Ramkrishna Mission Institute Of Culture, Golpark
Uttar Gita
Front matter
No text on this page.
KRISHNA MISSION INSTITUTE
NYU JHI CALCUTTA
OF
LIBRARY
GELTONE
.
No text on this page.
॥ उत्तरगीता॥
श्रीमपरमहंसपरिव्राजकाचार्य
श्रीमदौडपादाचार्यैः
विरचितया व्याख्यया
संभूषिता ।।
श्रीरङ्गस्थ
श्रीवाणीविलासमुद्रायन्त्रालय
संमुद्रिता ॥
१९२६.
| Registered
Copyright]
RMIC LIBRARY
Acc. No. 61606
Class No.
213
Tato
57. Card
l'ladr.
abh
(at.
B!. Card
lacked
y Jos.
PREFACE. HE text of the Uttara Gita, is already published in different places and some of the editions contain all English translation also. Thus several of the readers may be familiar with the Text, though it is not to be found anywhere in the extant editions of tibe Mahabharata. This latter fact has led Reveral scholars to even doubt its genuineness. They consider thai it is a modern corri position grafted on the ever expanding Epic. But some months ago I loarpt that the great Sri Gaudapadacbarya, the author of the world-renowned Mandukya Karikas ard the grandpreceptor of the illustrious Sri Sankara Bhagavatpadacharya had written a commentary on this Poem, Immediately I began a search for manuscript copies of this commentary, for if this was a fact, it would go a great way towards ostablisbing the genuineness of the Poem And I am glad to say that my labours in tbis direction were soon crowyed with succese. I got an old palm. leaf Ms. copy from the library of the Muti, at Sringeri, kootber palm-leaf Ms. from Mr. Krishnaswamy Aiyar, ?. A. B.L. of the Tanjore bar--the grandson of Brabmasri lahalinga Sagtriral of Tiruvasanallore and copies of two itber manuscript, from the Madras Government Oriental tapusoripts Library. And all these manuscripts which
ii
WAS
I
came from different parts of the country were uniforro
in their colophon in ascribing the commentary to Si
Gaudapadacharya. And the commentary too
Aplendid.
Hence resolved on immediately givirg
the book to the press so that the Sanskrit reading publc
may fully appreciate its merits. Now that tbe book :
before them with this ancient and excellent commentary,
the readers may judge for themselves whether the Poem
deserves to be classified as modern or whether it is a
really ancient epitome of the priceless teachings of the
immortal Bhagavad Gita.
T. K. Balasubrahmanyam.
28 ॥ उत्तरगीता ॥ श्रीगौडपादाचार्यविरचितया व्याख्यया समेता। अखण्ड सच्चिदानन्दमवाजानसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ - इह खलु भगवानर्जुन: धर्मक्षेत्रे कुरुक्षेत्रे भगवदुपदिष्ट. मात्मतत्त्वोपदेशं विषयभोगप्रावण्येन विस्मृत्य पुनस्तदेवात्म- सत्त्वं ज्ञातुं भगवन्तं पृच्छति- अर्जुन उवाच- यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतर्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥१॥ कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् । हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ।। २ ।।
२ उत्तरगीतायां तरक्षणादेव मुच्येत यज्ज्ञानाहि केशव । हे केशव यज्ञानात् यस्य ब्रह्मणः सम्यम्झानात् तत्क्ष- णादेव बानोचरक्षणादेव मुच्येत भविद्यानिवृत्तिद्वारा आन. न्दावाप्तिर्भवेत् , तत् ब्रह्म ब्रूहि स्वरूपसटस्थलधणाभ्यां प्रतिपादय इत्यर्थः । एतदेव लक्षणेर्दर्शयति-यदित्यादिना। एकं सजातीयविजातीयस्वगतभेदरहितम् , निष्कलम् अवय- वरहितम् , व्योमातीतम् , आकाशादिचतुर्विशतितत्त्वाती. तम्, निरजनं स्वयंप्रकाशम् , अप्रतर्यम् , अमनोगोचरम् - 'यन्मनसा न मनुते' इति श्रुतेः, अविज्ञेयम् प्रमाणाविषयम् 'यद्वाचानिरुक्तम् । यतो वाचो निवर्तन्ते' इति श्रुतेः, विनाशोत्पत्तिवर्जितं त्रैकालिकरूपम् , कारणम् सर्वोत्पत्ति निमित्तोपादानरूपम् , योगनिमुक्तं वस्स्वन्तरसंबन्धरहितम् , हेतुमाधनवर्जितं निमित्तत्वोपादनत्वधर्मादिवर्जितम् इत्यर्थः, स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा, हृदयाम्बुज. मध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदयकमलमध्य. स्थम् , झानशेयस्वरूपकं ज्ञानं स्वविषयप्रकाश: ज्ञेयं विषयः तदुभयस्वरूपं तदुभयसत्तात्मकम् , यत् ब्रह्म, तत् कीदृशी- मिति प्रभार्थः ॥ एवमर्जुनेन पृष्टो भगवान् प्रभार्थमभिनन्दन उत्तरमाह- - प्रथमोऽध्यायः । श्रीभगवानुवाच- साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तत्त्वार्थमशेष प्रवदाम्यहम् । हे महाबाहो इति संबोधयन् सर्वशत्रुनिबर्हणसामर्थ्य द्योतयति । शत्रवो रागादयश्च । हे पाण्डवेति सत्कुल. प्रसूति घोतयति । बुद्धिमाननीति स्तुवन् स्वोक्तार्थग्रहणा. वधारणसामय योतयति । त्वं मां प्रति यदात्मतरवं पृच्छसि, तदशेष यथा भवति तथा तुभ्य महं प्रवदामि ।। तदेवात्मतत्त्वं सोपायमाह- आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् ॥४॥ योगेन गतकामानां भावना ब्रह्म चक्षते । आत्मनि तात्पर्येण पर्यवसनस्य प्रणवात्मकस्य मन्त्रस्य तात्पर्यविषयस्य, सस्य हन्ति स्वंतत्त्वज्ञानेन ज्ञातृ संसार. मिति हंसः तस्य परमात्मन:, परस्परसमन्वयात् अन्योन्य. प्रतिपाद्यपतिपादकभावसंसर्गात् , अनेन सर्ववेदान्ततात्पर्यगो. चरत्वम् 'तत्तु समन्वयात्' इति समन्वयाधिकरणोक्तं दर्शितम; योगेन आत्मतत्वविचाराख्येन, गतकामानां नष्टा- रिषडाणाम्- अनेन ज्ञानप्रतिबन्धककल्मषनिवृत्तिः दर्शि.
उत्तरगीतायां ता; तेषां या भावना 'तत्त्वमसि' इत्यादिवाक्यजन्या चरम. वृत्तिः, तमिवृत्तिा, तजन्याविधानिवृत्तिा, तभिवृत्त्यधिष्ठानं वा, सा प्रीति चक्षते प्राहुः तत्त्वज्ञाः इति शेषः । तदेव तत्त्वज्ञानं तमिवाविद्यानिवृत्तिं च आह-- शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥ ५॥ हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् । तविद्धानक्षरं प्राप्य जयान्मरणजन्मनी ॥ ६ ॥ अजस्य जीवस्य अन्तम् अवधिभूतं हंसत्वं परब्रह्मस्वरू- पत्वं शरीरिणां जीवानां पारदर्शनं परमज्ञानं हंस: ब्रह्म हंसा- भरं च प्रणवं च एतत्कूटस्थं यत्, एतदुभयसाभिभूतं यत् , तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम्। तत्स्वरूपं विद्वान् विवेकी सन् तदक्षरं वस्तु प्राप्य मरणज. न्मनी जननमरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत् ॥ सा च मुक्ति: जीवपरमात्मनोरक्यमिति प्रतिपादयति- अध्यारोपापवादाभ्यां निष्प्रपथं प्रपञ्च्यते- काकीमुखं ककारान्तमुकारश्चेतनाकृतिः। मकारस्य तु लुप्तस्य कोऽर्थः संप्रतिपद्यते ॥ ७॥ - प्रथमोऽध्यायः । कं च अकं च काके सुखदुःखे, ते अस्म स्त इति काकी जीवः अविद्याप्रतिबिम्ब:, तस्य मुखं मुखस्थानीयं बिम्बभूतं यह्म, तत्प्रतिपादकं यत् ककारान्तम , मुखमित्येतत् का. काक्षिन्यायेन अत्रापि संबध्यते । तथा च शब्द श्लेषः मुख. भूतककारस्य काकीत्यत्र प्राथमिकककारस्य अन्तम् भन्तिम यदक्षरम् अकारात्मकं पञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि सर्व विराडित्युच्यते । एतत् स्थूलशरीरमात्मनः । इन्द्रियै. रथोपलब्धि गरितम् । तदुभयाभिमान्यात्मा विश्वः । एत. अयम् अकारस्यार्थः । उकारश्चेतनाकृतिः। काकीमुखेत्यत्र मकारात् परो य उकारः अपञ्चीकृतपञ्चमहाभूतानि तत्कार्य सप्तदशकं लिज हिरण्यगर्भ इत्युच्यते । एतत् सूक्ष्म शरी. रमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजन्यप्रत्ययः स. विषयः स्वतः, तदुभयाभिमानी आत्मा तैजसः । एतत्रय. मुकारस्यार्थः । अत एव उकारश्चेतनाकृतिरित्युक्तम् । चेत. नाकृति: चेतनस्य हिरण्यगर्भात्मकतैजसस्य आकृतिः वा. चकः। मकारस्य-काकीमुखेत्यत्र उकारात्पूर्वमभिहितो यो मकार: शरीरद्वय कारणमात्माज्ञानं साभासं अव्याकृतमित्यु च्यते। तच न सत् , नासत्, नापि सदसत् ; न भिन्नम् , ना. भित्रम् , नापि भिन्नाभिनं कुतश्चित् ; न निरवयवम् , न ।
६
उत्तरगीतायां
उप.
सावयवम , नोभयम ; केवलब्रह्मात्मैकत्वज्ञानापनोद्यम् । सर्व.
प्रकारकज्ञानोपसंहारो बुद्धेः कारणात्मनावस्थानं सुषुप्तिः । त.
दुमयीभमान्यात्मा प्राय: । एतत्रयं तस्य मकारस्पार्थः ।
लुमस्य-अकार उकारे, उकारो मकारे, मकार ओंकारे,
एवं लुप्रस्य कोऽर्थः ककारात्परो य: अकारः तस्य योऽर्थः
लक्ष्यस्वरूपं मकारात्परस्योंकारस्य अर्थ: लक्ष्यस्वरूपम्,
लक्षणमेतहयम् सकारात्पूर्वमकारस्यार्थः लक्ष्यस्वरूपम् ऑ.
कारात्मा साक्षी केवलचिन्मात्र स्वरूप: नाझानं तत्कार्य च,
किं तु नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीयं ब्रह्मैव संप्र.
तिपद्यते तदेक्यं प्राप्नोतीत्यर्थः । 'अयमात्मा ब्रह्म' ‘स
यश्वायं पुरुषे यश्चासावादित्ये स 'तत्त्वमसि'
'अहं ब्रह्मास्मि' इत्यादिश्रुतिभ्य इति भावः ।।
एक:
रद्धा पाठान्तरे-
काकीमुखककारान्तमुकारश्चेतनाकृतिः ।
अकारस्य तु लुप्तस्य कोऽर्थः संप्रतिपद्यते ।।
कं च अकं घ काके सुखदुःखे, ते अस्य स्त इति काकी
जीवः तत्प्रतिपादकशब्दस्य मुखे अग्रे य: ककारः तस्यान्त:
अकार: ब्रह्म चेतनाकृतिः जीवाकारवदित्यर्थः । ब्रह्मैव स्वा.
