Central Archaeological Library_asi_new Delhi

Vyutapattivadah

Gordhanbhai I. Patel

PDF Proofread

Front matter

गदाधरभट्टाचार्यविरचितः
व्युत्पत्ति वा दः
महामहोपाध्यायजयदेवमिश्रविरचितया
जयाख्यव्याख्यया
सहितः
RANTIPUR
(New Delhi
LIBRARY
प्रयागविश्वविद्यालयमाच्यदर्शनाध्यापकेन एम० ए०,
डी० लिट्, काव्यतीर्थोपाधिमाजा
श्रीमदुमेशमिश्रेण संशोध्य
प्रकाशितः
१६४०

Published by Dr. Umesha Mishra, M.A., D. Litt.,
The University of Allahabad, Allahabad.
प्रथमसंस्करणम् १९२७
द्वितीयसंस्करणम् १९४०
मूल्यं मुद्रात्रयम्
ALL RIGHTS RESERVED
राजकीयनियमानुसारेणास्य सर्वेऽधिकाराः स्वायत्तीकृताः ।
CENTRAL ARCHAEOLOGIGAS
LIBRARY, NEW DELHI.
Aco. No, 2-7.5.23...
Date.......... 2/3/5.2
Gull No..SAH. SandMA
..ganda.tee
Printed by J. K. Sharma, at the Allahabad
Law Journal Press, Allahabad.

प्राक्कथनम् romais poona oriented 200 प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति न्यायसूत्रमवलम्ब्य मिथिला- लङ्कारभूतेन नव्यन्यायशास्त्रस्यादिक; गङ्गशोपाध्यायेन तत्त्वचिन्तामणि- नामको ग्रन्थो विरचितः । तत्र क्रमशः प्रत्यक्षादिप्रमाणचतुष्टयविचारात्मकं खण्डचतुष्टयं वर्तते। शब्दखण्डस्त्वस्यैव ग्रन्थस्यान्तिमो भागः । खण्डे- ऽस्मिन् न केवलं नैयायिकानामपि तु मीमांसकानां वैयाकरणानाञ्च मतेन शब्दतत्त्वस्य विशेषेण निरूपणं वर्तते। नैयायिकमीमांसकवैयाकरणानां त्रयाणामपि समानोऽधिकारः शब्दखण्डे । अतोऽर्वाचीनैः नैयायिकादिभिः सर्वैः शब्दतत्त्वविचारे ग्रन्थरचनाद्वारा पृथक् पृथक् विचारः प्रदर्शितः । शब्दतत्त्वविचारे प्रकृतिप्रत्ययभेदेन भागद्वयं वर्तते । तत्र प्रकृत्यर्थस्या- लोचनं शक्तिवादे गदाधरभट्टाचार्येण कृतम् । प्रत्ययविचारादृते शब्दतत्त्व- विचारोऽपूर्ण एवेति मत्वा प्रधानतया न्यायमतमवलम्ब्य नैयायिकप्रवरैः गदाधरभट्टाचार्यैर्युत्पत्तिवादनामको ग्रन्थः प्रणीतः । ग्रन्थोऽयं विषयोत्कृ- ष्टतया सुस्पष्टलेखप्रणाल्या च सर्वैः शास्त्ररंसिकैविशेषतयादृतः । नया- यिकैयाकरणैश्च विशेषेण पठ्यते। प्रत्ययार्थनिरूपणपरोऽयं ग्रन्थो व्युत्पत्तिविधायकशास्त्रे शिरोमुकुटाय- माणः कस्य विपश्चितश्चेतसि मुदं नावहति । व्याकरणे न्याये वाऽस्याध्य- यनं विना प्रकर्षपाण्डित्यं नैव लभ्यते । अतो महानादरोऽस्य ग्रन्थस्य पण्डित- समाजे । परन्तु गूढार्थोऽयं ग्रन्थः । सर्वतोभावेनाभिप्रायोद्घाटने न सर्वे समर्थाः । 'जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः' इत्यादिश्रीमदु- दयनाचार्यकथनानुसारेण पाण्डित्यसम्पादकग्रन्थानामध्ययनाध्यापनादिक- मपि क्रमशो ह्रासपथमेवानुसरति । अत एवेदृशस्य ग्रन्थस्य सरला सुस्पष्ट- तरा टीकाप्यपेक्षिता । तत्रापि सन्ति कृष्णभट्टीयगूढार्थादर्शादयो विविधा ।

( २ ) व्याख्याः किन्तु आधुनिकविद्यार्थिनां कृते न ताः सर्वथोपयोगिन्यः । इति मनसि निधाय महामहोपाध्यायमिथिलालङ्कारभूतसन्मिश्रजयदेवशर्मभिः जयाख्या सरलातिमनोहरैका व्याख्या व्यरचि । इयं विद्यार्थिनां महदुप- योगिनीत्यस्याः शीघ्रमेव पुनः संस्करणेनैव स्पष्टम् । यद्यपि शास्त्ररसिकानां दौर्भाग्यवशात्तातचरणाः प्रथमाविवरणे भेदा- न्वयविचारे "प्रत्ययत्वाद्यनुपस्थितिदशायां" (पृ० ११७) इति ग्रन्थपर्यन्त- स्यैव टीका विरचयन्त एव सन्निपातज्वराभिभूताः काशीविश्वेश्वरसायुज्यं प्राप्तवन्तस्तथाऽपि विद्यार्थिनामुपकाराय बहुस्थलेषु द्वितीयाविवरणादि- ष्वपि तातपादानां टीप्पण्यादितो ग्रन्थानुद्धृत्य द्वितीयाविवरणपर्यन्तो ग्रन्थ- भागो जयासहितः पूर्वं प्रकाशितः। प्रायशो विविधप्रान्तीयपरीक्षासु द्विती- यापर्यन्त एव ग्रन्थः पाठ्यरूपेण निर्धारितोऽस्ति । अत एव बहुधा परी- क्षाथिभिद्वितीयाविवरणं यावदेव ग्रन्थः पठ्यते । परन्तु विशेषज्ञानलाभा- यातनोऽपि ग्रन्थोऽवश्यमेव पठनीयस्तत्सम्पादनाय तथा समस्तग्रन्थरक्ष- णाय चावशिष्टोऽप्यंश पाख्यातविवरणपर्यन्तोऽद्य प्रेक्षावतां पुरतः प्रकाश्य संस्थाप्यते । ग्रन्थकर्तुष्टीकाकर्तुश्च संक्षिप्तोऽपि परिचयो ज्ञेयः । तत्र तावद् गदाधरभट्टाचार्यों जीयाचार्यपुत्रः वङ्गदेशीयवारेन्द्रब्राह्मणकुलोत्पन्नः पवना- मण्डलान्तर्गतपक्ष्मीपाशनामकस्थानं स्वजन्मनाऽलङ्चकारेति विदुषां परा- मर्शः । प्राप्तवयस्को न्यायशास्त्रे विशेषवैदुष्यसम्पादनाय गदाधरस्तार्किक- शिरोमणिहरिरामतर्कवागीशसकाशमध्येतुं नवद्वीपमाजगाम । तत्राचिरे- णैव तर्कवागीशमहाशयाः पञ्चत्वं प्राप्तवन्तः । गदाधरस्तु तत्स्थानापन्नो- . ऽध्यापको बभूव परन्तु नायं गदाधरो विद्योपाधिभिरलङ्कृतो हरिरामतर्कवागीशस्था- नयोग्यः पण्डितश्चेति मत्वा पूर्व न कोऽपि गदाधरादध्येतुमाजगाम । अनादरेणानेन गदाधरस्तु हतोत्साहो न जातः । परं पण्डितसमाजे स्वपाण्डि- त्यपरिचयप्रदानायोपायान्तरस्य शरणमवलम्बितवान् । आदौ पूर्व विद्यालय- स्थानं परित्यज्य राजमार्गसमीपस्थायां कस्याञ्चिद्वाटिकायां तेन स्वनिवासः कृतः । ततो विद्यार्थिनामभावे तत्रैवोपवने लतापर्णवृक्षादीनुद्दिश्योच्चैः गूढस्थलशास्त्रविचारमालोचयन बहून् दिवसाननैषीत्। राजमार्गेण गच्छ- द्भिविद्याथिभिः पण्डितैश्च सकुतूहलं प्रच्छन्नरूपेणोदासीनभावेन वा गदा- धरस्य शास्त्रीयविचारं श्रुत्वा तस्य विशिष्टवैदुष्यपरिचयो लब्धः । ततः क्रमशस्तद्योग्यताविषयसन्देहरहिता विद्यार्थिनस्तत्समीपमध्येतुमाजग्मुः । इत्येवं क्रमेणाल्पेनैव कालेन महता प्रयत्नेन गदाधरस्य पाण्डित्यख्यातिः सर्वत्र प्रथिता । इत्येवं नवद्वीपमहिमानामकग्नन्थतो ज्ञायते । एवं शतशश्छात्रानध्यापयन्तो गदाधरभट्टाचार्या विविधान् ग्रन्थानपि प्रणिन्युः । तद्यथा--(१) न्यायकुसुमाञ्जलिटीका, (२) तत्त्वचिन्ता- मण्यालोकटीका, (३) आत्मतत्त्वविवेकदीधितिटीका, (४) तत्त्वचिन्ता- मणिदीधितिप्रकाशिका, (५) मुक्तावलीटीका, (६) दुर्गासप्तशतीटीका, (७) ब्रह्मनिर्णयः, तथा चतुःषष्टि वादार्थाः। तत्र केचन--विषयतावादः, शक्तिवादः, व्युत्पत्तिवादः, मुक्तिवादः, सादृश्यवादः, रत्नकोशवादः, णतावादः, अनुमितिमानसवादः, नव्यमतवादः, विधिस्वरूपवादः, आख्यात- वादः, कारकवादः, नवादः, बुद्धिवादः, स्मृतिसंस्कारवादः, इत्यादयः । अनेन रचिताष्टीकाः प्रायशो गादाधरीति नाम्ना लोके प्रसिद्धाः । शक्तिवादटीकाकारो जयरामोऽस्य प्रधानः शिष्यः । गदाधरस्याविर्भाव- कालः पञ्चाशदुत्तरषड्शताधिकैकसहस्रमितः (१६५० खीस्ताब्दः) इति क कार- कथ्यते । जयाटीकाकर्तुर्जीवनचरितविषये तदन्यतमशिष्यप्रवरेण महामहोपा- ध्यायेन श्रीगङ्गानाथझामहाशयेन तदानीं प्रयागविश्वविद्यालयकुलपतिना यल्लिखितं* तदेवात्र प्रकाश्यते । * एतत्पूर्वमेव सुप्रभातमितिनामकसंस्कृतपत्रिकायां प्रकाशितमासीत् ।

( ४ ) अस्ति मिथिलायां 'गजहडा' इति नाम्ना प्रसिद्धो ग्रामः । तत्रैव सुप्रति- ष्ठिते सोदरपुरमैथिलब्राह्मणकुले प्रातःस्मरणीया महामहोपाध्यायाः श्री ६ जयदेवमिश्रशर्माण: रुद्र-रत्न-भू-परिमिते (१६११) वैक्रमीये संवत्सरे कार्तिक शुक्लपूर्णिमायां जन्म लेभिरे। सम्पादितद्विजोचितसंस्काराश्च हरि- नगर-ग्रामे सुप्रसिद्धविद्वद्वर-हलधर-(प्रसिद्ध 'हल्ली') शर्मणः सकाशात् वर्षद्वयं यावत् व्याकरणशास्त्रस्याद्यमंशमधीत्य तत्र आर्थिकक्लेशं प्राप्य तत्स्थानमुज्झित्वा गन्धवारिनगरे लेखकस्य मातामह्या पुण्यशीलया श्री ३ वसुमतीदेव्या संस्थापिते विद्यालये महामहोपाध्यायश्री६ रजेमिश्रशर्म- भिरिदानीमपि मिथिलां मण्डयद्भिरधिष्ठिते तेभ्य एव शब्देन्दुशेखरादि- ग्रन्थान् स्वायत्तीचक्रुः, समाप्नुवंश्च तदानीमेव पण्डितमण्डलीषु प्रौढविद्वत्ता- प्रतिष्ठाम् । गुणाग्नि-ग्रह-भू-(१९३३)-मिते च वर्षे काशीमागत्य विश्व- विख्यातानां श्रीमतां बालशास्त्रिणां सकाशे, तदनन्तरञ्च सकलतन्त्रापर- तन्त्राणां म० म० श्री ६ शिवकुमारमिश्रशर्मणां सकाशे व्याकरणशास्त्र- मधीतमपि परिमार्य शास्त्रान्तराण्यपि समग्राण्यधिगतवन्तः । युवावस्था- यामेव काशीस्थविद्वज्जनेषु लब्धवैदुष्यप्रतिष्ठो वस्वग्नि-रत्न-चन्द्र (१९३८) मिते संवत्सरे मिथिलाधीशेन पवित्रकीर्तिना महाराजश्री ५ लक्ष्मीश्वरसिंह महोदयेन संस्थापितायां दरभङ्गापाठशालायां काशीस्थायां श्रीशिवकुमार- मिश्र-श्रीरामकृष्ण (तात्या) शास्त्रि-श्रीसुधाकरद्विवेद-श्रीदुःखभ- जनकविभिः पण्डितरत्नैः. सह व्याकरणाध्यापकासनं शोभयामासुः, सम- भूषयंश्च तदासनं वेदर्षिरत्न-भू-(१६७४) मितवर्षपर्यन्तम् । तदनन्तरं हिन्दूविश्वविद्यालयाध्यक्षास्तान् प्राच्यविद्याविभागे प्रधानाध्यापकपदव्यां समावेशयन् । तदारभ्याजीवं तदेव स्थानं श्रीमद्भिरलङ्कृतमभूत्। एवञ्च प्रायशः षट्चत्वारिंशद्वर्षाणि नानाशास्त्राण्यध्यापयतामेषां व्यतीतानि । समासादिताश्च पाण्डित्यपदवीं सहस्रशश्छात्राः । तेष्वेवैकोऽयं लेखकोऽपि स्वभाग्यवशादासीत् । पण्डितवर्याणां कीदृशं पाण्डित्यमासीदिति तेषां ( ५ ) - छात्रेण वर्णनमनुचितमेव प्रतिभाति । अस्त्वेतदेव पर्याप्तं यत् प्रायशो गणितशास्त्रवर्ज सर्वेष्वपि शास्त्रेषु तेषामधिकारः पूर्णतयाऽऽसीत् । शास्त्र- विचारस्य तु सार एवैतेष्वेकत्रीकृत आसीत् । रत्नशशिरत्नभू-मिते (१९१९) च ईशवीये भारतसम्राट् पण्डितसम्राड्भ्य एभ्यो महामहोपाध्यायपदवीं वितीर्यास्याः पदव्याः प्रतिष्ठां वर्धयामासुः । महात्मनामेतेषां स्मारकास्त- निर्मिता ग्रन्थाः-(१) परिभाषेन्दुशेखरस्य टीका विजया (मुद्रिता)- (२) शास्त्रार्थरत्नावली (मुद्रिता)-(३) व्युत्पत्तिवादस्य टीका जया (मुध्यमाणा)-(४) शब्देन्दुशेखरस्य टीका (अपूर्णा)-(५) महा- विनायकस्थापनपद्धतिः-(६) वास्तुपद्धतिः-(७) शतचण्डीपद्धतिः- (८) कुलदेवतास्थापनपद्धतिः- (९) नीलवृषोत्सर्गपद्धतिः-(१०) तुला- दानपद्धतिश्चेति । पुत्रत्रयं कन्यकाद्वयं चेति । पुत्रेषु ज्येष्ठः श्रीमान् उमेशमिश्रः काव्यतीर्थः एम्० ए०', (डी० लिट्,) उपाधिभाक् प्रयागविश्वविद्यालये संस्कृताध्यापकपदमलङ्करोति ; मध्यमः श्रीरमेशो गृहकार्यं करोति; तृतीयः श्रोश्रीकृष्णः सम्पादितसंस्कारोऽधुना बाल्यावस्थायामेव (एम० ए०,) वर्तते। एवञ्च हिकसमस्तसम्पदनुमापितप्राक्तनपुण्यराशयो नित्यसदनुष्ठा प्रत्यक्षीकृतब्राह्मण्याः पूज्यपादाः सर्वथा सनातनधर्मावलम्बिनामादर्शा इवासन् । अशेषविद्वज्जनदौर्भाग्ये वर्षेऽस्मिन् कर्णाभ्यन्तरव्रणमूलकसन्निपातज्व- रेणाक्रान्ताः । तत्रापि ज्वरप्रलापेषु शास्त्रीयाण्येव वाक्यान्युच्चेरुः । मरणात् प्राक् चत्वारि दिनानि मणिकर्णिकायां चक्रपुष्करणीतीर्थगङ्गा- प्रवाहयोर्मध्ये स्थित्वा-"उत्क्षिप्य वाहू त्वसकृद्ववीमि, त्रयीमयेऽस्मिस्त्रय- मेव सारम् । विश्वेशलिङ्गम्मणिकर्णिकाम्बु, काशीपुरी सत्यमिदं त्रिसत्य"- मिति पद्यमुच्चै?षयन्तो मध्याह्नसमये मणिकर्णिकागङ्गाजले निमग्नार्ध- शरीराः १९८२ वैक्रमे फाल्गुनशुक्लसप्तम्यां विश्वेश्वरसायुज्यमगमन् । शून्यमधुना पण्डितमण्डलम्भारते, शास्त्रार्थचर्चात्वस्तप्रायैव । शोक- सन्तप्तेनाधिकं वर्णयितुन्न पार्यते । समाश्वासनस्थानमेतावदेव यदधिक- ।

क्लेशं विनैव पठनपाठनादिकायं कुर्वाणा एव यथा सर्वत्र जीवने प्रौढा
आसंस्तथैवामरणन्निरवाह्यन् । ज्वराक्रान्तदिनपर्यन्त व्युत्पत्तिवादटीका-
रचनायां लग्ना आसन् । अत एवोक्तम्-
जयः कुले जयोऽभ्यासे जयः पण्डितमण्डले ।
जयो मृत्यौ जयो मोक्षे 'जयदेवः' सदा जयः॥
इति
'जयनिवास'
प्रयाग
आश्विन कृष्णसप्तम्यां चन्द्रे
१६६७ वैक्रमाब्दे
विदुषामनुचरः
श्रीमदुमेशमिश्रः

दासगुप्त ठेतरी बाजार ॥ श्रीगणेशाय नमः॥ अथ व्युत्पत्तिवादः शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया श्रीदुर्गामाधवगणेशाः पान्तु गदाधरं श्रीगिरिजां गणेशं प्रणम्य विश्वेश्वरपादपद्मम् । शिष्यप्रियश्रीजयदेवमिश्रो व्युत्पत्तिवादस्य तनोति टीकाम् ॥ १ ॥ सन्त्यस्य टीका विविधास्तथाऽपि परिश्रमो निष्फलतां न यायात् । द्राक्षाफले सत्यपि किं रसज्ञैनस्विाद्यते हृद्यरसो रसालः ॥ २ ॥ घटादिपदात् पटादिविषयकशाब्दबोधवारणाय तत्पदजन्यतद्विषयक- शाब्दबोधं प्रति तत्पदजन्यतद्विषयकोपस्थितिः कारणं वाच्यम् । घटपदात् पटोपस्थितेरभावान्न तद्विषयकशाब्दबोधः । घटपदादेः समवायसम्बन्धन सम्बन्ध्याकाशविषयकोपस्थितिबलादाकाशविषयकशाब्दबोधवारणाय तत्पद- जन्यशाब्दवोधे तत्पदनिष्ठवृत्तिज्ञानाधीनतद्विषयकोपस्थितिः कारणम् । आकाशोपस्थितेर्वृत्तिज्ञानजन्यत्वाभावान्न शाब्दबोधजनकत्वम् । नीलो घट । इत्यादावभेदादेर्घटादिपदनिष्ठवृत्तिज्ञानाधीनोपस्थित्यभावेन शाब्दबोधस्य च सत्त्वेन व्यभिचारः स्यादित्यभेदादावपि घटादिपदस्य शक्तिरूपेयतेऽन्वि- ताभिधानवादिभिः । तथा चाभेदादेः पदार्थद्वयसंसर्गस्यापि वृत्तिज्ञानाधी- नोपस्थितेस्सत्त्वान्न व्यभिचारः । परन्त्वेतादृशकार्यकारणभावेऽपि घटादि- पदात् घटविशेष्यकघटत्वप्रकारकस्येव घटप्रकारघटत्वविशेष्यकशाब्दबो- व्युत्पत्तिवादः [ कारके धस्यापि बाधकाभावादापत्त्या तत्पदजन्यतत्प्रकारकतद्विशेष्यकशाब्दबोधं प्रति तत्पदनिष्ठवृत्तिज्ञानाधीनतत्प्रकारकतद्विशेष्यकोपस्थितिः कारणं वाच्यं, तथा च घटादिपदात् घटप्रकारकघटत्वविशेष्यकोपस्थितेरभावान्न तादृश- शाब्दबोधापत्तिः । इत्थञ्च पदार्थद्वयसंसर्गनिष्ठशाब्दबोधीयविषयता कि- ञ्चिन्निष्ठप्रकारतानिरूपितविशेष्यतानात्मकतया तादृशसंसर्गस्य वृत्तिज्ञाना- धीनोपस्थित्यभावेऽपि व्यभिचाराप्रसक्त्या तत्र पदानां वृत्तिकल्पनमयुक्त- मेवेति नैयायिकाः। परन्त्वेतेषां मते पदार्थद्वयसंसर्गभाननियामकाभावेन सर्वत्राबाधितसकलसंसर्गभानसम्भवेन नीलो घट इत्यादावभेदादेरिव स्व- स्वामिभावादेरपि भानापत्तिरिति शङ्कानिरासाय स्वमते नियामकमुच्यते- शाब्दबोधे चेत्यादिना । चशब्दस्त्वर्थे संसर्गपदानन्तरं स बोध्यः। एकपदार्थ इत्यत्रानुयोगिता सप्तम्यर्थः। तत्र वृत्तित्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः। तस्याश्च निरूपकत्वसम्बन्धेन संसर्गपदार्थेऽन्वयः । अपरपदार्थस्य वृत्तित्व- सम्बन्धेन षष्ठ्यर्थप्रतियोगित्वे तस्य च निरूपकत्वसम्बन्धेन संसर्गपदार्थे- ऽन्वयः । शाब्दबोध इत्यत्र निरूपितत्वं सप्तम्यर्थः । तेनैव सम्बन्धेन शाब्द- बोधस्य भासधात्वर्थविषयतायामन्वयः। तस्यामेव निरूपितत्वसम्बन्धेन संसर्गमर्यादापदार्थाऽऽकाङ्क्षान्वयितृतीयार्थप्रयोज्यत्वस्य स्वरूपसम्बन्धेना- न्वयः । तस्याश्चाख्यातार्थाश्रयत्वे निरूपितत्वेन तस्य च संसर्गपदार्थे स्वरू- पेणान्वयः । लथा.. चैकपदार्थनिष्ठानुयोगितानिरूपकोऽपरपदार्थनिष्ठप्रति- योगितानिरूपकः संसर्गः शाब्दबोधनिरूपिताङ्क्षानिरूपितप्रयोज्यत्व- विशिष्टा या विषयता तन्निरूपिताश्रयत्वविशिष्ट इति संसर्गमुख्यविशेष्यको बोधः। शाब्दबोधे एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गभासिका समभिव्याहाररूपाऽऽकाङ्क्षव न तु प्रकारविशेष्ययोरिव शक्तिरिति पर्याव- सितोऽर्थः । उद्देश्यतावच्छेदकव्यापकत्वं नियमेन विधेये भासते। तेनैकपदा- र्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वव्यापकत्वमाकाङ्क्षाप्रयोज्यशाब्द- बोधीयविषयताश्रयत्वे लभ्यते । तेनाकाङ्क्षामन्तरा कुत्रापि शाब्दवोधे एकपदार्थेऽपरपदार्थस्य संसर्गो न भासते । पश्वादिपदजन्यशाब्दबोधे लागू- -- त्वयः-- प्रथमा ] जयाऽलङ्कृतः ३ लानुयोगिकलोमप्रतियोगिकसंसर्गस्य शक्तिभास्यस्याकाङ्क्षाप्रयोज्यशाब्द- वोधीयविषयताश्रयत्वाभावेन निरुक्तव्यापकत्वानुपपत्तिस्स्यादत एकपदार्थे- ऽपरपदार्थस्येत्यनयोस्संसर्गविशेषणत्वम् । न चानुमितौ प्रत्यक्षे च भूतलं घटवदित्यादी भूतलानुयोगिकपटप्रतियोगिकसंयोगादौ ताशसंसर्गल्वरूपोहे- श्यतावच्छेदकस्य सत्त्वेऽपि विधेयभूतस्य निरुक्तविषयताश्रयत्वस्याभावेन व्यापकत्वानुपपत्तिस्तदवस्थैवेति वाच्यम् । एकपदार्थानुयोगिकापरपदार्थ- प्रतियोगिकसंसर्गवृत्तिसंसर्गताख्यशाब्दबोधीयविषयतामुद्दिश्याकाङ्क्षाप्रयोज्य- त्वस्यैव विधानेनानुपपत्त्यभावात् । न च निरुक्तविषयतायास्तेन रूपेणाभा- नात् कथं तेन रूपेणोद्देश्यतेति चेत्-न । उद्देश्यताविधेयतयोविशेष्यताप्रकार- तानात्मकतयोद्देश्यत्वे उद्देश्यतावच्छेदकरूपेण भासमानत्वस्यातन्त्रत्वात् । अथैकपदार्थ इत्यत्रत्यैकत्वस्यापरपदार्थ इत्यत्रत्यापरपदार्थस्य च कुत्रा- -पदे पदार्थ वा ? नाद्यः । तथा सत्येकं यत्पदन्तदर्थानुयोगिकोऽपरं यत्पदन्तदर्थप्रतियोगिकस्संसर्ग इति बोधः । तत्रापरत्वं भेदः । स च यद्येक- पदत्वावच्छिन्नप्रतियोगिताकस्तदाऽप्रसिद्धिरेकपदत्वस्य पदमात्रवृत्तित्वात् । यद्येकपदनिष्ठप्रतियोगिताकस्ताव्यावर्तकत्वं द्वित्वादिनैकपदनिष्ठप्रतियोगि- ताकभेदस्य स्वस्मिन्नपि सत्त्वात् । न च पदविशिष्टः संसर्ग आकाङ्क्षाभास्यः । वैशिष्टयं स्वार्थानुयोगिकत्वं स्वनिष्ठप्रतियोगिताकभेदवत् यत्पदन्तर्थप्रति- योगिकत्वमित्युभयसम्बन्धेन । तत्र भेदस्तद्व्यक्तित्वावच्छिन्न प्रतियोगिताक इति नन्थकृतस्तात्पर्य मिति वाच्यम् । घटपदपशुपदादिस्थले घटत्वादिसंस- र्गस्य व्यवच्छेदेऽपि एवपदस्थले दोषात् । तत्र हि नान्ययोगव्यवच्छेदत्वा- वच्छिन्ननिरूपिता शक्तिरन्ययोगव्यवच्छेदाप्रसिद्धः । किन्तु अन्ययोगे व्यवच्छेदे च खण्डशः शक्तिः । व्यवच्छेदे अन्ययोगस्य स्वनिष्ठप्रतियोगिताकत्वरूपः संसर्ग आकाङ्क्षाभास्यः। तत्र पदान्तरस्याभावेन तत्संसर्गस्यासंग्रहापत्तिः । नान्त्यः । तत्पक्षे यद्यपि प्राद्यपक्षोक्तदोषद्वयवारणाय पदार्थविशिष्ट: संसर्ग इत्यत्रैव तात्पर्य वक्तुं शक्यते । वैशिष्ट्यञ्च स्वानुयोगिकत्वस्वेतरार्थप्रति- योगिकत्वोभयसम्बन्धेन। एवस्थले पदार्थयोरन्ययोगव्यवच्छेदयोर्भेदेन दोषा- व्युत्पत्तिवादः [ कारके भावस्तथापि अभेदान्वयस्थले नीलो घट इत्यादौ प्रतियोगिन एवानुयोगित्वेन दोषादिति चेत्-अत्रोच्यते । धर्मविशिष्ट: संसर्गः संसर्गमर्यादया भासते । वैशिष्टयं स्वावच्छिन्नानुयोगितानिरूपकत्वस्वेतरधविच्छिन्नप्रतियोगिता- निरूपकत्वोभयसम्बन्धेन । एवशब्दस्थले च व्यवच्छेदत्वधमान्ययोगत्व- धर्मावादाय समन्वयः । नन्वेवमपि पशुपदे लाङ्लत्वमादाय लोमप्रति- योगिकसंसर्गेऽपि शक्तिभास्ये धर्मविशिष्टसंसर्गत्वरूपोद्देश्यतावच्छेदकस्य सत्त्वेऽप्याकाङ्क्षाभास्यत्वरूपविधेयस्याभावेनोद्देश्यतावच्छेदकव्यापकत्वस्या- काङ्क्षाभास्यत्वरूपे भङ्गापत्तिः । राज्ञो राजा राजराज इत्यादी वाक्ये समासे स्वस्वामिभावरूपसंसर्गस्य राजत्वे 'राजत्वभेदाभावेनाकाङ्क्षाभास्य- त्वानापत्तिश्च । समवायेनाभावो नास्तीत्यादौ नजाभावेऽभावपदार्थप्रति- योगिकस्य स्वनिष्ठप्रतियोगिताकत्वस्याभावत्वप्रतियोगिकस्य स्वावच्छिन्न- प्रतियोगिताकत्वस्य च संसर्गस्याकाङ्क्षाभास्यत्वानापत्तिश्च प्रतियोगिता- वच्छेदकस्याभावत्वस्यानुयोगितावच्छेदकाभावत्वभिन्नत्वाभावादभावत्वनि- ष्टप्रतियोगितायाश्च निरवच्छिन्नत्वादिति चेत्-न । उपस्थितीयविशेष्यता- विशिष्टः संसर्ग इत्यर्थेनादोषात् । वैशिष्ठ्यञ्च स्वप्रयोज्यविशेष्यतानिरूप- कत्वस्वनिरूपितत्वाभाववदुपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपकत्वोभ- यसम्बन्धेन । घटपश्वादिस्थले च समवायसम्बन्धीयप्रकारताविशेष्यताप्रयो- जकयोरुपस्थितीयघटत्वघटनिष्ठयोः प्रकारताविशेष्यतयोः लाङ्ग्लनिष्ठ- विशेष्यतालोमनिष्ठप्रकारताप्रयोजकयोपस्थितीयलाङ्गेललोमनिष्ठविशेष्य- तयोश्च निरूप्यनिरूपकभावात्। राज्ञो राजेत्यादौ समवायेनाभावो नास्ती- त्यादावपि प्रतियोग्यनुयोगिवाचकविभिन्न राजपदजन्योपस्थितीयराजनिष्ठ- विषयतयोरभावनपदजन्योपस्थितीयाभावनिष्ठविषयतयोश्च शाब्दबोधी- यप्रकारताविशेष्यताप्रयोजकयोरभिन्नतया निरूप्यनिरूपकाभावविरहात् । न च अभावत्वप्रतियोगिकस्वावच्छिन्नप्रतियोगिताकत्वसंसर्गस्यासंग्रह एव । प्रभावपदजन्योपस्थितीयाभावत्वनिष्ठविषयताया नञ्पदजन्योपस्थितीया- भावनिष्ठविषयतानिरूपिताभावत्वनिष्ठविषयताभेदे मानाभावेनाभावनिष्ठ- प्रथमा ] जयाऽलकृतः ५ विषयतानिरूपितत्वादिति वाच्यम् । अभावस्यैव स्ववृत्त्यभावत्वावच्छिन्न- प्रतियोगिताकत्वसम्बन्धेन ननर्थाभावेऽन्वयात्। स्वप्रयोजकवृत्तिज्ञानीयवि- षयत्वानिरूपितवृत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रका- रतानिरूपकत्वसम्बन्धस्य द्वितीयसम्बन्धस्थाने निवेशनीयत्वाच्च । अभाव- पदनिष्ठवृत्तिज्ञानीयविषयताया नञ्पदनिष्ठवृत्तिज्ञानीयविषयतया निरूप्य- निरूपकभावविरहेणासङ्ग्रहासम्भवात् । न च समवायस्यैकत्वेन घट इत्यादौ विभक्त्यर्थंकत्वप्रतियोगिकाकाङ्क्षाभास्यसमवायादभिन्नस्य घटत्वप्रतियोगि- कसमवायस्य वृत्तिभास्यस्य संग्रहापत्तिः । एकत्वप्रतियोगिकसमवायस्योप- स्थितीयविषयताविशिष्टत्वे घटत्वप्रतियोगिकस्य तस्य न तत्त्वमित्यस्य . वक्तुमशक्यत्वादिति वाच्यम् । समवास्यैकत्वे एकत्वप्रतियोगिकसमवाय आकाङ्क्षाभास्यो घटत्वप्रतियोगिकः समवायो नाकाङ्क्षाभास्य इत्यस्यापि वक्तुमशक्यतयेष्टत्वस्यैवाङ्गीकरणीयत्वात् । न च घटत्वनिष्ठप्रकारतानिरू- पिता समवायनिष्ठा संसर्गता आकाङ्क्षाप्रयोज्येति व्यवहारापत्तिः, तस्या घटपदनिष्ठवृत्तिप्रयोज्यत्वस्यैव सत्त्वेनेष्टापत्तेरयोगात् । निरुक्तोपस्थितीय- विषयताविशिष्टसंसर्गनिष्ठसंसर्गताया एवाकाङ्क्षाप्रयोज्यत्वादिति वाच्यं, उपस्थितीयविपयताविशिष्टा संसर्गता आकाङ्क्षा प्रयोज्यत्यत्रैव तात्पर्यात् । वैशिष्टयं स्वप्रयोज्यविशेष्यतानिरूपितत्वस्वप्रयोजकवृत्तिज्ञानीयविषयत्वा- निरूपितवृत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानि- रूपितत्वोभयसम्बन्धेन । समवायैकत्वेऽपि संसर्गतयो देनाकाङ्क्षाप्रयोज्य- त्वाप्रयोज्यत्वयोरुपपत्तेरिति दिक् । वृत्तिज्ञानीयविषयत्वाप्रयोज्या संसर्गता आकाङ्क्षाप्रयोज्या। उपस्थि- तीयविषयत्वाप्रयोज्या शाब्दबोधीया संसर्गता आकाङ्क्षाप्रयोज्येत्याद्यपि वक्तुं शक्यत इति केचित् । तन्न । नीलो घट इत्यादिवाक्यजन्यज्ञानविषयो- ऽभेदो वृत्तिभास्य आकाङ्क्षाभास्यो वेति संशये नैयायिकेनाकाङ्क्षाभास्य इत्युच्यते । मीमांसकेन वृत्तिभास्य इत्युच्यते । तस्मिन् समये वृत्तिभास्य- त्वस्य वृत्त्यभास्यत्वस्य वा निश्चयाभावेन वृत्त्यभास्यत्वादेराकाङ्क्षाभास्य- व्युत्पत्तिवादः [ कारके भासते । स च कचिदभेदः । कचिञ्च तदतिरिक्त एवाधाराधेयप्रति- । त्वोद्देश्यतावच्छेदके प्रवेशानहत्वात्। घटो नास्तीति नेत्यत्र घटसत्ताभावा- भावः प्रतीयते । नब्द्वयनिष्ठवृत्तिज्ञानयोः समानाकारकतया तदीयविषयत- योरभावद्वयोपस्थितिद्वयविषयताप्रयोजकतया नअर्थाभावत्वनिष्ठप्रकारता- प्रयोजकोपस्थितीयविषयताप्रयोजकवृत्तिज्ञानीयविषयताया अपरनअर्थाभाव- निष्ठविशेष्यताप्रयोजकोपस्थितिविषयताप्रयोजकवृत्तिज्ञानीयविषयतानिरूपि- तत्वाभावविरहेण स्वावच्छिन्न प्रतियोगिताकत्वसंसर्गस्यासंग्रहस्तु नापाद्यः । तत्र घटसत्ताभावत्वस्यैवावच्छिन्न प्रतियोगितयाऽन्वयेन तन्निष्ठप्रकारताप्रयो- जकत्वस्य परम्परया घटनिष्ठवृत्तिज्ञानीयविषयताया अपि सत्त्वेन तस्या- श्चाभावनिष्ठविशेष्यताप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितत्वविरहेणापत्त्य- भावादिति दिक् । स च संसर्गः क इति जिज्ञासायामाह--क्वचिदभेद इत्यादि। आधारा- धेय इत्यादेः प्रत्येकं भावेत्यत्रान्वयेन आधाराधेयभावः प्रतियोग्यनुयोगिभावो विषयविषयिभाव इत्यर्थः । यद्यपि न्यायसिद्धान्ते प्राधाराधेयभाव इत्यादेः समुदितस्य न सम्बन्धता क्वचिदस्ति तथापि वैयाकरणमतेनास्य ग्रन्थस्य सत्त्वान्नासंगतिः । तन्मते 'सम्बन्धो हि सम्बन्धिभ्यां भिन्नः, द्विष्ठ' इत्यादि- भाष्यात् प्रतियोग्यनुयोगिनिष्ठस्यैव आधारतानिरूपिताधेयतेत्यादि क्रमेण समुदायस्य सम्बन्धत्वात् । भूतले घटः, घटो नास्ति, घटज्ञानमित्यादौ क्रमेण तेषां सम्बन्धानां प्रतीतिः । न च न्यायमतेनैव आधारत्वमाधेयत्वं प्रतियोगि- त्वमनुयोगित्वं विषयत्वं विषयित्वं सम्बन्ध इत्यर्थसम्भवेनायं ग्रन्थोऽस्तु स्वरूपसम्बन्धेनाधारे निरूपकत्वसम्बन्धेनाधेये सत्त्वेनाधारत्वादेरपि द्विष्ठ- त्वस्योपपादनसम्भवादिति वाच्यं, अनुयोगिनिष्ठस्यैव सम्बन्धत्वेनाधेयत्वा- नुयोगित्वविषयित्वानां सम्बन्धत्वेऽप्याधारत्वप्रतियोगित्वविषयत्वानां संसर्ग- तया क्वचिदप्यभानात् । यद्यपि द्विष्ठत्वाभावेनाभेदस्य वैयाकरणमते सम्ब- ७ प्रथमा] जयाऽलङ्कृतः योग्यनुयोगिविषयविषयिभावादिः। अभेदश्च प्रातिपदिकार्थे स्वस- मानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना च पदेनोपस्थापितस्यैव न्धत्वाभावस्तथापि विशिष्टबुद्धित्वहेतुकानुमितिसिद्धस्य नीलो घट इत्या- दौ नीलविशिष्टघटबुद्धौ सम्बन्धावगाहित्वस्यान्यथाऽनुपपत्त्या तस्य सम्ब- न्धत्व कल्प्यते नैयायिकैरिति भावः । दुरधिगमेऽस्मिन् शास्त्रे शिष्यस्य झटिति प्रवेशायाभेदस्य सूचीकटा- हन्यायेनोद्देशक्रमेण च संसर्गतया भानस्थलं तावदाह-प्रातिपदिकार्थे इत्यादि । अनुयोगित्वं सप्तम्यर्थः । तत्र प्रकृत्यर्थस्य वृत्तित्वसम्बन्धेन, तस्य चाभेदे निरूपकत्वसम्बन्धेनान्वयः । उपस्थापितस्येत्यत्र बृत्तित्वसम्बन्धेन प्रकृत्यान्वितषष्ठ्यर्थप्रतियोगित्वस्य च निरूपकत्वसम्बन्धेन तत्रैवाभेदे- ऽन्वयः । तथा च प्रातिपदिकार्थनिष्ठानुयोगितानिरूपकः स्वसमानविभक्ति- कस्वाव्यवहितपूर्वान्यतरपदोपस्थाप्यार्थनिष्ठप्रतियोगितानिरूपकाभेद प्रा- काङ्क्षाप्रयोज्यसंसर्गताश्रय इत्यर्थः । अननुगमवारणाय प्रातिपदिकवि- शिष्टोऽभेद आकाङ्क्षाप्रयोज्यसंसर्गताश्रय इत्यर्थ इति वक्तव्यम् । वै- शिष्टयञ्च स्वप्रयोज्यविशेष्यतानिरूपकत्वस्वविशिष्टपदप्रयोज्यप्रकारतानि- रूपकत्वोभयसम्बन्धेन । तत्र वैशिष्टयं स्वप्रकृतिकविभक्तिसजातीयविभक्ति- प्रकृतित्वस्वाव्यवहितपूर्ववृत्तित्वान्यतरसम्बन्धेन । नीलो घट इत्यादौ घट- रूपप्रातिपदिकविशिष्टो भेदः । तत्र घटरूपप्रातिपदिकस्य नीलेऽन्यतरघटक आद्यः सम्बन्धः । नीलघट इत्यादौ समासे च घटस्य नीले द्वितीयः सः । अत्र नाभेदत्वावच्छेदेन प्रातिपदिकविशिष्टाकाङ्क्षाप्रयोज्यसंसर्गतावत्त्वं विधी- यते । अत्र प्रातिपदिकवैशिष्टयं पूर्वोक्तसम्बन्धेनैव संसर्गतायां बोध्यम् । तथा सत्यभेदत्वव्यापकत्वं तादृशसंसर्गतारूपविधेये प्रतीयत । तच्च न सम्भवति । स्तोकं पचतीत्यादिक्रियाविशेषणस्थले व्यभिचारात् । किन्तु प्रातिपदिक- प्रयोज्यविशेष्यतानिरूपिताभेदनिष्ठसंसर्गतात्वावच्छेदेन प्रातिपदिकविशिष्ट- ८ [ कारके व्युत्पत्तिवादः संसर्गमर्यादया भासते यथा नीलो घटो नीलघटमानयेत्यादौ घटादौ नीलादेः, न तु विरुद्धविभक्तिमत्पदार्थस्य । नीलस्य घट इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात्। स्वसमानविभ- पदप्रयोज्यप्रकारतानिरूपितत्वविशिष्टमाकाङ्क्षाप्रयोज्यत्वं विधीयते । प्राति- पदिकवैशिष्टयं पूर्ववत् । निरूपितत्ववैशिष्टयं सामानाधिकरण्येन । न च क्रियाविशेषणस्थलीयाभेदसंसर्गताया असंग्रह इति वाच्यम् । इप्टापत्तेः । तत्र नियामकान्तरस्यैव वक्ष्यमाणत्वात् । न चार्द्धपिप्पलीत्यादिपूर्वपदार्थ- प्रधानसमासे व्यभिचारस्तत्रैकदेशिसमासस्य प्रत्याख्यानेन पूर्वपदार्थानुि- योगिकपिप्पलीरूपोत्तरपदार्थप्रतियोगिकाभेदस्य संसर्गमर्यादया भासमान- त्वादिति वाच्यं, अन्यतरसम्बन्धस्थाने स्वाव्यवहितोत्तरत्वस्य पूर्वोक्त- सम्बन्धद्वयसहितस्यान्यतमत्वेन प्रवेशनीयत्वात् । पिप्पल्यादिपदस्यैव पिप्प- ल्यभदौ लक्षणा । पूर्वपदञ्च तत्रैव तात्पर्यग्राहकमित्यस्य वक्ष्यमाणत्वेना- भेदस्याकाङ्क्षाभास्यत्वाभावाच्च । न तु विरुद्धविभक्तिमदिति । विरुद्धत्वञ्च स्वप्रकृतिकविभक्त्यपेक्षया बोध्यम् । तत्त्वञ्च तादृशविभक्तिनिष्ठो यः प्रथमात्वाद्यन्यतमस्तदभाव- वत्त्वम् । यथा' नीलस्य घट इत्यादौ घटप्रकृतिकसुविभक्तिनिष्ठः प्रथमा- त्वाद्यन्यतमः प्रथमात्वन्तदभाववत्त्वं नीलप्रकृतिकङस्विभक्तौ । तत्र हेतुमाह-नीलस्य घट इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानु- भवविरुद्धत्वादिति । प्रयोज्यत्वं सप्तम्यर्थः । तस्य स्वप्रकारकत्वसम्बन्धेनानु- भवेऽन्वयः । अनुभवविरुद्धत्वञ्चानुभवविषयत्वाभावरूपम् । तथा च नील- घटाभेदान्वयबोधस्य नीलस्य घट इत्यादिवाक्यप्रयोज्यत्वप्रकारको यः सर्वानुभवस्तद्विषयत्वाभावादित्यर्थः । नीलघटाभेदान्वयबोधो नीलस्य घट इत्यादिवाक्यप्रयोज्य इत्याकारकानुभवाभावादिति भावः । प्रातिपदिक- वैशिष्टयनियामकसम्बन्धघटकस्वसमानविभक्तिकत्वं किमित्याशङ्कायामाह & प्रथमा ] जयाऽलङ्कृतः क्तिकत्वं च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । साजात्यं च विभक्तिविभाजकप्रथमात्वादिना न तु समानानुपूर्वीकत्वं साजा- --स्वसमानविभक्तिकत्वञ्चेति । विभक्तिविभाजकेति । स्वनिष्ठो यो विभक्तिविभाजकः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्वमित्यर्थः । ननु किमिदं विभक्तिविभाजकत्वम् ? न तावद्विभक्तित्वविशिष्टत्वं स्वव्याप्यत्वस्वव्याप्याव्याप्यत्वोभयसम्बन्धेन । विभक्तित्वव्याप्यसुप्त्वव्या- प्यत्वेन प्रथमात्वादेविभक्तिविभाजकत्वानापत्तेः । न च विभक्तित्वव्याप्य- त्वमेव विभक्तिविभाजकत्वमिति प्रथमात्वादौ नाव्याप्तिरिति वाच्यं, सुत्वादीनामपि विभक्तित्वव्याप्यत्वेन तत्त्वापत्तेः । न चेष्टापत्तिः । आकाश- त्वादावपि तथा सति पदार्थविभाजकत्वस्यैष्टव्यतया 'आकाशत्वञ्च न पदार्थविभाजकोपाधि'रिति मुक्तावलीप्रत्यक्षखण्डोक्तग्रन्थस्यासङ्गत्यापत्तेः । नन्वत्र विभक्तिपदं सुप्परम् । तथा च सुब्विभाजकधर्मेणेत्यर्थः । सुब्वि- भाजकत्वञ्च सुप्त्वव्याप्यत्वे सति सुप्त्वव्याप्यत्वमिति न प्रथमात्वादा- वव्याप्तिरितिचेत्-न । सुप्त्वव्याप्यसर्वनामस्थानत्वव्याप्यत्वेन तस्या दुर्वा- रत्वात् । न च नपुंसकप्रकृतिकस्वादौ सर्वनामस्थानत्वाभाववति प्रथमात्वस्य सत्त्वेन तदव्याप्यत्वाददोष इति वाच्यं, टादिसुप्पयंन्तस्थितेन सुप्त्वव्या- प्येनाऽऽप्त्वेन व्याप्यत्वात् तृतीयात्वादावल्याप्तेर्दुरित्वात् । अबोच्चले-सुप्त्वविशिष्टत्वं सुप्विभाजकत्वम् । वैशिष्टयञ्च स्वव्या- प्यत्वस्वव्याप्याव्याप्यत्वोभयसम्बन्धेन । द्वितीयसम्बन्धघटके स्वव्याप्ये स्व- व्याप्यविशिष्टभिन्नत्वमपि देयम् । तत्र वैशिष्टयं स्वसामानाधिकरण्यस्वाभाव- सामानाधिकरण्योभयसम्बन्धेन । प्रथमात्वादौ सुप्त्वस्य स्वव्याप्यत्वं स्वव्या- प्यविशिष्टभिन्नं यत्स्वव्याप्यन्तदव्याप्यत्वमप्यस्तीति लक्षणसमन्वयः प्राप्त्वं तु तृतीयात्वविशिष्टमेव । उदासीने घटत्वादावतिव्याप्तिवारणाय प्रथमः सम्बन्धः । न च स्वस्यापि स्वव्याप्यत्वेन सुप्त्वेऽतिव्याप्तिः । प्राद्य- - स च न । व्युत्पत्तिवादः [ कारके सम्बन्धस्थाने स्वभिन्नत्वस्वव्याप्यत्वोभयसम्बन्धेन स्वविशिष्टत्वनिवेशनात् । सुत्वादावतिव्याप्तिवारणाय द्वितीयः सम्बन्धः । सुप्त्वव्याप्यं यदाप्त्वन्त- द्वयाप्यत्वेन तृतीयात्वादावव्याप्त्यापत्त्या द्वितीयसम्बन्धघटके स्वव्याप्ये स्वव्याप्यविशिष्टभिन्नत्वं निवेशितम् । प्राप्त्वे सुप्त्वव्याप्यतृतीयात्वादिवि- शिष्टत्वमेव न तु तद्विशिष्टभिन्नत्वम् । यत प्राप्त्वस्य तृतीयात्वसामानाधि- करण्यं टादिकमादाय तदभावसामानाधिकरण्यं उप्रभृतिमादाय तेनाप्त्व- व्याप्यत्वेऽपि निरुक्ताव्याप्यत्वेन तृतीयात्वादावव्याप्त्यभावः । न च सुत्वादौ सुप्त्वव्याप्यप्रथमात्वादिव्याप्यत्वादेवातिव्याप्तिभङ्गो वाच्यः । सम्भवति । प्रथमात्वादेहि सु औ एतदन्यतरत्वादिकं सुप्त्वव्याप्यन्तद्विशिष्ट- त्वमेव । न तु तद्भिन्नत्वमिति वाच्यं, स्वव्याप्यविशिष्टभिन्नत्वस्थाने स्व- विशिष्टविशिष्टभिन्नत्वस्य निवेशनात् । तत्र चरमवैशिष्टयं पूर्वोक्तमेव । आद्यञ्च स्वव्याप्यत्वस्वव्याप्याघटितत्वोभयसम्बन्धेन। तथा च निरुक्ता- न्यतरत्वमादाय नोक्तदोषः । तस्य सुप्त्वव्याप्यत्वेऽपि सुप्त्वव्याप्येन सुत्वेन घटितत्वात् । न चैवमपि सु अम् एतदन्यतरत्वे अतिव्याप्तिः । तत्र सुप्त्वव्या- प्यत्वसुप्त्वव्याप्याव्याप्यत्वयोः सत्त्वादिति वाच्यं, स्वव्याप्याघटितत्वस्यापि तृतीयस्य सुप्त्ववैशिष्टयघटकस्य स्वीकारेण तादृशान्यतरत्वादेः सुप्त्वव्याप्य- सुत्वादिघटितत्वेनातिव्याप्त्यभावात् । तथा च सुप्त्वविशिष्टो धर्मः सुब्- विभाजकः । वैशिष्टयञ्च स्वविशिष्टत्वस्वशिविष्टाव्याप्यत्वस्वव्याप्या- घटितत्वैतत्रितयसम्बन्धेन । आये स्वव्याप्यत्वस्वभिन्नत्वोभयसम्बन्धेन वैशिष्टयम् । द्वितीये स्वव्याप्यत्वस्व विशिष्टविशिष्टभिन्नत्वोभयसम्बन्धेन वैशिष्टयम् । तत्राद्यवैशिष्टयं स्वव्याप्यत्वस्वव्याप्याघटितत्वोभयसम्बन्धेन । द्वितीयवैशिष्टयं स्वसमानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन । सर्वेषां विशेषणानां फलानि पूर्वमुक्तानि । नन्वेवं सति विभक्तिविभाजकः प्रथमात्वादिक एव । तथा च प्रथमात्वा- दिकथनं व्यर्थमेवेति चेत्-न। पर्यवसितस्यैव स्पष्टतया कथनात् । स्ववृत्तिर्यः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्त्वं स्ववृत्तिर्यः सुप्विभाजकस्तद्वत्त्वं वा साजा- प्रथमा ] जयाऽलङ्कृतः त्यमिति कथनेऽपि क्षत्यभावः । सुप्त्वविशिष्टसंख्यावत्त्वं सुब्विभाजकत्वम् । संख्यायां सुप्त्ववैशिष्टयं स्वव्यापकत्वस्वव्याप्यवृत्तित्वस्वाव्याप्यावृत्तित्वस्व- व्याप्यविशिष्टभिन्नत्वैतच्चतुष्टयसम्बन्धेन । व्याप्यतावच्छेदकः स्वरूप- सम्बन्धो व्यापकतावच्छेदकश्च स्वाश्रयाश्रयत्वसम्बन्धः । सा च सङ्ख्या प्रथमात्वादिषु सप्तसु वर्तमाना सप्तत्वसंख्या तद्वत्त्वं प्रथमात्वादिषु सप्तसु । यत्र यत्र स्वरूपसम्बन्धेन सुप्त्वन्तत्र तत्र स्वाश्रयाश्रयत्वसम्बन्धेन प्रथमात्वा- दिनिष्ठं सप्तत्वमिति व्याप्तिः। तस्याञ्च सङ्ख्यायां सुप्त्वस्य व्यापकत्वं तस्य व्याप्यं प्रथमात्वादि तद्वृत्तित्वं तस्याव्याप्यं घटत्वादि तदवृत्तित्वं तस्य व्याप्यं प्रथमात्वादि तद्वैशिष्ट्यन्नास्ति। यतो वैशिष्टयं स्ववृत्तित्वस्वेतर- स्वसमानाधिकरणवृत्तित्वोभयसम्बन्धेन । तत्राद्यसम्बन्धसत्त्वेऽपि द्वितीयो नास्तीति तद्विशिष्टभिन्नत्वं सङ्ख्यायामिति लक्षणसमन्वयः । प्रथमात्वादि- गतषट्त्वनिरासाय स्वव्यापकत्वम् । सुत्वसहितप्रथमात्वादिगताष्टत्ववार- णाय स्वव्याप्यविशिष्टभिन्नत्वम्बोध्यमित्यपि के चित् । न तु समानानुपूर्वीकत्वमिति । तथा सति हि स्वप्रकृतिकविभक्ति- समानानुपूर्वीकविभक्तिकेनेत्यर्थस्स्यात् । तथा च वेदाः प्रमाणमित्यादौ दोषः । स्वस्मानानुपूर्वीकत्वञ्च स्वघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छे- दकधर्मावच्छिन्नाघटितत्वस्वघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मा- वच्छिन्नाघटितत्वसम्बन्धावच्छिन्नस्वनिरूपितवृत्तितावत्त्वोभयसम्बन्धेन स्वविशिष्टत्वं यथा घटसमानानुपूर्वीको घटस्तत्र स्वं घटस्तद्घटको घकारो घशब्दः टशब्दः टकारोऽकारश्च । तदवृत्तिः श्रावणप्रत्यक्षविषयतावच्छेदको धर्मः पत्वादिस्तदवच्छिन्नपकाराद्यघटितत्वं घटशब्दे । स्वस्मिन् घटशब्दे द्वितीयो घटशब्दः पूर्वोक्तसम्बन्धेन वर्तत इति तत्सम्बन्धावच्छिन्नस्वनि- रूपितवृत्तितावत्त्वमप्यस्तीति लक्षणसमन्वयः । घटशब्दे नीलघटसमुदाय- समानानुपूर्वीकत्ववारणाय द्वितीयः सम्बन्धः । तत्र समुदाये हि तेन सम्बन्धेन घटशब्दस्यावर्तनात्तत्समुदायनिरूपिततत्सम्बन्धावच्छिन्नवृत्तितावत्त्वस्य घट- शब्देऽभावः । ताललता सररसेत्यादीनाञ्च न समानानुपूर्वीकत्वम् । ताल- १२ व्युत्पत्तिवादः [ कारके त्यम् । वेदाः प्रमाणं शतं ब्राह्मणा इत्यादावन्वयवोधानुपपत्तेः । ननु विंशत्याद्याः सदैकत्वे' इत्यनुशासनात् शतं ब्राह्मणा इत्यादेः साधुत्वेपि वेदाः प्रमाणमित्यादयः कथं प्रयोगाः, विशेष्य- शब्दघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदको धर्मो लशब्दोत्तरतकारत्वन्त- दवच्छिन्नलतशब्दघटितत्वस्यैव लताशब्दे सरशब्दघटकावृत्तिस्तादृशो धर्मो रशब्दोत्तरसकारत्वन्तदवच्छिन्नरसशब्दघटितत्वस्यैव रसशब्दे सत्त्वादिति दिक्। । - बोधानुपपत्तेरिति । तृतीयान्तसुन्दराभ्यां समभिव्याहृतचतुव॑न्त- घटाभ्यामित्यतोऽपि समानानुपूर्वीकत्वसत्त्वादभेदान्वयबोधापत्तेश्चेत्यपि वो- ध्यम् । सिद्धान्ते तु प्रथमात्वादिना साजात्यविरहान्न दोषः । ननु नीलो घटा इत्यादावभेदान्वयवारणाय तत्र समानवचनत्वस्य प्रयोजकतया वेदाः प्रमाणमित्यतो वोधस्यैवाभाव' इति तदनुरोधोऽसङ्गत इत्याह-नन्विति । सदैकत्व इति । सदैकवचनान्ता इत्यर्थः । असति बाधक- इति। नियतवचनत्वानुशिष्टभिन्नविशेष्यविशेषणवाचकपदयोस्समानवचन- त्वमभेदान्वयप्रयोजकमित्यर्थः । समानलिङ्गकत्वञ्च स्ववृत्तिपुंल्लिङ्गत्वस्त्री- लिङ्गत्वनपुंसकलिङ्गत्वान्यतमधर्मवत्त्वम् । पुंल्लिङ्गत्वादिकञ्च पुंस्त्वस्त्री- त्वनपुंसकत्वबोधकत्वमेव । पुंस्त्वादिकञ्च प्राण्यप्राणिसाधारणं सत्त्वादि- गुणानामुपचयापचयसाम्यरूपं, प्राणिवृत्ति च लिङ्गयोनितदभावरूपम् तत्र गुणदोषावप्रकृतत्वाद्विस्तरभयाच्च न विचार्यते । इति हेतुस्तदुद्भव इति । विसनिपुणता लोककाव्यशास्त्राद्यवेक्ष- णात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे' इति कारिका। शक्तिः संस्कारविशेषः, लोककाव्यशास्त्राद्यवेक्षणजन्या निपुणता व्युत्पत्तिविशेषः, यः काव्यं करोति जानाति च तदुपदेशेन काव्यकरणयोजनादौ पौनःपुन्येन प्रवृत्तिरभ्यासः, इति त्रयः समुदिता हेतुरिति तस्या अर्थः ।

