Central Library, University Of Rajasthan
Vishnupadadi Keshantvarnam Istrotam
Front matter
काव्यमाला । वर्णा मणिविशेषस्तनिर्मितो यो महाकूर्मस्तस्य सौन्दर्ये लावण्यं हरतीत्येवंविधा छाया कान्तिर्यस्य तत् । तथा श्रेयःप्रदायि । पादावेवाम्भोजन्मनी कमले तयोः सेवा तस्यां रामवनता ये मुरास्तेषां यो प्रातः समृहस्तस्मिन्यानि भाखन्ति किरीटानि तेषु प्रत्युप्ता निखाता य उच्चावचा नानाविधा अश्मप्रवरा मणिश्रेष्ठास्तेषां करा रश्मयस्तेषां गणैः सगृहश्चित्रितं कवुरितं यद्विभाति ॥ श्रीमत्यो चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाः सौन्दर्यास्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचौरे । सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे जङ्घ नारायणीये मुहुरपि जयतामस्मदहो हरन्त्यौ ॥ १८ ॥ नारायणस्येमे जो मुहुः शश्वदस्मदंहः पापं हरन्यो सत्यौ जयताम् । श्रीमत्यो शो- भावखो । चारु सुन्दरं यथा स्यात्तथा वृत्ते वर्तुले । रमाया लम्याः करयोः परिमल- नेन य आनन्दस्तेन हृष्टे पुलकिते । सौन्दर्येण लावण्येनाढ्यो य इन्द्रनीलोपलस्तेन रचिती यो महादण्डो तयोः कान्तिचौरे । सूरीन्द्रविद्वच्छेछैः स्तूयमाने वर्ण्यमाने । सु- रकुलस्य सुखदे । यस्मात्सूदितारातिसंघे हतदेवशत्रुकुले ॥ सम्यक्साखं विधातुं सममपि सततं जङ्घयोः खिन्नयोर्ये भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते । चित्तादर्श निधातुं महितमिव सतां ते समुद्गायमाने वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥ १९॥ अजितस्य हरेस्ते जानुनी नोऽस्माकं चित्ते मुदमनिशं विधत्ताम् । वृत्ताकारे मण्ड- लवत्समवर्तुलाकारे । सतां भक्तानां चित्तादर्श मनोदर्पणं निधातुं समुद्गायमान आद- शकोपायमाणे इव । महितं निर्मलीकृतं चित्तदर्शम् । ये खिनयोजयोः सम्यगौचि- त्येन सायं सहत्वम् । उपकारमिति यावत् । समं युगपदेव भारीभूतस्योरुदण्डद्वयस्य य- द्भरणं धारणं तस्मिन्कृत उत्तम्भभावोऽवष्टम्भत्वं तद्भजेते । अपिशब्दः संभावनायाम् ॥ देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं या- वारोप्यारूढगर्वावधिजलधि ययोरेव दैत्यौ जघान । वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला- वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥२०॥ हरेस्तावूरू नोऽस्माकं मानसेऽतिशयिनी मुदं विधत्ताम् । चारू मनोहरौ । वृत्तौ वर्तुलौ । अन्योन्यं परस्परं तुल्यौ समौ । चतुरं यथा स्यात्तथोपचयं पुष्टि विभ्रती। करिकरसदृशाकारावित्यर्थः । अभ्रनीलौ सजलजलदवच्छ्यामौ । तौ कौ।ययोरिति सप्तमी । - ।
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । द्विवचनम् । देवो विष्णुर्ययोरूदित्यं कैटभाख्यं मधुं चारोप्य जघानव । कथंभूतौ । विधातुब्रह्मणः सपदि खोत्पत्तिमात्रेण भीति विद्धतौ । आरूढगर्छ । कुत्र जघान । अधिजलधि समुद्रे ॥ पीतेन द्योतते यचतुरपरिहिते नाम्बरेणात्युदारं जातालंकारयोगं जलमिव जलधेर्वाडवामिप्रभाभिः । एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥ पीताम्बरस्य विष्णोरेतद्याख्यास्यमानविशेषणं जघनं सातत्येन चेतोविपयमवतरन्म. नोवृत्तिसमारूढं सत् । एनसः पापानोऽस्मान्पातु । कथंभूतादेनसः । अतिघनात् अनेकजन्माभ्याससंचितादित्यर्थः । अत एव पातित्यदात् । किंलक्षणं जघनम् । मान- नीयं मानाहम् । चतुरैरलंकरणकर्मकुशलैर्भकैश्चतुरं यथा स्यात्तथेति वा परिहितेनास- जितेन पीतेन सुवर्णाभेनाम्बरेण वस्त्रेण जातालंकारयोगं सदत्युदारं यथा स्यात्तथा योतते प्रकाशते तदेतत् । वाडवाग्निप्रभाभिर्जलधेर्जलमिव ॥ यस्या दाम्या त्रिधानो जघनकलितया भ्राजतेऽङ्गं यथाब्धे- मध्यस्थो मन्दराद्विर्भुजगपतिमहाभोगसंनद्धमध्यः । काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥ २२ ॥ त्रिधानो भगवतोऽङ्ग यस्याः काश्या दाम्या रशनया तस्यैव जघनकलितया नित- म्बनिबद्धया भाजते सा काची मम मतिमनिशं सर्वदा कल्यां समर्थी कल्याणदात्री म- गलकरी करोतु । अब्धेः क्षीरसमुद्रस्य मध्ये स्थितो मन्दराद्रि जगपतेर्वासुकेर्महाभो. गेन पृथुदीर्पण कायेन संनद्धं परिवेष्टितं मध्यं यस्यैवंविधो यथाभ्राजीत्तथा भाजते किंलक्षणा काश्ची । काञ्चनाभा सुवर्णराजिकृतशोभा । मणिवराणां वज्रादीनां किरणैरु- लसद्भिः प्रदीप्ता प्रकाशिता । अत एव कम्ररूपा कमनीयाकारा । पीताम्बरं हि तर- गितसमुद्रजलवत् , तदन्तराले भगवन्मूर्तिमन्दराचलवत्, तत्परिवेष्टनं काञ्चीदानी वासुकिशरीरवत्, इति योज्यम् ।। उन्ननं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रविचित्रैः पूर्व गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् । तस्मिन्नीलाश्मनीलस्तरलरुचिजलैः पूरिते केलिबुद्धया नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥ २३ ॥ यत्र यस्मिन्नाभीसरसि तत्पयो कमलं पूर्व सृष्टिकाल उदभूत्तस्मिन्नालीकाक्षस्य १० ० काव्यमाला। कमलनयनस्य भगवतो नाभीसरसि सरोवद्गम्भीरचर्तुले नाभिमण्डले नोऽस्माकं चित्त. हंसश्चिराय दीर्घकाले केलिवुद्धया रमणेच्या वसतु । कथंभूते नाभीसरसि । नीला- इमनीलैरिन्द्रनीलमणिवनीलवर्णस्तरलैश्चञ्चले रुचिजलैदेहप्रभाकान्तिपूरैः पूरिते । किं- लक्षणं पयोजम् । उनम्रमुनतम् । कनं मनोहरम् । विचित्रैनीनावणः पत्रैरुच्चैरतिशये- नोपचितम् । तथा गीर्वाणानां देवानां पूज्यम् । तथा कमलजो ब्रह्मा स एव मधुपो भ्रमरस्तस्यास्पदं स्थानम् ॥ पातालं यस्य नालं वलयमपि दिशां पत्रपति नगेन्द्रा- विद्वांसः केसरालीविदुरिह विपुलां कर्णिकां स्वर्णशैलम् । भृयाद्गायत्स्वयंभूमधुकरभुवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥ २४ ॥ नागः शेपाख्यः शय्या यस्य तस्य शौरविष्णोर्नाभिरेव पद्माकरः सरस्तत्र भवतीति तथाविधमुरु वृहन्नालीकं कमलं नोऽस्माकं कामदं भूयात् । गायन्वेदान्पठन्खयंभूर्वमा स एव मधुकरस्तस्य भवनं गृहम् । तथा भूमयं पृथ्वीखरूपम् । किं तत् । विद्वांसो वि- दितसकलवेद्या यस्य नालं पातालमाहुः । तथा यस्य पत्रपति दिशां वलयं मण्डलमाहुः । तथा नगेन्द्रान्हिमवदादीन्यस्य केसरालीविदुः । तथा स्वर्णशैलं मेरं यस्य विपुलां क- णिकां विदुः । तत् ॥ कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभाखत्तरङ्गे गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे । क्रीडत्वानद्धहेमोदरनविनमहावाडवाग्निप्रभाब्बे कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥ २५ ॥ दामोदरस्य भगवत उदरसलिलनिधौ । 'कुक्षौ समुद्राश्चत्वारः' इत्युक्तत्वात् । नो- ऽस्माकं चित्तमत्स्यः कामं यथेष्टं क्रीडतु । उदरसलिलनिधिविशेषणानि । कान्तिदेह- दीप्तिः सैवाम्भ उदकं तस्य पूरः प्रवाहप्रसर्पणं तेन पूर्णे । तथा लसन्तः शोभमाना असिता नीला वलीनामुदरदेशस्थरेखाविशेषाणां भङ्गा एव भास्वन्तस्तरङ्गा यस्मिन् । तथा गम्भीरोऽगाध आकारो यस्य स चासौ नाभिश्चेति स एव चतुरतरोऽतिशयेन चतुरः सुन्दरो महानावर्तस्तेन शोभा विद्यते यस्मिन् । अत एवोदारे मनोहरे । तथा- नद्धमासमन्ताद्वद्धं यद्धेममयमुदरनविनमुदराभरणं तदेव महती वाडवाग्निप्रभा तयाध्ये संभृते । यद्वा 'हेमोदरनलिन-' इति पाठः । तदा 'कणिकां वर्णशैलम्' (२४) इति पूर्वश्लोके मेरुकणिकस्य नाभिकमलस्योक्तत्वात् । हेमोदरं हेम कणिकाख्यमुदरे मध्ये यस्य तच्च तनलिनं च तदेव महावाढवाग्निप्रभेति व्याख्येयम् ॥
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । ११ । .. नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला नीलेव यान्ती स्फुरति रुचिमती वनपद्मोन्मुखी या । रम्या सा रोमराजिर्महितरुचिमती मध्यभागस्य विष्णो- श्चित्तस्था मा विरंसीचिरतरमुचितां साधयन्ती श्रियं नः ॥ २६ ॥ विष्णोर्मध्यभागस्य संवन्धिनी रोमराजिनाऽस्माकं चित्तस्था सती मा विरंसीद्वि- रति मा करोतु । तत्र भूयादित्यर्थः । किं कुर्वती । उचितामस्मद्योग्यां श्रियं साध- यन्ती । किंभूता । रम्या । महितरुचिमती महिता सर्वैः प्रशस्ता या रुचित्तद्वती। या नाभीनालीकस्य मूलानापद्मोन्मुखी । अलीनां भ्रमराणां नीला मालेव रुचिमती रुचिरा स्फुरति । कथंभूतानामलीनाम् । अधिकपरिमलोन्मोहितानाम् । नाभिकमल- सौरभ्याघ्राणादधिकमोहितानामित्यर्थः ।। आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च । अत्यन्ताचिन्त्यमूर्तश्चिरतरमजितस्यान्तरीक्षस्वरूपे तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्कोडभागे ।। २७ ।। अजितस्य हरेः क्रोडभागे भुजद्वयमध्यप्रदेशे वक्षःस्थलादधोभागेऽस्माकमन्तःकरणं चिरतरमतिमुदा क्रीडतात् । कीदृशे । अन्तरीक्षस्वरूपे । हृदयाकाशस्थान इत्यर्थः । किंभूतस्याजितस्य । अत्यन्तं सर्वात्मना न चिन्या मूर्तिः खरूपं यस्य । यस्मात्कोड- भागात्सकलं निरव शेषं विश्वं कल्पस्यादौ प्रभवत्युद्भवति । तथा कल्पान्ते यस्यान्तः स्थावरं जङ्गमं च विश्वं प्रविशति । किंलक्षणं विश्वम् । मन्वन्तरादिभेदविततं विस्तीर्णम् ॥ संस्तीर्ण कौस्तुभाशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं श्रीवत्सोल्लासि फुल्लप्रतिवनवनमालांशुराजद्भुजान्तम् । वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शाझपाणेः संसाराध्वश्रमातॆरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥ शाङ्गपाणेर्नारायणस्य तद्वक्षः प्रपद्ये तात्पर्येणाश्रये । यत्संसाराध्वश्रमातॆर्जन्ममरणभो- गवेदनादिमार्गभ्रमणजश्रमपीडितैरुपवनमिव सेवितमुपासितम् । उपवनतुल्यतामेव प्रति- पादयति-कौस्तुभस्य भगवत्कण्ठस्थितरत्नविशेपस्यांशवः किरणास्तेपां प्रसरास्तान्येव किसलयानि तैः संस्तीर्णम् । सर्वत्र विप्रसृतमिति यावत् । तथा मुग्धानि सुन्दराणि मुक्ताफलानि तैराख्यम् । मौक्तिकानि यत्र फलतुल्यानीति यावत् । श्रीवत्सो नाम भगवद्वक्षसि प्रदक्षिणरोमावतॊ भृगुपदप्रहारस्थानगतश्चिह्नविशेषस्तस्योल्लासोऽभिव्यक्ति- विद्यते यस्मिन् । तथा च फुल्ला विकसिता प्रतिवनं वने वने जाता या १२ काव्यमाला। । तस्या अंशुभिः परागै राजयोभमानं भुजान्तं यस्मिन् । पत्रपुष्पमथ्या पादलम्बिनी माला वनमालेत्युच्यते । तथा श्रीवृक्षो नाम शुभावर्तविशेषस्तेन कान्तम् । अथवां श्री- रेव वृक्षस्तेन कान्तम् । तथा मधुकरनिकरवच्च्यामलम् । उपवनमपि किसलयसंस्ती- र्णम् , फलाट्यम् , श्रीमतां शोभमानानां गवादिवत्सानामुल्लासैर्युक्तम्, तथा फुल्लानि यानि प्रतिवनानि संमुखवनानि तेषां या वनमाला संभजनीया(?) माला पतिस्तस्यां राजन्तो भुजा विटपास्तेपामन्तः पर्यन्तो यस्मिंस्तादृशम् , श्रीविल्वद्रुमैः कान्तम्, मधुकरनिकरैः श्यामलं च भवति । कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो- रिन्दोविम्वं यथाको मधुप इव तरोर्मञ्जरी राजते यः । श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः २९ श्रीपतेर्नारायणस्य श्रीवत्सश्चित विशेषो नोऽस्माकं श्रियं नित्यमुच्चैरधिकं विधेयात् । किलक्षणः । श्रीमाञ्शोभादयः । यतः कौस्तुभश्रीप्रतानः कौस्तुभमणिप्रभाप्रसरणैरविरलं निरन्तरं यथा स्यात्तथा मिलितः । श्रियो लक्ष्म्या भगवद्वक्षःस्थलस्थाया दयितः प्रीत्या- स्पदो वत्स इव । तया नित्यं संलाल्यमानत्वात् । यः श्रीवत्सः कालशत्रोः शिवस्य गलं कालिमा कालकूटकाय॑मिव, अङ्कः कलङ्क इन्दोविम्वमिव, मधुपो भ्रमरस्तरोमञ्जरी- मिव श्रीपतेर्वक्षो नितान्तं कान्तं मनोरमं विदधद्राजते शोभते ।। संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये । आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां- स्थाश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै ॥ ३०॥ यः सहजया श्रिया सहाम्भोधिमध्यात्संभूयाविर्भूय नारायणस्योरःस्थलमेव नीलवि. शालाकारवत्त्वाद्गगनतलं तस्मिन्संविधत्त उच्चैः प्रत्यक्षो भवति । किंलक्षणे । हारो मुक्कामाला स एव तारा नक्षत्राणि तैरुपसेव्ये । किं कुर्वन् । सर्वा आशा दिश आत्म- भासा प्रकाशा विदधत् । तथान्यतेजांस्याभरणान्तराणां प्रभा अपिदधत् । आत्मभा- साच्छादयनित्यर्थः । तथाश्चर्यस्य विस्मयस्याकरः स्थानभूतः । स कौस्तुभो नोऽस्माकं . भूत्या अस्तु । उत्प्रेक्षते-शुमणिरिव सूर्य इव । सूर्योऽपि प्रातः समुद्रादुद्गच्छति । सह- सिद्धया श्रिया शोभया युक्तः । नीलवर्णे तारायुक्ते गगनतले संनिधत्ते । आशाः प्रका- शयति । अन्यतेजांसि चन्द्रनक्षत्रादितेजांसि पिदधाति ॥ या वायावानुकूल्यात्सरति मणिरुचा भासमानासमाना साकं साकम्पमसे वसति विदधती वासुभद्रं सुभद्रम् ।
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । १३ सारं सारङ्गसंधैर्मुखरितकुसुमा मेचकान्ता च कान्ता माला मालालितास्मान्न विरमतु सुखेोजयन्ती जयन्ती ॥ ३१ ॥ या माला विष्णोरंसे साकम्पमीपत्कम्पसहितं यथा स्यात्तथा वसति । सास्मान्सुखै- योजयन्ती सती न विरमतु । किंलक्षणा । जयन्ती जयकरी जयन्याख्या वा । वायो मारुत आनुकूल्यात्सरति वहति सति साकम्पमिति योज्यम् । मणिरुचा कौस्तुभप्रभया साकं सह भासमानात एवासमानानुपमा। तथा वासुभद्रं वासुदेवं सुभद्रं शोभनं विद- धती। भूषयन्तीत्यर्थः । तथा सारङ्गसंधैर्ऋमरसमूहैः सारं यथा स्यात्तथा मुखरितकुसुमा। तथा मेचकान्ता श्यामवर्णकुसुमगुम्फितप्रान्ता । अत एव कान्ता । तथा मालालिता वक्षःस्थया लक्ष्म्यानुमोदिता ।। हारस्योरुपमाभिः प्रतिवनवनमालांशुभिः प्रांशुभिर्य- च्छ्रीभिश्चाप्यङ्गदानां शवलितरुचिभिनिष्कभाभिश्च भाति । बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त- द्वन्धाति वाधतां नो बहुविहतिकरी बन्धुरं वाहुमूलम् ॥ ३२ ॥ अजितस्य भगवतस्तद्वाहुमूलमंसदेशमभियाचामहे प्रार्थयामहे । किंलक्षणम् । बन्धुरं सुन्दरम् । किं कृत्वा । वाहुल्येन पुनःपुनरेवाजलिपुटं बड़ा । किं याच्नयेति चेत् । नोऽस्माकं बहुविहतिकरीमनेकानर्थकरी वन्धाति बन्धनरूपां पीडां वाधताम् । संसार- निगडादस्मान्मोचयत्वित्यर्थः । यद्वाहुमूलं हारस्योरुप्रभाभिरतिकान्तिभिः । तथा प्रतिव- नजातपुष्परचितवनमालाया अंशुभिरंशुस्थानीयविचित्रवर्णैः । निष्कस्य भूषणविशेपस्य भाभिः शवलिता रुचयो यासाम् । ताभिरङ्गदानां वाहुभूषणानां श्रीभिर्भाति । प्रांशुभिरि- संशुविशेषणम् ॥ विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः कर्तारो दुर्निरूपाः स्फुटगुरुयशसां कर्मणामद्भुतानाम् । शाङ्ग वाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं विभ्राणाः शस्त्रजालं मम ददतु हरेर्वाहवो मोहहानिम् ॥ ३३ ॥ हरेर्वाहवो मम मोहहानि ददतु । किंविशिष्टाः । विश्वस्य जगतस्त्राणे रक्षण एका मुख्या दीक्षा व्रतधारणं येषाम् । अत एव तस्य विश्वत्राणस्यानुगुणा योग्या गुणाः शौ- दियो यस्य तादृशक्षत्रस्य निर्माणे दक्षाः समर्थाः । दुर्निरूपाः । एते एवंप्रकारा इय- न्तश्चेत्यवधारयितुमशक्याः । तथा स्फुटगुरुयशसामतिस्पष्टमहत्ख्यातियुक्तानामद्भुतानां -कर्मणां पराक्रमाणां कर्तारः । तथा शाङ्ग धनुः, बाणम् , कृपाणं खङ्गम् , फलकं चर्म, अरि सुदर्शन चक्रम् , गदा कौमोदकी, पद्मम् , शङ्खः पाञ्चजन्यः, इत्येवंविधमन्यंच -सहस्रमपरिमितं शस्त्रजालं विभ्राणाः । सहस्रं बाहव इति वा योजना ॥ २ १४ काव्यमाला। कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोझेरुदारै- रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्गों विभाति । कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥ ३४ ॥ अत्र वैकुण्ठस्य विष्णोरयं वैकुण्ठीयस्तस्मिन्कण्ठे मम मतिः कुण्ठभावमालस्यं विहाय वसतु स्थिरीभवतु । यः कण्ठाकल्पाः कण्ठभूषणानि तेभ्य उद्गतैरुद्योतः। तथा कनकमये लसन्ती ये कुण्डले तयोरुपैः किरणैः । उदारैर्मनोहरैरिष्टार्थदैर्वा । तथा कौस्तुभस्या- प्युरुभिरुद्योतैरुपचितः सन् । चित्रवर्णो विभाति । पुनः किंलक्षणे । कण्ठे रमायाः क- ण्ठाश्लेषे लक्ष्मीकृतकण्ठालिङ्गने सति तस्या एव करवलयपदैर्मुद्रिते । अत एव भद्ररूपे सुन्दराकारे ॥ पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः । वक्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां श्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥ ३५ ॥ असौ श्रीभर्तुर्दन्तवासो दन्ताच्छादनम् । ओष्ठद्वयमिति यावत् । स एव घुमणिः सूर्यो नोऽस्माकमघतमोनाशनाय पापान्धकार दूरीकरणायास्तु । किंलक्षण: । पद्मा लक्ष्मीस्तस्या आनन्दप्रदाता । तथा परिलसन्ती यारुणश्री रक्तवर्णा कान्तिस्तया प- रीतो व्याप्तोऽग्रभागो यस्य । तथा काले काल उचितसमयेषु कम्बुप्रवरः शङ्खश्रेष्ठः स एव शशधरश्चन्द्रस्तस्यापूरणमाध्मानं तत्र यः प्रवीणः । तथा वक्ररूपो य आकाश- स्तस्यान्तरे मध्ये तिष्टतीति तथाविधः सन् । दन्तरूपाणां ताराणामोघः समूहस्तस्य शोभा तिरयत्यभिभवति । प्रसिद्धोऽपि बुमणिः पद्मानामानन्दप्रदाता । अरुणः सूर्यसा- रथिस्तच्छ्यिा परीताग्रभागः । काले काले शुक्लपक्षतिथिषु चन्द्रस्य वृद्धिकरणे प्रवीणः । आकाशमध्यस्थः सन् । तारोघशोभा तिरस्करोति ॥ नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या वक्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः । लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्ताफलश्री- दन्ताली संततं सा नतिनुतिनिरतान्रक्षतादक्षता नः ॥ ३६ ॥ सा लक्ष्मीकान्तस्य दन्ताली दन्तपतिनतिनुतिनिरतानमस्कारस्तुतितत्परानोऽस्मा- न्संततं रक्षतात् । किंलक्षणा । अक्षता क्षतरहिता । निरन्तरेति यावत् । कान्ताकृति- मनोहराकारा । तथातिविलसतामत्यन्तशोभिनां मुग्धानां सुन्दराणां मुक्ताफलानां श्री- विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । १५ रिव श्रीर्यस्याः । या नित्यं स्नेहातिरेकात्प्रेमबाहुल्यानिजकमितुः खकान्तस्य विप्रयोगं वियोगं न क्षमते सा विप्रयोगाक्षमा । एवंभूता सती वन्दोर्मुखचन्द्रस्यान्तराले मध्ये कृतवसतिनक्षत्रराजिरिवालमाभाति ॥ ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुपे देव संभावये त्वां शंभो शक त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः । इत्थं सेवावननं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न- स्यास्येन्दोरास्रवन्ती वरवचनसुधा हादयेन्मानसं नः ॥ ३७ ॥ विष्णोरास्येन्दोर्मुखचन्द्रादास्रवन्ती सम्यङ्गिःसरन्ती वरा श्रेष्ठा वचनसुधा वचनामृतं नोऽस्माकं मानसं हादयेत् सुखयतु । 'आरुदयेत्' इति वा छेदः । किंलक्षणस्य । सेवावननं सुरमुनिनिकरं वीक्ष्य प्रसन्नस्य । अनुग्रहेच्छोरित्यर्थः । का वचनसुधा । हे ब्रह्मन्प्रजापते, ब्रह्मणि खखरूपेऽजिह्मामकुटिलां तादात्म्यलक्षणां मतिमपि कुरुपे । हे देव शंभो, त्वां संभावये । कुशलं पृच्छामीत्यर्थः । हे शक्र, अमरैः सह त्रिलोकीमवसि किम् । सम्यक्पालयसीत्यर्थः । हे नारदाद्या मुनयः, वो युप्माकं किं सुखं वर्तते ॥ कर्णस्थवर्णकम्रोज्ज्वलमकरमहाकुण्डलपोतदीप्य- न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् । प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे- र्गाढामागामिनी नो गमयतु विपदं गण्डयोमण्डलं तत् ॥ ३८ ॥ मुरारेर्नारायणस्य तद्गण्डयोः कपोलयोर्मण्डलं नोऽस्माकं गाढां दृढामनेकानर्थकरीमा- गामिनी भाविनी विपदं गमयतु दूरीकरोतु । 'दमयतु' इति वा पाठः । किलक्षणम् । प्रोद्यन्प्रादुर्भवन्यः सूर्यस्तस्यांशुवद्राजद्दीप्यमानं यन्मरकतरत्नं तनिर्मितो मुकुरो दर्प- णस्तस्य य आकारस्तस्य चोरम् । तत्सदृश मित्यर्थः । कोमलम् । अलिवच्छयामलम् । तथा कर्णस्थयोः स्वर्णमययोः कम्रयोः कमनीययोरुज्ज्वलयोर्मकराकारयोर्महाकुण्डलयो प्रोतानां दीप्यतां माणिक्यानां श्रीप्रतानैः परिमिलितं परितो व्याप्तम् ॥ वक्राम्भोजे लसन्तं मुहुरधरमणिं पक्कविम्बाभिरामं दृष्ट्वा दष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः । घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोनैर्मुरारेः प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्तात् ॥ ३९॥ मुरारे?णो नासिकादण्डो नोऽस्माकं प्राणदानाय जीवनं दातुं स्ताद्भूयात् । कथं- भूतः । श्रवणयुगे लसतोः कुण्डलयोरुपैः किरणैः शोणीकृतात्मा । प्राणाख्यस्यानिलस्य प्राणवायोः प्रसरणसरणिः । संचारमार्ग इत्यर्थः । यो वक्राम्भोजे लसन्तं पक्कविम्बफलव- १६ काव्यमाला। दभिरागमारगामधरमणि मुहुर्दृष्ट्वा पुनःपुनरवलोक्य दष्टुं खादितुमवतरतः शुकस्य कीरस स्फुटं यथा सात्तथा तुण्डदण्डायते चनुदण्डवदाचरंस्तिष्ठति ।। दिकालो वेदयन्तो जगति मुहुरिमौ संचरन्तौ रवीन्दू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः । अस्मानजनभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥ ४० ॥ पद्मनेत्रस्य पुण्डरीकाक्षस्य नेत्रे अमान्पातां रक्षताम् । किंलक्षणे । अन्जप्रभे । तथा प्रचुरतरा या कृपा तया निर्भरं परिपूर्ण यथा स्यात्तथा प्रेक्षमाणे । भक्तानिति शेपः। तथाताम्रपद क्ता शुक्लासिता च या रुचिःकान्तिस्तया रुचिरे । ते के । मुनीन्द्रा ययोरेव स्पमिमी प्रसिद्धी रवीन्दू अभिदधति वदन्ति । किंलक्षणौ रवीन्दू । जगति दिक्प्राच्या- दिका, कालो मुहूर्तादिः । तो चेदयन्ती प्रकाशयन्तौ । अत एव त्रैलोक्यालोकदीपौ । तथा मुहुः प्रसहोरात्रं संचरन्तो भ्रमन्ती । लक्ष्माकारालकालिस्फुरदलिकशशाङ्कासंदर्शमील- न्नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छदाभे । लक्ष्मीनाथस्य लक्षीकृतविबुधगणापाङ्गबाणासनार्ध- च्छाये नो भूतिभूरिप्रसवकुशलते भूलते पालयेताम् ॥ ४१ ॥ लक्ष्मीनाथस्य धूलते नोऽस्मान्पालयेताम् । कथंभूते । लक्ष्माकाराश्चिताकृतयो ये- ऽलकास्तेपामालिस्तया स्फुरद्यदलिकं ललाटं तदेव शशाङ्कार्ध तस्य संदर्शनेन मीलन्ती ये नेत्राम्भोजे तयोः प्रबोधे विकासननिमित्तमुत्सुकस्तथा निभृततरमालीनो यो भृङ्गस्तस्य छदौ पक्षौ तद्वदाभा ययोः । तथा लक्षीकृतो विवुधगणो यैस्तेपामपाङ्गवाणानां यदसनं धनुस्तस्यार्धच्छाये । धनुरर्धभागसदृश इत्यर्थः । तथा भूतीनामैश्वर्याणां यो भूरिप्रसवो- ऽधिकोद्भूतिस्तत्र कुशलता सामर्थ्य ययोः । भक्तानां सर्वाभीष्टप्रद इत्यर्थः ॥ पातात्पातालपातात्पतगपतिगतेद्र्युगं भुग्नमध्यं येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसंघाः । नृत्यल्लालाटरशे रजनिकरतनोरर्धखण्डावदाते कालव्यालद्वयं वा विलसति समया बालिकामातरं नः ॥ ४२ ॥ पतगपतिर्गरुडस्तेन गतिर्गमनं यस्य तस्य भगवतो भ्रूयुगं नोऽस्मान्पातालपाताबरक- पतनात्पाताद्रक्षतात् । कीदृशम् । भुग्नमध्यम् । येनेषच्चालितेन सासुरा देवसंघाः खपदे खखस्थाने व्यापारे च नियमिता वर्तन्ते । उत्प्रेक्षते-ललाटमेव लालाटं तदेव रङ्गो नृत्वस्थानं तस्मिन्बालिकामातरं समया नृत्यत्कालव्यालद्वयं वा । वाशब्द इवार्थः । समया-
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् ।
१७
शब्दो नैकरवानी । पालिकारायः शशासगरपरिभक्षापुच्छदावानल कपोलपान्त.
गताप्रफुन्तलपुजाविशेषपाचको वा । सा पालिका माटरगोत्पेक्षिता । तिने लाला-
टर। रजनिकरतनोशन्द्रमण्डलगायतण्डपदमागवणात निर्मले ।
हामारेक्षचापच्युतशनिकरक्षीणलक्ष्मीकटाक्ष-
प्रोत्फुल्लत्पलमालाविलसितमहितस्फाटिकेशानलिाम् ।
भ्याट्टयो विभृत्यै मम भुवनपते लताइन्हमध्या-
दुत्थं तत्पुण्डगर्व जनिमरणतमःखण्डनं मण्डनं च ॥ १३ ॥
भुवनपत गवतन्तपूर्व पुणे तिलकं नम भूयो विभत्ला अधिकार्याच भूमान।
लक्षणम् । जनिमरणतमःमण्डना । जन्ममरणकारणाज्ञानरपतगोनाकामिलमः।
धूलताद्वन्द्वमध्यादुत्वं खयमेवोद्भूतं स्फाटिफेशाननि स्फटिकमनिमशिनलिमिण ।
रक्षः मरो यः सारेक्षुचापाकामसंबन्धीक्षकोदण्ाश्युतः भारनिकररतेन क्षीण गगे.
वंविधं तन् । लक्ष्मीफटाक्षेलादि चेति कर्मधारयः । ललनीफटाक्षा एक प्रोत्कुदि-
कसत्पमानां माला त्या विलसितमुजम्भितं महितं मरत्वं यस तम तारटिफ..
शानलि च ॥
पीठीभूतालकान्ते कृतमुकुटमहादेवलिङ्गप्रतिष्ठे
लालाटे नाट्य विकटतरतटे कैटभारश्चिराय ।
प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटी प्रस्फुरन्तीं स्फुटाझं
पट्टीयं भावनाख्यां चटुलमति नटी नाटिकां नाटयेन्नः ॥ १४ ॥
कैटभारेभगवतो ललाटमेव लालाटं तमिनाटपर नोऽस्माकमियं खभावसिद्धा
चटुला चपला मतिरेव नटी नर्तकी भावनादयां भावनानाम्नी नाटिकां खकन्यां चि.
राय दीर्घकालं नाटयेनर्तयेत् । अन्मन्मतिभंगवाटलाटे ध्यानात्मिकां गृत्ति नरन्तयण
प्रवर्तयेदित्यर्थः । किंलक्षणा । पट्टी चतुरा । किं कृत्वा । आत्मतन्द्री खाललं तद्पा
प्रकटपटकुटी प्रसिद्धावरणपटं प्रोद्घाट्य । आलस्यरूपनिविटतिरस्करिणीमपसावेत्यर्थः ।
किंलक्षणां नाटिकाम् । स्फुटा प्रस्फुरन्तीम् । कथंभूते नाट्यरो । पीठीभूतः पी-
टतां गतो योऽलकान्तः केशोद्गमप्रान्त देशो ललाटोपरिरेखा तत्र कृता मुकुटलक्षणमहा-
देवलिङ्गस्य प्रतिष्टा यस्मिन् । तथा विकटतरतटेऽतिशयेन विशालतटे ॥
मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली
कालिन्द्यारुह्य मूर्नो गलति हरशिरःखधुनीस्पर्धया नु ।
राहुर्वा याति वक्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा
लोकैरालोच्यते या प्रदिशतु सकलैः साखिलं मङ्गलं नः ॥ ४५ ॥
१८ काव्यमाला। . अलिवच्छयामलं धाम तेजो यस्य तस्य श्रीपतेः सा कुन्तलाली नोऽस्माकमखिलं मङ्गल प्रदिशतु । या सकलैलौकैः कुवलयकलिता नीलोत्पलरचिता मालाली माला- परंपरेव । अथवा कालिन्दी यमुना हरशिरःवर्धनीस्पर्धया महादेवमस्तकस्थगङ्गेय॑या भगवन्मूर्धानमारुह्य ततो गलति नु । यद्वा सकला चासौ शशिकला शशिप्रकाश- स्तदाकारभ्रान्तियुक्तश्चासौ लोलश्चपलोऽन्तरात्मा मनो यस्यैतादृशो राहुवैत्यालोच्यत उत्प्रेक्ष्यते ॥ सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा व्याप्तव्योमान्तरालास्तरलरुचिजलारञ्जिताः स्पष्टभासः । देहच्छायोगमाभा रिपुवपुरगुरुप्लोषरोषामिधूम्याः केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ।। ४६ ।। केशिद्विषः केशिनामकासुरहन्तुर्भगवतः केशा नोऽस्माकं विपुला बहुला ये क्लेशा अविद्यास्मितारागद्वेषाभिनिवेशास्त एव पाशास्तेषां प्रकर्षेण नाशं विदधतु । किंलक्षणाः। भगवति प्रसुप्ते सुप्ताकाराः सुप्तस्य भगवत आकार इवाकारो येषां ते । अत एव विबुधै- रपि न दृष्टं स्वरूपं येषां ते तथाविधाः । तथा व्याप्तं व्योमान्तरालं ब्रह्माण्डोदरं यः । तथा तरलानि चपलानि रुचिमन्त्युज्ज्वलानि च जलानि क्षीरसागरनीराणि तैरासम- न्तादञ्जिताः । स्पष्टभासः । देहस्य श्रीमन्मूर्तेश्छाया कान्तिस्तस्या उद्गम उपरिप्र- चारस्तद्वदाभान्ति ते। रिपूणां वपूंष्येवागुरुस्तस्य प्लोषो दाहस्तस्मिन्रोषरूपो योऽग्निस्तस्य धूम्या धूमसमूह इव । एतैर्विशेषणैः केशानां मेघसाम्यं ध्वनितम् । 'यस्य केशेषु जी- मूताः' इति पुराणप्रसिद्धया ।। यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भरिरोचिःप्रतान- स्फूर्त्या मूर्तिर्मुरारेघुमणिशतचितव्योमवदुनिरीक्ष्या। कुर्वत्पारेपयोधि ज्वलदकृतमहाभाखदौग्निशङ्का शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥ ४७ ॥ तन्मुरारेः किरीटं नोऽस्माकं शश्वच्छम दिश्यात् । कथंभूतम् । कलिकलुषतमः- पाटनम् । पारेपयोधि समुद्रमध्ये ज्वलनकृत्रिमो महान्प्रौढो भाखान्प्रकाशबहुलश्च य और्वाग्निर्वाडवानलस्तस्य शङ्कां कुर्वत् । यत्र किरीटे प्रत्युत्तानां खचितानां रत्नप्रवराणां परितो लसद्भूर्यधिकं यद्रोचिस्तस्य प्रतानो विस्तारस्तस्य स्फूर्त्या स्फुरणेन मुरारेर्मूर्तिर्यु- मणिशतचितव्योमवद्युगपदुदितानेकसूर्यव्याप्ताकाशवदुनिरीक्ष्या दुप्प्रेक्ष्या तत् ॥ भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यन्दकोटीरनेका गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । १९. उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्ष देहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥ ४८ ।। दैत्य विद्वेषिणो नारायणस्य स देहाम्भोधि!ऽस्मभ्यममृतं कैवल्यं देयात् । त्रिभुव- नगुरुस्त्रैलोक्यपिता ब्रह्मापि यदन्तर्मध्येऽनेका असंख्याता अब्दकोटीः । अनेककोटिसं- वत्सरपर्यन्तमित्यर्थः । भ्रान्त्वा भ्रान्त्वा बहुशो विभ्रम्यान्तमवसानं गन्तुं प्राप्तुं न सम- थोऽभूदित्यध्याहारः । पुनरन्तप्राप्त्याशाविच्छेदानन्तरं नाभिनालीकनालाड्रमर इवोन्म- जन्नपरं त्रिभुवनं तत्सदृक्षं निर्ममे । किंलक्षणः । ऊर्जितश्रीः । कथंभूतो देहाम्भोधिः । निरवधिः ॥ मत्स्यः कूर्मो वराहो नरहरिणपतिमिनो जामदग्न्यः काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्की भविप्यन् । विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुर्मी त एते गुरुतरकरुणाभारखिन्नाशया ये ॥ ४९ ॥ हरिणपतिः सिंहः। नरश्चासौ हरिणपतिश्चेति विग्रहानरसिंहः । कंसघाती कृपणः । मनसिजविजयी मारजित्तपस्विवेषो भगवान्वुद्धः । भविष्यन्कलियुगान्ते । अन्यत्स्फु- टम् । विष्णोरेतेंऽशावताराः । भुवनहितकराः । यतो धर्मसंस्थापनार्थाः । तथा गुरुत- रेण करुणाभारेण खिन्नः खेदं प्राप्तः । परवशीकृत इत्यर्थः। आशयोऽन्तःकरणं येषां ते मां भक्तं पायासुः ॥ यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः । नित्यानन्दं खसंविन्निरवधिममृतं खान्तसंक्रान्तबिम्ब- च्छायापत्त्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥५०॥ तन्महस्तेजो नोऽस्मान्सदाव्यात् । यस्मान्मनसा समं वाचोऽपि निवृत्ताः । तदि- दमेवेति बोधयितुमसमर्थाः । किंलक्षणाः । लक्षणा मुख्यवृत्तेवृत्त्यन्तरं तामीक्षमाणा आकाङ्क्षमाणाः । कस्मात् । वेदलक्षणवादाः स्वार्थस्य शक्तिविषयवार्थस्यालाभात्परे च तेऽर्थास्तेषां व्यपगमो निरसनं तत्कथनेन श्लाघा येषां ते । किंलक्षणं महः । नित्यानन्दम् । स्वसंवित्स्वयं प्रकाशकम् । तथा निरवधिं निरवधिकम् । ककारोऽत्र लुप्तो द्रष्टव्यः । अमृतमपरिणामि । कूटस्थमित्यर्थः । अपि च यन्महः खान्तमन्तःकरणं तत्र संक्रान्ता बिम्वच्छाया विम्बाकृतिस्तदापत्त्यापि तावन्मात्रप्राप्त्यापि यमिनो यतीनिलं सुखय- त्यानन्दयति ॥ आ पादादा च शीर्णो वपुरिदमनघं वैष्णवं यः स्खचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तःप्रमोदः ।
२० काव्यमाला। जुहज्जिहाकृशानी हरिचरितहविः स्तोत्रमन्त्रानुपाठै- स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ ५१ ।। बा पादात्पादमारभ्य, आ च शीणः शिरःपर्यन्तमिदं पूर्ववणितं वैष्णवं वपुर्विष्णु- खरूपं ये निरस्ताखिलकलिकलुपे खचित्ते संततान्तःप्रमोद आनन्दभरितान्तःकरण: नन् नित्यं धत्ते निर्मलाभ्यां तत्पादाम्भोरुहाभ्यामपि वयं नमस्कुर्महे । किं कुर्वन् । स्तोत्रमन्त्रानुपाठजिलाकृशानी जितारूपेऽनी हरिचरितहविः सततं जुह्वत् । हरिचरि- तानि तत्स्तोत्राणि च सदा पठनित्यर्थः ।। शति भगवत्पादश्रीशंकराचार्यकृतं विष्णुपादादिकेशान्तवर्णनस्तोत्रं सटिप्पणं समाप्तम्। श्रीगुमानिकविप्रणीतम् उपदेशशतकम्। त्रिपु देवेषु महान्तं भुंगुर्नुभुत्सुः परीक्ष्य हरिमेकम् । मेनेऽधिकं महिम्ना सेव्यः सर्वोत्तमो विष्णुः ॥ १ ॥ रुक्माङ्गदः स्वपुत्रं निहत्य खङ्गेन मोहिनीवचसा । सत्यां ररक्ष वाचं न संकटेऽपि त्यजेद्धर्मम् ॥ २ ॥ निर्वासितो हितेप्सुर्विभीपणो रावणेन लङ्कायाः । तन्नाशहेतुरासीन्नहि निजवन्धुर्विरोद्धव्यः ॥ ३ ॥ हृतराज्यदर्पसारं सुयोधनं निग्रहीतुमपि शक्ताः । प्रोपुर्वनेषु पार्था धीरः समयं प्रतीक्षेत ॥ ४ ॥ मणिहेतोरभिशप्सः कृष्णः सत्राजिताथ जाम्बवतः । जित्वा ददौ तमस्मै जनापवादाद्भजेभीतिम् ।। ५ ।। स्वाराज्यमनुवानः प्रकोप्य नहुषो मुनीनहिर्भूत्वा । न्यपतत्त्वरितमधस्तात्प्राप्तैश्वर्यों न दृप्तः स्यात् ॥ ६ ॥ सहधर्मिणी वनान्ताद्दशरथसूनोहार दशवक्रः वन्धनमाप समुद्रो न दुर्जनस्यान्तिके निवसेत् ॥ ७ ॥ १. एतच्छतकोदाहरणकथास्तु प्राय: श्रीमद्भागवते हरिवंशे च वर्तन्ते. २. इयं भृगुकथा श्रीमद्भागवते दशमस्कन्धे नवाशीतिमितेऽध्याये द्रष्टव्या. ३. 'खल: करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत्सीतां बन्धनं च महोदधेः ॥' इति प्राचीनः श्लोकः.
