो निरीक्षते । ततः प्रतीक्षते। परं न कोऽपि कातरतां विज्ञापयितुमुपैति । - - यदा स पूर्वाभिजात्यं मनस्यन् उपनेत्र परिधाय उपविशति तदा प्रविशति । तदा प्रविशति कश्चित् उत्तमर्णः । स विरक्तभावेन वदति। किमर्थं भवान् ऋणपरिशोधं न करोति ? विलासो नतस्वरेण बोधयति । किंचित् प्रतीक्षताम् । नूनं परिशोधो भविष्यति । अस्माकं व्यापारः किम् एतावति समाप्तः ? कोऽय व्यापारः ? भवतो वाणिज्यसंस्था तु नष्टा। शिल्पसंस्थानां द्वाराणि पिहितानि । किं पुनः भवान् प्रतिशृणोति ? - इदानीमस्मिन् जनपदे व्यापारनिमित्तं न मे मनः। अन्यत्र व्यवस्था क्रियते । अतः परिशोधं विलम्बो भवेत् । न किमपि चिन्तयतु भवान् । उत्तमर्णः प्रतिष्ठते । मनः संयम्य विलासो दीर्घतरं निश्व- सिति । कपालतः स्वेदम् उत्प्रोञ्छति । - ६४] ? किन्तु मुक्तिः कुत्र ? इत्थमनेके उत्तमर्णाः सन्ति । ते लाभाशया एव ऋणं दत्तवन्तः । ते वणिजः । तेषां वाणिज्यनिकटे कस्यचित् न कश्चित् सम्पर्कः। सर्वे ग्राहकाः । सर्वेषां कृते वञ्चना मिथ्या च इति सम्पर्कस्य माध्यमद्वयम् । मुखे हास्यम् । वचने मधुरमिथ्या। कर्मणि प्रतारणा। ततो वाणिज्यम् । अनया रीत्या राजनीतिरपि साधारण- जनानां कृते अपरजीविका संजाता। उद्योगपतीनामपि एषा अपरा सरणिः। अतस्ते निर्वाचने धनं विनियुज्य उत्तमर्णा भवन्ति देशस्य" समाजस्य"जाते: व्यच्तेश्च । विलासः चिन्ताव्याकुलः । - - अपर उत्तमर्णः समागतः । दर्शनमात्रं स भर्त्सयितुमारब्धः । अहो, उत्तमभद्रः ? धनविषयो विस्मृतो वा ? भवतः पराक्रमो ज्ञात एव । पुनः कथं विलम्बः ? शीघ्रमर्पयतु । अन्यथा महती हानिर्भवेत् । उपविशतु। चायं गृह्णातु । न हि । न मे समयः । त्वर्यताम्। अरे ! शृणोतुः। उपविशतु नु। उक्तं किल समयो नास्ति । इदानीमन्यत्र मे संस्था उद्घाटिता भवेत् । तदर्थमहं व्यापृतः । अन्यदा भवान् आगच्छतु। का सा संस्था उद्घाटिता भवेत् ? भवतो गृहमिदानीं तु अपरहस्ते । तस्या कृपया भवान् अत्र निवसति । अन्यथा...। अधिकं न जल्पतु । यथासमयं ऋणधनं दास्यते । भवान् गच्छतु । विरक्तभावेन उत्तमर्णः प्रतिष्ठते । चिन्ताकुलो विलासः अन्तः प्रविशति । मद्यपीम् उन्मोचयति । आकण्ठं पिवति । शय्यामधिशेते । व्यजनीं चालयति । नेत्रं निमीलति । - मासः समाप्यते । महालयाश्राद्धं समाप्य कुलमणिः निश्चिन्तः । इदानीम् आकाशदीपं सज्जीकरोति रजनी। तुलसीमूले वंशदण्डं संस्थापयति मुमुः। तदने रज्जु सन्निवेश्य दीपस्थापनार्थं पात्रं रक्षति । पानं च चिनयति [६५ रजनी। तत्र दीपं निधाय सा पूजनमारभते । मनसि रहस्यमातनोति श्रीकृष्णप्रतिमा। दीपान शिखातालं तुलयति अग्रिमकामना । शिखा- वलये पात्रधारेण समं रेखायते प्रकाशः । पात्रावरणस्य छिद्रराशिः ज्योतिर्मयः। रज्जुमाकृष्यति मुर्मुः। दीपपात्रम् उर्ध्वमुत्तिष्ठते । ततो वंशाग्र दोलायते आकाशदीपः। रज्जु सतर्कतया वंशखण्डे बध्नाति मुर्मुः। ऊर्ध्वं पश्यति रजनी। नेत्रकोणे तस्या अश्रु कर्णमूलं स्पृशति । मुर्मुः प्रणमति । पूजां समापयति रजनी। श्वेतविभां विकीर्य