Sanmati Library, Jaipur

Tarkasangrh Nyaybobhinee Padkartyshit

Ambikaprasad Sharma · 2009/09

PDF Proofread

Front matter

No text on this page.

Show तर्कसंग्रहः न्यायवोधिनी पदकृत्यसहितः । MPxK46 व्याकरणाचार्येण- सम्यिक्षरमवाद शर्मणा संशोधित - प्रकाशक- मैनेजर-भार्गव पुस्तकालय, चौक, बनारस मिठी। केवल भावरण पृष्ट- मिज . प्रेस, त्रिलोचन-काशी में कर प्रकाशित किया। -

No text on this page.

।।ॐ॥ तर्कसंग्रहः न्याय बोधिनी पदकृत्य सहितः व्याकरणा चार्येण--- अम्बिकाप्रसाद शम्माः संशोधित प्रकाशक- . मैनेजर भार्गव पुस्तकालय चौक बनारस सिटी I मुद्रक- बाबू सूर्यनारायणजी, जगन्नाथ प्रिंटिङ्गवाल, राजघाट-काशी। प्रथथमावृत्ति २००० चन् १८२३ ई०। [

No text on this page.

श्रीगणेशाय नमः। तर्कसंग्रहः some निधाय हृदि विश्वशं विधाय गुरुवन्दनम् बालानां सुखबोधाय क्रियते तर्कसंग्रहः ।। न्यायवोधिनी। निखिलागमसञ्चारि (१) श्रीकृष्णाख्यं परंमहः । ध्यात्वा गोवर्द्धनसुधीस्तनुतेन्यायबोधिनीम् ॥श! चिकीर्पितस्य (२) ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमि- टदेवतानमस्कारात्मकं मगरलं शिष्यशिक्षार्थ ग्रन्थतो निव- नाति (३)-निधायेति ।। १ आगमसञ्चारित्वं नाम आगमप्रतिपाद्यत्वम् प्रतिपा. घतासम्बन्धेनागमेपु विद्यमानत्यम् वा ॥ २ कर्तुमिच्छा चिकीर्षा तद्विषयीभूतस्य ग्रन्थस्येत्यर्थः ।। ३ प्रतिपाद्यतावच्छेदककोटिप्रवेशानुकूलो व्यापारो निपू. बैंकबन्धधातोरथः।। ४ अन्यत इति सप्तम्यन्तात्तसिः शन्थे इत्यर्थः॥

तर्कसंग्रहः । पदकृत्यम्। श्रीगणेशं नमस्कृत्य पार्वतीशङ्करं परम् । मया चन्द्रजसिंहेन क्रियते पदकृत्यकम् ॥ १॥ विश्वेशं जगत्कर्तारं श्रीसाम्बमूर्ति हृदि मनसि निधाय नितरां धारयित्वा गुरुवन्दनंच विधाय कृत्वा-इत्यर्थः ।। चालेति ॥अबाधीतध्याकरणकाव्यकोशोऽनधीतन्यायशास्त्रो वालः | व्यासादावतिव्याप्तिवारणाय-'अनधीतन्याया इति । स्तनधयेऽतिप्रसक्तिवारणाय-'अधीतव्याकरण इति । “यस्मादिदमहं मन्ये वालानामुपकारकम् । तस्माद्धितकरं वाक्यं प्रवक्तव्यं सता सदा ॥ मुखेति ।। सुखेनानायासेन (१) बोधाय 'पदार्थतत्वज्ञा. १ श्रोतृप्रवृत्यर्थ ग्रन्थादौ विषयप्रयोजनाधिकारिसम्बन्ध- रुपान् चतुरोऽनुपन्धान प्रदर्शयन मूलं विवरणयति पदार्धत: त्वज्ञानायेति । तथा च पदार्थतत्त्वज्ञानमेव ग्रयोजनं सूचितम् ॥ द्रव्यादिसप्तपदार्थाश्च विषयाः ॥ पदार्थतत्त्वावधारणामीपपुर धिकारी सम्बन्धश्च विषयमन्थयोः प्रतिपाद्यप्रतिपादकभाषः॥ अनुषन्धत्वञ्च प्रवृत्तिप्रयोजकज्ञानविषयत्वम् ॥ परमस्य शस्त्र- स्थ मोक्ष एवं प्रयोजनम् सचात्यन्तकीदुःखनिवृत्तिः ॥ दुःखानि , पडिन्द्रियाणि ॥ षडविषयाः षड्बद्धयः शरीरं सुखं दुःस्व- ज्वेत्येकविंशतिसंख्याकानि । एतेषां निवृत्तिकमश्वेत्थम् शास्त्रे ण तत्त्वज्ञानं भवति तेन च मिथ्याशानस्य नाशः ॥ ततोरागढ़े न्यायवोधिनीपदकत्यसहितः । नाया इत्यर्थः ॥ तय॑न्ते प्रमितिविषयोक्रिन्त इति ताः द्रव्यादिसप्त पदार्थाः, तेषां संग्रहःसंतेपेणोदेशलवणपरीक्षा यस्मिन् स ग्रन्धः । नाममात्रेण वस्तुसङ्कीर्तनम् उद्देशः । यथा 'द्रव्यगणइति ॥ असाधारणधर्मो (१) लक्ष- णम्। यथा-गन्धवत्वं पृथिव्याः । लक्षितस्य लक्षणं सम्भवति न वा' इति विचारः परीक्षा || 'अोदेशस्य पक्ष- बानं फलम् लक्षणस्य इनरभेदशानम् ॥ परीक्षाया लक्षण- दोपपरिहाररा-इति मन्तव्यम् । पदार्थाः कति, कानिच तेषां नामानि द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तेव पदार्थाः । (न्याय ) श्रय पदार्थान् विभजते (२)-'द्रव्यः इति अत्र सप्तग्रहणं 'पदार्थत्वं द्रव्याधन्यतमत्वव्याप्यम्। (३) इति च्याप्तिलाभाय ॥ ननु "शक्तिपदार्थस्याष्टमस्य विद्य- मानत्वात् कर्य 'सप्तैव इति ॥ तथाहि ॥ पहिसंयुक्तन्धना- गदिदोपा नाशः ॥ ततः प्रवृत्तेरनुत्पादः ॥ ततोजन्मानु- पत्तिः ॥ ततोदुःखानुत्पाद इति ॥ १ असाधारणत्वञ्चोन्यूनानतिरिक्तवृत्तित्वम् । ३द्रव्यादिसप्तान्यतमत्वंच द्रव्यादिभेदसप्तकाभाववत्वम् । प्रत्येक व्यक्तिप्रसिद्धानां द्रव्यादिभेदानां सप्तानां कुत्राप्यत्वेन पारशमेसप्तकत्वामावस्य सव्वंत्र सत्वानदोष इति भावः 1- a ४ तर्कसंग्रहः । दौ सत्यपि मणिसंयोगे दाहो न जायते, तच्छून्ये तु जाय- ते । अतो 'मणिसमवघाने शक्तिनश्यति, मण्यभावदशायां दाहानुकूलाशक्तिरुत्पद्यते इति कल्प्यते। तस्माच्छक्तिरतिरि- तः पदार्थः" इति चेत् न मणेः प्रतिवन्धकत्वेन (४) वदभावस्य (५) कारणत्वेनैव निर्वाहे मणिसमत्रधाना समवधानाभ्यामनन्तशक्ति तध्वंसतत्मागभावकल्पनाया अन्याय्यत्वात् ।। तस्मात् 'सप्तव पदार्था इति ।। कति द्रव्याणि कानि च तानि तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकाल- दिगात्ममनांसि नवैव। (न्याय०) द्रव्याणि विभजते-'पृथिवी इति ॥ ननु "अन्धकारस्य दशमद्रव्यस्य सत्वात् कथं 'नवैव' इति । तथाहि 'नीलं तमश्वलतिः इति प्रतीतेनीलरूपाश्रयत्वेन क्रियाश्रयत्वेन च द्रव्यत्वं सिद्धम् । न च 'क्लुप्तद्रव्येष्व- न्तर्भावात्कृतो दशमद्रव्यत्वम् । इति वाच्यम् आकाशा दिपञ्चकंस्य नीरूपत्वात्तमसो नीलरूपलाद्वायोरपि नील्प- वान तेष्वन्तर्भावः तमसो निर्गन्धवान्न पृथिव्यामन्तर्भावः सम्भवति, जलतेजसोः शीतोष्णस्पर्शववान तयोरन्त- र्भावः ॥ तस्मात्तमसो दशमंद्रव्यत्वं सिद्धम्। इति चेत् न ४ प्रतिवन्धकत्वञ्च कार्यकार्यानुकूलशस्यन्यवरविघट त्वमिति ॥ ५ प्रतिवन्धलाभाय - न्यायवोधिनीपदकत्यसहितः । - तेजसोऽभावेनैवोपपत्तावतिरिक्तकल्पनायां मानाभावात् ।। न च "विनिगमनाविरहात् (१ ) तेज एवान्धकाराभाव. स्वरूपम् ॥ इति वाच्यम् तेजसोऽभावस्वरूपत्वे सर्वानु- भूतोष्णस्पर्शस्याश्रयत्ववाधात् द्रव्यान्तरकल्पने गौरवात् ।। तस्मादुष्णस्पर्शगुणाश्रयतया तेजसो द्रव्यत्वं सिद्धम् । तमसि (२) नीलरूपमतीतिस्तु भ्रान्तिरेव दीपापसरण- क्रियाया एव तत्र भानात् ।। (पदकृत्य० ) तत्रेति ॥ तत्र 'सप्तपदार्थमध्ये' इत्यर्थः॥ द्रव्याणि नवैव इत्यन्वयः ॥ एवं 'तत्र' इति पदं चतुर्विशति गुणा इत्यादिष्वप्यन्वेति ॥ द्रव्यत्वजातिमत्वं 'गुण- वत्वं समवायिकारणत्वं वा द्रव्यसामान्यलक्षणम् ॥ कति गुणाः के च त इति रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयो- गविभागपरत्वापरत्वगुरुत्ववत्वस्नेहशब्दवुद्धि- सुखदुःखेच्छादेषप्रयत्न धर्माधर्मसंस्काराश्चतुर्वि- शति गुणाः। कियन्ति फर्माणि, कानि च तानीति उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ परमपरं चेति दिविधं सामान्यम् ।। १ एकपक्षसाधिकायुक्तिर्विनिगमना

तर्कसंग्रहः ।
( पद० ) परमपरं चेति ॥ परसामान्यम् , अपरसामा-
न्यम् इत्यर्थः परत्वं चाधिकदेशत्तित्वम् ॥ अपरत्वं च
न्यूनदेशचित्वम् ।।
विशेषस्य कति भेदाइति.
नित्यदत्यवृत्तयो विशेषास्त्वनन्ता (१) एव ।।
समवायः कतिविधिः
समवायस्त्वेक (२) एव ॥
अभावस्यभेदःस्वरूपं च वकव्यम् वक्तव्यमिति प्रश्नउत्तरम्
अभावश्चतुर्विधः (३)। प्रागभावः प्रध्वंसा
भावोऽत्यन्ताभावोऽन्योन्याभावश्चेति ।।
पृथिव्याः किं लक्षणं कति च भेदाः
गन्धवती पृथ्वी। सा द्विधा-नित्यानि
त्या च । नित्या परमाणुरूपो । अनित्या का-
र्यरूपा । पुनस्त्रिविधा-शरीरेन्द्रिय विषयभेदात्।
१ विशेषत्वं नाम स्वतोव्यावृत्त्वम् । फलञ्च तस्य निर.
वयवद्रव्यभेदसिद्धिः॥
२ समवायत्वं नाम नित्यत्वेसतिसम्बन्धस्वम् ।
३ अभावत्वं नाम प्रतियोगिंशानाधीनज्ञानविषयत्वम् ।
भावस्वच समवायैकार्थसमवायान्यतरसम्बन्धन सत्तावत्वम् ।।

-- न्यावबोधिनीपदकृत्यसहितः । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहक (२) घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः ।। (न्याययो) गन्धवतीति ॥ गन्धवत्वं (३)पृथिव्या -लक्षणम् ।। लक्ष्या पृथिवी ॥ पृथिवीत्वं लक्ष्यतावच्छेद- कम् ॥ यद्धर्मावच्छिन्न लक्ष्य, स धर्मो लक्ष्यतावच्छेदकः॥ यो धर्मो यस्या अवच्छेदकः सा तद्धर्मावच्छिन्ना ।। तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं चेल्लक्ष्यता पृथिवीत्वावच्छिन्ना ।। एवं शीतस्पर्शत्वादिलक्षणेपु जलत्वादीनां लक्ष्यतावच्छेद- कत्वं बोध्यम् ॥ (पद०)तदेव हि लक्षणम् , यदव्याप्त्यतिव्याप्त्यसम्भव. रूपदोपत्रयशन्यम् ।। यथा गो:मास्नादिमत्वम्॥ अव्याप्तिश्च लक्ष्यैकदेशावृत्तित्वम् । अत एव गोर्न कपिलत्वं लक्षणम् , तस्याव्याप्तिग्रस्तत्वात् ॥ अतिव्याप्तिश्चलक्ष्यवृत्तित्वे सत्य लक्ष्यमवृत्तित्वम् । अत एव गोर्न श्रृङ्गित्वं लक्षणम् , तस्या- तिव्याप्तिग्रस्तत्वात् ॥ असम्भवश्व लक्ष्यमात्रावृत्तित्वम् ।। भत एग गोरेकशफवत्वं न लक्षणम् , तस्यासम्भवग्रस्त त्वात् ।। नित्येति ॥ ध्वंसभिन्नत्वे सति ध्वंसामतियोगित्वं नित्यत्वम् ।। ध्वंसेऽतिव्याप्तिवारणाय 'ध्वंसभिन्न इत्यादि। घटादावतिव्याप्तिवारणाय विशेष्यदलम् ।। ध्वंसमतियोगि.

तर्कसंग्रहः । त्वं (१) प्राग मावप्रतियोगित्वं वाऽनित्यत्वम् ।। (२) यद्भो गायतनं तदेव शीरम् , चेष्टाश्रयो वा ॥ इन्द्रियमिति ।। चक्षुरादावतिव्याप्तिवारणाय 'गन्धग्राहकम्। इति ॥ का. लादावतिषसक्तिवारणाय 'इन्द्रियम्। इति ।। विषय इति ॥ शरीरेन्द्रियभिन्नत्वे सत्युपभोगसाधनं विषयः शरीरा. दावतिव्याप्तिनिरासाय भिन्नान्तम् ।। परमारवादावतिमसः क्तिवारणाय विशेष्यदलम् ।। कालादिवारणाय 'जन्यत्वे सति' इत्येतदपि वोध्यम् ॥ जलस्य किं लक्षणम् कति च भेदाः शीतस्पर्शवत्य प्रापः ता दिविधा:-नित्या- अनित्याश्व । नित्याः परमाणुरूपाः अनित्याः १ ध्वंसस्य ध्वंसाभावेन ध्वसप्रतियोगित्वं वंसे नास्ति इति तस्य अनित्यत्वं न स्यादतः प्रागभावेति-प्रागभावेऽपि प्रागभावप्रतियोगित्वं नास्तीति तत्राप्यनित्यत्वं नस्यादवो ध्वंस- प्रागभावान्यतरप्रतियोगित्वमनित्यत्वमिति लक्षणम् समीचीनम् ।। २ात्मनोमोगस्थानमित्यर्थः सुखदुःखान्यतरलाक्षात्कारा- वच्छेदकमिति यावत्-सुखादिसाक्षात्कारावच्छेदकत्वं देश. कालयोरपि तत्रापिशरीरत्यव्यवहारप्रसक्तिः स्यादत प्राह चेष्टाश्रयोवेति चेष्टाहि हिताहितप्राप्तिपरिहारार्थः क्रियाविशेषः सचशरीरैकदेशे हस्तादावप्यस्यतोऽन्त्यावयवित्वेसतीत्यपि विशेषणं देयम् अन्त्यावयविश्वञ्च द्रव्यान्तरानारम्भक द्रव्य. स्वमित्यर्थः॥

न्यायवोधिनीपदत्यसहितः । ... १ कार्यरूपाःपुनस्त्रिविधाःशरीरन्द्रियविषयभेदात् शरीरं वरुणलोके । इन्द्रियं रसग्राहक रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ।। (पद०) शीतेति तेजादावतिव्याप्तिवारणाय' 'शीता इति । याकांक्षा ( १) वारणाय स्पर्श इति ॥ कालादावति (२) मसक्तिवारणाय 'समवायसम्बन्धेन' इति पदं देयम् ॥ इन्द्रियमिति ।। त्वगादावतिव्याप्तिवारणाय 'रसग्राहकम्। इतिरसनेन्द्रियम् ।। रससन्निकर्षादावति ( ३) व्याप्तिनिरा. साय 'इन्द्रियम्। इति ॥ सरिदिति श्रादिना तडागहिम करकादीनां (४) संग्रहः ।। तेजसः कि लक्षणं केच भेदाः उष्णस्पर्शवत्तेजः । तद्विविधम्-नित्यमनि- त्यञ्च । नित्यम्परमाणुरूपम् । अनित्य कार्य- रूपम् । पुनस्त्रिविधम्-शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रिय रूपग्राहकं चक्षुः (१) किंशीतं यहत्या शाप इत्याकांक्षायाम् ॥ (२) श्रादिपदेन विपरिग्रहः ॥ दंशिकविशेषणतया देशे कालिकविशेषणतया काले जन्यपदार्थानां वृत्तित्वनियमा दिति भावः॥

१. तर्कसंग्रहः । कृष्णताराप्रवति । विषयश्चतुर्विधः-भौमदिव्यो- दर्याकरजभेदात् । भोमं वन्द्यादिकम् । अ- बिन्धनं (१) दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुसंदर्यम् । आकरजं सुवर्णादि ॥ (पदकृ०) उष्णेति || जलादावतिव्याप्तिवारणाय 'उष्णा इति ॥ कालादावतिव्याप्तिवारणाय 'समवायसम्बन्धना इति पदं देयम् । इन्द्रियमिति ।। घाणादावतिव्याप्तिवार गाय 'रूपग्राहकम् इति ।। काला (२) दावतिच्याप्ति, निरासाय 'इन्द्रियम्। इति ॥ 'भेदात्' इतिपदं प्रत्येक, मभिसम्बन्ध्यते (३) भौममिति ॥ श्रादिपदेन खद्योतगते तेजः प्रभृतिपरिग्रहः ॥ विद्युदिति ॥ श्रादिना रविच न्द्रादि परिग्रहः ॥ भुक्तति ॥ भुक्तस्यानादेःपरिणामो जीर्णता वस्य हेतुरुदर्यम्, इत्यर्थः । सुवर्णेति ।। आदिना रजतादेः परिग्रहः ॥ . १ आप इन्धनम् प्रकाशकं यस्य तदपिन्धनम् २ कालादीनां जन्यवस्तुमात्र प्रति कारणत्वे रूपादिग्राह कत्वमप्य स्तीति तत्रातिव्याप्तिः स्यादेवात इन्द्रियमिति । ३ द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इति निय. मादिति भावः ।

न्यायबोधिनीपदकृत्यसहितः । १२ पायोः किं लक्षणं केच भेदाः । रूपरहितस्पर्शवान वायुः । स द्विविधः नि- त्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः। पुनस्त्रिविधः-शरीरेन्द्रियविषयभेदा, त् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक सर्वशरीवृत्ति | विषयो बृक्षादिकम्पनहेतुः शरी रान्तः सञ्चारी वायुः प्राणः । स चैकोऽप्युपाधि, भेदात्माणापानादिसंज्ञां लभते .( न्यायबो) एवं पृथिव्यादित्रिकं निरूप्य वायु निरूप यति--रूपरहितेति ॥ रूपरहिवत्वे सति स्पर्शवत्वं वायोर्लक्षणम् । सतिसप्तम्या विशिष्टार्थतया रूपरहितत्व विशिष्टस्पर्शवत्वं वायोर्लक्षणम् ॥ विशेषणोनुपादाने स्पर्श वत्वमात्रस्य लक्षणत्वे पृथिव्यादित्रिकेऽतिव्याप्तिः तत्रापि 'स्पर्शवत्वस्य सत्वादत उक्तं रूपरहितेति ॥ विशेष्यानुपादाने आकाशादिपञ्चकेऽतिव्याप्तिः, तत्रापिरूपरहितत्वस्य सत्वात् अतउक्तं स्पर्श इति ॥ अतिव्याप्तिर्नाम अलच्ये लक्षण - सत्वम् ।। यथा गोः श्रृङ्गित्वं लक्षणं कृतं चेत् लक्ष्यभूतगो- भिन्नमहिष्यादावतिव्याप्तिः तत्रापि शृङ्गित्वस्य विद्यमानत्वा- त् ॥ अव्याप्तिर्नाम लक्ष्यैकदेशावृत्तित्वम् ॥ यथा गोर्नील- १२ तर्कशंग्रहः । रूपवत्वं लक्ष्णं कृतं चेत् ॥ लक्ष्यतावच्छेदकाश्रयभूते . श्वेतगवि (वे) नीलरूपत्वस्याभावात् अव्याप्तिः अ- सम्भवो नाम लक्ष्यमात्र कुत्रापि लक्षणासत्वम् ।। यथा- गोरेकशफत्वम् गोसामान्ये द्विशफत्वेन एकशफत्वाभावात् ।। अतिव्याप्त्यव्याप्त्यसम्भवानां (मत्येकम्) निप्कृष्टलक्षणं च लक्ष्यता (१) वच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छे. दकावच्छिन्नमतियोगितासभेदसामानाधिकरण्यम्। अति. च्याप्तिः ॥ अव्याप्तिस्तु (२) लक्ष्यतावच्छेदकसमानाधि करणात्यन्ताभावपतियोगित्वम् ।।असम्भवस्तु (३) 'लक्ष्य' तावच्छेदकव्यापकीभूनाभावप्रतियोगित्वम् । इति ।। ( पदकृ० ) रूपेति ॥ घटादिवारणय विशेषणम् ॥ आकाशादिवारणाय विशेष्यम् । इन्द्रियमिति ॥ चतुरादि- वारणाय 'स्पर्शग्राहकम्। इति ॥ कालादिवारणाय 'इन्द्रि यम् इति ॥ वृक्षति । आदिपदेन जलादीनां परिग्रहः ।। १ यथा ऋझिस्वरूपे लक्षणे लक्ष्यतावच्छेदक गोत्वसमोना-- धिकरण्यमपि गोत्वा च्छिन्नप्रतियोगिताको यो महिण्यादौ भेड- स्तरसमानाधिकरण्यमपीतिलक्षणसंगतिः ॥ २एवंनीलरूपवत्वरूपलक्षणे लक्ष्यतावच्छेदकगोत्वसमानाधि करणश्वेतगोनिष्टात्यन्ताभाव प्रतियोगित्वसत्वाल्लक्षणसंगतिः।। ३ एवं हि एकशफरवळपे लक्षणे लक्ष्यतावच्छेदकगोत्वस- मानाधिकरणात्यन्ताभाव प्रतियोगित्वमिति लक्षणसंगतिः ।

न्यायघोधिनीपदकृत्यसहितः । -- शरीरति ॥ महावायुवारणाय विशेपणम् मनादि वारणाय विशेष्यम् । धनञ्जय (१) वारणाय संचारी इति ॥ उपाधीति मुखनासिकाभ्यां निर्गमनमवेशनात् माणः ।। जलादेरधोनयनाद् अपानः ।। भुक्तपरिणामाय जाठरानलस्य समुन्नयनात् समानः आन्नादेख्नयनाद उदानः नाडीमुखेषु वितननाव्यानः इति क्रियारूपोपाधि भेदात्तथा व्यवद्वियत इत्यर्थः ।। आकाशंस्य कि लक्षणं के च भेदाः शब्दगुण (२) कमाकाशम् । तथैकं विभुनित्यञ्च (न्याययो०)आकाशं लक्षयति (३)शब्दगुणकम्, इति ।। अत्रगुणपदं शाकाशे शब्द एव विशेषगुणः इति द्योत नाय । न त्वतिव्याप्तिवारणाय, समवायेन शब्दवत्त्वमा. त्रस्य लक्षणत्वात् ।। तदुक्तम्- • "रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः । वुद्ध्यादि भावनान्ताश्च शब्दो वैशेषि- का गुणाः" इति ॥ १धनंजयस्य सर्वशरीरख्याप्तत्वेनसञ्चरणं नास्तीतिभावः। २ भट्टमते शब्दस्य दुव्यत्वेन सन्निरासाथं गुणपदमुपात- 1 मिति चोध्यम् ॥ ३ असाधारणधर्माबोधर्मनुकूलोब्यापारोलक्षधातोरर्थः ।

तर्कसंग्रहः । ------ तच्चैकमिति ।। अनेकत्वे मानाभावादिति । विधि 'ति ।। सर्वमूर्तसंयोगित्वं विभुत्त्वम् ।। भूर्तत्वं च क्रियाश्र यत्वम् ॥ पृथिव्यप्तेजोवायुमर्नासि मूर्तानि । पृथिव्यप्तेजो- चायवाकाशपश्चकं भूतपदवाच्यम् । भूतत्वं नाम वहिगिन्द्रि-' यग्राह्यविशेषगुणवत्वम् (१)। ( पदकृ०) शब्देति ॥ शब्दो गुणो यस्य तत्तथा ।। असम्भववारणाय शब्दपदमुन्नेयम् ।। विभ्विति ।। सर्वमूर्त: द्रव्य (२) संयोगित्वं विभुत्वम् ।। कालस्य किं लक्षणं केचभेदाः- अतीतादिव्यवहारहेतुः कालः। स चैको विमुनित्यश्च ।। (न्यायवो०.) कालं लक्षयति-अतीतेति ॥ व्यवहार- हेतुत्वस्य लक्षणत्वे 'घट: इति व्यवहार (३) हेतुभूनघटा- दावतिव्याप्तिवारणाय 'अतीतादि' इति विशेषणोपादानम् ।। (पदकृ० ) अतीतेति ॥ अतीत श्रादियों व्यवहारः 'अतीत भविष्यद्वर्तमान (१) इत्यामकः, तस्यासाधारणो १वर्तमानध्वंसप्रतियोगिक्रियोपतक्षितत्वमतीतत्वम् । वर्त.. मानप्रागभावप्रतियोगिकियोपलक्षितत्वं भविष्यत्वम् ॥