प्रथमोऽध्यायः । विद्यया संसरति इति न्यायात् । मकारस्य जीवत्वाकारस्य लुप्तस्यापगतस्य कोऽर्थः अखण्डाद्वितीयसचिदानन्दस्वरूपो. ऽर्थः । तं काकीमुखेत्याधुक्लपकारेणैक्यानुसंधानवान् संप्रति- पद्यते प्राप्नोति इत्यर्थः । यद्वा, हे काकीमुख ब्रह्म त्वं ककारा. न्त: ककारस्यान्तिमो वर्णो य अकारः तत्प्रतिपाद्यवेत्यर्थः । एकार: मूलप्रकृति: तस्य ब्रह्मण: चेतना चेतयमाना आकृति: शक्तिः । मकारस्य च लुप्तस्य परिणममानाविद्यालोपवतो . झणः कोऽर्थः ककारात्परो य अकारः तस्य योऽर्थः लक्ष्य. स्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपास्खेति शेषः । तथा च श्रुतिः 'आप्लवस्त्र प्रप्लवस्त्र, आप्लवस्त्र प्रप्लवस्त्र , आण्डी भव ज मा मुहुः, सुखादी दु:खनिधनाम् , प्रतिमुभम स्वां पुरम्' इति । अस्यार्थ:-हे ज जननमरणयुक्तजीव त्वमाप्लवस्व जी. वन्मुक्तो भव प्रप्लवस्व साक्षान्मुक्तो भव, आण्डी ब्रह्मा- ण्डान्तर्वी मंसारी मुहुर्मा भव मा भूः । संसारी चेत किमप. राध इत्याशझ्याह- -- सुखादीम वैषयिकसुखहेतुं दुःखनिधनां दुःखमेव निधने अन्ते, यस्यास्तां स्वां पुरं स्थूलसूक्ष्मरूपदेह. द्वयं प्रतिमुरूषख त्यज । एवं योगधारणयोपासकस्य प्राणायामपरायणस्य नान्त. रीयकफलमप्याह --- ८ उत्तरगीतायां गच्छस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् । सर्वकालप्रयोगेन सहस्त्रायुभवेन्नरः ॥ ८॥ नरः 'शतायुः पुरुषः शतेन्द्रियः' इति परिमितायुरपि गच्छन् गमनकाले तिष्ठन् अवस्थानकाले सदा कालं सर्व. स्मिन्काले शयनादिकालान्तरे परं विशेषेण वायुस्वीकरणं प्राणायाम कुर्वन् तेन सार्वकालप्रयोगेन सार्वकालिकवायु. धारणया सहस्रायुः सहस्रवर्षजीवी भवेत् भूयादित्यर्थः ॥ ननु परमफलं कदा भवतीत्यत आह- यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत्। खगाकारं हंसस्वरूपं यावत्पश्येत् यावत्पर्यन्तं साक्षात्कु. र्यात् , तावत्पर्यन्तं तदाकारं परब्रह्मस्वरूपं पूर्वोक्तधारणया प्रवृद्धायुः पुरुषः विचिन्तयेत् ध्यायेदित्यर्थः ।। ताशात्मसाक्षात्कारार्थ नैरन्तर्येण आत्मजगतोरभेदध्या. नमाह- - खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । आत्मानं खमयं कृत्वा न किंचिदपि चिन्तयेत्। खमध्ये दहराकाशमध्ये आत्मानं परमात्मानं कुरु एतद.
प्रथमोऽध्यायः । ९ भिमसत्तात्मकमिति भावयेदित्यर्थः । आत्ममध्ये च पर. मात्मनि खं कुरु आकाशं कुरु तदुपादानकं भावयेत् । आत्मानं परमात्मानं खमयम् आकाशात्मकं कृत्वा किंचि. दपि प्राव्यतिरिक्तमन्यदपि न चिन्तयेत् न ध्यायेदित्यर्थः । यद्वा, ख-शब्देन जीवोऽभिधीयते, 'आकाशशरीरं ब्रह्म' इत्यादिश्रुतेः । आत्मशब्देन परमात्मा अभिधीयते । तयोरैक्यं बुद्धा न किंचिदपि चिन्तयेदिति ॥ एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यात् इत्याह--- स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् । निष्कलं तं विजानीयाच्छासो यत्र लयं गतः ।। ब्रह्मवित रक्तप्रकारेण ब्रह्मज्ञानी मन स्थिरबुद्धिः निश्व. लज्ञानी भूत्वा असंमूढः अज्ञानरहितः सन् ब्रह्मणि स्थितः ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं प्राप्तः, तत्र नासाने व्यवस्थितं बहिव्योमस्थितं बहिराकाश- स्थितं च निष्फलं कलातीतं कं ब्रह्म विजानीयात् बुध्यात् ।। अमज्ञाननिष्ठस्य मनोनश्चल्यार्थ धारणाविशेषमाह- - १० उत्तरगीतायां पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते ॥ तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥ हे पार्थ पुटद्वयविनिर्मुक्त: नासारन्ध्रद्वयविनिर्गत: वायुः यत्र विलीयते लयं गच्छति, तस्मिन्मार्गे सम्यक् स्थितं मनः कृत्वा तम् ईश्वरं ध्यायेत् वक्ष्यमाणप्रकारेण ध्यायेत् । तमेव प्रकारमाह- निर्मलं तं विजानीयात्षमिरहितं शिवम् । निर्मलं निष्कृष्टाहंकारचैतन्यात्मकम् , अत एव षडूमि- रहितं क्षुत्पिपासादिहीनं शिवं मङ्गलस्वरूपमिति विजानी. यात् ध्यायेदित्यर्थः किच, प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् । सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात्॥ प्रभाशून्यं स्यात्मकप्रकाशरहितम् , तत्र हेतुः मनःशून्यं मनोरहितम् , अत एव बुद्धिशून्यम् आसक्तिरहितं निरा. मयं निर्व्याजम् , अत एव निराभासं भ्रमरहितम् , अत .
प्रथमोऽध्याय:। एव सर्वशून्यम् स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आन. न्देकरसं यत् ब्रह्म, तद्वयानं समाधिः । तस्य तस्मिन स्थि. तस्य किं लक्षणमित्याशङ्कयाह-त्रिशून्यं पूर्वोक्तप्रभादि. शून्यं यो विजानीयात् बुध्येत् । एतेन जाप्रदाद्यवस्थात्रय. शून्यत्वं दर्शितम् । प्रभामनोबुद्धिशब्दैः क्रमेण तासामभि. धानात् । तादृशं ब्रह्म यो विजानीयात् , स समाधिस्थः बन्धनात् संसारबन्धनात् मुच्येत मुक्तो भवति ।। एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह- खयमुचालते देहे देही न्यस्तसमाधिना । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ देहे स्वयम् अनादिप्रारब्धकर्मवासनावशात् उचलिते गमनादिकं कुर्वत्यपि देही जीव: न्यस्तसमाधिना निश्व- लसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं विजानीयात् । तदेव समाधिस्थितस्य भात्मयोगस्थितम लक्षणमित्युच्यते ॥ इतोऽप्यात्मज्ञस्य लक्षणमुच्यते- अमात्रं शब्दरहितं स्वरव्यन्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ - उत्तरगीतायां भमा इस्वदीर्षप्लुतादिरहितं शब्दरहितं शमातीतम् , स्वरव्य जनजितम् अक्षरसमूहात्मकपदानभिधेयम् बिन्दु. नादकलातीतम् -- अनुस्वारो बिन्दुः संवृते गलविवरे यही. र्घघण्टानिदिवदनुरणनं स नादः, कला नादैकरश: तैरती. तम् , न यथाकथंचिच्छन्दवाच्यमित्यर्थः । एतादृशं ब्रह्म यो वेद, स वेदवित् कलवेदान्ततात्पर्य नान्य इत्यर्थः ।। एवं प्राप्तास्मतत्त्वज्ञानस्य असंभावनाविपरीतभावनादि. निवृत्तौ सत्यां न किंचित्कृत्यमस्तीत्याह- प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते। लब्धशान्तिपदे देहे न योगो नैव धारणा ॥ ज्ञानेन परोक्षात्मकेन विज्ञाने अपरोक्षानुभवात्मके, यद्वा, ज्ञानन शास्त्राचार्योपदेशजन्येन विज्ञाने अनुभवात्मके प्राप्ते सति, ज्ञेये पर्ववेदान्ततात्पर्यगोचरे परमात्मनि हृदि संस्थिते हृद्यपरोक्षतया भासमाने सति, देहे देहोपाधिमति जीवे ल. ब्धशान्तिपदे संप्राप्तब्रह्मभावे सति, तदा, योगोऽपि नास्ति धारणा च नास्ति; सिद्ध फले साधनेन प्रयोजनाभावादिति भावः ॥ एवमामतवापरोक्षज्ञानेन मुक्तः सन् ईश्वर एव जायते इति तस्य स्वरूपमाह-- प्रथमोऽध्यायः । यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥१८॥ वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय वि. धीयमान: वेदान्ते च सर्ववेदानामन्ते च उपर्युत्क्रमणपरि. हाराय प्रतिष्ठित: संस्थापित:, चकारात् सर्ववेदरक्षणाय वे. दमध्ये च निपातितः य: स्वरः प्रणवात्मकः, तस्य प्रणवस्य प्रकृतौ परावस्थायां लीनस्य यः परः परादिवाक्चतुष्टयोदो. धकः, उपलक्षणं चैनत् सर्वप्राणेन्द्रियकरणवर्गप्रबोधकः सर्व. नियन्ता सर्वान्तर्यामी यो महेश्वर इति प्रपिद्धः स एव मात्मतत्वज्ञानी, नान्य इत्यर्थः । आत्मतत्त्वापरोक्षानुभवात्पूर्व यावान् तत्साधनप्रयासः कृतः, जाते च तस्मिन् अनुभवे स न कर्तव्य इति मष्टा. न्तमा नावार्थी च भवेत्तावद्यावत्पारं न गच्छति ! उत्तीर्णे च सरिस्पारे नावया किं प्रयोजनम् ॥ यावत् यावत्पर्यन्तं पारं नदीतीरं न गच्छति न संप्रा. मोति, तावत् तावत्पर्यन्तं नावार्थी नदीतरणसापनशवनार्थी भवेत् भूयात् , सरित्पारे नदीतीरे उत्तीर्णे सति नावया , U2.
उत्तरगीतायां नदीतरणबाधनेन किं प्रयोजनं किमपि नास्तीत्यर्थः । तद्व- दत्रापि मात्मापरोक्षे जाते शास्त्रादिभारः किं प्रयोजनमिति भावः ॥ तदेव भजयन्तरेण सदृष्टान्तमाह--- ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः। पलालमिव धान्यार्थी त्यजेन्द्रन्थमशेषतः ॥२०॥ मेधावी बुद्धिमान् प्रन्थमभ्यस्य वेदान्तादिश्रवणं कृत्वा, माने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं सर्वशानं त्यजेत् । अव दृष्टान्त: धान्यार्थी धान्यसहितं तृणमादाय तद्गतधान्यस्वीकारानन्तरं पलालं गतकणिशं तृणं यथा त्यजेत् तद्वदित्यर्थः । किंच- उल्काहस्तो यथा कश्चिद्रव्यमालोक्य तांत्यजेत्। ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ कश्चित् लोके अन्धकारस्थितद्रव्यदर्शनार्थी सन् , यथा उल्काहस्तो भवति, पश्वाहव्यमालोक्य तदनन्तरं तामु. ल्का यथा त्यजेत् , तथा ज्ञानेन ज्ञानसाधनेन शेयं ब्रह्म आलोक्य अपरोक्षीकृत्य पश्चात् शानं हानसाधनं परि- त्यजेत् इत्यर्थः ॥
प्रथमोऽध्यायः । १५ - जाते चापरोक्षशाने, तेन प्रयोजनाभावात् साधनं परि. त्याज्यमित्येत दृष्टान्तान्तरेणाप्याह- यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैनास्ति प्रयोजनम् ।। यथा अमृतेन सागरमथनाद्भूतन अमृतेन तृप्तस्य सतु. ष्टस्य पयसा क्षीरेण प्रयोजनं नास्ति, एवं परमं तं ज्ञात्वा परमात्मानमपरोक्षीकृत्य वेदै: वेदान्तशास्त्रादिभिः किं प्रयो. जनम् , न किमपीत्यर्थः ।। किंच, तत्वज्ञानिनः विधिनिषेधादिकर्तव्यमपि नास्ती. त्याह. ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्ववित् ।। ज्ञानामृतेन तृप्तस्य आनन्दैकरसं प्राप्तस्य कृतकृत्यस्य कृतार्थस्य योगिनः मुक्तस्य किंचिदपि विधिनिषेधादि कर्तव्य नास्ति, तत्त्वेन उत्तीर्णत्वादिति भावः । कर्तव्यमपि लोकसं. ग्रहार्थमेव, यद्यभिानवेशेन कर्मासक्तिरस्ति, तर्हि स तस्व. विम भवति, भारूढो न भवतीत्यर्थः ।।
उत्तरगीतायां - . अर्थज्ञान विना केवलं वेदपाठमात्रेण वेदवित्त्वं नास्ति, किं तु वेदतात्पर्यगोचरब्रह्मज्ञानेनैव वेदवित्वमित्याह- तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ।। तेलधारामिवाच्छिमं संततधारावत् विच्छेदरहितं दीर्ष. घण्टानिनादव अतिदीर्घघण्टाध्वन्यप्रवञ्च विच्छेदरहिवम् अवाच्यम् अवाखानसगोचरं प्रणवस्य अकारोकारमकार. बिन्दुनादात्मकस्य पकलवेदसारस्य अमं लक्ष्यं ब्रह्म यो वेद, स वेदवित् वेदान्तार्थज्ञानी; नान्य इत्यर्थः ।। तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह- आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्यन्निगूढवत् ॥२५॥ मात्मानं आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवम् अरणि कृत्वा अपरारणिं भावयित्वा, प्रण परमात्मप्रतिपादक शब्दम् उत्तरारणिं कृत्वा भावयित्वा, ध्याननिर्मथनाभ्या. मात् भ्यानरूपमथनेन पौन:पुन्येन पूर्वोक्तप्रकारेण निगू. ढवत् पाण्डित्याप्रकटनेन यो वर्तते, स एवं परमात्मानं पश्येत् ; नान्य इत्यर्थः । .