उपदेशशतकम् । २१ हन्तुं देवकतनयां वसुदेवेनोद्यतायुधः कंसः । मधुरोक्तिभिरनुनीतः साम्ना मूर्ख वशे कुर्यात् ।। ८ ।। भ्रातर्महदतिचारो न युक्त इति वादिनं दशग्रीवः । धनदं बबन्ध युद्धे मूढमतिर्नोपदेष्टव्यः ।। ९ ।। विश्रब्धश्चटुवचनैः कैकेय्यै दशरथो वरं दत्त्वा । संकटमाप दुरन्तं स्त्रीषु न कुर्वीत विश्वासम् ॥ १० ॥ गर्वाद्योद्धमुपेतः पौलस्त्यः सपदि कार्तवीर्येण । क्रीडामृग इव बद्धो न बलोदिक्तेन योद्धव्यम् ॥ ११ ॥ संदीपिताग्रपुच्छो बद्धतनुस्ताडितोऽपि रक्षोभिः । लङ्कां मारुतिरदहद्विपदि विजह्यान्न शूरत्वम् ।। १२ ।। रुक्मी छलेन दीव्यन्बलं विजित्याथ परिहसन्नुच्चैः । द्राग्वधमाप सभायां नोपहसेन्निर्जितं द्यूते ॥ १३ ॥ शकुनिसुयोधनकर्णेजितोऽक्षधूयुधिष्ठिरो द्यूते । निर्वासितः स्वराष्ट्राकितवैः सह नाचरेद्दयूतम् ॥ १४ ॥ मखरक्षणाय पुत्रं विश्वामित्राय दशरथोऽर्थयते । प्रायच्छद्गतशत दुस्त्यजमप्यर्थिने देयम् ॥ १५ ॥ त्यज पार्थैः सह रणमिति विदुरेणोक्तोऽम्बिकासुतः सततम् । तदमत्वा क्षयमापत्कर्तव्यं भापितं सुहृदाम् ॥ १६ ॥ शिशुपालः ऋतुकाले हरिमर्ह गर्हयन्ननोक्त्या । तत्क्षणमियाय नाशं न महान्तं वापि गर्हेत ॥ १७ ॥ अन्यद्विजाय मोहान्गो वदान्यो द्विजस्य गां दत्त्वा । सद्योऽभूत्कृकलासो ब्रह्मखं दूरतो विसृजेत् ॥ १८ ॥ सुग्रीवो रघुपतिना हृतदारेणोपगम्य हृतदारः । दृढमाववन्ध सख्यं समानदुःखः सखा कार्यः १९ ॥ १. वलदेवम्. २. धृतराष्ट्रः. ३. नृगोपाख्यानं महाभारतेऽनुशासनपर्वणि सप्तति- मितेऽध्याये द्रष्टव्यम्.
२२ काव्यमाला। वीरो वैतनिकः सन्विराटनगरोषितः कुमारीणाम् । नर्तयितार्जुन आसीद्भजेदवथोचितां वृत्तिम् ॥ २० ॥ दुष्यन्तः स्ववधूमपि कण्वानीतां शकुन्तलां ससुताम् । सुचिरं विमृश्य भेजे कार्य सहसा न विदधीत ॥ २१ ॥ जमदग्निना नियुक्तः सद्यो निजधान मातरं रामः । निर्दोषः पुनरासीद्गुरूक्तमविचारितं कुर्यात् ॥ २२ ॥ शतयोजनततमधि विलय बातात्मजोऽविशल्लकाम् । वीराग्रतःसरोऽभूद्यशोऽर्जयन्साहसं कुर्यात् ॥ २३ ॥ प्रहितः सुजिगीषुर्हरं प्रहर्तु स्मरोऽभ्ययाद्यावत् । भस्मीवभूव तावन्न चिकीर्षेढुष्करं कर्म ॥ २४ ॥ संकुट्य पादधातैः कालिन्द्यां कौलियं कृतागस्कम् । निरयापयन्मुकुन्दो दुष्टे दण्डः प्रयोक्तव्यः ॥ २५ ॥ कुलिशाहतिहृतशिरसेऽप्यदात्कंवन्धाय जीवते शक्रः । अशनायोरसि बदन दीनो रिपुरप्यनुग्राह्यः ॥ २६ ॥ सुग्रीवाय बँकः खाद्दशमुखसंदेशमादिशन्कपिभिः । संताड्य सपदि बद्धो न दूतभावं भजेदसतः ॥ २७ ॥ अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् । पुनरनुतापमबापत्पापं कृत्वानुतप्येत ॥ २८ ॥ भोगान्वहून्ययातिभुक्त्वा वयसा सुतस्य चिरकालम् । निविद्यतावितृप्तः कामं मन्येत दुप्पूरम् ॥ २९ ॥ बलिरिन्द्रजित्रिलोक्यां भुञ्जन्भोगांश्चिराद्विनष्टश्रीः । सुतलेऽबध्यत पाशैभॊगान्क्षणभङ्गुरान्विद्यात् ॥ ३० ॥ विलपन्तं हतपुत्रं धृतराष्ट्रं वीक्ष्य करुणया कृष्णः । क्षणमनुशुशोच सासं दुःखितमनु दुःखितो भूयात् ।। ३१ ।। १. एतनामकं सर्पम्. २. कवन्धकथा वाल्मीकिरामायणेऽरण्यकाण्डे दृष्टव्या. ३. सारणसहचरो रावणदूतः. ४. निर्वेदं प्राप, उपदेशशतकम् । २३ निःक्षत्रियां न. चक्रे यावद्रामो भुवं रुषा तावत् । आसीद्रणैकतानो विरमेदसमाप्य नारब्धम् ॥ ३२ ॥ दुहिता विदेहभर्तुर्दाशरथे मिनी सीता । वधमाप राक्षसीनां विधेर्विचित्रा गतिर्बोध्या ॥ ३३ ॥ निगमागमैकवेत्ता द्रोणस्तप्त्वा तपोऽर्थमन्विच्छन् । धानुष्कवृत्तिरासीद्धर्म चार्थे च सेवेत ।। ३४ ।। अधिशंभुमौलि निवसन्नेककलात्मा यथार्च्यते चन्द्रः । न तथा स पूर्णविम्बः श्रयेन्महान्तं महत्त्वाय ॥ ३५ ॥ शरतल्पमधिशयानाद्रीष्मादाकर्ण्य धर्मजो धर्मान् । दुःखं जहौ दुरन्तं प्रष्टव्याः सत्पथं वृद्धाः ॥ ३६ ॥ कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् । जीवितमरक्षि पाथैः स्वात्मानं सर्वतो रक्षेत् ॥ ३७ ॥ पृथुकोपहारपाणिहरि सखायं प्रपद्य दीनात्मा । श्रीमानभूत्सुदामा श्रयेत सन्मित्रमापत्सु ॥ ३८ ॥ दृष्ट्वा हरिः समक्षं बाणत्राणाय कोटवीं नग्नाम् । समरे पराङ्मुखोऽभूत्स्त्रियं विवस्त्रां न वीक्षेत ॥ ३९ ।। अदिशल्लक्ष्मणहेतोर्मारुतिमानेतुमोषधी रामः । तामानयत्स दूराद्धर्यः कार्ये नियोक्तव्यः ॥ ४० ॥ आराध्य कैतवज्ञो रौद्रं रुद्रार्द्वको वरं लब्ध्वा । गौरीमियेष हर्तु न विनीतं विश्वसेद्भूतम् ॥. ४१ ॥ दशकण्ठरक्षितायां लङ्कायां रक्षसामभूदसताम् । गृहवित्तबन्धुनाशो वसेन्न राष्ट्रे कुभूपाले ।। ४२ ।। शप्वाम्बरीषमार्य दुर्वासाः कोपनो निरागस्कम् । चक्रेण तापितोऽभून्न विदध्यात्क्रोधमस्थाने ॥ ४३ ॥ १. कोटवी नग्ना स्त्री. तत्कथा हरिवंशे वाणासुरयुद्धे प्रसिद्धा. २. शकुनिसूनुको नाम कश्चिदसुरः. तत्कथा श्रीमद्भागवते दशमस्कन्धेऽष्टाशीतितमेऽध्याये द्रष्टव्या. ३. भागवतादिप्रसिद्धं विष्णुभक्त कंचिद्राजविशेषम्.
२४ काव्यमाला। मखशिखिनि हुयमानं तक्षकमवितुं प्रपन्नमसमर्थः । अजहान्न तु पुरुहूतः शरणमुपेतो न हातव्यः ॥ ४४ ॥ हत्वा खमुस्तनूजान्सद्यो जातान्बहून्खलः कंसः । उत्सन्नः सहसाभून्न कुत्सितं कर्म कुर्वीत ॥ ४५ ॥ सीतां विसृज्य रामः साकं मुनिभिर्मुनिव्रतो राज्यम् । शासन्नुवास पुर्या नेयः सद्भिः समं समयः ॥ ४६ ॥ कृष्णधनंजयभीमान्द्विजवेपस्थाञ्जरासुतश्चिकैः । क्षात्रैः क्षिप्रमजानादाकारैरिङ्गितं विद्यात् ॥ ४७ ।। यां यां दिशं गतोऽभूद्धिरण्यकशिपुर्यदृच्छया विचरन् । तां तां सुराः प्रणेमुर्दुष्टजनं दूरतः प्रणमेत् ॥ ४८ ॥ कुर्वन्नपि मुनिशप्तः खजीवितार्थी परीक्षितो यत्नम् । दष्टोऽहिना विनष्टो ज्ञेयो मृत्युः सुदुर्वारः ॥ ४९ ।। सदिति प्रतीयमानं जगन्मृपैवेति केवलं बुद्धा । जनको विमुक्तिमागात्स्वप्नवदन्तर्जगद्बोध्यम् ॥ ५० ॥ बिहरन्वधूभिरन्तःपुरेऽग्निवर्णो दिवानिशं कामी । ग्रस्तोऽथ यक्ष्मणाभूद्विषयान्विषभीषणान्विद्यात् ॥ ११ ॥ विप्रः पतिवृषल्या हिंस्रोऽप्यभिवादनान्महर्षीणाम् । वाल्मीकिर्मुनिरासीत्पुरुषानभिवादयेन्महतः ॥ १२ ॥ निशि कामयन्दुरात्मा द्रुपदसुतां कीचको रहः प्राप्ताम् । वधमाप भीमसेनात्परस्त्रियं नाभिकाङ्केत ॥ ५३ ॥ युधि कुरवः कृतवैरा वीरं व्यूह विशन्तमभिमन्युम् । बहवो निजघ्नुरेवं नैको रिपुमण्डलं प्रविशेत् ॥ १४ ॥ पुष्करनिर्जितराज्यः पुरमृतुपर्णस्य नैषेधो गत्वा । सारथिरभून्निगूढो दुरवस्थो न प्रकाशः स्यात् ॥ ५५ ॥ १. 'स संचरिष्णुर्भुवनान्तराणि याम्' (१।४६) इत्यादि शिशुपालवधश्लोकानुसा- रिणीयमार्या. २. अग्निवर्णकथा रघुवंशस्यैकोनविंशे सर्गे प्रसिद्धैव. ३. लोकप्रतिद्धैवेयं कथा. रामायणादिषु न प्राप्यते. ४. नलभ्राता. ५. नल:.
२५ , उपदेशशतकम् । क्षात्रं विमृष्य धर्म मान्यैर्गुरुभिर्द्विजैः समं समरे । युयुधेऽर्जुनो धनुष्मान्धोरमपि खं चरेद्धर्मम् ॥ ५६ ॥ हरिरम्बुधिमथनोत्था सुधां सुरेभ्यः सुरां सुरारिभ्यः । व्यतरत्समं यथार्ह योग्यं योग्याय दातव्यम् ॥ १७ ॥ अथ चैकत्वमवाप्ताः सुरां निपीयोद्धता मिथो नन्तः । युधि यादवाः प्रणेशु/मान्मद्यं न सेवेत ॥ १८ ॥ यज्ञोत्सवे स्वपित्रा हठादनाकारिता सती गत्वा । तनुमजहात्परिभूता कापि न गच्छेदनाहूतः ॥ ५९ ॥ मुंचकुन्देन मुकुन्दो यदुभिरवध्यस्य कालयवनस्य । छलतोऽचीकरदन्तं वध्योऽरिर्वञ्चयित्वापि ॥ ६ ॥ असकृयुधि विजितादपि भीतो बॉर्हद्रथाज्जले र्दुर्गम् । कृत्वा हरिय॑वात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ॥ ६१ ।। तुरगार्थेऽभिसरन्तः प्रकोप्य कपिलं क्षणात्समं सर्वे । सगरसुताः क्षयमीयुर्न कोपयेत्तापसं शान्तम् ॥ ६२ ॥ मुनिरपि विश्वामित्रः श्वा भूत्वा गूढमुर्वशीवशगः । अन्वव्रजत्सरार्तो भेतव्यं दुर्जयात्कामात् ॥ १३ ॥ बलदर्पितस्त्रिलोक्यां तृणवद्गणयन्दशाननः शूरान् । युधि निर्जितः प्लवंगैर्न वहेद्गर्व बुधो मनसा ॥ ६४ ॥ मातुर्वाक्शरविद्धः पञ्चाब्दो दुष्करं तपस्तप्त्वा । ध्रुव उच्चैःपदमभजत्पुंसा व्यवसायिना भाव्यम् ।। ६६ ।। नीता रहसि सखीभ्यो बहुमहिता बल्लवी पाय प्रान्ता । वह मामिति हरिमूचे न ह्यतिसंमानवेनन्छन् ।। ६६ ॥ दधतः खलक्ष्म युद्धे मुहुः शृगालल बलतः पल्मन् । श्रुत्वा जहास शौरिन वाग्विवाह कुन् । १ दक्षप्रजापतिना. २. राजविर. ४TET नपादसूनुः. ६. राजविशेषत्व. ३ २६ काव्यमाला। अकृतागसमपि रामो वालिनमन्तर्हितश्छलेनैव । सख्युर्जघान शत्रु सुहृद्रिपुं भावयेद्रिपुवत् ॥ ६८ ॥ क्रुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् । अनुनीतस्तदमुश्चक्रोधाविष्टोऽनुनेतव्यः ॥ ६९ ।। वदार्पितं कुमारैद्रोणो द्रुपदं कृतापराधमपि । व्यसृजद्विसृज्य रोपं क्षमिणा पुरुषेण भवितव्यम् ॥ ७० ॥ दुर्योधने सभायां मानभ्रष्टे जहास यद्भीमः । तदभूद्विग्रहवीजं न वैरमुत्पादयेत्वस्मात् ॥ ७१ ॥ स्वपितॄन्समुद्दिधीर्पन्प्रापय्य क्ष्मां भगीरथो गङ्गाम् । पावितवानितरानपि हितं चरेत्कर्म सर्वेषाम् ॥ ७२ ॥ तारां जहार चन्द्रः स्त्रियं गुरो यतां मिथस्तेन । समरोऽभवत्सुराणां बोध्यं वैरैकवीजं स्त्री ॥ ७३ ॥ अधिवेश्म पूजनीया चिरमुषिता ब्रह्मदत्तभूपस्य । अन्धं चकार पुत्रं न नीचमावासयेत्स्वगृहे ॥ ७४ ॥ लुब्धो बलाजिघृक्षन्कामदुर्घ कौशिको वसिष्ठस्य । न प्राप जातदर्पो हठं न कुर्याद्दुरापेऽर्थे ॥ ७९ ॥ दृप्तं चलेन रोषान्निबध्य वैरं किरीटिना कर्णम् । कुरवो व्यधुः सखायं रिपोर्विपक्षः सखा कार्यः ॥ ७६ ॥ द्विपतां वधे सहायं ककुत्स्थमिन्द्रो रणे वृषो भूत्वा । अवहद्विहाय लज्जां कार्यार्थी नावहेन्मानम् ॥ ७७ ॥ अपि गौतमो द्विनेत्रं शक्रमहल्यारतं शपन्क्रुद्धः । चक्रे सहस्रनेत्रं गुणवान्बोध्यः सतां शापः ॥ ७८ ॥ धनदः पुप्पकमेकं लङ्कापतये युयुत्सवे दत्त्वा । अलकामपात्समग्रां बहु रक्षेदल्पदानेन ॥ ७९ ॥ १. हस्तिनापुरम्. २. पूजनीया नाम काचिच्चटका. तत्कथा महाभारते शान्तिपर्व- ण्यापद्धर्म एकोनचत्वारिंशदधिकशततमेऽध्याये, हरिवंशे च प्रथमपर्वणि विशेऽध्याये द्रष्टव्या.
उपदेशशतकम् । २७ तनये विनयिनि वीरे पार्थः कुरुभिर्हतेऽपि सौभद्रे । युयुधे विधूय शोकं न गते शोको विधातव्यः ।। ८० ॥ व्यासाच्छ्रुतं भविष्यद्भीमं जनमेजयः खकं वृत्तम् । शश्वत्स्मरन्नशोचन्न भाविनं चिन्तयेदर्थम् ॥ ८१ ।। वैकर्तनमपि कुन्त्याः सुतमपि लोकोऽन्यसेविनं कर्णम् । राधेयमेव मेने बुधः खवृत्त्यानुवर्तेत ।। ८२ ।। हित्वान्यान्हरिदारान्साम्राजित्यै सुरषिरर्थज्ञः । दिव्यं ददौ प्रसूनं मनोऽनुवृत्तिं प्रभोः कुर्यात् ।। ८३ ॥ रोहिण्या वशगोऽन्याः स्त्रियः परित्यज्य दक्षशापेन । यक्ष्मी बभूव चन्द्रो नैकरतः स्याद्बहुस्त्रीकः ॥ ८४ ॥ तपसा विधूतपापं माण्डव्यं दण्डयन्यमः सद्यः । शूद्रत्वमाप शापान्नादण्ड्ये पातयेद्दण्डम् ॥ ८५ ॥ सत्राजितं निशायां निर्भरनिद्राणमेव शतधन्वा । अवधीत्स्यमन्तकार्थे नातिशयालुर्भवेद्रात्रौ ।। ८६ ।। हतवत्यपि निजतनुजान्गाधिसुते वीर्यवान्विधेः सूनुः । प्रतिकर्तुमाप लज्जां कुलानुरूपं वहेच्छीलम् ॥ ८७ ॥ विद्यां कचो बुभुत्सुः शुक्रात्संजीविनीं विनीतात्मा । सुरपक्षगोऽपि लेभे विनयात्संसाधयेत्कार्यम् ॥ ८८ || द्रोणे सख इति वादिनि नारथिरथिनोः सखित्वमित्याह । द्रुपदो विधूय सख्यं नृपं न मित्रं विजानीयात् ॥ ८९ ॥ अपि शक्तः परिह ययातिशापं हरिहते कंसे । राजासनं न भेजे पुरातनी पालयेत्संस्थाम् ॥ ९० ॥ विमुखो घुमद्गदातः प्रद्युम्नो धिकृतो रणे हरिणा । परिभवमाप महान्तं न भवेद्विमुखो रणाद्धीरः ॥ ९१ ॥ १. अभिमन्यौ. २. सत्यभामायै. ३. नारदः. ४. वसिष्ठः. ५. यदुवंशीया राज्यं न प्राप्स्यन्तीत्यादि रूपम्.
२८ काव्यमाला । एकाग्रतां वकर्मणि दत्तात्रेयः प्रशस्य शरकर्तुः । समशिक्षतात्मयोगं नीचादपि सद्गुणो ग्राह्यः ॥ ९२ ॥ अपि वञ्चयन्विरिञ्चिः कृष्णं वत्सान्सवत्सपान्हृत्वा । खयमेव वञ्चितोऽभून्मायाविपु नाचरेन्मायाम् ॥ ९३ ॥ मृगयारतः प्रसेनो विघटितसेनोऽटवीमटन्नेकः । केसरिणा विनिजघ्ने नैकाकी संचरेद्विपिनम् ॥ ९४ ॥ शिवलिङ्गान्तमलव्धं लब्धं विधिनेति कामधुक्प्राह । अथ निन्धमाप शापं न विदध्यात्कूटसाक्षित्वम् ॥ १५ ॥ पुत्रेण सव्यसाची पराजितो बभ्रुवाहनेनाजौ । तुण्यन्हृदि न ललज्जे पराजयं पुत्रतोऽन्विच्छेत् ॥ ९६ ॥ चिरसंगताय कुन्ती कृष्णाय क्लेशिता कुरुक्षेत्रे । व्यसनं स्वमाह सर्व सुहृदे विनिवेदयेदुःखम् ॥ ९७ ॥ पाञ्चालीगजराजौ हरिणा दुःशासनांवहाराभ्याम् । त्रातौ क्षणात्प्रपन्नौ हरिं भयार्तः प्रपद्येत ॥ ९८ ॥ दैवाद्वनोपलब्धां ययातिरब्राह्मणोऽपि गतशङ्कम् । शुक्रसुतामुपयेमे विधिप्रणीते प्रवर्तेत ॥ ९९ ॥ असुरो हितमुपदिष्टः प्रहादो नारदेन गर्भस्थः । तत्त्वविदुषां वरोऽभूद्धितोपदेशं सदा शृणुयात् ॥ १०० ॥ स्फुटमार्याशतगदितान्पृथक्प्रमाणीकृतानुदाहरणैः । शतमेतानुपदेशान्विभावयन्भावयेसिद्धिम् ॥ १०१ ।। कुतुकाय कोविदानां मूढमतीनां महोपकाराय । निरमात्कविर्गुमानिः शतोपदेशप्रबन्धममुम् ॥ १०२ ॥ इति श्रीगुमानिकविप्रणीतमुपदेशशतकं समाप्तम् । १. अवहारो ग्राहापरनामा जलजन्तुः.
No text on this page.
३० ० काव्यमाला। पूर्वाक्षरद्वयासक्तविरामेण पडक्षरा । तकारेण यकारेण तनुमध्याभिधीयते ॥ १० ॥ यथा मम- 'तेन प्रविभक्ता कामं वयसा सा । येन प्रविलासं धत्ते तनुमध्या ॥' सप्ताक्षरसमायुक्तं जसाभ्यां गुरुणा तथा । अविरामं विदुर्वृत्तं कुमारललिताभिधम् ॥ ११ ॥ यथा मम- 'जनं स्मृतिदशाप्तं गतानुगतिकः किम् । न शोचति जनोऽयं कुमारललितं तत् ॥' मकारयुगपर्यन्ते यत्संयुक्तगुरुद्वयम् । विद्युन्मालाभिधं तद्धि वृत्तमष्टाक्षरं विदुः ॥ १२ ॥ यथा मम- 'मौनं ध्यानं भूमौ शय्या गुर्वी तस्याः कामावस्था । मेघोत्सङ्गे नृत्तासक्ता यस्मिन्काले विद्युन्माला ॥' लघोर्गुरोश्च विच्छित्त्या यत्रानन्तर्यसंगतिः । वृत्तप्रमाणनिपुणैः सा प्रमाणीति कीर्तिता ॥ १३ ॥ यथा मम- 'लघु श्रुतं मदोद्धतं गुरुश्रमाय केवलम् । न यत्परोपकारकगृथैव तत्प्रमाण्यपि ॥' पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयो। गुरु षष्ठं च सर्वेषामेतच्छोकस्य लक्षणम् ॥ १४ ॥ असंख्यो भेदसंसर्गादनुष्टुप्छन्दसां गणः । तत्र लक्ष्यानुसारेण श्रव्यतायाः प्रधानता ॥ १५ ॥ १. केवलं वालत्वमेवेति भावः. २. प्रमाणयुक्तमपि.
३१ सुवृत्ततिलकम् । यथा भगवतो व्यासस्य- 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥ नवाक्षरापि ननमैरक्षरैरुपलक्षिता । भुजगाग्रा शिशुसृता कथिता वृत्तकोविदः ॥ १६ ॥ यथा मम- 'न नमति चरणौ भक्त्या किमिति जडमतिलोकः । भवभयशमनौ शंभोर्भुजगशिशुसृतावने ॥' संयुक्तं भमसैरन्ते गुरुणा च दशाक्षरम् । वृत्तं रुक्मवती नाम कथितं वृत्तशालिभिः ।। १७ ।। - यथा मम- - 'भग्नमसत्यैः कायसहर्मोहमयी गुर्वी भवमाया । स्वप्नविलासा योगवियोगा रुक्मवती हा कस्य कृते श्रीः ।।' तकाराभ्यां जकारेण युक्तं गुरुयुगेण च । इन्द्रवज्राभिधं प्राहुरीत्तमेकादशाक्षरम् ॥ १८ ॥ यथा मम- 'तौ जन्मगूढी चरणेन यस्य कष्टौ निविष्टौ हृदि कामकोपौ । तं दुःसहास्ता ज्वलदिन्द्रवज्रपातोपमाः क्लेशदशा विशन्ति | जतजैगुरुयुग्मेन संसक्तैरुपलक्षितम् । वदन्त्युपेन्द्रवज्राख्यं वृत्तमेकादशाक्षरम् ॥ १९ ॥ यथा मम- 'जितो जगत्येष भवभ्रमस्तैर्गुरूदितं ये गिरिशं स्मरन्ति । उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ।। १. महाभारते द्रोणपर्वणि (१८४१४६). २. भुजगोपपदा शिशुसृता. भुजगशिशुसृते त्यर्थः. ३. सुवर्णरत्नादियुक्तेति यावत्. ४. उपेन्द्रो विष्णुः, वज्रायुधः शक्रः, वारिनामो वरुणः, तैः. + ३४ काव्यमाला। अष्टाक्षरविरामेण युक्ता ननमय संयैः । वदन्ति मालिनीनाम वृत्तं पञ्चदशाक्षरम् ॥ ३० ॥ यथा मम- 'ननननमयवाणी मेखलाकृष्टिकाले प्रविचलदिव शीलं नोत्सृजन्ती दुकूलम् । तृणलवचलनेऽपि स्वैरिणी शकमाना दिशि दिशि कृतदृष्टिालिनी कस्य नेष्टा ॥' नजभैर्जजलैरन्तगुरुभिर्नर्कुटाभिधम् । वृत्तं चानष्टविच्छेदं विदुः सप्तदशाक्षरम् ।। ३१ ।। यथा मम- 'निजभुजविंशालगुणविक्रमकीर्तिभरैः प्रविधता सुधांशुधवलं भवता भुवनम् । कथय कथं कृतेयमतिरागवतीं जनता चरितमपूर्वमेव तव कस्य न नर्कुटकृत् ॥' जसजैः सयले न युताष्टनवसंहतिः । दशसप्ताक्षरा पृथ्वी कथिता वृत्तवेदिभिः ॥ ३२ ॥ यथा मम- 'जवात्स रजसा युतः श्रमविसंस्थुलाङ्गः पथा व्रजन्सततसेवकः पिशुनधाम वेश्म प्रभोः । कदाचिदवलोकनैः फलविवर्जितैर्मन्यते जडः करसमर्पितामिव मदेन पृथ्वीमिमाम् ॥' नसमै रसलैर्गेन युक्ता सप्तदशाक्षरा । विच्छिन्ना हरिणी पद्दभिश्चतुर्भिः सप्तभिस्तथा ।। ३३ ।। १. चगणेन सहितैरित्यर्थः २. मालाधारिणी. ३. नर्कुटशब्दोऽत्राश्चर्यवाचक इति भाति. ४. मूर्खः स्वामिदृक्पातमात्रेण वसुधां सहस्तगतां मन्यते.
सुवृत्ततिलकम् । ३५ यथा मम- - 'न समरसनाः काले भोगाश्चलं धनयौवनं कुरुत सुकृतं यावन्नेयं तनुः प्रविशीर्यते । किमपि कलना कालस्येयं प्रधावति सत्वरा तरुणहरिणी संत्रस्तेव प्लवप्रविसारिणी ॥' यमनैः समलैर्गेन युक्ता सप्तदशाक्षरा । पडेकादशविच्छेदवती शिखरिणी मता ॥ ३४ ॥ यथा मम- 'यथा मन्युर्लीनः स च विभवभग्नः सरमद- स्तथा जाने जाता शमसमयरम्या परिणतिः । इदानीं संसारव्यतिकरहरा तीव्रतपसे विविक्ता युक्ता मे गिरवरमही सा शिखरिणी ।' चतुःपट्सप्तविरतिर्वृत्तं सप्तदशाक्षरम् । मन्दाक्रान्ता मभनतैस्तगगैश्वाभिधीयते ॥ ३५॥ यथा मम- 'मध्येभङ्गीवलनविततापागसंसङ्गभाजः स्मर्यन्ते ते यदि धृतिमुषः पक्ष्मलाक्षीकटाक्षाः । तत्कि मिथ्या नियमनिभृतैः कानने धीयते धी- मन्दाक्रान्ता दशति निशिता पन्नगी पाणिसक्ता ॥' मसजैः सततैर्गेन युक्तमेकोनविंशवत् । शार्दूलक्रीडितं प्राहुश्छिन्नं द्वादशसप्तभिः ॥ ३६ ।। यथा मम- 'माद्यत्सज्जसमाततोग्रसुभटोद्भिन्नेभकुम्भस्थल- श्लिष्यन्मौक्तिकदन्तुरः सरभसोद्वेल्लद्यशःकेसरः । जृम्भारम्भभयंकरव्यतिकरत्रस्तैः समुदीक्षितः शत्रूणां त्वदसिः करोति समरे शार्दूलविक्रीडितम् ॥ - १. मन्दं यथा स्यात्तथा धृता.
२६ काव्यमाला। युक्तं मरभनयैश्च त्रिभिः सप्ताक्षरैत्रिभिः। छेर्दश्च स्रग्धरात्तमेकविंशाक्षरं विदुः ॥३७॥ यथा मम- - 'सारारम्भानुभावप्रियपरिचयया खर्गरगाजनानां लीलाकर्णावतंसश्रियमतनुगुणश्लेपया संश्रयन्त्या। आभाति व्यक्तमुक्ताविचकिललवलीवृन्दकुन्देन्दुकान्त्या त्वत्कीर्त्या भूपितेयं भुवनपरिवृढ स्रग्धरेव त्रिलोकी ॥' इति सरलतरसात्सर्वकाव्योचितखा- त्सुकविपरिचितखात्कीर्णकर्णामृतखात् । परुपविषयमात्रादुविरामोज्झितेयं प्रचुररुचिरहत्तव्यक्तिरुक्ता हिताय ॥ ३८॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके वृत्तावचयो नाम प्रथमो विन्यासः । द्वितीयो विन्यासः । कृते प्रसिद्धत्तानां लक्ष्यलक्षणसंग्रहे । अधुना क्रियते तेषां गुणदोषपदर्शनम् ॥१॥ न पटूसप्ताक्षरे वृत्ते विश्राम्यति सरखती । भृङ्गीव मल्लिकावालकलिकाकोटिसंकटे ॥ २ ॥ समासर्लघुत्तानामसमामैनीसाम् । शोभा भवति भव्यानामुपयोगवशेन वा ॥ ३ ॥ अनुष्टुप्छन्दसां भेदे कैश्चित्सामान्यलक्षणम् । यदुक्तं पञ्चमं कुर्याल्लघु षष्ठं तथा गुरु ॥ ४॥ तत्राप्यनियमो दृष्टः प्रबन्धे महतामपि । तस्मादव्यभिचारेण श्रव्यतैव गरीयसी ॥५॥ १. अतिशुभ्रया त्वत्का सितकुसुममालभारिणीवेयं त्रिलोकी शोभत इति भावः, सुवृत्ततिलकम् । ३७ यथा कालिदासस्य- 'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥' उपजातिविकल्पानां सिद्धो यद्यपि संकरः। तथापि प्रथमं कुर्यात्पूर्वापादाक्षरं लघु ॥ ६ ॥ यथा श्रीमदुत्पलराजस्य- 'हृताञ्जनश्यामरुचस्तवैते स्थूलाः किमित्यश्रुकणाः पतन्ति । भृङ्गा इव व्यायतपतयो ये तनीयसी रोमलतां श्रयन्ति ॥ सूत्रस्येवात्र तीक्ष्णाग्रं श्लोकस्य लघुना मुखम् । कर्ण विशति निर्विघ्नं सरलत्वं च नोज्झति ॥ ७॥ गुर्वक्षरेण संरुद्धं ग्रन्धियुक्तमिवाग्रतः । करोति प्रथम स्थूलं किंचित्कर्णकदर्थनाम् ॥ ८ ॥ यथा कालिदासस्य- 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥' त्र्यक्षरैत्यक्षरैरेव च्छेदैराभाति दोधकम् । अतोऽल्पैरधिकैर्वापि यति तालमिवोज्झति ॥ ९ ॥ यथा मम- 'सज्जनपूजनशीलनशोभामर्जय वर्जय दुर्जनसङ्गम् । दुस्तरसंसृतिसागरवेगे मज्जनकारणवारणमेतत् ॥' अतोऽल्पाधिकैर्यथा तुञ्जीरस्य- 'त्वन्मुखचन्द्रनिरीक्षणवा यः सुतरामिह निर्मलनेत्रः । सर्वजनस्य पुरः स्थितमेतत्सोऽन्तकवर्त्म न पश्यति चित्रम् ॥ १. शारदाक्षरेषु नकाररकारयोरतिखल्पो भेदः, तस्मात्कदाचित्तुजीन इति नाम स्यात्. तुञ्जीन इति तु कश्मीराधिपते रणादित्यस्य नामान्तरमस्ति. 'तस्यानुजो धरणि- भृद्रणादित्यस्ततोऽभवत् । तुजीनापरनामानं यं जनाः प्राहुरञ्जसा ॥' इति राजतरङ्गिणी (३।३८८). रणादित्यनामाङ्कितः श्लोकः सुभाषितावलीमध्ये, वर्तते, तस्माद्रणादित्यः क- विरासीदिति स्फुटमेव.
काव्यमाला। शालिनी श्लथवन्धैव सभावेन विभाव्यते । उत्तेजयेत्तां यत्नेन मन्ददीपशिखामिव ॥१०॥ लथा यथा मम- 'प्लोपक्लेशं प्रोषितानां दिशन्ती मानम्लानिं मानिनीनां दधाना । गाढं सक्ता सद्गुणग्लानिदाने चन्द्रस्य श्रीर्दुर्जनस्येव जाता ॥' शत्रन्ताक्षरसंयोगैः किंचित्कार्कश्यकारिभिः । अन्ते विसर्जनीयैश्च शालिनी याति दीप्तताम् ॥ ११ ॥ यथा मम- 'लज्जामन्जल्लोलतारान्तकान्तास्तिर्यनिर्यत्केतकीपत्रतीक्ष्णाः । मग्नाश्चित्ते कस्य निर्यान्ति भूयः प्रेमोन्मीलत्पक्ष्मलाक्षीकटाक्षाः ॥' श्लथस्वभावान्माधुर्य शालिन्याः परिवय॑ते । रुचिः प्रयाति मन्दाग्नेः क्षीरेणात्यन्तमन्दताम् ॥ १२ ॥ विसर्गयुक्तैः पादान्तैर्विराजति रथोद्धता । कलापरिचयैर्याता लटभेव प्रगल्भताम् ॥ १३ ॥ यथा मम- 'अत्र चैत्रसमये निरन्तराः प्रोषिताहृदयकीर्णपावकाः । वान्ति कामुकमनोविमोहना व्याललोलमलयाचलानिलाः ॥' अविसगैस्तु पादान्तनिष्प्रभैव रथोद्धता । अप्रार्थनाप्रणयिनी म्लानमानेव मानिनी ॥ १४ ॥ यथा कलशकस्य- 'अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् । आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ।' १. अनन्तराजसूनुः कलश: कश्मीरमहाराज आसीत्. अस्यैव राज्यकाले विह्नणकविः कश्मीर देशं परित्यज्य देशान्तरं गतः. अयं कलशः कविरासीदिति विह्नणेनैव विक्रमाइ- देवचरितेऽष्टादशे सर्गे वर्णितम्. कलशस्य केचन श्लोकाः सुभाषितावलीमध्येऽपि सन्ति. कलशराज्यसमयस्तु १०८० मितात्निस्तसंवत्सरादारभ्य १०८८ पर्यन्तमासीत्. अस्यैन कलशस्य सूनुर्हर्षदेवो बभूव, यत्प्रशस्तिरूपो राजेन्द्रकर्णपूरग्रन्थः.