न्यायवोधिनीपदकृत्यसहितः ।
हेतुः काल इत्यर्थः।। 'नन्विदं लक्षणम् आकाशेऽतिव्याप्त
व्यवहारस्य शब्दात्मकत्वात्' इति चेत् न अत्र हेरपदेन
निमित्तहेतोर्विवक्षितत्वात्। नचैवमपि कण्ठताल्चायभिघाते
ऽतिच्याप्तिरिति वाच्यम् ।। विभुत्वस्यापि (२) निवेशात् ।।
दिशोलक्षणं भेदयो च्यतामिति प्रश्ने उत्तरम्-
'प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका
नित्या विभ्वी च ॥
(न्यायवो०) दिशो लक्षणमाह-वाचीति ।। उदयाचलसं-
युक्ता दिक् माची ।। अस्ताचलसंयुक्ता दिक्मतीची । मेरोः
सन्निहिता दिग् उदीची-मेरोय॑वहिता दिग् दक्षिणा ॥
(पदकृ०) माच्येति ।। 'इयं प्राची' 'इयमबाची' इयं
मतीची' 'इयमुदीची' (३) इत्यादि व्यवहारासाधारणं
(कारणं) दिगित्यर्थः ।। 'हेतुर्दिक्' इत्युच्यमाने परमाणवा-
दावतियाप्तिः स्यात् 'तद्वारणाय, प्राच्यादिव्यवहारहेतु
इति ॥ आकाशादि (४) वारणाय, असाधारण, इत्यपि
बोध्यम् ।
१ भूतमषिष्यद्भिन्नत्वम्बर्तमानत्वम् ।
२ तथाच विभुत्वे सत्यतीतादिव्यवहारासाधारणनिमिचका-
रणव कालत्वमिति फलितोऽर्थः॥

तर्कसंग्रहः । श्रात्मनो लक्षणं भेदश्च प्रतिपादयेति प्रश्ने उत्तरम् ज्ञानाधिकरणमात्मा [१] स द्विविधः- परमात्मा २ जीवात्मा चेति तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवः ३ प्रतिशरीरं भिन्नो विभुर्नित्यश्च ।। (न्यायवो.) आत्मानं निरूपयति-ज्ञानाधिकारण- मिति ॥ अत्राधिकरणपदं समवायेन ज्ञान ( ४ ) लाभार्थम् ।। (पदकृति ) ज्ञानाधिकरणेति ॥ भूतलादिवारणाय 'ज्ञान' इति ॥कालादिवारणाय 'समवायेना इत्यपि देयम् ।। ईश्वर इति ॥ समवायसम्बन्धेन नित्यज्ञानवान् ईश्वरः ।। जीवेति ॥ सुखादिसमवायिकारणं जीवः ।। १ मुक्तावस्थायां शानोत्पादकात्ममनःसंयोगाभावेन ज्ञाना. धिकरणत्वाभावात् मूलोक्तं लक्षणव्याप्तमतो ज्ञानसमाना- धिकरणद्रव्यविभाजकोपाधिसत्व मात्मनो लक्षणं योध्यम् २ जीवत्वं च समवायेन जन्यज्ञानाधिकरणत्वम् ॥ ३ सुभादिभोगवैचित्र्यात् प्रतिशरीरं जीवभेशेऽनुमीयते इति भावः॥ ४ अन्यथा कालिकसम्बन्धेन शालेषि ज्ञानस्य सत्वेनाति. व्याप्तिः स्यादिति भावः।

न्यायवोधिनीपदकृत्यसहितः । Mome ---.-. . मनसो लक्षणमुच्यतामिति प्रश्ने 'उत्तरम् सुखाधुपलब्धिसाधनमिन्द्रियं मनः । तच्च प्र त्यात्मनियतत्वादनन्तं परमाणु (६) रूपं नित्यंच।। (न्यायवो.) मनो निरूपयति-सुखादीति ।। उपल- धिर्नाम साक्षात्कारः ॥ तथाच मुखादिसाक्षात्कारकारण से सतीन्द्रियत्वं मनसो लक्षणम् ॥ इन्द्रियत्वमात्रोक्तौ चक्षुरा दावतिव्याप्तिः, अतः पूर्वदलम् ।। विशेष्यानुपादाने आत्म- न्यतिव्याप्तिः, भात्मनो ज्ञानादिकंमति समवायिकारणत्वात् मत इन्द्रियत्वरूपविशेष्योपादानम् ।। ( पदक मुखेति ॥ आत्ममनासंयोगादि (१) वार- णाय 'इन्द्रियम्' इति ।। चक्षुरादिवारणाय 'मुख' इति ।। रूपस्य लक्षणं भेदतिय कुन वर्तत इति प्रश्ने उत्तरम् । चक्षुर्मात्रग्राह्यो गुणो रूपम् । तब शुक्ल- 'नीलपीतहरितरक्तकपिशवित्रभेदात्तसविधम् ।। पृथव्यप्तेजोवृत्ति । तत्र पृथिव्या सप्तविधम् । यभास्वरशुक्लं जले, भास्वरशुक्लं तेजसि ।। ५ मध्यमपरिमाणत्वेऽनित्यत्वापत्तिः विभुत्वे च विभूद्ध संयोगास्वीकारेणात्ममनःसंयोगरूपासमनायिकारणस्थाभावाद् शनानुपपरित प्राह परमाणुरूपमिति ।। २.

---. तर्कसंग्रहः। [ न्यायवो.] रूप लक्षयति चतुर्मात्रेति चक्षुर्मात्रग्राह्य त्ववाशिष्टगुणत्ववत्त्वं रूपस्य लक्षणम् ॥ विशेप्यमात्रांपादाने रसादावविव्याप्तिः,अतः 'चक्षुर्मात्रग्राह्य' इति विशेषणम् ।। तावन्मात्रोपादाने रूपत्वेऽतिव्याप्तिः 'यो गुणोयदिन्द्रियेण गृह्यते-तनिष्ठा जातिरपि [१] तदिन्द्रियेण गृहाते. इति नियमात् अतस्तद्वारणाय विशेप्योपादानम् ।। चक्षुर्यात्र- ग्राह्यत्वं नाम चतुर्भिन्नेन्द्रियाग्राह्यत्वे सति चक्षुाद्यत्वम् ।। मात्रपदानुपादाने संख्यादिसामान्यगुणेऽतिव्याग्निः सख्या- दावपि चक्षुधि [व] विशिष्टगुण [व] स्य सत्वात् अतस्तत्राविव्याप्तिवारणाय मात्रपदम् ।। संख्यादेश्चक्षुभिन्न- त्वग्ग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति । अतीन्द्रिय गुरुत्वादावति- व्याप्तिवारणाय चक्षुह्येति । अत्र लक्षणे ग्राह्यत्वं नाम लौकिक प्रत्यत्तविषयत्वम् ।। अग्राह्यत्वंनाम तदविषयत्वम् ।। तथा च त्वगिन्द्रियजन्यसाक्षात्काराविषयत्वे सति चक्षुर्जन्य. लौकिक (२) प्रत्यक्षविपयत्वेसतिगुणत्वं इति फलितोऽर्थः ।। ननु प्रभाघटसंयोगेरूपलक्षणस्यातिव्याप्तिः तस्य चतुर्मात्र १ अपिनाऽभावसंग्रहः॥ २सातं रूपमिति प्रत्यक्ष उपनीतभावविषये ज्ञानेऽतिव्याप्ति- वारणाय लौकिकेति तथा च ताशज्ञानप्रत्यक्षस्य चक्षुः-संयु: तमनः संयुक्तात्मसमवायरुपसन्निकर्षजन्यस्य पड्विध सनि- कांजन्यत्वान्न दोषः। .

न्यायवोधिनीपदकृत्यसहितः । १४. प्राणत्वाव' इति चेत् ।। न गुणपदस्य विशेषगुणमात्रपरत्वात् नचैवं विशेषगुणघटितलक्षणो संख्यादावतिव्याप्त्यभावन्मा:: अपदवैयर्यम्' इति वाच्यम् ।। जलमाचिसांसिद्धिकचत्वा दावतिव्याप्तिवारणाय तदुपादानात् ।। अथवा [३] चतुर्मात्र प्राबजानिमद्गुण [त्वस्य लक्षणत्वान्न प्रभाघटसंयोगादाव- तेव्याप्तिः, संयांगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात्।। घटसंयोग स्य त्वगिन्द्रियग्राह्यत्ववत्तद्रुगतजतिरपित्वगिन्द्रियग्राह्यत्वात् ।। भत्र जातिघटितलतणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्य जाति मति सुवर्णादावतिव्याप्तिः तद्वारणाय तदुपादानम् ।। एवं रसादिलक्षणे विशेषणानुपादाने लक्ष्यभिन्नगुणेऽतिव्याप्तिः विशेष्यानुपादानेलक्ष्यमात्रवृत्तिरसत्वगन्धत्वादावतिव्याप्ति अतो विशेषणविशेष्ययोरुपादानम् ।। (पदकृ०)चतुर्मात्रेति ।। रूपत्वादिवारणाय गुणपदम् ।। रसादिवारणाय 'चतुर्ग्राह्य' इति । संख्यादिवारणाय मात्र पदम् । यद्यपि प्रभाभित्तिसंयोगवारणाय गुणपदेन विशेष- गुणत्वस्य विवक्षणीयतया तत एव. संख्यादिवारणं सम्भ- पति मात्रपदं व्यर्थम्, तथापि सांसिद्धिकद्रवत्ववारणाय तदावश्यकम् ।। वस्तुतस्तु परमाणुरूपेऽव्याप्ति वारणाय चतुर्मात्रयाहाजातिमत्वस्य विवक्षणीयतया विशेषपदं न ३ एवमपि परमाणुरूपेऽव्याप्तिरत भाइ अथवेति २० तर्कसंग्रहः। देयम् । व्यणुकादि (१) वारणाय गुणपदं तु देयम् ।। सप्तेति ।। 'रूपम्। इत्यनुपज्यते ।। रसस्य लक्षणे भेदश्च प्रदर्शनीयम् इति प्रश्नस्योत्तरम् । रसनाग्राह्यों गुणो रसः। स च मधुराम्ल- लवणकटुकषायतिक्तभेदात्पड्विधः । पृथिवी- जलवृत्तिः । तत्र पृथिव्यां पड्विधः । जले मधुर J [पदक.] रसनेति ॥ रसत्वादिवारणाय ' गुण इति ॥ रूपादिवारणाय 'रसना इति ॥तति ।। पृथिवीज- लयोरित्यर्थः । षड्विध इति ॥ अत्र 'रस' इत्यनुवर्तते ॥ गन्धस्य लक्षणं भेदश्च पाच्य मितिप्रश्ने उत्तरम् । प्राणग्राह्यो गुणो गन्धः स द्विविधः-सुर- भिर सुरभिश्च पृथिवामात्रवृत्तिः ।। ( पदक० )घाणेति ॥ गन्धत्वादावतिव्याप्तिवारणाय 'गुण इति ॥ रूपादावतिव्याप्तिवारणाय 'घ्राणग्राह्य इति ।। पृथिवीति।। पृथिवीसम्बन्धसत्वे गन्धपतीतिसत्वं पृ. थिवीसम्बन्धाभावे गन्धपतीत्यभावः" इत्यन्वयव्यतिरेकाभ्या पृथिवीगन्धस्यैव प्रतीतिर्जले वोध्या ननुः 'देशान्तरस्थकस्तु- १ आदिना न्यायवोधिनीपदकत्यसहितः । - m रीकसमसम्बन्धिपवनस्यैतदेशे सत्वेपि पृथिवीसम्बन्धाभावा- द्वन्धपतीत्यनुपपचिः ॥ नच वाय्वानीतव्यणुकादिसम्बन्धो ऽस्त्येव इति वाच्यम् ।। कस्तूर्या न्यूनतापत्तेः कुसुमस्य सच्छिद्रत्वापत्तेः इति चेत् ॥न ॥ भोक्त्रदृष्टविशेषण पूर्ववत्र्यणुकान्तराद्युत्पत्तिः ॥ कर्पूरादौ तु तदभावा म तथा ॥ स्पर्श लक्षणं तभेदान सच कुत्रधर्तत इति प्रदर्शयेति खगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स त्रि. विधः-शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्ते जोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः॥ (न्यायवो०)स्पर्शलतयति-त्विगिन्द्रियेति ।। अत्रापि मात्रपदं संख्यादिसामान्यगुणादावतिव्याप्तिवारणाय ।। अन्यविशेषणकृत्यं पूर्ववद्वोध्यम् । ग्राह्य त्वपदार्थोऽपि पूर्व वदेव वोध्यः ।। (पदकृ० वगिति ॥ स्पर्शवादावतिव्याप्तिवारणाय 'गुणः" इति ॥ रूपादावतिव्याप्तिवारणाय 'त्वगिन्द्रय- इति ।। संख्यादिवारणायमात्रपदम् ।। तत्रेति ॥ पृथिव्यादिच दृष्टये ॥ शीत इति ।। शीतस्पर्शः ॥ उषणइति ॥ उष्णस्पर्शः २२ तर्कसंग्रहः । परस गन्ध स्पर्शः कुत्र पाकज कुत्र च अपाकजाः इति प्रश्ने उत्तरम् रूपादि चतुष्टयं पृथिव्यां पाकजमनित्यं चा। अन्यत्रा (१) पाकजं नित्यमनित्यं च । नित्यगतं (२) नित्यम् । अनित्य (२) गतमनित्यम् ॥ (न्यायवो०) रूपादीति ॥ एतत्तत्त्वनिणयश्चेत्यम्पाको नाम विजातीयतेजःसंयोगः ॥ स च नानाजातीयोरूपज. नको विजातीयतेजासंयोगः ।। तदपेक्षया रसजनको विजा. तीयः॥ एवं ग्रन्यजनकोऽपिविजातीयः एवं स्वर्शजनकोऽपि तथा ॥ एवं प्रकारेण भिन्नभिन्नजातीयाः पाका कार्यल- तण्येन कल्पनीयाः । तथाहि ।। वणपुजनिक्षिप्तशाम्रादा- वस्तुतस्तूवुद्धानुवुद्धभेदेन गन्धो द्विविधातत्र कुसुमादौ भूतलावयवाउभय गन्धवन्तःअतएव यन्त्रद्वारा सानिसृतनि: शेष कुसुम गन्धाभावोऽप्युपलभ्यते तथा च रजतापहारि सलि लसंयोगेन रजतपणोपरिमागस्थस् क्षमावयवापहरणवत् वेगशा. लिनावायुनापि कुसुमोपरिभागन्धसूचमावयवाअपकृप्यन्तेति नसच्छिद्रत्वादि दोषापत्ति प्यदृष्टादि क्लिष्टकल्पना इति भावः।। १ लौफिकप्रत्यक्षविषयवृत्तिरेव चतुरग्राह्यत्वन्द्रियग्राह्य गुणविभाजकोपाधिमत्व मिति फलितोऽर्थः। १ सलिलादिषिके रूपर सस्पर्शधिकमग्निसंयोगानुत्प. नमित्यर्थः॥ २ परमाणुगतम् ॥ कार्यगतम् ॥

न्याववोधिनीपदकृत्यसहितः । वृष्मलक्षणविजातीयतेजासंयोगात् पूर्वहरितरूपनाशे रूपान्त स्य पीतादेरुत्पत्तिः नतु रसादेरुत्पत्तिः । पूर्वरस्यैवाम्ल . स्यानुभवात् ॥ कचित्पूर्वहरितरूपस्य सत्वेऽपि रसपरा- निर्दश्यते, विजातीयतेजःसंयोगविपाकवशात्पूर्वतनाम्लरस- नाशेन मधुररसस्यानुभवात् ॥ तस्माद्रपजनकापेक्षया रस- जनको विलक्षण एवाङ्गीकार्यः ॥ एवं गन्धजनकोऽपि वि. लक्षण एव, रूपरसयोरपरावृत्तावपि पूर्वगन्धनाशे विजा- तीयपाकवशात्सुरभिगन्धोपलव्धेः ॥ एवं स्पर्शजनकोऽपि पोकवशात्कठिनस्पर्शनाशे मृदुस्पर्शानुभवात् ॥ तस्माद्रसा- दिननका विजातीया एवपाकाः॥ श्रतएव पार्थिवपग्माणूना- मेकनातीयत्वेऽपि पाकमहिम्नाविजातीयद्रव्यान्तरानुभवः ।। यथा गोमुक्तत्यादीनामापरमाएवन्वतभङ्गवणारम्भकपरमा- गुपु विजातीयतेजः संयोगात् पूर्वरूपादिचतुष्टयनांशे तद- नन्तरं पुग्धे यादृशं रूपादिकं वर्तते ताशरूपरसगन्धस्पर्श- जनकास्तेजासंयोगा जायन्ते, तदत्तरं तैरेव ताशरूपरसा- दय उत्पद्यन्ते । एतादृशरूपरसादिविशिष्टपरमाणुभिदुग्ध. व्धणुकमारभ्यते, ततस्त्र्यणुकादिक्रमेण दुग्धारम्भः इति । एवं दुग्धारम्भकैःपरमाणुभिरेव दध्यारभ्यते पाकमहिम्ना ।। एवं दध्यारम्भकैरेव परमाणुभिर्नवनीतारम्भ इति दिक् ॥ संख्यायाः कि लक्षणं कुत्र च वर्तत इति प्रश्ने उत्तरम् एकवादिव्यवहारहेतुः संख्या.। नवद्रव्य- .

२४ तर्कसंग्रहः । वृत्तिः । एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्य- मनित्यं च । नित्यगतं [१] नित्यम् । अनित्य [२] गतमनित्यम् । दित्वादिकं तु सर्वत्रानित्य [३] मेव ।। [पदकृ०] एकादीति । 'एकत्वम् इत्यादिर्यो व्यवहारः अयमेकः इमो द्वा एते बहवः' इत्याद्यात्मकः । तस्य हेतुः संख्या, इत्यर्थः।। पटादिवारणाय एकादि' इति । नया च- 'एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरवंदमेव च । (१) भूतलादि चतुया परमाणः सकाशादि. पञ्च च नित्यारतेषु गतमेकत्वमपि नित्यमिति भावः ॥ २ अनित्यत्वं च यावत् धःपटादिकार्यगातस्य । ३ अपेक्षाबुद्धिजन्यत्वादिति भावः ॥ समवायेन विश्वत्वा. यच्छिन्नं प्रति विशेष्यतासम्यन्धनापेक्षावुनिमित्तकारणत्वम् असमवायिकारणं च समवायिकारणगतमेश्त्वम् ॥ अपेक्षाबु. द्वित्वञ्चानेकैकस्वावगादित्वम् ॥ तन्नाशादेव द्वित्वादीनां नाशः न च समवायिकारणनाशादसमचायिकारणनाशाद्वा कार्यनाश इति नियमविरोधःन नु समवायिकारणासमवायिारणान्य. तर नाशादेव कार्यनाश इति नियमः किन्तु समयायिकारखा. समवायिकाणरान्यतरनाशे काय्येनाशो भवत्येवेति नियमः तथाच कुत्रचित् द्वित्वादि स्थलेऽपेक्षावुद्धिरूपनिमित्तकारण नाशादपि द्विरवादिरूपकार्यनाशेन नियमविरोध इति भावः ।

२५ -- न्यायचोधिनीपदकस्यसहितः । वृन्दं खों निखर्वश्च शङ्खपद्मश्च सागरः । अन्त्यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम् ।। • इति महदुक्तः पराधपर्यन्तैव संख्या, इति भावः ।। परिमाणस्य किं लक्षणं के च भेदा इति प्रश्न उत्तरम् मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यबृत्ति । तच्चतुर्विधम् अणु महद्दीर्घह्रस्वं ." चेति॥ ( पदक० )मानेति ।। मानं परिमितिः तस्य यो व्यव- हारः 'इटमणुः इदं महत्' इत्यायात्मकः, तस्य कारणं परिमाणम्' इत्यर्थः॥ दण्डादिवारणाय 'मान' इति ।। कालादिवारणाय असाधारणंइति ॥ शब्दत्ववारणाय "कारणम् (२) इति ॥ नवद्रव्येति ।। चतुर्विधमपि परम- मध्यमभेदेन द्विविधम् ।। तत्र परमाणुत्वहस्वत्वे च परमाणुम- नसोः । मध्यमाणुत्वहस्तत्वे न्यणुके ।। परममहत्त्वदीर्घत्वे गगनादौ । मध्यमहत्त्वदीर्घत्वे घटादौ ॥ एतन्मोक्तिकादे- तन्मौक्तिकमणु' इति व्यवहारस्य निकृष्टमहत्वाद्गौणत्वं बोध्यम् ।। एवमेव केतनाव्यजनं हस्वम्' इत्यत्रापि निक- 'दी वागौणत्वम् ॥ १मानव्यवहारेति शन्दे शब्दत्वस्याप्यसाधारणधर्मत्वात्का- रणेति पदमित्यर्थः ।।

तर्कसंग्रहः । पृथक त्वस्थ किं लक्षणं । पथग्व्यवहारासाधारणकारणं पृथक्त्व । सबद्रव्यवृत्ति ॥ (पदक०) पृथगिति ॥ "अयमस्मात्पृथक् इति यो व्यव- हारः तस्य कारणं पृथक्त्वम्, इत्यर्थः । दण्डादिवारणाय 'पृथक्' इत्यादि । कालादिवारणाय 'असाधारणं'-इति ।। पृथग्व्यवहारत्ववारणाय 'कारणम्' इति ।। संयोगस्य कि लक्षणम् - संयुक्तव्यवहारहेतुः संयोगः। नवद्रव्यवृत्तिः। (पदकृ०) संयुक्तति ॥'इमौ संयुक्तौ इति यो व्यवहार- स्तस्य हेतुः संयोगः, इत्यर्थः ॥ दण्डादि वारणाय 'संयुक्त- व्यवहार इति ॥ कालादिवारणाय 'असाधारण' इत्यपि देयम् । संयुक्तव्यवहारत्वेऽतिव्याप्तिवारणाय हेतुः (१) इति ॥ उपदर्शितलक्षणचतुष्टये 'असाधारण पदं देयम् ।। क्वचित्पुस्तके परिमाणपृथक्त्वलक्षणे 'असाधारणः पदं दृश्यते, 'तत्त्वाधुनिकैन्यस्तम्' इति बोध्यम् ।। विभागस्य लक्षणं उच्यताम् संयोगनाशको गुणो विभागः नवद्रव्यवृत्तिः। १संयुक्त व्यवहारासाधारणधर्मत्वं'संयुक्तव्यवहारत्वस्यात- स्तवारणाय हेतुरिति पदमिति ॥

न्यायबोधिनीपदकृत्यसहितः । २७ (न्याय०)विभागं लक्षयति-संयोगेति ।। संयोगनाशक- त्वविशिष्टगुणत्वं विभागस्य लक्षणम्।। विशेषणमात्रोपादाने. क्रियाया अपि संयोगनाशकत्वात्तत्रातिव्याप्तिवारणाय गुण [२] त्वविशेषणम् ।। (पदक०) संयोगेति ।। संयोगनाशजनक इत्यर्थः ॥ कालेऽतिमसक्तिनिवारणाय गुणपदम् ।। ईश्वरेच्छादिवा:- याय 'असाधारण' इत्यपि वोध्यम् ॥ ननु 'असाधारण- वदोपादाने गुणपदस्थ वैयर्थ्य स्यात् इनि चेत् न ।।.. क्रियामतिमसक्तिवारणाय तस्याप्यावश्यकत्वात् ।। , परत्वापरत्वयोर्लक्षणं भेदश्च धाच्यम् परापरव्यवहारासाधारणकारणे परत्वापरत्वे । ते द्विविधे दिक्कृते कालकृते च दूरस्थे दिक्कू- तं परत्वम् । समीपस्थे दिक्कृतम्परत्वम् । ज्येष्ठे कालकतं परत्वम् कनिष्ठे कालकृतमपरत्वम् ॥ २ क्रमश्चात्थं पूर्व द्रव्ये क्रिया क्रियातो विभागस्ततः पूर्व संयोगनाशो भवति ॥ तथा व संयोगनाशकत्वं क्रियाविभागयो. रुभयोरपि सुवचं गुणपदप्रयोगे च क्रियाया गुणत्वाभावान दूषणम् साक्षात्पदोपादाने च गुणपदमनुपादेयमेवेति न दोषः । * पृथिव्यादिचतुष्टयमनोवर्दिनीतिकचिदधिक् पाठः ।

तर्कशंग्रहः । ( पदकृ०) परेति ॥ 'परव्यवहारासाधारणं पर- खम्॥ अपरव्यवहारासाधारणकारणम् अपरत्वम्' इत्यथः॥ दण्डादि (१) वारणाय 'परन्यवहारः इति कालादिवार- याय 'असाधारण' इति । परव्यवहारत्ववारणाय 'करण' (२) इति ॥ एवमेव द्वितीयेऽपि वोध्यम् ।। गुरुतस्य किं लक्षणम् । आद्य ( ३) पतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति । (न्यायवो०) गुरुत्वं लक्षयति-आयेति ॥ द्वितीयपवन- क्रिया वेगस्यैवासमवायिकारणत्वाचत्रातिपतिवारणाय 'प्राय इति । उत्तरलक्षणेऽप्याद्यविशेषणं पूर्ववद्योजनीयम् ।। (पदकृ० ) आयेति ।। दण्डादि (१)वारणाय 'अस पवायिः इति । रूपादिवारणाय 'पतना (२) इति ॥ वेगेड तिन्याप्तिवारणाय 'श्राध' इति । १ दण्ड इत्यभिवादनाख्यासाधारणकारणत्वं दण्डेऽप्यस्ती भावः॥ २परव्यवहारे.असाधारणधर्मत्वं परव्यवहारत्यस्याप्यतो साधारणकारणेति॥ ३ श्राद्यत्वञ्चेह स्वसमानाधिकरणपतनप्रतियोगिकध्वंसा समानकालिकत्वम् द्वितीयादिपतनप्राथमिकपतनध्वंससमान कालिकत्वाचन्द्रव्युदास इति भावः ।

न्यायबोधिनीपदकृत्यसहितः २९ . - प्रयत्वस्यकिं लक्षणं तय कति विधम् कुत्र च कीहशम् स्यन्दना (३) समवायिकारणं दवात्वम् पृथिव्यप्तेजोवृति । तद्धिविधम् । सांसिद्धिक नैमित्तिकं च । तत्रासिद्धि (४) कंजले नै मित्तिकं पृथिवीतेजसोः पृथिव्यां धृतादा- वग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादों [पदकृ०] स्यन्दनेति । दण्डादि [५] चारणाय 'असमवायिः इति रसादिवार [६] णाय 'स्यन्दन, इति ।। स्नेहस्य किं लक्षणं तच कुन ततइत्यस्पोत्तरम् चूणादिपिण्डीभावहेतुर्गुणः । स्नेहः जल- मात्रवृत्तिः ॥ १ पानादिपतनरूपायां क्रियायांबदुधादण्डलोटादीमानि- *मित्त कारणवमतो समयायि इति ॥ २घटादिरूपाधसमवायि कारणत्वं 'कपालादिगतरूपादी नामत:पतनेति पदम् ॥ ३स्यन्दननवणपाक्रियाविशेषस्तदसमयायिकारणमित्यर्थ ट खोसिद्धिा नाम निमित्तानपेक्षाधोदेशप्रसरत्वम् ।। ५ स्यन्दन प्रस्रवणतन निमित्तकारणताकुत्रचित प्रतिरुद्र सलिनस्पले दण्डस्यापि भवत्यतो समयायि इति पदमितिभाव ६ अवयविगतरसत्वाचवच्छिन प्रत्यवयवंगरसत्वाचवच्छि नस्य कारणत्यादिति भावः ॥ .