प्रथमा ] जयाऽलङ्कृतः विशेषणवाचकपदयोरसति विशेपानुशासने समानवचनकत्वनिय- मात् । अन्यथा घटा नील इत्यादेरपि साधुताप्रसङ्गात् । समान- लिङ्गकस्थले तथा नियमोपगमेन वेदाः प्रमाणमित्यादेः साधुत्वोप- पादनेऽपि 'इति हेतुस्तदुद्भवे' इति कारिकाया इति 'त्रयः समुदिता हेतु'रिति काव्यप्रकाशव्याख्याया असंगतिर्दुर्वारैव। एवमसमान- लिङ्गकस्थले विशेष्यवाचकपदासमानवचनस्यापि विशेषणपदस्य साधुत्वे ताहशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदा- नन्तरं प्रयोक्तुमुचितमिति 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' पितरो देवता इत्यादेरनुपपत्तिः । मैवम् । यत्र विशेष्यवाचकपदो- । यत्र विशेष्यवाचकेत्यादि । यत्रेति वाक्य इति शेषः । घटकत्वं सप्तम्यर्थः पदेऽन्वेति वाचकेति बोधकेत्यर्थः । तेन लाक्षणिकविशेष्यपदस्य नासङ्ग्रहः । उत्तरत्वञ्चोत्तरत्वेनानुसन्धीयमानत्वम् । तेन दध्यादिविशेष्यबोधकपदोत्तर- विभक्तेरसत्त्वेऽपि न दोषस्तदनुसन्धानस्य सत्त्वात् । विभक्तिपदानुपादाने विशेष्यवाचकपदोतरयत्किञ्चित्पदतात्पर्येत्येव कथने सुन्दरं दधि बह्वो गुणा इत्यादौ सौन्दर्य एकत्वविवक्षायां विशेष्यवाचकदधिपदोत्तरबहुपदतात्प- य॑विषयबहुत्वविरुद्धकत्वस्य विवक्षिततया समानवचनत्वानुपपत्तिविभक्ति- निवेशे तत्तात्पर्य्यविषयैकत्वसंख्याविरुद्धत्वासम्भवान्न दोष इति तु न युक्त- मुक्तग्रन्थेन तादृशाविवक्षितत्वे समानवचनत्वव्याप्यत्वस्यैव लाभेन व्याप्यवि- रहस्य व्यापकाभावापादकत्वासम्भवात् । अयोगोलके धूमाभावेऽपि वह्नय- भावादर्शनात् किन्तु विभक्तिपदं स्पष्टार्थमेव । प्रमाणं वेदशाखा एकत्वं प्रमे- यमित्यादौ विशेष्यवाचकपदाव्यवहितोत्तरत्वनिवेशेनैवान्यत्रावश्यकेन निर्वा- हात् विभक्तितात्पर्य्यविषयेत्यस्य विभक्तिजन्यबोधविषयत्वेनेच्छाविषये- त्यर्थः। यथाश्रुते तु वेदाः प्रमाणमित्यादावपि प्रमाणपदोत्तरविभक्तिजन्य- बोधविषयत्वेनेच्छाविषयीभूतैकत्वे वेदपदोत्तरजस्पदजन्यबोधविषयो बहुत्वं १४ व्युत्पत्तिवादः [ कारके तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वं तत्र घटादिपदोत्तरसुपदजन्यबोधविषय एकत्वञ्च भवत्विति समूहालम्बनात्म- कतात्पर्य्यस्यापि विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्यत्वात्तद्विषयैकत्वसं- ख्याविरुद्धत्वाभावेन विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्यविषयसंख्याविरु- द्धसंख्याविवक्षितत्वाभावसत्त्वेन समानवचनत्वापत्तिः। इदानीन्तु एकत्वस्य वेदपदोत्तरजस्पदजन्यबोधविषयत्वेनेच्छाविषयत्वाभावान्न दोषः । संख्या- विरुद्धत्वञ्च संख्या सामानाधिकरण्यं तादृशतात्पर्य्यविषयतावच्छेदकसंख्या- त्वव्याप्यधर्मावच्छिन्नभिन्नत्वं वा। अविवक्षितत्वमिति । विशेषणवाचकपदोत्तरविभक्त्याऽविवक्षितत्व- मित्यर्थः । तत्रेत्यस्य तद्वाक्ये इत्यर्थः । सप्तम्यर्थघटकत्वस्य विशेष्यविशेषण- पदयोरन्वयः । तथा च यद्वाक्यघटकविशेष्यबोधकपदोत्तरविभक्तिजन्यबोध- विषयत्वेनेच्छीयविशेष्यतावच्छेदकसंख्यात्वव्याप्यजात्यवच्छिन्नभिन्नसंख्याया विशेषणबोधकपदोत्तरविभक्त्याऽविवक्षितत्वं तद्वाक्यघटकविशेष्यविशेषणपद- योस्समानबचनत्वमित्यर्थः । समानवचनत्वञ्च स्वोत्तरविभक्तिवृत्त्येक- वचनत्वद्विवचनत्वबहुवचनत्वान्यतमधर्मवद्विभक्तिकत्वम् । न चैवं सुन्दरो घटमित्यादावपि समानवचनत्वसत्त्वादभेदान्वयापत्तिरिति वाच्यम् । समान- विभक्तिकत्वस्यापि प्रयोजकत्वात् । समानानुपूर्वीकत्वस्यैव वा समानवचनत्व- रूपत्वात् । घटो द्रव्यमित्यादौ च स्थानिवृत्त्यानुपूर्वीमादाय समानवचनत्वोप- पादनसम्भवात् । तात्पर्यानिवेशे विभक्त्यर्थसंख्याविरुद्धत्याद्यर्थे कुत्रचिज्जस्- विभक्तेरप्येकत्वादौ लक्षणयैकत्वमपि वेदपदोत्तरजस्विभक्त्यर्थः । तद्वि- रुद्धायाः प्रमाणपदोत्तरविभक्त्यर्थसंख्याया अभावेन विशिष्टाभावस्य सत्त्वेन समानवचनत्वापत्तिः। ननु विशेषणवाचकपदोत्तरविभक्त्या यत्र संख्याया अविवक्षा तत्र समानवचनत्वमित्येतावतैव निर्वाहे विरुद्धान्तनिवेशस्य किम्प्रयोजनमिति प्रथमा ] जयाऽलङ्कृतः १५ विशेष्यविशेषणपदयोः समानवचनकत्वनियमः । अत एव पुरूर- चेत्--अत्रोच्यते। यत् वेदत्वे एकत्वविवक्षयैकवचनान्तविशेष्यवाचकवेद- घटितं प्रमाणत्वे एकत्वविवक्षयैकवचनान्तविशेषणवाचकप्रमाणपदघटितं वेदः प्रमाणमिति वाक्यं तत्र समानवचनत्वानुपपत्तिः विशेषणवाचकपदोत्तर- विभक्त्या संख्याया विवक्षितत्वात् । विरुद्धान्तनिवेशे विशिष्टाभावस्य सत्त्वेनानुपपत्त्यभावः । ननु यत्र विशेष्यवाचकेत्यादिग्रन्थेनाविवक्षितत्वस्य समानवचनत्वव्या- प्यताया एव लाभेन विवक्षास्थले समानवचनत्वसत्त्वे क्षत्यभाव इति चेत्- इदमत्र बोध्यम् । नीलो घटा इत्यतोऽभेदान्वयवारणायाभेदान्वये विशेष्य- वाचकपदसमानवचनत्वं विशेषणवाचकपदवृत्तिप्रयोजकम् । विशेषणपदो- त्तरविभक्त्यर्थसंख्याविवक्षास्थले वेदाः प्रमाणमित्यादौ व्यभिचारवारणाया- विवक्षास्थलीयाभेदान्वये समानवचनत्वं प्रयोजकमिति वक्तव्यम् । तथा च प्रमाणत्वगतैकत्वतात्पर्य्यकस्वन्तप्रमाणपदघटितात् प्रमाणं वेदेति वाक्याद- भेदान्वयवारणाय संख्याविवक्षास्थलीयाभेदान्वये विशेष्यवाचकपदोत्तरवचन- विभिन्नवचनकविशेषणवाचकपदत्वं प्रयोजकमित्यपि वक्तव्यम् । ततश्चोक्ते वेदः प्रमाणमितिस्थले व्यभिचारवारणाय संख्यायां विरुद्धान्तं निवेशनीयम् । एवं विभज्य कथने ग्रन्थविस्तरस्स्यादतो विशेष्यवाचकपदोत्तरविभक्ति- तात्पर्यविषयसंख्याविरुद्धसंख्याया विशेषणवाचकपदोत्तरविभक्त्या अविवक्षा यत्र तत्र समानवचनत्वमित्येवोक्तमिति । केचित्तु स्तोकं पचत इत्यादौ विशेषणवाचकस्तोकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वात्समानवचनत्वापत्तिः विरुद्धान्तनिवेशे तु विशेष्य- वाचकपच्धातुपदाव्यवहितोत्तरविभक्त्यभावेन तादृशविभक्तितात्पर्यसंख्या- विरुद्धादिविवक्षापर्यन्ताप्रसिद्ध्या तदभावस्याप्यप्रसिद्धत्वेन समानवचन- त्वाभाव इति विरुद्धान्तनिवेशस्य फलमित्याहुः । तन्न । स्तोकमत्त इत्यादौ यत्र व्युत्पत्तिवादः [ कारके विशेष्यवाचकाद्धातोरव्यवहितोत्तरविभक्तेस्सत्त्वेन विवक्षितत्वाभावपर्य्यन्त- स्य प्रसिद्ध्या समानवचनत्वापत्तेविरुद्धान्तनिवेशेऽपि सत्त्वेन तदर्थ प्राति- पदिकपदप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकपदोत्तरविभक्त्या संख्याया अविवक्षा तत्र समानवचनत्वमित्यस्यैव वाच्यतया विरुद्धान्तनिवे- शस्य फलाभावात् । न च मास्तु विरुद्धान्तनिवेशस्येदं फलन्तथापि पचतीति पक् कर्तरि क्विम् । ततो द्विवचने स्तोकं पचावित्यादौ प्रातिपदिकपदप्रयोज्य- विशेष्यतायाः सत्त्वेन समानवचनत्वापत्तिर्दुर्वारा । विरुद्धान्तनिवेशेऽपि इयमापत्तिरस्त्येव । न च विरुद्धान्तनिवेशे विशेष्यविशिष्टाया विभक्ते- निवेशः । वैशिष्ट्यञ्च स्वनिष्ठसंख्याबोधकत्वस्वबोधकपदाव्यवहितोत्तरत्वो- भयसम्बन्धेन । स्तोकं पचावित्यादौ क्विबर्थनिष्ठसंख्याबोधकत्वेन स्तोकविशे- ज्यपाकनिष्ठसंख्याबोधकत्वाभावेन विशेष्यविशिष्टविभक्तेरप्रसिद्ध्या अवि- वक्षितत्वपर्यन्तस्याप्यप्रसिद्ध्या समानवचनत्वानापत्तिरिति वाच्यम् भावक्विवन्ते स्तोकं सम्पदावित्यादौ विशेष्यभूतसम्पत्तिविशिष्टत्वस्यैव विभक्तेः सत्त्वेनापत्तेर्दुर्वारत्वादिति वाच्यम् । विपोऽनुसन्धान विना शाब्द- बोधानुदयेन तत्प्रकृतिभूतधातुप्रयोज्यैव विशेष्यता न क्विबन्तरूपप्राति- पदिकपदप्रयोज्या न वा विशेष्यभूतक्रियाविशिष्टत्वं विभक्तेविशेष्यबोधक- धात्वव्यवहितोत्तरत्वस्यानुसन्धीयमानक्विपा व्यवहितत्वेन विभक्तेर्बाधात् । अव्यवहितोत्तरत्वं हि स्वोत्तरत्वेनानुसन्धीयमानोत्तरत्वेनाननुसन्धीयमानत्व- स्वोत्तरत्वेनानुसन्धीयमानत्वोभयसम्बन्धेन स्वविशिष्टत्वमेवेति पक्षद्वयेऽपि दोषाभावात् । प्रपत्रोच्यते । दारविशेषणवाचकं सुन्दरादिपदमपि बहुवचनान्तमेव साधु सुन्दरा दारा इति न तु सुन्दरो दारा इति । तत्र दारपदोत्तरविभक्त्या संख्याया अविवक्षितत्वेन विशेष्यवाचकपदाव्यवहितोत्तरविभक्तितात्पर्य- विषयीभूतसंख्येत्याद्यविवक्षितत्वपर्यन्तस्याप्रसिद्ध्या समानवचनत्वनिय- मानापत्त्या सुन्दरो दारा इत्यस्यापि साधुतापत्तिरिति-मैवम् । स्वाव्यवहि- तोत्तरविभक्तितात्पर्य्यविषयसंख्याविरुद्धसंख्याविषयकबोधजनकत्वेन तात्प- प्रथमा ] जयाऽलङ्क्तः र्यविषयविभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्वसम्बन्धे- न स्वविशिष्ट विशेषणवाचकं पदं स्वसमानवचनमिति नियमस्वीकारेण दोषाभावात् । उक्तसम्बन्धस्यान्यत्र प्रसिद्ध्या तत्सम्बन्धावच्छिन्नप्रति- योगिताकाभाववत्त्वरूपसम्बन्धस्य विशेष्यवाचकदारपदप्रतियोगिकस्य विशे- षणवाचकसुन्दरपदे सत्त्वेन समानवचनत्व मात् । न च भेदान्वयस्थले विशेषणवाचकराजादिपदोत्तरविभक्त्या संख्याया अविवक्षणे राज्ञः पुरुषा इत्यादौ समानवचनत्वनियमापत्तिरिति वाच्यं, स्वप्रयोज्यविशेष्यतानिरू- पिताभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वरूपद्वितीयसम्बन्धस्यापि वैशि- ष्टयनियामकतया प्रवेशनीयत्वेनादोषात् । राजपदस्याभेदसम्बन्धावच्छिन्न- प्रकारताप्रयोजकत्वाभावात् । न चैवमपि स्तोक पचावित्यादौ धातोर्वै- शिष्ट्यं स्तोकपदेऽस्ति । विपोनुसन्धानेन प्रतियोगितावच्छेदकसम्बन्धस्या- भावात्ततश्च समानवचनत्वापत्तिस्तदवस्थेति वाच्यम् । स्वाव्यवहितोत्तर- विभक्तिवृत्तिधर्मवद्विभक्तिकत्वरूपतृतीयसम्बन्धस्यापि वैशिष्टयघटकत्वेन प्रवेशात् । प्रकृते क्विपोनुसन्धानेन तद्वयवधानात् तृतीयसम्बन्धस्याभावेना- दोषात् । नन्वेवं मैथिली दारा इत्यादौ दारपदोत्तरविभक्त्यर्थसंख्याया अविवक्षया प्रतियोगितावच्छेदकसम्बन्धाभावेनाभावरूपसम्बन्धसहितसम्बन्धत्रयस्य स- त्वेन मैथिलीपदस्य . दारपदविशिष्टत्वात्समानवचनत्वनियमापत्तिरिति चेत्-न । मैथिलीपदोत्तरविभक्त्यैकत्वस्य विवक्षितत्वेन स्वोत्तरविभक्ति- तात्पर्य विषयसंख्याविरुद्धत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्संख्या- विवक्षाविषयविभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावस्य नि- वेशेनादोषात् । न च दारपदस्य विशेषणवाचकत्वे समानवचनत्वापत्तिस्त- दुत्तरविभक्त्या संख्याया अविवक्षितत्वादिति वाच्यं, उक्तसम्बन्धत्रयेण विशेष्यवाचकपदविशिष्टं नियतवचनातिरिक्तं पदं विशेष्यबोधकपदसमान- वचनमिति स्वीकारात् । नियतवचनत्वञ्च एकवचनत्वद्विवचनत्वबहुवचन- त्वान्यतमधर्मव्याप्यविषयताप्रयोजकत्वम् । व्याप्यतावच्छेदकसम्बन्धश्च - व्युत्पत्तिवादः [ कारके प्रयोजकत्वरूपः। व्यापकतावच्छेदकश्च स्वाश्रयाव्यवहितपूर्वत्वसम्बन्धः । प्रकृते दारत्वरूपानुपूर्व्यवच्छिन्नप्रयोजकतानिरूपितप्रयोज्यतावती स्त्रीत्वा- वच्छिन्ना विषयता बहुवचनत्वरूपधर्मव्याया। यत्र यत्र प्रयोजकत्वसम्बन्धेन स्त्रीत्वावछिन्ना दारत्वरूपाऽऽनुपूर्व्यवच्छिन्नप्रयोजकतानिरूपितप्रयोज्यतावती विषयता तत्र तत्र स्वाश्रयाव्यवहितपूर्वत्वसम्बन्धेन बहुवचनत्वमिति व्याप्तेः सत्त्वात् । तत्प्रयोजकत्वञ्च दारपदे इति तस्य नियतवचनत्वान्न समानवचनत्वम् । नत्वेबमेकत्वबोधकत्वेनाविवक्षिता जात्येकत्वबोधकत्वेन विवक्षिता वा या विभक्तिस्तदन्तविशेष्यवाचकपदघटितस्य द्वौ पुरुषः त्रयः पुरुषः इति वाक्यस्यापि साधुत्वापत्तिः । द्विशब्दत्रिशब्दयोनियतवचनत्वेन समानवच- नत्वनियमाप्रसक्तेरिति चेत्-अत्रोच्यते । स्वविशिष्टं पदं स्वसमानवचनम् । वैशिष्टयञ्च स्वप्रयोज्यविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारताप्र- योजकत्वस्वाव्यवहितोत्तरविभक्तिवृत्तिप्रत्ययत्ववद्विभक्तिप्रकृतित्वस्वाव्यव- हितोत्तरविभक्तितात्पर्य विषयसंख्याविरुद्धसंख्याबोधकत्वतात्पर्य्यविषयविभ- क्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्वस्वोत्तरविभक्तिवा- च्यसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिधर्मावच्छिन्नबोधकत्वतात्पर्य्य- विषयत्वस्वोत्तरविभक्तिसमानानुपूर्वीकविभक्तिप्रकृतित्वप्रकारकसम्भावना- प्रयोज्यसाधुत्वप्रकारकसम्भावनाविषयत्वाभाववत्त्वोभयसम्बन्धावच्छिन्नप्र- तियोगिताकस्वाभाववत्वैतच्चतुष्टयसम्बन्धेन । मैथिली दारा इत्यादौ दार- पदं प्रकारताप्रयोजकम् । तत्र विशेष्यवाचकमैथिलीपदविशिष्टत्वं नास्ति । यत आद्यसम्बन्धत्रयसत्त्वेऽपि चतुर्थसम्बन्धो नास्ति । यतोऽभावप्रतियोगि- तावच्छेदकसम्बन्धद्वयमेवास्ति । तथा हि विशेष्यवाचकमैथिलीपदोत्तरवि- भक्तिस्सुस्तद्वाच्यैकत्वसंख्यावच्छिन्नानुयोगितानिरूपकपर्थ्याप्तिप्रतियोगिभूतो धर्मो दारत्वन्तस्य प्रत्येकपर्याप्तत्वात् तदवच्छिन्नबोधकत्वेन तात्पर्य्यविष- यत्वं दारपदे । एवं स्वोत्तरा विभक्तिः सुस्तत्समानानुपूर्वीकसुविभक्तिप्रकृ- तित्वप्रकारकसम्भावनाप्रयोज्या यद्ययं दारशब्दः सुविभक्तिप्रकृतिस्स्यात्तदा प्रथमा ] जयाऽलकृतः १६ साधुः स्यादिति सम्भावना । सा च नास्तीतितादृशसम्भावनाविषयत्वाभाव- वत्वसम्बन्धश्च दारपदेऽस्तीति न समानवचनत्वापत्तिः । द्वौ पुरुषस्त्रयः पुरुष इत्यादयश्च न प्रयोगास्तत्रोक्तचतुष्टयसम्बन्धेन विशेषणवाचकद्वयादि- पदे पुरुषपदवैशिष्टयसत्त्वेन समानवचनत्वनियमाक्रान्तत्वाच्चतुर्थसम्बन्धघट- कीभूतप्रतियोगितावच्छेदकप्रथमसम्बन्धस्य तत्राभावेन' चतुर्थसम्बन्धस्यापि सत्त्वात् । तथा हि पुरुषपदोत्तरसुविभक्तिवाच्यैकत्वावच्छिन्नानुयोगिताक- पर्याप्तिप्रतियोगित्वस्य द्वित्वादी बाधेन तद्घटितः सम्बन्धो नास्तीति सर्व- मुपपन्नम् । न च पुष्पवन्तौ देव इत्यस्यानिस्तारः । पुष्पवन्तपदवाच्यताव- च्छेदकस्य सूर्यत्वादेरेकत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वेन दारप- दसमानत्वादिति वाच्यं, तादृशपर्याप्तिप्रतियोगिधर्मविशिष्टत्वस्य निवेश- नीयत्वात् । वैशिष्टयं स्वावच्छिन्नबोधकत्वेन तात्पर्य्यविषयत्वस्वपर्याप्ता- वच्छेदकतानिरूपितावच्छेद्यतावती या शक्यता तन्निरूपितशक्ततावत्वोभय- सम्बन्धेन पुष्पदन्तपदशक्यतायाश्च सूर्यत्वचन्द्रत्वोभयपर्याप्तत्वात् । स्व- प्रयोज्येत्यादिनिवेशात् स्तोकं सुन्दरौ पचावित्यादौ न दोषः। द्वितीयसम्बन्ध- निवेशात् स्तोकं पचावित्यादौ न दोषः । तृतीयस्य निवेशेन सुन्दरा दारा इत्यादौ दोषाभावः । चतुर्थस्य निवेशेन' मैथिली दारा इत्यादावदोषः । तत्रापि प्रथमस्य प्रतियोगितावच्छेदकस्य निवेशेन द्वौ पुरुष इत्यादौ न दोषः । द्वितीयस्य प्रतियोगितावच्छेदकस्य निवेशेन निलौ घट इति प्रयोगा- भावः। ननु शतं ब्राह्मणा इत्यादौ समानवचनत्वापत्तिरुक्तचतुष्टयसम्बन्धेन शतपदस्य विशेष्यवाचकब्राह्मणपदविशिष्टत्वात् । न च' विशेषणवाचक- शतपदोत्तरविभक्त्यैकत्वस्य विवक्षितत्वान्न दोष इति वाच्यं, एकत्वाविव- क्षायां शतानि ब्राह्मणा इति प्रयोगापत्तेर्दुरित्वात् । न चैकत्वाविवक्षा- यान्तादृशप्रयोगस्येष्टत्वमेवेति वाच्यं, 'विंशत्याद्याः सदैकत्व' इत्याद्यनुशा- सनेनैकवचनान्तानामेव विंशत्यादिशब्दानां साधुत्वबोधनात् इति चेत्-अत्रो- च्यते । विंशत्यादिपदोत्तरविभक्त्या प्रकृत्यर्थतावच्छेदकगतैव संख्या प्रती- व्युत्पत्तिवाद: [ कारके वोमाद्रवसौ विश्वेदेवा इत्यादौ द्वित्वविशिष्टयोः पुरूरवोमाद्रवःप्र- भृत्योविशेषणतया विवक्षितत्वात्तद्वाचकस्य द्विवचनान्तता। वेदाः प्रमाणमित्यत्र च विशेषणपदोत्तरविभक्तथा बहुत्वविरुद्धमेकत्वं यते । तथा च विंशतित्वादीनामेकत्वादेकवचनान्ता एव विशत्यादिशब्दा- स्साधवः । अत्रैव विंशत्याद्या इत्यनुशासनतात्पर्य्यमत एव विंशतित्व- शतत्वादौ द्वित्वादिसत्त्वे द्वे विशती त्रीणि शतानीत्यादयः प्रयोगा उपपन्नाः । तदनुशासनेन विंशत्यादिशब्दानामेकवचनान्तानामेव साधुत्वबोधने तु तेषा- मसाधुत्वापत्तेः। तस्मादेकत्वाविवक्षायामेकशतेऽपि शतानि ब्राह्मणा इत्याद्या इष्यन्त एवेति तत्त्वम् । विशेषणवाचकपदे विंशत्यादिसंख्यावाचकातिरिक्त- त्वस्य निवेशो वा वोध्यः । नन्वेवं 'मैथिली तस्य दारा' इतिवत् साधुत्वेन प्रतीतस्य रुक्मिणी- ‘सत्यभामे कृष्णस्य दारा इत्यस्य साधुत्वानापत्तेः । विशेष्यवाचकरुक्मिणी- सत्यभामपदोत्तरविभक्तिवाच्यद्वित्वसंख्याया दारत्वप्रतियोगिकपर्याप्त्यनुयो- गितानवच्छेदकत्वात् । त्रयः पुरुष इत्यादेरिव तस्य समानवचनत्वनियमा- क्रान्तत्वादिति चेत्-अत्रोच्यते । वाच्यत्वघटितसम्बन्धस्थाने स्वोत्तरवि- भक्तिवाच्यसंख्याविशिष्टधविच्छिन्नबोधकत्वस्य निवेशः। वैशिष्टयञ्च स्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वस्वन्यूनसंख्यावच्छिन्नानुयोगिता- कपर्याप्तिप्रतियोगित्वान्यतरसम्बन्धेन । तथा च नापत्तिरित्वस्य द्वित्व- न्यूनसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वादिति दिक् । द्वित्वविशिष्टयोः पुरूरवोमाद्रवः प्रभृत्योरिति । पुरूरवःपदं पुरूरवो- घटितसमुदायपरम् । माद्रवपदं तद्घटितसमुदायपरम् । विशेषणवाचक- पदोत्तरविभक्त्या द्वित्वं विवक्षितमिति समानवचनत्वाभावः । वेदाः प्रमाणमित्यादौ समानवचनत्वाभावमुपपादयति-वेदाः प्रमा मत्यत्र चेति । एकत्वं विवक्षितमिति । नन्वेकत्वं प्रकृत्यर्थे प्रमाणे बाधितन्तस्य बहुत्वादि- प्रथमा ] जयाऽलङ्कृतः विवक्षितं तच्च प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति । शाब्द- प्रमाकरणत्वं च शब्दत्वावच्छिन्नं यावच्छव्दनिष्ठमेकमेवेति नायो- ग्यता। न च पदार्थः पदार्थेनान्वेतीति व्युत्पत्तिविरोध: संपन्नो त्यत आह-तच्चेति । एकत्वञ्चेत्यर्थः । शब्दत्वावच्छिन्नेति । अवच्छेदकस्य शब्दत्वस्यैकत्वात्तदवच्छिन्नस्य करणत्वस्याप्येकत्वेन तत्र तस्यावाधात् । ननु शाब्दप्रमाकरणत्वमित्यस्य शाब्दत्वविशिष्टप्रमात्वावच्छिन्नकार्यतानि- रूपितकारणत्वमित्यर्थो न सम्भवति । शब्दत्वावच्छिन्नकारणतानिरूपित- कार्यताया भ्रमात्मकशाब्दबोधसाधारणतया तदपेक्षया शाब्दप्रमात्वस्य न्यूनवृत्तित्वेन तादृशकार्य्यतावच्छेदकत्वासम्भवात् । प्रमात्वस्य च वस्तु- सद्भावाधीनतया शब्दजन्यतावच्छेदकत्वे मानाभावाच्च स्वजन्यकार्ये स्व- प्रयोज्यस्यैव स्वजन्यतावच्छेदकत्वौचित्यात् । नापि शाब्दप्रमानिष्ठकार्य्यता- निरूपितेत्याद्यर्थः । सा च कार्यता शाब्दत्वावच्छिन्नैव स्यात्तस्या भ्रमप्रमासा- धारण्येन वह्निना सिञ्चतीतिवाक्यजन्यभ्रमात्मकज्ञानेऽपि सत्त्वेन तन्नि- रूपितकारणतावति वह्निना सिञ्चतीति वाक्येऽपि प्रमाणमिति व्यवहारा- पत्तेरिति चेत्-अत्रोच्यते । शाव्दवावच्छिन्नकार्य्यतायाः शब्दत्वावच्छिन्न- कारणतानिरूपिताया भ्रमप्रमासाधारण्येऽपि प्रमावृत्तित्वविशिष्टायास्तस्याः प्रमायामेव स्थितिरितिवत्तनिरूपितकारणताया अपि प्रमाजनकवाक्ये एव स्थितिरिति मन्यते । तथा च शाब्दप्रमाकरणत्वमित्यस्य शाब्दत्वावच्छिन्न- प्रमावृत्तित्वविशिष्टकार्य्यतानिरूपितकारणत्वमित्यर्थः । तथा च न भ्रम- जनके वह्निना सिञ्चतीति वाक्ये प्रमाणत्वव्यवहार इति दिक् । न च पदार्थः पदार्थेनेति । पदार्थः पदार्थेनान्वेति न पदार्थंकदेशेनेति- व्युत्पत्तेः स्वरूपम् । प्रकृते प्रमितिकरणत्वस्य प्रमाणपदार्थंकदेशतया तत्रै- कत्वान्वयासम्भवो व्युत्पत्तिविरोधादिति भावः । एतस्या व्युत्पत्तेरङ्गीकारा- देव घटत्वेऽभेदेन नित्यान्वयतात्पर्य्यकस्य नित्यो घट इति वाक्यस्य नापत्तिः ।

२२ व्युत्पत्तिवादः [ कारके घटत्वस्य पदार्थकदेशत्वेन तत्र नित्यान्वयस्य' प्रकृतव्युत्पत्तिविरुद्धत्वात् । नन्वन्वयितावच्छेदकरूपेणोपस्थितपदार्थे एव पदार्थान्वयात् । स्वरूपत एव घटपदोपस्थिते घटत्वादावन्वयासम्भवेन नापत्तिरिति चेत्-न । जातित्व- विशिष्टजातिमत्तात्पर्य्यकतच्छब्दघटितस्य जातित्वावच्छिन्नेऽभेदेन नित्यान्व- यबोधकस्य नित्यः स इति वाक्यस्य प्रामाण्यापत्तेः । अथैतद्व्युत्पत्तिमूलभूतः कार्यकारणभावोऽपि विचार्य्यते । किञ्चिन्निष्ठप्रकारतानिरूपितविशेष्य- तासम्बन्धेन' शाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन पदजन्योप- स्थितिः कारणम् । घटत्वादौ विशेष्यतासम्बन्धेन घटपंदजन्योपस्थितेरभावेन तत्र पदार्थान्तरान्वयाभावः । न च नित्यः स इत्यादौ जातावुपस्थितीय- विशेष्यतायाः सत्त्वेन नित्यान्वयो दुर्वार इति वाच्यं, मुख्यविशेष्यताया एव कारणतावच्छेदकत्वाभ्युपगमात् । तस्याञ्च जातित्वनिष्ठप्रकारता- निरूपितायामाश्रयनिष्ठविशेष्यतानिरूपितप्रकारतासामानाधिकरण्येन प्रका- रत्वासमानाधिकरणविशेष्यतात्वरूपमुख्यत्वासम्भवात् । न च घटादावपि घटवदर्थकतत्पदजन्योपस्थितीयप्रकारतायाः सत्त्वेन मुख्यविशेष्यतयोपस्थित्य- भावेन नीलादेरन्वयानापत्त्या नीलो घट इत्यस्याप्यप्रमाणत्वापत्तिरिति वाच्यं, स्वनिरूपितत्वस्वनिरूपितप्रकारत्वासामानाधिकरण्योभयसम्बन्धेन स्वविशिष्टविशेष्यतासम्बन्धेनोपस्थितिः कारणमित्यभ्युपगमेन पदान्तरजन्यो- पस्थित्यन्तरीयप्रकारतायाः सत्त्वेऽप्यापत्तिविरहात् स्वमुपस्थितिः । अथैव- मपि घटवान् तत्पदशक्यो घटो घटपदशक्य इति ज्ञानद्वयाधीनसमूहालम्बनो. पस्थितिजन्यो नीलो घट इति बोधो न स्यात् । घटनिष्ठयोस्तदीयप्रकारता. विशेष्यतयोस्सत्त्वेन मुख्यविशेष्यतयोपस्थितेर्घटेऽसत्त्वात् । अत्रोच्यते। स्व- प्रयोज्यविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति स्वजन्योपस्थितिः स्वविशिष्टविशेष्यतासम्बन्धेन कारणम् । विशेष्यतायां वैशिष्टयं स्वजन्य- तावच्छेदकत्वस्वजन्यतावच्छेदकप्रकारत्वासामानाधिकरण्योभयसम्बन्धेनेति न दोषः । न च लागूले पशुपदप्रयोज्या या तत्पदप्रयोज्यलोमनिष्ठप्रकार- तानिरूपितविशेष्यता तद्रूपसम्बन्धेन शाब्दबोधो न स्यात् । पशुपदजन्योप- प्रथमा जयाऽलङ्कृतः २३ स्थितेरुक्तसम्बन्धेनाभावादिति वाच्यम् । कार्यतावच्छेदकीभूतविशे- प्यतायां स्वेतरपदप्रयोज्यप्रकारतानिरूपितत्वस्यापि निवेशेनादोषात् । तस्याश्च पशुपदप्रयोज्ययैव लोमनिष्ठप्रकारतया निरूपितत्वात् । नन्वेवं देवदत्तस्य गुरुरित्यादौ गुरुत्वे गुरुपदप्रयोज्योपस्थितीया गुरुत्वत्वनिष्ठप्रका- रतानिरूपिताविशेष्यता यद्यप्यस्ति परन्तु तस्यां गुरुनिष्ठविशेष्यतानिरू- पितप्रकारतासामानाधिकरण्यस्यैव सत्त्वेन गुरुल्ने निरूपितत्वसम्बन्धेनेष्टस्य देवदत्तान्वयस्यानापत्तिरिति चेत्-न । कारपतावच्छेदकीभूतविशेष्यतायां नित्यसाकाङ्क्षावृत्तित्वस्य निवेशनीयत्वात् । गुरुत्वादिकञ्च नित्यसाका- ह्नम् । तत्त्वञ्च स्वनिरूपकाकाङ्क्षाव्याप्यज्ञानविषयत्वम् । स्वञ्च गुरु- त्वादिकम् । ततश्च प्रकृतशाब्दबोधीयविशेष्यताया गुरुत्वनिष्ठायाः प्रकृत- कार्य्यतानवच्छेदकत्वान्नापत्तिः । नन्वेवमपि अगुरुपदार्थस्याभेदेन गुरुत्व- पदार्थेऽन्वयतात्पर्येण गुरुरगुरुरित्यापद्येत । नित्यसाकाङ्क्षतया गुरुत्वनिष्ठा- या पापाद्यमानशाब्दबोधीयविषयतायाः कार्य्यतावच्छेदकसंसर्गत्वाभावा- दिति चेत्-न । प्रकारतानिरूपितत्वस्थाने प्रकारताविशिष्टत्वस्य निवेश- नीयत्वात् । वैशिष्ट्यञ्च स्वनिरूपितत्वस्वाश्रयनिरूपितत्वाभाववद्वृत्ति- त्वोभयसम्बन्धेन देवदत्तस्य गुरुरित्यादौ देवदत्तनिष्ठप्रकारतायाः स्वनिरू- पितत्वेऽपि स्वाश्रयदेवदत्तनिरूपितगुरुत्ववृत्तित्वस्यैव विशेष्यतायां सत्त्वेन वैशिष्टयाभावेनागुरुपदार्थनिष्ठप्रकारतायाः स्वाश्रयागुरुनिरूपितत्वाभाववद्- गुरुत्ववृत्तित्वस्वनिरूपितत्वोभयसम्बन्धेन गुरुत्वनिष्ठविशेष्यतायां वैशि- ष्टयस्य सत्त्वेन च नोभयत्र दोषः । प्रकृत्या चारुरित्यादौ चारुत्वे चारुपदार्थ- विशेषणीभूते प्रकृतेरभेदेन संसर्गेणान्वयः कथम् । तत्र निरुक्तसम्बन्धेनोप- स्थितेरभावादिति चेत्-अत्रोच्यते । प्रकृत्यादिगणनिष्पन्नतृतीयार्थाभेदस्य प्रकारतयैव भानम् । ततश्च संसर्गघटकप्रकारतायां विभक्त्यप्रयोज्यत्वं निवेश्यते । प्रकृतेऽभेदनिष्ठप्रकारतायां विभक्तिप्रयोज्यत्वस्यैव सत्त्वेन कार्य- तावच्छेदकसंसर्गाभावाददोषोऽत एव' सम्पन्नो व्रीहिरित्यादौ ब्रीही बहुत्व- रूपसम्पत्तिविशिष्टे एकत्वान्वयस्य बाधेन ब्रीहित्वे विभक्त्यर्थंकत्वस्यान्वयेऽपि २४ व्युत्पत्तिवादः [ कारके ब्रीहिरित्यनेकनीहितात्पर्यकेप्येकवचनदर्शनेन तादृशव्युत्पत्तिसङ्को- चस्यावश्यकत्वात् । यदि च स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्ब- न्धेन प्रकृत्यर्थ एवैकत्वान्वयः, ब्रीहित्वजाते: स्वरूपत एव ब्रीह्या- दिपदशक्यतावच्छेदकतयाऽन्वयितावच्छेदकरूपेणानुपस्थितेस्तत्र पदार्थान्तरस्यान्वयानुपपत्तेरिति मन्यते, तदा प्रकृतेऽपीदृश्येव गतिः। यत्तु संपन्नो ब्रीहिरित्यादावेकवचनोपस्थितानि नानैकत्वानि प्रत्येकं नानात्रीहिष्वन्वीयन्ते इत्युक्त्यैव सामञ्जस्ये जातावेकत्वमा- नोपगमो निरर्थक इति । तदसत् । यतः स्वसजातीयनिष्ठभेदप्रति- व्यभिचाराभावः । एकत्वनिष्ठप्रकारताया विभक्तिप्रयोज्यत्वात् । एवञ्च वेदाः प्रमाणमित्यादौ प्रमाकरणत्वे एकत्वान्वयोऽप्युपपद्यते । समानधर्मा- वच्छिन्नविशेष्यताकनिश्चयस्यैव विरोधिज्ञानप्रतिबन्धकतया तस्यैव प्रवृत्ति- निवृत्तिप्रयोजकतया निरवच्छिन्नविशेष्यताकेतरपदार्थप्रकारकशाब्दबोधस्या- नुपयोगेनानभ्युपगमात् स्वरूपत उपस्थिते ब्रीहित्वे एकत्वान्वयो न सम्भव- तीत्य पाह-यदि चेत्यादि । स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वेति । स्वमेक- त्वन्तदाश्रयः प्रकृत्यर्थतावच्छेदकं ब्रीहित्वं तद्वत्त्वं ब्रीहौ सम्बन्धः । अन्वयितावच्छेदकरूपेणेति । ननु प्रकृतान्वयिता एकत्वनिष्ठप्रकार- तानिरूपिताविशेष्यतैव । तदवच्छेदकञ्च न किमपि ब्रीहित्वत्वस्यानुपस्थि- तत्वादन्यस्य कस्य चिदसम्भवात् प्रकृतान्वयितावच्छेदकरूपमप्रसिद्धमिति चेदन्वयितावच्छेदकतया सम्भावितं यद्रूपं व्रीहित्वत्वन्तद्रूपेणेत्यर्थनाप्रसिद्धय- भावात् । प्रकृतेऽपोति । वेदाः प्रमाणमित्यत्रापीत्यर्थः । ईदृश्येवेति । स्वाश्रयप्रमितिकरणत्ववत्त्वसम्बन्धेन प्रमाण एवैकत्वान्वय इत्यर्थः । तथा च न तदर्थ व्युत्पत्तिसंकोच इति भावः । स्वसजातीयनिष्ठेत्यादि । यत्रैकत्वान्वयो विवक्षितस्तत्र स्वसजातीय- रहितत्वमेवैकत्वं विभक्तिप्रतिपाद्यम् । स्वमत्र घटादिः । ननु यत्र सजातीयो प्रथमा ] जयाऽलङ्कृतः २५ योगितानवच्छेदकैकत्वरूपसजातीयद्वितीयरहितत्वमेकवचनार्थः न त्वेकत्वमात्रम्। तस्य वस्तुमात्रसाधारण्येनार्थत एव लाभात् । अनु- पयोगाच्च । अत एव पशुना यजेत इत्यादौ पशुनिष्ठतादृशैकत्वस्य विवक्षितत्वादनेकपशुकरणकयागान्नादृष्टसिद्धिः। साजात्यं च स्वस- मभिव्याहतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवत्त्वरूपेण । अतोऽत्र घटोऽस्तीत्यादौ घटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वा- । द्वितीयोऽस्ति तत्राप्यपरस्मिन् घटादौ तद्वितीयाभावरूपं रहितत्वं वर्तत एवान्यस्य रहितत्वस्य वर्णयितुमशक्यत्वादित्यतः स्वयमेव परिष्करोति- स्वसजातीयनिष्ठेत्यादिना । स्वसजातीयत्वं स्ववृत्तिधर्मवत्त्वम् । तत्र स्वं घटादिस्तद्वृत्तिर्धर्मः क इति जिज्ञासायामाह-साजात्यञ्चेति । स्वसमभि- व्याहृतपदार्थेत्यादि । स्वं यदर्थ एकत्वं वर्ण्यते तदेकवचनं स्वादिः । तत्स- मभिव्याहृतन्तद्घटितवाक्यघटक पदमत्र घटोऽस्तीत्यादौ-अत्रेत्यादि । तदर्थ एतद्देशविद्यमानत्वादिस्तत्संसर्गः स्वरूपादिः । प्रकृत्यर्थतावच्छेदकञ्च' घट- त्वादिः । तथा चात्र घटोऽस्तीत्यादौ स्वर्थंकत्वं घटे प्रतीयते तच्चैकत्वं घटे किभित्याकाङ्क्षायां घटवृत्तयो ये धर्माः सुप्रकृत्यर्थतावच्छेदकं घटत्वं सुसमभिव्याहृतपदार्थेतद्देशविद्यमानत्वादिस्वरूपादिसंसर्गाश्च तद्वत्त्वम् । यदि तस्मिन् देशे द्वितीयो घटोऽस्ति तदा तत्र तनिष्ठो भेद एतद्घटगतैकत्ववाने- त्याकारकस्तत्प्रतियोगितावच्छेदकमेव तदेकत्वम् । यदि तत्र द्वितीयो नास्ति तदा स्वयमेव स्वसजातीयस्तन्निष्ठस्तद्गतैकत्ववानेत्याकारको भेदो नास्ति। किन्तु देशान्तरीयघटादिनिष्ठैकत्ववान्नेत्याकारक एव तत्प्रतियोगितानव- च्छेदकमेतद्देशस्थघटगतमेकत्वमिति तदेकवचनप्रतिपाद्यमिति निष्कर्षः । ननु यदैतद्देशे एको घटो ब्राह्मणस्यापरश्च शूद्रस्य तदाऽत्र ब्राह्मणस्य घटोऽस्तीनि प्रयोगो न स्यादेतद्घटवृत्तिर्यः प्रकृत्यर्थतावच्छेदकघटत्वं सुसम- भिव्याहृतपदार्थेतद्देशविद्यमानत्वसंसर्गश्च तद्वत्त्वमपरस्मिन् शूद्रघटे तन्निष्ठ- भेदप्रतियोगितावच्छेदकत्वमेव ब्राह्मणघटगतैकत्व इत्येकवचनप्रयोगोऽसंगत व्युत्पत्तिवादः [ कारके -- इति चेत्-न । यावत्स्वसमभिव्याहृतपदार्थसंसर्गस्य विवक्षितत्वात् । प्रकृते ब्राह्मणस्य घटे ब्राह्मणसंसर्गोऽस्ति स शूद्रघटे नास्तीत्यदोषः । न च स्वस्वा- मिभावस्यासत्त्वेऽपि कालिकादिसंसर्गोऽस्त्येवेति वाच्यं, शाब्दबोधविषयसंस- र्गस्यैव' विवक्षितत्वेन कालिकादिसम्बन्धसत्ताया अकिञ्चित्करत्वात् । न च कस्मिंश्चिच्छाब्दबोधे कालिकादेरपि विषयत्वसम्भवात्तस्य च प्रकृते सत्त्वा- होप एवेति वाच्यं, प्रकृतशाब्दबोधविषयताया एवापेक्षितत्वात् । कालिक- सम्बन्धेन देवदत्तविशिष्टो यज्ञदत्तः अत्र घटोऽस्तीतिवाक्यद्वयजन्यसमूहा- लम्बनबोधमादाय तस्या अपि तत्र सम्भवादिति चेत् । स्ववृत्तयो यावन्तः सुसमभिव्याहृतपदार्थसंसर्गास्तेषां सर्वेषां सत्ताया अपेक्षितत्वात् । प्रकृते कालिकादेब्राह्मणसंसर्गस्य शूद्रघटे सत्त्वेऽपि स्वस्वामिभावरूपस्यैतद्घटे वर्त- मानस्य ब्राह्मणसंबंधस्य शूद्रघटेऽसत्त्वेन यावत्संसर्गाभावेनादोषः । पशुना यजेतेत्यनेनैकत्वविशिष्टपशुकरणके याग इष्टजनकत्वं बोध्यते । तत्र पशुसजातीयो द्वितीयो नास्ति किन्तु स्वयमेव स्वसजातीयस्तन्निष्ठभेदप्रति- योगितानवच्छेदकत्वं तद्गतैकत्वेऽस्तीति समन्वयः । पशुद्वयकरणकयागे च नानया श्रुत्याऽदृष्टजनकत्वं बोध्यते तत्रैकत्वविशिष्टपशुकरणकयागत्व- रूपोद्देश्यतावच्छेदकानाक्रान्तत्वात् । तद्यागीयद्वितीयपशोरपरपशुसजातीय- स्य सत्त्वेन एकत्वविशिष्टपशोरभावात् । ननु सर्वस्यैकत्वविशिष्टपशुकर- णकयागस्यानयाऽदृष्टजनकत्वबोधनाय सर्वस्तादृशो याग एतद्यधातुरूप- पदार्थः । तत्संसर्गस्य पशुत्वरूपप्रकृत्यर्थतावच्छेदकस्य च यागान्तरीयपशौ सत्त्वात्स एव एतद्यागीयपशुसजातीयस्तद्रहितत्वमेतत्पशौ नास्तीति कथमे- कत्वविशिष्टपशुकरणको यागः प्रसिद्ध इति चेत्-न । एतत्पशुवृत्तिरेतद्या- गव्यक्तिसंसर्गस्स च यागान्तरीयसंसर्गवति पशौ नास्तीति तस्यैतत्सजातीय- त्वाभावात् । एवं नरेण नरो यजेतेत्यादावपि करणभूतनरसजातीयत्वं कर्तृभूतनरे तत्सजातीयत्वन्तस्मिन् वा नरे नास्ति करणभूतनरे यागस्य करणत्वं संसर्गस्स च कर्तरि तरे नास्ति । तस्मिन् नरे यागस्य कर्तृत्वं संसर्गस्स च करणभूते तस्मिन् नास्तीत्यतः स्ववृत्तिसंसर्गवत्त्वस्यान्यत्राभावात् किन्तु प्रथमा ] जयाऽलङ्कृतः २७ स्वयमेव स्वसजातीयन्तनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तद्गतैकत्वे सत्त्वेनोभयत्रैकवचनोपपत्तिः न च बहुब्राह्मणकर्तृकशयनाधिकरणस्थानतात्पhणात्र ब्राह्मणः शेते इत्यापद्येत । कर्तृभेदेन शयनक्रियाया भेदादेकब्राह्मण- वृत्तिर्यः शयनक्रियाव्यक्तिसम्बन्धः । स ब्राह्मणान्तरे नास्तीति स्वसजा- तीयत्वं स्वस्मिन्नेव तनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तदेकत्वे सत्त्वा- दिति वाच्यं, पदार्थसंसर्गित्वमित्यत्रत्यपदार्थपदेन पदार्थतावच्छेदकस्य ग्रह- णेनादोपात् । तथा च ब्राह्मणे यः शयनत्वरूपपदार्थतावच्छेदकस्य सम्बन्धः स्वावच्छिन्ननिरूपितकर्तृत्वरूपस्तस्यैव ब्राह्मणान्तरे सत्त्वेनैतबाह्मणसजा- तीयो द्वितीयो ब्राह्मणस्तद्रहितत्वाभावेनैकवचनोपपत्त्यभावात् । अथैवं सति पशुना यजेतेत्यत्र दोष एव । तत्राप्येतत्पशुनिष्ठो यो यागत्वरूपपदार्थतावच्छेदकसम्बन्धः स्वावच्छिन्ननिरूपितकरणत्वरूपस्त- स्यैव यागान्तरीयपशावपि' सत्त्वेन तस्याप्येतत्पशुसजातीयत्वेन तद्रहि- तत्वाभावादिति चेत्-सत्यम् । अत्र यज्धातो-गत्वोपलक्षिततत्तद्वयक्ति- त्वावच्छिन्ने लक्षणा ततश्चैतद्यागीयपशौ यो पदार्थतावच्छेदकतद्वय- क्तित्वसम्बन्धस्तस्य यागान्तरीयपशावभावात् तत्र हि भिन्नतद्वयक्ति- त्वस्य स्वावच्छिन्नकरणत्वसम्बन्ध इति यागान्तरीयपशोरेतत्पशुसाजात्या- भावेन दोषानवकाशात् । केचित्तु पदार्थपदं पदजन्योपस्थितिमुख्यविशेष्यपरमेव यज्धातुर्या- गत्वावच्छिन्नपर एव । वहुब्राह्मणकर्तृकशयनस्थले अत्र ब्राह्मणः शेते इतीष्यते एव । न चैवं सति बहुघटसत्त्वदशायामत्र घटोऽस्तीति वाक्यन्तु जात्येकत्वादेव समर्थनीयमिति ग्रन्थासङ्गतिर्बहुब्राह्मणकर्तृकशयनदशाया- मत्र ब्राह्मणः शेते इत्यस्येवास्यापि व्यक्त्यैकत्वपरतयाऽपि साधुत्वोपपादन- सम्भवादिति वाच्यं, अत्र घटोऽस्तीत्यादौ घटत्वावच्छिन्नाधेयताया एवास्- धात्वर्थसत्तारूपतया तस्या एकत्वेनात्र ब्राह्मणः शेते इत्यतो बैलक्षण्यसम्भवा- दित्याहुः । स्वविशिष्टमेकत्वमेकवचनार्थः । वैशिष्टयञ्च स्वाभाववत्त्व- सम्बन्धेन । प्रतियोगितावच्छेदकसम्बन्धश्च स्वविशिष्टावच्छेदकतावत्त्व- २८ [ कारके व्युत्पत्तिवादः प्रसिद्धावपि न क्षतिः। एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितान- बच्छेदकैकत्वस्यैव तत्र बोधादिति तस्य च प्रसिद्धत्वात्। एतद्देशे बहु- रूपः । तत्र वैशिष्टयं स्वत्रयोज्यप्रकारतावच्छेदकतया विवक्षितसंसा- वच्छिन्नत्वस्वविशिष्टनिष्ठभेदप्रतियोगितानिरूपितत्वोभयसम्बन्धेन । वैशिष्टचं स्वप्रकृत्यर्थतावच्छेदकधर्मवत्स्वस्वविशिष्टसमुदायत्वावच्छिन्ना- धेयतानिरूपिताधिकरणतावत्त्वोभयसम्बन्धेन । समुदायत्वे वैशिष्टचं स्वत्र- कृत्यर्थनिष्ठाधिकरणतानिरूपिताधेयतावच्छेदकत्वस्वसमभिव्याहृतपदार्थसंस- र्गवृत्तित्वस्वसमभिव्याहतपदार्थसंसर्गतरावृत्तित्वस्वसमभिव्याहृतपदार्थसंवर्ग- वृत्त्यभावाप्रतियोगित्वैतच्चतुष्टयसम्बन्धेनेति तत्त्वम् । संसर्गश्च स्वप्रयोज्या- शाब्दबोधीयविषयतया साक्षात्परम्परया निरूपितविषयताश्रयो ग्राह्यतेन प्रकृतशाब्दबोधाविषयसंसर्गमादाय नातिप्रसङ्गः । बहुविशेषणानां फलान्यु- क्तान्येवावशिष्टमुच्यते। सम्पन्नो व्रीहिरित्यादौ ब्रीहित्वगतैकत्वे सजातीय- बीहिनिष्ठो यो व्रीहित्वगतैकत्ववान्नेत्याकारको भेदस्तत्प्रतियोगितावच्छेद- कत्वस्यैव सत्त्वेन कथन्तदेकवचनार्थ इति शङ्कावारणायावच्छेदकतायां स्वप्रयोज्यप्रकारतावच्छेदकेत्यादिनिवेशितम् । प्रकृतभेदीयप्रतियोगिता- वच्छेदकतायास्समवायसम्बन्धावच्छिन्नत्वेन स्वप्रयोज्यप्रकारताच्छेदक: स्वा- श्रयाश्रयत्वरूपस्तदवच्छिन्नत्वाभावात् । तत्र हि स्वार्थकत्वस्य स्वाश्रया- श्रयत्वसम्बन्धेनैव ब्रीहावन्वयेनापत्त्यभावः । स्वाश्रयाश्रयत्वसम्बन्धन व्रीहित्वगतैकत्वविशिष्टभेदस्य च बीहावभावादिति दिक् । स्वसमभिव्या- हृतेत्यत्र स्वमेकवचनम् । साजात्यनियामकतया प्रकृत्यर्थतावच्छेदकधर्ममात्रस्य ग्रहणे दोषमाह- अतोऽत्र घटोऽस्तीत्यादाविति । अतः स्वसमभिव्याहृतपदार्थसंसर्गित्व- निवेशादित्यर्थः । अन्यथा घटमात्रस्य सजातीयत्वादिति भावः । समभि- व्याहृतेत्यादिनिवेशलभ्यमाह-एतद्देशविद्यमानेत्यादि तादृशवाक्येति । अत्र प्रथमा ] जयाऽलङ्कृतः २६ घटसत्वदशायां ताशवाक्यप्रयोगस्तु जात्येकत्वादेव समर्थनीयः । यत्तु एकत्वाविवक्षायामपि भावाख्यातस्थले एकवचनस्य साधुत्व- दर्शनात्संख्याया अविवक्षणेऽपि संपन्नो ब्रीहिरित्यादावेकवचनो- पपत्तेरलं जात्येकत्वपरतया तत्र समर्थनेनेति तदप्यकिञ्चित्करम् । भावाख्यातस्थले गत्यन्तरविरहेण विभक्तनिरर्थकत्वोपगमात् । तत्र च सार्थकत्वोपगमसम्भवे तत्परित्यागस्यानुचितत्वात् । सति तात्पर्ये तद्बोधस्यानुभविकत्वाच्चेति । एवं 'त्रयः समुदिता हेतु'रित्यत्र हेतुपदं कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपरं ताह- शसमुदायत्वान्वितमेकत्वमेकवचनार्थः । अत एव शक्त्यादीनां घटोऽस्तीतिवाक्येत्यर्थः । एवं त्रयः समुदिता हेतुरित्यत्र हेतुपदमित्यादि। हेतुपदस्य प्रयोजकतावच्छेदकसमुदायत्वावच्छिन्ने लक्षणा कार्योत्पत्तिरिति तु पर्यावसितार्थकथनन्न तु लक्ष्यतावच्छेदककुक्षौ तस्य प्रवेशस्तदुद्भव इत्यनेनैव कार्योत्पत्तीत्यस्य लाभात् । प्रयोजकता च शक्तिनिपुणताऽभ्या- सात्मके समुदाये काव्योत्पत्तिसमानाधिकरणाभावाप्रतियोगित्वरूपा । अत एव शक्त्यादीनामिति । शक्तिनिपुणताऽभ्यासा इतिपदोपस्थिताः हेतु- पदाच्च प्रयोजकतावच्छेदकसमुदायत्वावच्छिन्न उपस्थितस्तस्याभेदसम्बन्धे- नेत्यर्थशक्त्यादावन्वयस्तदर्थंकदेशे समुदायत्वे स्वर्थंकत्वस्यान्वयस्तदुद्भवे इत्य- स्य काव्योत्पत्तीत्यर्थस्तस्याश्च प्रयोजकतायां सप्तम्यर्थनिरूपितत्वसम्बन्धे- नान्वयः । तथा च काव्योत्पत्तिनिरूपितप्रयोजकतावच्छेदकैकत्वविशिष्टसमु- दायत्वावच्छिन्नाभिन्नाः शक्तिनिपुणताभ्यासा इति इतिहेतुस्तदुद्भव इति वाक्यात् त्रयः समुदिता हेतुरिति वाक्याच्च बोधः । समुदिता इति विवरण- वाक्यघटकपदं हेतुपदस्योक्तार्थलाक्षणिकत्वं बोधयति । एवं च यथा दाहं प्रति तृणस्यारणेश्च मणेश्च स्वातन्त्र्येण कारणत्वं नैकसहायेनापरस्य तथैव काव्योत्पत्तौ शक्त्यादीनां प्रत्येक कारणत्वमित्येव कुतो न काव्य- व्युत्पत्तिवादः [ कारके त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः । तथा सत्येषामे- कैकसमवधानदशायामपि कार्योत्पत्तेरावश्यकतया तत्तितयपर्याप्त- समुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकसमुदायत्वाश्रयत्वानुपपत्तेः । एवं जात्याकृतिव्यक्तयः पदार्थ इत्यत्र त्रितयनिष्टस्य पदशक्तिरूपपदार्थलस्यैकत्वं विवक्षितमिति तन्त्र प्रकाशतात्पर्य्य मिति शङ्काया अनवकाशः । उक्तवाक्यार्थविरोधात् । प्रत्येकमन्यासहायेन कारणत्वे एकस्यापि शक्त्यादेः सत्त्वे कार्योत्पत्ते- रावश्यकतया प्रत्येक प्रयोजकतापर्याप्तिर्वक्तव्या। तथा च त्रितयपा- प्तसमुदायत्वस्यातिप्रसक्तत्वेन तदनवच्छेदकतथा तदवच्छेदकसमुदायत्वघ- टितोक्तवाक्यार्थविरोधः स्पष्ट एव । ननु हेतुपदं शक्यार्थपरमेव कुतो न ग्रन्थकृत्तात्पर्य्यविषयीभूतन्तथा सति तृणारणिमणिन्यायेन हेतुताप्रसज्येतेति तु नाशङ्कनीयम् । दण्डादीनां घटं प्रतीवान्वयव्यतिरेकाभ्यामेव निर्णयसम्भवादिति चेत्-न । हेतो - नात्वात् शक्तित्वाद्यवच्छेदकभेदेन हेतुताया अपि नानात्वाच्च । स्वर्थंकत्व- स्यान्वयासम्भवेनाविवक्षाया एव वक्तव्यतया त्रयः समुदिता हेतुरित्यत्रास- मानवचनत्वानुपपत्तेरिति दिक् । त्रितयनिष्ठस्येत्यादि । घटादिपदनिरूपिता शक्तिर्घटत्वादिजाति- समवायादिसम्बन्धघटादिव्यक्तिनिष्ठा एकैवेति । तत्रैवैकत्वान्वय इति पदार्थे जात्यादावेकत्वबाधेऽपि न क्षतिः । न च घटादिपदशक्तिः का या जातिसम्बन्धव्यक्तिषु एका स्यात् । किञ्च पदशक्तिरित्यस्य कोऽर्थः ? पदनिरूपिता पदनिष्ठा वा शक्तिः। शक्तेरीश्वरेच्छारूपत्वे ईश्वरनिष्ठायां तस्यां पदनिरूपितत्वनिष्ठत्वयोर्बाधात् जात्यादिनिष्ठत्वस्य बाधाच्चेति वाच्यम् । पदजन्यबोधविषयता शक्तिः । पदशक्तिरित्यस्य पदसम्बन्धिनी शक्तिरित्यर्थः । सम्बन्धश्च स्वजन्यबोधनिरूपितत्वरूपः । सा च निरुक्त- प्रथमा ] जयाऽलङ्कृतः विशेष्यपदस्य बहुवचनान्तत्वेऽपि विशेषणपदस्यैकवचनान्ततोपप- त्तिः। प्रत्यक्षानुमानेत्यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेनाविवक्षितत्वात्प्रमाण- पदस्य बहुवचनान्ततेति । एवं पितरो देवता इत्यत्रापि पितृपिता- विषयतारूपा शक्तिः स्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितेश्व- रीयेच्छीयविशेष्यतावत्त्वसम्बन्धेन व्यक्तौ वर्तते स्वनिष्ठविशेष्यतानि- रूपितावच्छिन्नत्वसम्बन्धावच्छिन्नप्रकारतावत्त्वसम्वन्धेन जातौ वर्त्तते स्व- निष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकसंसर्गघटकावच्छेदकतावच्छेदकत्व- सम्बन्धेन समवायादौ वर्तत इति त्रितयनिष्ठत्वमपि तस्या उपपद्यते । एतेने- श्वरेच्छायाः शक्तित्वे ईश्वरेच्छायाः समूहालम्बनात्मिकाया एकस्या एव सत्त्वेन शक्तशक्यतावच्छेदकभेदेनापि शक्तिभेदानापत्तेः । तद्विषयतायास्तत्त्वे बोधादेरपि घटादिपदशक्यत्वापत्तेस्तस्यापि तदिच्छाविषयत्वात्तादृशविषय- तानामेकत्त्वाभावाच्छक्तावप्येकत्वाभाव इत्यादिवदन्तोऽपास्ताः । प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्येत्यादि । प्रत्यक्षप्रमाऽनमान- प्रमादीनां भिन्नत्वात् । तत्तत्करणतानाञ्च प्रत्यक्षादिनिष्ठानां प्रत्यक्षत्वानु- मानत्वाद्यवच्छेदकभेदेन भिन्नत्वादिति भावः । ननु प्रमेत्यनुगतप्रतीत्यनुरोधेन प्रमात्वस्यैकस्यावश्याभ्युपगन्तव्यत्वेन तत्रैवैकत्वान्वयाय विभक्त्यर्थंकत्वविवक्षाऽस्त्विति चेत्-न । प्रवृत्तिनिमित्त- तदाश्रयान्यतरान्वितैकत्वबोधं प्रत्येव प्रकृतिप्रत्ययानुपूर्वीरूपस्याकाङ्क्षात्वा- भ्युपगमेन प्रमात्वान्वितैकत्वबोधं प्रति प्रमाणमित्यस्य निराकाङ्क्षत्वेन तादृशबोधासम्भवेनैकत्वस्याविवक्षितत्वात् । पितरो देवता इत्यत्र त्यागो- द्देश्यत्वमेव । देवतात्वञ्च पितृत्वपितामहत्वाद्यवच्छेदकभेदाद्भिन्नमिति न कुत्राप्येकत्वान्वययोग्यतेत्येकत्वस्याविवक्षया समानवचनत्वम् । पितृभ्यः स्वधेतिव्यवहारस्तु न प्रामाणिक इति भावः ।

