Svclrc

The Kavyalankara Sutras Of Vamana

Pandit Durgaprasad · 11/22/2002

PDF Proofread

Front matter

KÂVYAMÂLÂ. 15.
THE
KAVYALANKARA-SÛTRAS
OF
VÂMANA
with his own Vritti.
EDITED
BY
MAHÂMAHOPADHYAYA PANDIT DURGÂPRASADA
AND
KÂS'INÂTH PANDURANG PARAB.
8
REVISED BY
WASUDEV LAXMAN SHẬSTRÎ PAŅSÎKAR.
Third Revised Edition.
PUBLISHED
BY
PÂNDURANG JÂWAJÎ,
PROPRIETOR OF THE "NIRNAYA-SAGAR” PRESS,
BOMBAY
1926.
Price 12 Aongs,

[ All rights reserved by
PUBLISHER:-Pandurang Jawaji,
PRINTER:-Ramchandra Yesu Shedge,
}

काव्यमाला. १५० पण्डितवरवामनविरचितानि काव्यालंकारसूत्राणि । वृत्तिसमेतानि । जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय- पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्व- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितानि, तानि च पणशीकरोपाह्वलक्ष्मणशर्मात्मज- वासुदेवशर्मणा संस्कृतानि । तृतीयं संस्करणम् । मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्राकाश्यं नीतम् । .. १९२६. मूल्यं १२ आणकाः।

वामनपण्डितः। वृत्तिसमेतकाव्यालंकारसूत्राणां प्रणेता श्रीवामनपण्डितः कदा कुन समुत्पन्न इति न सम्यङ्गितुं शक्यते. किं खयं निस्ताब्दीयसप्तमशतकोत्तरार्धान प्राचीनः, यतोऽयं भवभूतिप्रणीतोत्तररामचरितादिश्लोकानुदाहृतवान्. अथ च वन्यालोकलोचने प्रथमो- योते 'वामनाभिप्रायेणायमाक्षेपः, भामहाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीला समासोक्त्याक्षेपयोरिदमेकमेवोदाहरणं व्यतरन्नन्थकृत्' इति वदन्तः श्रीमदा- चार्याभिनवगुप्तपादा ध्वन्यालोककर्तुः श्रीमदाचार्यानन्दवर्धनाद्वामनस्य प्राचीनत्वं प्रक- टयन्ति. तस्माखिस्तान्दीयनैवमशतकोत्तरार्धानाधस्तनो वामनः, भाति चायं काश्मी- रकः अष्टमशतके कश्मीरमहीपतेर्विपश्चिद्वरस्य श्रीजयापीडस्य मन्त्री कश्चन वामना- मिध आसीत्. स एवायं काव्यालंकारसूत्रप्रणेतेत्यपि केचन काश्मीरका वदन्ति. काशि- कावृत्तिकारो वामनस्त्वमाद्भिन्नः, प्राचीनश्च, ध्वन्यालोकलोचन काव्यप्रकाश -अलंका- रसर्वखादिग्रन्थरत्नेष्वपि वामनमतं समुपन्यस्तमुपलभ्यते, अस्मिन्प्रन्थे वृत्तौ अमरुश- तक-उत्तररामचरित-कादम्बरी-किरातार्जुनीय-कुमारसंभव-मृच्छकटिक-मेघदूत-रघुवंश- विक्रमोर्वशी-वीरचरित-वेणीसंहार-शाकुन्तल-शिशुपालवध-हर्षचरितादिग्रन्थेभ्यः समुद्ध- त्योदाहरणानि दत्तानि सन्ति. किं च कामन्दकी नीति-नाममाला-हरिप्रबोधानाम् , विशाखिल-शूद्रक-कविराजानां च नामान्यप्यत्र समुपलभ्यन्ते. महेश्वरकृता टीकाप्यस्य ग्रन्थस्य वर्तते. अयं ग्रन्थः प्रथमं १८७५ मिते खिस्तान्दे जर्मनीदेशे जेनाख्य (Jena)नगरे का- पलर (Professor Cappeller) नाना विदुषा मुद्रितः. तत्पुस्तकमस्सिन्देशे न सर्वसुलभम्. पुनः १८८३ मिते ख्रिस्ताब्दे कलकत्तानगरे आनन्दरामबडुयाभिधेन मुद्र- यित्वा वाग्भटालंकार-सरस्वतीकण्ठाभरणाभ्यां संबद्ध एव स्थापितः, मुद्रणेऽपि सूत्र- १. भवभूतिः खिस्ताब्दीयसप्तमशतकोत्तरार्धे कान्यकुब्जमहीपालस्य यशोवर्मणः सभा- यामासीदिति सुप्रसिद्धमेव. २. काव्यमालायां मुद्रितस्य ३७ पृष्ठे टीकायाम्, ३. कश्मी- रेष्ववन्तिवर्मराज्यसमये नवमशतकोत्तरार्धे श्रीमदानन्दवर्धन आसीदिति राजतरङ्गिण्या: अतीयते. ४. 'मनोरथः शङ्खदन्तश्चटकः संधिमांस्तथा । बभूवुः कवयस्तस्य वामनायाश्च मन्त्रिणः ॥' इति राजतरङ्गिणी. ५. चीनदेशात्तीर्थयात्रार्थ भारतवर्षे सप्तमशतकपूर्वाधे कश्चन हुएन्-त्सङ्ग (Hiouen-Thsang) नामा पुरुषः समागतः. तदान वामनप्र- गीतायाः पाणिनिसूत्रव्याख्यायाः (काशिकायाः) पठनपाठनेषु प्रचार आसीदिति तदीयया- त्रावर्णनपुस्तकात्पाश्चात्यैः पण्डितैरधिगतम्. ६. विशाखिलः कलाशास्त्रकर्ता. ७. टीका त्वस्माभिन!पलब्धेति मूलग्रन्थ एव प्रकटीकृतः.

२ वृत्त्युदाहरणानां पार्थक्यं न सम्यग्विहितमिति तत्पुस्तकं हस्तलिखितपुस्तकसमानमेव. अतो वयमस्य प्रत्नस्यात्युपयुक्तस्य ग्रन्थस्य मुद्रणे प्रवृत्ताः. तत्रास्मन्मुद्रणमूलभूतानि पुस्तकानि त्वेतानि- क. जयपुरराजगुरुभश्रीलक्ष्मीदत्तसूनुभश्रीदत्तानां पुस्तकम्. . प्रायः शुद्धम्. तत्पत्राणि ४०. ख. कलकत्तामुद्रितम्. ग. द्रविडवीरेश्वरशास्त्रिभिवाराणसीतः प्रहितम्. तत्तु नातिशुद्धमन्तिमाध्यायस्य त्रयस्त्रिंशन्मितसूत्रपर्यन्तमेवास्ति. तत्पत्राणि ६१. एवं पुस्तकत्रयाधारेण मुद्रितानि सवृत्तीनि काव्यालंकारसूत्राण्येतानि प्रमोदावहानि भवनवलंकारशास्त्रे प्रविविक्षुणां सच्छात्राणामिति शिवम्. १. 'प्राचीनेष्वलंकारनिबन्धेषु (अस्मदवलोकितेषु) वामनवृत्तिरेवोत्कृष्टा । तस्यां हि कापि कापि स्वोक्तौ समीचीना युक्तिरुद्भाविता । (शब्दशुद्धिं विना) अप्रासङ्गिकविषयो नावणिं, नापि च शृङ्गाररसः, यदनुषङ्गादश्लीलतादोषस्य संभवः । अत एव नास्ति तत्रा- श्लीलतादोषः । नापि चेयं वृत्तिरतीव विस्तृता । प्रसिद्धेषु तावदलंकारनिवन्धेषु बालानां प्रथमपाठोपयोगिनी एषैवेति मन्यामहे ।' इति स्वमुद्रितकाव्यप्रकाशोपोद्धाते न्यायरल श्री- युतमहेशचन्द्रपण्डिताः .

काव्यालंकारसूत्राणां विषयानुक्रमः।
पृष्ठाङ्कः ।
१
१२
१८
अध्यायः ।
शारीरं नाम प्रथममधिकरणम् ।
१ प्रयोजनस्थापना ।
२ अधिकारिचिन्ता रीति निश्चयश्च ।
३ काव्याङ्गानि काव्यविशेषाश्च ।
दोषदर्शनं नाम द्वितीयमधिकरणम् ।
१ पदपदार्थदोष विभागः ।
२ वाक्यवाक्यार्थदोष विभागः ।
गुणविवेचनं नाम तृतीयमधिकरणम् ।
१ गुणालंकारविवेकः शब्दगुणविवेकश्च ।
२ अर्थगुणविवेचनम् ।
आलंकारिक नाम चतुर्थमधिकरणम् ।
१ शब्दालंकारविचारः।
२ उपमाविचारः।
३ उपमाप्रपञ्चाधिकारः।
प्रायोगिक नाम पञ्चममधिकरणम् ।
२५
३७
४८
१ काव्यसमयः ।
५९
२ शब्दशुद्धिः।
६३

काव्यमाला। पण्डितवरश्रीवामनविरचितानि काव्यालंकारसूत्राणि । वृत्तिसमेतानि । शारीरं नाम प्रथममधिकरणम् । प्रथमोऽध्यायः। प्रणम्य परमं ज्योतिमिनेन कविप्रिया । काव्यालंकारसूत्राणां खेषां वृत्तिर्विधीयते ॥ काव्यं ग्राह्यमलंकारात् ॥ १॥ काव्यं खलु ग्राह्यमुपादेयं भवति । अलंकारात् । काव्यशब्दोऽयं गुणा- लंकारसंस्कृतयोः शब्दार्थयोर्वर्तते। भक्त्या तु शब्दार्थमात्रवचनोऽत्र गृह्यते। कोऽसावलंकार इत्यत आह- सौन्दर्यमलंकारः ॥२॥ अलंकृतिरलंकारः । करणव्युपत्त्या पुनरलंकारशब्दोऽयमुपमादिषु वर्तते। स दोषगुणालंकारहानादानाभ्याम् ॥ ३ ॥ स खल्वलंकारो दोषहानात् , गुणालंकारादानाच्च संपाद्यः कवेः । शास्त्रतस्ते ॥४॥ ते दोषगुणालंकारहानादाने शास्त्रादस्मात् । शास्त्रतो हि ज्ञात्वा दोषाञ्जह्यात् , गुणालंकारांश्चाददीत । १. 'परमात्मानं' क. २. 'तेषां' क. ३. 'शक्त्या' ख. लक्षणयेत्यर्थः.४. 'कवेः' ख-पुस्तके नास्ति. ५. 'कवेः शास्त्रतस्ते च' ख. ६. 'ते चैते' ख. ७. 'हि' क-पु- स्तके नास्ति.

२ काव्यमाला। - - किं पुनः फलमलंकारवता काव्येन 'येनैतदर्थोऽयं यन इत्याह- काव्यं सदृष्टादृष्टार्थम् । ग्रीतिकीर्तिहेतुत्वात् ॥५॥ काव्यं सच्चारु दृष्टप्रयोजनम् । प्रीतिहेतुत्वात् । अदृष्टप्रयोजनम् । कीर्तिहेतुत्वात् । अन्न श्लोकाः- 'प्रतिष्ठां काव्यबन्धस्य यशसः सरणिं विदुः । अकीर्तिवर्तनीं त्वेवं कुकवित्वविडम्बनाम् ॥ कीर्ति खर्गफलामाहुरासंसारं विपश्चितः । अकीति तु निरालोकनरकोद्देशदूतिकाम् ॥ तस्मात्कीर्तिमुपादातुमकीर्तिं तु निबर्हितुम् । काव्यालंकारशास्त्रार्थः प्रसाद्यः कविपुंगवैः ॥ इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे प्रथमोऽध्यायः । प्रयोजनस्थापना। - द्वितीयोऽध्यायः। अधिकारिनिरूपणार्थमाह- अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ॥१॥ इह खलु द्वये कवयः संभवन्ति- अरोचकिनः, सतृणाभ्यवहारिण- श्चेति । अरोचकिसतृणाभ्यवहारिशब्दौ गौणार्थो । कोऽसावर्थः-विवे- कित्वमविवेकित्वं चेति । तदाह पूर्वे शिष्याः। विवेकित्वात् ॥ २॥ १. 'येन तदर्थोऽयं क. २. 'इत्यत आह' क. ३. 'श्लोकः' क. ४. वर्तनी मार्गः. ५. 'स्वेव' क. ६. 'च' ख. ७. 'च व्यपोहितुम्' ख. ८. 'प्रयोजन- स्थापनमधिकारि- ख. ९. 'नास्ति रोचकं रुचिकरं द्रव्यं येषां तेऽरोचकिनः । अपरिचितालंकारशास्त्रा इत्यर्थः । सतृणमभ्यवहरन्ति भुञ्जत इति सतृणाभ्यवहारिणः । दोषगुणविवेकशुन्या इत्यर्थः ।' इति ख-टिप्पणम्. 'सतृणमभ्यवहरति सतृणाभ्य- वहारी अविवेकी ।' इति श्रीकण्ठचरितटीका (२।२८). १०. 'कवयः' क-पुस्तके नास्ति. ११. 'भ्यवहारिणौ' ख. १२. 'यदाह' क.

१ अधि० २ अ०] काव्यालंकारसूत्राणि । पूर्वे खल्वरोचकिनः शिष्याः शासनीयाः । विवेकित्वाद्विवेचनशील- त्वात् । नेतरे । तद्विपर्ययात् ॥ ३॥ इतरे सतृणाभ्यवहारिणो न शिष्याः । तद्विपर्ययादविवेचनशीलत्वात् । न च शीलमपाकर्तुं शक्यम् । नन्वेवं न शास्त्रं सर्वानुग्राहि कुतस्तदुपादीयते तदाह- न शास्त्रमद्रव्येष्वर्थवत् ॥ ४॥ न खलु शास्त्रमद्रव्येष्वविवेकिष्वर्थवत् । निदर्शनमाह- न कैतकं पङ्कप्रसादनाय ॥ ५॥ नहि कतकं पयस इव पङ्कस्य प्रसादनाय |भवति । अधिकारिणो निरूप्य रीतिविनिश्चयार्थमाह- रीतिरात्मा काव्यस्य ॥ ६॥ रीति मेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः । का पुनरियं रीतिरित्याह- विशिष्टा पदरचना रीतिः ॥७॥ विशेषवती पदानां रचना रीतिः । कोऽसौ विशेष इत्याह विशेषो गुणात्मा ॥८॥ वक्ष्यमाणगुणरूपो विशेषः । सा विधा-वैदर्भी गौडीया पाञ्चाली च ॥९॥ सा चेयं रीतिस्त्रिधा भिद्यते---वैदर्भी, गौडीया, पाञ्चाली चेति । १. 'ऽनुपाहि स्यात्को वा मन्यते तदाह' क. २. प्रयोजनवदित्यर्थः. ३. कतकं जलप्रसादको 'निर्मली' इति प्रसिद्धः फलविशेषः. ४. 'भवतीति' क. ५. 'रीतिनि- श्चया' ख. ६. 'विशिष्टपद' क. ७. 'वैदर्भी गौडीया पाञ्चाली' इति ख-पुस्तके नास्ति.

काव्यमाला। - किं पुनर्देशवशाद्र्व्यवद्गुणोत्पत्तिः काव्यानाम् , येनायं देशविशेषव्य- पदेशः । नैवैम् । यदाह- विदर्भादिषु दृष्टलात्तत्समाख्या ॥१०॥ विदर्भगौडपाञ्चालेषु देशेषु तत्रत्यैः कविभिर्यथाखरूपमुपलब्धत्वात्त- समाख्या । न पुनर्देशैः किंचिदुपक्रियते काव्यानाम् । तासां गुणभेदा दमाह- समग्रगुणा वैदर्भी ॥११॥ समग्रैरोजःप्रसादप्रभृतिभिर्गुणैरुपेता वैदर्भी नाम रीतिः । अत्र श्लोको- 'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चीखरसौभाग्या वैदर्भी रीतिरिष्यते ॥ तामेकामेवं कवयः स्तुवन्ति- सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन परिस्रवति वाङ्मधु ।' अत्रोदाहरणम्- 'गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥' ओजःकान्तिमती गौडीया ॥ १२ ॥ ओजः कान्तिश्च विद्यते यस्यां सा ओजःकान्तिमती गौडीया नाम रीतिः । माधुर्यसौकुमार्ययोरभावात् । समासबहुला अत्युल्बणपदा च । १. 'देश विशेषे' ख. २. 'नैव' ख. ३. 'देशेषु' क-पुस्तके नास्ति. ४. 'लब्धखा- द्देशसमाख्या' क. ५. 'अत्र श्लोको' क-पुस्त के नास्ति. ६. 'अलंकारादिसौभाग्यां तामेकामेव स्तुवन्ति कवयः' ख. ७. रीत्यात्मकं वस्तु. ८. 'अन' क-पुस्तके नास्ति. ९. अभिज्ञानशाकुन्तले द्वितीयेऽङ्के श्लोकः. १०. 'विद्यते यस्याः सेयं क. १० am- - १ अधि० २ अ०] काव्यालंकारसूत्राणि । अत्र श्लोकः- 'समस्तात्युत्कटपदामोजःकान्तिगुणान्विताम् । गौडीयामिति गायन्ति रीति रीतिविचक्षणाः ॥' उदाहरणम्- 'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत- ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्यस्तकपालसंपुटमिलमाण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ।।' माधुर्यसौकुमार्योपपन्ना पाञ्चाली ।। १३ ।। माधुर्येण सौकुमार्येण च गुणेनोपपन्ना पाञ्चाली नाम रीतिः । ओजः- कान्त्यभावादनुल्बणपदा विच्छाया च । तथा च श्लोकः- 'आश्लिष्टश्लथभावां तु पुराणच्छोययाश्रिताम् । मधुरां सुकुमारां च पाञ्चाली कवयो विदुः ॥' अत्रोदाहरणम्- 'ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नेवाधुना दीयते रात्रावत्र विहौरमण्डपतले पान्थः प्रसुप्तो युवा । तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं येनाद्यापि करकदण्डपतनाशङ्की जनस्तिष्ठति ॥' 'एतासु तिसृषु रीतिषु रेखाखिव चित्रं काव्यं प्रतिष्ठितमिति । तासां पूर्वा ग्राह्या । गुणसाकल्यात् ।। १४ ॥ तासां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या । गुणानां साकल्यात् । न पुनरितरे । स्तोकगुणवात् ॥ १५ ॥ १. 'उद्भट' क. २. 'गुणाङ्किताम्' क. ३. 'अपि' क. ४. वीरचरिते प्रथमेऽ श्लोकः, ५: 'पर्याप्त' क. ७. 'अनुल्वणश्लथविच्छाया च' क. ७. क-पुस्तके नास्ति. ८. 'ता' ख. ९. 'छायमाश्रिता' ख. १०. 'सुकुमारी' ख. ११. 'अथा' क. १२. 'विवाह' क. काव्या० सू०२ ।

६ काव्यमाला। इतरे गौडीयपाञ्चाल्यौ न ग्राह्ये । स्तोकगुणत्वात् । तदारोहणार्थमितराभ्यास इत्येके ॥१६॥ तस्या वैदा एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते । तत्तु न । अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ॥ १७ ॥ नह्यतत्त्वं शीलयतस्तत्त्वं निष्पद्यते । निदर्शनार्थमाह- न शैणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्र्यलाभः ॥१८॥ नहि शेणसूत्रवानमभ्यस्यन्कुविन्दस्त्रसरसूत्रवानवैचित्र्यं लभते । सापि समासाभावे शुद्धवैदर्भी ॥ १९ ॥ सापि च वैदर्भी रीतिः शुद्धवैदर्भी भण्यते । यदि समासवत्पदं न भवति । तस्यामर्थगुणसंपदाखाद्या ॥२०॥ तस्यां वैदामर्थगुणसंपदाखाद्या भवति । तदुपारोहादर्थगुणलेशोऽपि ॥ २१ ॥ तदुपधानतः खल्वर्थलेशोऽपि स्वदते । किमङ्ग, पुनरर्थगुणसंपत् । तथा चाहुः- 'किं त्वस्ति काचिदपरैव पदानुपूर्वी यस्यां न किंचिदपि किंचिदिवावभाति । आनन्दयत्यथ च कर्णपथं प्रयाता चेतः सताममृतवृष्टिरिव प्रविष्टा । वचसि यमधिगम्य स्पन्दते वाचकश्री- वितथमपि तथात्वं यत्र वस्तु प्रयाति । १. क-पुस्तके इयं वृत्ति स्ति. १. ख-पुस्तके 'तत्तु न' इति सूत्रबहिर्भूतम्, 'तन्न' क. ३. 'सण' क. ४. 'वाने' ख. ५. 'सण' क. ६. 'तन्तु' क. ७. 'वैचित्रीं' ख. ८. 'सापि च समासाभावे शुद्धवैदर्भी भण्यते । यदि समासवत्पदं न भवति तस्यां वैदामर्थगुणसंपत्स्वाद्या भवति । तदुपारोहादर्थगुणलेशोऽपि तदुपदानतः ॥ १९ ॥ 'खल्वर्थ- ख. ९. 'समासवर्तिपदं' क. १०. 'यथात्वं' क.

७. १ अधि० ३ अ०] काव्यालंकारसूत्राणि । उदयति हि स ताहक्कापि वैदर्भरीतौ सहृदयहृदयानां रञ्जकः कोऽपि पाकः ।।' सापि वैदर्भी । तात्स्थ्यात् ॥ २२ ॥ सापीयमर्थगुणसंपद्वैदर्भीत्युक्ता । तात्स्थ्यादित्युपचारतो व्यवहारं द- र्शयति । इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे द्वितीयोऽध्यायः । अधिकारिचिन्तारीतिनिश्चयश्च । M- - तृतीयोऽध्यायः। रीतितत्त्वं निरूप्य काव्याङ्गान्युपदर्शयितुमाह- लोको विद्या प्रकीर्ण च काव्याङ्गानि ॥१॥ उद्देशक्रमेणैतव्याचष्टे- लोकवृत्तं लोकः ॥२॥ लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तमिति । शब्दस्मृत्यभिधानकोषच्छन्दोविचितिकलाकामशास्त्रदण्डनी- तिपूर्वा विद्याँ ॥३॥ शब्दस्मृत्यादीनां तत्पूर्वकत्वं पूर्व काव्यबन्धेष्वपेक्षणीयत्वात् । तासां काव्याङ्गत्वं योजयितुमाह- शब्दस्मृतेः शब्दशुद्धिः॥४॥ शब्दस्मृतेर्व्याकरणाच्छब्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः । शु- द्धानि हि पदानि निःशकैः कविभिः प्रयुज्यन्ते । अभिधानकोषतः पदार्थनिश्चयः ॥५॥ पदं हि रचनांप्रेवेशयोग्यं भावयन्संदिग्धार्थत्वेन न गृह्णीयान्न वा जह्या- दिति काव्यबन्धविघ्नः । तस्मादभिधानकोषतः पदार्थनिश्चयः कर्तव्य १. 'सापीयं' ख. २. 'वैदर्भी उक्ता' ख. ३. ख-पुस्तके नास्ति. ४. 'अधिका- रवत्तां रीतिनिश्चयं च निरूप्य' ख. ५. 'क्रमेणैव' ख. ६. 'विद्याः' क..७. 'तत्पू- वैवं काव्य' क. ८. 'साधुत्वे' क. ९. क-पुस्तके नास्ति. १०. 'निःकम्पैः' क. ११. 'कोशात' क. १२. 'प्रयोग्यप्रवेशं' क. - काव्यमाला। इति । अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोषस्य । अप्रयुक्तस्या- प्रयोज्यत्वात् । यदि प्रयुक्तं प्रयुज्यते तर्हि किमिति संदिग्धार्थत्वमाश- ङ्कितं पदस्य । तन्न । तत्र सामान्येनार्थावगतिः संभवति । यथा नीवी. शब्देन जघनवस्त्रग्रन्थिरुच्यत इति कस्यचिन्निश्चयः । स्त्रिया वा पुरु- पस्य वेति संशयो 'नीवी संग्रथनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपश्यत इति । अथ कथं 'केनचित्पूर्वमुक्तोऽपि नीवीबन्धः श्लथीकृतः । विचित्रभोजनाभोगवर्धमानोदरादिना ॥' इति प्रयोगः । प्रान्तेपचाराद्वा । छन्दोविचितेवृत्तसंशयच्छेदः ॥६॥ काव्याभ्यासाद्वृत्तसंक्रान्तिर्भवत्येव । किं तु मात्रावृत्तादिषु क्वचि- संशयः स्यात् । अतो वृत्तसंशयच्छेदश्छन्दोविचितेर्विधेय इति । कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ॥७॥ कला गीतनृत्यचित्रादिकास्तासामभिधायकानि शास्त्राणि विशाखि- लादिप्रणीतानि कलाशास्त्राणि तेभ्यः कलातत्त्वस्य संवित्संवेदनम् । नहि कलातत्त्वानुपलब्धौ कलावस्तु सम्यतिबद्धं शक्यमिति । कामशास्त्रतः कामोपचारस्य ॥८॥ संविदित्यनुवर्तते । कामोपचारस्य संवित्कामशास्त्रत इति । कामोप- चारबहुलं हि वस्तु काव्यस्येति । दण्डनीतेनयापनययोः॥९॥ दण्डनीतेरर्थशास्त्रान्नयस्यापनयस्य च संविदिति । तत्र पाडण्यस्य १. ख-पुस्तके नास्ति. २. 'सामान्येनापि' क. ३. 'नीविराग्रन्थनं ख. ४. 'अथ कथं केनचित् पूर्वमुक्तो नीवीबन्धः श्लथीकृत इति प्रयोगः' ख. ५. लक्षणयेत्यर्थः. 'उपमानाद्वा' क. ६. 'वृत्तं' ख. ७. 'छन्दःशास्त्रतः' क. ८. ख-पुस्तके नास्ति. ९. 'तत्त्वसं वित्' क. १०. 'संवेदना' ख. ११. 'संविदिति' तस्यानुवर्तते क. १२. क-पुस्तके नास्ति. १३. प्रतिपाद्यवित्यर्थः. १४. 'संविज्ज्ञानं' ख.

