Sanmati Library, Jaipur

Prameyratnmala

Virya, Madanant · 2009/11

PDF Proofread

Front matter

प्रमेयरत्नमाला। तस्मै नमो माणिक्यनन्दिने ॥ २ ॥ प्रमेन्दुवचनादारचन्द्रिकाप्रसरे सति । मादृशाः क नु गण्यन्ते ज्योतिरिङ्गणसन्निभाः ॥ ३ ॥ तथाऽपि तद्वचो- ऽपूर्वरचनारुचिरं सताम् । चेतोहरं भृतं यद्वन्नद्या नवघटे जलम् ॥ ४ ॥ वैनेयप्रियपुत्रस्य हीरपस्योपरोधतः । शान्तिषेणार्थमारब्धा परीक्षामुखपञ्चिका ॥ ५ ॥ श्रीमन्यायावारपारस्यामेयप्रमेयत्नसारस्यावगाहनमव्युत्पन्नैः कर्तु न पार्यत इति तदवगाहनाय पोतप्रायमिदं प्रकरणमाचार्यः प्राह । तत्प्रकरणस्य च सम्बन्धादित्रयापरिज्ञाने सति प्रेक्षावती प्रवृत्तिनस्यादिति तत्रयानुवादपुरःसरं वस्तुनिर्देशपरं प्रतिज्ञाश्लोकमाह- प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः॥ इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्प लधीयसः ॥१॥ १ अहमिव दृश्यन्ते इति मादृशाः। २ खद्योतसदृशाः । ३ लक्षितस्य लक्षणमुपपद्यते न वेति विचारः परीक्षा । अथवा, स्वरूपं तदाभासः संख्या तदाभासः परीक्षा । अथवा, विरुद्धनानायुक्ति प्रावल्यदौर्बल्यावधारणाय प्रवर्तमानो विचारः परीक्षा । कारिका खल्पवृत्तिस्तु, सूत्रं सूचनकं स्मृतम् । टीका निरन्तरं व्याख्या, पञ्चिका पदभग्जिका ॥ १ ॥ ४ पूर्वापरविवररहितत्त्वलक्षणा श्रीः न्यायः प्रमाणात्मिका युक्तिः। ५ प्रमाणगोचरा जीवादिपदार्थाः । प्रमेयमेव रत्नानि प्रमेयरत्नानि । ६ परीक्षामुखस्य । ७ विचारवताम् । ८ उक्तस्य साथै पुनर्वचनमनुवादः। ९ प्रमाणतदाभासलक्षणाभिधेयकथनपरम् । १० वर्तमानस्याझीकारः प्रतिजा । ११ अत्र प्रमाणशब्दः कर्तृकरणभावसाधनः । तत्र प्रतिवन्धविगमविशेषवशात्स्क परप्रमेयखरूपं प्रमीयते यथावज्जानातीति प्रमाणमात्मा । साधकतमत्वादिति विव- -क्षायां तु प्रमीयते येन तत्प्रमाणं । प्रमितिमात्र वा प्रमाणम् प्रतिवन्धापाये प्रादुर्भूत- ज्ञानपर्यायस्य प्राधान्येनाश्रयणात्प्रदीपादेः प्रभाभारात्मकप्रकाशवत् । स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥१॥ अर्यते गम्यते ज्ञायते यः सोऽर्थः । १३ सम्यग्ज्ञानात्तन भवति इति तथापि तदिवाभासते प्रतिभातीति तदाभासः । १४ स्वरुचिविरचितत्त्वदूषणपरिहारार्थ सिद्ध- मित्युच्यते । १५ कनिष्ठान्मन्दमतीनिति यावत् । १२ अर्थः प्रथमसमुद्देशः। इत्यस्यार्थः-अहं वक्ष्ये प्रतिपादयिष्ये । किं तल्लक्ष्म, लक्षणम् । किं विशिष्टं लक्ष्म ? सिद्ध, पूर्वाचार्यप्रसिद्धत्वात् । पुनरपि कथंभूतं ? अल्प- मल्पग्रन्थवाच्यत्वात् । ग्रन्थतोऽल्पमर्थतस्तु महदित्यर्थः । कान् ? लघीयसो विनेयानुदिश्य । लाघवं मतिकृतमिह गृह्यते न परिमाणकृतं नाऽपि कालकृतं तस्य प्रतिपाद्यत्वव्यभिचारात् । कयोस्तलक्ष्म ? तयोः प्रमाणतदाभासयोः । कुतः यतोऽर्थस्य परिच्छेद्यस्य संसिद्धिः संप्राप्तिईतिर्वा भवति । कस्मात् ? प्रमाणात् । न केवलं प्रमाणादर्थसंसिद्धिर्भवति । विपर्ययो भवति । अर्थसं- सिद्धयमावो भवति । कस्मात्तदामासात् प्रमाणामासात् । इतिशब्दो हेत्वर्थे इति हेतोः । अयमत्र समुदायार्थः । यतः कारणात्प्रमाणादर्थसंसिद्धिर्भवति । यस्माच्च तदाभासाद्विपर्ययो भवति । इति हेतोस्तयोः प्रमाणतदामासयोलक्ष्म लक्षणमहं वक्ष्ये इति ॥ ननु सम्बन्धामिधेयशक्यानुष्ठानेष्टप्रयोजनवन्ति हि शास्त्राणि भवन्ति । तत्रास्य प्रकरणस्य यावदामधेयं सम्बन्धो वा नाभिधीयते न तावदस्योपादेयत्वं भवितुमर्हति । एष वन्ध्यासुतो यातीत्यादिवाक्यवत् । दशदाडिमादिवाक्यवच्च । तथा शक्यानुष्ठानेष्टप्रयोजनमपि शास्त्रादाववश्यं वक्तव्यमेव । अशक्यानुष्ठानस्येष्टप्रयोजनस्य सर्वन्वरहरतक्षचूडारत्नालङ्कारो- पदेशस्येव प्रेक्षावद्भिरनादरणीयत्वात् । तथा शक्यानुष्ठानस्याप्यनिष्टप्रयो- जनस्य विद्वद्भिरवधीरणान्मातृविवाहादिप्रदर्शकवाक्यवदिति । सत्यं, प्रमाण- १ शिष्यत्व । २ प्रकृतस्यार्थस्यानुरोधेनोत्तरोत्तरस्य विधान सम्वन्धः । सिद्धार्थ सिद्धसम्वन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन चकव्यः सम्वन्धः सप्रयोजनः॥१॥ व्याख्याशुद्धिस्त्रिधा शास्ने स्थानमार्गप्रमेयतः । स्थानं त्रिधा द्विधा मार्गः प्रमेयं च त्रिधा विदुः ॥ २॥ श्लोकस्यास्य व्याख्यानम्- तत्र पातनिक- स्थानं द्विविधं सूत्रपातनिका प्रन्थपातनिकेति । समर्थनस्थान । विवरणस्थानमिति विधा । अन्वयमार्गः व्यतिरेकमार्ग इति मागों द्विधा । प्रकृतप्रमेय, प्रासंगिकप्रमेयं, भानुषंगिकप्रमेयमिति विधा। -- . प्रमेयरत्नमाला- तदामासपदोपादानादमिधेयममिहितमेव । प्रमाणतदामासयोरनेन प्रकरणे- नामिधानात् । सम्बन्धश्चार्थायातः प्रकरणतदभिधेययोर्वाच्यवाचकमावलक्षणः प्रतीयत एव । तथा. प्रयोजनं चोक्तलक्षणमादिश्लोकेनैव संलक्ष्यते, प्रयोजनं हि द्विधा मिद्यते । साक्षात्परम्परयति । तत्र साक्षात्प्रयोजनं वक्ष्ये इत्यनेनामिधीयते । प्रथम शास्त्रव्युत्पत्तेरेव विनयैरन्वेषणात् । पारम्पर्येण तु-प्रयोजनमर्थसंसिद्धिरित्यनेनोच्यते शास्त्रव्युत्पत्त्यनन्तरमावित्वादर्थसंसिद्धे- रिति ॥ ननु निःशेषविघ्नोपशमनायेष्टदेवतानमस्कारः शास्त्रकृता कथं न कृत इति न वाच्यम् । तस्य मनःकायाभ्यामपि सम्भवात् । अथवा वाचनिकोऽपि नमस्कारोऽनेनैवादिवाक्येनामिहितो वेदितव्यः । केषाञ्चिद्वा- क्यानामुभयार्थप्रतिपादनपरत्वेनापि दृश्यमानत्वात् । यथा श्वेतो धावतीत्युक्ते श्वा इतो धावति श्वेतगुणयुक्तो धावति इत्यर्थद्वयप्रतीतिः । तत्रादिवाक्यस्य नमस्कारपरताभिधीयते । अर्थस्य हेयोपादेयलक्षणस्य संसिद्धितिर्भवति । कस्मात् ? प्रमाणात्। अनन्तचतुष्टयस्वरूपान्तरङ्गलक्षणा, समवसरणादिस्वमावा बहिरङ्गलक्षणा.लक्ष्मीर्मा इत्युच्यते । अणनमाणः शब्दः मा च आणश्च माणौ प्रकृष्टौ माणौ यस्यासौ प्रमाणः । हरिहरायसम्मविविभूतियुक्तो दृष्टेष्टा- विरुद्धवाक्च भगवानहन्नेवाभिधीयत इत्यसाधारणगुणोपदर्शनमेव • भगवतः संस्तवनमभिधीयते । तस्मात्प्रमाणादवधिभूतादर्थसंसिद्धिर्भवति तदाभासाच्च हरिहरादेरर्थसंसिद्धिर्न भवति । इति हेतोः सर्वज्ञतदाभासयोर्लक्ष्म लक्षणमहं वक्ष्ये- सामग्रीविशेषेत्यादिना । अथेदानीमुपक्षिप्तप्रमाणतत्त्वे १ अण्यते शब्द्यते येनासावाणः दिव्यध्वनिरित्यर्थः । प्रत्यक्षे परोक्षे अविरुद्धवाक यम:स: । .अर्थद्वारेण 'साधितभगवतोऽर्हत्सकाशात्सर्वज्ञात्प्रथमकरणभूतात् फलमिति प्रतिमस्तियथा प्रमाणाद्भिनमिति कापिलाः प्रमाणात्कलमभिन्नमिति सौगताः प्रमाणा- स्कथंचित्फलमभिन्न भिन्नमिति जनाः। १ ५ प्रथमसमुदेशः। स्वरूपसंख्याविषयफललक्षणासु चतसृषु विप्रतिपत्तिषु मध्ये स्वरूपवि: प्रत्तिनिराकारणार्थमाह- स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमिति ॥ १॥ प्रकर्षेण संशयादिव्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत्प्रमाणम् । तस्य च ज्ञानमिति विशेषणमज्ञानरूपस्य सन्निकर्षादेनैयायि- कादि-परिकल्पितस्य प्रमाणत्वव्यवच्छेदार्थमुक्तम् । तथा ज्ञानस्यापि स्वसंवेदनेन्द्रियमनोयोगिप्रत्यक्षस्य निर्विकल्पकस्य प्रत्यक्षत्वेन प्रामाण्य सौगतः परिकल्पितं तन्निरासार्थ व्यवसायात्मकग्रहणम् । तथा बहिरापहोतॄणां विज्ञानाद्वैतवादिनां पुरुपाद्वैतवादिनां पश्यतोहराणां शून्यैकान्तवादिनां च विपर्यासव्युदासार्थमर्थग्रहणम् । अस्य चापूर्वविशेषणं गृहीतग्राहिधारावाहि- १ स्वरूपसंख्याविषयफललक्षणाश्चतस्रो विप्रतिपत्तयः । सम्प्रति तासां मध्ये स्वरूपविप्रतिपत्तिर्यथा-स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमित्याहताः । इन्द्रिय- प्रवृत्तिः प्रमाणमिति कापिलाः । प्रमातृव्यापारः प्रमाणमिति प्राभाकराः । अनधि- गतार्थ प्रमाणमिति भाटाः । अविसंवादि विज्ञानं प्रमाणमिति सौगताः । प्रमाकरण प्रमाणमिति यौगाः । कारकसाकल्यं प्रमाणमिति जयन्ताः । संख्याविप्रतिपत्तिर्यथा-प्रत्यक्षमेकं चार्वाकाः कारणासौगताः पुनः । अनुमान च तच्चैव सांख्याः शब्दं च ते अपि ॥ १॥ न्यायैकदेशिनोऽप्येवमुपमानं च केन च । अर्थापत्या सहैतानि चत्वार्याहुः प्रभाकराः ॥ २ ॥ अभावषष्ठान्येतानि भाग वेदान्ति- नस्तथा। सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः ॥ ३ ॥ एतत्सर्वे युक्तं सम्भवति प्रत्यक्षपरोक्षभेदात् द्विविधं प्रमाणमिति जैना वदन्ति । विपयविप्रतिपत्तिर्यथा-प्रमाणतत्वस्य सामान्यमेव विषयो न पुनर्विशेष इति कापिलाः पुरुषाद्वैतवादिनश्च । विशेषमेव विषयो न पुनः सामान्यमिति चौद्धाः। सामान्यं विशेपश्च द्वयमपि स्वतन्त्रभावेन विषय इति योगाः । सामान्यं विशेषश्चा- भेदेन विषय इति मीमांसकाः। २ ज्ञायतेऽनेनेति ज्ञानं शप्तिर्वा ज्ञानम् । ३ षष्ठी वा नादरे इति पष्ठी ।

६ प्रमेयरत्नमाला। , ज्ञानस्य प्रमाणतापरिहारार्थमुक्तम् । तथा परोक्षज्ञानवादिनां मीमांसकांनाम- स्वसंवेदनज्ञानवादिनां सांख्यानां ज्ञानान्तरप्रत्यक्षज्ञानवादिनां यौगानां च मतमपाकर्तुं स्वपदोपादानमित्यव्याप्त्यतिव्याप्त्यसम्भवदोपपरिहारात् मुव्यव- स्थितमेव प्रमाणलक्षणम् । अस्य च प्रमाणस्य यथोक्तलक्षणत्वे साध्ये प्रमाणत्वादिति हेतुरनैव द्रष्टव्यः । प्रथमान्तस्यापि हेतुपरत्वेन निर्देशोपपत्तेः । प्रत्यक्षं विशदं ज्ञानमित्यादिवत् । तथाहि-प्रमाणं स्वापूर्वार्थव्यवसायात्मकं ज्ञानं भवति प्रमाणत्वात् । यत्तु स्वापूर्वार्थव्यवसायात्मकं ज्ञानं न भवति न तत्प्रमाणम् । यथा संशयादिर्घटादिश्च । प्रमाणं च विवादापन्नम् । तस्मात्स्वापूर्वार्थव्यवसायात्मकं ज्ञानमेव भवतीति । न च प्रमाणत्वमसिद्धम् । सर्वप्रमाणस्वरूपवादिनां प्रमाणसामान्ये विप्रतिपत्त्यभावात् । अन्यथा स्वेष्टानिष्टसाधनदूषणायोगात् । अथ धर्मिण एव हेतुस्बे प्रतिज्ञार्थंकदेशा- सिद्धो हेतुः स्यादिति चेन्न । विशेषं धर्मिणं कृत्वा सामान्य हेतुं ब्रुवतां दोषाभावात् । एतेनापक्षधर्मत्वमपि प्रत्युक्तम् । सामान्यस्याशेषविशेषनिष्ठत्वात्। न च पक्षधर्मताबलेन हेतोर्गमकत्वमपि त्वन्यथानुपपत्तिबलेनेति । सा चात नियमवती विपक्षे बाधकप्रमाणवलानिश्चितैव । एतेन विरुद्धत्वमन- कान्तिकत्वं च निरस्तं बोद्धव्यम् । विरुद्धस्य व्यभिचारिणश्चाविनामावनि- यमनिश्चयलक्षणत्वायोगादतो भवत्येव साध्यसिद्धिरिति केवलव्यतिरेकिणोऽपि हेतोर्गमकत्वात् । सात्मकं जीवच्छरीरं प्राणादिमत्वादितिवत् ।। अथेदानी स्वोक्तप्रमाणलक्षणस्य ज्ञानमिति विशेषणं समर्थयमानः प्राह- हिताहितप्राप्तिपरिहारसमर्थ हि प्रमाण, ततो ज्ञानमेव तदिति ।२। हितं सुखं तत्कारणं च । अहितं दुःखं तत्कारणं च । हितं चाहितं च हिताहित । तयोः प्राप्तिश्च परिहारश्च तत्र समर्थम् । हिशब्दो यस्मादर्थे । तेनायमर्थः सम्पादितो भवति । यस्माद्धिताहितप्राप्तिपरिहारसमर्थ प्रमाणं - प्रथमसमुद्देशः। ततस्तत्प्रमाणत्वेनाभ्युपगतं वस्तु ज्ञानमेव भवितुमर्हति नाज्ञानरूपं सन्निक- र्षादि । तथा च प्रयोगः प्रमाणं ज्ञानमेव हिताहितप्राप्तिपरिहारसमर्थत्वात् । यत्तु न ज्ञानं तन्न हिताहितप्राप्तिपरिहारसमर्थम् । यथा घटादि । हिता- हितप्राप्तिपरिहारसमर्थ च विवादापन्नम् । तस्मात् ज्ञानमेव भवतीति । नचैतदसिद्धं । हितप्राप्तयेऽहितपरिहाराय च प्रमाणमन्वेषयन्ति प्रेक्षापूर्व- कारिणो न व्यसनितया सकलप्रमाणवादिभिरभिमतत्त्वात् । अत्राह सौगतः-भवतु नाम सन्निकर्पादिव्यवच्छेदेन ज्ञानस्यैव प्रामाण्यं न तदस्माभिर्निषिध्यते । तत्तु व्यवसायात्मकमवेत्यत्र न युक्तिमुत्पश्यामः । अनुमानस्यैव व्यवसायात्मनः प्रामाण्याभ्युपगमात् । प्रत्यक्षस्य तु निर्विकल्प- कत्त्वेऽप्यविसंवादकावेन प्रामाण्योपपत्तेरिति तत्राह- तनिश्चयात्मकं समारोपविरुद्धत्त्वादनुमानवदिति ॥ ३ ॥ तत् प्रमाणत्वेनाभ्युपगतं वस्त्विति धर्मिनिर्देशः । व्यवसायात्मकमिति साध्यम् । समारोपविरुद्धत्वादिति हेतुः । अनुमानवदिति दृष्टान्त इति ॥ अयममिप्रायः-संशयविपर्यासानध्यवसायस्वभावसमारोपविरोधिग्रहणलक्षणव्य- वसायात्मकत्वे सत्येवाविसंवादित्वमुपपद्यते । अविसंवादित्वे च प्रमाणत्वमिति चतुर्विधस्यापि समक्षस्य प्रमाणत्वमभ्युपगच्छता समारोपविरोधिग्रहणलक्षणं निश्चयात्मकमभ्युपगन्तव्यम् ।। ननु तथापि समारोपविरोधिव्यवसायात्मकत्वयोः समानार्थकत्वात् कथं साध्यसाधनभाव इति न मन्तव्यम् । ज्ञानस्वभावतया तयोरभेदेऽपि व्याप्यव्यापकत्वधर्माधारतया भेदोपपत्तेः । शिशपात्ववृक्षत्ववत् ॥ अथेदानी सविशेपणमर्थग्रहणं समर्थयमानस्तदेव स्पष्टीकुर्वन्नाह- अनिश्चितोऽपूर्वार्थ इति ॥ ४॥ यः प्रमाणान्तरेण संशयादिव्यवच्छेदेनानध्यवसितः सोऽपूर्वार्थः । तेनेहादिज्ञानविपयस्यावग्रहादिगृहीतत्वेऽपि न पूर्वार्थत्वम् । अवग्रहादिविषय- ८ प्रमेयरत्नमाला। -- भूतावान्तरविशेषनिश्चयाभावात् ॥ अथोक्तप्रकार एवापूर्वार्थः किमन्योऽ- प्यस्तीत्याह- दृष्टोऽपि समारोपात्तागिति ॥५॥ दृष्टोऽपि गृहीतोऽपि न केवलमनिश्चित एवेत्यपिशव्दार्थः । तादृगपूर्वार्थों भवति । समारोपादिति हेतुः । एतदुक्तं भवति-गृहीतमपि घ्यामलिता- कारतया यनिर्णेतुं न शक्यते तदपि वस्त्वपूर्वमिति व्यपदिश्यते प्रवृत्त- समारोपाव्यवच्छेदात् ॥ ननु भवतु नामापूर्वार्थव्यवसायात्मकत्वं विज्ञानस्य स्वव्यवसायं तु न विद्म इत्यत्राह- स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसाय इति ॥६॥ स्वस्योन्मुखता स्वोन्मुखता तया स्वोन्मुखतया स्वानुभवतया प्रतिमासनं स्वस्य व्यवसायः ॥ अत्र दृष्टान्तमाह- अर्थस्येव तदुन्मुखतयेति ॥ ७॥ • तच्छब्देनार्थोऽभिधीयते । यथार्थोन्मुखतया प्रतिमासनमर्थव्यवसायस्तथा स्वोन्मुखतया प्रतिभासनं स्त्रस्य व्यवसायो भवति ॥ अत्रोल्लेखमाह- घटमहमात्मना वेग्रीति ॥८॥ ननु ज्ञानमर्थमेवाध्यवस्यति न स्वात्मानम् । आत्मानं फलं वेति केचित् । कर्तृकर्मणोरेव प्रतीतिरित्यपरे । कर्तृकर्मक्रियाणामेव प्रतीतिरित्यन्ये । तेषां मतमखिलमपि प्रतीतिबाधितमिति दर्शयन्नाह- कर्मवत्कर्तृकरणक्रियामतीतेरिति ॥ ९॥ ज्ञानविपयभूतं वस्तु कर्माभिधीयते । तस्यैव ज्ञप्तिक्रियया व्याप्यत्वात् । तस्येव तद्वत् । कर्त्ता आत्मा । करणं प्रमाणम् | क्रिया प्रमितिः । कर्ता च करणं च क्रिया च तासां प्रतीतिः तस्यां इति हेतौ का, प्रागुक्तानुभवो- - A - प्रथमसमुद्देशः। or लेखे यथाक्रमं तत्प्रतीतिर्द्रष्टव्या ॥ ननु शब्दपरामर्शसचिवेयं प्रतीतिर्न वस्तुत्वबलोपजातेत्यत्राह- शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवदिति ॥ १०॥ यथा घटादिशब्दानुच्चारणेऽपि घटाद्यनुभवस्तथाऽहमहमिकया योऽयमन्त- र्मुखाकारतयावमासः स शब्दानुच्चारणेऽपि स्वयमनुभूयत इत्यर्थः ॥ अमुमेवा- र्थमुपपत्तिपूर्वकं परंप्रति सोल्लुण्ठमाचष्टे- को वा तत्सतिभासनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् ॥११॥ को वा लौकिकः परीक्षको वा । तेन ज्ञानेन प्रतिमासितुं शीलं यस्य स तथोक्तस्तं प्रत्यक्षविषयमिच्छन् विषयिधर्मस्य विषये उपचारात् तदेव ज्ञानमेव तथा प्रत्यक्षत्वेन नेच्छेत् अपि विच्छेदेव । अन्यथा अप्रामाणिकत्व- प्रसङ्गः स्यादित्यर्थः । अत्रोदाहरणमाह- प्रदीपवदिति ॥ १२॥ इदमत्र तात्पर्यम्-ज्ञानं स्वावभासने स्वातिरिक्तसजातीयार्थान्तरानपेक्षं. प्रत्यक्षार्थगुणत्वे सति अदृष्टानुयायिकरणत्वात्प्रदीपमासुराकारवत् ॥ अथ भवतु नामोक्तलक्षणलक्षितं प्रमाणं, तथापि तत्प्रामाण्यं स्वतः परतो वा ? न तावत्स्वतः आविप्रतिपत्तिप्रसङ्गात् । नापि परत:-अनवस्थाप्रसङ्गादिति मतद्वयमाशंक्य तन्निराकरणेन स्वमतमवस्थापयन्नाह- तत्मामाण्यं स्वतः परतश्चेति ॥ १३॥ सोपस्काराणि हि वाक्यानि भवन्ति । तत इदं प्रतिपत्तव्यं अभ्यासद- शायां स्वतोऽनभ्यासदशायां च परत इति । तेन प्रागुक्तैकान्तद्वयनिरासः । नचानभ्यासदशायां परतः प्रामाण्येऽप्यनवस्था समाना, ज्ञानान्तरस्याभ्यस्त- विषयस्य स्वतः प्रमाणभूतस्याङ्गीकरणात् । अथवा प्रामाण्यमुत्पत्तौ परत. एव । विशिष्टकारणप्रमत्त्वाद्विशिष्टकार्यस्योत । विषयपरिच्छत्तिलक्षणे प्रवृत्ति - - प्रमेयरत्नमाला। लक्षणे वा स्वकाय अभ्यासेतरदशापेक्षया कचित्स्वतः परतश्चेति निश्चीयते ॥ ननूत्पत्तौ विज्ञानकारणातिरिक्तकारणान्तरसव्यपेक्षत्वमसिद्धम् । प्रामाण्यस्य तदितरस्यैवाभावात् । गुणाख्यमस्तीति वाङ्मानं, विधिमुखेन कार्यमुखेन वा गुणानामप्रतीतः । नाप्यप्रामाण्यं खत एव प्रामाण्यं तु 'परत एवति विपर्ययः शक्यते कल्पयितुम् । अन्वयन्यतिरेकाभ्यां हि निरूपाल्लिङ्गादेव केवलात् प्रामाण्यमुत्पद्यमानं दृष्टम् । प्रत्यक्षादिष्वपि तथैव प्रतिपत्तव्यं नान्यथेति । तत एवाऽऽसोक्तत्वगुणसद्भावेऽपि न तकृत- मागमस्य प्रामाण्यम् । तत्रहि गुणेभ्यो दोपाणामभावस्तदभावाच संशय- विपर्यासलक्षणाप्रामाण्यद्वयासत्त्वेऽपि प्रामाण्यमौत्सर्गिकमनपादितमास्त एवेति । ततः स्थितं प्रामाण्यमुत्पत्तौ न सामग्र्यन्तरसापेक्षमिति । नापि विषयपरिच्छित्तिलक्षणे स्वकार्य स्वगृहणसापक्षन् । अगृहीतप्रामाण्यादेव ज्ञानाद्विषयपरिच्छत्तिलक्षणकार्यदर्शनात् ॥ ननु न न परिच्छित्तिमात्र प्रमाणकार्य तस्य मिथ्याज्ञानेऽपि सद्भावात् । परिच्छित्तिविशेषं तु नागृही- तप्रामाण्यं विज्ञानं जनयतीति । तदपि बालविलसितम् । नहि प्रामाण्यग्रहणोत्तरकालमुत्पत्त्यवस्थातः परिच्छत्तर्विशेषोऽत्रभासते, गृहीत- प्रामाण्यादपि विज्ञानानिर्विशेषविषयपरिच्छेदोपलव्धेः ॥ ननु परिच्छत्ति- मात्रस्य शुक्तिकायां रजतज्ञानेऽपि सद्भावात्तस्यापि प्रमाणकार्यत्वप्रसङ्ग इति चेत्- भवेदेवं, यद्यर्थान्यथात्वप्रत्ययस्वहेतूल्यदोषज्ञानाभ्यां तन्नापोद्येत । तस्माद्यन्न कारणदोषज्ञानं वाधकप्रत्ययो वा नोदेति, तत्र स्वत एव प्रामा- ज्यामिति । नचैवमप्रामाण्येऽप्याशङ्कनीयं, तस्य विज्ञानकारणातिरिक्तदोष- स्वभावसामग्रीसव्यपेक्षतयोत्पत्तेः निवृत्तिलक्षणे च स्वकार्ये स्वग्रहणसापेक्ष- स्वात् । तद्धि यावन्न ज्ञानं न तावत्स्वविषयात्पुरुषं निवर्तयतीति ॥ तदेतत्सर्वमनल्पतमोविलसितम् । तथाहि-न तावत्प्रामाण्यस्योत्पचौ सामनयन्तरापेक्षत्वमसिद्धम् । आप्तप्रणीतत्वलक्षणगुणसनिधाने सत्येवाप्त- न प्रथमसमुद्देशः। ११ प्रणीतवचनेषु प्रामाण्यदर्शनात् । यद्भावाभावाभ्यां यस्योत्पत्यनुत्पत्ती तत् तत्कारणकमिति लोकेऽपि सुप्रसिद्धत्वात् । यदुक्तम्---" विधिमुखेन कार्यमुखेन वा गुणानामप्रतीतिरिति " तत्र तावदाप्तप्रणीतशब्दे प्रतीतिर्गुणानामित्ययुक्तं आप्तप्रणीतत्त्वहानिप्रसङ्गात् । अथ चक्षुरादौ गुणानामप्रतीतिरित्युच्यते तदप्ययुक्तम् । नैर्मल्यादिगुणा- नामवलाबालादिमिरप्युपलब्धेः । अथ नैर्मल्यं स्वरूपमेव न गुणः तर्हि हेतोरविनामाववैकल्यमपि स्वरूपविकलतैव न दोप इति समानम् । अथ तद्वैकल्यमेव दोषः तर्हि लिङ्गस्य चक्षुरादेर्वा तत्स्वरूपसाकल्यमेव गुणः कथं न भवेत् ? आप्तोक्तऽपि शब्दे मोहादिलक्षणस्य दोषस्याभाव- मेव यथार्थज्ञानादिलक्षणगुणसद्भावमभ्युपगच्छन्नन्यत्र तथा नेच्छतीति कथमनुन्मत्तः ? अथोक्तमेव- शब्दे गुणाः सन्तोऽपि न प्रामाण्योत्पत्तौ व्याप्रियन्ते किन्तु दोषाभाव एवेति । सत्यमुकं, किन्तु न युक्तमेतत् । प्रतिज्ञामात्रेण साध्यसिद्धेरयोगात् । नहि गुणेभ्यो दोषाणामभाव इत्यत्र किञ्चिनिबन्धनमुत्पश्यामोऽन्यत्र महामोहात् । अथानुमानेऽपि त्रिरूप- लिङ्गमात्रजनितप्रामाण्योपलब्धिरेव तत्र हेतुरिति चेन । उक्तोत्तरत्वात् । तत्र हि त्रैरूप्यमेव गुणो यथा तवैकल्यं दोष इति नासमतो हेतुः । अपि चाप्रामाण्येऽप्येवं वक्तुं शक्यत एव । तत्र हि दोपेभ्यो गुणानाम- मावस्तदभावाच्च प्रामाण्यासत्त्वे अप्रामाण्यमौत्सर्गिकमास्त इत्यप्रामाण्यं स्वत एवेति तस्य मिन्नकारणप्रभवत्ववर्णनमुन्मत्तभाषितमेव स्यात् । किञ्च गुणेभ्यो दोषाणामभाव इत्यभिदधता गुणेभ्यो गुणा एवेत्याभिहितं स्यात् । मावान्तरस्वमावत्त्वादमावस्य । ततोऽप्रामाण्यसत्त्वं प्रामाण्यमेवेति नैतावता परपक्षप्रतिक्षेपः । अविरोधकत्त्वात् । तथा अनुमानतोऽपि गुणाः प्रती- यन्त एव, तथाहि- प्रामाण्यं विज्ञानकारणातिरिक्तकारणप्रभवं, विज्ञाना- न्यत्त्वे सति कार्यत्वात् अप्रामाण्यवत् । तथा प्रमाणप्रामाण्ये मिन्नकारण- प्रमेयरत्नमाला। जन्ये, मिन्नकार्यत्वात् । घटवस्त्रवदिति च । ततः स्थितं प्रामाण्यमुत्पत्ती परापेक्षमिति ॥ तथा विषयपरिच्छत्तिलक्षणे प्रवृत्तिलक्षणे वा स्वकार्ये स्वग्रहणं नापेक्षत इति नैकान्तः कचिदभ्यस्तविषय एव परानपेक्षत्व- व्यवस्थानात् । अनभ्यस्ते तु जलमरीचिकासाधारणप्रदेशे जलज्ञान परा- पेक्षमेव । सत्यामिदं जलं, विशिष्टाकारधारित्वात् घटचेटिकापेटकदर्दुरा- रावसरोजगन्धवत्त्वाच्च, परिदृष्टजलवदित्यनुमानज्ञानादर्थक्रियाज्ञानाच, स्वतः- सिद्धप्रामाण्यात्प्राचीनज्ञानस्य यथार्थत्वमाकल्पमवकल्प्यत एव ॥ यदप्य- मिहितं प्रामाण्यग्रहणोत्तरकालमुत्पत्त्यवस्थातः परिच्छित्तेविशेपो नावभासत इति । तत्र यद्यभ्यस्तविषये नावमासत इत्युच्यते तदा तदिष्यत एव । तत्र प्रथममेव निःसंशयं विषयपरिच्छत्तिविशेषाभ्युपगमात् । अनभ्य- स्तविषये तु तद्ग्रहणोत्तरकालमस्त्येव विषयावधारणस्वभावपारीच्छत्ति- विशेषः । पूर्व प्रमाणाप्रमाणसाधारण्या एव परिच्छित्तेरुत्पत्तेः । ननु प्रामाण्य- परिच्छित्त्यारेभेदात्कथं पौपिमिति ? नैवम् । नहि सर्वाऽपि परि- च्छित्तिः प्रामाण्यामिका, प्रामाण्यं तु परिच्छित्त्यात्मकमेवेति न दोषः। यदप्युक्तम्- बाधककारणदोषज्ञानाभ्यां प्रामाण्यमपोद्यत इति- तदपि फल्गुभाषितमेव । अप्रामाण्येऽपि तथा वक्तुं शक्यत्वात् । तथाहि- प्रथममप्रमाणमेव ज्ञानमुत्पद्यते पश्चादवाधबोधगुणज्ञानोत्तरकालं तदपोद्यत इति । तस्मात्प्रामाण्यमप्रामाण्यं वा स्वकार्ये कचिदभ्यासानभ्यासापेक्षया स्वतः परतश्चेति निर्णेतव्यामिति ॥ देवस्य सम्मतमपास्तसमस्तदोषं वीक्ष्य प्रपञ्चरुचिरं रचितं समस्य । माणिक्यनन्दिविभुना शिशुबोधहेतोर्मानस्वरूपममुना स्फुटमभ्यधायि ॥१॥ इति परीक्षामुखलघुवृत्तौ प्रमाणस्य स्वरूपोद्देशः ॥ १॥ - द्वितीयसमुद्देश- . अथ प्रमाणस्वरूपविप्रतिपत्तिं निरस्येदानीं संख्याविप्रतिपत्तिः प्रतिक्षिप- न्सकलप्रमाणभेदसन्दर्भसंग्रहपरं प्रमाणेयत्ताप्रतिपादकं वाक्यमाह- तवेधेति ॥१॥ तच्छब्देन प्रमाणं परामृश्यते । तत्प्रमाणं स्वरूपेणावगतं द्वेधा द्विप्रकार- मेव । सकलप्रमाणभेदानामत्रैवान्तर्भावात् ॥ तद्वित्वमध्यक्षानुमानप्रकारेणापि सम्भवतीति तदाशङ्कानिराकरणार्थं सकलप्रमाणभेदसंग्रहशालिनी संख्या प्रव्यक्तीकरोति- प्रत्यक्षतरभेदादिति ॥ २॥ प्रत्यक्षं वक्ष्यमाणलक्षणं, इतरत्परोक्ष, ताभ्यां मेंदात्प्रमाणस्येति शेषः । न हि परपरिकल्पितैकद्वित्रिचतुःपञ्चषट्प्रमाणसंख्यानियमे निखिलप्रमाणमे- दानामन्तर्भावविभावना शक्या कर्तुम् । तथाहि-प्रत्यक्षकप्रमाणवादिनश्चावा- कस्य नाध्यक्ष लैङ्गिकस्यान्तर्भावो युक्तः तस्य तद्विलक्षणत्वात् । सामग्री- स्वरूपमेदात् ॥ अथ नाप्रत्यक्षं प्रमाणमस्ति विसंवादसम्भवात् । निश्चिता- विनाभावालिङ्गाल्लिङ्गिनि ज्ञानमनुमानमित्यानुमानिकशासनं, तत्र च स्वभाव- लिङ्गस्य बहुलमन्यथाऽपि भावो दृश्यते । तथाहि कषायरसोपेतानामामलका- नामेतद्देशकालसम्बधिनां दर्शनेऽपि देशान्तरे कालान्तरे द्रव्यान्तरसम्बन्धे च अन्यथाऽपि दर्शनात्स्वभावहेतुर्व्यभिचायेव लताच्यूतवल्लताशिंशपादिसम्भाव- नाच ॥ तथा कार्यलिङ्गमपि गोपालघटिकादौ धूमस्य शक्रमूर्ध्नि चान्यथाऽपि भावात्पावकव्यभिचायेव । ततः प्रत्यक्षमेवैकं प्रमाणमस्यैवाविसंवादकत्त्वा- दिति । तदेतद्वालविलसितमिवाभात्युपपत्तिशून्यत्त्वात् । तथाहि- किम- प्रत्यक्षस्योत्पादककारणाभावादालम्बनामावाद्वा प्रामाण्यं निषिध्यते? तत्र न तावत्प्राक्तनः पक्षः। तदुत्पादकस्य सुनिश्चितान्यथानुपपत्तिनियतनिश्चय- लक्षणस्य साधनस्य सद्भावात् । नो खल्वप्युदीचीनः पक्षः । तदालम्ब- -- व्याप्यत्व- १४ प्रमेयरत्नमाला.। नस्य पावकादेः सकलविचारचतुरचेतसि सर्वदा प्रतीयमानत्वात् ॥ यदपि स्वभावहेतोय॑भिचारसम्भावनमुक्तम् । तदप्यनुचितमेव- स्वभाव- मात्रस्याहेतुत्वात् । व्याप्यरूपस्यैव स्वभावस्य व्यापकम्प्रति गमक- त्वाभ्युपगमात् । न च व्याप्यस्य व्यापकव्याभिचारित्वं विरोधप्रसङ्गात् ।। किञ्च एवं-वादिनो नाध्यक्षं प्रमाणं व्यवतिष्ठते । तत्राप्य- संवादस्यागौणत्त्वस्य च प्रामाण्याविनामावित्वेन निश्चेतुमशक्यत्त्वात् । यच्च कार्यहेतोरप्यन्यथापि सम्भावनं तदप्यशिक्षितलक्षितं सुविवेचितस्य कार्यस्य कारणब्यमिचारित्वात् । यादृशो हि धूमो ज्वलनकार्य भूधरनितम्बादावति- बहलधवलतया प्रसर्पन्नुपलभ्यते, न तादृशो गोपालघटिकादाविति । यद- प्युक्तम् " शक्रमूर्धनि धूमस्यान्यथापि माव इति तत्र किमयं शक्रमूर्द्धा अग्निस्वभावोऽन्यथा वा ? यद्यग्निस्वभावस्तदाग्निरेवेति कथं तदुद्भूतधूम- स्यान्यथाभावः शक्यते कल्पयितुम् । अथानग्निस्वभावस्तदा तदुद्भवो धूम एव न भवतीति कथं तस्य तद्वयभिचारित्वमिति । तथाचोक्तम्-अग्निस्वभावः शक्रस्य मूर्द्धा चेदग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवे- दिति ॥ १ ॥ किञ्च प्रत्यक्षं प्रमाणमिति कथमयं परं प्रतिपादयेत् । परस्य प्रत्यक्षेण गृहीतुमशक्यत्वात् । व्याहारादिकार्यप्रदर्शनात्तं प्रतिपद्यतेति चेत् आयातं तर्हि कार्यात्करणानुमानम् । अथ लोकव्यवहारापेक्षयेष्यत एवानुमानमपि, परलोकादावेवानभ्युपगमात्तदभावादिति । कथं तदभावोऽनु- पलब्धेरिति चेत्- तदाऽनुपलब्धिलिङ्गजनितमनुमानमपरमापतितमिति ॥ प्रत्यक्षप्रामाण्यमपि स्वभावहेतुजातानुमितिमन्तरेण नोपपत्तिमियर्तीति प्रागे- वोक्तमित्युपरम्यते ॥ यदप्युक्तं धर्मकीर्तिना प्रमाणेतरसामान्यस्थितेरन्यधियो. गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच कस्यचिदिति ॥ २॥ ततः प्रत्यक्ष- मनुमानमिति प्रमाणद्वयमेवेति सौगतः । सोऽपि न युक्तवादी । स्मृतेरविसं- - द्वितीयसमुद्देशः। १५ वादिन्यास्तृतीयायाः प्रमाणभूतायाः सद्भावात् । न च तस्या विसंवादाद- प्रामाण्यम् । दत्तग्रहादिविलोपापत्तेः । अथानुभूयमानस्य विषयस्यामावात् स्मृतेरप्रामाण्यं, न, तथापि अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः । अन्यथा प्रत्य- क्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यमनिवार्य स्यात् स्वविपयावभासनं स्मरणेऽ- प्यवशिष्टमिति । किञ्च स्मृतेरप्रामाण्येऽनुमानवार्ताऽपि दुर्लभा । तया व्याप्तेरविषयीकरणे तदुत्थानायोगादिति ॥ तत इदं . वक्तव्यम्----" स्मृतिः प्रमाणम् , अनुमानप्रामाण्यान्यथानुपपत्तेरिति " सैव प्रत्यक्षानुमानस्वरूपतया प्रमाणस्य द्वित्वसंख्यानियमं विघटयतीति किं नश्चिन्तया ॥ तथा प्रत्यभि- ज्ञानमपि सौगतीयप्रमाणसंख्यां विघटयत्येव । तस्यापि प्रत्यक्षानुमानयोरनन्त- वात् । ननु तदिति स्मरणमिदमिति प्रत्यक्षमिति ज्ञानद्वयमेव । न ताभ्यां विभिन्न प्रत्यभिज्ञानाख्यं वयं प्रतिपद्यमानं प्रमाणान्तरमुपलमामहे । ततः कथं तेन प्रमाणसंख्याविघटनमिति तदप्यघटितमेव । यतः स्मरणप्रत्यक्षाभ्यां प्रत्यभिज्ञानविषयस्यार्थस्य गृहीतुमशक्यत्वात् । पूर्वोत्तरविवर्तवर्येकद्रव्यं हि प्रत्यभिज्ञाविषयः। न च तत्स्मरणेनोपलभ्य(क्ष्य)ते तस्यानुभूतविषयत्वात् । नापि प्रत्यक्षेण तस्य वर्तमानविवर्तवर्तित्वात् ॥ यदप्युक्तम्-" ताभ्यां मिन्नमन्यत् ज्ञानं नास्तीति । " अभेदपरामर्शरूपतया मिन्नस्यैवावमासनात् । न च तयोरन्यतरस्य वा मेदपरामर्शकत्वमस्ति विभिन्नविषययत्वात् । न चैतत्प्रत्यक्षेऽ. न्तर्भवत्यनुमाने वा तयोः पुरोऽवस्थितार्थविषयत्वेनाविनाभूतलिङ्गसम्मावि- तार्थविषयत्वेन च पूर्वापरविकारव्याप्येकत्वाविषयत्वात् । नापि , स्मरणे, तेनापि तदेकत्वस्याविषयीकरणात् ॥ अथ संस्कारस्मरणसहकृतमिन्द्रियमेव .प्रत्यभिज्ञानं जनयतीन्द्रियजं चाध्यक्षमेवेति न प्रमाणान्तरमित्यपरः । सोऽप्य- तिबालिश एव । स्वविषयामिमुख्येन प्रवर्त्तमानस्येन्द्रियस्य सहकारिशतसम- वधानेऽपि विषयान्तरप्रवृत्तिलक्षणातिशयायोगात् । विषयान्तरं चातीतसाम्प्रति- १६ प्रमेयरलमाला। कावस्थाव्याप्येकद्रव्यमिन्द्रियाणां रूपादिगोचरचारित्वेन चरितार्थत्वाच ॥ नाप्यदृष्टसहकारिसव्यपेक्षमिन्द्रियमेकत्वाविषयं । उक्तदोषादेव । किञ्चादृष्टसं- स्कारादिसव्यपेक्षादेवात्मनस्तद्विज्ञानमितिकिन्न कल्प्यते ? दृश्यते हि स्वप्न- सारस्वतचाण्डालिकादिविद्यासंस्कृतादात्मनो विशिष्टज्ञानोत्पत्तिरिति ।। नन्वज- नादि संस्कृतमपि चक्षुः सातिशयमुपलभ्यते इति चेत् न, तस्य स्वार्थानति. क्रमेणैवातिशयोपलब्धेर्न विषयान्तरग्रहणलक्षणातिशास्य । तथाचोक्तम्- यत्राऽप्यतिशयो दृष्टः स स्वार्थानतिलंघनात्। दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्र- वृत्तित इति ॥ ३॥ नन्वस्य वार्तिकस्य सर्वज्ञप्रतिषेधपरत्वाद्विपमो दृष्टान्त इति- चेन्न-इन्द्रियाणां विषयान्तरप्रवृत्तावतिशयामावमात्रे सादृश्यात् दृष्टान्तत्वोपपत्तेः। न हि सर्वो दृष्टान्तधर्मो दार्टान्तिके भवितुमर्हति । अन्यथा दृष्टान्त एच न स्यादिति। ततः स्थितं प्रत्यक्षानुमानाभ्यामर्थान्तरं प्रत्यभिज्ञानं सामग्रीस्वरूपमे- दादिति। न चैतदप्रमाणं ततोऽर्थ परिच्छिद्य प्रवर्त्तमानस्यार्थक्रियायामविसंवादात् प्रत्यक्षवदिति । नचैकत्वापलापेबन्धमोक्षादिव्यवस्था अनुमानव्यवस्था वा । एकत्वामावे बद्धस्यैव मोक्षादेर्गृहीतसम्बन्धस्यैव लिङ्गस्यादर्शनादनुमानस्य च व्यवस्थायोगादिति । नचास्य विषये वाधकप्रमाणसद्भावादप्रामाण्यं तद्विषये प्रत्यक्षस्य लैङ्गिकस्य चाप्रवृत्तेः। प्रवृत्तौ वा प्रत्युत साधकत्वमेव न बाधकत्वमित्यलमतिप्रसंगेन । तथा सौगतस्य प्रमाणसंख्याविरोधिवि- ध्वस्तबाधं तर्काख्यमुपढौकत.एव । नचैतत्प्रत्यक्षेऽन्तर्मवति । साध्यसाधन- योाप्यव्यापकमावस्य साकल्येन प्रत्यक्षाविषयत्वात् । न हि तदियतो व्यापारान्कर्तुं शक्नोति । अविचारकत्वात् सन्निहितविषयत्त्वाच । नाप्यनुमाने, तस्यापि देशादिविषयविशिष्टत्त्वेन व्याप्यविषयत्त्वात् । तद्विषयत्त्वे वा प्रकृता- नुमानान्तरविकल्पद्वयानतिक्रमात् । तत्र प्रकृतानुमानेन व्याप्तिप्रतिपत्तावित- रेतर श्रयत्वप्रसङ्गः । व्याप्तौं 'हिं प्रतिपन्नायामनुमानमात्मानमासादयति ।