प्रथमोऽध्यायः । १७ यावदपरोक्षानुभवपर्यन्तं स्वयंप्रकाश ब्रह्मधारणामाह- - तादृशं परमं रूपं स्मरेत्पार्थ धनन्यधी। विधूमाग्निनिभं देवं पश्येदत्यन्तनिर्मलम् । २६ ॥ हे पार्थ, विधूमानिनिभं विगतधूमाग्निरिव द्योतमानम् अत्यन्तनिर्मलम् अतिस्वच्छं देवं स्वयंप्रकाशं परमात्मानं यावत्पश्येत् अपरोक्षीकुर्यात् , तावत् तादृशं परमं सर्वोत्कृष्ट रूपं ब्रह्मस्वरूपम , अनन्यधीरिति अनन्यचित्तः सन् संस्मरेत ब्रह्मधारणं कुर्यादित्यर्थः ॥ भावनाप्रकारमेव ब्रह्मस्वरूपप्रकटनव्याजेन विशदयति- दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः । विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥ २७ ।। देही जीव: पर्वदा सर्वस्मिन् काले दूरस्थोऽपि अज्ञस्य परोक्षवत् स्थितोऽपि न दूरस्थः परोक्षस्थितो न भवति ।
१८ उत्तरगीतायां किं तु सर्वदापि अपरोक्ष एवेत्यर्थः । पिण्डस्थोऽपि भास्य शरीरसंबन्धाध्यासात परिच्छिमवत् भासमानोऽपि, पिण्ड. वर्जितः शरीरसंबन्धाध्यासरहितः, तत्र हेतु:--- विमल: निर्मलः सर्वव्यापी पर्वतः परिपूर्णः निरखनः स्वयंप्रकाशश्च । एवं ध्यायेदिति पूर्वेण संबन्धः ॥ - किंच, देहाध्यासात् प्रतीयमानं कर्तृत्वभोक्तृत्वादिक- मात्मनो नास्ति इत्याह- कायस्थोऽपि न कायस्थ: कायस्थोऽपि न जायते । कायस्थोऽपि न भुलानः कायस्थोऽपि न बध्यते ॥ २८ ॥ नेही जीव: कायस्थोऽपि शरीराध्यासवानपि न कायस्थः शरीरनिमित्तबन्धरहितः । कायस्थोऽपि जन्मादिवच्छरीर. स्थोऽपि न जायते शरीरनिमित्तजन्मरहित इत्यर्थः। काय. स्थोऽपि भोगसाधनीभूतशरीरस्थोऽपि न भुजानः भोग- राहतः । कायस्थोऽपि बन्धहेतुभूतदेहस्थोऽपि न बध्यते बन्धनं न प्राप्नोतीत्यर्थः ॥ किंच- प्रथमोऽध्यायः । १९ कायस्थोऽपि न लिप्तः स्या. स्कायस्थोऽपि न बाध्यते । कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसंबन्धोऽपि न लिप्तः स्यात् सुखदुःखादिसंबन्धरहित इत्यर्थः । कायस्थोऽपि मरण. धर्मवदेहस्थोऽपि न बाध्यते न म्रियत इत्यर्थः । भनेन जन्मादिषड्भावविकारशून्यत्वं दर्शितम् ॥ यदध्यान आत्ममोहात्संमृतिः, तदपवादेन तवैव देहा- न्त:करणादावात्मा विचारणीय इत्याह- तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् ॥ २९ ॥ पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः। काष्ठाग्निवत्प्रकाशेत आकाशे वायुवचरेत् ॥ ३० ॥ आत्मा तिलमध्ये तेलाच्छादकतिषु यथा तेलम् , यन्त्रा. दिना तिले निष्पिष्टे यथा तिळास्पृथक् तैलं शुद्धं भासते, श्रीरमध्ये घृताच्छादकक्षीराणां मध्ये धीरत्वापनोदको- उत्तरगीतायां पायद्वारा दधिपरिणामे मथनेनापनीते नवनीतादिपरिणाम. द्वारा अनियंयोगात् यथा घृतं प्रतीयते, तथा पुष्पाणां मध्ये यथा गन्धः प्रतीयते, फलमध्ये त्वगस्थ्यादिहेयांशपरित्या- गेन यथा रसो भासते, माकाशे यथा वायुः सर्वगतः सम् वाति संचरति, तथा काष्ठानिवत् अरण्यादिस्थितामिः मथनादिना मथिते यथा काष्ठभावं विहाय स्वयंप्रकाशतया भासते, तदात्मापि अभमयादिपञ्चकोशेषु मध्ये हेयां. शपरित्यागेन आनन्दात्मकतया स्वयंप्रकाशः सन् भासत इत्यर्थः ॥ - एतदेव दान्तिके सर्व स्पष्टमुपपादयति तथा सर्वगतो देही देहमध्ये व्यवस्थितः। मनस्थो देहिनां देवो मनोमध्ये व्यवस्थितः । ३१ ।। तथा पूर्वोक्ततेलादिवत् सर्वगतः सर्वव्यापी देही जीव: दे. हमध्ये नानाभिनतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभित्र- तिनेषु तेलबत् एकस्वेन स्थित इत्यर्थः । देहिनां तत्सदेहभेदेन भिमानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः प्रथमोऽध्यायः । मनोमध्ये वत्तहुष्टादुष्टान्त:करणेषु व्यवस्थित: साक्षितया भासत इत्यर्थः ॥ ताशयापरोक्ष्येण मुच्यन्त इत्याह-- मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् । मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः । ३२ ॥ मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मन:साक्षिभूतं मध्य. स्थं सर्वसाक्षिभूतम् मनवर्जितं संकल्पविकल्पादिरहितं मनः अवबोधात्मकं देवं मनसा परिशुद्धान्त:करणेन आलोक्य सद्गोचरापरोक्षचरमवृत्ति लब्ध्वा योगिनः स्वयमेव सि- ध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः । तेषां लक्षणमाह- आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् । निश्चलं तद्विजानीया. समाधिस्थस्य लक्षणम् । ३३ ।। 61606 THE RAMAKRISHNA W1991 INSTITUTE OF Cultum २२ उत्तरगीतायां आकाशवमानसं मनो निर्मलं कृत्वा मनः संकल्पविक- ल्पात्मकं निरास्पदम् निर्विषयं कृत्वा निश्चलं निष्क्रियमी- श्वरं यो विजानीयात् , स एव समाधिस्थः । तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः ।। आरूढस्य लक्षणमुक्तम् ; आरुरुक्षोरुपायमाह- योगामृतरसं पीत्वा वायुभक्षः सदा सुखी। यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥ ३४ ॥ योगामृतरसं पीत्वा यमनियमायष्टाङ्गयोगामृतपानं कृ. त्वा तत्सत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः, वायुभक्षः वायुमात्रा. हार:, उपलक्षणमेतत , हितमितमेध्याशी, सदा सुखी सर्वदा संतुष्टः सन् , यं यमं मनोनिग्रहं नित्यमभ्यस्यते, स समा. धिरित्युच्यते । स समाधिः मृत्युनाशकत् जननमरण- मारनाशकदित्यर्थः तारशसमाषौ स्थितस्य लक्षणमाह- ऊर्वशून्यमधाशून्य मध्यशून्यं यदात्मकम् । ५३ः ईश्वर प्रथमोऽध्यायः । सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् । ३५ ।। ऊर्ध्वशून्यम् ऊर्ध्वदेशपरिच्छेदरहितम् अधःशून्यं मध्य- शून्यम् अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं देशकाला. दिपरिच्छेदरहितं यदात्मकं यत्स्वरूपम् , म आत्मेति भावना समाधिस्थस्य लक्षणमित्यर्थः ।। एतस्यैकान्तिकरष्टे: विधिनिषेधातीतत्वमाह- शून्यभावितभावारमा पुण्यपापैः प्रमुच्यते। शून्यमिति सर्वपरिच्छेदरहितमिति भावित: वासित: भावः अभिप्रायो यस्यात्मनः तादृशः सन् शून्यभावित. भावात्मा योगी पुण्यपापैः विधिनिषेधप्रयुक्त: प्रमुच्यते मुक्तो भवतीत्यर्थः । एवं भगवदुपदिष्ट समाधौ विरोधमसंभवं च माह- अर्जुन उवाच- अदृश्ये भावना नास्ति दृश्यमेतहिनश्यति ॥ ३६ ॥ - उत्तरगीतायां .. . अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः । अरश्ये ज्ञानागोचरे वस्तुनि भावना ध्यानं नास्ति; ननु तार्ह दृश्यं भवस्विति चेत्, दृश्यमेतत्सर्व विनश्यति नाशं प्राणोति शुक्तिकालयवत् । तथा च भवर्ण रूपरहितम् अस्वरं शब्दागोचरं ब्रह्म योगिनः कथं ध्यायन्ति, ध्यानस्य स्मृत्यात्मकत्वेनाननुभूते तदयोगात् इति भावः ।। न हि सावयवमूर्त्यादिमत्त्वेन वयं ध्यानं अम: येन त्वयो. तं घटेत, किं तु निर्विशेषपरब्रह्मण एव निर्मलं निष्कलमित्या. दिना, वेदान्तजन्यवृत्तिगोचरत्वेन तस्संभवतीत्यभिप्रायेणाह- श्रीभगवानुवाच- ऊर्ध्वपूर्णमधःपूर्ण मध्यपूर्ण यदात्मकम् ॥ ३७ ॥ सर्वपूर्ण स आत्मति समाधिस्थस्य लक्षणम् । ऊर्ध्वाधोमध्यपूर्णशब्दैः सर्वदेशतः सर्वकालत: परिच्छेद व्यावर्तयति । यदात्मकं यत् एतादृशं वस्तु सर्वत्र परिपूर्ण स प्रथमोऽध्यायः । २५ आत्मेति यो ध्यायति, स समाधिस्थः । तस्य लक्षणमपि तदेवेत्यर्थः ॥ नन्वयं सालम्बनयोगो निरालम्बनयोगो वेति वेधा बि. कल्प्य तत्र दोषमाशयाह - अर्जुन उवाब- सालम्बस्थाप्यनित्यत्वं निरालम्बस्य शून्यता ॥ ३८ ॥ उभयोरपि दुष्ठत्व कथं ध्यायन्ति योगिनः । सालम्बस्य मूल्धारादिसहितस्य अनित्यत्वं विनाशिव. म् , निरालम्बस्य मूर्याधारादिरहितस्य शून्यता शशविषा- गायितत्वम् , एवमुभयोरपि दुष्टत्वात् दोषघटितत्वात् यो. गिनः कथं ध्यायतीति प्रभार्थः ॥ यादानादिना शुद्धान्त:करणस्य वेदान्तजन्यनिर्विशेष. अगोचरवृत्ति संभवात् न शून्यतेत्यभिप्रायेणाह- श्रीभगवानुवाच- कृत्वा चिन्तयित्वाप्यनामयम् ।। ३९ ॥ हृदयं निर्मलं -- २६ उत्तरगीतायां अहमेव इदं सर्व- मिति पश्येत्परं सुखम् । हृदयं चित्तं निर्मलं ज्ञानविरोधिरागादिदोषरहितं कृत्वा अनामयं चिन्तयित्वा ईश्वरं ध्यात्वा परं सुखी सन् परमा- नन्दात्मकः सन् एक एवाहमिदं सर्व जगजालमहमेव न मत्तो व्यतिरिक्तमन्यत् इति पश्येत् अपरोक्षानुभवं प्रा. मुयात् इत्यर्थः । अर्थात्मकस्य जगत: शब्दनिरूप्यत्वेन शब्दस्य वर्णात्म. कत्वेन वर्णानां प्रणवात्मकत्वेन प्रणवस्य बिन्द्वात्मकत्वेन बिन्दोः नादात्मकत्वेन नादस्य ब्रह्मध्यानस्थानात्मककलात्म- कत्वेन ब्रह्मणि समन्वयेन बिन्दुनादकलातीतं ब्रह्म ध्याये. दिति भगवतोक्तम् , तद्विविच्य शातुं पृच्छति- अर्जुन उवाच- अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ॥ ४० ॥ विन्दुभिभिद्यते नादः स नादः केन भिद्यते । हे भगवन् प्रमात्राणि अक्षराणि अकारादीनि सर्वे म.