१ अधि० ३ अ.] काव्यालंकारसूत्राणि । यथावत्प्रयोगो नयः । तद्विपरीतोऽपनयः । नहि तावविज्ञाय नायकप्र- तिनायकयोवृत्तं शक्यं काव्ये निबद्धमिति । इतिवृत्तकुटिलत्वं च ततः ॥ १० ॥ इतिहासादिरितिवृत्तं काव्यशरीरम् । तस्य कुटिलत्वं ततो दण्डनीते- बलीयस्त्वाबलीयस्त्वादिप्रयोगो व्युत्पत्तिमूलत्वात्तस्याः । एवमन्यासामपि विद्यानां यथाखमुपयोगो वर्णनीय इति । लक्ष्यज्ञसमभियोगो वृद्धसेवावेक्षणं प्रतिभानमवधानं च प्रकी- र्णम् ॥११॥ तंत्र काव्यपरिचयो लक्ष्यज्ञवम् ॥ १२ ॥ अन्येषां काव्येषु परिचयो लक्ष्यज्ञत्वम् । ततो हि काव्यबन्धस्य व्यु- त्पत्तिर्भवति ॥ काव्यबन्धोधमोऽभियोगः ॥ १३ ॥ काव्यस्य बन्धनं रचना काव्यबन्धः । तत्रोद्यमोऽभियोगः । स हिं कवित्वप्रकर्षमैवसंदधाति । काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ॥ १४ ॥ काव्योपदेशे गुरव उपदेष्टारः । तेषां शुश्रूषणं वृद्धसेवा । ततः काव्य- विद्यायाः संक्रान्तिर्भवति । पैदाधानोद्धरणमवेक्षणम् ॥ १५ ॥ पदस्याधानं न्यासः । उद्धरणमपंसारणम् । तयोः खल्ववेक्षणम् । अत्र श्लोको- Re- 'आधानोद्धरणे तावद्यावदोलायते मनः । पदस्य स्थापिते स्थैर्ये हन्त सिद्धा सरखती ॥ १. काव्येषु निबद्धं शक्यमिति. २. 'ततः इतिहासादि' क. ३. 'काव्यार्थ' ख. ४. 'राबलीयसादिप्रयोगव्युत्पत्ति' क. ५. 'यथायथं' ख. ६. ख-पुस्तके एतत्सूत्रं पूर्वसूत्रान्तर्गतमेव स्थापितम्. ७. 'अन्येषु' क. ८. 'रचना काव्यबन्धः' इति ख- पुस्तके नास्ति. ९. क-पुस्तके नास्ति. १०. 'आराधयति' क. ११. 'शुश्रूषणं च' क. १२. क-पुस्तके नास्ति. १३. 'काव्यच्छाया संक्रामति' क. १४. 'पदाधानोद्धरणे चावेक्षणम्' ख. १५. 'अपसारः' क. १६. 'तत्' क. १७. 'आस्थापिते ख.

१० काव्यमाला। .. यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् । तं शब्दन्यासनिष्णाताः शब्दपार्क प्रचक्षते ॥' कविखवीजं प्रतिभानम् ॥ १६ ॥ कवित्वस्य बीजं कवित्वबीजं जन्मान्तरागतसंस्कारविशेषः कश्चित् । यस्माद्वीजं विना काव्यं न निष्पद्यते । निष्पन्नं वावहास्यायतनं स्यात् । चित्तैकाग्र्यमवधानम् ॥ १७ ॥ चित्तस्यैकाग्र्यं बाह्यार्थनिवृत्तिः । तदवधानम् । अवहितं हि चित्त- मर्थान्पश्यति । तद्देशकालाभ्याम् ॥ १८॥ तदवधानं देशात्कालाच समुत्पद्यते । को पुनर्देशकालावित्याह- विविक्तो देशः॥१९॥ विविक्तो निर्जनः । रात्रियामस्तुरीयः कालः ॥२०॥ रात्रेर्यामो रात्रियामः प्रहरः । तुरीयश्चतुर्थः काल इति । तद्वशाद्विष- योपरतं प्रसन्नं चित्तमवधत्ते । एवं काव्याङ्गान्युपदर्य काव्यविशेषकथनार्थमाह- काव्यं गद्यं पद्यं च ॥ २१ ॥ गद्यस्य पूर्व निर्देशो दुर्लक्ष्यविषयत्वेन दुर्वन्धत्वात् । यथाहुः-गधं कवीनां निकष वदन्ति । तच्च त्रिधा भिन्नमिति दर्शयितुमाह गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च ॥ २२ ॥ तल्लक्षणान्याह- पद्यभागववृत्तगन्धि ॥ २३ ॥ N - - १. 'जन्मान्तरागत' इति क-पुस्तके नास्ति. २. ख-पुस्तके नास्ति. ३. 'च हास्यायतनं' क. ४. चित्तैकाम्यमन्यार्थविनिवृत्तिः' ख. ५. 'अर्थान्न पतति' क. ६. 'देशकालाभ्यां संपद्यते' क. ७. ख-पुस्तके नास्ति. ८. 'विषयादुप' क. ९. 'का- व्यविशेषस्य ज्ञानार्थमाह' ख. १०. 'पूर्वनिर्देशो दुर्बन्धत्वात् विषयत्वेन दुर्बोधवाद'ख- यथा- --- १ अधि० ३ अ०] काव्यालंकारसूत्राणि । पद्यस्य भागाः पद्यभागास्तद्वद्वृत्तगन्धि । यथा-'पातालतालुतलवासिषु दानवेषु' इति । अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते । अनाविद्धललितपदं चूर्णम् ॥२४॥ अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यसिंस्तदनावि- द्धललितपदं चूर्णमिति । यथा---'अभ्यासो हि कर्मणां कौशलमावहति । नहि सकृन्निपातमात्रे- गोदबिन्दुरपि ग्रावणि निम्नतामादधाति । विपरीतमुत्कलिकाप्रायम् ॥२५॥ विपरीतमाविद्धोद्धतपदमुत्कलिकाप्रायम् । 'कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमातङ्गकुम्भ- स्थलगलन्मदच्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि' इति । पद्यमनेकभेदम् ॥२६॥ पद्यं खल्वनेकेन समार्घसमविषमादिना भेदेन भिन्नं भवति । तदनिबद्धं निबद्धं च ॥२७॥ तदिदं गद्यपद्यरूपं काव्यमनिबद्धं निबद्धं च । अनयोः प्रसिद्धत्वाल्लक्षणं नोक्तम् । क्रमसिद्धिस्तयोः स्त्रगुत्तंसवत् ॥२८॥ तयोरित्यनिबद्धं निबद्धं च परामृश्यते । क्रमेण सिद्धिः क्रमसिद्धिः । अनिबद्धसिद्धौ निबद्धसिद्धिः स्रगुत्तंसवत् । यथा स्रजि मालायां सिद्धा- यामुत्तंसः शेखरः सिध्यतीति । केचिदनिबद्ध एव पर्यवसितास्तेदूषणार्थमाह- नानिबद्धं चकास्येकतेजः परमाणुवत् ॥ २९ ॥ न खल्बनिबद्धं काव्यं चकास्ति दीप्यते । यथैकतेजः परमाणुरिति । १. 'निपतितमात्रेण क. २. 'भार' क-पुस्तके नास्ति. ३.. 'भेदेनोपेतमिति' क..४. ख-पुस्तके नास्ति. ५. 'सग्दूषणार्थ ख..६. 'इवेति' ख.

काव्यमाला। - • - अत्र श्लोकः- 'असंकलितरूपाणां काव्यानां नास्ति चारुता। न प्रत्येक प्रकाशन्ते तैजसाः परमाणवः ॥' संदर्भेषु दशरूपकं श्रेयः॥३०॥ संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः । कस्मात्तदाह- तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात् ॥३१॥ तद्दशरूपकं हि यस्माच्चित्रं चित्रपटवत् । विशेषाणां साकल्यात् । ततोऽन्यभेदलप्तिः ॥३२॥ ततो दशरूपकादन्येषां भेदानां कृप्तिः कल्पनमिति । देशरूपक- स्यैव हीदं सर्वं विलसितम् । यच्च कथाख्यायिके महाकाव्यमिति । तल्ल- क्षणं चे नातीव हृदयंगममित्युपेक्षितमस्माभिः । तदन्यतो ग्राह्यम् । इति काव्यालंकारसूत्रवृत्ती शारीरे प्रथमेऽधिकरणे तृतीयोऽध्यायः। काव्याङ्गानि काव्यविशेषाश्च । समाप्तं चेदं शारीरं प्रथममधिकरणम् । दोषदर्शनं नाम द्वितीयमधिकरणम् । प्रथमोऽध्यायः। काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागा दोषा' विज्ञा- तव्या इति दोषदर्शनं नामाधिकरणमारभ्यते । दोषखरूपकथनार्थमाह- गुणविपर्ययात्मानो दोषाः ॥१॥ गुणानां वक्ष्यमाणानां ये विपर्ययास्तदात्मानो दोषाः । अर्थतस्तदवगमः ॥२॥ गुणखरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थसिद्धिः । १. 'तदाह क-पुस्तके नास्ति. २. 'तद्विचित्रं' ख. ३. 'दशरूपकमेव' क. ४. 'यु: दुत' क. ५. क-पुस्तके नास्ति. ६. 'तदन्यदूह्यम्' ख. ७. 'च' क-पुस्तके नास्ति. ८. 'प्रथम' क-पुस्तके नास्ति. ९. 'ज्ञातव्या' ख. १०. 'नाम' क-पुखके नास्त्रि.

२ अधि० १ अ०] काव्यालंकारसूत्राणि । १३ - किमर्थं ते पृथक्प्रपञ्चयन्त इत्याह- सौकर्याय प्रपञ्चः ॥३॥ सौकर्यार्थ प्रपञ्चो विस्तरो दोषाणाम् । उद्दिष्टलक्षणा हि दोषाः सु- ज्ञाता भवन्ति । - - - . पददोषान्दर्शयितुमाह- दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च ॥४॥ क्रमेण व्याख्यातुमाह- शब्दस्मृतिविरुद्धमसाधु ॥५॥ शब्दस्मृत्या व्याकरणेन विरुद्धं पैदमसाधु । यथा-'अन्यकारक- वैयर्थ्यम्' इति । अत्र हि 'अषष्ठयतृतीयास्थस्यान्यस्य दुगाशीरा- शास्थास्थितोत्सुकोतिकारकरागच्छेषु' इति हुँका भवितव्यमिति । श्रुतिविरसं कष्टम् ॥६॥ श्रुतिविरसं श्रोत्रकटुपदं कष्टम् । तँद्धि रचनागुम्फितमप्युद्वेजयति । यथा- 'अचूचुरचण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदः शशाङ्कः ।' लोकमात्रप्रयुक्तं ग्राम्यम् ॥७॥ लोक एव यत्प्रयुक्तं पदं न शास्त्रे तद्राम्यम् । यथा-'कष्टं कथं रो- दिति फूत्कृतेयम्' । अन्यदपि तल्लगल्लादिकं द्रष्टव्यम् । शास्त्रमात्रप्रयुक्तमप्रतीतम् ॥ ८॥ शास्त्र एवं प्रयुक्तं यन्न लोके तदप्रतीतं पदम् । यथा- "किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः । गुणानन्तरीयकं च प्रेमेति न मेऽस्त्युपालम्भः ।।' १. "विस्तरो' क-पुस्तके नास्ति. २. 'असाधुपदम्' क. ३. 'हि' क-पुस्तके नास्ति. ४. 'अन्यः कारकः' इति विग्रहे दुगागमो भवति. तेन 'अन्यत्कारकवैयर्थ्यम्' इति साधु. ५. क-पुस्तके सत्रमेलत्रुटितम् . ६. 'तद्विरचनात्' क. ७. प्रयुक्तं यन शास्त्रे ताम्यं पदम्. ८. 'भल्ल' क. तल्लशब्दस्तडागवाचकः, ९. 'पदम्' क-पुस्तके नास्ति. १०. इन्द्रियपश्चकस्य. ११. 'गुणनान्तरीयकं च' क. १२. 'ऽस्तुऽपालम्भः' ख. - - १४. -काव्यमाला । अत्र रूपस्कन्धान्तरीयको न लोक इत्यप्रतीतम् । पूरणार्थमनर्थकम् ॥ ९॥ पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापूपन्यायेन पदमन्यद- प्यनर्थकमेव । यथा- 'उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणैः सविता।' अत्र तुशब्दस्य पादपूरणार्थमेव प्रयोगः, न वाक्यालंकारार्थम् । वा- क्यालंकारप्रयोजनं तु नानर्थकम् । अपवादार्थमिदम् । यथा- 'न खल्विह गतागता नयनगोचरं मे गता' इति । तथा हि खलु हन्तेति । संप्रति पदार्थदोषानाह- अन्यार्थनेयगूढार्थाश्लीललिष्टानि च ॥ १० ॥ दुष्टं पदमित्यनुवर्तते । अर्थतश्च वचनविपरिणामः । अन्यार्थादीनि पदानि दुष्टानीति सूत्रार्थः । एषां क्रमेण लक्षणान्याहः रूढिच्युतमन्यार्थम् ॥ ११॥ सेंदिषु च्युतं रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानादन्यार्थं पदम् । स्थूलत्वात्सामान्येन घटशब्दः पटशब्दार्थ इत्यादिकमन्यार्थं नोक्तम् । यथा- 'ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसंगमानाम् ।' अत्रावहतिः करोत्यर्थो धारणार्थे प्रयुक्तः, प्रसरतिर्विस्मरणार्थः प्रकृ- ष्टस्मरण इति । कल्पितार्थ नेयार्थम् ॥ १२॥ १. 'एव' क-पुस्तके नास्ति. २. क-पुस्तके नास्ति. ३. 'नारजकम्' का ४. तथेलादिका पतिः क-पुस्तके नास्ति. ५. 'दोष' क. ६. 'श्लिष्टानि' क. ७. 'पदं दुष्टं' क. ८. 'अर्थाच विभक्तिविपरिणामः' का 'अर्थतश्च वचनं परिणा:म' ख. ६. 'अन्यार्थनेयानेयादीनि' ख. १०. 'रूढिच्युतं' ख. - - २ अधि १ अ०] काव्यालंकारसूत्राणि । १५ अश्रुतस्याप्यन्यस्य पदार्थस्य कल्पनात्कल्पितार्थ नेयार्थम् । यथा- 'सपदि पङ्किविहंगमनामभृत्तनयसंवलितं बलशालिना । विपुलपर्वतवर्षिशितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥' अत्र विहंगमश्चक्रवाकोऽभिप्रेतः । तन्नामानि चक्राणि । तानि बिभ्रतीति विहंगमनामभृतो रथाः । पङ्किरिति दशसंख्या लक्ष्यते । पतिर्दश विहंगमनामभृतो रैथा यस्य स पङ्गिविहंगमनामभृद्दशरथः । तस्य तन- याभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलूकजिता इन्द्र- जिता । कौशिकशब्देनेन्द्रोलूकयोरभिधानमिति कौशिकशब्दवाच्यत्वेने- न्द्र उलूक उक्तः । ननु चैवं रथाङ्गनामादीनामपि प्रयोगोऽनुपपन्नः । न । तेषां निरूढलक्षणत्वात् । अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ १३ ॥ यस्य पैदस्य लोकेऽर्थः प्रसिद्धश्वाप्रसिद्धश्च तदप्रसिद्धेऽर्थे प्रयुक्तं गूढा- र्थम् । यथा- 'सहस्रगोरिवानीकं दुःसहं भवतः परैः' इति । सहस्रं गावोऽक्षीणि यस्य स सहस्रगुरिन्द्रः । तस्येवेति गोशब्दस्या- क्षिाचित्वं कविष्वप्रसिद्धमिति । असभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् ॥ १४ ॥ यस्य पदस्यानेकार्थस्यैकोऽर्थोऽसभ्यः स्यात्तदसभ्यार्थान्तरम् । यथा---'वर्चः' इति पदं तेजसि विष्ठायां च । यत्तु पदमेकदेशद्वारेणासभ्याथ स्मारयति तदसभ्यस्मृतिहेतुः । यथा-'कृकाटिका' इति । १ 'अश्रुतार्थस्य कल्पना कल्पितार्थ' ख. २. 'तानि' ख-पुस्तके नास्ति. ३. 'रथा' क-पुस्तके नास्ति. ४. 'रथाङ्गनामप्रयोगो' ख. ५. 'रूढ' ख. ६. 'पदस्य' ख- पुस्तके नास्ति. ७. 'प्रसिद्धार्थे' ख. ८. 'वाचकत्वात्' ख. ९. 'कविषु' क-पुस्तके नास्ति. १०. 'इति' ख-पुस्तके नास्ति. ११. 'स्मृतिकरमश्लीलम्' क.

काव्यमाला। न गुप्तलक्षितसंवृतानि ॥ १५ ॥ अपवादार्थमिदम् । गुप्तं लैक्षितं संवृतं च नाश्लीलम् । एषां लक्षणान्याह- अप्रसिद्धासभ्यं गुप्तम् ॥ १६ ॥ अप्रसिद्धासभ्यार्थान्तरं पैदमप्रसिद्धासभ्यम् । तद्गुप्तम् । यथा-'संबाधः' इति पदम् । तद्धि संकटार्थ प्रसिद्धम् , न गुह्यार्थरि लाक्षणिकासभ्यान्वितं लक्षितम् ॥ १७ ॥ तदेवासभ्यार्थान्तरं लाक्षणिकेनासभ्येनार्थेनान्वितं पदं लक्षितम् । यथा-'जन्मभूमिः' इति । तद्धि लक्षणया गुह्यार्थम् , न खशक्त्येति । लोकसंवीतं संवृतम् ॥ १८ ॥ लोकेन संवीतं लोकसंवीतं यत्तत्संवृतम् । यथा-'सुभगा' 'भरि 'उपस्थानम्' 'अभिप्रेतम्' 'कुमारी' 'दोहदम्' इति । अत्र हि श्लोकः-- 'संवीतस्य हि लोकेन न दोषान्वेषणं क्षमम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥' तवैविध्यम् । ब्रीडाजुगुप्सामङ्गलातकदायिभेदात् ।। १९ ॥ तस्याश्लीलस्य त्रैविध्यं भवति । ब्रीडाजुगुप्सामङ्गलातङ्कदार भेदात् । किंचिद्रीडादायि भवति । यथा--'वाक्चाटवम्' 'हिरण्यरे इति । किंचिज्जुगुप्सादायि भवति । यथा-'कपर्दकः' इति । किंचिदम लातङ्कदायि भवेति । यथा-'संस्थितः' इति । व्यवहितार्थप्रत्ययं क्लिष्टम् ॥ २० ॥ १. 'संवृत्तं लक्षितं ना' क. २. 'गुप्तं पदं यथा' ख. ३. 'प्रसिद्धसंकटार्थम् । ४. 'लाक्षणिकासभ्यं' क. ५. सभ्यार्थान्तरलाक्ष-' ख. ६. 'लोकसंवीतमनुज्ञातं सं तम् । यथा' क. ७. 'हि' ख-पुस्तके नास्ति, ८. 'कृतम्' क. ९. 'भवति' क-पुरु नास्ति. १० 'संस्थितम्' ख.

- २ अधि० १ अ०] काव्यालंकारसूत्राणि । १७ अर्थस्य प्रतीतिरर्थप्रत्ययः । स व्यवहितो यस्माद्भवति तदव्यवहि- तार्थप्रत्ययं क्लिष्टम् । यथा--- 'दक्षात्मजादयितवल्लभवेदिकानां ज्योल्लाजुषां जललवास्तरलं पतन्ति ।' दक्षात्मजास्ताराः । तासां दयितो दक्षात्मजादयितश्चन्द्रः । तस्य ब- ल्लभाश्चन्द्रकान्ताः । तद्वेदिकानामिति । अत्र हि व्यवधानेनार्थप्रत्ययः । अरूढार्थत्वात् ॥ २१॥ अरूढार्थत्वेऽपि यतोऽर्थप्रत्ययो झटिति न, तक्लिष्टम् । यथा- 'काञ्चीगुणस्थानमनिन्दितायाः' इति । अन्त्याभ्यां वाक्यं व्याख्यातम् ॥ २२ ॥ अश्लील क्लिष्टं चेत्यन्त्ये पदे । ताभ्यां वाक्यं व्याख्यातम् । तदप्य- श्लील क्लिष्टं च भवति । अश्लीलं यथा- 'न सा धनोन्नतिर्या स्यात्कलत्रसुखदायिनी ।' 'परार्थबद्धकक्षाणां यत्सत्यं पेलवं धनम् ॥' 'सोपानपथमुत्सृज्य वायुवेगसमुंद्धतम् । महापथेन गतवान्कीर्त्यमानगुणो जनैः ॥' क्लिष्टं यथा- 'धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥' एतान्पंञ्च पदार्थदोषान्विभक्ताज्ञात्वा कविस्त्यजेदिति तात्पर्यार्थः । इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे प्रथमोऽध्यायः । पदपदार्थदोषविभागः। १. 'च अन्त्ये ख. २. 'रतिदायिनी' क-ग. ३. 'समुद्धतः' क-ग. ४. 'पदपदार्थ' का 'एतान्यपि च पदपदार्थ' ग. काव्या. सू०३ काव्यमाला .. - द्वितीयोऽध्यायः। इदानीं वाक्यदोषान्दर्शयितुमाह- मिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि ॥१॥ दुष्टानीत्यभिसंबन्धः । क्रमेण व्याचष्टे- खलक्षणच्युतवृत्तं भिन्नवृत्तम् ॥ २॥ खस्माल्लक्षणाच्युतं वृत्तं यस्मिंस्तत्वलक्षणच्युतवृत्तं वाक्यं भिन्न- तम् । यथा-'अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ।' वैतालीययुग्मपादे लघ्वक्षराणां षण्णां नैरन्तर्य निषिद्धम् । तच्च कृतमिति भिन्नवृत्तत्वम् । विरसविरामं यतिभ्रष्टम् ॥३॥ विरसः श्रुतिकटुर्विरामो यस्मिंस्तद्विरसविरामं यतिभ्रष्टम् । तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण ॥ ४ ॥ तद्यतिभ्रष्टं धातुभागभेदे नामभागभेदे च सति भवति । खरसंधिना- ऽकृते प्रायेण बाहुल्येन । धातुभागभेदे मन्दाक्रान्तायां यथा -एतासां राजति सुमनसां दाम कण्ठावलम्बि ।' नामभागभेदे शिखरिण्यां यथा-'कुरङ्गाक्षीणां गण्डतलफलके खेद- विसरः । मन्दाक्रान्तायां यथा-'दुर्दर्शश्चक्रशिखिकपिशः शाङ्गिणो बाहुदण्डः ।' धातुनामभागपदग्रहणात्तद्भागातिरिक्तभेदे न भवति यतिभ्रष्टत्वम् । यथा मन्दाक्रान्तायाम्-'शोभा पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधः ।' शिखरिण्यां यथा-'विनिद्रः श्यामान्तेष्वधरपुटसीत्कारविरुतैः ।' १. 'पदपदार्थदोषान्प्रतिपाद्य इदानीं- क. २. 'इति संबन्धः' ग. ३. 'मन्दाका- न्तायां' क-ग-पुस्तकयो स्ति. ४. 'यथा शिखरिण्याम्' ग. ५. 'मन्दाक्रान्तायां' क-ग-पुस्तकयो स्ति. ६. 'मन्दाक्रान्तायां यथा' क-पुस्तके नास्ति. ७. अस्मादग्रे ख-पुस्तके "अन्ये तु पदान्त एव प्रतिसिध्यन्ति पदं च विभक्त्यन्तम् । यथा-'निकामं क्षामाजी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी । अवस्था- मापन्ना मदनदहनोद्दामविधुरा प्रियं नः कल्याणी रमयति मनः कम्पयति च ॥" इत्य- धिकमस्ति. ८. 'शिखरिण्यां यथा' क-पुस्तके नास्ति. ९. 'चीत्कार' क-ग. , २ अधि० २ अ०] काव्यालंकारसूत्राणि । १९ खरसंध्यकृत इति वचनात्वरसंधिकृते. भेदे न दोषः । यथा--'किं- चिद्भावालसमसरलं प्रेक्षितं सुन्दरीणाम् ।' न वृत्तदोषात्पृथग्यतिदोषः । वृत्तस्य यत्यात्मकलात् ॥५॥ वृत्तदोषात्पृथग्यतिदोषो न वक्तव्यः । वृत्तस्य यत्यात्मकत्वात् । यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भावान्न पृथ- ग्ग्रहणं कार्यमत आह- न, लक्ष्मणः पृथक्खात् ॥ ६ ॥ नायं दोषः । लक्ष्मणो लक्षणस्य पृथक्त्वात् । अन्यद्धि लक्षणं वृत्तस्य, अन्यद्यतेः । गुरुलघुनियमात्मकं वृत्तम् । विरामात्मिका चै यतिरिति । विरूपपदसंधिर्विसंधिः ॥७॥ पदानां संधिः पदसंधिः । स च खरसमवायरूपः प्रत्यासत्तिमात्ररूपो वा स विरूपो यस्मिन्निति विग्रहः । पदसंधिवैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च ॥ ८॥ विश्लेषो विभागेन पदानां संस्थितिरिति । अश्लीलत्वमसभ्यस्मृति- हेतुत्वम् । कष्टत्वं पारुष्यमिति । विश्लेषो यथा- 'मेघानिलेन अमुना एतस्मिन्नद्रिकानने ।' 'कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः ।' 'लोलालकानुबद्धानि आननानि चकासति ।' अश्लीलत्वं यथा- 'विरेचकमिदं नृत्तमाचार्याभासयोजितम् ।' 'चकासे पनसप्रायैः पुरी षण्डमहाद्रुमैः ।' 'विनाशपथदानाभ्यां पदवादसमुत्लुकम् ।' कष्टत्वं यथा--'मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा द्रुमा बभुः ।' - -- १. 'विलक्षणं' क-ख. २. 'नियामकं' ख..३. 'च' ग-पुस्तके नास्ति. ४. 'इति' ग-पुस्तके नास्ति. ५. 'पद्धतिम्' क. ६. 'अश्लीलं च' का 'अश्लीलं' ग.. ७. 'वृत्त- माचार्याभ्यास-ख. ८. 'खण्ड' क-ग.. ९. 'विनाशपथदीनायां यदवादयदुत्सुकम्' का 'विनाशपथदानायदधारयदुत्सुकम्' ग. १०. 'गुरुभोगा' क.

