Government College, Kota

Sanskrit Nibandhavali

Dikshit, Dr. Hari Narayan · 2012/04

PDF Proofread

Front matter

DUE DATESLIP
GOVT. COLLEGE, LIBRARY
KOTA (Raj.)
Students can retain library books only for two
weeks at the most.
BORROWER'S
No.
DUE DTATE
SIGNATURE

संस्कृत-निबन्धावली

संस्कृतनिबन्धावली
LIO.
CON
रचयिता
डॉ० हरिनारायणदोक्षितः
एम०ए०, पी-एच० डी०, डोलिट्,
व्याकरणाचार्यः, सांख्य-योगाचार्यः, साहित्याचार्यः, साहित्य रत्नम्
संस्कृतविभागाध्यक्षः
कुमायूं विश्वविद्यालयः, नैनीताल: (उत्तरप्रदेश:)
ईस्टर्न बुक लिंकर्स
दिल्ली
भारतम्

: संस्कृत निवन्धावली
रचयिता : डॉ० हरिनारायणदीक्षितः
प्रकाशक : ईस्टर्न
बुक
लिंकर्स
५८२५, न्यू चन्द्रावल रोड, जवाहरनगर,
दिल्ली-
११०००७
संस्करणम-प्रथमम् १९८५ ई.
मल्यम्-
E.B...
पुन: प्रक
Rspधीनम्
मुद्रक:-- अमर प्रिंटिंग प्रेस,
८/२५ विजय नगर, दिल्ली-

SANSKRIT NIBANDHÁVALI
By
DR. HARI NARAYAN DIKSHIT
M. A., Ph.D, D. Litt, Vyakaranacharya,
Sankhyayogacharya, Sahityacharya, Sahityaratna
Head of the Department of Sanskrit,
Kumaun University, NAINITAL (U. P.)
Eastern Book Linkers
DELHI
INDIA

Book :SANSKRIT NIBANDHAVALI
Author : DR. HARI NARAYAN DIKSHIT
Publishers : Eastern Book Linkers
5825, New Chandrawal Road,
Jawahar nagar, Delhi-110007
Edition : First, 1985
Price: Rs.
E.BL:
Copy rightF PRS.COM
Printers : Amar Printing Press,
8/25, Vijay Nagar, Delhi-110009

समर्पशाम
कृत्वा कठोररचनां बहु भाययन्ति
लोकान् स्वभावसरलानिह संस्कृताद् ये ।
तेश्यो
ललाटनतिपूर्वकमर्पयामि
स्वीयां निबन्धरचना सुरवाग्विभूत्यै ।।
-हरिनारायणदीक्षितः

प्रामुखम् ? अहमद्य अमन्दमानन्दमनुभवामि इदमनुभूय यन्मदीयेषु निबन्धेषु केचिनिबन्धाः ग्रन्थरूपेण समवेता: प्रकाशिताश्च भूत्वा सुरभारती- समुपासकानां तथा संस्कृतभाषातरीकर्णधाराणां सेवायां गच्छन्तः सन्ति । यद्यपि एतेषां निबन्धानां सर्जना परिमितसमयव्यापिनी विद्यते, किन्तु एतदीय: प्रभावो नूनमेव असीमितसमयव्यापी भविष्यतीति समाशासे । इमे निबन्धाः कीदृशाः सन्ति ? रम्याः सन्ति अरम्या वा ? ललिताः सन्ति अललिता वा ? रोचकाः सन्ति अरोचका वा ? शोभनाः सन्ति अशोभना वा ? लाभदाः सन्ति अलाभदा वा ? प्रेरकाः सन्ति अप्रेरका वा? हृद्याः सन्ति अहृद्या वा? सुवोधाः सन्ति दुर्योधा वा ? सुभाषा: सन्ति दुर्भापा वा ? सुभावा: सन्ति दुर्भावा वा ?-इत्यादिविचारक- रणन्तु सदसद्व्यक्तिशक्तिमतां निर्मलमतिमतां संस्कृतवाङमयाब्धि- स्वाध्यायमन्थनोत्थनानरत्नराशिदीप्तिमतां विपश्चितामेव कार्य- मस्ति । तद्विषये अहं किं कथयानि ? मन्ये त एवेदं विचारयितुं कृपां करिष्यन्ति । अहन्तु केवलमिदमेवात्र कथयामि यदेतानधीत्य यदि गीर्वाणवाणीसपर्यापराणां सहृदयहृदयधुरीणानां सचेतसां विदुषां मनागपि मनस्तोषो भविष्यति; यदि चैते निवन्धाः संस्कृतभाषायाः निवन्धोद्याने आर्जवसौरभाभिवृद्धये मनागपि कल्पिष्यन्ते, तदाहं मंस्ये यन्मामक: परिश्रमः सफलो भूतवानस्ति । एतेषां समेषामेव निबन्धानां मुद्रणापेध्यलिपिवद्धरूपसंविधाने, कुमायूं विश्वविद्यालयीयसंस्कृतविभागे लेक्चरर्पदमलङ कुणिया, एम. ए-पी-एच. डी. -साहित्याचार्योपाधिविभूषितया डॉक्टर किरण टण्डनया सहर्ष स्वीयो बहुमूल्यवान् समयो यापितोऽस्ति । एतदर्थ तदर्थ भूयो भूयो हादिकाननेकान् धन्यवादानुपहरामि ।

(X) इत्त्यमेव व निबन्धसंग्रहल्पस्यास्य ग्रन्थस्य सहर्ष सोत्साहं सत्वरं यथाशक्ति व ससौष्ठवं प्रकाशनं विधाय श्रीश्यामलाल मल्होत्रा- महोदयोऽपि नूनमेव मदीयहादिकधन्यवादपात्रतां वित्ति । इत्येतैः परिमितैरेव शब्दैः समं स्वीयान् वक्ष्यमाणान् कतिपयान् निवन्धान भारतीविभूतिहेतवे तथा भारतीभक्तप्रीतये संस्कृतसाहित्य- समीक्षासंसारस्य समनं प्रस्तुवन्नाशाले यन्मदीयोऽभिलाषाङ कुरोऽयं सत्वरं पल्लवितः पुप्पितः फलितञ्च भविष्यति । नैनीताल: -हरिनारायणदीक्षितः १५.६.८५ निबन्ध सूची पृष्ठ संख्या है। १. वेदानां महत्त्वम् ३.२५ ५० ५६ ६७ २. गीता सुगीता कर्त्तव्या किमन्यैः शास्त्रविस्तरैः । । ३. रम्या रामायणी कथा ११.स ४. भारतीया संस्कृतिः ५. संस्कृतभाषा ६. काव्यप्रयोजनानि ७. वाक्यं रसात्मकं काव्यम् ८. रसनिष्पत्ति: ६. व्यञ्जनाविवेचना १०. गुणालङ्कारभेदमीमांसा ११. उपमा कालिदासस्य १२. भारवेरर्थगौरवम् १३. दण्डिनः पदलालित्यम् १४. माघे सन्ति त्रयो गुणाः १५. कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलम् । १६. कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा ? १०८ १७. सहसा विदधीत न क्रियामविवेकः परमापदां पदम् वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ ११४ १८. लक्ष्म्यै लालसा ११६ १६. आधुनिकशिक्षा संस्थासु छात्राणां संस्कृते लेखनभाषणस्थितिः१२२ ७२ ७६ ८७ ६२ वेदानां महत्वम् विदितवेदितव्येषु समधिगतयाथातथ्येषु संस्कृतवाङ्मयानवद्यानु- शीलनसञ्जातनिर्मलान्तःकरणेषु पौरस्त्येषु पाश्चात्त्येषु वा विपश्चि- दपश्चिमेषु कश्चिदंपोशो विद्वद्विशेषो लोचनपथं श्रुतिपथं वा नावत- रति यो धर्मार्थकाममोक्षहेतूनां निखिलज्ञान विज्ञानजीवातूनां परमम- हनीयानां मानवमननीयानाम् ऋग्यजुस्सामाथर्वसंज्ञकानां चतुर्णा वेदानां विश्वविश्रुतचरेण तिरस्कृताज्ञानराशितिमिरेण महीयसा गरीयसा प्रथोय सा च यशसा प्रभावितो नैव भूतो भवेत् । एते हि चत्वारोऽपि वेदाः कस्यां वरेण्यवेलायां निर्मितिपद्धतिमाजाम:, इत्य- स्मिन् विषये सुमेधसा सुचिरायुषा वेधसापि निर्णतुं न शक्यते । वस्तुतस्तु इमे काले काले तप:पूतात्मनां महात्मनाम् आर्षज्योति- ष्मतां दिव्यचक्षुष्मतां महर्षीणां समक्षं स्वत एव प्राकट्यमापुः । ते च ते तपःपूतात्मानो महात्मानो मन्त्रदर्शनात् तत्तदृष्टमन्त्राणाम् 'ऋषयो' बभूवुः । अत एव 'ऋषयो मन्त्र-द्रष्टारः' इति वाक्यमपि प्राकाश्यमायात मस्ति । एतस्मादेव च हेतोः धीधनैः विद्वज्जनैः वेदा अपौरुषेया उच्यन्ते। अथ वेदशब्दस्य कस्तावद् व्युत्पत्तिपथलभ्योऽर्थः, इतीदृशे संशय- पाथोधौ समुच्छलति सति चित्ते ज्ञानार्थकविद्धातो: वेदनं वेद:', 'वेद्यते अनेन इति वेदः' इति भावे करणे वा घनि कृते सति 'वेदः' इति शब्दसिद्धिसरणिरेव सन्तरणो तरी जायते । वेदानां वसुन्धरायां भूयान् विस्तरो वर्तते । विषयेऽस्मिन् श्रीमता भगवता पतञ्जलिना स्वीये हृद्यानवचे वैयाकरणवृन्दवन्धे महा- भाष्ये पस्पशाह्निके प्रतिपादितमस्ति यद् ‘चत्वारो वेदा: साङ्गाः २ सस्कृत-निबन्धावली - - सरहम्या: बहुघा भिन्नाः; एकशतम् अध्वर्युशास्त्राः, सहस्रवर्मा सामवेदः, एकविंशतिघा वाह वृध्यम्, नवधा अथर्वणो वेदः । एत- दतिरिक्तानि शिक्षा-व्याकरण कल्प-निरुक्त-ज्यौतिष-छन्दोनामानि षडङ्गान्यपि सन्ति वेदानाम्, यानि विना वेदानां परं पारं द्रष्टुं कश्चिदपि नैव प्रभवति । वस्तुतस्तु वेदानां महीयांसं महिमानं दर्शदर्श मामकं चनस्तु निरां मोमद्यते। वेदा: निश्चयेनैव मानवसंस्कृतेः अग्रदूना मन्तोन्यत्र केपामपि गेमुपीज़पां विदुषां विसंवादो नास्ति । मानवमर्यादाधिष्ठाता महाराजो मनुस्नु स्वीयायां 'मनुस्मृतौ' वेदा- नाम् अभ्यहिनत्वं संमाश्यन् ऊर्ध्व-बाहुरिव भवन् समुपदिशति- "यः कश्चित्कस्यचिद् धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ "वेदशास्त्रार्थतत्त्वन्नो यत्रधाश्रमे वसन् । इहैव लोके तिष्ठन् ब्रह्मभूयाय कल्पते ॥" शतपथब्राह्मणेऽपि प्रतिपादितो वेदमहिमा प्रात्मानं संस्पृशति । यथा – 'यावन्तं ह वा इमां पृथिवीं वित्तेन पूर्णा ददत् लोकं जयति, त्रिस्तावनं जयति भूयांसञ्चाक्षय्यं य एवं विद्वानहरहः स्वाध्यायम- घोतेः तस्मात् स्वाध्यायोऽध्येतव्यः ।।" यथा भौतिकजगत्प्रपञ्चावलोकनाय भौतिकी नयनद्वयी सम- पेक्ष्यते. तथैव ग्राध्यात्मिक प्रपञ्च प्रेक्षणाय वेदमयम् पार्ष ज्योतिर- पेक्ष्यते । प्राध्यात्मिकालादहेतुभूता दार्शनिको विचार-वारि-धारापि वेदगह्वरादेव निर्गता विद्यते । इयम विलीनापि तत्रैव जानास्ति । सांव्य-योग न्याय-वैशेषिक-मोमांमा-वेदान्तादीनां समस्तानां दर्शना- ध्वनां वेदा एव प्रभवः सन्ति । एषां नर्वेषां भिन्नावनां सरितां सागर इव निःश्रेयमाधिगम एव चरमोद्देश्य लक्ष्यते । वेदानां महत्त्वं केवलेन ग्रध्यात्मवादेन एव विदुपामन्तरालं नाधिन्दमस्ति, भोतिकभवाटवीभीमनाभिभूतये अपि तत्र प्राप्यमाणा. विविधाः शङ्कापञ्चकन्न करहिता मात्र भोमा: समाधयो- ऽपि हेतृभूता: सन्ति । यचाहि- अपितु वेदानां महत्वम् ३ १. वर्णाश्रमव्यवस्था। २. स्त्रीपुरुषयो: समानमानार्हता । ३. विवाहस्य अभेद्यता पवित्रता च । ४. त्यागोपदेशः। ५. राष्ट्रियभावना । ६. हिंसानिषेधः। ७. गम्यागम्यविमर्शः। पुनर्जन्मवादः । ६. आयुर्वेदादिज्ञानविज्ञानसिद्धिः । १०. द्यूतादिदुर्व्यमननिषेधः । ११. संघटनोपदेशः। १२. कर्मकाण्डोपदेशः । १३. अन्ताराष्टियभावना। १४. गोमहिमा । १५. स्वसंस्कृतिस्नेहः । १६. स्वभाषासमादरः । १७. एवमन्यदपि । किम्बहुना, अम्मदीया: पूर्वजा: स्वजीवनं कथं यापयामासुः तेषामाकोडनकानि कानि आसन् ? तेपां विवाहसम्बन्धाः कथङ्कारं यावज्जोवनम् अभेद्या: गुरुजनानुमोदिता गुरुग्रन्थिवद्धाः आत्मानन्द- प्रयोजनाश्च बभूवुः ? कथं न ते पारस्परिकरूपमाधुरीमधुशीकरा- प्लाविता: वासनानदीपूर यूरिताः सन्तः क्षणभङ्ग राः अभूवन् ? अस्माकं ते पूर्वजाः केषां देवानाम् उपासनाम् अकार्षुः ? प्रतिवासरम् उदोयमानां रोचमानां दानशोलाम् उषोदेवीं ते केन विधिना पूजया- मासुः ? उदेष्यन्तं भास्वन्तं कथङ्कारम् प्रातरुत्थाय अर्धपादोदकादिना विधिना प्रोणयामापुः ? सत्यामपेक्षायां कयङ्कारं सोत्साहं सोत्प्रास ते इन्द्र-बरुण-पूषन्-मित्र-पवितृ-पर्जन्यादीनां प्रीतये स्तुतिपुरस्सरं तेपामचनां चकः ? तदानीं । सामाजिकी राजनैतिकी वा अवस्था- स्माकं कीदृशी बभूव ? इति चेज्जिज्ञासते कस्यापि चेतः, तदा निश्चप्रचमेव वेदवाङ्मयस्य स्वाध्यायमयं शरणमेव फलेग्रहि भविष्यति । ?

संस्कृत-निबन्धावली एवञ्च काव्यतत्त्वदृशापि लौकिकसंस्कृतकविताकामिनीकान्त- कलेवराक्रान्तमानसाः, कालिदासोयोपमामाधुरीमत्ताः, दण्डिपद- लालित्यलोनचेतसः, बाणभट्टीय रसभावपेशलतापाशवद्धा:, भावुकाः, सहृदयहृदयाः, सुकुमारमतयो विपश्चितो भवन्तु नाम वेदवाङमये व्यर्थपरिश्रमाः; किन्तु निविशेषमतयो विद्वांसस्तु तत्रापि स्थाने स्थाने काव्यगतमिव सौन्दर्य नयनपथीकत्तु प्रभवन्त्येव । दृश्यकाव्यस्य तु आधारशिला एव वेदेषु विद्यते । अत एव भरतमुनिना स्वकीये नाट्य- शास्त्रे उक्तमपि अस्ति- जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥" एवं सत्यपि वेदानां महत्त्वे, यदाहं स्वकीयं भारतीयं समाज पश्यामि तदा अनुभवामि यत् साम्प्रतं प्रायेण जना: इमं वेदनिधिस अनाद्रियमारणा: सन्ति । ते दुरन्तपूरोदरदरीपूरणनिमित्तीभूतां सम्प्रति प्राग्लभाषाम् येनापि केनापि विधिना अधीयानाः सन्ति । ये च केचन काशिका: काश्मीरा वा वैदिका: पण्डिता: वेदान् अधी- यते, ते केवलम् अक्षराणि रटन्ति, तदीयं वास्तविक समाजोपयोगि च तात्पर्य नहि विदन्ति । एतत्सर्वमहृद्यमनुभूय मम खिद्यते चेतः, दूयते च देही । अन्ततो गत्वा मदीयं चित्तं तु इदमेव निश्चिनोति यदस्माभिः सर्वै रेव भारतीयैः ज्ञान निधयो वेदाः साक्षाद् भगवदा- कारा इव समादरणीयाः; एषां च विविधविधिभिः अनुशीलनं परि- शीलनं वा करणीयम्; तदैवास्माकं सर्व विधम् ऐहिकम् आमुष्मिकञ्च कल्याणं भवितुं शक्नोतीत्यत्र मनागपि न संशयो विधेयः । वेदानां विषये कतिपयाप्तोक्तिसमुद्धरणं नूनमेव भूयसे श्रेयसे स्यादिति समीहया काश्चनाप्तोक्तयोऽपि निवन्धावसाने समुध्रि- यन्ते । यथाहि- "सर्गादौ स्फुरतां समस्तजगतां यः श्रेयसे जज्ञिवात् अर्थानभ्युदयाय संप्रथितवान् तांस्तांस्तु वैज्ञानिकान् । यश्चोच्चावचभाववान् विविधसद्विचाभिरुधोतवान् विश्वस्मिन् भुवने स वेदभगवान् भूयो भवे जृम्भताम् ॥"

वेदानां महत्त्वम्
"नित्यानन्दमयी हवीरसमयी सच्चिन्मयी मुन्मयो
दिव्यालोकमयो शिवा मधुमयी गुण्या दयावामयी।
विद्याभूतिमयी सदोन्नतिमयी संवित्स्वरूपाक्षरा
सा माताखिललोगशोकशमनी वेदत्रयों पूज्यताम् ॥"
"यकान्तकोत्तिकृटेन कान्तमासीद्धि भारतम् ।
दिव्यं तद् वैदिक ज्योतिर्भासतां भूतले पुनः ॥
इति सम्प्रत्यलं भावपल्लववितानसन्तानपरम्पराभिः भवादृशेषु
विद्वरेष्विति धियात्रैव विरमामि ।

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः इह विलक्षणगतिमति जगति जनश्चतुरशीतिलक्षसंख्यकान् विग्रहानतिक्रम्य परमदुर्लभं मानवदेहं लभते । अत्रापि पूर्वपूर्वजन्म- संस्कारसरणि: अनुपदमनारतं च तमनुसरति । येन स स्वकीयं वास्तविकं लक्ष्यम् अक्षिविषयीविधातुम् असमर्थ एव बोभूयते । भा-रतेऽस्मिन् भारते आध्यात्मिकविषयमाश्रित्य सांख्य-योग-न्याय- वशेषिक-मोमासा-वेदान्तादयो नैके राधान्ता: वरीवृत्यन्ते, इति भारतोयदर्शनशास्त्रजुषां विदुषां प्रत्यक्षमेवास्ते। परमेतेषु सर्वेषु पाण्डित्यस्यैव प्रकाण्ड ताण्डवं लभ्यते, येन अध्येतुः शिरो दूयते; बुद्धिः पराजयते; चेतश्च सर्वसम्मतसिद्धान्तलाभाभावात् सुतरां चेखिद्यते । यतो हि एते परस्परं विवदन्ते । एकस्य सिद्धान्तं भक्तुम् अपरो बद्धपरिकरो लक्ष्यते । अत एव माध्यमिका अभि- वदन्ति "वेदा विभिन्नाः स्मृतयो विभिन्ना नासौ मुनिर्यस्य मतं न भिन्नम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥" किन्तु उक्तदार्शनिकमार्गकण्टकजालजडीकृतचित्तस्य जनस्य यदा कदाचित् सौभाग्यात् दृष्टि: अधिगतयाथातथ्येन विदितवेद- नीयेन सततं श्रुत्यनुशीलनसजातनिर्मलान्त: करणेन महर्षिणा वेदव्यासेन सश्रद्धं सादरं सुगीतायां पद्मनाभस्य मुखपद्माद् विनिः सृतायां 'श्रीमद्भगवद्गीतायाम्' समापतति, तदा स तथैव अमन्दा- नन्दसन्दोहमनुभवति यथा दिनकरक रनिकरसन्तप्तकलेवरः कश्चित् सान्द्र- गीता सुगीता कर्तव्या किमन्यः शास्त्रविस्तरैः पान्थो विकचारविन्दवृन्दपरिमलपूरपूरितसरसीतीरभाज शीतलच्छायं त्रिविधसमोरणवाहं रमणीयतानिधानं विशालं बटानो- कहं समुपलभ्य लभते । एतादृश्यामेव दशायाम्- "गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः । या स्वयं पद्मनाभस्य मुखपद्माद विनिःसृता॥" इत्यादि वचः सङ्गच्छतेतमाम् । वस्तुतो गोतेयं लक्ष्यप्रधाना विद्यते, न तु पाण्डित्यविजृम्भणली- ना । यतोहि युद्धारम्भस्य भयङ्करे केन्द्र बिन्दौ विद्यमानाय दोलायमा- नमानसाय अत एव क्लैब्यमवलम्बितुकामाय प्रियतमाय पार्श्वयार्जु- नाय परमपुरुषेण अमोधवचनेन योगिगम्येन योगिराजेन भगवता श्रीकृष्णेन समयस्य अल्मोयस्त्वं तथा अर्जुनस्य विषण्णत्वं निभाल्य परमपरलेष्वेव शब्देषु मानव जीवनम्य रहस्य कर्तव्यजातं च सुतरां स्फुटं चास्फोटित मस्ति । किङ्कर्त्तव्यविमूढतायाः कथकर्तव्यविमूढ- तायाश्च द क्वापि निर्धान्तं परमसरलं च समाधानं लभ्यते, तर्हि तद् गोतायामेव । गीताया उपदेशो व्यष्टिकृते नास्ति । समष्टिमेव ध्यायं ध्यायं भगवता श्रीकृष्णेन धनञ्जयः समुपदिष्टो- ऽस्ति । धनञ्जयोऽपि नत्र समप्टे: प्रतिनिध्यं कुर्वन् प्रार्थयति- कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः । यच्छ्र यः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥" दृश्यतान्तावदत्र 'धर्मसंमूढचेता:' इति विशेषणपदम् । इदं विशेषणं नाना धर्माणां रीतिवैचित्र्यं मूढतापादकत्वं च साधु अभि- व्यनक्ति । वस्तुतस्तु संसारिणो जीवा: नानाधर्मसम्प्रदायरूपो त्तुिङ्ग- तरङ्गमालाकुले भवार्णवे परिप्लवमानाः परं क्वापि पन्थानमलभ- माना: बहुविधं व्याकुलायन्ते । ते न तु श्रेयसे कल्पन्ते, नवा प्रेयसे । एवंविधानां धर्मसंमूढचित्तानां जनानां कृते श्रीमद्भगवद्गीता एव नौकायते । यतोहि एतस्यां समेषामेव शास्त्राणां सारो दरीदृश्यते- "सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्स: सुधीर्मोक्ता दुग्धं गीतामृतं महत् ।। तत्र तु ८ संस्कृत-निबन्धावली भारतामृतसर्वस्वं विष्णोर्वक्त्राद विनिःसृतम् । गोतागणोदकं पीत्वा पुनर्जन्म न विद्यते ।। गीतायां ज्ञानकर्मणोरभूतपूर्वः समन्वयो लोचनगोचरीभवति । भगवानुपदिशति- "लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥" अयमत्राभिप्रायोऽस्ति यदात्मनः स्वरूपज्ञानं ज्ञानमस्ति । प्रायण जना: जडत्वात् देहिदेहयोरैक्यं मन्यन्ते । अत एव ते देहदुर्गतौ दूयन्ते । किन्तु यदि वस्तुतो दृश्येत, तहि तु पात्मनोऽजत्वममरत्वम- परिवर्तनशीलत्वं वा नितरां प्राकाश्यमायाति । दृश्यताम्- "न जायते म्रियते वा कदाचित नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥" "वासांसि जीर्णानि यथा विहाय नवानि गृह रणाति नरोऽपरारिण। तथा शरीराणि विहाय जीरा- न्यन्यानि संयाति नवानि देही ॥' अपि च-- "नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥" प्रायो वेदान्तिनः कर्मसंन्यासं समुपदिशन्ति । परं तत्रत्यं सार- सर्वस्वं सरलशैल्यां तु भगवान् श्रीकृष्ण एव सन्दिशति । यथा हि- "न कर्मणामनारम्भात् नैष्कयं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धि समधिगच्छति ॥" न केवलन्तावदेतावदेव, अपि तु श्रीकृष्णमतेन- 'कर्मेन्द्रियाणि संयम्य य प्रास्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥"

8 गीता सुगीता कर्तव्या किमन्यः शास्त्रविस्तरः सत्यमस्ति यत्कर्मणां संन्यासो नास्ति सुकरः । प्रकृतिः ध्रुवमेव कर्म कारयति-- "नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥" वस्तुतः, कर्मणां स्वरूपतः परित्यागेन न कोऽपि लाभो भवति । एवं कृते तु लोकसंग्रहोऽपि विनाशमेति । अतः कर्मफलस्य एव त्यागो वरीयान् भवति, न तु कर्मणः। कर्म केवलं कर्त्तव्यबुद्ध्या एव करणीयम्, तत्र फलासक्तिनँव विधया। उक्तमेवास्ति तत्रैव गीतायां भगवता श्रीकृष्णेन-~- "कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा फर्मफलहेतुर्भूर्मा सङ्गोऽस्त्वकर्मणि ॥" गीतायां स्थितप्रज्ञस्य मनुष्यस्य यानि लक्षणानि कथितानि सन्ति, तानि परमस्पृहणीयानि सन्ति । सुखदुःर :खयो:, मानापमानयोः, हर्ष- विषादयोः, सम्पद्विपदोः, लाभालाभयोः, जयपराजययोः सत्यं मनो- वृत्तिसाम्यं कियदनुपमेयं वस्तुजातमस्ति, इति नास्ति परोक्षं विप- श्चितास् । गीतायाः सारल्यपुरस्सरं सारग्राहिणी प्रयोगयोग्यां च पद्धति स्मारं स्मारमेव सर्वे एवेतरे दार्शनिका एनामाद्रियन्ते । न कोऽपि खण्डयति एतदीयं विषयम् । अत एव न केवले भारते, अपितु समस्ते एव संसारे समुपास्यमाना गीता मनुजनुषां कण्ठमालायते । लोकमान्यतिलकेन गीतायाः रहस्यं साधु विदितमासीत् । तेन 'गीतारहस्ये' कर्मयोगस्य गीताभिमतं वास्तविकं स्वरूपं सम्यक निभालितमस्तीत्यत्र न कश्चित् संशीतिलेशः । कवीन्द्रो रवीन्द्रः, अरविन्दो घोषः, महात्मा गान्धी, प्राचार्यो 'विनोवा:' अपि गीतारहस्य चरितार्थीकृतवन्तः सन्ति । गीतायाः मुख्योपदेशः अकर्मण्यताविनाशाय तथा निष्कामकर्मण्य तास्थापनाय एव मन्तव्यः । कार्यजातं कुर्वता जनेन फलाशा नैव कार्या । एवं सति तत्कृतं कार्य तत्कायं न भूत्वा परमात्मकृतं कार्य भवति, येन स कर्मभिर्न लिप्यते; न च कर्मफलैबध्यते । स तु कैवल्यमेव प्राप्नोति । श्रीमद्भगवद्गीतानुसारेण मोक्षलाभाय गिरिकन्दरा- सेवनमेव अावश्यक नास्ति, अपितु गार्हस्थ्यमुपसेवमान: स्थितप्रज्ञ- संस्कृत-निवन्धावली त्वमाप्नुवन् भगवदथं निष्कामानि कर्माणि कुर्वन्नपि मानवो निस्सन्देह संन्यासिलभ्यं मोक्षमासादयतीत्यत्र मनागपि संशयो नास्ति । उक्तमपि तत्रैव- "संन्यासः कर्मयोगश्च निश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥" एवं समासेन सूक्ष्म क्षिकया विचारिते सति श्रीमद्भगवद्गीतायाः परमोपादेयता अनन्योपासनीयता च सुतरां स्फुटीभवतः । प्रतो मुमुक्षुभिरपि गृहस्थैः पुरुषैः शास्त्रार्थमात्रबहुलानि विलीनविषयारिण शास्त्रान्तरारिग परिहाय सर्वात्मना गोता एव संसेव्या। काश्चना- प्तोक्तयोऽप्यत्र प्रमाणं सन्ति । यथा हि- "गीता कल्पतरोश्छाया शीतला शुभदा सुखा । आश्रित्य तां जनाः सर्वे सूयासुः सफलोचमाः ॥" "गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिशः । जीवन्मुक्तः स विज्ञेयो देहान्ते परमं पदम् ॥" "मलनिर्मोचनं पुंसां जलस्नानं दिने दिने । संकृद् गीताम्भसि स्नानं संसारमलनाशनम् ॥" "का समस्या समस्तेऽपि संसारे जटिलास्ति या। समाहिता न गीतायां कृष्णेन परमात्मना ॥" "नासौ देशो न सा भाषा मतं जातिर्न सा भवेत् । साक्षरः पुरुषो येन न गीता परिशीलिता ।। "एक शास्त्रं देवकीपुत्रगीतम्" ॥ इत्यलं विस्तरेण विद्वत्सु रस्या रामायणी कथा "सदूषणापि निर्दोषा सखरापि सुकोमला। नमस्तस्मै कृता येन रम्या रामायरणी कथा ॥" लौकिककाव्यकलाया: श्रीगणेशो नूनं प्रचेतसो (वरुणस्य) दशमेन पुत्रेण महर्षिणा वाल्मीकिना एव रामायणं नाम रम्यं महत्काव्यं निर्माय विहित पासीदिति विदुषां विदितमेवास्ति । पुरा एकदा मध्याह्नकालिकनैत्यिक क्रियाकलापकरणाय पुण्यसलिलायास्तमसाप- गायाः तीरमापन्नो महर्षिाल्मोकिर्यदा एकेन व्याधेन तत्र क्रौञ्चयुग- लादेकं रतिरतं व्यापाद्यमानं विलोकयामास तथा तद्वियोगे तत्सह- चरीक्रियमाणं करुणक्रन्दनं शुश्राव, तदा तदतिकरुणं दृश्यमालोक्ये तन्मुखादकस्मादेव छन्दोमयीयं वागुज्ज गाम- "मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥" तदनु सहसा स्फुटितेन महर्षिवाल्मोकेः पद्येनानेन मुदितान्तरात्मा जगत्पितामहस्तत्रैवाविर्भूय महर्षि प्रशंसन् तमादिकविञ्चोद्घोषयं- स्तथा रामचरितवर्णनाय सम्प्रेयं तिरोबभूव । तदीयामाज्ञां माला- मिव शिरसि निधाय महर्षिवाल्मीकिः निर्दोषां सुकोमलां रामनायका रम्यां यां रामकथां रचयामास, सैवेदानी रामायणमितिनाम्ना स्वदेशे विदेशे सर्वत्रैव विख्यातास्ति । एतेन सिद्ध्यति यल्लौकिकवाङ्मये महर्षिवाल्मोकिरेवादिमो महाकविरस्ति तथा तत्प्रणीतं रामायणमेव आदिम महाकाव्यमस्तोत्यत्र पौरस्त्यानां पाश्चात्यानां वा केषाञ्चिदपि विपश्चितां वैमत्यं नास्ति । एतदेवानुभूय कवीन्द्रः क्षेमेन्द्रो निजायां रामायणमञ्ज- सादरं व्याजहार यत्- संस्कृत-निबन्धावली "स वः पुनातु वाल्मोकेः सूक्तामृतमहोदधिः । ओङ्कार इव वर्णानां कवीनां प्रथमो मुनिः॥" आदिकविना महर्षिणा वाल्मीकिना स्वीयेऽस्मिन् महाकाव्ये महाकाव्यानुरूपायां रसभावालङ्कारादिविभूषितायां वैदर्भीशैल्यां मानवजीवनस्य सर्वतोमुखी व्याख्या. भारतीयसंस्कृतिसभ्यतानुरूपं तथा सविस्तरं विहितास्ति, यथेदं महाकाव्यं सार्ववणिकानां शिक्षि- तानामशिक्षितानाम्, बालानां वृद्धानाम्. स्त्रीणां पुरुषाणां च सम- स्तानामेव भारतीयानां जनानां कृते सार्वकालिको मनीषिमान्यो मानवधर्मग्रन्थो जातोऽस्तीति विद्वज्जना जानन्त्येव । अतएव च तत्प- रवत्तिभिः जनमनोमर्मविद्भिः सजीवसं विद्भिः काव्यविद्याविद्वद्भिः सुमहद्भिः भास-कालिदास-भट्टि-भवभूति-मुरारि-राजशेखर-दिङ्नाग- क्षेमेन्द्र-भोजराज-जयदेवादिभिरनेकैः काव्यकारैः महर्षिवाल्मीकि- प्रणीताद् रामायणादेव कथानकांशजातं शैलीलीलाविलास वा समा- दाय स्वीयानि स्वीयानि काव्यानि विरचितानि सन्ति । एतेन सचेतसां चेतसि वाल्मीकिविरचितस्य रामायणमहाकाव्यस्य उपजीव्यकाव्य- त्वमपि सुतरां सिद्धं जातमस्ति । तस्मात्सत्यमेव शाङ्गधरो जगाद- 'कवीन्दुं नौमि वाल्मीकि यस्य रामायणी कथाम् । चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः ।।' " । रामायणं नाम रम्यं महाकाव्यमिदं मुनिना वाल्मीकिना चतुर्विंश- तिसहस्रसंख्याकैः पद्यैरुपनिबद्धमस्ति । तत्र प्रतिसहस्रं प्रथमं पद्यं क्रम- प्राप्तेन प्रत्येकेन गायत्रीमन्त्राक्षरेण प्रारब्धमस्ति । एतेन स्फुटं भवति यन्मुनिमनसि महाकाव्यमिदं गायत्रीमन्त्रवदेव परमपावनतां बित्ति स्म । तस्मात्सिद्ध्यति यद् यथा वैदिकवाङ्मये गायत्रीमन्त्रो बुद्धिव- र्धकः शान्तिदायकश्च विद्यते, तथैव लौकिकसाहित्ये रामायणमपि बुद्धिशोधकं मनश्शान्तिदायकं च वरीवर्तीत्यत्र मनागपि न संशयः । तदुक्तमपि- - "रामायणं नाम परंतु काव्यं सुपुण्यदं वै शृणुत द्विजेन्द्राः।

रम्या रामायणी कथा यस्मिञ्छ्र ते जन्मजरादिनाशो भवत्यदोषः स नरोऽच्युतः स्यात् ॥ - आदिमे सत्यपि अस्मिन् महाकाव्ये सर्व विधं बुधमतं साहित्यिक सौन्दर्यं सहृदयपाठकानां हृदयसंविदं साधु संस्पृशति । भावानां भव्यता, भाषाया विशदता, रसानामास्वाद्यता, अलङ्काराणामाकर्ष- कता, छन्दसां प्रवाहः, वाग्वदग्ध्यस्य वैभवं, प्रकृतेश्चित्रणम्, विकृते- श्च वर्णनमित्यादिकं सर्वमेव साहित्यश्रीसंवर्धकं वैशिष्ट्यजातं तत्र दर्श दर्श साहित्यशास्त्रसमुपासनालोनमनसां विदुषां पाठकानां मनांसि प्रोयन्ते एव; किन्तु तस्मिन् पितरं प्रति पुत्रस्य कर्तव्यम्, भ्रातरं प्रति अनुजस्य कर्त्तव्यम्, पतिं प्रति पत्न्याः कर्त्तव्यम्, स्वामिन प्रति सेव- कस्य कर्त्तव्यम्, मित्रं प्रति मित्रस्य कर्तव्यम्, राजानं प्रति अमात्यस्य कर्तव्यम्, प्रजाजनान् प्रति राज्ञः कर्त्तव्यं च तत्र यथास्थानं सम्प्राप्य जायमानो विविधकर्तव्यावबोधस्तु सर्वप्रकाराणामेव पाठ. कानां बुद्धिपटलं विशदयतीत्यपि नास्ति केषामपि विदुषामविदितम् । एतेनैव च हेतुना भारतवर्षस्य कोणे कोणे, गेहे गेहे, जने जने च रामायणं प्रति हार्दिको श्रद्धा वरोवृत्यते । एतादृशो जनो न क्वाप्य- बलोकयितुं शक्यते योऽनेन महाकाव्येन सुपरिचितो न स्यात् । पितु- राज्ञां पुष्पमालामिव शिरसि निधाय प्राज्यं राज्यं विहाय चतुर्दश वरिण सिंह-व्याघ्र-नाग -भल्लूकादिहिंस्रजोवभयङ्करे राक्षसा- वासघोरे कण्टकाकोणे कान्तारे वम्भ्रम्यमारणो रामः, तेन सह पति- सेवासाहचर्यादिवतं परिपालयन्ती तमनुब्रजन्ती सोता, आत्मनोऽप्य- धिकं प्रियं पूज्यं निजाग्रज रामं प्राणरपि परिचरन् विस्मृतनवोढो लक्ष्मणः, रामविरहेण परित्यक्तप्राणो राजा दशरथः, रामस्य प्रत्याग- मनप्रतीक्षापरायणो रामपादुके एव राज्य श्रियं मन्यमानो राजभवनं विहाय नन्दिग्रामे कृतावासो भरतः, सर्वात्मना ससर्वोत्साहं च राम- सेवां विदधानो हनुमान्, पुनश्चान्ते लोकरञ्जनार्थं प्राणेभ्योऽपि गरी- यसी प्रेयसीम् अन्तर्वत्नों पत्नों सोतां परित्यजन् राजा रामः सचेतसः कस्य मनो न कर्षति ? महाकाव्यस्य इमानि सर्वाण्येव पात्राणि भारत- वर्षस्य आत्मनि सर्वदाकृते लब्धास्पदानि जातानि सन्ति । अतो नूनमेव महाकाव्य मेनद् भारतवर्षे राष्ट्रियमहाकाव्यत्वस्य गरीयांसं १४ संस्कृत-निवन्धावली गरिमाणं बिभ्रत्समस्ते एव भारते वर्षे विराजमानं विद्यते तथा आ- प्रलयं सगौरवं विराजिष्यते । मन्ये, मुनिना मनीषिणा वाल्मीकिना स्वीयेनार्षेण नेत्रेण इदमेवावलोक्य समुद्घोषितं स्यात् - "यावस्थास्यन्ति गिरयः सरितश्च महीतले । तावद् रामायणकथा लोकेषु प्रचरिष्यति ॥" : क्रौञ्चीकरणक्रन्दनाज्जातारम्भे सीतात्यन्तिकवियोगवेदनया च जा- तावसाने अस्मिन् महामहिमशालिनि महाकाव्ये नूनमेव करुणो रसो मुख्यतया निष्पत्ति प्राप्तवानम्ति । अन्तरान्त रापि मुनिकुमार-तत्पि- तृवृद्धान्धमुनि-दशरथ -जटायु-प्रभृतीनां देहत्यागनिरूपकारिण काव्यानुरूपाणि वर्णनानि कारुण्य प्राधान्यात् करुणरसापगामेव परि- वर्धयन्तीति सहृदया विदन्त्येव । अतो नूनं करुणरसप्रधानमिदं महा- काव्यं चुम्बकाश्मवत् सचेतसां चेतांसि स्वाभिमुखं समाकर्षति । मन्ये, अत एव मनोवैज्ञानिका अपि मन्यन्ते यत्करुणो रसो यथा सहृदयहृदयं व्याप्नोति तथा नान्यः कोऽपि रसः । प्रतीयते यदेतदेवा- नुभूय ध्वन्यालोककारेण आनन्दवर्धनाचार्येणापि लिखितमस्ति यत्- - शृङ्गारे विप्रलम्भात्ये करणे च प्रकर्षवत् । माधुर्यमादतां याति यतस्तत्राधिकं मनः ।। अत्र लोचनाख्यां व्याख्यां प्रकुर्वाणेन श्रोमदभिनवगुप्तपादेन स्पष्टोकृतमस्ति यन् – “सम्भोगशृङ्गारान्मधुरतरो विप्रलम्भः, ततोऽपि मधुरतमः करुण इति तदभिव्यञ्जनकौशलं गव्दार्थयोर्मधुर- तरत्वं मधुरतमत्वं चेत्यभिप्रायेणाह-शृंगार इत्यादि। करुणे चेति चशब्दः क्रममाह । प्रकर्षवदिति । उतरोत्तरं तरतमयोगेनेति भावः ।" अरण्यवासित्वान्महर्षिर्वाल्मीकिः अस्मिन् स्वीये महाकाव्ये नभो- मेघनदीवनपर्वतादिविविधरूपायाः प्रकृतेः स्वाभाविकं समलङ्कृतं सुरम्यं सुहृद्यमनवद्यं च स्वरूपं पाठकानां पुरस्ताद् उपस्थापित- वानस्ति । उदाहरणार्थमत्र कतिपयानि भिन्न भिन्न प्रसंगानि पद्यानि प्रस्तूयन्ते- रंम्या रामायणी कथा - (क:) शृङ्गवेरपुरे प्रवहन्तीं गङ्गामुपवर्णयंल्लिखति क्वचिद वेणीकृतजलां क्वचिदावर्तशोभिताम् ॥ क्वचित् स्तिमितगम्भीरां क्वचिद् वेगसमाकुलाम् । क्वचिद् गम्भीरनि?षां क्वचिद भैरवनिःस्वनाम् ।। देवसंधाप्लुतजलां निर्मलोत्पलसंकुलाम् । क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ॥ हंससारससंघुष्टा चक्रयाकोपशोभिताम् । सदा मत्तश्च विहगैरभिपन्नामनिन्दिताम् ।। क्वचित्तीररुहैर्वृक्षर्मालाभिरिव शोभिताम् । क्वचित्फुल्लोपलच्छायां क्वचित्पावनाकुलाम् ।। क्वचित्कुमुदखण्डैश्च कुड्मतरुपशोभिताम् । नानापुष्परजोध्वस्तां समदामिव च क्वचित् ॥ X x समुद्रमहिषों गङ्गां सारसनौञ्चनादिताम् । आससाद महाबाहुः शङ्गवेरपुरं प्रति ।।" (ख:) चित्रं चित्रकूटं च इत्थं वर्णयति - "प्रादीप्तानिय वेदेहि सर्वतः पुष्पितान् नगान् । स्वैः पुष्पं किंशुकान् पश्य मालिनः शिशिरात्यये ।। पश्य भल्लातकान् बिल्वान् नरैरनुपसेवितान् । फलपुष्परवनतान् ननं शक्ष्याम जीवितुम् ॥ पश्य द्रोणप्रमागानि लम्बमानानि लक्ष्मण । मधूनि मधुकारोभिः सम्भृतानि नगे नगे । एष क्रोशति नत्यूहस्त शिखी प्रतिकूजति । रमणीये . वनोददेशे पुष्पसंस्तरसङ्कटे ।। मातङ्गयूथानुसृतं पक्षिसंघातुनादितम् । चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ।। (गः) अग्रे पञ्चवटीपरिसरञ्च एवं वर्णयति-- "अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद । अलकृत इवाभाति येन संवत्सरः शुभः ।।

