Charan Sahitya Shodh Sansthan, Ajmer

Kavya Mala (iv)

Krishnath Pandurang Parab · 2010/05

PDF Proofread

Front matter

No text on this page.

॥ श्रीः॥ काव्यमाला नाम नानाविधमाचीनकाव्यनाटकचम्पूभाणमहसन च्छन्दोलंकारादिसाहिसग्रन्थानां संग्रहः । चतुर्थो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्वापुरवासिना- परवोपाइ- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः । १ मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा । प्राकाश्यं नीतः । १८८७ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्येवाधिकारः।) मूल्यमेको रूप्यकः ।

. अनुक्रमणिका । पृष्ठम् । . - .... .... ३ ३७ ५२ .... । . १० ... १. बाणमकृतं चण्डीशतकम् (सटिप्पणर्म) २. नागराजकविप्रणीतं भावशतकम् .... .... ३. नारायणभट्टपादकतं स्वाहासुधाकरम् ४. श्रीकृष्णकविप्रणीतं ताराशशाङ्कम ५. रामचन्द्रकविकृतं रसिकरञ्जनम् .... ६. क्षेमेन्द्रकृतं कविकण्ठाभरणम् . ७. भल्लटकतं भल्लटशतकम्... ८. नीलकण्ठदीक्षितप्रणीतं सभारजनशतकम् ९. कालिदासकृता नवरत्नमाला ܘܐ .... .... .... .... .... १२२ १४० १५६ १६५ .... .... । 4. 7 १ काव्यमाला। महाकविश्रीवाणभट्टविरचितं चण्डीशतकम् । टिप्पणसमेतम् । मा भाजीविभ्रमं भ्रूरधर विधुरता केयमास्यास्य रागं पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् । इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या न्यस्तो वो मूर्ध्नि मुष्यान्मरुदसुहृदसून्संहरन्ननिरंहः ॥ १ १॥ देव्या अतिश्चरणो वो युष्माकमह पाप मुष्याद्धरतु । किं कुर्वन् । मरुदसुहृदसू- १. वात्स्यायनक्शोद्भवो महाकवि श्रीवाणमः कान्यकुब्जाधिपतेर्हर्षवर्धनस्य सभा- यामासीदिति हर्षचरितात्प्रतीयत एव. ख्रिस्तसवत्सरीयसप्तमशतकपूर्वार्धे 'हुएन् त्सङ्ग'- (Hiouen-Thsang ) नामा कश्चन बौद्धश्चीनदेशाद्भारतवर्षे समागतः. वश्राम च बहूनि वर्षाणि भारते वर्षे. स च प्रत्यह स्ववृत्त लिखितवान्, तस्मिन्समये हर्षवर्धनो राज्यं कुर्वनासीदिति तद्वृत्तान्तपुस्तकादाधुनिकैर्महापण्डितैरधिगतम्. तस्माद्वाण- भट्टोऽपि सप्तमशतकपूर्वार्घ एवासीदिति निश्चितमेव. सांप्रत वाणभकृतिषु (१) काद- म्बरीपूर्वभाग , (२) हर्पचरितम् , (३) चण्डीशतकम्, (४) पार्वतीपरिणयनाटकम्, एतच्चतुष्टयमुपलभ्यते. तब पार्वतीपरिणयकर्ता कश्चिदन्यो वाणकविरयमेव वेति सदेहः... विद्यारण्यशिष्योऽपि कश्चन शब्दचन्द्रिकाकर्ता वाण आसीत्. विस्तरेण वाणभट्वर्णन तु हर्षचरिते डॉक्टरपीटर्सनमुद्रितकादम्बयुपोद्धाते च द्रष्टव्यम् श्लोकबद्धा कादम्बरी मुकुटताढितकनाटक च बाणभटेन प्रणीतमित्यपि ज्ञातम् , किं त्वेतद्वन्थद्वयं नाद्याप्युपल- ब्धम्. २. अस्य शतकस्य सोमेश्वरसूनुधनेश्वरप्रणीतैका, कर्टनामरहिता चापरा, एव टीकाद्वयमुपलव्धमस्माभिः. किं तु टीकाद्वयमप्यतीव तुच्छं वृथा समासादिभिः पल्ल- वितमस्ति. अस्मल्लव्यं तत्पुस्तकद्वयं चातीवाशुद्ध मध्ये मध्ये त्रुटित चेति सपूर्णटीका- मुद्रणमुपेक्ष्य टीकाद्वयोद्धृत स्वल्प टिप्पणमेवात्र गृहीतम्. बाणभट्टस्य चण्डीशतकनिर्माणे कारणं मानतुड्गप्रणीतभक्तामराख्यजिनस्तुतिटीकाकर्तमिर्गुणाकररलचन्द्रादिभि स्वस्व- टीकारम्भे लिखितमस्ति, तच्च कपोलकल्पितमिति नात्रास्माभिरुद्धृतम्. शतकस्यात्य शाधरपद्धति-सरस्वतीकण्ठाभरण-वाग्भटप्रणीतकाव्यानुशासन-अर्जुनवर्मदेवप्रणीतामरु- शतकटीकादिग्रन्थेषु श्लोकाः समुपलभ्यन्ते. ३. 'स्थापयन्त्येव'. - २ काव्यमाला। . न्देववैरिप्राणान्सहरन् । कीदृशोऽसि । मूनि न्यस्तः । अर्थान्मरुदसुहृदो महिषासुर- स्यैव । किंभूतया देव्या । इत्यमुना प्रकारेण उद्यत्कोपकेतूनाविर्भवक्रोधचिहानवयवानि- जागान्प्रकृति पूर्वावस्था प्रापयन्त्या इव । इति कथम् । हे भ्रू, विश्रम विलासं मा भाबीः मा आमर्दयः । हे अधर ओष्ठ, केय विधुरता किमिदं वैकल्यम् । है आस्य मुख, रागं लौहित्यमस्य क्षिप । 'असु क्षेपणे' ।। हे पाणे हस्त, अयं महिप' प्राण्येव चेतनावा- नेव न । कलहश्रद्धया सभामवाञ्छया त्रिशूलं कि कलयसि । यद्वाय ना पुरुप. प्राण्येव जन्तुमात्रोऽयमस्मत्पादतलाघातमात्रसाध्यः, तकि युष्माभिरसमय एव वृथा कोपाद्विकृ- तिरास्थीयते, स्वस्था भवन्तु भवन्तः ॥ उत्प्रेक्षालंकारः ।। हुंकारे न्यकृतोदन्वति महति जिते शिजितै पुरस्य श्लिष्यच्छृङ्गसतेऽपि क्षरदसृजि निजालक्तकभ्रान्तिभाजि । स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिपस्याहितोऽसूनहापी- दज्ञानादेव यस्याश्चरण इति शिवं सा शिवा वः करोतु ॥ २ ॥ सा शिवा भगवती व. शिव कल्याण करोतु । सा का। इत्यज्ञानादेव यस्याश्चरणो महिपस्यासून्प्राणानहापीत् । किंभूतश्चरणः । विन्ध्याद्रिबुद्ध्या अस्मनिवासोऽय विन्ध्य- पर्वत इति धिया स्कन्धे अर्थान्महिषस्य आहितो न्यस्त. । किंभूते च स्कन्धे । वि. न्ध्याद्रिबुद्ध्या निकषति कण्डूत्यपनयनार्थ निकपण कुर्वति । श्यामत्वाद्देवीचरणस्य तस्मि- न्महिपस्कन्धत्यापि विन्ध्याद्रिभ्रमो जात । अत एव घर्पण करोति । इति किम् । महति न्यकृतोदन्वति तिरस्कृतसमुद्रघोपे हुकारे अर्थान्महिपस्य नूपुरस्य शिजिजिते सति । स्कन्धनिकपणेनैव नूपुरध्वनि. समुत्पन्नः । हुकारेण महिपोऽयमिति ज्ञातुं न शक्यः । हुंकारस्य नपुरशिञ्जिततिरस्कृतत्वात् । अन्यच्च श्लिण्यच्छृनक्षतेऽपि क्षरदसृजि गलद्रुधिरे [अर्थाद्देव्याश्चरणे] निजालक्तकभ्रान्तिभाजि स्वकीययावकरसभ्रमयुक्ते सति। एवमुपन्यस्तहेतुत्रयाद्धान्तिः समुत्पन्ना ॥ जाह्नव्याः या न जातानुनयपरहरक्षिप्तया क्षालयन्त्या नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम् । तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा पादेनैव क्षिपन्ती महिपमसुरसादाननिष्कार्यमार्या ॥ ३ ॥ आर्या देवी जयत्युत्कर्षण वर्तते । कथंभूता । नवमलक्तकमिव पादेनैव पीडयित्वा महिप क्षिपन्ती । पादेनैवेति नियमेनान्ययोगव्यवच्छेद. । पुनः कथंभूता । तां शोभामा- दधाना धारयन्ती । [अर्थाचरणे ।] ता काम् । वानुनयपरहरक्षिप्तया प्रसादनतत्परमहा- देवप्रेरितया अत एव क्षालयन्त्या । [अर्थाच्चरणम् ।] । जाहव्या गगया न जाता । नून १. 'अनवमयुरहर- । , । . ३ चण्डीशतकम् । नूपुरेण या शोभा नो जाता । नखानां ज्योत्स्नया कान्त्या वा नो जाता । ग्लपितशशि- रुचा इति जाहवीनूपुरज्योत्स्नाना विशेषणम् । कथंभूत महिषम् । असुरसादाननि- कार्यम् । असवः प्राणा एव रसस्तस्यादान ग्रहण तेन निष्कार्य निष्प्रयोजनम् । यथा- लक्तक पादेन निप्पीड्य तदीय रसमादाय नि सारभाग क्षिपति कश्चित्, एव देवी रसभूतान्प्राणानादाय महिषं क्षिप्तवतीति भावः । ता शोभामिति अलक्तकरसादाने या रक्तत्वलक्षणा भवति । किं त्वलक्तकेन कृत्रिमा शोभा, इयं तु स्वाभाविको । मृत्योस्तुल्यं त्रिलोकी ग्रसितुमतिरसान्निःसृताः किं नु जिह्वाः किं वा कृष्णाभिपद्मद्युतिभिररुणिता विष्णुपद्याः पदव्यः । प्राप्ताः संध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्त्र इत्यूह्यमाना देवैर्देवोत्रिशूलाहतमहिषजुपो रक्तधारा जयन्ति ॥ ४ ॥ देवीत्रिशुलाहतमहिपजुषो देवीत्रिशूलकृतच्छिद्रमहिषशरीरादुद्गतास्तिस्रो रक्तधारा जयन्ति । किंभूता । देवैरित्यमुना प्रकारेणोह्यमाना उत्प्रेक्ष्यमाणा. । इतीति किम् । अ- तिरसादतिगार्ध्यात्तुल्यं युगपदेव त्रिलोकी ग्रसितु मृत्यो किं नु जिह्वा नि मृता । अ- न्मुखकुहरात् । किं वा कृष्णाविपद्मद्युतिभिर्विष्णुचरणपङ्कजकान्तिमिररुणिता रक्तता नीता विष्णुपद्या गद्गाया. पदव्य प्रवाहा । उत अथवा स्मरारे. शिवस्य नतिमि. प्रा- र्थनाभिस्तित्र सध्या स्वय प्राप्ता. । सध्या अपि रक्तवर्णा भवन्ति ।। दत्ते दर्पात्प्रहारे सपदि पदभरोत्पिष्टदेहावशिष्टां श्लिष्टां शृङ्गस्य कोटि महिषसुररिपोर्नूपुरग्रन्थिसीन्नि । मुप्याहः कैल्मपाणि व्यतिकरविरतावाददानः कुमारो मातुः प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण ॥ ५ ॥ अस्मिश्लोके कुमारो वः कल्मषाणि मुष्यादित्यन्वयो यदि विधीयते तदा कुमार- स्याप्राकरणिकत्वादप्रस्तुतान्वयता स्यात् । तस्मादेवमध्याहृत्य व्याख्येयम्सा माता वः कल्मपाणि मुप्यात् । यस्या मातु कुमारो व्यतिकरविरतौ महिषेण सह युद्धसमाप्तौ प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण शृद्गस्य कोटिमग्रमाददानो वर्तते । नेयं महिष- शृगकोटि., किंतु मम मातुः कर्णाच्युतो नीलोत्पलकलिकारुप. कर्णपूर एवायमिति श्र- द्धयेति भावः । कीदृशीम् । दर्पान्मदात्प्रहारे दत्ते सति सपदि तत्क्षण पदभरेण चरणगु- रुत्वेनोस्पिष्टश्चूर्णितः स चासौ देहश्च तस्मादवशिष्टाम् । अथ च नपुरग्रन्थिसीन्नि लिष्टा लनाम् । कस्य देहावशिष्टाम् । महिपसुररिपोर्महिषरूपः सुररिपुस्तस्य । महिपशृङ्गाणि प्रायेण कठिनानि भवन्तीति शृङ्गकोटेरवशिष्टत्वकारणम् ।। - . - । na १. 'याम्या'. २. 'देव्यास्त्रिशूलक्षत-. ३. 'किल्विषाणि.'

४ काव्यमाला। - -- - शश्वद्विश्वोपकारप्रकृतिरविकृतिः सास्तु शान्त्यै शिवा वो यस्याः पादोपशल्ये त्रिदशपतिरिपुर्दूरदुष्टाशयोऽपि । नाके प्रापत्प्रतिष्ठामसकदभिमुखो वादयशृङ्गकोट्या हत्वा कोणेन वीणामिव रणितमणिं मण्डली नूपुरस्य ॥ ६ ॥ सा शिवा वः शान्त्यै सुखायास्तु । किंभूता । विश्वोपकारप्रकृतिः सर्वोपकृतिस्व- भावा जगदुपकारशीला वा । शश्वनिरन्तरम् । पुनः कीदृशी। अविकृतिर्विकारर- हिता । यस्याः पादोपशल्ये चरणप्रान्ते त्रिदशपतिरिपुरिन्द्रवैरी महिषो नाके स्वर्ग प्र. तिष्ठां स्थिति प्रापत् । चरणससर्गजनितपुण्यातिशयेन स्वर्गनिवासी जात इति भावः । कीदृशः । दूरदुष्टाशयोऽपि नितरां नीचस्वभावोऽपि । किं कुर्वन् । रणितमणि नूपुरमण्ड- लीमसकृद्वारंवारमभिमुखः समुखः सशृङ्गारकोच्या हत्वा कोणेन वादनदण्डेन वीणा- मिव वादयन् । यः किल देवीपादमूले वीणां वादयति स मृतः स्वर्गमाप्नोति ॥ निष्ठचूतोऽङ्गुष्ठकोव्या नखशिखरहतः पाणिनिर्यातसारो गर्भ दर्भाग्रसूचीलघुरिव गणितो नोपसर्पन्समीपम् । नाभौ वकं प्रविष्टाकृतिविठति यया पादपातेन कृत्वा दैत्याधीशो विनाशं रणभुवि गमितः सास्तु देवी श्रिये वः ॥ ७ ॥ सा देवी वः श्रियेऽस्तु । यया दैत्याधीशो महिषो रणभुवि विनाशं गमितः प्रापितः । कथंभूतः । अङ्गुष्ठकोट्या निम्तो निरस्तः । पुनः । नखशिखरेणाङ्गुष्ठनखाग्रेण हत- स्ताडितः । पुन. । पा| गुल्फाधोभागेन निर्यातः सारो यस्य सः । पादपश्चिमाधो- भागनिष्पीडित इति यावत् । पुन. । गर्भ पादमध्ये दर्भाग्रसूचीलघुरिव न गणितः। अ- तितुच्छो दृष्टः । किं कृत्वा । प्रविष्टाकृतिविकृति यथा स्यात्तथा पादपातेन नाभौ वक्र कृत्वा । आदौ पादघातेन तद्वक्र तदीयनाभौ प्रवेशितम्, तदनन्तरं व्यापादित. । यद्वा प्रविष्टाकृतेः स्वरूपस्य विकृतिविकारो यस्मिस्तादृशं महिषस्य वकं पादपातेन तदीय- नाभौ प्रवेशयित्वा॥ ग्रस्ताश्वः शप्पलोभादिव हरितहरेरप्रसोढानलोप्मा स्थाणौ कण्डूं विनीय प्रतिमहिषरुपेवान्तकोपान्तवर्ती । कृष्णं पy यथेच्छन्वरुणमुपगतो मज्जनायेव यस्याः स्वस्थोऽभूत्पादमाप्त्वा हृदमिव महिषः सास्तु दुर्गा श्रिये वः ॥८॥ सा दुर्गा वः श्रियेऽस्तु । यस्याः पादं हद सरोवरमिव प्राप्य महिपः स्वस्थो निर्वृत. १. 'महिषसुररिपुः.' २. 'निष्णातसारः'. ३. 'प्रतिष्ठाकृति'. ४. 'शान्य शिवा वः. ५. 'देवी मुदे व.. - चण्डीशतकम् । स्वर्गस्थश्चाभूत् । किंभूतः । हरितहरेः सूर्यस्य शष्पलोभाद्वालटणगाादिव प्रस्ताश्वः । सूर्यस्याश्वा हरिद्वर्णा. सन्तीति महिपेण हरितकोमलतणबुड्या कवलीकृता । पुन. । अ. प्रसोढानलोष्मा असोढाग्नितेजा । देवपक्षतयाग्नेस्तस्य दर्प न सहते । स्थाणौ महादेव कण्डू विनीय शिवेन सह समर कृत्वा मदकण्डूतिमपनीय । महिपो हि स्थाणौ कीलके कण्डूत्यपनयनं करोति । पुन. । प्रतिमहिषरुषा महिषान्तरकोपेनेवान्तकोपान्तवर्ती यम- समीपगन्ता जात । पुनः । कृष्ण विष्णु कृष्णवर्णत्वात्पङ्कमिवेच्छन्मज्जनाय जला- वगाहायेव वरुणं जलाधीशमुपगतः । एवं बहुष्वपि हरिदश्वप्रभृतिस्थानेषु भ्राम्यन्स्वस्थो यो न बभूव, स महिपश्चण्डीपादमूले स्वस्थता प्राप । अन्योऽपि महियो हरिततणलो- लुपो भवति, अनलोण्माणं न सहते, स्थाणौ कण्डूतिमपनयति, द्वितीय महिप विलोक्य कोपाविष्टो भवति, कृष्णवर्णकर्दमे लुठनेच्छया जलाशय गच्छति, हृदं प्राप्य च स्वस्यो भवति । त्रैलोक्यातङ्कशान्त्यै प्रविशति विवशे धातरि ध्यानतन्द्री- मिन्द्रायेषु द्रवत्सु द्रविणपतिपयःपालकालानलेषु । ये स्पर्शेनैव पिष्ट्वा महिषमतिरुषं त्रातवन्तस्त्रिलोकी पान्तु त्वां पञ्च चण्ड्याश्चरण खनिभेनापरे लोकपालाः ॥ ९ ॥ चण्ड्याश्चरणनखनिभेनापरे पञ्च लोकपालास्त्वां पान्तु । किंभूता. । स्पर्शेनैवातिरुप महिपं पिष्वा चूर्णयित्वा ये त्रिलोकी त्रातवन्तो रक्षमाणाः । ननु ब्रह्मादयः क्व गता , येन चण्डीपादनखा महिष पिष्ट्वा लोकपालाः सवृत्तास्तत्राह-विवशे विहले धातरि ब्रह्मणि त्रैलोक्यातङ्कशान्त्यै त्रैलोक्योपद्रवनिवृत्तये ध्यानतन्द्री चिन्तारूपा प्रमीला प्रविशति सति । यो हि तन्द्रीयस्तो भवति स विवशो भवत्येव । कथ लोकरक्षा भविष्यतीति चिन्ताकारणम् । किं च इन्द्रायेष्विन्द्रप्रधानेपु द्रविणपतिपय पालकालानलेषु कुवेर- वरुणयमामिपु द्रवत्सु सभामानिवर्तमानेषु सत्सु । इन्द्राद्या. पञ्च पलायिता इति देवी- पादनखा लोकपाला जाता ॥ पालेयोत्पीडपीनां नखरजनिकृतामातपेनातिपाण्डुः पार्वत्याः पातु युष्मान्पितुरिव तुलिताद्रीन्द्रसारः स पादः । यो धैर्यान्मुक्तलीलासमुचितपतनापातपीतासुरासी- नो देव्या एव वामश्छलमहिपतनो कलोकद्विपोऽपि ॥ १० ॥ नखरजनिकृतां नखचन्द्राणामातपेन प्रकाशेनातिपाण्डुरतिशुभ्र पार्वत्या. स पादो युष्मान्पातु । कथभूताना नखरजनिकृताम् । प्रालेयोत्पीढपीनाम् । प्रालेय हिम तच्च १. 'त्रातवन्तो जगन्ति'. २. 'नखमिपेण'. ३. 'प्रालेयोत्पीडदीप्ताम्'; 'प्रालेयोत्पी- दीव्यत'.

- । Rar काव्यमाला। । धवलं भवति । तदुत्पीडनेन धवलिम्नः पुष्टता भवति । भगवती च प्रायेण प्रालेयशेल- सचारिणी । कस्यैव पादः । पितुरिव हिमाचलस्येव पाद. प्रत्यन्तपर्वतः । पादशब्दो 'द्विरावर्तनीयः । अथवा स्वपिटचरणसदृशश्चरणः । पिसदृशी कन्या धन्येति प्रशस्त- त्वकथनम् । कीदृशः पादः । तुलिताद्रीन्द्रसारः । अतिगुरुरिति यावत् । स कः । यः पादो देव्या एव नो वामः सव्यः, अपि तु छलमहिपतनोः कपटमहिपस्य नाकलोक- द्विपो देवशत्रोरपि वामो वैरी प्रतिकूलो वा । कुतः । धैर्यात्सत्त्वाधिक्यान्मुक्ता या लीला तस्याः समुचित यत्पतनं पातस्तस्यापाते आरम्भे यद्वा समुचितपतनेन आपाततः पीता गिलिता असवः प्राणा येन [अर्थान्महिपस्य] । यत्र वीररसविभावका धैर्यशार्या- दयो भवन्ति तत्र शृङ्गारव्यजिका लीला न भवति । अत एव लीलामुक्तत्वमुक्तम् । ततो वैरिव्यापादनमुचितम् । तत आपाततोऽविभावितविचार पीतासुत्वम् ।। वक्षो व्याजैणराजः स दशभिरभिनत्पाणिजैः प्राक्सुरारेः पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु । इत्युत्पन्नाभिमानैर्नखशशिमणिभिज्योत्स्नया स्वांशुमय्या यस्याः पादे हतारौ हसित इव हरिः सास्तु काली श्रिये वः ११ सा काली वः श्रियेऽस्तु । सा का । यस्याः पादे हतारी धातितशत्री सति स्यांशु- मय्या ज्योल्लया नखशशिमणिभिर्नखचन्द्रकान्तैर्हरिरिति हसित इव बभूव । इतीति किम् । प्राक्पूर्व सुराहिरण्यकशिपोर्वक्ष उरःस्थल व्याजैणराजः कपटसिंहो नरहरिद- शभिः पाणिजैनखैरभिनत् । एते वय तु युवतिचरणजाः पव शत्रुमस्तं नयाम इन्यु- त्पन्नाभिमानैर्जातगर्वैः । हरेर्नखाः करजाः वय युवतिचरणजाः, ते दश वयं पन, तैर्य- क्षोमानं विदारितमस्माभिस्तु शत्रुरस्तं नीतः, इत्यभिमानकारणम् ॥ रक्ताक्तेऽलक्तकश्रीविजयिनि विजये नो विराजत्यमुप्मि- न्हासो हस्ताग्रसंवाहनमपि दैलितादीन्द्रसारद्विपोऽस्य । त्रासेनैवाद्य सर्वः प्रणमति कदनेनामुनेति क्षतारिः पादोऽव्याञ्चुम्बितो वो रहसि विहसता त्र्यम्बकेनाम्बिकायाः १२ इति विहसता त्र्यम्बकेण रहस्येकान्तेऽन्य विनयप्रकारमपश्यता चुम्बित. क्षतारि- यापादितशत्रुरम्विकायाः पादो वो युप्मानव्याद्रक्षतु । इतीति किम् । हे विजये पार्व- तिसखि, अथवा विजये सति अमुप्मिन्विजयिनि विजयशालिनि रक्ताक्ते महिपरु- धिरार्दीभूते ते पादेऽलक्तकश्रीन विराजति । अयं च दलितादीन्द्रसारद्विषो नाशितः पर्वतेन्द्रसमानगरिमा शत्रुर्येन तस्यास्य तव पादस्य हस्ताग्रेण संवाहनमपि हासः। कि चाद्याधुनामुना कदनेन महिप्रवधेन सर्वो जननासनैव प्रणमतीति । चरणे यावकरसर- १. 'अतिरुचिरनखैः'. २. 'शान्त्य शिवा वः'. ३. 'तुलितादीन्द्र-'. . . ।

चण्डीशतकम् । 2 जन हस्ताग्रेण सवाहन प्रणामश्चेति त्रयमुचितम् । किं त्वत्र त्रयमपि न घटत इति महादेवेन तचुम्बनमेव कृतम् ॥ भङ्गो न भूलतायास्तुलितबलतयानास्थमस्थां तु चक्रे न क्रोधात्पादपद्मं महदमृतभुजामुद्धृतं शल्यमन्तः । वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पाणे- मुष्णन्त्यासून्सुरारेः समरभुवि यया पार्वती पातु सा वः ॥ १३ ॥ सा पार्वती व पातु । यया पाणैरशेन पादतलपश्चाद्भागैकदेशेन समरभुवि सुरा- रेमहिषस्यासून्मुष्णन्त्या न केवलं भूलताया एव भङ्गः कृतः, अपि तु तुलितबलतया अ. नास्थं यथा स्यात्तथा अस्मां कीकसानामपि अर्थान्महिषस्य भङ्गश्चूर्णन चक्रे । यस्य बल तुलितं भवति तस्य पराजयेऽनास्था क्रियते । भ्रूलतामङ्गो भृकुटिलत्व क्रोधेन । किं च क्रोधात्पादपद्ममेव नोद्धृतम्, अपि तु अमृतमुजा देवाना महदन्तः शल्यमप्युद्धृतम् । देवा हि महिप शल्यभूतमन्तश्चिन्तयन्ति स्म ।अन्यच्च नूपुरमेव वाचाल मुखर नो जातम्, अपि तु जय शसत्कथयज्जगदपि वाचालमजनि ।। निर्यन्नानास्त्रशस्त्रावलि वलति वलं केवलं दानवानां द्वाड् नीते दीर्घनिद्रां द्विपति न महिषीत्युच्यसे प्रायशोऽद्य । अस्त्रीसंभाव्यवीर्या त्वमसि खलु मया नैवमाकारणीया कात्यायन्यात्तकेलाविति हसति हरे बीमती हन्त्वरीन्वः ॥ १४ ॥ हरे आत्तकेलौ गृहीतकीडे इति हसति सति ह्रीमती लज्जाकुला कात्यायनी वो युष्माकमरीशत्रून्हन्तु । इतीति किम् । अद्य त्वं महिषीति मया नोच्यसे । यतः, अस्त्रीसभाव्यवीर्या । स्त्रीष्वेतादृश वीर्य न सभाव्यते । द्राग्झटिति द्विषति शत्री महिपे दीर्घनिद्रां मृत्यु नीते सति, त्वयेत्यर्थात्, निर्यनानास्त्रशस्त्रावलि दानवानां बल सैन्य केवल स्वामिशून्यमद्य वलति चलति यथागतं याति । महिषी कृताभिषेका राजी सै- रभी च । या महिपवध करोति सा कथं महिषीशब्दाभिधेया । महिषी महिपाद्धीन- वला भवति, वं तु महिपाकोटिगुणाधिकबला । प्रायशो वाहुल्येन । एव मया त्वं नाकारणीया । स्त्रीरूपाया एव भार्याया आकारणमालानं युक्तम् । त्वं तु पुरुषचेष्टि- तेति हासः॥ जाता किं ते हरे भीर्भवति महिपतो भीरवश्यं हरीणा- मद्येन्दो? कलङ्कौ त्यजति पतिरपां धैर्यमालोक्य चन्द्रम् । वायो कम्प्यस्त्वयान्यो नय यम महिषादात्मयुग्यं ययारी पिष्टे नष्टं जहास शुजनमिति जया सास्तु देवी श्रिये वः ॥१५॥ १. 'तिर्यक्.' । । - . -4 --------- empe १० काव्यमाला। पक्षपाती पक्षैः पत्रैः पतनशीलः, अथ च महिपस्य पक्षपाती सहायभूत: । .शूलेन ईशः शिवो यशोभाक्शिव एव शूली नान्यः । यदि महिप प्रति शूल प्रेप्यते तदायमपि शूली स्यात् । वधाहे दण्डोऽपि परिलघुः शीघ्र भाव्यः स्यात् । उत्तिष्ठमानः परो नोपेक्ष्य इति । इतीव हेतीरायुधानि हित्वा पाण्यैव महिप व्यापादितवती ॥ कत्वेहकर्म लज्जाजननमनशने शक्र मासून्विहासी- वित्तेश स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः । जातश्चक्रिन्विचक्रो दितिज इति सुरांस्त्यक्तहेतीन्ब्रुवन्त्या ब्रीडां व्यापादितारिर्जयति विजयया नीयमाना भवानी ॥ २१ ॥ विजयया देव्याः सख्या व्यापादितारिर्भवानी नोटा नीयमाना जयति । किंभूतया । त्यक्तहेतीन्सुरानिति ब्रुवन्त्या । इतीति किम् । हे शक्र, ईदृग्लज्जाजनन कर्म युद्धात्पलायनं कृत्वा अनशनेऽभोजनविषयेऽसून्प्राणान्मा विहासीर्मा त्यज । अथ च अशनिवजं तद्रहितोऽनशनिस्तत्सबोधन हे अनशने त्यक्तवज्र । युद्धात्पलायन लज्जाज- ननम् । यो हि लज्जाजनन कर्म करोति सोऽनशनेन प्राणांस्त्यजतीति भावः । हे वित्तेश कुबेर, स्थाणुकण्ठे गद रोग जहि । यतो भवानगदो गदारहित औषधरूपश्च । भवानी- घधरूप. सवृत्तोऽतो भवन्मित्रस्य शिवस्य कण्ठरोग दूरी कुर्विति भाव. । हे चक्रिन् विष्णो, दितिजो महिषो विचक्रः सैन्यरहितो जातः । यथा भवांश्चक्रीभूत्वापि त्यक्तच- ऋस्तथा महिपोऽपि विचक इति भावः ॥ देयादो वाञ्छितानि च्छलमयमहिपोत्पेपरोपानुपङ्गा- नीतः पातालकुक्षि हृतभुवनभयो भद्रकाल्याः स पादः । यः प्रादक्षिण्यकाढावलयितवपुपा वन्द्यमानो मुहूर्त शेषेणेवेन्दुकान्तोपलरचितमहानपुराभोगलक्ष्मीः ॥ २२ ॥ छलमयस्य महिपस्योत्पेष उत्पेषण तेन यो रोपानुषङ्गः क्रोधसबन्धस्तस्मात्पाताल- कुक्षि नीतो हृतभुवनभयो भद्रकाल्याः स पादो वो वाञ्छितानि देयात् । यः पाद इ. न्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीश्चन्द्रकान्तमणिघटितनूपुरशोभमानो यः पादः प्रादक्षिण्यवाञ्छया वलयीकृतशरीरेण शेषेण मुहूर्त वन्द्यमान इव भाति । देवीपादस्य क्षणं पाताले स्थितस्य चन्द्रकान्तनपुरे शेपकायोत्प्रेक्षणम् ।। शूलं तूलं नु, गाढं प्रहर हर हृषीकेश केशोऽपि वक्र- चक्रेणाकारि किं मे पविरवति नहि त्वाष्ट्रशत्रो शुराष्ट्रम् १. 'अर्थेश'. २. 'लज्जाम्'. ३. 'दोपा-'. ४. 'कृतपरमभयो'. - tu M " चण्डीशतकम् । पाशाः केशाब्जनालान्यनल न लभसे भातुमित्यात्तदर्प जल्पन्देवान्दिवौकोरिपुरवधि यया सास्तु शान्त्यै शिवा वः ॥२३॥ आत्तदर्प गृहीतमद यथा स्यात्तथा इति देवाजल्पन्दिवौकोरिपुर्देवशत्रुर्महिषो यया अवधि हतः सा शिवा वः शान्त्यै अस्तु । इतीति किम् । हे हर, शूलं अर्थात्तव तूलं नु कसितुल्यं किमु, अतस्त्व गाढं प्रहर । हे हृषीकेश, तव चक्रेण किं मम केशोऽपि वक्रीकृतः । अपि तु न । हे त्वाष्ट्रशत्रो इन्द्र, तव पविर्वज्र गुराष्ट्र स्वर्गदेशं नावति न रक्षति । हे केश जलेश वरुण, तव पाशा अजनालानि कमलनालवदतिमृदवः । हे अनल, भातुं न लभसे । मत्प्रभया हतस्त्वमित्यर्थ. ।। शाङ्गिन्वाणं विमुञ्च भ्रमसि बलिरसौ संयतः केन वाणो गोत्रारे हन्म्यहं ते रिपुमैमररिपुस्त्वेष गोत्रस्य शत्रुः । दैत्या व्यापाद्यतां द्रागन इव महिषो हन्यते मन्महेऽद्ये- त्युत्मास्योमा पुरस्तादनु दनुजतनुं मृद्गती त्रायतां वः ॥ २४ ॥ पुरस्तात्पूर्वमित्युत्प्रास्योपहस्य । अर्थाद्देवान् । अनु पश्चाद्दनुजतनुं महिषदेहं मृगती चूर्णयन्ती उमा वस्त्रायताम् । इतीति किम् । हे शाहिन विष्णो, वाण विमुश्च । बाण तन्नामानं दैत्यं शरं च । असौ वलिरिति भ्रमसि भ्रान्ति करोषि । वाण केन संयतः । त्वं वलिबन्धनकर्ता अतस्तव वाणमोक्षो युक्त इति भावः । हे गोतारे इन्द्र, ते रिपुमहं हन्मि । एषोऽमररिपुमहिषो गोत्रस्य स्वकुलस्य शत्रुः । यतो देवा दैत्याश्च काश्यपेयाः । अतोऽयमपि गोत्रारिः, तस्माद्गोत्रारिद्वय नोचितमित्येन तव रिपुं हन्मीति भावः । अत एव दैत्या अपि शास्यन्ते हे दैत्याः, मन्महे मदीयोत्सवेऽज इव च्छाग इव महिपो ह- न्यते, अतोऽयं महिषो द्राक्शीघ्रं व्यापाद्यतामद्य । देवीपर्वणि च्छागो हन्यत एव । स्पर्धावर्धितविन्ध्यदुर्भरभरव्यस्ताविहायस्तलं हस्तादुत्पतिता प्रसादयतु वः कृत्यानि कात्यायनी । यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी- वध्योद्देशमशेषवान्धवकुलध्वंसाय कंसोऽनयत् ।। २५ ॥ स्पर्धया पराभवेच्छया वर्धितो यो विन्ध्यस्तद्वहुर्भरो यो भरस्तेन व्यस्ताद्विकलाद्ध- स्तात् । अर्थात्कसस्य । विहायस्तलं गगनतलमुत्पतिता कात्यायनी वः कृत्यानि का. र्याणि प्रसादयतु प्रसन्नानि निर्विघ्नानि करोतु। या कात्यायनीमशेषवान्धवकुलध्वसाय मो- हान्धधीः कसो देवदारुघटिता शूलामिव स्कन्धेन वध्योद्देशं वध्यप्रदेशमनयत् ॥ १. 'पार्वती पातु सा व. २. 'असुररिपु.. ..

१२ काम्गगाया। - तूर्ण तोपानगपादनभूतिष शामिन शातीलापन्न मानोनपित्य पागमनमगाया मायाम । देला गेरमा मानांगितली तन्द्र गोड TETRIEnfrar R॥ rmiritiirani T. 25.1 1 मांग frRitu The मग म in Romnipriti after RAHMIR PATRE --11-Inter". neiler , ritirani kamgrmers. falth माता गोभमन्त्रःनि गुमानी मानी AT: कोमा हाम्यां मानी मारेन । शूलं भाग atra मास मcgl सोन्यागालागी नुनमा २ ॥ - Ringtor RS to it may 1, ", हा 24 11 Wia -... 'Tre Tri. मा: ENERATrity E+ मापदे l 4 minit krt: N. at isi 111 * *:- PIPE: 4 in urlift - 1 # PART गंगा मfer : nk मात्र Mirm, TE TE: PRAMINATE सा॥ नकाणांना मानन नि गन्याः पातमी AT HTTTTEगा निम नागामि मममम मनी मी. मांगीणारगंगागदपशिशमादि मा ! २९ ।। मेमा irre Arr. Arz4r. या क. २. परमाद- - Arrahman १३.. चण्डीशतकम् । ण्ठतोऽसुमिः प्राणैः सममिति गीर्वाड् निःसृता सा अद्विजा पार्वती वोऽव्यात् । इतीति किम् । हे स्कन्द, त्वं विक्लवः सन् षण्णा वाणा रुच कान्ति विषण्णां बत खेदे किं वहसि यतोऽन्या कृत्तिकारूपाः षट् मातरस्ते तव सन्ति । पार्वत्यां तव मातरि हतायां तास्वेव मास्नेह वधान विषादं मा कृथा इति भावः । अन्यच्च हे भव शिव, त्व शरी- रापलब्ध्या सकल समग्रो भव । पार्वत्या भवच्छरीरार्धे हृतमस्ति, अधुना तनाशात्पु- नरपि भवतः संपूर्णशरीरलाभः स्यात् । अद्याहं जिह्मां दुष्टाशया काली हन्मि । इय कुटिला काली च, त्व पुनः सरलो गौरश्चेति न युवयोर्योग साधीयान्, अतो घातयाम्ये- तामिति भावः ॥ गाहख व्योममार्ग गतमहिषभयैर्बन विश्रब्धमश्वैः शृङ्गाभ्यां विश्वकर्मन्घटयसि न नवं शाङ्गिणः शामिन्यत् । ऐभी त्वशिष्ठरेयं विमृहि मृदुमिमामीश्वरेत्यात्तहासा गौरी वोऽव्यात्क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा ॥ २९ ॥ क्षतारिनाशितशत्रुः, स्वचरणगरिमग्रस्तगीर्वाणगर्वा स्वपादगौरवनाशितदेवाहंकारा । यत्कर्म देवैः शस्त्रास्त्रशक्तिमद्भिर्न कृत तद्देव्या स्वचरणव्यापारमात्रेणैव कृतमिति भावः । अथ च इत्यात्तहासा इत्यमुना प्रकारेण कृतपरिहासा गौरी वोऽव्यात् । इतीति किम् । हे व्रन सूर्य, त्वं गतमहिषभयैरश्वैर्विश्रब्ध यथा स्यात्तथा व्योममार्गमाकाशपथं गाहस्व । हे विश्वकर्मन् देवशिल्पिन्, एताभ्यां महिषस्य शृङ्गाभ्यां शाह्मिणो विष्णोर्न- वमन्यच्छाङ्गे धनुर्न घटयसि । किमनेन पुराणधनुषेति काकुः । है ईश्वर, इयमैभी त्वग्गजचर्म निष्ठुरा कठोरा इमां अर्थान्माहिषी त्वचं विभृहि धारय ॥ क्षिप्तो वाणः कृतस्ते त्रिकविनतिततो निर्वलिमध्यदेशः प्रहादो नूपुरस्य क्षतरिपुशिरसः पादपातर्दिशोऽगात् । सङ्ग्रामे संनताङ्गि व्यथयसि महिषं नैकमन्यानपि त्वं ये युध्यन्तेऽत्र नैवेत्यवतु पतिपरीहासहृष्टा शिवा वः ॥ ३० ॥ इति पतिपरीहासहृष्टा शिवा व. पातु । इतीति किम् । हे सनताङ्गि, त्वं सभामे एक महिषमेव व्यथयसीति न, अन्यानपि येऽत्र न युध्यन्ते तानपि व्यथयसि । कथम् । वाणः शर. क्षिप्त कृत., पक्षे वाणोऽसुरविशेषः क्षिप्तो गलहस्तित. । ते त्रिकविनति- ततो मध्यदेशो निर्वलिस्त्रिवलिरहितः कृत । वाणक्षेपणसमये हि शरीरस्योर्बोत्तम्भ- नान्मध्यदेशो निर्वलिजीत इति भाव । पक्षे बलि नवविशेष । क्षतरिपुशिरसो नूपुरस्य पादपातैः प्रहादो ध्वनिर्दिशोऽगात् । नूपुरशब्दो दिगन्तगामी जात इत्यर्थः । पक्षे प्रहा- दोऽसुरविशेषः।अत्र युद्ध वाणबलिप्रहादा न सन्ति भवती तानपि व्यथयतीति परीहास.॥ १. 'सतता वो'. २. 'विद्यन्ते'. ३. 'तुष्टा भवानी'. - १४ काव्यमाला M मेरौ मे रौद्रशृङ्गक्षतवपुषि रुषो नैव नीता नदीना भर्तारो रिक्ततां यत्तदपि हितमभूनिःसपनोऽत्र कोऽपि । एतन्नो मृष्यते यन्महिष कलुषिता खर्धनी मूनि मान्या शंभोभिन्द्याद्धसन्ती पतिमिति शमितारातिरीतीरुमा वः ॥ ३१ ॥ शमितारातिः पार्वती पतिमिति हसन्ती वः ईतीरुपद्रवान्भिन्द्यात् । इतीति किम् । हे महिष, मेरौ रौद्रशृङ्गक्षतवपुषि सति मे रुषो नैव । त्वया शृङ्गाभ्यां मेरुपर्वते क्षते मम क्रोधो नास्ति । अन्यच्च यन्नदीनां भर्तारः समुद्रा रिक्तता नीतास्तदपि हितमभूत् । तत्रापि मे रुषो नैव । अत्र कोऽपि निःसपत्नो जातः । समुद्रो महादेवश्च गङ्गापति । समुद्ररिक्तीकरणे तु महादेवस्य निःसपत्न गङ्गापतित्व जातमिति भावः । एतत्तु नो मृष्यते इद न क्षम्यते यच्छभोप॑नि मान्या अर्थाच्छभोरेव स्वधुंनी गहा कलुषिता क- लुपीकृता । सेयं परपुरुषसङ्गात्कलुषा हात्कलुषा जातेति भावः ॥ सद्यः साधितसाध्यमुद्धृतवती शूलं शिवा पातु वः, पादप्रान्तविषक्त एव महिषाकारे सुरद्वेषिणि । दिष्टया देव वृषध्वजो यदि भवानेषापि नः स्वामिनी, संजाता महिषध्वजेति जयया केलौ कृतेऽर्धस्मिताः ॥ ३२ ॥ पादप्रान्ते महिषाकारे सुरद्वेषिणि विषक्ते एव साधितसाध्य कृतकार्य शूलमुद्धृतवती, अथ च जयया इति केली परीहासे कृते सति अर्घस्मिता शिया वः पातु । इतीति किम् । हे देव, यदि भवान्वृषध्वजः, एषापि नः स्वामिनी पार्वती महिषध्वजा दिष्टया संजाता । साधु युवयोर्योगो यड्वावपि पशुध्वजौ। त्वं वृषारूढः, इय पुनर्महिषारूढेति हास्यम् ॥ विद्राणेन्द्राणि किं त्वं द्रविणददयिते पश्य संख्यं स्वसख्या स्वाहे स्वस्था स्वभर्तर्यमृतभुजि मुधा रोहिणी रोदितीव लक्ष्मि श्रीवत्सलक्ष्मोरसि वससि पुरेत्यातमाश्वासयन्त्यां स्वर्गस्त्रैणं जयायां जयति हतरिपोर्टेपितं हैमवत्या ॥ ३३ ॥ स्वर्गस्त्रैण स्वर्गस्त्रीसमूह जयायामित्याश्वासयन्त्यां सत्या हैमवत्या हेपित लज्जितं जयति । कथंभूतं स्वर्गस्त्रैणम् । आर्तम् । कथभूताया हैमवत्या. । हतरिपोः । इतीति किम् । हे इन्द्राणि, त्व किं विद्राणा । हे द्रविणददयिते कुबेरपलि, स्वसख्याः पार्वत्याः सख्यं युद्धं पश्य । हे स्वाहे अग्निदयिते, त्व स्वभर्तर्यनौ अमृतभुजि सति स्वस्था भव । महिषे हतेऽधुना सुखेन ब्राह्मणैहूयते इति भावः । रोहिणी चन्द्रपली मुधा वृथा रोदि- १. 'प्रोतप्रान्त-'. २. 'अमृतसृजि'. - .

. चण्डीशतकम् । १५ तीव । असजातक्षतिरिति भाव. । हे लक्ष्मि श्रीवत्सलक्ष्मोरसि विष्णुवक्षःस्थले पुरा व- ससिं वत्स्यसि । इति सर्वे देवस्त्रीणामाश्वासनमाकर्ण्य देवी लज्जितेति भाव ॥ निर्वाणः किं त्वमेको रणशिरसि शिखिशाधिन्वापि विध्यं- स्तत्ते धैर्य व यातं जहिहि जलपते दीनतां त्वं नदीनः । शक्तो नो शत्रुभने भयपिशुन सुनासीर नासीरधूलि- धिंग्यासि क्वेति जल्परिपुरवधि यया पार्वती पातु सा वः ॥३४॥ इति जल्पनिपुर्महिषो ययावधि हतः सा पार्वती वः पातु । इतीति किम् । हे शि- खिन् बढे, किं त्वमेको रणशिरसि निर्वाण. शान्तः किं तु शार्ङ्गधन्वा विष्णुरपि विध्य- न्शरान्मश्चनिर्वाणो वाणरहितो जातः । श्लेषे वयोरभेदः । हे जलपते वरुण, तत्ते धैर्य क यात क गतम् । दीनतां जहिहि त्यज, यतस्त्व न दीनः दीनो न भवसि, अय च नदीनामिनः प्रभुनंदीन । हे भयपिशुन भयसूचक सुनासीर इन्द्र, नासीरधूलि. सेना- मुखोत्यधूलिः शत्रुभ) नो शक्तः, धिक् वं क्व यासि । यथा पूर्व तव सेनामुखोत्यधूलि- मात्रमेव विलोक्य शत्रवः पलायन्ते स्म न तथाधुनेति भावः । यत्र यास्यसि तत्रैव हन्यसे । नन्दिन्नानन्ददो मे तव मुरजमृदुः संप्रहारे प्रहारः किं दन्ते रोम्णि रुग्णे व्रजसि गजमुख त्वं वशीभूत एव । निघ्नन्निघ्नन्निदानी शुजनमिह महाकाल एकोऽस्मि नान्यः कन्याद्रेर्दैत्यमित्थं प्रमथपरिभवे मृगती त्रायतां वः ॥ ३५ ॥ इत्यं प्रमथाना पार्षदानां परिभवे सति दैत्य मृगती मर्दयन्ती अद्रेः कन्या पार्वती वस्त्रायताम् । इत्यं कथम् । हे नन्दिन्, संप्रहारे युद्धे तव प्रहारो मे आनन्ददः सुख- प्रदः । यतो मुरजमृदुर्मुदगध्वनिकोमलः । हे गजमुख गणेश, रोम्णि रोमतुल्ये दन्ते रुग्णे भग्ने सति किं व्रजसि । यतस्त्व पलायितोऽपि वशीभूत एव । लम्बोदरत्वाहूर पलायन कर्तुमशक्त इति भावः । शुजनमिन्द्राद्यं निघ्ननिम्ननितरा मारयनहमेवैको महा- कालः । अन्यो नास्ति । वजं मज्ञो मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो दण्डं तुण्डात्कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः । प्रापन्यत्पादपिष्टे द्विषि महिषवपुण्यङ्गलग्नानि भूयो- ऽप्यायूंषीवायुधानि धुवसतय इति स्तादुमा सा श्रिये वः ॥३६॥ महिपवपुषि द्विषि यत्पादपिष्टे सति युवसतय इन्द्रादयोऽङ्गलग्नान्यायुधान्याषीव भूयोऽपीति प्रापन्प्राप्तवन्त. सा उमा व. श्रियेऽस्तु । पूर्व महिषयुद्धे सर्वदेवायुधानि d - - . । . - 2 १६ काव्यमाला। तच्छरीरे मग्नान्यासन् , अधुना देव्या महिषे पिष्टे पुनरपि तैः स्वायुधानि प्राप्तानि तद्वन्महिपविनाशादायूष्यपि लब्धानि, अन्यथा तु जीवन सदिग्धमेवासीदिति भावः। इति कथम् । मज्ञः मज्जधातोः सकाशादिन्द्रो वज्र प्रापत् । अरि चक्रं हरिस्तस्यो- रसः प्रापत् । ईशः शिवः शिरस्तः शूलमापत् । कृतान्तो यमस्तुण्डान्मुखाद्दण्डं प्रापत् । अर्थाधिनाथः कुबेरोऽस्थितस्त्वरितगतिशालिनी गदां प्रापत् ।। दृष्टावासक्तदृष्टिः प्रथममिव तथा संमुखीनाभिमुख्ये स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः। उद्युक्ता नर्मकर्मण्यवतु पशुपतौ पूर्ववत्पार्वती वः कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः॥ १७ ॥ पशुपतौ महिषे सर्वमीषदाभासमात्र कुर्वाणा पार्वती वोऽवतु रक्षतु । कथभूता ! न- मकर्मणि सभामाख्ये उद्युक्ता । यथा पशुपती शिवे सर्व नर्मकर्माकरोन तथा महिषे किं तु ईषत् । दृष्टौ अर्थान्महिषस्यासक्तदृष्टिः । तथा आभिमुख्ये प्रथममिव समुखीना । हासप्रगल्भे स्मेरा । प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः । कथभूता । क्षत्तारिः अत एव विनिहितचरणालक्तकेव । पूर्ववद्यथा शिवे नर्मकर्माकरोत्तद्वदित्यर्थः ।। दैत्यो दोर्दर्पशाली नहि महिपवपुः कल्पनीयाभ्युपायो वायो वारीश विष्णो वृषगमन वैषन्कि विषादो वृथैव । बनीत बध्नमिश्राः कवचमचकिताश्चित्रभानो दहारी- नेवं देवाञ्जयोक्ते जयति तरिपोहेपितं हैमवत्याः ॥ ३८ ॥ देवान्प्रति जयया एवमुक्ते सति हतरिपोमवत्याः पार्वत्या हेपितं लज्जित जयति । एवं कथम् । हे वायो, हे वारीश वरुण, हे विष्णो, हे वृषगमन शिव, हे वृपन् इन्द्र, महिषवपुर्दैत्यो दोर्दर्पशाली अतो न कल्पनीयाभ्युपायः सामादिप्रयोगसाध्यः । किं वृथैव विषादः क्रियते । तस्माद्रनमिश्राः सूर्यसहिता यूयमचकिताः सन्तः कवचं वनीत सनद्धा, भवत । हे चित्रभानो बहे, अरीन्दह भस्मीकुरु ।' आ व्योमव्यापि सीम्नां वनमतिगहनं गाहमानो भुजाना- मचिौक्षण मूर्छन्दवदहनरुचां लोचनानां त्रयस्य । यस्या निर्मज्जमजच्चरणभरनतो गां विभिद्य प्रविष्टः पातालं पङ्कपातोन्मुख इव महिषः स्तादुमा सा श्रिये वः ॥ ३९॥ यस्या निर्मज्जमज्जच्चरणभरनतो महिपो गां भुव विभिद्य पङ्कपातोन्मुख इव पातालं : १. 'कृतमुखविकृति.'. २. 'पशुपतेः'. ३. 'बृहत्'. ४. 'हतरिपुर्वैपितस्वनिकावा'. ५. 'त्रयेण'. ६. 'सा शिवास्तु'. - १ - Sure . चण्डीशतकम् । १७ प्रविष्टः सा उमा वः श्रिये स्तात् । निर्गता मज्जा यस्मादसौ निर्मज्जः स चासौ चर- णभरनतश्चेति । कथभूत । मा व्योम व्यापिसीनां मुजानामाहव्या अतिगहनं वन गाहमानः । पुनः कथभूतः । दवदहनरुचां लोचनानां त्रयस्याधिर्मोक्षण मूर्छन् । यथा वने भ्राम्यन्दावाग्नितप्तोऽन्यो महिषः कर्दमपातोन्मुखो गर्ने प्रविशति तथायमपि देवी- लोचनाचिमिर्दन्दह्यमान: पाताल प्रविष्टः ॥ नीते निर्व्याजदीर्घामधवति मघवद्वज्जलन्नानिदाने निद्रां द्रागेव देवद्विषि मुषितरुषः संस्मरन्त्याः स्वभावम् । देव्या दग्भ्यस्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया- स्त्रायन्तां वस्त्रिशूलक्षतकुहरभुवो लोहिताम्मःसमुद्राः ॥ ४० ॥ त्रिशूलक्षतकुहरभुवो लोहिताम्भ.समुद्रा रुधिररूपजलसमुद्रा वस्त्रायन्ताम् । उत्प्रे क्षते-~मघवद्वालज्जानिदाने अघवति पापिनि । देवद्विपि महिषे दागेव नियाजदीर्घा निद्रां मरणं नीते सति मुषितरुषो निवृत्तकोपाया अत एव स्वभावं संस्मरन्या देव्या- स्तिसभ्यो दृग्भ्यो नेत्रेभ्यस्त्रयो रक्तताया आरुण्यस्य राशय इव गलिताः। क्रोधाभावा- देव्या नेत्राणां रक्तत्वं निवृत्तं तदेव रुधिरसमुद्रत्वेन संभावितम् ॥ काली कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्व पश्चाच्छिष्टे विषाणे विदितदितिसुता लोहिता मत्सरेण । पादोपिष्टे परासौ निपतति महिषे प्राक्स्वभावेन गौरी गौरी वः पातु पत्युः अतिनयनमिवाविष्कृतान्योन्यरूपा ।। ४१ ।। पत्युः शिवस्य प्रतिनयनं लोचनान्तरमिव आविष्कृतान्योन्यरूपा गौरी वः पातु । आविष्कृतमन्योन्यस्य रूपं यया । स्वस्य रूपं भर्टलोचनस्य, मर्टलोचनरूपमात्मन इति भावः । किंभूता । महिषोपप्लवेन कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्व काली कृष्णा जाता। पश्चादनन्तरं विदितदितिसुता ज्ञातदैत्या मत्सरेणामर्षेण लोहिता रक्ता जाता । क सति । विषाणे शृङ्गे अर्थान्महिषस्य लिष्टे लग्ने सति । पुनः । महिषे पादो- पिष्टे अत एव परासौ गतप्राणे निपतति सति प्राक्स्वभावेन पूर्वप्रकृत्या गौरी अवदाता जाता । एवं विरूपा देवी त्रिभिर्महादेवनयनैस्तुल्येति भावः ।। गम्यं नागेन चेन्दोः सपदि दिनकृतां द्वादशानामसां शक्रस्याक्ष्णां सहस्र सह सुरसदसा सादयन्तं प्रसह्य । . १. 'मुषितभियः'. २. 'शोणितस्य'. ३. 'रक्षन्तु त्वाम्'. ४. 'प्रतिनयन इवाविष्क- तान्योन्यभावा'. ५. 'जितेन्दुम्'. ६. 'अशक्यम्'. ३ १८ काव्यमाला। . - उत्पातोग्रान्धकारागममिव महिषं निघ्नती शर्म दिश्या- देवी वो वामपादाम्बुरुहनखमयैः पञ्चभिश्चन्द्रमोभिः ॥ ४२ ॥ वामपादकमलनखरूपैः पञ्चभिश्चन्द्ररुत्पातोग्रान्धकारागममिव महिषं निघ्नती देवी वः शर्म दिश्यात् । कथभूतम् । अग्नेर्न गम्य न तिरस्करणीयम् । इन्दोश्चन्द्रस्य च न गम्यम् । सपदि द्वादशानां दिनकृतामादित्यानामसह्यम् । सुरसदसा देवसभया सह शकस्याक्षणां सहस्र प्रसह्य सादयन्तं म्लानयन्तम् ॥ दत्त्वा स्थूलान्त्रमालावलिविघसहसद्धस्मरप्रेतकान्तं कात्यायन्यात्मनैव त्रिदशरिपुमहादैत्यदेहोपहारम् । विश्रान्यै पातु युष्मान्क्षणमुपरि धृतं केसरिस्कन्धमित्ते- विभ्रतत्केसरालीमलिमुखररणनूपुरं पादपद्मम् ॥ ४३ ॥ कात्यायन्या केसरिस्कन्धभित्तरुपरि विश्रान्त्यै क्षणं धृतं पादपद्म युष्मान्पातु । कथं- भूतं पादपद्मम् । तत्केसरालीः सिंहस्कन्धसटा बिभ्रत् । पुनः । अलिवन्मुखरो वा. चालो रणनूपुरो यत्र तत् । पद्मे हि केसरैभ्रमरैश्च भाव्यम् । किं कृत्वा । आत्मनैव . त्रिदशरिपुमहादैत्यदेहोपहारं दत्त्वा । कथंभूतमुपहारम् । स्थूलान्त्रमालावलिः स एव विघसो भोजनशेषस्तेन हसन्त्यो घस्मराः प्रेतकान्ता यत्र । निःसारा आन्त्रावलिरेवा- स्मदर्थमवशेषिता देव्येति प्रेतकान्तानां हासकारणम् ॥ कोपेनेवारुणत्वं दधदैधिकतरालक्ष्यलाक्षारसश्रीः श्लिष्यच्छृङ्गाग्रकोणक्वणितमणितुलाकोटिहुंकारगर्भः । प्रत्यासन्नात्ममृत्युप्रतिभयमसुरैरीक्षितो हन्त्वरीन्वः पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टानिविष्टः ॥४४॥ महिषस्योपरिष्टानिविष्टोऽपरः कृतान्तो यम इव देव्याः पादो वोऽरीन्हन्तु । कथभूतः पादः । कोपेनेवारुणत्वं दधत् । अत एवाधिकतरालक्ष्यलाक्षारसश्री. । पुनः कीदृशः। श्लिष्यच्छृङ्गाग्रमेव कोणो वीणादिवादनकीलस्तेन क्वणिता या मणितुलाकोटिमणिनूपुरं स एव हुकारो गर्भे यस्य । पुनः । प्रत्यासन्नात्ममृत्युप्रतिभयं यथा स्यादेवमसुरैर्वीक्षितः । यमोऽपि कोपारुणो हुंकारं कुर्वन्महिषोपरिस्थित आसन्नमृत्युमीतैः पुरुषैर्वीक्ष्यते ॥ आहन्तुं नीयमाना भरविधुरभुजस्त्रंसमानोभयांसं कंसेनैनांसि सा वो हरतु हरियशोरक्षणाय क्षमापि । प्राक्प्राणानस्य नास्यद्गगनमुदपतगोचरं या शिलायाः संप्राप्यागामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव ॥ ४५ ॥ १. 'कृतम्'. २. 'अधिकमलम्'. ३. 'आघातम्'.