द्वितीयसमुद्देशः। तदात्मलामे च व्याप्तिप्रतिपत्तिरिति, अनुमानान्तरेणाविनाभावप्रतिपत्तावनव- स्थाचमूरी परपक्षचमू चञ्चमीति इति नानुमानगम्या व्याप्तिः । नापि सांख्यादिपरिकल्पितैरागमोपमानार्थापत्त्यभावैः साकल्येनाविनाभावावगतिः । तेपां समयसंगृहीतसादृश्यान्यथाऽनन्यथाभूताभावविषयत्वेन ब्याप्यविषयत्वात् । परैस्तथाऽनभ्युपगमाञ्च । अथ प्रत्यक्षपृष्ठभाविविकल्पात् साकल्येन साध्यसा- धनभावप्रतिपत्तेर्न प्रमाणान्तरं तदर्थ मृग्यमित्यपरः । सोऽपि न युक्तवादी- विकल्पस्याध्यक्षगृहीतविपयस्य तदगृहीतविषयस्य वा तद्व्यवस्थापकत्वम् ? आये पक्षे दर्शनस्येव तदनन्तरभाविनिर्णयस्यापि नियतविषयत्वेन व्याप्त्य- गोचरत्वात् । द्वितीयपक्षेऽपि विकल्पद्वयमुपढौकत एव । तद्विकल्पज्ञानं प्रमाणमन्यथा वेति ? प्रथमपक्षे प्रमाणान्तरमनुमन्तव्यं, प्रमाणद्वयेऽनन्त- र्भावात् । उत्तरपक्षे तु न ततोऽनुमानव्यवस्था । न हि व्याप्तिज्ञानस्याप्रा- माण्ये तत्पूर्वकमनुमानं प्रमाणमास्कन्दति सन्दिग्धादिलिङ्गादप्युत्पद्यमानस्य प्रामाण्यप्रसङ्गात् । ततो व्याप्तिज्ञानं सविकल्पमविसंवादकं च प्रमाणं प्रमाण- द्वयादन्यदभ्युपगम्यामेति न सौगतामिमतप्रमाणसंख्यानियमः । एतेनानुपल- म्भात्कारणव्यापकानुपलम्भाच्च कार्यकारणव्याप्यव्यापकभावसंवित्तिरितिवदन्नपि प्रत्युक्तः । अनुपलम्भस्य प्रत्यक्षविषयत्वेन कारणाद्यनुपलम्भस्य च लिंगत्वेन तज्जनितस्यानुमानत्वात् प्रत्यक्षानुमानाभ्यां व्याप्तिग्रहणपक्षोपक्षिप्त- दोषानुपंगात् । एतेन प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्याप्तिप्रतिपत्तिरित्य- प्यपास्तम् । प्रत्यक्षफलस्यापि प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविपयीकर- •णात् तदन्यत्वे च प्रमाणान्तरत्वमनिवार्यमिति । अथ व्याप्तिविकल्पस्य फलत्वान्न प्रामाण्यमिति न युक्तम् । फलस्याप्यनुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् । तथा सन्निकर्षफलस्यापि विशेषणज्ञानस्य विशेष्यज्ञान- लक्षणफलापेक्षया प्रमाणत्वमिति न वैशेषिकाभ्युपगताहापोहविकल्पः प्रमा- २ १८ प्रमेयरत्नमाला। . णान्तरत्वमतिवर्त्तते । एतेन त्रिचतुःपञ्चपटप्रमाणवादिनोऽपि सांख्याक्षपाद- प्रमाकरजैमिनीयाः स्वप्रमाणसंख्यां न व्यवस्थापयितुं क्षमा इति प्रतिपादि- तमवगन्तव्यम् । उक्तन्यायेन स्मृतिप्रत्यभिज्ञानतर्काणां तदभ्युपगतप्रमाण संख्यापरिपंथित्वादिति प्रत्यक्षतरभेदात् द्वे एव प्रमाणे इति स्थितम् । अथेदानी प्रथमप्रमाणभेदस्य स्वरूप निरूपयितुमाह- विशदं प्रत्यक्षमिति ॥३॥ ज्ञानमिति वर्तते । प्रत्यक्षमिति धर्मिनिर्देशः । विशदज्ञानात्मकं साध्यम् । प्रत्यक्षत्त्वादिति हेतुः । तथाहि-प्रत्यक्षं विशदज्ञानात्मकमेव प्रत्यक्षत्त्वात् । यन्न विशदज्ञानात्मकं तन्न प्रत्यक्षं, यथा परोक्षम् । प्रत्यक्षं च विवादापन्नं, तस्माद्विशदज्ञानात्मकमिति । प्रतिज्ञाथैकदेशासिद्धो हेतुरिति चेत् का पुनः प्रतिज्ञा तदेकदेशो वा ? धर्मिधर्मसमुदायः प्रतिज्ञा । तदेकदेशो धर्मो धर्मी वा ? हेतुः प्रतिज्ञार्थंकदेशासिद्ध इति चेन्न-धर्मिणो हेतुत्वे असिद्धत्वायोगात्। तस्य पक्षप्रयोगकालवद्धेतुप्रयोगेऽप्यसिद्धबायोगात् । धर्मिणो हेतुत्त्वे अनन्वय- दोप इति चेत् न-विशेपस्य धर्मित्वात् । सामान्यस्य च हेतुवात् तस्य च विशेपेष्वनुगमो विशेपनिष्ठत्वात्सामान्यस्य । अथ साध्यधर्मस्य हेतुत्वे प्रति- ज्ञार्थकदेशासिद्धत्वमिति तदप्यसम्मतम् । साध्यस्य स्वरूपेणैवासिद्धत्वात् । न प्रतिज्ञार्थेकदेशासिद्धत्वेन तस्यासिद्धत्वं, धर्मिणा व्यभिचारात् । सपक्षे वृत्त्यभावाद्धेतोरनन्वय इत्यप्यसत् । सर्वभावानां क्षणभङ्गसङ्गममेवाङ्गशृङ्गार- मङ्गीकुर्वतां ताथागतानां सत्त्वादिहेतूनामनुदयप्रसङ्गात् । विपक्षे वाधकप्रमा- णाभावात् । पक्षव्यापकत्वाच्चान्वयवत्वं प्रकृतेऽपि समानम् । इदानीं. स्त्रोक्तमेव विशदत्वं व्याचष्टे-- प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यमिति ॥ ४ ।।

द्वितीयसमुद्देशः। १९ - एकस्याः प्रतीतेरन्या प्रतीतिः प्रतीत्यन्तरम् । तेनाव्यवधानं तेन प्रति- भासनं वैशद्यम् । यद्यप्यवायस्यावग्रहहाप्रतीतिभ्यां व्यवधानं, तथापि न परोक्षत्वं विषयविपयिणोमेंदेनाप्रतिपत्तेः । यत्र विषयविषयिणोर्मेंदे. सति व्यवधानं तत्र परोक्षत्वम् । तहनुमानाध्यक्षविषयस्यैकात्मग्राह्य- स्याग्नेरमिन्नस्योपलम्भादध्यक्षस्य परोक्षतेति तदप्ययुक्तम् । मिन्नविषयत्वा- भावात् । विसदृशसामग्रीजन्यभिन्नाविपया प्रतीतिः प्रतीत्यन्तरमुच्यते नान्य- दिति न दोपः । न केवलमेतदेव । विशेषवत्तया वा प्रतिभासनं सांवशेपव- र्णसंस्थानादिग्रहणं वैशद्यम् । तच प्रत्यक्षं द्वधा मुख्यसंव्यवहारमेदा- दिति" मनसिकृत्य प्रथमं सांव्यवहारिकप्रत्यक्षस्योत्पादिकां सामग्री तद्भेदं च प्राह- इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकमिति ॥ ५॥ विशदं ज्ञानमिति चानुवर्तते । देशतो विशदं ज्ञानं सांव्यवहारिकमित्यर्थः । समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः तत्र मवं सांव्यवहारिकम् । भूयः किंभूतमिन्द्रियानिन्द्रियानमित्तम् । इन्द्रियं चक्षुरादि, अनिन्द्रियं मनः ते निमित्तं कारणं यस्य । समस्तं व्यस्तं च कारणमभ्युपगन्तव्यम् । इन्द्रियप्राधान्या- दनिन्द्रियत्रलाधानादुपजातामन्द्रियप्रत्यक्षम् , आनिन्द्रियादेव विशुद्धिसव्यपेक्षा- दुपजायमानमनिन्द्रियप्रत्यक्षम् । तत्रेन्द्रियप्रत्यक्षमवग्रहादिधारणापर्यन्ततया चतुर्विधमपि वह्नादिद्वादशभेदमष्टचत्वारिंशत्संख्यं प्रतीन्द्रियं प्रतिपत्तव्यम् । अनिन्द्रियप्रत्यक्षस्य चोक्तप्रकारेणाप्टचत्वारिंशद्भेदेन मनोनयनरहितानां चतु- मपीन्द्रियाणां व्यञ्जनावग्रहस्याष्टचत्वारिंशद्भेदेन च समुदितस्येन्द्रियानिन्द्रि- यप्रत्यक्षस्य पत्रिंशदुत्तरा त्रिशती संख्या प्रतिपत्तव्या । ननु स्वसंवेदनमे- दमन्यदपिप्रत्यक्षमस्ति, तत्कथं नोक्तमिति न वाच्यम् । तस्य सुखादिज्ञानस्व- रूपसंवेदनस्य मानसप्रत्यक्षत्वात् । इन्द्रियज्ञानस्वरूपसंवेदनस्य चेन्द्रियसमक्ष प्रमेयरत्नमाला। त्वादन्यथा तस्य स्वव्यवसायायोगात् । स्मृत्यादिस्वरूपसंवेदनं मानसमेवेति नापरं स्वसंवेदनं नामाध्यक्षमस्ति । ननु प्रत्यक्षस्योत्पादकं कारणं वदता ग्रन्थकारणेन्द्रियानिन्द्रियवदर्थालोकावपि किं न कारणवेनोक्तौ ? तदवचने कारणानां साकल्यस्यासंग्रहाद्विनेयव्यामोह एवं स्यात् । तदियत्ताऽनवधारणात् । न च भगवतः परमकारुणिकस्य चेष्टा तव्यामोहाय प्रभवतीत्याशङ्कायामुच्यते नार्थालोको कारणं परिच्छेद्यत्वात्तमोवत् ॥ ६॥ सुगममेतत् । ननु बाह्यालोकामावं विहाय तमसोऽन्यस्याभावात्साधन- विकलो दृष्टान्त इति । नैवम् । एवं सति बाह्यालोकस्यापि तमोऽभावादन्य- स्यासम्मवात्तेजोद्रव्यस्यासम्भव इति विस्तरेणैतदलङ्कारे प्रतिपादितं वोद्ध- व्यम् । अत्रैव साध्ये हेत्वन्तरमाह- तदन्वयव्यतिरेकानुविधानाभावाच केशोण्डुकज्ञानवन्नक्तंचरज्ञानवच्च ।। ७ ।। अत्र व्याप्तिः । यद्यस्यान्वयव्यतिरेको नानुविदधाति न तत्तत्कारणकं, यथा केशोंडुकज्ञानं, नानुविधत्ते च ज्ञानमान्ययव्यतिरेकाविति । तथा आलोकेऽपि । एतावान् विशेषस्तत्र नक्तंचरदृष्टान्त इति । नक्तंचरा मार्जा- रादयः । ननु विज्ञानमर्थजनितमर्थाकारं चार्थस्यग्राहकम् । तदुत्पत्तिमन्तरेण विपर्यप्रति नियमायोगात् । तदुत्पत्तेरालोकादावविशिष्टत्त्वात्ताद्रूप्यसहिताया एव तस्यास्तंप्रति नियमहेतुत्वात् भिन्नकालत्वेऽपि ज्ञानज्ञेययोग्राह्यग्राहक. भावाविरोधात् । तथाचोक्तम्- भिन्नकालं कथं ग्राह्यमितिचेग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षमम् । इत्याशङ्कायामिदमाह-- अतजन्यमपि तत्सकाशकं प्रदीपवत् ॥ ८ ॥ अर्थाजन्यमप्यर्थप्रकाशकमित्यर्थः अतजन्यत्वमुपलक्षणम् तेनातदाकारमपीत्यर्थः । उभयत्रापि प्रदीपो दृष्टान्तः । यथा प्रदी- द्वितीय समुद्देशः। पस्यातजन्यस्याऽतदाकारधारिणोऽपि तत्प्रकाशकत्वं, तथा ज्ञानस्यापीत्यर्थः । ननु यद्यर्थादजातस्यार्थरूपाननुकारिणो ज्ञानस्यार्थसाक्षात्कारित्वं तदा नियत- दिग्दशकालवर्तिपदार्थप्रकाशप्रतिनियमे हेतोरभावात्सर्व विज्ञानमप्रतिनियतवि- षयं स्यादिति शङ्कायामाह- स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति ॥ ९ ॥ स्वानि च तान्यावरणानि च स्वावरणानि तेषां क्षय उदयाभावः । तेषा- मेव सदवस्था उपशमः तवेत्र लक्षणं यस्या योग्यतायास्तया हेतुभूतया प्रतिनियतमर्थ व्यवस्थापयति प्रत्यक्षमिति शेपः । हि यस्मादर्थे । यस्मादेवं ततो नोक्तदोष इत्यर्थः । इदमत्र तात्पर्यम् , कल्पयित्त्वाऽपि ताद्रूप्यं तदुत्पत्तिं तदध्यवसायं च योग्यताऽवश्याऽभ्युपगन्तव्या । ताप्यस्य समा- नाथुस्तदुत्पत्तरिन्द्रियादिभिस्तद्वयस्यापि समानार्थसमनन्तरप्रत्ययैस्तत्रितयस्यापि शुक्ले शंखे पीताकारज्ञानेन व्यभिचाराद्योग्यताश्रयणमेव श्रेय इति । एतेन यदुक्तं परेण-" अर्थेनघटयत्येनां नहि मुक्त्वार्थरूपताम् । तस्मात्प्रमेयाधिगतौ प्रमाणं मेयरूपतेति" तन्निरस्तम् । समानार्था- कारनानाज्ञानेषु मेयरूपतायाः सद्भावात् । न च परेपां सारूप्यं नामास्ति वस्तुभूतमिति योग्यतयैवार्थप्रतिनियम इति स्थितम् । इदानीं कारणत्वात्प- रिच्छेद्योऽर्थ इति मतं निराकरोति- कारणस्य च परिच्छेद्यत्त्वे करणादिना व्यभिचार इति ॥१०॥ करणादिकारण परिच्छेद्यमिति तेन व्यभिचारः । न ब्रूमः कारणत्वात्प- रिच्छेद्यत्वमपितु परिच्छेद्यत्त्वात्कारणत्वमिति चेन्न । तथापि केशोंडुकादिना व्यभिचारात् । इदानीमतीन्द्रियप्रत्यक्षं व्याचष्टे--- २२ प्रमेयरत्नमाला। सामग्रीविशेषविश्लेषिताखिलावरणमती- न्द्रियमशेपतो मुख्यम् ॥ ११ ॥ सामग्री द्रव्यक्षेत्रकालभावलक्षणा, तस्या विशेषः समग्रतालक्षणः । तेन विश्लेषितानि अखिलान्यावरणानि येन तत्तथोकम् । किं विशिष्टं ? अती- न्द्रियमिन्द्रियाण्यतिक्रान्तम् । पुनरपि कीदृशमशेषतः सामस्त्येन विशदम् । अशेषतो वैशये किं कारणमिति चेत्-प्रतिवन्धाभाव इति ब्रूमः । तत्रापि किं कारणमिति चेत्-अतीन्द्रिगलमनावरणत्वं चेति ब्रूमः । एतदपि कुत इत्याह- सावरणत्त्व करणजन्यत्वे च प्रतिवन्धसम्भवात् ॥ १२ ॥ नन्ववधिमनःपर्यययोरनेनासंग्रहादध्यापकमेतल्लक्षणमिति न. वाच्यम् । तयोरपि स्वविषयेऽशेपतो विशदत्वादिधर्मसम्भवात् । नचैव मतिश्रुतयोरित्य- तिव्याप्तिपरिहारः । तदेतदतीन्द्रियमवधिमनःपर्ययकेवलप्रभेदात्रिविधमपि मुख्य प्रत्यक्षमात्मसन्निधिमात्रापेक्षत्त्वादिति । नन्वशेपविषयविशदावमासि ज्ञानस्य तद्वतो वा प्रत्यक्षादिप्रमाणपञ्चकाविषयत्त्वेनाभावप्रमाणविषमविषधरविध्वस्त- सत्ताकत्त्वात् कस्य मुख्यत्वम् ? तथाहि-नाध्यक्षमशेषज्ञविषयं, तस्य रूपा- दिनियतगोचरचारित्त्वात् सम्बद्धवर्तमानविषयत्वाच्च । न चाशेपवेदी सम्बद्धो वर्तमानश्चेति । नाप्यनुमानात्तत्सिद्धिः । अनुमानं हि गृहीतसम्बन्धस्यैकदेश- दर्शनादसन्निकृष्ट बुद्धिः । न च सर्वज्ञसद्भावाविनाभाविकार्यलिङ्गं स्वभावलिङ्गं चा सम्पश्यामः । तद्ज्ञप्तेः पूर्वं तत्स्वभावस्य तत्कार्यस्य वा तत्स्वमायाविनामा विनो निश्चेतुमशक्तेः। नाप्यागमात्तत्सद्भावः। स हि नित्योऽनित्यो वा तत्सद्भावं भावयेत्। न तावन्नित्यः- तस्यार्थवादरूपस्य कर्मविशेषसंस्तवनपरत्वेन पुरुषवि- शेषावबोधकत्वायोगात् । अनादेरागमस्यादिमत्पुरुषवाचकत्त्वाघटनाच्च । नाप्यनित्य आगमः सर्वज्ञ साधयति । तस्यापि तत्प्रणीतस्य तन्निश्चयमन्तरेण प्रामाण्यः- ?