१ संस्कृत-निबन्धावली + नोहारपरुषो लोकः पृथिवी सस्यमालिनी। जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ।। + + सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् । विहोनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते ॥ प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् । यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः॥ X X X रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः । निःश्वासान्ध इवाश्चन्द्रमा न प्रकाशते ॥ ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते । सीतेव चातपश्यामा लक्ष्यते नच शोभते ।। x X X मयूखैरुपसर्पििहमनीहारसंवृतः दूरमप्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥ अग्राह्यवीर्यः पूर्वाह्न मध्याह्न स्पर्शतः सुखः । संरक्तः किञ्चिदापाण्डुरातपः शोभते क्षितौ ।। अवश्यायनिपातेन फिञ्चित्प्रक्लिन्नशाद्वला। वनानां शोभते भूमिनिविष्टतरुणातपा॥ स्पृशन् सुविपुलं शीतमुदकं द्विरदः सुखम् । अत्यन्ततृषितो बन्यः प्रतिसंहरते करम् ।। (घ:) ततो माल्यवति पर्वते सीतावियोगिराममुखेन वर्षर्तुमेवं वर्णयति- "अयं स कालः सम्प्राप्तः समयोऽध जलागमः। सम्पश्य त्वं नभो मेघः संवृतं गिरिसन्निभैः ।। नवमासधृतं गर्भ आस्करस्य गभस्तिभिः । पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥ सन्ध्यारागोत्थितैस्ताम्ररन्तेष्वपि च पाण्डुभिः । स्निग्धरभ्रपटच्छेदैर्वद्धवरणमिवाम्बरम् ॥

रम्या रामायणी कथा मन्दमारुतनिःश्वासं सध्याचन्दन रञ्जितम् । प्रापाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥ एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता। सीतेव शोकसन्तप्ता मही वाष्पं विमुञ्चति ॥ x कशाभिरिव हैमीभिविद्यदभिरभिताडितम् । अन्तःस्तनितनिर्घोष सवेदनमिवाम्बरम् ॥ नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मे । स्फुरन्ती रावरणस्याङ्क वैदेहीव तपस्विनी ॥ X X X X X वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति । नधो घना मत्तगजा बनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गमाः॥" अथादिकवेरलङ्कारसंनिवेशकौशलप्रदर्शनकामन या किन्तु समयन्यो- न्यमालोक्य केवलस्तदुपमालङ्कारविधानवैभवांशो भवदर्थमुपायनी- विधीयते । पारेसमुद्र लङ्कायामशोकवाटिकायां सीतामन्विष्यता बल- वता हनुमता विलोकिताया: सीताया वर्णनं कुर्वन्मर्षिाल्मीकि: उपमासुषमा प्रदर्शयति- "अशोकवनिकायां तु तस्यां वानरपुङ्गवः॥ X X X ततो मलिनसंवीतां राक्षसीभिः समावृताम् ।। उपवासकृशां दीनां निःश्वसन्ती पुनः पुनः । ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ।। मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् । पिनद्धां धूमजालेन शिखामिद विभावत्तोः॥ पोतेनकेन संवीतां क्लिष्टेनोत्तमवाससा । पङ्कामनलङ्कारां विपद्मामिव पधिनीम् ।।

१८ संस्कृत-निबन्धावली पीडितां दुःखसन्तप्तां परिक्षीणां तपस्विनीम् । ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ॥ X प्रियं जनमपश्यन्तों पश्यन्ती राक्षसीगरणम् । स्वगणेन मृगी हीनां श्वगरणेनावृतामिव ।। X X X X X सीतां पद्मपलाशाक्षी मन्मथस्य रति यथा । इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ भूमौ सुतनुमासीनां नियतामिव तापसीम् । निःश्वासबहुलां भीरुं भुजगेन्द्रवधमिव ॥ शोकजालेन महता विततेन च राजतीम् । संसक्तां धमजालेन शिखामिव विभावसोः ।। तां स्मतिमिव संदिग्धादि निपतितामिव विहतामिव च श्रद्धामाशां प्रतिहतामिव । सोपसर्गा यथा सिद्धि बुद्धि सकलुषामिव । अभूतेनापवादेन कीति निपतितामिव ।। X X X मलपङ्कधरां दीनां मण्डनामिमण्डिताम् । प्रभा नक्षत्रराजस्य कालमेधैरिवावृताम् ॥ तस्य सन्दिदिहे बुद्धिस्तथा सीतां निरीक्ष्य च । प्राम्नायानामयोगेन विद्यां प्रशिथिलामिव ।। दुःखेन बुबुधे सीतां हनुमाननलङ कृताम् । संस्कारेण यथा होनां वाचमर्थान्तरं गताम् ।। न केवलं तावदेतावदेव, अपितु मानवजीवनोपयोगिनो मर्म- स्पृशो बुद्धिविवर्धनाश्च सामाजिकाः, सांस्कृतिकाः, गजनैतिका: दार्शनिकाः, धार्मिकाः आर्थिकाश्चानेके जीवनादर्शा अपि वाल्मीकि- रामायणे सीता-राम-लक्ष्मण - भरत-हनुमदादीनां सत्पा त्राणां चरितचित्रणमाध्यमेन पाठकानां पुरस्तात्प्रस्तुतीकृताः प्राप्य- न्ते; यानधीत्य मानवो वास्तवो मानवो भवितुं प्रेरितो भवति । तेषु जीवनादर्शषु काश्चिदत्र भवन्मनस्तोषाय समुदाहरामि । यथा- . .

रम्या रामायणी कथा (क:) रामोदिता जीवनादर्शा इमे- "सुखदुःखे भयकोधौ लाभालाभौ भवाभवो। यस्य किञ्चित्तथाभूतं ननु देवस्य कर्म तत् ।। - अयोध्याकाण्डे २२।२२ "नात्मनः कामकारो हि पुरुषोऽयमनीश्वरः । इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ सर्वे क्षयान्ता नित्रयाः पतनान्ताः समुच्छयाः॥ संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ।" -अयोध्याकाण्डे १०५।१५-१६ सत्यमेवेश्वरो लोके सत्ये धर्मः सदाश्रितः । सत्यमूलानि सर्वारिण सत्यान्नास्ति परं पदम् ॥" --अयोध्याकाण्डे, १०६।१३ "क्षत्रियैार्यते चापो तार्तशब्दो भवेदिति ॥ अरण्यकाण्ड, १०/३ "न ह्यनिष्टोऽनुशास्यते।" -~-अरण्यकाण्डे, १०।२१ "ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति । त्रयस्ते पितरो ज्ञेया धर्म च पयि वत्तिनः।। यवीयानात्मनः पुत्रः शिष्यश्चापि गुरगोदितः । पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारगम् ।। सूक्ष्मः परमदुर्जेयः सतां धर्मः प्लवङ्गमा हृदिस्थः सर्वभूतानामात्मा वेद -किष्किन्धाकाण्डे १८११३-१५ "दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश्चापि दण्ड्यते । कार्यकारणसिद्धार्थावुभौ तो नावसीदतः॥ किष्किन्धाकाण्डे ११६१ "नियतिः कारणं लोके नियतिः कर्मसायनम् । नियतिः सर्वभूतानां नियोगेष्विह कारगन् । न कर्ताकस्यचित्क्रश्चिन्नियोने नापिचेश्वरः। स्वभाव वर्तते लोकस्तस्य कालः परायणम् । किष्किन्धाकाण्डे २५१४-५ . शुभाशुभम् ॥'

२०
संस्कृत-निबन्धावली
"न साम्ना शक्यते कोतिर्न साम्ना शक्यते यशः।'
-युद्धकाण्डे २०१६
"देशे देशे कलत्राणि देशे देशे च बाधवाः।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ।
-~-युद्धकाण्डे १०१।१५
"कोर्त्यर्थ तु समारम्भः सर्वेषां सुमहात्मनाम् ॥
--उत्तरकाण्डे ४५।१४
(खः) सीतोदिता जीवनादर्शा इमे सन्ति-
"न पिता नात्मजो वात्मा न माता न सखीजनः।
इह प्रेत्य च नारोगां पतिरेको गतिः सदा ॥"
- अयोध्याकाण्डे २७६
"नातन्त्री वाद्यते वीरगा नाचको विद्यते रथः ।
नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥
-अयोध्याकाण्डे ३६२६-३०
"सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥"
अयोध्याकाण्डे ११८१३५
"धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् ।
धर्मेण लभते सर्व धर्मसारमिदं जगत् ।।
-अरण्यकाण्डे ६।३०
"नतु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ।
फालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये ।"
-अरण्यकाण्डे ४६।२७
"यदा विनाशो भूतानां दृश्यते कालचोदितः
तदा कार्य प्रमाद्यन्ति नराः कालवश गताः ।
-अरण्यकाण्डे -५६।१६

रम्या रामायणी कथा
"अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम् ।
नयन्ति निकृतिप्रज्ञ परदाराः पराभवम् ।
-सुन्दरकाण्डे २१
"कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे।
एति जीवन्तमानन्दो नरं वर्षशतादपि ।
- सुन्दरकाण्डे ३.६
(गः) अथ लक्ष्मणोदिता जीवनादर्शाः प्रस्तूयन्ते--
"वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि।
स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते ।
-अरण्यकाण्डे ४५।२६
"उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ।
सोत्साहस्य हि लोकेषु न किञ्चिदपि दुर्लभम् ।।
-किष्किन्धाकाण्डे १११२१
अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः ।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ।।
- युद्धकाण्डे ८३।३३
"यस्यार्थाः स च विकान्तो यस्यार्थाः स च बुद्धिमान् ।
यस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः ॥"
--युद्धकाण्डे ८३।३६
"नहि प्रतिज्ञां कुर्वन्ति वितथा सत्यवादिनः ।
लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥
युद्धकाण्डे १०११५२
(धः) अथ भरतोदिता जीवनादर्शा: प्रदश्यन्ते-
"न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् ।
यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥"
-अयोध्याकाण्डे ७३११८

संस्कृत-निवन्थावली
।
"पितुहि समतिक्रान्तं पुत्रो यः साधु मन्यते ।
तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥"
- अयोध्याकाण्डे १०६।१५
(ङ:) हनुमदुदिता जीवनादर्शास्तु इमे सन्ति-
"गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम् ।
अव्यग्रस्तदवाप्नोति सर्व प्रेत्य शुभाशुभम् ॥"
-किष्किन्धाकाण्डे २१२
"यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ।
तस्य राज्यं च कोत्तिश्च प्रतापश्चापि वर्धते ।
-किष्किन्धाकाण्डे २६।१० उत्त० ११ पूर्व०
"विनाशे बहवो दोषा जीवन प्राप्नोति भद्रकम् ॥
-सुन्दरकाण्डे १३।४७ पूर्व०
"असत्यानि च बुद्धानि संशयो मे न रोचते ।
फश्च निःसंशयं कार्य कुर्यात्प्राज्ञः ससंशयम् ॥'
-सुन्दरकाण्डे ३०।३५
"न साम रक्षःसु गुरणाय कल्पते
न दानमर्थोपचितेषु युज्यते ।
न भेदसाध्या बलपिता जनाः
पराक्रमस्त्वेष ममेह रोचते ॥"
-सुन्दरकाण्डे ४११३
"वाच्यावाच्यं प्रकुपितो न विजानाति कहिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥"
-सुन्दरकाण्डे, ५५/५
(च:). सुग्रीवोदितास्तु-
"बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।
स मज्जत्यवशः शोके भाराकान्तेव नौजले॥"
-किष्किन्धाकाण्डे ७।१०

रम्या रामायणी कथा २३ "सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम् । अनित्यत्वात् तु चित्तानां प्रीतिरल्पेऽपि भिद्यते॥" -किष्किन्धाकाण्डे ३२७ उपसंहारः इत्यमहं पश्यामि यद् वाल्मीकिकृतं रामायणं नाम रभ्यं रामीयं महाकाव्यमिदं वस्तुत एव एकं सर्वाङ्गीणं सर्वजनीनं सर्वविधजातीय- जतमनोरमणं सर्वजनकण्ठहारायमाणं सहृदयहृदयाराध्यमानं भार- तीयसाहित्यस्य च उद्याने पारिजातायमानम्, मन्दिरे देवतायमानम्, गगने दिने दिनेशायमानं निशि च परिपूर्णतारानायकायमानम्, पुष्प- पटले पाटलायमानम् रत्ननिचये च कौस्तुभायमानं महनीयं मानवीयं जीवनकाव्यमस्ति । अतो हेतोः एतत्प्रणेतुमहर्षेर्वाल्मीकेर्यावती प्रशंसा विधोयेत, तावती मन्मनसि तु न्यूना एव प्रतिभाति । इत्थमेव चाभिरूपा अपि अभिप्रयन्ति- "वाल्मोकिगिरिसम्भूता रामाम्भोनिधिसंगता। श्रीमद्रामायगी गङ्गा पुनाति भुवनत्रयम् ।। अपि च- - कूजन्तं राम रामेति मधुरं मधुराक्षरम् । पारुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥" इत्थमिदं सर्व दर्श दर्श वक्तुमीहमानमम्ति मामकं मनो यत् नलचम्पूकारस्य त्रिविक्रमभट्टस्य 'रम्या रामायणो कथा' इति कथन सर्वथैव समोचीनमस्तीति दिक् ।

भारतीया संस्कृतिः 'संस्क्रियते अात्मा यया सा संस्कृतिः' इति लौकिके विग्रहे विहिते सति 'सम्' उपसर्गपूर्वकात् करणार्थकात् 'डुकृञ्' धातो: स्त्रियां क्तिनि प्रत्यये जाते सति संस्कृतिशब्दो निष्पत्तिपथमायाति । एवं- विधे विमर्श सति समेषामेव शेमुषीजुषां विदुषाम् प्रतिरोहितं भवति संस्कृतेः किमपि वाचामनिर्वचनीयं परममहनीयं महत्त्वम् । वस्तुत: संस्कृतिरेव काम-क्रोध-लोभ-मोह-मद-मात्सर्यादीनि नानाविधानि मानवारातिरूपाणि मनान्यपाकृत्य प्रात्मानं निष्कल्मषं विधाय मानवान् भृशं समुपकरोति । परन्तु साम्प्रतं नयनपथं श्रवणपथं वा समागच्छन्तीष्वनेकासु विभिन्नदेशोयासु संस्कृतिषु इयं विशेषता लब्धं नैव शक्यते । अस्ति खलु एका भारतीया एव संस्कृतिः, यस्यां विश्वजनीनाः सर्वे धर्माः आदिकालादेव परिस्फुरन्तो दरीत्श्यन्ते । भारतीया एव संस्कृति: हृदयगताज्ञानान्धकारविशसने प्रवृत्ता सती कार्याकार्यविवेकं शिक्षयति । अन्यास्तु एकदेशीयस्वार्थसम्पूर्तिसम्प्रे- रिका भूत्वा इतरेषां शोषणमेव समुपदिशन्ति । अनेनैव हेतुना आस्माकीना भारतीया संस्कृतिः सुचिरात् स्वकीयं व्वजं समन्ताद् दिग्दिगन्तेषु समुच्छ्रितं विदधती तत्तद्देशोत्पन्नेषु सम्पन्नेषु विपन्नेषु च मानवेषु निजामसाधारणां स्पृहणीयतां रमणीयतां ग्रहणीयतां च संस्थापयन्ती सती सुतरां राजमाना समेषामेव इतिहासजषां विदुषां श्रुतिनयनावगीना वोभवीति । यद्यपि एतस्यामतिद्राधिष्ठायां यात्रायां भारतीया संस्कृतिः अन्यदेशीयाभि: संस्कृतिम्मन्याभिरनेकाभिः संस्कृतिभिः भृशमाक्रान्ता भूतवती अस्ति, तथापीयं वह्निज्वालामाला- भिरालोडिता काञ्चनी मूतिरिव समुज्ज्वलैव समभूदित्यही धैर्यधारि धौरेयताललामभूताया: भारतीयसंस्कृतेः कश्चिद् विलक्षण एव वाचामनाचमनीयोऽशेषविशेषो विशेषः ।

भारतीया संस्कृतिः २५ अथात्र प्रतीकरूपेण भारतीयसंस्कृतेः कतिपया विशिष्टता: समुदाह्रियन्ते । यथाहि- १. पुरुषार्थचतुष्टयसाधना २. वर्णाश्रमव्यवस्था ३. आध्यात्मिकताप्राधान्यम् ४. पुनर्जन्मप्रत्ययः ५. आस्तिकता ५. मातापितृगुरुजनादरः ७. यज्ञेषु परमादरः ८. अतिथिस्नेहः ६. प्रारिणदया १०. परोपकारपरायणता ११. त्यागभावना १२. निष्कामकर्मयोगः १३. सदाचारपरिपालनम् १४. सहिष्णुता १५. प्रभविष्णुता १६. विश्वमङ्गलकामना प्रथासां विशिष्टतानां समासेनात्र महिमापि प्रस्तूयते । यथा हि- पुरुषार्थचतुष्टयसाधना भारतीयसंस्कृती धर्मार्थकाममोक्षसंज्ञकस्य पुरुषाथचतुष्टयस्य गरिष्ठं वरिष्ठ महिष्ठं च महत्त्वमनुभूयते । भा-रते भारत वर्षे धर्म एवाशेषमूलं मन्यते । धर्मोऽयं मानवोयधारणापरको विद्यते, नतु संकुत्सितसम्प्रदायानलसन्तापदग्धो दग्धविदग्धो विशिष्टसम्प्रदाया- स्मश्लाघापरकफलकः । अत्राह महामतिर्भर्तृहरि:- "प्राहारनिद्राभयमैथुनानि समानमेतत्पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः॥" - संस्कृत-निबन्धावली महामना मनुमनुते- "तिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥" अस्मदीया भारतीया संस्कृतिरस्मान् शिक्षयति यद् धर्मोपार्जित एवार्थः, धर्माविरुद्धश्चैव कामो मोक्षहेतू भवतः; नतु इतरथा । वर्णाश्रमव्यवस्था भारतीयसंस्कृतौ सर्वे मनुष्याः उच्चावच भेदराहित्येन कर्मानुसारं ब्राह्मण-क्षत्रिय-वैश्य-शूद्राभिधेयेषु चतुर्दा वर्णेषु तथा ब्रह्मचर्य- गृहस्थ-वानप्रस्थ-संन्याससज्ञकेषु चतुर्पु पाश्रमेषु विभज्यन्ते । तेषु तेषु वर्णेषु, तेषु तेषु प्राश्रमेषु च निवसन्तो मानवाः स्वकोयानि स्वकी- यानि कार्याणि कुर्वन्तॊ 'मया कि विधेयम्' ? 'कदा किं विधेयम्' ? इत्यादिरूपचिन्तापिशाचीपाशबद्धा नैव भवन्ति । श्रीमद्भगवद्गीतायां परमयोगिराजेन श्रीकृष्णेन प्रतिवर्ण यः कर्मोपदेशो दत्तोऽस्ति, स केषामपि गीताजुषाम् अविदितो नास्ति । प्राध्यात्मिकताप्राधान्यम् भारतीयसंस्कृतेरियं हृद्यानवद्यास्ति परमा विशेषता, यदत्र भौतिकप्रपञ्चपाशोपेक्षापूर्वकम् आध्यात्मिकी सम्पत्तिः प्राप्तुमिष्यते । कामक्रोधलोभमोहादिवासनापूरपूरितं परिदृश्यमानं जगदेव सार्वका- लिक लक्ष्यं नास्ति । अपितु येन केनापि विलक्षणेन सुलक्षणेन क्षणेनैव सच्चिदानन्दधनरूपेण निखिलमिदं ब्रह्माण्ड परिव्याप्तमस्ति, यस्येव भासा सर्वमिदं विभाति, तस्य कस्यचिद् वाचामनिर्वचनीयस्य महामहनीयस्य परमतत्त्वस्य साक्षात्कार एव चरमोद्देश्यमस्ति भारतीयानाम् । एतदर्थमेव निखिलं दर्शनवाङ्मयमपि प्राकाश्यमा- नीतमस्ति । पास्तिकता पुनर्जन्मप्रत्ययश्च आस्तिकता पुनर्जन्मप्रत्ययश्चेत्युभो गुणावन्योन्याश्रितौ स्तः । मस्ति, परो लोकः' इति भारतीयानां मतिः सुतरां सर्वविदिता २७ भारतीया संस्कृतिः एवास्ति । अत एव भारतीयानां मानवानां मनसि पुनर्जन्म विश्वासो- ऽपि वरीवृत्यते । ते मन्यन्ते यत्- "जातस्य हि ध्रुवो मृत्युध्र वं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥" "अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र परिदेवना॥" का अपि च- - अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ।" मातापितगुरुजनादरः 'मातृदेवो भव'-'पितृदेवो भव'-'आचार्यदेवो भव'-'गुरुब्रह्मा गुरुविष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥'-'जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'-'कुपुत्रो जायेत क्वचिदपि कुमाता न भवति'-इत्यादीनि उपदेशवाक्यानि तथा परशु- रामस्य मातापितृभक्तिः, रामस्य पितृभक्तिः, कौत्स-एकलव्य- सत्यकाम-जाबालादीनां च गुरुभक्तिरिदं तथ्यं पुष्णन्ति यद् भारतीय- संस्कृतौ मातापितृगुरुजनानां कृते भूयानादरो वर्तते । . ॥" . यज्ञेषु परमादरः "अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥' "यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व किल्विषः। भुञ्जते ते त्वचं पापा ये पचन्त्यात्मकारणात 'यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम । इत्यादिभिर्वाक्यः यज्ञमहिमा सुतरां स्फुटति । भारतीयसंस्कृती ब्रह्मयज्ञ-देवयज्ञ-पितृयज्ञ-बलिवैश्वदेवयज्ञ-अतिथियज्ञ संज्ञकानां पञ्चा- नां यज्ञानां दैनिकं विधानमुपदिष्टमस्ति । ईशी लौकिकी पारलौकिकी च कल्याणकामना अन्यत्र कुत्रापि नैवावलोक्यते। " २८ संस्कृत निबन्धावली अतिथिस्नेहः प्रारिणदया च भारतीयानामातिथेयता विश्वविश्रुतास्ति । यथाहि भारतीय- संस्कृतौ 'अतिथिदेवो भव'-'सर्वदेवमयोऽतिथिः'-'अरावप्युचितं कार्यम् आतिथ्यं गृहमागते'-इत्यादयो महोदाराः मानवीया: राद्धान्ताः समुपलभ्यन्ते; ते चात्र सर्वमान्या अपि सन्ति । विषयेऽस्मिन् रघु- कौत्सकथा, कपोतव्याधकथा, कृष्णार्जुनमोरध्वज कथाच केषां नोप- देशाय कल्पन्ते ? एवमेव 'अहिंसा परमो धर्म:'- 'को धर्म: ? भूतदया, 'मा हिंस्यात् सर्वभूतानि'- इत्यादयः सूक्तिमुक्ताः अपि भारतीयानां जनानां कृते ग्रेवेयकायन्ते । परोपकारपरायणता इयं विशेषता तु भारतीयसस्कृतौ भृशमोतप्रोता सती सन्ति- ष्ठते । 'परेषामुपकारस्तु स्वप्राणदानेनापि विधेयः' इत्येवंरूपो महोप- देशस्तु भारतवर्षस्य गरिष्ठा विशिष्टतास्ति । अत्रत्येतिवृत्ते परार्थ प्राणानुत्सृजतां जनानामनेकानि आख्यानकानि समुपलभ्यन्ते । अत्रत्या तु प्रकृतिरपि परोपकारपरायणा सती दिवानिशं भद्रं वितन्वाना दरीश्यते- "परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः । परोपकाराय विभाति सूर्यः परोपकारार्थमिदं शरीरम् ॥" - - अपि च- "अनुभवति हि मूर्ना पादपस्तीवमुष्णं शमयति परिताप छायया संश्रितानाम् ॥" त्यागभावना यावत्कालं मानवस्त्यागभावभूमि नारोहति, तावत्कालं तस्य . आध्यात्मिकाभ्युदयो नैव सुलभः। अस्मदीया भारतीया संस्कृतिः अनेनैव हेतुना त्यागमुपदिशति । भोगस्तु - पाश्चात्त्यसंस्कृतेः केन्द्र- बिन्दुः । अत्र हि 'योगः कर्मसु कौशलम्'-'तस्माद् योगी भवार्जुन' 'दरिद्रान् भर कौन्तेय'-'तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद् धनम्-'दानेन पाणिनंतु कङ्कणेन'-- इत्येवंविधानि सद्वचांसि भारतीया संस्कृतिः २९ . मानवानां मनांसि त्यागार्थं सततं प्रेरयन्ति । हरिश्चन्द्र-शिबि-दधीचि- कर्णादोनां भारतीयनरपतीनां त्यागाख्यानकानि केषां नैव विदितानि सन्ति ? निष्कामकर्मयोगः कर्मयोगस्तु प्रायेण सर्वत्र सुलभोऽस्ति, किन्तु निष्कामकर्मयोगोप- देशस्तु भारतीयाया एव संस्कृतेविशेषः । वस्तुतः सकामानि कर्माणि मानवस्य बन्धनमेव कारयन्ति; मोक्षस्तु निष्कामान्येव प्रसुवते । यथाह भगवान् कर्मोपदेष्टा हरि:-- "कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।। योगस्थः कुरु कर्मारिण सङ्ग त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥" सदाचारपरिपालनम् भारतीयसंस्कृतौ सदाचारं निमित्तोकृत्य ध्मायमानो महाशङ्ख- निर्घोपो महती रम्यतां स्फुटविषयतामुपादेयताञ्च वितन्वानोऽस्ति । अस्मिन् प्रसंगे श्रीनरहरिनाथशास्त्रिरणा समीचीनमेव समीरित- मस्ति- "प्राचारः सर्वधर्माणां मूर्धानमधिरोहति । यथा दधनः समुद्भूतं नवनीतं न मज्जति ।। सदाचाराद् यशो लोके सदाचारात्सुखं दिवि । सदाचाराद् भवेन्मोक्षः सदाचारो हि कामधुक । सदाचारमयीं नावं समारुह्य सुबुद्धयः । पारं याता भवाम्भोधेभूयो भोति न भेजिरे ॥ सहिष्णुता प्रभविष्णुता च अत्रत्या इतिहासविदो विदन्ति यद् आस्माकीनायां भारतीय- संस्कृतौ वैदेशिक राक्रामकैः भूयो भूयः प्रहाराः कृताः सन्ति एतद्विना- शाय । किन्तु तानशेषानात्मजानिव वैदेशिकानपि सहमानेयम् अन्ततो गत्वा तान् सर्वानपि आत्मसात्कृतवती अस्तोत्यहो परमो- दारता परमसहिष्णुता परमप्रभविष्णुता चैतस्याः ?

३० संस्कृत निवन्धावली . विश्वमङ्गलकामना भारतीया संस्कृति: न कदाचिदपि कस्यचिदपि अन्यदेशीय- संस्कृत्यै ईय॑ति, असूयति क्रुध्यति वा । इयं महता स्नेहेन समुपदि- शति यत्- संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।' "मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् । मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । मित्रस्य चक्षुषा समीक्षामहे ॥" "सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ॥" "एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पथिव्यां सर्वमानवाः॥" "सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु । सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु ॥" वस्तुतस्तु 'जीव जीवय'-'हस हासय'-'रमस्व रमय'-इत्याकारको विश्वमङ्गलात्मकः सिद्धान्त एव भारतीयसंस्कृतेर्जीवितं प्रतिभाति । इदमत्र परमावश्यकरूपेण समुल्लेखनीयं विद्यते यद् उपरिपरिसं- ख्यातातिरिक्ता: कृतज्ञता-निरभिमानिता-स्वाभिमानिता-भाग्यवादि- ता-कर्मकाण्डप्रियता-अवतारवादिता • तीर्थावलोकनप्रियताप्रभृतयो- ऽनेका अन्या अपि असामान्या विशिष्टता: सन्ति भारतीय संस्कृतौ । किन्त्वासां सर्वासां विश्लेषणम् अल्पाकारबन्धे अस्मिन् निबन्ध नैव सम्भवति । अतस्तदर्थमत्र नैव यते । किन्तु भारतीय संस्कृते: एवं- विधान् विविधान् गुणगणाननुभूय मया (एतन्निबन्धलेखकेन डॉक्टर हरिनारायणदीक्षितेन) केचित् श्लोकाः अपि विरचिताः सन्ति, तानत्र भवन्निर्मलनयनयुगलयोः पुरस्तादुपायनीविधाय निबन्ध-विस्तरादहं विरमामि । यथा हि- अवनति हि गता पुनरुन्नति समयचक्रवशात परिवर्तिता। विविध रूपधरा भवशिक्षिका समभवन्मम भारतसंस्कृतिः।।१।।

भारतीया संस्कृति: घृतिपवित्रविचारविभूषिता सफलविश्वहिते सततं रता। विमलशीलदयार्जवपालिका भरतदेशविशेषसुसंस्कृतिः ॥२॥ इह परत्र च मङ्गलकामना विदधती मम भारतसंस्कृतिः । निजसुनीतिपथप्रथने रता निखिलविश्वतले सुविराजते ॥३॥ परनिपीडनपापनिवारिणी शरणयाचकलोकपालिनी। श्रुतिविगीतविधेः परिरक्षिरणी जयतु मे भरतावनिसंस्कृतिः ॥४॥ एतद् गुरणास्सन्ति सुशीलवत्ता विपत्तिफालेऽप्यतिधैर्यवत्ता। श्रद्धा महत्सु प्रणयः समेषु शुभाभिलाषो नवजोवनेषु ॥ ५॥ यामाश्रिता वीतभया मनुष्या गता ह्यनेके स्तुतिभाजनस्वम् । एताहशी भारतसंस्कृति को वक्तुं समर्थो भुवि भासमानाम् ।। ६ ॥

- संस्कृतभाषा [तस्या महत्त्वं स्थितिः प्रचारोपायाश्च महत्त्वम् न केवलस्यास्य कैवल्यप्रधानस्य भा-रतस्य भारतवर्षस्यैव, अपितु विश्वस्य प्रतिकोणं निवसत्सु, अनारतं साहित्य पाथोनिधि मथ्नत्सु, संसारस्य किन्तां कियत्तां कोदृशताञ्चालोचयत्सु विपश्चित्सु नास्ति कश्चिदपीरशो यो व्याकरण-शिक्षा-कल्प-निरुक्त-ज्यौतिष- छन्दोऽभिधेयषडङ्गोपबृहितपरमपूतवेदराशि विभूषितायाः, महर्षि- वाल्मीकि - वेदव्यासप्रणीतपरमोज्ज्वलग्रन्थ रत्नकान्तिराजितायाः कविकुलकमलदिवाकरमहाकविकालिदासविरचिताभिज्ञानशाकुन्तला- दिविश्वविख्यातकाव्यकुसुमपरिमलपूरपूरितायाः, पञ्चाननश्रीवाणभट्टनिर्मितकादम्बरीमदमत्तकलेवराया:, पीयूष- वर्षि श्रीजयदेवगीतगीतगोविन्दगीतसुधासीकरसिक्तायाः, रसराज- शृङ्गारवीरादिविविधरसमाधुरीमधुराया:, अोज प्रसादमाधुर्यादि- गुणगणमण्डिताया:, लाटोवैदर्भोगौडीपाञ्चालीत्याख्यचतुर्मुख- रीतिचतुष्टयचातुरीचचितायाः, उपमारूपकादिविविधालङ्कारस- मलङ्कृतायाः, सुसंस्कृताया: संस्कृतभाषाया: चारुणा गरिम्णा, पृथुना महिम्ना, पटुना च म्रदिम्ना अधुनापि चेतसि चारु न चमरिक- येत। काव्यकानन- . अस्मिन् प्रतिक्षणं विलक्षणगतिमति जगति पासीत्कश्चित् सुलक्षणः सोऽपि सुरभारतीक्षणः, यस्मिन्नासीदन्नेतद्विचक्षणा: विद्वच्चणा: । अावालवृद्धम् आराजरङ्क साम्राज्यमासीत्सुरभा- विक्रमादित्यहर्षवर्धनभोजराजादीनां संस्कृतस्नेहभाजां भूभुजामनारतं सप्रश्रयमाश्रयं समवाप्य तत्तत्कालिकः सुरभारती- समुपासकः कवित्वधारिधोरेयः शारदेयरियमस्मदीया संस्कृतभाषा रत्याः।

संस्कृत भाषा विविधाभिः वाङ्मयविधाभिः समुपबृहिता रमणीयतां स्पृहणीयता- मादरणीयतां च प्रापिता सती भृशमपोषि । वस्तुतो नीरक्षीरविवेकेन विचारे विहिते सति संस्कृतभाषायो विश्वस्य सर्वस्वमेव दरीश्यते । 'अर्थ धर्म च कामे न मोक्षेच भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्ववचित्' इत्यादि- वचोविख्यातमहामहिमशालिने वैयासिकाय महाभारताय, 'सदूधरणापि निर्दोषा सखरापि सुकोमला। नमस्तस्मै कृता येन रम्या रामायणी कथा'-इत्याख्यातगौरवाय वाल्मीकि रामायणाय, 'काव्येषु नाटकं रम्यं तत्र रम्यं शकुन्तलम् । तत्रापि चतुर्थोऽङ्कास्तत्र श्लोकचतुष्टयम् ॥ ' यास्यत्ययेति तत्रापि श्लोकः सर्वमनोहरः' । 'वासन्तं कुसुमं फलं च युगपद् ग्रीष्मस्य सर्वं च यद्, यच्चान्यन्मनसो रसायनमल: सन्तर्पणं मोहनम् । एकीभूतमभूतपूर्वमथवा स्वर्लोकभूलोकयोः, ऐश्वर्य यदि वाञ्छसि प्रिय सखे शाकुन्तलं सेव्यताम् ॥'-इत्येवंविधविश्व- विश्रुताय कालिदासीयाभिज्ञानशाकुन्तलाय, 'भारवेरर्थगौरवम्' इत्यर्थगाम्भीर्यगुरुभारविविरचितकिरातार्जुनीयनामक महाकाव्याय 'माघे सन्ति त्रयो गुणाः' इति पदलालित्योपमार्थगौरवास्यगुणत्रयो- पेतमाधाभिहिताय माघकाव्याय, 'अपि ग्राबा रोदित्यपि दलति वज्रस्य हृदयम्' इत्युक्तिपाषाणशिलाश्रुमोचनक्षमाय भवभूतिकरुणाकराय उत्तररामचरिताय, 'कादम्बरीरसभरेण नमस्त एव मत्तो न किञ्चि- दपि चेतयते जनोऽयम्' । 'कादम्बरी रसज्ञानामाहारोऽपि न रोचते।' 'रुचिरस्वरवर्णप्रदा रसभाववती जगन्मनो हरति । सा किं तरुणी ? नहि नहि बाणी वाणस्य मधुरशीलस्य ॥'-इत्याचनेकप्रशस्तितति- भाजो बाणभट्टस्य कादम्बयँ, 'यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् । मधुरकोमलकान्तपदावली शृणु तदा नवदेवसरस्वतीम् ।।..इत्यादिरीतिविख्यातगीतगोविन्दाय च को नाम साहित्यानुशीलनसञ्जातावदातचेता: सुचेता दिनेता अध्येता वा नैव स्पृहयेत् ? अहं तु मन्ये यत्सर्वे एव स्पृहयिष्यन्ति । न केवलन्तावदेतावदेव, अपितु वैदिकवाङ्मयस्य औपनिपदानां निर्धान्तानां मिद्धान्तानां सर्वतन्त्र स्वतन्त्रा सार्वकालिकी च प्रम- विष्णुतापि नास्ति केपामपि धीजूषां विश्वविदुषां चक्षुपामगोचरा ।