- चण्डीशतकम् । १९ भरविधुरभुजस्रंसमानोभयांसं यथा स्यादेव कंसेनाहन्तुं नीयमाना क्षमापि समर्थापि हरियशोरक्षणायास्य कसस्य प्राणान्प्राक्पूर्व नास्यन्नाहरत, किं तु शिलाया गोचरं वि- षयं प्राप्य आगामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव गगनमुदपतत, सा व एनासि पापानि हरतु ॥ साना नाम्नाययोने तिमझत हरेनापि चक्रेण भेदा- सेन्द्रस्यैरावणस्याप्युपरि कलुषितः केवलं दानवृष्टया । दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताभ्युपायो हतोऽरि- येनोपायः स पादः सुखयतु भवतः पञ्चमश्चण्डिकायाः ॥ ४६ ॥ येन पादेनारिः शत्रुर्महिषो हत. स पञ्चम उपायश्चण्डिकाया. पादो वः सुखयतु । यो महिष आम्नाययोनेब्रह्मणः साना । वेदविशेषेण प्रथमोपायेन च धृति नाकृत न कृ. तवान् । हरेश्चक्रेण भेदाद्विदारणाड्वितीयोपायाच्चापि धृति परितोपं न कृतवान् । सेन्द्र- स्यैरावतस्य दानवृष्टया मदवर्षणेन तृतीयोपायेन च केवलमपरिकलुषितो मलिनत्व गतः, अथवा क्रोधं गतो न तु तुष्टः । न च मृत्योर्यमस्य दण्डेनायुधेन चतुर्योपायेन च दान्तो दमितः । अत एव विफलयथोक्ताभ्युपायः । निष्फलीकृतसामाग्रुपायः ॥ भर्ता कर्ता त्रिलोक्यास्त्रिपुरवधकृती पश्यति त्र्यक्ष एष क्व स्त्री वायोधनेच्छा न तु सदृशमिदं प्रस्तुतं किं मयेति । मत्वा सव्याजसव्येतरचरणचलाङ्गुष्ठकोणामिमृष्टं सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः ॥ ४७ ॥ सव्याजं यया स्यादेवं सव्येतरचरणस्य वामपादस्य चलाङ्गुष्ठकोणेनाभिमृष्टमसुरपति सद्यो यावधीत्सा पार्वती वः पातु । या इति मत्वा लज्जितेव । इतीति किम् । त्रि- लोक्याः कर्ता त्रिपुरवधकृती एष व्यक्ष. शिवो मम भर्ता पश्यति । स्त्री क्व, आयोध- नेच्छा क । न विदं सदृशमुचितम् । मया किं प्रस्तुतमारब्धम् ॥ वृद्धोक्षो न क्षमस्ते भवतु भव भवद्वाह एषोऽधुनेति क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य । दन्तज्योत्स्नाविता रैतनुभिरतनुयंकृतार्धेन्दुभाभि- गौरो गौरव जातः क्षणमिव महिषः सावतादम्बिका वः ॥ १८ ॥ हे भव शिव, ते वृद्धोक्षो वृद्धवृषो न क्षमः, अधुना एष महिषो भवद्वाही भव- विति केलिकान्तं यथा स्यादेव विहस्य देवं शिवं प्रति झटिति यया महिष पादेन १. 'पुलकित.. २. 'नदतु भवदघम्'. ३. 'चरणनखाङ्गुष्ठकोणेन पिष्टवा'. ४. 'अल- भत तनुभिः'. . . . 1 - - -- - ܝܝ है . 1 २० काव्यमाला। क्षिप्तः सा अम्बिका वोऽवतात् । कथंभूतौ महिषः । अतनुभियंकृतार्धेन्दुमामिर्दन्त- ज्योत्लावितानैर्गौरः शुभ्रः, अतः क्षणमिव क्षणमात्रं गौरव वृष एव जातः ।। प्राक्कामं दहता कृतः परिभवो येन त्रिसंध्यानतैः सेp वोऽवतु चण्डिका चरणयोः स्वं पातयन्ती पतिम् । कुर्वत्याभ्याधिक कृते प्रतिकृतं मुक्तेन मौलौ मुहु- ष्पेिणाहितकज्जलेन लिखितं स्वं नाम चन्द्रे यया ॥ ४९ ॥ त्रिसंध्यानतैत्रिसंध्यानमनैः स्व पतिं चरणयोः पातयन्ती चण्डिका वोऽवतु । येन पत्या प्राक्पूर्व कामं दहता परिभवः कृतः । अत एव सेर्थ्यो । यया चण्डिकया कृते- ऽभ्यधिक प्रतिकृतं कुर्वत्या आहितकज्जलेन मुहुर्मीलौ मुक्तेन बाष्पेण स्वं नाम चन्द्रे लिखितम् । हरेण गौरीसमक्षं कामो दग्धः, तया च काममुत्पादयन्त्या हरश्चरणयोः पातित इति कृताभ्यधिकं प्रतिकृतम् ॥ तुङ्गां शृङ्गाग्रभूमिं श्रितवति मरुतां प्रेतकाये निकाये कुऔत्सुक्याद्विशत्सु श्रुतिकुहरपुटं द्राक्ककुप्कुञ्जरेषु । स्मित्वा वः संहृतासोर्दशनरुचिकताकाण्डकैलासमासः पायात्रष्ठाधिरूढे स्मरमुषि महिषस्योच्चहासेव देवी ॥ १० ॥ स्मित्वा सहृतासोर्दशनरुचिकृताकाण्डकैलासमासो महिषस्य प्रेतकाये मरुतां निकाये देवसमूहे शृङ्गाप्रभूमिं श्रितवति सति । ककुप्कुञ्जरेषु दिग्गजेषु कुऔत्सुक्याच्छ्रुतिकुहर- पुटं द्राक् विशत्सु सत्सु । स्मरमुपि शिव पृष्ठाधिरूढे सति उच्चहासेव देवी व. पायात् ॥ कृत्वा पातालपङ्के क्षयरयमिलितैकार्णवेच्छावगाहं दाहान्नेत्रत्रयाग्नेविलयनविगैलच्छृङ्गशून्योत्तमाङ्गः । क्रीडाकोडाभिशङ्कां विधदपिहितव्योमसीमा महिना वीक्ष्य क्षुण्णो ययारिस्तृणमिव महिषः सावतादम्बिका वः ॥११॥ यया महिषोऽरिवर्वीक्ष्य तृणमिव क्षुण्णचूर्णीकृतः साम्बिका वोऽवतात् । किं कृत्वा । क्षयरयेण प्रलयवेगेन मिलितः स चासावेकार्णवश्च तत्रेच्छयावगाहस्त पातालपङ्के कृत्वा । यथादिवराहः प्रलयैकार्णवेऽवगाह कृतवान्, तथानेन पातालपङ्के कृतमिति भाव. । कथं- भूतः । नेत्रत्रयाग्नेर्दाहाद्विलयनं तेन 'विगलन्ती ये ऋङ्गे ताभ्यां शून्यमुत्तमा शिरो यस्य । पुनः, कथभूतः । महिना महत्वेनापिहितव्योमसीमाच्छादितगगनप्रान्तः । अत एव क्रीडाकोडाभिशङ्का लीलावराहभ्रान्ति विदधत्कुर्वाणः ॥ १. 'त्रिसंध्यानतेः'. २. 'नामेव'. ३. 'तुगा. शृङ्गाप्रभूमी:'. ४. 'प्रोतकार्य', ५. 'पातालपरैः क्षयरयमिलितैरर्णवेच्छा-'. ६. "विलसत्'. ७. 'कालिका वः'. - - . .

चण्डीशतकम् । २१ , शूले शैलाविकम्पं न निमिषितमिषौ पहिशे साहहासं प्रासे सोत्मासमव्याकुलमपि कुलिशे जातशङ्क न शङ्कौ । चक्रेऽवैकं कृपाणे न कपणमसुरारातिभिः पात्यमाने दैत्यं पादेन देवी महिषितवपुषं पिंषती वः पुनातु ॥ १२ ॥ महिषितवपुषं दैत्यं पादेन पिंपती चूर्णयन्ती देवी वः पुनातु । किभूतम् । असुरारा- तिभिर्देवैः पात्यमाने शूले शैलवदविकम्पम् । इषौ शरे न निमिषितं निर्निमेषलोचनम् । पुटिशे साहासम् । प्रासे कुन्ते सोत्प्रासं समनाक्स्मितम् । कुलिशे वजेऽपि अव्याकु- लम् । शङ्कौ आयुधविशेषे न जातशङ्कम् । चक्रेऽवक्रं सरलमेव स्थितम् । कृपाणे खड्ने न कृपणं न दीनम् । असुरारातिभिः पात्यमाने इति सर्वत्र योज्यम् ॥ चक्रे चक्रस्य नास्या न च खलु परशोर्न क्षुरप्रस्य नासे- र्यद्वकं कैतवाविष्कृतमहिषतनौ विद्विषत्याजिभाजि । प्रोतात्मासेन मूर्धः सघृणमभिमुखायातया कालरात्र्या कल्याणान्याननाब्जं सुजतु तदसृजो धारया वक्रितं वः ॥ १३ ॥ यच्चक्रस्य । अर्थान्महिषक्षिप्तस्य । अस्या धारया वक्र न चक्रे । न च खलु परशोः कुठारस्य, अख्या । न क्षुरप्रस्य बाणविशेषस्य । न चासेः खड्गस्य । कस्मिन्सति कैत. वाविष्कृतमहिषतनौ कपटमहिषे विद्विषति शत्रौ आजिभाजि युद्धं कुर्वति सति । किंतु प्रासेन कुन्तेन प्रोतान्मों महिषमस्तकादभिमुखायातया. संमुखागतया असृजो रुघिरस्य धारया सघृणं यथा स्यादेवं वक्रितं तत्कालराच्या भगवत्या आननाब्ज मुखकमलं वः कल्याणानि सृजतु करोतु । सङ्ग्रामे नानायुधपातेऽपि भगवत्या मुखं न कूणितम् । कि तु संमुखमापतन्त्या महिषमस्तकोद्भूतरुधिरधारया घृणया कूणितमिति भावः ॥ हस्तादुत्पत्य यान्त्या गगनमगणिताधैर्यवीर्यावलेप वैलक्ष्येणेव पाण्डद्युतिमदितिसुतारातिमापादयन्त्याः । दैनल्पाहासद्विगुणतरसिताः सप्तलोकीजनन्या- स्तर्जन्या जन्यदूतो नैखरुचिततयस्त यन्त्या जयन्ति ॥ १४ ॥ तर्जयन्या भसंयन्त्या । अर्थाईत्यान् । सप्तलोकीजनन्या जगदम्बायास्तर्जन्याः प्रदे- शिन्या नखरुचिततयो जयन्ति । कथभूताः । जन्यस्य सनामस्य दूत्य सङ्ग्रामसू. चिकाः । कथंभूता. । दर्पणानल्पो योऽटहासस्तेन द्विगुणतरं सिता अधिकशुक्लोभूता. । कथंभूताया. । हस्तात् । अर्थात्कसस्य । उत्पत्य गगनं यान्त्याः । पुनः कथंमताया. । १. 'इव'. २. 'वक्रं कृपाण'. ३. 'दर्पानल्पाहासाट्विगुणितरसिताः'. ४. 'नखरु- चिररुच.. । . . -- २२ काव्यमाला। अगणितोऽधैर्येण कातरत्वेन वीर्यावलेपो येन तमदितिसुताराति देवशत्रु कस वैलक्ष्येणेव पाण्डुगुर्ति धवलमापादयन्त्याः ॥ प्रालेयाचलपल्वलैकबिसिनी सार्यास्तु वः श्रेयसे यस्याः पादसरोजसीनि महिषक्षोभात्क्षणं विद्रुताः । निष्पिष्ट पतितास्त्रिविष्टपरिपौ गीत्युत्सवोल्लासिनो लोकाः सप्त सपक्षपातमरुतो भान्ति स्म भृङ्गा इव ॥ ५५ ॥ प्रालेयाचलो हिमालयः स एव पल्वल सरस्तत्रैका मुख्या विसिनी पद्मिनी आर्या गौरी वः श्रेयसेऽस्तु । यस्याः पादसरोजसीम्नि चरणकमलपर्यन्ते सप्तलोका भृङ्गा इव भान्ति स्म । कथंभूताः । महिषक्षोभात्क्षण विद्रुताः, त्रिविष्टपरिपौ महिपे निष्पिष्टे सति पतिताः पुनर्मिलिताः । पुनः कथंभूताः । गीत्युत्सवोल्लासिनः । पुनः । सपक्षपाताः पक्षपातसहिता मरुतो देवा येषां ते । पद्मस्थिता भ्रमरा अपि महिपादिक्षोभे सति क्षणं विद्रवन्ते क्षोभे निवृत्ते पुनरागच्छन्ति गीत्युत्सवोल्लासिनः पक्षपातसमुत्पन्नेन मरुता सहिताश्च भवन्ति ॥ आप्राप्येषुरुदासितासिरशनेरारात्कुतः शङ्कुत- श्चक्रव्युक्रमकृत्परोक्षपरशुः शूलेन शून्यो यया । मृत्युर्दैत्यपतेः कृतः सुसहशः पादाङ्गुलीपर्वतः पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥ ५६ ॥ तया पार्वत्या त्रिभुवनं परिपाल्यताम् । कथंभूतम् । निःशल्यकल्यं निर्गतेन महिपरू- पशल्येन निरातुरम् । यया पार्वत्या दैत्यपतेर्महिषस्य पादाङ्गुलीपर्वतः सुसदृशो मृत्युः कृतः । कथभूतो मृत्युः । अप्राप्येषुर्वाणागोचरः । उदासितासिनिर्व्यापारः खड्गो यत्र तादृशः । अशनेर्वज्रस्याराहूरे वर्तमानः । कुतः । शद्भुतः । यो 'वज्रादीनामप्यसाध्यः स शङ्कुतः कुतः साध्य इति भावः । चक्रव्युक्रमकृदतिकान्तचक्रः । परोक्षः परशुर्यत्र सः। शूलेन शून्यः ॥ नष्टानष्टौ गजेन्द्रानवत न वसवः किं दिशो द्वारगृहीताः शाङ्गिन्सङ्ग्रामयुक्त्या लघुरसि गमितः साधु ताक्ष्येण तैक्ष्ण्यम् । उत्खाता नेत्रपतिर्न तव सैमरतः पश्य नश्यदलं खं स्वाथेत्यात्तदपै व्यसुमसुरमुमा कुर्वती त्रायतां वः ॥ १७ ॥ इत्यमुना प्रकारेणात्तदर्प गृहीतगर्वमसुर महिष व्यसुं गतप्राण कुर्वती उमा वस्त्राय- यताम् । इतीति कथम् । हे वसवः, नयन्पलायितानष्टौ गजेन्द्रान्दिग्गजान' अवत, कि १. 'अप्राप्तेषुः'. २. 'पर्वणा'. ३. 'सुरपते'.

चण्डीशतकम् । २३ दिशो द्राक् गृहीताः कुतो यूयमपि पलायिताः।हे शाहिन् विष्णो, तार्येण गरुडेन तैक्ष्ण्यं शीघ्रतां गमितः सभामयुक्त्या लघुरसि इति साधु युक्तम् । हे स्वाथ इन्द्र, तव नेत्र- पड्डिनोंत्खाता केनापि नोत्पाटिता, अतस्त्वं समरत सामानश्यत्स्वं पल सेनां पश्य ॥ श्रुत्वा शत्रु दुहित्रा निहतमतिजडोऽप्यागतोऽहाय हर्षा- दाश्लिष्यञ्छैलकल्प महिषमवनिभूद्वान्धवो विन्ध्यबुद्ध्या । यस्याः श्वेतीकृतेऽस्मिन्स्मितदशनरुचा तुल्यरूपो हिमाद्रि- ग्वाधीयानिवासीदेवतमसनिरासाय सा स्तादुमा वः ॥ ५८ ॥ सा उमा वोऽवतमसनिरासाय अज्ञानान्धकारदूरीकरणाय स्ताद्भवतु । सा का । यस्याः स्मिते या दशनरुक् तया श्वेतीकृतेऽस्मिन्महिषे तुल्यरूपो हिमाद्रिग्दाघीयानि- वासीत् । कथंभूतः । दुहित्रा पार्वत्या निहत शत्रु महिषं श्रुत्वातिजडोऽप्यदाय शीघ्र हर्षादागतो विन्ध्यबुद्ध्या शैलकल्पं महिषमाश्लिष्यन् । कीदृश. । अवनिभृतः पर्वता चा- .. न्धवा यस्य तादृशः ॥ - क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्टयतां वासुकेऽब्धौ प्रीयस्वानेन किं ते विसतनुतनुभिर्भक्षितैस्ताय नागैः । अष्टाभिर्दिग्गजेन्द्रैः सह न हरिकरी कर्षतीमं हते वो ह्रीमत्या हैमवत्यास्त्रिदशरिपुपतौ पान्त्विति व्याहृतानि ॥ ५९॥ त्रिदशरिपुपतौ महिषे हते हीमत्या लज्जिताया हैमवत्या. पार्वत्या इति व्याहृतानि वः पान्तु । हे वासुके, अयं मन्दराद्रिर्मन्दराद्रितुल्यो महिषोऽब्धौ समुद्रे क्षिप्तो भवता पु- नरपि वेष्टयताम् । हे ताय गरुत्मन्, अनेन महिषेण प्रीयस्व तृप्तो भव । बिसतनुतनु- भिर्मणालकोमलैन गैक्षितैस्ते किम् । इम महिषमष्टाभिर्दिग्गजेन्द्र सह हरिकरी ऐरा- वतो न कर्पति ॥ एष ठोष्टा पुराणां त्रयमसुदुर पाटनोऽयं नृसिंहो हन्ता त्वाष्ट्रं धुराष्ट्राधिप इति विविधान्युत्सवेच्छाहतानाम् । विद्राणानां विमर्दै दितितनयमये नाकलोकेश्वराणा- मश्रद्धेयानि कर्माण्यवतु विदधती पार्वती वो हतारिः॥६० ॥ दितितनयमये विमर्दै दैत्यसभामे विद्राणाना पलायिताना पुनर्महिषवधानन्तरमुत्स- वेच्छयाहृतानामेकीभूतानां नाकलोकेश्वराणामिन्द्रादीनामश्रद्धयान्यसभावनीयानि विवि- धानि कर्माणि विदधती कुर्वती हतारिः पार्वती वोऽवतु रक्षतु । एष पुराणां त्रय प्लोष्टा । यद्यनेन त्रिपुरदाहः कृत. किमिति महिषसङ्ग्रामे पलायित इति भाव. । एव- १. 'अतनुजनुनिरासाय'. २. 'असौ'. ३. 'प्रीतोऽनेनैव'. ४. 'त्रिदिवरिपुहतो'. - - । - - २४ काव्यमाला । मप्रेऽपि योज्यम् । असुहृदुरापाटनोऽयं नृसिंहः। अयं त्वाष्ट्रं वृत्रं हन्ता धुराष्ट्राधिप इन्द्रः॥ शत्रौ शातत्रिशूलक्षतवपुषि रुषा 'प्रेषिते प्रेतकाष्ठी काली कीलालकुल्यात्रयमधिकरयं वीक्ष्य विश्वासितद्यौः । त्रिस्रोताख्यम्बकेयं वहति तव भृशं पश्य रक्ता विशेषा- नो मूर्धा धार्यते किं हसितपतिरिति प्रीतये कल्पतां वः ॥ ६१ ॥ शातत्रिशूलक्षतवपुषि शत्रौ रुषा प्रेतकाष्ठां यमदिशं प्रेषिते सति अधिकरयमधिकवे- गयुक्त कीलालकुल्यात्रयं रुधिरधारात्रयं वीक्ष्य इतिहसितपतिः काली वः प्रीतये कल्प- ताम् । इतीति किम् । हे त्र्यम्बक, इयं विश्वासितद्यौः परिचितद्यौ रक्ता रक्तवर्णानुरक्ता च विस्रोता वहति पश्य । इयं तव मूर्धा भृशं किं भो धार्यते ॥ शृङ्गे पैश्योर्ध्वदृष्टयाधिकतरमतनुः सन्न पुष्पायुधोऽस्मि व्यालासङ्गेऽपि नित्यं न भवति भवतो भीर्न यज्ञोऽस्मि येन । त्वं मुञ्चोच्चैः पिनाकिन्पुनरपि विशिखं दानवानां पुरोऽहं पायात्सोत्प्रासमेवं हसितहरममा मृद्गती दानवं वः ॥ १२ ॥ एवं सोत्प्रासं समनास्मितं यथा स्यात्तथा हसितहरं दानवं महिप मृद्गती उमा वः पायात् । एवं कथम् । हे पिनाकिन् , उर्ध्वदृष्ट्या तृतीयलोचनेन मम शृङ्गे विषाणद्वयम- धिकतरं पश्य । कि त्वहमतनुः सन्न पुष्पायुधः कामोऽस्मि । कामोऽप्यतनुरनगः, अहं चातनुरकृशः । यथा त्वयोर्ध्वदृष्टया कामो दग्धस्तथाहं दग्धुं न शक्यः । अथ च व्या- लस्य वाणस्यासङ्गेऽपि भवतो नित्यं भी भवति । यतोऽहं यज्ञो नास्मि । यथा तव वाणपातमीत्या यज्ञः पलायितस्तथा नाहम् । व्यालाः साश्च तेषामासङ्गेऽपि मम भीन, यतोऽहं नयज्ञो गारुडशास्त्रज्ञोऽस्मि । अहं दानवानां पुरः पुरत्रयमस्मि त्वं पुनरपि वि- शिखं बाणमुच्चैर्मुश्च । पक्षे दानवाना पुरोऽग्रे अस्मि । दानवाग्रेसरोऽहमिति भावः। 'व्याल. स्याद्वाणसर्पयोः॥ नन्दीशोत्सार्यमाणापतिसमनमन्नाकिलोकं नुवत्या नप्तुर्हस्तेन हस्तं तदनुगतगतः षण्मुखस्यावलम्ब्य । जामातुर्मातृमध्योपगमपरिहते दर्शने शर्म दिश्या- नेदेयिञ्चुम्व्यमाना महिषवधमहे मेनया मूर्युमा वः ॥ ६३ ॥ महिषवधमहे मेनया हिमवद्भार्यया मूनि चुम्व्यमाना उमा वः शर्म दिश्यात् । किंभू- तया मेनया। नन्दीशेन उत्सार्यमाणं अपमृतिसम अपसरणकालतुल्यं नाकिलोक नुवत्या स्तुवत्या । किं कृत्वा । तदनुगतगतेः षण्मुखस्य हस्तं हस्तेनालम्व्य । कस्मिन्सति । १. 'प्रोषिते'.२. 'अधिकतरम्'. ३. 'यस्य'. ४. 'नाकिनृत्यम्'. ५. देवी सतुष्यमाणा'. .

२५ चण्डीशतकम् । जामातुर्दर्शने मातमध्योपगमपरिहते सति । नेदीयः समीपम्, अर्थाज्जामातुः, गौरी मे- नया चुम्बिता ॥ भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता विभ्रती नैव गर्व शर्वाणी शर्मणे वः प्रशमितसकलोपप्लवा सा सदास्तु । या पाणिक्षुण्णशत्रुविगलितकुलिशप्रासपाशत्रिशूलं नाकौकोलोकमेवे स्वमपि भुजवनं संयुगेऽवस्त्वमस्त ॥ ६४ ॥ भत्त्या भृग्वत्रिमुख्यैर्मुनिभिरमिनुता, तथा गर्व नैव विभ्रती प्रशमितसकलोपप्लवा सा शर्वाणी वः शर्मणे सदास्तु ।' या पाष्णिक्षुण्णशत्रु कोकोलोक देवलोक स्व भुज- वनमप्यवस्त्वपदार्थममस्त । कथभूतम् । सयुगे विगलितकुलिशप्रासपाशत्रिशूलम् । देव- हस्तेभ्यो भयेन भवानीभुजेभ्यश्च प्रहारार्थ कुलिशादीनि गलितानि ॥ चक्रं शौरेः प्रतीपं प्रतिहतमैगमत्प्राग्ाधाम्नां तु पश्चा- दापच्चापं बलारेन परमगुणतां पूस्त्रयष्ठोषिणोऽपि । शक्त्यालं मां विजेतुं न जगदपि शिशौ षण्मुखे का कथेति न्यक्कुर्वन्नाकिलोकं रिपुरवधि यया सावतात्पार्वती वः ॥ ६५ ॥ इत्यमुना प्रकारेण नाकिलोक न्यकुर्वन्यया रिपुरवधि शत्रुर्हतः सा पार्वती वोऽवता- त् । इतीति किम् । शौरविष्णोश्चकं सुदर्शन प्रतिहत सत्प्राक्प्रथमं प्रतीपमगमत्, युधान्ना देवानां तु चक्र सैन्य पश्चात् । वलारेरिन्द्रस्य चाप पर केवलमगुणतां नापत, पूस्त्रयप्लोषिणः शिवस्यापि । शक्त्या सामर्थ्येन मा जेतुं जगदपि नालं न समर्थम्, शिशौ बाले षण्मुखे का कथा । षण्मुखः शक्त्यायुधविशेषेण मां जेष्यतीति दूरापास्तमिति ५ भाव ॥ विद्राणे रुद्रवृन्दे सवितरि तरले वजिणि ध्वस्तवजे जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे । वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुपं पौरुषोपघ्ननिघ्नं निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ ६६ ॥ रुद्रवृन्दे विद्राणे पलायिते सति, सवितरि सूर्ये तरले सति, वज्रिणीन्द्रे ध्वस्तवने सति, शशाङ्के जाताशङ्के सति, मरुति वायौ विरमति सति, कुबेरे त्यक्तवैरे सति, वैकुण्ठे १. 'विगलितकुलिशापास्तशस्त्रीपिनाकम्'; 'नगणितकुलिशप्रासशस्त्रीपिनाकम्'. २. “एवं स्वमपि भुजवन सयुगे'; 'आर्त द्रुतमिति रभसा संयुगे'. ३. 'अपतत्'. ४. अयं श्लोकः सरस्वतीकण्ठाभरणे शाईधरपद्धतौ च वर्तते. - - , २६ काव्यमाला। विष्णौ कुण्ठितास्ने सति, अतिरुप पौरुषोपन्ननिघ्न पौरुषाश्रयाधीनं महिष निर्विघ्नं यथा स्यादेव निघ्नती भूरिभावा भवानी वो दुरित शमयतु ।। भूषां भूयस्तवाद्य द्विगुणतरमहं दातुमेवैष लग्नो भन्ने दैत्येन दोन्महिषितवपुषा किं विषाणे विपण्णः । इत्युक्त्वा पातु मातुर्महिषवधमहे कुञ्जरेन्द्राननस्य न्यस्यन्नास्ये गुहो वः स्मितसितरुचिनी द्वेषिणो द्वे विपाणे॥६७॥ मातुर्महिषवधमहे महिषवधोत्सवे इत्युक्त्वा द्वेपिणो महिषस्य द्वे विषाणे शृङ्गद्वयं कुञ्जरेन्द्राननस्य गणपतेरास्ये मुखे न्यस्यक्षिपन्गुहो व. पातु । कथभूते विपाणे । स्मितसितरुचिनी स्मितेन धवलकान्ती । इतीति किम् । हे गजानन, महिपितवपुषा दैत्येन विषाणे दन्ते भन्ने सति त्वं किं विषण्णः खिन्नः, अहमेष द्विगुणतर यथा स्यादेवं भूय. पुनरपि तवाद्य भूपां दातुं लग्न एव ।। विश्राम्यन्ति श्रमार्ता इव तपनभृतः सप्तयः सप्त यस्मि- न्सुप्ताः सप्तापि लोकाः स्थितिमुपि महिपे यामिनीधानि यत्र । धाराणां रौधिरीणामरुणिमनि नभःसान्द्रसंध्यां दधान- स्तस्य ध्वंसात्सुताद्वेरपरदिनपतिः पातु वः पादपातैः ।। ६८ ॥ अपरदिनपतिद्वितीय. सूर्योऽद्रेः सुता पार्वती वः पातु । कथभूतोऽपरदिनपतिः । यामिनीधानि रात्रितुल्यवर्णे । कृष्णवर्ण इति यावत् । स्थितिमुपि लोकव्यवहारनाशके महिपे सति यस्मिञ्श्रमाता इव तपनभृतः सूर्यस्य सप्त सप्तयोऽश्वा विश्राम्यन्ती । किं च यत्र सप्तापि लोकाः सुप्ता इव सन्ति, तस्य महिषस्य पादपातैश्चरणप्रहारैर्वसा- नाशान्रौधिरीणां रुधिरसवन्धिनीनां धाराणामरुणिमनि रक्तत्वे नभःसान्द्रसध्या नभसि या सान्द्रा निबिडा सध्या तां दधानः । सूर्योऽपि निखिललोकस्थितिहारिणी विश्रामकारिणी रात्रि पादपातैः किरणपतनैर्नाशयति । रक्तवर्णी सध्यां च धारयति ॥ देवारेर्दानवारे१तमिह महिपच्छद्मनः पद्मसद्मा विद्रातीत्यत्र चित्रं तव किमिति भवन्नाभिजातो यतः सः । नाभीतोऽभूत्स्वयंभूरिव समरभुवि त्वं तु यद्विस्मितास्मी- त्युक्त्वा तद्विस्मितं वः स्मररिपुमहिपीविक्रमेऽव्याज्जयायाः॥१९॥ स्मररिपोः शिवस्य महिष्या. पार्वत्या विक्रमे जयाया इत्युक्त्वा तद्विस्मितं विस्मयो वः पातु । इतीति किम् । महिषच्छमनो देवारे. सकाशात्पद्मसद्मा ब्रह्मा द्रुतं विद्राति पलायत इत्यत्र तव किं चित्रम् । यतः स दानवाविष्णोनाभिजातो विष्णुनामिसमुत्पन्नो १. 'विस्मितास्मांस्त्यक्त्वा'; 'विस्मितासीत्युक्त्वा'. २. 'जया वः'. .

चण्डीशतकम्। २७ भवन्वर्तते । अथ च अभिजातः कुलीनो न । कुलीनस्य पलायनमनुचितम् । अत्र हे शिव इति संबोधनपदमध्याहार्यम् । यत्समरभुवि त्वं तु त्वमपि स्वयभूरिव ब्रह्मेव नाभीतो- नाभिसकाशात् , अथ च अभीतो निर्भयो नाभूत, तद्विस्मितास्मि ॥ निस्त्रिशेनोचितं ते विशसनमुरसश्चण्डि कर्मास्य धोरं ब्रीडामस्योपरि त्वं कुरु दृढहृदये मुञ्च शस्त्राण्यमूनि । इत्थं दैत्यैः सदैन्यं समदमपि सुरैस्तुल्यमेवोच्यमाना रुद्राणी दारुणं वो द्रवयतु दुरितं दानवं दारयन्ती ।। ७० ।। इत्यममुना प्रकारेण सदैन्यं दैत्यै. समद सहधं च सुरैस्तुल्यमेवोच्यमाना दानव महिषं दारयन्ती रुद्राणी वो दारुणं दुरितं द्रश्यतु । इत्य कथम् । हे निस्त्रिंशे निर्दये, उरसः, अर्थान्महिषस्य, विशसन ते नोचितम् । हे चण्डि, घोरं कर्म महिधवधरुपमस्य क्षिप । 'असु क्षेपणे' । अस्योपरि त्वं ब्रीडा कुरु । पशुवधेन लज्जा भवति । हे दृढहृदये । दृढमपराधसहिष्णु हृदयं यस्यास्तत्संबुद्धौ । अमूनि शस्त्राणि मुश्च दूरे परिहर । इत्यं दैत्यैरुच्यमाना। देवैस्तु-हे चण्डि, निस्त्रिंशेन खड्देनोरसः, अर्थान्महिषस्य वक्षसः, ते विशसनमुचितम् । यतोऽस्य कर्म घोरं वर्तते । व्रीडामस्योपरि त्वं कुरु । यदि महिपवयो न क्रियते तदा महती ब्रीडा तव भविष्यतीति भावः । हे दृढहृदये कठिनहृदये, अमूनि शस्त्राण्यस्योपरि मुञ्च । सर्वैः शस्त्रैर्युगपदेव प्रहर ॥ चक्षुर्दिा क्षिपन्त्याश्चलितकमलिनीचारुकोषाभितानं मन्द्रध्वानानुयातं झटिति वलयिनो मुक्तवाणस्य पाणेः। चण्ड्याः सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्या जयन्ति त्रुध्यन्तः पीनमागे स्तनवलनभरात्संधयः कञ्चुकस्य ॥ ७१ ॥ स्तनवलनभरात्पीनभाग उपचितप्रदेशे त्रुट्यन्तश्चण्ड्याः कञ्चुकस्य संधयो जयन्ति । कथभूतायाः । चलितकमलिनीचारकोषाभिताम्रम्, अथ च वलयिनो झटिति मुक्त- वाणस्य पार्हस्तस्य मन्द्रध्वानेनानुयात चक्षुर्दिक्षु क्षिपन्त्याः । पुनः कथभूतायाः । स- व्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्याः ॥ वाहूत्क्षेपसमुलसत्कुचतटं प्रान्तस्फुटत्कचुकं गम्भीरोदरनाभिमण्डलगलत्काचीधृतार्धाशुकम् । पवित्या महिषासुरव्यतिकरे व्यायामरम्यं वपुः पर्यस्तावधिवन्धवन्धुरलसत्केशोच्चयं पातु वः ॥ ७२ ॥ महिषासुरव्यतिकरे वाहूरक्षेपसमुल्लसत्कुचतटम्, प्रान्तस्फुटत्कबुकम्, गम्भीरोदरना- १. 'दृढहृदयम्'. २. 'रुद्राण्याः'. ३. 'शृङ्गाररम्यम्'. .

२८ काव्यमाला। भिमण्डलगलत्काञ्चीधृता(शुकम् , व्यायामरम्यम्, पर्यस्तावधिबन्धवन्धुरलसत्केशोच्चयं पार्वत्या वपुर्वः पातु ॥ चक्र चक्रायुधस्य कणति निपतितं रोमणि ग्रावणीव स्थाणोर्वाणश्च लेमे प्रतिहतिमुरुणा चर्मणा वर्मणेव । यस्येति क्रोधगर्भ हसितहरिहरा तस्य गीर्वाणशत्रोः पायात्पादेन मृत्यु महिषतनुभृतः कुर्वती पार्वती वः ॥ ७३ ॥ क्रोधगर्भ इति हसितहरिहरा महिएतनुभृतस्तस्य गीर्वाणशत्रोर्मृत्यु पादेन कुर्वती पार्वती वः पायात् । इतीति किम् । प्रावणि पाषाणे इव यस्य रोमणि, अर्थान्महिषस्य निपतितं चक्रायुधस्य चक्र कणति । स्थाणोः शिवस्य वाणश्च उरुणा चर्मणा वर्मणा कवचेनेव प्रतिहतिं प्रतिघात लेभे । विष्णोश्चक्रमस्य रोममपि नाच्छिनत् । शिवस्य बाणश्चास्य चर्ममात्रमपि नाभिनदिति भावः ।। कृत्वा वक्रेन्दुबिम्बं चलदलकलसद्भूलताचापभङ्ग क्षोभव्यालोलतारं स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः । संध्यासेवापराद्धं भवमिव पुरतो वामपादाम्बुजेन क्षिप्तं दैत्यं क्षिपन्ती महिषितवपुषं पार्वती वः पुनातु ॥ ७४ ॥ संध्यायाः सेवा तयापराद्धं कृतापराध भव शिवमिव वामपादाम्बुजेन महिपितवपुष दैत्यं पुरतः क्षिप्रं क्षिपन्ती पार्वती वः पुनातु । किं कृत्वा । चलदलकलसद्भूलताचाप- भङ्ग क्षोभव्यालोलतारं स्फुरदरुणरुचिस्फारपर्यन्तचक्षुर्वकेन्दुबिम्ब कृत्वा ।। गङ्गासंपर्कदुष्यत्कमलवनसमुद्भूतधूलीविचित्रो वाञ्छासंपूर्णभावादधिकतररसं तूर्णमायान्समीपम् । क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी देवारि कैतवाविष्कृतमहिषवपुः सावतादम्बिका वः ॥ ७१ ।। कैतवाविष्कृतमहिपवपुर्देवारियया वृधगः शिव इव पादेन दूरं क्षिप्त. साम्बिका वो- ऽवतात् । कथभूतो देवारिषगश्च । गङ्गासपर्कदुष्यत्कमलवनसमुद्भूतधूलीविचित्रः । पुनः कथमतः । वाञ्छासपूर्णभावादधिकतररस यथा स्यादेवं तूणे समीपमायानागच्छन् । कथंभूतः । वामपादाभिलाषी । प्रसादयितुमपकर्तुं च वामपादे लगितुकामः ॥ मद्रे भ्रूचापमेतन्नमयसि नु वृथा विस्फुरन्नेत्रबाणं नाहं केलो रहस्ये प्रतियुवतिकृतख्यातिदोषः पिनाकी । १. 'कोपात'. २. 'शमय मम रुपा'; 'शमयसि तु रुषा'. - 1 - . चण्डीशतकम् । २९ देवी सोलासमेवं धृतमहिपतनुं दृप्तमन्तःसकोपं देवारि पातु युष्मानतिपरुषपदा निघ्नती भद्रकाली ॥ ७६ ॥ एवं सोत्यासं दृप्तमन्तःसकोप धृतमहिषतनु देवारिमतिपरुपपदात्यन्तकठोरचरणेन निम्नती भद्रकाली देवी युष्मान्पातु । एव कथम् । हे भद्रे, विस्फुरनेत्रवाणमेतद्धृचाप वृथा नमयसि नु । रहस्ये केली प्रतियुवत्याः सपल्या. कृतः ख्यातिदोषो येन तादृशः पिनाकी नाहम् । नाह कृतगोत्रस्खलनः शिव इति भावः ॥ अन्योन्यासङ्गगाढव्यतिकरदलितभ्रष्टकोपालमाला स्वां भोः संत्यज्य शंभौ खुरपुटदलितप्रोल्लसलिपाण्डुः । भद्रे क्रीडाभिमर्दी तव सविधमहं कामतः प्राप्त ईशो- त्रैवं सोल्मासमव्यान्महिषसुररिपुं निघ्नती पार्वती वः ॥ ७७ ॥ एवं सोत्प्रासं महिषसुररिपुं निम्नती पार्वती वोऽव्यात् । एव कथम् । भो भद्रे, अन्योन्यासङ्गेन यो गाढव्यतिकरस्तस्मिन्दलिता अत एव भ्रष्टा या कपालसंबन्धिनी माला तां स्वां मालां शभौ संत्यज्य खुरपुटदलितपोल्लसद्भूलिपाण्डुः क्रीडयाभिमर्दो गाढालिङ्गनम्, पक्षे सङ्ग्राम स यस्य सोऽहमीशस्तव सविधं कामतोऽत्र प्राप्त ॥ ज्वालाधाराकरालं ध्वनितकृतभयं यं प्रभेत्तुं न शक्तं चक्रं विष्णोढास्त्रि प्रतिविहतरयं दैत्यमालाविनाशि । क्षुण्णस्तस्यास्थिसारो विबुधरिपुतेः पादपातेन यस्या रुद्राणी पातु सा वः प्रशमितसकलोपलवा निर्विघातम् ॥ ७८ ॥ सा प्रशमितसकलोपलवा रुद्राणी निर्विघात वः पातु । सा का । यस्या. पादपातेन तस्य विबुधरिपुपतेर्महिषस्यास्थिसार. क्षुण्णः पिष्टः । तस्य कस्य । ज्वालाधाराक- राल ध्वनितकृतभयं दृढात्रि दैन्यमालाविनाशि विष्णोश्चक्र प्रतिविहतरय सत् य प्रभेत्तुं न शक्तम् ॥ गाढावष्टम्भपादवलभरनमत्पूर्वकायोर्ध्वभार्ग दैत्यं संजीतशिक्षं जनमहिषमिव न्यकृतात्र्याङ्गभागम् । १. 'महिषितवपुषम्'. २. 'कापालमालं स्वाइं विन्यस्य'. ३. 'शंभो' ४. 'मोडा- भिमर्दी'. ५. 'अत्र' इति पुस्तकान्तरे नास्ति. ६. 'स्वनित'. ७. 'यत्र कर्तुम्'. ८. 'ह- ढात्रि'. ९. 'मृतिविहतरयम्'. १०. 'दैत्यमायाविलावि'. ११. 'रिपविमो.. १२. 'भु- वनोपद्रवा'. १३. 'प्रचुर'. १४. 'निज्ञातशिक्षम'; 'नितिशिष्यम्'; 'निर्यातसारम्'; 'निर्जातशिष्टम्'. १५, 'प्राकृतायागभागम्'. . - . ३० काव्यमाला। आरूढा शूलपाणिः कृतविबुधभयं हन्तुकामं सगर्व देयादृश्चिन्तितानि द्रुतमहिषवधावाप्ततुष्टिर्भवानी ॥ ७९ ॥ गाढावष्टम्भपादस्य प्रबलभरेण · नमत्पूर्वकायोर्श्वभागं न्यकृतान्याह्नभागम्, अत एव • संजातशिक्षं शिक्षितं जनमहिषमिव लौकिकं महिषमिव आरूढा, शूलपाणिः, द्रुतम- हिषवधावाप्ततुष्टिर्भवानी वश्चिन्तितानि देयात् । कथभूतम् । कृतविषुधभयम्, हन्तु- कामम्, सगर्वम् ॥ ब्रह्मा योगैकतानो विरहभवभयाडू टिः स्त्रीकृतात्मा वक्षः शौरेविशालं प्रणयकृतपदा पद्मवासाधिशेते । युद्धक्ष्मामेवमेते विजहतु घिगिम यस्त्यजत्येष शक्रो हप्तं दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्वती वः ॥ ८० ॥ ब्रह्मा योगैकतानो योगनिष्ठः । विरहभवभयार्जटि. शिवः स्वीकृतात्मा । शौरेवि- ष्णोविशालं वक्षः पद्मवासा लक्ष्मीरधिशेते। एवमेते युद्धक्ष्मां सङ्ग्रामभूमि विजहतु नाम । किं तु य एष शक्रो युद्धभूमिं त्यजति इम धिक् । एवं दृप्तं सगर्व दैत्येन्द्र निन्नती समदा पार्वती वः सुखयतु ॥ एवं मुग्धे किलासीः करकमलरुचा मा मुहुः केशपाशं सोऽन्यस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोषलब्धे । वैदग्ध्यादेवमन्तःकलुषितवचनं दुष्टदेवारिनाथ देवी वः पातु पार्ष्या दृढतनुमसुभिर्मोचयन्ती भवानी ॥ ८१ ॥ है मुग्धे, एव करकमलरुचा किल केशपाशं मुहुः मा आसीः मा क्षिप । यः दोष- लब्धे प्रिये अन्यत्रीणां रतादौ कलहसमुचितः । एवं वैदग्ध्यादन्त.कलुषितवचन दुष्टाश्च ते देवारयो दैत्यास्तेषां नाथं महिषं दृढतनु पार्ष्या असुभिर्मोचयन्ती भवानी देवी वः पातु ॥ बालोऽद्यापीशजन्मा सेमरमुडपमृत्पांमुलीलाविलासी नागास्यः शातदन्तः स्वतनुकरमदाद्विह्वलः सोऽपि शान्तः । धिग्यासि क्वेति दुष्ट 'मुंदिततनुमुदं दानवं संस्फुरोक्तं पायाद्वः शैलपुत्री महिषतनुभृतं निघ्नती वामपाया ॥ ८२ ॥ १. 'विबुधरुषम्'. २. 'ब्रह्मन्'. ३. 'भवविरह'. ४. 'स्वीकृतात्मा'. ५. 'धिगिमा- न्यत्त्यजत्येष शत्रु'; 'विदिशं द्राक्त्यजत्वेष शक्रः'. ६. 'दृष्टम्'. ७. 'करकमलतया'. ८. 'कोपलव्धे'. ९. समरसुरपतिस्मलीलाविलासी'. १०. 'लीलामियोग्यः'. ११. 'दृष्टम्'. १२. 'मृदिततनुमुदम्'. १३. 'सस्फुटोक्तम्'.

- चण्डीशतकम् । इति सस्फुरोक्त मुदिततनुमुद महिषतनुभृतं दानव वामपाया निघ्नती शैलपुत्री वः पायात् । सस्फुर स्फुरणयुक्तमुक्त यस्य तम् । मुदितायां रोमाञ्चिताया तनौ मुद् यस्य तम् । इति किम् । समर सङ्ग्राम प्रति ईशजन्मा कार्तिकेयोऽद्यपि घालः । उडुपभृञ्च- न्द्रशेखरः शिवः पांसुलीलाविलासी भस्मोद्भूलनासक्तः । नागास्यो गणपतिः शातदन्तः, अथ च स्वतनुकरमदाद्विह्वलः अत एव सोऽपि शान्तः । अधुना लं क यासि धिक् ।। मूर्ध्नः शूलं ममैतद्विफलमभिमुखं शंकरोत्खातशूलं सङ्ग्रामाहूरमेतद्धृतमरि हरिणा मन्मनः कर्षतीव । गर्वादेवं क्षिपन्तं विबुधजनविभून्दैत्यसेनाधिनाथं शर्वाणी पातु युष्मान्पदभरदलनात्प्राणतो दूरयन्ती ।। ८३ ॥ विवुधजनविभून्देवाधिनायाशिवादीन्, एव गर्वाक्षिपन्तं तिरस्कुर्वाणं दैत्यसेना. धिनाथ महिषं पदभरदलनात्प्राणतो दूरयन्ती गतप्राण कुर्वाणा शर्वाणी युष्मान्पातु । एव कथम् । शकरणोत्खात प्रहारार्थमुत्तम्भितं शूलमभिमुख सद्विफल जातम्, एतन्मम मूर्धः शूल शिरोपीडाजनकम् । अतीव दु खमिति यावत् । हरिणा एतत् अरि सुदर्शन चक्र सभामाहूरं धृत सत् सन्मनः कर्षतीव ॥ भ्राम्यद्धामौर्वदाहक्षुभितजलचरव्यस्तवीचीन्सकम्पा- न्?त्वैवाशु प्रसन्नान्पुनरपि जलधीन्मन्दरक्षोभभाजः । दर्पादायान्तमेव श्रुतिपुटपरुषं नादमभ्युनिरन्तं कन्याद्रेः पातु युष्मांश्चरणभरनतं पिंपती दैत्यनाथम् ।। ८४ ॥ भ्राम्यद्धामौर्वदाहेन क्षुभितैर्जलचरैर्व्यस्ता वीचयो येषां तान्प्रसन्नान्निर्मलाञ्जलधीन्पुनर- पि मन्दरक्षोभमाजः, अर्थादाविलान्, आशु कृत्वा दर्पादायान्तमेव, अथ च श्रुतिपुटपरुषं कर्णकठोर नादमभ्युगिरन्त दैत्यनाथ चरणभरेण नत पिंपती अद्रेः कन्या युष्मान्पातु ॥ मैनामिन्दोऽभिनैषीः श्रितप्टथुशिखरां शृङ्गयुग्मस्य पार्श्व युद्धक्ष्मायाँ तर्नु स्वां रतिमदविलसत्स्त्रीकटाक्षक्षमेयम् । भानो किं वीक्षितेन क्षितिमहिषतनौ त्व हि संन्यस्तपादो दादेवं हसन्तं व्यसुमसुरमुमा कुर्वती त्रायतां वः ॥ ८५ ॥ हे इन्दो, श्रितपृथुशिखरां पर्वतशिखराश्रया स्वां तनु शृङ्गयुग्मस्य, अर्थान्मम, पार्व मामिनैपी. अभिमुख मा नय । यतस्तवेय तनु. रतिमदविलसत्स्नीकटाक्षक्षमा । हे भानो, १. 'दूरमस्मत्स्थितमरि'. २. 'भ्राम्यद्भीमोरुदेहक्षभितचलजल-'. ३. 'कृत्वा दाग- प्रसन्नान'. ४. 'मैनां मुग्धे'. ५. 'पाच्यम्'.

। ११ ३२ काव्यमाला । वीक्षितेन किम् । त्वं क्षितिमहिपेषु प्राकृतमहिषेषु सन्यस्तपादः । अहं तादृशो महिषो न भवामि । यत्र त्व पादन्यास कर्तुमिच्छसीति भावः । एवं दपद्धसन्तमसुर व्यसु गतप्राण कुर्वती उमा वस्त्रायताम् ॥ सङ्ग्रामात्रस्तमेतं त्यज निजमहिपं लोकजीवेश मृत्यो स्थातुं शूलाग्रभूमौ गतभयमजयं मत्तमेतं गृहाण । दैत्ये पादेन यस्याश्छलमहिषतनौ शायिते दीर्घनिद्रां भावोत्पत्तौ जयैवं हसति पितृपति साम्बिका वः पुनातु ।। ८६ ॥ यस्याः पादेन च्छलमहिपतनौ दैत्ये दीर्घनिद्रां शायिते सति जया भावोत्पत्ती सत्यां पिटपति यममैव हसति साम्बिका व. पुनातु । एव कथम् । हे लोकजीवेश मृत्यो, सङ्ग्रामात्रस्तं भीतमेत निजमहिष त्यज शूलाग्रभूमौ स्थातु गतभयमजयमेत मत्त गृहाण ॥ श्रुत्वैतत्कर्म भावादनिभृतरभसं स्थाणुनाभ्येत्य दूरा- च्छ्रिष्टा बाहुप्रसारं श्वसितभरचलत्तारका धूतहस्ता । दैत्ये गीर्वाणशत्रौ भुवनसुखमुषि "प्रेषिते प्रेतकाष्ठां 'गौरी वोऽव्यान्मिलत्सु त्रिदिविषु तमलं लज्जया वारयन्ती ॥७॥ भुवनसुखमुपि गीर्वाणशत्रौ दैत्ये प्रेतकाष्ठां प्रेषिते सति एतत्कर्म महिषवधरूपं श्रुत्वा भावादनिभृतरमसं यथा स्यादेवं स्थाणुना दूरादभ्येत्य बाहुप्रसारं बाहू प्रसार्य श्लिष्टा आलिगिता, अतएव धूतहस्ता श्वसितभरचलत्तारका गौरी त्रिदिविषु देवेषु मिलत्सु सत्सु त स्थाणुं लज्जया वारयन्ती सती वोऽव्यात् ।। भद्रे स्थाणुस्तवाभिः क्षतमहिपरणव्याजकण्डूतिरेष त्रैलोख्यक्षमैदाता भुवनभयहरः शंकरोऽतो हरोऽपि । देवानां नायिके त्वद्गुणकृतवचनोऽतो महादेव एष केलावेवं स्मरारिहसति रिपुवधे यां शिवा पातु सा वः ॥ ८ ॥ रिपुवधे स्मरारिः शिवो या केली क्रीडायामेवं हसति सा शिवा वः पातु । एव कथम् । क्षता महिषस्य रणव्याजेन कण्डूतिर्यन एतादृशस्तवाङ्किः स्थाणुः, अर्थानाहं स्थाणुः । स्थाणौ महिषस्य कण्डूतिशमन प्रसिद्धम् । त्रैलोक्यक्षेमदाता तवाङ्किः, अतः शंकरः । १. 'शस्त्राग्रभूमौ'. २. 'प्रापिते'. ३. 'द्राग्दुर्भेदे'. ४. 'हसितपिटपतिम्'. ५. ई- दृक्कर्म'. ६. 'शंभुनागत्य'. ७. 'बाहूपसादम्'. ८. 'उद्भूतहस्ता'. ९. 'संतापितारौं'. १०. 'प्रोषिते'. ११. 'गौरी वोऽव्यात्स्वरूप त्रिदशपतिपुरो लज्जया धारयन्ती'. १२. 'एव'. १३. 'क्षेमदानात्'. १४. 'देवानां नायकत्वाद्गुण- देवैर्ब्रह्मादिभिस्त्वद्गुण-' १५. 'स्मरारौ वदति रिपुवधे पार्वती वः पुनातु'.

. - चण्डीशतकम् । भुवनमयहरः, अतो हरोऽपि तवाङ्गि । हे देवानां नायिके, त्वद्गुणेन कृतं वचन शब्दो यस्य । महत्त्वं त्वगुणस्तेन जातवचनो महादेव, अत एष तवाभिर्महादेवोऽपि । महिप- वघेनान्वर्थत्वात्स्थावरादयः संज्ञास्तव चरणस्यैव युज्यन्ते, नास्माकमिति भावः ।। खगः कृष्णस्य नूनं रहितगुणगतिर्नन्दकाख्यां प्रयातः शत्रोभङ्गेन वामस्तव मुदितसुरो नन्दकस्त्वेष पादः । भावादेवं जयायां नुतिकति नितरां संनिधौ देवतानां सब्रीडा भद्रकाली हतरिपुरवताहीक्षिता शंमुना वः ॥ ८९ ॥ देवतानां संनिधौ जयायां भावाद्भक्तिविशेषादेव नितरां नुतिकृति सत्या हतरिपुः सव्रीडा शंभुना वीक्षिता भद्रकाली वोऽवतात् । एव कथम् । रहितगुणगतिर्नन्दक- त्वगुणरहितः कृष्णस्य खगो नन्दकाख्यां प्रयातः । शत्रो हैन मुदितसुरस्तवैष वाम. पादो नन्दकः ॥ एकेनैवोद्गमेन प्रविलयमसुरं प्रापयामीति पादो यस्याः कान्त्या नखानां हैसति सुररिपुं हन्तुमुद्यन्सगर्वम् । विष्णोस्त्रिः पादपद्मं बलिनियमविधायूँहृतं कैतवेन क्षिप्रं सा वो रिपूणां वितरतु विपदं पार्वती क्षुण्णशत्रुः ॥ ९ ॥ सुररिपुं हन्तुं सगर्वमुद्यन्यस्या. पादो नखानां कान्त्या इति हसति सा क्षुण्णशत्रुः पार्वती वो रिपूणां क्षिप्र विपदं वितरतु । इतीति किम् । अहमेकेनैवोद्गमेनासुर प्रविलयं प्रापयामि, विष्णोः पादपद्मं बलिनियमविधौ कैतवेन विरुद्धृतम् ॥ खड्ग खट्वाङ्गयुक्तं युवतिरपि विभो ते शरीराधलीना हास्यं प्रागेव लब्धं सुरजनसमितौ दुष्कतेन त्वयैवम् । जाता भूयोऽपि लज्जा रणत इयमलं हास्यता शूलभर्त- दादेवं हसन्तं भवमसुरममा निघ्नती त्रायतां वः ॥ ९१ ॥ दादहंकाराद्भवं शिवमेवं हसन्तमसुर निघ्नती उमा वस्त्रायताम् । एवं कथम् । हे शूलभर्तः, तव खडं खट्वाङ्गयुक्तम् । है विभो, युवतिसर्यापि ते शरीरापे लीना। एवं दुष्कृतेन दुष्टाचरणेन त्वया सुरजनसमिती देवसभाया प्रागेव हास्यं लब्धम् । भूयोऽपि रणतो युद्धादियं लज्जा पलायनरूपा जाता । इयमलं परिपूर्णरूपेण हास्यता ॥ १. 'गतानाम्'. २. 'उद्गतेन प्रविजयमपरम्'. .३. 'सह विवुधरिपुम्'; 'हसितसुर- रिपुम्'. ४. 'उद्गतम्'. ५. 'क्षिप्तम्'. ६. 'गङ्गा मौलौ विलमा युवतिरिति'; 'खट्वाङ्गं खगयुक्तं युवतिरपि'. ७. 'लग्न'. ८. 'याता'. ९. 'हरमू.

20 काव्यमाला। स्थाणी कण्डविनोदो नुदति दिनकृतस्तेजसा तापितं 'नो तोयस्थाने न चाप्तं सुखमधिकतरं गाहनेनाङ्गजातम् । शून्यायां युद्धभूमौ वदति हि धिगिदं माहिषं रूपमैक रुद्राण्यारोपितो वः सुखयतु महिषे प्राणहृत्पादपद्मः ॥ ९२ ॥ सर्वदेवपलायनाच्छ्न्यायां युद्धभूमौ इति वदति महिषे रुद्राण्या आरोपितः प्राणह- त्पादपद्मो वः सुखयतु । इतीति किम् । स्थाणौ शिव कीलके च यदि कण्डूविनोदः क्रियते तदा त नुदति । यतोऽयं स्थाणुः स्थिरो नास्तीति भावः । नोऽस्माकमगजा- तमङ्गसमूहो दिनकृतः सूर्यस्य तेजसा तापितम्, किंतु तोयस्थाने वरुणालये च गाहनेना- धिकतरं सुखं नाप्तम् । वरुणोऽपि पलाय्य गत इति भावः । तस्मादिमं माहिषं रूपं धिक् ॥ पिंपच्छैलेन्द्रकल्पं महिषमतिगुरुभनँगीर्वाणगर्व शंभो तो लघीयाञ्छूमरहितवपुर्दूरमभ्यूह्यपातः । वामो देवारिष्टष्ठे कनकगिरिसदां क्षेमकारोऽभिपद्मो यस्या दुर्वार एवं विविधगुणगतिः सावतादम्बिका वः ॥ ९३ ॥ यस्या अङ्घ्रिपद्म एव विविधगुणगतिरस्ति साम्बिका वोऽवतात् । कथंभूतः । भग्नगीर्वाणगर्व शैलेन्द्रकल्पं महिषं पिंषन्, अतिगुरुरपि शंभोर्लघीयाजातः । पुनः कथंभूतः । श्रमरहितवपुः । दूरमभ्यूयोऽभ्यूहनीयः पातो गतिर्यस्य । यो हि गुरुर्भवति स श्राम्यति, दूर च न याति । अय तु श्रमरहितवपुर्दूरपाती च । देवारेमहिषस्य पृष्ठे वामः प्रतिकूलः । कनकगिरिसदां देवाना क्षेमकारः कल्याणजनकः ॥ मार्ग शीतांशुभाजां सरभसमलधुं हन्तुमुद्यन्सुरारि . नेत्रैरुद्वृत्ततारैः सचकितममरैरुन्मुखैर्वीक्ष्यमाणः । यस्या वामो महीयान्मुदितसुरमनाः प्राणहृत्पादपद्मः प्राप्तस्तन्मूर्धसीमां सुखयतु भवतः सा भवानी हतारिः॥ ९४ ॥ यस्या वामः पादपद्मस्तस्य महिषस्य मूर्घसीमां प्राप्तः सा मुदितसुरमना हतारि- भवानी वः सुखयतु । कथभूतः पादपद्मः । सरभसं यथा स्यादेवमलघु सुरारि हन्तुं शीतांशुभाजा नक्षत्राणां मार्गमाकाशमुद्यन्नुत्पतन् । अतएव सचकितं यथा स्यादेव- मुगृत्ततारै त्रैरुन्मुखैरमरैवीक्ष्यमाणः । पुनः कथंभूतः । प्राणहृत् । अर्थान्महिषस्य ।' १. 'कण्डूविनोदात'. २. 'न:'; 'व'. ३. 'एवम्'. ४. 'शीर्णगीर्वाणगर्वम्'; 'शीर्ण- गीर्वाणगर्वः'. ५. 'यातो गरीयान्'. ६. 'धपुर्व्यस्त उत्पात्य कोपात्'. ७. 'क्षेमकारो हि यस्याः पादोऽतुल्यप्रभावः'. ८. 'असुरै.'.

चण्डीशतकम् । ३५ । मूर्धन्यापातभन्ने मिपमहिषतनुः सन्ननिःशब्दकण्ठः शोणा-जाताम्नकान्तिप्रततघनवृहन्मण्डले पादपद्मे । यस्या लेभे सुरारिर्मधुरसनिभृतद्वादशार्धाझिलीलां शर्वाणी पातु सा वस्त्रिभुवनभयहत्स्वर्गिभिः स्तूयमाना ॥ ९५ ॥ यस्याः पादपद्म मिषमहिषतनुः कपटमहिषः सुरारिर्मधुरसे निभृतस्य निश्चलस्य द्वादशार्धाते. षट्पदस्य भ्रमरस्य लीला लेभे सा त्रिभुवनभयहृत्स्वगिभिर्देवैः स्तूय. माना शर्वाणी व. पातु । कथभूते पादपद्मे। शोणाजवदाताम्रा कान्तिर्यस्य, प्रततं प्रकर्षेणं विस्तीर्ण धनं निविडं बृहन्मण्डलमाभोगो यस्य तयोः समाहारस्तस्मिन् । कथंभूत सुरारिः । मूर्धनि मस्तक आपातेन प्रहारेण भने सति सननिःशब्दकण्ठ । अत एव निश्चलभ्रमरतुल्यतां गतः ।। पादोत्क्षेपाहजद्भिर्नखकिरणशतै पितश्चन्द्रगौरै- मूर्धाने चापतद्भिश्चरणतलगतैरंशुभिः शोणशोभः । संन्यस्तालीनरत्नप्रविरचितकरैश्चर्चितः क्षिप्तकायै- र्यस्या देवैः प्रणीतो हविरिव महिषः सावतादम्बिका वः॥९॥ यस्याः क्षिप्तकायैर्दण्डवत्प्रणमद्भिर्देवैर्हविरिव संस्कृत हव्यमिव महिषः प्रणीत उपनीतः साम्बिका वोऽवतात् । कथभूतो महिष. । पादोत्क्षेपाग़जद्भिश्चन्द्रगौरैर्नखकिरणशतैर्मू- षितः । पुनः कथभूतः । मूर्धान आपतद्भिश्चरणतलगतैरंशुभिः शोणशोमः । पुनः कथभूत. । सन्यस्तान्यालीनानि च यानि रत्नानि । अर्थाद्देवमुकुटेषु । तेषां प्रविरचितै. करैः किरणैश्चर्चितः । यो हि देवतायै हविरुपनयति स दण्डवत्मणतो भवति। अत्र हविर्मासपिण्डम् । तच्च शुक्लं रक्त च भवति ॥ क्वायं तीक्ष्णोनधाराशतनिशितवपुर्ववरूपः सुरारिः पादश्चायं सरोजद्युतिरनतिगुरुयोषितः क्वेति देव्याः। ध्यायं ध्यायं स्तुतो यः सुररिपुमथने विस्मयावद्धचित्तैः पार्वत्याः सोऽवताद्वस्त्रिभुवनगुरुमिः सादरं वन्द्यमानः ॥ ९७ ॥ त्रिभुवनगुरुमिब्रह्माद्यैः सुररिपुमथने विस्मयावद्धचित्तैरिति ध्यायं ध्यायं ध्यात्वा ध्यात्वा य. स्तुतः सादरं वन्धमानश्च स पार्वत्याः पादो वोऽवतात् । इति कथम् । तीक्ष्णोधारा- .. १. 'सुरमहिषतनुः'; 'मिषतनुमहिषः'. २. 'कान्तिः'. ३. 'लसन्मण्डले'. ४. 'मधु- पसुनिभृत-'. ५. 'सर्वत्रिभुवन-'. ६. 'पद्मशोणः'. ७. 'अमरगुरोर्योषितः'. ८. 'ध्या- त्वा ध्यात्वा'. ९. 'सावतात'. १०. 'वीक्ष्यमाणः'; 'वन्दितायाः'.