द्वितीयसमुद्देशः। २३ निश्चयादितरेतराश्रयत्वाच्च । इतरप्रणीतस्य त्वनासादितप्रमाणभावस्याशेषज्ञ- प्ररूपणपरत्वं नितरामसम्भाव्यमिति । सर्वज्ञसशस्यापरस्य ग्रहणासम्भवाच्च नोपमानम् । अनन्यथाभूतस्यार्थस्याभावान्नार्थापत्तिरपि सर्वज्ञावबोधिकेति धर्माद्युपदेशस्य व्यामोहादपि सम्भवात् । द्विविधो ह्युपदेशः सम्यमिथ्योपदे- शभेदात् ; तत्र मन्वादीनां सम्यगुपदेशो यथार्थज्ञानोदयवेदमूलत्वात् । बुद्धा- दीनां तु व्यामोहपूर्वकः तदमूलत्वात् तेषामवेदार्थज्ञत्वात् । ततः प्रमाणपञ्च- काविषयत्वादभावप्रमाणस्यैव प्रवृत्तिस्तेन चाभाव एव ज्ञायते । भावांशे प्रत्यक्षादिप्रमाणपञ्चकस्य व्यापारादिति । अत्र प्रतिविधीयते । यत्तावदु- क्तम्-प्रत्यक्षादिप्रमाणाविषयत्वमशेषज्ञस्येति तदयुक्तं, तद्ग्राहकस्यानुमानस्य सम्भवात् । तथाहि-कश्चित्पुरुषः सकलपदार्थसाक्षात्कारी । तद्ग्रहणस्वभा- चत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् । यद्यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं तत्तत्साक्षात्कारि । यथाऽपगततिमिरं लोचनं रूपसाक्षात्कारि । तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च विवादापन्नः कश्चिदिति सकलपदार्थग्रहणस्वभात्वं नात्मनोऽसिद्धं चोदनातः सक- लपदार्थपरिज्ञानस्यान्यथायोगादन्धस्येवादर्शाद्रूपप्रतिपत्तेरिति । व्याप्तिज्ञानोत्पत्ति- वलाचाशेषविषयज्ञानसम्भवः केवलं वैशयें विवादः । तत्र चावरणापगम एव कारणं रजोनीहाराद्यावृतार्थज्ञानस्येव तदपगम इति । प्रक्षीणप्रतिबन्ध- प्रत्ययत्वं कथमिति चेदुच्यते-दोषावरणे कचिन्निर्मूलं प्रलयमुपव्रजतः प्रकृष्यमाणहानिकत्त्वात् । यस्य प्रकृष्यमाणहानिः । स कचिन्निमूलं प्रलयमुपव्रजति । यथाऽग्निपुटपाकापसारितकिटकालिकाद्यन्त रङ्गवहि रङ्गमलद्वयात्मनि हेम्नि मलमिति निर्हासातिशयवती च दोषावरणे इति । कथं पुनर्विवादाध्यासितस्य ज्ञानस्यावरणं सिद्धं ? प्रतिषेधस्य विधिपूर्वक त्वात् इति । अत्रोच्यते-विवादापन्नं ज्ञानं सावरणं, विशदतया स्वविषयानवबोध- कत्वाद्रजोनीहाराद्यन्तरितार्थज्ञानवदिति। न चात्मनोऽमूर्त्तत्वादावारकावृत्त्ययोगः।

२४ प्रमेयरत्नमाला। अमूर्तीया अपि चेतनाशक्तेमंदिरामदनकोद्रवादिभिरावरणोपपत्तेः । न चेन्द्रि- यस्य तैरावरण, इन्द्रियाणामचेतनानामप्यनावृतप्रख्यत्वात् । स्मृत्यादिप्रति- बन्धायोगात् । नापि मनसस्तैसवरणमात्मव्यतिरेकेणापरस्य मनसो निपेत्स्यः मानत्वात् । ततो नामूर्तस्यावरणाभावः । अतो नासिद्धं तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिवन्धप्रत्ययत्वम् । नापि विरुद्धं विपरीतनिश्चितावनाभावात् । नाप्यनैकान्तिकं देशतः सामस्त्येन वा विपक्षेवृत्त्यमावात् । विपरीतार्थोपस्था- पकप्रत्यक्षागमासम्भवान्नकालात्ययापदिष्टत्वम् । नापि सत्प्रतिपक्ष प्रतिपक्षसा- धनस्यहेतोरभावात् । अथेदमस्त्येव विवादापन्नः पुरुपो नाशेषज्ञो वक्तृत्वा- त्पुरुषत्वात्पाण्यादिमत्वाच्च । रथ्यापुरुषवदिति । नैतच्चारु वक्तृत्वादेरसम्यग्धे- तुत्वात् । वक्तृत्वं हि दृष्टेष्टविरुद्धार्थवक्तृत्वं तदविरुद्धवक्तृत्वं वक्तृत्वसामान्य वा गत्यन्तराभावात् । न तावत् प्रथमः पक्षः सिद्धसाध्यतानुषङ्गात् । नापि द्वितीयः पक्षः विरुद्धत्वात् । तदविरुद्धवक्तृत्वं हि ज्ञानातिशयमन्तरेण नोप- ‘पद्यत इति । वक्तृत्वसामान्यमपि विपक्षाविरुद्धत्वान्न प्रकृतसाध्यसाधनायालं, ज्ञानप्रकर्षे वक्तृत्वापकषीदर्शना प्रत्युत ज्ञानातिशयवतो वचनातिशयस्यैक सम्भवात् । एतेन पुरुषत्वमपि निरस्तं-पुरुषत्वं हि रागादिदोषदूपित, तदा सिद्धसाध्यता, तददूषितं तु विरुद्धं वैराग्यज्ञानादिगुणयुक्तपुरुषत्वस्याशेषज्ञ- त्वमन्तरेणायोगात् । पुरुषत्वसामान्यं तु सन्दिग्धविपक्षव्यावृत्तिकमिति सिद्ध सकलपदार्थसाक्षात्कारित्वं कस्यचित्पुरुषस्य । अतोऽनुमानादिति न प्रमाण- पञ्चकाविषयत्वमशेषज्ञस्य ॥ अथास्मिन्ननुमानेऽहंतः सर्ववित्तमनहतो वा अनर्हतश्चेदर्हद्वाक्यप्रमाणं स्यात् । अर्हतश्चेत्सोऽपि न श्रुत्या सामर्थ्येन वाऽव- गन्तुं पार्यते । स्वशक्त्या दृष्टान्तानुग्रहेण वा हेतोः पक्षान्तरेऽपि तुल्यवृत्ति- त्वादिति । तदेतत्परेषां स्ववधाय कृत्योत्थापनं, एवंविधविशेषप्रश्नस्य सर्वज्ञ सामान्याभ्युपगमपूर्वकत्वात् । अन्यथा न कस्याप्यशेषज्ञत्वमित्येवं वक्तव्यम् ।

द्वितीयसमुद्देशः। २५. प्रसिद्धानुमानेऽप्यस्य दोपस्य सम्भवेन, जात्युत्तरत्वाच्च । तथाहि-नित्यःशब्दः प्रत्यभिज्ञायमानत्वादित्युक्ते व्यापकः शब्दो नित्यः प्रसाध्यते अव्यापको वा । यद्यव्यापकः तदा व्यापकत्वेनोपकल्प्यमानो न कञ्चिार्थ पुष्णाति । अथ व्यापकः सोऽपि न । श्रुत्या सामर्थेन वाऽवगम्यते स्वशक्त्या दृष्टान्ता- नुग्रहेण वा । पक्षान्तरेऽपि तुल्यवृत्तित्वादिति सिद्धमतो निर्दोपात्साधनादशे- पज्ञत्वमिति । यच्चामावप्रमाणकवलितसत्ताकत्वमशेपज्ञस्यति तदयुक्तमेवानु- मानस्य तद्ग्राहकस्य सद्भावे सति प्रमाणपञ्चकामात्रमू स्याभावप्रमाणस्या- पस्थापनायोगात् " गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षयेति" च भावत्कं दर्शनम् । तथा च कालत्रयत्रिलोकलक्षणवस्तुसद्भावग्रहणेऽन्यत्रान्यदा गृहीतस्मरणे च सर्वज्ञना-- स्तिताज्ञानमभावप्रमाण युक्तम् । नापरथा । न च कस्यचिदर्वाग्दर्शिनास्त्रि- जगत्रिकालज्ञानमुपपद्यते सर्वज्ञस्यातीन्द्रियस्य वा । सर्वज्ञत्त्वं हि चेतोधर्म- तयाऽतीन्द्रियं तदपि न प्रकृतपुरुपविषयमिति कथमभावप्रमाणमुदयमासादयेत्। असर्वज्ञस्य तदुत्पादसामग्र्या असम्भवात् । सम्मवे वा तथाज्ञातुरेव सर्वज्ञत्वमिति । अनाधुना तदभावसाधनमित्यपि न युक्तं सिद्धसाध्यतानुप- गात् । ततः सिद्धं मुख्यमतीन्द्रियज्ञानमशेपतो विशदम् । सार्वज्ञज्ञानस्याती- न्द्रियत्त्वादशुच्यादिदर्शनं तद्रसास्वादनदोपोऽपि परिहत एव । कथमतीन्द्रिय- ज्ञानस्य वैशद्यमिति चेत् । यथा सत्यस्वप्नज्ञानस्य भावनाज्ञानस्य चेति । दृश्यते हि मावनाबलादतद्देशवस्तुनोऽपि विशददर्शनमिति । "पिहिते कारागारे तमसि च सूचीमुखाग्रहदुर्भेये । मयि च निमालितनयने तथापि कान्ताननं व्यक्तमिति" बहुलमुपलम्भात् । ननु च नावरणविश्लेषादशेपज्ञत्वमपि तु. तनुकरणभुवनादिनिमित्तत्वेन । न चात्र तन्वादीनां बुद्धिमद्धेतुकत्वमसिद्ध- मनुमानादेस्तस्य सुप्रसिद्धत्वात् । तथाहि- विमत्यधिकरणमावापन्नं उर्वी- पर्वततरुतन्वादिकं बुद्धिमद्धतुकं कार्यत्वादचेतनोपादानत्वात्सानवेशविशिष्ट- .

प्रमेयरत्नमाला । त्वाद्वा वस्त्रादिवादिति । आगमोऽपि तदावेदकः श्रूयते- “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वताबाहुरुत विश्वतः पात् । सम्बाहुम्यां धमतिसम्पतत्रै- वाभूमी जनयन्देव एकः तथा व्यासवचनं च “ अज्ञो जन्तुरनीशो- ऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥१॥" न चाचेतनरेव परमाण्वादिकारणैः पर्यातत्त्वावुद्धिमतः कारणस्यानर्थक्यम् । अचेतनानां स्वयंकार्योत्पत्ती व्यापारायोगात्तुर्यादिवत् । न चैवं चेतनस्यापि चेतनान्तरपूर्वकत्वादनवस्था । तस्य सकलपुरुषज्येष्टत्वान्निरतिशयत्वात्सर्वज्ञ- बीजस्य " क्लेशकर्मविराकाशयैरपरामृष्टवादनादिभूतानश्वरज्ञानसम्भवाच । यदह पतञ्जलि:- "क्लेशकर्मविपाकाशयरपरामृष्टः पुरुपः सर्वज्ञः स 'पूर्वेषामपि गुरुः कालेनाविच्छेदादिति " " ऐश्वर्यमप्रतिहतं सहजो विरागस्तृप्तिनिसर्गजनिता वशितेन्द्रियेषु । आत्यन्तिकं सुखमनाव- रणा च शक्तिनि च सर्वविपयं भगवस्तवैव " इत्यवधूतवचनाच्च । न चात्र कार्यत्वमसिद्धम् । सावयवत्वेन कार्यत्वसिद्धः । नापि विरुद्ध; विपक्ष एव वृत्त्यभावात् । नाप्यनैकान्तिकं, विपक्षे परमाण्वादावप्रवृत्तेः । प्रतिपक्षसिद्धिनिवन्धनस्य साधनान्तरस्याभावान्न प्रकरणसमम् । अथ तन्वा- दिकं बुद्धिमद्धतुकं न भवति दृष्टकर्तृकप्रासादादिविलक्षणत्वादाकाशवदित्य- स्त्येव प्रतिपक्षसाधनमिति । नैतद्युक्तं, हेतोरसिद्धत्वात् । सन्निवेशविशिष्ट- बेन प्रासादादिसमानजातीयत्वेन तन्वादीनामुपलम्भात् । अथ यादृशः प्रासादादौ सन्निवेशविशेपो दृष्टो न तादृशस्तन्वादावितिचेन सर्वात्मना सदृशस्य कस्यचिदप्यभावात् । सातिशयसान्निवेशो हि सातिशयं कर्तार गमयति प्रासादादिवत् । न च दृष्टकर्तृकत्वादृष्टकर्तृकत्वाभ्यां बुद्धिमन्निमित्ते तरत्वसिद्धिः । कृत्रिभमणिमुक्ताफलादिभिर्व्यभिचारात् । एतेनाचेतनोपादान- स्वादिकमपि समर्थितमिति सूक्तं बुद्धिमद्धेतुकत्वं ततश्च सर्ववेदित्वमिति ॥

२७ द्वितीयसमुद्देशः। तदेतत्सर्वमनुमानमुद्रादविणदरिद्रवचनमेव कार्यत्वादेरसम्यग्वेतुत्वेन तज्जनित ज्ञानस्य मिथ्यारूपत्वात् । तथाहि-कार्यत्वं स्वकारणसत्तासमवायः स्यादभूत्वा भावित्वमक्रियादार्शनोऽपि कृतबुद्धयुत्पादकत्व कारणव्यापारानुविधायित्वं वा स्याद्गत्यन्तराभावात् । अथाद्यः पक्षस्तदा योगिनामशेषकर्मक्षये पक्षान्तःपा- तिनि हेतौ कार्यत्वलक्षणस्याप्रवृत्ते गासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा समस्ति, तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवाययो- रमावात् सत्ताया द्रव्यगुणक्रियाधारत्वाभ्यनुज्ञानात् समवायस्य च परैर्द्रव्यादि- पञ्चपदार्थवृत्तित्वाभ्युपगमात् । अथाभावपरित्यागेन मावस्यैव विवादाध्यासि- तस्य पक्षीकरणान्नायं दोपः प्रवेशमागिति चेत्-तर्हिमुक्त्यर्थिनां तदर्थ- मीश्वरार.धनमनर्थकमेव स्यात् । तत्र तस्याकिञ्चित्करत्वात् सत्तासमवायस्य विचारमधिरोहतः शतधा विशीर्यमाणत्वात् स्वरूपासिद्धं च कार्यत्वम् । स हि समुत्पन्नानां भवेदुत्वद्यमानानां वा ? यद्युत्पन्नानां, सलामसता ? न तावदसतां खरविपाणादेरपि तत्प्रसङ्गात् । सतां चेत् सत्तासमवायास्वतो वा ? न तावत्सत्तासमवायादनवस्थाप्रसङ्गात् प्रागुक्तविकल्पद्वयाऽनतिवृत्तेः । स्वतःसतां तु सत्तासमवायानर्थक्यम् । अथोत्पद्यमानानां सत्तासम्बन्धी निष्ठा- सम्बन्धयोरेककालत्वाभ्युपगमादिति मतम् । तदा सत्तासम्बन्ध उत्पादाद्भिन्नः किं वा अभिन्न इति । यदि भिन्नस्तदोत्पत्तेरसत्त्वाविशेषादुत्पत्त्यभावयोः किंकृतो भेदः । अथोत्पत्तिसमाक्रान्तवस्तुसत्त्वेनोत्पत्तिरपि तथाव्यपदिश्यते इति मतम् । तदपि अतिजाड्यवलिंगतमेव । उत्पत्तिसत्त्वप्रतिवित्रादे वस्तुसत्त्वस्यातिदुर्घट- त्वात् । इतरेतराश्रयदोषश्च । इत्युत्पत्तिसत्त्वे वस्तुनि तदेककालीनसत्तास- म्बन्धावगमस्तदवगमे च तत्रत्यसत्त्वेनोत्पत्तिसत्त्वनिश्चय इति । अथैतदोप परिजिहीर्पया तयोरैक्यममभ्यनुज्ञायते, तर्हि तत्सम्बन्ध एव कार्यत्वमिति । ततो बुद्धिमद्धेतुकत्त्वे गगनादिभिरनेकान्तः । एतेन स्वकारणसम्बन्धोऽपि २८ प्रमेयरलमाला। चिन्तितः । अथोमयसम्बन्धो कार्यत्वमिति मतिः सापि न युक्ता । तत्सम्ब- न्धस्यापि कादाचित्कचे समवायस्यानित्यत्वप्रसङ्गात् घटादिवत् अकादाचि- कले सर्वदोपलम्भप्रसङ्गः । अथ वस्तू मादककारणानां सन्निधाना- भावान्न सर्वदोपलम्मप्रसंगः । ननु वस्तूत्पत्त्यर्थं कारणानाम् व्यापारः । उत्पादश्च स्त्रकारणसत्तासमवायः स च सर्वदाप्यस्ति, इति तदर्थं कारणो- पादानमनर्थकमेव स्यात् । अभिव्यक्त्यर्थं तदुपादानमित्यपि वा वस्तुत्पादा- पेक्षया अभिव्यक्तरघटनात् । वस्त्वपेक्षयाऽभिव्यक्ती कारणसम्पाताप्रागपि कार्यवस्तुसद्भावप्रसङ्गात् । तल्लक्षणवाद्वस्तुसत्त्वस्य प्राक् सत एव हि केन- चित् तिरोहितस्याभिव्यञ्जकेनामिव्यक्तिस्तमस्तिरोहितस्य घटस्येव प्रदीपा- दिनेति । तन्नाभिव्यक्त्यर्थं कारणोशदानं युक्तं, तन्न स्वकारणसत्तासम्बन्धः कार्यत्वम् ॥ नाप्यभूत्वाभावित्वम् । तस्यापि विचारासहत्वात् । अभूत्वाभा- वित्वं हि भिन्नकालक्रियायाधिकरणभूते कर्तरि सिद्धे सिद्धिमध्यास्ते । क्वान्तपदविशेषितवाक्यार्थत्वामुक्त्वा बजतीत्यादिवाक्यार्थवत् । न चान मवनाभवनयोराधारभूतस्य कर्तुरनुभवोऽस्ति । अमवनाधारस्याविद्यमानत्वेन भवनाधारस्य च विचमानतया भावाभावयोरेकाश्रयविरोधात् ।आविरोधे च तयोः पर्यायमात्रेणैव मेदो न वास्तव इति । अस्तु वा यथाकथंचिदभूत्वामावित्वं, तथापि तन्वादौ सर्वत्रानभ्युपगमाद्भागासिद्धम् ।नहि महीमहीधराकूपारारामादयः प्रागभूत्वाभवन्तोऽभ्युपगम्यन्ते परैः । तेषां तैः सर्वदावस्थानाभ्युपगमात् । अथ सावयवत्त्वेन तेषामपि सादित्वं प्रसाध्यते, तदप्यशिक्षितलक्षितम् । अवयवेषु वृत्तरेक्यवैरारभ्यत्वेन च सावयवत्वानुपपत्तेः । प्रथमपक्षे सावयव- सामान्यनानेकान्तात् । द्वितीयपक्षे साध्याविशिष्टत्वात् । अथ सन्निवेश एव सावयवत्वं तच्च घटादिवत् पृथिव्यादावुपलभ्यते इत्यभूत्वामावित्वमभिधीयते तदप्यमेशलम् । सन्निवेशस्यापि विचारासहत्वात् । स ह्यवयवसम्बन्धो भवे- द्वितीयसमुद्देशः। २९ द्रचनाविशेपो वा । यद्यवययसम्बन्धस्तदा गगनादिनानेकान्तः सकलमूर्तिमद्- द्रव्यसंयोगनिवन्धनप्रदेशनानात्वस्यसद्भावात् । अथोपचरिता एव तत्र प्रदेशा इति चेत् तर्हि सकलमूर्तिमद्रव्यसम्बन्धस्याप्युपचरितत्वात्सर्वगतत्वमप्युपचरितं स्यात् । श्रोत्रस्यार्थक्रियाकारित्वं च न स्यात् । उपचरितप्रदेशरूपत्वात् । धर्मादिना संस्कारात्ततः सेत्ययुक्तम् । उपचरितस्यासद्रूपस्य तेनोपकारायोगात्। खरविषाणस्येव ततो न किञ्चिदेतत् । अथ रचनाविशेषस्तदा परम्प्रतिभागा- सिद्धत्वं तदवस्थमेवेति नाभूत्वामावित्वं विचारं सहते । नाप्यक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वम् । तद्धि कृतसमयस्याकृतसमयस्य वा भवेत् । कृतसम- यस्य चेत् गगनादेरपि बुद्धिगद्धेतुकत्वं स्यात् । तत्रापि खननोत्सेचनात् कृतमितिगृहीतसङ्केतस्य कृतबुद्धिसम्भवात् । सा मिथ्येति चेत् भवदीयापि किं न स्यात् । वाधासद्भावस्य प्रतिप्रमाणविरोधस्य चान्यत्रापि समानत्वात् । प्रत्यक्षेणोभयत्रापि कर्तुरग्रहणात् । क्षित्यादिकं बुद्धिमद्धेतुकं न भवति अस्मदाद्यनवग्राह्यपरिमाणाधारत्त्वात् गगनादिवदिति प्रमाणस्य साधारणत्वात्। तन्न कृतसमयस्य कृतवुद्धयुत्पादकत्वम् । नाप्यकृतसमयस्याऽसिद्धत्वादवि- प्रतिपत्तिप्रसङ्गाच्च । कारणव्यापारानुविधायित्वं च कारणमात्रापेक्षया यदीष्यते तदा विरुद्ध साधनम् । कारणविशेषापेक्षया चेदितरेतराश्रयत्वम् । सिद्धे हि कारणविशेषे बुद्धिमति तदपेक्षया कारणव्यापारानुविधायित्वं कार्यत्वम् । तत- स्तद्विशेषसिद्धिरिति सन्निवेशविशिष्टत्वमचेतनोपादानत्वं चोक्तदोषदुष्टत्वान्न पृथक् चिन्त्यते । स्वरूपभागासिद्धत्वादेस्तत्रापि सुलभत्वात् । विरुद्धाश्चामी हेतवो दृष्टन्तानुग्रहेण सशरीरासर्वज्ञपूर्वकत्वसाधनात् । न धूमात्पावकानुमानेऽ- प्ययं दोपः । तत्र तार्णपार्णादिविशेषाधाराग्निमात्रव्याप्तधूमस्य दर्शनात् । नैवमत्र सर्वज्ञासर्वज्ञकर्तृविशेषाधिकरणतत्सामान्येन कार्यत्वस्य व्याप्तिः सर्वज्ञस्य कर्तुरतोऽनुमानात्प्रागसिद्धत्वात् । व्यभिचारिणश्चामी हेतवो बुद्धिमत्कारण- ३० प्रमेयरत्नमाला मन्तरेणापि विद्युदादीनां प्रादुर्भावसम्भवात् । सुप्ताद्यवस्थायामबुद्धिपूर्वकस्यापि कार्यस्य दर्शनात् । तदवश्यं तत्रापि भर्गाख्यं कारणमित्यतिमुग्धविलसितं, तद्वयापारस्याप्सम्भवादशरीरत्वात् । ज्ञानमात्रेण कार्यकारित्वाघटनादिच्छाप्र- यत्नयोः शरीराभावेऽसम्भवात्तदसम्भवश्च पुरातनैर्विस्तरेणाभिहित आप्तपरी- क्षादौ । अतः पुनस्त्र नोच्यते । यच्च महेश्वरस्य क्लेशादिभिरपरामृष्टत्वं निर- तिशयत्वमैश्वर्याद्युपेतत्वं तत्सर्वमपि गगनाब्जसौरभव्यावर्णनमिव निर्षिपयत्वा- दुपेक्षामर्हति । ततो न महेश्वरस्याशेपज्ञत्वम् । नापि ब्रह्मणः । तस्यापि सद्भावावेदकप्रमाणामावात् । न तावत्प्रत्यक्षं तदावेदकमविप्रतिपत्तिप्रसङ्गात्। न चानुमानमविनामाविलिङ्गाभावात् । ननु प्रत्यक्षं तद्ग्राहकमस्त्येव, आक्षि- विस्फालनानन्तरं निर्विकल्पकस्य सन्मात्रविधिविपयतयोत्पत्तेः । सत्तायाश्च परमब्रह्मरूपत्वात् । तथाचोक्तम्-अस्ति ह्यालोचनाज्ञानं प्रथम निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ १ ॥ न च विधिवत् परस्परख्याव- त्तिरप्यध्यक्षतः प्रतीयत इति द्वैतसिद्धिः । तस्य निषेधाविपयत्त्वात् । तथा चोक्तम् । आहुविधातृप्रत्यक्षं न निषेधृविपश्चितः । नैकत्वे आगमस्तेन प्रत्य- क्षेण प्रवाध्यते ॥ १ ॥ अनुमानादपि तत्सद्भावो विमाव्यत एव । तथाहि- ग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः प्रतिभासमानत्वात् । यत्प्रतिभासते तत्प्रतिमासान्तःप्रविष्टम् । यथा प्रतिभासस्वरूपं प्रतिमासन्ते च विवादापन्ना इति । तदागमानामपि पुरुप एवेदं यद्भूतं यच्च भाव्यमिति बहुलमुपल- म्भात् । सर्व वै खल्विदं ब्रह्म नेह नानास्ति किञ्चन । आरामं तस्य पश्यन्ति न तं पश्यति कश्चन । इति श्रुतेश्च ॥ १ ॥ ननु परमब्रह्मण एव परमार्थसत्त्वे कथं घटादि मेदोऽवभासत इति न चोद्यम् । सर्वस्यापि तद्विवर्ततयावमासनात् । न चाशेपमेदस्य तद्विवर्तत्वमसिद्धं प्रमाणप्रसिद्धत्वात् । तथाहि -विवादाध्यासित विश्वमेककारणपूर्वकमेकरूपान्वितत्वात् । घटघटी- द्वितीयसमुद्देशः। ३१ सरायोदञ्चनादीनां मृद्रूपान्वितानां यथा मृदेककारणपूर्वकत्वं, सद्रूपेणान्वितः च निखिलं वस्त्विति । तथाऽऽगमोऽप्यस्ति-" ऊर्णनाम इवाशूनां चंद्रकांत इवाम्मसाम् । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मिनामिति ॥ १ ॥" तदेतन्मदिरारसास्वादगद्गदोदितमित्र मदनकोदवाद्युपयोगजनितव्यामोहमुग्ध- विलसितमिव निखिलमवभासते विचारासहत्वात् । तथा हि-यत्प्रत्यक्षसत्ता- विपयत्वममिहितं तत्र किं निर्विशेपसत्ताविषयत्त्वं सविशेपसत्तावबोधकत्त्वम् वां? न तावत्पौरस्यः पक्षः । सत्तायाः सामान्यरूपत्वात् । विशेपनिरपेक्षत- याऽनवमासनात् । शावलेयादिविशेपानवभासने गोत्वाऽनवमासनवत् । 'निर्विशे हि सामान्यं मवेच्छशविपाण गदि त्यभिधानात् । सामान्यरूपत्वं च सत्तायाः सत्सदित्यन्वयबुद्भिविपयत्वेन सुप्रसिद्धमेव । अथ पाश्चात्यः पक्षः कक्षीक्रियते, तदा न परमपुरुपसिद्धिः । परस्परव्यावृत्ताकारविशेपाणामध्य. क्षतोऽवभासनात् । यदपि साधनमभ्यधायि प्रतिभासमानत्वं तदपि न साधु, विचारासहत्वात् । तथाहि प्रतिभासमानत्वं स्वतः परतो वा ? न तावत्स्व- तोऽसिद्धत्वात् । परतश्चेद्विरुद्धम् । परतः प्रतिभासमानत्व हि परं विना नोप- पद्यते प्रतिमासनमात्रमपि न सिद्धिमधिवसति । तरय तद्विशेपान्तरीयक- त्वात्तद्विशेपाभ्युपगमे च द्वैतप्रसक्तिः किञ्च धर्मिहेतुदृष्टान्ता अनुमानोपायभूताः प्रतिभासन्ते न वेति । प्रथमपक्षे प्रतिभासान्तःप्रविष्टाः प्रतिमासवहिर्भूता वा । यद्याद्यः पक्षस्तदा साध्यान्तःपातित्वान्न ततोऽनुमानम् । तद्वहिर्भावे . तैरेव हेतोयभिचारः । अप्रतिभासमानत्वेऽपि तद्वयवस्थाभावात् ततो नानु- मानमिति । अथानाधविद्याविजृम्भितत्वात्सर्वमेतदसम्बद्धमित्यनल्पतमोविल सितम् । अविद्यायामप्युक्तदोपानुषङ्गात् । सकलविकल्पविकलत्वात्तस्या नैष दोप इत्यप्यतिमुग्धभापितम् । केनापि रूपेण तस्याः प्रतिभासाभावे तस्व. रूपानवधारणात् । अपरमप्यत्र विस्तरेण देवागमालङ्कारे चिन्तितमिति नेह ३२ प्रमेयरत्नमाला! 'प्रतन्यते । यच्च परमब्रह्मविवर्त्तत्त्वमखिलभेदानामित्युक्तं । तत्राप्येकरूपेणा- न्वितत्वं हेतुरन्वत्रन्वीयमानद्वयाविनामावित्वेन पुरुषाद्वैतं प्रतिवध्नातीति स्वेष्टविघातकारित्वाविरुद्धः । अन्वितत्वमेकहेतुके घटादावनेकहेतुके स्तम्भकु- म्भाम्भोरुहादावप्युपलभ्यत इत्यनैकान्तिकश्च । किमर्थ चेदं कार्यमसौ विद- धाति ? अन्येन प्रयुक्तत्वात्, कृपावशात् क्रीडावशात, स्वभावाद्वा ? अन्येन प्रयुक्तत्वे स्वातन्त्र्यहानिर्द्वतप्रसङ्गश्च । कृपावशादिति नोत्तरम् । कृपायां दु:खिनामकारुणप्रसङ्गात् । परोपकारकरणनिष्ठत्वात्तस्याः सृष्टेः प्रागनुकम्पा विपयप्राणिनामभावाच्च न सा युज्यते । कृपरस्य प्रलयविधानायोगाच्च । अदृष्टवशात्तद्विधाने स्वातन्त्र्यहानिः कृपापरस्य पीडाकारणादृष्टव्यपेक्षायोगाचा । क्रीडावशात्प्रवृत्तौ न प्रभुत्वं क्रीडोपायव्यपक्षणाद्वालकवत् । क्रीडोपायस्य तत्साध्यस्य च युगपदुत्पत्तिप्रसङ्गश्च । सति समर्थे कारणे कार्यस्यावश्यम्भा- वात् । अन्यथा क्रमेणापि सा ततो न स्यात् । अथ स्वभावादसौजगन्निर्मि- नोति यथाग्निर्दहति वायुर्वातीति मतं, तदपि वालमापितमेव पूर्वोक्तदोपानि- वृत्तेः । तथाहि-क्रमवर्तिविवर्तजातनखिलमपि युगपदुत्पद्येत । अपेक्षणीयस्य सहकारिणोऽपि तत्साध्यत्वेन योगपद्यसम्भवात् उदाहरणवपम्यं च । वन्ह्यादेः कादाचित्कखहेतुजनितस्य नियतशक्त्यात्मकत्वोपपत्तेरन्यत्र नित्यव्यापिसमर्थ कस्वभावकारणजन्यत्वेन देशकालप्रतिनियमस्य कार्ये दुरुपपादात् । तदेव ब्रह्मणोऽसिद्धौ वेदानां तत्सुप्तप्रबुद्धावस्थात्वप्रतिपादनं परमगुरुपाख्यमहाभूतनिः श्वसितामिधानं च गगनारविन्दमकरन्दव्यावर्णनवदनवधेयार्थविषयत्वादुपक्षा- मर्हति । यच्चागमः प्रमाणं " सर्वे वै खल्विदं ब्रह्मेत्यादि " "ऊर्णनाम इत्यादि " च तत्सर्वमुक्तविधिना अद्वैतविरोधीति नावकाशं लभते । न चापौरुपेयं आगमोऽस्तीत्यप्रेप्रापञ्चयिष्यते । तस्मान्न पुरुषोत्तमोऽपि विचारणां प्राञ्चति ॥

