Library
Samay Matrika-11123
Front matter
KÂYYAMÂLÂ. 10.
THE
SAMAYAMÂTRIKA
OF
KSHEMENDRA.
EDITED
BY
PANDIT DURGÂPRASAD
AND
KÂSÎNÂTH PÂNDURANG PARAB.
Second Edition.
PUBLISHED
BY
PÂNDURANG JAWAJÎ,
PROPRIETOR OF THE “NIRNAYA-SAGAR" PRESS,
BOMBAY
1925.
[ All rights reserved by the publisher. ]
PUBLESHER :-Pandurang Jawaji, at the 'Nirnaya-sagar' Press,
PRINTER :-Ramchandra Yesu Shedge, / 26-28, Kolbhat Lane, Bombay.
11205
परिवहन
1112.3
प्रन्थालय, उ,त. शि संस्थान
सारनाथ, वाराणसी
काव्यमाला. १०. महाकविश्रीक्षेमेन्द्रविरचिता समयमातृका जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डित. दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाव- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधिता। द्वितीयावृत्तिः। साच मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्रकाशिता । १९२५ मूल्य ३४ व काव्यमाला। महाकविश्रीक्षेमेन्द्रकृता समयमातृका। प्रथमः समयः। अनङ्गवातलास्त्रेण जिता येन जगत्रयी। विचित्रशक्तये तस्मै नमः कुसुमधन्वने ॥ १॥ यस्या दुर्धरघोरवऋकुहरे विश्वक्षये लक्ष्यते क्षुब्धाब्धाविव लोलवालशफरी कुत्रापि लोकत्रयी। तामज्ञातविशालकालकलनां तैस्तैः पुराणैरपि प्रौढां देहिसमूहमोहनमयीं काली कराला नुमः ॥ २ ॥ क्षेमेन्द्रेण रहस्यार्थमन्त्रतत्रोपयोगिनी । क्रियते वाररामाणामियं समयमातृका ॥ ३ ॥ अस्ति स्वस्तिमतां विलासबसतेः संभोगभङ्गीभुवः केलिप्राङ्गणमङ्गनाकुलगुरोर्देवस्य शृङ्गारिणः । कश्मीरेषु पुरं परं प्रवरतालब्धाभिधाविश्रुतं सौभाग्याभरणं महीवरतनोः संकेतसद्म श्रियः ॥ ४ ॥ यत्र त्रिनेत्रनेत्राग्नित्रस्तस्त्यक्त्वा जगत्रयीम् । पौरस्त्रीत्रिवलीकूले वसत्यसमसायकः ॥ ५॥ तत्राभूदभिभूतेन्दुद्युतिः कंदर्पदर्पभूः कान्ता कलावतीनाम वेश्या वश्याञ्जनं दृशोः ॥ ६ ॥ कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः । नेत्रयोः श्यामलत्वेन वेश्यावृत्तमदर्शयत् ॥ ७ ॥ १. प्रवरपुरनाना प्रसिद्धम्.
२
काव्यमाला।
सा हर्म्यशिखरारूढा कदाचिद्गणिकागुरुम् ।
कामिनां नर्मसुहृदं ददर्श पथि नापितम् ॥ ८ ॥
श्मश्रुराशीचितमुखं काचकाचरलोचनम् ।
पीवरं तीरमण्डूकैर्मार्जारमिव शारदम् ॥९॥
विटानां केलिपटहं तप्तताम्रघटोपमम् ।
दधानं रोममालान्तं स्थूलखल्वाटकर्परम् ॥ १० ॥
ताम्बूलष्ठीवनत्रासादुपरि क्षिप्तचक्षुषम् ।
आनिनाय तमाहूय सा नेत्राञ्चलसंज्ञया ॥ ११ ।।
स समभ्येत्य तां दृष्ट्वा चिन्तानिश्चललोचनाम् ।
पप्रच्छ विस्मितः कृत्वा नर्मप्रणयसंवृतिम् ॥ १२ ॥
ध्यानालम्बनमाननं करतले व्यालम्बमानालकं
लुप्तव्यञ्जनमञ्जनं नयनयोनिःश्वासतान्तोऽधरः।
मौनक्लीवनिलीनकेलिविहगं निद्रायमाणं गृहे (१)
वेषः प्रोषितयोषितां समुचितः कस्मादकस्मात्तव ॥ १३ ॥
किं मेखला मदनबन्दिवधूनितम्बे
सुश्रोणि नैव बत गायति मङ्गलानि ।
अङ्गं कृशाङ्गि किमनङ्गयशःप्रभेण
कर्पूरचन्दनरसेन न लिप्तमेतत् ॥ १४ ॥
प्राप्तं पुरः प्रचुरलाभमसंस्पृशन्ती
भाविप्रभूतविभवाय कृताभियोगा।
किं केनचित्सुचिरसेवननिष्फलेन
मिथ्योपचारवचनेन न वञ्चितासि ॥ १५ ॥
लोभाद्गृहीतमविभाव्य भयं भवत्या
दात्प्रदर्शितमशङ्कितया सखीभिः ।
दत्तं तवाप्रतिममाभरणं नृपाह
चौरेण किं प्रलपितं नगराधिपाने ॥ १६ ॥
१ समयः] समयमातृका। ३ दानोद्यतेन धनिकेन विशेषसङ्गा- सक्तोऽयमित्यथ शनैरवसायितेन । लव्धान्तरखजनमित्रविरोधितेन किं त्वनिकारकुपितेन कृतौ विवाहः ॥ १७ ॥ दत्त्वा सकृत्तनुविभूषणमंशुकं वा यद्वानुबन्धविरलीकृतकामुकेन । यक्षेण सर्वजनतासुखभूः प्रपेव तीक्ष्णेन भीरु किमु केनचिदावृतासि ॥ १८ ॥ वित्तप्रदानविफलेन पलायमाना कौटिल्य चारुचटुला शफरीव तोये । गूढं वशीकरणचूर्णमुचा कचेषु किं केनचिन्न कुहकेन वशीकृतासि ॥ १९ ॥ निष्कासितुं हृदयसंचिततीववैरे संदर्शितप्रकटकूटधनोपचारे । लोभात्त्वयानपचयैः पुनरावृतेव (१) प्राप्तः किमु प्रसभमर्थवशादनर्थः ॥ २० ॥ कैनिंत्यसंभवनिजं वणिजं त्यजन्त्या यान्त्या तृणज्वलनदीप्तिनियोगलक्ष्मीम् । नष्टे ..."वस्त्र विभवे विरते पुराणे जातस्तव स्तबकितोभयलाभभङ्गः (१) ।। २१ ।। सिद्धः प्रयत्नविभवैः परितोषितस्य दातुं समुद्यतमतिः खयमर्थशास्त्रम् । नीतस्तव प्रचुरमत्सरयान्यया किं गेहान्निधिबहुधनः खसखीमुखेन ।। २२ ॥ किं वावसादपदवीमतिवाह्य कष्टां लब्धाविकारविभवेन विवर्जितासि ।
काव्यमाला।
किं मूच्छितासि विरतासि सुखोज्झितासि
ध्यानावधानबधिरासि निमीलितासि ।। २३ ।।
अप्युद्दामव्यसनसरणेः संगमे कामुकानां
भद्रं भद्रे भुवनजयिनस्त्वत्कलाकौशलस्य ।
अप्युत्साहप्रचुरसुहृदः कामकेलीनिवासाः
प्रौढोत्साहास्तव सुवदने खस्तिमन्तो विलासाः ॥२४॥
इत्यादि तेन हितसंनिहितेन पृष्टा
स्पृष्टा भृशं विभवभङ्गभयोद्भवेन ।
सा तं जगाद सुखदुःखसहायभूतं
चिन्ता विशेषविवशा
बहुशः
श्वसन्ती ।। २५ ॥
शृणु कङ्क ममानन्तां चिन्तां संतापकारिणीम् ।
ययाहमवसीदामि ग्रीष्मग्लानेव मञ्जरी ॥ २६ ॥
सा सखे करभग्रीवा मातुर्माता स्थिरस्थितिः ।
व्याली गृहनिधानस्य हता वैद्याधमेन मे ॥ २७ ॥
योऽसाववद्यविद्याविद्वैद्यः सद्यः क्षयोद्यतः ।
दर्पादातुरवित्तेन वृद्धोऽपि तरुणायते ॥ २८ ॥
तेन रोगधराख्येन दत्ता रसवती मम ।
त्रिभागशेषतां नीता लौल्यलोभोद्भवाचया ॥ २९ ॥
प्रपञ्चवञ्चनावैरात्सातेनातुरतां गता ।
काञ्चन्या पञ्चतां नीता पश्यन्ती काञ्चनं जगत् ॥ ३० ॥
हिरण्यवर्णी वसुधां तस्मिन्नन्तक्षणेऽपि सा ।
दृष्ट्वा मामब्रवीद्वत्से गृह्यतां गृह्यतामिति ॥ ३१ ॥
ततस्तस्यामतीतायां गृहं मे शून्यतां गतम् ।
पराभवास्पदीभूतं कामुकैः खेच्छया वृतम् ॥ ३२ ।।
रिक्तः शक्तो न निर्याति नामोत्यवसरं धनी ।
शून्यशालेव पथिकैर्निरुद्धा कामुकैरहम् ॥ ३३ ॥
१ समयः ] समयमातृका । तस्माद्विदेशं गच्छामि नेच्छाम्युच्छृङ्खलां स्थितिम् । कथं रक्तविरक्तानां तुल्या वायत्ततां सहे ॥ ३४ ॥ इत्युद्वाष्पदृशस्तस्याः प्रलापं वृद्धनापितः। आकर्ण्य तां समाश्वास्य सोच्छ्रासं प्रत्यभाषत ॥ ३५ ॥ भवत्या वित्तलोभेन निर्विचारतया परम् । भिषग्दुष्टभुजगोऽसौ खयमेव प्रवेशितः ॥ ३६॥ जनन्यो हि हतास्तेन वेश्यानां पथ्ययुक्तिभिः । किं कुट्टनीकृतान्तोऽसौ वैद्यो न विदितस्तव ॥ ३७ ।। स रोगिमृगवर्गाणां मृगयानिर्गतः पथि । इत्यादिभिः स्तुतिपदैविटचेरैः प्रणम्यते ॥ ३८ ॥ 'यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वप्राणहराय च ॥ ३९ ॥' अधुना दुःखमुत्सृज्य मनः स्थित्यै विधीयताम् । कृत्रिमः क्रियतां गेहे रक्षायै जननीजनः ॥ ४० ॥ व्याघ्रीव कुट्टनी यत्र रक्तपानामिषैषिणी । नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः॥ ४१ ।। यत्र तत्र निमग्नानां वेश्यानां जननीं विना । संध्ययोर्दिवसस्यापि मुहूर्तापस्य न क्षणः ॥ ४२ ॥ न भवत्येव धूर्तस्य वेश्यावेश्मन्यमातृके । चुल्लीसुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥ १३ ॥ प्रविष्टा कुट्टनीहीनगृहं क्षीणपटा विटाः । गाथाः पठन्ति गायन्ति व्ययद्रविणमर्थिताः ॥ ४४ ॥ अकण्टका पुष्पमही वेशयोषिदमातृका । मन्त्रिहीना च राज्यश्रीभुज्यते विटचेटकैः ॥ ४५ ॥ अयं पीनस्तनाभोगसौभाग्यविभवोचितः । द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ।। ४६ ॥
६ काव्यमाला। खला इवातिचपलाः कृतालिङ्गनसंगमाः । न गताः पुनरायान्ति बाले यौवनवासराः ॥ ४७ ॥ .... प्रथम . नां पुष्पवतीनां लतानां च ॥ १८॥ तस्मान्मानिनि कापि हेमकुसुमारामोच्चयाय त्वया माता तावदनेककूटकुटिला काचित्समन्विष्यताम् । एताः सुश्रु भवन्ति यौवनभरारम्भे विजृम्भाभुवो वेश्यानां हि नियोगिनामिव शरत्काले घनाः संपदः ॥ ४९ ॥ अस्त्येव सा बहुतराङ्कवती तुलेव कालस्य सर्वजनपण्यपरिग्रहेषु । क्षिप्रप्रकृष्टपलकल्पनया ययासौ भागी कृतः परिमितत्वमुपैति मेरुः ॥ ५० ॥ यासौ रामामलयजलतागाढसंरोधलीला नियन्त्राणां नियमजननी भोगिनां मन्त्रमुद्रा । विश्वं यस्याः फलकलनया लक्ष्यतामेति पाणी तस्या जन्मक्रमपरिगतं श्रूयतां वृत्तमेतत् ।। ५१ ॥ तद्वृत्तमात्रश्रवणेन कोऽपि संजायते बुद्धिविशेषलाभः । तयोपदेशे खयमेव दत्ते भवत्यसौ हस्तगता त्रिलोकी ॥ ५२ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मिताया समयमातृकायां चिन्तापरिप्रश्नो नाम प्रथमः समयः। द्वितीयः समयः। अथ दत्तावधानायां कलावत्यां यथाविधि । कथामकथयत्कङ्कः कुट्टन्याः कपटाश्रयाम् ॥ १॥ सर्वभक्षां नमस्कृत्य तामेव भवभैरवीम् । वदामि चरितं तस्याः कुक्षौ यस्या जगत्रयी ॥ २ ॥ परिहासपुरे पूर्व पान्थावसथपालिका । बभूव भूमिका नाम.......................
समयः]
समयमातृका।
..."कन्यका।
जाता घरट्टमालायामर्घघर्घटिकाभिधा ॥ ४ ॥
सा वर्धमाना सुमुखी पौरैः पर्वसु पूजिता ।
तद्गृहेष्वकरोच्चौरी पूजाभाजनसंक्षयम् ॥ ५ ॥
सप्तवर्षैव सा लोभाद्वाक्प्रौढा हट्टतोरणे।
जनन्या पण्यतां नीता लोके जालवधाभिधाम् ॥ ६॥
सुवृत्तशङ्खलतिका सकूटकुचकञ्चुका।
कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥ ७ ॥
कुङ्कुमार्थी वणिक्सूनुरथ तेनाययौ युवा ।
सुन्दरः पूर्णिको नाम पूर्णवर्णसुवर्णवान् ॥ ८ ॥
सभायां नेत्रवलनालोलभ्रूलास्यविभ्रमैः ।
कृष्टः कौतुकवान्भेजे चपलासंगम निशि ॥ ९॥
सा तस्य :ब्यसुप्तस्य निशि कण्ठावलम्बिनी ।
निगीर्य शनकैः सबै कर्णाभरणकाञ्चनम् ॥ १० ॥
अङ्गुलीभ्यः समाकृष्य हेमवालकवालिकाः ।
चौरग्रस्तेव चुक्रोश हा हतास्मीति सखनम् ॥ ११ ॥
प्रतिबुद्धोऽथ सहसा स तया मुषितो वणिक् ।
वाससाच्छादितशिरा ययौ खजनलज्जितः ॥ १२ ॥
ततः सा यौवनवती रुचिराभरणाम्बरा ।
उवास शंकरपुरे महणेति कृताभिधा ॥ १३ ॥
भूरिभाग्यभरैः सक्ता सा कामिकुसुमोच्चये ।
लेभे संभोगविश्रान्ति न रजन्यां न वासरे ॥ १४ ॥
निर्गच्छतां प्रविशतां प्रतिपालयतां बहिः।
बभूव तद्गृहे संख्या न शुनामिव कामिनाम् ॥ १५ ॥
कूपे प्रपायामुद्याने सूदपौष्पिकवेश्मसु ।
सखीगृहे च तुल्याप्तान्सा सिषेवेऽह्नि कामुकाम् ॥ १६ ॥
काव्यमाला। क्षपारम्भे क्षीबं शिशुकमिव निक्षिप्य शयने जगामान्यं तस्मिन्सुरतधननिद्रापरमपि । निशाशेषे शूलाकुलनिजसखीवेश्मगमना- पदेशेनान्यं सा सततमगमत्स्वक्रयभरे ॥ १७ ॥ नानावहारकुपितैः सान्विष्टा सुभगैर्भृशम् । पलायमाना गुप्तेषु तस्थौ कामुकवेश्ममु ॥ १८ ॥ ततः प्रासादपालेन नन्दिसोमेन सा निशि । गौरीगर्भगृहं रात्रौ रागान्धेन प्रवेशिता ॥ १९ ॥ निःश्वासनिया तसिन्प्रयाते काष्ठभूतताम् । देवालंकरणं सर्व सा गृहीत्वा ययौ जवात् ॥ २० ॥ ततः समरसिंहस्य डामरस्यावरुद्धिका । भूत्वा नागरिकानाम प्रतापपुरवासिनः ॥ २१ ॥ प्रभूतपिशिताहारसंभारैः स्थूलतां गता । सा तस्य भीमसेनस्य हिडिम्बेवाभवत्प्रिया ॥ २२ ॥ सर्वखखामिभावं सा संप्राप्ता तस्य रागिणः । प्रेरणं बन्धुयुद्धेषु विदधे निधनैषिणी ॥ २३ ॥ हते पितृव्रजे तस्मिन्बद्धमूला परं गृहे । साभूदपरपुत्रस्य श्रीसिंहस्यावरुद्धिका ॥ २४ ॥ विगलद्यौवना यूनः सा सपत्नीजिगीषया । चकार तस्य स्वीकारं वशीकरणमूलकैः ।। २५ ॥ मत्स्ययुषघृतक्षीरपलाण्डुलशुनादिभिः । प्रत्यायनप्रसक्ताभूद्यौवनस्य प्रियस्य सा ॥ २६ ॥ अथ भूपभयात्तस्य प्रत्यासत्तेऽथ भूतपे () । भूरि द्रविणमादाय साविशन्नगरान्तरम् ॥ २७ ॥ ततस्तनुतरखच्छवसना विनतानना । रण्डा मृगवती नाम साभूत्स्पर्शस्पृहामही ॥ २८ ॥ १. 'आराधन'. इति पाठान्तरम्.