। । - - ३६. काव्यमाला। शतनिशितवपुरयं वज्ररूपः सुरारिः क्व । अयं सरोजातियोषितो देव्या अनतिगुरुः पादश्च क । महदन्तरमिति भावः ।। वजित्वं वजपाणेदितितनयभिदश्चक्रिणश्चककत्यं शूलित्वं शूलभर्तुः सुरकटकविभोः शक्तिता षण्मुखस्य । यस्याः पादेन सर्व कैतममररिपोधियैतत्सुराणां रुद्राणी पातु सा वो दनुविफलयुधां स्वर्गिणां क्षेमकारी ।। ९८ ॥. यस्याः पादेनामररिपोर्महिषस्य बाधया सुराणामेतत्सर्व कृतं सा रुद्राणी वः पातु । कथंभूतानां सुराणाम् । दनुषु दनुजेषु विफलं युद्धं येषां तेषाम् । कथभूता रुद्राणी । स्वर्गिणां क्षेमकारी । देवकल्याणक: । एतत्किम् । वज्रपाणेरिन्द्रस्य वज्रित्वं वज्र. कार्यम् । दितितनयमिदश्चक्रिणो विष्णोश्चक्रित्वम् । शूलभर्तुः शिवस्य शूलित्वम् । सुरकटकविभोर्देवसेनापतेः षण्मुखस्य कार्तिकेयस्य शक्तिता । वज्रादीनां कृत्यं देव्याश्च- रणेनैव साधितमिति भावः ॥ पगुनेता हरीणामसमहरियुतः स्यन्दनश्चैकचक्रो भानोः सामग्यपेतः छत इति विधिना त्यक्तवैरः पतङ्गे । दर्पाद्धाम्यन्रणमा प्रतिभटसमराश्चेषलुब्धः सुरारि- यस्याः पादेन नीतः पितृपतिसदनं सावतादम्बिका वः ॥ ९९ ॥ पतङ्गे सूर्ये इति त्यक्तवैरः प्रतिभटसमराश्लेषलुब्धः अत एव दर्पाद्रणक्ष्मां युद्धभूमि भ्राम्यन्सुरारिर्यस्याः पादेन पितृपतिसदनं यमलोकं नीतः साम्बिका वोऽवतात् । इति किम् । हरीणामश्वानां नेता सारथिः पद्मुः। स्यन्दनो रथोऽसमहरियुतो विषमाश्व एकचक्रश्च । एवं भानो रथो विधिना सामग्र्यपेत. सामग्रीविकलः कृतः। इति. हेतोः सूर्ये त्यक्तवैरः ॥ युक्तं तावद्गजानां प्रतिदिशमयनं युद्धभूमेर्दिगीशां हीयेताशागजत्वं सुभटरणकतां कर्मणा दारुणेन । यद्येष स्थाणुसंज्ञो भयचकितडशा नश्यतीत्यद्भुतं त- 'दादेवं हसन्तं सुररिपुमवतान्निघ्नती पार्वती वः ॥ १० ॥ दादेव हसन्तं सुररिपुं निन्नती पार्वती वोऽवतात् । एवं कथम् । दिगीशां गजानां दिग्गजानां युद्धभूमेः सकाशात्प्रतिदिशमयनं स्वस्वदिग्गमन तावद्युक्तम् । यतः सुमटैः सह रणकृतामेषां • दारुणेन कर्मणा मरणरूपेणाशागजत्वं दिग्गजत्वं हीयेत। यद्येष १. 'दितिदनुजभिद.'. २. 'सुरसमितिविभोः.' ३. 'दितितनयभृतः'. ४. 'प्रति- दिशगमनम्'. ५. पणयुधाम'. ६. 'या चैषां स्थाणसंज्ञा भयचकितशाम्'. । . 5 भावशतकम् । ३७ . स्थाणुसंज्ञः शिवो भयचकितदृशोपलक्षितो नश्यति इत्यद्भुतम् । स्थाणोः पलायनमा- श्चर्यमिति भाव. ॥ त्रस्ताङ्गः सन्नचेष्टो भयहतवचनः सन्नदोर्दण्डशाखः 'स्थाणदृष्ट्वा यमाजौ क्षणमिह सरुषं स्थाणुरेवोपजातः । तस्य ध्वंसात्सुरारेमहिषितवपुषो लब्धमानावकाशः पार्वत्या वामपादः शमयतु दुरितं दारुणं वः सदैव ॥ १०१ ॥ य सुरारि सरुष सक्रोधमाजौ युद्धे क्षणं दृष्ट्वा वस्ताद सन्नचेष्टो भयहतवचनः सन्नदोर्दण्डशाखः स्थाणुः शिवः स्थाणु. कीलक एव जातः । जडीभूत इति यावत् । तस्य महिषितवपुषः सुरारेव॑सालव्धमानावकाश. पार्वत्या वामपादों वो दारुणं दुरितं सदैव शमयतु ॥ कुन्ते दन्तैर्निरुद्धे धनुषि विमुखितज्ये विषाणेन मूला- लाङ्कलेन प्रकोष्ठे वलयिनि पतिते तत्कपाणे स्वपाणेः । शूले लोलाङ्गिपातैर्ललितकरतलात्प्रच्युते दूरमुर्त्या सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥ १०२ ॥ देव्याः कुन्ते दन्तैर्महिषेण निरुद्ध सति, विषाणेन धनुषि मूलाद्विमुखितज्ये विमुखी- भूतमौर्वीके सति, लाडूलेन देव्याः प्रकोष्ठे वलयिनि वेष्टिते सति, अत एव तत्कृपाणे तदीये खड्ने स्वपाणेः स्वहस्तात्पतिते सति, लोलाविपातैललितकरतलाच्छूले दूर- मुळ भूमौ प्रच्युते सति, चण्डिका चरणतः सर्वाङ्गीण लुलायं महिष चूर्णयन्ती जयति ॥ इति महाकविश्रीबाणभट्टविरचित चण्डीशतकं सटिप्पण समाप्तम् । श्रीनागराजकविप्रणीतं भावशतकम् । शुभ्रं क्वचित्क्वचिदतीव सितेतरामं क्वापि प्रफुल्लनवपङ्कजसंनिकाशम् । तप्तं क्वचित्वचन शीतलमस्तु वस्तु कैवल्यसंसृतिपथानुगतं मुदे वः ॥१॥ १. 'यं दृष्ट्वा सस्तचेष्ट'. २. 'स्थाणुर्दैत्यं तमाजौ'; 'स्थाणुर्दैत्य यमाजौ'; 'स्थाणुर्दृष्ट्या सुरारिम्'. ३. 'इव सभयम्'. ४. 'भवता ध्वान्तमन्तर्हितार्क.. ५. 'शूलात्'. ६. नाग- राजनामा धागनगराधिप. कश्चिन्महीपतिरासीत. तनाना तदाश्रितेन केनचित्कविना शतकमेतनिर्मितमिति शतकविलोकनाज्ज्ञायते, १ .

काव्यमाला। र 1 . , । नागराजशतं ग्रन्थं नागराजेन तन्वता । अकारि गतवक्त्रश्रीर्नागराजो गिरां गुरुः ॥ २ ॥ वसन्तकाले चकिता नताङ्गी विज्ञाय चक्रीकृतचापदण्डम् । मनोभवं सौरभशोभमानैरपूरयत्पाणियुगं प्रसूनैः ॥ ३ ॥ मधुकरालिमौर्वीभगो [न] भवत्विति ।। काचिद्वसन्तसमये गत्वा पुष्पद्रुमावलीम् । नामुञ्चन्निजनिःश्वासवायुं वारिजलोचना ॥ ४ ॥ भृङ्गागमनभीत्या ॥ काचित्तृषार्ता वनिता निदाघे गङ्गां समभ्येत्य सुधासवर्णाम् । ' आदाय तद्वारि करद्वयेन विलोकयन्ती न पपौ किमेतत् ॥ ५ ॥ करकिसलयकान्तिक्रान्त्या शोणितशङ्कयेति ।। प्राचीनस्मृतविरहव्यथातिभीतः काकुत्स्थः कृतकुतुकाक्षिमीललीलः । संपूर्ण शशिनि चिराय लग्नदृष्टः प्रेयस्याः स्थगयति लोचने कराभ्याम् ॥ ६ ॥ कनकमृगवन्मृगाङ्कमृगमपीयं याचिष्यतीति भीत्या ।। मदनातुरापि लक्ष्मीरालिङ्गनलोलुपापि ललिताङ्गी। मा पश्य पश्य नाथेत्यवदन्मुरवैरिणं तत्किम् ॥ ७ ॥ हरौ पश्यति नेत्रीभूतः सहोदरश्चन्द्रो द्रक्ष्यत इति । तथा चण्डकरकिरणाः कोमले वपुषि दुःसहा भवन्ति ।। यद्यस्मासु कृपापरोऽसि वनितावाकते कौतुका- दाशु प्रोल्लसदुत्सवासु बहुशो रथ्यासु मा संचर । वाचस्ते सुभगोद्गिरन्ति च सुधामुच्चावचाः कर्णयोः प्रोत्तुङ्गा गृहभित्तयः समदनोल्लासा च नः खामिनी ॥ ८ ॥ उत्सवालोकनव्याजेनास्मत्स्कन्धमधिरुह्य त्वां पश्यतीति ।। मणिमयमण्डपमध्ये क्रीडन्ती कापि कामिनी विदुषी । अपराधेन विना तं निजचरणैस्ताडयामास ॥९॥ स्वप्रतिविम्ब वीक्ष्य कामिन्यन्तरप्रतीतेः ।।

। भावशतकम् । शिरसि देवनदी पुरवैरिणः सपदि वीक्ष्य धराधरकन्यका । निबिडमानवती रमणाङ्गके वचन चुम्बनमारमते स्म सा ॥ १० ॥ क्रोधातिशयन सविषो गलश्चम्वितः ॥ सकलं स पुरा पीत्वा मुमोच मकरालयम् । मुनीन्द्रः किं न जानाति योषितां विरहव्यथाम् ॥ ११ ॥' पीतश्चन्द्रो मुक्त इति॥ सौधस्थले विरहिणी विमले शयाना निर्मुक्तसर्वजलदासु शरन्निशासु । देवाननिन्ददधिकं दनुजोत्तमांश्च दुग्धार्णवं च भुजगेश्वरमन्दरौ च.॥ १२ ॥ एभिश्चन्द्र उत्पादित इति ॥ अपारं दुःखमापन्ना मदनार्ता वियोगिनी । कोकिलालिशशाङ्काद्या वर्धन्तामित्यभाषत ॥ १३ ।। एतद्वाहुल्येनाचिरेण वियोगिनीनां मरणं सभाव्यते ।। ज्यावन्धः शिथिलीभवत्वयममी शाम्यन्तु कोलाहलाः स्वामिस्त्वन्मृगयाविहारकुतुकासक्तिः क्षणं तिष्ठतु । इन्दौ स्पष्टुमुपागतेऽपि सहसा निःशङ्कमन्याङ्गनां मा मा मा स्टश मा स्टशेति चकिता यद्रोहिणी जल्पति ॥१४॥ मृगयाचकितमृगापगमाद्विमृगे चन्द्रे रोहिण्याः परपुरुषशङ्केति ॥ तीक्ष्णानं कठिनं कुचद्वयमिदं तन्वङ्गि यच्चोन्नतं तद्वक्षः परिहाय किं प्रियतमः पृष्ठे समालिङ्गयते । किं कुर्मः सखि नर्मकेलिषु मया दष्टे रसेनाधरे रुष्टोऽयं गमनोद्यतस्तदधुना पन्थानमानीयते ॥ १५ ॥ धवलो हि प्रतोदेन प्रेरितः पन्थानमायाति ॥ प्राप्ते वसन्तसमये पथिकस्य कान्ता श्रान्तान्तरा पिकगणा निनदन्ति यत्र । .

- . M ४० काव्यमाला। उत्थाय तत्परिसरं सहसैव गत्वा गातुं मतिं कृतवती कमनीयकण्ठम् ॥ १६ ॥ मत्स्वराकर्णनेनेतः सत्रपा यास्यन्ति, मका वा भविष्यन्ति । जलदानवलोक्य निर्गता नगरोद्यानसुकेलयेऽङ्गनाः । पुनरागमनेषु ताः कथं घनवृष्टयापि भजन्ति न त्वराम् ॥ १७ ॥ शीघ्रगमनेन श्रमश्वासादिना गुरुजनस्यासतीत्वप्रतीतिर्मा भूत् । अथवा व्यभिचारपरा- मृष्टचन्दनलेपादिभूषागोपनाय जलवृष्टयेत्यसतीपक्षः ॥ पत्रावलीचित्रकपोलपालिं प्रातः सपत्नीमवलोक्य काचित् । तुतोष लाक्षाक्तमनाप्तनिद्रं पुनः प्रियं वीक्ष्य विषादमाप ॥ १८ ॥ पन्नावलेर विनाशादनया संयोगो नाभूदिति तुतोष । सर्वस्यामपि निशायां प्रीतिवा- हुल्यादतिपादपतनैः संमानितापि मानमिय न मुमोचेति विषादमाप ॥ स्मरातुराङ्गी प्रियविप्रयोगे शीतोपचारं परिहत्य सर्वम् । सुखेप्सया सर्वगतान्सिषेवे काचित्करानेव सुधाकरस्य ॥ १९ ॥ यस्मादेते मत्प्रियसंगताः सन्तीति ॥ अन्यास्ताः प्रिय योषितः प्रियतमं कण्ठे समालिङ्गय या याचन्ते हृदयस्थितं बहुरूपं तूर्णं पुनः संगमम् । याचे त्वामहमेतदेव न परं त्वन्मङ्गलाकाङ्क्षिणी प्रस्थाने मम जीवितेश्वर वृथा कण्ठग्रहं मा कृथाः ॥ २० ॥ तव प्रस्थानालिगनेन क्षणेनापि मत्प्राणा यास्यन्तीति॥ क्रीडां प्रीतसखीजनैः पितृगृहे संस्मृत्य रेवातटे मा खिद्यस्व मनोहराङ्गि सरलः कान्तोऽस्ति चित्तानुगः । सन्त्येवात्र जलाशयाः सुगहनाः सख्यश्च ताः पण्डिताः क्रीडन्त्यास्तव तेषु ताभिरनिशं विस्मृत्य तद्यास्यति ॥ २१ ॥ सुगमम् ॥ कान्तः क्वापि गतोऽस्ति कोपकलितः श्वश्रूजनैः संकुलं वेश्म स्तोकमिदं महोत्सववशात्सख्या गृहे याम्यहम् । मध्याह्रो विषमः सुपान्थ भवता तस्मान्निकुञ्जोल्लस- द्वामस्योत्तरतः सरोऽस्ति ललितं किं तत्र न स्थीयते ॥२२॥ सुगमम् ।। 4 - . ॥ भावशतकम् । ४१ काचित्सरोजनयना रमणे स्वकीये दूरं गते सति मनोभववाणखिन्ना । त्यक्तुं शरीरमचिरान्मलयाद्रिवायु सौरभ्यशालिनमहो पिबति स्म चित्रम् ॥ २३ ॥ मलयपवनानां भुजगभुक्तावशिष्टत्वात् ॥ सच्छास्त्रवाक्यकथिते शुभकर्ममूले न्याय्ये पथि प्रतिदिनं किल वर्तमानः । सद्यः पुमान्सकललोकहितानुयायी शून्यं करोति सकलं दनुजारिवक्षः ॥ २४ ॥ न्याय्यमार्गस्थितो हरिवक्षःस्थलस्थितामपि लक्ष्मीमपहर्तु शक्त.॥ सा क्षामेति किमुच्यते ननु यया भद्रेतराशङ्कया त्वत्प्रत्यागमशंसिने बलिमुजे भूमौ बलि प्यते । कुड्याग्रेषु पुनः प्रसारितकरं निःशङ्कया दीयते प्रत्यग्रेन्दुकलामिव प्रणयिनी तन्मखू संभावय ॥ २५ ॥ भूमी वलिदाने मगलवलयविनिपातः संभावित । अथवा सशब्दवलयनिपातेन च- कित: काको बलिं न स्पृशतीति ।। शोणाङ्कः शशलाञ्छनः किसलयं शोभां विधत्तेऽलिना कम्बुः क्वापि सुरेखितः कुवलये बन्धूकपुष्पाश्चिते । एवं धूर्तसखीजने वदति तां मुग्धां गृहीत्वा शठः किं दृश्यं नयनेषु नेति कथयन्वापी ययौ क्रीडितुम् ॥ २६ ॥ जलक्रीडाव्याजेन व्यभिचार चिह्नप्रक्षालन स्यादिति ।। दूरं गतं प्रियतमं परिचिन्त्य चित्ते रुडेषु वारिदगणैर्हरितां मुखेषु । रुद्धास्यमेव सुदृशा शनकै रुदन्त्या नाम्बुना तिलकमाशु विशीर्णमासीत् ॥ २७ ॥ तप्तस्तनपतितनेत्राम्बुसेकाविर्भूतबाष्पजनितस्वेदादिमिः ॥ लीलासरोरुहि कयाचन वीक्षमाणे केनाप्यहो मधुकरेण विवर्जितेऽपि । ६ '१२ काव्यमाला। ! . - आगत्य कश्चन सलीलमलिः पपात भङ्गीमनङ्गीविवशः परिशङ्कय चात्र ॥ २८ ॥ कमले हक्प्रभालोकनात् ।। सत्यैकोद्यम नागराज मवति प्रत्यर्थिविध्वंसन- व्यापारे कृतनिश्चये सति सतां दारिद्यविध्वंसके । तत्कान्ताः क्षितिभृत्तटीषु मणिभिर्नीलैः सुरम्यावहो कोकान्पट्पदमालिकाश्च कमलान्यालोकयन्त्यद्भुतम् ॥ २९ ॥ स्वस्तनालकमुखप्रतिबिम्बालोकनात् । अथवा नीलमणिजनितान्धकारे दिनज्ञानाय कोकसंयोगं षट्पदतद्विधप्रचारं कमलविकासं च ।। उत्तार्य काची शयने विमुच्य यत्किचिदाच्छादयितुं कयाचित् । ऊचे तदेवोषसि सालिवर्ग पदच्युतो हि क ह ते तुरङ्गः ॥ ३० ॥ शब्दभयादुपरि सुरते चेयमुत्तारितेति ।। काचित्साश्रुमुखी वियोगविधुरा धृत्वा करे लेखनी सर्वस्यां निशि कामलेखमखिलं शून्या लिखित्वा पुनः । कान्ते प्रेषयति स्म सोऽपि चतुरो निर्वर्णमालोक्य तं साकं दुःखमुदौ चकार सहता पक्षित्वमाकाङ्क्षते ॥ ३१ ॥ ईशीमवस्था सा प्राप्तेति दुःखम् । मयि सुतरां प्रीतिं सा धत्त इति हर्पः । अन्यच्चात्र पदे पदे भावः ।। तत्कालयोग्याभरणा वजन्ती काचित्समीपे हृदयेश्वरस्य । विलोचने नाञ्जयति स्म तारं न चापि हारं हृदये न्यधत्त ॥ ३२ ॥ सती अन्तरभयात् । असती व्यभिचारप्रकटनभयात् । अथवा विशालयोरक्ष्णोरज- नेन महती वेला स्यात् । हारः कामामिना दग्धो भविष्यतीति ।। ईषदुल्लसितमिन्दुमण्डलं पश्य चूतनवपल्लवप्रभम् । अङ्गतां हरिदिगङ्गनामुखे भूषणत्वमुपयाति चाद्भुतम् ॥ ३३ ॥ ललाटत्वं तिलकत्वं च ।। पुष्पेषोरिषुभिर्विभिन्नहृदयः कान्तां मुहुश्चिन्तय- न्पान्थः कोऽपि निदाघभाखति नभोमागं गते मध्यमम् । ।

4 भावशतकम् । ४३.. श्रान्तोऽप्येष पिपासितोऽपि पयसे धावन्नपीतस्ततः शुष्कं वीक्ष्य सरश्चिराय महतीं धत्ते मुदं चेतसा ॥ ३४ ॥ अत्र सरोजाभावेन पुष्पेषोरिषुसंकोचाद्विरहिणः प्रमोदोदयः ।। परिपाकसमयपाण्डोः परिणतपत्रालिपरिहतार्करुचेः । त्वय्यनुरागातिशयादिक्षोः फलमीक्षते तन्वी ॥ ३५ ॥ फलितामिक्षुवाटीमुत्पाततया परिहरन्तीति सकेतमझायेत्यसतीपक्ष । सतीपक्षे तु तादृश्या वाटिकाया दाहस्यापि समावितत्वेनेक्षुधन्वनो धनुरुच्छेदो विरहिणीप्रीतिकृत् ।। उदितः शनकैर्निशाधिनाथो वनितानां वदनानि वीक्षमाणः । शुचिमौक्तिकभूषणातिभीतो गणनायां निरतो नु तारकाणाम् ॥३६॥ मुखेन निर्जित्य बन्दीकृततारकाभ्रान्तिौक्तिकेषु ॥ आलोकयन्ती शशिपूर्णविम्बमाशामुखे दैवतनायकस्य । संचिन्त्य किचिन्मनसैव भीता धत्ते रतिं चम्पकमालिकासु ॥ ३७॥ चन्द्रोदये मुकुलितपद्मत्यागिनो मधुपा मन्मुखे पतिष्यन्तीति ॥ किं मौग्ध्यादनुतप्यसे किमधिकं नेत्रे कुधेवाश्रुमि- याप्नोषि त्यज वीक्षणं प्रतिदिशं प्रेम्णो हि नानागतिः । आलिं निन्दसि किं वृथा खपदयोरालक्तकं नेक्षसे सर्वत्रातिनिषिद्धमेव हृदयं किं भाषसे निष्ठुरम् ॥ ३८ ॥ सुगमम् । पदे पदे भावाः ।। कान्तः कान्तकरः परः प्रकृतिमप्यङ्गीकरोत्येव य- स्त्वच्चित्तानुगया तया सरलया युक्त पदे स्थापितः । सोऽयं संप्रति नाथ किं प्रणतिभिर्नीतस्त्वया नीचतां तेनायुक्तविधायिता हि भवतः स्पष्टैव दुष्टाशय ॥ ३९ ॥ तस्यास्तिलकरत्वललाटं गतो मत्पदमानीत इति ।। पश्यैनं पुरतः स्थितं प्रियतमं मान्याः सखीनां गिरः किं जातासि पराङ्मुखी मणिगृहे मुग्धेऽत्र को वा जनः । इत्यालीवचनेन कोपकलुषा काचिञ्चिरं मानिनी दीर्घाणं निपुणा मुहुर्मुहुरसौ निःश्वासमेव व्यधात् ॥ ४० ॥ प्रियप्रतिविम्बाच्छादनायात्र निःश्वासाः ॥

काव्यमाला। . हारे संदर्शिते यूना कम्पयन्त्या शिरो मुहुः । प्रसारितः करेणोच्चैः कचमारो मृगीदशा ॥ ४१ ॥ मन्मनस्त्वयि स्वच्छमिति तरुणेन ज्ञापिते तया मलिनमिति ज्ञापितम् ॥ उद्यानवाटीपु कदापि वाले मा गास्त्वमेकैव यथा गतेऽह्नि । क्वचित्क्वचित्कण्टकिनां तरूणां सङ्गेन दुःखी स्तनभार एषः ॥ ४२ ॥ उद्यानगमननिषेधव्याजेन पत्युः पुरः स्तननखाङ्कगोपनम् ।। अक्ष्णोरञ्जनमोष्ठयोश्चरणयोस्ताम्बूललाक्षाकतो रागः पत्रलता कपोलविपये देहे धनं चन्दनम् । आसां तिष्ठति सर्वदा मम पुनदृष्ट्वा कदाचित्क्षणं श्वश्रूः किं विदधे वृथैव दधते दुःखं सपत्न्यो यदि ॥ ४३ ॥ सपलीशृङ्गारवर्णनव्याजेन स्वसौभाग्यप्रकटनम् । अत्र पदे पदे भावाः ।। पीनोत्तुङ्गधनस्तनी ब्रज मुहुर्लीलागृहाभ्यन्तरं त्वामुद्दीक्ष्य चिराय हन्त कलिताशङ्कः शशाङ्कोऽधुना । एतच्चेतसि मंस्यते सकुतुकोत्प्रेक्षः किमासीदसौ वल्मीकादपि विस्मया बहुगुणो वल्मीकजन्मा मुनिः ॥ ४४ ॥ चन्द्रदर्शनेऽपि त्वत्कुचचक्रवाकयुगमवियुक्तमिति रामशापस्यान्यथात्वेन वाल्मीके- निन्दा ॥ शृणु नागराज धृतखड्गभीषणे भवति प्रगल्भरिपुखण्डनोद्यते । विचरत्तरङ्गशतशोभिताकतिर्जलधिनितान्तमुपयाति संमदम् ॥ ४५ ॥ नवीनरुधिरनदीसगमाशया ।। देहे घनश्चन्दनचन्द्रलेपो विम्बाधरे यावकरागयोगः । प्रातः कृतोऽयं चतुरे भवत्या तन्वङ्गि शोमां त्वयि कां तनोति ॥४६॥ अवेलाशृङ्गारेण त्वया रतिचिहाच्छादनं कृतमिति द्योतयति । अथवा काकुवाक्यै- रसयोगादसौभाग्यं ख्यापयति ॥ हारस्तार उदारमौक्तिकमयं सीमन्तसच्चित्रके वासश्चन्द्रसितं तनौ रुचिकरो लेपो घनश्चान्दनः । धम्मिल्ले सखि मल्लिकास्त्रगुचितैरेतैः सुधादीधिते- मन्ये खास्यजितस्य जेतुमधुना ज्योत्स्नामिमां वाञ्छसि ॥४७॥ चन्द्रोदये श्वेताभरणैरलक्षिता व्यभिचाराय गन्तुमीहस इति वर्णनव्याजेन प्रकटयति ॥

६ . मावशतकम् । ४५ ब्रज दूति समर्प्यतां भवत्या नवताटङ्कयुगं करे तदीये । इदमेव निवेदयिष्यतीमां मदवस्थामलमत्र पत्रलेखैः ॥ १८ ॥ कज्जलमिश्राश्रुकणिकाङ्कितत्वेन तस्य सवर्णतेति ।। कतानि.शान्यै विरहव्यथायास्तया सखे कान्यपि भूपणानि । गुणान्वितानीति तदङ्गसङ्गादन्तःस्थितं सारमिवोद्गिरन्ति ॥ ४९ ॥ मृणालानि फेनिलाननानीति ॥ श्रीरामचन्द्रे दशवत्रपुर्या मार्गाय वारांनिधिवडकोपे । आनेयमस्त्रं गुरु संदधाने मेनागिरीन्द्रौ चकितावभूताम् ॥ ५० ॥ जलघिमध्यस्थितमेनाकाख्यपुत्रनाशभीत्या ॥ चन्द्रोदये जृम्भति कर्तुकामे किंचित्प्रिये प्रोद्धतजातकामे । विलोक्य किंचिन्मणिसौधभूमौ निक्षिप्य काचिद्वसनं ललज्जे ॥ ११ ॥ चन्द्रप्रतिबिम्बाच्छादनेऽपि ज्योनायास्तादवस्थेन नग्नस्वागदर्शनात् ॥ उक्त कार्यमभून्नवेति किमिह प्रष्टव्यमेतत्वया हन्तानुक्तमपि प्रसाधितमहो कृत्यं स्वबुद्ध्यैव मे । तति त्वदृतेऽस्ति का मम सखीत्याख्यातमात्रैव सा सव्रीडा मुहुरम्बरं नयनयोरन्तेन किं वीक्षते ॥ ५२ ॥ यन्मदीयमम्बरं तेन नीत तत्त्वया परिवृत्त्य पुनरानीतमिति ॥ यस्मिन्सुस्फुटरश्मिपुत्रविलसच्छ्रीस्फाटिकग्रावभा- तुल्याच्छाम्भसि चित्तहारिणि सरोमध्ये न पझेरुहम् । तत्राहं सलिलं पिबामि तरसेत्युर्वी भ्रमन्ती सुह- क्तादग्भूतसरोवरं न लभते को वात्र हेतुर्वद ॥ ५३ ॥ सर्वत्र निजवदनप्रतिबिम्बावलोकनात् ।। आलिङ्ग प्रतिवाचमुगिर सुधाकण्ठि व भूयो वयः कोपं मुञ्च मयि प्रसीद सुभगे नैवं विधास्ये पुनः। पश्य श्वश्रु कथं वदत्ययमहो मानोन्नतां सारिका- मेवं मानयितुं शुको हि भवने दैवस्य चित्रा गतिः ॥ १४ ॥ निशासमयोक्तं शुकाभ्यस्तं पतिवाक्य व्याजेनाच्छादयति ।। । . .

४६ काव्यमाला । । - सिक्तं चन्दनवारिभिः कमलिनीशय्यादलं कोमलं हस्तस्थस्य तया मृणालवलयस्यावेष्टितं तन्तुभिः । आलेख्यं विदमेव यद्दयितया दत्तं स्वहस्तेन मे लेखस्तिष्ठतु दूरतः किमधुनाण्याकर्ण्यते वाचिकम् ॥ ५५ ॥ विरहे सतीदृशस्थले स्वस्य निर्वाहाभावात् ।। दृष्टोऽयं सरितां पतिः प्रियतम वास्ते स सेतुः क्व वा सेतुः क्वेति मुहुर्मुहुः सकुतुकं दृष्टे परं विस्मिते । अत्रासीदयमत्र नास्ति किमिति व्यग्रे निजप्रेयसि व्यासत्तास्यसुधानिधिः समभवत्मन्दस्मिता जानकी ॥ १६ ॥ स्वमुखचन्द्रदर्शनक्षुब्धजलधिकल्लोलैराच्छादितस्य सेतो. प्रकटनाय मुखव्यावृत्तिः ।। धवलय दशनश्रेणि बिम्बोष्ठि न शोणता गताद्यापि । इति दर्शितमुकुराभिः सखीभिरायास्यते मुग्धा ॥ ५७ ॥ अधरसंनिधानजनितारुणतानपायिनीति ।। श्रीरामे मृगयाविनोदविपुलप्रीतिप्रभूतीभव- त्यस्वेदाम्बुकणावृतास्यकमले समागते जानकी । उत्थायाशु ससंभ्रमं बहुतरां भक्तिं दधाना पुन- स्तत्पादं मणिकङ्कणोज्ज्वलकरा नैव स्टशत्यद्भुतम् ॥ १८ ॥ अहल्यावच्चरणस्पर्शमात्रेण कङ्कणमणयोऽपि योपितो मा भूवनिति ॥ गत्वोद्यानवनस्थली सुनयना प्रोद्यद्वसन्तागम- प्रोत्फुल्छाखिलचूतचम्पकमुखं मारुड्विशेषाकुलम् । आदायातिमनोज्ञमद्भुतरसं किंचित्फलं पाणिना तन्मध्यं च विलोक्य शङ्कितमना हस्तेऽकरोदर्पणम् ॥ ५९॥ दशनपड्डौ दाडिमबीजोपमास्ति न वेति विलोकयितुम् ॥ फूत्काराधिकभीषणास्य भुजगप्रत्यग्रभूषावली भाववमणि भूतकोटिघटितप्रौढस्तवैः संस्तुते । संध्याताण्डवकर्म खण्डपरशौ कर्तुं प्रवृत्ते सति प्रत्याशं प्रतिपर्वतं समभवन्मर्विना दृष्टयः ॥ ६० ॥ भ्रमरिकासमये शिरःस्थितगङ्गाजलप्रसरात् ।।

भावशतकम् । ४७ निशाकरास्ये निशि कामतप्ता विधुतुदं निन्दसि किं तथैव । दोषं न जानासि परं मुरारेः शिरोऽस्य कोपात्सखि येन छत्तम्॥६॥ उदरासभवे जरणाभावात् ।। धाराधीश महीमहेन्द्र भवता प्रख्यातवीरव्रतं सङ्ग्रामे निजवैरिवृन्दमसमं हन्तुं तपः कुर्वता । हानि यस्य विचार्य निर्जरगणः खिन्नस्तदेवाखिलं तुल्यं प्रेषयति स्म रक्षितुमहो यन्न त्वया रक्षितम् ॥ ६२ ॥ एतनिहताः सर्वे स्वर्गे समागन्तार. । ततश्च तद्वरणे सुराङ्गना यास्यन्ति चेति तपोभगाय ता एव प्रेषिताः ।। निशाकरेणातिनिपीडिताङ्गी दिवाकरं कापि परं निनिन्द । तदन्तिके सिंहमवेक्षमाणा पुनः समाश्वासयति स्म चेतः ॥ ६३ ॥ अनुदयादथवा कलाक्षये चैतस्मादेव समुपजीवतीति ।। श्रीराम रामेति पदं मनोज्ञं वक्तुं मति हन्त विधाय कश्चित् । विचिन्त्य किंचित्पुनराशु चित्ते संदेहशाली स- शनैर्व्यरंसीत् ।। ६४ ॥ सुरतावसरे स्वेष्टदेवध्यानमयुक्तमिति रीतेरिति ।। श्रीराघवे दिग्विजयाय वेगाद्विनिर्गते चापभृतां पुरोगे । शून्यान्यभूवन्सुदृशां शिरांसि कासां च कासांचन वीक्षितानि ॥६५॥ रिपुस्त्रीणां देवागनाना च ।। सङ्ग्रामं त्वयि देव कुर्वति सुरास्तत्कौतुकालोकिनः पश्यन्तस्तव विक्रमं निजशिरःकम्पं न के चक्रिरे । लोकेशादिकपालकोटिकलितां मालां समुत्तारय- भीतश्चारुमतिर्व्यलम्बत पुनः खण्डेन्दुमौलिः क्षणम् ।। ६६ ।। निजशिरःकम्पनेन सुधांशोः सुधाक्षरणान्मुण्डमाला सजीविता भविष्यतीति ।। समुद्धतानां दनुजेश्वराणां विमर्दने यस्य चकास्ति धैर्यम् । स श्रीपतिः कि निजनामधेयमुहूर्तपझ्यो नितरां बिभेति ॥ ६७ ॥ स्वीकः सर्वोऽप्याक्रम्यत इति ॥ संमानिता कापि [रमा] समाना कान्तेन साकं मदिरां पिबन्ती । विम्बं सुधांशोः प्रतिविम्बिताङ्गं नखेन काचिच्चपके लिलेख ॥ ६८ ॥ यतोऽयं नखाङ्कितः स्वकान्तामानेन विरहव्यथा वेत्तीति । . " काव्यमाला। है M - पैकेरुहाक्षी प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती । उद्गातुमादाय करेण वीणामेणाङ्कमालोक्य शनैरहासीत् ॥ १९ ॥ चन्द्रमृगोऽपि गीतप्रिय इति ॥ त्वयि प्रवृत्ते मृगयाविनोदे नवाम्बुजाभेक्षण नागराज । भीतिर्न जाता हरिणाङ्गनानां प्रवर्धते स्म प्रकटः प्रमोदः ॥ ७० ॥ कामभ्रान्त्या ॥ अलद्धितास्मद्वचसा भवत्या नियूंढमद्यैव पराङ्मुखत्वम् । कपोलयोग्या तव पत्रवल्ली पृष्ठे यदेतल्लिखिता प्रियेण ॥ ७१ ॥ लतालभ्ये (2) त्व नोपभुक्तेत्युपालम्भः ॥ मायाप्रगल्भेषु विदारितेषु रक्षःसु रामस्य शरैः सुतीक्ष्णैः । अकाण्ड एवाद्भुतमेतदुच्चैवल्लीद्रुमाः पल्लविता बभूवुः ॥ ७२ ॥ गगनादापतितरुधिरविन्दुसंपर्कात् ॥ यूनां नागरिका विधाय विपुलं मानग्रहं याः प्रिया. पादे पातयथ प्रियाणि वदतो दक्षालिमिः शिक्षिताः । ग्रामीणाः सरला वयं पुनरभूः कान्तैर्न विद्मः क्वचि- न्मानं कर्तुमिहालयोऽपि न तथा याः शिक्षयेयुश्च नः ॥७३॥ अत्र काकुवाक्यैः पदे पदे भावः ॥ श्रीरामचन्द्रे दशवक्रहानौ कृतोद्यमे क्रव्यभुजः सहस्राः । मित्राण्यमन्यन्त मृगं कपि च तपोधनं गाढतरं वनं च ॥ ७४ ।। राक्षसवधे मासवाहुल्यादिभिरुपकारः कृतः ।। दूरेऽन्योन्यकथाकुतूहलविधिोतस्तया भीतया गच्छन्त्या गुरुसंनिधौ नयनयोरन्तेन नैवार्थितः । किं त्वाश्वासयितुं चलाचलमिदं चित्तं मदीयं शनैः स्नेहव्यग्रहृदा हि मौक्तिकमयो हारोऽयमुत्सूत्रितः ॥ ७५ ॥ भूमिपतितमौक्तिकग्रहणव्याजेन विलम्ब. ॥ जाते त्वयि 'श्रीसख नागराज पूर्व प्रहृष्टोऽभवदिक्षुधन्वा । आचारमालोक्य पुनस्त्वदीयं विषादमत्यन्तमवाप चित्ते ॥ ७६ ॥ द्वितीयोऽय मे सहचर इति सतोषः । पुनस्त्वदीयशिवभक्ततया विषादः ॥ १. समुद्धृतोऽय श्लोक. शार्ङ्गधरपंद्धतौ प्रहेलिकादिप्रकरणे.

। भावशतकम् । १९ एकाकिनी चित्तवती विहाय यियासुना मुग्धतया विदेशम् । निजाशयं ज्ञापयितुं प्रियेण सारीषु चिक्क्रीड चरेण काचित् ॥ ७७ ॥ चरे सारीणामेकाकिनीनां मरणाच्चरक्रीडाया विलम्बहेतोः ।। शिरः समालोक्य शशाङ्कमौलेरावष्टितं भीममुखैर्भुजंगैः । विभेति पूर्व मरुतामधीशो विचिन्त्य किंचिद्विजहाति भीतिम् ॥ ७८ ॥ सर्पदर्शनेन भयम्, चन्द्रस्मरणेन च भयापगम. ।। त्वं मुग्धे न तु मन्दिरं पितुरुपानीतासि भर्तुर्ग्रहा- तत्काव्यं परिपूजयनमपरैः किं तैहैः पूजितैः । एकोऽसावपराङ्मुखः फलति नैवेच्छानुक्लैः फलै- रित्येवं कथिते सखीभिरभवन्मन्दाक्षमन्दा वधूः ॥ ७९ ॥ संमुखे शुक्रे मर्तु,हे गमन न सभवति । व्यभिचार सुलभश्चात्र । षण्मुखसेव्यस्य विभोः सर्वाङ्गेऽलंकृतित्वमापन्नाः । पन्नगपतयः सर्वे वीक्षन्ते गणपति भीताः ॥ ८० ॥ स्कन्दवाहनमयूरदर्शनभीताः शुण्डादण्डप्रवेशाय ।। विच्छायतां गच्छति पश्य मुग्धे मन्ये त्वदास्येन जितो मृगाङ्कः । हृदि स्थितापीति निगद्यमाना कान्तेन कान्ता पतति स्म चित्रम् ।।८१॥ रजन्या गतप्रायत्वात् ।। अन्योन्यं भुजगवराः शंकरसर्वाङ्गभूपणीभूताः । पश्यन्तो वदनानि प्रायः कम्पं भजन्ति को हेतुः ॥ २॥ नील कण्ठं विलोक्य केनाय दंशापराधः कृत इति ॥ योऽयं भाति पयोधरस्तदुपरीत्याख्याय ऋज्वाशये वाले बाहुमुदस्य किं प्रियतमस्येन्दोः कला दर्श्यते । दुर्लक्ष्याः सखि दर्शिताः कति न वा वक्रेन्दुलेखास्त्वये- त्यालीजल्पितविस्मिता क्षणमथो सान्तःस्मितान्तहिता ॥ ८३॥ खाड़ित पयोधरमयं पश्यतीति ।। संगत्य नेत्रसलिलैस्तव विप्रयोगे हारस्थितानि हृदयं हरिणायतास्याः ।

+ ५० काव्यमाला। मुक्ताफलान्यपि दहन्ति हि नीचमार्गे सङ्गो जडैर्गुणिनमप्यहितीकरोति ॥ ८४ ॥ अतितापाचूर्णकलिकीभूतानामुपलानामुष्णजलसगाद्वहुतापकारित्वम् ॥ ईश्वरजटाप्रदेशे प्रोद्यत्कृतमालमालिकानिकरे । परिमलबहुलेऽप्यलयः किमिति मनोज्ञेऽपि नासते लुब्धाः ॥८॥ चम्पककुसुमभ्रान्त्या ॥ कंदों योगजुषां भेत्तुं सर्व समाधिमतिवेगात् । आकृष्य चापमधिकं नो मुञ्चति सायकं चित्रम् ॥ ८६ ॥ आत्मदाहवृत्तान्त स्मृत्वा । त्वं पार्थादधिकोऽसि संप्रति धनुर्विद्याविदामग्रणीः प्रीत्या मद्वचनं करोषि नियतं कुर्या विशेषादिदम् । चन्द्रेणेह कलङ्किना मम मुखं गायन्ति तुल्यं ततो हत्वैनं प्रिय पातयास्य हरिणं प्रातः प्रयातासि यत् ॥ ८७ ॥ प्रातविदेश प्रयातरि प्रियतमे सूर्योदयमनाकासमाणा मृगवधमादिशति । तद्वधेन रात्रेस्तथैवावस्यानात् । तद्वियोगादिय परासुवित्री । त्व तमेव यथाकाल पश्यसीति तत्समत्वात् ॥ सखीनिदेशानुचरः प्रियोऽयमुच्चखरा पञ्जरशारिका च । एतत्सपत्नीगृहमष्यदूरे कथं नु मानः साख नैष मान्यः ॥ ८ ॥ अत्रत्य वृत्तान्त शारिकामुखात्सपली शृणोतीति परित्याज्यो मानः ॥ मज्जंश्चरमसमुद्रे मार्तण्डश्चण्डमात्मनस्तापम् । तस्यैव तटविभागे जन्तुविशेषेऽक्षिपत्सत्यम् ॥ ८९ ॥ चक्रवाके॥ कामेपोरिव भलिका विरहिच्चिन्ताम्बुपूर्णार्णवे तापानामिव नौविधोरिव कला मानग्रहग्रन्थिहृत् । कालस्य च्छुरिकेव हा तव करे संवर्तिका केतकी वैयोगी क्रकचद्वयोव सखि मे चित्तं परं कन्तति ॥ ९० ॥ अवधिभूतवर्षाकालशमनात् ।। .

भावशतकम् । स्मरमतसचिवं कलाविदग्धं भज सखि तं तरुणं शशाङ्ककान्तम् । इति गिरमधिगम्य दूतिकाया मुखमवला स्वकरेण सा पिधत्ते ॥ ९१ ॥ आत्मनि पद्मिनीभावप्रकटनेन चन्द्रगुणान्विते तरुणे स्नेहराहित्य प्रकाशयति ॥ उद्याने स्मरसांपरायविवशामालिङ्गय गाढं प्रिया- मागच्छन्मदवारणेश्वरमयादन्यत्र नीत्वा युवा । बुवा यां पुनरन्तरायमखिलं स्नेहादवादीद्रुतं श्रुत्वा सा निजजीवितेशविषये स्नेहच्छटामत्यजत् ॥ ९२ ।। इस्तिदर्शनेनान्यासक्तत्वं द्योत्यत इति । अथवा पयोधरोरुगमनविजितकुम्भस्थलकर- गतिरात्मनि पराजयमाशङ्कय कुप्यति ॥ जनकतनयां हृत्वा रागाद्गते दशकंधरे तदुरुविरहज्वालाजालाकुलीकृतविग्रहः । रघुपरिढो नाधो नोवं न तिर्यगवेक्षते मुकुलितहगम्भोजद्वन्द्वः समाहितवत्स्थितः ॥ ९३ ॥ श्वश्रूत्ववंशजनपरिलज्जया ॥ पतिव्रताहं प्रमदासु रूढा लोकापवादो नितरां गरीयान् । उल्लङ्घय शीतं व्रज वर्तमानमायाहि पूर्व प्रिय भाविशीतात् ॥ ९४ ॥ अधरस्फुटनपरिहार.॥ मलयाद्रिसमुद्भूते मन्दं वाति समीरणे । निनिन्द वानरान्काचित्कामिनी यामिनीमुखे ॥ ९५ ॥ मलयाद्रिसमीरणेन विरहिणी दुखं प्राप्नोति ।। सीताजानिरवादीदवनीमखिलां वहन्भुजाभोगे । पृथ्वीपतिरिति लोका मा ब्रूध्वं मामतः क्वापि ॥ ९६ ॥ पृथ्वी श्वश्रूरूपिणी, तत्पतित्वमयुक्तमिति ॥ अन्यागनो 'कतोपपत्तिमशोकमालां वकुलस्त्रनं च । प्रियेण दत्तामधिकादरेण न मानिनी स्वीकुरुते कदापि ॥ ९७ ॥ सपत्नीचरणताडनगण्डूष "त्याशदिनी ॥ आसीत्कर्पटिगोत्रसागरसुधाधामा सुकामाद्भुतः श्रीविद्याधर इत्यशेषभुवनप्रख्यातनामामृतः । ।

५२. काव्यमाला। यः केदारपदारविन्दयुगलप्रत्यग्रपूजाविधि- प्राप्ताशेषपवित्रभव्यविभवैः सार्थीकतार्थिश्रमः ॥ ९८ ॥ तत्पुत्रः सर्वमित्रं सरसकविकुलस्तूयमानोरुकीर्ति- विख्यातो जालपाख्यो जगति विजयते टाकवंशप्रशस्यः । विष्णुर्दैत्येन्द्रयुद्धव्यतिकरसमये व्याकुलत्वात्स्वभार्या लक्ष्मी निक्षिप्य यस्मिन्विहरति दिनशः स्वेच्छया स्वस्थचित्तः।।९९॥ तस्माज्जातः सुजातो निजगुणमणिभिः प्रीणिताशेषलोकः कोकाहंकारहारिस्मितमहितमुखष्टाकवंशावतंसः । भाति श्रीनागराजो परनृपतिशिरोदर्शितोद्यत्प्रतापो राजेते यं समेते विगलितकलहे वाक्च पद्मालया च ॥ १०० ॥ भारत्यां यदि पुंस्त्वमामरतरुवाते विवेकोऽस्ति चे- साङ्गत्वं यदि मन्मथे सकलता नित्यं शशाङ्के यादि। सिंहे चेन्नरता जितारियशसो भावज्ञचूडामणे- स्तत्तत्सद्गुणतोपमानघटना स्यान्नागराजप्रभोः ॥ १०१॥ यत्तीक्ष्णाक्षतधारदुर्धरमहाकौक्षेयकाक्षेपण- शुभ्यत्क्ष्मापतिवछभोदरदरी निभिन्नगर्भायते । सोऽयं दुर्जयदोर्भुजंगजनितप्रौढप्रतापानल- ज्वालाजालखिलीलतारिनगरः श्रीनागराजो जयी ॥ १०२ ॥ इति श्रीनागराजकविप्रणीतं भावशतकं संपूर्णम् । श्रीनारायणभट्टपादकृतः स्वाहासुधाकरः। मङ्गल्यं वः करोतु ज्वलनदयितया संगमे भर्तृभीत्या ग्रस्ताङ्गो हन्त तस्यामपि च हुतभुजा ग्रस्ततां प्रापितायाम् । १. “केरलदेशालंकरणभूताया 'निला'नामकपुण्यनद्याः पञ्चाशन्यूनार्धयोजनमात्रमु. त्तरे तीरे 'मेप्पुन्नूर' इति प्रथिते धरणीसुरवशे कृतावतारोऽयं नारायणभट्टपादः. सोऽयं बाल्येऽनभ्यस्तशास्त्रो बभूव. अवगतवांश्च किंचित्काव्यादिकमात्रम्. ततः कदाचन स्वाहासुधाकरः। ५३ निश्चन्द्रे व्योममार्गे सदसि च हरिणा कौशलाद्दर्शितात्मा वासोभिः सोपहास सकलसुरगणैरचितोऽयं मृगाङ्कः ॥ १ ॥ जिह्वायां कमलोद्भवः स्वगृहिणी वाणी दधत्यादरा- कृष्णो वक्षसि सिन्धुराजतनयामाधाय धत्ते मुदम् । 'अच्युत'नामकस्य वैष्णवदासस्य शिष्यतामुपगम्याधीतसकलशास्त्रस्तस्य कतोऽपि हेतोः सजात महान्तमामय निजतप शक्त्या स्वस्मिन्सक्रमय्य तदपनयनोपाय समालोच्य 'गुरुवायुपुरम्' इति प्रसिद्ध क्षेत्रे सनिहित भगवन्त श्रीनारायणमभजत. प्रतिदिनमेतत्स्तो- त्ररूप श्रीमद्भागवतार्थप्रतिपादनपर मानसश्रवणसतोषजनकमतिरमणीयपदनिवघटितं नारायणीयनामक स्तोत्ररत्ल रचितवान्. एतदपि केरलीयैरहरह पर्युपास्यमान भागवत- मिव विजेजीयते. एतत्स्तोत्रनिर्माणकलिगतदिवससख्या तत्रैवान्तिमश्लोके 'आयुरारो- ग्यसौख्यम्' इति पदेन प्रकाशिता. (१७१२२१० इति गतकलिदिवससख्या) इत्य गुरुवायुपुरेशभगवच्छ्रीनारायणप्रसादसमवाप्तनिखिलामयापगमसमुज्ज्वलनिजशरीरोऽयं देवालयनदीवास्तव्यराज्ञाभ्यर्थित 'प्रक्रियासर्वस्व'नामक पाणिनीयसूत्रव्याख्यानरूप क- मपि ग्रन्थ निर्मितवान्. पुन. कदाचिदय बालचन्द्रदर्शनजनितकौतुकै देवै. सप्रार्थित. 'कस्मात्कारणानिखिलैर्जनैरयं वासोविक्षेपपूर्वमभिवन्द्यते इत्यस्मान्प्रवन्धरूपेणैव वक्त- व्यम्' इति द्रुतमेवेद स्वाहासुधाकरनामक प्रबन्धरत्न च कृतवान्, अय वर्षशतत्रयान्न प्राचीन.. तस्मादेतच्छोकास्त्वन्यग्रन्थेषु नौदाहृता . एतेनाय प्राचीन इति न परिशङ्कनी- यम्. लोकाम्बिका दिशतु मङ्गलमस्मत्कुलदैवतम्". सोपोद्धातोऽयं प्रबन्ध उत्तरमल- धार(केरल)देशान्तवर्ति कटथनद राजेन श्रीमदुदयवर्मणा केरलीयलिपितो भूयसा श्रम- ण देवनागराक्षरैविलिख्य प्रेषितः, अतो वय तस्य राज्ञो महान्तमुपकारभारं शिरसा धारयाम , आशास्महे च तद्देशप्रसिद्धनानाकाव्यनाटकमाणादिप्रेषणेन सर्वदैवास्मानुप- करिष्यति रसिकशिरोमणिमहीपतिः. एतत्कविप्रणीत. कश्चन 'चण्डिकासप्तति'नामको देवीस्तवोऽप्यस्तीत्यपि श्रूयते. १. सपूर्णश्लोकस्त्वित्यम्--'अज्ञात्वा ते महत्त्व यदिह निगदित विश्वनाथ क्षमेयाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतर लत्प्रसादाय भूयात् । द्वधा नारायणीयं श्रुतिषु च जनुषा स्तु- त्यतावर्णनेन स्फीतं लीलावतागैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥' अत्र 'आयुरारो- ग्यसौख्यम्' इत्यस्मात्पदादार्यभटसिद्धान्तादिज्योति शास्त्रप्रसिद्धन वाररुचेन कटपयादि- क्रमेण ग्रन्थनिर्माणसमये (१७१२२१०) एतावती गतकलिदिवससंख्यातीदिति ज्ञायते. तेन १५९. मिते निस्ताब्दे कविरयं 'नारायणीय' नाम स्तोत्र प्रणीतवान्. २. प्र- क्रियासर्वस्वस्येद मङ्गलाचरणम् –रासविलासविलोल स्मरत मुरारेमनोरम रूपम् । प्रकृतिषु यत्प्रत्ययवत्प्रत्येक गोपिकासु समिलितम् ॥'

५४ काव्यमाला। . देहाथै गिरिकन्यकां च गिरिशो गृह्णाति मोहाद्यथा स्वाहां हव्यभुगादधाति जठरे कामातुरोऽयं तथा ॥ २ ॥ एतावानस्ति विशेषः- ब्रह्मादयस्त्रयो देवाः सदा दधति वल्लभाम् । दधाति याममात्रं न पावकः संध्ययोईयोः ॥ ३ ॥ अथ कदाचित्- संध्योपासनकर्मणे सपदि तां निक्षिप्य कान्ते गते चन्द्रस्तामवलोक्य मन्मथशरैः संतापितात्मा चिरम् । मल्लीचन्दनमन्दमारुतरसेष्वा हन्त निन्दापरः कष्टं कांश्चन वासरानगमयत्प्रत्येकमब्दोपमान् ॥ ४ ॥ तदनु कदाचन दिवसावसानवेलायां मन्दमन्दमायाति च मलयशिख- रिशिखरशेखरितसुन्दरतरचन्दनतरुमझुलतरमञ्जरीविसृमरमकरन्दविन्दुभ- रणमन्दगमने [मन्द] पवने, झंकुर्वाणे च संध्यासमयविनमदुन्नमदतिकोमलद- लपेशलसकलकमलकुमुदकुलमधुरतरमकरन्दरसतुल्यकालसमास्वादनजनि- तानन्दकन्दलितविरहिवर्गव्यलीके चञ्चलीके, वियुज्यमाने च विरहवेदना- विदीर्णहृदये समाक्रन्दवाचालिताशाचक्रवाले चक्रवाके, संप्रयाते च कुह- चन सहचरी निक्षिप्य विक्षेपादिकर्मकतादरे स्वाहासहचरे पुष्पायुधनि- प्पादितपीडाकुल एष दोषाकरः कुमुदिनीरोहिणीभ्यामप्यविज्ञातवृत्तान्तं स्वाहया सनाथीकृतमुटजाङ्गणमभिससार । दृष्ट्वा सा कामसेनापतिमतिमुकुमाराङ्गमारादकाण्डे चन्द्रं नारीजनानामतिशयसुलभादाकुला चित्तलौल्यात् । तस्थौ गत्वा गृहाभ्यन्तरमैररमुखेनास्य संचारयन्ती वक्त्रे मन्दस्मितानतिमधुरसुधाशीतपातान्कटाक्षान् ॥ ५ ॥ किमिह बहुभिरुक्तप्रक्रमैः पक्ष्मलाक्ष्याः सकलभुवनबन्धोश्चातिमुग्धाः कटाक्षाः । १. कपाटरन्ध्रेण. . है - स्वाहासुधाकरः। हृदयहरणदक्षाः प्रोचुरन्योन्यमेत्य प्रणयगतिमशेषां दूतिकातुल्यरूपाः ॥ ६ ॥ अनन्तरममृतगुरेवमवादीत्- पश्य वं भृङ्गपोतं कमपि कुमुदिनीतीरभागे चरन्तं सौरभ्य मन्दवातैरुपहृतमतुलं किचिदास्वादयन्तम् । एतस्या हन्त माध्वीरसमतिमधुरं जातु पातुं नितान्तं मुग्धे वक्त्रे विकासं दिवसपरिणतिप्राप्तमाकाङ्क्षमाणम् ॥ ७ ॥ अथ खाहयाप्येवमभिहितम्- रविरयमस्तं यातः समागतो हन्त हन्त चन्द्रोऽयम् । याति विकासमपीयं कुमुदती कि विलम्बसे भृङ्ग ॥ ८ ॥ अनयोरेवमादिभिः सल्लापैरुल्लासितमल्लिकायुधविलासयोः सपदि पर- स्परगृहीतहस्ताम्बुजयोरालिङ्गनचुम्बनाडम्वरैः संभृतानन्दयोरतिमधुरमधर- विम्बमास्वादयतोरतिकोमलवदनकमलसमवलोकनविधुतविरहवेदनयोरन्तरा- न्तरा ससंभ्रमज्वलनसमागमनावलोकनव्याप्यतैकैकनेत्रयोः साहाचन्द्रम- सोर्मन्दमन्दनिष्पन्दमानमखुलतरमिलितसीत्कारमनोहरा मझुशिञानवलय- नूपुरमेखलागुणा दशननिपातविदलितसकलावयवाः प्रसृमरधर्मलेशमिलित- निखिलशरीराः शनैर्लायमानसकलावयवाः सुरतोत्सवाः संबभूवुः। ततश्च- भूयादेवं प्रभाते दिवसपरिणतौ चावयोरङ्गजन्म- क्रीडाभेदो निगूढो मुहुरिति सदयं सस्टहं सप्रमोदम् । संभाषन्तौ युवानौ विरहहुतवहग्रस्तदेहावभूतां स्वाहा हा हन्त पश्चादाप च हुतवहग्रस्तदेहा बभूव ॥ ९ ॥ तदनु तयोरेवमेव चौर्यसुरतमनुसेवतोरनुक्षणविजृम्भिताभिलाषयोः क- दाचिदप्यपरिपूर्णमनोरथयोः स्वाहासुधाकरयोराज्यधारयेव महानलो मद- नानलः प्रतिक्षणं समजृम्भत । अथ निपुणमतीनामग्रणीरुग्ररूपः स्मरशरपरितापव्याकुलाङ्गो मृगाः। प्रतिदिनमवियोगे कल्पयन्नभ्युपायं प्रणयपरवशां तां वल्लभामेवमूचे ॥ १० ॥ - - ' ५६ काव्यमाला । हृद्यां विद्यामधीप्व वमिह सहचरात्पावकाचाजपूर्व धत्ते सोऽयं यथा वामनुदिनमुदरे सादरं हन्त पश्चात् । धृत्वा मां याहि नित्यं जठरकुहरमेतस्य जातानुमोदा- वावां तस्मिन्वसन्तौ तदनु विहरणं कुर्वहे सार्वकालम् ॥११॥ अथ सा हुतवहसहचरी मधुरां जारभारती तथेति प्रतिगृह्य स्त्रीजन- सुलभेन निर्वन्धेन निवध्य सुदुर्लभामपि तां विद्यां जडात्मनो, हुताशना- दधिजगाम । संध्यायामथ निर्गते पुनरहो कामाहवं कुर्वतोः स्वाहाचन्द्रमसोः क्षणेन स गतो यामोऽयमामोदिनोः । संप्राप्ते परिणेतरि क्षणमिव स्वाहानु विद्यावशा. संजग्राह निजोदरे शशधरं तामप्यसौ पावकः ॥ १२ ॥ ततश्च- कथं वा राकायामिह नहि समायाति गगने शशाङ्को रात्र्यधैं गतमिति मिथो हन्त गदताम् । नितान्तं तिथ्यसंग्रहणगणनव्याकुलधियां जनानां संजाताः कतिचन महान्तः कलकलाः ॥ १३ ॥ हा हा नः प्राणनाथः क्व नु खलु विगतः संत्यजन्कष्टमस्मा- नित्थं तारावलीनां क्व नु मम जनको हन्त हन्तेति चान्द्रेः । आहारो हन्त हा हा गत इति च सुराणां नितान्तातुराणां वाक्यैरश्रुप्रवाहैरपि च सुरकुलं व्याकुलं संबभूव ॥ १४ ॥ अथ शतमखचतुर्मुखप्रमुखैरखिलैरमरैरस्मदापन्निवारणप्रवीणो नाराय- णान्नान्यः कश्चिदिति निश्चिन्वानैरनवरतस्तुतिरवमुखरितहरिदन्तरालैः सं- चिन्तितो भगवानम्वुजाक्षः। विज्ञायाथ दयानिधिः स भगवानाकाङ्कितं नाकिनां सद्यः प्रादुरभूदपारमहिमा मन्दस्मिताननः । नीलाम्भोधरजालकोमलतरैरानन्दयन्नङ्गकै- श्चन्द्रालोकनकौतुकं सुमनसां वक्त्रेन्दुना पूरयन् ॥ १५ ॥ .