प्रथमोऽध्यायः । वाणि, लिङ्गव्यत्ययः आर्षः, बिन्दुसमाश्रिताः बिन्दुतन्मात्रा- णीत्यर्थः । बिन्दुस्तु नादेन भिद्यते नादतन्मात्र: पन् तत्र समन्वेतीत्यर्थः । स नादः कलायां समन्वेति । सा कला कुत्र समन्वेति इति प्रभार्थः । यद्यपि श्लोके स नादः केन भिद्यत इति नादस्यैव समन्वयः पृष्ट इति भाति, तथापि नादस्य कलासमन्वय इति प्रसिद्धत्वात् नादपदं कलोप. लक्षणम् ।। एवं पृष्टो भगवान् ब्रह्मणि समन्वेति इति उत्तरमाह-- श्रीभगवानुवाच- अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः । ४१ ॥ ध्वनेरन्तर्गतं ज्योति ज्योतिरन्तर्गतं मनः। तन्मनो विलयं याति तद्विष्णोः परमं पदम् ।। ४२ ॥ अनाहतस्य शब्द परावस्थापनाणवस्य यः ध्वनि: नादः तस्य नादस्य ज्योतिः अन्तर्गतम् । तेन तेजोरूप- कछायां नादस्यान्तर्भाव इति तात्पर्यम्। कलान्तर्भावमाह- २८ उत्तरगीतायां - ज्योतिरन्तर्गतं मन इति । मनसः ज्योतिष्यन्तर्भावो नाम तन्मात्रया तत्र व्याप्तिः । तथा च मनसि ज्योतिषः कला. याः समन्वय इति भावः। तत् मनः शब्दादिप्रपथका- रणभूतं मनः यत्र विलयं याति, यत्र ब्रह्मणि वेदान्तजन्य- निर्विकल्पकब्रह्मगोधरमनोवृत्तिः लयं याति, तत् वृत्तिलय. स्थानं वृत्तिलयात्मकं वा विष्णो: परमम् उत्कृष्टं पदं स्वरूप- मिति । तदुक्तम् - मनः कायामिना हन्तीत्यादिना ।। पुनस्तदेव विशिनष्टि- ओंकारध्वनिनादेन वायोः संहरणान्तिकम् । निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥ ४३ ॥ ओंकारध्वनिनादेन ओंकारध्वन्यात्मकनादेन सह वायोः मंहरणान्तिकं रेचकपूरकादिक्रमेण नियमितवायोरुपपहार. पर्यन्तं निरालम्ब निर्विशेषं ब्रह्म समुद्दिश्य लक्ष्यं कृत्वा भ्यायेत् । यत्र स नादो लयं गत: नाशं प्राप्नुयात् , तत् नादनाशाधिकरणात्मकं नाइनाशात्मकं वा विष्णोः परमं पदमित्यर्थः ॥
प्रथमोऽध्यायः । २९ एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य पुण्य. पापे विधूय ब्रह्मसायुज्ये ऽभिहिते, आरुरुक्षारपरिशुद्धान्त:क. रणित्वेन ब्रमसायुज्यायंभवे धर्माधर्मविधूननासंभवेन सहारा जननमरणादिकमवश्यं भाव्यमिति मनसि निश्चिय पुनरा. वृत्तिप्रकारं पृच्छति- अर्जुन उवाच- सिने पश्चात्मके देहे गते पश्चसु पशधा। प्राणैर्विमुक्त देहे तु धर्माधर्मों व गच्छतः ॥ ४४ ।। पथात्मके पञ्चभूतात्मके देहे स्थूलशरीरे भिने गते सति, पञ्चसु पश्चभूतेषु पञ्चधा तत्तत्पृथिव्यायाकारेण स्थि. तेषु सत्सु, देहे प्राणः प्राणादिपञ्चवायुभिः वियुक्ते सति, धर्माधर्मों पुण्यपापे क गच्छत: कुत्र यासतः ।। एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत इत्युत्तर- माह- श्रीभगवानुवाच- धर्माधर्मों मनचैव पञ्चभूतानि यानि च। U४.
३० उत्तरगीतायां इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवता॥४५॥ ताव मनसा सर्वे नित्यमेवाभिमानता। जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥ ४६ ॥ 61606 धर्माधर्मों पुण्यपापे मनश्च अन्त:करणं यानि च पचभू- तानि पृथिव्यादीनि यानि च पपेन्द्रियाणि चक्षुरादीनि वागादीनि ज्ञानकर्मात्मकानि च याश्चान्या: पचदेवता: प. भोन्द्रियाभिमानिन्यः दिग्वातादयः, तदुक्तम्-दिग्वातादर्क. प्रवेताश्विवहिप्राप्यप्रलीयकाः इति , ता देवताः, एते सर्व भूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव सर्वदा अभिमा. नत: ममताहंकारविषयत्वेन यावत्तत्त्वं न विन्दति अपरोध- ब्रह्मानुभवं न प्रानोति, तावनीवेन सह जीवोपाधिना लिङ्गन यह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः ।। एवं स्थूल देहलयेऽपि धर्माधर्मों बिनशरीरमाश्रित्य ति. घव इस्युके, लिजशरीरभन्नः करेति पृच्छति- प्रथमोऽध्यायः । - मर्जुन उवाच- स्थावरं जङ्गमं चैव यत्किचित्सचराचरम् । जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥ ४७ ।। स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं जगनालं सर्वस्मिन् ये जीवा: अभिमानवन्तः स्थूलदेहाभिमानिनो विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तेज. पेन मिष्यन्ति विश्वाभिमानं त्यजन्ति । स जीव: तेजसा. भिमानी केन हेतुना सिध्यति स्वाभिमानं त्यजतीति प्रश्रार्थः ॥ एवं पृष्ठे पति प्राशेन तेजसः सिष्यति, प्राशस्तुरीयेणे- स्येवं क्रमेण सिध्यतीत्युचरमाह- श्रीमगवानुवाच- मुखमासिकयोर्मध्ये प्राणा संचरते सदा। आकाशः पिबते प्राणं स जीवः केन जीवति ॥ ४८ ।।
उत्तरगीतायां मुखनासिकयोमध्ये मुखनासिकामध्यतः सदा सर्वदा यावष्टं प्राणवायुः संचरते अजपामन्त्रात्मकत्वेन एकेकस्य दिनस्य षट्शताधिकै कविंशतिसहस्रसंस्य या संचरति, तावत्प. यन्तमष्टमहिना लिलामपि वर्तते । यदा तु योगमहिना ब्रह्म मानानन्तरं जीवस्या दृष्टनिवृत्तिः, सदा आकाश: जीवत्वनि. मित्तं प्राणं पिबते, सदा जीवः केन जीवति जीवत्वापादका- विद्यानिवृत्त्या निर जनब्रह्मभावे जाते जीवत्वमेव नास्ती. यर्थः ॥ ननु ब्रह्माण्डाधुपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः कथं निरशनत्वमिति पृच्छति- अर्जुन उवाच- ब्रह्माण्डव्यापितं व्योम व्योना चावेष्टितं जगत् । अन्तर्बहिश्च तयोम कथं देवो निरञ्जनः ॥ ४९॥ हे भगवन् व्योम आकाशं ब्रह्माण्डव्यापितं ब्रह्माण्डाव. छिनमित्यर्थः । व्योना च आकाशेन जगत् भावेष्टितं व्याप्तम् , तस्मात्कारणात् अन्तर्बहिश्च व्योमैव वर्तते, एवं प्रथमोऽध्यायः । पति देवः ईश्वरः कथं निरचनः अन्यप्रकाशनिरपेक्षः कथ. मित्यर्थः । नि:मनो वा कथमिति प्रश्नार्थः ।। आकाशादिसर्वप्रपयस्य कल्पितत्वेन सर्व पेत्स्यतीत्यभि. प्रायेणाह- श्रीभगवानुवाच আন্ধাহী অন্ধাহা आकाशव्यापितं च यत् । आकाशस्य गुणः शब्दो निशब्दो ब्रह्म उच्यते ॥ ५० ॥ आकाश: महाकाश: अवकाश: परिच्छिमाकाश! उभ. यमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन व्यापितं व्याप्तं तदुपादानकसया तदतिरिकं न भवतीत्यर्थः । तर्हि उपादा- नस्य शब्दस्य अतिरिकत्वमस्त्वित्यत माह-आकाशस्य गुण: शब्द इति, शब्दः तन्मावभूत: भाकाशस्य मिध्याभू. ताकाशस्य गुगः परिणाम्युपादानं यत:, मत एव स्वयमपि मिध्याभूत इत्यर्थः । न तु निःशब्दः निष्प्रपथः इत्युच्यते। तथाच सत्यम्याक्षरस्य ब्रमण: संबन्धासंभ. वात् निरनत्वमुपपद्यत इत्यर्थः ।। असत्येन सह उत्तरगीतायां . एवं भगवतोक्ते , अक्षरशब्दस्य भगवदभिमतार्थ अजा. नानः सन् लोकासितवर्णात्मकाक्षरबुद्या वर्णानामभरत्वं न संभवतीत्यभिप्रायेण पृच्छति- मर्जुन उवाच- दन्तोष्ठतालुजिह्वाना- मास्पदं यत्र दृश्यते। अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥ ५१ । हे भगवन् यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालुजिहानाम् , उपलक्षणमेतत् कण्ठादीनामष्टानां स्थानानाम् , आस्पदम् आ. स्पदत्वं सश्यते प्रत्यक्षमनुभूयते । 'अकुहविसर्जनीयानां कण्ठः' इत्यादिना भूबते च । तथा च तेषां वर्णानाम् अक्षरत्वं नाश. रहितत्वं कुतः, उत्पत्तिमतो नाशावश्यंभावात् ! सदा सर्व- कालं परत्वं नाशवत्वमेव वर्तते तेषाम् , नाशरहितत्वं कृत इति प्रभार्थः ॥ एवमभिप्रायमजानानेन अर्जुनेन पृष्ठे स्वाभिप्रेतमक्षरक्ष. दार्थ स्फुटयन भगवानुवाच- भीभगवानुवाच- प्रथमोऽध्यायः । अघोषमव्यञ्जनमस्वरं चा. प्यतालुकण्ठोष्ठममासिकं च । अरेखजातं परमवर्जित तदक्षरं न क्षरते कथंचित् ॥ ५२ ॥ अघोषं पोषाख्यवर्णगुणरहितम् अव्य जनं ककारादिव्य. खनातीतम् अस्वरम् अजीतम् , अतालुकण्ठोष्ठमपि अ. न्य जनायुत्पत्तिस्थानतास्वोष्ठादिरहितम् अनासिकम् अनु. स्वारोत्पत्तिस्थाननासिकातीतम् अरेखजातं वर्णव्यखकरे. खासमूहातीतम् ऊष्मवर्जितं शषसहातीतम् , यद्वा , ऊष्मश- ब्देन श्वासाख्यो गुणोऽभिधीयते तद्रहितम्, परं लोकप्रसि- द्ववर्णलक्षणातीतं यत् ब्रह्म कथंचित् सर्वप्रकारेण सर्व- कालेऽपि न क्षरते, तदेवाक्षरशब्देनोच्यते । न लौकिकान्य. धराणीत्यर्थः ।। - एतादृशं ब्रह्मज्ञानोपायम् अनुभवदााय पुनरपि पृ. छति- अर्जुन उवाच- ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् ।
उत्तरगीतायां इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥ ५३॥ सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया स्थितं सर्व गतम् अन्तर्बहिश्व परिपूर्णम् , प्रम ज्ञात्वा सम्यग्विबुध्य योगिनः इन्द्रियाणां निरोधेन इन्द्रियनिय मनेन कथं सि. ध्यन्ति केनोपायेन मुक्ता भवन्तीत्यर्थः । एवं पृष्टो भगवान् तमेव ज्ञानोपायं पुनरप्याह- श्रीभगवानुवाच- इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः। देहे नष्टे कुतो बुद्धि- बुद्धिनाशे कुतो ज्ञता ॥ ५४॥ मानवाः मनुष्या: इन्द्रियाणां निरोधेन इनियनियमनेन दे. हे देहे एव पश्यन्ति शास्यन्ति, तस्मात् देहदाव्यम् इन्द्रियदाऱ्या ज्ञानोपाय इति भावः । तदभावे शानमेव नास्ति इत्याह- देहे नष्टे अरष्टे पति बुद्धिः कुतः तत्त्वज्ञानं कुत: ! बुद्धिनाशे तस्वशानाभावे शता अपरोक्षमानिता च इत: ! तस्मादेहे. - !