२० काव्यमाला। एवं वाक्यदोषानभिधाय वाक्यार्थदोषान्प्रतिपादयितुमाह- व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्याविरुद्धानि च ॥९॥ वाक्यानि दुष्टानीति संबन्धः । क्रमेण व्याख्यातुमाह व्याहतपूर्वोत्तरार्थ व्यर्थम् ॥ १० ॥ व्याहतौ पूर्वोत्तरावर्षी यसिस्तव्याहतपूर्वोत्तरार्थं वाक्यं व्यर्थम् । यथा-'अद्यापि स्मरति सालसं मनो मे मुग्धायाः सरचतुराणि चे- ष्टितानि ।' मुंग्धायाः कथं सरचतुराणि चेष्टितानि । तानि चेत्कथं मुग्धा । अंत्र पूर्वोत्तरयोरर्थयोर्विरोधाव्यर्थमिति । उक्तार्थपदमेकार्थम् ॥ ११॥ उक्तार्थानि पदानि यसिंस्तदुक्तार्थपदमेकार्थम् । यथा-'चिन्तामो- हमनङ्गमङ्ग तनुते "विप्रेक्षितं सुभ्रवः ।' अनङ्गः शृङ्गारः । तस्य चिन्ताया मोहात्मकत्वाच्चिन्तामोहशब्दौ प्रयुक्तावुक्तार्थों भवतः । एकार्थपदत्वाद्वा- क्यमेकार्थमित्युक्तम् । न, विशेषश्चेत् ॥ १२॥ न गतार्थ दुष्टम् विशेषश्चेत्प्रतिपाद्यः स्यात् । तं विशेष प्रतिपादयितुमाह- धनुया॑ध्वनौ धनुःश्रुतिरारुढेः प्रतिपत्त्यै ॥ १३ ॥ धनुाध्वनावित्यत्र ज्याशब्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते । आरूढेः प्रतिपत्त्यै आरोहणस्य प्रतिपत्त्यर्थम् । नहि धनुःश्रुतिमन्तरेण धनुष्यारूढा ज्या धनुर्येति शक्यं प्रतिपत्तुम् । यथा--'धनुर्व्याकिण- चिहेन दोष्णा विस्फुरितं तव' इति । १. 'निरूपयितुं' क. २. 'प्रयुक्तार्थापक्रम' ग. ३. 'विरुद्धाविरुद्धानि' ग. ४. 'च' ख-पुस्तके नास्ति. ५. 'पूर्वोत्तरार्थों ख. ६. 'वाक्यं' क-ग-पुस्तकयो स्ति. ७. 'रसो. लसत्' ख. ८. 'मुग्धा चेत्' ग. ९. 'अत्र' क-ख-पुस्तकयो स्ति. १० 'विश्लेषितं' ख. ११. 'चिन्तामोहाद्यात्मकलात्' का 'चिन्तामोहात्मकलात्' ग. १२. 'दुष्टं पदं' ख. १३. 'धनुःप्रतीतिरारूढे प्रतिपत्ती' क.

२ अधि० २ अ०] काव्यालंकारसूत्राणि । २१ कर्णावतंसश्रवणकुण्डलशिरशेखरेषु कर्णादिनिर्देशः संनिधेः १४ कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदैरुक्तार्थानामपि निर्देशः संनिधेः प्रतिपत्त्यर्थमिति संबन्धः । नहि कर्णादिशब्दनिर्देशमन्तरेण कर्णादिसंनिहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति । यथा- 'दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।' 'लीलाचलच्छ्रवणकुण्डलमापतन्ति ।' 'आययुभृङ्गमुखरशिरःशेखरशालिनः ।' मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः ॥ १५ ॥ मुक्ताहारशब्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यते शुद्धेः प्रतिपत्त्यर्थमिति संबन्धः । शुद्धानामन्यरनैरेमिश्रितानां हारो मुक्ताहारः । यथा- 'प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥' पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य ॥ १६ ॥ पुष्पमालाशब्दे मालाशब्देनैव गतार्थ पुष्पपदं प्रयुज्यते उत्कर्षस्य प्रति- पत्त्यर्थमिति । उत्कृष्टानां पुष्पाणां माला पुष्पमालेति । यथा-'प्रायशः पुष्पमालेव कन्या सा कं न लोभयेत् ।' ननु मालाशब्दोऽन्यत्रापि दृश्यते यथा रत्नमाला शब्दमालेति सत्यम् । उपचरितस्य प्रयोगः । निरुपपदो हि मालाशब्दः पुष्परचनाविशेषमेवी भिधत्त इति । करिकलभशब्दे करिशब्दरतादूप्यस्य ॥ १७ ॥ करिकलभशब्दे करिशब्दः कलमेनैव गतार्थः प्रयुज्यते ताप्यस्य १. 'अपि' ख-ग-पुस्तकयो स्ति. २. 'कर्तुमिति' खग-पुस्तकयो स्ति. ३. 'मु- खराः' ख-ग. ४. 'शायिनः' ग. ५. 'अमिश्राणां' क. ६. 'स्तनद्वयी' क. ७. 'पुष्प- शब्दः' क. ८. 'कन्यका कं' ख-ग. ९. 'पुष्पमालारचना' ख. १०. 'एव' ख-ग- पुस्तकयो स्ति. ११. 'तान्प्यस्थ प्रतिपत्त्यर्थम् ख.

२२ काव्यमाला। 7- प्रतिपत्त्यर्थमिति । करी प्रौढकुञ्जरः । तद्रूपः कलभः करिकलभ इति । यथा- 'त्यज करिकलंभ त्वं प्रीतिबन्धं करिण्याः ।' विशेषणस्य च ॥ १८॥ विशेषणस्य विशेषप्रतिपत्त्यर्थमुक्तार्थस्य पैदस्य प्रयोगः । यथा- 'जगाद मधुरां वाचं विशदाक्षरशालिनीम् ।' तदिदं प्रयुक्तेषु ॥ १९॥ तदिदमुक्तं प्रयुक्तेपु नाप्रयुक्ते । नहि भवति यथा 'श्रवणकुण्ड- लम्' इति तथा 'नितम्बकाञ्ची' इत्यपि । यथा वा 'करिकलभः' इति तथा "उष्ट्रकलभः' इत्यपि । - अत्र श्लोकः- - 'कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिधानादिबोधार्थ स्थितेष्वेतत्समर्थनम् ॥' संशयकृत्संदिग्धम् ॥ २०॥ यद्वाक्यं साधारणानां धर्माणां श्रुतेः, विशिष्टानां वा श्रुतेः संशयं करोति तत्संशयकृत्संदिग्धमिति । यथा-'स महात्मा भाग्यवशान्महापदमुपागतः ।' किं भाग्यवशान्महापदमुपागत आहोखिदभाग्यवशान्महतीमापदमिति संशयकद्वाक्यं प्रकरणाद्यभावे सतीति । मायादिकल्पितार्थमप्रयुक्तम् ॥ २१ ॥ मायादिना कल्पितोऽर्थों यस्मिंस्तन्मायादिकल्पितार्थमप्रयुक्तम् । अत्र स्तोकमुदाहरणम् । क्रमहीनार्थमपक्रमम् ॥ २२ ॥ १. 'करिणः प्रौढकुञ्जराः' क. २. 'इति' क-पुस्तके नास्ति. ३. 'शब्दस्य क. ४. 'मालिनीम्' क. ५. 'वा' ख-पुस्तके नास्ति. ६. 'चाश्रुतेः' क; 'च श्रुतेः' ग. ७. 'इति' ख-पुस्तके नास्ति. ८. 'आपदमुपागत' इति क. ९. 'इति' ग-पुस्तके नास्ति. १०. 'अस्तोकं' का 'श्लोक' ग.

२ अधि० २ अ०] काव्यालंकारसूत्राणि । २१ उद्देशितानामनुदेशितानां च क्रमः संबन्धस्तेन विहीनोऽर्थों यस्मिंस्त- क्रमहीनार्थमपक्रमम् । यथा-'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ।' अत्र कीर्तिश्चन्द्रमसस्तुल्या प्रतापः सूर्यस्य तुल्यः । सूर्यस्य पूर्वनिपा- तादपक्रमः । अथवा प्रधानार्थस्य निर्देशः क्रमः । तेन विहीनोऽर्थों य- मिंस्तदपक्रमम् । यथा-'तुरंगमथ मातङ्गं प्रयच्छास्मै मदालसम् ।' देशकालखभावविरुद्धार्थानि लोकविरुद्धानि ॥ २३ ॥ देशकालखभावैर्विरुद्धोऽर्थो येषु तानि देशकालखभावविरुद्धार्थानि वाक्यानि लोकविरुद्धानि । अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् । दे- शविरुद्धं यथा- 'सौवीरेष्वस्ति नगरी मथुरा नाम विश्रुता । अक्षोटनालिकेराढ्या यस्याः पर्यन्तभूमयः ॥' कालविरुद्धं यथा-'कदम्बकुसुमस्मेरं मधौ वनमशोभत ।' खभावविरुद्धं यथा-'मत्तालिसङ्गमुखरासु च मञ्जरीषु सप्तच्छदस्य तर- तीव शरन्मुखश्रीः । सप्तच्छदस्य स्तबका भवन्ति न मञ्जर्य इति स्वभावविरुद्धम् । तथा- - ... 'भृङ्गेण कलिकाकोषस्तथा भृशमपीड्यत । यथा गोष्पदपूरं हि ववर्ष बहुलं मधु ।' कलिकायाः सर्वस्या मकरन्दस्यैतावबाहुल्यं स्वभावविरुद्धम् । . १. 'उद्देशिनामनुद्देशिनां' क. २. 'हीनो' क. ३. 'अत्र' इत्यारभ्य 'अपक्रमः' इ- तिपर्यन्तं क-पुस्तके, 'अत्र' इत्यारभ्य 'यथा' इतिपर्यन्तं च ग-पुस्तके नास्त्रि. ४. 'मे प्रयच्छ ग. ५. 'विरुद्धार्थत्वं' क. ६. 'नालिकेराका' का 'नालिकेराद्या' ख. ७. 'वि- रद्धार्थ' क. ८. 'विरुद्धार्थ क. ९. 'इति स्वभाव विरोधः । यथा' क; 'इति । ख- भावविरुद्धं यथा ।' ख. १०. 'संधावपीज्यत' क. ११. 'कलिकाकोषस्य मकरन्दस्यैव तावत्' क..

२४ काव्यमाला । कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ॥ २४ ॥ कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थों येषु तानि कैलाचतुर्वर्गशास्त्र- विरुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थद्वारकः । कलाशास्त्रविरुद्धं यथा- 'कालिङ्ग लिखितमिदं वयस्य पत्रं पत्र - रपतितकोटिकण्टकाग्रम्' । कालिङ्गं पतिताकोटिकण्टकमिति पत्रविदामाम्नायः । तद्विरुद्धत्वा- कलाशास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः । चतुर्वर्गशास्त्रविरुद्धानि तूंदाहियन्ते- 'कामोपभोगसाफल्यफलो राज्ञां महीजयः।' धर्मफलोऽश्वमेधादियज्ञफलो वा राज्ञां महीजय इत्यागमः । तद्विरोधा- द्धर्मशास्त्रविरुद्धार्थमेतद्वाक्यमिति । 'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ।' द्विषज्जयस्य नयमूलत्वं स्थितं दण्डनीतौ । तद्विरोधादर्थशास्त्रविरुद्धार्थ वाक्यमिति । 'दशनाङ्कपवित्रितोत्तरोष्ठं रतिखेदालसमाननं स्मरामि ।' 'उत्तरोष्ठमन्तर्मुखं नयनान्तमिति" मुक्त्वा चुम्बननखरदशनस्थानानि' इति कामशास्त्रे स्थितम् । तद्विरोधात्कामशास्त्रविरुद्धार्थ वाक्यमिति । 'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा ।' एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात्तद्विरुद्धार्थम् । १. 'विरुद्धानि' ख. २. 'विरुद्धार्थो ख. ३. 'कलाविरुद्धचतुर्वर्ग' ख. ४. 'विरु- द्धानि विद्या-'ख. ५. 'च यस्य' ख. ६. 'कण्टकत्रि' क. ७. 'कोटि' क-पुस्तके नास्ति. ८. 'तद्विरोधात्' क. ९. विरुद्धवम्' क. १०. 'अस्यूह्य' ख; 'अभ्युपेयः' ग. ११. 'तु' क-पुस्तके नास्ति. १२. 'विरुद्धमेतद्वाक्यम्' क; 'विरुद्धं वाक्यम्' ग. १३. 'विरुद्धलम्' क; 'विरुद्धम्' ग, १४. 'वाक्यमिति' क-ग-पुस्तकयो स्ति. १५. 'इति' ग-पुस्तके नास्ति. १६. 'कामशास्त्रसूत्रे' ख. १७. 'देवताज्ञानतो' ख.

३ अधि १ अ०] काव्यालंकारसूत्राणि । २५ एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वन्ये शब्दार्थ- दोषाः सूक्ष्मास्ते गुणविवेचन एवोच्यन्ते । उपमादोषाश्चोमाविचार इति । इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे द्वितीयोऽध्यायः । वाक्यवाक्यार्थदोषविभागः। समाप्तं चेदं दोषदर्शनं द्वितीयमधिकरणम् । - MA - गुणविवेचनं नाम तृतीयमधिकरणम् । प्रथमोऽध्यायः। यद्विपर्ययात्मनो दोषास्तान्गुणान्विचारयितुं गुणविवेचनमधिकरणमा- रभ्यते- तत्रौजःप्रसादादयो गुणाः, यमकोपमादयस्त्वलंकारा इति स्थितिः का- व्यविदाम् । तेषां किं भेदनिबन्धनमित्याह काव्यशोभायाः कर्तारो धर्मा गुणाः ॥१॥ ये खलु शब्दार्थयोधर्माः काव्यशोभां कुर्वन्ति ते गुणाः । ते चौजः- प्रसादादयः । न यमकोपमादयः । कैवल्येन तेषामकाव्यशोभाकरत्वात् । ओजाप्रसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति । तदतिशयहेतवस्खलंकाराः ॥२॥ तस्याः काव्यशोभाया अतिशयस्तदेतिशयस्तस्य हेतवः । तुशब्दो व्यतिरेके । अलंकाराश्च यमकोपमादयः। अत्र श्लोको- 'युवतेरिव रूपमङ्ग काव्यं खदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः ॥ 'यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः । अपि जनदयितानि दुर्भगत्वं नियतमलकरणानि संश्रयन्ते ॥ १. 'अन्ये च ये' ग. २. 'शब्दार्थयोः' क. ३. 'वक्ष्यन्ते' ख. ४. 'च' ख-पुस्तके नास्ति. ५. 'इति' ख-पुस्तके नास्ति. ६. 'वाक्यशब्दार्थदोष' क. ७. 'विवेचनाधि- करणं' क. ८. 'धर्मगुणाः' ख. ९. 'शब्दार्थधर्माः' क. १०. 'अस्ति' ख-पुस्तके नास्ति. ११. 'कारित्वं ग. १२. 'तदतिशयः' क-पुस्तके नास्ति. १३. 'वाक्यं' क.

२६ काव्यमाला। - a पूर्वे नित्याः ॥३॥ पूर्व गुणा नित्याः । तैर्विना काव्यशोभानुपपत्तेः । एवं गुणालंकाराणां भेदं दर्शयित्वा शब्दगुणनिरूपणार्थमाह- ओज प्रसाद श्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिका- न्तयो बन्धगुणाः ॥४॥ बन्धः पदरचना । तस्य गुणा बन्धगुणा ओजःप्रभृतयः । तान्क्रमेण दर्शयितुमाह- गाढवन्धत्वमोजः ॥५॥ बन्धस्य गाढत्वं यत्तदोजः। यथा--विलुलितमकरन्दा मञ्जरीनर्तयन्ति ।' न पुनः, 'विलुलितमै - धुधारा मञ्जरीलॊलयन्ति । शैथिल्यं प्रसादः ॥ ६॥ बन्धस्य शैथिल्यं शिथिलत्वं प्रसादः । नन्वयमोजोविपर्ययात्मा दोषः, तत्कथं गुण इत्याह गुणः संप्लवात् ॥ ७ ॥ गुणः प्रसादः । ओजसा सह संप्लवात् । शुद्धः ॥८॥ से शुद्धस्तु दोष एवेति । ननु विरुद्धयोरोजःप्रसादयोः कथं संप्लव इत्याह- स त्वनुभवसिद्धः ॥९॥ स तुः संप्लवस्त्वनुभवसिद्धः तद्विदां रत्नादिविशेषवत् । ने . अत्र श्लोकः 'करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः । यथानुभवतः सिद्धस्तथैवोजःप्रसादयोः । १. 'पूर्वे खलु' ख; 'पूर्वे ते' ग. २. 'नर्तयन्तः' क. ३. 'मधुधारां मञ्जरी' ग. ४. . 'प्रसादः ख-पुस्तके नास्ति. ५. एतत्सूत्रं ख-पुस्तके वृत्तिमध्ये न्यस्तम् , क- पुस्तके च त्रुटितम् . ६. 'संशुद्धस्तु' का 'शुद्धस्तु' ग. ७. 'करुणा' ख.

३ अधि० १ अ०] काव्यालंकारसूत्राणि । २७ साम्योत्कर्षों च ॥१०॥ साम्यमुत्कर्षश्चौजःप्रसादयोरेव । साम्यं यथा-'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपति ककुदं दत्त्वा यूने सितातपवारणम् ।' क्वचिदोजः प्रसादादुत्कृष्टम् । यथा-'व्रजति गगनं भल्लातक्याः फलेन सहोपमाम् ।' क्वचिदोजसः प्रसादस्योत्कर्षः । यथा-'कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः।' मसृणत्वं श्लेषः ॥११॥ मसृणत्वं नाम यस्मिन्सति बहून्यपि पदान्येकवद्भासन्ते । यथा—'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधि- राजः ।' न पुनः, 'सूत्रं ब्राह्ममुरःस्थले-', 'भ्रमरीवल्गुगीतयः', 'तडित्क- लिलमाकाशं' इति । एवं तु श्लेषो भवति–'ब्राह्मं सूत्रमुरःस्थले', 'भ्र- मरीम गीतयः', 'तडिजटिलमाकाशं' इति । मार्गाभेदः समता ॥ १२॥ मार्गस्याभेदो मार्गाभेदः समता । येन मार्गेणोपक्रमस्तस्यात्याग इ- त्यर्थः । श्लोके प्रबन्धे चेति । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा- 'प्रसीद चण्डि त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः । किमर्थमुत्कम्पितपीवरस्तनद्वयं त्वया लुप्तविलासमास्यते ।।' ऑरोहावरोहक्रमः समाधिः ॥ १३ ॥ आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आ- रोहस्यावरोहे सति परिहारः, अवरोहस्य वारोहे सतीति । तत्रारोहपूर्वोऽवरोहो यथा-'निरानन्दः कौन्दे मधुनि परिभुक्तोज्झि- तरसे ।' अवरोहपूर्वस्त्वारोहो यथा-'नराः शीलभ्रष्टा व्यसन इव म- जन्ति तरवः । १. 'यथा' क-ग-पुस्तकयो स्ति. २. 'यथा' ख-ग-पुस्तकयो स्ति. ३. 'मार्गाभेदः' ख-पुस्तके नास्ति. ४. 'तथायं' क. ५. 'आरोहावरोहयोः क्रमः'.ख. ६. 'पूर्वको' ख.

२८ काव्यमाला। आरोहस्य क्रमोऽवरोहस्य च क्रम आरोहावरोहक्रमः क्रमेणारोहण- मवरोहणं चेति केचित् । यथा --'निवेशः खःसिन्धोस्तुहिनगिरिवीथीषु जयति ।' न पृथक, आरोहावरोहयोरोजाप्रसादरूपत्वात् ॥ १४ ॥ न पृथक्समाधिर्गुणः। आरोहावरोहयोरोजःप्रसादरूपत्वात् । ओ. जोरूपश्चोरोहः प्रसादरूपश्चावरोह इति । न, संपृक्तखात् ।। १५ ॥ यदुक्तमोजःप्रसादरूपत्वमारोहावरोहयोस्तन्न । संपृक्तत्वात् । संपृक्तौ खल्योजःप्रसादौ नंदीवेणिकावद्वहतः । अनैकान्त्याच ॥ १६॥ न चायमेकान्तः यदोजस्यारोहः, प्रसादे चोवरोह इति । ओजःप्रसादयोः कचिद्भागे तीव्रावस्थायां ताविति चेदभ्युप- गमः ॥१७॥ ओजःप्रसादयोः क्वचिद्भागे तीव्रावस्थायामारोहोऽवरोहश्चेत्येवं चेन्म- न्यसे अभ्युपगमः, न विप्रतिपत्तिः । विशेषापेक्षवात्तयोः ॥ १८ ॥ स विशेषो गुणान्तरात्मा । आरोहावरोहनिमित्तं समाधिराख्यायते ॥ १९ ॥ आरोहावरोहक्रमः समाधिरिति गौण्या वृत्त्या व्याख्येयम् । जमविधानार्थत्वाद्वा ॥ २० ॥ पृथक्करणमिति । पाठधर्मत्वं च न संभवतीति 'न पाठधर्माः सर्वत्रा- दृष्टेः' इत्यत्र वक्ष्यामः । पृथक्पदत्वं माधुर्यम् ॥ २१ ॥ १. 'आरोहस्य च' स. २. 'च' ग-पुस्तके नास्ति. ३. 'तु' ग. ४. 'नदीवेणिकासं- गममुद्वहतः' ग. ५. 'वा' क-ग. ६. 'ओजःप्रसादयोस्तीवावस्थासाविति' ख. ७. 'इ- त्याख्यायते' क. ८. क-ग-पुस्तकयोः 'क्रम विधानार्थवाद्वा' इति वृत्तिमध्य एव नि- क्षिप्तम् . ९. 'इत्येवं' ख-ग.