३४ संस्कृत-निबन्धावली एतस्मादेव हेतोस्तु श्रीमद्भगवद्गीता समेषामेव तत्त्वबुमुत्सूनां विश्वमानवानां ग्रैवेयकायमाणा बोभूयते । पुरुषार्थ-चतुष्टयपद्धति- परमानन्दप्राप्ति-परोपकारपरायणता-वदान्यता- सहिष्णुता-प्राति- थेयता-विश्वमङ्गलकामना-राष्ट्रियभावना-अन्ताराष्टियभावनासत्या- भिनिवेशसदाचार-निष्कामकर्मयोग-गुरुजनादर यमनियमादयो विपुला विविधा विशिष्टाः सार्वभौमा मानवधर्मा यावता बाहुल्येन अस्यामास्माकीनायां संस्कृत-भाषायां लोचनातिथीभवन्ति, तावता बाहुल्येन नेतरस्यां कस्यामपि विश्वभाषायां सन्तीत्यत्र न मनागपि शङ्कापङ्ककलङ्कलेशः । एवमेव 'सत्यान्न प्रमदितव्यम्'-'धर्मान्न प्रमदितव्यम्'-'परोपकाराय सतां विभूतयः'-'मा हिंस्यात् सर्वभूतानि' -'अहिंसा परमो धर्मः'-'दानेन पाणिन्तु कङ्कणेन'-'प्राचारहीनं न पुनन्ति वेदाः'-'जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'-'तमसो मा ज्यातिर्गमय'-'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन'-'सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभार नवेत् ॥'-'त्याज्यं न धैर्य विघुरेऽपि काले'-इत्यादीनां बहूनां सूक्तिमणीनां मनोरमणीयता परमस्पृहणीयता ग्रहणीयता वा न कथञ्चिदपि केनचिदपि व्यवधानेन वारयितुं शक्येत्यहो सनातनत्वं सुरभारतीसूक्तिमुक्तानाम् अतएव तु 'संस्कृतं नाम दैवी वाग- न्वाख्याता महर्षिभिः'-इति विश्वासो जनेषु जागति । साम्प्रतिकी स्थितिः किन्तु हा हन्त ! यास्माकोना संस्कृतभाषा तथाविधानिर्वचनीय- गुणगणगरिष्ठा, महिष्ठा, सदा सर्वैः समाद्रियमाणा, भाष्यमाणा, लिख्यमाना, श्रूयमारणा, परिवर्घा मोना च सर्वत्र समश्यत; यस्यां च भाषायां 'काव्यं करोमि नहि चारुतरं करोमि, यत्नात्करोमि यदि चारुतरं करोमि । भूपाल-मौलिमणिमण्डितपाद- पीठ, हे साहसाङ्क कवयामि वयामि यामि ॥” इति कुविन्दाः, 'भारं न बाधते राजन् बाधतिर्बाधते यथा।' इति काष्ठविक्रेतारः, 'जगद् ध्रुवं स्यादध्रुवं जगत्स्यात् कीराङ्गना यत्र गिरो गिरन्ति । द्वारस्थनी- डान्तरसन्निविष्टा जानीहि तन्मण्डनमिश्रथाम ॥'-इतिमण्डनमिश्र- गेहवर्तिनः शुकसारिकादयो विहङ्गमा अपि वार्तालापमकार्युः, तस्या ? - ।

संस्कृत-भाषा ३५ एव देवभाषाया: संस्कृतभाषायाः सम्प्रति शोचनीयां दशां दर्श दशं मम तु चेतश्चेखिद्यते, देहो दन्दह्यते, आत्मा च रोरुद्यते । यतो हि अचैनाममरभारती न कोऽपि समाद्रियते; न कोऽपि पिपठिषति; न कोऽपि लिलिखिषति; न कोऽपि च विवक्षति । सर्वे एवाद्य आङग्ला रमणीकटाक्षक्रीतदासा इव वरीवृत्यन्ते यतस्ते तामेवाद्रियन्ते; तामेव पठन्ति; तामेव लिखन्ति; तामेव रसनाग्रीकुर्वन्ति; तामेव मनोमन्दिरे स्थापयन्ति; तामेव च समस्तेऽपि राजकार्यकलापव्यवहारे संयोजयन्ति; अर्थात् सर्वतोभावेन तामेव सम्पुष्णन्ति । देवभाषान्तु ते 'मृताम्' मत्वा काणेनापि चक्षुषा न विलोकयन्तीत्यही प्रमादो भार- तीयजनानाम् ? यद्यपि काशी-कश्मीर-कर्णपुर-प्रयाग-पुण्यपत्तन-दिल्ली-दरभङ्गा- दिषु कतिपयेषु नगरेषु संस्कृतविश्वविद्यालय-विद्यापीठ-महाविद्यालय- विद्यालयादयः काश्चन संस्कृतशिक्षणसंस्थाः लोचनपथमवतरन्ति; अन्येष्वपि च विरलेषु नगरेषु यत्र तत्र विरलविरला: विकला: संस्कृतपाठशालाः नयनातिथीभवन्ति; किन्तु तत्र तत्र सर्वत्रव छात्राणां वैरल्यम्, अध्यापकानां दैन्यमिश्रितमौदासीन्यम्, भवनानां वैरूप्यम्, शिक्षासाधनानाञ्च न्योन्यं कस्य नाम सचेतसः सुमेधसो विदुषो विषादाय नालम् ? ये च केचन भारतीयसंस्कृतिसम्यतानु- रागरक्तचित्ता धर्मवित्ता जनाः स्वात्मभूतानात्मजान् संस्कृतभाषां पाठयन्त्यपि, तहि तेषान्ते मनोरथशतैः पालिताः पाठिता: प्रियतमाः पुत्रा अाधुनिकेऽस्मिन् समाजे न क्वाप्यादरं लभन्ते; नवा दुरन्त- पूरोदरदरीपूरणाय श्रेयसीम् अपेक्षितार्थकरीञ्च भृति प्राप्नुवन्ति । सर्वत्रैव ते सुरभारतीजुषो विद्वांसो भूत्वापि प्राङ ग्लभाषासे विनां शिक्षितम्मन्यानां नराणां ललाटम्पश्या भवन्तो देववाणीदुर्दशामेव द्योतयन्ति । अनेन कारणेन न केवलं तदितरे जनाः, अपितु तेऽपि पुन: स्वहृदयभूतान् प्रियपुत्रान् विस्मृत्यापि संस्कृतं नैव पाठयन्ति । अद्य संस्कृतभाषायाश्चिरन्तनं स्रोतः, येन कदाचित् दिशो- दिगन्ताश्च हरीतिमानमापुः, जीवनं च लेभिरे. शोषमुपगच्छदस्ति । नाद्य संस्कृतसाहित्यप्रणयनपरम्परा दृश्यते; न वाद्य शास्त्रार्थसंरम्भः श्रूयते; नवा संस्कृतकविताकामिनीकमनीयकान्तिपूरा विलोक्यन्ते;

संस्कृत-निवन्धावली
m
नवा चाद्य कालिदासजयदेवादीनां कवीनां सरसा: मधुराः भाव-
गभीराः श्लोका एव गीयन्ते । यद्य तु पाश्चात्त्य भाषाभूषाभावनाभि-
व्यक्तीनामेव यत्र तत्र सर्वत्रच अवार्यप्रसरं साम्राज्यं दरीश्यते ।
संस्कृतभाषायाः इमां पूर्वोक्तां महत्तामवस्थाञ्चालोकमालोकं
मया (एतन्निबन्धलेखकेन डॉक्टरहरिनारायणदीक्षितेन) कतिपयानि
पद्यानि विरचितानि सन्ति । तान्यत्र समुदाहरानि यथा-
यस्यां वेदचतुष्टयं सुविपुलं यस्याञ्च गीतामृतम्,
यस्यां भाति पृथातनूजचरितं यस्याञ्च रामायणम् ।
यस्यां काव्यपरम्परा च मृदुला संशोभते श्रेयसी,
तस्या देवगिरोऽद्य
हन्त ! बहुभिर् लोकेरुपेक्षा कृता ।।१॥
यस्यां भारतसंस्कृतिः सुनिहिता यस्यां परं दर्शनम्,
यस्यां शास्त्रकदम्बकं सुविशदं यस्यां पुरागानि च ।
यस्यां शोभनराजनीतिरतुला जागत्ति देशोदये,
तस्या देवगिरोऽधिकारिविहिता हा हन्त ! केयं दशा ॥२॥
अद्याङ ग्लारमरणीकटाक्ष विशिखर लोका अनेके हताः,
ते निन्दन्ति दिवानिशं सुरगिरं स्वीयामिवास्वां शिवाम् ।
कार्याफार्यविवेकहीनमतयः पश्यन्ति ते नो हितम्,
भूयस्तुच्छनिजार्थसाधनरता ईय॑न्ति धर्माय च॥३॥
भो भो नेतृजनाः ! मनांसि भवतां रूक्षारिण हा ! संस्कृते,
अङग्रेजों प्रति वर्धतेऽनुदिवसंस्तहो गरीयानयम् ।
दशं दर्शम हि विस्मयमहं पृच्छामि पर्याकुलः,
जातोहाहजनैः स्वसंस्कृतियुतेर् माता न कि सेव्यते ?॥४॥
कान्ताकान्त कटाक्षतीक्षरवि शिखैर् विद्धा युवानो नराः,
ये केप्यात्मविफत्थनाः स्वजननी निन्दन्ति मूर्खाधमाः ।
ये चाङ्ग्लामधिगम्य मुग्धमतयोऽसूयन्ति दैव्यै गिरे,
सत्यं ब्रूत विचार्य शीतमनसा किन्तेषु फाचिद् भिदा ? ॥५॥

संस्कृत-भाषा ३७ . मृद्वीफारसपानतृप्तहृदयास् सन्तोऽपि लोके नराः, इच्छां किन्न वितन्वते सुमधुरे पक्वे रसाले फले ? प्राम् ! चेहो वचनं तदा मम वचो निश्चप्रचं श्रूयताम्, अङ्ग्रेज्या सह देववागधिगमोऽवश्यं समारभ्यताम् ॥ ६ ॥ हृद्यां भव्य विचारतारसहितां सिक्ता दयावारिणा, दाक्षिण्यादिगुणविभूषिततनुञ् चातिथ्यकार्थे पराम् । सत्याहिसनशिक्षिकामभयदां संसारशङ्कारिकाम्, ज्ञातुं भारतसंस्कृति यदि मनस् तत्सस्कृतं सेव्यताम् ॥ ७ ॥ धर्माधर्मविचारशक्तिसहिताः पाठेन यस्या गिरः, जायन्ते वरणीयशुद्धचरिताः सङ्ग च यस्या नराः । यस्यामस्ति च भारतोयगरिमा यस्याञ्च राष्ट्र कता, सा भाषा ननु संस्कृतं विजयतां स्वातन्त्र्यकाले फले ।। ८ ।। एतावता विवेचनेन, मदीयेन मतेन, एतन्निन्तिं सिद्ध्यति यदधुना स्वीये भारत राष्ट्र एव अस्या देवभाषायाः संस्कृतभाषाया महादुर्गतिर्बोभूयमानास्ति, या भारतराष्टस्य कृते हानिकारी भविता अतस्तदपाकरणाय सायासा: प्रयासाः ध्रुवमाशु च विधेयाः सन्ति; अन्यथा मानवमात्रकल्याणपरायणेयं ज्ञाननदी संस्कृतभाषा जोषं शोषं यास्यतीतिविचारमादाय संस्कृतभाषाभ्युदयहेतुभूता: केचनो- पाया मयात्र प्रस्तूयन्ते । प्रचारोपायाः मया प्रस्तूयमानेषु गीर्वाणवाणीविकासहेतुषु एकूपायेषु केचित् शासनाधीना. सन्ति, केचिच्च समाजाघीनाः । तत्र प्रथमं शासना- धीनानेव प्रस्तौमि। यथा हि- (१) संस्कृतविश्वविद्यालयसञ्चालितानां सर्वासामेव परीक्षाणां मान्यता इतरविश्वविद्यालयसञ्चालिताभि: माध्यमिकशिक्षापरिष- सञ्चालिनताभिश्च परीक्षाभिः सह यथास्तरं निर्विशेपं निष्प्रतिबन्ध च समाना विधीयेत । - संस्कृत-निबन्नावली (२) संस्कृतविद्यालय-महाविद्यालयेभ्योऽपि अन्यविद्यालय-महा- विद्यालयेभ्य इव पर्याप्तमनुदानं दीयेत। (३) तत्रत्याध्यापकानाम् अन्येषां च कर्मचारिणां स्तरं वेतन- मानं च प्रशस्तं क्रियेत । (४) तत्रापेक्षितानाम् अध्यापकानाम् अन्येषां च कर्मचारिणां व्यवस्थायां ध्यानं दीयेत। (५) तत्र शिक्षणभवन-कार्यालय-पुस्तकालय-वाचनालय-छात्रा- वास-क्रीडाक्षेत्रादीनां सुचारुतया व्यवस्था विधीयेत। (६) संस्कृतभाषामधीयानेभ्यो विद्यार्थिभ्यो देशे सर्वेष्वेव शिक्षा- संस्थानेषु छात्रवृत्तिदाने वरीयस्त्वं निश्चीयेत । (७) पाठ्यक्रमेषु संशोधनं कार्येत, यावद ज्ञानं समाजाय अपेक्षितं भवेत् तावदेव तत्र समायोज्येत । (८) व्याकरणसारल्यनैपुणीनिपुणाः कुशलाः निष्ठावन्तश्चा- ध्यापकाः वैशिष्ट्यपुरस्सरं दीक्षिता विधेयाः, ते च तदर्थ नियोज्ये- रन् । (६) संस्कृतशिक्षाया माध्यमं संस्कृतमेव निर्यित । (१०) संस्कृते समाचारपत्र-पत्रिकादीनां प्रकाशकेभ्यो विपुलानु- दानं दीयेत। (११) सर्वेषु शिक्षासंस्थानेषु 'सामान्यसंस्कृतम्' (जनरल संस्कृत) इति नाम्ना एक प्रश्नपत्रम् अनिवार्य क्रियेत । (१२) संस्कृतवाङमये अनुसन्धित्सूनां कृते विशिष्टाश्छात्रवृत्तयो दीयेरन् । (१३) समये समये राष्ट्र प्रतिप्रदेशं प्रतिक्षेत्रं च संस्कृतविदुषां सभाः प्रायोज्येरन्, तत्र च संस्कृतवाङ्मयस्य उत्कृष्टा लेखकाः, प्रचारकाः, अध्यापकाः, प्रकाशकाः, शिक्षणसंस्थासञ्चालकाः, छात्राश्च यथास्तरं समभिनन्धरत् ।

संस्कृत भाषा ३६ (१४) आकाशवाणीमाध्यमेन देशे सर्वत्रैव संस्कृतभाषायामपि समाचारा बहुवारं श्राव्ये रन् । संस्कृतशिक्षापि सायं प्रातः प्रदीयेत । 'आकाशवाण्याः संस्कृतसेवा' इतिनामा तत्रैकः पृथगनुभागोऽपि संस्थाप्येत, यतः 'फिल्म'-गोतश्रावणपुरस्सरं काव्य-नाटक-कथा- आख्यानक-लेखपाठ-चर्चा-परिचर्चा-अन्त्याक्षरी-कविसम्मेलनादीनां संस्कृत-वाङ्मयविविधविधाविकासोपयोगिनां कार्यक्रमाणां रुचिकरी प्रस्तुति: कार्येत। (१५) राष्ट्रभाषापदे काचिदपि क्षेत्रीय भाषा सफला, समाता, सर्वानुमता च भवितुं नैव शक्नोति । अतस्तत्र अखिल भारतीया, सार्वभौमा, क्षेत्रीयवाद-प्रान्तीयवादाभ्यां विहीना, सरला, सुबोधा च संस्कृतभाषा एव समभिषिच्येत । सर्वेभ्यश्च तदीयव्यावहारिकज्ञान- वितरणाथं राष्ट्रव्यापिनः सुनियोजिताः राजकीयाः प्रयासाः विधीये- रन्। अथाने समाजाधीनानपि कांश्चिदुपायान् प्रस्तौमि । यथाहि-- (१) संस्कृतभाषा न केवलानां दरिद्राणां पौरोहित्यकारकारणां ब्राह्मणानामेव भाषा, अपितु सर्वेषामेव; इति धिया सर्वे एव एनां पठेयुः। (२) भारतीयसंस्कृतिसभ्यतासंस्कारेषु सर्वे श्रद्धां स्वाभिमान च कुयुः। (३) संस्कृताध्ययनसंजातनिर्मलान्तःकरणानां छात्राणां समुचित- मादरं कुर्युः। (४) भारतीयतारक्षणार्थ सर्वे संस्कृतभाषाम् अनिवार्यरूपेण पठेयुः। (५) संस्कृताध्यापकाः सोत्साहा भूत्वा छात्रान् पाठयेयुः । अन्ये. ध्वपि विद्यालयेषु सामाजिकेषु वा कार्येषु ते निपुणतापूर्वक भागं गृह णीयुः, येन ते लोकप्रिया भवेयुः । (६) समये समये शिक्षणसंस्थासु अन्येषु चोपयुक्तषु स्थानेषु संस्कृतभाषायामेव नाटक-भाषण-कविसम्मेलनादीनां व्यवस्था भवेत् ।

४० संस्कृत-निबन्धावली (७) संस्कृतंज्ञाः जना: संस्कृतज्ञैः जनैः सह वार्तालापे पत्रव्यवहारे च सदैव संस्कृतभाषामेव प्रयुजीरन् । (E) समर्थाः संस्कृतविद्वांसो विविधां समाजानुकलां च साहित्य- सर्जनामपि प्रतिदिनं कुर्युः। (९) संस्कृतभाषायां प्रकाशितानां समाचारपत्राणां पत्रिकाणां च, क्रयणं पठनं च सर्व कुर्युः । आकाशवाण्या संस्कृतभाषायां प्रसार्य- माणान् समाचारानपि सर्वे नियमपूर्वकं शृणुयुः । (१०) संस्कृतवाङ्मयस्य विविधासु शाखा-प्रशाखासु शास्त्रोप- योगि समाजोपयोगि च विविधमनुसन्धानकार्यमपि सर्वे विदधीरन् । (११) संघटनापटवो जनाः संस्कृतभाषाप्रचारप्रसारमात्रैकलक्ष्या! सार्वजनीनाः संस्थाः विधिपुरस्सरं संस्थापयेयुः । अनेन प्रकारेण संक्षेपेणैव अहमत्र संस्कृतभाषोपकारकान् कांश्चि- दुपायान् प्रस्तुतवानस्मि । वस्तुतस्तु न केवलम् इमे एव, अपितु एवंविधा: अन्येऽप्यनेके उपायाः सन्ति; येषां संसिद्धौ, मन्ये, स्वीयं भारतं भूयो भा-रतं भारतं भवेत् । परमत्र इदमपि तथ्यमुल्लेखनीय- मस्ति यत् शासनाश्रयं प्राप्यव कापि भापा वर्धते, इतरथा तु सा विपद्यते एव । अतोऽन्ते मया साग्रहं प्रार्थ्यते स्वीयं भारतीयं शासनम्, यत्त सत्वरमेव स्वकीयाया मातृभाषायाः संस्कृतभाषायाः सम्पूर्णे एव भारते राष्ट्रे सर्वजनीनं सर्वाङ्गीणञ्च समुद्धारं कुर्यादिति दिक् ।

काव्यप्रयोजनानि स्वार्थपूर्णऽस्मिन् संसारे एतादृशः कश्चिदपि प्राणी नयनपथ नायाति, यः प्रयोजनं विनैव किमपि कायं कुर्यात् । इदमनुभूयैव केनापि अभिरूपेण कथितमस्ति यत् 'प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते' इति । अतः काव्यसर्जनासशे अतिमहति कार्य प्रयोजनं विना कस्यचिदपि प्रवृत्तिः सुतरामसम्भवा एवास्तीत्यत्र मन्ये न केषामपि व्यावहारिकधीजुषां विसंवादो भविष्यति । प्रहं पश्यामि यदास्माकोने काव्यशास्त्रे पुरातनकालादेव काव्य- प्रयोजनेषु विचारो विधोयमानोऽस्ति बुधैः । अस्यां विचारमालायां सर्वप्रथमं भरतमुनिमतं मन्यते । तदीये नाट्यशास्त्रे समुपलभ्यमानं तत्कृत काव्यप्रयोजनविवेचनमत एवात्र मयानि सर्वप्रथमं प्रस्तूयते- 'दुःखार्तानां अवार्तानां शोकानां तपस्विनाम । विश्रान्तिजननं लोके नाट्यमेतद् भविष्यति ।। घम्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाट्यमेतद् भविष्यति ॥" स्पष्टमाभाति यद् भरतमुनेः काव्यप्रयोजनविषयको दृष्टिकोणो व्यापकोऽस्ति । स दुःखिनां श्रमश्रान्तानां च मनोरञ्जनं तु काव्यप्रयो- जनं मन्यते एव, किन्तु तेन सहैव धर्मबुद्धिप्रचारं, यशोवृद्धिकामनाम् आयुषो रक्षाभावनां, बुद्धिविशदतां तथा लोकोपयोगिसन्देशवाहकता- मपि काव्यप्रयोजनत्वेन संख्याति । वस्तुतोऽस्य अनुभवोऽपि सर्वाङ्गीण आसोत् । अत एवानेन मानवमनोभूमिसुलभानां भावानां विशदानुभवं विधायैव व्यापकरूपेण काव्यप्रयोजनानि निश्चितान्यासन् । अथाने समायाति काव्यशास्त्रज्ञपितामहो भामहो यो लिखति स्वकीये काव्यालङ्कारे यद- - ४२ संस्कृत-निबन्धावली "धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कोत्ति प्रीति च साधुकाव्यनिबन्धनम् ।। अयमाचार्यो धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टये तथा निखिलासु कलासु प्रवीणतालाभं, कीत्ति तथा प्रीति काव्यसर्जनाप्रयोजनेषु अजीगणत् । यद्यपि भामहाचार्येण अस्यां कारिकायां कविमनसि वर्तमाना कोत्तिकामना, आनन्दभावना, समाजोपयोगिनी पुरुषार्थ- चतुष्टयचातुरी, चतुःपष्टिकलानैपुणी च काव्यसर्जनाप्रयोजनसीमनि परिसंख्याताः सन्ति, किन्त्वने चलित्वा तेन काव्य प्रयोजनेषु कीतिरेव भूयो भूयः प्रशंसितास्ति । एतेन सिद्ध्यति यत्स काव्यप्रयोजनेषु कोत्ति प्रधान प्रयोजनं मन्यते । अस्मिन् सन्दर्भ स लिखति "उपेयुषामपि दिवं सन्निबन्धविधायिनाम् । प्रास्त एव निरातङ्ककान्तं काव्यमयं वपुः॥ रुणद्धि रोदसी चास्य यावत्कोतिरनश्वरी। तावकिलायमध्यास्ते सुकृती वैबुधं पदम् ॥ अतोऽभिवाञ्छता कोत्ति स्थेयसीमाभुवः स्थितेः । यत्नो विदितवेद्यन विधेयः काव्यलक्षणः ॥" वामनाचार्यदृष्टौ काव्यसृष्टेरुभे एव प्रयोजने स्तः । तयोरेक दृष्टप्रयोजनम्, अन्यच्च अष्टप्रयोजनम् । तन्मते हष्टप्रयोजनं प्रीति- रस्ति, अष्टप्रयोजनं च कीत्तिः । यथा हि स लिखति स्वीये काव्या- लङ्कारसूत्रवृत्तिसंजे ग्रन्थे यत् 'काव्यं सद् दृष्टादृष्टार्थं प्रीतिकीत्तिहेतु- त्वात्' इति । किन्तु कीत्तिरूपे काव्यप्रयोजने अस्यापि विशिष्टं ध्यानमासीत् । . अत एव स्वीयमिदं सूत्रं विवृण्वन् सोऽग्रे लिखति- "प्रतिष्ठा काव्यबन्धस्य यशसः सररिंग विदुः । अकोत्तित्तिनीं त्वेवं कुकवित्वविडम्बनाम् ॥ कोति स्वर्गफलामाहुरासंसारं विपश्चितः । प्रकीत्तिन्तु निरालोकनरकोद्देशदूतिकाम् ।। तस्मात्कोत्तिमुपादातुमकीत्तिञ्च निहितम् । काव्यालङ्कारसूत्रार्थः प्रसाद्यः कविपुङ्गवः ॥"

काव्यप्रयोजनानि काव्यालङ्कारकारो रुद्रटाचार्यस्तु काव्यप्रयोजनेषु विस्तरेण विचारं चकार । तदीया धारणासीत् यत् काव्यसर्जनया अाकल्पम- नल्पं यशः प्रसरति; महीयान् धर्मो भवति; अर्थो लभ्यते; काम मोक्षजं च सुखमनुभूयते; विपदः शाम्यन्ति, चतुर्वर्गविषयकं ज्ञानं सरसतया वितीर्यते; अन्यदपि च यद् यदभीष्टं भवति, तत्तत्सर्व प्राप्यते । यतो हि तस्य दृष्टौ काव्यसर्जनाप्रयोजनानामानन्त्यमपि विद्यते । अस्मिन् सन्दर्भ स लिखितवानस्ति-- "ज्वलदुज्ज्वलवाक्प्रसरः सरसं कुर्वन् महाकविः काव्यम् । स्फुटमाकल्पमनरूपं प्रतनोति यशः परस्यापि ।" "अन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादिनामन ॥ अर्थमनर्थोपशमं शमसममथवा मतं यदेवास्य । विरचित रुचिरसुरस्तुतिरखिलं लभते तदेव कविः॥" "मनु काव्येन क्रियते सरसानामवगमश्चतुर्वर्गे। लघु मृदु च नोरतेऽभ्यस्ते हि त्रस्यन्ति शास्त्रेभ्यः॥" "कियदथवा वच्मि यतो गुरुगुरगमणिसागरस्य काव्यस्य । कः खलु निखिलं कलयत्यलमलधुयशोनिदानस्य ॥" किन्तु प्रतीयते य कल्पान्तस्थायियश:-प्राप्तिरस्यापि हष्टौ सर्वेषु काव्यप्रयोजनेषु प्राधान्यं लभतेतमाम् । यतोहि अयमिदं साग्रह निवेदयामास यत्-- -- "स्फारस्फुरदुरुमहिमा हिमघवलं सफललोककमनीयम् । कल्पान्तस्थायि यशः प्राप्नोति महाकविः काव्यात् ।। अमरसवनादिभ्यो भूता न कीतिरनश्वरी भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये। तदलममलं कर्तु काव्यं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥" ध्वन्यालोकरचयिताऽऽनन्दवर्धनाचार्यो ध्वनिनिरूपणप्रयोजनं प्रतिपादयन्नाह---'तेन ब्रूमः सहृदयमनः प्रीतये तत्स्वरूपम्' इति । एतेन सिद्ध्यति यत्तस्य इष्टौ सहृदयमनः प्रीतिरेव काव्यस्यापि परम संस्कृत-निबन्धावली प्रयोजनमासीत् । तदीयैतत्कयनस्य लोचनात्यां विख्यातां व्याख्या प्रकुर्वन् श्रीमदभिनवगुप्तपादाचार्योऽपि कविकृते कीतिप्रीत्योः तथा पाठककृते व्पुत्पत्तिप्रीत्योः प्रीतिमेव प्रमुख काव्यप्रयोजनं निर्धारयति । यतो हि तस्याभिप्रायोऽस्ति यत् कवेः कोत्तिकौमुदी यथा यथा प्रसरति, तथा तथा तदीये हृदये प्रोतिपाथोधिरुज्जृम्भते । एतस्मा- सिद्ध्यति यत्कविहृदये विद्यमाना काव्यसर्जनाजनितकोत्तिकामनापि अन्ततो गत्वा तदोयस्वान्तःमुखायैव संजायते । एवमेव काव्यपाठकस्य व्युत्पत्तिर्यथा यथा वर्धते, तथा तथा तदीये हृदये प्रीतिरेव प्रस्फुटति । एतेनापि संसिद्ध्यति यत् काव्यपाठकस्य मनसि वर्तमाना काव्यानु- शोलनेन व्युत्पत्तिप्राप्तिभावनापि तत्प्राप्त्यनन्तरं तत्पीतिमेव जनय- तीतिध्वन्यालोकलोचनाध्यायिनां स्वाध्यायिनां यद्यपि नास्ति परोक्षम्, तथापि मनस्तोषाय तदुक्तमत्रापि प्रस्तूयते - "तत्र कवेस्तावत्कोापि प्रीतिरेव सम्पाद्या । यदाह-'कीत्ति स्वर्गफलामाहुः' इत्यादि । श्रोतृणां च व्युत्पत्तिप्रीती यद्यपि स्तः, यथोक्तम्- 'धर्मार्थकाममोक्षेषु वचक्षण्यं फलातु च । करोति कीत्ति प्रोतिञ्च साघुकाव्यनिषेवरणम् ॥' इति ॥ तथापि तत्र प्रोतिरेव प्रधानम् । अन्यथा प्रभुसम्मितेस्यो वेदादि- भ्यो मित्रसम्मतेभ्यश्वेतिहासादिभ्यो व्युत्पत्तिहेतुभ्यः कोऽस्य काव्य- रूपस्य व्युत्पत्तिहेतो यासंमितत्वलक्षणो विशेष इति प्राधान्येनानन्द एवोक्तः । चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं मुख्यं फलम् ।" आचार्यकुन्तको वक्रोक्तिजीविते काव्यप्रयोजनप्रतिपादनप्रसंगे लिखति- "धर्मादिसाधनोपायः सुकुमारक्रमोदितः । काव्यवन्धोऽभिजातानां हृदयाह लादकारकः ।। व्यवहारपरिस्पन्दसौन्दर्य व्यवहारिभिः । सत्काव्याधिगमादेव नूतनौचित्यमाप्यते ॥ चतुवर्गफलास्वादमप्यतिक्रम्य तद्विदाम् । काव्यामृतरसेनान्तश्चमत्कारो वितन्यते ॥"

काव्यप्रयोजनानि - कुन्तकोऽभिप्रंति यद् धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयस्य प्राप्तिः, हृदयालादनं, लोकव्यवहारनैपुण्यं, चित्तचमत्कारश्चेति काव्यप्रयोजनानि सन्ति । न जाने कथमयं कीत्ति काव्य प्रयोजनेषु नैव परिसंख्यातवान् । इतरथा तु अस्यापि काव्यप्रयोजनपरिसंख्यानम् अनुभूतिपरकमेव आभाति । प्रथायाति सरस्वतोकण्ठाभरणालङ्कारकारो महाराजो भोजदेवः अयमपि कीर्तिप्रीती एव काव्य प्रयोजनत्वेन अङ्गीकरोति । तेनोक्तम- स्ति यत्-- . "निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् । रसान्वितं कविः कुर्वन् कोत्ति प्रीति च विन्दति ॥" अनेन यत्किमप्यले खि, तत्सर्वं कीर्तचे स्वान्तः प्रीतये चैवालेखि । यतोहि भूपतित्वात् कीतिप्रीतिभ्यामित रत्किमपि तत्कृते अप्राप्यं नासीत् । प्रतीयते अत एव तेन केवले कीतिप्रीती एव काव्यप्रयोजन- त्वेन परिगणिते स्तः । प्रयागच्छन्ति मम दृष्टौ काव्यशास्त्रकाननकेसरिणो मम्मटा- चार्यचरणा: । इमे स्वकीये काव्यप्रकाशे लिखन्ति- "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिवृत्तये कान्लासस्मिततयोपदेशयुजे ॥ कालिदासादोनामिव यशः, श्रीहर्षादेओवकादीनामिव धनम्, राजादिगतोचिताचारपरिज्ञानम्, आदित्यादेर्मयूरादीनामिवानर्थनि- वारणम्, सकलप्रयोजनमौलिभूतं समनन्त रमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमानन्दम् प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत्काव्यं लोकोत्तरवर्णना- निपुणं कविकर्म, तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिव- तितव्यं न रावणादिबदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ।" अनेनोद्धरणेन स्पष्टं भवति यन्मम्मटाचार्यमतेन काव्यप्रयोज- नानि षट् सन्ति । यथाहि-(१) यशोलाभः, (२) धनप्राप्तिः, (३) ४६ संस्कृत-निवन्धावली व्यवहार (लोकाचार) परिज्ञानन्, (४) अमङ्गलनिवारणम्, (५) स्वान्तःसुखोपलब्धिः, (६) सरसतया उपदेशभावना च । वस्तुतस्तु मम मनसीदं परिस्फुरति यद् वाग्देवतावतारेण श्रीमम्मटाचार्येरण स्वपूर्ववत्तिनां समसामयिकानां च सर्वेषामेव काव्यशास्त्राचार्याणा- मभीष्टानि काव्य प्रयोजनानि सम्यग्विश्लिष्य स्वयं च कवीनां महा- कवीनां च जोवनचर्यां मनोभावनां च सम्यगनुभूय विमृश्य च सम- वितरूपेण काव्यप्रयोजनानि निर्धारितानि सन्ति । अत एव तन्नि- र्धारितेषु काव्यप्रयोजनेषु अन्याचार्यनिर्धारितानां काव्यप्रयोजनानाम- पेक्षया भूयसी सर्वाङ्गीणता तथ्यात्मकता च दरीदृश्ये ते । यतोहि को नामैतादृशो महाकविः कविर्वा विद्यते, यो 'जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वरा: । नास्ति येषां यश:काये जरामरण भयम् ।। इत्याकर्ण्य यशोऽवाप्तये काव्यसर्जनायां प्रवृत्तो न भवेत् ? किन्तु अर्थप्रधाने युगे अर्थोपासनापरित्यागोऽपि नितरां दुष्करोऽस्ति । कविभ्योऽपि धनस्यावश्यकता भवत्येव । अतस्तेषां मनसि यदि धनोपार्जनाय काव्यनिर्माणकामना जायते, तहि न काप्यनौचिती तत्र । साम्प्रतन्तु अहं पश्याम्येव यदनेकेपां कवीनां महाकवीनां च कविकमव जोविकास्ति । एवमेव केन सह कथङ्कारं व्यवहर- णीयम् ? कुत्र कि कोदृशं च विधेयम् ? साधारणेषु असाधारणेषु च जनेषु कीदृशो व्यवहारो विधातव्यः ? इत्यादिकस्य सर्वविधस्यापि लोकाचारस्य परिज्ञानं काव्याद् भवतीत्यत्रापि कः संशयीत ? मन्ये, न कोऽपि संशयीत । यतोहि लोकाचार-विचार-व्यवहारविहीनोऽपि काव्यानुशीलनेन सर्वविघलोकाचारविचारव्यवहारविद् बोभूयते, इति प्रत्यक्षमेव सर्वेषाम् । अनेनैव प्रकारेण अमङ्गल- निवारणस्यापि काव्यप्रयोजनत्वे न कापि संशोतिरुत्पद्यते। प्रायण स्तोत्रकाव्यानां सर्जना तु एतदर्थमेव विधीयते। तेषां निर्माणेन नैत्यिकपाठेन वा तत्सम्बद्धो देवः प्रसन्नो भूत्वा निर्मातु: पाठकस्य वा सकलक्लेशनिवारणं करोति । अस्मिन् सन्दर्भ सूर्यशतक- निर्माणन मयूरस्य, चण्डीशतकसर्जनया बाणभट्टस्य, 'हनुमान्- बाहुक'-निर्माणेन च तुलसीदासस्य अमङ्गलनिवृत्तिः प्रसिद्धवास्ति । एवञ्च सद्यः परनिर्वृतिः अर्थात् निर्माण-पठनसमकालमेव मनसि अमन्दानन्दसन्दोहसमुद्भतिरपि असंशयमेव काव्यप्रयोजनं वरी- जनः काव्यप्रयोजनानि . ४७ वृत्यते यतोहि काव्य-सर्जनासमाप्तिसमये कवेर्मनसि, किंवा काव्य- स्वाध्यायसमय पाठकस्य मनसि, काचिद् विलक्षणा एव वाचामगो- चरा विगलितवेद्यान्तरा चामन्दानन्दसन्दोहानुभूतिर्बोभवीतीत्यत्र समेषामेव शेमुषीजुषां सहृदयानामैकमत्यं विद्यते । अन्यच्च कान्ता- संम्मिततयोपदेशदानमपि काव्यसर्जनायाः रम्यं प्रयोजनमस्ति। एवं हि दृश्यते लोके यज्जने यथा कान्ताया वचसा प्रभावो भवति, तथा न पितुर्वचसाम्, न च मित्रस्य वचसाम् । अनेनैव प्रकारेण समाजे यथा काव्यस्य प्रभावो भवति, तथा न वेदानाम्, न च पुराणादी- नाम् । अत: समीचोनमेवोच्यते मम्मटेन यत्कान्तासम्मिततयोपदेश- दानभावनापि काव्यसर्जनाप्रयोजनं भवति । अहं मन्ये यन्मम्मटाचार्येण काव्यप्रयोजननिरूपणावसरे 'यथा- योगं कवेः सहृदयस्य च' इति लिखित्वा द्वे प्रयोजने कविकृते, द्वे प्रयोजने पाठककृते, द्वे प्रयोजने उभयकृते निर्धारिते स्तः । कि कि कस्य कृते ? इति विचिकित्सावारणाय रेखाचित्रमा प्रस्तूयते- काव्यप्रयोजनानि षट कविकृते द्वे पाठककृते दे उभय कृते द्वे यशःप्राप्तिः धन प्राप्तिः शिवेतरक्षतिः सद्यःपरनिवृतिः व्यवहारज्ञानम् कान्तासम्मितोपदेशः मम्माटाचार्यानन्तरं जातेषु काव्यशास्त्राचार्येषु साहित्यदर्पण- कारो विश्वनाथो रसगङ्गाधरकारश्च पण्डितराजो जगन्नाथो नूनमेव समीक्षकारणां समाजे महत्त्वभाजो विद्यते। अतोऽत्रानयोरपि काव्य- प्रयोजनविषयका विचारान् प्रस्तोतुं मदीयं मनः कामयते सर्वप्रथम विश्वनाथाशयं प्रस्तौमि-- "चतुर्वर्गफलप्राप्तिः सुखाल्पधियामपि । काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥ -- ४८ संस्कृत-निबन्धावली चतुर्वर्गफलप्राप्तिर्हि काव्यतो 'रामादिवत्प्रवत्तितव्यं न रावणा- दिवत्' इत्यादिकृत्याकृत्यप्रवृत्तिनिवृत्युपदेशद्वारेण सुप्रतीतैव । उक्त च भामहेन- 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कीति प्रीति च साधुकाव्य निबन्धनम् ॥” इति ॥" स्पष्टमस्ति यद्विश्वनाथो धर्मार्थकाममोक्षरूपचतुर्वर्गस्य सारल्येन प्राप्तिमेव काव्यसर्जनाया: प्रयोजनं मन्यते । अस्मिन् सन्दर्भ स भामहाचार्यमतेन भृशं प्रभावितः प्रतीयते । अथ पण्डितराजस्य जगन्नाथस्याशयः प्रस्तूयते । यद्यपि पण्डित- राजेन काव्यप्रयोजनविषये बहुविधं न विचारितम्, तथापि काव्यस्य लक्षणकरण संगे तस्य विशेषणपदप्रयोगसमये अस्य काव्यसर्जना- प्रयोजनविषयकोऽपि विचारो विदितो भवति । स तत्र लिखति-- "तत्र कीर्ति-परमाह लाद-गुरु-राज-देवताप्रसादाद्यनेकप्रयो- जनकस्य काव्यम्य... लक्षणं तावन्निरूप्यते।' एतेनाभाति यदस्य इष्टौ काव्यसर्जनायाः अनेकानि प्रयोजनानि सन्ति । अत एवायमत्र विशेषरगपदाभ्यन्तरे 'पादि' शब्दम् 'अनेक' शब्दञ्च प्रयुक्तवानस्ति । किन्तु तेष्वशेषेषु काव्य प्रयोजनेषु कत्ति, परमाह लादं, गुरुप्रसाद, राजप्रसादं देवताप्रसादं च नामतो निर्दिश्य एतेषां काव्यसर्जनाप्रयोजनानां प्रसिद्धतां प्रतिपादयति । अथाहं कतिपयपाश्चात्त्यसमीक्षकारणामपि काव्यप्रयोजनविषय- काणि मतानि दित्सुरस्मि । तत्रेदं परिस्फुटं भविष्यति यत्सुदूरवत्ति- ष्वपि जनेषु समीक्षाशीलबुद्धिसाम्यात् कीदृशं कियच्च मनोहरं विचारसाम्यं भवति । सर्वप्रथम प्लेटोमहोदयस्याशयं प्रस्तौमि । स कथयति यद 'The right function of poet is to put before the soul the images of what is intrinsically great and beautiful.' अर्थात् चित्समक्षं महतः सुन्दरस्य च विम्बविधानं कवेरुचितं कर्म विद्यते । श्रीजनांड्राइडनो मन्यते यत् 'To teach delightfully is the chief function of poetry.' अर्थात् सरसरूपेण उपदेशदानमेव कवितायाः प्रमुखं प्रयोजनमस्ति । एवञ्च श्रीहारेसो बोधयति यत् "To teach, to please, these are the काव्यप्रयोजनानि ४६ poets' aims, or at once to profit and to amuse. Fafa उपदेशः, प्रसादनं, धनलाभो मनोरञ्जनं च कवीनां प्रयोजनानि सन्ति । प्रसन्नताया विषयोऽयमस्ति यदस्मदीया मम्मटादयो भारतीयाः काव्यशास्त्रविपश्चितो यानि काव्यसर्जनाया: प्रयोजनानि मन्यन्ते, तान्येव पाश्चात्त्या अपि काव्यशास्त्रमनीषिणो मन्वते । कथन्न भवे- देवम् ? महानुभावानां हृदयसंवादास्तु भवन्त्येव । प्रथान्ते निबन्धेऽस्मिन् प्रस्तुतेषु समस्तेषु काव्यसर्जनाप्रयोजन- विषयकेषु विदुषां विचारेषु विहङ्गमदृशा विमर्श विहिते सतीदं प्रस्फुट बोभूयते यन्मम्मटाचार्यसम्मतानि काव्यसर्जनाप्रयोजनानि नूनमेव मधुमक्षिकान्यायनिहितानि, सर्वमतसमन्वितानि, सर्वाङ्गीणानि च सन्तीति विनिवेद्य भवादशेष विपश्चिदपश्चिमेष इतोऽधिक विषय- पल्लवनं मुधेति विमृश्य मुदा विरमामि विस्तरात् ।