सा अन्तः प्रविशति । वृद्धस्तु रुग्णः। तद्रात्रौ स मुमु माहूय उक्तवान् । मुर्मो-! तव सेवया अहमतीव प्रीतः । त्वदर्थं प्राग् यथा मे स्नेह आसीत् इदानीमपि तथा वर्त्तते । किं वा अधिकं वदिष्यामि ? विलासः चिराय दूरं गतः। न स कदापि प्रत्यागमिष्यति । त्वं तु मम पुत्रादपि अधिकः"मम आत्मा। त्वां विहाय न मे स्थितिः। इदानीं तु अनुभवामि-अधिक मे वयो नास्ति । आयुः क्षीणतरम् वृद्धो हताशः। मुर्मुः सविनयम् अनुरुद्धवान् । कथयतु । न किमपि चिन्तयतु । सर्वं कर्तुम् अहं सन्नद्धः । वृद्धः शनैरवदत् । पश्य। मत्तः परं रजनी मे एकाकिनी इति भावना आसीत् । किन्तु त्वं वर्तसे इति सा भावना अपगता। स्वेच्छया रजनीदायित्वं त्वमेव गृहीतवान् । इतः परं गृहं मम तवैव । पुनश्च या काचिन्मे सीमिता सम्पत्तिः वर्तते तन अधिकारी त्वमेव । - - : - मुमु: चकितः। मैवं कथयतु । अहं पालितः । दायत्वेन सम्पत्तिः मम कथं भवेत् ? सम्पत्तेः अधिकारिणी भगिनी रजनी अस्ति । अधिकारी च भ्राता विलासो वर्तते । कथमेवं प्रजल्पति भवान् ? नहि ", मुर्मो ! रजनी इदानीं न स्वभावापन्ना । सम्पत्तः रक्षणं न तया सम्भवेत् । अपरं तु तस्या रक्षणार्थमन्यस्य आवश्यकता। - विलासो भ्रष्टः। स पतितः । पित्रजितसम्पत्तिः यदि तस्य करे निपतेत् तर्हि तस्याः सदुपयोगो न भवेत् । पुनश्च यदि अपात्रे दायो निपतेत् तहि ममात्मा शान्तिं न प्राप्नुयात् । नाऽहं सद्गतिं प्राप्नुयाम् । त्वं मम पुत्रः "मम आत्मा। वृद्धस्य प्रगल्भवाचा मुर्मुः आश्चर्यान्वितः । अतिकातरभावेन स विनयी अभूत् । किमर्थं भवान् मार्ग विस्मरति । वृद्धः किंचित् अभिमानी संजातः । मार्गनिश्चयो मदुपरि नैतत्ते दायित्वम् । मुर्मू : नम्रः। कुलमणिः अबोधयत् । पुत्र एकः अनुरोधो मे त्वन्निकटे । निभालयितु शक्नोषि ? नूनम् । निःसंकोचं कथयतु । - - वृद्धः गम्भीरः। - मम मरणे मुखाग्निं त्वमेव दास्यसि । पुनश्च अस्थिसंग्रहकाले बाल्यात् लालितामिमां मस्तकशिखां संचेष्यसि । ततः शिखां, जपमालां च आदाय गङ्गानद्यां निक्षेप्स्यसि । यद् वा अवशिष्टं पूजाद्रव्यादिकं, इष्टप्रतिमां, मातृकां च ग्रामपावनद्यां वर्षाकाले विसर्जयिष्यसि । - कुलमणिः किंचित् कम्पितवाक् संजातः । ततः स्थिरतया निविष्टः। मुमु-मनसि वागियं प्रहेलिका। किमर्थं वृद्धः बाल्यात लालितामिमां शिखां गङ्गागर्भे निक्षेप्तुमादिशति ? कथं पुनः प्रति- मादिकं विसर्जयितु प्रेरयति ? का वा योजना अन्तराले ? का वा चिन्ता वृद्धस्य एतादृशप्रवृत्ति नियम यति ? को वा एतादृशो मन्त्रो यं वृद्धः निह्नोतुमिच्छति ? एवं मुर्मोः अन्वेषणप्रवृत्तितले रात्रिः संप्रस्थिता। परदिने सर्वे गृहं प्रत्यागताः । सप्ताहाभ्यन्तरे वृद्धस्य स्वास्थ्यमधिकतया अवनतम् । स शय्याशायी संजातः । मुमु: औषधिसंग्रहे व्यापृतः । रजनी पितृसेवायां आत्मानं [६७ नियोजितवती। तस्या जपनेपथ्ये पितुः शीर्णता विषादम् अभरत् । अवश्यमरणमाशंक्य मुर्मुः हतप्रभः संजातः । दीपशिखातले तमसा आच्छन्ना। कुलमणिः दिवंगतः। अन्त्येष्टिसंस्कारे