३ अधि० १ अ०] काव्यालंकारसूत्राणि । ૨૬ बन्धस्य पृथक्पदत्वं यत्तन्माधुर्यम् । पृथक् पदानि यस्य स पृथक्पदः तस्य भावः पृथक्पदत्वम् । समासदैर्ग्यविनिवृत्तिपरं चैतत् । पूर्वोक्तमुदा- हरणम् । विपर्ययस्तु यथा-'चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराह- व्याकुला विन्ध्यपादाः । अजरठत्वं सौकुमार्यम् ॥ २२ ॥ बन्धस्याजरठत्वमपारुष्यं यत्तत्सौकुमार्यम् । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा-निदानं निद्वैतं प्रियजनसैदृक्त्वव्यवसितिः सुधासे- कप्लोषौ फलमपि विरुद्धं मम हृदि ।' विकटखमुदारता ॥ २३ ॥ बन्धस्य विकटत्वं यदसावुदारता । यस्मिन्सति नृत्यन्तीव पदानीति जनस्य वर्णना भवति तद्विकटत्वम् । लीलायमानत्वमित्यर्थः । यथा- 'खचरणविनिविष्टैर्नपुरैर्नर्तकीनां झटिति रणितमासीत्तत्र चित्रं कलं च ।' न पुनः, 'चरणकमललेग्नैपुरैर्नर्तकीनां इंटिति रणितमासीन्मञ्ज चित्रं च तत्र।' अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ॥ २४ ॥ यत्र बॅटित्यर्थप्रतिपत्तिहेतुत्वं स गुणोऽर्थव्यक्तिरिति । पूर्वोक्तमुदाह- रणम् । प्रत्युदाहरणं तु भूयः सुलभं च । औज्वल्यं कान्तिः ॥ २५ ॥ बन्धस्योज्वलत्वं नाम यदसौ कान्तिरिति । यदभावे पुराणच्छाये- त्युच्यते । यथा-'कुरङ्गीनेत्रालीस्तबकितवनालीपरिसरः ।' विपर्ययस्तु भूया- न्सुलभश्च । १. 'अपरुषत्व' क. २ 'पृथक्त्वव्यवसितं सुधासेकालावौ' क. ३. 'प्लोषैः' ख. ४. 'यत्सा' क, 'यदेषा' ग. ५. 'इति' ख-पुस्तके नास्ति. ६. 'वर्णभावना' ख. ७. 'तद्धि विकटवम्' क. ८. 'झणिति' क, 'झगिति' ग. ९. 'युक्तैः' ख. १०. 'झ- गिति' क-ग. ११. 'झगिति' क-ग. १२. 'च भूयः सुलभ' ख. १३. 'पुराणी' क. १४. 'च' क. काव्या० सू०४ काव्यमाला। श्लोकाश्चात्र भवन्ति- 'पदन्यासस्य गाढत्वं वदन्त्योजः कवीश्वराः । अनेनाधिष्ठिताः प्रायः शब्दाः श्रोत्ररसायनम् ।। श्लथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते । अनेन न विना सत्यं वदते काव्यपद्धतिः ॥ यत्रैकपदवद्भावः पदानां भूयसामपि । अनालक्षितसंधीनां स श्लेषः परमो गुणः ।। प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः । दुर्बन्धो दुर्विभावश्च समतेति मतो गुणः ॥ आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत् । समाधिर्नाम स गुणस्तेन पूता सरस्वती ॥ बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः । अनेन हि पदन्यासाः कामं धारामधुश्च्युतः ।। यथा हि च्छिद्यते रेखा चतुरं चित्रपण्डितैः । तथैव वागपि प्राज्ञैः समस्तगुणगुम्फिता ।' बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् । एतेन वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥ विकटत्वं च बन्धस्य कथयन्ति युदारताम् । वैचित्र्यं न प्रपद्यन्ते यया शून्याः पदक्रमाः ॥ पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः । यत्रार्थव्यक्तिहेतुत्वात्सोऽर्थव्यक्तिः स्मृतो गुणः ।। औज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः । पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः॥ नासन्तः, सद्वेद्यखात् ॥ २६ ॥ १. 'पदपद्धतिः' क. २. न्यासः' ख. ३. 'मधुच्युताः' क. ४. 'विच्छियते' क. ५. 'पदविप्लुता' क. ६. 'रौक्षत्वान ऋतिक्षमाः' क. ७. 'च' ख-पुस्तके नास्ति. ८. 'यथा' ख. ९. 'विपश्चितः' क.

- ने ३ अधि० २ अ०] काव्यालंकारसूत्राणि । ३१ न खत्वेते गुणा असन्तः । सद्वेद्यत्वात् । तद्विदां संवेद्यत्वेऽपि भ्रान्ताः स्युरित्याह- भ्रान्ताः निष्कम्पखात् ॥ २७॥ न गुणा प्रान्ताः । एतद्विषयायाः प्रवृत्तेनिकम्पत्वात् । न पाठधर्माः, सर्वत्रादृष्टेः ॥ २८ ॥ नैते गुणाः पाठधर्माः । सर्वत्रादृष्टेः । यदि पाठधर्माः स्युस्तर्हि विशे- पानपेक्षाः सन्तः सर्वत्र दृश्येरन् । न च सर्वत्र दृश्यन्ते । विशेषापे- क्षया विशेषाणां गुणत्वाद्गुणाभ्युपगम एवेति । इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे प्रथमोऽध्यायः । गुणालंकारविवेकः शब्दगुणविवेकश्च । . - M द्वितीयोऽध्यायः । संप्रत्यर्थगुणविवेचनार्थमाह- त एवार्थगुणाः ॥१॥ त एवौजःप्रभृतयोऽर्थगुणाः । शब्दार्थगुणानां वाच्यवाचकद्वारेण भेदं दर्शयति- अर्थस्य प्रौढिरोजः ॥२॥ अर्थस्याभिधेयस्य प्रौढिः प्रौढित्वमोजः । 'पदार्थे वाक्यवेचनं वाक्यार्थे च पदाभिधा । प्रौढिाससमासौ च साभिप्रायत्वमस्य च ॥' पदार्थे वाक्यवचनं यथा--'अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः ।' अत्र चन्द्रपदवाच्येऽर्थे 'नयनसमुत्थं ज्योतिरत्रेः' इति वाक्यं प्रयु- तम् । पदसमूहश्च वाक्यमभिप्रेतम् । अनया दिशान्यदपि द्रष्टव्यम् । १. 'संवेद्यखात्' क. २. 'संवेद्यत्वे' क. ३. 'निभ्रान्ताः' क-ख. ४. 'निष्क्रम्य- खात्' ग. ५. 'तर्हि' क-ग-पुस्तकयो स्ति. 'विवेचनं क. ७. 'एवौजाप्रसाद' ख... प्रौढत्वं यत्तदोजः' ग..९. 'रचन' क. १०, 'रचनं' ख..

काव्यमाला। तद्यथा- 'पुरःपाण्डुच्छायं तदनु कपिलिन्ना कृतपदं ततः पाकोत्सेकादरुणगुणसंसर्गितवपुः । शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरमरसत्वं कलयति ॥' न चैवमतिप्रसङ्गः । काव्यशोभाकरत्वस्य गुणसामान्यलक्षणस्याव- स्थितत्वात्। वाक्यार्थे पदाभिधानं यथा-'दिव्येयं न भवति किं तु मानुषी' इति वक्तव्ये 'निमिषति' इत्याहेति । अस्य वाक्यार्थस्य व्याससमासौं । व्यासो यथा- 'अयं नानाकारो भवति सुखदुःखव्यतिकरः सुखं वा दुःखं वा भवति न भवत्येव च ततः । पुनस्तस्मादूर्ध्वं भवति सुखदुःखं किमपि त- पुनस्तस्मादूचं भवति ने च दुःखं न च सुखम् ॥' समासो यथा- 'ते हिमालयमामय पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ।। साभिप्रायत्वं यथा-'सोऽयं संपति चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा जातो भूपतिराश्रयः कृतधियां दिल्या कृतार्थश्रमः ।' आश्रयः कृतधियामित्यस्य च सुबन्धुसाचिव्योपक्षेपपरत्वात्साभि- प्रायत्वम् । एनेन, 'रतिविगलितबन्धे केशपाशे सुकेश्याः' इत्यत्र सुकेश्या इत्यस्य च साभिप्रायत्वं व्याख्यातम् । १ 'प्रायं' क. २. 'पाकोत्सेधादरुणमणि' ख. ३. 'शेषारम्भे' ४. 'बीजामोदं' ख. ५. 'न चाति' ग. ६. 'सामान्यस्य' ख. ७. 'अस्यैव'क.८. 'न भवति भवत्येव' ख. ९. 'नहि' ख. १०. 'वस्तुबन्धु' क-ख. ११. 'उपलक्षणखात्' ग. १२. 'इत्यत्र सुकेश्या' क-ग-पुस्तकयो स्ति. १३. 'इत्यस्यापि' क.

३ अधि० २ अ०] काव्यालंकारसूत्राणि । अर्थवैमल्यं प्रसादः ॥३॥ अर्थस्य वैमल्यं प्रयोजकमात्रपरिग्रहः प्रसादः । यथा-'सवर्णा कन्यका रूपयौवनारम्भशालिनी ।। विपर्ययस्तु-उपास्तां हस्तो मे विमलमणिकाञ्चीपदमिदम् ।' काञ्चीपदमित्यनेनैव नितम्बस्य लक्षितत्वाद्विशेषणस्याप्रयोजकत्वमिति । घटना श्लेषाः ॥४॥ क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना । स श्लेषः । यथा- 'दृष्ट्वैकासनसंगैते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥' शूद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान्प्रंपञ्चो दृश्यते । अवैषम्यं समता ॥५॥ अवैषम्यं प्रक्रमाभेदः समता । कचित्क्रमोऽपि भिद्यते । यथा--- 'च्युतसुमनसः कुन्दाः पुष्पोद्गमेवलसा द्रुमा मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥' ऋतुसंधिप्रतिपादनपरेऽत्र द्वितीये पादे क्रेमभेदो मलयमरुतामसाधार- णत्वात् । एवं तु द्वितीयः पादः पठितव्यः । “मनसि च गिरं बध्नन्तीमे किरन्ति न कोकिलाः' इति । सुगमत्वं वावैषम्यमिति ॥ ६॥ सुखेन गम्यते ज्ञायत इत्यर्थः । - १. 'अर्थवैमल्यं' क-ग. २. 'रूपशीलयौवनशालिनी' ग. ३. 'उपाते' ख. ४. 'संस्थिते' ख. ५. 'परी' क. ६. 'प्रयोगः' ग. ७. 'अलसद्रुमा' ख. ८. 'नव. जरठता' ख. ९. 'प्रक्रम' ख. १०. 'तु' ख-पुस्तके नास्ति.

OC काव्यमाला। अन्य- यथा---'अस्त्युत्तरस्यां दिशि देवतात्मा' इत्यादि । प्रत्युदाहरणं सुलभम् । अर्थदृष्टिः समाधिः ॥७॥ अर्थस्य दर्शनं दृष्टिः समाधानकारणत्वात्समाधिः । अवहितं चित्त- मर्थान्पश्यतीत्युक्तं पुरस्तात् । अर्थो द्विविधः, अयोनिरन्यच्छायायोनि ॥ ८ ॥ यस्यार्थस्य दर्शनं समाधिः सोऽर्थो द्विविधः---अयोनिः, च्छायायोनिर्वेति । अयोनिरनन्यकारणः । अवधानमात्रकारण इत्यर्थः अन्यस्य काव्यस्य च्छाया अन्यच्छाया तद्योनिर्वा । तद्यथा- 'आश्वपैहि मम सीधुभाजनाद्यावदग्रदशनैर्न दश्यसे । चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥' 'मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि । प्रायो विदग्धवनितानवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥' पूर्वस्य श्लोकस्यार्थोऽयोनिः, द्वितीयस्य च च्छायायोनिरिति । अर्थो व्यक्तः सूक्ष्मश्च ॥९॥ यस्यार्थस्य दर्शनं समाधिरिति स द्वेधा-व्यक्तः सूक्ष्मश्च । व्यक्तः स्फुट उदाहृत एव । सूक्ष्मं व्याख्यातुमाह- सूक्ष्मो भाव्यो वासनीयश्च ॥ १० ॥ सूक्ष्मो द्वेधा भवति-भाव्यो वासनीयश्च । शीघ्रनिरूपणागम्यो भाव्यः । एकाग्रताप्रकर्षगम्यो वासनीय 'इति । 'भाव्यो यथा- 'अन्योन्यसंमिलितमांसलदन्तकान्ति सोल्लासमाविरलसंवलितार्थतारम् । १. 'इति' ख. अस्सादनन्तरं ख-पुस्तके 'केयमवगुण्ठनवती-' इत्यादि शाकुन्त- लपञ्चमाङ्कस्थं पy कोष्ठकान्तलिखितमस्ति. २. 'समाधिकारण' क-ग. ३. 'पाक' ग. ४. 'अनल्प' ग. ५. 'तदयोनिर्वा' ख. ६. 'यद्दशन' ख. ७. 'इत्यर्थः' क... 'द्विधा' ख. ९. 'स्फुटं' क. १०. 'सूक्ष्म' ग. ११. 'इति' क-ग-पुस्तकयो स्ति. १२. 'तत्र भाव्यो' क. १३. 'संवलित' ख. RAMA- - ३ अधि० २ अ०] काव्यालंकारसूत्राणि । ३५ लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति ॥' वासनीयो यथा- 'अवहित्थवलितजघनं विवर्तिताभिमुखकुचतटं स्थित्वा । अवलोकितोऽहमनया दक्षिणकरकलितहारलतम् ॥' उक्तिवैचित्र्यं माधुर्यम् ॥ ११ ॥ उक्तेर्वैचित्र्यं यत्तन्माधुर्यमिति । यथा- 'रेसवदमृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन्रसान्तरविजनो वदतु यदिहान्यत्स्वादु स्यात्नियादशनच्छदात् ॥' अपारुष्यं सौकुमार्यम् ॥ १२॥ परुषेऽर्थेऽपारुष्यं सौकुमार्यमिति । यथा मृतं यशःशेष इत्याहुः । एकाकिनं देवताद्वितीयमिति । गच्छेति साधयेति च । अग्राम्यसमुदारता ॥ १३ ॥ ग्राम्यत्वप्रसङ्गेऽग्राम्यत्वमुदारता । यथा । 'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः । अपि द्वन्द्वं दिष्ट्या तदिति लुभगे संवदति वा- मतः शेषं चेत्स्याज्जितमिह तदानीं गुणितया ॥' विपर्ययस्तु 'खपिति यावदयं निकटे जनः खपिमि तावदहं किमपैति ते । इति निगद्य शनैरनुमेखलं मम कर खकरेण रुरोध सा ॥' १. 'प्रविरले' ख; 'प्रविकलं' क. २. 'किलकिञ्चितेन' ग. ३. 'उक्तेऽर्थे वैचित्र्य तेन' क. ४. 'सरसममृतं' ख. ५. 'अमृतं यशम्शेषमित्याहुः' ख. ६. 'सीमान्तं' क. ७. 'तुदति' ग. ८. 'सुभगत्वं वदति' ख. ९. 'अथ' क.

३६ काव्यमाला । वस्तुखभावस्फुटखमर्थव्यक्तिः ॥१४॥ वस्तूनां भावानां खभावस्य स्फुटत्वं यदसावर्थ 'पृष्ठेषु शङ्खर्शकलच्छविषु च्छदानां राजीभिरङ्कितमलतकलोहिनीभिः गोरोचनाहरितबभ्रुबहिःपलाश- मामोदते कुमुदमम्भसि पल्वलस्य यथा वा- 'प्रथममलसैः पर्यस्ताग्रैः स्थितं पृथुकेस विरलविरलैरन्तःपत्रैर्मनामिलितं र तदनु वलनामात्रं किंचिद्यधायि बहिर्व मुंकुलनविधौ वृद्धाजानां बभूव व दीप्तरसत्वं कान्तिः ॥१५॥ दीप्ता रसाः शृङ्गारादयो यस्य स दीप्तरसः कान्तिः । यथा- 'प्रेयान्सायमपाकृतः सशपथं पादानतः क द्वित्राण्येव पदानि वासभवनाद्यावन्न र तावत्प्रत्युत पाणिसंपुटलसन्नीवीनितम्बं धृत धावित्वैव कृतप्रणामकमहो प्रेम्णो वि एवं रसान्तरेष्वप्युदाहरणीयमिति । अत्र श्लोकाः- 'गुणस्फुटत्वसाकल्यं काव्यपाकं प्रचक्ष चूतस्य परिणामेन स चायKपमीयते । सुप्तिसंस्कारमानं यक्लिष्टवस्तुगुणं भ काव्यं वृन्ताकपाकं तज्जुगुप्सन्ते जन १. 'सकल' ख. २. 'पर्यस्तापस्थितं' क. ३. 'कृत 'रसान्तरं' ग, ५. 'उदाहार्यम्' ग. ६. 'उप ७. 'क्लिष्टं ख. .

३ ४ अधि० १ अ.] काव्यालंकारसूत्राणि । गुणानां दर्शनान्मुक्तो यस्यार्थस्तदपार्थकम् । दाडिमानि दशेत्यादि न विचारक्षमं वचः ॥' इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे द्वितीयोऽध्यायः । अर्थगुणविवेचनम् । समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम् । - आलंकारिक नाम चतुर्थमधिकरणम् । प्रथमोऽध्यायः । गुणनिर्वृत्या काव्यशोभा । तस्याश्वातिशयहेतवोऽलंकाराः। तन्निरू- पणार्थमालंकारिकमधिकरणमारभ्यते- तत्र शब्दालंकारौ द्वौ यमकानुप्रासौ क्रमेण दर्शयितुमाह- पदमनेकार्थमक्षरं वावृत्तं स्थाननियमे यमकम् ॥१॥ पदमनेकार्थ भिन्नार्थमेकमनेकं वा तद्वदक्षरमावृत्तं स्थाननियमे सति यमकम् । खावृत्त्या सजातीयेन वा कात्स्न्यैकदेशाभ्यामनेकपादव्याप्तिः स्थाननियम इति । यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते तेषु श्लोकान्तरस्य संस्थानं यमकापेक्षयैव स्थाननियम इति । स्थानकथनार्थमाह--- पादः पादस्सैकस्थानेकस्य चादिमध्यान्तभागाः स्थानानि ॥२॥ पादः, एकस्य च पादस्यादिमध्यान्तभागाः, अनेकस्य च पादस्य त एव स्थानानि । पादयमकं यथा- 'असज्जनवचो यस्य कलिकामधुगर्हितम् । तस्य न स्याद्विषतरोः कलिकामधु गर्हितम् ॥' १. 'त्यको' क-ग. १. दशदाडिमादिवाक्यं व्याकरणमहाभाष्ये 'अर्थवदधातुः' इत्यादि सूत्रव्याख्याने द्रष्टव्यम्. ३. "विवेकः' का 'कथनम्' ग. ४. 'गुणानां वृत्या. ग. ५. 'लक्षयितुं' क. ६. 'वावृत्तं' ग. ७. 'नियमे सति' ख. ८. 'खवृत्त्या क; 'आवृत्त्या' ग. ९. 'च' ख-पुस्तके नास्ति. १०. 'पदस्य क.

काव्यमाला। - एकपादस्यादिमध्यान्तयमकानि यथा- 'हन्त हन्तररातीनां धीरधीरर्चिता तव । कामं कामन्दकी नीतिरस्या रस्या दिवानिशम् ॥' 'वसुपरासु परासुमिवोज्झतीष्वविकलं विकलङ्कशशिप्रभम् । प्रियतमं यतमन्तमनीश्वरं रसिकता सिकताखिव तासु का ॥' 'सुदृशोऽवसरे चकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम् । अपि हासलवस्तव कः स्तबकस्तुलयेन्नै तु कामधुरां मधुराम् ॥' पादयोरादिमध्यान्तयमकानि यथा- 'भ्रमर द्रुमपुष्पाणि भ्रम रत्यै पिबन्मधु । का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि यत् ॥' 'अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि । बाष्पो बाहीकनारीणां वेगवाही कपोलयोः ॥' 'सपदि कृतपदस्त्वदीक्षितेन स्मितशुचिना स्मरतत्त्वदीक्षितेन । भवति बत जनः सचित्तदाहो न खलु मृषा कुत एव चित्तदाहो ॥ . एकान्तरपादान्तयमकं यथा- 'उद्वेजयति भूतानि यस्य राज्ञः कुशासनम् । सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥' एवमेकान्तरपादादिमध्ययमकान्यूह्यानि । समस्तपादान्तयमकं यथा- 'नतोन्नतभ्रूगतिबद्धलास्यां विलोक्य तन्वीं शशिपेशलास्याम् । मनः किमुत्ताम्यसि चञ्चलास्यां कृती स्मराज्ञा यदि पुष्कला स्याम् ॥' एवं समस्तपादादिमध्यान्तयमकानि व्याख्यातानि । अन्ये च संकरजा तिभेदाः सुधियोत्प्रेक्ष्याः। अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च । एकाक्षरं यथा- 'नौनाकारेण कान्ता राराधितमनोभुवा । विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ।।' १. 'एकस्य' क. २. 'यमक' ख.३. 'यतमन्तुं' क-ग. ४. 'ननु' का 'तुन' ग. ५. 'चित्तदाहः' ख. ६. 'पादयमकं' क७. 'यमकं च भवति । यथा' ख. ८. 'कुतो' ग. ९. 'पादादियमकानि' क, 'पादयमकानि' ग. १०. 'व्याख्यातव्यानि' ग. ११. 'नानाविधेन' ख. ROMAN - ४ अधि० १ अ०] काव्यालंकारसूत्राणि । ३९ एवं स्थानान्तरयोगेऽपि द्रष्टव्यः । सजातीयनैरन्तर्यादस्य प्रकर्षों भवति । स चायं हरिप्रबोधे दृश्यते । यथा- 'विविधधववनानागगर्धर्धनाना विविततगगनानाममज्जज्जनाना । रुरुशशललनाना ववन्धुन्धुनाना मम हिहि ततनानाननखखनाना ॥ अनया च वर्णयमकमालया पदयमकमाला व्याख्याता । भङ्गादुत्कर्षः ॥३॥ उत्कृष्टं खलु यमकं भङ्गाद्भवति । शृङ्खला परिवर्तकचूर्णमिति भङ्गमार्गः ॥४॥ एते खलु शृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति । तान्क्रमेण व्याचष्टे- वर्णविच्छेदचलनं शृङ्खला ॥५॥ वर्णानां विच्छेदो वर्णविच्छेदः तस्य चलनं यत्सा शृङ्खला । यथा-कलिकामधुशब्दे विच्छेदः धुशब्दे च तस्य चलनम् । लिमर्व- योविच्छेदात् । सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ॥ ६॥ अन्यवर्णसंसर्गः सङ्गः। तद्विनिवृत्तौ खरूपस्यान्यरूपतिरस्कृतस्यापत्तिः प्राप्तिः परिवर्तकः । यथा--'कलिकामधु गर्हितम्' इति । अत्राहितमिति पदं गकारस्य व्यञ्जनस्य सङ्गागर्हितमित्यन्यस्य रूपमापन्नम् । तत्र व्यञ्जनसङ्गे विनिवृत्ते खरूपमापद्यते अर्हितमिति । अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्य- विधिरयमिति तात्पर्यार्थः । एतेनेतरावपि व्याख्यातौ । पिण्डाक्षरभेदे स्वरूपलोपचूर्णम् ॥ ७ ॥ १. 'च' क-ग-पुस्तकयो स्ति. २. 'तत्र' ग. ३. 'वर्णविच्छेदः' ख-पुस्तके नास्ति. ४. 'कलिकामधुक्शब्दे' ग. ५ 'मधुशब्दे' क; 'काशब्दे धुशब्दे' ग. ६. 'शब्दयोः' क-ग. ७. 'निवृत्तौ' ख. ८. 'सरूपस्य' ख. ९. 'व्यञ्जनस्य गकारस्य सङ्गे' क. १०. 'अयं' ख-पुस्तके नास्ति.

काव्यमाला। पिण्डाक्षरभेदे सति पदस्य खरूपलोपचूर्णम् । यथा- 'योऽचलकुलमवति चलं दूरसमुन्मुक्तशुक्तिमीनां कान्तः । सामि बिभर्ति च सलिलं दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तः ॥' अत्र शुक्तिपदे तीति पिण्डाक्षरम् । तस्य भेदे शुक्तिपदं लुप्यते । कका. रतिकारयोरन्यत्र संक्रमात् । दूरसमुन्मुक्तशुक् अचलकुलम् , तिमीनां कान्तः समुद्रः। श्लोकाश्चात्र- 'अखण्डवर्णविन्यासचलनं शृङ्खला मता । अनेन खलु भङ्गेन यमकानां विचित्रता ॥' 'यदन्यसनमुत्सृज्य नेपथ्यमिव नर्तकः । शब्दखरूपमारोहेत्स ज्ञेयः परिवर्तकः ।।' 'पिण्डाक्षरस्य भेदेन पूर्वापरपैदाश्रयात् । वर्णयोः पदलोपो यः स भङ्गश्चूर्णसंज्ञकः ॥' 'अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि । अलकानीव नात्यर्थ यमकानि चकासति ।' 'विभक्तिपरिणामेन यत्र भैङ्गः कचिद्भवेत् । न तदिच्छन्ति यमकं येमकोत्कर्षकोविदाः ॥' 'आरूढं भूयसा यत्तु पदं यमकभूमिकाम् । न युज्यते पुनस्तस्य युक्तानुप्रासकल्पना ।।' 'विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च । आवृत्तिः सुप्तिङन्तानां मिथश्च यमकाद्भुतम् ॥' शेषः सरूपोऽनुप्रासः ॥८॥ पदमेकार्थमनेकार्थं च स्थानानियतं तद्विधमक्षरं च शेषः । सरूपोऽन्येन प्रयुक्तेन तुल्यरूपोऽनुप्रासः । ननु चे 'शेषोऽनुप्रासः' इत्येतावदेव सूत्रं १. पिण्डाक्षरस्य' क. २. 'साग्निं' ख. ३. 'समाश्रयात्' क. ४. 'भेदः' क-ग. ५. 'प्रायो यमककोविदा' ख. ६. 'इत्थं' ग. ७. 'शेषखरूपो' क-ग... 'अस्था- नानियमेन' ख. ९ 'च' ख-पुस्तके नास्ति.

