Canegie Mellon Univeristy
Dhar^mavyavasthaavajrahaara
Front matter
No text on this page.
श्रीधर्मव्यवस्थावज्रहारः
No text on this page.
॥ श्रीचन्द्रमौलीश्वरो जयति ॥ श्रीमहावागीश्वर्यै नमः श्रीधर्मदेवता विजयताम् श्रीधर्मव्यवस्थावज्रहारः ॐ करधार्यः कण्ठधार्यों हृदि धार्यों मनीषिणाम् । व्यवस्थावत्रहारोऽयं कालेयापन्निवारणः ।। अयं च श्रीविद्वत्कविरत्नवैयाकरणकेसरिधर्मोपन्यासिकेसरीत्यादिबिरुदाङ्कितेन निखिलान्ध्रदेशीयधार्मिकपण्डितपरिषत्प्रधानमन्त्रिणा च श्रीमत्पुल्योपनामक-उमामहेश्वरशास्त्रिणा निबध्य चर्तुदशप्रश्नमालासमाधिरूपो निखिलभारत- धार्मिकविद्वगलविभूषणाय ग्रन्थकों प्रकाशितः श्रीमद्रनगरस्थ ला जर्नल मुद्रायन्त्रे मुद्रापितः प्रकटीकृतश्च विजयतेतमाम् ॥ ईश्वराब्दकार्तिकपूर्णिमा ॥
No text on this page.
श्रीमहावागीश्चय नमः श्रीधर्मदेवता विजयताम् श्रीचन्द्रशेखरदेशिकेन्द्रश्रीचरणेभ्यो नमः प्रतिष्ठा विश्वविश्वस्य दुःखत्रयनिवर्तकः । सुखत्रयानुसंधाता धर्मोऽस्तु शरणं सताम् कलिभृत्यैः कर्मभूमौ धर्मकल्पतरुहठात् । दुश्शासनकुठाराल्या छिद्यतेऽवन्तु धार्मिकाः नत्वा गुरुपदाम्भोज स्मृत्वा च हृदि भारतीम् । आर्यधर्मव्यवस्थाख्यवज्रहारो निबध्यते श्रीविद्वत्कविरत्नेन पुल्यकुल्येन धीमता । वैयाकरणधर्मोपन्यासिकेसरिणा स्वयम् ॥४॥ विश्वान्ध्रधार्मिकसुधीपरिषत्कार्यदर्शिना । उमामहेश्वरविदा विख्यातेन विदां मुदे श्रीकामकोटिपीठेशचन्द्रशेखरपूजने । ईश्वरप्रेरितेनैतत्तदुपायनमण्डनम् दुईष्टिदुष्टधीजुष्टकल्याकृष्टनिजात्मनाम् । दुर्दृष्टिदोषहृतये तत्त्वदृष्टिकृते विदाम् आमुखस्वर्णसूत्रालौ तरलेन च संयुतः । विद्वत्कण्ठविभूषायै धीसाधनदृढीकृतः श्रीधर्मव्यवस्थावज्रहारस्यामुखसुवर्णसूत्रम् अयि श्रीधर्मतन्त्रमहानदीष्णाः ! धार्मिकविद्वन्महोदयाः ! विदितवेदितव्याः ! धर्मरक्षणबद्धदीक्षाः ! सप्रश्रयं साञ्जलिबन्धं च श्रीमतां सविध इदमेकमावेद्यतेऽभ्यर्थ्यते च-श्रीपण्डित- पुण्डरीकमहाशयाः ! विदितमेव तत्रभवतां भवतां श्रीश्रौतस्मात- पौराणिकागमिकादिसकलसत्कर्मकेदारधरणौ धरणीरमणीमणि- चूडामणौ निखिलपुमर्थनिर्जरतरुवाटिकायाम् अखिलमानवलोक- माननीयतममञ्जुलमहीमहेन्द्रवासभूमौ विहारवेश्मनि वेदशास्त्र- महावागीश्वर्याः अधिष्ठाने श्रीधर्मदेवतायाः आवाससदने सपत्नीपुत्रपरिवारशिवविष्ण्वादिसकलवृन्दारकबृन्दस्य सञ्चारवसतौ अतिपावनगङ्गागोदावर्यादिनिखिलमहानदीनाम् परिणामधरणौ च वाराणस्यादिपुण्यक्षेत्राणाम् , मण्डनगृहे च मङ्गलदेवतायाः, प्रसवसदने च समस्तसुखसम्पदाम् , रक्षणालये च परमपावन- पर्वतविपिनादीनाम् , पोषणधामनि च निखिलभाषाकलाकल्पवल्ली- नाम् , परिपालनभवने च धार्मिकमहामहविद्वन्महीपालानाम् , नर्तनवसतौ च सत्कीर्तिदेवतायाः, आकरवसतौ च विविधविज्ञान- रत्नाङ्कुराणाम् , रत्नाकरदिव्यदुर्गसंरक्षिते श्रीमति भारत वर्षे भाषारमातपोभिरन्वर्थनामधेये निखिलदेवताजीवितभागधेये निखिलभुवनरत्नदीपे कालक्रमप्रवृत्ते कालविशेषेत्र कलौ गतवति च पञ्चसहस्राब्दपरिमिते सुकृताधिकप्रवृत्तिमति द्वापरयुगसन्धि- काले समागतवति च स्वराज्यसंस्थापनाय विविधमानवमनीषा- विपर्यासके संप्राप्तनिजतपःफलपरिपाककाले कराले कलिसार्वभौमे ! ! निवृत्तशैशवदशे निखिलाधर्मप्रचारणद्वारा निखिलधर्मनिर्मूलन- परायणे स्वयौवराज्याभिषेकाय संमोद्य धर्मविभून् स्वभृत्यद्वारा समाक्रान्तधर्मशासनसमे हा ! हन्त ! हन्त ! श्रीधर्मदेवतामर्म- निकृन्तकानि कति निशितशासनायुधानि तन्मुखतो निर्मितानि निस्सरन्तीति तदाघातेन कथं वा विलपति श्रीधर्मदेवी ; तत्रापि स्वहृदयविदारकरजस्वलाविवाहनिर्बन्धनिशितशासनायुधसञ्चारणेन परितो भारतवर्ष निकृन्त्यमानमर्मा स्वपुत्रान् प्रति वः स्वरक्षणाय समुदासीनानिति च न लेखनी नः प्रभवति निरूपयितुमत्र तदित्यहो दुर्दशा धर्मधरणेरस्माकं चेति ॥ एवं स्थिते त्वधुना कलिभृत्याः पुनः कृतापरितृप्तान्तःकरणाः युगपदखिलमर्मनिकृन्तनद्वारा प्राणो- क्रमणपर्याप्तान्येव श्रीधर्मदेव्या हठान्निखिलभारतवर्षनिवासि- निखिलदेवतानिर्वासनक्षमाणि च चण्डालास्पृश्यतानिवारक- निशितशासनचन्द्रहासान् देवमन्दिरचण्डालप्रवेशकनितिशासन- शस्त्राणि च भारतीयार्यकुलसतीसतीत्वनिर्मूलनचणानि च विविध- शासनायुधजालानि निर्माप्य प्रयोजयितुं शासनायुधनिर्माणशालासु शासनसभामु शासनपत्रलोहशकलानि शस्त्रनिर्माणयन्त्रेषु संभूय सर्वे निक्षिपन्ति न्यक्षिपंश्च कानिचन निक्षेप्स्यन्ति चाग्र इत्यपि सुविदितमेव लोकज्ञानां श्रीमताम् ॥ मान्यमहोदयाः! बतेदानीमीदृशं विजृम्भमाणं बहुतरं कलि- भृत्यसंरम्भं वीक्ष्य भीतभीतायाः प्राणपरिरक्षणायात्मनो विशंकटं विलपन्त्याः श्रीधर्मदेव्यास्समापन्नमतिसंकटमिदं प्राणपणसंगरेणा- पनोदयितुं यदि न संनद्धा भवेम धार्मिकाः सर्वे संभूय तर्हि ६ भवता चिराध्युषितायाः कर्मभूमेरस्याः प्रस्थास्यति सा ध्रुवं परलोकं स्वपरिवारेण सह माता श्रीधमेदेवतेति तदाक्रन्दितविलपित- क्रियासममिहारसंश्रवणकलिमृत्यसंरम्भविजृम्भणादिलोकवृत्तावलो- कनादिसंरब्धान्तःकरणा अधर्मनिर्मूलनद्वारा श्रीधर्वदेवतारक्षणाय बद्धपरिकरा अन्तर्यामिदृढसंचोदिताः धर्मरक्षापराः सन्तः देशीय- धार्मिकमहोदयैः डिसंबर मासपञ्चविंशाहःप्रभृतिदिवसेषु समावेशयितुं मद्रनगरे निश्चितायाम् अखिलभारतवर्षीयधार्मिकमहाविद्वत्परिषदि समालोच्य निणेतुम् आधुनिककालेवव्युधमानविषयानधिकृत्य चतुर्दशसंख्याकान् उपनिबध्य धर्मप्रश्नावलीमेकामखि- लान्ध्रधार्मिकपाण्डितपारषत्कार्यदार्शपदभारमुपारूढवता शास्त्रीयमार्गेण प्रतिप्रश्नं प्रत्येकशः शास्त्रीया व्यवस्था यथा- मति विधाय समाधिपत्रमचिरेण कालेन समर्पणीयमित्यन्व- जिज्ञपन् । तदनुज्ञानुसारेण तदनुग्रहसंचोदितोऽहं महता परिश्रमेण धर्मशास्त्राकरादुद्धृत्यैतानि व्यवस्थावज्राणि मध्यमणिना सह त्रयोदशामुखसुवर्णसूत्रे धीशिल्पपरिकरण दृढं स्थगयित्वा निर्मायानर्घमेनं वज्रहारं मुद्रापितं च निखिलविद्वत्कण्ठ- विभूषणाय सितपत्रदन्तपेटिकायां निक्षिप्य समर्प्य च धन्यम्मन्यो यथायमखिलविद्वत्कण्ठधारणमापद्येत तथानुग्राह्य इत्यभ्यर्थितवान् । अतः श्रीमतोऽहमभ्यर्थये सानुनयं धार्मिक- विद्वद्वतंसान् वः परिशील्य चेममवयवशः संधार्य च सादरं स्वग्रीवासु दुईष्टिदोषतमोऽपहतं लोकतत्त्वं दृष्टिप्रदानेन स्वाशया- विष्कारेण च प्रकाशयन्तु ; भूयो भूयोऽनुगृह्णन्तु च मां परि- श्रमसाफल्यदानेन रक्षन्तु च श्रीधर्मदेवतां कालेयविप्लवोपहन्यमानां परितो भारतवर्षम् आस्थापयन्तु च निजवाङ्मुखसुधाधाराभि- वर्षणेन निजधर्मानन्तरितप्रायान् जनेषु निर्मूलयन्तु च निखिल- धर्माधर्मविपर्ययव्यामोहं कालेयकृतमार्येष्विति ॥ न श्रीमरुभूतं तत्र प्रथमं धर्मपरिवर्तनाधिकार- व्यवस्थावज्रम् १. ऋषीणां तदर्वाचीनानां वा देशकालाधनुरोधेन धर्माधर्मविपरिवर्तनेऽधिकारः शास्त्रसिद्धो भवति न वा ? एवं धर्माधर्मनिर्णयस्य कर्तव्यतायां मीमांसान्यायदृष्टिः प्रक्षेपणीया अथवाधुनिकचारित्रकदृष्टिः इति–प्रश्नसमालोचने केषामप्यधिकारः शास्त्रसिद्धो भवतीत्येव व्यवस्था । तथाहि- यद्यप्ययं विचारो धर्माधर्मस्वरूपपरिज्ञानेन भागी । तथापि कालेयकृततत्परिवर्तनाधिकारसिद्धान्तमूलकत्वेन संप्राप्त इति सोऽत्रारभ्यते-जैमिनिहारीतादिभिः 'चोदनालक्षणोऽर्थों धर्मः' 'श्रुतिप्रमाणको धर्मः' इत्यादिभिर्धर्मलक्षणं परिष्कृतम् । तेषा- मेकवाक्यतया श्रुतिचोदनाविषयत्वे सति बलवदनिष्टाननु- बन्धित्वं तत्त्वमिति लक्षणं सिध्यति । एवं तद्विपरीतत्वमेवाधर्मस्य लक्षणं निरूपितम् । तद्वैपरीत्यं च श्रुतिप्रतिषेधविषयत्वे सति बल- वदनिष्टानुबन्धित्वरूपमिति व्यक्तमेव । एवं लक्षितौ च तो अती- न्द्रियौ क्रियाविशेषादिरूपावित्यतिरोहितं प्रेक्षावताम् । तथा चा- श्रुतिमूलकविधिप्रतिषेधविषयाणां धर्मत्वाधर्मत्वयोरभावः, स्मृति- सदाचारादीनां च "श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा स्मृतिम् । तस्मात् प्रमाणमुभयं प्रमाणैः प्रमितं भुवि ॥" "श्रुतिर्हि बलीयस्यानु- मानिकादाचारात्" इत्यादिस्मरणेन श्रुतिमू रकत्वेन तद्विधिप्रति- धविषयाणामपि धर्माधर्मत्वनिर्णयेन तदितरविनिर्मितानां तत्त्वा- सिद्धेः । यदुद्देशेन येषां श्रुत्या विधान प्रतिषेधो वा, तत्रैव तेषां तत्त्वसिद्धया तदितराश्रितवे तत्त्वसिद्धौ मानाभावाच्च । न च धर्मज्ञ- समयः प्रमाणमित्यापस्तम्बेन धर्मज्ञानामविशेषात् सर्वेषामप्या- चारस्य सिद्धान्तस्य वा प्रामाण्यस्य निर्णीतत्वेन धर्मज्ञत्वस्य च प्राचीनार्वाचीनसाधारण्येनाधुनिकाचारसिद्धान्तानामपि प्रामाण्येन परिग्रहः कुतो नेति वाच्यम्-तत्सूत्रव्याख्यानावसरे हरदत्तेन "न ब्रूमः समयमात्रं प्रमाणमिति, किं तर्हि धर्मज्ञा ये मन्वादयः तेषां समयः प्रमाणं धर्माधर्मयोः" इत्यादिना मन्वादीनां स्मृति कर्तृणामेव धर्मज्ञत्वं तदतिरिक्तानामर्वाचीनानां तु तत्समयज्ञत्व- मात्रमेव न धर्मज्ञत्वमिति निरूप्य "सुगतो यदि धर्मज्ञः कपिलो नेति का प्रमा। तावुभौ यदि धर्मज्ञौ मतभेदः कथं तयोः।।" इत्यादिना मन्वा- दीनामेवातीन्द्रियधर्मज्ञत्वं कथमित्याशंक्य विशेषबोधकं वेदाश्चेति सूत्रमित्याद्युक्त्वा तदिहास्मदादीनां धर्मज्ञसमयः प्रमाणं धर्मज्ञानांतु वेदाः प्रमाणमिति निरणायि । तथा च मन्वादीनां धर्मबोधकवेदज्ञत्वे- नधर्मज्ञत्वव्यवहारः न तु साक्षाद्धर्मज्ञत्वमिति निर्णायकेन सूत्रेणाने- न स्मृतिप्रामाण्यस्यैव लाभात् अर्वाचीनानां यावद्वेदज्ञत्वस्या- भावेन यत्किचिद्वेदज्ञत्वस्य धर्माधर्मनिर्णयाप्रयोजकतया तपोमहि- ९ महेतुकनिखिलवेदद्रष्टुत्वरूपऋषित्वस्याभावेन न स्वातन्त्र्यं ऋषी- णामपि धर्माधर्मविपरिवर्तन इत्यर्थस्यैव लाभात् । वेदोक्तधर्माधर्म- प्रवर्तन निवर्तनयोरेव स्वातन्त्र्यमृषीणाम् न तु विपरिवर्तनादावित्यं- शस्यैव लाभ इति तत्त्वम् । न च कलिवयंप्रकरण युगान्तरेषु धर्मा- णां कलावधर्मत्वव्यवस्थापनेन तथा युगान्तरेष्वधर्माणां कृष्यादीनां ब्राह्मणादिषु धर्मत्वेन कलौ व्यवस्थापनेन च देशकालाधनुरोधेन धर्मा- धर्मविपरिवर्तनस्य ऋषिकृतस्य दृष्टत्वात् तथैव तदर्वाचीनानामस्म- दादीनामपि देशकालाधनुराधेन तद्विपरिवर्तने कुतो नाधिकार इति वाच्यम्--'कुटुम्बभरणायालमन्नं यस्य त्रिवत्सरम् । काम्येन सोमयागेन यजेतासौ न चेतरः ॥” इत्यादिवचनेषु न चेतरः इत्यादि- वाक्यैरनधिकारिषु तादृशद्रव्यहीनेषु धर्मस्यापि यागादेर्निवर्तनवत् कलिवयंप्रकरणोक्तानामश्वालम्भादीनां श्रुतिचोदितत्वेन धर्म- स्वेऽपि कलियुगीयद्विजातीनां यथावदनुष्ठानासामर्थ्य विज्ञानेना- यथावदनुष्ठितानां तेषां "नास्ति यज्ञसमो रिपुः" "हन्ति यज्ञोऽल्प- दक्षिणः” इत्यादिवाक्यसिद्धशत्रुत्व प्राप्त्या विपरीतफलाधायकत्वेन, नियोगादिविधीनामसिधाराव्रततुल्यत्वेन तत्र यत्किंचिद्राग- पूर्वकप्रवृत्तावपि विपरीतफलावाप्त्याम्नानेन च कालेयमानवेषु कामाद्यतिशयविज्ञानेन मनोनिग्रहादिहैन्यविज्ञानेन च तद्धर्मानधि- कारित्वबोधनद्वारा ततो निवर्तनमात्रस्यैव "निवर्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः” इत्यादिवचनैर्बोधितत्वेन श्मशानवेदाध्ययन- वत्तेषां धर्माणामधर्मत्वेन परिणामस्यैव त्रिकालवेदिभिराम्नानेन तावन्मात्रस्यैव लाभात् , निवर्तनमात्रस्य परिवर्तनवायोगात् । एवं १० कलियुगीयब्राह्मणानां शिलोच्छादिमुख्यवृत्तिभिः जीविकानिवर्त- नस्य दुर्घटत्वविज्ञानेन युगान्तरेष्वापद्धर्मभूतानामेव कृष्यादीना- मत्र युगे याजनाध्यापनादिमुख्यवृत्त्यन्यतमाश्रयणेनानिवर्त्य- जीविकानां ब्राह्मणानां तत्पापापनोदकखलयज्ञाद्यनुष्ठानसहकृताना स्वधर्मवैश्वदेवादिसहकृतानां चैव तेषाम् अभ्यनुज्ञानेन गौणत्वस्य वापद्धर्मत्वस्य वा लाभाच. प्रवर्तनरूपस्य तस्यापि परिवर्तनवायोगाच्च । तद्धि परिवर्तनमाम्नायतेऽमरसिंहादिभिः- "परिदानं परीवर्ती नैमेयनिमयावपि " (प्रतिदानमित्यपि पाठान्तरम्) इत्यादिभिरेकवस्तुस्वीकारेण अन्यवस्तुप्रत्यर्पण- रूपम् । तिलग्रहणेन माषप्रत्यर्पणं यथा तथा प्रायेण सममूल्यकयोरेव वस्तुनोः स्वस्वाभीष्टफलाप्तये परस्परकामनाप्रयोज्यं तत् दृश्यते लोके । तथा च विभिन्न स्वामिकयोईयोर्वस्तुनोः युगपदितरे- तरस्वामित्वप्रापणरूपं परिवर्तनं तत्र पर्यवस्यति । एवं विभिन्ना- श्रययोः क्रिययोरपि युगपदितरेतरकर्तृत्वप्रापणरूपं परिवर्तन क्रियास्थले भवति । यथा केशाकेशीत्यादौ केशग्रहणयोः । तथा च मिन्नभिन्नाश्रययोः द्वयोर्वस्तुनोः क्रिययोर्वा समफलकयोर्विषम- फलकयोर्वा समानकालिकभिन्नाश्रयत्वप्रापणमितरेतरकर्तृकं परिवर्त- नमिति फलति । नैवमत्र कुत्रापि ऋषिकर्तृकं परिवर्तनं घटत इति वक्तुं युज्यते । (कालादिकृतप्रकृत्यन्यथाभावरूपविपरिणाम एवात्र विपरिवर्तनपदेन गृह्यत इति न मूढेनापि वक्तुं शक्यते) न वा विपरीतप्रापणरूपं विपर्ययणमेवात्र गृहीतमिति वक्तुं साम्प्र- तम् । धर्मस्याधर्मत्वेनाधर्मस्य धर्मत्वेन वा सुखफलकस्य दुःख- ११ सुखफलकत्वेन वा फलकत्वेन दुःखफलकस्य ऋषिभिरबोधितत्वात् ॥ कुत्रापि मरणान्तिकप्रायश्चित्ताहब्रह्महत्त्यायां संकुचितसेतुदर्शनप्राय- श्चित्तस्य पराशरादिभिर्विधानेन संकोचनविकोचनादीनां तथा- न्यत्रापि वेदैकदेशाध्ययनादिविधानेषु ऋषिकर्तृकाणां दृष्टत्वेन तादृशमेव परिवर्तनं विवक्षितमित्यपि न वक्तुं युज्यते । प्रायश्चित्त- विधानेषु प्रायश्चित्तीयदेशकालवयःशक्त्यादितारतम्यानुरोधेनैव तद्विधानस्य प्रायश्चित्तविधातृसाधारण्येनैव अभ्यनुज्ञातत्वात् तस्य च सर्वयुगसाधारण्याच रथकारन्यायेन प्रायश्चित्तमात्रविषयकत्वाच्च परावरज्ञैः पराशरादिभिरेतद्यगीयव्यक्तिशक्त्यादिविज्ञानपुरस्सरं तथा विहितेष्वङ्गीकारेऽपि तदतिरिक्तेषु तत्प्रवर्तने मानाभावात् । वेदैकदेशाध्ययनादिविधानेषु च तात्त्विकान्यथाभावरूपस्य काल- कृतस्येव रूपान्तरप्राप्तिरूपस्य विकारस्य प्रतिमादिषु निर्मातृकृत- स्यापि लोके दर्शनेन तत्र तत्त्वत्यागाभावेन च संकोचनविकोच- नादीनां विकाररूपत्वेन विपरिवर्तनवायोगाच्च । अतात्त्वि- कान्यथाभावरूपस्य विपरिवर्तस्यानन्यकृतत्वेनात्र कथमप्यसंभवाच्च । एवं धर्माधर्मनिर्णयौपयिकत्वेन प्रवृत्तस्य मीमांसाशास्त्रस्य वैयपित्त्या नव्यचारित्रकदृष्टेः रागादिदोषदुष्टतया च मीमां- सान्यायानुसारेणैव धर्माधर्मनिर्णयस्य कर्तव्यताया एव शास्त्रसिद्ध- त्वेन शास्त्रव्यवस्थापितप्रमाणानुरुद्धाया एव युक्तत्वमित्यन्यत्र विस्तरः॥
