Indian Institute Of Technology Kanpur
The Saunakiya
Front matter
TRIVANDRUM SANSKRIT SERIES
No. CXX,
Śrī Citrodayamanjarī.
No. IX.
THE
SAUNAKIYA
EDITED BY
K. SĀMBASITA SĀSTRI
Curaloor of the Department from the t'wólication
of Oriental Manuscripte, ?:rukcim.
PUBLISHED UNDER THE AUTHORITY OF THN GOVE, YVENT OF
LIS HIGHNESS THE MAHARAJA OF '(HAVANCORI.
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERN! ENT PRESS,
1935.
AU Rights Reserved.]
अनन्तशयनसंस्कृतग्रन्थावलि
ग्रन्थाङ्क: १२०.
श्रीचित्रोदयमञ्जरी।
प्रन्थाङ्कः ९.
शौनकीयं
पौरस्त्यग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधितम् ।
तच्च
अनन्तशयने
महोनतमहामहिमश्रीचित्रावतारमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितम् ।
कोलम्बाब्दा: ११११. ऊस्ताब्दाः १९३५.
॥श्रीः॥
श्रीमूलावनिपालमौलिमणिना सङ्कल्पितश्रीरिव
श्रीमूलात्मजनिस्तथा सहजया लक्ष्म्या च सम्भावितः।
स्वातिज्योतिरिवादितः समुदितश्चित्रावतारः स्वयं
मार्ताण्डाग्रसरो विराजति महाराजः स रामाभिधः।।
भास्ववर्णमणिः प्रवालमृदुला श्रुत्यायलङ्कारिणी
श्रीमद्वञ्चिवसुन्धरानवयशोराशिप्रकाशात्मिका
उत्फुल्लत्सुकृतिप्रसाधनधृतामोदोन्नदड्डिण्डिमा
श्रीचित्रोदयमञ्जरी सुमनसां सर्वस्वमुज्जृम्भताम् ॥
के. साम्बशिवशास्त्री.
M
ज
PREFACE. The present work named Saunakīya, is a treatise on Dharmasastra dealing in a small compass with the rituals of Dvijas contained in certain Rks and also with the rites to be performed by kings, as is evident from the following sloka occurring at the beginning of the work, यासां कासाचन बचा कल्पान वक्ष्ये यथाक्रमम् । भूपतीनां च कृत्यानि संक्षेपेण ततस्ततः ॥ The work consists of two Padas, the first Pâda containing 28 sections and the second Päda 21. In the first Pada are dealt with the rituals beginning with Yajña and closing with Mahāśānti, and in the second, the rites of kings beginning with the coronation and closing with the daily worship of Vişņu. Though these rituals are even now in use, the texts relating thereto have been kept in inemory owing to the fact that the work was not published and copies were not made available to the public. That the name of the work is Saunakiya is learnt from the colophons such as fiat शौनकीये स्नानविधिः, इति शौनकीये राजधर्म एकविंशः खण्ड : occurring at the close of the respective sections. From the na ne Saurakiya, it can be inferred that a well-known teacher named Saunaka was the author of the work. The lines, however, शौनको प्रवक्ष्यामि पुत्रसंग्रहयुत्तमम् । (p. 29) अथातोऽपां प्रतिष्ठायाः कल्पं वक्ष्यामि शौनकः । (p. 20) introducing the sections and the statement, दक्षिणां च यथाशक्ति दद्यादित्याह शौनकः । found at the close of the 19th section of the first Pāda show that the rituals invented or started by Sanaka are lealt with in this work; and in both cases, the word Saunakl ya can well be explained by the application of the Sūtra xias: of Paņini (4-2-114), .
Saunakacărya, an ancient sage of Puranic fame is known to have started a school of "religious rituals for the Rgvedins and written Anuvakanukramaņl and many other works. The fact that Hemādri and other writers on. Dharmaśāstra, refer to Saunaka by name as authority shows that, the latter occupied a very high place in ancient literature. Aévalāyana makes obeisance to Saunaka at the close of his Gșhyasatra thus, "TH: stara, TA: sigara, and, in the following verse of the present work, प्रतिमालक्षणं चैव प्रतिष्ठा चार्चनं. तया । ऋणु बुद्ध्या समायुक्त! भाववायन ! सुव्रत ! ॥ (p. 100) Saunaka is said to be giving advice personally to Ašvalāyana: it is certain therefore that Abvalāyana was a disciple of Saunaka. As the date of Asvalāyana is stated to be earlier than 6th century B. C., the same must be the date of Saunaka also. If the author was the same as the Pauranic Saunaka, then the fact that Saunaka figures as the chief hearer in all important Purāṇas leads us to infer that their date cannot be later than the sixth century B. C. The following are known to be the works of Saunaka :--- 1. Anuvākānukramani 12. Jīvacchrāddhaprayoga 2. Ayuşyahomapadhati 13. Nāgabali 3. Arşānukramaņi 14. Pavamăna homavidhi 4. Ugrarathaśāntiprayoga 15. Padānukramani 5. Udakaśāntipratisara 16. Punarādhānadhāryāgnibandhaprayoga 6. Upalekhavștti 17. Bịhaddevata 7. Rgvidhāna 18. Vāstuśāntiprayoga 8. Rgvedaprātiſakhya 19. Vivāhapatala 4. Rşicchandonukramaņi 20. Visņudharma 10. Ekadaņdisan yāsavidhi 21. Šānti 11. Cāturadhyāika 22. Sanyādavidhi The edition of the work is based on the following three palm leaf manuscripts :- hotraprayoga 111 Belonging to Mr. S. Krishna Sastrial, Avanavancherri, Obtained from the Manalikkara Matom, (7) Lent by Mr. Ramakrishna Sastrial, Suchindrum. . All these manuscripts appear to be about three centuries old. The first was a complete copy ; and though the remaining two were incomplete and many of their leaves torn off, they were made use of for preparing the press copy. Expressing my heart-felt thanks to the owners of the manuscripts for having helped me with copies of their manuscripts, I place the edition of this work before the learned public. Trivandrum, 10-10-1111.. K. SAMBAŠIVA ŚĀSTRI.
॥ श्री निवेदना। , कोऽप्यसौ धर्मशास्त्रग्रन्थः शौनकीयनामा, यत्र द्विजादिभिरनुष्ठेयाः कतिपयानामृचां कल्पाः, भूपतिभिराचरणीयानि कृत्यानि च संक्षिप्यन्ते । तदिदमुक्तमादावेव "यासां कासान्चन ऋचां कल्पान् वक्ष्ये यथायथम् । भूपतीनां च कृत्यानि संक्षेपेण ततस्ततः ।।" (पृ० १) इति । अत्र द्वौ पादौ, तत्र प्रथमस्याष्टाविंशतिः परस्यैकविंशतिश्च खण्डाः । तेषु यथाक्रमं यज्ञतन्त्रादयो महाशान्तिविषिपर्यन्ता द्विजादिधर्माः, राजाभि- षेकविधिप्रभृतयो नित्यविष्णवर्चनाविधिपर्यवसानाश्च राजधर्मा विषयाः सम्पु. टिताः । येऽमी अधुनाप्याचारपदवी प्रपन्नाः प्रायः प्रमाणभूतं कमपि सर्व- जनीनं सम्मुद्रितं प्रवन्धमनुपलभ्य पारम्परिके मुखपाठ एव विश्रान्ताः । शौनकीयमिति नामधेयमस्य प्रबन्धस्य तत्तत्खण्डपरिसमाप्तौ "इति शौनकीये स्नानविधिः ।" "इति शौनकीये राजधर्मे एकविंशः खण्डः ॥" इत्येवमादि दर्शनादवगम्यते । शौनकीयनाम्ना शौनकनामा सुप्रसिद्धः कश्चिदाचार्योऽस्य प्रव- तति प्रतीयते । परन्तु "शौनकोऽहं प्रवक्ष्यामि पुत्रसङ्ग्रहमुत्तमम् ।" (पृ० २९) "अथातोऽपां प्रतिष्ठायाः कल्पं वक्ष्यामि शौनकः ॥" (पृ० २०) इत्यादि प्रायशस्तत्तत्खण्डारम्भे, "दक्षिणां च यथाशक्ति दद्यादित्याह शौनकः" इति प्रथमपाद एकोनविंशवण्डावसितौ च दृश्यमानं स्वरसतः शौनकप्रणीताः शौनकोपज्ञं च धर्मा इह सङ्घटिता इत्यमुमर्थमवसाययति । उभयथापि शौनकशब्दात् 'व- द्धाच्छ' इति छप्रत्यये शौनकीयशब्दः साधुः । शौनकचाचार्योऽतिपुरातनः पुराणप्रसिद्धः कोऽपि महर्षिपुङ्गवः । यदुपक्रममिह ऋचामाचाराय ते ते कता।
१ समयः । कल्पाः प्रवृत्ताः । यश्चानुवाकानुक्रमणीप्रमृतीनामनेकासां कृतीनां प्रणेता । हेमाद्रिमुख्यैरनेकैः प्रामाणिकैः प्रमाणानुस्मरणमुखेन नामग्राहं ग्रहणादस्य शौनकस्यातिमहती प्रतिष्ठेत्यवगम्यते । आश्वलायनाचार्येण स्वीये गृह्यसूत्रेऽन्ते नमः शौनकाय नमः शौन- कायेति सूत्रेण स्वस्य शौनकशिष्यत्वकथनात् , प्रकृते च प्रबन्धे "प्रतिमालक्षणं चैव प्रतिष्ठां चार्चनं तथा । शृणु बुद्ध्या समायुक्त! बाश्वलायन ! सुबत! ।। (पृ० १००) इति कारिकयाश्वलायनं प्रत्युपदेशदानश्रवणाञ्च बारममू शौनकाश्वलायनौ गुरुशिष्यौ सम्मतौ । व्यवस्थितश्च जीवसमय भावलायनस्य किस्तोः प्राक् षड्भ्यः शताब्दीभ्योऽनुत्तर इति स एव भवेदस्य शौनकाचार्यस्यापि समयः सता सम्मतः । अमुकस्मान्निश्चयादन्यदप्यनाइतमवर्गस्यते, यत् शौनकावल- म्बानि पुराणान्यपि मुतरां क्रिस्तोः प्राक्तनषष्ठशताब्धा अनर्वाञ्चीति । कृतयश्चास्यामूरद्ययावदवगताः - अनुवाकानुक्रमणी आयुष्यहोमपद्धतिः भार्षानुक्रमणी उपस्थशान्तिप्रयोगः उदकशान्तिप्रतिसरबन्धप्रयोगः उपलेखवृत्तिः ऋग्विधानम् ऋग्वेदप्रातिशाख्यम् ऋषिच्छ नोनुकमणी एकदण्डिसन्यासमिधिः चतुरध्यायिका जीच्या प्रयोगः नागवलिः पवमानहोमविधिः पादानुक्रमणी पुनराधानधार्यामिहोत्रप्रयोगः बृहद्देवता वास्तुशान्तिप्रयोगः विवाहपटकः विष्णुधर्मः शान्तिः संन्यासविधिः सूक्तानुक्रमणी सोमोत्पत्तिपरिशिष्टम् ।
३ 'तत्मसाधनऽवलम्बभूता मातृकास्तिमः क. ब्रमश्री अवनवशेरि एस् कृष्णशास्त्रिस्वामिका । ख. मणलिक्करमठीयप्रन्यशालीया । ग. शुचीन्द्रपुरस्थरामकृष्णशालिसम्बन्दिनी च प्रायस्त्रिशतवर्षी पर्युषिताः । आसु प्रथमा समग्रा, अन्ये विशकलितपत्रबहुले असमग्रे अपि बादं परिशोधनोपयुक्ते। तदेवमनर्घममुं स्मृतिप्रबन्धं यथावत् प्रसाध्य प्रकाशयितुं कृतोपकृ. तिभ्योऽमीभ्यो मातृकात्रयस्वामिभ्यः समुचितां कृतज्ञतामनुस्मरन्नस्मि सज्जन- समक्षममुमवतारयन्नेष धन्यः ॥ अनन्तशयनम्, १०. १०- १११.) के. साम्बशिवशास्त्री.
विषयाः क्रमणिका। पृष्ठम्. २ ३ १५ १७ २० ० २३ २७ २९ ३० ३ ३५ खण्ड:. विषयः. प्रथमपादे- यवतन्त्रादि। प्रतिसरबन्धः । पुण्याहविधिः। पुनराधानविधिः। अपां प्रतिष्ठाविधिः । ग्रामप्रतिष्ठाविधिः । अग्निपरिचरणविधिः । पुत्रसङ्ग्रहणविधिः। अग्निसमारोपणांवधिः। १० शताभिषेकविधिः । ११ अपमृत्युजयविधिः । १२ आयुष्यहोमविधिः । १३ ग्रहशान्तिविधिः । अद्भुतशान्तिविधिः । १५ विद्युद्दग्धशान्तिविधिः। यक्ष्मशान्तिविधिः। रोगशान्तिविधिः । १८ कृत्याशान्तिविधिः । १९ शत्रुशान्तिविधिः । २० आभिचारविधिः । २१ जीवच्छाद्धविधिः। २२ गर्भिण्युदक्यासंस्कारविधिः । २३ यतिसंस्कारविधिः। आहितामिप्रवासमरणसंस्कारविधिः । २५ अभ्युदयश्राद्धविधिः । ३७ ४३ ४५ ४६ ४८ ५२ ५४ खण्ड: विषयः. २६ २७ २८ नक्षत्रहोमविधिः। नारायणबलिविधिः। महाशान्तिविधिः। ६३ - ६६ M २ " ७ " ५ ७५ ६ ७६ ९ ८१ ८२ द्वितीयपादे- राजधर्मे राजाभिषेकविधिः । वाहनाभिषेकविधिः । नृपलक्षणम् । ४ राजन्यस्य महाभिषेकविधिः । प्रयाणे आयुधाराधनविधिः । वत्थिानविधिः। हस्तिनीराजनविधिः। अश्वनीराजनविधिः जन्म नक्षत्रदेवतापूजाविधिः । नित्याभिषेकविधिः । कौतुकबन्धनविधिः । १२ गजानां शान्तिविधिः । १३ जातवेदसकल्पः । १४ तिथिपूजाविधिः । १५ सावित्र्याः कल्पः। १६ त्रयम्बककल्पः । १७ रात्रिसूक्तविधिः । पुण्याभिषेकविधिः । १९ वायसबलिविधिः । अङ्कुरार्पणविधिः । नित्यविष्ण्वर्चनविधिः । ९० ९२ ९६ " '', ॥ श्रीः॥ शौनकीयम्। प्रथमः पादः। अथ प्रथमः खण्डः। अनाद्यन्तमजं ब्राह्मं प्रणम्य शिरसा महः । यासांकासाञ्चन ऋचां वक्ष्ये कल्पान् यथातथम् ॥१॥ भूपतीनां च कृत्यानि सझेपेण ततस्ततः । द्विजातयोऽग्निमन्तो ये त एतेष्वधिकारिणः ॥२॥ एतेषां ब्राह्मणो होता वेदवेदाङ्गपारगः। श्रौतः स्मार्त इति ज्ञेयो द्विविधोऽमिर्द्विजन्मनाम् ॥ ३ ॥ गार्हपत्याहवनीयौ दक्षिणाग्निरिति त्रयः । इष्टिभिस्तिमृभिः सिद्धाः श्रौता एतेऽमयो मताः॥४॥ स्मार्ताग्निदिविधो ज्ञेयो गृह्यः पौरुष इत्यपि । यस्मिन् विवाहं कुरुते सोऽग्निह्य इति स्मृतः ॥ ५ ॥ जातकर्मादिसिद्धयर्थ यो व्याहृतिभिराहितः । पोऽग्निः पौरुष इत्युक्ता शालाग्निलौकिकः स्मृतः॥६॥ कुर्याच्छ्रौताग्निकर्माणि श्रौतेष्वेवाग्निषु त्रिषु । ह्ये गााणि कर्माणि इतराण्येव पौरुषे ॥ ७ ॥ नित्यं नैमित्तिकं काम्यं कर्माहुत्रिविधं पुरा । एतेषां कर्मणां होता मन्त्रः कल्पश्च वक्ष्यते ॥ ८ ॥ . G. P. T. 1845.500.25-3-1109,
२
शौनकीये
पितृभ्योऽभ्युदयश्राद्धमथ कृत्वा पुराहनि ।
हविष्यान्नं सकृद् भुक्त्वा ब्रह्मचारी स्वलङ्कृतः॥९॥
प्रकोष्ठे तन्तुभिर्मन्त्रैः सन्नोद गुप्तये द्विजैः ।
पुण्याहं वाचयेद् विप्रैरचितैवेदपारगैः॥ १० ॥
मनःप्रसादात् सत्योक्त्या तपसा स्नानकर्मणा।
आचान्त्या चात्मनः शौचं कृत्वा कर्म समारभेत् ॥११॥
अनादेशे स्वयं कर्ता स्याद्वा वाचनिकः परः ।
प्राक्कूलता स्वासनानां पृथक्संस्था च कर्मणाम् ॥१२॥
कर्तुः प्राङ्मुखतानुक्तौ क्रियायां प्राक्समीहनम् ।
अङ्गद्वये च सत्येकेनाङ्गेन वचनोदेिते ॥ १३ ॥
दक्षिणेनैव कर्तव्यं तथानुक्तामणि ।
आसीनेनैव कर्तव्यं यत्र स्थानमचोदितम् ॥ १४ ॥
हविष्यचोदिते तहदाज्यं तत्र हविर्भवेत् ।
कर्मोपवीतिना कार्य निवीतादावचोदिते ॥ १५॥
अविज्ञातस्वरा मन्त्राः प्रयोक्तव्याः प्रयोक्तृभिः ।
एकश्रुत्यैव होमेषु विज्ञाताश्चैव कल्पतः ॥ १६ ॥
यस्मिन् मन्त्रे न पठितः स्वाहाकारो भवेद्यदि ।
स्वाहान्तेन प्रयोक्तव्यो होमेषु प्रणवादिना ॥ १७ ॥
जानीयात् प्रत्यूचमित्थं तदन्यानुपदेशतः ।
भूर्भुवः स्वः सुवश्चेति ।तेस्रो व्याहृतयो जपे ॥ १८ ॥
आभिश्च होमे तिसृभिश्चतुर्थी स्यात् समाहिता ।
अथ प्रयोगे मन्त्राणां षड्विधं लक्षणं स्मृतम् ॥१९॥
प्रथमपादे प्रथमः खण्डः ।
जपानुमन्त्रणान्यायना(नु ? भि)मन्त्रास्तथैव च ।
संस्थानं कर्मकरणं षडुपांशुप्रयोगतः ॥ २० ॥
जपमुच्चारणं विद्यान्न त्वर्थसहितं भवेत् ।
अर्थतः कार्यलाभश्चेदर्थ एव ततो भवेत् ॥ २१ ॥
मन्त्रमुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरेत् ।
शोषणं तन्मना भूत्वा स्यादेतदनुमन्त्रणम् ॥ २२ ॥
एतदेवाभिमन्त्रस्य लक्षणं वीक्षणाधिकम् ।
अद्भिः संस्पर्शनाधिक्यात् तदेवाप्यायनं स्मृतम् ॥ २३ ॥
उपस्थानं तदेव स्यात् प्रणिधिस्थानसंयुतम् ।
ब्रामं कर्म यदेतेषु मन्त्रकाले क्रियेत तत् ॥ २४ ॥
कर्मणः करणं तस्य विहितार्थप्रकाशनम् ।
मन्त्रेण कृत्वा मन्त्रान्ते क्रियते कर्म येषु तु ॥ २५ ॥
इदं कार्यमनेनेति न कचिद् दृश्यते विधिः।
लिङ्गादेवेदं मन्त्रत्वं येषां ते मन्त्रसंज्ञिताः ॥ २६ ॥
प्राजापत्य उपांशु स्यान्मन्त्रः सावित्र एव च ।
अथ देशे समे शुद्धे स्वासीनः प्राङ्मुखः शुचिः॥ २७ ॥
इषुमात्रं चतुर्दिक्षु गोमयेन सवारिणा ।
उपलिप्य स्थण्डिलं तु चतुरश्रं समन्ततः ॥२८॥
तदन्तयोर्याज्ञियस्य शकलेन षडुल्लिखेत् ।
प्रादेशमात्रास्ता लेखाः पश्चादेकोदगायता ॥ २९॥
तदन्तयोरसंस्पृष्टे द्वे च प्रागायते लिखेत् ।
तिस्रो मध्ये तयोर्लेख्या उदक्संस्था इति स्थितिः॥३०॥
४
शौनकीये
निधाय शकलं तस्मिन्नभ्युक्ष्य स्थण्डिलं जलैः ।
निरस्य शकलं प्राच्यां पाणिं प्रक्षाल्य वारिणा ।। ३१॥
निर्मन्थ्य याज्ञियात् काष्ठादा(हृत्याग्निं तु) वाग्यतः।
स्थण्डिलेऽग्निं व्याहृतिभिः प्रतिष्ठाप्य प्रदीपयेत् ॥ ३२ ॥
प्रदीप्तमग्निं सम्मृज्य सम्प्रोक्ष्य परितो जलैः।
आरब्धकर्माङ्गतया अन्वादध्यात् समियम् ॥ ३३ ॥
काष्ठत्रयं वा सङ्कल्प्य अमुं यक्ष्य इति ब्रुवन् ।
अनेन यक्ष्यमाणाया देवतायाः परिग्रहः ॥ ३४ ॥
अन्वाधानमिदं नाम अग्न्याधानादनन्तरम् ।
अथेमस्य सन्नहनं बर्हिषश्च विधीयते ॥ ३५ ॥
याज्ञियैः सुतृणै रज्जूस्त्रिसन्धी त्रिवृता तयोः ।
ग्रन्थि च कृत्वा सन्नह्येत् तयेध्मं बर्हिरन्सा ॥ ३६ ॥
बीं रज्ज्वा द्विरावेष्टय इध्मं च सकृदेव तु ।
रज्जुमूलं तदरेण द्विरावेष्टय प्रदक्षिणम् ॥ ३७॥
तदनशेषं रज्ज्वाथ उपोह्योपरि धापयेत् ।
आयामेनेध्मसमिधां प्रादेशद्वयमुच्यते ॥ ३८ ॥
वितस्तिमात्रमथवा सङ्ख्यायाश्चैकविंशतिः ।
त्रयः परिधयो द्वे च आधारसमिधावपि ॥ ३९ ॥
अनूयाजसमिच्चैका आधाने दश पञ्च च ।
एकविंशतिसङ्ख्यैवमिध्मस्य परिमण्यते ॥ ४० ॥
समित्प्रमाणाद् द्विगुणा ग्राह्याः परिधयस्त्रयः।
ज्येष्ठमध्यमकानिष्ठा हीना अङ्गुलिमानतः ॥ ९ ॥
प्रथमपादे प्रथमः खण्डः । इसिष्ठोऽणिष्ठः कानिष्ठः स्थविष्ठो मध्यमास्त्रिषु । द्राधीयान्यः परिधिषु अणीयान् ज्येष्ठ उच्यते ॥ ४२ ॥ द्रव्येण याज्ञिया वृक्षाः समिधः सर्वकर्मसु । पालाशखादिराश्वत्थवैककतशमीवटाः ॥ १३ ॥ वेणूदुम्बरबिल्बाद्या याज्ञियास्तरवो विदुः। याज्ञिया द्रुमशाखाश्च स्कन्धपर्णादिवर्जिताः॥ ४४ ॥ आर्द्राः शुष्काश्च सत्वका ऋजवो दोषवर्जिताः । भग्नप्रच्छिन्नभिन्नाश्च वक्रोपावृत्तनिस्त्वचाः ॥ ४५ ॥ स्वयं शुष्का हस्तकृत्ताः पशुजिवावलेढिताः । विद्युद्दग्धाग्निदग्धाश्च विक्रीताः पतितादिभिः ॥ ४६ ॥ प्राण्यध्युषितसुषिराः कीटलीढाः खयं हताः । मलायमेध्यलिप्ताश्च समिदोषा उदाहृताः ॥ ४७ ॥ अथवा याज्ञियतृणानग्रे प्रादेशमात्रतः। प्रच्छिद्य परिगृह्णीयान्मुष्टिमात्रं तु बर्हिषः ॥ ४८ ॥ पस्त्तिरणधातूनां चतुर्मुष्टितृणान्यपि । ब्रह्मासनाय पात्राणां सादनाय तृणान्यपि ॥ ४९ ॥ कुशकाशाश्ववालादिौजीप्रभृतिरेव च । उशीरं चेति जानीयाद् याज्ञियानि तृणान्यपि ॥ ५० ॥ यथोदितः समिद्दोषः कुशादीनां तथा भवेत् । प्रणीतासादनार्थ च पात्राणां सादनाय च ॥ ५१ ॥ संस्तीर्योत्तरतो वह्नः पर्युक्षेच्च हुताशनम् । पाणिनोदकमादाय आदाय त्रिः प्रदक्षिणम् ।। ५२ ॥
शौनकीये
पयुक्षेदग्निमित्येतदाहुः पर्युक्षणं बुधाः ।
तृणेष्वधोमुखान्येषु यज्ञपात्राणि सादयेत् ॥ ५३ ॥
अन्यैश्च साधनैः सार्ध प्राक्संस्थानि यथाक्रमम् ।
कर्मण्येकैकशः पित्र्ये द्वन्द्वशो देवकर्माण ॥ ५४ ॥
कृत्वा शौचं यथाशास्त्रं पात्राणां सादनं भवेत् ।
प्रोक्षणीपात्रं सुवेण प्रणीतापात्रमेतया ॥ ५५ ॥
आज्यस्थाल्यां सहेध्मं च बर्हिषां द्वन्द्वसादनम् ।
चरुप्रोक्षणयोः पात्रे सुवं जुह्वा सहैव च ॥ ५६ ॥
प्रणीतापात्रमाज्यस्य पात्रेणेध्मं च बर्हिवा ।
मृन्मयानि च पात्राणि तैजसाश्ममयानि च ॥ ५७ ॥
दारवाणि च कांस्यानि यथाशक्त्यनुरूपतः ।
खादिरेण स्रुचं कार्य पालाशेन जुहूर्भवेत् ॥ ५८ ॥
त्वप्रदेशे बिलौ ज्ञेयावन्यैर्वा याज्ञियैर्दुमैः ।
तदभावे पलाशस्य पर्णाभ्यां हूयते हविः॥ ५९ ॥
चमसं वा प्रणीतायां कांस्यपात्रमथापि वा।
त्रिरद्भिः प्रोक्ष्य पात्राणि तृणैः प्रच्छाद्य याज्ञियैः ॥६॥
कृत्वा पवित्रे आसिच्य वारि प्रोक्षणभाजने ।
उत्पुनीयात् पवित्राभ्यामपस्तूष्णीं त्रिरेव तु ॥६१ ॥
कृत्वोत्तानानि पात्राणि इध्मं विश्लिष्य बन्धनात् ।
आभिरद्भिः सह प्रोक्षेत् निरन्यैर्यज्ञसाधनैः ॥ ६२ ॥
तृणं यदप्रच्छिन्नाग्रमन्तर्गर्भविवर्जितम् ।
प्रादेशमानं याज्ञीयं पवित्रमिति संज्ञितम् ॥ ६३ ॥
प्रथमपादे प्रथमः खण्डः ।
अङ्गुष्ठानामिकाभ्यां तु पाण्योरुत्तरयोः पृथक् ।
गृहीतमूलतूलाभ्यां स्थाल्यां यत् प्राक् प्रकर्षति॥६४ ॥
उदगग्रपवित्राभ्यामित्युत्पवनमुच्यते ।
अथविजं वरणीयं ब्राह्मणं दोषवर्जितम् ॥ ६५ ॥
षडङ्गवेदविद्वांस कुलीनं ब्राह्मणोत्तमम् ।
तत्पाणिं पाणिना गृह्य चन्द्रमा म इति त्वसौ ।। ६६ ॥
द्वितीयया विभक्त्यान्तं नमादिग्न्यवृणे इति ।
महन्मेवोच इति च तन्मावतु तदित्यमुम् ॥ ६७ ॥
जापत्वा प्रतिजानीयाच्चन्दिरास्त इति स्वयम् ।
स्वायौ व्रत इमाममे इत्यूचुर्जुहुयाद् घृतम् ॥ ६८ ॥