। - ४ अधि० १ अ०] काव्यालंकारसूत्राणि । ४१ कस्मान्न कृतम् , आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते । सत्यम् । सिध्यत्येवावृत्तिशेषे । किं त्वव्याप्तिप्रसङ्गः । विशेषार्थं च सरूपग्रणम् । कान्थेनैवावृत्तिः कास्न्यैकदेशाभ्यां तु सारूप्यमिति । अनुल्वणो वर्णानुप्रासः श्रेयान् ॥ ९ ॥ वर्णानामनुप्रासः स खल्वनुल्बणो लीनः श्रेयान् । यथा- 'कचिन्मसृणमांसलं क्वचिदतीव तारास्पदं प्रसन्नसुभगं मुहुः खरतरङ्गलीलाङ्कितम् । इदं हि तव वल्लकीरणितनिर्गमैर्गुम्फितं मनो मदयतीव मे किमपि साधुसंगीतकम् ॥' उल्वणस्तु न श्रेयान् । यथा--'वल्लीबद्धोर्ध्वजूटोद्भटमटति रटत्कोटि- कोदण्डदण्डः' इति । पादानुप्रासः पादयमकवत् ॥१०॥ '. ये पादयमकस्य भेदास्ते पादानुप्रासस्येत्यर्थः । तेषामुदाहरणानि यथा- 'कविराजमविज्ञाय कुतः काव्यक्रियादरः । कविराजं च विज्ञाय कुतः काव्यक्रियादरः ॥' 'आखण्डयन्ति मुहुरामलकीफलानि बालानि बालकपिलोचनपिङ्गलानि ।' 'वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाश काशाः काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंस हंसाः । हंसाभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनीचन्द्र चन्द्रः चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां काल कालः ॥' 'कुवलयदलश्यामा मेघा विहाय दिवं गताः कुवलयदलश्यामो निद्रां विमुञ्चति केशवः । - -- । १. "विशेषे' ग. २. 'च' ख. ३. 'लीन इव' ग. ४. 'वपुः' क. ५. उपगतो क.' काव्या.सू. ५ ४२ काव्यमाला। कुवलयदलश्यामा श्यामालताद्य विजृम्भते कुवलयदलश्यामं चन्द्रो नभः प्रविगाहते ॥' एवमन्येऽपि भेदा द्रष्टव्याः । इति काव्यालंकारसूत्रवृत्तावालंकारिके चतुर्थेऽधिकरणे प्रथमोऽध्यायः। शब्दालंकारविचारः । - द्वितीयोऽध्यायः । संप्रत्यर्थालंकाराणां प्रस्तावः । तन्मूलं चोपमेति सैव विचार्यते- उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ॥१॥ उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्तदुपमानम् । यदुपभी- यते न्यूनगुणं तदुपमेयम् । उपमानेनोपमेयस्य गुणलेशतः साम्यं यदसा- वुपमेति । ननूपमानमित्युपमेयमिति च संबन्धिशब्दावेतौ तयोरे कतरोपा- दानेनैवान्यतरसिद्धिरिति । यथा-'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इत्यत्रोपमितग्रहणमेव कृतं नोपमानग्रहणमिति, तद्वदत्रोभयग्रहणं न कर्तव्यम् । सत्यम् । तत्कृतं लोकप्रसिद्धिपरिग्रहार्थम् । यदेवोपमेयमुप- मानं च लोकप्रसिद्धं तदेव परिगृह्यते, नेतरत् । नहि यथा 'मुखं कमल- "मिव' इति, तथा 'कुमुदमिव' इत्यपि भवति । गुणबाहुल्यतश्च कल्पिता ॥ २ ॥ गुणानां बाहुल्यं गुणबाहुल्यं तत उपमानोपमेयस्य साम्यात्कल्पितो- पमा । कविभिः कल्पितत्वात्कल्पिता । पूर्वा तु लौकिकी । ननु कल्पि- ताया लोकप्रसिध्यभावात्कथमुपमानोपमेयनियमः । गुणबाहुल्यस्योत्कर्षाप- कर्षकल्पनाभ्याम् । तद्यथा- १. 'प्रतिगाहते' क. २. 'भेदा' ख-पुस्तके नास्ति. ३. 'उपमानोपमेयस्य गुणशा- लिनः साम्यमुपमा' क. ४. 'अन्यस्य यत्तदुप' ख. ५. 'यन्यून' क-ख. ६. 'ननु चोप' ख. ७. 'पादानेन चान्य' ख. ८. 'सामान्यप्र' क-ख. ९. 'कर्तव्यमिति' ख. १०. 'तत्कथं क. ११. 'अपि' ख-पुस्तके नास्ति. १२. ग-पुस्तके भवतीत्यस्मा- दने 'अथवा लौकिक्याश्च कल्पिताया उपमाया ग्रहणं मा विजानीहि एतदर्थमुभयग्रह- णम्' इत्यधिकमस्ति. १३. ख-पुस्तके नन्वित्यादि कल्पनाभ्यामित्यन्त कोष्ठकान्तः स्थापितमति , ' ....

* अधि० २ अ०] काव्यालंकारसूत्राणि । 'उद्गदर्भहणतरुणीरमणोपमर्द- भुमोन्नतिस्तननिवेशनिभं हिमांशोः । बिम्बं कठोरविसकाण्डकडारगौरै- विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥' 'सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् ।' 'अभिनवकुशस्तूचिस्पर्धि कर्णे शिरीषम्' इति । 'इदानीं प्लक्षाणां जरठदलविश्लेषचतुरः शिखानामाबन्धः स्फुरति शुकचञ्चूपुटनिभः । ततः स्त्रीणां हन्त क्षममधरकान्ति तुलयितुं समन्तान्निर्याति स्फुटसुभगरागं किसलयम् तद्वैविध्यम् । पदवाक्यार्थवृत्तिभेदात् ॥ ३॥ तस्या उपमाया द्वैविध्यम् । पदवाक्यार्थवृत्तिभेदात् । एका पदार्थ- त्तेः, अन्या वाक्यार्थवृत्तिरिति । पदार्थवृत्तिर्यथा--- 'हरति तनुषु बभ्रुत्वग्विमुक्तासु यासां .. कनककणसधर्मा मान्मथो रोमभेदः ।' वाक्यार्थवृत्तिर्यथा- 'पाण्ड्योऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो नवचन्दनेन । आभाति बालातपरक्तसानुः सनिझरोद्गार इवाद्रिराजः ॥' सा पूर्णा लुप्ता च ॥४॥ सा उपमा पूर्णा लुप्ता च भवति । गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा ॥५॥ गुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा । यथा- 'कमलमिव मुखं मनोज्ञमेतत्' इति । लोपे लुप्ता ॥६॥ १. भन्नोन्नति' क-ग. २. 'कुसुमस्पर्धि' ग. ३. 'चतुरस्तिमीनां साबंधूः स्फुरति' '; 'चतुरस्तिभीनामाबद्धस्फुरति'.ग. ४. 'उद्भाति' ख. ५. 'कनककलशधर्मा'. ग.:

४४ 1 । काव्यमाला। । .. - गुणादिशब्दानां वैकल्पे लोपे लुप्ता । गुणशब्दलोपे यथा-'शशीव राजा' इति । द्योतकशब्दलोपे यथा-'दूर्वाश्यामेयम् । उभयलोपे -'शशिमुखी' इति । उपमानोपमेयलोपस्तूपमाप्रपञ्चे द्रष्टव्यः । स्तुतिनिन्दातत्त्वाख्यानेषु ॥ ७॥ स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः । स्तुतिनिन्दयोर्यथा-- 'निग्धं भवत्यमृतकल्पमहो कलत्रं हालाहलं विषमिवापगुणं तदेव ।' तत्त्वाख्याने यथा- 'तां रोहिणी विजानीहि ज्योतिषामत्र मण्डले । यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ॥' हीनताधिकसलिङ्गवचनभेदासादृश्यासंभवास्तदोषाः ॥८॥ तस्या उपमाया दोषा भवन्ति-हीनत्वमधिकत्वं लिङ्गभेदो. वचनभे. दोऽसादृश्यमसंभव इति । तान्क्रमेण व्याख्यातुमाह- जातिप्रमाणधर्मन्यूनतोपमानस्य हीनखम् ॥ ९ ॥ जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या तद्धीनत्वमिति ।.... जातिन्यूनत्वरूपं हीनत्वं यथा-'चाण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' प्रेमाणन्यूनत्वरूपं हीनत्वं यथा-'वह्निस्फुलिङ्ग इव भानुरयं चकास्ति । उपमेयादुपमानस्य धर्मतो न्यूनत्वं यत्तद्धर्मन्यूनत्वम् । तद्रूपं ही- नत्वं यथा- 'स मुनिर्लाञ्छितो मौज्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥' - १. 'उभयशब्द' ख. २. 'उपमानोपमेयशब्द' ग. ३. 'प्रपञ्च एव' ग. ४. 'नि- न्दायां च'ख. ५. 'तत्त्वाख्यानेषु' ग. ६. 'निन्दादयो' क. ७. विषमिव . प्रगुणं! का विषमिवाप गुणं' ग. ८. 'धर्मतो' ग, ९, 'प्रमाणन्यूनत्वं तद्रूपहीनत्वं क. १०. 'विभाति' ग. ११. 'यत्' ख-पुस्तके नास्ति. १२. 'व्यरोचत्' ख.

- ४ अधि० २ अ०] काव्यालंकारसूत्राणि । अत्र मौञ्जीप्रतिवस्तु तडिन्नास्त्युपमान इति हीनत्वम् । न च कृष्णा- जिनपटमात्रस्योपमेयत्वं युक्तम् । मौढ्या व्यर्थत्वप्रसङ्गात् । ननु नीलजी- मूतग्रहणेनैव तडित्प्रतिपाद्यते । तन्न । व्यभिचारात् । अव्यभिचारे तु भवन्ती प्रतिपत्तिः केन वार्यते । तदाह- धर्मयोरेकनिर्देशेऽन्यस्य संवित् । साहचर्यात् ॥ १० ॥ धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यधर्मस्य संवित् प्रतिपत्तिर्भवति । कुतः । साहचर्यात् । सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्देशेऽन्यस्य प्रतिपत्तिर्भवति । तद्यथा- 'निर्वृष्टेऽपि बहिर्घने न विरमन्त्यन्तर्जरद्वेश्मनो लूतातन्तुततिच्छिदो मधुपृषत्पिङ्गाः पयोबिन्दवः । चूडाबर्बरके निपत्य कणिकाभावेन जाताः शिशो- रङ्गास्फालनभमनिद्रगृहिणीचित्तव्यथादायिनः ।।' अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते । तत्र पिङ्गशब्देन पिङ्गत्वे प्रतिप- ने वृत्तत्वप्रतिपत्तिर्भवति । एतेन 'कनकफलकचतुरस्रं श्रोणिबिम्बम्' इति व्याख्यातम् । कनकफलकस्य गौरत्वचतुरस्रत्वयोः साहचर्याच्चतुरस्रत्वश्रु- त्यैव गौरत्वप्रतिपत्तिरिति । ननु च यदि धर्मन्यूनत्वमुपमानस्य दोषः, कथ- मयं प्रयोगः-- 'सूर्यांशुसंमीलितलोचनेषु दीनेषु पद्मानिलनिर्मदेषु । साध्व्यः खगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ।' अत्र बहुत्वमुपमेयधर्माणामुंपमानात् । न विशिष्टानामेव मुखानामुपैमेय- त्वात् । तादृशेष्वेव केकाविनाशस्य संभवात् । तेनाधिकत्वं व्याख्यातम् ॥ ११ ॥ तेन हीनत्वेनाधिकत्वं व्याख्यातम् , जातिप्रमाणधर्माधिक्यमधिकत्व- मिति । जात्याधिक्यरूपमधिकत्वं यथा- -- १. 'उपमान' ख. २. 'संभवन्ती' ख. ३. 'विचार्यते' क. ४. 'अन्यस्य' ग. ५. 'भवति' क-ख-पुस्तकयो स्ति. ६. 'रङ्काच्छादन' क. ७. 'प्रतीति' क. ८. 'दि- नेषु'ख.९. 'निर्मलेषु'ख; 'नर्मदेषु' क-ग. १०. 'उपमानतः'ख. ११. उपमेयत्वम्' क.

काव्यमाला । .' - - - , 'विशन्तु वृष्णयः शीघ्रं रुद्रा इव महौजसः ।' प्रमाणाधिक्यरूपं यथा- 'पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ।।' धर्माधिक्यरूपं यथा- 'सरश्मि चञ्चलं चक्रं दधद्देवो व्यराजत । सवाडवामिः सावर्तः स्रोतसामिव नायकः ॥' सवाडवामिरित्यस्योपमेयेऽभावाद्धर्माधिक्यमिति । अनयोर्दोषयोर्विप- र्ययाख्यस्य दोषस्यान्तर्भावान्न पृथगुपादानम् । अत एवास्माकं मते षड्- दोषा इति । उपमानोपमेययोलिङ्गव्यत्यासो लिङ्गभेदः॥ १२ ॥ उपमानस्योपमेयस्य च लिङ्गयोर्व्यत्यासो विपर्ययो लिङ्गभेदः । यथा- "सैन्यानि नद्य इव जग्मुरनर्गलानि ।' इष्टः पुंनपुंसकयोः प्रायेण ॥ १३ ॥ पुनपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येनेष्टः । यथा- 'चन्द्रमिव मुखं पश्यति' इति । 'इन्दुरिव मुखं भाति' एवंप्रायं तु नेच्छन्ति । लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च ॥ १४ ॥ लौकिक्यापमायां समासाभिहितायामुपमायामुपमाप्रपञ्चे चेष्टो लि- ङ्गभेदः प्रायेणेति । लौकिक्यां यथा-'छायेव स तस्य' 'पुरुष ईव स्त्री' इति । समासाभिहितायां यथा-'भुजलता नीलोत्पलसहशी' इति । उपमाप्रपञ्चे यथा- 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥' - 1 - १. 'उपमेयखाभावात्' ख; 'उपमेयाभावात्' ग. २. 'इत्येवंप्रायं' ख.३. 'उपमायां' क-पुस्तके नास्ति. ४. 'इवास्तीति' ग. ५. 'नीलोत्पलसदृश' का 'नीलोत्पलं दृश्यते'ग.

४.७ ४ अधि० २ अ०] काव्यालंकारसूत्राणि । एवमन्यदपि प्रयोगजातं द्रष्टव्यम् । तेन वचनभेदो व्याख्यातः ॥१५॥ तेन लिङ्गभेदेन वचनभेदो व्याख्यातः । यथा-'पश्यामि लोचने तस्याः पुष्पं पुष्पलिहो यथा ।' : . अप्रतीतगुणसादृश्यमसादृश्यम् ॥ १६ ॥ अप्रतीतैरेव गुणैर्यत्सादृश्यं तदप्रतीतगुणसादृश्यमसादृश्यम् । यथा- 'प्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ।काव्यस्य शशिना सह यत्सा- दृश्यं तदप्रतीतैरेव गुणैरिति । ननु चार्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति । मैवैम् । काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिद्ध्यति नार्थानां रश्मीनां च कश्चित्सादृश्यहेतुः प्रतीतो गुणोऽस्ति । तदेवमितरेतरांश्रयदोषो दुरुत्तर इति । असादृश्यहता ह्युपमा । तनिष्ठाश्च कवयः ॥ १७॥ असादृश्येन हता असादृश्यहता उपमा, तन्निष्ठा उपमाननिष्ठाश्च कवय इति । उपमानाधिक्यात्तदपोह इत्येके ॥ १८ ॥ उपमानाधिक्यात्तस्यासादृश्यस्यापोह इत्येके मन्यन्ते । यथा---'कर्पूर- हारहरहाससितं यशस्ते ।' कर्पूरादिभिरुपमानैर्बहुभिर्यशसः सादृश्यं संस्था- पितं भवति । तेषां शुक्लगुणातिरेकात् । नापुष्टार्थखात् ॥ १९ ॥ उपमानाधिक्यात्तदपोह ईंति यदुक्तं तन्न । अपुष्टार्थत्वात् । एकस्मिन्नु- पमाने प्रयुक्ते उपमानान्तरप्रयोगो न कंचिदर्थविशेषं पुष्णाति । तेन 'बल- सिन्धुः सिन्धुरिव क्षुभितः' इति प्रयुक्तम् । ननु सिन्धुशब्दस्य द्विः प्रयो- गात्पौनरुक्त्यम् । न । अर्थविशेषात् । बलं सिन्धुरिव वैपुल्याद्वलसिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यम् । तस्मादर्थभेदान्न पौनरुक्त्यम् । १. 'एतेन' ग. २. 'तुल्यत्वे सिद्धे' क. ३. 'नैवम्' क. ४. उपमानानामाधि' क. ५. 'सुस्थापितं': क. ६. 'इत्युक्कं कः ७. 'उपमानानन्तर' ख. ८. 'प्रयोगलात्' ख. ९. 'क्षोभसारूप्यात्' क.

- ४८ काव्यमाला। अर्थपुष्टिस्तु नास्ति । सिन्धुरिव क्षुभित इत्यनेनैव वैपुल्यं प्रतिपत्स्यते । उक्तं हि-'धर्मयोरेकनिर्देशेऽन्यसंवित् । साहचर्यात् ।' अनुपपत्तिरसंभवः ॥२०॥ अनुपपत्तिरनुपपन्नत्वमुपमानस्यासंभवः । यथा- 'चकास्ति वदने तस्याः मितच्छाया विकासिनि । उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ॥ चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः । नन्वर्थविरोधोऽयमस्तु । किमुपमादोषकल्पनया। न उपमायामतिशयस्येष्टत्वात् । कथं तर्हि दोषः । न विरुद्धोऽतिशयः ॥ २१॥ विरुद्धस्यातिशयस्य संग्रहो न कर्तव्य इत्यस्य सूत्रस्य तात्पर्यार्थः । तानेतान्पडपमादोषान् ज्ञात्वा कविः परित्यजेत् । इति काव्यालंकारसूत्रवृत्तावालंकारिके चतुर्थेऽधिकरणे द्वितीयोऽध्यायः । उपमाविचारः। AD तृतीयोऽध्यायः । संप्रत्युपमाप्रपञ्चो विचार्यते-कः पुनरसावित्याह- प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ॥१॥ प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुप्रभृतिः । उपमायाः प्रपञ्च उपमा- प्रपञ्च इति । वाक्यार्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह- उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ॥ २॥ समानं वस्तु वाक्यार्थः । तस्य न्यासः समानवस्तुन्यासः । उपमेयस्या- र्थाद्वाक्यार्थस्योक्तौ सत्यामिति । अत्र द्वौ. वाक्याएँ । एको वाक्यार्थः प्रतिवस्तूपमाया इति भेदः । तद्यथा- १. 'अर्थविशेषात्पुष्टिस्तु' ग. २. 'इति वैपुल्यम्' क-ग. ३. 'विकासिनः' क. ४. 'विकल्पनया' क. ५. 'इष्टार्थत्वात्' ख. ६. 'षड्दोषानुपमायाः' ख. ७. 'उपमा- कथनम्' ग. ८. 'इति' क-ख-पुस्तकयो स्ति. ९. 'यस्येति' ख. १०. 'वाक्यार्थी- पमयोरिति' क; 'वाक्यार्थ उपमायामिति' ख.

- ४ अधि० ३अ०] काव्यालंकारसूत्राणि । 'देवीभावं गमिता परिवारपदं कथं भजत्येषा । न खलु परिभोगयोग्यं दैवतरूपाङ्कित रत्नम् ॥' प्रतिवस्तुनः समासोक्तेर्भेदं दर्शयितुमाह- अनुक्तौ समासोक्तिः ॥३॥ उपमेयस्यानुक्तौ समानवस्तुन्यासः समासोक्तिः । संक्षेपवचनात्समासो- क्तिरित्याख्या । यथा- 'श्लाघ्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः ॥' धिङमेरौ कल्पवृक्षाणामनुत्पन्नार्थिनां श्रियः ॥' समासोक्तेरप्रस्तुतप्रशंसाया मेद दर्शयितुमाह- । किंचिदुक्तावप्रस्तुतप्रशंसा ॥४॥ उपमेयस्य किंचिल्लिङ्गमात्रणोक्तौ समानवस्तुन्यासेऽप्रस्तुतप्रशंसा । यथा- 'लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥' अप्रस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतप्रशंसा । अपहुतिरपि ततो भिन्नति दर्शयितुमाह- समेन वस्तुनान्यापलापोऽपह्नुतिः ॥५॥ समेन तुल्येन वस्तुना वाक्यार्थेनान्यस्य वाक्यार्थस्यापलापो निहवो यस्तत्त्वाध्यारोपणायासावपढुतिः । यथा- : 'न केतकीनां विसलन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः । तडिल्लतेयं न चकास्ति चञ्चला पुरः मरज्योतिरिदं विवर्तते ।।' वाक्यार्थयोस्तात्पर्यात्ताद्रूप्यमिति न रूपकम् । १. 'रत्नम्' इत्यस्मादनन्तरं क-पुस्तके 'अत्रैको वाक्यार्थः' इत्यधिकमस्ति. २. 'उपमानस्य' ख. ३. 'काचनेय'.ख. ४. 'यस्तस्याध्यारोपेणासा' ख; 'यस्तत्वा- परोपेणासा' ग. ५. 'प्रवर्तते ख.

काव्यमाला। - रूपकं तु कीदृशमित्याह- उपमानोपमेयस्य गुणसाम्यात्तत्वारोपों रूपकम् ।। ६.॥ उपमानोपमेयस्य गुणसाम्यात्तत्त्वस्याभेदस्यारोपणमारोपो रूपकम् । उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्चोपमायाः प्रकृतित्वमत्र यथा विज्ञायतेति । यथा-- 'इयं गेहे लक्ष्मीरियममृतवैतिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ।। मुखचन्द्रादीनां तूपमा । समासात् न चन्द्रादीनां रूपकत्वं युक्तमिति । रूपकाच्छेषस्य मेदं दर्शयितुमाह- सधर्मेषु तत्रप्रयोगे श्लेषः ॥७॥ उपमानेनोपमेयस्य धर्मेषु . गुणक्रियाशब्दरूपेषु सतत्त्वारोपस्तन्त्रप्र. योगे तन्त्रेणोच्चारणे सति श्लेषः । यथा- 'आकृष्टामलमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो ब्रणिता विपक्षहृदयप्रोन्माथिनः कर्कशाः । उद्धृत्वा गुरवश्च यस्य शमिनः श्यामायमानानना योधा मारवधूस्तनाश्च न द॑धुः क्षोभं सं वोऽव्याजिनः ।। यथा च गौणस्यार्थस्यालंकारत्वं तथा लाक्षणिकस्यापीति दर्शयि- तुमाह- सादृश्याल्लक्षणा वक्रोक्तिः ॥८॥ बहूनि हि निबन्धनानि लक्षणायाम् । तत्र सादृश्याल्लक्षणा वक्रो- क्तिरसाविति यथा-'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात् । अत्र नेत्रधर्मावुन्मीलननिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः । १. 'रूपकं दर्शयितुमाह' ग. २. "विज्ञायत इति' ख. ३. 'बलि' क. ४. 'न तत्वा' ख. ५. 'वारवधू' ख. ६. 'ददुः क. ७. 'हि' क-पुस्तके नास्ति. ८. 'लक्षणाया: क. ९. 'सादृश्याद्या' ग.

32195 yeat nahathan ... - 32195 ३ अ०] काव्यालंकारसूत्राणि ह च निरन्तरनवमुकुलपुलकिता हरति माध: हृदयम् । (यति च केसराणां परिणतमधुगन्धि निःश्वसितम् ॥ नेःश्वसितमिति परिमलनिर्गमं लक्षयति । स्थानेन स्फुरतु सुभगः खर्चिषा चुम्बितुं द्याम् । पालस्यमालिङ्गति गात्रमस्याः ।' रिम्लानच्छायामनु वदति दृष्टिः कमलिनीम् ।' 'त्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । रुद्वन्द्वं तरुणकदलीकाण्डसब्रह्मचारि ।' षु लक्षणार्थों निरूप्यत इति । लक्षणायां च झटित्यर्थप्रतिप्रत्ति- समाचक्षत इति । असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः। रिठकमलककन्दच्छेदगौरैर्मयूखैः ।' छेदः सामीप्याद्रव्यं लक्षयति । तस्यैव गौरत्वोपपत्तेः । [क्रोक्तिभ्यामुत्प्रेक्षाया भेदं दर्शयितुमाह--- स्थान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ॥९॥ स्यातत्वभावस्य । अन्यथा. अतत्वभावतया । अध्यवसानमध्य- न पुनरध्यारोपो लक्षणा वा । अतिशयार्थमिति भ्रान्तिज्ञाननिवृ- सादृश्यादियमुत्प्रेक्षेति । एनां चेवादिशब्दा द्योतयन्ति । यथा- 'स वः पायादिन्दुर्नवविसलताकोटिकुटिल: स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः । स्रवन्मन्दकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥' • र्चेषा' क. २. 'चुम्बतु' ग. ३. 'च' ख-ग-पुस्तकयोन स्ति. ४. “इति' 'स्ति. ५. 'तु'ख-पुस्तके नास्ति. ६. 'साम्यात्' ग. ७. "उत्प्रेक्षायां का ख.९.'चेवादिशब्दो द्योतयति' क-ग. ।

काव्यमाला। उत्प्रेक्षैवातिशयोक्तिरिति केचित् । तन्निरासार्थमाह- संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिः ॥ १० ॥ संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पनातिशयोक्तिः । यथा- 'उभौ यदि व्योनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' यथा वा-- . 'मलयजरसविलुप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । शशभृति विततधानि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥' यथा भ्रान्तिज्ञानखरूपोत्प्रेक्षा तथा संशयज्ञानखरूपः संदेहोऽपीति दर्शयितुमाह- उपमानोपमेयसंशयः संदेहः ॥ ११॥ उपमानोपमेययोरतिशयार्थ यः क्रियते संशयः स संदेहः । यथा- 'इदं कर्णोत्पलं.चक्षुरिदं चेति विलासिनि । . न निश्चिनोति हृदयं किंतु दोलायते पुनः ।।' संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह -- विरुद्धाभासत्वं विरोधः ॥ १२ ॥ अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः । यथा- 'पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि त्वं तुङ्गस्तनभारमन्थरगतिर्गात्रेषु मे वेपथु- स्त्वन्मध्ये तनुता ममाधृतिरहो मारस्य चित्रा गतिः ।।' - - .. . १. 'धर्मस्य ख. २. 'संभावस्य ख. ३. 'तदा' ख. ४. 'वेति' क.५. 'मनः' ख; 'मम'.ग. ६. 'विरोधाभासत्वं ग. ७. 'आभासन'-क... विरोधः' ख-पुस्तके नास्ति.