३९ सुवृत्ततिलकम् । साकारायैर्विसर्गान्तैः सर्वपादैः सविभ्रमा । स्वागता स्वागता भाति कविकर्यविलासिनी ॥ १५॥ यथा मम- 'व्यावलन्ति तरला जलधाराः पान्थसंगमधृतेः परिहाराः । प्रान्तरलनिभविद्युदुदाराः प्रावृपः पृथुपयोधरहाराः ॥' न तु यथा ममैव- 'अम्बरेऽम्बुभरलम्विपयोदे मत्तवहिरुचिरेऽद्विनितम्बे । पुप्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्वे ॥ द्रुतताललयैरेव व्यक्तं रूक्षाक्षरैः पदैः। प्रनर्तयति यश्चित्तं तत्तोटकमभीप्सितम् ।। १६ ।। यथा मम- 'मदपूर्णितलोचनषट्चरणं धनरागमनङ्गकराभरणम् । कमलद्युति मुग्धवधूवदनं सुकृती पिवतीह सुधासदनम् ।।' असमस्तपदैः पादसंधिविच्छेदसुन्दरम् । सर्वपादेविसर्गान्तैर्वशस्थं यात्यनर्घताम् ॥ १७ ।। यथा भट्टबाणस्य- 'जयन्ति वाणासुरमौलिला लिता दशास्यचूडामणिचक्रचुम्बिनः । सुरामुराधीशशिखान्तशायिनस्तमश्छिदस्यम्बकपादपांसवः ।। विपरीतं यथास्यैव- 'नमामि भोश्चरणाम्बुजद्वयं सशेखरर्मोखरिमिः कृतार्चनम् समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोटिनाममाहालि ॥ प्रारम्भे द्रुतविन्यासं पर्यन्तेपु विलम्बितम् । विच्छित्त्या सर्वपादानां भानि द्रुनविलम्बिनम् ॥ १८ ॥ यया मम- 'कमलपाछ्ववारिकणोपमं किमिव पमि सदा निधनं धनन् । कलमकर्णनलालनमा यगांनि - ४ काव्यमाला। द्रुतहीनं विलम्बितं यथा मम- 'निपततां भ्रमतां विनिमज्जतां प्रविशतां परिवारशतैरधः तनुभृतां भव एव भवार्णवे भयमये भगवानवलम्बनम् ॥ आकारमन्थरैः प्रायः पादे पादेऽक्षरैत्रिभिः । शेषाक्षरैर्द्धततः महर्षाय महर्षिणी ॥ १९ ॥ यथा श्रीहर्षदेवस्य- 'दुरां कुसुमशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् । तद्भूयः शिशुशुकसारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥ विपरीतं यथा मम- 'संकोचव्यतिकरबद्धभीतिलोलेनिर्यद्भिर्धमरभरैः सरोरुहेभ्यः । आरब्धः क्षणमिव संध्यया जगत्यामुत्पत्त्यै घनतिमिरस्य बीजवापः ।। वसन्ततिलकस्याग्रे साकारे प्रथमाक्षरे । ओजसा जायते कान्तिः सविकासविलासिनी ॥ २०॥ यथा विद्याधिपत्यपरनाम्नो रत्नाकरस्य- 'कण्ठश्रियं कुवलयस्तबकाभिराम- दामानुकारिविकटच्छविकालकूटाम् । बिभ्रत्सुखानि द्विशतादुपहारपीत- धूपोत्थधूममलिनामिव धूर्जटिवः ॥' आकारेऽपि कृते पूर्व बन्धेऽल्पपदपेशले । वसन्ततिलकं धत्ते निर्गन्थि रमणीयताम् ॥ २१ ॥ यथा परिमलस्य- 'अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवास्तिव मधुद्रुममञ्जरीषु । कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ॥
सुवृत्ततिलकम् । ४१ - - विसर्गहीनपर्यन्ता मालिनी न विराजते । चमरी छिन्नपुच्छेच वल्लीवालूनपल्लवा ॥ २२ ॥ यथा भट्टवल्लटस्य- 'वरमिह रवितापैः किं न शीर्णासि गुल्मे किमु दवदहनैर्वा सर्वदाहं न दग्धा । यदहृदयजनौधैर्वृन्तपर्णानभिज्ञै- रितरकुसुममध्ये मालति प्रोम्भितासि ॥' संपूर्णा सा यथा कालिदासस्य 'अथ स ललितयोपिलताचारुशृङ्गं रतिवलयपदाके चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलि: पुष्पकेतुः ।।' द्वितीयाधै समस्ताभ्यां पादाभ्यां मालिनी वरा । प्रथमाधै समस्ताभ्यां पादाभ्यामवरा मता ॥ २३ ॥ द्वितीयाधं समस्तपादा यथा गन्दिनकस्य- 'करतरलितबन्धं कञ्चकं कुर्वतीनां प्रतिफलितमिदानी दैपमाताम्रर्चिः । स्तनतटपरिणाहे भामिनीनां भविष्य- नखपदलिपिलीलासूत्रपातं करोति ॥' प्रथमाधे समस्तपादा यथा राजशेखरस्य 'इह हि नववसन्ते मजरीपुजरेणु- च्छरणधवलदेहा बद्धलं सरन्ति । तरलमलिसमूहा हारिहुंकारकण्ठा बहुलपरिमलालीसुन्दरं सिन्दुवारम् ॥ अज्ञोऽप्यलक्ष्यं मालिन्यां वीणायामिव विखरम् । श्रवोद्वेगमायाति वाचा वक्तुं न वेत्ति तम् ।। २४ ॥ - ४२ काव्यमाला। यथा भद्देन्दुराजस्य- 'रहसि हृतदुकला शीलिता तैलदीपे त्वदुपगतसमृद्धेः प्रेयसी श्रोत्रियस्य । विकिरति पटवासहन्ति कर्णावतंसैः शमयति मणिदीपं पाणिफूत्कानिलेन ।' गुरुलघ्वादिनियमादविभ्रष्टेऽपि लक्षणात् । दोपस्वदुपगेत्यत्र श्रोत्रग्राह्योऽस्ति विस्वरः ॥ २५ ॥ प्रथमं द्वयक्षरैश्छेदैस्ततस्त्रिचतुरक्षरैः । पञ्चाक्षरैश्च पर्यन्ते नर्कुटं याति चारुताम् ॥ २६ ॥ यथा वीरंदेवस्य- 'तच शतपत्रपत्रमृदुताम्रतलश्चरण- श्चलकलहंसनूपुरवरध्वनिना मुखरः । महिपमहासुरस्य शिरसि प्रसभं निहितः सकलमहीधरेन्द्रगुरुतां कथमम्ब गतः ॥' विपरीतं यथास्यैव-~- 'सशिखिशिखेव धूमनिचिताञ्जनशैलगुहा सकपिशपन्नगेव यमुनोन्नतनीलशिला । महिपमहासुरोपहितभासुरशूलकरा वहुलनिशेव भासि सतडिद्गुणमेघयुता ॥' असमासैः पदैर्भाति पृथ्वी पृथ्वी. पृथक्स्थितैः । समासग्रन्धिभिः सैव याति संकोचखर्वताम् ॥ २७ ॥ पृथक्पदा यथा साहिलस्य- 'कचग्रहमनुग्रहं दशनखण्डनं मण्डनं हगञ्चनमवञ्चनं मुखरसार्पणं तर्पणम् । १. ख्रिस्तसंवत्सरीयैकादशशतकसमाप्तौ विद्यमानाद्टालंकारटीकाकर्तुः श्वेताम्ब- रनमिसाधुतः प्राचीनोऽयं वीरदेवः, यतो नमिसाधुना 'नुत्वा तथाहि दुर्गाम्' (१९) इत्यादि रुद्रटार्याव्याख्यायाम् 'केचिद्वीरदेवादयो नीरुजत्वं प्रापुः' इत्युक्तमस्ति. स. एवायं वीरदेवः. यतोऽत्रापि दुर्गास्तुतिरूपमेवास्य श्लोकद्वयम्. - सुवृत्ततिलकम् । ४३ नखार्दनमतर्दनं दृढमपीडनं पीडनं करोति रतिसंगरे मकरकेतनः कामिनाम् ।। समासवती यथा मम- 'कचग्रहसमुल्लसत्कमलकोपपीडाजड- द्विरेफकलकूजितानुकृतसीत्कृतालंकृताः । जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीहशां प्रमोदमदनिर्भरप्रणयचुम्बिनो विभ्रमाः ।।' पृथ्वी साकारगम्भीरैरोजासर्जिभिरक्षरैः । समासग्रन्थियुक्तापि याति प्रत्युत दीर्घताम् ॥ २८ ॥ दया भट्टनारायणस्य- 'महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकंदरः कुतोऽद्य समरोदधेरयमभूतपूर्वः श्रुतः ॥ त्वरातरलविच्छेदैविभाति हरिणी पदैः । मन्धरैन्धिवद्धेव याति निःस्पन्दसङ्गताम् ॥ २९ ॥ तरलपढ़ा यथा दीपकस्य- 'तनुधनहररस्तेनोत्कटां विकटाटवीं तरति तरसा शौयोंत्सेकात्वसार्थवशाजनः । पुरवरवधूलीलावलगत्कटाक्षवलाकुले नगरनिकटे पन्थाः पान्थ स्फुटं दुरतिक्रमः ॥' नन्धरयथा भद्देन्दुराजस्य- 'गुणपरिचयतीर्थ वासस्थिरोमयपक्षता वपुरतिहदं वृत्तं सम्यक्सखे तव किं पुनः । नरति नुमते यन्त्यां पातुं दृझा विनिमेषया बलिंग विपनं तन्याक्षेपं करोपि सहानुभिः ।।
४४ काव्यमाला। त्रिषु पादेपु विश्रान्तविलासर्ललिता पदैः । अन्ते तरङ्गितगतिहरिणी हारिणी तराम् ।।३०॥ यथास्यैव- 'पपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चकः ॥' शिखरिण्याः समारोहात्सहजैवौजसः स्थितिः । सैव लुप्तविसर्गान्तः प्रयात्यत्यन्तमुन्नतिम् ।। ३१ ।। यथा मुक्ताकणस्य- 'यथा रन्ध्र व्योमश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ।। विपरीता यथा भट्टश्यामलस्य- 'धृतो गण्डाभोगे मधुप इव बद्धोऽजविवरे विलासिन्या मुक्तो वकुलतरुमापुष्पयति यः । विलासो नेत्राणां तरुणसहकारप्रियसखः स गण्डूषः सीधोः कथमिव शिरः प्राप्स्यति मधोः ॥' शिखरिण्याः पदैश्छिन्नैः स्वरूपं परिहीयते । मुक्तालताया निःसूत्रमुक्तैर्मुक्ताफलैरिव ॥ ३२ ॥ यथा भट्टभवभूतेः- 'असारं संसारं परिमुपितरत्नं त्रिभुवन निरालोकं लोकं मरणशरणं वान्धवजनम् । अदर्प कंदर्प जननयननिर्माणमफलं जगज्जीारण्यं कथमसि विधातुं व्यवसितः ॥'
सुवृत्ततिलकम् । ४५ - श्लोकेऽस्मिन्सचमत्कारसरसास्वादशालिनि । केवलं शिखरिण्यैव वरूपमपहारितम् ॥ ३३ ॥ मन्धराकान्तविसधैश्चतुर्भिः प्रथमाक्षरैः । मध्यपदे ऽतिचतुरे मन्दाक्रान्ता विराजते ॥ ३४ ॥ यथा कालिदासस्य- 'ब्रह्मावर्त जनपदमधश्छायया गाहमानः क्षेत्र क्षत्रप्रधनपिशुनं कौरवं तहजेथाः । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारासारैस्त्वमिव कमलान्यभ्यपिञ्चन्मुखानि ॥' आदिमध्ये तुल्या यथास्यैव- 'कश्चित्कान्ताविरहगुरुणा खाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्पभोग्येण भर्तुः । यक्षश्चक्रे जनकतनवान्नानपुण्योदयु निग्धच्छायातरुषु बनाने गमगियोश्रमयु ।' साकाराद्यक्षरः पादपर्यन्नः विमर्गकः । शार्दूलक्रीडितं यत्ते तेजीजीवितमृजितम् ।। ३५ ॥ यथा भट्टश्यामलस्य- 'आलानं जयकुन्द्रग्न्य पदां मनुर्विमहानिधः पूर्वादिः करबालचण्डमद्रमा बीयापधान श्रियः । सङ्ग्रामामृनसागरप्रमथनाडाकनी मन्दग गजनजति बचिन्त्रिदिनवियत्र्यदम्न मृतः ।। विपरीतं यथा लाठडिग्य- 'चित्रं नाबदिदं मुन्द्रमबनान्मन्दाकिनीमाया नाटकमा वृनिन मामा महिन्द्र किन निदान दुर " ६१ काव्यमाला। विसर्जनीयस्योत्वेन पर्दनिम्नोन्नतैरिख । शार्दुलकोडिनं याति पाठे सायासनामिव ॥ ३६ ॥ तथा मुक्ताकणस 'लीलानागरटन्बरो तिपतीलाम्बुदश्रेणयो गगोदण्डशिखण्डिनो मुखविधृद्धृतास्तमोविभ्रमाः । सौगन्ध्योद्धतधाबदाकुलबलन्मत्तालिमालाकुलो धम्मिलो हरिणीझो विजयते सस्तो रतिव्यत्यये ।' विच्छिन्नपादं पूर्वार्ध द्वितीयाधैं सगासवत् । शार्दूल की डिनं भाति विपरीतमतोऽधमम् ॥ ३७॥ पूर्वाधै यथा भभवभूतेः- 'अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शट मरुत्पुत्रस्य हस्तेऽधुना । नो चेलक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छाच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥ विपरीतं यथा रिस्सोः- 'सातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा- छायाहारिणि वारिणि धुसरितो डिण्डीरविस्तारिणि । आस्ते ते कलिकालकल्मपमपीप्रक्षालनकक्षमा कीर्तिः संनिहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥ आद्यन्तयोर्गुणोत्कर्षकान्त्या सर्वातिशायिनोः । शार्दूलक्रीडितं धत्ते मध्ये तद्गौरवोन्नतिम् ॥ ३८ ॥ यथा कालिदासस्य- 'गाहन्तां महिपा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायावद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विस्तब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ॥'
सुवृत्ततिलकम् । आद्यन्ताकारविरहात्पर्यन्ते चाविसर्गतः। शार्दूलक्रीडितं स्वस्य रूप नैवोपलभ्यते ॥ ३९ ॥ यथा श्रीयशोवर्मणः- 'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ सुकुमाररसस्यात्र रक्षायै वृत्तमुद्धतम् । वाक्पाकेनैव गलितं कविना नीतमल्पताम् ॥ ४० ॥ आकारगुरुयुक्तादिपर्यन्तान्तविसर्गिणी । असंस्यूतविरामा च राजते स्रग्धरा तराम् ॥ ४१ ॥ यथा राजशेखरस्य- 'ताम्बूलीनद्धमुग्धक्रमुकतरुलतापस्तरे सानुगाभिः पायं पायं कलायीकृतकदलिदलं नारिकेलीफलाम्भः । सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि- त्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥ विपरीतं यथा चक्रस्य- 'सत्यं पातालकुक्षिभरि चिरविलसदिक्करि प्रीणितानं श्रीगर्भश्वभ्रमभ्रंलिहलहरि हरिस्थानमप्येव किंचित् । कल्पान्ते व्याप्तविश्वं परिरटति सरिन्नाथ पाथस्त्वदीयं किं त्वेतत्कुम्भयोनेः करकुहरदरीपूरमाचामतोऽभूत् ।' आद्यन्ताकारविरहाद्वन्धदोषः स्फुटोऽपि यः। अविलुप्तैर्विसर्गान्तैः स्रग्धरायां समीहते ॥ ४२ ॥ १. भवभूतिवाक्पतिराजादीनां प्रभुः खयं च रामाभ्युदयादिनाटकानां की का- न्यकुब्जमहीपालोऽयं यशोवर्मा. 'कविक्पितिराजश्रीभवभूत्यादिसेवितः । जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥' इति राजतरङ्गिणी (४।१४५): स च यशोवर्मा खि- तसंवत्सरीयसप्तमशतकस्योत्तरार्ध आसीत. ।
काव्यमाला।
यथा मम--
.
'शौर्यश्रीकेशपाशः करिदलनमिलन्मौक्तिकव्यक्तपुष्पः
क्षोणीरक्षाभुजंगः कुलशिखरिलुठत्कीर्तिनिर्मोकपट्टः ।
शत्रुव्रातप्रतापप्रलयजलधरस्फारधाराकराल:
प्रीत्यै लक्ष्मीकटाक्षः कुवलयविजयी यस्य पाणौ कृपाणः ॥
एवमुद्देशलेशेन वृत्तानां दर्शितः क्रमः ।
अनयैव दिशा सर्वं ज्ञेयं तज्ज्ञैर्यथोचितम् ॥ ४३ ॥
मन्दाक्रान्ता भवेन्मध्ये शालिनी पूरिताक्षरा ।
उपेन्द्रवज्र वंशस्थं पर्यन्तैकाक्षराधिकम् ।। ४४ ॥
इत्यादि दर्शितं नेह स्वतः सिद्धो ह्ययं क्रमः ।
न वेत्ति तदवृत्तज्ञस्तज्ज्ञस्य कोपयुज्यते ॥ ४५ ॥
इति परिचितनानारूपवाणीगुणानां
विदितविविधदोपोद्देशलेशान्तराणाम् ।
इदमतिशयसूक्ष्मवृत्तचर्चाविचारै-
रभिहितमभिगम्यं योगितुल्याशयानाम् ॥ ४६ ॥
इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके
गुणदोषदर्शनं नाम द्वितीयो विन्यासः ।
तृतीयो विन्यासः ।
प्रबन्धः सुतरां भाति यथास्थानं विवेचक (निवेशितैः)।
निर्दोषैर्गुणसंयुक्तैः सुटत्तैमौक्तिकैरिव ॥१॥
शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः ।
चतुष्प्रकारः प्रसरः सतां सारस्वतो मतः॥२॥
शास्त्रं काव्यविदः प्राहुः सर्वकाव्याङ्गलक्षणम् ।
काव्यं विशिष्टशब्दार्थसाहित्यसदलंकृति ॥ ३ ॥
४९ नुवृत्ततिलकाम् । शास्त्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेशकन् । भहिमामककाव्यादि काव्यशाम प्रचक्षते ॥ ४ ॥ तत्र केवलशारोऽपि केचित्कायं मयजने । तितोपधरसोडगे गुडलेशमिवोपरि ॥५॥ यथा वैपके पाटन्य- मधु मुखमिव लोत्पलं प्रियायाः कलरमना परिवादिनी पिगेन। कुमुमचयमनोहरा च गया फिनन्दयिनी निकष पृणितामा ।' शास्त्रं कुर्यात्मयनेन प्रसन्नार्थमनुष्टुभा । येन सर्वोपकाराय यानि मुस्पष्टसेतुताम् ॥ ६ ॥ काव्ये रसानुसारेण वर्णनानुगुणेन च । कुर्वीत सर्ववृत्तानां विनियोग विभागविन् ।। ७ ।। शास्त्रकान्येऽतिदीर्याणां मृत्तानां न प्रयोजनम् । काव्यशासेऽपि वृत्तानि रसायनानि काव्यविन् ।। ८ ।। पुराणप्रतिविम्येषु प्रसन्नोपायवर्ताम् । उपदेशमथानेषु कुर्यात्सर्वेप्वनुष्टुभम् ॥ ९ ॥ नानावृत्तविशेपास्तु कवेः शस्तस्य शासनान् । यान्ति प्रभोरिवाल्यन्तमयोग्या अपि योग्यताम् ॥ १० ॥ उग्रगोग्रहसवामे तत्कालसदृशोपमाः । दृष्टास्त एव वैराटेस्त एवाश्चाः किरीटिनः ।। ११ ॥ तथाप्यवस्थासदृशः साधुशब्दपदस्थिताः । मुखत्तैरेव शोभन्ते प्रबन्धाः सज्जना इव ।। १२ ।। १. क्षेमेन्द्रकृत एव चतुर्वर्गसंग्रहाख्यो ग्रन्थः. २. भहभागययनं गवणार्जुनीय- काव्यं भटिकाव्यतुल्यं कदमीर देशप्रसिद्धम्. 'उदगात्कटकालापं प्रत्यष्टालाटकाधुमन्द इति रावणार्जुनीयकाव्यश्लोकाध काशिकावृत्ती 'अनुवाद करणानाम' (२॥४॥३) ए. रसूत्रव्याख्यान उदाहृतम् , तस्मात्काशिकावृत्तिकः प्रानांनी भीमका निन्द- कौमुद्यामपि द्वन्द्वसमासप्रकरणे पूर्वोक्तसूत्रव्याख्यान एबादादन पूर्वान भोकार ५ ५० काव्यमाला। वृत्तरवावली कामादस्थाने विनिवेशिता । कथयत्यज्ञतामेव मेखलेव गले कृता ॥ १३ ॥ नहि नाम नवोन्मेपिकुचायाश्चारुचक्षुपः। चिरत्यक्तस्सराचारे जराजीर्णकचे रुचिः॥१४॥ तस्मादत्र यथास्थाने विनियोगाय संगतिः। उदाहरणदिङ्मात्रैर्दर्शिताभिमता सताम् ॥ १५ ॥ आरम्भे सर्गवन्धस्य कथाविस्तरसंग्रहे । शमोपदेशवृत्तान्ते सन्तः शंसन्त्यनुष्टुभम् ।। १६ ।। आरम्भे यथा भर्तृमेण्ठस्य- 'आसीदैत्यो हयग्रीवः सुहृद्धेश्मसु यस्य ताः । प्रथयन्ति बलं बाहोः सितच्छबस्मिताः श्रियः ॥ कथाप्रसङ्गे यथाभिनन्दस्य- 'तस्यां निजभुजोद्योगविजितारातिमण्डलः । आखण्डल इव श्रीमानराजा शूद्रक इत्यभूत् ॥ शमोपदेशे यथा मम- 'पृथुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयतेन तत्त्वज्योतिरान्तरम् ॥ शृङ्गारालम्बनोदारनायिकारूपवर्णनम् । वसन्तादि तदङ्गं च सच्छायमुपजातिभिः ॥ १७ ॥ रूपवर्णनं यथा कालिदासस्य- 'मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार वाला। आरोहणाथै नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ वसन्तवर्णनं यथास्यैव- 'बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥' १. कादम्बरीकथासारकर्ता वृत्तिकारापरनानो जयन्तभहस्य सूनुरभिनन्दकविः कश्मीरदेशे निस्तसंवत्सरीयसप्तमशतकसमाप्तौ वभूव. रामचरिताख्यकाव्यस्य कर्ता तु शतानन्दसूनुः कश्चिदन्योऽभिनन्दः.
सुवृत्ततिलकम् । ५१ - रथोद्धता विभावेषु भव्या चन्द्रोदयादिए । पागण्यमगुणा नीतिवंशस्थेन विराजते ॥ १८ ॥ चन्द्रोदये यथास्यैव- 'लीभिरिव केशसंचयं संनियन्य तिमिरं मरीनिभिः । कुललीकृतसरोजलोचनं चुन्वतीय रजनीगुल शशी | नीतियथा भारवे:- 'श्रियः कुरूणामधिपन्य पालिनी प्रजानु गृति यमन वेदितुम् । स वर्णिलिङ्गी विदितः समाययौं युधिष्ठिरं इतवने वनेनरः ॥' वसन्ततिलक भाति संकरे वीररोद्रयोः । कुर्यात्सर्गस्य पर्यन्ते मालिनी हुततालवत् ।। १९ ॥ वीररौद्रयोर्यथा रनाकरस्य 'जुन्भाविकासितमुखं नखदर्पणान्त- राविष्कृतप्रतिमुखं गुरुरोषगर्भम् । रूपं पुनातु जनितारिचमूविमर्श- मुद्त्तदैत्यवनिर्वहणं हरेर्चः ।। सर्गान्ते यथा कालिदासस्य- 'अवचितवलिपुप्पा वेदिसंमार्गदक्षा नियमविधिजलानां वहिपां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा लुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादेः ।।' - १. अद्यापि भारविकवेः समयो न निश्चितः, परंतु ३७३५ मितकलिवर्षेषु गतेपु ५५६ मिते च शककाले, अर्थात् ६३४ मिते मित्तसंवत्सरे, समुत्कीर्णे करिमश्रित्पा- पाणलेखे 'येनायोजि नवेऽश्मस्थिरमर्थविधी विवेकिना जिनवेदम । स विजयतां रवि- कीर्तिः कविताधितकालिदासभारविकीतिः ॥' इयमायांगीतिर्वर्तते. तस्मात्सप्तमशतक- प्रारम्भेऽपि कालिदासभारवी प्रसिद्धावारताम्. स च पापाणलेसः 'धी इण्डियन् आण्टिक्करी'नामकपुस्तकस्य पश्चमे भागे सप्ततिमिते पृष्ठे मुद्रितोऽस्ति. तंव तद्विस्तरो द्रष्टव्यः.
५२
काव्यमाला।
..
उपपन्नपरिच्छेदकाले शिखरिणी मता।
औदार्यरुचिरौचित्यविचारे हरिणी वरा ॥२०॥
उपपन्नपरिच्छेदे यथा भर्तृहरे:-
'भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो
विचित्रालापानां वयमपि कवीनामनुचराः ।
तथाप्येवं ब्रूमो नहि परहितात्पुण्यमपरं
न चामिन्संसारे कुवलयदृशो रम्यमपरम् ॥
औदार्येऽप्यस्यैव-
'विपुलहृदयैरन्यैः कैश्चिज्जगजनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुजते
कतिपयपुरखाम्ये पुंसां क एष मदज्वरः ॥
साक्षेपक्रोधधिकारे परं पृथ्वी भरक्षमा ।
प्रामवासव्यसने मन्दाक्रान्ता विराजते ॥ २१ ॥
साक्षेपे यथा यशोवर्मणः-
'स यस्य दशकंधरं कृतवतोऽपि कक्षान्तरे
गतः स्फुटमवन्ध्यतामधिपयोधि सांध्यो विधिः ।
तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा
क स क स दशाननो ननु निवेद्यतां राक्षसः ॥'
प्रावृट्प्रवासे यथा कालिदासस्य-
'तस्मिन्नद्रौ कतिचिदवलाविप्रयुक्तः स कामी
नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसार्नु
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ।'
शौर्यस्तवे नृपादीनां शार्दुलक्रीडितं मतम् ।
सावेगपवनादीनां वर्णने स्रग्धरा मता ॥ २२ ॥
सुवृत्ततिलकम् । ५३ शौर्यस्तवे यथा श्रीचक्रस्य- 'नेतुं नौभिरिभा न यान्ति दृतिभिस्तार्याः कियन्तो हया- स्तजानुद्वयसेन देव पयसा सैन्यं समुत्तार्यताम् । नो चेद्भङ्गभयद्रुतारिवनितानेत्रप्रणालीलुठ- द्वाप्पाम्भःप्लवपूरितोभयतटी द्राग्वय॑तीरावती ॥' सावेगपवने यथा मम पवनपञ्चाशिकायाम्-- 'प्रेकच्छङ्खाभिघातस्फुटदखिलचलच्छुक्तिनिर्मुक्तमुक्ता- मुक्तव्यक्ताट्टहासाः स्मरनृपसकलद्वीपसंचारचाराः । सर्पत्कर्पूरपूरप्रवणकरचिता दिग्वधूकर्णपूरा धावन्त्याध्मातविश्वा रतविधुतवधूबन्धवो गन्धवाहाः ॥' दोधकतोटकनर्कुटयुक्तं मुक्तकमेव विराजति मूक्तम् । निविषयस्तु रसादिषु तेषां निनियमश्च सदा विनियोगः ॥ २३ ॥ शेषाणामप्यनुक्तानां वृत्तानां विषयं विना । वैचित्र्यमात्रपात्राणां विनियोगो न दर्शितः ॥ २४ ॥ इत्येष वश्यवचसा सर्ववृत्तपसङ्गिनाम् । उक्तो विभागः सदृत्तविनिवेशे विशेषवान् ॥ २५ ॥ एकस्मिन्नेव यैर्वृत्ते कृतो द्वित्रेषु वा श्रमः । न नाम विनियोगार्हास्ते दरिद्रा इवोत्सवे ॥ २६ ॥ वृत्ते यस्य भवेद्यस्मिन्नभ्यासेन प्रगल्भता । स तेनैव विशेषेण स्वसंदर्भ प्रदर्शयेत् ॥ २७ ॥ एकत्तादरः प्रायः पूर्वेषामपि दृश्यते । तत्रैवातिचमत्कारादन्यत्रारब्धपूरणात् ॥ २८ ॥ अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी । विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ २९ ।। स्पृहणीयखचरित पाणिनेरुपजातिभिः । चमत्कारैकसाराभिरुद्यानस्येव जातिभिः ॥ ३० ॥ १. पातालविजये काव्ये.
। ५४ काव्यमाला। वृत्तच्छत्रस्य सा कापि वंशस्थस्य विचित्रता । प्रतिभा भारवेर्येन सच्छायेनाधिकीकृता ॥ ३१ ॥ वसन्ततिलकारूढा वाग्वल्ली गाढसङ्गिनी । रत्नाकरस्योत्कलिका चकास्त्याननकानने ॥ ३२ ॥ भवभूतेः शिखरिणी गिरगलतरङ्गिणी । रुचिरा घनसंदर्भे या मयूरीव नृत्यति ॥ ३३ ॥ सुवशा कालिदासस्य मन्दाक्रान्ता प्रवल्गति । सदश्वदमकस्येव काम्बोजतुरगाङ्गना ॥ ३४ ॥ शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः। शिखरीव परं वनः सोल्लेखैरुच्चशेखरः ॥ ३५ ॥ इत्येवं पूर्वकवयः सर्ववृत्तकरा अपि । अस्मिन्हार इवैकस्मिन्प्रायेणाभ्यधिकादराः ॥ ३६ ॥ सुवर्णाहप्रबन्धेषु यथास्थाननिवेशिनाम् । रत्नानामिव वृत्तानां भवत्यभ्यधिका रुचिः ॥ ३७॥ तस्माद्यथायं विनियोगमार्गः प्रदर्शितो वृत्तनिवेशनेषु । तथैव कार्यः कविभिः कृतज्ञैरवश्यवाचां नियमस्तु नायम् ॥ ३८ ॥ इत्यारुरुक्षोः प्रथमोपयुक्तं प्रवृत्तवाचश्च विवेककारि । महाकवेरप्यतिसूक्ष्मतत्त्वविचारहर्षप्रदमेतदुक्तम् ॥ ३९ ॥ इसौचित्यप्रचुररचनाविश्रुतश्रव्यवृत्त- व्यक्तिः शक्तिप्रसृतवचसां दर्शिता संग्रहेण । क्षेमेन्द्रेण प्रणयिविपदां हर्तुराश्चर्यकर्तु- भूभृद्भर्तुर्भुवनजयिनोऽनन्तराजस्य राज्ये ॥ ४० ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके वृत्तविनियोगो नाम तृतीयो विन्यासः ।
करुणालहरिः । १५ पण्डितराजश्रीजगन्नाथविरचिता करुणालहरिः। विषीदता नाथ विपानलोपमे विपादभूमौ भवसागरे 'विभो । परं प्रतीकारमपश्यताधुना मयायमात्मा भवते निवेदितः ॥ १ ॥ भवानलज्वालविलुप्तचेतनः शरण्य तेऽमिं शरणं भयादयाम् । विभाव्य भूयोऽपि दयासुधाम्बुधे विधेहि में नाथ यथा यथेच्छसि ॥ २ ॥ विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् । मनोमृगो मे करुणामृताम्बुधे विगाढुमीश त्वयि गाढमीहते ॥ ३ ॥ त्वदङ्गिफुल्लाम्बुजमध्यनिर्गलन्मरन्दनिःस्यन्दनितान्तलम्पटः । मनोमिलिन्दो मम मुक्तचापलस्त्वदन्यमीशान तृणाय मन्यते ॥ ४ ॥ जगत्रयत्राणविधौ धृतवतं तवाशिराजीवमपास्य ये जनाः । शरण्यमन्यन्मृगयन्ति यान्ति ते नितान्तमीशान कृतान्तदेहलीम् ॥ ५ ॥ रमामुखाम्भोजविकासनक्षमो जगत्रयोद्बोधविधानदीक्षितः । कदा मदज्ञानविभावरी हरे हरिप्यति त्वन्नयनारुणोदयः ॥ ६ ॥ सुरासुरखान्तचकोरचुम्बिता समस्तसंतापचयापनोदिनी । महानिशीथे मम मानसे कदा स्फुरिष्यति त्वन्मुखचन्द्रचन्द्रिका ॥ ७ ॥ १. श्रीजगनाथपण्डितेन पण्डितराजपदवी दिल्टीप्रभोः शाहजहांतः प्राप्तेति तत्कृत- 'आसफविलास'नामकग्रन्थोपोद्धाततोऽवगम्यते । यथा-'अथ सकललोकविस्तारविस्ता- रितमहोपकारपरम्पराधीनमानसेन,प्रतिदिनमुद्यदनवद्यगद्यपद्याद्यनेकविद्याविद्योतितान्तः- करणैः कविमिरुपास्यमानेन, कृतयुगीकृतकलिकालेन,' कुमतितृणजालसमाच्छादित- वेदवनमार्गविलोकनाय समुद्दीपितसुतर्कदहनज्वालाजालेन, मूर्तिमतेव नव्वावासफखान- मनःप्रसादेन, द्विजकुलसेवाहेवाकिवाङ्मनःकायेन, माथुरकुलसमुद्रेन्दुना, रायमुकुन्देना- दिप्टेन,सार्वभौमश्रीशाहजहांप्रसादाधिगतपण्डितराजपदवीविराजितेन, तैलङ्गकुलावतंसेन, पण्डितजगनाथेनासफविलासाख्येयमाख्यायिका निरमीयत । सेयमनुग्रहेण सहृदयाना- मनुदिनमुलासिता भवतात.' जगदाभरणकाव्ये पण्डितराजेन वर्णितो दाराशाहोऽस्यैव शाहजहांमहीपतेयेष्ठः सूनुरासीत्.' २. केपुचित्पुस्तकेषु 'विष्णुलहरिः' इत्यस्य . न्थस्य नाम वर्तते. ३. 'हरे' इति पाठः. ४. 'अपास्यता' इति पाठः. ५. 'तन्नाथ' इति पाठः. ६. 'ईशं न' इति पाठः. ७. 'धुरंधरम्' इति पाठः, ८. 'भुनीन्द्रचित्ते- कचकोरजीविका' इति पाठः. ९. 'वनख' इति पाठः.
काव्यमाला। सुकृतप्रकृतौ जने त्वया कृतया कि कृपया कृपानिधे । यदि मादृशि सा विधीयते तव कीर्तिर्वद कीदृशी तदा ॥ ३१ ॥ अयि शैशवलालितः शिशुः प्रतिबुद्धो जनकेन ताड्यते । न कदापि च लालितस्त्वया किमु ताड्यो भगवन्कुकर्मभिः ॥ ३२ ॥ अहमेव हि दोषदूषितो भगवस्त्वां समुपालभे मुधा । रमणीविरहज्वरज्वलन्नमृतांशु कुमतिविनिन्दति ॥ ३३ ॥ करुणाकर दुर्दशाकुलं पतितालम्बन पापपञ्जरम् । अमृताम्बुनिघे महाज्वरं नहि जह्या जगदीश जातु माम् ॥ ३४ ॥ कटुजल्पनमल्पकस्य मे नहि ते कल्पयतु क्रुधं विभो । कुपितातुरबालभाषितं किमु गृह्णन्ति मनाङ्महाशयाः ॥ ३५ ॥ भुजगाहितकल्पितध्वज स्फुरदाशाभुजगालिवेल्लितम् । जटिलज्वरकुञ्जराङ्कुश ज्वरजुष्टं न जहीहि जातु माम् ॥ ३६ ॥ नै वदामि न दुष्कृतं मया कृतमित्युक्तिमिमां तु मे शृणु । मम भीतिमनीनशद्विभो पतितोद्धारक नाम तावकम् ॥ ३७ ॥ अपि.शर्वपितामहादिभिर्भजनीयः पुरुषोत्तमो हि यः । तमुपालभमानमुद्धतं धिगिमं मां धिगिमां धियं मम् ॥ ३८ ॥ अथ सर्वमिदं मयोज्झितं भवतोऽन्यन्नहि किंचिदर्थये । मेम मानसगोचरीभवत्वरविन्दाक्ष तवाद्भुतं वपुः ॥ ३९ ॥ हरिनीलमयावनीतले वरवृन्दाविपिने विलासिनि । मणिमण्डपमध्यविस्फुरद्विवुधक्ष्मारुहमूलमाश्रितम् ॥ ४० ॥ शिखिपिच्छमहामणिस्फुरन्मुकुटाकुञ्चितकान्तकुन्तलम् । कमनीयतरालकावलिभ्रमणभ्राजिललाटसुन्दरम् ॥ ४१ ।। १. 'कदाप्यनु' इति पाठः. २. 'नहि' इति पाठः. ३. अयं श्लोक आर्यमित्रमा- सिकपुस्तकमुद्रितकरुणालहयों नास्ति. ४. 'अपि' इति पाठः. ५. 'अपि दर्शय मे दया- निधे हरचेतोहरणं वपुस्तव' इत्युत्तरार्धे पाठभेदः. ६. 'स्फुटरत्नमय' इति पाठः. ७. 'अतिनीलघनालकावलिभ्रमणभ्राजि ललाटपटले' इत्युत्तरार्धे पाटभेदः, फरणालानि १० शरदिन्नुसहोदगननं देनदगोजमनागमोचनम् । अरुणाधरकान्निन्नुम्फुटबन्नांनिकामिनावरग ॥ ४२ ॥ दरपारगमपाल्पनिमर्पकमनीयकुमनाम् । मणिनीतिक मानमानीयानिनिनि ॥ १२ ॥ पृथुतुनौतिकापलीगुरगालिकामा । रिनीलगिनियनिकता यमलामन्दियामालिनमः ॥ ५ ॥ चरणासनसायनम्धिनी मुजगाकारानगननाम् । निविडाममिव मणमा गहमागागमनम् ॥ १५ ॥ मणिकरणकान्तिाननं दरान्बुजगन्दानि । पतितोद्धरणे देतं कमनीयं करगोगदान ॥ ६ ॥ वरग्नमयासुन्लीयफायनिगोमानिन्दितालीगणः । गहराकुलितन वेणुना वसांगणभृतां मनायनाः ॥ १७ ॥ उदरनिनिमगीन्छाहारीम्पकमगभिषण । पशुपालविन्यामिनीलगनयनाकर्षणनामिनिमिनम् ॥ १८ ॥ कनकदवारगम्बरं देवनारदिनयेन गुन्दरम् । उदयन्मणिनृपुरप्रभामरणिश्रेणिजटायजानुफम ॥ ४० ॥ अंरिगीणगजेन्द्रगोपने दाना जादिकलागलौकिकीम् । त्रिजगन्महनीयमूर्निना घरजवायुगलेन गोभितम् ॥ १० ॥ कुलिशाशम्बुसान्बुजध्वजचकायभिगमलक्ष्मणा । अरुणारुणकोमलत्विपा कमनीयेन तलेन गजितम् ॥ ११ ॥ १. 'स्यारत्' इति पाटः. २. 'दन्नुरम' इति पाठः. ३. 'प्रतिशंगा' इनि पार:. ४. 'वर्तित' इति पाट:. ५. 'तुलसीनवनारीरजःपटलोटामिननक्षमा' इति पर. ६. 'चपलामनुशायिनीमियशेहददुत्फाट' इति पाटः ७. 'भागलम्' इति पाठः. ८. उर- धरम्' इति पाठः. ९. 'नवरत्नमयाहुलीयकप्रतिभापिारीताहुलीगणः' इति पार:. १०. 'चार चराचरान्तरम्' इति पाठः. ११. 'मिलनयनाकर्षणरश्मिभिनतम त पाठः. १२. 'दधदर' इति पाट:. १३. 'अतिनीण' इति पाठः. १४. 'वारिः जान्युजचका' इति पाठः. - ६० काव्यमाला.। विधिशर्वमुखामरस्फुरन्मुकुटोन्निन्द्रमणिप्रभाकुलम् । नखचन्द्रमयूखमूच्छिताखिलतापं पदयोर्युगं दधत् ॥ ५२ ॥ सरतः सरणौ सतो. बहिः स्वपतो वालपतो गृहान्तरे । वपुरीदृशमीश तावकं हृदयालम्बनमस्तु मे सदा ॥ ५३॥ (कुलकम् ) नैवनीरदनीलिमद्युतिर्नमनीयो निगमैनिरन्तरम् । निरये निपतन्तमाशु मां नयनेनापि सनाथयेद्विभुः ॥ १४ ॥ प्रणिपत्य हरे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे । जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभावः ॥ ५५ ॥ वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा- स्तां खमेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रयः । इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥ ५६ ॥ पातालं ब्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्परां तर तथाप्याशा न शान्ता तव । आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ॥ १७ ॥ वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः । क्रूरक्लेशमहीरुहामुरुतरज्वालाजटालः शिखी द्वार निवृतिसझनो विजयते कृष्णेतिवर्णद्वयम् ॥ ५८ ॥ विशालविषयाटवीवलयलग्नदावानल- प्रसृत्वरशिखावलीविकलितं मदीयं मनः । १. 'अमरावलीमुकुटोनिद्र' इति पाठः. २. 'आविलम्' इति पाठः. ३. अयं श्लोक आर्यमित्रपुस्तके नास्ति. ४. 'नवनीयः' इति पाठः. ५. 'निरयं निरयन्तम्' इति पाठः. ६. वाचेत्यादि श्लोकचतुष्टयमार्यमित्रपुस्तके मास्ति. वाचेत्यादि श्लोकपञ्चक भामिनीविलासेऽप्यस्ति. ७. 'माम्' इति पाठः. ८. संस्पृशामि' इति पाठः. ९. 'शा- म्येत्' इति पाठः.