३० . तर्कसंग्रहः । [न्याययो० ] स्नेहं लक्षयति-चूर्णादीति ॥ चूर्णादि पिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम् ।। पिण्डी. भावो नाम चूर्णादिधारणाकर्षणहेतुभूतो विलक्षणसंयोगः ॥ ताशसंयोगे स्नेहस्यवासाधारणकारणत्वम् ॥ न तु जला. दिगतद्रव्यत्वस्य, तथा सति द्रतसुवर्णादिसंयोगेन चूर्ण: दिपिण्डीभावापत्तेः।। अत: स्नेह एवासाधारण (१) कोर णम् ।। विशेपणपानोपादाने कालादावतिव्याप्तिः, तद्वार- णाय विशेष्योपादानम् ।। वस्तु । २) तस्तु द्रुतजलसंयोग स्यैव पिण्डीमावहेतुत्वम् , स्नेहस्य पिण्डीभावहेतुत्वे माना- भावात् ।। जले तत्वविशेषणात्करकादिव्यात्तिः ।। ( पदक० ) चूर्णादीति ॥ 'चूर्ण पिष्टं तदेवादिर्यस्य मृत्तिकादेः स चूर्णादिः तस्य पिण्डीभावः संयोगविशेष: तस्य हेतुर्निमित्तकारणं स्नेहा, इत्यर्थः । कालादावतिव्या प्तिवारणाय गुणपदम् ॥ रूपादावतिव्याप्तिवारणाय 'पिण्डीभाव' इति चूर्णपदं स्पष्टा (३ ) र्थम् ।। १शसाधारणं निमित्तकारणमित्यर्थः ।। २ वस्तुतरित्वति ग्रन्थेन स्नेहस्य मलोक्तं लक्षणं ध्याहत मतोऽनायत्यास्नेहत्वजातियत्वमेव लक्षणं वाच्यमिति भावः। ३ लोहादिपिएडौमावहेतुभूताग्निसंयोगम्पयभिचारवार- रणाय चूर्णपदं न तु स्पष्टार्थमिति चिन्त्यम् ॥

न्यायवोधिनीपदकृत्यसहितः । ३१ सदस्य किं लक्षणं के च मेदाः श्रोत्रग्राह्यो गुणः 'शब्दः। आकाशमात्र- वृत्तिः। स द्विविधः ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मको भेर्दादौ [१] वर्णात्मक संस्कृतभाषारूपः। (न्यायवो०) शब्द लतयति-श्रोत्रग्राह्य इति ' शब्दत्वे तिव्याप्तिवारणाय 'गुण इति ।। स(२)त्रिविधासंयोगजो विभागजः शब्दजश्चेति भेरीदण्डसंयोगजन्यो झांकारादि शब्दः, हस्तपातसंयोगादिजन्या मदगादिशब्दः॥वंशे पाट्य- 'पोने दलदयविभागजन्यः पटपटादि शब्दः ॥ शब्दोत्पत्ति देशमारभ्य कर्ण विवरपर्यन्तं वीचीतरङ्ग न्यायेन कदम्बमुकुं लन्यायेन वा निमित्तपवनसम्बन्धाच्छन्दधारा जायते तत्रो- तरोत्तरशब्दे पूर्व पूर्वशब्दः कारणम् ॥ १अत्रादिपदेन वेणुवीणादीनां संग्रहः ॥ २ स द्विविधोपि शुध्दः संयोगजविभागजशब्दजभेदेन विविधो भवति तत्र ध्वन्यात्मकस्य त्रिविधत्वं तु टीकाकारण दर्शितम् वात्मकस्य त्रिविधत्वञ्चेत्थं वायुकंठसंयोगेन श्रोष्ठद्ध- यविभागेन धीचीतरङ्गम्यायेन च त्रिविधत्वम् ॥ तत्र शब्दमात्र समवायिकारणमाकाशम् ॥ असमवायिकारणव यथाक्रमेय कएठाकाशसंयोगः ॥ प्रोष्ठाकाश विभागादिरिति ।

तर्कसंग्रहः । [पदक०] श्रोत्रतिशब्दत्वेऽतिव्याप्तिवारणाय 'गुण' इति ॥ रूपादिवारणाय 'श्रोत्रयाह्यः इति ।। वस्तुवस्तु श्रोत्रोत्पन्नशब्दस्यैव श्रोत्रम्राहात्वेन तद्भिन्न व्याप्तिवारणाय श्रोत्रग्राह्य जातिमत्वे तात्पर्याद गुणवदमनुपादेयमेव ।। बुद्धः किं लक्षणं कश्वभेदः सर्वव्यवहार [.] हेतुर्गुणो वुद्धिर्ज्ञानम् [२] सा द्विविधा-स्मृतिरनुभवश्च ।। ( न्यायवो. ) बुद्धलक्षणमाह-सर्वव्यवहारेति ॥ व्यवहारः शब्दप्रयोगः, ज्ञानं विना शब्दप्रयोगासम्भवा- च्छन्दपयोगरूपव्यवहारहेतुत्वं ज्ञानस्य लक्षणम् ॥ बुद्धि विभजते-स्मृतिरनुभवश्चेति ।- ( पदकृ० )बुद्धिलक्षणमाह-सर्वेति ॥ सर्वे ये व्यव- हारा आहारविहारादयस्तेषां हेतुर्बुद्धिरित्यर्थः ।। दण्डादि- वारणाय 'सवंव्यवहार इति । कालादिवारणाय 'असा. धारणइत्यपि देयम् ॥ १ व्यवहारत्वावचिन कार्यतानिरूपितासाधारणकार गत्वं बुद्धित्वमिति निस्कर्षः ॥ २ लाघवेन लक्षणान्तरभाह ज्ञानमिति ॥ शानवजातिमत्वं बुद्धित्वमित्यर्थः । लाघवञ्च शरीरकृतमुपस्थितिकृतं सम्बन्ध कृतमिति त्रिविधमिति बोध्यम् प्रकृते चामेवेति ॥

न्यायवोधिनीपदकृत्यसहितः । स्मृतेः किं लक्षणंम् संस्कारजन्यं ज्ञानं स्मृतिः[१] [न्याययो.] स्मृतिं लक्षयति-(संस्कारैति) ॥ संस्कारजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम् ॥ विशेषणानु- पादाने मत्यक्षानुभवेऽतिव्याप्ति तद्वारणाय विशेषणोपा- दानाम् ।। संस्कारध्वंसेऽतिव्याप्तिवारणाय विशष्योपादा. नम् ।। ध्वंसे प्रतियोगिनः कारणत्वात् संस्कारध्वंसेऽपि संस्कारजन्यत्वस्य सत्त्वात् ॥ ( पदक.) संस्कारेति ।। संस्कार,सेऽतिव्याप्तिवार- णाय 'नानम्' इति । अनुभवेऽतिच्याप्तिवारणाय 'संस्कार- जन्यम्' इति । तथापि प्रत्यभिज्ञायामतिच्याप्तिवारणाय संस्कारमात्रजन्यत्वं विवक्षणीयम् ॥ क्वचित्तथैव पाठानचैवं सत्यसम्भवः [२] ॥ तस्य [३] संस्कारजन्यत्वे सतीन्द्रि- यार्थसन्निकर्पाजन्यार्थत्वात् ॥ अनुभव लक्षणं तद्वदश्चप्रदर्शनीर्यामिति प्रश्ने उत्तरम् । तद्भिनं ज्ञानमनुभवः । स द्विविध यथा- र्थोऽयथार्थश्च ॥ १ स्मृतित्वञ्च स्मरामीत्यनुमपसिद्धो जातिविशेष इति ॥ २ कार्यमानस्यारयादिसाधारणकारणजन्यत्वेन संस्कार मात्रजन्यत्वं कस्यापि पदार्थस्य नास्तीति भावः॥ ३ मात्रपदस्य।

तर्कसंग्रहः। [न्यायबो०] अनुभवं लक्षयति-तद्भिन्नमिति] । वद्भिनत्वं नाम स्मृतिभिन्नज्ञानत्वम् ॥ तत्र विशेषणानुपादाने स्मृतावतिव्याप्तिा, विशेष्यानुपादाने घटादावतिव्याप्तिः अतस्तद्वारणाय तयोरुपादानमू॥ अनुभवं विभजते-स द्विविध इति ।। (पदक० ) तदिति ।। स्मतित्वावच्छिन्नभिन्नमित्यर्थः।। 'तेन, यत्किचित्स्मृतिभिन्नत्वस्य स्मृतौ सत्वेपि न क्षतिः । वटादावतिव्याप्तिवारणाय, 'ज्ञानम्' इति ।। स्मृतिवारणाय 'तद्भिन्नमिति, यथार्थानु भवस्य प्रमाया वा लक्षणं निदर्शयतोति प्रश्ने उत्तरम् , तदति (१) तत्प्रकारकोऽनुभवो यथार्थःसैव (२) प्रमेत्युच्यते ॥ (न्यायबौ०) यथार्थानुभव लक्षयति-तद्वतीति । 'तद्व- ति' इत्यत्र सप्तम्यर्थो विशेष्यत्वम्, तच्छन्देन प्रकारीभूतो धर्मो धर्तव्यः । तथा च तद्विशेष्यकत्वे सति तत्मकारकत्वं यथार्यानुभवस्य लक्षणम् ॥ उदाहरणम्-रजते 'इदं रजतम्। इति ज्ञानं रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्र- १यथाघटत्वचतिघटे घटत्वप्रकारकानुभवो यथार्थ इत्यर्थः। २ ननु भाष्यादिप्राचीनप्रन्थेषुप्रमाभेदेन विभागोऽस्तीत्यत माह सैंव प्रमेति न्यायवोधिनीपदंकृत्यसहितः । ... कारकम् ॥ 'तद्वनिष्ठविशेप्यतानिरूपिततनिष्ठप्रकार. (१) ताशालित्वम् , इति निष्कर्पः। अन्यथा यथाश्रुते, रङ्गरजत- योः. 'इमे रजतरङ्गे इत्याकारकसम्हा (२) वलम्बनभ्रमे ऽतिव्याप्तिः । तत्रापि. रजतत्ववद्विशेष्यकत्व-रजतत्वपका- रकत्वयोरगत्वद्विशेष्यकत्वरणत्वाकारत्वयोः सचात् । उक्त निकतु दर्शितभ्रमे नातिव्याप्तिः समूहा लम्बनभ्रमस्य रजांशे रजतत्वावगाहित्येन रजतांशे रङ्गत्वावगाहित्वेन च रजतत्वमकारताया रजतत्ववद्विशेप्यतानिरूपितत्वाभावत् एवं रजत्वाकारतायारङ्गत्ववद्विशेष्यतानिरूपितत्वाभावाचेति ॥ (पदक०) तद्वतीति ।। तदेव प्रकारो यस्य सतयेत्यर्थः। तहद्विशेष्यकतत्मकार का इति यावत् ॥ स्मृतिवारणाय 'अनुभव' इति । अयथार्थानुभवनिरसनाय 'तद्वति' इति ।। निर्विकल्पकेऽतिव्याप्तिवारणाय 'तत्यकारक, इति ॥ यथारजतत्वाभाववत्यां. शुक्ती रजतत्वमकारकानुभवोऽय- थार्थ इत्यर्थः ॥ अययायानुभवस्य लक्षणं प्रदर्शयतेति प्रश्ने, उत्तरम् तद भाववति तत्प्रकारकोऽनुभवोऽयथार्थः। (न्यायवो०) अयथार्थानुभवं लक्षयति - तदभाववती- ति ॥ अत्रापि पूर्ववत् तदभाववद्विशेष्यवांनिरूपिततनिष्ठ- १प्रकारतानिरूपितप्रकारिताशालिबानस्वमिति फलितोऽर्थः॥ २काने समूहाबलम्बनत्वञ्च विशेष्यताइयागाहित्वम् ॥

तर्कसंग्रहः। प्रकार(१) ताशालिज्ञानत्वं विचक्षणीयम् ।। अन्यया रज रजतयोः 'इमे रगरजते इत्याकारकसमूहालम्बनममायामति. व्याप्तिः । एतत्समूहालम्बनस्य रङ्गरजतोभयविशेष्यकत्वेन रजतत्वरङ्गत्वोभयमकारकत्वेन च रजतत्वाभाववद्रगविशेष्य कत्वरजतत्वप्रकारकत्वयोरगत्वाभाववद्जतविशेष्यकत्वरक्त्वम- कारकत्वयोश्च सत्वात् ॥ निष्कर्षे 'तु रजतांशे रजतत्वावगा हित्वेन रांशेरङ्गत्वावगाहित्वेन च रजतत्वकारताया रज. तत्वाभाववद्रङ्ग विशेष्यता निरूपितत्वाभावाद, एवं रङ्गत्वप्र. कारतायारङ्गत्वाभावबद्रजतविशेष्यतानिरूपितत्वाभावात्. ना- तिव्याप्तिः । उदाहरणम यथा शुक्तौ इदं रजतम् इति ।। (पदकृ० ) तदभाववतीति ॥ तदभाववद्विशेष्यकतत्म कारकोऽनुभवो यथार्थानुभवः, इति ॥ यया शुक्तौ 'इदं ।। रजतम, इति ज्ञानम् स्मृतिवारणाय 'अनुभवः, इति ॥ यथार्यानुभवनिरसनाय 'तदभाववति, इति ।। निर्विकल्पक (२) वारणाय तत्मकारकः इति ॥ यथार्थानुभव भेदान प्रदर्शयतेति प्रश्ने, उत्तरम् यथार्थानुभवश्चतुर्विध :-प्रत्यक्षानुमित्युप- मितिशाब्दभेदात् ।। १ तनिष्ट प्रकारतानिरूपित प्रकारिताशाल्यनुभवत्वमिति फलितोऽर्थः। २निर्विकल्पकत्वच प्रकारताद्यनवगाहिझानत्वम् ॥

न्यायवोषिनीपदकृत्यसहितः । [न्यायचो.] यथार्यानुभवं विभजते-"चतुर्विधः इति [पदक०] यथाथेति । यथार्थानुभवः 'प्रत्यक्षमेका इति चार्वाकार, अनुमितिरपिा इति काणादवौदाः, उपमितिरपिर इति नैयायिकैकदेशिनः, 'शाब्दमपि' इति नैयायिका, 'अर्थापचिरपि' इति प्रभाकराः, 'अनुपलब्धिकोऽपि इति भावेदान्तिनौ 'सांभक्कैितियकावपि इति पौराणिका, चैष्टिकोऽपि, इति तान्त्रिकाः ।। एतेषां मतेऽस्वरसं [१] सम्भाव्य तस्य चातुर्विध्यं स्पष्टं दर्शितम् ।। १ अस्वरसबोजन्तु अर्थापत्यादि प्रमाणानां पूर्वोत्तरस्य- वादिप्रमाणेयवेवान्तर्भावसम्भवे पृथक् कल्पनमा नर्थकमिति बोध्यम् । तथाहि ।। उपपाधक्षानेनोपपादककल्पनमर्थापतिः । उपपाद्यज्ञान करणम् ॥ उपपादकक्षानञ्च फलम् ॥ रात्रिभोज- नमन्तरेण दिवाऽभुखानरय -पोनस्वमनुपपन्नमिति ताश पोनत्वमुपपाद्यम् ॥ रात्रिभोजनश्वोपपादकम् ॥ अर्थरया- सत्तिाकल्पना अर्यापत्तिः किम्वा अर्थस्यापत्तिः कल्पना 'यस्मादित्यर्थापत्तिशब्दः समासभेदेन फल करण योर्वाचक इति बोध्यम् तथाच पोनोदेवदत्ता दिवा न भुंके इति हो अते वा दिवाभुमानस्य पीनत्वं रात्रि भोजनं विना ऽनुपपन्न मित्यनुपपत्तिशानं भवति इसमेवार्थापतिः ततो देवदत्तो रात्रिभोजी दिवाऽभुञ्जमानत्वे सति पोनस्वादितिकेजगतिरे- | क्यनुमानेनैव सिद्धौ तस्या अकिञ्चित्करत्वादिति ॥ एवममा. पप्रत्यक्षेऽप्यनुपलब्धिमतेन्द्रियस्यैव कारणोनानुग्लः पृथक् प्रमाणत्वमकिश्चिकामिति ॥ एवं शते पश्चादिति ३. तर्कसंग्रहः । चतुमिनुभावानां कानि करणनिति प्रश्न उत्तरम् तत्करण [१] मपि चतुर्विधम् प्रत्यक्षा (२) नुमानोपमानशब्दभेदात् ॥ [न्यायवो] तत्करणमिति । फलीभूतप्रत्यक्षादिकरणं चतुर्विधम् इत्यर्थः । प्रत्यक्षादिचतुर्विधप्रमाणानां प्रमोकर- यत्वं सामान्यलक्ष्णंम् एकैकममाणलक्षणं तु वक्ष्यते, प्रत्यक्षाज्ञान, इत्यादिना । (पदक) तदिति ॥ यथार्थानुभवात्मकमभायाः करण- मित्यर्थः ॥ कारणस्य किं लक्षणं इति प्रश्न उत्तरम् असा (३) धारणं कारणं करणम् ॥ निर्णयात्मकसम्भवो ऽनुमानान्तर्भूतः ॥ ३॥ एवं चेष्टोप्यनुमा. नप्रयोजिथैवेति सिद्धं प्रमाणानां चातुर्विध्यमिति भाषः । १ प्रसंगसंगत्या प्रमाणं विभजते । तत्करणमिति ॥ २ अक्षमक्ष प्रतिजातमिति प्रत्यक्षमित्येवं प्रत्यक्षपदमि- पन्द्रय परं तदेव विषयपरं ज्ञानपरश्च-गौण्यावृत्या बोध्यम मनुमीयते लिङ्गद्वाराक्षाप्यतेऽनेनेत्युपमानं लिङ्गपरामर्शः । एवमुप.मीयते सारश्येन झाप्यतेऽनेनेत्युपमानं सादृश्यहानम एवं शष्यते निग्रहानुग्रही क्रियेते ऽनेनेति शम्दः ।। ३ प्रमाणशानं करणाधीनमतस्तावत्करणं निर्षकि मला. धारणेति॥

न्यावबोधिनीपदकृत्यसहितः । AY (न्यायवो. ) करणलक्षणमाह-असाधारणमिति ।। 'व्यापारवदसाधारणकारणं करणम् , इत्यर्थः । असाधार गत्वं 'कार्यत्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणता शालित्वम्, इत्यर्थः । यथा दण्डादौ घट प्रत्यसाधारण- कारणत्वम् कार्यत्वयाप्यो घटत्वादिरूपधर्मः, तदवच्छिन्न- कार्यता घटे, तनिरूपितकारणता दण्डे, अतो घट प्रति दण्डो ऽसाधारणकारणम् । भ्रम्मदिरूपन्यापारत्वञ्च करणम् साधारणत्वं च कार्यत्वावच्छिन्नकार्यतानिरूपित- कारणताशालिवम् ॥ ईश्वरेच्छादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात्साधारणकारणत्वम् । [पदकृ०] असाधारणमिति ॥ कालादिवारणाय 'असा धारणः इति ॥ व्यापारेऽतिव्याप्तिवारणाय व्यापारवदा इत्यपि देयम् व्यापारश्च द्रव्यान्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकः । ईश्वरेच्छादिवारणाय 'तज्जन्यत्वे सति कुलालजन्यत्वे सति कुलालजन्यघटजनकत्वं कुलालपुत्रस्या प्यस्तितस्तत्रातिव्याप्तिवारणाय प्रथम सत्यन्तम् ॥ दण्डरूपादिवारणाय तज्जन्यजनकः, इति । कारणस्य किं लक्षणं इत्यस्योत्तरम् कार्यनियतपूर्ववृत्ति कारणम् (१)॥ १अनन्यथासिद्धका व्यवहित प्राक्क्षणावच्छेदेन कार्या. धिकरणवृत्यन्ताभाषप्रतियोगितानपच्छेदक धर्मवत्वमेव कार- खत्वमितिनिष्कर्षः॥

तर्कसंग्रह। -~~ (न्यायबो०) कारणं लक्षयति-कार्यनियतेति ॥ कार्य पति नियतत्वे सति पूर्ववृत्तित्वम्।। नियतत्वविशेपणानुपादाने पूर्ववर्तिनो रासभांदेरपि घटादिकारणत्वं स्यादतो-'नियतत्वे सति, इति विशेषणम् ॥ नियतपूर्ववर्तिनो दण्डरूपादेरपि घटकारणत्वं स्यात्, अतः 'अन्यथासिद्धत्वम् । अपिकारण लक्षणे निवेशनीयम् , दण्डरूपादेरन्यथासिद्धत्वात् ।। (पदकृ०) कार्येति ॥ 'कार्यानियताऽवश्यंभाविनी पूर्व- वृतिःपूर्वक्षणवृत्तिर्यस्य तत्तथा 'इत्यर्थः । अनियतरासभा दिवारणाय 'नियत इति । कार्यवारणाय पूर्व (१) इति । दएडत्वादिवारणाय 'अनन्यथासिद्धत्वा विशेषणस्यावश्य: कत्वेन तत एव रासभादिवारणसम्भवे नियतपदमनर्थकम् एवंच 'अनन्यथासिद्धकार्यपूर्ववृत्ति कारणं' इति कलितम् ।। अनन्यथासिद्धत्वमन्यथा सिद्धिशून्यत्वम् । अन्यथासि. द्धिश्च'अवश्यक्लृप्तपूर्ववर्तिन एव कार्य सम्भवेतत्सहभूतत्वम्।। यथा-अवश्यक्लृप्तनियत-पूर्ववर्तिभिर्दण्डादिभिरेव घटरू पकार्यसम्भवे तत्सहभूतत्वं दण्डत्वादौ (२), इति तदन्यथा. सिद्धम् ।। १ अरण्यस्थ दण्डेपि स्वरूपयोग्यतायाः सत्वायट कार- रणत्व निर्वाह स्वरूप योग्यत्वञ्च कारणतावच्छेदकधर्मवत्वं प्रकृते च दरडत्वमेव तथेति बोध्यम् ।। २मादिपदेन दण्डसम् । .