प्रथमोऽध्यायः । न्द्रियादिभिः यदानादिश्रवणादिकमेव तत्वज्ञाने कारण. मिति भावः ॥ ताशं च कारणं यावत्पर्यन्तमनुष्यमित्याशय भव. धिमाह- तावदेव निरोधः स्याः द्यावत्तत्वं न विन्दति । विदिते तु परे तत्त्वे एकमेवानुपश्यति । ५५ ॥ यावत्तत्त्वज्ञानं नास्ति, तावत्पर्यन्तमिन्द्रियनिरोधः स्यात् ; परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति, एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधन. रहितं ब्रह्मैवानुपश्यति, नान्यत् ; तदनन्तरं साधनानुष्ठानप्रया सोऽपि मा भूदिति भाव: ॥ तस्माद्यावत्तवमानं तावरसाधनमनुष्ठेयम् , तदभावे तन विध्यतीलाह- भवच्छिद्रकृता देहाः स्रवन्ति गलिका इव । - ३८ उत्तरगीतायां नैव ब्रह्म न शुद्धं स्या. त्पुमान्ब्रह्म न विन्दति ॥ ५६ ॥ देहाः शानकारणीभूतशरीराणि नवच्छिद्रकृताः विषय. नाविवृत्तिमनवेन्द्रियघटितानि; तत्र दृष्टान्तः गलिका इव च्छिद्रघटा इव सर्वदा ज्ञानं सवन्तीत्यर्थः । तादृशविषयप्रव. णचित्तस्य ब्रह्म न शुद्धं स्यात् इति नैव ईश्वरत्वकर्तृत्वबिम्वत्वा. विघटितं न भवति । तथा च ब्रह्मणि विम्बत्वादिघटिते पुमान् सुखदुःखाभिमानी प्रतिबिम्बो जीवः ब्रह्म न विन्दति भानन्दानुभवं न प्राप्नोतीत्यर्थः ।। - तस्मात् यावत्तस्वापरोक्षपर्यन्तं साधने यनः कर्तव्यः, जाते च तत्वावबोधे विधिनिषेधातीतत्वेन न कोऽपि यत्नः कर्तग्य इत्यभिप्रायवानाह- अत्यन्तमलिनो देहो देही चात्यन्तनिर्मला। उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ५७ ॥ देहः पाचभौतिक: अत्यन्तमलिनः जडत्वादिति भावः ।
प्रथमोऽध्यायः ।
देही जास्मा निष्कृष्टाहंकारः सन् अत्यन्तनिर्मलः अहंकारो.
पाधिकसंसाररहितः इत्येवमुभयोदेहात्मनोः अन्तरं कल्पित.
स्वसत्यत्वे ज्ञात्वा यो वर्तते, तं प्रति कस्य शोचं विधीयते
देहस्य वा भात्मनो वा ! देहस्य त् , जडस्य जडेन जला.
दिना न शुद्धिः; आत्मनश्चेत् पूर्वमेव शुद्धस्य न शौचादिना
प्रयोजनमिति भावः ॥
इति श्रीगौडपादाचार्यविरचितायो
उत्तरगीताब्याख्यायां
प्रथमोऽध्यायः ॥
॥ द्वितीयोऽध्यायः॥ अरूढस्थाहरुक्षोश्च स्वरूपे परिकीर्तिते । सत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ।। अर्जुन उवाच- ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञ परमेश्वरम् । अहं ब्रह्मेति निर्देष्टुं प्रमाणं तत्र किं भवेत् ॥ १॥ भगवन् ब्रह्म बिम्बभूतं चैतन्यं सर्वगतं सर्वत्र परिपूर्ण सर्वशं सर्वाधिभूतं परमेश्वरं सर्वनियामकमिति ज्ञात्वा तस्वमसीत्यादिवाक्यतो विबुध्य अहं प्रीति, प्रतिविम्बात्मा जीवः ब्रह्मेति निर्देष्टुं वक्तुं तत्र तस्मिक्ये किं प्रमाणं किमुपपादकमित्यर्थः ॥ एवं पृष्टो भगवान् क्षीरजलादिरष्टान्न उपाधिनिवृत्ता. वास्मैक्यं संभवतीत्याह-
द्वितीयोऽध्यायः।
श्रीभगवानुवाच-
यथा जलं जले क्षिप्तं
क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्तद.
जीवात्मपरमात्मनोः ॥ २ ॥
जले नयादी जलं तदेव पात्रादुबृतं पात्रोपाधितः पृथ-
क्भूतं तत्रैव क्षिप्ते पात्रोपाधिनिवृत्ती महाजलैक्यं प्राप्नोति,
एवं श्रीरे श्रीरं घृते घृतं क्षिप्तं सत् तत्सदेक्यं प्राप्नोति,
तद्वत् जीवात्मपरमात्मनो: अविद्याधुपाधितो भेदेऽपि तमिल
वृत्तावविशेष: संभवतीति भावः ॥
एवमैक्यज्ञानं गुरुमुखादेव संभावितमविद्यानिवर्तकम ,
न तु स्वतन्त्रविचारसंभावितमिति वदम् वस्वज्ञानार्थ गुरु-
मेव अभिगच्छेदिति गुरूपासनामाह-
जीवे परेण तादात्म्यं
सर्वगं ज्योतिरीश्वरम् ।
प्रमाणलक्षणैज्ञेयं
स्वयमेकापवेदिना ॥ ३ ॥
४२ उत्तरगीतायां - स्वयमधिकारी एकाप्रवेदिना ब्रमनिष्ठेन गुरुणा प्रमाण. लक्षणैः तत्त्वमनि' 'यतो वा इमानि भूतानि' 'यः पर्व. श: सर्ववित्' इत्यादिभिः जीवे परेण परमात्मना तादात्म्यम् ऐक्यं बोधिते मति, तदनन्तरं स्वयमेव सर्वगं सर्वव्यापिन- मीश्वरं सर्वनियन्तारं ज्योतिः स्वयंप्रकाशात्मा इति विज्ञेयं सातुं योग्यमित्यर्थः ॥ एवं गुरूपदेशानन्तरमाविज्ञानेनवोपपचौ कि कर्मयोगे. नेति पृच्छति- अर्जुन उवाच- ज्ञानादेव भवेज्ज्ञेयं विदित्वा तत्क्षणेन तु। ज्ञानमात्रेण मुच्येत किं पुनर्योगधारणा ॥ ४ ॥ हे भगवन ज्ञेयं विचार्य ब्रह्मैक्यं शानादेव गुरूपदिष्टा. देव भवेत्। तथा च विदित्वा गुरूपदेशानन्तरं तत्त्वं ज्ञात्वा वत्थणेन वेदान्तवाक्यजन्यचरमवृत्त्युचरक्षणमेव मुच्येत मुजो भवेत् ; एवं ज्ञानमात्रेण मुक्त्युपपत्तो योगधारणा कर्मः योगाभ्यासः किं पुनः किंप्रयोजनम् व्यर्षत्वादिसभिप्रायः ।।
द्वितीयोऽध्यायः एवं कर्मयोगवैयर्थे शहिते याव तत्वज्ञानं न संभवति, तावदन्तःकरणशुध्यर्थ मनुष्ठेयं कर्म; सिद्ध च तस्मिन् साने, पुनः कर्मानुष्ठानं मा भूत् इत्याह-- श्रीभगवानुवाच- ज्ञानेन दीपिते देह बुद्धिर्बलसमन्विताः ब्रह्मज्ञानाग्निना विद्वा. निदेहेत्कर्मबन्धनम् ॥ ५॥ हे अर्जुन विद्वान् विवेकी ज्ञानेन देहे लिङ्गशरीरे दीपिते शुद्धे , ततः बुद्धिः निश्चयात्मिका ब्रह्मसमन्विता चेत् ब्रह्माणि स्थिता असंभावनारहिता चेत् , तदनन्तरं ब्रह्मक्षा. नाग्निना ब्रमझानानलेन कर्मबन्धनं कर्मपाशं निर्वहेत त्यजे. 'दत्यर्थः । तदुक्तम् -- जानामिः सर्वकर्माणि भस्मसात्कुरु- तेऽर्जुन' इति ॥ एवं प्राप्ततवैक्यस्य ततः परं किमपि न कार्यमित्याह- तता पवित्र परमेश्वराख्या मतरूपं विमलाम्बराभम् ।
५१ उत्तरगीतायां अत एव परमात्मरूप: , यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्था ॥ ६ ॥ ततः तत्वज्ञानानन्तरम् उदके महोदके अनुप्रविष्ठम् ऐक्यं गतं तोयं परिच्छिनोदकम् , तद्वन् पवित्रं शुद्धम् पर. मेश्वराख्यं परमेश्वरसंशं तथापि विमलाम्बराभं निर्मलाकाश- वदसंगम् अद्वैतरूपं सजातीयविजातीयस्वगतभेदरहितं ब्रह्म परं ब्रह्म अनुप्रविष्टः तदेक्यं गतः सन् निरुपाधिसंस्थो भवेत् औपाधिकर्तृत्वादिभेदरहितो भवेत् , स्वयं निष्क्रिय आसीतेत्यर्थः; गुणा गुणेषु वर्तन्ते इति न्यायादिति भावः ।। एवं यथोक्तकर्मानुष्ठानद्वारा तत्त्वज्ञाने जात एत्र परमा. त्मतत्वं शातुं शक्यम् , न तत: पूर्वमित्याह- आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । स वाघमभ्यन्तरनिश्चलात्मा ज्ञानोल्कया पश्यति चान्तरात्मा ॥ आकाशवत् सूक्ष्मशरीर: भाकाशं यथातीन्द्रियम् , तद्वत् परमारमा सूक्ष्मशरीरः, सूक्ष्मत्वमत्र अतीन्द्रियत्वमाभिप्रेतम् , द्वितीयोऽध्यायः । तारशः परमात्मा वायुवत वायुर्यथा चक्षुरादिविषयो न, तद्वन् अन्तरात्मा जीवोऽपि न दृश्यते, तत्स्वरूपमपीन्द्रिय विषयं न भवतीत्यर्थः, मनसोऽप्रमाणत्वमाधनादिति भावः । तर्हि तयोः अपरोक्ष नवज्ञान केनेत्यत आइ-म बाझम. भ्यन्तरनिश्चलात्मा य: बाह्यविषयेषु अभ्यन्तरविषयेषु च निअलास्मा विषयविक्षिप्तचित्तो न भवति, स: ज्ञानोल्कया वेदान्त अन्यतस्वापरोझवृत्तिरूपज्ञानदीपेन अन्तरात्मा अन्त. मुखचित्त: पश्यति तदुभयै क्यं जानातीत्यर्थः ।। इह केषांविदर्शनं भर्चिरादिमार्गेण लोकान्तरप्राप्तिः मुक्तिः इति, तमिराकर्तुम् अत्र ब्रह्म समश्नुते' इत्यादि श्रुत्या पूर्वोक्तज्ञानिनो मुक्तिस्वरूपमाह-- यत्र यत्र मृतो ज्ञानी -- येन केनापि मृत्युना। यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥८॥ भव. सर्वगतं सर्ववस्ववाछवं व्योम भाकाशं यथा च्छेदकवस्तुनाशे तत्रैव महाव्योम लयम् ऐक्यं प्राप्नोति, तथा सर्वगतः ज्ञानी सर्वत्र परिपूर्णब्रह्माभिन्नः शरीरायुपा. U.4 उत्तरगीतायां धिना भिमत्वेन व्यवहियमाण: ब्रह्मापरोक्षज्ञानी येन केन मृत्युना यत्र कुत्रापि वा मृत: अज्ञानोपादानकदेहं झानेन नाशयति, तत्र तत्रैव ब्रह्मणि लयम् ऐक्यं गतः प्राप्त एवे. त्यर्थः । अनेन तत्त्वज्ञानिनो देशकालापेक्षा मरणे मा भू. दिति सूचितम् । भृग्वग्न्याधपमृत्युनिमित्तकप्रायश्चित्तान्यपि भाहरुक्ष्वधिकृतानि इति वेदितव्यम् ।। एकस्यापि जीवस्य देहायवच्छेदकमेदेन नानात्वं जीव. स्थाणुस्वपक्षे न संभवतीत्याशय जीवस्य व्यापित्वं साध. यति- शरीरव्यापितं व्योम भुवनानि चतुर्दश। निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥ ९॥ शरीरख्यापितं शरीरादिसर्वद्रव्यध्यापितं व्योम आकाशं यथा भुवनानि चतुर्दश भूर्भुवरादीनि व्यापितं त् वर्तते, एवं निश्चल: क्रियारहित: निर्मल: परिशुद्धः निरचन: स्वयंप्रकाशो देही जीवः सर्वव्यापी जगद्व्यापीत्यर्थः । जग. मात्रस्य अविद्यापरिणामत्वेन जगदुपादानाविद्याप्रतिबिम्ब स्यैव जीवस्वेन तस्य व्यापित्वमेव, नाणुत्वमिति भावः ॥