आन्तभिमानना। अगनिनिन्दिनिमितमाम गुगन्नयनमन्नि निर्मगर गोगा II : ॥ सुरमानसिम्याः पुरिनमभिनिष्टलायनयों चिंधावान्यामममा निधाय विषमान । विभूतानार्यानो मागगन निमाः मां कन्यांना नगमाया ॥ !! महाकविश्रीशंभूविरचिना अन्योक्तिमुकालता। मानं नुन विपनि पामगन्यमान्याममा मा मृबन्नकण्टकण्टा गुमगा प्रामः पाप्रपामग्णं गामड़ीगुर.. बन्धुकभिगवान्भया भवलिनदयामाया माधयः ॥ हलाकान्तरिन्ति गुन्नलयवी गिन्न गट भिन्दनेप तनानि दीननभायातीवादनः । पश्योद्गन्छनि हारिकरिनाणीटागनुकार की रोकार कुन ग्याकर निजोन्मेष योग्यः क्षणः ॥ २ ॥ सत्यं सन्ति कियन्ति मन्ति न गलानि ग्नाकर संजातस्तु स वस्तुतः म्नुनिकथापानं परं कौन्तुमः । यो जातः सरकलिलोलकमलासोायदोःकन्दली. लीलालिगनभाजनं भगवतो वक्षःस्थले शाणिः ॥ ३ ॥ १. अन्माच्लोकादने आयंमित्रपुलके मां ने विष्णुलहरी जगतराधिन निमिना । यः पठेत्तल सर्वत्र जायन्ते जयसंपदः ॥' अयं फलश्रुनिधोकोऽपि वर्नते. अन्गपुनका नु न प्रामः. २. मेघराहिलादुज्ज्वलीनचन्त्रः. ३. हेलयाकान्त दिलानि, ४. श्या- भवानि. ५. आरम्मम्, 'प्रनीची निन्धुवीचीच दिनोंकारे सुधाकरम्' इति नपधी- , यकाव्यम् (२०१२). "दिनोंकरे दिनप्रारम्' इति तटीकायां मदिनाथनारायणी. ६. समीचीनानि. ६ ६२ काव्यमाला। पातालं च नभरतलं च गरिमद्वारेण यद्वारिणा पूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः । देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसां भर्तुर्गोप्पदमात्रपूरणविधौ नो विस्मयो न स्मयः ॥ ४ ॥ उत्फुल्लैर्वकुलैर्लवङ्गमुकुलैः शेफालिकाकुमलै- नीलाम्भोजकुलैस्तथा विचकिलैः क्रान्तं च कान्तं च यत् । तस्मिन्सौरभधाम्नि दानि किमिदं सौगन्धवन्ध्यं मुधा मध्ये मुग्ध कुसुम्भमुम्भसि भवेन्नैवैष युक्तः क्रमः ॥ ५ ॥ यस्मिन्नङ्कुरितं कुरङ्गकदृशां प्रेम्णा किमन्यद्भुवं यत्रास्ते मदनस्य लुप्तरमणीमग्रक्रमो विक्रमः । पकं नागरखण्डपल्लवमिदं जाल्मैः फलश्रीदल- भ्रान्त्या हन्त न वीक्षितं न कलितं नास्वादितं नादृतम् ॥ ६ ॥ केनात्र कर्कशकरीरवनान्तराले वाले बलाहकुलकन्दलि रोपितासि । यत्राप्नुयुर्मधुलिहस्तव कोमलानि नो कुङ्मलानि न दलानि न कन्दलानि ॥ ७ ॥ धत्ते कीरवधूरदच्छदसुधामाधुर्यमुद्रां रसो येषां सा परिपाकसंपदपि च क्षौद्रद्रवद्रोहिणी । तेषां पुण्ड्रककाण्ड पाण्डिमजुषां त्वत्पर्वणां चर्वणां किं मुग्धाः करमा मुधैव विरसा विन्दन्ति निन्दन्ति च ॥ ८॥ मगुर्माद्यति यत्र यत्र भजते भङ्गि बको यत्र स क्रौञ्चः किं च मदादुदञ्चति सरस्तन्मुञ्च कोऽयं ग्रहः । आस्ते बालमरालसालसलसद्दिक्कुञ्जरं पार्वती- कर्णोत्तंसितकाञ्चनाजमुकुलं यन्मानसं ते सरः ॥ ९ ॥ श्रीसंकेतनिकेत केतक कुरु त्वं कुङ्मलाडम्बरं हे नीप स्मरदीप दीपय तनौ टकं नवैरङ्कुरैः । १. "उम्भ पूरणे'. २. पुण्ड्रक इक्षुभेद:.
मुवी वोढुं मदजलसरित्संगती दिन्यातङ्गः ॥ अन्योक्तिमुक्तालता। लेहतातपुरंभ्रिकुन्तललताकान्तिः करोत्यम्बरे नीरोद्गारगभीरधीररसितप्रारम्भमम्भोधरः ॥ १० ॥ गुर्वीमुर्वीतिलक तिलक वीकुरु खामभिख्यां रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथाः । भङ्गीमङ्गीकुरु रतिपतेर्भल्लि हे चूतवल्लि प्रक्रान्तोऽयं विषमरमणीमानजैत्रः स चैत्रः ॥ ११ ॥ अद्रिद्रोण्यां निवस दिवसं जातलीलानुषझै- रङ्गैर्मा स स्मयतरलितैरङ्ग सारङ्ग रङ्गः । दर्पद्वारं द्विरदकदनोदग्रपाणिर्यदने प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः ॥ १२ ॥ कान्ति केतककोरकद्युतिसखीं राकामृगाङ्कस्य य- चञ्चच्चञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः । तन्मन्ये नयनामृतं रतिपतेर्मृत्युंजयेनार्थिना तेनेदं रमणीकपोलफलके लावण्यमालोकितन् । आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः खेलन्हेलोन्मदमधुकरीमानसे मानसे यः ! भेकोद्रेकप्रणयिनि वलद्वालजम्बालजाले स स्यादुत्कः परिमितजले पल्टने में माना १४ ॥ यां च क्ष्मां च गतं यदम्बुशिन्तकज्यमा मेनाकोऽपि न कोऽपि कई, सद्म पद्मापनः । लोलहालकुलीरकम्पकल्या बलन्मयां भर्तुः कस्य कदा किन्न आमा दृयांगांचा गर्व खर्व कुरु कररहाद मुब कपट कुण्ठः कण्टीरब तब वः किं च संकोचमतु । शक्तः सप्ताम्बुनिधिपरिचामेम्बलामप गु:- f १. 'रगि गतो'.
१४ oc काव्यमाला। चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका- न्मा मा मुञ्च सविभ्रमं भ्रमर हे सङ्गं लवङ्गे कुरु । एकः कार्मुककर्मनर्मणि सखा देवस्य कान्तागुरोः प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः ॥ १७ ॥ उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः सानन्दं पिचुमन्दकन्दलदलाखादेषु का वा क्षतिः । एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः ॥ १८ ॥ शान्तं कान्तपुरंभ्रिकुन्तललतालावण्यचौरं तमः पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः । एवं का गणना तवाद्य हि रतावद्योत खद्योत हे दूर्वाकाण्डतले दिनं नय सखे खर्वोऽस्तु गर्वग्रहः ॥ १९ ॥ अत्रोन्मीलति मालती स्मितमितो मल्ली समालम्बते तद्रोलम्ब विडम्बनाय नलिनी कि यासि कोऽयं क्रमः । एतस्यामपि दर्दुरैरपि बकैरेकैकमुङ्किते गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः ॥ २० ॥ आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः । देवीकेलिकचग्रहण ललिते गङ्गातरङ्गाङ्किते निःशङ्क निरटति शंकरजटाजूटेऽपि येन स्थितिः ॥ २१ ॥ कुन्दे कन्दलितादरः सरसिजे संजातकौतूहल: कहारे कलितस्पृहः किमपरं यः केतके कौतुकी । निर्माता किममर्त्यराजतरुणीलीलावतंसश्रियो योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः ॥ २२ ॥ शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्ध्यमेको गुणः । ।
१. चन्द्रिकायां हस्तिदन्ता विद्लग्नीति परिवार पारित कान्तः सिरोद्गमः । श्ययुः पयसां पला दो रायुगान्गुनीमहेमां- भन्योतिगुत्तालना। ६५ नेर सरचिरमेकयसनिलि कपोरसाद दोसले कु.नगण्डले च गुरुने करती ॥ २ ॥ शान्तभ्यान्तकला शंकरगिरज त्योणाने. कंदरकन्द कुन्दकालिका कारः करमदानः । नकि मालिनगन्युनविदलिन दिन्निदाता भारः किं नु तथा स्वामिनः प्रन्य मनः ॥ २४ ॥ झन्पामन्तनिरः करोतु भजनां विष्णोः पदं गाना क्षामान गिरिजाभुनंगगुटोपि गायः । एप साम्यति केवलं कुमुदिनीकान्तो नहि लन्गुन शः. किंकरना ननाति लगन दगड मान्यनमः ॥ २५ ॥ येनाप्तः कमलाविलालकमले, किंजल्यापानान्लयो यो लीलां वितनानि नाभिनलिनोन्म नया शारिणः । तस्य स्यात्कुलुमान्तरे मधुलितः कुत्राप्यही न लिनि- नं प्रीतिन तिर्न कलिसमयो नो विन्मयो न समयः ॥ २६ ॥ अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा- त्पागवारपयांनि येन विदधे विन्ध्योऽपि बन्ध्यातिः । सोऽपि छापि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि- स्तन्मन्ये तव नाग्नि रोहण परः सपिर: गायः ॥ २७॥ रोहत्सौरभविभ्रमाणि कमलामहानि पार पद्मान्यत्र कियन्ति सन्ति नु नतिः मानेषु का वा नुनिः । तत्साक्षादरविन्दमद्भुतलताकन्दं तु बन्दति त्रैलोक्यप्रभवः पुरा समभवयामागुगणः कविः ॥ १८ ॥ स्तापयत्यर्कः कुर्याद्भग्नरदान्विधुः' (१३३९.) नि राशि चन्द्रे. २. अगस्त्यः. ३. लानीगृहानि, ४. - . मानो गजा.
६६ काव्यमाला । किं ताभिवितताभिरद्भुतकथाकन्थाभिरेतायता वन्द्योऽयं विभुरम्भसां समभवद्रलं यतः कौस्तुभः । चक्रे लमरमाधनस्तनतटीकर्पूरपत्राङ्गुरे यः श्रीवत्समनोहरे हृदि धृति देवस्य दैत्यगृहः ।। २९ ।। नानन्दं मुचुकुन्दकुमलकुले नो केतके कौतुकं नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते । चोलीदन्तचतुष्फिकाशुचिरूचिस्मेरां स्मरन्मालती किं त्वारते तरुकोटिकोटरकुटीवद्धास्पदः पट्पदः ॥ ३० ॥ अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः । तत्ते कालं कतिपयमयं भाति खद्योतपोतं द्योतं द्योतं पुनरपि पुनर्योततां को विलम्बः ॥ ३१ ॥ पुप्पोत्करेषु च फलेषु च सावलेप- स्त्वं कन्दलेपु च दलेपु च सावहेलः । किं मुग्ध दग्धमकरोः सुरभेरगार- मङ्गारकार सहकारमकारणेन ॥ ३२ ॥ याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे मार्गः संगत एष ते खरतर्यद्धैरवो मारवः । तन्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका चङ्गं तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम् ॥ ३३ ॥ लीनः क्ष्माधरकंदरासु रचयन्क्वापि स्थिति भङ्गुरै- रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः । प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः कानम् ॥ ३४ ॥ १. सुन्दरम्.
अन्योकिकामना । पता: केरलमुन्दरीदरनः गायव मनाना मदीनाल्गमयानि गौभगोदामानि मानिन । कि नीनः शिनिकट कटान गोगा। नीलमलिनलाग्यमामलाः पणिनाम: ! नादं यन पोभूनां दिवि नमीमाधिनाना नयोतुमदहनादविजयि मानिने गमि । बारंबारमुन्दाग्बाग्रणयापारमा गमो दृष्टः केन कुरगंगधी गुण्ठः म काटी : १ }} यत्कलिमन्थरमगलगलबाल- झवालकोगलगलं विगलं मृणालैः । तत्पदय गुप्यति गरः प्रमाणात रुहं विरुद्धविनिय विधिः किमन्यन ॥ ६ ॥ त्वयुद्गच्छनि को न बालकलिकाकान्तः कदमो रोलम्बाकुलकम्प्रमुचलकुलझान्नो न कः कनकः । दोपः किं तु तवान्बुवाह कलुमेरुदजिनोऽयं जने.. रं येन गतो गलत्कमलिनालीलाग्मः साग्नः ॥ ३८ ॥ रमे यस्मिन्मधुपपटली यग्य लीलावतीभिः कृप्तो बालर्बहुलमुकुल: कलिकर्णावतंसः । तस्य क्रीडाकुरबकतरोराके दुनिबारः स्फारं मुञ्चत्यहह दहनोद्गारमजारकारः ॥ ३९ ॥ वीचीडम्बग्मम्बरं नय बलाढेलावनालीमिमा- मुद्यन्नल्पय किं च कल्पय रयात्कलोलकोलाहलम् । देवः कीरपुरध्रिहारलतिकाकाररुदारैः करः पश्योदेति समुद्र मुद्रिततमरतोमरतमीवाटभः ॥ ४० ॥ १. कृटिल. २. चन्द्रः.
७० काव्यमाला। कुन्दे नन्दति कैरवे विहरते पकेरुहे रोहति प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत् । तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिकंदरं कंदकविलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥ ५३ ॥ कंदककृपाणवल्लरि वने कस्मादकस्मादियं हे कालागुरुवालमञ्जरि हहा मोहादिह प्रारुहः । सह्यन्तामुपजातसौरभपरिप्वङ्गैस्तदङ्गैरिमाः कान्तैः कान्तपुरंथ्रिकुन्तरभरच्छायैः कुठारच्छिदः ॥ ५४ ॥ लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः कुर्युर्यस्यास्तस्मुकुलकोसङ्गमङ्गं (!) नताङ्गयः । सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो हन्त स्वान्तं मृगमदरसे पामरा नार्पयन्ति ॥ ५५ ॥ ऊढापि द्युतरङ्गिणि त्रिजगत वन्येन तेनाप्यह मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते । तारक्षारकरं करालमकरं सश्चभ्रमभ्रंकषं मुग्धे जाड्यनिधि मुधा जलनिधि यातासि चित्राः स्त्रियः॥५६॥ नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं कासाराम्वु तदस्तु वा परिमितं तद्वास्तु वापीपयः । पाने मजनकर्मनमणि तथा वारिलं वारिधे कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः ॥ १७ ॥ कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः। अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्धः स कालागुरुः ॥ १८ ॥ एतैर्जातैः किमिह बहुभिभोंगिभिः किं तु मन्ये मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः । १. हे गङ्गे. २. शिवेन.
अन्योक्तिमुत्तालता। ५१ অলিনাগুন, येन माणोलरनि रहितो हारवादीविलागः ॥ २० ॥ यलिन्रोहनि निम्बइम्बगियान्यनिकरीग्दुमै रुद्रेकः कलितः पटोलपटली गंगगुन्नीलनि । तसिनत्र निवेशितामि विपिन फेनानिहादुगाः सबोऽयं सहकारमारि कार्यकार निकारज्यरः ॥ ६ ॥ हिवान्याग्लियानयाध्य जलदादागि संगम्मिभिः क्रीडाताण्डवहन्धरः शिन्चिकुले फेफाररव्याकुलैः । उन्मीलकनकाजचुन्विनि सुधानिःप्यन्दिदुग्धान्बुनि प्राप्ते सारन मानसेऽपि भवना नको विकारः कृतः ॥ ११ ॥ घृतं मुञ्च त्यज भरसिज भृत मा गालय सझं दुरीकुरु कुम्बक केन मा निमीद । लीलोत्तंसीकृतमुकुलका वर्ग मन्तिनीभि- यत्ते देवात्परिमरगतः पारिजातः स जानः ।। ६२ ।। पश्यताः कति न स्फुरन्ति सरितः मान्धारविन्दच्छद- च्छायामिः शिशिराः खगतपविपन्निवापिका यापिकाः । माद्यन्मेदुरदर्दुरं वककुलेरप्याकुलं सेव्यते तत्कस्माद विचार्य सारस रसान्निःसारनीरं सरः ॥ ६३ ॥ ब्रूमः किंचन जहुपुत्रि जडिमा कादियान्वीकृतः पाथोधामि कृतः करालमकरासझेऽपि यत्संगमः । यन्मौलौ कलितं शशाङ्ककलिकाकान्ते वृपाकस्य त- त्पश्य स्वादु च हारदामशुचि च क्षारायते ते पयः ।। ६४ ॥ ये तावन्ति पयःपृषन्ति जलदादत्यन्तमुत्कण्ठिता याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बहिणः । १. समुद्रे २. जलकणान्.
७२ काव्यमाला। यः शूलाशिरःशशाककलिकापीयूपवर्पऽप्यहो नो जातः प्रणयी स तारकरिपोरन्या पुनर्वहिणः ॥ ६५ ॥ मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं मल्लीलीलां सरसिजरसं केतकीकौतुकं च । जातप्रीतिर्बकुललतिकामुन्मिपत्कोरकान्तां कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः ॥ ६६ ॥ उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि व्योमारोहिणि नीलकण्ठरमणीकेलिपदे वारिदे । यासि कापि मरालबालक वकक्रौञ्चाविले पल्वले सह्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः ।। ६७ ॥ अङ्गादृकिकया कलङ्कमतसीनीलं लुनीहि स्वयं सर्वी किं च निषिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम् । उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं जाने तामनुकर्तुमाननगतां भङ्गी कुरङ्गीदृशः ।। ६८ ॥ आनीतैरिपुकार कारणमिह श्लाध्यैः किमेभिः शरैः प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि । दानं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ॥ ६९ ॥ यल्लीलातरलैरलजि कपिभिर्खालाभिरौनिलो यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः । तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदरं त्वं मेनाक जवाजले जलनिधर्मजन्न किं लज्जितः ॥ ७० ॥ त्वं कालं नय कैरवेऽत्र विहरॆल्लीलारविन्दे रस- न्कलारे निवसन्मधुव्रत पतन्नङ्केऽपि पङ्केरुहाम् । १. 'मयूरो वर्हिणो वहीं' इत्यमरः. २. क्षुद्रशस्त्रविशेषेण.
अन्योक्तिगुकारता ।
शेफालीमुकुलरलागि यनरम्नाय किंचाम
तैनलीगुकुलैरनीति दानाकान्त पनान्ते गनः ॥ १ ॥
कान्तिलोचनतिरछुतगी गतिगहलौरगं
निःप्ान्दोऽश सुधापारादपि गुभारमन्यादपि हादयः ।
सर्वोऽयं पिरलो जगत्यपि गुणागोऽभिगमो हरा
पश्योराजभुजंगगंगगशुपः श्रीगने सगितः ॥ १२ ॥
पेन प्राप्तः सुरभितफफंदरः कोऽदारो
मान्दारोऽपि अगररमीदत्तगगः परागः ।
स त्वं तत्त्वं वद पदही मुम कलादकाना-
दलिन्मिच्या मधुप कुरणे कार्णिकारे किमेतत् ॥ ॥
यगौरीरमणेन नाफटिनीनीगनि गर्भनि
न्यम्नः स्फारफाणः पाणी भवतु तमित्रः प्रभूणां विधिः ।
पतत्कि तु कथं सहमति महादुः यदत्रागुना
निःशकं. फलितः शशाह फलिकापीयूपपानोलयः ॥ ७१ ।।
दृष्टाश्चम्पकसंपदो विचफिलश्रेणी गता गोचरं
प्राप्तं केतकधाम फेरववनं दृष्टं विमृष्टं च तत् ।
सा श्रीमन्मधु तन्मधुमतकुलं तलौरभ वेधसा
साश्चर्य निरमायि हेगकमल त्वय्येव तुभ्यं नमः ॥ ७५ ।।
बद्धः कोऽपि शिखामणिग्नव नवो मुक्तागुणो गुम्फितः
कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपनाहरः ।
तत्किचिन्नयनाल्लनं रतिपतिहादप्रदा सा गति-
स्तन्मुग्धं हसितं सदामृतरसं मुञ्चन्कुतः पञ्चमः ॥ ७६ ॥
मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं
मा मा मालिक मल्लिकालजमपि कापि त्वमुन्मुद्रयः ।
सग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः
कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः ॥ ७७ ॥
७४ काव्यमाला। हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपर्क चम्पर्क वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः । किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः ।। ७८ ।। लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य देवादिह । कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली छाया सैव स एव सौरभभरस्ता एव पुप्पश्रियः ॥ ७९ ॥ कूपोल्लङ्घनकर्मनर्म विषम जानन्ति शाखामृगा झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे। दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ हेलैव प्लवगप्रभोः कृतजगत्पारिप्लवो विप्लवः ॥ १० ॥ मुक्त्वाम्भोधि मदनजयिनः किं कपालावचूडे चूडामूले सितकरकले कल्पितोऽयं निवासः । यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं तत्रोन्मीलद्वकुलकलिकाकोमलं तान्तिमेति ॥ ८१ ॥ वल्लीभिर्ध्वलितं जलैरपगतं दावानलैरुद्गतं दभैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैदीपितम् । तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव- प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः ॥ ८२ ॥ कैलासः क्वचिदुद्वहन्नपि पुरारातिं यदप्यायता- मूर्वीमेष विमति सागरसरिद्रुर्वी गिरिग्रामणीः । लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः ॥ ८३ ॥ लास्याभ्यास जहिहि विहितश्रोत्रपीयूषमेकां केकां दूरीकुरु गुरुरयं मुग्ध वर्हिन्विमोहः । १. हनुमतः: २. महीधरत्वात्.
अन्योक्तिमुक्तालता। मिथ्या बिभ्रत्कनकनिकषस्निग्धसौन्दर्यलेखां विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः ॥ ८४ ॥ हंस भ्राम्यदनेकमेकशबले पकाविले पल्वले युक्तास्ते किमसारवारिणि रणकौञ्चाकुले केलयः । तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमनं सरः ॥ ८५ ॥ कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी तं विक्रेतुमिहाँसि यासि किमहो हारं विहारं श्रियः । एतां पश्य पुरः पुलिन्दनगरी भूषाः कुरङ्गीदृशां यत्रैता गलकन्दले च कुचयोरके च गुञ्जास्रजः ॥ ८६ ॥ लक्ष्मीवल्लभकेलितल्पमुदधिर्यजन्मभूर्भूषणं यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः । तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै- रे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः ॥ ७ ॥ यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभ यस्य स्यात्कुचकुड्मलोपरि परिप्वङ्गः कुरङ्गीदृशाम् । नेदं तस्य जनकनन्दन सहे हे चन्दन क्वापि ते मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः ॥ ८ ॥ बालैः पञ्चशरी शिरीषमृदुलनिय यत्पल्लवैः शङ्के शंकरसंगरेऽपि चतुरो जातोऽकारः लरः । सा श्रीस्तानि दलानि ते मधुलिहतसौरभ नलिके तस्यास्ते विरतं दवानलशिताना धात्रे नमः ।। 15 मुग्धा वृथा कुमुदिनीमने कोशः को राग एष जहिता नतिर्वः । १. त्वम्. २. 'व्युत्पत्योहार ७६ काव्यमाला। एतन्न पश्यथ मुखं मंदिरेक्षणानां यस्मिन्स किंकरति कैरैविणीकुटुम्बः ॥१०॥ न कुन्दं सामोदं जनयति मुदं नैव कुमुदं न सारं कहारं कुसुमतिलकं नैव तिलकम् । उदात्तं निर्धूतं न च कमलमावर्जकमलं तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम् || ९१ ॥ निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः शेवालैर्विसकन्दलैरविरलै लैणालीदलैः । हे माता तरङ्गरगपटलीखेलत्पुलिन्दागनं लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यर्हि पम्पासरः ॥ ९२ ॥ वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां खेलत्पल्लवपार्वतीभुजलतालोलोमि दिव्यं सरः । व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी- दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः ॥९३ ॥ कंचित्कालं नय गिरिगुहागहरे रे मुधैव क्रीडन्हालाहलरसलसर्प मा सर्प सर्प । माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः ॥ ९४ ॥ चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्कुरे कस्तूरीमकरेषु कुङ्कुमरसस्थासेषु यत्कौतुकम् । १. मदिरा दृष्टिविशेषस्तयुक्ते ईक्षणे यासाम्. 'आघूर्णमानमध्या या क्षामा चाञ्चित- लोचना । दृष्टिविकसितापाङ्गी मदिरा तरुणे मदे ॥' इति हरविजयटीकायामलकरा- जानकः. 'तथा संगीतकलिकायाम्-~सौष्ठवेन परित्यक्ता स्मेरापागमनोहरा । वेपमा- नान्तरा दृष्टिमदिरा परिकीर्तिता ॥' इति (१८७९ मितस्निस्तसंवत्सरमुद्रित-विक्र- मोर्वशीयटिप्पणे ५२ पृष्ठे) शंकर-पाण्डुरङ्ग-पण्डितः. मल्लिनाथस्तु (रघुवंशटीकायाम् ८।६८) 'माद्यसनयति मदिरा लोकप्रसिद्धा । तथापि 'नार्यो मदिरलोचनाः' इत्यादि- प्रयोगदर्शनान्मावत्याभ्यामिति मदिरे अक्षिणी यस्याः' इति वदन्भ्रान्त एव भाति. २. चन्द्रः. ३. हे सर्प, मा गच्छ. ४. स्थासक एव स्थासः.
अन्योक्तिनुत्तालता। किं कुर्मस्तदमुन्न पामरपुरे सैरंधि दूरेऽस्तु ते वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वागभुवान् ।। ९५ ॥ यल्लीलाम्बुजनर्म केतकलताकौतुहलं मालती- माल्यप्रेम लवजसंगमरसः कनेलिफेलिक्रमः । तत्सर्व विजहाति किं तु रसयत्यालम्बते सादर नन्दन्नन्दनकन्दलीयुमनसामामोदमिन्दिन्दिरः ॥ १६ ॥ माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं मन्ये मान्य मराल पक्षपटलीयुक्तं न युक्तं तव । तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं नानाम् ॥ १५ ॥ अम्भोजैर्गलितं तटैविघटितं हंसतं विद्रुतं वापीभिर्विरतं पुरैव पतितैरचाविलस्वजलः । हा धिकिं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे प्रारब्धोऽयमतानवैरभिनवैर्वारिप्लवैविप्लवः ॥ ६८ तापातकं कलय विलयं याहि हे दुनिवारं वारं वारं विगलितगतिनेह दाहं हयाः । दैवादग्रे खरतरजरदर्भसंदर्भगभी नेदीयांते नववनदवोद्दीपितः पन्छ ।' ६६ यद्भूतं च भवच्च भावि च कुन मन्ना तन्मध्ये न बभूव नातिकोन काव्यमाला। उन्मीलन्मुकुलो न चात्र बकुलो नाचर्जकाः केतका नोस्मिन्कोमलकुमला विचकिला नोद्दीपकाश्चम्पकाः । तत्किं मुग्ध मुधैव दग्धसिकतागर्भः सदों मरो- मार्गः पान्थ पतत्पतंगकिरणाझारोऽयमङ्गीकृतः ॥ १०२ ॥ वार्ता यत्र न शेखरेषु न तथा धम्मिल्लमाल्यप्रथा कणोत्तंसकथा न काचन न च स्रग्दामनामग्रहः । तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते स्वात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः ॥ १०३ ।। एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी- रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः । केलिप्राङ्गणवापिकावद्भवद्यस्याम्भसां भर्तरि द्राक्कल्लोलविकारकल्पितजगत्कम्पेऽपि झम्पारसः ॥ १०४ ॥ साश्चर्याः सरसाश्च सन्ति सरितः पाथःपतिप्रेयसि क्षोणीविभ्रमवैजयन्ति तदपि त्वां ताम्रपणि तुमः । स्वच्छे निर्जितनारिकेलसलिलवादिनि यद्वारिणि प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः ॥ १०५ ॥ इयं यदि रदच्छदच्छविरपाटला पाटला नतानि तव चेदियं रुचिरकिंचनं काञ्चनम् । किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः क न भ्रमरयोषितां गलदहंकृतिहुंकृतिः ॥ १०६ ॥ उद्भिन्ना कलकण्ठकण्ठकुहराकर्णामृतस्यन्दिनी हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः । अन्यस्तन्वि तथापि ते पशुपतिप्तुष्टस्य जीवाणे पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ १०७ ॥ या लक्ष्मीः सरकार्मुके स्फुरति या वाले प्रवाले रुचि- यों नीलाम्बुरुहच्छदे मृदुमरुत्प्रेडोलिते विभ्रमः । १. हे समुद्रपत्नि. २. पुष्पविशेषः.
सेव्यसेवकोपदेशः । २ या कान्तिः कनकान्युजेऽपि सकलं द्रष्टुं तदेका - चेतः कन्दलिताद्भुतं तव सखे-पश्याननं सुशुवः ॥ १८ ॥ इति महाकविश्रीशंभुमिधानान्योकिमुशालता गगामा ! महाकविश्रीक्षेमेन्द्रकृतः सेव्यसेवकोपदेशः। विभूषणाय महते तृष्णातिमिम्हारिणे । नमः संतोपरलाय सेवाविपविनाशिने ॥ १ ॥ उत्सृज्य निजकार्याणि सद्भिर्बाप्पाकुलेक्षणम् । सेव्यसेवकसेवानां क्रियतामनुशासनम् ॥ २ ॥ दर्पादेकः परो लोभावावन्धी सेव्यसेवको। धनोप्मदैन्यविकृती मुखे कः कन्य पश्यति ॥ ३ ॥ दुर्वारमोहलोभान्धो यदि न स्यादयं जनः । कः क्रूरक्रोधविधुरं सहेत धनिना मुखम् ॥ ४ ॥. यः पृथ्वीमपि दर्पान्धो न पश्यति पुरःस्थिताम् । स दैन्यलघुतां यातं कथं सेवकमीक्षते ॥ ५ ॥ अगति वायत्येको बधिरं स्तौति चापरः । अहो जगति हास्याय निर्लज्जो सेव्यसेवको ॥ ६ ॥ दूरं हुंकारमात्रेण विसृष्टो मार्गणः सदा । गुणभ्रष्टः क्रियाहीनो नोद्वेगं याति सेवकः ॥ ७ ॥ मन्ये सुकृतिना तेन भागीरथ्यां कृतं तपः । वैराग्यभागी रथ्यां यः सेवासु न विगाहते ॥ ८ ॥ कथितक्लेशवापेन शापेनेव विपाकिना । सेवातापेन पच्यन्ते नह्यदुष्कृतिनो नराः ॥९॥ अदैन्यपुण्यमनसां यशस्तेषां विराजते । सेवापङ्ककलङ्कानां यैर्न पात्रीकृतं शिरः ॥ १० ॥ १. मार्गणो याचकः, शरश्च.
काव्यमाला। ग्रभुप्रणामे जठरं दैन्यमूलं विलोकयन् । प्रवेष्टुं सेवकः शक्के विलक्षः क्षितिमीक्षते ॥ ११ ॥ सेवाध्वजोऽञ्जलिमूर्ध्नि हृदि दैन्यं मुखे स्तुतिः । आशाग्रहगृहीतानां कियतीयं विडम्बना ॥ १२ ॥ अकालागमनक्रोधविधुरेश्वरचक्षुषा । क्षिप्रं मर इवायाति सेवको दग्धभूतिताम् ॥ १३ ॥ पुनः सेवावमानानां तेन दत्तं तिलोदकम् । विश्य वाहिनी येन खड्गपात्रीकृतं वपुः ॥ १४ ॥ कणवृत्तिपरिक्लिष्टः कष्टं सेवकचातकः । घेनाशानिरतो नित्यमुद्रीवः परिशुष्यति ॥ १५ ॥ निःसंतोषः परित्यज्य भ्रमरः पुष्पितं वनम् । सेवते दानलोमेन मोतङ्गमपि सेवकः ॥ १६ ॥ जडसेवापरिक्लिष्टस्तीबदम्भबकवतः । कृच्छ्रेण क्षणिकां प्रीतिमासादयति सेवकः ॥ १७ ॥ नित्यमुन्नतिकामोऽपि मानभङ्गादधोमुखः । यत्सत्यमुभयभ्रष्टस्त्रिंशङ्कुरिव सेवकः ।। १८ ।। खमांसविक्रयासक्तः प्रभुवेतालघट्टितः । निःसत्त्वः प्रलयं याति रात्रिसेवासु सेवकः ॥ १९ ॥ भूमिशायी निराहारः शीतवातातपक्षतः । मुनिव्रतोऽपि नरकक्लेशमश्नाति सेवकः ॥ २० ॥ १. ईश्वरो धनवान् , शिवश्च. २. भूतिर्भम, संपञ्च. ३. वाहिनी सेनां प्रविश्य येन वपुः खड्गपानीकृतम्. युद्धे मृत इत्यर्थः. तेन सेवाजनितावमानानां तिलोदक जलाजलिर्दत्तम्, अन्योऽपि वाहिनी नदी प्रविश्य खनपानं गण्डकचनिर्मितमर्च- पात्रमादाय पितृभ्यक्तिलमिश्रमुदकं ददाति. ४. घना निविला आशा, अथ च धनानां मेघानामाशा. ५. मातङ्गो गजः, चण्डालश्च. ६. निशङ्कुर्नाम कश्चिद्राजा स्वर्ग प्राप्तः, ततश्च देवैः पुनरपि मर्त्यलोके पात्वमानो विश्वामित्रवता मध्ये स्तम्भितोऽद्यापि दक्षि- पदिशि नक्षत्ररूपेण तिष्ठति इति पौराणिकाः.
No text on this page.
(२ काव्यमाला। कि राजभिर्दुर्जनजन्मजालव्याप्तैरवाप्तैरपि कष्टदृष्टैः । सन्त्येव सेव्या भुवि भूभृतस्ते तटेषु येषां मुनयो निविष्टाः ॥ ३४ ॥ तृष्णातुराणां रजसा वृतानां सेवाकुकूलानलतापितानाम् । शान्त्यै हितं चन्द्रकिरीटजूटमैत्रीपवित्रं त्रिदशापगाम्भः ॥ ३५ ॥ उत्सृज्य तीव्र विषयाभिलाषं संतोषपोषं कुशलो भजख । इत्यर्थ्यमानः सुखसेवयायमात्मैव सबै सुधियां ददाति ॥ ३६ ॥ एकस्य जाने सुखभोगभाजः श्लाघ्यस्य सेवाव्यसनं निवृत्तम् । सदैव शिश्नोदरवर्जितत्वादयाच्ययाचारहितस्य राहोः ॥ ३७ ॥ सेवाव्रते प्राय इवोपविष्टः सर्वात्मना निश्चितजीवनाशः । द्वाःस्थैः प्रयत्नेन निवारितोऽपि न दुर्ग्रहं मुञ्चति नष्टसंज्ञः ॥ ३८ ॥ तमोऽध्वतापेन च चिन्तया च शीतेन दैन्येन च पिण्डिताङ्गः । सुखाशया दुःखसहस्रभागी सेवाव्रतं मुग्धमतिबिभर्ति ॥ ३९ ॥ गच्छामि गच्छामि दिनं गतं मे दिने गतोऽहं न नृपोऽद्य दृष्टः । इति ब्रुवाणस्य सदा जनस्य जीर्णातरां तस्य तनुर्न तृष्णा ॥ ४० ॥ विच्छेदकारी सहसा कथानामनीप्सितो दीप इव प्रविष्टः । संसक्तवस्त्रान्तरमक्षिकेव न सेवकः कस्य करोति दुःखम् ॥ ४ धूमायमानोऽक्षिविपक्षभूतश्चाटुक्रमोत्पादितकर्णशूलः । कुसेवकः पादतलेऽवलमः पदे पदे कण्टकतामुपैति ॥ ४२ ॥ एकः खमेव क्षितिमीक्षतेऽन्यः स निर्जनार्थी स च गाढलग्नः । ख स्वार्थिता तस्य (2) भृशं स चार्थी कथंस सेव्यःसच सेवकोऽस्तु॥४३॥ छायाग्रहो मूर्त इवानुयायी स्थितश्चिरं वृश्चिकनिश्चलश्च । अकालपाती सुखकेलिलीलायन्त्रोपलः सेवकदुर्विदग्धः ॥ ४४ ॥ विसृज्यमानोऽप्यनिशं न याति तीव्रोपरोधप्रणयेन मूर्खः । भर्तुः प्रसादे विहितप्रयत्नो जातः परं प्रत्युत कोपहेतुः ॥ ४५ ॥ १. कुकूलशब्दस्तुयाग्निवाचकः, तस्मादत्रानलशब्दोऽधिक इवाभाति. परंतु कवय- स्त्वेवमेव प्रत्युजते, यथा-'शिरीषादपि मृद्ववी क्वेयमायतलोचना । अयं क च कुकू- लाग्निकर्कशो मदनज्वरः॥'. २. अनशनवते. ३. शनैश्चरः.
No text on this page.
काव्यमाला। कूजत्क्रूरकपाटपीडनरुषा दत्तमहारैः परं द्वारावस्थगनाय सुस्थिरभुजैः शं भत्सितः । कुजीभूय जनस्य जानुविवरैः क्षिप्रप्रवेशोत्सुकः पृच्छत्यन्तरनिर्गतानवसरं मौनव्रतान्सेवकः ॥ १३ ॥ द्वारे रुद्धमुपेक्षते कथमपि प्राप्तं पुरो नेक्षते विज्ञप्तौ गजमीलनानि कुरुते गृह्णाति वाक्यच्छलम् । निर्यातस्य करोति दोषगणनां खल्पापराधे यमः स खामी यदि सेव्यते मरुतटे किं नः पिशाचैः कृतम् ॥५४॥ नित्यं राजकुले न पूज्ययजने तद्द्वारपालार्चनं भक्तिं भूतिसमुद्भवे न तु भवे ध्यानं धने नात्मनि । दृष्टादृष्टविचिन्तनं नरपतौ न खोचिते कर्मणि श्रीहेतोर्बत निष्फलं प्रकुरुते सर्व जडः सेवकः ॥ ५५ ॥ सा तीव्र जडनिम्नपातनरता नो नित्यसक्ता त्वरा स्थ्यापङ्ककलङ्कितं न वदनं न द्वारपालैः कलिः । यस्मिंस्तच्चिरसेवकः प्रविततं पुण्यं वनं गम्यतां क्रूरास्ते न भवन्ति तत्र विकृतक्रोधोद्धताः पार्थिवाः ॥ १६ ॥ हंहो कष्टविनष्ट सेवक सखे खिन्नोऽसि पोषाशया रागश्चेद्विभवे तदेष कुपतिः क्लीबः किमासेव्यते । सेव्यः कोऽपि महेश्वरः स भगवान्यस्य प्रसादेक्षणै- रक्षुण्णैः करुणास्पदीकृतमरुन्नाथो मरुत्तः कृतः ॥ १७ ॥ राज्ञामज्ञतया कृतं यदनिशं दैन्यं तदुत्सृज्यतां संतोषाम्भसि मृज्यतामपि रजः पादप्रणामार्जितम् । संतोषः परमः पुराणपुरुषः संविन्मयः सेव्यतां यत्स्मृत्या न भवन्ति ते सुमनसां भूयो भवग्रन्थयः ॥ १८ ॥ १. महाभारत आश्वमेधिकपर्वणि मरुत्तकथा द्रष्टव्या, द्रोणपर्वणि च पञ्चपश्चा- शत्तमेऽध्याये.
No text on this page.
مرره काव्यमाला। साध्वीमद्रिः पतिमनुगतां तत्पदन्यासपूतः प्रीतः प्रीतिप्रमुखवचनं खागतं व्याजहार ॥ ४ ॥ सिद्धेः सङ्गं समभिलषतः प्राणनाथस्य नेमेः सा तन्वनी विरहविधुरा तच्छिरोऽधिष्ठितस्य । तत्संमोहाइतमनुनयं शैलराज ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥ सा तं दूना मनसिजशरैर्यादवेशं वभाषे रक्षेत्स्वामी शरणगमसौ भूपतीनां तु धर्मः । तन्मां स्वामिन्नव भवदधीनां समभ्यर्थये त्वां याञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥ तुझं शृङ्गं परिहर गिरेरेहि यावः पुरीं खां रत्नश्रेणीरचितभवनद्योतिताशान्तरालाम् । शोभासाम्यं कलयति मनाङ् नालका नाथ यस्या बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा ॥ ७ ॥ आलोक्यैनं तरलतडिदाक्रान्तनीलाब्दमालं प्रावृट्कालं विततविकसयूथिकाजातिजालम् । अन्तर्जाग्रद्विरहदहनो जीवितालम्बनेऽलं न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८ ॥ अस्मादद्वेः प्रसरति मरुत्प्रेरितः प्रौढनादै- मिन्दानोऽयं विरहिजनताकर्णजाहं पयोदः । यं पश्यैताः पथिकवनिताम्भोजचन्द्रातपाभाः सेविप्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ९ ॥ वीक्ष्याकाशं नवजलधरश्याममुद्दामकामा- विर्भावेन व्यथितवपुपो योपितो विहलायाः । काले कोऽस्मिन्वद यदुपते जीवितेशाहतेऽन्यः सद्यःपाति प्रणयिहदयं विप्रयोगे रुणद्धि ॥ १० ॥ .
No text on this page.
८८ काव्यमाला। जीमूतोऽयं मदयति विभो कोऽथवान्योऽपि काले प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥ पूर्व येन त्वमसि वयसा भूषितोऽङ्गे समग्रे तैस्तैः क्रीडारससुखसखैभव्यभोगैरिदानीम् । तत्तारुण्यं सफलय पुरीं द्वारकामेत्य शीघ्र सद्भावाः फलति न चिरणोपकारो महत्सु ॥ १८ ॥ किं शैलेऽस्मिंस्तव निवसतो न व्यथा कापि चित्ते संत्यज्य स्वां पुरमनुपमां द्योतते नाथ यस्याः । त्वत्सौधेनासितमणिमयाग्रेण हैमोग्रवप्रो मेघश्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १९ ॥ यामालोक्य खगृहगमनायोत्सुकाः स्युस्त्वदन्ये पश्याकाशे जलदपटलेऽस्मिन्बलाकावली ताम् । अन्तर्विद्युत्स्फुरितरुचिरे सुप्रकाशेन्द्रचापे भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥ युक्तं लक्ष्म्या मुदितमनसो यादवेशाः सभाया- मासीनं यं निजपुरि चिरं त्वामसेवन्त पूर्वम् । संप्रत्येकः श्रयसि स नगं नाथ किं वेत्सि नैवं रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २१ ॥ मुक्तातङ्कास्तव यदुविभो जिह्वयानं लिहन्तः संक्रीडन्ते शिशव इव येऽङ्के समाधिस्थितस्य । संप्रत्येते पुरमभियतो विप्रयोगेण नेत्रैः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २२ ॥ एतत्तुङ्गं त्यज शिखरिणः शृङ्गमङ्गीकुरुष्व प्राज्यं राज्यं प्रणयमखिलं पालयन्वन्धुवर्गे । रम्ये हर्ये चिरमनुभव प्राप्य भोगानखण्डा- न्सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ।। २३ ॥
नेमिदूतम् । धूतोन्निद्रार्जुनपरिमलोद्गारिणः पान्थसार्था- न्ये कुर्वीरजलदमरुतो वेश्मसंदर्शनोत्कान् । तैः संस्पृष्टो विरहिहृदयोन्माथिभिः खां पुरीं नु प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २४ ॥ नोत्साहस्ते स्वपुरगमने चेद्वियुक्ता त्वयाहं वृद्धावेतौ तव च पितरौ तजनास्ते त्रयोऽमी । म्लानास्याजाः कलुषतनवो ग्रीप्मतोयाशयाभाः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५ ॥ तन्नः प्राणानव तव मते जीवरक्षैव धर्मो वासार्थ वः सुरविरचितां तां पुरीमेहि यस्याः । वप्रप्रान्ते स्फुरति जलधेहरि वेलारमण्याः सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोमि ॥ २६ ॥ अस्मादद्रेः प्रतिपथमधः संचरन्दानवारेः क्रीडाशैलं विमलमणिभिर्भासुरं द्रक्ष्यसि त्वम् । अन्तः कान्तारतरसगलभूषणैर्यो यदूना- मुद्दामानि प्रथयति शिलावेश्मभियौवनानि ॥ २७ ॥ तस्योद्याने वरतरुचिते त्वं मुहूर्त श्रमार्त- स्तिष्ठेस्तुष्टो विविधतदुपानीतपुष्पोपहारैः । पुप्णन्नन्तश्चर परिमलोद्वारसारस्मितानां छायादानक्षणपरिचितः पुष्पलावीमुखानाम् ॥ २८ ॥ दृष्ट्वा रूपं तव निरुपमं तत्र पीनस्तनीनां तासामन्तर्मनसिजरसोल्लासलीलालसानाम् । कर्णाम्भोजोपगतमधुकृत्संभ्रमोद्यद्विलासै- लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २९ ॥ तस्मिन्नुद्यन्मनसिजरसाः प्रांशुशाखावनाम- व्याजादाविष्कृतकुचवलीनाभिकाञ्चीकलापाः ।
९०
काव्यमाला।
.