न्यायवोधिनीपदकृस्यसहितः । -- कार्यस्थ कि लक्षणं कार्य प्रागभारप्रति योगि। न्यायबो०) कार्य लक्षयति-प्रागिति ॥ प्रागभावः प्रतियोगित्वं कार्यस्य लक्षणम् ॥ फार्योत्पत्तः पूर्वम् इह घटो भविष्यति, इति प्रतीतिर्जायते ।। 'एतत्मतीतिविषयो ऽभावः 'मागभावः तत्मतियोगि घटादिरूपं कार्यम् ।। ( पदक०) मागिति || कालादिवारणाय 'पाग (१) इति ।। असम्भववारणाय प्रतियोगि' इति । कारणत्वस्य कति भेदाः कारणं त्रिविधम् (२)-समवाय्यसमवा- यिनिमित्तभेदात् ।। (न्यायवो०) कारणं त्रिविधमिति ॥ समचायिकारणम् असमवायिकारणम् निमित्तकारणं चेति ॥ समवायि कारण लक्षणं उच्यताम् यत्समवेतं कार्यमुत्पद्यते तत्समवायिकार- १प्राक् पदामावेऽन्योऽन्याभावप्रतियोगित्वं पदार्थमात्रेऽस्ति तस्य केवलान्ययित्वात् फेवलाग्वयित्वञ्च सर्वत्र विद्यमानत्वम् चान्योन्याभाव प्रतियोगित्वेन नित्यानामपि कार्यत्वापतिः स्यादिति भावः । २ इदमपि भावकार्यमाने मभावकार्यमानेतु निमिचका. रख मात्रमपेक्षितमिति बोध्यम् ।।

तर्कसंग्रहः । F पम् । यथा तन्तवः पटस्य। पटश्च स्वगत- रूपादेः (१)॥ (न्यायवो) समवायिकारणं लक्षयति-यत्समवेतमिति।। 'यस्मिन् समवेतं सत् समवायेन सम्बद्धं सत् कायम् उत्प- यते तत्समवायिकारणम्' इत्यर्थः ।। उदाहरणम्-'यया तन्तवः इति । तन्तुषु समवायेन सम्बद्ध सत् पटात्मक कार्यमुत्पद्यते इति तन्तकः समवायिकारणम्, इत्यर्थः ।। सामान्यलक्षणं तु-'समवायसम्बन्धावच्छिन्नकार्यता नि- रुपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वं समवायिकारण त्वम् । इति । समवायसम्बन्धन घटाधिकरणे कपालादौ कपालादेस्तादात्म्यसम्बन्धेनैव सत्त्वात् समवायसम्बन्धा- चच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसंबन्धावच्छि' नकारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः ॥ 'जन्य. भावत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यस्यैव कारणम् कारणत्वात् । जन्मभावेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव समवायिकारणम्' अतो गुणदावपि द्रव्यमेव समवायिकारणम् इत्याशयेनाह 'पटश्च स्वगतरूपादेः इति 'समवायिकारणम् इत्यनुपज्यते ॥ (पदकृ०) यदिति ॥ यस्मिन् समवायसम्बन्धन वर्तमा- १ अत्रादिपदेन क्रियापरिग्रहः ।

न्यायबोधिनीपदकृत्यसहितः । ४३ लक्षणम् नम् । तत् इति भावः । चक्रादिवारणाय 'समवेतम् । इति॥ असमवायि कारणस्य कि कार्येण कारणेन (१) वा सहकस्मिन्नर्थे समवेतत्वे सति कारणमसमवायिकारणम् । तथा तन्तुसंयोगः पटस्य । तन्तुरूपं पटगतरूपस्य ।। (न्यायवो.)असमवायिकारणं लक्षयति-काव्येणेति असमवायिकरणं द्विविधम् कार्येण सहैकस्मिन्नर्थे समवेतं सद्यत् कारणं तदसमवायिकारणम्। इत्यन्वया, 'कारणेन १ नच सामानाधिकरणयोरेव का कारणभाव इति ब्याप्त्या तन्तुरूपं पटगतरूपस्यासमवायिकारणं न स्यात् तयोःसामानाधिकरण्याभावात् । अत आह । कारणेनेवेति ॥ कार्य समवायिकारणेनेत्यर्थः । तथाच पटसमवायिकारणं तन्तुसमुदायः तत्र च तन्तुरूपस्यापि सत्वमित्येवं स्वसम- वायि समवाय सम्बन्धेन तन्तुरूपमपि पटगतं तत्र च पटरू- पस्य सत्वाद् भवति कार्यकारणभाव इति भावः ॥ स्वपदेन तन्तुरूपं प्राहाम्॥ नचैवं परम्परासम्बन्धस्य कार्यकारण भावनियामकत्त्वे याचदसंश्लिष्ट पदार्थानामपि कार्यकारणभावः स्यात् परम्परासम्बधस्यानुगतत्वात् नहि जगति कोपि पदार्थः परम्परा सम्बन्धेनासम्बद्धोऽस्ति इत्यय आह कार्पण कारणेन चेति । तथाच नहिं यावत् परस्परासम्बन्धानामाश्र, यणं । किन्तु समवायस्य स्वसमवायि समवायस्यैव वा इमा मेष शारो.काय्यकार्थप्रत्यासत्तिवन कारणैकार्थप्रत्यासत्तित्वेन च व्यवहियेते इति।

तर्कशंग्रहः । सहकस्मिन्नर्थे .समवेत सघन: कारणं तदसमवायिकारणम्। इत्यन्वयः ॥ जन्यद्रव्यमानेऽवयवसंयोगस्यैवासमवायिकार णत्वात्, पटात्मककार्ये तदवयवतन्तुसंयोगस्यवासमवायि- कारणत्वम्। दर्शयन् प्रथममुदाहरति यथा तन्तुसंयोगः पटस्य इति ॥ पटात्मककार्येण सहकस्मिन्नर्थे तन्तो समवेतं सत् समवायसम्बन्धेन वर्तमानं सत् पटात्म- ककार्य मति तन्तुसंयोगात्मकं कारणमसमवायिकारणमि. त्यर्थः ॥ द्वितीयमुदाहरति-'तन्तुरूपम्। इति । कारणेन सह पटरूपसमवायिकारणीभूतपटेन सह एकस्मिन्नथें तन्तु. रूपेऽर्थे समवेतं सत् समवायसम्बन्धेन वर्तमानं सत् तन्तुरूपं प्रति कारणं भवति, अतोऽसमवायिकारणं तन्तुरूपं पट- रूपस्य ।। सामान्यलक्षणं तु 'समवायसम्बन्धावच्छिन्नका येतानिरूपिता या समवायस्वसमवायिसमवेतत्वान्यतरसम्ब. न्धावच्छिन्ना कारणता ताशकारशाताश्रयत्वम् असमवायि. कारणत्वम्' इति ॥ द्रव्यासमयिकारणीभूतावयवसंयो. मादौ तु समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानि. रूपिता (१).समवायसम्बन्धावच्छिन्ना कपालद्वयसंयोगनि ष्ठा कारणता कपालद्वयसंयोगे वर्तते । एवम् श्राद्यपतन- क्रियायां च गुरुत्वदन्यते असमवायिकारणे भवतः । आद्य- पतनक्रिया पति श्रावस्यन्दनक्रियां प्रति च समवायसम्बन्ध १निरूपितानिरूपकताच स्वरूपसम्बन्धविशेषरवेतिबोध्यम् . न्यायबोधिनीपदकुत्यसहितः। नैव तयोः कारणत्वात् ॥ अवयविगुणादौ त्ववयवगुणादेः स्वसमवायिसमवेतत्वसम्बन्धेनैव कारणत्वात् तत्सम्वन्धाव: च्छिन्नकारणताश्रयत्वमवयवगुणादौ वर्तते ॥ अवयवगुणभू- तकपालतन्तुरूपादे स्वशब्दग्राह्य कपालरूपतन्तुरूप समवायि कपालतन्तुसमवेतत्वसम्बन्धेन घटपटादौ कपालरूपतन्तुरूप. योः सत्त्वात् ॥ (पत्रक०) कार्येणति ॥कार्येण सह कारणेन सह वा एकस्मिन्नर्थे सपवंतत्वे सति, श्रात्म ( १) विशेषगुणभिन्नत्वे सति, यत्कारणं तदसमवायिकारणम् ॥ तन्तुसंयोगांदाव- व्याप्तिवारणाया कार्येण इति ॥ तन्तुरूपादावव्याप्तिवार गाय 'कारणेना इति ॥ आत्मविशेषगुणेऽतिव्याप्तिवार- गाय 'आत्मविशेषगुणभिन्नत्वे. सति' इति । विशेषवार गाय कारणम् इति ॥ निमित्त कारणस्ये किं लक्षणम् । तदुभयभिन्न कारणं निमित्तकारणम् । य था-तुरीवेमादिकं पटस्य ।। १ आत्मसामान्यगुणानामात्ममनः सयोगादीनां ज्ञानादिक प्रत्यसमवायिकारणत्वेरपि तद्विशेषगुणनां शानादीनां कुत्राप्य- समबायिकरणत्वेनाफ्लुप्तस्वात्तदनकीकरणमिति नच शोनादे रिच्छादिकं प्रत्यसमवायिकारणत्वमस्त्विति वाच्यं अवश्यक्ल सात्ममनः संयोगेनैव निर्वाहेऽन्यत्र तत्कल्यनस्यानुभवविरुद्धत्वा- दतमाह आत्मविशेषगुणमिन्नेति ॥

तर्कसंग्रहः ।
१
[ न्यायवो० ] तदुभयभिन्नमिति ॥ 'समवाय्यसमवायि
कारणभिन्नम्। इत्यर्थः ।।
[पदकृ० तदुभयभिन्न कारणम् निमित्तकारणम् इति।।
समवाय्यसमवायिकारणवारणाय 'तदुभयभिन्नम्। इति ।
विशेषादा [१] वतिच्याप्तिवारणाय 'कारणम्' इति ।
कारणंस्य किं निष्कृष्टं लक्षणम्
तदेतत्रिविधकारणमध्ये यदसाधारणं कारणं
तदेव करणम् ॥
(न्यायबो०) तदेतदिति ॥ 'यदसाधारणाम्' इति ॥
व्यापारवत्वे सति, इत्यपि पूरणीयम्॥ अन्यथा तन्तुकपाल
संयोगयोरतिव्याप्तिा, तन्तुकपालसंयोगयोरपि कार्यवन्या
प्यपटत्वघटत्वाचवच्छिन्नं प्रति कारणत्वादसाधारणत्वमस्त्ये
वेति, अतस्तत्र करणत्ववारणाय 'व्यापारवत्वे सति, इति
करणलक्षणे विशेषणं देयम् ।। व्यापारत्वं च तज्जन्यत्वे
सति तज्जन्यजनकत्वम् ।। भवति हि दण्ड जन्यत्वे सति
दण्डजन्यघटजनकत्वाद् भ्रम्यादेर्दण्डव्यापारत्वम् ॥ एवं
कपालसंयोगतन्तुसंयोगादेरपि कपालतन्तु व्यापारत्वम् (१)
कपालसंयोगतन्तुयोगयोः कपालजन्यत्वे तन्तुजन्यत्वे
समवायिकारणापेक्षया कपालसंयोगेन तन्तुखंयोगयोापार
त्वंघटपटकपकार्यापेक्षयाचासमवायिकारणत्वमतएकस्मिन्धर्मि
णिधर्मद्वयसमावेशो न विरुद्यते इति भावः ।।

न्यायवोधिनीपदकृत्यसहितः । ४७ सति तज्जन्यघंटपटजनकत्वात् ॥ करणलक्षणेऽसाधारण. त्वविशेषणानुपादाने ईश्वरादष्टादेरपि व्यापारवत्वे सति कारणत्वस्य सत्वात् तत्रातिच्याप्तिवारणाय 'असाधारण इति पदोपादानम् ॥ ( पदकृ०) तदेतदिति ।। यस्मात्कारणात् करणवपटकं कारणमुपदर्शितम् तस्मादेतत्रिविधसाधकमध्ये यत्साधक- तमं तदेव करणम् इति भावः ॥ इति करणमपश्चः ।। प्रत्यक्षप्रमाणस्य किं लक्षणं तत्र प्रत्यक्षज्ञानकरणं (२) प्रत्यक्षम् । (न्यायवो०) पड्विधेन्द्रियभूतमत्यसप्रमाणस्य लक्षण- माह तत्रति ॥ प्रमाणभूतेषु प्रत्यतात्मिकं यज्ज्ञानं चातु. पादिप्रत्यक्षं (तत्) प्रति कारणं व्यापारबदसाधारणम् ।। इन्द्रियं भवति, अतः पत्यक्षाज्ञानकरणत्वंपत्यक्षस्य लक्षणम् ॥ आधसन्निकोतिरिक्तचतुर्विधसन्निकर्षाणां समवायघटित. वेनेन्द्रियजन्यवाभावान्यापारत्वं न सम्भवति, इतीन्द्रियः मनासंयोगस्यैव पविधप्रत्यक्ष जननीये इन्द्रियव्यपा- रता वोध्या। (पदकृ०) तोति ॥प्रमाणचतुष्टयमध्ये ॥ दंडादिसंयोग वारणाय ज्ञान इति ॥ अनुमानादिवारणाय 'प्रत्यक्षा इति।। २ प्रत्यक्षशब्दोऽपि वृत्तिभेदेन ज्ञानपर इन्द्रिय परो विषयपर अति पोध्यम् ।

तर्कसंग्रहः । प्रत्यक्ष शनस्य प्रत्यक्ष प्रमाया वाकिं लक्षण इत्यस्योत्तरम ज्ञानाकरणकं ज्ञानं प्रत्यक्षम ॥ इन्द्रिया (१) र्थसनिकर्षजन्यं ज्ञानं प्रत्यक्षम् । तत् द्विवि धम्-निर्विकल्पकं सविकल्पक चेति । (न्यायबो०) प्रत्यक्षपमाणलक्षणमुक्त्वा प्रत्यक्षपमाल- क्षणमाह-ज्ञानाकरणकमिति । क्षेपकं [२] लतणमिदम् ।। ज्ञानं व्याप्तिज्ञानं सादृश्यज्ञानं पदज्ञोनं च तदेव करणं येषां ते ज्ञानकरणका अनुमित्युपमितिशब्दाः, ज्ञानकरणक, न भवतीति ज्ञानाकरणकं [तत्वम् ] प्रत्यक्षलक्षणम् । प्रत्यो इन्द्रियाणमेव करणत्वोत्, न तु ज्ञानस्य करणत्वम् । इर्द लक्षणमीश्वरप्रत्यक्ष साधारणम् ईश्वरमत्यक्षस्याजन्यत्वात् । अतो जन्यमत्यक्षस्यैव लक्ष्यत्वाभिमायेणेदम्-इन्द्रियार्य- सन्निकर्षेति.। जन्यमत्यतस्यैव लक्ष्यत्वाभिमायेणेदम् ॥ प्रत्यक्ष द्विघा विभजते-'निर्विकल्पकम्' इति ।। ( पदक') इन्द्रियाति ।। इन्द्रियं चक्षुरादिकमा अर्यो, घटादिः, तयोः सन्निकर्षः संयोगादिः, तज्जन्यं ज्ञनं प्रत्यक्ष म्' इत्यर्थः । संनिकर्षध्वंसवारणाय 'शोनम्' इति । अनु- १ अत्र सन्निकर्ष परम्परा चेत्यम् ॥ आत्मा मनसा युज्यतें मन इन्द्रियेण इन्द्रियमधून ततो घंटादीनां प्रत्यक्षमिति ॥ २प्रकृतम्रन्थाघटकमित्यर्थः ।।

न्यायवोधिनीपदकृत्यसहितः । ( , मित्यादिवारणाय 'इन्द्रियार्थसनिक इनि ।। ननु 'सोप- नेत्रचक्षुषा कथं पदार्थग्रहणम् चनुष उपनेत्रनिरुदत्वेन पदा र्थेन संनिकर्पाभावात् कथं वा स्वच्छजाह्नवीसलिलारत्तम स्यादेश्चनुपा ग्रहणम्' इति चेत् न स्वच्चद्रव्यस्य तेजो. निरोधकत्वाभावेन तदन्तश्चतुःप्रवेशसम्भवात् ।। नच ईश्वर- प्रत्यक्षेऽव्याप्तिः (१) इति वाच्यम् । अत्र जन्यप्रत्यक्षस्यैव लतितत्वात् ।। निधिल्पकस्य कि लक्षणम् । : तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् ॥ न्यायबो०) निष्प्रकारकमिति ।। 'प्रकोरतोशून्यत्वमेव निर्विकल्पकत्वम्। इत्यर्थः । निर्विकल्पके चतुर्थी विषयता स्वीक्रियते नतु त्रिविध (२) विपयतामध्ये काऽपि तत्रास्ति अंतो 'विषयताशून्यज्ञानत्वम्' इत्यपि लक्षणं संम्भवति ॥ ( पदकृ.) तत्र निष्पकारकमिति ।। सविकल्पकेऽति व्याप्तिवारणाय 'निष्पकारक, इति ।मकारता (३) वारणाय कानम्। इति ॥ सविकल्पस्य लक्षणं निर्दशंय। सप्रकारकं ज्ञानं, सविकल्पकम् ॥ यथा- १ तस्य चक्षुरादोन्द्रियशून्यत्वादिति भावः। २ विषयतायास्त्रिविधवंच विशेष्यतास्पप्रकारताव्य संस. गतास्यविषयताभेदेनेति बोध्यम् ॥ -

तर्कसंग्रहः ।
“डित्योऽयम् ब्राह्मणोऽयम , श्यामोऽयम्, इति ।।
(न्यायवो. ) सपकारकमिति ॥ विषयताया ज्ञाननि.
रूपितत्वात् ज्ञानस्य विषयतानिरूपकत्वेन, प्रकारता (१)
निरूपकज्ञानत्वं सविकल्पकस्य लक्षणम् ॥ उदाहरणम्
यथेति । इदंत्वावच्छिन्नविशेष्यता (२) निरूपितडित्यत्वं
पुकारताशालिज्ञानं ब्राह्मणत्वपुकारताशालिझानं च सविक
ल्पकमित्यर्थः ।।
(पदकृ०) सपकारेनि ॥ घटादिवारणय 'ज्ञानम्' इति
निर्विकल्पकवारणाय सप्रकारकम् इति ।।
प्रत्यन शानहेतुमृतेन्द्रियार्थ सन्निकर्षःकतिविधः
। प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्वि
धः-संयोगः, संयुक्तसमवायः, संयुक्तसमवेत
समवायः समवायः, समवेतसमवायः, विशेषण
विशेष्यभावश्चेति ॥
[ न्यायवो० ] चातुपादिषड्विषप्रत्यक्षकारणीभूतान्षड्
विघसंनिकर्षान्विभजते 'संयोग: इत्यादिना !! द्रव्यत्ति
लौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुः
संयोगः कारणाम् द्रन्यसमवेतत्तिलौकिक वेषयतासम्बन्धेन
(१)प्रकारताव शानीय विषयताविशेषः॥
(२) इत्यपि बानीय विषयता विशेष इति बोध्यम् ।।
-

न्यायबोधिनीपदकत्यसहितः चातुपत्वावच्छिन्नं मति चतुः संयुक्तसमत्रायस्य हेतुत्वम् । द्रव्यसमवेतसमवेत वृत्तिलौकिकविषयतासम्बन्धेन चातुपत्वा वच्छिन्नं प्रति वच: संयुक्तंसमवेतसमवायस्य. हेतुत्वम् । द्रव्यग्राहकाणीन्द्रियाणि चक्षुस्त्वङ्मनांसि · त्रीएयेव । अन्यानिध्रापारसनश्रवणानि तु गुपग्राहकाणि ।। अतस्त्व गिन्द्रियस्थले द्रव्यतिलौकिकविपयतासम्बन्धेन त्वाचत्वाव च्छिन्नं मति त्वक्सयोगस्य हेतुता ।। द्रव्यसमवेतत्वा वच्छिन्नं प्रति त्वक्संयुक्तसमवायस्य हेतुता, द्रव्यसमवेत समवेतोष्णत्वशीतत्वादिजातिस्पार्शनप्रत्यक्षे त्वक्संयुक्तस मवेतसमवायस्यहेतुता, एवम् प्रात्मरूपद्रव्यमानसपत्यचे : मनः संयोगस्य हेतुता, आत्म समवेत मुखादि प्रत्यक्षेमनः संयुक्त समवायस्यहेतुता आत्मसमवेनसमवेतसुखत्वादि मानसप्रत्यक्षे मनः संयुक्त समवेतसमवायस्य ! हेतुता ॥ रंसनघ्राणयोस्तु रसगन्ध-तद्गतजातिग्राहकत्वेन . द्वितीय तृतीययोः संनिकर्पयोरेव तत्र हेतुता वाच्या ॥ श्रवणेन्दिय .स्याकाशरूपत्वेन शब्दस्याकाशगुणात्वेन श्रवणेन्द्रियेण समं शब्दस्य समवायः संनिकपः । शब्दवृत्तिशब्दत्वजाति विषयकश्रावणमत्यो- समवेतसमवायस्य हेतुता। अभाव प्रत्यक्ष विशेषणविशेष्यभावो नाम विशेपणवासनिकपः। पञ्चविधसंनिकोपरि विशेषणता योजनीया. तथाहि द्रव्याधिकरणकाभावप्रत्यक्षे. संयुक्तविशेषणाता" द्रव्यसम -- પૂર तर्कसंग्रहः । वेताधिकरणाकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता! द्रव्यसम तसमवेताधिकरणकाभावप्रत्यक्ष इन्द्रियसंयुक्तसम वेतसमवेतविशेषणता ॥ संयोगस्थाने संयुक्तलं घयित्वा समवायस्थाने समवेतत्वपदं पटयित्वा अभावमत्यतस्थले निर्वाह्यम् ॥ यया घटद्रव्यसमवेतं घटतं पृथिवीत्वादि रूपादिकं च ।। तत्र नीलादौ पीतत्वाभावः, घटत्वादि- जातौ पटत्वाभावश्च वर्तते । स चाभावः संयुक्तसमवेतवि- शेषणता संनिकण गृह्यते । ( एवं नीलत्वादि जाती पीतत्वाभावोऽपीन्द्रियसंयुक्तसमवेतसमवेतविशेषणतो संनि- कण गृह्यते । पटसमवेतं नीलं, तत्समवेतं नीलत्वं, तद्वि- शेषणता पीतत्वाभावे वर्तते इति संक्षेपः ।। (पदक०, प्रत्यक्षेति ।। तच्च प्रत्यक्ष पड्विधम्-घाणज- रासन-चाक्षुष-श्रौत्र वाच मानसभेदात् ॥ ननु 'प्रत्यक्ष- कारणीभूतेन्द्रियसंनिकर्षमत्यनसामानाधिकरण्यघटकः सं- निकर्षः क, इत्यपेक्षायां विभज्य दर्शयति प्रत्यक्षेति.। 'लौकिक प्रत्यता इत्यर्थः ।। द्रव्य प्रत्यक्ष का संनिकर्षः चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः (पदक०) संयोगमुदाहरति-चक्षुषेति । तथा च द्रव्य- चक्षुषत्वाचमानसेषु संयोग एव संनिकर्षः। इति भावः ।। .

५३ ३ . न्यायवोधिनीपदकंत्यसहितः । घरम्पप्रत्यक्ष का संनिकर्षः घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकर्षः। चक्षुःसंयुक्तघटे रूपस्य समवायात् ।। (पदक०) घटरूपेति ॥ 'चर्पा' इत्यनुपज्यते ॥ तथा च द्रव्यसमवेतचाचपरासनघाणस्पार्शनमानसेपु संयुक्तसम- बाय एव संनिकर्ष इत्ययः ।। रूपत्वस्पप्रत्यक्षम् फेनेन्द्रियेण कश्व संनिकर्षः रूपत्वसामान्यप्रत्यक्ष संयुक्तमवेतसमवायः सैनिकर्षः । चतुःसंयुक्ते घटे रूपं समवेतम् , तत्र रूपत्वस्य समवायात् ॥ (पदक० ) रूपत्वेति ॥ रूपत्वात्मकं यत्सामान्यम् , तत्मत्यक्षमित्यर्थः अत्रापि 'चक्षुपा' इत्यनुपज्यते ।। तथा च 'इव्यसमवेतसमवेतचाचपरासनघाणजस्पार्शनमानसेषु सं- युक्तसमवेतसमवाय एवं संनिकपः इति भावः ॥ अथ 'द्रव्यतत्समवेतमत्यतेऽपि संयुक्तसमवाय एव संनिकर्षोऽस्तु। इति चेत् ।। नैतत् ईश्वरा (१).त्मादेरनध्यतत्वमसंगात् ॥ १ चक्षुःसंयुक्तकपालतंतुसमेवेतत्वेन घटपटादीनां प्रत्य भविष्यत्येवेति शंकाभिप्रायः जीवात्मपरमात्मनोश्व निरवय. पत्वेन स्वावमयसमवेतत्वाभावात् तारशसंबन्धेन प्रत्यक्षा न स्थादित्युत्तरम् आदिपदेन परमाणको गाह्याः योगजधर्मेषातो- द्रियाणामपि प्रत्यतत्वस्वीकारादिति भावः ॥

પુર . तर्कसंग्रहः । शब्दस्य कथम प्रत्यक्षम् कश्च सन्निकर्षः श्रोत्रेण शब्दसाक्षात्कारे समवायःसंनिकर्षः कर्णविवरखाकाशस्य श्रोत्रत्वात् । शब्दस्या- काशगुणत्वात् । गुणगुणिनोश्च समवायात् ॥ (पदक० )समवायसंनिकर्षमुदाहरति-श्रोत्रणेति ।। 'जननीये' इति शेषः ननु 'श्रोत्रशब्दयोः कथं समवायः, इत्यपेक्षमाणं प्रति तमुपपाथ दर्शयति-कर्णेति ॥ अथ सम- वायस्य नित्यत्वेन शब्दप्रत्यक्षे को व्यापर" इति चेत् 'शब्द: ओत्रमनः संयोगो वा' इति गृहाणं॥ शब्दत्वस्य प्रत्यक्षम् केनेन्द्रियेण कश्च संनिकर्षः शब्दत्वसाक्षात्कारे समवेतसमवायः संनि- कर्षः। श्रोत्रंसमवेते शब्दे शब्दत्वस्य समवा यात् ।। ('पदकंकृ.) शब्दत्वेति ॥ श्रोत्रेण जननीये? इत्यनु कर्षशेषौं । अमावस्य कथम प्रत्यक्षम् संनिकर्षश्चतत्रका अभावप्रत्यक्षे विशेषणविशेष्यभावः संनि-

પૂછે
न्यावबोधिनीपदकृत्यसहितः ।
कर्षः(१) घटाभाववद्भूतलम् , इत्यत्र चतुःसंयुक्त
भूतले घटाभावस्य विशेषणत्वात् ॥
(पदकृ०) विशेषणेति ॥ विशेषणभावो विशेष्यभावः।
इन्द्रियसम्बद्धविशेषणत्वम्, इन्द्रियसम्बद्ध विशेष्यत्वम्, इति
यावत् ॥ विशंपणभावसंनिकर्षमुपपाद्य दर्शयति-घटाभाव
वदिति ॥ इह भूतले घटो नास्ति' इत्यादौ विशेष्यतासं-
निकर्पोऽवसेयः । सप्तम्यन्तस्य विशेषणत्वात् ।।
प्रत्यक्षस्थनिकृष्टं लक्षणंम् किम्
एवं सन्निकर्षपटकजन्यं ज्ञानं प्रत्यक्षम् ॥
(पदककृ०) प्रत्यक्षममाणमुपसंहरति । उपदर्शितक्रमेण
इत्यर्थः॥
१ मत्रैव लौकिक संशिक वालौकिक सन्निकर्षोऽपित्रिविधः
शास्त्रोनिमपितः सच सामान्यलक्षणोक्षानलक्षणो योगजधर्मरूप
श्वेति तत्रायःन्द्रियसम्बद्ध विशेष्यकशाने प्रकारीभूतो घटत्वादिः
इन्द्रियसम्बद्ध विशेष्यकेटोऽयमिति लौकिकप्रत्यक्ष घटत्वप्रकार:
तदनन्तरं तत्सन्निकण सर्वघटाघटत्ययन्त इत्यलौकिफप्रत्यतम्
द्वितीयश्चसुरभिचंदनग्न एडमित्यागौ। अत्र चंदनखण्डांशेलौकिक
सौरभाशेचालौकिकासौरमस्मरणापशानमेवसन्निकर्षःसौरभस्य
चाक्षुषत्वासम्भवात्॥तृतीयश्च युक्त युजाभेदेन योगिनां नैविध्येन
विविधः ॥ तत्र युक्तस्य योगिनःसर्वदा यावत्पदार्थमानम् ॥ युना
नस्य च चिन्तासहकारेण कालविशेष एवेति भावः॥