स्वाहासुधाकरः। स्वाहाग्रस्तं मृगाकं तुलितमहदकूपारगाम्भीर्ययासौ बुद्ध्या निध्याय देवान्मुकुलितकरपङ्केरुहानेवमूचे । विज्ञातं वः सुरेन्द्राः सकलमिह मया कारणं मत्प्रणामे संजातं घोरघोरं व्यसनमिदमहं नूनमुन्मूलयामि ॥ १६ ॥ यूयं यात बहिः क्षणं हुतभुजा संभाषणं कुर्महे नास्माकं वचनं तदन्तरगता स्वाहापि गृह्णातु सा । षट्कर्णश्रुतमन्त्ररक्षणविधौ को वा विदग्धः पुमा- नित्यं नीतिविदां वचो न किमिदं युष्माभिराकर्णितम् ॥ १७ ॥ नारायणेन गदिता मुदितानुभावा- मेवंविधामथ गिरं विबुधा विचार्य । स्वाहागतं निखिलचापलमाकलय्य ब्रीडापरा नतमुरारिपदाः प्रयाताः ॥ १८ ॥ स्वाहां विन्यस्य याते कुहचन दहने पार्श्वभागं मुरारे- देवाः स्वाहासमीपं निभृतमुपगतास्तस्थुरत्यन्तगूढाः । सापि प्रीता समन्तात्प्रतिमुहुरवलोक्याशु लब्धावकाशा वासोलेशेन हीनं गगनपथमथो यापयामास चन्द्रम् ॥ १९ ॥ अथ निभृतमवस्थिताः सुरेन्द्राः परिहसनाभिमुखाः सहस्ततालम् । वसनमुरुतरं समुत्क्षिपन्तो विविधतरां गिरमेवमूचिरे ते ॥ २० ॥ तव हन्त वियोगपीडितं जनमेनं प्रविहाया किं भवान् । गमनं विदधाति गृह्यतां वसनं चेति च केचिदूचिरे ॥ २१ ॥ निहितं वसनं क्व तावकं रचयामोऽस्य गवेषणं वयम् । अथवा वसनं प्रगृह्यतामिदमेवेति च केचिदूचिरे ॥ २२॥ व्यसनं वसनापहारनं कथमेतद्भवतः समागतम् । त्वरितं च मदीयमंशुकं परिघेहीति च केचिदूचिरे ॥ २३ ॥ देवो नारायणोऽथ ज्वलनमुपगतं मन्दमन्दं वभापे चन्द्रालोकाभ्युपायं कथयितुमधुना बुद्धिकौशल्यशाली । 4s - काव्यमाला। 4 आनीतः खं समीपं स किल शशधरो लक्षितो देववृन्दै- स्तस्माद्याहीति याते तदनु च दहने देवदेवस्तिरोऽभूत् ॥ २४ ॥ निन्दन्तः केचिदिन्दुं कतिचन दयितां पावकस्य क्षिपन्तः स्वाहानाथस्य जाज्यं. महदिति च परे निर्विशङ्कं वदन्तः। चित्रं चित्रं चरित्रं सकलसुरपतेर्माधवस्येति भक्त्या- वैकुण्ठं संस्तुवन्तो निजमथ विबुधा मन्दिरं भेजिरे ते ॥ २५ ॥ स्वाहासुधाकरं नाम प्रवन्धमतिकोमलम् । अकरोदचिरेणैव नारायणमहीसुरः ।। २६.॥ इति श्रीनारायणभट्टपादकृतः स्वाहासुधाकरः समाप्त । नारायणसूनुश्रीकृष्णकविप्रणीतं ताराशशाङ्कम् । चञ्चञ्चन्द्रमरीचिमिश्चकचकचूडं चललोचना- चारुस्मेरकुचोपभोगघुसुणब्यालिप्तवक्षःस्थलम् । . विभ्राणं धनुरैक्षवं सृणिगुणौ पौष्पं शरं चोदय- त्सूर्यांशुप्रकरद्युति गणपति वन्दे जगन्मोहनम् ॥ १ ॥ दारुकावनविलोललोचनोदारकामकलनैककौतुकम् । कामिनीकलितवामभागकं वामदेवमनिशं श्रयामहे ॥ २ ॥ राधापयोधरतटीपटुचित्रकार- पाणि नखांशुचयकन्दलिताप्रवेणुम् । वन्दे कलिन्दतनयाजलकेलिलोल- गोपालिकावसनचौर्यपरं किशोरम् ॥ ३ ॥ श्रुतिपरिसरगुञ्जम्भरीशिजनीक मधुरिमनिधिचापं सौरभाधाररोपम् । १. 'स्वाहासुधाकरप्रबन्ध'कर्तुरेव नारायणस्यायं सूनरिति भाति. २. भ्रमरीमौ- किम्. ३. इक्षुचापम्. ४. पुष्पवाणम्. - - ताराशशाङ्कम् । ५९ दधदरुणिमसंपत्कोषमुन्मादितेशं मुखयतु मम भावं धाम शृङ्गारदैवम् ॥ ४ ॥ ताराधीशरुचिः सेयं तारा जयति संततम् । यद्विभूतिः सरसतां पदेषु तनुते कवेः ॥ ५ ॥ वाञ्छन्नपि कविकीर्ति लोकानां लालनीय एव स्याम् । लोके न हासहेतुश्चन्द्रकलाग्रहणचापलं हि शिशोः ॥ ६ ॥ कृतिर्मम नवीनापि कमनीया भवेदियम् । अप्रौढिमा नवोदेव रसिकानां कलाविदाम् ॥ ७ ॥ दोषान्निरस्य गृह्णन्तु गुणमस्या मनीषिणः । पांसूनपास्य मञ्जर्या मकरन्दमिवालयः ॥ ८ ॥ कलशजलधिगेहस्याक्षि यं वाममाहुः प्रथमरसविकासप्रौढिमश्रीनिवासम् । स जयति जगदेकानन्दनोद्दामधामा सकलविभवभूमा देवतासार्वभौमः ॥ ९॥ अयं सखायं मम चिन्त्यकायं चकार घोरेक्षणवीक्षणेन । इतीव रोषेण शिरः पुरारेराक्रम्य यो भातितरां कलात्मा ॥ १० कुमुदवलयव्यालोल श्रीविलाससुधासरि- धमकरकरश्रीकाद्राकाङ्गनासुमकन्दुकात् । अविरहयुवश्रेणीसाम्राज्यसौख्यसुरद्रुमा- त्रिजगति यतो निर्वर्ण्य वा न वर्ण्यमवेक्ष्यते ॥ ११ ॥ सुरासुरशिरोरत्ननीराजितपदाम्बुजः स राजसूयं सद्राजो विधातुमुपचक्रमे ॥ १२ ॥ अतिविचित्रतदुत्सववीक्षणोत्सुकहृदः ससतीसुतवान्धवाः । सुरनरोरगलोकनिवासिनः सरयमभ्यगमन्सकला जनाः ॥ १३ ॥ वाणीपाण्यग्रचञ्चव्यंजनभवमरुन्मृष्टहोमश्रमाम्बी दिकान्तालोचनान्तप्रसमरसहजप्रेमसाम्राज्यधानि । १. दुग्धाब्धिशायिनो विष्णोमिनेत्रं चन्द्रम्. २. शृगारः. .

' - -- ६० काव्यमाला। तस्मिन्सौन्दर्यमन्दीकतमदनमदप्राभवे श्रीसनामी सर्वासामङ्गनानां सपदि समपतन्दृष्टयः कामकृष्टाः ॥ १४ ॥ स एव जानाति विलासिनीनां कटाक्षतक्ष्ण्यं कमनीयमूर्तिः । योऽयं कलङ्कीत्यधुनापि लोकैरालोक्यते तेन गृहीतसारः ॥ १५ ॥ विस्मयस्तिमितनेत्रतारकं विस्मयस्फुरणपक्ष्म काचन । वीक्षते स्म तमतिस्मराकृति लक्ष्यसाधनमिवानुकुर्वती ॥ १६ ॥ निमिषद्भिरुन्मिषद्भिस्त्रपया कुतुकेन विकसितानङ्गैः । लावण्यनिधिमपाङ्गैस्तमापिबन्तीव कापि वभौ ॥ १७ ॥ अहो लक्ष्मीरहो रूपमहो लक्षणशालिता । अहो दाक्षायणीपुण्यमिति काचित्समालपत् ॥ १८ ॥ काचिदन्तःप्ररूढस्य कुतूहलमहीरुहः । कुसुमेनोद्गतेनेव स्मितेनाकलिता बभौ ॥ १९ ॥ अर्पयैतमधरं मधुरं ते मत्सखाय शशिने सहसेति । अन्तरङ्गजनपोन्नमितास्येवोन्मुखी गगनमैक्षत कापि ॥ २० ॥ चंकिता मृगीव काचिच्चलनयना वक्रिताननोद्रीवा । व्यलसत्परुषतरस्मरशरागमायनमवेक्षमाणेव ॥ २१ ॥ रेले काप्यङ्गभङ्गप्रसुतभुजलतालिङ्गितुं संप्रवृत्ते- वैका किंवापि वक्तुं चलितरदपटी चुम्बितुं प्रोद्यतेव । अन्या रोमाञ्चिताङ्गी वहिरिव विगलत्प्रौढमानान्धकारा- प्यन्योद्यन्मन्दहासा विमलरुचि किरन्तीव संमोहचूर्णम् ॥ २२ ॥ निमीलनिःश्वासा निमिषदरविन्दाभवदना तिरो मीलन्नेत्रा तनुजलकणालंकृततनुः । उदञ्चद्रोमाचा व्यलसदपरिस्पन्दसकल- प्रतीका काप्यन्तःकरणरतितान्तेव तरुणी ॥ २३ ॥ अपसरापसरेति पुरः स्थितं जनमिव ब्रुवती करकम्पितैः ।' अनुचकार लतामनिलोच्चलत्किसलयामपरा चपलेक्षणा ॥ २४ ॥ - . . . ३ ६१ ताराशशाङ्कम् । अयं किल भयंकर त्रिभुवनासुवातंधयं ससर्ज परुषं विषं तदिति पुष्कराक्षो रुषा। चकर्ष कैलशोदधेः सकलभाग्यसारं श्रिया सहामुमिति काचिदन्वलपदेणशावेक्षणा ॥ २५ ॥ काचित्तं हृदयंगमं मनसिजप्रेम्णेव संभावय- न्युद्यत्केलिमनोरथोत्सवरसोल्लासा वभासे क्षणम् । सवीडेव सकौतुकेव चकितवाह्लादिनीवोन्मदा संभ्रान्तेव च कोपना व्यसनिनीवानन्दसान्द्रेव च ॥ २६ ॥ परपुरुषमुखं न वीक्षणीयं कुलभवयेति विचिन्तयामि भूयः । घटयितुमपि पक्ष्म नैव शक्नोम्यहह किमेतदिति स्म वक्ति कापि ॥२७॥ किं पश्यामि किमालपामि किमहं ध्यायामि किं चिन्तये किं वाञ्छामि वितर्कयामि किमु किं तिष्ठामि कुवै च किम् । इत्यालप्तविकल्पजल्पितशता काचित्कुचोज्जृम्भणा- श्रुध्यन्तीमपि कञ्चुली विगलितां नीवी च नावैक्षत ॥ २८ ॥ दग्धो मारस्त्रिपुररिपुणेत्यद्य मिथ्या विजाना- म्येतं पश्यन्त्यहमिति सखी काचिदूचे ब्रुवाणाम् । मुग्धे किं त्वं भ्रमसि स तनुं तस्य हुलाक्षिवहीं लेभे तस्याप्यतिमदकरश्रीकमेतच्छरीरम् ॥ २९ ॥ अयं नात्रेः पुत्रो नयनमलजातस्य नु कथं भवेल्लावण्यश्रीरियमनुपमा सोऽयमथवा । तपःशक्त्या तेजोनिधिमपि हगुल्लासकममुं ससर्जाक गर्व तिरयितुमिति स्माह च परा ॥ ३० ॥ यदा सुमशरः शरं समसृजत्तदा पार्वती मनस्यकलयत्परं पुररिपुर्यदासौ शिरः । रुरोह विरहागमव्यसनतस्तदायेकतां तया स विषमेक्षणोऽप्यलभतेति काप्यालपत् ।। ३१ ॥ १. लोकत्रयप्राणहारकम्. २. विष्णुः. ३. क्षीरसागराव. - . 4 काव्यमाला। अत्रेः क्व शक्तिरपि तस्य पितुर्नहीड- गाश्चर्यवस्तुकलनेष्विति चिन्तयन्ती । कस्मानमामि मनसोऽभवदेष विष्णो- रित्याह नु श्रुतिरितीव जगाद कापि ॥ ३२ ॥ एवं स्मरेणाकुलितासु तासु व्यालोलदृष्टरुडुनायकस्य । - तस्यापि सांक्रामिकवद्बभूव स्मारो विकारः करणापहारी ॥ ३३ ॥ परा लक्ष्मीरेषा प्रथमरसवेणीयमतनो- रियं संपद्यूनामियमपि तपःसंततिफलम् । इयं देवी वात्स्यायनमुनिमतस्येति स तत- स्ततस्तास्ताः पश्यन्किमपि परमं प्रैक्षत महः ॥ ३४ ॥ किमेतदित्याकुलितान्तरात्मा विमृज्य नेत्रे मुहुरीक्षमाणः । तदन्तरे मानुषरूपमेकं ददर्श नारीत्यपि निश्चिकाय॥ ३५ ॥ श्यामामुन्मुखजानुसंगतभुजं सख्यङ्गदेशोलस- ज्जान्वध्यासितकूपरं करतलन्यस्तैकगण्डस्थलम् । आसीनां स्खलितांशुकान्तविकसद्वक्षोरुहां वीक्ष्य तां 'मायामेव मनोहराकतिधरां मेने स मैनध्वजीम् ॥ ३६ ॥ पुनः स रम्भा किमुतोर्वशीयं तिलोत्तमा गौतमसुन्दरी वा । रतिर्नु वाणी गिरिजा रमेति विचार्य वेत्ति स्म चिराय ताराम् ॥ ३७ ॥ तस्या गुरुनितम्विन्या लावण्यं रमणीयताम् । सौन्दर्यमपि संपश्यन्स एवं हृदयेऽकरोत् ॥ ३८ ॥ अहह महल्लावण्यं मोहनमूतैर्यतो ढगङ्गेऽस्याः । यतेनैव विधेया' रत्ने स्निग्धे शलाकेव ॥ ३९ ॥ नूनमालोक्य कान्तायाः कान्तिमस्यास्तडिल्लता । लज्जिता जातमात्रैव तत्र तत्र विलीयते ॥ ४० ॥ को नाम रामणीयकमेतस्या वर्णयेत्कविलोंके। एकैकमपि यदङ्ग न विमुञ्चत्यन्यतो दृशं प्राप्ताम् ।। ४१ ॥ -

No text on this page.

, काव्यमाला। . - - - सकलभुवनमोहनस्य केलीसदनमिति ब्रुवते यदङ्गजस्य । जघनमिदमृतं मनो विमूढं न पुनरतो विनिवर्तते यतो मे ॥ ५० तारुण्याङ्कुरवृद्धये मनसिजः सीमन्तकुल्यामुखे , लावण्याम्बुमवाहयज्झरमहो तेनालकान्पार्श्वयोः । कृत्वाधिक्यमितस्ततो विकृषता वक्षोजशैलाग्रतो वेगेनापतता निखातमुदरं श्रोणीभरश्चैधितः ॥ ५१ ॥ अंशैरियमभूत्नमिन्दिरापार्वतीगिराम् । यदङ्गेष्वपि सर्वेषु सौन्दर्यसुषुमा समा ॥ १२ ॥ अस्यां ममेव हृदयं मपि नूनमस्याः सक्तं स्मितेन लसितं चलितं कटाक्षैः । उन्मीलितं कररुहैः स्फुरितं करेण स्विन्नं हृदा समुदितं हि मनोरथैश्च ॥ १३ ॥ अतः परमहो सौख्यमैहिकं किमु देहिनाम् । अकृत्रिमतमप्रेमरमणीसंगमादपि ॥ १४ ॥ शृङ्गारो हि रसो मरुन्मलयभूमंडीप्रसून वय- स्तारुण्यं समयो मधुर्मनसिजो मित्रं सहायो मनः । उत्साहो बलमगना सहृदया दूतः सहासेक्षणं सारल्यं च गुणो रतिविरहणं सौख्यं तदैक्यं परम् ॥ ५ सन्तु स्वैरविहारसौभगभुवो वाराङ्गना निर्भर- व्रीडाविभ्रमवल्गुवल्पितरसाः स्वीयाः सुरूपा अपि । निर्व्याजप्रणयानुरागविकसद्वक्षोरुहालिङ्गनै- लोंके का नु पराङ्गनेव सरसं प्रेयांसमुल्लासयेत् ॥ ५६ ॥ निन्दन्तु सुमनसो वा कुर्वन्तु कुलाबहिर्वा माम् । सहृदयया परमनया सह वस्तव्यं क्षणं वापि ॥ १७ ॥ योगे भोगेऽपि सक्तानां वस्तुना हृद्भतेन यत् । अद्वैतं तत्परानन्दसाम्राज्यं सुधियो विदुः ॥ १८ ॥ . 4 . - - -

६
ताराशशाङ्कम् ।
एवं विचिन्तयन्नेव सवनं तत्समापयन् ।
स दक्षिणीकतक्षोणीवलयः कमलानुजः ॥ ५९ ॥
अभूदवभृथस्नानं यत्स एव सुधारुचेः ।
स्मारदीक्षाभिषेकोऽभूत्तारासंसक्तचेतसः ॥ ६ ॥
ताराविधू सहृदयावपि मन्मथातौं
ज्ञातेङ्गितौ सहसितेक्षणविभ्रमेण ।
तौ नूतनामिसरणत्रपितान्तरङ्गी
मुग्धाविव प्रभवतः स्म न चोपसर्तुम् ॥ ६१ ॥
न संगतयोविजने तयोः कुतुकिनोरपि च त्रपितात्मनोः ।
यहारि बभूव परस्परं सहसितं क्षणमीक्षणवल्गितम् ॥ ६२ ॥
अन्योन्यवीक्षणपदं महुरीक्षमाणौ
साकूतमत्र किमितीव ततस्ततस्तौ ।
अन्योन्यमीक्षणकलामिव शिक्षयन्तौ
ताराविधू व्यलसतां क्षणमात्तलज्जौ ॥ ६३ ॥
यदा मदनमार्गणत्रुटितमानवन्धादिव
त्रपा हृदयतश्श्युता निभृतकौतुकोज्जृम्भणात् ।
अकम्पत करस्तदा पुलकितः कपोलस्तयो-
स्तनुः श्रमजलाङ्किता स्तिमिततारका दृग्वभौ ॥ ६४ ॥
प्रसारय दयामयं मयि कटाक्षमित्याकुलं
वदन्गुरुनितम्विनीमुपससार चन्द्रो यदा ।
शनैगेलेलसत्पदं किमिदमाचरस्यङ्गज-
प्रियेति बहुशो वदन्त्यपससार सा कामिनी ॥ ६५ ॥

. काव्यमाला। 1 - . - १ - - - ॥ - - - मम दयस्व विलासवतीत्ययं चिबुकसीनि चकार करें यदा। त्यजति मामिति रोषवशेन तन्मुखमवक्रयदीषदिव त्रपा ॥ ६७ यदुपविवेश सा दलितकञ्चुलिकाविगल- न्मणिरशनावलग्नकरमीषदपत्रपिता। तदुपदिदेश कामसुहृदे किल कामकलां परवनितारतिक्रमविलासविबोधकरीम् ॥ ६८ ।। ताराधरसुधासारहारी सोऽयं सुधामयः । अभूदन्नानुरूपा हि तनुरूपविद्धयः ॥ ६९ ॥ दयिताकुचपक्षपातिता परमिन्दोरिति मन्महे वयम् । अधुनापि रथाङ्गपक्षिणौ यदयं तत्सदृशौ विवाधते ॥ ७० अमन्दानन्दश्रीकरणमुदयच्चाटुवचसो- स्तयोः किंवाप्यासीदसमशरलक्ष्मीविलसनम् । अनिर्वाच्यं कन्याजननयनकौतूहलपदं यदाहु/राणामपि हृदयचापल्यजननम् ॥ ७१॥ किमतः परं विचित्रं यदिन्दुनिकटेऽन्धकारमुल्ललति । वल्गति रथाङ्गयुग्मं कुवलयमपि मीलितुं यतते ॥ ७२ नीलोत्पले वा भ्रमरी तिरो भवेत्पाथोरुहे वापि मरालशावकः । यदेतयोर्मीलनमेकदा भवत्यदस्तु मायां मदनस्य मन्महे ॥ ७३ को नाम रतिसौख्यं तद्वर्णयेन्मतिमानपि । भवन्ति यत्रोल्लासाय नखदन्तक्षतान्यपि ॥ ७४ ॥ क्वचिद्रम्ये हये क्वचिदपि नदीकूलपुलिने क्वचिन्मौ कुञ्ज क्वचिदुपवने मन्दपवने । क्वचिल्लीलाशैले सरसतरसालेऽपि स तया समं सीमन्तिन्या व्यहरदसमश्रीरहरहः ॥ ७५ ॥ तारानुगाः काश्चिदमयमय॑भोगिस्त्रियो भोगरतान्तरङ्गाः । संगत्य ताभी रमते स्म नित्यं कृष्णो यथा गोकुलसुन्दरीभिः ।। - 4 ७२॥ . * - -- 1 . , Amanmade ना - ताराशशाङ्कम् । ६७ योगमार्गप्रवृत्तस्य सुषुम्णा नाडिकास्विव । तासु मुख्याभवत्तारा तस्य भोगरतात्मनः ॥ ७७ ॥ तत्पतीनुपचरन्निव यात श्वः परश्व इति वारयति स्म । स्वां पुरी जिगमिषून्मधुरोक्त्या सोऽयमङ्गजविलासरतात्मा ॥ ७८ ॥ राज्ञि सर्वानुकूलेऽपि बाहुल्येन मृगीदृशाम् । सापत्न्यकलहः प्रादुरासीदैकान्त्यघातुकः ॥ ७९ ॥ स्पष्टे किंचित्तदा चौर्य कामिन्योऽपि यथापुरम् । न शेकुरभिसर्तु तं चिन्तासंतानयन्त्रिताः ॥ ८० ॥ असन्तः कं नु निन्दन्ति सन्तो निन्दन्ति कं पुनः । नूनं रन्तव्यमित्येव काश्चिन्न तममूमुचन् ॥ ८१ ॥ ताराविरहितस्यासन्नन्या नानन्दहेतवः । तस्य लक्ष्मीवियुक्तस्य राज्ञः प्रकृतयो यथा ॥ ८२॥ कस्य नाम सुखाय स्यादनेकरमणीकता । तस्य राज्ञोऽपि यच्चित्तवैक्लव्यमुदपादयत् ॥ ८३ ॥ केचिच्चन्द्रं निनिन्दुः कतिचन वनिताः केऽपि शेपुस्तदानीं जेपुः केऽप्याभिचारं मनुशतमसुजन्केऽपि कृत्याः करालाः । तस्मिंस्तेजस्विनीदं सकलमपि मुधाभूतमालोक्य दिष्टं जानन्तः केऽपि दुष्टं सह युवतिजनैर्निर्ययुः स्वस्वलोकान् ॥ ८४ ॥ यातासु तासु वनितासु ततः क्रमेण लीलास्थलानि चरितानि च तानि तानि । दृष्ट्वा विचिन्त्य विमना विललाप शश्व- ताराविलासरसिकः स सखा स्मरस्य ॥ ८५॥ एतत्तदेव भवनं वनमेतदेव शैलोऽप्यय कुसुमराशिरय निकुञ्जः। सौधोऽप्यसौ किमु न भान्ति विशोचयन्ति सर्वेऽप्यहो विरहितं प्रियया तयाद्य ॥ ८६ ॥ १. चन्द्रे.

. काव्यमाला। - - - + . J दिशि दिशि नलिनाक्षि लक्ष्यसे त्वं तदपि न मोदयसे मनो मदीयम् प्रकटयति किमङ्गजः स्वमायामयि हृदयं मम मुह्यति प्रकामम् ॥ ८५ प्रियजनविरहादप्यस्ति दुःखं किमन्य- अयमपि भुवनानां नूनवद्भाति यत्र । किमु हृदयविकारश्चाक्षुषं वापि जाज्यं जगदिदमखिलं वा शून्यतामेत्यकाण्डे ॥ ८ ॥ वपुरतिशमस्तु वाष्पधाराविलमधुनाक्षि तदङ्गसङ्गहीनम् । हृदय दयितया [तया] क्षणं वा नहि विरहस्तव खिद्यसे किमर्थम् ॥ इदानीमप्यग्रे मम विचलतीव प्रतिपदो- चलच्चेलप्रान्ता चरणकटकोदारनिनदैः । मरालानाकर्षन्त्यनुपदमुदञ्चत्कुचतटी- पटाकष्टिक्रीडाविचलितकरा सा स्मितमुखी ॥९० । अद्याप्युल्लसतीव सा मम पुरः पाञ्चालिकेव स्थिता द्वारे केलिनिकेतनस्य कटिविन्यस्तैकहस्ताम्बुजा । अन्येनाददती करेण करतः सख्याः शनैर्वीटिका पश्यन्ती मम मार्गमेव विलसन्नीलोत्पलाभेक्षणा ॥ ९१ । अद्यापि मामिव समेति विलासिनी सा माद्यन्मरालमदहारिगतिमंगाक्षी । आच्छादयन्त्यनुपदं च विजृम्भमाणं वक्षोजमशुकसमीकरणच्छलेन ॥ ९२ ॥ अद्यापि प्रविलसतीव मे पुरस्तात्तन्वङ्गी धनकुचभारसंनताङ्गी । वीर्टी मे सकुतुकमर्पयन्त्युदारस्मेरास्या दरचलितप्रवालपाणिः ॥ ९३ अधुनापि धुनातीव करं मम कुचस्टशम् । करेण कङ्कणक्वाणकैतवान्मेऽतिशंसता ॥ ९४ ॥ अद्यापि मामिव परिष्वजतेऽतिवेल- कौतूहलत्रुटितकक्षुकसंधिबन्धा। - है - - 1 1 -- ॥

ताराशशाङ्कम् । ६९ काञ्चीलतां विगलितामपि नेक्षमाणा मल्ली रंसालमिव सा मधुरस्मितास्या ॥ ९ ॥ अद्यापि चिकुरभारप्रचलन्मल्लीमरन्दधाराभिः । अभिषिञ्चतीव सा मां कामकलोल्लाससौख्यसाम्राज्ये ॥ ९६ ॥ अद्याप्यग्रे मम विलसतीवानिशं सा रतान्त- श्रान्ता कान्ता लुलितकवरीभारचञ्चत्करान्ता । खेदाद्रेण प्रविशदरुचा वाससोडासिताङ्गी सद्यो दुग्धाम्बुधिसमुदिता श्रीरिव वर्णगौरी ॥ ९७ ॥ इतः परं च कि दुःखं कामुकस्य न यत्प्रिया । लक्ष्यते नयनोन्मेषे लभ्यते करवरिगते ।। ९८ ॥ तच्चिन्तयामि परिषत्सु पराङ्गनानां सभ्रूविलासमलसैर्वलितैरपाङ्गैः। कंदर्पकार्मुकलतोत्पतितैरिवारै- धैर्य ममापचिनुते स्म हसन्मुखी सा ॥ ९९ ॥ तच्चिन्तयामि चित्रुकाकलिताङ्गुलिभू- भङ्गाभिरामदरवक्रितवक्त्रमणा । संभाव्य मां मनसि पूर्णमनोरथा सा चित्रार्पितेव यदभात्पुलकाचिताङ्गी ॥ १० ॥ तच्चिन्तयामि मयि चञ्चदपाङ्गमङ्ग- भगोन्नमद्भुजशिरःस्खलदंशुकान्तम् । जृम्भाविरामविकलोक्त्यवदगुजेव कान्ते क्षणं कुरु कृपामिति सा यदालीम् ॥ १०१ ॥ तच्चिन्तयामि रहसि खयमन्तिकं मे प्राप्तापि यन्मम करं चिबुकाग्रलोलम् । मा मेति वल्गु निगदन्त्यरुणत्प्रकम्प्र- हस्ताहतत्रुटितकञ्चकनीविवन्धा ।।, १०२ ॥ , काव्यमाला । . ताच्चन्तयामि गुरुसाध्वसलोलनेत्र- मुद्यत्रपास्खलितचाटुनिषेधवाक्यम् । इंपत्पराकतदुकूलमनङ्गचौर्य- विक्रीडितं किमपि भोगिकुलैकभाग्यम् ॥ १०३ ॥ तच्चिन्तयामि सदनं मम सा समाया- न्त्येकांकिनी क्व चलसीत्यनुयुञ्जता यत् । लीलाशुकेन मृदु लापयति स्म तारा कान्तस्य संनिधिमितीव सयुक्ति भीरुः ॥ १०४ ॥ तच्चिन्तयामि सततं मयि चूचुकाग्र- चञ्चत्करे पुलकधर्मजलाचिताङ्गी। यत्वाम्बरं विगलदप्यनवेक्षमाणा मच्चे न्यषीददचिरं विनिमीलिताक्षी ॥ १०६॥ तच्चिन्तयामि निजपाणिनखाग्रकान्ति- संछादित जघनधानि हृतान्तरीये । मामंशुकापनयनाय पुनश्चलान- हस्तं विलोक्य हसितं दरमीलिताझ्या ॥ १०६ ॥ तच्चिन्तयामि सततं चरितं मनस्वि- सायुज्यसंपदयनं वचसामभूमिम् । यत्तत्त्वमक्षिपरिपीतमनोजसारो वेत्येक एव वनितायितवाममूर्तिः ॥ १०७ ॥ तच्चिन्तयामि मयि केलिकतापराधे व्यर्थाशयेऽपि कपटेन निमीलिताक्षे । ईषद्विवत्य शनकैरधरं ममाशु संदर्य यन्निववृते विकसन्मुखी सा ॥ १०८ ॥ तच्चिन्तयामि सततं शयिता समीपे- ऽप्याकाहितार्थसफलीकरणासमर्था । - . . ताराशशाकम्। ७१ . अधोन्मिषन्नयनमाननमादरान्मे पश्यन्त्यभाद्विवशितेव यदङ्गजेन ॥ १०९ ॥ तच्चिन्तयामि मनसि स्मितदीपशोभा शोभायमानधनपुष्पकपोलरङ्गम् । उच्चक्रविभ्रममुदश्चितकण्ठनाद- मुल्लासकं किमपि कर्णमणीप्रवृत्तम् (1) ॥ ११० ॥ तच्चिन्तयामि गतमोहमदुःखगन्ध- मन्तर्गतश्वसितमुज्झितनादरूपम् । तत्पूर्वमेव निमिषन्नयनच्छदार्ध- लीनालिकं किमपि कामिकुलैकसौख्यम् ॥ १११ ।। तच्चिन्तयामि सुरतान्तनितान्ततान्त- मास्यान्तरे विनिहितं मम कान्तकान्तम् । यद्विस्मृतस्मितमपि स्फुटतालुगर्भ- ताम्बूलमङ्कुरितहासमिवाननान्जम् ॥ ११२ ॥ तचिन्तयामि निनभर्तृसमागमोक्ति- माकर्ण्य पान्थमुखतः परुषां मृगाक्षी । निःश्वस्य दीर्घमसुमारुतमुच्चलन्तं संरुन्धतीव हृदये विदधे करं सा ॥ ११३ ॥ तच्चिन्तयामि हृदि लग्नमिवोग्रशल्यं तेन द्विजन्महतकेन विनीयमाना । मामश्रुकोरकितपक्ष्मदृशा निरीक्ष्य व्योनि व्यकल्पयत यजलदश्रियं सा ॥ ११४ ॥ इति स्मारं स्मारं बहुविधमुदञ्चजलकणां दृशं वारं वारं दिशि दिशि विवृण्वन्विकलधीः । मुहुयायं ध्यायं पुर इव चरन्ती तत इतः पुनोमं भ्रामं व्यलसदसमोन्माद इव सः ॥ ११५ ॥ १. वृहस्पतिना.

. ७२ काव्यमाला। । - तारापि नाकं प्रययौ कथंचिद्देशान्तरावासगदातुरेव । श्लथस्तनी क्षामकपोलभागा पाण्डुद्युतिश्चन्द्रवियोगखिन्ना ॥ ११६ ॥ तां वेपमानां परिशुष्कवक्रां स्विद्यत्तनुं निःश्वसती निकामम् । मार्गश्रमेणाकुलितां विदित्वा देतो गुरुः पश्यतमित्युवाच ॥ ११७ ।। नाडीपु विस्फुरति धर्म तनौ च वायु- श्चिह्न शरीरजगदोऽयमवाच्यरीतिः । खैरस्थितरुपशमोऽस्य भवेदितीव व्यालोक्य तां जगदतुभिषजौ सुराणाम् ॥ ११८ ॥ दलति द्विधा न हृदयं भवत्यहो ज्वलति स्फुटं न वपुरेति भस्मताम् । भ्रमतीव दृग्विगलतीव चेतना जगदद्य शून्यमिति सालपन्मुहुः ॥ ११९ । क्षणमिव पुरः स्थितं तं समीक्ष्यमाणापि सान्द्रमन्दाक्षा । व्यनमयदीषद्वदनं स्तनवसनं सा समीचकारेव ॥ १२० ॥ कदा नु दयिताननं तदवलोकये सस्मितं कदा परिरभे च तं त्रुटितकञ्चुली संभ्रमात् । कदा तदुरसि स्वपिम्यहमनङ्गलीलालसे- त्युदञ्चितमनोरथा न विदधे निमेषं च सा ॥ १२१ ॥ नवकिसलयतल्पे वक्रिताङ्ग शयाना निमृतकशशरीरा दुनिरीक्ष्यातिपाण्डुः । नवविकसितसंध्यारजिताङ्गी द्वितीया शिशिरकरकलेव प्रेक्षणीया बभूव ॥ १२२ ॥ वामानविस्फुरणमप्यनुभूतपूर्व सौभाग्यसूचकममस्त मरुद्गदं सा। शून्यं जगत्सकलमित्यवगच्छतां किं विश्वासपात्रमसमव्यसनाकुलानाम् ।। १२३ ॥ क्षणं सवीडेव क्षणमिव सकौतूहलभरा क्षणं चिन्ताक्रान्ता क्षणमिव च केलिप्रकुपिता । १. “हे दतौ अश्विनीकुमारौ, युवां पश्यतम्' इति गुरुरुवाचेत्यर्थः. . , -- + ५ - ताराशशाङ्कम् । ७३ क्षणं सानन्देव हियमपि च संत्यज्य मदन- ज्वराटोपभ्रान्ता गदितुमसमं प्रारभत सा ॥ १२४ ॥ परिचरता स्वयमालीजनेन शिशिरोपचारेषु । प्रोक्तो हिमकरशब्दो मूर्छालां तामवोधयच्छश्वत् ॥ १२५ ॥ सा स्मरज्वरसंतापसंभ्रान्तासूनमूमुचत् । तेऽपि ताडक्शरीरस्यालाभात्तां पुनराश्रयन् ॥ १२६ ॥ प्रवालतल्पे शफरीमिव स्थले परिस्फुरन्ती प्रसवेषुणोल्वणम् । अङ्गारभङ्गष्विव रोपितां रहः समेत्य तां प्राणसमावदत्सखी ॥१२७॥ तवेयानिति संतापं के नु निर्णैतुमीशते । ज्वलन्ति सकलाङ्गानि यस्य निर्ववर्णनेऽपि नः ॥ १२८ ॥ यतेत नित्यं सुमतिः सुखाप्तये दैवं हि साह्यं कुरुते क्रियावताम् । अचेष्टमानस्य कथं वयं मुखे पतेयुरन्धःकवलाः शुभेक्षणे ॥ १२९ ॥ तदर्चय त्वं जगदेकमोहनं मनोभवं त्वं नमतामभीष्टदम् । वकीयतापं प्रभवत्यपोहितुं स एव पूषेव कृपाम्वुवष्टिभिः ॥ १३०॥ इतीदं वचनं सख्याः संमान्य विरहातुरा । शनैः प्रातिष्ठतोद्यान रहः पूजयितुं स्मरम् ॥ १३१ ॥ यान्ती कथंचिदुद्यानं सह सख्या तया शनैः । पदे पदे विमुह्यन्ती विविधं विललाप सा ॥ १३२ ॥ मुखायागन्तुमीहन्ते सर्वे सुकृतिनो दिवम् । हा हन्त मम पापाया दुःखायाद्य दिवि स्थितिः ॥ १३३ ।। मन्दमन्दमनुयासि मां सखे गन्धवाह शुभसूचनाकते । मन्दभाग्यकशिरोमणेरहो कंधरां समुपयान्ति मेऽसवः ॥ १३४ ॥ कोकिल काकलिकां वं मा कुरु यावत्समेति नो कान्तः । दयिते समागते मे कलयेः कोलाहलं सह स्वीयैः ॥ १३५ ॥ अलिनि नाद्रियसे मम याचनां कलरवैर्विकलां मम चेतनाम् । कलयसे हि समेतु स मे प्रियो निगलितां कलये नलिनोदरे ॥ १३६ ॥ १. ओदनग्रासाः. १० ७४ 'काव्यमाला। । . रथाङ्गि पत्या सममग्रतो नटन्त्युदञ्चयस्यद्य मनोव्यथां मम । समागते मे दयितेऽपहास्यतामुपैषि शोचन्त्यनवेक्षितप्रिया ॥ १३७ ।। कः क इति राजहंसि ब्रवीषि किं त्वं न वेत्सि मम कान्तम् । योऽभूदत्रेयनाज्जगदेकानन्दकः श्रीमान् ॥ १३८ ॥ मनोमयस्त्वं मनसो हरेरभूमनोजमिन्नं जगतां मनोहरः । मनोगतं किं नु न वेत्सि कान्त मे ममैव दौर्भाग्यमहो महत्तरम् ॥१३९ इत्याद्यनुपदं शोचन्त्यनङ्गशरपीडिता । शनैरगमदुद्यानमवलम्ब्य सखीकरम् ॥ १४० ॥ चन्द्रोऽपि मुह्यन्विवशः स्मरातों विचिन्त्य नानाविधमाकुलात्मा । न जीवितुं शक्यमपि क्षणं वा प्रियां विना तामिति निश्चिकाय ॥१४ तां पश्यामि दरस्मितां सहसितं जल्पामि साचीक्षणं पश्यन्त्याश्चिबुकं स्टशंश्चलकरश्चुम्बामि बिम्बाधरम् । आलिङ्गाम्यतिकौतुकेन कठिनापीनस्तनी गाढमि- त्युद्यत्केलिमनोरथः स शनकैः प्रातिष्ठदैन्द्र पुरम् ॥ १४२ ॥ प्रस्थितस्य शुभं तस्य प्रशशंस स्फुरन्भुजः । अनुगोऽभून्मरुत्पोतो मानसं च पुरःसरम् ॥ १४३ ॥ उत्साहे सति किं शक्त्या कामे सुहृदि किं भटैः । किं रथेन च संकल्पहये सति मनोरथे ॥ १४४ ॥ पुरःस्थितां भावनया पुनः पुनस्तिरोभवन्ती हृदयस्य चापलात् । ग्रहीतुकामो हरिणीमिवाधिकलतप्रयाणामगमन्निशाविटः ॥ १४५ ॥ प्रसीद परिहासस्य नैष कालः शुचिस्मिते । परमात प्रपन्नं मां पाहीत्यनुललाप सः ॥ १४६ ।। मुहुर्विमुह्यन्मुहुरुत्थितो व्रजन्मुहुर्विशोचन्विहसन्मुहुर्लपन् । उन्मत्तरूपोऽपि स दैवयोगतो वनं तदागात्प्रियया तया स्थितम्।।१४७ वसन्तलक्ष्मीनटनैकरङ्गं विमृज्य वाष्पं बहुशो वनं तत् । वियोगिनां प्राणहरं प्रपश्यन्विसिस्मिये सोऽयमचिन्तयच्च ।। १४८ । . .

ताराशशाङ्कम्। ७९ . नूनमत्र मनःकान्ता वसेन्मम विलासिनी नान्तरङ्गं हि निर्व्याजं रुचिरेऽपि प्रवर्तते ॥ १४९॥-:- विरहिणां यमकिंकरगर्जितप्रतिममप्यधुना मधुरायते । पिकशिशोरिह कूजितमूर्जितं कुसुमितापरसालविलासिनः ॥ १५०॥ उदश्चयति रोमाञ्चमुल्लासयति मानसम् । उन्मूलयति संतापमनिलोऽम्बुजसौरभः ॥ १५१ ॥ विसृज्य कुसुमानीह-विद्रवन्तो मधुव्रताः। प्रदर्शयन्ति मे मार्गमिवैते मधुरस्वराः ॥ १५२ ॥ इदं विकचपङ्कजं सर इमेऽपि मन्दानिलो- लसत्कुसुमलालसभ्रमरपतयः स्वर्द्वमाः । इयं पुलिनविभ्रमोन्मदमरालवामालिरि- त्ययं सहसितेक्षणस्तत इतोऽविशत्तद्वनम् ॥ १५३ ॥ प्रविशंस्तत्र शुश्राव तारायाः करुणां गिरम् । मनीषितफलावाप्त्यै प्रार्थयन्त्या मनोभवम् ॥ १५४ ॥ सांसारिकपरानन्दकन्दं कंदर्पमेव तम् । वन्दामहे किमपरैरदृष्टमुखसाधकैः ॥ ११५ ॥ आसीद पौरुषं चान्तकारः शौरेः सद्यो भीरुतैवाविरासीत् । मायावेषाद्यस्य तस्यात्मयोनेर्माहात्म्यं ते को नु विज्ञातुमीप्टे ॥१५६ ।। लोकातीतं वस्तु किं वा चकास्तीत्याभाषन्ते शास्त्रविज्ञा महान्तः । जाने तस्याप्यङ्गजात प्रमुं त्वां मायायोगात्पौरुषं नाम तस्य ॥ १५७ ॥ एकं द्विधा कलयितुं सकलाः समर्था द्वावेकमारचयितुं वहते न कोऽपि । वामर्चयामि तदहं सुचिरं त्वयैव संतापितौ घटय नौ भगवन्मनोज ।। १५८ ॥ श्रुत्वा स मधुरां तस्या वाचं वाचामगोचरम् । आनन्दमन्वभून्नष्टां श्रियं प्राप्येव भूमिपः ॥ १५९ ॥ - । काव्यमाला। - - । -- . विधिरमणीपाणिरणन्मणिवीणागुणकलक्कणोदारः। ' ' मरुदवनीरमणवनीचरदलिनीमदहरः स्वरः कस्याः ॥ १६० ॥ एवमानन्दसाम्राज्यविवशो बहुशः शशी। विचिन्त्यात्रैव तारेति निश्चिकाय चिराय सः ॥ १६१ ॥ आकर्णयन्कर्णसुखानि तस्या वाक्यानि,चैतन्यविकासकानि । ईचिक्षिषासंभ्रमलोलदृष्टिर्मुद्न्करीव व्रततीर्जगाम ।। १६२ ॥ स तत्र चैकत्र सुरढमस्य प्रगृह्य वामेन करेण शाखाम् ।। कोषीभवत्पङ्कजसुन्दरेण परेण पुष्पाण्यवचिन्वती ताम् ॥ १६३ ॥ वामेतरांसस्खलितोत्तरीयामुत्कंधरामूर्ध्वविलोलदृष्टिम् । कर्णावलम्बिप्रसवानलम्बिरोलम्बशङ्काकरकुन्तलालिम् ॥ १६४ ।। संकोचिताङ्गं चलनेत्रतारमाकुश्चितभ्रूकुटिकम्प्रहस्तम् । कचित्वचिद्भुङ्गनिपातभीत्या शनैः प्रसूने करमादधानाम् ॥ १६५ ॥ अलं प्रसूनावचयेन भद्रे मनोभवा वसरोऽयमायात् । करण्डपाण्येति विवोध्यमानामाल्या मुहुः श्रान्तसमस्तगात्रीम्॥१६॥ नमो नमस्ते भगवन्प्रसीद प्रपन्नकल्पद्रुम मन्मथेति । मुहुर्वदन्ती मदनामितापविशोषिताङ्गी स्वरमात्रबोध्याम् ॥ १६७ ॥ अशोचनीयां प्रियदर्शनां च वातेन पत्रावलिशोषणेन । स्टष्टा लता माधविकेति शङ्कयां प्राणप्रियामैक्षत शीतरोचिः॥१६८॥ हृष्टः समेत्य पश्चात्कुचतटचलदेकपाणिरेप शनैः । अवटुतटघटितकुसुमं कवरीभरमग्रहीत्तस्याः ॥ १६९ ॥ आकृष्यमाणेव लतातिभीरुर्निरत्य तं चन्द्रमसं निरीक्ष्य । ईषत्रपावक्रितगात्रयष्टिः स्तब्धा क्षणं सा प्रतिमेव रेजे ॥ १७० ॥ आलिङ्गय निश्चलकराग्रगलत्प्रसूना- मादाय सोऽपि तरलाङ्गुलिपल्लवान्तः । आरोग्य चाङ्कमुवि संकुचिताङ्ग्यष्टि- माचुम्बति स्म वदनं कुचलोलपाणिः ॥ १७१ ॥ १. ईक्षितुमिच्छा.

ताराशशाङ्कम् । आनन्दसाम्राज्यनिमग्नचेतसोर्यापुरं पोषमवापतुस्तनू । क्षणात्तयो व्यमिव व्यभाज्जगत्समस्तमासीन्मतिरीदृशी तदा ॥ १७२ ॥ योगानन्दमखण्डं किमिति ब्रुवते महाकवयः । नूनं शास्त्रव्यसनान्नासीद्भोगेषु तेषां धीः ॥ १७३ ॥ अनशननियमेन श्रौतचिन्ताकुलाना- मजनि मुनिजनानां नूनमुन्माद एव । परममिति हि किं वा सादरं संगिरन्ते सहृदयजनसङ्गानन्दसाम्राज्यतोऽपि ॥ १७४ ॥ विनाशो दुःखानां विरतिरपि मोहस्य महतः सुखस्यापि स्फूर्तिर्न भवति किमत्रैव सततम् । विशेषः को मोक्षे श्रुतिरपि च भोगैकफलदाः क्रियाः प्रोचे कण्ठादुपरि परमं ब्रह्म तदिति ॥ १७५ ॥ तयोश्चिन्तयतोरेवमानन्दाम्बुधिमग्नयोः । प्रययौ सा सखी भोज्यपदार्थादानकैतवात् ।। १७६ ॥ ततः कृतार्थः स तया समं शशी निषेवमाणो मरुतं ततस्ततः । संप्रस्थितः खं निलयं जगाद तां विलासभूमी रुचिराः प्रदर्शयन्॥१७७॥ स्मरसि यदिहारामे रामे सुमान्यवचिन्वती हरति मरुति क्षौमं वासः समीक्ष्य मम स्मितम् । अयमुपसरेदित्यात्त्य द्रुतं जघनस्थली त्वमपिदधती सून लूनं समस्तमवाकिरः ॥ १७८ ॥ स्मरसि विहरतोः पुरावयोः किं सरसि घनस्तनि यत्त्वमीjयात्र । नलिनमुकुलसंग्रहप्रवृत्ते मयि जलपूर्णमुखेन फूदकार्षीः ॥ १७९ ॥ स्मरसि च कपोतपोतस्वरमनुकलयेति वदति मयि यदिह । त्रपिता सस्मितमवदः कुपितेव न पौरुषं तवाहमिति ॥ १८० ॥ स्मरसि किमवचिन्वती सुमानि भ्रमरक एष विजृम्भते हृदीति । वदति मयि विधुन्वती दुकूलं सरयमगाः किल चम्पको यन्त्र ॥ १८१॥ १. अपिदधती आच्छादयन्ती.

. ७८ काव्यमाला। स्मरस्यपि चलेक्षणे प्रतिकृति तवाम्भोरुहा- द्रमामिव परिच्युतां सरसि वीक्षमाणे मयि । . भृशं किल विशङ्किताद्भुतमुपेत्य दृष्ट्वा सर- स्वपाविवशिता शनैरपससार यत्त्वं पुनः ॥ १८२ ॥ स्मरस्यम्भोजाक्षि त्वमयि सुमनःकन्दुकहता मया मध्ये वक्षोरुहमखिलगात्रोद्गतजला । विमुबन्तीवेपन्मुकुलितगालम्बति मयि प्रबुद्धा, मद्धस्तं रुष इव यदाधूनयदिह ॥ १८३ ॥ स्मरसि किमु चाटुवाक्यं मयि लापयति त्रपाकुला त्वमिह । यत्केलिशारिकायै व्यतरस्तुष्टेव शिखरिवीजानि ॥ १८४ ॥ स्मरस्यप्यक्षकेली मां विजित्यापि यथापणम् । अवाप्तुं पौरुषं नालमभूर्यदिह कामिनि ॥ १८५ ॥ इति प्रदर्शयंस्तांस्तान्विलासविषयान्विधुः । शनैः शनैस्तया साकमगारमगमन्निजम् ॥ १८६ ॥ वक्षोजौ मेचकानाविव जनितकिणौ रिङ्गणैरङ्गुलीना- मीषत्पाण्डू कपोलाविव मुषितकलौ डम्बरैश्चुम्बनानाम् । चित्रैर्नाभी चपेटैरिव निभृतमुदं मध्ययष्टिं च किंचि- त्पुष्टां चक्रे प्रियायाः कतिपयदिवसैरेव मित्रं स्मरस्य ॥ १८७॥ तस्यां कदाचिन्निकटस्थितायां मुख्यैः मुहृद्भिः सहितः सितांशुः । दूतं गिरीशस्य गिरोपयातमुवाच मन्दस्मितलाञ्छितास्यः ॥ १८८ ॥ रूपानुरूपगुणविभ्रमलोभनीया- मतां कथं कथमपि प्रयतो विधाता । निर्माय हन्त निगमाध्ययनालसस्य हस्ते चकार सुरलोकपुरोहितस्य ॥ १८९ ॥ समित्कुसुमपलवच्छदपवित्रदर्भाङ्कुर- भ्रमाकुलितचेतनः क सुमनःपुरोधा गुरुः । १. दाडिमवीजानि. -

ताराशशाङ्कम् ।
७९
पटीरहिमवालुकामृगमदत्रगुल्लासिनी
क चेयमसमाशुगागमकतव्रता कामिनी ॥ १९० ॥
अभिज्ञानामाद्यो निरुपममहाः प्रौढिमनिधि-
महेश्वर्यावासः सरसहृदयः प्रीतिजननः ।
तथापि श्रौतार्थव्यसननिरतो मे पतिरिति
ध्रुवं शोचन्त्येषा समजनि कशाङ्गी सुवदना ॥ १९१॥
दीपिकेवाकुलदृशो दरिद्रस्य मणीव च |
परं परोपभोगाय वैदिकस्य विलासिनी ॥ १९२ ॥
तदेतया विलासिन्या तस्य किं नु पुरोधसः ।
भजेति चेटिकां ब्रूहि कामकण्डूतिशान्तये ॥ १९३ ॥
भ्रातुः परिग्रहपरिग्रहणप्रवृत्तो-
ऽप्यास्तां गुरुः स विरहातिविमूढचेताः ।
कि दारुकावनवधू गिरिशोऽप्यहल्या-
मिन्द्रो नहि स्मरति गोपसतीरुपेन्द्रः ॥ १९४ ॥
अस्त्वेतदखिलं लोकः स्वदोषं नैव पश्यति ।
वदेन्द्रोपेन्द्रसहितं भवभक्तिवशं गुरुम् ॥ १९५ ॥
समानहृदयामिमां श्रितवतः स्वयं संगतां
किमत्र मम दुष्कृतं कथमियं विसृज्या च मे ।
अयुक्तमभिभाषसे यदि तवाद्य कण्डूः परा
द्रुतं पशुपते स मे ह्यचलतेजसं मामिति ॥ १९६ ॥
ततस्तस्मिन्गते दूते समीकाय पिनाकिनम् ।
आह्वयन्तमभिप्रागाच्छुक्रशिष्यैर्वतः शशी ॥ १९७ ॥
आसीद्देवासुराणामथ युगविगमादित्यसंभेदशङ्का-
कारिक्रूरास्त्रशस्त्रप्रभवहुतवहज्वालजालोल्वणं तत् ।
घोरं तारामयाख्यं रणमुदधिपरिक्षोभसंभूतवीची-
घोषत्रस्यद्दिगन्तद्विरदवरशिरश्चालितक्षोणिचक्रम् ॥ १९८ ॥
स्वस्खास्त्राभ्यां रुद्रसोमौ समेतौ दृष्ट्वा धाता तो जगन्नाशशङ्की ।
आविर्भूयावार्य युद्धं मृदृक्त्या जीवाय द्वाग्दापयामास ताराम् ॥ १९९ ॥

. ܘܐ काव्यमाला। . पराहितं गर्भमये त्यजेत्यथो तारा धवेनाभिहिताभ्यसूत सा । 'शिशुं तमालोक्य मनोहरं गुरुः शशी ममेति व्यवजहतुस्तदा ॥ २०० ॥ कस्यैष वाल इति सा बहुभिश्च पृष्टा मौनं यदा न विजहौ स शिशुस्तदात्वे । क्रुद्धो जगाद जननीमयि दुर्विदग्धे घोरं शपामि यदि नो वदसीति शीघ्रम् ॥ २०१॥ शिशोर्वाक्यं तदाकर्ण्य सर्वे सुमनसस्तदा । विस्मिताः समपद्यन्त साक्षाद्विप्णुं स्म तं विदुः ॥ २०२॥ तारा तदनु विधात्रा विजने कस्यैप वाल इति दृष्टा । चन्द्रस्यति शनैः सा मन्दाक्षभरानमन्मुखी न्यगदत् ॥ २०३ ॥ शिशुरेष महाबुद्धिर्बुध इत्यभिधीयताम् । इति जल्पन्विरश्चिस्तं विततार सितांशवे ।। २०४ ॥ लब्ध्वा सुतं सितांशुः सती च वाचस्पतिस्तदा दृष्टः । खं गृहमगमन्सर्वे सुरासुरास्तत्कथां प्रशंसन्तः ॥ २०५ ॥ श्रीकृष्णराजकरुणैकनिकेतनेन कृष्णेन भागवत इत्यभिशब्दितस्य । नारायणस्य तनयेन समीरितेयं तारासुधाकरकथा विदुषां मुदेऽस्तु ॥ २०६ ॥ इति भागवतनारायणसूनुश्रीकृष्णकविप्रणीत ताराशशाई काव्य समाप्तम् । रामचन्द्रकविकृतं रसिकरञ्जनम् । सटीकम् । शुभारम्भेऽदम्भे महितमतिडिम्भेङ्गितशतं मणिस्तम्भे रम्भेक्षणसकुचकुम्भे परिणतम् । - १. वैराग्यशृङ्गारार्थद्वयसमान सटीकमेतत्काव्यमयोध्यानगरे लक्ष्मणभट्सुतो राम- चन्द्रकविः १५२४ मिते निस्तसवत्सरे प्रणिनायेति ग्रन्थसमाप्तितो ज्ञायते. एतत्पुस्तकं . - , - , । रसिकरअनम् । अनालम्बे लम्बे पथि पदविलम्वेऽमितसुखं तमालम्बे स्तम्वेरमवदनमम्वेक्षितमुखम् ॥ १ ॥ शुभेति । शुभाना कर्मणामदम्भे दम्भरहित आरम्भे महितं पूजितम् । डिम्भान्या- लानतिकान्तम् इङ्गितानां चेष्टानां शत यस्य तम् । रम्भाया ईक्षणेन सकुचकुम्भे म- णिस्तम्भे परिणत तिर्यक्प्रहारासक्तम् । अन्यगजकुम्भभ्रमेण । अनालम्बे दीर्धे पथि प- दानां विलम्बन लम्बोदरतयामितमपरिमितं सुखं यस्य । अम्बया पार्वत्या ईक्षितं मुखं यस्य । एवंविघं स्तम्बरमवदनमालम्बे आश्रये ।। विशिष्ट श्रीभावालयनयनमुद्राविवरणे मुखं यस्या यस्माद्विलसति मिलत्कुञ्चिकमिव । स तस्याः स्वारस्याकलितचरणे काव्यकरणे कवीनां प्रावीण्यं कुवलयवतंसोऽवतु गिरः ॥ २ ॥ विशिष्टति । तस्या गिरः कुवलयकर्णाभरण कवीना काव्यकरणे प्रावीण्यमवतु । की- दृशे काव्यकरणे । स्वारस्येनानायासेनाकलिताः स्फुरिताश्चरणा यत्र । यस्मादवतसात् यस्या गिरो मुख विशिष्टा या श्री. शोभा भावा विलासाश्च तदालयरूपं यनयन तस्य या मुद्रा तद्विवरणे तदुद्धाटने मिलन्ती कुश्चिका यत्र तदिव विलसति ।। एकश्लोककृतौ पुरः स्फुरितया सत्तत्त्वगोष्टया समं साधूनां सदसि स्फुटां विटकथां को वाच्यत्त्या नयेत् । इत्याकर्ण्य जनश्रुतिं वितनुते श्रीरामचन्द्रः कविः श्लोकानां सह पञ्चविंशति शतं शृङ्गारवैराग्ययोः ॥ ३ ॥ एकेति । स्पष्टोऽर्थः ॥ अपापधनसंचतेरविशदस्मितात्युन्नम- समस्तनरसादरग्रहणतः कृतार्थप्रिया । रतिर्मनसि जायते यदि कदापि शौर्याश्रया 'तदैव सकलं जनुः सफलमेवमाहात्मभूः ॥ ४ ॥ अपेति। [वैराग्ये- यदि कदापि शौर्याश्रया शौरि. कृष्ण आश्रयो यस्या सा रतिः प्रीतिर्मनसि जायते तदैव सकल जनुर्जन्म सफलमित्यात्मभूब्रह्मा आह । कीदृशी रतिः । अपापघनसवृतेरविशदस्मिता पापनिविडसंवरणव्यतिरेकान्न विशन्ती अस्मिता अहं- चास्माभिः १७०३ मितविक्रमसवत्सरे लिखितमधिगतम्. एतत्कविप्रणीतं रोमावली- शतकमप्युपलभ्यते. १ काव्यमाला। - कारो यस्यां सा । पुनः । अत्यन्तमुन्नमन्तः समस्ता ये नरा अम्बरीषादयस्तेषां यत्सादरं ग्रहणं ततः कृतार्था ये शुकादयस्तेषामपि प्रिया ॥ [शृङ्गारे-] यदि शौर्यमाश्रयो यस्या एवंविधा रतिः कामवधूमनसि जायते मनसिज इवाचरति तदैव सकल जन्म सफलमित्यात्मभूः काम आह । कीदृशी रतिः । अपगता- पघनानामवयवाना या सवृतिगच्छादनं ततोऽविशदमव्यक्त स्मितं यस्याः सा । पुनः । अत्यन्तमुन्नमन्तावुत्पतनादिना समौ यौ स्तनौ तयो रसेनावेशेनादरेण यद्हणं ततः कृ. तार्थः प्रियो यस्याः सा ॥ अकलियुगमखर्वमत्र हृद्यं व्यचरदपापघनो यतः कुटुम्बी। मम रुचिरिह लक्ष्मणाग्रजेन प्रभवति शर्मदशास्यमर्दनेन ॥५॥ अकलीति। वि०-] अत्र ससारे अकलियुगं कलिव्यतिरिक्त त्रेतादियुगं महत हृद्यं हृदयगमं भवति । यतो युगात् कुटुम्बी संसारी न पापधनः सन् व्यचरत् । अत एव इह त्रेताया लक्ष्मणाग्रजेन रामेण मम रुचि. प्रभवति शर्म सुखं च दशास्यमर्दनेन प्रभवति ॥ [शृ०-] अखर्वे पीनं, हृद्यं हृदयोद्भव, युगं युग्म, अकलि दृष्टम् । यतो यत्र अप- गतापघनः अननः कुटुम्बी रत्या सहितः सन् व्यचरत् । मम इह युग्मे रतिः प्रीतिः प्रभवति । अग्रजेनाग्रे जातेन, लक्ष्मणा चिहेन, कुचाग्रश्यामिकया नखक्षतेन वा । अथ च अस्य मर्दनेन शर्मदशा च प्रभवति । जातु सुदर्शनपाणिः श्रवणादेः किं न वाञ्छितं यच्छेत् । दास्यति चिरानुवृत्त्या रमणीयं किमपि कामितं वस्तु ॥ ६ ॥ जात्विति । वै०-] सुदर्शनं चक्र पाणौ यस्य स विष्णुः श्रवणादेः श्रवणमननादितः किं वाञ्छित न यच्छेत् । अपि तु सर्वमपि। चिरानुवृत्त्या किमपि रमणीय किमप्यनिर्वाच्य मोक्षलक्षण वस्तु किं न दास्यति ॥ , [शृ०-] सुष्ठु दर्शन ययोः एवविधौ पाणी यस्याः सा श्रवणादिना वाञ्छितं कि न यच्छेत् । इय रमणी दास्याः अतिचिरमनुवृत्या किमप्यनिर्वाच्यं संभोगादि कामितं वस्तु यच्छेदेव । पूर्वत्रसंवन्धः ।। घनस्तनमरालसा व्रजति गौरवन्ध्येह ते विधेहि कटिपार्श्वयोर्नखमुखेन कण्डूयनम् । इतः सुखपरम्परा मिलति संप्रति श्रेयसा सदा न खलु संगतिर्भवति गर्भसंभूतये ॥ ७ ॥ घनेति । वै०-] घनस्तनभरेण अलसा अवन्ध्या प्रसूता इह ते गौत्रजति । त्वं नखमुखेन कटिपार्वयोः कण्ड्यन विधेहि । संप्रतीदानीमेव श्रेयसा पुण्येन इतः सुखपर- म्परा मिलति । अस्याः सदा संगतिः गर्भसंभूतये जन्मने न भवति ।

- --- . - रसिकरञ्जनम् । [zo-] इयं गौरवन्ध्या घनस्तनमरालसा व्रजति । ईहते वाञ्छति । अतः कटि- पार्श्वयोनखमुखेन कण्डूयन विधेहि । इतो वन्ध्यायाः सङ्गेन सप्रति श्रेयसा सुखपरम्परा मिलति । अस्याः सदा सगतिरपि गर्भसभूतये न भवति । कदलीकरभसमानां कलयति योरूपक्लप्तिमतिरुचिराम् । सोपायादृढयोगं गमितोरसिकोपकरणविषयतया ॥ ८॥ कदेति । [वै०-] यः पुरुषः रूपाणा नानाविधानां कृप्ति कल्पनाम् अत्यन्तं रुचिरा मनोहरा कुत्सितालीकरभसाहंकारा कलयति जानाति । स इदानीमपगतेन्द्रियविषयत्वे- नारसिको दृढयोग योगाभ्यासं गमितो गुरुणा अपायात् अपगतः ।। [Y०-] या कदलीकरभयोः समानां उर्वोरुपक्तृप्ति कलयति । सा उपायात् कोप- करणविषयत्वेन उरसि दृढयोग गमिता ।। नर्मदामनु तपस्यशान्तहृदृष्टधीरसिकतामये क्वचित् । संसृताविह परात्मयोगकृत्कि तदन्यदपि कर्म शर्मणे ॥ ९ ॥ नर्मेति । वै०-] हे धृष्ट धौर नर्मदानदीमनु क्वचित् सिकतामये सैकते शान्तहृत मूत्वा तपस्य तप कुरु । इह संसृनौ परात्मयोगकृत् ततोऽपि किमन्यत् कर्म शर्मणेऽस्ति। [Fe-]अह तपसि माघे अशान्तहृत् शीतासहिष्णुतया नर्म ददातीति नर्मदा ताम् अनुगम्य हृष्टधीः सन् क्वचिदेकान्ते रसिकतां रसिकत्वम् अये प्राप्नोमि । इह ससारे परया अन्यया आत्मनो योग सबन्धं करोति यत् कर्म तत् किं एतद्व्यतिरिक्त अस्ति यच्छर्मणे भवतीति॥ योगमितो मधुरतया पौरोभाग्यं व्यनक्ति विषयेषु । धन्यः स एव मान्यः संसारेऽस्मिन्नसाधुताभिज्ञः ॥ १० ॥ योगमिति । [वै०-] यः मधुरतया मनोहरत्वेन अग पर्वतं इतः प्राप्तः सन् विषयषु लगादिषु पौरोभाग्यं दोपैकदृक्त्वं व्यनक्ति प्रकटयति मधुरत्वेन योगाभ्यास इतः प्राप्तः इति वा । स एव धन्य. संसारेऽस्मिन् असाधुतामभिजानाति ॥ [१०] यः पौरो नागरिक. रतयानुरक्तया मधु गमितः प्रापितो विषयेषु भाग्यं व्यनक्ति । स एव धन्यो मान्यश्च । ससारेऽस्मिन् साधुताभिज्ञो न मान्य इति । आसाद्य सोमभुवमास्वहि यत्र नित्यं मत प्रलोभयति सैकतमंशुकाभम् । तत्तत्र निर्वहति संप्रति नित्यकृत्य- मतस्य विस्मृतगृहस्य परानुभूत्या ॥ ११ ॥ आसाद्येति । [वै०-] सोमभुवं नर्मदा आसाद्य आवां आस्वहि । यत्र नित्यं महुँ । ।