२ समयः] समयमातृका। ९ सदा सुरेश्वरी गत्वा शतधारातटे चिरम् । तिलवालुकदर्भाङ्का सा चक्रे पितृतर्पणम् ।। २९ ॥ तत्र बन्धुरसारख्यमश्वारोहं महाधनम् । तीर्थस्थिता सा जग्राह मत्स्यं बकवधूरिव ॥ ३० ॥ गृहं मुष्टया गृहीत्वेव चित्तग्रहणकोविदा । सर्वायव्ययकार्येषु सैव तस्याभवद्विभुः ॥ ३१ ॥ मासेन सा गते तस्मिन्पञ्चतां बहुसंचये । तस्थौ पादाववष्टभ्य तस्यानुगमनोद्यता ॥ ३२ ॥ तद्वान्धवैर्वार्यमाणा मिथ्यैवारब्धदुर्ग्रहा । धैर्यावष्टम्भगम्भीरमुवाचार्याङ्गनेव सा ॥ ३३ ॥ कुले महति वैधव्यं वैधव्ये शीलविप्लवः । शीलभ्रंशे वियोगोऽयं वह्निना मम यास्यति ॥ ३४ ॥ इत्युक्त्वा तीव्रसंकल्पनिश्चलाश्ममयीव सा । तद्वित्तावाप्तहर्षेण सत्त्वव्यक्तिमिवावहत् ॥ ३५ ॥ ततस्तद्रविणखाम्यं राजादेशादवाप्य सा । प्रार्थिता राजपुरुषैस्तस्थौ लीलावलम्बिनी ॥ ३६ ॥ अथाश्वशालादिविरं स्वीकृत्य रतिवाडवम् । सा चक्रे, जीवलोकस्य खनामपरिवर्तनम् ॥ ३७ ॥ तल्लामसेवया नित्यं सा तस्य स्नानकोष्ठके । विलासस्खलितालापैर्दिविरस्याहरन्मनः ॥ ३८ ॥ कृत्वा लुण्ठि दिवसमखिलं भूरिभूर्जप्रयोगै- भुक्त्वा पीत्वा निशि बहुतरं कुम्भकर्णायमानः । प्रातः स्नानव्यतिकरकलादम्भसंभावनाभू- माद्यं दाहं नयति दिविरः शान्तिमन्तर्जलेन ॥ ३९ ॥ प्रवृद्धापरपुत्राथ दिविराराधनव्रता । निखिलं जीवलोकं सा विक्रीय धनमाददे ॥ ४० ॥ १. माद्यं मद्यभवम्. २सम.
१० काव्यमाला। .... सा वेश्मविक्रयादाने पुत्रैराकृष्य वारिते। गत्वाधिकरणं चक्रे मठिभट्टोपसेवनम् ॥ ११ ॥ उत्कोचारब्धसंघट्टैर्भट्टैः कूटरथादिभिः । सादिष्टाभीष्टसंपत्तिर्जग्राह जयपट्टकम् ॥ ४२ ॥ गृहं विक्रीय सर्वखं गृहीत्वा पुत्रशकिनी । सा चित्रवेषप्रच्छन्ना ययौ शाक्तमठाश्रयम् ॥ ४३ ॥ कृष्णीकृतश्वेतकचा रङ्गाभ्यङ्गेन भूयसा । जलेव सा तत्र नवपण्याङ्गनाभवत् ।। ४४ ॥ चलित्वाभ्यागता" "वणिग्वधूः। इति तस्याः प्रवादेन बभूवाधिकविक्रयः ॥ ४५ ॥ सत्यासत्यकथातत्त्वमविचार्यैव धावति । गतानुगतिकत्वेन प्रवादप्रणयी जनः ।। ४६ ।। क्षीणजिह्वाधरकरा कोषपानेन कामिनाम् । छिन्नाङ्गुलिः सा जग्राह रागवेलां पुनः पुनः ॥ ४७ ॥ सा चौरद्रविणादानाहीता शठचेटकैः । प्रत्यक्षापह्नववती सुबद्धा बन्धने धृता ॥ ४८ ॥ तत्र बन्धनपालेन भुजंगाख्येन संगता । निर्विकल्पसुखा चक्रे मत्स्यापूपमधुक्षयम् ॥ ४९ ॥ साथ बन्धनपालस्य गाढालिङ्गनसंगमे । क्षीबस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥ ५० ॥ सा जिह्वाछेदनिःसंज्ञं तमाक्रन्दविवर्जितम् । स्त्रीवेषं खांशुकैः कृत्वा जगामोत्क्षिप्तशृङ्खला ॥ ५१ ॥ सा भग्ननिगडा प्राप्य रजन्यां विजयेश्वरम् । महामात्यसुतास्मीति अंगादानुपमाभिधाम् ॥ ५२ ॥ १. 'प्रत्ययी' इति पाठः. इति पाठः २. 'जगृहे' इति पाठः, ३. 'जगादानसमाभिधाम् .
.. १ समयः] समयमातृका। ११ सा तत्र भोगमित्रस्य प्रीत्या रनैरवाकिरत् । पुराणचित्ररूपस्य यौवनस्याल्पशेषताम् ॥ ५३ ॥ यत्नोत्क्षिप्तकुचा कचायततया......... करे बद्धापाटलपट्टकेन सरलस्थूलाञ्जनव्यञ्जना । नासार्धावधि वाससा च वदनं संछाद्य विद्याधरी केयं नूतननिर्गतेति विदधे सा मुग्धसंमोहनम् ॥ ५४॥ तामेकवारं दृष्ट्वैव ननां प्रथमकौतुकात् । पथापि तेन वैरस्यान्न कश्चित्पुनराययौ ॥ ५५ ॥ शीतशालेव शिशिरे दीपमालेव वासरे । जीर्णा निर्माल्यमालेव वेश्या कस्योपयुज्यते ॥ ५६ ॥ सा तत्र ग्राहकाभावान्मृष्यन्ती पथिकांश्चलान् । संध्यायामञ्चलाकः खल्पभाटीमयाचत ॥ ५७ ॥ तपस्विनी शिखाख्या सा सङ्गं चक्रे तपस्विना । तत्र भैरवसोमेन भिक्षाभक्तार्धदायिना ॥ ५८ ॥ भस्मस्मेरशरीरसंचितरुचिर्दत्ताक्षिजीवाञ्जना बिभ्राणा स्फटिकाक्षसूत्रममलं वैचित्र्यमित्रं गले । निःसंकोचनिलीनकञ्चककचत्सुस्तब्धबाहुस्तनी साभूत्क्षोभविधायिनी हतधियां भिक्षाक्षणे निर्गता ॥ ५९ ॥ जाते तत्राथ दुर्भिक्षे भिक्षाभक्तेऽतिदुर्लभे । सा रात्रौ देवमात्रादि ययौ हृत्वा तपस्विनः ॥ ६० ॥ सा कृत्याश्रमकं गत्वा विहारं हारितस्थितिः। भिक्षुकी वज्रघण्टाख्या बभूव ध्याननिश्चला ॥ ६१ ॥ पात्रं तत्र गुणोचितं करतले कृत्वाथ भिक्षास्पदं जीर्ण कामुककूटरागसदृशं काषायमादाय सा । चक्रे मुण्डनमण्डनं परिणमत्कूष्माण्डखण्डोपमं पिण्डायै विटटकनापरिचयश्रेणीविहारं शिरः ॥ ६२॥ १. 'दृश्यते' इति पाठः १२ काव्यमाला। पट्टी मण्डलशिक्षायै प्रणतानां सदैव सा । गृहे गृहे कुलस्त्रीणां ददौ दौःशील्यदेशनाम् ॥ ६३ ॥. वश्यप्रयोगैश्यानां वणिजामृद्धिवर्धनैः । मन्त्रवादेन मूर्खाणां सा परं पूज्यतां ययौ ॥ ६४ ॥ तत्रोपासकदासेन मङ्गलाख्येन संगता । सा गर्ने दम्भभोगानां मूत विघ्नमिवादधे ॥ ६५ ॥ विच्छिन्ने पिण्डपाते सा लम्बमानमहोदरी । प्रसूता धर्ममुत्सृज्य जगाम नगरं पुनः ॥ ६६ ॥ कूटकेशवती तत्र चित्रसेनस्य मत्रिणः । पुत्रजन्मनि सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥ ६७ ॥ सार्धक्षीराभिधा धात्री सिंहपादवृसीस्थिता । बालोत्सना गृहं सर्व ग्रासीकर्तुमिवैक्षत ॥ ६८ ।। क्षीरसंक्षयरक्षायै संप्राप्तसरसाशना । सा मान्त्रिभवने धात्रा धात्री पात्रीकृता श्रियः ॥ ६९ ।। कण्ठे विद्रुममालिका श्रवणयोस्ताडीयुगं राजतं स्थूलस्थूलविभक्तिसक्तवटकप्रोग्भारभाजौ भुजौ । गुल्फास्फालविलम्बिकम्बलघनारम्भा नितम्बस्थली धान्याः संभृतभोजनैरभिनवीभूतं पुराणं वपुः ॥ ७० ॥ ततस्तदपचारेण शिशौ जातज्वरे व्यधात् । वैद्यदत्तोपवासा सा मत्स्यसूपपरिक्षयम् ॥ ७१ ॥ पानीयं विनिवारणीयमहितं भक्तस्य वार्तेव का द्वित्राण्येव दिनानि धात्रिदयया धात्रीरसः पीयताम् । जीवत्वेष शिशुभजख विविधैरस्योत्सवैः संपदं वैद्येनेति निवेद्यमानमकरोत्सा सर्वमेवाश्रुतम् ॥ ७२ ।। दृष्ट्वा तत्रातुरं बालं तृणवत्सुतरागिणी । सा ययौ निर्दया रात्रौ गृहीत्वा हेमसूतिकाम् ॥ ७३ ॥ १. 'स्थालस्थूल' इति पाठः. २ 'प्राग्भाव' इति पाठः. ३. 'धातृदयया' इति पाठः, २ समयः ] समयमातृका । १३ ततः प्रत्यन्तविषये प्रभूतच्छागगोचरा । ख्याता धनवती नाम स्फीतां चक्रे गृहस्थितिम् ॥ ७४ ॥ साथ मेघापघातेन तस्मिन्पशुधने वने । खकाय इव सापाये याते चर्मावशेषताम् ।। ७५ ॥ गृहीत्वा पशुपालस्य स्थूलं निक्षेपकम्बलम् । गत्वावन्तिपुरं चक्रे ताराख्यापूपविक्रयम् ।। ७६ ॥ क्रीत्वा गणेशनैवेद्यमण्डकानां करण्डकम् । पुनः पाकोष्मणा नित्यमकरोद्विक्रयं पथि ॥ ७७ ॥ साभुत गृहनारीणां प्रभूतोज्जामतण्डुलम् । प्रभूतलाभलुब्धानां मूलस्यापि परिक्षयः ।। ७८ ।। पान्थकन्यां घृताभ्यक्तां कृत्वा कुशलिकाभिधा । मिथ्यासन्नविवाहार्थमयाचत गृहे गृहे ॥ ७९ ॥ ततः सा पैञ्जिका नाम द्यूतशालापुरःस्थिता । कपटाक्षशलाकानामकरोगूढविक्रयम् ॥ ८० ।। सा पौष्पिकी मुकुलिका कृत्वा निर्माल्यविक्रयम् । देवप्रासादपालानां मूल्यं भुक्त्वा ययौ निशि ॥ ८१ ।। ग्रामयात्रासु सा वारिसत्रदात्री हिमाभिधा । रङ्गप्रेक्षणबालानां निनाय वलयादिकम् ॥ ८२ ॥ सा नक्षत्रपरावृत्तिं कृत्वा षट्राष्टकेष्वपि । विवाहेष्वकरोद्यत्नं वर्णाख्या कूटवर्णनैः ॥ ८३ ।। गणविज्ञानिका मुग्धप्रत्ययैः ख्यातिमाययौ। नामाभिज्ञानमात्रज्ञा न तु चौरान्विवेद सा ।। ८४ ॥ भावसिद्धयभिधाना सा देवतावेशधारिणी । उपहारान्प्रयच्छेति वदन्ती नावदत्परम् ॥ ८५ ।। १. 'सा भुक्खा' इति पाठः. २. प्रभूतो ज्ञानमण्डलम्' इति पाठः. ३. 'कलशिकाभि- था' इति पाठः. ४. 'पेचिका' इति पाठः. ५. 'वारिसत्त्वधात्री इति पाठः.
काव्यमाला। तत उन्मत्तिका भूत्वा सा नमालिङ्गिता श्वभिः । कुम्भादेवीति विख्याता प्राप पूजापरम्पराम् ॥ ८६ ॥ क्षिप्रोपदेशलुब्धेन कुलदासेन मन्त्रिणा । सार्चिता प्रययौ हृत्वा पूजाराजतभाजनम् ॥ ८७ ॥ साथ तक्षकयात्रायां चलहण्ठा दिनत्रयम् । कल्पपाली कलानाम विदधे मद्यविक्रयम् ॥ ८८ ॥ कटिवण्टाभिधानस्य सा क्षीबस्य तपखिनः । रात्रौ तत्र प्रसुप्तस्य घण्टाः सप्त समाददे ॥ ८९ ॥ ततः सा भूरिधत्तूरमधुना नष्टचेतसाम् । पान्थानां सर्वमादाय निशि शूरपुरं ययौ ।। ९० ॥ एवं कृत्वा लवणसरणौ भारिकं भर्तृसंज्ञं तस्मिन्निद्रावशनुपगते रात्रिमन्यैः क्षिपन्ती । प्रातर्बवा, पृथुकटितटं संकटे दीर्घदाम्ना मूना भारं दिवसमखिल सा विलासरुवाह ॥ ९१ ॥ निःशुष्कैरतटैर्महाहिमपथैरुल्लङ्घय घोरान्गिरी- न्बम्बानाम दिनावसानसमये मान्याङ्गनारूपिणी । हेमन्ते वसनावगुण्ठितमुखी पञ्चालधारामठे शीतार्ता धनलम्बकम्बलवती चक्रे स्पृहां कातरा ॥ ९२ ॥ साथ सत्यवती नाम वृद्धा ब्राह्मण्यवादिनी। बभ्राम सागरद्वीपरशनाभरणां भुवम् ॥ ९३ ॥ क्वचिद्योगकथाभिज्ञा कचिन्मासोपवासिनी । कचित्तीर्थार्थिनी मिथ्या सा परं पूज्यतां ययौ ॥ ९४ ॥ वेधचूननधूपेन मूर्खश्रद्धाविधायिनी । महतीं प्रतिपत्ति सा लेभे भूपतिवेश्मसु ॥ ९५॥ १. 'युभिः' इति पाठः, २ 'सत्याङ्गना' इति पाठः. ३. 'स्पृहाकारता' इति पाठः. ४. 'धूपन' इति पाठः.
२ समयः ] समयमातृका । १५ सेनास्तम्भं करिप्यामि राज्ञां कृत्वेति वर्णनम् । भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ॥ ९६ ॥ केदाराम्बुगयाश्राद्धगङ्गास्नानादिवादिनी । तत्फलं बन्धमाधाय सार्थेभ्यः साग्रहीद्धनम् ।। ९७ ॥ नष्टच्छायोपदेशार्थ सार्थिता पथि दस्युभिः । रूढा शिबिकया वर्षे प्रपलाय्य ययौ ततः ॥ ९८ ॥ चीनौनकानामण्डानि साथ रुद्राक्षसंज्ञया । ददौ मूल्येन शिष्याणां रुद्राक्षाधिक्यवादिनी ॥ ९९ ॥ बिलसिद्धिधृतश्रद्धागृहीताभरणाम्बरान् । सा चिक्षेपान्धकूपेषु पातालललनोत्सुकान् ॥ १०० ॥ अङ्गविद्धविषास्मीति सुस्निग्धविषगण्डकैः । सा बबन्ध गले मालां विषजाङ्गुलिकाभिधा ॥ १०१ ॥ शुल्कस्थानेषु सर्वेषु शौरिककेभ्यः स्वभावतः । मुहूर्तमोहनं पुष्पं सा दत्त्वा खेच्छया ययौ ॥ १०२ ॥ वर्षाणां मे सहस्रं गतमधिकतरं वेझ्यहं धातुवाद सिद्धो मे वाक्प्रपञ्चः करतलकलितं त्रैपुरं कामतत्त्वम् । उर्वयां गर्वखर्वीकृतसकलगुरुग्रामभक्त्या तयास्या- मित्याख्यानेन नीताश्चरणतललिहष्ठकुराः कुक्कुरत्वम् ॥ १०३ ।। पूजासज्जा भजन्ते जयनुतिषु नतिं दिक्षु काम्बोजभोजाः सेवाशुष्कास्तुरुष्काः परिचरणरसे किं च चीनाः प्रलीनाः । उत्कण्ठार्तास्त्रिगर्ताः परिचरण विधौ पीडयन्त्येव गौडा दम्भारम्भेण तस्या विदधति कुसुमोत्सङ्गतामङ्गवङ्गाः ॥ १०४॥ भ्रान्त्वा महीं जलनिधिप्रथितामशेषां मायाविनीतिविदिताविरतोन्नतिः सा । १. 'आदाय' इति पाठः. २. 'दीनान कानां' इति पाठः. ३. 'मुहूर्ते योहर' इति पाठः. ४. 'शर्वखर्वी-' इति पाठः. ५. 'भिक्षुकाम्भोजभोगाः' इति पाठः. ६. 'मीनाः' इति पाठः.