आहिताग्निर्दक्षिणाग्नावेतेनाग्न इति त्र्यूचा ।
गृहीतमधुपर्कः सन्नरोणाग्नि परीत्य च ॥ ६९ ॥
तस्यामुदङ्मुखः स्थित्वा दक्षिणेनात्मना तृणम् ।
अङ्गुष्ठानामिकाभ्यां तु आदायैकं निरस्य च ॥ ७० ॥
निरस्त इत्यनेनैव तं प्रत्यग्दक्षिणां दिशम् ।
अपः स्पृष्ट्वेदमहमित्युपविश्य तृणेषु सः ॥ ७१ ॥
समस्तपाण्यङ्गुष्ठः स दक्षिणोत्तर्युपस्थकः ।
बृहस्पतिर्ब्रह्मतीमं जपित्वास्थ उदङ्मुखः ॥ ७२ ॥
आ होमपरिसमाप्तेर्जपेहाचं विसृज्य च ।
प्रणीतापात्रमादाय पश्चादग्नेस्तुणेषु ते ॥ ७३ ॥
अन्तर्धाय पवित्रे द्वे जलैरासिच्य पाणिना।
तृणाच्छन्नं समुद्धृत्य धृतप्राणः शिरःसमम् ॥ ७४ ॥
८
शौनकीये
अग्नरुत्तरतस्तेषु तृणेष्वेनां निधाय ताम् ।
आदायादाय शूर्प तु पश्चादग्नेस्तृणेषु ते ॥ ७५ ॥
अन्तर्धाय पवित्रे ते ब्रीह्यादीनिर्वपेच्चरुम् ।
चतुस्थतुरो मुष्टीन् ब्रीह्यादीनां पृथक् पृथक् ॥ ७६ ॥
तस्यै तस्यै देवताया एतभिर्वपणं चरोः ।
अभिधाय चतुर्थ्यन्तं प्रत्येकं देवतापदम् ॥ ७७ ॥
त्वा जुष्टं निवपामीति मन्त्रनिर्वापणे विदुः ।
अथैव प्रोक्षयेदारैः सपवित्रेण पाणिना ॥ ७८ ॥
निर्वपेद++स्थाने प्रोक्ष्यामीति प्रयुज्यताम् ।
अमेरुत्तरतस्तीर्णे कृष्णाच्छन्नमुलूखलम् ॥ ७९ ॥
निधायोत्तरलोत्येव तस्मिन् व्रीहीनुलूखले ।
तानोप्य पत्नी मुसलेनावहन्याद्विविच्य च ॥ ८॥
अनेकेषां निरुक्तिश्वेत् सहैवोप्यावहन्यते ।
विविच्य शूर्पण तुषांस्त्रिष्फलीकृत्य तण्डुलाम् ॥ ८१ ॥
विभज्यावमृशेदिदममुष्मा इति तत्पदैः ।
त्रिः प्रक्षाल्य जलैः सर्वान् स्थाल्यामोप्य सहैव च ॥८॥
तस्मिन्ननावधिश्रित्य पचेत् काहविः शनैः ।
अथाज्यस्थालीमादाय आज्यं तस्यां निषिच्य तु ॥ ८३॥
उद्गग्नेनिरूढेषु अङ्गारेषु सभस्मसु ।
अधिश्रित्यावलाप्यैनमवज्वल्याज्ज्वलत्तृणैः ॥ ८४ ।।
आज्ये प्रत्यस्य दर्भाग्रे अङ्गुलीपर्वमात्रके।
पुनर्बलद्भिरेतैस्तैस्तृणैः परिकरैः सह ॥ ५ ॥
प्रथमपाद प्रथमः खण्डः ।
औदनानि हविभिस्तु सन्ति चेत् तैरिति स्मृतम् ।
अद्भिरेतानि सम्प्रोक्ष्य प्रहत्याग्नावुदक्कृषन् ॥ ८६ ॥
उदास्याज्यमथाङ्गारान् प्रत्यूह्यापः स्पृशेत् पुनः ।
ताभ्यामाज्यं त्रिरुत्पूय पवित्राभ्यां यथाविधि ॥ ८७ ॥
सकृन्मन्त्रेण विस्तूष्णीमग्नौ ते सम्प्रहृत्य च ।
सपरिस्तरणदर्भाग्नेः पश्चात् सम्प्रोक्षिते भुवि ॥ ८८ ॥
बर्हिःसन्नहनी रज्जुमुद्गयां निधाय ताम् ।
तस्यां बर्हिषि संस्तीर्णे प्रागग्रे निहितं भवेत् ।। ८९ ॥
अथादाय स्रुवजुह्वौ दक्षिणेन करेण ते ।
सव्येन दर्भाश्चादाय संयोज्यानौ प्रतापयेत् ॥ ९ ॥
सम्मृज्य त्रि++न्तूलैर्दण्डं मध्ये स्रुवस्य तु ।
मूलं मूलैश्च दर्भाणां तथा जुह्वां विधीयते ॥ ९१ ॥
सहदी स्रुवजुह्रौ प्रताप्य प्रोक्ष्य तान् कुशान् ।
प्रताप्याप उपस्पृश्य हविस्तेनाभिधारयेत् ॥ ९२ ॥
गृहीत्वाज्यं सुवेणैव पक्के हविषि सेचनम् ।
अभिधारणमित्याहुस्तथान्येषु हविषु च ॥ ९३ ॥
उदगुद्वासितं तस्मात् पुनरप्यभिधारयेत् ।
हविराज्याद् दक्षिणतो बर्हिष्यासादयेत् पृथक् ॥ ९४ ॥
इध्मान्निकृष्य परिधीन् परिदध्यात् क्रमेण तान् ।
उदगग्रं मध्यमं तमग्नेः पश्चान्निधाय तु ॥ ९५ ॥
प्रागप्रमुपरि ज्येष्ठमन्मेर्दक्षिणतस्तथा ।
कनिष्ठं मध्यमस्याथो अग्नेः प्रागग्रमुत्तरे ॥ ९६ ॥
१०
शौनकीये
आधारसमिधौ रेखां निदध्यात् पूर्वदक्षिणे।
प्रारदक्षिणायां समिधं तथा पूर्वोत्तरे पराम् ॥ ९७०।।
पूर्वोत्तरायां चोदीच्यामनुयाजो विधीयते ।
अथाग्निं परिसमूह्य गन्धपुष्पैरलङ्कृतम् ॥ १८ ॥
आत्मानं चाप्यलंकृत्य इध्ममादाय पाणिना।
इध्मसन्नहनी रज्जुमनुयाजे निधाय ताम् ॥ ९९ ॥
आदायाज्यं सुवैकेन द्विरिष्ममभिधारयेत् ।
अयं त इध्मेति मन्त्रेण अग्नाविध्मं निधाय तम् ।।
आधारयेतामाज्येन आघारौ द्वौ सुवेण तु ।
पश्चिमोत्तरमारभ्य घृतधारां सुवेण तु ॥ १०१ ॥
मध्यतोऽग्नेरविछिन्नां नयेतापूर्वदक्षिणम् ।
प्रत्यग्दक्षिणमारभ्य एवं पूर्वोत्तरां नयेत् ॥ १०२ ॥
आधाराविति तावेतौ प्राहुर्यज्ञविदो जनाः ।
अथाज्यभागौ जुहुयात पश्चेऽनेरुत्तरेऽनये ॥ १०३ ॥
स्वाहेति दक्षिणे सोमा स्वाहेति च यथाक्रमम् ।
प्राक्संस्थमनयोर्मध्य उदसंस्थं तु वाहुतीः ॥ १० ॥
प्रत्युत्तरे वा जुहुयात् प्राक्पूर्वे स्विष्टकृतविः ।
सहपक्षकेऽधुनोहत्य स्थाल्यां पात्रेषु निक्षिपेत् ॥ १.५॥
विभज्याभिमृशोक्तानि पूर्ववत् प्रतिदेवतम् ।
बिले जुहा स्नुवेणैवोपस्तीर्य हिरवद्यति ॥ १.६॥
मध्याडविषोऽवदाय पूर्वार्धाच्चापि पाणिना ।
जुहा बिलेऽथ प्रक्षिप्य हविः प्रत्यभिधारयेत् ॥ १७ ॥
प्रथमपादे प्रथमः खण्डः ।
११
अभिधार्य हिरवत्तं जुवा पार्श्वेन हूयते ।
होतव्यं चतुरावत्ति पञ्चावत्यन्यदुच्यते ॥ १.८ ॥
हविषो मध्यपूर्वार्धात् पश्चार्धाच्चाप्यवद्यति ।
आज्याद् द्विरवदानं च पञ्चावत्त्येष उच्यते ॥१०९ ॥
यजमानो जामदग्न्यः पञ्चावत्त्येष उच्यते ।
तस्मादन्ये द्विजाः सर्वे ज्ञेयाश्चतुरबत्तिनः ॥ ११ ॥
अवदायावदायैवं स्वैः स्वैर्मन्त्रैर्हनेदतः ।
अनवद्यात् सौविष्टकृतं हविषः सकृदेव तु ॥ १११ ॥
अवदायोत्तरार्धात् तन्नाभिघार्य हविः पुनः ।
आज्यावदानैः शेषाणि अवदानानि पूरयेत् । ११२ ।।
तुषान् कणान् समिच्छिन्नांस्तृणच्छिन्नान् प्रहृत्य तु ।
यदस्य कर्मण इति हुत्वा स्विष्टकृदाहुतिम् ॥ ११३ ।।
स्पृष्ट्वोदकमनूयाज समिधं तं ब्रहृत्य च ।
समस्ताभियातिभिर्हत्वैकामाहुतिं ततः । ११४ ॥
प्रहृत्य मध्यं परिधिभितरौ युगपत् ततः ।
आघारसमिधावनौ युगपत् सम्प्रहत्य च ।। ११५ ॥
इध्मबन्धनयोक्नी तां विसृज्याग्नौ प्रहत्य च ।
आसीनो वा स्थितो वाथाप्यग्नेरुत्तरपश्चि ।। ११६ ॥
अयाश्चाग्नेरित्यनया अतो देवा अवन्तु नः ।
इति द्वाभ्यां व्याहृतिभिर्हत्वा चतसृभिर्वृतम् ॥ ११७ ॥
अथादाय पूर्णपात्रं बर्हिष्यासाद्य पाणिना।
उदुष्यापः प्रतिदिशं योक्त्रीं तां निधनाय तु॥११८ ॥
१२ शौनकीये आसिच्य पाणौ तत् तोयं पापमात्मकृतं स्मरन् । आत्मानं यजमानं च होतात्र प्रोक्ष्य तैर्जलैः ॥ ११९ ॥ ओं चमेत्युपतिष्ठेत अग्नेः प्रत्यगुदकस्थितः । परिसमूह्य पर्युक्ष्य दद्याद् विप्राय दक्षिणाम् ॥ १२० ॥ ++++ स्वकल्पेषु या प्रोक्ता सैव दक्षिणा । होमोपयोगि यद् द्रव्यं होने दद्यात् सदक्षिणम् ॥ सम्प्रोक्तदक्षिणाभावे हिरण्यं वाथ शक्तितः। यद्यस्ति हुतशेषं यद् देयं विप्राय तहविः ॥ १२२ ॥ प्रक्षाल्य यज्ञपात्राणि गृह्णीयाद् इन्द्वशः क्रमात् । कृताकृतं ब्रह्मवरणं ब्रह्मा चाप्याज्यसंस्कृतिः ॥ १२३ ॥ संस्पृष्टिं च स्रुवं जुवोराज्यभागोपरिसुतिः। वीहीणामवहन्तिश्च तण्डुलेषु कृताकृता ॥ १२४ ॥ द्रवीभूतघृतस्यापि विलेपनविधिस्तथा । यज्ञतन्त्रमिति प्रोक्तमेकानौ यज्ञकर्मणि ॥ १२५ ॥ प्रयोक्तणां प्रयोगार्थं शौनकेन यथाक्रमम् । स्नानं प्रतिसरं चैव पुण्याहोत्थानमेव च ॥ १२६ ॥ अथाग्रामप्रतिष्ठां चामिपरिचरणं तथा । पुत्रसग्रहणं चाग्निसमारोपणमेव च ॥ १२७ ॥ शताभिषेकसंस्कारमपमृत्युजयं तथा । आयुष्यं ग्रहशान्ति च शान्ति चाप्य तादिषु ॥ १२८॥ यक्ष्मशान्ति रोगशान्ति कृत्याशान्ति तथैव च । शत्रुशान्ति चाभिचारं जीवश्राद्धं तथैव च ॥ १२९ ।।
+
प्रथमपादे प्रथमः खण्डः।
गर्मिण्युदक्यासंस्कारं यतिसंस्कारमेव च ।
प्रबासमृतसंस्कारं श्राद्धमाभ्युदयं तथा ॥ १३ ॥
वक्ष्ये नक्षत्रहोमं च नारायणबलिं क्रमात् ।
अथ स्नानविधि चैव प्रवक्ष्यामि द्विजन्मनाम् ॥ १३१ ॥
समुद्रगां नदीं चापि तटाकं सर एव वा ।
गत्वा समाचरेत् स्नानं प्रयतात्मा समाहितः ॥ १३२ ॥
उष्णोदकेन वा कुर्याद् द्विजः शीतोदकेन वा ।
उद्धृत्य मृत्तिकापिण्डान् दश पञ्चाष्ट वा क्षिपेत् ॥
नदीतीरे शुचौ देशे ++रे++++शान् ।
स्योनापृथिवीत्यनया मृदास्याङ्गानि लेपयेत् ॥ १३४ ॥
प्रसम्राजे बृहत्सूक्तमष्टर्च वारुणं जपेत् ।
++++++त्यतत्सूक्तमेकादशर्चकम् ॥ १३५ ॥
आपो अस्मान्मातर इति तृचमपां च जपन्नपः ।
उपगम्य निमज्जन्ति द्विराचम्याभिषेचनम् ॥ १३६ ॥
अम्बयो यं तृचामष्टावापो हिष्ठा मयो नव ।
अद्भिः स्नात्वोदके मनस्त्रिः पठेदघमर्षणम् ॥ १३७ ।।
यथाश्वमेधः
क्रतुराट्
सर्वपापापनोदनः।
तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ १३८ ।
अन्यवस्त्रं परिधाय चाचान्तः पुनराचमेत् ।
अग्निश्चेत्यनुवाकेन सायङ्काले अपः पिबेत् ॥ १३९ ॥
सूर्यश्चेत्यनुवाकेन प्रातःकाले पिबेदपः ।
आपः पुनन्त्वित्यनेन मध्याह्ने च जलं पिबेत् ॥ १४ ॥
शौनकीये
अब्लिङ्गाभिः पवित्राभिः प्रोक्षयेत् कुशपाणिना।
व्याहत्या सह सावित्र्या सन्ध्या प्रत्यञ्जलिं क्षिपेता।
प्राणायामान् धारयेत् त्रीन् यथाविधि धृतव्रतः।
अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥ १४२ ॥
प्राणायामैर्य आत्मानं संयत्यास्ते पुनः पुनः ।
दशहादशभिर्वापि चतुर्विंशत्परं तपः ॥ १४३ ॥
ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयस्तथा ।
त्रिपदा चैव गायत्री विज्ञेया ब्रह्मणो मुखम् ॥ १४४ ॥
आयात्वित्यनुवाकेनावाह्या सावित्र्युपक्रमात् ।
ऋष्यादीनि च संस्मृत्य समासीनो जपेत् सदा ॥ १४५॥
सायं प्रातश्च मध्याह्ने सावित्री जप्य वाग्यतः।
सायं प्रत्यङ्मुखश्चैव तिष्ठन् प्रातश्च प्राङ्मुखः ॥ ११६ ॥
उत्तमेत्यनुवाकेन उदास्य सावित्री पराम् ।
सायं प्रातरुपस्थाय जातवेदस इत्यूचा ॥ १४७ ॥
इमं मे वरुणश्चेति सायङ्काले विशेषतः ।
मित्रस्य चेति मन्त्रेण प्रातःकालेऽथ पूर्ववत् ॥ १४८ ॥
पिशङ्गभृष्टिमित्यूचा मुखं स्पृश्य प्रदक्षिणम् ।
भद्रं कर्णेभिर्ऋबैकया कर्णं स्पृष्ट्वा प्रदक्षिणम् ॥ १४९ ॥
केश्यनिमित्यूचैकया शिखां स्पृष्ट्वा प्रदक्षिणम् ।
सन्ध्यां सावित्री गायत्री सर्वान् देवान् प्रणम्य च ॥
आदावारभ्य सर्वेषु कालेषु जप इष्यते ।
आरम्भयज्ञाजपयज्ञो विशिष्टो दशभिर्गुणैः॥ ५५ ॥
१५
प्रथमपादे द्वितीयः खण्डः।
उपांशु स्याच्छतगुणः सहस्रो मानसः स्मृतः ।
सहस्रपरमां देवीं शतमध्यां दशावराम् ॥ १५२ !!
शुद्धिकामः प्रयुञ्जीत सर्वपापप्रणाशिनीम् ।
अपामञ्जलिसम्पूर्णामाकृष्णेनेत्यूचा क्षिपेत् ॥ १५३ ॥
सवितुर्मण्डलं पश्यन्नुपतिष्ठेद् दिवाकरम् ।
प्रोताञ्जलिः पठेत्सूक्तमुदुत्यं जातवेदसम् ॥ १५४ ॥
एवमाद्यानि सौर्याणि जपन् कुर्यादिवाकरम् ।
ब्रह्मयज्ञविधानेन पठेद् वेदं यथाविधि ॥ १५५ ।।
वेदादीस्तर्पणं कृत्वा वस्त्रं सम्पीड्य शोषयेत् ।
स्नानार्थ प्रस्थितं विप्रं देवाः पितृगणैः सह ॥ १५६ ॥
वायुभूतानुगच्छन्ति तृषितास्ते जलार्थिनः ।
निराशास्ते निवर्तन्ते वस्त्रसम्पीडनेन तु ॥ १५७ ॥
तस्मान्न पीडयेद् वस्त्रमकृते तर्पणे द्विजः ।
नद्यां वा देवखातायां वाप्यां कूपतटाकयोः ॥ १५८ ।।
कृतप्रतिष्ठाहोमेषु स्नायात्तु विधिवद् द्विजः।
अनेन विधिना स्नानं सर्वपापप्रणाशनम् ॥ १५९ ।।
धन्यं यशस्यमायुष्यमारोग्यं पुष्टिवर्धनम् ॥ १५९३ ॥
इति शौनकीये स्नानविभिः प्रथमः खण्डः ।।
अथ द्वितीयः खण्डः।
शौनकोऽहं प्रवक्ष्यामि प्रतिसरं प्रोक्षणैः सह ।
विवाहादिशुभे कार्ये रात्रयां वाप्यह्नि वा तथा ॥१॥
२ शौनकीये साङ्कुरां पालिकायुक्तां स्थाण्डिलेऽच्छे निधाय च । कुशकुम्भोदकैर्मन्त्रैः प्रोक्ष्य विप्रैः सुखासनैः॥ २ ॥ भूर्भुवः स्वः सावित्रया ऋग्भिवेदादिभिस्तथा । आपोहिष्ठादिभिरब्लिङ्गैः शुद्धवत्याघमर्षणैः ॥ ३ ॥ शंवत्या स्वस्तिमत्या च पावमान्यैस्तथैव च । रक्षोहणं च रात्रिं च कृणुष्वेति तथैव च ॥ ४ ॥ तरत्समन्ति पुरुषं विष्णुसूक्तं तथैव च । अतो देवा अवन्त्विति परोमात्रादिरेव च ॥५॥ श्रीसूक्तं शिवसङ्कल्पमायुःसूक्तं तथैव च । मुञ्चामि त्वेति सूक्तं च स्योना पृथिवी भवेति च ॥ ६ ॥ द्रविणोदाः सवितेति नवो विद्युन्नयेति च । उलूकया पिशङ्गेति ऋम्भिरेताभिरित्यूचा ॥ ७ ॥ जातवेदस इत्यूचा सूत्रमादाय लेपयेत् । गन्धेन दक्षिणे हस्ते बद्ध्वा पुरुषस्य तन्तुना ॥८॥ विश्वेत्तातेत्यूचैकया स्त्रीणां सव्ये करे तथा । श्रिये जातेत्यृचैकयाऽध्वर्युश्च समाहितः॥ ९॥ शतं जीवेति तद्वाभ्यां च बृहत्सामऋचैकया । ये यज्ञेनत्यूचाष्टाभिस्त्रयम्बकेत्यृचैकया ॥ १० ॥ भस्मना वाक्षतैर्वापि रक्षां कृत्वा समापयेत् । दत्त्वाचार्याय होमादीन् कृत्वाजं पूज्य शक्तितः॥ ११ ॥ हरिमेव स्मरेन्नित्यं कर्मपूर्वीपरेषु च । विद्वान् सर्वप्रयत्नेन कुर्यात् प्रतिसरं शुभम् ॥ १२ ॥ इति शौनकीये प्रतिसरबन्धो द्वितीयः खण्डः ।।
अथ तृतीयः खण्डः। अथ पुण्याहवाचनविधि वक्ष्यामि शौनकः । आद्यन्तयोः प्रयोक्तव्यः सर्वेषां कर्मणां द्विजैः ॥१॥ अर्चिता ब्राह्मणाः सम्यग् गन्धमाल्यैः सदक्षिणैः । तिष्ठेयुः प्राङ्मुखा युग्मा वक्तारो दर्भपाणयः ॥ २ ॥ तिष्ठेद् वाचयिता दक्षो दक्षिणः स्यादुदङ्मुखः। बिभ्रत् कुम्भमपां पूर्ण पिहिताननर्चितम् ॥ ३ ॥ स्पृशन् कुम्भं जपित्वा तु श्रद्धयानिःसमिध्यते । अथ एवयितुं (?) बाहुं दक्षिणं तु समाश्रितः ॥ ४ ॥ तिष्ठेदुदङ्मुखः सर्वः संस्कार्यस्तत्र तत्र तु । नम इत्यादिकं मन्त्रं पूर्व वाचयिता वदेत् ॥ ५ ॥ इतरे समाहितेत्यादिमन्त्रं ब्रूयुः समाहिताः । प्रसीदन्तु भवन्त इत्यथ वाचयिता वदेत् ॥ ६॥ प्रसन्नाः स्म इति ब्रूयुरर्चिता ब्राह्मणाः पुनः । शान्तिपुष्टयुद्धयविनादि शिवकर्म तथैव च ॥ ७ ॥ अस्तुशब्दान्तमुच्येत वाचयित्वा तथा परैः । आशीर्वादान्यथान्यानि विविधानि च याचयेत् ॥ ८ ॥ अतोदेवाअवन्त्विति वैष्णवं सूक्तमुत्तमम् । द्रविणोदाः सवितेति नवो विद्युन्नयेति च ॥ ९ ॥ आवदस्त्वंशकुनेत्युक्त्वा पुण्याहमाचरेत् । वाचयित्वा यथाशक्ति सर्माणि द्विजसत्तमैः ॥ १० ॥ प्रस्तुत्या देवतायातु होम कुर्याद् विचक्षणः । तस्य नाम श्रुत्वाथ प्रीयतामिति चोच्यताम् ॥ ११ D.
शौनकीये
पुण्याहं स्वस्ति वर्धन्तु भवत्पूर्व ब्रुवन्त्विति ।
प्रणवाद्यं त्रिराचष्टे भवदादि विना परे॥ १२ ॥
पुण्याहादिस्त्रिरभ्यासमादौ मध्येऽवसानके ।
आहूयेरन्निमे सर्वे यथाङ्गमपरस्परम् ॥ १३ ॥
प्रत्युक्तिविषये भेदस्त्रिः स्म ऋध्यतामिति ।
वक्तारो ब्रूयुरित्युच्चैरिति विस्पष्टमेव च ॥ १४ ॥
पुण्याहं शब्दमुक्त्वा तु स्वस्तिन इत्यूचा वदेत् ।
खस्तिशब्दं तथोक्त्वा तु ऋध्याम इति वाचयेत् ॥१५॥
आपोहिष्ठादितिसृभिः शन्नोदेवीत्यूचैकया ।
ईशानांवार्येति पञ्च शुद्धवत्याघमर्षणम् ॥ १६ ॥
पवस्वसोममित्यादिऋग्भिः प्रोक्ष्य समाहितः।
पुण्याहं + + + + + + + + + + मारभेत् ॥ १७ ॥
इति शौनकीये पुण्याहविधिस्तृतीयः खण्डः ।।
अथ चतुर्थः खण्डः।
अथो गृहीतनष्टस्य पुनराधानमुच्यते ।
उपोष्य दम्पती दत्त्वा होमद्रव्यं द्विजातये ॥ १॥
अन्यत् किञ्चिद् यथाशक्ति ब्राह्मणायाहिताग्नये ।
आदध्यादपराह्नेऽग्निमाधानद्रव्यसञ्चतो (2) ॥ २ ॥
सैकतं पद्मपत्रं च चरुपात्रं ++++।
खरं चोषो वच्छि चाप शर्करा (2)॥ ३ ॥
उदुम्बराशमीरौहितकाश्वत्थविकङ्कताः ।
शमीमन्नकुशारण्या ++++व्यसंज्ञिताः (?)॥ ४ ॥
प्रथमपादे चतुर्थः खण्डः।
अग्न्यायतन एतानि पुनराधानकर्मणि ।
निधायैषामलाभे तु यथालाभं निधीयते ॥ ५ ॥
अथोपलिख्यैतान् + + सिकतादीन्निधाय च ।
+ + + + ++ ++ सव्याहृतिकयाहिते ॥६॥
तत्र कृत्वाज्यभागान्तमन्वाधानादिकं ततः ।
चतुर्ग्रहीतं जुहुयादाज्यमा, यथाक्रमम् ॥ ७ ॥
जुह्वामेव स्रवेणैव स्याल आदाय गृह्यते (१)।
चतुर्ग्रहीतमित्याज्यं चतुष्कृत्व उदाहृतम् ॥८॥
स्वमग्नेसप्रथाअसि योआग्निदेववीतये ।
तन्तुंतन्वन् त्वन्नो अग्नेसत्वन्नो अग्ने सप्तते ॥ ९ ॥
अग्ने मनोज्योतिः + + + + ++ ++ |
पुनस्त्वेत्यूचा जुह्वावष्टाभिर्जुहुयात् ततः ॥ १० ॥
सुवेण जुहुयादाज्यमेभ्योऽग्निभ्यो यथाक्रमम् ।
अग्नयेपवमानाय अग्नयेपावकाय च ॥ ११ ॥
अग्नयेशुचये चापि अग्नयेपथिकृते ।
अग्नयेतन्तुमते इत्येतैः पञ्चभिराहुतीः ॥ १२ ॥
सौविष्टकृतभारभ्य होमशेष समापयेत् ।
अनड्वान् दक्षिणा देयो ब्राह्मणायाहिताग्नये ॥ १३ ॥
ऊर्ध्व दशाहान्नष्टानिर्भवेत्त्वेवं गृही यदि ।
अनेन विधिनाध्यादग्न्याधेयं पुनर्दिजः ॥ १४ ॥
नास्तिक्येन विसृष्टाग्निश्चीर्णचान्द्रायणव्रतः ।
अनेनैवाग्निमादध्याच्चिरोत्सृष्टस्तथैव च ॥ १५ ॥
Hereynaveenetnames
-r
२००
शौनकीय
द्वादशाहं विनष्टानिरतिकामेद् गृही यदि ।
प्राजापत्यं चरित्वैवं पुनरग्निपरिग्रहः ॥ १६ ॥
बुद्धिपूर्वे विधिरयमबुद्ध्या चार्धमेव तु ।
अनश्नन् संहितामेतामधीत्यैवादधीत वा ॥ १७ ॥
अर्वाग् दशाहान्नष्टाग्नेः पुनराधानमुच्यते ।
उपलिप्य स्थाण्डिलेऽथ लेखास्तस्मिन् षडुल्लिखेत् ॥१८॥
द्रव्याणि सिकतादीनि यथालाभं निधाय च ।
पूर्णपात्रं विनेध्मं च बहिश्चापि विना चरुम् ॥ १९ ॥
आज्यसंस्कारपर्यन्तं कृत्वाऽमिस्थापनादिकम् ।
आज्यं चतुर्ग्रहीतं च मनोज्योतिस्त्यूचाहुतिम् ॥ २० ॥
ततः स्विष्टकृदारभ्य होमशेष समाप्य च।
दक्षिणां च यथाशक्ति दद्याद् वेदार्थसविदे ॥ २१ ॥
इति शौनकीये पुनराधानविधिश्चतुर्थः खण्डः ॥
अथ पञ्चमः खण्डः।
अथातोऽपां प्रतिष्ठायाः कल्पं वक्ष्यामि शौनकः
।
नवे तटाके खाते च वापीकूपसरित्सु च ॥ १ ॥
कुर्याद्वि ?युबि)जातयो होमं शुद्धये तत्कलाप्तये ।
अयने चोत्तरे वापि पूर्वपक्षे शुभेऽहनि ॥ २ ॥
कल्याणवारे होतव्यमात्मनो भोगमिच्छता ।
मण्डूकमत्स्यकूर्माणामन्येषां जलजन्मनाम् ॥ ३ ॥
हिरण्मयानि रूपाणि रजतानि च कारयेत् ।
वासो रत्नं घट सक्तूलाजान दधि पयो घृतम् ॥ ४ ॥
प्रथमपादे पञ्चमः खण्डः ।
२१
द्रव्याणीभानि पूर्वेचुरुपकल्प्य समाहितः ।
उपोष्य वस्त्राभरणैर्गन्धमाल्यैरलकृतः ॥ ५॥
तटाकपश्चिमे तीरे होमशालां स्खलङ्कृताम् ।
कृत्वा तन्मध्यमे होमं कुर्यात् स्वजनसंवृतः ॥ ६ ॥
उल्लेखनादि यत्तन्त्रं प्रणीतास्थापनोत्तरम् ।
अविस्मरेण
तत्
सर्व कृत्वा पूर्वोत्तरे कुशे ॥ ७ ॥
सलिलेन च सम्पूर्ण वाससा वेष्टितं घटम् ।
अर्चितं गन्धपुष्पाभ्यां स्थापयेत् पिहिताननम् ॥ ८ ॥
मण्डूकादीनि सत्त्वानि अक्षतैः प्रक्षिपेद् घटे ।
ततश्चरुं श्रपयित्वा वारुणं पायसं पुनः ॥ ९ ॥
पयोदधिभ्यामालोड्य सक्तूल्लाजान् सर्पिषः ।
यत् पूर्वमाज्यभागान्तं यज्ञतन्त्रं प्रकल्पितम् ॥ १० ॥
आज्यसंस्कारमारभ्य कुर्यात् सर्वमविस्मरन् ।
अब्दैवत्याभिरेताभिरिभराज्याहुतीरथ ॥ ११ ।।
आपोहिष्ठामय इति नवभिर्जुहुयाद् घृतम् ।
आपोअस्मान्मातरःशुन्धयन्त्यिति पञ्चभिः ॥ १२ ॥
समुद्रादूमिरिति च सूक्तेन जुहुयाद् घृतम् ।
अथ सत्तूंच जुहुयादवदान सम्पदा । १३ ॥
प्रसुवआप इत्या सून स्वृतः लाज ।
अम्बयोगन्ति रतन लाजहोनी निधीयते ॥ १४ ॥
प्रतिदिक् प्रत्यूकी हुत्ला मामय प्रदक्षिणम् ।
नहितक्षरित्या शनि पृताः ॥ १५ ॥
२२ शौनकीये प्रसम्राजेबृहदिति सूक्तेन जुहुयाच्चरम् । अथ स्विष्टकृदारभ्य होमशेष समापयेत् ॥ १६ ॥ प्रदक्षिणं तटाकादीन् यजमानः सबान्धवः । अच्छिन्नोदकधाराभिधंग्भिश्व परितो ब्रजेत् ॥ १७ ॥ तटाकमध्येऽपां कुम्भं निधाय स्वस्ति वाचयेत् । ब्राह्मणान् भोजयेत् पश्चादस्य तीरे ह्यतन्द्रितः ॥ १८ ॥ दक्षिणां तु यथाशक्ति ब्राह्मणेभ्यः प्रदाय च । स्वर्ण रजतरूप्याणि विप्राश्याय प्रदाय च ॥ १९ ॥ इमां धि(यध्य ? यं)शिक्षमाणस्याचाम प्रणिमियेद् [बुधः (१)। एवं तटाकहोमं यः कुर्याच्चेदुत्तमां गतिम् ॥ २० ॥ प्राप्नोति वारुणं लोकमिष्टान् कामान्न संशयः । एवं कृतं चेत् खात्वा तु तटाकफलमश्नुते ॥ २१ ॥ यद्येवं न कृतं चैतत् क्षीणायुनर्नात्र संशयः । तस्मात् खात्वा तटाकादीन् होमं कुर्यादतन्त्रितः।। एवं तटाकसंयोगे भने तीरस्य भेदने । अनेन विधिना कार्यमात्मनो भूतिमिच्छता ॥ २३ ॥ एवं वाप्याश्च कूपस्य सरितः खनितेस्तथा । इदं धन्यं यशस्यं च शान्तिबुष्टिकरं तथा ॥ २४ ॥ आयुष्यं पुत्रदं धर्य महापातकनाशनम् ।। २४३ ॥ इति शौनकीये अपां प्रतिष्ठाविधिः पञ्चमः खण्डः ॥
२३