वाक्यं रसात्मकं काव्यम् अमरभारतोभासुरवाङ्मयस्य काव्यलक्षणग्रन्थानामवेक्षणेन नाविदितमवशिष्यते शेमुषोजुषां केषामपि विदुषाम्, यत् काव्यकलेवरं कलयता धीमता विश्वनाथेन स्वीये साहित्यदर्पणे वाग्देवतावतार- श्रीमम्मटाचार्यविरचितायाः काव्यप्रकाशे प्राप्यमाणायाः 'तददोषौ शब्दार्थों सगुणावनलती पुनः क्वापि' इत्येवंरूपायाः काव्यपरि- भाषायाः विशिष्टाभिनिवेशेन प्रौढिपुरस्सरं खण्डनं विधाय स्वमनो- ऽनुकूला 'वाक्यं रसात्मकं काव्यम्' इत्येवंरूपा काव्यपरिभाषा प्रस्तुतास्ति । यस्या भावोऽयमस्ति यद् रस्यते प्रास्वाद्यते अभिरूपैः यः स रसः= आह लादरूपः । स रस एव चात्मा यस्य, तद् रसात्म- कम्; तथा स्वाभिप्रायबोधनक्षम: शब्दसमूहो वाक्यं भवति । एवञ्च मिलित्वा स्वाभिप्रायबोधनक्षम रसात्मक वाक्यं काव्यं भवति । . परिभाषायामस्यां श्रोविश्वनाथेन हृदयस्य सुकुमारपक्ष एव परा- मृष्टोऽस्ति । अयं महानुभावः काव्यस्य कृते रसस्य केवलामपरिहर- पोयतामेव नहि समाद्रियते, अपितु काव्ये तस्य रसस्य प्राधान्यम् अोतप्रोतत्वं भूमानं वापि समर्थयतेतराम् । अत्र न कापि संशोति- करिणकास्ति यद्, यद् वाक्यं श्रुतिविषयीविधाय श्रोतुश्चित्तसागरे भावतरङ्गाः, अनुभावलह-:, सञ्चारिभावोर्मयो वा समुद्गच्छेयुः, तदेव वाक्यं वस्तुतः काव्यनामभाग भवितुमर्हति । अन्येषु शव्देषु कथयितुं शक्यते यद्, यद् वाक्यं श्रोतु: हृदयं संस्पृशेत्, आन्दोलयेत्, तदेव हि काव्यम् । यतो हि कवितायाः स्रोतोऽपि हृदयमस्ति तथा तदीयं गन्तव्यमपि हृदय मेवास्ति । कविता कविहृदयात् निर्गच्छति, श्रोतुश्च हृदयमाविशति । इयमेतादशी धारा विद्यते, या कविमान- सरूपिणो मानससरोवरात् प्रकाशते तथा श्रोतृहृदयरूपिणं समुद्रमा- विशति । इयं कविता एतादृशो हृद्यानवद्याङ्गो कामिनी वर्तते, या कविरूपिण्या मातुर्ह दयात् प्रादुर्भवति तथा सहृदयश्रोतृहृदयरूपं वाक्यं रसात्मकं काव्यम पतिहृदयं प्रविशति । वस्तुत: काव्यस्य जन्मापि रसादेव भवति स्वयमपि काव्यं रसमयं भवति; तस्य च लक्ष्यमपि रसनि- पत्तिरेष भवति । एवं रीत्या आदिमध्यावसानेषु विष्वपि समयेषु काव्यं रसानुविद्धमेव । अत एव तु काव्यरसानन्दो ब्रह्मानन्दसहोदरत्वं प्राप्नोतितमाम् । साहित्यदर्पणस्य सर्जनावेलायां विश्वनाथस्य समक्षं भामह- वामन-रुद्रट-आनन्दवर्धन-कुन्तक-भोजराज-मम्मटादीनामनेकेषां काव्य शास्त्राचार्याणां काव्यपरिभाषाः प्रासन् । किन्तु तददोषौ शब्दार्थों सगुणावनलङ्क. ती पुनः क्वापि' इत्यस्यां मम्मटाचार्य- प्रणोतायां काव्यपरिभाषायामन्यासां सर्वासामेव काव्यपरिभाषाणां समन्वितं सारसर्वस्वमवेक्ष्य श्रीविश्वनाथेन मम्मटकृतकाव्यपरि- भाषाया एव महता संरम्भरण आलोचना विहितास्ति तथा तस्या- मनेके दोषाः प्रदर्शिताः सन्ति । मम्मटकृतकाव्यपरिभाषान्तर्गतानि 'अदोषौ-सगुणो-अनलङ्क तो' इति त्रीण्यपि पदानि विश्वनाथाय नैव रोचन्ते । यतो हि तदीयष्टौ शब्दार्थों दोषरहितो नैव भवितुं शक्नुतः । यदि भविष्यतोऽपि क्वापि, तर्हि विरलावेव । एवं सति काव्यं निविषयं प्रविरलविषयं वा भविष्यतीति महान् दोषो भवति । केवलमेतावदेव नैव, अपितु- "न्यक्कारो ह्ययमेव मे यदरयस् तत्राप्यसौ तापसः, सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग धिक शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा, स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनः किमेभिर्भुजैः॥" इति पद्ये विधेयाविमर्शदोषसत्त्वात् मम्मटीयकाव्यपरिभाषा- दृष्ट्या तु काव्यत्वमेव विनश्यति, का कथा पुनरत्र आनन्दवर्धना- चार्यसम्मतस्य उत्तमकाव्यत्वस्य ? एवमेवात्र 'सगुणौ' इतीदमपि विशेषणं साधीयो नास्ति । यतोहि गुणा अपि शब्दार्थधर्मा नैव भवन्ति, ते तु रसधर्मा एव । एवञ्च काव्यप्रकाशे मम्मटाचार्योदा- हृते- "यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपाः, ते चोन्मोलितमालतीसुरभयः प्रौढाः कदम्बानिलाः।

५२ संस्कृत-निबन्धावली - सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ, रेवारोषसि वेतसीतरुतले चेनः समुत्कण्ठते॥" इत्येवं रूपे काव्योदाहरणेऽपि श्रीविश्वनाथो मम्मटीयां काव्य- परिभाषां स्खलितामसंगताञ्च मन्यते । सोऽभिप्रेति यदस्मिन् 'यः कोमारहरः०'-इत्यादिपद्ये विभावनाविशेषोक्तिसङ्कररूपा अल- कारत्रयी वर्तते एव; कथन्तर्हि परिभाषान्तर्गतस्य 'अनलङ्कती' इति विशेषरणभूतपदस्य 'चरितार्थता भवेदस्मिन् पद्ये ? कथमपि नैवेति निश्चप्रचमिति रोत्या मम्मटीयकाव्यपरिभाषां खण्डयित्वा श्री विश्वनाथो रमपूरपूरितं वाक्यमेव काव्यत्वेन स्वीकुर्वन् 'वाक्यं रसात्मक काव्यम्' इत्येवंरूपां काव्यपरिभाषां निर्धारयति । किन्तु यावन्मात्रम् अधिगतकतिपयसाहित्यशास्त्रीयरहस्यायाः मामकीनाया: धिषणाया द्रुतिरुस्ति, तावत्तु अहमिदमेव मन्ये यद् प्राचारेण श्रो विश्वनाथेन 'वाक्यं रसात्मकं काव्यम्' इत्येवंरूपा या काव्यपरिभाषा प्रकारि, सा तु साधोयसी विद्यते; किन्तु श्री वाग्देवतावतारेण मम्मटाचार्येण विहिताया: 'तददोषौ शब्दार्थों सगुणावनलङ्क ती पुन: क्वापि' इत्येवंरूपायाः काव्यपरिभाषाया- स्तेन यत्खण्डनं कृतमस्ति, तन्न रमणीयमस्ति, नवा च गम्भीरमेव । यतोहि- १-रमस्तु वाह्यो (वोढुं योग्यः) वहनीयः प्रापणीयो वा भवति । २-शब्दाः, अर्थाः, गुणा: अलङ्काराश्च तस्य वोढारो भवन्ति । अथ विचारणीयमस्ति तावद् विचक्षरण: विद्वच्चणैः, यद्यावत अपेक्षितयोग्यतासम्पन्ना वोढारो न भविष्यन्ति, वावत्कथङ्कारं वोढुं योग्यो वोढुं शक्ष्यते ? कथमपि नैवेति निर्विवादम् । अत एव श्रीमम्म- टेन काव्यात्मभूतस्य रसस्य वोढ़ोः अपेक्षितयोग्यतायुक्तयोः शब्दा- र्थयो: काव्यपरिभाषायां निरूपणं कृतमस्ति । यतोहि अपेक्षितयोग्यता- सम्पन्नशब्दार्थयोरभावे रसानुदयापत्तिराचार्य मम्मटस्य परोक्षं नासीत् । एवञ्च अदोषपदेनापि रसापकर्षकनित्यदोषाभाव एव मम्मटस्य सुतरामभीष्टोऽस्ति । अतो 'न्यक्कारो ह्ययमेव मे०- इत्यादिपद्ये न काव्यत्वहानिः, नवा चोत्तमकाव्यत्वहानिराशङ्क- वाक्यं रसात्मकं काव्यम् नीया । एवमेव 'गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता' इत्युक्त्या मम्मटाचार्यो गौण्या वृत्त्या शब्दार्थेष्वपि तत्त्वविदां सम्मान्यां गुणस्थिति दर्शयित्वा स्वकृतकाव्यपरिभाषान्तर्गतस्य 'सगुणौ' इति पदस्य चारितार्थ्यं प्रकटयति । अपरञ्च 'यः कौमारहरः' --इत्या- दिपद्ये तु विभावनाविशेषोक्तिसङ्कररूपा अलङ्कारत्रयी अभाव- मुखेन मृग्यते, न भावमुखेन सा तत्र समुपलभ्यते । अतस्तदीयम् तत्र अस्फुटत्वमेव संसिद्ध्यति, नतु स्फुटत्वम् । लिखत्यपि तत्रैव वृत्तिकार:--'अत्र स्फुटो न कश्चिदलङ्कारः' इति । एतत्सर्वञ्चिद् दर्श दशमहं मन्ये यत् श्रीविश्वनाथकृता काव्य- परिभाषा काव्यस्य प्राभ्यन्तरं स्वरूपं साधु द्योतयति । किन्तु काव्य- स्य बाह्य कलेवरं तां निकषा नास्ति; तत्तु मम्मटाचार्य एव जानातित- माम् । परमेतावति सर्वस्मिंश्चिद् भूते सत्यपि प्राचार्यविश्वनाथ- प्रणीतायाः 'वाक्यं रसात्मकं काव्यम्' इत्येवंरूपाया: काव्यपरि- भाषायाः सम्प्रति विद्व-मण्डले भूयानादरो वरीवति । आचार्य राम- चन्द्रशुक्लेनापि रसस्य साधारणीकरणव्यापारप्रसंगे भङ्ग्यन्तरेण रसात्मकवाक्यस्यैव काव्यत्वं पर्यपोषि । सुदूरे विदेशे कायिल- मेथ्यु-प्रानल्ड-वई मवर्थ प्रभृतयः पाश्चायत्त्पण्डिता अपि काव्यसर्ज- नायां रसस्य प्राधान्य द्योतयन्तो विश्वनाथाभिप्रायमिव परिपुष्ण- न्तोति विदितमेव विदुषामित्यलं पल्लवितेन ।

रसनिष्पत्ति । - साहित्यशास्त्रे रसनिष्पत्तिमाधारीविधाय काव्यशास्त्रविदो भृशं विवदन्ते । किन्तु तेषां सर्वेषामेव विवादप्रासादानामाधारशिला भरतमुनिप्रणीतस्य नाट्यशास्त्रस्य 'विभावानुभावव्यभिचारिसंयो- गाद्रसनिष्पत्तिः' इत्येकस्मिन्नेव सूत्रे वरीवत्ति । सूत्रस्यास्य तात्पर्य- मस्ति यत् शकुन्तलादुष्यन्तादिरूपालम्बनविभावानां नदीतीरोद्यान- चन्द्रचन्द्रिकादिरूपोद्दीपनविभावानां कटाक्षभुजविक्षेपस्मितादिरूपा- नुभावानां व्रीडाचपलतादिरूपव्यभिचारिभावानां च संयोगेन अर्थात् संसर्गेणशृङ्गारादिरसस्य निष्पत्तिः भवति । अस्मिन् सूत्रे समायातं 'निष्पत्ति' शब्दमादाय साहित्यशास्त्रा- चार्याणां समाजे प्रमुखरूपेण प्रायश्चत्वारि मतानि प्रचलितानि सन्ति । यतो हि अस्य 'निष्पत्ति' शब्दस्य प्राचार्यैरस्मिन् सन्दर्भ अर्था एव चत्वारो विहिताः सन्ति । तेऽर्थाः इमे सन्ति- (१) उत्पत्तिः, (२) अनुमिति:, (३) उपभुक्तिः, (४) अभिव्यक्तिश्च। निष्पत्तिशब्दस्य एनानेव चतुरोऽर्थान् गृहीत्वा साहित्यशास्त्रजुषां विदुषां ये चत्वारो वादाः प्राकाश्यमायाताः सन्ति, ते इमे सन्ति- (१) रसोत्पत्तिवादः, (२) रसानुमितिवादः, (३) रसोपभुक्तिवादः, (४) रसाभिव्यक्तिवादश्च । एतेषु वादेषु रसोत्पत्तिवादस्य भट्टलोल्लटाचार्यः, रसानुमिति- वादस्य प्राचार्यशङ्क कः, रसोपमुक्तिवादस्य वाचार्यभट्टनायकस्तथा साभिव्यक्तिवादस्य श्रीमदाचार्याभिनवगुप्तो मुख्यो निरूपको मन्यते । व्यञ्जनानुयायिनः आनन्दवर्धन-मम्मट-विश्वनाथ-जगन्ना- - रसनिष्पत्ति थादयोऽपि विख्याताः काव्यशास्त्राचार्या रसाभिव्यक्तिवादमेव परि- पुष्णन्तीति तत्तद्ग्रन्थविदां विदितमेव । भरतमुनिविरचिते नाट्यशास्त्रे श्रीमदभिनवगुप्तपादाचार्यविर- चित्तायाम् 'अभिनवभारती' नामिकायां सुविख्यातायां टीकायामयं सर्वो विषयो विशदरूपेण व्याख्यातो लभ्यते । वाग्देवतावतारेण मम्मटाचार्येण ततः सारसर्वस्वभूतं समस्तमंशजातमादाय स्वीये काव्यप्रकाशे महतार्जवेन अशेषोऽयं विषयो विशदतरीकृतोऽस्ति । अत्राहं रमनिप्पत्तिवोधप्रतिपत्तये इमाश्चतुरोऽपि रसनिष्पत्तिविषय- कान् वादान् क्रमेणोपस्थापयामि । यथा- उत्पत्तिवादः ननूक्तमेव प्राग्यदस्य वादस्य जन्मदाता भट्टलोल्लटो विद्यते मम्मटस्य शब्देपु एतस्य तात्पर्यमस्ति यद्- "विभावैर्ललनोद्यानादिभिरालम्वनोद्दीपनकारणैः रत्यादिको भावो जनितः, अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीति- व्यभिचारिभिनिर्वेदादिभिः सहकारिभिरूपचितो मुख्यया वृत्त्या रामादावनुकार्ये, तद्रूपतानुसन्धानान्नर्तकेऽपि प्रतीयमानो रस इति भट्टलोल्लटप्रभृतयः।" - योग्यः कृतः, । समीक्षा भट्टलोल्लटसम्मतेऽस्मिन् मते केचिद् दोपा दुर्वारा एव सन्ति । प्रथमो दोषस्त्वयमेवास्ति यदतीतकालिके अनुकार्ये रामादौ तु रसो. त्पत्तिरङ्गीकृता, तद्रूपतानुसन्धानरूपाभिनयकलाकुशले नटादावपि च गोण्या वृत्त्या रसोत्पत्तिरुररीकृतास्ति, किन्तु सहृदयेन सामाजिकेन क्रियमाणा रसचर्वणा सुतरामुपेक्षितास्ति। अपरश्च दोषोऽस्ति यदजीविते अनुकार्ये रामादौ रसोत्पत्तिः कथङ्कारं भवितुमर्हति ? कथमपि नेति मम भावः । एवमेव च स्थायिभावरूपेण पूर्वत एव विद्यमानस्य अव्यक्तावस्थामापन्नस्य उत्पत्तिकथनमपि हृदयङ्गमं नैव भवति । अत एव भट्टलोल्लटाशयं स्वीकत्तुं मामकीनं मनो नैव कामयते। रसस्य संस्कृत-निबन्धावली अनुमितिवादः इदं विदितच रमेव यदस्य पक्षस्य प्रबलपोषक: शङ्क कोऽस्ति । अयं मन्यते यदभिनयनपुरणीनिष्णातोऽभिनेता काव्यानुसन्धानबलाद- झ्यासबलाच्च सम्प्राप्तेन स्वकौशलेन कृत्रिमानपि विभावानुभाव- व्यभिचारिभावान् स्वाभाविकानिव प्रकाशयति । एवञ्च सहृदयो दर्शकः सम्यङ्-मिथ्या-संशय-सादृश्य-प्रतीतिभ्यो विभिन्नया विलक्ष- गया च प्रतीत्या गम्यगमकभावरूपात् संयोगात् अभिनयकला- कौशलबलात्तस्मिन्नभिनेतरि अविद्यमानमपि रत्यादिस्थायिभावम् अनुमिनोति, तथा स्ववासनावलेन स्वकीयेऽपि . चित्ते तस्यानुमिति करोति यद् 'अयं दुष्यन्तः शकुन्तलाविषयकरतिमान् तत्र विलक्षण- स्मितकटाक्षादिमत्त्वात्', अथवा 'इयं शकुन्तला दुष्यन्तविषयकरति- मती तत्र विलक्षणस्मितकटाक्षादिमत्त्वात्' इति । समीक्षा यद्यप्यत्र शङ्खकेन सामाजिकेऽपि रसानुमिति रङ्गीकृतास्ति, तथापि तत्र कृत्रिमताया दुर्वारणमावरणम् अवशिष्टमस्ति । एवञ्च केनाप्यनुमानेन प्रत्यक्षात्मकं ज्ञानं सम्भवमपि नैव भवति । अनेन परोक्षात्मकमेव ज्ञानं जायते । किन्तु रसः साक्षाद् भासमानो भवति । अत एवानुमानेन रसानुमितिरपि विश्वसनीया नास्ति । अस्याञ्चा- विश्वसनीयतायां कृत्रिमताबाहुल्यमपि प्रबलं प्रमाणमस्तीति शङ्कु- कस्य मते समादरो नास्ति सुकरः । उपभुक्तिवाद: अस्मिन् मते भट्टनायकस्याग्रहोऽस्तीति भवतां विज्ञातचरमव । अस्याशयोऽस्ति यद् रसो न ताटस्थ्येनोत्पद्यते, नवानुमीयते, न चात्म- गतत्वेनाभिव्यज्यते । अपितु अभिधालक्षणावृत्तिव्यापारानन्तरं विभा- वादिसाधारणीकरणात्मना भावकत्वव्यापारेण व्यक्तिविशिष्ट- भावनानिरसनपुरस्सरं सर्वसाधारणीक्रियमाणः रत्यादिस्थायिभावः सहृदयैः सामाजिकैः सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसदृशेन भोजकत्वव्यापारेरण भुज्यते, अर्थात् प्रास्वादविपयोविधीयते ।

रसनिष्पत्ति समीक्षा यद्यपि भट्टनायकेन सामाजिकेषु रसनिष्पत्तिप्रक्रियाया विश्लेषण महता वैशधन नैपुण्येन च प्रतिपादितमस्ति; एतदर्थं च तेन या साधारणीकरणप्रक्रिया गवेषिता, सापि सर्वथा प्रशंसनीया समभि- नन्दनीया चास्ति । परवत्तिभिराचायः सा प्रक्रिया स्वाभिमतरस- निष्पत्तिप्रतिपत्तये उररीकृतापि विद्यते । किन्तु तेनास्मिन् प्रकरणे भावकत्व-भोजकत्वनामानौ यावुभौ शब्दव्यापारावङ्गीकृतौ स्तः, तौ काव्यशास्त्राचार्यसंसारे क्वापि मान्यौ नैव स्तः । अत एव निरा- धारयोस्तयोापारयोराधारमादाय गवेषितेयं भुक्तिवादिनी रस- निष्पत्तिसररिणः पूर्वोक्तलोल्लटशकुकसम्मत रसनिष्पत्तिसरण्यपेक्षया सुष्ठुतरापि सतो निराधारत्वादेव काव्यशास्त्रविदां समाजे मान्या भवितुं न पारयामास । अभिव्यक्तिवादः एतदपि विज्ञातच रमेव भवतां यदस्य पक्षस्य प्रस्तोता श्रीमदभि- नवगुप्तपादाचार्यो विद्यते । तदीयावधारणास्ति यद्रसो नोत्पद्यते, नानुमीयते, न चोपभुज्यते; यतोहि सोऽभिव्यज्यते विभावादिभिः । तदीयोऽभिप्रायोऽस्ति यत्सहृदयस्य सामाजिकस्य मनोभूमौ पूर्वानुभूत- वासनारूपेण संस्थितो मनःसंवेगाकारो रत्यादिनामा स्थायिभाव एव तन्निष्ठायां रसानुभूतौ निमित्तं भवति । सामाजिकस्य मनसि संस्काररूपेण संस्थितो रत्यादिः स्थायिभावो व्यक्तिविशेषसम्बन्ध- परिहारपुरस्सरं सर्वसाधारण्येन प्रतीतैविभावादिभिरुद्वोधमापद्य समभिव्यज्यमानश्च सामाजिके आत्मीयत्वेन अमन्दानन्दसन्दोहजननी शृंगारादिरसानुभूति वितनोति । अर्थात् सर्वप्रथम तु नटस्य अभिनयकलाकौशलेन प्रदर्यमानेभ्यो विभावादिभ्योऽनुक्रियमाणरामादिव्यक्तिविशेषसम्बन्धसंस्कारो लुम्पति । तदनन्तरं सर्वसाधारण्येन प्रतीतेषु तेषु विभावादिष सामाजिकस्य आत्मभावो जायते । तदानीं सहृदयस्य सामाजिकस्य हृदयात् प्रदर्घामानविभावादिव्यतिरिक्तं समस्तमपि सांसारिक भावजातं पदार्थजातं च विगलितं भवति; स तदानीमात्ममुग्धो बोम- वीति । तस्मिन्नेव चात्मनिष्ठमुग्धतासमये सामाजिकस्य मनसि संस्कृत-निवन्धावली सर्वतो लघविस्तरोऽभिव्यक्तश्च रत्यादिस्थायिभावश्चय॑माणक- प्राणो विभावादिजीवितावधिः, प्रपारण करसन्यायेन प्रास्वाद्यमानः, पुरः परिस्फुरन्निव, हृदयं प्रविशन्निव, सर्वाङ्गाणि ऽसमालिङ्गन्निवा, अन्यत्सर्व विस्मारयन्निव, ब्रह्मानन्दमनुभावयन्निव, अलौकिक- चमत्कारं जनयन्निव शृंङ्गारादिको रसो वोभूयते । समीक्षा वस्तुतोऽस्मिन् अभिव्यक्तिवादे रसनिष्पत्तौ सर्वाङ्गीणं सार्वजनीन च विचारं विघाय श्रीमदभिनवगुप्तपादाचार्येण सामाजिकैविधीय- मानाया प्रात्मनिष्ठाया रसानुभूतिरूपाया: काव्यानन्दानुभूतिसरणः सरल: सत्यः श्रेष्ठश्च पन्थाः प्रदर्शितोऽस्ति । रसस्य अलौकिकता शाश्वतता चापि सुस्थिरीकृते स्तः । सामाजिकानां चेतोभूमौ प्रव- हन्त्या रसरूपानन्दवारिवाहिन्या उद्गमप्रकारोऽपि सुतरां साधुतया स्वाभाविकतया च निरूपितोऽस्तीत्यत्र केषामपि साम्प्रतिकानां शेमु- पोजुषां विदुषां विवादो नावलोक्यते। यतोहि वाग्देवतावतारेण मम्मटाचार्येण काव्यप्रकाशे, विश्वनाथेन साहित्यदर्पणे तथा पण्डित- राजेन जगन्नाथेन स्वोये रसगङ्गाधरे श्रीमदभिनवगुप्तपादाचार्य- चचितो रसनिष्पत्तिविषयकोऽभिव्यक्तिवाद एव समर्थितोऽस्तीति तद्विदां विज्ञातमेव । उपसंहारः इत्थमहं पश्यामि यद् भरतमुनिप्रणीतस्य रससूत्रस्य चतुष्वंपि व्याख्यानेषु श्रीमदभिनवगुप्तपादाचार्यकृतं रसाभिव्यक्तिवादरूपं तुरीयं व्याख्यानमेव सर्वश्रेष्ठमस्ति । यतोहि अस्मिन्नेव व्याख्याने सामाजिकानां चित्तभूमौ समुद्गतायाः सम्प्राप्तविस्तरायाश्च काव्य- रसधारायाः समीचीनतमा मनोरमा च प्रक्रिया मम लोचनगोचरी- भवति । अन्येषु त्रिष्वपि व्याख्यानेषु एतादृशी उपादेयता, सरलता, प्रामाणिकता, सुष्ठुता च नैव लभ्यते । अंतोऽहमपि स्वानुभूतिजन्य- पारणया अभिव्यक्तिवादमेव हृदयेन समर्थयामीति विदितवेदि- तव्येषु समधिगतयाथातथ्येषु भवादृशेषु काव्यविद्याविहरेषु अलं पल्लवितेनेति धियात्रैव विषयव्याख्यानविस्त राद् विरमामि ।

व्यञ्जना-विवेचना भूमिका रसालोद्याने पिककजनस्य, वसन्तसमये मिलिन्दगुञ्जनस्य, पुष्पे सौरभस्य, क्षीरे नवनीतस्य, सलिले तरङ्गस्य, चन्द्रे सुषायाः, उपसि अरुणतायाः, मुक्तासु भासुरतायाः, वर्षासु च मयूरलीलाया याङ्- महत्त्वं मन्यते मनीषिभिः, तादृशमेव काव्ये काव्यक्षेत्रे वा व्यञ्जना- वृत्तेरपि सहृदयधौरेयैः समालोचकैरुररीविधीयते । अहं चिन्तयामि यद् वाग्व्यवहारक्षेत्रे प्रायेण अभिधा-लक्षरणा-तात्पर्याख्या- व्यञ्जना- इतिसंज्ञिकाश्चतस्रः शब्दवृत्तयो लब्धप्रसराः सन्तीति सर्वे एव साहित्यशास्त्रविदो विदन्ति । यद्यप्यत्र परिसंख्याता व्यञ्जनाति- रिक्ता अभिधा-लक्षणा-तात्पर्याख्या इतरा अपि शब्दवृत्तयो निजं निजं महत्त्वं धारयन्त्येव, किन्तु सहृदयस्य चेतसि यावतीं चमत्कृतिम्, यावती सरस रसप्रवाहपद्धतिम्, यावतीञ्च अमन्दानन्दसन्दोहसन्तति व्यञ्जनावृत्तिर्जनयति, तावतीं नान्या काचिदपीतरा शब्दवृत्तिरिति प्रत्यक्षमेव सुधियामिति मन्ये । अत एव च श्रीमता आनन्दवर्धना- चार्येण स्वीये ध्वन्यालोके लिखितमप्यस्ति यत्- "प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वारणोषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥" प्रतीयते यदस्या एवोक्तेर्भावमादाय पाश्चात्त्यविपश्चित्पोपोऽपि प्रतिपादितवानस्ति यद्- "In wit, as nature, what affects our hearts Is not the exactness of peculiar parts; It is not a lip, or eye, we beauty call But the joint force and full result of all." " ६० संस्कृत-निबन्धावली परिभाषा सहृदयजनानां चोरित (प्राप्यायित) चित्तवृत्तः ध्वनिप्रसूते: न्यजनावृत्तेः परिभाषां प्रकुर्वता ध्वनि कृता श्रीमता आनन्दवर्धना- चायें णालेखि स्वकीये ध्वनिग्रन्थे ध्वन्यालोके ध्वनिकाव्यनिरूपण- काले यद्- "यत्रार्थः शन्दो वा तमर्थमुपसर्जनीकृतस्वाथौ । व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥" : अर्थात् यत्र काव्ये वाच्यार्थो लक्ष्यार्थो वा एवमेव वाचकशब्दो लक्षकशब्दो वा स्वकीयं स्वरूपं गौणं कृत्वा किमप्यन्यदेव वाचाम- गोचरानन्दजनक विलक्षणमर्थजातं प्रकाशयति, तत्र व्यञ्जनावृत्तिरेव लब्धास्पदा मन्तव्येति मनीषिणां तत्त्वग्राहिणां सूरिणामाशयः । ध्वनिकारस्याशयोऽस्ति यद् व्यञ्जनावृत्ति: कवितावत् शब्दार्थनिष्ठा भवति । यतोहि यत्र चमत्कारजनकता प्रधानतया शब्दे विश्राम्यति, तत्रार्थः सहायको भवति; यत्र च सार्थे प्राधान्येन विराजते, तत्र शब्दः सहायको भवति । अत एव तेनास्यां कारिकायां यत्रार्थः शब्दो वा' इत्युक्त्वा शब्दार्थयोरुभयोरपि नामग्रहणं कृतमस्तीति स्पष्टमेव । वाग्देवतावतारेण मम्मटाचार्येणापि ध्वनिकाराशयमादाय स्वीये काव्यप्रकाशे निम्नलिखितासु यथास्थानं कथितासु कारिकासु व्यञ्जनास्वरूप प्राकाश्यमानीतमस्ति । तद्यथा- "यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते । फले शब्दकगम्येऽत्र व्यञ्जनान्नापरा क्रिया। अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते। संयोगाद्यैरवाच्यार्थधीकृद व्यापृतिरञ्जनम् ॥ तयुक्तो व्यञ्जकः शब्दो यत्सोऽर्थान्तरयुक् तथा । अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः॥ वक्तृबोद्धव्यकाफूनां वाक्यवाच्यान्यसन्निधेः । प्रस्तावदेशकालादेवैशिष्ट्यात्प्रतिभाजुषाम् ।। योऽर्थस्यान्यार्थधीहेतुव्यापारो व्यक्तिरेव सा। शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः ॥ अर्थस्य व्यजकत्वे तत् शब्दस्य सहकारिता।" - व्यञ्जना-विवेचना साहित्यदर्पणकारो विश्वनाथोऽपि अभिधाद्याः सर्वाः शब्दवृत्तो- रतिक्रम्य प्रवर्तमानायाः व्यञ्जनायाः व्यवस्थिततरं स्वरूपं निरूपवन लिखति- "विरतास्वभिधाद्यासु ययार्थो वोध्यते परः। सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ॥ 'शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः' इति नयेनाभिधालक्ष- णातात्पर्याख्यासु तिसृषु वृत्तिष एवं स्वं स्वमर्थ बोधयित्वोपक्षोणासु यया अपरोऽन्योऽर्थों बोध्यते, सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्च शक्तिय॑ञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम । तत्र- अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा । अनेकार्थस्य शब्दस्य संयोगाद्यनियन्त्रिते ।। एकत्रार्थेऽन्यधीहेतुळजना साभिधाश्रया । लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ॥ यया प्रत्याय्यते सा स्याद् व्यञ्जना लक्षणाश्रया । वक्तृबोद्धव्यवाक्यानामन्यसन्निधिवाच्ययोः ।। प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च । वैशिष्ट्यादन्यमर्थ या बोधयेत्सार्थसम्भवा ।। शब्दबोच्यो व्यनक्त्यर्थः शब्दोऽप्यन्तराश्रयः। एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता॥" उदाहरणानि व्यञ्जनावृत्तेन्दाहरणक्षेत्र सत्कविकृतं विविधं सकलं काव्योद्यानं विद्यते। किन्त्वत्र निदर्शनरूपेण स्थालोपुलाकन्यायेन कतिपयान्येव व्यङ्ग्यार्थपरिमलंमिलितानि सहृदयचित्तवञ्चरीकचुम्बितानि पद्यप्रसूनानि तत: समवचित्य भवतां नयनोपायनीकरोमि । दृश्यता तावत्प्रथमं पद्यकुसुमम्- 'एवं वादिनि देवर्षों पार्वे पितुरधोमुखी। लोलाकमलपत्राणि गरगयामास पार्वती ॥"

६२ संस्कृत-निबन्धावली अस्मिन् पद्ये महाकविकालिदासः स्वप्रेयांसं शिवं समुद्दिश्य पितुः पावें स्थिताया: अपि पार्वत्याः हृदये समुत्पद्यमानान् हर्ष-ब्रीडोत्सुक- यादीन् सञ्चारिणो भावान् पार्वतीकर्तृ कमुखाघोविधानपूर्वकलीला- कमलपत्रसंख्यानरूपानुभाववर्णनव्याजेन शिवविषयिणी पार्वतीनिष्ठा रति च महत्या शालीनतया अभिव्यक्तवानस्ति, इति सर्वेषामेव सहृदयानां प्रत्यक्षम् । एवमेव- 'वरिपजक ! हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावल्लुलितालकमुखी गृहे परिष्वक्ते स्नुषा ।' इत्यत्र पुत्रस्य स्वकान्तायाम् आसक्त्यातिशय्यस्य तज्जन्यदौर्बल यस्य च तेन च तदीयस्य हस्तिव्याघ्रादिवधासामर्थ्यस्य प्रकटनप्रकार: सहृदयानां हृदयप्रीतये सुतरामलमस्तीत्यत्र न संशयः । किंबहुना- ! 'प्रतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि ! त्वरितम् । श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम् ॥' 'नुदत्यनामनाः श्वश्रूर्मा गृहमरे सकले। क्षणमात्रं यदि सन्ध्यायां भवति नवा भवति विश्रामः ॥' 'पथिक ! नात्र त्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रासे । उन्नतपयोधरं प्रेक्ष्य यदि वससि तद् वस ॥' इत्यादिषु व्यङ्ग्यार्थगर्भ षु पद्येषु निर्वाचं प्रसरन्ती सहृदयहृदयं प्रविशन्ती व्यञ्जनावृत्तिमाधुरी सहृदयाः सुमेघसो नूनं जानन्त्येव । व्यञ्जनाया अनिवार्यता काव्यक्षेत्रे व्य यजनावृत्तिरनिवार्या वरीवृत्यते, इत्यभिप्रायः मानन्दवर्धन-अभिनवगुप्त-मम्मट-विश्वनाथ-जगन्नाथप्रभृतीनां सर्वेषामेव ध्वनिपोषकारणां काव्यशास्त्राचार्याणां विद्यते, यो नूनं सर्वाधिको मनोरम: । वस्तुतो हि काव्यस्य वास्तविकमर्मावबोधं प्रस्तोतुं नतु अभिधावृत्तिः समर्थास्ति, न वा लक्षणावृत्तिः, न वा च तात्पर्याख्या वृत्तिः । तदर्थन्तु व्यञ्जनावृत्तिरेपणीया एव भवति । यतोहि अविवक्षितवाच्यस्य विवक्षितवाच्यस्य वा कस्यापि काव्य- व्यञ्जया-विवेचना भेदस्य वास्तविक: काव्यार्थो व्यञ्जनां विना नोपपद्यते यथा- (कः) अविवक्षितवाच्यार्थेषु लक्षणामूलकध्वनिकाव्येषु व्यञ्जनां विना तत्र लक्षणा एव कुलक्षणा भूत्वा प्रसंगच्छते । (ख:) विवक्षितवाच्यार्थेषु असंलक्ष्यक्रमव्यङ्ग्येषु अभिधामूलक- ध्वनिकाव्येषु तु रसादिरूपो वास्तविकोऽर्थः स्वप्नेऽपि अभिधया वाच्यो न भवति । एतदर्थन्तु व्यञ्जना अङ्गीकार्या एव भवति । (गः) एवमेव विवक्षितवाच्यार्थेषु संलक्ष्यक्रमव्यङ्ग्येष्वपि अभिधामूलकध्वनिकाव्येषु कुमारिल भट्टस्य अभिहितान्वयवादे तु अभिधा पदार्थवोधे एव प्रभवति, तदये तु सा कुण्ठिता भूत्वा वाक्यार्थबोधाय असमर्था जायते । तदर्थन्तत्र तात्पर्याख्या वृत्तिः तस्या साहाय्यमाचरति । एवं सति व्यङ्ग्यार्थरूपवास्तविककाव्यार्थबोध- करणाय प्रागेव विशेषणे क्षीणशक्तिः सा वराकी अभिधा पुनः कथङ्कारं प्रभवेत् ? कथमपि नेति भावः । एवञ्च प्रभाकरभट्टस्य अन्विताभिधानवादेऽपि अभिधावृत्तिः अन्वितं केवल सामान्यविशेषरूपमेव अर्थ बोधयितुं पारयति; तत्रापि सामान्यविशेषरूपादर्थात् परं व्यक्तिविशेषरूपमतिविशेषभूतं वाक्यार्थ सा नैव बोधयितुं प्रभवति । अतस्तस्मादतिविशेषभूतादपि वाच्यार्था- त्परं प्रवर्त्तमानो व्यङ्ग्यार्थरूपो वास्तविकः काव्यार्थस्तु तया कथमपि नैव बोधयितुं शक्यते । (घ:) 'सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारः' इति प्रजल्पताम् अभिधया एव व्यङ्ग्यार्थप्रतीतिमिच्छतां भट्टलोल्लटादीनामपि मतं भ्रान्तिजनक विद्यते । यतोहि तथा स्वीकृते सति तु लक्षणा एव नश्यति । अतः सुतरां सिद्ध्यति यदभिधया व्यञ्जनावृत्तिकार्य कथमपि कदापि च कर्तुं नैव शक्यते । अथायान्ति केचिल्लक्षणाभक्ताः । इमे कथयन्ति यल्लक्षणया एव व्यङ्ग्यार्थप्रतीतिरीप कर्तुं शक्यते; अतस्तदथं व्यञ्जना नावश्यकी। किन्तु एषामपीदं कथनं विवेकशून्यमेव विद्यते । यतोहि व्यञ्जना तु लक्षरणामप्यतिशेते । वाग्देवतावतारो मम्मटाचार्यः स्वीये संस्कृत-निवन्धावली काव्यप्रकाशे लक्षणावृत्तिमप्यतिक्रम्य प्रवर्तमानाया: व्यञ्जनावृत्तेः सिद्धिकरणाय युक्तयुक्तीः काश्चित् कारिका अपि लिखितवानस्ति । यथा- "यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते । फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया ॥ नाभिधा समयाभावाद् हेत्वभावान्न लक्षणा । लक्ष्यं न मुख्यं नाप्यत्र बाघो योगः फलेन नो । न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः। एवमप्यनवस्था स्याद् या मूलक्षयकारिणी ॥ प्रयोजनेन सहितं लक्षणीयं न युज्यते । ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम् ॥ विशिष्टे लक्षणा नैवं विशेषाः स्युस्तु लक्षिते ॥" इत्येतासु कारिकासु तथा- "तटादौ ये विशेषाः पावनत्वादयस्ते चाभिषातात्पर्य-लक्षणाभ्यो व्यापारान्तरेण गम्या: । तच्च व्यञ्जन- ध्वनन-द्योतनादिशब्दवाच्यमवश्यमेषितव्यम् ।" इति वृत्तिभागे च सः सुतरामेव स्पष्टरूपेण 'गङ्गायां घोषः' इतिकाव्यवाक्ये शैत्य- पावनत्वप्रतीतिरूपव्यङ्ग्यार्थलाभाय लक्षणामक्षमां मत्वा तदने घाराप्रवाहेण प्रसरन्तीं व्यञ्जनावृत्ति महता नैपुण्येन प्रतिपादया- मासेति प्रत्यक्षमेव विपश्चिताम् । एवमेव ध्वनिकारेण आनन्दवर्धनाचार्येणापि अभाववादिनामिव लक्षणावादिनामप्यशेषाणामाचार्याणामशेषाः संकल्पविकल्पाः स्वीये ध्वन्यालोके भृशं युक्तयुक्तिपुरस्सरं विखण्डिताः सन्ति । साहित्यदर्पणकारी विश्वनाथोऽपि- "वृत्तीनां विश्रान्तेरभिधातात्पर्यलक्षणाख्यानाम् । अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम् ॥" इत्यभिधाय अभिधातात्पर्यलक्षणावृत्तिषु विद्यमानास्वपि व्यञ्जनावृत्तेरनिवार्यतामपरिहार्यताञ्च महत्या प्रतीत्या प्रतिपादित- वानस्तीत्यपि सर्वेषामेव साहित्यशास्त्रसेविनां मेधाविनां विदितमेव ।