काव्यमाला। - , - . 'अंशुकाममुज्ज्वलं सैकतं प्रलोभयति । तस्माद्धेतोरावयोमध्ये एतस्य परानुभूत्या परब ह्यानुभवेन विस्मृतगृहस्य नित्यकृत्य तत्र निर्वहति ।। [२०]त्रयाणा मध्ये द्वयोरेक प्रति वचनम्-उमा अतसी तत्सहितां भुवमासा- द्यावामास्वहि । यत्र सा ज्ञाता स्त्री शुक्राभं शुकदेवसमानमेकतममावयोर्मदु प्रलोभयति । तत्तस्माद्धतोरेतस्य संप्रति नित्यकृत्यं निर्वहति। परस्या अनुभून्या अनुभवेन विस्मृत- गृहस्य आसाद्य कृष्णपक्षानत्रसतः सर्वदाभीकान् । परयात्मनि रतचित्तान्विभाव्य तत्कर्म कुर्वतः क भयम् ॥ १२ ॥ आसाद्येति। [वै०-] अत्र संसारे कृष्णः पक्षो येषां तान् सर्वदा अभीकान् निर्भ- यान् सत· पुरुषान् आसाद्य उपगम्य परे आत्मनि रतचित्तान् विभाव्य तत्कर्म तेषां कर्म कुर्वतः पुरुषस्य क भयम् ॥ [-] कृष्णपक्षान् प्राप्य सर्वदा अत्रसतोऽभीकान् कामुकान् परयान्यया आत्मनि रतमनसो विभाव्य त्वमपि तत् कर्म कुरु । अतस्ते क भयम् ॥ असौ समरसाहसं वितनुतेऽग्रिमश्रेयसे मुकुन्दममुमात्मनि स्थिरयितुं न किं वान्छति । अतः परतरं कुतः प्रतरणाय वारां निधे- निदानमिह संस्तेः सुखसृतेश्च किं कारणम् ॥ १३ ॥ असाविति। [वै०-] असौ पुरुषोऽग्रिमश्रेयसे समरसाहसं वितनुते समुखयुद्वैन तनुं त्यका मुक्तो भवेयमिति इच्छति । अमु मुकुन्दम् आत्मनि हृदये स्थिरयितु किं न वाञ्छति । अग्रे स्पष्टम् ॥ [-] असौ स्त्री समो रसो यस्या. सा हसं हास्यं वितनुते अग्रिमश्रेयसे संभोगाय आत्मनि स्वशरीरे अमु मुरहितं मुकुन्दम् अर्थात् कुन्दं स्थिरीकर्तु किं न वाञ्छति । इयं हासेन स्वदेहे कुन्दपुष्प स्थिरीकरोतीव । अतो हेतोः संसारसिन्धुतरणाय किं निदानं सुखमार्गस्य वा किं कारणमस्ति ।। चिरमीक्षेमहिलास्यं मायाया दीर्घसीमनि स्वप्ने । यद्वासनया वासितमात्मानं वेद नापि वेदज्ञः ॥ १४ ॥ चिरमिति। [वै०-] दीर्घसीनि स्वप्ने ससारे मायाया लास्यं नृत्यं चिरं वयमीक्षेमहि । वेदज्ञोऽपि यद्वासनया वासितमात्मानं न वेद ।। [१०--] दीर्घसोमनि स्वप्ने चिरमनुवर्तमाने मायाया महिलाया स्त्रिया आस्य मुखम् ईक्षे पश्यामि । यस्य मुखस्य वासनया -वासितमात्मानम् अहं वेदज्ञोऽपि न वेद, इति विरहिणो वचनम् ॥ - रसिकरञ्जनम् । आसादितव्योऽस्ति करालकेशः सखेदयाहः समयोपकारी।. तदुत्तमश्लोककथानुवन्धस्तावद्यथा स्यात्प्रयते तथाहम् ॥ १५ ॥ आसादीति। [वै०- हे सखे, कराला भीषणाः केशा यस्मिन् दयाहः अपकारी समयो वार्धकसमयः मया आसादितव्योऽस्ति । तस्माद्धेतोरत्तमश्लोकस्य कृष्णस्य कथा- नुबन्धः तावत्पर्यन्त यथा स्यात्तथा प्रयते यत्नं करोमि ।। [zo-] सखेदया सदुःखया मया उपकारी करेण अलकेशः कुबेरः अर्थाद्रव्यदाता अझै योग्यः स पुरुष आसादितव्योऽस्ति । तादृक्तस्यैव उत्तमश्लोककथानुगन्धे उत्तम. यशःकथानुवन्धो यथा भवति तथा यते यत्ल करोमि ।। सैवाद्रियेत रत्यै पुंसः परमस्य यानवाचर्चा । तस्मात्तदेकनिष्ठं चित्तं कृत्वा सुखं समासीत ॥ १६ ॥ सैवेति । [वै०-] परमस्य पुंसः कृष्णस्य या नवा चर्चा सैव रत्यै प्रीतये आद्रियेत । अग्रे स्पष्टम् ॥ [१०-] यतःसैव रत्यै रताय त्वाम् आदियेत । परं त्वस्य पुसस्तत्पतेर्यानवाचा गम- नवचनेन ऋचा क्रूपया । सत्ययेत्यर्थः । तस्मिन् प्रोषिते सैवागमिष्यतीत्यर्थः । तस्मा- तस्यामवैका निष्ठा यस्यैवविध मनः कृत्वा सुखेनासीत ॥ दृष्टया सागरलङ्घनं कलयते रामायते श्लाघते लोको यः स न वेदनामपरतः प्रामोति भीति यतः। क्क स्यान्मे पुनरङ्गसंगतिरिति ध्यायन्नयं त्वादरा- त्कोऽहं कुत्र कुतः कदा कथामिति स्मृत्या परित्यज्यते॥१७॥ दृष्ट्येति। वै०-] यो लोक. दृष्टया सागरस्य लक्ष्नं कलयते कुर्वते रामाय ते तुभ्य श्लाघते स्तुतिं करोति । स लोकः अपरतोऽन्यतो वेदना दु.ख न प्राप्नोति भौतिं च यतो न प्राप्नोति । अतो हे राम मम पुनरगसंगतिः शरीरसबन्धः क्व स्यादिति बुझा अयं लोक आदरात् ला त्वां ध्यायन् अह कः कुत्रास्मि कुतः समागतोऽस्मि कदा कस्मि- न काले कथ केन प्रकारेण, इति स्मृत्या परित्यज्यते ॥ [F०-] कस्य नष्टयतिं प्रति वचनम् -हे यते, सा रामा स्त्री दृष्टया दर्शनेन धनं निविहं गरल विषं कलयते क्षिपति तद्गोचरो यो लोकः श्लाघते स नामेति प्रसिद्धी न जानाति किल यतः परतः अग्रे भयं दशमावस्थापर्यन्तं प्राप्नोति । तु पुनः अय लोक आदरात् एतदङ्गसंगतिः कस्यात्, इति ध्यायन् 'कोऽहं कुत्र' इत्यादिस्मृत्या परित्यज्यते॥ अचिरात्परात्मनिष्ठा भवति यतस्तक्रियेत चतुरेण । क्लेशेन कामदमनं धिगेकदारजयन्तमात्मानम् ॥ १८ ॥ ।

६ काव्यमाला। अचिरादिति । [वै०-] अचिरात् परमात्मनि निष्ठा यतो भवति तदेव चतुरेण क्रियेत कामदमनमीश्वरमेकदा कदाचित् कष्टेन रञ्जयन्तं धिक् ॥ [2०-] अचिरात् परा अन्या स्त्री यतो हेतोः आत्मनिष्ठा स्ववशा भवति । तदेव चतुरेण कर्म कार्यम् । एकदारमेकपलीकं क्लेशेन काम अन्यां प्रत्युत्पन्नमपि दमयन्तम् आत्मानं जयन्तं धिक् ॥ स्फुटस्फुरणमानसा सबहुमानरोषस्थिति- भवद्विषयवासना चलतया दुरुत्सारणा । प्रियाचरणभाग्यतो भवति सप्रसादोजित- स्ततस्तदुपसेवनं तव सुखाय नान्याश्रयः ॥ १९ ॥ स्फुटेति। [वै०-] भवतो विषयवासना चलतया दुरुत्सारणा । कीदृशी। स्फुटस्फु- रणं मानसं यस्यां सा । पुनः । बहुमानेनाहंकारेण रोषेण च सहिता स्थितिर्यस्याः सा । अजित. कृष्णः प्रियस्य हितस्य आचरण तज्जन्यभाग्यतः पुण्यात् सप्रसादः प्रसन्नो भवति । अतस्तस्यैवोपसेवनं तव सुखाय स्यात, अन्याश्रयो न हितायेति ।। [१०- हे चल चश्चल, अन्यासक्ततया भवद्विषया वासना त्वदपराधाहितः संस्कारों नापनेतुं शक्यते । कीदृशी । बहोमानस्य रोषस्य च स्थित्या सहिता । पुनः । नसा ना. सिकया स्फुटा व्यक्ता स्फुरणमा स्फुरणलक्ष्मीर्यस्यां सा । यतो हेतोः प्रियायाश्चरणौ भजते प्रियाचरणभाक् पुरुषः जित. सन् सप्रसादः तत्प्रसादसहितो भवति। अन्यस्या आश्रयोऽन्योपाश्रयो वा न तव सुखायेति ।। दृश्येतदेव रूपं सुलतविपाकेन केन ते दृष्टम् । एतर्हि गर्हितं मे जन्म न तत्कर्हिचिद्यदालोचि ॥ २० ॥ दृश्यतेति। [वै०- हे देव, तव रूप पुण्यपरिपाकेण दृश्येत कर्हिचित् । अथवा केन ते रूप दृष्टम्, न केनापि । यत् यतो हेतोस्तत्ते रूप मया नालोचि मनसापि न शी- लितम् । ततो मे जन्म एतर्हि इदानी गर्हितम् ॥ [१०- हे दृश्ये दर्शनार्ह, तदेव ते रूप श्रुतपूर्वमद्भुतमिति एतीदानीं केन पुण्यप- रिपाकेण दृष्टम् । तत्ते रूप पूर्व कदाचिदपि यनालोचि ततो मे जन्म गतिमिदानी त्वद्दर्शनेन सफलमिति ॥ प्रसीदति किलाजितः श्रितमनोजवन्ध्यायते क्षरन्मदनवारणप्रतिकृती प्रयत्नं कुरु । यतः श्रुतिशिरःशतप्रकटितप्रमोदाद्वय- खरूपविषया भवेत्तव परानुभूतिश्चिरात् ॥ २१ ॥ ।

१७ रसिकरञ्जनम् । प्रेति । [वै०-] अजित: कृष्णः श्रितो मनोजवो मनोवेगो यस्मित्तद्यथा स्यात्तथा ध्यायते पुरुषाय प्रसीदति किल । तत आदौ क्षरन् यः मदन एव वारणो हस्ती तत्य प्रतिकृती प्रतीकारे प्रवलं कुरु । किं विष्णुप्रसादेन भवतीत्यत आह-यतो विष्णुप्रसादात श्रुतिशिरसा वेदान्तानां शतेन प्रकटित पदद्वय स्वरूप तद्विषया परानुभूतिब्रह्मसाक्षा- कारस्तव चिराद्भवेदिति ॥ [१०-]श्रितो मनोज. कामो येन। हे यते वन्ध्या स्त्रीआजित संग्रामाकामयुद्धतः प्रसीदति किल । अतः, अक्षरदस्खलत् मदनवाः कामजल रेतो यस्यैवविध. सन् रण- प्रतिकृतौ कामरण एव प्रतीकारस्तत्र प्रयल कुरु । यतो यत्लाद्वेदान्तशतप्रतिपादितान- न्दाद्वयरूपात्मानुभवश्चिरात्तव भवेदिति परिहासोक्तिः ॥ साधोरजनिमहेशं किमुपासीन्न तेऽतिभावयतः । प्रायो मयोपदिष्टो विनैव कष्टं स्वयं सुखं लभते ॥ २२ ॥ साधो इति। [वै०--] महेशमीश्वरम् अतिभावयत. अत्यन्त चिन्तयत साघोस्ते कि नाजनि किम् उपरि नासीत्, किं न जात ज्ञानादिकं किमुत्कृष्ट पदं नाभूत् । अने स्पष्टम्॥ [-] रजनिमहे राज्युत्सवेऽधःस्थिता सा शं सुखविशेषम् अतिभावयतस्ते उपरि किं नासीत्, अपि त्वासीदेव । प्रायो मदुपदेशेन स्वय कष्टं विनैव सुखं सुहृल्लभत इति ।। प्रसादसुकुमारताविजितसान्द्रचान्द्रप्रभा रसोत्तरतरस्फुरन्मधुरवृत्तवर्णोत्तमा । सदच्युतपदस्थितिर्भवति भारतीशस्यते ततस्तव रसज्ञयाजनि कृतार्थया संगमात् ॥ २३ ॥ प्रसादेति। वै.--] ईश्वरश्लोककृत कविं प्रति वैष्णववचनम्-भवति त्वयि भारती शस्यते स्तुत्या भवति । ततो हेतोस्तव जिङ्गया तत्संगमात्कृतार्थयाजनि जातम् । को- दृशी सा सरस्वतीत्यपेक्षायामाह-प्रसादेन सुकुमारतया च विजिता सान्द्रा चान्द्री प्रभा यया। अतिशयेन रसप्रचुरा रसोत्तरतराः स्फुरन्मधुर वृत्तं छन्दो येषु एवविधा वर्गा- त्तमाः श्रेष्ठाक्षराणि यस्या सा अच्युतस्य पदे चरणे स्थितिर्यस्याः सा भारती॥ [-]हे मित्र, रतीशस्य कामस्य भा कान्तिः शरीरशोभा ते भवति। ततो हेतो. स्तव संगमाद्र रसज्ञया रसं जानत्या कृतार्थयाजनि। कीदृशी कान्तिः। प्रसादेन मुखप्रसादेन सुकुमारत्वेन च विजिता सान्द्रा चान्द्री प्रभा यया। पुन. । रसोत्तरा भूलोकातिगा अति- शयेन रसोत्तराणि स्फुरन्ति मधुराणि वृत्तानि चरित्राणि वर्णोत्तमो गौरिमा यस्या सा। पुनः । सती अच्युतास्खलिता पदे स्थाने त्वलक्षणे स्थितिर्यस्याः ।।

. द काव्यमाला। आसाद्यते कथं वा शौर्याश्रयणे न गौरवध्वंसः । तत्तत्र दत्तचित्तश्चित्तजसंतापभाजनं न जनः ॥ २४ ।। आसेति। [वै०- शौरेः कृष्णस्य आश्रयणे कथ वा गौरवध्वंसः आसाद्यते । तत् तत्र दत्तचित्तो जनश्चित्तोत्पन्नसंतापभाजन न स्यात् ।। [-] गौर्या वध्वा असः स्कन्धः शौर्याश्रयणे शूरतावलम्बने सति कथं वा नासा- धने न प्राप्यते । तस्मात् तत्र साहसे दत्तचित्तश्चित्तजेन कामेन यः संतापस्तद्भाजनं जनो न स्यात् ॥ प्राप्तः कांचनसंपदा विपुलयाहंभावसीमामिमां को जानाति जनोमनागपिहितो मायामयोग्राधिना । एतच्चित्तफलं मनुष्यजनुषो यत्प्रेम रामाश्रितं किंचोरस्थलशायिनः कुशलतो याता निशा हैमनी ॥ २५ ॥ प्राप्त इति । [वै०-] विपुलया संपदा कांचन अनिर्वचनीयाम् अहभावसीमां प्राप्तः मायामयेन उग्राधिना अमनाक् अधिकम् अपिहित आच्छादितः कः पुरुषो जन्मफलं स्वकीयं जानाति, अपि तु न कोऽपि । एतदेव मनुष्यजन्मनः फलं चित्तस्य जानीत । यद् रामं आश्रित प्रेम । दृष्टान्तः-चौरस्थलशायिनः हेमनी हेमन्तसंबन्धिनी निशा कुशलतः किं कस्यापि याता ।। [2०-] भावाना विब्बोकादीनां सीमां मर्यादाम इमां स्त्रियम् अहं विपुलया सुवर्ण- संपत्या प्राप्तः उग्राधिना मया अपिहित आच्छादितः को जनो मम माया जानाति म- नुष्यजन्मनो देहिन एतदेव फल चित्तस्य यद् रामां श्रितं प्रेम । किं च अस्या उर:. स्थले शयनोयशीलस्य मम हैमनी निशा सुखेन याता ।। कार्येहानुसरणतो वारंवारं परं पुमांसमनु.। यतमानस्यानुदिनं भवति यतः प्रेमलक्षणं भजनम् ॥ २६ ॥ कार्येति। वै०-] वारवार पर पुमासं परमेश्वरम् अनु लक्षाकृत्य ईहा स्पृहा कार्या यतः स्पृहातोऽनुदिन यतमानस्य प्रेमलक्षणं भजनं भवति ॥ . [१०-इह संसारे वारंवारम् अनुसरणतः परं पुरुषम् अनु कास्त्री आर्या साध्वी। अतोऽनुदिनं यलं कुर्वतः प्रेम्णो लक्षणं चिह्नरूप भजनं भवतीति ।। न कर्म रामाप्तिकरं कृतं मया न वाचिरम्भारतवर्णनं श्रुतम् । वृथैव पूर्वः समयः समापितो न चेदिदं किं नु कृतं किमु श्रुतम् ॥ २७ ॥ नेति । [वै०-] रामस्य प्राप्तिकृत् कर्म न कृतम् । न वा मारतस्य वर्णनं चिर श्रु- तम् । ततः पूर्वः समयो वथैव समापितः । इदं कार्यद्वयं न कृतं चेत् किं कृतम्, किं नुश्रुतम् ॥

श्रुतम् ॥ रसिकरञ्जनम् । [१०-] रामा स्त्री तत्प्राप्तिकर कर्म किमपि मया न कृतम् । वाचि वचने रम्भाया रतस्य वर्णन न श्रुतम् । ततः पूर्व. समयः तारुण्यवयःक्रमो वृथैव समापितः । इदं कर्म- द्वय चेन कृतम्, तदा कि कृतम्, किं स्टशति खरूपमुग्धं शश्वदसत्यद्वितीयभावेन । भ्रमयति विकलयतीदं दृश्यञ्जनमात्ममायया कलितम् ॥ २८॥ स्पृशतीति । वै०-] इदं दृश्य विश्व स्वरूप परमात्ममावे मुग्धं जनं शश्वनिरन्तरम् असत्यो यो द्वितीयभावस्तेन स्पृशति । यत आत्मन एव मायया कलितं कल्पितम् । ततो जन भ्रमयति भ्रान्तं करोति विकलयति च ॥ [१०-] असती स्वरूपेण मुग्ध शश्वदद्वितीयेन भावेन कटाक्षादिना स्पृशति चक्षु:- प्रीतिमुत्पादयति । इदं दृशि अस्या नैत्रे आत्मनो मायया वशीकरणौपधादिमेलनेन क- लित निहितम् अञ्जन भ्रमयति विकलयति च तमेव ॥ पूर्वमेव शिवसन्निधौ वने द्वन्द्वपीडनमुदेति सर्वथा । कोऽपवर्गभजनेऽतिनिःस्टहोयत्नतः सुखमवाप्यते यदि ॥ २९॥ पूर्वमिति । वै०-] शिवस्य सनिधौ वने पूर्वमेव द्वन्द्वपीडनं सर्वथोदेति अयत्नत एव यदि सुखमवाप्यते । तदा अपवर्गभजने मोक्षभजने को निःस्पृहः स्यात्-इति कश्चि- दुपदिशति । [ऋ०-] निश्च घुश्च निधू पूर्वमेव आदावेव शिवौ शुभौ सन्तौ निधू वर्णौ यस्यैवंविधे वने निधुवन इत्यर्थः । तत्र सर्वथा सुरते द्वन्द्वपीडनम् अर्थात् कुचनितम्बादिपीडनमुदेति। यदि यलतः सुखमवाप्यते । तदा अपवर्गभजने पवर्गरहिते भजनशब्द अर्थात् जने को अतिनिःस्पृहोऽस्ति । सर्वोऽपि सुखार्थे यतेत इत्यर्थः ।। अतिरुचिरङ्गजकच्या क्षोभितदक्षं भवन्तमेव भजे । यस्मिन्प्रसादसुमुखे सद्यो वामापि भवति मम तुष्टयै ॥ ३०॥ अतीति । [वै०-] गजकृत्त्या गजचर्मणा अत्यन्तभव्य तं भव शिवमेव भजे । क्षो- भितो दक्षः प्रजापतिर्येन तम् । यस्मिन्प्रसादसुमुखे सति सद्यस्तस्य वामा गौर्यपि मम तुष्टयै भवेत्॥ [Yo----] अङ्गजस्य कामस्य कृती रत्यभिलाषादिरूपा तया अतिरुचिरत्यन्तप्रीतिमान् अह क्षोभितचतुरं भवन्तं त्वामेव भजे । यस्मिस्त्वयि प्रसादसुमुखे सति सद्य एव वामा- पि प्रतिकूलापि सा मम तोषाय भवति-इति कस्यचिन्मानिनीप्रसादक प्रति वचनम् ॥ विना किमात्यन्तिकमङ्गनाशं श्रेयो भवेदन भवे विशिष्टम् । अतस्तदर्थ प्रयतेत धीमान्कुतोऽन्यथा निस्तृतिरस्ति पुंसः ॥ ३१ ॥ १२ . ९० काव्यमाला। . , । - विनति । [वै०-] अत्र भवे संसारे आत्यन्तिकम् अङ्गस्य देहस्य नाशं विना वि. शिष्टं श्रेयो मोक्षः किं भवेत् । अतो धीमान् पुमान् आत्यन्तिकशरीरनाशाय प्रयतेत ।। [१०-]अत्र भवेऽत्यन्तम् अङ्गनायाः श सुख विना विशिष्टं श्रेयः किं भवेत् । अतो धीमान अत्यन्ताङ्गनासुखाय प्रयतेत । अन्यथा पुंसः कुतो निस्तारः ॥, तुदति हिमालयपवनो माधवपरिशीलने न योगजुषम् । यस्मादयोगभाजां प्रभवन्ति पदे पदे विपदः ॥ ३२ ॥ तुदेति । वै०- हिमालयपवनो माधवस्य कृष्णस्य परिशीलने योगजुपं न तुदति। अग्रे स्पष्टम् ॥ [०-] हि निश्चयेन मालयपवनो दक्षिणानिलो वैशाखस्य परिशीलने स्त्रोयोगसेविनं न तुदति । यतो यस्माद्दक्षिणानिलाद् अयोगमाजां विरहिणां पदे पदे विपदः प्रभवन्ति ।। विद्याधनाभिजनकाममदेषु पुंसा दुर्वार एष चरमस्तदहं ब्रवीमि । रामात्मकं जगदिदं हृदि भावयन्तः कंदर्पमेकमवलम्बितुमुत्सहेरन् ॥ ३३ ॥ विद्येति । [वै०-] विद्याधनकुलकामजन्यमदचतुष्टये चरमः काममद एव दुरपनेयः । ततोऽहं ब्रवीमि इदं जगद् राममयं हृदि भावयन्तः सन्तः कम् एकं दर्पम् एतेष्वन्य. तमम् अवलम्बितुम् उत्साह कुर्युः । नैकमपि ॥ [2०-] काममदः सर्वेषु मदेषु दुर्वारस्ततोऽहं ब्रवीमि जगदिदं स्त्रीमयं भावयन्तः कामिन एकं कंदमेव अवलम्बितुम् उत्सहेरन् । नारदरुचिसंदीपनचतुराननवादतो मुहुः स्टहयन् । आश्लिष्टशेषशय्यां धन्यो रामारुति चिरं भजते ॥ ३४ ॥ नारेति । [वै०-] धन्यः कोऽपि पुरुषश्चिरं रामस्य विष्णोराकृतिमाकारविशेषम् आलिङ्गितशेषशयनीया भजते । नारदस्य मुने रुचिः प्रीतिस्तत्संदीपनं यच्चतुराननस्य ब्रह्मणो वचन तस्मान्मुहुः स्पृहा कुर्वन् ॥ [१०] धन्यो ना पुरुषो रामायाः स्त्रियाः कृति सभोगलक्षणां चिर भजते। कीदृशीं कृतिम् । आश्लिष्टा आलिङ्गिता शेषा अवशिष्टा शय्या तदेकदेशो यस्यां सा । किं कुर्वन् । रदरुचेर्दन्तकान्तः संदीपनं यत् चतुरायास्तस्याः 'न न' इति वचनं ततो मुहुरतिशयेन स्पृहयन्। नकारस्य दन्त्यत्वात् ।। भवनेत्रकशानुभूतियोगात्परमैश्वर्यमवाप्यहप्तचेताः । वत वेदजनो निजां गतिं न प्रतिपद्येत कथं परात्मतत्वम् ॥३५॥ भवेति । [वै०/-] अय जनो लोकोऽस्मदादिः शिवदृष्टिवहिभूतेः कामस्य योगात प. . -- 1- . सन - - SI रसिकरञ्जनम् । ९१ रमैश्वर्य प्राप्य दृप्तचित्तः सन् निजां गतिं न वेद । सांसारिकीमपि गति कामधनमदेन न जानाति । परस्य ब्रह्मण आत्मनो जीवस्य तत्त्वमैक्यलक्षणं कथं प्रतिपद्येत जानीयात् । न कथमपीत्यर्थः॥ [१०-] अत्रभवने अस्मिन्गृहे कृशा कृशाहीअनुभवसंवन्धात् परमुत्कृष्टम् ऐश्वर्य मुक्तामणिकाश्चनादिलक्षणम् अवापि प्रापिता । द्रव्यदानेनेय प्रलोभ्य भुक्ता । अर्थान्मये- ति शेषः । एतद्गृहे पुव्यक्तिबाहुल्यात् कथ कोऽपि नाज्ञासीत् इत्यपेक्षायामाह-अदृप्तचेता उन्मादरहितः वेदजनो वेदपाठको जनो निजामपि गतिम् अशनाच्छादनादिरूपा न जानाति । परेषामात्मनो हृदयस्य तत्त्वं कथ प्रतिपद्येत ॥ श्रितपरमहंसकरणाद्यस्मात्प्रतिभाति चित्ररचनेयम् । अनुगतपङ्कजरागो बत रागी तत्पदंसमेतु कथम् ॥ ३६ ।। श्रितेति । वै०-] श्रितानि परमहसानां सन्यासिना करणानीन्द्रियाणि येनैवविधा- यस्माद्विष्णोरियं चित्ररचना विचित्रा विश्वस्थितिः प्रतिभाति तत्पद तस्य विष्णोः पद च- रण स्थानं वा रागी जन अनुगतः पङ्कः पापलक्षणो यया एवविधांजरा गच्छतीति अ. नुगतपङ्कजरागोऽपि कथ समेतु ॥ [Yo-]श्रितः परमो हसकस्य नूपुरस्य रणोऽतिशब्दो येनैवंविधायस्मात् पदश्चरणाद् इय चित्रमेव रचना कृतिर्यस्याः सा चित्ररचना चित्रिणी प्रतिभाति । 'चित्रिणी चित्र- रक्ता' इति प्रसिद्धः । अनुगतोऽनुकृतः पङ्कजस्य कमलस्य रागो वर्णो येन सः तत्पत् स चासौ पच्च संचरणः तस्याः पत्, इति वा अंसं स्कन्धं कथम् एतु ।। असौजन्यश्चेतो भवसमुचितं भावयति त- दृथासंसारेऽस्मिन्नहह समयं किं गमयसि । चिरायोभूयः कलयसि सखेदो भवसुखं ततो मन्ये त्यागात्प्रभवति परा निईतिरिति ।। ३७ ।। असाविति। [वै०-] चेतः ससारोचितमसौजन्यं दुर्वृत्तत्व भावयति तदस्मिन् ससारे समयं वृथा किमिति गमयसि । अहह खेदे । चिरादनादौ ससारे भूयोभूयः सखेदोऽपि भवसुखं वाञ्छसि ततस्त्यागादेव निवृत्तिमार्गादेव परा नितिर्भवेदिति मन्ये ॥ [-] असौ स्त्री कामोचितं जन्य युद्धं रत भावयति। तदृयास्मिन्ससारे समयं त्व किमिति गमयसि । अहहेति खेदे । हे सखे, अदः ससारसुख चिरायोभूवः परदारगम. नजन्यं कलयसि वाञ्छसि।ततस्त्यागाद्रव्यदानात् परा या निर्वृति. परनीसुख प्रभवति॥ यद्वा परिणेयां कन्या भविष्यत्स्वयवरां विलोक्य सुन्दरं स्वमित्रमुद्दिश्य स एवाह-असो जनी परिणेया कन्या समुचित योग्यं वरं विचारयति । तत् त्वमञ्च चल, इतो भव अस्यां दिशि प्रवर्तस्व। सुन्दरतया लामेव वरीष्यते। अपि अहमपि वृथा आस व्ययोऽभ- वम् । इयदवधि त्वदनुपदेशेनेति शेषः । सारे सारभूते अस्मिन्कन्यारले किं समयं गम- 7 4.

। - ९२ काव्यमाला। यसि।अहह सखे,अदो भवसुखं चिरात् भूयोभूयः पतिवराप्राप्तिरूपं वाञ्छसि। ततो मन्ये प्रभवति प्रभौ लयि परा नितिः सुखानुभूतिः अत्यागात् अतिशयेनागतेति ॥ यद्भजनमत्र सारं वयस्यसौहार्दतश्चिरासक्त्या । हृदयं गोपजनमें हरति सदूर्वाभया तन्वा ॥ ३८ ॥ यदिति। [वै०-] हे वयस्य, सौहार्दतः प्रेम्णश्चिरमासक्त्या च यस्य विष्णोर्भजनमत्र ससारे सारम् । स गोपजनुर्हरिः दूर्वांसमकान्त्या तन्वा मे हृदयं हरति । [2०-] असौ गोपजनुर्गोपकन्या सती उौराभा कान्तिर्यस्या एवविधया तन्वा देहेन मे हृदयं हरति । हार्दतः प्रेमतः चिरासक्त्या वयसि तारुण्ये यद्भजनं सारभूतम् ।। सदातिकलुपाशया भवसमुद्भवत्पद्धतिः प्रसिद्धनरकामिता कथमनेनसा गम्यते । क सिध्यति समीहितं फलमनन्तचर्चामुचा- मतोऽजितविचारणापरमनोभिरानन्द्यते ॥ ३९ ॥ सदेति । [वै०-]अनेनसा निष्पापेण पुरुषेण भवे समुद्भवतां जन्मिनां पद्धतिर्मार्ग: कथं गम्यते। कीदृशी। सदा अतिकलुष आशयो यस्यां सा। तथा पुन: प्रसिद्धा नरकाः कुम्भीपाकादयो यस्यां सा। अमिता अपरिच्छिन्ना। अनन्तस्य कृष्णस्य चर्ची मुश्चन्तीति ते तथा। तेषां समीहितमभीष्टं फलं क्व सिध्यति, न क्वापि। अतोऽजितस्य विष्णोर्विचारणायां परा निष्ठा यस्यैवंविधं मनो येषां तैरानन्द्यते ।। [१०-] सा स्त्री अनेन कथ गम्यते, यतः सा प्रसिद्धैनरैः प्रभुभिः कामिता वा- ञ्छिता। अथ च सदा अतिकलुपाशया भवे ससारे समुत्सु सानन्देषु भवन्ती पदाहतिर्यस्याः सानन्दानपि पदा हन्तीत्यतिदुर्लभा अनन्ता अपरिमिता चर्चा योषिद्विपया तन्मुचां क समीहितं सिध्यति । अतो अजितं विचारणापरं मनो यैस्तैरानन्द्यते ॥ संसारिणापि सुलभं शधद्रामाश्रयेण नित्यसुखम् । अच्युतरसेन सद्यःफलवत्कालत्रयोगतः क भयम् ॥ ४०॥ समिति । [वै०-] रामस्याश्रयेण संसारिणापि नित्यसुखं ब्रह्मानन्दं सुलभमेव । अच्युतरसेन विष्णुविषयप्रेम्णा सद्य.फलवत् कालत्रय यस्य स पुमान् क भयं गतः ।। [१०-] रामाया आश्रयेण शश्वत्संसारिणापि दैनदिनं सुखं सुलभम् । अच्युतोऽस्ख- लितो यो रसस्तेन सद्यःफलवान् यः कालत्रः श्रोणिसबन्धी योगस्ततः क भय का. मादेरिति शेषः । प्रमदाय निरत्ययाय पुंसां मिलिताष्टाङ्गविधिः समाधियोगः । अनुकूलकलत्रकोटिकण्ठग्रहणेनापि कुतः सुखं तथा स्यात् ॥ ४१ ॥ प्रमेति । वै.-] मिलितः अष्टानामङ्गानां यमादीना विधिर्यत्रैवंविधः समाधियोगो .

. । रसिकरननम् । ९३ निरत्ययाय सुखाय ब्रह्मानन्दाय भवति । अनुकूलानां कलत्राणां या कोटिस्तत्कण्ठन- हणेनापि तथा सुख कुतः स्यात् ।। [-] समः समान आधिर्यस्यास्तस्याः परत्रिया योगः सबन्धो मिलितोऽष्टाना- मेङ्गानां विधियांसविशेषो यत्र एवविधो निरवधये सुखाय भवति । अग्रे स्पष्टम् ।। पदयुगलं पद्मदृशो हृद्यारोपयति यः स्मरतिसमये । स कथं स्वर्गसुखान्यपि धन्यो मन्येत न तृणेभ्यः ॥ ४२ ॥ पदेति । [वै०-] पद्मश. पुण्डरीकाक्षस्य पदयुगल यो हृद्यारोपयति, समये चरमावस्थाया स्मरति च, स धन्यः स्वर्गापवर्गसुखान्यपि तणेभ्यो न मन्येत । [20] यः पुरुषः पद्माक्ष्याश्चरणद्वय रतिसमये हृद्यारोपयति स्म । अग्रे स्पष्टम् ॥ मधुरिपुमधरं शिवं वरेण्यं वदति जनोविदितैतदीयतत्त्वः । तदहमिह महानुरागभूमावहरहरस्मि रहस्युदीततृष्णः ॥ ४३ ॥ मध्विति । [वै०-] अविदितमज्ञातमेतदीयं विष्णुसंवन्धि तत्त्व येन एवंविधः शैवो नो मधुरिपुम् अधरमपकृष्ट शिव तु वरेण्यं श्रेष्ठं वदति ॥ यद्वा विदितशिवतत्त्व: शैवो जनो मधुरिपुमघरं शिवं वरेण्य वदति । तत्तस्मादहमिह मधुरिपो शिवे वा महा- नुरागस्थाने उत्पन्नतृष्णोऽस्मि एकान्ते तद्धयानवृष्णोऽस्मि ॥ [१०--] विदितमेतदीयम् अधरसंवन्धि तत्त्वमत्यन्तमधुरस्वरूपत्वं येन सः अधरं म- धुनो रिपु वदति । शिव मङ्गलरूपं वरेण्यं श्रेष्ठं वदति । तदहमिहाधरे आरुण्यस्य प्रेम्णो वा भूमौ उत्पन्नतृष्णोऽस्मि ॥ परपुरुषजीवनार्यासङ्गोत्रसतां मिलत्यसच्यागात् । तस्मादपहाय भयं तदाप्तये तत्परः प्रवर्तत ॥ ४४ ॥ परेति । [वै०-] अत्र संसारे परः पुरुषः परमेश्वर एव जीवन येषा तेपामार्याणां सतामासङ्गः असतां खलानां त्यागान्मिलति । अग्रे स्पष्टम् ॥ [----] अनसतां त्रासमकुर्वतां पुरुषाणाम् असत्यागादसद्वययात्परे पुरुपे जीवो य- स्यास्तस्या नार्याः सङ्गो मिलति । अग्रे स्पष्टम् ।। साकं मनोभवमदेन भजेत कनं लक्ष्म्या बलेन यदि कोऽपि लभेत तत्त्वम् । लभ्येत पुष्कलपुरातनपुण्यपुञ्ज- पाकेन केवलमिदं भजनं जनन ॥ ४५ ॥ सेति । [वै] कोऽपि कश्चिद्रह्मापि वा तत्त्वं लभेत विष्णो रहस्यं प्राप्नुयात् । ल. म्याः कनं कामुकं हरिं यदि बलेन बलभद्रण ठेन वा साकं मनोभवमदेनोपलक्षितो . . ९४ काव्यमाला। भजेत । कामुकोऽपि हरिभजनेन तत्त्व प्राप्नुयात् इदं भजन (अस्य विष्णोर्भजन) पुष्कल- पुरातनपुण्यपुञ्जपरिपाकेनैव केवल लभ्येत ॥ [१०-] सा नी मनोभवमदेन स्वद्रविणेन वा कं कनं कामुक भजेत । अपि तु न कमपि । यदि कश्चित्कामी लक्ष्म्या बलेन द्रव्यव्ययसामर्थ्येन तत्त्व तस्याः स्वरूपं ल- भेत । इदंभजनमस्या भजनं पूर्वपुण्यपुअपरिपाकेनैव लभ्यते ॥ आकलितोरुक्रमपदपद्मालंकृत्यनल्पपुण्यभवम् । निजगुणगुरुस्वरूपं काव्यञ्जयति प्रसन्नमतिमधुरम् ॥ ४६ ॥' आकेति । वै०-] आकलिता स्वीकृता उरुक्रमस्य विष्णोः पदपद्ममेवालंकृतियेन । अनल्पात्पुण्याद्भवति तादृशम् । निजैर्गुणैः श्लेषप्रसादादिभिर्गुरु गरिष्ठस्वरूप शब्दार्थ- रूप यस्य तथाविधं प्रसन्नमतिमधुर काव्यं कवित्वं जयति ॥ [०-] इय का स्त्री प्रसन्नमधुरं स्वरूप व्यञ्जयति । कीदृशम् । आकलितः स्वी- कृत उरुः श्रेष्ठो हंसादीनामिव क्रमो विक्षेपो येन तादृशं यत् पदपद्म तदेवालंकरणं यत्र। आकलित उर्वोः क्रमः अभिकमलालंकृतिपुरादिश्च यत्रेति वा । बहुपुण्यभवं निजैः सहजैर्गुणैर्गुरु गरिष्ठम् ॥ मनोभवध्यानपरायणानां तदन्यमिच्छाविषयं न वेद । अतस्तदामोदरसे निमनाः कथं नु संसारभयं लभन्ताम् ॥ ४७ ॥ मेति । [वै०-] भवस्य ध्यानमेव परमयनं येषां तेषां मनः तदन्यमिच्छाविषयं न वेद । अतस्तब्यानरसे निमनाः कथं संसारभीतिं लभन्ताम् ॥ [-] मनोभवः कामस्तयानासक्तानां तदन्यमिच्छाविषयमहं न वेद । अग्रे - ८ स्पष्टम् ॥ प्राप्तव निर्वृतिश्रीः सत्यं सामानि गायतानेन । तगानमेव मन्येस्त्रीहृदयग्रन्थिभेदने हेतुः ।। १८ ॥ प्राप्तैवेति । [वै०-] सामानि गायतानेन सामगेन निर्वृतिश्रीः सुखसंपत् प्राप्तैव । तस्मादृदयग्रन्येरहंकारस्य भेदने हेतुर्गानमेव अस्त्री छुरिकेति मन्ये ।। [१०-] गायतानेन निर्वृतिश्रीः सुखसंपद्रूपा निर्गतातिरवगुण्ठनाद्यावरणशोभा वा यस्याः सा सत्यं प्राप्तैवामानि । अग्रे स्पष्टम् ॥ गृहमधममुपेक्ष्यं कृष्णपक्षातिरागै- रविधुवनमुपेयं सद्धिरादौ निसर्गात् । क इह गतिमितोऽन्यां वक्तु कामातुराणां तदहमुपदिशामि श्रेयसे भूयसे यत् ॥ १९॥ गृहेति । [वै०-] कृष्णः पक्षी येषां तेषु अतिरागैष्णवपक्षपातिभिः गृहम् अधम. + . रसिकरञ्जनम् । ९५ मित्युपेक्ष्यम् सद्भिरादौ निमर्गात्स्वभावाद् अविधु चन्द्रायुद्दीपनरहितं वनम् उपेयं गन्त- व्यम् । कामैरमिलारातुराणां क्लेशभाजाम् इतोऽन्यां गति को वक्त । अह तु तद्रवीमि यद्भूयसे श्रेयसे ॥ [ऋ०-] कृष्णपक्षे अधिकरागैः सद्भिरघम स्वायत्तं गृह कलत्रमुपेक्ष्यम् । विगतो धुर्यत्र तद्विधु,न विधु अविधु, धुसहितं वनं धुवनम्, आदौ निसर्गात् नेवर्णस्य सर्गास्टेः निधुवन भवति तदुपेयं प्राप्तव्यम् । अन्यत्रेति शेषः । इतोऽन्या कामातुराणां गति क इह कृष्णपक्षे वक्त । अह तु भूय श्रेयोहेतुमुपदिशामि ॥ त्यक्तान्यविषयत्तिायति सारं श्रुतं मतं पुरुषम् । तदसौ कथं न विन्देत्परमानन्दं प्रयत्नपरचेताः ॥ ५० ॥ त्यक्तेति । [वै०-] असौ पुरुषस्त्यक्तान्यविषयवृत्तिः सन् श्रुत श्रुतिवाक्येभ्यो मत. मुपपत्तिमिः सारं सारभूतं पुरुषं परमात्मान ध्यायति । अग्रे स्पष्टम् ।। [१०-] सा स्त्री त्यक्तान्यविषया वृत्तिर्यया सा श्रुत दूत्यादिमुखेन मतमभीष्ट पु. रुषं ध्यायति । अरं शीघ्रं तत्तस्मादसौ पुरुषस्तस्याः समत. कथ परमानन्द न विन्देत् ॥ गाङ्गेयमुख्यमिततुङ्गसमस्तनीति- गुप्तापि विश्रुतकथाभरणाचितापि । अत्येति कामरणवेगमियं तनुस्त- दस्यामहोरुचिरभाग्यजनादितः स्यात् ॥ ११ ॥ गाङ्गेति । [वै०-] गाङ्गेयमुख्यैर्भीष्मप्रभृतिभिर्मिता या तुह्रा समस्ता नीतिस्तया गुप्तापि रक्षितापि विश्रुता प्रसिद्धा या कथा कीर्तिस्तद्रूपाभरणसहितापि का तनु. कि राजादिशरीरं मरणवेगमत्यति अतिक्रामति । अपि तु न । तत्तस्मादस्यां तनौ इतोऽस्मा- दभाग्यजनाद्रुचिः स्यान भाग्यवतः ॥ [१०-] तनुः कृशागीय कामरणे कदर्पयुद्धे वेगमतिकामति लघुदेहत्वेन विपरी- तरतेऽतिवेगवतीत्यर्थः । तस्मादस्या मह उत्सवो रुचिरभाग्यादितो मल्लक्षणाज्जनात्स्यात् । यद्वा अस्या महतोोश्चिरं बहुकालं भजते महोरुचिरभाक् यजनादितः पुण्यात्स्यात ॥ अतिविशदानन्तपदप्रत्तदृष्टिने मधुरवीक्षणतः । तुष्यत्यञ्चितुकामः प्रातस्तनकमलमुकुलवीक्षणतः ॥ १२ ॥ अतीति । वि०-] मधुरवीक्षणतो वसन्तादित्यदर्शनादतिविशदेऽतिनिर्मलेऽनन्तस्य विष्णोः पदे चरणे प्रवृत्तदृष्टिः कः पुरुषोऽञ्चितुकामोऽर्चनं कर्तुकामः प्रातस्तनाना पात - कालिकाना कमलमुकुलाना दर्शनान तुष्यति ॥ [-] वसन्तादित्यदर्शनादतिनिर्मले आकाशस्थाने दत्तदृष्टिः प्रातरबितुकामो यातुकामः कः कामी स्तनकमलमुकुलयोर्दर्शनेन न तुष्यति ॥ १. आदर्शपुस्तकेऽस्य श्लोकोत्तरार्धस्य शृङ्गारपक्षे टीका त्रुटितास्ति. ।

काव्यमाला। इह यादववंशकृष्णवानुगतिः साङ्गतया मयान्वभावि। . अधुना तदवाप्तिचेतसे मे मधुराकामधुरापि रोचते किम् ॥ १३ ॥ इहेति । वै०--] इह सतां समाजे यादववंशो यः कृष्णस्तस्य यद्वर्त्म मार्गस्तदनु. गतिः साङ्गत्वेन मयान्वभावि । इदानीं तत्प्राप्तिचित्ताय मे मधुरा कामस्य धू: किं रो- चते । अपि तु न ॥ [१०-] अद्ग है, दवेऽरण्ये वेणुघर्षणजन्यो यः कृष्णवा वहिस्तदनुगतियां तत्र निपातरूपा सा तया मया चान्वभावि अनुभूता । अधुना तत्प्राप्तिमनसेऽपि मे मधुरापि मधुराका वसन्तपूर्णिमा न रोचते ॥ रुचिरजनिसौरभासावहिविधुश्रीः पयोधराकलिता । विदितोऽस्तिमार्गणादेरात्मभुवोऽस्याः पितृप्रसूसमयः ॥ १४ ॥ रुचीति । [वै०-] सौर्या सूर्यसंबन्धिन्या भासा पयोधरैर्मेधैराकलिता वहिविध्वो- रिवारुणा श्वेता च रुचिरजनि-जाता । अतोऽस्या रुचेरात्मभुवो ब्रह्मणः । उपलक्षण- मिदम् । अर्थाद्राह्मणस्य । पिटप्रस्वाः सायसंध्यायाः समयो विदितः । किंभूतस्यात्मभुवः । आ समन्तादृचां गणा आर्गणाः। अस्ति विद्यते मा लक्ष्मीर्येभ्य एवंविधा अस्तिमास्ते च ते आर्गणाश्च तेपामादिभूतस्य । उपलक्षणमिदम् ऋगादिसकलवेदमूलस्य । ब्राह्म. णस्य संध्यावन्दनसमयो जातस्ततो विधिनिषेधरुत्तालैर्भाव्यम् ॥ [१०-] असौ स्त्री पयोधराभ्यामाकलिता उद्गतस्तनी अहि दिवसे एव विधोरिव श्रीर्यस्या एवंविधा सुन्दरी रुचिरा जनिरुत्पत्तिर्यस्यैवंविघं सौरमं पद्मगन्धः स्वाभा- विको यस्याः सा तथा । अतः पद्मिनीत्यवगम्यते। किं ततः । अस्याः पितप्रसू: पिता- मही तत्समयः नानाद्यर्थ गमनकाल आत्मभुवो मार्गणादेः स्वकल्पितयाचकचारणशि- ल्पिविशेषादिच्छमतादेः सकाशाद्विदितो ज्ञातोऽस्ति ॥ नव्यस्तनीतिपरिशीलयतो न सौख्य- साम्राज्यमस्तु कथमात्मभुवातिसृष्टम् । नात्रापि मर्दितमुरो यदि किं ततः स्या- तस्मान्निरन्तरमिदंभजनेन भाव्यम् ॥ १५ ॥ नव्येति । वै०- न व्यस्ता नीतियस्मिन्कर्मणि यथा स्यात्तथा आत्मभुवा ब्रह्मणा- तिमष्ट निर्मितं सौख्यस्य साम्राज्यं राज्यप्राप्त्यादिजन्यं कथं नास्तु । अपि तु भवतु । अत्रापि राज्यादिसौल्ये सत्यपि मर्दितो मुरो येन् मुरजिद्वासुदेवो यदि न आराधित इति शेषः । ततः क्षयशीलेन सौख्येन किं स्यात् । अग्रे न किंचित् ॥ [Po--] इय नव्यस्तनी परिशीलयत पुंस आत्मभुवा कामेन अतिसृष्ट दत्त सौ- ख्यसाम्राज्यं कथं नास्तु । अत्रापि तत्परिशीलनेऽपि उरो यदि न मर्दितम्, ततः किं स्यात् । तस्मानिरन्तरमिदंभजन उरोमर्दनासक्त्या भाव्यम् ॥

. रसिकरञ्जनम् । ९७ जानामि दुःखहेतुं स्मरस्य दुर्वारतान्तेषु । 'सद्यः सखे विरक्तिः प्रभवति विषयानुवन्धिनी यत्र ॥ ५६ ॥ जानेति । [वै०-] यत्र येषु पुरुषेषु विषयानुवन्धिनी विरक्ति सद्यः प्रभवति परंतु हे सखे, तेषु स्मरस्य दुरिता दु खहेतुं जानामि तस्मात्कामजये सति विरक्तिदृष्टा भवति॥ [१०-] हे सखे, रतसमाप्तिषु स्मरस्य दुर्वा दुष्टमुदक वीर्य दु.खहेतु जानामि । यत्र येषु रतान्तेषु सद्य एव विषयानुबन्धिनी विरक्तिर्भवति ।. अत. स्तम्भनाद्युपायं शिक्षयतो यावदिच्छं रत निर्वहेत् ।। कलितोरुचिरं न कर्म चेत्क्रियतेऽनङ्गकतेः कुतः फलम् । स्मरतो हृदि पुण्डरीकहरभजतेऽसौ सफलस्ततः श्रमः ॥ १७ ॥ कलीति । वै०-] कलितः कलियुगाद्रुचिरं साङ्ग कर्म चेन क्रियते अनङ्गकतेः अङ्गहीनाया यज्ञादिकृतेः कुतः फलं स्यात् । अत्रैकोऽस्त्युपाय. । स्मरतः पुरुषस्य यता- दिकर्मकृतो हृदि पुण्डरीकदृक् पुण्डरीकाक्षः भजते । ततः श्रमः सफलः ॥ [ऋ०-] कलितौ दृष्टावूरू यत्र तत्कर्म रतं चिर चेन क्रियते तदा अनङ्गकृतेरनग- कार्यस्य चुम्बनालिङ्गनादेः फल कुत । असौ पद्माक्षी स्मरतः 'कामशास्त्रोक्तं रतवि- घिम्' इति शेषः । तस्य पुरुषस्य हृदि भजते हृदयगमा भवति । ततः श्रमोऽपि सफल एवं अतिपरमाद्भुतवेषा काप्येषा जयति सृष्टिरात्मभुवः । तत्कि न वाञ्छितं स्यादस्या यदि विधुरवीक्षणः पाता ॥ १८ ॥ अतीति । [वै०-] अतिपरमा अत्युत्कृष्टा महीमहीधरसमुद्रादिरूपा अद्भुत आश्च- र्यकारी वेषो मुखवैलक्षण्यादिः प्राणिना यत्र तादृशी काप्यनिर्वाच्या आत्मभुवो ब्रह्मणः सृष्टिर्जयति । यदि अस्या. सृष्टर्विधुरवी चन्द्रसूर्यौ ईक्षणे नेत्रे यस्य स विष्णुः पाता तदा किं वाञ्छित न स्यात् ॥ [१०-] अतिपरमोऽद्भुतो वेषो यस्या. सा काप्येषा आत्मभुव. कामस्य सृष्टिर्ज- यति । यदि अस्याः पाता रक्षकः पतिर्वा विधुर वीक्षण यस्यैवविधस्तदा समोहित मम किं न स्यात् । स्यादेव ॥ सर्वागमान्तप्रमितान्धकारे निवार्य कार्यान्तरचारि चेतः । अये दयालुर्माय चेत्प्रसीद सीदन्तमिष्टोरुपद नयाशु ॥ ५९ ॥ सर्वेति। [वै०-] सर्वैरागमान्तैर्वेदान्तै प्रमित ज्ञात अन्धकारे महेश, कार्यान्तर- चारि मम चेतो अये शुभावहविधौ निवार्य मयि दयालुश्चेत् प्रतीद प्रतनो भव सीदन्तं माम् इष्टं उरु श्रेष्ठ पद स्व चरण नय पद स्थानं वा आशु प्रापय ॥ [शृ०-] कार्यान्तरचारि चेतो निवार्य सर्व येऽगमा वृक्षास्तेपामन्ते मध्ये प्रमिती - । . १३ .

। योऽन्धकारस्तन अये प्रिये यदि मयि दयालुस्तहि त्वद्विरहात सीदन्तं मां यदिष्टममिमतं यद्रुपदमूरुस्यान तदाशु नय ॥ सत्यं समर्तुकामः पुत्री भवति स्वयं कुतः पुत्री। मत्वा विषमतिथिं यदि विद्वान्परिहरति विधिनिषेधज्ञः ॥६० ॥ सत्यमिति । वै०-] स्वयं विद्वान्विधिनिषेधज्ञः सन् यद्यतिथि विष मत्वानिष्टं ज्ञात्वा परिहरति विमुखं करोति तदा स गृहस्थः सत्यं मर्तुकाम आसनमृत्युः पुरुषोऽपि अप्रयोजकत्वेन पुत्री भवति कन्येव स्वपितुर्भवति । स्वयं कुतः पुत्री पुत्रवान् भवेत् । अतोऽतिविसत्कारोऽवश्यं कार्यः ।। [-] स्वयं विद्वान् पण्डितो विधिनिषेधज्ञो यदि विषमां तिथि मला पुत्रकामथेन परिहरति 'युग्मासु संविशेत्' इति विधेः । तदा सत्यं पुत्री पुत्रवान् भवति पुत्री कन्या कुतः स्यात् । यतोऽसौ स्वयं समे ऋतौ कामो यस्यैवंविधस्त्वमपि पुत्रकामश्चत्तथा कुरु ॥ नरीनृत्यमानं भुजंगोत्तमाङ्गे समाकर्ण्य तुप्यन्ति ये वर्ण्यमानम् । त एवात्र संसारिणो मुक्तबन्धा यदेषां विमोक्षाधिकानन्दलक्ष्मीः ॥ ६१॥ नरीति । [.-] स्पष्टोऽर्थः । [*०- भुजंगस्य विटस्य उत्तमेऽने सुखसाधनलेन अर्थान्मेहने नरी मानुपी. तस्या नृत्यस्य मानं नानाविधं परिमाणं वर्ण्यमानमाकर्ण्य ये कामिनस्तुष्यन्ति त एवान संसारिणः संसारसुखभाजः । यतो मुक्ता बन्धा नानाविधासनविशेषा यस्ते तया यत एषां विमोक्षाधिकानन्दसंपत् ॥ ननु सर्वतो निवृत्तिः स्मर्तुः संभवति पुण्डरीकदृशः। द्वित्राण्यहानि जीवनमिह दुर्लभमित्यवेत्य विरतोऽस्मि ॥ १२ ॥ नन्विति । [वै.---] पुण्डरीकाक्षस्य स्मर्तुः सर्वतो निवृत्तिर्भवति इह संसारे जीवनं द्वित्राण्यप्यहानि नैवत्येन दुर्लभमित्यवेत्य विरतोऽस्मि ।। [५०-] पद्माक्ष्यास्तस्याः ऋतुः संभवति स्म । किं तत इत्यत आह–सर्वतश्च- म्बनालिङ्गनादेरपि निवृत्तिः । अतोऽस्पृश्यत्वात् वित्राण्यहानि मम जीवनं दुर्लभमिति विरक्तोऽस्मि ॥ क्षेत्रज्ञे कमलाकराप्तिपदे सर्वागमान्तायने नित्यं दर्शनकातिभिः सुरुतिभिर्दष्टे कथंचित्कचित् । ऋत्लारम्भपयोधरोन्नतिभवश्रीशालिनि श्रीधरे चेतंश्चन्मम वर्तते त्वयि कथं न स्यात्कृपा ते मयि ॥ ६३ ॥ क्षेत्रेति । वि०-] हे कृष्ण, श्रीधरे लक्ष्मीनिवासे त्वयि मम चेतो वर्तते चेत्कथं तव कृपा मयि न स्यात् । किंभूते क्षेत्रज्ञे । कमलायाः करे अपितं पदं येन सर्वे ये - रसिकरञ्जनम् । ९९ 1 आगमान्ता वेदान्तास्तत्रायनं यस्य नित्य दर्शनकालिमिः पुण्यवद्भिः कथचिद्योगाभ्यासा- दिना कचिदृष्टे ऋतोर्वतॊरारम्भे मेघानां या उन्नतिस्तद्भवा या श्रीस्तच्छालिनि ॥ [१०] कस्यचित्काचित्मति सकेतनिवेदकं वचनम्-हे क्षेत्रज्ञे इक्ष्वादिक्षेत्रज्ञान- वति, कमलाकरे सरसि अर्पित पदं यया तद्गमनशीले, सर्वेपामगमाना वृक्षाणामन्तेऽयनं गमन यस्यास्तथाविधे । तबोधनत्रयेणैव सकेतस्थलत्रय मया गन्तव्यमिति सूचितम् । नित्यं दर्शनकातिभिर्धन्यै कथचित्क्वचिद्दष्टे ऋतो ऋतुसमयस्यारम्भे या पयोधरयोरुन- तिरुत्थानं तद्भवा या श्री. शोभा तच्छालिनि मयि तव कृपा कथ न स्याचेत् मम चेतो निरन्तरं त्वयि वर्तते ॥ तव पुण्डरीकदृष्टे व स्मरतां ते भवन्ति नहि कामाः । किं वा विनास्ति मेऽन्यत्तत्वमुदाय सपदि संपर्कात् ॥ १४ ॥ तवति । वै०-] हे पुण्डरीकाक्ष, तव स्मरता पुंसा ते प्रसिद्धाः स्वर्गापवर्गाद्यमिलापा हि निश्चयेन क न भवन्ति त्वा विना किमन्यन्मे तत्त्वमस्ति यत्सपदि सपकांदुदायोत्तर- फलाय स्यात् ॥ [१०-] हे पद्माक्षि, तव व कस्मिन् रतान्ते रतसमाप्तौ कामाः पुना रतोद्योगा न भवन्ति त्वां विना त्वद्ध्यतिरेकेण मे किमन्यदस्ति तत्तस्मात्त्वमेव सपदि संपर्कादुदर्कायो- तरफलाय॥ -- श्रुता गीता लोकैर्जगति बहुशोभारतकथा यदीया लीलास्ते मम हृदि महोरूपचयभृत् । नरे सारथ्यादावुदितपरमार्थव्यवहृतिः समानात्मा साक्षात्कृतिविषयतामेष्यति कदा ॥ ६५ ॥ श्रुतेति । [वै०-] महोरूपयोस्तेजोलावण्ययोश्चयः समूहः । यद्वा महसां ज्योतिषा रूपाणां महीमहीधरसागरादीनां चयस्त विभौति तथा विश्वरूपादिप्रसङ्गे तथात्वात्तधा. विधा भारतकथारूपा यदीया लीला गीता लोकैजंगति बहुशः श्रुता मम हृदि आस्ते । नरे अर्जुने सारथ्यादिसमये उदित उक्तः परमार्थो व्यवहृतिर्व्यवहारश्च येन सः मानात्मा प्रमाणरूपः स्वप्रकाशो भगवान्कृष्णः कदा साक्षात्कृतविषयतामेष्यति । [-] यदीया रतकथा लोकैविटजनैर्जगति वहुशोभा श्रुता गीता स्तुता च । यदीया लीला महान्त उर्वोरुपचय पीनत्वं विति । तादृशी मम हृदि आस्ते सा वेश्या रथ्याया आदौ मुखे उदित उक्त. परमस्य महतोऽर्थस्य घनस्य व्यवहार आदानलक्षणो यया सा समानो मानसहित आत्मा यस्यास्तावद्धनलाभमन्तरेणानगीकुर्वाणा साक्षात्म- त्यक्षीभूय मे कृविषयत्न गोचरत्व कदा एण्यति ॥ चक्षुरपाङ्गाहितहक्चेतश्चरतीशसङ्गरमितं ते । ननु भाविनीविमुक्तौ विचिकित्सा केन हेतुनेदानीम् ॥ ६६ ॥ .