अथ षष्ठः खण्डः।
अथ प्रतिष्ठां वक्ष्यामि शौनको ग्रामखेटयोः ।
पुरीनगरयोश्चैव पत्तनस्य द्विजन्मनाम् ॥ १ ॥
सभामण्डपकूटानां प्रपाचत्वरयोस्तथा ।
विप्राणामालयो ग्रामः क्षत्रियाणां पुरी भवेत् ।। २ ॥
अभिषिक्तेन संयुक्त पत्तनं वणिजालयम् ।
ब्राह्मणक्षत्रियविशामालयं खेटसंज्ञकम् ॥ ३ ॥
शूद्रजातेः पृथङ्नास्तीत्यालयं ब्राह्मणादिभिः ।
धर्मार्थमालयं यत्र सा समेति प्रकीर्तिता ॥ ४ ॥
आभिषिक्तेन संयुक्तमालयं भण्डपं भवेत् ।
कूटप्रपाचत्वराश्च द्विजातेधर्मकारणात् ॥ ५ ॥
श्वेते तु मधुरास्वादे भूतले सिकतोत्करे ।
ग्रामादि कारयेद्राजा विप्राणामालयार्थिनाम् ।। ६ ।।
लोहिते मधुरास्वादे भूतले सिकतोत्करे ।
पुरीः प्रकल्पयेद्राजा क्षत्रियाणां यथाविधि ॥ ७ ॥
पीते तु मधुरास्वादे भूभागे सिकतोत्करे ।
वैश्यानामालयं कुर्याद्राजा पत्तनसंज्ञितम् ॥ ८ ॥
तिल्ववापामाश्मं (?) शाखानि क्षीरकण्टकपादपान् ।
उन्मूल्योद्वासयेदस्माद् भूभागाद् दूरतो बहिः ॥ ९ ॥
अनूषरे समे देशे प्रागुदप्रवणे तथा ।
ग्रामादीन् कारयेद्राजा बह्वोषधिवनस्पतौ ॥ १० ॥
सहस्रसीतं तत् कृत्वा लोष्टास्थिशकलानि च ।
उद्वास्य गोभिरेतस्मिन्नधिवासं भवेद् भुवि ॥ ११ ॥
शौनकीये
पञ्चगव्येन भूभागं प्रोक्षयेत् त्रिः प्रदक्षिणम् ।
शम्योदुम्बरशाखाभ्यां शंवतीभिः परिमृजन ॥ १२ ॥
ऋम्भिरब्देवताभिश्चाविच्छिन्नोदकधारया ।
पुण्याहं वाचयेत् तस्मिन् ब्राह्मणैवेदपारगैः॥ १३ ॥
चतुरश्रं यथा दिक्षु समं वायतमेव वा।
ग्रामादीन् नृपतिस्तस्मिन् कारयेत् तक्षविद्यया ॥ १४ ॥
मानवन्ति गृहादीनि विप्रादीनां प्रकल्पयेत् ।
ग्रामादीनां मध्य एव गृहं विष्णोविशेषतः ॥ १५ ॥
तस्मिन्नेव सभाकूटं प्रपादीनि प्रकल्पयेत् ।
श्रीभूसरस्वतीनां च गृहं गणपतेरपि ॥ १६ ।।
प्राच्यामिन्द्रगृहं कार्य दक्षिणस्यां यमालयम् ।
प्रतीच्या वारुणं वेश्म उदीच्यां सौम्यमालयम् ॥ १७ ॥
प्रारदक्षिणस्यामाग्नेयं निर्ऋतेर्दक्षिणपश्चिमे ।
वायोः प्रत्यगुदग्देशे प्रागुदीच्यां शिवालयम् ॥ १८ ॥
सर्वासां देवपत्नीनां तैः सहैवालयं भवेत् ।
आर्यामातृपिशाचानां बहिर्गामात् प्रकल्पयेत् ॥ १९ ॥
परितः पालनार्थाय प्राकारं कारयेन्नृपः ।
द्वारदेशेऽथ दुर्गाया आलयं सम्प्रकल्पयेत् ॥ २० ॥
एवं गृहाणि सर्वेषां कारयित्वा यथाविधि ।
अलङ्कृतेऽथ सर्वत्र प्रतिष्ठाहोममारभेत् ॥ २१ ॥
लेपनान्तरणस्तारैबितानध्वजतोरणैः
मुक्तारामैः पुप्पदामैर्दिछ सर्वास्त्रलङ्कृते ॥ २२ ॥
२१ प्रथमपादे षष्ठः खण्डः । शरावपालिकाकुम्भैः साङ्कुरैर्दिवलङ्कृतैः । फलपुष्पैः किसलयैः स्तबकैः समलङ्कृतैः ॥ २३ ॥ पूर्णकुम्भैधूपदीपैदिक्षु दिसूपशोभिते । वादित्राद्यैर्नृत्तगीतैर्वेणुशक्षैः सुघोषिते ॥ २४ ॥ ब्राह्मणैर्ब्रह्मघोषेण घोषिते वेदपारगैः । ग्रामादीनन्ततो मध्ये पुण्याहं वाचयेत् पुनः ॥ २५ ॥ या प्रवतोनिवत इत्यनयर्चा नदीं व्रजेत् । प्रसुवआप इत्य॒ग्भिः कुम्भानां नवभिनवैः ।। २६ ।। नदीतोयेन सम्पूर्य हारयेत् तद् द्विजोत्तमैः । एकैकस्य चतुष्कषु सपूर्वासु शिलास्वथ ॥ २७ ॥ बीहिराशिषु कुम्भानां स्थापनं क्रमशो भवेत् । एकं मध्ये प्रतिष्ठाप्य प्रागारभ्य प्रदक्षिणम् ॥ २८ ॥ अग्न्यादिष्वितरान् दिक्षु गन्धमाल्यैरलङ्कृतान् । कुशान् ब्रीहीन यवांश्चैव हिरण्यं प्रक्षिपेदथ ॥ २९ ॥ पिधाय वृष्टिः (?) सम्पूर्णैः शरावैः सकुशैईद्वैः । कुम्भान् वस्त्रैश्च सञ्छाद्य अहतैः सकुशैः पृथक्॥३०॥ एषां पुरस्तात्कर्तव्यो वास्तुहोमो यथाविधि । उ(पलेप ? ल्लेख)नादि यत्तन्त्रमाज्यभागान्तमुच्यते ॥ अविस्मरेण तत्सर्व कृत्वा वास्तोष्पतेरिति । ऋग्भिश्च तिमृभिः स्तुत्वा हविर्तुत्वा यथाविधि ॥ ३२ । ततः स्विष्टकृदारभ्य होमशेष समापयेत् । अप्कुम्भा(न् । त्) पश्चिमे देशे प्रतिष्ठाहोममारभेत् ॥
२६
शौनकीये
उ(पलेप ?ल्लेख)नादिकं कृत्वा आज्यभागान्तकं ततः ।
जुहुयाइविरेताभिऋग्भिर्विप्रः समाहितः ॥ ३४ ॥
गणानांत्वागणपति सूक्तमेकोनविंशतिः ।
उत्तिष्ठब्रह्मणस्पतेसूक्तमष्टर्चकं तथा ॥ ३५ ॥
सोमानस्वरण पश्च सेमामविष्टि षोडश ।
इन्धानो अग्निमि ++ सूक्ताभ्यां ब्रह्मणस्पतिम् ॥
स्योनापृथिवीत्यनया पृथिवीं जुहुयाइविः ।
इयमददादित्यादिसूक्तेनैव सरस्वतीम् ॥ ३७ ।।
शालीनां तण्डुलैः पक्कं पायसं जुहुयाद्धविः ।
हिरण्यवर्णामित्यादिसूक्तेनापि श्रियं पुनः ॥ ३८ ॥
अब्देवताभिराज्येन होमं कुर्यादतन्द्रितः ।
प्रसुवआप इति नवापोहिष्ठामयो नव ॥ ३९ ॥
आपोअस्मान्मातरः पञ्चो सम्मह्यमष्टर्चम् ।
समुद्रादूमिरिति च सूक्तमेकादशर्चकम् ॥ ४० ॥
अथाष्टचं निवर्तध्वमेता अब्देवता ऋचः ।
ततः स्विष्टकृदारभ्य होमशेषं समापयेत् ॥४१॥
ग्रामादीनथ तत्कर्तन् द्विजाय्यैः
स्वस्तिवाचयेत्।
ब्राह्मणान् भोजयेत् तस्मिन् यथाशक्ति विपश्चितः।
स्वस्त्यात्रेयं जपेत् पश्चाद् यजमानः समाहितः ।
दक्षिणां च यथाशक्ति दद्यादत्विग्भ्य एव च ॥ १३ ॥
धान्यं हिरण्यं वासश्च पशुभूम्यादिकानपि ।
शून्ये दग्धे च नष्टे च जीर्णे चिरविवासिते ॥ १४ ॥
प्रथमपादे सप्तमः खण्डः।
ग्रामादीन् पुनरुत्पाद्य अनेन प्रोक्षयेद् द्विजः।
आत्वेति ध्रुवसूक्तेन ग्रामादीननुमन्त्रयेत् ।। ४५ ॥
अब्देवताभिरेताभिः प्रोक्षयेत् त्रिः प्रदक्षिणम् ।
नवकुम्भस्थतोयेन सर्वतः परिषेचयेत् ॥ ४६ ॥
अनेनान्येन वा मोहादप्रोक्ष्य प्रविशेद् यदि ।
आयुः प्रज्ञां विभूतिं च हरन्ति ब्रह्मराक्षसाः ॥ ४७ ॥
यक्षरक्षःपिशाचाश्च वसन्त्यत्र न संशयः ।
तस्माद् यत्नेन होतव्यमात्मनो भूतिमिच्छता ॥ ४८ ॥
एवं होमे कृते कर्ता तत्फलं सुखमश्नुते ।
पापाद् रोगाच्च सर्वस्मान्मुच्यते नात्र संशयः ॥ ४९ ।।
तस्माद् यत्नेन होतव्यमात्मनो भूतिमिच्छता।
अनेन कृत्वा ग्रामादीन् द्विजान् प्रावेशयेन्नृपः ॥ ५० ॥
आयुः कीर्ति विभूतिं च श्रियं चानुत्तमां लभेत् ।
एतत् स्वस्त्ययनं होमं पवित्रं पुष्टिकारकम् ॥ ५१ ॥
पुत्रीयं च यशस्यं च स्वयं धन्यममित्रहम् ।
सर्वदारिद्यशमकं पुण्यलोकप्रयापनम् ॥ ५२ ॥
अन्यांश्च लोकान् सम्प्राप्य ब्रह्मलोकं स गच्छति ॥५२३ ।।
इति शौनकीये ग्रामप्रतिष्ठाविधिः षष्ठः खण्डः ।।
अथ सप्तमः खण्डः।
अनि परि(स्त ? चीरेद् देवं सायंप्रातही स्वयम् ।
पत्नी कुमारी पुत्रो वा शिष्यत्विज्ञातिबान्धवाः ॥१॥
२८ शौनकीये स्नात्वाचम्य विहृत्याग्निं तत्पश्चादुपविश्य च । परिसमुह्य पर्युक्ष्य परिस्तीर्य कुशैः क्रमात् ॥ २॥ पुनः पर्युक्ष्य चाङ्गारानुदगग्नेरपोह्य च । होमानां द्वादशानां तु पक्वमेतेष्वधिश्रयेत् ॥ ३ ॥ पयो यवागूः सपौषि ओदनं दधि तण्डुलाः । सोमस्तैलमपो व्रीहिर्वादशैते तिला यवाः ॥ ४ ॥ पयआदीनि चत्वारि विदुः पक्वानि याज्ञिकाः । दध्यादीनामपक्वानां नाधिश्रयणमिष्यते ॥ ५ ॥ उल्मुकेनावज्वलयेदपक्वं पक्वमेव वा । अधिश्रिते सुवेणापः परिषिच्यान्नवापि च ॥ ६ ॥ पुनस्त्रिर्बलता तेन परिहृत्य प्रहृत्य तत् । उदक्कृषन्निवोदास्य अङ्गारानतिमृज्य च ॥ ७ ॥ अग्नेः पश्चात् तृणेष्वेव निधाय समिधा सह । तृणस्थानामपक्वानामवज्चालपरीहृतिः ॥ ८ ॥ जान्वाच्य (?) दक्षिणं समिधमाधायापः स्पृशेत् पुनः। व्यङ्गुलमात्रे समिधः प्रदीप्ते जुहुयाद्धविः ॥ ९ ॥ सूर्याय स्वाहेत्याग्नेयी सायं पूर्वाहुतिस्ततः । प्रागुदगुत्तरतो वा प्राजापत्यां च भूयसीम् ।। १० ॥ असंसृष्टां प्रजापतिं ध्यायन् स्वाहेतिहोण्य च । सूर्याय स्वाहेति प्रातः प्राजापत्यां च पूर्ववत् ॥ ११ ॥ पयो दधि यवागूश्च तैलं सर्पिः सुवेण वा । स्रुचा तप्तेन जुहुयादेतेभ्योऽन्यानि पाणिना ॥ १२ ॥ AAR -re-
प्रथमपादेऽष्टमः खण्डः ।
२९
उभयत्रैवमेते हे हूयेते देवते निजे ।
परिसमूह्य पर्युक्ष्य उपतिष्ठेद्धविर्भुजम् ॥ १३ ॥
आग्नेयसूक्तैः सौर्यैश्च प्राजापत्यैश्च नित्यशः ।
अग्निं प्रजापतिं सायं प्रातः सूर्य प्रजापतिम् ॥ १४ ॥
यावज्जीवं परिचरेदेवमौपासनं गृही ॥ १४३ ॥
इति शौनकीये भमिपरिचरणविधिः सप्तमः खण्डः ॥
अथाष्टमः खण्डः।
शौनकोऽहं प्रवक्ष्यामि पुत्रसङ्ग्रहमुत्तमम् ।
वन्ध्यो वा मृतपुत्रो वा पुत्रार्थ समुपोष्य च ॥१॥
वाससी कुण्डले छत्रमुष्णर्षि चाङ्गुलीयको ।
आचार्य धर्मसंयुक्तं वैष्णवं वेदपारगम् !! २॥
बर्हिः कुशमयं चेमं पालाशं चाज्यमेव च ।
एतानाहत्य बन्धूंश्च ज्ञातीनाहूय यत्नतः ॥ ३ ॥
बन्धूनन्नेन सम्भोज्य ब्राह्मणांश्च विशेषतः।
अग्न्याधानादि यत् तन्त्रं कृत्वाज्योत्पवनान्तकम् ॥ ४ ॥
दातुः समक्षं गत्वा तु पुत्रं देहीति याचते ।
समक्षस्थो ददेत् (?) तस्मै येयज्ञेनेति पञ्चभिः ॥ ५ ॥
देवस्यत्वेति मन्त्रेण हस्ताभ्यां प्रतिगृह्य च।
अङ्गादशैत्यूचं जप्त्वा चाघ्रातः शिशुमूर्धनि ॥ ६ ॥
वस्त्रादिभिरलङ्कृत्य च्छत्रच्छायावहं सुतम् ।
नृत्तगीतैश्च वाद्यैश्च स्वस्तिशब्दैश्च संयुतम् ॥ ७ ॥
३० शौनकीये गृहमेत्येध्ममाधीय चरुं हुत्वा विधानतः । यस्त्वाहदेति द्वाभ्यां च तुभ्यमग्र ऋचैकया ॥ ८ ॥ सोमोदददित्येताभिः प्रत्यूचं पञ्चभिस्तथा । स्विष्टकृदादिशेषं च कृत्वा होमं समापयेत् ॥ ९ ॥ ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसङ्ग्रहः । तदभावे सगोत्रे वा अन्यत्र तु न कारयेत् ॥ १० ॥ क्षत्रियाणां स्वजातौ वा-गुरुगोत्रसमेऽपि वा । वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु ॥ ११ ॥ सर्वेषां चातुर्वानां ज्ञातिष्वेव च नान्यतः। दौहित्रं भागिनेयं वा शूद्राणां चापदो यदि ॥ १२ ॥ नैकपुत्रेण कर्तव्यं पुत्रदानं कदाचन । बहुपुत्रेण कर्तव्यं पुत्रदानं प्रयत्नतः ॥ १३ ॥ दक्षिणां गुरवे दत्त्वा यथाशक्ति द्विजोत्तमः । नृपो राष्ट्राधमेवापि वैश्यो रत्नशतत्रयम् ॥ १४ ॥ शूद्रः सर्वस्वमेवापि अशक्तश्चेद् यथाबलम् ॥ १४३ ॥ इति शौनकीये पुत्रसङ्ग्रहणविघिरष्टमः खण्डः ।। अथ नवमः खण्डः । अथ प्रयाणाधापत्सु समारोपणमुच्यते । अरण्यात्मसमित्स्वेव गृह्यस्याग्नेर्यथाविधि ॥ १ ॥ अग्नौ प्रज्वलिते गधे प्रतपेदरणीयम् । अश्वत्थसमिधं वापि अयंतेयोनिरित्यूचा ॥२॥ १. 'दा' ग. पाठः.
प्रथमपादे नवमः खण्डः । ३१ यातेअग्नेयज्ञियति पाणी वा युगपत् तपेत् । आपद्येवं समारोप्य ततः प्रत्यवरोहयेत् ॥ ३ ॥ आत्मन्यरण्योरूिढमरणीभ्यां मथेत् पुनः । प्रत्यवरोहेत्यनया आत्मारूढं तु तं स्पृशन् ॥ ४ ॥ आत्मारूढाग्निमादध्याल्लौकिकेऽनावृचानया । समिधं वारण्यभावे च प्रत्यवरोह इत्यूचा ॥ ५ ॥ समिदारूढवाह्निस्तु लौकिकेऽमावृचानया। समिधं तामथादध्यादग्न्यारूढं यथाविधि ॥ ३ ॥ अरण्यात्मसमित्स्वग्निरारूढः सम्प्रणश्यति । ऊवं द्वादशरात्रात् स पुनराधानमर्हति ॥ ७ ॥ अर्वाग्हादशरात्राच्च चण्डालपतितादिभिः । स्पृष्टो नष्टोऽग्निरारूढोऽप्यरण्यात्मसमित्सु सः॥ ८ ॥ अरण्यात्मसमित्स्वग्निसमारोहविधिः क्रमात् । एषां त्रयाणां पक्षाणां पूर्वः पूर्वः प्रशस्यते ॥ ९ ॥ अथाग्न्योर्गुह्ययोर्योगं सपत्नीभेदजातयोः । सहाधिकारात् पत्नीभिरहं वक्ष्यामि शौनकः ॥ १० ॥ पृथक् स्थण्डिलयोरग्नी समाधाय यथाविधि । तन्त्रं कृत्वाज्यभागान्तमन्वाधानादिकं ततः ॥ ११॥ पूर्वपत्न्यग्निके हुत्वा तयान्वारब्ध आहुतीः । अग्निमालेपुरोहितं सूक्तेन नवकेन तु ॥ १२ ॥ १. श्वा' ग. पाठः,
३२
शौनकीये
समिध्येनं समारोप्य अयंतेयोनिरित्यूचा ।
प्रत्यवरोहेत्यनया कनिष्ठाग्नौ निधाय ताम् ॥ १३ ॥
आज्यभागान्तमत्रापि कृत्वारभ्य तदादितः।
समन्वारभ्य एताभ्यां पत्नीभ्यां जुहुयाघृतम् ॥ १४ ॥
चतुर्ग्रहीतमेताभिधंग्भिः षभिर्यथाक्रमम् ।
अमावग्निश्वरतीत्यग्निनाग्निःसमिध्यते ॥ १५ ॥
अस्तीदमिति तिसृभिः पाहिनोअग्मएकया ।
अथ स्विष्टकृदारभ्य होमशेष समापयेत् ॥ १६ ॥
मिथुनं दक्षिणा देया श्रोत्रियायाहितामये ।
पन्योरेका यदि मृता दग्ध्वानेनैव तां पुनः ॥ १७ ॥
आदधीतान्यया सार्धमाधानविधिना गृही ॥ १७ ॥
इति शौनकीये अग्निसमारोपणविधिर्नवमः खण्डः ।।
अथ दशमः खण्डः।
शताभिषेकं वक्ष्यामि शौनकोऽहं द्विजन्मनाम् ।
अथोत्तरायणे पुण्ये पूर्वपक्षे शुभे दिने ॥१॥
सिद्धयोगे सुलग्ने च गुरुशुक्रप्रकाशिते।
शताब्दे वेन्दुसाहस्रदर्शने वा समाहितः ॥ २ ॥
पुण्याहं वाचयित्वग्निमुखं पूर्ववदाचरेत् ।
आज्यस्योत्पवनं कृत्वा अग्नेः पूर्वोत्तरे (?) दिशि ॥ ३ ॥
व्रीहियवतिलैर्वाऽपि कारयेत् स्थाण्डिलं शुभम् ।
हैमं वा राजतं वापि तानं वा मृदमेव वा ॥ ४॥
प्रथमपादे दशमः खण्डः। कलशास्तन्तुसंयुक्तान् ब्रह्मस्थानादिदेशतः । स्थाप्य गन्धादिभिः पूज्य ध्यात्वा विष्णुं समाहितः॥५॥ परोमात्रेत्यृचैकया कलशास्ये विधानतः । अन्तर्निधाय शुद्ध्यर्थं पवित्रं ग्रन्थिसंयुतम् ॥ ६ ॥ शुद्धगन्धोदकैः पूर्व प्रधानकलशादितः । वस्त्रेणाच्छाद्य तान् सम्यग्गन्धपुष्पैः सुपूज्य च ॥७॥ आवाह्य मध्ये ब्रह्माणमिन्द्रमैन्द्रे तथैव च । आग्नेयेऽप्यग्निमावाह्य यमं याम्ये तथैव च॥ ८ ॥ नैर्ऋते नितिं चैव वारुणे वरुणं तथा । वायव्ये वायुमावाह्य सौम्ये सोमं तथैव च ॥ ९॥ शाङ्करे शङ्करं चैव तत्तद्देव्या सह क्रमात् । एतेषु कलशेष्वृम्भिर्नवभिः पुष्पतण्डुलैः ॥ १० ॥ नमो ब्रह्मण इत्येतदिन्द्रविश्वाअवीवृधन् । अग्निद्र्धादिव इति प्रोप्रिोहियथेति च ॥ ११ ।। शतंतेराजन्नित्येतत् तत्वायामीति वै तथा । वायवायाहीत्येतदाप्यायस्वसमेति च ॥ १२ ।। प्रवःपान्तरघुमिति नव ऋग्भिर्यथाक्रमम् । अभ्यर्च्य होमयेदग्नावेतैश्चान्यैश्च मन्त्रतः ॥ १३ ॥ द्रविणोदाःसवितेति नवोविद्युन्नयेति च । मुञ्चामित्वेति षड्भिश्चायुष्यं वर्चस्येति च ॥ १४ ॥ शतंजीवति द्वाभ्यां च पिशङ्गोलूकयेति च। समिदाज्यचरूण्येव प्रत्येकं समसङ्ख्यया । १५ ।। H ३५ शौनकीये स्विष्टकृदादिशेषं च हुत्वा होमं समाप्य च । हरि प्रणम्य कलशैर्देवस्य त्वाभिषेचयेत् ॥ १६ ॥ स्नात्वाहतानि वासांसि परिधाय सुभूषितः । पवित्रपाणिराचान्तो नवयज्ञोपवीतवान् ॥ १७ ॥ आकृष्णेनेत्यृचादित्यं विष्णुं दृष्ट्वा कृताञ्जलिः । उदुत्यमित्युपस्थाय स्तुत्वा शेषैः समाहितः ॥ १८ ॥ सौवर्णे राजते ताने कांस्ये वाप्याज्यपूरिते । हिरण्यं नि(धा)य तत्पात्रे वस्त्रेणाच्छाद्य तं पुनः॥१९॥ युर्ववस्त्राणीत्यूचैकया गन्धपुष्पैः प्रपूज्य च । निमील्योन्मीलनं कृत्वा दत्त्वैवैतहचा अपि ॥ २० ॥ हिरण्यरूपः सहीति वैष्णवायाहिताग्नये । शिबिकायामथारुह्य कृत्वा ग्रामप्रदक्षिणम् ॥ २१ ॥ स्वस्तिदुन्दुभिशब्दैश्च स्तुतिशब्दैस्तथैव च । रथं वा कुञ्जरं वापि शिबिकां वाश्वमेव च ॥ २२ ॥ आरुह्य नगरादीनि नृपः कृत्वा प्रदक्षिणम् । वैश्यस्य वा शिबिकां वा पत्तनादिप्रदक्षिणम् ॥ २३ ॥ सर्वेषां सर्व एव स्याहाहनादिर्नृपाज्ञया । दक्षिणां गुरवे दत्त्वा ब्राह्मणान् पूज्य शक्तितः॥ २४ ॥ भोजयित्वा च विप्रास्तान् बन्धुभृत्यांस्तथैव च । दश पूर्वान्दशावरानात्मानं चैकविंशतिम् ॥ २५ ॥ पति पुनाति पुत्राद्यैः षष्टिं वर्षसहस्रकम् । स्वर्गलोकमतिक्रम्य विष्णुलोके महीयते ॥ २६ ॥ इति शौनकीये शताभिषेकविधिदशमः खण्डः ॥
३५
अथैकादशः खण्डः।
शौनकोऽहं प्रवक्ष्यामि अपमृत्युजयं तथा ।
आपूर्यमाणपक्षे तु कल्याणे सुदिने तिथौ ॥ १॥
त्रिजन्मे सिद्धयोगे वा शुभवारे सुलग्नके ।
आयुरारोग्यवृद्ध्यर्थमेतत् कर्म समाचरेत् ॥ २ ॥
देवालये स्वगेहे वा कृत्वा स्थण्डिलमुत्तमम् ।
पुण्याहं वाचयित्वादा सम्भाराननुकल्प्य च ॥ ३ ॥
इध्माब पि दूर्वाज्यं दधिदुग्धमधूनि च।
अन्वाधानादिकं कृत्वा त्वाधारान्तेन संयुतम् ॥४॥
त्रिगुणीकृतदूर्वाभिरक्ताभिः पयसा सह ।
दना च मधुना चैव जुहुयात् सम्यगत्वरः ॥ ५ ॥
हुत्वाष्टोत्तरसाहस्रमष्टोत्तरशतं तु वा ।
व्याहृत्या सप्रणवया विष्णुं ध्यायन् समाहितः ॥ ६॥
मानो महान्तमित्यादिग्भिश्चतसृभिस्तथा ।
मानस्तोकेतनयेति हुत्वाऽज्येन ऋचं प्रति ॥ ७ ॥
भूःस्वाहा मृत्युनश्यतु सुखायुर्वर्धतीमिति ।
एवं व्याहृतिभिर्हत्वा होमशेष समाच ॥ ८ ॥
अग्नेः पूर्व प्रतिष्ठाप्य दुर्वास्तम्बे हरिं स्मरन् ।
तस्मिन् स्तम्बे हरि पूज्य पुरुषसूक्तेन भक्तितः॥ ९ में
आद्ययावाहयेद् देवमृचा तु पुरुषोत्तमम् ।
द्वितीययासनं दद्याद् पाद्यं चैव तृतीयया ॥१०॥
शौनकीये
अध्यं चतुर्थ्या दातव्यं पश्चम्याचमनीयकम् ।
षष्ठया स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च ॥११॥
यज्ञोपवीतमष्टम्या नवम्या गन्धमेव च ।
पुष्पं दशम्या दातव्यमेकादश्या तु धूपकम् ॥ १२ ॥
द्वादश्या दीपकं दद्यात् त्रयोदश्या निवेद्यकम् ।
चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् ॥ १३ ॥
षोडश्योहासनं कुर्याद् वासुदेवं जगद्गुरुम् ।
स्तम्बस्य पूर्वदेशे तु हुतशेषं निधाय च ॥ १४ ॥
तच्छंयोरित्यूचैकया कृत्वाचार्यप्रदक्षिणम् ।
दत्त्वा धेनुमनड्वाहं हिरण्यं कंसवाससी ॥ १५ ॥
सर्वमृत्यूनतिक्रम्य दीर्घमायुरवाप्नुयात् ॥ १५ ॥
इति शौनकीये अपमृत्युजयविधिरेकादशः खण्डः ।।
ne
अथ द्वादशः खण्डः ।
आयुष्यहोमं वक्ष्यामि शौनकोऽहं द्विजन्मनाम् ।
सुर्यात् त्रिजन्मनक्षत्रे विषुवे सङ्क्रमे तथा ॥ १ ॥
पौर्णमास्याममावास्यां ग्रहणे चन्द्रसूर्ययोः ।
स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥२॥
अलङ्कृत्य स्वस्तियुक्तमन्नं दत्त्वा द्विजातये ।
अथाक्सभागपर्य
पर्यन्तं
कृत्वा चोल्लेखनादिकम् ॥ ३ ॥
घृतान्नं जुहुयात सम्यगवदानस्य सम्पदा ।
अथानो भद्राः ऋतव इत्यूचा दशकेन च ॥ ४ ॥
प्रथमपादे त्रयोदशः खण्डः ।
३७ः
इमं स्तोममर्हत इत्युचां षोडशकेन च ।
एकया जातवेदस्या हुत्वा स्विष्टकृतं ततः ॥५॥
होमशेषं समाप्याथ ब्राह्मणान् भोजयेत् ततः ।
स्वस्ति वाच्य द्विजाग्रयेभ्यो धेनुं दद्यात् सदाक्षिणाम्
[॥६॥
इति शौनकीये आयुष्यहोमविधिदशः खण्डः ।।
iles
अथ त्रयोदशः खण्डः।
ग्रहशान्ति प्रवक्ष्यामि शौनकोऽहं द्विजन्मनाम् ।
पुण्येऽहनि शुभे वारे कुर्याद्वा स्वत्रिजन्मसु ॥ १ ॥
अयने विषुवे चैव सोमसूर्योपरागयोः ।
ग्रहाणामुग्रचेष्टानामेतां शान्ति समाचरेत् ॥ २ ॥
सूर्यः सोमश्च भौमश्च बुधजीवसितार्कजाः ।
राहुः केतुरिति प्रोक्ताः शुभाशुभफलप्रदाः ॥ ३ ॥
कलिङ्गो यमुनावन्ती मगधःसिन्धुरित्यपि ।
घटकश्च स्वराष्ट्रश्च बर्बपर्वतदेशजाः ॥४
काश्यपोऽत्रिर्वसिष्ठश्चाङ्गिरा भार्गवस्तथा ।
पैठीनसिर्जेमिनिश्च गोत्रमेषां यथाक्रमम् ॥ ५ ॥
विशाखा कृत्तिका श्रोणा धनिष्ठोत्तरफल्गुनी।
पुष्यपौष्णाश्विनी चैवाश्लेषर्क यथाक्रमम् ॥ ६ ॥
आदित्यचन्द्रौ द्विभुजौ राहुकेतूरगाकृती।
चतुर्भुजाः पञ्च तेषां वाहनादि यथाक्रमम् ॥ ७ ॥
शौनकीय
एकचक्रस्त्रिचक्रश्च रथो मेषमृगेन्द्रमौः ।
रथः सित्ताश्वः काकश्च कृष्णः पञ्चास्य एव च ॥८॥
नीलगृध्रश्न एलेषामायुधानि क्रमेण तु ।
रवि पसायुधं विद्याद् गदाचर्मधरः शशी ॥९॥
अङ्गारकस्तु वरदः शक्तिशूलगदाधरः ।
सौम्ये संज्ञा च मुद्रा च खड्गचर्मगदाधराः (१) ॥१०॥
अक्षसूत्रं च दण्डं च सोदकं च कमण्डलुम् ।
वरदं च यथायोगं गुरुभार्गवयोरपि ॥ ११ ॥
वरदेषुधनुःशूलाः शनेरेतानि नित्यशः।
राहुवरदखड्गौ च गदापाणिर्भुजद्वयम् (1)॥ १२ ॥
अग्निरापः क्षितिर्विष्णुरिन्द्र इन्द्राणिदेवता ।
प्रजापतिश्च शर्वश्व ब्रह्मेषामधिदेवताः ॥ १३ ॥
ईश्वरोमा गुहो विष्णुर्ब्रह्मा चैव शतक्रतुः ।
यमः कालश्चित्रगुप्तो ग्रहाणां देवता इमाः ॥ १४ ॥
अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः ।
औदुम्बरशमीदूर्वाः कुशाश्च समिधः क्रमात ॥ १५ ॥
गुलौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं घृतान्नं च कृसरं मांसचित्रके ॥ १६ ॥
इत्येतानि हवींषि स्युः समित्सङ्ख्यासमाहुतिः।
एषामभावे शुद्धान्नं पालाशसमिधो भवेत् ॥ १७ ॥
आदित्याङ्गारको रक्तौ बुधजीवौ च पिङ्गलौ ।
सोमशुक्रौ विदुः श्वेतौ कृष्णौ राहुशनैश्चरौ ॥ १८ ॥
प्रथमपादे त्रयोदशः खण्डः ।
३..