काव्यमाला। प्राप्ता पुनर्निजपदं तनुवीरशेषा क्षीणोऽपि देहमिव कस्त्यजति खदेशम् ॥ १०५ ॥ सा सर्वदेशपरिशीलितवेषभाषा प्रभ्रष्टभूपतिसुताहमिति ब्रुवाणा । छिन्नाङ्गुलिर्दशनखण्डितनासिकाया लालाटनीलतिलकैर्विदिता ममैव ॥ १०६ ॥ सा चेप्रकीर्णधनगेहनिधानसपी गृह्णाति लोभजननी जननीपदं ते। तत्कामिलोकसकलार्थसमृद्धिमेतां यत्नाद्विना सुतनु हस्तगतामवैहि ।। १०७ ॥ तस्मातामहमेव कूटकुटिलां गत्वा स्वयं त्वत्कृते सर्वज्ञां सकलार्थसार्थसरणेः सिद्ध्यै समभ्यर्थये । किं किं वा कथयामि सैव जगतीं जानाति जेतुं धिया नास्त्यन्या गतिरित्युदीर्य हितकृत्तूर्णं ययौ नापितः।।१०८॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां चरितोपन्यासो नाम द्वितीयः समयः। तृतीयः समयः। अथ सर्वार्थजननी जननी वेशयोषिताम् । मित्रे स्वभावमलिनामानेतुं गन्तुमुद्यते ॥ १॥ संकोचक्लेशसंजातां शूरतामिव रागिणाम् । आसन्नश्रीवियोगानां वापग्लानिरजायत ॥ २ ॥ शनैर्दिनधने क्षीणे खल्पशेषाम्बरः परम् । अलम्बत क्षणं रागी संध्याधाम्नि दिनेश्वरः॥३॥ संध्यया क्षिप्ररागिण्या निरस्तः परितापवान् । नीरोगः सागरजले चिक्षेप तपनस्तनुम् ॥ ४ ॥ १. 'रजनी' इति पाठः, २. 'निरागः' इति पाठः.
३ समयः] समयमातृका। १७ ततस्तिमिरसंभारैरिरामाप्रसाधने । कृष्णागुरुभरोद्भूतधूपधूमोद्गमायितम् ॥ ५ ॥ यामिनीकामिनीकीर्णकेशपाशोपमं तमः । दीपचम्पकमालाभिर्विश्रान्तिनियमं ययौ ॥ ६ ॥ अथ खर्वेशवनितासापत्यकलहच्युतम् । अदृश्यत शशाङ्का दन्तपत्रमिवाम्बरे ॥ ७ ॥ रजनीरमणीकान्ते दिनान्ते तुहिनविषि । उदिते मुदिते लोके बभूव मदनोत्सवः ॥ ८॥ भुक्तां सहस्रकरसंपदमम्बरश्रीः कृत्वा जनस्मरणमात्रदशावशेषाम् । वेश्येव काममनपेक्षितपक्षपाता क्षिप्रं शशाङ्कविभवाभरणा बभूव ॥ ९॥ ततः कर्तुं प्रवृत्तेषु वेश्यावश्मापवर्त्मसु । विटेषु मधुलुब्धेषु निर्व्यापारं गतागतम् ॥ १० ॥ द्वाराप्रदत्तकर्णासु ग्रहणग्रहणेप्सया । कुट्टनीषु तृणापातेऽप्युन्मुखीषु मुहुर्मुहुः ॥११॥ दिनकामुकनिर्माल्यमाल्यताम्बूलिनी भुवम् । संमृज्य सजशय्यासु वेश्यावन्यप्रतीक्षया ॥ १२ ॥ आस्तीर्यमाणखट्वान्तः किङ्किणीकाणसंज्ञया । पारावतेषु विरुतैर्बजत्सु स्मरबन्दिताम् ॥ १३ ॥ गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः । पूर्व किं नागतोऽसीति वदन्तीष्वपरासु च ॥ १४ ॥ उदराबद्धवसनैर्जटाग्रन्थिनिपीडनम् । कुर्वाणैरिकलहे प्रारब्धे शठदेशिकैः ॥ १५ ॥ खयं मात्रा च युगपद्गृहीते ग्रहणद्वये । वारे प्राप्ते तृतीये च यान्तीष्वन्याखदर्शनम् ॥ १६ ॥ १. 'मठदेशिकैः' इति पाठः.
१८ काव्यमाला। अनायाते परिचिते प्रत्याख्याते नवागते । उभयभ्रंशशोकेन सीदन्तीष्वपरासु च ॥ १७ ॥ भुक्तोज्झितानामन्यासु पुनः प्राप्तार्थसंपदाम् । जननी दुर्जनीकृत्य कुर्वाणासु प्रसादनम् ॥ १८ ॥ यदि त्वां सा सुजननी न जानीयात्सुधामयम् । अभविष्यदुपायो मे तत्कोऽसौ प्राणधारणे ॥ १९ ॥ नित्यावहारकुपितं सर्वार्थैरुपकारिणम् । ऋजुमावर्जयन्तीषु विदग्धासुतवैरिषु(?) ॥ २० ॥ अन्यनाम्ना प्रविष्टानां कलहे कूटकामिनाम् । कुट्टनीषु रटन्तीषु घण्टारणरणोत्कटम् ॥ २१ ॥ प्रसुप्तकटकक्षीबक्षीणक्षुद्रा ते गृहे । सखीभवनमन्यासु यान्तीष्वादाय कामुकम् ॥ २२ ॥ बालमार्जारिकाह्वानव्याजेनान्यासु वर्त्मनि । कटाक्षः कलयन्तीषु दूरात्कामुकमामिषम् ॥ २३ ॥ एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्यायैव दुर्ग्रहः । किं करोमीति जननीं पृच्छन्तीष्वपरासु च ।। २४ ।। निशा दीर्घा नवः कामी तनयेयं कनीयसी। व्यत्येति कालहाराय वृद्धावर्गे कथोद्यते ॥ २५ ॥ नाज्ञातागृह्यते भाटी चरन्ति म्लेच्छगायनाः। इत्यन्यासु वदन्तीषु शून्यशय्यासु लजया ॥ २६ ॥ आयाते वार्यमाणेऽपि निर्माने क्षीणकामुके । व्याजकुक्षिशिरःशूलाकन्दिनीषु परासु च ॥ २७ ॥ मुग्धकामुकमित्राणां खेच्छया व्ययकारिणाम् । प्रस्तुते स्थिरलाभाय कुट्टनीभिर्गुणस्तवे ॥ २८ ॥ १. 'दण्डं' इति पाठः. २. 'वास्तवैरिषु' इति पाठः. ३. 'दृते', 'वृते' इति पाठः, ४. 'व्यति' इति पाठः.
३ समयः] समयमातृका । लजामहे वयं स्वल्पधनेनेति विभाविनि । गण्यमाने दशगुणे धूतैः प्रथमकामिनाम् ॥ २९ ॥ प्रवाससक्तेरधिकारिसूनोः स्थितावरुद्धा तनया ममेति । काचिद्वदन्ती विजने विगूह्य जग्राह भाटी त्रिगुणां समृद्धात् ॥ ३० ॥ अल्पं ममैतदुहितुर्न योग्यं न च क्षणोऽस्ति त्वमदृष्टपूर्वः । इति ब्रुवाणापि विटं पटान्ते गाढं गृहीत्वा न मुमोच काचित् ॥ ३१ ॥ अमात्यपुत्रेण सुताध नीता क्षमख रात्रिं प्रणयान्ममैकाम् । उक्त्वेति काचिजरती चकार रिक्तस्य सक्तस्य च विप्रलम्भम् ॥ ३२ ॥ दातव्यं न ददाति वारविरहे टक्कोऽद्य लब्धस्थलः क्रूरः सैन्यपतिः प्रयाति रिपुतां सद्यैव वारं विना । वृत्तिर्देवगृहात्कथं नु दिविरे वारोज्झिते लभ्यते वाटीपेटकवारतां गतवती प्रोवाच काचित्सखीम् ॥ ३३ ॥ अन्यास्ताः सखि कूटपाशनिचयैराकृष्टमुग्धश्रियः कुर्मः किं वयमेव वञ्चनकलां जात्या न जानीमहे । सद्भावे सततं स्वभाव विमुखः सर्वाभिशङ्की जनो बाक्यैः काचिदिति प्रकाशमकरोत्सतार्जवावर्जनम् ॥ ३४ ॥ .."सकलैव सा रसवती नीता क्षणेन क्षपा पापेन क्षपितं दिनं निशि तया शय्यावहारः कृतः । इत्युद्वेगपरिग्रहग्लपितधीः पृष्टः सहासैविटे- क्चष्टे कटुकुट्टनीकुटिलतामक्लिष्टकूटां विटः ॥ ३५ ॥ नास्सद्देहप्रवेशः सगुणजनकथाकेलिमात्रोपचारै- प्पारारम्भसारप्रवसवसरे वासरे कामुकानाम् । वृत्तिवृत्तानुरोधात्कथमपि विदितागृह्यते यामवत्या इत्युच्चैः काचिदूचे बहुगतगणिकावर्गगर्वोपशान्त्यै ॥ ३६ ॥ कुरु तरलिके हारं कण्ठे गृहाण मनोहरे वलययुगलं लीले लोलां विलोकय मेखलाम् । १. 'विभाविने' इति पाठः. २. उपचारे' इति पाठः, ३. 'पर्वोपशान्त्यै' इति पाठः.
२० काव्यमाला । भज मलयजं चित्रे रात्रिः प्रयाति कठोरता- मिति चतुरताचार्यस्तासां बभूव सखीजनः ॥ ३७ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां प्रदोषवेश्यालापवर्णनं तृतीयः समयः। चतुर्थः समयः। अस्मिन्नवसरे धूर्तवार्तालीना सुकुट्टनी । नापिताख्येन तमसा रजनीव सहाययौ ॥ १ ॥ अस्थियन्त्रशिरातन्त्री लीनानोदरकृत्तिका । शुष्ककायकरकाङ्कावृतेव कटपूतना ॥ २ ॥ वहन्ती सुबहुच्छिद्रं शरीरं चर्मबन्धनम् । अन्तर्गतजगद्व्याजशिक्षाशकुनिपञ्जरम् ॥ ३ ॥ सर्वस्वग्रहणेनापि लम्बमानमुखी सदा । तुलेवाङ्कसहस्राङ्का त्रैलोक्यतुलने कलेः ॥ ४ ॥ समा समधने पापे सपापाधमगाधमे । धात्रा कृत्रिमरागस्य खरमालेव निर्मिता ॥ ५ ॥ सुस्पष्टदृष्टदीर्घोग्रदशना भीषणाकृतिः। प्रसवक्रूरकोपेन संस्थितास्थिरता शुनी ॥ ६ ॥ उलूकवदना काकग्रीवा मार्जारलोचना । निर्मिता प्राणिनामङ्गरिव नित्यविरोधिनाम् ॥ ७ ॥ वेश्यावनैकपालिन्या यया रागमहाव्रते । कृता कामुकलोकस्य खटाङ्गशरणा तनुः ॥ ८॥ सक्ताश्रुपातजननी तां विलोक्य कलावती । अभिचारहुतस्यामेः काली धूमशिखामिव ॥ ९ ॥ ससंभ्रमोत्थिता तस्याः कृत्वा चरणवन्दनम् । दत्त्वा निजासनं चक्रे स्तुति पूजापुरःसराम् ॥ १० ॥ १. 'शाखाशकुनि' इति पाठः. २. 'चापि' इति पाठः. ३. 'समदने' इति पाठः, २१ ४ समयः] समयमातृका। वेश्योपदेशविषये चतुराननत्वा- न्मायाप्रपञ्चनिचयेन जनार्दनत्वात् । रिक्तप्रसक्तकलहैरतिभैरवत्वा- त्सर्गस्थितिक्षयविधातृगुणा त्वमेव ॥ ११ ॥ उद्भिन्नयौवनमनोहररूपशोभा- संभाविताभिनवभोगमनोभवानाम् । एणीदृशां त्वदुपदेशविवर्जितानां मातर्भवन्ति नहि नाम समीहितार्थाः ॥ १२ ॥ तस्माद्भजख परिकल्पितपुत्रिकां मां भक्तामनन्यशरणां शरणं प्रपन्नाम् । आत्मार्पणप्रणयिनां नवदर्शनेऽपि जात्यैव पेशलधियः सदया भवन्ति ॥ १३ ॥ इत्यर्थिता कलावत्याः प्रत्यासन्नसुखस्थितिः । मनुष्यामिषककाली कङ्काली तामभाषत ॥ १४ ॥ संक्रान्तहृदयस्नेहा निःशूलप्रसवोद्भवा । गर्भभारं विना पुत्रि त्वं सुताभिमता मम ॥ १५ ॥ ककेन जन्मसुहृदा त्वदर्थमहमर्थिता । स्यूतेयं मे विटच्छिन्ना नासा येन पुनः पुनः ॥ १६ ॥ पात्रं मदुपदेशस्य त्वमेव त्रिदशोचिता । सद्भित्तिलिखितं चित्रं चित्रतामेति नेत्रयोः ॥ १७ ॥ श्रूयतां प्रथमं पुत्रि भूत्यै यत्कथयाम्यहम् । कलाकोषं तु कालेन नित्याभ्यासादवाप्स्यसि ॥ १८ ॥ न कुलेन न शीलेन न रूपेण न विद्यया । जीविताभ्यधिकं बुद्धिलभ्यं धनमवाप्यते ॥ १९ ॥ प्रायेण जगति प्रज्ञा नाना........"स्ति कस्यचित् । इयती जगतीं वेद्मि पूर्णामूर्णायुमिर्जडैः ॥ २० ॥ १. 'संतुष्टा' इति पाठः. २. 'उत्सवाः' इति पाठः. ३. 'जनैः' इति पाठः. ३ सम०
२२
काव्यमाला।
अज्ञातकालोचितकर्मयोगा रोगा इवाहर्निशपच्यमानाः ।
जगत्रये देवमनुष्यनागाः प्रज्ञादरिद्राः खलु सर्व एव ॥ २१ ॥
ज्येष्ठेन तावत्परमेष्ठिनैव विचारशून्येन कृतं किमेतत् ।
यत्कामिनीपीनपयोधराणां विद्युद्विलोला किल यौवनश्रीः ॥ २२ ॥
का नाम बुद्धिहीनस्य विधेरस्ति विदग्धता।
कूष्माण्डानां न यश्चक्रे तैलमूर्णां च दन्तिनाम् ॥ २३ ॥
रत्नार्थिना जलनिधौ मधुसूदनेन
केशः किलाद्रिवलनप्रभवोऽनुभूतः ।
किं सैव पूर्वमखिलार्थविलुण्ठनाय
कान्ताकृतिः कपटकाममयी न सृष्टा ॥ २४ ॥
निद्रा महीभारपरिग्रहश्च श्रीसंश्रयत्वं परयाचनं च ।
अत्युन्नतत्वं गुणहीनता च किं युक्तमेतत्पुरुषोत्तमस्य ॥ २५ ॥
कृशः शशी गणा नग्मा भार्या वस्त्रार्धहारिणी।
शंभोधनपतिप्रीतिर्न विद्मः कोपयुज्यते ॥ २६॥
भस्माङ्गः प्रकटं बिभर्ति ललनां योऽङ्गे स किं युक्तक-
निःसङ्गः सततं गणेषु रमते यः किं स सत्यव्रतः ।
यः सक्तः परमेश्वरोऽपि वृषभृद्वर्गे स किं नीतिमा-
गोप्यां यः कुटिलां कलां स्फुटतया धत्ते स किं धीधनः ॥२७॥
किं कामिनीप्रणयिना दिननायकेन
संशातितं भ्रमकृता कृतिना स्वतेजः ।
अर्थेन किं न विहिताभिमुखा मृगाक्षी
वित्तेन तीक्ष्णतरमप्यबला सहेत ॥२८॥
चन्द्रस्येश्वरसेवया कृशतनोः क्षण्यं न निर्मूलितं
मानी मूर्ध्नि जडः स्थितः कथमिव प्राप्नोति संपूर्णताम् ।
वृद्ध्यर्थी यदि किं करोति चरणोपान्ते न तस्यास्पदं
हन्त्येव खसमीहितं गुणमदादुच्चैः स्थितिः सेवकः ॥ २९ ॥
४ समयः]
समयमातृका।
२३
यातः प्रतारयितुमीश्वरमङ्गानायां
मारः पुरा किमिति कार्मुकबाणपाणिः ।
नाग्रे ततान वनितागुणवर्णनानां
यत्सौ...तेन नियतं विननाश मूर्खः ॥ ३० ॥
रक्तोऽप्यशोकविटपी परपुष्टबन्धोः
प्राप्नोति यस्य विभवे चरणप्रहारम् ।
तस्मै समृद्धिसचिवैर्मधुपैर्निपत्य
धूर्तेनिपीतमधवे मधवे नमोऽस्तु ॥ ३१ ॥
खाम्यं सर्वजगत्सु दिव्यमुनयस्तत्रोचिता मन्त्रिणो
राष्ट्रं खर्गमही महामणिगुरुः कोषः सुधाम्भोनिधिः।
दुगै मेरुशिरः खसैन्यममराः श्रीमान्मुरारिः सुहृ-
सा बुद्धिर्विबुधाधिपस्य तु यया व्याप्त भगाकैर्वपुः ॥ ३२ ॥
लुब्धस्याफलकालकूटकटुकक्रोधस्य निस्तेजसः
सर्वाक्रान्तिनिपीडितस्य जलधेर्दातुं प्रवृत्तस्य ते ।
संख्यातीतसमस्तरत्नवसतेर्मूर्खाः किमेतावता
मोहादेकगजाश्वपादपसुरामात्रेण तुष्टाः सुराः ॥ ३३ ॥
रामेण हेमहरिणाहरणोत्सुकेन