व्यञ्जना-विवेचना ६५ । अथानुमानवादखण्डनम् आचार्यमहिमभट्टन स्वीये व्यक्तिविवेके अनुमानेन एव व्यङ्ग्यार्थ- प्रतोतिमुररीकृत्य व्यञ्जनाया अनावश्यकतां संसाधयितुं चेष्टा कृतास्ति । अत एव च- "भ्रम धार्मिक ! विश्रब्धः स शुनकोऽध मारितस्तेन । गोदानदीकच्छकुञ्जवासिना हप्तसिंहेन ॥" इति पद्ये स भ्रमरणनिषेधं व्यञ्जनाबोध्यं न मत्वा अनुमान- बोध्यमेव मन्यते । किन्तु मम्मटाचार्येण महता प्रौढिम्ना एतत्संसाधि- तमस्ति यदनुमानेन व्यञ्जनायाः कार्य कथमपि नैव भवितुं शक्नोति । वस्तुतोऽस्मिन् पद्ये महिमभट्टसम्मतस्य अनुमानस्य प्रारणभूतो य: सिंहोपलब्धिरूपो हेतुरस्ति, स न केवलमनैकान्तिकः, अपितु विरुद्धो- ऽसिद्धश्चापि विद्यते । यतोहि गुरोः प्रभोर्वा निदेशेन, कान्तानुरागरण च ताशे भयकारणे सत्यपि भीरुस्तत्र भ्रमत्येव, इत्यनेकान्तता तत्र सिद्ध्यति । एवमेव शुनो बिभ्यदपि शूरत्वेन सिंहान्तापि बिभीयादिति विरुद्धतापि तत्र विद्यते । अभिसारिकावाक्याच्च गोदानदीतीरे सिह- सत्तापि न प्रामारिगको, अतन्तत्रासिद्धतापि दरीश्यते हेतौ । अनेन कारणेन अस्मिन् पये एवंविधान हेत्वाभासाद् हेत्वभावाच्च भ्रमण- निषेधरूपसाध्यसिद्धिः अनुमानेन नितरामेव असम्भवास्तीत्यत्र सहृदयानामैक मत्यमेव वरोवृत्यते । उपसंहारः साम्प्रतमहं प्रत्येमि यदेतावता विवेचनेन एतन्नितरां स्फुटं भूतं भवेद यद् व्यञ्जनावृत्तिः अभिधादिभ्यः सर्वाभ्य एव इतरशब्द- वृत्तिभ्यो महिष्ठा, गरिष्ठा, श्रेष्ठा च वर्तते तया एतस्याः कस्याञ्चि- दपीतरशब्दवृत्त्यामन्तर्भावो नैव भवितुं शक्नोति । भवितुं शक्नोति । एतस्मादेव कार- णात् इयमेवास्ति काव्यस्य चरमसीमा, ब्रह्मानन्दसहोदरानन्दसरो- वरस्य पराकाष्ठा, परमालादस्य च निवासभूमिः; एनां विना काव्यं प्रारणहीनं शरीरमिव अहृद्यं वोभूयते । अत एव रसप्रधाने समस्ते एव साहित्ये एतस्याः वाचामगोचरो महान् महिमा सहृदयानां लोचन- गोचरतामायाति । अत एव उक्त्तमप्यस्ति यद-

६६
संस्कृत-निवन्धावला
'व्यङ्ग्यप्रधानाभिनवैव भङ्गो
मुख्यार्थबाधः परमः प्रकर्षः।
वक्रोक्तयो यत्र विभूषणानि
सा काचिदन्या सरणिः कवीनाम् ॥"
इत्यं हि सहृदयजनमनोरञ्जनायाः व्यञ्जनाया: परमैश्वयं दर्य
दशं प्रायेण अधुनातनः निखिलैरेव घीधनैः सहृदयैः कविजनैः समी-
क्षक जनश्व व्यञ्जना सानन्दमकोक्रियते, इतोरयित्वा 'अलं विद्वत्सु
भशं पल्लवितेन' इति धिया समयाभावभिया च अत्रैव विरमामि
विस्तरात्।

गुरगालङ्कारभेदमीमांसा - माधुर्यादिषु गुणेषु उपमादिषु चालङ्कारेषु भेदो वर्तते नवेति विषयमादाय बुधेषु भूयान् विवादो विद्यते । अस्मिन् विषये श्रीभामह- भट्टोद्भट-बामन-प्रानन्दवर्धन-मम्मटादिभिः अनेकैरालङ्कारिक: विमर्शो विहितोऽस्ति । सर्वप्रथममहं ध्वन्यालोककारस्य श्रीमदानन्द- वर्धनाचार्यस्य अभिप्रायं प्रदर्शयामि । स लिखति ध्वन्यालोके द्वितीयो- द्योते षष्ठ्यां कारिकायाम् - "तमर्थमवलम्बन्ते येऽङ्गिनं ते गुरगाः स्मृताः । अङ्गा धितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ॥" अयमाशयो यत लोके यथा शौर्यादयो गुणा: समवायसम्बन्धेन आत्मानमेव समाश्रयन्ते, तथैव काव्ये अङ्गित्वेन (प्राधान्येन) राज- मानं रसमेव ये अवलम्बन्ते, ते माधुर्यादयो गुणा: सन्ति । एवञ्च लोके यथा कटककुण्डलादयोऽलङ्काराः संयोगवृत्या शरीरस्य अवय- वानेव आश्रयन्ते, तथैव काव्ये अङ्गत्वेन दृश्यमानं शब्दमर्थ मेव वा ये समाश्रयन्ते, ते उपमादयोऽलङ्कारा मन्यन्ते । एवं रोत्या गुणालङ्का- रयो:स्पष्टं पार्थक्यं प्रतिपादयता श्रीमता तत्रभवता आनन्दवर्धना- चार्येण नितमस्ति यद्- १ माधुर्यादयो गुणा: रसधर्माः भवन्ति । २ अनुप्रासोपमादयोऽलङ्कारा शब्दार्थधर्माः सन्ति । ३ अतः आश्रयभेदेन गुणालङ्कारयोः भेदो दुर्वार एव ज्ञेयः । प्रमेदवादिनो भट्टोद्भुटस्य मतम् भट्टोद्भटेन स्वविरचिते भामहविवरणे प्रतिपादितमस्ति यद् गुणालङ्कारयोः कश्चिद् भेद एव नास्ति । तस्यायमाशयोऽस्ति यत समवायवृत्त्या आत्मनि तिष्ठन्तः शौर्यादयोगुणाः, संयोगवृत्त्या व अवयवेषु स्थानं लभमाना: कटककुण्डलादयोऽलङ्काराः मंस्कृत-निबन्धावली यथा समवाय- प्राश्रयभेदेन भिन्न भिन्ना: मन्यन्ते. तथैव वृत्त्या रसे वसन्तो माधुर्यादयो गुणा:, संयोगवृत्त्या च शब्दार्थेषु वसन्तोऽनुप्रामोपमादयोऽलङ्कारा अपि भिन्न भिन्ना: मन्तव्या: इति चेकश्चिद् गु गालङ्कारभेदवादी वदेत् , तहि तन्न स्वीकरणीयमस्ति । यतोहि लौकिकेषु गौर्यादिषु गुणेषु तथा कटककुण्डलादिषु अलङ्कारेषु आश्रयभेददर्शनात् जगति भवतु नाम तावद् भिन्नत्वम्; किन्तु काव्य- जगत्ति प्रसिद्धानां माधुर्यादिगुणानां तथा अनुप्रासोपमादीनामल- काराणाम् उभयेषामपि समदायवृत्त्यैव काव्ये अवस्थानात् तेषु भेद- बुद्धि व करणीया । पुनरपि यदि कोऽपि भेदं पश्येत्. तर्हि गड्डलि- काप्रवाहेणैव तदीया सा भेदबुद्धिरस्ति । अतस्सा आदरणीयतां नाहति । भेदवादिवामनाचार्यमतम् श्रोमता वामनाचार्येण महता विस्तरेण गुणालङ्काराणाम् अव- स्थितिः पृथक-पृथक निर्धारितास्ति । स लिखति स्वकीयस्य काव्या- लङ्कारसूत्रस्य तृतीयाधिकरणे प्रथमाध्याये- १-"काव्यशोभायाः कर्तारो धर्मा. गुणाः” (३।१।१) । २."तदतिशयहेतवस्त्वलङ्कारा:" (३।१।२) । ३-"पूर्वे गणा नित्या:" (३।१।३) । श्रोवामनाचार्यस्य आशयोऽस्ति यद् यैः शब्दार्थधर्मः काव्यशोभा उत्पद्यते ते माघुर्यादयो गुणा एव सन्ति, न तु ते कदापि अनुप्रासो- पमादयोऽलङ्कारा भवन्ति । यतोहि अलङ्कारास्तु काव्यशोभायाम् आधिक्यमात्रं सम्पादयन्ति; तां शोभामुत्पादयितुं तु गुणा एव क्षमन्ते । न केवलं ताव देतावदेव, अपितु माधुर्यादीनां गुणानां काव्ये अनिवार्या स्थितिर्भवति । यतोहि तान् विना काव्यशोभा एव न भवति । किन्तु अलकाराणां प्रयोगस्तु नितरामैच्छिको भवति । यतोहि अलङ्कारा- णाम् अभावेऽपि काव्यशोभा न क्षोयते । - तन्मतस्य अयं सार:- १-गणा: काव्यशोभाविधायका स्वरूपाचायका वा भवन्ति । २-अलङ्कारास्तु केवलम् उत्कर्षाधायका भवन्ति ।

गुणालंकार भेदमीमांसा ६६ ३.काव्ये गुणा: अपरिहार्याः भवन्ति । ४-काव्ये अलङ्कारा: ऐच्छिका: भवन्ति । अथ श्रीमम्मटाचार्यमतम् ध्वन्यालोककारस्यैव मतं समर्थयमानेन श्रीमम्मटाचार्येण भट्टोद्भटस्य अभेदपक्षस्तु नितरां खण्डितोऽस्ति; सहैव 'काव्यशोभाया: कागे धर्मा: गुणाः' इति सूत्रे वामनाचार्य प्रतिपादितं गुणानां काव्यशोभाकर्तृत्वमपि प्रत्याख्यातमस्ति । किन्तु 'पूर्वे गुणा नित्याः' इति सूत्रे व, मनाभिमतं गुणानां नित्यत्वं सहर्षमङ्गीकृतमस्ति । स लिखति स्वीये काव्यप्रकाशे अष्टमोल्लासे- "ये रसस्यागिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुरगाः ॥" किन्तु- "उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेग जातुचित् । हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः॥" गुणविषये तदाशयः १ गुणा: प्रात्मनः शौर्यादय इव रसस्यैव धर्माः सन्ति । २ गुणाः रसे अचलस्थितयः (अनिवार्याः) तथा उत्कर्षाधायका धर्माः सन्ति । ३-गुणा वर्थािनां धर्मा न भवन्ति । यदि च कदाचिद् भवन्त्यपि, तहि गुणवृत्त्या एव भवन्ति । अलङ्कारविषये तदभिप्रायः १-अलङ्कारा: काव्ये विद्यमानं रसं यदा-कदा उपकुर्वन्ति । । यथा- "अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ? अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला ।" इत्यादौ वाचकमुखेन, तथा "मनोरागस्तीत विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव ।

७० संस्कृत-निबन्धावली . हिनस्ति प्रत्यङ्ग ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥" इत्यादी वाच्यमुखेन अलङ्कारौ रसमुपकुरुतः । २-अलङ्कारा: काव्ये विद्यमानं रसं यदा-कदा नाप्युपकुर्वन्ति यथा- "चित्ते विघटते न त्रुट्यति सा गुरणेषु शय्यासु लुठति विकसति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे ध्याने न त्रुट यति चिरं तरुणी प्रगल्भा ॥" स्पष्टमस्ति यदत्रत्योऽनुप्रास: शृंगारं न पुष्णाति । ३-अलङ्कारा: काव्ये रसाभावात् केवलम् उक्तिवैचित्र्यहेतवो भवन्ति । यथा- "मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति, क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् । चक्राह्वन वियोगिना विसलता नास्वादिता नोज्झिता, कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥" अस्मिन् पद्ये विद्यमाना उपमा उक्ति-वैचित्र्यमेव सम्पादयति; प्रकृते विप्रलम्भशृंगारे तु सा प्रातिकूल्यमेव वितनोतीति सहृदयानां प्रत्यक्षमेव । ४-अलङ्काराः सदैव वर्थािनां धर्माः भवन्ति । ५-प्रलकाराः काव्ये अनिवार्याः न भवन्ति । एवमुपर्युक्तया युक्त्या गुणालङ्काराणां भेदं स्पष्टीकृत्य भट्टोद्- भटस्य अभेदवादिपक्षप्रत्याख्यानपुरस्सरं वामनाचार्याभिमतं 'गुणानां काव्यशोभायाः कर्तृत्वं' खण्डयन् मम्मटो वक्तुकामोऽस्ति यद् यदि वामनानुसारेण गुणा एव काव्यशोभाकारका मन्ये रन्, तदा अयमपि प्रश्नः समुदेति यत् 'समस्तैः गुणः काव्यशोभा भवति, उताहो कति- पर्यः ? इति' । यदि च समस्तैः गुणैः काव्यशोभा मन्येत, तर्हि गौड़ी पाञ्चाली च रोती काव्यस्यात्मा नैव भवितुं शक्नुतः । यतोहि अनयोः गुणालंकार भेदमीमांसा ७१ सर्वे गुणा न भवन्ति । एवञ्च 'रीतिरात्मा काव्यस्य' इति वाम- नोक्तमेव नहि संगच्छते । अथ यदि कतिपय : गुणैः काव्यशोभा अङ्गो- क्रियेत, तर्हि 'अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः' इत्यत्रापि प्रोजोगुणस्य विद्यमानत्वात् काव्यत्वं मन्तव्यं भवि- व्यति, यद् वस्तुतोऽत्र अस्त्येव नहि । विपरीतदशायां तु- "स्वर्गप्राप्तिरनेनैव देहेन वरवरिणनी। प्रस्या रदच्छदरसो न्यक्करोतितरां सुघाम् ॥" इत्यत्र गुणाभावे सत्यपि काव्यत्वं नयनविषयीभवति । एत- स्माद्धेतो: वामनाभिप्रेतं गुणानां काव्यशोभाकत त्वं नितारों निन्द- नीयमेव धोधनैरिति श्रीमम्मटाचार्याशयो नास्ति केमिपि शेमुखी जुषामविदितः । इत्थमहं विविधं विचिन्त्य इममेव निकष 'लभे, यध्वनिकारें- प्रकाशकारयोरेव कथनं सुसंगतं विद्यते । तदनुसररेण गुणालङ्कारः भेदमीमांसां संक्षेपेण प्रस्तौमि--- गुरगाः अलङ्कार १. रसधर्माः। १. शब्दार्थधर्माः । २. अनिवार्याः । २. ऐच्छिकाः। ३. सदा रसोत्कर्षकाः । ३. (क) यदा-कदा रसोत्कर्षकाः । (ख) यदा-कदा रसापकर्षकाः । (ग) यदा-कदा उक्तिवैचित्र्यमात्रा- वहाः। सम्प्रति अहं विश्वसिमि यदेतावता विवेचनेन गुणालङ्कारभेदो विशदं स्पष्टीभूतो भवेत् । अतोऽग्रे 'विद्वत्स्वलं पल्लवितेन' इति धिया विस्तराद् विरमामि । Collcsy KOT उपमा कालिदासस्य कविकुलकमलदिवाकरो निर्जरभारतीभक्त: कविताकामिनी- कान्तो वाणीविलासो महाकविकालिदासो न केवलेऽस्मिन् 'भारते भारतवर्षे एव, अपितु सर्वस्मिन् विश्वस्मिन् महता समादरेण संस्म्रियते, इत्यस्मिन् विषये कस्यापि संसेवितसंस्कृतसाहित्यस्य जनस्य वैमत्यं भवितुं नैव शक्नोति । विद्वांसो विदन्त्येव यदनेन सारस्वतसत्त्वसम्पन्नेन कविवरेण कालिदासेन रघुवंश-कुमारसम्भव- मेघदूत-अभिज्ञानशाकुन्तल-विक्रमोर्वशीय-मालविकाग्निमित्र-ऋतुसंहार संज्ञकानि रसभावादिपरिमलमिलितानि उपमाद्यलङ्काररोचक- रङ्गरञ्जितानि सहृदयचित्तचञ्चरीकचुम्बनाएरिण काव्यप्रसूनानि निर्माय संस्कृतसाहित्योद्यानस्य अद्यावधि अनुपमा श्रीवृद्धिर्विहिता- स्ति । अत्र काचिदपि संशीतिर्नास्ति यदेतदीयस्यैव साहित्यस्य प्रभावेण विदेशेष्वपि भारतीयसाहित्यस्य महिमा गरिमा च प्रसारं प्राप्तवानस्ति । अभिज्ञानशाकुन्तलं पठित्वा तु गेटेमहोदयो नतितुमेव प्रारब्धवानासीत् । एवंगुणगणविशिष्टस्य सकलक विकुलपुङ्गवस्य कालिदासस्य कवितायां रसभावादीनां तु समवायो विद्यते एव, किन्तु तत्र सहृदयचित्तचमत्कारकाणामलङ्काराणामपि साधी- यान् सन्निवेशो वर्तते । यतोहि कालिदासोऽज्ञासीद् यद् रसभाववती सत्यपि कविताकामिनो यदि समुचितालंकारैरप्यलङ्कृता स्यात्, तर्हि सचेतसां चेतोमोदाय भृशं प्रभवति । मन्ये, अत एवायं रसवादी विर्भूत्वापि स्वकोयाया: सरसकविताकामिन्या. कोमलां शब्दार्थ तनुलतां समुचितालङ्काराणां ललितसन्निवेशेनापि समलङ्कृताम- कार्षीत् । यद्यप्ययं महाकविः काव्यशास्त्रानुमोदितानां समस्तानामेव अनुप्रासादोनां शब्दालङ्काराणाम्, उपमादीनामर्यालङ्काराणां च रोचक प्रयोगविधाने सर्वत्रैव स्वीयं कौशलं प्रकटयामास, किन्तु मर्मस्पृक् उपमा कालिदासस्य उपमालङ्कारसन्निवेशे तु एतदीयं कौशलं नूनमेव सर्वश्रेष्ठमस्ति । अस्याः प्रयोगे तु अयं सर्वानेव महाकवीनतिशेतेतमामित्यत्र केषामपि साहित्यजुषां विदुषां विसंवादो नास्ति । अथात्र प्रश्नोऽयमप्युदेति यद् उपमालङ्कारस्य परिभाषा कास्ति । इमं प्रश्न समाधातुमत्र कतिपयेभ्यः काव्यशास्त्रीयनन्थेभ्यः काश्चि- दुपमापरिभाषाः प्रस्तूयन्ते । यथाहि- (क:) “यत्किञ्चित्काव्यबन्धेषु सादृश्येनोपमीयते । उपमा नाम सा ज्ञेया वराकृतिगुरगाश्रया ॥” इति भरत- स्य, (ख:) "उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ।" इति वामनस्य, (गः) "उभयोः समानमेकं गुरणादि सिद्धं भवेद् यथैकत्र । अर्थऽन्यत्र तथा तत्साध्यत इति सोपमा त्रेधा ॥” इति रुद्रटस्य, (घ:) "विवक्षितपरिस्पन्दमनोहारित्वसिद्धये । वस्तुनः केनचित्साम्यं तदुत्कर्षवतोपमा ॥” इति कुन्तकस्य, (ङ:) प्रसिद्धरनुरोधेन यः परस्परमर्थयोः । भूयोऽवयवसामान्ययोगः सेहोपमा मता ॥” इति भोज- राजस्य, (च:) "साधर्म्यमुपमा भेदे” इति मम्मटस्य, (छः) "स्वतः सिद्धन भिन्न सम्मतेन च घमंतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥" इति विद्या- नाथस्य, (ज:) “साम्यं वाच्यमवैधम्यं वाक्यैक्य उपमा द्वयोः।" इति विश्वनाथस्य, (झः) " सादृश्यं सुन्दरं वाक्यार्थोपस्कारमुपमालङ्कृतिः" इति च जगन्नाथस्य, एतासां सर्वासामुपमापरिभाषाणां परिशीलनेन तथ्यमिदं स्फुटति यत्कवीनां काव्यसंसारे एकस्मिन्नेव वाक्ये कविकल्पित .

७४ संस्कृत-निवन्धावली उपमानोपमेययोः वैषम्यरहितं सुन्दरं वाक्यार्थशोभोत्कर्षाधायकं च सादृश्यमेव उपमालङ्कारपदेनाभिधीयते । एषोपमा कामिनीभाले सिन्दूरबिन्दुरिव कविताकलेवरे शोभमाना मन्यते मनीषिभिः । एव- ञ्चानेकेष्वलङ्कारेषु उपमाया एव भावभङ्गिमत्वाल्लोके एतद्विषये प्रशंसापुरस्सरम् एतदप्युच्यते यद्- "उपमैका शैलूषी सम्प्राप्ता चित्रभूमिकाभेदान् । रञ्जयति काव्यरङ्ग नृत्यन्ती तद्विदां चेतः॥” इति ॥ अथाने अहमस्मिन् सीमितसमयलेखनीये स्वीये लेखे महाकवि- कालिदासस्य काव्येषु वरीवृत्यमानं मनीषिभिर्मन्यमानञ्च अनुपमम् उपमावैभवं भवतां पुरस्तादत्र यथामति स्थालीपुलाकन्यायेनोपस्था- पयामि । श्यतां तद्यथा- (१) "वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥" यथा वाणी अर्थश्च परस्परं सम्पृक्ती भवतः, तथैव पार्वती परमेश्वरश्चापि परस्परं संश्लिष्टौ तिष्ठतः । अतो वागर्थवैभवला- भाय जगतः पितरौ तौ पार्वतीपरमेश्वरौ वन्देऽहमितिकालिदासा- भिप्रायः । अत्र उपमेययोः पार्वतीपरमेश्वरयोः उपमानाभ्यां वागर्थीभ्यां सहोपमा दत्तास्ति; एवं परस्परं सम्पृक्तीभावस्य साधा- रणधर्मता तथा इवशब्दस्य उपमावाचकशब्दताप्यत्र स्फुटमेव दरी- दृश्यते । तस्मादत्र पूर्णोपमा विराजते । (२) "तस्याः खुरन्यासपवित्रपांसु- मपासुलानां धुरि कीर्तनीया। मागं मनुष्येश्वरधर्मपत्नी श्रुतेरिवाथं स्मृतिरन्वगच्छत् ॥" येन प्रकारेण स्मृतिः श्रुते रर्थमनुस रति, तेनैव प्रकारेण मनुष्येश्- वरधर्मपत्नी सुदक्षिणा नन्दिन्याः मार्गमनुससार । यद्यप्यत्र सुदक्षि- गायाः उपमानं स्मृतिः, नन्दिन्याः उपमानं श्रुतिः, नन्दिनीमार्गस्य चोपमानं श्रुत्यर्थो वर्तते, तथापि प्राधान्येन सुदक्षिणाया एव उपमेयता तथा स्मृतेरेवोपमानता प्राकाश्यमानीतास्ति कविना, उपमा कालिदासस्य यदर्थमनुसरणमुभयोरेव साधारणधर्मत्वेन निरूपितमस्ति, इवशब्द- श्चात्र उपमावाचकशब्दत्वेन प्रयुक्तोऽस्ति । अतोऽत्रापि पूर्णोपमा- याश्चमत्कारोऽनुभूयते सहृदयः । (३) "पुरस्कृता वर्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्त्या। तदन्तरे सा विरराज धेनुर दिनक्षपामध्यगतेव सन्ध्या ॥" सुदक्षिणादिलोपयोर्मध्ये विद्यमाना नन्दिनी दिनक्षपामध्यगता सन्ध्या इव शुशुभे । अत्र सुदक्षिणा-दिलीपयोरन्तराले विराजमाना- या: पाटलवर्णायाः नन्दिन्या: क्षपा-दिनयोर्मध्यगतया अरुणाभया सन्ध्यया सह कियन्मनोहरं सुन्दरं साम्यमस्तोति नित्यं सायं प्रकृति- प्रेक्षकाः सहृदया: सुधियः साधु विदन्त्येव । अतोऽस्मिन् पद्ये कवे: सूक्ष्मे क्षिकया प्रस्तुतीकृतोऽयमुपमासन्दर्भो नूनमेव मनीषिणां मनस्तोषाय सुतरामे वालमस्तीति न मे मनागपि विशयः । (४) "तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय । समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ॥" इन्दुमत्याः स्वयंवरसमये सुनन्दा इन्दुमतीम् एकस्माद् राजकुमा- राद् अपरं राजकुमारं निकषा तथैव निनाय, यथा जललहरी मानस राजहंसीम् एकस्मात् पद्मात् अन्यत् पद्म निकषा नयति । दृश्यतान्तावत्, अत्रापि उपमेयभूतायाः सुनन्दायाः उपमानभूतायाश्च जलतरङ्गलेखायाः प्रापणानुकूल क्रियायां कियत्सुन्दरं साम्यं प्रदर्शित विद्यते । (५) "सञ्चारिणी दोपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा सा । नरेन्द्रमागट्टि इव प्रपेदे विवर्णभावं स स भूमिपालः ॥"

७६ संस्कृत-निबन्धावली उपर्युदीरिते एव स्वयंवरे स्वैरं स्वैरं परिभ्रमन्त्याः इन्दुमत्याः राजमार्गे रात्री सञ्चरन्त्या दीपशिखया, तथैव च रङ्गभूमिमार्ग- मुभयतः सन्तिष्ठमानानां राजकुमाराणां राजमार्गमुभयतो विद्यमानः प्रासादेयंत्साम्यं कालिदासेन समुन्मीलितमस्ति, तत्तु सूक्ष्मेक्षिकावतां विपश्चितां नूनमेव मनोमोदाय कल्पतेतमाम् । अहो ! धन्यास्ति सूक्ष्मनिरूपण निपुणा विलक्षणा विचक्षणा नवनवोपमानान्वेषण- परायणा च महाकवेः कालिदासस्य इप्टिः । यथा राजपथे रात्री प्रयान्ती दीपशिखा पृष्ठत्यक्तेषु प्रासादेषु तिमिरम् (अग्रवत्तिषु च ज्योतिष्पुज) प्रसारयति, सुतरां तथैव स्वयंवरे चनन्तीन्दुमती पृष्ठत्यक्त'षु राजकुमारेषु नैराश्यम् (अग्रवत्तिषु च समुत्साह) विस्तारयामास, इति सुतरामेव स्वभावि- कम् । अत एव च यथा राजपथे दोपशिखया यो यः प्रासादः पृष्ठे त्यज्यते, स स तिमिरावृतो भवति; तथैव स्वयंवरे इन्दुमत्या यो यो राजकुमारः पृष्ठे त्यक्तः, स स नैराश्यावृतो बभूवेति कालिदासस्य कथन कस्य सचेतसश्चेतसि सरसं चमत्कारं नोवेलयति ? अहन्तु मन्ये विश्वसिमि च यदेनामुपमामनुभूय सर्वेषामेव सहृदयानां जनानां हृदयानि नितरां प्रसीदन्तीत्यत्र न कस्यापि कापि संशीतिकणिकापि । अत्रेदमपि समुल्लेखनीयमस्ति यदस्या एवानुपमाया उपमाया मायायाः प्रभावातिशयेन प्रभावितो भूत्वा समीक्षासंसारो महाकवये कालिदासाय दोपशिखोपाधिमपि प्रदत्तवानस्तीत्यस्माकं कृते महतो मोदस्य विषयः । (६) "दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा। पुपोष लावण्यमयाविशेषान् ज्योत्स्नातराणीव कलान्तराणि ॥" अस्मिन् पद्ये बाल्यकाले पितुर्गेहे परिवर्धमानायाः पार्वत्याः उपमा शुक्लपक्षे प्रतिदिनं वृद्धि वजन्त्या चन्द्रले खया सह दत्तास्ति, या पाठकानां वित्तपटलं सुतरां प्रीणयति । अत्र उभयनिष्ठो देहविकासः परमालादजनकता च साधारण धर्मोऽस्ति ।

उपमा कालिदानस्य ७७ (११) "मुनिव्रतस्त्वामतिमात्रकशितां दिवाकरप्लुष्ट विभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ।।" अत्रापि पार्वत्याः उपमा शशाङ्कलेखया समं दत्तास्ति । किन्त्वत्र उभयनिष्ठा क्षीणता दयनीयता चैव साधारणधर्मोऽस्ति । किन्तु इयमप्युपमा सहृदयस्य पाठकस्य हृदयं साधु संस्पृशतीत्यत्र कस्यापि मतिमतो वैमत्यं नैव भवितुमर्हति । अथाने उपमालकारसमन्वितानि कानिचित् समुद्धरणानि समयस्य परिसीमितत्वात् निर्व्याख्यान्यपि प्रस्तूयन्ते । यथाहि- (१) "इत्याख्याते पवनतनयं मैथिलीवोन्मुखो सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैवम् । श्रोष्यत्यस्मात्परमवाहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात्किञ्चिदूनः ।। (उत्तरमेघात्) (२) "गच्छति पुरः शरीरं घावति पश्चादसंस्तुतं चेतः । चोनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥" (शाकुन्तलात्) (३) "वत्से ! सुशिष्यपरिदत्ता विद्येवाशोचनीयाप्ति संवृत्ता।" (शाकुन्तलात्) (४) "अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । बद्धमित्र स्वैरगतिर्जनमिह सुखसङ्गिनमवेमि ॥" (शाकुन्तलात्) (५) "एषा मनो मे प्रसभं शरीरात पितुः पदं मध्यममुत्पतन्ती। सुराङ्गना कर्षति खण्डिताग्रात सूत्रं मृणालादिव राजहंसी ॥" (विक्रमोर्वशीयात्) (६) "अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नवसंरोपरगशिथिलस्तरुरिव सुकरः समुद्घर्तुम् ।।" (मालविकाग्निमित्रात) !

७८ संस्कृत-निबन्धावलो - (७) "काशांशुका विकचपद्ममनोजवक्त्रा सोल्यादहंसरवनूपुरनादरम्या । प्रापक्वशालिरुचिरानतगात्रयष्टिः प्राप्ता शरन्नववधूरिव रूपरम्या ॥" (ऋतुसंहारात्) -इत्येतेषु समस्तेष्वेव स्थलेषु कालिदासीयम् उपमावैभवं सर्वैरेव सहृदयविद्वज्जन नितरामनुबोभूयते । वस्तुतो महाकवेः कालि- दासस्य सकलशास्त्रपारङ्गतत्वाद् उपमानक्षेत्रमपि सु विशालमासीत् । अत एव, तदुपमानक्षेत्रवैविध्येन एव, तदोया उपमाः बहुविधा: रष्टिपथमायान्ति । तासु काश्चित् शास्त्र सम्बद्धाः, काश्चित्प्रकृति- सम्बद्धाः, काश्चिदमूर्तभावसम्बद्धाः, काश्चिच्च प्रकीर्णविषयसम्बद्धाः अपि सन्ति । एताश्च समस्ता एवोपमाः सचेतसां चेतांसि चमत्कु- र्वन्ति, मनीषिणां मनांसि रमयन्ति, मतिमतां मती: मोदयन्ति, सहृदयानां हृदयानि ह लादयन्ति, धीधनानां च धियो वर्धयन्ति, इत्यत्र केषामपि शेमुषोजुषां विदुषां विसंवादो नास्तीति सुतरां सत्यमस्ति। वस्तुतस्तु कालिदासीयासूपमासु उपमेयोपमानयोः सौन्दर्य सम- न्वितसाम्यशंसिनी सर्वविधौचिती सुतरां समुपलभ्यते । अत एव तासां सौष्ठवं स्वाभाविकं सत् सचेतसां चित्तभूमि सुतरां सत्वरं सर्वतश्च व्याप्नोति । एतेनैव हेतुना 'उपमा कालिदासस्य' इत्याख्या विद्व- ल्लोकख्यातिरपि प्रख्याता जातास्ति । अहं मन्ये यदेतेनैव तदीयेनो- पमावैभवेन प्रभावितो भूत्वा कश्चिदभिरूपस्तदीयामनुपमामपि काव्यवाणी मालोपमया उपमितवान स्ति । यथा- "अस्पृष्टदोषा नलिनीव हृष्टा हारावलीव ग्रथिता गुरगौघः। प्रियाङ्कपालीव विमर्दहृद्या न कालिदासादपरस्य वारणो॥" अथ चाहमपि अन्ते- कवीनां कालिदासोऽस्त्यलङ्काराणां तथोपमा। कालिदासोपमाकोत्ति क्षमो वक्तुं न मादृशः ।। -इति स्व (एतन्निवन्ध लेखक डॉ० हरिनारायण दीक्षित) विरचितं पद्यं विलिख्य निबन्धविस्तराद विरमामीति दिक् । - भारवेरर्थगौरवम् गोरिणगिरो गगने रवेरिव भासमानस्य महाकवेर्भारवेरेकमात्रेण अष्टादशसर्गात्मकेन किरातार्जुनीयाख्यमहाकाव्येन साम्प्रतं के नाम सुरभारतीषुषो भारतीया: सुपरिचिता नैव सन्ति ? संस्कृत साहित्य- सर्जनायाः पाण्डित्यप्रधानायां शैल्यां विरचितेषु संस्कृतमहाकाव्येषु महाकाव्यमेतत् नूनमेवाद्यं महाकाव्यमस्तीत्यस्मात्कारणात्तद्रचयिता महाकविर्भारविरेव एतस्याः पाण्डित्यप्रदर्शनपटीयस्या: विविधचित्रा- लंकारभारगरीयस्याः द्रढोयस्याः शैल्या: प्रवर्तको मन्यते मनीषिभि- रिति विज्ञातच रमेव विदुषाम् । एतदनन्तरं तु माघ-रत्नाकरादिभि- रन्यरनेकर्महाकविभिरियमलङ्कारबहुला वैदुष्यविपुला पाण्डित्यप्रब- ला सबला साहित्य सृष्टिशैली सुतरांसमङ्गीकृता, परां च परिपुष्टिमा- नीता। उल्लेखनीयमस्ति यन्महाकवे रवेरेव किरातार्जुनीयाख्यं महा- काव्यमेतद् बृहत्वय्या: अपि आद्यमहाकाव्यत्वगौरवं सगौरवं बित्ति। अपरे चोभे महाकाव्ये महाकविमाघप्रणीतं शिशुपालवधाख्यं तथा महाकविश्रीहर्षप्रणीतं नैषधीयचरिताख्यं मन्यते । किन्तु केचिन्न- वीना विद्वज्जना नैषधीयचरितस्य स्थाने महाकविरत्नाकरविरचितं हरविजयाख्यं महाकाव्यं वृहत्वय्यां परिसंख्यातुं कामयन्ते । यद्यपि सम्प्रति किरातार्जुनीयाख्यं महाकाव्यं परिहाय महाकवे- भारवे: काचिदपि प्रन्या कृति!पलभ्यते, तथापि तदोयकोत्तिकामि- न्या: कमनीयतायां कापि न्यूनता केनापि नानुभूयते । अत एवाहं मन्य यद् 'वरमको गुणी पुत्रो नच मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति नच ताराशतान्यपि ॥ इति कथनं भारविविषये इदानीमक्षर- शश्चरितार्थ बोभूयमानमस्ति । अत्र काचिदपि संशोतिर्नास्ति यद् भारवि: स्वसमसामयिके संस्कृतसाहित्यकारसमाजे किमपि अतिविशिष्टमेव यशोऽधिगन्तुं संस्कृत-निबन्धावलो -- स्वीयेऽस्मिन्महाकाव्ये स्याने स्थाने निज समुत्कृष्टं विविधं पाण्डित्य- पाटवं प्रकटयामास । एतेनैव कारणेन तदीयेऽस्मिन् महाकाव्ये काव्य- कलायाः कलापक्षो भावपक्षापेक्षया महत्प्रागल्भ्यं प्राप्तवानस्ति । अत एव केचिदाधुनिका: समीक्षकास्तत्र काठिन्यकल्पनानपि प्रकुर्वन्ति । किन्तु वन्नुतो यदि येत, तर्हि तदीयमहाकाव्यगनकाठिन्यमेतत् नारिकेलफनोपरिभागगत काठोयमिव एव प्रतीयेन; यदन्तर्भागे सरसमरसं सौरस्यं सुतरामेव सुलभं भवति । मन्ये मल्दिनाथेन एत- देवानुभूय इदमुक्तमस्ति यद्- "नारिकेलफलसंमितं वचो भारवेः सपदि तद् विभज्यते । स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम् ॥" एवं सत्यपि मम्प्रति समोलकागां समाजे किगतार्जुनीयमहा- काव्यकारस्य महाकवेरियर्यावतो प्रशंसा तत्काव्यान्तर्गनार्थगौरव- कारणाद् भवति, तावती नान्यम्मात तदीयरममावरोत्यलंकारादि- संनिवेशकोगलकारणादिति तथ्यमद्य केषामपि समोक्षाजगज्जुषां विदुषां तिराहितं नास्ति । अत एव साम्प्रतिकेषु समोक्षकेषु अयमद्या- मणकोऽपि निशम्यते यद "उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिन: पदलालित्यं माघे सन्ति त्रयो अय जनानां जिनामा जायते यदिदम् अर्थगौरवम् अस्ति किम् ? एतत्समाधये वक्तुं गक्यते यद् यत्र वाच्यार्थ तु मंक्षेपो भवेत्, किन्तु तदीये भादार्थ भूयान् गरिना भवेत्; महिमा भवेत; द्रढिमा भवेत्: तस्माच्चान्यस्य कस्यापि सर्वजनीनस्यार्थस्य प्रभवो भवेत; सहृदय- हृदये सावीयमी संविदुदयेत्; जनमानसपटले पटीयसी पटुता प्रस्फुटेत काव्यस्य मकन लोकोपयोगिता च संमिद्ध्येत: तत्र नूनमेव तत्का- व्यान्तर्गतं वस्तुव्यङ्ग्य तदर्थगौरवमेव मन्तव्यमिति ममागयो मन्ये मनीषिणामपि मान्यो भविष्यति । अथाहं स्वलेखनीलेखनोयनिवन्धानुसारेण महाकवेरिवेः अर्थ- गौरवसिसावयि पया किरातार्जुनीयाध्यान्महाकाव्याद् अर्थगौरवा- न्त्रितानि कति पानि पद्यानि तदन्तनिहितार्थ गौरवममुन्मोल नपुरस्सरं भवतां पुरस्तादत्र प्रस्तोमि । गुरगाः ।।" इति भतवेरर्थगौरवम् ८१ यथा- (१) "क्रियासु युक्तैनूप ! चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साघु वा हितं मनोहारि च दुर्लभं वचः ।। राज्ञो युधिष्ठिरस्य गुप्तचरो वनेचरो दुर्योवनोदन्तजातं विदित्वा पुनद्वैतवनमागत्य युधिष्ठिरं ब्रूते यद् राजन् ! अहं मन्ये यद् अनुजी- विभिर्गुप्तचरैः मिथ्यामाधुर्यमिश्रितं वृत्तान्तं विनिवेद्य राजानो नैव वञ्चनीयाः । अत एवाहं यदि अप्रियमपि सूचयेयम्, तर्हि भवता क्षन्तव्योऽस्मि । यतोहि हितकारिणि वचने मनोहारिता प्रायेण दुर्लभा एव भवति । अस्मिन् पद्ये 'हितं मनोहारि च दुलभं वचः' इत्यात्मकमति- संक्षिप्तमंशजातं भारवेरर्थगौरवमेव संसूचयति । प्रकृत-प्रसंगं परि- हायापि मानवजीवनस्य सर्वेष्वेव क्षेत्रेषु इदं कथनं साधुतया संग- च्छते । यतोहि अयं कोऽपि नियमो नास्ति यद् हितकरं वचनं मनो- हरमेव भवति, तदप्रियमपि भवितुं शक्नोति; एवमेव मनोहरं वचनं हितकरमेव भवतीत्ययमवि नियमो नास्ति, तद् अहितकरमपि भवितुं शक्नोति । इत्थमेव एषोऽपि कोऽपि नियमो नोस्ति यद् अहितकरं वचनम् अप्रियमेव भवति, तत्प्रिययमपि भवितुं शक्नोति, तथा अप्रियं वचनम् अहितकरमेव भवतीत्येषोऽपि नियमो नास्ति, तद् हितकर- मपि भवितुं शक्नोति । अत एव सर्वथा सुविचार्य 'वक्तुर्वचनं हित- करम् अहितकरं वा' इत्येव श्रोत्रा साधु सन्धार्य वक्तरि प्रसाद: प्रकोपो वा यथायथं विधातव्यः तथा तदीयं प्रियत्वमप्रियत्वञ्च समु- पेक्षितव्यमेव । यतोहि प्रियता अप्रियता वा तु सम्बद्धवाच्यविषयाश्रिता भवति, तत्र तथ्यवक्तुर्न काचिदपि गतिर्भवतीति भारवेराशयो नूनमेव तदीयमर्थगौरवगुरुत्वं संसाधयतीति न मे संशयः । (२) "स किसखा साधु न शास्ति योऽधिप हितान्न यः संशणुते स फिम्प्रभुः । सदानुकलेषु हि कुर्वते रति नृपेष्वमात्येषु च सर्वसम्पदः ॥"