३३ तृतीयसमुद्देशः। प्रत्यक्षतरमेदमिन्नममलं मानं द्विधैवोदितम् । देवैर्दीप्तगुणैर्विचार्य विधिवत्संख्याततेः संग्रहात् ॥ मानानामिति तदिगप्यभिहितं श्रीरत्ननन्याह्वयै-। स्तव्याख्यानमदो विशुद्धधिपणैर्बोद्धव्यमव्याहतम् ॥ १ ॥ मुख्यसंव्यवहाराभ्यां प्रत्यक्षमुपदर्शितम् । देवोक्तमुपजीवद्भिः सूरिभिपितं मया ॥ २॥ इति परीक्षामुखस्य लघुवृत्तौ द्वितीयः समुद्देशः ॥ २ ॥ -- . - -- अथेदानीमुद्दिष्टे प्रत्यक्षतरभेदेन प्रमाणद्वित्त्वे प्रथमभेदं व्याख्याय, इतरद्व्याचष्टे- परोक्षमितरदिति ॥ १॥ उक्तप्रतिपक्षमितरच्छब्दो ब्रूते । ततः प्रत्यक्षादितरदिति लभ्यते, तब परोक्षमिति । तस्य च सामग्रीस्वरूपे निरूपयन्नाह- प्रत्यक्षादिनिमित्तं स्मृतिपत्यभिज्ञानतर्कानुमानागमभेदमिति ॥२॥ प्रत्यक्षादिनिमित्तमित्यत्रादिशब्देन परोक्षमपि गृह्यते । तच्च यथावसरं निरूपयिष्यते । प्रत्यक्षादिनिमित्तं यस्य इति विग्रहः । स्मृत्यादिषु द्वंद्वः । ते भेदा यस्य इति विग्रहः । तत्र स्मृति क्रमप्राप्तां दर्शयन्नाह- संस्कारोदाधनिबन्धना तदित्याकारा स्मृतिरिति ॥ ३ ॥ संस्कारस्योद्वोधः प्राकट्यं स निबन्धनं यस्याः सा तथोक्ता । तदित्या- कारा तदित्युल्लेखिनी, एवम्भूता स्मृतिर्भवतीति शेषः । उदाहरणमाह- स देवदत्तो यथेति ॥ ४ ॥ प्रत्यभिज्ञान प्राप्तकालमाह-- - 3 ३४ प्रमेयरत्नमाला। दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानं । तदेवेदं तत्सदृश तद्विलक्षणं तत्पतियोगीत्यादि ॥५॥ अत्र दर्शनस्मरणकारणकत्वात् सादृश्यादिविषयस्यापि प्रत्यभिज्ञानत्त्वमुक्तम्। येषां तु सादृश्यविषयमुपमानाख्यं प्रमाणान्तरं तेषां वैलक्षण्यादिविपयं प्रमा- णान्तरमनुषज्येत । तथा चोक्तम्-" उपमानं प्रसिद्धार्थसाधात्साध्यसा- धनम् । तद्वैधात्प्रमाणं किं स्यात्संज्ञिप्रतिपादनम् ॥ १ ॥ इदमल्पं महद्- दूरमासन्नं प्रांशु नैति वा । व्यपेक्षातः समक्षेऽर्थे विकल्पः साधनान्तर मिति ॥ २ ॥" ऐषां क्रमेणोदाहरणं दर्शयन्नाह- यथा स एवायं देवदत्तः ॥६॥ गोसदृशो गवयः ॥७॥ गोविलक्षणो महिषः ॥ ८ ॥ इदमस्माद्दूरम् ॥ ९॥ वृक्षोऽय- मित्यादि ।। १०॥ आदिशब्देन-" पयोम्वुभेदी हंसः स्यात् षट्पादभ्रमरः स्मृतः । सप्त- पर्णैस्तु तत्त्वज्ञैर्विज्ञेयो विषमच्छदः ॥ १॥ पञ्चवर्ण भवेद्रत्नं मेचकाट्य पृथुस्तनी । युवतिश्चैकश्रृंडोऽपि गण्डकः परिकीर्तितः॥ २ ॥ शरभोऽप्य- ष्टभिः पादैः सिंहश्चारुसटान्त्रितः।" इत्येवमादिशब्दश्रवणात्तथाविधानेच मरा- लदीनवलोक्य तथा सत्यापयति यदा तदा तत्सङ्कलनमपि प्रत्यभिज्ञानमुक्तं, दर्शनस्मरणकारणत्वाविशेषात् । परेषां तु तत्प्रमाणन्तरमेवोपपद्यते उपमानादौ तस्यान्तर्भावाभावात् । अथोहोऽवसरप्राप्त इत्याह- उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥ ११ ॥ इदम- स्मिन्सत्येच भवत्यसति न भवत्यवति च ।। १२ ।। उपलम्भः प्रमाणमात्रमन गृह्यते । यदि प्रत्यक्षमेवोपलम्भशब्देनोच्यते तदा साधनेष्वनुमेयेपु व्याप्तिज्ञानं न स्यात् । अथ व्याप्तिः सर्वोपसंहारेण प्रतीयते, सा कथमतीन्द्रियस्य साधनस्यातीन्द्रियेण साध्येन भवेदिति । नैव - तृतीयसमुद्देशः। ३५ प्रत्यक्षविषयेष्विवानुमानविपयेष्वपि व्याप्तेरविरोधात् । तज्ज्ञानस्याप्रत्यक्षत्त्वा- भ्युपगमात् ।. उदाहरणमाह- यथानावेव धूमस्तदभाव न भवत्येवेति च ॥ १३ ॥ इदानीमनुमान क्रमायातमिति तल्लक्षणमाह- साधनात्साध्यविज्ञानमनुमानम् ॥ १४ ॥ साधनस्य लक्षणमाह- साध्याविनामावित्वेन निश्चितो हेतुः ॥ १५ ॥ ननु त्रैरूप्यमेव हेतोर्लक्षणं, तस्मिन्सत्येव हेतोरसिद्धादिदोप परिहारोप- पत्तेः । तथाहि-पक्षवर्मत्वमसिद्धत्त्वव्यवच्छेदार्थमभिधीयते । सपक्षे सत्त्वं तु विरुद्धत्त्वापनोदार्थम् । विपक्षे चासत्त्वमेवानैकान्तिकव्युदासार्थमिति । तदु- क्तम् “ हेतोत्रिष्वपिरूपेषु निर्णयस्तेन वर्णितः । असिद्धविपरीतार्थव्यभि- चारिविपक्षतः " इति ॥ १ ॥ तदयुक्तं-अविनाभावनियमनिश्चयादेव दोषत्रयपरिहारोपपत्तेः। अविनाभावो ह्यन्यथानुपपन्नत्त्वं, तच्चासेद्धस्य न सम्भवत्येव । अन्यथानुरपन्नत्वमासद्धस्य न सिद्धयतीत्यभिधानात् । नापि विरुद्धस्य तल्लक्षणत्वोपपत्तिविपरीतनिश्चिताविनाभाविनि यथोक्तसाध्याविनामा- वनियमलक्षणस्यानुपपत्तेविरोधात् व्याभेचारिण्यपि न प्रकृतलक्षणावकाशः । तत एव ततोऽन्यथाऽनुपपत्तिरेव श्रेयसी । न त्रिरूपता । तस्यां सत्यामपि यथोक्तलक्षणाभावे हेतोर्गमकत्वादर्शनात् । तथाहि-स श्यामस्तत्पुत्रत्वांदि- तरतत्नुत्रवदित्यत्र त्रैरूप्यराम्भवेऽप्यगमकत्वमुपलक्ष्यते । अथ विपक्षायावृत्ति- नियमवती तत्र न दृश्यते । ततो न गमकत्वमिति । तदपि मुग्धविलसित. मेव ।..तस्या एवाविनाभावरूपत्वात् । - इतररूपसद्भावेऽपि तदभावे हेतोः स्वसाध्यसिद्धिम्प्रति गमकत्वानिष्टौ सैव प्रधानं लक्षणमक्षुणमुपलक्षणीयमिति । तत्सद्भावे चेतररूपयनिरपेक्षतया गमकत्वोपपत्तेश्च । यथा सन्त्यद्वैतवादि- । - प्रमेयरत्नमाला! . । नोऽपि प्रमाणानीष्टानिष्टसाधनदूषणाऽन्यथाऽनुपपत्तेः । नचान पक्षधर्मत्वं सपक्षान्वयो वाऽस्ति । केवलमविनाभावमात्रेण गमकत्वप्रतीतेः। यदप्यपर- मुक्तं परैः पक्षधर्मतामावेऽपि काकस्य कार्णोद्धवल: प्रासाद इत्यस्यापि गमकत्वापत्तिरिति तदप्यनेन निरस्तम् । अन्यथानुपपत्तिबलेनैव पक्षधर्मस्यापि साधुत्त्वाभ्युपगमात् । न चेह साऽस्ति । ततोऽविनामाव एव हेतोः प्रधान लक्षणमभ्युपगन्तव्यम् । तस्मिन्सत्यसति त्रिलक्षणत्त्वेऽपिहेतोर्गमकत्त्वदर्शना- दिति न रूप्यं हेतुलक्षणमव्यापकत्वात् । सर्वेषां क्षणिकत्त्वे साध्ये सत्त्वादेः साधनस्य सपक्षे सतोऽपि स्वयं सौगतैर्गमकत्वाभ्युपगमात् । एतेन पञ्चटक्ष- णत्वमपि योगपरिकल्पितं न हेतोरुपपत्तिमियीत्यभिहितं वोद्धव्यम् । पक्षव- वे सत्यन्वयव्यतिरेकावबाधितविषयत्त्वमसत्प्रतिपक्षत्वं चेति पञ्चलक्षणानि, तेपामप्यविनामावप्रपञ्चतैवाबाधितविपयस्याविनाभावायोगात् । सत्प्रतिपक्षस्ये- कसे साध्यामासविषयत्वेनासम्यग्घेतुत्वाच्च । यथोक्तपक्षविपयत्वाभावात्तद्दोषेणैव दुष्टस्यात् । अतः स्थितं साध्याविनामावित्वेन निश्चितो हेतुरिति । इदानीम- विनाभावमेदं दर्शयन्नाह- सहक्रमभावनियमोऽविनाभावः ॥ १६ ॥ तत्र सहभावनियमस्य विषयं दर्शयन्नाह- सहचारिणोप्प्यव्यापकयोश्च सहभावः ॥ १७ ॥ सहचारिणो रूपरसयोाप्यव्यापकयोश्च वृक्षवशिंशपाययोरिति । सप्तम्या विषयो निर्दिष्टः । क्रममावनियमस्य विषयं दर्शयन्नाह- पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥१८॥ पूर्वोत्तरचारिणोः कृत्तिकोदयशकटोदययोः कार्यकारणयोश्च धूमधूमध्वजयोः क्रममावः । नन्वेवम्भूतस्याविनामावस्य न प्रत्यक्षेण ग्रहणं, तस्य सन्निहित- विषयत्वात् । नाप्यनुमानेन, प्रकृतापरानुमानकल्पनायामितरेतराश्रयत्वान- . - -- - तृतीयसमुद्दशः। वस्थावतारात् । आगमादेरपि भिन्नविषयत्वेन सुप्रसिद्धत्वान्न ततोऽपि तत्पति- पत्तिरित्यारेकायामाह- तर्कात्तनिर्णयः॥१९॥ तर्कायथोक्तलक्षणादूहात्तन्निर्णय इति । अथेदानी साध्यलक्षणमाह- इष्टमवाधितमसिद्धं साध्यम् ॥ २० ॥ अत्रापरे दूपणमाचक्षते-आसनशयनभोजनयाननिधुवनादेरपीष्टत्त्वात्त- दपि साध्यमनुपज्यत इति । तेऽप्यतिबालिशा अप्रस्तुतप्रलपित्वात् । अत्र हि साधनमधिक्रियते । तेन साधनविषयत्वेनेप्सितमिष्टमुच्यते । इदानी स्वामिहितसाध्यलक्षणस्य विशेपणानि सफलयनसिद्धविशेषणं समर्थयितुमाह- संदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् ॥ २१ ॥ तत्र सन्दिग्धं स्थाणुर्वापुरुपो वेत्यनवधारणेनोमयकोटिपरामर्शिसंशयाकलितं वस्तु उच्यते । विपर्यस्तं तु विपरीतावमासिविपर्ययज्ञानविषयभूतं रजतादि । अव्युत्पन्नं तु नामजातिसंख्यादिविशेषापरिज्ञानेनानिीतविषयानध्यवसायग्रा- ह्यम् । एषां साध्यत्वप्रतिपादनार्थमसिद्धपदोपादानमित्यर्थः । अधुनेष्टाबाधित विशेषणद्वयस्य साफल्यं दर्शयन्नाह-- अनिष्टाध्यक्षादिवाधितयोः साध्यत्वं माभू- दितीष्टाबाधितवचनम् ॥ २२ ॥ अनिष्टो मीमांसकस्यानित्यः शब्दः प्रत्यक्षादिबाधितश्चाश्रावणत्वादिः । आदिशब्देनानुमानागमलोकस्ववचनबाधितानां ग्रहणम् । तदुदाहरणं चाकि- ञ्चित्करस्य हेत्वामासस्य निरूपणावसरे स्वयमेव ग्रन्थकारः प्रपञ्चयिष्यती- त्युपरम्यते । तत्रासिद्धपदं प्रतिवाद्यपक्षयैव, इष्टपदं . तु वाद्यपेक्षयति विशेष- मुपदर्शयितुमाह- प्रमेयरत्नमाला! नचासिद्धवादिष्ट भतिवादिनः ॥ २३ ॥ अयमर्थः-- हि सर्वे सर्वापेक्षया विशेषणमपि तु किञ्चित्कमप्युद्दिश्य भवतीति । असिवदिति व्यतिरेकमुखेनोदाहरणम् | यथा असिद्धं प्रति. वायपेक्षया न तथेष्टमित्यर्थः । कुत एतदित्याह- प्रत्यायनाय हीच्छा वक्तुरेव ॥ २४ ॥ इच्छायाः खलु विषयीकृतमिष्टमुच्यते । प्रत्यायनाय हीच्छा वक्तुरेवेति । तच साध्यं धर्मः किं वा तद्विशिष्टो धर्मीति प्रश्ने तद्भेदं दर्शयन्नाह- साध्यं धर्मः कचित्तद्विशिष्टो वा धर्माति ॥ २५ ॥ सोपस्काराणि वाक्यानि भवन्ति । ततोऽयमों लभ्यते-ज्याप्तिकालापे- क्षया तु साध्यं धर्मः । कचित्प्रयोगकालापेक्षया तु तद्विशिष्टो धर्मी साध्यः । अस्यैव धर्मिणो नामान्तरमाह- पक्ष इति. यावत् ॥ २६ ॥ ननु धर्मर्मिसमुदायः पक्ष इति पक्षस्वरूपस्य पुरातनैर्निरूपितत्वार्मिण- स्तद्वचने कथं न राद्धान्तविरोध इति.। नैवं-साध्यधर्माधारतया विशेषितस्य धर्मिणः पक्षत्ववचनेऽपि दोषानवकाशात् । रचनावैचित्र्यमात्रेण तात्पर्यस्या- निराकृतत्वात्सिद्धान्ताविरोधात् । अत्राह सौगतः भवतु नाम धर्मी पक्षव्य- पदेशमाक् तथापि सविकल्पबुद्धौ परिवर्तमान एव न वास्तवः ! सर्व एवानु- मानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन वहिःसदसत्वमपेक्षत इत्य- भिधानादिति तन्निरासार्थमाह- प्रसिद्धो धर्माति ।। २७॥ अयमर्थः-नेय विकल्पबुद्धिबहिरन्तर्वाऽनासादितालम्बनमाया धर्मिण व्यवस्थापयति । तदवास्तत्रत्वेन तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपर स्तबुद्धेः पारंपर्येणापि वस्तुव्यवस्थानिवन्धनत्त्वायोगात् । ततो विकल्पेना- - तृतीयसमुद्देशः। ३९ न्येन वा व्यवस्थापितः पर्वतादिविषयमावं भजनव धर्मिता प्रतिपद्यत इति स्थितं प्रसिद्धो धर्मीति । तत्प्रसिद्धिश्च क्वचिद्विकल्पतः कचित्प्रमाणतः क्वचि- चोभयत इति नैकान्तेन विकल्पाधिरूढस्य प्रमाणप्रसिद्धस्य वा धर्मित्वम् । ननु धर्मिणो विकल्पात्प्रतिपत्तौ किं तव साध्यमित्याशङ्कायामाह- विकल्पसिद्धे तस्मिन्सत्ततरे साध्ये ॥ २८ ॥ तस्मिन्धर्मिणि विकल्पसिद्ध सत्ता च तदपेक्षयेतराऽसत्ता च ते द्वे अपि साध्ये, सुनिर्णीतासम्भवद्वाधकप्रमाणबलेन योग्यानुपलब्धिबलेन चेति शेषः । अत्रोदाहरणमाह- अस्ति सर्वज्ञो नास्ति खरविषाणमिति ॥ २९ ॥ सुगमम् । ननु धर्मिण्यसिद्धसत्ताके भावामावोमयधर्माणामसिद्धविरुद्धाने- कान्तिकत्वादनुमानविपयत्त्वायोगात् कथं सत्तेतरयोः साध्यत्त्वम् ? तदु- क्तम्-असिद्धो भावधर्मश्चेव्यभिचार्युमयाश्रितः । विरुद्धो धर्मों भावस्य सा सत्ता साध्यते कथम् । इति तदयुक्तम्-मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तसिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वाद्वयर्थमनुमानम् । तदभ्युपेतमपि वैय्यात्याद्यदा परो न प्रतिपद्यते तदाऽनुमानस्य साफल्यात् । न च मानसज्ञानाद्गगनकुसुमादेरपि सद्भावसम्भावनाऽतोऽतिप्रसङ्गः । तज्ज्ञा- नस्य वाधकप्रत्ययव्यपाकृतसत्ताकवस्तुविषयतया मानसप्रत्यक्षामासत्त्वात् । कथं तर्हि तुरगशृङ्गादेर्मित्त्वमिति न चोद्यम्-धर्मिप्रयोगकाले बाधकप्र- त्ययानुदयात्सत्त्वसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासत्त्वेन सत्त्वंप्रति संशीतिः सुनिश्चितासम्भवद्बाधकप्रमाणत्वेन मुखादाविव सत्त्वनि- श्चयात्तत्र संशयायोगात् । इदानी प्रमाणोभयसिद्ध धर्मिणि किं साध्यमित्याश- कायामाह- प्रमाणोभयासिद्धे तु साध्यधर्मविशिष्टता ॥ ३०॥ - 2 । प्रमेयरत्नमाला। साध्ये इति शब्दः प्राक् द्विवचनान्तोऽप्यर्थवशादेकवचनान्ततया सम्ब- ध्यते । प्रमाणं चोमयं च विकल्पप्रमाणद्वयं, ताभ्यां सिद्ध धर्मिणि साध्यध- मविशिष्टता साध्या । अयमर्थः-प्रमागप्रतिपन्नमपि वस्तु विशिष्टधर्माधारतया विवादपदमारोहतीति साध्यता नातिवर्तत इति । एवमुभयसिद्धेऽपि योज्यम् । प्रमाणोमयसिद्ध धर्मिद्वयं क्रमेण दर्शयन्नाह- अग्निमानयं देशः परिणामी शब्द इति यथा ॥३१॥ देशो हि प्रत्यक्षेण सिद्धः शब्दस्तूमयसिद्धः । नहि प्रत्यक्षेणार्वाग्दार्श- भिरनियतदिग्देशकालावच्छिन्नाः सर्वे शब्दा निश्चेतुं पार्यन्ते । सर्वदर्शिनस्तु. तन्निश्चयेऽपि तं प्रत्यनुमानानर्थक्यात् । प्रयोगकालापेक्षया धर्मविशिष्टधर्मिणः साध्यत्त्वमभिधाय व्याप्तिकालापेक्षया साध्यनियमं दर्शयन्नाह- व्याप्तौ तु साध्यं धर्म एवेति ॥ ३२ ॥ सुगमम् । धर्मिणोऽपि साध्यत्त्वे को दोष इत्यत्राह- अन्यथा तदघटनादिति ॥ ३३ ॥ उक्तविपर्ययेऽन्यथाशब्दः । धर्मिणः साध्यत्वे तदघटनात् व्याप्त्यवटना- दिति हेतुः । न हि धूमदर्शनात्सर्वत्र पर्वतोऽग्निमानिति व्यातिः शक्या कर्तु प्रमाणविरोधात् । नन्वनुमाने पक्षप्रयोगस्यासम्भवात् प्रसिद्धो धर्मीत्यादिवच- नमयुक्तम् । तस्य सामर्थ्यलब्धत्वात् । तथापि तद्वचने पुनरुक्तताप्रसङ्गात् । अर्थादापन्नस्यापि पुनर्वचनं पुनरुक्तमित्यभिधानादिति सौगतस्तत्राह-- साध्यधर्माधारसन्देहापनोदाय गम्यमान- स्यापि पक्षस्य वचनम् ॥ ३४॥ साध्यमेव धर्मस्तस्याधारस्तत्र सन्देहो महानसादिः पर्वतादिति । तस्या- पनोदो व्यवच्छेदस्तदर्थ गम्यमानस्यापि साध्यसाधनयोाप्यव्यापकभावप्रद- र्शनान्यथानुपपत्तेस्तदाधारस्य गम्यमानस्यापि पक्षस्य वचनं प्रयोगः । भत्रोदाहरणमाह- - -- .४१ तृतीयसमुद्देशः। साभ्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥ ३५॥ साध्येन विविष्टो धर्मी पर्वतादिस्तत्र साधनधमावबोधनाय पक्षधर्मोपसं- हारवत् । पक्षधर्मस्य हेतोरुपसंहार उपनयस्तद्वादिति । अयमर्थः-- साध्य- व्याप्तसाधनप्रदर्शनेन तदाधारावगतावपि नियतधर्मिसम्बन्धिताप्रदर्शनार्थ यथोपनयस्तथा साध्यस्य विशिष्टधर्मिसम्बन्धिताववोधनाय पक्षवचनमपीति । किञ्च हेतुप्रयोगेऽपि समर्थनमवश्यं वक्तव्यम् । असमर्थितस्य हेतुत्वायो- गात् । तथा च समर्थनोपन्यासादेव हेतोः सामर्थ्यसिद्धत्वाद्धेतुप्रयोगोऽनर्थकः स्यात् । हेतुप्रयोगामावे कस्य समर्थनमिति चेत्पक्षप्रयोगाभावे क हेतु- वर्ततामिति समानमेतत् । तस्मात्कार्यस्वभावानुपलम्मभेदेन पक्षधर्मत्वादिमे- देन च विधा हेतुमुक्त्वा समर्थयमानेन पक्षप्रयोगोऽप्यभ्युपगन्तव्य एवेति । अमुमेवार्थमाह- को वा विधा हेतुमुक्त्वा समर्थयमानो न पक्षयति ॥ ३६॥ को वा वादी प्रतिवादी चेत्यर्थः । किलार्थे वा शब्दः । युक्त्या पक्षप्र- योगस्यावश्यंभावे कः किल न पक्षयति ? पक्षं न करोत्यपि तु करोत्येव ।। किं कुर्वन्समर्थयमानः । किं कृत्वा हेतुमुक्त्वैव । न पुनरनुक्त्वेत्यर्थः । सम- र्थनं हि हेतोरसिद्धत्वादिदोषपरिहारेण खसाध्यसाधनसामर्थ्यप्ररूपणप्रवणं वचनम् । तच्च हेतुप्रयोगोत्तरकालं परेणाङ्गीकृतमित्युक्त्वेति वचनम् । ननु भवतु पक्षप्रयोगस्तथापि पक्षहेतुदृष्टान्तभेदेन त्र्यवयवमनुमानमिति सांख्यः । प्रतिज्ञाहेतूदाहरणोपनयभेदेन चतुरवयवमिति मीमांसकः। प्रतिज्ञाहेतूदाहर- णोपनयनिगमनभेदात्पञ्चावयवामिति यौगः । तन्मतमपाकुर्वन्स्वमतसिद्धमवय- वद्वयमेवोपदर्शयन्नाह- एतद्वयमेवानुमानाङ्गं नोदारहरणमिति ॥ ३७॥ एतयोः पक्षहेत्वोयमेव नातिरिक्तमित्यर्थः । एवकारेणैवोदाहरणादिव्यव- । -- .

४२ प्रमेयरत्नमाला। च्छेदे सिद्धेऽपि परमतनिरासाथै पुनर्नोदाहरणमित्युक्तम् । तद्धि किं साध्यं- प्रतिपत्त्यर्थमुतस्विद्धेतोरविनाभावनियमार्थमाहोस्विद्व्याप्तिस्मरणार्थमिति विक- ल्पान् क्रमेण दूषयन्नाह- न हि तत्साध्यपतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात् ॥३८॥ तदुदाहरणं साध्यप्रतिपत्तेरङ्गं कारणं नेति सम्बन्धः । तत्र साध्यप्रति- पत्तौ यथोक्तस्य साध्याविनामावित्वेन निश्चितस्य हेतोापारादिति । द्वितीय- विकल्पं शोधयन्नाह-- तदविनाभावनिश्चयार्थ वा विपक्षे वाधकादेव तत्सिद्धः ॥ ३९ ॥ तदिति वर्तते । नेति च । तेनायमर्यः तदुदाहरणं तेन साध्येनाविना- भावनिश्वयार्थ वा न भवतीति । विपक्षे बाधकादेव तसिद्धरविनामावनिश्चय- सिद्धेः । किञ्च व्यक्तिरूपं निदर्शनं तत्कथं साकल्येन व्याप्तिं गमयेत् । व्यक्त्यन्तरेषु व्याप्त्यर्थं पुनरुदाहरणान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन सामान्येन व्याप्तरवधारयितुमशक्यत्त्वादपरापरतदन्तरापेक्षायामनवस्था स्यात् । 'एतदेवाह- व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्ततापितद्विमति पत्तावनवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् ॥ ४० ॥ तत्रापि उदाहरणेऽपि । तद्विप्रतिपत्तौ ‘सामान्यव्यातिविप्रतिपत्तावित्यर्थः । शेषं व्याख्यातम् । तृतीयविकल्ये दूषणमाह नापि व्याप्तिस्मरणार्थ तथाविधेहतुमयोगादेव तत्स्मृतेः ॥४१॥ गृहीतसम्बन्धस्य हेतुप्रदर्शनेनैवं व्यातिसिद्धिरंगृहीतसम्बन्धस्य दृष्टान्त- शतेनापि न तत्स्मरणमनुभूतविषयत्वात्स्मरणस्येति भावः। तदेवमुदाहरण- अयोगस्य साध्यार्थप्रति नोपयोगित्वं प्रत्युत संशयहेतुत्वमेवेति दर्शयति- तत्परमभिधीयमानं सांध्यधर्मिणिसाध्यसांधने सन्देहयति ॥४२॥ .