[ कारके ३२ व्युत्पत्तिवादः महत्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम् । उद्देश्यतावच्छेद- कभेदेनैव उद्देश्यताभेदात् । तत्र एकत्वस्याविवक्षया देवतापदस्य बहुवचनान्ततेति दिक् । स्वप्रकृतिकत्वं च स्वाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वम् । तेन दधि सुन्दरमित्यादौ विशेष्यपदानन्तरं विभक्तरसत्त्वेऽपि न क्षतिः। तत्र विभक्तेरनुसन्धानं विना शाब्दबोधानुपगमात् । एवं तादृशविभक्तिसजातीयविभक्ति- कत्वमपि तथाविधविभक्त्यव्यवहितपूर्ववर्तितया प्रतिसन्धीयमान- त्वम्। तेन इदं दधीत्यादौ विशेषणपदानन्तरं विभक्तरसत्त्वेऽपि न क्षतिः। अथ नीलस्य घट इत्यादावपि पदार्थोपस्थित्यादिकारणस- मवधानसंभवात् कथन्न नीलघटाघोरभेदान्वयबोधः । सामग्र्या कार्यजनने उक्तनियमभङ्गप्रसङ्गरूपबाधकस्याकिञ्चित्करत्वादिति चेत् तथाविधान्वयबोधौपयिकाकाङ्क्षाविरहात्। तथा हि तादृशान्वय- बोधे प्रथमाविभक्त्त्यन्तघटादिपदसमभिव्याहृतप्रथमान्तनीलादि- ena तथा- ननु विंशत्याद्या इत्यादि तु प्रसङ्गादागतम् । प्रकृतन्तु स्वप्रकृतिकवि- भक्तिसजातीयेत्यादौ स्वप्रकृतिकत्वन्तदाह-स्वप्रकृतिकत्वञ्चेति । प्रति- सन्धीयमानत्वं ज्ञायमानत्वमित्यर्थः । तादृशेति । स्वप्रकृतिकेत्यर्थः। तथाविधेति। स्वप्रकृतिकविभक्तिसजातीयेत्यर्थः । उक्तनियमभङ्गेति- समानविभक्तिकपदोपस्थापितयोरेवाभेदान्वय इति नियमेत्यर्थः । विधेति। अभेदान्वयेत्यर्थः । बोधौपयिकेति । बोधजनकेत्यर्थः । सा चाकाङ्क्षा कीदृशीत्याकाङ्क्षायामाह-तथा होति । तादृशान्वयबोध इति । अभेद- सम्वन्धावच्छिन्ननीलत्वाधवच्छिन्नप्रकारतानिरूपितघटत्वाद्यवच्छिन्नविशेष्य- ताकशाब्दबोध इत्यर्थः । प्रथमा विभक्त्यन्तेत्यादि । इदन्तु वस्तुस्थिति- मात्रन्न तु प्रथमात्वविभक्तित्वादिभिविभक्तेराकाङ्क्षाशरीरे प्रवेशः, उक्त- धर्माज्ञानेऽपि घट इत्यादेरानुपूर्वीप्रकारेणैवाकाङ्क्षायां प्रवेशः । तथा च प्रथमा ] जयाऽलङ्कृतः नीलो घटो घटो नील इत्याद्यानुपूर्व्यवच्छिन्नविषयतानिरूपकज्ञानस्यैव शाब्दबोधजनकत्वम् । यत्रापि नीलश्चैत्रस्य घट इत्यादिवाक्यं प्रयुज्यते तत्रापि तथानुपूर्वीमद्वाक्यं कल्पयित्वैव शाब्दबोधः करणीयः । अत एवासत्ति- रप्युपपद्यते । अन्यथा नीलोपस्थितिघटोपस्थित्योश्चैत्रोपस्थित्या व्यवधाना- दव्यवधानघटितायास्तस्या अभावेन शाब्दबोधानापत्तिः । नीलघट इत्यादि- समासस्थले नीलो घट इति समुदायगतानुपूर्व्या अभावेन व्यासस्थलीया - काङ्क्षाया अभावेन शाब्दबोधानापत्त्या तत्स्थलीयानुपूर्वीज्ञानस्यापि पृथक् कारणत्वं वाच्यम् । एवमेव नीलो घटौ, नीला घटा, नीलं घट, नीलान् घटानित्यादिसमुदायगतानुपूर्वीज्ञानानामपि तत्तदानुपूर्वीप्रकारकत्वेनैव कार- णत्वं वक्तव्यमेकरूपेण कारणताया वक्तुमशक्यत्वात् । ननु नीलघटः, नीलघटौ, नीलघटा इत्यादिविभक्त्यन्तसमुदायपर्याप्ता- नुपूर्वीणां कारणतावच्छेदकत्वे समासस्थलेऽपि विभक्तीनां सप्तत्वेन तदन्त- निष्ठानुपूर्वीणामपि सप्तानां कारणतावच्छेदकत्वापेक्षया नीलघटत्वरूपा- नुपूर्वीप्रकारकज्ञानत्वेनैव सप्तानां कारणत्वे लाघवात्तथैव वक्तुं युक्तमत एव मूलेऽपि नीलपदाव्यवहितोत्तरघटपदत्वं घटपदाव्यवहितपूर्वनीलप- दत्वमित्येवाकाङ्क्षासप्तविभक्त्यन्तनीलघटसमासस्थले उक्तमिति चेत्- सत्यम् । तस्यापि विभक्त्यन्तानुपूर्वीणां प्रवेश एव तात्पर्य कथमन्यथा निविभक्तिकनीलघटेतिसमुदायात् शाब्दबोधाभावः । यथाश्रुतग्रन्थरीत्या नीलपदाव्यवहितोत्तरघटपदत्वादेस्तत्र सत्त्वेन शाब्दबोधापत्तेर्दुरित्वात् । ननु कीदृशस्तत्र शाब्दबोध आपाद्यते । न तावन्नीलत्वावच्छिन्नप्रकारता- निरूपितघटत्वावच्छिन्नविशेष्यताक इति वक्तुं शक्यते । तादृशशाब्दबोधस्या- प्रसिद्धेस्तत्कारणरूपापादकस्याप्यप्रसिद्धेः। न च नीलो घट इत्यादौ नीलघट इत्यादौ च तादृशशाब्दबोधप्रसिद्धिरिति वाच्यं, तत्रैकत्वस्यापि विशेषणतया भानेन तन्नियामकविभक्तिपदजन्यैकत्वोपस्थितिघटपदाव्यवहितोत्तरसुपदत्व- रूपानुपूर्वीज्ञानादेरपि कारणत्वेन तदभावेनापत्त्य वादिति चेत्-अत्रो- च्यते । नीलो घटो नीलघट इत्यादावेकत्वत्वावच्छिन्नविषयताघटितशाब्द- व्युत्पत्तिवादः [ कारके पदत्वमेवासमस्तनीलघटपदाद्याकाङ्क्षा । समासस्थले च घटपदा- द्यव्यवहितपूर्ववतिनीलादिपदत्वं नीलादिपदाव्यवहितोत्तरवर्तिघ- टादिपदत्वं वा आकाङ्क्षा । उक्तस्थले च तादृश्या एकस्या अप्या- बोधत्वावच्छिन्न कार्यतानिरूपितकारणताया एवैकत्वोपस्थित्यादेः सत्त्वे- नैकत्वत्वावच्छिन्नविषयत्वाघटितनीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वाव- च्छिन्नविशेष्यताकशाब्दत्वावच्छिन्नकाऱ्यांपादने एकत्वोपस्थितेरनपेक्षणेना- पत्तिसम्भवः । न चापाद्यतावच्छेदकधर्मस्य निरुक्तशाब्दबोधे अधिकं प्रविष्टन्न तु तद्धानिरितिरीत्या सत्त्वेऽपि तद्धविच्छिन्नकार्यतानिरूपितकारणतायाः कुत्राप्यभावेनापादकासम्भव एवेति वाच्यम् । नीलपदाव्यवहितोत्तरघटपद- त्वरूपमूलोक्ताकाङ्क्षाया एव तत्कारणीभूतायास्तत्रापादकत्वसम्भवादिति वाच्यम् । पापाद्यतावच्छेदकधर्म प्रत्येकत्वादिविषयताघटितनीलत्वा- वच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वादेव्याप्यत- या व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादक- सामग्र्या अपेक्षिततया तस्याश्च घटपदाव्यवहितोत्तरसुपदत्वरूपानुपूर्वीरूपा- काङ्क्षाज्ञानादिघटिततया निविभक्तिकनीलघटेतिसमुदायादौ तदभावेना- पत्त्यभाव इति दिक् । एवञ्च यादृशयादृशानुपूर्व्यवच्छिन्ने यादृशयादृशानु- पूर्व्यवच्छिन्नसमभिव्याहृतत्वज्ञानाद्यादृशः शाब्दबोधो जायते तादृशतादृशा- नुपूर्व्यवच्छिन्नविषयतानिरूपिततादृशानुपूर्व्यवच्छिन्नसमभिव्याहृतत्वविषय- तानिरूपकज्ञानं तादृशशाब्दबोधे कारणमिति निष्कर्षः । उक्तस्थले चेति । नीलस्य घट इत्यादिस्थले चेत्यर्थः । तादृश्याः प्रथमान्तीनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाया इत्यर्थः । ननु प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञाना- नीलो घट इति वाक्याज्जायमानाभेदान्वयबोधे द्वितीयान्तनीलपदसमभि- व्याहृतद्वितीयान्तघटपदत्वादिरूपाकाङ्क्षाया अभावात् तादृशाकाङ्क्षा- प्रथमा ] जयाऽलङ्कृतः ३५ काङ्क्षाया विरहान्नापत्तिः। कार्यतावच्छेदककोटावव्यवहितोत्तर- त्वनिवेशानोक्ताकाङ्क्षाज्ञानयोः परस्परबोधे व्यभिचारः । ज्ञानान्नीलं घटमित्यादिवाक्याज्जायमानेऽभेदान्वयबोधे च प्रथमान्तनीलेत्या- दिरूपाकाङ्क्षाया अभावात् 'तत्सत्त्वे तत्सत्ता तदभावे तदभाव' इत्यन्वय- व्यतिरेकनिबन्धनकार्यकारणभावासम्भव' इत्यत आह-कार्यतावच्छेद- ककोटावित्यादि । तथा च प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्व- रूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छि- नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणं, द्वि- तीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितो- त्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वाव- च्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति द्वितीयान्तनीलपदसमभिव्या- हृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमित्यादिक्रमेण यावदा- काङ्क्षाज्ञानं कार्यकारणभावः । तथा च व्यभिचाराभावः । एकस्मिन्नेव हि कार्ये नानाकारणसद्भावे तदुदय इति भावः । ननु यत्र देवदत्तस्य प्रथमान्तनीलपदसमभिव्याहृतेत्याद्याकाङ्क्षाज्ञानं जातन्तदव्यवहितोत्तरक्षणे एव यज्ञदत्तस्य पूर्वक्षणोत्पन्न द्वितीयान्तनीलपदसम- भिव्याहृतेत्याद्याकाङ्क्षाज्ञानात्तादृशाभेदान्वयबोधस्तत्र तादृशबोधे प्रथमान्त- नीलेत्याद्याकाङ्क्षाज्ञानकार्य्यतावच्छेदकाक्रान्तिसत्त्वेन तादृशबोधाधिकरणे यज्ञदत्ते तदाकाङ्क्षाज्ञानाभावेन व्यभिचारोऽस्त्येवेति चेत्-मैवम् । अव्य- वहितोत्तरत्वं विहाय स्वाव्यवहितोत्तरत्वस्वाधिकरणदेशवृत्तित्वोभयसम्ब- न्धेन ज्ञानस्य वैशिष्टचं बोधे निवेश्य तादृशबोधे द्वितीयसम्बन्धविरहेण तत्कार्य्यतावच्छेदकानाक्रान्ततयाऽऽपत्तेर्वारणसम्भवात् । न चोक्तोभयसम्ब- न्धेन स्वविशिष्टत्वमेव कार्य्यतावच्छेदकमस्तु । तथा सति कार्य्यतावच्छेदक- व्युत्पत्तिवादः [ कारके कोटावित्युक्तिसूचितस्याभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपि- तघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वे कार्य्यतावच्छेदकत्वस्य वैयर्थ्य- मिति वाच्यम् । चैत्रे प्रथमक्षणे प्रथमान्तेत्यादिकिमप्याकाङ्क्षाज्ञानं जातम् । तदुत्तरक्षणे चैत्रमैत्रोभयत्र यज्ञदत्तीयापेक्षाबुद्धचा द्वित्वसंख्योत्पन्ना । तत्र संख्यायां निरुक्ताकाङ्क्षाज्ञानवैशिष्ट्यरूपकार्य्यतावच्छेदकाक्रान्तिसत्त्वेन त- स्याश्च तादृशाकाङ्क्षाज्ञानशून्ये मैत्रेऽप्युत्पत्त्या व्यभिचारप्रसक्तेर्वारणाया- भेदसम्बन्धावच्छिन्नेत्यादिप्रवेशावश्यकत्वात् । न च तावताऽपि स्वविशिष्ट- शाब्दबुद्धित्वमेव कार्य्यतावच्छेदकमस्तु । विषयताविशेषनिवेशो व्यर्थ एव । तदाकाङ्क्षाज्ञानोत्तरे अन्यादृशेऽपि जायमाने शाब्दबोधे तदाकाङ्क्षाज्ञानस्य कारणत्वे इष्टापत्तेरिति वाच्यम् । यत्र नीलो घटः घटवद्भूतलमिति समूहा- लम्बनमाकाङ्क्षाज्ञानं नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितं तत्र घटवद्- भूतलमिति बोधो जायते न तु नीलाभिन्नो घट इति बोधः । तत्र प्रथमान्त- नीलपदोत्तरप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानोत्तरत्वविशिष्टशाब्दबोधरूपं कार्य घटवदिति बोधः । कारणञ्चाप्रामाण्यज्ञानानास्कन्दितप्रथमान्त- नीलपदसमभिव्याहृतप्रथमान्तघटपदरूपाकाङ्क्षाज्ञानं नास्तीति व्यभिचार- प्रसक्त्या तद्वारणायाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपित- घटत्वावच्छिन्नविशेष्यताकत्वं शाब्दबोधे विशेषणं देयम् । तथा च तत्र कार्य- कारणयोर्द्वयोरप्यभावान्न दोषः। न च कारणतावच्छेदककोटावप्रामाण्यज्ञा- नानास्कन्दितत्वनिवेशाभावमात्रेण व्यभिचारवारणसम्भवान्न विषयप्रवेशो युक्त इति वाच्यम् । अप्रामाण्यज्ञानास्कन्दितात् नीलो घट इत्याकाङ्क्षा- ज्ञानादभेदान्वयवारणाय कारणकोटावप्रामाण्यज्ञानानास्कन्दितत्वनिवेशस्या- वश्यकत्वात् । ननु क्व एतस्योपयोगः । न तावत् प्रथमक्षणे नीलो घट इत्याकाङ्क्षाज्ञानं तत इदं ज्ञानमप्रमाणमितिज्ञानं ततः शाब्दबोधो मा भूदित्यर्थमन्यथा आका- ङ्क्षाज्ञानस्य सत्त्वाच्छाब्दबोधापत्तिरिति युक्तम् । तत्र बोधस्याभावे स्ववि- शिष्टशाब्दबुद्धित्वावच्छिन्नरूपकार्य्यस्याप्यभावेनादोषात् । तत्र बोधस्य , प्रथमा ] जयाऽलङ्कृतः ३७ सत्त्वे तु कारणस्यापि सत्त्वेनादोषादिति चेत्-न । यत्र प्रथमक्षणे भाविज्ञानम- प्रमेति ज्ञानं, द्वितीयक्षणे नीलो घट इत्याकाङ्क्षाज्ञानं, तृतीयक्षणे आद्यस्य भाविज्ञानमप्रमेत्यप्रामाण्यज्ञानस्य नाशेनाप्रमाण्यज्ञानानास्कन्दितस्य नीलो घट इत्याकाङ्क्षाज्ञानस्य सद्भावात्, चतुर्थक्षणे नीलो घट इति बोधो भवति । कार्योत्पत्तिप्राक्क्षणे कारणस्य सत्त्वात् तृतीयक्षणे च बोधो न भवति । तत्प्राक् द्वितीयक्षणेऽप्रामाण्यज्ञानास्कन्दितस्यैवाकाङ्क्षाज्ञानस्य सत्त्वेन तदनास्कन्दि- तस्य तस्यासत्त्वात् । अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशाभावे द्वितीयक्षणे आकाङ्क्षाज्ञानस्य सत्त्वात् स्वविशिष्टः शाब्दबोधः । स एव चतुर्थक्षणस्थस्तस्य तृतीयक्षणे आपत्तिप्रसङ्गादप्रमाण्यज्ञानानास्कन्दितत्वनिवेश इति बोध्यम् । न च बोधे शाब्दत्वविशेषणं व्यर्थमिति वाच्यम् । नीलो घट इत्याकाङ्क्षाज्ञाने अप्रामाण्यज्ञानास्कन्दिते अनुमितिसामग्र्याञ्च' सत्यां नीलो घट इत्यनु- मितिर्जायते । तत्राप्रमाण्यज्ञानानास्कन्दिताकाङ्क्षाज्ञानरूपकारणाभावे प्रथ- मान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरा- भेदसम्बन्धावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकबोधस्य सत्त्वे न व्यभिचारापत्तेः । शाब्दत्वनिवेशे च शाब्दबोधाभावेनादोषात् । न च कार्य्यदलेऽप्याकाङ्क्षाज्ञानेऽप्रामाण्यज्ञानानास्कन्दितत्वनिवेशेनैवौक्तस्थलद्वये व्यभिचाराप्रसक्त्या विषयताविशेषस्य शाब्दत्वस्य च निवेशो व्यर्थ एव। किं च' विषयत्वादिनिवेशेऽपि अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशः कार्यदले आवश्यकः । अन्यथा नीलो घट: श्यामो घटः इति समूहालम्बनात्मका- काङ्क्षाज्ञानं नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितं यत्र तत्र बोधो भवति कार्य्यतावच्छेदकाक्रान्तोऽप्रामाण्यज्ञानानास्कन्दितं नीलो घट' इत्याकाङ्क्षा- ज्ञानञ्च नास्तीति व्यभिचारः स्यात् । अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशे च कार्यकारणयोरभावेनादोष इति वाच्यम् । अप्रामाण्यज्ञानेऽप्यप्रामाण्यज्ञाना- नास्कन्दितत्वं निवेश्यन्तत्राप्यप्रामाण्यज्ञानानास्कन्दितत्वं निवेश्यम् । एवं तत्र तत्रेत्यविश्रामः । एवं नीलपदासमभिव्याहृते घटे नीलपदसमभिव्याहृतत्व- ज्ञानरूपाप्रामाण्यज्ञानं नीलत्वाभाववति नीलत्वज्ञानरूपमप्रामाण्यज्ञानमित्या- व्युत्पत्तिवादः [ कारके दिसर्वेषां ज्ञानानामनास्कन्दितत्वनिवेशापेक्षया विषयत्वादिनिवेशे एव लाघवम् । एवमप्रामाण्यज्ञानानां तत्तद्रूपेणैव नीवेशनीयतयोक्तसमूहालम्ब- नस्थलीयाप्रामाण्यज्ञानव्यक्तेरनास्कन्दितत्वस्य कारणतावच्छेदके अनि- वेशेनैव दोषवारणसम्भवात् । किञ्च प्रवृत्तिं प्रतीष्टसाधनत्वज्ञानं कारणम् । इष्टच्च अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वाव- च्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वावच्छिन्नन्तदवच्छिन्नसाधनत्वस्य नीलो घट इति वाक्येऽग्रहे नीलो घट इति वाक्ये प्रवृत्तिन्न स्यादतो विषयतादेः साध्यतावच्छेदके प्रवेश आवश्यक इत्यपि बोध्यम् । ननु कार्य्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशेन नाना- कार्यकारणभावकल्पनापेक्षयाऽन्यतमत्वेनैवाकाङ्क्षाज्ञानानां कारणत्वं परि- कल्प्यैक एव कार्यकारणभावोऽस्त्विति चेत्-अत्रोच्यते । अन्यतमत्वं प्रकृते प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगि- कभेदविशिष्टद्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्- क्षाज्ञानप्रतियोगिकभेदरित्येवं क्रमेण सकलाकाङ्क्षाज्ञानभेदं निवेश्य तद्वद्भि- नत्वमेव । तत्र विनि विरहेणैतदाकाङ्क्षाज्ञानभेदविशिष्टत्वेनापराका- क्षाज्ञानभेदस्यापराकाङ्क्षाज्ञानभेदविशिष्टत्वे तदाकाङ्क्षाज्ञानभेदस्पेत्ये- वंक्रमेण प्रवेशे कारणताबाहुल्यम् । गुरुधर्मस्य कारणतावच्छेदकता चेति मूलोक्तप्रकारत्यागे बीजभावः । एवं भेदविशिष्टस्य जगतो भेदप्रतियोगितया प्रवेशेनातितरां गौरवम् । न च भेदविशिष्टस्य जगतो भेदविशिष्टत्वेनैक- रूपेणैव प्रवेशो न तु तत्तद्रूणेति न गौरवं जगत्प्रवेशप्रयुक्तमिति वाच्यम् । जगति सर्वत्र भेदविशिष्टत्वावच्छिन्नायाः कारणतावच्छेदकतायाः सम्बन्ध- कल्पनेन गौरवस्य स्पष्टत्वात् नान्यतमत्वेन कारणत्वम् । न च तत्तदाकाङ्क्षा- ज्ञानानां यावन्तो भेदास्तद्गतसमुदायत्वावच्छिन्नप्रतियोगिताकाभावस्यैवान्य- तमत्वरूपतया वैशिष्टयस्याप्रवेशेन न कारणतावच्छेदकस्य नानात्वं विनि- गमनाविरहप्रयुक्तम् । न वा जगत्प्रवेशप्रयुक्तं गौरवं जगतोऽप्रवेशादिति वाच्यम् । यतो भेदगतसमुदायत्वस्यापेक्षाबुद्धिविशेषविषयत्वरूपतयापेक्षा- का प्रथमा ] जयाऽलङ्कृतः बुद्धीनाञ्च नानात्वेन विनिगमनाविरहेण सर्वबुद्धिविषयत्वरूपाणां समुदा- यत्वानां प्रवेशेन कारणताबाहुल्यम् । अवच्छेदकगौरवञ्च तदवस्थमेव । न च तावदाकाङ्क्षाज्ञाननिष्ठमेकमखण्डोपाधिरूपं जातिरूपम्वाऽन्यतमत्वं मत्वा तदवच्छेदेन कारणत्वकल्पने एकमेव कारणत्वं लघुधर्मावच्छिन्नञ्चेति वाच्यं, यतः समानविषयकशाब्दबोधं प्रति प्रत्यक्षसामग्रयाः प्रतिबन्धकतया तदभावोऽप्याकाङ्क्षाज्ञानजन्यशाब्दबोधे सहकारीति तादृशप्रत्यक्षसामग्रयां सत्यामाकाङ्क्षाज्ञानादिकरणकलापान शाब्दबोधः । तत्रैव शाब्दबोधो जाय- तामितीच्छायां सत्यामिष्टस्य शाब्दबोधस्योपपत्तये प्रत्यक्षसामग्रयां शाब्दे- च्छाविरहविशिष्टत्वमपि देयम् । तथा च शाब्देच्छाविरहविशिष्टा प्रत्यक्ष- सामग्री नास्ति । विशेषणाभावप्रत्युक्तस्य विशिष्टाभावस्य सत्त्वादुपपन्नः शाब्दबोधः । तथा यत्र नीलो घट इत्याकाङ्क्षाज्ञानं समानविषयकप्रत्यक्ष- सामग्री द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञान- जन्यः शाब्दबोधो जायतामितीच्छा तत्र शाब्दबोधो न जायते । शाब्दबोधे- नोत्पन्नेन यस्या इच्छाया विषयसिद्धिस्तस्या एव ह्यतेजकत्वात् । तत्र तत्त- द्रूपेणाकाङ्क्षाज्ञानस्य कारणत्वे आन्तनीलपदसमभिव्याहृतप्रथमान्तघट- पदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वाव- च्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानजन्यशाब्दे- च्छाविरहविशिष्टाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघट- त्वावच्छिन्नविशेष्यताकप्रत्यक्षसामग्रीविरविशिष्टं प्रथमान्तनीलपदसमभि- व्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमिति कार्यकारणभावश- रीरे निष्पन्नेऽन्यादृशाकाङ्क्षाज्ञाने अन्यादृशाकाङ्क्षाज्ञानाधीनशाब्देच्छायाः सत्त्वेऽपि प्रतिबन्धिकायां समानविषयकप्रत्यक्षसामग्रयां सत्यां न बोधः । अन्य- तमत्वेन प्रवेशे तु अन्यतमाकाङ्क्षाज्ञानमन्यतमाकाङ्क्षाज्ञानाधीनशाब्देच्छा- रहविशिष्टसमानविषयकप्रत्यक्षसामग्रीविरहविशिष्टमभेदसम्बन्धावच्छिन्न- नीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोध प्रति ।

४० व्युत्पत्तिवादः [ कारके कारणमिति कार्यकारणशरीरे सत्यां समानविषयकप्रत्यक्षसामग्रयां कस्मा- च्चिदन्यतमाकाङ्क्षाज्ञानात् कस्यामप्यन्यतमाकाङ्क्षाज्ञानाधीनशाब्देच्छायां शाब्दापत्तिरतो नान्यतमत्वे कारणत्वसम्भवः । अथाव्यवहितोत्तरत्वनिवेशे नीलस्य घट इत्यादौ शाब्दापत्तिर्दुरिव । स्वोत्तरजायमानाभेदसम्बन्धा- वच्छिन्नप्रकारताकशाब्दबोधं प्रत्येव प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्त- घटपदत्वादिरूपाकाङ्क्षाज्ञानस्य कारणत्वेनापाद्यमानशाब्दबोधस्य तत्तदा- काङ्क्षाज्ञानानुत्तरत्वेन तत्तकार्यतावच्छेदकैरनाक्रान्तत्वेन तत्तत्कारणविर- हस्याकिञ्चित्करत्वात् । न चाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारता- निरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्याप्रसिद्धत्वादेव नापत्तिः । नीलो घट इत्यादौ तत्तदाकाङ्क्षाज्ञानोत्तरत्वविशिष्टाभेदबोधस्य सत्त्वेऽपि शुद्धनीलत्वावच्छिन्नाभेदबुद्धेस्तत्राभावेन न तत्र प्रसिद्धिरिति वाच्यम् । समान्यस्य विशेषे एव सत्त्वेनापाद्यमानतावच्छेदकधर्मस्याभेदसम्बन्धावच्छिन्न- नीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वस्य तत्रैव प्रसिद्धेः । न च तहि तच्छाब्दबोधकारणीभूताकाङ्क्षाज्ञानाभावादेव नापत्तिरिति वाच्यम् । पापाद्यमानतावच्छेदकधर्मस्य तत्तदाकाङ्क्षाज्ञान- कार्य्यतानवच्छेदकत्वमित्यस्योक्तत्वात् । अनोच्यते-सामान्यधविच्छिन्ने कार्ये जननीये विशेषधर्मावच्छिन्न- कार्योत्पादकसामग्रया अपेक्षा । यथा शुक्लपटत्वावच्छिन्नं प्रति शुक्लतन्तोः, कृष्णपटत्वावच्छिन्नं प्रति कृष्णतन्तोः कारणत्वे निर्णीते पटत्वावच्छिन्न- कार्यस्य तत्तच्छुक्लकृष्णतन्तूनामेवापेक्षा न तु कारणान्तरस्य। एवं सति सामान्यनीलत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितघटत्वावच्छि- नविशेष्यताकशाब्दबुद्धित्वावच्छिन्ने विशेषतत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तर- त्वविशिष्टतादृशधर्मावच्छिन्नकार्योत्पादकसामग्रयास्तत्तदाकाङ्क्षाज्ञानादि- घटिताया अपेक्षणात् । प्रकृते नीलस्य घट इत्यादौ तासां तत्तदाकाङ्क्षाज्ञान- घटितानां सामग्रीणां कस्या अप्यभावेन नापत्तिः । ननु कारणकूट एव सामग्री। तथा च सामान्यधविच्छिन्ने कार्य प्रथमा ] जयाऽलङ्क्तः ४१ जननीये विशेषधविच्छिन्नस्य कार्य्यस्य कारणसमुदाय अपेक्ष्यत इत्येव फलति । तच्च न युक्तम् । नीलो घट इत्यादौ सामान्यधर्मावच्छिन्नका- य॑स्य सत्त्वेऽपि विशेषतत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरविशिष्टतादृशधर्मा- वच्छिन्नकारणकूटस्य सकलतत्तदाकाङ्क्षाज्ञानघटितस्याभावेन कुत्राप्यभेद- बोधानापत्तेरिति चेत्-न । विशेषधविच्छिन्नकार्योत्पत्तिप्रयोजकतावच्छे- दकसमुदायत्वावच्छिन्नस्यापेक्षेति कथनेनादोषात् । एकैकाकाङ्क्षाज्ञानघटित- समुदायत्वस्यैव तथात्वेन तदवच्छिन्नस्य नीलो घट इत्यादौ सर्वत्र सत्त्वात् अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वस्याननुगतत्वेऽपि' कार्योत्पत्तिप्रयोज- कतावच्छेदकत्वेनानुगमसम्भवात् । अभेदसम्बन्धेन नीलविशिष्टघटत्वाव- च्छिन्नशाब्दबोधं प्रति तादृशशाब्दबुद्धित्वव्याप्यधर्मावच्छिन्नकार्य्यतानिरू- पितकारणतावदाकाङ्क्षाज्ञानं कारणमिति प्रकृतापत्तिवारणायाङ्गीक्रियत इति नापत्तिरिति परे । अत्र केचित् विशेष्यवाचकपदे प्रथमान्तत्वादिकमनिवेश्यैव प्रथमान्त- नीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरतादृशशाब्दबु- द्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहतप्रथमान्तघटपदत्वरूपा- काङ्क्षाज्ञानं कारणम् । एवं द्वितीयान्तनीलपदसमभिव्याहृतघटपदत्वरूपा- काङ्क्षाज्ञानाव्यवहितोत्तरतादृशशाब्दबोधं प्रति द्वितीयान्तनीलपदसमभि- व्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमित्येवं क्रमेण कार्य- कारणभावे नीलस्य घट इत्यादावापाद्यमानशाब्दस्य षष्ठयन्तनीलपदसम- भिव्याहृतषष्ठयन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्य' कार्यतावच्छेदकषष्ठ्यन्त- नीलपदसमभिव्याहृतघटपदव्यवहितोत्तरतादृशशाब्दबुद्धित्वाकान्ततया तादु- शाकाङ्क्षाज्ञानाभावेन नापत्तिरित्याहुः । तन्न । नीलस्य घट: नीलो घट इति समूहालम्बनात्मकाकाङ्क्षाज्ञानादि- ष्टस्य नीलघटाभेदान्वयस्यानापत्तेस्तस्य स्वकीयकार्य्यतावच्छेदकाक्रान्तत्वेन षष्ठयन्तनीलपदसमभिव्याहृतषष्ठयन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्याभावात् । परे तु अव्यवहितोत्तरत्वादिघटितान् प्रथमान्तत्वादिघटितान् कार्य- [ कारके ४२ व्युत्पत्तिवाद: यत्तु समासव्याससाधारणं विशेषणपदस्य विशेष्यवाचकप- दाप्रकृतिकविभक्त्यप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमेव तादृशा- न्वयबोधौपयिकाकाक्षा विशेष्यवाचकपदनिष्टविशेषणवाचक- पदाप्रकृतिकविभक्यप्रकृतित्वं च न तथा नीलघटमानयेत्यादावसंभ- वादिति तदसत्। विशेष्यवाचकपदाप्रकृतिकत्वस्य तादृशपदानुत्त- रत्वस्य तदुत्तरत्वेनाप्रतिसन्धीयमानत्वरूपस्य वा नीलो घट इत्यादौ कारणभावान् षटसंख्याकान् विधाय तत्तदाकाङ्क्षाज्ञानानुत्तरतादृशशाब्द- बुद्धित्वावच्छिन्नं प्रति सप्तम्यन्तनीलपदसमभिव्याहृतसप्तम्यन्तघटपदत्वरूपा- काङ्क्षाज्ञानस्य कारणत्वमित्यभ्युपगमेन नीलस्य घट इत्यादी आपाद्यमा- नस्यानुत्तरत्वादिघटितकार्य्यतावच्छेदकाक्रान्तत्वेन तत्कारणाभावेनापत्त्यभा- वादित्याहुः । तदपि न । नीलो घटो नीलस्य घट इति समूहालम्बनाकाङ्क्षाज्ञानात् नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितात् नीलघटाभेदान्वयबोधापत्तेस्तादृ- शापाद्यमानस्य तत्तदाकाङ्क्षाज्ञानानुत्तरत्वादिघटितकार्य्यतावच्छेदकधर्मा- नाक्रान्ततया सप्तम्यन्तत्वघटितकारणविरहस्याकिञ्चित्करत्वादिति दिक् । नानाकाङ्क्षाज्ञानानां कारणत्वापेक्षया लाघवादेकस्यैवाकाङ्क्षाज्ञानस्य कारणत्वमस्त्विति नानेककार्यकारणभावो नाप्यव्यवहितोत्तरत्वादिनि- वेश इत्याह-यत्त्वित्यादिना। ननु विशेष्यवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वं विशेषणवाचकपदे विशेषणवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वं विशेष्यवाचकपदे । अनयोरेव विनिगमनाविरहेण कारणत्वापत्तावनेककारणत्वं कारणाव्यवहितोत्तरत्वनि- वेशोऽप्यावश्यक एवेत्यत आह-विशेष्यवाचकेत्यादि । सत्त्वादिति । प्रत्यु- च्चारणं शब्दस्य भेदेन नीलपदोत्तरत्वादिविशिष्टविभक्तेर्घटपदोत्तरस्वादि- विभक्तिभिन्नत्वमिति भावः । ।

प्रथमा ] जयाऽलङ्कृतः नीलादिपदसमभिव्याहृतविभक्तौ घटपदसमभिव्याहृतविभक्तिभिन्न- तया सत्त्वात् । अथ विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाज- कधर्मवद्विभक्तिराहित्यस्य विवक्षणान्न दोष इति चेत्तर्हि विभक्तित्वा- विभक्तीनां भेदेऽपि तनिष्ठप्रथमात्वादीनामभेदात्तद्घटितस्यैवाका- ङ्क्षात्वमुच्यते--अथेत्यादिना । विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभा- जकेत्यादि । नीलो घट: नीलघट इत्यादौ विशेष्यवाचकं पदं घटपदं तदुत्तरा सुविभक्तिः तदवृत्तिविभक्तिविभाजको द्वितीयात्वादिधर्मस्तद्वत्यो द्विती- यादिविभक्तयस्तद्राहित्यस्योभयत्र नीलादौ सत्त्वेन साकाङ्क्षत्वमुपपन्नम् । अथ विशेष्यवाचकं घटपदन्तदुत्तरत्वं सर्वासां विभक्तीनां घटं घटेन घटाये- त्यादौ तन्निरूपितवृत्तित्वस्यैव सर्वेषां विभाजकद्वितीयात्वादीनां सत्त्वेन विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्माप्रसिद्धिः। विशेष्यवाच- कपदोत्तरयत्किञ्चिद्विभक्त्यवृत्तित्वनिवेशे नीलो घट इत्यादावपि नाकाङ्क्षा स्यात् । प्रथमात्वस्यापि नीलं घटमित्यादौ विशेष्यवाचकघटपदोत्तरद्विती- याविभक्त्यवृत्तित्वेन तद्वत्सुविभक्तिप्रकृतित्वस्यैव नीलपदे सत्त्वात् । विशेष्य- वाचकपदस्य घटपदत्वादिना प्रवेशेऽप्युक्तदोषद्वयस्यानिस्तार एव । तद्- व्यक्तित्वादिना प्रवेशे तूक्तदोषद्वयनिस्तारेऽपि नीलो घट इत्याद्यानुपूर्वी- मद्वाक्येऽपि प्रत्युच्चारणं घटशब्दस्य भेदेन तत्तद्व्यक्तिप्रवेशेनाकाङ्क्षाया अप्यानन्त्यापत्त्या 'वृश्चिकभिया पलायमानस्य तरक्षुमुखे निपात एवेति चेत्-न । उक्तस्थले नीलपदे घटपदवत्वमेवाकाङ्क्षति स्वीकारात् । घट- पदवत्ता च स्वाभाववत्त्वसम्बन्धेन । अभावश्च स्वोत्तरावृत्तिविभक्तिविभा- जकधर्मवद्विभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकः । तथा च नाप्र- सिद्धिर्न वाऽननुगमः। यद्धटपदवत्त्वं विवक्षितन्तद्घटपदव्यक्त्युत्तरविभक्तेरेव सम्बन्धघटकतया प्रवेशेन व्यक्त्यन्तरघटपदमादाय दोषदानस्यासम्भवात् । विभक्तित्वादिकमजानत इति । येन विभक्तित्वं न ज्ञायते तस्यापि व्युत्पत्तिवाद: [ कारके दिकमजानतः पुरुषस्य ताहशधर्मज्ञानासंभवाच्छाब्दबोधा- नुपपत्तिः । नीलो घट इत्यादावपि सुपदस्याम्पदत्वादिभ्रमदशायां तादृशबोधस्यानुदयात् । नीलस्य घट इत्यादावपि षष्ठयादेः सुपदत्वादिभ्रमदशायां शाब्दबोधोत्पत्त्या स्वरूपतो विरुद्धविभ- नीलो घट इत्यादितः शाब्दबोधो भवति । विभक्तित्वघटिताया आकाङ्- क्षायाः स्वीकारे विभक्तित्वज्ञानाभावेन तद्घटिताकाङ्क्षाया अपि ज्ञाना- भावेन तस्य तद्वाक्याच्छाब्दबोधो न स्यादित्यर्थः । न च स्वोत्तरावृत्तिधर्म- वदित्याद्यवोच्यतां विभक्तिविभाजकत्वन्न निवेश्यतां तथा च विभक्तित्व- ज्ञानमन्तराऽपि शाब्दबोधः स्यादिति वाच्यं, नीलो घट इत्यादौ नीलपदो- त्तरविभक्तिगततद्व्यक्तित्वस्य घटपदोत्तरविभक्त्यवृत्तित्वेनाकाङ्क्षाना- पत्तेः । ननु विशेष्यवाचकपदोत्तरावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मेत्या- घेवास्तु तद्व्यक्तित्वस्य श्रावणप्रत्यक्षविषयतानवच्छेदकत्वान्नोक्तदोषः । स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्ट एव धर्मो निवेश्यताम्वा। तद्व्यक्तित्वञ्च भेदविशिष्टभिन्नमेवेति चेत्----उच्यते । नीलो घट: नीलघट इतिवाक्यगतश्रावणप्रत्यक्षविषयतावच्छेदकधातिरि- क्तस्य तद्वाक्यगतधर्मस्य शाब्दबोधात् प्रागज्ञानेऽपि शाब्दबोधस्येष्टस्या- नापत्तेः । नीलो घट इत्यत्र घटपदोत्तरविसर्गावृत्तेरोत्वस्य नीलपदोत्तर- विभक्तिवृत्तित्वेन निराकाङ्क्षत्वापत्तेश्च । एतदर्थमेव विभक्तित्वादिकेत्य- त्रादिपदोपादानमिति दिक् । नन्वाकाङ्क्षव कारणं न तज्ज्ञानमिति विभक्तित्वादिधर्माज्ञानेऽपि तस्या वस्तुतः सत्त्वेनानुपपत्त्यभाव इत्यत आह-घट इत्यादावपीत्यादि । स्वरूपत इति वस्तुसत इत्यर्थः । अज्ञातस्यापीति यावत् । विरुद्धविभक्ति- राहित्यस्येति । निरुक्ताकाङ्क्षाया इत्यर्थः ।

४५ प्रथमा ] जयाऽलङ्कृतः तिराहित्यस्याप्रयोजकत्वात् । अथ नीलो घट: नीलघट इत्यादि- द्विविधबोधसाधारणं स्वोत्तरसुपदभिन्नपदानुत्तरत्वविशिष्टस्वोत्तर- त्वादिरूपस्वाव्यवहितोत्तरत्वसम्बन्धन नीलादिपदवत्स्वन्तघटादि- पदत्वमेव तथास्त्विति चेत् न । नीलघटरूपमित्यादिवाक्यसाधा- रण्यानुरोधेनान्यदृश्या अपि आकाङ्क्षायाः समासस्थले उपग- उपदर्शितसमासव्याससाधारणानुगताकाङ्क्षानुसर- न्तव्यतया स्वोत्तरसुपदभिन्नपदानुत्तरत्वेत्यादि । अयं भावः । नीलो घट: नील- घट उभयत्र स्वोत्तरत्वस्वोत्तरसुपदभिन्नपदानुत्तरत्वोभयसम्बन्धेन नीलपद- विशिष्टस्वन्तघटपदत्वमेवाकाङ्क्षाऽस्तु । स्वन्तनीलपदसमभिव्याहृतस्वन्त- घटपदत्वं नीलपदाव्यवहितोत्तरघटपदत्वमित्याकाङ्क्षाद्वयोपगमो निरर्थक इति । नीलघटरूपमिति । अत्र कर्मधारयपूर्वपदकषष्ठीतत्पुरुषः । षष्ठी- तत्पुरुषोत्तरपदककर्मधारयो वा । आद्ये नीलस्य घटान्वयित्वे एकदेशान्व- यापत्तिः । समासे वृत्त्यभावेन घटस्य घटीये लक्षणां विधाय रूपे अभेदान्व- यस्यैव वक्तव्यत्वात् । द्वितीये रूपस्यैव विशेष्यवाचकपदत्वन्न घटरूपसमु- दायस्य तत्र वृत्त्यभावात् । तथा च नीलोत्तरसुभिन्नपदं घटपदन्तदुत्तरत्वस्यैव रूपपदे सत्त्वेनानाकाङ्क्षत्वापत्तेस्तदर्थमन्यादृश्या अप्याकाङ्क्षाया वक्तव्य- त्वेन कार्यकारणभावबाहुल्यादुक्तस्थलद्वये एकाकाङ्क्षायास्सद्भावस्याकि- ञ्चित्करत्वात् । इदमुपलक्षणम् । नीलो घटौ नीला घटाः इत्यादि सर्व- विभक्त्यन्तवाक्यानां नीलघटौ नीलघटा इत्यादिसमासानाञ्चैकविधाका- झाया वक्तुमशक्यत्वात् । सर्वत्र दोषस्य सत्त्वात् स्वोत्तरसुप्पदभिन्नपदा- नुत्तरत्वस्वोत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टसुबन्तघटपदत्वरूपाकाङ्- क्षायां तात्पर्य्यकल्पने उक्तस्थलेषु दोषाभावेऽपि नीलस्य घट: नीलो घट इत्यादीनामपि साकाङ्क्षत्वापत्तेस्तस्मात् स्वोत्तरसुपः सुत्वादिनैव प्रवेश्य स्वोत्तरसुपदभिन्नपदानुत्तरत्वस्वोत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टस्वन्त- ४६ व्युत्पत्तिवादः [ कारके णस्याप्रयोजकत्वादिति । अथ नीलं घटमानयेत्यादौ नीलादे- टादावन्वयोपगमे नीलादिपदोत्तरविभक्त्यर्थकर्मत्वादेः कुत्रान्वय इति चेत्-न कुत्रापि । विभक्तिपदं साधुत्वार्थमेव प्रयुज्यते । अभेद एव वा विशेषणविभक्तरर्थः। अभेदस्य संसर्गमर्यादया भानं तु समासस्थल एव । तत्र लुप्तविभक्त्यनुसंधानं विनापि शाब्दबुद्धेरा- " घटपदत्वमितिरीत्या नानाविधाया एव तस्या वक्तव्यत्वात् । घटो नीलः नीलोऽस्ति घट इत्यादावपि भिन्नैवाकाङ्क्षा । नीलं घटमानयेत्यत्र नीलघटयोरभेदान्वयबोधे शाब्दत्वस्य सर्वानु- भवसिद्धतया न नीलान्वितकर्मत्वस्यानयनक्रियायामन्वयः। घटेऽन्वितस्य नीलस्य कर्मत्वेऽप्यन्वये द्विधा भानप्रसङ्गात् प्रकृत्यान्वितस्यैव प्रत्ययार्थस्य भाननियमात् । नीलानन्वितकर्मत्वस्य क्रियायामन्वयासम्भवात् । नाऽपि नीले कर्मत्वस्यान्वयः, कारकाणां क्रियायामन्वयनियमात् । प्रकृत्यर्थं प्रति प्रत्ययार्थस्य विशेष्यत्वनियमाच्च । नीलान्वितकर्मत्वस्य च क्रियायामन्वयः नीलघटयोरभेदभानं मानसं नीलनिष्ठकर्मतानिरूपकमानयनं घटश्च नीला- भिन्न इत्यपि न । अभेदांशेऽनुभवसिद्धस्य शाब्दत्वस्यापलपितुमशक्यत्वात् । इत्थञ्च कर्मत्वस्य कुत्रान्वय इति प्रश्नः । न कुत्रापीति । कर्मत्वस्य न भानम्। अभेदान्वयबोधप्रयोजकसमानविभक्तिकत्वरूपाकाङ्क्षासम्पादकतयैव' साधुत्वार्थत्वम् । तदर्थस्याभाने निरर्थकत्वमेवेत्यत आह-अभेद एवेति । ननु तमुभेदस्य प्रातिपदिकार्थे संसर्गतया भानमिति पूर्वग्रन्थविरोधोऽत पाह- समास्थल इति । ननु समासेऽपि विभक्तेरनुसन्धानेन तदर्थ एवाभेद इत्यत आह-तत्र लुप्तविभक्तीत्यादि । अभेदस्य च भेदाभावोऽर्थस्तदर्थंकदेशभेदे नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेनान्वयोऽभावस्य च स्वरूपसम्बन्धेन घटेऽन्वयः । तथा च नीलनिष्ठप्रतियोगितानिरूपकभेदप्रतियोगिकाभाव- ।

४७ प्रथमा ] जयाऽलङ्कृतः नुभविकत्वादित्यपि वदन्ति । अथैतन्मते अभेदो यदि भेदत्वाव- च्छिनाभावस्तदाऽप्रसिद्धिः, यदि च भेदप्रतियोगिकोऽभावस्तदा विशिष्टो घट इत्यर्थः । एतन्मत इति । अभेदस्य विभक्त्यर्थत्वमत इत्यर्थः । तदाऽप्रसिद्धिरिति। यस्य कस्य चिद्भेदस्य सर्वत्रैव' सत्त्वादभावस्य प्रतियोगितावच्छेदकावच्छिन्नेन सह विरोधात् भेदत्वावच्छिन्नप्रतियोगिता- काभावाप्रसिद्धिरित्यर्थः। ननु तादृशाभावस्याप्रसिद्धत्वे तत्प्रसिद्धरप्यप्रसिद्धत्वे तत्प्रसिद्धयभावो- ऽप्यप्रसिद्ध इति तदाऽप्रसिद्धिरित्यस्य कोऽर्थः ? अत्रोच्यते । स्यादयं दोषो यदि अप्रसिद्धयेकदेशप्रसिद्धौ भेदत्वावच्छिन्नाभावान्वयः स्यात् । स एव न किन्तु घटादौ भेदस्य भेदे भेदत्वावच्छिन्नप्रतियोगिताकत्वस्य प्रसिद्धस्यात्य- न्ताभावेऽप्रसिद्धिरित्यर्थः । भेदनिष्ठप्रकारतादौ प्रसिद्धस्य भेदत्वावच्छि- नत्वस्यात्यन्ताभावीयप्रतियोगितायामप्रसिद्धिरित्यर्थो वेति बोद्धयम् । ननु भेदत्वेन घटाभावस्य योगेन भेदाभावस्य भेदघटोभयाभावस्य च भेदत्वावच्छिन्न प्रतियोगिताकतया तेषाञ्च प्रसिद्धतया कथं भेदत्वावच्छिन्न- प्रतियोगिताकोऽभावोऽप्रसिद्ध इति चेत्-न । भेदनिष्ठस्वरूपसम्बन्धावच्छिन्न- भेदत्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्प्रतियोगिताकोऽभावोप्रसिद्ध इति तात्पर्य्यात् । आये प्रतियोगितायां भेदनिष्ठत्वाभावात् , द्वितीये तस्यां स्वरूपसम्बन्धावच्छिन्नत्वाभावात् , तृतीये तस्यां भेदत्वपर्याप्तावच्छेदकता- निरूपितावच्छेद्यताया अभावात्, तेषामभावानां प्रकृताभावपदेनाग्रहणात्। ननु भेदत्वेन' भेदघटौ न स्त इति प्रतीतिविषयीभूतोऽभावस्तादृशः प्रतियोगिताया भेदवृत्तित्वात् । एवं स्वरूपसंय्योगोभयसम्बन्धेन भेदत्वेन भेदाभावोऽपि तथा प्रतियोगितायाः स्वरूपसम्बन्धावच्छिन्नत्वात् किञ्च भेदघटोभयाभावीयप्रतियोगितावच्छेदकतापि प्रत्येकघटत्वादिपर्याप्तव न तु भेदत्वघटत्वादित्रितयपर्याप्ता मानाभावात् । घटो नास्ति भेदो नास्तीति व्युत्पत्तिवादः [ कारके प्रतीतिविषयीभूतप्रतियोगितावच्छेदकतायाःघटत्वादिप्रत्येकपर्याप्ताया एवो- भयाभावीयप्रतियोगितानिरूपितत्वेनापि भानसम्भात् तस्य च प्रसिद्धत्वादिति चेत्-न । उभयादिपर्याप्ताया एकस्या अभावे घटसत्त्वे घटो नास्ति भेदो नास्तीति समूहालम्बनप्रतीतिन भवति । घटभेदौ न स्त इति प्रतीतिश्च भवत्यतो निरुक्तसमूहालम्बनप्रतीतिविषयाभावविलक्षणोयमुभयाभावो वैल- क्षण्यञ्चैतदेव यदुभयाभावीयप्रतियोगितावच्छेदकतायाः घटत्वाधुभयपर्या- प्तत्वमित्यदोषात् । भेदत्वविशिष्टाभावस्यैव विवक्षितत्वात् । वैशिष्ट्यञ्च स्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धपर्याप्तावच्छेदक- तानिरूपितावच्छेद्यतावत्प्रतियोगिताकत्वस्वपर्याप्तावच्छेदकतानिरूपिताव- च्छेद्यतावनिरूपकतानिरूपितनिरूप्यतावत्त्वोभयसम्बन्धेन । भेदत्वेन भेद- घटोभयाभावीयप्रतियोगितावच्छेदकताया भेदत्वपर्याप्तत्वेऽपि तदभावीयनि- रूपकतावच्छेदकताया भेदत्वापर्याप्तत्वात्। द्वितीयेऽभावे च संसर्गतात्मक- प्रतियोगितावच्छेदकतायाः स्वरूपसंथ्योगोभयपर्याप्तत्वेन स्वरूपसम्बन्धा- पर्याप्तत्वात् । ननु घटत्वभेदत्वोभयत्वत्रितयपर्याप्ताप्यवच्छेदकता भेदत्वेऽपि पर्या- प्तव न ह्यवयवापर्याप्तस्य समुदाये पर्याप्तिरस्तीत्युक्तेस्तथा चोभया- भावीयापि प्रतियोगिता भेदत्वपर्याप्तावच्छेदकताकानिरूपकतावच्छेदकता- ऽप्युक्तरीत्या भेदत्वपर्याप्तेति कथमुभयाभावस्याग्रहणमिति चेत्-न । त्रि- तयपर्याप्तायास्तस्याः प्रत्येकपर्याप्तत्वेऽपि पर्याप्तिरेकैव तदनियोगिता- वच्छेदकन्त्रितयगतन्त्रित्वमेव समनियतत्वात् न तु भेदत्वगतमेकत्वन्तस्यानु- योगितापेक्षयान्यूनवृत्तित्वात्। तथा च भेदत्वगतैकत्वविशिष्टोऽभाव एवा- प्रसिद्धत्वेन विवक्षित इत्यदोषात् । वैशिष्ट्यञ्च स्वावच्छिन्नानुयोगिताक- पर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावनिरूपकताकत्वस्वावच्छि- नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावती या स्व- रूपसम्बन्धत्वगतैकत्वावच्छिन्नानुयोगिताकपर्याप्तियोग्यवच्छेदकतानिरूपि- तावच्छेद्यतावती प्रतियोगिता तन्निरूपकत्वोभयसम्बन्धेनोभयाभावीयप्रति- ४६ प्रथमा ] जयाऽलङ्कृतः योगिता च न भेदत्वगतैकत्वावच्छिन्नानुयोगितानिरूपकपर्याप्तिप्रतियोगि- भूतावच्छेदकताकाऽपि तु त्रित्वावच्छिन्नानुयोगितानिरूपकपर्याप्तिप्रतियो- गिभूतावच्छेदकताकेति तस्य प्रसिद्धत्वेऽपि विविक्षताभावस्याप्रसिद्धत्वात्। ननु द्वित्वादिकं यथा द्वित्वत्वादिनैव व्यासज्यवृत्ति न तु वस्तुत्वादिनापि तथोभयाभावस्य प्रतियोगितावच्छेदकता निरूपकतावच्छेदकता प्रतियोगि- तानिरूपितसंसर्गतात्मकावच्छेदकता चावच्छेदकतात्वेनैव व्यासज्यवृत्तिन तु वस्तुत्वादिनाऽपि । तथा च वस्तुत्वावच्छिन्नप्रकृतावच्छेदकतानिष्ठप्रति- योगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकं भेदत्वगतैकत्वमेव वस्तुत्वाव- च्छिन्ना या निरूपकतावच्छेदकतानिष्ठप्रतियोगिता तन्निरूपकपर्याप्त्यनु- योगितावच्छेदकमपि भेदत्वगतमेकत्वं तथा वस्तुत्वावच्छिन्ना या प्रतियोगि- तानिरूपितसंसर्गतात्मकावच्छेदकतानिष्ठाप्रतियोगिता तन्निरूपकपर्याप्त्यनु- योगितावच्छेदकमपि स्वरूपसम्बन्धत्वगतमेकत्वम् । तथा च भेदत्वगतैकत्व- विशिष्टाभावोऽपि स एवोभयाभावो वस्तुत्वावच्छिन्नप्रतियोगितामादायेति स एव दोष इति चेत्-न । स्वनिरूसितप्रतियोगितावच्छेदकतात्वावच्छिन्नप्र- तियोगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकत्वस्वनिरूपकतावच्छेदकतात्वा- वच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वोभयसम्बन्धेन भेदत्व- गतैकत्ववृत्तिर्योऽभावस्तस्यैवाभिप्रेतत्वेनादोषात् । वस्तुत्वावच्छिन्नप्रतियोगि- तायाः संसर्गाघटकत्वात् । संसर्गघटकाभावीयप्रतियोगिता च स्वनिरूपित- संसर्गतात्मकावच्छेदकतात्वावच्छिन्नप्रतियोगितानिरूपकपर्याप्त्यनुयोगिताव- च्छेदकत्वसम्बन्धेन स्वरूपसम्बन्धत्वगतैकत्ववृत्तिरेवेति न स्वरूपसंयोगो- भयसम्बन्धेन भेदाभावमादायापि दोषः । ननु भेदत्वघटत्योभयत्वैतत्रितयगताप्यवच्छेदकताभेदत्ववृत्तित्वविशि- ष्टावच्छेदकतात्वेन भेदत्व एव सकलब्राह्मणवृत्त्यपि ब्राह्मणत्वं चैत्रवृत्तित्वेन चैत्र एवेतिवत्तथा चावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयो- गितावच्छेदकमपि भेदत्वगतैकत्वमेवेति स दोषस्तदवस्थ एव। यद्यपि भेदत्ववृत्तित्वावच्छेदकतात्वोभयधविच्छिन्ना पर्याप्तीया प्रतियोगिता- ५० व्युत्पत्तिवादः [ कारके नावच्छेदकतात्वावच्छिन्ना तथापि पूर्वोक्तरीत्योभयपर्याप्ताया अपि प्रति- योगितावच्छेदकतायाः अवच्छेदकतात्वपर्याप्तत्वमक्षतमेवेत्यवच्छेदकतात्व- पर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्वेन प्रतियोगितायाःप्रवेशेऽपि दोषा- नुद्धार एव । न च स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपा- प्त्यनुयोगितावच्छेदकत्वसंबन्धेनावच्छेदकतात्वगतैकत्ववृत्तिप्रतियोगितानिरू- पकपर्याप्तेरेव प्रवेशान्न दोष इति वाच्यम्। उक्तरीत्योभयवृत्त्यप्यवच्छेद- कताऽवच्छेदकतात्ववृत्तित्वेनावच्छेदकतात्व एव । तत्रापि किञ्चिन्निवेशे पुनरपि पूर्वोक्तरीत्या दोष इत्यनवस्थापात इति चेत्-अत्रोच्यते । भेदत्व- वृत्तित्वविशिष्टावच्छेदकतावद्भेदत्वमिति प्रतीताववच्छेदकतानिष्ठाधेयता भेदत्ववृत्तित्वावच्छिन्नैव नावच्छेदकतात्वावच्छिन्ना नापि भेदत्ववृत्तित्वा- वच्छेदकतात्वोभयधर्मावच्छिन्ना मानाभावात् । तथा च स्वनिरूपितावच्छे- दकतात्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावच्छेद- कत्वसंबन्धेन भेदत्ववृत्तिप्रतियोगितानिरूपकाभाव एवाप्रसिद्धत्वेन विव- क्षितः । प्रकृताधेयताया भेदत्ववृत्तित्वावच्छिन्नत्वेनावच्छेदकतात्वावच्छिन्न- त्वाभावान्न दोषः । न च भेदत्ववृत्तिमत् भेदत्वं भेदत्ववृत्त्यवच्छेदकतावत् भेदत्वमनयोः प्रतीत्योर्भेदत्ववृत्तित्वावच्छिन्नाया एवाधेयताया विषयत्वे बैल- क्षण्यानुपपत्तिरिति वाच्यम् । एकत्रावच्छेदकतात्वस्य प्रकारत्वमपरत्र नेत्येत- द्वैलक्षण्यस्यैव सत्त्वात् । विस्तरस्त्वस्मद्विरचितायां शास्त्रार्थरत्नावल्यां विज- यायाञ्च द्रष्टव्यः । यदि च भेदप्रतियोगिकोऽभाव इति। तथा च यस्य कस्य चिद्भेदस्य सत्त्वेऽपि यस्य कस्य चिद्भेदस्य तद्वयक्तित्वेनाभावसद्भावात् नाप्रसिद्धिरिति भावः । नीलो घट' इत्यादौ नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेन विभक्त्यर्थभेदाभावैकदेशे भेदेऽन्वयोऽभावस्य च स्वरूपसम्बन्धेन घटेऽन्व- यस्तथा च नीलनिष्ठप्रतियोगितानिरूपकभेदनिष्ठप्रतियोगितानिरूपकाभाव- विशिष्टो घट इति बोधः । ननु नीलप्रतियोगिकभेदस्यैव जले सत्त्वेन तस्य तद्वयक्तित्वेनाप्यभावो प्रथमा ] जयाऽलङ्कृतः नीलं जलमित्यादिवाक्यस्यापि प्रामाण्यापत्तिः। जले द्वित्वादिना जले नास्तीति कथं नीलं जलमित्यस्य प्रामाण्यमित्यत आह-द्वित्वादिनेति । भेदघटोभयं नास्ति पृथिवीवृत्तित्वविशिष्टभेदो नास्तीति प्रतीतिविषयीभूतस्य द्वित्वावच्छिन्नप्रतियोगिताकस्य पृथिवीवृत्तित्वभेदत्वोभयधर्मावच्छिन्नप्रति- योगिताकस्य च नीलभेदप्रतियोगिकस्याभावस्य जले सत्त्वेन प्रामाण्यं स्या- दित्यर्थः । यदि च भेदत्वनिष्ठप्रतियोगितावच्छेदकताकोऽभावस्तथाऽपि स एव दोषः । उक्ताभावस्यापि भेदत्वनिष्ठप्रतियोगितावच्छेदकताकत्वात्। यदि च भेदत्वपर्याप्तप्रतियोगितावच्छेदकताकोऽभावो विवक्षितः प्रकृताभा- वीयप्रतियोगितावच्छेदकतापर्याप्तिश्च न भेदत्वे तदाऽप्रसिद्ध एवेत्युक्तम् । ननु प्रतियोगिव्यधिकरणोऽभावो गृह्यते निरुक्ताभावौ च प्रतियोगि- भूतभेदसमानाधिकरणमेवेति न दोष इति चेत्न । सर्वस्यैव पदार्थस्य प्रतियोगितया प्रतियोगिव्यधिकरणाभावस्याप्रसिद्धः। स्वप्रतियोगिव्यधि- करण इत्युक्तावननुगमः । ननु व्यासज्यवृत्तिधनिवच्छिन्नभेदनिष्ठप्रतियोगितानिरूपकोऽभावो गृह्यते निरुक्ताभावस्य व्यासज्यवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकत्वादिति चेत्-न । तथाऽपि पृथिवीवृत्तित्वविशिष्टनीलभेदाभावं घटत्वेन नीलभेदा- भावं संयोगेन नीलभेदाभावञ्चादाय नीलं जलमित्यस्य प्रामाण्यापत्तेर- वारणात् । यदि च स्वप्रतियोगिसामानाधिकरण्यस्वतादात्म्यैतदुभयसम्ब- न्धेनाभावविशिष्टभिन्नोऽभावः स्वनिरूपकत्वस्वाश्रयसामानाधिकरण्योभय- सम्बन्धेन प्रतियोगिताविशिष्टान्यो वाऽभावो गृह्यते। उक्ताभावाश्च नैतादृशा इति न दोषो नाप्यननुगमो न वाऽप्रसिद्ध इत्युच्यते । तदा पुनरप्यभावविशिष्ट- घटोभयभेदं प्रतियोगिताविशिष्टघटोभयभेदञ्चादाय निरुक्ताभावानामपि ग्रहणसम्भवेन दोष एवेति चेत्-अत्रोच्यते । अभावविशिष्टत्वप्रतियोगिता- विशिष्टत्वपर्याप्तप्रतियोगितावच्छेदकताकभेदस्य ग्रहणेनोभयभेदस्य निरस- ५२ व्युत्पत्तिवादः कारके नीलभेदाद्यभावस्य सत्त्वात् । नीलभेदत्वावच्छिन्नाभावस्य विभक्- त्यर्थत्वे नीलादिपदार्थानन्वयप्रसङ्गः। न च भेदप्रतियोगिकाभाव एव नेन न दोष इति चेत्---इदमत्रावधेयम् । नीलभेदः स्वाभाववत्वसम्बन्धेन नीलत्वसमनियतत्वान्नीलत्वरूपस्तथा च नीलभेदाभावस्य नीलभेद इव नीलत्वमपि प्रतियोगि तत्समानाधिकरण एव नीलभेदाभाव इति प्रतियोगिता- विशिष्टान्यो नीलभेदाभावोऽप्रसिद्ध एव । किञ्चानीलघटभेदो नीलगुण- स्वरूपो नीलगुणस्य च नानात्वात् । यत्किञ्चिन्नीलगुणवत्यपि घटे यत्कि- ञ्चिन्नीलगुणात्मकस्यानीलघटभेदस्य योऽभावस्तस्य सत्त्वेन नीलो घटोऽनील इत्यापद्यतेति । ननु नीलो घट इत्यादौ नीलभेदत्वावच्छिन्नप्रतियोगिताकाभाव एव विभक्त्यर्थोऽस्तु । नीलभेदत्वपर्याप्तावच्छेदकतायाः प्रवेशेन नोभयाभाव- मादाय नीलं जलमित्यस्य प्रामाण्यं नीलस्य प्रतियोगितांवच्छेदके प्रवेशेन नाप्रसिद्धिरपि । न च पीतो घट इत्यादौ पीतभेदत्वावच्छिन्नप्रतियोगिता- काभावस्यैव विभक्त्यर्थत्वं वक्तव्यम् । तथा च शक्यतावच्छेदकानन्त्येन शक्त्यनन्तताप्रसङ्ग इति वाच्यम् । स्वप्रकृत्यर्थतावच्छेदकत्वोपलक्षितध- विच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावत्वस्यैकस्यैव श- क्यतावच्छेदकत्वेनानन्त्याप्रसङ्गात् नीलादिपदसमभिव्याहाराच्च । नील- त्वाद्यवच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावो विभक्त्य- र्थो लभ्यते । पीतो घट इत्यादौ च पीतपदसमभिव्याहारात् । पीतत्वावच्छिन्न- प्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावो विभक्त्यर्थ इत्याह-- नीलभेदत्वावच्छिन्नप्रतियोगिताकाभावस्येत्यादि । नीलादिपदार्थानन्वय इति। नीलरूपप्रकृत्यर्थस्य विभक्त्यर्थंकदेशे नीले अभेदेन नान्वयः । प्रकारतावच्छेदकभेदस्य विशेष्यतावच्छेदकेऽभावात् । नापि नीलभेदे स्वप्रतियोगिकत्वसम्बन्धेनान्वयः । उद्देश्यतावच्छेदके नीले प्रथमा ] जयाऽलङ्कृतः विभक्त्यर्थः । नीलपदसमभिव्याहारान्नीलभेदत्वावच्छिन्नाभाव: प्रतीयते इति वाच्यम् । पदार्थद्वयसंसर्गभानस्यैवाकाङ्क्षानियम्य- त्वान्नीलभेदत्वावच्छिन्नप्रतियोगितान्तर्भावेण वृत्ति विना भेदरू- पपदार्थतावच्छेदकस्याभावे ताशसंबन्धेन भानासंभवात् । मैव- म्। भेदोऽभावश्च विशेषणविभक्तरर्थः । विशिष्टलाभस्त्वाकाङ्क्षा- विधेयभूतनीलभेदाभावात् । तयोर्भेदस्य शाब्दबोधे हेतुत्वात् । अन्यथा घटो घटत्ववानिति प्रतीत्यापत्तेः । अत एव नीलभेदत्वावच्छिन्नाभावेऽपि वृत्तित्व- सम्बन्धेनान्वयोऽपि न । न च भेदप्रतियोगिकाभाव एव विभक्तर्थः । भेदे च नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेनान्वयः । नीलपदसमभिव्याहार- रूपाकाङ्क्षावलाच्च भेदस्य पदार्थंकदेशस्य स्वनिष्ठनीलभेदत्वावच्छिन्नप्रति- योगिताकत्वसम्बन्धेनाभावेऽन्वयः । तथा च नीलभेदत्वावच्छिन्नाभावस्य नाप्रसिद्धिः । अवच्छेदकप्रवेशाच्च नोभयाभावमादाय नीलं जलमित्यस्य प्रामाण्यं पीतो घट इत्यादौ च पीतपदसमभिव्याहारात् पीतभेदत्वावच्छिन्न- प्रतियोगिताकत्वसम्बन्धेनान्वय इति सर्वमुपपन्नम् । पदार्थद्वयसंसर्गभानस्यैवेत्यादि । एकपदार्थेऽपरपदार्थस्यैव संसर्गस्या- काङ्क्षाभास्यत्वनियमात् भेदरूपपदार्थैकदेशस्याभावरूपपदार्थंकदेशे नील- भेदत्वावच्छिन्नप्रतियोगिताकत्वसंसर्गस्य नीलपदसमभिव्याहाररूपाकाङ्क्षा- भास्यत्वासम्भवात् । नीलभेदत्वावच्छिन्न प्रतियोगिताकत्वस्य विभक्त्यर्थतावच्छेदककोटावेव प्रवेशः कर्त्तव्यः । तथा च पूर्वोक्तोऽनन्वय एवेति भावः । मैवमिति । भेदप्रतियोगिकाभावरूपविशिष्टस्य विभक्त्यर्थत्वे एव भेदादेः पदार्थंकदेशत्वं स्यात्तदेव नेत्याह-भेदोऽभावश्चेति । तथा चोभयोः पदार्थत्वात् । प्रकृत्यर्थस्य नीलादेर्भेदपदार्थ नीलत्वावच्छिन्नप्रति- योगिताकत्वसम्बन्धेनान्वयः । भेदस्य चाभावपदार्थे स्वनिष्ठनीलभेदत्वा- वच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयः । नीलपदसमभिव्याहाररूपाकाङ्क्षा- बलादित्याह-विशिष्टलाभस्त्विति । नीलभेदत्वावच्छिन्नप्रतियोगिता- भानाय ५४ व्युत्पत्तिवादः [ कारके दिवशात् । एतेन भेदे नीलादिपदार्थान्वये एकदेशान्वयप्रसङ्ग इत्यपि निरस्तम्। न च विशेषणविभक्तरभेदार्थकत्वमते नीलं घट इत्यादावप्यभेदान्वयबोधापत्तिर्धान्येन धनवानित्यादौ तृतीयया अभेदबोधनात् अभेदप्रकारकबोधे विरुद्धविभक्तिराहित्यस्यानपे- क्षणादिति वाच्यम् । द्वितीयादिनाऽभेदबोधने द्वितीयाद्यन्तवि- काभावलाभस्त्वित्यर्थः । इत्यपि निरस्तमिति। भेदस्य विभक्तिजन्योपस्थि- तीयमुख्यविशेष्यताश्रयत्वरूपपदार्थतया पदार्थंकदेशत्वाभावान्नैकदेशान्वय इति भावः । विशेषणविभक्तेरभेदार्थकत्वमते इति । अनेन ग्रन्थेनाभेदसंसर्गक- बोधाभ्युपगमे नायं दोष इति लभ्यतेऽन्यथा विशेषणविभक्तेरभेदार्थकत्वेति- विशेषोक्तेरसङ्गत्यापत्तेस्तन्नोपपद्यते । संसर्गतामते धान्येन धनवानित्या- दावप्यभेदसंसर्गकबोध एव वक्तव्यस्तथा च संसर्गतया भाने समानविभक्ति- कत्वस्यानियामकत्वात् तन्मतेऽपि नीलं घट इत्यादावापत्तिसम्भवाद्विशेषण- विभक्तेरभेदार्थकत्व इत्यसङ्गतमेवेति चेत्-न । संसर्गतया भाने स्तोकं पचतीत्यादेरिव धान्येन धनवानित्याकाङ्क्षाया नियामकत्वेऽपि नीलं घट इत्याकाङ्क्षाया अनियामकत्वेन दोषाभावात् । प्रकारतामते एव दोषस्य सत्त्वेन विशेषोक्तेरावश्यकत्वात्। नीलं घट इत्यादावप्यभेदान्वयबोधाप- त्तिरिति । नीलप्रतियोगिकभेदाभावविशिष्टो घट इति बोधापत्तिरित्यर्थः। नन्वभेदप्रकारकबोधेऽपि समानविभक्तिकत्वरूपविरुद्धविभक्तिराहित्यस्यापे- क्षणान्नापत्तिरित्यत आह-धान्येनेत्यादि । द्वितीयादिनेति । प्रथमार्थाभे- दप्रकारकबोधे प्रथमान्तविशेष्यवाचकपदसमभिव्याहारः कारणमित्यादि- रीत्या कार्यकारणभाव इति भावः । नन्वादिपदेन सर्वासां विभक्तीनां ग्रहणे धान्येन धनवानित्यादाव- भेदान्वयबोधानापत्तिः । तृतीयातिरिक्तानां तासां ग्रहणे तृतीयार्थाभेद- प्रकारकबोधे तृतीयान्तविशेष्यवाचकपदसमभिहारस्यानपेक्षणात् । नीलेन प्रथमा ] जयाऽलङ्कृतः शेष्यवाचकपदसमभिव्याहारस्य प्रयोजकत्वमित्युपगमात् । अथ प्रमेयो घट इत्यादौ प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धथा " घट इत्यत्राप्यभेदबोधापत्तिः । न च धान्येन धनवानितिवन्नीलेन घट इत्य- पीष्यत एवेति वाच्यं, प्रकृत्यादिभ्य उपसंख्यानमितिवार्त्तिकेतरस्याभेदे तृतीयाविधायकशास्त्रस्याभावात् । तच्च वार्तिकं सर्वविभक्त्यपवादभूतमत एव प्रकृत्या चारुः, गोत्रेण गार्यः, समेनैति, विषमेनैतीत्यादौ प्रकृतेश्चारुः प्रकृतिश्चारुः, गोत्रो गार्यः, सममेति, विषममेतीत्यादयो न प्रयोगाः । तथा च यत्र तृतीयातिरिक्ता विभक्तिन प्रामाणिकी तत्रैव प्रकृत्यादिभ्य इति वार्तिकं प्रवर्तत इति निश्चीयते । अत्र च नीलो घट इति प्रयोगे प्रथमायाः प्रामाणिकत्वं सर्वैरवगम्यते तस्मान प्रकृत्यादिपदेन नीलादीनां ग्रहणमिति नीलेन घट इति प्रयोगो न प्रामाणिकः । इदानीं नीलेन घट इत्यस्यापि बोध- जनकत्वेन प्रामाणिकत्वापत्तिरिति चेत्-न । प्रकृत्यादिभ्य उपसंख्यानमिति- वार्त्तिकविहिततृतीयातिरिक्ततृतीयार्थाभेदप्रकारकबोधे तृतीयान्तविशेष्य- वाचकपदसमभिहारः कारणमिति कार्यकारणभावकल्पनेन नीलेन घट इत्यादावापत्त्यभावात् । अथ प्रमेयो घट इति । विभक्त्यर्थे भेदे प्रकृत्यर्थस्य प्रमेयत्वावच्छिन्न- प्रतियोगिताकत्वसम्बन्धेन भेदस्य च प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदत्वा- वच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः कार्यः । स च न सम्भवति । भेदस्य हि प्रतियोगितावच्छेदकेन सह विरोधात् सर्वत्र प्रमेयत्वस्य सत्त्वेन प्र- मेयत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धिरित्याह-प्रमेयत्वावच्छिन्नप्रतियो- गिताकभेदाप्रसिद्धयेति । कम्बुग्रीवादिमति कम्बुग्रीवादिमत्वं घटत्वञ्च वर्तते । कम्बुग्रीवादिमति या भेदीया प्रतियोगिता तदवच्छेदक लाघवात् घटत्वमेवेत्येवं रीत्या लघुधर्मसमनियतगुरुधर्मस्य प्रतियोगितानवच्छेद- कत्वं तथा च कम्बुग्रीवादिमत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धया कम्बु- ५६ व्युत्पत्तिवादः [ कारके लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे कम्बु- ग्रीवादिमान् घट इत्यादावपि कम्बुग्रीवादिमत्त्वावच्छिन्नप्रति- योगिताकभेदाप्रसिद्ध-या विशेषणविभक्तरभेदार्थकत्वासम्भवः। एवं नीलपटादिपरनीलादिपदघटितस्य नीलो घट इत्यादिवाक्यस्यापि प्रामाण्यापत्तिः । नीलत्वादिना पटादेर्भेदाभावस्य नीलघटादौ सत्त्वात् । एतेन विशेषणतावच्छेदकीभूतनीलत्वप्रमेयत्वादिकमेव विशेषणविभक्त्यर्थः, नोलत्वादेनीलत्वावच्छिन्नभेदाभावरूपतया- ऽभेदार्थकत्वप्रवादोपपत्तिरित्यपि निरस्तम् । नीलत्वादौ नीलत्वादि- मतः स्ववृत्तित्वसम्बन्धेनान्वये आकाङ्क्षाविरहाच्च । यथा हि तद्विशिष्टे अधिकरणे आश्रयतया तदन्वयोऽनुभवविरुद्धः तथा तद्धर्मे श्राधेयतया तद्धर्मवदन्वयोऽपि । अत एव कर्म गच्छतीति वाक्यस्य निराकाङ्क्षता। न चैवं संसर्गतामतेऽप्यनिस्तारः। ग्रीवादिमान् घट इत्यादि बोधानुपपत्तिरित्याह-लघुधर्मसमनियतेत्यादि । प्रामाण्यापत्तिरिति । नीलपटगतनीलत्वं नीलगुण एव । स च नीलघट- गतनीलगुणाद्भिन्न एव । तथा च नीलत्वावच्छिन्ननीलपटनिष्ठप्रतियोगिताक- भेदाभावो नीलपटनिष्ठनीलगुणस्वरूपस्तस्य घटेऽसत्त्वेन कथं नीलपटपर- नीलपदघटितनीलो घट इति वाक्यस्य प्रामाण्यापत्तिरिति न वाच्यम् । पटरूपद्रव्यपरद्रव्यपदघटितस्य द्रव्यं घट इति वाक्यस्योपलक्षणीयत्वात् नीलत्वावच्छिन्नाधेयतानिरूपिताधिकरणत्वस्यैव नीलत्वपदेन ग्रहणाद्वा तस्याधिकरणत्वस्य चैश्यात् । एतेनेति । तृतीयदोषस्य सत्त्वेनेत्यर्थः । नील- त्वादौ नीलत्वादिमत इति । अत एव नीलस्य नीलत्वमित्यादावन्वयबोधो न । तद्विशिष्टे अधिकरण इति । नीलो नीलत्ववानित्यादाविति बोध्यम् । अत एवेति । कर्म गच्छतीत्यादिवाक्यात् कर्मत्वविशिष्टस्य प्रकृत्यर्थस्य वृत्तित्व- सम्बन्धन द्वितीयार्थकर्मत्वे अन्वयबोधाभावादिति भावः । न चैवं संसर्गता- ५७ प्रथमा ] जयाऽलङ्कृतः नीलो घट इत्यादौ स्ववृत्तिनीलत्वादेः संसर्गतास्वीकारे उक्तस्थले प्रामाण्यापत्तेर्दुरित्वादिति वाच्यम्। स्ववृत्तिनीलत्वादेः स्वस्मिन्नेव सम्बन्धतोपगमेन पटादिवृत्तिनीलत्वादेर्घटादौ पटादिसम्बन्धता- विरहेण ताहशातिप्रसङ्गाभावात् । वस्तुतस्तु तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एव नीलत्वादि- प्रकारेण भासमानानां तत्तव्यक्तीनां स्वस्मिन् सम्बन्धतया भासते इति न काप्यनुपपत्तिः । सम्बन्धता च तस्य भेदप्रतियोगिताकाभा- मतेऽप्यनिस्तार इति । तन्मतेऽपि प्रामाण्यापत्तिरूपदोषानुद्धार एवेत्यर्थः । तदेवोपपादयति-नीलो घट इत्यादिना। उक्तस्थल इति । नीलपटपर- नीलपदघटितनीलो घट इत्यादावित्यर्थः । संसर्गतामतेऽपि नीलभेदाभावरूप- नीलत्वस्यैव संसर्गता नीलत्वस्य च नीलपट इव नीलघटेऽपि सत्त्वादुक्त- दोषस्तदवस्थ एवेति भावः । स्ववृत्तिनीलत्वादेः स्वस्मिन्नेव सम्बन्धतोप- गमेनेति । उक्तस्थले च पटवृत्तित्वविशिष्टनीलत्वमेव संसर्गः । तच्च पटे एव न घटे इति नोक्तदोष इति भावः । तत्तद्वयक्तित्वावच्छिन्नभेदाभाव एवेति। तथा च नीलपटपरनीलपदघटितस्य नीलो घट इति वाक्यस्य न प्रामाण्या- पत्तिः। पटगततव्यक्तित्वावच्छिन्नप्रतियोगिताकभेदस्यैव घटे सत्त्वेन तदभाव- रूपसम्बन्धस्य तत्राभावात् । भेदप्रतियोगिकाभावत्वेनेति । ननु भेदत्वा- वच्छिन्नप्रतियोगिताकाभावत्वेन न संसर्गता तद्धर्मस्याप्रसिद्धत्वात् । भेद- निष्ठप्रतियोगिताकाभावत्वस्य प्रसिद्धत्वेऽपि तस्य तद्वयक्तिभेदघटोभया- भावेऽपि सत्त्वेन तस्यापि संसर्गत्वापत्तौ तस्य चोभयाभावस्य घटेऽपि सत्त्वेनो- क्तवाक्यस्य प्रामाण्यं दुर्वारमेवेति तद्वयक्तिभेदत्वावच्छिन्नप्रतियोगिताकत्वे- नैव संसर्गताया वक्तव्यतया कथमत्रांशे औदासिन्यमिति चेत्-न । भेद- प्रतियोगिकाभावत्वेन सामान्यरूपेणापि तद्वयक्तित्वावच्छिन्नप्रतियोगिताक- भेदत्वावच्छिन्नप्रतियोगिताकाभावस्यैवोभयाभावभिन्नस्य संसर्गत्वोपगमात् ।