मुमु : मुखाग्निम् अददात् । पलितकेश- पार्श्वतः सयत्नं स वृद्धस्य शिखां समचिन्नोत् । कुलमणिः चितायां भस्मसात् अभूत्। मुमु: निजबाल्यं स्मरन् भृशं व्यलपत् । सजल- नयना रजनी जपप्रवाहे स्वप्नसंकुला आसीत् -- नैन छिन्दन्ति शास्त्राणि नैनं दहति पावकः ..... विषण्ण दिवसा गतानुगतिकाः । : विलासः पितुः मरणवात्ता लब्धवान् । तदानीं स मुक्तभावेन अहसत् । मद्यकूपीत आकण्ठमपिवत् । आरक्तनयने तस्य पितुः सम्पत्तिरेव अभासत । स त्वरया प्रामाभिमुखी अभवत् । विलासस्य दुष्प्रवृत्ति सम्यग् ज्ञातवती शम्पा। सा पुनः पुनः तं न्यषेधत् । अनेकवारं च वारितवती। परमेकदा सम्पदाशया स ग्राममागतः। मुर्मुः कार्यलग्नः । सहसा विलासं निकटे विलोक्य स विस्मितः। पितुः मरणात् परमद्य कति मासा व्यतीताः। किन्तु वार्ता प्राप्याऽपि यथाकालं स नागतः । अद्य किमर्थम् ? मुर्मू: पुर आगच्छत् । सविनयं च प्राणमत् । तस्य अवस्थां दृष्ट्वा नितरां व्यषीदत् । शनैश्च अपृच्छत् । विलासभ्रातः ! भवान् जाने सर्वम् कथं नागतवान् ? मां पुनः प्रष्टु कदा प्रभृति ते अधिकारः ? प्रश्नेऽस्मिन् अधिकारकथा कुतः त्वमन अधिकारी संजातः । सम्पत्ते प्रभुः संजातः किल ? को वदति ? सर्वे वदन्ति । - m- ? - ६६] L - . - - - - - +माणीकरोतु। प्रमाणस्य का आवश्यकता ? यन् मे पिता ते प्रदत्तवान् तत्सर्वं समर्पय। पुनश्च यद् अधिकारपत्रं स ते दत्तवान् तदपि देहि । धनम् --? अधिकार पत्रम् ? किमेव वक्ति भवान् ? क इत्थं भवन्त- मुक्तवान् ? नाऽहं किमपि श्रोतुमिच्छामि । सर्वं मे समर्पय । किं वा मन्निकटे वर्तते ? सर्वं तु भवतः। भवान् दायित्व गृह्णातु । अहं सद्यःप्रस्थानं करिष्यामि । न ते मुक्तिरधुना । यन् मे पिता त्वन्निकटे स्थापितवान् तत् सर्वं मे देहि । ततो यथेच्छं गच्छ । किं भवान् प्रमत्तः संजातः ? विरम -। त्वर्यताम् । कमन्न रक्तनयनं प्रदर्शयति ? त्वामेव। माऽधिकं चीत्कुरु । बहुचीत्कारो मया श्रुतः । त्वर्यताम् । नहि। नहि ? नहि.? एवं गर्जन् विलासः तदुपरि चपेटाद्वयं प्राहरत् । मुर्मुः स्थिरः संजातः । सुदीर्घ निश्चयस्य आत्मानमवदत । दीर्घतरसेवायाः किमिदं मे पारितोषिकम् --- ? स त्वरया गृहं प्राविशत् । लघुपेटिकामेकामानीय उपस्थितः । उच्चैश्च अवदत । नयतु । इदं धनम् ततः स पेटिकामुन्मोचितवान् । ततः प्रादर्शयत् । नयतु । इयं जपमाला"। इयं च पितुः पलितशिखा"। इमानि पूजाद्रव्याणि । अयम् इष्टदेवः । इयं च मातृका । नयतु सर्वम् । गङ्गाजले विसर्जयत । इदं पित : अधिकारपत्रम् । इदं च धनम् । उभयस्य कलहध्वनि निशम्य रजनी पूजागृहात उत्थाय द्वारमुपगता । करे जपमाला । कपाले चन्दनरेखा। चरणे मन्दगतिः । समग्रशरीरे श्वेतवसनस्य प्राच्य विभा । मन्थररीत्या सा अपृच्छत । - - अरे, मुर्मो...! किमर्थं चीत्करोषि ? विलासभ्राता समागतः । कुन ? न दृश्यते -? अत्र दण्डायमानः पितुः सम्पत्ति निमित्तम् आगतः । अहो व्यामोहः...! - - . रजनी नेत्रमुत्थाप्य विलासम् अपश्यत । विकृतमुखेन विलासः चकितः प्रतीयते । रजनीदृष्टिस्तु