कूटाक्षकेलिसरणेन युधिष्ठिरेण ।
ईर्ष्यारुषा द्विजरुषा जनमेजयेन
दत्तः परं मनुजवर्त्मनि मौग्ध्यसेतुः ॥ ३४ ॥
नागैस्तायसमर्पितं तदमृतं यत्नश्रमैर्दुर्लभं
नो पीतं न विलोकितं न पिहितं मोहात्परं हारितम् ।
तस्मान्नास्ति जगत्रयेऽपि विमलः प्रज्ञाकणः कस्यचि-
सर्वः प्राक्तनजन्मकर्म""वशादोंद्यमे धावति ।। ३५ ॥
एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा ।
बुद्धिहीनप्रसादेन जीवामः केवलं वयम् ॥ ३६ ॥
काव्यमाला। मुग्धः प्रत्ययमायाति प्रत्यक्षेऽप्यन्यथा कृते । मायाप्रपञ्चसारश्च वेश्यानां विभवोद्भवः ॥ ३७ ॥ पुरा मैठरकाख्यस्य मया पाणौ द्विजन्मनः। ताम्बूलकल्ककलितं ष्ठीवितं हास्यलीलया ॥ ३८ ॥ मुग्धस्ततोऽवमानेन सोऽभिजातोऽभिमानवान् । जनसंसदि जज्वाल क्रोधादात्मवघोद्यतः ॥ ३९ ॥ साधो धातुप्रकोपेन मिथ्या पश्यसि विश्रमम् । न मया ष्ठीवितं किंचिद्भित्तौ पाणिः प्रमृज्यताम् ॥ ४० ॥ जात्या चर्ममयं चक्षुस्तस्मिन्कः प्रत्ययस्तव । मम सद्भावशीलायाः प्रमाणं वचनं न किम् ॥ ४१॥ इत्युक्त्वा तीव्रशपथैर्गलहस्तादिवादनैः । स मया प्रकृति नीतस्तथेति प्रत्ययं ययौ ॥ ४२ ॥ पदे पदे जगत्यस्मिन्निधिदेवेन निर्मितः। विटचारणवेश्यानां बुद्धिहीनावलम्बनम् ॥ ४३॥ नवयौवनकाले मे गृहं विप्रसुतः पुरा । विवेश रात्रिभोगाय नाना शंकरवाहनः ॥ ४४ ॥ शाण्ठ्यादिवातिकठिनं पीनं प्रथमयौवनम् । तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहमचिन्तयम् ॥ ४५ ॥ कठिनोऽयं निशा दीर्घा क्षपिता कामुकैरहम् । तस्माद्भोगावहारोऽस्य मया कार्यः प्रयत्नतः ।। ४६ ॥ इति संचिन्त्य सुचिरं मया तैस्तैः कथाक्रमैः । आसन्नशय्यावसरे यामः पूर्वोऽतिवाहितः ॥ ४७ ॥ आस्तां किमन्यद्वक्तव्यं श्रुतमेतदितस्ततः। पतिता नेत्रयोनिद्रेत्युवाच स पुनः पुनः ॥ ४८॥ कथाबन्धेऽथ विरते तत्संगमनिवृत्तये । शूलापदेशेन मया कृतः कृतकनिःखनः ॥ ४९ ॥ १. 'मधुरकास्यस्य' इति पाठः. २. 'तेन' इति पाठः, ४ समयः] समयमातृका। २५ सोऽथ मुग्धः प्रकृत्यैव सत्यप्रत्ययमोहितः । चक्रे शूलोपशान्त्यै मे चक्रे सर्वाङ्गमर्दनम् ॥ ५० ॥ सादरं मृद्यमानेषु तेनाङ्गेषु शनैः शनैः । प्रययौ सोपरोधेव क्षणदा क्षणवन्मम ॥ ५१॥ ततः प्रभाते तद्भोगवञ्चने चिन्तितं मया । पशुबुद्धिर्वराकोऽयं मया शूलेन वाहितः ॥ ५२ ॥ अनेन मेषमुग्धेन दत्ता भाटी चतुर्गुणा । भोगावहारन्यायेन ध्रुवं तामनुयाचते ॥ ५३ ॥ तस्मादेषे रतिस्पृष्टीकार्यस्तावद्यथा तथा । न्यायाय सुरतोच्छिष्टं कथं समुपसर्पति ॥ ५४ ॥ इति ध्यात्वाहमारब्धरतिभोगा क्षपाक्षये । प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥ ५५ ॥ आरूढरतियन्त्रो मे शूलक्लेशकृपाकुलः । अलं मत्संगमेनेति सानुरोधोऽवदत्स माम् ॥ ५६ ॥ आवर्जनाय तस्याथ निर्व्याजार्जवचेतसः । मया मिथ्या प्रियालापैर्विहितो रञ्जनक्रमः ॥ ५७ ॥ अहो बतामृतस्पर्शस्तवाङ्गेषु विभाव्यते । अधुनैव मया दृष्टं यस्य प्रत्यक्षलक्षणम् ॥ ५८ ॥ गूढाङ्गेन त्वया स्पृष्टे ममास्मिन्रमणस्थले । न जाने क गतं शूलं मत्पुण्यैस्त्वमिहागतः ॥ ५९ ।। इति श्रुत्वैव मद्वाक्यं सहसा साश्रुलोचनः । रत्यर्धरवितः शोकात्सोऽन्तः सानुशयः परम् ॥ ६० ॥ निजं वक्षो ललाटं च ताडयित्वा स पाणिना। हा कष्टं हा हतोऽसीति वदन्मामिदमब्रवीत् ॥ ६१॥ पूर्व नैतन्मया ज्ञातं यन्मदङ्गसमागमः । शूलं हरति नारीणां मणिमन्त्रौषधादिवत् ।। ६२ ।। १. 'जज्ञे' इति पाठः. २'ईषद्रतिस्पष्टीकार्यः' इति पाठः.
२६
काव्यमाला ।
मन्दपुण्यस्य जननी वात्सल्यजननी मम ।
सुचिरस्थायिना भद्रे शूलेन निधनं गता ॥ ६३ ॥
विदितोऽयं प्रकारश्चेदभविष्यदसंशयः ।
तजनन्या वियोगो मे नाभविष्यद्विचेतसः ।। ६४ ॥
इत्युक्त्वा वञ्चितोऽस्मीति स रुदित्वा विनिर्ययौ ।
पुरुषाकारसंदिग्धनिर्विषाणवृषोपमः ॥ ६५ ॥
नित्यं भोजनमैथुनप्रणयिनस्त्यक्तान्यकार्याः परं
लोकेऽस्मिन्गलगतमात्रसुखिनः सन्त्येव शून्याशयाः ।
ये मेषप्रतिमाः क्षयोद्यतमतेः सर्वखहर्तुः क्षणा-
दाप्तस्येव विनिक्षिपन्ति नितरां निःशङ्कमके शिरः ॥ ६६ ॥
इत्यबुद्धिधनाधाननिधानैर्विविधोदयैः ।
कूटपण्यैरसामान्यैस्तारुण्यमतिवाद्यते ॥ ६७ ॥
असत्येनैव जीवन्ति वेश्याः सत्यविवर्जिताः।
एताः सत्येन नश्यन्ति मद्येनेव कुलाङ्गनाः ॥ ६८ ॥
सत्यं विनाशाय पराङ्गनानामसत्यसारा गणिकागणश्रीः ।
सत्येन वेश्या किल दृष्टसारा दरिद्रशाला इव कस्य सेव्याः ॥ ६९ ॥
दानेन नश्यति वणिश्यति सत्येन सर्वथा वेश्या ।
नश्यति विनयेन गुरुनश्यति कृपया च कायस्थः ॥ ७० ॥
वेश्याजनस्य कितवस्येव वञ्चनमायया ।
अहो वैदग्ध्यमित्युक्त्वा परोऽपि परितुष्यति ॥ ७१॥
पुराहं पृथिवीमेतां प्रान्त्वा जलधिमेखलाम् ।
प्राप्ता वेश्यास्पदं लोभात्पुरं पाटलिपुत्रकम् ॥ ७२ ।।
कुट्टन्यस्तत्र सर्वज्ञा दृष्ट्वा मामल्पकौशलाम् ।
जहसुः सखनं येन हीताहं क्षमामिवाविशम् ।। ७३ ॥
ततस्तेनावमानेन गणेशायतनाग्रतः ।
स्थिता कृतोपवासाहमहंकारविवर्जिता ॥ ७४ ॥
४ समयः] समयमातृका। २७ अथ खप्ने गणेनाहं पृष्टा शंकरसूनुना । उपवासाः कियन्तस्ते प्राप्ता इति पुनः पुनः ॥ ७५ ।। स मयाभिहितः कूटकृतप्राणान्तचेष्टया । मासद्वयमतिक्रान्तं व्रतादनशनस्य मे ॥ ७६ ।। तच्छ्रुत्वा स स्मितमुखः सर्वज्ञः प्राह मां गणः । अहो व्रतेऽपि खमेऽपि नासत्यादस्ति ते च्युतिः ॥ ७७ ॥ परितुष्टोऽस्मि ते भद्रे निश्चलासत्यनिश्चयात् । महामायामयकला लब्धभोगा भविष्यसि ॥ ७८ ॥ गणेशानुचरः पूर्वमिति मह्यं वरं ददौ । असत्येनैव वेश्यानां भवन्ति धनसंपदः ॥ ७९ ॥ धनप्रधानं जनजीवभूतं लोकेषु तत्रापि विशेषयोगात् । जनाभिसारप्रतिपत्तिभाजां महीभुजां वेशमृगीदृशां च ।। ८० ॥ धनेन लभ्यते प्रज्ञा प्रज्ञया लभ्यते धनम् । प्रज्ञार्थी जीवलोकेऽस्मिन्परस्परनिबन्धनौ ॥ ८१ ।। ईश्वरः स जगत्पूज्यः स वाग्मी चतुराननः । यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥ ८२॥ स एवाहृदयो राहुरलसः स शनैश्चरः । वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥ ८३ ॥ सुजातस्य प्रयातस्य माङ्गल्यस्पृहणीयताम् । धनिकस्य विकारोऽपि क्षीबस्येव जनप्रियः ।। ८४ ॥ धनिनश्चन्दनस्येव सच्छायस्य मनोमुषः। निष्फलस्यापि लोकोऽयं संपर्क बहुमन्यते ।। ८५ ॥ निस्त्रिंशा अपि सलेहा भवन्ति श्रीमतः परम् । खकेशा अपि निःस्वानां निःस्नेहा यान्ति रूक्षताम् ॥ ८६ ॥ सेव्यः कविबुधादीनां गुरुः शूरकलावताम् । मतिप्रदोऽर्थवानेव व्योममार्ग इवोन्नतः ।। ८७ ॥
२८
काव्यमाला।
विक्रीय स्वगुणं निःखः स्वयं मांसमिव द्विजः ।
सद्यः पतति निःसत्त्वः पतितः केन पूज्यते ॥ ८८ ॥
गुणिनां चित्तवैकल्याद्गुणा निर्गुणवाञ्छया ।
हृदयेष्वेव सीदन्ति विधवानामिव स्तनाः ।। ८९ ॥
विद्वद्भिः परिवारिताः सगुणतामायान्ति वित्तैनराः
शूरत्वं सुभटैः कुलोन्नततरैः प्रख्यातसद्वंशताम् ।
तस्माद्वित्तसमाश्रये गुणगणे वित्ते च नान्याश्रये
वित्तं वित्तमनन्यचित्तनियताः संपन्निमित्तं नुमः ॥ ९० ।।
अम्लानमाल्याभरणाम्बरस्य वराङ्गनानन्दनमन्दिरस्य ।
नित्यप्रकाशोत्सवसेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥ ९१ ॥
अशेषदोषापगमप्रकाशमित्रागमोत्साहमहोत्सवाहम् ।
विकासशोभा जनयत्यजसं धनं जनानां दिनमम्बुजानाम् ॥ ९२ ॥
वित्तेनाभिजनी गुणी परिजनी मानी प्रमाणीकृतः
सद्भिर्जन्तुरुपैति साधुपदवी किं वा बहु ब्रूमहे ।
वित्तेन व्रततीर्थसार्थसरणक्लेशाभियोग विना
तीर्यन्ते ततपातकव्यतिकरास्ते ब्रह्महत्यादयः ॥ ९३ ॥
श्रूयतां यत्पुरा वृत्तं वाराणस्यां स्वयं मया ।
श्रुतं विश्रुतसत्त्वस्य चरितं गृहमेधिनः ॥ ९४ ॥
तत्राभवद्गृहपतिर्घरातलधनाधिपः ।
द्विजन्मा श्रीधरो नाम महाब्धिरिव रत्नवान् ॥ ९५॥
अर्थिकल्पतरोस्तस्य राजाहवरभोजनैः।
अवारितमभूद्रोहे भोज्यसत्रं सदार्थिनाम् ॥ ९६ ॥
तस्य विप्रसहस्रेषु भुञ्जानेषु सदा गृहे ।
लोके युधिष्ठिरकथा श्लथादरकथां ययौ ॥ ९ ॥
ततः कदाचिदाचारनिधेस्तस्य समाययौ ।
नियतात्मा यतिगेंहं ज्ञानात्मा नाम दिव्यधीः ॥ ९८ ॥
४ समयः]]
समयमातृका।
२९
स पूज्यः पूजितस्तेन श्रद्धयोपनिमत्रितः ।
पाकशालां ययौ द्रष्टुं भक्ष्यराशिशतान्विताम् ॥ ९९ ॥
तत्रापश्यत्स सर्वान्नव्यञ्जनादिगणोपरि ।
सितयज्ञोपवीताई लम्बमानतनुं शवम् ।। १००॥
स्रवद्भिस्तस्य गात्रेभ्यः सूक्ष्मशोणितबिन्दुभिः ।
अन्नं सर्वजनादृष्टैः सिच्यमानं ददर्श सः ॥ १०१॥
दृष्ट्वा तदतिबीभत्सं घृणासंकुचिताशयः ।
संस्पृष्टकर्णः स ययौ ततस्तूर्णमलक्षितः ॥ १०२॥
अथ संवत्सरे याते पुनरभ्येत्य कौतुकात् ।
सोऽपश्यन्मांसहीनं तत्स्नायुबद्धं कलेवरम् ॥ १०३ ॥
शिरामुखशतैस्तस्य क्लिन्नखेहकणैश्चितम् ।
स दृष्ट्वा भोज्यमगमज्जुगुप्सामीलितेक्षणः ॥ १०४ ॥
वर्षेण पुनरायातः सोऽस्थिशेषशवसुतैः ।
अन्नव्यञ्जनमद्राक्षीळ्याप्तं द्वित्रैर्वसाकणैः ॥ १०५॥
कौतुकाद्वत्सरे याते सोऽपश्यत्पुनरागतः ।
कपालशेषकलनादन्नोपरि रजश्च्युतम् ॥ १०६ ॥
षद्भिर्मासैरथायातः शुद्धं शवविवर्जितम् ।
रम्यं महानसं दृष्ट्वा पुरोहितमुवाच सः ॥ १०७ ।।
अहो गृहपतेरस्य महासत्रेण पातकम् ।
क्षीणमल्पेन कालेन लीढं याचककोटिभिः ॥ १०८ ॥
बभूव पूर्वपुरुषोपार्जितास्य गृहाश्रया ।
ब्रह्महत्या शतवती सात्र दानात्क्षयं गता ॥ १०९ ॥
यैस्तस्य भवने भुक्तं तैस्तत्पापं समाहृतम् ।
पापमन्नाश्रयं पुंसां भोक्तारमुपसर्पति ॥ ११० ॥
ब्रह्महत्या भवस्यापि या बभूव भयप्रदा ।
धनेन क्षपिता सेयमहोधनमहोधनम् ॥ १११ ॥
३० काव्यमाला। इत्युक्त्वा स शिलापट्टे लिखित्वा श्लोकमादरात् । पुरोहितेनाय॑मानः प्रययौ ज्ञानलोचनः ॥ ११२ ।। वाच्यमानः स विद्वद्भिः कस्तवाद्भुतवादिभिः (१)। श्लोकार्थगौरवरसान्मया तत्र खयं श्रुतः ॥ ११३ ॥ शमयति चितं पापं शापं विलुम्पति दुःसहं कलयति कुलं कल्याणानां कलङ्ककणोज्झितम् । धनमकलुषं तीर्थ पुंसां तदेव महत्तपः सुकृतनिधये श्रद्धाधाम्ने धनाय नमो नमः ॥ ११४ ॥ एतदाकर्ण्य युक्तार्थमर्थस्तुतिमयं मया । नीतं [द]शापदेशानां समये सारतन्त्रताम् ॥ ११५ ॥ कुरु चित्तार्जनं तूर्णं......."भवति योषिता । ने यौवनसहायोऽयं तनये कायविक्रमः ॥ ११६ ॥ तनुवल्लीवसन्तश्रीर्वदनेन्दुशरनिशा । पयोधरोद्मप्रावृट् चपला यौवनद्युतिः ॥ ११७ ॥ तारुण्ये तरले सुभ्रूभ्रमभूभङ्गविभ्रमे । स्त्रीणां पीनस्तनाभोगा भोगा द्वित्रिदिनोत्सवः ।। ११८ ॥ अयं मुखसरोरुहभ्रमरविभ्रमः सुभ्रवां कुचस्थलकुरङ्गकः पृथुनितम्बलीलाशिखी । न यौवनमदोदयश्चरति चारुकान्तिच्छटा. कुलत्रिवलिकूलिनीपुलिनराजहंसश्चिरम् ।। ११९ ॥ आलानमुन्मूल्य सुखाभिधानं तारुण्यनागे गमनोद्यतेऽस्मिन् । पलायते कामिगणेऽजनानां विमर्दभीत्येव कुचाः पतन्ति ॥ १२० ॥ युवतितटिनीप्रावृट्कालः सपीनपयोधरः कृतमदभरारम्भः कामी विलासशिखण्डिनाम् । मदनपवनालोल. "॥१२१॥ १ 'शतं' इति पाठः, २. 'नवयौवन-' इति पाठः, ... ........
४ समयः ]
समयमातृका।
......