संस्कृत-निबन्धावली ८२ अत्रापि हितकरस्योपदेशस्य सचिवकर्तृ कं दानं (वचन) राज- कत कं चादानं (श्रवणं) समानेन सम्मानेन प्रशंसित विद्यते; यस्मिन् यदि कस्माच्चिदपि पक्षात्प्रमादो भवति, तर्हि नूनं तत्रापदो भवन्तीति- भारवेर्मतं सार्वकालिकं सत्यं सत्स्वीयमर्थगौरवं साधुतया प्रकाशय- तीत्यत्र कस्यापि मतिमतोऽद्यापि वैमत्यं नास्ति । । (३) “तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्र गुरणसम्पदा यशः । समुन्नयन्भूतिमनार्यसङ्गमाद् वरं विरोधोऽपि समं महात्मभिः ।" सद्गुणगणशालिनं युधिष्ठिरं जेतुकामो जिह्मो दुर्योधनोऽपि प्रजासु दानदाक्षिण्यादिगुणसम्पत्सम्पादनपुरस्सरमात्मनो गुणवत्तरता प्रकटयतीति प्रेक्ष्य गुप्तचरो याथातथ्येन तत्सर्वं युधिष्ठिराय विनिवेद्य विशदयति यद् दुष्टजनमित्रतापेक्षया तु साधुजनशत्रुतापि साधीयसी भवति । यतोहि शत्रुत्वेन मतं तसाधुजनं जेतुं दुर्गुणी जनोऽपि सद्गुणांस्तु अर्जयति । अत्रापि भारविसमुद्भावितः साध्व- साधुजनगतव्यवहारविवेकस्तदीयमर्थगौरवमेवोद्दीपयतीत्यपि विवे- किनां सुविदितमेव । (४) "वजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधा- नसंवृताङ्गान्निशिता इवेषवः ॥" महाकाव्यस्य नायिका भारतवर्षाधीश्वरी द्रौपदी युधिष्ठिरं यद् ये जना मायाविषु जनेषु मायिनो न भवन्ति, ते मूर्खा: सन्ति तथा पराभूता अपि भवन्ति । यतोहि त एव मायाविनो धूर्ताः शठा: पुरुषास्तान् सरलचेतसो जनान् तथैव सारल्येन घ्नन्ति, यथा प्रबलपुरुपप्रेरितास्तीक्ष्णा: शराः कवचहीनान् दुर्बलान् जनान् अना- यासेनैव घ्नन्ति । अत्र भारवेराशयोऽस्ति यत् शठेन सह शाठ्यमेव समाचरणीयम् । अर्थात्, मायाचारो मायया एव निरसनीयः । यो जनः स्वचित्तसारल्यात् शठेषु शाठ्यं नाचरति, स नूनमेव नश्यति । प्रबोधयति यद् मतवेर्यगौरवम् तस्मात् 'पार्जवं हि कुटिलेषु न नीतिः' इति निर्गलितो भार- वेरर्थोऽत्रापि निजमर्थगौरवं नितरां प्रकटयतीति न कापि संशीतिक गिका। " (५) "इयमिष्टगुरणाय रोचता रुचिरार्था भवतेऽपि भारती। ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः॥" अत्र भोमसेनो युधिष्ठिरं ब्रूते यद् द्रौपदोसमुदीरितं रुचिरार्थ वचो भवता इष्टगुणत्वाद् ग्राह्यमेवास्तु । यतोहि विद्वांसस्तु वचनम्य गुणान् गृहन्ति; इदं न विचारयन्ति यदस्य वचनस्य वक्ता कोऽस्ति । अर्थात्, सुभाषितं तु बालादपि कलत्रादपि च ग्राह्यम् । यतोहि विद्वान् स एवास्ति यो वक्तुर्वयोलिङ्गवर्णादिविचारं न कृत्वा वचनस्य गुणान् हृदा मुदा च गृह्णातीति भारवेर्भावोऽद्यापि सर्वेषां कृते हृद्यानवद्यो बोभूयमानो निजमर्थगौरवमेव परिपुष्णाति । अथाग्रे संक्षेपेणैव सन्दर्भहीनं तदीयमर्थगौरवमुपस्थाप्यते । यथा--पराक्रमेणैव समृद्धयोऽनुभूयन्ते, नतु विषादेन; इति प्रतिपाद- यन भारविलिखति यद्-- 'निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः' इति । सहसा किमपि कार्य नैव करणीयम् । एतेन हानि- रपि सम्भवति । विमृश्य कार्यकर्तारं जनं सदैव सफलता समालिङ्ग- तीतिसन्देशदानकामनया स ब्रूते--'सहमा विदधीत न क्रियामविवेक: परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ।।' इति । तन्मतेन राज्ञा सदैव राजनीतिमता भवितव्यम् । इतरथा स मन्यते यद् –'नयहीनादपरज्यते जनः' इति । तदोयो नि- योऽस्ति यत्सत्पुरुषेषु तु महात्मानोऽपि पक्षपातं कुर्वन्ति । अतो लिखति स यद् - 'वोतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः' इति । एवमेव पराक्रमेणैव रणे जयो लभ्यते; अतस्तदर्थ यल्लो विधेयः, इति मन्यमानो निदिशति स यद्-'प्रतः प्रकर्षाय विधिविधेयः प्रकर्षतन्त्रा हि रणे जयश्री:' इति । रागद्वेषाभिभूता जना; सत्पुरुषमपि प्रपीडयन्तीति संसूचयन् स वक्ति-'मात्सर्यरागो- ८४ संस्कृत-निबन्धावली पहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि' । स्वाभाविकं सौन्दर्य विभूषां नापेक्षते, इति भावनयाभिधते सः-'न रम्यमाहार्यमपेक्षते गुणम्' । तदीयदृष्टौ प्रियतायै गुणा अपेक्ष्यन्ते, नतु परिचयः सम्बन्धो वा, इति धिया स लिखति – 'गुणाः प्रियत्वेऽधिकृता न संस्तवः' । यद्यपि मुखरता श्रेयसी न मन्यते, किन्तु उचितावसरे सापि शोभते, इति मनसा लिखति स:-'मुखरतावसरे हि विराजते' । श्रेयोलाभ- मागे प्रभूता विघ्ना भवन्त्येव; अतस्तदुपशमायापि नरेण सज्जेन भाव्यमिति संसारं सूचयितुं स लिखति-'श्रेयांसि लब्धुमसुखानि विनान्तरायः' । गुणा: सर्वानेव वशीकुर्वन्तीतिधियाभिधत्ते स:- 'कमिवेशते रमयितुं न गुणा:' ? एवमेव आकर्षणं तु प्रेमिण भवति, नतु वस्तुनि, इति निर्देशदानाय लिखति-'वसन्ति हि प्रेमिण गुणा न वस्तुनि' । यदा मनुष्यस्य मनो दुःखितं भवति, तदा तस्मै किमपि रम्यमपि वस्तु नैव रोचते, इति सिद्धान्तं प्रतिपादयन् स वक्ति- 'दुखिते मनसि सर्वमस ह्यम्' । मदिरा नूनमेव स्वसेविनो मनोगतं गुणं दोषं वा प्रकटीकरोतीति प्रकटयन् स लिखति–'कारयत्यनि- भता गुणदोष वारुणी खलु रहस्यविभेदम्' । विजयाभिलाषिणो जना नौतिमार्गात् नैव प्रविचलन्नीत्यनुभूय समुपदिशति – 'चलति नयान्न जिगीषतां हि चेतः' । इतरत्सवं सर्वदा सुलभम्, किन्तु स्नेहवती निजानुरूपा च युवतिर्दुर्लभा भवतीतिभावं मनसि निधाय प्रस्फुटं ब्रूते स:-'पुनरपि सुलभं तपोऽनुरागी युवतिजन: खलु नाप्यतेऽनुरूपः' इति । स्पष्टमस्ति यदेतेषु समस्तेष्वेव स्थलेषु महाकवे रवेरर्थगौरवं वस्तुव्यङ्ग्यं काव्यमिव सहृदयानां हृदयानि प्रीणयितुं सुतरां समर्थ- मस्तोत्यत्र केषामपि धोजुषां विदुषां विवादो भवितुं नाहतीति मे मतिरस्ति । अथाने भार वेरर्थगौरवान्वितानि कानिचिद् वाक्यानि स्वसमयस्य परिसीमितत्वादत्र भावार्थविहीनान्यपि प्रस्तूयन्ते । तानि यथा- (१) "अविज्ञातेऽपि बन्धौ हि बलात्मह लादते मनः।" (२) "सुलभा रम्यता लोके दुर्लमं हि गुणार्जनम् ।

भारवरगोर्थ रवम्
(३) "शरदम्बुधरच्छायागत्वर्यो यौवनधियः।
आपातरम्या विषयाः पर्यन्तपरितापिनः।"
(४) "भोगाम्भोगानिवायानध्यात्यापन्न दुर्लभा।"
(५) "श्रद्धया विप्रलब्धारः प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः॥"
(६) "अविज्ञातप्रबन्धस्य बचो वाचस्पतेरपि ।
अजन्त्य फलतामेव नयह इवेहितम् ॥"
(७) "प्रसन्मैत्री हि दोषाय कूलच्छायेव सेविता।"
1) शक्तिवैकल्यननस्य निःसारत्वाल्लघीयसः ।
जन्मिनो भानहीनस्य तरणस्य च तमा गतिः ।।"
(8) "तरबदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासी यावन्मानान्न हीयते ॥
(१०) "नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्युमान् ॥'
(११) "महतां हि धैर्यविभाध्यवैभवम् ।"
(१२) "किमिवास्ति यन्न तुकरं मनस्विभिः ?"
(१३) “गुरुतां नयन्ति हि गुणा न संहतिः ।"
(१४) “परमं लाभमरातिभङ्गमाः
(१५) “मित्रलाभमनु लाभसम्पदः।"
(१६) "संवृणोति खलु दोषमज्ञता।"
(१७) 'विविक्तवर्णाभरणा सुखश्रुतिः
प्रसादयन्ती हृदयान्यपि विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मरणां
प्रसन्लगम्भीरपदा सरस्वती"
"
(१८) "भवन्ति ते सभ्यतमा विपश्चितां
मनोगतं वाचि निवेशयन्ति ये।
नयन्ति तेष्वप्युपपन्न नेपुरणा
गभीरमर्थ कतिचित्प्रकाशताम् ॥"

संस्कृत-निवन्धावली " (१६) "स्तुवन्ति गुर्वोमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः। इति स्थितायां प्रतिपूरुषं रुची सुदुर्लभाः सर्वमनोरमा गिरः॥" (२०) "प्रयातपूर्वा परिवादगोचरं सतां हि वारणी गुरणमेव भाषते।" (२१) "व्रताभिरक्षा हि सतामलकिया।" (२२) "सहापकृष्टमहतां न सगतं भवन्ति गोमायुसखा न दन्तिनः।' (२३) "नातिपोडयितुं भग्नानिच्छन्ति हि महौजसः ।" स्यालीपुलाकन्यायेनात्र उपरिसमुद्धृतानि इमानि कतिपयानि भा- रवीयवाक्यानि तदोयस्य विविधस्य लोकनपुरणीबोधकस्य अर्थगौरवस्य परिपुष्टये पर्याप्तानि सन्तीत्यत्र मन्ये समेषामेव शेमुषीजुषां सहमतिः सम्पत्स्यते । एतेषु सर्वेष्वेव वाक्येषु लोकसन्देशसौन्दर्यपुरस्सरं जनमा- नसोपदेशपूर्वकं च भावार्थस्य गाम्भीर्य्यमनुभूय सर्वेषामेव सचेतसां चे- तांसि चमत्कृता निजायन्ते तथा परमालादमाप्नुवन्तीत्यत्र मम मनसि मनागपि संशयो नास्ति। अतोऽहं मन्ये यत्केनचित्समीक्षकेण इदमन- वद्यमेव उदितमस्ति यद् 'भारवेरर्थगौरवम्'; इत्यलं च पल्लवितेन ।

दण्डिनः पदलालित्यम् सुरभारतीसाहित्ये पद्यकाव्यकाराणामिव गद्यकाव्यकाराणामपि अतिमहत्त्ववती भूयसी च संख्या वर्तते । सुबन्धु-बाण-दण्डि-धनपाल- वादीभसिंह-अम्बिकादत्तव्यास-विश्वेश्वरपाण्डेय-श्रीनिवासादीनां रसभाववद्गद्यकाव्यकाराणां नामानि अद्यतने संस्कृतसाहित्यसमीक्ष- काणां समाजे विपुलादरेण विख्यातानि विद्यन्ते इति संस्कृत- साहित्यममीक्षेतिहासानुशीलनपराणामभिरूपाणां विदितमेवास्ति । एतेषु सुबन्धोर्वासवदत्ता, बाणभट्टस्य हर्षचरितं कादम्बरी च, दण्डिनो दशकुमारचरितम्, धनपालस्य तिलकमञ्जरी, वादीभसिंह- स्य गद्यचिन्तामणिः, अम्बिकादत्तव्यासस्य शिवराजविजयः, विश्वे- श्वरपाण्डेयस्य मन्दारमञ्जरी, श्रीनिवासस्य च चन्द्र महीपतिः स्वीयैः स्वीयैः विशिष्टः सन्तुष्टशिष्टः साहित्यिकैगुणे. संस्कृतसाहि- त्यस्य कमनीयकोत्तिकान्तिपूरं परिवर्धयन्तीत्यपि प्रायेण सर्वे एव संस्कृतसाहित्यविद्वांसो विदन्ति । समीक्षकास्तु इदमपि विदन्ति यत् पद्यात्मकसाहित्य सर्जनापेक्षया गद्यात्मककाव्यसृष्टी भूयसी साधना समपेक्ष्यते । अत एव 'गद्यं कवीनां निकषं वदन्ति' इत्याभरणकोऽपि ख्याति प्राप्तवानस्ति । एतेन सिद्ध्यति यद् गद्यात्मककाव्यकला- काराणां महत्त्वं पद्यात्मककाव्यकलाकाराणामपेक्षया न्यूनं नास्ति, अपितु अधिकतरमेवास्तीति समीक्षकाणां धारणा साधारण्येन सर्वैः रेवाङ्गीविधीयते । यद्यपि सुबन्धु-बाण-धनपालादीनां सर्वेषामेव गद्यकाव्यकाराणां कृतिषु काव्यकलाविषयकारिण सहृदयहृदयहराणि विविधानि वैशिष्ट- यानि समुपलभ्यन्ते, किन्तु पदलालित्यविषये याशी प्रशंसा दण्डिनो विधीयते, तशी नान्यस्य कस्यापि अद्यावधि श्रुतिपथं समायाता- स्ति । सर्वेष्वेव गद्यकाव्यकारेषु तदोयं पदलालित्यं सर्वश्रेष्ठं सर्वश्रेष्ठ च प्रेक्षं प्रेक्षमेव प्रेक्षावद्भिर्विपश्चिद्भिरिदं सामोदमङ्गीकृतं यद्- संस्कृत-निबन्धावली । "उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुरगाः ॥” इति । यद्यपि पदलालित्यपदं स्पष्टार्थमस्ति, तथापि विशदार्थावबोधाय अत्र तदीयो भावो व्याख्यायते । पदशब्दप्रतिपत्तये महषिरणा पारि- निना प्रत्यपादि यत् 'सुप्तिङन्तं पदम्' इति । अर्थात्, सुबन्तं तिङन्तं च पदशब्देनाभिधीयते । एवञ्चात्र प्रयुक्तो लालित्यशब्दो मनोहर- प्रिय-मधुरादिपर्यायस्य ललितशब्दस्य ष्यनि प्रत्यये विहिते सति भाववाचकसंज्ञात्वेन प्रयोगपथमारोहतीत्यादि सर्व शब्दशास्त्रावगा- हनसंजातनिर्मलमतीनां मनीषिणां प्रत्यक्षमेवास्तीत्यहं मन्ये । एवं सति ज्ञाते पदानां लालित्यमिति पदलालित्यमिति षष्ठीतत्पुरुष- समासस्य साहाय्येन शब्दोऽयं निष्पत्ति प्रतिपद्यते; यस्य च भावो भवति यन्मनोहराणां मधुराणां प्रियाणां प्रवाहपूर्णानां मुखसुख- पुरस्सरमुच्चारयितुमहरिणां सनादमाधुर्याणां लयात्मकानां च संज्ञा- शब्दानां क्रियापदानां वा यस्मिन् काव्ये पटीयान् प्रभूतः प्रयोगः प्राप्यते, तत्र समीक्षेक्षिकया पदलालित्यमस्तीति प्रोतिप्रशंसापूर्वक- मुररीक्रियते । अस्माकं चात्र विवेचनीये दण्डिकविकाव्ये एतादृशमेव पदलालित्यमक्षिलक्ष्यीकृत्य निष्पक्षाक्षः स्वकार्यदक्षः समीक्षकैः समी- क्षकः 'दण्डिनः पदलालित्यम्' इत्यात्मिका प्रशंसात्मिका कोात्मिका चोक्तिः प्रीतिपुरस्सरं प्रचारितास्तीति मन्ये मदीयाशये न कोऽपि सदाशयः संशयिष्यते। शाङ्ग घरपद्घत्यां राजशेख राख्यकत्तृ कत्वेन निम्नलिखितेत- समुल्लिखितेन 'त्रयोऽग्नयस्त्रयो देवास्त्रयो वेदास्त्रयो गुरणाः । त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्र ताः ।।" इत्यात्मकेन पद्येन निश्चप्रचमेतत्प्रतिभाति यत्कविना दण्डिना त्रयो ग्रन्थास्तु नूनमेव एवम्भूता विरचिता आसन्, येषां ख्यातिः सर्वत्रैव प्रसृतासीत् । एतेषु त्रिषु ग्रन्थेषु दशकुमारचरितं काव्यादश्चि नूनमेव तस्य मन्येते । किन्तु तदीयस्तृतीयो ग्रन्थो वहुविधविवादग्रस्तो विद्यते । केचन अवन्तिसुन्दरीकथाम्, केचन छन्दोविचितिम्, केचन 'दण्डिनः पदलालित्यम् १६ कलापरिच्छेदम्, केचन द्विसन्धानकाव्यं च तस्य तृतीयकृतित्वेन स्वोकर्तुमाग्रहं कुर्वन्ति । परेमद्यावधि तदीया तृतीया कृतिः कास्तीति सर्वसम्मत्या नैव निर्णीतमस्ति । यतः काव्यादर्शो लक्षणनिरूपणात्मक: काव्यशास्त्रीयो ग्रन्थो विद्यते तथा तृतीया कृतिरद्यावधि विवादग्रस्तास्ति, अतो मया केवलं दशकुमारचरितमेवाश्रित्य दण्डिनः पदलालित्यमत्र भवतां पुरस्तार- प्रस्तूयते । यथा - (१) 'स्वर्लोकशिखरोरुरुचिररत्नरत्नाकरवेलामेखलायितघर- पीरमरणीसौभाग्यभोगभाग्यवान् अनवरतयागदक्षिणारक्षितशिष्ट- विशिष्टविद्यासम्भारभासुरभूसुरनिकरो विरचितारातिसंतापेन प्रतापेन सतततुलितवियन्मध्यहंसो राजहंसो नाम धनदर्पकन्दर्पसौन्दर्यसोदर्य- हृद्यनिरवद्यरूपो भूपो बभूव । तस्य....." लीलावतीकुलशेखरमरणी रमणी बभूव ।" (२) "ततः स रत्नाकरमेखलामिलामनन्यशासनां शासदनपत्य- तया नारायणं सकललोकैककारण निरन्तरमर्चयामास ।" (३) ' मानो मानसारः स्वसैनिकायुष्मत्तान्तराये सम्पराये भवतः पराजयमनुभूय वैलक्ष्यलक्ष्यहृदयो वोतदयो महाकालनिवासिनं काली- विलासिनम् अनश्वरं महेश्वरं समाराध्य तपः प्रभावसन्तुष्टादस्माद भयदां गदां लब्ध्वात्मानमप्रतिभटं मन्यमानो महाभिमानो भवन्तम- भियोक्तुमुधुङ्क्ते ।" (४) "ततः परस्मिन्दिवसे वामदेवान्तेवासी तदाश्रमवासी समाराधितदेवकोत्ति निर्भत्सितमारमूत्ति कुसुमसुकुमारं कुमारमेकम- वगमय्य नरपतिमवादीत् –देव ! विलोलालकं बालकं निजोत्सङ्गतले निघाय रुदतीं स्थविरामेकां विलोक्यावोचम्..... " (५) "कुमारा माराभिरामा रामाद्यपौरुषा रुषा भस्मीकृतारयो रयोरहसितसमीरणा रणाभियानेन यानेनाभ्युदयाशंसं राजानमका- ... र्षः।" (६) " अथ मोनकेतनसेनानायकेन मलयगिरिमहोरहनिरन्तरा- वासिभुजङ्गममुक्तावशिष्टेन..." दक्षिणानिलेन वियोगिहृदयस्थं ६० संस्कृत-निबन्धावली मन्मथानलमुज्ज्वलयन्, सहकारकिसलयमकरन्दास्वादन रक्तकण्ठानां मधुरकलकण्ठानां काकलीकलकलेन दिक्चक्रं वाचालयन्, मानिनी- मानसोत्कलिकामुपनयन्, माकन्दसिन्दुवाररक्ताशोककिंशुकतिलकेषु कलिकामुपपादयन्, मदनमहोत्सवाय रसिकमनांसि समुल्लासयन्, वसन्तसमयः समाजगाम।" (७) ' तदनु विषमं विषमुल्वरणं वमन्तः फरणालङ्करणा रत्न- राजिनीराजितराज मन्दिराभोगा भोगिनो भयं जनयन्तो निश्चेरुः ।' स्पष्टमेवास्ति यदेतेषु समस्तेष्वेव स्थालीपुलाकन्यायेनात्र समुदाहृतेषु स्थलेपु कोमला, मृदुला, मञ्जुला, रसपेशला, नादसौन्दर्य- बहुला, प्रवाहपेलवा, सहृदयहृदयप्रिया, प्रभूता पदशय्या पाठकानां चित्तपटले अमन्दमानन्दसन्दोहं समावेशयतीत्यत्र मन्ये केषामपि शेमुषीजुषां विदुषां विवादो भवितुं नार्हति । न केवलन्तावदेतावदेव, अपितु उत्तरपोठिकाया: सप्तमोच्छवासे मन्त्रगुप्तचरिते तु तेन ओष्ठ्यवर्णविरहितेऽपि स्वकीये काव्यबन्धे पदलालित्यस्य मनोहरो विस्मयकरश्च पटीयान् प्रयोगो विहितोऽ- स्तीति प्रेक्षं प्रेक्षं परमां प्रोतिमापद्यते पाठकानां चेतः। निदर्शनत्वेन कानिचिदत्र स्थलानि प्रस्तूयन्ते । यथा- (१) "गलति च कालरात्रिशिखण्डजालकान्धकारे चलित रक्षसि क्षरितनीहारे निजनिलयनिलीननिःशेषजने नितान्तशीते निशीथे घनतरसालशाखान्तरालनि दिनि नेत्रनिसिनीं निद्रां निगृह, गन् .. खलीकृतः ।" (२) “अथ कदाचिदायासितजायारहितचेतसि लालसालिलङ्घन- ग्लानघनकेसरे राजदरण्यस्थलीललाटलीलायिततिलके..."दक्षिण- दहनसारथि रयाहृतसहकारचञ्चरीककलिके शालीनकन्य- कान्तःकरणसंक्रान्तरागलङ्घितलज्जे दर्दु रगिरितट चन्दनाश्लेषशीतला- निलाचार्यदत्तनानालतानृत्यलीले काले कलिङ्गराजः सहाङ्गनाजनेन ....."क्रोडारसजातासक्तिरासीत् ।" (३) "दिष्ट्या इप्टेष्टसिद्धिः । इह जगति हि न निरीहं देहिनं दण्डिनः पदलालित्यम् ६१ श्रियः संश्रयन्ते । श्रेयांसि च सकलान्यनल सानां हस्ते नित्यसान्नि- ध्यानि ।" (४) “स किल कृतज्ञतां दर्शयन्–'असिद्धिरेषा सिद्धिः, यदसन्नि- धिरिहार्याणाम् । कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याज- यति न च निषेधनीया गरीयसां गिरः' इति स्नानाय गृहानयासीत्।" (५) “अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदीधितिलतां लोलालसं लासयन्ती ललिताञ्चितकरशाखान्तरितदन्तच्छदकिसलया, हर्ष जलक्लेदजर्जरनिरञ्जनेक्षणा रचिताञ्जलि: नितरां जाने यदि न स्यादैन्द्रजालिकस्य जालं किञ्चिदेतादृशम् । कथञ्चैतत्कथय, इति" शनैरगादीत् ।" कथनस्यावश्यकता न प्रतोयते यदत्र सर्वत्रैव ओष्ठ्यवर्णविरहेऽपि पदलालित्यस्य कान्तिपूरै न कापि हानिरनुभूयते । तस्मात् सुतरामे- तत्सिद्ध्यति यत्कवेदण्डिनः पदलालित्यमिदं न केवलेऽस्मिन् संस्कृतसाहित्ये एव, अपितु निखिलेऽपि विश्वसाहित्ये नूनमेव स्वभाव- सिद्धं सत्सर्वथैव सर्वश्रेष्ठमस्तीति मनागपि मे न संशयः । अत एवाह मन्ये यत्कविदण्डिनो वाग्विलासं सरस्वत्याः मरिणदर्पणं मन्यमाना मधुराविजयकाव्यकी गङ्गादेवी सुतरामेव सत्यमाह यद्- "प्राचार्य दण्डिनो वाचामाचान्तामृतसम्पदाम् । विकासो वेधसः पत्न्या विलासमरिगदर्पणम् ॥' इति । मन्ये, एतेनोपरिविहितेन सोदाहरणेन विश्लेषणेन विशदीभूतं भ- वेद् यद् दण्डिन: पदलालित्यस्य याद्यावधि प्रशंसा बोभूयते, सा सुतरां तथ्यपूर्णास्तीत्यत्र मतिमतां वैमत्यं नास्ति सम्भवमित्यलं च भूयसा पल्लवितेनेति विचार्य विरमामि विस्तरभरात् ।

माघे सन्ति त्रयो गुणा: 'माघे सन्ति त्रयो गुणाः' इत्येतत्कथनम् एकस्य श्लोकस्य तुरीये पादे लभ्यते । प्रतः एतद्व्याख्याहेतवे तस्य श्लोकस्यात्र समुद्- घरणं परमावश्यकं प्रतिभाति । श्यतां त श्लोकः एवम्भूतोऽस्ति- 'उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुरगाः॥” इति । एतेन श्लोकेन प्रकटीभवति यत्कालिदासे उपमालङ्कारसन्निवे. शकौशलम्, भारवौ अर्याभिव्यक्तिगरिमा, दण्डिनि च पदलालित्य- मेव केवलं विशेषरूपेण लभ्यते; किन्तु अस्माकमत्र विवेचनीये प्रोड- पाठक प्रणमनीये महाकवी माघे तु उपमाविधानरामणीयकम्, अर्थ- गौरव वारुत्वं तथा पदलालित्यमिति त्रयोऽपि काव्योपकारकाः गुणाः समवेता भूत्वा अहमहमिकया वरीवृत्यन्ते । अत एव । एकस्मिन्नेव माघकवी त्रयोऽप्यन्ये तत्तत्क्षेत्र प्राप्तप्रतिष्ठाः कालिदासभारवि- दण्डिनामानो महाकवयोऽन्तर्भवन्तो विलोक्यन्ते, इति तदीयशिशु- पालवधनामधेयमहाकाव्यामृतपायिनां परिपक्वमतिमतां विपश्चित सुतरामनुभूतवन्मेव। यद्यपि माघविरचितानि कतिपयानि प्रस्फुटानि पचान्यपि समुप- लभ्यन्ते, तयापोदानी विंशतिसर्गात्मकशिशुपालवधनामकमहाकाव्य- व्यतिरिकता तदोया काचिदप्यन्या कृतिर्नोपलभ्यते । अतस्तदीया यशश्चन्द्रिका केवलादस्मादेव महाकाव्यरूपेन्दुवपुपः प्रतरन्त्यपि निखिलं कविविश्वं व्याप्य विद्यते, इत्यत्र नास्ति मतिमत्यं मति- मताम् । अयाहमा उपर्युक्तस्य गुणत्रयस्य महाकवो माघे प्रदर्शनाय तत्तद्गुणपुष्टिविधायकानि कानिचित्तदीयानि पद्यानि प्रस्तोमि । सर्वप्रथमं तावत्तदीयाया उपमाया एव नहृदयचित्तचमत्कारजनकता- मालोकयन्तु सुधियः । यथा- माघे सन्ति त्रयो गुरगाः ६३ । (१) "दयानमम्भोरुहकेसरद्युतीर जटाः शरच्चन्द्रमरीचिरोचिषम् । विपाकपिङ्गास्तुहिनस्थलीरहो घराघरेन्द्र व्रततीततीरिव ॥" अस्मिन् पद्ये महाकविर्माधो गगनादवतरन्तं देवर्षि नारदं धरा- घरेन्द्रेण हिमालयेन उपमिमीते । यतोहि नारद: शारदेन्दुरश्मिघव- लोऽस्ति तथा स्वशीर्ष कमलकिजल्कवर्णाः जटा अपि दघानोऽस्ति । अत एव स महाकविमाघरष्टौ तथैवास्ति यथा हिमधवलो हिमालयपो निजोत्तङ्गतुषारावतस्थलीषु विपाक पिङ्गा: लता: धारयन् भवति । अत्र उपमेयो देवर्षि रदः, उपमानं धराधरेन्द्रो हिमालयः, धवलत्वं पिङ्गलवर्णपदार्थधारकत्वं चेत्युभयत्र साधारणो धर्म, इवशब्दरचोप- मानवाचकः शब्दः । एतस्मादत्र पूर्णोपमायां न संशयः । (२) "सामवादा: सकोपस्य तस्य प्रत्युत दोपकाः। प्रतप्तस्येव सहसा सपिषस्तोयबिन्दवः ॥" अस्मिन् पचे कोपपरीतस्य शिशुपालस्य समक्ष शान्तिसमन्वित- वचनकथनं तथैव तत्कोपोद्दीपक भविष्यति यथा प्रतप्ते घते पातिता: जलबिन्दवस्तद्धृततापोद्दीपकाः एव भवन्तीति कविता बलराममुखेन साघु प्रतिपादितमस्ति । अत्र उपमेयभूतम्य कोपपरीतस्य शिशुपानस्य प्रतप्तं घृतमुपमानमस्ति; तथैव च उपमेवभूतानां सामवादानां (सान्त्वनावचनानाम्) तोयविन्दवः उपमानं सन्ति । उद्दीपनं चोभय- निष्ठः साधारणधर्मोऽस्ति तथा इवशब्दस्य उपमावाचकता तु स्फुटै- वास्ति । तस्मादत्रापि पूर्णोपमाया एव माया सहृदयहृदयं समाकर्ष- तीति न संशयः । अहं मन्ये. यदम्यामुपमायां कविना दुर्जनस्य, तत्रापि च सकोस्य, दुराराध्यता महना वेशद्येन सुन्दरसाम्यप्रदर्शन- पुरस्सरं प्रालाश्यमानीतास्ति । (३) "नालम्बते दैष्टिकतां न निषीदति पौरुषे । शब्दार्थों सत्कविरिव दृयं विद्वानपेक्षते ॥" यथा सत्कविः सत्साहित्य सिसृक्षया न केवलं शब्दम्, नवा केवल- मथमाश्रयति, अपितु शब्दार्थों उभावेव समाश्रयति; तथैव विद्वान् ६४ सस्कृत-निबन्धावली जनोऽपि सत्कार्य संसिद्धये न केवलं भाग्यम्, नवा केवलं पौरुषमेवा- वलम्वते, अपितु भाग्यपौरुषे उभे एव समवलम्बते, इत्युद्धवमुखेन सर्वाङ्गसमन्वितसाम्यप्रदर्शनपूर्वकं महाकविर्माघोऽस्मिन् पद्ये भाग्य- वाद-कर्मवादयोर्मजुलं प्राजलं च समन्वयं सम्पादयामास । अथाने कतिपयानि तदोयानि उपमान्वितानि पद्यानि समय- सीम्नः सामोप्यात् निर्व्याख्यान्यपि प्रस्तूयन्ते । यथाहि- (१) "विहङ्गराजाङ्ग है रिवायतर् हिरण्मयोर्वीरुहवल्लितन्तुभिः । कृतोपवीतं हिमशुभ्रमुच्चकर घनं घनान्ते तडिताङ्गगरिव ॥ ॥" (२) "पतत्पतङ गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्यलीयत। गिरेस्तडित्वानिव तावदुच्चकैर जवेन पीठादुदतिष्ठदच्युतः ॥" (३) "लिलङ घयिषतो लोकानलङ च्यानलघीयसः । यादवाम्भोनिधीन रुन्धे वेलेव भवतः क्षमा ॥" (४) "अनुत्सूत्रपदन्यासा सदवृत्तिः सन्निबन्धना । शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥" (५) “समं समन्ततो राज्ञामापतन्तीरनीफिनीः । कार्णिः प्रत्यग्रहोदेकः सरस्वानिव निम्नगाः ॥' स्पष्टमस्ति यदेतेष्वपि पद्येषु उपमालङ्कारमाधुरी सहृदयहृदयानि साघु सम्प्रसादयति। अथ अर्थगौरवम् । महाकवेर्माघस्य अर्थगौरवविषयेऽपि यावत्कथ्येत तावन्न्यूनमेव । यतोहि शिशुपालवधे प्रतिसर्गमस्य अर्थगाम्भीर्यमनुभूयते । अत्र कानि- चिन्निदर्शनानि प्रस्तूयन्ते । यथा- माघे सन्ति त्रयो गुरणाः (१) "हरत्यघ सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितः कृतं शुभैः। शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥" अस्य पद्यस्य वास्तविकार्थवोधाय भूतवर्तमानभविष्यदाख्याः त्रयोऽपि कालभेदा निभालनीया भवन्ति । यथा-मुनीनां दर्शनं भूत- कालिकैः कृतैः पुण्यकर्मभिरेव भवति; वर्तमानकाले व तदर्शनं दर्शकानां पापानि परिहरति; एवं भविष्यत्कालिकी समृद्धिमपि तत्सूचयति । भावोऽयमस्ति यत्पूर्वकृतपुण्यकर्माणि विना कोऽपि मानवो मुनिदर्शनं कर्त्त नैव प्रभवति; यश्च मुनिदर्शनं करोति तस्य सर्वाण्येव वर्तमानकालिकानि पापानि मुनिदर्शनसमकालमेव विन- श्यन्ति; एवञ्च इदमपि तस्य कृते सुनिश्चितं बोभूयते यद् भावि- काले समृद्धिस्तमानिङ्गिष्यतीत्यादि सर्वमर्थजातं महाकविना माघे- नास्मिन् पद्ये संक्षेपेरण विनिवेश्य वस्तुतो घटे सिन्धुरेव प्रपूरितोऽस्तीति न मे संशयः। (२) "यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥" अर्थात्, अर्थवती वाणी संक्षेपेण व्याहृत्य माधवो विरराम; यतोहि महापुरुषाः स्वभावेन एव मितभाषिणो भवन्तीति माघाशयः । एतेन स्फुट भवति यन्मनुष्येण निरर्थकं न प्रजल्पनीयम्; वचने व्यर्थ- विस्तरोन विधातव्यः; सदैव सार्थकं संक्षिप्तं मितं च वक्तव्यमिति माघोपदेशः कस्य न हृद्यः ? वाक्ये अर्थगौरवस्य महिमानमङ्गीकुर्वन् स्वयमपि माघो ब्रूते यद्- (३) "बह्वपि स्वेच्छया का प्रकोणमभिधीयते । अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः॥" अत्र तदीयोऽभिप्रायोऽस्ति यत्सर्वतन्त्रस्वातन्त्र्यमवलम्व्य निरर्गलं निरर्थकं स्वेच्छाचारि भाषणं तु केनापि कर्त्त शक्यते । किन्तु अर्थ सम्बन्धसमन्वितं वाग्व्यवहारं विधातुं विरला एव जना: समर्था जायन्ते। वस्तुतश्च मनुष्येण अनुज्झितार्थसम्बन्ध एव वाग्व्यव- ?