4 - १०० काव्यमाला। चक्षुरिति । वै०-] हे सखे, तव चक्षुरपाङ्गस्यापगतदेहस्य कामस्याहितं शिवं पश्यतीति तथा चेतश्च ते ईशसद्नेन रमितं चरति । ननु इदानीं केन हेतुना ते विमुक्तो विचिकित्सा संशय. भाविनी ।। [-] अपाङ्गयोर्नेबान्तयोराहिता दृष्टियनैवविध ते चक्षुश्चेतश्च ते रतीशसंगरं इतं प्राप्तम् । तत: केन हेतुनेदानी भाविन्यां नीविमुक्तौ सशयः ।। स्फुरति निरुपमानवर्तुलाभा मम हृदि गोपसुताधिकाननश्रीः । कथमिव न लभेय शर्म तस्याविशदविचारनिरन्तरानुवृत्त्या ॥ ६७ ॥ स्फुरतीति । [वै०-] गोपसुतस्य नन्दसूनोरधिका आननश्रीर्मम हृदि स्फुरति । निरुपमाना वर्तुला आमा यस्याः। ततो विशदो निर्मलो यो विचारस्तेन निरन्तरमनुवृत्या शर्म सुख कथं न लभेय प्राप्नुयाम् ॥ [१०-] निरुपमा उपमारहिता नव ऋतुलाभो यस्या एवविधा अतएवाधिका . आननश्रीर्यस्या एवविधा गोपसुता स्फुरति मम हृदि वर्तते । विशता तद्गृह इत्यादीना- मविचारेण निरन्तरं चिर या अनुवृत्तिस्तया तस्याः सकाशात् शर्म रतसुख कथमिव न लभेय ।। यास्यति वयस्य कस्मादस्मितया ममतया कृतः केशः । विदितमनन्योपायादच्युतचरणाम्वुजग्रहादेव ॥ ६८॥ यास्येति । वै०-] हे वयस्य, अस्मितयाहंकारेण ममतया ममत्वेन च कृतो यः क्लेशः स कस्माद्यास्यति । अथवा विदित स्पष्टम् ॥ [-] हे वयस्य, अस्मितया स्मितशून्यया तया कृतो यो मम क्लेशः स कस्मा- द्यास्यति । अथवा विदित स्पष्टम् ॥ तां काश्चनखर्गलतामवाप्य किमध्ययं गेहसुखं व्यनक्ति । करोति चेदेष परात्मनिष्ठां जीवन्विमुच्येत चिरात्कथंचित् ॥ ६९ ॥ तामिति । [वै०-] कांचन अनिर्वचनीयां सुष्टु अर्गला यन्त्रणा श्रुतिस्मृत्युक्ता यस्यासौ तस्य भावस्तत्ता तां प्राप्याय पुमान् किमप्यनिवोच्य गेहसुख प्रकटयति । एप • पुरुष. परे आत्मनि विष्णौ निष्ठामासत्तिं चेत्करोति तदा चिरात्कथचिज्जीवन्नेव विमुच्येत॥ [१०-] काञ्चननिर्मिता स्वर्गस्येव लता या ता स्त्रिय प्राप्याय किमपि गृहसुख प्रकटयति चेदेष परस्या आत्मनि शरीरे निष्ठामासक्तिं कुर्यात्तदा कथचिन्महता कष्टेन चिरान्महता कालेन जीवन् विमुक्तो भवेत् । तस्याः शासनादिति शेपः ।। अचिरेण रोचते मे दिवसानेवं स्थातिवाहयते । श्रितकृष्णपक्षगतये वयस्य काम्यस्तनीविरहः ।।.७० ॥ अचिरेणेति। [वै०-] एव वृथादिवसान्गमयते आश्रितवैष्णवगतये मे हे वयस्य, मनोज्ञस्तन्या विरहोऽचिरेण शीघ्रमेव रोचते। । 4 रसिकरञ्जनम् । १०१ -[१०-] हे वयस्य, अद्यावधि एवमेव कालक्षेप कुर्वते कृष्णपक्षे समाश्रितगमनाय मे अचिरेण कामिना अस्ता क्षिप्ता नीविर्यत्रैवविध रह एकान्तस्थल रोचते ॥ परपुरुषविवादे लौकिकी मानचर्चा भवति न खलु युक्ता जाग्रति स्वप्रकाशे । तदिह मधुविरोधिन्यश्रुते साक्षिरूपे प्रभवति कुरु चेतोत्तिनिष्ठां गरिष्ठाम् ॥ ७१ ॥ परेति । [वै०-] परपुरुषस्य ब्रह्मणो विवादे प्रसक्ते सति लौकिकी लोकसिद्धा मानचर्चा अनुमानादिप्रमाणोपन्यासरूपा खलु निश्चयेन न युक्ता भवति । स्वप्रकाशे चैतन्यलक्षणे प्रमाणे जाग्रदूपे सति । तत्तस्मादिहास्मिन्मधुरिपो साक्षिस्वरूपे अश्रुते इयदवधि तव वेदान्तश्रवणरूपप्रथमप्रतिपत्त्यगोचरे त्व चेतोवृत्तिनिष्टा गरिठा कुरु ॥ [१०- हे भवति, परपुरुषेण सम विवादे कलहे सति खलु निश्चयेन अलौकिकी लोकमर्यादोल्लचिनी मानचर्चा स्वप्रकाशे ज्ञाने जाग्रनि सति न युक्ता । अज्ञा परमेव मानं करोति । त्व तु ज्ञानसपन्ना इत्यर्थ. । तत्तस्माद हे साक्षिरूपे नेत्रसौन्दर्यसहिते, मधुर्वसन्तो विरोधी यस्या । विरहादिति शेष । एवविधे, अश्रु नेत्रोदक ते प्रभवति । चेतोवृत्तनिष्ठामिहास्मिन्पुरुपे गरिष्ठां कुरु ॥ सहचर मम भालतले विधिना लिखितास्ति चित्ररचनेयम् । यामेनवरतमहिता मनोरथातिक्रमेण संजाता ॥ ७२ ॥ सहेति । [वै०-] हे सहचर मित्र, मम भालतले ललाटपट्टे इयमेवविधा चित्रा अद्भुता रचना लिखितास्ति । या मै मनोरथानामतिक्रमेण नैष्फल्यसपादनेन अनवरत सदा अहिता सजाता । यत्परलोकसाधनं न जातमिति ॥ [१०-] हे सखे, चित्रमेव रचना यस्या सा चित्रिणी स्त्री धात्रा मे ललाटतले लिखितास्ति त्वयोपभोग्येयम्' इति मनोरथस्य चातिक्रमेण वेगवत्तयेति शेषः । यामे प्रहरे सर्वस्मिन्नपि नवरतेन नूतनेनोपरिरतेन महिता पूजिता उत्सवयुक्ता वा सजाता ।। कासारे पद्मिनीयं मुकुलयुगमनत्यन्तरं यत्र हृद्यं यस्मिन्सद्यःसमुद्यग्रहपतिकरजव्याप्ततिः श्लाघनीया । तस्मादेतद्विशेषस्मृतिकलितमिह प्रेक्ष्य साक्षादुपेक्ष्यं वर्य शौर्य च नादौ न गमय समयं त्वं व्रजस्त्रीहितज्ञः ॥ ७३ ।। केति । [वै०-] कासारे,सरसि इय पद्मिनी कमलिनी । वर्तत इति शेष. । यत्र यस्या हृद्य मनोहरम् अत्यन्तरहितम् एकदेश एव वर्तमान मुकुलयुगलमस्तीति शेषः । यस्मिन्मुकुलयुग्मे सद्य. समुद्यन् यो ग्रहपतिः सूर्यस्तस्य करेभ्यो जाता व्यापृतिः सा श्लाघनीया स्तुत्या । तस्माच् शौरे कृष्णस्याञ्चनादौ पूजादौ विशेषस्मृत्या स्मृतिवचनेन 'मुकुलैर्नार्चयेद्विष्णु विना कमलकोरकैः' इत्यादिना । वयं श्रेष्ठम् इह साक्षात प्रत्यक्ष- - - --

।
-
।
।
.१०२
काव्यमाला।
नेत्रेण दृष्ट्वा स्वय नोपेक्ष्यम् । बजत्रोभ्यो हितं कृष्ण जानातीति तथाविधस्त्वं समयं
गमय ।।
[१०-] इय पद्मिनी कासारे तिष्ठतीति शेषः । यद्वा । अरे सेय का पद्मिनीति
विशेषप्रश्नः । यत्र यस्या हृद्य हृदयोद्भवम् अनत्यन्तरं मिथःसंगत मुकुलयुगमर्थात् पद्म-
कोशमान स्तनयुगलमस्तीति शेषः । यस्मिन् सद्यः समुद्भवन् ग्रह आग्रहो ग्रहणं वा
यस्यैवविधो यः पतिर्भर्ता तस्य करजानां नखानां व्यापारः श्लाघनीयः । तस्मादेतत्स्त-
नयुग विशेषस्मरणे कलितं सदा चिन्तित कदा द्रक्ष्यत इति इह स्थले साक्षात् प्रत्यक्षतः
प्रेक्ष्य वर्य श्रेष्ठ शौर्य च प्रस्तावमेवविध न गमय न यापय । वीकृतमीहितं जानातीति
स्त्रीहितज्ञस्त्वं व्रज एनां गृहाण ॥
नव्याहारभृदधिकं धन्या मृदुभाषिणी रसज्ञेयम् ।
सद्यःफलदनवरतं संभाषणमच्युतास्पदं यस्याः ॥ ७४ ॥
नेति । [वै०--] अधिक न व्याहारं भाषणं बिभर्तीति मृदुभाषिणी च इयं रसज्ञा
जिला धन्या । यस्या जिह्वाया अच्युतास्पद विष्णुविपयं निरन्तर संभापणं सद्यःफलव-
द्वर्तत इति शेषः ।।
[Yo--] इय रसज्ञा नव्या नूतना हारभृत् धन्या अधिकं यस्या अच्युतमास्पद
स्थल यत्र तत्सभाषणं सद्यःफलद नवरतं यस्मात् ॥
कृष्णाभीरवधूरतस्य लभते दास्यङ्गतस्ते सुखं -
लब्ध्वात्यन्तिकमङ्गनाशमसको विन्देत्कथं देवनम् ।
तस्मात्त्वामधुनाशनं स्वभजनं दातुं परं प्रार्थये
नैतच्चेन्मम चेतसि स्फुरति न स्वर्गापवर्गादिकम् ॥ ७९ ॥
कृष्णेति । [वै०-] है कृष्ण, आभीरवधूरतस्य ते दास्यं गतः सुखं लभते। असको
असौ पुरुषः आत्यन्तिकमगस्य नाश लब्ध्वा देवन त्वचरिताकर्णनकीर्तनगाननृत्यादिल-
क्षण क्रीडन कथ विन्देत् । मोक्षे पापाणवद्भवनमनर्थकमित्यर्थ. । तस्मात् पर परमात्मान
मधुनाशनं त्वा त्वा स्वभजन दातु प्रार्थये । एतच्चत्त्वद्भजन न प्राप्तं मम चेतसि स्वर्गा-
पवर्गादिकमपि न स्फुरति ॥
[१०---] कृष्णा श्यामा आभीरवधूस्तद्रतस्य तेऽङ्गतः पक्षाच्छरीराद्वा दासी सुखं
लभते ॥ यद्वा आभीरवधूः दास्या अङ्गतः दासी कुटनी प्राप्यते रतस्य सुख लभते ।
असको अङ्गना ते स्त्री आत्यन्तिक श सुखं लब्ध्वा पूर्वमिदानी देवन क्रीडनं त्वया
सह कथं विन्देत् । भोजनमात्रेऽपि यतस्तस्याः सदेहस्तस्मादधुना त्वां अशनं स्वभजन च
दातु प्रार्थये । चेदिद मदुक्तं न करोपि तदा मम चेतसि स्वर्गापवर्गादिक अर्थात्तव
न स्फुरति ॥
दृष्टा मनो हरति या सायोध्यारामवसतिराकलिता ।
तस्मादधिवसतैनां नित्यानन्दो मयानुभूयेत ॥ ७६ ॥

रसिकरञ्जनम् । २०३ दृष्टेति । वै०-] स्पष्टम् ॥ [१०- आरामे उपवने वसतिः स्थितिर्यस्याः दृष्टा सती मनो हरति या सा मयायोधि योषिता निष्ठुररतेन तोपिता । तस्मादेनाम् अधिवसता मया नित्यमानन्दः प्रात्यहिकः प्रमोदोऽनुभूयेत ॥ विशिष्टा नवायौवनश्रीस्तदस्यामवाप्या कथं सौमनस्यादिवृद्धिः । भवत्वत्र वागर्हणा यादवीया ततो वारिणेवास्तु पूजा तदीया ॥७७॥ विशीति । वै०-] वायौ वहति सति वनश्रीविशिष्टा न । तत्तस्मादस्या वनलक्ष्म्या सौमनसी पुष्पसवन्धिनी आदिवृद्धि इदानी वातान्दोलनतया तथा नास्ति। ततो यादवस्य विष्णो सबन्धिनी वागर्हणा वाचा अर्हणा पूजा भवतु । तदीया पुजा वारिणैव वा अस्तु ॥ [१०-] अस्या विशिष्टा अतिशयिता नवा नूतना यौवनश्रीरस्तीति शेपः । त. दस्यां सौमनस्यादे प्रीत्यादेरभिवृद्धि कथ प्राप्या। अनया सह सौमनस्ये वृत्ते शत्रवो निन्दा यदि कुर्युरित्यत आह--तत एतत्सौमनस्यसिद्धरत्र अरिणा शत्रुणा गर्हणा निन्दा वा भवतु या निन्दा दवीया दवाग्निसबन्धिनी। तद्वत्संतापहेतुत्वादित्यर्थः । अथवा अरिणा तदीया एतत्सबन्धिनी पूजास्तु । वस्तुनि योगे प्रसक्त इति ॥ खादितस्वैपरीत्यं सद्यो माद्यन्ति हन्तये लब्ध्वा । मन्ये त एव धन्या मान्यानन्यायमार्गमुज्झन्तः ॥ ७८ ॥ स्वेति । वै०- स्वात् धनात् इतरवैपरीत्यमन्यवैलक्षण्यं लब्ध्वा ये सद्यो माः श्रियो धन्ति खण्डयन्ति विभज्यार्थिभ्यः प्रयच्छन्ति । हन्त हर्षे । त एव न्यायमार्ग न उज्झन्तो धन्या मान्या इति मन्ये ॥ [१०-] सु आदिर्यस्य तत्स्वादि तत् 'तर'वैपरीत्यं रतं सुरतमित्यर्थः । तत्कुत. श्चिल्लब्ध्वा ये सद्यो माद्यन्ति तुष्टा भवन्ति त एव धन्या इति मन्ये ॥ मनोहरवयोन्विते तनुनिरस्तशीतातपे कदा सदलकानने भवतु योगसिद्धिस्तव । अये शृणु मयोदितं परमयोगिना दुर्लभं हृदा कलय माधवं सुमनसां यतो वैभवम् ॥ ७९ ॥ मेति । वै०-] हे सखे, योगसिद्धिं चेद्वाञ्छसि तदा सदले कानते निनिडपणी- च्छादित वने योगसिद्धिस्तव भवतु । किंभूते वने । मनोहरैर्वयोभिः पक्षिभिरन्विते । तथा तन्वा शरीरेण निरस्त शीतातपादिकं यत्र । कय कदा । योगस्तै सिध्येत् । अये मित्र, मयोदितमुक्तं शृणु परमयोगिनापि दुर्लभं दुष्प्राप यत्तदुपदिशामि । माधव लक्ष्मी- कान्तमेव हृदा कलय यतो विष्णो. सुमनसा तदेकचित्ताना वैभव भवति ॥ [-] मनोहरेण वयसा तारुण्येनान्विते । तन्वा शरीरेण निरस्तौ शोतानपी या तथाविधै। तरुणीतनुः शीतकाले उष्णा, उष्णकाले शीतला । यतः सन्तोऽलकापूर्ण '१०४ काव्यमाला। . न्तला यस्मिन् एवविधमाननं यस्याः हे युवते, तव योगसिद्धिस्त्वत्संसर्गलामः कदा - मवतु । अये मयोदितमुक्त शृणु परमुत्कृष्टम् अयोगिना विरहिणा दुष्प्राप माधव वैशाखं वसन्तं पश्यतः सुमनसां पुष्पाणा वैभव समृद्धित्तस्मान्मामङ्गीकुरु ।। नित्यं निरञ्जनकथं साक्षिज्योतिः स्वतः प्रकाशसुखम् । गमयति यतिमनुगमयति रमयति शमयति च सपदि संतापम् ॥८॥ नित्यमिति । वै०-] नित्यमविनाशि निरजनकथं निर्लेपवार्त साक्षिरूप ज्योतिःस्व- रूपं ब्रह्म विष्णुलक्षण यति संन्यासिनं स्वत प्रकाश यत्सुख चिदानन्दरूप तद्गमयति अनुगमयति रमयति सपदि सांसारिक संतापं शमयतीति ॥ [-] सा विधवा, नित्य निर्गता अञ्जनकथा कज्जलकथा यस्मात् स्वतःप्रकाशेन स्वाभाविकेनैव कान्तिविशेषेण सुख सुखकारि अक्षिज्योतिर्नेत्रप्रभा गमयति प्रापयति यतिमनुगमयति अनुगत करोति रमयति सपदि सताप च शमयति ॥ चिरप्रेमस्थमस्थगितहृदये पद्मनयने समानारम्भेऽस्मिन्भवति न मयागोपि किमपि । उदलाक्षी रागं नयसि दृशमेनां च यदि मां हृदा वाचा श्रीमत्यचलनमिदं तत्त्वमुदितम् ।। ८१ ॥ चिरेति [वै.--] पद्मनयने कृष्णे चिर प्रेम्णः स्थित्या स्थगित हृद्यस्यैवविध अये मित्र, समान आरम्भ उद्यमो यस्यैवंविधै भवति अस्मिन् लयि समानशीले विष्णुभक्ते मया किमपि न अगोपि गुप्तम् । त्व रागमनुरागं विषयेषु उदसाक्षीरुत्सृष्टवान् । दृश दृष्टि नयसि प्रापयसि । आन्तर रागं दृष्टौ न्यस्यसि । यदि एना सरागां दृष्टि मां नयसि प्रापयसि अनुरक्तो मां पश्यसि तदा हृदा वाचा श्रीमति वासुदेवे अचलनमिदमेव तत्त्वमुदितमुक्तम् ॥ [2०-] चिरप्रेमस्थित्या छादितहृदये पद्माक्षि हे भवति, अस्मिन्नेवविध मानसहित आरम्भे किमपि आगोऽपराधो न यदि उदसे अक्षिणी यस्या एवविधा त्वं दृशं रागं नयसि एनां दृश रक्ता मां नयसि तदा हृदा वाचा श्रीमत्यां त्वयि अचलमिदं मया तत्वमुदितमुक्तम् ।। स्तम्भितमनोभवमदो धन्यो भजते सनर्मदारोधः । नित्यं तपस्यतो निशि किं नानन्दादयानुभूतिः स्यात् ॥ ८२॥ स्तम्भितेति । [वै०-] स्तम्भिता मनोभवाश्चित्तजा मदा विद्यादिजन्या येनैवविधो धन्यः स नर्मदाया रोधस्तरं भजते । निशि नित्य तपस्यतोऽस्य किमानन्दाद्वया- नुभूतिर्न स्यात् ॥ [१०-] स्तम्भितो मनोभवमदो वीर्य येन सनर्मदारी नर्मसहितनीको धन्यः पुरुषोऽधो भजते । अतस्तपसि माघे आनन्दाद्वयस्यानुभूतिः किं न स्यात् ॥ ।

रसिकरञ्जनम् । १०५ सप्तसामनुत ईश्वरो भवान्कि ददाति न वृथा विलम्बते । तत्त्वदीयभजनं हिताय नः स्वाव्ययत्वमिह न प्रकाशय ॥ ८३॥ सप्तेति। [वै.-] सप्तभिः सामभिः स्तुती भवान् ईश्वरो नियन्ता किं स्वभजनं न ददाति वृथैव विलम्बते तत्त्वदीयभजन नोऽस्मभ्यं हिताय । इह स्वाव्ययत्वं न प्रकाशय अव्ययत्व शब्दच्छलात्कार्पण्यं न प्रकाशय । भजनं देहीति ॥ [१०-] कामपि द्रव्यदानेनाभिलघ्यन्त प्रति वचनम् -सा सप्त मनुते । भवान् ईश्वरो धनाढ्यः । अतः सप्तापि न ददाति किं वृथा विलम्बते । किं ततस्तवेत्याह- तस्यास्त्वदीयभजनं तत्त्वदीयमजनं नो हिताय इह स्वाव्ययत्वं कार्पण्य न प्रकटय ।। रम्भास्फुटोपमानामुत्क्षेपस्पष्टमूलवरदोपाम् । करजानुशीलितानां हरिणाक्षीणां स्मराद्यवाणभुजाम् ॥ ८४ ॥ रम्भेति । [वै०-] हे सखे, अद्य त्व बाणस्य बाणासुरस्य भुजा स्मर । जात्येकवच- नम् । अवशिष्टबाहुद्वयातिरिक्तवाहून्स्मरेत्यर्थः । कीदृशीम् । रम्भायाः कदल्याः स्फुटा उपमा यस्यास्ताम् । पुन. । उन्होपे दर्पणोक्षेपे स्पष्ट मूल वरो महेशवर एव दोषो यस्यास्ताम् । पुनः । करश्च जानु च तच्छीलि तान दीर्घता यस्याः । पुनः । हरिणा कृष्णेन क्षीणाम् ॥ [१०-] हे सखे, हरिणाक्षीणां मृगशा स्मर । कीदृशीनाम् । आद्यो पाणोऽर्था- स्मरस्य तं भुञ्जत इति आद्यबाणभुजस्तासाम् । रम्भाया अप्सरोविशेषस्य स्फुटोपमा यासु । पुनः । उत्क्षेपे स्पष्टमूला वरा. श्रेष्टा दोषो बाह्वो यासाम् । करजैर्नखैरनुशी- लितानाम् ॥ नवोन्नतपयोधरस्फुटतराम्बराभ्यन्तर- श्रिया हृदयहारितां वहति नीलिमोत्कर्षतः । स्मराहितगलप्रभातिशयशालिनि श्रीधरे मनो मम किरीटिनः कपटमानवेश्यालके ॥ ८५ ॥ नवेति । वै०-] मम मनः किरीटिनोऽर्जुनस्य श्यालके कृष्ण वर्तते । किंभूते। कपटमानवे स्मरस्याहितो भवस्तस्य या गलप्रभा तच्छालिनि । श्रीधरे । नीलिन्न उत्कर्षतोऽतिशयात् नवा उन्नता ये पयोधरा मेघास्तैः स्फुटतर यदम्बरस्याभ्यन्तर तस्य श्रिया हृदयहारिता मनोहरत्व वहति दधाने ॥ [१०-] किरीटिनः किरीटयुक्तस्य मम मुकुटवर्धनस्यापि मनः कपटमाना या वेश्या तस्या अलके चूर्णकुन्तले वर्तते । किंभूते । नवयोरुनतयोः पयोधरयोः स्फुटतर यदम्बरं सूक्ष्मं वन तस्याभ्यन्तरे या श्रीस्तया नीलिमोत्कर्पतो हृदयहारिता वहति । स्मरेण कामेन आहितो यो गले प्रभातिशयस्तच्छालिनि ततः श्रीधरे शोभा वहति ।। - । १४ १०६ काव्यमाला। - - कलयसि वयस्यकस्मात्वं रुचिरम्भारतीशास्त्रम् । अत्रोक्तिप्रत्युक्तौ कलय मिथो भूरिशस्त्रपातरणम् ॥ ८६ ॥ कलेति । [वै०-] हे वयस्य, त्वं भारती सरस्वत्यैव । कस्मात् । शास्त्र रुचिरं मी- मांसादिक कलयसि । अत्र शास्त्रे मिथः परस्परम् उक्तिप्रत्युक्तौ भूरिः शस्त्रपातो यत्रैवंविध रण युद्ध कलय जानीहि ॥ [१०-] वयसि तारुण्येऽकस्माद् रुचौ कान्तौ लावण्ये रम्भा रम्भव । रतीशस्य कामस्यास्त्रं कलयसि तद्गोचरोभवसि । अत्र मिथः एकान्ते मम उक्तेः प्रत्युक्तावुत्तर- वचने भूरिशः पाया लज्जायास्तरणं विजय कलय लज्जां विजित्योत्तर देहि ॥ नासंन्यासितया मयानवरतानन्दस्तथैवाप्यते तन्मे नाद्यवयस्य निश्चलतया चेतोन्यदाकाङ्क्षति । तामासाद्य सदा हिमर्तुमनसोनेहा च्था यास्यति श्रेयः स्यादथवेत एव कलितादाकष्टपद्माकरात् ॥ ७ ॥ नेति । [वै०-] हे वयस्य,असन्यासितया तयैव यथा पूर्व गार्हस्थ्येनैव अनवरतानन्दो न प्राप्यते तत्तस्मान्मे चेतो निश्चलतया अन्यन्नाकाकृति । तामसंन्यासितामासाद्य हि निश्चयेन मर्तुमनसो मर्तुकामस्य सांसारिकदुःखासहिष्णोरनेहा समयो वृथा यास्यति । अपुरुषार्थत्वेनैव । अथवा इत एव असंन्यासिताया एव आकृष्टः पद्माया लक्ष्म्याः करो येन तस्मात्कृष्णाकलिताञ्चिन्तितात् श्रेयो मोक्षलक्षण संपत्स्यते ॥ [१०-] मया संन्यासितया तत्समानेन ब्रह्मचर्येण तथैवोद्यम विनापि नवरतजन्यो य आनन्दः स न प्राप्यते । तत्तस्मान्मे चेतो निश्चलतया नवरतैकनिष्ठतया अन्यत् किमप्याद्यवयसि नवयौवने नाकासति । अथवा ता स्त्रिय कथंचिदासाद्य लब्ध्वा सदा सर्वदा हिम? शीतकाले मनो यस्य तत्र दत्तचित्तस्य ईहा स्पृहा न वृथा यास्यति । आकृष्टः पद्मानामाकरो येन तस्मात्कलिताचिन्तिताद्धिमतौरव श्रेयः स्यात् । सभोग- पर्याप्तरात्रित्वादिति भावः ।। सहजौ यौवनवृत्ती सार्वदिकासत्तिशालिनौ हृद्यौ । हृदि तौ निरुध्य दधतः कथमात्मभुवोऽपि संभवति भीतिः॥ ८८ ॥ सहेति । वै०-] देवकीगर्भस्यैवाकर्षणेन संकर्षणोत्पत्तेः सहाजावेकोदरौ यौ बल- कृष्णौ एकचरुभागजन्यत्वेन सहजौ रामलक्ष्मणौ वा वनवृत्ती वृन्दावनदण्डकारण्य- वासिनौ । सार्वदिकी यासत्तिरेकत्र वासस्तच्छालिनौ । हृद्यौ मनोहरौ । तौ हृदि निरुध्य दधत आत्मभुवो ब्रह्मणोऽपि कथं भीतिः संभवति ॥ [१०-] यो हृद्यौ हृदयोद्भवौ । सहजौ युगपदुत्पन्नौ । यौवने वृत्तिर्ययोः । सार्व- . । रसिकरञ्जनम् । १०७ दिकी निरन्तरा यासत्तिस्तच्छालिनौ तौ स्तनौ हृदि निरुध्य दधतः पुरुषस्य आत्म- भुवोऽपि कामादपि भी. कथं सभवतीति ।। विषयाद्यविषक्तमानसानां बहुशोभाविरहोऽपि नः सुखाय । परिहृत्य तदन्यदत्र कृत्यं कतरामोरुपदस्मृतिः कृती स्यात् ॥ ८९॥ विति । [वै०-] विषयादावविषक्तमनासक्त मानसं येषामेवविधाना नो बही या शोभा तद्विरहोऽपि सुखायैव । तत्तस्मादन्यत्कृत्य परिहृत्य कृतं 'राम' इत्युरुण श्रेष्टस्य पदस्य नान स्मृतिर्येन स कृती स्यात् ।। [2०-] विषयेषु आद्यविषक्त मानस येषामीदृशां नो बहुशः भावि रहोऽपि एका. न्तोऽपि सुखाय । तदन्यत्कृत्यं परिहृत्य कृता रामाया उरुपदस्य स्मृतिर्येन एवविधः सुखी स्यात् ॥ नव्याटताकुचेष्टा हरिणाक्षीणामुरस्थितिः श्लाघ्या । यस्याः श्रुतिस्मृतिभृतो विभ्रति रोमाञ्चमुत्तमाः पुरुषाः ॥९० ॥ नेति । [वै०-] नव्या नूतना पृताकोः सर्पस्य कालियस्य चेष्टा मुरस्य दैत्यस्य स्थितिश्च श्लाघ्या यतो हरिणा कृष्णेन क्षीणा । यस्या हरिणाक्षीणायाः श्रुतिस्मृतिभृतः श्रवणस्मरणकृत उत्तमाः पुरुषा रोमाञ्च विभ्रति ।। [ऋ०-] हरिणाक्षीणा उर.स्थितिक्षस्थितिः श्लाघ्या । कोशी । न व्यापृता मर्दनादिव्यापारमप्राप्ता अभुक्ता । कुचाभ्यामिष्टा । अत. स्तुत्या । यस्या. श्रुतिस्मृति- भृत उत्तमा रसिका रोमाञ्च बिभ्रति ।। विषमेषुभवेषुवेदनामनुभूयाप्यरुतप्रतिक्रियः । पुरुषो लभतां कथं सुखं यदि सामान्यतनुः करोतु किम् ।। ९१॥ विषेति । [वै०-] विषमेषु उच्चनीचेषु नानाविधेषु भवेषु वेदना दुखमनुभूयापि अकृतप्रतिक्रियः पुमान् कथ सुखं लभताम् । यदि पुनः सामान्यतन. सामान्यशरीर एव पश्चादिरेव तदा किं करोतु । अविवेकित्वात् ।। [१०-] विषमेषु. कामस्तद्भवा या इएवेदना तामनुभ्यापि अकृततत्प्रतीकारः पुरुषः कथ सुखं लभताम् । यदि सा स्त्री अमानि प्रतीकारत्वेन ज्ञाता । तदा अतनुः काम. किं करोतु ॥ करकलितदारनरकेशेरत इह ये सजन्ति भवसिन्धौ । रसिकास्त एव मान्या मन्यन्तां धन्यमात्मानम् ॥ ९२ ॥ करेति। वै०-]करकलितोदाररूपो नरको यत्र तत्र भवसिन्धौ शेरते स्वपन्ति सज. न्यासक्ताश्च भवन्ति तव रसिका मान्या आत्मानं धन्यं मन्यन्ताम् इति कामिनामुपहासः।। [१०-] इह भवसिन्धौ ये करकलिता हस्तेन गृहीता दाराणां नरस्य च केशा १०८ काव्यमाला। । यस्मिन्नेवविधे रते केशाकेशिमदनयुद्धे सजन्त्यासक्ता' भवन्ति । त एव रसिका मान्या धन्यमात्मान मन्यन्तां नान्ये ।। विद्येते हे सर्वतः श्लाघनीये याभ्यां कष्टं तत्र नात्रापि लोके । तस्मादेने वर्तितात्मश्रुतिस्मृत्याद्वाने न त्यक्तुमीशे वयस्य ॥ ९३ ॥ विद्येत इति । [वै०-ते द्वे सर्वतः श्लाघनीये विद्ये । याभ्यामत्र तत्रापि लोके इह परत्र च न कष्टम् । हे वयस्य तस्मात् एने,वर्तित आत्मनः श्रुतिः स्मृतिः इत्याहानं याभ्यां ते न त्यक्तुमीशे नोत्सहे ।। [शृ०-] ये द्वे सर्वतः श्लाघनीये स्तुन्ये विद्यते स्तः । याभ्यां कष्टं न । अत्र तत्र वा । अत्र वा तयोरागमनमस्तु । तत्र वा मम गमनम् । उभयथापि न कटं लोके । यद्वा तत्र लोके पित्सवन्धिजने याभ्यां कष्टं यथा स्यात्तथा न । अत्रापि न लज्जितमति- धृष्टत्वात् । तस्माद्वर्तितानि आत्मनः श्रुतिः श्रवण स्मृतिः स्मरणं आह्वानं नाम च एतानि याभ्यां ते एने त्यक्तुं न प्रभवामि । ताभ्यामेव स्वश्रवणादीनि दूत्यादिद्वारा ख्या- पितानि । अतः कष्टमपि लोके न । तस्मादेने द्वे अपि न त्यक्ष्यामि ।। न यथारुचिरम्भारतमाकर्णितमेवमन्यदिह किंचित् । तदिदं हृदि चिन्तयतां यतमानानां कदाचिदपि सिध्येत् ॥ ९४ ॥ नेति। [वै०-] आकर्णित श्रुत भारत यथा रुचिरम् एवम् अन्यद् इह संसारे न। तस्मादिदं हृदि चिन्तयतां यतमानाना यतो मानोऽहकारों यैस्तेषा कदाचिदपि सिध्येत् ॥ [१०-] यथारुचि रम्भाया अप्सरोविशेषस्येव रतं समाकर्णितम् । एवमिहान्यत् किंचित्तत्तस्मादिदं हृदि चिन्तयतां यलं कुर्वतां कदाचिदपि सिध्येत् ।। मुक्तात्मरोचिरतिदीप्रगुणप्रपञ्चं साक्षिप्रमाणकमनावरणं कुतश्चित् । हृष्यन्महाशयपरिग्रहयोग्यमूर्ति तद्वस्तु सद्वयमिदं हृदि भावयामः ॥९॥ मुक्तेति । [वै०-] मुक्त नित्यमुक्तस्वभावं आत्मरोचि स्वप्रकाशरूपं अत्यन्तं दीपः प्रकाशमानो गुणाना सत्त्वादीनां प्रपञ्चो यत्र त्रिगुणात्ममायाप्रपञ्चोपादान साक्षि प्रमाण यत्र तत्साक्षिप्रमाणकं स्वप्रकाशचैतन्यमेव यत्र प्रमाणं कुतश्चिदनावरण मायावरणरहितं हृष्यन्तो ये महाशया भक्ताः तत्परिग्रहयोग्या मूर्तिर्यस्य तदिदं सद्वस्तु स्वरूपतः सत् परमार्थरूपं ब्रह्म वयं हृदि भावयामः ।। [१०-1 इह हृदि अस्या वक्षसि सद्वयं द्वितयसहितं तद्वस्तु स्तनरूपं भावयामः । कीदृशं तत् । मुक्ताना मौक्तिकानामात्मनश्च रोचिषा अतिदोनो गुणप्रपञ्चो यत्र । अक्षि. प्रमाण तत्सहितं साक्षिप्रमाणम्। स्वार्थे कः । साक्षादेवाक्षिभ्या दृश्यम् । यतः कचिदना- - रसिकरञ्जनम् । १०९. परणं कचुकाश्चलावरणशून्यम् हृष्यन् रोमाञ्चमचन् आनन्दजडो भवन् यो महान् शयो हस्तस्तत्परिग्रहयोग्या मूर्तिर्यस्य ।। आलिङ्गदाप्य गोपी तद्वाहुं सह रिरंसयाधाय । श्रुत्वेति निश्चिनोम्यहमङ्गिषु दुर्वारतामनङ्गस्य ॥ ९६ ॥ आली.त। [वै०-] स हरिगोपीमाप्य तद्वाहुमसे स्कन्धे आधाय आलिङ्गत् इति श्रुत्वा पुराणादौ अगिषु देहिषु अनङ्गस्य दुरितामह निश्चिनोमि ।। [५०-] कश्चन कामपि गोपीमाप्य रिरसया सह तद्वाहुमाधायालिङ्गत् अतोऽहम- हिपु स्मरस्य दुरिता निश्चिनोमि ॥ अनुभूतभवव्यवस्थितिर्जनता का नरताभिलाषिणी । तदमि सुखेन संसृतौ कलितानङ्गतयैव निस्तृतिः ॥ ९७ ॥ अन्विति । वै०-] अनुभूता भवस्य ससारस्य व्यवस्था यया सा का जनता नरता- भिलाषिणी। तत्तहिं कलिता या अनङ्गता अशरोरता तत एव चिराय निस्तार इत्यवैमि॥ [१०-] अनुभूतसंसारव्यवस्था का जनता रताभिलाषिणी न यतस्ततो हेतो. सस्तो कलितः स्वीकृतोऽनगो येन स तथा तस्य भावस्तत्ता तयैव चिराय निस्तारो नान्यथेति ।। असछन्ननेतिसावधिनिषेधबोधिश्रुतिर्मया कलिता । गमयति परमनवरतं या तमखण्डार्थरूपमानन्दम् ॥ ९८ ॥ असेति। वै०-] असकृत् 'इदमिद न' इति सावनिषेधस्य वोधिका श्रुतिर्मया कलिता श्रुता।या श्रुति. परं ब्रह्मलक्षणमुत्कृष्ट अनवरत अखण्डार्थरूपमानन्द गमयति॥ [१०-] असकृदनेकदा न न इति अवधिनिषेधबोधिनी श्रुतिर्वाग्यस्याः सा मया कलिता रमिता । या परमं नवरतं तमखण्डमर्थरूपं पुरुषार्थरूपमानन्द गमयति प्रापपति । सा स्वयमेवागतेत्यर्थः ॥ अहह सहजमोहा देहगेहप्रपञ्चे नवरतमतिमन्ना कामिनीविग्रहाप्तिः । तदहमिह विहर्तु संततामोदमुग्धा खहितमहितकृत्यं हन्त नान्तः स्मरामि ॥ २९ ॥ अहहेति। [वै०-देहस्य गेहस्य च प्रपञ्चे मार्जनानुलेपनादिरूपे अनवरतं निरन्तरम. तिमन्ना कामिनीविग्रहस्य स्त्रीशरीरस्याप्तिः प्राप्तिस्तस्मादिह नौशरीरप्राप्तौ विर्तु कोहितु संततमामोदे सुखे मुग्धा । वस्तुगत्या सुखाभावात् । हन्त खेदे स्वहितेन स्वत्यातिशय- सुखहेतुना महितं पूजितं कृत्य कर्म विष्णुपूजनादिकम् । अथवा सुष्ठु अहितमः सर्पश्रेष्टः शेषस्तस्य हितो विष्णुस्तत्कृत्य तच्चरितमन्तर्न स्मरामीति ॥

काव्यमाला। . • [-] कामिना योऽयं नीवेर्वसनग्रन्थेIहो ग्रहणं तदाप्तिस्तत्प्राप्तिःसा गेहस्य देहस्य च प्रपञ्चे सहजो मोहो यस्या एवंविधास्ति। अहदेति हर्षे । नवरते या मतिस्तत्र मन्ना च । तत्ततो हेतोरहमिह नीविग्रहाप्तौ विहाँ कोडितु सततमामोदो येनानन्देन परिमलेन वा मुग्धा मोहयुक्ता सुन्दरी वा स्वहितमहितानां शत्रूणां च कृत्यं अन्तः किमपि न स्मरामि हिताहितविचारो मम नास्ति । परपुरुषभजनमेकं त्रिजगति सारं वदन्ति धर्मविदः । यस्मादानन्दमयी सद्योमोक्षानुवन्धिनीविरतिः ॥ १० ॥ परेति। [वै] धर्मविद. परपुरुषस्य कृष्णस्य भजनमेकं निजगति सारं वदन्ति यस्मात्सद्यो मोक्षानुगता विरतिर्वैराग्यं भवति ।। [-] कामधर्मविदः परपुरुषस्य भजनमेकं सारं त्रिजगतीति वदन्ति । यस्मा. ज्जारभजनात्सद्यः मोक्षानुवन्धिनीविः मोचनानुबन्धसहिता नीविर्वसनग्रन्थियत्रैवविधा रतिर्भवति ।। निरन्तरगुणोल्लसद्रुचिरकाम्यमुक्ताफल- प्रपञ्चविषयस्टहोपगतलौकिकानन्दभूः । रतीशसमराधिकारमणमात्रलक्ष्यस्थितिः परात्मरतधीरसावतिकशोदरीदृश्यते ।। १०१ ।। निरेति। [वै०-] पर आत्मनि ब्रह्मणि रता धीर्यस्यासावतिकृशः पुरुषो दरीदृश्यते भूयो भूयो दृश्यते । कीदृशः । निरन्तर संततं गुणेषु साधुममतेषु उल्लसन्तो रुचिः प्री- तिर्यस्य । अकाम्या अनाशास्या अत एव मुक्ता त्यक्ता निष्फलप्रपञ्च वेषया स्पृहा येन । अपगतालौकिकानन्दभुवः प्रमदादयो यस्मात् । रतीशसमः कन्दर्पकोटिलावण्यो यो राधिकारमणस्तन्मात्रे लक्ष्ये स्थितिर्यस्य ।। [१०-] परेण पुरुषेण आत्मनो रते धीर्यस्या असौ स्त्री अतिकृशोदरी दृश्यते । निरन्तराणि घनानि गुणे सूत्रे उल्लसन्ति रुचिराणि काम्यानि आशास्यानि यानि मुक्ता- फलानि तत्प्रपञ्चस्तदाभरणाधिक्य तद्विषया या स्पृहा तयोपगता लौकिकानन्दभूमिम- यादा यया । रतीशस्य समरे कामयुद्धे अधिका । रमणश्च माता च श्वश्रूस्ताभ्यामलक्ष्या स्थितिर्यस्याः सा अतिवतुरा कथमपि निरोद्ध न शक्यते ।। ममत्वरयतः समागमरहस्यमन्विष्यतः स्फुटीभवति नान्वितश्रुति तदात्मतत्त्वं क्वचित् । विचित्रमधुनामनागियमनादिमाया न मा समुत्सुकमनारतं कलयितुं सुखं मुञ्चति ॥ १०२॥ ममेति । [वे.- ममत्वस्य ममताया रयतो वेगात तत्प्रसिद्धमात्मतत्व जीवनीक्य- ।

। रसिकरञ्जनम् । १११ लक्षणम् अन्विता समन्विताः श्रुतयो यत्र । 'तत्तु समन्वयात्' इति सूत्रोक्तः। तत्त्वमस्या- दिवाक्यविषयम् । समा ये आगमा वेदान्तास्तेषा रहस्यम् । सम यदागमरहस्य वा। - तदन्विध्यतो मम न स्फुटीभवति । विचित्रमाश्चर्यम् । एवमनिश विचारेऽपि न तत्त्व- बोधः । यतः अधुनेदानोमियमनादिर्माया अनारत सुख नित्यानन्दरूप ब्रह्म कलयितुं लन्धु समुत्सुक मा मां मनागपि न मुञ्चति ॥ [2०-] वरयतस्त्वरा कुर्वतः समागमाय रहस्य संकेतस्थलं अन्विध्यतो मम तस्या आत्मनो हृदयस्य तत्त्व यदप्यन्विता श्रुति श्रवण यत्र दूतीद्वारकवचःश्रवणेन यद्यपि ज्ञातप्राय तथापि न स्फुटीभवति विचित्रेण मधुना वसन्तेन अमनाक अधिकम् अनादिमा आदिमा न प्रौढा यद्यपि प्रथमा तथापि वसन्तकुसुमानिलादिवैचित्र्यवशा. मौदैव या रत कलयितु सुख समुत्सुकमना मा मा न मुञ्चति ।। वर्णालंकृतिकाम्या साकाहायोग्यतासत्तिः । एषा कलितरसज्ञा ननु बहुशोभारतीहितं कुर्यात् ॥ १०३ ॥ वर्णेति। [वै०-] वर्णैर्मधुरैरलकृतिभिरुपमादिभि काम्या।आकासायोग्यतासत्तिभिः पदधमैं. सहिता । कलिता निवासत्वेन रसज्ञा जिला यया । यद्वा कलितास्तोपिता रसता रसिका यया । यद्वा कलितो रसज्ञः परमात्मा कृष्णो यया । एवविधा एषा भारती ननु निश्चयेन हितमभीष्ट कृष्णकीर्तनादिकं कुर्यात् ।। [१०-] वर्णेन शरीरकान्त्या अलंकृत्यालकारेण काम्या कमनीया । आकाक्षा- भिलाषः, योग्यता संभोगयोग्यता, आसत्तिः सनिधिः परिशीलनं वा, तत्सहिता । क. लितो रसज्ञो रसिको यया । वही शोभा यस्या सैपा स्त्री ननु निश्चयेन रतिरुपमीहि. तमभीष्टं कुर्यात् ॥ वृथाश्रमपरिग्रहो यदि वयस्यशून्यो धनैः सुखेन खलु वर्तनं तव सदैव दास्यन्तिके । इदं मम मतं सखे सकलगोपदाराभिकं विनोदय मनो मनोभवकृताधिभाराधिकम् ॥ १०४ ॥ वृथेति। वै०-] हे वयस्य, यदि ल धनैः शून्यो निर्धनस्तदा तवाश्रमपरिग्रहो गाई- स्थ्यस्वीकारो वृथैव सदैव सुखेनानायासेन वर्तन तव जोवन के दास्यन्ति। तस्मात् हे सखे, ममेदं मत संमतम्-मनोभवकृतेनाधिभारेण अधिक मनः सकल. कलया बलभद्रेण सहितः समग्रो वा सर्वमयो वा गोपत्रीकामुकः कृष्णो यत्रैवंविधं विनोदय ।। [१०] यदि वयसि तारुण्ये त्वं धनैरशून्यः सहितः तदा वृधाश्रमः परिग्रहो वधूर्यस्यैवविधस्त्वम् । धनसमृद्धावपि तव स्त्रियाः श्रमो गृहकृत्यनिर्वाहेण वृधैव । कुत इत्यत आह-तव सदैव नैरन्तर्येण दास्या अन्तिके निकटे सुखेन रतादिना वर्तनं - . ११.२ काव्यमाला। स्थितिय॑तः । हे सखे, ममेदं मत शृण्विति शेषः । सर्वगोपवधूकामुकं मनोभवकृताधि- भाराधिक मनो विनोदय विश्रमय ॥ वेत्ति सारतयात्मानं परं चेन्न कदाचन । संसाररसमनत्वं तत्कथं विजहात्वसौ ॥ १०५ ॥ वेत्तीति। [वै०-] सारतया सारत्वेन परमात्मानं चेन वेत्ति तर्हि असौ पुमान् संसार- रसममत्वं कथ विजहातु । परमात्मनः सारत्वेन ज्ञानमन्तरेण संसारमजनान्न निस्तारः ।। [१०-] सा स्त्री रते रतसमये परमन्यम् आत्मानमपि च चेन वेत्ति कदाचित्त. दासौ स्त्री एतच्छीली पुरुषो वा ससारसौख्यममतां कथं त्यजतु ।। विधत्ते सोत्कम्पं स्फुटयति सरोमाञ्चमुदितं कथं मजन्माचे पततु निरयप्रापणपथे । यदि स्यान्मासेऽस्मिन्नसितसितकल्लोलघटना. चला दृष्टिस्तत्कः सुकृतमिदमीयं गणयिता ॥ १०६ ॥ विधत्त इति । [वै०-] स्फुटा व्यक्ता यतयो यत्रैवविधमिदं सरो मा सोत्कम्पमुद्गत- कम्पसहित मुदितं सतुष्ट च करोति । अत्र माघे मज्जन् पुरुषः कथं निरयप्रापणपथे नरकगमनमार्गे पततु । यद्यस्मिन्मासे माघे दृष्टि. असिताः सिताश्च ये कल्लोला यमुनाया गङ्गायाश्च तेषां घटना परस्परसंवन्धस्तत्राचला निश्चला स्यात् तर्हि क इदमीय सुकृतं पुण्यं गणयिता । को ब्रह्मा वा ।। [१०-] सा स्त्री उत्कम्पमुद्गत कम्प सात्त्विकभाव शीतजन्यकम्पगोपित विधत्ते। स पुरुष उदितं रोमाञ्च स्फुटयति स्फुटं करोति । सात्त्विकभावमपि शीतजन्यत्वेन प्रकटयति । माघस्नान कुर्वत एवविधा चेष्टा कथ [न] नरकाय स्यादित्यत आह-माघे मज्जन् स्नान कुर्वन् कथ निरयप्रापणपथे पततु अस्मिन्मासे यदि दृष्टिः असिताः सिताश्च ये कल्लोलास्तद्धटना तब्यतिकररूपा अचला अस्मिन्पुरुषे स्थिरा स्यात्तदा इदमीयं सुकृतं को गणयिता ॥ ' अतिचारुचन्द्ररोचिः कुर्वन् कुसुमेधुकेलिकेतनताम् । सुरभिः कदानुयास्यति समुकुलरुचिरस्तनीहारः ॥ १०७ ॥ अतीति। [वै०-] अतिचारु चन्द्ररोचिश्चन्द्रिका यत्र । कुसुमेधु पुष्पेषु केलिकेतनतां क्रीडावासत्व कुर्वन् । सुरभिर्वसन्तः कदा यास्यति । न वितर्के । चित्तविक्षेपहेतुत्वा- त्तपश्चरतां न निस्तार इति । कीदृशः । समकुलरुचिः कमलादिकोरककान्तियुक्तः । . अस्तनीहारो निरस्तहिमः ।। [१०-] सुरभिर्वसन्तः कदा अनुयास्यति अनुगतो भविष्यति । कामिन इति शेषः । अतिचारुचन्द्ररोचिः । कुसुमेषुकेले: कामक्रीडायाः केतनता स्थानरूप पता. कात्वं वा कुर्वन् । मुकुलसमस्तन्या हारेण सह वर्तते इति तथा ॥ ।

रसिकरञ्जनम् । ११३ हेया कामधुरा दुराग्रहवता संसारचक्रभ्रमे वार्ताभिः प्रसभं प्रवर्तयति या मोहान्धकूपे वुधान् । नाकोपाधिकृति समीक्ष्य न ततः कुर्याद्विरक्ति कथ तत्को नाम निकाममत्र पुरुषं दध्यादनादि हृदि ॥ १०८ ॥ हेयेति । [वै.-] ससारचक्रभ्रमे ससारे चक्रे यो भ्रमस्तत्र दुराग्रहवता पुसा कामधुरा कदर्पभारः हेया त्याज्या । या प्रसभ बलान्मोहान्धकूपे युधान्पण्डितानपि वार्ताभि. स्वकथाभिः प्रवर्तयति । ना पुरुषः अकोपाधिकात अकस्य पापस्य दुसस्य वा य उपाधि प्रयोजकस्तत्कृति तत्करण समीक्ष्य तत• पापसाधनात्कय विरक्ति न कुर्यात् । तत्तस्मात्को नाम पुमानत्र कामधुराया निकाम अनादिपुरुप विष्ण हृदि कुर्यात् । यद्वा कोपजन्यो य आधिर्मन.पीडा तत्कृति समीक्ष्य तत कोपाधिकृतेविरक्ति न कुर्यात् । तत्तस्मात्कामक्रोधावुभावपि दु खहेतू ज्ञात्वा निकाम पुरुष च शब्द अनादिमादिवर्णर- हित काम पुरुषं च हृदि को नाम दध्यादिति ।। [Y०---] मधुरा मनोहरा का स्त्री ससारचक्रे भ्रमे दुराग्रहवता पुसा हेया परि- हार्या । या वार्ताभिर्नानाविधाभिश्चातुर्यमर्यादाभि प्रसभं हठात् बुधान्विदुषोऽपि मोहा- न्धकूपे प्रवर्तयति । तत्तस्मात्तस्याः सुन्दा सकाशानाकस्य स्वर्गस्योपाधि प्रयोजक- स्तत्कृति समीक्ष्य को नाम कथ विरक्तिं विशेषेण रक्ति राग न कुर्यात् । अत्र निकाम निर्गत कामो यस्मादेवंविध अनादि पुरुप महेश को नाम कथ हृदि दध्यात् ।। भवार्णवस्योत्तरणे सरोजक्चकास्ति नौकेयमहो पुरःस्थिता । सखे सखेदोऽहमनन्यजभ्रमादमू विहातुं न ततः समुत्सहे ॥ १०९ ॥ भवेति । [वै०-] भवार्णवस्य ससारसिन्धोरुत्तरणे सरोजक् पुण्डरीकाक्ष एव इयं पुर स्थिता नौका चकास्ति प्रकाशते । ततोऽनन्यज स्वाभाविको यो भ्रम अह ममति देहगेहादौ तत सखेद. क्लेशवानह हे सखे, अमू कृष्णनाव विहातु नोत्सहे ।। [शृ०-] इय पद्माक्षी आक्यो पुर स्थिता भवार्णवस्योत्तरणे उत्तरणनिमित्तं च- कास्ति शोभते । अतोऽहमनन्यजभ्रमात्कामकृतमोहादमू त्यक्तु नोत्सहे । इयं सरोजक् भवार्णवस्योत्तरणे नौकेति वा पूर्ववत् ॥ साधयति धरमपूर्व पातालं कश्चिदेति कमलार्थी । न खलु सहजानुरागाद्विरमति तृप्णतयोः कदाचिदपि ॥ ११०॥ साधेति। [वै०--] कमलार्थी लक्ष्मीकाम कश्चिदपूर्वमदृष्टपूर्व धर पर्वत असाध्यमपि साधयति । कोऽपि पातालमेति । सहजः स्वाभाविको योऽनुरागो धनश्यियस्तस्मान् खलु निश्चयेन एतयोरुभयोरपि तृष्णा कदाचिदपि न विरमति ।। [-] सा ली अपूर्व अकारपूर्व धर अधरं धयति पियति । अभिमला द्रव्यलिप्सुरस्याः सकाशादलमतिशयेनाधरं पातेन्यागच्छति । अग्रे स्पटम् ।। । ।

११४ काव्यमाला। - सामानिनीत्वा सलिलात्पयोधेरजिग्रहत्कंजभुवा दशा यः। भजन्सखे तञ्चरणारविन्दे विन्देस्तमानन्दममन्दमाशु ॥ १११ ॥ सामेति । [वै०-] पयोधेः समुद्रस्य सलिलात् सामानि । उपलक्षणमेतत् । सर्वान्वे. दान् दैत्याहृतान् यः कृष्णः कजभुवा ब्रह्मणा दृशा दृष्ट्या अजिग्रहत् ग्राहयामास। हे सखे । अग्रे स्पष्टम् ॥ [१०-] सा मानिनी स्त्री कजानि कमलानि भवन्त्यस्या इति कजभुवा कमल- परम्पराजनिकयारुणया दृशा त्वा त्वा अयो लोहं अजिग्रहत् लोहितदृष्टिच्छलात्फालमेव प्राहयामासेत्यर्थः । अतस्तत्फालनिभारुणदृष्टिग्रहेण शुद्ध एव त्वमपि तस्याश्चरणारविन्दे भजन्तममन्दमानन्द भजेः॥ सर्वत्र साक्षिभावं कलयन्ती सपदि शर्म संदधती । संमोहयति मनो मे मूर्तिर्गोपालवंशजन्मापि ॥ ११२ ॥ सर्वेति । [वै०-] नन्दगृहजातापि कृष्णमूर्तिः परब्रह्ममयी मे मनः समोहयति ध्याने मुग्धं करोति । कीदृशी । सर्वत्र क्षेत्रे साक्षिभाव कलयन्ती। सपदि शर्म यच्छन्ती॥ [१०-] सा स्त्री सर्वत्र अक्ष्णोर्भाव कलयन्ती सपदि शर्म यच्छन्ती आभीर्यपि मूर्तिर्मे मनः संमोहयति॥ निवसति हृदये स मेघरूपो न तदुपपत्यवलम्बि कृत्यमन्यत् । अत उचितमिहेतदेव यत्तत्सुदृढनियन्त्रणमन्तरङ्गसाध्यम् ।। ११३ ।। निवसतीति । [वै०- मेघरूपो मेघश्याम. कृष्णो हृदये निवसति । तस्य उपपत्तिः प्राप्तिस्तदवलम्बि नान्यत्कृत्यम् । अस्तीति शेषः । अत इहैतदेवोचितं यदन्तरगसाध्य मनःकार्य तस्य विष्णोः सुदृढ नियन्त्रणम् । मनसि दृढतया विष्णु स्थाप्य इति ।। [१०-] अघरूप. पापरूपोऽपराधरूपो वा स पुमान् मे हृदये वसति सचासावु- पपतिर्जारस्तदवलम्बि अन्यत्कृत्य कर्तव्य न । अत इहैतदेवोचितं यत्स्वान्तरङ्गेण हृदयेन गुह्यप्रदेशेन वा साध्यं तस्य सुदृढनियन्त्रणमिति ॥ असत्यमेतद्विदितं समस्तमकार्यकारीति मृषा प्रपञ्चः । कुचापलापक्रममेव कर्तुमाच्छादनं ते हृदयस्य शश्वत् ॥ ११४ ॥ असत्येति । [वै०-] एतद्विश्वं समस्त असत्य विदित ज्ञातम् अकार्यकारि अर्थक्रि. याकारि न भवति । अय प्रपञ्चो मृपा मिथ्या । कुत्सित चापल चपलत्वमेव अपक्रमम- न्याय कर्तुं ते हृदयस्य शश्वत् निरन्तरमाच्छादनमिति ॥ [१०-] एतत्त्वयोक्तम् असत्य मिथ्या । समस्तं विदितं त्वच्चरित सर्व ज्ञातम् । अकारि अकारीति प्रपश्चो मृपा । एतावत्परिणामौ कुचाविति कोऽपि न वेत्त्विति कुच- 4 ।

. रसिकरञ्जनम् । ११५ योरपलापक्रममेव कर्तु ते शश्वत् हृदयाच्छादनं न तु मृपावादेन स्वाभिप्रायगोपनमपि कर्तुमिति ॥ नानावन्धप्रभेदे प्रथमकलितहत्कचुकग्रन्थिभेदै- रत्यन्तानन्दमन्दीभवदपरभिदं नित्यमात्मानमीहे । स्मारं स्मारं भवाम्भोनिधिमधिकतया दुस्तरं निस्तरीतुं नान्यं पश्याम्युपाय कमपि तदितरं सत्खरूपोपलव्ध्यै ।। ११५॥ नानेति । [वै०-] नानाविधा ये बन्धप्रभेदा. कामक्रोधादयस्तत्र प्रथमकलिता ये हृत्कञ्चकस्याहकारस्य ग्रन्भैदा विदारणानि विमोचनानि तैरत्यन्तानन्देन मन्दीभवन्ती अपरभिदा प्रपञ्चभेदो यत्र तमेवविध नित्यमात्मान ब्रह्म ईहे वाञ्छामि । भवाम्भोनिधि स्मार स्मारं अधिकतया दुस्तर निस्तरीतु तदितरमुपायं न पश्यामि । सत् सत्तामात्रं यत्स्वरूप तस्योपलब्ध्यै ॥ [Y०-] अहं नित्यं प्रत्यह नानाप्रकारा बन्धभेदा यत्रैवविधे सुरते प्रथममादी कलिताः कृता ये कञ्चकस्य कूर्मासस्य ग्रन्थीना भेदा विमोचनानि तैरत्यन्त य आनन्द. स्तेन मन्दीभवन्ती अपरभिदा अन्यभेदो यत्र तथाविधमात्मानं वाञ्छामि । अर शीघ्र स्मारं स्मरसबन्धिनं दुस्तर भवाम्भोनिधि निस्तरीतुं तदितरमुपाय न पश्यामि स्म ना- पश्यम् । कस्यै । सत्स्वरूप यस्यास्तस्या सुन्दा उपलब्ध्यै प्राप्त्यै ॥ काश्यामाकतिमीशितुर्न लभते हृद्याहितातत्त्वधी- र्यस्य श्रीरिव साभवत्प्रियतमा या सर्वदाराधिका । शश्वत्तद्रतचेतसस्तव पुरापुण्यान्यगण्यानि य- ब्रह्माद्वैतसुखेऽपि तद्भजनतो मन्दादरं ते मनः ॥ ११६ ॥ काश्यामिति । [वै०-] काश्या हृदि आहिता अतत्त्वधीर्येनैवविध ईशितुः शिव- स्याकृति विश्वेश्वरादिशिवलिङ्गमूर्ति न लभते न प्राप्नोति । यस्य शिवस्य का सा प्रिय- तमा अतिशयेन प्रियाभवत् श्रीरिव या सर्वदा आराधि । लोकैरिति शेषः । शश्वत्सदा तत्र शिवे रतं रक्त चेतो यस्यैवविधस्य तव पुरापुण्यानि पूर्वजन्मकृतानि अगण्यानि गणयितुमशक्यानि । यद्यस्माहेतोर्ब्रह्माद्वैतसुखेऽपि तद्भजनतस्ते मनो मन्दादरम् । अ. स्तीति शेषः । विष्णुपक्षे वा हृदि आहिता आरोपिता हृद्या मनोहरा, हिता इटा, का तत्त्वबुद्धिरीशितुः कृष्णस्य भगवतः श्यामाकृतिं गोपालमति न लभते । अपि तु लभत एव । तत्त्ववुझ्या साख्योक्ताना पञ्चविंशतितत्त्वानां गणनाया प्रसक्तया मत्या पदिशको विष्णुरिति घड्दिशत्वेन लभ्येतैव । यस्य कृष्णस्य या राधिका सा श्रीलक्ष्मीरिव प्रियतमा अभवत् । अग्रे समानम् ॥ [-] हृदि हृदये वक्षसि आरोपिता तस्य पुरुषस्य भावस्तत्त्वं तत्र धीवुद्धिर्यस्याः पुरुषायितुमनाः ईशितुः प्रियस्य कृति प्रियकर्तकरतव्यापारं तद्वत्स्वयमेव का स्यामा ११६ काव्यमाला। 1 घोडशवार्षिकी युवतिर्न लभते । अपि तु लभत एव । यस्य भगवतः श्रीरिव लावण्येन सा युवतिर्भवतः प्रियतमा अतिशयेन प्रिया । या सर्वेभ्यो दारेभ्योऽधिका शश्वत्तस्या रते चेतो यस्य तदासक्तचित्तस्य वा तव पुरापुण्यानि अगण्यानि । यद्यतस्तस्या भजनतो ब्रह्मानन्देऽपि मनो मन्दादरम् ।। यदस्ति मे किंचन तत्समस्तं दास्यामिहास्यामितरेयमेवम् । अकिंचनासत्तिजुषो न लज्जा भवेद्धनं तन्न समर्पितं चेत् ॥ ११७ ॥ यदिति । वै०--] यत्किचन मेऽस्ति धनदारादिक तत्समस्त दास्यामि, हास्यामि त्यक्ष्यामि । एव सति तरेयम् । ससारसिन्धुमित्यर्थः । तद्धन चेन समर्पित तदा अ- किंचनाना निष्परिग्रहाणां विरक्तानामासत्ति सेवमानस्य मे लज्जा न भवेत् । अपि तु भवेदेव ॥ ' [१०-] इह मे यत्किचनास्ति द्रव्यादिक तत्समस्त अस्या दास्याम् । इतरा इय स्त्री उढा एवमकिंचनैव तिष्ठति । तत्तस्माद्धन न समर्पित चेत् तदा अकिंचनाया उ- ढाया आसत्ति सेवमानस्य मे लज्जा न भवेत्, अपि तु भवेदेवेति काकुः । इदानीमूढाप्यु- पभोगक्षमा वृत्ता । तस्मादियदवधि उपभुज्यमानदासीहस्तस्थ द्रव्य गृहीत्वाभरणादिदा. नेनेयमपि संमाननीयेति ॥ सपटघटसमस्तन्यायतत्वोलसट्ट- ग्विरचितविविधात्मप्रक्रियामोहितस्य । कथमभिनिविशेत स्वान्तमन्यद्भुत्सो- स्तव नयमनयं वा वीतबुद्धेविवेक्तुम् ॥ ११८ ॥ सेति । [वै०--] उदाहरणत्वेन पटघटकुलालादिसहितः समस्तो यो न्यायो न्याय. शास्त्रं तस्य यत्तत्त्व साधर्म्यवैधादिना प्रमाणादिषोडशपदार्थविवेचनं तत्रोल्लसन्ती या दृग् दृष्टिर्बुद्धिस्तया विरचिता या विविवानां नानाविधानामात्मनां प्रक्रिया तया मोहि- तस्य नय सच्छास्त्र अनयमसच्छास्त्र बुभुत्सोर्बोद्भुमिच्छोविवेक्तु वोतबुद्धेस्तव स्वान्तं चित्त अन्यन्नय वेदान्तशास्त्र एकात्मप्रतिपादनरूपं कयमभिनिविशेत ॥ [१०-] सपटौ साञ्चलपरिधानौ घटसमौ स्तनौ यस्यास्तस्या आयतत्वेन विशा- लत्वेन उल्लसन्ती या दृग् नेत्र तया विरचिता या आत्मन. प्रक्रिया नानाविधो विलास- स्तया मोहितस्य नय नीतिम् अनयमनीति बुभुत्सोविवेक्तु वीतबुद्धस्ते स्वान्तमन्तः कथमन्यत्पदार्थमभिनिविशेत ॥ श्रुतो जगति योधरो मधुपवर्गवर्णोद्धृतेः स मेऽतिरुचिरो हृदि स्फुरति साधु गोवर्धनः । द्विजातिपरिशीलनक्रमविदा मयासाद्यते सविद्रुमरुचिः स्फुरन्मृदुपलामृतश्रीधरः ॥ ११९ ।।

रसिकरञ्जनम् । ११७ श्रुतेति । [वै०---] मधुपवर्गस्य भ्रमरसमूहस्य वर्ण इव वर्णो यस्य स वासुदेवस्ते- नोद्धृतरुद्धरणादुत्पाट्योन्नयनाज्जगति विश्रुत ख्यातो यो धर पर्वतो गोवर्धनः अतिरु- चिरोऽतिमनोज्ञ. स मे हृदि साधु यथा स्यात्तथा स्फुरति । अतो द्विजातीना ब्राह्मणादीना परिशीलनक्रमविदा यात्राक्रमझेन मया आसाद्यते आसादयिष्यते । कीदृशः । वीना पक्षिणा द्रुमाणा या रुचिस्तत्सहिता स्फुरन्ती या मृदः, उपलानाम्, अमृतस्य जलस्य च, श्रीः शोभा ता धारयतीति तथा । ततो मयावश्य गन्तव्य इति ।। [F०- योऽधरोऽधरोष्ठ श्रुतो जगति मधु, ससारे मधुस्वरूप । पवर्गवर्णानां पफवभमानामुद्धृतेरुच्चारणाद् गोवर्धनो वचनवर्धनशोल. । अतिरुचिरो मम हृदि साधु सम्यकप्रकारेण स्फुरति । द्विजाना दन्तानामतिपरिशीलनं मणिमालादिनामकक्षतदान तत्क्रमज्ञेन मया सोऽधर आसाद्यते प्राप्यते । कीदृश । विद्रुमस्य प्रवालस्य रुचिरिव रुचिर्यस्य स्फुरन्ती स्फुटीभवन्ती मृदुनि पले मासे अमृतश्रीस्ता धारयतीति ॥ यासौ संसृतिनिईतिस्थितिरतिक्लिष्टा कुचेष्टाकात- स्तामेवानुदिनं विचारयति यः स्यादेप दोपानुगः । अस्मिन्सारमते निधाय हृदयं निईन्द्वपीडः स्थिरा- मन्दानन्दचिरानुभूतिरभजद्योगेन सद्यः फलम् ॥ १२० ॥ येति। [वै०-] या असौ समृतिनिर्वृते ससारसुखस्य स्थिति अतिक्लिटा लेशा- नुषगवती । कुत्सिता या चेष्टा तस्कृति. पश्वादिसाधारणरतजन्या। तामेव योऽनुदिन विचारयति एष पुमान् दोषानुगो रागादिदोषकिंकर. स्यात् । अय पुमानस्मिन् सारमते सारभूते मते योगाभ्यासलक्षणे हृच्चित्त निधाय निर्गता द्वन्द्वपीडा शीतोष्णादिवाधा य- स्मादेवविधः सन् स्थिरामन्दानन्दस्य ब्रह्मावाप्तिसुखस्य चिरमनुभवो यस्यैवविधो योगेन सद्य फलमभजत् ।। [ऋ०-] यासौ स्त्री ससारसुखस्थानरतिक्लिष्टा कुचाभ्यामिष्टा मनोज्ञा आकृतिरा- कारो यस्यास्तामेव योऽनुदिनं विचारयति एप पुमान् दोपा रात्रिस्तदनुगस्तदनुसरणशीलः स्यात्। सा स्त्री अस्मिन्पुसि रमते। किं कृत्वा। हृदय मनो वक्षो वा निधाय । अव पुमा- नितरा द्वन्द्वस्यात्कुिचयुग्मस्य पीडा यस्मात् स. । तथा स्थिरा अमन्दानन्दस्याधिक- सुखस्य चिरमनुभूतिर्यस्यैवविधो योगेनास्या. सबन्धेन सद्यः फलमभजदिति ।। वसन्ते संजाते धरणिभृदपत्योत्सवविधा- वसावङ्गीकुर्यान्नवरणमनङ्गस्य भवतः । विहायेहान्येहां कलितसुमना माधवपदे विधेहि स्वं धीरं प्रथममथवेदं कथय नः ॥ १२१ ॥ वसन्तेति । [वै०-] वसन्ते संजाते चैत्रे समागते धरणिभृतो हिमवतोऽपत्यस्य दुर्गाया उत्सवविधौ असौ यजमान, अनङ्गस्य अनहोनस्य ते वरणं नाङ्गोकर्यात् तस्मा.