५८ व्युत्पत्तिवादः [ कारके वत्वेन तत्तव्यक्तिभेदप्रतियोगिताकाभावत्वेन वेत्यन्यदेतत्। न चैवं विशेषणविभक्तेरभेदार्थकत्वमतेऽपि तत्तद्व्यक्तित्वावच्छिन्नाभेद एव विभक्त्यर्थो वक्तव्य इति वाच्यम् । तथा सत्यपूर्वव्यक्तिनिष्ठतत्तद्- व्यक्तित्वस्य कथंचिदपि भानासम्भवेन तदवच्छिन्नभेदाभावे शक्तिग्रहासम्भवेनापूर्वव्यक्तीनामभेदान्वयबोधानुपपत्तेः । संस- गंज्ञानस्य विशिष्टबुद्धावहेतुत्वेनानुपस्थितस्यापि संसर्गतया भान सम्भवेन संसर्गतामतेऽनुपपत्त्यभावात् । न च विभक्त्यर्थेऽपि भेदे अतिप्रसक्तधर्मस्यापि विषयतात्मकसंसर्गताया अवच्छेदकत्वात् । अन्य- देतदिति।अतिप्रसक्तेन भेदप्रतियोगिकाभावत्वेन अनतिप्रसक्तेन तद्वयक्तित्वा- वच्छिन्नप्रतियोगिकाभावत्वेन वा अस्तु संसर्गता परन्तु सा प्रदर्शितविशेषा- भावनिष्ठेवेति कस्मिन्नपि पक्षे दोषाभावेन यथेच्छसि तथास्त्विति भावः । तथा सतीति । तस्य विभक्त्यर्थत्वे सतीत्यर्थः । अपूर्वव्यक्तिनिष्ठेति । तद्वयक्तित्वभेदेन तद्घटितस्य धर्मस्यापि भिन्नत्वेन तत्तत्सकलधर्मावच्छिन्ने विभक्तेः शक्तिस्वीकारे श्यामः पुत्रो भवितेत्यादौ भाविपुत्रगततद्वयक्तित्वघटितधर्मे विभक्तेर्व्यवहाराभावेन तद्ध- विच्छिन्ने विभक्तिशक्तेर्ग्रहाभावेन बोधानापत्तेरिति भावः । न च संसर्गतया- ऽप्यनुपस्थितस्य तस्य कथं भानमत एव संसर्गेऽपि मीमांसकैः शक्तिः स्वी- क्रियत इति वाच्यम् । मोमांसकमतं निराकृत्यानुपस्थितस्यापि पदार्थद्वय- संसर्गस्य संसर्गमर्यादया भानस्य नैयायिकैर्व्यवस्थापितत्वात् । संसर्गतामतेऽनुपपत्त्यभावादिति । न च शाब्दबोधे संसर्गमर्यादया अनुपस्थितस्य तस्य भानेऽपि नीलो घट इति वाक्यं तद्वयक्तित्वावच्छिन्न- प्रतियोगिताकभेदाभावसम्बन्धावच्छिन्ननीलनिष्ठप्रकारताकबोधेच्छयोच्चरि- तमित्याकारकतात्पर्यज्ञानस्य नीलो घट इति वाक्यजन्यशाब्दबोधे कारणत्वं वक्तव्यम् । तात्पर्य्यज्ञाने च अवच्छिन्नत्वांशे प्रकारतयैव तस्य भानेन तद्- प्रथमा ] जयाऽलकृतः तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नीलत्वादिना तत्तव्यक्तीनामन्वयः। तादृशभेदानामपि तत्तव्यक्तिभेदत्वाव- च्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वय उपेयते । ताववैव तत्तद्व्यक्तित्वावच्छिन्नाभेदलाभ इति न किंचिदनुपपन्नमिति वाच्यम् । विशेषणतावच्छेदकावच्छिन्नाया एव प्रतियोगिताया घटिततात्पर्य्यज्ञाने तज्ज्ञानस्य हेतुत्वेन तस्यानुपस्थितौ तात्पर्य्यज्ञानासम्भवेन शाब्दबोधानुपपत्तिरेवेति वाच्यम् । न च नीलो घट इति बोधनेच्छयोच्चरि- तमिदं वाक्यमित्याकारकस्य तात्पर्यज्ञानस्य संसर्गतयैव संसर्गावगाहिनः कारणत्वमस्तु तथा चानुपस्थितस्यापि तद्वयक्तित्वस्य संसर्गघटकतया भाने न बाधकमिति वाच्यम् । अपूर्ववाक्यार्थस्थले शाब्दबोधात् प्राक् तादृश- वाक्यार्थाप्रसिद्धेस्तात्पर्यग्रहे ज्ञानविशेषणतया वाक्यार्थस्य भानासम्भवा- दिति वाच्यम् । स्वनिरूपितसांसर्गिकविषयतानिरूपितघटादिनिष्ठविषयता- कत्वसम्बन्धेन नीलनिष्ठप्रकारताविशिष्टज्ञानजनकत्वेनोच्चरितमित्याकार- कतात्पर्य्यज्ञानस्य कारणत्वेनापूर्ववाक्यार्थस्थलेऽपि तादृशज्ञानसम्भवेन तद्वयक्तित्वोपस्थितेरनपेक्षणादिति ध्येयम् । न च विभक्त्यर्थेऽपि भेद इति । अयं भावः । अभेदस्य विभक्त्यर्थत्वेऽपि दोषाभावः। तथा हि भेदोऽभावश्च विशकलित एव विभक्त्यर्थोऽस्तु नीलादेश्च तद्वयक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भेदेऽन्वयः । भेदस्य च तद्वयक्तिभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः । तथा च तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्न प्रतियोगिताकाभावो लभ्य- त इति न' पूर्वोक्तदोषावसरः । तद्वयक्तित्वस्य संसर्गघटकतयैव भानेनानु- पस्थितत्वेऽपि क्षत्यभावात् । विशेषणतावच्छेकावच्छिन्नाया इति । प्रति- योगिविशेषणतया भासमानधर्मावच्छिन्नप्रतियोगिताया एव प्रतियोगिनो- ऽभावे संसर्गतया भानं भवतीत्यर्थः । तथा च नीलत्वेन भासमाननीलादे दे व्युत्पत्तिवादः [ कारके अभावे प्रतियोगिनः सम्बन्धतया भानात् । अन्यथा विशिष्टवै- शिष्ट्यबुद्धित्वानुपपत्तिः। प्रतियोगिविशेषिताभावज्ञानं च विशिष्ट- वैशिष्ट्यबोधमर्यादानातिशेत इति दर्शनात्केवलं विशेष्ये विशे- षणमिति रीत्या न कश्चिदभ्युपैतीति चेत्-सत्यम् । अभेदस्तादात्म्यम् । तच्च स्ववृत्त्यसाधारणो धर्मः। असाधा- रण्यं च एकमात्रवृत्तित्वम्। तच्च स्वसामानाधिकरण्यस्वप्रति- नीलत्वावच्छिन्नप्रतियोगिताया एव संसर्गत्वं न तु तद्वयक्तित्वाच्छिन्नप्रति- योगिताया इत्यर्थः। विशिष्टवैशिष्टयबुद्धित्वानुपपत्तिरिति । विशेषणविशेषणतावच्छेदको- भयप्रतियोगिकसम्बन्धद्वयावगाहिबुद्धित्वं विशिष्टवैशिष्ट्यबुद्धित्वम् । तथा च नीलो घट इत्यादौ विभक्यर्थभेदे नीलस्य स्वप्रतियोगिकत्वं नीलत्वस्य च स्वावच्छिन्नप्रतियोगिताकत्वं संसर्ग एव स्यादित्यर्थः । अन्यथा घटसत्त्वेऽपि घटाभाववत्ताबुद्धिप्रसङ्गात्। द्वित्वावच्छिन्नप्रतियोगिताकस्यान्यतद्वयक्तित्वा- वच्छिन्नप्रतियोगिताकस्य च घटाभावस्य घटसत्त्वेऽपि सत्त्वात् । प्रतियोगि- विशषिताभावेति । प्रतियोगिना विशेषितो योऽभावस्तज्ज्ञानं घटाभावः घटो नास्तीत्याकारकज्ञानमित्यर्थः । नातिशत इतीति। निरुक्तविशिष्टवैशिष्ट्य- बुद्धित्वं न जहातीत्यर्थः । केवलं विशेष्ये विशेषणमितीति । अभावे विशेष्ये प्रतियोगितया घटो विशेषणं घटे च समवायेन घटत्वं विशेषणमितिरीत्ये- त्यर्थः । प्रतियोगितायां प्रतियोगिविशेषणधर्मावच्छिन्नत्वं विहायेति यावत् । एकमात्रवृत्तित्वमिति । तच्चकवृत्तित्वे सति एकेतरावृत्तित्वरूपमिति यथाश्रुतन्तु न युक्तम् । एकत्वस्य केवलान्वयित्वेन एकेतरत्वस्याप्रसिद्धया तस्याप्रसिद्धत्वात् । स्वसामानाधिकरण्येति । स्वं भेदः यथा घटे योऽन्यघट- व्यक्तेर्भेदः स स्वं तत्सामानाधिकरण्यं तत्प्रतियोगिवृत्तित्वञ्च घटत्वे इति प्रथमा ] जयाऽलङ्कृतः योगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृ- त्तिधर्म एव विशेषणविभक्तरर्थः । वृत्तिश्च तत्र प्रकृत्यर्थस्य संस- भेदविशिष्टमेव घटत्वमेवोभयवृत्तिः सर्वोऽपि धर्मो भेदविशिष्टस्तद- न्यत्वं तद्व्यक्तित्वे एव । यथा प्रतियोगिभूतघटव्यक्तिगततद्वयक्तित्वे तादृश- भेदप्रतियोगिवृत्तित्वेऽपि तद्भेदसामानाधिकरण्यन्नास्ति । अनुयोगिघटगत- तद्वयक्तित्वे च तद्भेदसामानाधिकरण्येऽपि प्रतियोगिवृत्तित्वन्नास्तीति भेद- विशिष्टभिन्नत्वं बोध्यम् । अथ प्रतियोगिभूतघटगततद्वयक्तित्वस्याप्यनु- योगिनि कालिकसम्बन्धेन सत्त्वात् । अनुयोगिघटगततद्व्यक्तित्वस्य तेन सम्बन्धन प्रतियोगिनि सत्त्वात्तद्वयक्तित्वमपि भेदविशिष्टमेव । स्वरूप- सम्बन्धावच्छिन्नवृत्तिताया निवेशे समवायेन वृत्तित्ववतां घटत्वादीनामपि भेदविशिष्टान्यत्वापत्त्या भिन्ननीलघटपरनीलपदघटितस्य नीलो घट इत्या- देरपि प्रामाण्यापत्तेः। कालिकान्यसम्बन्धावच्छिन्नवृत्तिताया निवेशे घटगत- तद्व्यक्तित्वविषयकज्ञानप्रतियोगिको यो घटे भेदस्तद्विशिष्टत्वमेव' घटगत- तद्वयक्तित्वे तस्य स्वरूपसम्बन्धेन अनुयोगिनि घटे विषयितासम्बन्धेन प्रतियोगिनि ज्ञानेऽपि सत्त्वात् । न च तस्य सम्बन्धस्य वृत्तित्वानियामकत्वं ज्ञाने घट इति प्रतीतेरिति भेदविशिष्टान्यत्वाप्रसिद्धिरिति चेत्--अत्रोच्यते । भेदविशिष्टान्यघटकवृत्तित्वस्य स्वरूपसम्बन्धावच्छिन्नस्यैव ग्रहणमिति का- लिकसम्बन्धमादाय नाप्रसिद्धिर्नापि घटत्वादेरपि भेदविशिष्टान्यत्वेन विभिन्न- घटपरस्य नीलो घट इति वाक्यस्य प्रामाण्यापत्तिः। भेदविशिष्टान्ये विभक्त्यर्थे स्वरूपसम्बन्धावच्छिन्नाधेयत्वस्यैव प्रकृत्यर्थसंसर्गतया भानोपगमात् घटत्वा- दिरूपभेदविशिष्टान्यस्य विभक्त्यर्थत्वेऽपि निरुक्ताधेयत्वसम्बन्धेन प्रकृत्यर्था- न्वयस्य तत्र बाधेन तदादायापत्त्यसम्भवात् । न च घटे यः पटत्वाभावस्तत्र यो घटभेदः स अभावात्मक एव अभावाधिकरणकाभावस्याधिकरणात्मकत्वा- भ्युपगमात् । तथा च घटगततद्वयक्तित्वे घटभेदप्रतियोगिवृत्तित्वस्य त - व्युत्पत्तिवादः [ कारके गमर्यादया भासते । तादृशधर्मस्तत्तद्व्यक्तित्वादिरूप एव । दात्मकाधिकरणीभूताभावसामानाधिकरण्यस्य च सत्त्वेन तद्वयक्तित्वस्या- पि भेदविशिष्टत्वमेव । एवं स्वस्मिन्नपि पूर्वक्षणवृत्तित्वविशिष्टस्वभेदस्य सत्त्वेन तद्भेदविशिष्टत्वमपि तद्व्यक्तित्वे इति भेदविशिष्टान्यत्वमप्रसिद्ध- मेवेति वाच्यम् । स्वात्मकत्वस्वपाप्तावच्छेदकताकप्रतियोगितानिरूपकता- वच्छेदकभेदत्वावच्छिनाधेयतानिरूपिताधिकरणलाश्रयवृत्तित्वोभैयुसंबन्धेनध-यु मविशिष्टान्यत्वस्यैव विवक्षितत्वात्। अभावाधिकरणकभेदस्याभावात्म- कत्वेऽपि तनिष्ठाभावत्वावच्छिन्नाधेयतानिरूपितैवाधिकरणता घटे न तु घटगततद्वयक्तित्वावच्छिन्नप्रतियोगितानिरूपकतावच्छेदकीभूतभेदत्वा- वच्छिन्नाधेयतानिरूपिताधिकरणतेति नाद्यरीत्या दोषः । नाप्यन्तरीत्या दोषस्तत्र पूर्वक्षणवृत्तित्वविशिष्टतद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदमा- दायैव दोषो वाच्यः । स न सम्भवति । पूर्वक्षणादेरपि प्रतियोगितावच्छेदक- कुक्षौ प्रवेशेन तद्वयक्तित्वपर्याप्तावच्छेदकताया अभावात् । नापि तद्वयक्ति- पटोभयन्न सा व्यक्तिरित्युभयभेदमादायापि दोषस्तत्र प्रतियोगितावच्छेदक- तायास्तद्वयक्तित्वपर्याप्तत्वाभावात् । अत्र पर्याप्तिनिवेशप्रकारस्सर्वोऽप्य- नुसन्ध्येयः । न च भेबस्तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावः । तादात्म्यञ्च भेदविशिष्टान्यत्वमित्यन्योन्याश्रय इति वाच्यम् । स्वप्रतियोगिसामानाधि- करण्यस्वसामानाधिकरण्योभयसम्बन्धेनाभावविशिष्टान्यत्वस्य विवक्षित- त्वात् । तद्व्यक्तित्वाभावमादाय लक्षणसमन्वयः । न चाभावत्वमपि द्रव्यादि- षट्कान्योन्याभाववत्वमेव । अन्योन्याभावश्च तादात्म्यसम्बन्धावच्छिन्न- प्रतियोगिताकाभाव इति तदवस्थ एवान्योन्याश्रय इति वाच्यम् । अभावत्व- स्याखण्डोपाधिरूपत्वात् । नाप्यन्यत्वमादायान्योन्याश्रयः भेदत्वस्याप्यखण्डो- पाधित्वादिति दिक् । तादृशधर्मस्तत्तद्वयक्तित्वादिरूप एवेति। तादृशो भेदविशिष्टान्यः नीलो प्रथमा ] जयाऽलङ्कृतः अपूर्वव्यक्तिनिष्ठतादृशधर्मस्य विशिष्यज्ञातुमशक्यत्वेऽप्येकमात्र- वृत्तिधर्मत्वादिना सामान्यप्रत्यासत्तितः सुग्रहत्वमेव । अभेदस्य संसर्गतामतेऽप्येतादृशानुगताभेदस्यैव तथात्वमुचितम् । तत्तद्व्य- क्तित्वावच्छिन्नभेदाभावकूटस्य विशिष्य तथात्वे घटो न नील घट इत्यादौ तद्वयक्तित्वं विभक्त्यर्थः। तस्मिन् स्वरूपसम्बन्धावच्छिन्नाधेयता- सम्बन्धेन नीलरूपप्रकृत्यर्थस्यान्वयः। तस्य च स्वरूपसम्बन्धेन घटेऽन्वयः । तथा च नीलवृत्तितद्वयक्तित्ववान् घट इत्यन्वयबोधः । सुन्दरः पुत्रो भविष्य- तीत्यत्र पुत्रगततद्वयक्तित्वे व्यवहारस्यादर्शनेन तत्र विभक्तेः शक्तिग्रहाभावेन कथन्तस्य शाब्दबोधविषयतेत्यत आह--अपूर्वव्यक्तिनिष्ठेत्यादि । विशि- ध्येति । स्वरूपतस्तादृशतद्वयक्तित्वस्येत्यर्थः । एकमात्रवृत्तिधर्मत्वादिनेति । भेदविशिष्टान्यत्वधर्मेणेत्यर्थः । सामान्यप्रत्यासत्तीति । सामान्यधर्मरूपा चक्षुषोऽपूर्वतद्वयक्तित्वे प्रत्यासत्तिः सन्निकर्ष इत्यर्थः । चक्षुस्सन्निकृष्टे तद्वयक्तित्वे यदिदं भेदविशिष्टान्यदिति ज्ञानं तत्प्रकारीभूतभेदविशिष्टान्य- त्वम् । सकलतद्वयक्तित्वे इति चक्षुषः स्वजन्यज्ञानप्रकारीभूतभेदविशिष्टा- न्यत्वरूपधर्मवत्वस्यापूर्वतद्वयक्तित्वे सन्निकर्षात्। भेदविशिष्टान्यत्वेन ज्ञाय- माने सकलतद्वयक्तित्वे विभक्तेः शक्तिमहात् अपूर्वस्यापि शाब्दबोधविषयता- पत्तिरिति बोध्यम् । एतादृशानुगताभेदस्यैवेति । भेदविशिष्टान्यस्यैवेत्यर्थः । तथात्वं संसर्गतात्वमित्यर्थः । विशिष्य तथात्वे इति । तद्वयक्तित्वा- वच्छिन्नप्रतियोगिताकभेदाभावत्वेन संसर्गत्वे इत्यर्थः । घटो न नील इत्यादीति । अयं भावः । नीलो घट इत्यत्र यदि तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदाभाव एव नीलस्य घटे संसर्गस्तर्हि नीलोन घट इत्यत्रापि तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावसम्बन्धा- वच्छिन्नप्रतियोगिताकनीलाभाव एव घटे नजा बोध्येत । न तु तत्र तादात्म्यं विभक्त्यर्थः। नीलस्य वृत्तित्वसम्बन्धेन तादात्म्येऽन्वयं कृत्वा नीलवृत्तिता- ।

६४ " व्युत्पत्तिवादः [ कारके इत्यादिवाक्यजन्यबोधे प्रतियोग्यभावान्वयौ च तुल्ययोगक्षेमाविति न्यायेन तादृशाननुगतसंबन्धावच्छिन्नप्रतियोगिताकाननुगताभावा एव भासेरन न तु नीलवृत्तिरेकोऽभावः, तथा सति यत्किचित्ताहशा- भावतात्पर्येण प्रयुक्तस्य नीलेऽपि न नील इत्यादिवाक्यस्य प्रामाण्यं स्यात् । इदन्तु बोध्यम् । विशेषणविभक्तरभेदार्थकत्वे घटो न नील इत्यादौ ना नीलाद्यभेदाभाव एव प्रत्याययिष्यते न तु नीलादि- भेदः । यादृशसमभिव्याहारस्थले येन संबन्धेन यत्र धर्मिणि येन रूपेण यद्वत्त्वं नबसत्त्वे प्रतीयते तादृस्थले नजा तद्धर्मिणि ताह- शसंबन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतदभावबोधस्य व्युत्पत्तिसिद्धत्वात् । प्रतियोग्यभावान्वयौ चेत्यादेरप्ययमेवार्थः । दात्म्याभाववान् घट इत्याकारको बोधो नमोऽसत्त्वे येन सम्बन्धेन येन रूपेण यद्वत्ता यत्र यादृशसमभिव्याहारात्प्रतीयते तादृशसमभिव्याहारेण नघटितेन तत्सम्बन्धावच्छिन्नतद्धविच्छिन्नप्रतियोगिताकाभाव एव तत्र प्रतीयते इत्यर्थके 'प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमा' वित्यभियुक्तवचनात् । तथा च तद्वयक्तित्वभेदेन तद्व्यक्तित्वघटितसम्बन्धस्यापि भेदात् । तत्तत्सम्बन्धा- वच्छिन्नप्रतियोगिताकाभावस्यापि भेदेन नीलेऽपि घटे स्वेतरनीलगततद्वय- क्तित्वघटितोक्तसम्बन्धस्याभावेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभाव- स्य तत्सम्बन्धस्य व्यधिकरणतया तत्सम्बन्धावच्छिन्नप्रतियोगिताकस्वात्मक- नीलाभावस्य च सत्त्वेन न नील इति प्रयोगापत्तिः । तादात्म्यत्वेन संसर्गत्वे स्वकीयसंयोगेन' वह्निमति अन्यदीयसंयोगस्याभावेऽपि संयोगेन वह्निर्नास्तीति यथा न भवति तथा तादात्म्येन नीलो नेति न प्रयोग इति । न च तत्तद्वयक्ति- त्वावच्छिन्नप्रतियोगिताकभेदकूटत्वावच्छिन्नप्रतियोगिताकस्यैकस्यैवाभावस्य संसर्गत्वेन न संसर्गभेदात्तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावभेद इति न नीलेऽपि न नील इति प्रयोगापत्तिः । न च कूटत्वमपेक्षाबुद्धिविषयत्वमेव ।

प्रथमा ] जयाऽलङ्कृतः एवं च नत्रो भेदबोधकत्वं न कुत्रापि संभवति अनीलं घटमानये- त्यादौ घटपदसामानाधिकरण्यानुरोधेनानीलपदस्य नीलभिन्नपर- तया नबो भेदवत्येव लक्षणाया उपगन्तव्यत्वात् । वाच्यम् । तच्चापेक्षाबुद्धिभेदेन भिन्नं तदवच्छिन्नप्रतियोगिकाभावोऽपि भिन्न एवेति न संसर्गस्यैक्यमिति वाच्यम् । तत्तत्कूटत्वावच्छिन्नाभावस्य समनियतत्वेन समनियताभावस्य चैक्येन संसर्गभेदाभावात् । संसर्गतावच्छेदकीभूततादृशा- भावत्वस्य तद्व्यक्तित्वभेदभिन्नतया तदवच्छिन्नसंसर्गताभिन्नैव' स्यादिति न, स्वरूपत एव तादृशाभावस्य संसर्गत्वोपगमात् । संसर्गघटकतद्व्यक्तित्वा- देरनुपस्थितत्वेऽपि न क्षतिरनुपस्थितस्याऽपि संसर्गतया भानस्वीकारादिति बहुषु घटेषु बहुनीलतादात्म्यसत्त्वे बहुघटघटकद्वित्रघटेषु स्वानात्मकबहुनीलान्तर्गतद्वित्रनीलतात्पर्येण नीला घटा इत्यापत्तेरित्यलम् इदन्तु तत्त्वमित्यादेरयमाशयः । यदि नीलो घट इत्यादौ विशेष- णविभक्तेस्तादात्म्यमर्थस्तहि स्वरूपसम्बन्धावच्छिन्न प्रतियोगिताकतादा- त्म्याभाव एव नीलो न घट इत्यादौ ना बोद्धचेत। प्रतियोग्यभावान्व- यौ तुल्ययोगक्षेमाविति व्युत्पत्तेः । तथा च तादात्म्यसम्बन्धावच्छिन्नप्रति- योगिताकाभावरूपभेदबोधकत्वं नञः सकललोकप्रसिद्धमुच्छिन्नं स्यादिति बोध्यम् । तद्भेदतत्तादात्म्याभावयोरैक्येऽपि भेदत्वेन भेदबोधकत्वं न स्या- दिति तात्पर्य्यम् । न च अनीलं घटमानयेत्यादौ तादात्म्यार्थकविभक्त्यभावेन नजो नीलभे- दबोधकत्वमेवेति भेदबोधकत्वन्नोच्छिन्नमित्यत आह-अनीलं घटमानयेत्यादि । घटेन सह सामानाधिकरण्यान्वयानुरोधेनानीलपदस्य नीलभिन्नार्थकत्वं वक्तव्यन्तदर्थञ्च नमो भेदवति लक्षणा वक्तव्या। ततश्च भेदमुख्यविशेष- कोपस्थितिजनकत्वमुच्छिन्नमेवेति बोध्यम् । अभेदस्य प्रकारत्वे सम्भवत्यपि ५ व्युत्पत्तिवादः कारके इदं तु तत्त्वम् । असमस्तनीलो घट इत्यादिस्थलेऽभेदस्य संस- गतोपगमेऽपि गौरवविरहात् तत्र विशेषणविभक्तेर्वृत्तिकल्पनमनुचि- संसर्गतयैव भानमुचितमित्याह-इदन्तु तत्त्वमित्यादिना। विशेषणविभक्ते- वृत्तिकल्पनमिति । संसर्गताभिन्नतन्निष्ठविषयताकशाब्दबोधे वृत्तिज्ञानाधी- नतद्विषयकोपस्थितेर्हेतुतयाऽभेदस्य प्रकारतया भानोपगमे विशेषणविभक्ते- स्तत्र वृत्तिकल्पनमावश्यकन्तदेव गौरवं संसर्गतया तु आकाङ्क्षयैव भानोप- पत्तौ संसर्गतामते तत्र वृत्तिकल्पनं नास्तीति लाघवमिति बोध्यम् । न च संसर्गतामते अभेदसंसर्गकशाब्दबोधस्य नीलस्य घट इत्यादिवाक्यादभा- वायाभेदसंसर्गकशाब्दबोधे प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्व- रूपाकाङ्क्षाज्ञानस्य कारणत्वं वाच्यम् । प्रकारतामते च तादृशकार्यकारण- भावानभ्युपंगमेन संसर्गतामते तादृशाकार्यकारणभावो मन्मते वृत्तिकल्प- नमित्युभयोः साम्येन कथं वृत्तिकल्पनमनुचितमिति वाच्यम् । विरुद्धविभ- क्त्यन्तघटितात् नीलस्य घट इत्यादिवाक्यादभेदप्रकारकबोधवारणाय अभे- दप्रकारकबोधवादिनाऽपि तादृशाकाङ्क्षाज्ञानस्य कारणत्वाभ्युपगमेन तदंशे साम्यात् वृत्तिकल्पनस्य गौरवेणानुचितत्वध्रौव्यात् । न च संसर्गतावा- दिनामपि यत्राभेदे विभक्तेश्शक्तिभ्रमो लक्षणाग्रहो वा तत्राभेदप्रकारक एव बोधस्तैरभ्युपेयः। तथा चान्यत्राभेदसंसर्गकोऽत्राभेदप्रकारको द्विविधो बोध इष्टस्तेषां तादृशोभयबोधस्य नीलस्य घट इत्यादिवाक्याद्वारणाय तत्तद्बोधे आकाङ्क्षाज्ञानस्य कारणत्वे कार्यकारणभावद्वयम् । प्रकारता- वादे चाभेदसंसर्गकबोधस्याऽभावेन अभेदप्रकारक एक एव बोध इत्या- काङ्क्षाज्ञानस्याभेदप्रकारकबोधस्य च एक एव कार्यकारणभाव इति तदंशे लाघवेन वृत्तिकल्पनमनाधिक्येन नानुचितम् । किञ्च संसर्गता- वादिमते उक्तयोद्विविधबोधयोर्योग्यताज्ञानमपि भिन्न भिन्नमभेदसंसर्गक- बोधे अभेदसंसर्गकनीलप्रकारकम् । अभेदप्रकारकबोधे अभेदनिष्ठस्वरूप- प्रथमा ] जयाऽलङ्कृतः तम्। न च यत्राभेदे विशेषणविभक्तेः शक्तिभ्रमः स्वारसिकलक्षणा- ग्रहो वा तत्र सर्वमत एवाभेदप्रकारकबोधस्य नीलो घट इत्यादिवा- क्यादुत्पत्त्या तादृशसमभिव्याहारज्ञानस्य द्विविधबोधे हेतुताद्वयं कल्पनीयम्, अभेदस्य संसर्गतावादिनेति गौरवम्। एवं तादृशसम- भि व्याहारज्ञानघटितसामग्र्या भिन्नयोग्यताज्ञानघटितत्वेन द्वैविध्य- मिति भिन्नविषयकप्रत्यक्षादिकं प्रति तादृशशाब्दसामग्रीप्रतिबन्ध- कताया अप्याधिक्यमिति वाच्यम् । अभेदस्य संसर्गतावादिनोक्त- सम्बन्धावच्छिन्नप्रकारताकम् । तथा च तद्धटितसामग्रचपि भिन्ना। तयोश्च भिन्नविषयकप्रत्यक्षम्प्रति प्रतिबन्धकताद्वयम् । प्रकारतामते च' एक एवा- भेदप्रकारको बोधः । योग्यताज्ञानमप्येकमेवाभेदप्रकारकम् । तद्घटिता एकैव सामग्री। तस्या भिन्नविषयकप्रत्यक्ष प्रति एकैव प्रतिबन्धकतेति प्रतिबध्य- प्रतिबन्धकभावेऽपि लाघवाद्वृत्तिकल्पनं नानुचितमित्याह-न च यत्रेत्या- दिना वाच्यमित्यन्तेन । यदि च नीलो घट: श्यामो घट इति. वाक्यद्वय- जन्यैकाकारकबोधोदयेनाकाङ्क्षाज्ञानस्य द्वैविध्येन च परस्परजन्यबोधे व्यभिचारवारणाय कार्यतावच्छेदककोटौ कारणानन्तर्यनिवेशस्यावश्यक- त्वेन तदेव जन्यतावच्छेदकमस्तु । विषयतानिवेशश्च मास्तु । स्वोत्तर- शाब्दबोधे नीलो घट इत्याकाङ्क्षाज्ञानं कारणं स्वोत्तरशाब्दबोधे श्यामो घट इत्याकाङ्क्षाज्ञानं कारणमितिरीत्यैव कार्यकारणभावो वक्तव्य इति बोधस्य द्वैविध्येऽपि एक एव कार्यकारणभावः । संसर्गतामतेऽपि, अत एव भेदान्वयप्रकरणे पर्यायस्थले व्यभिचारवारणायानयैव रीत्या विषतामनि- वेश्य एक एव कार्यकारणभावः स्वीकृत इमि मन्यसे । तथाऽपि प्रतिबन्ध- कताद्वयं संसर्गतावादिमतेऽवश्यमित्याह-एवमिति । वस्तुतस्तु विषयविशे- षविषयकशाब्दबोधे आकाङ्क्षाज्ञानस्य कारणत्वाभावे विषयविशेषविष- यकशाब्दबोधार्थिनो वाक्यविशेषोच्चारणे एव प्रवृत्तिरिति नियमानुपपत्त्या कार्यतावच्छेदककोटौ विषयतानिवेश प्रावश्यक एवेति बोध्यम् । उक्त- व्युत्पत्तिवादः कारके स्थलेऽपि तत्संसर्गकबोधस्यैवोपगमादिति दिक् । स्तोकं पचति मृदु पचतीत्यादौ विरुद्धविभक्त्यवरुद्धपदोपस्थापितस्यापि स्तोकमृद्वादे- र्धात्वर्थपाकादावभेदान्वयोऽपि व्युत्पत्तिसिद्धः,तदनुरोधेन च द्विती- यान्तपदधातुपदयोः समभिव्याहारस्याप्यभेदान्वयबोधौपयिका- काङ्क्षात्वमुपगम्यते क्रियाविशेषणस्थले च न द्वितीयातिरिक्तवि- भक्तिरुत्पद्यते, क्रियाविशेषणानां कर्मत्वमित्यनुशासनेन तत्र कर्म- स्थले पोति । शक्तिभ्रमलक्षणाग्रहस्थले पीत्यर्थः। तत्संसर्गकेति । अभेद- संसर्गकेत्यर्थः । तथा च न कार्यकारणभावद्वयमिति बोध्यम् । न च विभ- क्तिनिष्ठवृत्तिज्ञानाधीनोपस्थितीयसंसर्गताभिन्नविषयतायाः शाब्दबोधीयप्र- कारताविशेष्यतान्यतरविषयताप्रयोजिकायाः सत्त्वे कस्यचिदिच्छामात्रेण वि- भक्त्यर्थस्य संसर्गतया भानन्नोचितमिति वाच्यम् । शाब्दबोधे तात्पर्य- ज्ञानस्याऽपि कारणतया तत्संसर्गकबोधस्यैवानादितात्पर्य्यकल्पनात् । वस्तु- तस्तु अभेदप्रकारकबोधस्यैव भेदान्वयप्रकरणे सिद्धान्तयिष्यमाणत्वेन प्रकृत- ग्रन्थस्य धूलीप्रक्षेपमात्रत्वात् । द्वितीयान्तपदधातुपदयोरिति । अभेदान्वय- बोधे द्वितीयान्तस्तोकादिपदसमभिव्याहृतपचत्यादिपदत्वरूपाकाङ्क्षाज्ञानं कारणमेवं रीत्या कार्यकारणभावो वक्तव्यः । इदमुपलक्षणम् । यादृशयादृश- समभिव्याहारादभेदान्वय इष्यते तादृशतादृशसमभिव्याहारस्य कारणत्वं वक्तव्यम् । यथा वेदाः प्रमाणं सोमेन यजेदित्यादौ । क्रियाविशेषणाना- मिति । न च स्तोकं पचतीत्यादौ धात्वर्थफलस्य व्यपदेशिवद्भावेन फला- श्रयत्वात् । तादात्म्यफलतावच्छेदकसम्बन्धान्यतरसम्बन्धेन' फलाश्रयस्य कर्तुरित्यनेन कर्मत्वमिति स्वीकारेणैवोपपत्तावपूर्वस्यातिदेशवचनस्य स्वी- कारो व्यर्थः । स्तोकं तिष्ठतीत्यादौ फलस्यापि धात्वर्थत्वोपगमेन न दोषः । न च तर्हि सकर्मकत्वापत्तिः। स्वार्थफलजनकव्यापारवाचकत्वस्यैव सक- र्मकत्वादिति वाच्यम् । स्वार्थफलव्यधिकरणव्यापारवाचकत्वं तत् । स्था- प्रथमा ] जयाऽलङ्कृतः त्वातिदेशात् । न चैवं स्तोकः पाक इत्यादावपि द्वितीयाप्रसङ्गस्त- त्रापि स्तोकादेः क्रियायामेव विशेषणत्वात् । भावकृतां प्रयोगसा- धुत्वमात्रार्थकतया धातुनैव तत्र पाकादिप्रतिपादनादिति वाच्यम् । क्रियापदस्य तत्र सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात् । स्तोकं धात्वर्थयोः फलव्यापारयोस्सामानाधिकरण्यादिति वाच्यम् । गौरवात् स्तोकः पच्यत इति स्तोकरूपे कर्मणि लकारापत्तेश्च । वस्तुतस्तु वचन- कल्पनगौरवापेक्षया निरुक्तगौरवस्याल्पत्वम् । लः कर्मणीत्यत्र कत॒साह- चर्येण धात्वर्थे भेदान्वयिनि कर्मण्येव लकारो विधीयत इति स्तोकादिकर्मणि लकारापत्तिरपि न, कर्मत्वातिदेशेऽपि लकारापत्तिवारणस्य प्रकान्तरेणा- शक्यत्वाच्चेति वैयाकरणमतमेव युक्तम् । क्रियापदस्येत्यादि । पाक इत्यत्र भावानुशिष्टघजो निरर्थकत्वेन पाकक्रियायास्सार्थकप्रत्ययान्तधातूपस्थाप्यत्वाभावान्न स्तोकः पाक इत्यादौ स्तोकस्य कर्मत्वम् । ननु शक्तिमत्वञ्चेत्सार्थकत्वं तर्हि करणाधिकरणयोः रागो रङ्ग इत्यादौ घना बोधेन घञ्त्वेन करणाधिकरणनिरूपितशक्तताया आवश्यकत्वेन घमात्रस्य शक्तिमत्वे न निरर्थकघजोऽप्रसिद्धिः । न चाकर्तरि च कारके संज्ञायामित्यनुशासने संज्ञायामित्युक्त्या संज्ञास्थघन एव शक्ति- मत्वन्नासंज्ञास्थस्य पाक इत्यादाविति वाच्यम् । भावे घञ् इत्यनुशासनेन घमात्रस्य भावनिरूपितशक्तिमत्वस्य बोधनात् । संज्ञायामित्यस्य को लाभो लब्ध इत्याद्यनुरोधेन प्रायिकत्वाच्च । न चाबोधकस्य पाकशब्द- घटकघजो बोधकत्वेन भगवदिच्छाविषयत्वे भगवदिच्छाया अविसम्वा- दित्वानापत्त्या घमात्रस्य भावबोधकत्वबोधकस्य भावे घञ् इत्यस्याप्रा- माण्यापत्त्या चाबोधकपाकशब्दघटकघभिन्नस्यैव घनो भगवदिच्छायां भावे घम् इति सूत्रे च प्रवेशान्न तत्रत्यघञः शक्तिमत्वरूपसार्थकत्वमिति वाच्यम् । तथा सति स्तोकं स्थीयत इत्यादौ वर्तमानत्वाविवक्षास्थले य - ७० व्युत्पत्तिवादः [ कारके स्थीयत इत्यादौ श्राख्यातस्यापि वर्तमानत्वार्थकतया सार्थकत्वात् । न च वर्तमानत्वाद्यविवक्षायां द्वितीयानुपपत्तिरिति वाच्यम् । आख्यातस्तस्यापि विसम्बादित्वभयेन वर्तमानबोधकत्वेनाख्यातविषयक- भगवदिच्छायां लटो वर्तमानबोधकत्वबोधके वर्तमाने लडिति सूत्रे चाप्रा- माण्यभयेनाप्रवेशस्यावश्यकत्वेन शक्तिमत्वरूपसार्थकत्वस्याभावेन क्रिया- विशेषणे कर्मत्वानापत्तिरिति चेत्-मैवम् । एतदभिप्रायणैवार्थबोधस्वरूप- योग्यताप्रयोजकाकाङ्क्षाशालित्वरूपसार्थकत्वस्य वक्ष्यमाणत्वात् बोधस्व- रूपयोग्यतारूपार्थबोधकताया आकाङ्क्षाविवक्षाधभावस्थलेऽपि सत्त्वेन भग- वदिच्छायाः सूत्रस्य च विसम्वादित्वाप्रामाण्ययोरप्रसक्तेः। वर्तमानत्व- प्रकारकस्थितिविशेष्यकबोधं प्रति स्थाधातूत्तरवयाख्यातत्वरूपाकाङ्क्षा- ज्ञानं कारणं तादृश्याश्चाकाक्षाया वर्तमानत्वविवक्षास्थल' इवाविवक्षा- स्थलेऽपि सत्त्वे नोभयत्राख्यातस्य सार्थकत्वात् । क्रियाविशेषणस्य कर्म- त्वोपपत्तिः । पाक इत्यादौ च घअर्थनिष्ठविषयतानिरूपितधात्वर्थनिष्ठ- विषयताकबोधस्याभावेन तादृशबोधप्रयोजकाकाङ्क्षाया अप्यभावेनार्थव- त्वविरहान्न तत्र कर्मत्वम् । न च तादृशार्थबोधप्रयोजकाकाङ्क्षाया अभा- वेऽपि एकत्वनिष्ठविषयतानिरूपितपाकत्वावच्छिन्नविषयतानिरूपकबोध- प्रयोजिका पच्पदोत्तरघञ्पदोत्तरसुपदत्वरूपाऽऽकाङ्क्षा तच्छालित्वरूपसा- र्थकत्वं धजो वर्तेत एवेति वाच्यम् । स्वार्थनिष्ठविषयतानिरूपितप्रकृत्यर्थ- निष्ठविषयताप्रयोजकाकाङ्क्षाशालित्वमेव प्रत्यये सार्थकत्वमित्यस्य स्वी- कारात् । स्वं सार्थकत्वेन विवक्षितः प्रत्ययः प्रकृते घअर्थविषयकबोधस्यैव पाकपदादभावेन निरुक्तसार्थकत्वस्याभावादिति दिक् । ननु स्तोकं स्थीयत इत्यादिभावाख्यातस्थलेऽपि कर्तृकर्मभावाबो- धकत्वेनाख्यातस्य सार्थकत्वाभावात्। कथं स्तोकस्य कर्मत्वमित्यत आह- वर्तमानार्थकतयेत्यादि । कर्बाद्यबोधकत्वेऽपि वर्तमानकालबोधकत्वेनैव सार्थ- प्रथमा ] जयाऽलङ्कृतः ७१ वर्तमानत्वादिविवक्षास्थल इव अर्थबोधस्वरूपयोग्यताप्रयोजिका- काङ्क्षाशालित्वेनैव तदविवक्षास्थलेऽपि भावाख्यातस्यार्थवत्त्वात् । केचित्तु धातोरिव घनन्तस्यापि पाकादौ शक्तिरुपेयते। अन्यथा सुविभक्त्यर्थसंख्याकर्मत्वादीनां तत्र पाकादावन्वयानुपपत्तेः । प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तेर्धातूनां च कत्वोपपत्तिरिति भावः । ननु वर्तमानकालस्याप्यविवक्षास्थलेऽबोधात् कथं तत्र कर्मत्वमित्यत आह-वर्तमानत्वादिविवक्षास्थल इवेत्यादि । विव- क्षाया अभावेन बोधाभावेऽपि बोधप्रयोजकाकाङ्क्षाशालित्वेन सार्थकत्वोप- पत्तिरिति भावः । अन्यथेति । घअन्तपाकादिशब्दे शक्त्यभाव इत्यर्थः । कर्मत्वादीनामित्यत्र षष्ठयाः पाकादावित्यत्र सप्तम्याश्च विषयतैवार्थ- स्तथा संख्या कर्मत्वनिष्ठविषयतानिरूपितपाकनिष्ठविषयतानिरूपकबोधा- नुपपत्तिरित्यर्थः । न तु प्रतियोगित्वं षष्ठयर्थोऽनुयोगित्वं सप्तम्यर्थः । पाकं पश्येत्यादौ कर्मत्वप्रतियोगिकानुयोगिकशाब्दबोधस्यानुदयात् । धातूनाञ्च सुब्विभक्त्यप्रकृतित्वादिति । पाक इत्यत्र घअन्तस्यैव सुब्विभक्तिप्रकृति- त्वादिति भावः । सुप्पदं पाकोऽस्तीत्यत्रत्य तिङोऽप्युपलक्षणम् । तदर्थस्यापि प्रथमाविभक्तिप्रकृत्यर्थे एवान्वयात् । तत्प्रकृतित्वञ्च तन्निष्ठविधेयता- निरूपितोद्देश्यताश्रयत्वम् । प्रकृत्यर्थत्वञ्च न प्रकृतिनिष्ठवृत्तिनिरूपकत्वं कृदन्तपाठकपाठकादिरूपा या सुब्विभक्तिप्रकृतिस्तत्र वृत्तिविरहेण प्रकृत्य- प्रसिद्धस्तद्घटकप्रत्ययनिष्ठवृत्तिमादाय समन्वये तु धातुनिष्ठवृत्तिनिरू- पकधात्वर्थेऽपि प्रकृत्यर्थत्वापत्तश्च । किन्तु प्रकृतिविशिष्टवृत्तिनिरूपकत्व- मेव तत् । वैशिष्टयञ्च स्वपर्याप्तत्वस्वचरमावयवपर्याप्तत्वान्यतरसम्ब- न्धेन । पाचकादिघटकधातुनिष्ठवृत्तौ वैशिट्यविरहान्न दोषः । क्विबन्तस्थले प्रातिपदिकसंज्ञासमये क्विपोऽप्यनुसन्धानेन' क्विबन्ते एवोद्देश्यतायास्सत्त्वेन तस्यैव प्रकृतित्वेन धातुनिष्ठवृत्तेस्तत्पर्याप्तत्वाभावेन न धात्वर्थस्य सुप्प्र- ७२ व्युत्पत्तिवादः [ कारके सुब्विभक्त्यप्रकृतित्वात् प्रकृत्येकदेशार्थेऽपि प्रत्ययान्वयोपगमे पचन्तं पश्यतीत्यादितः पचमानं पश्यतीत्यादितश्च पाकादौ द्वितीया- द्यर्थकर्मत्वाद्यन्वयबोधप्रसङ्गात् । एकत्र विशेषणतयोपस्थितस्या- कृत्यर्थत्वम् । न च घअन्तपाकादिशब्द इव' कृदन्तपाचकादिशब्देऽपि वृत्तिः किन्नोपेयते । कर्तरि कृदितिशास्त्रातिक्रमस्तु भावे घञ् इति शास्त्राति- क्रमेण तुल्य इति वाच्यम् । पचतीत्याद्यर्थं पचादिधातौ शक्तेः क्लृप्ततया पाचक इत्यत्र बुल्मात्रे एव शक्तिकल्पनयोपपत्तौ अनन्तपाचकपाठकादि- वृत्त्यानुपूर्व्यवच्छिन्ने शक्तिकल्पनायां गौरवात् , कर्तरि कृदित्यनुशासनविरो- धाच्च । घान्तपाकादिशब्दे च भावे धात्वर्थे एव घनो विधानेन भावस्य च धातुत एव लाभादनन्यलभ्यस्यैव शब्दार्थत्वमिति न्यायविरोधात् , धात्व- तिरिक्तशाब्दानुभवविरोधाच्च । शास्त्रस्यापूर्वशक्तिग्रहे तात्पर्याभावात् । पनि शक्त्यभावेऽपि शास्त्रविरोधाभावात् । ननु प्रकृत्यान्वितस्वार्थबोध- कत्वम्प्रत्ययानामिति नियमेन प्रकृत्यर्थपदेन प्रकृत्येकदेशार्थोऽपि गृह्यत इति पाक इत्यादौ धात्वर्थेऽप्यन्वयेन नियमानुपपत्तिरित्याह-प्रकृत्येकदेशार्थेपी- त्यादि । सिद्धान्ते धात्वर्थस्य सुप्प्रकृत्यर्थत्वाभावेन दोषाभावात् । एकत्र विशेषणतयोपस्थितस्येत्यादि । पचन्तं पश्यति पचमानं पश्यतीत्यादौ लडर्थ- विशेषणतयोपस्थितस्य पाकस्यान्यत्र विभक्त्यर्थकर्मत्वादौ विशेषतयान्वयो न स्यादिति न प्रकृत्येकदेशार्थान्वये दोष इति भावः । यथा घटो जाति- रित्यादौ घटविशेषणतयोपस्थितस्य घटत्वस्य जातावभेदेन नान्वयः । नन्विदं न युक्तम् । पचतृपचमानेति कृदन्ते शक्तिविरहेण न शत्राद्यर्थ- कर्तृविशेषणतया प्रकृत्यर्थपाकस्योपस्थितिः । किन्तु विशेष्यतयैव पाकस्यो- पस्थितिरिति न तस्य कर्मत्वादावन्वये व्युत्पत्तिविरोधः। घटो जातिरित्यादौ तु घटत्वविशिष्टे घटे शक्तिसद्भावाद्युक्तमेव' घटत्वविशेषणतयोपस्थिति- रिति चेत्-न । विशेषणतयेत्यत्र विशेषणता शाब्दबोधीयप्रकारता तृतीयार्थः प्रथमा ] जयाऽलङ्कृतः ७३ न्यत्र विशेषणत्वेनान्वयस्याव्युत्पन्नतया तत्र प्रत्ययार्थविशेषणपाका- देर्न कर्मत्वे विशेषणतयान्वय इति चेत्-तथापि पाकादिविशेषण- तया सुबर्थसंख्याया अन्वयसम्भवात् । यत्र पाकक देद्वित्वादिकं बाधितं पाकादेश्च तदबाधितं तत्र पचन्तौ पश्यति पचमानौ पश्यतीत्यादिप्रयोगप्रसङ्गस्य दुर्वारत्वात् । धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तत्तद्धातूत्तरप्रत्ययधर्मिककिंचिदर्थपरत्वज्ञा- नस्य प्रतिबन्धकतामुपगम्यैतादृशातिप्रसङ्गवारणे च गौरवात् । एवं शोभनं पचनमित्यादौ धातुमात्रेण पाकाद्युपस्थितौ च तत्र । प्रयोजकत्वम् । तस्योपस्थितस्येत्यस्यार्थे उपस्थितिविषयत्वेऽन्वयस्तथा चैक- निष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकोपस्थितिविषयत्ववतोऽन्यनिष्ठविशे- ष्यतानिरूपितप्रकारताश्रयत्वन्नेत्यर्थः । तथा च शत्राद्यर्थनिष्ठविशेष्यता- निरूपितप्रकारताप्रयोजकोपस्थितिविषयत्ववतः पाकस्य विभक्त्यर्थकर्मत्व- निष्ठविशेष्यतानिरूपितशाब्दबोधीयप्रकारताश्रयत्वन्न स्यादिति तात्पर्यम् । सकृदुच्चरितस्सकृदेवार्थम्बोधयतीति न्यायादिति भावः । उभयत्रान्वयबोधे आकाङ्क्षाविरहाच्च । धर्मिपारतन्त्र्येण परं घटो नास्तीत्यादावभाव तथा- विधस्य' घटत्वस्यान्वयः । तत्र तादृशान्वयबोधप्रयोजकाकाङ्क्षायाः कल्प- नात् । तथाऽपोति । विशेषणतयान्यत्रान्वयस्याव्युत्पन्नतया दोषाभावेऽपी- त्यर्थः। तत्रान्यस्यान्वये बाधकाभावाद्दोषमाह-पाकादिविशेषणतयेत्यादि । धातूपस्थाप्येत्यादि । राजद्वयसम्बन्ध्येकपुरुषतात्पर्येण राजपदार्थे द्वित्वान्वये राजपुरुषाविति प्रयोगापत्तिस्तु न तत्पदार्थधाम्मिकसुबर्थान्वये तत्पदार्थान्वि- तार्थबोधकतदव्यवहितोत्तरसुभिन्नपदम्मिकार्थपरत्वज्ञानम्प्रतिबन्धकमित्य- स्य कल्पनात् । घटपटावित्यादिद्वन्द्वस्थले द्वन्द्वघटकसर्वपदार्थे संख्यान्वय- सिद्धये तत्पदार्थान्वितार्थबोधकत्वम्पदे विशेषणम् । अर्द्धपिप्पल्यावित्यादौ ७४ व्युत्पत्तिवादः [ कारके शोभनाद्यभेदान्वयवोधानुपपत्तिः विशेषणविभक्तिसजातीयविभक्ति- प्रकृत्यनुपस्थाप्यत्वात् । प्रकृत्येकदेशसाधारणताहशविभक्तिप्रकृति- त्वस्य प्रयोजकत्वे तत्र ल्युडादेरधिकरणपरत्वेऽपि तथाविधान्वय- बोधापत्तेः । कस्यचित्प्रतिबन्धकतां कल्पयित्वा तद्वारणे च गौरवात्। न चैवमुपकुम्भा पिप्पल्यादिरूपपूर्वपदार्थप्रधानसमास- पदात्कुम्भसमीपपिप्पल्यर्द्धादौ विभक्त्यर्थान्वयस्य प्रातिपदिकान्त- राभेदान्वयस्य चानुपपत्तिः । पूर्वपदस्य समासोत्तरविभक्त्य- प्रकृतित्वादिति वाच्यम् । तदनुरोधेनैव तत्र कुम्भपिप्पल्यादिपदाना- मेव कुम्भसमीपपिप्पल्य॰दौ लक्षणायाः पूर्वपदस्य तात्पर्यग्रहमात्रो- पयोगितायाश्च स्वीकारात् । वस्तुतस्तु तत्रोत्तरपदार्थविशेषितपूर्वपदार्थसमीपा दो प्रत्य- यार्थान्वयबोधे ताहशसमस्तपदप्रत्ययपदयोरव्यवहितपूर्वापरी- भावोप्याकाङ्क्षा । एवं तत्र प्रातिपदिकान्तरार्थाऽभेदान्वयवोधे स- मानविभक्तिकयोस्तादृशसमस्तपदपदान्तरयोश्च समभिव्याहारो- प्याकाङ्क्षा । तथा सत्यतिप्रसङ्गविरहात् । धात्वर्थपाकादौ प्रत्य- यार्थान्वयबोधे प्रातिपदिकान्तरार्थाभेदान्वयबोधे च ल्युड्धया- पूर्वपदार्थप्रधानसमासे पूर्वपदार्थे संख्यान्वयानुपपत्तिस्तु न तत्रोत्तरपदस्यैव विशिष्टार्थे लक्षणायाः पूर्वपदस्य तात्पर्य्यनाहकत्वस्य च कल्पनात् । वस्तु- तस्त्वित्यादिकल्पे पूर्वपदार्थप्रधानसमासघटकभिन्नत्वस्यापि पदे निवेशनी- यत्वाच्च । एवमित्यस्य भावानुशिष्टल्युडन्तसमुदाये शक्त्यकल्पन इत्यर्थः । कस्यचित्प्रतिबन्धकताङ्कल्पयित्वेति-धात्वर्थे शोभनाद्यभेदान्वयबोधे धातू- त्तरत्ति प्रत्ययम्मिकार्थपरत्वज्ञानस्य प्रतिबन्धकत्वमित्यर्थः । न चैवं शोभनम्पचतीत्यादौ पाके शोभनान्वयानापत्तिरिति वाच्यम् । द्वितीयान्त- भिन्नपदप्रतिपाद्यशोभनेत्यादिनिवेशात् । न चैवमिति । प्रकृत्येकदेशार्थे विभ- ७५ प्रथमा ] जयाऽलङ्कृतः द्यन्तसमुदायप्रत्यययोरव्यवहितपूर्वापरीभावस्य समानविभक्ति- कयोस्तादृशसमुदायपदपदान्तरयोः समभिव्याहारस्य चाकाङ्क्षा- त्वोपगमे दर्शिताधिकरणार्थकल्युट्प्रत्ययस्थलीयातिप्रसङ्गस्या दु- रुद्धरतया न तत्सम्भवः। अथ घबन्तसमुदायस्य पाकाद्यर्थक- त्वे घबन्तसमुदायस्य संयोगविभागत्वादिविशिष्टावाचकत्वं व्यु- त्पाद्य संयोगविभागादिपदानां नैमित्तिकसंज्ञात्वनिराकरणं 'दी- धितिकृतां विरुद्धमिति चेत्का क्षतिः। न हि कस्य चिद्ग्रन्थ- कृतो विपरीतलेखनं युक्तिबलाद्वस्तुसिद्धौ बाधकम् । एवं च यत्र धातुमात्रस्यैव पाकादी तात्पर्य तत्र तद्विशेषणवाचकपदाद्वितीयैव यत्र तु कृदन्तसमुदायस्य पाकादौ तात्पर्य तत्र ताशपदं तथाविध- कृदन्तसमुदायसमानविभक्तिकमेव । तदुक्त कातन्त्रपरिशिष्टकृता "कथं स्तोकः पाक: कृदन्तविशेषणत्वात् । धात्वर्थंकाधिकरण्ये तु । क्त्यर्थानन्वये शोभनाद्यभेदान्वये चेत्यर्थः । नैमित्तिकसंज्ञात्वनिराकरणमिति । जात्यवच्छिन्ननिरूपितशक्तिमती संज्ञा नैमित्तिकसंज्ञेति तद्भावः । विरुद्ध- मिति । तत्र शक्तेः स्वीकारादिति भावः । एवञ्चेति । घअन्तपाकादि- शब्दस्यापि पूर्वोक्तयुक्त्या पाकादौ शक्तेस्सिद्धौ इत्यर्थः । यत्र धातुमात्रस्यैव पाकादावित्यादि न च धातुमात्रस्य पाकादौ तात्पर्ये सुबर्थसंख्याकर्मत्वा- देरन्वयापत्तिः। पाकस्य प्रकृत्यर्थत्वाभावात् । घअन्तस्य पाकादौ तात्पर्ये विभक्त्यर्थान्वयोपपत्तावपि द्वितीयान्तत्वानुपपत्तिरुभयोस्तत्र तात्पर्योऽन्वय- बोधानुपपत्तिरिति वाच्यम् । यत्र धातुमात्रस्यैव पाकादौ तात्पर्य तत्र विभक्त्यर्थस्याविवक्षवात एव द्वितीयान्तपदसमभिव्याहारे प्रथमान्त एव पाकशब्दः । यत्र विभक्त्यर्थस्य विवक्षा तत्र घअन्तस्यैव पाकादौ तात्पर्य्यम् । तत्र घजन्तसमानविभक्तिकमेव स्तोकादिपदमिति व्यवस्था। धात्वर्थंकाधि- करण्ये त्विति । धातुजन्यबोधविषयत्वेन तात्पर्य्यविषयीभूतक्रियाविशेषणानां [ कारके ७६ व्युत्पत्तिवादः स्तोकमोदनस्य पाक इति स्यादेवेति" वदन्ति । तदर्थकपदोत्तर- विभक्त्या संख्याबोधनेऽभेदसंसर्गावच्छिन्नप्रकारताभिन्नतदर्थ- कर्मत्वं धजन्तसमुदायजन्यबोधविषयत्वेन तात्पर्य्यविषयीभूतक्रियाविशेषण- वाचकपदानां घजन्तसमानवचनत्वमिति सिद्धान्तः । तदर्थकपदोत्तरविभक्त्येति । नीलो घटावित्यादौ नीलपदोत्तरविभ- क्त्या न द्वित्वं नीले प्रतीयते। नीलेऽभेदसम्बन्धावच्छिन्नप्रकारताभिन्न- विषयताया असत्त्वात् । घटपदोत्तरविभक्त्या तु घटे द्वित्वम्प्रतीयत एव घटेऽभेदसम्बन्धावच्छिन्नप्रकारताभिन्नायाः घटत्वावच्छिन्नविशेष्यतायास्स- त्त्वात् । राज्ञः पुरुषः नीलस्येदमित्यादौ राज्ञि नीले च राजपदोत्तरविभक्त्या नीलपदोत्तरविभक्त्या च संख्या प्रतीयते । तत्रत्यप्रकारताया अभेदसम्बन्धा- वच्छिन्नत्वाभावात् । ननु नीलो घट इत्यादौ नीलघटयोरभेदात् अभेद- सम्बन्धावच्छिन्नप्रकारताभिन्नघटत्वावच्छिन्नविशेष्यताया नीलनिष्ठत्वात् । किञ्च नीलत्वनिष्ठप्रकारतानिरूपितायास्तादृश्या अपि नीले सत्त्वात् कथन्न नीले नीलपदोत्तरसंख्या प्रतीयते। किञ्च नीलो घट: नीलस्य रूपमिति वाक्यद्वयजन्यसमूहालम्बनबोधे नीलपदोत्तरसुविभक्त्या नीले संख्याप्रत्य- यस्स्यात् । तत्र भेदसम्बन्धावच्छिन्नप्रकारताया अपि सत्त्वादिति चेत्- अत्रोच्यते । तद्धर्मावच्छिन्नबोधकतत्पदोत्तरविभक्तिप्रयोज्यसंख्यानिष्ठप्रका- रतानिरूपिततद्धविच्छिन्नतन्निष्ठविशेष्यताकशाब्दबोधे तद्धर्मावच्छिन्नबो- धकतत्पदप्रयोज्याभेदसम्बन्धावच्छिन्नप्रकारताभिन्नविषयतानिरूपकशाब्दसा- मग्रीप्रयोजिकेत्युच्यते । नीलनिष्ठाया अपि घटत्वावच्छिन्नविशेष्यताया नीलत्वावच्छिन्नत्वविरहात् । नीलत्वनिष्ठप्रकारतानिरूपिताया अपि तन्नि- ष्ठविशेष्यताया नीलत्वावच्छिन्नत्वविरहात् । समूहालम्बनस्थले षष्ठ्यन्त- पदप्रयोज्यायास्तस्याः प्रथमान्तनीलपदप्रयोज्यत्वाभावान्नोक्तस्थलद्वये दोषः। वेदाः प्रमाणं, सम्पन्नो व्रीहिरित्यादौ प्रमाणत्वे व्रीहित्वे च विशेषणवाचकप- ७७ प्रथमा ] जयाऽलङ्कृतः विषयताशालिशाब्दबोधसामग्री अपेक्षिता। तादृशश्च बोधस्तदर्थ- विशेष्यकस्तदर्थनिरूपितभेदान्वयविषयकश्च नीलो घटावित्यादौ च विशेष्यवाचकपदोत्तरविभक्त्यैव द्वित्वादिकं प्रत्याय्यते । एवं च क्रियाविशेषणवाचकपदोत्तरविभक्त्या अबाधितयोरपि द्वित्व- बहुत्वयोः प्रत्यायनासम्भवात्ताशपदोत्तरमौत्सर्गिकमेकवचनमेव दोत्तरविभक्त्या जायमाने संख्याबोधे निरुक्तकार्य्यतावच्छेदकानाक्रान्ततया निरुक्तकारणविरहेऽपि न क्षतिः । यदि च स्वाश्रयाश्रयत्वसम्बन्धेन' प्रमा- णत्वावच्छिन्ने व्रीहित्वावच्छिन्ने एव' संख्यान्वयस्सिद्धान्तस्तहि कार्य्यता- वच्छेदककोटौ प्रकारतायाम्पर्याप्तिसम्बन्धावच्छिन्नत्वं तत्र व्यभिचार- वारणाय निवेश्यम् । तादृशश्चेति । अभेदसम्बन्धावच्छिन्नप्रकारताभिन्न- तनिष्ठविषयतानिरूपकः पूर्वोक्त इति बोध्यम् । द्वित्वादिकम्प्रत्याय्यत इति । तद्बोधप्रयोजकनिरुक्तकारणसत्त्वात् । न तु विशेषणवाचकपदोत्तरं विभक्त्या तद्वोधप्रयोजकनिरुक्तकारणाभावात् । एवञ्चेति । निरुक्तकार्यकारणभावस्यावश्यकत्वे चेत्यर्थः। प्रत्यायना- सम्भवादिति । निरुक्तकारणविरहादिति भावः । औत्सर्गिकमेकवचनमति । संख्याबोधासम्भवेन प्रयोगसाधुत्वस्य तेनाप्युपपत्तेरिति भावः । भावाख्या- तस्थलवदिति । तत्र यथा साधुत्वमात्रार्थमेवाख्यातैकवचनप्रयोगस्तद्वत्- क्रियाविशेषणवाचकपदोत्तरमपीत्यर्थः । वैयाकरणास्तु ‘फलव्यापारयो तुरिति भूषणोक्तदिशा धातुमात्रस्य फलविशिष्टव्यापारे शक्तिः । न च सर्वेषां धातूनां तर्हि फलवाचकत्वेन सक- र्मकत्वापत्तिरिति वाच्यम् । फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वं फलसमानाधिकरणव्यापारवाचकत्वकर्मकत्वमिति स्वीकारेणादोषात् । तादात्म्यफलतावच्छेदकान्यतरसम्बन्धन फलाश्रयस्य कर्तुरित्यनेन कर्मत्व- न्तथा च स्तोकं पचतीत्यादौ विक्लित्यादेस्तादात्म्येन फलाश्रयत्वेन कर्म- ७८ व्युत्पत्तिबादः [कारके भावाख्यातस्थलवदित्यवधेयम् । अभेदान्वयबोधश्च विरूपोपस्थित- योरेवेति व्युत्पत्तिः घटो घट:, दण्डवान् दण्डवान्, पाकं पचतीत्यादौ घटत्वदंडवत्वपाकत्वाद्यवच्छिन्ने तत्तद्रूपावच्छिन्नस्य तथाविधान्वय- त्वात्तत्राभेदेन विशेषणवाचकस्तोकादिपदाद्वितीया तत्फलितमेव क्रिया- विशेषणानाङ्कर्मत्वम् । तत्र क्रियापदं क्रियते इति व्युत्पत्त्या फलपरम् । न च कर्तुरिति कर्मत्वे तद्रूपे कर्मणि लकारापत्त्या स्तोकः पच्यत इत्या- पत्तिरिति वाच्यम् । कर्तृसाहचर्यात्कर्मणो भेदेन धात्वान्वितस्यैव लका- रादिप्रत्ययविधायकशास्त्रे ग्रहणेनादोषात् । अत एव स्तोकं पाक इत्यादौ षष्ठ्यपि न । न च 'मन्दम्बहति पवन' इत्यादौ व्यापारेऽभेदान्वयिमन्दस्य कर्मत्वानापत्त्या अपूर्वमेव' कर्मत्वबोधकम्वचनं क्रियापदञ्च धात्वर्थमात्र- परमिति वाच्यम् । व्यापारे मन्दतायां तज्जन्यफलस्यापि मन्दत्वसत्त्वात्त- त्रापि फले एव मन्दान्वयात् न च कर्मपदस्यान्यतरसम्बन्धघटितोक्तार्थ- कत्वे कर्मणि द्वितीयेत्यस्य गुर्वर्थबोधकत्वापत्तिः। विभक्तिशक्यतावच्छे- दके (कत्वे) गौरवापत्तिश्चेति वाच्यम् । कर्मत्वशक्तिमत्त्वेनैव कर्मपद- शक्यत्वादिति वदन्ति । पूर्वमभेदान्वये प्रातिपदिकार्थे स्वसमानविभक्तिकेनेत्यादिनियममुक्त्वा तत्प्रयोजिकां प्रथमान्तनीलादिपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपामा- काङ्क्षाञ्चोक्त्वेदानीमपरस्तत्र नियम उच्यते-अभेदान्वयबोधश्चेत्या- दिना । विरूपोपस्थितयोरेवेति। ननु एकव्यक्तेरेवाभेदान्वयात् द्विवचनमनुप- पन्नमिति चेत्-न । विरूपाभ्यां विभिन्नरूपाभ्यामुपस्थितो याभ्यां तौ विरूपो- पस्थितौ तयोविरूपोपस्थितयोरित्यर्थः । इदञ्चाध्याहृतस्य पदयोरित्यस्य विशेषणम् । तत्रत्यषष्ठ्यर्थजन्यत्वस्य बोधेऽन्वयः । तथा च भिन्नरूपेणो- पस्थापकपदजन्य एवाभेदान्वयबोध इति नियमाकार इति पदे द्वित्वा- न्वयेनानुपपत्त्यभावात् । नचैवं नीलो घटः घटो घट इति वाक्यद्वय- प्रथमा ] जयाऽलङ्कृतः बोधानुदयात् । अथ तत्प्रयोजकसमानविभक्तिकत्वादेः सत्त्वात्कथं न तादृशान्वयबोधः ? अत्राहुः। यादृशं फलं कचित्प्रसिद्धयति ताशस्यैवापत्तिः सम्भ- वति क्लृप्तसामग्रीबलात् । यादृशं च सर्वथैवाप्रसिद्ध तादृशस्य चापादकाप्रसिद्धरापत्तिरशक्यैवेति घटत्वाद्यवच्छिन्नविशेष्यताका- भेदसंसर्गकघटत्वाद्यवच्छिन्नप्रकारकशाब्दबोधस्य कचिदप्यनु- दयात्कथं तदापत्तिः । अथ घटो नीलघटः दण्डवान् रक्तदण्डवा- जन्योऽपि घटत्वावच्छिन्नप्रकारताविशेष्यतानिरूपिताभेदनिष्ठसंसर्गतानिरू- पकस्समूहालम्बनात्मको बोधो नियमाक्रान्तत्वेन साधुस्स्यादिति वाच्यम् । भावे क्तः विरूपे विभिन्नप्रकारिके ये उपस्थिते उपस्थिती इत्यर्थस्तत्प्रयोज्या या प्रकारताविशेष्यतारूपा विषयता तन्निरूपक एव योऽभेदस्तद्विषयकबोध इत्यर्थः । उपस्थितेः प्रयोज्यत्वसम्बन्धेन षष्ठयर्थविषयतायामन्वयस्तस्य निरूपकत्वसम्बन्धेनाभेदेऽन्वयः । उपस्थितिविषयताविशिष्टैवाभेदनिष्ठा शा- ब्दबोधीया संसर्गता। वैशिष्ट्यञ्च स्वावच्छेदकधर्मेतरधविच्छिन्न- विषयताप्रयोज्यविशेष्यतानिरूपितत्वस्वप्रयोज्यप्रकारतानिरूपितत्वोभयसम्ब- न्धेन निरुक्तसमूहालम्बनीयाभेदनिष्ठाया निरुक्तसंसर्गताभिन्नत्वेन तद्बोधस्य नियमाक्रान्तत्वेनासाधुत्वात् । तत्प्रयोजकेति । अभेदान्वयबोधप्रयोजकेत्यर्थो न तु समानधर्मा- वच्छिन्नप्रकारताविशेष्यताकाभेदान्वयप्रयोजकेत्यर्थः । तादृशबोधस्या- प्रसिद्धत्वेन तत्प्रयोजकस्याप्यप्रसिद्धेः । यादृशं फलमिति । यद्धविच्छिन्नं फलमित्यर्थः । तादृशस्यैवेति । तद्धविच्छिन्नस्यैवेत्यर्थः । क्वचिदप्यनु- दयादिति । तथा च तद्धविच्छिन्नकार्यतानिरूपितकारणताश्रयस्या- प्रसिद्धया नापत्तिसम्भवः । कतिपयकारणाधिकरणे कार्याभावप्रयोजक- जिज्ञासाया एवापत्तिपदार्थत्वात् । घटो नीलघट इत्यादि । अत्र नीलत्वा- - ८० व्युत्पत्तिवादः [ कारके नित्यादौ तादृशशाब्दबोधस्य प्रसिद्धिः । विधेयकोटावधिकाव- गाहिनः शाब्दबोधस्य नवीनैः स्वीकारादिति चेत्तहि घटायशे विशेषणतावच्छेदकविधया नीलादिभाननियामकनीलाद्युपस्थि- देरधिकस्य भानेऽपि घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशे- ष्यतानिरूपकशाब्दबुद्धित्वस्य सत्त्वात्तदवच्छिन्नकार्यकारणस्य घटत्वा- वच्छिन्नोपस्थितेः प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्- क्षायास्तात्पर्य्यस्य च घटो घट इत्यत्रापि सत्त्वादिति भावः । विधेयकोटावधिकावगाहिन इति। विधेयघटकतयाऽखिलोद्देश्यं तदित- रञ्चावगाहिन इत्यर्थः । उद्देश्यस्य प्रथमावगतत्वेन तस्यापूर्वबोध्यत्वरूप- विधेयत्वासम्भवेन विधेयतयोद्देश्यावगाही शाब्दबोधो न सम्भवतीति प्राचा- मभिमतम् । घटत्वेनावगतेऽपि घटो नीलघटो न वेति सन्देहस्य सर्वानुभवसिद्धतया नीलघटार्थिनस्तत्र प्रवृत्तिर्न स्यादिति तादृशप्रवृत्तिसिद्धयर्थं प्रकृतसन्देहोच्छे- दाय घटो नीलघट इति बोधोऽवश्यमभ्युपेयः । तथा च अगत्या कस्यचिदं- शस्यापूर्वत्वे तद्विशिष्टः पूर्वमवगतोऽप्यपूर्व एवेति वक्तव्य एवेत्युद्देश्यस्या- पूर्वधर्मविशिष्टस्य विधेयतयाऽवगाही बोधे स्वीकरणीय एवेति नवीनाभि- प्रायः । तथा च नीलघटो घट इत्यादौ घटत्वावच्छिन्नप्रकारतानिरूपित- घटत्वावच्छिन्नविशेष्यताकः शाब्दबोधः प्रसिद्धः । तस्य घटत्वाद्युपस्थित्यादि- कारणमपि प्रसिद्धन्तस्य घटो घट इत्यादावपि सत्त्वेन तादृशो बोधः स्यादिति भावः । विशेषणतावच्छेदकविधयेत्यादि । अयम्भावः । तस्य बोधस्य यथा घटत्वोपस्थित्यादिः कारणं तथा नीलाद्युपस्थितिरपि कारणम् । कारण- कूटस्यैव च कार्योत्पादकत्वेन घटोपस्थितेस्सत्त्वेऽपि नीलोपस्थित्यादेर- सत्त्वान्नापत्तिरिति दिक्। नन्विदं न युक्तम् । प्रसिद्धव्यक्तेस्तु नापत्तिस्सम्भवति । तस्या अन्यत्रो- त्पत्त्यसम्भवात् । अपि तु प्रसिद्धो यो धर्मस्तदवच्छिन्नकार्यतानिरूपित- प्रथमा ] जयाऽलङ्कृतः तितात्पर्यज्ञानविशेषादिघटितैव सामग्री घटत्वावच्छिन्नविशेष्य- कनीलघटत्वाद्यवच्छिन्नाभेदान्वयबोधप्रयोजिका तदभावादेव घटो घट इत्यादिषु न तादृशशाब्दबोधापत्तिरिति केचित्-तन्न । द्रव्यत्वादी धर्मितावच्छेदेकतासंसर्गेण प्रसिद्धस्य शुद्धघटत्वाद्य- वच्छिन्नप्रकारकाभेदान्वयबोधस्य घटत्वादावापत्तिसंभवात् । न च तत्रापादकाभावः, तात्पर्यज्ञानविशेषादिघटिताया धर्मिताव- - कारणताश्रयबलात् तद्धविच्निकार्य्यस्यापत्तिर्भवति । तथा च घटत्वाव- च्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नं प्रति कारणता नीलोपस्थित्यादेर्व्यभिचारेण न सम्भवति । अपि तु प्रथमान्त- घटपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाकाङ्क्षाज्ञानादेरेव तबलात् । घटो घट इत्यादौ तादृशधविच्छिन्नकाऱ्यांपादनेऽकारणीभूताया नीलाधु- पस्थितेविरहस्याकिञ्चित्करत्वादिति चेत्-अत्रोच्यते । सामान्यस्य निर्वि- शेषस्याभावेन सामान्यधर्मावच्छिन्ने कार्ये जननीये विशेषधविच्छिन्न- कार्योत्पादकसामग्र्या अपेक्षितत्वमित्यस्य वक्तव्यतया घटत्वावच्छिन्न- प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वरूपसामान्यध- विच्छिन्नकार्योत्पत्तौ नीलघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छि- नविशेष्यताशालिशाब्दबुद्धित्वरूपविशेषधविच्छिन्नकार्योत्पादिकाया नी- लाद्युपस्थितिघटितसामग्या अपेक्षितत्वेन नीलाद्युपस्थितेरवश्यापेक्षणी- यत्वान्नानुपपत्तिः । किञ्च शुद्धघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वा- वच्छिन्नविशेष्यताकशाब्दबोधस्याभाव एवापि तु नीलघटत्वाद्यवच्छिन्नप्र- कारताकनिरूपितघटत्वावच्छिन्नविशेष्यताक एवेति न शुद्धघटत्वावच्छिन्न- प्रकारताकनिरुक्तशाब्दबुद्धित्वावच्छिन्नं प्रति कस्यापि कारणता किन्तु नीलघटत्वाद्यवच्छिन्नप्रकारताकनिरुक्तधविच्छिन्नं प्रत्येव । तथा च घटत्वावच्छिन्नप्रकारताघटितोक्तधर्मावच्छिन्नसत्त्वं नीलघटत्वावच्छिन्न- ८२ व्युत्पत्तिवादः [ कारके च्छेदकतया द्रव्यत्वादौ तदुत्पादनियामकसामग्य एवापादक- त्वात्। न च धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशान्वयबो- धोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्नविशेष्यकोपस्थि- तितवच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्येव । धर्मि- तावच्छेदकतायास्तत्कार्यतावच्छेदकताविरहेऽपि द्रव्यत्वादिनि- ष्ठायास्तत्कार्यतावच्छेदकधर्मघटकत्वात् तादृशसामग्न्याश्चात्मनि- प्रत्यासत्या द्रव्यत्वाद्यवच्छिन्नविशेष्यकघटत्वाद्यवच्छिन्नाद्य- भेदबुद्धित्वरूपस्वीयकार्यतावच्छेदकावच्छिन्नोत्पत्तेरेव व्याप्यत- प्रकारताकनिरुक्तकार्य प्रति या नीलाद्युपस्थितिघटिता सामग्री तत्प्रयोज्य- मेव वक्तव्यम् । तर्हि नीलाद्युपस्थित्यभावे तत्सत्त्वस्य न प्रसङ्गः । द्रव्यत्वादावित्यादि। अयं भावः । द्रव्यं घट इत्यादौ यो द्रव्यत्वावच्छिन्न- विशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताकः शाब्दबोधः सोऽभेदसम्बन्धा- वच्छिन्नघटत्वावच्छिन्नप्रकारताकः धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे प्रसिद्धश्च । तादृशस्याभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधस्य धम्मिता- वच्छेदकतासम्बन्धेन घटो घट इत्यादौ घटत्वे आपत्तिस्सम्भवति । आपाद- कोऽपि द्रव्यं घट इत्यादौ द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधो- त्पादकं यदभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकं योग्यताज्ञानं घटत्वा- वच्छिन्नप्रकारताकबोधजननेच्छयोच्चरितत्वरूपतात्पर्य्यज्ञानं घटत्वावच्छि- नोपस्थितिरित्येतत्समुदायो यो धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वेऽभेद- सम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधोत्पादकः स एवेति । अत्र शङ्कते। द्रव्यत्वे निरुक्तसम्बन्धन निरुक्तशाब्दबोधोत्पादिका द्र- व्यत्वावच्छिन्नविशेष्यताकाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयो- ग्यताज्ञानं द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यताकोपस्थित्यादिघटितव सामग्री अन्यथा अन्यधविच्छिन्नविशेष्यताकयोग्यताज्ञानादिनाऽन्यधर्मा- प्रथमा ] जयाऽलङ्कृतः वच्छिन्नविशेष्यकशाब्दबोधापत्तेः । तथा च तदभावान्न घटो घट इत्यादौ घटत्वे तादृशो बोध इत्याशयः । ननु द्रव्यत्वावच्छिन्नविशेष्यकनिरुक्त- योग्यताज्ञानादिघटिता सामग्री आत्मनिष्ठप्रत्यासत्त्या कारणीभूता तस्याः कार्य्यतावच्छेदकस्समवाय एव न तु धम्मितावच्छेदकस्तहि तेन सम्बन्धेन तस्याः कथं द्रव्यत्वे कार्योत्पादकत्वमिति चेत्--अत्रोच्यते । आत्मनिष्ठ- प्रत्यासत्या कारणीभूताया द्रव्यत्वावच्छिन्न विशेष्यताकोपस्थितितदवच्छिन्न- विशेष्यकघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानादिघटितायास्सामग्र्याः का- यतावच्छेदकं घटत्वावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताक- शाब्दबुद्धित्वम् । तद्धटकत्वञ्च द्रव्यत्ववृत्तिम्मितावच्छेदकतायास्तथा च धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे जायमानाभेदसम्बन्धावच्छिन्नघटत्वा- वच्छिन्नप्रकारताकशाब्दबुद्धित्वं निरुक्तकार्य्यतावच्छेदकसमनियतं समनियत- धमविच्छिन्ने कार्यो जननीये समनियतधर्मावच्छिन्नकार्योत्पादकसामग्या अपेक्षा । अत एव कालादौ कालिकादिसम्बन्धेन जायमानशाब्दबोधं प्रति कालिकादिसम्बन्धेन काले जायमानशाब्दबुद्धित्वस्य समनियतं समवाये- नात्मनि जायमानशाब्दबुद्धित्वं तद्धावच्छिन्नस्य करणीभूता या आत्म- निष्ठोपस्थित्यादिघटिता सामग्री सैवापेक्ष्यते न तु काले सामग्यन्तरापेक्षा। अतो धम्मितावच्छेदकताया कार्य्यतावच्छेदकसम्बन्धताविरहेऽपि तेन सम्ब- न्धन कार्योत्पत्तावुपस्थित्यादिघटिताया अपेक्षेति युक्तमेव । ननु यथा आत्मनि विद्यमाना द्रव्यत्वावच्छिन्नोपस्थित्यादिघटिता सामग्री स्वीयकार्यतानवच्छेदकेनापि धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे शाब्दबोधं जनयति तथैव' घटत्वेऽपि तेन सम्बन्धेनाभेदसम्बन्धावच्छिन्न- घटत्वावच्छिन्नप्रकारताकशाब्दबोध कथनोत्पादयतीति चेत्-न । द्रव्यत्वे विद्यमानम्मितावच्छेदकताया एव तदीयकार्य्यतावच्छेदकधर्मघटकत्वं न तु घटत्वे विद्यमानायास्तस्या इति घटत्वे तेन सम्बन्धेन जायमानघटप्रकारका- भेदबुद्धित्वस्य तदीयकार्य्यतावच्छेदकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धि- त्वसमनियतत्वाभावात् ।