तृतीयसमुदेशः। ४३ - तदुदाहरणं परं केवलममिधीयमानं साध्यमिणि साध्यविशिष्टेधमिर्माण साध्यसाधने सन्देहयति सन्देहवती करोति । दृष्टान्तमिणि साध्यव्याप्त- साधनोपदर्शनेऽपि साध्यधार्मिणि तन्निर्णयस्य कर्तुमशक्यत्वादिति शेषः । अमुमेवार्थ व्यतिरेकमुखेन समर्थयमानः प्राह- कुतोऽन्यथोपनयनिगमने ॥ ४३ ॥ अन्यथा संशयहेतुत्वाभावे कस्माद्धेतोरुपनयनिगमने प्रयुज्यते । अपरः प्राह-उपनयनिगमनयोरप्युमानाङ्गत्वमेव, तदप्रयोगे निरवकरसाध्यसंवित्तेरयो- गादिति । तन्निपेधार्थमाह- न च ते तदङ्गे । साध्यधर्मिणि हेतुसाध्य- योर्वचनादेवासंशयात् ॥ ४४ ॥ ते उपनयनिगमने अपि वक्ष्यमाणलक्षणे तस्यानुमानस्याङ्गे न भवतः । साध्यमिणि हेतुसाध्ययोर्वचनादेवत्येवकारेण दृष्टान्तादिकमन्तरेणेत्यर्थः । किञ्चामिधायापि दृष्टान्तादिकं समर्थनमवश्यं वक्तव्यमसमर्थितस्याहेतुत्वा- दिति तदेव वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्यसिद्धौ तस्यैवोपयोगानो- दाहरणादिकमेतदेवाह- समर्थन वा वरं हेतुरूपमनुमानावययो वाऽस्तु साध्ये तदुपयोगात् ॥ ४५ ॥ प्रथमो वाशब्द एवकारार्थे । द्वितीयस्तु पक्षान्तरसूचने । शेषं सुगमम्। ननु दृष्टान्तादिकमन्तरेण मन्दधियामवबोधयितुमशक्यत्वात्कथं पक्षहेतुप्रयोग- मात्रेण तेषां साध्यविप्रतिपत्तिरिति तत्राह वालव्युत्पत्त्यर्थ तत्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगादिति ॥४६॥ बालानां अल्पप्रज्ञानां व्युत्पत्यर्थं तेषामुदाहरणादीनां त्रयोपगमे शास्त्र - , :

४४ . प्रमेयरत्नमाला। एवासौ तत्रयोपगमो न वादे नहि वादकाले शिष्या व्युत्पाद्याः । व्युत्पन्नाना- मेव तत्राधिकारादिति । वालव्युत्पत्त्यर्थं तत्रयोपगम इत्यादिना शास्त्रेऽभ्युपगत- मेवोदाहरणादित्रयमुपदर्शयति-- दृष्टान्तो द्वेधा । अन्वयव्यतिरेकभेदादिति ।। १७ ।। दृष्टावन्तौ साध्यसाधनलक्षणौ धर्मावन्वयमुखेन व्यतिरेकद्वारेण वा यत्र स दृष्टान्त इत्यन्वर्थसंज्ञाकरणात् । स द्वेधैवोपपद्यते । तत्रान्वयदृष्टान्तं दर्शयन्नाह- साध्यव्याप्त साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः ॥ ४८ ॥ साध्येन व्याप्तं नियत साधनं हेतुर्यत्र दयते व्याप्तिपूर्वकतयति भावः । द्वितीयभेदमुपदर्शयति- साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः ॥४९॥ असत्यसद्भावो व्यतिरेकः । तत्प्रधानो दृष्टान्तो व्यतिरेकदृष्टान्त: । सा- ध्यामावे साधनस्याभाव एवेति सावधारणं द्रष्टव्यम् । क्रमप्राप्तमुपनयस्वरूपं निरूपयति- हेतोरुपसंहार उपनयः ॥ ५० ॥ पक्षे इत्यध्याहारः । तेनायमर्थः-हेतोः पक्षधर्मतयोपसंहार उपनय इति । निगमनस्वरूपमुपदर्शयति- प्रतिज्ञायास्तु निगमनमिति ॥५१॥ उपसंहार इति वर्तते । प्रतिज्ञाया उपसंहारः साध्यधर्मविशिष्टत्वेन प्रद: र्शनं निगमनमित्यर्थः । ननु शास्त्रे दृष्टान्तादयो वक्तव्या. एवति नियमानभ्यु- पगमात्कथं तत्रयमिह सूरिभिः प्रपञ्चितमिति न चोद्यम् । स्वयमनभ्युपगमे- ऽपि प्रतिपाद्यानुरोधेन जिनमतानुसारिमिः प्रयोगपरिपाच्याः प्रतिपन्नत्वात् । सा चाज्ञाततत्स्वरूपैः कर्तुं न शक्यत इति तत्स्वरूपमपि शास्त्रेऽभिधातव्य- , ४५ तृतीयसमुद्देशः। मेवेति । तदेवं मतभेदेन द्वित्रिचतुःपंचावयवरूपमनुमानं द्विप्रकारमेवेति दर्शयन्नाह- तदनुमान द्वेधा ॥ ५२ ॥ तद्वैविध्यमेवाह- स्वार्थपरार्थभेदादिति ॥ ५३ ॥ स्वपरविप्रतिपत्तिनिरासफलत्याद्विविधमेवेति भावः । स्वार्थानुमानभेदं दर्श- यन्नाह- -- स्वार्थमुक्तलक्षणम् ।। ५४ ॥ साधनात्साध्यविज्ञानमनुमानमिति प्रागुक्तं लक्षणं यस्य तत्तथोक्तमित्यर्थः । द्वितीयमनुमानभेदं दर्शयन्नाह-- परार्थ तु तदर्थपरामर्शिवचनाज्जातमिति ॥ ५५ ॥ तस्य स्वार्थानुमानस्यार्थः साध्यसाधनलक्षणः । तं परामृशतीत्येवं शील तदर्थपरामार्श । तच्च तद्वचनं च तस्माज्जातमुत्पन्नं विज्ञानं परार्थानुमान- मिति । ननु वचनात्मकं पराधीनुमान प्रसिद्धं, तत्कथं तदर्थप्रतिपादकवचन- जनितविज्ञानस्य परार्थानुमानत्वमभिदधता न संग्रहीतमिति न वाच्यम् । अचेतनस्य साक्षात्प्रमितिहेतुत्वाभावेन निरुपचरितप्रमाणभावाभाव त् । मुख्य नुमानहेतुत्वेन तस्योपचरितानुमानव्यपदेशो न वार्यत एव । तदवोपचरितं परार्थानुमानत्वं तद्वचनस्याचार्यः प्राह- तद्वचनमपि तद्धेतुत्वादिति ॥ ५६ ॥ उपचारो हि मुख्याभावे सति प्रयोजने निमित्ते च प्रवर्तते । तत्र वच- नस्य परार्थानुमानत्वे निमित्तं तद्धेतुत्वम् । तस्य प्रतिपाद्यानुमानस्य हेतुस्त- द्धेतुस्तस्य भावस्तत्त्वम् । तस्मानिमित्तात्तद्वचनमपि परार्थानुमानप्रतिपादकव- चनमपि परार्थानुमानमिति सम्बन्धः । कारणे कार्यस्योपचारात् । अथवा - ।

४६ अमेयरत्नमाला। - तत्प्रतिपादकानुमानं हेतुर्यस्य तत्तद्धेतुस्तस्य भावस्तत्त्वं ततस्तद्वचनमपि तथेति सम्बन्धः । अस्मिन्पक्षे कार्ये कारणस्योपचार इति शेषः । वचन- स्यानुमानत्वे च प्रयोजनमनुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव । ज्ञानामत्मन्यनंशे तद्वयवहारस्याशक्यकल्पनत्वात् । तदेव साधनात् साध्यविज्ञानमनुमानमित्यनुमानसामान्यलक्षणम् । तदनुमानं दूधेत्यादिना तत्प्रकारं च सप्रपञ्चममिधाय साधनमुक्तलक्षणापेक्षयैकमप्यतिसंक्षेपेण मिद्यमानं द्विविधमित्युपदर्शयति- स हेतुधोपलब्ध्यनुपलब्धिभेदादिति ॥ ५७ ॥ सुगममेतत् । तत्रोपलब्धिर्विधिसाधिकैव । अनुपलब्धिः प्रतिपेधसाधि- कैवेति । परस्य नियमं विघटयन्नुपलब्धेरनुपलब्धेश्चाविशेषेण विधिप्रतिपेध- साधनत्वमाह उपलब्धिर्विधिपतिषेधयोरनुपलब्धिश्चेति ॥ ५८ ॥ गतार्थमेतत् । इदानीमुपलब्धेरपि संक्षेपेण विरुद्धाविरुद्धभेदात् द्वैविध्यमु- पदर्शयन्नाविरुद्धोपलव्धर्विधौ साध्ये विस्तरतो भेदमाह- अविरुद्धोपलब्धिर्विधौ पोढा व्याप्यकार्यकारण- पूर्वोत्तरसहचर भेदादिति ।। ५९ ।। पूर्व च उत्तरं च सह चेति द्वंद्वः । पूर्वोत्तरसह इत्येतेभ्यश्वर इत्यनुकर- णनिर्देशः द्वन्द्वात् श्रूयमाणश्चरशब्दः प्रत्येकममिसम्बध्यते । तेनायमर्थः पूर्वचरोत्तरचरसहचरा इति । पश्चान्याप्यादिभिः सह द्वन्द्वः । अन्नाह सौगत:- विधिसाधन द्विविधमेव । स्वभावकार्यभेदात् । कारणस्य तु कार्याविनाभावाभावा- दलिङ्गत्वम् । नावश्यं कारणानि कार्यवन्ति भवन्तीति वचनात् । अप्रति- बद्धसामर्थ्यस्य कार्यम्प्रति गमकत्वमित्यपि नोत्तरम् । सामर्थ्यस्यातीन्द्रियतया विद्यमानस्यापि निश्चतुमशक्यत्त्वादिति । तदसमीक्षिताभिधानमिति दर्शयि- तुमाह- - तृतीयसमुद्देशः। रसादेकसामग्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किंश्चि- कारणं हेतुर्यत्र सामर्थ्यापतिबन्धकारणान्तरावैकल्ये ।। ६० ॥ आस्वाद्यमानाद्धि रसात्तजनिका सामग्यनुमायते । ततो रूपानुमान भवति। प्राक्तनो हि रूपक्षणः सजातीयं रूपक्षणान्तरलक्षणं कार्य कुर्वन्नेक विजातीयं रसलक्षणं कार्य करोतीति रूरानुमानमिच्छारिष्टमेव किञ्चित्का-. रणं हेतुः प्राक्तनस्य रूपक्षणस्य सजातीयरूपक्षणान्तराव्यभिचारात् । अन्यथा रससमानकालरूपप्रतिपत्तेरयोगात् । नानुकूलमात्रमत्यक्षणप्राप्तं वा कारणं लिङ्गमिष्यते । येन मणिमन्त्रादिना सामर्थ्यप्रतिबन्धात्कारणान्तरवैक- ल्येन वा कार्यव्यभिचारित्वं स्यात् द्वितीयक्षणे कार्यप्रत्यक्षीकरणेनाऽनुमाना- नर्थक्यं वा । कार्याविनाभावितया निश्चितस्य विशिष्ट कारणस्य छत्नादेर्लिङ्ग- त्त्वेनाङ्गीकरणात् यत्र सामाप्रतिबन्धः कारणान्तरावैकल्यं निश्चीयते तस्यैव. लिङ्गत्वं नान्यस्येति नोक्तदोपप्रसङ्गः । इदानी पूर्वोत्तरचरयोः स्वभावकार्यका-- रणेष्वनन्तर्भावाद्भेदान्तरत्वमेवेति दर्शयति- न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्ति कालव्यवधाने तदनुपलब्धेरिति ॥ ६१ ॥ तादात्म्यसम्बन्धे साध्यसाधनयोः स्वभावहेतावन्तवः, तदुत्पत्तिस-. म्वन्धे च कार्य कारणे वान्तर्भावो विमान्यते । न च तदुमयसम्भवः कालव्यवधाने तदनुपलब्धेः । सहमाविनोरेव तादात्म्यसम्भवादनन्तरयोरेव पूर्वोत्तरक्षणयोहे तुफलभावस्य दृष्टत्त्वात् । व्यवहितयोस्तदघटनात् । ननु. कालव्यवधानेऽपि कार्यकारणभावो दृश्यत एव । यथा जाग्रत्प्रबुद्धदशामा- विप्रबोधयोमरणारिष्टयोति । तत्परिहारार्थमाह--- भाव्यतीतयोमरणजाग्रदोधयोरपि नारि-" . ...

४८ प्रमेयरत्नमाला। . ष्टोदोधौ प्रति हेतुत्वम् ॥ ६२॥ सुगममेतत् । अत्रैवोपपत्तिमाह- तद्वचापाराश्रितं हि तद्भावभावित्वम् ॥ ६३ ॥ हिशब्दो यस्मादर्थे । यस्मात्तस्य कारणस्य मावे कार्यस्य भावित्वं तद्भावमा- वित्त्वं तच्च तद्व्यापाराश्रितं तस्मान्न प्रकृतयोः कार्यकारणभाव इत्यर्थः । अयमर्थः- अन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ च कार्यम्प्रति कारणव्यापारसव्यपेक्षावेवोपपद्यते कुलालस्येव कलशम्प्रति । न चातिव्यव- हितेषु तद्व्यापाराश्रितत्त्वमिति । सहचरस्याप्युक्तहेतुष्वनन्तर्भावं दर्शयति-- सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच ॥ ६४ ॥ हेवन्तरत्त्वमिति शेषः । अयमभिप्रायः परस्परपरिहारेणोपलम्भात्तादा- रम्यासम्भवात्स्वभावहेतावनन्तर्भावः । सहोत्पादाच न काय कारणे वेति । न च समानतमयवर्तिनोः कार्यकारणभावः सव्येतरगोविषाणवत् । कार्यकारणयोः प्रतिनियमाभावप्रसङ्गाच्च । तस्माद्धेत्वन्तरत्वमेवेति । इदानी व्याप्यहेतुं क्रमप्राप्तमुदाहरन्नुक्तान्वयव्यतिरेकपुरस्सर प्रतिपाद्याशयवशात्प्रति- 'पादितप्रतिज्ञाद्यवयवपञ्चकं प्रदर्शयति-- परिणामी शब्दः कृतकत्त्वात् । य एवं स एवं दृष्टो, यथा घटः, कृतकश्चायं, तस्मात्परिणामीति, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्न्यास्तनन्धयः, कृतकश्चायं, तस्मात्य रिणामीति ।। ६५॥ स्वोत्चत्तौ. अपेक्षितव्यापारो हि भावः कृतक उच्यते । तच कृतकत्वं न कूटस्थनित्यपक्षे नापि क्षणिकपक्षे किन्तु परिणामित्त्वे सत्यवेत्यने वक्ष्यते। कार्यहेतुमाह- अस्त्पत्र देहिनि वृद्धिाहारादेः ।। ६६ ।।

४२ - तृतीयसमुद्देशः। कारणहेतुमाह- अस्त्यत्रच्छाया छत्रात् ॥ ६७ ॥ अथ पूर्वचरहेतुमाह- उदेष्यति शकटं कृत्तिकोदयात् ।। ६८ ॥ मुहूर्तान्ते इतिसम्बन्धः । अथोत्तरचरः- उदगाद्भरणिः प्राक्तत एव ॥ ६९ ॥ अत्रापि मुहूर्तात्प्रागिति सम्बन्धनीय, तत एव कृत्तिकोदयादेवेत्यर्थः । सहनलिङ्गमाह- अस्त्यत्र मातुलिङ्गे रूपं रसात् ॥ ७० ॥ विरुद्धोपलब्धिमाह- विरुदतदुपलब्धिः प्रतिषेधे तथेति ।। ७१ ॥ प्रतिपेये साध्येऽप्रतिध्येन विरुद्धानां सम्बन्धिनस्ते व्याप्यादयस्तेपामुप- 'लव्यय इझ्यर्थः । तथेति पोटेति भावः । तत्र साध्यविरुद्धव्याप्योपलब्धिमाह- नास्त्यत्र शीतसार्श औष्ण्यात् ।। ७२ ।। शीतस्पर्शप्रतिषेधेन हि विरुद्धोऽभिस्तव्याप्यमौष्ण्यमिति । विरुद्धकार्योपल- - - म्भमाह- -- - नास्त्यत्र शीतस्पर्शो धूमात् ॥ ७३ ।। अत्रापि प्रतिपेव्यस्य साध्यस्य शीतस्पर्शस्य विरुद्धोऽग्निस्तस्यकार्य धूम इति । विरुद्धकारणोपलब्धिमाह- नास्मिन् शरीरिणि मुखमस्ति हृदयशल्यात् ।। ७४॥ सुखविरोधि दुःखं, तस्य कारणं हृदयशल्यमिति । विरुद्धवचरमाह- नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ।। ७५ ।। शकटोदयविरुद्धो ह्यश्विन्युदयस्तत्पूर्वचरो रेवत्युदय इति । विरुद्धोत्तरचरं. गेलेङ्गमाह- प्रमेयरत्नमाला। - नोदगाद्भरणिर्मुहूर्तात्पूर्व पुष्योदयात् ॥ ७६ ।। भरण्युदयविरुद्धो हि पुनर्वसूदयस्तदुत्तरचरः पुष्योदय इति । विरुद्धसह- चरमाह- नास्त्यत्र भित्तौ परभागाभावोऽग्भिागदर्शनादिति ॥७७॥ परभागाभावस्य विरुद्धस्तद्भावस्तत्सहचरोऽर्वाग्भाग इति । अविरुद्धानुप- लब्धिभेदमाह- अविरुद्धानुपलब्धिः प्रतिपेधे सप्तधा स्वभावव्यापककार्य कारणपूर्वोत्तरसहचरानुपलम्भभेदादिति ।। ७८ ।। स्वभावादिपदानां द्वन्द्वः तेषामनुपलम्भ इति पश्चाच्छष्टीतत्पुरुषः समासः । खभावानुपलम्भोदाहरणमाह- नास्त्यत्र भूतले घटोऽनुपलब्धः ।। ७९ ॥ अत्र पिशाचपरमाण्वादिभिर्व्यभिचारपरिहारार्थमुपलब्धिलक्षणप्राप्तत्त्वे सती- ति विशेषणमुन्नेयम् । व्यापकानुपलब्धिमाह- नास्त्यत्र शिंशपा वृक्षानुपलब्धेः॥ ८॥ शिंशपात्वं हि वृक्षवेन व्याप्तम् । तदभावे तद्व्याप्यशिंशपाया अप्यभावः ।। कार्यानुपलब्धिमाह- नास्त्यत्रापतिबद्धसामोऽग्निर्धमानुपलब्धः ॥ ८१ ॥ अप्रतिबद्धसामर्थ्यं हि कार्य प्रत्यनुपहतशामिकत्वमुच्यते । तदभावश्च कार्या- नुपलम्मादिति । कारणानुक्लब्धिमाह- नास्त्यत्र धूमोऽननेः ॥ ८२ ॥ पूर्वचरनुपलब्धिमाह- न भविष्यति मृहूर्तान्ते शकटं कृत्तिकोदयानपलब्धेः ॥ ८३ ।। उत्तरचरानुपलब्धिमाह- -- - - तृतीयसमुदेशः। नोदगाद्भरणिर्मुहूर्तात्माक्तत एव ॥ ८४ ।। तत एव कृत्तिकोदयानुपलब्धेरेवेत्यर्थः । सहचरानुपलब्धिः प्राप्तकालत्याह- नास्त्यत्र समालायामुन्नामो नामानुपलब्धेः ॥ ८५ ॥ विरुद्धकार्याद्यनुपलब्धिर्विधौ सम्भवतीत्याचक्षाणस्तद्भेदास्त्रय एवेति तानेव प्रदर्शयितुमाह- विरुद्धानुपलब्धिर्विधौ त्रेधा । विरुद्ध कार्यकारणस्वभावानु- पलब्धिभेदात् ॥ ८६ ।। विरुद्धकार्याद्यनुपलब्धिर्विधौ सम्भवतीति विरुद्धकार्यकारणस्वभावानुरल- ब्धिरिति । तत्र विरुद्धकार्यानुपलब्धिमाह- यथाऽस्मिन्माणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धे- रिति ।। ८७॥ व्याधिविशेपस्य हि विरुद्धस्तदभावस्तस्य कार्य निरामयचेष्टा तस्या अनुपलब्धिरिति । विरुद्ध कारणानुपलब्धिमाह- अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ॥ ८८ ॥ दुःखविरोधि सुखं, तस्य कारणमिष्टसंयोगस्तदनुपलब्धिरिति । विरुद्ध- स्वभावानुपलब्धिमाह- अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥ ८९ ॥ अनेकान्तात्मकविरोधी नित्यायेकान्तः । न पुनस्तद्विपयविज्ञानम् । तस्य मिथ्याज्ञानरूपतयोपलम्मसम्भवात् । तस्य स्वरूपमवास्तवाकारस्तम्यानुपलब्धिः। ननु च व्यापकविरुद्धकार्यादीनां परम्परया विरोधिकार्यादिलिङ्गानां च बहुल- मुपलम्भसम्भवात्तान्यपि किमिति नाचार्यैरुदाहृतानीत्याशङ्कायामाह- परम्परया सम्भवत्साधनयत्रैवान्तर्भावनीयम् ॥ ९० ॥ अत्रैवैतेषु कार्यादिष्वित्यर्थः । तस्यैव साधनस्योपलक्षणार्थमुदाहरणद्वयं प्रदर्शयति- प्रमेयरत्नमाला। . अभूदत्र चक्रे शिवकः स्थासात् ।। ९१ ।। एतच्च किं संज्ञिक कान्तर्भवतीत्यारेकायामाह- कार्यकार्यमविरुद्धकार्योपलब्धी ।। ९२ ।। अन्तर्भावनीयमिति सम्बन्धः । शिवकस्य हि कार्य छत्रकं, तस्य कार्य स्थास इति । दृष्टान्तद्वारेण द्वितीयहेतुमुदाहरति-- नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दन त् । कारणवि- रुद्धकार्य विरुद्धकार्योपलब्धौ यथेति ।। ९३ ।। मृगक्रीडनस्य हि कारणं मृगस्तस्य विरोधी मृगारिस्तस्य कार्य तच्छन्दन- मिति । इदं यथा विरुद्धकार्योपलव्यावन्तर्भवति तथा प्रकृतमपीत्यर्थः । चालव्युत्पत्त्यर्थं पञ्चावयवप्रयोग इत्युक्तं व्युत्पन्न प्रति कथं प्रयोगनियम इति शङ्कायामाह- व्युत्पन्नपयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा ।। ९४ ।। व्युत्पन्नस्य व्युत्पन्नाय वा प्रयोगः क्रियते इति शेपः । तथोपपत्त्या तथा साध्ये सत्येवोपपत्तिस्तया अन्पथानुपपत्त्यैव वा अन्यथा साध्याभावेऽनुपपत्ति- स्तमा । तामेवानुमानमुद्रामुन्मुद्रयति- अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपप- तेर्वेति ॥ ९५॥ ननु तदतिरिक्तदृष्टान्तादेरपि व्याप्तिप्रतिपत्तावुपयोगित्वात् । व्युत्पन्ना- पेक्षया कथं तदप्रयोग इत्याह- हेतमयोगो हि यथाव्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पन्नैरवधार्यते इति ॥ ९६ ॥ हिशब्दो यस्मादर्थे, यस्माद्ययाव्याप्तिग्रहणं व्याप्तिग्रहणानतिक्रमेणैव हेतुप्रयोगो विधीयते । सा च तावन्मात्रेण व्युत्पन्नैस्तथोपपत्याऽन्यथानुपपत्त्या .

। - । तृतीयसमुद्देशः। वाऽवधार्यते दृष्टान्तादिकमन्तरेणैवेत्यर्थः । यथा दृष्टान्तादेव्याप्तिप्रतिपत्तिम्प्रत्या- ङ्गवं तथा प्राक् प्रपञ्चितमिति नेह पुनः प्रतन्यते । नापि दृष्टान्तादिप्रयोगः साध्यसिद्धयर्थं फलवानित्याह--- तावता च साध्यसिद्धिः ॥ ९७ ॥ चकार एवकाराथें । निश्चितविपक्षासम्भवहेतुप्रयोगमात्रेणैव साध्यसिद्धि- रित्यर्थः । तेन पक्षप्रयोगोऽपि सफर इति दर्शयन्नाह- तेन पक्षस्तदाधारसूचनायोक्तः ॥ ९८ ॥ यतस्तथोपपत्त्यन्यथानुपपत्तिप्रयोगमात्रेण व्याप्तिप्रतिपत्तिस्तेन हेतुना पक्ष- स्तदाधारसूचनाय साध्यव्याहसाधनाधारसूचनायोक्तः । ततो यदुक्तं. परेण- तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ १ ॥ इति तन्निरस्तम् । व्युत्पन्न प्रति यथोक्तहेतुप्रयोगोऽपि पक्षप्रयोगाभावे साधनस्य नियताधारतानवधारणात्। अथानुमानस्वरूप प्रति- पायेदानी क्रमप्रातमागमस्वरूपं निरूपयितुमाह- आप्तवचनादिनिवन्धनमर्थज्ञानमागमः॥ ९९ ॥ यो यत्रावञ्चकः स तत्राप्तः । आप्तस्य वचनम् । आदिशब्देनांगुल्या- दिसंज्ञापरिग्रहः । आप्तवचनमादिर्यस्य तत्तथोक्तं तन्निबन्धनं यस्यार्थज्ञान- स्येति । आप्तशब्दोपादानादपौरुषेयत्वज्यवच्छेदः । अर्थज्ञानमित्यनेनान्यापोह- ज्ञानस्याभिप्रायसूचनस्य च निरासः । नन्वसम्मवीदं लक्षणं, शब्दस्य नित्या- त्वेनापौरुषेयत्वादाप्तप्रणीतत्वायोगात् । तन्नित्यत्वं च तदवयवानां वर्णानर व्यापकत्वान्नित्यत्वाच्च । न च तद्व्यापकत्वमसिद्धम् । एकत्र प्रयुक्तस्य गका- रादेः प्रत्यभिज्ञया देशान्तरेऽपि ग्रहणात् । स एवायं गकार इति नित्यत्वमपि तयैवावसीयते । कालान्तरेऽपि तस्यैव गकारादनिश्चयात् । इतो वा नित्यत्वं शब्दस्य सङ्केतान्यथानुपपत्तेरिति । तथाहि गृहीतसङ्केतस्य शब्दस्यः प्रध्वसे ५४ प्रमेयरत्नमाला। सत्यगृहतिसंकेतः शब्द इदानीमन्य एवोपलभ्यते इति तत्कथमर्थप्रत्ययः स्यात् ? न चासौ न भवतीति स एवायं शब्द इति प्रत्यभिज्ञानस्यात्रापि सुलमत्वाच्च । न च वर्णानां शब्दस्य वा नित्यत्व सर्वेः सर्वदा श्रवणप्रसङ्गः । सर्वदा तदभिव्यक्तेरसम्भवात् । तदसम्भवश्वाभिव्यञ्जकवायूनां प्रतिनियतत्वात् । नच तेषामनुपपन्नात्वम् । प्रमाणप्रतिपन्नत्वात् तथाहि- वक्तृमुखनिकटदेशवर्तिभिः स्पार्शनेनाध्यक्षेण व्यजका वायवों गृह्य- न्ने । दूरदेशस्थितेन मुखसमीपस्थिततूलचलनादनुमीयन्ते । श्रोतृश्रोत्रदेशे शब्दश्रवणान्यथानुपपत्तेरापत्त्यापि निश्चीयन्ते । किञ्चोत्पत्तिपक्षेऽपि समानोऽयं दोपः । तथाहि-वाय्वाकाशसंयोगादसमवायिकारणादाकाशाच्च समवापिकारणादिग्देशाद्यविभागेनोत्पद्यमानोऽयं शब्दो न सधैरनुभूयते । अपि तु नियतदिग्देशस्थैरेव तथाऽभिव्यज्यमानोऽपि । नाप्यमिव्यक्तिसांकर्यमुमय- त्रापि समानाबादेव । तथाहि-अन्यैस्ताल्वादिसंयोगैर्यथान्योवर्णो न क्रियते तथा ध्वन्यन्तरसारिमिस्ताल्वादिमिरन्यो ध्वनि रभ्यते इत्युत्पत्यभिव्यक्त्योः समानत्वेनैकत्रैव पर्यनुयोगावतर इति सर्वं सुस्थम् । माभूद्वर्णानां तदात्मकस्य शब्दस्य कौटस्थ्यनित्यत्वम् तथाप्यनादिपरम्परायात वेन वेदस्य नित्यत्वात्प्रकृतलक्षणस्याव्यापकत्वम् च प्रवाहनि- त्यन्त्रमप्रमाणकमेवास्येति युक्तं वक्तुम् । अधुना तत्कर्तुरनुपलम्माद- तीतानागतयोरपि कालयोस्तदनुमापकस्प लिङ्गस्याभावात्तदमावोऽपि सर्वदाप्य- तीन्द्रियसाध्यसाधनसम्बन्धस्येन्द्रियग्राह्यत्वायोगात् । प्रत्यक्ष प्रतिपन्नमेव हि लिङ्गम् । अनुमानं हि गृहीतसम्बन्धस्यैकदेशसन्दर्शनादसन्निकृष्टेऽर्थे बुद्धिरि- त्यभिधानात् । नायर्थापत्तेस्तसिद्धिः । अन्यथाभूतस्यार्थस्याभावादुपमानोपमे- ययोरप्रत्यक्षत्वाच्चनाप्युपमानं साधकम् । केवलमभाव प्रमाणमेवावशिष्यते तच्च तदमावसाधकमिति । न च पुरुषसद्भावबदस्यापि दुःसाध्यत्वात्संशयापत्तिस्तद- वा तृतीयसमुद्देशः। ५५ . भावसाधकप्रमाणानां सुलभत्वात् । अधुना हि तदभावप्रत्यक्षमेवातीतानागतयोः कालयोरनुमानं तदमावसाधकमिति । तथा च-"अतीतानागतो कालौ वेदकार- विवर्जितौ । कालशब्दाभिधेयत्वादिदानीन्तन कालवत् ॥ १ ॥ वेदस्याध्ययन सर्व तदध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाध्ययनं तथेति॥२॥" तथा अपौरुषेयो वेदः अनवच्छिन्नसम्प्रदायत्वे सत्यस्मर्यमाणकर्तृकत्वा- दाकाशवत् । अर्थापत्तिरपि प्रामाण्यलक्षणस्यार्थस्यानन्यथाभूतस्य दर्श- नात्तदभावे निश्चीयते । धर्माद्यतीन्द्रियार्थविषयस्य वेदस्याग्दिर्शिभिः कर्तुम- शक्यत्वात् । अतीन्द्रियार्थदर्शिनश्वाभावात्प्रामाण्यमपौरुषेयतामेव कल्पयतीति । अत्र प्रतिविधीयते यत्तावदुक्तं वर्णानां व्यापित्वे नित्यत्वे च प्रत्यभिज्ञा प्रमाणमिति, तदसत् । प्रत्यभिज्ञायास्तत्र प्रमाणत्वायोगात् । देशान्तरेऽपि तस्यैव वर्णस्य सत्त्वे खण्डशः प्रतिपत्तिः स्यात् । नहि सर्वत्र व्याप्त्या वर्त- मानस्यैकस्मिन्प्रदेश सामस्त्येन ग्रहणमुपपत्तियुक्तम् । अव्यापकत्वप्रसङ्गात् । घटादेरपि व्यापकत्वप्रसंगः । शक्यं हि वक्तुमेवं घटः सर्वगतश्चक्षुरादि- सन्निधानादनेकत्र देशे प्रतीयत इति । ननु घटोत्पादकस्य मृत्पिण्डादेरनेक- स्योपलम्मादनेकत्वमेव । तथा महदणुपरिमाणसम्भवाच्चेति । तच्च वर्णेयपि समानम् । तत्रापि प्रतिनियतताल्बादिकारणकलारस्य तीव्रादिधर्मभेदस्य च सम्भवाविरोधात् । ताल्वादीनां व्यञ्जकत्वमत्रैव निपेत्स्यत इत्यास्तां तावदे- तत् । अथ व्यापित्वेऽपि सर्वत्र सर्वात्मना वृत्तिमत्त्वान्न दोपोऽयमिति चेन्न । तथा सति सर्वथैकत्वविरोधात्। नहि देशभेदेन युगपत्सर्वात्मना प्रतीयमानस्यै- कत्वमुपपन्नं प्रमाणविरोधात् । तथाच प्रयोगः-प्रत्येकं गकारादिवर्णोs- नेक एव युगपद्भिन्नदेशतया तथैव सर्वात्मनोपलभ्यमानत्वात् घटादिवत् । न सामान्येन व्यभिचारः । तस्यापि सदृशपरिणामात्मकस्यानकत्वात् । नापि 'पर्वतायनेकप्रदेशस्थतया युगपदनेकदेशस्थितपुरुषपरिदृश्यमानेन चन्द्रार्का- ६ - प्रमेयरत्नमाला। दिना व्यभिचारः । तस्पातिदविष्टतयैकदेशस्थितस्यापि भ्रान्तित्रशादनेक- देशस्थत्वेन प्रतीतेः । न चाभ्रान्तस्यभ्रान्तेन व्यभिचरकल्पना युक्तेति ।। नापि जलपात्रप्रतिविम्बेन । तस्यापि चन्द्रार्कादिसन्निधिमपेक्ष्य तथापरिण- ममानस्यानेकत्वात् तस्मादनेकप्रदेशे युगपत्सर्वात्मनोपलभ्यमानविषयस्यैकस्या- सम्भाव्यमानत्वात्तत्र प्रवर्त्तमानं प्रत्यभिज्ञानं न प्रमाणमिति स्थितम् । तथा नित्यत्वमपि न प्रस्यमिज्ञानेन निश्चीयत इति । नित्यत्वं हि एकस्य नेकक्षण-. व्यापित्वं । तच्चान्तराले सत्तानुपलम्भेनं न शक्यते निश्चेतुम् । न च प्रत्यः भिज्ञानवलेनैवान्तराले सत्तासम्भवः । तस्य सादृश्यादपि सम्भवाविरोधात् । न च वटादावप्येवं प्रसङ्गः । तस्योत्पत्तावपरापरमृत्पिण्डान्तरलक्षणस्य कार- णस्यासम्भाव्यमानत्वेनान्तराले सत्तायाः साधयितुं शक्यत्वात् । अत्र तु. कारणानामपूर्वाणां व्यापारसम्भावनातो नान्तराले सत्तासम्भव इति ।.यच्चान्य- दुक्तं संकेतान्यथानुपपत्तेः शब्दस्य नित्यत्वमिति । इदमप्यनात्मज्ञभाषितमेव । अनित्येऽपि योजयितुं शक्यत्वात् । तथा हि गृहीतसंकेतस्य दण्डस्य प्रध्वंसे. सत्यगृहीतसंकेत इदानीमन्य एव दण्डः समुपलभ्यत इति दण्डीति न. स्यात् । तथा धूमस्यापि गृहीतव्याप्तिकस्य नाशे अन्यधूमदर्शनाद्वन्हिविज्ञाना- भावश्च । अथ सादृश्यात्तथाप्रतीतेन दोष इति चेदत्रापि सादृश्यवशादर्यप्र-- त्यये को दोपः ? येन नित्यत्वेऽत्र दुरभिनिवेश आश्रीयते । तथा कल्पना- यामन्तराले सत्त्वमप्यदृष्टं न कल्पितं स्यादिति । यच्चान्यदभिहितं व्यञ्जकानां: प्रतिनियतत्वान्न युगपत् श्रुतिरिति तदप्यशिक्षितलक्षितम् । समानेन्द्रियग्रा- होषु समानधर्मसु समानदेशेषु विषयिविषयेषु नियमायोगात् । तथाहि-श्रोत्र समानदेशसमानेन्द्रियग्राह्यसमानधर्मापन्नानामथानां ग्रहणाय प्रतिनियतसं- स्कारकसंस्कार्यं न भवति । इन्द्रियत्वात् चक्षुर्वत् । शब्दा वा प्रतिनियत- संस्कारकसंस्कार्या न भवन्ति । समानदेशसमानेन्द्रियग्राह्यसमानधर्मापन्नत्त्वे - तृतीयसमुद्देशः। सति युगपदिन्द्रियसम्बद्धत्वात् । घटादिवत् । उपपत्तिपक्षेऽप्ययं दोषः समाना' इति न वाच्यं मृत्पिण्डदीपदृष्टान्ताभ्यां कारकव्यञ्जकपक्षयोर्विशेषसिद्धरित्य-- लमतिजलितेन । यच्चान्यत्प्रवाहनित्यत्वेन वेदस्यापौरुषेयत्वमिति तत्र किं शब्दमात्रस्यानादिनित्यत्वमुत विशिष्टानामिति ? आद्यपक्षे य एव शब्दा, लौकिकास्त एव वैदिका इत्यल्पमिदमभिधीयते वेद एवापौरुषेय इति । किन्तु : सर्वेषामपि शास्त्राणामपौरुषेयतेति । अथ "विशिष्टानुपूर्षिका एव शब्दा अना- दित्वेनामिधीयन्ते। तेषामवगतार्थानामनवगतार्थानां वा अनादिता स्यात् ? यदि तावदुत्तरः पक्षस्तदाऽज्ञानलक्षणमप्रामाण्यमनुषज्यते । अथ आद्यः पक्ष आश्रीयते तद्व्याख्यातारः किञ्चिज्ञा भवेयुः सर्वज्ञा वा ? प्रथम-- पक्षे दुरधिगमसम्बन्धानामन्यथाप्यर्थस्य कल्पयितुं शक्यत्वात् मिथ्यात्वलक्षण- मप्रामाण्यं स्यात् । तदुक्तम् --अयमों नायमर्थ इति शब्दा वदन्ति न !! कल्प्योऽयमर्थः पुरुषैस्ते च रागादिविप्लुताः ॥ १ ॥ किञ्च किञ्चिज्ज्ञ- व्याख्यातार्थाविशेषात् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य खादेच्छ्चमांस- मित्यपि वाक्यार्थः किं न स्यात् संशयलक्षणमप्रामाण्य वा । अथ सर्ववि- द्विदितार्थ एव वेदोऽनादिपरंपराऽयात इति चेत् । हन्त धर्मे चोदनैव प्रमाणमिति हतमेतत् । अतीन्द्रियार्थप्रत्यक्षीकरणसमर्थस्य पुरुषस्य सद्भावे: च तद्वचनस्यापि चोदनावत्तदवबोधकत्वेन प्रामाण्याद्वेदस्य पुरुषाभावसिद्धे. स्तत्प्रतिबन्धकं स्यात् । अथ तद्व्याख्यातॄणां किञ्चिज्ञत्वेऽपि यथार्थव्याख्या.. नपरम्पराया अनवच्छिन्नसन्तानत्वेन सत्यार्थ एव वेदोऽवसीयत इति चेन्न- किंचिज्ञानामतीन्द्रियार्थेषु निःसंशयव्याख्यानायोगादन्धेनाकृष्यमाणस्यान्ध-- स्यानिष्टदेशपरिहारेणाभिमतपथप्रापणानुपपत्तः। किञ्चानादिव्याख्यानपरम्प-- रागतत्वेऽपि वेदार्थस्य गृहीतविस्मृतसम्बन्धवचनाकौशलदुष्टाभिप्रायतया . १ उत्पत्तिपक्षे, इत्यपि पाठभेदः ॥ २ तहि इति शेषः ५८ प्रमेयरत्नमाला। व्याख्यानस्यान्यथैव करणादविसंवादायोगादप्रामाण्यमेव स्यात् । दृश्यन्ते ह्यधुनातना अपि ज्योतिःशास्त्रादिषु रहस्यं यथार्थमवयन्तोऽपि दुरमिसंधेर- न्यथा व्याचक्षाणाः। केचिनानन्ताऽपि वचनाकौशलादन्यथोपदिशन्तः । केचिद्विस्मृतसम्बन्धा अयाथातथ्यमभिदधाना इति । कथमन्यथा भावनावि- धिनियोगवाक्यार्थप्रतिपत्तिदे स्यान्मनुयाज्ञवल्क्यादीनां श्रुत्यर्थानुसारिस्मृति- निरूपणायां वा ? तस्मादनादिप्रवाहपतितत्वेऽपि वेदस्यायथार्थत्वमेव स्यादिति स्थितम् । यच्चोक्तमतीतानागतावित्यादि तदपि स्वमतनिर्मूलनहेतुत्त्वेन विप- रीतसाधनात्तदामासमेवेति । तथाहि-" अतीतानागतौ कालौ वेदार्थज्ञ- विवर्जितौ । कालशब्दाभिधेयत्वादधुनातनकालवदिति ॥ १ ॥" किञ्च कालशब्दाभिधेयत्वमतीतानागतयोः कालयोग्रहणे सति भवति । तद्रहणं च नाध्यक्षतस्तयोरतीन्द्रियत्वात् । अनुमानतस्तद्वहणेऽपि न साध्येन सम्बन्ध- स्तयोनिश्चेतुं पार्यते । प्रत्यक्षगृहीतस्यैव तत्संबन्धाभ्युपगमात् । न च कालाख्यं द्रव्यं मीमांसकस्यास्ति । प्रसङ्गसाधनाददोष इति चेन्न । परम्प्रति साध्यसाधनयोाप्यव्यापकभावाभाव,दिदानीमपि देशान्तरे वेदकारस्याष्टकादेः सौगतादिभिरभ्युपगमात् । यदप्यपरं वेदाध्ययनमित्यादि तदपि विपक्षेऽपि समानम्-" भारताध्ययनं सर्व गुर्वध्ययनपूर्वकं । तदध्ययनवाच्यत्वा- दधुनाध्ययनं यथेति ॥ १ ॥" यच्चान्यदुक्तम्-अनवच्छिन्नसम्प्रदायत्वे सत्यस्मर्यमाणकर्तृत्वादिति जीर्णकूपारामादिमियभिचारनि- वृत्त्वर्थमनवच्छिन्नसम्प्रदायत्त्वविशेषणेपि विशेष्यस्यास्मर्यमाणकर्तृकत्वस्य- विचार्यमाणस्यायोगादसाधनत्वम् । कर्तुरस्मरणं हि वादिनः प्रतिवा- दिनश्च सर्वस्य वा ? वादिनश्चेदनुपलब्धेरभावाद्वा ? आये पक्षे पिट- कत्रयेऽपि स्यादनुपलब्धेरविशेषात् । तत्र परैः कतुरङ्गीकरणान्नो चेत् । अत. एवान्नापि न तदस्तु । अभावादिति चेदस्मात्तदभावसिद्धावितरेतराऽ5- :