संस्कृत-निवन्वावली हारो विधातव्य इतिमाघाशयो विदुषां बुद्धिपटलं सुतरां विशदयती- त्यत्र मनागपि न संशयः । यद्यप्येताहशानि अर्थगौरवान्वितानि अनेकानि पधप्रसूनानि विकसितानि विलोक्यन्ते तदीये शिशुपालवधाख्यमहाकाव्योद्याने, तथापि समयसोमानमनुभूय उपर्युक्तानि त्रीण्येव व्याख्यापुरम्सरं प्रस्तुत्य, अग्रे कतिपयानि व्याख्यां विनैव भवन्नयनयोरूपहरामि । यथा- (१) "उपप्लुतं पातुमदो मबोद्धतैस् त्वमेव विश्वम्भर ! विश्वमीशिये। ऋते रवेः क्षालयितुं क्षमेत फ: क्षपातमस्काण्डमलीमसं नभः।।" (२) "वलादलेपारधुनापि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुरगा। सतीव योषित् प्रकृति: सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥" (३) “यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः । वयं इनाम द्विषतः सर्वः स्वार्थ समीहते ॥ (४) "बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । सम्भूयाम्भोधिमन्ये ति महानद्या नगाएगा ॥ (५) "दष्टोऽपि शैलः स मुहुर्मुरारे- रपूर्ववद् विस्मयमाततान। क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः॥" (६) "तनुरुहारिण पुरो विजितध्वनेर् धवलपक्षविहङ्गमकूजितः। जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः । (७) "प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे। अनुहुङ कुरुते घनवनि नहि गोमायुरुतानि केसरी॥ " माघे सन्ति त्रयो गुणाः ६७ इत्येतेषु समस्तेष्वेव पद्यप्रसूनेषु अर्थगौरवगन्धो विद्वन्मिलिन्दैर- वश्यमेव अनुभविष्यते, इति मदीयो द्रढीयान् प्रत्ययोऽस्ति । अथ पदलालित्यम् माधकविताकामिन्या: पदलालित्यन्तु रमणीरामणीयकमिव सर्व- र्थव रमणीयमस्ति । याशी रसपेशला, श्रुतिकोमला, ललितविन्यासा, रसभावादिविभूषिता, रोतिरूषिता, अलङ्कारालङ्कृता च शब्द- शय्या महाकवेर्माघस्य काव्यबन्धे नयनविषयीभवति, ताशी, मन्येऽहम्, नान्यस्य स्यापि कवेरस्ति । अत्र संक्षेपेण एतदीयपद- लालित्यललितानि कतिपयानि पद्यानि प्रस्तूयन्ते यथा- (१) "निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मरणा लसद्विसच्छेदसिताङ्गसंगिना । चफासतं चारचमूरुचर्मणा कुथेन नागेन्द्रभिवेन्द्रवाहनम् ॥'' (२) महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे । श्रितोदयाद्रे रभिसायमुच्चक- रचूचुरच्चन्द्रमसोऽभिरामताम् ॥" (३) "स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामतनुयविक्षत जिगाय जम्बजनितधियः श्रियं सुमेरुशृङ गस्य तदा तदासनम् ॥" (४) पुरोमवस्कन्द लुनोहिनन्दनं सुषारण रत्नानि हरामराङ गनाः विगृह्य चक्रेन मुचिहिषा बली य इत्यमस्वास्थ्यमदिवं दिवः । (५) "निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः । प्रियेण तस्यानपराधबाधिता: प्रकम्पनेनानुचकम्पिरे सुराः । एतेषु श्लोकेशेषु एकदेशव्यापि लालित्यं लभ्यते । सर्वदेशव्यापिनो लालित्यस्य दर्शनं तदीयेषु निम्नलिखितेषु पद्येष कत्तुं शक्यते । यथाहि- ।

संस्कृत-निबन्धावली । (१) "नवपलाशपलाशवनं पुरः स्फुट परागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत् स सुरभि सुरभि सुमनोभरैः।' (२) "वदनसौरभलोभपरिम्रमद्भमरसम्भमसम्भतशोभया चलितया विदधे कलमेखलाफलकलोऽलकलोलदृशान्यया।' (३) "मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥" इत्यादिषु पद्येषु श्रुतिमधुराणां रसभावादिविभूषितानां च वर्णानां शब्दानां वा पौन:पुन्येन यो ललितप्रयोगो विहितो विद्यते, स नितरामेव रम्यश्चेतश्चमत्कारकश्च । इमानि पद्यप्रसूनानि पाठ- कानां हृदयोद्याने नूनमेव आनन्दपरिमलमिव विकिरन्ति; एतेषां च ध्वनिग्तत्र संगीतलहरीमिव जनयति; अमन्दानन्दसन्दोहमिव च समावेशयतीत्यत्र केषामपि धीजुषां विसंवादो नास्ति । उपसंहारः यद्यपि उपमायां कालिदासस्य, अर्थगौरवे भारवः, पदलालित्ये च दण्डिनो नाम महतादरेग गृह्यते, किन्तु उपरि विहितेन विश्लेष- णेन इदं सुतरां सिद्ध्यति यन्माघस्यापि उपमा: उपमाचार्यस्य कालिदासस्य उपमाभ्यः कथमपि हीनमहत्त्वा नैव सन्ति । एवमेव च तदीयमर्थगौरवमपि अर्थगौरवगुरोर्भारवेरर्थगौरवात् कथमपि हीन- गौरवं नास्ति । पुन: पदलालित्ये तु स सर्वथा अनुपम एव विद्यते । यतोहि पदलालित्ये स न केवलं पदलालित्याचार्य दण्डिनमेव, अपितु सर्वानेव महाकवीनतिशेतेतमामित्यत्र सुविचारजुषां निष्पक्षविदुषां केषामपि वैमत्यं भवितुं नाहति । अत एवाहं मन्ये यत्केनचिदेतत्स- मीचीनमेव कथितमस्ति यद्- "उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुरगाः॥" इत्यलं मुस्विति मत्या व अत्रैवाह विरमाम्यपि विस्तरात् ।

कालिदाससय सर्वस्वमभिज्ञानशकुन्तलस् कवि पनदिनेशाय भारतीवैभवाय च । मनोनैराश्यनाशाय कालिदासाय मे नमः ॥ सम्प्रति पौरस्त्येषु दाक्षिणात्येषु पाश्चात्त्येषु उदीच्येषु वा सुतरां शिक्षितेषु जनेषु एतादृशः कश्चिदपि विदितदेववारवाङमयो विपश्चि- नास्ति, यः खलु संस्कृतसाहित्याकाशे देदीप्यमानदिवाकरस्य कविता- निशानिशाकरस्य काव्यरत्नाकरस्य सर्वतो लब्घसमादरस्य कालि- दासस्य सहृदयहृदयाह्लादकेन अभिज्ञानशाकुन्तलनामकेन विश्व- विख्यातेन नाटकेन परिचितः प्रभावितश्च नैव भूतो भवेत् । तत्र- भवानयं महाकविकालिदासः ईशुपूर्वमाद्यशतके स्वकीयजनुषा भारत- भूमिमलङ कुर्वन् दिशि दिशि विकीर्णविक्रमस्य महेन्द्रोपमस्य विक्रमा- दित्यस्य सभारत्नमासीत् । यथोक्तमपि- "धन्वन्तरिक्षपरणकामरसिंहशङ्क, वेतालभट्टघटकपरकालिदासाः। ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विकमस्य ।।" प्रथितपराक्रमेण विक्रमेण सश्रद्धं साभिनिवेशञ्च समाद्रियमाणो देववाणीभूषणो विमलकविताकामिनीरमणो महाकविकालिदासो रघुवंशकुमारसम्भवनामध्ये उभे महाकाव्ये, अभिज्ञानशाकुन्तल- विक्रमोर्वशीय-मालविकाग्निमित्रनामानि त्रीणि नाटकानि मेघदूता- भिधानमेकं सन्देशकाव्यं तथा ऋतुसंहारसंज्ञमेकं प्रवन्धकाव्यं विरचयामास। यदि सहृदयहृदय रजकस्य ब्रह्मानन्दसहोदरभूतानन्ददायकस्य रसिकजनमनोहरस्य सत्काव्यस्य वास्तविक दर्शनं केनापि कर्तु- - १०० संस्कृत-निवन्धावली मिष्यते, तहि तेन कदिकुल रकैवचन्द्रस्य चन्द्रार्धचूडामणिचरण- कमलचञ्चरीकस्य कविताकामिनीहासग्य देववाणीविलासस्य महा- कविकालिदासस्य विश्वविदितायां दिग्दिगन्तप्रथितकलितकीतिलताया त्रिलोकोललामभूनायां काव्यवाटिकायां स्वीयो मनोमिलिन्दोऽवश्यमेव नेयः । यतो हि तस्यामनल्पेषु स्थलेषु भव्यभावपरिमलानि, भाषासौ- ष्ठवकोरकारिण यमकोपमाद्यलंकारवर्णानि, नानाविधानि काव्यकसु- मानि रमानुभूतिनासिकापधेन समाघ्राय सः सुतरां तृप्तो भविष्यती- त्यत्र नास्ति कथमपि कोऽपि शङ्कावकाशः । अत्र 'कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलम्' इतिविषयमधि- कृत्य विलिख्यमानेऽस्मिन् निबन्धे सर्वप्रथमं संक्षेपेण तत्कथावस्तु एव सकलोपदेशदानदक्षाणां भवतां पुरस्तात् प्रस्तूयते- हस्तिनापुरीवास्तव्यो महाराजो दुष्यन्तो मृगयाव्याजेन विपिनं गतो हरिणमेकमालोक्य तज्जिघांसया शरं सन्दधे । परं वैखानस- सम्प्रार्थनया संहृतशरो महर्षिकण्वाश्रमं प्रविवेश । तत्र च रूपसौन्दर्य- तिरस्कृत राज रमणीनाम् शकुन्तलानसूयाप्रियंवदानाम् अातिथ्याङ्गी- करणसमकालमेव शकुन्तलायां साभिलापो वभूव । गृहीततत्तनु- लतोत्पनिपरिचयश्च सः स्वस्मिन् सकामया तया शकुन्तलया सह कण्वाभावे सखोजनानुमोदित: सवनावनब्याजेन अाश्रमे एव विहिता- वामः कतिपयान् दिवसान् रेमे । भूयश्च स्वनामाङ्कितां मुद्रिकां तस्यै दत्वा राजधानीमागतो दुर्वाससः शापात् विमस्मार स्वम्मरस्थली तां शकुन्तलाम् । इतञ्च तीर्थात्प्रत्यागतो महर्षिकण्वोऽग्निदेवात् शकुन्तला दुष्यन्तेनाहितरेतसं विदित्वा तां तस्मै शुभे दिने विससर्ज । परं शापेना- स्तङ्गमितम्मृति: दुष्यन्तस्तां प्रत्याचचक्षे । शकुन्तला च स्नानवेलायाम् अप्स रस्तोर्थ स्वकराङ गुले: स्खलितां तां दुप्यन्त दत्तां मुद्रिका दर्शयितु- मक्षमा रुदती मिथ्याकलङ्कपकातङ्कितावनतमस्तका सती अष्टश रीरया मेनकया म्वाङ्कमारोप्य महर्पिमारीचाश्रमे नीता । एकदा एक- स्माद् बोवरात् समुपलब्धतन्मुद्रिकः अतएव विगतशापत्वाल्लव्धशकु- न्तलाप्रणयपरिणयस्मृतिः दुप्यन्तो दूनस्वान्तोऽनारतं तां सस्मार । पुन- रेकदा देवराजप्रहितो मातलिरेनं नाकावनाय निनाय । ततो लब्धवि- कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलम् जयादरोऽयमर्धमार्गे मारीचाश्रमे पुत्रप्राप्तिपुरस्सरं स्वप्राणप्रेयसी प्रियामपि पुनः प्रापेति तत्सारः । अस्यां सहृदयहृदयहारिण्यां मनोरमकथासुधाशीकरवर्षिण्यां मनो- नैराश्यर्षिण्या नाटककृतिपुष्करिण्यां समन्तादेव भावमकरन्दपूरि- तानि मघुरारिण प्रसंगप्रसूनानि विकसितानि दरीश्यन्ते । सर्वप्रथमं नान्दीवर्णने महाकविरयं स्वीयं परमशैवत्वं स्वग्रथ्य- माननाट्यकृतिकथावस्तु च समभिव्यनक्ति । तदनन्तरं चास्मिन् क्वचिद्स्माभिः सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाता: प्रच्छायसुलभनिद्रा: परिणामरमणीया दिवसा लभ्यन्ते; क्वचिच्च स्मणीरमरणीये समये सुकुमारकेस रशिखानि भ्रमरैरीषदीषच्चुम्बितानि शिरीषकुसुमानि सदयं कर्णालङ्कारीकुर्वाणा. मदिरेक्षणाः दृश्यन्ते । तदनुपदमेव पुरुवंशावतंसम्य दुष्यन्तस्य करालनाराचसम्पातभोति- पलायमानस्य आश्रममृगस्य म्वाभाविक वर्णनं गोचरीभवति । अग्रे चलित्वा नाटकनायिकाया पाश्रमाधिदेवतायाः त्रिजगल्ललना- ललामभूतायाः शकुन्तलाया: कौशेयवमनकनकालङ्कारादिरूप- सौन्दर्यसाधनाभावेऽपि तृणीकृतत्रिलोकोसुन्दरीसौन्दर्यसारो लोचन- व्यापारो नैसगिकशरीरलावण्य रत्नाकरश्च नयनपथमागच्छतः। एवञ्च- "अधरः किसलय रागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥" इत्यत्र पोनपयोधरायां पाटलाधरायां सरसशाखोपमभुजलतायां नायिकायां प्रफुल्लकुसुमयुगलाया अरुणकिसलयाया: पेशल विटपाया लतायाः समारोपः कस्य न सरसहृदयस्य मनो मयूरं वर्षाकाले मेघशब्द इव नन्दयति ? ईषदनेऽस्मिन्नेव नायिका क्रियाकलापे भ्रम राभिलङ्घनमीताया इतस्ततः प्रेरितवामलोचनायाश्चक्रमरण- परायणायाश्च अत एव नर्तकीभूताया: वेगोच्छ्वसितपयोधराया: शकुन्तलाया: हावभावभूषिता मनोदशा दर्शकानां हृदयपटले एकाम- विस्मरणीयां रमलीयां स्मृतितति समयति । अस्मिन् दृश्य दर्शका: शकुन्तलाया समं स्वोयं हृद्यं सम्बन्धमाबध्नन्ति । पुन रग्रे- - १०२ संस्कृत-निबन्धावली "अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- रनाविद्धं रत्नं मधु नदमनास्वादिलरसम् । अखण्डं पुण्यानां फलमिव च तद्रूपमनघ न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥" इत्यस्मिन् मचे काव्यकारणनिधिना महाकविना नायिकाया न केवलं लावण्यस्येव कोत्तनं कृतम्, अपितु तस्याः पावनत्वस्यापि महिमा गोतोऽस्ति । तृतोयेऽङ्के शकुन्तलाप्रणयप्राप्तये व्याकुलाय- मानमानसस्य नायकस्य दुष्यन्तस्य मुखपद्माद्विनिःसृता: भावपरिमला अखिलानपि प्रेक्षकान् समाकष्टुं क्षमन्तेतमाम् । उदाहरणार्थ पद्यमेकं प्रस्तूयते- "तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर् द्वयमिदमयथार्थं दृश्यते मद्विधेषु विसृजति हिमग रग्निमिन्दुमयूखैस् त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥" अस्मिन् पद्ये प्रियावियोगानलदन्दह्यमानस्वान्तस्य दुष्यन्तस्य कुसुमचापं कामदेवं प्रति करुणोऽयमालापः सहृदयानां हदयं संस्पृशति । अहो ! तत्कृते शीतांशुरिन्दुरग्निवी जातः, कुसुमशरस्य च शरा: पवोभूताः सन्ति । कथन्न स्यात् ? वियोगे रम्यमपि वस्तु- जातं दुःखयति उद्दीपनविभावत्वात् । न केवल नायकस्यैव दशेयम्, अपितु पत्राणां शोषणेन भीषणेन परमोष्णेन समीरेण संस्पृष्टाया माधवीलताया इव नायिकायाः शकुन्तलाया अपि प्रियविरहव्यथा प्रेक्षकाणां मानसपटलं नैव जहाति । अत्र सर्वत्रैव महाकविना रसराजस्य शृङ्गाररसस्य साम्रा- ज्य संदर्य लोकानां कोमला हृदयकलिका संस्पृष्टा कम्पिता चास्ति, इत्यत्र न कापि संशीतिः । विद्वांसो विदन्त्येव यत- - "काव्येषु नाटकं रम्यं नाटकेषु शकुन्तला । तत्रापि चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ॥ यास्यत्ययेति तत्रापि श्लोकः सर्वमनोहरः।"

कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलम् १०३ . अत एवात्र संक्षेपेण चतुर्थाके लम्यमानस्य सर्वतोभावेन सर्वैः सहृदयैः प्रशस्यमानस्य श्लोकचतुष्टयस्यापि चमत्कारः प्रस्तूयते । यथाहि- सोमतीर्थात्प्रत्यागतो मुनिः कण्वः पुत्रों शकुन्तलां दुष्यन्तेनाहित- वीर्याम् अत एव समापन्नसत्त्वामालोक्य सस्नेहं तां तस्मै विसृजन तनयाविश्लेषविक्लवीकृतकायो मनसि चिन्तयति- "वास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्ट मुत्कण्ठया, कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकस., पोड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखेनवैः॥ श्लोकचतुष्टयस्य प्रथमेऽस्मिन् श्लोके महाकविना प्रकटितमस्ति यल्लोके तनयाभिनवविश्लेषदुःखं महाकष्टकरं भवति । तत्त विपिनौकसां महर्षीणामपि चेतसि खेदं जनयति, गार्हस्थ्यजुषां तु कथा एव कास्ति। शकुन्तलायाः पतिगृहगमनवेलायां तत्पिता कण्वो वृक्षान् वक्ति यत्तऽपि तामनुजानन्तु- "पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या, नादत्ते प्रियमण्डनापि भवतां स्लेहेन या पल्लवम् । आद्य वः कुसुमप्रवृत्तिसमये यस्या भवत्युत्सव, सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥' अस्मिन् द्वितीये श्लोके आश्रमवृक्षान् प्रति शकुातलायाः भ्रातृ- भावः, अतएव तेषु तस्याः स्नेहातिशयः, अत एव च तदनुज्ञाग्रहणमिति सापोयसो कल्पना कवेः । यतोहि कापि भारतोया नवा वधूटो स्वीय- भ्रातृनननुनीय तैरनाज्ञप्ता च प्रेयसोऽपि पत्युमुहं नैव जिगमिषति । स्पष्टमस्ति यत् शकुन्तलाया आश्रममहीरुहेषु एव सहोदरस्नेह भासीत्, इति ज्ञापयितुमेव कालिदासेन इयमुद्भावना कृतास्ति । अग्ने चलित्वा महर्षिकण्वो जामातरं दुष्यन्तं सन्दिशति- "अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस् - १०४ संस्कृत-निवन्धावली त्वय्यस्या: फयमयबान्धवकृतां स्नेहप्रवृत्ति च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया, भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धुभिः ॥ अस्मिन् तृतीयस्मिन् श्लोके लोकपालकं पुरुवंशसंचालकं स्वजा- मातर दुष्यन्तं प्रति स्वसन्देशप्रेषणे महीयस्त्वेऽपि प्रात्मनः क्षोदीयः स्त्वप्रदर्शनं महर्षिकण्वस्य विमलहृदयविशालतामेव संसूचयति । सर्वे पितरः स्वकीयकन्यां पति मनोऽनुकूला सम्पन्नां च दिदृक्षन्ते । अतएव ते दाय दत्वा जामातरं प्रसादयन्ति । प्राक्तने काले महर्षि कण्वेऽपि विचारोऽयं विलसतोति कविकौशलं कस्य न चतो हरति ? अन्ते गत्वा पिता कण्वः पुत्र्यै शकुन्तलार्य शिक्षां ददाति- शुश्रूषस्व गुरुन् कुरु प्रियसखीवत्ति सपत्नीजने पत्युविप्रकृतापि रोषगलया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेफिनी यान्त्येवं गृहिणीपदं युवतयो वामा: फुलस्याधयः ॥ कविकुलगुरोरस्मिंश्चतुर्थ श्लोके प्राकाश्यमायाता अभिनववधूप- देशदानदक्षता अद्यास्मिन्नाधुनिके युगेऽपि सर्वेषामेव चेतांसि चम- स्करोति । वस्तुतो नान सशयो यत् श्वश्रूश्वसुरयोः सेवा, प्रियसखी- विद सपत्नीषु व्यवहारः, परिजने मृदुता, सम्पदि गर्वाभावः, कुपि- तेऽपि पत्यौ ग्रानुकूल्यञ्चेतीमानि सर्वाणि वैशिष्ट्यानि नारीजीवने परमोपका रकारिण सुखशान्तिदायकानि च भवन्ति । अत एव अस्मात् श्लोकात् कापि नवोढा वधूः शिक्षां गृहीत्वा स्वपतिगेहे गृहलक्ष्मीपदं प्राप्तुं शक्नोति । ग्रह पश्यामि यत् शकुन्तलापतिगृहगमनकाले तत्राश्रमस्थानां सचेतनानामचेतनानामशेषाणामेव दशा हृदयसंस्पर्शिनी विद्यते । नतोन्नत भूमिभागे स्वाश्रमपरिसरे कथञ्चित्प्रयान्तीं जोवनदायिनी शकुन्तलां दुकले गृह्णतो मनोव्याकुलतां च दर्शयतः श्यामाकमुष्टि- 'परिवर्धितकस्य मृगशावकस्य, उटजपर्यन्त चारिण्या प्रासन्नप्रसवाया हरिण्याः, उद्गीणंदर्भकवलानां मृगानाम्, परित्यक्तनत नानां मयूरा- रगाम, अपसृतपाण्डुपत्ररूपाश्रविन्दूनां लतानां च शकुन्तलावियोगे दीनां - ܘܛܰ - कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलम् दशां दर्श दर्श सचेतसः कस्य मनो न दूयते ? निश्चयेनैव वक्तुमिदं शक्यते यन्महाकविरयं शारदाया वरदकरकमलच्छायामाश्रितः सन् यथाभिमतं हृदयावर्जक मनोविज्ञानानुरूपं च दृश्य मुपस्थाप्य प्रेक्षावतां मनोमयूरमात्मसात्करोति । एवमेव "अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः । -... जातो ममायं विशदः प्रकामं प्रत्यापितन्यास इवान्तरात्मा ॥" इति पद्यं समाप्ततनयाविवाहमहोत्सवस्य सांसारिकस्य पितुः विगतचिन्तत्वं सम्यक् पुष्णाति । किन्नेदं कविकौशलम् ? अपि नेदं हृदयसंस्पशि ? किं किन्न लिखित कविकुलगुरुणा ? तदीया लेखनी नूननेव लोकोत्तरा वरीवृत्यते स्म । अथ षष्ठेऽके प्रियावियोगानलदग्धचित्तो विदृषकद्वितीयो दुष्यन्तो निजाकितां प्रियाप्रतिकृति वैशिष्ट्येन चित्रयितुमीहमानो विदूषक ? बोधयति यत्- . कार्या सकतलीन हंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः। शाखालम्बितवल्कलस्य च तरोनिमातुमिच्छाम्यघः शङो कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥" एष श्लोकस्तदीयचित्रकलाकौशलप्रदर्शने नितरां पटीयानस्ति। वस्तुतो हि कृष्णमृगस्य शृङ्ग स्वीयं वामनयनं कण्डूयमानाया मृगाङ्गनायाश्चित्रणं मृगोनिष्ठं स्वमृगं प्रति प्रतीतिभावं तथा अतएव तस्याः रिरंसाभावं साधु ध्वनति । इतरच्चाशेषं चित्रणं तत्प्रदेशस्य शान्तत्वं द्योतयतितमाम् । एतदने सप्तमेऽके- "शैलानामवरोहतीव शिखरादुनमज्जता मेदिनी परभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः । सन्तानस्तनुभावनष्टसलिला व्यक्ति भजन्त्यापगाः केनाप्युत्क्षिपतेव पश्य भुवनं मत्पावमानीयते ॥" अस्मिन् श्लोके प्रतीयते यत्कालिदासो वायुयानयात्रायामनुभूय- मानाभ्यामारोहावरोहाभ्यां लब्धपरिचयो ववृते । इतरथा इत्थङ्कार- मीशं सरलं स्वाभाविकं च वर्णनं कत्त कथमपि न पारयामास ।

- १०६ संस्कृत-निबन्धावली एवञ्च मारीचाश्रमस्य तु कथा एव वाचामगोचरास्ति । तत्र खलु कल्पवृक्षेषु सत्स्वपि प्राणवायुनैव प्राणानां परिपालनमक्रियत; कमलमकरन्दपरिमले जले स्नानविधिरेव समपाद्यत, न तु विहारः । अहो संयमस्य अनिर्वचनीयता ? पराकाष्ठा च त्यागस्य ? धन्यो हि कविकुलगुरुः, धन्यञ्च तस्येदं दृश्यकाव्यम् । अन्ततो गत्वा तेन शकुन्तलादुष्यन्तयोः पुनर्मिलनमपि चमत्का- रिण्या सरण्या कारितमस्ति । एवं हि तेनास्मिन् नाटके जीवनस्य विविधानंशान् व्याख्याय समाजाय शाश्वतिक: सन्देशो दत्तोऽस्ति यद् अज्ञातहृदयशीलेन सह सौहार्द नहि सर्वदा सुखायैव भवति, कदा- चिदनाय दु:खाय चापि भवति, तथा अल्पीयानपि अपराधो जवं महान्तं क्लेशं सायति । गुरुवचोऽवधीर्य च मनुष्यो दुष्यन्त इव दुःखितो भवति । अतोऽहमनुभवामि यद्- "न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला। न तत्फर्म न योगोऽसौ नाट्येऽस्मिन् यन्न दृश्यते ॥ इत्यस्या भरतमुनिसूक्तेः विपुलांशोऽस्मिन् अभिज्ञानशाकुन्तले संसिद्ध्यति । मन्ये चात एव पाश्चात्यविपश्चिद्वरो गेटेमहोदयः कालिदासस्य अनेन नाटकेन प्रभावितो भूत्वा नृत्यन् व्याजहार यत्- "Wouldst thou the young years' blossoms and the fruits of its decline, And all by which the soul is charmed, enraptured, feasted, fed ? wouldst thou the earth and heaven itself in one sole name combine ? name thee, O Shakuntala, and all at once is said." अस्यानुवादं कुर्वता महामहोपाध्यायेन डॉ० वासुदेव विष्णुमिरा- शिना लिखितमस्ति यद्-- "वासन्तं कुसुमं फलं च युगपद् ग्रीष्मस्य सर्व च यद् यच्चान्यन्मनसो रसायनमतः सन्तर्परणं मोहनम् ।

कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलमें १०७ एकोभूतमभूतपूर्वमथवा स्वर्लोकमूलोफयो- रश्वयं यदि वाञ्छसि प्रिय सखे ! शाकुन्तल सेव्यताम् ॥" प्रतश्चैतत्सर्वञ्चिदालोकमालोकमहन्तु इदं मन्ये यत्कालिदासीय- मभिज्ञानशाकुन्तलं निश्चयेनैव संस्कृतसाहित्यस्य अनुपमो निधिरस्ति तथा तद्विषये इदं समीचीनमेव कथ्यते यत्- "कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलम् ।" किन्त्वहन्तु इदमनुभवामि यद् अभिज्ञानशाकुन्तलं न केवल कालिदासस्यैव, नवा केवलं संस्कृतसाहित्यस्यैव, अपितु समस्तस्य विश्ववाङ्मयस्य सर्वस्वं वरीवृत्यते । अतस्तत्स्वाध्यायोऽपि विश्व- जनीनो भविष्यतीति दिक।

कस्यकान्तं सुखमुपनतं दुःखमेकान्ततो वा ? प्रस्तुतायां परीक्ष्यमाणायामालोच्यमानायाञ्चैतस्यां सूक्ति- मुक्तायां वयं यथा यथा विचारं कुर्मः, तथा तथा एतदीया महनीयता अपरिहरणीयता अप्रतिकरणीयता च चक्षुषोः पुरस्तात् परिस्फुरन्ती नरीनृत्यते । एतदीयं गाम्भीर्यमालोचमालोचम् आस्माकीनं चेत- श्चेतनस्याचेतनस्य उभयविधस्यापि संसरणशीलस्य संसारस्व भङ गुरत्वेन अस्थास्नुत्वेन च भृशं परिभूयते। अद्यावधि अधिगत- याथातथ्यानां विदितवेदितव्यानां विपश्चिदपश्चिमानां मनीषिणां सकाशात् यत्किञ्चिदपि अक्षरज्ञानं समुपलब्धमस्ति, तस्यैव निर्मलेन रश्मिजालेन एतावद् ज्ञातुमपार्यत मया, यद् वस्तुतोऽस्मिन् परि- वर्तनशीले न केवले विणाले धरातले एव, अपितु निखिलेऽपि ब्रह्माण्डे एकमाद्यन्तविहीनं तुरीयचैतन्याख्यं ब्रह्मतत्त्वं परिहाय किञ्चिदपि चेतनमचेतनं वा वस्तुजातं स्थास्नु नैव दरीदृश्यते। अत एव तु कविकुलकुमुदकलाधरेण कालिदासेन स्वकीये मेघदूताख्ये सन्देश- काव्यसागरे एतद्विषयपोषिणीयं सूक्तिमुक्ता गवेषणापथमानीतास्ति । तत्र यक्षो मेघमुखेन स्वप्रेयसी सान्त्वयितुं सूक्तिमिमामाह । वस्तुतो हि कविवरस्य सूक्ष्मतमनिरीक्षणपटीयसी शेमुषी अनया सूक्त्या प्रतिपलं परिवर्तमानस्य अस्य संसारस्य परिवर्तनशीलतां साधु सन्दि- शति । अत्र तदीयमेव तात्पर्य विविधैः निदर्शनैः अधस्तात्प्रस्तूयते । प्रथमं तावत्सर्ववीजानां प्रकृतिभूतां धरामेव अवलोकयामः । तदीयां प्रतिक्षणं जायमानां भौगोलिकी विकृति नयनगोचरीविधाय वक्तुमीहते मामकं चेतो यदियं कालिदासीया सूक्तिः सर्वथैव अवितथा वरीवृत्यते । यतोहि बलीयानस्ति वसुन्धरायां कालक्रम- परिवर्तः। निदर्शनं चास्त्यत्र ऋतुपरिवर्तनम् । यतो हि कदाचिद् । ।

कस्यकान्तं सुखमुपनत दुःखमेकान्ततो वा? १०६ दिनकरकरनिकरसन्तप्तकलेवरायां वसुन्धरायां परितो गात्रदहन- शीलाः लताकिसलयशोषणलीलाः उद्दामा उष्णवाता वान्ति, तर्हि कदाचिद् वारां धारासहस्रेण पयःपूरपूरिताः कूलङ्कषा: सरितः प्रवहन्त्यो दृष्टिपथमवतरन्ति। कदाचिद् दन्तवीणोपदेशाचारचतुरेण समीरेण स्वीयशैत्यमहिम्ना चेतनमचेतनं च जडीक्रियते, तर्हि कदा चिन्नानाविधैः कमलकेतकीप्रभृतिपुष्पविशेषपरागैः सान्द्रमधुरस्य' परिमलपूरपूरितस्य कोकिलकुलकूजितस्य आम्रमञ्जरीमञ्जुलस्य वसन्तकालस्य कमनीयता कामप्यनिर्वचनीयां चेतसि मुदं संवितनुते। अस्यामेव वसुन्धराया यदि अद्य विशालाकाशसीमान्तचुम्विनः पर्वता: अक्षिलक्ष्यीभवन्ति, तर्हि आकस्मिकेन समापतितेन भीषणेन भूचालेन तत्रैव क्षणेन पातालमपि उपहसन्तः समुद्रायमाणा: भीषणा महाग : नयनपथमवतरन्ति । यदि परिपूर्णचन्द्रमयूखभासुरायां राकायां विकसितानाम् इतस्ततः सर्वतः स्वीयममलं परिमलं वित- न्वानानां नानाविधानां कुमुदार्ना श्रेण्यः समुल्लसन्ति, तर्हि जाते प्रभाते उदयति भगवति गभस्तिमति झटित्येव तेषां समेषां सुमनसां समस्तमेव वैभवं क्षणेनैव क्षीयते, सम्पूर्ण च तत्कुमुदवनं महाकवि- माघशब्देषु ,अपश्रि' बोभूयते । यदि च तदानीमेव विकासमुपगच्छता मकरन्दपानलुब्धकानां मिलिन्दानामाह्वानं कुर्वतां निखिलजनमनो- नयनरञ्जकानां कमलानां कमनीया कान्तिः प्रतिक्षणं प्रसरन्ती परि- लक्ष्यते, तहि नूनमेव दिवसेऽतीते उदिते एव निशानाथे तदीया सर्वापि दीप्तिः सर्वञ्च तदीयमाकर्षणं क्षणमात्रेणैव प्रभाततारायतेतमाम् । नियतिनटीकौशलेनैव, विपुलवैभवसम्पन्नानां निखिलजगद्भूषण- भूतानां परमस्पृहणीयानां निवासोचितसकलसुखसंहितानां नगराणां स्थाने भीमभीमा अगाधजलपूरपूरिता मकरमीनरादिविविधमारा- त्मकजलजीवसङकुला ज्वारभाटाभिधानभीषणस्थितिद्वयसंवलित- वीचिपुञ्जव्याप्ता: वेलाविहीना उच्चावचवारिराशयः समुद्राः आस्पदं लभन्ते। प्रत्यूषवेलायामुदयन्तं भगवन्तं भास्वन्तं प्राचीविशालभाल- बिन्दुमिव सूर्यमालोक्य के नाम नैव मोदन्ते ? किन्तु उद्बोधं प्राप्नु- वतां सर्वेषां जनिजुषामाह लादपुञ्जमादाय प्रतिक्षणं प्रवर्धमानः तरुणायमानः स एव तिग्मरश्मिः अभ्बरमध्यमुपभुज्य स्वैरं स्वैरं .

संस्कृत-निवन्धादली । क्षीयमाणरश्मिराशिः हीयमानप्रकाशीतिः भवन् अन्ततोगत्वा क्रनेण पीतीभूय लोहितीभूय चाम्बरयात्रापरिश्रमम् अपनिनीषुरिब अन्ता- वलचूडावलम्वित्तामुपगतः सन् सचेतसां चेतोविषादाय बोभूयते । कुमुदिनीनायकस्य निशानाथस्यापि उत्थानपतनपरम्परा नास्ति केषा- मपि उन्मुक्तप्रकृतिकोडक्रीडाजुषां कृते अविदिता ! तोपि प्रतिमा शुक्लपक्षीयायां द्वितीयायामुद्भवमासाच क्रमेण उपत्रीयमानभासुर- रश्मिराजिः आत्मानं परितः आत्मनो विकीर्णन शीतलेन प्रकाशपटलेन लोकानां चेतोरञ्जनं विदधानः, प्रतिप्राङ्गणं प्रतिप्रासादञ्च मोद- मुपगच्छतां क्रीडतां शिशूनां मातुलायमानः पूर्णिमायां परिपूर्णकलेवरो भवन् मानिनीनां कानिनीनां मानभञ्जको भूत्वा सर्वेषां हृदयाह ला- दको बोभवीति । किन्तु स एव चन्द्रमा आगामिनि कृष्णपक्षे प्रतिनिशं परिक्षीयमाणरश्मिमालः क्रमेण अमावस्याया निविडतिमिराच्छन्तायां रजन्यां कथावशेषतां प्रयातीत्यहो अपरिहरणीयता अप्रतिकरणीयता च नियतिनटीविलासस्य ! एवमेव समायातेषु तत्तत्तलत्रितेषु ऋतुषु वृक्षाणां विविध्वर्ण- विराजितपुष्पालङ्कृततां नानाविधनधुररसावतिक्तफलसम्पन्नताम्, अत एव न केवलानवैरेव, अपितु नानादिन्देशान्तरागतैः विविधैः विहङ्गमैरपि अहमहमिक्रया संसेव्यतानक्षिलक्ष्यीकृत्य के नाम नैव मोदन्ते ? किन्तु कानित्रिदेव अहानि अतिक्राम्य अपगतवति तत्तदृतौ ते एव पुष्पफलसम्पन्नाः विविधविहङ्गमकुलकलकूजितोपेता: वृक्षाः पुष्पफलापगमे सति जाते व पर्णवियोगे उड्डीनेषु विहङ्गमेषु अतीव नोरवाः सन्तः श्मशानवृक्षा इव कस्मैचिदपि न रोचन्ते । निश्चप्रत्रमेव अत्रापि कालस्यैव अकलनीयो महिमा सर्वमिदं परिवर्तनजातं कलयन् परिलक्ष्यते। । अय प्रकृतिमुज्झित्वा यावदेव दयं मानवतमाजे दृष्टिपातं कुर्मः, तावदेव नियतिनटीविलासस्य अपरिहार्यता चक्षुषोः समझ नरीर्तितुं प्रारभते । जीवनस्य च विविधेषु क्षेत्रेषु तदीयां महत्तां शक्तिमत्तां व दर्श दर्श शिलायमानमिव संजायते मामक चेतः । यतो हि वयमालो- कामहे यद् यः कदाचित् स्तनन्धय: सन् स्वकीयानु सर्वास्वपेनातु 1 कस्यैकान्त सुखमुपनत दुःखमेकान्ततो वा? १११ किमपि न वक्तुं प्रभवति, स एव कानिचिद् वर्षाणि समतीत्य कमनी- येन युवतिजनप्रियेण कान्तेन यौवनेन परिचुम्बितदेहो द्रढिष्ठेन न केव- लेन बलेन, अपितु चारुविचारप्रवाहेणापि परिव्याप्तकलेवरो भूत्वा कामपि अनिर्वचनीयां संस्पृहणीयतामभिलषणीयताञ्च समासादयति। किन्तु स एव कालान्तरे जराजोर्णकलेवर: पलितकुन्तलो विनष्टदन्त- मुकुलो यष्टिलतामालम्ब्यापि पदात्पदमपि चलितुमशक्तः सन् दर्श- कानां मनोम्लानये अलं बोभूयते। मानवजीवनस्य इमाः तिस्रोऽप्य- वस्थाः करालस्य कालचक्रस्य महिमानमेव ध्वनयन्तीत्यत्र न कोऽपि संशीतिलेशः । समाजे यदि अद्य कश्चिद् विपुलवैभवविलाससम्पन्न: परिचाल्यमाननानाविधयन्त्रालयो दिग्दिगन्तेषु च लब्धयशाः भवति, तहि स एव कदाचिदकस्माद् दैवदुर्विपाकाद् आहोस्वित्कयाचिल्लौ- किक्या परिस्थित्या प्रणष्टाखिलव्यवसाय: सन्नेकैकस्याः काणवराटि- काया अपि कृते इतस्ततो बम्भ्रम्यमाणो द्वाराद् द्वारमवेक्षमाणो वरा- कस्तदीयपूर्वजीवनविलासदर्शकानां जनानां चेतोविषादाय संजायते । एवञ्च लक्ष्यते लोके यत्-कदाचिद् हर्षसिन्धुः, कदाचिद् विप- द्वारिधिः; कदाचित् क्षरत्सपीषि अपूपादीनि विविधानि मधुराणि सुपक्वान्नानि, कदाचिद् दन्तारातिभूता मुष्टिमेया नीरसाश्चणकाः; कदाचित् कमनीयचन्द्रोज्ज्वला हिमधवला सुस्निग्धा सुसौरभा सकान्ता शय्या, कदाचिद् उच्चावचानि लक्षाणि अहृद्यगन्धानि विकान्तानि शिलातलानि; कदाचित् प्रणयपूर्णपरिणयकालीन विवि- धानां तोहराणां वाद्यध्वनीनां श्रुतिसुखदः परीवाहः, कदाचिच्च मृत्युकालीनानां कर्णकर्कशानां स्वजनसम्बन्धिकरुणपरिदेवनानां हृदय- विदारको नयनजलमोचको नितराममानसीनः परिपूरः । एवमेव कदाचित् नितान्तमसृणानि परिमलपूरसुवासितानि चेतोरञ्जकरङ्ग- रञ्जितानि कौशेयवसनानि धारयितुं लभ्यन्ते, तर्हि कदाचिन्नाना- विधक्षुद्रच्छिद्रक्षुरिता लज्जास्पदभूता दारिद्र्यचोतिका कन्यैवैका तनोः रक्षणाय आच्छादनाय च प्राप्यते; कदाचिच्चेतोरञ्जिका नाना- भिदाः स्तुतिवाचः श्रोतुमुपलभ्यन्ते, तहि कदाचिद् हृदयोद्वेगविधा- यिका अवाञ्छनीया निन्दाततयः पीडयन्ति; कदाचित् सर्वविधसुखद- वस्तुजातविराजिता नानारागरञ्जिता मधुरध्वनिध्वनिता: सुवासिताः ११२ संस्कृत-निवन्धावली प्रासादा: सत्कुर्वन्ति, तर्हि कदाचित् सिंहव्याघ्रभल्लूकनागादिभीषण: जीवजन्तुपुञ्जपरिपूर्णा मर्मान्तकपीडाप्रदकण्टकाकीर्णमार्गा भीमभीमा महाटवी एव शरणं ददाति; कदाचित् कर्पूरान्वितं सुगन्धितं सुमधुरं सुधोपमं पेयं पयश्चेतः प्रीणयति, तर्हि कदाचिन्नदीतीरजातमहीरुह- शाखापतितपीतपत्रपुञ्जपूतीनि पङ्किलानि कषायाणि च नगापगाया जलान्यपि दुर्लभानि जायन्ते । एतेन विवरणेन विशदीभवति यदयं संसारो द्वन्द्वात्मकोऽस्ति । अत्र लभ्यानि सुखानि दुःखानि च परि- वर्तनशीलानि सन्ति। अथात्र विषयेऽस्मिन् कैश्चिदाप्तमहानुभावैः समीरितानि कानि- चिद् वचनानि प्रमाणार्थ समुध्रियन्ते । यथाहि—कालक्रमेण जगत परिवर्तमाना, चक्रारपङि क्तरिव गच्छति भाग्यपङि क्तः ।' इति. नाटककारस्य महाकविभासस्य, 'अतोऽपि नैकान्तसुखोऽस्ति कश्चि- लैकान्तदुःखः पुरुषः पृथिव्याम् ।' इतिमहाकवेरश्वघोषस्य, 'चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ।' इति पञ्चतन्त्रकारस्य श्रीविष्णु शर्मणः, 'खोलता जन्म इधर लोचन, मूदती मृत्यु उधर क्षण क्षण' इतिहिन्दीसाहित्यकारस्य महाकविसुमित्रानन्दनपन्तस्य, 'If winter comes can spring be far behind' (अर्थात् यदि- शीतर्तुरायाति वसन्तोऽप्यनुयाति तम्) इति पाश्चात्त्यसाहित्यकारस्य शैलेमहाभागस्य प्रस्तुतसूक्तिसमर्थकानि वचनानि चारुचेतसां विचा- रजुषां विदुषां चेतसि जागतिकभङ गुरत्ववोधाय विवेकलाभाय वा पर्याप्तानि सन्ति । महाकविकालिदासोऽपि स्वीयामिमां सूक्ति समर्थयन् एतदनुपदमेव कथयामास यद् 'नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण' अस्मिन् प्रसंगे 'दशा नराणां न सदैकरूपाः' इत्यज्ञातनामधेयस्यापि, कस्यचिद् विदुषो वाक्यं संगच्छतेतमाम् । उदाहरणार्थमेतस्मिन् सन्दर्भ देवराजस्य इन्द्रस्य, शैव्या-हरि- श्चन्द्रयोः, दमयन्तीनलयोः, सोता-रामयोः, महर्षि वाल्मीके:, लङ्कापतेः रावणस्य, पाण्डवानां, कौरवाणां, यादवानां, कालिदासस्य, चन्द्र- गुप्तस्य, चाणक्यस्य, नन्दस्य, महाराणाप्रतापस्य, क्षत्रपतिशिवाजे:, संस्कृतभाषायाः, भारतदेशस्य च नामानि निर्विवादं ग्रहीतुं शक्यन्ते । एतेषां समेपामेव जीवनानि हर्ष-विषादयोः, सुख-दुःखयोः, उत्त्थान- तथा .