क्रीडावल्लीकुसुमसमये रागपद्माकरा
दर्पोद्याने वदनशशभृत्कौमुदीकार्तिकेऽसिन् ।
याते मुग्धद्रविणतुलया यौवने कामिमित्रे
पण्यस्त्रीणां व्रजति सहसा दुर्दशाशेषतां श्रीः ॥ १२२ ॥
न तु यौवनमात्रेण लभन्ते ललनाः श्रियम् ।
भोगार्हा वृद्धकरिणी तरुणी हरिणी वने ॥ १२३ ॥
रूपवत्यद्भुतास्मीति कान्ते त्याज्यस्त्वया मदः ।
वने मयूराः शुष्यन्ति बलिमश्नन्ति वायसाः ॥ १२४ ॥
पूर्णी वक्रचलां
ते जनाः।
क्षीणोऽपि वृद्धिमायाति कुटिलैककलः शशी ॥ १२५ ॥
भ्रूयुग्मं कुसुमेषुकार्मुकलतालावण्यलीलाहरं
वकं न्यकृतचन्द्रबिम्बमधरो बिम्बप्रभातस्करः ।
रूपं नेत्ररसायनं किमपरं सुश्रोणि तत्रापि ते
शिक्षाहीनतया मदद्विरदवत्प्राप्नोति नार्थाक्रियाम् ॥ १२६ ॥
तवेयं यौवनतरोश्छाया विस्मयकारिणी ।
यया कामुकलोकस्य सरतापः प्रवर्तते ॥ १२७ ।।
रागसागरसंजातविद्रुमद्रुमपल्लवैः ।
तवाघरे मितरुचिः करोति कुसुमभ्रमम् ॥ १२८ ।।
भाति सचन्दनतिलकं कालागुरुकुटिलपल्लवाभरणम् ।
वदनं नन्दनमेतद्भूलतिकालास्यललितं ते ॥ १२९ ॥
यातः सुन्दरि सुतरां स्तनभारपरिश्रमः शनकैः ।
प्रोषितशैशवशोकादिव मध्यः कृशतरत्वं ते ॥ १३० ॥
तथाप्युपायशून्येन रूपेणानेन सुन्दरि ।
न प्राप्यन्ते प्रकृष्टेन प्रयत्नेनेव संपदः ॥ १३१ ।।
गुणवती ललितापि न शोभते तनुतरार्थकदर्थनयान्विता ।
सुकविसूक्तिरिवार्थवती परं व्रजति वेशवधूः स्पृहणीयताम् ॥ १३२ ॥
३२
काव्यमाला।
संसक्तेषु सुरामयी धनगुणाधानेषु लक्ष्मीमयी
स्फीतार्थेषु सुधामयी विषमयी निष्क्रान्तवित्तेषु च ।
वेश्या शङ्खमयी नितान्तकुटिला सद्भावलीनेषु या
देवानामपि सुभ्र मोहजननी क्षीरोदवेलेव सा ।। १३३ ।।
इति तया वचनामृतमर्पितं श्रवणपेयमवाप्य कलावती ।
जननि मे द्रविणाधिगमोचितं परिचयं कथयेति जगाद ताम् ॥१३॥
इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां पूजाधरोपन्यासो(2)नाम
चतुर्थः समयः।
पञ्चमः समयः
अथ मन्मथमत्तानां करिणामिव कामिनाम् ।
बन्धाय बन्धकी शिक्षामाचचक्षे जरच्छिखा ॥ १ ॥
श्रूयतां पुत्रि सर्वत्र विचित्रोपायवृत्तये ।
मया दुहितृवात्सल्यादयं किंचित्तदुच्यते ॥ २ ॥
पूर्व भावपरीक्षैव कार्या यत्नेन कामिनाम् ।
ज्ञातरागविभागानां कर्तव्यौ त्यागसंग्रहौ ॥ ३ ॥
कुसुम्भरागः सिन्दूररागः कुङ्कुमरागवान् ।
लाक्षारागोऽथ माञ्जिष्ठो रागः काषायरागभृत् ॥ ४ ॥
हारिद्रो नीलरागश्चेत्यष्टौ वर्णानुकारिणः ।
सुवर्णरागस्ताम्राख्यो रीतिरागस्तथापरः ॥ ५॥
रागः सीसकसंज्ञश्च लौहो मणिसमुद्भवः ।
काचरागस्तथा शैलो ह्यष्टौ धात्वनुकारिणः ॥ ६॥
सांध्यरागस्तथा चान्द्रस्तथेन्द्रायुध एव च ।
वैद्युताङ्गारकेत्वाख्यरविरागास्तथैव च ॥ ७ ॥
राहुरागोऽष्टमश्चेति रागा गगनसङ्गिनः ।
श्रोत्ररागोऽक्षिरागश्च रसनासंश्रयस्तथा ॥ ८॥
५ समयः ] समयमातृका। ३३ त्वग्रागो प्राणरागश्च मानसो बुद्धिसंभवः । अहंकाराभिधानश्चेत्यष्टाविन्द्रियसंज्ञकाः ॥९॥ वृषरागोऽश्वरागश्च कृकलासाह्वयस्तथा । मेषरागः श्वरागश्च खररागस्तथापरः ॥ १० ॥ मार्जाररागो हस्त्याख्यश्चेत्यष्टौ प्राणिभेदजाः। शुकरागो हंसरागस्तथा पारावताभिधः ॥ ११ ॥ मायूरश्चटकाख्यश्च कृकवाकुसमुद्भवः । कोकिलो जीवजीवाख्यश्चेत्यष्टौ पक्षिजातयः॥ १२ ॥ केशरागोऽस्थिरागश्च नखाख्यः पाणिसंगतः। दन्तरागस्तथा पादरागस्तिलकरागवान् ॥ १३ ॥ कर्णपूराभिधानश्चेत्यष्टावङ्गविभाविनः । छायारागस्तथा भूतरागोऽपसारवानपि ॥ १४ ॥ अहरागोऽथ गान्धर्वो यक्षाख्यः क्षोभरागभृत् । पिशाचराग इत्यष्टौ महारागाः प्रकीर्तिताः ॥१५॥ कौसुमः कुम्भरागश्च नारङ्गाङ्कोऽथ दाडिमः । मद्यरागः कुष्ठरागो विसर्पाख्यश्चिताभिधः ॥ १६ ॥ भ्रामरोऽप्यथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः । भ्रमाख्यः स्मृतिजन्मा च रतिरागो ग्रहाभिधः ॥ १७ ॥ रागो रुधिरसंज्ञश्च षोडशैते प्रकीर्णकाः। संक्षिप्तं लक्षणं तेषां क्रमेण श्रूयतामिदम् ॥ १८ ॥ कौसुम्भो रक्षितः स्थायी क्षणान्नश्यत्युपेक्षितः । खभावरूक्षः सैन्दूरः स्नेहश्लेषेण धार्यते ॥ १९ ॥ अल्पलीनः सुखायैव घनो दुःखाय कौङ्कुमः । तप्तः श्लिष्यति लाक्षाङ्कः श्लेषं नायाति शीतलः ॥ २० ॥ तप्तः शीतश्च माञ्जिष्ठः स्थिरभोगक्षमः समः । स्थिरो रौक्ष्येण काषायः स्नेहयोगेन नश्यति ।। २१ ॥ १. 'नारङ्गकोऽथ' इति पाठः. ४सम.
३४
काव्यमाला।
सुरक्षितोऽपि हारिद्रः क्षणेनैव विरज्यते ।
नीलो देहक्षयस्थायी वार्यमाणोऽपि निश्चलः ॥ २२ ॥
सौवर्णश्छेदनिर्धर्षतापस्तुल्यरुचिः सदा ।
मृज्यमानस्य वैमल्यं ताम्रसंज्ञस्य नान्यथा ॥ २३ ॥
रीतिनाम्नस्तु मालिन्यं स्नेहेनाप्युपजायते ।
सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥ २४ ॥
तीक्ष्णखभावाल्लोहस्य काठिन्याञ्च न नम्रता ।
मणिनामा च निर्व्याजः सहजस्वच्छनिश्चलः ॥ २५ ॥
खभावभिदुरः काचसंज्ञश्छलनिरीक्षकः ।
शैलोऽपि गौरवस्थायी हृदयाभावनीरसः ॥ २६ ॥
सांध्यश्चलश्च नित्यश्च कल्पदोषो दशाश्रयः ।
चन्द्ररागः प्रशान्तार्तिशीतलः क्षयवृद्धिभाक् ॥ २७ ॥
ऐन्द्रायुधो बहुरुचिर्वक्रमायाविलासभूः ।
वैद्युतस्तरलारम्भदृष्टनष्टविकारकृत् ॥ २८ ॥
अङ्गारः स्त्रीजनावज्ञाज्वलितो लोहिताननः ।
केतुसंज्ञः स्फुटानर्थकारी बन्धवधादिभिः ।। २९ ।।
आर्कस्तीक्ष्णतया नित्यसंतापः सततोदयः ।
मित्रक्षयैषी विषमो राहुरागो महाग्रहः ॥ ३० ॥
श्रौत्रः कर्णसुखाभ्यासाद्गुणाकर्णनतत्परः ।
अक्षिजन्मा परं रूपमात्रे परिणतस्पृहः ।। ३१ ।।
रासनो विविधाखादभोज्यसंहारलौल्यवान् ।
त्वङ्मयः सर्वमुत्सृज्य सर्वाङ्गालिङ्गनोत्सुकः ॥ ३२ ॥
प्राणाख्यः पुप्पधूपादिभूरिसौरभलोभभृत् ।
मानसः सतताभ्यस्तस्पृहामात्रमनोरथः ॥ ३३ ॥
बुद्ध्याख्यो गुणवत्कान्तासक्तिव्यसनवर्जितः ।
अहंकाराभिधः श्लाघ्यसंगमोन्नतिलक्षणः ॥ ३४ ॥
५ समयः]
समयमातृका।
३
..
वृषसंज्ञश्च तारुण्यात्कायदर्पबलोद्भवः ।
अश्वस्तु रतमात्रार्थी तत्कालोद्यतकातरः ॥ ३५॥
कृकलासाभिधानश्च स्त्रैणदर्शनचञ्चलः ।
मेषाख्यः शष्पकवलाभ्यासतुल्यरतिस्पृहः ॥ ३६ ॥
श्वाख्यो रत्यन्तविमुखः स्त्रीरहस्यप्रकाशकः ।
गार्दभः क्रूरसंमदतृप्तिमात्रपरायणः ॥ ३७ ।।
मार्जारजन्मा सातत्यादत्यन्तनिकटस्थितिः ।
कौञ्जरः क्लेशबन्धादिनिरपेक्षसमागमः ॥ ३८ ॥
शुकाभिधोऽन्तर्निःस्लेहः कामं मुखसुखस्थितिः ।
हंससंज्ञः सुखस्थित्या गुणदोषविभागकृत् ॥ ३९ ॥
पारावताख्यः सस्नेहरतिसर्वस्खलक्षणः ।
मायूरः खवपुःस्फीतरूपप्रमदनृत्तवान् ॥ ४० ॥
बहुशः सुरतासङ्गमात्रार्थी चटकाभिधः ।
कृकवाकुभवः कान्ताक्लेशलेशविभागवान् ॥ ११ ॥
कोकिलो मधुरालापः प्रभूतप्रसरत्कथः ।
जीवजीवकसंज्ञश्च परिचुम्बननिश्चलः ॥ ४२ ॥
केशाख्यः सप्तदिवसस्थायी कृच्छ्रानुरञ्जकः ।
अस्थिसंस्थोऽन्तरस्थश्च प्रच्छन्नस्नेहजीवितः ॥ ४३ ॥
नखाभिख्यो मासमात्रस्थायी याति शनैः शनैः ।
प्राणिनामा प्रबुद्धोऽपि बद्धमुष्टेन लक्ष्यते ॥ ४४ ।।
दन्ताभिधो यस्ताम्बूललीलामात्ररुचिः सदा ।
पादाख्यश्चरणालीनः प्रणामैरेव केवलम् ॥ ४५ ॥
तिलकप्रतिमो नीचस्योत्तमस्त्रीसमागमः ।
कर्णपूरश्च कौटिल्यात्कर्णलग्नोऽतिकत्थनः ॥ ४६ ।।
सर्वत्रानुचरः शोषकारी छायाग्रहाभिधः ।
अज्ञातचित्तः स्तब्धाख्यो भूतसंज्ञो विचेतनः ॥ १७ ॥
३६
६
काव्यमाला।
॥
अपस्माराभिधः क्रूरकोपाक्षेपः क्षणे क्षणे ।
ग्रहो वखाञ्चलग्राही सजने विजने पथि ॥ १८॥
गान्धर्वो गीतनृत्तादिरससंसक्तमानसः ।
यक्षः क्षिप्तो न निर्याति गृहावृत्तिविचक्षणः ॥ ४९ ॥
यत्तत्प्रलापमुखरः क्षोभाख्यस्त्यक्तयन्त्रणः ।
पैशाचश्चाशुचिरतस्तीव्रक्षतविदारणः ॥ ५० ॥
कौसुमः क्षणिकोदारः पूजामात्रपरिग्रहः ।
भनोऽपि कौम्भः शकलश्लेषे श्लिष्ट इवेक्ष्यते ॥
नारङ्गः सरसोऽप्यन्तर्बहिस्तीक्ष्णः कटुः परम् ।
बहुगर्भतया रूढो हृदये दाडिमाभिधः ॥ ५२ ।।
क्षण:ब्योपमो माद्यः खस्थो वैलक्ष्यलक्षणः ।
बीभत्साचारवैरस्यात्कुष्ठाख्योऽतिजुगुप्सितः ।। ५३ ॥
वैरूप्यं च समायात्ति च्छेदेनेवाङ्गमर्मणाम् ।
चिताभिधानः सर्वाङ्गदाही वश्यप्रयोगजः ॥ ५४॥
भ्रामरः कौतुकाखादमात्रो नवनवोन्मुखः ।
पातङ्गः कामिनीदीप्तिरसिकः क्षयनिर्भरः ॥ ५५ ॥
वृश्चिकाख्यो व्यथादायी द्वेष्योऽप्यत्यन्तनिश्चलः ।
त्यक्ताहारोऽतिसंतापनष्टच्छायो ज्वराभिधः ॥ ५६ ॥
भ्रमनामा मतिभ्रंशाच्चक्रारूढ इवाकुलः ।
स्मरणाख्यः प्रियस्मृत्या कृतान्यस्त्रीसमागमः॥ ५७ ॥
रतिग्रहः सदा खप्ने संप्राप्तसुरतोत्सवः ।
रौधिरः कलहे रक्तपातैर्नीचस्य वर्धते ॥ ५८ ॥
इत्यशीतिः समासेन रागभेदाः प्रकीर्तिताः ।
विस्तरेण पुनस्तेषां कः संख्यां कर्तुमर्हति ॥ ५९ ॥
सुहृज्जनार्जनं कुर्यात्पूर्व वारविलासिनी ।
वेश्यानां पद्मिनीनां च मित्रायत्ता विभूतयः॥ ६० ॥
५ समयः] समयमातृका। सुहृद्भिरेव जानाति कामुकानां धनं गुणम् । हृदयग्रहणोपायं शीलं रक्तापरक्तताम् ॥ ६१ ॥ महाधनस्य सुहृदां कामिनां प्रेमशालिनाम् । प्रच्छन्नसुरतेनापि कुर्यादाराधनं सदा ॥ ६२ ॥ एको वित्तवतः सूनुः पितृहीनः सुयौवने । मुग्धे भूभुजि कायस्थः कामिस्पर्धी वणिक्सुतः ॥ ६३ ॥ नित्यातुरामात्यवैद्यप्रसिद्धस्य गुरोः सुतः । प्रच्छन्नकामो जाड्य धनः ॥ ६ ॥ नपुंसकप्रवादस्य प्रशमार्थी फलाशनः । मत्तो धूर्तसहायश्च राजसूनुर्निरङ्कुशः ॥ ६५ ॥ ग्राम्यो धातृद्विजसुतः प्राप्तलाभश्व गायनः । सद्यः सार्थपतिः प्राप्तः श्रीमान्दैवपरायणः ॥ ६६ ॥ गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः । नित्यक्षीबश्च वेश्यानां जङ्गमाः कल्पपादपाः ॥ ६७ ।। प्रथमं प्रार्थिता वेश्या न क्षणोऽस्तीत्युदाहरेत् । जनस्यायं खभावो हि सुलभामवमन्यते ॥ ६८ ॥ शिरःशूलादिकं व्याधिमनित्यमजुगुप्सितम् । अवहारोपयोगाय पूर्वमेव समादिशेत् ॥ ६९ ।। पत्नीव कुर्यादनुवृत्तिपूर्व पूर्व महार्थस्य वरोपचारम् । द्रव्यैस्त्वया मन्त्रजपादिभिर्वा वशीकृतास्मीति वदेच सर्वम् ॥ ७० ॥ खयं प्रदत्तेऽपि नखक्षते च शकत तद्भक्तिविवादशीलम् । निन्देत्प्रकामं जननी विरुद्धां गच्छेत्खयं वेश्म च कामुकस्य ॥ ७१ ॥ विदेशयात्रामपि मन्त्रयेत तेनैव सार्धं विहितानुबन्धा । सुप्तस्य कुर्यात्परिचुम्बनं च गुणस्तुति चाविबोधभाजः ।। ७२ ॥ खप्ने सदैव प्रलपेत्सरागं सर्व च तन्नामनिबद्धमेव । न चास्य तृप्तिं सुरतेषु गच्छेव्ययस्य कुर्याच मुहुनिषेधम् ॥ ७३ ॥ १. 'जटाधरः' इति पाठः.