१२ वस्तुतस्तु श्रुतिं पश्यन्तीत्यादिनियमानुरोधेन संकुचितादि- धर्माणामपि आपदादिधर्माणामिव श्रुतिचोदितत्वेनैव स्मर्तृणां स्मरण- मिति कल्पनस्यैव युक्तत्वमुत्पश्यन्ति सुधियः । एवं स्थिते वस्तुतत्त्वे सार्वदिकत्वेन विरुद्धफलयोधर्माधर्मयोरेव विरुद्धं परिवर्तन नाम धर्ममधर्ममधर्म धर्म च प्रवर्तयितुमुद्यतानामधुनातनानां धर्माधर्मविपरिवर्तनं शास्त्रीयत्वेन समर्थयितुमुद्युञ्जानानां धर्म- मन्यानां पण्डितामासानां धर्मपरिवर्तनाधिकारप्रत्याशा वन्ध्यावधू- पुत्रप्रसवाशातुल्येत्येव सिध्यतीत्यलम् ।। इति प्रथमं धर्मपरिवर्तनाधिकारव्यवस्थावज्रम् द्वितीयं राजाधिकारदुश्शासनव्यवस्थावज्रम् २. तत्तद्देशीयप्रभूणां तत्तच्छासनसमितिसभ्यानां वा न्याया- न्यायविनिर्णये तत्तच्छासननिर्माणावर्तनादौ च स्वदेशीय- तत्तन्मतस्थतत्तद्धर्मशास्त्रतत्तत्सदाचारसंप्रदायानुरोधं विना तद्वि- रुद्धेन कुत्राप्यधिकारः शास्त्रदृष्टोऽस्ति वा १ तथा प्रवर्तिते च राज्ञा बलाच्छास्त्राचारविरुद्धशासननिर्माणादौ तत्प्रवर्तनादौ कृते च स्वदेशेषु तत्तद्देशीयतत्तन्मतस्थतत्तत्प्रजानां तत्तच्छासना- नुरोधे सति तत्तच्छास्त्रोक्तजातिभ्रंशादिदोषा आपद्यरेन् वा न वेति विचारे, न कुत्रापि राज्ञां सभ्यानां शास्त्रेणाधिकारो निरूप्यत इत्येव प्रथमेंऽशे व्यवस्था । तथा हि- "धर्मशास्त्रं पुरस्कृत्य प्राडिवाकमतिस्थितिः । समाहितमतिः पश्ये- वा muse १३ द्वयवहाराननुक्रमात् ॥ धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन पार्थिवः । समीक्षमाणो निपुणां व्यवहारगति नयेत् ॥” इति नारदेन, "व्यहारान्नृपः पश्येद्विद्वद्भिाह्मणैस्सह । धर्मशास्त्रानुसारेण क्रोध- लोभविवर्जितः॥” इति याज्ञवल्क्येन “यत्र विप्रतिपत्तिः स्याद्धर्म- शास्त्रार्थशास्त्रयोः । अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत् ॥" इति नारदेन “शास्त्राणि वर्णधर्माश्च प्रकृतीनां च भूपतिः । व्य- वहारस्वरूपं च ज्ञात्वा कार्य समाचरेत् ॥” इति हारीतेन “जाति- जानपदान् धर्मान् श्रेणिधर्माश्च शाश्वतान् । समीक्ष्य कुलधर्माश्च स्वे वर्गे प्रातिपादयेत् ॥ कुलानि प्रकृतीश्चैव श्रेणीर्जानपदानपि । स्वधर्माच्चलितान् राजा विनीय स्थापयेत् पथि ।। निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राज्ञा कृतश्च यः ॥” इत्यादिभिर्मनुयाज्ञवल्क्याभ्यां च धर्मशास्त्रानुरुद्धतद- विरुद्धार्थशास्त्रानुरुद्धतदुभयाविरुद्धदेशजातिकुलश्रेणिधर्मादीनां परिपाल्यत्वाविचाल्यत्वयोरेवानुशासनात् धर्मशास्त्रार्थशास्त्रपरिशी- लनतदविरुद्धलोकाचारव्यवहारपरिशीलनपूर्वकमेव सति विवादे न्यायान्यायौ तदविरोधेन राज्ञा निर्णयाविति विधानाञ्च न स्वातन्त्र्यं स्वैरविधया न्यायान्यायविनिर्णये राज्ञः सभ्यानां वा निरुच्यते शास्त्रेण । तथा—“यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥” इति परदेशस्वामित्व- प्राप्तिदशायां तत्तद्देशजातिकुलाचारव्यवहारादीनां परिरक्षणमेव विधत्ते याज्ञवल्क्यः । अत एव च-नश्यतां सर्वधर्माणां राजा धर्मप्रवर्तकः । कार्य सोऽन्वीक्ष्य शक्तिं च देशकालौ च तत्त्वतः।। कुरुते . धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ।" इत्यादिना मन्वादिभिः देश- कालशक्त्यनुरोधेनापि धर्मसिद्धचनुरोधिकार्यप्रवर्तकत्वमेवानायते; न तु विपरीतप्रवर्तकत्वं राज्ञः । तथा च रागादिवशात् अन्याय- प्रवर्तकत्वे राज्ञः औदासीन्येनावर्तनं ततो निवर्तनं च सभ्यानां विदधदुदासीनानां तेषां राजावैशिष्टयेन नरकपातं विधत्ते कात्यायनः, "अपन्यायप्रवृत्तं च नोपेक्षेरन् सभासदः । उपेक्षमाणाः सनृपा नरकं यान्त्यधोमुखाः॥” इति । एवं रागादिवशात् शास्त्रविरुद्धांशवादिनां दण्ड्यत्वं सभानिस्सारणादिकं च विदधति कात्यायनादयः स्नेहादज्ञानतो वापि मोहाद्वा लोभतोऽपि वा । यत्र सभ्योऽन्यथा- वादी सभ्यो दण्ड्यः स्मृतो हि सः॥रागाल्लोभाद्भयाद्वापि स्मृत्यपेता- दिकारिणः । सभ्याः पृथक्पृथग्दण्डया विवादाद्विगुणं दमम् ॥ अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः । विश्वस्तवञ्चका- श्चैव निर्वास्यास्सर्व एव ते ।" इत्यादिभिः । “देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः । उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनि- र्णये ॥” इत्यादिमिः शास्त्राचारज्ञानविहीनानां नास्तिकानां चासभ्यत्वमेव स्फुटीकृत्य "श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः। राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥” इति याज्ञवल्क्येन, "स तु सभ्यैः स्थिरैर्युक्तः प्राज्ञैरोलैर्विजोत्तमैः । धर्मशास्त्रार्थकुशलै- रर्थशास्त्रविशारदैः ॥ लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा ।" इत्यादिभिः कात्यायनेन च सभ्यलक्षणं निरुक्तम् । तथा च- "राजा कार्याणि संपश्येत् प्राडिवाकोऽथ वा द्विजाः । न्याया- झान्यग्रतः कृत्वा सभ्यशास्त्रमते स्थितः॥” इति बृहस्पतिना न्याय- -- निर्णयसाधनधर्मशास्त्रार्थशास्त्रादिग्रन्थानुरोधेन तदविरोधिसभ्य- तर्कोपोदलितेन न्यायान्यायविनिर्णयस्य कर्तव्यता राज्ञः सभ्यानां च तथैवानुवादिता च विधीयते । न तु केषामपि स्वाशयानुरोधेन न्यायान्यायविनिर्णायकत्वमभ्यनुज्ञायते शास्त्रेणेति सिध्यति । एवम्- "आर्ष धर्मोपदेशं च वदेशास्त्राविरोधिना। यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरः ॥” इत्यादिदशनिर्णय्यादिधृतबोधायनादिवचनानुरोधेन वेदशास्त्राविरोधितर्कस्यापि धर्मनिर्णयानुसन्धायकत्वाभिधानेन धर्मशास्त्रविहिता न्यायाः तत्प्रतिषिद्धा अन्यायाः, तथा धर्मशास्त्रा- विरुद्धसत्तर्कोपहितार्थशास्त्रविहितास्तदुभयाविरुद्धदेशजातिकुलाद्या- चाराश्च न्यायाः तत्प्रतिषिद्धाश्चान्याया इति लभ्यते । यत्तु “राजा कालस्य कारणम्" “यथा राजा तथा प्रजाः" इत्यादिशुक्रनीत्यादि- वचनानुरोधेन जगच्चक्रप्रवर्तककालचक्रस्यापि राज्ञः प्रवर्तकत्वाभि- धानेन तदाज्ञानुपालनस्यापि प्रजानां विहिततया राजाज्ञागोचराणां सर्वेषामपि धर्मत्वेन तत्प्रतिषिद्धानां चाधर्मत्वेन शास्त्रविरुद्धेष्वपि देशकालौचित्याद्यनुरोधेन राज्ञा शासनद्वारा प्रवर्तितेषु प्रवृत्तानां प्रति- षिद्धेभ्यो निवृत्तानां च प्रजानां शास्त्रोक्तदोषानाक्रान्तिरिति द्वितीयें- ऽशे कैश्चिदुच्यते, तदविचारितरमणीयम्-यतो याज्ञवल्क्यव्यवहार- काण्डे स्त्रीपुंसयोगप्रकरणे-“दुद्दष्टांस्तु पुनदृष्ट्वा व्यवहारान्नृपेण तु । सभ्यास्सजयिनो दण्ड्या विवदाद्विगुणं दमम् ॥” इति वचने सभ्यानां रागलोभादिवशादन्यथाव्यवहारदर्शने राजा पुनर्विचार्य निश्चितदोषाजेतृसाहिताः सभ्या दण्डनीया इति विधायक विज्ञान- योगीश्वरेण " यदा तु राजानुमत्या व्यवहारस्य दुईष्टत्वं तदा सर्व एव राजसहिताः सम्यादयो दण्डनीयाः “पादो गच्छति कतीरं पादस्साक्षिणमृच्छति । पादः सभासदस्सर्वान् पादो राजानमृच्छति ॥” इति वचनात् । एतच्च प्रत्येक राजादीनां दोषप्रतिपादनपरम् । न पुनरेकस्यैव पापापूर्वस्य विभागाय । यथोक्तम्-कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य" इति वाक्येन राजानुमत्यैव शास्त्रविरुद्धनिर्णये राजसहितानां सम्यादीनां दण्डयत्वमुक्त्वा दोषभाक्त्वमपि पृथक्प्रतिपाद्य “पादो- गच्छति' इत्यादिवचनस्य कर्तृपापविभाजकत्वाभावं प्रतिपाद्य पापकर्तुस्साकल्येन तत्पापफलभाक्त्वस्य व्यवस्थापनात् । तथा च शास्त्रविरुद्धनिर्णये रागादिवशेन दुर्दष्टयान्यथाव्यवहारनिर्णये वा तत्प्रयुक्तपापान्तरोत्पत्ती राजादीनां प्रतिपादितेति तत्त्वम् । पूर्वोक्तरागाल्लोभादित्यादिश्लोकेनैव स्मृतिविरुद्धादिनिर्णयकारिणां नरकपातादिसिद्धौ वचनस्यास्य पौनरुक्त्यमाशंक्याप्राप्तजेतृदण्ड- विधिपरत्वेन तस्य परिहतत्वात् दुर्दृष्टयान्यथानिर्णय इव शास्त्रादि- विरुद्धनिर्णयेऽपि तज्जन्यपापान्तरभाक्त्वं निर्णेतृणामित्यस्य सिद्धेश्च । एवं च शास्त्रादिविरुद्धशासननिर्माणप्रवर्तनादौ राजकृते तदनु- वर्तिनीनां प्रजानां शास्त्रोक्तदोषाक्रान्तिरव्याहतेति फलति । राजा कालस्य कारणमित्यादेस्तु धर्माधर्मप्रवर्तननिवर्तनाथ सर्वदिगीशांश- सृष्टस्य तच्छक्तिमतो राज्ञो धर्मप्रवर्तनाधर्मनिवर्तनयोः शास्त्रेण स्वस्य विहितयोर्यथावदनुष्ठाने लोकरक्षाफलकस्वसृष्टेः पारमेश्वर्याः सफलत्वमयथावदनुष्ठाने विपरीतानुष्ठाने च विपरीतफलत्वं च । कालगतप्रवर्तकत्वशक्त्यपेक्षयापि राजगतप्रवर्तकत्वशक्तेः प्राबल्य- मित्येतत्तात्पर्यकत्वमेवानयोर्वचनयोरवगन्तव्यम् साकल्येन धर्मप्रवृत्तिमति कृतयुगेऽप्यधर्मप्रवर्तनशक्तेः वेनादिषु दृष्टतया पादमात्रेण धर्मप्रवृत्तिमति कलावयत्र कलिनिग्रहपूर्वकं साकल्येन धर्मप्रवर्तनशक्तेः परीक्षिदादिषु दृष्टतया च कालस्यापि कारणेन राज्ञा स्वविहिताचरणेऽनुक्षणमप्रमत्तेन भवितव्यम् , अन्यथा जगद्धं- शकत्वस्वभ्रंशकत्वयोरापात इति जागरबोधकानीदृशानि वचनानीति स्पष्टमेव विज्ञानाम् । एतेनानुभूतराजदण्डानां कृतापराधानां स्वापराधजन्यनरकनिवृत्तिवद्राजाज्ञानुपालनेनात्रापि शास्त्रोक्तप्रत्य- वायनिवृत्तिरित्यादि पाण्डित्यविलसितमायुष्मतामाधुनिकानांप्रत्युक्तं वेदितव्यम् । तत्तदपराधविशेषेषु तत्तद्दण्डविशेषाणां विधेयत्वेन राज्ञो विशिष्य विधानात् अदण्डने न्यूनाधिकदण्डने वा राज्ञो नरकपातादिविधानाच, तथानुभूतराजदण्डानां तत्तत्प्रत्यवायनि- वृत्तेरपि शास्त्रेणैव बोधितत्वाच दण्डस्य प्रायश्चित्तरूपधर्मत्वेनाना- नाच तत्र तथात्वेऽपि शास्त्रनिषिद्धप्रवर्तकराजशासनानुवर्तिनां निषिद्धकार्यप्रवृत्तानां तत्तत्प्रत्यवायनिवृत्तौ मानाभावात् ; पूर्वोक्त- दिशा प्रत्युत प्रत्यवायप्राप्तरेव सिद्धत्वाचेत्यलमधिकेन । तथा चेश्वरशासनं न कदापि तद्विरुद्धं राजशासनं बाधितुं प्रभवतीत्येव व्यवस्था । न चासह्यदण्डादिविधानपूर्वकदुद्दष्टिसहकृतदुः प्रवर्तनस्य राजकृतस्य प्रजानामापद्रूपत्वेन तदनुवर्तनस्य नान्तरी- यकतया तस्य चापद्धर्मत्वेन तदनुष्ठाने न दोष इति वाच्यम्- आपद्धर्माणां प्रायेण प्रायश्चित्तसहकृतत्वात् यत्र यथा प्रायश्चित्तं स्मयते तत्र तथा तदनुष्ठानेन तदुरितनिवृत्त्या तदनुष्ठायिनां शासन- - 2 १८ तदोषाभाजनत्वेऽपि प्रायश्चित्ताभाववत्त्वेनामातेषु दुष्टेषु कर्मसु प्रवृत्तानां तद्दोषभाक्त्वस्याप्रतीकार्यत्वात् । तथा च तादृशदुश्शा- सनानुवर्तनेन तत्र राजदण्डायैहिकदुःखनिवृत्तिरेव न त्वामुष्मिक- दुःखनिवृत्तिः न वा स्वधर्मानुष्ठानाधिकारनिवर्तकदोषनिवृत्तिरिति फलितमित्यलं पल्लवितेन ॥ इति द्वितीयं राजाधिकारदुश्शासनव्यवस्थावज्रम् तृतीयं पुष्पिणीपरिणयव्यवस्थावज्रम् ३. श्रीश्रौतस्मातपौराणिकागमिकादियावदार्यविशेषधर्मा- धिकृतेषु तदन्यतमयत्किंचिदार्यविशेषधर्माधिकृतेषु वा शुद्धेषु संकीर्णेषु वा वर्णेषु उत्पन्नानां जननादिसप्तमाब्दान्त- गौणकाले वा तथैकादशाब्दादिपुष्पदर्शनपूर्वगौणकाले वा गर्भाष्टमादिदशमान्दान्तमुख्यकाले वाप्यविवाहितानामार्यजातीय- कन्यानां दृष्टरजस्कानामदुष्टतया विवाहो विधीयते कासामपि धर्म- शास्त्रेण ? अथवा दुष्टतयैव कथंचिदभ्यनुज्ञायते रजोदर्शनानन्तर- मवधिकालविशेषनिर्देशपूर्वकम् ? तथाभ्यनुज्ञातोऽपि विवाहस्सार्व- वर्णिकतयाभ्यनुज्ञात उत यत्किंचिद्वर्णविशेषपुरस्कारेणेति प्रश्न- विचारे नादुष्टतया कासामप्यार्यजातीयकन्यानां पुष्पदर्शनानन्तरं विवाहं विधत्ते शास्त्रमित्येव व्यवस्था । तथाहि-मनुस्मृतौ १९ नवमाध्याये- "प्रजनाथ स्त्रियः सृष्टाः सन्तानार्थं च मानवाः । तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥ क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । क्षेत्रबीजसमायोगात् संभवस्सर्वदेहि- नाम् ।। यादृशं तूप्यते वीजं क्षेत्रे कालोपपादिते । तादृग्रोहति तत्तस्मिन् बीजं स्वैयञ्जितं गुणैः ॥” इत्यादिवचनैः क्षेत्रबीजादिदृष्टान्तेन स्त्री- सयोः संतानसृष्टिप्रवर्तकत्वेनैव विधात्रा सृष्टत्वाम्नानात् "ऋतौ भार्यामुपेयात्" "ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ।।" "ऋतुस्नाता तु या नारी भतीरं नोपसर्पति । सा मृता नरकं याति वैधव्यं च पुनः पुनः॥" इत्यादिवचनैर्याज्ञवल्क्यादिभिवृष्टिस्थानीयऋतुदर्शनाव्यवहितोत्तर- कालमेव बीजावापस्थानीयपत्न्युपगमनस्य कर्षकस्थानीय- भर्तृकर्तृकस्य विधानेन तदकरणे पत्युरुत्पत्स्यमानापत्योत्पत्ति- प्रतिबन्धकतया भ्रूणहत्यादोषभाक्त्वस्याम्नानात् , बीजावापकभत्र- नुपसर्पणे जायाया नरकपातवैधव्यावाप्त्यादिदोषभाक्त्वस्य चानानात् ऋतुदर्शनकालस्यैव बीजावापकालत्वेनाम्नानाच्च तदुप- गमनोसर्पणादीनां भर्तृभार्यात्वसिद्धयुत्तरकालिकत्वस्यैव भार्याभर्तृ- प्रभृतिपदैरन्यैश्च वचनैरुद्घोधितत्वेन, तत्सिद्धेश्च "पतित्वं सप्तमे पदे” “वाग्दानं च प्रदानं च वरणं पाणिपीडनम् । सप्तपदीति पञ्चाङ्गो मुनिभिः परिकीर्तितः" ॥ इत्यादिधर्मप्रवृ- त्यादिधृतवचनकदम्बेन वाग्दानादिपूर्वांगप्रवेशहोमाद्युतरां- गविशिष्टप्रधानहोमादिसप्तपद्यन्तसंस्काररूपविवाहाधीनत्वेन "वि- वहेद्विधिवत् पुमान् ” इत्यादिवचनानुरुद्धवरकर्तृकतादृशविवाह- संस्कारस्य च दानाधिकारिपित्रादिकर्तृककन्याकर्मकवरसंप्रदानक- दानवरकर्तृकप्रतिग्रहोत्पन्नस्वत्वपूर्वकत्वेनैव समाम्नानात् , तद्दाने 'प्रदानं प्रागृतोः' इत्यादिभिः ऋतुदर्शनपूर्वकाल- स्यैवाम्नानाच तत्काले कन्यामददतां पित्रादीनां दानाधिकृतानाम् "अप्रयच्छन् दोषी' “अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ।” कालेऽदाता पिता वाच्यो वाच्यश्चानुस्यन् पतिः” इत्यादिवचनक- दम्बेन स्वकर्तृकदानाभावप्रयोज्यभर्तृसंगमाभावप्रयोज्यस्वकन्याधि- करणकसमुत्पत्स्यमानगर्नोत्पत्तिप्रतिबन्धप्रयोज्यभ्रूणहत्यादोषभाजन- त्वस्य समाम्नानाच समुत्पत्स्यमानसन्तानरूपदृष्टफलप्रतिबन्धकानां सर्वेषामपि भ्रूणहत्यादोषावाप्तेः सार्ववर्णिकतया समत्वाददुष्टत्वं रजो- दर्शनानन्तरविवाहस्य न कदापि घटत आर्यजातीयकन्यानामन्या सामपीत्येव सिध्यति । अदृष्टफलरहितमतान्तरस्थानाम् अनार्यजातीया- नामपि समुत्पत्स्यमानसन्तानरूपदृष्टफलप्रतिबन्धस्यान्याय्यत्वौ- चित्यादुभयफलवन्मतस्थानामार्यजातीयानामुभयफलप्रतिबन्धप्रयो- ज्यदोषाधिक्यप्राप्तरप्यत्यन्तव्यक्तत्वात् । अत एव-"उत्पादन- मपत्यस्य जातस्य परिपालनम् । प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥ अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । दाराधीन- स्तथा स्वर्गः पितॄणामात्मनश्च ह ॥” इत्यदिवचनैर्मन्वादिभिः अपत्योत्पादनादिदृष्टफलकत्वं स्वर्गाद्यदृष्टफलकत्वं धर्मकार्या- द्यौपयिकत्वं च भार्याया आम्नातं सार्ववर्णिकतया संगच्छते । अत एव च “गौरी ददन्नाकपृष्ठं वैकुण्ठं रोहिणी ददत् । कन्यां ददद्ब्रह्मलोकं रौरवं तु रजस्वलाम् ॥ दृष्टरोमा त्वपत्यन्नी कुलघ्न्यु- -१ गतयौवना। पतिघ्न्याविष्कृतरजाः ततस्ताः परिवर्जयेत् ॥ अष्ट- वर्षा भवेद्भौरी नववर्षा तु रोहिणी । दशवर्षा भवेत् कन्या अत ऊर्ध्व रजस्वला ॥” इत्यादिपाराशरस्कान्दादिवचनानि शतशः सहस्त्र- शश्च अष्टवर्षादिवयस्कबालिकादानस्य नाकपृष्ठाद्यवाप्तिफलकत्वं दृष्टरजस्कादानस्य गैरवाद्यवाप्तिफलकत्वं च दातॄणां दृष्टरोमादि- कन्यापरित्यागं विविवर्णां च समुद्घोषयन्ति संगच्छन्ते । न च यावत्पञ्चाशदब्दानि परतो दशवत्सरात् । तत्कालजमिति प्रोक्तं रजः स्त्रीणां स्वभावजम् ॥” इत्यादिधर्मप्रवृत्तिधृतवचनानुसारेण एकादशादिपञ्चाशदब्दान्तरजोदर्शनस्य स्वाभाविकत्वेन, "प्राप्ते तु द्वादशे वर्षे रजः स्त्रीणां प्रवर्तते" इति रजःप्रवृत्तिनिय- मस्यापि प्रागुक्तवचनविरोधपरिहाराय बाहुलकत्वकल्पनवत् “अत ऊर्ध्वं रजस्वला" इत्युक्तेरपि “त्रिंशद्वर्षः षोडशाब्दां भार्यां विन्देत नग्निकाम्" इत्यादिवचनानुरोधेन साम्भावनिकत्वस्यावश्यक- तया तथैव माधवाचार्याख्यातत्वेन च “रौरवं तु रजस्व- लाम्" इत्युक्तेरपि "त्रिंशद्वर्षों वहेत् कन्यां हृयां द्वादशवार्षिकीम्" "प्रदानं प्रागृतोः' इत्यादिवचनानुरोधेन दृष्टरजस्कादान- निषेधपरत्वमेव न खेकादशवर्षादिदाननिषेधपरत्वमिति कल्प- नया "ऊर्ध्व दशाब्दाद्या कन्या प्राग्रजोदर्शनात्तु सा । गांधारी स्यात् समुद्वाह्या चिरञ्जीवितुमिच्छुना ॥" इत्याद्याश्वलायनादिवचन- विरोधपरिहारेण दृष्टरजस्कादानस्यैव सर्वनिन्दितत्वाच्च सकल- वचनैकवाक्यतया "सप्तसंवत्सरादूर्ध्व विवाहः सार्ववर्णिकः" इत्यादिमहाभारतादिवचनानुरोधेन च गर्भाष्टमादिदशमान्दान्तवय- स्कादानस्य दातृनाकपृष्ठादिफलविशेषप्रापकत्वेऽपि एकादशाब्दादि- रजोदर्शनपूर्वावस्थकन्यादानस्य तद्विवाहस्य चाप्रतिषिद्धत्वात् कथमेकादशाब्दादिरजोदर्शनपूर्वकालस्य गौणत्वोक्तिर्घटते इति वाच्यम्-"प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति । मासि मासि रजस्तस्याः पिता पिबति शोणितम् ।। व्यञ्जने तु कुलं हन्यात् पितृन् हन्यात् पयोधरे । हन्यादिष्टं च पूर्तं च प्राप्ते रजसि कन्यका। वर्षद्वादशकावं यदि पुष्पं बहिर्न हि । अन्तःपुष्पं भवत्येव पनसोदुम्बरादिवत् । अतस्तु तत्र कुर्वीत तत्संगं बुद्धिमान्नरः ॥" इत्यादिवचनैः पराशरादिमिरान्तरिकरजःप्रादुर्भावस्यापि पतिका- मनाप्रयोजकत्वेनान्तःपुष्पवतीसंगस्याप्यनुज्ञातत्वेन रजःप्रादुर्भाव- प्रयोज्यव्यञ्जनाधाविर्भावदशायामदातुर्दानाधिकारिणस्तदीयका- मनाप्रतिवन्धकत्वेन तदीयशोणितपानकुलघातपितृघातेष्टापूर्त- घातादिदोषबाहुल्यावाप्तिकथनेन चान्तीरकरजःप्रादुर्भावस्यापि अविवाहिताया दोषप्रापकत्वात् निषेधविषयत्वेन एका- दशाब्दादिकालस्य गौणत्वम् । एवं “ षडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः । सोमो भुङ्क्ते ततस्तद्वत् गन्धर्वश्च तथानलः ।" इत्यादिभिरासप्तमाब्दमविवाह्यत्वोक्त्या तनिषेधविषयत्वेन च निषेधविषयत्वसमानाधिकरणविधिविषयत्वरूपं गौणत्वं तयोः । निषेधविषयत्वासमानाधिकरणविधिविषयत्वरूपमुख्यत्वं तु गर्भाष्ट- मादिदशमाब्दान्तस्य कालस्येति निर्दिष्टव्यवस्थाया निर्दोषत्वात् । ननु " त्रीणि वर्षाण्युदीक्षेत कुमायूतुमती सती । ऊर्ध्व तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ अदीयमाना भर्तार- मधिगच्छेद्यदि स्वयम् । नैनः किञ्चिदवाप्नोति न च यं साधि- गच्छति ॥” इत्यादिवचनैः मन्वादिभिः कन्यायाः पुष्पदर्शनानन्तर- कालिकवर्षत्रयोदीक्षणविधेः, तदूर्ध्वकालिककन्याकर्तृकपतिवेदन- विधेश्च सत्वेन तथा स्वयं भञधिगमे कन्याया यत्किञ्चिद्दोषान- वाप्तिकथनेन तदुद्रोदुः तथा दोषानवाप्तिकथनेन च रजोदर्शना- नन्तरविवाहस्य सर्ववर्णसाधारण्येनादुष्टत्वे प्राप्ते दुष्टत्वोक्तिस्साह- सिकीति चेन्न--"अतःपरं प्रवक्ष्यामि योषितां धर्ममापदि" इति प्रतिज्ञाय मनुना कन्याया आपद्धर्मत्वेनैव वर्षत्रयोदीक्षणविधेः तदूर्ध्व- कालिकस्वयंभत्रधिगमविधेश्च प्रवृत्तत्वात् ; गुणवद्वरलाभे च "ऋतु- त्रयमुपास्यैव कन्या कुर्यात् स्वयंवरम्" इति विष्ण्वादिस्मृतऋतु- त्रयानन्तरकालिकस्वयंवरणविधेश्च स्त्रीणामापद्धर्मत्वनैव बोधनात्। "पिता रक्षति कौमारे" इत्यादिवचनैः स्त्रीणां स्वशरीरे स्वाम्यादतिक्रामेहतूनां प्रतिरोधनात् ।” इत्यादिभिः पित्रादिदातृनिष्ठस्वामित्वनिव- तनपूर्वकम् ऋतुत्रयवर्षत्रयान्यतरोत्तरकाले स्वत्वप्रापणद्वारा "तत- श्चतुर्थे वर्षे तु विन्देत सदृशं पतिम्" इत्यादिवचनान्तरैकवाक्य- तया चतुर्थवार्षिकस्वयंवरणस्य परिसंख्यया विहितत्वेन "त्रीणि वर्षाण्युदीक्षेत कुमायूतुतृमती सती । ततश्चतुर्थे वर्षे तु स्वयं भर्तारम- जयेत्॥ प्रजा न हीयते तस्या तिश्च भरतर्षभ । अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः" इत्याद्यानुशासनिकभीष्मवाक्यानुरोधेन तादृश- स्वयंवृतपतिकायाः प्रजादोषरतिदोषयोरभावबोधनेन विवाहा- भावनावस्थाने प्रजापतिनिन्दास्पदत्वाभिधानेन च 'नैनः किंचि- स्वत्वस्याभावेन f दवाप्नोति इति वाक्येन स्वीयतुव्यर्थीकारादीनां स्वापराधप्रयोज्यत्वाभावेन भ्रूणहत्यादिदोषानाक्रान्तत्वस्यैव कन्यायाम् , तत्परिणेतरि च "न च यं साधिगच्छति । एवं चोपनतां पत्नी नावमन्येत् कदाचन ।' इत्यादिवचनैः तादृशाप- इतकन्याप्रत्याख्याननिषेधेन दृष्टतुकन्यापरित्यागविधिप्रतिप्रस- वभूतेन पतिहननादिदोषाक्रान्तकन्यास्वीकारजन्य हननादि- दोषाभाजनत्वमात्रस्यैव च बोधनेऽपि धर्माधिकारप्रतिबन्धकरजो- दर्शनजन्यप्रत्यवायदुष्टत्वस्यानिवृत्तेः। अत एव 'प्रजान हीयते' इत्या- दिना प्रजाहैन्यायभावमात्रबोधनं धर्महैन्यायभावाबोधनं च स्वरसत उपपद्यते । अत एव च "अविवाहिता तु या कन्या पुष्पयुक्ता भवेद्यदि । चान्द्रायणं व्रतं कुर्यात् सर्ववर्णेष्वयं विधिः॥" इति सार्ववर्णिकत्वेन चान्द्रायणव्रतप्रायश्चित्तविधानं रिपुञ्जयोक्तं निर्णयसिन्धावाश्वलायनेन “कन्यामृतुमती शुद्धां कृत्वा निष्कृति- मात्मनः । शुद्धिं च कारयित्वा तामुद्वहेदनृशंसधीः । पिता ऋतून्स्व- पुत्र्यास्तु गणयेदादितस्सुधीः । दानावधि गृहे यत्नात् पालयेच्च रजोवतीम् । दद्यात्तदृतुसंख्या गाः शक्तः कन्यापिता यदि । दातव्यकापि निःस्वेन दाने तस्या यथाविधि । दद्याद्वा ब्राह्मणेष्वन्नं अतिनिःस्वस्सदक्षिणम् । तस्यातीततुसंख्येषु वराय प्रतिपादयेत् ।। उपोष्य त्रिदिनं कन्या रात्रौ पत्विा गवां पयः। अदृष्टरजसे दद्यात् कन्यायै रत्नभूषणम् । तामुद्वहन् वरश्चापि कूश्माण्डैर्जुहुयाद्विजः॥" इति वचनैर्विवाहात् प्राक्पुष्पवत्या विवाहने दातुः परिणेतुर्वरस्य परि- णीयमानायाः कन्यायाश्च पार्थक्येन प्रायश्चित्तविधानं च संगच्छते।
शौनकेनाप्येतदेव प्रायश्चित्तमन्ते “कूश्माण्डैर्जुहुयाद्धृतम्" इति द्विजपदाघटितवचनैरुक्तम् । तथाप्याश्वलायनवचनैकवाक्य- तया द्विजविषयकमेवेदं प्रायश्चित्तमिति द्रष्टव्यम् । ननु प्राय- श्चित्तयोः सामानाधिकरण्यस्यैव संपाद्यत्वात् अस्य च द्विजातीय- प्रायश्चित्तकदम्बस्य निरुक्तसार्ववर्णिकचान्द्रायणप्रायश्चित्तेन समु- च्चयात् द्विजातीनां चान्द्रायणव्रतरूपरिपुञ्जयविहितप्रायश्चित्त- वैशिष्टयेनानुष्ठानमेव शास्त्रीय घटते । युक्तं चैतत्--आपस्तम्बेन श्रौतसूत्रे “एकस्मिन् दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्यु- च्चीयेरन्नन्तरत्वात्" इति सूत्रेणैकस्मिन् दोषे बहुप्रायश्चित्त- श्रवणे तेषां भिन्नभिन्नप्रयोजनसंपादनद्वारा पामरोगादिनिवर्तने तैलरेकपानादीनामिव विशिष्टदोषनिर्हरणक्षमत्वात् समुच्चयेनैव सर्वेषामनुष्ठानमिति सिद्धान्तितत्वात् । तथा च पापाभावे प्राय- श्चित्तविधानस्यैवाप्रसक्तेनिषेधविषयत्वे सति तदोषापहारककर्मा- न्तरानुष्ठानसहकृताभ्यनुज्ञाविधिविषयत्वरूपापद्धर्मत्वस्याप्यनुपपत्ते- रुक्तरीत्यैव व्याख्येयम् । एवं च स्वयंवृतपतिकाविवाहेऽपि एत- प्रायश्चित्तानुष्ठानपूर्वकस्यैव विवाहस्य धर्म्यत्वमिति वस्तुतत्त्वम् । न चात्र द्विजपदश्रवणेन द्विजातिव्यतिरिक्तानां न दोष इति वाच्यम्-पूर्वोक्तदिशा भ्रूणहत्यादिदोषाणां चान्द्रायणप्रायश्चित्तस्य च सार्ववर्णिकतया समानानेन रजस्वलाविवाहस्यापद्धर्मत्वेन समानानाच्च तत्र द्विजपदस्य धर्माधिकार्युपलक्षकत्वात् । अत एव च "अनुवाहिता या कन्यातवेन युज्यते सा वृषली" “सा कन्या वृषली स्मृता" "त्पतिवृषलीपतिः" इत्यादिषु बहुषु वचनेषु धर्मानधिकारित्वबोधकवृषलीत्वविधानादिकं संगच्छते । स्वतो वृषलीषु वृषलीत्वातिदेशस्य वैयर्सेन “शूद्रो वर्णश्चतुर्थोऽपि वर्ण- त्वात् धर्ममर्हति" इत्यादिना पौराणिकमन्त्रैः शास्त्रविहितधर्मानुष्ठा- नाधिकारस्य शूद्राणामपि स्मृतत्वेन च चान्द्रायणविधायकवाक्ये द्विजातीयेष्वित्यनुक्त्या सर्ववर्णेवित्युक्त्या च स्वविहितधर्मानधिका- रित्वोपलक्षकत्वस्यैव वक्तव्यत्वात् । एवं च न केष्वपि वर्णेष्वदुष्टो रजस्वलाविवाहः, किं त्वापद्युक्तप्रायाश्चित्तादिपूर्वक- मभ्यनुज्ञायते शास्त्रेणेति व्यवस्था सिध्यति । एवमापद्यभ्यनुज्ञा- तोऽपि यावञ्चतुर्थवर्ष कथंचित्प्रायश्चित्तादिसहकृतो रजस्वलाविवाहो ब्राह्मणातिरिक्तविषयक एव न ब्राह्मणविषयकः । तथाहि-"या कन्या पितृवेश्मस्था यदि पुष्पवती भवेत् । असंकृता परित्याज्या न पश्येत्तां कदाचन ।। विवाहे च न योग्या स्यात् लोकद्वयविगर्हि- ता । एतां परिणयविप्रो न योग्यो हव्यकव्ययोः । न तस्यां जनये- त्पुत्रं कानीन इति कथ्यते । माता पिता च पुत्रश्च त्रयस्ते वृषलाः स्मृताः॥ यदा पुष्पवती कन्या तदैव त्यक्तुमर्हति । न तत्र दोषस्त- स्यास्ति गेहस्था चेत्स दोषभाक् ॥” इति हेमाद्रौ मार्कण्डेयेन “यदा रहः पुष्पवती द्विजस्तामुद्वहेद्यदि । कालान्तरे यदा ज्ञाता तदा तां संपरित्यजेत् ।। यदीच्छेदात्मनः शुद्धिं तदा चान्द्रायणं चरेत् । कामातुरस्तदा वर्तेत्स चण्डालसमो भवेत् ॥ पुत्रोत्पत्तिर्यदि भवेत् तदा पतित एव सः।" इति गौतमेन च "तदानीं न परि- त्याज्या पूर्व पुष्पवती न चेत् । प्रायश्चित्तं तदा कृत्वा कर्म कुर्वन्न दोष- भाक् ॥” इति विवाहमध्यदृष्टपुष्पापायाश्चत्तविधायकवाक्यशेषे गर्गाचार्येणापि विवाहात् पूर्व पुष्पवत्या ब्राह्मण्याः परित्यागविवाहा- भावयोरेव प्रायश्चित्तत्वेन प्रतिपादनात् रहः पुष्पवया अज्ञानेन परिणये जातेऽपि पश्चात् ज्ञाने परिणीताया अपि परि- त्यागविधानेन च ब्राह्मगीनां परित्यागरूपप्रायश्चित्तस्य विहितत्वेन रजोदर्शनोत्तरविवाहाभ्यनुज्ञापकानां प्रायश्चित्तान्तरविधायकानां च सर्वेषामपि वचनानां सामान्यविशेषन्यायेन ब्राह्मणातिरिक्त- विषयकत्वस्यैव लाभात् । अन्यथा परित्यागविधियर्थ्यस्य दुष्परि- हार्यत्वादित्येव व्यवस्था निरवद्या सिध्यतीत्यलम् । विस्तरस्तु धर्मव्यवस्थावज्रदर्पणे मदीये आर्यकन्याविवाहकालव्यवस्थाबिम्बा- दनुसंधेयः ॥ इति तृतीयं पुष्पिणीपरिणयव्यवस्थावज्रम् चतुर्थ शारदाशासनव्यवस्थावज्रम् अधुना भारतदेशे श्रीप्रभुभिरङ्गीकृत्य प्रवर्त्यमानमन्ततो निर्बन्धरजस्वलाविवाहप्रापकं संघसंस्कारकम्मन्यहरविलास- शारदानामकेन केनचिद्भारतशासनसभायां समुद्घाटितं कलिमृत्यैः संभूय सर्वैः सभ्यैः संमोह्य च बलात् प्रभूननुमानितं बाल्यविवाह- निषेधनामकं राजशासनमार्यधर्माधिकृतरार्यजातीयैरदोषावहतयानु- वर्तितव्यं भवेत् कैरपि वा कैरपि वा प्राणादिपणप्रदानेनापि कथं- चिदपि नानुवर्तितव्यं भवेत् , यदि नानुवृत्तं स्यात्तर्हि राजदण्डस्य तदुक्तस्यानुभवस्स्यात्, यद्यनुवृत्तं स्यात् तर्हि शास्त्रोक्तदोषभाजनं स्यात् । ईदृशविषमदशापन्नानां जनानां तदनुवर्तनाननुवर्तनयोः का व्यवस्था गतिश्च का तेषामिति प्रश्नसमालोचने प्रागुक्तव्यवस्था- दिशा स्वधर्मानुष्ठानकाटिभिरार्यजातीयैः कैरप्यदुष्टतयानुवर्तितव्यं न भवेदेवेति व्यवस्था स्फुटैव । सर्वेषामपि आपद्धर्मत्वेनापद्धर्मा- णामनापद्यननुष्ठेयत्वेन परित्याज्यत्वस्यैव स्मरणेन दोषबाहुल्य- प्रापकत्वस्मरणेन च प्रायश्चितवैशिष्टयेनाभ्यनुज्ञातेषु शास्त्रनिषिद्धेषु कर्मसु बलात्कारेण दैववशाद्वाप्यनुष्ठेयत्वेन प्राप्तेष्वधर्म्यबुद्धिपूर्वक- मगत्यानुष्ठितेषु च यथावदनुष्ठितानां तत्तत्प्रायश्चित्तानां तत्तद्दोष- निर्णेजकत्वेऽपि प्रकृते शारदाशासनप्रवर्तनस्याद्यावधि प्रजायत्तत्वेन निश्चितत्वात् प्रभुभी राजकृतस्वीयनिर्बन्धाभावेन प्रजानामौदासी- न्ये राजदण्डाभावात् प्रजाकर्तृकराजसंनिधिनिवेदन एव दण्डस्य प्राप्त्या समग्रराजनिर्बन्धाभावात् प्रजानिर्बन्धस्याप्यान्तरङ्गिक- विरोधादिमूलकत्वेनैव तत्र तत्र प्राप्यत्वेन सार्वत्रिकत्वाभावात् समग्रराजापदोऽनिर्वचनीयत्वेन तच्छासनव्याजेन दोषभीतिराहि- त्येन च तत्र प्रवृत्तौ समग्रदोषसंक्रान्तेरशक्यवारणत्वेन विहित- प्रायश्चित्तानां सर्वेषामप्यत्र विवाहप्राक्कालिकत्वेनानुष्ठेयतया विवाहोत्तरं पश्चात्तापेऽपि गत्यभावात् प्रायश्चित्तवार्ताया अपि कुत्राप्यश्रूयमाणत्वात् शास्त्रोक्तदोषभाजनत्वस्यानुष्ठीयमानविवाहेष्व- व्याहतत्वात् । भविष्यति तथैव राजनिबन्धे तत्तत्प्रायश्चित्तानुष्ठान- स्तत्तदोषनिवृत्तिस्तदा भविष्यतीत्यंशस्योक्तप्रायत्वाच । येषां तत्तत्प्रायश्चित्तानुष्ठानपूर्वकमभ्यनुज्ञातो रजस्वलाविवाहस्तेषां क्षत्रियादीनां तदा तथावेऽपि पूर्वोक्तव्यवस्थादिशा ब्राह्मणीनां परित्यागविवाहाभावयोरेव विहितत्वेन गत्यन्तरानुक्तेश्च ब्राह्मणा- नामापद्धर्मत्वेनाप्यनुवर्तनायोग्यत्वमस्य शासनस्य व्यक्तमेव । ब्राह्मणत्वसमुच्छेदकस्यास्य शासनस्य यथाकथंचिदननुवर्तनं प्राणादिपणप्रदानेनापि परलोकभीतानां ब्राह्मणानाम् ऐहिकधर्मा- नुष्ठानकाङ्क्षिणामपि राजदण्डसहनेनापि समुचितम् । पश्चात्प्राय- श्चित्तविशिष्टेन न तु राजदण्ड भीत्या प्रायश्चित्तरहितरजस्वला- विवाहनं समुचितं स्वजातिकुलधर्मादिरक्षणकासुकानां ब्राह्मणाना- मित्यहो कलेरनुग्रहो ब्राह्मणेषु येन येष्वशनिपाततुल्यमीदृशं ब्राह्मण्य- निर्मूलकं शासनं प्रवर्तितमिति खेदास्पदमिदम् । तथा च राज्ञा बलान्निर्बन्धपूर्वकमेतच्छासनप्रवर्तने च राजापद्धर्मत्वेन रजस्वला- विवाहप्रवृत्तौ निरुक्तप्रायश्चित्तानुष्ठानपूर्वकाधर्म्यबुद्धिसहकृतायां यथावदनुष्ठितप्रायश्चित्तेन शास्त्रोक्तदोषनिर्णेजनं भवति क्षत्रिया- दीनामित्येव व्यवस्था ब्राह्म गानां तु पश्चात्कर्तव्यप्रायश्चित्त- विशिष्टकारागारवासादिराजदण्डनमेव सोढव्यम् । न तु प्रायश्चित्त- रहितरजस्वलाविवाहेन राजशासनानुवृत्तेन स्वजातिकुलधर्मभ्रंशः सोढव्य इत्येव व्यवस्था गत्यन्तरहीनास्तीत्यलं पल्लवितेन ॥ इति चतुर्थ शारदाशासनव्यवस्थावज्रम् पञ्चमं रण्डोहाहव्यवस्थावज्रम आर्यधर्माधिकृतेष्वार्यजातीयेषु केष्वपि वा वर्णेषु उत्पन्नानां दैवात् प्राप्तवैधव्यानां क्षतयोनिकानामक्षत- योनिकानां वा स्त्रीणां पुनर्विवाहः कथंचिदपि कासामप्यभ्यनु- ज्ञायते न वा इति विचारे नाभ्यनुज्ञायते शास्त्रेणेत्येव व्यवस्था । दृश्यन्ते चात्र चतुर्विधानि वचनानि धर्मशास्त्रेषु (१) वाग्दानाद्यनन्तरं सप्तपदीनिष्क्रमणात् प्राक् वरनाशमरणादौ पुनर्वि- वाहविधायकानि कानिचित् (२) सप्तपद्यनन्तरमप्यक्षतयोनिकानां भर्तृमरणादौ पुनर्विवाहविधायकानि कानिचित् (३) अपुत्रकाणां विधवानां देवरादेकपुत्रमात्रोत्पादननियोगविधायकानि कानिचित् (४) भर्तृसहगमनयावज्जीवब्रह्मचर्यान्यतरविधायकानि विधवानाम- न्यानि चेति । तत्र प्राथमिकेंऽशे वसिष्ठन "अद्भिाचा च दत्ताया नियेतादौ वरो यदि । न च मन्त्रोपनीता स्यात् कुमारी पितुरेव सा॥” इति, व्यासेनापि 'कन्यान्यस्मै प्रदातव्या वाग्दाने तु कृते वरे। कृतेऽन्यस्मै प्रदातव्या मृते सप्तपदात् पुरा ॥ दत्तामपि हरेत् कन्यां सगोत्रोढां तथैव च । मन्त्रसंस्काररहिता देयान्यस्मै वराय च ॥ इति, मनुनापि-यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेनानुजो विन्देत देवरः ॥ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्यानुमन्यते ॥” इत्येवंजा- तीयकैर्वचनैः सप्तपदीनिष्क्रमणात् प्राक् वरमरणे स्त्रिया वरान्तरेण विवाहो विधीयते । अत्रांशे न केषामपि विप्रतिपत्तिः । न च वाग्दत्ता- दीनां पुनर्भूणां वक्ष्यमाणबोधायनादिवचनैः सिद्धत्वेन वरान्त- रेण विवाहे तासां पुनर्भूत्वापत्त्या वर्जनीयत्वमेव तदुक्तरीत्या प्राप्नो- तीति वाच्यम् “नष्टे मृते" इत्यादिवक्ष्यमाणवचनसिद्धपरिसंख्यया नाशमरणप्रव्रजनक्लीबत्वपातित्यातिरिक्तहेतुकृतवरान्तरविवाह एव पुनर्भूत्वस्य तासां तद्वचनबोधितत्वेन तदन्तर्गतमरण एव प्रकृत- वचनैः पत्यन्तरविधानेन नामां पुनर्भूत्वमित्यदोषात् । किं च प्रधानहोमादिसप्तपद्यन्तसंस्कारस्य वा पितृगोत्रतः पतिगोत्रप्रापणस्य वा विवाहपदार्थत्वेन वीरमित्रोदयादिषु परिष्कृतत्वात् वाग्दानं च प्रदानं चेत्यादिधर्मप्रवृत्तिधृतपूर्वोक्तवचनेन वाग्दानादीनां विवाहस्य पूर्वाङ्गत्वेन ब्रह्मचर्यादीनामुत्तरांगत्वेन च "पाणिग्रह- णिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे॥” इति मनुना, “नोदकेन न वा वाचा कन्यायाः पति- रुच्यते । पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ।।" इति यमेन च, पतिभार्यात्वसिद्धेः सप्तमपद एव पाणिग्रहणसंस्कारेणाभिहितत्वात् 'स्वगोत्राश्यते नारी विवाहात्सप्तमे पदे' इति मन्वादिभिः सप्तमपद एव भर्तृगोत्रप्राप्तेः स्त्रीणामभिहितत्वाच, "चतुर्थीहोममन्त्रेण त्वङ्मां- सहृदयेन्द्रियैः । भर्ना संयुज्यते नारी तद्वोत्रा तेन सा भवेत् ॥” इति च्यवनेन, 'विवाहे चैव निर्वृत्ते चतुर्थेऽहनि रात्रिषु । एकत्वं सा गता भर्तुः पिण्डेगोत्रचसके ॥ इति बृहस्पतिना चाश्वलायनानां चतुर्थीहोममन्त्रपठनोत्तरकालमेव पितृगोत्रनिवृत्त्या पतिगोत्रप्रावे- राभिहितत्वाच वाग्दानोदकदानादिभिस्समग्रपतिभात्वियो- रनिष्पन्नत्वेनानुत्पन्नसमग्रस्वामित्ववतो मरणादौ पत्यन्तराविधा न्यायसिद्धत्वाच । एतेन " नष्टे मृते प्रबजिते क्लीबे च पतिते पतौं । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥” इति रण्डोद्वाह- कामुकावलम्बनभूतं मनुनारदपराशरवचनमपि व्याख्यातप्राय- मिति व्यक्तम् । प्रदर्शितवचनैकवाक्यतासंपत्तये “पतिस्समास एव" इति पाणिनिस्मृतिबलेन च “स तु यद्यन्यजातीयः पतितः क्लीब एव वा । विकर्मस्थः सगोत्रो वा दासो दीर्घामयोऽपि वा । दत्तापि देया सान्यस्मै सप्रावरणभूषणा । विधिवत्प्रति- गृह्यापि त्यजेत्कन्यां विगर्हिताम् । व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥” इति कात्यायनेन " कुलशीलविहीनस्य पण्डादिपतितस्य च । अपस्मारिविकर्मस्थरोगिणां वेषधारिणाम् । दत्तामपि हरेत्कन्यां सगोत्रोढां तथैव च । मन्त्रसंस्काररहिता देयान्यस्मै वराय च । अन्यथा तु हरन्दण्ड्यो व्ययं दद्यात्तु सोदयम्” इति काश्यपादिवचनकदम्बैकवाक्यतया नाश- मरणाद्यतिरिक्तनिमित्तेष्वपि प्राप्तौ तन्निवारणाय च "वाचा दत्ता मनोदत्ता अग्निं परिगता सप्तमं पदं नीता गृहीतगी प्रसूता चेति सप्तविधा पुनर्भूः, तां गृहीत्वा न प्रजा न धर्म विन्देत्” इति बोधायनेन “सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः । वाचादत्ता मनोदत्ता कृतकौतुकमंगला । उदक- स्पर्शिता या च या च पाणिगृहीतिका ॥ अग्निं परिगता या च पुनर्भूः प्रसवा च या ॥ इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत् । प्ररोहत्यग्निना दग्धः पादपः सुचिरादपि । न च पौनर्भवादग्धं कुलं वापि प्ररोहति ॥” इति कश्यपादिभिश्च वाग्दत्तादीनां परवराय दाने पुनर्भूत्वस्यानानेन पूर्ववरमरणादावपि च विवाहाभावप्राप्तौ तत्प्रतिप्रसवत्वेन नाशमरणादिषु पञ्चस्वेवापत्सु परिसंख्यया पत्यन्तरविधायकत्वेन च नष्टे मृत इत्यादिवचने अपतावित्येव च्छेदस्य कर्तव्यत्वेन नजिवयुक्तन्यायेन पतिभिन्नपति- सदृशादिनाशादावेव पत्यन्तरविधानमित्यर्थस्यैवावश्यवक्तव्यत्वेन तद्भिन्नत्वतत्सादृश्ययोरनुत्पन्नसमग्रस्वामित्ववत्येव सिद्धया तन्नाशमरणादावेव पत्यन्तरविधायकत्वमस्य वचनस्येत्यर्थस्य सुव्यक्तत्वात् । बहुषु निबन्धनग्रन्थेषु नष्टे मृत इत्याद्यानुपूर्वीकमेव नारदीयमपि वचनमुल्लिखितं दृश्यते । तथा च नष्टे मृत इत्यादि- वचनस्यापि वाग्दत्तादिपरत्वमेवेति निर्बाध सिध्यति अत्रैव विचारे द्वितीयेऽशे सप्तपद्यनन्तरमप्यक्षतयोनिकानां मृतभर्तृकाणां पुनर्विवाहाभ्यनुज्ञापकेषु वचनेषु युगान्तर- विषयकत्वेन व्यवस्थापि शास्त्रीया स्फुटैन । तथाहि "पाणिग्रहे मृते बाला केवलं मन्त्रसंस्कृता । सा चेदक्षतयोनिः स्यात् पुनः संस्कारमहति ॥” इति मनुवासिष्ठाभ्याम् , “उद्याहितापि या कन्या न चेत् संप्राप्तमैथुना । पुनः संस्कारमर्हेत यथा कन्या तथैव सा॥" इति नारदेन, "निसृष्टाया हते चापि यस्या भर्ता म्रियेत सः । पौन- भवेन विधिना पुनस्संस्कारमर्हति ॥” इति बोधायनेन चैवमेवं- जातीयकैर्वचनैरुद्वाहिताया अपि अक्षतयोनिकायाः पुनर्विवाहो विधीयत इति यत् परैरभ्युपगम्यते तदपि शास्त्राज्ञानविलसितमात्रम् ; यतः “अक्षता चक्षता चैव पुनर्भूः संस्कृता पुनः" इति याज्ञवल्क्येन, "या वा क्लीबं पतितमुन्मत्तं वा पतिमृत्सृज्यान्यं पति विन्दते वा सा पुनर्भूभवति" इति तेनैव वसिष्ठेन 'कन्या चाक्षतयोनियां 3 पाणिग्रहणदूषिता । पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कारकर्मणि ॥" इति नारदादिभिश्च पुनर्विवाहिताया अक्षतयोनिकाया अपि पुनर्भू- त्वस्याम्नानेन,बोधायानेनापि “पौनर्भवेन विधिना"इति स्पष्टीकरणेन च पुनस्संस्कृतायाः पुनर्भूत्वस्य "अक्षतायां क्षतायां वा जातः पौनर्मवः स्मृतः" इति वसिष्ठवचनेन तदुत्पन्नसन्तानस्य पौनर्भवत्वस्य च सिद्धावपि 'अपुत्रेण सुतः कार्यों यादृक्तादृक्प्रयत्लतः। पिण्डो- दकक्रियाहेतोर्नामसंकीर्तनाय च ॥” इति मनुनौरसपुत्ररहितस्य दत्तक्षेत्रजादिपुत्रान्तरसंपादनस्य विहितत्वेन द्वादशविधपुत्रवधु- गान्तरेषु पौनर्भवस्याधमस्यापि पुत्रत्वेन परिगणनात् स्वीकाराच्चैषां वचनानां युगान्तरविषयकत्वमेव न कलियुगविषयकत्वमिति स्फुटत्वात् । दतौरसेतरषां तु पुत्रत्वेन परिग्रहः इति कलि- वयंप्रकरणे सर्वत्र दत्तौरसातिरिक्तपुत्राणां पुत्रत्वेन कलौ परिग्रहामावस्यैवोपपादनात् । अत एव व्यासेन "ऊढायाः पुन- रुद्धाहं ज्येष्ठांशं गोवधं तथा। कलौ पञ्च न कुर्वीत भ्रातृजायां कम- ण्डलुम् ॥' इति, ऋतुनापि “देवरान्न सुतोत्पत्तिः दत्ता कन्या न दीयते । न यज्ञे गोवधः कार्यः कलौ न च कमण्डलुम् ॥” इति, वायवीयसंहितायामपि "मृते जीवति वा पत्यौ न सुतो देवरादितः। क्रान्तसप्तपदांकन्यां नोदहेच कलौ युगे॥” इति, बृहन्नारदीये 'दत्ता- क्षतायाः कन्यायाः पुनर्दानं परस्य च । बालिकाक्षतयोन्याश्च वरेणान्येन संस्कृतिः ॥' इत्यादिभिरक्षतयोनिकानां विधवानां पुनरुद्धाहस्य कलौ निषिद्धत्वात् । युगान्तरेष्वपि “शूद्राणामेव धर्मोऽयं पत्यौ प्रेतेऽत्यसंश्रयः । लोभान्मूढेरविद्वद्भिः क्षत्रियैरपि चर्यते ॥ अज्ञातश्च द्विजो यस्तु विधवामुद्बहेद्यदि । परित्यज्य च तां चैव प्रायश्चित्तं समाचरेत् ॥” इति वृद्धमन्वाश्वलायनादि- वचनानुरोधेन शूद्रधर्मत्वस्य द्विजातिधमत्वाभावस्य च व्यक्त- त्वेन दत्तौरसातिरिक्तपुत्रपरिग्रहाभाववत्यत्र कलौ शूद्राणामपि विधवोद्वाहस्य निषिद्धत्वाच । एतेन नियोगविधेरपि युगान्तर- विषयकत्वमेवेति प्रदर्शितवचनेषु सुव्यक्तत्वात् न तृतीयां- शस्य पृथग्व्याख्यानापेक्षा अप्रकृतत्वाचेति विरम्यते । अनन्त- शयनमुद्रापितनारदीयमनुसंहितास्थस्य "पत्यौ प्रबजिते नष्टे क्लीबे च पतिते मृते" इति भिन्नानुपूर्वीकनारदवचनपाठस्य प्रामाणिकत्वाभिनिवेशेऽपि युगान्तरविषयकत्वस्यैव निरुक्तदिशा लाभान्निरुक्तव्यवस्था निर्बाधं सिध्यति । निखिलमिदमभिसंधाय मनुना 'नौद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्य ते कचित् । न विवाह- विधायुक्तं विधवावेदनं पुनः । अयं द्विजैर्हि विद्वद्भिः पशुधर्मों विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति॥' इत्या- दिना पशुधर्मत्वमेव न मानवधर्मत्वमिति कण्ठत एव नियोगविवा- हादिकं विधवानां निरस्तम् । स्मृतिसारसंग्रहे च "विधवोद्वाहनं कर्म चतुर्युगसहस्रके । न कर्तव्यं न कर्तव्यमृषयः प्रवदन्ति हि॥" इति सर्वयुगनिषिद्धत्वेनोद्घोषितम् । अत एव मन्वादिभिः ब्रह्मचर्य चरेद्वापि प्रविशेद्वा हुताशनम्' इत्यादिवचनकदम्बेन विधवनां सहगमनब्रह्मचर्यान्यतराश्रयणमेव विकल्पेन विहितं च संगच्छत इत्यलं पल्लवितेन । एतेनात्रत्यश्चतुर्थोऽशोऽपि व्याख्यातः ॥ इति पञ्चमं रण्डोद्वाहव्यवस्थावज्रम् षष्ठं चण्डालास्पृश्यतानिवारणव्यवस्थावज्रम् .. पञ्चमादिपदव्यवह्रियमाणानां चण्डालानां विभिन्नविभिन्न- जातीयानां दूरतोऽस्पृश्यता शास्त्रानुमत्या निवारयितुं शक्यते न वेति विचारे न कयापि दिशा कथंचिदपि निवारयितुं शक्यत इत्येव व्यवस्था । तथाहि बृहदारण्यके "तस्मान्न जनमियानान्तमि- यान्नेत्पाप्मानं मृत्युमन्ववायानीति" अन्त्यं जनं चण्डालं प्रति नेयान्न गच्छेन्न समीपस्थो भवेदन्तं तन्निवासस्थानमपि नेयान्न गच्छेद्यतः पाप्मानं तद्तपापं कीदृशं मृत्यु मरणधर्माणं स्वधर्मभ्रंशकं पातित्या- धायकमहमन्ववायान्यनुगच्छेयमिति नेत् भीतो न गच्छत् इत्यर्थक- श्रुत्या साक्षाचण्डालसमीपगमनतन्निवासस्थानगमने प्रतिषिध्यते । तथा पराशरेण परेषां पापिपापसंक्रमणे विषये 'आसनात् शयनात् यानात् संभाषात् सहभोजनात्। संक्रामन्ति हि पापानि तैलबिन्दुः' इति, देवलेन च 'संलापस्पर्शनिश्वाससहयानासनाशनात् । याजना- ध्यापनात् पानात् पापं संक्रमते नृणाम् ॥” इति सहासनसहशयन- सहयानसंल्लापादीनां पापिपापसंक्रमणहेतुत्वेन निरूपितत्वात् । छान्दोग्ये च 'अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्यन्ते श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा" इति श्रुत्या गुरुतरपापिनां श्वसूकरचण्डालजन्मप्राप्तिनिरूपणेन 'चण्डालश्चाधमो नृणाम्' इत्यादिभिः स्मृतिभिरपि चण्डालस्य पापि- ठत्वस्य निरूपणेन च चण्डालानां च शुद्धसंकीर्णसंकीर्णसंकीर्ण भेदेन 6 बहुविधानामानानेन सर्वेषामपि चण्डालपदेनान्त्यजपदेन च व्यवहारस्य सिद्धतयात्राविशेषात् सर्वेषामपि ग्रहणम् । तादृश- चण्डालदर्शनभाषणस्पर्शनादौ सर्वस्मृतिनिषिद्धे कलियुगविषय- प्रमाणमूर्धन्यत्वेन विधवोद्वाहादौ विधायकत्वभ्रान्त्या परैरनुगृही- तायाः पराशरस्मृतेरेव वचनानि प्रथमतोऽत्र प्रदर्श्यन्ते । तथा हि तत्र प्रायश्चित्तप्रकरणे "चण्डालदर्शने सद्य आदित्यमवलोकयेत्। चण्डालस्पर्शने चैव सचेलस्नानमाचरेत् ॥ श्वपाकं वापि चण्डालं विप्रः संभाषते यदि । द्विजैस्संभाषणं कुर्यात् सावित्री तु सकृज- पेत् ॥ चण्डालैस्सह सुप्तं तु त्रिरात्रमुपवासयेत् । चण्डालैकपथं गत्वा गायत्रीस्मरणाच्छुचिः ॥ चण्डालखातवापीषु पीत्वा सलि- लमग्रजः । अज्ञानाच्चैकमक्तेन त्वहोरात्रेण शुध्यति !। चण्डालभाण्ड- संस्पृष्टं पीत्वा कूपगतं जलम् । गोमूत्रयावकाहारस्त्रिरात्राच्छुद्धिमाप्नु- यात् ॥ चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः । तत्क्षणाक्षिपते यस्तु प्राजापत्यं समाचरेत्॥ यदि नोत्क्षिपते तोयं शरीरे यस्य जीर्यति प्राजापत्यं न दातव्यं कृच्छ्रे सान्तपनं चरेत् ।। चरेत्सान्तपनं विप्रः प्राजापत्यमनन्तरः । तदर्थं तु चरेद्वैश्यः पादं शूद्रस्तथा चरेत् ।। भुङ्क्तेऽज्ञानाद्विजश्रेष्ठः चण्डालान्नं कथंचन । गोमूत्रयावकाहारो दशरात्रेण शुध्यति ।। अविज्ञातस्तु चण्डालो यस्य वेश्मनि तिष्ठति । विज्ञाते तूपपन्नस्य द्विजाः कुर्वन्त्यनुग्रहम् ॥ दना च सर्पिषा चैव क्षीरमोमूत्रयावकम् । भुञ्जीत सहभृत्यश्च त्रिसंध्यमवगाहनम् ।। त्र्यहं भुञ्जीत दना च व्यहं भुञ्जीत सर्पिषा । व्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ॥ गृहस्याभ्यन्तरं गच्छेच्चण्डालो यदि कस्यचित् ।
३८ तमगाराद्विनिर्वास्य मृद्भाण्डं तु विसर्जयेत् ॥ रसपूर्ण तु यद्भाण्डं न त्यजेतु कदाचन । गोमयेन तु संमित्रैजलैः प्रक्षालयेद्गृहम् ॥" इत्यादि पराशरस्मृतौ । प्रचेतःस्मृतावपि "चण्डालगृहप्रवेशने चण्डालेनैकगृहे वृक्षच्छायायां वा सहावस्थाने चण्डाल एव स्या- ब्राह्मणानुशिष्टं पाण्मासिकं प्रायश्चित्तं कृच्छ्रे च" इति । च्यवनस्मृता- वपि "चाण्डालसंकरेषु भवनदहनं वपनं सर्वभाण्ड भेदनं दार- वाणां तक्षणं शङ्खशुक्तिसुवर्णरजतशैलानामद्भिः प्रक्षालनं कांस्य- ताम्राणामाकरे शुद्धिः सौवीरपयोदधितक्राणां परित्यागः" इत्यादिभिः बहुधा बहीषु स्मृतिषु च चण्डालसंसर्गे विविधरूपे विविधानां प्रायश्चितानामानानेन चण्डालस्त्रीसंसर्गादिषु च कृच्छ्र- तमप्रायश्चित्तानामानानेन चाबुद्धिकृतेष्वेवैवंविहितेषु प्रायश्चित्तेषु सत्सु बुद्धिकृतेषु च तेषु कीदृशप्रायश्चित्तानामनुष्ठेयतेति निरूपण- स्यापि कृच्छ्रसाध्यत्वेन कथं नाम चण्डालास्पृश्यता शास्त्रानुमत्या निवारयितुं शक्यतेति सुधीभिराकलनीयम् । अत्रेदमवधेयम्- अस्पृश्यता त्वाशौचादिषु शौचकालेष्वप्येकपङ्क्तयुपविष्टेषु ब्राह्मणा- दिषु भोजनाद्यर्थं स्वजातीयेष्वेव परस्परं निमित्तविशेषेषु विधीयते शास्त्रेणाचर्यते च तथाद्यावधि धर्माधर्मज्ञैः। एवं द्विजातीनां शूद्रादिस्पर्शोऽपि निषिध्यते शास्त्रेण सर्वेष्वपि कालेषु, तथैवा- चर्यते च शिष्टैः। परं तु स्वजायादिषु रजस्वलासु सूतकासु च तासां समीपस्पर्शों यथा निषिध्यते तथैव पतितानां चण्डालानां च समीपस्पर्शनिषेधद्वारा दूरतोऽवस्थापनमदृष्टदर्शिना शास्त्रेण तत्त- सापसमाक्रान्तिरन्येषां मा भूत्सांक्रामिकरोगिणामिवेति विधीयते । ।
३९ यथा “युगं युगद्वयं चैव त्रियुगं च चतुर्युगम् । चण्डाल- सूतकोदक्यापतितानामधः क्रमात् ॥ तत्तत्संनिधिमात्रेण स- चेलं स्नानमाचरेत् ।।" इत्यादिवचनैः पराशरादिभिः धर्माधर्म- रहस्यवेदिभिर्युगादिमितदेशव्यवधानेनावस्थापनं तत्तद्वयक्तीनां विधीयते । शास्त्रप्रमाणकैस्तत्र तथानुष्ठानमन्तरा किं कर्तव्यं स्यात् कथं नाम तन्निवारणं शक्यतेति चर्मचक्षुष्कैर्विचारणीयम् । यत्त्वत्र परेषामायुष्मतां कलिभृत्यानां मेधाविलसितं शास्त्रोक्त- चण्डाला एते पञ्चमादय इत्यत्र न मानमिति तत्स्वेषां पुंस्त्वे मानवत्वे आर्यत्वे ब्राह्मणत्वादौ च यदस्ति मानं तदेवात्रापीति स्वैरेव समाधाय यथाकथंचित्सन्तोष्टव्यम् । अनादिसिद्धलोकव्यवहार एव खलु मुख्यमत्र मानम् । स्वेषां तथात्वे निखिलवस्तूनामपीद- मेतद्वस्त्विति परिज्ञाने निर्णये च तत्तद्वस्तुलक्षकं शास्त्रमपि तत्र सहकारीति स्वैरपि वक्तव्यम् परप्रश्ने, तदेवात्रापीति कुतो न ज्ञाय- ते मेधाविमन्यैरेभिरिति चित्रीयते चेतः । किं च बृहल्लम्पाक- ग्रन्थादिषु चोरप्रश्नप्रकरणे चोरावगमकवाक्यादिषु 'पञ्चमान्ता जातिभेदाभावादेव भवन्ति हि" इत्यादिषु तदीयपद्मनाभादि- टीकासु “पञ्चमश्चाण्डालः” इति विवरणादिकमप्यत्र मानमिति गृह्णन्तु परे चण्डालत्वकामुका इत्यलमधिकेन ॥ इति षष्ठं चण्डालास्पृश्यतानिवारणव्यवस्थावज्रम् , सप्तमं देवालयचण्डालप्रवेशनव्यवस्थावज्रम् ७. पञ्चमादिपव्यवह्रियमाणानां चण्डालानां विशुद्ध- शूद्रादीनामिव शिवविष्ण्वादिदेवालयेषु प्रवेशः शास्त्रानुमति पूर्वकमनुमन्तुं शक्यते न वेति प्रश्नसमालोचने कथमपि नानुमन्तुं शक्यत इत्येव व्यवस्था । तथा हि-यदनुरोधेन यन्निर्माण- प्रतिष्ठादिकं जातं जायते च निखिलकर्मप्रवृत्तिस्तत्र तच्छास्त्रस्य मुख्यं प्रामाण्यमध्यवसतव्यम् , अन्यथा तद्विपरीतफलप्रसक्तिरिति प्रकृते देवतायतननिर्माणप्रतिष्ठादिकस्य निखिलभारतवर्षीयशिव- विष्णवादिदेवतासंबन्धिनस्तदीयकल्याणोत्सवादिनिखिलकर्मकलाप- स्य च नित्याराधानादिनिखिलकर्मप्रवृत्तेश्चागमशास्त्राधीनत्वात् आगमशास्त्राणां च मीमांसायां स्मृतितुल्यप्रामाण्यांगीकारेण चात्रागमशास्त्राणां मुख्यप्रामाण्यमवलम्बनीयम् । स्मृत्यादीनां तु तदुपोदलकत्वेनेति प्रथमतोऽत्रागमशास्त्रवचनानि दिङ्मा- त्रेणोदाह्रियन्ते । वैखानसागमे 'पञ्चमहापातकैश्चाण्डालाद्यैश्चालये प्रविष्टे तत्स्पृष्टनिवेदने च महाशान्ति हुत्वा देवं कलशैः संस्खाप्य पुनः प्रतिष्ठां कारयेत्” इति, कारणागमे प्रायश्चित्त- काण्डे "रुद्रस्य वाथ विष्णोर्वा प्राकाराभ्यन्तरे यदि । रजस्वला- वधूश्चैव चण्डालश्च समागतः ॥ ततो ग्रामोत्सवे हस्तशताभ्यन्तरतो यदि । तद्देवस्य कला हीना राज्ञो मरणमेव च ॥ तद्ग्रामस्य क्षयः प्रोक्तः सस्यानां नाशनं ध्रुवम्।' इति, कामिकागमे "म्लेच्छः पाषण्ड- कश्चैव वेदबाह्यश्च नास्तिकः । एतान्यपि च सर्वाणि मर्यादौ च प्रदर्शयेत् ।। अन्येषां चण्डालकादीनां महामर्या प्रदर्शयेत् । वैश्या- नामपि शूद्राणां भद्रमण्डपसेवनम् ॥ इतरेषां तु वर्णानां गोपुरं तु विधीयते । चण्डालपतितादीनां गोपुराबहिरेव हि ।। (मर्या नाम बहि- देशादन्तर्ध्वजबाह्यस्थानम् , महामर्या नामालयादायतं बहिस्स्थान- मित्यागमनिर्णयः) इत्यादिभिरागमशास्त्रवचनैः । देवलेन वृद्ध- हारीतेन च "प्रासाददेवहाणां चाण्डालपतितादिषु । अन्तःप्रविष्टेषु तथा शुद्धिः स्यात्केन कर्मणा ॥ गोभिः संक्रमणं कृत्वा गोमूत्रे- णैव लेपयेत् । पुण्याहं वाचयित्वा तु तत्तोयैदर्भसंयुतैः ।। संप्रोक्ष्य सर्वतः पश्चाद्देवं समभिषेचयेत् । पञ्चामृतैः पञ्चगव्यैः स्नाप- यित्वाथ वैष्णवः ।। प्रत्यूचं पावमान्यैश्च वैष्णवैश्वाभिषेचयेत् । अष्टोत्तरसहस्रं वा शतमष्टोत्तर तथा ॥ चतुर्मिवैष्णवैमन्त्रैः स्नाप्य पुष्पाञ्जलिं तथा । श्रीसूक्तेन तदा दिव्यैर्दद्यान्नीराजनां द्विजः॥" इत्यादिभिर्वचनैः प्रायश्चित्तविधिरुक्ता । धर्मप्रवृत्तौ, "गर्भा- गाराबहिः स्थित्वा तथा प्राकारतोऽन्ततः । चण्डालदर्शनात्सद्यो देवो बिम्बात्पलायते ॥” इति आदित्यपुराणे "खण्डिते स्फुटिते दग्धे भ्रष्टे स्थानविवर्जिते । यागहीने पशुस्पृष्टे पतिते दुष्टभूमिषु ।। अन्यमन्त्रार्चिते चैवमस्पृश्यस्पर्शदूषिते । दशस्वेतेषु नो चक्रुः संनि- धानं दिवौकसः॥” इत्यादिभिर्वचनैश्च चण्डालरजस्वलादीनामालय- प्राकारान्तःप्रवेशे तत्स्पृष्टवस्तुनिवेदने च ग्रामोत्सवादिषु हस्त- शताभ्यन्तरतस्तत्संनिधाने च तद्देवतद्विम्बत्यागकलाहानितद्देशराज- मरणतद्ग्रामक्षयसस्यनाशनादिविप्लवपरम्परावाप्त्यादिकथनपूर्वक तदालयसंप्रोक्षणपुनःप्रतिष्ठादिप्रायश्चित्तविधानेन म्लेच्छादीनां " प्राकारान्तःप्रवेशादिकथनेन च तद्भिन्नगर्भालयादिप्रवेशे च पुनःप्रतिष्ठादिविधानेन च चण्डालानामालयान्तः प्रवेशस्य सर्वशास्त्रनिषिद्धत्वात् एवम् " चौरचाण्डालपतित- श्वोदक्यास्पर्शने सति । शवायुपहते चैव प्रतिष्ठां पुनराचरेत् ॥" भृगुसंहितायाम् "चण्डालैरन्त्य जैश्चैव तथान्यप्रतिलोमजैः म्लेच्छैश्च नीचचाण्डालैर्गुरुनिन्दादिदूषितैः ॥ एवमादिभिः संस्पृष्टे देवागारे विशेषतः । स्पृष्टे प्रवेशने बाधा पूजाकाले च दर्शने।।' इत्यादिभिस्सर्वत्र प्रतिषिद्धयोश्चण्डालप्रवेशस्पर्शनयोश्शास्त्रानुमतत्वं कथं नाम घटतेति विभावनीयम् । अन्ततः श्रौतस्मार्तनिखिलगृह- स्थधर्मसहाधिकारिण्या ब्राह्मण्या अपि 'ब्राह्मण्यपि हरं विष्णुं न स्पृशेच्छ्रेय इच्छती। सनाथा मृतनाथा वा तस्या नास्त्येव निष्कृतिः।।' इति कौर्मवचनानुरोधेन शिवविष्ण्वादिदेवतामूर्तिस्पर्शनेऽनधिकार आनायते । यत्तु पतितपावनशीलस्य तच्छक्तिमतो दयासिन्धोः परमेश्वरस्य दर्शनस्पर्शननमनाराधनादिषु सर्वेषामपि पतितादीनां तत्समुद्धरणैकायोजनवाद्देवायतननिर्माणस्य निर्बाधमधि- कारोऽस्ति ; किं च तेषामेवाधिकार इत्यपि वाच्यः ; पण्डितानां हृद्देशस्थदेवाराधनेनैव कृतार्थतायास्सिद्धेरित्यादि दुयुक्तिजालवदनं कलिभृत्यानां चण्डालकृपाप्रकाशने, तत्तुच्छम् । प्रभुसंनिधिगम- नादौ विशुद्धवेषधारणस्य स्वैरेव क्रियमाणस्य निदर्शनत्वेन दर्श- नेऽपि दृष्टिहीनानामेषां सर्वेश्वरसंनिधानगमनादौ पूतानामेवाधि- कारो नापूतानां भवतीत्यादियौक्तिकोक्तिरप्युच्छृङ्खलानां सविधे व्यथैवेति नैतत्प्रत्युत्तरितव्यं भवेत् । किं तु शैवागमे “प्रति- लोमान्त्यजादीनां स्तूपिं दृष्ट्वा समाचरेत् । दर्शनं गेहचूडाया दर्शनं गोपुरस्य च ॥ अन्त्यजानां तथान्त्यानां विज्ञयं देवदर्श- नम् ।" इति, प्रतिष्ठामयूखे "पादौ पादशिलास्तस्य जङ्घा पादोर्ध्व- मुच्यते । गर्भश्चैवोदरं ज्ञेयं कटिश्च कटिमेखला ॥ स्तम्भाश्च बाहवो ज्ञेया घण्टा जिह्वा प्रकीर्तिता।" इत्यादिवचनानुसारेण देवा- लयस्यैव देवस्वरूपत्वात् , तच्छिखरदर्शनस्यैव देवदर्शनत्वेना- न्त्यजानामानानाचास्तिकानां शास्त्रविश्वासिनां यथोक्तप्रवृत्त्यैव फललिप्सा भवेत् । नास्तिकानां तु विपरीतप्रवृत्त्या विपरीतफल- लाभ एव भवेदित्येवोत्तरितव्यं भवेदित्यलम् । एवं स्थिते वस्तुतत्त्वे म्लेच्छभाषाक्षराभ्यासिनो देवभाषागन्धरहिताः स्वधर्मवासना- शून्याः स्वैरचरिष्णवः स्वधर्मनिर्मूलनपराः केचिदार्यम्मन्याः स्व- विग्रहाराधनमात्रतत्पराः श्रीभगवद्विग्रहाराधननिर्मूलनोद्यता देवा- लयेषु चण्डालप्रवेशनद्वारा श्रीभगवन्तमेव भारतवर्षात् प्रस्थापयितुं दुःशासनादिमुखेन प्रवृत्तास्तदाराधनायास्तिकैर्दत्तं स्थिर- चरद्रव्यं चण्डालेभ्यो वशीकर्तुं यतमानाः स्वाशयसिद्धये शुष्क- वेदान्तवाक्यैर्दुयुक्तिजालं जल्पन्ति यदाराधनेन तस्मै कलये नमः- सहस्रं समर्प्य प्राणपणेनापि देवालयरक्षणायास्तिकाः प्रयतेरनिति विज्ञप्तिपूर्वकं विरम्यते ॥ इति सप्तमं देवालयचण्डालप्रवेशनव्यवस्थावज्रम् ४४ ८. अथाष्टमं विवाहविच्छेदव्यवस्थावज्रम् दम्पत्योवैधविवाहसंस्कारप्रयोज्यः स्वस्वामिभावः परस्पररागाद्यभावमूलकपरस्परपरित्यागेन नश्यति लौकिकेन न वेति विचारे न कदापि नश्यतीत्येव व्यवस्था । तथाहि "पाणिग्रहण- मन्त्रास्तु नियतं दारलक्षणम् । न निष्क्रयविसर्गाभ्यां भर्तुर्भीर्या विमुच्यते ॥ एवं धर्म विजानीमः प्राक्प्रजापतिनिर्मितम् । यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः॥ तं शुश्रूषेत जीवन्तं संस्थित च न लङ्घयेत् । (संस्थितं मृतमित्यर्थः) मंगलार्थं स्वस्त्ययनं यज्ञ- श्वासां प्रजापतेः ॥ प्रयुज्यते विवाहेषु प्रदान स्वाम्यकारणम् । नोदकेन न वा वाचा कन्यायाः पतिरुच्यते ॥ पाणिग्रहणसंस्कारा- पतित्वं सप्तमे पदे ।" इत्यादिवचनैमन्वादिभिः सप्तपदीसंस्कारो- त्पन्नपतिभार्यात्वयोः स्वस्वामिभावयोश्च नैयत्यप्रतिपादनेन त्याग- मरणादिभिरनिवृत्तिचोदनेन च 'या पत्या वा परित्यक्ता विधवा स्वच्छयापि वा। उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते॥ मृते भर्तरि या नारी त्यक्तवत्यथ तं स्वयम् । सवर्णाज्जन गर्भ भर्तुः पौनर्भवं सुतम् ॥'इति मनुब्रह्मपुराणादिवचनैरन्योन्यत्यागेन स्त्रियाः परपुरुष- परिग्रहे तदुत्पन्नसुतस्य पौनर्भवत्वाम्नानेन तस्याः पुनर्भूत्वापत्त्या च वैवाहिकस्वत्वनाशे पूनर्भूत्वपौनर्भवत्वयोरापत्तेरसङ्गतत्वापत्त्या च तर्पण प्रत्यहं कार्य भर्तुः कुशतिलोदकैः । तत्पितुश्वापि कर्तव्यं नामगोत्रादिपूर्वकम् ॥” इत्यादिना स्मृतिसारसंग्रहे नित्यतपर्ण- दानादिविधानासंगत्यापत्त्या च 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते- स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥ भार्यापिण्डं पतिर्दद्याद्भत्रै भार्या तथैव च श्वश्चादेश्च स्नुषा चैव तदभावे सपिण्ड- काः॥ पुत्राभावे तु पत्नी स्यात् पल्यभावे तु सोदरः" इति बृद्धमनु- शङ्खादिवचनैः निर्णयसिंधुधृतैः पुत्राभावे पत्न्या एव भर्तृश्राद्धाधि- काराम्नानेन च वैवाहिकस्वस्वामिभावस्य कदाचिदपि कथंचि- दप्यनिवृत्तेः । तथाच स्वधर्मशास्त्रवासनारहितानां म्लेच्छादिमता- न्तरव्यामोहेन तद्भावमभिकांक्षमाणानामधुनातनानां म्लेच्छदीनामिव दम्पत्योर्विवाहविच्छेदाय शासनकरणे यतमानानामुद्यमः कलि- भृत्यानामनार्यतासंपादक एवेत्यलम् ॥ इत्यष्टमं विवाहविच्छेदव्यवस्थावज्रम् अथ नवमं वर्णान्तरविवाहव्यवस्थावज्रम् ? ९. सार्ववर्णिकतया वर्णान्तरविवाहानां मन्वादिभिरुक्तत्वात् वर्णा- न्तरविवाहा अधुना कुनो नानुष्ठया ? अनुष्ठितेषु कतिपयेषु शिष्टाः कुनो वा गर्हन्ति तान् ? अत्र शास्त्रानुमतिरस्ति वा न वेति विचारे नानुष्ठेयता कलावित्येव व्यवस्था । यद्यपि “सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिभाः स्युः क्रमशोऽवराः । शनैव भार्या शूद्रस्य सा च स्वा च विश स्मृते । ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥” इति वचनैर्मनुना कामतस्तुप्रवृत्ताना- ४६ मियनेन भोगार्थमनुलोमस्त्रीणां विवाहोऽभ्यनुज्ञातः ; तथापि तदनन्तरश्लोकैरेव "न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः । कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः । कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ॥” इत्यादिभिः शूद्राविवाहस्य द्विजानां हेयत्वमेव समुप- न्यस्तं कुलभ्रंशकत्वेनेति तदतिरिक्तवर्णान्तरविवाहस्य भोगार्थ- त्वेन धर्म्यत्वमापततीत्युक्तिरपि शास्त्रापरिज्ञानमूलिका । 'द्विजानामसवासु कन्यासूपयमस्तथा' इत्यादिभिः कलिवर्येषु वृद्धपराशरादिभिरसवर्णाविवाहस्य निषिद्धत्वान्न भोगार्थोऽपि वर्णान्तरविवाहो धर्म्यः किं तु कुलभ्रंशक एवेत्यलम् ॥ इति नवमं वर्णान्तरविवाहव्यवस्थावज्रम् अथ दशमं म्लेच्छमतप्रविष्टार्यमतपुनःप्रवेशव्यवस्था- वज्रम् १०. आर्यमतविरुद्धम्लेच्छजातीयकैस्तवमहम्मदीयादिमतवेष- भाषाचारसिद्धान्तव्यामोहेन सुखसाधनबुद्धया स्वमतन्यक्कार- सर्वस्वधर्मत्यागपूर्वकमनार्यम्लेच्छमतस्वीकारम्लेच्छमताचारादी- नखिलाननुतिष्ठतां म्लेच्छसहभोजनम्लेच्छनीसंगादिविविधसंसर्ग- दुष्टानामार्यजातिभ्रष्टानां पश्चात्तापादिवशेन पुनरार्यजातिमत- धर्मानुष्ठानादिलिप्सायां तत्प्राप्त्यधिकारप्रापककर्मविशेषाः शास्त्रानु- गृहीताः सन्ति न वा ? सन्ति चेके ते? इति प्रश्नसमालोचने तादृशानामार्यत्वप्रापकाः कर्मविशेषा न केऽपि सन्ति शास्त्रीयाः, किं तु म्लेच्छत्वमेव शरणं तेषामित्येवात्र व्यवस्था । अत्र च विषये श्रीकाशीमहाब्राह्मणसंमेलनविद्वत्परिषदि बहुतरविचारेण श्रीश्रीश्रीधर्माचार्यचरणैर्मध्यस्थैश्च महामहा- विद्वद्भिः विरचिता व्यवस्थाः सन्येव । यथा अष्टाचत्वारिंशद्वार- मकामत एकामत्रभोजनादिरूपगुरुतरसंसर्गे कृतेऽपि प्रायश्चित्तेन व्यवहार्यता । कामतस्तूक्तविषये चतुर्विंशतिवाराभ्यासे तथा- त्वम् । एकपङ्क्तयुपविष्ट भोजनादिरूपलघुभोजनसंसर्गादि कामतो वत्सरेण कामतस्तु वत्सरार्धेनाव्यवहार्यता । तत्स्त्रीगमने त्वकामतो वारद्वयाभ्यासेन कामतस्तु सकृदेव कृतेऽव्यवहार्यतेति । ततो बलात्कारितम्लेच्छदास्यादिस्थले वित्यादिना बलात्कारविष- यिण्यो व्यवस्थाः कृताः। वैशिष्टयेन बलात्कारितस्थले तत्तद्विशेष- व्यवस्थापूर्वकमाचतुर्वष प्रायश्चित्तीयता । ततः परं तु प्रायश्चित्तीय- तैव निरस्ता । 'गृहीतो यो बलात्' इत्यादिभिर्यावदिशतिवर्ष- प्रायश्चित्तीयता तु देवलोक्ता म्लेच्छैस्सहोषितः' इत्याापक्रमबलेन सहवासमात्रपरमित्यादि व्यवस्थापितम् । सनातनधर्मप्रदीपे च यावद्वर्षचतुष्टयमेव च स्वधर्मानुष्ठानयोग्यतामात्रादितत्तद्विशेष- पूर्विका व्यवस्थाः कृताः । परिशीलितं च देवलस्मृतेः प्रामाण्यंतै- ४८ यी चात्र मुख्यं शरण व्यवस्थासु । निर्धारितं च शूलपाण्यातिव्यव- स्थानुसारेण वचनान्तरसंवादेनैव च तस्याः प्रामाण्यमपि । एवमेता एव व्यवस्था द्वीपान्तरवासप्रतिनिवृत्तविषयेऽपि श्रीधर्माचार्यैरनु- गृहीताः । परं तु सर्वाश्चेमा व्यवस्था न प्रकृतप्रश्नविषयाः । विविधम्लेच्छसंसर्गवशेन कामतो दुद्दाष्टकृतेन स्वमतस्वधर्मसर्वस्व- त्यागपूर्वकं म्लेच्छमतेषु प्रविशय स्त्रियश्च तेषां तदीयोद्वा- हादिपूर्वकमुपभुज्य नित्यशस्तदीयविविधाभक्ष्यभक्षणापेयपानादिभिः संवत्सरन्यूनकाल एव तद्भावमापन्नानामथवा स्वजातिभ्रष्टानां तत्सारूप्यादिपञ्चविधमुक्तिभाजां शुद्धिसंस्कारव्याजेन कलिमृ यहि न्दुसंख्याधिक्यमात्रसंपादनकामुकैरुद्धाट्य प्रवर्तिते प्रवर्त्य माने चार्यधर्मानुतिष्ठासामात्रहितार्यमतपुनःअवशे निर्दिष्टप्रायश्चित- व्यवस्थानां निर्विषयत्वात् । तासां तात्कालिकमोहबलात्कारा- दिभिम्लेंच्छसंसर्गे प्रवृतानां हृदयपूर्वकस्वीयगुरुतरपश्चात्ताप- तप्तानां जनानां प्राप्ते प्रायश्चितविधाने तदीयसंसर्गविशेगादिपा- पतारतम्येन तद्विधानमात्रौपविकत्वेन तत्कथामात्रस्यापि प्रकृते, प्रसक्यभावाच । परं वियोनवांशोऽत्र विचारगीयो दृश्यते देवल- स्मृतेः प्रामाण्याप्रामाण्यविधायिगी चर्चा किमर्थं प्रवृत्ता वचना- तरसंवादेन शूआण्यादिव्यवस्थानुरोधेन च तस्याः प्रामापनि ति व्यवस्था चेति तत्र बलादीसाकरणवलान्नयनादिषु व्यवस्था- पकानां देवलवचनानामन्यत्र निबन्धेषु दृष्टत्वात्-'अपेयं येन संपीतमभक्ष्यं वापि भक्षितम् । म्लेच्छैनौतेन विप्रेगद्यगम्यागम- नं कृतम् ॥ तस्यशुद्धि प्रवक्ष्यामि यावदेकं तु वत्सरम् । चान्द्राय गं तु विप्रस्य सपराकं प्रकीर्तितम् ॥” इत्यादि । 'बलाबासीकृता ये तु' इत्येतद्वचनपर्यन्तमारम्भ एव दृश्यमानानामानन्दाश्रम- मुद्रितायामान्ध्राक्षरमुद्रितायां च देवलस्मृतौ वचनानां तुरुष्की. गमनादित्रायश्चित्तप्रकरणेषु हेमादयनुद्घाटिनत्वेन विभिन्न विभिन्न- प्रायश्चित्तविधायकमन्वादिवचनैकवाक्यताराहित्येन च व्यामोह- नादिभिरबलान्नयने प्रायश्चित्तविशेषप्रतिपादकानां प्रामाण्या- प्रामाण्य विशये न तैरेव हेतुभिः प्रामाण्यं च तत्र व्यवस्थाप्य हृदये तच्चरीतव्यवस्थे कृते इति वक्तव्यम् । अत एव चैतानि वचनान्यनुद्घाटयैव ग्रन्थान्तरवचनान्तरानुरोधेन च तथा व्यवस्था विभिन्नाः कृता इति च । परं तु समबलयोः स्मृत्यो रन्यतरस्या इतरापक्षेया प्रायश्चित्तभेदनिरूपणमात्रेण तथा समुपलभ्यमाननिबन्ध- नानुपलंभमात्रेण चाप्रामाण्यकल्पनं न्याय्यं न वति विशेते हृदयम् । मुद्रितदेवलस्मृतिग्रन्थेष्वनुपलभ्यमानानां हेमाद्रयादिधृतानां चण्डा. लश्च तुरुष्कश्च द्वावेतौ तुल्यपापिनौ । तदङ्गना तथा ज्ञेया विप्रैः पापभयातुरैः ॥' इत्यादीनां वहूनां वचनानां देवलीयानामुपलम्भेन विभिन्नपठिनानां च बहूनामुपलभेन च देवलस्मृतेस्त्रुटितत्वे संशयाभावेऽपि समुपलभ्यमानानां प्रामाण्येन परिग्रहे प्रतिबन्धा- भावेन निबन्धनग्रन्थाधृतत्वमात्रेण समुपलभ्यमानवचनानामप्रा- माण्यवचनस्यान्याय्यत्वात् । पुष्पिणीपरिणयादिग्रन्थान्तरानुपलभ्य- मानपरित्यागादिविधायकवचनानां हेमाद्रिमात्रधृतानामप्रामाण्य- कल्पनस्याभाववत् यत्र क्वचन ग्रन्थे समुपलभ्यमानानामेव स्मृति- घटकवचनानां प्रामाण्यपरिग्रहे शरणीकृत एवैषामप्रमितत्वेन 4 वैदिकाभरणजगदल्लमादीनां निबन्धनग्रन्थानाममुद्रितानां चाद्या- वधि तत्र तत्र समुपलभ्यमानत्वेन तत्रापि विनिगमकाभावेन च पुष्पिणीपरिणयव्यवस्थोक्तदिशा रिपुंजयोक्तसार्ववर्णिकचान्द्रायण- चतप्रायश्चित्तस्य निर्णयसिन्ध्वाधुक्ताश्वलायनादिविहितप्राय- चित्तस्य चैकस्मिन्नेव क्षत्रियादिपुष्पिणीपरिणये भेदेऽपि तयोरुभयोरपि प्रायश्चित्तयोः प्रमितत्ववच्च तथा बहुत्र प्रायश्चि- त्तांशे भेदस्य दृश्यमानतया च प्रकृतम्लेच्छकृताबलान्नयनप्रायश्चित्त विधायकानां देवलवचनानां प्रमितत्वे परिगृहीते च सति तदुक्तापेयपानाभक्ष्यमक्षणागम्यागमनानां सकृत्वासकृत्त्वादिभेदानां तत्रानुक्ततया सकृदसकृत्कृतानामपि तेषां तद्विहितसपराक- चान्द्रायणादिप्रायश्चित्तापनोद्यदोषत्वं प्राप्नोति । 'तुरुष्की यो द्विजो गच्छेत् पञ्चबाणातुरः सकृत् । अज्ञानाज्ज्ञानतो वापि पूर्ववच्छु- द्धिरीरिता ॥' इत्यादिमार्कण्डेयादिवचनान्तरैकवाकयतायां हेमा- द्र याद्युक्तदिशा श्रीकाशीस्थनिरुक्तदिशैव व्यवस्थाः प्राप्नुवन्तीति। न च सकृत्त्वासकृत्त्वादीनामत्र वचनान्तरसापेक्षत्वेन तदेकवाक्य- तया तत्सिद्धिरिति वाच्यम् । विभिन्नविधेयस्थले तथा कल्पनस्यान्या- व्यत्वादिति युक्तदर्शनभारोत्र विशयापनोदनभारश्च विदुषा- मुपर्येव निक्षिप्यत इत्यलं पूज्यव्यवस्थाविमर्शापराधेन । अत्र चण्डालीगमने यादृशं प्रायश्चित्तं तादृशमेव तुरुष्कीगमनेऽपी- त्यतिदिदिशुः । तत्रापि प्रायश्चित्तभेदा आम्नाताः पराशरादिभि- रित्यन्यदेतत् । तथा च विविधम्लेच्छसंसर्गभ्रष्टजातीनामार्याणाम् आर्यत्वप्रापकाः कर्मविशेषा न कुत्रापि शास्त्रानुगृहीताः सिध्यन्तीति सिद्धमित्यलमधिकेन ॥ इति दशमं म्लेच्छमतप्रविष्टार्यमतपुनःप्रवेश- व्यवस्थावज्रम् अथैकादशं जातिव्यवस्थावज्रम् . ११. जन्मकृता वा जातिरुत गुणकर्मकृता तत्तद्धर्मानुष्ठानप्रयो- जिका लोकव्यवहारप्रयोजिका चाथवोभयकृता वेति प्रश्नसमालो- चने जन्मसिद्धैव जातिर्नैसर्गिकीति तत्तद्धर्मानुष्ठानप्रयोजिका लोक- व्यवहारप्रयोजिका चातिदेशिकी गुणकर्मकृता तु प्रायेण शास्त्रीय- निषेधप्रवर्तनप्रयोजिका भवतीत्येव व्यवस्था ॥ तथाहि- जातिशब्दार्थपर्यालोचने जनीप्रादुर्भाव इत्यतः कर्मणि तिनि जननेन प्राप्यत इति जातिः इति व्युत्पत्त्या प्रादुर्भावप्राप्या जाति- रित्यर्थस्य सिद्धत्वाद्धटादिषु घटत्वादेर्घटादिप्रादुर्भावप्राप्यत्वात् प्रादुर्भावप्राप्यत्वमेव जातिलक्षणं सिध्यति । तथा च महामाष्ये 'प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्गुणैः । असर्वलिंगां बह्वा तां जाति कवयो विदः ॥' इति जातिलक्षणं निरूपितं जातेरस्त्रीति सूत्रे । द्रव्यस्य प्रादुर्भावविनाशाभ्यां या प्रादुर्भावविनाशौं प्राप्नोति या च गुणैः सह संबध्यते या च सर्वाणि लिङ्गानि न ५२ च भजते या च नानावस्त्वनुगता तां जातिमिति विपश्चितो विदुरि- त्यर्थः । एवं च प्रादुर्भावप्राप्यत्वमतिरोहितं जातेः । अत्र कलि- भृत्याः-विशिष्टगुणकर्मणोरेव तत्तजातिप्रयोजकत्वं वक्तव्यम् । न तु विशिष्टजन्मनः । अत एव गीतायां 'चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः' इति गुणकर्मविभागेन चातुर्वर्ण्यसृष्टिकथनं संगच्छते । अत एव च विश्वामित्रादीनां जन्मतः क्षत्रियत्वेऽपि गुणकर्मवशात्तेषां ब्राह्मणत्वप्राप्तिमुपवर्णयन्त्युपाख्यानानि संगच्छन्ते, इत्यादिकं वदन्ति । अत्रैवं वदन् वादी प्रष्टव्यः- किं जन्मान्तरीयगुणकर्मविभागेन चातुर्वर्ण्यसृष्टिरुक्तेत्यभिप्रेयत उतैतजन्मगततद्विभागेन ? अत्र प्रथम ओमिति ब्रूमः । जन्मान्तरीय- गुणकर्मविभागेन तत्तन्मिथुनापादानकसृष्टेरंगीकृतत्वेन भवता प्राथमिकसृष्टेरप्येतत्कल्पीयायाः कल्पान्तरीयतत्तजीवगतगुणकर्म- विभागप्रयोज्यत्वस्यांगीकृतप्रायत्वात् तत्तजन्मावाप्तौ तत्तद्गुण- कर्मवासनयोः प्रयोजकत्वस्येष्टत्वात् तअन्मप्रयुक्तजातेरंगीकारस्या- वाप्तेः । द्वितीये तु गर्भस्थे जातमात्रे वा शिशौ कीदृशं गुणकर्मसम- वायं दृष्ट्वा तत्र जाति व्यवस्थाप्य तत्तज्जातीयाः पुंसवनसीमन्तो- नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनादयः संस्काराः प्रवर्तयितव्याः प्रवर्तन्ते चाधुनायुष्मन्निति । न हि गर्भवासदशायां शैशवदशायां वा सत्त्वादिगुणपरीक्षा शमादिकमरीक्षा वा शक्यते कर्तुम् । तदानीं तदसंभवात् । संस्कारककर्मविधायकवाक्यैस्ता- दृगान्तरंगिकतत्परीक्षाप्रकारस्य कुत्राप्यबोधनाच्च । वर्तमानगुण- कर्मसमवायस्यैव जातिप्रयोजकत्वांगीकारेण भाविगुणकर्मसम- वायस्य तत्त्वांगीकारे प्रयोजनाभावात्तावत्पर्यन्तमसंस्कारापत्तेश्च । अतोऽवश्य भवता तादात्विकैतद्भवीयविशिष्टगुणकर्मणोरिव प्राग्भवीयविशिष्टगुणकर्मणोरपि जातिप्रयोजकत्वमकामेनाप्यभ्युप- गन्तव्यं स्यादित्यवेहि । किं च भवदुक्तदिशा सृष्टिप्रवृत्तौ तत्त- जात्यवच्छिन्नतत्तद्वयक्तिसृष्टेः प्रागेव तत्तद्गुणकर्मसृष्टिवक्तव्या । सा च विप्रतिषिद्धा । गुणकर्मणोराधेयत्वेनाधारमन्तरा तयोः स्थित्यसंभवात् । अतो व्यक्तिसृष्टयनन्तरमनया व्यक्तया चैतद्गुण- कयैतत्कर्मिकया च भाव्यमित्युद्दिश्य तत्तद्वयक्तीः सृष्ट्वा तत्त- द्गुणाः तत्तत्कर्माणि च तासां मयैव विहितानीत्यर्थस्यैव प्राप्ते- विपरीतवासनामूलकमज्ञानविलसितमिदमायुष्मत इत्येवात्र प्रत्युत्त- रितव्यं भवति । इदमेव बालकेन विश्वामित्रादीनां जन्मतः क्षत्रियत्वेऽपीत्यादिना स्ववचनव्याहतेन वाक्येन प्रपंचितं भवता। जन्मप्रयुक्तजात्यभावे क्षत्रियत्वं कथं प्रत्यक्षं भवतः । किं च विश्वामित्रस्य बाह्मण्यं मातृकर्तृकब्रह्मौदनाशनाद्धेतोर्जन्मप्रयुक्तमेव न तपसाप्तमिति महाभारतानुशासनपर्वणि 'न ब्राह्मण्यं क्षत्रियायैस्तपःकोट्यापि लभ्यते । विश्वामित्रस्य ब्राह्मण्यं मात्रा ब्रह्मौदनाशनात् ॥” इति चतुर्थाध्यायस्थेन वचनेन स्पष्टीकृतम् । अत एव चात्रिसंहितायाम् 'जन्मना ब्राह्मणो ज्ञेयः संस्कारैजि उच्यते । विद्यया याति विप्रत्वं श्रोत्रियस्त्रिभिरेव च ॥' शातातप- संहितायां 'जन्मनैव महाभाग ब्राह्मणो नाम जायते ।' मनुस्मृतौ 'सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते॥ संवर्णेभ्यस्सवर्णासु जायन्ते वै सजातयः॥"
कौशिकसंहितायाम् 'न हि जातिपरा वृत्तिश्चिह्नमात्रपरिग्रहात् । न नापितो ब्राह्मणत्वं याति सूत्रादिसंग्रहात् ॥ कलौ ब्राह्मणता वीर्यात्तपश्चर्यादिना न हि । शुद्धं त्वशुद्धतामेत्य शोधनाच्छुध्यते पुनः ॥ यच्च स्वभावतोऽशुद्धं तन्न शुध्यति शोधनात्।' इत्यादीनि परश्शतानि वचनानि जन्मनैव जातिव्यवस्थापकानि संगच्छन्ते । अत एव ब्रह्मक्षत्रवैश्यानां द्विजातित्वसिद्धिः । किं बहुना । 'अथ य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्ते ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा । अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्यन्ते श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा' इत्यादिच्छान्दोग्यश्रुत्यादय एव कण्ठत एव पुण्यपापकर्मभिस्तत्तत्संकेतविशिष्टजन्मप्राप्ति- बोधनेन जन्मत एव जाति वदन्ति । अत एव चानुलोमप्रतिलोम- संकीर्णजातिव्यवस्थापिमनुकृता घटते । लोके च जन्मत एक राजकीयजन्मपत्रलेखादिष्वपि तत्तत्संकेतैरेव व्यवहियत आबाल- गोपम् । दुर्ब्राह्मणब्राह्मणब्रुवब्रह्मचण्डालादिषु कर्मप्राप्तप्रकृष्टदोष- सामानाधिकरण्येऽपि जन्मप्रयुक्तब्राह्मणत्वादिपराहतिस्तत्त- संकेतेषु नोपवयेते न विसृज्यते च । एतेन गुणकर्मवशादपि जन्मप्रयुक्तजातिसामानाधिकरण्येन जात्यन्तरावाप्तियाख्याता । गुणकर्मवशाजात्यनवाप्ति स्माभिः प्रतिज्ञायते । किं तु जन्म- प्रयुक्तजातेर्नान्तरीयकत्वमित्येव । परं तूत्कृष्टजातिसंपादनस्य 'तपोबीजप्रभावैस्तु' इत्यादिना तपोविशेषमात्रसाध्यत्वात्कृच्छू- लभ्यत्वम् । निकृष्टजातिसंपादनस्य त्वतिसुकरत्वं चेत्यावेद्यते ।
एतेन च 'न जातिः पूज्यते राजन् गुणाः कल्याणदायकाः । चण्डालमपि सद्वृत्तं तं देवा ब्राह्मणं विदुः ।। शूद्रे चैव भवेल्लक्ष्म द्विजे तच्च न दृश्यते । न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥” इत्यादीन्येवंजातीयकानि गुणकर्मज्ञानप्रशंसापराणि न तत्तजातीयकर्मानुष्ठानप्रयोजकानि लोकव्यवहारप्रयोजकानि वा भवन्तीत्यपि दर्शितम् । तेष्वेव वचनेषु तत्तजातीयसंकेतापरि- त्यागेनैव तत्तन्निर्देशादित्यलमधिकेन ।। इत्येकादशं जातिव्यवस्थावज्रम् अथ द्वादशमेकयामविवाहोपनयनव्यवस्थावज्रम् १२. अधुना ब्राह्मणेष्वपि प्राचुर्येण प्रवर्त्यमानानामेक- याममात्रकालनिर्वयमानयावत्कर्मकलापानां विवाहोपनयनानां सांग- संस्कारसंयुतत्वेन विधत्व सिद्धयाशास्त्रनिर्दिष्टफलप्रापकत्वं सिध्यति न वेति प्रश्नविचारे सांगसंस्कारसिद्धयभावेन वैधत्वासिद्धया निर्दिष्ट- फलप्रापकत्वमेकयामविवाहोपनयनानां न सिध्यतीत्येव व्यवस्था । हि-संस्कारपदार्थस्यात्मशरीरान्यतरस्थायिविहितक्रिया- जन्यातिशयविशेषरूपत्वेन वीरमित्रोदयादिषु परिष्कृतत्वेन तेषु च विवाहोपनयनयोराश्रमप्रापकत्वेन द्विजातीयतत्तन्निखिलधर्मा- नुष्ठानाधिकारप्रापकत्वेन च यथावदनुष्ठितयोरेव तयोस्तादृशा- तथा धिकारप्रापणक्षमत्वात् द्विजातीयधर्माणां प्रायेण सर्वेषामपि अग्निहोत्राधारकत्वेन तल्लोपे तल्लोपप्राप्त्या तयोस्तदंगानां वाप्यविधिना कृतानामिवाकालकृतानामप्यकृतत्वात् प्रकृते च विवाहोपनयनयोः संस्कारयोर्मुख्ययोर्मुख्यांगभूतौपासनारंभस्यैव लोपात् तस्य चारंभस्य 'सायमेवाग्निपूजेत्येके' 'प्रक्रमो नित्यहोमस्य स्थालीपाकादनन्तरम् । सायमेवेत्यनुब्रूयुः मुनयस्तत्त्व- दर्शिनः ॥' इत्याद्यापस्तंबादिवाक्यैः सायंकाल एव विहितत्वेनो- भयोरपि प्रातरुपनयने विवाहे च प्राप्तरेवाभावादारब्धपरित्यक्तस्यौ- पासनस्य पुनरारंभावश्यकतायां विच्छिन्नहोमादिप्रायश्चित्तानां विहितत्वेऽपि विहितकालानारब्धौपासनारम्भाय कुत्रापि प्रायश्चि- त्तानामविहिततया यावजीवमौपासनाग्निलोपरूपश्वित्रतुल्यदोषदुष्ट- त्वमेकम् । तस्य चौपासनानेः “नित्यो धार्यः व्यहमेतमग्निं धारयन्ति" इत्यादिसूत्रैः गृहस्थस्य ब्रह्मचारिणश्च नित्यत्वेनाम्नातस्य लोपात्तदा- धारककर्मलोपरूपद्वितीयदोषदुष्टत्वम् । एवमत्रैव दिवसत्रयाग्निधार- णस्य वटोविहितस्य लोपवत् 'क्षारलवणवर्जनं च' इत्यादिविहित- त्रिरात्रब्रह्मचर्यदीक्षालोपेन चतुर्थदिवसकर्तव्यदीक्षावस्त्रविसर्जन- पालाशहोमकर्मादिलोपरूपदोषदुष्टत्वमुपनयने । तथा विवाहे प्रातः- कालिके 'उदितेषु नक्षत्रेषु प्रचीमुदीची वा दिशमुपनि- कम्य उत्तराभ्यां यथालिंगं ध्रुवमरुन्धती च दर्शयति, अथैनामा- नेयेन स्यालीपाकेन याजयति' इत्याद्यापस्तंबोक्तारुन्धतीदर्शन- स्थालीपाकादीनां 'त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्य क्षारलवणवर्जन च । तयोः शय्यामन्तरेण दण्डो गन्धलिप्तो वासनासूत्रेण वा .
परिवीतस्तिष्ठति' इत्यादिविहितनित्यब्रह्मचर्यगन्धर्वस्थापनादीनां प्रधानांगभूतानां तथा 'तं चतुर्थ्यापररात्र उत्थाप्य' इत्यादिसूत्रविहितगन्धर्वोत्थापनादिशेषहोमान्तकर्भकलापस्य चतु- थदिवसापररात्रकर्तव्यस्य मुख्यांगस्य लोप इत्यादिवहुदोष- दुष्टत्वमिति ईदृशमुख्यांगकर्मकलोपरूपमहादोपदुष्टयोरेकयामोप- नयनविवाहयोः सांगसंस्कारयुतत्वेन वैधत्वसिद्धिः कथं नु घटत इति विभावनीयं विद्वद्भिः। 'वाग्दानं च प्रदानं च वरणं पाणिपीडनम् । सप्तपदीति पंचांगो मुनिभिः परिकीर्तितः ॥' इति धर्मप्रवृत्तिधृतवचनेन वाग्दानप्रदानादीनां पूर्वागत्वेन प्रधानहोमादि- सप्तपद्यन्तसस्कारस्यैव विवाहपदार्थत्वेन वीरमित्रोदयादिष्वाम्नानात् दर्शितापस्तंबप्रयोगसूत्ररीत्याग्निप्रदक्षिणादिशेषहोमान्तस्य कर्मकला- पस्योत्तरांगत्वेनाम्नानाच प्रकृतैकयामविवाहेषु पूर्वांगविशिष्टसप्तपद्य- न्तसंस्कारस्य निष्पत्त्या वैधत्वस्य सिद्धावपि निरुक्तरीत्यारुन्धती- दर्शनान्तविवाहस्थालीपाकान्तो विवाहः शेषहोमान्तो विवाह इत्यादिप्रयोगकृदुद्धोषणानुसारेण सांगसंस्कारसंपत्तिप्रयोजकोत्तरांग- कर्मकलापमध्ये केषांचिन्मन्त्रजपमात्रनिष्पत्तावपि अकालकृतत्वेन तेषामप्यकृतत्वात् अरुन्धतीदर्शनादीनां स्वरूपलोपेन चोत्तरांग लोपादवैधत्वस्य च प्राप्त्याजिरतीयन्यायेन वैधावैधविवाहत्वमेव सिध्यतीति वक्तयम् । 'अग्निदेवो द्विजातीनाम्' इत्यादिनाग्नि- देवकानां द्विजानां स्मार्ताग्निहोत्रारंभस्यापि समुच्छदे द्विजत्वप्राप- कोपनयनस्य निखिलश्रौतस्मातकर्मकलापानुष्ठानाधिकारप्रापक- विवाहस्य च सिद्धिः कथं भवेदेषु कल्युपनयनकलिविवाहेषु । यद्यपि योक्त्रविमोचनान्तवैवाहिककर्मानुष्ठानानन्तरं वैवाहिकाग्निना सह वरगृहे प्रवेशहोमार्थ 'प्रवावाहयेत्प्रवाहारयेत्' इत्यादिसूत्रैः कन्या- दातृग्रहान्निष्क्रम्य वरगृहं प्रति वधूं नीत्वा प्रवेशहोमादिशेषहोमान्त- कर्मकलापस्य वरगृह एवानुष्ठाने विधीयमाने रथाद्यारोहणादि- यावद्वरगृहप्रवेशं मध्येमार्गमनेकमन्त्रजपादिकं महता सूत्रसन्दर्भेणा- पस्तंबादिभिर्विधीयते । एवं वधूवरयोर्मध्ये गन्धर्व संस्थाप्य त्रिरात्र- मतिकठिनाष्टांगमैथुनवज्यं त्वरूपब्रह्मचर्यानुष्ठानपूर्वकमधश्शय्यायां सहशयनं विधीयते यावज्जीवमन्योन्याविच्छिन्नानुरागादिफला- वाप्तये । तथापि तदेतत्सर्वं कारिकावृत्तिकृन्नृसिंहभट्टाचार्य- कालाप्रागेव लौकिकानुसंधानेन वा रजोगुणाधिक्येन वा केनापि वा कारणेन विलुप्य कन्यादातृगृह एव प्रधानांगलोपमात्राभाव- पूर्वकं यथाकथंचिन्नियंतेऽद्यावधि वैवाहिकी क्रिया । अधुना तु कलिविवाहक्रमणेन तदेतत्सर्व स्वप्नायमानं स्वरूपलोप एव पर्यवस्यतीत्यहो कलिमहिमविजृम्भणं कर्मभूमावधुनेति च खिद्यते चेतः । औपासनपरित्यागी सुरापीत्युच्यते बुधैः” इत्यादिभि- रामहर्षिभिः जोघुष्यते । 'अनिन्दितैस्स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निन्दिता नृणां तस्मान्निन्द्यान्विवर्जयेत्" ॥ इत्यादि च । तस्मादीदृशकलिविवाहैः पतिभार्यात्वसिद्धावपि धर्मपत्नीत्वादि- सिद्धिर्न भवति इत्येव वक्तव्यं स्यादित्यलमधिकेन । इति द्वादशमेकयामोपनयनविवाहव्यवस्थावज्रम् ५९ अथ त्रयोदशं स्त्रीस्वातन्त्र्यदायाधिकारव्यवस्थावज्रम् १३. आर्यजातीयकुलस्त्रीणां पुरुषाणामिव राजसेवा- देशाटनधनार्जनादिषु बाह्येषु निखिलेषु लौकिकव्यापारेषु स्वात- त्र्यं शास्त्रकृद्भिरनुगृहीतं न वा ? तथा स्थिरचरद्रव्येषु सर्वेष्वपि पुत्रादिपुरुषसाम्येन दायाधिकारः शात्रविहितोऽस्ति न वा ? इति प्रश्नविचारे न कुत्रापि कर्मसु कुलस्त्रीणां स्वातन्त्र्यमुपनिबद्धं शास्त्रकृद्भिरित्येव व्यवस्थात्र प्रथमांशे । तथा हि 'मनुस्मृतौ पञ्चमाध्याये स्त्रीधर्मप्रकरणे “वालया वा युवत्या वा वृद्धया वापि योषिता । न स्वातन्त्र्येण कर्तव्यं किंचित्कार्य गृहेष्वपि ॥ बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने । पुत्राणां भर्तरि प्रेते न भजेस्त्री स्वतन्त्रताम् ॥ पित्रा भ; सुतैर्वापि नेच्छेद्विरहमा- त्मनः । एषां हि विरहेण स्त्री गर्यो कुर्यादुभे कुले ॥ सदा प्रहृष्टया भाव्यं गृहे कार्येषु दक्षया । सुसंस्कृतोपस्करया व्यये चामुक्त- हस्तया ॥” इत्यादिभिर्वचनैगृहेष्वपि स्वातन्त्र्यामा विहितारिक्तेषु प्रतिपाद्य पितृभर्तृसुतान्यतमवशस्थानस्य तथात्वस्थाने पितृभर्तृ- कुलद्वयगीत्वापादकत्वस्य च समुद्बोधनपूर्वकं गायकर्मविधान- सामर्थ्यनिरन्तरसंतुष्टान्तरङ्गत्वगायकर्मोपयिकद्रव्यशुद्धयादिविधा- नातिव्ययराहित्यादिगुणसंयुतत्वादिविधानेन 'नास्ति स्त्रीणां पृथ- ग्यज्ञो न व्रतं नाप्युपोषितम् । पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥' इत्यादिभिः पतिशुश्रूषामात्रेण स्वर्गवासस्य च स्त्रीणां बोधनेन पुनर्नवमाध्यायेऽपि 'अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः .
६० पन्थ- स्वैर्दिवानिशम्' इत्यादिभिरस्वातन्त्र्यकरणमेव विधाय 'सूक्ष्मे- भ्योऽपि प्रसंगेभ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥' इत्यादिभिः स्त्री सन्दर्भेण विधाय पुंसामप्रमत्ततया विधेयाः स्वा प्रसूतिमित्यादि- ना रक्षणेनैव स्त्रीणां स्वसन्तानस्वीयशिष्टाचारस्ववंशस्वस्वधर्म- रक्षणादिबोधनेन यादृशं भजते हि स्त्री सुतं सूते तथा- विधम् । तस्मात् प्रजाविशुद्धयर्थं स्त्रियं रक्षेत्प्रयत्नतः ॥' इत्यादिना सन्तानशुद्धयर्थत्वेनैव प्राधान्येन स्त्रीरक्षणं. बोधयित्वा बलात्कारेण तद्रक्षणस्य कस्याप्यशक्यत्वं न कश्चिद्योषितः' इत्यादिना प्रतिपाद्य तद्रक्षणोपायत्वेन धनरक्षणधनव्ययद्रव्यशरीर- शुद्धयात्मशुश्रूषादिधर्मान्नपतिगृहोपकरणरक्षणादौ नियोजन विधाय पानदुर्जनसंसर्गपतिविरहस्वेच्छाटननिद्रान्यगेहवासानां स्त्रीसंदूष- कत्वेन ततो निवर्तनं संबोध्य प्रयत्नपूर्वकरक्षणेनापि स्वाभा- विकपुंश्चलत्वचलचितत्वस्नेहाभावहेतुकभर्तृविषयकविकारोत्पत्तेः 'पौंश्चल्याचलचित्ता च' इत्यादिना प्रतिपादनेन शय्यासनालंकार- कामक्रोधानार्जवद्रोहाभावकुचर्याणां तासु मनुना कल्पितत्वेन तत्स्वभावपरिज्ञानपूर्वकतद्रक्षणगुरुतरयत्नवत्त्वविधानेन च 'यन्मे माता प्रलुलुभे' इत्यादिश्रुतिनिदर्शनपूर्वकं स्त्रीणां व्यभिचार- शीलवत्त्वस्य नैसर्गिकत्वमाम्नाय यादृग्गुणेनेत्यादिना भर्तृगुणानुरूप- प्रवृत्तिमभिधायाहर्निशमप्रमत्तेन भूत्वा तद्रक्षणं कर्तव्यमिति बोध- नेन स्त्रीस्वातन्त्र्यस्य सर्वथा निषिद्धत्वात् । 'प्रजनाथ महाभागाः पूजाहाँ गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेपोऽस्ति ६१ कश्चन ॥' तृतीयाध्याये 'यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः। यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ शोचन्ति जामयो सत्र विनश्यत्याशु तत्कुलम् । न शोचन्ति तु यत्रता वर्धते तद्धि सर्वदा ॥ जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः । तानि कृत्याहतानीव विनश्यन्ति समन्ततः ।। तस्मादेतास्सदा पूज्या भूषणाच्छादनाशनैः ॥” इत्यादिभिः, 'प्रजनाथ स्त्रियः सृष्टाः' इत्यादिभिश्च लक्ष्मीतौल्येन भूषणाच्छाद- नाशनादिभिस्तदभीष्टैस्तत्पूजाया विधानेन तदपूजायां तच्छोचने च तदेहकुलविनाशस्योद्बोधनेन तत्पुरुषानुष्ठितसकलक्रियावैफल्य- बोधनेन च 'यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमो- दात्पुनः पुंसः प्रजनं न प्रवर्तते ॥ स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलम् । तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥' इत्यादिना स्त्रीणां सन्तानोत्पत्त्याधारत्वेन सृष्टत्वमुपपाद्य तदरोचने प्रजनप्रवाह- प्रतिबन्धेन तद्रोचनौपयिकप्रवृत्तेः पुंसां विहितत्वेन च 'सन्तुष्टो भार्यया भर्ता भर्ती भार्या तथैव च । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वैध्रुवम् ॥” इत्यनेन दम्पत्योः परस्परानुकूल्यन संतुष्टिपूर्वकप्रवृत्ता- वेव सकलकल्याणप्राप्तिनिरूपणेन च त्यपूजाऽरोचनयोः कुल- विनाशहेतुत्वनिरूपणेन च स्त्रीणां गृहान्तरवासपरितःपर्यटनादि- निषेधेन च गृहबहिस्संपाद्यसकलकर्मानुष्ठानेष्वस्वातन्त्र्यस्य गृहा- भ्यन्तरसंपाद्यगायकर्मानुष्ठानेषु पुरुषसंपादितधनवस्तुपरिकरादि- रक्षणगायकर्मोपयोगिव्ययादौ च स्वातन्त्र्यव्यवस्थापनेन च स्त्री- पूजाया आवापोद्वापाभ्यां कुलवृद्धिकरत्वेन तदावश्यकताबोधन- क्रियासमभिहारेण च गृहबहिस्संसाध्यलौकिकव्यापारेषु पुरुष- साम्येन स्वातन्त्र्यस्य सर्वत्र निषेधाच्च । अत एव भारद्वाजीयकर्म- मीमांसादर्शने “बीजरक्षणमार्यजातेः" इत्यनेन सूत्रेण सृष्टिबीज- रक्षणस्यार्यजातरव्याहततामावश्यकतां च प्रतिपाद्य सृष्टिबीज- रक्षणस्य च वर्णाश्रमधर्ममर्यादासेतुसंरक्षणमूलकतां च प्रतिपाद्य तद्रक्षणस्य च स्त्रीरक्षणमूलकत्वात् स्त्रीधर्मनिरूपणावसरे 'नरी- धर्मः पारतन्त्र्यप्रधानः' इति सूत्रेण स्त्रीसृष्टेः प्रकृतिजन्यत्वेन प्रकृतेश्च जडत्वात् परमात्मशक्तिरूपायाः पुरुषसंबन्धेनैव जग- स्कर्तृत्वादिप्रकाशनात् पुरुषसृष्टेः पुरुषसंबन्धित्वाच सृष्टिविधौ कौशेयकीटस्येव स्त्रिया एव प्राधान्यं “सर्गे नार्याः प्राधान्य कौशेय- कीटवत्' इत्यनेन प्रपञ्च्य ‘तच्छुद्धिसंरक्षणं क्षेत्रवत्' इति सूत्रेण क्षेत्रशुद्धिरक्षणमिव साधुसस्यसंपत्तये साधुसन्तानसंपत्तये नारीशुद्धिसंरक्षणमावश्यकमिति प्रतिपाद्य स्वतः पुरुषापेक्षयात्यधिक- कामकलावतीनां स्त्रीणां कामकलोत्तेजककर्मकरणस्य पुरुषकर्तृक- स्य पापाधायकत्वेन 'विफलं कामकलोत्तेजनम् ' 'पापाय तत्' इति सूत्राभ्यां प्रतिषेधनद्वारा 'पुण्यातत्प्रसन्नतासर्गशुद्धिहेतुत्वात्' इत्यनेन सर्गशुद्धिहेतुपुण्यकर्मप्रवर्तनस्यावश्यकताप्रतिपादनादिकं च महता सूत्रसन्दर्भेण समुपनिबद्धं संगच्छते । अत एव च खगोलशास्त्रे तृतीयाध्याये स्त्रीजन्मविवेचनप्रकरणे 'पिता रक्षति कौमारे' इत्यादिवचनोचरं 'सृष्टिगुप्तमाभिप्रेत्य स्त्रीस्वातन्त्र्यं निराकृतम् । स्त्रीस्वातन्त्र्येण भूलोक आकृलीभवति ध्रुवम् इति वचनेन विशुद्धसृष्टिसंरक्षणोद्देशेनैव , ॥"
. स्त्रीस्वातन्त्र्यनिराकरणस्य कृतत्वं तत्स्वातन्त्र्येण संकीर्णसन्तानो- त्पत्त्यादिभिः सर्वधर्मसमुच्छेदाभूलोकस्य विप्लवाक्रान्तिरपि निरूपिता संगता भवति । एवं तत्रैव स्त्रीपुरुषगुणनिरूपणे 'चलानु- रागाः पुरुषा दृढप्रेमयुताः स्त्रियः । शौर्य धैर्य प्रतापश्च पुरुषाणां गुणाः स्मृताः ॥ लज्जा भयं क्षमा लोके नारीणामुत्तमा गुणाः । परार्थजीवितं कष्टसहिष्णुत्वममन्दता ॥ स्त्रीणामिमे लोकगुप्त्यै भगव- निर्मिता गुणाः ।' इत्यादिभिः परार्थजीवनकष्टसहिष्णुत्वामन्दत्व- दृढप्रेमयुतत्वाद्युत्तमगुणानां च लोकरक्षणनिमित्तेन स्त्रीषु भगवता सृष्टत्वमाम्नाय 'पतिशुश्रूषया नारी देवतातिथिसेवया । शिशुसंरक्षणे- नापि ब्रह्मलोकं समश्नुते ॥ आयुषोऽन्ते ब्रह्मलोकं पातिव्रत्यप्रभावतः। प्राप्य ज्ञानकथाः श्रुत्वा तल्लोकविलये सति ॥ ब्रह्मणा सह मुक्ता सा ब्रह्मभूयं गमिष्यति ॥' इत्यादिभिः पतिशुश्रूषणदेवतातिथिसेवन- शिशुसंरक्षणादिभिः स्त्रीणां ब्रह्मलोकावाप्तिरन्ते च ब्रह्मणा सह मुक्तिरपि कथिता । मनुना च उत्पादनमपत्यस्य जातस्य परिपालनम् । प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥ अपत्यं धर्मकार्याणि शुश्रूषा गतिरुत्तमा । दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ॥' इत्यादिभिः 'पतिसेवा गुरौ वासो गृहार्थोऽग्नि- परिक्रिया' इत्यादिभिश्च विस्तरेण सर्वधर्मकार्याणां सन्तानो- त्पत्तितद्रक्षणात्मपितृस्वर्गादीनां च तदधीनत्वेन च ‘पतौ या नाभिचरति मनोवाग्देहसंयुता' इत्यादिभिः पातिव्रत्यरक्षण- रूपस्यैकस्यैव धर्मस्य सर्वसंरक्षकतया सर्वैरपि महर्षिभिः वारं बारमुद्घोषिततया स्त्रीस्वातन्त्र्यस्याभिलषितस्यार्यजातिमूलोच्छेदक- নম্ব त्वस्य स्फुटवादित्यलमधिकेन । इत्थं च सर्वस्मृतिपुराणादि- प्रतिषिद्धस्यार्यजातीयकुलसतीत्वनिरुन्मूलकस्यैहिकामुष्मिकसकल-- सुखप्रतिरोधस्यानार्यत्वप्रापकस्य स्त्रीजितसमुन्नीतस्य सार्वत्रिक- स्त्रीस्वातन्त्र्यस्य लिप्सायां सन्तानोत्पत्तिनिरोधककर्मकलापानुतिष्ठा- सूनां नारीणां तजितपुरुषाणां वा तात्पर्य स्वैरचारादन्यत्र कुत्र वा स्यादिति विभावनीयम् । स्वातन्त्र्याभ्यानु- ज्ञापकं शास्त्रमार्यजातीयमन्ततो म्लेच्छजातीयं वा नाद्या- वध्युपलभ्यते । अन्यथा निरुक्तरीत्या गृहस्वातन्त्र्यस्य सिद्धत्वात् बाह्यस्वातन्त्र्यापेक्षा किमर्था स्यादित्यतिरोहितमेव प्रेक्षावताम् । अथ द्वितीये स्त्रीणां पुत्रादिपुरुषसाम्येन स्थिरचर- द्रव्येषु दायाधिकारविषयकेंऽशे शास्त्रानुक्तेषु नेत्येव व्यवस्था । 'यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुख न परां गतिम् ॥ तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यव. स्थितौ ॥” इत्यादिभिगीतादिषु कार्याकार्यव्यवस्थितौ शास्त्रस्यैव प्रमाणत्वेन शरणीकरणीयताया व्यवस्थापनात् पुरुषबुद्धेरनुक्षण- विभिन्नत्वात् विलक्षणकल्पकत्वाच्च 'कल्पिका मानुषी बुद्धिस्सा च न व्यवतिष्ठते ।" इति माधवोक्तेरव्यवस्थितत्वाच्च प्रकृते 'भर्ना प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्नीयात् दद्याद्वा स्थावराहते ॥' इति याज्ञवल्क्येन प्रीतभर्तृदत्तस्थावराति- रिक्तद्रव्ये दानोपभोगाधिकारोत्क्या भार्जितेऽपि पुत्राभ्यमुज्ञानर- हिते स्थावरांशे 'मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ स्थावरं द्विविधं चैव यद्यपि स्वयमार्जितम् । असंभूय सुतान्सर्वान् न दानं न च विक्रयः ॥ ये जाता येऽप्यजाताश्च ये च गर्ने व्यवस्थिताः । वृत्तिं च तेऽभिकांक्षन्ति न दानं न च विक्रयः ॥” इत्यादिवचनैः पुरुषाणामेव ‘एकोऽपि स्थावरे कुर्यादानाधमनविक्रयम् ॥ आप- काले कुटुंबार्थे धर्मार्थे च विशेषतः ।" इत्युक्तापदादिव्यतिरि- क्तकाले दानविक्रयाधिकारस्याभावव्यवस्थापनेन आभोगाधिकार- मात्रस्यैव व्यवस्थापनेन च 'यदि कुर्यात्समानंशान्पल्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भी वा श्वशुरेण वा। इत्यादिना पुत्राणां समविभागे पत्नीनामपि पुत्रसमांशभाजन- त्वस्य विहितत्वेन 'पितुरूवं विभजतां माताप्यशं समं हरेत्' इत्यादिना पित्रनन्तरविभागे मातुरपि समांशभाक्त्वविधानेन च 'पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा' इत्यादिना पुत्र- सन्ततिराहित्ये पल्या एव सर्वांशभाक्त्वाम्नानेन च 'पितृमातृ- पतिभ्रातृदत्तमध्यग्न्युपागतम् । आधिवेदनिकाधं च स्त्रीधनं परि- कीर्तितम् ॥ बन्धुदत्तं तथा शुल्कमन्वादेयकमेव च ।' इत्यादिना पारिभाण्डं च गृहेऽलंकारो भार्यायाः' इत्यादिना वस्त्रालंकारा- दीनां स्त्रीधनत्वेन निरूपणाच । निरुक्तातिरिक्तविषये सार्वत्रि- कत्वेन दानविक्रयादिसर्वाधिकारो दायाधिकारश्च नास्तीत्येव सिध्यतीत्यन्यत्र विस्तरः ॥ इति त्रयोदशं स्त्रीस्वातन्त्र्यदायाधिकारव्यवस्थावज्रम् 5 अथ चतुर्दशं चत्वारिंशत्संस्कारव्यवस्थावज्रम् १४. अथ शास्त्रविहितेषु चत्वारिंशत्संस्कारेषु त्याजनीयाः के वर्तन्ते ? इति प्रश्नस्य कलिमहिम्ना विलुप्तेषु विलुप्यमानेषु विलोप्स्यमानेषु च सर्वेषु संस्कारेषु विद्वदनुज्ञाव्याजेन विलुप्तप्राय- संस्कारविलोपनाय कृतोऽयं कलिभृत्यानां प्रश्नः कथं वा स्यात्स- माधेयो धर्मानुष्ठानश्रद्धालूनाम् अस्य प्रश्नस्यानुदयात् । तेषां त्याज्यस्य त्याजनीयस्य वा संस्कारमात्रस्यासंभावनीयत्वात् । अश- क्त्यानुष्ठानाभावः केषांचिदस्तु नाम । अनुष्ठेयत्वे तु श्रद्धैव स्यात् । येषां विलोपनश्रद्धा तेषामेषा शङ्का कः संस्कारो विलोपनीय इति। यथा भूतदयालुत्वमभिनयतां कलिभृत्यानां पशुवधस्थानेषु प्रतिनगरं प्रत्यहमपि शतसहस्रपशुषु हन्यमानेष्वपि न तद्वधप्रति- बन्धप्रवृतिः । किं तु यज्ञविधातोद्देशेन जन्तुहिंसानिवारणव्याजेन याज्ञिकात्यल्पपश्वालंभनप्रतिरोधाय सन्नद्धा भवन्ति बहवः संघीय शतशः । तस्मान्नास्माकमुपरि शस्त्रीयसंस्कारविलोपनानुमतिजन्य- प्रत्यवायभारो निक्षेप्तव्य इति वदनमेवात्र समुचितं समाधानमिति मत्वात्र विरम्यत इति संक्षेप इति शिवम् ।। इति चतुर्दशं चत्वारिंशत्संस्कारव्यवस्थावज्रम्
६७
उपसंहारपद्यावली
धर्मतन्त्राकरोन्नीतव्यवस्थावज्रनिर्मितः ।
हरोऽयं विबुधाभासदुर्भेद्यः कलिदोपहृत् ।।
दुर्दृष्टिदोषहृत्तत्तदृष्टिकृद्धर्मसंशये ।
कलिभृत्यबुधाभासतर्कामासतमोधृते ॥
धर्मतन्त्राकार भित्त्वा मेधापङ्केन मानतः ।
निर्माय शिल्पनैपुण्या स्थूलहीरकसंग्रहम् ॥
श्रीचन्द्रशेखरेन्द्रेभ्य उपदीकृत्य भक्तितः ।
पुल्यान्वयसुधासिन्धुविधुनान्ध्रेण धीमता ।।
उमामहेश्वरविदा वाणीकारुण्यगामिना ।
क्षीरारामे निवसता विद्वद्गलविभूषणम् ।।
धर्मव्यवस्थावज्राढ्यहारो वाग्धनिनार्पितः ।
ईश्वराब्दोर्जशुक्लश्रीतृतीयाभृगुवासरे ॥
श्रीचन्द्रशेखरगुरुप्रमोदायास्तु भूयसे ।
तत्प्रसादितसद्धर्मप्रश्नमालासमाधिकृत् ॥
तत्कृपाप्तविनिर्माणो यावद्भान्विन्दुभाचलम् ।
भारते भातु कण्ठेषु बुधानां भूरि भावितः ॥
निन्दन्तु विद्वदामासा नन्दन्तु च विपश्चितः ।
उभयं भूषणं मन्ये ग्रन्थस्य परिशीलनात् ।।
इतोऽधिकं तु धर्मालिव्यवस्थावज्रदर्पणे ।
द्रष्टव्यं विबुधैस्सम्यगित्यभ्यर्थ्य विरम्यते ।।
PRINTED AT
THE MADRAS LAW JOURNAL PRESS, MIYLAPORI, MADRAS.
No text on this page.
No text on this page.