व्युत्पत्तिवादः [ कारके या घटत्वादौ धर्मितावच्छेदकतासम्बन्धेन घटत्वावच्छिन्नाभेद- बोधापादकत्वं न सम्भवतीति वाच्यम् । योग्यताज्ञानस्य धर्मि- तावच्छेदकं निवेश्य तद्भेदेनानन्तकारणताकल्पनमपेक्ष्य लाघ- वाद्धर्मिता'वच्छेदकतासम्बन्धेन शाब्दबुद्धौ तादृशसम्बन्धेन ध- मितावच्छेदकमनिवेश्य हेतुताकल्पनस्यैव युक्तत्वात् । घटत्वादिध- ननु घटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वमेव द्रव्यत्वावच्छिन्नो- पस्थित्यादिघटितसामग्यः कार्यतावच्छेदकं कुतो न तथा सति घटत्व- निष्ठाया अपि धम्मितावच्छेदकतायाः स्वीयकार्यतावच्छेदकधर्मघटकत्वं भविष्यतीति चेत्-न। यद्धविच्छिन्नं प्रति यस्याः सामग्य व्याप्यत्वं स एव' धर्मस्तत्सामग्याः कार्य्यतावच्छेदकमिति नियमात् द्रव्यत्वावच्छिन्नवि- शेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रत्येव द्रव्यत्वावच्छिन्नोपस्थित्यादिघटितायाः सामग्या व्याप्यत्वन्न तु घटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रतीतितादृशशाब्दबुद्धित्वस्य तादृशसामग्री कार्य्यतावच्छेदकत्वासम्भवात् । तथा च घटत्वे आपादकाभावान्नापत्तिरिति स्थितम् । इदानीं गौरवेणात्म- निष्ठप्रत्यासत्त्या कार्यकारणभावं विहाय लाघवाद्धम्मितावच्छेदकमनिवेश्य विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावमङ्गीकृत्यापत्तिं स्थापयति- योग्यताज्ञानस्य धम्मितावच्छेदकं निवेश्येत्यादिना। समवायसम्बन्धेन घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्य- ताकशाब्दबुद्धित्वावच्छिन्नं प्रति समवायसम्बन्धेन घटत्वावच्छिन्नाभेदसम्ब- न्धावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकयोग्यताज्ञानं कार- णमित्यात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे धम्मितावच्छेदकभेदेन केवल- - 'तत्सम्बन्धावच्छिन्नतद्धविच्छिन्नप्रकारतानिरूपितेति शेषः । तेन घटे द्रव्यमिति योग्यताज्ञानात् पटप्रकारकशाब्दबोधस्य नापत्तिरिति दिक् ।

प्रथमा] जयाऽलङ्कृतः मितावच्छेदकघटत्वाद्यवच्छिन्नप्रकारताकयोग्यताज्ञानवलादेव घट- त्वादौ धर्मितावच्छेदकतासम्बन्धेन तदापत्तेः। न च योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठप्रत्यासत्त्या हे- तुत्वोपगमे द्रव्यत्वाद्यवच्छिन्नस्य पदादनुपस्थितत्वेऽपि द्रव्यत्वादौ तादृशप्रत्यासत्त्या प्रत्यासन्नयोग्यताज्ञानात्तत्र ताशप्रत्यासत्त्या शाब्दबोधापत्तिः। आत्मनिष्ठप्रत्यासत्त्या हेतुभूतां द्रव्यत्वाद्यवच्छि- नोपस्थितिमन्तरेणापि ताशप्रमेयत्वाद्यवच्छिन्नोपस्थित्यादिदशा- घटत्वावच्छिन्नप्रकारताकशाब्दबोधे कार्यकारणभावानन्त्यमिति गौरवम् । धम्मितावच्छेदकतासम्बन्धेन अभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारता- कशाब्दबुद्धित्वावच्छिन्नं प्रतिम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छि- नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानं कारणमिति धम्मितावच्छेदक- निष्ठप्रत्यासत्त्या कार्यकारणभावे अभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्न- प्रकारताकशाब्दबोधमात्रस्य निरुक्तकार्य्यतावच्छेदकाक्रान्ततया अभेद- सम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानमात्रस्य निरुक्तकारण- तावच्छेदकाक्रान्ततया च निरुक्ते नेकविधकार्यकारणभावेनैव निर्वाह इति लाघवम् । ततश्च घटत्वे धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्न- घटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानबलाद्दव्यत्व इवाभेदसम्बन्धावच्छिन्न- घटत्वावच्छिन्नप्रकारताकशाब्दबोधापत्तिः । अथ प्रमेयपदजन्यप्रमेयत्वा- वच्छिन्नोपस्थितिदशायां द्रव्यत्वावच्छिन्नोपस्थितिमन्तरेणापि धम्मितावच्छे- दकतासम्बन्धप्रमेयत्वे घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकयोग्य- ताज्ञानबलात् धम्मितावच्छेदकतासम्बन्धेन अभेदसम्बन्धावच्छिन्नघटत्वा- वच्छिन्नप्रकारताकशाब्दबोधो घटः प्रमेय इत्यादौ यथा भवति तथा द्रव्यपदाद्- द्रव्यत्वावच्छिन्नोपस्थित्यभावे उक्तसम्बन्धेनोक्तयोग्यताज्ञानबलात् घटो द्रव्यमिति शाब्दबोधापत्तिरित्याह-न च योग्यताज्ञानस्येत्यादिना । तथा च ८६ व्युत्पत्तिवादः [ कारके यां प्रमेयत्वादौ धर्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य फलज- नकत्वात्तादृशद्रव्यत्वाद्यवच्छिन्नोपस्थितिविरहस्याकिञ्चित्करत्वादि- ति वाच्यम् । समानप्रकारता' प्रत्यासत्त्या पदार्थोपस्थितेः शाब्दबोधे हेतुत्वोपगमात् । येन सम्बन्धेन यद्धर्मावच्छिन्नकार्य प्रति येन सम्बन्धेन यद्धर्मावच्छिन्नकार्यस्य व्यापकता तेन स- विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावो न वक्तव्य इति भावः । विषय- निष्ठप्रत्यासत्या कार्यकारणभाववादी समाधत्ते---समानप्रकारतेत्यादिना । प्रकारतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेनोपस्थितिः कारणमिति कार्यकारणभावः । न च धम्मितावच्छेदकतायाः प्रकारतायाः प्रकारता- नात्मकतया तेन सम्बन्धेन शाब्दबोधे तावतापि किमायातमित्याह-येन सम्बन्धेन यद्धविच्छिन्नकार्य प्रतीत्यादि । तथा च धम्मितावच्छेदकता- सम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेन शाब्दबोधस्य व्यापकत्वात् । तत्सामग्याः प्रकारतासम्बन्धेनोपस्थितिघटितायाः धम्मितावच्छेदकतासम्ब- न्धेन शाब्दबोधेऽपेक्षणात्तदभावेन नानुपस्थितिदशायां धम्मितावच्छेदकता- सम्बन्धेन शाब्दबोधः । न च सुन्दरो घटो नील इत्यादौ सुन्दररूपपदार्थे प्रकारतासम्बन्धेनोपस्थित्यभावात् कथं धम्मितावच्छेदकतासम्बन्धेन शाब्द- बोध इति वाच्यम् । निरवच्छिन्नम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे एव तत्सामग्या अपेक्षणात् । प्रकृते च सुन्दरत्वावच्छिन्नायास्तस्यास्सत्वात् । अत्रेदं विचार्यते । धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्न- 'प्रकारतावच्छेदकस्यैक्यात्प्रकारतयोरप्यैक्यमित्याह-समानप्रकारते- ति । सावच्छिन्नविषयतानामवच्छेदकभेदादेव भेदः निरवच्छिन्नविषयताना- न्तु आश्रयभेदाभेदः । ज्ञानभेदात्तु नैव विषयता भिद्यते । येनोपस्थितीयशा- ब्दबोधीय भिद्यतामिति विमर्शः ।

प्रथमा] जयाऽलङ्कृतः म्बन्धेन तद्धर्मावच्छिनकार्योत्पादकसामग्य अपि तेन सम्ब- न्धेन तद्धर्मावच्छिन्नकार्योत्पत्तावपेक्षिततया प्रकारतासम्बन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थोपस्थित्यसत्त्वे तत्र तद्धर्मितावच्छे- घटत्वावच्छिन्नप्रकारताकशाब्दबुद्धित्वावच्छिन्नं धम्मितावच्छेदकतासम्बन्धे- नाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानं कारणमिति विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे अन्यसमवेतयोग्यताज्ञानादन्य- समवेतशाब्दबोधापत्तिवारणाय तत्पुरुषीयनिरुक्तशाब्दबोधे तत्पुरुषीय- निरुक्तयोग्यताज्ञानं कारणमित्यस्य वक्तव्यतया पुरुषभेदेन कार्यकारण- भावानन्त्यं विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावेऽपि तुल्यमित्यात्मनिष्ठ- प्रत्यासत्त्या कार्यकारणभावोपेक्षायां न मानमिति चेत् -न। सुन्दरो घटः सुन्दरः पुरुष' इत्यादिशाब्दबोधं प्रति घटत्वाद्यचेतनधर्माणामनन्तानां पुरुषत्वादिचेतनधर्माणामनन्तानां निवेशेन कारणत्वे यावान् कार्यकारण- भावस्ततोऽर्द्ध एव पुरुषभेदभिन्नः कार्यकारणभावो विषयनिष्ठप्रत्यासत्त्येति लाघवात् । न च द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य प्रकारतासम्बन्धेन द्रव्यपदजन्योपस्थितेश्च सत्त्वात् घटस्य द्रव्यमित्यादा- वपि द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन घटाभेदान्वयापत्तिः । न च प्रथमा- न्तघटपदसमभिव्याहृतप्रथमान्तद्रव्यपदत्वादिरूपाकाङ्क्षाज्ञानविरहान्नापत्ति- रिति वाच्यम् । घटः प्रमेय इत्यादौ तादृशाकाङ्क्षाज्ञानाभावेऽपि धम्मिता- वच्छेदकताप्रकारतासम्बन्धाभ्यां प्रमेयत्वे योग्यताज्ञानोपस्थितिभ्यां धम्मिता- वच्छेदकतासम्बन्धेन घटाभेदान्वयोत्पत्त्या तादृशाकाङ्क्षाज्ञानविरहस्य म्मि- तावच्छेदकतासम्बन्धेन शाब्दबोधोत्पत्तावकिञ्चित्करत्वादिति वाच्यम् । आकाङ्क्षाज्ञानीयमात्मनिष्ठप्रत्यासत्त्या कार्य्यतावच्छेदकं यत् द्रव्यत्वा- वच्छिन्नविशेष्यताकशाब्दबुद्धित्वं तद्घटकत्वस्य द्रव्यत्वनिष्ठाया धम्मिता- वच्छेदकतायास्सत्त्वेन द्रव्यत्ववृत्तिम्मितावच्छेदकतासम्बन्धेन जायमान- व्युत्पत्तिवादः [ कारके दकतासम्बन्धेन शाब्दबोधापत्तेरयोगात्। न च यत्र प्रमेय- त्वाद्यवच्छिन्नविशेष्यकवृत्तिज्ञानजन्यप्रमेयत्वाद्यवच्छिन्नविशेष्यको- पस्थितावेव उद्बोधकान्तरात् द्रव्यत्वाद्यवच्छिन्नस्य भानं तत्र द्रव्यत्वाद्यवच्छिन्नविषयकशाब्दापत्तिवारणाय तद्धर्मावच्छिन्न- विषयकशाब्दबोधं प्रति तद्धर्मावच्छिन्नविशेष्यकवृत्तिज्ञानजन्यत- द्धर्मप्रकारकोपस्थितित्वेनैव पदार्थोपस्थितेर्हेतुता वाच्या। तथा च प्रकारविशेषनिवेशस्यावश्यकत्वे विषयनिष्ठप्रत्यासत्त्या हेतुताकल्पन- शाब्दबुद्धित्वं द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वसमनियतन्ततश्च सम- नियतधविच्छिन्ने कार्ये जननीये समनियतधर्मावच्छिन्न कार्योत्पादक- सामग्याः पूर्वोक्तरीत्या अपेक्षिततया द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधकारणीभूतनिरुक्ताका- ङ्क्षाज्ञानस्यापेक्षिततया तदभावेनापत्त्यभावात् । न चैवं रीत्या आपत्तिवारणे अनुपस्थितिदशायामप्यनयैव रीत्या वारणसम्भवात् । समानप्रकारता- प्रत्यासत्योपस्थितेः कारणत्वाश्रयणं ग्रन्थकृतामसङ्गतमिति वाच्यम् । आत्म- निष्ठप्रत्यासत्त्या पदार्थोपस्थिते. कारणत्वापेक्षया विषयनिष्ठप्रत्यासत्त्या कारणत्वे लाघवात् । लघुभूतोपायेनापत्तिवारणसम्भवे गुरुभूतमार्गानु- सरणस्यायुक्तत्वात् । विषयनिष्ठप्रत्यासत्त्या आकाङ्क्षाज्ञानस्य कारणत्वन्न सम्भवति । इत्यात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावः । उपस्थितेश्च सम्भवतीति तथैवाश्रितः । प्रकारतासम्बन्धेनोपस्थितेः कारणत्वे दोषमाह- न च यत्र प्रमेयत्वाद्यवच्छिन्नविशेष्यकवृत्तिज्ञानेत्यादिना । उद्बोधकान्तरात् द्रव्य चक्षुःसन्निकर्षादेरित्यर्थः । हेतुताकल्पनमयुक्तमिति । अनन्तप्रकारी- भूतद्रव्यत्वादीनां कार्य्यतावच्छेदके कारणतावच्छेदके च प्रवेशेन यद्यप्यात्म- निष्ठप्रत्यासत्त्या कार्यकारणभावे साम्यमेव तथाऽपि तत्पुरुषीयत्वनिवेशेन गौरवादित्यर्थः ।

८६ प्रथमा ] जयाऽलङ्कृतः मयुक्तम् । तथा सति पुरुषभेदेन कार्यकारणभावबाहुल्यप्रसङ्ग इति वाच्यम् । स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यताव- च्छेदकताविशिष्ठप्रकारतासम्बन्धेनोपस्थितेर्हेतुतां स्वीकृत्य तादृशा- दोषवारणोपायमाह-स्वजनकज्ञानीयेत्यादिना । स्वमुपस्थितिस्तज्ज- नकं ज्ञानं प्रमेयः । प्रमेयपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीय- विशेष्यतावानित्याकारकन्तदीया वृत्तिनिष्ठा प्रकारता विशेष्यतानिष्ठा तन्नि- रूपिता विशेष्यता प्रमेये तदवच्छेदकता प्रमेयत्वे सामानाधिकरण्येन तद्वै- शिष्टयं प्रमेयत्वनिष्ठायामेवोपस्थितीयप्रकारतायां न तूद्बोधकान्तराद्भा- समानद्रव्यत्वनिष्ठायान्तस्यामिति न तदानीं द्रव्यत्वे शाब्दबोधः प्रकारता- सम्बन्धेन, तत्र निरुक्तप्रकारतासम्बन्धेनोपस्थितेरभावादिति भावः । न च प्रमेयत्वादिप्रकारकोपस्थितिजनकानि वृत्तिज्ञानानि प्रमेयः प्रमेयपदजन्यबोध- विषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतावान् । स्वजन्यबोधविषयत्व- निष्ठप्रकारतानिरूपितेच्छीयविशेष्यतासम्बन्धेन प्रमेयः प्रमेयपदवान् । प्रमेय- पदं प्रमेयत्वावच्छिन्नविषयताकबोधजनकत्वनिष्ठप्रकारतानिरूपितेच्छीयवि- शेष्यतावत् । स्वविषयकबोधजनकत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यता- सम्बन्धेन प्रमेयपदं प्रमेयविशिष्टमित्याकारकम् । एवं वृत्तित्वस्यानुगतानति- प्रसक्तस्य दुर्वचतया शक्तित्वेन. लक्षणात्वेन शक्तिलक्षणयोः पृथक् प्रवेश आवश्यकस्तथा च प्रमेयः पटपदशक्यसम्बन्धीत्याकारकं स्वशक्यसम्बन्धित्व- सम्बन्धेन प्रमेयः पटपदवान् इत्याकारकं प्रमेयसम्बन्धि शक्तं घटपदं स्वसम्ब- धिशक्तत्वसम्बन्धेन पटपदं प्रमेयविशिष्टमित्याकारकञ्च । तेषु आद्यज्ञान- जन्योपस्थितीयप्रकारता या प्रमेयत्वनिष्ठा तत्र तदुपस्थितिजनकज्ञानीय- निरुक्तविशेष्यतारूपवृत्तिनिष्ठप्रकारतानिरूपितप्रमेयनिष्ठाविशेष्यतावच्छेद- कता वैशिष्ट्यसत्त्वेऽपि ज्ञानान्तरजन्योपस्थितीयप्रमेयत्वनिष्ठप्रकारतायां निरुक्तावच्छेदकतासामानाधिकरण्यविरहात् तत्तज्ज्ञानजन्योपस्थितिदशायां ९० व्युत्पत्तिवादः [ कारके शाब्दबोधानापत्तिः। तथा च प्रकारतासम्बन्धेन शाब्दबोधं प्रति स्वजनकज्ञा- नीयशक्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकता स्वजनकज्ञानीयश- क्तिसम्बन्धावच्छिन्नपदनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकता स्वजन- कज्ञानीयपदनिष्ठविशेष्यतानिरूपितजनकत्वनिष्ठेच्छीयप्रकारतानिरूपितबो- धनिष्ठावच्छेदकतानिरूपितविषयत्वनिष्ठावच्छेदकत्वनिरूपितावच्छेदकताव- च्छेदकता स्वजनकज्ञानीयशक्तिसम्बन्धावच्छिन्नपदनिष्ठविशेष्यतानिरूपित- प्रकारतावच्छेदकता स्वजनकज्ञानीयलक्षणानिष्ठप्रकारतानिरूपितविशेष्य- तावच्छेदकता स्वजनकज्ञानीयलक्षणासम्बन्धावच्छिन्नपदप्रकारतानिरूपित- विशेष्यतावच्छेदकता स्वजनकज्ञानीयलक्षणासम्बन्धावच्छिन्ना पदनिष्ठवि- शेष्यतानिरूपिता या प्रकारता तदवच्छेदकता स्वजनकज्ञानीयपदनिष्ठवि- शेष्यतानिरूपितशक्तत्वनिष्ठप्रकारतानिरूपितसम्बन्धिनिष्ठावच्छेदकतानिरू- पितावच्छेदकतावच्छेदकतानां सामानाधिकरण्यं प्रकारतायां पृथक् पृथक् निवेश्योपस्थितीनां कारणत्वं पृथगेव वक्तव्यम् । तथा च परस्परजन्यबोधे व्यभिचारवारणाय कार्य्यतावच्छेदककोटौ तत्तदुपस्थित्यानन्तयं निवेश- नीयम् । तथा च कस्यापि कार्यतावच्छेदकस्य धम्मितावच्छेदकतासम्बन्धेन घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबुद्धित्वं प्रति व्यापकताया अभावेन धम्मितावच्छेदकतासम्बन्धेन तद्धविच्छिन्नकार्ये तत्तद्धर्माव- च्छिन्नकार्योत्पादकसामग्या अनपेक्षणादनुपस्थितिदशायां द्रव्यत्वे निरुक्तस- म्बन्धेन निरुक्तशाब्दबोधापत्ति तादवस्थ्यमेवेति चेत्-पत्रोच्यते । प्रकारता- सम्बन्धेन शाब्दबुद्धित्वं प्रति तत्तदानन्तर्यघटिततत्तद्धर्मस्य व्याप्यतया व्यापकधावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादक- सामग्या अपेक्षणात् । प्रकारतासम्बन्धेन शाब्दबोधे तादृशोपस्थितीनामपेक्षा धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे च व्यापकसामग्री विधया तादृशो- पस्थितीनामपेक्षेति नानुपस्थितिदशायां धम्मितावच्छेदकतासम्बन्धेन शाब्द- बोधोपपत्तिरिति दिक् । न च विशेष्यतावच्छेदकतामात्रस्योपस्थितिनिष्ठकारणतावच्छेदकसं- का- प्रथमा जयाऽलङ्कृतः सर्गतोपगमेऽप्युद्वोधकान्तरादुपस्थितद्रव्यत्वे शाब्दापत्तिवारणसम्भवे प्रका- रतापर्य्यन्तानुधावनं व्यर्थमिति वाच्यम् । द्रव्यं द्रव्यपदशक्यं प्रमेयः प्रमेय- पदशक्य इति समूहालम्बनवृत्तिज्ञानात्प्रमेयत्वावच्छिन्नमात्रोपस्थितौ द्रव्य- त्वेऽपि विशेष्यतावच्छेदकतासम्बन्धेनोपस्थितेस्सत्त्वाच्छाब्दापत्तेरिणाय प्रकारतापर्यन्तस्यादरादुद्वोधकान्तरादुपस्थितद्रव्यत्वनिष्ठप्रकारतायां लिकसम्बन्धेन प्रमेयत्वनिष्ठनिरुक्तविशेष्यतावच्छेदकतावैशिष्टयमादायो- क्तदोषतादवस्थ्यमिति सामानाधिकरण्यसम्बन्धेन वैशिष्टयं बोध्यम् । घटो घटपदशक्य इति वृत्तिज्ञानाद्घटत्वावच्छिन्नोपस्थिताबुद्बोधकान्तरात्प्रमेय- त्वावच्छिन्नस्य भाने प्रमेयत्वावच्छिन्नप्रकारतायां निरुक्तविशेष्यतावच्छे- दकतावैशिष्टयसत्त्वात् प्रमेयत्वावच्छिन्नप्रकारताकशाब्दबोधवारणाय स्वा- नवच्छेदकधर्मानवच्छिन्नत्वस्यापि वैशिष्टयघटकत्वं बोध्यम् । प्रकृते चा- वच्छेदकतानवच्छेदकप्रमेयत्वावच्छिन्नत्वस्यैव प्रमेयत्वावच्छिन्नप्रकारतायां सत्त्वेनादोषः । प्रमेयवान् प्रमेयपदशक्य इति वृत्तिज्ञानात्प्रमेयत्वावच्छिन्न- प्रकारताकोपस्थितावुद्वोधकान्तराद्घटत्वावच्छिन्नस्य भाने निरवच्छिन्नघट- त्वनिष्ठप्रकारतायां वृत्तिज्ञानीयम्मितानिरूपितप्रमेयत्वावच्छिन्नावच्छेदक- तावैशिष्ट्यसत्त्वानिरवच्छिन्नघटत्वनिष्ठप्रकारताकशाब्दबोधापत्त्या स्वान- वच्छेदकधमनिवच्छिन्नत्वसम्बन्धावच्छिन्नस्वनिरूपितवृत्तित्ववत्वमपि वैशि- ष्टये निवेश्यम् । प्रकृते घटत्वनिष्ठनिरवच्छिन्नप्रकारतायां स्वानवच्छेदक- धनिवच्छिन्नत्वसम्बन्धावच्छिन्ना प्रमेत्वावच्छिन्नवृत्तिज्ञानीयम्मिता- वच्छेदकतानिरूपिता या वृत्तिता तस्या असत्त्वाददोषः । कालिकसम्बन्धेन द्रव्यत्वविशिष्टो द्रव्यपदशक्य इति वृत्तिज्ञानजन्यकालिकसम्बन्धावच्छिन्न- द्रव्यत्वनिष्ठप्रकारताकोपस्थितौ समवायसम्बन्धेन घटत्वविशिष्टघटस्योद्बोध- कान्तराद्भाने घटत्वनिष्ठसमवायसम्बन्धावच्छिन्नप्रकारतायां धर्मितावच्छे- दकतावैशिष्टयस्योक्तसम्बन्धत्रयेण सत्त्वात् समवायसम्बन्धावच्छिन्नघटत्व- प्रकारकशाब्दबोधवारणाय स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्यापि चतुर्थ- सम्बन्धस्य वैशिष्टये प्रवेशः।

१२ व्युत्पत्तिवादः [ कारके वस्तुतस्तु उद्बोधकवशादुपस्थितीयप्रकारतासूक्तासूक्तवृत्तिज्ञानीयध- म्मितावच्छेदकताप्रयोज्यत्वविरहात् स्वप्रयोज्यत्वमानं वैशिष्टयनियामकं वक्तव्यं तेनैवोक्तदोषाणां निरासः । किञ्च द्रव्यं द्रव्यपदशक्यं घटो घटपद- शक्य इति समूहालम्बनं वृत्तिज्ञानं द्रव्यपदशक्यमित्यंशे अप्रामाण्यज्ञाना- स्कन्दितं ततो घटत्वावच्छिन्नोपस्थितावुद्वोधकान्तराद्रव्यत्वावच्छिन्नस्य भाने द्रव्यत्वनिष्ठसमवायसम्बन्धावच्छिन्ननिरवच्छिन्नप्रकारतायामुक्तचतु- ष्टयसम्बन्धेनोपस्थितिजनकसमूहालम्बनात्मकवृत्तिज्ञानीयम्मितावच्छेदक- ताया वैशिष्ट्यसत्त्वेन द्रव्यत्वप्रकारकशाब्दबोधवारणं प्रयोज्यत्वनिवेशाधी- नमेवेति दिक् । ननु घटत्वादिप्रकारकोपस्थितिजनकशक्तिज्ञानानि नानाविधानि । तथा हि घटो घटपदशक्यत्ववान् शक्तिसम्बन्धेन घटो घटपदविशिष्ट: इत्याकारको शक्तिनिष्ठप्रकारताकशक्तिनिष्ठसंसर्गताको घटत्वनिष्ठवि- शेष्यतावच्छेदकताको घटशक्तं घटपदं शक्तिसम्बन्धेन घटविशिष्टं घटपद- मित्याकारको शक्तिनिष्ठप्रकारताकशक्तिसंसर्गकघटत्वरूपानुपूर्व्यवच्छिन्न- विशेष्यताकौ च । तत्राद्यज्ञानजन्योपस्थितीयघटत्वनिष्ठप्रकारता तु उपस्थि- तिजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतानिरूपितघटत्वनिष्ठाव- च्छेदकताविशिष्टाऽस्ति । इतरेषु ज्ञानेष्वाद्यज्ञानीया वृत्तिनिष्ठा संसर्गता- ऽस्ति । न तु प्रकारताऽग्रिमज्ञानीयविशेष्यतावच्छेदकताघटत्वरूपानुपूर्वीनिष्ठा तद्वैशिष्टयमुपस्थितीयघटत्वनिष्ठप्रकारतायां नास्तीत्यन्तिमज्ञानत्रयजन्यो- पस्थितयः स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकता- विशिष्टप्रकारतासम्बन्धेन घटत्वे न सन्तीति तत्र प्रकारतासम्बन्धेन शाब्दबोधानापत्तिः निरुक्तावच्छेदकतानां घटत्वनिष्ठानां स्वजन- कज्ञानीयवृत्तिनिष्ठविषयतया परम्परया निरूपितत्वेनानुगमय्य तद्वि- शिष्टप्रकारताया उपस्थितिकारणतावच्छेदकसम्बन्धत्वे घटो घटपदशक्य इति वृत्तिशानजन्यघटत्वप्रकारकोपस्थितावुद्वोधकान्तराद्घटत्वरूपानुपूर्वव- च्छिन्नादेर्भाने आनुपूर्वीनिष्ठप्रकारताया अपि निरुक्तविषयतया विशिष्ट- प्रथमा ] जयाऽलङ्कृतः स्वेन तादृशप्रकारतासम्बन्धेन घटत्वरूपानुपूर्ध्या तादृशसमूहालम्बनोपस्थिते- स्सत्त्वेन तत्र शाब्दबोधापत्तिरतो घटत्वनिष्ठावच्छेदकतानां विशिष्य स्वज- नकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वेन स्वजनक- ज्ञानीयवृत्तिनिष्ठसंसर्गतानिरूपितप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वेन स्वजनकज्ञानीयशक्तत्वनिष्ठप्रकारतानिरूपितावच्छेदकतावच्छेदकतात्वेन स्व- जनकज्ञानीयशक्तत्वसंसर्गनिष्ठसंसर्गतानिरूपितप्रकारतावच्छेदकतात्वेन प्र- वेश्य तत्तदवच्छेदकताविशिष्टप्रकारतात्मकेनासम्बन्धेनोपस्थितीनां पृथक् पृथक् कारणत्वे परस्परजन्यबोधे परस्परव्यभिचारवारणाय स्वजनकज्ञानीय- वृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनो- पस्थित्यव्यवहितोत्तरं प्रकारतासम्बन्धेन शाब्दबोधं प्रति स्वजनकज्ञानीय- वृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनो- पस्थितिः कारणम् । एवं क्रमेण चत्वारः कार्यकारणभावाः स्युः । एवं वृत्तित्व- स्यानुगतानतिप्रसक्तस्य दुर्वचतया समानविषयकशाब्दबोधं प्रति प्रत्यक्ष- सामग्याः प्रतिबन्धकतया समानविषयकप्रत्यक्षसामग्यभावोऽपि शाब्दसाम- ग्न्यां प्रवेश्यः । शाब्देच्छायां समानविषयकप्रत्यक्षसामग्री सत्त्वेऽपि शाब्द- बोधोत्पत्त्या शाब्देच्छाविरहविशिष्टप्रत्यक्षसामन्यभावः शाब्दसामग्यां प्रवे- शनीयः । तथा च शक्तिज्ञानाधीनः शाब्दबोधो जायतामितिच्छासत्त्वे प्रत्यक्ष- सामग्रीसत्त्वे लक्षणाज्ञानाधीनोपस्थितिघटितशाब्दसामग्रीसत्त्वे शाब्दबोध- वारणाय शक्तिज्ञानाधीनोपस्थितिजन्यशाब्देच्छाविरहविशिष्टप्रत्यक्षसाम- अचभावविशिष्टा शक्तिज्ञानाधीनोपस्थितिः कारणं लक्षणाज्ञानाधीनोप- स्थितिजन्यशाब्देच्छाविरहविशिष्टप्रत्यक्षसामग्रयभावविशिष्टा लक्षणाज्ञा- नाधीनोपस्थितिः कारणमित्येव शक्तित्वेन लक्षणात्वेन शक्तिलक्षणे प्रवेश्य कार्यकारणभावो वक्तव्य इति शक्तिलक्षणान्यतरत्वेनापि तयोरनुगमा- सम्भवेन घटः पटपदशक्यसम्बन्धी, घट: स्वशक्यसम्बन्धित्वरूपलक्षणात्मक- सम्बन्धेन पटपदविशिष्टः, घटसम्बन्धिशक्तं पटपदं, स्वसम्बन्धिशक्तत्व- सम्बन्धेन घटविशिष्टं पटपदमिति चतुर्विधलक्षणाज्ञानाधीनोपस्थितीनाम- प ६४ व्युत्पत्तिवादः [ कारके पत्तेारणात् । न च पदार्थेऽपि प्रकारतासम्बन्धेन शाब्दबोधो- त्पत्त्या तत्र निरुक्तप्रकारतासम्बन्धेन पदार्थोपस्थितेरभावात्प्रकार- प्येकरूपेण कारणत्वासम्भवात् पृथक् पृथक् कारणत्वमुक्त्वा परस्परजन्य- बोधे व्यभिचारवारणायाव्यवहितोत्तरत्वं कार्य्यतावच्छेदककोटौ निवेश्य चत्वारः कार्यकारणभावाः स्युः । एवञ्चैकस्यापि कार्य्यस्य धम्मितावच्छे- दकतासम्बन्धेन शाब्दबोधं प्रति व्यापकताया अभावेन धम्मितावच्छेदकता. सम्बन्धेन शाब्दबोधोत्पत्ती तत्कारणीभूतोपस्थित्यनपेक्षणादनुपस्थितदशायां द्रव्यत्वादौ धम्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानबलात् धम्मितावच्छे- दकतासम्बन्धेन शाब्दबोधो दुर्वार एवेति चेत्-अत्रोच्यते । निरुक्तकार्य- तावच्छेदकधर्माणां प्रकारतासम्बन्धेन जायमानशाब्दबोधत्वव्याप्यतया व्याप्यधर्मावच्छिन्ने कार्ये जननीय व्यापकधविच्छिन्नसामग्रया अपेक्ष- णात् । अव्यवहितोत्तरत्वनिवेशे निरुक्तसम्बन्धेनोपस्थित्यनुत्तरं शुद्धप्रका- रतासम्बन्धेनोद्बोधकवशादुपस्थितद्रव्यत्वे शाब्दबोधापत्तिवारणाय व्यापक- धर्मावच्छिन्ने कार्ये व्याप्यधर्मावच्छिन्नकार्यसामग्रया अपेक्षा वक्तव्या। तथा च तदन्तर्गता या विशिष्टप्रकारतासम्बन्धेनोपस्थितिस्तस्या अभावा- नापत्तिः । धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेन शाब्दबोधस्य व्यापकतया येन सम्बन्धेन यद्धविच्छिन्नकार्यं प्रति येन सम्बन्धेन यद्धविच्छिन्नकार्य्यस्य व्यापकतेत्यादिमूलोक्तरीत्या धम्मिता- वच्छेदकतासम्बन्धेन शाब्दबोधं प्रति व्यापकसामग्रयन्तर्गताया विशिष्ट प्रका- रतासम्बन्धेनोपस्थितेरपेक्षणान्नानुपस्थितिदशायां धम्मितावच्छेदकतासम्ब- न्धेन शाब्दबोधापत्तिरिति । नीलो धट इत्यादौ नीले प्रकारतासम्बन्धन शाब्दबोधो भवति प्रका- रतासम्बन्धेनोपस्थितिन्नास्तीति व्यभिचार इत्याह-न च पदार्थेऽपोत्यादि । प्रकारनिष्ठप्रत्यासत्त्येति । प्रकारतासम्बन्धेनेत्यर्थः । न च निरुक्तम्मिता- प्रथमा ] जयाऽलङ्कृतः निष्ठप्रत्यासत्त्या पदार्थोपस्थितेर्हेतुता व्यभिचारेण कल्पयितुमश- क्येति वाच्यम् । परामर्शकारणताविचारदर्शितदिशा व्यभिचारस्य बच्छेदकताविशिष्टविषयतैवोपस्थितिनिष्ठकारणतावच्छेदकस्सम्बन्धोऽस्तु । वैशिष्ट्यञ्च स्वप्रयोज्यत्वस्वनिरूपितम्मिताप्रयोज्यत्वैतदन्यतरसम्बन्धेन । ततश्च न व्यभिचार इति वाच्यम् । नीलो घट इत्यादी मुख्यविशेष्ये घटेऽपि तादृशसम्बन्धेनोपस्थितेस्सत्त्वेन प्रकारतासम्बन्धेन शाब्दबोधाभावे नान्वय- व्यभिचारस्य तावतापि सत्त्वात। विषयतामात्रस्य कार्यतावच्छेदकत्वे तत्र विषयतासम्बन्धेन शाब्दबोधस्यापि सत्त्वान्न व्यभिचार इति तु न संसर्गे व्यतिरेकव्यभिचारापत्तेः । संसर्गताभिन्नविषयंतायाः प्रवेशे सामान्यलक्षणा- नभ्युपगन्तृमते शक्तिग्रहाविषयस्यापूर्वव्यक्तेरपि योग्यताबलेन शाब्दबोधो- त्पत्त्या तत्र व्यभिचारापत्तः । परामर्शकारणताविचारदशितेत्यादि । समवायसम्बन्धेन धूमहेतुकानु- मितौ समवायसम्बन्धेन धूमहेतुकपरामर्शज्ञानस्यात्मनिष्ठप्रत्यासत्त्या कार- णत्वोपगमे पक्षतावच्छेदकानन्त्यात् कार्यकारणभावानन्त्यापत्त्या धम्मि- तावच्छेदकतासम्बन्धेन धूमहेतुबह्नित्वावच्छिन्नप्रकारताकानुमिती धम्मि- तावच्छेदकतासम्बन्धेन वह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकपरामर्शज्ञानस्य लाघवात् धम्मितावच्छेदकनिष्ठप्रत्यासत्त्या कारणत्वे स्वीकृते भाविज्ञानम- प्रमेत्यप्रामाण्यज्ञानानन्तरं वह्निव्याप्यधूमवान् पर्वत इति परामर्शस्ततो वह्निव्याप्यालोकबद्दव्यमिति परामर्शः। तस्मिन् क्षणेऽप्रामाण्यज्ञानस्य नाशादप्रामाण्यज्ञानानास्कन्दितस्य परामर्शद्वयस्य सत्त्वेन तदनन्तरं समूहा- लम्बनात्मकं पर्वतो वह्निमान् द्रव्यं वह्निमदित्याकारकमुभयलिङ्गकानु- मित्यात्मकं ज्ञानं जायते । तत्र कारणीभूतस्य वह्निव्याप्यधूमत्वावच्छिन्न- प्रकारताकपरामर्शस्य धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे विरहात् धूम- लिङ्गकानुमितेश्च सत्त्वादेवं कारणीभूतस्य' वह्निव्याप्यालोकत्वावच्छिन्न- व्युत्पत्तिवादः [ कारके वारणीयत्वादिति चेत्तर्हि तद्धर्मावच्छिन्नाभेदसंसर्गावच्छिन्नप्रका- रतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्यापि हेतुतायाः स्वीकरणीयतया घटो घट इत्यादि- प्रकारकपरामर्शज्ञानस्य धम्मितावच्छेदकतासम्बन्धेन पर्वतत्वे विरहाम्मि- तावच्छेदकतासम्बन्धेनालोकहेतुकानुमितेश्च सत्त्वात्प्राप्तव्यभिचारवारणाय धम्मितावच्छेदकतासम्बन्धेन वह्निव्याप्यधूमत्वावच्छिन्न प्रकारताकपरामर्श- ज्ञानं स्वीयम्मितावच्छेदकताविशिष्टम्मितावच्छेदकतासम्बन्धेन धूम- हेतुकवह्नित्वावच्छिन्नप्रकारताकानुमिति प्रति कारणमित्येवं रीत्या कार्य- कारणभावः कारणतावच्छेदकसम्बन्धस्य वैशिष्टयं कार्यतावच्छेदकसम्बन्धे निवेश्य स्वीकृतोऽस्ति। प्रकृते द्रव्यत्ववृत्त्यनुमितीय(म्मतावच्छेदकतायां धूमहेतुकपरामर्शीयम्मतावच्छेदकतावैशिष्टधविरहात् पर्वतत्ववृत्त्यालोक- हेतुकानुमितीयम्मितावच्छेदकतायामालोकलिङ्गकपरामर्शीयम्मितावच्छे- दकतावैशिष्टयविरहान व्यभिचारः । तथैव प्रकृतेऽपि स्वजनकज्ञानीय- वृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनो- पस्थितिः स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकतावि- शिष्टस्वीयप्रकारताविशिष्टप्रकारतासम्बन्धेन शाब्दबोधं प्रति कारणमित्येव कारणतावच्छेदकसम्बन्धवैशिष्टयं कार्यतावच्छेदकसम्बन्धे निवेश्य कार्य- कारणभावः स्वीक्रियते। नीलो घट इत्यादौ प्रकारे नीले या शाब्दबोधीया प्रकारता तत्र स्वजनकेत्यादिप्रकारतान्तकारणतावच्छेदकसम्बन्धवैशिष्टय- विरहेण न व्यभिचार इत्याशयः। अक्षरार्थस्तु परामर्शकारणताया यो विचारस्तत्र दर्शिताया दिक् तया तद्रीत्या व्यभिचारो वारणीय इति । एतत्पर्य्यन्तग्रन्थेनापत्ति दृढीकृत्य समाधत्ते-तद्धर्मावच्छिन्नाभेदसंस- विच्छिन्नेत्यादिना । प्रकारतावच्छेदकभेदो विशेष्यतावच्छेदके अभेदान्वये प्रथमा ] जयाऽलङ्कृतः स्थले न शाब्दबोधापत्तिः। स घट इत्यादिवाक्याज्जातित्वादिना घटत्वादिधर्मितावच्छेदककस्य स्वरूपतो घटत्वादिप्रकारतावच्छेद- ककस्य घट: स इत्यादिवाक्यात्स्वरूपतो घटत्वादिधर्मितावच्छेद- ककस्य जातित्वादिविशिष्टघटत्वावच्छिन्नप्रकारताकस्य च शाब्द- बोधस्योपपत्तये विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेन विशेषणीये । घटो नीलघट इत्याद्यन्वयबोधस्य प्रामाणिकत्वेऽन्यत्र अपेक्ष्यत इति भावः। न शाब्दबोधापत्तिरिति । घटत्वे घटत्वभेदाभावा- दिति भावः । जातित्वादिनेति । स घट इत्यत्र जातिमान् तत्पदार्थस्तत्र जातिर्घटत्वं विशेष्यतावच्छेदकमवच्छेदकता जातित्वावच्छिन्नेति घटो घट इत्यतो विशेषः । घटस्स इत्यत्र जातिमान् तत्पदार्थस्तत्र प्रकारतावच्छेदकं घटत्वं जातिः प्रकारतावच्छेदकता च जातित्वावच्छिन्नेति पूर्वस्माद्विशेषः उभयत्र शाब्दबोध इष्यते । स इदानीं न स्यात् प्रकारतावच्छेदकविशेष्यता- वच्छेदकयोरैक्यादिति भावः । विशेष्यत्वप्रकारत्वयोरवच्छेदकत्व इति । विशेष्यतावच्छेदकताप्रकारतावच्छेदकतानिरवच्छिन्ना कार्य्यतावच्छेदके प्रवे- श्या इति भावः । तथा च तद्धर्मनिष्ठनिरवच्छिन्नावच्छेदकताकाभेदसम्ब- न्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्ब- न्धेन शाब्दबोधं प्रति तद्धर्मभेदः कारणमिति पर्यावसितम् । निरुक्त- प्रयोगद्वये जायमानशाब्दबोधौ च न निरवच्छिन्नप्रकारतादिविशेष्यतावच्छे- दकताविशेष्यतावच्छेदकताकाविति न तत्र प्रकारतावच्छेदकविशेष्यतावच्छे- दकयोर्भेदापेक्षेति प्रकारतावच्छेदकविशेष्यतावच्छेदकयोरभेदेऽपि शाब्दबो- धोपपत्तिः । घटो नीलधळ इत्याद्यन्वयबोधस्य प्रामाणिकत्वे अन्यत्रेति। तत्र हि घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतास- म्बन्धेन घटत्वे शाब्दबोधस्तत्र च घटत्वभेदाभावाद्वयभिचारः प्राप्तस्तद्वा- ७ व्युत्पत्तिवादः [ कारके रणार्थमन्यत्र दशिता पर्याप्तिनिवेशरूपा दिक् आश्रयितव्येत्यर्थस्तथा च तद्धर्मपर्याप्तावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितेत्यादिरूपः कार्य्यतावच्छेदकस्सम्बन्धः । प्रकृते च नीलघटत्वोभयपप्तिा अवच्छेदकता न घटत्वपर्याप्तेति घटत्वभेदाभावेऽपि न दोषः । ननु नीलघटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्य- तावच्छेदकतासम्बन्धेन शाब्दबोधे यदि नीलभेदघटत्वभेदयोः कारणत्वं तर्हि विधेयकोटावधिकावगाहिनोऽपि घटो नीलघट इति बोधस्यानापत्ति- र्घटत्वे उक्तभेदद्वयस्यासत्त्वात् । यदि नीलघटत्वोभयभेदस्य तत्त्वं घटत्वे तस्य सत्त्वेन न दोषस्तर्हि तस्य केवलान्वयित्वेन समानोद्देश्यविधेयकस्य नीलघटो नीलघट इत्याकारकस्यापि शाब्दस्यापत्तिः। घटत्वे नीले वा विशेष्य- तावच्छेदके नीलघटत्वोभयभेदस्य सत्त्वादिति चेत्-न। तद्रूपावच्छिन्नानुयोगि- ताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्न- प्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनु- योगितावच्छेदकत्वसम्बन्धेन शाब्दबोधं प्रति तद्भेदस्य कारणत्वाङ्गीका- रात् घटो नीलघट इत्यादौ विधेयांशेऽधिकावगाहिनः शाब्दबोधस्य घटत्व- नीलोभयगतद्वित्वरूपावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरू- पिताभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्न- प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वगतैकत्वे स- त्त्वेन तत्र घटत्वनीलोभयगतद्वित्वभेदस्यापि सत्त्वेनादोषात् । न चोभय- पर्याप्ताया अपि प्रकारतावच्छेदकताया वस्तुत्वेन घटत्वे एव' पर्याप्ति- स्तदनुयोगितावच्छेदकञ्च घटत्वगतैकत्वमेव। तथा च तदवच्छिन्नानुयोगिता- कपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्र- कारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयो- गितावच्छेदकत्वसम्बन्धेन घटत्वगतैकत्वे शाब्दबोधस्तत्र घटत्वगतैकत्व- भेदाभावाद्वयभिचार एवेति वाच्यम् । स्वनिरूपितावच्छेदकतात्वावच्छिन्न- प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन तद्रूपवृत्त्यभेदसम्बन्धा- प्रथमा ] जयाऽलङ्कृतः वच्छिन्नप्रकारताघटितसम्बन्धस्य विवक्षणात् तेन सम्बन्धेनोक्तप्रकारताया द्वित्व एव वृत्तेः। ननु जातित्वावच्छिन्नघटत्वनिष्ठप्रकारतावच्छेदकताको यो घटस्स इ- त्यत्राभेदान्वयबोधस्तदीयप्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्या- प्त्यनुयोगितावच्छेदकं घटत्वगतमेकत्वमेव तद्भेदस्य घटत्वगतैकत्वेऽभावाद्- व्यभिचारः। न चावच्छेदकताया निरवच्छिन्नाया एव निवेशेन प्रकृते घटत्व- गतावच्छेदकताया जातित्वावच्छिन्नत्वान्न दोष इति वाच्यम् । तर्हि नीलघ- टत्वावच्छिन्नप्रकारताया अपि निरवच्छिन्नावच्छेदकताया घटत्वे एव सत्त्वे न नीले ततश्च स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकप- प्त्यिनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वनीलोभयावच्छिन्नप्रकारताया अपि घटत्वगतैकत्ववृत्तित्वात् तद्भेदस्य घटत्वगतैकत्वेऽभावात् घटो नीलघट इति विधेयांशेऽधिकावगाहिशाब्दबोधोनस्यादिति चेत्-अत्रोच्यते। स्वनिरूपि- 'तनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेद- कत्वसम्बन्धेन स्वविशिष्टधावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिभूताव- च्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशे- ध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्ब- न्धेन शाब्दबोधं प्रति स्वनिरूपितावच्छेदकतावच्छिन्नप्रतियोगिताकपर्याप्त्य- नुयोगितावच्छेदकरूपभेदः कारणम् । ततश्च विधेयांशेऽधिकावगाह्निो घटो नीलघट इति बोधस्य घटत्वगतैकत्वे नीलघटत्वोभयगतद्वित्वभेदस्य. सत्त्वा- नानुपपत्तिः । न वा नीलघटो नीलघट इति बोधस्यापत्तिः । नीलघट- त्वोभयगतद्वित्वे नीलघटत्वोभयगतद्वित्वभेदाभावात् । ननूद्देश्यांशेऽधिकावगाहिनो नीलघटो घट इति बोधस्यापत्तिस्तत्र विशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदके नी- लघटत्वोभयगतद्वित्वे प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्य- नुयोगितावच्छेदकघटत्वगतैकत्वभेदस्य सत्त्वादिति चेन्मैवम् । स्वनिरूपिता- भेदसम्बन्धावच्छिन्नविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति स्ववि- - व्युत्पत्तिवादः [ कारके शिष्टो भेदः कारणम् । वैशिष्टयं स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताक- पर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वस्वनिरूपितविशेष्य- तावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छि- नानुयोगिताकत्वोभयसम्बन्धेन । ततश्च घटत्वगतैकत्वावच्छेदेन नील- घटत्वोभयगतद्वित्वावच्छिन्नप्रतियोगिताकभेदस्य सत्त्वात् । नीलघटत्वोभय- गतद्वित्वावच्छेदेन नीलघटत्वोभयगतद्वित्वावच्छिन्नप्रतियोगिताकभेदस्य घट- त्वगतैकत्वावच्छिन्नैप्रतियोगिताकभेदस्य चासत्त्वात् । विधेयांशेऽधिकावगा- हिनः शाब्दबोधस्योपपत्तिरुभयांशे समानावगाहिनः उद्देश्यांशे अधिकावगा- हिनश्च नीलघटो घट इत्यस्य नीलघटो नीलघट इत्यस्य चानापत्तिः । वस्तुतस्तु स घट: घटस्स इत्यनयोः पूर्वोक्तयोर्जातित्वावच्छिन्नावच्छे- दकताकप्रकारताविशेष्यताकबोधयोरनुपपत्तिः । तत्रैकत्वावच्छेदेनैकत्वा- वच्छिन्नप्रतियोगिताकघटत्वभेदाभावात् । तदर्थं निरवच्छिन्नावच्छेदक- तायाः प्रवेशे विधेयांशेऽधिकावगाहिनोऽप्यनुपपत्तिस्तत्र निरवच्छिन्नावच्छे-' दकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वस्य घटत्वगतै- कत्वे एव सत्त्वात् । इदमत्रावधेयम् । स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रति- योगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन किञ्चिन्निष्ठाभेदसम्बन्धा- वच्छिन्नप्रकारतानिरूपितोक्तनिरवच्छिन्नावच्छेदकताघटितसम्बन्धेन किञ्चि- निष्ठविशेष्यता तदवच्छेदकतासम्बन्धः कार्य्यतावच्छेदको वक्तव्यः । कार- णञ्च पूर्वोक्त एव । ततश्च न दोष इति । यदि च प्रकारदलमेवोद्देश्य विशेष्यदलञ्च विधेयं विधेयतोद्देश्यतयोः प्रकारताविशेष्यत्वनियतत्वासि- द्धेस्तर्हि अधिकावगाहिविशेष्यकस्यापि शाब्दबोधस्येष्टव्यतया कार्यका- रणभावे प्रकारताविशेष्यतास्थाने विधेयतोद्देश्यते निवेशनीये। विधेयता- वच्छेदकतोद्देश्यतावच्छेदकते समानसम्बन्धावच्छिन्ने ग्राह्ये । तेन कालिक- सम्बन्धेन घटत्वविशिष्टपरतच्छब्दघटितात् स घट इति वाक्यान शाब्द- बोधापत्तिरिति दिक् । ।