३८
काव्यमाला।
तस्माच पुत्रार्थमनोरथा स्यात्प्राणात्ययं तद्विरहे वदेच्च ।
इत्यादिभिः खीकरणाद्युपायैर्निबद्धबुद्धेविणं लभेत ॥ ७४ ॥
तावच्च तूर्ण धनमाहरेत यावत्स रागेण विनष्टसंज्ञः ।
प्रशान्तरागानलशीतलस्तु स लोहपिण्डीकठिनत्वमेति ॥ ७५ ॥
याचेत सर्व सुरतार्तिकाले तमूरुबन्धेन निरुद्धकायम् ।
प्रायेण तृप्ताय न रोचते हि विनम्रशाखापरिपक्वमाम्रम् ॥ ७६ ॥
संधारयेत्तं च विशेषवित्तं यावन्न निःशेषधनत्वमेति ।
पुनः पुनः स्नेहलवावक्त्रा दीपं यथा दीपकदीपवर्तिः ॥ ७७ ॥
निष्पीतसारं विरतोपकारं क्षुण्णेक्षुशल्कप्रतिमं त्यजेत्तम् ।
लब्धाधिवासक्षयकारिशुष्कं पुष्पं त्यजत्येव हि केशपाशः ॥ ७८ ॥
हेमन्तमार्जार इवातिलीनः स चेन्न निर्याति निरस्यमानः ।
तदेष कार्यस्तनुमर्मभेदी प्रवर्धमानः परुषोपचारः ॥ ७९ ॥
शय्यावहारैर्वचनप्रहारैः कोपप्रकारैर्जननीविकारैः ।
कौटिल्यसारैर्विविधप्रसारैर्विपद्विचारैर्गणितापचारैः ॥ ८० ॥
याच्याविवादैरधनापवादैर्दचानुवादैः परसाधुवादैः ।
निन्दाप्रवादैः परुषप्रवादैविटप्रवादैः कथितावसादैः ॥ ८१ ॥
मुहुः प्रवासैः कलहोपवासैर्मायानिवासैः कटुकाधिवासैः ।
सभ्रूविलासैर्व्यसनोपवासैनिष्कासनीयः स पृथुप्रवासैः ॥ ८२ ॥
स चेत्पुना रागजतुप्रसक्तस्तीवावमानैरपि न प्रयाति ।
तदा तमुत्क्षिप्तभुजान्यवक्त्रा दासी वदेद्वित्तवियोगदीनम् ॥ ८३ ॥
यत्राभवत्कामुकलोकयात्रा विचित्ररूपा सततं विभूतिः ।
गृहे चतुर्थं दिनमद्य तस्मिन्दृष्टस्य दृष्टस्य वधूत्सवस्य ॥ ८४ ॥
कीवस्य यस्यास्ति न भोगसंपत्स किं भुजिष्याभवने करोति ।
न यस्य हस्ते तरमूल्यमस्ति स किं समारोहति नावमग्रे ॥ ८५ ॥
प्रक्षीणवित्तेन निरुद्यमेन किं रूपयुक्तेन करोति वेश्या ।
विच्छिन्नदुग्धा न पुनः सगर्भा सा कस्य गौश्चारुतयोपयुक्ता ॥ ८६ ॥
६ समयः]
समयमातृका।
३९
मथ्यैव रिक्तः कुरुते जडानामावर्जनैः प्रेममयैर्वचोभिः ।
क्षीरक्षये चुम्बनलालनेन बालस्य वृद्धिं विदधाति धात्री ॥ ८७ ॥
इत्यादिभिस्तद्वचनावमानस्तस्मिन्गते ग्रीष्मतुषारतुल्ये ।
क्षीणं निरस्तं पुनराप्तवित्तं भजेत यत्नाहृतवित्तमन्यम् ॥ ८८ ॥
प्राप्ते कान्ते कथमपि धनादानपात्रे च वित्ते
त्वं मे सर्व त्वमसि हृदयं जीवितं च त्वमेव ।
इत्युक्त्वा तं क्षपितविभवं कञ्चुकाभं भुजंगी
त्यक्त्वा गच्छेत्सधनमपरं वैशिकोऽयं समासः ॥ ८९ ।।
उद्देशलेशेन यदेतदुक्तं तत्कार्यकाले विविधप्रयोगम् ।
तस्मात्स्वबुद्ध्यैव विचार्य कार्यमुक्त्वेति तूष्णीं जरती चकार ॥ ९०
इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां रागविभागोपन्यासो नाम
पञ्चमः समयः।
षष्ठः समयः।
अथ क्षणक्षीणधनायमाने शनैः शनैर्निष्प्रतिभे शशाङ्के ।
द्यौर्दोषयुक्तेव विलोकनेन सविप्लवा मीलिततारकाभूत् ॥ १॥
इन्दौ प्रयाते कृतरात्रिभोगे प्रवेशकाले चिरकामुकस्य ।
वेश्येव संध्या गगनाङ्गनाग्रं निर्दिष्टताराकुसुमं चकार ॥ २ ॥
अथोदिते स्वस्थितिदानदक्षे बाले रवी श्रीमति पङ्कजिन्याः ।
विकासकाले मधुपानकेलिरभूविटानामिव षट्पदानाम् ॥ ३ ॥
कलावती मौक्तिकभूषणाङ्का धम्मिल्लमाल्यप्रणयप्रसक्तैः ।
भृङ्गता दर्पणमीक्षमाणा सतारका चन्द्रवती निशेव ॥ ४ ॥
स्मराङ्गनाकेलिशुकायमानकरस्थताम्बूलविलासपूर्णा ।
समातृका नापितदत्तहस्ता कान्तां तनुं पण्यदशां नयन्ती ॥५॥
सलीलमाक्रान्तिविलोलकाञ्चीरवेण पारावतदत्तसंज्ञा ।
अर्थार्थिनी राजपथप्रकारं हम्य प्रियोत्सङ्गमिवारुरोह ॥ ६॥
काव्यमाला।
तामब्रवीत्तत्परिभोगयोग्यं प्रातर्नवं कामुकमीक्षमाणः ।
विलोक्य कङ्कः शयनोत्थितानां पण्याङ्गनानां गणयन्विचेष्टाः ॥ ७ ॥
आसन्नमित्रागममुच्यमानसमागमे वासरवल्लभस्य ।
निर्यान्ति दीपा इव रात्रिभोग्याः पश्य प्रभाते गणिकागृहेभ्यः ॥ ८ ॥
एष प्रबुद्धः सहसा जटाभृल्लीलाशिवः कुक्कुटकूजितेन ।
गृहान्नलिन्याः परिहृत्य राजरथ्यां कुमार्गेण मठं प्रयाति ॥ ९ ॥
एते निधेर्निग्रहभट्टसूनोः पृष्टा विटा रात्रिसुखं प्रभाते ।
कर्तुं प्रवृत्ताः पृथुभोज्यभूरिव्ययाय भद्राभवने विभागम् ॥ १० ॥
प्राप्ते गृहद्वारमनङ्गसारे महाविटे पश्य वसन्तसेना ।
शून्यप्रसुप्तापि पुरः समेत्य निशीथभोगं कथयत्यसत्यम् ॥ ११ ॥
भग्नाङ्गदा त्रोटितकर्णपाली मतङ्गनाम्ना गणपालकेन ।
आत्मापराधं विनिगूहमाना विरौति रामा जननीजनाने ॥ १२ ॥
निर्गच्छतो ग्रामनियोगिनोऽस्य ददाति गुप्तस्य
समेत्य
पश्चात् ।
इदं तथेदं च पुरः प्रहेयमित्यादि संदेशशतानि वृद्धा ॥ १३ ॥
संप्रस्थितेयं सह माधवेन कोशं ध्रुवं पातुमनङ्गलेखा ।
अग्रे यदस्या मधुकुम्भवाही मेषं विकर्षन्पुरुषः प्रयाति ॥ १४ ॥
टकस्य सा'चलितस्य... 'विप्राय यत्स्कन्दकदानकाले ।
प्रसाधनाय स्वयमेव गन्तुं समुद्यता पश्य शशाङ्कलेखा ॥ १५॥
उद्यानलीलागमने निशायां सुनिश्चिते मल्लिकयार्जुनस्य ।
कृतः प्रभाते नवचीनवस्त्रदानं विना पश्य मुहूर्तविघ्नः ॥ १६ ॥
मेषप्रदस्येन्द्रवसोर्द्विजस्य मुक्त्वा प्रभूतं निशि कालखण्डम् ।
विषूचिकार्ता विटहर्षहेतुवैद्यार्थिनी क्रन्दति कुट्टनीयम् ॥ १७ ॥
वैद्योऽप्यसौ मण्डलगुल्मनामा प्रभातचारी नगरार्जितानि ।
समुद्यतः पूगफलानि दातुं कुरङ्गिकायै निजमुष्टिपूरैः ।। १८ ॥
कक्षालनाम्ना निशि गायनेन वारावहारान्निशभग्नभाण्डा ।
गृह्णाति का नो चरणस्पृशोऽस्य वरांशुकं कुण्डघटादिमूल्यात् ॥ १९ ॥
६ समयः] समयमातृका। ४१ प्राप्तस्य शंभोर्वणिजस्तु वारे सुप्तस्य शून्ये शयने निशायाम् । नन्दा समेत्यापरकामिगेहात्सविप्रलम्भं शपथं करोति ॥ २० ॥ पितुर्ग्रहाद्भरिविभूषणानि प्राप्तं गृहीत्वा मदनं मृणाली । निगृह्य संदर्शयति खगेहं शून्यं तमन्विष्टुमुपागतानाम् ॥ २१ ॥ भोज्यं विना पाटलिका प्रविष्टं मुष्टिप्रदं श्रोत्रियमत्रिरात्रम् । शुष्कान्नदाता पितृकार्यमेतत्किं किं करोषीत्यसकृद्रवीति ॥ २२ ॥ मार्जारजिहा जननीं हरिण्याः पद्मस्य भोज्यं निशि लुण्ठितं यत् । तस्मिन्गते तद्विजने विशङ्का पश्य प्रभाते कवलीकरोति ॥ २३ ॥ ईर्ष्याविशेषात्कृतकोपवादसंमूर्छितायां मलयं रमण्याम् । विभूषणं तोषणमाशु किंचिदस्यै प्रयच्छेति वदन्ति सख्यः ॥२४ ।। रागेण कृष्णीकृतकेश एष वलीविशेषस्फुटवृद्धभावः । योगागृहं शम्बरसारनामा यागाय युग्येन गुरुः प्रयाति ॥ २५ ॥ अयं जनस्थान विनाशहेतुः केतुः खरक्रूरतया प्रसिद्धः। आस्थानभट्टश्चिटिवत्सनामा प्रयाति युग्येन विशीर्णवस्त्रः ।। २६ ॥ उच्चैश्चिरात्सौधनिषक्तदृष्टिरश्वाधिरूढः कमलोऽधिकारी। कलावति त्वामयमीक्षमाणः शूलार्पिताकारतुलां बिभर्ति ॥ २७ ॥ श्रीखण्डोज्वलमल्लिकातिलकवानक्षामहेमाङ्गद- श्छिन्नश्लिष्टविनष्टनासिकतया प्रख्यातजारज्वरः । एष त्वामवलोक्य मालवपतेर्दूतः प्रपञ्चाभिधः पश्योद्वेष्टविवेष्टनानि कुरुते भोगीव मन्त्राहतः ॥ २८ ॥ एष प्रख्यातकूटः कपटविटघटानर्मकर्मप्रगल्भः श्रीगुप्तो नाम धूर्तः सकलकलिकलाकल्पनामूलदेवः । दृष्ट्वा दूरात्प्रसिद्धां तव नवजननीमञ्जलिश्लिष्टहस्तः पश्याक्षणा दत्तसंज्ञः स्मितचलचिबुकः स्तोतुमेतां प्रवृत्तः ॥ २९ ॥ पातालोत्तालतालुप्रविततवदनस्पष्टदृष्टोग्रदंष्ट्रा विश्वग्रासावहेलाकुलितशिखिशिखाविभ्रमोद्धान्तजिह्वा ।
४२ काव्यमाला। मेषाणां चण्डमुण्डाहरणकटकटारावपिष्टास्थिसंस्था सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्डघण्टा ॥ ३० ॥ एष स्फीतधनस्य लोभवसतेः पापस्य मूर्तिस्पृशः शङ्खाख्यस्य महाघहट्टवणिजः पङ्काभिधानः सुतः । आकृष्टः प्रतिवेश्मनिर्गतविटैः सारङ्गमुग्धः शिशुः सुश्रु त्वां तुषराशिलोलचटकाकारः समुद्रीक्षते ॥ ३१ ॥ एष निधिर्विधिना तव नूनं मेषमतिर्विधितः प्रहितो वा । स्थूलमुखः पृथुचूलकलापः स्कन्धयुगाश्चितकर्णसुवर्णः॥ ३२ ॥ इत्यादि कङ्केन वितर्यमाणं वणिक्सुतं दृक्पतितं विचार्य । मनोरथाभ्यर्थितलाभतुष्टा कङ्कालिका समितमित्युवाच ॥ ३३ ॥ निर्यताम्बूललालालवशबलवलबीववावलोकी रक्तोपानद्युगोद्यत्सरसरमुखरप्रस्खलत्पादचारैः । एवंरूपोऽतिमुग्धः शिशुरखिलधनावाप्तये बन्धकीना- मक्लेशाराधनाहः स्वयमुपनमति प्रायशः पण्यपुण्यैः ॥ ३४ ॥ कलावति त्वन्मुखनिश्चलोऽयं महाविटश्चारणचक्रचारैः । निवेदितोऽग्रे तव देवतायाः शिशुः पशुर्भोगविभूतिकामैः॥ ३५ ॥ पार्श्वे त्वमेषां ब्रज कक तूर्णं दूतं करिष्यन्ति भवन्तमेते ।। तयेति दत्तोचितशासनोऽसौ जगाम सौधादवरुह्य हृष्टः ॥ ३६ ॥ इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां षष्ठः समयः। सप्तमः समयः। अथाययौ शनैः श्रीमान्नवोद्भुतमनोभवः । लतालिङ्गनकृद्वालः कालः कुसुमलाञ्छनः ।। १॥ संभोगसुखसंपत्तिः पराधीनेव कामिनाम् । आललम्बे धनेशाशामितीवाकलयरविः ॥ २ ॥ १. 'चर्ममुण्ड' इति पाठः. २. 'निर्गुट' इति पाठः, ७ समयः ] समयमातृका । दक्षिणानिलसोच्छ्रासा लसत्कुसुमपाण्डुराः । जातजृम्भा ययुस्तन्व्यो लताः सोत्कण्ठतामिव ॥ ३॥ दग्धेऽन्धकद्विषा रोषात्पुराणे पञ्चसायके । नवं विनिर्ममे काममृतुराजः प्रजापतिः ॥ ४ ॥ प्रस्खलत्कोकिलालापा गायन्त्यो भृङ्गशिञ्जितैः । वेश्या इव मधुक्षीबा विरेजुर्वनराजयः ॥ ५ ॥ नवकिसलयलेखापङ्किसङ्गे लतानां नखमुखलिपिलीलालोभिनीमाकलय्य । मधुमदपरिरम्भे भेजिरे लोहितत्वं स्थलकमलवनानामीर्ण्ययेवाननानि ॥६॥ क्षेण्यक्षामं शिशिरसमयं वृद्धमुत्सृज्य दूरे त्यक्त्वा शीतं तरुणमसकृदाढरागानुबन्धम् । उद्यानश्रीर्मधुमभिमतं बालमेवालिलिङ्ग प्रायः स्त्रीणां वयसि नियतिर्नास्ति कार्यार्थिनीनाम् ॥७॥ अथ नापितदूतेन कृतद्वित्रगतागता । मिथ्या कृतनिषेधापि ग्रहणाग्रहणे शिशोः ॥ ८॥ कथंचिदभ्यर्थनया गृहीतार्था कलावती । संध्यायां मण्डनासक्ता ययौं वासकसज्जताम् ॥९॥(युगलकम् ) कपोले कस्तूरीस्फुटकुटिलपत्राङ्कुरलिपि- ललाटे कापूरं तिलकमलकालीपरिसरे । तनौ लीना हेमद्युतिपरिचिता कुङ्कुमरुचिः स तस्याः कोऽप्यासील्ललितमधुरो मण्डनविधिः ॥ १० ॥ प्रौढकामुकसंभोगसाक्षिणी बालसंगमे। नोचितास्मीति तामूचे लज्जया नतमेखला ॥ ११ ॥ हारिणी सा तनुलता हारिणी च कुचस्थली । दृष्टिश्च हारिणी तस्या बभौ स्मरविहारिणी ॥ १२ ॥ 4