..
संधास्यन्ते त्वयि मृगदृशंस्तान्विचित्रान्विलासा-
स्त्रीणामाचं प्रणयवचनं विभ्रमो हि प्रियेषु ।। ३० ॥
त्वां याचेऽहं न नयविदुषां कापि कायें विलम्बो
गन्तव्या ते सपदि नगरी वा यतः सा त्वदम्बा ।
मुक्ताहारा सजलनयना त्वद्वियोगार्तिदीना
कार्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३१ ॥
तस्याधरताद्विपमपुलिनां स्वर्णरेखामतीतो
मागें दृष्ट्वा पुरमनुपमां तां भवान्वामनस्य ।
भुक्त्वा लोकोपचयमवनि नाकिनामागतानां
शेषैः पुण्यैर्हतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३२ ॥
यस्यां सान्द्रोऽनुपमचलितो वेश्मसु खेच्छयैवं
मुष्णन्नात्सुरतललितादुज्जयन्तीं विगाह्य ।
खेदं तीरे विदलितपुटः सेवते वारनारी
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३३ ॥
यत्र स्तम्भान्मरकतमयान्देहली विद्रुमाणां
प्रासादानं विविधमणिभिर्निर्मितं वासवेन ।
भूमि मुक्ताप्रकररचितां हास्तिकं चापि दृष्ट्या
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ३४ ॥
अत्रात्युप्रैः किल मुनिवरो वामनः प्राक्तपोभि-
लब्ध्वा सिद्धि निखिलभुवनव्यापिना विग्रहेण ।
ईशं वामं भुजगसदने प्रापयदानवाना-
मित्यागन्तूनरमयति जनो यत्र बन्धूनभिज्ञः ॥ ३५ ॥
तामासाद्य प्रवरनगरी विश्रुतां संनिवासं
कुर्याः पौरैर्नृवर विहितानेकपूजोपचारः ।
आस्तीर्णान्तर्विमलशयनेष्वग्रसौधेषु कामं
नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३६ ॥
नेमिदूतम् । उद्यानानामुपतटभुवामुज्जयन्त्याः समन्ता- दाधुन्वद्भिर्विपुलविकसन्मालतीजालकानि । अशान्मार्गश्रमजलकणान्सेव्यसेऽस्यां हरद्धि- स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३७ ॥ तत्रोपास्यः प्रथितमहिमा नाथ देवस्त्वयाद्यः प्रसादस्थः क्षणमनुपमं यं निरीक्ष्य त्वमक्ष्णोः । शृण्वन्प्रेक्षामुरजनिनदान्वारिवाहस्य तुल्या- नामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३८ ॥ त्वद्रूपेणापहृतमनसो विस्मयात्पौरनार्यः सौन्दर्याधःकृतमनसिजे. राजमार्ग प्रयाति । प्रातस्तस्यां कुवलयदलश्यामलाङ्गे सलील- मामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३९ ॥ तस्याः पश्यन्वरगृहततिं तां ब्रजे- स्पृशन्ती- मैक्यं प्राप्यासितरजनिषु प्रस्फुरद्रलदीपाः । विद्योतन्ते निहततिमिरव्योममार्गश्च लोके शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ४० ॥ पौरैस्तस्यां रथमुपहृतं रम्यमास्थाय यान्तं द्रष्टुं ग्राम्याः पथि युवतयस्त्वामुपैप्यन्ति तस्मात् । शब्दैतत्र स्खलदुपलजैरर्थिसार्थीकृतश्री- स्तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः ॥ ४१ ॥ त्वामायान्तं पथि यदुवराः केशवाद्या निशम्य प्रीता बन्धूंस्तव पितृमुखान्सौहृदान्नन्दयन्तः । साकं सैन्यै रथमभिमुखं प्रेषयिष्यन्ति तूर्ण मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४२ ॥ श्रुत्वा तीरे तदनुजलधेरागतं सोपहारो मान्यो मन्त्री यदि बलपुराच्छीरिणस्त्वामुपेतः ।
९२
काव्यमाला।
तस्यादेया खशयविहिता सक्रिया तेन वेत्सि
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४२ ॥
गच्छेलातटमनु ततस्तोयमुल्लासिमत्स्य
खच्छं काचच्छवि जलनिधेस्तस्य पश्यन्रथस्थः ।
यः कामीव क्षणमपि सरित्कामिनीनां न शक्तो
मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४४ ॥
तां वेला विमलसलिलामागतां द्रक्ष्यसि त्वं
पूर्वोद्दिष्टां सरितमसकृद्वारिभिर्वीचिहस्तैः ।
यामालिङ्गयोपरमति पिबन्यन्मुखं न क्षणार्धे
ज्ञातास्वादो विपुलजघनां को विहातुं समर्थः ॥ ४५ ॥
तस्मिन्नुच्चैर्दलितलहरीसीकरासारहारी
वारां राशेस्तटजविकसत्केतकामोदरम्यः ।
खेदं मार्गक्रमणजनितं ते हरिप्यत्यजलं
शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४६ ॥
नाम्ना रत्नाकरमथ पुरस्ताद्जे वीक्षमाणो
जज्ञे यस्माद्भुवनभयकृत्तत्पुरा कालकूटम् ।
यत्रासाध्यं निवसति जगद्दाहदक्षं जलाना-
मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४७ ॥
त्वामायान्तं तटवन धरा
मेघनीलं
मयूरा
दृष्ट्वा दूरान्मधुरवितैस्तत्र ये संस्तुवन्ति ।
इं,तान्दिव्यध्वनिभिरुदधः सान्द्रितैः संनिकृष्टः
मित्यागम्यूहणगुरुभिर्जितैर्नर्तयेथाः ॥ ४८ ॥
तामासाद्य प्रवरनगरी पोऽथ भेदाभिधाना
कुर्याः पौरैर्नृवर विहितानेकपूरने प्रस्थितस्य ।
आस्तीर्णान्तर्विमलशयनेष्वग्रसौधेषु काम:
नीत्वा खेदं ललितवनितापादरागाङ्कितः कीर्तिम् ॥ १९ ॥
. नेमिदूतम् । उच्चैमिन्नं जवितमुदधौ हारि नीरं रथस्थे तस्यास्त्वय्युत्तरति सरितो यादवेन्द्र प्रवाहम् । वीक्षिष्यन्ते क्षणमनिमिषो व्योमभाजोऽतिदूरा- देकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५० ॥ तामुत्तीर्णः पुनरधिवसेरीशपौराभिधानं नानादेशागतजनचयैः पूर्णरम्यापणं तत् । यस्याकाशं स्पृशति निवहो वेश्मनामूर्वभागा- त्पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ।। ६१ ॥ तस्माद्वानघ तब कियद्गच्छतो भाति दुर्ग पङ्काकीर्ण नवतृणचितं तत्र तोयाशयानाम् । कुर्वन्नन्दः किल कलुषतां मार्गणैः प्रागरीणां धारापातैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि ॥ १२ ॥ नानारत्नोपचितशिखरश्रेणिरम्यः पुरस्ते यास्यत्यक्ष्णोर्विषयमचलो मादनो गन्धपूर्वः । यं सोत्कण्ठो नवमिव पुनर्वीक्षितुं कान्त हर्षा- दन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ १३ ॥ यस्मिन्पूर्व किल विरचितां वामभागे भवानी देवीं वीक्ष्य त्रिपुरजयिनः खेच्छया केलिभाजम् । जहोः पुत्री तदनु दधतोऽङ्केऽभ्युपेये सपत्नी शंभोः केशग्रहणमकरोदिन्दुलमोर्मिहस्ता ॥ ५४ ॥ आरूढस्य स्फटिकमणिभूश्वेतसानुप्रतापे यस्मिञ्छैले विमलविलसत्कान्तितोयप्रवाहा । संक्रामन्त्या तव घनरुचा छायया खर्धनीव स्यादस्थानोपगतयमुनासंगमेवाभिरम्या ॥ १५ ॥ भाखद्भास्वन्मणिमयबृहत्तुङ्गशृङ्गाग्रसंस्थाः संप्रत्युद्यत्परिणतफलश्यामला वामभागे । . - ९४ काव्यमाला। यलिजन्युक्षितिल्हचया धारयिष्यन्ति सान्द्राः शोमां शुमत्रिनयनवृयोल्यातपोपमेयान ॥ १६ ॥ श्रुत्वायान्तं दुतमुपगतास्तत्र बन्वित्रजा ये त्वां यावन्तः प्रथितयश येथिनो दौस्यानाः । तान्कु याः सममिलपितार्थप्रदानैः कृतार्था- नापन्नानिप्रशमनफलाः संपद्रो ह्युत्तमानाम् ।। १७ ।। आकर्याद्रिप्रतिरवगुरु बानरास्त्वत्सकाशे क्रोधातानास्ततमुखरवं तत्र येऽभिद्रवन्ति । तान्योधानां विमुखय पुनरुणानिनादः के वा न स्युः परिभवपदं निष्फलारल्ययनाः ॥ १८ ॥ तलिन्द्री निवसति विमुः स स्वयंभूर्भवो वा देवः सेवापरसुरगणवेन्द्यपादारविन्तः । यद्ध्यानेनापहृतदुरिता मानवाः पुण्यभाजः संकल्पन्ते स्थिरगणपदप्राप्तये अड्वानाः ॥ ५९ ॥ नीपामोद्रोन्मदमधुकरं गुञ्जनं गीतरन्यं केका बेणुकणितमधुरा बहिणां चारु नृत्यम् । श्रोत्रानन्दी मुरजनिनदम्त्वत्ययाणे यदि स्या- संगीतार्थी ननु पशुपतेस्तत्र भावी समनः ॥ ६ ॥ तस्माद्च्छन्नथ पथि भवान्वीक्षिता वेणुनालयं शैलं नीलोपलपरिचयाशेषसानूच्छ्यं तम् । व्यायाकाशं नवजलभृतां संनिभो यो विभाति त्यामः पादो वलिनियमनायोचतस्येव विष्णोः ॥ ६ ॥ तांस्तान्यामानपि शुचिगिरि दक्षिणेन व्यतीत्य दृष्टास्यने सितमणिमयं सौघसंघ वपुर्याः । क्रान्त्वा वयं वियति विज्ञदैः शोभते योऽशुजाले राशीभूतः प्रतिदिशामिव त्र्यम्वकन्याहासः ।। ६२ ।।
९५ नेमिदूतम् । प्रत्यासत्तिं विशदशिखरोत्सङ्गभागे पयोदे नीलखिग्धे क्षणमुपगते पुण्डरीकप्रभस्य । शोभा काचिद्विलसति मनोहारिणी यस्य संप्र- त्यसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६३ ॥ प्राप्योद्यानं पुरपरिसरे केलिशैले यदूनां विश्रामार्थ क्षणमभिरतिं गोमतीवारि पश्यन् । उत्सर्पद्धिर्दधदिव दिवो वर्त्मनो वाजिसंधैः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६४ ॥ तत्रासीनो मुररिपुयशो निश्चलः किंनरीभिः शृण्वंस्तिष्ठतिसुखकरं गीयमानं मुहूर्तम् । शब्दैरश्वस्खलितरवजैर्मेदुरैरम्बुराशेः क्रीडालोलाः श्रवणपरुषैजितैीषयेस्ताः ॥ ६५ ॥ सान्द्रोन्निद्रार्जुनसुरभितं प्रोन्मिपत्केतकीकं हृद्यं जातिप्रसवरजसाखादमत्तालिनादैः । नृत्यत्केकामुखरशिखिनं भूषितोपान्तभूमि नानाचेष्टर्जलदललितैनिर्विशेतं नगेन्द्रम् ॥ १६ ॥ तस्या हर्षादवकृतमहास्ते प्रवेशाय पुर्या निर्यास्यन्ति प्रवरयदवः संमुखाः शौरिमुख्याः । या कालेऽस्मिन्भवनशिखरैः प्रक्षरद्वारि धत्ते मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६७ ॥ शश्वत्सान्द्रखतनुमहसं प्रोल्लसद्रनदीपा मानप्रांशुं शिखरनिवहै?ममार्ग स्पृशन्तः । गौरं ज्योत्साविमलयशसा शुभ्रवर्णाः सुधाभिः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६८ ॥ यामुद्दामाखिलसुररिपून्माथिनो दानवारेः साहाय्याय प्रथितमहसोऽभ्यासते योधवर्याः ।
९६
काव्यमाला।
:
नानादैत्यपहरणमवैः संगरेषु वकीर्त्या
प्रत्यादिष्टाभरणरुचयश्चन्द्रहासत्रणाकैः ॥ ६९ ॥
व्याधिदेहान्स्पृशति न भयाद्रक्षितुः शार्ङ्गपाणे-
मृत्योर्वार्ता श्रवणपथगा कुत्र यद्वासभाजाम् । .
कामक्रीडारससुखजुषां यच्छतामर्थिकामा-
न्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ।। ७० ।।
कर्णे जातिप्रसवममलं केतकं केशपाशे
कस्तूरीभिः कृतविरचना गण्डयोः पत्रवल्ली ।
कण्ठे माला ग्रथितकुटजा मण्डनं भावि काम्यं
सीमन्ते च त्वदुमगमजं यत्र नीपं वधूनाम् ॥ ७१ ॥
यस्यां रम्यं युवजनमनोहारि वाराङ्गनानां
लास्यं तालानुगतकरणं भास्यति त्वत्प्रवेशे ।
वाञ्छन्तीनां तदवगमनादङ्गभाजां प्रसाद
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ७२ ॥
संसक्तानां नवरतरसे कामिभिः कुण्ठ्यमानाः
पृष्ठेऽष्वन्तः कृतविरचनाधर्मवार्यङ्गनानाम् ।
यस्यां ग्रीष्मे शिशिरकिरणस्यांशुभिर्यामिनीषु
व्यालुम्पन्तिं स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ।। ७३ ॥
गत्वा पूर्व रजनिसमये धूप्यमानेषु लीला-
वेश्मस्वन्तर्युवतिनिहितै रत्नदीपनिरस्ताः ।
जालैयंत्रान्धतमसचयाः साध्वसेनेव भूयो.
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ७४ ॥
रात्रौ यस्यामुपसखि भृशं गात्रसंकोचभाजां
रागेणान्धैः शयनभवन लसद्दीपवत्सु ।
प्रेम्णा कान्तैरभिकुचयुगं हृद्यगन्धिर्वधूनां
हीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ७५ ॥
नेमिदूतम् । गायन्तीभिस्त्वदमलयशो वारसीमन्तिनीभिः साकं माद्यन्मधुरमुरज तारसारान्यपुष्टम् । यस्यां रम्यं सुरभिसमये सोत्सवाः सीरिमुख्या बद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ७६ ॥ उद्यत्कामालसयुवतिमिः सेव्यमानैः सरोज- स्कन्धान्यस्यां सुमधुररसानक्षयानापिबद्भिः । निर्गम्यन्ते शरदि यदुभिः सद्मपृष्ठे वकीर्त्या नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ ७७ ।। कान्तोत्तंसास्तुहिनसमये कुङ्कुमालिप्तदेहाः सान्द्रच्छाये शुचिनि तरुभिगोमतीरम्यतीरे । रूपोल्लासाद्विजितरतयः कुन्दकाले सलीलं संक्रीडन्ते.मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ७८ ॥ यस्यां पुष्पोपचयममलं भूषणं साधुहृद्यं गन्धद्रव्यं व्यजननिवहं सूक्ष्ममिच्छानुकूलम् । न्यस्तः प्रीत्या त्रिदशपतिना वासुदेवस्य सम- न्येकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७९ ।। एणाङ्काश्मावनिषु शिशिरैः कुङ्कुमाः पदाकैः शीतोत्कम्पादतिविगलितैलिकैः केशपाशात् । भ्रष्टैः पीनस्तनपरिलसद्रम्यमाल्यैश्च यस्यां नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ८० ॥ बाणस्याजौ हरविजयिनो वासुदेवस्य यस्यां प्राप्यासात्तं चरति गतभीः पुप्पचापो निरस्तः । यस्माद्वैधाकृतयुवमनोमोहमात्मप्रक- स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ८१ ॥ यायास्तस्माद्रथपरिवृतस्त्वं प्रवेशाय.यस्यां तत्प्राचीनं पुरि हरिमुखैोपुरं यादवेन्द्रैः। ९
९८
काव्यमाला।
यत्राशोकः कलयति नवस्तोरणाभां तथान्यो
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ।। (२ ॥
उद्यद्वालव्यजनमनिलोल्लासिकाशप्रसूनाः
श्वेतच्छत्रं विकसितसिताम्भोजभाजो विलोक्य ।
तस्यां पौरा विशदयशसं न श्रियः शारदीना
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ३ ॥
पुष्पाकीण पुरि सह तदा यस्त्वया राजमार्ग
यास्यत्युद्यद्धनिजवसनं चन्दनाम्भश्छटाङ्कम् ।
शौरि पीताम्बरधरमनुक्ष्माधरं मेघमेनं
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८४ ॥
यातं तस्याः पुरि पुरि बलादुत्सवैः कामिनोत्कं
हर्षोत्कर्ष नरपतिपथैनैष्यतस्तौ ययोस्तु ।
स्त्रीणामेको रमयति शतान्यङ्गनां पाययित्वा
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ ८५ ॥
सौधश्रेणीर्विततविलसत्तोरणास्ता व्यतीत्य
खावासं तं मणिचयरुचा भासुरं प्राप्स्यसि त्वम् ।
यस्मिन्कस्सै न भवति मुदे साग्रभूमिर्धनानां
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥ ८६ ॥
नत्वा पूर्व पितृमुखगुरूंस्तान्विसृज्याथ बन्धू-
न्सौधं मञ्चद्वयमपि ततोऽलं कुरुष्वार्द्रचित्तः ।
यन्निःश्रीकं हरति न मनस्त्वां विना यादवेन्दो
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ।। ८७
इत्युक्तेऽस्या वदसि विमुखं मुक्तिकान्तानुरक्तं
दृष्ट्वा नेमि किल जलधरः संनिधौ भूधरस्थः ।
तत्कारुण्यादिव जलधरश्रेणिमुक्ताश्रु धत्ते
खद्योतालीविलसितनिमा विद्युदुन्मेषदृष्टिम् ॥ ८ ॥
नेमिदूतम् । b/ of , तत्सख्यूचे तमभिवचनं वाञ्छितं साधयास्या बालामेनां नय निजगृहं शैलशृङ्गं विहाय । त्वत्संयोगान्ननु धृतिसमेतानवद्याझ्यष्टि- या तत्र स्यायुवत्तिविषये सृष्टिरायेव धातुः ।। ८९ ॥ अस्वीकारात्सुभग भवतः क्लिष्टशोभां कियद्भि- म॒द्वीमन्तर्विरहशिखिना वासरैर्दह्यमानाम् । एनां शुष्यद्वदनकमलां दूरविध्वस्तपत्रां जातां मन्ये तुहिनमथितां पद्मिनी वान्यरूपाम् ॥ ९० ॥ आकाङ्क्षन्त्या मृदुकरपरिष्वङ्गसौख्यानि सख्याः पश्यामुष्या मुखमनुदिनं म्लानमस्मेरमश्रि। उद्यत्तापात्कुमुदमिव ते कैरविण्या वियोगा- दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्विभर्ति ॥ ९१ ॥ शय्योत्सङ्गे निशि पितृगृहे प्राप्य निद्रां पुरासौ त्वं व स्वामिन्त्रजसि सहसेति ब्रुवाणा प्रबुद्धा । ऊचेऽस्माभिर्न खलु नयनेनापि यो वीक्षिताङ्गः कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ९२ ॥ एतहुःखापनयरसिके प्राक्सखीनां समाजे गायत्यासां किमपि मधुरं गीतमादाय वीणाम् । तद्धचानेनापहृतहृदया गातुकामा ललज्जे भूयो भूयः खयमपि कृतां मूर्छनां विस्मरन्ती ।। ९३ ॥ त्वत्प्राप्त्यर्थं विरचितवती तत्र सौभाग्यदेव्याः पूजामेपा सुरभिकुसुमैरेकचित्ता मुहूर्तम् । दैवज्ञान्वानयति निपुणान्स्म क्षणं भापयन्ती प्रायेणेते रमणविरहेप्वङ्गनानां विनोदाः ॥ २४ ॥ याते पाणिग्रहणसमयेऽदि विहाय त्वयीमां त्यक्त्वा माल्यं सपदि रचिता यानया विप्रयोग।
१०० काव्यमाला। तामेवपा वहति शिरसा स्खे निधाय प्रदेशे गण्डाभोगात्कठिनविपमामेकवेणी करेण ॥ ९५ ॥ गीताद्यैर्वा श्रुतमुखकरैः प्रस्तुतैर्वा विनोदैः पौराणीभिः कृतनुतिमिमां त्वद्वियोगात्कथाभिः । तुष्टिं नेतुं रजनिपु पुनर्नालिवर्गः क्षमोऽभू- तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ ९६ ॥ या प्रागस्याः क्षणमिव नवैर्गीतवार्ताविनोदै- रासीच्छय्यातलविगलितैर्गल्लभागविलय । रात्रिं संवत्सरशतसमां वीक्षते सन्नगात्री तामेवोप्णविरहजनितैरश्रुभिर्यापयन्ती ॥ ९७ ॥ पश्यन्ती त्वन्मयमिव जगन्मोहनावासमग्नं ध्यायन्ती त्वां मनसि निहितं तत्क्षणं तद्विरामे । मृति भित्तावपि च लिखितामीक्षितुं ते पुरस्ता- दाकावन्ती नयनसलिलोत्पीडरुद्धावकाशम् ॥ ९८ ॥ अन्तर्भिन्ना मनसिजशरैर्मीलिताक्षी मुहूर्त लब्ध्वा संज्ञां दिशि दिशि मुहुर्वीक्ष्यमाणार्तिदीना । शय्योत्सङ्गे नवकिसलयाग्रेऽपि भद्रं न लेभे साभ्रेऽहीव स्थलकमलिनी न प्रवुद्धा न सुप्ता ॥ ९९ ॥ वृत्तान्तेऽस्मिस्तदनु कथिते मातुरस्यास्तवैत- द्वृत्तं ज्ञातं निशि सह मया प्रेषितः सौविदल्लः । सख्याः पश्यन्नयमपि दशां तां तदावेक्ष्य जातं प्रत्यक्षं ते निखिलमचिराद्रातरुक्तं मया यत् ॥ १०० ॥ प्रेक्ष्यैतस्मिन्नपि मृगदृशस्तामवस्थामसह्या- मस्याः प्रातः कथयति पुरा विस्तरात्सैतदम्बा । श्रुत्वा दुःखं दुहितुरसृजह्वाष्पमच्छिन्नधार प्रायः सर्वो भवति करुणावृत्तिरार्द्वान्तरात्मा ।। १०१ ॥
No text on this page.
१०२
काव्यमाला।
अन्तश्चित्ते त्वयि सुखलवो न प्रपेदे प्रवेश
संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ १०८ ॥
प्राप्यानुज्ञामथ पितुरियं त्वां सहास्माभिरस्मि-
न्संप्रत्यद्रौ शरणमवला प्राणनाथं प्रपन्ना ।
अर्हस्येनां विषमविशिखाद्रक्षितुं त्वं हि कृच्छ्रा-
त्पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ १०९ ॥
धर्मज्ञस्त्वं यदि सहचरीमेकचित्तां च रक्तां
किं मामेवं विरहशिखिनोपेक्ष्यसे दह्यमानाम् ।
तत्स्वीकारात्कुरु मयि कृपां यादवाधीश वाला
त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ११ ॥
दुर्लङ्घयत्वं शिखरिणि पयोधौ च गाम्भीर्यमा
... स्थैर्य तेजः शिखिनि मदने रूपसौन्दर्यलक्ष्मीम् ।
बुद्धिं क्षान्ति नृवर कलया गीतवृन्दं गुणानां
हन्तैकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ १११ ।।
एतानीत्थं विधुरमनसा स्वीकृतायास्त्वया मे
दुःखार्तायाः क्षितिभृति दिनानीश कल्पोपमानि ।
आसन्नस्मिन्मदनदहनोद्दीपकानि प्रकाशं
दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि ॥ ११२ ।।
रात्रौ निन्द्रां कथमपि चिरात्प्राप्य यावद्भवन्तं
लब्धं स्वप्ने प्रणयवचनैः किंचिदिच्छामि वक्तुम् ।
तावत्तस्या भवति दुरितैः प्राक्तनै विरामः
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ११३ ॥
मन्नाथेन ध्रुवमवजितो रूपलक्ष्म्या तपोभि-
स्तद्वैरान्मामिषुभिरवलां हन्त्यशक्तो मनोभूः ।
दृग्भ्यां कृतेष्चिति मम निशि त्रस्तरे चिन्तयन्त्या
मुक्तास्थूलास्तरुकिसलयेप्वश्रुलेशाः पतन्ति ॥ ११४ ॥
नेमिदूतम् । १०३ अस्मिन्नेते शिखरिणि मया यादवेशान्तिकान्ते जीमूताम्भःकणचयमुषः संचरन्तः पुरस्तात् । संसेव्यन्ते विषमविशिखोत्तंसया नीपवाताः पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ११५ ॥ संचिन्त्यैवं हृदि मयि दयां धारयंस्तत्प्रसीद स्वामिन्निर्वापय वपुरिदं वाङ्गसङ्गामृतेन । यत्संताप्यानिशमतितरां प्राणलावण्यशेष गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११६ ॥ दुःखं येनानवधि बुभुजे त्वद्वियोगादिदानी संयोगात्तेऽनुभवतु सुखं तद्वपुर्मे चिराय । यस्माजन्मान्तरविरचितैः कर्मभिः प्राणभाजां नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण || ११७ ॥ प्रावृट् प्रान्तं प्रियतम गता दुर्दशा दुःखदेव प्रायोऽन्योन्यै रतिकरमितः सांप्रतं संगमाय । भोगानेकोत्सवसुखसुखानिच्छया मन्दिरे खे निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ११८ ॥ इत्येतस्याः सफलय चिराद्वाक्यमासाद्य सद्यः स्वं वेश्मैनां नय नवरसैः खस्थचित्तां कुरुष्व । तल्पे प्राक्त्वां निशि वदति या स्मेक्षमाणेच मोहा- दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ११९ ॥ त्वत्संयोगाकुलितहृदयोत्कण्ठया राजपुत्री त्वामेषा च त्वरयति चिराल्लेहपूर्णा प्रयातु । प्रायेणैताः प्रियजनमनोवृत्तयोऽप्राप्तिभावा- दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ।। १२० ॥ तस्माद्वालां स्मरशरचयैर्दुःसहर्जर्जराङ्गी संभाष्यैनां नय निजगृहान्सत्वरं यादवेन्द्र ।
१०४ काव्यमाला। प्रीत्या चास्या मधुरवचनाश्वासनाभिः प्रयान्तं प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२१ ।। त्वामर्थेऽस्या किमिति नितरां प्रार्थये नाथ भूयो यस्मादीदृग्जगति महतां लक्षणं सुप्रसिद्धम् । स्नेहादेते न खलु मुखरा याचिताः संभवन्ति प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ १२२ ॥ गत्वा शीघ्रं स्वपुरमतुलं प्राप्य राज्यं त्रिलोक्याः कीर्ति शुद्धां वितनु सुहृदां पूरयाशां च पित्रोः । राजीमत्या सह नवघनस्येव वर्षासु भूयो मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२३ ।। तत्सख्योक्ते वचसि सदयस्तां सतीमेकचित्तां संबोध्येशः स भवविरतो रम्यधर्मोपदेशैः । चक्रे योगान्निजसहचरी मोक्षसौख्याप्तिहेतोः केषां न स्यादभिमतफला प्रार्थना झुत्तमेषु ॥ १२४ ॥ श्रीमान्योगादचलशिखरे केवलज्ञानमस्मि- नेमिर्देवोरगनरगणैः स्तूयमानोऽधिगम्य । तामानन्दं शिवपुरि परित्याज्य संसारभाजां भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ १२५ ॥ तद्दुःखार्थ प्रवरकवितुः कालिदासस्य काव्या- दन्त्यं पादं सुपदरचितान्मेघदूताद्गृहीत्वा । श्रीमन्नेमेश्चरितविशदं साङ्गणस्याङ्गजन्मा चक्रे काव्यं बुधजनमनःप्रीतये विक्रमाख्यः ॥ १२६ ॥ इति साङ्गणसूनुश्रीविक्रमकविविरचितं नेमिदूतं समाप्तम् । पण्डितराजश्रीजगन्नाथविरचिता लक्ष्मीलहरिः। समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचा- मपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः ।
लक्ष्मीलहरिः ।
हिया हीनं दीनं भृशमुदरलीनं करुणया
हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १ ॥
समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः
करिप्राणत्राणप्रणयिनि दृगन्तरतव मयि ।
यमासाद्योन्माद्यविपनियुतगण्डस्थलगल-
न्मदक्लिन्नद्वारो भवति सुखसारो नरपतिः ॥ २ ॥
उरस्यस्य भ्रश्यत्कवरभरनियत्लुमनसः
पतन्ति स्वर्वालाः स्मरशरपराधीनमनसः ।
सुरास्तं गायन्ति स्फुरिततनु गङ्गाधरमुखा-
स्तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३ ॥
समीपे संगीतस्वरमधुरभझी मृगदृशां
विदूरे दानान्धद्विरदकलभोद्दामनिनदः ।
वहिारे तेषां भवति यहेपाकलकलो
हगेषा ते येपामुपरि कमले देवि सदया ॥ ४ ॥
अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः ।
उदञ्चत्पीयूषाम्बुधिलहरिलीलामनुहर-
नपाङ्गस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ ५ ॥
नमन्मौलिश्रेणित्रिपुरपरिपन्थिपतिलस-
स्कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः ।
लसत्फुल्लाम्भोजमदिमहरणः कोऽपि चरण-
श्चिरं चेतश्चारी मम भवतु वारीशदुहितुः ॥ ६ ॥
प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां
नियन्त्री बन्धूकद्युतिनिकरवन्धूकृतिपटुः ।
नृणामन्तवा॑न्तं निबिडमपहर्तुं तव किल
प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥ ७ ॥
१०६ काव्यमाला। प्रभातमोन्मीलकमलबनसंचारसमये शिखाः किंजल्कानां विदधति रुजं यत्र मृदुलाः । तदेतन्मातम्ने चरणमरुणश्लाव्यकरणं कटोरा मद्वाणी कथमियमिदानी प्रविशतु ॥ ८ ॥ मितव्योल्लामजविजमणिमयूखामृतझरै- निपिञ्चन्तीं विश्वं तब विमलमूर्ति स्मरति यः । अमन्दं स्यन्दन्ते वदनकमलादस्य कृतिनो विविक्तौ = कल्पाः सततमविकल्पा नवगिरः ॥ ९ ॥ शरी मायावीजी हिमकरकलाक्रान्तशिरसौ विधायो– विन्दुं स्फुरितमिति बीजं जलधिजे । जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटा- मदभ्राम्यगृङ्गैर्मुखरयति बेइमानि विदुषाम् ॥ १० ॥ स्मरो नाम नामं त्रिजगदाभिरामं तव पदं प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु । यया पातं पातं पढ़कमलयोः पर्वतचरो हगे हा रोपाज़्मनुनयति शैलेन्द्रतनयाम् ॥ ११ ॥ हरन्तो निःशङ्ख हिमकरकलानां रुचिरतां किरन्तः स्वच्छन्दं किरणमयपीयूपनिकरम् । विलम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा ममान्तः संतापं तव चरणशोणाम्बुजनखाः ॥ १२ ॥ मिषान्माणिक्यानां विगलितनिमेषं निमिषता- ममन्दं सौन्दर्य तव चरणयोरम्बुधिसुते । पदालंकाराणां जयति कलनिक्काणनपटु- रुदञ्चन्नुद्दामः स्तुतिवचनलीलाकलकलः ॥ १३ ॥ मणिज्योत्लाजालैर्निजतनुरुचां मांसलतया जटालं ते जङ्घायुगलमघभङ्गाय भवतु ।
No text on this page.
९०८ काव्यमाला। कुचौ ते दुग्धाम्भोनिधिकुलशिखामण्डनमणे हग्ने सामान्यं यदि सुरगिचित्रमिह किम् । त्रिलोकीलावण्याहरणनबलीलानिपुणयो- ययोदते भृयः करमखिलनाथो मधुरिपुः ॥२१॥ हरक्रोधनस्यन्मदननवदुर्गद्वयतुलां दधत्कोकद्वन्द्वद्युतिदमनदीक्षाथिगुरुतान् । नवतवृक्षोजद्वितयमरबिन्द्राक्षमहिले मम वान्तध्वान्तं किमपि च नितान्तं गमयतु ।। २२ ॥ अनेकजन्माण्डस्थितिनियमलीलाविलसिते दयापीयूपाम्भोनिथिसहजसंत्रासभवने । विधोश्चित्तायामे हृदयकमले ते तु कमले मनाङ् मन्निन्तारस्मृतिरपि च कोणे निवसतु ॥ २३ ॥ मृणालीनां लीलाः सहजलवणिन्ना लघयतां चतुर्णा सौभाग्यं तव जननि दोष्णां वन्तु कः । लुठन्ति स्वच्छन्दं मरकतशिलामांसलरत्रः श्रुतीनां न्यधी ये दधत इव कण्टे मधुरिपोः ॥ २४ ॥ अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता तथापि त्वद्धन्ते निवसदरविन्द्र विकसितम् । कलापे काव्यानां प्रकृतिकमनीयस्तुतित्रियों गुणोत्कर्षावानं प्रथितमुपमानं समजनि ॥ २५ ॥ अनल्पं जल्पन्तु प्रतिहतवियः पल्लवतुलां रसज्ञामजानां क इव कमले मन्थरयतु । त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं तुगरसनाः ॥ २६ ॥ समाहारः श्रीणां विरचितविहारो हरिशां परीहारो भक्तप्रभवभवसंतापसरणेः ।
लक्ष्मीलहरिः। १०० प्रहारः सर्वासामपि च विपदां विष्णुदयिते ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ २७ ॥ अलं कुर्वाणानां मणिगणघृणीनां लवणिमा यदीयाभिर्भाभिर्भजति महिमानं लघुरपि । सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा- स्तवाङ्गुल्यता ने ददनु न्विान मिलपिनन ॥ २८ ॥ तपन्तये तीनं किमपि पत्तिय प्रतिदिन तब श्रीकालानियवादिन्न : हरिः कन्यु सुन्न: वद्वानन्त अनूप्रत्यूहः मनहन्दुिमती विलीनो लोकन तवास्मिन्पीयूयं निति बनन कुतो हताश्चेनो विद्युग्मनु- = ई मुखाम्भोजे मन्द्रमितमधुकन्द विक्रम द्विजानां ने हागवालविहिन मनन इयं ज्योल्ला कापि ववदमनमोहमान, ममोद्यद्दारिद्यचरतरुपनापं निन्यनु ॥ ३९ ॥ कुलै: कस्तूरीणां भृशमनिशमाशान्यमपि च NA - प्रभातप्रोन्मीलन्नलिननिवहरश्रुतचरम् । वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं तव श्वासा नासापुटविहितवासा विधन, कपोले ते दोलायितललितलोलालकवृते विमुक्ता धम्मिल्लादमिलसति नुशाल खकीयानां बन्दीकृनमन्डमानयि बला- निवध्योर्च -- कृष्टः नि १० ११० काव्यमाला। प्रसादो यस्यायं नमदमितगीर्वाणमुकुट- प्रसर्पज्योत्लाभिश्चरणतलपीठार्चितविधिः । दृगम्भोजं तत्ते गतिहसितमत्तेभगमने वने लीनैर्दीनैः कथय कथमीयादिह तुलाम् ॥ ३४ ॥ दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा दयार्दा दीनानामुपरि दलदिन्दीवरनिभा । दहन्ती दारिद्रुमकुलमुदारद्रविणदा त्वदीया दृष्टिमें जननि दुरदृष्टं दलयतु ॥ ३५ ॥ तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी सदैव श्रीनारायणगुणगणौघप्रणयिनी । रवैर्दीनां लीनामनिशमवधानातिशयिनी ममाप्येतां वाचं जलधितनये गोचरयताम् ॥ ३६ ॥ प्रभाजालैः प्राभातिकदिनकराभापनयनं तवेदं खेदं मे विघट्यतु ताटङ्कयुगलम् । महिना यस्यायं प्रलयसमयेऽपि क्रतुभुजां जगत्पायं पायं स्वपिति निरपायं तव पतिः ॥ ३७ ॥ निवासो मुक्तानां निविडतरनीलाम्बुदनिभ- स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् । भृशं यस्मिन्कालागुरुबहुलसौरभ्यनिवहै: पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः ॥ ३८ ॥ विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणी करोन्नीतैरश्चन्मणिकलशमुग्धास्यगलितः । निपिञ्चन्तौ मुक्तामणिगणजयस्त्वां जलकण- नमस्यामो दामोदरगृहिणि दारिश्चदलिताः ॥ ३९ ॥ अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे लुटन्तं वालं मामविग्लगलद्वाप्पजटिलग।
काव्यमाला॥ - यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना- दाश्च्योतन्ती वभासे सुरसरिदमला वैजयन्तीव कान्ता । भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तम्भशोभां दधानः पातामेतौ पयोजोदरदलिततलौ पङ्कजाक्षस्य पादौ ॥ १२ यस्मात्पादादाश्श्योतन्त्यापतन्ती सुरसरिद्गगा । अमला निर्मलोदका कान्त वैजयन्ती पताकेव बभासे । किंलक्षणात् । द्यामाकामतः । अण्डकपाल दीर्घकृतादित्यर्थः । गरुडमणिर्मरकतमणिस्तन्मयी या शिला तद्रूपो यः केतु काश भूता यष्टिस्तद्वदाचरतीति तस्मात् । एवं वामपादं वर्णयित्वा दक्षिणं तथाणा दक्षिणः पादो भूमिष्ठः । भुवनं त्रैलोक्यं तदेव गृहं तस्मिन्वृहन्महान स्तर शोभां दधानः । त्रैलोक्यभवनोत्तम्भनस्तम्भ इव स्थित इत्यर्थः ।। पङ्कज क्षस्य हरेः पादौ तावेतो पातां पालयेताम् । अस्मानिति शेपः । पर्य तस्योदरं मध्यं तद्दलितं पराभूतं याभ्यां तादृशे तले ययोस्तौ । पयोजोदर । रतला वित्यर्थः ॥ पां आक्रामद्भयां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ वे याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम । तर ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपकेरुहाभ्यारं मनो तत्क्षणादेव यस्मिन्क्षणे बलिदैत्यदत्तोदकं हस्ते पतितं तदैव त्रिलार्व याभ्यामसुरसुरपती वैरोचनीन्द्री वलिशको युगपत्समकालमेव क्रमेण विपत्से भ्रंशतत्संपत्त्योरेकलधाम मुख्य स्थानं नीतौ प्रापितौ। विरोचनापत्यं वलिविर इन्द्रश्च संपद्धामत्वं नीत इत्यर्थः । अपिशब्दो विरोधद्योतकः । एकस्यामाक्रम विरुद्धोभयकार्ययोगो विरोधः। याभ्यामेवं कृतं ताभ्यामुभाभ्यामजितस्य वि पङ्केरुहाभ्यामहं मुहुः शश्वत्प्रणतिं नम्रतामुपगतः । तात्यादीनि पादवि ताम्र आरक्ते उदरे अधस्तले ययोः। अञ्चिताभ्यां पूजिताभ्याम् । ब्रह्मादिभि प्राज्यमधिकमैश्वर्यं भक्तेभ्यः प्रददत इति ताभ्याम् ॥ येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् । व्याप्ता विश्वंभरा यैरतिवितततनोविश्वमूर्तेर्विराजो विष्णोस्तेभ्यो महद्भयः सततमपि नमोऽस्त्वनिपङ्केरुहेभ्यः ॥ विश्वमूर्विराजो विराट्पस्य विष्णोस्तेभ्योऽप्यनिपङ्केरुहेभ्यः सततं सर्वदा नमोः नात । .