प्रथमा ] जयाऽलङ्कृतः दर्शितरीत्या सोऽप्युपपादनीयः। एवं स स इत्यादिवाक्याजाति- त्वाद्यवच्छिन्नधर्मितावच्छेदकताकतद्धर्मावच्छिन्नप्रकारतावच्छेद- कताकाभेदान्वयबोधस्य वारणाय तद्धर्मावच्छिन्नावच्छेकताक- प्रकारतानिरूपितधम्मितावच्छेदकतावच्छेदकत्वप्रत्यासत्त्या शा- ब्बोधं प्रति तद्धर्मभेदस्यापि पृथक्कारणत्वं कल्पनीयम्। एवं दण्डवान् दण्डवानित्यादिवाक्याइण्डसंयोगत्वाद्यवच्छिन्नवति तदवच्छिन्नवदभेदान्वयबोधस्य वारणाय दण्डसंयोगत्वाद्यवच्छि- नावच्छेदकताकप्रकारतानिरूपितविशेष्यतानिरूपितसंयोगत्वाद्यव- निरवच्छिन्नघटत्वादिनिष्ठावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारता- कविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबोधं प्रत्येव घ- टत्वादिभेदस्य कारणत्वोक्ते तित्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकाभेद- सम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितजातित्वावच्छिन्नघटत्व- निष्ठावच्छेदकताकशाब्दबोधस्य प्राप्तामापत्ति परिहर्तुमाह-सं स इत्यादि- वाक्यादिति । निरवच्छिन्नप्रकारतावच्छेदकत्वविशेष्यतावच्छेदकत्वकाभेदा- न्वयबोधे यथा प्रकारतावच्छेदकविशेष्यतावच्छेदकयोर्भेदापेक्षा तथाऽवच्छि- नतादृशावच्छेदकताकाभेदान्वये प्रकारतावच्छेदकतावच्छेदकविशेष्यताव- च्छेदकतावच्छेदकयोर्भेदस्य कारणत्वमिति भावः । एवमपि प्रकारतानिरू- पितसंयोगनिष्ठावच्छेदकतावच्छेदकदण्डस्य विशेष्यतावच्छेदकतावच्छेदक- दण्डाद्भेदस्य सत्त्वेन दण्डवान् दण्डवानिति वाक्यात्प्राप्तां शाब्दापत्ति परिहर्तुमाह-दण्डवान् दण्डवानित्यादि । प्रकारतावच्छेदकतावच्छेदक- तावच्छेदके विशेष्यतावच्छेदकतावच्छेदकतावच्छेदके भेदस्यापि हेतुत्वं बोध्यम् । प्रमेयत्वेन दण्डत्वस्य यत्र प्रकारतावच्छेदकतावच्छेदकताव- च्छेदकत्वं तादृशः दण्डत्वनिष्ठनिरवच्छिन्नस्य विशेष्यतानिरूपितसंय्यो- गत्वावच्छिन्नावच्छेदकतानिरूपितंदण्डनिष्ठावच्छेदकतानिरूपितदण्डत्वनिष्ठ- [ कारके १०२ व्युत्पत्तिवादः च्छिन्नावच्छेदकतानिरूपितावच्छेदकतावच्छेदकत्वसम्बन्धेन शा- ब्दबोधे दण्डत्वादिभेदस्यापि पृथक्कारणत्वं कल्पनीयम् । अव- च्छेदकतायां निरवच्छिन्नत्वनिवेशोऽपि पूर्ववद्बोध्यः । वस्तुतस्तु तद्धर्मान्यवृत्तिविषयतासम्बन्धेन ज्ञान प्रति तद्धर्म- भेदत्वेन हेतुता कल्प्यते लाघवात्। एवं च घटत्वाद्यवच्छिन्नप्र- कारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति चटत्वाद्यन्यवृत्तिविषयतासम्बन्धेन ज्ञानत्वाद्यवच्छिन्नस्य व्याप- कतया घटत्वादौ तादृशविषयतासम्बन्धेन ज्ञानत्वावच्छिन्नोत्पादक- सामग्रीविरहेण न तत्र तादृशविशेष्यतावच्छेकतासम्बन्धेन शाब्द- बोधापत्तिः। एवं च घटवान् घटवानित्यादि वाक्यस्थलीयशाब्द- बोधवारणानुरोधेन धम्मितावच्छेदकतावच्छेदकादिनिष्ठप्रत्यास- स्यावच्छेदकत्वस्य निरूपकः शाब्दबोधः प्रमेयवद्वान् दण्डवानिति- वाक्यान्न स्याद्दण्डत्वे दण्डत्वभेदाभावादत आह-अवच्छेदकतायां निरवच्छि- नत्वमित्यादि । प्रथमावच्छेदकतायां चरमावच्छेदकतायाञ्चेत्यर्थः । अनेककार्यकारणभावकल्पनायां गौरवादाह-वस्तुतस्त्विति। घटत्व- भिन्नवृत्तिविषयतासम्बन्धेन ज्ञानं घटत्वभिन्ने एव भवति । तत्र घटत्वभेदो- ऽप्यस्तीति घटत्वभेदस्य तादृशसम्बन्धेन ज्ञानं प्रति कारणत्वं नानुपपन्नमेवं पटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति पटत्वभेदः कारणम् । तच्च ज्ञानं घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतास- म्बन्धेन शाब्दबोधं प्रति व्यापकं यतो घटो द्रव्यमित्यादिवाक्याद्रव्यत्वादौ घटत्वभिन्ने एव स बोधो भवति तत्र घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं वर्त्तत एव । ततश्च व्याप्यकायें व्यापकस्य कारणमपेक्ष्यत इति नियमात् तादृशशाब्दबोधे घटत्वभेदस्यापेक्षणान्न घटो घट इति वाक्याद्घटत्वे स बोधः । न च जातिमान् घट इति वाक्यात् घटत्वेऽपि जातित्वेन घटत्वनिष्ठा- प्रथमा ] जयाऽलङ्क्तः त्त्या करणत्वान्तरमपि न कल्प्यते । एवमुद्देश्यतावच्छेदकविधेय- योरैक्येन एको द्वावित्यादिवाक्यादेकत्वद्वित्वाद्यवच्छिश्ने एकत्व- द्वित्वादीनां भेदान्वयबोधानुदयात, एकत्वद्वित्वत्वाद्यवच्छिन्नसम- वायादिसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितसमवा- यादिसंसर्गावच्छिन्नावच्छेदकतावच्छेदकत्वादिसम्बन्धेन शाब्दबु- द्धौ एकत्वत्वादिभेदस्य । एवं कर्म गच्छत्तीत्यादौ च कर्मत्वत्वा- द्यवच्छिन्ने आधेयतासम्बन्धेन तद्वतोऽन्वयबोधवारणाय कर्म- वच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतास- म्बन्धेन शाब्दबोधोत्पत्तेर्न घटत्वावच्छिन्नप्रकारताकोक्तशाब्दबोधो घटत्वा- न्यवृत्तिविषयतासम्बन्धेन ज्ञानव्याप्यमिति वाच्यम् । व्याप्यशरीरे निरवच्छि- च्छिन्नावच्छेदकतायाः प्रवेशे नादोषात् । एवं व्याप्यशरीरे घटत्वेतरधर्मान- वच्छिन्नत्वमपि प्रकारतायां देयं तेन नीलघटो घट इति वाक्याद्घटत्वे जाय- मानशाब्दबोधीयघटत्वनिष्ठावच्छेदकतायां निरवच्छिन्नत्वेऽपि न क्षतिः । प्रकारतायां घटत्वेतरनीलत्वेनावच्छेदात् । एवमेव जातित्वावच्छिन्नावच्छे- दकताकप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतासम्बन्धेन शाब्दबो- धः जातित्वाभिन्ने एव भवति । एवं दण्डत्वावच्छिन्नदण्डनिष्ठावच्छेदक- तानिरूपितसंथ्योगनिष्ठावच्छेदकतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारतानि- रूपितविशेष्यतावच्छेदकतावच्छेदकतावच्छेदकतासम्बन्धेन दण्डत्वभिन्ने एव शाब्दबोधो भवतीति तयोरपि व्यापके जातित्वान्यवृत्तिविषयतासम्बन्धेन दण्डत्वान्यवृत्तिविषयतासम्बन्धेन वर्तमाने ज्ञान इति तयोरपि शाब्दबोध- योर्जातित्वभेददण्डत्वभेदयोः कारणत्वात् जातित्वे दण्डत्वे च न तौ शाब्द- अनुमितिवारणाय धर्मितावच्छेदकतासम्बन्धेनानुमितौ विधेयभेद- स्येत्यधिकः पाठो प्राचीनहस्तलिखितपुस्तके ।

१०४ व्युत्पत्तिवादः [ कारके त्वत्वाद्यवच्छिन्नावच्छेदकताकाधेयतासम्बन्धावच्छिन्नप्रकारतानि- रूपितधर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे कर्मत्वत्वादिभेदस्य घटो न घट इत्याद्यनुमितेः शाब्दबोधस्य च वारणाय घटत्वा- वच्छिन्नभेदप्रकारतानिरूपितधर्मितावच्छेदकतासम्बन्धेनानुमितौ शाब्दबोधे च घटत्वादिभेदस्य हेतुत्वान्तरकल्पनमनादेयमेव । तद्ध- र्मभेदस्यैकैककारणतयैव सकलातिप्रसङ्गवारणसंभवादिति कृतं पल्लवितेन । बोधौ जातिमान् जातिमान् दण्डवान् दण्डडवानिति वाक्याभ्यामिति बोध्यम् । एवमेव एकः द्वौ घटो न घटः इत्यतोऽपि एकत्वावच्छिन्ने एकत्वस्य द्वित्वा- वच्छिन्ने द्वित्वस्य घटत्वावच्छिन्ने। घटभेदस्य चान्वयविषयकावनुमिति- शाब्दबोधौ न यतः एकत्वत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेद- कतावच्छेदकतासम्बन्धेन एवं द्वित्वत्वावच्छिन्नप्रकारताघटितोक्तसम्बन्धेन घटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावानुयोगिताव- च्छेदकतासम्बन्धेन शाब्दबोधोऽनुमितिर्वा एकत्वत्वद्वित्वत्वघटत्वेभ्यो भिन्ने- ष्वेव भवति । तयोरपि एकत्वत्वाद्यन्यवृत्तिविषयतासम्बन्धेन ज्ञानं व्यापक- मिति तत्कारणस्यैकत्वत्वादिभेदस्य तत्रापेक्षितत्वेन तदभावादेवकत्वत्वा- दिषु तयोरभावोपपत्तावेकत्वत्वादिभेदस्य पृथक् कारणत्वाकल्पनेन लाघ- वम् । न च नमोऽभावे येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ता यद्वाक्येन प्रतीयते नघटितेन तेन वाक्येन तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगिताका- भावस्तद्धविच्छेदेन प्रत्याय्यत इति नियमात् घटो घट' इति वाक्यात् स्वरूपसम्बन्धेन घटाभेदवत्ताया घटत्वावच्छेदनाप्रतीतेस्तदवच्छेदेन घटा- भेदाभावप्रतीत्यप्रसक्तेः कथं तत्कारणकल्पनं लाघवमिति वाच्यम् । येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ता प्रीती साकाङ्क्ष यद्वाक्यं तेन' वाक्येन नघटितेन तेन सम्बन्धेन तदवच्छेदेन तदभावः प्रत्याय्यत इत्येव नियमेन प्रथमा] जयाऽलङ्कृतः घटो घट इति वाक्यस्य तादृशबोधाजनकत्वेऽपि तादृशबोधे साकाङ्क्षत्वेना- दोषात् । नीलघटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्य- तावच्छेदकतासम्बन्धेन शाब्दबोधस्य जातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकता काभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शा- ब्दबोधस्य च नीलघटो घटः स घट इत्यादिवाक्याद्घटत्वेऽप्युदयेन घट- त्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रत्यव्याप्यत्वेन तत्र घटत्वभेदानपेक्ष- णात्तयोस्तत्रोत्पत्तौ न बाधकमिति दिक् । न चोक्तबोधौ यदि न व्याप्यौ तहि नीलघटो नीलघट: स स इति वाक्याभ्यां घटत्वे तयोरापत्तिस्तत्र घट- त्वभेदानपेक्षणादिति वाच्यम् । नीलत्वानवच्छिन्नविशेष्यतानिरूपितजाति- त्वावच्छिन्नावच्छेदकतासम्बन्धन नीलघटत्वावच्छिन्नप्रकारताकस्य जाति- त्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकशाब्दबोधस्य च तत्रासम्भवात् विशेष्य- दले नीलत्वस्य जातित्वस्य चोपस्थित्या भानस्यावश्यकत्वात् । कथञ्चित्त- योरभाने शाब्दबोधस्येष्टत्वात् । न च नीलघटो नीलं द्रव्यमित्यादौ द्रव्यत्वे प्रसिद्धस्य नीलघटत्वावच्छिन्नप्रकारतानिरूपितनीलत्वावच्छिन्नविशेष्यतानि- रूपितानवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबोधस्य घटत्वत्वेन घटत्वोप- स्थापकेन जातित्वेन घटत्वोपस्थापकेन च तत्पदेन घटिते स स इत्यादौ च प्रसिद्धस्य शाब्दबोधस्य घटत्वे जातित्वे च नीलघटो नीलघटः स स इत्यादौ शाब्दबोधापत्तिरिति वाच्यं तयोरप्युक्तज्ञानव्याप्यत्वेन तादृशभेदापेक्षणात् । न च कालिकसम्बन्धेन घटत्वविशिष्टे समवायसम्बन्धेन घटत्वविशिष्टस्या- भेदान्वयोऽनुभवसिद्धस्तत्र घटत्वनिष्ठनिरवच्छिन्नावच्छेदकताकाभेदसम्बन्धा- वच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधस्य घट- त्वेऽपि सत्त्वान्न घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानव्यापकस्स बोध इति वाच्यं घटत्वनिष्ठनिरवच्छिन्नावच्छेदकताविशिष्टावच्छेदकतासम्बन्धेन शा- ब्दबोधस्य व्याप्यत्वात् । वैशिष्टयं स्वनिरूपितावच्छेद्यतावदभेदसम्बन्धा- वच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितत्वस्वावच्छेदकसम्बन्धावच्छिन्न- त्वोभयसम्बन्धेन उद्देश्यस्य यत्र प्रकारता विधेयस्य विशेष्यता तत्र विशेष्यां- [ कारके व्युत्पत्तिवादः भेदान्वयबोधश्च प्रातिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन क्व- चिन्निपातार्थेन च सममेव जायते न त्वन्येन । सत्यपि पदार्थोप- स्थितियोग्यताज्ञानादिरूपकारणकलापे राजा पुरुषः भूतलं घट इत्यादौ पुरुषाशे राजभूतलादेः स्वत्वाधेयतासम्बन्धेन तण्डुलः पचति चैत्रः पच्यते इत्यादौ कर्मत्वकर्तृत्वादिसम्बधेन तण्डुल- चैत्रादौ पाकादेः स्वकर्मकत्वस्वकर्तृकत्वादिसम्बन्धेन पाकाद्यंशे वा शेऽधिकावगाहिशाब्दबोधस्येष्टतया तत्र दोषवारणाय व्याप्यदले प्रकारता- विशेष्यतयोः स्थाने विधेयतोद्देश्यतयोः प्रवेशः कार्य्यः । अभेदान्वयविचारं समाप्य भेदान्वयविचारः प्रारभ्यते-भेदान्वय- बोधश्चेत्यादिना। भेदान्वयेत्यस्याभेदभिन्नसम्बन्धबोध इत्यर्थः । प्राति- पदिकार्थस्य धात्वर्थस्य च प्रत्ययार्थे निपातार्थे एवाभेदभिन्नसम्बन्धेनान्वय इत्यर्थः । प्रातिपदिकपदप्रयोज्यधातुपदप्रयोज्ययोरभेदातिरिक्तसम्बन्धावच्छि- नप्रकारतयोः प्रत्ययनिपातान्यतरपदप्रयोज्यविशेष्यतानिरूपितत्वनियम इति पर्य्यवसितोऽर्थः । नियमस्वीकारे हेतुमाह-राजा पुरुष इत्यादि । राजा पुरुषः भूतलं घट इति वाक्यात् स्वत्वसम्बन्धेन राजविशिष्टः पुरुषः आधेयत्व- सम्बन्धेन भूतलविशिष्टो घट इति बोधाभावः । उक्तनियमे हेतुरिति भावः । प्रातिपदिकार्थस्य प्रातिपदिकार्थेऽभेदभिन्नसम्बन्धेनान्वये दोषमुक्त्वा धात्व- र्थस्य प्रातिपदिकस्य तेन सम्बन्धेनान्वये दोष उच्यते। तण्डुलः पचतीत्यादि । न च तण्डुलगतकर्मत्वस्य चैत्रगतकर्तृत्वस्यानुक्तत्वात् तण्डुलपदचैत्रपदाद्- द्वितीयातृतीययोरनुशासनादयं प्रयोगो न प्रसक्त इति वाच्यम् । प्रातिपदिकार्थं प्रति कर्मत्वकर्तृत्वयोविशेष्यतयाऽन्वयबोधतात्पर्य्य एव कर्मणि द्वितीये- त्यादिना प्रातिपदिकात् द्वितीयादेरनुशासनात् । प्रकृते च कर्मत्वकर्तृत्वयो- स्संसर्गतया भानस्य प्रातिपदिकार्थस्य धात्वर्थे भेदसम्बन्धेनान्वये दोष उच्यते। स्वकर्मकत्वेत्यादिना । विभक्त्यर्थमन्तराकृत्यति । उक्तनियमः साक्षात्स- ।

प्रथमा ] जयाऽलङ्कृतः १०७ तण्डुलचैत्रादेरन्वयाबोधाग्निपातातिरिक्तप्रातिपदिकार्थयोः क्रिया- ताशप्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयबोधस्याव्युत्पन्नत्वात् । विभक्त्यर्थमन्तराकृत्य तयोरप्यन्वयबोधात्साक्षादिति निपाता- तिरिक्तत्वादिविशेषणात् भूतले न घट: घटो न पट इत्यादौ घटा- देर्नार्थाभावेन मुखं चन्द्र इवेत्यादौ मुखचन्द्रादीनामिवार्थसादृश्या- दिना न कलशं भक्षयेदित्यादौ नैयायिकमते नअपस्थाप्येन बलव- दनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वादिरूपविध्यर्थाभावेन धात्वर्थ- म्बन्धविषयक एव । राज्ञः पुरुष इत्यादौ विभक्त्यर्थस्वत्वद्वारा राजरूपप्रातिप- दिकार्थस्य पुरुषरूपप्रातिपदिकार्थेऽन्वयस्येष्टत्वादिति भावः । निपातार्थे प्राति- पदिकार्थान्वयस्थलमाह-भूतले न घट इत्यादि । नबर्थो भावे घटस्य स्वप्रतियोगिकत्वसम्बन्धेनान्वयस्तथा च घटाभावो भूतलवृत्तिरिति बोधः । यदि च प्रतियोग्यभावान्वय इति न्यायेन नमोऽसत्त्वे यत्र येन यद्वत्ता प्रतीयते यादृश्यवाक्येन तादृशवाक्येन नघटितेन तत्र तेन तदभावस्यैव प्रत्यायना- दुक्तबोधो न युक्तः किन्तु भूतलवृत्तित्वाभाववान् घट इत्येव युक्तः । भूतले घट इत्यतो भूतलवृत्तित्ववान् घट इत्येव बोधात् तथाऽपि निपातार्थप्रातिप- दिकार्थयोरन्वयो जात एवेति बोध्यम् । घटो न पट इत्यादाविति-नार्थे भेदे घटस्य स्वप्रतियोगिकत्व- सम्बन्धेन भेदस्य च पटे स्वरूपसम्बन्धेनान्वयः। मुखं चन्द्र इवेत्यादाविति । इवार्थसादृश्ये स्वप्रतियोगिकत्वसम्बन्धेन चन्द्रस्य मुखे स्वरूपसम्बन्धेन सादृश्यान्वयः । निपातातिरिक्तत्वनिवेशाभावे नजि वयोरपि नामत्वात्तदर्थे तदर्थस्य वा भेदान्वयश्चन्द्रादेन स्यादिति भावः । न कलज भक्षयोदित्या- दाविति । नञर्थोऽभावः तस्मिन् लिङर्थस्य बलवदनिष्टाननुबन्धित्वविशिष्टेष्ट- साधनत्वरूपस्य स्वप्रतियोगिकत्वसम्बन्धेनान्वयेऽभावस्य च स्वरूपसम्बन्धेन भक्षणेऽन्वयः । तथा च बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वप्रतियो- व्युत्पत्तिवादः [ कारके भक्षणादेरनुयोगितया, गुरुमते तु विध्यर्थापूर्वाशे विशेषणतया- न्वितेन नबुपस्थाप्याभावेन धात्वर्थभक्षणादेः प्रतियोगितयाऽन्वये- ऽपि न क्षतिः । राजपुरुष इत्यादिसमासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोधः किन्तु तेन समं विभक्त्य- न्तार्थविशिष्टलाक्षणिकराजादिपदोपस्थाप्यराजसम्बन्ध्यादेरभेदान्व- गिकाभावविशिष्ट कलजभक्षणमिति बोधः । बलवदनिष्टाननुबन्धित्वं बलवदनिष्टाजनकत्वम् । अत्र विशेषणस्य बलवदनिष्टाजनकत्वस्य विशेष्य- स्येष्टसाधनत्वस्य चाभावप्रयुक्तो विशिष्टाभावस्तेन बलवदनिष्टजनकत्वं भक्षणे प्रतीयते नैयायिकमते अत्र धात्वर्थे नपनामार्थस्यान्वयः । गुरुमते चेति । प्रभाकरमीमांसकमते भक्षणस्य स्वप्रतियोगिकत्व- सम्बन्धेन नअर्थाभावेऽन्वयो भावस्य च प्रयोज्यत्वसम्बन्धेन लिङर्थेऽपूर्वे अन्वयोऽपूर्वञ्च पुण्यं तथा च कलञ्जभक्षणप्रतियोगिकाभावप्रयोज्यमपूर्व- मिति बोधः । नैयायिकमते कलजभक्षणमनिष्टजनकं न तु तद्भक्षणाभावः पुण्यजनकः । गुरुमते कलञ्जभक्षणाभावजन्यं पुण्यं न तु कलञ्जभक्षणम- निष्टजनकमिति प्रतीयत इति भेदः । ननु तहि कलञ्जभक्षणे कस्मान्न प्रवर्तते गुरुमत इति चेत्---पुण्यप्रयोजकाभावप्रतियोगित्वरूपस्य पुण्यप्रतिबन्धकत्वस्य भक्षणे शब्दात्प्रतीतौ पुण्यकामस्य पुण्यप्रतिबन्धके कलञ्जभक्षणे प्रवृत्त्य- नुपपत्तेः । समासस्थले विशेषणवाचकपदप्रकृतिकलुप्तविभक्तेरनुसन्धानं विनैव शाब्दबोधोत्पत्त्या स्वत्वसम्बन्धेन राजरूपनामार्थस्यैव पुरुषरूपना- मार्थेऽन्वयो वाच्यः । स चोक्तनियमविरुद्धः' इत्यत आह--राजपुरुष इत्यादिसमासस्थले विति । तत्र राजादिपदस्य विशेषणवाचकस्य षष्ठयर्थ- स्वत्वादिविशिष्ट लक्षणा। तस्य चाभेदेनैव पुरुषाधुत्तरपदार्थेऽन्वय इति नोक्तव्युत्पत्तिविरोधः । एतदेवाह-किन्त्वित्यादिना।

प्रथमा ] जयाऽलङ्कृतः १०६ यबोध एवेति न दोषः । एवं मुखं चन्द्र इत्यादिरूपकस्थले चन्द्रा- दिपदस्य चन्द्रादिसदृशलक्षणया मुखादौ चन्द्रादिसहशाभेदान्वय- बोध एव, न तु सादृश्यादिसम्बन्धेन चन्द्रादेर्मुखादावन्वय इति न तत्र व्यभिचारः। केचित्तु रूपकस्थले चन्द्रादिपदस्य चन्द्रादिसहशे न लक्षणा किं तु तत्र मुख्यार्थचन्द्रादेरेवाभेदभ्रमो मुखादौ । मुखं न चन्द्र इत्यादिविशेषदर्शनदशायां च न तत्र शाब्दोऽभेदप्रत्ययः अपि तु शब्दजन्यविशकलितपदार्थोपस्थितिमूलको मानस एवाहा-भेद- भ्रम इत्याहुः । एवं मुखं चन्द्र इति । अत्रापि चन्द्रपदार्थस्य मुखेऽभेदान्वयस्य बाधेन स्वप्रतियोगिकसादृश्यवत्वस्य च भेदसम्बन्धत्वेन तेन सम्बन्धेनान्वये पूर्वोक्त- व्युत्पत्तिविरोधेन च चन्द्राद्युपमानवाचकपदस्य चन्द्रसदृशे लक्षणया चन्द्र- सदृशाभिन्नं मुखं इति बोध इति न व्युत्पत्तिविरोधः। ननु रूपकस्थलेऽपि लक्षणया सादृश्यप्रतीतावुपमालङ्काराद्रूपकालङ्कार प्रालङ्कारिकसिद्धान्त- सिद्ध चमत्कारवैलक्षण्यन्नोपपद्येत । विषयवैलक्षण्यस्यैव चमत्कारवैलक्षण्य- प्रयोजकत्वादिति चेत्तदाह--केचित्त्वित्यादि। तथा च चन्द्राभिन्नं मुख- मित्यभेदान्वयबोध एवेति न व्यभिचारो न वा चमत्कारवैलक्षण्यानुपपत्ति- विषयवैलक्षण्यस्य सत्त्वात् । ननु बाधान्नाभेदश्चन्द्रादेर्मुखादाविति चेत्त- दाह-अभेदभ्रमो मुखादाविति । ननु मुखन्न चन्द्र इति विशेषदर्शने न भ्रमस्यापि सम्भव इति चेत्तदाह--न तत्र शाब्दोऽभेदभ्रम इति । समान- विभक्तिकमुखचन्द्रपदजन्योपस्थितिविषययोर्मुखचन्द्रयोनिसोऽभेदभ्रमः । मानसञ्च ज्ञानं विरोधिज्ञानाप्रतिबद्धयमेवेति भावः । ननु मुखञ्चन्द्र इति वाक्यजन्यप्रतीतौ श्रुतोऽयमर्थश्चेतश्चमत्करोतीत्यनुभवः प्रामाणिकः । श्रुधा- तोश्च शाब्दबोध एवार्थस्तदनुरोधेन शाब्दाभेदप्रत्यय एव मुखञ्चन्द्र इति [ कारके व्युत्पत्तिवादः परे तुतादात्म्यातिरिक्तसम्बन्धेन नामार्थयो न्वयबोधः । तादात्म्यं च प्रकृते तद्वृत्तिधर्मवत्त्वम् । एवं च नीलो घट इत्यादौ स्ववृत्तिनीलत्वादिमत्त्वसम्बन्धेन घटाद्यंशे नीलपदार्थस्येव मुखं चन्द्र इत्यादौ स्ववृत्त्यालादकत्वादिमत्त्वसम्बन्धेन मुखादौ चन्द्रादेरन्व- यबोधः तादृशार्थान्वयबोधेऽपि समानविभक्तिकत्वं तन्त्रमित्यतो नातिप्रसङ्ग इति वदन्ति । वाक्यादभ्युपेयो न मानस इत्यत आह-परे विति। नामार्थयोनन्वियबोध इति । एतदुत्तरं नामार्थयोरभेदान्वयबोध इत्यस्यार्थ इति शेषः । एवञ्च मुखन्न चन्द्र इति विशेषदर्शनदशायामपि स्ववृत्त्याह्लादकत्ववत्वसम्ब- न्धेन चन्द्रविशिष्टं मुखमिति बोधोऽप्रतिबद्ध एवेति भावः । नातिप्रसङ्ग इति । नीलस्य घट इत्यादाविति शेषः । नन्वेवं चन्द्रो मुखं पद्मं मुखमित्यादौ स्ववृत्तिधर्मवत्वसम्बन्धेन चन्द्रपद्मादेर्मुखादावन्वयोपगमे प्रतियोग्यभावा- न्वयौ तुल्ययोगक्षेमावित्यनुरोधेन न चन्द्रो न पद्मं मुखमेवेदमित्यादौ तत्सम्बन्धावच्छिन्नप्रतियोगिताकचन्द्राद्यभाव एव नना प्रतीयेत स च बाधित इति तत्र बोधो न स्यादतोऽसम्मतोऽयं पक्षो भट्टाचार्य्यस्येति परे त्वित्यनेन सूचयति। स्वमते तु चन्द्रपदस्य चन्द्रसदृशे लक्षणैव। उपमातो रूपके चमत्कार- वैलक्षण्यन्तु यथा गङ्गातीरे घोष इत्यतो न शैत्यपावनत्वातिशयप्रतीतिरपि तु गङ्गातीरलाक्षणिकगङ्गापदाद्गङ्गातीरबोधे एव शैत्यपावनत्वातिशय- प्रतीतिस्तथैवात्रापि विषयावलक्षण्येऽपि कारणान्तरगम्यमेवेति सहृदय- मात्रगम्यमिति दिक् । परे विति-वस्तुतो न युक्तमिदमन्यथा घटवृत्तिद्रव्यत्वस्य घटेऽप्यबाधात् तेन सम्बन्धेन घटस्य पटेऽन्वयबलात् घट: पट इत्यपि प्रयोगापत्तिः । एवञ्च केचिदित्यादिमतमेव युक्तमिति गुरुचरणाः ।

प्रथमा ] जयाऽलङ्कृतः १११ अथ राजा पुरुष इत्यादौ पदार्थोपस्थित्यादिसत्त्वेन कथन्न भेदा- न्वयबोधः, सामग्रथा कार्यजनने उक्तनियमभङ्गरूपायाः प्रयोजन- क्षतैरकिंचित्करत्वात् , सामग्रीसत्त्वे अवश्यं कार्यमिति नियमात् । न च तत्र भेदान्वयबोधौपयिकाकाङ्क्षाविरहाच्छाब्दसामग्रयेवासि- द्धेति वाच्यम् । समभिव्याहाररूपाकाङ्क्षायास्तत्रापि सत्त्वात् । न च तादृशाकाङ्क्षायास्तत्र सत्त्वेऽपि राजादिपदार्थप्रकारकभेदान्व- यबोधे राजादिपदार्थप्रकारकराजादिपदाव्यवहितोत्तरङस्पदत्वादि- रूपानुपूर्वीविशेषरूपाया आकाङ्क्षाया अपि प्रयोजकत्वात् । तद- भावादेव न तत्र शाब्दसामग्रीति वाच्यम् । सम्बन्धादिविशेष्यक- --अथ राजा नियममूलभूतं कार्यकारणभावं शङ्कासमाधानाभ्यामाह- पुरुष इत्यादाविति । ननु नामार्थयोरभेदान्वय एवेति नियमभङ्ग इति चेदाह --सामग्रया कार्येत्यादि । नियमः प्रयोजनं क्षतिर्हानिः । अकि- ञ्चित्करत्वात् कार्याबाधकत्वादित्यर्थः । सामग्रीसत्त्वे इत्यादि । सामग्रयाः कार्यव्याप्यत्वादित्यर्थः । न च तत्र भेदान्वये बोधौपयिकाकाङ्क्षाविरहा- दिति । राजानं राज्ञा राज्ञे राज्ञ इत्यादौ राजनिष्ठकर्मत्वराजनिष्ठकरणत्वा- दीत्याकारकभेदान्वये राजानमित्याद्यानुपूर्वीज्ञानाकारणत्वाद्राजा पुरुष इत्यादौ तादृशानुपूर्वीरूपाकाङ्क्षाविरहान्न शाब्दसामग्रीति भावः । समभि- व्याहाररूपाकाङ्क्षाया इति । भेदान्वयबुद्धिं प्रत्यानुपूर्वीज्ञानानां परस्परा- व्यभिचरितत्वे नानाकारणत्वात् प्रकारविशेष्यवाचकपदयोस्समभिव्याहार- रूपाकाङ्क्षाज्ञानस्यैव कारणत्वेन तस्य च राजा पुरुष इत्यत्रापि सत्त्वादिति भावः । न च तादृशाकाङ्क्षायास्तत्र सत्त्वेऽपीति । राजा कर्मत्वं राजा स्वत्व- मित्यादी समभिव्याहाररूपाया - आकाङ्क्षायास्सत्त्वेऽपि शाब्दबोधानुदयेन भेदान्वये आनुपूर्व्या अपि कारणत्वस्य वक्तव्यत्वेन राजपदाव्यवहितङस्- पदत्वादिरूपानुपूर्वीरूपाकाङ्क्षाया अभावान्न शाब्दबोध इति भावः । सम्बन्धा- ११२ व्युत्पत्तिवादः [ कारके राजादिप्रकारकान्वयबोध एव तादृशाकाङ्क्षाज्ञानस्य हेतुतया पुरु- पादौ राजादिपदार्थप्रकारकान्वयबोधोत्पत्तौ तादृशाकाङ्क्षाज्ञानरू- पकारणविरहस्याकिंचित्करत्वात् । अत्र केचित् नामार्थप्रकारकभेदान्वयबोधं प्रति समानविशे- ध्यताप्रत्यासत्त्या प्रत्ययजन्योपस्थितेहेतुत्वकल्पनात् नामार्थप्रकार- दिविशेष्यकेत्यादि । आनुपुर्वीरूपाकाङ्क्षायाः कारणत्वस्यावश्यकत्वेऽपि भेदान्वयबुद्धित्वं न कार्यतावच्छेदकन्तथा सति कार्य्यतावच्छेदकस्यैक्याद्रा- जपदाव्यवहितोत्तरङस्पदत्वराजपदाव्यवाहितोत्तराम्पदत्वादिरूपानुपूर्वीज्ञा- नानां नानात्वात्परस्परजन्यबोधे व्यभिचारप्रसक्त्या तद्वारणार्थ राजनिष्ठ- भेदसम्बन्धावच्छिन्नप्रकारतानिरूपितस्वत्वनिष्ठविशेष्यताकशाब्दबोधं प्रति राजपदाव्यवहितोत्तरङस्पदत्वरूपानुपूर्वीरूपाकाङ्क्षाज्ञानं कारणमित्येवं क्रमेणैव विशेष्यतावच्छेदकं कार्य्यतावच्छेदके निवेश्य तत्तदानुपूर्वीणां कारण- त्वस्य वक्तव्यतया राजनिष्ठस्वत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितपुरुष- निष्ठविशेष्यताकशाब्दबोधं प्रति कस्यचिदानुपूर्वीज्ञानस्य कारणत्वाकल्पना- त्तादृशबोधे आनुपूर्वीज्ञानविरहस्याकिञ्चित्करत्वादिति भावः । प्रश्न केचिदिति । राज्ञः राजानमित्यादौ निरूपितत्ववृत्तिसम्बन्धावच्छि- नराजनिष्ठप्रकारतानिरूपितस्वत्वकर्मत्वादिनिष्ठविशेष्यताकशाब्दबुद्धित्वा- वच्छिन्नं प्रति ङस्प्रत्ययजन्यस्वत्वोपस्थितिरम्प्रत्ययजन्यकर्मत्वोपस्थितिः कारणमित्यादिक्रमेण विशेष्यस्य कार्यकारणकोटौ निवेशेनात्मनिष्ठप्रत्या- सत्त्या कार्यकारणभावस्वीकारे गौरवात् । लाघवेन विशेष्यतासम्बन्धेन नामार्थनिष्ठभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधं प्रति विशेष्यतासम्ब- न्धेन प्रत्ययजन्योपस्थितिः कारणमित्येव विषयनिष्ठप्रत्यासत्त्या कार्यकारण- भावो वक्तव्यः । तथा च न राजा पुरुष इति वाक्यात् स्वत्वसम्बन्धावच्छिन्न- राजनिष्ठप्रकारतानिरूपितपुरुषनिष्ठविशेष्यताकः शाब्दबोधः विशेष्यता- प्रथमा ] जयाऽलङ्कृतः ११३ कमेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तु नामार्थान्त- रस्य । तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरसत्त्वात्। न च सम्बन्धादेरपि नामार्थतया तत्प्रकारकान्वयबोधे पुरुषादिपदार्थस्य विशेष्यतया मानानुपपत्तिः, तत्तन्नामपदजन्यतत्तन्नामार्थप्रकारकशा- ब्दबोधत्वावच्छिन्नं प्रति प्रत्ययजन्योपस्थितित्वेन हेतुत्वेऽपि राज- सम्बन्धः प्रमेयः राज्ञः पुरुष इत्येताहशवाक्यद्वयजन्यवाक्यार्थद्वया- न्वयबोधे पुरुषस्य राजसम्बन्धविशेष्यतया मानानुपपत्तिरिति वाच्यम् । प्रत्ययाधीनतत्तत्पदार्थोपस्थित्यजन्यतत्तत्पदार्थप्रकारक- शाब्दत्वावच्छिन्नं प्रत्येव प्रत्ययजन्योपस्थितेः समानविशेष्यताप्र- सम्बन्धेन पुरुषे प्रत्ययजन्योपस्थितेरभावात् । न च सम्बन्धादेरपोति । अय- म्भावः । राज्ञः पुरुष इत्यादौ राजनिरूपितस्वत्वप्रकारकपुरुषविशेष्यक- शाब्दबोधो न स्यात् । स्वत्वस्यापि सम्बन्धरूपनामार्थत्वं ततश्च तनिष्ठ- स्वरूपसम्बन्धावच्छिन्नप्रकारताको विशेष्यतासम्बन्धेन पुरुषे शाब्दबोधो न स्यात्तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरभावादिति । तत्तन्नामपद- जन्येत्यादि । यन्नामार्थनिष्ठप्रकारताकः शाब्दबोधस्तन्नामपदजन्यस्य शाब्द- बोधोऽपेक्षितः । प्रकृते सम्बन्धरूपनामार्थस्वत्वनिष्ठप्रकारताकत्वेऽपि सम्बन्ध- रूपनामपदजन्यत्वाभावान्न तत्र बोधे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थि- तेरपेक्षा । राजसम्बन्धः प्रमेयः राज्ञः पुरुष इत्येतादृशवाक्यद्वयजन्येति-अयं यः समूहालम्बनात्मको वाक्यद्वयजन्यो बोधः सम्बन्धपदजन्यः सम्बन्धपदार्थ- स्वत्वप्रकारकश्चेति तत्र बोधे विशेष्यतया पुरुषस्य भानं न स्यात्तत्र प्रत्यय- पदजन्योपस्थितेरभावात् । प्रत्ययाधीनेति । तन्नामपदजन्यत्वं न देयं किन्तु प्रत्ययाधीनतदर्थोपस्थित्यजन्यो यस्तन्नामार्थप्रकारकः शाब्दबोधो विशेष्यता- सम्बन्धेन तदुत्पत्तौ विशेष्यतासम्बन्धेन प्रत्ययपदजन्योपस्थितिः कारणमुक्त- समूहालम्बनबोधस्य सम्बन्धरूपनामार्थस्वत्वनिष्ठप्रकारताकत्वेऽपि ङस्- ८ ११४ व्युत्पत्तिवादः [ कारके त्यासत्त्या हेतुत्वोपगमात् । अथैवमपि यत्र राजा पुरुष इत्यत्र पुरुषपदाधीनपुरुषोपस्थितौ प्रत्ययवशात्कश्चित्प्रत्ययार्थोऽपि विषयी- भूतः तत्र प्रत्ययजन्यतथाविधसमूहालम्बनोपस्थितेर्विशेष्यतासम्ब- न्धेन पुरुषेऽपि सत्त्वात्तस्य राजप्रकारकान्वयबोधे विशेष्यतया भाना- पत्तिर्दुर्वारैव। न च प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासम्बन्धे- नोपस्थितेर्हेतुत्वोपगमान्नानुपपत्तिः। तादृशसमूहालम्बनोपस्थिति- निरूपितपुरुषनिष्ठविशेष्यताया नाम्न एव जन्यतावच्छेदकत्वादिति वाच्यम् । ज्ञानभेदेन विशेष्यताभेदे मानाभावात् । एवं च यत्र प्रत्ययाधीनस्वत्वोपस्थितिजन्यत्वस्यैव सत्त्वेन कार्य्यतावच्छेदकानाक्रान्त- त्वान्न तत्र पुरुषभानानुपपत्तिः । कार्य्यतावच्छेदकं विचार्य कारणकोटिं विचारयति । अथैवमपोति । पुरुषेऽपि यत्र प्रत्ययजन्योपस्थितिविशेष्यतासम्बन्धेन वर्तते तत्र राजा पुरुष इति वाक्यात् पुरुष भेदान्वयापत्तिः । पुरुषपदजन्यपुरुषोपस्थितौ प्रत्ययस्य कस्यचिच्छ्रवणात्प्रत्ययार्थोऽपि विषयीभूतस्तादृशसमूहालम्बनो- पस्थितिय॑था पुरुषपदे जन्या तथा प्रत्ययपदजन्याऽपि तस्याश्च विशेष्यता- सम्बन्धेन पुरुषे सत्त्वात् । यद्यपि समूहालम्बनात्मिका योपस्थितिस्तस्यां प्रत्ययपदजन्यत्वं पुरुषपदजन्यत्वञ्च तथापि प्रत्ययपदजन्यतावच्छेदिका प्रत्ययार्थनिष्ठविषयतैव पुरुषपदजन्यतावच्छेदिका च' पुरुषनिष्ठविषयतैव कारणतावच्छेदकसम्बन्धश्च न विशेष्यतामात्रमपि तु प्रत्ययपदजन्यता- वच्छेदकीभूतविशेष्यता। एवञ्च प्रत्ययपदजन्यतावच्छेदकविशेष्यतासम्बन्धेन प्रत्ययपदजन्या सा समूहालम्बनोपस्थितिः प्रत्ययार्थे एव न पुरुषार्थ इति न तत्र राजभेदान्वय इति भावः । नाम्न एव जन्यतावच्छेदकत्वादिति । समूहा- लम्बनोपस्थितीयपुरुषनिष्ठविषयतायाः पुरुषपदजन्यतावच्छेदकत्वमित्यर्थः । पुनरप्यापत्ति स्थापयति--ज्ञानभेदेन विशेष्यताभेद इति । अयं भावः-- प्रथमा ] जयाऽलङ्कृतः कुन चित्प्रत्ययादेव लक्षणादिना पुरुषाद्युपस्थितिस्तत्र तादृशोपस्थि- तिनिरूपितप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतात: पुरुषादिपदज- न्यपुरुषाद्युपस्थितिविशेष्यताया अभिन्नतया तावताप्युक्तातिप्रसङ्ग- वारणासम्भवादिति चेत्-न । स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारता- निरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धेनैवोपस्थितेहेतुतयोक्तस- मूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यतायाश्च ताहशोपस्थि- तिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतासामानाधिकर- एयविरहान्नातिप्रसङ्ग इति वदन्ति । तदसत् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया उक्तकार्य- कुत्रचित् लक्षणादिना प्रत्ययादेव पुरुषत्वावच्छिन्नोपस्थितिस्तत्र प्रत्ययपद- जन्यतावच्छेदकीभूता पुरुषत्वावच्छिन्ना विशेष्यता सा निरुक्तसमूहालम्बनो- पस्थितीयपुरुषत्वावच्छिन्ना विशेष्यताऽवच्छेदकैक्यादेकैव तन्निरूपकोपस्थि- त्यो देऽपि विषयताभेदे मानाभावात् । ततश्च प्रत्ययपदजन्यतावच्छेदकी- भूता पुरुषत्वावच्छिन्ना तेन सम्बन्धेन प्रत्ययपदजन्यनिरुक्तसमूहालम्बनो- पस्थितेः पुरुषे सत्त्वाद्राजभेदान्वयापत्तिः । आपत्तिम्वारयति-स्वजनकज्ञानीये- त्यादिना । स्वं समूहालम्बनोपस्थितिस्तज्जनकं वृत्तिज्ञानं वाच्यत्वसम्बन्धेन पुरुषः पुरुषपदवानिति ज्ञानं प्रत्ययार्थः । वाच्यत्वसम्बन्धेन प्रत्ययवानित्या- कारकञ्च तज्ज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यता प्रत्ययार्थनिष्ठा तद्वैशिष्टयं सामानाधिकरण्यसम्बन्धेन · पुरुषनिष्ठविशेष्यतायामभावात् । स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्ब- न्धेन पुरुषे प्रत्ययजन्योपस्थितिन्नास्तीति न पुरुषे राजान्वय इति बोध्यम् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्यति । इदमने स्पष्टम् । न च प्रत्ययत्वस्या- नुगतानतिप्रसक्तस्य ज्ञातुमशक्यत्वेऽपि वस्तुतो या प्रत्ययवृत्तिप्रकारता तन्निरू- ११६ व्युत्पत्तिवादः [ कारके कारणाभावकल्पनाया असम्भवात् । राजसम्बन्धः पुरुष इत्यादौ सम्बन्धादिपदे डस्पदत्वादिभ्रमदशायां सम्बन्धादिविशेष्यकरा- जादिपदार्थप्रकारकान्वयबोधानुपपत्तेः । राज्ञः पुरुष इत्यादौ ङस्पदादिषु सम्बन्धादिपदत्वभ्रमदशायां सम्बन्धांशे राजादि- पदार्थप्रकारकान्वयबोधापत्तेश्च । न च प्रत्ययत्वेन ज्ञातं यत्पदं तत्पदजन्योपस्थितेः कारणात्वादेतद्दोषद्वयस्य नावकाश इति वाच्यम् । राज्ञः पुरुष इत्यादौ षष्टयादेः प्रत्ययत्वाद्यनुपस्थितिद्- पितविशेष्यतासम्बन्धेनेत्येवमुच्यमाने दोषमाह-राजसम्बन्धः पुरुष इत्या- दि । सम्बन्धपदे ङस्त्वभ्रमेऽपि तद्वृत्तिप्रकारतायां प्रत्ययवृत्तित्वविरहात्। ङस्पदादिषु सम्बन्धादिपदत्वभ्रमदशायामिति । तत्र वस्तुतः प्रत्ययवृत्ति- प्रकारतायास्सत्त्वादिति भावः । न च प्रत्ययत्वेन ज्ञातमिति । सम्बन्धपदे प्रत्ययत्वेन ज्ञाते तद्वृत्तिप्रकार- तायाः प्रत्ययत्वेन ज्ञातवृत्तित्वात्। ङस्पदे सम्बन्धत्वेन ज्ञातेऽपि तद्वृत्ति- प्रकारतायाः प्रत्ययत्वेन न ज्ञातवृत्तित्वाविरहादुक्तदोषद्वयाभाव इति बोध्यम् । प्रत्ययत्वाद्यनुपस्थितिदशायामिति । डसादौ प्रत्ययत्वाज्ञानदशाया- मपि शाब्दबोधस्येष्टस्य न स्यादिति बोध्यम् । न च प्रत्ययत्वव्याप्यधर्मेण राजसम्बन्ध इत्यादि । इदञ्चाभ्युपेत्योच्यते प्रत्ययत्वस्यानुगमेऽपि इदं दूषणद्वयं दुरुद्धरमेति भावः । वस्तुत इदं तुच्छमनुगतं भवेच्चेत् प्रत्ययत्वम्। वस्तुतो य प्रत्ययः तद्वृत्तिर्या प्रानुपूर्वी तत्प्रकारेण ज्ञातं यत्तज्जन्योपस्थितेः कारणत्वकल्पने यत्र तु सपदस्यैव सम्बन्धपदत्वेन ज्ञानं तत्र प्रत्ययवृत्त्यानु- पूर्वीप्रकारेण ज्ञानाभावात् । यत्र च सम्बन्धपदस्य ङस्त्वेन ज्ञानन्तत्र तेन रूपेण ज्ञानात् । अतिव्याप्त्यव्याप्त्योरभावात् प्रत्ययत्वेन ज्ञानस्य चानुप- योगात् । तस्मादननुगतत्वमेव दोषो युक्त इति ।

प्रथमा जयाऽलङ्क्तः ११७ शायामपि आनुपूर्वीविशेषप्रकारकज्ञानाधीनतदर्थोपस्थितिसत्त्वे शाब्दबोधोत्पत्त्या प्रत्ययत्वप्रकारकज्ञाननिवेशासंभवात् । इदं पुनरत्र तत्त्वम् । राजा पुरुष इत्यादौ पुरुषादिविशेष्यक- राजादिप्रकारकभेदान्वयबोधस्याऽप्रसिद्धथैव नापत्तिसंभवः। यत्र षष्ठयादिविभक्तरेव स्वारसिकलक्षणया शक्तिभ्रमेण वा पुरुषाधु- पस्थितिस्तत्र तद्विशेष्यकराजादिपदार्थप्रकारकभेदान्वयबोधःप्रसिद्ध एवेति चेत्तर्हि तादृशबोधे तथाविधप्रकृतिप्रत्ययानुपूर्वीविशेषरूपा- काङ्क्षाज्ञानसहकृततत्तद्विभक्तिजन्यपुरुषाद्युपस्थितिघटितसामग्रथा एव ताशबोधोत्पत्तिनियामकतया तदभावादेव न तदापत्तिः । अत एव स्वत्वादिसम्बन्धेन राजादिविशिष्टपुरुषादितात्पर्यकत- दादिपघटितात् स सुन्दर इत्यादि वाक्यात्पुरुषादिविशेष्यकस्व- त्वादिसंसर्गकराजादिप्रकारकशाब्दबोधस्य च प्रसिद्धया राजा पुरुषः सुन्दर इत्यादौ पदार्थोपस्थितियोग्यताज्ञानादिबलात्तादृश- शाब्दबोधापत्तिरित्यपि निरस्तम् । स सुन्दर इत्यादिवाक्याधीनशा- ब्दबोधसामग्यास्तत्पदत्वाद्यवच्छिन्नविशेष्यकसुन्दरादिपदसमभि- व्याहारज्ञानसहकृततदादिपदजन्यतादृशविशिष्टार्थोपस्थितियोग्य- ताज्ञानादिघटिततया तदभावादेवापत्त्यभावात् । अथैताहश- रीत्यापत्तिवारणे राज्ञः पुरुष इत्यादौ स्वत्वादिसम्बन्धेन पुरुषादौ ज्ञात इत्युक्तौ न दोष इति वाच्यम् । ङस्त्वाद्यानुपूर्वीतितद्वयक्तित्वप्रकारेण ज्ञातेऽपि शाब्दबोधापत्तेः प्रत्ययत्वव्याप्यत्वयोरज्ञाने शाब्दबोधानापत्तेश्च । १ इत्थं काशीविश्वेश्वरसायुज्यलाभादेकादशदिनपूर्वं यावत् जयां विरचयन्त एव सन्निपातज्वराभिभूताः पितृचरणाः फाल्गुनकृष्णदशम्यां चन्द्रे नेत्रवसुरत्नभूमिते (१९८२) वैक्रमाब्देऽत्रैव निवृत्ताः ।