कस्यकान्तं सुखमुपनतं दुःखमेकान्ततो वा ? पतनयोः दशासु दोलायमानान्यभूवन्नित्यत्र केषामपीतिहासजुषां विसंव्वादो नास्ति। एतेषामुपरिनिर्दिष्टानां सर्वेषामेव महापुरुषाणां संसारसागरे विविधपरिस्थितिवीचिराशिपरिचाल्यमानां जीवनतरीमालोकमा- लोकं श्रावं श्रावं वा महाविपद्ग्रस्तोऽपि भीषणभीतिभीतोऽपि पुरुषः ईषत्सन्तोषं लभते। निराशाभावसमुद्रे सम्पतितानां निमज्जनो- न्मज्जनपरम्पराभिभूतानां जनानां कृते अधिगतजागतिकयाथातथ्यस्य महाकविकालिदासस्य प्रस्तुतेयं सूक्तिः सम्यगेव नौकायते । अत एव तु कुबेरशापग्रस्तो यक्षः प्रियावियोगानलदग्घमानसो भूत्वापि राम- गिर्याश्रमेषु स्वीयं शापावधिमस्या एव सूक्तिलतायाः आश्रयेण समा- प्नोत् । वस्तुतः कालिदासस्य सूक्तिरियं जनेषु आशायाः सञ्चारं चरी- कत्ति । मानवेन आशा न त्याज्या; नैराश्यं च नालम्बनीयम् । संसारे सुखानि दुःखानि च आयान्ति यान्ति च; तेष्वासक्तिनँव विधेया, तत्र चिन्ता च नैव करणीया । यदि अद्याहं दुःखी अस्मि, तर्हि मया स्वीयं धैर्य नैव त्याज्यम् । यतोहि दुःखाभावे सुखस्य मूल्यं न भवति, न च सुखाभावे दुःखस्य । एतस्मादेव हेतोः संसारे भावानां द्वन्द्वात्मकं द्वैविध्यं दरीदृश्यते । प्रतीयते यदनया सूक्तिमुक्तया कविवरेण कालि- दासेन अद्वैतवादस्य मधुरस्तिरस्कारोऽकारि । तदीयोऽयमभिप्रायो- ऽस्ति यत्सांसारिकाणां भावानां दशानां च सदैव एकरूपता नैव सन्ति- ष्ठते । अतोऽस्माभिः स्वीये जीवने यथागते शुभे अशुभे वा भावे धीर- तया एव व्यवहर्त्तव्यम् तथा कदाचिदपि कीदृश्याश्चिदपि कस्या- श्चिदपि'.च विपदो भीतै व भवितव्यम् । मन्ये, अयमेव सन्देशो- ऽस्माकं कृते महाकविना कालिदासेन स्वीयायामेतस्यां सूक्तिमुक्तायां निहितोऽस्तीत्यलं पल्लवितेन । ।

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ क्षिप्रकारिताप्रधाने अस्मिन् विश्वस्मिन् अतिविरला एव केचन कर्त्त- व्याकर्त्तव्यविचारविमर्शसम्पन्नशेमुषीजुषो विद्वांसो विद्यन्ते, ये नाम क्रियमाणस्य करिष्यमाणस्य वा यस्य कस्यापि कार्यस्य करणात्प्राक् तदीयां करणीयतामकरणीयताञ्च निभालं निभालं मेधापुरस्सरं तत्र तत्र करणीये एव कार्ये प्रवर्तन्ते । अन्यथा तु प्रायेण जनाः अतिरभस- कारिणः एव दरीदृश्यन्ते । एतादृशाः जनास्तु कालस्य बहुमूल्यवत्ता- मल्पिष्ठतां च संसाध्य क्रियमाणे करिष्यमाणे वा कर्मणि त्वरामेव साधीयसीं मन्यन्ते । इत्थं च जगति विमृश्यकारिणां रभसकारिणां चेत्युभयविधानां जनानां समवायो लोचनपथमवतरति । यद्यपि सूक्ष्मेक्षिकया पक्षपातराहित्यपुरस्सरं यदि भ्रान्तिविहीनो विचारो विधीयेत, तदा तु संस्कृतमहाकाव्यानां वृहत्वय्यां समुपलब्ध- प्रतिष्ठस्य विद्वन्मण्डलमण्डनस्य 'किरातार्जुनीयम्' इत्याख्यस्य महा- काव्यस्य प्रणेतु: महाकवे: भारवेः हृदयसागरात् समुद्गता- "सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ इत्येवंरूपा सर्वथां भासुरा सूक्तिमुक्ता समेपामेव शेमुषीजुपां विदुपां समभिमतास्तीत्यत्र नास्ति कापि संशीतिकणिका; तथापि अलोच्यमानस्य विषयस्य औचितीमनौचिती वा साधयतां सतामेतत् कर्त्तव्यमेव भवति यत्ते विषयस्य वाह्यमन्तरङ्गं च पक्षं पोषं पोषं नानाविधैनिदर्शनैः स्वकीयमालोच्यमानं विपयं पूर्णतया संसिद्धिपथं प्रापयेयुः । अत एव मयाप्यत्र तदर्थ यथामति प्रयत्नो विधीयते । यथाहि- सहसा विदधीत न क्रियाम् प्रथमन्तु आलोच्यमानसूक्तिमुक्तोपादेयता एव तावदत्र प्रस्तूयते । आसीरिकलैको भुवि कुबेरायमाणो विपुलसम्पत्तिसम्पन्नो जायासहायः कश्चित् श्रेष्ठी । दैनन्दिनेन स्वीयेन व्यापारलाभेन सन्तोषमलभमानः स एकदा पाण्मासिकेन गर्भेण अन्तर्वत्नीमप्यपहाय स्वपत्नी गरीयो- व्यापारलाभाशया सुदरं देशान्तरं जगाम । तत्र पञ्चदश वर्षाण्य- ध्युष्य समुपार्जित-विपुलधनः प्रसन्नवदनो भवन् स्वदेशमागत्य स्वभवनं च प्रविश्य केनचिच्चारुणा यूना समं शयानां स्वजायां नयन- विषयीकृत्य आशु च स्वमनसि कमपि असद्विचारम् आकलय्य तत्रैव नागदन्तके समवलम्बमानेन तीक्ष्णेन खङ्गेन स्वभार्यां हन्तुकामो यावदेव उपरि ददर्श, तावदेव तदीया दृष्टिः तत्रैव नागदन्तकोपर्येव संलग्ने एकस्मिन्नतिरुचिरे काष्ठफलके काञ्चनाक्षरैः समुल्लिखिता- याम् अस्यामेव 'सहसा विदधीत न क्रियामविवेक: परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥' इत्येवंरूपायां सूक्तिमुक्तायां पपात । अस्याश्चार्थ सुविचार्य सः स्वभार्यावधान विरराम; उत्त्थापयामास च ताम् । तदनन्तरं च सर्वां वास्तविकी स्थिति जायामुखादाकर्ण्य, तञ्च युवानं स्वकीयमेव पुत्रं विज्ञाय लज्जितहृदयः प्रसन्नचेताश्च भूत्वा ईश्वरस्य तथा सूक्तिरचयितुः महाकवे: भारवे: परमां कृतज्ञता मनसा आवमानः परां मुदमवाप । विचार्यतां तावद् यदि सः श्रेष्ठी स्वीये हृदयसागरे समुद्गच्छता असता विचारवीचीपुञ्जन प्रेरितः सन् सहसैव जायावधम् आत्मज- वधञ्च अकरिष्यत्, तदा किं स: जायालाभजन्यं सुतमुखकमलावलो- कनजन्यं च सुखं प्राप्स्यत् ? नैवेत्यत्र न संशयः । एवमेव विष्णुशर्मणा प्रणीते पञ्चतन्त्रे समागतया ब्राह्मणी-नकुल कथया के नाम विपश्चिदपश्चिमा: संस्कृतज्ञा अपरिचिताः सन्ति ? अहन्तु 'न केऽपि' इति मन्ये । स्वयञ्च महाकवेः भारवेरपि विषये एका एतादृशी एव किंवदन्ती श्रुतिपथमवतरति यत्स स्वनामधन्यो भारवि: आत्मानं सहृदयहृदयशिरोमणि काव्युकाननकेसरिणं कविता- निशानिशाकरं च मन्यमानः, किन्तु मन्यमानः, किन्तु स्वकीयगुरुचरणसकाशात् कदाचिदपि स्वीयप्रशंसामलभमानः, प्रत्युत तेन गुरुणा सदैव तिरस्क्रियमाण इव एकस्यां तिमिरावृतायां प्रदोषवेलायां स्वकीयं संस्कृत-निवन्धावली तमेव अक्षरकाव्यसर्जनाजानप्रदातारं गुरुं जिघांसुः यावदेव तदीयद्वारि किञ्चित्कालपर्यन्तं स्वकीयं करिष्यमाणं नितान्तं जघन्यं कुकृत्यं विहङ्गमदृशा भूयो विचारयति, तावदेव तदीययोः यशःपिपासितयोः श्रोत्रयोः तस्य गुरोः गुरुपत्न्याश्च तद्विषये एव जायमानो बहुप्रशंसा- त्मको मधुरस्नेहरसपूरपूरितो वार्तालापः समापतति । श्रवणसमकाल- मेव भारवेः जाड्यं विनष्टम्; नेत्रे उन्मीलिते, कौँ उद्घटितौ; हृदयञ्च विकसितम् । ततस्तु क्षिप्रमेव अन्तः प्रविश्य सः गुरुचरण- कमलचञ्चरीको । वभूव। अत्रापि यदि गाम्भीर्येण विचारो विधीयेत तदा इदमेव सिद्धिपथ- मागच्छेत् यत्काचिदपि क्रिया विवेकहीना सती सुखदपरिणामदायिनी नैव भवति । यदि भारविः स्वगुरुकुटीरद्वारिसंस्थित: सन् कर्त्तव्या कर्तव्यविचारं नाकरिष्यत्, तर्हि निश्चप्रचमेव तदीययशश्चन्द्रिका गुरुघातकलङ्कन सर्वदाकृते कालिमानं प्राप्स्यत्; इत्यत्र कस्यापि धीमतो विसंवादो भवितुं नार्हति । न केवलस्य भारतीयस्यैव वाङमयस्य इतिहासे, अपितु, समस्त- स्य विश्वबाङ मयस्येतिहासे यदि नयनयुगलं पात्येत, तर्हि नेदं तिरो- हितमवशिष्येत यदनेकानि अतिरभसकृतानि कर्माणि नत्कणां मानवानां सन्तापाय पश्चात्तापाय वा भवन्ति । यदा वयं वाल्मीकि- प्रणीते रामायणे दृशं क्षिपामः, तदा अनुभवामो यद् यदि लक्ष्मणकृत- विकृतिमापन्नाया: स्वस्वमुः शूर्पणखाया वाग्भिरुत्तेजितो भूत्वा लङ्काधिराजो दशग्रीवो रावणो मारीचसाहाय्येन जानकीहरणं नाकरिष्यत्, तहिं तदीयं विजितविश्वं यश: कुलञ्च कथावशेपतां नागमिप्यत् । तत्रैव च सूक्ष्मेक्षिकया विचारे विहिते सति इदमपि अतिरोहितं बोभवीति यल्लोकाभिरामो निजजनविपदां विरामो दाशरथी रामो दण्डकारण्ये कलितकलकाञ्चनकुरङ्गकलेवरं स्वचक्षुपोः समक्षं वहुविधं विहरन्तं मारीचं सस्पृहं दर्ग दर्श तदीयं काञ्चनं चर्म ग्रहीतुकामायाः स्वभार्यायाः सीतायाः 'इमं काञ्चनमृगं हत्वा एतदीयं भासुरं चर्म मदर्थमानय' इत्येवं प्रणयात्मिकां सस्मितोदीरितां वाचं निशम्य कार्याकार्यविवेक कृत्वा तदीयवधार्थ पञ्चवटीमपहाय मुदूरं तदनुगमनं यदि नाकरिष्यत्, तर्हि सहसा विदधीन न क्रियाम्.. ११७ सः प्रियावियोगानलदन्दह्यमानमानसोऽपि नाभविष्यत्; न च इतस्ततः प्राणप्रेयसीं स्वकीयां सीतां मृगयमानेन तेन दुर्दान्तानामतिभीमानां राक्षसानां भीषणसमरसाम्मुख्यं कर्त्तव्यं समापतिष्यत् । अष्टादशानां पुराणानां रचयिता महर्षिर्वेदव्यासोऽपि कार्यस्य सुविचार्य एव करणीयतां प्रतिपादयामास । स लिलेख यत्- "सुजीर्णमन्न सुविचक्षणः सुतः, सुशासिता स्त्री नृपति: सुसेवितः । सुचिन्त्य दोक्तं सुविचार्य यत्कृतम्, सुदीर्घकालेऽपि न याति विक्रियाम् ॥" परमविद्वान् महामतिः भर्तृहरिरपि परिणाममविचार्य विहितानां कार्याणां फलं जीवनपर्यन्तं तुदतितमामिति मन्यते । यथाहि- "गुरगवदगुणवद् वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मरगामविपत्तेः भवति हृदयदाही शल्यतुल्यो विपाकः ॥" संस्कृतकविकुलकमलदिवाकरः काव्यकाननकेसरी महाकविकालि- दासोऽपि 'सन्तः परीक्ष्यान्यतरद् भजन्ते, मूढः परप्रत्ययनेयवुद्धिः ।' इत्येवंरूपां सूक्तिमुक्त्वा विवेकस्यैव महिमानम् अतनिमानं प्रापया- मासेति न संशयः । एवमेव च भारतीविभूति: महाकवि: भवभूतिरपि 'विवेकभ्रष्टानां भवति विनिपातः शतमुख: ।' इति विश्वसिति । इत्थमेव भोजप्रवन्धकारो वल्लालकविरपि ब्रूते यद् - "किन्नु ने स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः । इति सञ्चिन्त्य मनसा प्राज्ञः कुर्वीत वा नवा ।। साम्प्रतं तु समाजे ग्रामे-ग्रामे नगरे-नगरे सर्वत्रैव विवेकस्य विमृ- श्यकारितायाश्च सदुपदेशाः विविधैः प्रकारैः श्रोतुं लभ्यन्ते । विप्रकृष्टे गमनस्य आवश्यकता नास्ति; भारतस्य अनेकेषु विकसितेषु विकास- शीलेषु वा उत्तमश्रेणीकेषु नगरेषु प्रतिचतुष्पथं 'First stop, speed afterward' अर्थात् 'प्रथमं विरम्यताम्, गम्यतां तदनन्तरम्' इत्येवं रूपाणि वाक्यानि गन्तुणां नयनविषयीभवन्ति; येषां विवेकपूर्णगमना नुकूलव्यापाररूपकार्योपदेशे एव तात्पर्यमस्ति ।

११८ संस्कृत-निबन्धावली इत्थमत्र विहङ्गमदृशा समासेन विचारे विहिते सति मदीयाल्पी- यसी शेमुषी इममेव निश्चितिपथं प्रयातुकामा वोभूयते यद् विपुल- जागतिकप्रपञ्चपूर्णे अस्मिन् भूतले अविवेकेन कार्यं कुर्वतां श्रीमतामपि जनानां द्रविष्ठान्यपि साधनानि विषण्णतां विपन्नताञ्च प्रयान्ति । तेषां श्रीमताञ्च जनानां सर्वमपि वैभवं, निखिलमपि गौरवं, समस्त मपि च कीर्तिपटलं सहसैव विच्छायतां प्रतिपद्यते, इत्यत्र नास्ति केपामपीतिहासजुषां विसव्वादः । अपरतश्च विवेकेन कर्माणि कुर्वतां विमृश्यकारिणां पुरुषाणां मनोरथलताः सदैव निरापद निर्वाध च साङ्क राः सपल्लवा: सपुष्पा: सफलाश्च सर्वत्रैव दृष्टिपथमायाताः सन्ति; इत्यत्रापि च नास्ति केषामपि वैमत्यम् । विमृश्यकारिषु जनेषु भगवत: श्रीकृष्णस्य, राजनीतिनैपुणीनिपुणस्य चाणक्यस्य, परमराज- स्य अशोकस्य तथा परमचातुरीचचितचित्तस्य 'कार्य वा साधयेयम्, देहं वा पातयेयम्' इत्येवंरूपगृहीतगरिष्ठव्रतस्य देशद्रोहियवनकुल- कलङ्कविनाशनिष्णातस्य शिववीरस्य नामानि सादरं सोल्लासं च ग्रहीतुं शक्यन्ते । एवंरीत्या सर्वमपि प्राचीनमर्वाचीनञ्चोदन्तजातं पक्षपातहीनया अदीनया च दृशा निभालं निभालं समधिगतकतिपयजाने मामकीनेऽपि मानसे विवेकस्य विमृश्यकारितायाश्च महिम्ना सर्वदाकृते सर्वथैवाभ- ङ्ग रम्, असर्पणशीलमच्युतं च पदं तथा कृतमस्ति, यथाहमिच्छामि यदस्मिन् भारतवर्षे केचिदपि जना: काञ्चिदपि क्रियां सहसा नैव विदधीरन्; सर्वे एव जनाः स्वीयानि सर्वाण्येव कार्याणि विवेकेन सह विमृश्य एव कुर्वीरन्; येन सदा ते स्वीयेषु तेषु सर्वेष्वेव कार्येषु साफल्यं लभैरनिति दिक् ।

लक्ष्म्यै लालसा - दृश्यते। 'हे लक्ष्मि ! हे लक्ष्मि देवि !! हे लक्ष्मि देवि !!!....."निष्ठुरा मा भूः, तिष्ठ तावत् क्षणम्, मम वचस्तु शृणु...' 'अरे इयान् दर्प:! इयान् गर्वः ! मामवधीयव यासि ! तृणायापि न मन्यसे !......' ''आः कथन्न स्यात् ? सर्वतन्त्रस्वतन्त्रा कर्तुमकत्तुं सर्वथा कर्तुं समर्थासि। .. मन्ये, अत एव त्वयीदं कृपाकार्पण्यं दयादैन्यं च दरी- जानामि देवि ! जानामि । अनेके मादृशा जनाः त्वया क्रीडनकीकृताः सन्ति । त्वं न कस्यापि कुलं वीक्षसे; न बलं सहसे; न शीलं रक्षसि; न वैदुष्यं सत्करोषि, न सत्यं सिञ्चसि; न वयो विचार- यसि; न गुणान् दयसे; न चात्मानमालोकसे । अहो ते दर्पः ! अहो ते उच्छृङ्खलता !' 'अपि च लोके नैकेषां प्राणजुषां भाग्यकन्दुकाः त्वयैव हेलया अवनतिकूपे पातिताः सन्ति । अनेकेषां भाग्यभास्कराः त्वयैव विपरीत- परिस्थितिसान्द्रमेघमालया उदयकाल एवास्तमिव प्रापिताः । अनल्पानां यूनां मनोरथप्रसूनानि त्वयैव निराशानलज्वालावलीढानि कृतानि । सर्वे एव त्वयि विनिवेशितदृष्टयस्तव कृपां कामयमानाः सन्ति । मरुभूमीभूतं मदीयं जीवनोद्यानं त्वदीयेन एकेनैव कृपाकटा- क्षेण, एकेनैव च मन्दमदिरस्मितेन परिमलितप्रसूनपुञ्जपूरितं गुञ्ज- मिलिन्दवृन्दं भवितुमर्हति । एतावता च तव न कापि क्षतिः, न चोपहासः।' 'अयि सर्वलोकललामे ! मनाक् तु निरीक्षस्वः ...' एतावती मदुपेक्षा किम्प्रयोजना ? ..."अरे त्वं तु शृणोष्येव नहि; पश्यस्यपि नहि; त्वमपि दीपशिखेव पतङ्ग मामुपहसन्ती मदसून् ग्रहीतुकामासि ! किन्तु नैतत्त्वयि उपयुज्यते।'

१२० संस्कृत-निबन्धावली 'अयि निष्कृपे ! अयि दयादरिद्रे ! अहमपि तु हृदयवानस्मि; अपिनाम कौपीनवानेव स्याम्;"..."किं कौपीनवान् न भवति भाग्य- वान् ?.....परं त्वयैव तु कौपीनवान् कृतोऽस्मि । ... आ: मामका मनोरथाङ्क रास्त्वदीयकृपाकटाक्षामृतपूरं प्रतीक्षमाणास्तदभावे म्लायन्तः सन्ति । अपि नाम न मे रूपम्, न मे भूषा, न मे प्रियंव्वद- त्वम्; तथापि मे शीलम्, मे मेधा, मे सत्याभिनिवेशः, मे सदसद्विवेक: मे कर्तव्यनिष्ठा च किन्नु न विश्वजनीनानि ? किन्नु न भद्राणि ? 'परमिदं किम् ? ''हन्त ! त्वं स्थितासि; शोभनं शोभनम्" त्वन्तु मां वाग्वाणैः प्रताडयितुं प्रवृत्तासि !...' 'किं किम् किं कथयसि ? किमिदं कथयसि यत्त्वं युगधर्म नैव जानासि; धूर्तेषु धौर्त्यम्, शठेषु शाठ्यम्, मायाविषु च मायावित्वं नाचरसि; ललनासु लालित्यं नैव पालयसि; अधिकारिषु तेषां श्रवणमधुरं गुणप्रकथनं नैव करोषि; रहसिं तेषां कर्णकुहराणि नैव चमत्करोषि; न हृदयविकारं निगूह्य सस्मितां वाचं तनुषे; न स्वार्थ- साधनाय संघटनां घटयसि; न क्षेत्रवादं समाश्रयसि; न जातिवादं भजसि; न नेतन् सेवसे; न उत्कोचं प्रश्रयसि; न सम्बन्धमाश्रयसि; न पक्षपातं करोषि, न सपत्नीक: अधिकारिगेहान् गच्छसि; न सपत्नीक: अधिकारिणां चाटुकारजनगेहेषु विचरसि; न गुण्डाख्यान् दुष्टजनान् पालयसि; न क्लबलीलां कलयसि; न च मिथ्याचारमाच- रसि । त्वन्तु सदाचारं पितरमिव, क्षमां मातरमिव, सत्यं भ्रातरमिव, दयां स्वसारमिव, कर्त्तव्यनिष्ठां पत्नीमिव, उपकारं सुतमिव, शीलं हृदयमिव, गुणान् ईश्वरमिव, दुर्गुणांश्च शत्रुमिव मन्यमानोऽसि ।' ..."अरे ! अस्मिन्नराले कालेये कराले काले त्वदीयां तां पुरातनी परनिपीडनपापनिवारिणी सर्वगुणशालिनीं भारतीयां संस्कृति सभ्यतां च भौतिकाभ्युदयाभिलाषी वोभूयमान: को जनः परिपृच्छति ? को वा आद्रियते ? 'अतो यदि त्वं जगदमन्दानन्दसन्दोहमनुभवितुका- मोऽसि, तर्हि सपदि सर्वान् सत्यधर्मान् विहाय कालिकान् कालेयान् कालान् युगधर्मानुररीकुरुष्व; अन्यथा एवमेव रोरुद्यमानो बम्भ्रम्यणो म्रियस्व ।

लक्षम्य लालसा MO- 'ओ: ! शिव ! शिव ! शिव !!! "शान्तं पापम्, शान्तं पापम् । "अरे रे मानवगुणावमानिनि ! युगधर्मीभूताधर्माखर्वगर्वगविते ! दयादारिद्रयदर्पदर्पिते ! असत्पथपतिते ! प्रमत्ते ! सम्पत्ते !."मामेवं मोहयसि, इत्थञ्च मां मे विचारं च कूलङ्कषा निम्नगेव तीरतरं पातयितुं प्रसन्नमोघं च आविलयितुमीहसे !... परं नैवं भवितुं शक्नोति । "त्वं ममोपरि दयां कुरु नवा कुरु, परमहं पूज्यपूजाव्यति- क्रम तथा अग्राह्यग्रहणाग्रहं कदाचिदपि नाङ्गीकरिष्ये'। 'हः हः हः हः "हः !"अरे मूर्ख !..", एवञ्चेत्ते विचार- स्तर्हि अभावान्धकूपे पत; निराशानिम्नगायां निमग्नो भव; अकाले एव कालकवलितश्च भव..।' 'अरे ! क्रूरे ! कुटिलस्वभावे ! छलच्छद्मप्रसारिके ! हालाहल- भगिनिके ! “सागरिके ! हससि ? "हस, ''मामुपहससि ? उपहस; "अट्टहासं करोषि ? "कुरु; मां शपसि ? ..'शप; किन्तु त्वमिदं स्मत्तुं नैव विस्मर यन्मुण्डितशिरसो जनस्य किं पादमुण्डनेन एवञ्च कदाचित्तु श्रीगुरु-शारदाजुषो ममेमाः कृष्णरजन्यो राकाः भविष्यन्त्येव; यासु ममामन्दो भाग्येन्दुरमन्दं स्वीयमालादं तनिष्यते- तमाम् । “गच्छ निर्दये ! त्वं गच्छ पामरानेव; भूयो नैवं शाधि मां स्वापेऽपि कदापि...'। !

आधुनिक शिक्षा संस्थासु छात्राणां संस्कृते लेखनभाषणस्थितिः [अरविन्दः शनैः शनैः प्रकोष्ठं प्रविशति तथा स्वीयां ज्येष्ठां भगिनीं राकां कर्गलं लेखनी चादाय चिरेण सचिन्तं तिष्ठन्तीमनुभूय कथयति] अरविन्दः- राकादीदि ! अद्य का वार्तास्ति ? भवत्या प्रातराशं स्नानं पूजनं भोजनं, सर्व विस्मृतम् ! अह पश्यन्नस्मि यत्तिस्रो घण्टा: व्यतीताः, किन्तु न तु भवत्याः लेखनकार्य- मेव किञ्चिज्जातम्; नवा चिन्ता एव समाप्ता। राका-अरविन्द ! किं कथयेयम् ? अहं तु भूयसि धर्मसंकटे पतितास्मि । अरविन्दः-कथम् ? का वार्ता जाता ? राका- वार्ता इयमस्ति यन्मम प्रोफेसरमहोदयः संकायपत्रिकाकृते लेख-लेखनाय मां बहु दिनानि प्रेरयन्नस्ति । अरविन्दः दीदि ! इदं तु समीचीनमेव । पत्रिकायां लेख-लेखनेन नाम उज्ज्वलं भवति; यशो वर्धते; ज्ञानं च परिष्कृतं जायते । अस्मिन् कार्ये भवती कथं धर्मसंकटं मन्यते ? राका-अरविन्द ! त्वदीयमिदं कथनं सर्वथैव सत्यमस्ति । किन्तु अहन्तु लेख-लेखने एव असमर्थास्मि । अत एव धर्मसंकटम् अनुभवामि अरविन्द: - दीदि ! भवती तु एम. ए. द्वितीयवर्षे पठति । कक्षायां सर्वाधिका अङ्काः अपि भवत्याः एव सन्ति । भवत्या एकस्मिन् दिने इदमपि उक्तमासीत् यत् प्राध्यापका एवं कक्षायाः सर्वे छात्रा: भवत्याः प्रशंसामपि कुर्वन्ति । पुनरपि भवती लेख-लेखने कथम् असमर्थास्ति ? सुधादीदी तु एम्. ए. प्रथमवर्षे एवास्ति । किन्तु सा आधुनिक शिक्षा संस्थासु" १२३ एकस्मिन् दिवसे. कथयन्ती आसीत् यत्तया 'पञ्चापसमस्या' शीर्षको लेख: स्वकीयप्रोफेसरमहोदयाय लिखित्वा दत्तोऽप्यस्ति । राका-(सोच्छ्वासम्) तात ! त्वं नहि जानासि। सुधायाः समीपे विचारैः सह भाषापि अस्ति। अनेनैव कारणेन सा लेखने भाषणे च समर्था भवति । किन्तु मम समीपे केवलं विचारा एव सन्ति; भाषा नास्ति । अतोऽहं लेखने भाषणे च असमर्था भवामि । । अरविन्द:-दीदि ! इदं कथम् ?सुधादीदीसमीपे भाषा कथम् अस्ति ? भवत्याश्च समीपे सा कथं नास्ति ? भवत्यौ उभे एव पठतस्तु एम्. ए. कक्षायामेव । पुनः इदमन्तरं कथम् ? राका-अरविन्द ! वस्तुतो वार्ता इयमस्ति यत् सुधा अंग्रेजीसा- हित्यस्य एम्. ए. कक्षायां पठति । अंग्रेजीविषये प्रारम्भादेव सर्वञ्चित् अंग्रेजीभाषायामेव पाठ्यते लेख्यते च । तत्र परीक्षापि अंग्रेजीभाषाया- मेव भवति। छात्रा: उत्तराण्यपि अंग्रेजीभाषायामेव लिखन्ति । ते परस्परं वार्तालापमपि अंग्रेजीभाषायामेव कुर्वन्ति । अतः अंग्रेजी- न्छात्राणां अंग्रेजीभाषायाः ज्ञानं शोभनं भवति । अतस्तेषां कृते लेख- लेखनमपि कठिनं न भवति । परन्तु अहं संस्कृतसाहित्यस्य एम्. ए. कक्षायां पठामि । अत्र प्रारम्भादेव सर्वञ्चिद् हिन्दीभाषायामेव पाठ्- यते लेख्यते च । अस्माकं परीक्षा अपि हिन्दीभाषाया माध्यमेन भवति । वयम् उत्तराण्यपि हिन्दीभाषायामेव लिखामः। कक्षायां कोऽपि केनापि सह संस्कृतभाषायां कदापि वार्तालापं नैव करोति । प्राध्यापका अपि परस्परमपि संस्कृतभाषायां वार्तालापं कुर्वन्तो न विलोक्यन्ते । अतो न केवलं ममैव, अपितु सर्वेषामेव छात्राणां संस्कृत- भाषाविषयकं ज्ञानं नितान्तमल्पमस्ति । मम च प्रोफेसरमहोदयस्य कथनमस्ति यत् पत्रिकायां संस्कृतानुभागः पृथगस्ति । तस्मिन्ननुभागे ये लेखाः प्रकाशिता भविष्यन्ति, ते संस्कृतभाषायामेव भविष्यन्ति । अनेनैव कारणेन अहं लेखलेखने आत्मन: अक्षमतामनुभवामि । अरविन्द:-(भालमाकुञ्च्य विचिन्त्य च) दीदि ! भवत्या किमु- क्तम् ? किं संस्कृतं संस्कृत- ।

१२४ संस्कृत-निबन्धावली भाषायां न पाठयित्वा हिन्दीभाषायां पाठ्यते ? किं च संस्कृतस्य परीक्षा संस्कृतभाषायां न भूत्वा हिन्दीभाषायां भवति ? राका-आम् अरविन्द ! इदमेव बोभूयते । न केवलम् अस्मदीयो विश्वविद्यालयः एव, अपितु देशस्य सर्वे एव विश्व विद्यालया अनेनैव प्रकारेण संस्कृतभाषायाः मूले कुठारपातं कुर्वन्तः सन्ति । अरविन्द:- दीदि ! एतादृशी वार्ता नास्ति । ये पाश्चात्त्यपद्धति- पोषका विश्वविद्यालया: सन्ति, तेष्वेव संस्कृतभाषाया एषा विडम्बना भवितुं शक्नोति । अस्माकं वाराणसेयसंस्कृतविश्वद्यिालये तु संस्कृत- भाषाया एव साम्राज्यं वरीवृत्यते। तत्र सर्वासु परीक्षासु संस्कृत- भाषाया एव प्रयोगो भवति राका-आम् अरविन्द ! त्वं सत्यं कथयसि । स विश्वविद्यालय- स्तु संस्कृतभाषायाः सत्यां सेवां कुर्वन्नस्ति । किन्तु अन्ये पाश्चात्त्य- पद्धतिपरायणा विश्व विद्यालयास्तु संस्कृतभाषाया नाम्नि हिन्दी- भापायामेव पठन-पाठन-प्रश्नपत्र निर्माण-परीक्षाग्रहणादीनि सर्वाणि कार्याणि कुर्वन्ति । अहन्तु अनुमिनोमि यदेषां विश्वविद्यालयानां कुल- पतयः संस्कृतपाठ्यग्रन्थसमितिसदस्याश्च यदि अस्मिन् विषये ध्यानं नैव दास्यन्ति, तहि निकटभविष्यत्काले भारतवर्षे एव संस्कृतभाषायाः चिता ज्वलिष्यति । अरविन्दः --दीदि ! इमे वराका अनि अस्याः समस्याया: समा- धानं तावत् न कत्तु प्रभवन्ति, यावत् माध्यमिक शिक्षापरिषदधि- कारिणः संस्कृतविषयस्य पठन-पाठन-प्रश्नपत्रनिर्माणादीनि सर्वाणि कार्याणि संस्कृतभाषायां नैव कारयन्ति । राका- आम् अरविन्द ! इदं तव कथनं नितान्तं व्यावहारिक- मस्ति । शिक्षाधिकारिभिः प्रारम्भादेव संस्कृतस्य पठन पाठनं च संस्कृतभाषायामेव कारयितव्यम् । तदा एव विश्व विद्यालयीयकक्षा- स्वपि संभवति। अरविन्द:-एतदर्थ देशस्य समस्तविश्वविद्यालयानां कुलपतयः तत्रत्यसंस्कृतपाठ्यग्रन्थसमितिसदस्याः देशस्य माध्यमिकशिक्षापरिषदधिकारिणां तथा तत्रत्यसंस्कृतपाठ्यग्रन्थसमि- तिसदस्यानां समीपे स्वीयान् सुदृढान् प्रस्तावान् प्रेपयेयु: यत् 'सर्वत्रैव तथा समस्त- - आधुनिक शिक्षा संस्थासु छात्राणां संस्कृते लेखनभाषणस्थिति: १२५ । संस्कृतपाठनस्य माध्यमं संस्कृतभाषा एव भवेत्' इति; मन्ये, तदैवेदं संभवम् । राका-अहं तु कथयामि यत् उत्तरप्रदेशस्य एव माध्यमिक- शिक्षापरिषद् तथा सर्वे विश्वविद्यालयाः यदि एतदर्थ प्रयासं कुर्युः, तदापि संस्कृतभाषायाः, मन्ये, महानुपकारो भवेत् । पुनः उत्तर- प्रदेशस्य अनुकृति भारतस्य, मन्ये, अन्ये प्रदेशाः करिष्यन्त्येव । अरविन्दः-दीदि ! भवती सत्यं कथयति । यदि च इदं न भवति, तर्हि संस्कृतभाषा तु रसातलं यास्यति । केवलं तस्याः विचारा एव हिन्यां लप्स्यन्ते । अग्रे च चलित्वा हिन्दी तस्या विचारानपि यदा आत्मसात्करिष्यति, तदा अस्या: सर्वथा विलयो भविष्यति । राका -- अत एव तु कथयामि यद् भारतीयमाध्यमिकशिक्षापरि- षदधिकारिभिः, तत्रत्यसंस्कृतपाठ्यग्रन्थसमितिसदस्यैः, एवमेव च भारतीयविश्वविद्यालयानां कुलपतिभिः तथा तत्रत्यसंस्कृतपाठ्य- ग्रन्थसमितिसदस्यैः संस्कृतभाषायाः शरीरे आत्मनि च लग्नोऽयं क्षय- रोगः अतिशीघ्र चिकित्सितव्यः । अरविन्द:-दीदि ! अथेदं कथयतु यद् भवती संकायपत्रिकायां लेखं दातुं वस्तुतो वाञ्छति न वा? राका-अरविन्द! अहं वस्तुतो वाञ्छामि लेखं दातुम् । मया हिन्दीभाषायां लेखो लिखितोऽप्यस्ति । मम लेखस्य शीर्षकं 'नारी- णाम् आजीविका' अस्ति । गृहाण, एतं पठित्वा पश्य (लेखं ददाति)। अरविन्द:-[लेखमादाय पठति हर्ष चानुभवति] दीदि ! अत्यन्तं प्रभावशाली अयं लेखो मानसं प्रविशति इव । राका-किन्तु संस्कृतभाषाया ज्ञानस्य अभावेन अस्यानुवादमपि कर्तुं न पारयामि । किं कुर्याम् ? अहन्तु ग्लानिमनुभवामि । अरविन्द:-दीदि ! अहं तु प्रथमकक्षायामेव पठामि । अतो भवत्याः लेखस्य अनुवादकरणे अहं पूर्णतया समर्थो नास्मि । किन्तु चिन्तां न करोतु भवती । संस्कृतपाठशालायां मां ये शास्त्रिमहोदयाः पाठयन्ति, तेषां संस्कृतं बहुललितं श्रुतिमधुरं च वर्तते । ते सदैव १२६ सस्कृत-निवन्धावली सर्वान् संस्कृतभाषायामेव पाठयन्ति । अहं भवत्याः लेखस्य संस्कृत- भाषायामनुवादं तैरेव कारयिष्यामि राका-(योजनां श्रुत्वां प्रसन्ना भूत्वा) अरविन्द ! त्वं बहु शोभनोऽसि । मह्य त्वं भृशं रोचंसे । त्वं स्वकीयगुरुचरणान् गत्वा इदमपि प्रार्थय यत्ते मामपि संस्कृतभाषां, पाठयितुं कृपां कुर्युः । मम मनसि संस्कृतभाषायां भाषणस्य लेखनस्य च प्रबला इच्छा वरीवर- यते । कथय, ते मां पाठयिष्यन्ति न वा ? अरविन्दः-दीदि ! मम गुरवः अत्यन्तं सरलचेतसः तथा प्रसन्न- वचसः सन्ति । ते अवश्यमेव मम प्रार्थनां स्वीकरिष्यन्ति । अहं सम्प्रत्येव गच्छामि (लेखमादाय गन्तुमिच्छति)। राका-नहि नहि अरविन्द ! साम्प्रतं नैव । त्वं यदा पठनाय संस्कृतपाठशालां गमिष्यसि, तदैव कथनीयम् । अरविन्दः-नहि दीदि ! तदा तु ते पाठने एव व्यस्ताः भवन्ति । साम्प्रतं ते गृहे सावकाशा: भवेयुः । अतो भवत्याः लेखस्यानुवाद त्वरितमेव करिष्यन्ति । भवती उत्तिष्ठतु; स्नानभोजनादिकं च करोतु; तथा विश्वविद्यालयाय सज्जीभवतु । तावदहम् अनुवाद कारयित्वा समागच्छामि । [अरविन्दः सत्वरं निर्गच्छति; राका पुलकितदेहा भूत्वा दैनिक- कर्माणि प्रारभते ।] ।

Sanskrit Nibandhavali

Author
Dikshit, Dr. Hari Narayan
Title
Sanskrit Nibandhavali
File name
Sanskrit Nibandhavali
Text
OCR done
Citation
1985
Published
2012/04
Publisher
Delhi, Eastern Book Linkers
Language
Sanskrit
Pages
136
Library
Government College, Kota
Classification
Literature
Keywords
~
DLI number
407555
Barcode
99999990303487.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
KOvD1J8UM7Q
Download PDF

Sanskrit Nibandhavali