द्वितीयोऽध्यायः । एवं तस्वशानिनो मुक्तिखरूपमभिधाय ततः परं तस्व. झानसाधनानुष्ठातुः तदेव सर्वपापप्रायश्चित्तमित्याह-- मुहूर्तमपि यो गच्छे. नासाग्रे मनसा सह । सर्व तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ १० ॥ यः ज्ञानसाधनानुष्ठाता मनसा सह साधनेन सह मुहूर्त. मात्रमपि नासाग्रे गच्छेत् नासाने तत्त्वज्ञानार्थ निश्चलं चक्षुः कुर्यात् , तस्य ताह शहंसमुद्रानिष्ठस्य जन्मशतार्जितं अनेकजन्मसंचितं सर्व यत्पापमस्ति तत्सर्व पाप्मानं पापं योगी तरति नाशयतीत्यर्थः । तदुक्तम् 'यस्य प्राविचा- रणे क्षणमपि प्राप्नोति धैर्य मन: कुलं पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती च तेन' इत्यादि-- . मुक्ति: द्विविधा -सद्यो मुक्तिः क्रममुक्तिरिति, तत्र भयो मुक्तिः 'यत्र यत्र मृतो योगी' इत्यादिना, 'अत्र ब्रह्म सम. श्नुते' इत्यादिश्रुत्या च, प्रतिपादिता । 'ब्रह्मणा सह ते सर्वे संप्राप्त प्रतिसंचरे । परस्यान्ते नात्मानः प्रविशन्ति परं पदम्' इत्यादिभिः प्रतिपादितां क्रममुक्ति निरूपायतम् ,
४८
उत्तरगीतायां
अचिरादिमार्ग गन्तुः पुनरावृत्तिराहित्यम् , धूमादिमार्ग
गन्तुः पुनरावृत्ति , निरूपयितुं योगधारणया तदुमयमा.
गैस्वरूपमाह--
दक्षिणे पिङ्गला नाडी
वहिमण्डलगोचरा
देवयानमिति ज्ञेया
पुण्यकर्मानुसारिणी ॥ ११ ॥
दक्षिणे देहस्य दक्षिणे भागे वकिपण्डलगोचरा वह्नि-
मण्डलं संप्राप्ता पुण्यकर्मानुसारिणी पुण्यकर्मभिः प्राप्तुं यो.
ग्या पिङ्गलानाम नाडी मूलाधारादारभ्य दक्षिणभागन:
सहस्रारपर्यन्तं व्यामा या नाडी सा देवयानमिति शेया
पुनरावृत्तिरहितार्थिरादिमार्ग इति शेयेत्यर्थः ।।
धूमादिमार्गप्रापकेछानाडीस्वरूपमाह---
इला च वामनिश्वास
सोममण्डलगोचरा।
पितृयानमिति ज्ञेयं
वाममाश्रित्य तिष्ठति ॥ १२ ॥
द्वितीयोऽध्यायः । इलानाडी वामनिवाससोममण्डलगोचरा वामनासापुट- मार्गेण चन्द्रमण्डलं प्राप्ता वाममाश्रित्य तिष्ठति, मूलाधारा. दारभ्य वामभागतः सहस्रारपर्यन्तं गता या नाडी ar पितृयानमिति या पुनरावृत्त्यनुकूलधूममार्ग इति शेये. त्यर्थः ॥ एवमिलापिङ्गलानाड्योः स्थानं स्वरूपं च अभिधाय सुषुम्नानाडीस्वरूपं निरूपयितुं तत्संबन्धिन्या: ब्रह्मदण्ड्या: स्वरूपमाह- गुदस्य पृष्ठ भागेऽस्मि न्वीणादण्डस्य देहभृत् । दीर्घास्थि मूर्षिपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥ १३ ॥ अस्मिन् देहे गुदस्य मूलाधारस्य पृष्ठभागे पश्चिमभागे वीणादण्डस्य देहभृत् वीणायास्तन्याधारभूतो यो दण्डः तदाकारभूत तरिस्थत मनिपर्यन्तं महनारपर्यन्तव्याप्तं य. ही_स्थि दीर्घ पृष्ठभागस्थितम् , तत् ब्रह्मनाडीति कथ्यते ब्रह्मैक्यप्रतिपादकसुषुम्राधारस्वादिति भावः ॥ इतः परं सुषुम्रानाडीस्वरूपमाह- उत्तरगीतायां तस्यान्ते सुषिरं सूक्ष्म ब्रह्मनाडीति सूरिभिः। तस्य ब्रह्मदण्ड्याख्यास्भः अन्ते अग्रे सूक्ष्मं सुषिरं रन्ध्र वर्तत इति शेषः, तद्गता · नाडी सूरिभिः विवेकिभिः ब्रह्म- नासरीति प्रक्यप्रतिपादिका नाडीति कथ्यत इति शेषः ॥ सामेव नाडी निरूपयति-- इलापिङ्गलयोमध्ये सुषुम्ना सूक्ष्मरूपिणी। सर्व प्रतिष्ठितं यस्मिः सर्वगं सर्वतोमुखम् ॥ १४ ॥ इलापिझलनाड्योर्मध्ये सूक्ष्मरूपिणी अतिसूक्ष्म विस. सन्तुरूपिणी मूलाधारादारभ्य स्वाधिष्ठानादिचक्रद्वारा सह. मारपर्यन्तं गता कुण्डलिनी शक्तिरिति प्रमिता या सुषुना नाडी, तस्या: अप्रे उपरि सर्व सर्वात्मकं विश्वतोमुख पर्वद्रष्ट सर्वगं सर्वव्याप्तं यत्तेज: ब्रह्मज्योतिः, तत् प्रतिष्ठितं विद्यत इत्यर्थः, 'तस्याः शिखाया मध्ये' इति श्रुतेः । 'शतं चैका घ हृदयस्य नाड्यतासां मूर्धानमभिनिःसृतका । तयोर्ध्वमायः अमृतत्वमेखि-' इत्यादिश्रुतेः ॥ १ द्वितीयोऽध्यायः । सुषुम्रामार्गगतस्य ब्रह्मप्राप्तिं निरूपयितुं तस्याः कुण्डलि. न्याः सकलजगदात्मकत्वं सकलजगदाधारत्वं सर्वदेवात्मत्वं सर्ववेदाधारकत्वं च माह तस्य मध्यगताः सूर्य सोमाग्निपरमेश्वराः। भूतलोका दिशा क्षेत्र समुद्राः पर्वताः शिलाः ॥ १५ ॥ दीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः। खरमनपुराणानि गुणाचैते च सर्वशः ॥ १६ ॥ बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः । सुषुम्नान्तर्गतं विश्वं तस्मिन्सचे प्रतिष्ठितम् ॥ १७ ॥ सूर्य सोमानिपरमेश्वराः सूर्यमण्डलस्रोममण्डलवह्निमण्ड . बानि तन्मध्यस्थितेश्वरश्च, भूतलोका: पचमहाभूतानि व्यो- - उत्तरगीतायां - बायवः, मादीनि , चतुर्दश भुवनानि भूर्भुव.सुवरादीनि , दिश: पूर्वादयः, क्षेत्राणि वाराणस्यादीनि, समुद्रा: लवणेक्ष्वादयः, पर्वताश्व मेदियः, शिला: यज्ञशिलाः चित्तशिलादयः, द्वीपा: जम्वादयः, निम्रगाः जाहव्यादयः, वेदाः ग्वेदा. इयः, शाखाणि मीमांसादीनि, कला: चतुःषष्टिकलाः, अभ- रा: ककारादीनि, स्वरा: अकारादयः, मन्त्रा: गायत्र्यादयः, पुराणानि ब्रह्माण्डादीनि, गुणा: सत्त्वादयः, वीजं प्रधानम्, बीजात्मका: महादयः, क्षेत्रं जानन्तीति क्षेत्रज्ञाः जीवा: प्राणवायवः-प्राणादयः पथ नागादयः पश्चात्य देश. सर्व एते तस्य सुषुम्नानाडीविशेषस्य मध्यगता: यस्मात, तस्मात्कारणात् सर्व जगज्जातं सुषुम्नान्तर्गतं कुण्ड. लिनीशक्त्यन्तभूतमित्यर्थः । अत एव तस्मिन् सर्व प्रतिष्ठिः राम् इति, 'तस्यान्ते सुषिर सूक्ष्म तस्मिन्सर्व प्रतिष्ठितम् ' इति श्रुतेः ॥ तस्मात्सर्वजगदुत्पत्तिकारणमाह- নােলাজাম सर्वभूतान्तरात्मनि । ऊर्ध्वमूलमधा शाखं पायुमार्गेण सर्वगम् ॥ १८॥ - द्वितीयोऽध्यायः । सर्वभूतानां सर्वप्राणिनाम् अन्तरात्मनि देहे नानानाडी. प्रसवकं नानानड्युत्पत्तिस्थानभूतम् , ऊर्ध्वमूलं उर्व ब्रह्म तदेव मूलं उत्पत्तिस्थानं यस्य तत्, अधःशाखं हिरण्यगर्भा. दिसृष्टिपरंपराख्यादधःप्रमृततिर्यगादिशाखम, वायुमार्गेण प्रा. णापानादिवायुमार्गेण, सर्वगं सर्वव्याप्तं सत् जगदुपादानंत. या तिष्ठतीत्यर्थः ॥ ब्रमोपासनस्थानतया इतरनाड्याधिक्यमाह- -- द्विसप्ततिसहस्राणि नाज्यः स्युर्वायुगोचरा।। कर्ममार्गेण सुषिरा. स्तियश्चः सुषिरात्मकाः ॥ १९ ॥ अधश्चोर्ध्वगतास्तासु नव द्वाराणि शोधयन् । वायुना सह जीवोवं. ज्ञानी मोक्षमवाप्नुयात् ॥ २० ॥ वायुगोधरा: वायुमंचागनुकूला: नाड्यः सिरा: द्विस. प्रतिमहाणि द्वयाधिकसप्ततिसहस्राणि कर्ममार्गेण सुषिराः
५४
उत्तरगीतायां
पुनरावृत्तिप्रापकसुषिरवत्यः । अत एव तिर्यश्च तिर्यग्भूताः
सुषिरात्मकाः रम्ध्रप्रधानाः अधश्चोर्ध्वगताः अधोभागमू.