१६ तर्कसंग्रहः। तत्करणमिन्द्रियम् । तस्मात् 'इन्द्रियं प्रत्य चप्रमाणम इति सिद्धम् ॥ (पदकृ०) ननु सिद्धान्ते प्रत्यत्तज्ञानकरणमिन्द्रियार्थ सन्निकर्षः किं न स्यात्' इति चेत् 'ना इत्याह तत्करण- मिति ।। प्रत्यक्षपमाणं निगदयति-तस्मादिति ।। प्रत्यत्तपमा करणत्वादित्यर्थः । सिद्धमिति ॥ न्यायसिद्धान्ते सिद. मित्यर्थः ।। इति प्रत्यक्षपरिच्छेदः समाप्तः । अनुमानस्थकि लक्षणम् । अनु [१] मितिकरण मनुमानम् । (न्यायबो०) अनुमान लक्षयति अनुमितीति ॥ अनुमि तो व्याप्तिज्ञानं करणम् (२)परामर्शो व्यापारः अनुमितिः फलंकार्यमित्यर्थः । परामर्शस्यव्याप्तिज्ञानजन्यत्वाव्याप्ति कानजन्यानुमितिजनकत्वाच्च तज्जन्यत्वे सति तज्जन्यजन- कत्वरूपव्यापारलक्षणमुपपन्नम् ।। अनुमितिकरणत्वमनुमा. .प्रत्यक्षानुमानयोः परस्परोपजीव्योपजीवकभावत्वेन प्र त्वज्ञानान्तरमनुमाननिरूपणम् ।। उपजीव्यते जन्यतेऽनेनेति उप जीभ्यंकारणम् । तथाच कार्यकारणभावसंगत्या प्रत्यक्षानन्तर मनुमाननिरूपणमिति भावः ॥ संगतिश्चषोढा तथाहि-सप्रसंग उपोद्घातो हेतुताऽवसरस्तथा निर्वाहकैककासेंक्यषोढासंगति रिष्यतेति।

न्यायबोधिनीपदकस्यसहितः । ५७ नस्य लक्षणम् । अनुमानञ्च व्याप्तिज्ञानम् एतस्य परा मर्शरूपन्यापारद्वारा अनुमिति मति असाधारणकारण तया ऽनुमितिकरणत्वमुपपनम् ।। (पदक ) प्रत्यक्षानुमानयोः कार्यकारणभावसंगतिम- भिमेत्य प्रत्यक्षानन्तरमनुमानं निरूपयति-अनुमितीति । 'अ नुमितेः करणम् भनुमानम् इत्यर्थः। तच 'लिंगपरामर्श एव' इति निवेदयिष्यते ॥ कुठारादावतिव्याप्तिवारणाय 'अनु (१) इति ॥ अनुमितेः किंलक्षणम्। परामर्शजन्य ज्ञानमनुमितिः ।। (न्यायवो० ) परामर्शजन्यमिति ॥ 'परामर्शजन्यत्वे सतिः इति सतिसप्तम्या विशिष्टत्वमर्थः परामर्शजन्यत्ववि. शिष्टज्ञानत्वमनुमितेर्लक्षणम् ॥ तत्र ज्ञानत्वमात्रोपादाने मत्यतादावतिव्याप्तिः, अतस्तद्वारणाय 'परामर्शजन्यत्वे "सतिः इति विशेषणोपादानम् । विशषणमात्रोक्तो तु तद्ध्वंसेऽतिव्याप्तिः, अतोज्ञानत्वोपादानम् ॥ (पदक०) ननु अनुमितेरेव दुर्निरूप्यत्वात् तदघटित.. मनुमानमपि दुर्निरूपम्' इत्यत थाह परामर्शति ।। प्रत्यक्षा १ मानं मितिः डुमिन, प्रक्षेपणे इत्यस्माहातोः स्त्रियां भावे तिन् अनुप्रत्यक्षादितः पश्चान्मीयते इत्यनुमितिः एवं हि करपयुत्पत्याऽनुमानशब्दो बोध्य इति भावः ॥

----- ५८ तर्कसंग्रहः । दावतिव्याप्तिवारणाय 'परामर्शजन्यम! इति । परामर्शध्वं. सवारणाय 'ज्ञानम्। इति । परामर्शप्रत्यक्ष (२) वारणाय- 'हेत्वविषयकम्' इत्यपि बोध्यम् ।। परामर्शस्यकि लक्षणं किंच तत्स्वरूपमिति । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा-वहिव्याप्यधुमवानयं 'पर्वतः, इति ज्ञानं परामर्शः । तजन्यम् 'पर्वतो वन्हिमान्' इति ज्ञानममितिः (न्यायबो०) व्याप्तिविशिष्टोति ॥ 'व्याप्तिविशिष्टं च तत्पक्षधर्मताज्ञानं चा इति कर्मधारये विशिष्टपदस्यमकारक. परत्वात्। 'पक्षधर्मताज्ञानम्' इत्यत्र षष्ट्या विषयत्वबोधनाद धर्मतापदस्य सम्बन्धार्थकत्वाच्च कर्मधारयसमासे समस्यमान पदार्थयोरभेदसंसर्गलाभेन च 'व्याप्तिमकारकाभिन्नं यत् पक्षसम्बन्धिविषयकं ज्ञानं तत् परामर्शः इति लभ्यते । एवं सति 'धूमोवहिव्याप्यः घटवान् पर्वतः' इति समूहालम्बने परामर्शलक्षणं गतम् , तद्वारणाय पक्षविशेष्यतानिरूपिता १ अयम्भावः वन्हिव्याप्यधूमवान् पर्वत इत्याकारकशान. विषयक ज्ञानवानहमित्यत्र अनुव्यवसायात्मकः द्वितीयमानस्य पूर्वपरामर्शरूपक्षानजन्यत्वात् व्यवसायस्यानुव्यवसायेविषयता सम्बन्धेन कारणत्वनियमादतो हेत्वविषयकेति साधूकम् ।

न्यायबोधिनी पदकंत्यसहितः ।. ५६ . या हेतुनिष्ठमकारता' तन्निरूपिता या व्याप्तिनिष्ठमकारता, तच्छालिज्ञानं परामर्शः इति निष्कर्षः ।। एतादृशपरामर्शजन्यत्वे सति ज्ञानत्वम् अनुमितेर्लक्षणम् ।। अनुमितिपरामर्शयोर्विशिष्यकार्यकारणभावश्चेत्थम् 'पर्वत- त्वावच्छिन्नोद्देश्यतानिरूपितसंयोगसम्बन्धावच्छिन्नवह्नित्वाव च्छिन्न वन्हि विधेयतांकानुमितित्वावच्छिन्नं प्रति वहिव्याप्ति महारता निरूपिता या धूमवत्त्वावच्छिन्ना प्रकारता, तनिरूपिताया पर्वतत्वावच्छिन्ना विशेष्यता तच्छालिनिर्णय: कारणम्' इति । स च निर्णयः 'वन्हिव्याप्यधूमवान् पर्वत: इत्याकारकः ॥ (पदकृ०) व्याप्तिविशिष्ट ति ॥ 'विपयिता (१) सम्बन्धन व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः इत्यर्थः॥ घटादि जानवारणाय 'पक्षधर्मता' इति । 'धूमवान् पर्वतः' इति ज्ञानवारणाय 'व्याप्तिविशिष्ट- इति । तदिति ॥ 'परामर्श जन्यम्' इत्यर्थः । व्याप्तर्किलक्षणम् । 'यत्र यत्र धूमस्तत्र तत्र वन्हिः' इति साह चर्यनियमो व्याप्तिः ॥ १ विपयिता मानेवर्तते विषयताच विषये विषयितासम्ब. न्धेन बस्तुमा ज्ञाने, विषयतासम्वन्धेन च ज्ञानमात्रं वस्तुनि, . वर्तते॥

६० तर्कसंग्रहः । -~ न्यायबो०] यत्रयति । यत्र पदे वीप्सावशादर्माधि करणे यावति वन्दिमत्त्वलाभात् यावत्पदमहिम्ना धमन्या. पकत्वं वन्ही लब्धम् तदेव स्पष्टतया साहचर्यनियम इति ।। एतदर्थस्तु 'नियतसाहचर्य न्याप्तिः इति । नियतत्वं ब्या 'पकत्वम् । साहचर्यं नाम सामानाधिकरण्यम् तथा च 'धूम न्यापकवहिसामानाधिकरण्यं व्याप्तिः। इत्यर्थः ।। अत्र धूमव्यापकत्वं नाम धूमसमानाधिकरणात्यन्ताभावपतियो गितानवच्छेदकधर्मवत्त्वम् । तादृशधर्मो वन्दौ वन्हित्वम् । तथाहि धूमाधिकरणे पर्वतमहानसचत्वरादौ वर्तमानोऽ भावः घटत्वावच्छिन्नप्रतियोगिताकाभावो, न तु वन्हित्वा वच्छिन्नमतियोगिताकोऽभावः । कुतः-पर्वतादौ वन्हे: सत्वात् । एवं सति धूमोधिकरणे पर्वतादौ वर्तमानस्य 'घटाभावस्य प्रतियोगितावच्छेदकं घटत्वम्, पटाभावस्य प्रतियोगितावच्छेदक पटत्वम् ।.. अनवच्छेदकं वन्हित्वम्। तादृशं वन्हित्वं वन्ही वर्तते । अतो धूमव्यापकत्वं वन्ही- वर्तते, [तस्याधिकरणे पर्वतादौ चित्वं धूमे वर्तते ] इति । इयमन्वयव्याप्तिः सिद्धान्तानुसारेण॥ पूर्वपक्षीयव्याप्तिस्तु .'साध्याभाववदत्तित्वम्-साध्यतावच्छेदकसम्बन्धावच्छि 'बसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववनिरूपितंय देतुतावच्छेदकसम्बन्धावच्छिन्नत्तित्वम्। ताशत्तित्वा चच्छिन्नप्रतियोगिताकाभावोऽव्याप्तिः तच केवलान्वयिन्य

न्यायचोधिनीपदकत्यसहितः ।
---
-ee-..--
च्याप्तम् । इति सिद्धान्तानुसारेण लक्षणसमन्वयः ।।
पदक.] यत्रयति ।-'तत्र तत्राग्निा" इति व्याप्ते
रभिनयः [२] | 'साहचर्यनियमः' इति लक्षणम् । 'सहं
चरति इति सहचरः तस्य भावः ‘साहचर्य सामानाधि
करण्यम्' इति यावत् । तस्य . नियमो व्याप्तिरित्यर्थः ।
सचाव्यभिचरितत्वम्। तच्च व्यभिचाराभावः। व्यभिचारश्च
साध्याभावववृत्तित्वम् 'महानसं वन्हिमत् धूमात्' इत्या
दो, 'साध्यो पन्हिः तदभाववज्जलहदादि तदतित्वं प्रकृते.
"हेतुभूते धूम' इति कृत्वा लक्षणसमन्वयः ॥ धूमवान् वन्हे.'
इत्यादौ साध्यो धूमः तदभाववत् अयोगोलकम्। तइष्टति--
त्वमेव वन्ह्यादौ इति नातिव्याप्तिः ।।
पक्षता लक्षणं निदर्शय ।
व्याप्यस्य पर्वतादि वृत्तित्वं पक्षधर्मता ।
(पदक० ) ननु ज्ञातेय.व्याप्ति 'पक्षधर्मताशानम् ।
'इत्यत्र का नाम पक्षधर्मता' इत्यपेचमाणे मति तत्स्वरूपं
निरूपयति-व्याप्यस्येति ॥' व्याप्यो नाम व्याप्त्याश्रयः
स च धूमादिरेव; नस्य पर्वतादितित्वं पक्षधर्मता' इत्यर्थः।।
'अनुमान कतिविधम् ।
अनुमानं द्विविधम् स्वार्थ परार्थ च ।
१ अभिनयश्चाङ्गुलिनिर्देशन पदार्थ प्रकाशन मिति ।
-1
-

१२ तर्कसंग्रहः । ( पदक.) अथ 'कथमनुमानमनुमिति करणम् कथं चा तस्मादनुमितिजनिः" इति जिज्ञासमानं प्रति, लाघवादनु. मानविभागमुखेनैव चुबोधयिषुरनुमानं भिजते-अनुमान मिति ॥ वैविध्यं दर्शयति स्वार्थ परार्थ चेति ॥ स्वार्थानुमानस्वरुपं व्रत । तत्र (१) स्वार्थ स्वानुमितिहेतुः । तथाहि- स्वयमेव भूयोदर्शनेन 'यत्रयत्रधुमेस्तत्र तत्रामिः' इतिमहानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्भते चानौं संदिहानः पर्वते धुमं पश्यन व्याप्ति स्मरति(२) यत्र धूमस्तत्रामिः' इति (३) तदनन्तरं 'वन्हिव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते अयमेव लिङ्ग परामर्श इत्युच्यते । तस्मात् 'पर्वतो वन्हिमान' इति ज्ञानमनुमितिरुत्पद्यते । तदे- तत्स्वार्थानुमानम् ॥ २ एकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकस्वनियमादिति भावः ॥ ३न च यावद्वन्हिघूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति ..वाच्यंवन्हित्वधूमस्वरूप सामान्य लक्षणप्रत्यासत्या निखित- पन्हिधुमशान सम्मवात् ।

न्यायबोधिनीपदकृत्यसहितः ।
•-
(न्यायबो०) स्वार्थानुमानं नामन्यायामयोज्यानुमानम् ।।
(पदकृ. ) स्वार्थमिति ॥ स्वस्यार्थः प्रयोजनं यस्मोत्त
स्वार्थमिति समासः । स्वप्रयोजनं च स्वस्थानुमेयमतिपत्तिः
एवं परार्थम्' इत्यस्यापि । अयमिति ।। व्याप्ति वलेन लीन
मर्थं गमयति, इति लिङ्गम् । तच्च, धूमादिः तस्य परामर्शो
ज्ञानविशेष इत्यर्थः । तस्मादिति ।। लिगपरामर्शादित्यर्थः ।।
स्वार्थमुपसंहरति-तदेतदिति ॥ यस्मादिदं - स्वातिपत्तिहेतुः
तस्मादेतत्स्वार्थानुमानमित्यर्थः ।।
परार्थानुमानस्वरूपं निदर्शय ।
यत्तु (१)स्वयं धूमादमिमनुमाय परप्रतिपत्यर्थ
पञ्चावयववाक्यं (२) प्रयुक्त तत्परार्थानुमानम्
यथा 'पर्वता अमिमान, धूमवत्वात, यो यो धूम
वान् स सेोऽमिमान् यथा महानसम्, तथा चा.
यम, तस्मात्तथा, इति । अनेन पूतिपादिता-
लिंगात्परोऽप्यग्निं पूतिपद्यते ॥
(न्यायवो.) न्यायप्रयोज्या (१) नुमानं परार्थानुमानम्
न्यायत्वं च प्रतिज्ञादिपञ्चकसमुदायत्वम् (२).|| अवयवत्वं
प्रतिज्ञाधन्यतमत्वम् ।
१प्रयोज्यत्वंच साक्षात्परम्पया वा अन्यत्वमिति बोध्यम् ॥
२ प्रतिज्ञाहेत्वोः स्वार्थानुमानेपि सत्वेने तवारणाय पंञ्चक..
समुदायस्वमिति॥
- -

६४
'तर्कसंग्रहः ।
-
(पदक०) क्रमप्राप्तं परार्थानुमानमाह-यदिति ।। यत्
पञ्चावयववाक्यं प्रयुज्यते, तत् परार्थानुमानम् इति सम्ब
न्धः ॥ पञ्चावयवेति ॥ अवयवत्वं नाम द्रव्यसमवायि
कारणत्वम्। 'प्रतिज्ञादिपु तदसम्भवात्कथमेतेऽवयवा स्यु
इति चेत् ॥ 'अनुमानवाक्यैकदेशत्वात्तु, भवयवाः" इत्युः
पचर्यन्ते इति गृहाण ।। नन्वेवमपि पञ्चावयववाक्यस्यानुमा
नत्वमेव न विचारसहम् । तस्य लिङ्गपरामर्शत्वाभावात् ।।
इति चेत् ॥ मेवम् । लिङ्गपरामर्शम्योजक (३) लिङ्ग
अंतिपादकत्वेन 'अनुमानम्। इत्युपचार (४) मात्रत्वात् ।। तदु
दाहरति-यथेति ।। तथा चायमिति ॥ अयं च. पर्वतः.
तथा वहिव्याप्यधूमवान 'इत्यर्थः ॥ तस्माचथेति ॥ बहि
व्याप्यध मवत्वात् वह्निमान् ‘इत्यर्थः । अनेनेति । 'अनेन
पञ्चावयववाक्येन इत्यर्थः ॥
न्यायावयवाः पञ्चावयवा वा के।
प्रतिज्ञाहेतूदाहरणेापनयनिगमनानि पञ्चा-
वयवाः 'पर्वतोऽग्निमान्' इति प्रतिज्ञा
धूमवत्त्वात्' इति हेतुः यो यो धूमवान्स से
ऽग्निमान्' इत्युदाहरणम्, तथा चायम
इत्युपनयः, तस्मात्तथा इति निगमनम् ।।
३प्रयोजकत्वञ्चसाक्षारपरस्परयावाकारणत्वमिति बोध्यम्।।
४ उपचारोनामामुण्यव्यवहार इति यावत् ॥

न्यायबोधिनीपदकत्यसहितः ।
(पदकृ०) ननु पञ्चावयववाक्यम्। इत्यत्र के ते पंचा.
वयवाः, अंतस्तान्दर्शयनि-प्रतिज्ञति ॥ प्रतिज्ञायन्यतमत्वम्
अवयवत्वम् ।। साध्यविशिष्टंपतवोधकवचन' प्रतिज्ञा । पंच
'म्यन्तं वतीयान्तं या लिग वचनं हेतुः।। व्याप्तिप्रतिपादक
दृष्टान्तवचनम् उदाहरणम् । उदाहतन्यातिविशिष्यत्वेन
हतोः पक्षधर्मताप्रतिपादकं वचनम् उपनयः । पो.साध्य
स्याबाधितत्वप्रतिपादकवचनं निगमनम् ।। इदमेव लक्षणं
हृदि निधाय प्रतिज्ञादीन् विशिष्य दर्शयति-पर्वतो पन्हि
मानित्यादिना ॥
स्वार्थानुमिति परार्थानुमित्यीकरणम्
स्वार्थानुमितिपरार्थानुमित्योलिङगपरी[१]
मर्श एव करणम । तस्माल्लिङगपरा [२]मों
ऽनुमानम् ॥
...(पदकृ०) लिङ्गेति ।।..ज्ञायमानं लिङ्गमनुमितिकारणं
म्' इति वृद्धोक्तं न युक्तम् । 'इयं यज्ञशाला वह्निमतो अती
तधूमात्' इत्यादौ लिङ्गाभावेप्यनुमितिदर्शनात् इत्यभिमाय',
बान् लिङ्गपरामर्श एव करणा इत्याचष्ट-लिङ्गपरामर्श
एव इति । अनुमानमुपसंहरति-तस्मादिति अनुमिति
लिङ्गपरामर्श तत्कारण व्याप्ति शानमेवानुमितिाकरणमित्यर्थः
२लिपरामर्शतत्कारणीभूतानमनुमानमित्यर्थ ।

तर्कसंग्रहः ।
करणवादित्यर्थः ॥. 'अयमेव (१) तृतीयज्ञानम्। इत्यु
-च्यते । तथाहि-महानसादौ धूमाग्न्योाप्तौ गृह्यमाणायां
-यदध्मज्ञानं तदादिमम्,पक्षे यद्धर्म ज्ञानं तद्वितीयम्, भत्रैव
.(२) वहिव्याप्यत्वेन यद्धर्मज्ञानं तत्वृत्तीयम्। अयमेव लिङ्ग
परामर्श इत्युच्यते ।। अनुमानमिति ।। 'व्यापारवत्कारणम्
इति मते 'व्याप्तिज्ञानमेवानुमानम्, लिङ्गपरामर्शो व्यापारः
इत्यवसेयम् (३)॥
लिङ्गस्य कतिभेदा अन्धयव्यतिरेकिणः किं लक्षणम् ।
लिङ्ग त्रिविधम्-अन्वयव्यतिरेकि केवला-
न्वयि केवलव्यतिरेकि चेति ॥ अन्वयेन व्यति-
रेकेण च व्याप्तिमदन्वयव्यतिरेकि ॥ यथा वन्ही
साध्ये घूमवत्वम् । यत्र धूमस्तत्राग्निः यथा
महानसम्' इत्यन्वयव्याप्तिः 'यत्र पन्हिन
स्ति तत्र धुमोऽपि नोस्ति यथा हृदः इति
व्यतिरेकव्याप्तिः
१लिझपरामर्श पवेत्यर्थः ।।
२परामर्शएवेत्यर्थः।
३ फलायोग व्यवच्छिन्नं कारणं करणमिति मतेतु मूलोक्त
रीत्या परामर्शस्यापि करणत्वमस्तु इति भावः ।।

न्यायबोधिनीपदकृत्यसहितः ।
६७
न्यायबो०) अन्वयेनेति ॥ व्यापकसामानाधिकरण्य
रूपन्याप्तिमानित्यर्थः ।। व्यतिरेकेणेति ॥ व्यतिरेको नामा
भावः । तथा च साध्याभावहेत्वभावयोव्यतिरेकच्याप्तिः ।
( इत्थं) च 'यत्रवह्नयभावस्तत्र तत्र धूमाभावः इति
यत्र. पदवीप्सया वयभाववति यावति धूमाभावग्रहणे
यावत्पदस्य व्यापकपरतया धूमाभावे वह्न यभावव्यापकत्व
लब्धम् ॥ एवं च वयभाव निष्टव्याप्तेः स्वा (१) श्रयीमू
तवह्नयभावव्यापकीभूताभावप्रतियोगित्वसम्बन्धेन धूमनिष्टतया
गृहीतव्यतिरेकन्याप्तिमत्त्वेन व्यतिरेकित्वेन
धूमव्याप.
कवह्नि सामानाधिकरण्यरूपान्वयव्याप्तिमत्वेनान्व यित्वेनच
गृह्यते (२] व्यतिरेकपरामर्शस्तु वह्नय [३] भावव्यापकी
भूताभावप्रतियोगिधूमपात् पर्वतः इत्याकारकः ॥
( पदक.) अन्वयव्यतिरेकिणो क्षणमाह अन्वये
नेति ॥ तृतीयायाः प्रयोज्यत्वमर्थः । साध्यसाधनयोः साह
चर्यमन्वयः, तदभावयोः साचर्य ब्यतिरेकः ॥' तथा च
अन्वयप्रयोज्यव्याप्तिमद व्यतिरेकपयोज्यव्याप्तिमदन्वय
व्यतिरेकि इत्यर्थः ॥ केवलन्यनिरेकिव्याप्त्यतिव्याप्तिवार
णाय 'अन्वयेन, इति । केवलान्वयिनि व्यभिचारंवारणाय
शस्वं.चन्ह्यभाव निष्ठव्याप्तिः॥
२ व्याप्तिर्गृह्यते इत्यर्थः
...३ पन्ह्यभावस्थ व्यापकीभूतो- योऽभावो धूमाभावस्तत्मति
योगीयो धूमस्तद्वान् पतंत इत्यर्थः ।

६.
तकसंग्रहः ।
-
'व्यतिरेकेण' इति ॥ तथा च अन्वयव्याप्तिरुपदर्शितेव ।
व्यतिरेकव्याप्तिश्च 'साध्याभावा(१) व्यापकोभूतावमति-
योगित्वम् । इत्यर्थः । तदुक्तम्
"व्याप्यव्यापकभावो हि भावयोर्याहगिष्यते।
तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ।। अन्वये
साधनंव्याप्यं साध्यं व्यापकमिष्यते। सोध्याभा-
वोऽन्यथा व्याप्यो व्यापकः साधनात्ययः (१"
इति ।
फेवला न्वयिनः किं लक्षणम्
अन्वयमात्रव्याप्तिकं केवलान्वयि ॥ यथा
घटो ऽभिधेयःप्रमेयत्वात पटवत्' इति । अत्र
प्रमेयत्वाभिधेय त्वयोन्यतिरेकव्याप्तिास्ति स.
र्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।।
(न्यायबो०) केवलान्वयिनोलतणमाह अन्वयेति व्यति.
रेफव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्वं केवलान्वयित्वम्
साध्ये केवलान्वयित्वम् अत्यन्ताभावामतियोगित्वम् । तयाच
श्वह्निमान धूमादित्यादौवह्निरूपसाध्याभाषस्यव्यापीभूतो
योऽभाषो धूमाभावस्तत्प्रतियोगित्वं धमे इति लक्षणस मन्चयः॥
२सोधनाभाष इत्यर्थः

न्यायबोधिनीपदकत्यसहितः । ६९ 'प्रभावाप्रतियोगिसाध्पन्यापकत्वा केवलान्वयिहेतोलतण म् ॥ एतलतणं हेतोय॑तिरेकित्वे न संगच्छते । साध्ये केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावात्। अन्वयमात्र- ग्याप्तिकं केवलान्वयिा इतिमूलकारोक्तलक्षणमुपपन्नम् ।। अत्यन्ताभावामतियोगित्वं केवलान्वयित्वम् ।। नच 'एवं संयोगाभावे कालाभावे चाव्याप्तिः' इति वाच्यम् स्व (१) विरोधिवृत्तिमदत्यन्ताभावातियोगित्वस्य तदर्थत्वात् ।। "एकजातीय (२) सम्बन्धन सर्वत्र विद्यमानत्वं केवला- न्वयित्वम्। इति नन्याः॥ (पदक०) केवलान्वयिनो लतणमाह-अन्वयेति । अन्य यनव व्याप्तियस्मिन्सतथा ।। प्रमेयत्वाभिधेयत्वयोयविरे- कन्याप्ति निराकरोति-अति ॥'अभिधेयत्वसाधकानुमान इत्यर्थः ॥ ननु कुतस्तनिषेधः, अतस्तत्र हेतुमाह सर्वस्येति।। पदार्थमात्रस्येत्यर्थः । तथा च सकले पदाभिषेयत्वस्येश्वर- प्रमाविषयत्वस्य चात्यन्ताभावामतियोगित्वरूपकेवलान्वयि- २.स्वविरोधीति ॥ व्याप्यवृत्तिरित्यर्थः संयोगतदमावयोर्वि रोधित्वं नास्ति-काला भावाभावस्य च वृत्तिमत्वं नास्त्यतः स्वंविरोधिवृत्तिमदिति ॥ स्वविरोधीयोवृत्तिमइत्यन्ताभावस्त दप्रतियोगित्वमित्यर्थः ॥ स्वपदेन घटाभावः तस्य विरोधी यो वृत्तिमदत्यन्ताभावो घटामावाभावः तत्प्रतियोगित्वं घटामावे प्रतियोगिवा वाच्यत्वादों इति लक्षणसमन्वयः। २एक जातीयवश स्वरूप सम्बन्धे-विशेष. . .