११२ काव्यमाला। श्रीमाञ्ट्रीमानसिंहक्षितिपतिजलधेरुद्तो भावसिंहः पूर्णः पीयूपभानुर्विलसति किरणध्वस्तदैन्यान्धकारः । म्फारस्फारस्तुपाराचलमुरतटिनीहंसहारानुकाराः कीतिज्योत्लाः पिबन्ति प्रतिदिशमनिशं यस्य विद्वच्चकोराः ॥ ४ ॥ यस्य स्फारासिधाराहतिदलितभुजभ्रष्टखड्गप्रमुष्टि- प्राच्योदीच्य[प्रतीच्य]प्रभृतिनृपतिभिर्दर्शिता पृष्ठलक्ष्मीः । हर्यादुत्तंसयन्ते दिशि दिशि सुदृशो भूरिशो यस्य नित्यं व्याकोशं कीर्तिपुप्पं चतुरुदधितटीवृक्षवाटीविलासि ॥ ५ ॥ रिङ्गत्तुगतुरंगबन्धुरखुरक्षुण्णक्षमामण्डल- क्षुभ्यद्भलिपरम्पराजलधरध्वरताचिंपि व्योमनि । दोग्णोर्यस्य करालकालरसनाकल्पा कृपाणीलता विद्युबल्लिरिवानिशं प्रतिदिशं लोकैरलोकि प्रभोः ॥ ६ ॥ यद्गन्धद्विपदानवारिभिरभूत्सङ्ग्रामभूः पकिला तस्यां वैरिकरीन्द्रमौक्तिकमयं वीजं च येनाहितम् । तस्मादाविरभूधशस्तरुरयं तस्योद्गताः कोरका- स्तारास्तेपु च पूर्णचन्द्रकपटादेकैक उज्जृम्भते ॥ ७ ॥ घूर्णन्ते तूर्णमेते कुलधरणिभृतो दिग्द्विपा दिग्विदिक्षु क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमुदितो मर्मणा कूर्मराजः । प्रस्थाने यस्य गर्जत्करटिघनघटासंभ्रमन्यञ्चदुर्वी- मूर्वी दर्वीकरेन्द्रः कलयितुमदितश्वासमाति बिभात ॥ ८ ॥ योऽसौ प्रत्यर्थिनारीनयनजलभरप्रोन्मिषन्नीरराशि- प्रोन्मीलत्कीर्तिचन्द्रः क्षितिपकुलमणि नुवंशावतंसः । यद्दोरुद्दामचापध्वनिजनितरुषो जामदग्यस्य राम- ज्यानि?षभ्रमेण भ्रमति विचलितस्यारुणा दिक्षु दृष्टिः ॥ ९ ॥ खेलन्ती व्योमगर्ने दिशि विदिशि मुहुनिष्पतन्ती हरन्ती शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं वर्धयन्ती ।
भावविलासः ।
११३
.
यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोपकण्ठं
प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमाविष्करोति ॥ १० ॥
यस्यामिः कोपपुञ्जे वसति खुरपुटे वाजिनां गन्धवाहो
लक्ष्मीः सलेहदृष्टौ कमठकुलमणेर्वाचि वाचामधीशा ।
रुक्षे कौक्षेयका क्षपितरिपुगणे कोपनोऽसौ कृतान्तः
कस्तं श्रीभावसिंह प्रवलमखभुजामाश्रयं नाश्रयेत ॥ ११ ॥
रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराञ्छिश्रिये
स्वीयाङ्के कमलां निधाय विदधौ निद्रां हरिधरधौ ।
यस्मिन्दित्सति भूरिदातरि नृणां भालस्थले दुर्लिपी-
/डानम्रशिराः कमण्डलुजलं जग्राह माष्टुं विधिः ॥ १२ ॥
पादे कङ्कणमर्पयन्ति करयोर्मजीरमातन्वते
काञ्चीदाम च कुर्वते कुचतटे हारान्नितम्बेषु च ।
नेपथ्यग्रहणे बताग्रजनुषामणीदृशो भूरिशो
यस्मिन्दानगुरौ महीसुरतरौ विश्वंभरां बिभ्रति ॥ १३ ॥
फूत्कारेण कुमूर्छितस्य कटुभिः कीटान्तराणां रवै-
लानां रुदितारवैरपि च ये निन्युर्विनिद्रा निशाः ।
यस्मिन्दातरि यापयन्ति त इमे हेपास्वनैर्वृहितै-
र्वामानां करकङ्कणध्वनिभिरप्युजागरा यामिनीः ॥ १४ ॥
यस्मिन्दित्सति दातरि द्विजनुषो दर्भाङ्कुराकर्षण-
क्रूरैः पाणितलैर्वधूस्तनतटे बध्नन्ति मुक्तास्रजः ।
शीतोष्णश्रमकर्कशैरतिकृशैरङ्गैः प्रियालिङ्गितः
कान्ता रुक्मपरिच्छदाः शशिनिभाः शय्याः समध्यासते ॥ १५ ॥
ऐश्वर्य नहुषस्य विष्णुविषयश्रद्धास्बरीषस्य सा
पाण्डित्यं धनुषश्च पाण्डुजनुषो गाम्भीर्यमम्भोनिधेः ।
दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा
तस्य श्रीयुतभावसिंहनृपतेः साम्यं समुन्मीलतु ॥ १६ ॥
११४
काव्यमाला।
काव्यालापकलाकलापकलनावैदग्ध्यदीक्षागुरो-
भूमीकल्पतरोरशेषजनतासंगीतकीर्तेरिह ।
तस्याज्ञामधिगत्य यः कविकुलानन्दाय संपादितः
संदर्भस्तममत्सराः कृतधियः कुर्वन्तु कर्णातिथिम् ॥ १७ ॥
जिलो लोकः कथयति पुरो हन्त हित्वा गुणौघा-
नम्भः क्षारं गुणगणनिधेस्तस्य रत्नाकरस्य ।
विप्वक्छिद्रानुसरणसमारूढसर्वेन्द्रियाणां
दोपे दृष्टिः पिशुनमनसां नानुरागो गुणेषु ॥ १८ ॥
गुणिनां गुणेषु सत्स्वपि पिशुनजनो दोषमात्रमादत्ते ।
कुसुमे फले विरागी क्रमेलकः कण्ठकौघमिव ॥ ११९ ॥
सुजनानामपि हृदयं पिशुनपरिप्वङ्गमलिनमिह भवति ।
पवनः परागवाही रथ्यासङ्गे रजस्वलो भवति ॥ २० ॥
लोक एप गतलोचनत्रपः कस्य वा न विवृणोति वाच्यताम् ।
लोचनोत्सवमशेपजीवनं यत्कलङ्कयति चन्द्रमण्डलम् ॥ २१ ॥
पिशुन समारोहसि किं सुजनसमाजानभीष्टसौजन्यः ।
करटोऽपि किं नु लभते कलकण्ठपदं रसालमौलिगतः ॥ २२ ॥
द्विरदरदनप्रौढाघातान्न ताशसंभ्रमः
परशुपतनादस्य त्रासो न हन्त तथाविधः ।
अयमविरतं क्रोडे क्रीडन्हताशहुताशनो
दलयति यथा मर्मात्यर्थं तरोन तथापरः ॥ २३ ॥
आपातमलिनिमासौ सहृदयहृदये न दोषाय ।
अङ्गारयोगजन्मा निसर्गशुद्धे यथा स्फटिक ॥ २४ ॥
केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तौ
विश्वं तोयैः सपयितुमसौ केन वा वारिवाहः ।
विश्वानन्दोपचयचतुरो दुर्जनानां दुरापः
श्लाघ्यो लोके जयति महतामुज्वलोऽयं निसर्गः ॥ २५ ॥
भावविलासः । ११५ कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगभैः करैः कस्माद्वा जलधारयैष धरणिं धाराधरः सिञ्चति । भ्रामं भ्राममयं च नन्दयति वा कस्मात्रिलोकी रविः साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ॥ २६ ॥ तोयानामधिपतिराकरो मणीनां शैलानामभयपदं महान्महद्भयः । अग्राह्यो भवसि यदि त्वमेव तावत्को नुस्खाजगति तदा जनावलम्बः ॥ २७ ॥ कुम्भोद्भवस्य करपुष्करकोषकोणे पाथोनिधौ विधिवशाद्विपदं प्रयाते । ये दुर्लभास्त्रिदिवलोकविलासिनीनां ते पङ्कसीमनि महामणयो लुठन्ति ॥ २८ ॥ गरलं यदि जलराशेरिदमुत्पन्नं किमेतेन । तेनैवास्य तु महिमा यदभूत्पीयूषपारिजातादि ॥ २९ ॥ पीयूषपारिजाताद्याः केनाभूवन्पयोनिधेः । रत्नैरेव तथाप्येष रत्नाकरपदं गतः ॥ ३० ॥ गुणिनः क इव विशेषो गुणरहिते जननि निरणायि । येन विहाय गुणाश्रयमगुणे गाढानुरागासि ॥ ३१ ॥ हरिभामिनि सिन्धुसंभवे क्रमले किं कथयामि ते गुणान् । अनुरज्यसि हा जडे जने गुणगौरे पुरुपे विरज्यसि ॥ ३२ ॥ मधूके माध्वीकं पिबसि शतपत्रेऽभिरमसे मधूलीपालीभिर्मधुप सहकारे विहरसि । बसन्ते वासन्तीमधु मधुरमश्नासि बहुशो दुरावशोऽयं ते तदपि कुटजे यद्विचरसि ॥ ३३ ॥ मधूलीमन्विप्यन्मलयपवनान्दोलितले मुधा मुग्धः कुन्दनबक्रनिकुरम्बे विचसि । ततः कान्तादन्तच्छदनवसुधासारमाधुरे वधान प्रेमाणं मधुकर नवाम्मोजमधनि || ३४ .
काव्यमाला। निःशकं गजपतिगण्डदानधारामाराध्य अमर दिनान्यमून्यनैषीः । यावन्न स्फुरति करालकर्णतालस्तावत्त्वं नवनलिनीवनीमुपेयाः ॥ ३५ ॥ मधु नवसुधाखादं तावन्निपाय्य निरन्तरं निशि निशि निजकोडे कामं ययासि निवेशितः । सरसि किमु तामेतामद्य त्वदेकपरायणां भ्रमर नलिनी दिक्षु भ्राम्यंल्लताशतलम्पटः ॥ ३६ ॥ इह रूपमात्रसारे चित्रकृते कनककहारे । न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि ॥ ३७॥ न चेतधाम्पेयस्तबकनिकरम्वेऽभिरमते समुत्कण्ठा काचिन्न च विकच'नागमुकुले । न मल्लीवल्लीनामपि मधुनि वाञ्छा मधुलिहः समाघ्रातो नूनं यदवधि लवङ्गीपरिमलः ॥ ३८ ॥ श्रम स्वैरं प्रातर्भमर नवयूथीषु बहुशो मधूलीमन्विष्यन्कुमुदवनवीथीपु विचर । वसन्तप्रारम्भस्फुरितमधुसंभारसुभगो न ते विस्मर्तव्यः वचन सहकारव्यतिकरः ॥ ३९ ॥ आखाद्यात्र मधूनि पट्पद मदं मा गाः कपायाङ्करै- माकन्देन पिकान्प्रतारितवता मूर्धानमध्यासितः । प्रत्यासन्नतमे पिकेऽपि भवते येनार्पिता तादृशी माध्वी तस्य विवेकविच्युतिरियं साद्गुण्यमेतन्न ते ॥ ४० ॥ नीरजान्यपि निपेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि । चन्चलत्वमिह चञ्चरीक ते साहजं कथमिदं विमोक्ष्यसि ॥ ४१ ॥ पीतमत्र मधु यापिता क्षपा भृङ्ग सर्वमचिरेण विस्मृतम् । हीयमानसुपमां हिमागमे पद्मिनी यदिह नावलोकसे ॥ ४२ ॥ एणीदृशः श्रवणसीम्नि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य ।
भावविलासः । ११७ त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत्तु तवैव हानिः ॥ ४३ ॥ गलितानि मधूनि सर्वतो विनिकीर्णानि दलानि मारुतैः । अधुनापि न हन्त माधवीं मधुपैनामिह नाम मुञ्चसि ॥ ४४ ॥ उपानीतं दूरात्परिमलमुपाघ्राय मरुता समायासीदस्सिन्मधुरमधुलोभान्मधुकरः । परो दूरे लाभः कुपितफणिनश्चन्दनतरोः पुनर्जीवन्यायाद्यदि तदिह लाभोऽयमतुलः ॥ ४५ ॥ भ्रातर्धाम्य लवङ्गवल्लिषु पिब स्वैरं नवाम्भोरुहे माध्वी माधविकामधूनि मधुराण्याकण्ठमाखादय । कस्मादापतितोऽसि केतकमिदं यस्मिन्नुदीर्ण रजो दृष्टि लुम्पति सूचयः प्रवितताः कृन्तन्ति मर्माण्यपि ॥ ४६ ॥ सहसा समये समीयुषो रुचितामङ्गविशेषशून्ययोः । इह षट्पदपङ्कजन्मनोर्न मनोग्लानिरसावुपैष्यति ।। ४७ ।। नालिङ्गिता नवलवङ्गलता न चापि संभाविता विटपिनः कलगुञ्जितेन । आसादिता सपदि काचन रीतिरन्या माकन्दकोरकमुदीक्ष्य मधुव्रतेन ॥ ४८ ॥ किं न पश्यसि महेन्द्रदिखे शीतदीधितिरसावुदञ्चति । मीलितैव नलिनीह मा कृथास्तन्मधुव्रत मुधा गतागतम् ॥ ४९ ॥ कुन्दकुमलमुपास्यतां त्वया यत्र शीतसमयोऽतिवाहितः । चन्चरीक परिहीणसौरभा रोचते न भवते सरोजिनी ॥ ५० ॥ अये मधुप मा कृथा वत वृथा मनोदीनतां तुयारसमये लताशतनिपेवणव्याकुलः । इयं पुरत एव ते सरसपुष्पमासोदये सालनबमञ्जरी मधुझरी जरीजृम्भते ॥ ५१ ARH
११८
काव्यमाला।
चञ्चरीक चतुरोऽसि चन्द्रिकावैभवे कुमुदिनीं निपेवसे ।
भास्करे जयति पुष्करे करैरुन्मिपन्नवदलेऽनुरज्यसि ।। ५२ ।।
इतो वसन्तहेमन्तद्वैराज्यादिव दुर्मनाः ।
न कुन्दे नापि माकन्दे पदं वध्नाति पट्पदः ॥ १३ ॥
मा गाः खेदं कमल किरणैरेप पीयूपगड़ेंः
ग्रालेयांशुर्यदिह कुमुदामोदमाविष्करोति ।
नानुग्राह्यं यदसि महतामीदृशानामयं ते
मन्ये कालादिह परिणतः प्राक्तनो दुर्विपाकः ॥ १४ ॥
यावत्त्वां न खलु हसन्ति कैरविण्यो यावत्त्वां तरणिकराः परामृशन्ति ।
यावत्ते मधुविभवो नवोऽस्ति तावन्माध्वीकं वितर सरोज पट्पदेभ्यः॥५५॥
रुचिरतिरुचिरा शुचित्वमुच्चैः शिरसि धृतः स्वयमेव शंकरण ।
कमलिनि मलिनीकरोपि कस्मान्मुखमिदमिन्दुमुदीक्ष्य लोककान्तम् ।। ५६॥
नलिनि निपुणतां वदामि किं ते भ्रमरविलासविशेषलालसायाः ।
त्रिभुवननयनोत्सवं यदिन्दं न नयसि हन्त दृगन्तवम॑सीमाम् ।। ५७ ॥
न कुले नापि च शीले न चापि रूपेऽस्ति कश्चिदुत्कर्षः ।
यत्पुष्णासि मिलिन्दानरविन्द महत्त्वमेतत्ते ॥ ५८ ॥
वैदग्ध्यं मृगलाञ्छनस्य मनसो निर्माति मे न व्यथां
नो दूये चिरलालिता मधुलिहः सर्पन्ति यन्नान्तिकम् ।
जल्पन्तीव दुरक्षराणि मधुपश्रेणीध्वनिच्छअना
यत्कादम्ब कुमुदती हसति मां तन्मे मनस्ताम्यति ॥ १९ ॥
मरन्दलोभान्न मिलिन्दमाला भेजे न वाला श्रवणे निनाय ।
हा हन्त नालीकमिदं दुरन्तपालेयपाली कवलीचकार ॥ ६० ॥
एकस्मिञ्जनिरावयोः समजनि खच्छे सरोवारिणि
भ्रातः किं च सहैव कानिचिदहान्यत्र व्यतीतानि नौ ।
लब्धं तामरस त्वया मृगदृशां कर्णावतंसास्पदं
शेवालं विलुठामि पामरवधूपादाहते पाथसि ॥ ६१ ॥
भावविलासः । ११९ विभ्रम्य काननमसौ दिवसावसाने त्वय्येव षट्पदयुवा हृदयं बबन्ध । राजीव चेन्मलिनिमानमुरीकरोषि कः स्यादहो मधुलिहामधुनावलम्बः ॥ ६२ ॥ मिलसि मनोज्ञे मनसा मालति मलिनेन वारिवाहेण । कुसुमाकरे विरज्यसि मुग्धे वैदग्ध्यमीदृशं कस्मात् ॥ ६३ ॥ सौरभ्येण समावृणोषि ककुभः पुष्णासि पुप्पंधयां- ल्लूतातन्तुवृतस्तथापि कियतीस्त्वं यापयेर्यामिनीः । अस्मिन्दाशपुरे पुरस्तत इतो विन्यस्तचित्रामिषे मालाकारमृते लवनि ललितान्कस्ते गुणाञ्ज्ञास्यति ॥ ६४ ॥ संदर्शयख मधुवैभवमस्ति यत्ते रे कुन्द किं दुरभिमानमुरीकरोषि । एतन्न चेतसि करोपि सरोजबन्धुः पुप्पंधयोऽपि मयि सौरभमातनोति ॥ ६५ ॥ एष पट्पदयुवा यदायताः कुन्द्र यापयति यामिनीस्त्वयि । दुर्वहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि ।। ६६ ॥ आखाद्यैष कपायमङ्कुरमुरुप्रेमानुबद्धाशयो माकन्दस्य यशांसि कोकिलयुवा निर्माति दिग्भित्तिषु । माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को ब्रूतामसतां सतां द्विजनुपां मर्मातिगं चष्टितम् ।। ६७ ।। न पश्यति लवङ्गिकां न च निपेवते मालती रसाल रसिकस्तथा न नलिनीवनीमञ्चति । भवन्तमयमीहते मधुपलक्षपक्षानिलाः क्षिपन्ति यदमुं जने जयति नबवायशः ॥ ६८ ॥ शश्वन्निसर्गमलिनाः सहकार काम लुण्ठन्ति तान्यपि मधून्यहृद्द द्विग्फाः ।
१२०
काव्यमाला।
युक्तं न तत्तव कपायरसप्ररोहै-
रेतान्प्रतारयसि यत्कलकण्ठयूनः ।। ६९ ॥
स्निग्धायाः फलिनो दलत्परिमलैः पुप्पैर्मधुस्यन्दिनो
नानन्दाय भवन्ति किं वनभुवां भूमील्हो भूरिशः ।
माधुर्यं मधुनस्तवैव विदितं माकन्द मन्यामहे
माध्वीमर्मविदो दृढं मधुलिहः स्यूता यतो मर्मणि ॥ ७० ॥
विमुक्ता वासन्ती वकुलकुसुमे नापि मिलितं
व्यलोकि व्याकोशः क्षणमपि न कोऽपि क्षितिल्हः ।
यमालोक्योत्कण्ठातरलमिह भृङ्गेन चलितं
विदूरान्माकन्दः स खलु दलितो यूथपतिना ॥ ७.१ ॥
उन्मीलयन्ति कुसुमानि मनोरमाणि
के नाम नात्र तरवः समयोचितानि ।
कस्येदृशं कथय दोहदमस्ति तस्य
यादृग्विनिर्मितमशोकमहील्हस्य ॥ ७२ ॥
गर्वायसे विकचकोरकपुजगुञ्ज-
दुद्वृत्तषट्पदघटाविभवेन किं नु ।
वामभ्रुवां चरणताडनदोहदानि
किं नाम न सरसि तावदशोक तानि || ७३ ॥
करट कलकण्ठशाबकमेनं पुष्णासि कि मुधायासैः ।
अयमिह पुरा सपक्षः परिचयमपि ते न जानीते ॥ ७४ ॥
कलयसि मृणालकन्दं विहरसि विसिनीदलेषु सानन्दम् ।
अयि राजहंस शंस त्यजसि मनोहारि कथमिदं वारि ॥ ७९ ॥
नेदं सरः सरसवारि न वारि वा
नैतन्मधूनि मधुपाः सहवासिनो वा ।
हेमारविन्दवनवासविलासभाजो
रे हंस मानसजुषस्तव मानसेऽपि ॥ ७६ ॥
भावविलासः। १२१ 7 अत्र खातमिहोपभुक्तममलं भूयो मृणालीदलं याभ्यां शश्वदिहान्वभूयत सुखं कल्लोलहिन्दोलजम् । '. कष्टं तावशनिध्वनिप्रणयिभिः प्रौढानिलास्फालितैः स्फाराम्भोधरमण्डलैर्विघटितौ चक्राङ्गचक्रायौ ॥ ७७ ॥ दूरादेष निशां निरस्य ककुभामुन्मूल्य गाढं तमः प्रेमाणं युवयोर्व्यनक्ति तरणिविश्लेषदुःखं नुदन् । एतस्याङ्ग रथाङ्ग चण्डमहसो मा गाः समीपं ब्रज- प्रीतिं हास्यसि निप्पतिष्यसि पुनर्निग्धपक्षः क्षणात् ॥७८|| आयातैव विभावरी विभजते नो निर्दयोऽयं विधिः सस्तापाङ्गि रथाङ्गि पश्यसि मुधा चित्तव्यथां मा कृथाः । दैवं संप्रति गर्हयाव बहुशो निर्माय येनावयो- र्गाढं प्रेम विनिर्मितः प्रतिनिशं विच्छेदन्दो महान् ॥ ७९ ॥ कूपेऽम्भांसि पिबन्तु कूपरसिका बापीयु बापीजुषो नादेयाश्च पतत्रिणोऽपि नितरामातादयन्तां पयः । सारङ्गस्य नभोनिवेशितशः किं तेन यावन्मही- मम्भोभिः स्वपयन्नसावुदयते न प्रावृषेण्यो वनः ।। ८० || तापं लुम्पसि सर्वतो वितनुषे मुक्ताफलं शुक्तिषु क्षेत्रान्सिञ्चसि किं च पल्लवयसि श्रीखण्डमुठ्यान्द्रमान । क्षारं क्षारमिदं जलं जलनिधेरादाय जीमून हे विश्वं जीवयसि ब्रवीतु जगति प्रोटोऽपि कन्ने गुणान 11 42 || ऊपरेपु विवरेपु चाम्भसां वीचयोऽपि भवता प्रवर्तिताः । क्षेत्रसीमि निहितातु विन्दवो वाग्विाह मत्रता नबो नयः ।।८२ संपादिताः सपदि दद्धन्दीबनादा यत्कोकिलाकलस्तानि निराकृतानि ! निप्पीतमम्बु लवणं न तु देवनद्याः पर्जन्य तेन भवना न कृती विक्र: 12 ११ १२२ काव्यमाला। यत्तादृशेषु नलिनेषु न पक्षपातो जातो वत स्फुटमसौ कुटजानुरागः । विश्वकजीवनपटोरपि वारिवाह दुर्वारवायुवशगस्य न तद्विचित्रम् ॥ ८४ ॥ नैवामी प्रभवन्ति चातकतृषाविच्छेदसंपत्तये प्रागल्भ्यं दधते न हन्त हरितां संतापशान्तावपि । प्रक्षामास्तरणित्विषोऽपि न तिरोधातुं समर्थाः पुनः क्षुद्राः पिच्छलयन्ति केवलमपां लेशैः पथस्तोयदाः ॥ ८५ ॥ उद्दामधुमणिमयूखमूर्छितानामेतेषामहह महीरुहामिह स्यात् । आलम्बः क इव दिवं भूवं पयोभिः सिञ्चन्तं जगति विहाय वारिवाहम्।।८६॥ संतापं जगतो विलुम्पसि धरां धाराभिरासिञ्चसि क्षेत्राण्यङ्कुरयस्यमून्मुकुलयस्सहाय नीपद्रुमान् । सारङ्गस्य नभोनिवेशितदृशश्चपुटीपूरणे वैमुख्यं व्रजसि त्वमम्बुद यदि प्रत्येतु को नाम तत् ॥ ८७ ॥ तानि तानि कमलानि तज्जलं तानि षट्पदकुलानि ते खगाः । सर्वमेकपद.एव विच्युतं पङ्कशेषमचिरादभूत्सरः ।। ८८ ॥ नावर्तो न च तरलास्तरङ्गमाला नेदानी जलरयजा रवाः करालाः । सैव त्वं तटिनि तटद्रुमान्निपात्य प्रौढानामपयशसामिहासि पात्रम् ।। ८९ ।। वापी कापि कदापि न श्रुतिचरी को वेद कीहक्सरो व्योमाम्भोजवनीव नात्र तटिनी कैर्नाम न ज्ञायते । हंहो पान्थ दुरन्तसाहसभरेणेहागतं चेन्मरौ मण्डूकाकुलपङ्कसंकुलतलादैन्धोः कबन्धं पिब ॥ १०॥ मूलं कूलमहीरुजां विरुजति क्लिश्नाति तुङ्गास्तटी- विश्लेषं च रथाझ्योर्वितनुते राजीविनीः कर्षति । श्यामाः शैवलवल्लरीवितुदते मनाति वीचीः क्षणा- किं तद्यन्न करोति मारुतवशादम्भोधरः प्रावृषि ॥ ९१ ॥ १. कूपाजलं पिव.
भावविलासः ।
१२३
.
राजीविनीविपिनसौरभसारगन्धि
योऽभूद्वसन्तदिवसेषु जनैकबन्धुः ।
रथ्यारजांसि विकिरन्विरुजन्नगेन्द्रा-
नुन्मत्तवद्धमति पश्यत सोऽद्य वायुः ॥ ९२ ॥
गन्धवाह गहनानि गाहसे गन्धजातमिह संचिनोषि च ।
नैपुणच्युतिरियं च तावकी यन्न तत्र सदसद्विवेचनम् ।। ९३ !
निधेः कलानामपि रीतिरेषा मर्माणि मे संस्पृशतीव भूयः ।
कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु ॥ ९४ ।।
रञ्जिता न ककुभो निवेशिता नाचिषो बत चकोरचञ्चुषु ।
कष्टमिन्दुरुदयन्निपीयते दारुणेन तमसा बलीयसा ॥ ९५ ॥
लक्ष्मीकेलिगृहे कुशेशयदृशां पाणिद्युतिद्रोहिणि
श्यामासूक्तसुधासहोदरमधुप्रस्यन्दसंदोहिनि ।
जीवातुस्त्रिदिवौकसां त्रिजगतामाप्यायनं चन्द्रम-
स्त्वं चेदम्बुरुहे न रज्यसि गुणश्लाघा तदस्तं गता ॥ ९६ ॥
श्रेयान्विधोर्बहुलपक्षपरिक्षयोऽपि
नो पूर्णतापि जलधेरिह वर्णनीया ।
यद्वारि न स्पृशति हन्त पृथग्जनोऽपि
यस्यामृतैर्मखभुजोऽपि मुदं भजन्ते ॥ ९७ ॥
आरोपितः शिरसि यः स्वयमीश्वरेण
सिक्तः सदैव सुरशैवलिनीजलेन ।
न क्षामतां तदपि मुञ्चति सोऽयमिन्दु-
रेतद्व्यनक्ति दुरतिक्रममेव दैवम् ।।.९८ ॥
इन्दोनिन्दतु नाम धाम नलिनी निन्दन्तु चक्राह्वया
नैवानेन सुधाकरस्य सुपमा हानिर्न वा दुर्यशः ।
एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते
यज्योत्लासु चिरं चकोरपरिषच्चनूपुटं न्यस्यति ॥ ९९ ॥
१२४ काव्यमाला। या महेशशिरसो विभूषणं या त्रिलोकजनलोचनोत्सवः । सेयमिन्दुकलिका दिनागमे तापिता कमिव नातितापयेत् ॥ १० ॥ उत्साहं वनितासखेषु विरहग्लानेषु दैन्यं शशी शोक कोककुटुम्बिनीषु दिशति क्षेमं चकोरीषु च । लक्ष्मी लुम्पति पङ्कजस्य कुमुदामोदाय संपद्यते तबीजं ध्रुवमत्र पूर्वविहितं द्वेषस्य रागस्य च ॥ १०१ ।। धुनोति ध्वान्तानि व्यपनयति नीहारपटलं कुलं राजीवानां दलयति रथाङ्गं रमयति । जगद्व्यापी देवो जनयति जनानां च नयनं न याति स्थेमानं यदि तदिह दैवं जयतु कः ॥ १०२ ॥ अरविन्दानि विन्दन्ति व्यथां विरहतो रवेः । तेषां विरहतस्तस्य न जाने कीदृगन्तरम् ॥ १०३ ॥ येन शैशवपदे मदेभरागण्डसीम नखरैविखण्डितम् । यौवनोत्सवमवाप्य केसरी केषु दर्शयतु सोऽद्य पौरुषम् ॥ १०४ ॥ भूमिपालभवने स केसरी पञ्जरे स्फुरति रुद्धपौरुषः । उन्मिषत्सु करटेषु कुम्भिनां कः करोति करजार्पणोत्सवम् ॥ १०५ ॥ एतस्य केसरिपतगिरिकाननानि तानि सरन्ति परमस्य पराक्रमस्य । अद्यातिदुर्वहजराविकलस्य को नु प्रत्येतु तानि चरितानि चिरंतनानि ।। १०६ ॥ मनं मत्तैः सरसि करिभिविद्रुतं द्वीपिमुख्यै- लीनं कुञ्जे शबरपतिभिर्मूर्छितं रङ्कुयूथैः । आकण्योंच्चैरिह मृगपतेर्जुम्भमाणस्य नादा- न्कैः कैः किं किं न खलु चकितैः काननेऽस्मिन्नकारि ।। १०७ ॥ खैरं सैरिभयूथपैरिह सरः शृङ्गेण विक्षोभित तावन्यकुकुलं च हुंकृतिशतैर्विद्रावितं द्वीपिभिः ।
देरण्डे स कथं हिमनगद कण्डूयितुं काइन । भावविलासः। १२५ हेलाक्षिप्तपदे पराक्रमनिधावुज्जृम्भमाणे हरौ चित्रं सैव तदैव चित्रलिखितेवासीदरण्यस्थली ॥ १०८ ॥ माद्यत्कुञ्जरकुम्भकूटविगलन्मुक्तावदातान्तराः किंचित्कोपकषायितेन मनसा येनाद्रिपादाः कृताः । सोऽयं संप्रति दूषिकाकुलदृशा कष्टां दशामागतः सिंहः पांसुभिरेणशावकखुरोन्मुक्तैः समाकीर्यते ॥ १०९ ॥ गर्भान्हठेन दलयन्ति करेणुकानां गण्डूषयन्ति गजगण्डतटीमदाम्भः । यद्दर्जितानि जरया मुषितः स एव कण्ठीरवः परिभवं सहते मृगेभ्यः ॥ ११० ॥ मीलितेक्षणयुगं विगाहसे वारणेन्द्र गहनं न वीक्षसे । अन्तिके तृणविमुद्रिताननः कूप एष खलु दुस्तरस्तव ॥ १११ ॥ शैवलानि शिरसा प्रतीच्छतः पद्भिरेव कमलानि लुम्पतः । स्वैरिणस्तव सरोविहारिणो वारणेन्द्र विदितो न वो नयः ॥ ११२ ॥ नैवावासमहीरुहं विरहयंल्लीलासरो न त्यज- विश्लिष्यन्न करेणुकाभिरभितः श्लिष्यन्न वा कण्टकान् । एवं नाम विदूयते मरुमहीमासाद्य मध्यंदिने संतप्तैः कलभैर्यथा करिपतिः कान्तारगस्ताम्यति ॥ ११३ ॥ न स्वां करेणुमपि नापि निजान्किशोरा- न्नात्मानमेष परिशोचति वारणेन्द्रः । दावाग्निमग्नतनुरत्र यथोपसन्ना- न्दानार्थिनो मधुकरानधिरूढभावान् ॥ ११४ ॥ हेलाकुब्मलितेक्षणेन करटं कण्डूयतोन्मूलिताः शाखाचुम्बितचन्द्रबिन्यवपुपो हो भूरिशः । छिन्ना कुम्भविघट्टितैगिन्टिी बन्नाद्यन्वला-
१२६
काव्यमाला॥
रे यूथनाथ गहनानि विगाहमानो
मनासि पादपशतानि भिनत्सि शैलान् ।
किं पौरुषाणि न बदामि हरेः परोक्ष
किं तत्समक्षमथ तानि पलायितानि ॥ ११६ ।।
लीयन्तां मशकास्तृणेषु विहगा गुच्छेषु गुल्मेषु वा
बल्लीषु भ्रमराः क्षुपेषु सृमराः श्वश्रेषु च श्वापदाः ।
मध्येऽह्नि द्युमणौ महांसि खदिराङ्गारोपमान्युत्किर-
त्युत्तप्तस्य मरौ परं करिपतेर्नास्त्येव विश्रामभूः ॥ ११७ ।।
सरसि न सहसा विनिष्पतेस्त्वं वहिरमलं कलयन्विसारि वारि ।
द्विरदपरिवृह प्ररूढपङ्के कति करिणोऽत्र मदालसा न मनाः ॥ ११८ ॥
आधोरणेन सुतरां च निपीडितोऽसि
धिक्छृङ्खलामपि हठादिह लम्भितोऽसि ।
श्वभ्रोदरे कलमलुब्धमना निपत्य
रे यूथनाथ सहसे बहुयन्त्रणानि ॥ ११९ ॥
साधो किमाधोरण यूथनाथमङ्गुष्ठकेनातितरां दुनोषि ।
नो चेदयं वेद निजानुभावं तज्ज्ञस्य ते कर्तुमिदं न युक्तम् ॥ १२० ॥
तीर्णः कथं वनकिरातशराभिपाता-
न्मुक्तः कथं कथमपि क्षुधितात्तरक्षोः ।
दुर्दैववैभववशान्मृगशावकोऽय-
मुद्दामदावदहने गहने निमग्नः ॥ १२१ ॥
कस्तूरिकाहरिण मुच्च वनोपकण्ठं
मा सौरभेण ककुभः सुरभीकुरुष्व ।
आस्तां यशो ननु किरातशराभिपाता-
त्रातापि हन्त भविता भवतो दुरापः ॥ १२२ ॥
बिलपति तनुते गतागतानि स्पृहयति न व्यथिता कुशाङ्कुरेभ्यः ।
अचकमत निरीक्ष्य रुद्धमेणी हरिणमरंतुदजालबन्धनानि ॥ १२३ ॥
भावविलासः । १२७ त्वरितेन तरक्षुदर्शनान्निजशावोऽपि मनाङ् न चीक्षितः । अधुना हरिणीषु हन्त ते वलते कोऽपि कुरङ्ग विक्रमः॥ १२४॥ कुरु कुञ्चितचिल्लि पामराणां न समाजे सरसानि कौशलानि । स्फुटदर्शनमत्र दृग्विलासो न तु वैदग्ध्यमतिस्फुटैव वाणी ॥ १२५॥ सूर्याचन्द्रमसौ घनैरतिघनैरेतौ विलुप्तद्युती स्वच्छन्दं मलिनाः परं जलमुचो वर्पन्ति गर्जन्ति च । तुल्या एव सरित्समुद्रसरसीकुल्या बभूवुः क्षणा- कालः क्रीडति कौतुकं विरचयन्कस्मै किमाचक्ष्महे ॥ १२६॥ अतुलरूपगुणोचितयोगयोः कमलिनीशशिनोरसमागमात् । अपयशो विधिना निजमर्जितं विनिहिता च जनस्य हृदि व्यथा॥१२७॥ परेषु लोकेषु विचिन्त्य याचनां परोऽपि को नाम न यातु नम्रताम् । त्रिलोकनाथोऽपि यया दुरन्तया हठादयं वामनतामनीयत ॥ १२८ ।। लभते लघुरप्येष सपक्षो लक्षमाशुगः । पक्षहीनतया हन्त न धनुर्गुणवानपि ॥ १२९ ॥ मणिरयमनुष्ण इति ते मनसीलायामुदेतु नाश्वासः । अचिरेण तरणिकिरणव्यतिकरमात्रेण दन्दहीत्येपः ॥ १३० ॥ घनपांसुविधूरसांशुराशिर्न मणे तापयसे मुधावधान । अधिचत्वरवीथि पामरीणाममरीदुर्लभ कस्तव प्रकारः ॥ १३१ ।। ोऽसि चेत्कनकसूत्रनिवेशनाय मुक्ताकलाप किमतो भवतो विषादः । यत्पञ्चबाणजयमङ्गलहेमकुम्भे कुम्भस्तनीस्तनतटे भवितानुपङ्गः ।। १३२ ॥ येनाकारि महीभृतामविरतं कण्टेपु लीलायित येन प्रापि सरोजसुन्दरदृशां तुम्तनालिझनमः । जातं येन गजेन्द्रगण्डयुगले साधारणं गुनया मुक्तादाम तदेव पामरपुरे नावाप कां क्रां दशाम् || १३६ १. कुञ्चितश्रु यथा स्यात्. चिल्लीशन्दो श्रृवाचकः, २८ काव्यमाला। अन्यापदेशविनिवेशविदग्धबुद्धि- श्रीभावसिंहनरसिंहनियोगयोगात् । संपादितो विविधभावविकासमाजां प्रीत्यै भृशं भवतु भावविलास एषः ॥ १३४ ॥ सद्गुणानां समुद्रेण रुद्रेण ग्रथिता गुणैः । कण्ठस्था श्लोकमालेयं केषां न कुरुते श्रियम् ॥ १३५ ॥ विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् । काव्यालापविदग्धानां मुदं निर्मातु निर्मितिः ॥१३६ ॥ इति विद्याविलाससूनुन्यायवाचस्पतिश्रीरुद्रकविकृतो भावविलासः समाप्तः । महाकविश्रीक्षेमेन्द्रकृता चारुचर्या । श्रीलाभसुभगः सत्यासक्तः स्वर्गापवर्गदः । जयतात्रिजगत्पूज्यः सदाचार इवाच्युतः ॥ १॥ ब्राझे मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः । प्रातः प्रबुद्धं कमलमाश्रयेच्छ्रीर्गुणाश्रया ॥ २ ॥ पुण्यपूतशरीरः स्यात्सततं स्नाननिर्मलः । तत्याज वृत्रहा लानात्पापं वृत्रवधार्जितम् ॥ ३ ॥ न कुर्वीत क्रियां कांचिदनभ्यर्च्य महेश्वरम् । ईशार्चनरतं श्वेतं नाभून्नेतुं यमः क्षमः ॥ ४ ॥ श्राद्धं श्रद्धान्वितं कुर्याच्छास्त्रोक्तेनैव वर्त्मना । भुवि पिण्डं ददौ विद्वान्भीष्मः पाणौ न शंतनोः ॥ ५ ॥ नोत्तरस्यां प्रतीच्या वा कुर्वीत शयने शिरः । शय्याविपर्ययादों दितेः शक्रेण पातितः ॥६॥ अथिभुक्तावशिष्टं यत्तदनीयान्महाशयः । १. सत्ये सत्यभामायां चासक्तः. २. इन्द्रः. ३. श्वेतो नाम मुनिः. तत्कथा लिङ्गपुराणे पूर्वार्ध त्रिंशन्मितेऽध्याये द्रष्टव्या.