वभाग च गताः सर्वत्र याताः; तासु नाडीषु मध्ये सुषु.
मानाड्या नव द्वाराणि शोधयन् प्राणायामेन मुखादिसर्व.
द्वाराणि शोधयन् ; जीव: वायुना सह सुषुम्नामार्गगतवायु.
ना सह अर्श्वशानी ब्रह्मापरोक्षज्ञानी सन् मोक्षमवाप्नुयात्
ब्रह्मैक्यं प्राप्नुयादित्यर्थः । 'तयोलमायनमृतत्व मेति' इत्या.
दिश्रुतेरिति भावः ॥
तस्या: कुण्डलिन्या: सकल जगदाधारकत्वेन च उपासना
कर्तुमस्यामेव सर्वाणीन्द्रादिपुराणि कल्पयति-
अमरावतीन्द्रलोको.
ऽस्मिन्नासाग्रे पूर्वतो दिशि ।
अग्निलोको हृदि ज्ञेयः
चक्षुस्तेजोवती पुरी ।। २१ ॥
अस्मिन्नाडीविशेषे पूर्वतो दिशि पूर्वस्यां दिशि नासाने
नासिकाप्रभागे भमरावती अमराव याख्यः इन्द्रलोकः इन्द्रा.
दिदेवावासभूतो लोकः वर्तत इति शेषः । तथा अनन्तरं
चक्षुः दक्षिणं मे तेजोवती तेजोवती नाम पुरीति प्रसिद्ध
--
द्वितीयोऽध्यायः । हदि हदये अग्निलोकः अग्न्यादिदेवावासभूतो लोक: शेयः वर्तत इति शेषः ॥ याम्या संयमनी प्रोत्रे यमलोकः प्रतिष्ठितः।। नैीतो यथ तत्पाचे नैतो लोक आश्रितः ॥ २२ ॥ श्रोत्रे दक्षिणे कर्णे याम्या यमसंबन्धिनी संयमिन्याख्यो यमलोकः यमादिदेववास भूतो लोकः प्रतिष्ठित: अती. त्यर्थः । अथ तत्पार्श्वे दक्षिणकर्णभागे नैर्ऋतः निति. संबन्धो नैर्ऋत्याख्यो लोकः आश्रितः अस्तीत्यर्थः ।। किंव-- विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी। वायोगन्धवती कर्णः पाचे लोक प्रतिष्ठितः ॥ २३ ॥ प्रतीच्या पश्चिमदिशि पृष्ठे पश्रिमभागे विभावरीसंज्ञका बारुणिका पुरी वरुणसंबन्धिनी पुरी वर्तत इति शेष:
उत्तरगीतायां कर्णपाचे वामकर्णसमीपे गन्धवती गन्धवतीपुर्याख्या वायो. लोकः प्रतिष्ठितः अस्तीत्यर्थः । किंच-- सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः । वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥ २४ ॥ सौम्ये उत्तरदिशि कण्ठतः कण्ठदेशादारभ्य वामकर्णे बामप्रोत्रे सौम्या कुबेरसंबन्धिनी पुष्पवती पुष्पवयाख्या मोमलोक: एवं देहमाश्रित्य तिष्ठतीति विज्ञेयः ।। किंष- वामे चक्षुषि पेशानी शिवलोको मनोन्ममी। मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रमाण्डं देहमाश्रितम् ॥ २५ ॥ वामे चक्षुषि वामनेत्रे ऐशानी ईशानसंबन्धिमी मनो- म्मनी मनोमनीपुर्याख्यः शिवलोकः शिवावास भूतो लोक:
द्वितीयोऽध्यायः । शेयः; मूर्ध्नि शिरसि ब्रह्मपुरी ब्रह्मलोक: शेयः ; एवं ब्रह्मा ण्डं सर्वजगजातं देहमाश्रितं देह एव वर्तत इत्यर्थः ।। देहे एव लोकादिकल्पनामाह-. -- पादाद्धः शिवोऽनन्तः कालाग्निप्रलयात्मकः । अनामयमधश्चोक मध्यमं तु बहिः शिवम् ॥ २६ ॥ पादादधः पादाध:प्रदेशे अनन्त: महाशेषः वर्तते, सतु कीदृशः! शिव: रुद्रात्मक:; पुनः कीदृशः ! कालामिप्रलया. स्मकः प्रलयकालाग्यात्मक इत्यर्थः ; 'त्रिलोक्यां दलमानायां संकर्षणमुखानिना' इति स्मृतेरिति भावः । तदधः किमि त्याशयाह--अधश्चोर्धमिति अधोदेशे ऊर्ध्वदेशे मध्यदेशे बहिर्देशे च सर्वत्र अनामयं निरखनं शिवं मझलात्मक ब्रह्मैव वर्तत इत्यर्थः ।। शेषोपरि अतलादिलोक कल्पनामाह-- अधः पदोऽतलं विद्या. स्पादं च विललं विदुः।
उत्तरगीतायां
नितलं पादसंधिश्व
सुतलं जघमुच्यते ॥ २७ ॥
महातलं तु जानु स्या-
दूरुदेशो रसातलम् ।
कटिस्तालतलं प्रोक्तं
सप्त पातालसंज्ञया ॥ २८ ॥
पदः पादस्याघोदेशे अतललोकं विद्यात् ; पादं तु वितलं
लोकमिति विदुः योगिन इति शेषः ; पादपाँध तु गुल्फ.
स्थानं नितलं विद्यात् ; जई सुतलमित्युच्यते; जानुदेशः
महातलं स्यात् ; ऊरदेश: रसातलं विद्यात् ; कटिदेशः तला.
तलं प्रोक्तम; एवं देहावयवाः सप्त पातालादिलोकसंशया
कल्पनीया इत्यर्थः ॥
कालाग्निनरकं घोरं
महापातालसंज्ञया।
पातालं नाभ्यधोभागो
भोगीन्द्रफणिमण्डलम् ॥ २९ ॥
द्वितीयोऽध्यायः ।
.
वेष्टितः सर्वतोऽनन्तः
स विभ्रज्जीवसंज्ञकः।
घोरं भयंकरं कालाग्निनरकं कालानिदेशवत् कालाग्न्या-
काराममनरकदेशवत् भोगीन्द्र फणिमण्डलं भोगीन्द्राः सर्प.
राजानः फणय: इतरे सर्पाः तेषां मण्डलं समूहवत् यत् पा.
तालम् , तत् नाभ्यधोभागे नाभ्यधःप्रदेशे महापातालसंज्ञया
अभिहितमिति विद्यात; स जीवसंझक: जीवसंज्ञावान् शेषः
सर्वत: सर्व वेष्टितः सन् विभ्रन्सन स्थितः कृण्डलाकारणा.
वृत्य वर्तत इत्यर्थः ॥
भूलोकं नाभिदेशं तु
भुवोकं तु कुक्षितः ॥ ३०॥
हृदयं स्वर्गलोकंतु
सूर्यादिग्रहतारकाः।
हृदयं स्वर्गलोकं विद्यात , तत्र सूर्यादिप्रहाः नक्षत्राणि च
तिष्ठन्तीत्यर्थः । शेषं स्पष्टम् ॥
r
-
सूर्यसोमसुनक्षत्रं
बुधशुक्रकुजाङ्गिराः ॥ ३१ ॥
उत्तरगीतायां मन्दश्च सप्तमो यष ध्रुवोऽन्तः स्वर्गलोकतः। सूर्य सोमेयादि सूर्यादिग्रहनक्षत्रमित्यस्य व्याख्यानम् । ध्रुवोऽन्तः स्वर्गलोकतः स्वर्गलोक शन्ते ध्रुवो वर्तत इत्यर्थः ।। एवं कल्पनाफलमाह हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥ ३२ ॥ योगी हृदये एत्र सूर्यादिप्रइन अनादीनि कल्पयन तस्मिन हदि कल्पनाविशेषेण सर्वसुखं लभेत; तत्तल्लोकगत सुखानि प्राप्नोतीत्यर्थः ॥ किंच-- हृदयस्य महर्लोक जनोलोकं तु कण्ठता। नपोलोकं ध्रुवोर्मध्ये मूर्धि सत्य प्रतिष्ठितम् ॥ ३३ ॥ दृश्यस्योपरीति शेषः । स्पष्टमन्यत् ॥
द्वितीयोऽध्यायः । ६१ एवं देहे एव सर्वलोककल्पनामुक्त्वा तल्लयप्रकारमाह-- -- ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते । अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥ ३४ ॥ आकाशं तु पिबेद्वायु मनश्चाकाशमेव च। बुद्धयहंकारचित्तं च क्षेत्रज्ञः परमात्मनि ॥ ३५ ॥ अत्र तामसाहंकारकार्याणां पृथिव्यादीनां सात्त्विकाहंका. रकायें मनसि क्रमेण लयकथनं मनोवृत्तिविषयत्वाधीनव्यव. हारगोचरत्वादुपचारात् इति मन्तव्यम् । तच मनो बुद्धौ बुद्धिरहंकारे अहंकारं चित्ते चित्तं क्षेत्रने क्षेत्रमः परमात्मनि एवं सर्वात्मनि प्रविलापयेदित्यर्थः ।। एवं योगाभ्यासेन प्रीक्यानुसंधानवतः मकसदुरितानि. वृत्तिरित्याह- - U.5
६२
उत्तरगीताया
अहं ब्रह्मोति मां ध्याये.
देकाग्रमनसा सकृत् ।
सर्व तरति पाप्मानं
कल्पकोटिशतैः कृतम् ॥ ३६ ॥
स्पष्टोऽर्थः ।।
जीवस्य मुक्तिस्वरूपमाह--
घटसंवृतमाकाशं
नीयमाने घटे यथा।
घटो नश्यति नाकाशं
तबज्जीव इहात्मनि ॥ ३७॥
घटे नीयमाने पूर्वदेशादायदेशं प्राप्यमाने घटे नष्टे ।
यथा घटाका महाकाशे ऐक्यं प्राप्नोति, तहजीव: परमा.