काव्यमाला।
अत्रान्तरे वणिक्सूनुर्विवेश गणिकागृहम् ।
आसन्नलाभाभिमुखैरावृतं क्षेत्रवासिभिः ॥ १३ ॥
कर्णसंसक्तमुक्ताङ्ककनकस्थूलवालकः ।
बहुहेमभराक्रान्तिसव्यथश्रवणद्वयः ॥ १४ ॥
कण्ठाभरणमध्यस्थहैमरक्षाचतुष्टयः ।
जननीहस्तविन्यस्तसर्षपाङ्कितचूलिकः ॥ १५ ॥
राजावर्तमणिस्थूलगुलिकाभ्यां विराजितम् ।
राजतं चरणालीनं बिभ्राणः कटकद्वयम् ॥ १६ ॥
मुहुर्दीर्घाञ्चलदशां लस्तां संकलयन्पटीम् ।
बहुचूर्णकताम्बूलदग्धास्यकृतसीत्कृतः ॥ १७ ॥
स प्रविश्य प्रकाशाशां ददर्शादर्शमादरात् ।
कलावतीं कलाकान्तललितामिव शर्वरीम् ॥ १८ ॥
कथं लालनयोग्योऽयं बालः संभोगभाग्भवेत् ।
इतीव तारहारेण सस्मितस्तनमण्डलात् ॥ १९ ॥
द्रविणक्षयदीक्षायां वैचक्षण्यकृतक्षणाः ।
ऋत्विजः सप्त विविशुः पुरस्तस्य महाविटाः ॥ २० ॥
निर्गुटः क्षीणसाराख्यो दिविरः कमलाकरः ।
रेचको भरताचार्यः क्षुण्णपाणिस्तुलाधरः ॥ २१ ॥
गणकः सिंहगुप्तश्च तिक्तनामा भिषक्सुतः ।
कटिः कुटिलकश्चेति भोगाम्भोरुहषट्पदाः ॥ २२ ॥
वेश्यासमागमे शैली शिक्षितः स विटैबहिः ।
प्रविश्य कामिनीपार्श्वे प्रौढवत्समुपाविशत् ॥ २३ ॥
वाससाच्छाद्य नासार्धमप्रस्तावकटूत्कटाम् ।
नर्मगोष्ठी स विदधे शिक्षितां शुकपाठवत् ॥ २४ ॥
ततः प्रविश्य कङ्काली गृहीतोच्चतरासना।
रञ्जनाय पुरश्चक्रे विटानां कपटस्तुतिम् ॥ २५ ॥
७ समयः] समयमातृका। धन्योऽयं बालकः श्रीमान्भवद्भिर्यस्य संगतिः। युष्मत्परिचयः पुण्यपरिपाकेन लभ्यते ॥ २६ ॥ शिशुरप्ययमस्साकं कामुकोऽभिमतः परम् । बाल एव सहस्रांशुः कमलिन्या विकासकृत् ॥ २७ ॥ इत्यादिभिः स्तुतिपदैः कुट्टन्या विटमण्डले । खीकृते भूरभूत्क्षिप्रं ताम्बूलावेलपाटला ॥ २८ ॥ ततः काली कलावत्या धात्री वेतालिकाभिधा । ताम्बूलदानावसरप्रहर्षाकुलितावदत् ॥ २९ ॥ अत्यल्पः परिवारोऽयं ताम्बूलप्रणयी स्थितः । नास्माकमन्यवेश्यानामिवासंख्यः परिग्रहः॥३०॥ कङ्कः प्रथमपूज्योऽयं देवाकृतिरुदारधीः । यस्यानुरोधात्सुलभा दुर्लभापि कलावती ॥ ३१ ॥ जामाता गौरवार्थोऽयं पूज्यः कन्यार्पणेन नः । शालिकः कमलो नाम संमानं पूर्वमर्हति ॥ ३२ ॥ अयं पितुः कलावत्याः प्रेतकार्यप्रतिग्रही । ह्यः पर्वदिवसावाप्त "शक्तिर्महाव्रती ॥ ३३ ॥ अयं स्थलपतेः सूनुः कपिलः कलशाभिधः । गुरुभ्राता कलावत्याः कल्पपालो मधुप्रदः ॥ ३४ ॥ मृदङ्गोदरनामायं कलावत्याः वसुः पतिः। मातुलः कलहो नाम बिन्दुसारः सहोदरः ॥ ३५ ॥ इयं दत्तकपुत्रस्य कलावत्याः कलायुषः । घात्री कलावती नाम रुग्णचन्द्रश्च तत्पतिः ॥ ३६ ॥ अयं भरतभाषाज्ञः काम्बो भागवतात्मजः । गायनः खरदासोऽयं महामात्यस्य वल्लभः ॥ ३७ ॥ निगिलः सूपकाराख्यः कुम्भकारश्च कर्परः। बकरछत्रधरश्चायं खञ्जनो युग्यवाहनः ॥ ३८ ॥ ५सम० ४६ काव्यमाला। -- रतिशर्मा द्विजन्मायं गणिकाग्रहशान्तिकृत् । आरामिकः करालोऽयं कीलवर्तश्च नाविकः ॥ ३९ ॥ उद्यानपालः कन्दोऽयं मुकुलाख्यश्च पौष्पिकः । चर्मकृद्धर्मदत्तोऽयं मारच्छिद्रश्च धावकः ॥ ४० ॥ वहिरास्ते च चाण्डाली क्रोशन्ती घर्धराभिधा । डोम्बश्वण्डरवाख्यश्च कोष्ठागारप्रहारिकः ॥ ४१ ॥ ताम्बूलं देयमेतेभ्यः प्रहेयं प्रातरेव तु । सख्यै शम्बरमालायै गुरवे दम्भभूतये ॥ ४२ ॥ उक्त्वेति पूगफललुण्ठिनिविष्टचित्ता वैतालिका विविधवेशवनीप्रविष्टाः । चक्रुः प्रभूतमधुपानविघूर्णमाना- स्ताम्बूलदानबहुमानगतागतानि ॥ ४३ ।। ततः क्षीरसंभाव्यं कत्थमानैविटैः परम् । उद्वेजितेव रजनी धूपव्याजेन निर्ययौ ॥ ४४ ।। नृपस्य बाहुयुधि दक्षिणोऽहं ममैव राज्यं कलमान्तरस्थम् । मयि स्थिते तिष्ठति नाट्यशास्त्रं सूते तुला वित्तपतिश्रियं मे ॥ ४५ ॥ त्रैलोक्यवृत्तं गणितेन वेनि मयैव भोजस्य कृता चिकित्सा । भुक्ता मया भूपतयः वसूक्तैरित्यूचिरे मद्यमदोद्धतास्ते ॥ ४६ ॥ विसृष्टास्ते कलावत्या ताम्बूलार्पणलीलया । निर्ययुः कलयन्तोऽन्तर्भाविनी भोज्यसंपदम् ॥ ४७ ॥ अथ विततवितानं हंसशुभ्रोपधानं शयनममलचीनप्रच्छदाच्छादिताग्रम् । अभजत हरिणाक्षी क्षीबमादाय बालं निजपरिजननर्मसेरवनाम्बुजश्रीः ॥ ४८ ॥ १. 'गेहशान्तिकृतू' इति पाठः.
४७
८ समयः]
समयमातृका।
शिशुतररमणेऽस्याः कौसुमामोदलुभ्य-
अमरभरनिपातैघूर्णमानाः प्रकामम् ।
प्रसरदगुरुधूमश्यामलाग्रा बभूवु.
वलितविरतवत्रा लज्जयेव प्रदीपाः ।। ४९ ॥
इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां कामुकसमागमो नाम सप्तमः समयः।
अष्टमः समयः।
अथ सितकिरणरतिश्रमखिन्नेव विनिद्रतारकारजनी।
प्राभातिकसलिललवखेदवती क्षामतां प्रययौ ॥१॥
गणिका ततः प्रभाते सकलनिशाजागरेण ताम्राक्षी ।
रात्रिसुखप्रश्नपरां प्रोवाच समेत्य कङ्कालीम् ॥ २॥
शृणु मातः शिशुवयसस्तस्य स्फुटतामकालपुष्टस्य ।
यस्याल्पकस्य बहुलं मरिचकणस्येव तीक्ष्णत्वम् ॥ ३ ॥
आरोपितः स चेट्या खट्टामत्युन्नतां शनैः शिशुकः ।
निश्चलतनुर्मुहूत धूर्तः स च कृतकसुप्तोऽभूत् ॥ ४ ॥
ललनासुलभकुतूहलचपलतयालिङ्गितः स्वयं स मया ।
तत्क्षणनवसुरतान्ते सहसा निश्चेष्टतां प्रययौ ॥ ५॥
पूगफलमस्य लग्नं ज्ञात्वेति मया स शीतसलिलाम् ।
दत्त्वा वक्षसि हस्तं प्रलयभयाल्लम्भितः संज्ञाम् ॥ ६॥
लब्धाखादः स ततश्चटकरतिर्मा प्रजागरो मूर्तः।
खेदलान्तामकरोद्गणनातीतैः समारोहैः ॥ ७ ॥
बालमुखं तरुणतरं रभसरसेन प्रबोधयन्त्या तम् ।
कष्टं मयैव कृष्टो ज्वलिताङ्गारः खहस्तेन ॥ ८॥
रोदिति शिशुरिति दयया यस्य न दशनक्षतं मया दत्तम् ।
तेन ममाघरबिम्बं पश्य शुकेनेव खण्डितं बहुशः ॥९॥
मुहुरारोहणहेलापरिरम्भैमिनीकृतं तेन ।
शिशुसंगमात्क्षणं मे लजितमिव नोन्ननाम कुचयुगलम् ॥ १०॥
काव्यमाला।
अहमस्थाननखक्षतविक्षततनुवल्लरी परं तेन ।
गुप्तिं कथं करिष्ये विदग्धजनसंगमेऽङ्गानाम् ॥ ११ ॥
उक्त्वेति वाररमणी निखिलनिशीथप्रजागरोद्विग्ना ।
क्षोणी निरीक्षमाणा वैलक्ष्येण क्षणं तस्थौ ॥ १२ ॥
तामवदत्कङ्काली सस्मितवदना विटङ्कदंष्ट्राभिः ।
भोगोद्भवे विटानां मनोरथं पाटयन्तीव ॥ १३ ॥
एवंविधैव मुग्धे परिशीलितहट्टचेटकटुकानाम् ।
प्रौढिः कण्टकतीक्ष्णा भवति परं पण्यजीवनशिशूनाम् ॥ १४ ॥
पितृभवनहृतं नियतं हस्तगतं विद्यते धनं तस्य ।
भवति न तद्विधमधिकं प्रागल्भ्यं रिक्तहस्तस्य ॥ १५ ॥
बिलनिहितद्रविणकणश्चपलगतिर्मूषकोऽप्यलं प्लवते ।
दानक्षीणस्तन्द्रीं सुषिरकरः कुञ्जरो भजते ॥ १६ ॥
विटविनिवारणयुक्त्या निर्मक्षिकमाक्षिकोपमं सहसा ।
गत्वा करोमि तावत्तवोपजीव्यं वणिक्तनयम् ॥ १७ ॥
अस्माकमङ्गमङ्गं पण्योपनतं महाधननिधानम् ।
दासीसुताः किमेते खादन्ति विटाः प्रसङ्गेन ॥ १८ ॥
इत्युक्त्वा तूर्णतरं शय्याभवनस्थितं समभ्येत्य ।
शिशुमवदत्कङ्काली विजनकथाकेलितन्त्रेण ॥ १९ ॥
अपि पुत्र रात्रिरखिला सुखेन ते कुमुदहासिनी याता।
बन्धनयोग्योऽस्माकं कलावतीहृदयचोरस्त्वम् ।। २० ॥
ध्यानं वलनं जृम्भणमुच्चसनं वेपनं परिस्खलनम् ।
त्वत्संगमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा ॥ २१ ॥
लचिततरुणसमुद्रा कलावती यत्पटाञ्चले लमा ।
यामर्थयते दूतैर्दक्षिणदिग्वल्लभो भोजः ॥ २२ ॥
जन्मान्तरेऽनुबद्धा यदि नेयं संगतिः कृता विधिना ।
तत्किं त्वयि मम जाता परलोके पुत्रकार्याशा ॥ २३ ॥
८ समयः] समयमातृका। विघ्नस्तु संगमेऽस्मिन्नेकः परिचिन्तितोऽस्ति मे भयदः यदयं विटसंघातः कण्टकजालायते परितः ॥ २४ ॥ भुक्त्वा पीत्वा भवतः परधनवर्णाः खवित्तपरिहीणाः । धूर्तास्त्वामेव पितुर्बन्धनयोग्यं प्रयच्छन्ति ॥ २५ ॥ तस्माद्यदि दिनमेकं तिष्ठसि सुतरामदृश्यरूपस्त्वम् । तदयं कुटिलविटानां नैराश्याद्भिद्यते यूथः ॥ २६ ॥ इत्युक्ते कुट्टन्या शैशवसरलाशयो वणिक्सूनुः । तामवदत्सत्यमिदं स्नेहान्मातस्त्वया कथितम् ॥ २७ ॥ अस्ति ग्रन्थिनिबद्धं मम किंचिजनकभाण्डशालात्तम् । तदिदं गृहाण दुहितुर्मण्डनभोगव्यये योग्यम् ॥ २८ ॥ इत्युक्त्वा सारतरं दत्त्वा तस्यै शिशुर्गुरुद्रविणम् । तत्संदर्शितमविशच्छन्नपथं पृथुलहर्म्यतलकोष्ठम् ॥ २९ ॥ तं प्रच्छाद्य सहर्षा कृत्वा मिथ्या मुखं नवविषादम् । अभ्येत्य विटानवदत्कङ्काली कलकलारम्भे ॥ ३० ॥ आजन्मसहजसुहृदामस्मत्प्रणयोपचारतुष्टानाम् । उचितः किमयमकस्माद्भवतां निन्द्यः समाचारः ॥ ३१ ॥ दस्युसुतस्तीक्ष्णतरः स भवद्भिः किं वणिक्मुतव्याजात् । रत्नाभरणाकीर्ण प्रवेशितोऽसहं रात्रौ ॥ ३२ ॥ अन्यगणिकाप्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् । तत्किं स्त्रीवधसदृशं क्रियते पृथुसाहसं पापम् ॥ ३३ ॥ स परं प्रभातनिद्रालवविवशायां क्षणं कलावत्याम् । आदाय हारसहितं केयूरयुगं गतः कामी ॥ ३४ ॥ श्रूयन्ते प्रतिनगरं भूषणलुब्धैः पणाङ्गना निहताः । निजदेवताप्रसादात्कलावती किं तु मुक्ताद्य ॥ ३५ ॥ तेन यदेतन्नीतं राजकुले कस्य मूर्ध्नि परिपतति । प्रतिभूर्भवद्विधानां क गृहीतः पण्यललनाभिः ॥ ३६ ॥ १. 'पुरतः' इति पाठ..