चारुचर्या । १२९ श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥ ७ ॥ जपहोमार्चनं कुर्यात्सुधौतचरणः शुचिः । पादशौचविहीनं हि प्रविवेश नेलं कलिः ॥ ८ ॥ न संचरणशीलः स्यान्निशि निःशङ्कमानसः । मौण्डव्यः शूललीनोऽभूदचौरश्चौरशङ्कया ॥९॥ न कुर्यात्परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् । हतो दशास्यः सीतार्थे हतः पन्या विदूरथः ॥ १० ॥ न मद्यव्यसनी क्षीवः कुर्याद्वेतालचेष्टितत् । वृष्णयो हि ययुः क्षीबास्तृणप्रहरणाः क्षयम् ॥ ११ ॥ ईर्ष्या कलहमूलं स्यात्क्षमा मूलं हि संपदाम् । ईर्ष्णदोषाद्विप्रशापमवाप जनमेजयः ॥ १२ ॥ न त्यजेद्धर्ममर्यादामपि क्लेशदशां श्रितः । हरिश्चन्द्रो हि धर्मार्थी सेहे चण्डालदासताम् ॥ १३ ॥ न सत्यव्रतभङ्गेन कार्य धीमान्प्रसाधयेत् ददर्श नरकक्लेशं सत्यनाशाधुधिष्ठिरः ॥ १४ ॥ कुर्वीत संगतं सद्भिर्नासद्भिर्गुणवर्जितैः । प्राप राघवसंगत्या प्राज्यं राज्यं विभीषणः ॥ १५ ॥ श्वतो नाम राजा. तत्कथा वाल्मीकीयरामायण उत्तरकाण्डेऽष्टसप्ततितमे सर्गे द्र- ष्टव्या. २. 'कृत्वा मूत्रमुपस्पृश्य संध्यामन्वांस्त नैषधः । अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥' इति महाभारते वनपर्वण्येकोनषष्टितमेऽध्याये. ३. 'स रक्षिभिस्तैर- ज्ञातः शूले प्रोतो महातपाः' इत्यादि महाभारत आदिपर्वणि १०७ अध्याये माण्डव्यकथा द्रष्टव्या. ४. 'शस्त्रेण वेणीविनिगृहितेन विदूरथं खा महिषी जघान' इति बृहत्संहिता (७८१)। 'वेणीनिगूढेन च शस्त्रेण विन्दुमती वृष्णि विदूरथं [जघान' इति हर्षचरितप. टोच्छ्वासः. ५. वृष्णयो यादवाः. एतत्कथा महाभारते मौसलपर्वणि प्रसिद्धैव. ६. 'ज- गाम स रथो नाशं शापागाय॑स्य धीमतः । गाय॑स्य हि सुतं वालं सराजा जनमेजयः । वाक्शूरं हिंसयामास ब्रह्महत्यामवाप सः ॥' इति हरिवंशे प्रथमपर्वणि त्रिंशेऽध्याये. ७. 'व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति । व्याजेनेव ततो गजन्दशितो नरक- स्तव ॥' इति महाभारते वर्गारोहणपर्वणि तृतीयेऽध्याये, 7. -- - १३० ० काव्यमाला। मातरं पितरं भक्त्या तोषयेन्न प्रकोपयेत् । मातृशापेन नागानां सर्पसत्रेऽभवत्क्षयः ॥ १६ ॥ जराग्रहणतुष्टेन निजयौवनदः सुतः । कृतः कनीयान्प्रणतश्चक्रवर्ती ययातिना ॥ १७ ॥ (युग्मम्) दानं सत्त्वमितं दद्यान्न पश्चात्तापदूपितम् । बलिनात्मापितो बन्धे दानशेपस्य शुद्धये ॥ १८ ॥ त्यागे सत्त्वनिधिः कुर्यान्न प्रत्युपकृतिस्पृहाम् । कर्णः कुण्डलदानेऽभूत्कलुषः शक्तियाचया ॥ १९ ॥ ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः । तक्षकानौ ब्रह्मशापात्परीक्षिदगमत्क्षयम् ॥ २० ॥ दम्भारम्भोद्धतं धर्म नाचरेदन्तनिष्फलम् । ब्राह्मण्यदम्भलब्धास्त्रविद्या कर्णस्य निप्फला ॥ २१ ॥ नासेव्यसेवया ध्यादैवाधीने धने धियम् । भीष्मद्रोणादयो याताः क्षयं दुर्योधनाश्रयात् ॥ २२ ॥ परमाणपरित्राणपरः कारुण्यवान्भवेत् । मांसं कपोतरक्षायै स्खं श्येनाय ददौ शिविः ॥ २३ ॥ अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् । १. 'नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान् । सर्पसत्रे वर्तमाने पावको वः प्रवक्ष्यति ॥' इति महाभारत आदिपर्वणि विशेऽध्याये. २. 'गृहाण यौवनं मत्तश्चर कामान्यथेप्सित्तान् । जरयाहं प्रतिच्छन्नो चरिष्यामि यथात्थ माम् ॥ ययातिरुवात्र- पुरो प्रीतोऽमि ते वत्स प्रीतश्चेदं ददामि ते । सर्वकामसमृद्धा. ते प्रजा राज्ये भ. विष्यति ॥' इति महाभारत आदिपर्वणि चतुरशीतितमेऽध्याये. ३. 'वर्मणा कुण्ड- लाभ्यां च शक्ति मे देहि वासव । अमोघां शत्रुसंघानां नाशिनी पृतनामुखे ।। इति महाभारते वनपर्वणि दशाधिकत्रिशततमेऽध्याये, ४. 'यस्मान्मिथ्योपचरितो ह्यत्रलोभादिह त्वया । तस्मादेतन ते मूड ब्रह्मास्त्रं प्रतिभात्यति ॥ इति महाभा- रते शान्तिपर्वणि राजधर्मे तृतीयेऽध्याये कर्ण प्रति परशुरामस्य शापः. ५. 'उत्कृत्य स स्वयं मांसं राजा परमधर्मवित् । तुलयामास कौन्तेय कपोतेन समं विभो ॥ इति म. हाभारते वनपर्वण्यकत्रिंशदधिकशततमेऽध्याये.
चारुचर्या । बभूव द्वेपदोपेण देवदानवसंक्षयः ॥ २४ ॥ अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नताम् । हत्वोपकारिणं विप्रो नाडीजङ्घमधश्च्युतः ॥ २५ ॥ स्त्रीजितो न भवेद्धीमान्गाढरागवशीकृतः । पुत्रशोकादशरथो जीवं जायाजितोऽत्यजत् ।। २६ ॥ न स्वयं संस्तुतिपदैर्लानि गुणगणं नयेत् । स्वगुणस्तुतिवादेन ययातिरपतद्दिवः ॥ २७ ॥ त्यजेन्मृगव्यव्यसनं हिंसयातिमलीमसम् । मृगयारसिकः पाण्डः शापेन तनुमत्यजत् ॥ २८ ॥ क्षिपेद्वाक्यशरांतीक्ष्णान्न पारुप्यव्युपप्लुतान् । वाक्पारुप्यरुपा चक्रे भीमः कुरुकुलक्षयम् ।। २९ ।। परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् । पैशुन्येन गतौ राहोश्चन्द्रार्की भक्षणीयताम् ॥ ३० ॥ कुर्यान्नीचजनाभ्यस्तां न याच्ञां मानहारिणीम् । वलियाच्ापरः प्राप लाघवं पुरुषोत्तमः ॥ ३१ ॥ न जातूलङ्घनं कुर्यात्सतां मर्मविदारणम् । चिच्छेद वदनं शंभुर्ब्रह्मणो वेदवादिनः ॥ ३२ ॥ न बन्धुसंबन्धिजनं दूपयेन्नापि वर्जयेत् । दक्षयज्ञक्षयायाभूत्रिनेत्रस्य विमानना ॥ ३३ ॥ न विवादमदान्धः स्यान्न परेपाममर्षणः । वाक्पारुष्याच्छिरश्छिन्नं शिशुपालस्य शौरिणा ॥ ३४ ॥ गुणस्तवेन कुर्वीत महतां मानवर्धनम् । १. विप्रो गौतमः. नाडीजङ्घ नाम वकम्. एतत्कथा महाभारते शान्तिपर्वण्यापद्धर्मे- ऽष्टषष्टयधिकशततमाध्यायमारभ्यापद्धर्मसमाप्तिपर्यन्तं द्रष्टच्या. २. इयं ययातिकथा महा. भारत आदिपर्वण्यष्टाशीतिमितेऽध्याये द्रष्टव्या. ३. 'ततो वैरविनिर्वन्धः कृतो राहु- मुखेन वै । शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥' इति महाभारत आदिपर्व- ण्ये कोनविंशतितमेऽध्याये.
१३२ काव्यमाला। हनूमानभवत्स्तुत्या रामकार्यभरक्षमः ॥ ३५ ॥ गुणेष्वेवादरं कुर्यान्न जातो जातु तत्त्ववित् । द्रौणिविजोऽभवच्छूद्रः शुदश्च विदुरः क्षमी ॥ ३६ ॥ नात्यर्थमर्थार्थनया धीमानुद्वेजयेज्जनम् । अब्धिर्दताश्वरलथीर्मथ्यमानोऽसृजद्विषम् ।। ३७ ।। वनः क्रूरतरैर्लुब्धैर्न कुर्यात्मीतिसंगतिम् । वसिष्ठस्याहरद्धेनुं विश्वामित्रो निमन्त्रितः ॥ ३८ ॥ तीने तपसि लीनानामिन्द्रियाणां न विश्वसेत् । विश्वामित्रोऽपि सोत्कण्ठः कण्ठे जग्राह मेनकाम् ॥ ३९ ॥ कुर्याद्वियोगदुःखेषु धैर्यमुत्सृज्य दीनताम् । अश्वत्थामवधं श्रुत्वा द्रोणो गतधृतिर्हतः ॥ ४० ॥ न क्रोधयातुधानस्य धीमानगच्छेदधीनताम् । पपौ राक्षसवगीमः क्षतजं रिपुवक्षसः ॥ ४१ ॥ प्रभुप्रसादे नो दद्यात्वविनाशास्पदे मतिम् । वक्षयायोद्धतं युद्धं वाणत्यक्षमयाचत ॥ ४२ ॥ विद्योद्योगी गतोद्वेगः सेवया तोषयेद्गुरुम् । गुरुसेवापरः सेहे कायक्लेशदशां कचः ॥ ४३ ॥ भक्तं शक्तं हितं रक्तं निर्दोष न परित्यजेत् । रामस्त्यक्त्वा सती सीतां शोकशल्यातुरोऽभवत् ॥ ४४ ॥ रक्षेत्ल्याति पुनः स्मृत्या यशःकायस्य जीवनीम् । १. वाल्मीकीयरामायणे किष्किन्धाकाण्डे षट्षष्टितमे सर्गे कथेयं द्रष्टव्या. २ द्रौणि- रश्वत्थामा. इयं कथा महाभारते सौप्तिकपर्वसमाप्तौ द्रष्टव्या. ३. 'एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव । हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥' इति महाभारत आदिपर्वणि पञ्चसप्तत्यधिकशततमेऽध्याये. ४. इयं कथा महाभारत आ- दिपर्वणि द्विसप्ततितमेऽध्याये द्रष्टव्या. ५. दीनतामुत्सृज्य धैर्य कुर्यादित्यन्वयः. ६. 'त- हि मम युद्धस्य कच्चिदागमनं भवेत् । न मे युद्धं विना देव रतिरस्ति प्रसीद मे ॥ इति हरिवंशे द्वितीयपर्वणि. ७. कचो वृहस्पतिपुत्रः. तत्कथा महाभारत आदिपर्वणि षट्सप्ततितमेऽध्याये द्रष्टव्या.
चारुचर्या । १३३ च्युतः स्मृतो जनैः खर्गमिन्द्रद्युम्नः पुनर्गतः ॥ ४५ ॥ न कदर्यतया रक्षेलक्ष्मी क्षिप्रपलायिनीम् । युक्त्या व्याडीन्द्रदत्ताभ्यां हृता श्रीनन्दभूभृतः ।। ४६ ॥ शक्तिक्षये क्षमां कुर्यान्नाशक्तः शक्तमाक्षिपेत् । कार्तवीर्यः ससंरम्भं बैबन्ध दशकंधरम् ॥ ४७ ॥ वेश्यावचसि विश्वासी न भवेन्नित्यकैतवे । ऋष्यशृङ्गोऽपि निःसङ्गः शृङ्गारी वेश्यया कृतः ॥ ४८ ॥ अल्पमप्यवमन्येत न शत्रु बलदर्पितः । रामेण रामः शिशुना ब्राह्मण्यदययोज्झितः ॥ ४९ ॥ जगद्वैरी जरासंधः पाण्डवेन द्विधा कृतः ॥ ५० ॥ औचित्यप्रच्युताचारो युक्त्या स्वार्थ न साधयेत् । व्याजवालिवधेनैव रामकीर्तिः कलङ्किता ॥ ११ ॥ वर्जयेदिन्द्रियजयी विजने जननीमपि । पुत्रीकृतोऽपि प्रद्युम्नः कामितः शम्बरस्त्रिया ॥ १२ ॥ न तीव्रतपसां कुर्याद्धैर्यविप्लवचापलम् । नेत्राग्निशलभीभावं भवोऽनैषीन्मनोभवम् ॥ १३ ॥ न नित्यकलहाक्रान्ते सक्तिं कुर्वीत कैतवे । रुक्मी फलकदुर्घातै॰ते हलभृता हतः ॥ १४ ॥ १. इन्द्रद्युम्नो नाम राजा. तत्कथा महाभारते वनपर्वणि नवनवत्युत्तरशततमेऽध्याये द्रष्टव्या. २. इयं व्याडीन्द्रदत्तयोः कथा कथासरित्सागरे चतुर्थतरङ्गे द्रष्टव्या. तु वाहुसहस्रेण वलाद्गृह्य दशाननम् । ववन्ध बलवानराजा बलिं नारायणो यथा ॥' इति वाल्मीकीयरामायण उत्तरकाण्डे द्वात्रिंशे सर्गे. ४. ऋष्यशृङ्गकथा वाल्मीकीयरामायणे वा- लकाण्डे दशमसर्गे, महाभारते च वनपर्वणि दशोत्तरशततमेऽध्याये द्रष्टव्या. ५. रामेण दशरथसुतेन. रामः परशुरामः. ६. 'करे गृहीत्वा चरणे द्वधा चक्रे महावलः' इति महाभारते सभापर्वणि चतुर्विंशेऽध्याये. ७. 'स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः । तं सा मायावती कान्तं कामयामास कामिनी ॥' इति हरिवंशे द्वितीयपर्वणि चतुरत्तर- शततमेऽध्याये. ८. 'विवादे कुपितो रामः क्षेप्टारं किल रुक्मिणम् । जघानाष्टापत्र प्रमथ्य यदुनन्दनः ॥ इति हरिवंशे द्वितीयपर्वण्येकषष्टिमितेऽध्याये. १२ काव्यमाला। प्रभुप्रसादे सत्याशां न कुर्यात्स्वप्नसंनिभे । नन्देन मन्त्री निहितः शकटालो हि बन्धने ॥ ५५ ॥ न लोकायतवादेन नास्तिकत्वेऽर्पयेद्धियम् । हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः ॥ १६ ॥ अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् । नहुषः शक्रतामेत्य च्युतोऽगस्त्यावमाननात् ॥ १७ ॥ संधि विधाय रिपुणा न निःशङ्कः सुखी भवेत् । संधिं कृत्वावधीदिन्द्रो वृत्रं निःशङ्कमानसः ॥ १८ ॥ हितोपदेशं श्रुत्वा तु कुर्वीत च यथोचितम् । विदुरोक्तमकृत्वा तु शोच्योऽभूत्कौरवेश्वरः ॥ ५९॥ बन्नाशनलोभेन रोगी मन्दरुचिर्भवेत् । प्रभूताज्यभुजो जाड्यं देहनस्याप्यजायत ॥ ६० ॥ यत्नेन शोषयेद्दोषान्न तु तीव्रतैस्तनुम् । तपसा कुम्भकर्णोऽभून्नित्यनिद्राविचेतनः ॥ ६१ ॥ स्थिरताशां न बध्नीयाद्भुवि भावेषु भाविषु । रामो रघुः शिबिः पाण्डुः क गतास्ते नराधिपाः ॥ ६२ ।। विडम्बयेन्न वृद्धानां वाक्यकर्मवपुःक्रियाः । श्रीसुतः प्राप वैरूप्यं विडम्बिततनुर्मुनेः ॥ ६३ ॥ नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात्प्रवादिताम् । शुक्रषागुण्यगुप्तापि प्रक्षीणा दैत्यसंततिः ॥ ६४ ॥ न तीव्रदीर्घवैराणां मन्यु मनसि रोपयेत् । कोपेनापातयन्नन्दं चाणक्य. सप्तभिर्दिनैः ।। ६५ ॥ १. 'योगनन्दोऽथ कूपान्तः शकटालं तमक्षिपत्' इति कथासरित्सागरे चतुर्धतरजे. २. इयं नहुपकथानुशासनिकपर्वणि शततमेऽध्याये द्रष्टव्या. ३. इयं वृत्रवधकथा शा- न्तिपर्वणि मोक्षधर्मे द्वयशीत्युत्तरद्विशततमेऽध्याये द्रष्टव्या. ४. अग्नेः. इयं कथा महा- भारत आदिपर्वणि त्रयोविंशत्युत्तरद्विशतमितेऽध्याये द्रष्टव्या. ५. 'अवश्यं हतनन्दो- ऽयं सप्तभिर्दिवसर्मया । विनाइयो वन्धनीया च ततो निर्मन्युना शिखा । सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत् ॥' इति कथासरित्सागरे पचमतरले.
चारुचर्या । १३५ न सतीनां तपोदीप्तं कोपयेत्नोधपावकम् । वधाय दशकण्ठस्य वेदेवत्यत्यजत्तनुम् ॥ ६६ ॥ गुरुमाराधयेद्भक्त्या विद्याविनयसाधनम् । रामाय प्रददौ तुष्टो विश्वामित्रोऽस्त्रमण्डलम् ॥ ६७ ॥ वसु देयं खयं दद्याद्वलाद्यद्दापयेत्परः । द्रुपदोऽपहवी राज्यं द्रोणेनाक्रम्य दापितः ॥ ६८ ॥ साधयेद्धर्मकामार्थान्परस्परमवाधकान् । त्रिवर्गसाधना भूपा बभूवुः सगरादयः ॥ ६९ ॥ खकुलान्यूनतां नेच्छेत्तुल्यः स्यादथवाधिकः । सोत्कर्षेऽपि रघोवंशे रामोऽभूत्खकुलाधिकः ॥ ७० ॥ कुर्यात्तीर्थाम्बुभिः पूतमात्मानं सततोज्ज्वलम् । लोमशादिष्टतीर्थेभ्यः प्रापुः पार्थाः कृतार्थताम् ॥ ७१ ॥ आपत्कालोपयुक्तासु कलासु स्यात्कृतश्रमः । नृत्तवृत्तिविराटस्य किरीटी भवनेऽभवत् ॥ ७२ ॥ अरागभोगसुभगः स्यात्प्रसक्तविरक्तधीः । राज्ये जनकराजोऽभून्निर्लेपोऽम्भसि पद्मवत् ॥ ७३ ॥ अशिप्यसेवया लाभलोभेन स्याद्गुरुर्लघुः । संवर्तयज्ञयाध्ञाभिर्लज्जां लेभे बृहस्पतिः ॥ ७४ ॥ नष्टशीलां त्यजेन्नारी रागवृद्धिविधायिनीम् । चन्द्रोच्छिष्टाधिकप्रीत्यै पत्नी निन्द्याप्यभूर्दुरोः ॥ ७९ ॥ न गीतवाद्याभिरतिर्विलासव्यसनी भवेत् । १. वेदवत्येव जन्मान्तरे सीता समभूत्. तत्कथा वाल्मीकीयरामायण उत्तरकाण्डे. सप्तदशे सर्गे द्रष्टव्या. २. द्रुपदकथा महाभारत आदिपर्वण्यष्टत्रिंशदधिकशततमेऽध्याये द्रष्टव्या. ३. लोमशोक्तं तीर्थवर्णनं महाभारते वनपर्वण्यशीतितममध्यायमारभ्य द्रष्टव्यम्. ४. अर्जुनः. इयं कथा महाभारते विराटपर्वण्येकादशेऽध्याये द्रष्टव्या. ५. इयं संवर्त- वृहस्पतिकथा महाभारत आश्वमेधिकपर्वण्यष्टमनवमाध्याययोर्द्रष्टव्या. ६. इयं वृहस्प- तिपत्नीकथा हरिवंशे प्रथमपर्वणि पञ्चविंशेऽध्याये द्रष्टव्या.
काव्यमाला। वीणाविनोदव्यसनी वत्सेशः शत्रुणा हृतः ॥ ७६ ॥ उद्वेजयेन्न तैक्ष्ण्येन रामाः कुसुमकोमलाः । सूर्यों भाभियोच्छित्त्यै तेजोनिजमशातयत् ॥ ७७ ॥ पद्मवन्न नयेत्कोषं धूर्तभ्रमरभोज्यताम् । सुरैः क्रमेण नीतार्थः श्रीहीनोऽभूत्पुराम्बुधिः ॥ ७८ ॥ नोपदेशामृतं प्राप्तं भग्नकुम्भनिभस्त्यजेत् । पार्थो विस्मृतगीतार्थः सासूयः कलहेऽभवत् ॥ ७९ ॥ न पुत्रायत्तमैश्वर्य कार्यमायः कदाचन । पुत्राप्तिप्रभुत्वोऽभूद्धृतराष्ट्रस्तृणोपमः ॥-८० ॥ न, शत्रुशेषदूष्याणां स्कन्धे कार्य समर्पयेत् । निष्प्रतापोऽभवत्कर्णः शैल्यतेजोवधादितः ॥ ८१ ॥ न लब्धे प्रभुसंमाने फलक्लेशं समाश्रयेत् । ईश्वरेण धृतो मूर्ध्नि क्षीण एव क्षपापतिः ॥ ८२ ॥ श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम् । दैत्यानां श्रीवियोगोऽभूत्सत्यधर्मच्युतात्मनाम् ॥ ८३ ॥ श्रियः कुर्यात्पलायिन्या बन्धाय गुणसंग्रहम् । दैत्यांस्त्यक्त्वा श्रिता देवा निर्गुणान्सगुणाः श्रिया ॥ ८४ ॥ पदाग्निं गां गुरुं देवं न चोच्छिष्टः स्पृशेद्धृतम् । दानवानां विनष्टा श्रीरुच्छिष्टस्पृष्टसर्पिषाम् ॥ ८५ ॥ प्रतिलोमविवाहेषु न कुर्यादुन्नतिस्पृहाम् । ययातिः शुक्रकन्यायां सस्पृहो म्लेच्छतां गतः ॥ ८६ ॥ रूपार्थकुलविद्यादिहीनं नोपहसेन्नरम् । १. इयं वत्सेशकथा कथासरित्सागरे द्वादशे तरङ्गे द्रष्टव्या. २. 'ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः। श्रमिनारोप्य तत्तेजःशातयामास भारत ॥' इति हरिवंशे प्रथमपर्वणि नवमेऽध्याये. ३. अर्जुनस्य गीतार्थविस्मरणकथा महाभारत आश्वमेधिकपर्वण्यनुगीतायां प्रसिद्धा. ४. शल्यकृतकर्णतेजोवधकथा महाभारते कर्णपर्वण्यतिप्रतिद्धा. ५. देव- चान्याम् चारुचर्या । १३७ हसन्तमशपन्नन्दी रावणं वानराननः ॥ ८७ ॥ बन्धूनां वारयेद्वैरं नैकपक्षाश्रयो भवेत् । कुरुपाण्डवसङ्ग्रामे युयुधे न हलायुधः ॥ ८८ ॥ परोपकारं संसारसारं कुर्वीत सत्त्ववान् । निदधे भगवान्बुद्धः सर्वसत्त्वोद्धृतौ धियम् ॥ ८९ ॥ बिभृयाह्वन्धुमधनं मित्रं त्रायेत दुर्गतम् । बन्धुमित्रोपजीव्योऽभूदर्थिकल्पद्रुमो बलिः ॥ ९ ॥ न कुर्यादभिचारोग्रवध्यादिकुहकाः क्रियाः । लक्ष्मणेनेन्द्रजित्कृत्याद्यभिचारमयो हतः ॥ ९१ ॥ ब्रह्मचारी गृहस्थः स्याद्वानप्रस्थो यतिः क्रमात् । आश्रमादाश्रमं याता ययातिप्रमुखा नृपाः ॥ ९२ ॥ कुर्याद्वययं खहस्तेन प्रभूतधनसंपदाम् । अगस्त्यमुक्त वातापौ कोषस्यान्यैः कृतो व्ययः ॥ ९३ ॥ जन्मावधि न तत्कुर्यादन्ते संतापकारि यत् । सस्मारैकशिरःशेषः सीताक्लेशं दशाननः ॥ ९६ ॥ जराशुभ्रेषु केशेषु तपोवनरुचिर्भवेत् । अन्ते वनं ययु/राः कुरुपूर्वा महीभुजः ॥ ९५ ॥ पुनर्जन्मजराछेदकोविदः स्याद्वयःक्षये । विदुरेण पुनर्जन्मबीजं ज्ञानानले हुतम् ॥ ९६ ॥ परमात्मानमन्तेऽन्तज्योतिः पश्येत्सनातनम् । तत्प्राप्त्या योगिनो जाताः शुकशान्तनवादयः ॥ ९७ ॥ प्राप्तावधिरजीवेऽपि जीवेत्सुकृतसंततिः । जीवन्त्यद्यापि मांधातृमुखाः कायैर्यशोमयैः ॥ ९८ ।। अन्ते संतोषदं विष्णुं स्मरेद्धन्तारमापदाम् । १. 'यस्माद्वानररूपं मामवज्ञाय दशाननः' इत्यादि कथा वाल्मीकिरामायण उत्तर- काण्डे पोडशे सर्गे. २. इयं वातापिकथा महाभारते वनपर्वणि नवनवतिमितेऽध्याये द्रष्टव्या.
१३८ काव्यमाला। शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ ९९ ॥ श्रव्या श्रीव्यासदासेन समासेन सतां मता । क्षेमेन्द्रेण विचार्येयं चारुचर्या प्रकाशिता ॥ १० ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृता चारुचर्या समाप्ता । श्रीमधुसूदनसरस्वतीविरचिता आनन्दमन्दाकिनी। वाग्देवीचतुरास्यपञ्चवदना नित्यं सहस्राननो- ऽप्युच्चैर्यत्र जडात्मतामुपगताः केऽन्ये वराकाः सुराः । माः स्वल्पधियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया हीनः किं करवाणि तां व्रजकुलोत्तंस प्रशंसां तव ॥ १ ॥ नित्यं ब्रह्मसुरेन्द्रशंकरमुखैर्दत्तोपहाराय ते विवादास्तुपमिश्रतण्डुलकणान्विप्रः सुदामा ददौ । तद्देव निरर्थकैः कतिपयै रूक्षाक्षरैनिर्मितां वागीशप्रमुखस्तुतस्य भवतः कुर्या स्तुतिं निस्त्रपः ॥ २ ॥ शश्वद्ब्रह्मशिवेन्द्रदेवगुरुवाग्देवीफणीन्द्रादिभिः स्तुत्यस्यापि हरे ममास्तु रचिता वाणी विनोदाय ते । चित्रालंकृतिशालिभिः सुललितैनित्यं कवीनां स्तवैः सम्राजः समुपासितस्य शुकगीर्धत्ते प्रमोदं यथा ॥ ३ ॥ चित्राकारकिरीटकोटिविलसदलौघकान्तिच्छटा- संघट्टेन विचित्रमम्बरतलं कुर्वत्स्थितं मूर्धनि । जीयात्केकिशिखण्डमण्डनमिदं नीलाचलस्थायिनी खर्णाद्रेः शिखरे पुरंदरधनुयूहस्य निन्दावहम् ॥ ४ ॥ १. भीष्मस्य गरुडध्वजस्मरणं महाभारते शान्तिपर्वणि राजधर्मे सप्तचत्वारिंशेऽध्याय द्रष्टव्यम्. २. अद्वैतसिद्धि-प्रस्थानभेद-भगवद्गीताटीका-महिमस्तवटीका-सिद्धान्तबिन्दुटी- काद्यनेकग्रन्थकर्ता श्रीमधुसूदनसरस्वती कस्मिन्समये वभूवेति न निश्चयः. ३.श्रीकृष्णत्य केशादिपादान्तवर्णनरूपं स्तोत्रमिदम्.
आनन्दमन्दाकिनी । यत्पादान्तनखांशुचिन्तनवशादज्ञानमन्धं तमो- ऽप्यन्तं याति मुकुन्द तस्य भवतो ध्वान्तानि किं मूर्धनि । ज्ञातं त्वां दयितं समेत्य जलदा ये केशतामाश्रिता- स्ते बद्धाश्चपलागणैः प्रणयजक्रोधाकिरीटच्छलात् ॥ ५ ॥ त्वच्चक्षुःसवितुः सरोरुहरुचेः साक्षात्कथं गण्डयो- र्भाले च ब्रजनाथ नर्तनपरा ध्वान्तार्भकाः संततम् । निर्णीतं मुखनेत्रपङ्कजवनीमाध्वीकपानान्मुहु- औद्यन्तो मधुपा भ्रमन्ति परितो वक्त्रालकव्याजतः ॥ ६ ॥ त्वद्भाले निकषोपले विजयते काश्मीरगोरोचना- संभूतस्तिलकः परीक्षणविधौ किं हेमरेखोद्गमः । चाञ्चल्यं चपला विहाय जलदं किं वा समालम्बते किं वा मारकतस्थले समुदितः कंदर्पवृक्षाङ्करः ॥ ७ ॥ त्वद्भवल्लिमिषेण कार्मुकलतामाकृष्य पुष्पाशुगः कृत्वा चम्पककोरकं च तिलकव्याजेन बाणं हरे। लक्ष्यं कुन्तलनीलकण्ठमतुलश्रीचन्द्रकं विध्यति प्रायः शत्रुसमाननाम्यपि जने क्रोधो यदूर्जखिनाम् ॥ ८ ॥ निःशेषप्रमदामनोमनसिजक्रीडामहामन्दिर- व्रीडावज्रकपाटिकाविघटनप्रौढाकृतिः कुञ्चिका । दुर्मानग्रहिलत्रिलोकमहिलामानच्छिदाकर्तरी शृङ्गारद्रुममञ्जरी स्फुरति किं गोविन्द ते भूलता ॥९॥ नो कार्य श्रुतिवर्मलङ्घनमिदं नालीकमुग्धाकृतिः पर्यन्ताकलनं विधाय सहजस्वच्छेन भाव्यं सदा । अन्तः कृष्णमुपास्य तद्रुचिमता संभावना सर्वतः कार्येत्यम्बुजलोचनाक्षियुगलं मानं दधौ ते सताम् ॥ १० ॥ १. श्रुतिवर्त्मनः श्रोत्रसीमायाः; (पक्षे) वेदमार्गस्य. २. नालीकस्य कमलस्येव मुग्धा मनोहराकृतिः; (पक्षे) न अलीकेनासत्येन मुग्धा मूढाकृतिः. ३. कृष्णं कृष्णवर्ण स्वम- ध्यभागस्थितम् ; (पक्षे) श्रीकृष्णम्.
१४० काव्यमाला। सौन्दर्यामृतदीधिके तव दृशौ पक्ष्मावलिश्चैतयोः कूले कामकृपीवलेन रचिता शृङ्गारसस्योन्नतिः । दृग्भङ्गीर्निगदन्ति यास्तु विवुधा रत्यम्भसां वीचय- रताः स्युर्गोपवधूहृदम्बुजवनीदोलायिता यत्नतः ॥ ११ ॥ दूरे ब्रह्मशिवेन्द्रपूर्वदिविषद्वन्दे नमस्कुर्वति व्यावल्गद्रजबालकौघलगुडत्र्युट्यत्किरीटे हठात् । सावज्ञा मधुमत्तसुन्दरदृशां शोभाद्विपः सालसा दृक्पातास्तव नन्दवंशतिलक खान्ते सदा सन्तु मे ॥ १२ ॥ मुक्तेरप्यतिदुर्लभा हिमगिरिप्रस्यन्दिमन्दाकिनी- धारातोऽप्यतिशीतलातिमसृणा चान्द्रान्मयूखादपि । वाञ्छातोऽप्यतिविस्तृता विपयिणां त्वत्पादचिन्तापर- खान्तादप्यतिनिर्मला मयि कृपादृष्टिस्तवास्तां हरे ॥ १३ ॥ कल्पान्ताग्निशिखोन्नतिदितिसुतवाते प्रपन्ने जने पीयूपद्रवसिन्धुवृद्धिरमरस्तोमे विभूत्यायतिः । सीमा प्रेमभरस्य गोपनिकरे कंदर्पकाण्डाहति- ब्रह्माण्डोदरसुन्दरीहृदि हरे जीयादृशोस्ते द्युतिः ॥ १४ ॥ निर्बन्धेन यदीन्द्रनीलमहसा संपादितौ दर्पणौ ताभ्यां किं तुलना कपोलतलयोः संभाव्यते वा न वा । एवं ज्ञातुमुपागते श्रुतिपथं नेत्रे त्रपाकुञ्चिते शङ्के द्वैधवती त्वदीयवदनप्रान्तश्रियं पश्यतः ॥ १५ ॥ त्वां पादाङ्गदकङ्कणाङ्गदशिरोलंकारहाराम्बरैः संपूज्य प्रददौ सुतामथ मणि रत्नाकरः कौस्तुभम् । आस्ये तस्य सुतः सुधांशुरखिलां कान्ति यदा दत्तवा- न्खाकारं व्यतरंस्तदैव मकराः किं कुण्डलान्तस्तव ॥ १६ ॥ लावण्यामृतवाहिनी तव मुखस्येयं मनोज्ञाकृति- स्तस्यामद्भुतबुहृदः समभवत्तत्रापि फेनोद्गमः ।
आनन्दमन्दाकिनी । १४१ नाशावंशगतं तमेव विशदं मुक्ताफलं ये विदु- स्ते मान्या मधुसूदन त्वयि मनोवृत्त्यैव धन्या यतः ॥ १७ ॥ नेत्राम्भोजमुखेन्दुभालतिलकैनित्यं विवादो यतः सौन्दर्यार्थमिति प्रतीत्य विधिना सीता कृता नासिका । तूणी वा कुसुमायुधस्य नृपतेर्यन्मल्लिकाकोरकः काण्डस्तत्र चकास्ति मौक्तिकफलव्याजेन नन्दात्मज ॥ १८ ॥ योऽहं ते पदपङ्कजधुतिलवं प्राप्याभवं पल्लवः कल्पक्ष्मारुहमस्तकाभरणतां यातश्च राधापते । तं मां निन्दति बिम्बविद्रुमलताश्रीतस्करोऽयं श्रुता- वेवं जल्पितुमागते किसलये स्थानेऽधरो रागवान् ॥ १९ ॥ दृग्भङ्गीः स्फुरदिन्द्रनीलनिचयः पक्ष्माणि कस्तूरिका जिह्वयं तव पद्मरागनिकरः शोणाधरो विद्रुमः । दन्ताली गजमौक्तिकानि मधुजिन्मन्दस्मितं चन्दनं पण्यस्थानमिदं मनोजवणिजो जाने तवास्ते मुखम् ॥ २० ॥ या रक्ता वदनेन्दुमण्डलगतं माधुर्यमुच्चैस्तरा- मावायेह सरस्वती स्थितवती सत्यं रसज्ञेव सा । यत्सप्तखरमण्डलानि बहुधा त्वत्कण्ठदेशाद्वहिः प्रादुर्भूय मुदं श्रुतौ सुकृतिनां यच्छन्ति नन्दात्मज ॥ २१ ॥ साम्यं त्वद्वदनस्य वाञ्छति विधुर्दोषाकरो यद्यपि क्षिप्तोऽप्यम्बुनि पद्मरागशकलो दन्तच्छदं स्पर्धते । दृष्ट्वैवं कुशलः कुशेशयभवः क्लेशाद्यशोदात्मज व्यक्तं त्वच्चिवुकं तथैव विदधे यत्तुल्यता न कचित् ॥ २२ ॥ माधुर्य न लवं मधूनि दधति द्राक्षा तु साक्षाद्विपं पीयूषान्यपि यान्ति निम्बसमतां के दुग्धखण्डादयः प्रालेयानि न शीतलानि सरसं नो कोकिलाकूजितं गोधुग्वंशवतंस जातु जयति त्वद्वाग्विलासोदये ॥ २३ ॥ १. ब्रह्मा. २. मधूनि लवं कणिकामात्रमपि माधुर्य न दधति.
१४२ काव्यमाला। वेदाश्चन्द्रमसं वदन्ति भवतः स्वान्तं कथं तद्वृथा कुर्वन्त्यत्र विवादमात्रकुशला गोविन्द नन्दादयः । तस्यैवामृतपशिलास्तव मुखादाविर्भवन्तो बहि- न्तिं यत्तिरयन्ति हन्त किरणा मन्दस्मितव्याजतः ॥ २४ ॥ यन्नामस्मरणादपि श्रवणतः प्रक्षीणरागाशया यान्ति त्वत्परमं सदाशिवपदं यद्योगिनां दुर्लभम् । तस्याप्याननपङ्कजे तव जयत्युच्चैस्तरां रागिता येनाभीरकुलप्रदीप तदलं ताम्बूलमास्तां मुदे ॥ २५ ॥ पीयूपद्रवसारसारघमधुद्रोणी त्वदीयाधरा- स्त्रादायार्कसुतातटे श्रितवती सद्वंशजाता तपः । तत्पुण्यैर्मुरलीमिषेण रसिका माधुर्यमुच्चैस्तरा- मास्येन्दोरनुभूय गोकुलपते गीतामृतं मुञ्चति ॥ २६ ॥ साफल्यं श्रुतिसंपदां त्रिजगतां प्रालेयधाराप्रपा पीयूपद्रवमाधुरी परिभवक्लेशाम्बुधेः शोषणम् । ब्रह्मानन्दतिरस्कृतिः कुलवधूधैर्याद्रिवज्राहतिः कंसध्वंसन शंस किं न भवतो वंशीनिनादोदयः ॥ २७ ॥ धैर्य धिक्कुरुते त्रपां विचिनुते कौलं यशः प्रोञ्छति प्रत्येकं गुरुवर्गगञ्जनशतं विस्मारयत्यजसा । साध्वीनाम निराकरोति भवनं भर्तुर्विधत्ते विष किं किं नो विदधाति हन्त सुदृशां वंशीनिनादस्तव ॥ २८ ॥ लावण्यैरखिलैस्त्वदास्यमुकुरं निर्माय धाता चिरा- न्मुष्टिं मारकतं विधाय तदधः कण्ठस्थलव्याजतः । ध्यायं ध्यायमशेषवस्तुसुषमाधाराय रेखात्रयं ब्रूते नास्ति बभूव नो न भविता सौन्दर्यमेतादृशम् ॥ २९ ॥ आशानागकरप्रसारिमहसा निःशेषवामझुवा- माशाभित्रिदशेशनिर्भरशुभैः कंसादिनाशश्रिया । १. सरघा मधुमक्षिका तत्संचितं मधु सारघमित्युच्यते. २. दिग्गजः.
आनन्दमन्दाकिनी । प्रेम्णा नन्दयशोदयोस्तनुजुषां निःसीमभाग्यैईशां सौभाग्यैर्बजसुभ्रुवां ब्रजपते किं ते भुजौ निर्मितौ ॥ ३० ॥ कं यस्मादलमभ्युदेति भवतः सर्वाङ्गमेतादृशं साम्यं वा भजतां कथं जलरुहे सर्वज्ञमध्यस्यतोः । मत्तर्कः पुनरत्र गोकुलपते त्रैलोक्यलक्ष्मी यत- स्त्वत्पाण्योरिति तौ वदन्ति कमले सा यत्तदेकालया ॥ ३१ ॥ अङ्गुल्यस्तव हस्तयोर्मुरहर प्रायो रसालाङ्कुर- श्रेणी यत्परितोऽङ्गालीयकमिपस्निग्धालवालावलिः । किं वा पञ्चशरप्रचण्डतपसा पञ्चाशुगाः पञ्चतो- तीर्णाः सत्फलिनः पुनर्भवरुचा पुष्णन्ति नेत्रोत्सवान् ।। ३२॥ भक्तानुग्रहकातरेण भवता कृत्वा नृसिंहाकृति रागान्धस्य पुरा हिरण्यकशिपोर्वक्षःस्थली पाटिता । तेनाभूत्तव पाणिपङ्कजयुगे रागः स राधापते गोपीनां कुचकुङ्कुमर्द्विगुणितो नाद्यापि विश्राम्यति ॥ ३३ ॥ एतौ पञ्चशिरस्त्विषा दशदिशः संभावयन्तौ भृशं दैत्यप्राणसमीरसंहतियमौ श्यामौ भुजंगोत्तमौ । तन्मौलिद्युतिशालिनी पुनरियं रत्नावली ज़म्भते यां प्राहुस्तव गोकुलेश नखरश्रेणी करस्थां जनाः ॥ ३४ ॥ दोर्दण्डद्वयबन्धनानि विदधुनन्दोपनन्दादय- स्तद्रन्थित्रुटिशङ्कयातिचकिता गोवर्धनोद्धारणे । तान्येवाप्रतिमप्रभाणि हरितो विद्योतयत्यद्भुतं विद्वांसस्तव कङ्कणाङ्गदतया गोविन्द यज्जायते ।। ६६ । शृङ्गारद्रुमसारकण्डनवशात्रैलोक्यसीमन्तिनी- क्रीडामन्दिरमण्डनाय विधिना स्तम्भौ प्रस्त १. नखकान्त्या.