धूम्रः केतुर्गुमश्चैषां वस्त्राणि कुसुमानि च।
लवणानि गृह्णीयागन्धं पुष्पं तथैव च ॥ १९ ॥
खेरग्न्यधिदैवं स्वात् सोमस्यापोऽधिदेवता ।
भूमिरङ्गारकस्य स्वाद् बुधो विषण्वधिदेवतः ॥२.
गुरोरिन्द्रस्तथेन्द्राणी शुक्रस्य त्वधिदेवता
प्रजापतिः शने राहुकेत्वोः शर्वस्क्यम्भुवौ ॥ २१ ॥
भास्करस्येश्वरो देवो गौरी सोमस्य देवता।
शुहस्त्वङ्गारकस्य स्याद्विष्णुर्देवो बुधस्तथा ।। २२ ॥
ब्रह्मा देवः सुरगुरोरिन्द्रः शुक्रस्य देवता ।
यमः शनैश्चरस्य स्याद्राहोः कालस्तयैव च ॥ २३ ॥
केतूनां चित्रगुप्तः स्याद् देवा एते क्रमात् स्मृताः।
आदित्यायार्कसमिधः पालाशाः स्युस्तथेन्दवे ॥ २४ ॥
रक्ताय खादिरं दद्यादपामार्ग बुधस्य तु ।
अश्वत्थं गुरवे देयं शुक्रायौदुम्बरं तथा ॥ २५ ॥
सौरये च शमीमय्यो दूर्वा देयास्तु राहवे ।
केतुभ्यः कुशमय्यस्तु होतव्यास्ताः कुशाः पृथक् ॥ २६ ॥
एकैकस्याष्टशतकमष्टाविंशतिरेव च ।
अष्टाधिकसहस्रं वा सङ्ख्यायाः समिधो विदुः ॥ २७ ॥
गुलौदनं सवित्रे स्यात् सोमाय घृतपायसम् ।
अङ्गारकाय संयावं बुधाय क्षीरषाष्टिकम् ॥ २८ ॥
दध्यन्नं गुरवे दद्याच्छुकाय च घृतौदनम् ।
शनैश्चराय कृसरं मांसमन्नं च राहवे ॥ २१ ॥
शौनकीये चित्रौदनं च केतुभ्यो होतव्या मन्त्रवित्तमैः । यस्य ग्रहस्य याः प्रोक्ताः समिधश्वरवस्तथा ॥ ३०॥ तेनैव तु विजानीयात् तत्तदेवाधिदेवयोः । मनोरमे शुचौ. देशे होमशालामलङ्कृताम् ॥ ३१ ॥ कृत्वा तु संवृतां प्राज्ञो ग्रहस्थानं प्रकल्पयेत् । तन्मध्ये भास्करस्थानं सोमं दक्षिणपूर्वके ॥ ३२ ॥ दक्षिणेऽङ्गारकस्थानं भवेत् पूर्वोत्तरे बुधः । उत्तरस्मिन् गुरोः स्थानं पूर्वस्मिन् भार्गवस्य तु ॥ ३३॥ पश्चिमे तु शनेः स्थानं राहोर्दक्षिणपश्चिमे । पश्चिमोत्तरतः केतोरेष्वेव स्थण्डिलं भवेत् ॥ ३४॥ भास्करस्य तु वृत्तं स्यात् सोमस्य चतुरश्रकम् । रक्तस्य तु त्रिकोणं स्याहाणाकारं बुधस्य तु ॥ ३५॥ गुरोर्दीर्घचतुरश्रं पञ्चकोणं सितस्य तु । चापाकारं शने राहोः शूर्प केतोर्ध्वजाकृति ॥ ३६ ॥ तत्पुरस्तात्तु वेदिः स्यात् सुराणां स्थापनाय सा । :: चतुर्दिक्षु प्रादेशमात्री पञ्चाङ्गुलिसमुन्नता ॥ ३७ ॥ तस्यामावाहयेद्देवान्नाम्ना व्याहृतिभिः क्रमात् । यत्तन्त्रमाज्यभागान्तमुक्तमुल्लेखनादिकम् ॥ ३८ । अविस्मरेण तत्कृत्वा सर्वेषां होममारभेत् । जुहुयात् समिदन्नाज्यराभित्रंभिर्यथाक्रमम् ।। ३९ ॥ अथाकृष्णेनरजसा अग्निदूतंवृणीमहे । एषामाशेपशुपतिः सूर्यवह्नीश्वरान् पृथक् ॥ १०॥... :
प्रथमपादे त्रयोदशः खण्डः । आप्यायस्वसमेतुते अप्सुमेसोमोअब्रवी गौरीमिमायेत्येताभिः सोमाम्बूमा पाईक ॥४१॥ अग्निसुर्धादिवःककुत् स्योनापृथिविभवेत्ति च । क्षेत्रस्यपतिनेत्याभिर्भूजभूमिगुहान् क्रमात् ॥ ४२ ॥ उबुध्यस्वेदविष्णुर्विष्णोरहाटमसीति च । बुधं विष्णुं पुनर्विष्णुं जुहुयात् तिमभिः क्रमात् ।। ४३ ॥ बृहस्पतेअतीत्येव इन्द्रमरुत्वइहेति च । ब्रह्मजज्ञानमित्य॒ग्भिर्गुरुशकचतुर्मुखान् ॥ ४४. शुक्रतेअन्यद्यजतमिन्द्राणीमासुनारिषु । इन्द्रवोविश्वतस्परि शुक्रेन्द्राणीशतक्रतून् ।। ४५ ॥ शनिप्रजापतियमान् शंनोदेवीरभिष्टये । प्रजापतेनत्वदेतानि इमंयमप्रस्तरं तथा ॥ ४६ ॥ कयानश्चित्रआभुवदायगौःपृश्निरक्रमीत् । यत्तेदेवीनिक्रति राहुरुद्रयमान् क्रमात् ॥ १७ ॥ केतुंकृण्वन्नकेतवे ब्रह्मजज्ञानमित्यपि । सचित्रचित्रमित्याभिः केतून ब्रह्माणमेव च ॥ ४८ ॥ चित्रगुप्तं च तिसृभिरेषां होमो विधीयते । अथ वेण जुहुयात् सूर्यपावकरुद्रकान् ॥ १९ ॥ सूर्योनोदिवःसूक्तमुदुत्यजातवेदसम् । नमोमित्रस्य जुहुयाच्चित्रंदेवानामुदितिद्वयम् ॥ ५० ॥ तबोअद्यमनामहे तृचमुत्सूर्य इत्यपि । उद्देतिसुभगः पञ्च आभिर्ऋग्भिघृताहुतीः ॥ ५१ ॥ G ४२ शौनकीये त्वमग्नेप्रथम इति पटादशर्चकम् । श्वमग्नेधुमरित्येवमग्नये जुहुयाद् घृतम् ॥ १२ ॥ मथ रुद्राय जुहुयात् कद्रुद्राय षडाहुतीः । इमारुद्रायसूक्तेनैकादशर्चकेन तु ॥ ५३ ॥ आतेपितमरुतां सूक्तं पञ्चदशर्चकम् । अथ स्विष्टकृत्प्रभृति होमश समापयेत् ॥ ५४॥ एकाग्नौ कारयेत् स्थाने समिद्धोमविधि क्रमात् । आदित्यादिनवानां तु समिद्धोमो विधीयते ॥ ५५ ॥ देवानां हविरेवाथ घृतं चैवाधिदैवतम् । विप्रेणैकेन होतव्यं तत्तन्मन्त्रेण सर्वशः॥ ५६ ॥ नवग्रहाणां स्थानेषु विप्रान् सम्पूज्य शक्तितः । ऋत्विग्भ्यो दाक्षिणां दद्यादाचार्याय विशेषतः॥ ५७ ॥ ग्रहाणां शान्तिसिद्धयर्थं यजमानः पृथक् पृथक् । धेनुं सवत्सां रवये दद्याच्छङ्ख तथेन्दवे ॥ ५८ ॥ अनड्वाहं भूसुताय जातरूपं बुधाय च । बृहस्पतये च वासश्च शुक्राय रजतं तथा ॥ ५९ ॥ शनैश्चराय कृष्णां गां कृष्णच्छागं तु राहवे । केतुभ्यः कुञ्जरं दद्यादित्येता दक्षिणाः क्रमात् ।। ६०॥ एषामलामे सर्वेषां हिरण्यं दक्षिणा भवेत् । एषां स्वस्त्ययनी शान्तिरायुष्या पुष्टिवर्धिनी ॥ ६१ । सदा दुःखविनाशार्थ कर्तव्याहरहर्द्विजैः ॥ ६११ ।। इति शौनकीये ग्रहशान्तिविधिस्त्रयोदशः खण्डः ।।
१ प्रथमपादे चतुर्दशः खण्डः। अथ चतुर्दशः खण्ड: । अथाद्भुतानां सर्वेषा शान्ति वक्ष्यामि शौनकः । आश्चर्यमद्भुतं प्राहुलक्षणेन समन्वितम् ॥१॥ दिव्यानि चान्तरिक्ष्याणि भौमानीति तथा भवेत् । रश्मिहीन रविं पश्येन्मध्ये छिद्रं च भेदनम् ॥२॥ नक्षत्रसू चन्द्राणां चलनं च पृथक् पृथक् । गन्धर्वनगरं चापि दिवा नक्षत्रदर्शनम् ॥ ३ ॥ एवमादीनि दिव्यानि अशुभान्यद्भुतानि च । तथान्तरिक्ष्याण्येतानि अद्भुतानि निबोधत ॥ ४ ॥ गगनं लोहितं पश्येन्महोल्कापतनं तथा । अमेघे विद्युतं पश्येन्न तु मेघे च विद्युतम् ॥ ५ ॥ अश्मासृक्पांसुपर्णानां वर्षणं तृणकाष्ठयोः । अनग्नौ धूममाकाशे रज्जुमुल्कां च दीपिकाम् ॥ ६॥ गन्धर्वगेयं शृणुयाद् द्विपाद्घोषं च दिग्ध्वनिम्। एवमादीन्यसङ्ख्यातान्याकाशप्रभवानि च ॥ ७ ॥ अथ भौमानि वक्ष्यामि निदर्शनविवक्षया । भूमेः कम्पश्च दिग्दाहो ज्वलनं च निरिन्धनम् ॥ ८॥ मधुवल्मीकछत्राकं गृहे यस्य प्रजायते। स्थूणायां मुकुलं भार्या यमौ गौर्जनयेद्यदि ॥९॥ मण्डूकश्चै गृहे शेते स्वस्तनं गौः पिबद्यदि । शुनको गृहमारोहेत् प्रविशेद्वा शिवारुहेत् ॥१०॥ ... 'यादद्भु', २. 'धागे देशे ख, क. पाठ:.
शौनकीये
शुक्लवर्णाः कपोताश्च दोग्धि गां रुधिरं यदि।
एवमादीन्यद्भूतानि पार्थिवानि बहूनि च ॥११ ॥
एतेषां शमनार्थाय होमः कार्यों द्विजातिभिः ।
अथाज्यभागपर्यन्तं यज्ञतन्त्रं प्रकल्पयेत् ॥ १२ ॥
उपलेपनप्रभृति जुहुयात् पायसं हविः ।
अपनःशोशुचदधं सूक्तेन प्रत्यूचं ततः ॥ १३ ॥
यदन्तियच्चदूरके इत्युचां सप्तकेन च।
यत्रब्रह्मापवमान इत्युचां षड्भिरेकया ॥ १४ ॥
उदयं तमसस्पर्यादित्प्रत्नस्य रेतसः ।
देवाःकपोत इत्येतत् कपोतावेशने भवेत् ॥ १५ ॥
ततः स्विष्टकृत्प्रभृति होमशेष समापयेत् ।
वासो हिरण्यमन्नं च प्रयच्छेद् दक्षिणां ततः ॥ १६ ॥
ब्राह्मणान् भोजयेत् तत्र कारयेत् स्वस्तिवाचनम्
इति शौनकीयेऽद्भुतशान्तिविधिश्चतुर्दशः खण्डः ॥
अथ पश्चदशः खण्डः।
वेश्मक्षेत्रादिदग्धेषु वैद्युतेनाग्निना यदि।
तेषां शान्ति प्रवक्ष्यामि शौनकोऽहं द्विजन्मनाम् ॥ १॥
तस्मिन् देशे जानुमानं गतं खात्वोदकं सिचेत् ।
श्रीफालमवकाश्चैव निधाय स्वस्ति वाचयेत् ॥ २ ॥
प्रथमपादे षोडशः खण्डः ।
गर्तस्य पश्चिमे देशे होमं कुर्याद् द्विजोत्तमः ।
इध्माभ्याधानपर्यन्तं यज्ञतन्त्र प्रकल्पयेत् ॥ ३ ॥
उपलेपनादिकं सर्व मध्य एवाज्यभागयोः।
आज्याहुतीः शंवतीभिर्जुहुयाग्भिरग्रतः ॥ ४ ॥
प्रत्नथापूर्वथेति सूक्तेन जुहुयाच्चरुम् ।
ततः स्विष्टकृत्प्रभृति होमशेष समापयेत् ॥ ५॥
अग्नेरुत्तरतस्तिष्ठन् स्वस्त्यात्रेयं जपेत् ततः ।
ब्राह्मणान् भोजयेत् तत्र यथाशक्ति च दक्षिणाम् । ६॥
तदग्निदग्धं विदुषे प्रदद्याद् ब्राह्मणाय च ।
प्राणिदग्धेषु सर्वेषु हिरण्यं दक्षिणा भवेत् ॥ ७ ॥
इति शौनकीये विद्युद्दग्धशान्तिविधिः पञ्चदशः खण्डः ।।
अथ षोडशः खण्डः।
शौनकोऽहं प्रवक्ष्यामि शान्ति यक्ष्मप्रणाशिनीम् ।
प्रयुञ्जन्ति प्रशान्त्यर्थ यक्ष्मणामृषयः पुरा ॥ १॥
विप्रेण विदुषैवैतां कारयेत् स्वत्रिजन्मसु ।
नक्षत्रे वा शुभे वारे चन्द्रसूर्योपरागयोः ॥ २ ॥
वासोऽहतं तु पूर्वेयुः प्रतिमां च हिरण्मयाम् ।
प्रकल्प्योपोष्य विप्राणां त्रिशतं भोजयेत् ततः॥ ३ ॥
आज्यसंस्कारपर्यन्तं तन्त्रं कृत्वा यथाविधि ।
अग्मेदक्षिण आसीनं वाससावेष्टय यक्ष्मिणम् ॥ ४ ॥
उद्ङ्मुखं तत्पुरस्तात् प्रतिमां च हिरण्मयीम् ।
इध्ममाधाय जुहुयान्मध्य एवाज्यभागयोः ॥५॥
शौनकीये अक्षिप्रभृति प्रत्यङ्गं प्रत्यूचं जुहुयात् स्पृशन् । अक्षीभ्यांतेनासिकाभ्यामिति सूक्तेन यक्ष्मिणः ॥ ६ ॥ आज्ये निमज्ज्य प्रतिमां काञ्चनी जुहुयात् ततः। सौविष्टकृतमारभ्य होमशेषं समापयेत् ॥ ७ ॥ अथाज्यशेष सम्प्राश्य यक्ष्मी तिष्ठेदुदङ्मुखः । कृत्वा प्रदक्षिणं यक्ष्मी सन्त्यजेत् पावकं पुनः ॥ ८॥ अमिष्ठां दक्षिणां दद्यात् प्रतिमामृत्विजे स्वयम् । वासश्च दत्त्वा विप्राणां सहस्र भोजयेत् ततः ॥ ९ ॥ द्विजायेभ्यो यथाशक्ति दद्यात् स्वस्ति च वाचयेत् इति शौनकीये यक्ष्मशान्तिविधिः षोडशः खण्डः ॥ अथ सप्तदशः खण्डः । अथाहं सर्वरोगाणां शान्ति वक्ष्यामि शौनकः पौर्णमास्याममावास्यां कुर्यादेतां त्रिजन्मसु ॥१॥ अथाज्यभागपर्यन्तं कृत्वोपलेपनादिकम् । रोगिणां प्रेषितस्त्वृत्विगवदानस्य सम्पदा ॥ २ ॥ मुश्चामित्वेति सूक्तेन प्रत्यूचं जुहुयाइविः । सौविष्टकृतमारभ्य होमशेष समापयेत् ॥ ३॥ दक्षिणां पुष्कलां दद्यात्विजे वस्त्रसंयुताम् । ब्राह्मणांश्च यथाशक्ति भोजयेत् स्वस्ति वाचयेत् ॥ ४ ॥ इति शौनकीये रोगशान्तिविधिः सप्तदशः खण्डः ।। All प्रथमपादे अष्टादशः खण्डः। अथाष्टादशः खण्डः । अथाह सम्प्रवक्ष्यामि कृत्याशान्ति द्विजन्मनार । आभिचारप्रणाशार्थ शौनकस्त्वृक्षु संमताम् ॥ १॥ कुर्यात् स्वजन्मनक्षत्रे मासे मासे समाहितः । सुसंस्नातो नवं वस्त्रमाच्छाद्य समलङ्कृतः ॥ २ ॥ द्विजाप्रयैः स्वस्तिवाच्योच्चैराशीर्भिर्वेदपारगैः । सुसंवृते सुप्रदेशे परैरनवलोकिते ॥ ३ ॥ अथाज्यभागपर्यन्तं यज्ञतन्त्र प्रकल्पयेत् । उपलेपनप्रभृति जुहुयात् पायसं चरुम् ॥ ४ ॥ यांकल्पयन्ति सूक्तेन ऋचा द्वात्रिंशता पुनः । इन्द्रंस्तवेति सूक्तेन जुहुयाच घृताहुतीः ॥ ५ ॥ ऋषभमासमानानां सूक्तेनैव तिलाहुतीः । ततः स्विष्टकृत्प्रभूति होमशेषं समापयेत् ॥ ६ ॥ शान्त्यर्थं दक्षिणा देया ब्राह्मणांश्चैव भोजयेत् । जपेद्वैतानि सूक्तानि नियतात्मा समाहितः ॥ ७ ॥ एनं कृत्या न हिंसन्ति क्रुद्धाभिचरिताः परैः । प्रत्याङ्गिरसकल्पैस्तु तद्विदोऽभिचरेत् पुनः ॥ ८ ॥ प्रत्याङ्गिरसङ्कल्पेन सद्यस्ता प्रतिबाधते । प्रत्याङ्गिरसविद्वांस्तु न रिष्येद्धि कथश्चन ॥ ९ ॥ इति शौनकीये कृत्याशान्तिविधिरष्टादशः खण्डः ।। Hanumarinews शौनकीये अथैकोनविंशः खण्डः। द्विजानां सम्प्रवक्ष्यामि शत्रुशान्तिमनुत्तमाम् । अष्टम्यां वा चतुर्दश्यां कृष्णपक्षस्य वै तिथौ ॥ १ ॥ विविक्ते देश एवाज्यसंस्कारान्तं प्रकल्पयेत् । उपलेपनप्रभृति यज्ञतन्त्रं यथाक्रमम् ॥ २ ॥ द्विषन्तं पांसुभिः कृत्वा पदेनाक्रम्य तच्छिरः । आधायेध्ममथाघार्य मध्य एवाज्यभागयोः ॥ ३ ॥ आज्याहुतीस्तु जुहुयात् प्रदीप्तेध्मे हुताशने। यस्तेमन्योविदधदिति सूक्तेनेन्दस्तवेति च ॥ ४ ॥ बृहस्पतेप्रतिमेऽथ जातवेदस इत्युचा । अच्छावदेत्यूचा दीप्तमुपतिष्ठेद् विभावसुम् ॥ ५ ॥ ततः स्विष्टकृत्प्रभृति होमशेष समापयेत् । दक्षिणां च यथाशक्ति दद्यादित्याह शौनकः ॥ ६ ॥ इति शौनकीये शत्रुशान्तिविधिरेकोनविंशः खण्डः ।। १ अथ विंशः खण्डः। आभिचारं च शत्रूणां प्रवक्ष्यामि द्विजन्मनाम् । कृष्णपक्षे चतुर्दश्यां त्रिरात्रोपोषितः शुचिः ॥ १ ॥ दक्षिणाप्रवणे देशे श्मशाने दक्षिणामुखः । रक्तोष्णीष्यसिपाणिश्च रक्तमाल्यानुलेपनः ॥ २ ॥ रक्ताम्बरधरः क्रुद्धो यज्ञतन्त्रं प्रकल्पयेत् । बैल्वकेध्मो भवेद्वाऽथ राजवृक्षेष्म एव च ॥ ३ ॥ १. 'सूक्तमु' ग. पाठः, १९ प्रथमपादे एकविंशः खण्डः । वैभीतके वा शम्याके फलके द्विषदाकृतिम् । अधिष्ठाय फलकं च रिपुं स्मृत्वा तदाकृतिम् ॥ ४॥ इध्ममादाय जुहुयात् पश्चादेवाज्यभागयोः । सप्ताहं जुहुयात् तैलं सर्षपं लवणान्वितम् ॥ ५ ॥ रजन्यां सव्यहस्तेन वसिष्ठद्वेषिणीं पठन् । ऋगन्ते नाम शत्रूणां निर्दिश्यैवं हुतं भवेत् ॥ ६ ॥ कृणुष्वपाज इति सूक्तेनैव समाहितः । ततः स्विष्टकृत्प्रभृति होमशेष समापयेत् ॥ ७ ॥ तिलं लवणं सर्षपं ब्राह्मणेभ्यश्च दक्षिणा ॥ ७ ॥ इति शौनकीये आभिचारविषिविंशः खण्डः ।। अथ एकविंशः खण्डः। जीवच्छ्राद्धं प्रवक्ष्यामि शौनकोऽहं द्विजन्मनाम् । कृष्णपक्षे त्रयोदश्यां स्नात्वोपोष्य समाहितः॥१॥ तस्मिन्नहनि सम्भारानुपकल्प्य यथाक्रमम् । षड्वस्त्रं हेमसूचीं च कुशं तान्तवमेव च ॥ २ ॥ पाशं स्कन्धांश्च पालाशं वृन्तं कृष्णाजिनं तथा । औदुम्बरशमीबहिरासन्दीं कलशानपि ॥ ३ ॥ ग्रीवामात्रजले तीर्थे स्थित्वा मध्यन्दिने जपेत् । उत्थाय ब्राह्मणान् भोज्य कृतपुण्याहसुव्रतः॥ ४ ॥ वस्त्राङ्गुलीयकादीनि दत्त्वाचार्याय शक्तितः। सघृतं पायसान्नं च स भुक्त्वा दक्षिणामुखः ॥ ५ ॥ १. 'चतुर्दश्यां' ख. पाठः.
५० यौनकीये सायङ्कालेऽग्निमाधाय पुरस्तात् तत्र संस्कृतम् । सुसंस्कृतचरुं हुत्वा मन्त्रैः षड्भिर्यथाक्रमम् ॥६॥ द्वाभ्यां चत्वारिशृङ्गेति तत्सवितुरित्यूचैकया । अग्नेनयेति द्वाभ्यां च जातवेदस इत्यूचा ॥७॥ हुत्वा पुरुषसूक्तेन प्रत्यूचं षोडशाहुतीः । अतोदेवादिषभिश्व सावित्र्याष्टशतेन च ॥ ८ ॥ अष्टाविंशतिसङ्ख्या वा होमशेषं समाप्य च । गत्वा चतुष्पदं सूची रज्जूं स्कन्धान कुशांस्तथा ॥ ९ ॥ प्रीयन्तां किङ्कराश्चेति दद्यात् कृष्णाय वै मुने! । निधाय कलशान बीही सोदकांस्तन्तुवेष्टितान् ॥१०॥ पुरुषाकृतिवत् कुर्याच्छिरस्त्रीण मुखे तथा । प्रीवामेकं चतुर्देहे बाह्वोडौं द्वौ तथैव च ॥ ११ ॥ लिङ्गस्यैकं पादयोश्च पञ्च पञ्चेति कथ्यते । यमः प्रीतोऽस्तु भगवानित्यासन्दी सुसंस्कृताम् ॥ १२ ॥ पञ्चगव्येन प्रक्षाल्यैवैतोन्विन्द्रादिभिस्त्रिभिः । कृष्णाजिने तु पालाशवृन्तैः कृत्वा नराकृतिम् ॥१३॥ चत्वारिंशच्छिरोग्रीवा दश विंशत्युरस्यपि । पञ्चचत्वारिंशद्वाहोः पञ्चपञ्चभिरङ्गुलौ ॥ १४ ॥ त्रिंशत्सङ्ख्योदरे शिश्नबीजे चाष्टौ दश क्रमात् । षष्टिश्च द्वे च पादयोरङ्गुलौ पञ्च पञ्चभिः ॥ १५ ॥ त्राणि शतानि षष्टिश्च पालाशं वृन्तमाहरेत् । अलाभे यज्ञवृक्षाणां वृन्तान्यपि समाहरेत् ॥ १६ ॥ १. धर्मः' क. पाठः.
... amremain.. १ प्रथमपार्दै एकविंशः खण्डः । निवेश्य कलशे प्राणान् वृन्ते देहं निवेश्य च। मध्ये शयित्वाथोत्थाय विवस्वत्युदिते सति ॥ १७ ॥ सुस्ताप्य कलशैग्भिः स्वदेहं स्वयमेव तु । समन्त्र पुरुषसूक्तेन श्रीसूक्तेन समाप्य च ॥ १८ ॥ तिलमिश्रान्नमश्नीयात् सायाह्ने सघृतेन च । अन्नेन ब्राह्मणान् भोज्य यमकिङ्करतृप्तये ॥ १९ ॥ दाहश्च तस्य कर्तव्यः पितृमेधविधानतः । होतृविध्याथवैका बालस्त्रीविधुरानपि ।। २० ।। तिलोदकं च कर्तव्यं गोत्रनामसमाहितम् । नद्यादितीरगर्तेषु दशाहं चोदकं गृहे ॥ २१ ॥ एकादश्यां तु कर्तव्यं श्राद्धं सुब्राह्मणाय च । सर्वमेकाह्नि वा कुर्यात् सपिण्डीकरणं विना ॥ २२ ॥ एकादश्यां च वा कुर्यात् सपिण्डीमत्र कर्मणि । जीवन्नेवात्मनः श्राद्धं कुर्यादन्येषु सत्स्वपि ॥ २३ । यथाविधि प्रवाशु सपिण्डीकरणादृते । आपन्नः स्त्री च शूद्रश्च यन्त्रे दग्वा स्वकां तनुम् ॥ तददैव क्रियाः सर्वाः कुर्यादित्येव हि श्रुतिः। देशान्तरमृतस्यैव चण्डालाहतस्य च ॥ २५ ॥ यन्त्रेण दाहः कर्तव्यः अमन्त्रं संस्कृतस्य च ।। २५६ ॥ इति शौनकीये जीवच्छादविधिरेकविंशः खण्डः ।। १. 'नं' ग. पाठः, २. 'मन्त्रक' ख. पाठः., 'मातृक' गः पाठः,
शौनकी
अथ द्वाविंशः खण्डः।
गर्मिण्युदक्यासंस्कार शिशुसंस्कारमेव च ।
प्रवक्ष्यामि क्रमेणैव शौनकोऽहं हिजन्मनाम् ॥ १॥
उदक्यामरणे प्राप्ते गोमूत्रेण जलैः सह ।
सुस्नाप्य ब्राह्मणैर्दभैरापोहिष्ठादिभिस्त्रिभिः ॥२॥
अन्यद्वस्त्रं परीधाप्य शवधर्मेण दाहयेत् ।
गर्मिणीमरणे प्राप्ते गोमूत्रेण जलैः सह ॥ ३ ॥
आपोहिष्ठाद्यपामृग्भिः प्रोक्ष्य भर्ता समाहितः।
प्रेतं श्मशाने नीत्वाऽस्योल्लिख्य सव्योदरे तथा ॥ ४ ॥
पुत्रमादाय जीवन्तं स्तनं दत्त्वा सुताय तु।
यस्तेस्तन इत्युचैकया ग्रामं नीत्वा निधाय च ॥ ५ ॥
उदरं चावणं कुर्यात् पृषदाज्येन पूरयेत् ।
मृद्भस्मकुशगोमूत्रैरापोहिष्ठादिभिस्त्रिभिः ॥ ६ ॥
स्नात्वाच्छाद्यैव वासांसि पितृमेधेन दाहयत् ।
संस्थिते सति पुत्रे तु व्याहृत्या खानयेत् ततः ॥
इति शौनकीये गर्मिण्युदक्यासंस्कारविधि-विंशः खण्डः ॥
॥
अथ त्रयोविंशः खण्डः।
शौनकोऽहं प्रवक्ष्यामि यतिसंस्कारमुत्तमम् ।
स्नात्वा गृहस्थः शुद्धात्मा यतिसंस्कारमाचरेत् ॥ १॥
ऋचा प्रत्यवरोहेरि शिक्यमारोप्य तं पुनः।
ब्राझं रथं समारोप्य नृत्तवाद्यैव घोषितैः॥२॥
प्रथमपादे त्रयोविंशः खण्डः।
:
प्रामप्रदक्षिणं कृत्वा ब्राह्मणैर्वेदपारगैः ।
प्रामात् प्राचीमुदीची वा प्रतीची वा दिशं नयेत् ॥३॥
साप्य तीर्थोदकैऋग्भिरापोहिष्ठादिभिस्त्रिभिः ।
गङ्गादिनद्यास्तीरे वा पुण्यक्षेत्रेऽथवा शुभे ॥ ४ ॥
ब्रह्मवृक्षसमीपे वा गतं खात्वा प्रयत्नतः ।
पुरुषोहाहुकमात्रं प्रोक्ष्य गत सकृज्जलैः ॥ ५ ॥
सप्रणवेन व्याहत्या शमीपर्णैः कुशैः सह ।
गतॊदग्दक्षिणान् दर्भान संस्तीर्य प्रणवेन तु ॥ ६ ॥
तं योगासनवत् कृत्वा प्रेतं भूम्यां निधाय च ।
दत्त्वा त्रिदण्डमेकं वा सर्वतो मा पाहीति च ॥ ७ ॥
ऋचा स्योनापृथिवीति निधायास्ये पवित्रकम् ।
पवमानःसोअद्यन इत्येतेन ऋचा अपि ॥ ८ ॥
सव्ये निधाय शिक्यं च प्रत्वामुञ्चेत्युचैकया।
ऋचाकदित्था नृनिति पात्रं कुक्षौ निधाय च ।।९।।
प्रजापतेत्यूचा दत्त्वा प्रसव्ये च कमण्डलुम् ।
परमहंसविषये त्वेतन्मन्त्रं जपेत् क्रमात् ॥१०॥
हंसःशुचिषदित्यूचा प्रेतं हृदयमालभेत् ।
ब्रह्मजज्ञानमित्यूचा मूनिदेशे स्पृशन् जपेत् ॥ ११ ॥
इंदविष्णुरिति द्वाभ्यां मूर्ध्नि भिद्येत वाग्यतः।
परोमात्रेत्यृचैकया रजोभिः परिपूर्य च ॥ १२ ॥
गत पुरुषसूक्तेन श्रीसूकेनाभिमन्त्रय च ।
अतोदेवादि षड्भिश्च प्रणभ्य हरिमच्युतम् ॥ १३ ॥
५४ शौनकीये नाशौचं नोदकं कुर्यान्न श्राद्धादीन् समाचरेत् । नारायणबलिं कुर्याद् विष्णुलोके महीयते ॥ १४ ॥ इति शौनकीये यतिसंस्कारविधिस्त्रयोविंशः खण्डः ।। १ अथ चतुर्विंशः खण्डः। देशान्तरगतस्य स्यादाहिताग्नेम॒तिर्यदि। संस्कारं तस्य वक्ष्यामि शौनकोऽहं द्विजन्मनाम् ॥१॥ कुशपालाशवृन्ताभ्यां कर्ता यन्त्रं तु पूर्ववत् । हिरण्याराण यन्त्राङ्गं नीत्वा वेद्यां निधाय च ॥२॥ यस्मिन् देशे मृतिस्तस्य प्रेक्षमाणोऽथ तां दिशम् । जपेत् प्रत्यवरोहेति विहारं कल्प्य पूर्ववत् ॥ ३ ॥ आज्यस्योत्पवनं कृत्वा गार्हपत्ये ध्वर्युस्तथा । हुत्वा चतुर्ग्रहीतेन त्वाहवनीये समाहितः ॥ ४ ॥ सप्तत इत्यूचैकया दाहयेत् पितृमेधतः । दहनादिसपिण्ड्यन्तं कृत्वा सत्यागते पुनः ॥ ५ ॥ यज्ञकाष्ठान्मथित्वाग्निमकृत्वाभिमुखं तथा । विष्णुर्थीनिमिति द्वाभ्यां चरुं हुत्वा यथाविधि ॥ ६ ॥ हुत्वा पुरुषसूक्तेन प्रत्यूचं चाश्वलायने । गृह्ये कृत्वा पुंसवनादिकमुद्दाहपूर्ववत् ॥ ७ ॥ पूर्वया भार्यया साधमाधानं पूर्ववत् तदा । सायं प्रातर्हतं तद्वद् दर्शपूर्णेष्टिसन्ततिम् ॥ ८ ॥ १. 'नित्यं वे' क. पाठः.