४ अधि० ३ अ०] काव्यालंकारसूत्राणि । ५३ यथा वा- -- - सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । सा कान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स इत्यद्भुतम् ॥' विरोधाद्विभावनाया भेदं दर्शयितुमाह- क्रियाप्रतिषेधे प्रसिद्धतत्फैलव्यक्तिर्विभावना ॥ १३ ॥ क्रियायाः प्रतिषेधे तस्या एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्ति- विभावना। यथा- 'अप्यसज्जनसांगत्ये न वसत्येव वैकृतम् । अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ॥' विरोधप्रसङ्गेनानन्वयं दर्शयितुमाह- एकस्योपमेयत्वोपमानत्वेऽनन्वयः॥१४॥ एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः । यथा- 'गंगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥' अनन्यसादृश्यमेतेन 'प्रतिपादितम् । क्रमेणोपमेयोपमा ॥१५॥ एकस्यैवार्थस्योपमेयत्वमुपमानत्वं च क्रमेणोपमेयोपमा । यथा- 'खमिव जलं जलमिव खं हंस इव शशी शेशीव हंसोऽयम् । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' इयमेव परिवृत्तिरित्येके । तन्निरासार्थमाह- समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥ १६ ॥ १. 'यथा वा' ग-पुस्तके नास्ति. २. अयं श्लोकः क-पुस्तके नास्ति. ३. 'मनसः' ख-ग. ४. 'फलस्य ग. ५. 'सिद्धस्य क. ६. 'यथा ख-पुस्तके नास्तिः ७. 'उप- मानोपमेयत्वे' का 'उपमेयत्वमुंपमानत्वं च' ग. ८. 'वा' क. ९. ख-पुस्तके पूर्वो- तरार्धयोर्व्यत्ययः. क-पुस्तके पूर्वाधं नास्ति. १०. 'प्रतिपयते' क-ख. ११. 'एकस्यो- पमेयत्वे उपमानत्वे क्रमेण' क. १२ 'शशाङ्क इव हंसः' कना. काव्या. सू०६ - काव्यमाला । - समेन विसहशेन वार्थेनार्थस्य परिवर्तनं परिवृत्तिः । यथा- 'आदाय कर्णकिसलयमियमस्मै चरणमरुणमर्पयति । उभयोः सशविनिमयादन्योन्यमवञ्चितं मन्ये ।' यथा वा- 'विहाय सा हारमहार्यनिश्चया विलोलहष्टिः प्रविलुप्तचन्दना । बबन्ध बालारुणवच वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥' उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह- उपमेयोपमानानां क्रमसंबन्धः क्रमः ॥ १७॥ उपमेयानामुपमानानां चोदेशिनामनुदेशिनां च क्रमेण संबन्धः क्रमः । - यथा- 'तस्याः प्रवृद्धलीलाभिरालापस्मितदृष्टिभिः । जीयन्ते वल्लकीकुन्दकुसुमेन्दीवरस्रजः ॥' संबन्धप्रसङ्गेनैव दीपकं देर्शयितुमाह- उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ॥ १८ ॥ उपमानवाक्येषूपमेयवाक्येषु चैका क्रिया अनुषङ्गतः संबध्यमाना दी- पकम् । तैत्रिविधम् । आदिमध्यान्तवाक्यवृत्तिभेदात् ॥ १९ ॥ तैत्रिविधं भवति । आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात् । यथा- 'भूष्यन्ते प्रमदवनानि बालपुष्पैः कामिन्यो मधुमदमांसलैर्विलासैः । ब्रह्माणः श्रुतिगदितैः क्रियाकलापै राजानो विरलितवैरिभिः प्रतापैः ॥' 'बाष्पः पथिककान्तानां जलं जलमुचां मुहुः । विगलत्यधुना दण्डयात्रोद्योगो महीभुजाम् ॥' - १. 'अर्थेन चार्थस्य' ग. २. 'अस्मादनुचरणमर्थयति केला' क 'अस्मादिह चरण- मर्पयति बाला' ग. ३. 'यष्टिः' क-ग. ४. 'प्रबुद्ध' क. ५. 'लक्षयितुं' क. ६. 'उप- मानोपमेयादि' क. ७. 'तत्रै विध्यम्' क... 'तनिधा' क. ९. 'वृत्तिभेदातू' क.

- ४ अधि० ३ अ०] काव्यालंकारसूत्राणि । 'गुरुशुश्रूषया बुद्धिर्मधुगोष्ठ्या मनोभवः । उदयेन शशाङ्कस्य पयोराशिविवर्धते ॥' दीपकवन्निदर्शनमपि संक्षिप्तमित्याह- क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ।। २० ।। क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापनं संवलितहेतुदृष्टान्तविभागं निदर्शनम् । यथा- 'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् । आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थेः ॥' पततीति क्रिया । तस्याः खं पतनम् । तदर्थोऽत्युच्चपदाध्यासः पतना- येति शंसनम् । तस्य ख्यापनमर्थशालिनां शंसदिति । इदं च नार्थान्तरन्यासः । स ह्यन्यथाभूतः । तमाह- उक्तसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ॥ २१ ॥ उक्तसिच्चै उक्तस्यार्थस्य सिद्ध्यर्थ वस्तुनो वाक्यार्थान्तरस्यैव न्यसन- मर्थान्तरन्यासः । वस्तुग्रहणादर्थस्य हेतोसनं नार्थान्तरन्यासः । 'इह नातिदूरगोचरमस्ति सरः । कमलसौगन्ध्यात्' इति । अर्थान्तरस्यैवेति वचनम्, यत्र हेतुर्व्याप्तिगूढत्वात्कथंचित्प्रतीयते तत्र यथा स्यात् । 'यद्य- स्कृतकं तत्तदनित्यम्' इत्येवंप्रायेषु मा भूदिति । उदाहरणम्- 'प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजही जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ।' अर्थान्तरन्यासस्य हेतुरूपत्वात् हेतोश्चान्वयव्यतिरेकात्मकत्वात् न पृथग्व्यतिरेक इति केचित् । तन्निरासार्थमाह- उपमेयस्य गुणातिरेकत्वं व्यतिरेकः ॥ २२ ॥ है १. 'पयोधिरभिवर्धते' क. २. 'संलुलितहेतु' का 'संबुद्धिहेतु' ख. ३. 'शंसनम्' क-ग-पुस्तकयो स्ति. ४. 'वाक्यार्थस्यार्थान्तरस्येव' क. ५. 'पदार्थस्य क. ६. 'हेतु- प्राप्तिगूढत्वात्' का 'हेतुाप्तिरूढस्वात्' ख. ७. 'तत्रोदाहरणम्' क. ८. 'पीवर- स्तनी' क.

५६ काव्यमाला। - उपमेयस्य गुणातिरेकत्वं गुणाधिक्यं यत् अर्थादुपमानात् स व्यतिरेकः । यथा- 'सत्यं हरिणशावाक्ष्याः प्रसन्नसुभगं मुखम् । समानं शशिनः किं तु स कलङ्कबिडम्बितः ॥' कश्चित्तु गम्यमानगुणो व्यतिरेकः । यथा--- 'कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितममृतं भग्नं खादोः पदं रससंपदः । विषमुपहितं चिन्ताव्याजान्मनस्यपि कामिनां चतुरमधुरैर्लीलातन्त्रैस्तवार्धविलोकितैः ॥' व्यतिरेकाद्विशेषोक्तेर्भेदं दर्शयितुमाह- एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः ॥ २३ ॥ एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैः साम्यं यत्तस्य दाय वि- शेषोक्तिः । रूपकं चेद प्रायेणेति । यथा- 'भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।' 'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् ।' 'निद्रेयमकमला लक्ष्मीः। 'हस्ती हि जङ्गमं दुर्गम् ।' इति ।' अत्रापि जङ्गमशब्दस्य स्थावरत्वनिवृत्तिप्रतिपादनत्वादेकगुणहानिक- ल्पनैव । एतेन- 'वेश्या हि नाम मूर्तिमत्येव निकृतिः । 'व्यसनं हि नाम सोच्छासं मरणम् ।' 'द्विजो भूमिबृहस्पतिः। इत्येवमादिष्वेकगुणहानिकल्पना व्याख्याता । १. 'गुणातिरिक्तत्वं यत्' क. २. 'चतुरचतुरैलीलारम्भैः' ग. ३. 'यत्र तस्य' ख. ४. 'कापुरुषस्य' ग. ५. 'राज्यमिति' ग. ६. 'निद्रा' ख-ग-पुस्तकयो स्ति. ७. 'लक्ष्मीरिति' ग. ८. 'नाम' क-ग-पुस्तकयो स्ति. - - ४ अघि० ३ अ०] काव्यालंकारसूत्राणि । व्यतिरेकविशेषोक्तिभ्यां व्याजस्तुति भिन्नां दर्शयितुमाह- संभाव्यविशिष्टकर्माकरणानिन्दास्तोत्रार्था व्याजस्तुतिः ।। २४ ॥ अत्यन्तगुणाधिको विशिष्टस्तस्य च कर्म विशिष्टकर्म तस्य संभाव्यस्य कर्तुं शक्यस्याकरणानिन्दा विशिष्टसाम्यसंपादनेन स्तोत्रार्थी व्याज- स्तुतिः । यथा- 'बबन्ध सिन्धुं गिरिचक्रवालैर्बिभेद सप्तैकशरेण तालान् । एवंविधं कर्म ततान रामस्त्वया कृतं तन्न मुधैव गर्वः ।।' व्याजस्तुतेर्व्याजोक्तिं भिन्नां दर्शयितुमाह- व्याजस्य सत्यसारूपं व्याजोक्तिः ॥ २५ ॥ व्याजस्य च्छद्मनः सत्येन सारूप्यं व्याजोक्तिः । यां मायोक्तिरि- त्याहुः । यथा- 'शरच्चन्द्रांशुगौरेण वाताविद्धेन भौमिनि । काशपुष्पलवेनेदं साश्रुपातं मुखं कृतम् ॥' व्याजस्तुतेः पृथक्तुल्ययोगितेत्याह- विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ॥ २६ ॥ विशिष्टेन न्यूनस्य साम्यार्थमेककालायां क्रियायां योगस्तुल्ययोगिता । यथा- 'जलनिधिरशनामिमां धरित्री वहति भुजंगविभुर्भवद्भुजश्च ।' उपमानाक्षेपश्चाक्षेपः ॥ २७ ॥ उपमानस्याक्षेपः प्रतिषेध उपमानाक्षेपः । तुल्यकार्यार्थस्य नैरर्थक्य- विवक्षायाम् । यथा- 'तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ च यदि चेकिं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तस्याधरे हो धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' १. 'स्तोत्रार्थ ख. २. 'साम्योपादानेन' क. 'साम्यापादनेन' ग. ३. 'वोत्रार्थ' ख. ४. 'मायोक्ति' ख. ५. 'भाविनि' ग. ६. 'एककालक्रियायोगः एककालायां क. ७. 'उपमानाक्षेपः' ग... 'नरर्थ्य विवक्षायामाक्षेपः' ग.९. 'हीधातुः क. 'हीधातः'ग.

काव्यमाला। - : उपमानस्याक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः । यथा--- 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दं तापं रवेरभ्यधिकं चकार ॥' अत्र शरद्वेश्येव, इन्दं नायकमिव, रवेः प्रतिनायकस्येवेत्युपमानानि गम्यन्त इति । तुल्ययोगितायाः सहोक्तेर्भेदमाह- वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ॥ २८ ॥ वस्तुद्वयस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्दसा- मर्थ्यात्सहोक्तिः । यथा--- 'अस्तं भावान्प्रयातः सह रिपुभिरयं संहियन्तां बलानि ।' अत्रार्थयोन्यूनत्वविशिष्टत्वे नै स्त इति नेयं तुल्ययोगितेति । समाहितमेकमवशिष्यते तल्लक्षणार्थमाह- यत्सादृश्यं तत्संपत्तिः समाहितम् ॥ २९ ॥ यस्य वस्तुनः सादृश्यं गृह्यते तस्य वस्तुनः संपत्तिः समाहितम् । यथा- 'तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः खकालविरहाद्विश्रान्तपुष्पोद्गमा । चिन्तामोहमिवास्थिता मधुलिहां शब्दविना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥' अत्र पुरूरवसो लतायामुर्वश्याः सादृश्यं गुहतः सैव लतोर्वशी संपन्नेति । एते चालंकाराः शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानामलंकाराणां मिश्रत्वं संसृष्टिरित्याह- अलंकारस्यालंकारयोगित्वं संसृष्टिः ॥ ३० ॥ अलंकारस्यालंकारयोगित्वं यदसौ संसृष्टिरिति । संसृष्टिः संसर्गः संबन्ध इति । १. 'ततान' ख. २. 'द्वयक्रिययोः' ख.३. 'न स्त इति न तुल्य' ख. 'न इति नेयं तुल्य' ग. ४. 'तत्र लक्षणार्थ' क. ५. 'गृह्णानस्य' क. ६. 'यत्तदसौ' ग. ७. 'इति' काग-पुस्तकयो स्ति.

- ५ अधि० १ अ०] काव्यालंकारसूत्राणि । ५९ तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ॥ ३१ ॥ तस्याः संसृष्टेभैदावुपमारूपकं चोत्प्रेक्षावयवश्चेति । उपमाजन्य रू- पकमुपमारूपकमिति । यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् । प्रथम इंव भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥' एवं रजनिपुरंघिरोघेतिलकः' इत्येवमादयस्तद्भेदा =ष्टव्याः । उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ॥ ३२॥ उत्प्रेक्षाया हेतुरलंकार उत्प्रेक्षावयवः । अवयवशब्दो ह्यारम्भक लक्षयति । यथा- 'अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुमलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥' एभिर्निदर्शनैः खीयैः परकीयैश्च पुष्कलैः । शब्दवैचित्र्यगर्भेयमुपमैव प्रपञ्चिता ॥ अलंकारैकदेशा ये मताः सौभाग्यभागिनः । तेऽप्यलंकारदेशीया योजनीयाः कवीश्वरैः ।। इति काव्यालंकारसूत्रवृत्तीवालंकारिके चतुर्थेऽधिकरणे तृतीयोऽध्यायः । उपमाप्रपञ्चाधिकारः। समाप्तं चेदमालंकारिक चतुर्थमधिकरणम् । - प्रायोगिकं नाम पञ्चममधिकरणम् । प्रथमोऽध्यायः। संप्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकाख्यमधिकरण- मारभ्यते । तत्र काव्यसमयस्तावदुच्यते- नैकं पदं द्विः प्रयोज्यं प्रायेण ॥१॥ १. 'इह' ख. २. 'रजनिचरपुरंघ्रि' क. ३. 'लोकतिलकः शशी' ग. ४. 'द्रष्टव्या इति' ख. ५. 'अलंकारः' ख-पुस्तके नास्ति. ६. 'ऽस्या रूपकं सूचयति' ख. ७. 'अ- मिलक्षणैः स्वीयैः' ख. ८. 'बहुवैचित्र्य' ख. ९. 'सौभाग्यशालिनः' क. १०. 'आ- लंकारिकाधिकरणेऽर्थालंकारकथन' ग. ११. 'उपमाप्रपञ्चाधिकारः' क-ग-पुस्तकयो- नास्ति. १२. 'प्रायोगिकार्थमधिकरणमाह' ग. १३. 'उच्यत इत्याह' क. - काव्यमाला। : ARMA एकं पदं न द्विः प्रयोज्यं प्रायेण बाहुल्येन । यथा---'पयोद पयोद' इति । किंचिदिवादिपदं द्विरपि प्रयोक्तव्यमिति । यथा---'सन्तः सन्तः खकाः खलाः । नित्यं संहितैकपदवत्पादेष्वर्धान्तवर्जम् ॥ २ ॥ नित्यं संहिता पादेष्वेकपदवदेकस्मिन्निव पदे । तत्र हि नित्या संहि- तेत्याम्नायः । यथा-'संहितैकपदे नित्या नित्या धातूपसर्गयोः' इति । अर्घान्तवर्जमर्धान्तं वर्जयित्वा । न पादान्तलघोर्गुरुत्वं च सर्वत्र ॥ ३ ॥ पादान्तलघोर्गुरुत्वं प्रयोक्तव्यं न सर्वत्र न सर्वसिन्वृत्त इति । यथा- 'यासां बलिर्भवति मगृहदेहलीनां हंसैश्च सारसंगणैश्च विलुप्तपूर्वः । ताखेव पूर्ववलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥' एवंप्रायेष्वेव वृत्तेष्विति । न पुनः 'वरूथिनीनां रजसि प्रसर्पति समस्तमासीद्विनिमीलितं जगत् ।' इत्यादिषु । चकारोऽर्धान्तवर्जमित्यस्यानुकर्षणार्थः । न गये समाप्तप्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादात् ॥ ४ ॥ गये समाप्तप्रायं वृत्तं न विधेयम् । शोभानंशात् । अन्यत्रोद्गता- दिभ्यो विषमवृत्तेभ्यः । संवादात् गद्येनेति । न पादादौ खल्वादयः ॥५॥ पादादौ खल्वादयः शब्दा न प्रयोज्याः । आदिशब्दः प्रकारार्थः । येषामादौ प्रयोगो न श्लिष्यति ते गृह्यन्ते । न पुनर्बतहन्तप्रभृतयः । नार्धे किंचिदसमाप्तप्रायं वाक्यम् ॥ ६॥ १. 'प्रयोकव्यं ख. २. 'दिवादि' क-ख. ३. 'इति दर्शयति' क-ख. ४. 'समा- सप्राय ख. ५. 'समासप्राय ख.

- ५ अधि० १ अ०] काव्यालंकारसूत्राणि । ६१ वृत्तस्यार्धे किंचिदंसमाप्तप्रायं न प्रयोक्तव्यम् । यथा- 'जयन्ति ताण्डवे शंभोभङ्गुराङ्गुलिकोटयः । कराः कृष्णस्य च भुजाश्चक्रांशुकपिशत्विषः ॥' न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥७॥ बहुव्रीहिप्रतिपत्तिं करोति यः कर्मधारयः स न प्रयोक्तव्यः । यथा- 'अध्यासितश्चासौ तरुश्चाध्यासिततरुः' इति । तेन विपर्ययो व्याख्यातः ॥८॥ बहुव्रीहिरपि कर्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः । यथा-'वीराः पुरुषा यस्य स वीरपुरुषः' । 'कलो रवो यस्य स कलरवः ।' इति । संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ॥९॥ संभाव्यस्य निषेधस्य निवर्तने द्वौ प्रतिषेधौ प्रयोक्तव्यौ । यथा- समरमूर्धनि येन तरखिना न न जितो विजयी त्रिदशेश्वरः । स खलु तापसबाणपरम्पराकवलितक्षतजः क्षितिमाश्रितः ॥' विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ॥ १० ॥ विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः । यथा- 'निधानगर्भामिव सागराम्बराम् । अत्र हि पृथिव्या विशेषणमात्रमे प्रत्युक्तम् । एतेन 'क्रुद्धस्य तस्याथ पुरामरातेर्ललाटपट्टादुदगादुदर्चिः ।' 'गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः।' इत्यादयः प्रयोगा व्याख्याताः । सर्वनाम्नानुसंधित्तिच्छन्नस्य ॥ ११ ॥ सर्वनाम्नानुसंघिरनुसंधानं प्रत्यवमर्शः । वृत्तिच्छन्नस्य वृत्तौ समासे छन्नस्य गुणीभूतस्य । यथा--- १. 'असमाप्तं वाक्यं न विधेयं प्रयोक्तव्यम्' का 'समाप्तप्रायं वाक्यं न प्रयोज्यम्' ग. २. 'चकाई ख. ३. 'विप्रतिपत्ति' क. ४. 'विप्रतिपत्ति' क. ५. "विप्रतिपत्ति' क. ६. "निषेधौ' क. ७. 'यशस्विना' क. ८. 'एव' क-पुस्तके नास्ति. ९. 'गिरेख- डिस्वानियादयः' क-ग.

६२ काव्यमाला। -- 'तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानगन्धिनः' इति । संबन्धसंबन्धेऽपि षष्ठी क्वचित् ॥ १२॥ संबन्धेन संबन्धः संबन्धसंबन्धस्तस्मिन् षष्ठी प्रयोज्या क्वचित् , न सर्वत्रेति । यथा-'कमलस्य कन्दः' इति । कमलेन संबद्धा कमलिनी नलिनी तस्याः कन्द इति संबन्धसंबन्धः । तेन कैदलीकाण्डादयो व्या- ख्याताः। अतिप्रयुक्तं देशभाषापदम् ॥ १३ ॥ अतीव कविभिः प्रयुक्तं देशभाषापदं प्रयोज्यम् । यथा-'योषिदित्य- भिललाष न हालां' इत्यत्र हालेति देशभाषापदम् । अनतिप्रयुक्तं तु न प्रयोज्यम् । यथा-कथेलीकाननालीरविरलवि- लसत्पल्लवा नर्तयन्तः' इत्यत्र कथेलीपदम् । लिङ्गाध्याहारौ ॥ १४ ॥ लिङ्गं चाध्याहारश्च लिङ्गाध्याहारावतिप्रयुक्तौ प्रयोज्याविति । यथा- 'वत्से मा बहु निःश्वसीः कुरु सुरागण्डूषमेकं शनैः' इत्यादिषु गण्डूष शब्दः पुंसि भूयसा प्रयुक्तः, न स्त्रियामाम्नातोऽपि स्त्रीत्वे । अध्याहारो यथा- 'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वाहिनीजलभरः कुलिशं वा खस्ति तेऽस्तु लतया सह वृक्ष ॥' अत्र ह्यधाक्षीदित्यादीनामध्याहारोऽन्वयप्रयुक्तः । लक्षणाशब्दाश्च ॥१५॥ लक्षणाशब्दाश्चातिप्रयुक्ताः प्रयोज्याः । यथा द्विरेफैरथचरणशब्दौ - १. 'कमलिनी' ख-ग-पुस्तकयो स्ति. २. 'कमल' ख; 'कदल' ग. ३. 'दयो. ऽपि' ख. ४. 'कल्ली' ख. ५. 'नर्तयन्ति' का 'नर्तयन्ते' ग. ६. कथेली' ख. ७. 'इति' काग-पुस्तकयो स्ति. ८. 'वजमिन्द्रकरविप्रसृतं वा काग. ९. "क्रि- यापदानामध्याहारो' ग. १०. 'अयं प्रयुक्त इति' ख; 'उत्पन्नप्रयुक्ततया युक्त इति' ग. ११. 'द्विरेफरोदरशब्दो' क-ग.