तृतीयसमुद्दशः। ५९ श्रयत्वम् । सिद्धे हि तदभावे तन्निवन्धनं तदस्मरणमस्माच्च तदभाव इति । प्रामाण्यान्यथानुपपत्तेस्तदभावान्नेतरेतराश्रयत्वमिति चेन्न । प्रामाण्येनाप्रामाण्य- कारणस्यैव पुरुषविशेपस्य निराकरणात् पुरुपमात्रस्यानिराकृतेः । अथाती- न्द्रियार्थदर्शिनोऽभाव.दन्यस्य च प्रामाण्यकारणत्वानुपपत्तेः सिद्ध एव सर्वथा पुरुषाभाव इति चेत् कुतः सर्वज्ञाभावो विमावितः ? प्रामाण्यान्यथानुपपत्ते- रिति चेदितरेतराश्रयत्वम् । कर्तुरस्मरणादिति चेच्चक्रकप्रसङ्गः । अमाव- प्रमाणादिति चेन्न । तत्साधकस्यानुमानस्य प्रातिपादितत्वादभावप्रमाणो- स्थानायोगात् प्रमाणपञ्चकाभावेऽभावप्रमाणप्रवृत्तेः- प्रमाणपञ्चकं यत्र वस्तुरूपे न जायत । वस्त्वसत्तावबोधार्थ तत्राभावप्रमाणतेति' परैरमिधानात् । ततो न वादिनः कर्तुरस्मरणमुपपन्नम् । नापि प्रतिवादिनोऽसिद्धेः । तत्र हि प्रतिवादी स्मरत्येत्र कर्तारमिाते । नापि सर्वस्य, वादिनो वेदकर्तुरस्मर- णेऽपि प्रतिवादिनः स्मरणात् ननु प्रतिवादिना वेदेऽष्टकादयो बहवः कर्तारः स्मर्यन्तेऽतस्तत्स्मरणस्य विवादविषयस्याप्रामाण्याद्भवेदेव सर्वस्य कर्तुरस्मरण- मिति चेत् न । कर्तृविशेपविषय एवासौ विवादो न कर्तृसामान्ये । अतः सर्वस्य कर्तुरस्मरणमप्यसिद्धम् । सर्वात्मज्ञानविज्ञानरहितो वा कथं सर्वस्य कर्तुरस्मरणमवैति । तस्मादपौरुपेयत्वस्य वेदे व्यवस्थापयितुमशक्यत्वान्न तल्लक्षणस्याव्यापकत्वमसम्भवितत्वं वा सम्भवति । पौरुषेयत्त्वे पुनः प्रमाणानि बहूनि सन्त्येव । सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनिय- मसंदर्शनात् । फलार्थिपुरुषप्रवृत्तिनिवृत्तिहेत्वात्मना, श्रुतेश्च मनुसूत्रवत् पुरुष- कर्तृकैव श्रुतिः ॥१॥ इति वचनात् । अपौरुषयत्त्वेऽपि वा न प्रामाण्यं वेद- स्योपपद्यते तद्धेतूनां गुणानामभावात् । ननु न गुणकृतमेव प्रामाण्यं किन्तु दोपाभावप्रकारेणापि, स च दोषाश्रयपुरुषाभावेऽपि निश्चीयते न गुणसद्भाव एवेति । तथाचोक्तम्-शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः प्रमेयरत्नमाला। - क्वचित्तावद्गुणवद्वक्तृकावतः ॥ १ ॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यस- म्भवात् । यद्वा वक्तुरभावन न स्युर्दोपा निराश्रयाः ॥ २ ॥ इति । तदप्ययुक्तम् । पराभिप्रायापरिज्ञानात् । नास्माभिर्वक्तुरभावे वेदस्य प्रामाण्या- भावः समुद्भाव्यते । किंतु तद्वयाख्यातॄणामतीन्द्रियार्थदर्शनादिगुणाभावे ।। ततो दोपाणामनपोदितत्वान्न प्रामाण्यनिश्चय इति । ततोऽपौरुषेयत्वेऽपि वेदस्य प्रामाण्यनिश्चयायोगान्नानेन लक्षणस्याव्यापित्वमसम्भवित्वं चेत्यलमतिज- ल्पितेन । ननु शब्दार्थयोः सम्बन्धाभावादन्यापोहमात्राभिधायित्वादाप्तप्रणीता- दहि शब्दात् कथं वस्तुभूतार्थावगम इत्यत्राह- सहजयोग्यतासङ्केतवशाद्धि शब्दादयो वस्तुमतिपत्तिहेतवः।।१००॥ सहजा स्वभावभूता योग्यता शब्दार्थयोर्वाच्यवाचकशक्तिः तस्यां सङ्केतस्तद्वशाद्धि स्फुटं शब्दादयः प्रागुक्ताः वस्तुप्रतिपत्तिहेतव इति । उदाहरणमाह यथा मेर्वादयः सन्ति ॥ १०१॥ ननु य एव शब्दाः सत्यर्थे दृष्टास्त एवार्थाभावेऽपि दृश्यन्ते तत्कथम- र्थभिधायकत्वमिति । तदप्ययुक्तम्-अनर्थकेभ्यः शब्देभ्योऽर्थवतामन्यत्वात् । न च.न्यस्य व्यभिचारेऽन्यस्यासौ युक्तोऽतिप्रसङ्गात् । अन्यथा गोपालघटि- कान्तर्गतस्य धूमस्य पावकस्य व्यभिचारे पर्वतादिधूमस्यापि तत्प्रसङ्गात् । यत्नतः परीक्षित कार्य कारणं नातिवर्तते " इत्यन्यत्रापि समानम् । सुपरीक्षितो हि शब्दोऽर्थ न व्यभिचरतीति ! तथा चान्यापोहस्य शब्दार्थ- त्वकल्पनं प्रयासमात्रमेव । न चान्यापोहः शब्दार्थों व्यवतिष्ठते प्रतीतिवि- रोधात् । न हि गवादिशब्दश्रवणादगवादिव्यावृत्तिः प्रतीयते । ततः सास्नादिमत्यर्थे प्रवृत्तिदर्शनादगवादिबुद्धिजनकं तत्र शब्दान्तरं मृग्यम् । अधैकस्मादेव गोशब्दादर्थद्वयस्यापि सम्भावनान्नार्थः शब्दान्तरेणेति चेन्नै- - तृतीयसमुद्देशः। ६१ वम् 1 एकस्य परस्परविरुद्धार्थद्वयप्रतिपादनविरोधात् । किञ्च गोशब्दस्या- गोव्यावृत्तिविषयत्वे प्रथममगौरिति प्रतीयेत न चैवमतो नान्यापोहः शब्दार्थः । किञ्च अपोहाख्यं सामान्यं वाच्यत्वेन प्रतीयमानं पर्युदासरूपं प्रसज्यरूपं चा ? प्रथमपक्षे गोत्वमेव नामान्तरेणोक्तं स्यात् । अभावाभावस्य भावान्त- स्वभावेन व्यवस्थितत्वात् । कश्चायमश्वादिनिवृत्तिलक्षणो भावोऽभिधीयते ? न तावत्स्वलक्षणरूपस्तस्य सकलविकल्पवाग्गोचरातिक्रान्तत्वात् । नापि शाबलेयादिव्यक्तिरूपस्तस्यासामान्यत्वप्रसङ्गात् । तस्मात् सकलगोव्यक्तिष्वनु- वृत्तप्रत्यय जनकं तत्रत्र प्रत्येक परिसमाप्या वर्तमान सामान्यमेव गोशब्दवाच्यम् । तस्यापोह इति नामकरणे नाममात्रं मिद्येत नार्थः अतो नाद्यः पक्षः श्रेयान् । नापि द्वितीयो, गोशब्दादेः कचिद्वाह्येऽर्थे प्रवृत्त्ययोगात् । तुच्छाभावाभ्युपगमे परमतप्रवेशानुपंगाच । किञ्च गवादयों ये सामान्यशब्दा ये च शावलेयादयस्तेषां भवदभिप्रायेण पर्या- यता स्यात् । अर्थभेदाभावावृक्षपादपादिशब्दवत् । न खल तुच्छाभावस्य भेदो युक्तो वस्तुन्येव संसृष्टत्वैकत्वनानात्वादिविकल्पानां प्रतीतेः । भेदे वा अभा- वस्य वस्तुतापत्तिः तल्लक्षणत्त्वाद्वस्तुत्वस्य । न चापेह्यलक्षणसम्बन्धिभेदाढ़ेदः। प्रमेयाभित्रेयादिशब्दानामप्रवृत्तिप्रसङ्गात् । व्यवच्छेद्यस्यातद्रूपेणाप्यप्रमेयादि -रूपत्वे ततो व्यवच्छेदायोगात्कथं तत्र सम्बन्धिभेदाद्भदः ? किञ्च शाब- लेयाविष्वकोऽोहो न प्रसज्येत किन्तु प्रतिव्यक्ति मिन्न एव रयात् । अथ शाबलेयादयस्तन मिन्दन्ति तश्विादयोऽपि भेदका मःभूवन् । यस्यान्तरङ्गाः शावलेयादयो न भेदकास्तस्याश्वादयो भेदका इत्यतिसाहसम् । वस्तुनोऽपि सम्बंधिभेदाढ़ेदो नोपलभ्यते किमुतावस्तुनि । तथाह्येक एव देवदत्तादि- कटककुण्डलादिमिरमिसम्बन्ध्यमानो न नानात्वमास्तिघ्नुवानः समुपलभ्यत इति । भवतु वा सम्बन्धिभेदाढ़ेदस्तथापि न वस्तुभूतसामान्यमन्तरेणान्या- प्रमयरत्नमाला। पोहाश्रयः सम्बन्धी भवतां भवितुमर्हति । तथाहि यदि शाबलेयादिपु वस्तु- भूतसारूप्याभावोऽश्वादिपरिहारेण तत्रैव विशिष्टाभिधानप्रत्ययौ कथं स्याताम् । ततः सम्बधिभेदाढ़ेदमिच्छतापि सामान्यं वास्तवमङ्गीकर्तव्यमिति । किञ्चा- पोहशब्दार्थपक्षे संकेत एवानुपपन्नस्तद्हणोपायासम्भवात् । न प्रत्यक्षं तद्गृह- णसमर्थं तस्य वस्तुविषयत्त्वात् । अन्यापोहस्य चावस्तुत्वात् । अनुमानमपि न तत्सद्भावमवबोधयति तस्य कार्यस्वभावलिङ्गसम्पाद्यत्वात् । अपोहस्य निरुपाख्येयत्वेनानर्थक्रियाकारित्वेन च स्वभावकार्ययोरसम्भवात् । किञ्च गोशब्दस्यागोपोहाभिधायित्त्वेऽगौरित्यत्र गोशब्दस्य किमभिधेयं स्यादज्ञातस्य विधिनिषेधयोरनधिकारात् । अगोव्य वृत्तिरिति चेदितरेतराश्रयत्वमगोव्यवच्छेदो हि अगोनिश्चये भवति स चागौगौनिवृत्त्यात्मा गौश्चागोव्यवच्छेदरूप इति । अगौरित्यत्रोत्तरपदार्थोऽप्यनयैव दिशा चिन्तनीयः । नन्वगौरित्यत्रान्य एव विधिरूपो गोशब्दाभिधेयस्तदाऽपोहः शब्दार्थ इति विघटेत । तस्मादपोह- स्योक्तयुक्त्या विचार्यमाणस्यायोगान्नान्यापोहः शब्दार्थ इति, स्थितं सहजयोग्यता सङ्केतवशाच्छब्दादयो वस्तुप्रतिपत्तिहेतव इति । स्मृतिरनुपहतेयं प्रत्यभिज्ञानयज्ञा । प्रमितिनिरतचिन्ता लैङ्गिक सङ्गतार्थम् । प्रवचनमनवा निश्चितं देववाचा । रचितमुचितवाग्भिस्तथ्यमेतेन गीतम् ॥ १ ॥ इति परीक्षामुखस्य लघुवृत्तौ परोक्षप्रपञ्चस्तृतीयः समुद्देशः ॥ ३॥ AURA अथ स्वरूपसङ्ख्याविप्रतिपत्तिं निराकृत्य विषयविप्रतिपत्तिनिरासार्थमाह- सामान्यविशेषात्मा तदर्थो विषयः ॥ १॥ तस्य प्रमाणस्य ग्राह्योऽयों विषय इति यावत् । स एव विशिष्यते - चतुर्थसमुद्देशः। ६३ सामान्यविशेषात्मा । सामान्यविशेषौ वक्ष्यमाणलक्षणो तावात्मानौ यस्यति विग्रहः । तदुमयग्रहणमात्मग्रहणं च वे वलस्य सामान्यस्य विशेपस्य तदु- भयस्य वा स्वतन्त्रस्य प्रमाणविषयत्वप्रतिषेधार्थम् । तत्र सन्नात्रदेहस्य परब्रह्मणो निरस्तत्त्वात्तदितरद्विचार्यते। तत्र सांख्यैः प्रवानं सामान्यमुनं "त्रिगुणमविवेकित्रिपयः, सामान्यमचेतनं प्रसवर्मि । व्यक्तं तथा प्रधान, तद्विपरीतस्तथा च पुमानिति ॥ १ ॥ वचनात् । तच्च केवलं प्रधान महदादिकार्यनिष्पादनाय प्रवर्तनान किमप्यपेक्ष्य प्रवर्तत निरपेक्ष्य वा ? प्रथमपक्ष तन्निमित्तं वाच्यं यदपेक्ष्य प्रवर्तते । ननु पुरुषार्थ एव तत्र कारणं, पुरुषार्थेन हेतुना प्रधानं प्रवर्तते । पुरुषार्थश्च द्वेधा, शब्दाधुरलब्विर्गुणपुरुपा- न्तरविवेकदर्शनं चेत्यभिधानादिति चेत् सत्यम् । तथा प्रवर्तमानमपि बहु- धानकं पुरुपकृतं कञ्चिदुपकारं समासादयत्प्रवर्तेतानासादयद्वा ? प्रथमपक्षे स उपकारस्तस्माद्भिन्नोऽभिन्नो वा? यदि भिन्नस्तदा तस्येति व्यपदेशाभावः। सम्बन्धाभावात्तदभावश्च समवायादेरनभ्युपगमात् । तादात्म्य च भेदविरो- धोति । अथाभिन्न उपकार इति पक्ष आश्रीयते तदा प्रधानमेव तेन कृतं स्यात् । अथोपकारनिरपेक्षमेव प्रधान प्रवर्तते तर्हि मुक्तात्मानम्प्रत्यपि प्रव- सेताविशेषात् । एतेन निरपेक्षप्रवृत्तिपक्षोऽपि प्रत्युक्तस्तत एव । किञ्च सिद्धे प्रधाने सर्वमेतदुपपन्नं स्यात् न च तत्सिद्धिः कुतश्चिनिश्चीयत इति । ननु कार्याणामेकान्त्रयदर्शनादेक कारणप्रभवत्त्वंभेदानां परिमाणदर्शनाचेति ! तदप्यचारुचर्वितं सुखदुःखमोहरूपतया घटादेरन्वयाभावादन्तस्तत्वस्यैव तथो- पलम्भात् । अथान्तस्तत्वस्य न सुखादिपरिणामः किन्तु तथापरिणममान- प्रधानसंसर्गादात्मनोऽपि तथा प्रतिभास इति तदप्यनुपपन्नम् । अप्रतिभास- मानस्यापि संसर्गकल्पनायां तत्त्रेयत्ताया निश्चेतुमशक्तेः तदुक्तम्----संसर्गाद विभागश्चेदयोगोलकवह्निवत् । मेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुष' ६४ प्रमयरत्नमाला। . इति । यदपि परिमाणाख्यं साधनं, तदप्येकप्रकृतिकेपु घटवटीशराबोदञ्च. • नादिष्वनेक प्रकृतिकषु पटकुटमकुटशकटादिषु चोपलम्मादनैकान्तिकमिति न -ततः प्रकृतिसिद्धिः। तदेवं प्रधानग्रहणोपायासम्भवात्सम्भवे वा ततः कार्यो- • दयायोगाच्च । यदुक्तं परेण-प्रकृतेर्महान् ततोऽहंकारस्तस्माद्गणश्च पोडशकः । तस्मादपि पोडशकात्पञ्चभ्यः पंच भूतानीति ॥ १ ॥ सृष्टिक्रमे, मूलप्रकृति- -रविकृतिर्महदायाः प्रकृतिविकृतयः सप्तवाडशकश्च विकारो, न प्रकृतिन- विकृतिः पुरुषः ॥ २ ॥ इति स्वरूपाख्यानं च, वन्ध्यासुतसौरूप्यवर्णन- : मिवासद्विषयत्त्वादुपेक्षामर्हति । अमूर्तस्याकाशस्य मूर्तस्य पृथिव्यादेश्चैककारण- कत्त्वायोगाच्च । अन्यथा अचेतनादपि पंचभूतकदम्बकाच्चैतन्यसिद्धेश्चार्वाक- मतसिद्धिप्रसङ्गात् सांख्यगन्ध एव न भवेत् । सत्कार्यबादप्रतिषेधश्चान्यत्र विस्तरेणोक्त इति नेहोच्यते संक्षेपस्वरूनादस्यति । तथा विशेपा एव तत्त्वं तेषामसमानेतरविशेषेभ्योऽशेषात्मना विश्लेषात्मकत्वात्सामान्यस्यैकस्यानेकत्र व्याप्त्यावर्तमानस्य सम्भवाभावाच्च । तस्यैकव्यक्तिनिष्ठस्य सामस्त्येनोपलव्धस्य तथैव व्यक्त्यन्तरेऽनुपलम्भप्रसङ्गात् । उपलम्भे वा तन्नानात्वापत्तयुगपत् मिनदेशतया सामस्त्येनोपलब्धेस्तद्वयक्तिवत् , अन्यथा व्यक्तयोऽपि भिन्ना माभूवन्निति । ततो बुद्धयभेद एव सामान्यम् । तदुक्तम्---एकत्र दृष्टो भावो | हि कचिनान्यत्र दृश्यते । तस्मान्न मिन्नमस्त्यन्यत्सामान्य बुद्धयभेदतः ।।१।। इति । तेच विशेषाः परस्परासम्बद्धा एव, तत्सम्बन्धस्य विचार्यमाणस्यायो. गात् । एकदेशेन सम्बन्धे अणुषट्केन युगपद्योगादणोः षडंशतापत्तेः । सर्वात्मनामिसम्बन्धे पिण्डस्याणुमात्रकत्वापत्तेः । अवयविनिषेधाच्चासम्बद्ध- स्वमेषामुपपद्यत एव । तनिषेधश्च वृत्तिविकल्पादिबाधनात् । तथाहि अवयवा अवयविनि वर्तन्त इति नाभ्युपगतम् । अवयवी चावयवेषु वर्तमानः किमे- -कदेशेन वर्तते सर्वात्मना वा ? एकदेशेन वृत्तावत्रयवान्तरप्रसङ्गः । तत्राप्ये- .