प्रथमपादे पञ्चविंशः खण्डः ।
५५
इष्ट्वा स्वस्यत्विजा सम्यक् प्रायश्चित्तमशेषतः ।
होमशेषं यथापूर्व कृत्वा विष्णुं सदा स्मरेत् ॥ ९ ॥
इति शौनकीये आहिताग्निप्रवासमरणसंस्कारविधिश्चतुर्विशः खण्डः ।।
अथ पञ्चविंशः खण्डः ।
अथातोऽभ्युदयश्राहमहं वक्ष्यामि शौनकः ।
ग्रामारम्भे गृहारम्भे प्रवेशादिषु कर्मसु ॥ १॥
सीमन्तोन्नयने पुसि चौलकर्मणि चैव हि ।
उपनीतौ च गोदानस्नानपाणिग्रहेषु च ॥ २ ॥
नाम्न्यन्नप्राशने चैव ह्याधाने सोम एव च ।
अन्येषु शुभकार्येषु कुर्यान्नान्दीमुखं बुधः ॥ ३ ॥
आमन्त्रणं द्विजाग्र्याणां कुर्यात् पूर्वेयुरेव तु ।
शुचिर्भूत्वान्तिकं गत्वा भोज्यानामग्यजन्मनाम् ॥४॥
स्वयमेवाथवाऽन्यो वा कुर्यात् तेषां निमन्त्रणम् ।
युग्मान् देवांश्च पित्र्यांश्च सम्यक् सम्यग् द्विजः कम्गत्
॥ ५॥
पूजयेद् भोजयेञ्चैव तन्मना नान्यमानसः ।
मातृश्राद्धं तु पूर्व स्यात् पितणां तदनन्तरम् ॥ ६॥
ततो मातामहानां तु वृद्धौ श्राद्धं प्रकीर्तितम् ।
माता पितामही चैव तथैव प्रपितामही ॥ ७ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
मातामहस्तत्पिता च तत्पिता चेत्यमी नव ॥ ८ ॥
द्वौ द्वौ नवानां प्रत्येकमष्टादश द्विजोत्तमाः ।
प्रतिवर्ग तु देवानां द्वौ द्वौ ग्राह्यावमी च षट् ॥ ९॥
५१ शौनकीये एवं नान्दीमुखश्राद्धे चतुर्विंशतिजा वराः । श्राद्धं कृत्वा तु पूर्वेद्युः श्वः कर्माणि समारभेत् ॥ १०॥ यहा द्विजौ द्वौ वृणुयाद् विश्वेदेवार्थमादितः । पितृभ्यस्तु यथाशक्ति युग्मान गुणवतो द्विजान् ॥११॥ अथापरेधुरानीय ब्राह्मणांस्तु निमन्त्रितान् । स्नानद्रव्यैः कृतस्नातानक्रोधान् देवपूर्वकान् ॥ १२ ॥ शुद्धपादान द्विराचान्तान प्राङ्मुखांस्तूपवेशयेत् । आसनेषु तु क्लुप्तेषु पित्रर्थान् पितृवत् क्रमात् ॥ १३ ॥ यज्ञोपवीती कर्ता स्यात् सर्वेषां कर्मणामिह । (आन्द्रियेनैव ?) युग्मत्वमुपचारं प्रदक्षिणम् ॥ १४ ॥ इष्यते प्राङ्मुखत्वं च कर्तुर्येनोपकल्पते । अप्पूर्वमृजुदर्भाद्यैर्विष्टरार्थं ददेदथ ॥ १५ ॥ उदगग्राश्च ते कार्याः सर्वैरेवासनेष्विह । अपो ददाति सर्वेभ्यः पुनरेव यथाक्रमम् ॥ १६ ॥ यवगन्धोदकैः पूर्ण देवानामग्रंकल्पनम् । विश्वेदेवा इदं वोऽर्ध्यमित्युक्त्वाऽयं प्रदीयताम् ॥१७॥ तयं प्रतिगृह्येतौ प्रोक्ष्य तौ शिरसि द्विजौ । अथ दर्भान् सुसंस्तीर्य प्रागग्रान् वै विचक्षणः ॥ १८ ॥ एकद्रव्याणि पात्राणि तेष्वादध्यात् समाहितः। अन्तर्धाय च दर्भान् वै तेषु सिञ्चेज्जलं तथा ॥ १९ ॥ शंनोदेवीरित्यनया संकृत् तानभिमन्त्रयेत् । पृथक् पृथग् यवांस्तांस्तान् स्थापयेदप्सु मन्त्रतः॥२०॥ १. 'इन्द्राये' ग, पाठः, प्रथमपादे पञ्चविंशः खण्डः। 40 यवोऽसियवयास्मद्वेषो यवयारातीः । येवोऽसि सोमदेवत्य इत्येवं मन्त्रमूह्य च ॥ २१ ॥ क्रियाः पात्राश्रयाः सर्वाः प्राक्संस्था इति निश्चिताः । रक्षां विधाय पात्राणां पितृभ्योऽयं प्रयच्छति ॥ २२ ॥ गृहीत्वा सकृदय॑स्य दानं प्रत्येकमेव तु । पित्राद्यपेक्षया त्रिः स्यानिवेदनमिति स्थितिः ॥ २३ ॥ सन्निवेद्यार्थ्यपात्रस्थाः स्वधार्ष्या इत्यपः क्रमात् । अन्या आपो निषेक्तव्याः पितृस्थानां द्विजन्मनाम् ॥२४॥ पर्णेनैव गृहीत्वाथ पितृपात्रगता अपः । सव्यहस्तगृहीतेन दक्षिणेन तु पाणिना ॥ २५ ॥ अत्र देवेन तीर्थेन दानमन्त्रं प्रतिद्विजम् । उक्त्वा पितरिदं तेऽयमिति पित्रेयंमानयेत् ॥ २६ ॥ प्रदानमन्त्र एतासामपां कुर्यात् समाहितः । यादिव्याआप इति मन्त्रेण प्रत्येकमनुमन्त्रयेत् ॥ २७ ॥ एवमेवार्घ्यदानं तु कुर्यादुत्तरयोईयोः । अविस्मरेत् क्रियाः सर्वाः क्रमादानाश्रया इमाः ॥ २८ ॥ भापदि द्वौ नियुक्तौ चेत् तयोरेवार्यकल्पनम् । स्यात् त्रयाणां यथायोगमिति यज्ञविदां मतम् ॥ २९ ॥ आसिच्य प्रथमे पात्रे अपः शिष्टा द्विपात्रयोः । अज़्यान्मुखं पुत्रकामस्ताभिरभिर्यथाविधि ॥ ३० ॥ आपिधानमिहाचार्याः प्रथमस्य वदन्ति तु । पिधानं तत्प्रयोग स्तृतयिनेति कथ्यते॥ ३१ ॥ १ 'निलोमि' ग. पारः
शौनकीये
ग्तत्पात्रमचाल्यं स्याद्यावत्कर्म समाप्यते ।
अस्मिन्काले तु गन्धायैर्विप्राणां पूजनं भवेत् ॥ ३२ ॥
भोजनार्थमिहानीतादन्नादादाय सर्पिषा ।
अक्तान्नमुपपात्रं तु सव्यमेव विचक्षणः ॥ ३३ ॥
अवदानं गृहीत्वाऽथ मेक्षणेन विपश्चितः ।
पित्रर्थानां तु सर्वेषां पाणौ होममुशन्ति हि ॥ ३ ॥
अग्नये कव्यवाहनाय स्वाहेति जुहुयाद्धविः ।
सोमाय पितृमते स्वाहा पाणिहोमो विधीयते ॥ ३५ ॥
जुहुयात् सूत्रमन्त्राभ्यां तेष्वनुक्तेष्वथाहुतीः ।
स्वाहाकारेणामिपूर्वमित्यत्र च विधिर्भवेत् ॥ ३६ ॥
यथेष्टं भोजयेद् विप्रानन्नं व्यञ्जनसंयुतम् ।
ज्ञात्वा तान् श्रावयेत् तृप्तान् सर्वान् मधुमती ऋचः ।।
अक्षन्नमीयऋक्श्राव्या ब्राह्मणान् पूजयेत् पुनः ।
सम्पन्नमिति पृष्टास्ते ब्रूयुः सम्पन्नमित्यथ ॥ ३८ ॥
दध्यक्षतैः सबदरैर्यवैश्च पयसा सह ।
पृषदाज्येन सम्मिश्रं शेषान्नमवदाय च ॥ ३९ ॥
प्राङ्मुखो देवतीर्थेन कायेन च समाहितः ।
विप्रान् दध्युरथ द्वौ हावेकैकस्य यथाक्रमम् ॥ ४० ॥
नान्दीमुखाः पितृगणास्तेन श्राद्धेन पूजिताः ।
प्रतीयन्तेऽथ कर्तव्यं पुरुषैः सर्ववृद्धिषु ॥ ४१ ॥
शिष्टमन्नं निवेद्याथ सर्वानाचमयेद् बुधः ।
नोहासयेदथ त्वेषामुच्छिष्टान्नादिनक्षयात् ॥ ४२ ॥
१९
प्रथमपादे षड्विंशः खण्डः।
एतेष्वन्नं प्रकीर्याथ पात्रं विवृणुयात् पितुः ।
अभ्यर्च्य दक्षिणादानैः पितृपूर्व विसर्जयेत् ॥ १३ ॥
ओङ्कारेणाथ सन्धाय पित्रादींस्तु स्वधोच्यताम् ।
इत्युक्त्वा विसृजेत् पूर्वमेषां प्रत्युक्तिरों स्वधा ॥ ४४ ॥
प्रीयन्तामित्ययं शब्दो विश्वेदेवपुरस्सरः ।
वाच्यः का विधिज्ञेन विपर्यासेन तावपि ॥ ४५ ॥
एवमिच्छन्ति पूर्वेयुः सर्वाभ्युदयकर्मसु ।
श्राद्धेनानेन सम्पन्नं कर्म सिद्धि प्रयच्छति ।। ४६ ॥
विधायाभ्युदयश्राद्धमत ऊर्ध्वं समाहितः ।
आकर्मविरतेः कुर्यादक्षारलवणादिकम् ॥ ४७ ॥
ब्रह्मचर्यमधःशय्यामपि गोवर्धनोडरम् ।
कृष्णमेव सदा ध्यायंस्तत्कीर्तनपरायणः ॥१८॥
इति शौनकीयेऽभ्युदयश्राद्धविधिः
पञ्चविंशः खण्डः ॥
अथ षड्विंशः खण्डः।
शौनकोऽहं प्रवक्ष्यामि नक्षत्रं होममुत्तमम् ।
आयुरारोग्यसिद्धयर्थ द्विजानां भावितात्मनाम् ॥१॥
अन्वाधानादिकं कृत्वा आज्यभागान्तसंयुतम् ।
अमिः प्रजापतिः सोमो रुद्रोऽदितिवृहस्पतिः॥२॥
सर्पःपितरोऽर्यमा च भगः सवितुरेव च ।
त्वष्टा वायुस्तथेन्द्रामी मित्र इन्द्रो महापिता ॥ ३ ॥
जौनकीये
आपश्च विश्वेदेवाश्च ब्रह्मा विष्णुर्वसुस्तथा ।
वरुणैकपादहिबुध्निपूषा चाश्वियमास्तथा ॥ ४ ॥
एते देवाः समाख्याता नक्षत्राणां यथाक्रम ।
अग्नये चाग्निर्मूर्धेति प्रजापते प्रजापतौ ॥५॥
त्वंसोमासीति सोमाय प्रवःपान्तं तु रुद्रके ।
अदितिौरित्यदित्यै बृहस्पते बृहस्पतौ ॥ ६ ॥
केतुंकृण्वन्निति सर्पाय पित्रेऽप्यहं पितृनिति ।
अनृक्षरा इत्यर्यम्णे शनोभगो भगाय तु ॥ ७ ॥
सवितापश्चेति सवित्रे त्वष्ट्रे त्वष्टारमिति च ।
वायउक्थेभिर्वायवे गीभिर्विप्र इतीन्द्राग्न्योः ॥ ८॥
मित्रवयं च मित्राय प्रससाहिष इन्द्राय च ।
उदीरय महापिने अद्भ्य आप इतीत्यपि ॥९॥
विश्वेदेवा इति विश्वेभ्यो ब्रह्मजज्ञेति ब्रह्मणे ।
विष्णवे तद्विप्रास इति उस्रावेदेति वसवे ॥ १० ॥
इसमेति वरुणाय तत्त्वायामीति वा तथा ।
एकपादंहिर्बुध्नीभ्यां शंनोअजएक इति ॥ ११ ॥
पूर्वमाआशेति पूष्णे च अश्विभ्यामश्विनेति च ।
यमाय घृतवद्धति यमाय घृतमुवा तथा ॥ १२ ॥
समिदाज्यचरूण्येव प्रत्यूचं चाष्टविंशतिम् ।
देवतायै स्वऋक्षस्य कुर्यात् सर्वाभ्य एव वा ॥ १३ ॥
मासि मासि ऋतावृतौ वत्सरे वत्सरे तथा ।
मुञ्चामित्वेति षड्भिश्च सोमेनादित्य इत्यूचा ॥ १॥
प्रयमपादे सप्तविंशः खण्डः।
नवोनवेत्यूचा वापि हुत्वाज्येन सुवेण च ।
स्विष्टकृदादि शेषं च होमं सर्व समाप्य च ॥ १५ ॥
दद्याडिरण्यं धेनुं वा आचार्याय प्रयत्नतः ।
ब्राह्मणान् भोजयेत् पश्चात् सर्वकामसमृद्धये ॥ ११ ॥
इति शौनकीये नक्षत्रहोमविधिर्नाम
षड्विंशः खण्डः ॥
अय सप्तविंशः खण्डः।
शौनकोऽहं प्रवक्ष्यामि सरायणवाल परम् ।
चण्डालादुदकात् सर्पाद् ब्राह्मणाद् वैद्युतादपि ॥ १ ॥
दष्ट्रिभ्यश्च पशुभ्यश्व रज्जुशस्त्रविषाश्मभिः ।
देशान्तरमृतानां च हतानां चान्यसाधनैः ॥ २ ॥
जीवश्राद्धकृतानां च नैष्ठिकानां तथैव च ।
यतीनां चैव योगीनामन्येषां मोक्षकाक्षिणाम् ॥ ३ ॥
पुण्य पापक्षयार्थाय हादशेऽहनि कारयेत् ।
संवत्सरात् परं कुर्याच्चण्डालाधैर्हतस्य च ॥ ४ ॥
सपिण्डीकरणात् पूर्व विष्णुपूजां समाचरेत् ।
द्वादश्यां श्रवणे वापि पञ्चम्यां पर्वणोरपि ॥ ५॥
गृहस्थान वा यतीन् वापि वैष्णवान् द्वादशोत्तमान् ।
देवालयेऽथ नद्यां वा गोष्ठे बाराम एव वा ॥ ६ ॥
स्नातानाहूय गर्तेषु पादं प्रक्षाल्य वारिणा ।
गन्धपुष्पादिकं सर्व क्रमाद् द्वादशनामभिः ॥ ७ ॥
१२
शौनकीये
वस्त्रं यज्ञोपवीतं च कुण्डले चाङ्गुलीयको ।
उत्तरीयं तथोष्णीषं छत्रोपानहभूषणम् ॥८॥
एतैरर्च्य द्विजान् पश्चाच्छ्रीभूमिसहितं हरिम् ।
आद्ययावाह्य पुष्पण विष्टरे हृदयात् प्रभुम् ॥ ९॥
भानुमण्डलतो वापि भक्त्या सर्व समाहितः ।
पाद्यादिदीपपर्यन्तं कृत्वा ऋग्भिश्च पौरुषैः ॥ १०॥
सूत्रोक्ताग्निमुखं पूर्वमाज्यभागान्तसंयुतम् ।
विशेषं च तथा वक्ष्ये केशवाद्यैश्च नामभिः ॥११॥
अतो देवादिषभिश्च पौरुषैः षोडशैस्तथा ।
द्वादशाष्टाक्षराभ्यां च समिदाज्यचरूण्यपि ॥ १२ ॥
हुत्वाग्नौ प्रत्यूचं दत्त्वा ब्राह्मणेभ्योऽयमुत्तमम् ।
पितः केशवेदं तेऽयं पितृभ्यो द्वादश क्रमात् ॥ १३ ॥
भोजनाद्यन्तयोः कुर्यादर्थ्य मन्त्रैश्च संयुतम् ।
अन्नेन ब्राह्मणान् भाज्य विष्णुपूजां समाप्य च ॥ १४॥
ब्राह्मणैरभ्यनुज्ञातः पिण्डकर्म समारभेत् ।
नामहादशयुक्तेभ्यः पितृभ्यो द्वादश क्रमात् ॥१५॥
आश्वलायनसूत्रोक्तविधिना पिण्डमाचरेत् ।
शेषं पार्वणवत् कुर्यादाभ्युदेयानुसारतः ॥ १६ ॥
अतोदेवादिषभिश्च पिण्डोपस्थानमाचरेत् ।
पादप्रक्षालितं तोयं पितरः प्रपिबन्ति यत् ॥ १७ ॥
क्षालयेत् त्रिषु गर्तेषु विप्रपादान् यतस्ततः ।
पुरुषसूक्तेन देवेशं स्तुत्वा कर्म समाप्य च ॥ १८ ॥
प्रथमपादे अष्टाविंशः खण्डः ।
५३
आचार्य पूजयित्वैव सुवर्णतिलतण्डुलान् ।
दक्षिणां च यथाशक्ति यः कुर्यादाप्नुयात् फलम् ॥ १९॥
तस्मात् सर्वप्रयत्नेन गुरुपूजा समाचरेत् ।
प्रायश्चित्तं तु पापानामन्येषां मोक्षसाधनम् ॥ २० ॥
तस्मात् सर्वप्रयत्नेन नारायणबलिं विमम् ।
कुर्युढिजातयश्चान्ये तन्त्रं शूद्रानुलोमजाः ॥ २१ ॥
सहस्रभोजनाद्यन्ते कुर्यादेतद्वलिं क्रमात् ।
तत्तदूहश्च कर्तव्यः स्वधां पिण्डं च वर्जयेत् ॥ २२ ॥
पितृवयं च षट् प्राहुर्मातृवयं च षट् तथा ।
सपिण्डीकरणादूर्ध्व पितरो द्वादश स्मृताः ॥ २३ ॥
आद्यन्तयोस्तु पुण्याहं कर्तव्यं श्रियमिच्छता ॥ २३ ॥
इति शौनकीये नारायणबलिविधिः
सप्तविंशः खण्डः ॥
अथाष्टाविंशः :खण्डः ।
नारायणबलिं चेमं हरेः प्रीतिकरं शुभम् ।
यः प्राह तस्मै विदुषे शौनकाय नमो नमः॥१॥
अशुभेषु ग्रहेष्वेव ग्रहकोपे च पीडिते ।
दुनिमित्ते च दुःस्वप्ने दुर्भिक्षे व्याधिपीडिते ॥ २ ॥
गृहे वल्मीकसम्भूतौ रक्तस्त्रीदर्शनेऽपि च ।
शरीरेऽप्यग्निदग्धे च गृहे दग्धेऽग्निना तथा ॥ ३ ॥
उन्मादग्रहपीडायां मूषिकेऽप्यर्थनाशके ।
भार्याविरोधने चापि जनकोपसमुद्भवे ॥४॥
शौनकीये
राजकोपे मनोदुःखे दौर्भाग्ये सर्वसङ्कटे ।
जन्मः ग्रहणे दुष्टे तथा निगलबन्धने ॥५॥
पिशाचादेश्व भूतानां सर्वापस्मारपीडिते।
प्रजाभीतौ प्रजानाशे धनधान्यविनाशने ॥ ६॥
मुहर्तेऽप्यशुभे पुत्रे जाते चैवाशुभे दिने ।
विपरीते महोत्पाते महाभयसमुद्भवे ॥ ७ ॥
सर्वोपद्वनाशाथै सर्वकामसमृद्धिदम् ।
स्नात्वा स्नानविधानेन देवदेवं प्रणम्य च ॥ ८ ॥
स्थलं शुद्धं समभ्युक्ष्य गोमयेनोपलिप्य च ।
औपासनाग्निमादाय आधारं जुहुयात् ततः॥९॥
तत्प्राच्यां शालिधान्यैस्तु राशिं कृत्वा ततः परम् ।
तन्तुना वेष्टितं कुम्भं जलैः शुद्धैः प्रपूर्य च ॥१०॥
वारिबीजं जले न्यस्य कुशकूर्चमथाक्षतम् ।
अश्वत्थबिल्वदूर्वाश्चापामार्गाप्रसंयुतम् ॥ ११ ॥
नवरत्नं सुवर्ण च गायत्री वैष्णवीं जपेत् ।
निक्षिप्य तुलसीं तत्र प्रक्षिप्य च तथा पुनः ॥ १२ ॥
रजतं चन्दनं चैव रक्तवस्त्रेण वेष्टयेत्।
तत्कुम्भं धान्यराशौ च न्यसेदष्टाक्षरेण वै॥ १३ ॥
तत्प्राच्यां शालिधान्यैश्च पीठं कृत्वा तदूर्ध्वतः ।
कुशान् दीश्च संस्तीर्य पश्चिमाभिमुखं हरिम् ॥ १४ ॥
स्थापयित्वा तु देवेशं ध्यायन्नावाह्य भक्तितः ।
आसनाद्युपचारैश्च मन्त्रमष्टाक्षरं जपेत् ॥ १५ ॥
प्रथमपादे अष्टाविंशः खण्डः । विधिनवार्चयित्वा तं हविः सम्यङ् निवेदयेत् । तत्र पीठेऽथवा रुक्मं न्यस्य ध्यायन् हरिं परम् ॥ १६ ॥ आवाह्य विधिना देवमर्चयित्वा निवेदयेत् । रुक्मगर्भो रुक्ममयो रुक्मवर्णो हरिः स्वयम् ॥ १७ ॥ बहुना किं प्रलापेन रुक्मं विष्णुरिति स्मृतम् । तस्माद्रुक्मेऽर्चने कुर्यादिति पूर्व जनार्दनम् ॥ १८ ॥ विष्णुसूक्तेन तं देवं प्रणम्याउनुमान्य च । आसीनः प्राङ्मुखोऽग्निं च परिषिच्य प्रणम्य च ॥ १९ ॥ विष्णोर्नुकं तदस्येति हुत्वा भक्तिसमन्वितः। गव्यं घृतं समादाय ध्यायन् विष्णुं सनातनम् ॥ २०॥ लक्षं वाप्ययुतं वापि सहस्रं वा शताष्टकम् । जुहुयात् सर्वशान्त्यर्थं सर्वसिद्ध्यर्थमेव वा ॥ २१ ॥ तत्तदैवतकं ध्यात्वा जुहुयात् सदृशं यथा । आदौ मध्येऽवसाने च देवं पूर्ववदर्चयेत् ॥ २२ ॥ एवं हुत्वार्चयित्वा च स्नानकर्म समारभेत् । हुतं तु यावत् तावच्च तत्कुम्भस्थजलं तथा ॥ २३ ॥ समाहितो हरिं ध्यायंस्तन्मन्त्रेणाभिमन्त्रयेत् । हरि ध्यात्वा समासीन आचार्यः प्राङ्मुखस्ततः॥२४॥ प्रोक्षयेन्मूलमन्त्रेण तत्तोयैश्च सहस्रकम् । शेषतोयैः कृतस्नानं सर्वदुःखनिवारणम् ॥ २५ ॥ एतत्स्नानसमं तीर्थ न भूतं न भविष्यति । यमुद्दिश्य कृतं मन्त्री प्रोक्षयेत् तं जलेन वै ॥ २६ ॥ K शौनकीये ६६ तत्र दोषः प्रशान्तः स्यात् प्रोक्षणेनापि तेन वै। हुत्वा स्नाने कृते चैव श्रद्धाभक्तिसमन्वितः ॥ २७ ॥ यद्यदिच्छति तत्सर्वं लभते नात्र संशयः । कन्यार्थी लभते कन्यां राज्यार्थी राज्यमाप्नुयात् ॥ २८ । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् । कामानवाप्नुयात् कामी अर्थार्थी अर्थवान् भवेत् ॥२९॥ धर्मार्थी धर्ममाप्नोति पापी पापात् प्रमुच्यते । सिद्ध्यर्थी सिद्धिमाप्नोति दुःखी दुःखात् प्रमुच्यते॥३०॥ मूलमन्त्रेण होमेन सर्वसिद्ध्यर्थमेव वा । ओं नमो नारायणायेति मन्त्रमेकं परं स्मृतम् ॥ ३१ ।। ओं नमो भगवते वासुदेवायेत्येतकं परं स्मृतम् । मूलमन्त्रमिदं प्रोक्तं ब्रह्मणा परमेष्ठिना ॥ ३२ ॥ तयोरेकेन होतव्यं सर्वसम्पत्समृडये। आचार्यदक्षिणां दद्याच्छ्रद्धया च मुदान्वितः ॥ ३३ ॥ इति शौनकीये महाशान्तिविघिरष्टाविंशः खण्डः ॥ प्रथमपादः समाप्तः॥ अथ प्रथमः खण्डः। क्षेत्रियस्याभिषेकं च वाहनस्याभिषेचनम् । नृपस्य लक्षणं चैव अभिषेकं महत् तथा ॥ १ ॥ १. 'शौनकोऽहं प्रवक्ष्यामि क्षत्रियस्याभिषेचनम् । प्रजापालनशी- यस्य ख. पाठः
६५
द्वितीयपादे प्रथमः खण्डः।
आयुधाराधनं चैव वर्षोत्थानं तथैव च ।
हस्तिनीराजनं चैव अश्वनीराजनं तथा ॥ २ ॥
जन्मनक्षत्रस्नानं च नित्यं चैवाभिषेचनम् ।
गजशान्ति तथा कल्पं जातवेदस एव च ॥ ३ ॥
तिथिपूजां च सावित्रीकल्पं चैव त्रियम्बकम् ।
रात्रिसूक्तस्य कल्पं च तथा पुण्याभिषेचनम् ॥ ४॥
वायसाना बलिं चैव अङ्कुरार्पणमेव च ।
नित्यं विष्ण्वर्चनं चैव वक्ष्येऽहं शौनकः क्रमात् ॥ ५ ॥
अथाहं सम्प्रवक्ष्यामि क्षत्रियस्य तु शौनकः।
प्रजापालनशीलस्य कुलीनस्याभिषेचनम् ॥ ६ ॥
वृत्तवन्तं कुलीनं च वेदवेदाङ्गवित्तमम् ।
ब्राह्मणं वृणुयाद्राजा धर्मायैव पुरोहितम् ॥ ७॥
पुरोहितेन विप्रेण सर्वकर्माणि कारयेत् ।
सुगतिं राष्ट्रवृद्धिं च श्रियं चाप्यचलां व्रजेत् ॥ ८ ॥
कृत्वा च मण्डपं सम्यग् दृढस्थूणमलङ्कृतम् ।
लेपनास्तरणोपेतं वितानध्वजतोरणैः ॥९॥
मुक्तप्रसूनमालाभिर्दिनु दिर्पशोभितम् ।
शरावपालिकाकुम्भैः साकुरैर्दिवलङ्कृतैः ॥ १० ॥
फलैः पुष्पैः किसलयैः स्तबकैः समलङ्कृतम् ।
पूर्णकुम्भधूपदीपैदिक्षु दिक्पशोभितम् ॥ ११ ॥
गीतवादित्रनृत्तायुर्वेणुशङ्खः सुघोषितम् ।
ब्राह्मणैर्ब्रह्मघोषेण घोषितं वेदवित्तमैः ॥ १२ ॥
:
शौनकीये
मण्डपे नृपति तस्मिन्नभिषिश्चेत् पुरोहितः।
प्रशस्ततिथिवारेषु तिष्ये वा श्रवणेऽथवा ॥ १३ ॥
ऐन्द्रसावित्रपौष्णेषु रोहिण्यामुत्तरेऽथवा ।
श्राद्धमभ्युदयं दद्यात् पितृभ्यश्च पुरोऽहनि ॥ १४ ॥
श्वोभूते मण्डपे तस्मिन् पुण्याहं वाचयेद् द्विजैः ।
याःप्रवतोनिवत इत्यनयर्चा नदीं गतः ॥ १५ ॥
प्रसुवआप इत्य॒ग्भिः कुम्भानां नवभिनव ।
नदीतोयेन सम्पूर्य पुण्यतीर्थजलैरपि ॥ १६ ॥
तानाहृत्य द्विजैः शुद्धः स्थापयेद्वान्यराशिषु ।
एकं मध्ये प्रतिष्ठाप्य प्रागारभ्य प्रदक्षिणम् ॥ १७ ॥
अस्याष्टास्वितरान् दिक्षु सर्वोषधिसमन्वितान् ।
कुशान् ब्रीहीन यवान् दूर्वा हिरण्यं च क्षिपेत् तथा ॥१८॥
पिधाय व्रीहिसम्पूर्णैः शरावैः सकुशैईढम् ।
कुम्भान् वस्त्रैः सुसञ्छाध अहतैस्तान पृथक् पृथक् ॥
एषां पुरस्ताडोमार्थ यज्ञतन्त्र प्रकल्पयेत् ।
तदाज्यभागपर्यन्तं कृत्वोपलेपनादिकम् ॥ २० ॥
आपोहिष्ठामयोभुव इति नवभिर्जुहुयाच्चरुम् ।
व्याहृतीभिश्व तिसृभिः सावित्र्या प्रणवेन च ॥ २१ ॥
कुम्भानां पश्चिमे राज्ञ आसनं परिकल्पयेत् ।
प्रादेशमात्रपादा स्यादासन्यौदुम्बरी ततः ॥ २२ ॥
आस्तृणीयात् तथैवास्यां वैयाघ्र चर्म शोभितम् ।
प्राग्नीवमुत्तरे लोम तस्मिनाजानमासने ॥ २३ ॥