५ अधि० २ अ.] काव्यालंकारसूत्राणि । भ्रमरचक्रवाकार्थों लक्षणापरौ । अनतिप्रयुक्ताश्च न प्रयोक्तव्याः । यथा- द्विकः काक इति । न तद्बाहुल्यमेकत्र ॥१६॥ तेषां लक्षणाशब्दानां बाहुल्यमेकसिन्वाक्ये न प्रयोक्तव्यम् । शक्यते टेकस्यावाचकस्य वाचकवद्भावः कर्तुम् , न बहूनामिति । स्तनादीनां द्विखाविष्टा जातिः प्रायेण ॥ १७ ॥ स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येनेति । यथा---'स्तनयोस्तरुणीजनस्य-' इति । प्रायेणेति वचनात्कचिन्न भवति । यथा-'स्त्रीणां चक्षुः' इति । अथ कथं द्वित्वाविष्टत्वं जातेः । तद्धि द्रव्ये, न जातौ । अतद्रूपत्वाजातेः । न दोषः । तदतद्रूपत्वाजातेः । कथं तदतद्रूपत्वं जातेः । तद्धिं जैमिनीया जानन्ति । वयं तु लक्ष्यसिद्धौ सिद्धपरमतानुवादिनः । न चैवमतिप्रसङ्गः । लक्ष्यानुसारित्वान्न्यायस्येति । एवमन्यापि व्यवस्थोह्या। इति काव्यालंकारसूत्रवृत्तौ प्रायोगिक पञ्चमेऽधिकरणे प्रथमोऽध्यायः। काव्यसमयः। AA- द्वितीयोऽध्यायः । सांप्रतं शब्दशुद्धिरुच्यते- रुद्रावित्येकशेषोऽन्वेष्यः॥१॥ रुद्रावित्यत्र प्रयोगे एकशेषोऽन्वेष्योऽन्वेषणीयः । रुद्रश्च रुद्राणी चेति “पुमान्स्त्रिया' इत्येकशेषः । स च न प्राप्नोति । तत्र हि' 'तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तत 'इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव विशेषो भव- १. 'प्रयोज्याः' क. २. 'वाक्ये तीकस्या-कर्तु शवयो न ख; 'शक्येन ह्येकस्य वाचकवद्भावो न' क. ३. 'इति' ख-पुस्तके नास्ति. ५. 'तस्याः' क-ख. ५. 'तद्रूप क. ६. 'तद्धि' क-ग-पुस्तकयो स्ति. ७. 'इति' ख-पुस्तके नास्ति. ८. 'व्यवस्था' प्यूह्या' ख-ग. ९. 'शुद्धिरुच्यते इत्याह' ख. 'शुद्धयेत्यत आह' ग. १०. 'इति' ख. पुस्तके नास्ति.

काव्यमाला। तीतिव्यवस्थितम् । अत्र तु 'योगादाख्यायाम् ' इति विशेषान्तरमप्यस्तीति । एतेनेन्द्रौ भवौ शर्वावित्यादयः प्रयोगाः प्रत्युक्ताः । मिलिलविक्षपिप्रभृतीनां धातुबम् । धातुगणसासमासेः ॥ २॥ मिलतिविक्लवतिक्षपयतीत्यादयः प्रयोगाः । तत्र मिलिक्लविक्षपिप्रभृतीनां कथं धातुत्वम् । गणपाठात् गणपठितानामेव धातुसंज्ञाविधानात् । तत्राह- धातुगणस्यासमाप्तेः । वर्धते धातुगण इति हि शब्दविंद आचक्षते । तेनैषां गणपाठोऽनुमतः शिष्टप्रयोगादिति । वैलेरात्मनेपदमनित्यं ज्ञापकात् ॥३॥ वेलेरनुदात्त्वादात्मनेपदं यत्तदनित्यं दृश्यते 'लज्जालोलं वलन्ती' इत्यादि प्रयोगेषु । तत्कथमित्याह-ज्ञोपकात् । किं पुनस्तज्ज्ञापकमत आह- चक्षिडो बँनुबन्धकरणम् ॥ ४ ॥ चक्षिङ इकारेणैवानुदात्तेन सिद्धमात्मनेपदं किमर्थं ङित्करणम् । यत्क्रियते अनुदात्तनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनार्थम् । एतेन वेदि- भासि-तर्जिप्रभृतयो व्याख्याताः । आवेदयति-भर्सयति-तर्जयतीत्यादीनां प्रयोगाणां दर्शनात् । अन्यत्राप्यनुदात्तनिबन्धनस्यात्मनेपदस्यानित्यत्वं ज्ञापकेन द्रष्टव्यमिति । क्षीयत इति कर्मकर्तरि ॥५॥ क्षीयत इति प्रयोगो दृश्यते स कर्मकर्तरि द्रष्टव्यः । 'क्षीयतेरना- त्मनेपदित्वात् । १. 'शौं' ख-पुस्तके नास्ति २. 'प्रयुक्ताः' क. ३. 'मिलिविक्लविक्षपयति' क. मिलिविक्लविक्षपि' ग. ४. 'विक्लवते' क. ५. 'अत आहे' क-ग. ६. 'धातुसंज्ञागण- स्यापरिसमाप्तेः' ग. ७. 'चलेः' ख. ८. 'ज्ञापकत्वात्' ग. ९. 'चले:ख. १०. 'चल- तीत्यादि ख. ११. 'पदेषु' ग. १२. 'ज्ञापकत्वात्' ग. १३. 'ज्ञापकत्वं' ग. १४. 'अत आह' क-ग पुस्तकयो स्ति. १५. 'अनुबन्ध' ख. १६. 'अनुदात्तत्वेनात्मनेपदं सिद्ध' क. १७. 'तत्' ख. १८. 'तेन विदि' का 'एतेनावेदितभत्सिततर्जितप्रभृतयो' ग. १९. 'अत्रापि' क-ख. २०. 'यः स' ख. २१. 'क्षयतेः खः 'क्षियोरात्मने ग.

. ५ अधि० २ अ०] काव्यालंकारसूत्राणि । खिंद्यत इति च ॥६॥ खिंद्यत इति च प्रयोगो दृश्यते सोऽपि कर्मकर्तवैव द्रष्टव्यः, न कर्त- रि। अदैवादिकत्वात्विदेः। मार्गेरात्मनेपदमलक्ष्म ॥ ७॥ चुरादौ 'मार्ग अन्वेषणे' इति पठ्यते 'आ धृषाद्वा' इति विकल्पित- णिच्कः तस्माद्यदात्मनेपदं दृश्यते---'मार्गन्तां देहभारं-' इति तदलक्ष्म अलक्षणम् । परस्मैपदित्वान्मार्गः । तथा च शिष्टप्रयोगः-'करकिसलयं धूत्वा धूत्वा विमार्गति वाससि ।' लोलमानादयश्चानशि ॥ ८॥ लोलमानो वेल्लमान इत्यादयश्चानशि द्रष्टव्याः । शानचस्त्वभावः । पर- सैपदित्वाद्धातूनामिति । लभेर्गत्यर्थत्वाणिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ ९ ॥ अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह, अस्ति च गत्युपसर्जनां प्राप्तिमाहेति । अत्र पूर्वस्मिन्पक्षे गत्यर्थत्वाल्लभेणिच्यणौ यः कर्ता तस्य गत्यादिसूत्रेण कर्मसंज्ञा । यथा- 'दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शिशिराः शशिभासः ।' द्वितीयपक्षे गत्याल्लभेणिच्युणौ कर्तुन कर्मसंज्ञा । यथा- 'सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥' ते मे-शब्दौ निपातेषु ॥ १० ॥ त्वयामयेत्यस्मिन्नर्थे ते-मे-शब्दौ निपातेषु द्रष्टव्यौ । यथा- 'श्रुतं ते वचनं तस्य', 'वेदानधीत इति नाधिगतं पुरा मे'। तिरस्कृत इति परिभूतेऽन्तर्युपचारात् ॥ ११ ॥ तिरस्कृत इति शब्दः परिभूते दृश्यते । 'राज्ञा तिरस्कृतः' इति । स १. 'खिद्यत इत्यपि च' का 'भिद्यते' ग. २. 'खिद्यते' का 'मिद्यते' ग. ३. 'दे. हभावं' का 'देहसारान्' ग. ४. 'तथायं' क. ५. 'धुवा धुला' ग. ६. 'च' क.ग. पुस्तकयो स्ति. काव्या. सू० ७ काव्यमाला। । च न प्राप्नोति । तिरःशब्दस्य हि 'तिरोऽन्तर्धी' इत्यन्तधौं गतिसंज्ञा । तस्यां च सत्यां 'तिरसोऽन्यतरस्याम्' इति सकारः । तत्कथं तिरस्कृत इति परिभूते । आह-अन्तर्युपचारादिति । परिभूतो ह्यन्तर्हितवद्भवति । मुख्यस्तु प्रयोगो यथा-'लावण्यप्रसरतिरस्कृताङ्गलेखां' इति । नैकशब्दः सुप्सुपेति समासात् ॥ १२ ॥ 'अरण्यानीस्थानं फलनमितनैकद्रुममिदं' इत्यादिषु नैकशब्दो दृश्यते स च न सिध्यति । नसमासे 'नलोपो नञः' इति नलोपे 'तस्मान्नुडचि' इति नुडागमे सत्यनेकमिति रूपं स्यात् । निरनुबन्धस्य नशब्दस्य समासल- क्षणं नास्ति । तत्कथं नैकशब्द इत्याह-सुप्सुपेति समासात् । मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ १३ ॥ 'मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधाम्' इत्यादिषु मधु- पिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात् । 'श्रिता- दिषु गमिगाम्यादीनाम्' इति द्वितीयासमासलक्षणं दर्शयति । त्रिवलीशब्दः सिद्धः संज्ञा चेत् ॥ १४ ॥ त्रिवलीत्ययं शब्दः सिद्धो यदि संज्ञा । 'दिक्संख्ये संज्ञायाम्' इति संज्ञायामेव समासविधानात् । बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ॥ १५ ॥ 'विम्बाधरः पीयते' इति प्रयोगो दृश्यते । स च न युक्तः । अधर- बिम्ब इति भवितव्यम् । 'उपमितं व्याघ्रादिभिः' इति समासे सति । तत्कथं बिम्बाधर इत्याह-वृत्तौ मध्यमपदलोपिन्यां शाकपार्थिवादित्वा- समासे । मध्यमपदलोपिनि समासे सति बिम्बाकारोऽधरो बिम्बाधर इति । तेन बिम्बौष्ठशब्दोऽपि व्याख्यातः । अत्रापि पूर्ववद्वृत्तिः । शिष्ट- प्रयोगेषु चैष विधिः । तेन नातिप्रसङ्गः । आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ॥ १६ ॥ १. 'इदं क-पुस्तके नास्ति. २. 'न' ख-पुस्तके नास्ति. ३. 'गम्यादिषु' ख. ४. 'समासे' क-ख-पुस्तकयो स्ति. ५. 'अपि' क-ग-पुस्तकयोनास्ति. ६. 'प्रयु- तेषु' ग.

५ अधि० २ अ०] काव्यालंकारसूत्राणि । आमूललोलमामूलसरलमित्यादिषु वृत्तिर्विस्पष्टपटुवत् । मयूरव्यंसका- दित्वात् । लोलमिव लोलम् आमूलं च तल्लोलं चेति । न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः । पूरणेनान्यतद्धितान्त- खात् ॥ १७ ॥ धान्यषष्ठं 'तान्युञ्छषष्ठाङ्कितसैकतानि' इत्यादिषु न षष्ठीसमासप्रसि- षेधः । पूरणेन पूरणप्रत्ययान्तेनान्यतद्धितान्तत्वात् । षष्ठो भागः षष्ठ इति । 'पूरणाद्भागे तीयादन्' 'षष्ठाष्टमाभ्यां अच' इत्यन्विधानात्स प्राप्तः । पत्रपीतिमादिषु गुणवचनेन ॥ १८ ॥ पत्रपीतिमा पैत्रालीपिङ्गलिमा इत्यादिषु षष्ठीसमासप्रतिषेधो गुणवच- नेन प्राप्तो बालिश्यात्तुं न कृतः । अवो बहुव्रीहिय॑धिकरणो जन्मायुत्तरपदः॥ १९ ॥ अवयॊ न वर्जनीयो व्यधिकरणो बहुव्रीहिः । जन्माधुत्तरपदं यस्य स जन्माधुत्तरपदः । यथा---'शास्त्रार्थजन्मा हि विवेकलाभः', 'कण्ठ- वृत्तयः प्राणाः' इति । हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ॥२०॥ हस्तानमग्रहस्तः पुष्पाग्रमग्रपुष्पमित्यादयः प्रयोगाः कथम् । आहि- ताम्यादिष्वपाठात् । पाठे वा तदनियमः स्यात् । आह-गुणगुणिनोर्मे- दाभेदात् । तत्र भेदात् हस्ताग्रादयः । अभेदादग्रहस्तादयः । पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ २१॥ काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति तत्रापभ्रंशो रक्ष्यो रक्षणीयः । अनित्यत्वज्ञापनं तु न सर्वविषयमिति । निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः । परिगणनस्य प्रायिकत्वात् ॥ २२॥ १. 'सरसं' क. २. 'पक्ष्मालीपिङ्गलिसा' ग. ३. 'तु' क-ग-पुस्तकयो स्ति. ४. 'कण्ठे वृत्तयः' ख. ५. 'अत आह' ख. ६. 'तत्र' ख-पुस्तके नास्ति. ७. 'पूर्व- निपातापभ्रंशो' का 'लध्वक्षरपूर्व निपातेऽपभ्रंशो वयंः' ग. ८. 'वयः' ग. ९. 'ज्ञापकं ख.

काव्यमाला। 'अनभिहिते' इत्यत्र सूत्रे 'तिङ्कृत्तद्धितसमासैः' इति परिगणनं कृतं तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भवति । यथा-'विषवृक्षोऽपि संवर्ध्य वयं छेत्तुमसांप्रतम्' इति । 'पण्डितं मूर्ख- इति मन्यते'। शक्यमिति रूपं विलिङ्गवचनस्यापि कर्माभिधायां सामान्योप- क्रमात् ॥ २३ ॥ शैकेः 'शकिसहोश्च' इति कर्मणि यति कृते शक्यमिति रूपं भवति । विलिङ्गवचनस्यापि विरुद्धलिङ्गवचनस्यापि कर्माभिधायां कर्मवचने सामान्योपक्रमात् विशेषानपेक्षायामिति । यथा- शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव । अप्रगल्भयवसूचिकोमलाश्छेत्तुमानखसंपुटैः कराः ।। अत्र भाष्यकृद्वचनं लिङ्गम् । यथा-'शक्यं च श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम्' इति । न चैकान्तिकः सामान्योपक्रमः । तेनै-'शक्या भकं इंटिति बिसिनीकन्दवच्चन्द्रपादाः' इत्यपि भवति । हानिवदाधिक्यमप्यङ्गानां विकारः ॥ २४ ।। 'येनाङ्गविकारः' इत्यत्र सूत्रे यथाङ्गानां हानिस्तथाधिक्यमपि विकारः । यथा--'अक्ष्णा काणः' इति भवति तथा 'मुखेन त्रिलोचनः' इत्यपि भवति । न कृमिकीटानामिति । एकवद्भावप्रसङ्गात् ॥ २५ ॥ 'आयुषः कृमिकीटानामलंकरणमल्पता' इत्यत्र कृमिकीटानामिति प्रयोगो न युक्तः । 'क्षुद्रजन्तवः' इत्येकवद्भावप्रसङ्गात् । न च मध्यमपद- लोपी समासो युक्तः । तस्यासर्वविषयत्वात् । न, खरोष्ट्रौ । उष्ट्रखरमिति पाठात् ॥ २६ ॥ १. 'कर्माभिधानं' क. २. 'शकेः' इति ख-पुस्तके पूर्वसूत्रे क्षिप्तम्. ३. 'तदाह' क-ख. ४. 'झगिति' क. ५ 'विकाराय' क. ६. ख-पुस्तकेऽस्याग्रिमस्य च सूत्रस्य विपर्ययः.

५ अधि० २ अ०] काव्यालंकारसूत्राणि । ६९ 'खरोष्ट्रौ वाहनं येषाम्' इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः । ग- वाश्वप्रभृतिषष्ट्रखरमिति पाठात् । आसेत्यसतेः ॥२७॥ 'लावण्यमुत्पाद्य इवास यत्नः' इत्यत्रासेत्यसतेर्धातोः 'अस गतिदीत्या- दानेषु' इत्यस्य प्रयोगः, नास्तेः भूभावविधानात् । युध्येदिति युधः क्यचि ॥ २८ ॥ 'यो भर्तृपिण्डस्य कृते न युध्येत्' इति प्रयोगः स चायुक्तः । युधे- रात्मनेपदित्वात् । तत्कथं युध्येदित्याह-युधः क्यचि । युधमात्मन इच्छे- धुंध्येदिति । विरलायमानादिषु क्यङ् निरूप्यः ॥ २९ ॥ 'विरलायमाने मलयमारुते' इत्यादिषु क्यङ् निरूप्यः । भृशादिषु पाठात् । नापि क्यष् । लोहितादिष्वपाठात् । अहेतौ हन्तेणिच् । चुरादिपाठात् ॥ ३०॥ 'घातयित्वा दशास्यम्' इत्यत्राहेतौ णिच् दृश्यते स कथमित्याह-चुरा- दिपाठात् । चुरादिषु "चट स्फुटभेदे' 'घट संघाते' हन्त्यर्थाश्च' इति पाठात् । अनुचरीति चरेष्टित्वात् ॥ ३१ ॥ 'अनुचरी प्रियतमा मदालसा' इत्यत्रानुचरीति न युक्तः । ईकारल- क्षणाभावात् । तत्कथम् । आह-चरेष्टित्वात् । पचादिषु चरडिति पैठ्यते । केसरालमित्यलतेरणि ॥ ३२ ॥ 'केसरालं शिलीन्ध्र' इत्यत्र केसरालमिति कथम् । आह-अलते- रणि । 'अलं भूषणपर्याप्तिवारणेषु' इत्यस्माद्धातोः केसरशब्दे कर्मण्युप- पदे 'कर्मण्यण' इत्यनेनाणि सति केसरालमिति सिध्यति । १. 'वृषभं चानयेति' ग. २. पाठो' ख. ३. 'युध्यते' क-ख. ४. 'तत्' ख-पुस्तके नास्ति. ५. 'इच्छति' क-ख. ६. 'युध्येदिति' क-ख-पुस्तकयो स्ति. ७. 'अपाठात्' क-ख. ८. 'चुरादिषु' क. ९. 'इत्याह' ग-पुस्तके नास्ति. १०. तत्क- थम्' क-पुस्तके नास्ति. ११. 'पाठात्' ख. १२. 'इत्यस्मात्पर्याप्त्यर्थ केसरशब्दे' क. १३. 'सिध्यति' ख-पुस्तके नास्ति.

काव्यमाला। पत्रलमिति लाते के ॥ ३३ ॥ 'पत्रलं वनमिदं विराजते' इत्यत्र पत्रलमिति कथम् । आह-लातेः 'ला आदाने' इत्येतस्माद्धांतोरादानार्थात् पत्रशब्दे कर्मण्युपपदे 'आतोऽनुपसर्गे कः' इति कप्रत्यये सतीति । महीधादयो मूल विभुजादिदर्शनात् ॥ ३४ ॥ महीधरणीध्रादयः शब्दा मूलविभुजादिदर्शनात्कप्रत्यये सतीति । महीं धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः ॥ ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ॥ ३५ ॥ ब्रह्मादिषूपपदेषु हन्तेः विविधौ ‘ब्रह्मभ्रूणवृत्रेषु-' इत्यत्रारिहा रि- पुहा इत्येवमादीनामसिद्धिः । नियमात् । 'ब्रह्मादिष्वेव, हन्तेरेव, किबेव, भूतकाल एवेति चतुर्विधश्चात्र नियमः' इति नियमान्यतरविषयो निरूप्यः। ब्रह्मविदादयः कृदन्तवृत्त्या ।। ३६ ॥ ब्रह्मविद्वृत्रभिदित्यादयः प्रयोगा न युक्ताः । 'ब्रह्मभ्रूण-' इत्यादिषु 'हन्तेरेव' इति नियमात् । आह-कृदन्तवृत्त्या । वेत्तीति वित् । भिन- त्तीति भित् । 'विप् च' इति विप् । ततः कृदन्तैर्विदादिभिः सह ब्रह्मा- दीनां षष्ठीसमास इति । तैर्महीधरादयो व्याख्याताः ॥३७ ।। तैर्विदादिभिर्महीधरादयो व्याख्याताः । धरतीति धरः । मह्या धरो महीधरः । एवं गङ्गाधरादयो व्याख्याताः । भिदुरादयः कर्मकर्तरि कर्तरि च ॥ ३८ ॥ भिदुरं काष्ठम् । मिदुरं तमः । 'तिमिरभिदुरं व्योम्नः शृङ्गं-' इति । छिदुरातपो दिवसः । मत्सरच्छिदुरं प्रेम । भङ्गुरा प्रीतिः । 'मातङ्गं मा- नभङ्गुरम्' इत्यादयो हि प्रयोगा दृश्यन्ते । कथमित्याह ते कर्मकर्तरि कर्तरि च भवन्ति । 'कर्मकर्तरि चायमिष्यते' इत्यत्र हि चकारः कर्तरि चेत्यस्य समुच्चयार्थः । १. ग-पुस्तकमेतावत्पर्यन्तमस्ति. २. 'धरणीध्रा इत्यादयः' क. ३. 'कृदन्तस्य' क. ४. “शब्दप्रयोगाः' क. ५. 'ब्रह्मादिषु हन्तेरत्र नियमात्' ख. ६. "मिदुरै तमः' क. पुस्तके नास्ति. ७. 'ते' क-पुस्तके नास्ति. ८. 'भवन्ति' क-पुस्तके नास्ति.

५ अधि० २ अ० काव्यालंकारसूत्राणि । ७१ गुणविस्तरादयश्चिन्त्याः ॥ ३९ ॥ गुणविस्तरः व्याक्षेपविस्तरः इत्यादयः प्रयोगाश्चिन्त्याः । 'प्रथने वाव- शब्दे' इति घप्रसङ्गात् । अवतरावचायशब्दयोर्दीर्घहस्वखव्यत्यासो बालानाम् ॥ ४० ॥ अवतरशब्दस्यावचायशब्दस्य च दीर्घत्वबखत्वयोर्व्यत्यासो बालानां बालिशानां प्रयोगेष्विति । ते ह्यवतरणमवतार इति प्रयुञ्जते । मारुता- वतार इति । स ह्ययुक्तः । भावे तरतेरैविधानात् । अवचयनमवचय इति प्रयुञ्जते । पुष्पावचय इति अत्र 'हस्तादाने चेरस्तेये' इति घञ्प्राप्त इति शोभेतिनिपातनात् ॥ ४१॥ शोभेत्ययं शब्दः साधुः निपातनात् । 'शुभशुम्भ शोभार्थी' इति शुभेर्भिदादेराकृतिगणवादङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । शोभार्थावित्यत्रैकदेशे किं शोभा, आहोखिच्छोभ इति विशेषावग- तिराचार्यपरम्परोपदेशादिति । अविधौ गुरोः स्त्रियां बहुलं विवक्षा ॥ ४२ ॥ अविधावविधाने 'गुरोश्च हलः' इति स्त्रियां बहुलं विवक्षा । कचि- द्विवक्षा, कचिदविवक्षा, क्वचिदुभयमिति । विवक्षा यथा-ईहा लजेति । अविवक्षा यथा--आतङ्क इति । विवक्षाविवक्षे यथा-बाधा बाधः, ऊहा अहः, ब्रीडा ब्रीडः, इति । व्यवसितादिषु क्तः कर्तरि चकारात् ॥ ४३ ॥ व्यवसितः प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि । गत्या- दिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थत्वं चकार- स्येति चेत् , आंवृत्तिः कर्तव्या । आहेति भूतेऽन्यलेंडन्तभ्रमाद् बुवो लटि ॥४४॥ 'ब्रुवः पञ्चानां' इत्यादिना आहेति लट्युत्पादितः । स भूते " १. 'व्याक्षेपः' ख. २. 'ह्यवतर अवतारः' क. ३. 'रविधानात्' क. ४. 'अव- चायमवचयः' ख. ५. 'अत्र' क-पुस्तके नास्ति. ६. 'दङः सिद्धलादेव' ख. ७. 'पार- म्पर्योपदेशात्' क. ८. 'कर्तरि क्तः' ख. ९. 'तदावृत्तिः' ख. १०. 'लन्त' क.

७२ काव्यमाला । प्रयुक्तः । 'इत्याह भगवान्प्रभुः' इति । अन्यस्य भूतकालाभिधायिनो लडन्तस्य लिटि भ्रमात् । निपुणांश्चैवं प्रयुञ्जते-'आह म सितमधु- मधुराक्षरां गिरम्' इति । 'अनुकरोति भगवतो नारायणस्य' इत्यत्रापि मन्ये 'स्म'शब्दः कविना प्रयुक्तो लेखकैस्तु प्रैमादान्न लिखित इति । शवलादिभ्यः स्त्रियां टापोऽप्राप्तिः ॥४५॥ 'उपस्रोतःस्वस्थस्थितमहिषश्रृङ्गाग्रशबलाः स्रवन्तीनां जाताः प्रमुदितविहंगास्तटभुवः ।' 'भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः ।' इत्यादिषु स्त्रियां टापोऽप्राप्तिः । 'अन्यतो ङीष्' इति डीविधानात् । तेन शबली कल्माषीति भवति । प्राणिनि नीलेति चिन्त्यम् ॥ ४६ ॥ 'कुवलयदलनीला कोकिला बालचूते' इत्यादिषु नीलेति चिन्त्यम् । कोकिला नीलीति भवितव्यम् । नीलशब्दात् 'जानपद-' इत्यादि सूत्रेण 'प्राणिनि च' इति डीष्विधानात् । मनुष्यजातेर्विवक्षाविवक्षे ।। ४७ ॥ 'इतो मनुष्यजातेः', 'ऊकुतः' इत्यत्र मनुष्यजातेर्विवक्षा अविवक्षा च लक्ष्यानुसारतः । 'मन्दरस्य मदिराक्षि पार्श्वतो निम्ननाभि न भवन्ति निम्नगाः । वासु वासुकिविकर्षणोद्भवा भामिनीह पदवी विभाव्यते ॥ अत्र मनुष्यजातेर्विवक्षायां 'इतो मनुष्यजातेः' इति डीषि सति 'अम्बार्थनद्योईखः' इति संवुद्धौ हूखत्वं सिध्यति । नाभिशब्दात्पुनः इतश्च 'प्राण्यङ्गात्' इतीकारे कृते निम्ननाभीकेति स्यात् । 'हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम् । च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ॥ १. 'लन्तस्य क. २. 'त्वेवं' ख. ३. 'मधुमज्जदक्षरी' क. ४. 'प्रमादात्' क-पु. स्तके नास्ति, ५. 'गोवर्ग' ख. ६. तेनेत्यादि भवतीत्यन्तं क-पुस्तके नास्ति. ७. 'इति इत्यत्र च विवक्षा अविवक्षा च' ख. ८. 'पाशवासुकि' क. ९. 'संबुद्धौ' ख-पुस्तके नास्ति. १०. 'सति' क. ११. 'वृत्तौष्ठ ख.