तर्कसंग्रहः । त्वेन तदभावापसिद्ध्या तद्धटितव्यतिरेकव्याप्तिर्न सम्भव त्येवेति भावः ॥ व्यतिरेकि लिङ्गस्य किं लक्षणम् । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि ।। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्वात् । यदि तरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम् । न चेयं तथा । तस्मान्न तथेति। अत्र यद्गन्ध- वत्तदितरेभ्यो भिन्नम्' इत्यन्क्यदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् ॥ (न्णयवो०) अन्वयव्याप्तिशुन्यत्वैसति व्यतिरेकन्या प्तिमत्वं केवलव्यतिरेकित्वम् ॥ यथा पृथिवीति । अत्र पृथिवीत्वावच्छिन्नं पता, पृथिवीतरजलाधष्टभेदः साध्या, गन्धवस्वं हेतुः । अत्र 'यद्गन्धवत् तदितरभेदवत्, इत्यन्वय. दृष्टान्ताभावात् गन्धव्यापकेतरभेदसामानाधिकरण्यरूपा- न्वयव्याप्तिग्रहासम्भवात् । किन्तु यत्र यतरभेदाभावस्तत्र तत्रगन्धाभावः यथा जलादिकम् इति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरूपसाध्याभावव्यापकता गन्धाभावे गृह्यते । इदमेवार्थ मनसि निधाय 'यदितरेभ्यो न मियते न वगन्धवत् ययाजलम्' इतिग्रन्येनमूलकृद्ध्यतिरेकव्याप्तिमेव प्रदर्शितवान् । एवं व्यतिरेकव्याप्तिग्रहानन्तरम् 'इतरभेदा-

न्यायबोधिनीपदकृत्यसहितः ।
mms
भावव्यापकीभूताभावपतियोगिगन्धवती' पृथिवी इत्या
कारकन्यतिरेकिपरामर्शात् 'पृथिवीत्वावच्छिन्नोद्देश्यतानि
रूपितेतरभेदत्वावच्छिन्नविधेयताका पृथिवी इनरभेदवती
इत्याकारानुमिति यते इति तत्त्वम् ।। यथा श्रुतमूलार्थस्तु
.-यथाजलमिति । जलमितरभेदाभाववत् = 'इतर भेदाभा.
वव्यापकगन्धभाववच' इत्येवं प्रकारेण गन्धाभावनिरूपिता
च्याप्यता इतरभेदाभावे गूह्यते' इत्यर्थः ॥ नचेयं तथेति ।
इयं पृथ्वी, तथा इतरभेदा भावव्यापकगन्धाभाववती न
किंतु तदभावक्तीगन्धवती इत्यर्थः । तस्मान्न तथेति ।।
तच्छन्देन गन्धाभावारूपस्य गन्धस्य परामर्शन तस्मात्
इति पञ्चम्यन्तात् 'गन्धाभावाभाववत्त्वात् इत्यर्थोपलब्धेः,
तथा इतरभेदाभाववतो । 'ना इत्यस्याभावः, तथा च 'इत .
रभेदाभाववती = इतरभेदवती इत्यर्थः ।।
(पदकृ०)केवलव्यतिरेकिणोलतणमाह-व्यतिरेकेति।।
व्यतिरेकेणव व्याप्तिर्यस्मिस्तत्तथा ।। अन्वयव्यतिरेकिण्य
तिव्याप्तिवारणाय मात्रपदम्। नचेयं तथेति ।। 'इयं पृथि-
वी न तथा न गन्धाभाववती' इत्यर्थः ।। तस्मान्न तथेति ॥
गन्धाभाववत्त्वाभावादितरभेदाभाववती न, इत्यर्थः ननु
'मत्र किमिति नान्वयव्याप्ति इत्याशंक्य परिहरति श्रोति।।
'इतरभेदसाधकानुमाने इत्यर्थः इदमुपलक्षणम् “जीववच्छ.

- ૨ तर्कसंग्रहः । रीरं सात्मक, प्राणादि (१) मत्त्वात् यवं सन्नैवं यया घटा प्रत्यक्षादिकं 'प्रमाणम्' इति व्यवहर्तव्यम्, "प्रमा करणत्वात् यन्नैव तन्नैवं यथा प्रत्यक्षाभासा विवादास्प- दम् आकाशम् इति व्यवहर्तव्यम् शब्दवत्त्वात्" इत्यादिक मपि केवलव्यतिरेकि इति द्रष्टव्यम् । पक्षस्य कि लक्षणम् संदिग्धसाध्यवान् पक्षः । यथा-धूमवत्वे हेतो पवतः॥ (न्यायबो०)संदिग्धसाध्येति ।। साध्यमकारकसंदेह(२ विशेष्यत्वम् पत्तत्वम् ॥ एतच्च 'अनुमितेः पूर्व साध्यसंदेहो नियमेन जायते' इत्यभिप्रायेण लक्षणं प्राचीनः कृतम् ।। गमनविशेप्यकमेघप्रकारकसंदेहाभावदशायामपि गृहमध्यस्थ- पुरुषस्य घनगर्जितश्रवणेन 'गगनंमेघवदा इत्याकारांनुमिति आयतेगगनत्वावच्छिन्नोद्देश्यतानिरूपितमेषत्वावच्छिन्नविधेय ताकानुमिनिदर्शनात् भाचीनमतं विहाय नवीन: "अनु. मित्युदेश्यत्वं (१) पक्षत्वम् इति स्थिरीकृतम् । पदकः] अथ पृथिवी मात्रस्य पत्तत्वात्' इत्यत्र किं १ अत्रादि पदेनेन्द्रियाणि ग्राह्याणि । २सन्देहश्च पर्वतो वहिमानवेत्याकारक: १ तच्च सिषाधयिषाविरई विशिष्ठ सिद्ध्यमावत्यरूपमेवे तिबोध्यम् ।

न्यायोधिनीपदकृत्यसहितः ।
नाम पतता, तो निर्वक्ति-संदिग्धेति ॥ सपनवारणाय सं
-दिग्धनि ।।
सपक्ष लक्षण वर्शय।
निश्चितसाध्यवान सपक्षः । यथा तत्र
महानसम् ॥
(न्यायवो०)निश्चितसाध्येति।। साध्यपकारकनिश्चय
विशेष्यत्वं सपक्षत्वम् ॥ निश्चयश्च, महानसं वन्हिमद,
इत्याकारक: ॥
[पदक०] निश्चितेति ॥ पक्षे अतिव्याप्तिवारपोय नि
वितेति । तति 'धमत्रत्वे हेतौ इत्यर्थः ।
विपक्ष लक्षणं प्रदर्शय।
निश्चितसाध्याभाववान् विपक्षः। यथा
तत्रैव इदः॥
[न्यायवो.] निश्चितसाध्याभावेति ॥ साध्याभाव
मकारकनिश्चय विशेष्यत्वं विपक्षत्वम् ॥ निश्चय 'हृदोवन्ध
भाववान् इत्याकारक:
[-पदक० ].निश्चितेति ॥ सपने अतिन्याप्तिवारणाय
'साध्याभावा इति.।। पचे अतिन्याप्तिवारणाय निश्चित
ति । तत्रैवेति धुमवरव. एव ॥
इति । तोवेति. अमरत्व एच ॥

७४ तर्कसंग्रहः । 1- । हेत्वाभासाके। सव्यभिचारविरुद्धसत्पतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ॥ (न्यायवो०) एवं सद्धेतूनिरूप्य हेत्वाभाषानिरूपयति सब्यभिचारेति ॥ हेतुवदाभासन्त इति हेत्वाभासा दुष्टहेतवः, इत्यर्थः । दोषाश्च व्यभिचारविरोधसत्मतिपक्षासिद्धिवाधाः । एतद्विशिष्टा हेतवो दुष्ट हेतव इत्यर्थः ॥ हेतौ दोषज्ञाने सत्य- नुमितिमतिबन्धो जायते न्याप्तिज्ञानप्रतिवन्धो वा भवति ॥ अंतो वादिनिग्रहार्थ वादिनोद्भाविते हेतौ दोषोद्भावनार्थं दुष्टहेतुनिरूपणमित्यर्थः ॥ पर्वतो वन्हिमान् प्रमेयत्वीदा इत्यत्र प्रमेयत्वहेतो वहयभावनदचित्वरूपव्यभिचारे ज्ञावे वन्यभाववृत्तित्वरूपन्यासिग्रहमतिबन्धः फलम् ।। ( पदक ) सद्धेतूनिरूप्य प्रसङ्गाद्धेन्वाभासानाह सन्य. भिचारेति ॥ अनोद बोध्यम् । “अन्वयव्यतिरेकितु पञ्चरूपो पपन्न स्वसाध्यं साधयितु समते । 'तानि कानि' इति चेत् श्रयताम् पक्षधर्मत्वम्, सपक्षसत्वम्, विपक्षब्यावृत्तिः, अवा घितविषयत्वम्, असत्मतिपक्षत्वं चेति । अंबाधितः, साध्यरूप विषयो यस्य तत्तथोक्तम् , तस्य भावस्तत्वम्, एवं साध्या भावसाधकं हेत्वन्तरं यस्य स 'सत्मतिपत इत्युच्यते, नास्ति यस्य सः असत्प्रतिपक्षा; 'तस्य भावस्तत्वम्। (इति न्यायवोधिनीपदकत्यसहितः । G बोध्यम् ) केवलान्वयि तु चतुरूपोपपन्नमेव स्वसाध्यं साध- यितुं क्षमते । तस्य विपक्षविपर्ययेण त्यावृत्तिविपर्ययात् ।। केवलव्यतिरेक्यपि तथा तस्य सपक्षविपर्येण तत्सत्वविपर्यः यात्" इति ॥ उपदर्शितरूपाणां मध्ये कतिपयरूपोपन्नत्वात्, 'हेतुवदाभासन्ते' इति हेत्वाभासाः । तत्वंच अनुमितितत्क- रणान्यतरप्रतिवन्धकयथार्थज्ञानविषयत्वम् ॥ 'बाधस्थले वन्हिरनुष्ण इत्यनुमितिपतिवन्धकं यज्ज्ञानम् 'उष्णत्ववहा- वनुष्णत्वसाधकं द्रव्यत्वम् इत्याकारकम्, तद्विषयत्वस्य विष- यितासंबन्धेन द्रव्यत्वरूपहेत्वाभासे सत्वल्लचाणसमन्वयः (१) । सदनुवारणाय यथार्थ इति, घटादिवारणाय 'अनुमिति- तत्करण प्रतिबन्धक' इति । व्यभिचारिण्यव्याप्तिवारणाय 'अनुमितितत्करणान्यतर' इति ।। लव्यभिचारस्य हेत्वाभासस्य किं लक्षणं के च भेदाः। सव्यभिचारोऽनौका (२)न्तिकः । सं त्रिवि धः-साधारणासाधारणानुपसंहारिभेदात्.।। १ एवं वह्निमान् प्रमेयत्वात् इत्यादौ व्यभिचारि स्थलेऽपि पर्वतोवन्हिमानित्याद्यनुमितिकरणं वह्निव्याप्यं प्रमेयस्वमित्यादि झानं तत्प्रतिबन्धकत्वश्च वहन्यभाववद् वृनि प्रमेयत्वमित्यादि झाने तद्विषयत्वञ्च प्रमेयत्वादी हेताविति लक्षणसमन्वयः॥ . २ पालव्युत्पलये प्राचीनसंकेतं दर्शयति अनैकेति अनैकान्त त्वंच साधारणोधन्यतमत्वम्॥

तर्कसंग्रहः । साधारणस्य हेत्वाभासस्य किं लक्षणम् । साध्याभावववृत्तिः साधा(३) रणोऽनकान्तिका यथा 'पर्वतोऽमिमान् प्रमेयत्वात्' इति प्रमेयत्व- स्य वन्याभाववति इदे विद्यमानत्वात् ।। (पदक०) तोति ॥ 'साधारणादित्रयमध्ये इत्यर्थः प्रय 'विरुद्धऽतिप्रसक्ति इति मास्महप्यः सपतत्तित्वस्यापि निमेशात् ।। अथैव मिपि स्वरूपासिद्धे दूषणं जागति, इति मा यह गर्वम् । पक्ष (१) वृत्तित्वस्यापि तथात्वात् । असाधारण नैकान्तिकस्यलक्षणं उच्यताम् । सर्वसपचविपक्षव्यावृत्तःपचमात्रबृत्तिरसाधा रणः। यथा शब्दो नित्यः शब्दत्वात्' इति । शब्दवं सर्वेभ्यो नित्येभ्यो नित्योभ्यो व्यावृत्तं शब्दमात्रवृत्ति ।। (न्यायवो०) असाधारणइति । सर्वसपतन्यारत्तत्वं निश्चितसाध्यवदवृत्तित्वम् । साध्यवदत्ति त्वंच साध्यासामा- नाधिकरण्यम् ।। हेतौ साध्यासामानाधिकरण्ये निश्चिते सा. ३अनेन साधारणेनापि साध्यसनानाधिकरण्यरूपोव्याप्ति प्रहः प्रतिबध्यते ॥: तथाच पक्ष,सपन वृत्तित्व विशिष्ट साध्यामारववृत्तिः साधारण इति फलितोऽर्थः॥

न्यायवोधिनीपदकृत्यसहितः । ... ~~ ध्यसामानाधिकरण्यरूपव्याप्तिज्ञानमतिवन्धः फलम् ॥ (पदक) पक्षमात्र ति ॥ सर्वं ये सपना विपक्षास्ते- भ्यो ब्यावर्तत इति व्यावृत्तः ॥ केवलव्यतिरेकिवारणाय 'तद्भिन्नः। (२) इत्यपि देयम् ।। अनुपसंहारिणः किं लक्षणम् । अन्वयव्यतिरेकष्टान्तरहितोऽनुपसंहारी (३ यथा-'सर्वमनित्यं प्रमेयत्वात्' इति । अत्र सर्वस्यापि पक्षवाद दृष्टान्तो नास्ति ॥ (न्यायवो०) अनुपसहारिणं लक्षयति-अन्वयेति ।। उभयत्रदृष्टान्ताभावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञानों- भयसामग्री नास्तीत्यर्थः पक्षातिरिक्ताप्रसिद्धरित्यर्थः ।। (पदक० ) अन्वयेति ॥ केवलान्वयिन्यनिष्याप्तिवोर- याय 'अन्वया इति । केवलव्यतिरेफिएयतिव्याप्तिवारणाय 'व्यतिरेक इति ॥ अति ॥ उपदर्शितानुमाने इत्यर्थः॥ विरुद्धस्थललणं निदर्शयते । साध्याभाव्याप्तो हेतुर्विरुद्धः । यथा शब्दों नित्यः कृतकत्वात्' इति कृतकत्वं हि.नित्यत्वा- २ तधाचान्वयव्यतिरेकव्याप्तिशून्यत्वेसति पक्षमात्र वृत्तिर. साधारण इति फलितोऽर्थः ॥ ३ अनेन च व्यतिरेकव्याप्तिग्रहः प्रतिबाध्यते ति बोध्यम् ।

GE तर्कसंग्रहः । भावेनानित्यत्वेन ब्याप्तम् । (न्यायवो.) विरुद्ध लतयति साध्याभावव्याप्त इति ।। तथा च पक्षविशेष्यकसाध्याभावव्याप्यहेतुपकारकज्ञानात् पक्षविशेष्यकसाध्यप्रकारकानुमितिप्रतिवन्धः फलम् ।। एवं सत्मतिपतेऽपि ।। विरुद्धसत्पतिपक्षयोर्विशेषस्तु विरुद्धहेतो रेकत्वेनसत्पतिपक्षहेतोर्द्वित्वेन च ज्ञातव्यः 'सत्पतिपत्तद्वो हेतू विरुद्ध एको, हेतु इति यावत् ।। साध्याभावसाधक हेतूः, साध्यसाधकत्वेनोपन्यस्तः इत्यसामर्थ्य सूचनमपि भवति ।। ( पदक )विरुद्धं लक्षयति साध्येति ।। सदनुवारणाय 'साध्याभावव्याप्त इति । सत्पतिपक्षवारणाय 'सत्मति. पक्षभिन्नः' इत्यपि ज्ञेयम् ॥ कृतेति । कार्यत्वादित्ययः ।। कृतकत्वमिति ॥ अनित्यत्वेनं व्याप्तमिति ॥ 'यद्यत्कृतकं तत्तदनित्यम्। इति व्याप्तेर्भवत्येव तथेति भावः ।। सत्पति पतस्य कि लक्षणम् । साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्र- तिपक्षः (१) यथाः शब्दो नित्यः श्रावणत्वा, च्छन्दत्ववत्' शब्दोऽनित्यः कार्यत्वात् घटवत ॥ (पदक० ) सत्मतिपक्ष लायति- साध्येति ।। ' यस्य १ सत्प्रतिपक्षस्यविरोधिज्ञानसामग्रीत्वेन साक्षानुामति विरोधित्वमिति बोध्यम् ॥

न्यायवोधिनीपदकृत्यसहितः । ७६ हेतोः साध्याभावकसाधक।साध्याभावस्यानुमापर्क हेत्वंतरं प्रतिपदो हेतुर्विद्यते, स हेतु : सत्मतिपक्षः' इत्यर्थः । अय- मेव 'प्रकरणसमः इत्युच्यते ।। विरुद्धचारणाय 'हेवन्तरं यस्य इति ।। वन्हादिवारणाय (२) 'साध्याभावा इति ॥ असिधस्य के भेदाः असिद्धस्त्रिविधः,पाश्रयासिद्धः स्वरूपासि दो च्याप्यत्वासिद्धश्चेति ॥ :: [ पदक..] असिद्धं विभजते प्रसिद्ध इति ॥ श्राश्रया सिद्धाधन्यतमत्वमसिद्धम् ।। आश्रयासिद्धस्य कि लक्षणम् । धाश्रयासिद्धो यथा-गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनार- विन्दमाश्रयः, सच नास्त्येव । (न्यायबो०) आश्रेयासिद्ध इति ॥ [आश्रयासिद्धिर्नाम] पक्षतावच्छेदकविशिष्टपक्षापसिद्धिः[३] | [तथाच ] गग नीयत्व विशिष्टपक्ष सिद्धः सौरभ्यातुमितिर्नभवति "२साधकं हेत्वन्तरं यस्य स सत्प्रतिपक्ष इत्युक्त बन्यादि साध्यसाधर्फ, हेस्वन्तरं धूमादि ताव बन्ह्यादि साध्ये,एवं सत्मतिपक्ष.व्यवहारः स्यादिति भावः ॥ ३ आश्रयासिद्धेश्व पतधर्मताशानद्वारा.,परामशंप्रतिबन्धेः फखमिति बोध्यम ॥

तर्कसंग्रहः । (पदक०) आश्रयासिद्धत्वंच पक्षतावच्छेदकाभाववत्स- सकत्वम् ।। भवति हि अरविन्दे गगनीयत्वरूपपज्ञताव: च्छेदकाभाववत्वम्, अरविन्दरूपपत्रे गयनीयत्वविरहात् ।। ननु कथमरविन्दे गगनीयत्वविरहोऽत आह-अति ।। उपदर्शितानुमान इत्यर्थः । स्वरूपा सिहस्य किं लक्षणम् स्वरूपासिद्धा यथाशदो गुणः चाक्षुपत्तात् रूपवत् । अत्र वानुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात। (न्यायवो०) स्वरूपासिद्धिर्नाम पचे हेत्वभावः। तथा च हेत्वभावविशिष्टपत्तज्ञानात् पक्षविशेष्य कहेतुपकारकपरो मर्शानुपपत्त्य परामर्शमतिवन्धः फलम् ॥ (पदकृ०)पक्षे हेत्वभावः स्वरूपासिद्धिासदत्वभावे ऽतिव्याप्तिवारणाय 'पक्षे इति । घटाधभाववारणाय हेतु इति ।। सोध्यं स्वरूपासिद्धाशुद्धासिद्ध:-~भागा (१) सिद्ध विशषणासिद्ध-विशेष्यासिद्ध-भेदेन चतुर्विधः । तत्रांच- स्तूपदर्शित एव ॥ द्वितीयो यथा-'उद्भुतरूपादिचतुष्टयं १ दुष्ट लक्षणमपि हेत्वाभासं एव । तथाहिं । अव्यातल. क्षणं भागासिद्धेऽन्तर्भवति ॥ असम्भवग्रस्तं च स्वरूपासिड न्तर्मवति ॥ प्रतिप्रसक्तलक्षणस्य व्यांग्यत्वालिद्धरन्तर्भावः ।। सिद्ध साधनस्य चाश्रयासिद्धन्तर्भावः । इत्येवं रूपेषं दोग्यम।

न्यायवोधिनीपदकृत्यसहितः । १ - गुणः रूपत्वात् इत्यत्र रूपत्वहेतोः पतैकदेशावृत्तित्वेन भागे स्वरूपासिद्धत्वम् ।। तृतीयो यथा 'वायुः प्रत्यक्षः रूपवत्त्वे सति स्पर्शवत्वात्' इत्यत्र रूपवत्वविशेषणस्य वायाववृत्तेस्त विशिष्टस्पर्शवत्वस्यापि तथावन तस्य स्तरूपामिद्धत्वं निर्व: हति, विशेषणाभावे विशिष्टस्याप्यभावात् ।। तुरीयो यथा' अत्रैव विशेषणविशेष्यवैपरीत्येन (३) हेतुः, तस्य स्वरूपा सिद्धत्वं विशेष्याभावप्रयुक्तविशिष्टाभावात्' इति बोध्यम्॥ व्याप्यवासिद्धस्य तदन्तर्गतस्योपाधेश्व किं लक्षणम् सोपाधिको हेतुाप्यत्वासिद्धः ॥ साध्य यापकत्वे सति साधनाव्यापकत्वम् उपाधिः ।। साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम् 'साध्यव्यापकत्वम् ॥ साधनवनिष्ठात्यन्ताभाव- प्रतियोगित्वं साधनाव्याप त्वम् ॥ पर्वतो धूम- वान वह्निपत्वात् 'इत्यत्र' आन्धनसंयोग उपाधिः। 'यत्रधमः' तत्रान्धनसंयोगः' इति सांध्यव्यापकता । 'यत्र वन्हिः' तत्रान्धन १ वायुः प्रत्यक्षः स्पर्शवत्वेसति रूपवत्यातूं ॥ इत्यत्ररूपवत्व कप विशेष्यस्य चायावभावेन तद्विशिष्ट स्पर्शवत्वरूपविशेप. एस्यापि तथात्वेन तस्य स्वरूपासिंद्धात्वमक्षेतमेवेति । ६ तर्कसंग्रा संयोगो नास्ति, अयोगोलके आन्धनाभावात' इति साधनाव्यापकता एवं साध्यव्यापको सति साधनाव्यापकलादान्धनसंयोग उपाधिः। सोपाधिकवादन्हिमत्त्वं व्याप्यत्त्वासिद्धम् । (न्यायत्रो० ) व्याप्यत्वासिद्धमिति ।। प्रकृते घमन्या पकत्वमार्दैन्धनसंयोगे गृहीतं चेत् , धूमे आन्धनसंयोग व्याप्यत्वं गृहीतम्। एवं वह रव्यापकत्वमादन्धनसंयोगे गृहीतं चंच, वन्हौ तदव्याप्यत्वं गृहीतम, तदेव व्यभिचारित्वं ।। तथा चोपाधिव्यभिचारित्वं साधने गृहीतं चेत् उपाधिभूतानॆन्धन - संयोगव्याप्यधुमव्यभिचारित्वं गृहीतमेव ॥ अनुमानप्रका- रथ पूर्वानुमानहेतु पक्षीकृन्य वहिमव्यभिचारी धूमन्या पकार्टेन्धनसंयोगव्यभिचारित्वात् घटत्वादिवत् । यो यत्सा- ध्यव्यापकन्यभिचारीसर्वोऽपिसाध्यन्यभिचारी । एवंप्रकारे. ण प्रकृतानुमानहेतुभूते पक्षे साध्यव्यभिचारीत्यापकतया दूप कत्वमुपाः। तथाचधूमाभाववद दृत्तिवरूपधूमव्यभिचारे य- हीते वहौधमाभाववदत्तित्वरूपव्याप्तिग्रहमतिवन्धः फलम् न च व्यभिचा राभेद इति वाच्यं धूमाभाववचित्वाभाषा- भावत्वेन व्याप्यत्वासिद्धत्वं ।। धूमामाववदत्तित्वेन व्यभि- चारत्वमिति भेदात् ।। (पदकु० ) व्याप्यत्वासिद लक्षयति-'सोपाधिका न्यायवोधिनीपदकत्यसहितः । -३ इति ॥ ननु कोयमुपाधि इत्यत आह-सांध्येति ॥ साथ- नान्यापकत्वमाधिः इत्युक्त 'शब्दो नित्यः कृतकत्वात् । इत्यत्र 'सामान्यवत्वे (१) सत्यस्मदादिबाटेन्द्रियग्रहणाई. त्वम्। उपाधिस्यात् वदर्थ सम्यिव्यापकत्वमुक्तम् । तावत्युक्त सामान्यवत्वादिनाऽनित्यत्वसाधने कृतकत्वमुपाधिः स्पात्, तदर्थ साधनान्यापकत्वमुक्तम् ॥ उपाधिभेदमादायासंभ. ववारणाय व्यापकत्वशरीरेऽन्यत्पत्तदमादेयम् [१] १नयध्वंसम्पकार्यत्वावच्छेदेन सामान्यवत्वमात्रस्यापिसाध नाव्यापकत्वादित्यतावन्मात्रमुपाधिरस्थिति वाच्यम् यधुपाधि नेरूपित व्यापकत्वं हेतौस्योत्तदा हेतुनिपिताव्यापकत्वमुपाधौ- मवेत् तदेवतुनास्तितथाहि-व्यापकत्वं हि स्वसमानाधिकरणात्य ताभावाप्रतियोगित्वम् स्वपञ्च सामान्यवस्वरूपोपाधिपरम् उत्सामानाधिकरण वृत्त्यत्यन्ताभावः गगनाधवच्छेदेन कृतकत्वा त्यन्तीभावस्तप्रतिपोगित्वमेव कृतकत्वरूपहेतोरित्यत आह प्रस्मयादिवान्द्रियेति-तथा च नित्यानां सामान्यवतां गगना. दीनामस्मदादि बहिरिन्द्रिय ग्रहणानहत्वात् सुषचं विशेषणम् ॥ योगिनां तत्तदिन्द्रिययोग्य सूक्ष्मपदार्थानामपि भानाद्वारणाया स्मदादीति ॥ अन्तर्मन इन्द्रियेणात्मनोप्रहणात् तद्वारणाय बाहो- न्द्रियेति एवंास्मादि पाहान्द्रियग्रहणाहत्वमात्रस्योपाधित्वे सामान्याद्यवच्छेदेनोपाधेः सत्वात् हेतोश्चासत्वात् तत्रापि पूर्वोत्तरोत्या उपांधिनिरूपितव्यापकत्वं हेतौ नास्तीति सोमा- पवत्व विशिष्टि बाह्येन्द्रिय प्रणाहवं फलितमितिःमोवः । १ चमित्यर्थः ।