११८ व्युत्पत्तिवादः [ कारके राजाद्यन्वयबोधस्वीकारेऽपि क्षतिविरहादुक्तव्युत्पत्तिनियुक्तिका। विभक्तीनां सम्बन्धादिवाचकत्वमपि नियुक्तिकम् । नीलो घट इत्यादी विशेषणवाचकपदसमभिव्याहृतविभक्तेरिव सर्व विभक्तीनां साधु- त्वमात्रार्थकत्वस्यैवोचितत्वात् । न हि तत्र तथाविधान्वयबोधो- पगमे तत्स्थलीयसामग्रीवलाद्राजा पुरुष इत्यादिष्वपि तथाविधा- न्वयबोधप्रसङ्गः संभवति । तत्स्थलीयसामग्यः षष्ठयन्तराज- पदत्याद्यवच्छिनधर्मिकपुरुषादिपदसमभिव्याहाररूपाकाङ्क्षाज्ञान- घटिततया तदभावादेव तत्र तादृशसामग्ऱ्या अभावात् । एवं च. राजपुरुष इत्यादिसमासे राजादिपदस्य राजसम्बन्ध्यादौ लक्षणा- स्वीकारोऽपि व्यर्थः। तत्र भेदान्वयबोधस्वीकारेऽपि क्षतिविरहात् । न च तत्र भेदान्वयवोधाभ्युपगमे तत्स्थलीयसामग्रीबलाद्राजा पुरुष इत्यादावपि तादृशान्वयबोधापत्तिरिति वाच्यम् । तत्स्थलीयशा- ब्दवोधे राजादिपदाव्यवहितोत्तरपुरुषादिपदत्वरूपानुपूर्वीविशेष- ज्ञानस्य हेतुतयाऽसमासस्थले पुरुषादिपदस्य विभक्त्या राजादि- पदव्यवहितत्वात्तादृशानुपूर्वीविशेषज्ञानासंभवेन तत्र तादृशबोध- सामग्ऱ्या अप्रसिद्धः । न च प्रकृतिप्रत्यययोरानुपूर्वीविशेषरूपस्या- काङ्क्षात्वात्प्रातिपदिकद्वयाव्यवधानघटितोक्तानुपूर्वीविशेषज्ञानस्य हेतुत्वमेव निष्प्रामाणिकमिति वाच्यम् । भवन्मतेऽपि राजपुरुष इत्यादौ यादृशसामग्रीयलाद्राजपदार्थ- राजसम्बन्धिपुरुषपदार्थयोरभेदान्वयबोधस्ताहशसामग्रीबलाद्राज्ञः पुरुषः इत्यादावपि राजादिपदस्य राजसम्बन्ध्यादौ लक्षणाग्रहसत्त्वे तादृशाभेदान्वयबोधप्रसङ्गवारणाय तथाविधानुपूर्वीविशेषज्ञानस्य समासजन्यबोधे हेतुताकल्पनस्यावश्यकत्वात् । अस्माभिर्भेदान्वयवोध एव तादृशानुपूर्वीविशेषज्ञानस्य हेतु- तायाः कल्पनीयत्वात् । न चोभयमत एव राजसम्बन्धिनि राज- पदस्य स्वारसिकलक्षणाग्रहेण राजपुरुष इत्यत्र राजसम्बन्धिपुरुष- प्रथमा] जयाऽलङ्कृतः ११६ योरभेदान्वयबोधो भवति । इयांस्तु विशेषो यदस्मन्मतेऽसौ समासः षष्ठीतत्पुरुषो भवन्मते कर्मधारयः इति । एवं च पुरुषविशेष्य- काभेदसंसर्गकराजसम्बन्धिप्रकारकवोधे राजपदाव्यवहितोत्तरव- र्तिपुरुषपदत्वप्रकारकज्ञानत्वेन हेतुत्वमुभयवादिसिद्धमेव । भेदा- न्वयबोधे तादृशानुपूर्वीज्ञानहेतुताकल्पनमधिकमिति वाच्यम् । उक्ताभेदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्दान्तर्घ- टितानुपूर्वीज्ञानजन्यतथाविधाभेदान्वयबोधे व्यभिचारवारणाय तादृशानुपूर्वीज्ञानानन्तर्यस्य कार्यतावच्छेदककोटाववश्यं निवेश- नीयतया तत्र' विषयनिवेशे प्रयोजनाभावेन ताशकार्यतावच्छेद- उक्ताभदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्देत्या- दोति । ननु विषयमनिवेश्य राजपुरुष इत्याद्याकांक्षाज्ञानाव्यवहितोत्तरजाय- मानशाब्दत्वावच्छिन्नं प्रति राजपुरुष इत्याद्याकांक्षाज्ञानस्य कारणत्वोपगमे राज्ञः पुरुष इत्यादी राजपदस्य राजसम्बन्धिनि स्वारसिकलक्षणाग्रहदशायाम- भेदसम्बन्धावच्छिन्नराजसम्बन्धित्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छि- नविशेष्यताकस्य राजपुरुष इत्यादौ प्रसिद्धस्य तात्पर्य्यज्ञानादिघटितसामग्री- बलादापादने तद्धविच्छिन्न कार्यानुत्पादकस्य राजपदाव्यवहितोत्तरत्ववि- शिष्टपुरुषपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानशाब्दत्वावच्छिन्नका- यं प्रति कारणस्य राजपुरुष इत्याकारकाकाङ्क्षाज्ञानस्य विरहोऽकिञ्चित्कर इति तात्पर्य्यज्ञानोपस्थित्यादिघटितसामग्रीबलात्तादृशका-पत्तिर्दुर्वारा । न च तादृशकायं प्रति राजपुरुष इत्याकारकाकाङ्क्षाज्ञानोत्तरशाब्दत्वा- १ षष्ठ्यर्थविशिष्टार्थलाक्षणिकपूर्वपदकसमासत्वमेव तत्त्वमिति भावः । विभिन्नधर्मेण एकम्मिबोधकपदघटितसमासत्वमेव तत्त्वमिति भावः। तत्रेति-भेदविषयकत्वाभेदविषयकत्वनिवेशे शाब्दबोध इति भावः ।

१२० व्युत्पत्तिवादः [ कारके कस्यैव भेदान्वयबोधसाधारण्येनानुपूर्वीज्ञानस्य भेदान्वयबोधे हेतु- तायामनाधिक्यात् । एवं तण्डुलं पचतीत्यादावपि पाकादिरूपधा- त्वर्थे कर्मत्वादिसम्बन्धेन तण्डुलादेरन्वयबोधः स्वीकर्तुमुचितः । कर्मत्वस्य पाकाशे प्रकारत्वे तत्र तत्र द्वितीयादेः शक्तिकल्पने तादृशवाक्यजन्यशाब्दबोधे कर्मत्वादिसंसर्गस्याधिकस्य विषयता- कल्पने च गौरवात् । तण्डुलं पचतीत्यादिवाक्यजन्यशाब्दबोध- सामग्रीबलात्तण्डुलः पचतीत्यादावपि तथाविधान्वयबोधापत्तिस्तु न संभवति । तादृशान्वयबोधे द्वितीयान्ततण्डुलपदत्वाद्यवच्छिन्न- धर्मिकपचतीत्यादिसमभिव्याहारज्ञानस्य हेतुतया तण्डुलः पचती- त्यादौ तादृशसामग्य अप्रसिद्धः। एवं पचति चैत्र इत्यादावपि कृतिसम्बन्धेन पाकादेश्चैत्राद्यशेऽन्वयबोधस्वीकार उचितः । अन्य- थोक्तरीत्या गौरवात्। तत्र तादृशान्वयबोधस्वीकारे तत्स्थलीयसाम- ग्रीबलात् पच्यते चैत्रः पाकश्चैत्र इत्यादौ तथाविधान्वयबोधापत्तर- प्युक्तरीत्या वारणसंभवादिति । मैवम् । राज्ञः पुरुष इत्यादौ षष्ठयादेः स्वत्वादिवाचकत्वमावश्य- कम् । अन्यथा पुरुषो न राज्ञ इत्यादौ पुरुषे राजस्वत्वाद्यभावबोधानु- पपत्तेः। न हि तत्र स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजा- - वच्छिन्नस्य कार्य्यस्य व्यापकता येन व्यापकसामग्रीविधया राजपुरुष इत्या- काङ्क्षाज्ञानस्यापेक्षा तदापादने स्यात् । नृपपुरुष इत्यादावपि तादृशशाब्द- बोधस्य सत्त्वात् इति चेत्-उच्यते । यादृशान्यतमसमनयत्यं यस्य कार्य्यस्य तादृशकार्योत्पत्तौ तादृशान्यतमस्य सामग्री अपेक्ष्यते । प्रकृते च राजपुरुषः नृपपुरुष इत्याद्याकाङ्क्षाघटितप्रदर्शितका-न्यतमसमनैयत्यस्यापाद्यमान- कार्ये सत्त्वात्तदुत्पत्तौ तदन्यतमस्य राजपुरुष इत्याद्याकाङ्क्षान्यतमस्या- पेक्षणात्तद्विरहान्नापत्तिरिति बोध्यम् । अत्रेदं बोध्यं-विषयनिवेशो युक्तः ।

प्रथमा ] जयाऽलङ्कृतः १२१ द्यभाव एव प्रतीयते न तु राजस्वत्वाद्यभाव इति संभवति । स्वत्वादि- संवन्धस्यवृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वेन तत्संबन्धा- वच्छिन्नप्रतियोगिताकाभावाप्रसिद्धः। अत एव स्वामित्वादिकं परि- त्यज्य स्वत्वादेः षष्ठ्यर्थत्वं नवीनाः स्वीकुर्वन्ति । स्वामित्वादेः षष्ठ्य- र्थत्वे तस्य निरूपकतासम्बन्धेन धनांशेऽन्वयसम्भवेऽपि तादृशस- म्बन्धस्य वृत्तयनियामकतया संसर्गाभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नाभावस्य नजा प्रत्यायनासम्भवात्। आश्रयतासं- बन्धाद्यवच्छिन्नाभावबोधस्यैतादृशसमभिव्याहारस्थलेऽभ्युपगमे चै- त्रादिसंबन्धिनि धनेऽपि आश्रयतासंबन्धावच्छिन्नप्रतियोगिताक- चैत्रवृत्तिस्वामित्वाभावसत्त्वान्नेदं चैत्रस्येति प्रयोगापत्तिः । न च नसमभिव्याहारस्थलान्वयबोधानुरोधेन षष्ठयादेः स्वत्वादिवा- चकत्वेऽपि राज्ञः पुरुष इत्यादौ षष्ठ्याद्यर्थस्य संसर्गमर्यादयाभानमु- चितम् । तस्य प्रकारत्वोपगमे तत्सम्बन्धस्याधिकस्य भानकल्पने गौरवात् । नब्समभिव्याहारस्यैव तत्प्रकारकबोधनियामकत्वाभ्यु- पगमेन सामग्रीबलात् तत्प्रकारकबोधस्य तदसमभिव्याहारस्थले- तृणारणिमणिन्यायस्थले परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वनिवेशे तृणाव्यवहितोत्तरवह्नित्वापेक्षया लाघवात्तृणाव्यवहितोत्तरप्रमेयत्वतदव्यव- हितोत्तरत्वादेः कार्यतावच्छेदकत्ववारणाय विशेषधविच्छिन्नं प्रति कारण- त्वसम्भवे सामान्यधर्मावच्छिन्नं प्रत्यन्यथासिद्धत्वमवश्यं वक्तव्यम् । एवं स्थि- ते अभेदसम्बन्धावच्छिन्नराजसम्बन्धित्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वा- वच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नत्वे का- र्यत्वे सम्भवति प्रदर्शितसामान्यधर्मावच्छिन्नं प्रत्यन्यथासिद्धत्वमिति स्यात् । तस्मादेतद्ग्रन्थ एतदप-लोचनयैव बोद्धयः ।

१२२ व्युत्पत्तिवादः [ कारके संभवादिति वाच्यम् । एवं सति नजपदं विना यादृशसमभिव्याहा- रस्थले यत्र धर्मिणि येन सम्बन्धेन यस्य विशेषणतया भानं तत्र नसमभिव्याहरास्थले तद्धर्मिणि तत्सम्बन्धावच्छिन्नप्रतियोगि- ताक़तदभावः प्रतीयते इति सर्वजनसिद्वानुभवस्यापलापापत्तेः। एवं सर्वजनसिद्धानुभवस्यापलापापत्तेरिति । वस्तुतोऽत्र नैतत् व्युत्पत्ति- विषयता अन्यथा भूतले घट इत्यत्र घटे भूतलवृत्तित्ववता प्रतीयते । नञ्- प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमाबित्यनुभवार्थ प्रकाशयति-नञ्- पदं विनेत्यादिना । अस्य फलन्तु' पचत्यपि चैत्रे न याचतीति प्रयोगवार- णम् । अन्यथा समवायसम्बन्धेन पाकानुकूलकृतिमत्यपि चैत्रे संयोगेन पाकानुकूलकृत्यभावबोधनं सम्भवेत् । नन्वेवं भूतले घट इत्यादौ भूतल- निरूपितवृत्तित्ववान् घट इत्यर्थात् नञ्पदं विना एतादृशसमभिहारस्थले घट- रूपर्धामणि स्वरूपसम्बन्धेन न वृत्तिताया विशेषणता तत्र नसमभिव्याहारे स्वरूपसम्बन्धावच्छिन्नवृत्तित्वावच्छिन्नाभाव एव प्रतीयतां घटे कथं घटाभावो भूतलवृत्तिरिति प्रतीयते इति चेत्सत्यम् । नसमभिव्याहारे यद्धविच्छि- नयत्सम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वं सम्भवति तस्य नन्समभिव्याहारे नजर्थाभावनिष्ठविशेष्यतानिरूपितप्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्र- कारताप्रयोजकत्वेन यदि सञ्जिघृक्षितः तदा तत्सम्बन्धावच्छिन्नतद्धर्मा- वच्छिन्नप्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्रकारताप्रयोजक एव भव- तीत्यर्थः। अत एव घटो न घट इत्यादौ शब्दानुमितिवारणार्थयत्नः सार्थकः । एवञ्च भूतलवृत्तिता न तादृशप्रकारताप्रयोजकत्वेनाभिमता यदि चेदभि- मता तदा नियमविषयता स्यात् । इत्थं सति प्रकृते यदि राजप्रतियोगिता- कोऽभावो बुबोधयिषितश्चेत्तदा नियमस्य विषयः स्यात् । बुबोधयिषितश्च राजस्वत्वप्रतियोगिताकाभाव इत्येवं नियमाविषये को दोष इत्यरुचेराह- प्रथमा ] जयाऽलङ्क्तः १२३ राज्ञः पुरुष इत्यादिवाक्यजन्याप्रामाण्यज्ञानानास्कन्दितबोधदशायां समभिव्याहारे च नअर्थाभावे घटस्य प्रतियोगितयान्वयः । भूतलवृत्तित्वस्य चाश्रयतया अन्वयस्तथा च घटाभावो भूतलवृत्तिरिति प्रतीयते । एवं घटो न घट इत्यत्र घटत्वावच्छेदेन घटत्वावच्छिन्नप्रतियोगिताकाभावप्रकारकानु- मितिशाब्दयोरिणाय कारणान्तरं न कल्पनीयमिति फलत्वेनोपन्यस्तम् । तत्रापि नमोऽसमभिव्याहारे घटत्वावच्छेदेन तादात्म्येन घटवत्ताप्रतीतेर- भावात्तदवच्छेदेन तदभावस्य ना प्रत्याययितुमशक्यतया तादृशानुमिति- शाब्दयोरप्रसङ्गात्तदुक्तिश्चासङ्गतैव स्यात् । तस्मात् यत्र धर्मे यत्सम्बन्धा- वच्छिन्नयद्धविच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शा- ब्दत्वावच्छिन्नं प्रति साकाङ्क्ष यद्वाक्यं तेन वाक्येन नघटितेन तद्धविच्छि- ने तद्धविच्छिन्नप्रतियोगिताकाभावश्चेद्वोधनीयस्तदा तत्सम्बन्धावच्छिन्न- प्रतियोगिताक एवाभावो बोध्यते । इत्येव प्रतियोग्यभावान्वयौ तुल्ययोगक्षे- मावित्यस्यार्थः। प्रतियोगितायां तद्धविच्छिन्नत्वन्तु अभावावगाहिबोधस्य विशिष्टवैशिष्टयावगाहित्वेन लभ्यते । तथा च घटो न घट इत्यादौ तादृश- बोधो न भवति तद्धर्मभेदस्य कारणत्वात् । परं तादृशबोधं प्रत्याकाङ्क्षा- ऽस्त्येवेति न दोषः। भूतले न घट इत्यत्र घटत्वावच्छेदेनाभावो बोधनीय एव नास्तीति न दोषः । एवं प्रकृतेऽपि यदि पुरुषत्वावच्छेदेन राजत्वावच्छिन्ना- भावबोधश्चेदभिप्रेतस्तदैवानेन नियमेन स्वत्वसम्बन्धावच्छिन्न प्रतियोगिता- कत्वमभावस्य स्यात्तदेव नेति इत एवारुचेराह--अप्रामाण्यज्ञानेत्यादि । - राज्ञः पुरुष इत्यादिति । अप्रामाण्यज्ञानानास्कन्दितराजत्वावच्छिन्नस्व- त्वसंसर्गावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति अप्रामाण्यज्ञानानास्कन्दितराजत्वावच्छिन्नस्वत्वसम्बन्धावच्छिन्नप्रतियो- गिताकाभावत्वावच्छिन्ना भावीयविशेषणतासम्बन्धावच्छिन्नाभावनिष्ठप्रका- १२४ व्युत्पत्तिवाद: [ कारके पुरुषो न राज्ञ इत्यादिवाक्यादपि शाब्दबोधापत्ते: स्वत्वाभावबुद्धौ तेन सम्बन्धेन तद्वत्ताबद्धि प्रति तेन सम्बन्धेन तदभाववत्ताबुद्धिरेव प्रति- बन्धिका न तु तत्प्रतियोगिकतत्सम्बन्धाभाववत्तापीति तदभावव्याप्यवत्ता- मुद्रया च तत्र तदभावव्याप्यत्वनिश्चये एव प्रतिबन्धकता । यस्य च व्याप्यत्व- निश्चयो नास्ति तस्य च भवत्येव ज्ञानद्वयम् । इति राजस्वत्वाभावे स्वत्वेन राजा भावव्याप्यत्वनिश्चयाभावेऽपि राज्ञः पुरुष इत्यतो ज्ञानदशायां राज्ञो न पुरुष इति वाक्याबोधो नेष्यते । स च स्यादिति भावः । रतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धित्वेनैव प्रतिबन्धकता भवितु- मर्हति । न तु तादृशबुद्धित्वावच्छिन्नं प्रति स्वरूपसंसर्गावच्छिन्नराजस्वत्वत्वा- वच्छिन्न प्रतियोगिताकाभावीयविशेषणतासम्बन्धावच्छिन्नाभावत्वावच्छिन्नप्र- कारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताबुद्धित्वेन प्रतिबन्धकता भवति मानाभावात् । ननु पुरुषो न राज्ञ इत्यादावपि स्वत्वादिसंसर्गावच्छिन्नाभावस्यैव प्रतीत्या प्रतिबन्धकता भवतु भवदभिलषिता इति चेत् वृत्तिनियामक- सम्बन्धस्य प्रतियोगितावच्छेदकत्वाभ्युपगमे वृत्त्यनियामकश्चाधारतानवच्छे- दक इति यावत् । राज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्रीसमये राजस्वत्वा- भाववान् पुरुषः सुन्दर इत्याकारकविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षः प्राप्तः नहि राजस्वत्वाभाववान् पुरुषत्वप्रकारकनिश्चयस्य तादृशसामग्रीबाध- निश्चयत्वं तस्य बाधाभावात् । एवञ्च विशेष्यतावच्छेदकादिप्रकारक- निश्चयादिकारणकलापात् प्राप्ततादृशप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्येतादृशशाब्दसामग्रयाः प्रतिबन्धकताकल्पनेन भवतां गौरवम् । न च प्रकारतावादिमते तादृशप्रतिबन्धकताप्रयोजनं तस्य राजस्वत्ववान् पुरुष इत्येतदर्थकराज्ञः पुरुष इत्येतादृशशाब्दसामग्रीकाले राजस्वत्वाभाववान् प्रथमा ] जयाऽलङ्कृतः १२५ स्वत्वसंसर्गकज्ञानस्य विरोधित्वे मानाभावात्। किञ्च वृत्त्यनियाम- वृत्त्यनियामकसम्बन्धस्याभावीयप्रतियोगितानवच्छेदकत्वादिति । अय- म्भावः । स्वत्वनिरूपकत्वादिनानासम्बन्धावच्छिन्नप्रतियोगिकाभावकल्पनायां गौरवमिति । न च स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावकल्पनायां भवता मपि सत्त्वेनोभयोः साम्यमिति वाच्यम् । राजनिरूपितस्वत्वन्नास्तीत्यादौ स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकराजनिरूपितस्वत्वाभावकल्पनाया भव- तामप्यावश्यकत्वेन तदंशे साम्येन निरूपकत्वस्वत्वादिसम्बन्धावच्छिन्नाभाव- कल्पना भवतामधिकेति न वृत्त्यनियामकस्य प्रतियोगितावच्छेदकत्वमिति । यद्यपि स्वत्वसम्बन्धेन राजाभावस्य स्वरूपसम्बन्धेन राजनिरूपित- स्वत्वाभावस्य चैकदेशवृत्तितयाऽतिरिक्तपदार्थानिशान्न गौरवं समनियत- वस्तुन ऐक्यात् तथाऽपि तत्सम्बन्धावच्छिन्नप्रतियोगिताकल्पनायां गौरवस्य तदवस्थत्वात् तत्कल्पनया निःफलत्वाच्च । किञ्च येन सम्बन्धेन यद्वत्ताबुद्धिः यत्र प्रवृत्तिप्रयोजिका भवति तत्सम्बन्धावच्छिन्नावच्छिन्नप्रतियोगिताकतद- भावस्य तदप्रवृत्त्युपयोगितया कल्पनमावश्यकं भवति । स्वत्वादिसम्बन्धेन' तद्वत्ताबुद्धिस्तु न तत्र तत्प्रवृत्तिप्रयोजिकेति । तत्सम्बन्धेन तदभावस्य तत्र तद- प्रवृत्त्यनुपयोगितया तत्कल्पनन्नावश्यकमिति बोध्यम् । ननु वृत्त्यनियामकस्य प्रतियोगितानवच्छेदकत्वे अणुपरिमाणान्न घट: गुणन्न गच्छतीत्यादौ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाणुपरिमाणा- भाववज्जन्यत्ववान् घट इति वृत्तित्वसम्बन्धाप्रतियोगिताकगुणाभाववत्सं- पुरुषत्वादिविशेष्यतावच्छेदकनिश्चयाभावेन विशिष्टबुद्धौ विशेषणबुद्धे :कार- णत्वम् । विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति विशेष्यतावच्छेदकादिप्रकारक- निश्चयस्य कारणत्वात् । तदभावादेव एकसमये तदुभयोरसत्त्वान्न प्रतिबन्ध- कताप्रयोजनं न च संसर्गतावादिमतेऽप्येकविधप्रतिबध्यप्रतिबन्धकभावेनैव १२६ व्युत्पत्तिवादः [ कारके जन्यत्ववत्वस्य योगानुकूलव्यापारवानिति बोधद्वयोरनापत्तिरिति चेन्न । तत्राणुपरिमाण- स्याणुपरिमाणनिरूपितत्वे गुणस्य गुणवृत्तित्वे च लक्षणया स्वरूपसम्बन्धेना- णुपरिमाणनिरूपितत्वाभाववज्जन्यत्ववान् घट इति बोधस्य स्वरूपसम्बन्धेन गुणवृत्तित्वाभाववत्संयोगानुकूलव्यापारवानिति बोधस्य च वक्तुं शक्यत्वेना- दोषात् । न चाणुपरिमाणान्न गगनमित्यादौ दोषः । गगनेऽसत्त्वादिति वाच्यम् । नअर्थाभावस्य द्विधाभानेनादोषात् । स्वरूपसम्ब- न्धावच्छिन्नप्रतियोगिताकाणुपरिमाणनिरूपितत्वाभाववज्जन्यत्वाभाववद्गग- नमिति बोधः । न च नअर्थस्य द्विधा भानमेव गौरवमिति वा गणो गुणन्न गच्छतीत्यादौ भवतामपि तथा कल्पनाया आवश्यकत्वात । अन्यथा गुणवृ- त्तित्वाभाववत्संयोगानुकूलव्यापारवत्वस्य गुणेऽप्रसिद्धतया बोधानापत्तेः । गुणादीनां येन सम्बन्धेन यद्धर्मिणोति । नन्वेवं नियमो यदि स्यातहि संसर्ग- तावादिनां दोषः स्यात् तदेव न भूतले न घट इत्यादौ तात्पर्य्यसत्त्वे घटनिष्ठ- प्रतियोगिताकाभावो भूतलवृत्तिरित्येवमपि बोधदर्शनादन्यथा नमोऽसत्त्वे भूतलवृत्तित्ववान् घट इत्यस्यैव प्रतीत्या नञः सत्त्वे भूतलवृत्तित्वाभाववान् इत्येवं रूपेणैव बोधः स्यान्न तु घटत्वावच्छिन्न प्रतियोगिताकाभावो भूतल- वृत्तिरेवमिति । किञ्च घटो न घट इत्यादौ तादात्म्यसम्बन्धावच्छिन्नघटत्वावच्छि- नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारताकघटत्वावच्छिन्नविशेष्यताकशाब्द- बोधवारणाय तत्सम्बन्धावच्छिन्नतद्धविच्छिन्नप्रतियोगिताकाभावत्वा- प्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति प्रतियोगितावच्छेदकविशेष्यतावच्छेदकयोर्भेदः कारणमिति ग्रन्थकारेणैव निर्वाहः । तथा हि घटवद्भूतलमित्येतादृशप्रत्यक्षत्वावच्छिन्नं प्रति तादृश- शाब्दसामग्रयाः प्रतिबन्धकतायास्तवापि अवश्यं कथनीयत्वात् । एवञ्च विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्येतादृशवाक्यजन्य- शाब्दसामग्री प्रतिबन्धकेति चेन्न । शाब्दसामग्री प्रत्यक्षप्रतिबन्धिका भवति ।

प्रथमा ] जयाऽलङ्कृतः १२७ कसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि राज्ञः पुरुष इत्यादौ स्वीकृतमस्ति । निरुक्तनियमासत्त्वे तु तादात्म्यसम्बन्धेन घटे घटवत्ता नोऽसत्त्वे न प्रतीयते इति नञः सत्त्वेऽपि तत्सम्बन्धावच्छिन्नप्रतियोगिताका- भावप्रकारकबोधो न स्यादेवेति तादृशशाब्दबोधवारणाय ग्रन्थकारप्रयासोऽपि व्यर्थतामेव व्रजेत्तस्मान्नमोऽसत्त्वे तत्सम्बन्धावच्छिन्नतद्धविच्छिन्नप्रकार- ताकशाब्दबोधं प्रति साकाक्षं यद्वाक्यन्तेन नघटितेन तद्धावच्छिन्नप्रति- योगिताकाभावश्चेबुबोधयिषतस्तहि तत्सम्बन्धावच्छिन्नप्रतियोगिताक एवे- त्येव नियमस्तथा च यत्र द्रव्यस्य घटपदेन ग्रहणन्तत्र तादात्म्यसम्बन्धावच्छि- नप्रकारताकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधो घटो घट इत्यादिवाक्या- दपि भवतीति तादृशशाब्दबोधं प्रति साकाङ्क्षन नघटितेन वाक्ये घटत्वा- वच्छिन्नप्रतियोगिताकाभावोऽपि विवक्षित इति तादात्म्यसम्बन्धावच्छि- नप्रतियोगिताकस्तादृशाभावत्वावच्छिन्नप्रकारताकशाब्दबोधवारणाय तादृ- शकार्यकारणभावोऽप्यावश्यकः । एवं नमोऽसत्त्वे स्वरूपसम्बन्धेन भूत- लवृत्तित्ववान् घट इति प्रतीयते । इति तादृशशाब्दबोधं प्रति साकाङ्क्षन भूतले घट इति वाक्येन नचटितेन न भूतलवृत्तित्वावच्छिन्नप्रतियोगिता- काभावो विवक्षितः किन्तु घटत्वावच्छिन्नप्रतियोगिताक इति नियमाना- कान्ततया न' तत्रापि शाब्दबोधानापत्तिरिति । एवञ्च स्वत्वसम्बन्धेन राजविशिष्ट: पुरुष इति शाब्दबोधं प्रति साकाङ्क्षन नचटितेन राज्ञो न पुरुष इति वाक्येन राजत्वावच्छिन्नप्रतियोगिताकाभावो विवक्ष्यते । अपि तु राजस्वत्वत्वावच्छिन्नप्रतियोगिताक इति नियमानाक्रान्ततया न निय- मतो विरोध इत्यरुचेराह-राज्ञः पुरुष इत्यादि । तत्सम्बन्धावच्छिन्न- यदि तु प्रत्यक्षेच्छाऽस्ति शाब्देच्छा च नास्ति तत्र प्रत्यक्षं भवति । यत्र चोभ- योरिच्छाऽस्ति तत्र शाब्दसामग्री प्रतिबन्धिका भवतीति वस्तुस्थितिः ।

१२८ व्युत्पत्तिवादः [ कारके राजस्वत्वादेः प्रकारताभ्युपगमः समुचितः । अन्यथा तादृशस- मभिव्याहारज्ञानघटितशाव्दसामग्रीकाले राजस्वत्वाभाववान्पुरुषः सुन्दर इत्याकारकविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षवारणाय तादृशसामग्र्याः प्रतिबन्धकताकल्पनाधिक्येन गौरवात्। तद्धावच्छिन्नप्रकारतानिरूपिततद्धावच्छिन्नविशेष्यताकशाब्दबुद्धित्वाव- च्छिन्नं प्रति तेन सम्बन्धेन तद्धर्मावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्न- प्रकारताकतद्धावच्छिन्नविशेष्यताकबुद्धेरेव प्रतिबन्धकत्वादिति भावः । यद्यपि राजभावव्याप्यवत्तामुद्रया राजस्वत्वाभाववान् पुरुष इति बुद्धरपि स्वत्वसम्बन्धेन राजवान् पुरुष इति बुद्धि प्रति प्रतिबन्धकत्वमस्त्येव तथाऽपि व्याप्यत्वाग्रहदशायामपि प्रतिबन्धकत्वमिष्टन्तन्न स्यादित्याशयेन ग्रन्थप्रवृ- त्तिरिति न ग्रन्थासङ्गतिः । शाब्देच्छाविरहविशिष्टप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इत्येतादृशवाक्य- जन्यशाब्दसामग्रमा विभिन्नविषयकप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धकत्वेऽपि यत्र घटवद्भूतलमिति प्रत्यक्षेच्छाऽस्ति घटवन्न भूतलमिति प्रत्यक्षसामग्री चास्ति तत्रापि घटवन्न भूतलमिति प्रत्यक्षं स्यात् । शाब्दसामग्रयाः शाब्दे- च्छाविरहविशिष्टप्रत्यक्षेच्छावत्वेन तद्विरहाभावेनाप्रतिबन्धकत्वात् । एवञ्च घटवन्न भूतलमिति प्रत्यक्षो मे जायतामित्येतादृशेच्छाविरहविशिष्टराज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्री घटवन्न भूतलमित्येतादृशप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिकेति । इच्छाविषयतायाः प्रतबिन्धकतावच्छेदकत्वोपगमेन एकरूपेण वक्तुमशक्यत्वात् । न च प्रत्यक्षविशिष्टेच्छाविरहविशिष्टशाब्द- सामग्रथाः प्रतिबन्धकत्वम् । वैशिष्ट्यञ्च स्वविषयकत्वस्वसामग्रीसमान- कालिकत्वैतदुभयसम्बन्धेन । एवञ्चान्यादृशप्रत्यक्षसामग्रीसद्भावे अन्या- दृशप्रत्यक्षेच्छायाः प्रत्यक्षवैशिष्टयाभावात् न दोष इत्युक्त्यैकरूपेणोच्यता- प्रथमा ] जयाऽलङ्कृतः १२६ अस्मन्मते तादृशसमभिव्याहारघटितसामग्ऱ्या राजस्वत्वा- भाववान पुरुष इत्यादिबाधाभावघटिततया तत्सत्त्वे विशेष्यता- वच्छेदकादिप्रकारकनिश्चयरूपकारणविरहादेव तथाविधविशिष्ट- वैशिष्ट्यावगाहिप्रत्यक्षोत्पत्त्यसंभवेन तादृशसामग्यास्तत्र प्रति- बन्धकत्वस्याकल्पनात् । अन्यादृशप्रत्यक्षस्थलीयप्रतिबन्धकतया च न त्वन्मते निर्वाहः। अन्यत्रान्यविधप्रत्यक्षेच्छानामुत्तेजकतया न त्वन्मते निर्वाह इति । संसर्गतावादिमते इत्यर्थः । न च विभिन्न- विषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वं घटवद्भुतलमित्यादिप्रत्यक्षत्वावच्छिन्नं प्रति कल्पनमुभयो- रावश्यकमिति तादृशप्रतिबन्धकतामादायैव निर्वाहे किं गौरवमिति चेत्स- त्यम् । तथा सति समानविषयकप्रत्यक्षस्य यत्किञ्चिदपेक्षविभिन्नविषयकता- दृशसामग्नया अपि प्रतिबध्यत्वापत्तेः । एवञ्च नामोच्चारणपूर्वकं प्रतिबन्ध- कल्पनमावश्यकमिति तादृशविशिष्टबुद्धि प्रति प्रतिबन्धकत्वं भवतामधिक- मिति दिक् । स्वजन्यशाब्दबोधाविषयविषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वं घटवद्भूतले पट- वद्भूतलमित्यादिनाना प्रत्यक्षत्वावच्छिन्नं प्रति अनुगतरीत्या प्रतिबन्धकत्व- कल्पनमस्माकं भवताञ्चावश्यकमेवेति राजनिरूपितस्वत्वाभाववान् पुरुषः सुन्दर इत्यादिप्रत्यक्षस्यापि प्रतिबद्धयतावच्छेदकाक्रान्ततया तादृशप्रतिबद्धय- प्रतिबन्धकभावेनैवेष्टसिद्धिरिति कथन्न निर्वाह इति वाच्यम् । यतो हि विभिन्नविषयकशाब्दसामग्रयाः प्रत्यक्षसामग्याश्च सत्त्वे प्रत्यक्षं जायता- मिति वक्तव्यम् । घटवद्भूतलमित्येतादृशप्रत्यक्षसामग्रीसद्भावे तादृशप्रत्यक्षे- च्छायाञ्च सत्यां पटवद्भूतलमित्येतादृशप्रत्यक्षसामग्रयाश्चावस्थानम् । न तु तादृशप्रत्यक्षेच्छा चास्ति । तत्र घटवद्भूतलं पटवद्भूतलमित्येतादृशसमूहाल- १३० व्युत्पत्तिवादः [ कारके मितीच्छायाञ्च सत्यां प्रत्यक्षमेव भवति प्रत्यक्षं विना इच्छाविषयासिद्धेः। उक्तानुगतरूपेण शाब्दसामग्रयाः प्रतिबन्धकताकल्पनायान्तु प्रत्यक्षं दुरु- पपादमेव स्यादिति घटवद्भूतलमित्यादिप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्री घटवद्भूतलमित्यादिप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिकेति विशिष्यैव प्रतिबध्यप्रतिबन्धकभावः कल्पनीय इति राजनिरू- पितस्वत्वाभाववान् पुरुष इत्यादि प्रत्यक्षं प्रति प्रतिबन्धकताकल्पनं संसर्ग- तावादिनां गौरवमिति । यत्तु घटवद्भूतलमितिप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति वाक्य- जन्यशाब्दसामग्री विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिकेति अन्यदीयप्रत्यक्षस्थलीयप्रतिबन्धकतामादाय निरुक्तप्रत्यक्षस्यापि प्रतिबध्य- त्वमिति तदपि न । पटवद्भूतलमित्यादिप्रत्यक्षसामग्री राज्ञः पुरुष इति शाब्दसामग्री च यत्रास्ति तत्र पटवद्भूतलमिति प्रत्यक्षं जायतामितीच्छायां प्रत्यक्षं जायते । इदानीं हि घटवद्भूतलमित्यादिप्रत्यक्षेच्छाविरहविशिष्ट- राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाश्च सत्त्वेन प्रतिबन्धकसद्भावात् प्रत्यक्षत्वानापत्तेः । सामान्येन प्रत्यक्षेच्छाविरहविशिष्टशाब्दसामग्रयाः प्रति- बन्धकत्वमित्यपि न वक्तुं शक्यते, यद्विषयकप्रत्यक्षसामग्री तदन्यविषयक- प्रत्यक्षेच्छायामपि प्रत्यक्षापत्तेरिति नान्यदीयप्रत्यक्षस्थलीयप्रतिबन्धकता- मादाय संसर्गतावादिनां निर्वाह इति विशिष्य प्रतिबध्यप्रतिबन्धकभावकल्प- नायां गौरवमिति बोध्यम् । यदप्याहुः-स्वजन्यशाब्दबोधाविषयविषयकत्व- स्वसमानाधिकरणेच्छाविषयत्वाभाववत्त्वोभयसम्बन्धेन स्वविशिष्टप्रत्यक्ष- त्वावच्छिन्नम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्ध- कत्वमित्यनुगमसम्भवस्तथा च यत्र विभिन्न विषयकप्रत्यक्षसामग्री शाब्द- सामग्री चास्ति तत्र चासत्यां प्रत्यक्षेच्छायां शाब्दबोध एव, न प्रत्यक्षं तस्य । म्बनात्मकप्रत्यक्षन्न भवति। राज्ञः पुरुप इत्येतद्वाक्यजन्यशाब्दसामग्रीकाले पट- वद्भूतलमित्येतादृशप्रत्यक्षस्य बाधात् । किन्तु घटवद्भूतलमित्येतादृशप्रत्यक्ष- प्रथमा ] जयाऽलङ्कृतः निरुक्तसम्बन्धेन, शाब्दसामग्रीविशिष्टत्वेन तं प्रति तस्याः प्रतिबन्धकत्वात् । यत्र च प्रत्यक्षेच्छा तत्र स्वसमानाधिकरणेच्छाविषयत्वमेव प्रत्यक्षस्येति न तत्र तं प्रति तादृशसामग्रयाः प्रतिबन्धकत्वमिति प्रत्यक्षमेव न शाब्दबो- धः । एवञ्च राजनिरूपितस्वत्वाभाववान् पुरुष इति प्रत्यक्षस्यापि निरु- क्तद्वयसम्बन्धेन शाब्दसामग्रीविशिष्टत्वात् तम्प्रत्यपि शाब्दसामग्रयाः प्रति- बन्धकत्वेन प्रत्यक्षवारणसम्भवान्न विशिष्य तादृशप्रत्यक्षम्प्रति शाब्दसाम- ग्रयाः प्रतिबन्धकत्वकल्पनमिति न संसर्गतावादिनामपि गौरवमिति तदपि न । यत्र निरुक्तशाब्दसामग्री प्रत्यक्षसामग्रीचास्ति चैत्रस्य मयि प्रत्यक्ष जायतामितीच्छास्ति तत्र चैत्रवृत्तीच्छाया अपि स्वाधिकरणकालवृत्तित्वेन शाब्दसामग्रीसमानाधिकरणतादृशेच्छाविषयत्वमेव प्रत्यक्षस्येति इच्छाविष- यत्वाभाववत्वरूपसम्बन्धासंघटनात् सामग्रीविशिष्टत्वाभावेन निरुक्तप्रति- बध्यप्रतिबन्धकभावानाक्रान्ततया तादृशेच्छाया अप्युत्तेजकत्वापत्तेः । इष्ट- न्तु नोत्तेजकत्वं प्रत्यक्षेऽपि तस्येच्छायाविषयासिद्धेः । भूतकालिकेच्छाया अप्युक्तरीत्या उत्तेजकत्वापत्तेश्च यद्यपि स्वाधिकरणकालवृत्तित्वस्वाधि- करणदेशवृत्तित्वोभयसम्बन्धेन सामग्रीविशिष्टत्वस्यैव स्वसमानाधिकरण- त्वेनादोषस्तथापि यत्र विभिन्नविषयकप्रत्यक्षसामग्रीशाब्दसामग्रीज्ञानजा- यतामितीच्छा चास्ति तत इच्छायाः प्रत्यक्षोत्तेजकत्वं नास्ति तं विनाऽपि विषयसिद्धेः । इदानीञ्च सामग्रीविशिष्टतादृशेच्छाविषयत्वमेव प्रत्यक्षस्येति इच्छाविषयत्वाभाववत्वाभावात् तादृशप्रत्यक्षम्प्रति प्रतिबन्धकत्वाभावात् प्रत्यक्षापत्त्या तादृशेच्छाया अप्युत्तेजकत्वापत्तेस्तादृशरीत्यानानुगमसम्भवः । न च स्वविशिष्टेच्छाविषयत्वाभाववत्वस्य स्थाने स्वविशिष्टेच्छानिरूपित- प्रत्यक्षत्वावच्छिन्नविषयत्वाभाववत्वस्य निवेशेनादोषः। ज्ञानञ्जायतामिती- मेव भवति । तत्राधुना प्रत्यक्षेच्छाविरहविशिष्टाभावेन तादृशशाब्दसाम- ग्रयाः प्रतिबन्धकत्वाभावात् पटवद्भूतलमित्येतादृशप्रत्यक्षमपि स्यात् । न च राज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्री स्ववृत्तिविरहप्रतियोगिनीच्छा- १३२ व्युत्पत्तिवादः [ कारके च्छीयज्ञानत्वावच्छिन्नविषयतायाः प्रत्यक्षे सत्त्वेऽपि प्रत्यक्षत्वावच्छिन्नविष- यता नास्तीति सम्बन्धघटनात् निरुक्तप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसाम- ग्रयाः प्रतिबन्धकत्वात् । नन्वेवमपि यत्र राज्ञः पुरुष इत्यादिवाक्यजन्य- शाब्दसामग्री घटवद्भूतलमित्यादिप्रत्यक्षसामग्री चास्ति तत्र शाब्देतरज्ञा- नजायतामितीच्छायां प्रत्यक्षमेव जायत इतीच्छाया उत्तेजकत्वात् । सा- म्प्रतञ्च शाब्दसामग्नीविशिष्टेच्छानिरूपितशाब्देतरत्वावच्छिन्नैव विषयता न तु प्रत्यक्षत्वावच्छिन्नेति प्रत्यक्षत्वावच्छिन्नविषयत्वाभाववत्वस्य प्रत्यक्षे सत्त्वात् । तादृशप्रत्यक्षत्वावच्छिन्नं प्रत्यपि राज्ञः पुरुष इत्यादिवाक्यजन्य- शाब्दसामग्रयाः प्रतिबन्धकत्वापत्तिरिति चेन्न । स्वजन्यशाब्दबोधावि- षयविषयकत्वस्वजन्यशाब्दबोधावृत्तित्व-स्वविशिष्टेच्छानिरूपितत्वोभयसम्ब- न्धेन स्वविशिष्टविषयत्वाभाववत्वोभयसम्बन्धेन स्वविशिष्टप्रत्यक्षत्वाव- च्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनेन शाब्देतरज्ञानञ्जायता- मितीच्छीयविषयताया निरुक्तोभयसम्बन्धेन सामग्रीविशिष्टत्वेन तादृश- विषयतावत्वस्यैव प्रत्यक्षे सत्त्वेन निरुक्तोभयसम्बन्धेन सामग्रीविशिष्टत्वा- भावात् तादृशप्रत्यक्षम्प्रत्यप्रतिबन्धकत्वेनादोषात् । न च यत्र शाब्दसामग्री प्रत्यक्षसामग्री च तत्र प्रत्यक्षाभावो जायतामितीच्छायामपि शाब्दबोध एव न प्रत्यक्षमिति सिद्धान्तः । स चेदानीमनुपपन्नस्तादृशेच्छीयप्रत्यक्षवृत्ति- विषयतायां राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रीजन्यशाब्दबोधवृत्तित्व- स्वविशिष्टेच्छानिरूपितत्वयोस्सत्त्वात् स्वविशिष्टत्वे न स्वविशिष्टविषयत्वा- भाववत्वरूपसंबन्धाघटनात् स्वविशिष्टत्वाभावात्तादृशप्रत्यक्षम्प्रति शाब्द- सामग्रयाः प्रतिबन्धकत्वानापत्त्या प्रत्यक्षस्य दुर्वारत्वादिति वाच्यम् । स्वविशिष्टमुख्यविशेष्यत्वाभाववत्वस्य सम्बन्धत्वेनादोषात् । प्रकृतविषय- विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिका स्वविषयत्वस्वसमानकालीन- सामग्रीनिरूपकत्वैतदुभयसबन्धेनैति वाच्यम् । प्रत्यक्षस्य प्रतिबध्यत्वात् । इच्छाविशिष्टतादृशप्रत्यक्षाभावात् । एवञ्च घटवद्भूतलमित्येतादृशप्रत्य- ।

प्रथमा ] जयाऽलङ्कृतः ताया अभावनिष्ठविशेष्यतानिरूपितप्रकारतासामानाधिकरण्येन मुख्यत्वा- भावात् । नन्वेवमपि प्रतियोगितासम्बन्धेनाभावविशिष्टं प्रत्यक्षजायता- मितीच्छायां शाब्दसामग्रयाः प्रतिबन्धकत्वानापत्त्या प्रत्यक्ष दुर्वारमिति चेन्न । अभावनिष्ठविषयतानिरूपितप्रतियोगित्वनिष्ठविषयतानिरूपितत्वाभाववती या स्वविशिष्टाविषयता तद्भाववत्वस्यैव प्रवेशेनादोषात् । यत्तु अन्यस्य प्रत्यक्षसामग्री शाब्दसामग्री चास्ति अन्यस्य प्रत्यक्षजायतामितीच्छा तादृ- शेच्छीयविषयतायाः सामग्रीविशिष्टत्वात् तदभावस्वत्वाभावात् प्रत्यक्ष प्रति प्रतिबन्धकत्वानापत्तिः। एवं मासाचं प्रत्यक्षजायतामितीच्छाया- मपीति वदन्ति----तन्न युक्तम् । अन्यवृत्तित्वविशिष्टे मासोत्तरत्वविशिष्टे च प्रत्यक्षे तादृशविषयता च यस्य प्रत्यक्षसामग्री तदीयप्रत्यक्षस्य तत्कालिकस्य तादृशविषयत्वाभाववत्वमेवेति स्वविशिष्टत्वात् तादृशप्रत्यक्षप्रतिबन्धकत्व- सिद्धेः । वस्तुतस्तु यत्र घटवद्भूतलमिति प्रत्यक्षसामग्री अनुमितिसामग्री राज्ञः पुरुष इतिवाक्यजन्यशाब्दसामग्री चास्ति शाब्देतरज्ञानञ्जायतामिती- च्छायामनुमित्याऽपीच्छाया विषयसिद्धया इच्छाया अनुत्तेजकतया शाब्द- बोध एव, न प्रत्यक्षादिकं, तच्चेदानीमनुपपन्नन्तादृशप्रत्यक्षस्य स्वविशिष्ट- विषयतावत्वेन सम्बन्धासंघटनात् तत्प्रत्यक्षम्प्रति प्रतिबन्धकत्वानापत्तेरिति नानुगमसम्भवः । तथा च राजनिरूपितस्वत्वाभाववान् पुरुषः सुन्दर इति प्रत्यक्षत्वावच्छिन्नम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्ध- कत्वकल्पनं संसर्गतावादिनां गौरवमिति सुधियो विभावयन्तु । प्रकारता- वादिनान्तु नेति मूल एवोपपादितमिति तत्रैव द्रष्टव्यम्। स्वोत्तरत्वसम्बन्धेन स्वसमानाधिकरणेच्छाविशिष्टान्यस्वजन्यशाब्दबोधाविषयकप्रत्यक्षत्वावच्छि- नम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वमित्यनु- क्षत्वावच्छिन्नं प्रति स्वत्वसंसर्गावच्छिन्न राजत्वावच्छिन्नप्रकारतानिरूपित- पुरुषत्वावच्छिन्नविशेष्यताकशाब्दसामग्रीत्वेनैव प्रतिबन्धकताकल्पनात्। एकः प्रतिबध्यप्रबन्धकभावः संसर्गातावादिमतेऽधिकं इत्यवधेयम् ।

१३४ व्युत्पत्तिवादः [ कारके गतरीत्या प्रतिबध्यप्रतिबन्धकभावकल्पनायान्तु अन्यप्रत्यक्षस्थलीयप्रतिबन्ध- कतामादायैव निर्वाह इति मूलञ्चिन्त्यमेवेति तत्त्वम् । यत्तु स्वत्वसम्बन्धेन राजाभाववान् पुरुषः सुन्दर इति प्रत्यक्षत्वावच्छि- नम्प्रति शाब्दसामग्नयाः प्रतिबन्धकत्वकल्पनं प्रकारतावादिनामप्यावश्यक- मित्युभयं समानमेवेति- तत्प्रतिदाने निरूपितत्वसम्बन्धेन राजाभाववत्स्वत्वं प्रमेयमित्यादि- प्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनायाः संसर्गता- वादिनामावश्यकतयोपदर्शितविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षत्वावच्छिन्नम्प्रति प्रतिबन्धकत्वकल्पनाधिक्येन संसर्गतावादिनामेव गौरवात् । यदप्याहुः स्वत्वप्रकारकबोधोपगमे शाब्दसामग्रीकुक्षौ निरूपितत्वसम्ब- न्धेन राजाभाववत्स्वत्वमिति बाधनिश्चयाभावस्य राजनिरूपितस्वत्वा- भाववान् पुरुष इति बाधनिश्चयाभावस्य च प्रवेशः संसर्गतावादिनां स्वत्व- सम्बन्धेन राजाभाववान् पुरुष इत्येकबाधनिश्चयाभावस्यैवेति विभिन्न विषयक- प्रत्यक्षम्प्रति सामग्रयां प्रतिबन्धकत्वे प्रतिबन्धकतावच्छेदककोटौ प्रत्यय- जन्यस्वत्वाद्युपस्थितेः उभयबाधनिश्चयाभावस्य च प्रकारतावादिनां प्रवेशः । संसर्गतावादिनां चैकबाधनिश्चयाभावस्यैवेति प्रकारतावादिनामेव गौरव- मिति तदपि न । स्वत्वसम्बन्धेन राजाभावव्याप्यराजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावस्य प्रकारतावादिनां राजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावप्रवेशेनैव गतार्थतया स्वत्वसम्बन्धेन राजा- भावव्याप्यराजनिरूपितस्वत्वाभाववान् पुरुष इति निश्चयकाले शाब्दबोधा- नुपपत्त्या संसर्गतावादिनां च तदभावस्यापि गुरुधर्मकस्य निवेशनीयतया लाघवानवकाशात् । न च राजनिरूपितस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन ननु योग्यताज्ञानादिघटितशाब्दसामग्री शाब्दजननी भवति । जनकता च न तत्र समुदायत्वेन वक्तुं शक्या समुदायत्वस्यापेक्षाबुद्धिविशेषविषयत्व- रूपत्वेन तादृशापेक्षाबुद्धिमन्तराऽपि कार्योत्पत्तेरिष्टत्वात् । एवञ्च योग्य- प्रथमा ] जयाऽलङ्कृतः १३५ राजाभाववान् पुरुष इति निश्चयस्य व्याप्यवत्तानिश्चयमुद्रया प्रकारता- वादिनां मते प्रतिबन्धकत्वेन तदभावस्यापि शाब्दसामग्रीकोटौ निवेशनीयतया गौरवम् । संसर्गतावादिनां स्वत्वसम्बन्धेन राजाभाववान् पुरुष इति बाध- निश्चयाभावनिवेशेनैवात्रापि निर्वाहादिति वाच्यम् । यतो हि व्यापकसामा- नाधिकरण्यं व्याप्तिः व्यापकत्वं च यस्य व्याप्यत्वं विवक्षितन्तत्समानाधि- करणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वन्तथा च स्वत्वसंसर्गकराज- प्रकारकपुरुषत्वावच्छिन्नविशेष्यकबुद्धौ स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताक- राजस्वत्वाभावसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकं यत्स्वत्व- सम्बन्धावच्छिन्नप्रतियोगिताकराजाभावत्वन्तद्वत्समानाधिकरणराजनिरूपि- तत्वाभावत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयः प्रति- बन्धक इति तादृशनिश्चयत्वावच्छिन्नप्रतियोगिताकाभावः शाब्दसामग्रयां प्रवेशनीयः संसर्गतावादिनेति । विभिन्नविषयकप्रत्यक्षत्वावच्छिन्न प्रतिबध्यता- निरूपितप्रतिबन्धकतावच्छेदककोटौ राजस्वत्वाभावत्वरूपस्वत्वघटितगुरु- धर्मस्य द्विधा प्रवेशः । राजस्वत्वप्रकारकबुद्धौ तु स्वत्वसम्बन्धावच्छिन्नप्र- तियोगिताकराजाभाव समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकराज- स्वत्वाभावत्ववत् समानाधिकरणस्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजा- भावत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयस्य प्रतिबन्ध- कत्वेन तदभावस्यैव शाब्दसामग्रयां प्रवेश इति विभिन्न विषयकप्रत्यक्षप्रति- बन्धकतावच्छेदककोटौ राजाभावत्वरूपलघुधर्मस्य द्विधा भानमिति महल्- ताज्ञानादिविशिष्टाकाङ्क्षाज्ञानत्वेन कारणताऽऽकाङ्क्षाज्ञानादिविशिष्टयो- ग्यताज्ञानत्वेन वा कारणता । एवञ्च विनिगमनाविरहात् सामग्रीघटक- यावतामपि पर्यायेण कारणतावच्छेदकत्वं सिद्धयति । एवं स्थिते प्रकारतावादिमते योग्यताज्ञानमेव द्विविधम् । निरूपि- तत्वसम्बन्धावच्छिन्नराजाद्यभाववत्तानिश्चयरूपवाधाभावो योग्यतास्वरूप- संसर्गावच्छिन्नस्वत्वत्वाद्यवच्छिन्नस्वत्वाद्यभाववत्तानिश्चयरूपबाधाभावो यो- व्युत्पत्तिवादः [ कारके लाघवं प्रकारतावादिनाम् । न च स्वत्वप्रकारकबुद्धौ निरूपितत्वसम्बन्धा- वच्छिन्नप्रतियोगिताकराजाभाववत् स्वत्वमित्यपि प्रतिबन्धकम् । एवं तद- भावव्याप्यवत्तानिश्चयमुद्रया निरूपितत्वसम्बन्धावच्छिन्नराजाभावव्याप्यरा- जनिरूपितत्वाभाववत्स्वत्वमिति तादृशाभावव्याप्यघटवत्स्वत्वम् । एवं तादृ- शाभावव्याप्यपटवत् स्वत्वमित्याद्यनन्तानन्तज्ञानम्प्रतिबन्धकमिति सर्वेषाम- भावस्य शाब्दसामग्रयां प्रवेशः । एवं राजनिरूपितस्वत्वाभावव्याप्यस्वत्व- सम्बन्धन राजाभाववान् पुरुष इति तादृशाभावव्याप्यघटवान् पटवान् इत्याद्यनन्तानन्तज्ञानं प्रतिबन्धकमित्येतेषामप्यभावः शाब्दसामग्रयां प्रवेश- नीय इति द्विविधानन्तानन्तानामभावानां शाब्दसामग्रयां प्रवेश आवश्यकः प्रकारतावादिनामिति विभिन्न विषयकप्रत्यक्षप्रतिबन्धकतावच्छेदककोटौ स- वेषामेवानन्तानन्ताभावानां प्रवेशः । स्वत्वसंसर्गकबोधे च स्वत्वसम्बन्धेन राजाभावव्याप्यराजस्वत्वाभाववान् पुरुषः एवं तादृशाभावव्याप्यघटवान् पटवानित्येकविधमेवानन्तानन्तज्ञानं प्रतिबन्धकमित्येकविधानामेवानन्ता- नन्ताभावानां शाब्दसामग्रयां प्रवेशः, विभिन्न विषयकप्रत्यक्षप्रतिबन्धकता- वच्छेदककोटौ प्रवेशश्चेति लाघवेन प्रकारतावादिनां महद्गौरवम् । यद्यपि निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्यत्वावच्छिन्नप्रकार- ताकस्वत्वत्वावच्छिन्नविशेष्यताकनिश्चयाभावस्य स्वरूपसम्बन्धावच्छिन्न- प्रतियोगिताकराजस्वत्वाभावव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्न- विशेष्यताकनिश्चयाभावस्य च प्रवेशेन सर्वेषामेवाभावानामनन्तानामनुगम- सम्भवेनोभयविधानामेव भावानां शाब्दसामग्रयां प्रवेशः प्रकारतावादिमते तथापि संसर्गमतापेक्षयाऽस्य गुरुत्वम् । संसर्गतावादिनामपि स्वत्वसम्बन्ध- ग्यता एवं योग्यताया द्वैविध्यं ज्ञानस्य द्वैविध्यं सुतराम् । संसर्गतावादिमते तु स्वत्वसंसर्गावच्छिन्न राजाद्यभाववत्तानिश्चयरूपबाधाभावयोग्यता ज्ञान- स्यैव कारणत्वेनेति एक लाघवं किञ्च उपस्थिते कारणत्वात् । सा च प्रकार- तावादिमते राजपदजन्यराजत्वावच्छिन्ना ङस्पदजन्यस्वत्वत्वावच्छिन्ना पुरुष- प्रथमा ] जयाऽलङ्कृतः त्त्वावच्छिन्नप्रतियोगिताकराजाभावव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वाव- च्छिन्नविशेष्यताकनिश्चयाभावप्रवेशेनैवोक्तानन्तानन्ताभावानामनुगमसम्भ- वेन तन्मते एकविधाभावस्यैव प्रवेशः । वस्तुत एवमपि नानुगमसम्भवः । व्या- पकत्वस्य व्यापकसामानाधिकरण्यरूपतया सर्वेषां पदार्थानां प्रवेशस्यावश्य- कत्वेन गौरवस्य तदवस्थत्वात् । तस्माद्राजसुत्वप्रकारकशाब्दबुद्धित्वावच्छिन्न- प्रतिबध्यतानिरूपितप्रतिबन्धकताश्रयसामान्याभावत्वेन सर्वेषामेवाभावानां प्रवेशसम्भवादेकरूपेण सम्भवत्यनुगम इति विचारणीयम् । प्रकारतावादिमते चोक्तरीत्या द्विविधाभावस्येति लाघवानवकाशादिति वाच्यम् । यतो हि संसर्ग- तावादिमते निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्स्वत्वं प्रमे- यम् । निरूपितत्वसम्बन्धेन राजाभावव्याप्यराजनिरूपितत्वाभाववत्स्वत्वं प्रमेयम् । तादृशाभावव्याप्यघटवत्स्वत्वं प्रमेयम् । एवं तादृशाभावव्याप्यपट- वत्स्वत्वं प्रमेयम् । एवं राजस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुषः सुन्दरः । राजस्वत्वाभावव्याप्यघटवान् पुरुषः सुन्दरः । एवन्तादृशा- भावव्याप्यपटवान् पुरुषः सुन्दर इत्यादि द्विविधानन्तानन्तविभिन्नविषयक- प्रत्यक्षज्ञानम्प्रति राज्ञः पुरुष एतद्वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वकल्प- नमावश्यकम् । प्रकारतावादिमते च उक्तानन्तानन्तप्रत्यक्षकारणीभूतस्य विशेष्यतावच्छेदकप्रकारकज्ञानस्य निरूपितत्वसम्बन्धेन राजाभावव्याप्यरा- जनिरूपितत्वाभाववत् स्वत्वमित्याद्यनन्तानन्तरूपस्य व्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुष इत्याद्यनन्तानन्तरूपस्य निरूपि- तत्वसम्बन्धावच्छिन्नप्रतियोगिताकनिश्चयरूपबाधघटिततया राजस्वत्वाभा- वव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयरूपबाधघ- राजस्वत्वाभाव- पदजन्यपुरुषत्वावच्छिन्नेति गौरवम् । संसर्गतावादिमते तु राजपदजन्य- राजत्वावच्छिन्ना पुरुषपदजन्यपुरुषत्वावच्छिन्ना चेति द्वितीयं लाघवम् । किं बहुना योग्यताज्ञानोपस्थित्याकाङ्क्षारूपकारणस्य प्रकारतावादिमते कारणतावच्छेदकभेदात् षड्विधत्वे सामग्रयाश्च तादृशकारणविशिष्टरू- १३८ व्युत्पत्तिवादः [ कारके ताशेच्छायामसत्यां चोपदर्शितविशिष्टवैशिष्टयबोधत्वप्रकारेच्छा- बलादुपदर्शितविशिष्टवैशिष्ट्यबोधोपपत्तये अन्यादृशविषयताया एव प्रतिबध्यतावच्छेदकत्वोपगमावश्यकत्वात्। न च स्वत्वादेः प्रकारतामतेऽपि स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्य- भावविशिष्टपुरुषादिवैशिष्ट्यबोधे तथाविधसामग्याः प्रतिबन्धक- ताधिक्येन गौरवम् । तत्संसर्गतामते तादृशसामग्यः स्वत्वादि- सम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभाववत्तानिश्चयाभावघटित- तया तत्सत्त्वे कारणविरहादेव तथाविधप्रत्यक्षवारणसंभवादिति टिततया तादृशबोधाभावघटितशाब्दसामग्रीकाले निरुक्तानन्तानन्तप्रत्यक्ष- कारणीभूतनिरुक्ततत्तद्रूपविशेष्यतावच्छेदकप्रकारकज्ञानस्याभावात् कारणा- भावादेव तादृशानन्तानन्तप्रत्यक्षानापत्त्या द्विविधतादृशानन्तानन्तप्रत्यक्षम्प्रति प्रतिबन्धकत्वकल्पनन्नावश्यकम्, किन्तु स्वत्वसम्बन्धेन राजाभावव्याप्यराज- स्वत्वाभाववान् पुरुषः सुन्दर एवं तादृशाभावव्याप्यघटवान् पुरुषः सुन्दरः पटवान् पुरुषः सुन्दर इत्याद्येकविधानन्तानन्तप्रत्यक्षं प्रत्येवेति महल्लाघव- मित्याहुः। संसर्गतावादिनां नैतत्प्रतिबन्धकत्वकल्पनमावश्यकमेतत्प्रत्यक्ष- कारणीभूतविशेष्यतावच्छेदकप्रकारकज्ञानस्य स्वत्वसम्बन्धेन राजाभाव- व्याप्यराजस्वत्वाभाववान् पुरुष इत्यादिरूपस्य बाधनिश्चयघटिततया तादृशबाधाभावपटितशाब्दसामग्रीकाले कारणाभावादेव प्रत्यक्षासम्भवेन शाब्दसामग्रचाः प्रतिबन्धकत्वकल्पनाया अनावश्यकत्वादित्यपि बोध्यम् । च पत्वात् तेषां गणनया विंशत्यधिकसप्तशतसंख्याककारणानि भविष्यन्ति । संसर्गतावादिमते तु चतुर्विंशति कारणानि भवन्तीतिमहल्लाघवं किम्पुनः कारणान्तरविशिष्टेन तेन सह गणनयेत्येतदेव संसर्गतावादिमतमुपपादयति- न चेत्यादिना ।