काव्यमाला।
पश्यत पश्यत लोकाः कलिकालः कीदृशः प्रवृत्तोऽयम् ।
स्निग्धाः सुहृदः सधनाः स्त्रीवधपापं भजन्ते यत् ॥ ३७॥
को वेत्ति गुणविभागं हस्तेन परीक्ष्यते कथं जातिः ।
दुर्शेयं कुटिलानां चेष्टितमन्यद्वचश्चान्यत् ॥ ३८ ॥
इत्युक्त्वा गृहपरिजनकलकलहोदनदुःसहविकारा ।
कङ्काली राजपथे चुक्रोश गतागतैस्तारम् ॥ ३९ ।।
तद्भीत्यैव विटास्ते सपदि विवर्णा निरुत्तरप्रतिभाः।
निर्गत्योत्पथविवरैर्दूरतरे संगमं चक्रुः ॥ ४० ॥
अथ ते विचार्य सुचिरं भोगभ्रष्टाः समापतितकष्टाः ।
मिथ्यापवादनष्टा विफलक्लिष्टा मिथो जग्मुः ॥ ४१॥
जाताक्षपटलदोषैरिव नास्माभिर्वजन्वणिन्दृष्टः ।
कङ्काल्यैव हृतोऽसावित्यवदन्निर्गुटस्तत्र ॥ ४२ ॥
राशिं निगृह्य वणिज पश्यत भूर्जेन निग्रहोऽस्माकम् ।
कुट्टन्यैव कृतोऽयं परिशोचन्नब्रवीदिविरः ॥ ४३ ॥
विहिताङ्गहारयुक्तिः कुट्टन्या पूर्वरङ्गयोग्योऽयम् ।
अस्मन्नृतं वृत्तं किमन्यदिति नाट्यविनाह ॥ १४ ॥
कपटतुलां कङ्कालीमङ्कशताङ्कामहं वेभि ।
विहितस्तया भ्रमोऽसावित्याह तुलाधरः कोपात् ॥ ४५ ॥
आकृष्य मेषभोगाइरतरं मित्रमण्डलं वणिजः ।
कालकलयेव नीतं कङ्काल्या गणक इत्यूचे ॥ ४६॥
पेया मद्यसमृद्धिस्तयैव सा कृतचिकित्सायाम् ।
लङ्घनमिदमुपदिष्टं तापादित्यब्रवीद्वैद्यः ॥ ४७ ॥
नवसुखचरितं नष्टं कष्टं विभ्रष्टनियमवृत्तानाम् ।
अस्माकमेतदनुपममित्याह कविः श्वसन्विरसः ।। ४८ ॥
इति दुःखकोपविसयलज्जाकुलिताः कथां मिथः कृत्वा ।
कुसुमारामभ्रष्टा इव मधुपास्ते विटाः प्रययुः ॥ १९ ॥
८ समयः]
समयमातृका।
अथ कङ्काली गूढं निःशल्यां कामभोगसामग्रीम् ।
आखाद्य निशामनयन्निःशब्दमहोत्सवोत्साहा ॥ ५० ॥
प्रातर्विचिन्त्य युक्तिं सा गत्वा हट्टभाण्डशालाग्रम् ।
कामिजनकस्य वणिजः स्फीतार्थसमृद्धिमद्राक्षीत् ॥ ५१ ॥
सोऽपि महाधनसंचयलाभविशेषेऽपि सद्भाहः ।
पुत्रहृतहेमचिन्तासंतापात्कातरतरोऽभूत् ॥ ५२ ॥
उन्नतबृसीनिविष्टः कोटित्रयलेख्यसंपुटीहस्तः ।
अर्थिजनवदनदर्शनमीलितनयनप्रसक्तसततान्ध्यः ॥ ५३ ॥
बन्धादिमोक्षणागतलाभपरित्यागयाचने बधिरः ।
अत्यल्पपण्यदानप्रश्नप्रतिवचनजल्पने मूकः ॥ ५४॥
तैलमलकलललाञ्छितमूषकजग्धार्घटुप्पिकाविकटः ।
शीर्णोर्णाप्रावरणप्रलम्बघनकञ्चकाञ्चलालोलः ॥ ५५ ॥
नग्नोरुजानुजर्जरधूमारुणपृथुलशिथिलमोचोटः ।
रूक्षश्मश्रुकलापस्थूलप्रचलल्लटुम्पकप्रन्थिः ॥ ५६ ॥
निजगृहदिवसपरिव्यययानागतकन्यकाप्रहारोग्रः ।
रज्जुग्रथितबुभुक्षितमार्जारीरावनिर्दयप्रकृतिः ॥ ५७ ॥
दूराद्वितय॑माणः स तया नासार्पिताङ्गुलीलतया ।
ख्यातः स एव वणिगयमिति विदधे स निश्चितं तस्य ।। ५८॥
साथ शनैरुपसृत्य प्रविरलजननिर्मलावसरे ।
तमभाषत भाण्डपते वक्तव्यं किंचिदस्ति मम विजने ॥ ५९ ॥
पुत्रस्ते मुग्धमतिमंगशिशुरिव लुब्धकैविटैः कृष्टः ।
हारितभूषणवसनः संध्यायां ह्यो मया दृष्टः ॥ ६०॥
दयया प्रवेशितोऽसौ मया खगेहं मनोहराकारः।
अविशत्क्षणं न जाने केन पथा मत्सुताहृदयम् ॥ ६१ ।।
स तया स्नानानन्तररुचिराम्बरभूषणार्पणप्रणयैः ।
राजाह विविधभोगैः काम इवाभ्यर्चितो भक्त्या ॥ ६२ ॥
काव्यमाला। वंशजगौरवयोगात्सुवृत्तताश्लाघ्यरूपसंभारः । कण्ठे हार इवासौ कृतस्तया गुणगणोदारः ॥ ६३ ॥ कायपणार्जितबहुविधराजसुतामात्यबहुधनेन सह । अधुना त्वत्तनयोऽस्याः स्वामी प्राग्जन्मसंबन्धात् ॥ ६४ ॥ उचिततरसङ्गसुभगां [दृष्ट्वैव] कलावती रागयौवनोन्मत्ताम् । तव हस्ते निक्षिप्तं स्त्रीधनसहितं मया गेहम् ॥ ६५ ।। यातायां मयि तीर्थ कंचित्कालं त्वया कलावत्याः। मुद्रामुद्रितमखिलं सर्वखं पालनीयं तत् ॥ ६६ ॥ अद्य तु भवता कार्यः पुत्रस्नेहात्स्नुषानुरोधाच । अस्मद्तहे खल्पो भोज्योत्सवमङ्गलाचारः ॥ ६७ ॥ उक्त्वेति साश्रुनयना कङ्काली तस्य वज्रहृदयस्य । निपपात चरणयुगले सुतलाभविशेषतुष्टस्य ॥ ६८ ॥ स च तामुवाच भद्रे सर्वमिदं हर्षकारि कुशलतरम् । किं तु त्वद्गमनं मे नाभिमतं सह गमिष्यावः ।। ६९ ॥ परभोजननियमवता भोक्तव्यं त्वद्हे कथं नु मया । संभोजनमूल्यं मे गृह्णासि तदा गमिष्यामि ॥ ७० ॥ इत्युक्त्वास्या हस्ते दत्त्वा हृष्टः स रूपकं सार्धम् । तामन्तः मितवदनां विसृज्य पश्चाद्ययौ भोक्तुम् ॥ ७१ ॥ तत्र सुतं सविलासं दृष्ट्वा कान्तासनाथसंभोगम् । निर्व्ययभोज्यसमृद्ध्या निश्चिन्तः प्रीतिमानभवत् ॥ ७२ ॥ कर्पूरैलापरिमलरसवासितविविधभोजनं भुक्त्वा । पीत्वा च भूरि मचं जगाद लुब्धः स कङ्कालीम् ॥ ७३ ॥ सततं दिनव्ययं वः सर्वमहं समुचितं प्रदास्यामि । एवंविधस्तु न पुनः कार्यः स्थूलव्ययारम्भः ॥ ७४ ॥ इत्युक्त्वा स गृहं निजमगमद्गगनस्थलीकृषिकृताशः। लाभप्रदर्शन किल लुब्धधियां वञ्चनोपायः ॥ ७५ ।।
८ समयः] समयमातृका। अन्येधुर्दिवसव्ययमानेतुं कुटिलचेतसस्तस्मात् । चित्तग्रहणाय निजां विससर्ज कलावती दासीम् ।। ७६ ॥ सुचिरात्समेत्य दासी शरावचञ्चत्सहिङ्गुकणभूर्जा । हस्तेन विस्फुटन्ती कलावती समितामवदत् ॥ ७७ ॥ श्वशुरेण ते महार्यः प्रहितोऽयं भूरिभोज्यसंभारः । उत्तिष्ठ कुरु विभागं निमब्यतां बन्धुवर्गश्च ।। ७८ ॥ तैलस्य तोलकमिदं तोलकयुगलं च चूर्णलवणस्य । दत्त्वा मामिदमूचे भृकुटीकुटिलाननः स परम् ॥ ७९ ॥ तैलमिदं लवणमिदं शाकाय श्वेतिकाद्वयं दत्तम् । वेश्यायाः किं कामी ददाति दिवसव्यये लक्षम् ॥ ८० ॥ इत्युक्त्वा तत्प्रहितं दासी.संदर्य थूत्कृतं बहुशः । क्षिप्त्वा दूरे तन्मुखदर्शनमलिनां निनिन्द दृशम् ॥ ८१ ॥ अन्येधुः कङ्काली विचिन्त्य तद्वञ्चने सुखोपायम् । प्रययौ कृत्वा विजने कलावतीं विदितवृत्तान्ताम् ॥ ८२॥ सा वर्णमानमुद्रासदृशसमुद्गद्वयं क्विाय नवम् । एकस्मिन्नाभरणान्यन्यस्मिन्नुपलखण्डिकां विदधे ।। ८३ ॥ स्थूलतरतूलपटिकामावरणं प्राप्य भाण्डशालाग्रम् । सा कक्षाञ्चलसंवृतसमुद्गयुगलावदवाणिजम् ॥ ८४ ॥ वाराणसीप्रयाणे नक्षत्रं क्षिप्रकृन्ममोपनतम् । नास्ति पुनर्वसुनातरदर्शनमात्रं त्वयि गतायाम् ।। ८५ ॥ इदमाभरणं सर्व समुद्गकन्यस्तमस्ति रलाङ्कम् । स्त्रीबालधनं भवता प्राणसमं सर्वथा रक्ष्यम् ॥ ८६ ॥ इत्युक्त्वा तत्सर्व संदर्य पुनः सुमुद्रितं कृत्वा । निक्षिप्य पुरः प्रचुर सा तमवादीत्सहेलैव ॥ ८७ ॥ पाथेयमतः पृष्ठाल्लाभे न ममोपयुज्यते लक्षम् । त्वं दातुमर्हसि सखे देवालयधान्यभुक्तिसंशोध्यम् ॥ ८८ ॥ १. वराटकद्वयमित्यर्थः.
५४ काव्यमाला। इति लीलया ब्रुवाणा समुद्गयुगलस्य विनिमयं कृत्वा । लक्ष क्षणाहीत्वा जगाम निजवेश्म कङ्काली ॥ ८९ ।। अथ निर्वतितकृत्यां ज्ञात्वा तामागतां वणिग्भवनात् । शङ्खसुतं हर्म्यगवा प्रोवाच कलावती विजने ॥ ९० ॥ त्वयि मे हृदयकमस्मादन्तः सक्तं बलान निर्याति । त्वं तु धनवान्विवाहं करिष्यसीत्येव मे शङ्का ॥ ९१ ॥ दिनरमणीयः पुंसां जन्मजघन्यस्तु गेहिनीसङ्गः। तदपि विवाहे मोहादविचारतरादराः पशवः ॥ ९२ ॥ नित्यप्रसूतिहतसुस्थिरयौवनेषु वेशोपचाररहितेषु मदोज्झितेषु । गोष्ठीविलासरसकेलिनिरादरेषु दारेषु का सररुचिः कलहाङ्कुरेषु ॥ ९३ ॥ जात्यैव कामिजनरञ्जनजीवितासु वेशोपचारनिरतासु ससौरभासु । कामप्रमोदममकासु सविभ्रमासु वेश्यासु कस्य न रतिः सततस्मितासु ॥ ९४ ॥ कुरु मे प्रत्ययहेतोधनधारणपत्रिकां विवहे [त्वम् ] । विहिता सैव तवास्ते मत्तगजस्याङ्कुशशिखेव ॥ ९५ ॥ इत्युक्तः स रमण्या स्थूलतरोज्जासपत्रिकामलिखत् । नाम्ना विक्रमशक्तेर्नुपमहिषीभ्रातृपुत्रस्य ॥ ९६ ॥ अथ शय्याभवनगतं प्रातः खयमेत्य कङ्काली । जामातरमिदमवदन्मिथ्यैव सखेदवदनेव ॥ ९७ ॥ आसन्नयौवनस्त्वं दुहितुर्मे यौवनं त्वया प्रायः । क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥ ९८ ॥ स्थिरयौवनाः प्रकृत्या पुरुषाः किल तालसालसंकाशाः। ह्यः कन्यकाद्य तरुणी प्रातर्वृद्धा भवत्येव ॥ ९९ ।।
८ समयः ] समयमातृका। मासादधिकायातं दिनद्वयं पुष्पदर्शनखाने । अद्यैव कलावत्या गर्भाशङ्काकुलं चेतः॥ १०० ॥ यौवनविभ्रमशापस्तनुनलिनीतुहिननिकरघनपातः । प्रसवदिनं नारीणां पातकमुग्रं स्तनयुगस्य ॥ १०१॥ प्रसवहृतयौवनानामधोमुखे लजयेव कुचयुगले । भवति न पण्यवधूनां विक्रयचर्चा तृणेनापि ॥ १०२ ॥ स्थविरत्वे पुरुषाणां भवन्ति सुखजीविकाः परिज्ञानैः । यौवननाशे वेश्या यदि परमटति स्फुटं भिक्षाम् ।। १०३ ॥ तस्माजनकाभावादविकलमापत्स्यमाननिजविभवम् । अधिकरणपत्रलिखितं प्रयच्छ सुमते कलावत्यै ॥ १०४ ।। इत्युक्ते कुट्टन्या सोत्साहः प्रीतये वणिक्तनयः । आपत्स्यमानमखिलं प्रददौ हृष्टः कलावत्यै ।। १०५ ।। अथ शिथिलादरया[स] द्विवैर्दिवसैः समेत्य कङ्काल्या । कृतसंकेतः कङ्कः 'श्रुत्यै कलावतीमूचे ॥ १०६ ॥ अयि रागदग्धहृदये कलावति व्रतवतीव कस्य त्वम् । एष त्वामर्थयते ठक्कुरपुत्रो रणविलासः ॥ १०७ ।। देवगृहगञ्जदिविरस्तव सततप्रार्थनानुबन्धेन । पदमुक्तिधन्यकाले गणयति चण्डं मकरगुप्तः ॥ १०८ ॥ अद्यापि महामात्यः सत्यरथस्त्वत्कृते समर्षदिने । प्रहिणोति वस्त्रयुगलं न च प्रसादस्त्वयास्य कृतः ॥ १०९ ।। प्रेक्षणके त्वां दृष्ट्वा साहसराजेन राजपुत्रेण । त्वद्गत[स]रभसमनसा वासवसेनावरुद्धिका त्यक्ता ॥ ११० ॥ विरजसि वयसि नवेऽस्मिन्नेकश्चेदीप्सितस्तव खामी । तत्किं यौवनभङ्गे ददाति कश्चिद्धनं मुग्धे ॥ १११ ॥ याभियौवनसमये रागेण धनार्जनं परित्यक्तम् । ता एताः पर्यन्ते भस्माङ्ग्यश्चीवरिण्यश्च ॥ ११२ ॥ १. 'ममादिने' इति पाठ.
काव्यमाला।
कुचकाञ्चनकलशवती नितम्बसिंहासना मितच्छन्त्रा।
एकपुरुषोपसेव्या नूनं त्वं रतिरमणराज्यश्रीः ॥ ११३ ।।
भुक्तं मयास्य वित्तं दाक्षिण्यमिति प्रनष्टविभवेऽपि ।
मा त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्तिकरम् ॥ ११४ ।।
दासी दासी तावद्यावत्पुरुषस्य किंचिदस्ति करे।
क्षीणधनपुण्यराशेर्दुष्प्रापा खर्गनगरीव ॥ ११५ ॥
ह्यो दत्त्वार्थ कथमिव गच्छाम्यद्येति निवसते प्रायम् ।
कः कुरुते वेश्यानां तत्क्षणधनदानभोग्यानाम् ॥ ११६ ।।
इति कङ्कवदननिर्गतवचनशरैर्दारितो वणिक्तनयः ।
निश्चेष्टः क्षणमभवद्वैलक्ष्याद्वीक्ष्यमाणः क्षमाम् ॥ ११७ ॥
अथ शूलबन्धुनिधनव्यसनाद्यङ्गप्रसङ्गकथनाद्यैः ।
शय्यावहारमकरोत्कलावती शङ्खतनयस्य ॥ ११८ ॥
अद्य व्रतनियमो मे दुःखप्ननिरीक्षणात्परं मातुः ।
षष्ठीप्रजागरेऽद्य च राजकुले तत्र मे शय्या ॥ ११९ ॥
अद्य वयस्यासूनोश्चूडाकरणं मृगाङ्कदत्तस्य ।
इत्यादिभिरपदेशैः सा प्रययौ कामिनां भवनम् ॥ १२०॥
त्वरिता ततः प्रभाते कदाचिदभ्येत्य कम्पविकलाङ्गी ।
कङ्काली शङ्खसुतं जगाद भयसंभ्रमातेव ॥ १२१ ।।
उत्तिष्ठ पुत्र तूणे ब्रज दत्त्वा शिरसि किंचिदविभाव्यम् ।
असत्कृतेऽद्य यूनोः सपत्नकलहे वधो वृत्तः ॥ १२२ ॥
नगरपतिर्विषमतरः कलावती मित्रमन्दिरं याता ।
त्वं तु वणिक्सुत साधुर्धनगन्धे धावति मापः ॥ १२३ ॥
तूलपटीं त्यज पृष्ठागृहाण तूस्ती (1) घरमालातः।
को जानीते वर्मनि किं कुरुते कः परिज्ञाय ॥ १२४ ॥
इत्युक्ते काल्या मिथ्यैव-विशल्यवेश्मकरणाय ।
कृत्वा तदुक्तमखिलं पङ्कः प्रययौ कुमार्गेण ॥ १२५ ॥
८ समयः ] समयमातृका। ५७ वेश्यालताः सरागं पूर्व तदनु प्रलीनतनुरागम् । पश्चादपगतरागं पल्लवमिव दर्शयन्ति निजचरितम् ॥ १२६ ।। इति समयमातृकायाः कङ्काल्या बुद्धिसंविभागेन । भुक्त्वा वणिजः सकलं कलावती पूर्ण विभवाभूत् ॥ १२७ ।। इति बहुभिरुपायैः कुट्टनी कामुकानां कृतसुकृतविहीना वञ्चनां सा कृतघ्ना (१)। वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं तदपि हरिणशावाः कूटपाशं विशन्ति ॥ १२८ ।। समयेन मातृका सा कृत्रिमरूपा कृता कलावत्या । तन्नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धोऽयम् ॥ १२९ ॥ इति श्रीक्षेमेन्द्रकृतायां समयमातृकायां कामुकप्राप्तिामाष्टमः समयः । सालंकारतया विभक्तिरुचिरच्छाया विशेषाश्रया वक्रा सादरचर्वणा रसवती मुग्धार्थलब्धा परम् । आश्चर्योंचितवर्णनानवनवाखादप्रमोदार्चिता वेश्या सत्कविभारतीव हरति प्रौढा कलाशालिनी ॥१॥ संवत्सरे पञ्चविंशे पौषशुक्लादिवासरे। श्रीमतां भूतिरक्षायै रचितोऽयं सितोत्सवः ॥ २॥ अद्रिच्छिद्रविनिद्रौद्रफणिनामत्रास्ति कालं कुलं मत्तास्तत्र वसन्ति दन्तिपतयः सिंहाश्रयेयं गुहा । १. तद्देशप्रसिद्ध लौकिकान्दे. अर्थात् १०५० मिते निस्ताब्दे क्षेमेन्द्रेण समयमा- तृका प्रणीता. गतकलिवर्षेषु पञ्चविंशतिरहितेषु शतभक्तेषु यदवशिष्यते, स एव लौकि- काब्दः. तस्यैव सप्तर्षिसंवत्सरशस्त्रसंवत्सरादिनाम्ना काश्मीरादिषु पर्वतदेशेषु व्यवहारः. राजतरङ्गिणीकर्तापि प्रायो लौकिकाब्देन व्यवहरति. 'कलेगतैः सायकनेत्रवः सप्तर्षि- वर्यास्त्रिदिवं प्रयाताः । लोके हि संवत्सरपत्रिकायां सप्तर्षिमान प्रवदन्ति सन्तः ॥' इति कस्यचित्पद्यम् . पञ्चविंशतिरहितः कलिगताब्दगणः सप्तर्षिसंवत्सरो भवति, तत्र शतस- ख्यया भजनं तु केवलमङ्कसंकोचार्थमिति ज्ञेयम् . ६ सम० ५८ काव्यमाला। इत्यार्तिप्रतिबद्धवृद्धशबरी वर्गेण मार्गाग्रगा यद्वैरिप्रमदाः सदा वनमहीगाढग्रहे वारिताः ॥ ३ ॥ वीरस्यातदयाविधेयमनसः शीलव्रतालंकृते- निस्त्रिंशः परदारकृजयविधौ यस्यैककार्यः सुहृत् । तस्यानन्तमहीपतेविरजसः प्राज्याधिराज्योदये क्षेमेन्द्रेण सुभाषितं कृतमिदं सत्पक्षरक्षाक्षमम् ॥ ४ ॥ इति श्रीक्षेमेन्द्रकृता समयमाका समाप्ता । nam ....11123