तकसंग्रहः । - साधनभेदमादाय साधनस्योपाधित्ववारणायान्यापकशरी. रेऽप्यत्यन्तपदमवश्यं देयम् ॥ सोऽयमुपाधिस्त्रिविध:- केवलसाध्यव्यापका, पक्षधर्मावच्छिन्नसाध्यन्यापक साधनावच्छिन्नसाध्यव्यापकरचेति ॥ तत्रायो मूले उप- दर्शितः ॥ एवं 'क्रत्वन्तर्वतिनी हिंसाऽधर्मजनिका हिंसात्वात् ऋतुबाह्य हिंसावत्' इत्यत्र निपिद्धत्वमुपाधिः। तस्य 'यत्राधर्मजनकत्वम् तत्र निषिद्धत्वम्। इति साध्यः व्यापकता । 'यत्र हिंसातम्, तत्र न निषिद्धत्वम्। इति निपिद्धत्वमापधिः साधनान्यापकः, क्रतुहिंसायां निषि द्धत्वस्याभावात् । “न हिंस्यात्सर्वा भूतानि॥ इति सामान्य वाक्यतः 'पशुना यजेता इत्यादिविरोधे वाक्यस्य बलीय- स्त्वात् । अतो हिंसात्वं नाधर्मजनकत्वे प्रयोजकम्, अपितु 'निषिद्धत्वमेव ' इत्यादिकमपि द्रष्टव्यम् ।। द्वितीयो यथा- 'वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वाद, तत्रोद्भूतरूपवत्वम् उपाधिः । तस्य 'यत्र प्रत्यक्षत्वम्, तत्रोद्भूतरूपंवत्वम् इति न केवलसाध्यव्यापकत्वं रूपे व्यभिचारात् किंतु 'द्रव्यल- क्षणो या पक्षधर्मस्तदवच्छिन्नंबहिः प्रत्यत्तत्वं यत्रतत्रोभूत- रूपवत्वम्। इति पतधर्मावच्छिन्नसाध्यव्यापकत्वमेव । आ. मनि व्यभिचारवारणाय बहिम्पदम् । 'यत्र प्रत्यक्षस्पर्शा- श्रयत्वम्। तत्र नोद्भूतरूपवत्वम् इति साधनाध्यापकत्वं च । वायोवुद्भूतरूपविरहात् ॥ तृतीयो यथा-'पागभावा न्यायवोषिनीपदकृत्यसहितः । ८५ विनाशीजन्यत्वान्' इत्यत्र भावत्वम् उपाधिः । तस्य 'यत्र विनाशित्वम्, तत्र भावत्वम्, इति न केवलसाध्यव्यापक- त्वम् मागभावे भावत्वविरहात् । किंतु ,जन्यत्वरूपसाफ- नावच्छिन्नविनाशित्वं यत्र, तत्र भावत्वम्' इति : साधनाद- च्छिन्नसाध्यव्यापकत्वमेवास्ति । 'यत्र जन्यन्वम्, तत्रभाव- त्वम् । इति साधनाध्याकत्वं च, ध्वंसे भावत्वविरहान् ॥ एवं 'स श्यामो मित्रातनयत्वा' इत्यत्र शाकपाकजन्यत्व- हपाधिः । श्यामत्वस्य नीलघटेऽपि सत्त्वात् न केवलसाध्य. व्यापकत्वम् । किंतु साधनावच्छिन्नसाध्यब्यापकत्वमेव । अष्टमे पुत्र शाकपाकजन्यत्वविरहेण साधनाव्यापकत्वं चं" इत्यादिकं द्रष्टव्यम् ॥ बाधस्प कि लक्षणम् । • यस्य साध्यामांवः प्रमाणान्तरेण निश्चितः स बाधितः । यथा 'वहिरनुष्णो द्रव्यत्वात्' इत्य- त्रोनुष्यत्वं साध्यम्, तदभाव उष्णत्वं स्पर्शन प्रत्यक्षेण गृह्यते इति बाधितत्वम् । न्याख्यातमनुमानम् । (न्यायबो) यस्येति ॥ यस्य हेतोः। साध्यस्या. मावः साध्याभावः सचमत्याचप्रमाणे निश्चितः ॥ तया १..

, . तर्कसंग्रहः । च-प्रात्यक्षिकसाध्याभावनिश्चयेनानुमितिप्रतिवन्धः (१ ) फलम् ॥ वाषितसाध्याकत्वादाधितो हेतुरुच्यते ॥ (पदक० ) यस्येति ॥ सतुवारणाय प्रमाणान्त- रेण' इति । घटादिवारणाय 'साध्या इति ।। ।। इत्यनुमाननिरूपणम् ॥ उपमितेः किं लक्षणम् । उपमितिकरणमुपमानम् (२) संज्ञासंज्ञिसं- वन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम् । तथाहि-कश्चिद्गवयपदार्थमजानन् कुतश्चिदो, रण्यकपुरुषाद 'गोसदृशो गवयः इति श्रुत्वा वनं गतो वाक्यार्थस्मरन् गोसदृशं पिण्डं पश्य ति- तदनन्तरं 'गवयशब्दवोच्योऽयम्' इत्यु, पमितिरुत्पद्यते । (न्यायचो. उपमानं लक्ष्यति-उपमितीति ।। उपः मितिं लक्षयति संज्ञासंझीति ॥ संशा पदम संडीमर्थःतयो सम्बन्धः (१) शक्तिः। तथा च 'पदंपदार्यसम्बन्ध (ज्ञान १ वाधस्पग्राह्याभावनिश्चयत्वेन साक्षादनुमिति प्रतिवन्धः वंबोध्यम्। २ उपमीयतेऽनेनेत्युपमानमिति कश्चित् ।

न्यायबोधिनीपदकत्यसहितः । स्पमितिः' इत्यर्थः । उपमानमतिदेशवाक्यार्थज्ञानम् । अति- देशवाक्यास्मरणं व्यापार, 'गोसहशो गवयपदवाच्या इत्याकारकात् गोसदृशत्वावच्छिभविशेष्यकगवयपदवाच्य त्वपकारकशानं जायते, तदेव करणम् ।। (पदकृ०) अवसरसंगतिमभिप्रेत्यानुमानानन्तरम् उप- मानं निरूपयति-उपमितीति ॥ उपमितेः करणंमुपमान. मित्यर्थः ।। कुठारादिवारणाय 'मिति' इति ॥ प्रत्यक्षा दि वारणाय 'सम्बन्ध' इति । संयोगादिवारणाय 'संज्ञासंशिर इति । अयं गवयपदवाच्या इति । 'अभिप्रेतगवयो गत्र यपदवाच्यः" इत्यर्थः । तेन 'गवयान्तरे शक्तिग्रहाभावमस. अ.' इति दूपणमपास्तम् ॥ तथा च गोमादृश्यविशिष्टपिण्ड ज्ञानं करणम् । अतिदेशवाश्यार्थस्मरणमवान्तरन्यापारः । उपमितिः फलम्, इति सारम् । तच्चोपमानं त्रिविधम्- सादृश्य विशिष्टपिण्डज्ञानमा असाधारणधर्म विशिष्पिं. एडज्ञानम्। वैधय॑विशिष्टपिण्डशानं च ॥ तत्रायमुक्तमेव 'द्वितीयं यथा 'खड्गी मृगः कीदृक् इति पृष्टे 'नासिकाल- सदेकशृङ्गो ऽनतिक्रान्तगजाकृतिश्च' इति तज्ज्ञातृभ्यः श्रुत्वा कालोन्तरे वादपिण्डं पश्यन्नतिदेशवाक्यार्थ स्मरति तद नन्तरं खगमृगः खड्गपदवाच्यः' इत्युपमितिरुत्पद्यते। मंत्र 'नासिकालसदेकशृङ्गः । इत्यसाधारणधर्मः ॥ तृतीय यथा-उष्ट्रः कीदृ इति पृष्ठे अश्वादिवदसमानपृष्टो न तर्कसंग्रहः । ॥ इस्वग्रीव शरीरश्च' इति प्राप्तोचरिते कालान्तरण तत्पिएड- दर्शनाद्वैधय॑विशिष्टपिण्डज्ञानम्। ततो ऽतिदेशवाक्यार्थ स्मरणम्, ततः 'उष्ट्र उष्ट्रपदवाच्यः इत्युपमितिरुत्पद्यते ।। : इत्युपमाननिरूपणम् । शन्दस्य किं लक्षणम् । पासवाक्यं शब्दः ॥ श्रीसस्तु यथार्थवक्ता ।। वाक्यं पदसम्हः । यथा- 'गामानय' इति"शक्त पदम् ।। यस्मात्पदादयमर्थों बोद्धव्यः' इतीश्व रसंकेतः शक्तिः॥ (न्यायबो० ) शब्दं लक्षयति-श्राप्तेति ॥ पदज्ञानं करणम् वृत्तिज्ञानकृतपदज्ञानजन्यपदार्थोपस्थितियापारः। वाक्यार्थज्ञानं फलम्। तच्छान्दवोधः ॥ वृत्तिर्नाम शक्तिलक्ष मान्यतररूपा ।। शक्तिर्नाम घटादिविशेष्यघटादिपदजन्य वोधविषयत्वमकारक ईश्वरसंकेतः ॥ ईश्वरसंकेतोनामेश्वरे च्छा । सैव शक्तिरित्यर्थः । शक्तिनिरूपकत्वमेव पदे शक्त त्वम् ।।. विपयवासम्बन्धेन शक्त्याश्रयत्वं शाक्यत्वम् ।। शक्य सम्बन्धो,लक्षणा ।सा द्विधा-गौणी शुद्धा चेति ।। गौणी नाम.साहश्यविशिष्टलवाणा ॥ यथा-सिंहो माणवकः । इत्यादौ सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा ॥.शुद्धो पि-द्विविधा जइल्लक्षणा अजहन्लक्षणाचेति।। लक्ष्यता न्यायवोधिनीपदकृत्यसहितः। रच्छेदकरूपेण लक्ष्यमात्रयोधप्रयोजिका जहल्लतया । यथा गङ्गाया 'घोपः इत्यत्र गङ्गापदवाच्यमवाहसंवन्धस्य तीरे सत्वाचादृशशक्यसम्बन्धलक्षणाज्ञानात् गङ्गापदात्तीरोप स्थितिः ॥ लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधश्यो जिका मजहल्लक्षणा यथा-काकेभ्यो दधि रक्ष्यताम्। इत्यत्र काकपदस्य दध्युपधातके लक्षणा || लक्ष्यतावच्छे- दकत्वं दध्युपधातकत्वं तेन रूपेण दध्युपघातकानां काक- विडालकुक्कुरादीनां शक्यलक्ष्याणां सर्वेषां वोधात् ।। इयमेव जहद [२] जहल्लवाणा वेदान्तिमते ॥ [पदक० ] अवसरसङ्गतिमभिमेत्योपमानानन्तरं शन्दं लक्षयनि-आप्तेति ॥ शब्द इति ॥ शब्दप्रमाणमित्यर्थः।। भ्रान्तविपलम्भकयोर्वाक्यस्य शब्दप्रमाणत्ववारणाय प्राप्त' इति.॥ ननु 'कोऽयमाप्तः । इत्यतआह-प्राप्तस्त्विति ।। यथार्थवत्ता यथाभूतागधितार्थोपदेष्टा । वाग्यं लक्षयति वाक्यमिति । घटादिसमूहवारणाय 'पद इति । शक्तमिति 'निरूपंकतासम्बन्धन शक्तिविशिष्टम् इत्यर्थः । अस्मादिति 'घटपदाटरूपार्थो बोद्धव्यः । तीधरेच्छैव शक्तिः । इत्यर्थः ।। अर्थस्मृत्यनुकूलपदार्थसम्बन्धत्त्वं तल्लक्षणम् ॥ शक्तिरिव लक्षणाऽपि पदवृत्तिः।। अथकेयं लक्षण- शक्यसम्बन्धो लक्षणा || सा च विधा-जहदजइज्जहद. नहनेदाइ ।। वर्तते.च 'गायां घोषः। इत्यत्र गङ्गापदशः . तर्कसंग्रहः । क्यमवाहसम्बन्धस्तीरे ॥ लक्षणावीजंच तात्पर्यानुपपत्तिःमत एव मवाहे घोपतात्पर्यानुपपत्तेस्तीरे लतणो सेत्स्यति । 'छत्रिणो यान्ति इत्यादौ द्वितीया ॥ सोऽयम इत्यादी तृतीया ॥ शान्द पोधे कानि कारणानि ॥ आकाङ्क्षा (१) योग्यता सनिधिश्च वाक्या- र्थज्ञाने हेतुः ॥ प्राकाङ्क्षा योग्यता सन्निधीनां कानि लक्षणानि पदस्य पदान्तव्यतिरेकप्रयुक्तान्वयाननुभाव: कत्वमाकाक्षा॥अर्थावाधो योग्यतापदानाम- विलम्बेनोच्चारणं सन्निधिः। तथाचाकाक्षादि- रहितंवाक्यमप्रमाणम्। यथागौश्वः पुरुषोहस्ती, इति न प्रमाणम्, आकाक्षाविरहात । 'वहिना सिञ्चेत् इति न प्रमाणम् योग्यताविरहात्। प्रहरे पहरेऽसहोच्चारितानि गाम प्रानय' इत्यादि- पदानि न प्रमाणम् , सांनिध्याभावात् ॥ १येन पदार्थेन सह यस्य पदार्थस्यान्वयः तात्पर्य विषयः तयोः पदयोरव्यवधान सन्निधिरिति तत्वम् ।

ज्यायवोधिनीपदकृत्यसहितः । ६१ (न्यायवो०) आकांक्षा लक्षयति-पदस्येति ॥ यत्पदविशेष्यकाव्यवहितोत्तरत्वादिसंबन्धेन यत्पदप्रकारक- जानव्यतिरेकमयुक्तो यादृशशाव्दवोधाभोवा, तादृशशाब्द- बोधे तत्पदे तत्पदवत्त्वम् आकाढला । तादृशाकाङमाझानं शान्दवोधे. कारणम् ॥ अर्थावाध इति .. .. वाघोभावो योग्यता' इत्यर्थः ।। 'अग्निनो. सिञ्चेत्' इत्यत्र सेककरण त्वस्य जलादिधर्मस्य वन्ही वाधनिश्चयसत्त्वात्तादृशवाच्या चान्दवोधो न संभवति ॥ श्रासचिं निरूपयति-पदाना मिति ।। असहोच्चारितानि ॥ विलम्बेनोच्चारितानि ॥ ( पदकृ.) पदस्येति ॥ असम्भववारणाय 'पदान्तर व्यतिरेकायुक्तः इति । पुनरसंभववारणायः पदान्तर इति । अति ।। श्राफाङ तावारणाय 'अर्थ' इति ॥ पदा नामिति असहोच्चारितेष्वतिव्याप्तिवारणाय 'अविलम्वे ना इति । आकाड तावारणाय ‘पदानाम्। इति ॥ आका- नादिशून्यस्य वाक्यस्यात्र प्रमाणत्वं निषेधयति-तथा चेति 'आमा सादिकं शाब्दहेतु इत्युक्ते चेत्यर्थः: ॥ अनाकाङ क्षायुदाहरणं दर्शयति यथेति ||.: वाक्यम् कति विधम। वाक्यं हिषा-वैदिकलौकिकञ्चेति ॥ वैदि- कमीश्वरोक्तत्वात सर्वमेव पूमाणम् । लौकिक त्वाप्नोक्तं पमाणम् । अन्यदप्रमाणम् ॥

तकसंग्रह।
(मायबो०) वैदिकम् 'वेदवाक्यम्। इत्यर्थः । इद
मुपलक्षणम्-वेदमूलकस्मृत्यादीन्यपि ग्राह्याणि ।। लौकिक
विति । भाप्तत्वं च मयोगहेतु भूतयथार्थ ज्ञानवंत्वम् ।।
शब्द ज्ञानस्य किं लक्षणम् ।
वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्काएं शब्दः।।
( पदकृ० ) 'नन्वतावता शाब्दसामग्री पञ्चिताप्रमा-
विभाजकवाक्ये शादस्याप्पुद्दिष्टत्वेन तत्कुतो न प्रदर्शितम्।
इत्यत आह-वाक्यार्थेति ॥ शा ब्दत्वं च 'शब्दात्मत्येमिर
इत्यनुभवसिद्धा जानिः ॥ शाब्दबोधक्रमो यथा- 'चैत्रो
ग्रामं गच्छति' इत्यत्र 'ग्रामकर्मकगमनानुकूलवर्तमानकलिमान
इति शादवोधः द्वितीयायाः कर्मत्वमर्था, धातोर्गमनम,
अनुकूलत्वं च संसर्गमर्यादया भासते, लटो 'वर्तमान
त्वम्, आख्यातस्य कृतिः, तत्सम्बन्धः संसर्गमर्यादया भां
सते । 'रथो गच्छति' इत्यत्र गमनानुकूलच्यापारवान्
स्थः इति शादिवोध ॥ स्नात्वा गच्छति इत्यत्र ‘गमनमा
गमावावच्छिन्नकालीनस्नानकर्ता गमनानुकूलवर्तमानकृति
मान् इति शाब्दबोधः॥ क्त्वांमत्ययस्यं कर्ता पूर्वकालीनत्वं
चार्थः ॥ एवमन्यत्रापि वाक्ये वोध्यम् ।।
इति शब्दनिरूपणम्
- यथार्यानुभवस्य कति भेदाः,
अयथार्थानुभवविधा-संशयविपर्ययतभेदात।

न्यायपोधिनीपदकत्यसहितः । ४३ -- - संशयस्य लक्षएं उच्यताम एकस्मिन्धर्मिणि विरुद्धनानाधर्मविशि एज्ञानं संशयः (१) । यथा-'स्थाणुर्वा पुरुषो वाइति ॥ (न्यायवो.) यथार्थानुभवं निरूप्यायथार्यानुभव विभजते संशय इत्यादिना ॥ एकति ॥ 'एकधर्मावच्छिन्न विशेष्यतानिरूपितभावाभावप्रकारकं ज्ञानं संशयः । भाव द्वयकोटिकसंशयामसिद्धः 'स्थाणुर्वा' इत्यत्र स्थाणुत्त्वस्था लाभावपुरुपत रुपवाभाव एककोटिक एव ॥ (पदक ) अयथार्यानुभव विभाजते-अयथार्थ इति। संशयं लक्षयति एकति ।। एकस्मिन्धर्मिण्येकस्मिन्पुरोवा तिनि पदार्थे विरुद्धाव्यधिकरणा नानाधमीः स्थाणत्यपुरुष- त्यादयस्तेषां वैशिष्ठ्यं सम्बन्धः, तदवगाहि ज्ञानं संशयः, इत्यर्थः ॥ चटपटौ इति समूहालम्बनबानस्य घटत्वपटत्व (१) सच संशयोऽपि साधारणधर्मधीजन्यत्वेनासाधारण धर्मधी अन्यत्वेन विप्रतिपतिजन्यत्येनच विविधोभवति-कोटिं हय स्मरण पूर्वक विशेषादर्शनं संशयमाने हेतुःप्रधाघस्यमूले एयोदाहरणं साधारणधर्मस्वञ्च पुरपरवनिश्चायककरादिमत्वं स्थागुत्य निश्चायकवक्त कोटिरादिमत्वमिति,द्वितीयोयथाशब्द त्वं नित्यानित्यव्यावृत्तं शब्दमात्रवृतीतिशामेन शम्यो नित्योनवेति संशयः तृतीयो यथा प्रामाएपं स्वतोगाहां परतोवेतिसंशयति। ~ तर्कसंग्रहः । रूपविरुद्धनानाधर्म वैशिष्ट्यावगाहित्वादतिमसक्तिवारणय एकस्मिन्निति ।। 'घटा पृथिवी.' इति ज्ञानस्यैकस्मिन्ध- मिणि घटे घटत्वपृथिवीत्वरूपनानाधर्मवैशिष्ट्यावगोहित्वा दप्रसङ्गवारणायं 'विरुदः इति ॥ घटत्वविरुद्धपटत्व- 'वान्पटः इति ज्ञानेऽतिमसक्तिवारणाय 'नाना' इति । विपर्ययस्य किंलक्षणम् । मिथ्याज्ञानं विपर्ययः॥ यथा शुक्तौ 'रज- तम्' इति ॥ (न्यायपो०) मिथ्याज्ञानमिति ॥ 'अयथार्थज्ञानम्, विपर्यः ।। विपर्ययो नाम भ्रम इत्यर्थः ।। ( पदक ) मिथ्येति ।। यथार्थज्ञानवारणाय 'मिथ्या इति । अयथार्थवारणाय 'ज्ञान? इति ।। तकस्य कि लक्षणम् । - व्याप्यारोपेण [१] व्यापकारोपस्तर्कः ।। १ व्याप्यस्यारोप आहायं ज्ञानम् तच बोध कालीनेच्छाजन्यं तेनापाद्यो योव्यापकस्यारोपःस तर्क इत्यर्थः उदाहरणंचं यदि घन्दिनस्यादिति भत्रहिन्छभावंरूपव्याप्यस्यारोपेण व्यापको धूमाभाव पारोप्यते व्यापकत्वमधिकदेश वृत्तित्वम् ॥ व्याप्य. स्वंचाल्पदेशवृतित्वम् ॥ अस्ति चैतदयो गोलकधिकरण वृत्ति. सरवा सत्वेन धूमाभाव वन्ह्यभावयोरिति ॥ एतादृश स्पेगास्थ विषय परिशोधकत्वम् ॥ व्यभिचार संशय निधर्तकत्वं तु ६५ न्यायपोधिनीपदकत्यसरितः । यथा 'यदि वहिर्नस्यात् तर्हि धूमोऽपि नस्यात् इति ॥ (न्यायको)न्याप्यारोपेणेति । तर्के (१)व्याप्या- स्प व्यापकस्य च न्यतिरेकविधिनिश्चय कारणम् ।। अ- न्यया (२) पावनिश्चयोभावे इष्टा (३) पचिदोपण तो (४) नुत्पतेः ।। (पदक० ) व्याप्येति ॥ असम्भववारणाय व्याप्प रोपेण इति । पुरनसंभवधारणाय व्यापकारोप इति । भत्र वन्यभावो व्याप्यः, धूमाभावो 'व्यापकः, यद्यपि तर्कस्य विपर्ययात्मकत्वेन पृथग्विभागोजुचितः ॥ तथापि । प्रमाणानुग्राहकत्वात् स उचितः, इति चोयम् ।। स्वप्नस्तु यदि धूमो पन्दिव्यभिचारीस्यत्तदा चन्हिजन्यो नस्यादित्येता. रश रूपेणेति-अत्रापि घन्दि व्यभिचारिष वन्हि जन्यताभाष ज्याप्यत्वमिति बोध्यम् । १ अयम्मावः यदि वहिनस्यात्तहिंधूमोऽपि नस्यादित्यादि स्थले च्याप्यस्य घन्समावस्य व्यापकस्य धूमाभावस्य च व्यतिरेकविध निश्चयो धूम सस्पेन पन्हिसत्वनिश्चयः कारण- मित्यर्थः ॥ २ आहा-शान अपव्याप्यव्यापकयोविपरीतवाधनिश्च- याभावे। ३ धूमोऽपिमाभवस्थितीप्टापत्ति दोपेणेत्यर्थः । ५ तर्कस्वरूपानुपपरित्यर्थः ॥

१६ तर्कसंग्रह। 1 सुखस्य कि पुरीतहिर्देशान्तर्देशयोः संधौ सिंधीनाड्याँ वा मनसि स्थिते, अदृष्टविशेषेण धातुदोषेण वा जन्यते । स च मानस विपर्ययान्तभूतः ॥ स्मृतेः कति भेदाः। स्मृतिपि द्विधा, यथार्थी, अयथार्था च ॥ पूमाजन्या यथार्था । अंप्रमाजन्याऽयथार्था । लक्षणम् । सर्वेषामनुकूलवेदनीयं सुखम् ॥ ( न्यायवो. ) मुखं निरूपयति-अनुकूलैति ।। 'इतरे च्छा (५) नधीनेच्छाविषयत्वम् इति निष्कर्षः ॥ यथाश्रुते अनुकूलत्वप्रकारकवेदनीयत्वस्य : ( वेदनाविशेष्यत्वस्य ) 'घटो ऽनुकूलः' इत्याकारकज्ञानदशायामनुकूलप्रकारक- ज्ञानविशेष्यत्वस्य घटादावपि सत्वाद्धटादावविव्याप्ति. इति निष्कृष्टलक्षणमुक्तम् ॥ भोजनादावतिव्याप्तिवारणाय 'इतरेच्छानधीना इतीच्छाविशेषणम् । : मुखेच्छायाः सुख त्वमकारकज्ञानमात्रजन्यत्वात् ।। [पदकृ.-] मुखं निरूपयति सर्वेषामिति ॥ सर्वाः- त्मनाम्': 'अनुकूल' इति वेद्यं यत् 'वत्सुखम्' इत्यर्थः ।। ५, मुखं विहाय सर्वत्र धनधान्याद्रौ सुखेच्छाधीनेच्छा विषयत्वं सुखेचान्येच्छानधीनेच्छा विषयत्वं नहि समय न्यार्थमपेक्षते इति भावः ॥ .