द्वितीयपादे प्रथमः खण्डः। आसीनमभिषिश्चेत् तैः कुम्भतोयैर्यथाकमम् । आपोहिष्ठामयोभुव इत्य॒ग्भिर्नवभिनवैः ॥ २४ ॥ स्थापनक्रम एव स्याद् घटानामभिषेचने । ऋम्भिरब्देवताभिस्तु मूर्धनि प्रोक्षयेद् द्विजैः ॥ २५ ॥ युवंवस्त्राणीत्यनया अहते वाससी ददेत् । लोकपालान् क्रमेणाष्टौ मनसा समुपस्थितः ।। २६ ॥ नृपासन अथासीनं वैयाघ्र चर्मणि स्वयम् । आयुष्यमिति सूक्तेन मकुटं धारयेन्नृपम् ॥ २७ ॥ अन्यैश्च राजलिङ्गैः स्वै राजानं परिवारयेत् । उपैतुमादेवसह इत्यूचोपस्थितो नृपः॥ २८ ॥ जयशब्दैः सुसङ्घोष्य आशीभिः प्रतिनन्द्य च । स्वराज्यायाभिषिक्तस्त्वमिति विप्रैः प्रवाच्य च ॥ २९ ॥ आत्वाहारिषमन्तरेधीत्यथैनमनुमन्त्रयेत् । आरोहतायुर्जरसमित्यूचा नृपवाहनम् ॥ ३०॥ आरुह्य स्वस्तिसूक्तेन गच्छेत् प्राची दिशं नृपः । परीत्य नगरी सम्यक् प्रविश्य स्वगृहं ततः॥ ३१ ॥ ब्राह्मणान् भोजयेद् दद्यादभिषिक्तेऽथ दक्षिणाम् । गां हिरण्यं सुवर्ण च भूमि वस्त्रं तिलान् यवान् ।। ३२ ॥ वीहीश्च दत्त्वा विप्रेभ्यः प्रजांश्च परिपालयेत् ॥ ३२६ ॥ इति शौनकीये राजधर्मे राजाभिषेकविधिः प्रथमः खण्डः ॥
अथ द्वितीयः खण्डः । अथातोऽहं प्रवक्ष्यामि क्षत्रियस्य विभूतये । वाहनानां गजादीनामभिषेकं च शौनकः॥१॥ सर्वलक्षणसम्पन्नान् गजादीन् प्राङ्मुखस्थितान् । अलङ्कृतान् स्वाभरणैाह्मणैः स्वस्ति वाचयेत्॥२॥ एषां पुरस्तात् कलशान् स्थापितान् धान्यराशिषु । नदीतोयेन सम्पूर्य नवान् नव सलक्षणान् ॥ ३ ॥ अभ्यर्च्य गन्धमाल्यैश्च धूपदीपैः पृथक् पृथक् । प्रच्छाद्य वस्त्रैरहतैर्गजादीनभिषेचयेत् ॥ ४ ॥ प्रसुवआप इत्य॒ग्भिर्नवभिः पूर्ववत् कमात् । ऋम्भिरब्देवताभिस्तान् प्रोक्षयेद् ब्राह्मणोत्तमैः ॥ ५॥ गजादीनभिषिच्यैवं चतुर्दिवमिमन्त्रयेत् । प्राच्यां त्वा दिशि वसवो अभिषिञ्चन्तु पुष्टये ॥६॥ दक्षिणस्यां दिशि रुद्रा देवा अभिषिञ्चन्तु श्रेयसे । प्रतीच्यां दिशि आदित्या अभिषिञ्चन्तु तेजसे ॥ ७ ॥ नयां दिशि विश्वेदेवा अभिषिञ्चन्तु वृद्धये। मन्त्रैरेतैरुपस्थाय गजादीनभिमन्त्रयेत् ॥ ८॥ आत्वाहारिषमन्तरेधीति सूक्तेन नृपवाहनम् । आयुष्यमिति सूक्तेन पट्ट बड्डा तु काञ्चनम् ॥ ९ ॥ भारोहतायुरित्यूचारुह्य स्वस्ति वाचयेत् । ब्राह्मणान् भोजयित्वा तु अभिषिक्तोऽथ दक्षिणाम् ॥१०॥ अश्वं हिरण्यं धान्यं वा प्रदद्यात सुसमाहितः ॥ १० ॥ इति शौनकीमे राजधर्मे द्वितीयः खण्डः ॥
द्वितीयपादे चतुर्थः खण्डः।
७१
अथ तृतीयः खण्डः।
नृपलक्षणमप्यत्र कीर्त्यते हितकाम्यया ।
कृत्यानि चैव कर्माणि सङ्क्षपाद् विस्तरान्नृपः ॥ १॥
कुलीनः सत्यसन्धश्च सत्यवादी जितेन्द्रियः।
समग्रावयवो वीरः शूरो वाग्ग्मी जनप्रियः ॥ २ ॥
सर्वलक्षणसम्पन्नो वाग्ग्मिवंशक्रमागतः।
अभिषिञ्चेद् वृतोऽनेन राज्ञा पूर्व पुरोहितः ॥ ३ ॥
आदावेवाभिषेकार्थमीदृशं ब्राह्मणं नृपः ।
पुरोदधीत यत्नेन अर्घ्यपाद्यादिभिः क्रमात् ॥ ४ ॥
वस्त्रैराभरणैश्छत्रैः पूजयित्वा विधानतः ।
इममुच्चारयेन्मन्त्रं हस्तं सगृह्य दक्षिणम् ॥ ५ ॥
बृहस्पतियथेन्द्रस्य तथा मे हिजसत्तम!।
सर्वाः प्रजाः पालयितुं प्रसीद भगवन् ! मम ॥ ६ ॥
अनुज्ञाप्यैवमाचार्य मन्त्रेणानेन भूपतिः।
तदधीनो भवेन्नित्यमभिषेकादिकर्मसु ॥ ७ ॥
ब्राह्मणाधीनो राजन्यः सकलं भद्रमश्नुते ॥ ६ ॥
इति शौनकीये राजधर्मे तृतीयः खण्डः ।।
Aru-
अथ चतुर्थः खण्डः।
महाभिषेकं वक्ष्यामि राजन्यस्य विधानतः ।
ऐतरेयविधानोक्तं ज्ञात्वा सर्व यथाक्रमम् ॥ १ ॥
अथ विष्ण्वालये रम्ये मण्डपं कारयेच्छुभम् ।
लेपनास्तरणोपेतं वितानध्वजशोभितम् ॥२॥
७२
:
शौनकीय
तोरणैर्वस्त्रसंयुक्तैश्चतुर्दारेषु शोभितम् ।
नवरत्नाम्बरैयुक्तैः कलशैदिक्ष्वलकृतम् ॥ ३ ॥
शरावपालिकाकुम्भैः साङ्कुरैश्च तथैव च ।
पुष्पैः फलैः किसलयैः पूर्णकुम्भादिभिः शुभैः ॥ ४ ॥
स्रग्दामधूपदीपैश्च मुक्तादामभिरेव च ।
आतोद्यैः सर्वतो घुष्टं स्वनवद्भिश्चतुर्विधैः ॥ ५ ॥
ब्रह्मघोषसुसम्पूर्णमन्यैर्मङ्गलवस्तुभिः ।
मण्डपेऽनुपमे तस्मिन्नभिषिञ्चेत् पुरोहितः॥६॥
प्रशस्ततिथिवारेण तिष्येण श्रवणेन वा ।
ऐन्द्रसावित्रपौष्णेषु रोहिण्यामुत्तरेषु वा ॥ ७ ॥
श्राद्धमभ्युदयं दद्यात् पितृभ्यश्च पुरोऽहनि ।
रात्रौ प्रतिसरं कुर्याद्वस्त्राभरणभूषितम् ॥ ८ ॥
पुण्ये मुहूर्ते राजानमाचार्यश्चाप्यलकृतः ।
चोभूते मण्डपे तस्मिन् पुण्याहं वाचयेद् द्विजैः॥९॥
चतुरश्राणि कुण्डानि चतुर्दिक्षु प्रकल्प्य च ।
प्राच्यामृग्वेदविद् विप्रो होमकर्म समाचरेत् ॥ १० ॥
दक्षिणस्यां यजुर्वेदी पश्चिमे सामगायकः ।
आथर्वणोत्तरे देशे यथाविधि समाहितः ॥ ११ ॥
इन्द्रयमजलशानसोमा वै देवताः स्मृताः।
यथाक्रमण सम्प्रोक्ताः प्रागारभ्य. प्रदक्षिणम् ॥ १२ ॥
समिद्भिराज्यैश्चरुभिः स्थालीपाकविधानवत् ।
कुर्युरध्ययनं विप्राश्चतुर्दिक्षु यथाक्रमम् ॥ १३ ॥
द्वितीयपादे चतुर्थः खण्डः। ७३ पञ्चहस्ता भवेद्वेदिरेकहस्तसमुच्छ्या । कर्तव्या मण्डपे तस्मिन् मध्ये दर्पणसन्निभम् ॥ १४ ॥ अरनिमात्रपिस्तारादुर-बरमयं दृढम् । प्रादेशमात्रमुत्सेधं पीठं तत्र प्रकल्पयेत् ॥ १५ ॥ तत्रोपरि समास्तीर्य व्याघ्रचर्म यथाविधि । पुरस्तात् तस्य पीठस्य कुम्भान हेममयाञ्छुभान् ॥१६॥ शालीतण्डुलपुञ्जस्थान् द्रोणमानानलङ्कृतान् । वस्त्रमाल्याक्षताभिश्व नवरत्नसमन्वितान् ॥ १७ ॥ चतुरः सपिधानांश्च सूत्रेण परिवेष्टितान् । कुम्भान् संशोध्य तोयेन तेषु द्रव्याणि निक्षिपेत् ॥१८॥ पूर्व दना तु सम्पूर्य दक्षिणं मधुना ततः । पश्चिमं सर्पिषा चैव उत्तरं तीर्थवारिणा ॥ १९ ॥ न्यग्रोधौदुम्बराश्वत्थप्लक्षशृङ्गाणि निक्षिपेत् । श्वेतवस्त्रैरलङ्कृत्य कुम्भान् सर्वाननुक्रमात् ॥ २० ॥ शुभे मुहूर्ते राजानं पीठमारोहयेद् गुरुः । ऐतरेयोक्तमन्त्रेण ब्रह्मघोषविघोषिते ॥ २१ ॥ शङ्खदुन्दुभिनिर्घोषैर्नृत्तगेयसमन्वितैः । सुश्रव्यैः श्राविते काले अभिषिश्चन्नृपं द्विजः ॥ २२ ।। देवस्यत्वेति यजुषा पूर्व दध्नाथ मन्त्रवित् । शंनोमिति मन्त्रेण मधुकुम्भेन पार्थिवम् ॥ २३ ॥ सर्पिषा स्लापयित्वा तु व्याहृतीभिरनन्तरम् । सावित्र्या तीर्थतोयेन अभिषिञ्चेत् पुरोहितः ॥ २४ ॥ L
शौनकीये
युर्ववस्त्राणीत्यनया क्षौमे वस्त्रे वसेन्नृपः।
अथ सिंहासने शुद्धे आसीनं व्याघ्रचर्माण ॥ २५ ॥
इन्द्रबुद्ध्या तमभ्यर्च्य गन्धमाल्यादिभिः क्रमात् ।
विप्रैश्चतुर्भिरानीतं वेदवेदाङ्गवेदिभिः ॥ २६ ॥
सर्वरत्नसमायुक्तं जाम्बूनदमयं शुभम् ।
आयुष्यमिति सूक्तेन मकुटं तच्छिरोपरि ॥ २७ ।।
धारयित्वा गुरुः सम्यग्जातवेदस्समप्रभम् ।
पूर्णचन्द्रनिभं छत्रं मुक्तादामविभूषितम् ॥ २८ ॥
हेमदण्डं गृहीत्वान्यः पार्थिवोपरि धारयेत् ।
दिवश्च्छहाहीरादेन गुरुणा त्वभिमन्त्रितम् ॥ २९ ॥
गृहीत्वा चामरे शुद्धे वीजयेता नरेश्वरम् ।
आशीर्वादैवदेयुस्तं ब्राह्मणा वेदपारगाः॥ ३० ॥
यथा महेन्द्रो देवानां रुद्राणां शङ्करो यथा ।
तथा त्वमसि नो राजा सर्वां पाहि वसुन्धराम् ॥ ३१ ॥
एवं कृताभिषेकं तं ब्राह्मणैवेदपारगैः ।
वन्देयुः सचिवाः सर्वे सामात्याः कृतभूषणाः ॥ ३२ ॥
तत उत्थाय नृपतिर्गुरवे दक्षिणां ददेत् ।
सहस्रद्रविणं ग्रामं हस्तिनं चाश्वमेव च ॥ ३३ ॥
तमनुज्ञाप्य ऋत्विग्भ्यः प्रत्येकं तु शतं शतम् ।
द्रविणं दापयेद्राजा सोदकं शान्तमानसः ॥ ३४ ॥
आचण्डालान्तमन्नायं तस्मिन्नहानि कारयेत् ।
वस्त्रौदनहिरण्यायैस्तर्पयेद् भूसुरांस्ततः॥ ३५ ॥
द्वितीयपादे पञ्चमः खण्डः । आराधमाचं देवानामृद्धं सम्यक् प्रकल्पयेत् । निगलान्मोचयेत् सर्वान् दुःखितान् भूपतिः स्वयम् ॥ अथ नागं समारुह्य सर्वाभरणभूषितः । परीत्य नगरं सम्यक् सर्वमङ्गलसंयुतम् ॥ ३७ ॥ स्वस्तिघोषेण महता गुरुणा सहितो नृपः। शुभे मुहूर्ते प्रासादं सामात्यः प्रविशेच्छुभम् ॥ ३८ ॥ यस्त्वेवं विधिवद्विप्रैरभिषिक्तो नरेश्वरः । स दीर्घमायुराप्नोति श्रेयश्चाप्नोत्यनुत्तमम् ॥ ३९ ॥ निस्सपत्नां महीं पाति चिरकालं न संशयः । लभते बहुपुत्रांश्चाप्यारोग्यं च नरेश्वरः ॥ ४० ॥ इति शौनकीये राजधर्मे चतुर्थः खण्डः ॥ अथ पञ्चमः खण्डः। आयुधाराधनं राज्ञां प्रयाणे समुपस्थिते । कुर्यात् पुरोधा यत्नेन सर्वापद्वारकं परम् ॥१॥ स्त्रातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । शुचौ देशे समासीनः प्राङ्मुखः प्रयतः शुचिः ॥ २ ॥ चापमादाय सशरं प्रोक्षितं शुद्धवारिणा । धान्यराशिषु विन्यस्य सशरं क्षौमवेष्टितम् ॥ ३ ॥ तस्य दक्षिणतः खड्गं विन्यस्यैवमतन्द्रितः। कुन्तमुत्तरतो न्यस्य पूजयेद् गन्धमाल्यकैः ॥ ४ ॥ हरिद्रान्नं बलिं. दत्त्वा मन्त्रानेतानुदीरयेत् । यथा विष्णोर्महांश्चापो विनिघ्नन् दैत्यदानवान् ॥५॥ ..
शौनकीये
पिनाकिनः पिनाको वा तद्वदस्मद्रिपूञ् जहि ।
खड्गरूपिन् ! नमस्तुभ्यं शत्रून छिन्धि महाहवे ॥ ६॥
पाहि नः पापबुद्धीनां सन्निधौ समितिञ्जय! ।
यथा वज्रो महेन्द्रस्य निनन् रिपुगणान् युधि ॥ ७ ॥
तथा कुन्त ! त्वमस्माकं रिपून भिन्द रणाग्रतः ।
एवमुक्त्वा तु राजानं ग्राहयेत् कवचं द्विजः॥ ८॥
जीमूतस्येति मन्त्रेण गृहीत्वा कवचं नृपः।
धन्वनागा इत्यनया धनुरादाय पार्थिवः ॥९॥
तिष्ठन् पूर्वोक्तमन्त्रेण नमस्कृत्य प्रदक्षिणम् ।
परीत्य सोदकुम्भं च विप्रं चैव समाहितः ॥ १० ॥
खड्गमप्येवमादाय नमस्कृत्य समन्त्रकम् ।
कुन्तं चैव तथा कृत्वा पश्चात् सूर्य समाहितः ॥११॥
नमस्कृत्य व्रजेच्छृण्वन् स्वस्त्यात्रेयं नरेश्वरः ।
इष्टान् कामानवाप्याथ स्वस्तिमान् पुनरेष्यति ॥ १२ ॥
इति शौनकीये राजधर्मे पञ्चमः खण्डः ॥
अथ षष्ठः खण्डः।
अथ राजा विभूत्यर्थं वर्षोत्थानं समाचरेत् ।
अलङ्कृते समे शुद्धे मण्डपे स्वस्ति पाचयेत् ॥ १ ॥
प्रभाते तीर्थतोयेन स्नानं कृत्वा समाहितः ।
पश्चान्मन्दिरमासाद्य सर्वाभरणभूषितः ॥२॥
गुरुणा कारयेहोम मुहूर्ते मण्डपे शुभे ।
ततो गुरुः समासीनो यज्ञतन्त्रं प्रकल्पयेत् ॥ ३ ॥
द्वितीयपादे सप्तमः खण्डः । अमेः पुरस्ताद्विन्यस्य हेमकुम्भं जलान्वितम् । गन्धाधैरर्चयित्वा तं होमकर्म समारभेत् ॥ ४ ॥ आज्येन संस्कृते भूमावन्वारब्धो नृपो यजेत् । त्रातारामिति सूक्तेन प्रत्यूचं जुहुयाद् द्विजः ॥ ५॥ लोकपालान् यजेत् पश्चाच्चतुर्थ्यन्तैः स्वनामभिः । ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ॥ ६ ॥ ततः कुम्भस्थतोयेन प्रोक्षयेद् भूपतिं कुशैः । रक्षां तु विधिवत् कृत्वा समासीनमथासने ॥ ७ ॥ प्रत्यङ्मुखः समासीनः पुरस्तात् तस्य भूपतेः । सुवर्णसूच्या सौवर्णे पात्रे स्वस्तिसमन्वितम् ॥ ८ ॥ तस्य नाम गृहीत्वा तु संलिखेदब्दनिर्णयम् । शङ्खतूर्यनिनादाढ्ये ब्रह्मघोषसमन्विते ॥ ९॥ शुभे मुहूर्ते सम्पूज्य गजादीन् स्वस्ति वाचयेत् । दक्षिणां च यथापूर्व दद्यादित्याह शौनकः ॥ १०॥ देवताभ्यर्चनं कृत्वा ब्राह्मणान् भोजयेन्नृपः । सार्ववर्णिकमन्नाद्यं तस्मिन्नहनि कारयेत् ॥ ११ ॥ वस्त्राभरणमाल्यादीन् सचिवेभ्यः प्रदापयेत् । हिरण्यं वस्त्रं गामश्वं गुरवे दक्षिणां ददेत् ॥ १२ ॥ इति शौनकीये राजधर्मे षष्ठः खण्डः ॥ अथ सप्तमः खण्डः। नवम्यामश्वयुङ्मासि कार्तिक्यायामथापिवा । हस्तिनीराजनं कुर्याद्राजा गजसमृद्धये ॥ १ ॥ १. 'त्वा भन्बा' ख. पाठः.
शौनकीये प्रागुदप्रवणे देशे विशाले सुमनोरमे । पूर्वस्यां तूत्तरस्यां वा नगरस्य बहिदिशि ॥२॥ पञ्चाशद्वस्तनिर्माणं देशं सम्प्रोक्ष्य वारिणा । तन्मध्ये तोरणं कुर्यादनस्पतिमयं शुभम् ॥ ३ ॥ स्योनापृथिवीत्यनया स्थापयेत् सुदृढं समम् । षोडशारनिरुत्सेधं विस्तारेण तदर्धकम् ॥ ४॥ ऋजुं निरक्षं सुस्निग्धं वस्त्रयुग्मविभूषितम् । उच्छ्यस्वेति मन्त्रेण सम्प्रोक्ष्य परितो जलैः ॥ ५ ॥ अन्यैश्चाब्लिङ्गमन्त्रैश्च गन्धपुष्पैस्ततोऽर्चयेत् । तोरणस्तम्भयोर्वेदी द्विहस्ते कारयेद् बुधः॥६॥ फलैः पुष्पैः किसलयैः स्तम्बकैर्भूषयेत्ततः । होमं तदक्षिणे कुर्यात् समाहितमना गुरुः ॥ ७ ॥ कुण्डे वा स्थण्डिले वाथ यज्ञतन्त्रं प्रकल्पयेत् । पूर्णकुम्भानष्टदिक्षु विन्यसेद्धान्यराशिषु ॥ ८ ॥ तेष्वावाह्य दिशां पालान् पूजयेद्वस्त्रमाल्यकैः । योजात इति सूक्तेन प्रत्यूचं जुहुयाद् घृतम् ॥ ९॥ माधुच्छन्देन सूक्तेन पश्चाद्धोमं समाचरेत् । ओचिदिति सूक्तेन याम्यहोमं ततः परम् ॥ १० ॥ मोषुणःपरापरेति निर्ऋत्यैर्जुहुयाद् घृतम् । वारुणेनैव सूक्तेन जुहुयावरुणाय च ॥ ११ ॥ १. 'दय ॥' ख. पाठः.
द्वितीयपादे सप्तमः खण्डः । २ ॥ वायवायाहिसूक्तेन यजेद्वायुं समाहितः। त्वंसोमौसीति सूक्तेन सोमाय जुहुयाहविः ॥ १२ ॥ पश्चाद्रौद्रेण सूक्तेन रुद्रमिष्ट्वा यथाक्रमम् । आनोभद्रीयसूक्तेन होमशेषं समापयेत् ॥ १३ ॥ चरुणा चैवमिष्ट्वाऽथ मधुना पयसा तथा । पश्चात् स्विष्टकृतं हुत्वा बलिं तेभ्यः समाहरेत् ॥ १४ ॥ दुर्गामाराध्य विधिवदग्नेः पूर्वोत्तरे स्वयम् । कन्यकाश्च समभ्यर्च्य वस्त्राभरणमाल्यकैः ॥ १५ ॥ हिरण्यकुसुमां सिंहीममृतामपराजिताम् । पृश्निवर्णा ततो व्याघ्रीं दूर्वामुत्पलनालिकीम् ॥ १६ ॥ कुष्ठचन्दनपद्मानि नलदान्यगुरूाणि च । प्रक्षिप्य कुम्भे सौवणे तीर्थतोयैः प्रपूर्य च ॥ १७ ॥ गजाधिपं गजांश्चैव प्रोक्षयेत् तेन वारिणा । आपोहिष्ठेति सूक्तेन स्वस्तिवाच्य यथाविधि ॥ १८ ॥ गजमारोप्य राजानं तोरणाभ्यन्तरे गुरुः । स्वस्त्यात्रेयं जपेन्मन्त्रं त्रिष्कृत्वः सप्रदक्षिणम् ॥ १९ ॥ प्रस्थापयेत् प्रभु तेन गजेन्द्रेण द्विजोत्तमः । पार्श्वतो दीप्यमानासु दीपिकासु च दीपिकैः ।। २० ॥ सारोहा वारणाः सर्वे गच्छेयुस्तस्य पृष्ठतः। उपलिप्तासु शालासु स्वासु स्वासु विसृज्य तान् ॥२१॥ १. 'मेनेति', २. 'द्रेति सू', ३. 'लिभ्यश्च स', ५. 'क्ष्य यत्नेन' ग. पाठ.. ४ चै', ८० शौनकीये सामात्यो भृत्यसहितः प्रविशेन्मन्दिरं नृपः । ब्राह्मणान् भोजयित्वा तु गुरवे दक्षिणां ततः॥ २२ ॥ हस्तिनं गां हिरण्यं च वस्त्रमाल्यानुलेपनम् । दद्यान्नृपः स्वयं तस्मै सम्यगाभरणानि च ॥ २३ ॥ एवं नीराजनाद्राजा सर्वान् कामानवाप्नुयात् । निरातङ्का गजाः सर्वे भविष्यन्ति न संशयः॥ २४ ॥ इति शौनकीये राजधर्मे सप्तमः खण्डः ॥ अथाष्टमः खण्डः। अश्वनीराजनं वक्ष्ये अश्वानां हितकाम्यया। तद्वच्चैवाश्वयुङ्मासि पूर्वपक्षे नृपोत्तमः ॥ १॥ कारयित्वाश्वशालासु होमशालामलङ्कृताम् । प्रत्यूषे स्नापयित्वाश्वान् सम्यक् तीर्थे जलाशये ॥२॥ सप्ताहं कारयेद्धोमं रक्षां बड्वा तुरङ्गमान् । स्थण्डिलाद्याज्यभागान्तं यज्ञतन्त्रं प्रकल्पयेत् ॥ ३ ॥ ब्राह्मणैः सोदकान् कुम्भान् चतुर्दिक्षु सहौषधीन् । विन्यस्य विद्वान् धान्येषु तेष्वेतान् प्रक्षिपेत् ततः॥४॥ अग्नेः पूर्व हस्तमात्रं वेदी सम्यक् प्रकल्प्य च । तन्मध्ये भास्करं देवमर्चयेत् सुसमाहितः॥ ५ ॥ बिल्वपत्रं तथा दूर्वामश्वक्रान्ति महोत्पलम् । सहदेवीं सदाभद्रां विष्णुक्रान्ति तथैव च ॥ ६ ॥ १. 'न्वितम् ।' क. ग, पाठः, द्वितीयपादे नवमः खण्डः । उदुत्यमिति सूक्तेन प्रत्यूचं जुहुयाद् घृतम् | वायुसूक्तेन रौद्रेण वैष्णवेन ततः परम् ॥ ७ ॥ मधुना जुहुयात् पश्चाद्वारुणेन समाहितः । होमशेष समाप्यैवमुपस्थाय हुताशनम् ॥ ८ ॥ ततः कुम्भस्थतोयेन प्रोक्षयेत् तुरगान् द्विजः। एवं निवर्त्य सप्ताहं नवम्यां तुरगान बहिः ॥ ९ ॥ प्रस्थाप्य होमं कुर्वीत पूर्ववत् तोरणान्तिके । मातङ्गनीराजनवदन्यत् सर्व समाचरेत् ॥ १० ॥ इति शौनकीये राजधर्मे अष्टमः खण्डः ॥ अथ नवमः खण्डः। अथ स्वजन्मनक्षत्रे स्नातः शुक्लाम्बरो नृपः । कृतकौतुकबन्धश्च सर्वाभरणभूषितः ॥ १ ॥ नक्षत्रदेवतापूजां कुर्याद् गुरुसमन्वितः । आचार्येणैव होतव्यो होमः सर्वत्र भूपतेः ॥ २ ॥ स्थण्डिलाधाज्यभागान्तं कृत्वा सर्व यथाक्रमम् । दूर्वा घृताक्ता जुहुयादष्टोत्तरशताहुतीः ॥ ३ ॥ यदैवत्यं तु नक्षत्रं मन्त्रस्तदैवतः स्मृतः । ततः स्विष्टकृता सर्व होमशेष समापयेत् ॥ ४ ॥ गोभूहिरण्यवस्त्राद्यैाह्मणान् भोजयेत् ततः । तस्मिन्नहनि सर्वत्र देवतायतनानि च ॥ ५ ॥ मोचयेद् दु:खितान् सर्वान्निरुद्धान् नृपसत्तमः । सार्ववर्णिकमन्नाथं तस्मिन्नहनि कारयेत् ॥ ६ ॥ M
धौनकाये
पूजयित्वा विधानेन पूजितव्यान स्वबान्धवान् ।
न हिंस्यात् सर्वभूतानि तदहस्तु विशेषतः ॥७॥
एवं समाचरन् राजा सुखी भवति सर्वदा ॥ ७ ॥
इति शौनकीये राजधर्मे नवमः खण्डः ।।
अथ दशमः खण्डः ।
नित्याभिषेकं वक्ष्यामि राज्ञामायुष्करं परम् ।
पुष्टिदं धन्यमारोग्यं यशस्यं पापनाशनम् ॥ १ ॥
प्रातरुत्थाय नृपतिः कुर्याद् दन्तस्य धावनम् ।
मानशालां समागम्य स्नात्वा पूतेन वारिणा ॥ २ ॥
आच्छाद्य वाससी शुद्ध प्राङ्मुखस्तु समाहितः ।
प्रक्षाल्य पादावाचम्य सन्ध्यां कृत्वा यथाविधि ॥ ३ ॥
सम्प्रोक्ष्य पावमानीभिरद्भिस्तीर्थन वारिणा ।
जलेन तर्पयित्वा तु पित्रादीन् सतिलेन तु ॥ ४ ॥
अध्यं दत्त्वा च देवस्य भास्करस्य समाहितः ।
अग्निकार्य ततः कुर्याद् देवताचनपूर्वकम् ॥ ५॥
ब्राह्मणानर्चयेत् पश्चाद् गोहिरण्यतिलादिभिः ।
ततोऽलङ्कृतगात्रः सन् घृतमन्वीक्ष्य मन्त्रवित् ॥ ६ ॥
घृतस्य जूतिः सहस्र(श ?) शृङ्ग पुरुविष्णुरिति क्रमात् ।
घृतपात्रं तु विप्राय दद्यात सकनकं नृपः ॥ ७ ॥
ततः सभा समासीत विहद्भिाह्मणैः सह ।
निधित्य तत्र कृत्यानि सामात्यः सपुरोहितः ॥ ८ ॥
द्वितीयपादे एकादशः खण्डः । ८३. पूजयित्वा यथान्यायं कृत्ये तान् विनियोजयेत् । । ततः कुञ्जरमारुह्य विनीतः पर्यटेत् पुरम् ॥ ९ ॥ अप्रमादी भवेद्राजा विद्वान् सर्वत्र संयतः । मध्याह्न भोजनं कुर्याद् यथाविधि परीक्षितम् ॥ १०॥ इतिहासपुराणादी कृणुयात् तदनन्तरम् । अलङ्कृतवापराह्ने प्रसमीक्षेत् स्वकं बलम् ॥ ११ ॥ अभीष्टमन्यत् कुर्वीत तत्रासीनो नरेश्वरः । सायं सन्ध्यामुपासीत पश्चाद् भुज्यात सुसंवृतः ॥१२॥ मनोरमे शुचौ देशे गुप्ते वातविवर्जिते । सुप्त्वा काले समुत्थाय ब्राझे कार्याणि चिन्तयेत् ॥ १३ ॥ एवं प्रतिदिनं कुर्वन् सर्वान् कामानवाप्नुयात् ॥ १३ ॥ इति शौनकीये राजधर्मे दशमः खण्डः ॥ अथ एकादशः खण्डः। कल्याणाङ्गं नरेन्द्राणां वक्ष्ये कौतुकबन्धनम् । पूर्वेधुराह्निकं कृत्वा श्राद्धमभ्युदयादिकम् ॥१॥ रात्रौ शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । कृत्वा मुहूर्त कल्याणे शङ्खदुन्दुभिनादिते ॥ २ ॥ पुण्याहघोषसंयुक्ते प्रविशेन्मण्डपं ततः । पूर्णकुम्भसमायुक्तं धूपदीपसमाकुलम् ॥ ३ ॥ तस्मिन् प्राङ्मुख आसीनो विशुद्धे विष्टरे नृपः । नववस्त्रान्तर्हितात्मा गुरुश्चैव विभूषितः॥४॥ १. नि. शू' ग. पाठः, 1..