११८ काव्यमाला। न्मदुक्तं शृणोपि चेत्तदाहमुपदिशामि इहोत्सवे अन्येहां द्रव्यप्राप्तिवाञ्छां विहाय माघ- वस्य कृष्णस्य पदे कलित स्थापितं सुत्रु मनो येनैवविधः सन् प्रथममादी स्त्रमात्मान धोरं विधेहि । अथानन्तर नोऽस्मभ्य वेद कथय विष्णुप्रोत्यै अस्मदने वेदपाठ कुर्विति ॥ [१०-] असौ स्त्री वसन्ते वैशाखे प्राप्ते धरणिभृतो राज्ञो यदपत्य कन्या तदुत्सव- विधौ तद्विवाहसमर्दै भवतस्ते अनङ्गस्य कामस्य नवरणं नूतनरतमगीकुर्यात् । इह प्रसङ्गे अन्यस्यामीहा स्पृहा विहाय माधवपदे वसन्तस्थाने उपवनादौ कलिता दृष्टाः सुमनसो नानाकुसुमानि चित्तविक्षोभहेतुभूतानि येन एवविधस्त्व स्वमात्मानं प्रथममादौ धीर विधेहि । अथवा इदं स्वमतं न कथयेति ॥ प्राज्ञैरनन्तपथपान्थतयासितव्यं नैवान्यथा भवति कामनयोपयोगः । तन्मृग्यतामिह परत्र च सारसाक्षी यागोपि दिव्यसुखहेतुरमानि मान्यैः ॥ १२२ ॥ प्राज्ञेति । [वै०-] अनन्तपथं विष्णुमार्ग पान्थत्वेन प्राज्ञैः सुबुद्धिभिः स्थैयम् । अन्यथा कामनया नानाविधया उपयोगः फलसंबन्धो न भवति । सर्वस्यापि नश्वरत्वात् । तर्हि इह संसारे परत्र परलोके च सारे स्थिराशे साक्षी तदनुभववान् मृग्यताम- न्विण्यताम् । स एव सार वक्ष्यति । यागोऽपि मान्यैर्मन्वादिर्भािदव्यसुखहेतुत्वेन अमानि अनुमत. ॥ [१०- प्राज्ञैश्चतुरैरनन्ता अपरिमिता ये पन्थानस्तत्र पान्थत्वेन संचरणशीलत्वेन स्थातव्यम् । अनेकानुसंधान वियेयमित्यर्थः । तत्तस्मादिहात्र परत्रान्यत्र वा अत्र नगरे नगरान्तरे वा सारसाक्षी पद्माक्षी मृग्यतामन्विध्यताम् । यत्र कापि या मान्यैर्महद्भिः क्षत्रियादिभिरगोपि रक्षिता । दिव्यसुखहेतुरमानि ॥ सुखं सारत्यागः कलयतु समेत्य द्विजपदा- न्यसौ मामेत्यद्य श्रुतिमधुरवाचाहृतमनाः । सदाम्नायार्थेनाधिकसुरभिणैक्यस्थिरमतिः प्रपञ्चं पञ्चानां न खलु मनुते सत्यमधुना ॥ १२३ ॥ सुखेति । [वै०-] द्विजपदानि ब्राह्मणस्थानानि समेत्य गत्वा सारस्त्यागो यस्य सध्ययशीलः असौ दाता सुख कलयतु सुखी भवतु । अद्य श्रुत्या वेदेन मधुरवाचा मधु- रवेदपाठेन हृतचित्तो मामेति प्राप्नोति । त्वयापि तद्दत्तं ग्राह्यमेवेत्यत आह-सदा अधि- कसुरभिणा अतिप्रसिद्धेनानायार्थेनैक्ये जीवब्रह्माभेदे स्थिरा मतिर्यस्यैवविध. पुमानस्म- दादिः पञ्चानां भूताना प्रपञ्च देहमपि खलु निश्चयेन अधुना सत्य न मनुते । किं पुनर्ध- नादिकमिति ॥ [१०-] सासौ सेयं नो अद्य द्विजपदानि दन्तक्षतान्मणिमालादिनभेदान्समेत्य मा ।

रसिकरञ्जनम् । ११९ मा इति श्रुतिमधुरवाचाहृतमना रत्यागः सुरतापराध सुखमेव कलयतु जानातु । अ. धिक सुरभिणा कपूरकस्तूरीचन्दनताम्बूलादिना सदाना समाल्येन मत्प्रेषितन ऐक्ये मया सहामिनभावे स्थिरा मतिर्यस्या एवविधा या पश्चाना दूतीसख्यादीना प्रपत्र कल्पितविघटनोपायं अधुना खलु निश्चयेन सत्य न मनुते । तत प्रसन्ना मम मनोरय पूरयिष्यतीति ॥ ज्योतिर्मन्ये त्रिनेत्रोद्भवमिह विहरत्कामिचक्रार्तिदं य- द्रत्याः पत्याथ सद्यः प्रकटितमधिकं पाटवं स्वात्मभूतेः । एतस्यालोकतोऽमी वयमपहृतहृत्तापतामाप्तवन्तः संतुष्टाः प्रोषितस्त्रीरतिसुखमनसो दुस्तरं निस्तरेम ॥ १२४ ॥ ज्योतिरिति । वि०-] विहरत क्रीडत कामिचक्रस्य या अतिर्मन पीडा तत्पद त्रिनेत्रोद्भव ज्योति शिवतीयलोचनतेजो मन्ये । यत्तेजः प्राप्य रत्याः पत्या कामेन सद्यः स्वात्मन. स्वशरीरस्य भूतिभस्म तस्या अधिक पाटवं सामर्थ्य प्रकटितम् । अमी वयमेतस्य शिवहरवहिपाटवस्यालोकतो दर्शनादपहृतहृत्तापत्व प्राप्तवन्तः सतुटाः प्रोपित दूरे गत नीरतिसुखे मनो येषामेवविधा सन्तो दुस्तर ससारसमुद्रं निस्तरेम । भस्मी- भूतात्कामात्कामी(?) । अत कथ ससारसिन्धु न तरेम ।। [-] अर्नेत्रादुद्भूत ज्योतिश्चन्द्रलक्षणमिह विहरता कामिना चक्राणा चक्र- वाकाणा मनः पीडाप्रद मन्ये । यज्ज्योतिश्चन्द्ररूपमवाप्य सद्य कामेन स्वात्मनो भूतरे- श्वर्यस्याधिक पाटव प्रकटितम् । एतस्य चन्द्रस्यालोकतो दर्शनाच्चन्द्रिकाया वा अमी वयमपहृतहृत्तापत्व प्राप्तवन्त. सतुष्टा. प्रोषिताना परदेश गताना या स्त्रियस्तद्रतिसुखे मनो येषामेवंविधा. सन्तो दुस्तरं काम निस्तरेम । चन्द्रायुद्दोपनदर्शनेनाधिककामवे- गाद्वय विदेशस्थवधूसमागमेन क्लृप्तेन सुखिन. स्यामेति ॥ हित्वा तामसतां मनोरथमितां मत्वा कुचेष्टास्थिति नायर्यासत्तिमुपेक्ष्य तां नय निजां नो मुञ्च सीमामपि । भ्रातस्ते भ्रमतः कदापि न भवेदद्वैतसंविद्भवे तस्माद्विस्मर न स्मराहितपदद्वन्द्वानुरागक्रमम् ॥ १२५ ॥ हित्येति । [वै०-] कुत्सिता चेष्टा यस्यामेवविधा स्थितिर्यस्या एवविधा मत्वा मनोरथैरभिलाषैर्युक्ता तामसता तामसव हित्वा त्यक्त्वा आर्याणा सज्जनाना आसत्ति नोपेक्ष्य तां सतामासत्ति निजा सोमा मर्यादा नय । नो मुञ्च न यज । हे धात., भो ससारे भ्रमत. संचरतो भ्रमयुक्तस्य वा भ्रमाद्वा तेऽद्वैतबुद्धिः कदापि न भवेत् तस्मात् स्मराहित: शिवस्तस्य पदद्वन्द्वेऽनुरागक्रम न विस्मर । यथा शिवचरणद्वयेऽनुरागी भवति तथा कुरु तत एव ते ज्ञान भवेत् ।। [१०-] असता विटानामन्येपा मनोरथमभिलाषं प्राप्ता कुचाभ्यामिटा स्वि.

१२०, काव्यमाला। -- तिर्यस्या एवंविधां तां नारीणामासत्तिमुपेक्ष्य तो प्रसिद्धां पूर्वोपभुक्तामन्यैविटरज्ञातां निजां स्वकीयामेव नय । सीमा मर्यादामपि नो मुन्छ । यद्वा इमामपि नो मुञ्चसि परामिलापविषयानेकनारीप्रत्यासत्तिमिच्छोरिमामपि न त्यजतस्ते है भ्रातरद्वैतबुद्धिर्भवे ससारे न कदापि भवेत् । इतस्ततो गमनेन द्वैतबुद्धिरेव भवेत् । एकावलम्बनेन द्वैत- धीन स्यात् । तस्मादहितो यः पदद्वन्द्वे स्थलद्वयेऽनुरागक्रमस्तं न स्मर । किंतु विस्मर । यद्वा स्मरेणाहितो यः पदद्वन्द्वेऽनुरागक्रमस्त न विस्मर । संतत स्थलद्वयानु- रागविशेषं स्मरेति ॥ रामेतिनामस्मृतिरप्यमन्दमानन्दमाधाय सुधामयीह । मृतायमानेऽप्यमृतायमाना व्यनक्ति साक्षादमृतात्मतां यत् ॥ १२६ ॥ रामेति । वै०-] इह ससारे राम इति नामः स्मृतिरप्यमृतमयी अमन्दमधिकमा- नन्दमाधाय मृतायमाने चरमावस्या गतेऽपि अमृतायमाना मोक्षवदाचरन्ती साक्षादव्यव- धानेन नित्यमुक्तात्मलाभलक्षणं मोक्षरूपत्व व्यक्ति प्रकटयति । अन्ते रामस्मरणेन मुक्तः स्यादिति ॥ [१०- रामा स्त्री इति नाम्नः स्मृतिरपि सुधा अमृतम् इह मयि मृतायमानेऽपि अमृतायमाना साक्षादमृतात्मतां जीवतो भाव व्यनक्तीति ॥ इच्छेत्परमनुसत प्रतिमासंदर्शनेन विशदरुचिः । अनवाप्य येनयोगं भवतो हृदये परं निधीयेत ॥ १२७ ॥ इच्छेदिति । (वै०-] जगन्नाथप्रयागमाधवबदरीनारायणादीनां विष्णुप्रतिमानां तत्र तत्र क्षेत्रे सदर्शनेन विशदा निर्मला रुचिर्यस्यैवविधः पुरुषस्तत्तत्तीविष्णमूर्तिदर्शन- निष्पापः परं परमात्मान प्रकृतेः परत्वानिराकारम् अनुसर्तुमिच्छेत् । साकारस्य प्रतिमां दृष्ट्वा निर्मलकान्तिः पुमान् निराकारस्यानुसरणं कर्तुमिच्छेत् । येन पुसा योग समा- धिमनवाप्य भवतः संसारात् अपरं न परं ससारमनतीत साकारमेव ब्रह्म हृदये निधी- येत स्थाप्येत । योगाभ्यासस्य मिद्वौ प्रकृतेः पर आत्मा लभ्येत । तदसिद्धौ प्रतिमादि- रूपसाकारात्मैव हृदये स्थाप्यते तत एव तदपि सिध्यतीति ॥ [-] प्रतिमास मास मासं प्रति दर्शनेन अर्थाहतोः ऋतुमनु ऋतु लक्ष्यीकृत्य सा ते प्रतिवेशिनी विशन्ती अरुचिर्यस्या एवविधा सती पर पुरुपमिच्छेत् । अनुमासमृतु. दर्शनेन दुःखमनुभवन्ती परपुरुषेच्छा कुर्यादेव । कथमित्यत आह-या इनस्य स्वामिनो भर्तुर्योग विना पर केवलं भवतस्तव हृदये निधीयेत निधिरिवाचरेत् । तत्प्रतिवेशितया तवैव निधिवल्लाभो भवेदिति ॥ अध्यास्यसौरभेयं मौक्तिकरुचिरङ्गणेषु विहितगतिः । मान्यः स एव हृदि मे गौरी वामाङ्गमाश्रिता यस्य ॥ १२८ ॥ अधीति । वै.-] मौक्तिकवद्रुचिर निग्धं सौरभेय वृपमध्यास्य आरुह्य गणेषु रसिकरञ्जनम् । १२१ प्रमयेषु विहिता कृता गतिर्गमन येन । यस्य वामाद्ने गौरी आश्रिता स सदाशिव एव हृदि मान्यः । अन्यो मास्तु, स एव शिवो हृदि मेऽस्त्विति वा ॥ [१०-] आस्यं मुखमधिकृत्य अध्यास्य सौरभं परिमलः कमलादीनामिव यस्याः। सेयं पद्मिनी मौक्तिकरुचिः स्निग्धा देदीप्यमाना यस्याः । अङ्गणेषु विहिता गतिर्यया अगणमात्ररिङ्गणशीला । सुकुमारत्वात् । गौरी गौरागी वामा स्त्री यस्य पुरुपस्यागमुरः- स्थलादिकमाश्रिता स एव मे हृदि मान्य इति पक्षद्वयेऽपि सुधीभिः पदच्छेदभेदेनार्थ- विशेष उहनीयः॥ गृङ्गारे वैराग्ये व्यधायि सद्यःस्फुरत्समग्रार्थम् । श्रीरामचन्द्रकविना काव्यमिदं रसिकरञ्जनं नाम ॥ १२९ ॥ भृङ्गारेति । स्पष्टोऽर्थ.॥ प्रख्यातो यः पदार्थैरमृतहरिगजश्रीसखैः श्लोकशाली स्फीतातिस्फूर्तिरुद्यदुधमुदनुगिरं क्षीरधी रामचन्द्रः । भ्रान्तोऽस्मिन्मन्दरागः फणिपतिगुणभृज्जातु मज्जेत्कथं न स्यादाधारोऽमुना चेदिह न विरचितः श्रीमता वाङ्मुखेन ॥१३०॥ प्रख्यात इति।अमृतं सुघा हरिगज ऐरावतस्तयोयां श्रीस्तत्सखैमाधुर्येण वैशयेन चाम- तैरावतशोभायुतैः पदार्थैः पदैरथैश्च श्लोकशाली । अतिस्पर्तिर्यस्य प्रशस्तशब्दार्थस्फुर- णवान् । अनुगिरं वाणीमनु उद्यन्ती बुधाना पण्डिताना मुद्यस्मात् क्षीरवद् धीवुद्धिर्यस्य क्षीरनिर्मलमतियों रामचन्द्रः प्रख्यातः प्रसिद्धः अस्मिन् रामचन्द्रे फणिपतेर्गुण भाष्यव्या- ख्यानं विभौति स तथा वैयाकरणोऽपि भ्रान्तः सन् मन्दो रागो यस्यासौ मन्दादरी जातु कदाचित्कथं न मज्जेत् । भृङ्गारवैराग्यरूपार्थव्याख्यायां मतिकर्दमे कथं न पत्तत् । चेत् इह सपञ्चविंशति शृङ्गारवैराग्यशते अमुना रामचन्द्रेण वाड्मुखेनार्यद्वयोपन्यासेना- धारो न विरचितः स्यात् । एतत्कृतटीकाया आधारमप्राप्य मतिकर्दमे पतेदेवेन्यर्थः ।। रामोऽपि रामचन्द्रः । यस्माद् अमृत, हरिरुच्चै श्रवाः, गज ऐरावतः, श्रीलक्ष्मी तत्सखैः पारिजातादिभिः पदार्थैः श्लोकशाली कीर्तिमान अनुगिरं गिरि मन्दरमनुगम्य स्फीता अत्यन्त स्फूर्ति. फेनादिना यस्य उद्यन्ती बुधाना देवानां मुत् सतोषो यस्मादेव- विधो य. क्षीरधिः अस्मिन्क्षीरसमुद्रे फणिपतिर्वासुकिः स एव गुणो रज्जुस्त भितीति स तथाभूतो मन्दरागो मन्दरपर्वतो भ्रान्तो भ्रमण प्राप्त. जातु कदाचित्कथं न मज्जेत् । चैदिह अमुना अवाक् अधो मुखं यस्य कर्मस्यैवविघेन कूर्मरूपेण श्रीमता विष्णुना विरचित आधारो न स्यात् । पय पयोधिमधनप्रस्ताव क्षीरघरध. कूर्मावतारेण हरिणा मन्दरापारभूतभूतेनाभावि ततो न तस्य मज्जन वृत्तमिति पौराणिकी कयेति द्वितीयों ध्वनिरूपोऽर्थ. ॥

१२२ काव्यमाला। . शृङ्गारवैराग्यशतं सपञ्चविशत्ययोध्यानगरे व्ययत्त । अब्दे वियद्वारणबाणचन्द्रे श्रीरामचन्द्रोऽनु च तस्य टीकाम् ।। श्रीरामचन्द्रकविना काव्यमिदं व्यरचि विरतिवीजतया। रसिकानामपि रतये शृङ्गारार्थोऽपि संग्रहीतोऽत्र । इति श्रीलक्ष्मणभसूनुश्रीरामचन्द्रकविकृतं सटीकं रसिकरञ्जन नाम शृङ्गारवैराग्यार्थसमानं काव्यं संपूर्णम् । महाकविश्रीक्षेमेन्द्रविरचितं कविकण्ठाभरणम् । प्रथमः सघिः। जयति जितसुधाम्भासंभवद्वाग्भवश्री- रथ सरससमुद्यत्कामतत्त्वानुभावा तदनुपरमधामध्यानसंलब्धमोक्षा रविशशिशिखिरूपा त्रैपुरी मन्त्रशक्तिः ॥ १॥ शिष्याणामुपदेशाय विशेषाय विपश्चिताम् । अयं सरस्वतीसारः क्षेमेन्द्रेण प्रदर्श्यते ॥ २॥ तत्राकवेः कवित्वाप्तिः शिक्षा प्राप्तगिरः कवेः। चमत्कृतिश्च शिक्षाप्तौ गुणदोषोद्गतिस्ततः ॥ ३ ॥ पश्चात्परिचयप्राप्तिरिसते पञ्च संधयः । समुद्दिष्टाः क्रमेणैषां लक्ष्यलक्षणमुच्यते ॥ ४ ॥ मुविभक्ति समन्वितं बुधैर्गुणसंयुक्तममुक्तसौष्ठवैः। रचितं पदकैः सुवर्णवत्कविकण्ठाभरणं विचार्यताम् ॥५॥ अदानीमकवेः कवित्वशक्तिरुपदिश्यते- प्रथमं तावद्दिव्यः प्रयत्नः, ततः पौरुषः- ॐ स्वस्त्यत स्तुमः सिद्धमन्तराद्यमितीप्सितम् । उद्यदूर्जपदं देव्या ऋल्लनिगृहनम् ॥ ६ ॥ एकमैश्वर्यसंयुक्तमोजोवर्धनमौषधम् । अन्तरान्तः कलाखण्डगलद्धनसुधाङ्कितम् ॥ ७ ॥ । -

१ संधिः]
कविकण्ठाभरणम् ।
१२३
चन्द्रोच्छलज्जलं प्रोज्झदज्ञानं टठसंयुतम् ।
डम्बरप्रौढकिरणं तथतां दधदुन्नतम् ॥ ८॥
परं फलपदं वद्धमूलोद्भवमयं वपुः।
रम्यं लघुवरं शर्म वर्षत्सर्वसहाक्षरम् ॥ ९ ॥
एतां नमः सरखत्यै यः क्रियामातृकां जपेत् ।
क्षेममैन्द्रं स लभते भव्योऽभिनववाग्भवम् ॥ १० ॥
श्वेतां सरसती मूर्ध्नि चन्द्रमण्डलमध्यगाम् ।
अक्षराभरणां ध्यायेद्वाङ्मयामृतवर्षिणीम् ॥ ११ ॥
त्रिकोणयुगमध्येतु तडित्तुल्यां प्रमोदिनीम् ।
वर्गमार्गोगतां ध्यायेत्पराममृतवाहिनीम् ॥ १२ ॥
निर्विकारां निराकारां शक्तिं ध्यायेत्परात्पराम् ।
एषा वीजत्रयी वाच्या त्रयी वाकाममुक्तिसः॥ १३ ॥
काव्यक्रियेच्छाङ्करमूलभूमिमन्विष्य विश्रान्तिलवेन मोक्षः ।
अन्यावधाने मदनस्य मोक्षस्तृतीयवीजे सकलेऽस्ति मोक्षः ॥१४॥
अथ पौरुषः ।
तत्र त्रयः शिष्याः काव्यक्रियायामुपदेश्याः । अल्पप्रयनसाध्यः,
कृच्छ्रसाध्यः, असाध्यश्चेति ।
तत्र प्रथमः
कुर्वीत साहित्यविदः सकाशे श्रुतार्जनं काव्यसमुद्भवाय ।
न तार्किकं केवलशाब्दिकं वा कुर्याद्गुरुं सूक्तिविकासविघ्नम् ॥१५॥
विज्ञातशब्दागमनामधातुश्छन्दोविधाने विहितश्रमश्च ।
काव्येषु माधुर्यमनोरमेषु कुर्यादखिनः श्रवणाभियोगम् ॥ १६ ।।
गीतेषु गाथाखथ देशभापाकाव्येषु दद्यात्सरसेषु कर्णम् ।
वाचां चमत्कारविधायिनीनां नवार्थचर्चासु रुचिं विदध्यात् ॥१७॥
रसे रसे तन्मयतां गतस्य गुणे गुणे हर्पवशीकृतस्य ।
विवेकसेकस्वकपाकभिन्नं मनः प्रसूतेऽङ्कुरवत्कवित्वम् ॥ १८ ॥

. १२४ काव्यमाला। - . अथ द्वितीयः- पठेत्समस्तान्किल कालिदासकृतप्रवन्धानितिहासदर्शी । काव्याधिवासप्रथमोद्गमस्य रक्षेत्पुरस्तार्किकगन्धमुग्रम् ॥ १९ ॥ महाकवेः काव्यनवक्रियायै तदेकचित्तः परिचारकः स्यात् । पदे च पादे च पदावशेषसंपूरणेच्छां मुहुराददीत ॥ २० ॥ अभ्यासहेतोः पदसंनिवेशैक्यिार्थशून्यर्विधीत वृत्तम् । श्लोकं परावृत्तिपदैः पुराणं यथास्थितार्य परिपूरयेच ॥ २१ ॥ तत्र वाक्यार्थशून्यं यथा- 'आनन्दसंदोहपदारविन्दकुन्देन्दुकन्दोदितबिन्दुवृन्दम् । इन्दिन्दिरान्दोलितमन्दमन्दनिष्यन्दनन्दन्मकरन्दवन्द्यम् ॥' परावृत्तिपदैर्यथा- 'वागर्थाविव संप्टक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।' 'वाण्याविव संयुक्तौ वाण्यर्थप्रतिपत्तये । जगतो जनकौ वन्दे शर्वाणीशशिशेखरौ ।' अथ'तृतीयः- यस्तु प्रकृसाश्मसमान एव कष्टेन वा व्याकरणेन नष्टः । तर्केण दग्धोऽनलधूमिना वाप्यविद्धकर्णः सुकविप्रवन्धैः ॥ २२ ॥ न तस्य वक्तृत्वसमुद्भवः स्वाच्छिक्षाविशेषैरपि सुप्रयुक्तैः । न गर्दभो गायति शिक्षितोऽपि संदर्शितं पश्यति नार्कमन्धः ॥२२॥ इति ततसुकृतानां प्राक्तनानां विपाके भवति शुभमतीनां मन्त्रसिद्ध कवित्वम् । तदनु पुरुषयत्नैर्धीमतामभ्युदेति स्फुरति जडधियां श्रीशारदा साधनेन ॥ २४ ॥ इति श्रीव्यासदासापराव्यक्षेमेन्द्रकृते कविकण्ठाभरणे कवित्वप्राप्तिः प्रथमः सधिः । .

२ संधिः] कविकण्ठाभरणम् । १२५ द्वितीयः सधिः । छायोपजीवी पदकोपजीवी पादोपजीवी सकलोपजीवी । भवेदथ प्राप्तकवित्वजीवी स्वोन्मेषतो वा भुवनोपजीव्यः ॥ १॥ छायोपजीवी यथा भट्टभल्लटस्य- 'नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥' यथा च श्रीमदुत्पलराजदेवस्य- 'मात्सर्यतीव्रतिमिरावृतदृष्टयो ये ते कस्य नाम न खला व्यथयन्ति चेतः । मन्ये विमुच्य गलकन्दलमिन्दुमौले- यैषां सदा वचसि वल्गति कालकूटः ॥' पदकोपजीवी यथा मुक्ताकणस्य- 'यथा रन्ध्र व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥' यथा चैतद्भातुश्चक्रपालस्यः 'सरस्यामतस्यामुदरवलिवीचीविलुलित यथा लावण्याम्भो जघनपुलिनोल्लङ्घनकरम् । यथा लक्ष्यश्चायं चलनयनमीनव्यतिकर- स्तथा मन्ये मनः प्रकटकुचकुम्भः स्मरगजः ॥' पादोपजीवी यथामरकस्य- 'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव दिनानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । लिस्य- १२६ काव्यमाला। । -- संसारे घटिकाप्रणालविगलद्वारा समे जीविते को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥' यथा मम- 'हंहो स्निग्धसखे विवेक बहुभिः प्राप्तोऽसि पुण्यर्मया गन्तव्यं कतिचिदिनानि भवता नास्मत्सकाशात्कचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ।। सकलोपजीवी यथार्यभहस्य- 'शब्दैनिसर्गकटुभिर्मलिनस्वभावाः श्रोत्रं खला निगडवत्परितस्तुदन्ति । श्रव्यैरलुप्तपदवन्धतयातिम - मञ्जीरवत्तु सुजना जनयन्ति मोदम् ॥' यथा च भहबाणस्य 'कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥' भुवनोपजीव्यो यथा भगवान्व्यासः तथा चोक्तम्- 'इदं कविवरैः सर्वैराख्यानमुपजीव्यते । उदयं प्रेप्सुभिर्भूत्यैरभिजात इवेश्वरः ॥' प्राप्तगिरः कवेः शिक्षास्तावदाह- व्रतं सारखतो यागः पूर्व विघ्नेशपूजनम् । विवेकशक्तिरभ्यासः संधानं पौढिरश्रमः ॥२॥ वृत्तपूरणमुद्योगः पाठः परकृतस्य च । काव्याङ्गविद्याधिगमः समस्यापरिपूरणम् ॥ ३ ॥ सहवासः कविवरैर्महाकाव्यार्थचर्वणम् । आर्यख सुजनमैत्री सौमनस्सं मुवेपता ॥४॥ -

।
१२७
२ संधिः]
कविकण्ठाभरणम् ।
नाटकाभिनयप्रेक्षा शृङ्गारालिङ्गिता मतिः।
कवीनां संभवे दानं गीतेनात्माधिवासनम् ॥५॥
लोकाचारपरिज्ञानं विविक्ताख्यायिकारसः ।
इतिहासानुसरणं चारुचित्रनिरीक्षणम् ॥ ६॥
शिल्पिनां कौशलपेक्षा वीरयुद्धावलोकनम्
शोकप्रलापश्रवणं श्मशानारण्यदर्शनम् ॥ ७ ॥
तिनां पर्युपासा च नीडायतनसेवनम् ।
मधुरस्निग्धमशनं धातुसाम्यमशोकता ॥८॥
निशाशेषे प्रवोधश्च प्रतिभा स्मृतिरादरः।
मुखासनं दिवा शय्या शिशिरोष्णप्रतिक्रिया ॥ ९॥
आलोकः पत्रलेख्यादौ गोष्ठीमहसनज्ञता ।
प्रेक्षा प्राणिस्वभावानां समुद्राद्रिस्थितीक्षणम् ॥ १० ॥
रवीन्दुताराकलनं सर्वपरिभावनम् ।
जनसंघाभिगमनं देशभाषोपजीवनम् ॥ ११॥
आधानोद्धरणप्रज्ञा कृतसंशोधनं मुहुः ।
अपराधीनता यज्ञसभाविद्यागृहस्थितिः ॥ १२॥
अतृष्णता निजोत्कर्षे परोत्कर्षविमर्शनम् ।
आत्मश्लाघाश्रुतौ लज्जा परश्लाघानुभाषणम् ॥ १३ ॥
सदा स्वकाव्यव्याख्यानं वैरमत्सरवर्जनम् ।
परोन्मेषजिगीषा च व्युत्पत्त्यै सर्वशिष्यता ॥ १४ ॥
पाठस्सावसरज्ञत्वं श्रोतृचित्चानुवर्तनम् ।
इङ्गिताकारवेदित्वमुपादेयनिवन्धनम् ॥ १५ ॥
उपदेशविशेषोक्तिरदीर्घरससंगतिः।
स्वसूक्तप्रेषणं दिक्षु परसूक्तपरिग्रहः ॥ १६ ॥
वैदग्ध्यं पटुताभगिनिःसङ्गैकान्तनिदृतिः।
आशापाशपरिसागः संतोषः सत्त्वशीलता ॥ १७ ॥

काव्यमाला । . १२८, अयाचकत्वमग्राम्यपदालाप: कथावपि । काव्यक्रियासु निर्वन्धो विश्रान्तिश्चान्तरान्तरा ॥ १८ ॥ नूतनोत्पादने यत्नः साम्यं सर्वसुरस्तुतौ । पराक्षेपसहिष्णुत्वं गाम्भीर्य निर्विकारता ॥ १९ ॥ अविकत्थनतादैन्यं परेषां नष्टयोजनम् । पराभिप्रायकथनं परसादृश्यभापणम् ॥ २० ॥ सप्रसादपदन्यासः ससंवादार्थसंगतिः । निर्विरोधरसव्यक्तियुक्तिर्व्याससमासयोः ॥ २१ ॥ प्रारब्धकाव्यनिवार्ह प्रवाहश्चतुरो गिराम् । शिक्षाणां शतमित्युक्तं युक्तं प्राप्तगिरः कवेः ॥ २२ ॥ इति बहुतरशिक्षालक्षणक्षीणदोपे प्रभवति गतनिद्रे प्रातिभे सुप्रभाते । कविरविरविलुप्तव्याप्तिभिः सूक्तपादै- नयति नवनवत्वं भावभावस्वभावम् ॥ २३ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे [प्राप्तगिरः कवेः शिक्षाकथन] द्वितीयः सधिः । तृतीयः संधिः । अथ शिक्षितस्य कवेः सूक्तिचमत्कारमाह- सुकविरतिशयार्थी वाक्चमत्कारलोभा- दभिसरति मनोज्ञे वस्तुशब्दार्थसार्थे । भ्रमर इव वसन्ते पुष्पकान्ते वनान्ते नवकुसुमविशेषामोदमास्वादलोलः ॥ १॥ नहि चमत्कारविरहितस्य कवेः कवित्वं काव्यस्य वा काव्यत्वम् । एकेन केनचिदनर्घमणिप्रमेण काव्यं चमत्कृतिपदेन विना सुवर्णम् । निर्दोषलेशमपि रोहति कस्य चित्ते लावण्यहीनमिव यौवनमङ्गनानाम् ॥ २॥ A ३ संधिः] कविकण्ठाभरणम् । १२९ चमत्कारविरहो यथा मालवरुद्रस्य- 'वेल्लत्पल्लव संमिलल्लत लसत्पुष्प स्फुटत्कुमल स्फूर्जगुच्छभर कणन्मधुकरक्रीडाविनोदाकर । रक्ताशोक सखे दयां कुरु हर प्रारब्धमाडम्बरं प्राणाः कण्ठमुपागताः प्रियतमो दूरे त्वमेवंविधः ॥' चमत्कारो यथा कालिदासस्य- 'रक्तस्त्वं नवपल्लवैरहमपि श्वाध्यैः प्रियाया गुणै- स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः 'सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' तत्र दशविधश्चमत्कार:-अविचारितरमणीयः, विचार्यमाणरमणीयः, समस्तसूक्तव्यापी, सूक्तैकदेशदृश्यः, शब्दगतः, अर्थगतः, शब्दार्थगतः, अलंकारगतः, रसगतः, प्रख्यातवृत्तिगतश्च । अविचारितरमणीयो यथा मम शशिवंशे- 'शूराः सन्ति सहस्रशः सुचरितैः पूर्ण जगत्पण्डितैः संख्या नास्ति कलावतां बहुतरैः शान्तैर्वनान्ताः श्रिताः । त्यक्तुं यः किल वित्तमुत्तममतिः शक्नोति जीवाधिक सोऽस्मिन्भूमिविभूषणं शुभनिधिर्भव्यो भवे दुर्लभः ॥' विचार्यमाणरमणीयो यथा मम पद्यकादम्वर्याम्- 'अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ठे जीवः करकिसलये दीर्घशायी कपोलः । असे वीणा कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्व स्थितमिति न तु त्वां विना क्वापि चेतः ।। १. अत्र कालिदासस्य नाम प्रमादेन लिखितं भाति, यतः प्रसिद्धोऽय लोको यशो- वर्मणः. . १७ . काव्यमाला । A . १३० समस्तसूक्तव्यापी यथा मम शशिवंशे- 'माधुर्यानुभवेऽपि ते सुवदने तीक्ष्णाः कटाक्षाः परं पर्यन्तस्थिततारका अपि नृणां रागानुबन्धोद्यताः नैवोज्झन्ति विवेकिनश्चपलतामुत्सेकसंवादिनी- माश्चर्य श्रवणौ स्टशन्ति च पुनौरं च कुर्वन्त्यमी ॥ सूक्तकदेशदृश्यो यथा मम पद्यकादम्बर्याम्- 'नित्यार्चा हृदयस्थितस्य भवतः पद्मोत्पलैश्चन्दन- स्त्वद्भक्तिस्त्वदनुस्मृतिश्च मनसि त्वन्नाममन्त्रे जपः । सर्वत्रैव धनानुबन्धकलना त्वद्भावना सुभ्रुव- स्तस्या जीवविमुक्तिरेव दिवसैर्देव त्वदाराधनात् ॥' शब्दगतो यथा मम चित्रभारतनाटके- 'इतश्चश्चचूतच्युतमधुचया वान्ति चतुराः समीराः संतोषं दिशि दिशि दिशन्तो मधुलिहाम् । निशान्ते कान्तानां स्मरसमरकेलिश्रममुषो विजृम्भन्ते जृम्भाकलितकमलामोदसुहृदः ॥' अर्थगतो यथा मम लावण्यवत्याम्--- 'सदासक्तं शैत्यं विमलजलधारापरिचितं घनोल्लासः मामृत्ष्टथकटकपाती वहति यः । विधत्ते शौर्यश्रीश्रवणनवनीलोत्पलरुचिः स चित्रं शत्रूणां ज्वलदनलतापं भवदसिः ॥' शब्दार्थगतो यथा मम पद्यकादम्बर्याम्- 'किंचित्कुञ्चितकामकार्मुकलतामैत्री विचित्रा भ्रुवो- नोक्तिः स्मितकान्तिभिः कुसुमिता प्रागल्भ्यगर्भा गिरः । रागोत्सङ्गनिषङ्गिभिः सरसतासंवादिभिर्विभ्रमै- रायुष्यं परमं तया रतिपतेः प्राप्तं मृगाक्ष्या वयः ॥ अलंकारगतो यथा- मम लावण्यवत्याम्- 'स्तनौ स्तब्धौ तीक्ष्णं नयनयुगलं निम्नमुदरं भ्रुवोर्वका वृत्तिविहितमुनिमारोऽधरमणिः। , ४ संधिः कविकण्ठाभरणम् । १३१ तथासन्ने देवादियति विषमे दुर्जनगणे गुणी मध्ये हारः स्टशति तव दोलातरलताम् ॥' रसगतो यथा मम कनकजानक्याम्- 'अनार्यः खरदूषणत्रिशिरसां नादानुबन्धोद्यमे रुन्धाने भुवनं त्वया चकितया योद्धा निरुद्धः क्षणम् । सस्नेहाः सरसाः सहासरभसाः सभ्रूभ्रमाः सस्टहाः सोत्साहास्त्वयि तबले च निदधे दोलायमाना दृशः ॥' प्रख्यातवृत्तिगतो यथा मम शशिवंशे- 'अग्रं गच्छत यच्छत स्वष्टतनां व्यूहक्षितिं रक्षत क्षोणी पश्यत नश्यत द्रुततरं मा मा स्थितिं मुञ्चत । यत्नात्तिष्ठत पृष्ठतस्तनुभिदामुग्रा गतिः पत्रिणा- मित्यासीजनभञ्जने रथपथे पार्थस्य पृथ्वी श्रुतिः ॥ इत्युक्त एष सविशेषचमत्कृतीनां सारः प्रकारपरभागविभाव्यमानः । कर्पूरवेध इव वामधुगन्धयुक्ते- चैत्रासवस्य सहकाररसाधिवासः॥३॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे चमत्कारकथनं तृतीयः संधिः । चतुर्थः सधिः । अथ गुणदोषविभागः- काव्यैकपात्रविलसद्गुणदोषदुग्ध- पाथःसमूहपृथगुद्धरणे विदग्धाः। जानन्ति कर्तुमभियुक्ततया विभागं चन्द्रावदातमतयः कविराजहंसाः ॥१॥ तत्र शब्दवैमल्यमर्थवैमल्यं रसवैमल्यमिति त्रयः काव्यगुणाः । श- ब्दकालुष्यमर्थकालुष्यं रसकालुष्यमिति काव्यदोषाः । सगुणं निर्गुणं सदोष निदोष सगुणदोषं च काव्यम् ।

। . . ५ १३२ काव्यमाला। शब्दवैमल्यं यथा मम पद्यकादम्बर्याम् 'तत्कालोपनते वयस्यनिधने हा पुण्डरीकेति त- न्मोहव्यञ्जनमश्मभञ्जनमलं जीवस्य संतर्जनम् । कुजव्यापि कपिञ्जलेन करुणं निस्पन्दमाक्रन्दितं येनाद्यापि च तैः स्मृतेन हरिणः शष्पं परित्यज्यते ॥' अर्थवैमल्यं यथां मम शशिवंशे- 'स्निग्धश्यामलशाहले फलतरुच्छायानिपीतातपे चञ्चहीचिचयोच्छलत्कलकले निःसङ्गगङ्गातटे । अन्योन्याभिमुखोपविष्टहरिणे स्वस्थैर्यदि स्थीयते तत्का श्रीः किमकाण्डमङ्गुरसुखैमोहस्य दत्तोऽञ्जलिः॥' रसवैमयं यथा मम पद्यकादम्बर्याम्- 'अथोद्ययौ बालसुहृत्स्मरस्य श्यामाधवः श्यामललक्ष्मभङ्गया। तारावधूलोचनचुम्बनेन लीलाविलीनाअनविन्दुरिन्दुः ।। शब्दकालुष्यं यथा भट्टश्रीशिवस्वामिनः- 'उत्खातप्रखरा सुखासुखसखी खङ्गासिता खेलगा वैशृङ्खल्यखलीकताखिलखला खे(खा)त्खेटकैः ख्यापिता । खेटादुत्खनितुं निखर्वमनसां मौयं मुखात्खक्खटं निःसंख्यान्यनिखर्वसर्वमणिभूराख्यातु संख्यानि वः ॥' अर्थकालुष्यं यथा तस्यैव- 'पित्रापि त्रायते या न खलु खलघृताज्ञानमात्रापमात्रा स्योनस्योनस्थितेभूरनुनयविरमद्दामपाशाप्यपाशा । वर्षावर्षाम्बुपातात्रुटिततृणवसत्यश्रियातां श्रियातां सौरी सौरीष्टयाने सरदिह जनतां साश्वानांनुवानाम् ॥ १, रत्नाकरादिसमकालीनः शिवस्वामिकविः. 'वाक्पश्च(३)द्विपदीशतान्यथ महा- काव्यानि सप्त क्रमाध्यक्षप्रत्यहनिर्मितस्तुतिकथालक्षाणि चैकादश । कृत्वा नाटकनाटि- काप्रकरणप्रायान्प्रवन्धान्वहून्विश्राम्यत्यधुनापि नातिशयिता वाणो शिवस्वामिनः ॥ इति सूक्तिमुक्तावली कस्यचिोकः . , । - ४ संधिः] कविकण्ठाभरणम् । -- रसकालुण्यं यथा भटनारायणस्य वेणीसंहारे- 'भानुमत्या नकुलप्राणिस्वप्नदर्शने पाण्डवनकुलस्वैरसंगमासदावश्चक्र- वर्तिमहिष्याः सामान्यनीचवनितावत् ॥' सगुणं यथा कालिदासस्य- 'श्यामास्वङ्ग चकितहरिणीप्रेक्षणे दृष्टिपातं गण्डच्छायां शशिनि शिखिनां वहभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा- न्हन्तकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ।' निर्गुणं यथा चन्द्रकस्य- स्तनौ सुपीनौ कठिनौ ठिनौ ठिनौ कटिविशाला रभसा भसा भसा । मुखं च चन्द्रप्रतिम तिमं तिमं अहो सुरूपा तरुणी रुणी रुणी ॥' सदोषं यथा भट्टश्रीशिवस्वामिनः- 'आद्यत्वावधि शिण्डि शिण्डि दृढतागूढानि गूढेतरां प्रौढि दौकय पिण्ढि पिण्ढि च रुजं रूढापरूढां तया । मूढममूढयस्व हृदयं लीदाथ मूवा तमः सोव्यूढामिति च प्रभापरिचढाव्यूढा दृढिम्नेस्तु वः ॥' निर्दोष यथा श्रीभीमसाहेः सांधिविग्रहिकस्येन्द्रभानोः- 'स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा- छायाहारिणि वारिणि धुसरितो दिक्पूरविस्तारिणि । आस्ते ते कलिकालंकल्मपमषीप्रक्षालनैकक्षमा कीर्तिः संनिहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥' सगुणदोषं यथा भेट्टमयूरस्य- 'अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरं(रः) कर्तुमीशो विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि । १. सुवृत्ततिलकेऽयमेव श्लोको रिस्सुनाना लिखितः, तस्मादिन्द्रभानोरेव रिस्सुरिति नामान्तरमिति भाति. २. अयं सूर्यशतककर्ता मयूरकविरुज्जयिनोप्रान्ते पाणभसमसमये समुत्पन्न इति सुप्रसिद्धमेव.

१३४ काव्यमाला। . दिक्या(का)लापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां यातः शातक्रतव्यां दिशि दिशतु शिवं शोचिपामुद्गमो वः ।। इति गदितगुणार्थी सक्तनिर्दिष्टदोषः कविरुचिरपदस्थश्चक्रवर्तित्वसिद्ध्यै । किमपि कृतविवेकः साधुमध्याधमानां नृप इव परिरक्षेत्संकरं वर्णवृत्तेः ॥ २ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे गुणदोपविभागश्चतुर्थः संधिः । पश्चमः सधिः । अथ परिचयचारुत्वमाह- नहि परिचयहीनः केवले काव्यकष्टे कुकविरभिनिविष्टः स्पष्टशब्दप्रविष्टः । विबुधसदसि पृष्टः क्लिष्टधीर्वत्ति वक्तुं नव इव नगरान्तर्गहरे कोऽप्यधृष्टः ॥१॥ तत्र तर्कव्याकरणभरतचाणक्यवात्स्यायनभारतरामायणमोक्षोपायात्म- ज्ञानधातुवादरत्नपरीक्षावैद्यकज्यौतिषधनुर्वेदगनतुरगपुरुपलक्षणद्यूतेन्द्रना- लप्रकीर्णेषु परिचयः कविसाम्राज्यव्यञ्जनः । तर्कपरिचयो यथा मम पद्यकादम्बर्याम्- 'यत्प्राप्यं न मनोरथैन वचसा स्वप्नेऽपि दृश्यं न य- तत्रापि स्मरविप्रलब्धमनसा लाभाभिमानग्रहः। मोहोत्प्रेक्षितशुक्तिकारजतवत्प्रायेण यूनां भ्रमं दत्त तैमिरिकद्विचन्द्रसदृशं खे नूनमाशारुपिः ॥' व्याकरणपरिचयो यथा भमुक्तिकलशस्य- 'द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः । तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥' १. बिहणकवेः प्रपितामहो भमुक्तिकलश इति विक्रमाङ्कदेवचरितेऽष्टादशे सगै स द्रष्टव्यम्.

६ संधिः]] कविकण्ठाभरणम् । १३५ भरतपरिचयो यथा भश्रीशिवस्वामिनः- 'आतन्वन्सरसां स्वरूपरचनामानन्दि बिन्दूदयं भावग्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति । उच्चैदृत्ति सपुष्करव्यतिकरं संसारविष्कम्भक मिन्द्याहो भरतस्य भापितमिव ध्वान्तं पयो यामुनम् ॥ चाणक्यपरिचयो यथा मम पद्यकादम्बर्याम्- 'स्वामी प्रमादेन मदेन मन्त्री कोपेन राष्ट्रं व्यसनेन कोषः । छिद्रेण दुर्ग विषमेण सैन्यं लोभेन मित्रं क्षयमेति राज्ञाम् ।।' वात्स्यायनपरिचयो यथा भेट्टदामोदरगुप्तस्य- 'अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् । तव सूचयन्ति मुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम् ।।' भारतपरिचयो यथा मम देशोपदेशे- 'भगदत्तप्रभावाढ्या कर्णशल्योत्कटखना । सेनेव कुरुराजस्य कुटेनी किं तु निष्कृपा ॥' रामायणपरिचयो यथा भड्वाचस्पतेः- 'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कतालङ्काभर्तुर्वेदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥' मोक्षोपायपरिचयो यथा मम मुक्तावल्याम्- 'निरासगा प्रीतिर्विषयनियमोऽन्तर्न तु वहिः स्वभावे भावानां क्षयजुषि विमर्शः प्रतिदिनम् । अयं संक्षेपेण क्षपिततमसामक्षयपदे तपोदीक्षाक्षेपक्षपणनिरपेक्षः परिकरः ॥ १. अय कुटनीमतग्रन्थकर्ता दामोदरगुप्तः कश्मीरमहाराजस्य जयापीडस्य सचिव आसीत. जयापीडराज्यसमयस्तु ७५५ मितखिस्तसवत्सरादारभ्य ७८६ मितसंवत्सरप. र्यन्तम्. २. इयमार्या कुहिनीमते ४०२ एतत्सख्याविशिष्ट वर्तते. विन्दुमणिमालाशश- मृतकलक्षणं वात्स्यायनकामसूत्रे द्वितीयेऽधिकरणे चतुर्थपश्चमाध्याययोर्द्रष्टव्यम्.

'काव्यमाला । , - T आत्मज्ञानपरिचितिर्यथा मम चित्रभारतनाम्नि नाटके- 'प्युशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्वज्योतिरान्तरम् ॥ धातुवादपरिचयो यथा राजशेखरस्य- 'नखदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । बलवति सति यस्मिन्सार्धमावर्त्य हेना रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि । रत्नपरीक्षापरिचयो भट्टभल्लटस्य- 'द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः। बहुविधोयुपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ।। वैद्यकपरिचयो यथा मम पद्यकादम्बर्याम्- 'अङ्ग चन्दनपत्रपङ्कजविसच्छेदावलीनं मुहु- स्तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः । श्वासाः संहततारहाररुचयः संभिन्नचीनांशुका जातः प्रागतिदाहवेदनमहारम्भः स तस्या ज्वरः ॥ ज्योति शास्त्रपरिचयो यथा विद्यानन्दस्य- 'द्यामालोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलमङ्गुलीगणयतां मौहूर्तिकानामयम् । धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरः प्रियानयनयोः सीमानमेति प्रियः॥' धनुवैदपरिचयो यथा मम कनकजानक्याम्-- 'आर्यस्यास्त्रघनौघलाघववती संधानसंबन्धिनी स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालंकृतिः । निष्पन्देन मयातिविस्मयमयी सत्यस्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः ॥ । ।

- ६ संधिः] कविकण्ठाभरणम् । १३७ गजलक्षणपरिचयो यथा मम कनकजानक्याम्- 'कर्णाभ्यर्णविकीर्णचामरमरुद्विस्तीर्णनिःश्वासवा- छङ्गच्छत्रविराजिराज्यविभवद्वेषी विलीनेक्षणः । स्मृत्वा राघव कुञ्जरः प्रियतमामेकाकिनी कानने संत्यक्तां चिरमुक्तभोगकवलः क्लेशोप्मणा शुप्यति ॥' तुरगलक्षणपरिचयो यथा ममामृततरङ्गनाम्नि काव्ये- 'आवर्तशोभी पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः । गम्भीरघोषोऽद्रिविमर्दखेदादश्वारुति कर्तुमिवोद्यतोऽन्धिः ॥ उच्चैःश्रवाः शक्रमुपाजगाम स विश्वसाम्राज्यजयप्रदोऽश्वः । जग्राह हेलाघनशङ्कशब्दनिवेदिताशेषशुभं तमिन्द्रः॥' (युग्मम्) पुरुषलक्षणपरिचयो यथा कालिदासस्य- 'व्यूढोरस्को वृषस्कन्धः सालप्रांशुमहाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ धूतपरिचयो यथा चन्द्रकस्य- 'यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्यं नेयौ रजनिदिवसौ तोलयन्हाविवाक्षौ कालः काल्या सह बहुकलः क्रीडति प्राणिसारैः॥' इन्द्रजालपरिचयो यथा श्रीहर्षस्य- 'एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोभिदैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिदैश्चतुर्भिः । एषोऽप्यैरावणस्थस्त्रिदशपतिरमी देविदेवास्तथान्ये नृत्यन्त्यो व्योन्नि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ।। प्रकीर्णे चित्रपरिचयो यथा भगवतो व्यासस्य- 'अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥" १८ १३८ काव्यमाला। , • देशपरिचयो यथा मम शशिवंशे- 'भोजैर्मक्षनभीरुमिविलुलितं व्यामीलितं मालवै- मद्रविद्रुतमेव यातमसकन्मार्गादधो मागधैः । वङ्गानामभिमन्युकङ्कणरवैाते पुरः सूचिते मीनैः संकुचितं परस्परधृतै रन्ध्रमन्त्रैः स्थितम् ॥ वृक्षपरिचयो यथा मम कनकजानक्याम्- 'जम्बूविम्बकदम्बनिम्बवकुलप्लक्षाक्षभल्लातक- द्राक्षार्किशुककर्णिकारकदलीजम्बीरकोदुम्बरैः । सा संतानकबिल्वतिल्वतिलकश्लेष्मातकारग्वध- न्यग्रोधार्जुनशातनासनवनश्यामान्ददर्शाश्रमान् ॥' वनेचरपरिचयो यथा मम तत्रैव- 'वामस्कन्धनिषण्णशाङ्कुटिलप्रान्तार्पिताधोमुख- स्यन्दच्छोणितलम्बमानशशकान्पाणिस्खलच्चामरान् । ज्यान्तप्रोतकपोतपोतनिपतद्रक्ताततूणीरका- न्सापश्यत्करिकुम्भभेदजनिताक्रन्दान्पुलिन्दान्पुरः ॥' औदार्यपरिचयो यथा मम चतुर्वर्गसंग्रहे- 'मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः। धनी सुशीलाद्धनिनोऽपि दाता दातुर्जिता कीतिरयाचकेन ॥' अचेतनचेतनाध्यारोपपरिचयो यथा मच्छिष्यमहाश्रीभद्योदयसिंहस्य ललिताभिधाने महाकाव्ये- 'इह विकसदशोकास्तोकपुष्पोपकारै- रयमतिशयरक्तः सक्तसुस्निग्धभावः । त्रिभुवनजयसज्जः प्राज्यसाम्राज्यभाजः प्रथयति पृथुमैत्री पुष्पचापस्य चैत्रः ॥' • भक्तिपरिचयो यथास्यैव भक्तिभवनाम्नि महाकाव्ये- 'बाल्यादेव निरर्गलप्रणयिनी भक्तिर्भवानीपतौ जन्माभ्यासविकासवासितमनःसंवाससंदायिनी ।

५ संधिः कविकण्ठाभरणम् । .१३९ प्रायः प्राक्तनकर्मनिर्मितमहामोहप्ररोहापहा भव्यानां भवभीतिमञ्जनसखी संजायते सन्मतिः ॥ विवेकपरिचयो यथा मच्छिष्यराजपुत्रलक्ष्मणादित्यस्य- 'आशापाशविमुक्तियुक्तममलं संतोपमान्यं मनः सेवायासविवर्जितं विहरणं मायाविहीनं वचः । चण्डीशार्चनमात्मशुद्धिजननी गङ्गेव सत्संगतिः सोऽयं संतरणे परः परिकरः संसारवारां निधेः ॥' प्रशमपरिचयो यथा मम चतुर्वर्गसंग्रहे- 'चित्तं वातविकासिपांसुसचिवं रूपं दिनान्तातपं भोगं दुर्गतगेहबन्धचपलं पुष्पस्मितं यौवनम् । स्वप्नं वन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपा नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥' इत्युक्ता रुचिरोचिता परिचयमाप्तिर्विभागनिरां दिमात्रेण विचित्रवस्तुरचनामैत्रीपवित्रीकृता । यद्यस्यत्र नवोपदेशविषये लेशेऽप्युपादेयता तत्सद्भिर्गुणकौतुकादवसरः श्रोतुं समाधीयताम् ॥ २॥ कृत्वा निश्चलदैवपौरुषमयोपायं प्रसूत्यै गिरां क्षेमेन्द्रेण यदर्जितं शुभफलं तेनास्तु काव्यार्थिनाम् । निर्विघ्नप्रतिभाप्रभावसुभगा वाणी प्रमाणीकृता सद्भिर्वाग्भवमन्त्रपूतविततश्रोत्रामृतस्यन्दिनी ॥ ३॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे परिचयप्राप्तिः पश्चम सधिः । काश्मीरेषु पृथुप्रतापसवितु की_शुतारापतेः प्रौढारातिवनानलस्य धनदस्येन्द्रस्य भूमण्डले । विश्वाकारवतः पुन. कलियुगे विष्णोरिवोत्साहिनो राज्ये श्रीमदनन्तराजपते. काव्योदयोग्य कृत. ।। इति कविकण्ठाभरणं समाप्तम् । - , - t 4 - १४० काव्यमाला। महाकविश्रीभल्लटकृतं भल्लटशतकम् । युष्माकमम्बरमणेः प्रथमे मयूखा- स्ते मङ्गलं विदधतूदयरागभाजः । कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटलमुखीरिव दिक्पुरंधीः ॥ १॥ बदा यदर्पणरसेन विमर्दपूर्व- मर्थान्कथं झटिति तान्मकतान्न दद्युः । चोरा इवातिमृदवो महतां कवीना- मर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः ॥ २ ॥ काचो मणिमणिः काचो येषां तेऽन्ये हि देहिनः । सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ ३ ॥ नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये उपलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥ ४ ॥ द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशैिं दीपिका । बहुविधौभ्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥ ५ ॥ १. ख्रिस्तसवत्सरोयदशमशतकसमाप्तिसमये विद्यमानेन श्रीमदभिनवगुप्ताचार्येणास्य शतकस्य बहवः श्लोका लोचनाल्यायां ध्वन्यालोकव्याख्यायामुदाहृताः सन्ति, तस्मादयं भल्लटकविः किंचिदूननवशतवर्षेभ्योऽपि प्राचीनोऽस्ति. भाति चायं काश्मीरक एव. अस्य शतकस्य श्लोकाः काव्यप्रकाशादिघु, सुभाषितावल्यादिषु, क्षेमेन्द्रग्रन्थेषु च बहवः समुपलभ्यन्ते. एतच्छतकमपहायान्यः कोऽपि ग्रन्थ एतत्कृतो न प्राप्तः. केपुचिच्छाई- घरपद्धतिपुस्तकेषु कैश्चन महापण्डितैः 'भल्लट:' इति नामार्थहीन पश्यद्भिः भट्टमलः', 'मल्लभः' इत्यादि शोधनमपि कृतमस्ति. आसीत्कश्चन धातुपाठप्रणेता भट्टमल्लोऽपि, या मल्लिनायेन माघादिटीकासु स्मृतोऽस्ति. २. 'युष्माकम्' इत्यादि मङ्गलाचरणश्लोकः सुभाषितावलौ प्रमादाद्भागवतामृतदत्तनाम्ना समुद्धृतोऽस्ति. एवमन्येऽपि केचनावत्याः श्लोकाः सुभाषितावलि-शार्ङ्गधरपद्धत्यादिष्वन्यकविनाम्ना समुद्धृता दृश्यन्ते. ३. 'निशिदी- पकः' इति सुभाषितावलीपाठः, ४. 'अयुपकार-' इति सुभा०. - - मल्लटशतकम् । १४१ T 2 श्रीविशृङ्खलखलाभिसारिका वर्त्मभिर्घनतमोमलीमसैः । शब्दमात्रमपि सोढुमक्षमा भूषणस्य गुणिनः समुत्थितम् ॥ ६ ॥ माने नेच्छति वारयत्युपशमे क्षमामालिखन्त्यां त्रियां खातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्य गते । तृष्णे त्वामनुबनता फलमियत्प्राप्तं जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्पष्टुं न संमन्यते ॥ ७ ॥ पततु वारिणि यातु दिगन्तरं विशतु वह्निमथ व्रजतु क्षितिम् । रविरसावियतास्य गुणेषु का सकललोकचमत्कृतिपु क्षतिः॥ ८॥ सदृत्तयः सदसदविवेकिनो ये ते पश्य कीदृशममुं समुदाहरन्ति । चोरासतीप्रभृतयो ब्रुवते यदस्य तगृह्यते यदि कृतं तदहस्करेण ॥ ९ ॥ पातः पूष्णो भवति महते नोपतापाय यस्मा. कालेनास्तं के इह न ययुर्यान्ति यास्यन्ति चान्ये । एतावत्तु व्यथयतितरां लोकवास्तिमोमि- स्तस्मिन्नेव प्रकृतिमहति व्योनि लब्धोऽवकाशः ॥ १० ॥ पङ्को विशन्ति गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुरियताप्यथवा त्रपेरन् । सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानो- र्भासाटते नभसि शीतमयूखमुख्याः ॥ ११ ॥ गते तस्मिन्मानौ त्रिभुवनसमुन्मेषविरह- व्यथां चन्द्रो नेष्यत्यनुचितमतो नास्त्यसदृशम् । इदं चेतस्तापं जनयतितरामत्र यदमी प्रदीपाः संजातास्तिमिरहतिबद्धोडुरशिखाः ॥ १२ ॥ १. 'क इव न गता' इति सुभाषितावलि-शाङ्गघरयोः पाठः, २. 'व्यथयति यदा. लोक-' इति सुभा० शाई पाठः.