६७ न्यायबोधिनीपदकृत्यसहितः । 'महमुखी' इत्यनुभवसिद्धमुखत्वजातिमदु धर्ममात्रासा. धारणकारणगुणों वा सुखम् ॥ शत्रु दुःखवारणाय सर्वे पाम् ति॥ दुःखस्य कि लक्षणम्। प्रतिकूलतया वेदनीयं दुःखम् । [न्यायवो.] दुःखं निरूपयति प्रतिकूलेति ॥ यत्रापि इतरद्वेषानधीन पविपयत्वम् इति निकृष्टलक्षणम् उपविष. यत्वमात्रोक्तो सादावतिच्याप्तिः, तद्वारणाय 'इतरद्वेषाधी- न-' इति द्वेषविशेषणम् ॥ सर्पजन्यदुःखादौ द्वेषात् सर्प- ऽपि द्वेपः, इति सर्पस्य सर्पजन्यदुःखादी द्वेषविषयत्वात् । अन्यद्वैपाधीन द्वेषविषयत्वरूपदुःखलक्षणस्य सादौ नाति व्याप्तिः॥ फलेच्छा उपायेच्छा मति कारणम् । यतः फले च्छावशादुपायेचा भवति || एवं फले द्वैपादुपाये द्वेषः । पदक० ) प्रतिकूलेति ॥ दुःखत्वजातिमद अधर्ममा. त्रासाधारणकारणगुणो (वा) दुःखम् ।। पदकृत्यं पूर्व- वत् ॥ । इच्छा लक्षणं धद । उपलक्षणम् । प्रयत्न लक्षणम्। इच्छा कामः।। क्रोधो द्वेषः ॥ कृतिःप्रयत्नः॥ (पदकृ. ) इच्छां निरूपयति-इच्छेति ।। 'कामा इति पर्यायः ॥ इच्छात्वजातिमती-इच्छा ।। सा द्विधा- फलेच्छा उपायेच्छा च ।। फलम् मुखादिकम् । उपायो -

६८
तर्कसंग्रहः ।
यागादिः ॥ द्वेषं निरूपयति-क्रोध इति ॥ 'देष्टि इत्यनुभ
वसिद्धद्वेषत्वजातिमान् विष्टसाधनाताज्ञानजन्यगुणो वा द्वे
पः ॥ प्रयत्नं निरूपयति कृतिरिति ॥ प्रयत्नत्वजातिमान्
प्रयत्नः ॥ स त्रिविधः प्रवृत्तिनिवृत्तिजीवनयोनिभेदात् ॥
इच्छाजन्यो गुणः प्रवृत्तिः ॥ द्वेषजन्यो गुणो निवृत्तिः ॥
जीवनादृष्टजन्यो गुणों जीवनयोनिः ॥ स च माणसंचा
रकारणम् ॥
धर्म लक्षणम
विहितकर्मजन्योधर्मः॥ निषिद्धकर्मजन्योऽधर्मः॥
(न्यायवो०) धर्माधौं निरूपयति-विहितेति ॥
वेदविहित इत्यर्थः ॥ निपिद्धति ॥ वेदनिपिद्ध। इत्यर्थः ।।
[ पदकृ] धर्ममाह --विहितेति ॥ 'वेदविहित
इत्यर्थः ।। अधर्मवारणाय 'वेदविहित- इति ॥ यागा-
दि क्रियावारणाय 'कर्मजन्या इति स च कर्मनाशाजल
स्पर्शकीर्तन [१] भोग-तत्वज्ञानादिना -नश्यति ॥ अधर्म
लक्षणमाह-निषिद्धति ॥ वेदेन इत्यर्थः[२]॥ धर्मवारणाय
'वेदनिषिद्ध इति । निपिद्धक्रियावारणाय 'कर्मजन्या
इति । स च भोगमायश्चित्तादिना नश्यति ॥ एताव
- (१) कर्मनाशाजलस्पर्शात्करतोयाविलइनात् ।गण्डकी बाह
तरणाद्धर्मः क्षरतिकीर्तनादित्युक्तरिति ।
(२) मा हिंस्यादिति निषिद्ध हिंसादि कर्मजन्यम् ।
.

न्यायवोधिनीपदकत्यसहितः। १६ Aasme- -- 'अष्टम्। इति कथ्यते, वासनाजन्यौ च ॥ वासना च विलक्षणसंस्कारः। आत्ममात्रवृत्तयो विशेष गुणाः के। बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धी- च्याप्रयत्ना नित्या अनित्याश्च । नित्या ईश्वर- स्य । अनित्या जीवस्य । (न्यायवो०) वुद्ध्यादयोऽष्टाविति ॥ बुद्धि सुख- दुःखद्वेष प्रयत्लधर्माधर्मसंस्कारा इत्यर्थः ।। संस्कार लक्षणं तन्नेदान् पृर्तीश्च निरूपयत । संस्कारस्त्रिया-वेगो भावना स्थितिस्थाप कश्चेति ॥ वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः ।। अनुभवजन्या स्मृतिहेतुर्भावना-श्रात्ममात्र वृत्तिः । अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः कटादिपथिवीवृत्तिः ॥ इति गुणाः॥ (न्यायवो.) संस्कारं विभजते-संस्कार इति ॥ भावनां लक्षयति । अनुभवेति । अनुभवजन्यत्वे सति स्मृति हेतुत्वं भावनायो लक्षणम् ॥ अत्रानुभवजन्यत्वे

तकसंग्रहः ।
---
.
सतीति विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिः
प्रात्ममनासंयोगस्य ज्ञानमोनं प्रत्यसमवायिकारणत्वेन
स्मृति प्रत्यपि कारणत्वादतस्तदुपादानम्। आत्ममनः संयो
गस्यानुभवजन्यत्वाभावानातिप्तिः तावन्मात्रं कृतेऽनु-
भवध्वंसेऽतिच्याप्तिः ध्वंसंप्रति प्रशियनोगिः कारणत्वेनानु-
भवध्वंसस्णप्यनुभवजन्यत्वादतः स्मृतिहेतुत्वोपादानम् अनु
भवध्वंसे हेतुत्वाभावान्नातिव्याप्तिरिति ॥
(पदकृ०.) संस्कारं विभजते -संस्कार इति ॥ साया
न्यगुणात्मविशेषगुणोभयत्तिगुणत्वव्याप्यजातिमान् संस्का
रः॥ घटादिवारणाय 'गुणत्वयाप्यो इति । संयोगदिवा-
रणाय 'आत्मविशेषगुणोभयत्तिः इति, ज्ञानादिवारणाय
'सामान्यगुणः इति ॥ द्वितीयादिपतनासमवायिकारणं,
वेगः ॥ रूपादिवारणाय 'द्वितीयादिपतंना इति । कालानि
चारणाय 'असमवायि' इति ॥ भावनां लक्षयति-अनु',
भवेति ॥ आत्मादिवारणाय प्रथमदलम् । अनुभवध्वं-
सवारणाय द्वितीयदलम् ॥ स्थितिस्थापकमाह-अन्यथे
ति ।। पृथिवीमात्रसमवेतसंस्कारत्वव्याप्यजातिमत्वं स्थिति
स्थापकत्वम् ॥ गन्धत्वमादाय गन्धेऽतिव्याप्तिवारणाय
'संस्कारत्वव्याप्यः इति । भावनात्वमादाय भावनावार
वाय. 'पृथिवीसमवेता 'इवि . । स्थितिस्थापकरूपान्यरत
मादाय रूपवारणाय 'जाति' इति ॥ इति गुणा इति ॥

न्यायवोधिनीपदकत्यसेहिती
द्रव्यकर्म भिन्नत्वे सति सामान्यवान् गुणः ॥ द्रव्यकर्मणोर
तिच्याप्तियारणाय विशेषणदलम् । सामान्यादावतिव्याप्ति
वारणाय विशेष्यदलम् ॥
कर्मणः कि लक्षणम् ।
चलनात्मकं कर्म ॥ ऊर्ध्वदेशसंयोगहेतुरु
तोपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् ।।
शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् ॥ विप्रकृष्टः
संयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् ।।
(न्यायवो०') कर्म निरूपयति-चलनात्मकमिति ।।
(पदक० ) चलनेति ॥ संयोगभिन्नत्वे सति संयो,
गासमवायिकारणं कर्म । हस्तपुस्तकसंयोगवारणाय सत्य:
न्तम् । घटादिवारणाय विशेष्यदलम् । अवंति ॥ अपंचे
पर्णवारणाय 'ऊ' इति । कालादिवारणाय 'असाधा
रण' इत्यपि घोद्ध यम् ॥ अघोदेशेति ॥ उत्क्षेपणवारणाय
'अधोदेश' इति । कालादिवारणाय 'असाधारणा इत्यपि
देयम् ॥ शरीरेति ।। प्रसारणादिवारणाय 'शरीरसैनिकृष्ट'
इति कालादिवारणाय. 'असाधारण (पदम्): देयम् ।।
विकृप्टेति ॥ उत्तेपणादिवारणाय विपकृष्टः इति ।
कालादिवारणाय: असाधारणा.( पदमावश्यकम् ॥

तंकसंग्रहः । ------ सामान्याक्षणम् ।. नित्यमेकमनेकानुगतं सामान्यम् ॥ द्रव्य- गुणकर्मवृत्ति । परं. सत्ता अपरं द्रव्यत्वादि । न्यायबो०) सामान्यं निरूपयति-नित्यमेकमनेका- नुगतमिति ॥ नित्यत्वे सत्यनेकसमवेतत्वं जातेलक्षणम्- इत्यर्थः ॥ नित्यत्वविशेषणानुपादाने अनेकसमवेतत्वमात्रो पादाने संयोगादातिव्याप्तिःतत्राप्यनेकसमवेतत्वस्य सत्वा त् ।। अनेकसमवेतत्वानुपादाने नित्यत्वामांत्रोपादाने आका शादावतिव्याप्तिः, तद्वारणाय 'अनेकसमवेतत्वम् । भने कसमवेतत्वानुपादाने नित्यत्वविशिष्टसमवेतत्वमात्रोक्तावाका शगतैकत्वपरिमाणादौ जलपरमाणुगतरूपादौ चातिव्याप्तिः जलपरमोणुगतरूपादेराकाशंगतैकत्वपरिमाणादेनित्यत्वात् । समवेतत्वाच अतः अनेक इति समवेतविशेषणम् ।। ( पदक०) नित्यमिति संयोगादिवारणाय 'नित्यम्। इति कालादिपरिमाणवारणाय अनेक इति भनेकानुगतत्वं च समवायेन बोध्यम् । सेन नात्यन्ताभावेऽतिव्याप्तिः ।। पेशेष लक्षणम् । . नित्यद्रव्यवृत्तयो व्यावतका विशेषाः ॥ "(न्यायवो०) नित्यद्रव्यवृत्तय इति ॥ नित्यम्येषु परमाएवादिषुर्वतमानोंः अतएवं न्यावर्तका इतरभेदानुमिति । न्यायवोधिनीपदकंत्यसहितः। हेतवः नित्यद्रव्यत्तित्वरूपपक्षधर्मता प्रयोज्येतरभेदानुमाप कनाशालिन इत्यर्थः । नित्यद्रव्यनिष्ठविशेष्यंतानिरूपितक- मात्रत्तिभेदानुमितिजनकतावच्छेदकमकारताश्रयत्वं विशे पाणां लक्षणमितिभावः॥पार्थिवपरमाणौ जलादि भेदानु मापकगन्धेतिव्याप्तिवारणायकमात्रवृत्तित्वं भेदविशेषणम्।। घटादौ तदितरभेदानुमापके तद्रुपादावतिव्याप्तिवारणाय निरूपितान्तं भकारताविशेषणम् । एतेन व्यावर्तका इत्यस्य नित्यद्रव्यविशंप्यकेतरभेदानुमितिमयोजका इत्यर्थकतया ल- क्षणपरत्वेन साफल्येपि नित्यद्रव्यवृत्तय इति विफलमेव स्वरूपाख्यातस्यापि कृतत्वादित्तिपत्युक्तम ।। ( पदकृ० ) नित्यद्रव्यहत्तय इति घटत्वादिवारणाय 'नित्यद्रन्यवृत्तयः" इति । भात्मत्वमनस्त्ववारणाय 'आत्म त्वमनस्त्वभिन्नत्वे सति' इत्यपि बोद्ध यम् समपायरय कि लक्षणम् । नित्यसंबन्धः समवायः । अयुतसिद्धवृत्तिः। ययोद्धयोर्मध्य एकमपराश्रितमेवावतिष्ठते, ताव- युतसिद्धौ । यथा अवयवावयविनों; गुणगुणि- नौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनि- त्यद्रव्ये चेति ।। .

:: तर्कसंग्रहः । (न्यायवो०) समवायं निरूपयति-नित्येति ॥संब- न्धत्वविशिष्टप्रनीतिनियामकत्वम् ॥ तावन्मात्रोक्तौ संयोगे तिच्याप्तिः श्रतो 'नित्य इति विशेषणम् ॥ .ययोर्मध्य इति ॥ यनिष्ठकालनिरूपितायतासामान्यं ग्दवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः । ( पदकृ.)नित्येति ॥ आकाशादिवारणाय 'संवन्धः इति । संयोगवारणाय "नित्या इति। स्वरूपसंदधवारणा- व तद्भिन्न इत्यपि ॥ प्रागभावस्थ किं लक्षणम् । अनादिः सान्तः प्रागभावः ॥ उत्पत्तेः पूर्व- कार्यस्य ।। (न्यायचो.)प्रागभी निरूपयति-अनादिरितिं ॥ (पदक०) प्रागभावं लतयति-अनादिरिति ॥ घटादि वारणाय ऽथमदलम् । परमाणुवारणाय द्वितीयदलम् ।। 'पुनः मागभावः कस्मिन् कालेऽस्ति' इत्यत आह-उत्प. तेरिति । कार्यस्योत्पत्तः प्राक् स्वप्रतियोगिसमवायिकारणे वर्तते इत्यर्थः ।। प्रध्वंसस्य किं लक्षणम् । - सादिरनन्तः प्रध्वंसः॥ उत्पत्त्यनन्तरंकार्यस्य ।। (न्यायबो०) ध्वंसं निरूपयति-सादिरिति ।

न्यायवोधिनीपदकत्यसहितः । . १०५ -- --- ( पदकृ० ) ध्वंसं लक्षयति-सादिरिति । घटादिवार- णाय 'अनन्त, इति । अात्मादिवारणाय 'सादि' इति । उत्पचीति | 'कार्यस्योत्पत्त्यनन्तरं स्वपतियोगिसमकायिकार णवृत्चिरित्यर्थः, स च 'ध्वस्त' इति प्रत्ययविषयः ।। अत्यन्ता भावस्य कि लक्षणम् कालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्य- न्ताभाव;॥ यथा 'भूतले घटो नास्ति' इति ॥ (न्यायवो०)अत्यन्ताभावनिरूपयतिकालिकेति॥ मागभावामतियोगित्वेसतिध्वंसामतियोगित्वेसत्यन्योन्या भान भिन्नत्वे सत्यभावत्वमत्यन्ताभावस्य लक्षणम् । ध्वंस. प्रागभावान्योन्याभावाकाशाभावादीनां वारणाय यथाक्रम विशेषणोपादानम् । वस्तुतस्तु संसर्गाभावत्वन्तादात्म्य- भिन्नसंवन्धावच्छिन्नपतियोगिताकाभावत्वध्वंसमागभावयो. श्व नसंसर्गावच्छिन्नमतियोगिताकत्वमिति मतेनैव तद्वारखें कालिके तिस्वरूपाख्यानमेवेतिबोध्यम् ॥ (पदक०) अत्यन्ताभावं लक्षयति-ौकालिक इति ।। 'कालिकत्वे सति संसर्गावच्छिन्नमतियोगिताकोऽत्यन्ता- भावः ॥ ध्वंसपागभावधारणाय 'कालिका इति । भेद वारणाय 'संसर्गः इत्यादि ।

१०६ तर्कसंग्रहा। . -~- अन्योन्याभावस्यं किं लक्षणम् तादात्म्यसम्बन्धावच्छिन्नपतियोगिताकोs- न्योन्याभावः॥ यथा 'घटः पटोन' इति ॥ (न्यायवो०) अन्योन्याभावं निरूपयति-तादात्म्येति । अभावत्रयवारणाय विशेषणं घटाभाववान्नेति प्रतीतिविषय घटादिवारणाय विशेष्यम् ।। (पदक०) अन्योन्याभावं लक्षयति-तादात्म्येति । माग भावप्रध्वंसोभावधारणाय 'तादात्म्या इति । अत्यन्ताभाव वारणाय तादात्म्यत्वेनतादात्म्यसंवन्धो विशेपणीयः॥ संसर्गामावमिन्नाभावत्वमन्यांना भाव लक्षणम् सर्वेषामेव पदार्थानां यथायथमुक्तेष्वेवान्त. भवात् 'सप्तैव पदार्थाः' इति सिद्धम् ॥ (न्यायवो०) ननु साश्यादीनामतिरिक्तपदार्थानाम- निरूपणेन न्यूनतेत्यत आह सर्वेपामिति ।। 'प्रमाणप्रमेयसंश- यप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवित्तंडाहे- वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानान्निश्रेयसा. धिगमः' इति न्यायस्यादिमसूत्रउक्तानां 'प्रमाणपमेयादी. नाम्' इत्यर्थः । विस्तरस्त्वन्यत्रानुसंधेयः ।। (पद) पदार्थज्ञानस्य परमप्रयोजनं 'मोक्षः' इत्याम नन्ति स च आत्यन्तिकैकविंशतिदुःखध्वंसः॥ श्रात्यन्तिक.

न्यायवोधिनीपदकत्यसहितः ।
१०७
--
त्वं चस्वसमानाधिकरणदुःखमागभावासमानकालीनत्वम्।।
दुःखध्वंसस्येदानीमपि सत्वेनास्मदादीनामपि मुक्तत्वापत्ति
वारणाय कालीनान्तम् ॥ मुक्त्यात्मकदुःखध्वंसस्यान्यदी.
यदुःखपागभावसमान कालीनत्वादामदेवादीनां मुक्तात्मना
मप्यमुक्तत्वमसङ्गात् 'स्वसमानाधिकरण । इति भागभाव.
विशेपणम् , दुःखानि चैकविंशतिः शरीरम् पडिन्द्रियाणि,
'पड्विपयाः षड्बुद्धयः, सुख दुःखं चेति ॥ दुःखानुपङ्गिः
त्वाच शरीरादौ गौणदुःखत्वम् । तथा च 'आत्मावारेश्रो.
तव्यो मन्तज्यो निदिध्यासितव्या इतिश्रु तेगत्मज्ञान साधन
निदिव्यासनसाधनमननसाधनत्वं पदार्थज्ञाने संजाघटीति ॥
एवं च सति तत्त्वज्ञाने शरीरपुत्रादावात्मत्वस्वीयत्वाभिमान -
रूपमिथ्यानानस्य नाशः । तेन दोपाभावः तेन प्रत्यनुत्प.
त्तिः, ततस्तत्कालीनशरीरेण कायव्यूहेन वा भोगतत्वज्ञा.
नाभ्यां कर्मणां नाशः ततो जन्माभावः ।।
"नित्यनैमित्ति कैरेव कुर्वाणो दुरितक्षयम् ।
'ज्ञानं च विमली कुर्वन्नभ्यासेन च पाचयेत्
अभ्यासात्पकविज्ञाने कैवल्यं लभते नरः ।।"
इत्यादिवचनात् “तमेव विदित्वाऽतिमृत्युमेति इति
श्रुतेश्च सगुणापासनाकाशीमरणादेरपितत्वज्ञानद्वारा मुक्ति-

हेतुत्वम् ।। अत एव 'परमेश्वरी काश्यां वारकमुपदिशति' इति सारम् ॥ काणादन्यायमतयो लव्युत्पत्तिसिद्धये । अन्नभहन विदुषा रचितस्तर्कसंग्रहः॥१॥ (न्यायबो) इति श्रीमत्सवस्यविद्धन्मुकुठश्रीगोवर्धन- छत्ता तर्कसंग्रहव्याख्या न्यायवोधिनी समाप्ता ॥ (पदकृ०) चक्रे चन्द्रजसिंहो हि पदकृत्यमिदं शुभम् । परोपकारकरणं माधवो वीक्षतां परम् ॥ १॥ इति श्रीमत्तत्रभवद् (१) गुरुत्तसिंह शिष्यश्रीचन्द्रसिंह विरचितं पदकृत्यं समाप्तिमगात् ।।

सूचीपत्र ।
तुलसीदासकृत रामायण गुटका भाषा टीका ।
यह पुस्तक छोटे आकार में उतने ही विषय सहित है
जितना कि पड़ी पुस्तक में है। चिकने सुन्दर कागज पर छपया
कर प्रकाशित की गई है जिसमें ग्राहक लोगों कोसफर त्यादि
में अपने साथ रखने सुविधा हो । मूल्य.-
४)
तुलसीदासकृत रामायण मूल आठकाण्ड ।
यह रामायण पण्डितों द्वारा उत्तमता पूर्वक शुद्ध कराकर
महात्म्य, घोपक, तुलसीदास जी का जीवनचरित्र, श्लोकार्थ,
छन्दाय, गूढार्थ, दीपिका और चित्रों व अटम लवकुश काण्ड
सहित सुन्दर मोटे यम्बइया अक्षरों में छुपाकर सुन्दर कपड़े
की जिल्द बनवाई गई है। मूल्यः-
३)
तुलसीदासकृत रामायण मूल छोटा गुटका ।
इसमें सातो काण्ड के अतिरिक्त लवकुश काण्ड और
गुसाईजो को जीवनचरित्र, गूढार्थ, दीपिका, विबन्धन
यथार्थक पट करने की विधि सहित चिकने कागज पर उम्दा
जिल्द के सहित छपवा कर तय्यार हुआ है। मूल्यः- १)
रामायण गुटको तुलसीकृत ।
यह गुटका ऊपर लिखे गुटके के साइज से बड़ा है और
इसका अक्षरमी मझोला है। पक्की जिल्द सहित मूल्य:- १)
पता-भार्गव पुस्तकालय, चौक, बनारस ।
-

सूचीपत्र । तुलसीकृत रामायण के अलग अलग काण्ड । यह कांड ग्राहकों के सुपीते के लिये छोटे तथा मोटे अक्षरों में छपवाकर प्रकाशित किया है। जिनका मूल्य अलग अलग लिखते हैं। रामायण सुन्दर काएड बड़ा मोटा अक्षर-. मझोला गुटका मोटा अक्षर (पाकेट में रखने योग्य) पुस्तकालय, चौक, बनारस । रामायण किष्किन्धा काएक बड़ा मझोला पता-भार्गव पाकेट साइज "" " रामायण अयोध्या काण्ड बड़े अक्षरों में वाल काण्ड पारगमकाएक लंका करराड उत्तर काण्ड लवकुश काण्ड रामायण पाठो काण्ड पाल्हा में वर्णन की गई है। इसके पढ़ने में बड़ा श्रानन्द प्राता है । मूल्यः- 1) आल्हा लङ्का काण्ड । 1) सुन्दर काण्ड कवितावली रामायण । इसमें गोस्वामी तुलसीदास जी के बनाए हुए सातो काएड के कवित्त है। 1). पता-भार्गव पुस्तकालय. चौक, बनारल।

No text on this page.

-
4
निम्न लिखित पुस्तकें परीक्षार्थी विद्या-
थियों के लिये अतीव उपयोगी है, और
विक्रमार्थप्रस्तुत रहती हैं, विशेष
जानने के लिये बड़ासूचीपत्र
सँगाकर देख लीजिये।
"
.
तर्कसंग्रह
मूल्य
हितोपदेश मूल
" ||)
भापाटीका
2
लघुसिद्धान्तकौमुदी टिप्पणी सहित
किरातार्जुनीय सर्ग ३ सटीक
। कारकावली-(सिद्धान्तमुक्तावली) टीका सहित 11)
शीघ्रबोध सटीक
सारस्वतव्याकरण
10)
पुस्तक मिलने का पता-
मैनेजर-भार्गव पुस्तकालय,
चौक, बनारस सिटी।

No text on this page.

Tarkasangrh Nyaybobhinee Padkartyshit

Author
Ambikaprasad Sharma
Title
Tarkasangrh Nyaybobhinee Padkartyshit
File name
Tarkasangrh Nyaybobhinee Padkartyshit
Text
OCR done
Citation
1923
Published
2009/09
Publisher
Rajghat Kashi
Language
Sanskrit
Pages
118
Library
Sanmati Library, Jaipur
Keywords
Sanskrit Sahitya
DLI number
322435
Barcode
99999990252910.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
KpE4gC0OdH6
Download PDF

Tarkasangrh Nyaybobhinee Padkartyshit