अवय- चतुर्थसमुद्देशः । ६५ कदेशान्तरेणावयविनो वृत्तावनवस्था । सर्वात्मना वर्तमानोऽपि प्रत्यवयवं स्वभावभेदेन वर्तेत, आहोस्विदेकरूपेणेति ? प्रथमपक्षे विबहुत्वापत्तिः । द्वितीयपक्षे तु अवयवानामेकरूपत्वापत्तिरिति । प्रत्येकं परि- समाप्त्या वृत्तावप्यवयविबहुत्वमिति । तथा यत् दृश्यं सन्नोलभ्यते तनात्येव यथा गगनेन्दीवर, नोपलभ्यते चावयवेष्ववयवीति । तथा यदग्रहे यबुद्धय- भावस्तत्ततो नार्थान्तरम् । यथा वृक्षाग्रहे वनमिति । ततश्च निरंशा एवा- न्योन्यासंस्पर्शिणो रूपादिपरमाणवस्ते च एकक्षणस्थायिनो न नित्या, विनाशं प्रत्यन्यानपेक्षणात् । प्रयोगश्च यो यद्भाव प्रत्यन्यानपेक्षः स तत्स्वभावनियतो यथान्त्या कारणसामग्री स्वकार्ये । नाशो हि मुद्गरादिना क्रियमाणस्ततो मिन्नोऽमिन्नो वा क्रियते ? मिन्नस्य करणे घटस्य स्थितिरेव स्यात् । अथ विनाशसम्बन्धानष्ट इति व्यपदेश इति चेत्, भावाभावयोः कः सम्बन्धः? न तावत्तादात्म्य तयोर्मेदात् । नापि तदुत्पत्तिरभावस्य कार्याधारत्वाधटनात् । अमिन्नस्य करणे घटादिव कृतः स्यात् । तस्य च प्रागेक निष्पन्नत्वाद्यर्थ करणमित्यन्यानपेक्षत्वं सिद्धमिति विनाशस्वभावनि- यतत्वं साधयत्येव । सिद्धे चानित्यानां तत्स्वभावनियतत्वे तदितरेपा- मात्मादीनां विमत्यधिकरणमावापन्नानां सवादिना साधनेन तदृष्ट:- न्ताद्भवत्येव क्षणस्थितिस्वमावत्वम् । तथाहि यसत्तत्सर्वमेकक्षणस्थितिस्वमा यथा घटः सन्तश्चामी मावा इति । अथवा सत्त्वमेव विपक्षे बाधकप्रमाण- बलेन दृष्टान्तनिरपेक्षमशेषस्य वस्तुनः क्षणिकत्वमनुमापयति । तथाहि सत्त्वमर्थक्रियया व्याप्तं, अर्थक्रिया च क्रमयोगपद्याभ्यां, ते च नित्यानिवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तते । सापि स्वव्याप्यं सत्त्वमिति, नित्यस्य क्रम- योगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वासम्भावनं विपक्षे बाधकप्रमाणमिति । नहि नित्यस्य क्रमेण युगपद्वा सा सम्भवति । नित्यस्यैकेनैव स्वभावेन पूर्वापर- कालभाविकार्यद्वयं कुर्वतः कार्याभेदकत्वात्तस्यैकस्वभावत्वात् । तथापि ६६ प्रमेयरत्नमाला। कार्यनांनावे अन्यत्र कार्यभेदात् कारणभेदकल्पना विफलैव स्यात् । तादृश- मेकमेव किञ्चित्कारणं कल्पनीयं, येनैकस्वभावेनैकेनैव चराचरमुत्पद्यत इति । अथ स्वभावनानात्वमेव तस्य कार्यभेदादिष्यत इति चेत्तहि; ते स्वभावास्तस्य सर्वदा सम्भविनस्तदा कार्यसायम् । नो चेत्तदुत्पत्तिकारणं वाच्यम् । तस्मादेवमित्येकस्वभावात्तदुत्पत्तौ तत्स्वभावानां सदा सम्भवात्सैक कार्याणां युगपत्प्राप्तिः। सहकारिक्रमापेक्षया तत्स्वभावानां क्रमेण भावानोक्त- दोप इति चेत्तदपि न साधुसङ्गतम् । समर्थस्य नित्यस्य परापेक्षायोगात् । तैः सामर्थ्यकरणे नित्यताहानिः । तस्माद्भिनमेव सामर्थ्य तैविधीयत इति न नित्यताहानिरिति चेत्तर्हि नित्यमकिंचित्करमेव स्यात् । सहकारिजनितसा- मर्थ्यस्यैव कार्यकारित्त्वात्तत्सम्बन्धात्तस्यापि कार्यकारित्वे तत्सम्बधस्यैकस्त्र- भावत्वे सामर्थ्यनानात्वाभावान्न कार्यभेदः । अनेकस्वभावत्वे क्रमवत्त्वे च कार्यवत्तस्यापि साङ्कर्यमिति सर्वमावर्तत इति चक्रकप्रसङ्गः । तस्मान्न क्रमेण कार्यकारित्वं नित्यस्य । नापि युगपत् अशेषकार्याणां युगपदुत्पत्तौ द्वितीयक्षणे कार्याकरणादनर्थक्रियाकारित्वेनावस्तुत्वप्रसंगादिति नित्यस्य क्रमयोगपद्याभावः सिद्ध एवेति सौगताः प्रतिपेदिरे । तेऽपि न युक्तवादिनः-सजातीयेतर- व्यावृत्तात्मनां विशेषाणामनंशानां ग्राहकस्य प्रमाणस्याभावात् । प्रत्यक्षस्य स्थिरस्थूलसाधारणाकारवस्तुमाहकत्वेन निरंशवस्तुग्रहणायोगात् । न परमाणवः परस्परासंबद्धाश्चक्षुरादिबुद्धौ प्रतिभान्ति तथा सत्यविवादप्रसंगात् । अथानुभूयन्त एव प्रथमं तथाभूताः क्षणाः पश्चात्तु विकल्पवासनावलादा- न्तरादन्तरालानुपलम्भलक्षणाद्बाह्याचाविद्यमानोऽपि स्थूलाद्याकारो विकल्पबुद्धौ चकास्ति । स च तदाकारणानुरज्यमानः स्वव्यापार तिरस्कृत्य प्रत्यक्षव्यापार- पुरःसरत्त्येन प्रवृत्तत्त्वात्प्रत्यक्षायत इति । तदप्यतिबालविलसितम् । निर्विकल्प-- च.बोधस्यानुपलक्षणात् । गृहीते हि निर्विकल्पकेतरयोर्भेदे अन्याकारानुराग- चतुर्थसमुद्देशः। ? स्यान्यत्र कल्पना युक्ता स्फटिकजपाकुसुमयोरिव नान्यथेति । एतेन तयोर्युग- पवृत्तलघुवृत्तेर्वा तदेकत्त्वाध्यवसाय इति निरस्तं तस्यापि कोशपानप्रत्येय- त्वादिति । केन वा तयोरेकत्त्वाध्यवसायः ? न तावद्विकल्पेन, तस्य विकल्प- वार्तानभिज्ञत्त्वात् । नाप्यनुभवेन, तस्य विकल्पागोचरत्त्वात् । न च तदुभया- विषयं तदेकत्वाध्यवसाये समर्थमतिप्रसङ्गात् । ततो न प्रत्यक्षबुद्धौ तथा विधविशेषावमासः । नाप्यनुमानबुद्धौ तदविनाभूतस्वभावकार्यलिङ्गामावादनुप- लम्भोऽसिद्ध एव । अनुवृत्ताकारस्य स्थूलाकारस्य चोपलब्धेरुतत्वात् । यदपि परमाणूनामेकदेशेन सर्वात्मना वा सम्बन्धो नोपपद्यत इति तत्रानभ्युपगम एव परिहारः । स्निग्धरूक्षाणां सजातीयानां च व्यधिकगुणानां कथञ्चित्स्क- न्धाकारपरिणामामकस्य सम्बन्धस्याभ्युपगमात् । यच्चावयविनि वृत्तिविकल्यादि बाधकमुक्तं तत्रावयविनो वृत्तिरेव यदि नोपपद्यते तदा न वर्तत इत्यभिधात- व्यम् । नैकदेशादिविकल्पस्तस्य विशेषान्तरान्तरीयकत्वात् । तथा हि नैकदेशेन वर्तते नापि सर्व.त्मनेत्युक्ते प्रकारान्तरेण वृत्तिरित्यभिहितं स्यात् । अन्यथा न वर्तत इत्येव वक्तव्यामेति विशेषप्रतिषेधस्य शेपाभ्यनुज्ञानरूपत्वात् कथ- ञ्चित्तादात्म्यरूपेण वृत्तिरित्यवसीयते। तत्र यथोक्तदोषाणामनवकाशाविरोधादि- दोपश्चाग्रे प्रतिषेत्स्यत इति नेह प्रतन्यते । यच्चैकक्षणस्थायित्त्रे साधनं 'यो यद्भाव प्रतीत्याद्युक्तं, तदप्यसाधनमसिद्धादिदोषदुष्टत्वात् । तत्रान्यानपेक्षत्वं तावदसिद्ध घटाद्यभावस्य मुद्गरादिव्या गारान्वयव्यतिरेकानुविवायित्वात् तत्कारणत्वोपपत्तेः। कपालादिपर्यायान्तरभावो हि घटादेरभावस्तुच्छाभावस्य सकलप्रमाणगो- चरातिक्रान्तत्वात् । किञ्च अभावो यदि स्वतन्त्रो भवेत्तदाऽन्यानपेक्षत्वं विशेषणं युक्तम्। न च सौगतमते सोऽस्तीति हेतुप्रयोगानवतार एव, अनै- शान्तिकं चेदं शालिवीजस्य कोद्रवांकुरजननम्प्रति अन्यानपेक्षत्वेऽपि तज्ज- ननस्वभावानियतत्वात् । तत्स्वभावत्त्वे सतीति विशेषणान दोप इति चेत्- प्रमेयरत्नमाला। न सर्वथा पदार्थानां विनाशस्वभावासद्धः । पर्यायरूपेणैव हि मावानामुत्पाद- विनाशावङ्गीक्रियेते न द्रव्यरूपेण- समुदेति विलयमृच्छति भावो नियमेन पर्ययनयस्य । नोदति नो विनश्यति भावनयालिङ्गितो नित्यम् ॥ १ इति वचनात् । नहि निरन्वयाविनाशे पूर्वक्षणस्य ततो मृताच्छिखिनः केकायितस्येवोत्तरक्षणस्योत्पत्तिर्घटते । द्रव्यरूपण कथञ्चिदत्यक्त- रूपस्यापि सम्भवात् न सर्वथा भावानां विनाशस्वभावत्वं युक्तम् । न च द्रव्यरूपस्य गृहीतुमशक्यत्वादमावस्तद्हणोपायस्य प्रत्यभिज्ञानस्य बलमुपलम्भात्तव्यामाण्यस्य च प्रागेवोक्तत्वादुत्तरकार्योत्पत्यन्यथानुपपत्तेश्च सिद्धत्वात् । यच्चान्यत्साधनं सत्त्वाख्यं तदपि विपक्षवत्स्वपक्षेऽपि समानत्वान्न साध्यसिद्धिनिबन्धनम् । तथा हि सत्त्वमर्थक्रियया व्याप्तमर्थक्रिया च क्रम- योगपद्याभ्यां ते च क्षणिकानिवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तेते। सा च निवर्तमाना स्वच्याप्यं सत्वमिति नित्यस्येव क्षणिकस्यापि खरविपाण- वदसत्त्वमिति न तत्र सत्वव्यवस्था । न च क्षाणिकस्य वस्तुनः क्रमयोग- पद्याभ्यामर्थक्रियाविरोधोऽसिद्धस्तस्य देशकृतस्य कालकृतस्य वा क्रमस्या- सम्भवात् । अवस्थितस्यैकस्य हि नानादेशकालकलाव्यापित्वं देशक्रमः कालक्रमश्वाभिधीयते । न च क्षणिके सोऽस्ति, " यो यत्रैव स तत्रैव यो यदैव तदैव सः। न देशकालयोातिर्भावानामिह विद्यत" इति स्वयमेवा- मिधानात् । न च पूर्वोत्तरक्षणानामेकसन्तानापेक्षया क्रमः सम्भवति, सन्ता- नस्य वास्तवत्वे तस्यापि क्षणिकत्वेन क्रमायोगादक्षणिकावेऽपि वास्तवत्वे तनव सत्त्वादिसाधनमनैकान्तिकम् । अवास्तवत्वे न तदपेक्षः क्रमो युक्त इति । नापि योगपद्येन तत्राक्रिया सम्मवति, युगपदेकन स्वभावेन नाना- कार्यकरणे तत्कायकत्व स्यात् । नानास्वमावकल्पनायां ते स्त्रमावास्तेन व्यापनीयाः । तत्रैकेन स्वभावेन तद्व्याप्तौ तेषामेकरूपता, नानास्वभावेन चतुर्थसमुद्देशः। ६९ चेदनवस्था । अथैकत्रैकस्योपादानभाव एवान्यत्र सहकारिभाव इति न स्वमा- वमेद इष्यते । तर्हि नित्यस्यैकरूपस्यापि वस्तुनः क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्क वा माभूत् । अक्रमात् क्रामिणामनुत्पत्तेनैवमिति चेदेकानंशकारणायुगपदनेककारणसाध्यानेककार्यविरोधादक्रामिणोऽपि न क्षाण- कस्य कार्यकारित्वमिति । किञ्च भवत्पक्षे सतोऽसतो वा कार्यकारित्वम् । सतः कार्यकर्तृत्वे सकलकालकलाव्यापिक्षणानामेकक्षणवृत्तिप्रसङ्गः । द्वितीय- पक्षे खरविषाणादेरपि कार्यकारित्वमसत्त्वाविशेषात् सत्वलक्षणस्प व्यभिचारश्च, तस्मान विशेषकान्तपक्षः श्रेयान् ॥ नापि सामान्यविशेषौ परस्परानपेक्षाविति योगमतमपि युक्तियुक्तमवभाति, तयोरन्योन्यमेदे द्वयोरन्यतरस्यापि व्यवस्थापयि- तुमशक्तेः । तथा हि-विशेषास्तावत् द्रव्यगुणकात्मनः सामान्य तु परा- परभेदाद्विविधं, तत्र परसामान्यात्सत्तालक्षणाद्विशेषाणां मेदेऽसत्वापत्तिरित । तथाच प्रयोगः। द्रव्यगुणकर्माण्यसद्रूपाणि सत्त्वादत्यन्तं भिन्नत्वात्प्रागमा- चादिवदिति । न सामान्यविशेषसमवायैयमिचारः । तत्र स्वरूपसत्वस्यामि- नस्य परैरभ्युपगमात् । ननु द्रव्यादीनां प्रमाणोपपन्नत्वे धमिग्राहकप्रमाणबा- धितो हेतुर्येन हि प्रमाणेन द्रव्यादयो निश्चीयन्ते तेन तत्सत्वमपीति । अथ 'न प्रमाणप्रतिपन्ना द्रव्यादयस्तार्ह हेतोराश्रयासिद्धिरिति' तदयुक्तम् । प्रसङ्ग- साधनात्प्रागभावादौ हि सत्त्वाद्भेदोऽसत्त्वेन व्याप्त उपलभ्यते ततश्च व्याप्यस्य द्रव्यादावभ्युपगमो व्यापकाभ्युपगमनान्तयिक इति प्रसङ्गसाधने अस्य दोष- स्याभावात् । एतेन द्रव्यादीनामप्यद्रव्यादित्वं द्रव्यत्वादमदे चिन्तितं बोद्ध- व्यम् । कथं वा षण्णां पदार्थानां परस्परं भेदे प्रतिनियतस्वरूपव्यवस्था ? द्रव्यस्य हि द्रव्यमिति व्यपदेशस्य द्रव्यत्वामिसम्बन्धाद्विधाने ततः पूर्व द्रव्य- स्वरूपं किञ्चिद्वाच्यं, येन सह द्रव्यत्त्वाभिसम्बन्धः स्यात् । द्रव्यमेव स्वरूप- मिति चेन, तव्यपदेशस्य द्रव्यत्त्वामिसम्बन्धनिबन्धनतया स्वरूपत्वायोगात् ।

प्रमेयरत्नमाला। सत्त्वं निजं रूपमिति चेन्न, तस्यापि सत्तासम्बन्धादेव तद्यपदेशकरणात - एवं गुणादिष्वपि वाच्यम् । केवलं सामान्यविशेषसमवायानामेव स्वरूपसत्त्वेन तथाव्यपदेश,पपत्तेस्तत्रयव्यवस्थैव स्यात् । ननु जीवादिपदार्थानां सामान्य- विशेपात्मकत्वं स्पाद्वादिभिरभिधीयते तयोश्च वस्तुनोर्मेदाभेदाविति । तोच विरोधादिदोषोपनिपातानेकन सम्भविनाविति । तथाहि-भेदाभेदयोर्विधिनिषे. धयोरेकत्राभिन्ने वस्तुन्यसम्भवः शीतोष्णस्पर्शयोति ॥ १ ॥ भेदस्यान्यद- धिकरणमभेदस्य चान्यदिति वैयधिकरण्यम् ॥ २ ॥ यमात्मानं पुरोधाय भेदो यं च समाश्रित्याभेदः तावात्मानौ मिन्नी चामिन्नौ च तत्रापि तथा परिकल्पनादनवस्था ॥३॥ येन रूपेण मेदस्तेन भेदश्चामेदश्चेति सङ्करः॥४॥ येन भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः ॥ ५ ॥ मेदामेदा- त्मकत्वे च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तः संशयः ॥ ६ ॥ ततश्चा- प्रतिपत्तिस्ततोऽमावः ॥ ७-८॥ इत्यनेकान्तात्मकमपि न सौस्थ्यमाभजतीति केचित् । तेऽपि न प्रातीतिकवादिनः । विरोधस्य प्रतीयमानयोरसम्भवादनु- पलम्भसाध्यो हि विरोधः, तत्रोपलभ्यमानयोः को विरोधः? यच्च शीतोष्णस्प- र्शयोति · दृष्टान्ततयोक्तं तच धूपदहनायेकावयविनः शांतोष्णस्प- स्विमावस्योपलब्धेरयुक्तमेव । एकस्य चलाचलरक्तारक्तावृतानावृतादिविरुद्ध- धर्माणां युगपदुपलब्धेश्च प्रकृतयोरपि न विरोध इति । एतेन वैयधिकरण्य- मप्यपास्तम् । तयोरेकाधिकरणत्वेन प्रतीतेः । अत्रापि प्रागुक्तनिदर्शनान्येव बोद्धव्यानिः । यच्चानवस्थानं दूपणं तदपि स्याद्वादिमतानभिज्ञैरेवापादितम् : तन्मतं हि सामान्यविशेपात्मके वस्तुनि सामान्यविशेषावेव भेदः । भेदध्व- निना तयोरेवाभिधानात् । द्रव्यरूपेणाभेद इति । द्रव्यमेवाभेद एकाने कात्मकत्वाद्वस्तुनः ।। यदि वा भेदनयप्राधान्येन वस्तुधर्माणामानन्या- नानवस्थ · । तथा हि-यत्सामान्यं यश्च. विशेषस्तयोरनुवृत्तव्यावृत्ता.

चतुर्थसमुद्देशः। ७१ कारेण भेदस्तयोश्चार्थक्रियाभेदाढ़ेदश्च शक्तिमेदात् । सोऽपि सहकारिभेदा- दित्यनन्तधर्माणामङ्गीकरणात् कुतोऽनवस्था । तथा चोक्तम् । मूलक्षतिकरी- माहुरनवस्थां हि दूपणम् । वस्वानन्त्येप्यशक्तौ च नानवस्था विचार्यते ॥१॥ इति । यो च सङ्कव्यतिकरी तावपि मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टा- न्तेन च परिहतौ । अथ तत्र तथा प्रतिमासनं परस्यापि वस्तुनि तथैव प्रतिमासोऽस्तु तस्य पक्षपाताभावान्निगीते संशयोऽपि न युक्तः तस्य चलित- प्रतिपत्तिरूपत्वादचलितप्रतिमासे दुर्घटत्त्वात् । प्रतिपन्ने वस्तुन्यप्रतिपत्तिरित्य. तिसाहसम् । उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो. नाभाव इति दृष्टेष्टाविरुद्धमनेकान्तशासनं सिद्धम् । एतेनावयवावयविनोगुणगुणिनोः कर्म. तद्वते.श्च कथंचिद्भेदाभेदौ प्रतिपादितौ बौद्धव्यौ । अथ समवायत्रशाद्धिने- ज्वप्यमेदप्रतीतिरनुपपन्नाब्रह्मतुलाख्यज्ञानस्येति चेत् न, तस्यापि ततोऽभिन्नस्य व्यवस्थापयितुमशक्तेः । तथा हि-समवायवृत्तिः स्वसमवायिषु वृत्तिमती स्यांदवृत्तिमती वा ? वृत्तिमत्वे स्वेनैव वृत्त्यन्तरेण वा ? न तावदाद्यः पक्षः समवाये समवायानभ्युपगमात् । पञ्चानां समवायित्त्वमिति वचनात् । वृत्य- न्तरकल्पनायां तदपि स्वसम्बन्धिषु वर्तते न वेति कल्पनायां वृत्त्यन्तरपर- म्पराप्राप्तेरनवस्था । वृत्त्यन्तरस्य स्वसंबन्धिषु वृत्त्यन्तरानभ्युपगमानानवस्थति चेत्, तर्हि समवायेऽपि वृत्त्यन्तरं माभूत् । अथ समवायो न स्वाश्रयवृत्तिर- रङ्गीक्रियते, तर्हि षण्णामाश्रितत्वमिति ग्रन्थो विरुध्यते । अथ समवायिपु सत्स्वेव समवायप्रतीतेस्तस्याश्रितत्वमुपकल्प्यते तर्हि मूर्तद्रव्येषु सत्स्वेत्र दिग्लिङ्गस्येदमतः पूर्वेण इत्यादिज्ञानस्य काललिङ्गस्य च परापरादिप्रत्ययस्य सद्भावात्तयोरपि तदाश्रितत्वं स्यात् । तथा चायुक्तमेतदन्यत्रनित्यद्रव्येभ्य इति । किञ्च समवायस्यानाश्रितत्त्वे सम्बन्धरूपतैव न घटते । तथा च प्रयोगः-समतायो न सम्बन्धः । अनाश्रितत्त्वादिगादिवदिति । अत्र समवा- यस्य धर्मिणः कथंचित्तादात्म्यरूपस्यानेकस्य च परैः प्रतिपन्नत्त्वाइमिग्राहक ७२ प्रमेयरत्नमाला। प्रमाणबाध आश्रयासिद्धिश्च न वाच्येति । तस्याश्रितत्त्वेऽप्येतदभिधीयते न समवाय एकः सम्बन्धात्मकत्वे सत्याश्रितत्वात् संयोगवत् । सत्तयाऽनेकान्त इति सम्बन्धविशेषणम् । अथ संयोगे निबिडशिथिलादिप्रत्ययनानात्वान्नानास्वं नान्यत्र विपर्ययादिति चेत् न, समवायेऽप्युत्पत्तिमत्त्वनश्वरत्वप्रत्ययनानात्वस्य सुलभत्वात् । सम्बन्धिभेदाभेदोऽन्यत्रापि समान इति नैकत्रैव पर्यनुयोगो युक्तः । तस्मात्समवायस्य परपरिकल्पितस्य विचारासहत्वान्न तद्वशाद्गुणगुण्या- दिष्वमेदप्रतीतिः। अथ भिन्नप्रतिमासादवयवायवयव्यादीनां भेद एवेति चेन्न, भेदप्रतिभासस्याभेदाविरोधात् । घटपटादीनामपि कथञ्चिदमेदोपपत्तेः । सर्वथा प्रतिभासभेदस्यासिद्धेश्च । इदमित्याद्यमेदप्रतिभासस्यापि भावात्ततः कथंचिद्भेदाभेदात्मकं द्रव्यपर्यायात्मकं सामान्यविशेषात्मकं च तत्त्वं तीरादर्शिशकुनिन्यायेनायातमित्यलमतिप्रसङ्गेन । इदानीमनेकान्तात्मकवस्तु- समर्थनार्थमेव हेतुद्वयमाह- अनुवृत्तव्यासप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्ति- स्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्चेति ॥२॥ अनुवृत्ताकारो हि गौगौरित्यादिप्रत्ययः । व्यावृत्ताकारः श्यामः शबल इत्यादिप्रत्ययः । तयोर्गोचरस्तस्य मावस्तत्वं तस्मात् । एतेन तिर्यक्सामान्य- व्यतिरेकलक्षणविशेषद्वयात्मकं वस्तु साधितम् । पूर्वोत्तराकारयोर्यथासंख्येन परिहारावाप्ती, ताभ्यां स्थितिः, सैव लक्षणं यस्य, स चासौ परिणामश्च, तेना- र्थक्रियोपपत्तेश्चेत्यनेन तूर्खतासामान्यपर्यायाख्यविशेषद्वयरूपं वस्तु समर्थितं भवति । अथ प्रथमोदिष्टसामान्यमेदं दर्शयन्नाह- सामान्य द्वेधा तिर्यगूर्खताभेदात् ॥ ३ ॥ प्रथममेंदं सोदाहरणमाह- सदृशपरिणामस्तिर्यक्, खण्डमुण्डादिषु गोत्ववत् ॥ ४॥ -- चतुर्थसमुद्देशः। ७३ नित्यकरूपस्य गोत्व देः क्रमयोगपद्याभ्यामक्रियाविरोधात् । प्रत्येकं. परिसमाप्त्या व्यक्तिषु वृत्त्ययोगाच्चानेकं सदृशपरिणामात्मकमेवेति तिर्यक्सा-- मान्यमुक्तम् । द्वितीयभेदमपि सदृष्टान्तमुपदर्शयति- परापरविवर्त्तव्यापिद्रव्यमूर्खता मुदिव स्थासादिष्विति ॥५॥ सामान्यमिति वर्तते तेनायमर्थः-उर्ध्वतासामान्यं भवति । किंतत् ? द्रव्यम् । तदेव विशिष्यते परापरविवर्तव्यापीति पूर्वापरकालवर्तित्रिकालानुयायी-- त्यर्थः । चित्रज्ञानस्यैकस्य युगपद्भाव्यनेकस्वगतनीलाद्याकारव्यातिवदेकस्य क्रममाविपरिणामव्यापित्त्वमित्यर्थः । विशेषस्यापि द्वैविध्यमुपदर्शयति- विशेषश्चेति ॥६॥ वेधेत्यधिक्रियमाणेनामिसम्बन्धः । तदेव प्रतिपादयति- पर्यायव्यतिरेकभेदादिति ॥ ७॥ प्रथमविशेषमेदमाह- एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मान हर्षविषादादिवदिति ॥ ८॥ अलात्मद्रव्यं स्वदेहप्रमितिमात्रमेव न व्यापकम् । नापि वटक- णिकामात्रम् । न च कायाकारपरिणतभूतकदम्बकमिति, तत्र व्यापकत्त्वे परेषामनुमानमात्मा व्यापकः द्रव्यत्त्वे सत्यमूर्तत्त्वादा- काशवदिति । तत्र यदि रूपादिलक्षणं मूर्तत्वं तत्प्रतिषेधोऽमूर्तत्वं तदा मनसाऽनेकान्तः । अथासर्वगतद्रव्यपरिमाणं मूतत्वं तनिषेधस्तथा चेत्परंप्रति साध्यसमो हेतुः । यच्चापरमनुमानं-आत्मा व्यापकः अणुपरिमाणानधिकरणत्वे सतिनित्यद्रव्यत्त्वादाकाशवदिति । तदपि न साधुसाधनम् । अणुपरिमाणान- धिकरणत्त्वमित्यत्र किमयं नार्थः पर्युदासः प्रसज्यो वा भवेत् ? तत्राद्यपक्षे अणुपरिमाणप्रतिषेधेन महापरिमाणमवान्तरपरिमाणं परिमाणमात्रं वा ? महा--. परिमाणं चेत् साध्यसमो हेतुः । अवान्तरपरिमाणं चेत् विरुद्धो हेतुरवान्तरप.. .

प्रमेयरत्नमाला। रिमाणाधिकरणव हव्यापकत्वमेव साधयतीति । परिमाणमात्रं चेत्-तत्परि- माणसामान्यमङ्गीकर्तव्यम् । तथाचाणु गरिमाणप्रतिषेधेन परिमाणसामान्याधि- करणत्वमात्मन इत्युक्तम् । तच नुपपन्नं, व्यधिकरणासिद्धिप्रसङ्गात् । न हि परिमाणसामान्यमात्मनि व्यवस्थितं किन्तु परिमाणव्यक्तिष्वेवेति । न चावान्तरमहापरिमाणद्वयाधारतयाऽऽऽमन्यप्रतिपन्ने परिमाणमात्राधिकरणता तत्र निश्चेतुं शक्या । दृष्टान्तश्च साधनविकलः । आकाशस्य महापरिमाणाधिकर- णतया परिमाणमात्राधिकरणवायोगात् । नित्यद्रव्यत्वं च सर्वथाऽसिद्धम् । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधादिति । प्रसज्यपक्षेऽपि तुच्छामावस्य ग्रहणोनयासम्भवात् न विशेषणत्वम् । न चागृहीतविशेषणं नाम न चाग- हीतविशेषणाविशेष्ये बुद्धिरितिवचनान्न प्रत्यक्षं तद्ग्रहणोपायः सम्बन्धाभावा- दिन्द्रियार्थसन्निकर्पजं हि प्रत्यक्षं तन्मते प्रसिद्धम् । विशेषणविशेष्यमावक- ल्पनायाममावस्य नागृहोतस्य विशेषणत्वमिति तदेव दूपणम् 1. तस्मान्न व्यापकमात्मद्रव्यम् । नापि वटकणिकामात्रं कमनीयकान्ताकुचजवनसंस्पर्श- काले प्रतिलोमकूपमाल्हादनाकारस्य सुखस्यानुभवनात् । अन्यथा सर्वाङ्गीण- रोमाञ्चादिकार्योदयायोगात् । आशुवृत्त्यालातचक्रवत् क्रमेणैव तत्सुखमिय. 'नुपपन्नम् । परापरान्तःकरणसम्बन्धस्य तत्कारणस्य परिकल्पनायां व्यवधान- प्रसङ्गात् । अन्यथा सुखस्य मानसप्रत्यक्षत्वायोगादिति । नापि पृथिव्यादि- चतुष्टयात्मकत्वमात्मनः सम्भाव्यते । अचेतनेभ्यश्चैतन्योत्पत्त्ययोगाद्धारणेरण- द्रवोष्णतालक्षणान्वयाभावाच । तदहर्जातवालकस्य स्तनादावभिलाषाभाव- प्रसङ्गाच्च । अभिलाषो हि प्रत्यभिज्ञाने भवति, तच्च स्मरणे, स्मरणं चानुभवे भवतीति पूर्वानुभवः सिद्धः । मध्यदशायां तथैव व्याप्तेः । मृताना रक्षोयक्षादिकुलेषु स्वयमुत्पनत्वेन कथयतां दर्शनात् । केषाञ्चित् भवस्मृते- रुपलम्भाच्चानादिश्चेतनः सिद्ध एव तथा चोक्तम्-तदहर्जस्तनेहातो रक्षोदृष्टर्मवस्मृतेः । भूतानन्ययनासिद्धः प्रकृतिज्ञः सनातनः ॥ १ ॥ इति ।

पंचमसमुद्देशः। न च स्वदेहप्रमितिरात्मेत्यत्रापि प्रमाणाभावात् सर्वत्र संशय इति वक्तव्यं तत्रानुमानस्य सद्भावात् । तथाहि देवदत्तात्मा तदेह एव तत्र सर्वत्रैव च विद्यते तत्रैव तत्र सर्वत्र च स्वासाधारणगुणाधारतयोपलम्भात् । यो यत्रैव यत्र . सर्वत्रैव च स्वासाधारणगुणाधारतयोपलभ्यते . स तत्रैव तत्र सर्वत्रैव च विद्यते यथा देवदत्तगृहे एव तत्र सर्वत्रैव चोपलभ्यमानः स्वासाधारणभासुरत्वादिगुणः प्रदीपः तथाचायं तस्मात्तथेति । तदसाधारण- गुणा ज्ञानदर्शनसुखवीर्यलक्षणास्ते च सर्वाङ्गीणास्तत्रैव चोपलभ्यन्ते । सुखमाल्हादनाकारं विज्ञान मेवबोधनम् । शक्तिः क्रियानुमेया स्याघ्नः कान्तासमागमे ॥ १ ॥ इति वचनात् । तस्मादात्मा देहप्रमितिरेव स्थितः । द्वितीयं विशेपमेदमाह- अर्था-तरगतो विसदृशपरिणामो व्यतिरेको गोमहिपादिवत् ॥८॥ वैसादृश्यं हि प्रतियोगिग्रहणे सत्येव भवति । न चापेक्षिकत्वादस्यांवस्तु. त्वमवस्तुन्यापेक्षिकत्वायोगात् । अपेक्षाया वस्तुनिष्ठत्वात् ॥ स्यात्कारलांच्छितमवाध्यमनन्तधर्म- । संदोहर्मितमशेपमापे प्रमेयम् ॥ देवैः प्रमाणवलतो निरचायि यच । संक्षिप्तमेव मुनिभिर्विवृतं मयैतत्॥१॥ इति परीक्षामुखस्य लघुवृत्तौ विषयसमुद्देशश्चतुर्थः ॥ ४ ॥ 3. अथेदानी फलविप्रतिपत्तिनिरासार्थमाह-. अज्ञाननिवृत्तिानोपादानोपेक्षाश्च फलम् ॥ १॥ द्विविधं हि फलं साक्षात्पारम्पर्येणेति । साक्षादज्ञाननिवृत्तिः पारम्पर्येण हानादिकमिति, प्रमेयनिश्चयोत्तरकालभावित्त्वात्तस्येति । तद्विविधमपि फलं प्रमाणाद्भिन्नमेवेति योगा | अभिन्नामेवेति सौगताः । तन्मतद्वयनिरासेन स्वमतं व्यवस्थापयितुमाह-.-: san .