- १४२ काव्यमाला। सूर्यादन्यत्र यच्चन्द्रेऽप्यसंस्पर्शि तत्कृतम् । खद्योत इति कीटस्य नाम तुष्टेन केनचित् ।। १३ ॥ धनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्यत् । . कीटमणे दिनमधुना तैरणिकरस्थगितसितकिरणम् ॥ १४ ॥ सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् । यच्छायाछुरणारुणेन खचिता खद्योतनानामुना कोटेनाहितयापि जङ्गममणिभ्रान्त्या विडम्व्यामहे ॥ १५ ॥ दन्तान्तकुन्तमुखसंततपातघात- संताडितोन्नतगिरिर्गज एव वेत्ति । पञ्चास्यपाणिपविपनरपातपीडां न क्रोष्टुकः श्वशिशुहुँकतिनष्टचेष्टः॥ १६ ॥ अत्युन्नतिव्यसनिनः शिरसोऽधुनैष खस्यैव चातकशिशुः प्रणयं विधत्ताम् । अस्यैतदिच्छति यदि प्रततासु दिक्षु ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥ १७ ॥ सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिकिं भूयसोक्तेन वा । निश्चितवानसि भ्रमर हे यद्वारणोऽद्याप्यसा- वन्तःशून्यकरो निषेव्यत इति भ्रातः क एप ग्रहः ॥ १८ ॥ तद्वैदग्ध्यं समुदितपयस्तोयतत्वं विवेक्तुं संलापास्ते स च मृदुपदन्यासहृद्यो विलासः । आस्तां तावद्वक यदि तथा वेत्सि किंचिच्छुथांसं तूष्णीमेवासितुमपि सखे त्वं कथं मे न हंसः ॥ १९ ॥ १. 'अर्थसस्पर्शि' इति सुमा०.२. 'तरणिकरान्तरित-' इति सुभा० शाई ०.३.'नहि' इति सुभा० पाठः. ४. 'सर्वे निश्चितवानसि' इति सुभा०; 'सर्वे विस्मृतवानसि' इत्यपि पाठः. ५. 'आलापाः' इति सुभा०, ६. 'श्लथाशं' इति सुभा०. ७. 'अयि' इति.सुभा०.

भल्लटशतकम्। १४३ पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां नवदधिघटीं गर्वोन्नद्धः समुद्धतकंधरः । निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो यदि न कुरुते काणः काकः कदा नु करिष्यति ॥ २० ॥ नृत्यन्तः शिखिनो मनोहरममी श्राव्यं पठन्तः शुका वीक्ष्यन्ते न त एष संप्रति रुपा वार्यन्त एवाधुना । पान्थस्त्रीगृहमिष्टलाभकथनाल्छब्धान्वयेनामुना संप्रत्येत्य निरर्गलं वलिभुजा मायाविना भुज्यते ॥ २१ ॥ करभरभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरः शरणमथवानृज्वी दीर्घा तथैव शिरोधरा । बहुगलबिलात्तिश्रान्तोचरिष्यति वाङ्मुखा- दियति समये को जानीते भविष्यति कस्य किम् ॥ २२ ॥ अन्तश्छिद्राणि भूयांसि कण्टका बहवो वहिः । कथं कमलनालस्य मा भूवन्मगुरा गुणाः ॥ २३ ॥ किं दीर्घदीर्धेषु गुणेषु पद्म सितेष्ववच्छादनकारणं ते। अस्त्येव तान्पश्यति चेदनार्या त्रस्तेव लक्ष्मीन पदं विधत्ते ॥ २४ ॥ न पवादुतिन जडसहवासव्यसनिता पुर्दश्यं कान्त्या स्थलकमल रक्तद्युतिमुषा । व्यधास्यहुधा हृदयलघिमानं यदि न ते त्वमेवैकं लक्ष्म्याः परममभविष्यः पदमिह ॥ २५ ॥ उच्चैरुच्चरतु चिरं झिल्ली वर्त्मनि तरुं समारुह्य । दिग्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥ २६ ॥ । १. 'श्रव्यं' इति सुभा०. २. 'एतदनर्गल' इति सुभा०. ३. 'पृथुगल-' इति सुमा०. ४. 'वपुर्दिग्ध कान्त्या स्थलनलिन रलद्युतिमुपा' इति सुभा०. 'न पहात्' इत्यादि श्लोकः सुभाषितावलौ श्रीजयवर्धननाना समुद्धृतोऽत्ति. ५. 'चोरी' इति सुभा०. अय श्लोकः सुभाषितावलौ भागवतजयवर्धननाम्ना समुद्धृतः.

। . १४४ काव्यमाला। शवोऽस्थिशेषः स्फुटितो मृतो वा प्रोच्छास्यतेऽन्यश्वसितेन सत्यम् । किं तूच्चरत्येव न सोऽस्य शब्दः श्राव्यो न यो यो न सदर्थशंसी ॥२७॥ यथापडवपुष्पास्ते यथापुष्पफलद्धेयः। यथाफलद्धि स्वारोहा हा मातः कागमन्द्रुमाः ॥ २८ ॥ साध्वेव तद्विधावस्य वेधा क्लिष्टो न बदचधात् । स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥ २९ ॥ फलितघनविटपविघटितपटुदिनकर महसि लसति कल्पतरौ । छायार्थी कः पशुरंपि भवति जरद्वीरुधां प्रणयी ॥ ३० ॥ ग्रथित ऎव मिथः कृतशृङ्खलैर्विषधरैरधिरुह्य महाजडः । मलयजः सुमनोभिरैनावृतो यदत एव फलेन वियुज्यते ॥ ३१ ॥ चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिमत्कुतः । रक्षितुं वद किमात्मगौरवं संचिताः खदिर कण्टकास्त्वया ॥ ३२॥ यत्किचनानुचितमप्युचितानुबन्धि किं चन्दनस्य न कृतं कुसुमं फलं वा । 'लज्जामहे भृशमुपक्रममेव यान्त- स्तस्यान्तिकं परिगृहीतवृहत्कुंठाराः ॥ ३३ ॥ लब्धं चिरादमृतवत्किममृत्यवे स्या- दीर्घ रसायनवदायुरुत प्रदद्यात् । एतत्फलं यदयमध्वगशापदग्धः स्तब्धः खलः फलति वर्षशतेन तालः ॥ ३४ ॥ अन्तः कर्कशता बहिश्च घटना मर्माविधैः कण्टकै- श्छायामण्डलसंस्टशां तनुभृतामुढेजिनी संस्थितिः । तन्नामास्तु विधेरिदं विलसितं बबूरशाखिन्सखे शाखा ते फलशाखिनामपि वृतिः संपत्स्यते भूरुहाम् ॥ ३५॥ १. 'यदुच्चासितेनोच्छ्वसते नु' इति सुभा०. २. 'पुष्पाट्याः' इति सुभा०. ३. 'य. न्मुधा' इति सुभा०. ४. 'एप मिथ कृतशृङ्खलो' इति सुभा०. ५. 'अनाश्रितः' इति सुभा०. ६. 'न युज्यते' इति सुभा०. ७. 'सौष्ठव' इति सुभा०. ८. 'यातुः' इति सुभा०. ९. 'कुठारः' इति सुभा०. १०. 'फलं फलति' इति सुभा०, .

. भल्लटशतकम् । १४५ । एष श्रीमानविरलगुणग्रामणी रिकेल- श्छाया यस्य प्रभवति चिरं धर्मशान्त्यै जनानाम् । तेनाम्भोभिः कतिचन जना वासरांस्तर्पयध्वं दास्यत्येतच्छतगुणमयं वारि मूर्धा दधानः ॥ ३६ ॥ छिन्नस्तप्तसुहृत्स चन्दनतर्यस्मै पलाय्यागता भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः । दंष्ट्राकोटिविपोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चे- कि तेनैव सह स्वयं न देलशो याताः स्थ भो भोगिनः॥३७॥ संतोषः किमशक्तता किमथवा तस्मिन्नसंभावना लोभो वायमुतानवस्थितिरियं प्रद्वेष एवाथवा । आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे संवन्धोऽननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥ ३८ ॥ कि जातोऽसि चतुष्पथे घनतरच्छायोऽसि किं छायया युक्तश्चेत्फलितोऽसि किं फलभरैराख्योऽपि कि संनतः । हे सद्वृक्ष सहख संप्रति सखे शाखाशिखाकर्पण- क्षोभामोटनभञ्जनानि जनतः खैरेव दुश्चेष्टितैः ॥ ३९ ॥ सन्मूलः प्रथितोन्नतिर्घनलसच्छायः स्थितः सत्पथे सेव्यः सद्भिरितीदमाकलयता तालोऽध्वगेनाश्रितः । पुंसः शक्तिरियत्यसौ सैफलता वद्याथवा श्वोऽथवा काले क्वाप्यथवा कदाचिदथवा न वेव वेधाः प्रभुः ॥ ४०॥ वन्मूले पुरुषायुषं गतमिदं गात्रेण संशुप्यता क्षोदीयांसमपि क्षणं परमतः शक्तिः कुतः प्राणितुम् । १. 'यूय' इति सुभा०. २. "निधन' इति सुभा०. ३. 'शोभैवाथ च काननस्थिति- रिय' इति सुभा०. ४. 'यज्जातोऽसि चतुष्पथे घनलसच्छायोऽति किं छायया संयुक्तः फलितोऽसि कि यदि फलैः पूर्णोऽसि किं सनत.' इति सुभा०. सुभाषितावली शाई- धरपद्धतौ चाय श्लोको भदन्तज्ञानवर्मणो नाना समद्धृतः. ५. 'स तु फलेदद्यायवा' इति सुभा०. ६. 'नेत्यत्र' इति सुभा०. ७. 'कालेन संशुष्यता' इति सुभा०. १६ 7 - - १४६ काव्यमाला। तत्स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा कल्याणैः फलितासि तालविटपिन्पुत्रेषु पौत्रेषु वा ॥ ४१ ॥ पश्यामः किमयं प्रपद्यत इति स्वल्पाभ्रसिद्धिक्रियै- दादूरमुपेक्षितेन बलवत्कर्मेरितैर्मत्रिभिः । लब्धात्मप्रसरेण रक्षितुमथाशक्तेन 'मुक्त्वाशनि स्फीतस्तादगहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥ ४२ ॥ साधूत्पातघनौघ साधु सुधियां ध्येयं धरायामिदं कोऽन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करम् । सर्वस्यौपयिकानि यानि कतिचित्क्षेत्राणि तत्राशनिः सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां दृष्टयः ॥ ४३ ॥ लब्धायां तृषि गोमृगस्य. विहगस्यान्यस्य वा कस्यचि- दृष्टया स्याद्भवदीययोपतिरप्यास्तां दवीयस्यदः । अस्यात्यन्तमहाजलस्य जलदारण्योषरस्यापि किं जातं पश्य पुनः पुरेव परुषा सैवास्य दग्धा छविः ॥ ४ ॥ संत्यज्य पानाचमनोचितानि तोयान्तराण्यस्य सिसेविषोस्त्वाम् । निजैन जिषि जलैर्जनस्य जघन्यकार्यौपयिकैः पयोध ।। ४५ ॥ आस्त्रीशिशु प्रथितयैष पिपासितेभ्यः संरक्ष्यतेऽम्बुधिरपेयतयैव दूरात् । दंष्ट्राकरालमकरालिकरालितामिः किं भाययत्यपरमूर्मिपरम्पराभिः ॥ ४६ ॥ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः ऊशित्वा पुष्णासि श्रुतिकुहरमब्धे किमिति नः । इहैकश्थूडालो य॒जनि कलशादस्य सकलैः पिपासोरम्भोभिश्चलकमपि नाहर्तुमशकः ॥ ४७ ॥ १. "विचेष्टते' इति सुभा०. २. 'तावदहो' इति सुभा०. ३. 'भाययसि' इति सुभा०. ४. 'कुपित्वा' इति सुभापितावलावशुद्ध पाठः. ५. 'क्लिश्नासि' इति सुभा०. ६. 'अ- भ्यान' इति सुभा०. ७. 'नो भर्तु' इति सुभा०. सुभाषितावलौ 'स्वमाहात्म्य-' इत्या- दिश्लोकस्य पूर्वोत्तरार्धयोर्व्यत्ययोऽस्ति.

+ भल्लटशतकम् । १४७ सर्वासां त्रिजगत्यपामियमसावाधारता तावको प्रोल्लासोयमथो तवाम्बुनिलये केयं महासत्वता । सेवित्वा वहुभङ्गभीषणतनुं त्वामेव वेलाचल- ग्रावस्त्रोतसि पाप तापकलहो यत्कापि निर्वाप्यते ॥ ४८ ॥ नोद्वेगं यदि यासि यद्यवहितः कर्ण ददासि क्षणं त्वां पृच्छामि यदम्वुधे किमपि तनिश्चित्य देयुत्तरम् । नैराश्योतिशयातिमात्रमनिशं निःश्वस्य यदृश्यसे तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः ।। ४९॥ ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुपी मुक्तौघाः सिकताः प्रवाललतिका शैवालमम्भः सुवा । तीरे कल्पमहीरुहाः किमपरं नानापि रत्नाकरो दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ५० ॥ मिद्यतेऽनुप्रविश्यान्तर्यों यथारुच्युपाधिना । विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥ ५१ ।। चिन्तामणे भुवि न केनचिदीश्वरेण मूर्धा धृतोऽहमिति मा स्म सखे विपीदः । नास्येव हि त्वदधिरोहणपुण्यवीज- सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गम् ॥ १२ ॥ संवित्तिरस्त्यथ गुणाः प्रतिभान्ति लोके तद्धि प्रशस्यमिह कस्य किमुच्यतां वा । नन्वेवमेव सुमणे लुठ यावदायु- स्त्वं मे जगत्प्रहसनेऽत्र कथाशरीरम् (1) ॥ ५३॥ चिन्तामणेस्तृणमणेश्च कृतं विधात्रा केनोभयोरपि मणित्वमदः समानम् । १. 'असौ' इति सुभा०. २. 'अनुशया-' इति सुभा०. ३. 'नामापि' इति सुभा०. ४. 'धृतोऽसि यदि मा स्म ततो' इति सुभा०. ५. 'रोपणपुण्यवोज' इति सुभा..

काव्यमाला । - १४८ नैकोऽर्थितांनि. दददर्थिजनाय खिन्नो गृह्मञ्जरत्तृणलवं तु न लज्जतेऽन्यः ॥ ५४॥ दूरे कस्यचिदेव कोऽप्यकृतधी:वास्य वेत्यन्तरं मानी कोऽपि न याचते मृगयते कोऽप्यल्पमूल्याशयः । इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला जाता नैपुणदुस्तरेषु निकषस्थानेषु चिन्तामणिः ॥ ५५ ॥ पैराथै यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेपामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो दद्धिं स यदि भृशमक्षेत्रपतितः किमिक्षोदोषोऽयं न पुनरगुणाया मरुभुवः ॥ १६ ॥ आम्राः किं फलभारनम्रशिरसो रम्याः किमूष्मच्छिदः सच्छायाः कदलीद्रुमाः सुरभयः किं पुप्पिताश्चम्पकाः । एतास्ता निरवग्रहोगकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तु मरौ ॥ ५७ ॥ आ जन्मनः कुशलमण्वपि रे कुजन्म- न्पांसो त्वया यदि कृतं वद तत्त्वमेवे । उत्थापितोऽस्यनलसारथिना यदर्थं तुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ॥ १८ ॥ निःसाराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचि- च्छुप्यन्तोऽद्य जरत्तृणाद्यवयवाः प्राप्ताः खतन्त्रेण ये । अन्तःसारपरामुखेण धिगहो ते मारुतेनामुना पश्यात्यन्तचलेन सझ महतामाकाशमारोपिताः ५९ ॥ 'ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि- त्पद्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् । १. 'अल्पाशय' इति सुभा०. २. निकषा स्थानेषु' इति सुभा०. ३. अय श्लोक शार्ङ्गधरपद्धती इन्दुराजनाना, सुभाषितावलौ च यशसो नाम्ना समुद्भुत.. ४. 'अवरूढाः इति सुभा०. ५. 'एतत्' इति सुभा०. ६. 'दुष्टेन' इति सुभा०. ७. 'वर्म' इति सुभा०, मलदशतकम् । ११९ उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षेऽधुना तुङ्गानामुपरि स्थिति क्षितिभृतां कुर्वन्त्यमी पांसवः ॥ ६ ॥ हे दन्दशूक तदयोग्यमपीश्वरस्त्वां वात्सल्यतो नयति नूपुरधाम सत्यम् । आवजितालिकुलझंतिमूर्छितानि किं शिञ्जितानि भैवता क्षमतेऽत्र कर्तुम् ॥ ११ ॥ कछोलवेलितहषत्परुषप्रहारै रत्नान्यमूनि मकरालय मा वर्मस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याच्याप्रसारितकरः पुरुषोत्तमोऽपि ॥ १२ ॥ मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो निर्यनोपनतैः स्ववृत्तिरनिलैरेकत्र चर्येशी। अन्यत्रान्जु वर्त्म वाग्द्विरसना दृष्टौ विषं दृश्यते यादृक्तामनु दीपको ज्वलति नों भोगिन्सखे किं न्विदम् ॥१३॥ भूयांस्यस्य मुखानि नाम विदितैवास्ते महाप्राणता कवाः सत्प्रसवोऽपि यत्र कुपिते चिन्त्यं यथेदं जगत् । त्रैलोक्याहृतमीदृशं तु चरितं शेषस्य येनास्य सा प्रोन्मृज्येव निवर्तिता विषधरज्ञातेयदुवर्णिका ॥ १४ ॥ लोके समस्त एवैकः श्लाघ्यः कोऽप्येप वासरः । जनैर्महत्तया नीतो यो न पूर्न चापरैः ॥ १५ ॥ आवद्धकृत्रिमसटाजटिलांसभित्ति- रारोपितो मृगपतेः पदवी यदि श्वा । १. 'सखे' इति सुभा०. २. 'रे' इति सुभा०. ३. 'वालभ्यतो' इति सुमा०. ४. 'स- कृति-' इति सुभा०. ५. 'भवत. क्षम एप' इति सुभा०. ६. अयं श्लोकः सुभा- षितावलौ भागवतत्रिविक्रमनाना समुदृत . तत्र पूर्वाय प्रथमद्वितीयपादयोर्व्यन्यर.. ७. 'च' इति सुभा०. ८. 'किं' इति सुभा०. ६. 'महासत्त्वता' इति सुभा०. १०. प्रा. क्प्रसवोऽयमत्र' इति सुभा०. ११. 'विषधरज्ञानेऽपि' इति सुभा..

१५० काव्यमाला । मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥ ६६ ॥ किमिदमुचितं शुद्धेः छिष्टं खपक्षसमुन्नतेः फलपरिणतेर्युक्तं प्राप्तं गुणप्रणयस्य वा। क्षणेमुपगतः कर्णोपान्तं परस्य पुरःस्थिता- विशिख निपतन्क्रूरं दूरान्नृशंस भिनत्सि यत् ॥ ६७ ॥ अमी ये दृश्यन्ते ननु मुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् । निरालोके लोके कथमिदमहो चक्षुरधुना समं जातं सर्वैर्ने सममथवान्यैरवयवैः ॥ ६८ ॥ आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्वान्तरम् ॥ ६९ ॥ हेमकार सुधिये नमोऽस्तु ते दुस्तरेषु बहुशः परीक्षितुत् । काञ्चनाभरणमश्मना समं यत्त्वयैवैमधिरोप्यते तुलाम् ॥ ७० ॥ वृत्त एव स घटोऽन्धकूपक त्वां प्रसादमपि नेतुमक्षमः । मुद्रितं त्वधमचेष्टितं त्वया तन्मुखाम्बुकणिकाः परीप्सता ॥ ७१ ॥ शतपदी सति पादशते क्षमा भुवि न गोष्पदमप्यतिवर्तितम् । किमियता द्विपदस्य हनूमतो जलनिधिक्रमणे विवदामहे ॥ ७२ ॥ न गुरुवंशपरिग्रहशौण्डता न च महागुणसंग्रहणादरः । फलविधानकथापि न मार्गणे किमपि लुब्धकबालगृहेऽधुना ॥७३ ॥ तृणमणेर्मनुजस्य च तद्वतः किमुभयोविपुलाशयतोच्यते । तनुतृणाग्रलवावयवैर्ययोरवसिते ग्रहणप्रतिपादने ॥ ७४ ॥ १. 'स्पष्ट सपक्ष-' इति सुभा०. २. 'प्राप्त गुणप्रणयस्य ते' इति सुभा०.३. 'निहसि' इति सुभा०. ४. "एतत्' इति सुभा०. ५. 'अन्धकूप यस्त्वत्प्रसादमपनेतु' इति सुभा०. ६. 'प्रतीच्छता' इति सुभा०. ७. 'जलधिविक्रमणे' इति सुभा०. ८. 'किमिह' इति सुभा..

भल्लटशतकम् । १५१ तनुतृणाप्रधृतेन हृतश्चिरं क ईव तेन न मौक्तिकशङ्कया। स जलबिन्दुरहो विपरीतहग्जगदिदं वयमत्र सचेतनाः ॥ ७५ ॥ बुध्यामहे न बहुधापि विकल्पयन्तः कैर्नामभियंपैदिशेम महामतीस्तान् । येषामशेषभुवनाभरणस्य हेन- स्तत्त्वं विवेक्तुमुपलाः परमं प्रमाणम् ॥ ७६ ॥ 'संरक्षितुं कृषिमकारि कृपीवलेन पश्यात्मनः प्रतिकृतिस्तृणपूरुषोऽयम् । स्तब्धस्य निष्क्रियतयास्तभियोऽस्य नून- मश्नन्ति गोमृगगणाः पुनरेव सस्यम् ॥ ७७ ॥ कस्यानिमेषवितते नयने दिवौको- लोकाहते जगति ते अपि वै गृहीत्वा । पिण्डप्रसारितमुखेन तिमे किमेत- दृष्टं न बालिश विशद्वडिशं लयान्तः ॥ ७८ ॥ पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेन महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वमितीहशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥ ७९ ॥ स्वल्पाशयः स्वकुलशिल्पविकल्पमेव यः कल्पयन्स्खलति काचवणिपिशाचः। ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न- निर्यनगुम्फनकवैकटिकर्ण्ययान्तः ॥ ८० ॥ तत्प्रत्यर्थितया टतोऽनु कृतकः सम्यक्स्वतन्त्रो भया- स्वस्थस्तान्न निपातयेदिति यथाकामं न सतोपितः । १. 'इह येन' इति सुभा०. २ 'विकल्पमाना.' इति सुभा०. ३. 'व्यपदिशाम' इति सुभा०. ४. 'अत्स्यन्ति' इति सुभा०. ५. 'पिण्डे' इति सुभा०. ६. 'गुम्फपटु' इति सुभा०. ७. 'तत्प्रत्यं स्त्रतया धृतो न तु कृतः' इति सुभा. ८. 'संपोषितः' इति सुमा०.

4 . संशुष्यन्वृषदंश एष कुरुतां मूकः स्थितोऽप्यत्र किं गेहे किं बहुनाधुना गृहपतेश्चौराश्चरन्त्याखवः ॥ ८१ ।। एवं चेत्सरसि स्वभावमहिमा जाड्यं किमेतादृशं येस्मादेव निसर्गतः सरलता किं ग्रन्थिमत्तेढशी। मूलं चेच्छुचि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे ॥ ८२॥ ये दिग्ध्वैव कृता विषेण कुसूतियैषां कियद्गण्यते लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति । व्यालास्ते विदधत्यमी सदसतोश्थूडामणि मूर्धभि- चित्याद्गुणशालिनां क्वचिदपि भ्रंशोऽस्त्यलं चिन्तया ॥ ८३ ॥ अहो क्रौर्य स्त्रीणां हतरजनि धिक्त्वामतिशठे मृषा प्रक्रान्तेयं तिमिरकवरीविश्चयधृतिः । अवक्तव्ये पाते जननयननाथस्य शशिनः कृतं स्नेहस्यान्तोचितमुदधिमुख्यैर्न तु जडैः ॥ ८ ॥ अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा प्रदीपोऽयं स्थाने ग्लपयति मृषामूनवयवान् । उदात्तस्वच्छन्दाक्रमणहृतविश्वस्य तमसः परिस्पन्दं द्रष्टुं मुखमपि च किं सोढममुना ॥ ८५॥ नामाप्यन्यतरोनिमीलितमभूत्तत्तावदुन्मीलितं प्रस्थाने स्खलितस्ववमनि विधेरन्यैर्गृहीतः करः । लोकश्चायमदृष्टदर्शनवशादृग्वैशसान्मोचितो युक्तं काष्ठिक लूनवान्यदसि तामाम्रालिमाकालिकीम् ॥८६॥ वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं, ते प्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्हिभिः । १. 'सरसस्वभावपरता' इति सुभा०. २. 'यद्यस्त्येव' इति सुभा०, ३. 'यान्' इति सुभा०. ४. 'मूढा मणीन्' इति सुभा०, ५. स्खलतः' इति सुभा०. ६. 'दशाग्वै. शसादुद्धृतः' इति सुभा०. -- . 4 - ३ - भल्लटशतकम् । तेऽप्यक्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै- दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥ ८७ ॥ ऊदा येन महाधुराः सुविषमे मागे सदैकाकिना सोढो येन कदाचिदेव न निजे गोप्ठेऽन्यशौण्डध्वनिः । आसीद्यस्तु गवां गणस्य तिलकं तस्यैव संप्रत्यहो धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्घोप्यते ॥ ८८ ॥ अस्थानोद्योगदुःखं जहिहि नहि नभः पङ्गुसंचारयोग्य खायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयम् । ते देवस्याप्यचिन्त्याः प्रचलितभुवनाभोगहेलावहेला- मूलोत्खातानुमार्गा गतगिरिगुरवस्तार्क्ष्यपक्षाग्रवाताः ॥ ८९ ॥ चन्द्रेणैव तरङ्गभङ्गिबहुलं संवर्यमानाम्भसो दद्युर्जीवनमेव किं गिरिसरित्स्रोतांसि यद्यम्बुधेः । तेष्वेव प्रतिसंविधानविकलं पश्यत्सु साक्षिप्विव द्राग्दपोंडुरमागतेप्वपि न स क्षीयेत यद्यन्यथा ॥ ९० ॥ किलैकचुलकेन यो मुनिरपारमब्धि पपौ सहस्त्रमपि घस्मरो विकृत एव तेषां पिवेत् । स संभवति किचिदम्बरविकासिधाना विना सदप्यसदिव स्थितं स्फुरितमन्तरोजस्विनाम् ॥ ९१ ॥ ग्रावाणोऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते नन्वत्रैव विधुः स्थितो हि विबुधाः संभूय पूर्णाशिपः । शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं दैवादेव गतः स्वकुक्षिभृतये सोऽप्यम्बुधिनिम्नगाः ॥ ९२ ॥ अनीpः श्रोतारो मम वचसि चेद्वच्मि तदहं स्वपक्षादेतव्यं न तु बहु विपक्षात्प्रभवतः । १. 'तेऽपि क्रूर-' इति सुभा०, २. 'बहु न तु' इति सुभा०. २० --- १२६ काव्यमाला। ५ तमस्याक्रान्ताशे कियदिव हि तेजोवयविनः स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः॥ ९३ ॥ एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं पाथसो यो मुक्तामणिरित्यमस्त स जडः श्रृण्वन्नकस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने तत- स्तत्रोडीय गैंतो ममेत्यनुनिशं निद्राति नान्तः शुचा ॥ ९४ ॥ आस्तेऽत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो हंसस्यास्य मनाङ् न धावति मनः श्रीधाम्नि पझे क्वचित् । सुप्तोऽद्यापि न बुध्यते तदितरस्तावत्प्रतीक्षामहे वेलामित्युदरप्रिया मधुलिहः सोढुं क्षणं न क्षमाः ॥ ९५ ॥ भेकेन वणता सरोषपरुषं यत्कृष्णसर्पानने दातुं गण्डचपेटमुज्झितमिया हस्तः समुल्लासितः । यच्चाधोमुखमक्षिणी विदधता नागेन तत्र स्थितं तत्सर्व विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥ ९६ ॥ मृत्योरास्यमिवाततं धनुरिदं चाशीविषामाः शराः शिक्षा सापि जितोर्जुनप्रभृतिका सर्वत्र निम्नाकृतिः । अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मुगम् ॥९७॥ प्रावग्रस्तसमस्तचेतनमनोवैदग्ध्यमुग्धो जनः कः स्पर्धामधिरोहति त्रिभुवने चित्रं त्वया तन्वता । भावानां सदसद्विवेककलनाभ्यासेन जीर्णान्तरं दूरादेव न नाम येन हृदयं वोढुं कतो दुर्ग्रहः ॥ ९८ ॥ - ११ 3 . १. "कियदपि' इति सुभा०. २. 'यदस्मादपि' इति सुभा०. ३. 'शनैः' इति सुभा०. ४. 'गते हहेत्यनुदिनम्' इति सुभा०. ५. 'मतिः' इति सुभा०, ६. "विबुध्यते न त. दित.' इति सुभा०. ७. 'उसि प्रिया' इति सुभा०. ८. 'त एव क्षमाः' इति सुभा०. ९. 'कर्णचपेटम्' इति सुभा०. १०. 'पिदधता' इति सुभा०. ११. 'अमी' इति सुभा०. १२. 'जितार्जुना प्रतिमय सर्वाङ्गनिन्ना गतिः' इति सुभा०. ।

- . W मल्लदशतकम् । १५५ कोऽयं भ्रान्तिप्रकारस्तव पवन पदं लोकपादाहतानां तेजखिवातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् । अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां केनोपायेन साध्यो वपुषि कलुषतादोप एप त्वयैव ॥ ९९ ॥ एते ते विजिगीषवो नृपगृहद्वारार्पणावेक्षणाः क्षिप्यन्ते वरयाचनाहितधियः कोपोद्धवैत्रिभिः । अर्थेभ्यो विषयोपभोगविरसैर्नाकारि यैरादर- स्ते तिष्ठन्ति मनखिनः सुरसरित्तोरे मनोहारिणि ॥ १०॥. वाता वान्तु कदम्बरेणुहला नृत्यन्तु सर्पद्विपः सोत्साहा नैवतोयपानगुरवो मुञ्चन्तु नादं घनाः । मनां कान्तवियोगदुःखदहने मां वीक्ष्य दीनाननां विद्युत्प्रस्फुरसि त्वमप्यकरुणे स्त्रीत्वेऽपि तुल्ये सति ॥ १०१ ॥ प्राणा येन समर्पितास्तव बलायेन त्वमुत्थापितः स्कन्धे येन चिरं धृतोऽसि विदधे यस्ते सपर्यामपि । तस्यान्तः स्मितमात्रकेण जनयञ्जीवापहारं क्षणा- द्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे ॥ १०२॥ रज्ज्वा दिशः प्रवितताः सलिलं विषेण पाशैर्मही हुतभुजा ज्वलिता वनान्ताः । व्याधाः पदान्यनुसरन्ति गृहीतचापाः कं देशमाश्रयतु यूथपतिमंगाणाम् ॥ १०३ ॥ प्रेसन्मयूखनखशावशिखानिखात- विख्यातवारणगणस्य हरेगुहायाम् । १. “पवन घनावस्करस्थानजातम्' इति सुभा०. २. 'यस्मिन्' इति तुभा०. ३. 'सह्यः' इति सुभा०, अय 'कोऽय' इत्यादिश्लोक सुभाषितावली भागवतामृतदत्तनान्ना समुद्धृत . ४. "शबला' इति सुभा०. ५. 'नववारिभारगुरवो' इति सुभा०. ६. 'दुः- खजलधौ' इति सुभा०. ७. 'विद्युत्कि स्फुरसि' इति सभा०. ८. 'गृहीतगाणा.' इति सुभा०, ९. 'आश्रयति' इति सुभा०. अयं रज्ज्वा' इत्यादि श्लोकः सुनाषितावलो मु- तापीडनाम्रा समुद्भुतः. १०. 'नखपात-' इति सुभा०.

स क्रोटा निकष्टसरमासुतदृष्टिनष्ट- धाष्टर्यः प्रविष्ट इति कष्टमिहाद्य दृष्टम् ॥ १०४ ॥ दानार्थिनो मधुकरा यदि कर्णतालै- दूरीकृताः करिवरेण मदान्धबुद्ध्या । खस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ १०५ ॥ विख्यातं विजयावहं रणभुवि व्याप्तं शुभैलक्षणै- स्तं चेन्मुञ्चति कानने नरपतिस्तुङ्गं महान्तं गजम् । अश्वत्थाम्रकपुण्डूकेक्षुकदलीरास्वाद्य वंशाङ्कुरा- स्वैरं तस्य मनोरमे विचरतः का नाम हानिर्वने ॥ १०६ ॥ विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं - शुकस्यासीद्बुद्धिः फलमपि भवेदस्य सदृशम् । इति ध्यात्वोपास्तं फलमपि च दैवात्परिणतं विपाके तूलोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥ १०७ ॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोमिर्जलनिधिः । क एवं जानीते निजक्रपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ १०८ ॥ इति रत्नत्रये भलटशतक समाप्तम् । श्रीनीलकण्ठदीक्षितप्रणीतं सभारञ्जनशतकम् । पड्दर्शनीपरिज्ञानमण्डितैरिव पण्डितैः । स्तम्भश्चित्रवितानैश्च सभा किमवभासते ॥ १ ॥ १. 'निविष्ट.' इति सुभा०. अय 'प्रेसन्मयूख' इत्यादिश्लोकः सुभाषितावलौ उपाध्याय. धनवर्मनाना समुद्धृतः. २. 'अयं वाराभेको' इत्यादिश्लोकः शाधरपद्धती मालवरुदनाना समुद्धृत . ३. श्रीमदप्पदीक्षितसोदर्यस्याचा(प्पा)दीक्षितस्य पौत्रो नारायणदीक्षितपुत्रः श्रीनीलकण्ठदीक्षितोऽय खिस्ताब्दीयसप्तदशशतकपूर्वार्धे द्रविडदेशमलंचकार जन्मना, सभारञ्जनशतकम् । १५७ सन्ति सर्वविधा मा न सन्त्येके विपश्चितः । असूर्येणेव लोकेन किं तेन विपयेण नः ॥ २ ॥ उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः । न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥ ३ ।। बहुभ्यो वहु वोद्धव्यं वहुधा बहुवासरान् । बहुकल्पशतस्थायि लव्धुं वहुविधं यशः ॥ ४ ॥ पाषाणाः सर्व एवैते पद्मरागेषु को गुणः । प्रकाशः कश्चिदत्रास्तेऽपरत्र स न विद्यते ॥ ५॥ यतोऽनेन नीलकण्ठविजयप्रारम्भ 'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतु सहस्रेषु (४५३८)। कलिवर्षेषु गतेषु अथितः किल नीलकण्ठविजयोऽयम् ॥' इति स्वग्रन्थनिर्माणसमयो लिखितः. अस्मज्ज्ञाता नीलकण्ठदीक्षितकृता अन्धास्त्लेते--(१) अन्यापदेशशतकम्, (२) कलिविडम्बनशतकम्, (३) गगावतरणम्, (४) नीलकण्ठविजय (नीलकण्ठ- चम्पू:), (५) शान्तिविलासः, (६) शिवलीलार्णव , (७) सभारजनम्. वर्तमानशतक एव काश्यां समुत्पन्नेन शकरदीक्षितेन प्रणीता गगावतरणचम्पू: पूर्वोक्तगगावतरणा- द्भिना. काव्यमालाद्वितीयाङ्के श्रीमदप्पदीक्षितनाम्ना मुद्रितमुपदेशशतक नीलकण्ठदी. क्षितेन कृत न त्वप्पदीक्षितेनेत्यपि केचिद्वदन्ति. अस्मदृष्टपुस्तकद्वये तु 'अप्पदीक्षित- कृतमुपदेशशतकम्' इत्येवास्ति. (१) ओष्ठशतककर्ता शुक्लजनार्दनसूनु कविनील. कण्ठः, (२) काशिकातिलककर्ता रामभसूनोंलकण्ठभह, (३) कुण्डमण्डपविधान- कृर्ता नीलकण्ठ , (४) जारजातशतककर्ता कविनीलकण्ठशर्मा, (५) नारायणगोता. कर्ता नीलकण्ठब्रह्मचारी, (६) ब्रह्ममीमासाभाष्यकर्ता नीलकण्ठशैवाचार्यः, (५) भग- वन्तभास्करकर्ता शकरभटसूनुर्नोलकण्ठभः, (८) भारतभावदीपस्य मन्त्ररहस्यमका- शिकायाश्च कर्ता गोविन्दसूनुर्नीलकण्ठचतुर्धर., (९) वर्षतन्त्रकर्ता अनन्तदेवज्ञसूनुनौल- कण्ठदैवज्ञ., इत्याद्या अन्येऽपि बहवो नीलकण्ठास्तत्तद्देशे काले च समभूवन् श्रीमा- धक्कविना शंकरविजयस्य पञ्चदशे सर्गे 'तदनन्तरमागमान्तविद्यां प्रणतेभ्य प्रतिपादय- न्तमेनम् । हरदत्तसमायोऽधिगम्य स्वगुरु- संगिरते स्म नीलकण्ठम् ॥', 'सितभूतित- रङ्गिताखिलारे. स्फुटरुद्राक्षकलापकनकण्ठैः । परिवोतमधोतशैवशास्त्रेमुनिराधान्तममु ददर्श शिष्यै. ॥', 'विजितो यतिभूभृता स शैव. सह गर्वेण विमूज्य च स्वभाष्यम् । शरणं प्रतिदिवान्महर्षि हरदत्तप्रमुखै. सहात्मशिष्यैः ॥' इत्यादिना वर्णितः कश्चन नीलकण्ठाभिधो महाशैव. श्रीशकराचार्यसमयेऽप्यासोत. पूर्वोक्तो ब्रह्ममीमासाभाष्य. कर्ता नीलकण्ठशैवाचार्यः कदाचिदयमेव स्यात्.

१५८ काव्यमाला। -- A . , जात्यन्धा जातिवधिरा जातिमूकाश्च ते जनाः । सम्यगाराधिता यैर्न सन्तो विज्ञानसिन्धवः ॥ ६ ॥ अपि मानुण्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये। पशुतैव वरा तेषां प्रत्यवायाप्रवर्तनात् ॥ ७ ॥ कि परोक्षं किमध्यक्ष किं लभ्यं किं नु दुर्लभम् । सर्वमैन्द्रियकं वस्तु सर्व करगतं सताम् ॥ ८ ॥ स्थावरा जङ्गमा मां ब्राह्मणा मुनयः सुराः । शिव इत्यप्यमी भेदाश्चिदुत्कर्षनिबन्धनाः ॥ ९ ॥ विद्युज्जलधरो राष्टिश्चन्द्राकौं सागरा इति । सर्वमद्रुतमज्ञानाज्जानतां तु न किचन ॥ १० ॥ तत्र तत्र स्थितैानकरणैरिव विग्रहः । विद्वद्भिः शोभते देशस्तैविहीनस्त्वमङ्गलः ॥ ११ ॥ अमलीमसमच्छिद्रमक्रौर्यमतिसुन्दरम् । अदेयमप्रतिग्राह्यमहो ज्ञानं महाधनम् ॥ १२ ॥ संदर्भशक्तिहीनानां शब्दाभ्यासो वृथा श्रमः । मुग्धानि लब्ध्वा पुष्पाणि मुण्डितः किं करिष्यति ॥ १३ ॥ शास्त्रेषु दुर्ग्रहोऽप्यर्थः स्वदते कविसूक्तिपु । दृश्यं करगतं रत्नं दारुणं फणिमूर्धनि ॥ १४ ॥, आञ्जस्य व्यवहाराणामार्जवं परमं धियाम् । स्वातन्त्र्यमपि तन्त्रेषु सूते काव्यपरिश्रमः ॥ १५ ॥ साहित्यविद्याहीनानां सर्वशास्त्रविदामपि । समाज परिपश्यन्ति समजं वुद्धिशालिनः ॥ १६ ॥ अशिक्षितानां काव्येषु शास्त्राभ्यासो निरर्थकः । किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः ॥ १७ ॥ अन्धा विद्वजनींना मूका कविभिरुज्झिता । बधिरा गायनींना सभा भवति भूभृताम् ॥ १८ ॥ १. समजः पशुसमूह. . ,

सभारञ्जनशतकम् ।
१५९
साहित्यादपि शास्त्राणि विशिष्टानीति चेन्मतिः ।
ततोऽपि वेदाध्ययनं ततोऽपि शिवकीर्तनम् ॥ १९ ॥
सन्त्वश्वाः सन्तु मातङ्गाः सन्तु योधाः सहस्रशः।
नरेन्द्राणां विशेषेण न विना कविना यशः ॥ २० ॥
काणाः कमलपत्राक्षाः कदर्याः कल्पशाखिनः ।
कातरा विक्रमादित्याः कविहग्गोचरं गताः ॥ २१ ॥
पारवश्यं वृथा दास्यं पञ्चानामेकदारता ।
पाण्डवानामभूत्कीर्ये पाराशर्यकवेगिरा ॥ २२ ॥
नानाते यन्न चन्द्रार्को जानते यन्न योगिनः।
जानीते यन्न भर्गोऽपि तज्जानाति कविः स्वयम् ॥ २३ ॥
सर्वासामपि विद्यानां साहित्यं हि कवेः पदम् ।
साधारण्येऽपि यत्रैव सारस्वतपदं ध्रुवम् ॥ २४ ॥
नादातव्यं न दातव्यं न कर्तव्यं च किचन ।
सान्त्वमेकं प्रयोक्तव्यं सर्व तस्य वशे जगत् ।। २५ ॥
नामरूपात्मक विश्व दृश्यते यदिदं द्विधा ।
तत्राद्यस्य कविधा द्वितीयस्य चतुर्मुखः ॥ २६ ॥
ज्योतिष्टोमे किमुक्ये किं किमाज्ये किं स्थन्तरे ।
स्तुतिरित्येव हृष्यन्ति सर्वज्ञा अपि देवताः ॥ २७ ॥
न जातिरूपकर्माणि दृश्यन्ते मृदुभाषिणि ।
पक्षिणो मलिनास्तत्र परपुष्टा निदर्शनम् ॥ २८ ।।
अर्थहीनोऽपि मधुरः शब्दो लोकप्रियंकरः ।
वीणावेणमृदङ्गादीन्यत्रोदाहरणानि नः ॥ २९ ॥
जिघासन्तोऽपि पशवो रुदन्तोऽपि स्तनधयाः।
नन्तोऽपि रिपवो युद्धे वशमायान्ति सान्त्वतः ॥ ३० ॥
दातुः प्रतिग्रहीतुश्च यौ हस्तावुत्तराधरौ ।
तयोरप्यौत्तराधर्य ताभ्यामेवोपपाद्यते ॥ ३१ ॥

१६० काव्यमाला। अमाः सन्तु मा वा चेतनाः सन्त्वचेतनाः। दानमेव पुरस्कृत्य स्तूयते भुवनैस्त्रिभिः ॥ ३२ ॥ देयं द्रव्यमियत्तावदानोत्कर्षे न कारणम् । किं. त्ववच्छेदराहित्यं धनदाम्बुदयोरिव ॥ ३३ ॥ ददातिराददातिश्च द्वावेतौ परमाद्भुतौ । ययोः स्वाम्यं च दास्यं च लीलामात्रविजृम्भितम् ॥ ३४ ॥ दोपा अपि गुणायन्ते दातारं समुपाश्रिताः । कालिमानं किलालम्ब्य कालमेघ इति स्तुतिः ॥ ३५ ॥ किं दातुरखिलैदोषैः कि लुब्धस्याखिलैर्गुणैः । न लोभादधिको दोषो न दानादधिको गुणः ॥ ३६ ॥ अर्थाः साधारणा एव वियुज्यन्ते खभावतः । ममतां त्यजतां तेषु महदुत्पद्यते यशः ॥ ३७ ॥ मृतोऽप्यर्थ न मोक्ष्यामि बड्डा नेष्यामि मूर्धनि । इति चेत्सुदृढो लोभः पात्रे देयमशङ्कितम् ॥ ३८ ॥ पष्टिदेशान्तरे लभ्या शतं दत्त्वात्र नैगमे । पात्रे त्वेकमिहोत्सृज्य परत्रानन्तमाप्यते ॥ ३९ ॥ को दत्ते क इवादत्ते स्वादृष्टं खेन भुज्यते । धीभेदमात्रे दातृत्वे क्लिश्यन्ते कृपणाः कियत् ॥ ४० ॥ स्वातन्त्र्यं यदि चोरेऽपि भोत्कृत्वं यदि बन्धुषु । निष्कर्षे तु भ्रमः स्वाम्यं तत्यक्त्वा लभ्यतां यशः ॥ ११ ॥ न धैर्येण विना लक्ष्मीन शौर्येण विना जयः। न ज्ञानेन विना मोक्षो न दानेन विना यशः॥ ४२ ॥ खकीयान्भुञ्जते मत्स्याः खापत्यानि फणाधराः । बलावलव्यवस्थेयं वलिनस्त्वकुतोभयाः ॥ ४३ ॥ गुरुं हत्वा दिवं यान्ति तृणं छित्त्वा पतन्त्यधः । बलिनां दुर्वलानां च श्रुतयोऽपि द्विधा स्थिताः ॥ ४ ४ ।। १. वणिजि.

-न सभारजनशतकम् । बलिनो वलिनः स्निह्यन्त्यवलं तु न गृह्यते । दावं दीपयते चण्डो दीपं व्याहन्ति मारुतः ॥ ४५ ॥ वाधका अपि लोकानां वलिनो विभ्यति खयम् । सर्व बलवतः पथ्यं भिपग्भिरपि गीयते ॥ १६ ॥ शुभप्रारब्धलब्धापि लक्ष्मीः शौर्यविवर्जिते । शोकेन दुःखमानोति पण्डे कुलवधूरिव ॥ ४७ ॥ सर्वत्र लाल्यते शूरो भीरुः सर्वत्र हन्यते । पच्यन्ते केवला मेषाः पूज्यन्ते युद्धदुर्मदाः ४८ ॥ भार्यायाः सुन्दरः स्निग्धो वेश्यायाः सुन्दरो धनी । श्रीदेव्याः सुन्दरः शूरो भारत्याः सुन्दरः सुधीः ॥ ४९॥ शौर्य शौर्यमित्येव स्तूयते बुद्धिशालिभिः । किं तु नीत्या समाश्लिष्टं वाग्मित्वमिव मेधया ॥ ५० ॥ शौर्येण लोकसेव्यत्वं शौर्येण क्षितिपालता। शौर्येण लभ्यः स्खोऽपि शौर्य कस्य न साधनम् ॥ ११ ॥ समरेषु नरेन्द्राणां सवनेषु द्विजन्मनाम् । पनिकर्मसु नारीणां शौर्य भवति भूषणम् ॥ १२ ॥ शौर्य तुल्ये कथं वृत्तं खामी दास इति द्विधा । अन्वयव्यतिरेकाभ्यां नीरेरित्यवधार्यताम् ॥ १३ ॥ न जयाय खतः शौर्य किं तु नीत्योपबृंहितम् । प्रयुक्तं हि जयत्यस्त्रं प्रयोक्ता न खतः क्वचित् ॥ १४ ॥ इदमेव परं शौर्यमुपायैस्विमिरन्वितम् । इदमेव परं मौर्ण्यमुपायैस्त्रिमिरुज्झितम् ॥ ५५ ॥ पराक्रमन्ते युद्धेषु सममेवोभये भटाः । विजयन्तेऽभ्युपायज्ञा विजीयन्ते तदुज्झिताः ॥ १६ ॥ किं शास्त्रैर्वहुधाभ्यस्तैः किं चातुर्येण किं धिया । किं शौर्येणानिवार्येण ललाटे चेन्न लिख्यते ॥ १७ ॥ २१ नात्यन्ताय . १६२ काव्यमाला। घटमानाः कुटुम्वेषु दरिद्रति विपश्चितः । मूढेषु रमते लक्ष्मीरहो दिष्टस्य चेष्टितम् ॥ ५८ ॥ तुल्यं कर्षन्ति प्रथिवी तुल्यं शास्त्राण्यधीयते । उन्मज्जन्ति निमज्जन्ति दिष्टस्यैकस्य चेष्टया ॥ १९ ॥ लुभ्यन्ति वितरन्तोऽपि कुप्यन्ति सरला अपि । मुह्यन्ति मतिमन्तोऽपि भोक्तुर्भाग्यविपर्ययात् ॥ ६ ॥ अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः । निवर्तन्ते नरा वैषम्यतो विधेः ।। ६१॥ दोहदैरालवालैश्च कियट्टलानुपास्महे । ते तु कालं प्रतीक्षन्ते फलपुष्पसमुद्गमे ।। ६२ ।। कः प्रसूते पुरोवातं कः प्रेरयति वारिदम् । प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ॥ ६३ ॥ कालः करोति कार्याणि काल एव निहन्ति च । करोमीति विहन्मीति मूल् मुह्यति केवलम् ॥ ६४ ॥ अपि कालस्य यः कालः सोऽपि कालमपेक्षते । कर्तुं जगन्ति हन्तुं वा कालस्तेन जगत्प्रभुः ॥ ६५ ॥ कालः सदागतिरपि स्थायीव परिचेष्टते । चण्डमारुतवद्विश्वमधरोत्तरयन्क्षणात् ॥ ६६ ॥ कालचालयति प्रायः पण्डितान्पामरानपि । तं चेच्चिकीर्षसि वशे तितिक्षेव महौषधम् ॥ ६७ ॥ रन्ध्रेषु प्रहरिष्यन्तः कति कामादयोऽरयः । क्षणान्नश्यति लोकोऽयं क्षमा चेन्न नियच्छति ॥ ६८ ॥ अपकारदशायामप्युपकुर्वन्ति साधवः । छिन्दन्तमपि वृक्षः स्वच्छायया किं न रक्षति ॥ ६९॥ स्त्रवत्येव तदा ज्ञानं स्त्रवत्येव तदा तपः । छिद्रं छिद्रमनुप्राप्य न चेच्छादयति क्षमा ।। ७० ॥ - - सभारञ्जनरातकम् । क्षमां रक्षन्ति ये यत्नात्समां रक्षन्ति ते चिरम् । क्षमास्ते निभृता येपु क्षमास्ते सर्वकर्मसु ॥ ७१ ॥ मूर्खाः शमयितुं दुःखं संरभन्ते ततस्ततः । क्षमयैव निगृह्णन्ति धीराः संरम्भवर्जिताः ॥ ७२ ॥ आ कल्यादा निशीथाच कुक्ष्यर्थ व्याप्रियामहे । न च निर्वृणुमो जातु शान्तास्तु सुखमासते ॥ ७३ ॥ नायास्यन्ते शरीराणि न दैन्यमवबुध्यते । संभवत्यपि चानन्दः शान्तिमभ्यस्यतां सताम् ॥ ७४ ॥ प्रसीदत्यपरिस्पन्दि पयः कलुषितं यथा । तथाशान्तमपि स्वान्तं प्रसीदति शनैः शनैः ॥ ७५ ॥ यत्नेन महता लभ्या दासा द्वित्राः सुखाय नः । शान्तस्य कालादृष्टाद्याः शतं भृत्या अवेतनाः ॥ ७६ ॥ अपि मृद्ध्या गिरा लभ्यः सदा जागर्त्यतन्द्रितः । नास्ति धर्मसमो मृत्यः किंचिदुक्तस्तु धावति ॥ ७७ ॥ अर्थेनोपाय॑ते धर्मों धर्मेणार्थ उपायते । 'अन्योन्याश्रयणं ह्येतदुभयोत्पत्तिसाधनम् ॥ ७८ ॥ विपणिः पुण्यतीर्थानि विक्रेतारस्त्वकिंचनाः । • तृणेनाप्यन्ततो धर्मः पर्वसु क्रीयते महान् ॥ ७९ ॥ चुलकोदकमात्रेण धान्यमुष्टिव्ययेन वा । मरुभूमिषु दुर्मिक्षे धर्मसस्यं महाफलम् ॥ ८० ॥ धर्मों नर्मसखः कामे गुरुस्तत्त्वोपदेशने । भटः संगररङ्गेषु सचिवोऽर्थसमर्जने ॥ ८१ ॥ भुवि वृक्षो दिवि च्छाया भुवि कूपो जलं दिवि । भुवि यद्गृह्यते विदिवि तद्दीयते सुरैः ॥ ८२ ॥ कदलीकन्दवद्धों न रोहति बहिर्गतः । छादितस्तु फलं चारु सूते पनसमूलवत् ॥ ८३ ॥ -- काव्यमाला। - -- - . -- - . । -- --- . - दुःखेनोपाय॑ते धर्मः सुखेन तु विनाश्यते । कृच्छूलव्धमिमं त्रातुं नेच्छन्ति मुनयः सुखम् ॥ ८४ ॥ संपाद्यतां वा यनेन यद्वा विक्रीयतामयम् । सर्वथा मजतावाप्यो धर्मों भवति नान्यथा ॥ ८५ ॥ अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनारताः। आगमेष्वपि चेदेवमद्भुतं किं शरीरिषु ॥ ८६ ॥ अर्थोऽप्यथैन चेत्साध्यः का वार्ता धर्मकामयोः। अर्थः सर्वजगन्मूलमनर्थोऽर्थविपर्ययः ॥ ७ ॥ कर्मज्ञानं च मोक्षाय कर्मण्योंऽधिकारिता । अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते ॥ ८८ ॥ कथमर्थ निषेधन्तु श्रुतयः स्मृतयोऽपि वा । यासामेकं पदमपि न चलत्यर्थतो विना ॥ ८९ ॥ लक्ष्मीश इति गोविन्दो मेरुधन्वेति शंकरः । हिरण्यगर्भ इत्येव ब्रह्मापि बहु मान्यते ॥ ९० ॥ ऊच गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः । तस्य गौरवमर्थस्य तावतैवानुमीयताम् ॥ ९१ ॥ गृहिणा यदि लम्येत गृहिणी हृदयंगमा । संसार इति को भारस्तं सारमनुपश्यतः ॥ ९२ ॥ आहत्य चिनुमः खर्गमपवर्गमनुक्रमात् । अनुकूले हिं दांपत्ये प्रतिकूलं न किंचन ॥ ९३ ॥ गृहिणीरत्तिदोषेण गौतमोऽत्यन्ततापितः । आतस्थे दुःखविध्वंसं कैवल्यं परमं मुनिः ॥ ९४ ॥ अपि यत्परमं तत्त्वमर्धेन्दुकृतशेखरम् । तस्यापि तावानानन्दः किमस्मज्जननीं विना ॥ ९५ ॥ निन्दन्ति च प्रशंसन्ति निगमा यद्गृहाश्रमम् । दांपत्यसाम्यवैषम्यमेदादेतद्व्यवस्थितिः ॥ ९६॥ --- ---------------am-AAAHARAN m नवरत्नमाला। १६९ . इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे । अतस्तुर्याश्रमं प्राहुरवाधन्यायवाघितम् ॥ ९७ ॥ भुज्यते यत्सुखं धीरैरप्रमत्तैहाश्रमे । स्वर्गस्तस्यागसः पूर्तिरपवर्गोऽस्य नित्यता ॥ ९८ ॥ दृष्टदोषोऽपि गार्हस्थ्ये दीर्घदर्शितया स्वयम् । गार्हस्थ्यमेव परमं मेने नैयायिको मुनिः ॥ ९९ ॥ उच्चावचं जगद्दौःस्थ्यमेक एव निषेधति । प्रविष्टमात्रो नृपतिः प्रपञ्चमिव नः श्रुतिः ॥ १०० ॥ न राजानं विना राज्यं बलवत्खपि मन्त्रिषु । प्राणेष्वसत्सु किं देहश्चण्डवातेन धार्यते ॥ १०१ ॥ मातुः किंचित्पितुः किंचिदाचार्यात्किचिदाप्यते । सम्यग्विनीतैः शास्त्रेषु सर्व राज्ञस्तु लभ्यते ॥ १०२ ॥ चलन्ति सर्वमर्यादाश्चलिते सति पार्थिवे । पर्वता अपि कम्पन्ते प्रसक्ते कम्पने भुवः ॥ १०३ ॥ पत्न्या मङ्गल्ययोगेन पत्युरायुः प्रवर्धते । प्रकृतीनां तु भाग्येन पार्थिवः सुखमेधते ॥ १०४ ॥ निर्मितं शतकं साग्रं नीलकण्ठेन यज्वना । सभोरञ्जनमेतेन साधयन्तु मनीषिणः ॥ १०५ ॥ इतिश्रीभरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकः शतप्रवन्ध. निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षित- पौत्रेण श्रीनारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसमवेन श्रीनीलकण्ठदीक्षितेन विरचितं सभारजनशतकम् । महाकविश्रीकालिदासकृता नवरत्नमाला। अंकारपञ्जरशुकीमुपनिपदुद्यानकेलिकलकण्ठीम् । आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥ १॥ १. देवीस्तुतिरूपोऽय ग्रन्थः. । - - काव्यमाला। दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् । वामकुचनिहितवीणां वरदां संगीतमातृकां वन्दे ॥ २ ॥ श्यामलिमसौकुमार्यामानन्दामन्दसंपदुन्मेषाम् । तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥ ३ ॥ नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् । मुखमम्व मोदयतु मां मुक्ताताटङ्कमुग्धहसितं ते ॥ ४ ॥ सरिगमपधनिरतां तां वीणासंक्रान्तकान्तहस्तान्ताम् । शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ६॥ अवटुतटघटितचूलीपाली तालीपलाशताटङ्काम् । वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ६ ॥ वीणारवानुषङ्ग विकचमदामोदमाधुरीभृङ्गम् । - करुणापूरतरङ्ग कलये मातङ्गकन्यकापाङ्गम् ॥ ७ ॥ ; मणिभङ्गमेचकाङ्गी मातङ्गी नौमि सिद्धमातङ्गीम् । यौवनवनसारङ्गी संगीताम्भोरुहानुभवभृङ्गीम् ॥ ८ ॥ मेचकमांसेचनकं मिथ्यादृष्टान्तमध्यभागं तम् । मातस्तव स्वरूपं मङ्गलसंगीतसौरभं मन्ये ॥ ९॥ नवरत्नमालिकाख्यां विरचितमातङ्गकन्यकाभूषाम् । यः पठति लिखति वैतां स भवेद्वागीश्वरः साक्षात् ॥ १० ॥ इति महाकविश्रीकालिदासकृता नवरत्नमाला समाप्ता। - - - १ . • समिति सप्तसूचकान्यक्षराणि. २. खिन्नाम्. ३. 'तदासेचनकं तृप्ते - -

No text on this page.

Kavya Mala (iv)

Author
Krishnath Pandurang Parab
Title
Kavya Mala (iv)
File name
Kavya Mala (iv)
Text
OCR done
Citation
1887
Published
2010/05
Publisher
Narniya Sagar Printing Press Mubai
Language
Sanskrit
Pages
168
Library
Charan Sahitya Shodh Sansthan, Ajmer
DLI number
327337
Barcode
99999990002824.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
K0XMEgxahJ2
Download PDF

Kavya Mala (iv)