: शौनकीये.
सम्प्रोक्ष्य पावमानीभिः सौवर्ण ब्रह्मसूत्रकम् ।
दद्यात् समन्त्रकं राज्ञे सौवर्ण चाङ्गुलीयकम् ॥ ५ ॥
सौवर्णकुसुमांश्चैव वलयं च समाहितः ।
रक्षा कृत्वाथ राक्षोनैबध्नीयात् कौतुकं गुरुः ॥ ६ ॥
प्रकोष्ठे भूपतेस्तस्य इन्द्राभिध्यानपूर्वकम् ।
अद्याद्य इति मन्त्रेण बृहत्सामेत्यूचा पुनः ॥ ७ ॥
कौशेयतन्तुसंयुक्तं सौवर्ण कौतुकं विदुः ।
ब्रह्मचारी भवेद्राजा रात्रिशेषं समाहितः ॥ ८ ॥
श्रोभूते विधिवत् स्नात्वा सन्ध्यां कृत्वा तथैव च ।
शुभे मुहूत्र्ते कल्याणं कुर्वीत तदनन्तरम् ॥ ९॥
इति शौनकीये राजधर्मे एकादशः खण्डः ॥
अथ द्वादशः खण्डः।
अथ शान्ति प्रवक्ष्यामि गजानां पुष्टिवर्धनीम् ।
रोगादिषु समुत्पन्नेष्वैश्वर्येषु गजेष्विमाम् ॥ १ ॥
शान्ति सम्यक् प्रयुञ्जीत तापत्रयविनाशिनीम् ।
अग्रतो गजशालायां वेदिं कृत्वा विधानतः ॥ २ ॥
अरनिमात्रविस्तारं पञ्चाङ्गुलिसमुद्रतम् ।
तस्यास्तु पश्चिमे देशे होमकुण्डं प्रकल्प्य च ॥ ३ ॥
नदीतोयेन सम्पूर्य कुम्भं वेद्यां निधाय तु ।
तस्मिन्नावाह्य लोकेशानाराध्य विधिवत् ततः ॥ ४ ॥
होमकुण्डेऽग्निमानीय यज्ञतन्त्र प्रकल्पयेत् ।
इध्माधानाज्यभागान्तं कृत्वा सर्व यथाक्रमम् ॥ ५॥
ܕܐ द्वितीयपादे द्वादशः खण्डः । लोकपालान् यजेत् तत्र चरुणा पायसेन तु । इन्द्रादीशानपर्यन्तं स्वैः स्वैर्मन्त्रैर्यथाक्रमम् ॥ ६ ॥ यतइन्द्रभयामह इत्यत्वंनोअन्तमः । इमंयमप्रस्तरं च धर्मराजस्य कीर्तितः ॥ ७ ॥ मोषुणःपरापरेति निर्ऋतेर्जुहुयाइविः । शततेराजन्निति च वारुणो मन्त्र उच्यते ॥ ८ ॥ वायवे वातआवातु सोमस्य च यथाक्रमम् । त्वंसोम इतिमन्त्रेण जुहुयात् पायसं चरुम् ॥ ९ ॥ एवाबभ्रोवृषभेति ईशानाय प्रकीर्तितः । एवमिष्ट्वा तिलैलाजैः सक्तुभिश्च पृथक् पृथक् ॥ १० ॥ आज्येन मधुना चैव होमशेषं समापयेत् । पश्चादुहास्य देवांस्तांस्तज्जलेन द्विजो गजान् ॥११॥ सम्प्रोक्ष्य पावमानीभिरब्लिङ्गाभिरनन्तरम् । पुण्याहं वाचयित्वा तु ब्राह्मणान् भोजयेत् ततः ॥१२॥ रक्षां कृत्वाथ रक्षोध्नस्ततः कर्म समापयेत् । दक्षिणां च यथाशक्ति दद्यादित्याह शौनकः ॥ १३ ॥ प्रत्यब्दं कारयेद्राजा शान्ति गजसमृद्धये । दीर्घायुषो गजाः सर्वे भवन्त्यस्य न संशयः ॥ १४ ॥ देवताभ्यर्चया राजा ब्राह्मणानां तु पूजया। सुखी भवति सर्वत्र समृद्धगजवाजिमान् ॥ १५ ॥ इति शौनकीये राजधर्म द्वादशः खण्डः ।। १. 'जैर्दाभि' ग. पाठः.
८६ शौनकीये अथ त्रयोदशः खण्डः । जातवेदस इत्येतत् सूक्तं सर्वार्थसाधनम् । आयुरारोग्यसुखदं भूतिदं शत्रुनाशनम् ॥ १ ॥ यद्यद्वाञ्छति वा विप्रस्तत्तदाप्नोत्यसंशयम् । सूक्तेनानेन जुहुयाच्छुचौ देशे द्विजोत्तमः ॥ २ ॥ गोष्ठे देवालये वाथ नदीतीरे गृहेऽपि वा । प्रातमध्यन्दिने तद्वत् प्रदोषे च विशेषतः ॥ ३ ॥ मन्त्रेणानेन जुहुयाच्छुक्लाम्बरधरः शुचिः । जपेद्वा नियतो मन्त्रं हविष्याशी जितेन्द्रियः ॥ ४ ॥ पशुपुत्रधनाद्यथै प्रत्येक लक्षमभ्यसेत् । सर्वेषामेव देशानां विशिष्टं देवतालयम् ॥ ५ ॥ तस्मादेवालये कुर्वन् विशिष्टं फलमश्नुते । तत्र प्राची प्रशस्ता दिगामेयी च विशेषतः ॥ ६ ॥ याम्या च नैर्ऋती चैव जघन्या जपहोमयोः । प्रतीची वायवीया च श्रेष्ठा सौम्या च दिक् सदा॥७॥ ऐशानी त्वाभिचारे च विजये च विशिष्यते कुण्डे वा स्थाण्डिले वाथ होमं कुर्यादतन्द्रितः ॥ ८॥ चतुरनं भवेत् कुण्डं मेखलाद्वयसंयुतम् । स्थण्डिलाद्याज्यभागान्तं यज्ञतन्त्रं प्रकल्पयेत् ॥ ९ ॥ होष्यन् द्विजः शुचिर्दान्तः सर्वभूतहिते रतः । दुर्गामावाहयेत् कुम्भे सायुधाष्टमहाभुजाम् ॥ १० ॥ १. 'क' ग. पाठः द्वितीयमाद चतुर्दशः खण्डः । नीलोत्पलदलश्यामां किरीटायैविभूषिताम् । ततश्चाराध्य तां देवीं तस्मिस्तीर्थोदकान्विते ॥ ११॥ आज्येन हविषा चैव समिद्भिश्च पृथक् पृथक् । मन्त्रेणानेन जुहुयादष्टोत्तरशताहुतीः ॥ १२ ॥ ततः स्विष्टकृदौरभ्य होमशेष समापयेत् । उत्थायाथ जपेन्मन्त्रमेतं श्रद्धासमन्वितः ॥ १३ ॥ प्रसीदतां जातवेदा दुर्गा च वरदा मम । तस्याः प्रसादात सर्वत्र वाञ्छितं मेऽस्तु सर्वदा ॥ १४ ॥ राजा चैव विभूत्यर्थ प्रतिसंवत्सरं बुधः । कारयित्वा विधानेन सर्वान् कामानवाप्नुयात् ॥ १५ ॥ इति शौनकीये राजधर्मे त्रयोदशः खण्डः ॥ अथ चतुर्दशः खण्डः। तिथिपूजां ततो वक्ष्ये सर्वसिद्धिप्रदायिनीम् । अमावास्यां शुचिः स्नात्ती सोपवासो जितेन्द्रियः॥१॥ ततः प्रतिपदि स्नात्वा पावकं पूजयेत् स्वयम् । उपलिप्ते शुचौ देशे वितानादिविभूषिते ॥ २ ॥ तन्त्रं कृत्वाज्यभागान्तं गन्धपुष्पैस्ततोऽर्चयेत् । माधुच्छन्देन सूक्तेन प्रत्यूचं जुहुयाद्धविः ॥ ३ ॥ आज्याहुतिश्च होतव्या क्रमेण तदनन्तरम् । पश्चात् स्विष्टकृता चैव होमशेष समापयेत् ॥ ४॥ १. 'ता चैव हो' ग. पाठः. २. 'त्वा उपवासी जि' ख. पाठः, ८८ शौनकीये अनेन विधिना यस्तु पावकं पूजयेन्नृपः । स पावकपुरं याति सर्वदुःखविवर्जितः ॥ ५॥ प्रतिपद्यमिपूजा स्याच्छुक्लपक्षे यथाविधि । ब्रह्मपूजा द्वितीयायां ब्रह्मवर्चसमिच्छता ॥६॥ पलद्वयेन प्रतिमां शातकुम्भेन कारयेत् । पद्मासनं चतुर्वक्त्रं चतुर्बाहुं स्मिताननम् ॥७॥ पूर्वोक्तदेशे कुर्वीत वेदि शालामयी शुभाम् । एकहस्तसमुत्सेधां चतुर्हस्तसमायताम् ॥ ८ ॥ पञ्चगव्येन सम्प्रोक्ष्य ब्रह्माणं तत्र पूजयेत् । हैरण्यगर्भसूक्तेन गन्धपुष्पादिभिः क्रौत् ॥ ९ ॥ आवाहनमथायं च पाद्यमाचमनीयकम् । स्नानं गन्धं ततः पुष्पं धूपं दीपं चरुं तथा ॥ १० ॥ एवं कमेण दशभिः कृत्वा पूजामतन्द्रितः । कृत्वा प्रदक्षिणीकृत्य उपतिष्ठेत् प्रजापतिः ॥ ११ ॥ ओं चम इति मन्त्रेण प्रणवान्तेन शान्तधीः । ब्राह्मणं च समभ्यर्च्य वेदवेदाङ्गपारगम् ॥ १२ ॥ तस्मै तो प्रतिमां दद्यात् सौदनं काञ्चनी बुधः । एवं दत्त्वा द्विजेन्द्राय द्वितीयायां महीपतिः ॥ १३ ॥ सर्वान् कामानवाप्नोति चतुर्वक्त्रप्रप्तादतः। धनेश्वरं तृतीयायां प्रणवेन समर्चयेत् ॥ १४ ॥ पूर्वोक्तनैव विधिना दत्त्वा धनमवाप्नुयात् । विनायकं चतुझं तु यो दद्यात् पूर्ववन्नृपः ॥ १५ ॥ १. 'मात् । ॐ च मे', २. 'ततः' ग. पाठः.
द्वितीयपादे चतुर्दशः खण्डः । तन्मन्त्रेण समभ्यर्च्य विदुषे ब्रह्मचारिणे । सोऽप्यविनेन सर्वत्र सुखी भवति सर्वदा ॥ १६ ॥ पञ्चम्यां तु श्रियं पूज्य श्रीसूक्तेन समाहितः । दद्याद् विप्राय विदुषे सभार्यायाहिताग्नये ॥ १७ ॥ स श्रियं लभते नित्यं सर्वकामसमन्वितः । स्कन्दं षष्ठयां यजेद्यस्तु विधिनानेन भूपतिः ॥ १८ ॥ क्षेत्रस्यपतिनेत्येष मन्त्रस्तस्य विधीयते । श्रद्धाभक्तिसमायुक्तः कुर्वन् यो विजयी भवेत् ॥ १९॥ सप्तम्यां यः सहस्रांशुमेवमेवार्चयेन्नृपः । नमोमित्रस्यसूक्तेन सर्वान् कामानवाप्नुयात् ॥ २० ॥ महेश्वरमथाष्टम्यां समभ्यर्च्य विधानतः । इमारुद्रायसूक्तेन सुखी भवति सर्वदा ॥ २१ ॥ दुर्गा नवम्यामाराध्य पूर्वोक्तविधिना ददेत् । रिपवस्तस्य नश्यन्ति देव्यास्तस्याः प्रसादतः ॥ २२ ॥ जातवेदस इत्येष प्रोक्त आराधनाविधौ । वैवस्वतं दशम्यां तु पूजयेत् सुसमाहितः ॥ २३ ॥ यत्रराजेति मन्त्रेण दीर्घमायुरवाप्नुयात् । ऐवं योऽभ्यर्चयेद् विहानेकादश्यां शचीपतिम् ॥ २४ ॥ त्रातारमिति मन्त्रेण स्वस्तिमान् स्यान्महीपतिः। पश्चात् तत्सदनं गत्वा सुखी स्यात् तेन पूजितः ॥ २५॥ द्वादश्यां तु महाविष्णुं पुरुषसूक्तेन योऽर्चयेत् । स निर्वाणमवाप्नोति भुक्त्वा कामानमानुषान् ॥ २६ ।। १.. ग. पाठः. २. - 'इन्द्रं' क. पाठः.
९०
शौनकीये
मनोभवं त्रयोदश्यां समभ्यर्चेत् ततो नृपः।
कान्तिमचा लभेत् तस्मात् सर्वेषां प्रियदर्शनः ॥ २७ ॥
अश्विनौ च चतुर्दश्यां पलहयसमन्वितौ ।
आराध्य दद्याद् विप्राभ्यामारोग्यं लभते नरः ॥२८॥
अश्विनेति तृचं प्रोक्तमश्विसंराधने बुधैः ।
कामःकामायादादिति कामस्याराधने स्मृतः ॥ २९ ॥
पञ्चदश्यां समभ्यर्च्य सोमं सौम्यमना नृपः ।
त्वंसोमासीति मन्त्रेण भूसुराय प्रदापयेत् ॥ ३० ॥
एवं पुरोधसा साध तिथिपूजा महीपतिः ।
कुर्वनिःश्रेयसं याति भुक्त्वा राज्यमकण्टकम् ॥ ३१ ॥
इति शौनकीये राजधर्मे चतुर्दशः खण्डः ॥
अथ पश्चदशः खण्डः।
भथातः सावित्र्याः कल्पं वक्ष्याम्यभिमतप्रदम् ।
संहिताध्ययनं कृत्वा पुरश्चरणसिद्धये ॥१॥
विद्वान् प्रातः शुचिः स्नात्वा हविष्याशी जितेन्द्रियः।
शुचौ देशे समासीनो जपेत नियतव्रतः ॥ २॥
ओङ्कारव्याहतीलिस्रः सावित्री देवमातरम् ।
मनसैतामनुस्मृत्य जपेत नियतव्रतः ॥ ३ ॥
अष्टोत्तरं सहस्रं वा शतमष्टोत्तरं तु वा ।
एषाभिसंहिता देवैः सर्वब्रह्ममयी शुभा ॥ ४ ॥
उग्रेण तपसा दृष्टा विश्वामित्रेण धीमता ।
होमांश्च जपयज्ञांश्च नित्यं कुर्वीत चैतया ॥५॥
द्वितीयपादे षोडशः खण्डः। ९१ सर्वकामसमृद्ध्यर्थ परं ब्रह्मैतदुच्यते । एषैव प्रतिलोमोक्ता ज(पः पे)शत्रुविनाशिनी ॥ ६ ॥ अक्षरप्रतिलोमेयमाभिचारेषु शस्यते । अक्षरप्रतिलोमेयं यस्मिन् युज्येत कर्मणि ॥ ७ ॥ तदमोघं विजानीयादेतद्धि ब्रह्मणो बलम् । व्याघातकेध्मसमिधो योऽक्षरप्रतिलोमया ॥ ८ ॥ जुहुयात् सर्षपं तैलं विभीतककृतमुचा । पुनः सम्पीडयेच्छत्रून् वर्णशश्च प्रमापयेत् ॥९॥ अनया योऽभिषिच्येत भूपतिः प्रयतोऽन्वहम् । तस्यायुः कीर्तिरारोग्यं भविष्यति न संशयः ॥ १० ॥ कपिलाज्येन यः कुर्याद्धोममष्टोत्तराहुतीः । तस्य कामाः प्रसिध्यन्ति षण्मासादेव जुह्वतः ॥ ११ ॥ कृच्छं चान्द्रायणं वापि कृत्वा होम समापयेत् ॥११॥ इति शौनकीये राजधर्मे पञ्चदशः खण्डः ॥ अथ षोडशः खण्डः। त्रयम्बकस्य मन्त्रस्य कल्पं वक्ष्याम्यतः परम् । प्रसन्नो ब्राह्मणः कुर्यात् पुरश्चरणमादितः॥ १॥ पश्चाद् द्वारं समासाद्य शम्भोरायतनं महत् । तस्य पूर्वोत्तरे कृत्वा होमकुण्डं हिमेखलम् ॥२॥ मथित्वा चाग्निमानीय यज्ञतन्त्र प्रकल्पयेत् । मन्त्रेणानेन जुहुयाडविरष्टसहस्रकम् ॥ ३ ॥ १. 'श्चिमद्वारमा' ग. पाठः.
९२ चौनकीये पायसं घृतसंयुक्तमायुष्कामो द्विजः स्वयम् । पुत्रार्थी शालिबीजेन धनार्थी बिल्वपत्रकैः ॥ ४॥ पशुकामो घृतेनैव वर्षकामस्तु वेतसैः । विधाकामस्तु पालाशैविप्रः कुर्यात् समाहितः ॥ ५ ॥ जपेडा नियतो नित्यमेतान् सर्वानवाप्नुयात् । भनया योऽभिषिक्तस्तु दीर्घमायुरवाप्नुयात् ॥ ६ ॥ महादेव समाराध्य त्रयम्बकमृचं जपेत् । सर्वान् कामानवाप्नोति शम्भोस्तस्य प्रसादतः ॥ ७ ॥ इति शौनकीये राजधर्मे षोडशः खण्डः ।। अथ सप्तदशा लण्डः । रात्रिसूक्तविधि वक्ष्ये नृपाणां हितकाम्यया । सायंसन्ध्यामुपास्यैव पुरोधाः शुचिरन्वहम् ॥ १ ॥ राजमन्दिरमासाद्य शुक्लवासाः समाहितः। रात्रिं पिष्टमयीं तत्र कारयेद् भाजने शुभे ॥ २ ॥ गन्धादिभिरलङ्कृत्य दीपिकाभिर्विशेषतः । सूक्तं राज्याः पठेत् स्थित्वा भाजनेन प्रदक्षिणम् ॥ ३ ॥ राजानं तत्समीपस्थो भ्रामयेत् तच्छिरोपरि । पश्चान्निधाय तद् भूमौ निम्बपत्रैः ससर्षपैः ॥ ४ ॥ मुष्टिना तं परिक्रम्य निरनौ प्रक्षिपेत् ततः । ऊवोंभवेति मन्त्रेण मन्त्रविद् द्विजसत्तमः ॥ ५ ॥ १. 'नि' ख. पाठः, द्वितीय पादे महादशः खण्यः । सम्प्रोक्ष्य तीर्थतोयेन भसितैस्तदनन्तरम् । रक्षा दद्यात् तदङ्गेषु जातवेदस इत्यूचा ॥३॥ ततः शान्ति जपेत् स्पृष्ट्वा हृदयं भूपतेः स्वयम् । समावेश्य समं शुभ्रं नृपति शयनं ततः ॥ ७ ॥ बहिर्वसन् जपित्वा तो प्रतिमां नृपमन्दिरात् । एतां प्रतिदिनं राज्ञो रक्षां कुर्यान्महीपतेः॥८॥ सम्यगाचरणाद् राज्ञो दीर्घमायुर्भविष्यति ॥ ८ ॥ इति शौनकीये राजधर्मे सप्तदशः खण्डः ॥ १ अथाष्टादशाः खण्डः । पुण्याभिषेकं वक्ष्यामि राजन्यस्य विशेषतः । प्रजापालनशीलस्य कुलीनस्य महात्मनः ॥ १॥ पुरोहितेन विप्रेण सर्वकर्माणि कारयेत् । राष्ट्रवृद्धिं च महतीं श्रियं चानुत्तमा व्रजेत् ॥ २ ॥ नदीतीरे शुचौ देशे स्नानं कृत्वा यथाविधि । लेपनास्तरणोपेतं ध्वजतोरणसंयुतम् ॥ ३॥ पुष्पदामादिभिर्दिक्षु सर्वतः समलङ्कृतम् । शराबपालिकाभिश्च साङ्कुराभिरलङ्कृतम् ॥ ४॥ फलैः पुष्पैः किसलयैः स्तबकैचोपशोभितम् । पूर्णकुम्भैधूपदीपैः सर्वदिक्पशोभितम् ॥ ५ ॥ वादित्राद्यैर्नत्तगीतैर्वेणुशङ्खः सुघोषितम् । ब्राह्मणैर्ब्रह्मघोषैश्च घोषितं वेदपारगैः ॥ ६ ॥ ॥ १. 'व' ग. पाठः.
शौनकीये
स्थाने तस्मिंस्तु नृपतिमभिषिञ्चेत् पुरोहितः ।
प्रशस्ततिथिवारेण नक्षत्रेण शुभेन वा ॥ ७ ॥
उत्तरायणसंक्रान्त्यां स्वजन्मदिवसेऽथवा ।
श्राद्धमभ्युदयं कुर्यात् कौतुकं च पुरोऽहनि ॥ ८॥
श्वोभूतेऽलङ्कृते देशे पुण्याहं वाचयेद् द्विजैः ।
याःप्रवतोनिवत इत्येतां जप्त्वा नदीं गतः ॥ ९ ॥
प्रसुवआप इत्य॒ग्भिः कुम्भांस्तु नवभिनव ।
नदीतोयेन सम्पूर्य पुण्यतीर्थजलैरपि ॥१०॥
आहृत्य तान् द्विजैः सर्वान् स्थापयेद्धान्यराशिषु ।
एकं मध्ये प्रतिष्ठाप्य प्रागारभ्य प्रदक्षिणम् ॥ ११ ॥
अथाष्टास्वितरान् दिक्षु सर्वोषधिरसान्वितान् ।
कुशान् ब्रीहीन यवान् दूर्वा हिरण्यं च क्षिपेदथ ॥१२॥
पिधाय व्रीहिसम्पूर्णैः शरावैः सकुशैदृढम् ।
कुम्भान् वस्त्रैः सुसञ्छाद्य अहतैस्तान पृथक् पृथक्
[॥ १३ ॥
तेषां पुरस्ताडोमार्थ यज्ञतन्त्रं प्रकल्पयेत् ।
अथाज्यभागपर्यन्तं कुर्यात् कृत्वोपलेपनम् ॥ १४ ॥
भापोहिष्ठामयोभुव इति नवभिर्जुहुयाद् घृतम् ।
व्याहतीभिश्चतसृभिः सावित्र्या प्रणवेन च ॥ १५ ॥
कुम्भानां पश्चिमे राज्ञश्वासनं परिकल्पयेत् ।
प्रादेशमात्रपादं स्यादौदुम्बरमथासनम् ॥ १५ ॥
आस्तृणीयात् तु तस्मिन् वै व्याघ्रचर्म सुशोभनम् ।
प्राग्नीवमुत्तरं लोम तस्मिन् राजानमासने ॥ १७ ॥
द्वितीयपादे अष्टादशः खण्डः । आसीनमभिषिञ्चेत् तैः कुम्भतोयैर्यथाक्रमम् । आपोहिष्ठामयोभुव इत्युङनवमिरात्मवान् ॥ १८ ॥ स्थापनक्रम एव स्याद् घटानामभिषेचने। अहिरब्देवताभिस्तु मूर्धनि प्रोक्षयेद् द्विजैः ॥ १९ ॥ युवंवस्त्राणीत्यनया अहते वाससी वसेत् । लोकपालान् कमेणाष्टौ मनसा समुपस्थितः ॥२०॥ नृपासने समासीनं वैयाघ्र चर्मणि स्वयम् । भायुष्यमिति सूक्तेन मणि कण्ठे प्रमुच्यते ॥ २१ ॥ अन्यैश्च राजलिङ्गैः स्वै राजानं परिवारयेत् । उपैतुमादेवसख इत्यूचोपस्थिते नृपे ॥ २२ ॥ जयशब्दैः सुसङ्घोष्य आशीभिः प्रतिनन्द्य च । स्वाराज्यायाभिषिक्तस्त्वमिति विप्रैः प्रवाच्य च ॥ २३ ॥ आत्वाहारिषमन्तरेधीत्यथैनमनुमन्त्रयेत् । आरोहतायुर्जरसमित्यूचा नृपवाहनम् ॥ २४ ॥ आरोप्य स्वस्तिसूक्तेन गमयेत् प्राग्दिशं प्रति परीत्य नगरी सम्यक् प्रविशेत् स्वगृहं ततः ॥ १५ ॥ ब्राह्मणान् भोजयेत् पश्चादभिषिक्तोऽथ दक्षिणाम् । गां हिरण्यं च रजतं भूमिवस्त्रतिलान् यवान् ॥ २६ ॥ व्रीहिं च दद्याद्विप्रेभ्यः प्रजाश्चैव प्रपालयेत् ॥ २१३ ।। इति शौनकीये राजधर्मे अष्टादशः खण्डः ॥
शौनकीये २ अथैकोनविंशः खण्डः । शौनकोऽहं प्रवक्ष्यामि वायसीनां बलिं क्रमात् । शुभाशुभपरीक्षार्थ विवाहादिषु कर्मसु ॥१॥ पूर्वपक्षे तु पूर्वाह्ने पूर्वयामे शुभे दिने । हस्तत्रिरुत्तराः पुष्यः पुनर्वा स्वातिरेवती ॥२॥ मूलानुराधाः सौम्याश्च श्रविष्ठा शततारकम् । अश्वयुरोहिणीश्रोणामघाचित्राः प्रकीर्तिताः॥ ३॥ द्वितीया च तृतीया च पञ्चमी षष्ठिसप्तमी। दशम्येकादशी चैव द्वादशी च त्रयोदशी ॥ ४ ॥ बुधजीवसितेन्दूनां वाराः शस्ताः सुकर्मणि । ग्राम्ये देवालये कुर्यान्नधास्तीरेऽथवा वने ॥ ५॥ पश्चहस्तप्रमाणेन स्थण्डिलं तत्र कल्पयेत् । वायसस्याकृतिं कुर्यात् पूर्वादिषु च पञ्चसु ॥ ६ ॥ अङ्गुष्ठोपकनिष्ठाभ्यां व्रीह्या साग्रकुशेन वा । पञ्चकूर्च कुशैः कृत्वा अश्ववालैरथापि वा ॥ ७ ॥ अङ्कतादीनां रूपाणि पञ्च कूर्चान्निधाय च । पुण्याहं वाचयित्वादौ ब्राह्मणैवेदपारगैः॥८॥ अङ्कतः कङ्कतः कद्रुर्वायुर्ब्रह्मति कीर्तिताः। एते पूर्वादिपञ्चानां वायसानां च देवताः॥१॥ १. 'सं बलिमुत्तमम् ।' ख, पाठः. २. 'गृहे' ग. पाठा. ३. 'सौ', १. 'अक्तादीनां रूपेषु प' ख. पाठः, ३ द्वितीयपादे एकोनविंशः खण्डः । ९७ तत्त्वं सत्यमिति ज्ञात्वा सत्यरूपी जनार्दनः। आसनावाहनं पाद्यमर्यमाचमनं तथा ॥ १० ॥ स्नानं वस्त्रोपवीतं च भूषणं गन्धपुष्पकम् । धूपं दीपं बलिं चैव एतैर्ऋग्भिः समाचरेत् ॥ ११ ॥ कङ्कतो न कङ्कत इति पूर्वदक्षिणयोचा । कद्रुद्रायेति मन्त्रेण पश्चिमे दिशि संयजेत् ॥ १२ ॥ वायविन्द्रश्च इत्यूचाप्युत्तरे दिशि संयजेत् । उद्गातेवशकुन इत्यूचा ब्राँझेऽर्चयेत् क्रमात् ॥ १३ ॥ दधिक्षीरघृतस्यान्नं कुक्कुटाण्डप्रमाणतः । कदल्यादिषु पात्रेषु कुर्यादास्ये शनैः शनैः ॥ १४ ॥ ऋतंसत्यंपरब्रह्म नमोब्रह्मण इत्यपि । आभ्यामृग्भ्यामुपस्थाय दूरस्थो बलिमीक्षयेत् ॥ १५ ॥ ऐन्द्रश्चेद् भक्षितः पूर्वं वायसेन बलिः सकृत् । इष्टसिद्धिमवाप्नोति सह पुत्रैश्च बान्धवैः ॥ १६ ॥ याम्यश्चेद् भक्षितः पूर्वं कर्तुः कर्म विनश्यति । भक्षितो वारुणः पूर्व कुलनाशं प्रचक्षते ॥ १७ ॥ सौम्यश्चेद् भक्षितः पूर्व वायसेन सुजन्मना । चिरकालात् परं सर्वान् कामानाप्नोति नान्यथा ॥ १८ ॥ १. 'त्त्वसेतुमि', २. 'वे', ३. 'तोऽनया', ४. 'मध्ये- ऽर्च', ५. 'ताक्तं वै कु' ग, पाठा. ६. 'तो' ख. पाठः, .