७६ प्रमयरत्नमाला। , प्रमाणादभिन्न भिन्नं च ॥२॥ कथंचिदभेदसमर्थनार्थे हेतुमाह- यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः ॥३॥ अयमर्थः-यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरमेदः । करणक्रियापरिणाममेदाढ़ेद इत्यस्य सामर्थ्यसिद्धत्वानोक्तम् ॥ पारम्पर्येण साक्षाच फलं द्वेषाऽमिधायि यत् । देवैर्मिन्नममिन्नं च प्रमाणात्तदिहोदितम् ॥ १ ॥ इति परीक्षामुखलघुत्तो फलसमुद्देशः पञ्चमः ॥ ५ ॥ अथेदानीमुक्तप्रमाणस्वरूपादिचतुष्टयाभासमाह- ततोऽन्यत्तदाभासमिति ॥१॥ तत उक्तात् प्रमाणस्वरूपसंख्याविषयफलमेदादन्यद्विपरीतं तदामासमिति। तत्र क्रमप्राप्तं खरूपाभासं दर्शयति-- अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः ॥२॥ अस्वसंविदितञ्च गृहीतार्थञ्च दर्शनञ्च संशय आदिर्येषां ते संशया- दयश्चति सर्वेषां द्वंद्वः । आदिशब्देन विपर्ययानध्यवसाययोरपि ग्रहणम् । तत्रास्वसंविदितं ज्ञानं ज्ञानान्तरप्रत्यक्षत्वादिति नैयायिकः । तथाहि ज्ञानं . स्वव्यतिरिक्तवेदनवेद्यं वद्यत्वात् घटवदिति । तदसङ्गतम्-धर्मिज्ञानस्य ज्ञानान्तरवेद्यत्वे साध्यान्तःशातित्वेन धमिवायोगात् । स्वसंविदितत्वे तेनैव हेतोरनेकान्तात् । महेश्वरज्ञानेन च व्यभिचाराद्वयाप्तिज्ञाने- नाप्यनेकान्तादर्थप्रतिपत्त्ययोगाच्च । नहि ज्ञापकमप्रत्यक्ष ज्ञाप्यं गमयति

षष्ठसमुद्देशः ।
शब्दलिङ्गादीनामपि तथैव गमकत्त्वप्रसङ्गात् । अनन्तरभाविज्ञानग्राह्यत्वे तस्या-
प्यगृहीतस्य पराज्ञापकत्वात्तदनन्तरं कल्पनीयम् । तत्रापि तदनन्तरमित्यनवस्था
तस्मान्नायं पक्षः श्रेयान् । एतेन करणज्ञानस्य परेक्षत्वेनास्वसंविदितत्वं ब्रुव-
नपि मीमांसकः प्रत्युक्तः । तस्यापि ततोऽर्थप्रत्यक्षत्वायोगात् । अथ कर्म-
त्वेनाप्रतीयमानत्वादप्रत्यक्षत्वे तर्हि फलज्ञानस्याप्रत्यक्षता तत एव स्यात् ।
अथ फलत्वेन प्रतिमासनं नो चेत् करणज्ञानस्यापि करणत्वेनावमासनात्
प्रत्यक्षत्वमस्तु । तस्मादर्थप्रतिपत्त्यन्यथाऽनुपपत्तेः करणज्ञानकल्पनावदर्थप्रत्य-
क्षत्वान्यथाऽनुपपत्तेनिस्यापि प्रत्यक्षत्वमस्तु । अथ करणस्य चक्षुरादेरप्रत्य-
क्षत्वेऽपि रूपप्राकट्याद्वयमिचार इति चेन्न, मिन्नकर्तृककरणस्येव तद्वयमि-
चारात् । अभिन्नकर्तृके करणे सति कर्तृप्रत्यक्षतायां तदभिन्नस्यापि कर.
णस्य कथञ्चित्प्रत्यक्षत्वेनाप्रत्यक्षतैकान्तविरोधात्प्रकाशात्मनोऽप्रत्यक्षत्वे प्रदी.
पप्रत्यक्षत्वविरोधवदिति । गृहीतग्राहिधारावाहिज्ञानं गृहीतार्थ, दर्शनं सौग-
तामिमतं निर्विकल्पकं, तच्च स्वविपयानुपदर्शकत्वादप्रमाणं व्यवसायस्यैव
तज्जनितस्य तदुपदर्शकत्त्वात् । अथ व्यवसायस्य प्रत्यक्षाकारेणानुरक्तत्वा-
ततः प्रत्यक्षस्यैव प्रामाण्य व्यवसायस्तु गृहीतग्राहित्वादप्रमाणमिति तन्न
सुमाषितं-दर्शनस्याविकल्पकस्यानुपलक्षणात्तत्सद्भाबायोगात् सद्भावे वा
नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसङ्गात् । तत्र विपरीतसमारोपा-
न्नेति चेहि सिद्धं नीलादौ समारोपविधिग्रहणलक्षणो निश्चय इति
तदात्मकमेव प्रमाणमितरत्तदाभासमिति । संशयादयश्च प्रसिद्धा एव । तत्र
संशय उभयकोटिसंस्पर्शी स्थाणुर्वा पुरुषो वेति परामर्शः । विपर्ययः पुनर-
तस्मिंस्तदिति विकल्पः । विशेषानवधारणमध्यवसायः । कथमेषामस्वसंवि-
दितादीनां तदाभासतेत्यत्राह-
स्वविषयोपदर्शकत्वाभावात् ॥ ३॥

७८ प्रमेयरत्नमाला। - गतार्थमेतत् । अत्र दृष्टानां यथ क्रममाह- पुरुपान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुपादिज्ञानवत् ॥ ४ ॥ पुरुपान्तरं च पूर्वार्थश्च गच्छत्तृणस्पर्शश्च स्थाणुपुरुषादिश्च तेषां ज्ञानं बद्वत् । अपरं च सन्निकर्षवादिनं प्रति दृष्टान्तमाह--- चलरसयोर्द्रव्ये संयुक्तसमवायवच्च ॥५॥ अयमों यथा चक्षूरसयोः संयुक्तसमवायः सन्नपि न प्रमाणं तथा चक्षुरूपयोरपि । तस्मादयमपि प्रमाणामास एवेति । उपलक्षणमेतत् अति- व्याप्तिकथनमव्याप्तिश्च । सन्निकर्षप्रत्यक्षवादिनां चक्षुषि सन्निकर्षस्यामा- वात् । अथ चक्षुः प्राप्तार्थपरिच्छेदकं व्यवहितार्थाप्रकाशकत्वात् प्रदीपवदिति तसिद्धिरिति मतं तदपि न साधीयः । काचाभ्रपटलादिव्यवहितार्थानामपि चक्षुपा प्रतिमासनाद्धेतोरसिद्धेः । शाख.चन्द्रमसोरेककालदर्शनानुपपत्तिप्रस- तेश्च । न च तत्र क्रमेऽपि योगपद्याभिमान इति वक्तव्यम् । कालव्यवधा- नानुपलब्धेः । किञ्च क्रमप्रतिपत्तिः प्राप्तिनिश्चये सति भवति । न च क्रमप्राप्तौ प्रमाणान्तरमस्ति । तैजसत्वमस्तीति चेन्न तस्यासिद्धेः । अथ चक्षुस्तैजसं रूपादीनां मध्ये रूपस्यैव प्रकाशकत्त्वात् प्रदीपवदिति । तदप्य- पर्यालोचिताभिधानं मण्यञ्जनादेः पार्थिवत्वेऽपि रूपप्रकाशकत्वदर्शनात् । पृथिव्यादिरूपप्रकाशकत्त्वे पृथिव्याघारब्धवप्रसङ्गाच । तस्मात्सन्निकर्षस्या- व्यापकत्वान्न प्रमाणत्वं करणज्ञानेन व्यवधानाचेति । प्रत्यक्षामासमाह अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्मादधुमदर्शनाद्वहि- विज्ञानवदिति ॥६॥ परोक्षामासमाह- वैशोऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ॥ ७ ॥ प्राक् प्रपञ्चितमेतत् । परोक्षभेदाभासमुपदर्शयन् प्रथम क्रमप्राप्त स्मरणाभासमाह--- - ७९. -- षष्ठसमुद्देशः। अतस्मिंस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते स देवदत्तो यथति अतस्मिन्नननुभूत इत्यर्थः शेषं सुगमम् । प्रत्यभिज्ञानाभासमाह- सदृशे तदेवेदं तस्मिन्नेव तेन. सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् ॥ ९॥ द्विविधं प्रत्यभिज्ञानामासमुपदर्शितं, एकत्वनिबंधनं सादृश्यनिबंधनं चेति । तत्रैकत्वे सादृश्यावभासः सादृश्ये चैकत्वाभासस्तदाभासमिति । तर्कामा- समाह- असम्बद्धे तज्ज्ञानं तर्कामासम् ॥ १० ॥ यावाँस्तत्पुत्रः स श्याम इति यथा । तज्ज्ञानमिति व्याप्तिलक्षणसम्बन्ध- ज्ञानमित्यर्थः इदानीमनुमानाभासमाह- इदमनुमानाभासम् ॥११॥ इदं वक्ष्यमाणमिति भावः । तत्र तदवयवाभासोपदर्शनेन समुदायरूपा- नुमानाभासमुपदर्शयितुकामः प्रथमावयवाभासमाह-- तत्रानिष्टादिः पक्षाभासः ॥ १२ ॥ इष्टमबाधितमित्यादि तलक्षणमुक्तमिदानीं तद्विपरीतं तदाभासमिति कथ यति- अनिष्टो मीमांसकस्यानित्यः शब्दः ॥ १३ ॥ असिद्धाद्विपरीतं तदाभासमाह- सिद्धः श्रावणः शब्द इति ॥ १४ ॥ अबाधितमविपरीतं तदाभासमावेदयन् स च प्रत्यक्षादिवाधित एवेति दर्शयन्नाह- बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः ॥ १५ ॥ एतेषां क्रमेणोदाहरणमाह-- .

८०.
प्रमेयरत्नमाला।
तत्र प्रत्यक्षबाधितो यथा अनुष्णोऽग्निद्रव्यत्वाजालवत् ।
स्पार्शनप्रत्यक्षेण ह्युष्णस्पर्शात्मकोऽग्निरनुभूयते । अनुमानबाधितमाह-
अपरिणामी शब्दः कृतकत्वात् घटवत् ॥ १७ ॥
अन्न पक्षोऽपरिणामी शब्दः कृतकत्वादित्यनेन बाध्यते । आगमवाधि-
तमाह-
प्रेत्यामुखपदो धर्मः पुरुषाभितत्वादधर्मवत् ॥ १८ ॥
आगमे हि पुरुषाश्रितत्वाविशेषेऽपि परलोके धर्मस्य सुखहेतुत्वमुक्तम् ।
लोकबाधितमाह-
शुचि नरशिरःकपालं पाण्यंगत्वाच्छंखशुक्तिवत् ॥ १९ ॥
लोके हि प्राण्यंगत्वेऽपि कस्यचिच्छचित्त्रमशुचित्वं च । तत्र नरकपाला-
दीनामशुचित्वमेवेति लोकबाधितत्वम् । स्ववचनबाधितमाह-
माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्मसिद्धवन्ध्यावत् ॥२०॥
इदानी हेत्वाभासान् क्रमापनानाह-
हेत्वाभासा असिद्धविरुद्धवानकान्तिकाकिञ्चित्कराः ॥ २१ ॥
एषां यथाक्रमं लक्षणं सोदाहरणमाह---
असत्सत्तानिश्चयोऽसिद्धः ॥ २२ ॥
सत्ता च निश्चयश्च सत्तानिश्चयौ, असन्तौ सत्तानिश्चयो यस्य स भवत्य-
सत्सत्तानिश्चयः । तत्र प्रथममेदमाह-
अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्वात् ॥ २३ ॥
कथमस्यासिद्धत्वामित्याह-
स्वरूपेणासत्त्वात् ॥ २४ ॥
द्वितीयासिद्धमेदमुपदर्शयति-
अविद्यमाननिश्चयो मुग्धबुद्धिमत्यनिरत्र धूमादिति ॥ २५ ॥

- पष्ठसमुद्देशः। ८१ अस्याप्यसिद्धता कथमित्त्यारेकायामाह- तस्य वाष्पादिभावेन भूतसंघाते संदेहात् ॥ २६ ॥ तस्येति मुग्धबुद्धिप्रतीत्यर्थः । अपरमसिद्धभेदमाह-- सांख्यम्मति परिणामी शब्दः कृतकत्त्वादिति ॥ २७ ॥ अस्यासिद्धतायां कारणमाह- तेनाज्ञातत्वादिति ॥२८॥ तेन सांख्येनाज्ञातत्वात् , तन्मते ह्याविर्भावतिरोभावावेव प्रसिद्धौ नोत्प- त्यादिरिति । अस्याप्यनिश्चयादसिद्धत्वमित्यर्थः । विरुद्धं हेत्वाभासमुपदर्शयन्नाह- विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्द: कृतकत्वात् ।। २९ ॥ कृतकत्वं ह्यपरिणामविरोधिना परिणामेन व्याप्तमिति । अनैकान्तिकं हेत्वाभासमाह- विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः ॥३०॥ अपिशव्दान केवलं पक्षसपक्षयोरिति द्रष्टव्यम् । स च द्विविधो विपक्ष निश्चितवृत्तिः शङ्कितवृत्तिश्चेति । तत्राद्यं दर्शयन्नाह- निश्चितत्तिरनित्यः शब्दः प्रमेयत्वात् घटवदिति ॥ ३१ ॥ कथमस्य विपक्षे निश्चिता वृत्तिरित्याशङ्कयाह- आकाशे नित्येऽप्यस्य निश्चयात् ॥ ३२ ॥ शङ्कितवृत्तिमुदाहरति- शङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वादिति ॥ ३३ ॥ अस्यापि कथं विपक्षे वृत्तिराशंक्यत इत्यत्राह- सर्वज्ञत्वेन वक्तृत्वाविरोधादिति ॥ ३४ ॥ अविरोधश्च ज्ञानोत्कर्षे वचनानामपकर्षादर्शनादिति निरूपितप्रायम् । अकिञ्चित्करस्वरूपं निरूपयति- ८२ प्रमेयरत्नमाला। -- सिद्धे प्रत्यक्षादिवाघिते च साध्ये हेतुरकिञ्चित्करः ॥ ३५ ॥ तत्र सिद्धे साध्ये हेतुरकिञ्चित्कर इत्युदाहरति-- सिद्धः श्रावणः शब्दः शव्दत्वात् ।। ३६.॥ कथमस्याकिञ्चित्करत्वमित्याह- किञ्चिदकरणात् ॥ ३७॥ अपरं च भेदं प्रथमस्य दृष्टान्तीकरणद्वारेणोदाहरति- यथाऽनुष्णोऽग्निद्रव्यत्वादित्यादौकिञ्चित्कर्तुमश्यक्यत्वात् ॥३८॥ अकिञ्चित्करत्त्वमिति शेपः । अयं च दोपो हेतुलक्षणविचारावसर एव, न वादकाल इति व्यक्तीकुर्वन्नाह- लक्षण एवासौ दोपो व्युत्पन्नमयोगस्य पक्षदोपेणैव दुष्टत्वात्॥३९॥ दृष्टान्तोऽन्वयव्यतिरेकभेदाद्विविध इत्युक्तं तत्रान्वयदृष्टान्तामासमाह दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभयाः ॥ ४० ॥ साध्यं च साधनं च उभयं च साध्यसाधनोभयानि असिद्धानि तानि येष्विति विग्रहः । एतानेकात्रैवानुमाने दर्शयति-- अपौरुषेयः शब्दोऽमूर्तत्त्वादिन्द्रिय सुखपरमाणुघटवत् ॥४१॥ इन्द्रियसुखमसिद्धसाध्यं तस्य पौरुषेयत्वात् । परमाणुरसिद्धसाधनं तस्य मूर्तत्त्वात् । घटश्चासिद्धोमयः पौरुषेयत्त्वान्मूतत्त्वाच । साध्यव्याप्तं साधनं दर्शनीयमिति दृष्टान्तावसरे प्रतिपादितं तद्विपरीतदर्शनगपि तदाभासमित्याह- विपरीतान्वयंश्च यदपौषयं तदमूर्तम् ॥ ४२ ॥ कुतोऽस्य तदाभासतेत्याह-- विद्युदादिनातिमसङ्गात् ॥ ४३ ।। तस्याप्यमूर्तताप्राप्तरित्यर्थः । व्यतिरेको दाहरणाभासमाह- व्यतिरेकेऽसिद्ध तद्वयतिरेकाः परमाण्विन्द्रियमुखाकाशवत् ।। ४४ ।। se - - , - पप्ठसमुद्देशः। ८३ अपौरुषेयः शब्दोऽमूर्तत्वादित्यत्रैवासिद्धाः साध्यसाधनोभयव्यतिरेका यत्रेति विग्रहः । तत्रासिद्धसाध्यव्यतिरेकः परमाणुस्तस्यापौरुपेयत्वात् इन्द्रियसुखम- सिद्धसाधनव्यतिरेकम् । आकाशं त्वसिद्धोभयव्यतिरेकमिति । साध्याभावे साधनव्यावृत्तिरिति व्यतिरेकोदाहरणप्रघट्टके स्थापितं तत्र तद्विपरीतमपि तदामासमित्युपदर्शयति- विपरीतव्यतिरेकश्च यन्नामूर्त तन्नापौरुपेयम् ॥ ४५ ॥ बालव्युत्पत्यथै तत्रयोपगम इत्युक्तमिदानी तान्प्रत्येव कियद्धीनतायां प्रयो- गाभासमाह- वालपयोगाभासः पञ्चावयवेषु कियद्धीनता ॥ ४६ ॥ तदेवोदाहरति- अग्निमानयं देशो धूमवत्वात् यदित्थं तदित्थं यथा महानस इति। इत्यवयवत्रयप्रयोगे सतीत्यर्थः । चतुरवयवप्रयोगे तदाभासत्वमाह- धूमवांश्चायमिति वा ॥४८॥ अवयवविपर्ययेऽपि तत्त्वमाह- तस्मादगिमान् धृमवांश्चायमिति ॥ ४९ ॥ कथमक्यवविपर्यये प्रयोगामास इत्यारेकायामाह- स्पष्टतया प्रकृतपतिपत्तेरयोगात् ॥ ५० ॥ इदानीमागमामासमाह-- रागद्वेषमोहाक्रान्तपुरुपवचनाज्जातमागमाभासम् ॥ ५१ ॥ उदाहरणमाह- यथा नधास्तीरे मोदकराशयः सन्ति, धावध्वं माणवकाः ॥५२॥ कश्चिन्माणवकैराकुलीकृतचेतास्तत्सङ्गपरिजिहीर्षया प्रतारणवाक्येन नद्या देशं तान् प्रस्थापयतीत्याप्तोक्तेरन्यत्वादागमाभासत्वम् । प्रथमोदाहरणमात्रे- णातुष्यन्नुदाहरणान्तरमाह--- - प्रमेयरत्नमाला। - - अंगुल्यने हस्तियूथशतमास्त इति च ॥ ५३ ॥ अत्रापि सांख्यपशुः स्वदुरागमजनितवासनाहितचेता दृष्टेष्टविरुद्ध सर्वे सर्वत्र विद्यत इति मन्यमानस्तथोपदिशतीत्यनाप्तवचनत्वादिदमपि तथेत्यर्थः । कथमनन्तरयोर्वाक्ययोस्तदाभासत्वमित्यारेकायामाह- विसंपादात् ।। ५४ ॥ अविसंवादरूपप्रमाणलक्षणाभावान्न तद्विशेषरूपमपीत्यर्थः । इदानीं संख्यामासमाह- प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥ ५५ ॥ प्रत्यक्षपरोक्षभेदात् द्वैविध्यमुक्तं तद्वैपरीत्येन प्रत्यक्षमेव, प्रत्यक्षानुमाने एवेत्यायवधारणं संख्यामासम् । प्रत्यक्षमेवैकमिति कथं संख्यामासमित्याह- लौकायतिकस्य प्रत्यक्षतः परलोकादिनिपेधस्य परवुद्धयादेश्चा- सिद्धेरतद्विषयत्वात् ॥ ५६ ॥ अतद्विषयत्वात् अप्रत्यक्षविषयत्वादित्यर्थः । शेषं सुगमम् । प्रपञ्चितमे- वैतत्संख्याविप्रतिपत्तिनिराकरण इति नेह पुनरुच्यते । इतरवादिप्रमाणेयत्ता- वधारणमपि विघटत इति लोकायतिकदृष्टान्तद्वारेण तन्मतेऽपि संख्यामास- मिति दर्शयति- सौगतसांख्ययोगमाभाकरजैमिनीयानां प्रत्यक्षानुमानागमोप- मानार्थापत्त्यभावैरेकैकाधिकैर्व्याप्तिवत् ॥ ५७॥ यथा प्रत्यक्षादिभिरेकैकाधिकाप्तिः प्रतिपत्तुं न शक्यते सौगतादिमि- स्तथा प्रत्यक्षेण लौकायतिकैः परबुद्धयादिरपीत्यर्थः। अथ परबुद्धयादिप्रतिपत्तिः प्रत्यक्षेण माभूदन्यस्माद्भविष्यतीत्याशङ्कयाह- अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥ ५८ ॥ तच्छब्देन परबुद्धयादिरभिधीयते । अनुमानादेः परबुद्धयादिविषयत्वे प्रत्यकप्रमाणवादो हीयत इत्यर्थः । अनोदाहरणमाह-- - पष्ठसमुद्देशः। तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वम् अप्रमाणस्यान्यव- स्थापकत्वात् ॥ ५९ ॥ सौगतादीनामिति शेषः । किञ्च प्रत्यक्षकप्रमाणवादिना प्रत्यक्षायेकैका- धिकप्रमाणवादिमिश्च स्वसंवेदनेन्द्रियप्रत्यक्षभेदोऽनुमानादिभेदश्च प्रतिमास- भेदेनेव वक्तव्यो गत्यन्तराभावात् । स च तद्भेदो लोकायतिकंप्रति प्रत्यक्षानुमानयोरितरेषां व्यातिज्ञानप्रत्यक्षादिप्रमाणेष्विति सर्वेषां प्रमाणसंख्या विघटते । तदेव दर्शयति- प्रतिभासभेदस्य च भेदकत्वात् ॥ ६० ॥ इदानी विषयामासमुपदर्शयितुमाह- विषयामासः सामान्य विशेपो द्वयं वा स्वतंत्रम् ॥ ६१ ॥ कथमेषां तदामासतेत्याह- तथाऽप्रतिभासनात्कार्याकरणाच ॥ २ ॥ किञ्च तदेकान्तात्मकं तत्त्वं स्वयं समर्थमसमर्थ वा कार्यकारि स्यात् ? - प्रथमपक्षे दूषणमाह- समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ।। ६३ ॥ सहकारिसान्निध्यात् तत्करणान्नेति चेदनाह- परापेक्षणे परिणामित्वमन्यथा तदभावात् ॥ ६४ ॥ वियुक्तावस्थायामकुर्वतः सहकारिसमवधानवेलायां कार्यकारिणः पूर्वोत्तरा- , कारपरिहारावाप्तिस्थितिलक्षणपरिणामोपपत्तेरित्यर्थः । अन्यथा कार्यकारणा- भावात् । प्रागभावावस्थायामेवेत्यर्थः । अथ द्वितीयपक्षदोपमाह- स्वयमसमर्थस्य अकारकत्वात्पूर्ववत् ।। ६५ ।। अथ फलामासं प्रकाशयन्नाह-- फलाभासं प्रमाणादभिन्न भिन्नमेव वा ॥ ६६ ॥ कुतः पक्षद्वयेऽपि तदाभासतेत्याशङ्कायामाद्यपक्षे तदामासत्वे हेतुमाह - - ८६ प्रमेयरत्नमाला। - - अभेदे तद्वयवहारानुपपत्तेः ॥ ६७ ॥ फलमेव प्रमाणमेव वा भवेदिति भावः । व्यावृत्या संवृत्यपरनामधेयया तत्कल्पनाऽस्त्यित्याह- व्यात्त्याऽपि न तत्कल्पना फलान्तराद्यात्याऽफलत्वमसङ्गात् ।। अयमर्थः-यथा फलाद्विजातीयात् फलस्य व्यावृत्या फलव्यवहारस्तथा फलान्तरादपि सजातीयायावृत्तिरप्यस्तीत्यफलत्वम् । अत्रैवाभेदपक्षे दृष्टान्तमाह- प्रमाणायावृत्त्येवाप्रमाणत्वस्येति ॥ ६९ ॥ अत्रापि प्रानन्येव प्रक्रिया योजनीया । अभेदपक्षं निराकृत्य आचार्य उपसंहरति-- तस्माद्वास्तवोऽभेद इति ॥ ७० ॥ भेदपक्षं दूषयन्नाह- भेदे त्वात्मान्तरवत्तदनुपपत्तेः ॥ ७१ ॥ अथ यत्रैवात्मनि प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवाय- लक्षणप्रत्यासत्या प्रमाणफलव्यवस्थितिरिति । नात्मान्तरे तत्प्रसंग इति चेत्तदपि न सूक्तमित्याह-- समवायेऽतिप्रसङ्ग इति ॥ ७२ ॥ समवायस्य नित्यत्वाध्यापकत्वाच्च सर्वात्मनामपि समवायसमानधर्मिकत्वान्न ततः प्रतिनियम इत्यर्थः । इदानी स्वपरपक्षसाधनदूपणव्यवस्थामुपदर्शयति- प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहतापरिहृतदोषौ वादिनः । साधनतदाभासौ प्रतिवादिनो दूपणभूषणे च ।। ७३ ॥ वादिना प्रमाणमुपन्यस्तं तच्च प्रतिवादिना दुष्टतयोद्भावितं पुनर्वादिना परिहृतं तदेव तस्य साधनं भवति प्रतिवादिनश्च दूषणामिति । यदा तु वादिना प्रमाणामासमुक्तं प्रतिवादिना तथैवोद्भावितं वादिना चापरिहतं तदा -- - ८७ षष्ठंसमुद्देशः। तद्वादिनः साधनाभासो भवति प्रतिवादिनश्च भूषणमिति । अथोक्तप्रकारेणा- शेषविप्रतिपत्तिनिराकरणद्वारेण प्रमाणत्वं स्वप्रतिज्ञातं परीक्ष्य नयादितत्वम- न्यत्रोक्तमिति दर्शयन्नाह- सम्भवदन्यद्विचारणीयमिति ॥ ७४ ॥ सम्भवद्विद्यमानमन्यत्प्रमाणतत्त्वान्नयस्वरूपं शास्त्रान्तरप्रसिद्ध विचारणीय- मिह युक्त्या प्रतिपत्तव्यम् । तत्र मूलनयो द्वौ द्रव्यार्थिकपर्यायार्थिकभेदात् । तत्र द्रव्यार्थिकस्त्रेधा नैगमसंग्रहव्यवहारमेदात् । पर्यायार्थिकश्चतुर्धा ऋजुसूत्र- शब्दसममिरूढैवम्भूतमेदात् । अन्योऽन्यगुणप्रधानभूतमेदामेदप्ररूपणो नंगमः । नैकं गमो नैगम इति निरुक्तेः । सर्वथाऽमेदवादस्तदाभासः । प्रतिपक्षव्यपेक्षः सन्मात्रग्राही संग्रहः । ब्रह्मवादस्तदामासः । संग्रहगृहीतभे- दको व्यवहारः । काल्पनिको मेदस्तदाभासः । शुद्धपर्यायग्राही प्रतिपक्षसा- पेक्ष ऋजुसूत्रः । क्षणिकैकान्तनयस्तदाभासः । कालकारकलिङ्गानां भेदा- च्छब्दस्य कथञ्चिदर्थभेदकथनं शब्दनयः । अर्थभेदं विना शब्दानामेव नानात्वैकान्तस्तदामासः । पर्यायमेदात्पदार्थनानात्त्वनिरूपकः समभिरूढः । पर्यायनानात्वमन्तरेणापीन्द्रादिभेदकथनं तदाभासः । क्रियाश्रयेण भेदप्ररू- पणमित्थम्भावः । क्रियानिरपेक्षत्वेन क्रियावाचकेषु काल्पनिको व्यवहारस्तदा- भास इति । इति नयतदामासलक्षणं संक्षेपेणोक्तं विस्तरेण नयचक्रात्प्रति- पत्तव्यम् । अथवा सम्भवद्विद्यमानमन्यद्वादलक्षणं पत्रलक्षणं वाऽन्यत्रोक्तमिह द्रष्टव्यं तथाचाह । समर्थवचनं वाद इति, प्रसिद्धावयवं वाक्यं स्त्रष्टस्यार्थस्य साधकम् । साधुगूढपदप्रायं पत्रमाहुरनाकुलम् ॥ १ ॥ इति ॥ परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः । संविदे मादृशो बालः परीक्षादक्षवद्वयधाम् ॥१॥ . ज्यधामकृतवानास्म । किमर्थं संविदे। कस्य ? माटशः। अहं च कथंभूत ८८ प्रमेयरत्नमाला। इत्याह वालो मन्दमतिः । अनौद्धत्यसूचकं वचनमेतत् । तत्त्वज्ञत्वञ्च प्रार- ब्धनिर्वहणादेवावसीयते । किं तत् ? परीक्षामुखम् । तदेव निरूपयति आद- शमिति । कयोः ? हेयोपादेयतत्त्वयोः। यथैवादर्श आत्मनोऽलद्वारमण्डितस्य सौरूप्यं वैरूप्यं वा प्रतिबिम्बोपदर्शनद्वारेण सूचयति तथेदमपि हेयोपादेय. तत्त्वं साधनदूषणोपदर्शनद्वारेण निश्चाययतीत्यादर्शत्वेन निरूप्यते । क इव ? परीक्षादक्षवत् परीक्षादक्ष इव, यथा परीक्षादक्षः स्वप्रारब्धशास्त्रं निरूढवा- स्तथाऽहमपीत्यर्थः ॥ अकलङ्कशशांकैर्यत्मकटीकृतमखिलमाननिभनिकरम् । तत्संक्षिसं सूरिभिरुरुमातिभिर्व्यक्तमेतेन ॥१॥ इति परीक्षामुखलघुवृत्तौ प्रमाणाद्याभाससमुद्देशः षष्ठः ॥ ६ ॥ श्रीमान् वैजेयनामाभूदग्रणीर्गुणशालिनाम् । बदरीपालवंशालिव्योमधुमाणिसर्जितः ॥ १ ॥ तदीयपत्नी भुविविश्रुतासीन्नाणाम्बनाम्ना गुणशीलसीमा । यां खेतीति प्रथिताम्बिकति प्रमावतीति प्रवदन्ति सन्तः ॥ २ ॥ तस्यामभूद्विश्वजनीनवृत्तिनाम्बुवाहो भुवि हीरपाख्यः । स्वगोत्रविस्तारनमोऽशुमाली सम्यक्त्वरत्नाभरणार्चिताङ्गः ॥ ३ ॥ तस्योपरोधवशतो विशदोरकीर्तेर्माणिक्यनन्दिकृतशास्त्रमगाधबोधम् । स्पष्टीकृतं कतिपयैर्वचनैरुदौरीलप्रबोधकरमेतदनन्तवीर्यैः ॥ ४ ॥ इति प्रमेयरत्नमालापरनामधेया परीक्षामुखलघुवृत्तिः समाप्ता॥ समाप्त। .

आभार। ... श्रीमान् सेठ नाथारंगजी गांधी द्वारा प्रकाशित संस्करण परसे हमने इसे प्रकाशित किया है। और श्रीयुक्त पंडित दरवारीलालजी न्यायतीर्थने इसका प्रूफ संशोधन करनेका कष्ट, उठाया है । इसलिये हम इन दोनों महानुभावोंके. आभारी हैं। प्रकाशकः। पाठ्य ग्रंथः। । जैन सिद्धान्त। न्याय।. गोमहसार-जीवकांड-सार्थ छपता अष्टसहस्रो गोमट्टसारं-कर्मकांड-सार्थ आप्तपरीक्षा-मूलं), सार्थ ) जैनसिद्धांत प्रवेशिका . भाप्तपरीक्षा-सटीक छपती है। 'तत्वार्थराजबार्तिकालंकार-एटीक . ४) -आप्तमीमांस-मूल...), : भाषा ।) तत्वार्थलोकवार्तिकालंकार-सटीक . ४) आप्तमीमांसा-प्रमाणपरीक्षा-सटीक १) तत्वार्थस्त्र ( मोक्षशास्त्र)-सार्थ ) द्रव्यानुयोगतर्कणा. द्रव्यसंग्रह-सान्वयार्थ।); विस्तृत अर्थ ॥ प्रयत्नमाला-संस्कृतं ॥), भ पा. १) परीक्षामुख-साथ वृहद्रव्यसंग्रह-सटीक, सभाष्य : शपमेयरत्नमाला-संस्कृतं ॥), भपा. १) पंचाध्यायी-मूल।): विस्तृत भाष्यं ५॥). प्रमेयकमलमतिर पुरुषार्थसिद्धथुपाय-सान्वयार्थ 91) भंगीतरंगिणी-साथ पुरुषार्थसिद्धयुगाय -विस्तृत भाष्य ५।) 'व्याकरण रत्नकरडधावकाचार-सान्वयार्थ . "1) कातंत्र-पंचवि-सार्थ : रत्नकरंडश्रावकाचार-सटीक २) कातंत्ररूपमाला-पूर्वार्ध छपता है सर्वार्थसिद्धि-मूल-२), सार्थ- प्रखंड ६) जैनेन्द्रप्रक्रिया-पं० बंशीधरजी : २) समयमाभूत-दो सं० टीकासंयुक) जैसेन्द्रलघुवृत्तिः-पं० राज कुमारजे १) त्रिलोकसार-सटीक.१॥),भापाटीका ५॥) जैनेन्द्र पंचाध्यायी-मूलसूत्र पाठ 1). . । - * . . धातुरूपावलि कान्य, चम्पू और अलकार । मध्यसिद्धांतकौमुदी-वरदरान 1) अलंकारचिंतामणि लघुसिद्धाहकीमुदी- ॥ काव्यानुशानन- भाब्दरूपालि काव्यानुशासन-पटी शब्दार्णवचन्द्रिका गदाचिंतामणि ससासचक्र चन्द्रप्रमचरित मूल भाषा) सारख्त-मूल-पूर्या क), सजि० ॥ जयकुमार-सुलोचना सारस्वत-चन्द्रकीर्तिटीका-पू.१॥5.91): जपन्त-पिंजयः सारस्वत-तीनावृत्ति ॥), चीज, १) तिलकमंजरी २॥) सिद्धांतकामदी महोजी दीक्षित ३) धर्मशाम्युग खंता सिद्धातकौमुदी-तत्ववोधनी टीका नेरिनिर्वाण ६) प्रभावकारित संस्कृत प्रदेशिनी-द्वि० भाग 1) १) कॉप। पाश्याभ्युदय, समरकोप-मूल ।), शब्दानुक्रमणिका... यशस्सिलक दम्पू-पु० ३), १७) सहित IP), स्टीक १), सार्थ ३) वारमालंकार-सटीक ), सार्थ : 9114 धनंजय-नाममाला-मार्य हितोपदेश-मूल ); सार्थ १m), पद्मचन्द्रकोप क्षत्रचूड़ामणि-साथ ॥), उजि: gni वृहदजैनशब्दार्णव-प्र० खंड ३) क्षत्रचूड़ामणि जीर्थधरच पूर्वयुक्त निघलोचनकोप-मार्थ १०) पारसौभाग्यः-1) सब जगहके छ सब प्रचारके जैन ग्रंथाले, मिलनेका यता: विहारीलाल कठनेरा जैन, मालिक-जैनसाहित्यप्रसारक कार्यालय, हीराबाग, पोष्ट गिरगांव, बम्बई 1) प्रशाशक बिहारीलाल कठनेरा जैन, मालिक जनसाहित्यप्रसारक कार्यालय, होराबाग, पोट गिर्गाव, अम्बई मुद्रक, दि. सी. साखळकर, लोकसेवकोस, खटाव भुवन, गिरगांव, मुंह

Prameyratnmala

Author
Virya, Madanant
Title
Prameyratnmala
File name
Prameyratnmala
Text
OCR done
Citation
1927
Published
2009/11
Publisher
Jain Sahitya Pracharak Karyalay
Language
Sanskrit
Pages
89
Library
Sanmati Library, Jaipur
Classification
JainSsahitya
DLI number
344339
Barcode
99999990234208.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
Rights
Copyright permitted
VMLT id
KUkASMNB2bW
Download PDF

Prameyratnmala