प्रतिक्रियाविहीना। मन्दगत्या सा विवर्त्य गृहं प्राविशत् । मुर्मोः भक्तिपूतमनसि सा केवलं निरीहा एका प्राचीनतापसी- 10- विलासो लज्जितः। ततः प्रतिशोधकामनया स एकवारं गृहमपश्यत् । एकवारं च मुमुमुखम् अपश्यत् । पराङ मुखतया न्यवर्तत । उन्मत्तः स चलति । दोलायमाना गतिः। वेगो मन्दः । मुखे यथेच्छजल्पनम् । ग्राममार्गे सः अपसृतः। ग्रामवृद्धाः तं निरीक्ष्य विस्मिता अभवन् । किमयं कुलमणेः पुत्रः ?? मुर्मू: बाल्यं स्मरति । कुलमणेः वात्सल्यं मनस्यति । रजन्या उदारतां रोमन्थयति । ततो विलासमनुसरति । ग्रामोपान्ते विलास उपनीतः। तमाकारयितु मुर्मुः चिन्तयति। तं पुनरपि बोधयितु- मिच्छति । तन्निकटे क्षमाप्रार्थनार्थ वाञ्छति । किन्तु विलासः पुरः सरति । मुर्मू: पुनश्च अनुसरति । तथापि पश्चात् सम्बोधयितुन प्रभवति । विलासः अग्रसृतः। मुम: विषण्णतया एकस्मिन् वृक्षमूले स्थित्वा केवलं पश्यति । मार्गान्तरे विलासः अन्तर्हितः । वृक्षाग्रस्य कुटिलकुञ्चने दिग्भागः तरङ्गायते । स्पन्दनरा शिषु मुर्मुः सम्मोहस्य पर्यायं गणयति । शम्पा प्रतीक्षते। किन्तु विलासो न प्रत्यागतः। बहुन वार्ता प्रसारिता। सन्देशः प्रेषितः । जना अन्वेषणे नियोजिताः । वृत्तपत्रेषु वृत्तान्तः प्रकाशितः । .. उष्ठस्य

७०]
आकाशवाणीषु दूरदर्शनेषु घोषणा कारिता। परिचितस्थानेषु स्वयं
शम्पा अन्विष्टवती। तथापि विलासः कुत्र गतः, न कोऽपि वक्तु
प्राभवत् ।
अकालवार्धक्ये शम्पा शीर्णा। अद्य तन्निकटे नाऽभिजात्यं न
वा अभिमानम् । अभियोगेषु सा तु आत्मानं मथ्नाति । अतीत
स्मरति । नयने अश्रु भरति । अनेकम् अनुतपति। अनेकान् अभि-
शपति।
तथा च प्रतीक्षते शम्पा।
अनुरणनं सृजति पुरातनस्पन्दनस्य प्रतिध्वनिः ।
-: समाप्तम् -
.

लेखकस्य कृतयः ( काव्यम् ) ( कवितासंग्रहः) १ प्रणयप्रदीपम् २ हृदयेश्वरी ३ महातीर्थम् ४ भिन्नपुलिनम् " ५ अलका ( उपन्यासः) ६ ईशा ७ शीतलतृष्णा ८ प्रतिपद् ९ निकषा १० अरुणा ११ अञ्जलिः १२ आवर्तम् १३ ऋतम् १४ मधुयानम् १५ तिलोत्तमा १६ शिखा १७. विसर्गः १८ शशिरेखा १९ ॐ शान्तिः २० निम्नपृथिवी २१ दिशाविदिशा २२ मिचूड़ा २३ पताका ( लघुकथासंग्रहः) २४ महान् २५ एकदा

197]
RESEARCH PUBLICATIONS
26 Reference : A Logico-Linguistic Identification
27 Relations in Knowledge Representation
28 Elements of Research Methodology in Sanskrit
29 Social Justice and its Ancient Indian Base
30 Logic of Non-Case-Relationship
31 Logic of Knowledge Base
32 Indian Semantics : A Computation Model

Shika-upanyasa

Author
Dr.keshava Chandra Das
Title
Shika-upanyasa
File name
Shika-upanyasa
Text
OCR done
Published
2005/03/10
Publisher
Dr.keshava Chandra Das Srivihar Puri
Language
Sanskrit
Pages
71
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495598
Barcode
1990030070596.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
Jpfny8l3qoB
Download PDF

Shika-upanyasa