५ अधि० २ अ०] काव्यालंकारसूत्राणि । अत्र निममनाभेरिति मनुष्यजातेरविवक्षेति ङीष् न कृतः । 'सुतनु जहिहि कोप'-' इत्यत्र मैनुष्यजातेर्विवक्षेति सुतनुशब्दात् 'ऊँकुतः' इत्यजि सति हूस्वत्वे सुतन्विति सिध्यति । 'वरतनुरथवासौ नैव दृष्टा त्वया मे' । अत्र मनुष्यजातेरविवक्षेत्यूङ् न कृतः । ऊकारान्तादप्यूप्रवृत्तेः ॥ ४८ ॥ उत अङ् विहितः । ऊकारान्तादपि क्वचिद्भवति । आचार्यप्रवृत्तेः । कासौ प्रवृत्तिः । 'अप्राणिजातेश्चारज्ज्वादीनाम्' इति अलाबूः कर्क- न्धूरित्युदाहरणम् । तेन · सुभ्र किं संभ्रमेण' । अत्र सुभ्रुशब्द अङि सिद्धो भवति । ऊङि त्वसति सुभूरिति स्यात् । कार्तिकीय इति ठञ् दुर्धरः ॥ ४९ ॥ 'कार्तिकीयो नभखान्' इत्यत्र 'कालाह' इति ठञ् दुर्धरः । ठञ्- भवनं दुःखेन ध्रियत इति । शार्वरमिति च ॥५०॥ 'शार्वरं तमः' इत्यत्र च 'कालाकृञ् इति ठम्' दुर्धरः । शाश्वतमिति प्रयुक्तेः ॥५१॥ 'शाश्वतं ज्योतिः' इत्यत्र शाश्वतमिति न सिध्यति । 'काला' इति ठप्रसङ्गात् । 'येषां च विरोधः शाश्वतिकः' इति सूत्रकारस्यापि प्रयोगः । आह-प्रयुक्तेः । 'शाश्वते प्रतिषेधः' इति प्रयोगात् शाश्वतमिति भवति । राजवंश्यादयः साध्वर्थे ये भवन्ति ॥.५२ ॥ राजवंश्याः सूर्यवंश्या इत्यादयः शब्दाः 'तत्र साधुः' इत्यनेन साध्वर्थे ये यति] प्रत्यये सति साधवो भवन्ति । भवार्थे पुनर्दिगादिपाठेऽपि वंशैश- ब्दस्य वंशशब्दान्तान्न यत्प्रत्ययः । तदन्तविधेः प्रतिषेधात् । १२ १. 'निम्ननामे' ख. २. 'मानं' क. ३. 'सुतनुशब्दान्मनुष्यजातेः' ख. ४. 'ऊड- कृत अङि सति' ख. ५. 'पूर्ववत् हखत्वे सुतनुशब्दः सिध्यति' ख. ६ 'प्रिया में ख. ७. 'किं सुभ्रु' क. ८. 'इत्यत्र सुभ्रुशब्दादू सिद्धो भवति' ख. ९. 'हे सुभ्रू' ख. १०. 'भवन' क. ११. 'प्रयुक्तः' क. १२. 'ये सति' ख. १३. 'इत्यादयः साधावर्थे यो यस्तत्र साधुरिति तस्मिन्सति भवन्तीति' क. १४. 'वंशशब्दस्य' ख-पुस्तके नास्ति.

काव्यमाला। दारवशब्दो दुष्प्रयुक्तः ॥ ५३ ॥ 'दारवं पात्रम्' इति दारवशब्दो दुष्प्रयुक्तः । 'नित्यं वृद्धशरादिभ्यः' इति मयटा भवितव्यम् । ननु विकारावयवयोरर्थयोर्मयड् विधीयते । अत्र तु दारुण इदमिति विवक्षायां दारवमिति भविष्यति । नैवमपि स्यात् । 'वृद्धाच्छः' इति च्छविधानात् । मुग्धिमादिष्विमनिज् मृग्यः ॥ ५४॥ मुग्धिमाप्रौढिमेत्यादिषु इमनिज् मृग्यः अन्वेषणीय इति । औपम्यादयश्चातुर्वर्ण्यवत् ॥ ५५ ॥ औपम्यं सांनिध्यमित्यादयश्चातुर्वर्ण्यवत् ‘गुणवचन-' इत्यत्र 'चातु- वर्णादीनां [ स्वार्थे ] उपसंख्यानम्' इति वार्तिकात्वार्थिकष्यजन्ताः । प्यत्रः पित्करणादीकारो बहुलम् ॥ ५६ ॥ 'गुणवचनब्रह्मणादिभ्यः' इति यः ष्यञ् तस्य पित्करणादीकारो भवति । स बहुलम् । ब्राह्मण्यमित्यादिषु न भवति । सामग्र्यमित्यादिषु विकल्पेन ॥ ५७ ॥ सामग्र्यं सामग्री । वैदग्ध्यं वैदग्धीति । धन्वीति व्रीह्यादिषु पाठात् ॥ ५८ ॥ ब्रीह्यादिषु धन्वशब्दस्य पाठात् धन्वीति इनौ सति सिद्धो भवति । चतुरस्रशोभीति णिनौ ॥ ५९ ॥ 'बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं यवयौवनेन' इत्यत्र चतुरस्र- शोभीति न युक्तम् । ब्रीह्यादिषु शोभाशब्दस्य पाठेऽपि इनिरत्र न सिध्यति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । भवतु वा तद- न्तविधिः । कर्मधारयान्मत्व यानुपपत्तिः । लघुत्वात्प्रक्रमस्येति बहुव्री- हिणैव भवितव्यम् । तत्कथमिति मत्वर्थीयस्याप्राप्तौ चतुरस्रशोभीति- १. 'इत्यादिषु' ख. २. 'चातुर्वर्ण्यवत्खार्थिकः यञ् स्यात्' क. ३. 'गुणवचने' ख. ४. 'स' क-पुस्तके नास्ति. ५. क-पुस्तके सामय्यमित्यादिसूत्रं पूर्वसूत्रवृत्तावन्त वि- तम्. ६. "विकल्पितः' क. ७. 'इति' ख-पुस्तके नास्ति. ८. 'धन्वन्' ख. ९. 'युक्तः । बीह्यादौ शोभाशब्दपाठेऽपि' क. १०. 'प्रातिपदिकेनेति' क. ११, भवितव्यमिति नलीयस्याप्राप्तिः । तत्कथं चतुरख' क.

५ अधि० २ अ०] काव्यालंकारसूत्राणि । प्रयोगः । आह-णिनौ । चतुरस्त्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः । अथ ‘अनुमेयशोभि' इति कथम् । नात्र पूर्ववद्वृत्तिः शक्या कर्तुमिति शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्तादभावप्रत्यये पश्चाबहुव्रीहिः कर्तव्यः । अनुमेयं शोभित्वं यस्येति । भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः । यथा 'निराकुलं तिष्ठति,' 'सधीरमुवाच' इति । कञ्चुकीया इति क्यचि ।। ६० ।। 'जीवन्ति राजमहिषीमनु कञ्चुकीयाः' इति कथम् । मत्वर्थीयस्य च्छप्रत्ययस्याभावात् । आह-क्यचि । क्यचि प्रत्यये सति कञ्चुकीया इति भवति । कञ्चकमात्मन इच्छन्ति कञ्चुकीयाः । बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ६१ ॥ बौद्धस्य प्रतियोगिनोऽपेक्षायामप्यातिशायनिकास्तरबादयो भवन्ति । 'घनतरं तमः' 'बहुलतरं प्रेम' इति । कौशिलादय इलचि वणलोपात् ॥ ६२ ॥ कौशिलवाँसिल इत्यादयः कथम् । आह---कौशिकवासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा 'घनिलचौ च' इति इलचि कृते 'ठाजा- दावू द्वितीयादचः' इति वर्णलोपासिध्यन्ति । मौक्तिकमिति विनयादिपाठात् ॥ ६३ ॥ मुक्तैव मौक्तिकमिति विनयादिपाठाद्रष्टव्यम् । वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्त इति नपुंसकत्वम् । प्रातिभादयः प्रज्ञादिषु ॥ ६४ ॥ प्रोतिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः । प्रतिभा-विकृतिद्विता- १. 'पूर्ववत्कृवृत्तिः' ख.२. 'तदन्ताच्च भावप्रत्ययः' ख. ३. 'युक्तः' क. ४."नि- राकुलः' ख. ५. 'अत आहे' ख. ६. 'बहुतरे' क. ७. 'वाशिल' ख. ८. 'कथं कौशिकवशिष्टादिभ्यो' ख. ९. 'वा' ख-पुस्तके नास्ति. १०. 'सिध्यतीति' क. ११. 'योगातू' स. १२. 'मुक्तव' क-पुस्तके नास्ति. १३. ख-पुस्तके 'स्वार्थिकाश्च- वर्तन्ते' इति सूत्रत्वेन गणितम्, १४. 'प्रतिभादयः क. १५, 'प्रतिभादयः' क.

काव्यमाला। दिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि खार्थिक कृते प्रातिभं वैकृतं द्वैतमि- त्यादयः प्रयोगाः सिध्यन्तीति । न सरजसमित्यनव्ययीभावे ॥६५॥ मधु सरजसं मध्येपमं पिबन्ति शिलीमुखाः' इत्यादिषु सरजसमिति न युक्तः प्रयोगः अनव्ययीभावे । अव्ययीभाव एव सरजसशब्दस्येष्टत्वात् । न धृतधनुषीत्यसंज्ञायाम् ॥ ६६ ॥ 'धृतधनुषि शौर्यशालिनि' इत्यत्र धृतधनुषीत्यसंज्ञायं न युक्तः प्रयोगः । “धनुषश्च' इत्यनविधानात् । संज्ञायां यनङ् विकल्पितः 'वा संज्ञायाम्' इति । दुर्गन्धिपद इदुर्लभः ॥ ६ ॥ 'दुर्गन्धिः कायः' इत्यादिषु दुर्गन्धिपदे इत्समासान्तो दुर्लभः । उत्पू- त्यादिषु दुःशब्दस्यापाठात् ॥ सुदत्यादयः प्रतिविधेयाः ॥ ६८ ॥ 'सा दक्षरोषात्सुदति ससर्ज' इति, "शिखरदति पतति रशना' इत्या- दिषु सुदत्यादयः शब्दाः प्रतिविधेयाः । दैत्रादेशलक्षणाभावात् । तंत्र प्रतिविधानम्----"अग्रान्त-' आदिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात्सुद- त्यादिषु दत्रादेशः" इत्येके । अन्ये तु वर्णयन्ति--सुदत्यादयः त्यभिधायिनो योगरूढिशब्दाः। तेषु 'स्त्रियां संज्ञायाम्' इति दनादेशो विकल्पेन सिद्ध एवेति । क्षतदृढोरस इति न कप् । तदन्तविधिप्रतिषेधात् ॥ ६९ ।। 'प्लवंगनखकोटिभिः क्षतहढोरसो राक्षसाः' इत्यत्र दृढोरःशब्दात् 'उरःप्रभृतिभ्यः कप्' इति कप् न कृतः । ग्रहणवता प्रातिपदिकेन तदन्त- विधेः प्रतिषेधात् । वाक्यं त्वेवं कर्तव्यम्-क्षतं दृढोरो येषामिति । १. 'अपि' ख. २. 'पाठः' क. ३. 'प्रयोगः' क-पुस्तके नास्ति. ४. 'ह्यनाद्वि- कल्पो' क. ५. 'दुर्गन्धीति दुर्लभः' ख. ६. 'इत्यादिषु समासान्तो' ख. ७. 'शब्दाः' क-पुस्तके नास्ति. ८. 'आदेश' ख. ९, 'तच' क. १०. 'सूत्रेण ख. ११. 'राक्षसः इत्यत्र दृढोरस इति 'उरःप्रभृतिभ्यः' क. १२. 'कप् न कृतः' ख. १३. 'प्रातिपदिके- नेति तदन्त विधिः' क.

. ५ अधि०२ अ०] काव्यालंकारसूत्राणि। अवैहीति वृद्धिरवद्या ॥ ७० ॥ अवैहीत्यत्र वृद्धिरवद्या । गुण एव युक्त इति । अपाङ्गनेत्रेति लुगलभ्यः ॥ ७१॥ अपाङ्गे नेत्रे यस्याः सेयमपाङ्गनेत्रेत्यत्र लुगलभ्यः । 'अमूर्धमस्तका- खाङ्गादकामे' इति सप्तम्या अलुम्विधानात् । नेष्टाः श्लिष्टप्रियादयः । पुंवद्भावप्रतिषेधात् ॥ ७२ ॥ श्लिष्टप्रियः वृद्धकान्तः इत्यादयो नेष्टाः । 'स्त्रियाः पुंवत्-' इति पुंवद्भावस्य प्रियादिषु निषेधात् । दृढभक्तिरसौ सर्वत्रेति ॥ ७३ ॥ 'ढभक्तिरसौ ज्येष्ठे ।' अत्र पूर्वपदस्य 'स्त्रियाम्' इत्यविवक्षितत्वात् । जेलजम्बुलतादयो ह्रस्व विधेः ।। ७४ ।। 'जलजम्बुलताविलाः सवन्त्यः' 'अग्रे कर्कन्धुग्रह्णम्' इत्यादिषु कथं जलजम्बुलतादयः प्रयोगाः । आह-हखविधेः । 'इको हखोऽड्यो गालवस्य' इति इखविधानात् । तिलकादयोऽजिरादिषु ॥ ७५ ॥ तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः । अन्यथा तिलकवती क- नकवतीत्यादिषु मतुपि 'मतौ बह्वचोऽनजिरादीनाम्' इति दीर्घत्वं स्यात् । केचित्तु वर्णयन्ति–'नद्यां मतुप्' इति यो मतुप् तत्रायं विधिः । तेषां मतेनीमरवतीत्यादीनामसिद्धिः। निशम्यनिशमय्यशब्दौ प्रकृतिभेदात् ।। ७६ ।। निशम्यनिशमय्येत्येतो शब्दौ श्रुत्वेत्येतस्मिन्नर्थे । शेमेः 'ल्यपि लघुपू- त्' इत्ययादेशे सति निशमय्येति भवितव्यम् , न निशम्येति । आह प्रकृतिभेदात् । शैमेर्दैवादिकस्य निशम्येति रूपम् । 'शमो दर्शने' इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम् । १. 'अवेहि इति वृद्धिरवद्या गुण एवात्र' ख. २. 'दृढभक्तिरिति ख. ३. 'दृढभ- क्तिरसौ ज्येष्ठे' क-पुस्तके नास्ति. ४. 'अस्त्रियां विवक्षितखात्' क.५, 'जल' क- पुस्तके नास्ति. ६. 'प्रयोगाः' क-पुस्तके नास्ति. ७. 'बह्वचो' ख. ८. 'नामरावती- त्यस्यापि सिद्धिः' क. ९. 'अत्र शमेपि' क. १०. 'शमादेः शमो' क. काव्या० सू०८ -- काव्यमाला। संयम्यनियम्यशब्दावणिजन्तवात् ॥ ७७ ॥ कथं संयम्यनियम्येति । 'त्यपि लघुपूर्वात्' इति णेरयादेशेन भवित- व्यम् । आह-अणिजन्तत्वात् । धातोणिच् नै कृतः । गतार्थत्वात् । यथा-'वाचं नियच्छति' इति । णिजानवगतौ तु णिच् प्रयुज्यत एव । यथा-'संयमयितुमारब्धः' इति । अपीयेति पीङः ॥ ७८॥ प्रपीयेत्यय शब्दः 'पीङ् पाने' इत्येतस्य । पिबतेहि 'न त्यपि' ईतीत्वप्रतिषेधात्प्रपायेति भवति । दूरयतीति बहुलग्रहणात् ॥ ७९ ॥ 'दूरयत्यवनते विवस्खति' इत्यत्र दूरयतीति कथम् । णाविष्ठवद्भावे स्थू- लदूर-' इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्यम् । आह- बहुलग्रहणात् । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' इयंत्र बहुलग्रहणात् 'स्थूलदूर-' आदिसूत्रेण यद्विहितं तन्न भविष्यतीति । गच्छतीप्रभृतिष्वनिषेध्यो नुम् ॥ ८० ॥ 'हरति हि वनराजिर्गच्छती श्यामभावम्' इत्यादिषु गच्छतीप्रभृतिषु शब्देषु 'श्यपश्यनोनित्यम्' इति नुमनिषेध्यो निषेदुमशक्यः । मित्रेण गोप्नेति पुंवद्भावात् ॥ ८१ ॥ 'मित्रेण गोप्ना' इति कथम् । गोप्तृणा भवितव्यम् । 'इकोऽचि वि- भक्तौ' इति नुविधानात् । आह-पुंवद्भावात् । 'तृतीयादिषु भाषित- पुंस्कं पुंवगालवस्य' इति पुंवद्भावेन गोप्नेति भवति । वेत्स्यसीति पदभङ्गात् ॥ ८२ ॥ 'पतितं वेत्स्यसि क्षितौ' इत्यत्र वेत्स्यसीति न सिध्यति । इप्रस- ङ्गात् । आह–पदभङ्गात् सिध्यति । वेत्स्यसीति पदं भज्यते वेत्सि- १. 'नियम्यशब्दो' क. २. 'तु न' क. ३. निच्' ख. ४. 'अयं ख-पुस्तके नास्ति. ५. 'हि' ख-पुस्तके नास्ति. ६. 'इति हख प्रति' ख. ७. 'भवितव्यम्' ख. ८. 'अन्न' ख-पुस्तके नास्ति. ९. 'प्रभृतिभ्यो' ख. १०. 'हरति वचनराजि' क. ११. 'प्रभृ- तिशब्देषु' क. १२. 'वेत्स्यतीति' क. १३. 'अत आह' ख.

५ अधि० २ अ०] काव्यालंकारसूत्राणि । अंसि । असीत्ययं निपातस्त्वमित्यस्मिन्नर्थे । कचिद्वाक्यालंकारे प्रयुज्यते । यथा-'पार्थिव त्वमसि सत्यमभ्यधाः' इति । कामयानशब्दः सिद्धोऽनादिश्चेत् ।। ८३ ॥ कामयानशब्दः सिद्धः 'आगमानुशासनमनित्यम्' इति मुंक्यकृते यद्यनादिः स्यात् । सौहृददौहंदशब्दावणि हृद्भावात् ॥८४॥ सुहृदयदुहृदयशब्दाभ्यां युवादिपाठादणि कृते हृदयस्य हृद्भावः । आदिवृद्धौ सौहृददौ«दशब्दौ भवतः । सुहृदुईच्छब्दाभ्यां युवादिपाठादे- वाणि कृते 'हृद्भगसिन्धवन्ते-' इति हृदन्तस्य तद्धितेऽणि कृते सत्युभ- यपदवृद्धौ सत्यां सौहार्द दौहार्दमिति भवति । विरम इति निपातनात् ॥ ८५ ॥ रमेरनुदात्तोपदेशत्वात् 'नोदात्तोपदेशस्य' इत्यादिना वृद्धिप्रतिषेधस्या- भावात्कथं विरम इति । आह-निपातनात् । निपातनं तु 'यम उप- रमे' इत्यत्रोपरम इति । अतत्रं चोपसर्ग इति । उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ॥ ८६ ।। उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु 'उपर्यध्यधसः सामीप्ये' इत्य- नेन 'उपर्यादिषु त्रिषु । द्वितीयानेडितान्तेषु' इति द्वितीया । वीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति । 'उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः । मन्दमन्दमित्यप्रकारार्थत्वे ॥ ८७ ॥ 'मन्दं मन्दं नुदति पवनः' इत्यत्र मन्दमन्दमित्यप्रकारार्थे भवति । प्रकारार्थत्वे तु 'प्रकारे गुणवचनस्य' इति द्विवचने कृते कर्मधारयद्भावे मन्दमन्दमिति प्रयोगः । मन्दमन्दमित्यत्र तु 'नित्यवीप्सयोः' इति १. 'असि' ख-पुस्तके नास्ति. २. 'नित्यनिपातः । खमित्येतस्मिन्नर्थे' क. ३. 'पा. र्थिवः' ख. ४. 'सिद्धः' ख-पुस्तके नास्ति. ५. 'युक्यकृते' ख. ६. 'स्यादिति' क. ७. 'भवत इति' क. ८. 'उणीत्युभयपद' क. ९.'इत्यत्र चोपसर्ग इति' क. १०. 'सामी- प्येषु' ख. ११. 'त्रिषु' क-पुस्तके नास्ति. १२. 'इत्यत्र प्रकारार्थत्वे' ख. १३. 'तुदति' ख. १४. 'तु' ख-पुस्तके नास्ति.

काव्यमाला। द्विवचनम् । अनेकभागात्मकस्य नुदेर्यदा सर्वे भागा मन्दत्वेन व्याप्तुमिष्टा भवन्ति तदा वीप्सेति । न निद्रांदुगिति । भष्भावप्राप्तेः॥ ८८ ॥ 'निद्राद्रुकाद्रवेयच्छविरुपरिलसद्धर्षरो वारिवाहः' इत्यत्र निगुगिति न युक्तः । 'एकाचो बशो भष्-' इति भष्भावप्राप्तेः । अनुप्रासप्रियै- स्त्वैपभ्रंशः कृतः। निष्यन्द इति षवं चिन्त्यम् ॥ ८९ ॥ नह्यत्र षत्वलक्षणमस्ति । कस्कादिपाठोऽप्यस्य न निश्चितः । नाङ्गुलिसङ्ग इति मूर्धन्यविधेः ॥ ९० ॥ 'म्लायन्त्यमुलिसङ्गेऽपि कोमलाः कुसुमस्रजः' इत्यत्राङ्गुलिसङ्ग इति न युक्तः । 'समासेऽङ्गुलेः सङ्गः' इति मूर्धन्यविधानात् । तेनावन्तिसेनादयः प्रत्युक्ताः ॥ ९१ ॥ तेनाङ्गुलिसङ्ग इत्यनेनाँवन्तिसेन इन्दुसेन एवमादयः शब्दाः प्रत्युक्ताः प्रत्याख्याताः । सुषामादिषु 'एति संज्ञायामगात्' इति मूर्धन्यविधानात् । नेन्द्रवाहने णलम् । आहितलस्याविवक्षितखात् ॥ ९२ ॥ 'कुथेन नागेन्द्रमिवेन्द्रवाहनम्' इत्यनेन्द्रवाहनशब्दे वाहनमाहितात्' इति णत्वं न भवति । आहितत्वस्याविवक्षितत्वात् । खखामिभावमात्रं छत्र विवक्षितम् । तेन सिद्धमिन्द्रवाहनमिति ॥ सदसन्तो मया शब्दा विधिनाल्पेन दर्शिताः । S.V.O.Collegs अनयैव दिशा कार्य शेषीणामप्यवेक्षणम् ।। Lihr arश्रुति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे द्वितीयोऽध्यायः । शब्दशुद्धिः। TIRUPATI समाप्तं चेदं प्रायोगिकं पञ्चममधिकरणम् । RateypritiKA9300 32195 ग्रन्थश्च समाप्तः। arredway"तुख. २. 'ध्रुगिात' क. ३. 'ध्रुक' क. ४. 'ध्रुगिति' क. ५, 'स्वयमप- भ्रंशः' क. ६. 'न' कपुस्तके नास्ति. ७. 'अवन्तिसेना इत्येवमादयः ख. ८. 'प्रत्या- ख्याताः' क-पुस्तके नास्ति. ९. सुषमादिष्विति संज्ञायां मूर्धन्य' ख.१०. 'इन्द्रवाहनश- ब्दे' क. ११. 'ह्यत्र'ख-पुस्तके नास्ति. १२. 'विविच्याल्पे न"ख. १३. 'दोषाणां' क.

The Kavyalankara Sutras Of Vamana

Author
Pandit Durgaprasad
Title
The Kavyalankara Sutras Of Vamana
File name
The Kavyalankara Sutras Of Vamana
Text
OCR done
Citation
1926
Published
11/22/2002
Publisher
Panduranga Jawaji, Mumbai
Language
Sanskrit
Pages
86
Library
Svclrc
Classification
Literature
DLI number
383507
Barcode
2040100028183.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL TTD TIRUPATHI
VMLT id
K7UwLCh8pHe
Download PDF

The Kavyalankara Sutras Of Vamana