काव्यमाला। तन्मध्ये पुनरिन्द्रनीलमणिभिः संपादिता वेदिका तौ बाहू मधुजिद्वदन्ति भवतो वक्षःस्थली तामपि ॥ ३६ ॥ यद्रक्तः कमलाकरं करतलेनालम्बते भास्कर- स्त्वच्चक्षुर्मुखपाणिपादकमले जातस्ततः शोणिमा । तन्मित्रं पुनराकलय्य स धृतः कण्ठे त्वया कौस्तुभ- व्याजेनेति मुकुन्द मादृशि जने तर्कः समुज्जृम्भते ॥ ३७ ॥ आलोक्याखिलवेदशास्त्रजलस्तत्त्वं यदेकान्ततः कृत्वा संकलितं वकीयनिलये क्षीराब्धिमध्ये धृतम् । सर्वार्थप्रतिभासकं ब्रजकुलालंकार तत्कौस्तुभ- व्याजाद्विस्मृतिशङ्कयेव भवता कण्ठे कृतं सांप्रतम् ॥ ३८ ॥ यात्वा विष्णुपदं समाश्रितवती नक्षत्रमाला स्फुर- दीप्तिर्योग्यमिदं कथं मुररिपो नक्तंदिनं द्योतते । आं ज्ञातं दयितं तवाननविधुं यान्तीमिमां यामिनी रोमश्रेणिमिषात्ततो धृतवती ज्ञात्वा सपत्नीमियम् (१) ॥ ३९ ॥ यः पाशेन यशोदया नियमितो येनापराधं विना तस्मिन्नस्ति बलिस्त्रिधा मयि पुरः सोऽयं बलिध्वंसिनः । एवं चिन्तनतत्परः कृशतरस्त्वन्मध्यदेशो भृशं याशोदेय स शोकमुद्गिरति ते रोमावलिव्याजतः (१) ॥ ४० ॥ सृष्टयादौ प्रकृतिर्गुणत्रयमयी या खीकृतासीत्त्वया सेयं सत्त्वमयी सुखाय जगतां हाराकृतिस्ते भुवि । गुञ्जादाममिषान्मुकुन्द दधती रागाद्रजोविग्रहं नाभीसीम्नि तमोमयी पुनरियं रोमावली राजते ॥ ४१ ॥ सौन्दर्यामृतवारिधौ स्मरमहायादःसमारम्भतः संभूता भ्रमिरम्भसां सुललिता जातास्ततो वीचयः । तां जाने स्फुरदिन्द्रनीलघटितश्रीसंपुटार्धद्युति त्वन्नाभीमपि तां वलित्रयमिति श्यामाभिरामाकृते ॥ ४२ ॥ १. स्सर एव महद्यादो जलजन्तु:.
आनन्दमन्दाकिनी । १४५ नीलाम्भोरुहवल्लिरुल्लसति ते नाभीसरस्यां ध्रुवं यच्छ्रीवत्समिषाद्विभर्ति कुसुमं नालं च रोमावली । यं वा वक्षसि कौस्तुभं बुधजना जानन्ति नन्दात्मज प्रायः सोऽप्यनुराग एव भविता त्रैलोक्यवामध्रुवाम् ॥ ४३ ॥ नीरूपोऽपि घनद्युतिर्मुनिमनोमात्रैकपात्रीकृतो- ऽप्याभीरीगणसंगतः सुखघनोऽप्यानन्दितो बान्धवैः । ज्ञानात्माप्यतिमुग्धतामुपगतो वामभ्रुवां विभ्रमै- रित्थं ते त्रिवलीमिषान्मुरहर त्रैय्यस्ति चित्रार्पिता ॥ ४४ ॥ देव्यः पल्लवसंपदा विदधते सौभाग्यलक्ष्मी श्रुतौ स्वच्छन्दं सुमनःफलानि विबुधा विन्दन्ति ते सेवया । वेदेनापि निगद्यते मुरहर त्वं भक्तकल्पद्रुमः प्रायः कल्पलता ततः श्रितवती त्वां वैजयन्तीछलात् ॥ ४५ ॥ विश्वानन्दकदम्बसंपदमतिस्निग्धं तमालद्युति दृष्ट्वा निर्भरविभ्रमं घन इति त्वां संगता विद्युतः । त्वद्रूपामृतसिन्धुसंगमवशात्प्राप्याम्बरप्रच्यवं चाञ्चल्यात्किमु नन्दनन्दन भवत्पीताम्बरत्वं दधुः ॥ ४६ ॥ काञ्ची ते धृतयोगसंपदभितो जाता विशालाकृति- र्यावन्ती मधुरा ध्वनि विदधती पश्चादयोध्याभवत् । मायाद्वारवती शिवाधिवसतिः सा काशिका दृश्यते तच्चित्रं न वदामि माधव यतस्त्वां सा सदा संश्रिता ॥४७॥ जानीमः सहजां त्वदङ्गमिलितामालोक्य पद्मालयां तत्सङ्गस्थितिभङ्गकातरतमौ कल्पद्रुमैरावतौ । १. निविडकान्तिः, मेघच्छविश्व. २. वेदत्रयी. ३. चकिता. ४. समूहः, वृक्ष- विशेषश्च. ५. काञ्ची, विशाला (वदरीनारायणपुरी), अवन्ती (उज्जयिनी), मधुरा (मधुरा), अयोध्या, माया (हरिद्वारम्), द्वारवती (द्वारका), काशिका (काशी), इत्यष्ट- पुरीनामान्यत्रोपन्यतानीति चमत्कारः. १३ १४६ काव्यमाला। आचः पल्लवसंपदं करपदे विन्याधरे वापरः गुण्डादण्डगुणं तबोल्युगले येनादधे माधव ॥ १८ ॥ रम्भान्तन्मयुगं न तद्यदुपरि स्थूलं तवोल्द्वयं तृणारी मकरध्वजन्य सुमनोमोदेन विद्मो वयम् । हा कष्टं मधुकैटभी स्फुटमदी किं कैटभारे हठा- निपिष्टी शेतकोटिकोटिकठिनौ तसिन्थले कोमले ।। ४९ ॥ तन्मद्वैतमिदं पयोनिधिमुतागेहत्य मन्दाकिनी- सन्दामन्दमरन्दिताकिमलद्वन्द्वस्य नालायुगम् । वजवायुगलं विमुक्तिकलशीनिर्माणदण्डद्वयं संपत्तिद्विपसंघयन्त्रणविधावालानयुग्मं भजे ॥ ५० ॥ विद्वान्सोऽपि कथं कठोरकमठीपृष्ठेन तुल्यं वद- नीहक्पादयुगं कथं नु कमला वक्षोजशैले दधत् । विड्मन्दां वसुधामिदं मधुरिपो गोचारणे संचर- त्पाषाणाङ्कुरकण्टकादिषु हठादृष्ट्वा विदीर्णा न यत् ॥ ११ ॥ यद्रलौघमरीचयोऽपि समताव्यावर्तनं विश्वतः कृत्वा दिग्वलयं भ्रमन्ति महिता नादैर्मधुसन्दिभिः । यच ब्रह्मनिवेन्द्रवन्दितपन्द्वन्द्वोपरि घोतते तत्कृष्णस्य पदाङ्गदद्वयमतः किं वर्ण्यतां माशैः ॥ १२ ॥ शेते यत्तमलालया तव पदान्भोजद्वये संगता धाता तत्र तनूपधानयुगलं गुल्फच्छलान्निर्ममे । किं वा मन्मथकारणा विरचिते तसा मुदे कन्दुके सा यत्नीडति पाणिपङ्कजतले कृत्वा सखीभिः सह ॥ १३ ॥ या रक्ता दशलोकपालमुकुटप्रान्तत्विषः संततं कल्पक्ष्मारुहपुष्पसंभृतरुचस्त्वत्पादमूले वभुः । ता दीव्यन्नखराञ्चिताङ्गुलितया जानन्ति सत्यं जनाः स्खलिन्नेव सदाधरेण दधते लेखा यदूर्ध्वश्रियम् (१) ॥ १४ ॥ १. वजाप्रकोरी.
१४७ आनन्दमन्दाकिनी। पीयूषद्युतिबिम्बमम्बरतले विद्योतमानं पुरः प्रेक्ष्योत्फुल्लदृशा त्वया मुहुरिदं देहीति यद्भाषितम् । तन्मन्ये तव पङ्कजेक्षण महचित्रं यशोदार्थनं यत्त्वत्पादसरोजयोनखमणिव्याजेन शीतांशवः ॥ ५५ ॥ सत्यं यद्विबुधा वदन्ति पदयोर्द्वन्द्वं तवाम्भोरुहे गोधूलिच्छलतः स्थितानि परितो हंसालिचेतांस्यलम् । पीत्वैतन्मकरन्दबिन्दुमसकृद्वृन्दावनीभूपते मञ्जीरद्वयम शिञ्जितमिषादञ्चन्ति यत्पञ्चमम् ।। ५६ ॥ आकृप्याखिलवस्तुतः प्रथमतो रागं मुनीन्द्रैस्ततः कृत्वा मानसपङ्कजे तव पदद्वन्द्वं सतस्मिन्धृतैः । येनास्मिन्नरविन्दलोचन पुनस्तत्केसराणां द्युति- स्तोमेनापि समञ्चितः समुदयत्युच्चैस्तरां शोणिमा ॥ १७ ॥ हंसास्त्वामुपनीय मानससरोजन्मप्रदेशेऽनिशं क्रीडन्तः कमलालयेन भवता सार्धं प्रमोदं दधुः । स त्वं लोचनलोहिताधरपदद्योतः श्रितो हंसतां तत्संपर्कवशादिति व्रजकुलालंकार शङ्कामहे ॥ १८ ॥ क्षुद्रात्मा नितरां किमुन्नततरः काठिन्यवान्निर्भयं किं वा केवलकोमलः श्रयति चेत्किचिन्मदीयं पदम् । धन्यः सोऽयमितीव लोकमखिलं संबोधयन्माधव त्वं धत्से पदयोर्यवं ध्वजवरं दम्भोलिमम्भोरुहम् ॥ १९ ॥ त्वां नित्यं समुपास्य दास्यविधया स्थास्याम इत्याशया ब्रह्मेन्द्राद्यमरैस्त्वदीयपदयोः स्वीया धृताः संपदः । तासामङ्कुशनीरजाशनिलसच्छत्रध्वजाद्याकृति विभ्राणा विजयश्रियं त्रिजगतां वन्द्यारविन्दालया ॥६०॥ त्वत्पादाम्बुजसंगमात्रिजगतां वन्द्यारविन्दालया स्थाने स्थानगुणाद्भवन्ति हि जनाः प्रायः पदं संपदाम् ।
१४८
काव्यमाला।
किं त्वेक शतपत्रलोचन महचित्रं यदस्मादधः
पाता पुण्यतमा विमुक्तिनगरीनिःश्रेणिका स्वर्धनी ६१ ॥
यत्पादाम्बु विधाय मूर्धनि चितावासः शिवत्वं हठा-
प्राप्तो भक्षितकालकूटनिकरो मृत्युंजयत्वं ययौ ।
दिग्वासा नृकपालमात्रविभवश्वाविन्ददीशानतां
स त्वं नन्दसि यस्य मन्दिरगतो नन्दाय तस्मै नमः ॥ ६२ ।।
धूलीधूसरितं सुखं तव क्षरत्पूर्णेन्दुनिन्दावह
व्यालोलालककुण्डलद्युति चलन्नेत्रश्रिया प्रोल्लसत् ।
यालोक्याईविलोचना सितमुखी प्रस्यन्दमानस्तनी
पाणिभ्यामवलम्व्य चुम्बितवती तां नन्दजायां भजे ॥ ६ ॥
पीत्वा स्तन्यविषं सहासुपवनैः संपातिते पूतना-
देहे वै भवता जनार्दन तृणावर्ते च नीते क्षयम् ।
राहून्मुक्तसुधामयूखसुषमा याक्चकोरालिभि-
मिस्त्वद्वदनद्युतिश्थुलुकिता ता गोपकन्याः स्तुमः ॥ ६४ ॥
यद्वन्धस्य विधित्सयापि विवशः कीनाशपाशैदृढं
वद्धः सानुगपुत्रवान्धवजनो दुर्योधनोऽन्तं गतः ।
तं त्वां येन निवध्य नन्ददयिता वृन्दारकैर्वन्दिता
जातानन्दमयी मुकुन्द महते भावाय तस्मै नमः ॥ ६५ ॥
निर्भिन्ने यमलार्जुनेऽतिचकितास्तूर्णं गृहान्निर्गताः
पीत्वा दृक्चषकैस्त्वदक्षततनूरूपामृतं निर्वृताः ।
त्वामादाय विधाय नेत्रसलिलैः सिक्तं त्वरामाश्रिता
ये वृन्दावनमागताः कृतधियस्तान्गोपवृद्धान्स्तुमः ।। ६६ ।।
कृत्वा कालियदन्दशूकदमनं त्वय्यास्थिते ताण्डवं
तस्योत्तब्धसमस्तमस्तकमणिस्तोमे समुत्तस्थुपि ।
येनालम्भि विभातभास्करकरणाग्भारशोभास्फुर-
द्रनाम्भोजयुगद्युतिः प्रतिपदं तत्तेऽङ्गियुग्मं भजे ॥ १७ ॥
आनन्दमन्दाकिनी। १४९ उत्फुल्लैः परिपीय कर्णपुटकैर्वशीनिनादामृतं तच्च प्राणमुदस्य दत्तकवलं प्रोद्भिन्नरोमाङ्करम् । निःस्पन्दैनयनरमन्दमधुरैः श्याम महस्तावकं येनोद्वीक्षितमम्बुजेक्षण भजे तद्गोकदम्बं तव ॥ ६८ ॥ जम्भारेः स्फुरदायुधस्य भवता दम्भाद्रिविद्रावणं कृत्वा वामभुजेन सप्तदिवसान्योऽसौ धृतः पर्वतः । सोऽस्तु स्निग्धतमालसारघटितस्तम्भैकसंभावित- प्रासादद्युतिनिन्दकः प्रतिपदं भव्याय गोवर्धनः ॥ ६९ ॥ त्वद्वाद्धृतपर्वतार्पितदृशः प्रेक्ष्य प्रियायाः स्खल- द्वासःपीनपयोधरक्षितिधरौ दोःरतम्भकम्पे तव । शैले चञ्चलतां गते ब्रजपते त्रासाकुले गोकुले नन्दे मन्दमुखद्युतौ जयति ते मन्दाक्षमन्देक्षणम् ॥ ७० ॥ पौगण्डं मदखण्डनं वलभिदः किं ते हरे स्तूयते कौमारं चरितं यतो विजयते व्यामोहनं ब्रह्मणः । किं स्तव्यं तव यौवनं त्रिपुरजिद्यद्वाणयुद्धे जितः संमोहं गमितास्त्वया यदवला भावेऽपि नेत्रश्रिया(?) ॥ ७१ ॥ पीते दावहुताशने निजजनत्राणैकहेतोस्त्वया निःस्पन्दं पशुपौघपक्षिपशुभिः पेपीयमाने त्वयि । प्रेमामा॑ण्यतिनिर्मलानि दिविपच्चित्तानि सत्यं मुहु- स्त्वद्द्वात्रे नु वितीर्यमाणकुसुमव्याजेन भान्ति प्रभो ॥ ७२ ॥ ककेल्लिस्तवकं मुहुः कमलिनीकान्तं प्रतीचीगतं पालोच्य विलोक्य धूमपटलं गोधूलिबुद्ध्याकुलाः । उच्चैः कोकिलकूजितं च मुरलीनादं विदित्वा गृहा- त्त्वां या वीक्षितुमागताः पथि गवां गोपाङ्गनास्ताः स्तुमः।।७३॥ सायाहे समुदञ्चति श्रुतिपथं वंशीनिनादे हठा- नेपथ्यस्य समापनेन शपथैरालीजनैः प्रार्थिते । १. सादरं विलोक्यमाने.
१५० काव्यमाला। पाणिभ्यामवलम्ब्य नीविरशना निर्गम्य तूर्ण वहि- ईग्भ्यां ते मुखसौरमं चुलुकितं याभिर्भजे ता जनीः ॥ ७४ ॥ यत्राघासुरकेशिधेनुकबकारिष्टप्रलम्बादयः क्रोधाग्नौ भवता हुता दितिसुताः संतर्पिता देवताः । यस्मिंस्ते पदपङ्कजद्वयरजः पद्मोद्भवप्रार्थितं भेजुर्गोमृगपक्षिभूरुहलता वृन्दावनं तद्भजे ॥ ७९ ॥ देवेन्द्रस्य पराभवं किमपरं व्यामोहनं ब्रह्मणः संपश्यन्नपि वैभवं ब्रजकुलोत्तंस प्रचेतास्तव । नन्दं यत्पितरं जहार भवतः स्थाने जलात्मन्यदः स्थाने तादृशि ते बभूव न मनाकोधस्य लेशोऽपि तत् ॥ ७६ ॥ मञ्जीरद्वयकङ्कणावलिलसत्काञ्चीघटाशिञ्जिते वीणावेणुमृदङ्गझर्झरकरोत्ताले दिशश्चुम्वति । कामं पूर्णकलानिधौ विलसति भ्रश्यत्पटे खर्वधू- वृन्दे वर्षति दैवते सुमनसो रासस्तवास्तां मुदे ॥ ७७ ॥ नृत्यडूनयनोत्पलस्मितमुखस्विद्यत्कपोलस्थलं. लीलाचञ्चलकुण्डलं भुजलतान्दोलक्कणत्कङ्कणम् । त्रुट्यत्कञ्चुकवन्धमुन्नतकुचं तिर्यक्त्रिकं प्रस्खल- नीवि व्यञ्जितशिञ्जितं जयति ते रासः प्रियाभिः सह ।। ७८ ॥ आकुञ्चद्वदनं कचिद्विलसिताम्भोजास्यशोमं कचि- न्मन्दस्यन्दिविलोचलं वचिदलं दृक्चापलं कुत्रचित् । काप्युद्दाममदान्धसिन्धुरगतं कुत्रापि विद्युल्लता- चाञ्चल्यं स्मरवर्धनं विजयते लास्यं प्रियाणां तव ॥ ७९ ॥ अध्यास्योरुतलं वपुः पुलकितं विद्यत्कपोलस्थली दोर्वल्लीमपि तावकांसमिलितां कम्पाकुलां विभ्रति । प्रोद्यत्पूर्णकलानिधावरुचिरे मेरे मुहुःसीत्कृते राधा धन्यतमा दधार वदने ताम्बूलकल्कं तव ॥ ८० ॥ १ वध्वः. २. युक्तम्.
आनन्दमन्दाकिनी। १५१ यस्यां तुझत्तरजसंगमवशादीता भुजंगभ्रमा- दालिङ्गन्ति वराङ्गनारतव जलक्रीडाजुपोऽ# हठात् । सा नित्यं दलितेन्द्रनीलनिकरश्रीतस्करा भास्कर- स्थापत्यं तटिनी शिवं दिशतु मे गोपालभूपालज ॥ ८१ ॥ उत्फुल्लाम्बुजमाकलय्य दयितास्मेराननं विभ्रम- मृङ्गश्रेणिमनङ्गभङ्गुरदृशस्तस्याः कटाक्षच्छटाम् । शैवालं परिगृह्य कुन्तलधिया द्राक्चुम्बनायोद्यत- स्त्वं यस्यां हसितः प्रियाभिरभितस्तां भानुकन्यां भजे ॥ ८२ ॥ पुप्पं त्वय्यवचिन्वति प्रियतमावृन्देन सार्ध मुदा वृन्दारण्यमहीरुहस्य निकरे कम्पाकुले निर्भरम् । तस्मिन्वर्षति कौतुकेन कुसुमान्युच्चैः पुनर्देवत- स्तोमेऽपि व्रजभूपते विजयते तैरतैश्चितं ते वपुः ॥ ८३ ॥ कान्ताकोटिकलाकुलस्य भवतः संतोप्य रासे स्मर- क्षीणां वीक्ष्य निशां निशाकरकरस्तोमे परं मुञ्चति । सातकं समुपागतस्य सदनाद्यान्तं शयाने जने कीरस्यापि गिरा जयन्ति परितः पर्याकुला दृष्टयः(?) ।। ८४ ॥ उद्यन्नेव भवानिव व्रजभुवां सर्वापदां संहति- ध्वान्तस्तोममनुत्तमन्तमनयत्कान्तः सरोजन्मनाम् । सोल्लासानि सरोरुहाणि नयनानीव त्वदालोकने लोकानां किल नन्दवंशतिलक खापस्य नायं क्षणः ॥ ८५ ॥ मित्रेणेह तमखिनी विनिहतां नाथ त्वया पूतनां व्याधूतामिव कैरवेप्वपि भवद्विद्वेषिवक्त्रद्युतिम् । आशां पश्य पुरंदरस्य दयितां रक्ताम्बरालंकृतां सिन्दूरान्वितकुम्भमम्बरमणेविम्बं वहन्तीं पुरः ॥ ८६ ॥ गीतज्ञाः कवयो नटा बहुकलाशिक्षासु दक्षाः परे विप्रेन्द्राः कुशपाणयोऽपि भवनद्वारेषु सन्त्युत्सुकाः ।
ग्रात मुञ्चर उज्झन मा १५२ काव्यमाला। तल्यं मञ्च ददल लोचनफलं त्वं देहभाजामिति विन्दिगिरो जयन्तिभवतःसंबोधने नित्यशः।।८७॥(विशेषकन) भानोमण्डलमाविरस्ति पुरतो नाद्यापि निद्राहतिः ते तात बलानुजेति जननी वाग्वीचिमाचामतः । अर्धा मीलितपाटलाक्षियुगलं पर्यस्तनीलालकं म्भारम्भविशेषशोभिवदनाम्भोजं भजामस्तव ।। ८८|| शयनं भवन्तमभितः संगम्यगोपाङ्गना- भोलाभ्यञ्जनमञ्जनादि दधतीः संवीक्ष्य देव्यश्चिरम् । त्यः सुमनोम्बराणि सुमनोभावा वरं संगताः यो गोपवधूत्वलब्धिमनसैवाकाशसान्यं दधुः(?) || ८९ ॥ भाजनमारचय विपिनं प्रस्थातुकामे त्वयि प्रातम नायो गोपवधूलतासु मिलितः कंदर्पदावानलः । बदोलिमिषादुदेति परितो धूमालिरभ्रंलिहा सामथुरसाः सवन्ति च मुहुर्दन्दह्यमानेऽन्तरे ॥१०॥ से चतुरानने दशशतीनेत्रादिपूर्व गवा- मध्वन्यध्वनि लोकपालनिवहे भूमीलुटन्मूर्धनि । सामानिनभूयणादिभिरलं त्रस्ने समस्ते पशों तद्वन गोपाः कोपबशाद्गृहीतलगुडा हीहीरवाः स्युर्मुदे ॥ ९१ ॥ तिमांशी तपति क्वचिजलमुचां स्तोमे जलं मुञ्चति प्रेमाईः प्रतनोति यः स्ववपुषा चित्रातपत्रं तब । मोऽयं भास्करकोटिभास्वरमहःसंभारपाटबरः पारीन्द्रोऽसुरदन्तिनां दिशतु में भव्यं भुजंगान्तकः ॥ ९२ ।। याहे यमुनातटे विटपिनां मूले बयस्यैः समं दध्यन्नान्युपभुज्य रज्यति पुनस्तक्रीडने च त्वयि । देशेन्द्रन्त्रिपुरान्तकः कमलभूरन्ये च नाकालयाः काकाकारजुपो मुहुः कवलयन्त्युच्छिष्टमिष्टं तव || ९३ ॥ पञ्चा मध २.गक्टः. १. सिंह आनन्दमन्दाकिनी । १५३ निद्राणे त्वयि शीतले तरुतले तल्पे दलैः कल्पिते संवीक्ष्याम्बुजपत्रमन्दमरुता संवाहिते पादयोः । रुद्रब्रह्ममहेन्द्रतर्जनविधौ गोपार्भकाणां कर- व्याधूतानि जयन्ति भङ्गुरदृशां कान्तिश्च शोणायिता ॥९४॥ स्फूर्जन्तस्तपसा पुलस्त्यपुलहागस्त्याः सदुर्वाससः सन्त्युच्चैर्यशसः परेऽपि स परं धन्यो मुनि रदः । यस्य त्वद्गुणगानमग्नमनसो व्यापादित केशिनि प्रालेयाद्रिविनिःसृतामरधुनीधारायतेऽस्रावलिः ॥ ९५ ॥ लक्ष्माणि ध्वजवज्रपङ्कजयवच्छत्रोद्धलेखायुता- न्यालक्ष्याम्बुरुहाक्ष ते चरणयोः क्षोणीतलेऽहाय यः । ध्यायत्युत्पुलकत्युदञ्चति लुठत्याक्रन्दति प्रीयते कोऽन्यो धन्यतमस्ततत्रिभुबने स्याद्गौन्दिनीनन्दनात् ॥९६ ॥ धन्यं तस्य जनुस्तथैव पितरौ धन्यं तदीयं कुलं धन्या तेन वसुंधरा किमधिकं तेनैव धन्यं जगत् । यः कसैकनिदेशवलंपि भवत्पादाम्बुजालोकना- दक्रूरोऽश्रुनिरुद्धकण्ठकुहरः प्रेमाब्धिमग्नोऽजनि ॥ ९७ ॥ पर्यावृत्त्य पशूनशेषसखिभिः साकं त्वया स्वीकृते गोपीलोचनपङ्कजालिनिचिते सायं गवामध्वनि । जीयासुर्दयिताननेषु नितरां साकूतनृत्याकुलाः कालिन्दीसदृशाः मितेन सुरसास्त्वच्चक्षुषोः कान्तयः ॥ ९८ ॥ यो वाचो मनसोऽपि नैव विषयस्तं त्वां विधायात्मजं याभ्यङ्गलपनाशनप्रभृतिभिः संलालयत्यन्वहम् । नो दानेन न चेज्यया न तपसा नो सांख्ययोगादिभि- यल्लभ्यं तदवाप गोपदयिता सास्तां यशोदा मुदे ॥ ९९ ॥ पूर्णे दानपतेर्मनोरथशतैः सार्ध प्रलम्बारिणा तल्पे निन्दितदुग्धसिन्धुसुषमासारे त्वया स्वीकृते । १. अक्रूरः.
१५४ काव्यमाला। संदष्टोष्ठमुदश्रु मदितकरं तच्चेष्टितं शृण्वतः कंसध्वंसमभीप्सतो जयति ते भ्रात्रा समं मन्त्रणा ॥ १०० ॥ या संव्याप्य सुवर्णभूधरपदं जाता गिरीशाचिंता खच्छा हंसकविप्रिया कमलमुद्गाम्भीर्यमभ्यञ्चति । येयं कृष्णपदाजभक्तिवसुधापातालमालम्विता सा तापं मम सर्वतः प्रशमयत्वानन्दमन्दाकिनी ॥ १०१ ॥ ये पाण्डित्यकवित्वसूनुधरणीधर्मार्थकामाणिमा- दीशित्वेन्द्रपदाप्तिमोक्षमथवा वाञ्छन्ति भक्ति हरौ । संभूतां मधुसूदनप्रपदतः सन्तो भजन्त्वादरा- ते संसारदवाग्नितापशमनीमानन्दमदाकिनीम् ॥ १०२ ।। इति श्रीमन्नन्दनन्दनपदद्वन्द्वसमुदश्चन्नखचन्द्रचन्द्रिकाचयदत्तचित्तचकोर- श्रीमधुसूदनसरखतीविरचितानन्दमन्दाकिनी संपूर्णा । श्रीशंकराचार्यकृतम् अम्वाष्टकम् । टिप्पणसहितम् । चेटीभवन्निखिलखेटी कदम्बतरुवाटीपु नाकिपटली- कोटीरचारुतरकोटीमणीकिरणकोटीकरम्वितपदा । पाटीरगन्धिकुचशाटी कवित्वपरिपाटीमगाधिपसुता घोटीकुलादधिकधाटीमुदारमुखवीटीरसेन तनुताम् ॥ १ ॥ अगाधिपो हिमाद्रिस्तत्सुता । ममेति शेषः । मम कवित्वत्य कवितायाः परिपाटीम- तिपरिचितिमुदारः कवित्वादिगुणप्रसरकर्ता चासौ मुखवीटीरसस्तेन खमुखर्वितताम्बू- लरसेन तनुतां विस्तारयतु । कीदृश्यगसुता । कदम्वतरूणां वाटीयूद्यानेषु चेटीभवन्यो दासीभवन्त्यो निखिलाः सर्वाः खेट्यो गगनचारिण्यः सिद्धचारणविद्याधरादिस्त्रियो यत्याः सा । पुनः कीदृशी । नाकिनां देवानां पटली समूहस्तस्याः कोटीराणि मुकुटास्तेषां चारुतरा अतिसुन्दराश्च ताः कोटीमणयोऽग्रभागस्थितरत्नानि तासां किरणकोट्यो- ऽसंख्याः किरणास्ताभिः करम्विते व्यामिश्रे पदे यस्याः सा । पुनः कीदृशी । पाटीरस चन्दनस्येव गन्धो यत्या एतादृशी कुचशाटी कञ्चकी यस्याः सा । कीदृशीं कवित्वप- रिपाटीम् । घोटीनां [वडवानां] कुलं समूहस्तस्मादधिका घाटी धोरणी यत्यास्ताम् । ।
अम्बाप्टकम् । १५५ कूलातिगामिभयतूलावलिञ्चलनकीला निजस्तुतिविधा- कोलाहलक्षपितकालामरी कुशलकीलालपोषणनमाः । स्थूला कुचे जलदनीला कचे कलितलीला कदन्यविपिने शूलायुधप्रणतिशीला विभातु हृदि शैलाधिराजतनया ॥ २ ॥ अमरी देवी । शैलाधिराजस्य हिमाद्रेतनवा पार्यती हदि चिनातु रतु । कीदशी। कूलं सीमा । कूलमतीय गच्छन्तीति कुलातिगानानि तानि न तानि नयानि तान्येन तूलावलयः कार्पासराशयस्तासां ज्वलने प्रदीपने फीलेवाभिग्यालेच । पुनः बीडमी । निजा चासौ स्तुतित्तत्या विधा विधानं तस्या यः कोलाहलानेन पितो दर्गाः कालो मृत्युलक्षणादिर्दुष्टसमयो यया सा । पुनः कीदृशी । मालमेन शीलालं जलं तेन पोपणं पालनं तद्विपये नभा मेघ इव । 'मेघावष्टि । नमः' इति रममोगः । पुन: कीदृशी । कुचे स्थूला । पीनन्तनीयर्थः । करी केशपाये जलदनीला । नीलालकेयर्थः। कदम्वविपिने कलिता कृता लाला यया सा । पुनः शीशी । शुलायुधाय शिवरया शीलं यस्याः सा ॥ यत्राशयो लगति तत्रागजा वसतु कुत्रापि निम्नुलगुका सुत्रामकालमुखसत्राशनप्रकरमुत्राणकारिचरणा । छत्रानिलातिरयपत्राभिरामगुणमिधामरीसमवधूः कुत्रासहन्मणिविचित्राकृतिः स्फुरितपुत्रादिदाननिपुणा || २ || अमरीभिः समं सहवर्तमाना वधूः शत्तिः । बाल्यादिभिः नाहिना शकिरियमः । एतादृश्यगजा पार्वती । ममेति शेषः । आशयश्चित्तवृत्तिर्यत्र शब्दापालिका ज्जति तत्र कुत्रापि वसतु । शब्दादिविषयचिन्तनावसरे स्वरूपाविना कवियर्थः कीदृश्यगजा । निस्तुलोऽनुपमः शुको यस्याः सा । अर्थाद्धन्ते । पुनः बोटी इन्द्रः, कालो तो मुखे प्रारम्भे येषां ते च ते सत्राशना यानुनी देवाट समूहस्तस्य सुत्राणं रक्षणं तत्करणशीली चरणी यन्याः सन्ः र द्वायोरप्यतिवेगवत्पत्रं सिंहरूपं वाहनं यस्याः मान कर यपत्रा च । पुनः कीदृशी । अभिरामाच ते गुणाः कदम पुनः कीदृशी । कोः पृथिव्यास्त्रासं हन्तीनि कुन द्देदीप्यमाना विचित्राकृतिराकारो यन्याः कसं दाने निपुणा ॥ द्वैपायनप्रभृतिशापायुवत्रिक पापापहखमनुसार यमः, १५६ काव्यमाला। . . नीपालया सुरभिधृपालका दुरितकृपादुदञ्चयतु मां रूपाधिका शिखरिभूपालवंशमणिदीपायिता भगवती ।। शिखरिणः पर्वतास्तेषां भूपालोऽधिपतिस्तस्य वंशः संततिन्तत्र रत्न भगवती मां दुरितलक्षणातूपादुदायतु बहिनिकासयतु । कीदृशी भगवती । द्वै प्रभृतयो व्यासाचा ये शापायुधा मुनयस्तेषां त्रिदिवं स्वर्ग प्रति गन्तुं सोपानमिव योत्ताशी चरणो यस्याः सा । पुनः कीदृशी। पापं हन्तीति तादृशश्वासो वकीयो मन्त्रस्तस्य जापे जपकर्मण्यनुलीनात्तत्परा ये जनास्तेषां तापापनोदे पुनः कीदृशी । नीपेषु कदम्बवनेप्वालयो यस्याः सा । सुरभिश्चासौ अलकापूर्णकुन्तला यस्याः सा । 'सुरवधूपालिका' इति वा पाठः । पुनः की रूपेण सौन्दर्येणाधिका ॥ यालीभिरात्मतनुताली सकृत्नियकपालीपु खेलति भय- व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्मुनिवरा । वालीभृति श्रवसि तालीदलं वहति यालीकशोभितिलका सालीकरोतु मम काली मनः स्वपदनालीकसेवनविधौ ॥५ सा काली मम मनः खपदनालीकयोरात्मीयचरणकमलयोः भ्रमरीकरोतु । सा का । यालीभिः सखीभिः सकृत् । सहेत्यर्थः । प्रियस्य शिवस पालीषु कण्ठमालास्थकरोटिष्वात्मना खभावेन तनुः सूक्ष्मा ताली करेणास्फालदं सा । एतादृशी सती खेलति क्रीडति । पुनः कीदृशी । भयमेव व्याली सपिणी नकुलीव नकुली । भयापहारिणीत्यर्थः । पुनः कीदृशी । असितचूलीभरा कृ पाशा । पुनः कीदृशी । चरणधूल्यां लसन्तो मुनिवरा यस्याः सा । या देवी कर्णभूषणविशेपं विभति तादृशे श्रवणे तालीदलं ताटङ्कपत्रं वहति दधाति ।पुनः अलीके ललाटे शोभमानस्तिलको यस्याः सा ॥ न्यङ्काकरे वपुषि कङ्कादिरक्तपुषि कङ्कादिपक्षिविषये त्वं कामनामयसि किं कारणं हृदय पङ्कारिमेहि गिरिजाम् । शङ्काशिलानिशितटकायमानपदसंकाशमानसुमनो- . झंकारिभृङ्गततिमङ्कानुपेतशशिसंकाशिवक्त्रकमलाम् ॥ ६ ॥ हे हृदय, त्वं वपुषि शरीरे कामनां लुब्धतामयति गच्छति । किं कारणम् । अन्न प्रयोजनमित्यर्थः । पङ्कारिं पापनाशकत्री गिरिजां प्रत्येहि शरणं गच्छ । कीडशे वपुi नियतमकन्तीति न्यङ्काः कृम्यादयः । 'अकि कुटिलायां गतौ' । तेषामाकरे । कड्डा पक्षिणां रक्तेन पुष्यते तस्मिन् । रक्तपदं मांसाग्रुपलक्षकम् । पुनः कीदृशे। कङ्का पक्षिणां विषये । 'कङ्कादिभक्ष्यविषये' इति वा पाठः । कीदृशीं गिरिजाम् । शङ्का इन्द्रररचना यस्यां सा । यस्याः कण्ठ इत्यर्थः । पुनः कीदशी । हृदयवर्थ मुकुन्दमुक्तावलिः । १५७ लास्तासां भेदकत्वेन टड्वायमानं यत्पदं तस्मिन्संकाशमानाः सुमनसः पुप्पाणि तत्र कारिणी भृङ्गततिर्यस्याः सा । पुनः कीदृशे । अवेनानुपेतो रहितो यश्चन्द्रस्तद्वत्सं- जाशि वक्रकमलं यस्याः सा । निप्कलचन्द्रवद्रमणीयमुखाम्बुजेत्यर्थः । ताम् ।। कुम्बावतीसमविडम्बा गलेन नवतुम्बाभवीणसविधा शं बाहुलेयशशिबिम्बाभिराममुखसंवाधितस्तनभरा । अम्बा कुरङ्गमदजम्बालरोचिरिह लम्बालका दिशतु मे विम्बाधरा विनतशम्बायुधादिनिकुरम्बा कदम्वविपिने ॥ ७ ॥ (जअम्बा शं म इह ददातु । कीदृश्यम्वा । कुम्या कण्टकादिना भित्तिस्थाने कृतं सुग- लावरणम् । अरण्यवासित्वात्सास्त्यस्य कुम्बावाञ्शवरः । तस्य स्खी कुम्बावती शवरी। षा समस्तुल्यो विडम्बो यस्याः । शवयनुकारिणीयर्थः । पुनः कीदृशी । गलेन कृत्वा कीला चासौ तुम्बा तुम्बफलं तेनाभाति सा नवनुम्बामा सा चासी वीणा च तया स- रुदम विधाः खरप्रकारा यस्याः सा । वीणाखनतुल्यकण्ठरवेलर्थः । पुनः कीदृशी । शीलं रीकर्दमशरीरकान्तिः । पुनः कीदृशी । लम्बालका दीर्घकेशा । बाहुलेयस्य का- यस्य शशिविम्बवदभिरामं मुखं तेन कृत्वा संवाधितः मुदृढमाकृष्टखनभरो यन्याः विम्वाधरा । पुनः कीदृशी । कदम्ब विपिने शम्बायुध इन्द्र आदिपां ते निकुरम्या गास्ते विनता यस्याः ।। इन्धानकीरमणिवन्धा भवे हृदयबन्धावतीवरसिका संधावती भुवनसंधारणेऽप्यमृतसिन्धावुदारनिलया । गन्धानुभावमुहुरन्धालिबीतकचबन्धा समर्पयतु मे शंधाम भानुमपि रुन्धानमाशु पदसंधानमप्यगनुता ॥ ८, जीअगसुता पदसंधानं मय्यर्पयतु । कीदृश्यगसुता । इन्धन्ते प्रकाशन्ते, द कीहः यैस्ते वा, इन्धानाः । ते च कीरवर्णमणयो हरिन्मण्यों गामना समृसिका । भुवनसंधारणे लोकपालने संघावती प्रतिज्ञा । पुनः द्वारं दारो महानिलयो यस्याः सा । गन्धस्य । अनुमकिन यपऽनुभवस्तेन मुहुरन्धा भत्तास्ते च तेऽलिनो नानी पुन । कीदृशं पदसंधानम् । शं सुखं तस्त्र काम कर पति द्देदीदृशम् । भानुमपि रन्धानम् । सूर्यादयः ।। दान -- एत: इति श्रीशंकराचार्यविरचिन्न मुकुन्दमुनाबन्तिः। नवजलधरवर्ण बन्दी विऋमिलिन १५८ काव्यमाला। कनकरुचिदुकूलं चारुबस्वलं कमपि निखिलसारं नौमि गोपीकुमारम् ॥ १ ॥ मुखजितशरदिन्दुः केलिलावण्यसिन्धुः करविनिहितकन्दुर्बल्लचीप्राणवन्धुः । वपुरुपसृतरेणुः कक्षनिःक्षिप्तवणु- बचनवशगधेनुः पातु मां नन्दसूनुः ॥ २ ॥ ध्वस्तदुष्टशङ्खचूड वल्लवीकुलोपगूढ भक्तमानसाधिरूढ नीलकण्ठपिच्छचूड । कण्ठलम्बिमञ्जुगुञ्ज केलिलब्धरम्यकुञ्ज कर्णवर्तिफुल्लकुन्द पाहि देव मां मुकुन्द ॥ ३ ॥ यज्ञभङ्गरुष्टशक्रनुन्नघोरमेघचक्र- वृष्टिपूरखिन्नगोपवीक्षणोपजातकोप । क्षिप्तसव्यहस्तपद्मधारितोच्चशैलसद्म गुप्तगोष्ठ रक्ष रक्ष मां तथाद्य पङ्कजाक्ष ॥ ४ ॥ मुक्ताहारं दधदुडुचक्राकारं सारं गोपीमनसि मनोजारोपी। कोपी कसे खलनिकुरम्बोत्तंसे वंशे रही दिशतु रति निःसनी ।। लीलोदामा जलधरमालाश्यामा क्षामा कामारभिरचयन्ती रामाः सा मामव्यादखिलमुनीनां स्तव्या गव्यापूर्तिः प्रभुरघशत्रोर्मूर्तिः । पूर्ववर्तुलशर्वरीपतिगर्वरीतिहराननं नन्दनन्दनमिन्दिराकृतवन्दनं धृतचन्दनम् । सुन्दरीरतिमन्दिरीकृतकंदरं धृतमन्दरं कुण्डलद्युतिमण्डलप्लुतकंधरं भज सुन्दरम् ॥ ७ ॥ गोकुलाङ्गनमङ्गलं कृतपूतनाभवमोचनं कुन्दसुन्दरदन्तमम्बुजवृन्दवन्दितलोचनम् । सौरभाकरफुल्लपुष्करबिस्फुरत्करपल्लवं दैवतव्रजदुर्लभं भज बल्लवीकुलवल्लभम् ॥ ८॥ तुण्डकान्ति दण्डितोरुपाण्डुरांशुमण्डलं गण्डपालिताण्डवालिशालिरत्नकुण्डलम् ।
No text on this page.