९८. शौनकीये ब्राह्मश्चेद् भक्षितः पूर्व ब्रह्मवर्चः श्रियं बलम् । माप्नुयात् सर्वकामांश्च सद्य एव न संशयः॥१९॥ शूद्रार्थ कङ्कतादीनि वेदमन्त्रैर्न चार्चयेत् ॥ १९ ॥ इति शौनकीये राजधर्मे एकोनविंशः खण्डः । अथ विंशः खण्डः। अथाङ्कुरार्पणं वक्ष्ये शौनकोऽहं द्विजन्मनाम् । विवाहपूर्वकार्याणां प्रागेव शुभमिच्छताम् ॥१॥ पञ्चाहे वा व्यहे वापि गृहीत्वा पालिकाञ्छुभान् । विप्राणां पालिका प्रोक्ता कुम्भं वैश्यानुलोमयोः ॥ २॥ शूद्राणां च शरावः स्यात् सर्वेषां सर्व एव वा । पुन्निमित्तेषु कार्येषु चतस्रः पालिका अपि ॥ ३ ॥ स्त्रीप्रधानेषु कार्येषु अयुग्मान् पञ्च पालिकान् । राज्यामेव च कर्तव्यं शुभक्षेत्रे शुभोदये ॥ ४ ॥ शुभदृष्टौ शुभांशे तु शुभे द्रेक्काण एव वा । रात्र्यां वा अह्नि वा कुर्यात् सर्च एवाङ्कुरार्पणम् ॥५॥ पूर्ववन्मण्डलं कृत्वा गोमयेन जलैः सह । तस्मिंश्च मण्डलान् कृत्वा पिष्टचूर्णेन पञ्च च ॥ ६ ॥ पालिकाश्च न्यसेदैन्द्रे याम्ये वारुणसौम्ययोः । ब्राह्मे च स्त्रीनिमित्ते तु प्रणबेन समाहितः॥ ७ ॥ १. 'यस्काला?' ख. पाठः, २. 'सम्यक् च म' ग. पाठः, द्वितीयपादे एकविंशः खण्डः । ९९ शिरीषपत्रसंयुक्ताः पूर्वाः प्रागादितः क्रमात् । पालिका मध्यमे बद्ध्वाप्यहत्तेनैव वाससा ॥८॥ आच्छाद्य पालिकाः सम्यगिन्द्रादीनच॑ देवताः । शरावपालिकाकुम्भान् प्रत्येकं द्वादशाहरेत् ॥ ९ ॥ पालिका वैष्णवी प्रोक्ता घटिका ब्राह्म उच्यते । शैवं शरावमित्युक्तं षट्पतिषु निधाय च ॥ १० ॥ उत्तराद्युत्तरान्तं तु नृपदेवतयोरपि । ब्रीहीन यवान् प्रियग्रंश्च केणमुद्गतिलांस्तथा ॥ ११ ॥ गृहीत्वैतानि बीजानि पालिकादौ सवालुके । सजलान्यर्पयेत् कर्ता बीजान्यैन्द्रादिकेऽप्यथ ॥ १२ ॥ मात्रा पित्रा तथा भ्रात्रा सुहृत्सम्बन्धिबान्धवैः। सुमङ्गलीभिः कुल्याभिः कर्तव्यं चारार्पणम् ॥१३॥ प्रणवेन विना शूद्रः शेषमन्यत् समं भवेत् । आयुष्यं सुखमैश्वर्यमविघ्नं च प्रदास्यति ॥ १४ ॥ यतस्तस्मात् प्रयत्नेन कर्त्तव्यं चाङ्कुरार्पणम् ॥ १४ ॥ इति शौनकीये राजधर्मे विंशः खण्डः ॥ ४ अथैकविंशः खण्डः। शौनकोऽहं प्रवक्ष्यामि नित्यं विष्ण्वर्चनं महत् । (प्रवःपान्तमन्धस इत्यूचाभ्यर्च्य विधानतः ?) ॥ १। १. 'निक्षिप्य पात्र', २. 'श' ग. पाठः. ३. 'जलपात्रान्', १. 'पालिकायां हरिं स्मरन्', ५, 'कन्यामिः' ख. पाठः.
शौनकीये प्रतिमालक्षणं चैव प्रतिष्ठां चार्चनं तथा । शृणु बुद्ध्या समायुक्त ! आश्वलायन! सुव्रत!॥२॥ द्वादशाङ्गुलमानं वाप्यष्टाङ्गुलमथापिवा । हैरण्यमुत्तमं प्रोक्तं राजतं मध्यमं तथा ॥ ३ ॥ ताम्रकं चाधमं प्रोक्तं शैलजं चाधमोत्तमम् । दारेवं मध्यमं चैव चित्राकारं पटेऽधमम् ॥ ४ ॥ शङ्खचक्रगदापद्मवनमालाविभूषितम् । पीताम्बरमुदाराङ्गं प्रसन्नेन्दुनिभाननम् ॥५॥ श्यामलं पुण्डरीकाक्षं किरीटेन विराजितम् । श्रीभूमिसहितं विष्णु पद्मस्योपरि संस्थितम् ॥ ६॥ स्थानमेवं प्रधानं हि प्रतिमायां ह्यथासनम् । सव्येन कटिमालम्ब्य दक्षिणाग्रं प्रसारितम् ॥ ७॥ अभयं वा प्रयुञ्जीत सव्यहस्ते गदाधरम् । एवंलक्षणसंयुक्तं बिम्बं शिल्पैः सुशिक्षितम् ॥ ८॥ गृहीत्वा शिल्पिशालाया गृहस्थो ऋत्विभिः सह । निधाय स्थापनात् पूर्व नवाहे सप्त पञ्च वा ॥ ९॥ त्र्यहे वा अह्नि वा कुर्यादशक्तो वाङ्कुरार्पणम् । अथोत्तरायणे पुण्ये पूर्वपक्षे शुभे दिने ॥१०॥ प्रतिपच्चै द्वितीया च पञ्चमी सप्तमी तथा । दशम्येकादशी चैव द्वादशी च त्रयोदशी ॥ ११॥ १. 'थ मौक्तिकम्', २. 'रुजं म', ३. 'त्पञ्चमी चैव नवमी स' ग. पाठः .
द्वितीयपादे एकविंशः खण्डः । पौर्णमासी तथा प्रोक्ता आपञ्चम्यसितस्य तु । बुधजीवसितेन्दूनां वाराः पूज्याः सुकमणि ॥ १२ ॥ रोहिण्यदितिपुष्यं च युत्तरा हस्तमेव च । वैष्णवी रेवतीयोगे शोभना राशयस्तथा ॥ १३ ॥ शुभद्रेक्काणकाले तु शुभांशे तु सुलग्नके । शुभदृष्टे स्थिते राशावुभये वा गृहार्चने ॥ १४ ॥ यजमानानुकूले तु नृपयामानुकूलतः। चतुरो ऋत्विजो वृत्वा कृत्वा पूर्वेऽह्नि पैतृकम् ॥ १५ ॥ पञ्चगव्येन तोयेन स्नापयित्वाथ शाययेत् । प्राक्शीर्ष स्वर्णशस्त्रेण दृष्टिमुत्पाटयेत् क्रमात् ॥ १९ ॥ वस्त्राभरणसंयुक्तः शिल्पी शिल्पविचक्षणः । दत्त्वा सुवर्ण शिल्पाय धेनुं दत्त्वा द्विजातये ॥ १७ ॥ पुण्याहं वाचयेद् विप्रैवैष्णवैवेदपारगैः। स्वस्यात्मानं च बिम्बं च प्रणवेनावलोकयेत् ॥ १८ ॥ प्लुतं प्रणवमुच्चार्य कराभ्यां पादयोः स्पृशेत् । नमस्तेऽर्चे सुरेशादिप्रतीके विश्वकर्मणा ॥ १९ ॥ प्रभाविताशेषजगद्धात्रि ! तुभ्यं नमो नमः । त्वयि सम्पूजयामीशं नारायणमनामयम् ॥ २० ॥ रहिता सर्वदोषैस्त्वमृद्धियुक्ता सदा भव । इत्युक्त्वाष्टाक्षरेणैव कृत्वा कौतुकबन्धनम् ॥ २१॥ १. 'याम्यां शुभानां रा' ख. ग. पाठः. २. 'पट्टये' क. ख. पाठः. ३. 'वै सुरानीका', ४. 'वशेषजगतीधात्रि' ग. पाठः. ६. 'स्तु वृद्धि' ख. पाठः. ७. 'यजित्वाष्टा' ग. पाठः. ४ ५. 'द्रव्यदो क. पाठः.
१०२ शौनकीये जलाधिवासनं कुर्यात् पञ्चभारकपूरिते । अथवा भारमकं वा लोहजे मृन्मयेऽपि वा ॥ २२ ॥ आवहेन्जलसम्पूर्णे गन्धपुष्पसमन्विते । आदाय प्रतिमामट्यस्तीरं नीत्वार्चयेत् क्रमात् ॥ २३ ॥ अग्रे स्नानार्थकलशं पञ्चगव्येन मध्यमे । पूर्वे गन्धोदकं स्थाप्य याम्यवारुणसौम्यकें ॥ २४ ॥ आग्नेये नैर्ऋते वायौ रौद्रे च जलपूरितान् । कृत्वा न्यासं च संहारं घृतारोपणमेव च ॥ २५ ॥ सुशोभनं भवत्विति सुगोत्रं च भवत्विति । सुमङ्गलं भवत्विति हस्ताभ्यां परिगृह्य च ॥ २६ ॥ पादे बाहुशिरःस्थाने दूर्वा आरोप्य मन्त्रतः। अष्टाक्षरेण संस्थाप्य वस्त्रायैः षड्भिरर्थ्य च ॥ २७ ॥ कुशकूर्चेन संवेष्टय वस्त्रेणावेष्टय सर्वतः । जलमध्यगतं पीठे शाययेदक्षिणशीर्षकम् ॥ २८ ॥ नकारादियकारान्तं न्यसित्वाक्षरपञ्चकम् । व्यतीतायां तु शर्वर्यामाचार्यों ऋत्विभिः सह ॥२९॥ अपराह्ने तु सम्प्राप्ते जलादुत्थाप्य मन्त्रतः। स्नाप्य तिन्त्रिणिवारिभिरलङ्कृत्य यथारोंचि ॥ ३० ॥ उत्थाप्य शाययेद् देवं स्थण्डिले ऐन्द्रशीर्षकम् । हेमपात्रे शरावे वा मधुवातेति मन्त्रतः ॥ ३१ ॥ हिरण्मयेन सूच्या वा कुशाग्रैर्मधुसर्पिषा । चित्रंदेवेति मन्त्रेण कुर्यादुन्मीलनं गृही ॥ ३२ ॥ १. 'के' ग. पाठः. २. 'न्यांश्चैव सं' ख. पाठः, ३. "विधि - ग. पाठः, द्वितीयपादे एकविंशतिः खण्डः । १०३ उन्मील्यमाने नेत्रे तु धेनुवै दक्षिणा भवेत् । उत्थाप्य शयनाद् देवं संस्थाप्य स्नाप्य पूर्ववत् ॥ ३३ ॥ सुगन्धतोयसम्पूर्णैः कलशैर्नवभिही । क्रमात् पुरुषसूक्तेन ब्रह्मादीशानमृत्विभिः ॥ ३४ ॥ कुशाभिरास्तृते सम्यक् स्थण्डिले ऐन्द्रशीर्षकम् । शाययित्वा ततः प्राच्यां कृत्वा स्थण्डिलमुत्तमम् ॥ ३५॥ उल्लेखनादि तस्मिंस्तु कृत्वाज्योत्पवनान्तकम् । आज्यसिक्तेध्ममादाय तद्विष्णोरिति मन्त्रतः ॥ ३६ ॥ हुत्वाधाराज्यभागौ च सुवेणाज्येन मन्त्रतः । अतोदेवाअवन्त्वृम्भिर्तुत्वा षड्भिर्यथाक्रमम् ॥ ३७ ॥ प्रतिकर्म हुनेदष्टौ सुवेणाज्येन देशिकः । गर्भपुंसवसीमन्तजातनामानचौलकम् ॥ ३८ ॥ मौजीबन्धमहानाम्नीमहावतोपनिषदं तथा । गोदानं च समावन्तं विवाहं च यथाक्रमम् ॥ ३९ ॥ हुत्वा पुरुषसूक्तेन प्रत्यूचं षोडशाहुतीः । समाप्य होमशेषं च पूजार्थ शयनाद् गृही ॥ ४० ॥ उत्तिष्ठब्रह्मणेत्यूचा विज्ञाप्य देवभाहरेत् । वषट्तेविष्णवित्यूचा प्रतिष्ठाप्य समाहितः॥४१॥ विष्णुसूक्तेन देवेशं स्तुति कृत्वार्चयेत् क्रमात् । आद्ययावाहयेद् देवमृचा तु पुरुषोत्तमम् ॥ ४२ ॥ द्वितीययासनं दद्यात् पाद्यं चैव तृतीयया । अयं चतुर्थ्या दातव्यं पञ्चम्याचमनीयकम् ॥४३॥ १. 'त्येकं षो' ख. पाठः १०४ शौनकीये षष्ठया स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च । पुष्पं दशम्या दातव्यमेकादश्या तु धूपकम् ॥ ४४ ॥ द्वादश्या दीपकं दद्यात् त्रयोदश्या निवेद्यकम् । चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् ॥ ४५ ॥ षोडश्योद्वासनं कुर्याद् वासुदेवं जगद्गुरुम् । कुर्यादृष्टाक्षरेणैव स्त्रीशूद्रौ प्रणवं विना ॥ १६ ॥ आवाह्य हृदयाद् विष्णुं देवीभ्यां विष्णुमच्युतम् । अर्चयित्वा यथापूर्वं सम्यगुहासयेद्धृदि ॥ १७ ॥ परिवारं च होमं च गृहार्चायां नचाचरेत् । श्रीसूक्तेन श्रियं चाय॑ यज्ञसूत्रं विना क्रमात् ॥ ४८ ॥ स्योनापृथिवीत्यूचा भूमिमर्च्य श्रियं यथा । चित्राभासप्रतिष्ठायां दर्पणेन समाचरेत् ॥ १९॥ जलाधिवासनं स्नानं प्रोक्षणं च यथोचितम् । आवाहाद्युपचाराणि पुरः पीठे समाचरेत् ॥ ५० ॥ वस्त्रभूषणगोभूमिमाचार्याय प्रदापयेत् । यागोपयोगद्रव्यं च तस्मै सर्वं निवेदयेत् ॥ ५१ ।। ऋत्विग्भ्यो दक्षिणां दत्त्वा यथाशक्ति समाहितः। भोजयेत् पायसान्नं च वैष्णवान् द्वादश द्विजान् ॥५२॥ वैष्णवैस्तैरनुज्ञातो नित्यार्चनमथाहरेत् । एतद् विष्ण्वचनं सम्यक् प्रतिष्ठाविधिसंयुतम् ॥ ५३ ॥ येन प्रोक्तं सदा तस्मै शौनकाय नमो नमः ॥ ५३६ ॥ इति शौनकीये राजधर्मे एकविंशः खण्डः ॥ द्वितीयः पादः समाप्तः॥ शुभं भूयात.. १. 'विधिवद् द्वि', २. 'रभेत् । ग. पाठः.
LIST OF SANSKRIT PUBLICATIONS FOR SALE R$. AH, F. HAS Bhaktimanjari (Stuti) by H. H. Svati Sri fiama Varm: Vahiraja. 1 0 0 स्यानन्दूरपुरवर्णनप्रवन्धः Syanandurapuravasnanaprabandha (Kārya) by H. H. Svāti Sri Rāma Varmá Mahārāji, with the commentary Sundari of Rājaraja Varma Koil Tampuran. 900 Trivandrum Sanskrit Series, No. 1-47 Daiva (Vyakaraña) by Derin with Puruşakära of Krsnuliläếukamani (out of stock). 1 No. 2-अभिनयकौस्तुभमाला-दक्षिणामूर्तिस्तवी Abhinavakaustubhamala and Daksinamurtistava by Kroņalīlāsukamuni (net i stock). O No. 3-TTgt: Nalabhyudaya (Kavya) hy Vāmana Bhatta Bāņa (second edition). 0 No. 4-factorulat: Sivalilarnava (Kärya) by Nīla kaņķha Dīkşita (out of stock). ? No. 5-thieten: Vyaktiviveka (i lankára) br. Mahima-Bhatta with commentary (out ci sovch). 2 12 0 No. 6mizart: Durbizuti Saksa) bi Sorredera (out of stock). 200 No. नझतत्वप्रकाशिका Stahinatalbritprakasika (Fulani) 1:5 Sadāśiv mari. svači (out of sivek). 9 No. 8- gear Pradyun santaya (Namaku) l. Ravi Vanna Bhapa (out of stock). -- > RS. AS. P. No. ..-frauenfat*Virupaksapancasika (Vedānta) by Virüpākganātha with the commentary of Vidyācakravartin (out of stock). 0 8 0 No. 10-Aragetes Matangalila (Gajalakşaņa) by Nīlakantha (out of stock). O 80 No. 11-diciamur Tapatisamvarana (Nataka) by Kulasekhara Varma with the commentary of Sivarama (out of stock). % 4 0 No. 12-TCASETCH Paramarthasara (Vedānta) by Adiścșa with the commentary of Rāghavānandit (out of stock). 0 80 No. 13-Thru Subhadradhananjaya (Nataka) by Kuhaśckham Vamma with the commcitary of Siyarāna (out of stock). % 0 0 No. 14-aers: Nitisara (Nitij hy Kānan lakia, with the cominentury of Sankarârya (out of stock). 3 8 0 No. 15--THE Svapnavasavadatta (Naţika) by Phase (second edition). 1 80 No. 16-aari 7270# Pratijrayaugandharayana (Nāțaku) by Bhāsa out of stock). 1 80 No. 17-YEH Pancaratra (Nataka) by Bhasa (out of stock). 1 0 0 No. 18-aaruirun Narayaniya (Stuti) ly Nāräyana Bhatta with the commentary of Debarangalavārya 400 (second edition). No. 19 - Hradec: Manamoyodaya (Mimāısa) by Norāyaṇa Bhatta and Nārāyaṇa Pandita (out of stock). 1 4 0 10. 20-fear Avimaraka (Nataka) by Bhāsa (out of stock). 1 8 0 No 21.-- zatan Balacarita Naţaku) by Bhisa (out of stock). 1 0 0 3 BE. A8. P. No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारो. रुभकानि Madhyamavyayoga Dutavakya-Dutaghatotkaca-Karna - bhara and Urubhanga (Nataka) by Bhäsil (out of stock). 1 80 No. 23--Aretoaneta: Nanartharnayasam - ksepa (Koša) by Kesarasvanin (Part I, 1st and 2nd Kändis). (out of stock). 1 12 0 No. 24-taftoret: Janakiparinaya (Kavya) by Cakra Kavi (out of st«k). ! No. 25-TUNET Trael Kanadasiddhantaoandrika (Nyāya) by Garngārharasüri (out of stock). 0 12 0 No. 26-METAL Abhisekanataka by Bhāsa (out of stock). O 120 No. 27-HITETTha: Kumarasambhava (Kavya) by Kalidā sis with the two commentarie, Prakātikā of árulagirināths and Vivara na of Nārāyana Pandità (Part I, 1st and Pu! Sargas) (out of stuck). 1120 No. 28-Taus: Vaikhanasadharmaprasna (Dharmasútra) by Vikhetes out of stock). 0 0 No. 29.---TATTOM: Nanarthar javasam - ksepa (toša) by Kešu vasvamin (P.If it, öru Kanda) out in silen). 24 0 No. 30-areafera Vastuvidya (Silja) (nul 0 12 0 No. 31--AgrareTMOETTENT: Nanartha?oarasan) - ksepa ( Rosa) y RśVisvitin (Part III. 4t11, 54. 6th Kāndas). 100 No. 32-HTTF1: Xumarasambhava (kivya) by Kalidāsa with the Wucoinmentaries, Prakāśikū of Arumgirinātha and Vivaraṇa of Nārāyaṇa l'aņdita (Part II, 3rd, 4th and 5th Sargas) (out of stock), 28 S stu ..
RS. AS. P. No. 88_CEE: Vararucasangraha (Vyākarana) with the commentary Dipaprabhā of Nārāyaņa (out of stock). 0 80 NO. 34--Aloraya: Manidarpana (Nyāya) by Rajacüdāmaņiinakhin. 1 4.0 No. 35-AOTETT: Manisara (Nyaya) by Gopinatha. 1 8 0 No. 31. #4: Kumarasambhava Kávya) by Kālidāsa with the two commentaries, Prakāśikā of Arunagirinatha and Virarana of Nārāyana Pandita (Part III, 6th, 7th and 8th Sargas). 300 No. 37-T Ásaucastaka (Smiti) by Tararuci with commentary. 0 4 0 No. 38.- TASSETTIITET Nanalinganusasana (Ross Ly Annarasimha with the com. nuentar Tikäsarvasya of Vandyaghali ya Sarvānanda (Part I, 1st Kända). 200 No. 94TECH Carudaila (Nauka) by Bhäsa wit of stock). 0 12 0 No. 40-ra Alarkarasutra by Rājāuaka Tuttikt with the Alukārusirvosya of Makhnka and lis Colomentury bij Sanulrabandha pocond cdition). 2 8 0 No. 41.89** Sdhyatmapatala (Ve. danta) by Apastanla with Vivarana of Sri Sukan2Bhagavat-Pāda (out of stock). 0 4 0 %o. 42-afara Pratimanataka by Bhasit *(out of stock). 1 80 No. 43--FTASTRIOTIETH Namalinganusasana (Koša) 9. Anarasimha with the two commentaries, Amarakośodghatana of KŞIrasvåmin and Tikåsarvasva of Vandyaghatiya Sarvānanda (Part II, 2nd Kanda, 1-6 vargas). 2 80 No. 4-TTTH Tantrasuddha by Bhattaraka Vedottama. (out of stock). 04 0 RS. AS. P. 1 0 0 No. 45-19TETET Prapancahrdaya. No. 46-UTCHTOTEL: Paribhasavrtti (Vya- Karaņa) by Nilakantha Diksita. 0 8 0 No. 47-Raih Sidhantasiddhanjana (Vedānta) by Krşņānanda Sarasvati (Part I.) 1 12 No. 48-सिद्धान्तसिद्धाञ्जनम् Do. Do. (Part II). 2 0 0 No. 49—to treat Goladipika (Jyotişa) by Parameśvara. 0 4 0 No. 50-Taruerg: Rasarnayasudhakara (Alankâra) by Singa Bhūpāla. 3 0 0 No. 51-ATHESTETTHETH Namalinganusasana (Kośa) by Amarasimha with the two commentaries, A marakośodghāțana of Kşīrasvāmin and Tīkāsarvasva of Vandysghatīya Sarrānanda (Part III, 2nd Kanda, 7-10 vargus). 2 0 0 No. 52-नामलिङ्गानुशासनम् Namalinganusasana (Kośaj by Amarasimha with the commentary Tikâsarvasva of Vandyaghațiya Sarvânanda (Part IV, 3rd Kanda). 1 80 No. 53-75afurer: Sabdanirnaya (Verlânta) by Prakâśâtmayatimra. 0 12 0 No. 54-F Tafelgruplarar: Sphotasiddhinyayavicara (l'yakamına). 0 4 0 No. 35--TOTIGTEFTTH Mattavilasaprahasana (Nâţıkaj ly Mahendravikrama - varman. (out oj' scoch). 0 8 No. 56---FOGOTTFat Manusyalayacandrika (Silpa) (out of stock). OS O No. 57—Tercatat Raghuviracarita (Kiya). 140 No. 58-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vedânia) by Krsnananda Sarasvati (Part III). 20 -6 RS. AS P. No 59-MT Nagananda (Nâțaka) by Harşadeva with the commentary Vimarsinſ of Sivarâma (out of stock). 3 4 0 No. 60-mgegla: Laghustuti by Laghubhațţâraka With the commentary of Ragharânanda. 0 8 0 No 61-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vecânta) by Krşņânanda Sarasvati (Part IV). 1 1 4 0 No. 62-BEHANDE: Sarvamatasangraha. (out of stock). 0 8 0 No. 63-frangira Kiratarjuniya (Kavya) by Bharavî with the commentary Sabdârthadīpika of Citrabhâni (1, 2 and 3 Sargas). 2 80 No. 64-Fret: Meghasandesa by Kalidasa with the commentary Pradīpa of Dakşiņâvartanātha. 0 12 0 No. 65--448H Mayamata (Šilpa) by Mayamuni (out of stock). 3 4 0 No. 66-FETAT Maharthamanjari (Darśan:) with the commentary Parimala of Maheśvarânanda. % 4 0 No. 67---JATET: Tantrasamuccaya (Tantra) by Nûrîyana with the commentary Vimarsinſ of bankara (Part 1, 1-6 Patalis) (out of stock'). 3 4 0 No. 65-TIT3: Tattvaprakasa (Āyama) by Sri Bhojadeva with the commentary Tâtpil-vadīpikā of Śrī kuināra 1120 No. 61) --- Traileryazarefa: Isanasivagurudevapaddhati(Tantra)by Īsånaśivagurudevamióra Part I, Sâmānyapâda). 1 8 0 No. 70—PIASTfoney: Aryamanjusrimulakalpa (Part 1). 8 0 No. 71-Tag: Tantrasamuccaya(Tantra) by Aarayana with the commentary Vimarsini of Sankara (Part II, 7-12 Patalās) (out of stock), 3 8 u 7 RS. AS. P. No. 72aaityegen fa: Isanasivagurudevapaddhati (Tantra) by Itānasir:- guruderamiśra (l'art II, antrapāda). O No. 73-stalacitat: Isvarapratipattiprakasa (Vedānto) by lladhusudlandsarasvati. 04 0 No. 74-strefa: Yajnava!kyasmrti with the commentary Balakridâ rf Visvara på cârya. (Part I Icara and Vyaralara Adhyayis). 3 4 0 No. 75.PT Tia Silparatna (Šilpa) by Srikumôra (Part I). 2 12 0 No. 76mpfhaut 29: Aryamanjusrimulakalpa (Part II). 3 0 0 No. 77-Burgery area: Isanasivaguru. devapaddhati (Tantra) by Isänasiya gurudevan,isra (Part III, Kriyāpīda 1--30 Pabulas). 3 0 0 No. 78-3178TTTTTH Asvalayanagrhyasutra with the commentary Artilā of Haradattācārya. 26 No. 79-TIETH Arthasastra of Kautalva with commentary by Mahāmahopā ihya ya T. Ganapati Šāstri (Part 1, 1 & 2 Adhikaramās). 3 12 0 No. 80-seriert Du. Do. (Part II, 3--- Adhikara ņās). 4 0 0 No. 81.- Errata:Yajnavalkyasmrti with the coinmoutary Balakridi vita rūpācārya (Tri 11. Prayaście tâdhyây:t). 2 0 0 No. 82---TEA Arthasastra of Kutalva with comm:ntary by Bahimahopadhyāya T. Ganapati Sastri (Part III, 8.15 Adhikaraņis). No. 83ana furarea Taarafa: Isanasivagurudevapaddhati (Tantra) by išānasivagurudevamiéra (Part IV, Kriyapada 31–64 Patalas and Yogapāda). 8 8 6 RB. Ag. P. No. 84-HHC CT: Āryamanjusrimulakalpa (Part III). 2 0 0 No 85-austear Visnusamhita (Tantra). 28 0 No. 86--Cafe Bharatacarita (Kavya) by Krşmakavi. 1 8 0 No. 87-AMITEATAR: Sangitasamayasara (Sangita) of Sangſtåkıra Pârøvadetal. 1 % 0 No. 88–2: Kavyaprakasa (Alankâra) of Maminatabhatta with the two commentaries the Sampradāyaprakasini of Sri Vidyācakravartin and the Sahityacadâmaņi of Bhattagopala (Part I, 1-5 Ullâsās), 300 No. 89--Ehrefars Sphotësiddhi (Vyäkaraņa) by Biuratamióra. 0 8 0 No. 90-AIHIERE Mimamsasioka. vartika with the commentary Katika of Slluritsmiéra (Part I). 2 80 No. 91-erren Horasastra vt d'unibira cars with th: Virum ef Rudria No. 92-faza Rasopanisat. 2 0 0 No 93-ETFOTOATT Vedanteparibhasa Twith fishermraja hvarindra ili flae mortizerakásik of Pixld:ulīkşita. 1 8 0 No. 94- It Brihaddesi (Sunyita) of Natangumuni. 1 8 0 No. 95--Tuetut Ranadipika (Jyotişa) of Kumāraganaka. 0 4 0 No. 96- Rifat Rksamhita with the Bhāạya of Skandasvāmin and the commentary of Venkatamadhavārys (Part I, 1st Adhyāya in 1st Aptaka). 180 28. AB. P. No. 97-pretuageftar Naradiyamanusamhita (Smrti) with Bhaşya of Bhavasvā min. 2 OU No. 98-PEUGH Silparatna (Šilpa) by Srikumāra. (Part II.) 2 8 0 No. 99-ATHTEPISE # Mimamsaslokavartika (Mīmāmsā) with the commentary Kāśikā of Sucaritamiéra (Part II). 2 û 0 No. 100-TITT: Kavyaprakasa (Alankāra) of Mammațabhatta with the two coinnuentarius, Sampradāyaprakasini of Śrīvidyācukravartin and Sahityacuda mapi of Bhattagopāla. (Part II, 6-10 Iliäsäs). 5 0 0 No. 101- RHETTE Aryabhatīya (Jyolişin) of Aryableticārya with the Bhäşya of Nīlakanthaso nasuty!!! (Part I. Gapilapāda). 2 8 0 No. 102- Dattila (Sangit.) of Dittilan inuni. 0 4 0 No. 103-Ferrant: Hamsasandesa (Vedanta) with cominentary. 8 0 No. 104-Faysaliret Sambapancasik& (Stuti) with commentary. 1 0 0 No. 105-fafancia: Nidhipradipa of Siddina. srikanţiatalo. 0 4 0 No. 106-01FT Prakriyasarrasta- (Vyakaraṇa) of Srī Nārāyana Blatta with commentary (Part I.) io No. 107-ray Kavyaratna (Kavşa) of Arbaddusa. 0 120 No. 108-argiraiverê Balamartandavijaya. (Nāțaka) of Devarājukavi. 1 < 0) No. 109.-FORTER: Nyayasara with the commentary of Vasudev&suri. 1 8 0 10 BS. A&. 1. No. 110-utaztat Aryabhatiya (Jyotişa) of Aryabhatācārya with the Bhāşya of Nílakaạthasomasutvan.(Part II. Kalakriyāpada) 1 0 0 No. 111- guita: Hridayapriya (Vaidyaka) by Parameśvara, 3 0 0 Ro. 112-कुचलोपाख्यानम् अजामिलोपाख्यानं च । Kucelopakhyana and Ajamilopakhyana. (Sangſta) by H. H. Svāti Sri Rāma Varma Maharaja. 0 40 No. 113-icence: Sangitakrtis (Gāna) of H. H. Svāti Sri Rāma Varma Maharaja. 1 0 0 No. 114-IECTATET Sahityamimams& (Alavkāra) 1 0 0 No. 115-fear Rksamhita (with the Bhāşya of Skandasvānin and the community uf Venkatamadha- Vārya) (Part II) 2nd Adhraya in Ist Aştaka. 1 8 0 No. 116-FET Vakyapadiya (Vyakarann) with i!cuintenary Trakīrņakaprakūza by Hekuraja 501 of Bhutiraja. (Part I). 1 8 0 No. 117--CeraTAUSTATUT Sarasvatikantabharana (Vyakarna) by Bhojadeva with the commentary of Sri Nārayaņa Dandanatha, 8 ( No. 118-EAT Balaramabharata (Natya) by Bālarāma Varma Vanci Maharaja, No. 119 - ATATUE: Vivekamarthanda (Vedanta) of Visvarupadeva 06 No. 120-igenza Saunakiya. 0 Apply to: The Superintendent, Government Press Trivandrum.