मनीत्यर्थः ।
घटाकाशमिवात्मानं
विलयं वेत्ति तत्वतः।
स गच्छति निरालम्ब
सानालोक्यं न संशयः ॥ ३८ ॥
द्वितीयोऽध्यायः ।
६३
यः आत्मानं जीवं घटाकाशमिव परमात्मनि लयं गतं
स्वत: यथार्थतया वेत्ति, स: बानी निरालम्ब नि:संग
ज्ञानालोक्यं ब्रह्मप्रकाशात्मतत्त्वं गच्छति प्राप्नोति, न संशयः
संदेहो नास्तीत्यर्थः ।
--
एवस्व ज्ञानयोगस्य किमपि न तुल्यमित्याह--
तपेवर्षसहस्राणि
एकपादस्थितो नरः।
एकस्य ध्यानयोगस्य
कलां नार्हन्ति षोडशीम् ॥ ३९ ॥
आलोज्य चतुरो वेदा.
धर्मशास्त्राणि सर्वदा।
यो वै ब्रह्म न जानाति
दी पाकरसं यथा ॥ ४० ॥
यथा खरश्चन्दनमारवाही
सारस्य वाही न तु चन्दनस्य ।
एवं हि शास्राणि बहून्यधीस्य
सारं स्वजानन्खरषदमः ॥ ४१ ॥
६४ उत्तरगीतायां चमनभारवाही श्रीचन्दनकाष्ठभारवाही खरः चन्दन- मारवाही न भवति तद्न्धानुभववान भवति, एवं बहूनि शास्त्राण्यधीत्यापि सारं तु अजानन् ब्रह्म न जानन खरवत् शोच्यः आक्रोश्य इत्यर्थः ॥ प्रमझानपर्यन्तं सर्वमनुष्टयम् , ज्ञाते तु सर्व व्यर्थमित्याह- अनन्तकर्म शौचं च जपो यज्ञस्तथैव च तीर्थयात्रादिगमन यावत्तत्त्वं न विन्दति ॥ ४२ ॥ देहे भिजेऽध्यात्मैक्यं दृष्टान्तेनाह-- गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् । क्षीरवदृश्यते ज्ञान देहिनां च गवां यथा ॥ ४३ ॥ अनेकवर्णानां शुहादिभिन्न भिन्नवर्णानां गवां क्षीरं यथा एकवर्णम् , मीमांसकमते गुणव्यक्तरेकत्वादिति भावः; तथा भिनभिनानां देहिनां शान प्रा एकं दृश्यत इत्यर्थः ।।
द्वितीयोऽध्यायः । ६५ अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । दे पदे बन्धमोक्षाय न ममेति ममेति च ॥४४॥ ममेति बध्यते जन्तुः ने ममेति विमुच्यते ॥ -- ममेति ममताविषयत्वेन स्वीकृतं सर्व बन्धाय भवति । न ममेति ममत्वं विहाय त्यक्तं मोक्षायैवेत्यर्थः । स्पष्टम. न्यत्॥ अहंकारत्यागकार्यमाह - मनसो ह्युन्मनीसावा. द्वैतं नैवोपलभ्यते । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ।। १५ ।। मनम: चित्तस्य उन्मनीभावात् महकारत्यागात् द्वैतं नैवो. पलभ्यते, अहंकारोपाधिकत्वावस्येति भावः । तथा च यदा उन्मनीभावं मनो याति निकृष्टाहंकारपैतन्यं भवति, तदा तदेव परमं पदं मोक्ष इत्यभिधीयते ।।
उत्तरगीतायां
तदुक्तम् ‘भाकोड्य सर्वशास्त्राणि' इत्यादि । उकंप हरि.
शे- 'मसत्कीर्तनकान्तारपरिवर्तनपांसुमिः । वाचं हरि.
कथालापगङ्गायैव पुनीमहे' इति । तत्र दृष्टान्तमाह-हंस्रो
बथा अम्बुमित्वेऽपि भम्बंशं विहाय धीरमेयोपादसे तद.
दिति भावः ।।
तस्मात्पाण्डित्यं निर्विवेत्यादिश्रुत्या पाण्डित्यप्रकटनस्य
ब्रह्मोपासनाप्रतिबन्धकत्वेन सर्वमपि पाण्डित्यं हेयमित्याह-
पुराणं भारतं वेद-
शास्त्राणि विविधानि च ।
पुत्रदारादिसंसारो
योगाभ्यासस्य विन कृत् ॥ २ ॥
योगाभ्यासस्य भात्मैक्ययोगाभ्यासस्य । शेषं स्पष्टम् ॥
किं च भात्मविचारमन्तरेण इतरक्षास्त्राणि न विचारयि.
तव्यानीयाह--
इदं ज्ञानमिदं ज्ञेयं
यः सर्व ज्ञातुमिच्छति।
अपि वर्षसहस्रायुः
शास्त्रान्तं नाधिगच्छति ॥ ३ ॥
तृतीयोऽध्यायः।
सहस्रवर्षपरिमितायुष्मानपि एकैकस्य शास्त्रस्य अन्त
पार भावनिश्चयं वा नाधिगच्छति ; किमुत वक्तव्यम् म.
वाणि शास्त्राणि नाधिगच्छतीति भावः ॥३॥
सहि सर्वमपि विहाय अधिगन्तव्यं वा किमित्याश.
घाह-
विज्ञेयोऽक्षरतन्मात्रं
जीवितं चापि चशलम् ।
विहाय शास्त्रजालानि
यत्सत्यं तदुपास्यताम् ॥ ४ ॥
भक्षरतन्मात्रं नाशरहितमत्तामात्रात्मक भात्मा विज्ञेयः ।
तत्र च वैराग्याथै जीवितमपि चचलमिति विज्ञेयम् , 'चर.
मश्वासवेलायां यत्कृत्यं तत्सना करु' इति न्यायात् । तस्मा-
च्छाखजालानि विहाय यत्सयं तदेवोपास्यतामिति ॥
इन्द्रियजये वैराग्यं स्वत एव जायत इत्याह
-
पृथिव्यां यानि चूतानि
जिह्वोपस्थानिमित्तकम् ।
जिह्वोपस्थपरित्यागे
पृथिव्यां किं प्रयोजनम् ॥ ५ ॥
उत्तरगीतायां
.
जिहोपस्थनिमित्तकम् आहारव्यवायनिमित्तं सत् पृथिव्यां
यानि भूतानि सन्ति, प्रायश: तत्परित्यागी चेत्, पृथिव्यां
कि प्रयोजनम् , किमपि प्रयोजन नास्तीत्यर्थः, 'जितं सर्व
जिसे रसे' इति न्यायात् ॥
एवमात्मसमाधिनिष्ठस्य सर्व ब्रह्मदर्शनमेव, नान्यदर्शन.
मित्याह--
तीर्थानि तोयपूर्णानि
देवान्पाषाणमृन्मयान् ।
योगिनो न प्रपद्यन्ते
आत्मध्यानपरायणाः॥६॥
तीर्थस्नानादिना देवतापूजारिना च अध्यात्मसमाधौ मिटे
पुनस्तेन किं प्रयोजनमिति भाव: । स्पष्टमन्यत् ।।
योगिनः सर्वत्र प्रदर्शन मेत्येतत् अधिकारिभेदेनोप-
पादयति-
अग्निर्देवो द्विजातीनां
मुनीनां हृदि दैनतम् ।
प्रतिमा स्वल्पबुद्धीनां
सर्वत्र समदशिंगाम् ॥७॥
दृतीयोऽध्यायः । द्विजातीनां कर्मकाण्डरतानाम् अनिदैवतम् , मुनीनां मननशीलानां योगिनां हृदि हुकमसमध्यस्थिवा परिच्छिन्न. मातवैतम् , स्वल्पबुद्धीनां प्राकृताना तु मृत्पाषाणादिप्रति- मैव देवतम् , समदर्शिनां तु मारूढानां सर्वत्र पर्व खस्विदं ब्रम' इति श्रुत्या सर्वमपि देवतमेवेत्यर्थः ।। नस्मात् ज्ञानेनैव सातव्यम , झानाभावे ब्रह्म न पश्यती. त्याह..- - सर्वत्रावस्थितं शान्तं न प्रपश्येजनार्दनम् । ज्ञानचक्षुर्षिहीनत्वा- दन्धः सूर्यमिवोदितम् ॥ ८॥ सर्वत्रावस्थित सर्वत्र परिपूर्णमपि अज्ञ: न पश्यति ; तत्र हेतुः शानचक्षुर्विहीनत्वात् झानाख्यचक्षुरहितत्वात् , तत्र दृष्टान्तमाह-- अन्ध इति । स्पष्टमन्यत् ॥ सर्व ब्रह्मत्येतदुपपादयति- यत्र यत्र मनो याति तत्र तत्र परं यदम् ।
उत्तरगीतायां वाणं मोधसुखात्मकं परमम् उस्कृष्टं विष्णुं व्यापकम् भव्य. यम् नाशरहितम् सर्वतोज्योतिराकाशं पर्वत: स्वयंप्रकाशं सर्वभूताधिवासिनं सर्वान्तर्नियामकं परमात्मानं बगाकारं हंसात्मकं विचिन्तयेत् ध्यायेदित्यर्थः ।। एवं चिन्तयत: पापलेशोऽपि नास्तीत्याह-- -- अहं ब्रह्मेति यः सर्व विजानाति नरः सदा। हन्यात्स्वयमिमान्कामा- न्सर्वाशी सर्वविक्रयी ॥ १३ ॥ सर्व निषिद्धं कृत्वापि कर्मभिन स बध्यते इति, यः पदा पवै प्रति विजानाति, सर्वाश्यपि सर्वनिषिद्धभत्यपि सर्वविक्रयी मनिषिद्धविक्रय्यपि इमान् कामान् अरिषड़. गान् हन्यात् जयेत् , मनिषिद्धकर्म कृत्वापि निषितक- मंमिन बध्यते ॥ . भणमात्र का प्राध्यानरतस्प नान्यसुखाषिन्तेत्याह- निमिषं निमिषा वा शीताशीतनिवारणम् ।
तृतीयोऽध्यायः । अचला केशवे भक्ति. विभवैः किं प्रयोजनम् ॥ १४ ॥ शीताशीतनिवारणं यथ तथा शीतोष्णसुखदुःखादि- द्वन्द्वसहिष्णुतया निमिषं निमिषार्ध वा केशवे भक्तिर. चला चेत् , विमवैः भक्त्यतिरिक्तविषयसुखैः किं प्रयोजन. मिति ॥ एतारशो योगी यदि मोक्षमपेक्षेत, तर्हि नान्यविषयचि. तां कुर्यादित्याह- भिक्षानं देहरक्षार्थ वस्त्रं शीतनिवारणम् । अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥ १५ !! समानं चिन्तययोगी यदि चिन्त्यमपेक्षते: योगी चिन्त्यं मोक्षं यदि अपेक्षेत, तर्हि देहरक्षणार्थमेव भिवास चिन्तयेत् , न विन्द्रियप्रीत्यर्थमित्यर्थः ; वनं च शा. सनिवारणार्थ चिन्तयेत् , न अलंकाराय ; अवमानं पाषाणं उत्तरगीताया हिरण्यं सुवर्ण च शाकं भागनं च योपादेयवैषम्यरा । हित्येन चिन्तयेदिस्यर्थः ॥ किं च- - भूतवस्तुन्यशोचिस्वे पुनर्जन्म नाते ॥ १६ ॥ भूतवस्तुनि गतवस्तुनि मोचि चे गतमिति दुःखराहि. त्ये मिळे, उपलक्षणमेत , आगामिवस्तुनिरपेवत्वे सिद्धे, वर्तमानवस्तुनि लब्धे हर्षराहित्ये सिद्धे च पुनर्जन्म न विद्यते । आत्मयोगमवोचो योगशिरोमणिम् । तं वन्दे परमानन्दं नालन्द्रनीश्वरम् ॥ इति श्रीगौडपादाचार्यविरचितायाम् उत्तरगीताव्याख्यायाम तृतीयोऽध्यायः॥
No text on this page.
KRISHNA MISSION INSTITUTE
OF
LIBRARY
RAMA
CULTURE
SHI
CALCUTTA
No text on this page.
RISHNA MISSION INSTITUT
IV. CALCUTTA
Op
LIBRARY
HI
No text on this page.