प्रथमा ] जयाऽलङ्कृतः १३६ वाच्यम् । मन्मते ताशप्रत्यक्ष प्रति तथाविधसामग्याः प्रति- बन्धकताधिक्येऽपि निरूपितत्वादिसम्बन्धावच्छिन्नप्रतियोगि- ताकराजाद्यभावविशिष्टस्वत्वादिवैशिष्ट्यबोधे तथाविधसामग्यः प्रतिबन्धकताऽकल्पनेन तदंशे साम्यात् । तथा च पूर्वोक्तराजस्व- त्वाभाववान् पुरुषः सुन्दर इत्यादिविशिष्टवैशिष्ट्यप्रत्यक्ष प्रति राज्ञः पुरुषः इत्यादिसामग्या प्रतिबन्धकत्वकल्पनं संसर्गता- वादिनां मतेऽधिकमिति । न च स्वत्वादेः प्रकारतामते घटप्रत्य- क्षादिकं प्रति तादृशसामग्रीप्रतिबन्धकतायां विभक्तिजन्यस्वत्वाधु- पस्थितिनिवेशाधिक्येन राजस्वत्वाभाववान्पुरुष इत्यादिबाधाद्य- भावनिवेशाधिक्येन च गौरवम् । अस्मन्मते तादृशोपस्थितितथा- विधबाधाभावादीनां तथाविधवाक्यजन्यशाब्दबोधं प्रत्यहेतुतया ताशवाक्यघटितसामग्रीप्रतिबन्धकतायां तेषामनिवेशादिति वाच्यम्। भवन्मतेऽपि स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाव- व्याप्यराजस्वत्वाभाववान्पुरुष इत्यादिनिश्चयस्य तदभावव्याप्यव- त्तानिश्चयमुद्रया तादृशवाक्यजन्यशाब्दधीविरोधितया तादृशनि- श्वयाभावस्य तथाविधसामग्रीप्रतिवन्धकतायां निवेशनस्याधिक्येन लाघवानवकाशात् । मन्मते राजस्वत्वाभाववान पुरुष इत्यादिबाधकामावनिवेशेनैव तादृशनिश्चयकाले प्रत्यक्षाभ्युपपत्तेस्तभावानिवेशात् । यत्तु राज्ञः । संसर्गतावादिमतं खण्डयन् प्रकारतावादिमतमुपपादयति-भवन्म- तेऽपोत्यादिना । अस्यायं भावः । बाधाभावो योग्यताबाधश्च तद्वत्ताबुद्धि प्रति तदभाववत्तानिश्चयः तदभावप्याप्यवत्तानिश्चयश्चेति प्रकारतावादिमते स्वरूपसम्बन्धावच्छिन्न राजनिरूपितस्वत्वत्वाद्यवच्छिन्नप्रकारतानिरूपितपुरुष- १४० व्युत्पत्तिवादः [ कारके पुरुष इत्यादी राजस्वत्ववान् पुरुष इत्याद्यन्वयबोधोपगमे राजकीयं स्वत्वं राजस्वत्ववान पुरुष इत्याकारकद्विविधानुमितेरेव तदतिरि- ताविषयकत्वेन तादृशानुमितिं प्रति प्रत्येकं तादृशवाक्यघटितसा- मग्यः प्रतिबन्धकत्वद्वयम् । अस्मन्मते च तादृशानुमित्योस्तथाविधवाक्यजन्याद्राजकीयः पुरुष इत्येतादृशबोधादतिरिक्तविषयकतया तत्र तादृशसामग्याः त्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नं प्रति स्वरूपसम्बन्धावच्छिन्नराजनि- रूपितस्वत्वत्वाद्यवच्छिन्नप्रतियोगिताकाभाववत्तानिश्चयः । तादृशाभावव्या- प्यस्वत्वसंसर्गावच्छिन्न राजाद्यभाववत्तानिश्चयश्च बाधस्तदभावो योग्यता। एवञ्चात्र तदभावव्याप्यवत्तामुद्रया स्वत्वसंसर्गावच्छिन्नराजाद्यभावस्य 'अनुमितौ शाब्दसमानविषयकत्वं शाब्दीयविषयतानवच्छेदकधा- वच्छिन्नविषयताया अनिरूपकत्वम् । वस्तुतस्तु शाब्दीयविषयतावच्छेदकता- त्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिता- कपर्याप्तिकावच्छेदकतानिरूपकविषयतानिरूपकत्वमिति । अस्मन्मतेऽपोति । अत्रेदं तत्त्वं-समानविषयकानुमितित्वावच्छिन्नं प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिकेत्यत्र समानविषयकत्वस्य यद्यतिरिक्तविषयकत्वाभावत्वरूपत्वं चेत् तदा राज्ञः पुरुष इत्येतद्वाक्य- जन्यशाब्दसामनयाः राजकीयं स्वत्वं राजस्वत्ववान् पुरुष इत्याकारक- द्विविधानुमितेः प्रतिबन्धकता भवति समानविषयकत्वात् । यदि तु समानविषयकत्वं नाम अन्यूनानतिरिक्तविषयकत्वमित्युच्यते तदा न राजकीयं स्वत्वं इत्याकारिका न वा राजस्वत्ववान् पुरुष इत्याकारिका वा अनुमितिः प्रतिबन्धिका। अनुमितेः न्यूनविषयताकत्वात् । एवञ्च तादृशानुमितिद्वयं प्रकारतावादिमतेऽपि भवत्येवेति गम्यते गदाधरभट्टा- चार्याभिप्रायो रमणीयो मया ।

प्रथमा ] जयाऽलङ्कृतः १४१ प्रतिबन्धकत्वकल्पनं नास्ति, तथाविधानुमितितथाविधशाब्दसा- मग्योश्च सत्त्योरनुमितेरेवोत्पत्तेः, अपि तु राजकीयः पुरुष इत्या- कारकस्वत्वसंसर्गकैकविधानुमितिं प्रत्येव तादृशसामग्याः प्रति- बन्धकत्वमेकं कल्पनीयमिति लाघवमिति । तदप्यकिचित्करम् । भवन्मते यत्र यादृशानुमितिः स्वीक्रियते अरमन्मतेऽपि तत्र तादृशानुमितेः स्वीकरणीयेत्यनुमितौ शाब्दसामग्यः प्रतिबन्ध- कत्वसाम्यात, उपदर्शितस्थले भवद्भिरनुमितिः स्वीक्रियते अस्मा- भिरपि स्वीक्रियते, कुतः प्रतिबन्धकताद्वयकल्पनमिति भवतापि तादृशशाब्दं प्रति तादृशानुमितिद्वयसामग्रीद्वयस्य प्रतिप्रबन्धकताया वाच्यतया साम्याञ्च । एवं राजपुरुष इत्यादिसमासवाक्यात्स्वत्व- संसर्गकशाब्दबोधस्वीकारेतादृशशाब्दबोधसामग्या:स्वत्वसंसर्गेण राजविशिष्टपुरुषतात्पर्यज्ञानादिघटिताया भिन्नविषयकप्रत्यक्षादिक प्रति प्रतिबन्धकत्वाधिक्येन गौरवात् । तत्र राजसम्बन्धिप्रकार- काभेदान्वयबोधस्वीकार एवोचितः। न च भवन्मतेऽपि ताहशा- भेदान्वयबोधसामग्यः प्रतिबन्धकताधिक्येन गौरवमिति वाच्यम्। राजसम्बन्धिनि स्वारसिकलक्षणाग्रहदशायामभेदसम्बन्धेन राज- सम्बन्धिविशिष्टपुरुषे तात्पर्यग्रहसत्त्वे भवनमतेऽपि कर्मधारयत्वेना- भिमतात्तथाविधसमासवाक्यात्तादृशशाब्दबोधस्वीकारस्यावश्यक- तया ताशसामग्रीप्रतिबन्धकताया उभयमतसिद्धत्वात् । यत्तु दधि पश्य इत्यादौ लुप्तद्वितीयाविभक्तिस्मरणेन दधिकर्म- कदर्शनबोधवद्राजपुरुष इत्यादावपि लुप्तषष्ठीविभक्तिस्मरणेन राज- बाधत्वं स्थितम् । संसर्गतावादिमते तु स्वत्वसंसर्गावच्छिन्नराजाद्य- भावव्याप्यवत्तानिश्चयमुद्रया राजनिरूपितस्वत्वभावस्य बाधकत्वे स्वत्व- संसर्गेण राजाद्यभावापेक्षया राजनिरूपितस्वत्वाद्यभावस्य गौरवग्रस्तत्वं १४२ व्युत्पत्तिवादः [ कारके सम्बन्धप्रकारकभेदान्वयबोधनिर्वाहे राजसम्बन्धिनि निरूढलक्षणां स्वीकृत्याभेदान्वयबोधोपगमो निरर्थकः । न च षष्ठीतत्पुरुषादिस्थ- लेऽपि लुप्तविभक्तिस्मरण एव चेदन्वयबोधस्तदा ऋद्धस्य राजमातङ्गा इत्यादिप्रयोगापत्तिस्तत्र मातङ्गादौ राजादीनामन्वयबोधोपपत्तये राजादिपदोत्तरषष्टयादिविभक्त्यनुसंधानस्यावश्यकत्वेन समान- विभक्तिकतया राजादौ ऋद्धादिपदार्थस्याभेदान्वयबोधसम्भवादिति वाच्यम् । यतस्तत्र ऋद्धराजादीनामभेदान्वयबोधानुपपत्त्या नाभियुक्तानामप्रयोगः, अपि तु समासाघटकपदसापेक्षतया राजपदस्यासामर्थ्यातिदेशात्समासासाधुत्वेन । तत्सापेक्षत्वं च तदर्थान्वितस्वार्थपरत्वं, स्वार्थश्च स्वीयवृत्तिग्रहविशेष्यः। अत एव शरैः शातितपत्रोऽयं चैत्रस्य दासभार्येत्यादौ न समस्यमानशातित- दासपदादेः सापेक्षता। तदर्थैकदेशशातनदासत्वादावेव शरकरण- कत्वचैत्रनिरूपितत्वादीनामन्वयात् । तदर्थान्वितेत्यत्राभेदान्वयो' वा निवेशनीय इति । तदसत्। स्वारसिकलक्षणाग्रहस्थलानुरोधेन' ताशसमभिव्याहारज्ञानादेस्तथाविध बोधजनकतायाः क्लृप्त- त्वात्तत्र निरूढलक्षणास्वीकारे गौरवाभावात् । यत्र 'राजपदस्य तत्राधिकपदार्थप्रवेशात् । न च प्रकारतावादिमते किं लाघवं संसर्गतावादि- मते तु तदभाववत्तानिश्चयमुद्रायां लघीयानभावः । तत्र तु तदभावव्याप्यव- 'इदन्तु न युक्तम् । पुरुषपुत्रैकदेशपुरुषादी राजादीनां स्वत्वसम्बन्धे- नान्वयतात्पर्य राज्ञः पुरुषपुत्र इत्यस्य साधुतापत्तेः । यत्र राजसम्बन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयवादिसिद्धतयेति पाठभेदः । राजसम्बन्ध्यभिन्न पुरुषेत्यधिकः पाठः क्वचित् । राजपदस्य प्रथमा ] जयाऽलङ्कृतः १४३ राजसम्बन्धिनि स्वारसिकलक्षणाग्रहस्तत्र ताशवोधस्योभयमत- सिद्धतया तादृशसमभिव्याहारज्ञानस्य राजसन्बन्ध्यभिन्नपुरुष- बोधे कारणतायाः क्लृप्तत्वात् , तयैव निर्वाहेण सर्वत्र लुप्त- विभक्तिस्मरणकल्पने मानाभावात् । न च स्वारसिकलक्षणाग्रह- स्थले तत्र तादृशान्वयबोधस्योभयवादिसिद्धत्वेऽपि निरूढलक्षणा- मते सम्बन्धितात्पर्यस्यानादित्वकल्पनागौरवम् । अनादितात्पर्य- विषयीभूतार्थनिष्ठलक्षणाया एव निरूढलक्षणात्वादिति वाच्यम् । राजपुरुष इत्यादिवाक्यजन्यशाब्दबोधात्पूर्वं नियमतो लुप्तविभक्ति- स्मरणकल्पनापेक्षया तात्पर्यस्यानादित्वकल्पनायां गौरवविरहा- दिति । न चैवं दधि पश्यतीत्यादावपि दध्यादिपदस्य दधिकर्म- कादौ लक्षणां स्वीकृत्य धात्वर्थेन समं तस्याभेदान्वयबोधोपपाद- नसम्भवात्तत्रापि लुप्तविभक्तिस्मरणकल्पनमनुचितमिति वाच्यम् । दध्यादिपदस्य दधिकर्मकादौ लक्षणाग्रहदशायामपि तस्य द्वितीये- तरविभक्त्यन्तत्वभ्रमदशायां दधिकर्मकः पश्यति, दधिकर्मकेण पश्यतीत्यादाविव उक्तस्थलेऽपि दधिकर्मकदर्शनान्वयबोधानुद- यात् । भवन्मते दधिकर्मकः पश्यतीत्यत्र दधि पश्यतीतिस्थलीय- दधिपदोत्तरपश्यतिपदत्वरूपाकाङ्क्षाज्ञानादिघटितसामग्रीसत्त्वाद्द- धिकर्मकदर्शनान्वयस्य बोधापत्तेर्द्वितीयान्तद्ध्यादिपदत्वावच्छिन्न- धर्मिकताहशधात्वादिसमभिब्याहारज्ञानस्य तादृशान्वयबोधे हेतु- ताया आवश्यकत्वात् । दधि पश्यतीत्यादौ लुप्तद्वितीयानुसंधान- स्यावश्यकत्वात् । राजसम्बन्धिपुरुषाद्यन्वयबोधे च राजपदाव्यव- .. त्तानिश्चयमुद्रायामिति चेन्न । व्याप्यत्वस्य स्वसमानाधिकरणात्यन्ताभा- वीयप्रतियोगितानवच्छेदकधर्मवत्सामानाधिकरण्यरूपत्वात् । व्याप्यस्य द्वि- वारभानात् । व्याप्यगौरवे गौरवं स्पष्टमेवेति चेन्न । प्रकारतावादिमतेऽपि १४४ व्युत्पत्तिवादः [ कारके हितोत्तरपुरुषादित्वप्रकारकज्ञानस्य हेतुतायाः स्वारसिकलक्षणाग्रह- स्थलानुरोधेनावश्यकल्पनीयतया राजपुरुष इत्यादौ राजादिपदस्य तृतीयाद्यन्तत्वभ्रमदशायां राजसम्बन्धिपुरुषाद्यन्वयबोधापत्त्यस- म्भवात् । तृतीयादिविभक्तथा व्यवधानात्। दधि पश्यतीत्यादौ दधिपदाव्यवहितोत्तरत्वप्रकारकधातुपदज्ञानस्य हेतुताया अक्लु- तत्वात् । पश्यति दधि इव पश्यति चैत्रो दधि इत्यादावपि दधि- कर्मकदर्शनान्वयबोधात् तादृशज्ञानहेतुताया अशक्यकल्पनीय- त्वाच्चेति । तण्डुलं पचतीत्यादौ तण्डुलादिपदस्यैव तण्डुलादिक- मके लक्षणा विभक्तिस्तु साधुत्वार्था । एवं राज्ञः पुरुष इत्यादाव- पि राजादिपदस्य सम्बन्ध्यादी लक्षणा विभक्तिः साधुत्वार्था । तत्तद्विभक्तयन्तसमभिव्याहारस्य तत्तल्लाक्षणिकार्थबोधनियामक- त्वान्नातिप्रसङ्गः । विभक्तरेव प्रकृत्यर्थविशेषितस्वार्थे लक्षणेति तु न सम्भवति । विभक्तेः कुत्रापि शक्तरक्लुप्ततया तत्र शक्यस- म्बन्धरूपलक्षणाया असम्भवात् । तण्डुलः प्रमेय इत्यादौ विभ- क्त्यर्थामिश्रितस्यैव प्रकृत्यर्थस्य भानात् । प्रकृतिशक्तेः स्वार्थे क्लृप्ततया तत्र लक्षणासम्भवादिति तु चिन्तनीयम् । राजादिपदस्य राजसम्बन्ध्यादौ शक्तत्वभ्रमदशामिव तदर्थलक्षणाग्रहदशायामपि राजसम्बन्धिनः पुरुष इत्यादाविव राजसम्बन्धिसम्बन्धीपुरुष इत्याद्यन्वयबोधस्य सर्वजनानामनुभवसिद्धत्वात् । पचति चैत्र इत्यादावपि कृतिसम्बन्धेन पाकादेश्चैत्राद्यंशे विशेषणत्वोपगमे चैत्रो न पचतीत्यादावन्वयबोधानुपपत्तिद्रष्टव्या कृतिसम्बन्धस्यापि तदभाववत्तामुद्रायां भावस्य गुरुभूतत्वमस्त्येव तदभावव्याप्यवत्तामुद्रायामपि व्याप्याभावलाघवे. द्विवारप्रवेशे लाघवोऽस्तु परन्तु तद्व्याप्यत्वलक्षणे व्यापकाभावप्रवेशे न तत्राप्येकाभावस्य गौरवात् । एवञ्चाभावद्वये लाघ- प्रथमा ] जयाऽलङ्क्तः १४५ वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगिकाभावस्याप्रसि- द्धथा तबोधनासम्भवात् । अथैवमपि चैत्रो जानातीत्यादौ चैत्रायंशे ज्ञानादेराश्रयता- सम्बन्धेनान्वयबोधोपगमे क्षतिविरहः। श्राश्रयतासम्बन्धस्या- भावप्रतियोगितावच्छेदकतया न जानातीत्यादौ आश्रयतासम्ब- न्धावच्छिन्नप्रतियोगिताकज्ञानाद्यभावस्यैव भानसम्भवात् । तथा च तत्राख्यातस्याश्रयत्वार्थकत्वं नियुक्तिकम् । न च धात्वर्थज्ञाना- देराश्रयतासम्बन्धेन चैत्रादिरूपप्रातिपदिकार्थे साक्षात्प्रकारकत्वोप- गमे ज्ञानं चैत्र इत्यादावपि तथान्वयबोधापत्तिरिति वाच्यम् । तादृशान्वयबोधे आख्यातान्तधातुसमभिव्याहारज्ञानस्य हेतुत्वात् । भवन्मतेऽप्याश्रयताप्रकारकबोधे तादृशसमभिव्याहारज्ञानस्य हेतु- ताया आवश्वकत्वात् । यत्तु पचति चैत्र इत्यादौ पाककृतिमांश्चैत्र इत्याकारकाख्यातार्थप्रकारकशाब्दबोधोत्पत्त्या तत्राख्यातजन्यकृत्यु- पस्थितेर्हेतुत्वकल्पनमावश्यकम् । तथा च तत्तदर्थविशेषान्निवेश्या- त्मनिष्ठप्रत्यासत्त्या पदार्थोपस्थितेहेतुत्वकल्पने शक्यलक्ष्यसहस्रार्थ- भेदैनाख्यातजन्योपस्थितेः कारणताबाहुल्यमित्यर्थविशेषाननिवेश्य धात्वर्थप्रकारकान्वयबोध प्रति प्रत्ययजन्योपस्थितेः समानविशेष्य- ताप्रत्यासत्त्यैव हेतुत्वमुपेयते । तथा च तादृशकारणबाधेन चैत्रा- । वम् । द्वये च गौरवं प्रकारतावादिमतेऽप्यस्ति संसर्गतावादिमतेऽपि तदेवा- स्तीति चेन्न । राजनिरूपितस्वत्वाद्यभावसामानाधिकरण्यात्यन्ताभावीयप्र- तियोगितावच्छेदकधर्मापेक्षया गुरुशरीरत्वात् तद्धाभावीयप्रतियोगिता- वच्छेदकधर्मस्य गौरवात् । गौरवं संसर्गतावादिमते स्फुटते । स्यादेतत् ज्ञानाश्रयत्वे लाक्षणिकज्ञानपदघटितज्ञानं चैत्र इत्यादिवाक्ये।

१४६ व्युत्पत्तिवादः [ कारके देर्धात्वर्थज्ञानविशेष्यताया भानं न सम्भवति। यदि च धातुत्वप्र- त्ययत्वादीनामनुगतानां दुर्निर्वचतया नैतादृशानुगतकार्यकार- भावकल्पनं सम्भवतीति मन्यते तदापि सत्र ज्ञाधातोरेव पाकादौ लक्षणा तत्र जानातीत्यादिवाक्यात्पाककृत्यादिप्रकारकान्वय- बोधोत्पत्त्या ज्ञाधात्वर्थप्रकारकान्वयबोधे तदव्यवहितोत्तरतिप्त्वा- दिप्रकारकज्ञानजन्योपस्थिते: समानविशेष्यत्वप्रत्यासत्त्या हेतुता- यास्तत्र कल्पनीयतया तादृशकारणबाधाच्चैत्रो जानातीत्यादौ चैत्रादेानविशेष्यतया भानानुपपत्तिर्दुरैवेति । तदप्यसत् । प्रत्ययान्तरार्थविशेष्यकशाब्दबोधे व्यभिचारवारणाय तादृशो- पस्थितिवैशिष्ट्यस्य तादृशोपस्थितिजन्यतावच्छेदककोटी अवश्यं निवेशनीयतया तदनुत्तरशाब्दबोधे चैत्रादेर्ज्ञानादिविशेष्यतया भाने तादृशकारणबाधस्याकिञ्चित्करत्वात् । तादृशानुपूर्वीघटकज्ञा- दिधातुजन्यज्ञानाद्युपस्थितिचैत्रादिरूपविशेष्योपस्थितियोग्यताज्ञा- नादिघटितसामग्ऱ्या आश्रयतासंसर्गकशाब्दबोधजनने बाधकामा- वात्। न चैतन्मते आश्रयतासम्बन्धेन ज्ञानादिप्रकारकशाब्द- बोधे तादृशयोग्यताज्ञानहेतुत्वान्तरकल्पनाधिक्यम् । आश्रयता- सम्बन्धेन ज्ञानविशिष्टचैत्रादितात्पर्यकात्सर्वनाम्नः साङ्केतिकशब्दा- न्तराद्वा तादृशसम्बन्धेन ज्ञानादिप्रकारकचैत्रादिविशेष्यकशाब्द- बोधस्य सर्वमत एव प्रसिद्धावपि तादृशशाब्दबोधे पदार्थान्तरभा- ननैयत्येन तन्मिश्रितयोग्यताज्ञानस्य तत्र हेतुताया आवश्यकत्वात् । ज्ञानादिविशिष्टचैत्रादिमात्रविषयकयोग्यताज्ञानस्य ज्ञानादिविशिष्ट- संसर्गतावादिमते प्रतियोगितावच्छेदकधर्मस्य गौरवेऽपि प्रकारतावादि- मतोपदर्शितमहद्गौरवस्य सत्त्वात् । अत्रेदं वक्तव्यम् । प्रथमं योग्यताज्ञान- द्वैविध्यन गौरवं दत्तं तन्न संसर्गतावादिमतेऽपि राज्ञः स्वत्वं इत्यादौ निरूपित- प्रथमा ] जयाऽलङ्कृतः १४७ चैत्रादिविषयकशाब्दबोधे हेतुतायाः कुत्राप्यक्तृप्तत्वादिति वाच्यम्। भवन्मतेऽपि ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकशाब्दबोधे तथाविधयोग्यताज्ञानहेतुताया प्राधिक्यात्। आश्रयतासंसर्गक- ज्ञानीयकारणतावच्छेदकस्य तदीयसंसर्गविषयताघटिततत्प्रका- रकज्ञानकारणतावच्छेदकापेक्षया लघुशरीरतया आश्रयतायाः संसर्गतामतस्यैव लघुत्वात् । न च यत्राश्रयत्वे ज्ञाधातुसमभिव्या- हृताख्यातस्य शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र ज्ञानाश्रय- ताप्रकारकशाब्बोधस्योभयमतसिद्धतया तत्र ताशयोग्यताज्ञान- हेतुत्वमुभयमतसिद्धमेवेति वाच्यम् । आश्रयतायाः संसर्गतावादिना तत्राप्याश्रयताप्रकारकबोधस्यानभ्युपगन्तव्यत्वादिति चेत्-सत्यम् । एतदभिप्रायेणैव जानातीत्यादावाख्यातस्य निरर्थकतां मणिकार ऊरीचकार। तत्राश्रयत्वे निरूढलक्षणामभ्युपगच्छतां दीधितिकाराणां पुनरेष आशयः । यत्र ज्ञाधातोर्ज्ञानाश्रयत्वे शक्तिभ्रमः स्वारसिक- लक्षणाग्रहो वा तत्र चैत्राद्यंशे धात्वर्थंकदेशस्य ज्ञानादेरन्वयानुप- पत्त्या स्वरूपसम्बन्धेन ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकान्वय- बोध एव तत्र मणिकृता स्वीकरणीयः। तथा च तत्र ज्ञानाश्रय- ताप्रकारकशाब्दबोधे तत्प्रकारकयोग्यताज्ञानहेतुतायाः क्लृप्तत्वादा- श्रयतासंसर्गकशाब्दबोधे ताशयोग्यताज्ञानहेतुताकल्पनमधिकमेव मणिकृन्मते। न च दीधितिकृन्मते ताशयोग्यताज्ञानहेतुत्वा- कल्पनलाघवेऽपि जानातीत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुशक्ति- ज्ञानजन्यज्ञानोपस्थितिघटितशाब्दसामरच्या भिन्नविषयकप्रत्यक्षं त्वसंसर्गावच्छिन्नराजाद्यभावरूपवाधाभावयोग्यतास्वीकारेण योग्यताज्ञानस्य द्वैविध्यात् तदंशे साम्यात् । यदप्युपस्थितौ गौरवं प्रदर्शितं तदपि न राज- १४८ व्युत्पत्तिवादः [ कारके प्रति प्रतिवन्धकतायां आख्यातजन्याश्रयत्वोपस्थितेर्निवेशनस्या- धिक्यागौरवमिति वाच्यम् । भवन्मतेऽपि ज्ञानाश्रयत्वाभाववांश्चैत्रः सुन्दर इत्यादि विशिष्ट- वैशिष्टयावगाहिप्रत्यक्ष जानाति चैत्र इत्याद्यानुपूर्वीज्ञानघटितज्ञा- धातुजन्यज्ञानोपस्थितिघटितसामग्याः प्रतिबन्धकताधिक्येन गौरवात्। मन्मते च तादृशसामग्रथा विरोधिज्ञानाश्रयत्वाभाववत्तानिश्च- याभावधदिततया तथाविधविशिष्टवैशिष्टयवोधसामग्यास्ताह- शशाब्दबोधसामग्य समं युगपदवस्थानासंभवेन तादृशप्रतिवन्ध- कत्वकल्पनाविरहादित्यधिक दर्शितदिशावसेयम् । अथैवं रीत्या भूतले न घट इत्यादौ घटादिपदस्य घटप्रति- योगिकादौ तदुत्तरसुविभक्तरेव वा प्रतियोगितायां लक्षणामभ्यु- पेत्य तत्र घटप्रतियोगिकाभावो भूतलवृत्तिरित्याद्याकारकप्रतियो- गिताप्रकारकशाब्दबोधोपगम एव समुचितः । तथा सति तथा- विधसमभिव्याहारज्ञानघटितसामग्य घटप्रतियोगिकत्वाभाव- वानभावः प्रमेय इत्यादिविशिष्टवैशिष्टयबोधं प्रति प्रतिबन्धकत्वा- कल्पने लाघवादित्युक्तनियमे निपातातिरिक्तत्वविशेषणवैयर्थ्य- मिति चेत्-न।भूतले न घट इत्यादौ घटाद्यभावे भूतलाद्यन्वितसप्त- म्यर्थाधेयत्वस्येव तात्पर्यवशाद्धटादौ सप्तम्यन्तार्थभूतलादिवृत्तित्वा- पुरप्रवेशन्यायेन राज्ञः पदजन्यराजनिरूपितस्वत्वत्वाद्यवच्छिन्नोपस्थितिरेका पुरुषपदजन्यपुरुषत्वावच्छिन्नोपस्थितिद्वितीया इत्येवमुपस्थितावपि साम्यम् । संसर्गतावादिमते उपदर्शितप्रतिबध्यप्रतिबन्धकभावकल्पनं व्याप्यलक्षणीय- 'निश्चयघटिततयेति गूढार्थतत्त्वालोके ।

प्रथमा ] जयाऽलङ्कृतः १४६ भावस्यान्वयबोधोऽप्यनुभवसिद्धः। अन्यथा तादृशवाक्यजन्यस्या- प्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घट इत्यादिवाक्यजन्य- घटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधितायाः सर्वानु- भवसिद्धाया अनुपपत्तेः । नञ्पदं विना यन्न धर्मिणि यस्य विशे- षणतया भानं यादृशसमभिव्याहाराद्भवति ताशसमभिव्याहार- स्थले नसत्त्वे तत्र धर्मिणि तदभावः प्रतीयते इत्यनुभवापलाप- प्रसङ्गाच्च । एवं च नबर्थाभावेऽनुयोगितया घटाद्यन्वयबोधोप- पत्तये निपातातिरिक्तत्वविशेषणमावश्यकम् । एवं न पचति चैत्रः, चैत्रस्य न धनमित्यादौ पाककृतिचैत्रस्वत्वाद्यभावस्य नबर्थस्य चैत्रधनादावन्वयबोधोपपत्तये घटोन पट इत्यादौ नबर्थघटादि- भेदस्यान्वयवोधोपपत्तये च तदावश्यकम्। न चोक्तस्थलेषु नञो- ऽभाववल्लाक्षणिकतयाऽभाववता सममनुयोगिनामभेदान्वयबोध एव तत्रोपेयते इति वाच्यम् । तथा सति सर्वत्राभाववत एव नबर्थ- तया मुख्यार्थपरनयो दुर्लभत्वापत्तेः अभावस्य भेदान्वयबोधो- पगमेऽपि कार्यकारणभावकल्पनाधिक्यविरहेणाभाववति लक्षणा नौचित्यात् , अभाववतोऽभेदान्वयबोधोपगमे भूतले घट इत्यादि- वाक्यजन्यबोधे भूतले न घट इत्यादिवाक्यजन्यबोधस्याविरोधि- तापत्तेश्च लाघवात् स्वरूपसम्बन्धेन ग्राह्याभावप्रकारकनिश्चयस्यैव विशिष्टबुद्धिविरोधित्वान्न त्वभेदसंसर्गकग्राह्याभावाश्रयकारकनिश्च- यस्येति । नीलो घट इत्यादौ विशेषणविभक्तरभेदार्थकत्वमतेऽपि यद्यप्युक्तरीत्या लाघवं सम्भवति तथापि तत्रापि न नो विद्वेष इति दिक्। प्रतियोगितावच्छेदकगुरुधर्मस्य च स्वीकार इत्येतद्गौरवद्वयं सर्वथा अस्त्ये- वेत्यले पल्लवितेन।

१५० व्युत्पत्तिवादः [ कारके प्रत्ययाश्च विभक्तिकृत्तद्धितादिभेदेन नानाविधाः। विभक्तिश्च सुप्तिङ्भेदेन द्विविधा । सुब्विभक्तयः प्रथमाद्वितीयादयः सप्त । तत्र प्रथमार्थः प्रकृत्यर्थे विशेषणविधयान्वयिनो संख्यैव । अत एव यत्र विशेष्यवाचकसमानविभक्तिकपदं निपातपदं वा नास्ति तत्र प्रथमा- न्तार्थस्य विशेष्यमासकसामग्यभावादसौ मुख्यविशेष्यतयैव भासते । संख्यावाचकानां च एकवचनद्विवचनबहुवचनानामेकत्व- त्वद्वित्वत्वबहुत्वत्वावच्छिन्नेषु शक्तिः । शक्तता च सुत्व-श्रौत्वजस्- त्वादिना न तु स्वादितिबादिसाधारणैकवचनत्वादिना। एकवचन- त्वादेर्दुवचत्वात् । न चैकत्वादिवाचकत्वं तत्। वाचकतायाः शक्त- तावच्छेदकत्वे आत्माश्रयात्। बोधकतारूपत्वे शक्तिभ्रमेण द्विवच- नादीनामपि एकत्वबोधकतया अतिप्रसक्तत्वात् । न चैकवचनत्वा- दिकं जातिविशेष: सुप्त्वादिना सांकर्यात् । न च शक्तिसम्बन्धेन एकवचनादिपवत्त्वं तत् । तादृशाज्ञानविरहदशायां च सुत्वादिना शक्तिभ्रमादेव शाब्दबोधः । एकवचनादिशब्दस्य पदयात्मकतया तादृशसमुदायशक्तेरेवाप्रसिद्धिरिति तु नाशङ्कनीयम् । एक वक्ती- त्यादिव्युत्पत्त्या एकवचनादिशब्दस्य स्वादिबोधकत्वे एकादि- शब्देऽपि तादृशव्यवहारापत्तेः । एकवचनादिशब्दस्य स्वादौ रूढि- स्वीकारस्यावश्यकत्वादिति वाच्यम् । ग्रन्थकारीयसङ्केतेनैवोपपत्तौ एकवचनादिपदे शक्तेरप्रामाणिकत्वात् । तान्येकवचन द्विवचने- त्यादिपाणिनिसूत्रस्य तदीयसङ्केतग्रहपरतयाप्युपपत्तेः। न हि यू रुच्याख्यौ नदीत्यनुशासनात् च्याख्यदूदन्तादिशब्दे नद्यादिपदस्य शक्तिः सिद्धयति । किन्तु तदीयसङ्केत एव । अत एव नद्यादिसंज्ञा आधुनिकसङ्केतशालित्वात्पारिभाषिक्येव न त्वौपाधिकी। अथैव- मपि पाणिनिसङ्केतसम्बन्धेन तादृशपदवत्त्वमेव एकत्वादिशक्तता- वच्छेदकमस्त्विति चेत्-न। तादृशसङ्केतस्य केन रूपेण सम्बन्धता। सङ्केतत्वेनेति चेत्तर्हि कस्य चित्पुंस एकवचनपदात् सुऔजसादि- प्रथमा ] जयाऽलङ्कृतः १५१ बर्बोद्धव्य इत्याकारकसङ्केतस्यापि सम्भवादतिप्रसक्तिर्दुवारैव । पाणिनिसङ्कतत्वेन तथेति चेत्तर्हि व्याकरणप्रणेतुः पुरुषान्तरस्यापि तादृशसङ्केतस्य सम्भवात् । तदीयसङ्केतसम्बन्धेन तत्पदवत्त्वस्य डित्थादिपदात् सुऔजसादिर्बोद्धव्य इत्याकारकपुरुषसङ्केत्तसम्बन्धेन डित्थादिपदवत्त्वस्य वा विनिगमनाविरहेण शक्ततावच्छेदकता- प्रसङ्गः। तथा चागत्या आनुपूर्वीविशेष एव शक्ततावच्छेदक इति। यत्तु संख्यापि प्रकृतेरर्थः । एकवचनादिकं च एकत्वाद्यर्थे तात्पर्यग्राहकमेव न चैवमेकप्रकृत्युपस्थाप्ययोरर्थयोः परस्परमन्वये आकाङ्क्षाविरहादुघटादावेकत्वाद्यन्वयानुपपत्तिः । अन्यथा हर्यादिपदादुपस्थितयोरश्वसूर्ययोराधाराधेयभावेनान्वयापत्तिः । घटादिपदस्य एकत्वादिविशिष्टस्य घटादौ च न शक्तिसम्भवः । घटरूपं पश्येत्यादौ संख्यानवच्छिन्नघटादेरेवान्वयबोधादिति वाच्यम् । आकाङ्क्षावैचित्र्यादेकप्रकृत्युपस्थाप्ययोरपि घटैकत्वयोः परस्परमन्वयसम्भवात् । अत एव खण्डशक्त्यैवकाराद्युपस्थाप्ययो- रन्ययोगव्यवच्छेदाद्योः परस्परमन्वयबोधः । न चैवं कर्मत्वादिक- मपि प्रकृत्यर्थ एवास्तु, किं तत्र द्वितीयादिशक्त्येति वाच्यम् । नामार्थधात्वर्थयोः साक्षाढ़ेदान्वयबोधस्याव्युत्पन्नतया कर्मत्वा- देनामार्थत्वे तेन समं धात्वर्थान्वयासम्भवात् । न च संख्यायाः प्रातिपदिकार्थत्वे सति तात्पर्यज्ञाने विनैव शक्तिभ्रमं लक्षणाग्रहं वा द्विवचनाद्यन्तपदादेकत्वादिबोधसम्भवात् । एकत्वादितात्पर्येण एकवचनान्तस्यैव द्विवचनान्तस्यापि पदस्य स्वारसिकप्रयोगापत्ति- रिति वाच्यम् । अनादितात्पर्यस्यैव स्वारसिकप्रयोगमूलत्वादेक- वचनाद्यन्तपदस्यैव एकत्वादावनादितात्पर्योपगमेनातिप्रसङ्गविह- रात् । द्वयेकयोद्विवचनैकवचने इत्याद्यनुशासनं च तादृशतात्पर्य- ग्राहकमेवेति वैयाकरणमतम् । तदसत्। अनन्तानां प्रकृत्यानुपूर्वीणां शक्ततावच्छेदकत्वापेक्षया अल्पतरविभक्त्याद्यानुपूर्वीणामेकत्वा- [ कारके १५२ व्युत्पत्तिवादः दिशक्ततावच्छेदकत्वस्यैवोचितत्वात् । न च प्रातिपदिकत्वमेव शक्ततावच्छेदकं न तु घटपदत्वादिकमिति न शक्त्यानन्त्यमिति वाच्यम् । प्रातिपदिकत्वस्य दुर्निर्वचत्वात् । तदज्ञानेऽपि एकत्वा- दिज्ञानस्यानुभविकत्वात् । पदत्वेन वर्णत्वेन वा शक्तत्वे विभक्तरपि तद्वाचकतासिद्धिः। एकत्वादिशाब्दबोधात्पूर्वं वर्णवाद्युपस्थिते- रप्यनावश्यकत्वाच्च । फलानुरोधेन तत्कल्पने च कल्पनागौरवात् । एवमानुपूर्वीभिन्नधर्मस्य वाचकतावच्छेदकत्वे घटपदं सुपदं च न संख्यावाचकमिति विपरीतनिश्चयकालेऽपि तादृशधर्मावच्छिन्नस्य वाचकताग्रहसम्भवादघट इत्यादौ संख्याया बोधापत्तिः। अथ विभक्तीनां संख्यार्थकतामते प्रकृतिविभक्त्योरेकवाक्य- ताविरहनिश्चयदशायां विभक्त्युपस्थाप्यैकत्वादेः प्रकृत्यर्थेऽन्वयबो- धवारणाय तयोः समभिव्याहारज्ञानस्य घटादिविशेष्यकैकत्वान्व- यबोधं प्रति कारणत्वमधिकं कल्पनीयम् । एकपदोपस्थापितयोः घटैकत्वाद्योरन्वयबोधोपगमे च न समभिव्याहारज्ञानस्य तत्र हेतुता कल्प्यते इति लाघवात्, प्रकृत्याद्यानुपूर्वीणां संख्यावाच- कतावच्छेदकत्वमुपेयत इति चेत् न। आकाङ्क्षाविचारे समभि- व्याहाराकाङ्क्षाज्ञानस्य हेतुताया निराकृतत्वात् । अथैवमपि विभक्त: संख्यार्थकत्वे विनिगमनाविरहेण प्रकृतिधर्मिकस्य विभ- क्तिधर्मिकस्य च संख्याप्रकारकान्वयबोधपरत्वज्ञानस्य हेतुताकल्प- नीया । विभक्तोतकत्वमते (अबोधकत्वमते) तु विभक्तितात्पर्यविर- हेण प्रकृतिधर्मिकमेव तात्पर्यज्ञानं तादृशान्वयधीहेतुरिति लाघव- मिति चेत्-न । विभक्तेः संख्यावाचकताविरहेऽपि प्रकृतिविभक्तयो- रानुपूर्वीज्ञानस्य तादृशान्वयबोधहेतुताया निर्विभक्तिकादिपद- ज्ञानादन्वयबोधवारणायावश्यकल्पनीयतया संख्यावाचकप्रकृतेरिव तवाचकविभक्तरपि संख्यान्वयबोधकत्वप्रकारकेच्छाविषयत्वरूप- प्रथमा ] जयाऽलङ्कृतः १५३ ताशवीधपरत्वसंभवेन विभक्तिधर्मिकतज्ज्ञानहेतुताया विनिगमना- विरहेणावश्यकत्वात् । अथ स्वादीनां संख्यावाचकत्वकल्पनापेक्षया प्रकृतेस्तत्र लक्षणैवोचिता। शक्यलक्ष्ययोः परस्परमन्वयोपगमे क्षतिविरहात्। प्रथमाविभक्तेः कुत्रापि शक्तरक्तृप्ततया तस्याः शक्यसम्बन्धरूपा लक्षणा न संभवति । द्वितीयादेः कर्मत्वादौ शक्तत्वेऽपि ताहशविभक्तस्तत्समभिव्याहृतप्रकृतेर्वा संख्यायां लक्षणा इत्यत्र विनिगमकं दुर्लभम् । न चैकत्वाद्यन्वयबोधे घटप- दादिज्ञानजन्योपस्थितित्वेनानन्तहेतुताकल्पनामपेक्ष्य स्वादिपद- ज्ञानजन्यतदुपस्थितित्वेन कतिपयहेतुताकल्पनायां लाघवात्कतिप- यशक्तिकल्पने गौरवमकिंचित्करम् । सामान्यतः पदवृत्तिज्ञानजन्य- तदुपस्थितित्वेनैककारणताकल्पनन्तु न सम्यक् । निर्विभक्तिककुम्भ- पदादितः संख्योपस्थितौ तदगृहीतवृत्तिकघटादिपदे तत्तद्विभ- क्त्यन्तत्वज्ञानवतः पुंसो घटादौ संख्यकान्वयबोधप्रसङ्गात् । घटप- टादिज्ञानजन्यैकत्वाद्युपस्थितित्वेनैकत्वादिविषयकशाब्दबोधहेतुतां कल्पयित्वा विभक्तिघटादिपदानुपूर्वीज्ञानतादृशोपस्थित्योः परस्प- रसहकारेण फलजनकताया अवश्याभ्युपेयत्वादिति वाच्यम् । घटादिपदस्यैकत्वादौ लक्षणाग्रहसत्त्वे घट: प्रमेय इत्यादिवाक्या- देकत्वं प्रमेयमित्याद्यन्वयबोधस्य सर्वसंमततया तदनुरोधेनैकत्वा- दिविषयकशाब्दबोधे घटादिपदजन्यैकत्वाद्युपस्थितित्वेन हेतुतायाः सर्वसंमतत्वात् । मैवम् । यादृशयादृशपदानां लक्षणया एकत्वादि- शब्दधीजनकत्वं नोभयवादिसिद्धं तादृशानन्तपदज्ञानजन्यैकत्वाद्यु- पस्थितीनां तच्छाब्दहेतुत्वकल्पनं प्रकृतेः संख्यावाचकतावादि- नामधिकमिति तत्कल्पनापेक्षया चाल्पतरस्वादिपदजन्यैकत्वाधु- पस्थितिहेतुताकल्पनमेव लाघवम् । एतेन संख्याविशेषावच्छिन्न- घटादिर्लक्षणया प्रकृतेरर्थः। न तु संख्याविभक्त्यर्थः। शाब्दबोधे विभक्तिजन्यसंख्योपस्थितिहेतुताकल्पनाधिक्येन गौरवात् । घटादि- १५४ व्युत्पत्तिवादः [ कारके पदस्यैकत्वादिविशिष्टघटादौ लक्षणाग्रहदशायां सर्वमत एव तज्जन्य- विशिष्टविषयकोपस्थित्या विशिष्टविषयकशाब्दधीजननात्तथाविधो- पस्थितिहेतुतायाः सर्वानुमतत्वात् । पदान्तरासमभिव्याहृताद्घट इत्यादिपदादेकत्वादिविशिष्टघटादिशाब्दबोधस्त्वलीक एव । तद्विष- यकस्मरणस्य तत्रोपगमात् । तथाचोक्तं सर्वं हि वाक्यं क्रियया परिसमाप्यते इत्यपि निरस्तम् । यादृशपदानां लक्षणया एकत्वादि- विशिष्टस्वार्थबोधहेतुत्वं नोभयवादिसिद्धं तादृशानन्तपदजन्य- विशिष्टोपस्थितीनांशाब्दधीहेतुताकल्पनमपेक्ष्य विभक्तिजन्यसंख्यो- पस्थितीनामल्पानां तत्कल्पने लाघवात् । इदं पुनरिहावधेयम् । विभक्तेः संख्याबोधकत्वे समानविषय- कानुमित्यादिकं प्रति शाब्दसामग्रीप्रतिबन्धकतायां या प्रातिपदिक- जन्या घटाद्युपस्थितिर्या च विभक्तिजन्या संख्योपस्थिति: प्रवेश्या तयोश्च मिथो विशेष्यविशेषणभावे विनिगमनाविरहात्प्रतिबन्धक- ताबाहुल्यम् । प्रकृतेविशिष्टलाक्षणिकत्वे तु तदुभयस्थलीयविशिष्ट- विषयकोपस्थितिरेकैव सामग्यमन्तर्भवति इति लाघवम् । न च विशिष्टविषयकोपस्थितेरपि एकत्वादिप्रकारतानिरूपितघटा- दिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिविषयता (प्रकारता) शालित्वेन वा प्रवेश इति विनिगमनाविरहात्साम्यमिति वाच्यम् । भवन्मते योग्यताज्ञानघटोपस्थित्येकत्वोपस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रति- बन्धकमावषट्कम् । मन्मते तत्र योग्यताज्ञाने विशिष्टविषयको- पस्थितेः प्रत्येकं दर्शितोभयरूपेण वैशिष्ट्यं निवेश्य तदुभयं प्रत्येक तादृशरूपद्वयावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्ट्यं निवेश्य द्वयमिति तच्चतुष्टयमात्रमितिरीत्याऽस्माकमल्पतरतत्- कल्पने महल्लाघवम् । तादृशरीत्यैव च प्रणमतीत्यादौ प्रकर्षविशिष्ट- नतिर्दातूनामेवार्थः । प्रादयो द्योतका एव न तु प्रकर्षादिवाचका प्रथमा ] जयाऽलङ्कृतः १५५ इति सर्वानुमतः पन्थाः परिष्कर्तुं शक्यते। अन्यथाऽनन्तधातु- जन्यप्रकर्षादिविशिष्टतत्तत्स्वार्थोपस्थितीनां शाब्दधीजनकतामपेक्ष्य कतिपयोपसर्गाधीनप्रकर्षाद्युपस्थितीनां तज्जनकताकल्पने लाघवात्। स्वादीनामिव प्रादीनामपि वाचकता निराबाधा सिद्धयेतेति । संख्यायाश्च प्रकृत्यर्थे पर्याप्तिसम्बन्धेनैव विशेषणत्वं न तु सम- वायादिना। तथा सति एकव्यक्तिमात्रबोधपरादाकाशशब्दादपि द्विवचनबहुवचनाद्यापत्तेः । तत्तदर्थयोत्विबहुत्वयोः समवायादिना आकाशाद्यन्वययोग्यत्वात् । न च पर्याप्तः संसर्गत्वेऽपि तद्दोष- तावस्थ्यम् । घटाकाशादौ द्वित्वादेः पर्याप्तिसत्त्वे प्रत्येकमाकाशादौ तत्पर्याप्तिर्नास्तीति वक्तुमशक्यत्वात् । प्रत्येकस्योभयानतिरि- क्तत्वादिति वाच्यम् । उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तरेव' पर्याप्तिसम्बन्धेनापि विशेषणत्वं न तु समवायादिनैवेत्यन्वयः । तेन समवायावच्छिन्नपर्याप्तिसम्बन्धेनान्वय इत्यर्थः फलितः । अन्यथा रूप- वानाकाश इत्यादावपि पर्याप्तिसम्बन्धेनान्वयबोधापत्तिः स्यादिति विवेकः । उभयानतिरिक्तत्वादिति । उभयमनतिरिक्तं यस्मादिति व्युत्पत्तिः । उभयन्न तु प्रत्येकाद्भिन्नं किन्तु तत्स्वरूपमित्यर्थः । अन्यथा प्रत्येकमुभया- नतिरिक्तत्वप्रतिपादनं सर्वतो विरुद्धमेव प्रतीयेत । ननूभयस्य प्रत्येकाद- भिन्नत्वात् प्रत्येकवृत्तिधर्मवद्भवतूभयं प्रत्येकन्तूभयस्मादभिन्नत्वात् । कथं समुदायवृत्तिधर्मवानवयवो भविष्यतीति चेत्-सत्यम् । यद्वृत्तिभेदप्रतियोगि- तावच्छेदकधर्मशून्यो यश्च' भवति स तद्वृत्तिधर्मवान् भवतीति नियमात् उभयस्मिन् प्रत्येकभेदास्वीकारात् । तद्वृत्तिभेदप्रतियोगितावच्छेदकधर्म- शून्यत्वात् प्रत्येकं समुदायवृत्तिधर्मवत्वात् समुदायवृत्तिपर्याप्तेरवयवेऽपि निर्बाध एवेति भावः । 'समवायस्यैक्यादुद्देश्यतावच्छेदकव्याप्यत्वस्य तत्र बाधादाह-पर्या- प्तेरेवेति ।

१५६ व्युत्पत्तिवादः [ कारके संसर्गतोपगमात् । आकाशत्वादिव्याप्यताया द्वित्वादिप्रर्याप्तावस- त्त्वेनातिप्रसङ्गविरहात् । वैशिष्टय" च वैज्ञानिकं न तु वास्तवम् । तेन यत्र योग्यताभ्र- मजन्यः अत्राकाशावित्यादिवाक्यजन्यद्वित्वादिप्रकारकाकाशवोध- स्तत्र विशिष्टसंसर्गाप्रसिद्धावपि न क्षतिः। द्वित्वादिपर्याप्तावन्यत्र प्रसिद्धस्याकाशत्वादिव्याप्यत्वस्य भ्रान्तेस्तत्रोपगमात् । सम्बन्ध- ताच्छेदकांशे प्रकारतायां भ्रमस्य सर्वानुभवसिद्धत्वेऽपि व्याप्यत्वांशे भ्रमत्वस्यान्यत्रोपपादितत्वात्। न च प्रकृत्यर्थतावच्छेदक एव व्यापकतासम्बन्धेन द्वित्वान्वयधीः किं नोपेयते इति वाच्यम् । घटावित्यादौ घटत्वादीनां स्वरूपत एवोपस्थिततया तत्रोक्तान्वय- बोधस्यासम्भवात् । स्वव्यापकीभूतोद्देश्यतावच्छेदकवत्त्वरूप- परम्पराया एव प्रकृत्यर्थे द्वित्वादेः सम्बन्धतास्वीकारे च व्यापकता- रूपसम्बन्धतावच्छेदकांशे भ्रमत्वस्यावश्यकतया उद्देश्यतावच्छे- दुकव्याप्यत्वविशिष्टपर्याप्तः सम्बन्धतोपेक्षायां निर्वीजत्वात् । 'वैशिष्टयमिति । तत्पदप्रयोज्यजायमानशाब्दबोधीया या पर्या- प्तिनिष्ठा सांसर्गिकी विशेष्यताख्या विषयता सा उद्देश्यतावच्छेदकव्या- प्यत्वनिष्ठविशेषणताख्यविषयतानिरूपितापेक्षितेति भावः। एतेन भ्रान्त- पुरुषीयवैज्ञानिकवैशिष्टयमादायाभ्रान्तस्य न शाब्दबोधापत्तिः जायमान- शाब्दबोधनिरूपितसांसर्गिकी विषयतायास्तादृशविषयतानिरूपितत्वाभावा- दिति विमर्शः। सम्बन्धतावच्छेदकांश इत्यादि । सम्बन्धतावच्छेदकांशस्य प्रकार- तयोपस्थितत्वाभावेऽपि तद्व्यापकीभूतविशेषणत्वेनोपस्थितेः अतद्वति तत्प्रकारकरूपज्ञानस्याभावेऽपि अतद्वति तद्विशेषणकज्ञानस्य सत्त्वात् तस्यापि भ्रमत्वाङ्गीकारादिति भावः । एतच्च विषयतावादेऽप्युपपादितमिति । २.

प्रथमा ] जयाऽलङ्कृतः १५७ अथात्र व्याप्तिापकसामानाधिकरण्यरूपैव वाच्या न तु तद्व- दन्यावृत्तित्वरूपा, केवलान्वयिधर्मस्य प्रकृत्यर्थतावच्छेदकता यत्र तत्राप्रसिद्धः। एवं चोदेश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्त्यपेक्षया लघोः स्वव्यापकतादृशधर्मवत्त्वस्यैव सम्बन्धत्वमुचितमिति चेत्तर्हि आकाशो न द्वावित्यादिवाक्यजन्यशाब्दबोधदशायामपि आका- शावित्यादिवाक्याद् द्वित्वबोधापत्तिः । तथा हि श्राकाशोन द्वावि- त्यादितो द्वित्वावच्छिन्नभेदः प्रतीयते । स च न स्वव्यापकाकाश- त्ववत्त्वादिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकः । तादृशस- म्बन्धेन द्वित्ववतोऽप्रसिद्धः । अपि तु पर्याप्तिसम्बन्धावच्छिन्नप्रति- योगितावच्छेदकताक एव । तत्काले च पर्याप्तिसम्बन्धेन द्वित्व- विशिष्टबुद्धिरेव प्रतिबध्यते न तूक्तपरंपरासम्बन्धेन तद्विशिष्टबुद्धिर- पीति । अथाकाशो न द्वावित्यादौ केवलपर्याप्तिसम्बन्धावच्छिन्न- प्रतियोगितावच्छेदकताकभेदो यन्त्र नव्या बोधयितुं न शक्यते । आकाशेऽप्युक्तयुक्तथा द्वित्वपर्याप्तेः सत्त्वेन तत्र तेन सम्बन्धेन तद्वद्भे- दस्य वक्तुमशक्यत्वात्। आकाशत्वव्याप्यपर्याप्तिसम्बन्धावच्छिन्न- प्रतियोगितावच्छेदकताकद्वित्वादिमद्भेदश्चाप्रसिद्ध एवेति चेत्-न । द्वित्वादिपर्याप्तेरुभयादिवृत्तिधर्मेणवावच्छेदात् । तदनवच्छेदकैक- मात्रवृत्तिधर्मावच्छेदेन तद्वद्भदस्य तेन सम्बन्धेन द्वित्वादिमद्भेदस्य च तद्वति वृत्तौ बाधकाभावात्। न चैवं घटपटौ न द्वाविति प्रयोग आपद्येत । घटपटयोरपि प्रत्येक द्वित्वावच्छिन्नभेदसत्त्वादिति वाच्यम्। द्विवचनाद्युपस्थापितद्वित्वावच्छेदेनैव द्वित्वावच्छिन्नभेदस्य बाधेन तादृशप्रयोगाभावोपपत्तेः। नना व्यासज्यवृत्तिधर्मावच्छिन्न- प्रतियोगिताकभेदश्वोदृश्यतावच्छेदकावच्छेदेनैव बोध्यत इति व्युत्पत्तेर्द्वित्वसामानाधिकरण्येन तदबाधस्याकिंचित्करत्वात् । न च घटत्वादेरतिप्रसक्ततया द्वित्वादिपर्याप्तेरनवच्छेदकत्वात्तदवच्छेदेन १५८ व्युत्पत्तिवादः [ कारके द्वित्ववद्भदस्य भवतामप्यनुमतत्वात् प्रकृत्यर्थगतैकत्वाविवक्षायां' घटो न द्वावित्यादिप्रयोगापत्तिरिति वाच्यम् । तादृशप्रयोगाभावे घटत्वादेर्द्वित्वपर्याप्तेरिव द्वित्वादिमझेदस्याप्यनुयोगितावच्छेदक- ताया अप्रामाणिकत्वात् प्रतियोगितावच्छेदकाताया भेदावच्छे- दकतानियतत्वासिद्धेः। अस्तु वातिप्रसक्तोऽपि घटत्वादित्विपर्याप्तेरवच्छेदकः घटा- वित्यादिप्रतीतिबलात्। वस्तुतस्तु घटत्वादेः प्रत्येकं द्वित्वपर्याप्तय- नवच्छेदकत्वेऽपि द्वित्वपर्याप्तित्वावच्छिन्नानतिप्रसक्ततया तद- वच्छिन्नावच्छेदकत्वमव्याहतमेव। अथ पर्याप्तथाख्यविलक्षणसम्बन्ध एवाप्रामाणिक: तत्कथं तत्सम्बन्धता। आकाशो न द्वावितिप्रतीतिस्तु समवायसम्ब- न्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वावच्छिन्नभेदविषयिकै- वास्ताम्।आकाशादौ द्वित्वसमवायसत्त्वेपि द्वित्वादेरेवोभयादिवृत्ति- धर्ममात्रावच्छिन्नत्वोपगमात्तदनवच्छेदकाकाशत्वाद्यवच्छेदेन सम- वायसंबन्धेन तद्वतो भेदस्य वृत्तौ बाधकाभावादिति चेत्-न । एकत्वाविवक्षायामिति । एकत्वविवक्षायामाकाशो न द्वाविति वदिष्ट एवेति भावः । २ उद्देश्यतावच्छेदकावच्छिन्नपर्याप्तिसम्बन्धेनैवान्वयमुररीकृत्याह-प्रती- तिबलादिति । 'अव्याहतमेवेत्यादि। तत्पदप्रतिपाद्यघटाद्यान्वयिद्वित्वपर्याप्त्यपेक्षाया घटत्वादेन्यूँनवृत्तित्वाभावादाह-अव्याहतमिति । अन्यथा द्वित्वपर्याप्तित्वा- वच्छिन्नस्य पटादावपि सत्त्वेन घटादावपि सत्त्वेन घटत्वादेस्तदपेक्षया न्यूनवृत्तित्वात् । अन्यूनानतिप्रसक्तधर्मस्यैव प्रतियोगितावच्छेदकतया व्याधकरात्पलायमानहरिणस्य वागुरापातः स्यादिति दिक् ।

प्रथमा ] जयाऽलङ्कृतः १५६ आकाशावित्यादिवाक्यजन्यशाब्दबोधस्याप्रमात्वानुपपत्त्यैव ताह- शसंबन्धसिद्धः। तादृशबुद्धेः समवायविषयकत्वे प्रमात्वनिरा- करणस्य कर्तुमशक्यत्वात् । उद्देश्यतावच्छेदकव्याप्तिविशिष्टसम- वायस्य संसर्गतोपगमे घटावित्यादिवाक्यस्याप्यप्रमाणतापत्तिः । समवायस्यैकेन घटादिनिष्ठस्य द्वित्वादिसमवायस्य पटादावपिसत्त्वे- न घटत्वाद्यव्याप्यत्वात् । न चोद्देश्यतावच्छेदकव्याप्यद्वित्वादिसम- वायत्वेनैव संबन्धतास्तु । द्वित्वादिसमवायस्य घटत्वाद्यव्याप्य- वेपि द्वित्वादेस्तद्वयाप्यतया न घटावित्यादेरप्रमाणतेति वाच्यम् । एवं सति तथाविधद्वित्वादेरेव लाघवेन द्वित्वादिसंबन्धतौचित्यात् । अथास्त्वेवमेव तावतापि पर्याप्तिसंबन्धस्य विलयादिति चेत्-न । द्वित्वादिस्वरूपस्यैव द्वित्वादिपर्याप्तितयाभिमतासिद्धः । उक्तं च दीधितिकृता-'पर्याप्तिश्चायमेको घट इमौ द्वावित्यादिप्रती- तिसात्तिकः स्वरूपसंबन्धविशेष' इति । समवायस्य नानात्वमते च द्वित्वादिसमवाय एव तत्पयाप्तिनं तु स्वरूपमतिरिक्तपदार्थों वेत्यन्यदेतत् । यत्तु आकाशं न वे इत्यादिप्रतीतिवदाकाशं न द्वित्ववदिति प्रतीतेः प्रमात्वस्य वारणाय समवायेन द्वित्वादिमद्भेद आकाशत्वावच्छेदेन न स्वीकर्तव्यः । तथा च पर्याप्तेरविलक्षणत्वे आकाशं न द्वे इत्यादिप्रतीतेरप्यप्रमात्वापत्तिरिति तन्न । आकाशं न द्वित्ववदिति प्रतीतौ द्वित्वसमवायावच्छिन्नभेद एव विषयः मतुपा संबन्ध्युल्लेखात् । न तु द्वित्वाद्यवच्छिन्नभेदः। एवं चाकाशत्वाद्यवच्छेदेन द्वित्वाद्यवच्छिन्नभेद एव स्वीकर्तव्यः । न तु तत्संबन्धावच्छिन्नभेद इत्याकाशं न वे इति प्रतीतेरप्रमावस्याकाशं न द्वित्ववदिति प्रतीतेर्वा प्रमात्वस्य न प्रसङ्ग इति । अथोद्देश्यतावच्छेदकव्याप्यपर्याप्तैर्द्वित्वसंबन्धत्वे धवखदिरौ छिनत्तीत्यादौ उद्देश्यतावच्छेदकीभूतधवत्वखदिरत्वव्याप्यं द्वित्वा- दिद्वयमेव प्रत्येतव्यम् । न तुधवखदिरादिपर्याप्तद्वित्वादिकम् । तथा १६० व्युत्पत्तिवादः [ कारके चैकैकधवखदिरादितात्पर्येण तथा प्रयोगानुपपत्तिरिति द्वित्वान्व- यितावच्छेदकमपेक्षाबुद्धिविशेषविषयत्वादिरूपमुभयादिनिष्ठं सा- हित्यं द्वन्द्वसमासार्थो वाच्यः। तथा च मीमांसकमतप्रवेश इति चेत्-न । यत्रैकधर्मस्य द्वित्वाद्युद्देश्यतावच्छेदकता' तत्रैवोद्देश्य- तावच्छेदकव्याप्तिविशिष्टपर्याप्तः संसर्गत्तानियमः। यत्र धर्मद्वयादे- 'यत्रैकधर्मस्य द्वित्वााद्देश्यतावच्छदकतेति । आकाशावित्यादेरप्रामा- ण्याय उद्देश्यतावच्छेदकव्याप्यपर्याप्तेःसंसर्गताधवखदिरावित्यादेः प्रामाण्याय नानाधविच्छिन्नोद्देश्यताकद्वित्वाद्यन्वयबोधे शुद्धपर्याप्तेः संसर्गता उक्ता। एवं सति कालाकाशसमवायगतबहुत्वपर्याप्तेः कालाकाशेऽपि सत्त्वात्तत्र नानाधर्मस्थानुयोगितावच्छेदकत्वेन युद्धपर्याप्तेः संसर्गतोपगमात् कालाकाश इत्यस्यापि प्रामाण्यं स्यात् । उभयधविच्छिन्नोद्देश्यताकबहुत्वान्वयबोधे- ऽपि उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः सम्बन्धतोपगमे घटाश्च पटाश्च घटपटा इत्यादेरप्रामाण्यापत्तेः । न च तद्वारणायोभयावृत्तिधर्मद्वयावच्छिन्नोद्देश्यताके- त्यादि युज्यते वक्तुम् । कालाकाशसमवाया इत्यादावपि उभयावृत्तिकालत्वा- काशत्वधर्मद्वयावच्छिन्नत्वं धर्मत्रयावच्छिन्नोद्देश्यताया अक्षतमेवेति प्रामाण्या- पत्तेरनिस्तारात् । उभयधर्ममात्रावच्छिन्नत्वनिवेशे निरुक्तस्थले दोषलेशा- भावेऽपि घटपटमठगतबहुत्वपर्याप्तेः घटपटे सत्त्वेन तस्मिन् बहुत्वान्वय- तात्पर्येण घटपटा इत्यादीनां प्रामाण्यापत्तेरनिवार्यत्वात् । अत्र मैथिलाः उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः संसर्गता यत्रोद्देश्यता- वच्छेदकता पर्याप्तिवृत्तिस्तत्रैव । यत्र च न पर्याप्तेरुद्देश्यतावच्छेदकताधि- करणत्वं तत्र केवलपर्याप्तेरेव संसर्गता। वृत्तित्वं च स्वनिरूपकोद्देश्यतावच्छे- दकताक्षयवदन्यवृत्तित्वसम्बन्धेन । एवञ्चाकाशावित्यत्र द्वित्वपर्याप्तेरुद्दे- श्यतावच्छेदकतानिरूपकोद्देश्यता आकाशवृत्तिस्तदवच्छेदकताश्रयवदन्यो घ- टादिस्तद्वृत्तित्वेन विशेषपर्याप्तेस्संसर्गतया नाभ्रान्तस्य तद्वाक्याद्वित्वान्वय- प्रथमा ] जयाऽलङ्कृतः १६१ स्तथात्वं तत्र केवला पर्याप्तिः समवाय एव वा संसर्ग इत्युपगमात् विनैव साहित्यस्यान्वयितावच्छेदकता एकैकतारपर्येण धवखदिरा- बोधः। एवं कालाकाशा इत्यादावपि बोध्यम् । धवखदिरावित्यादौ तु धर्मद्वया- वच्छिन्नाप्युद्देश्यता एकैवेति शक्तिवादे स्पष्टीकृतत्वात् धवत्वखदिरत्वनिष्ठा या निरुक्तावच्छेदकता तन्निरूपकोद्देश्यता चोभयवृत्तिरेकैव तदवच्छेदकता- श्रयवदन्यो न धवो न खदिरः किन्त्वेतदन्य एव । तवृत्तित्वाभावेन पर्याप्तेः केवलाया एव सम्बन्धतया नापत्तिः । उद्देश्यतावच्छेदकभेदादुद्देश्यता भिद्यत एवेत्याग्नहे तु स्वनिरूपकोद्देश्यतानिरूपितविधेयतानिरूपितोद्देश्यतावच्छेदक- ताश्रयवदन्यवृत्तित्वसम्बन्धेनावच्छेदकतायाः पर्याप्तौ वृत्तित्वं ज्ञेयम् । एवञ्च विधेयताया ऐक्येन धवो न खदिरत्ववृत्त्यवच्छेदकतानिरूपकोद्देश्य- तानिरूपितविधेयतानिरूपितोद्देश्यतावच्छेदकताश्रयवानित्यादिप्रतीतेरभावा- नापत्तिलेश इत्याहुः। केचित् केवलपर्याप्तेरेव संसर्गता। आस्ताम् आकाशावित्यादेर्न प्रमा- त्वम् । तच्च तत्प्रकारकज्ञाने तदधिकरणतावच्छेदकव्यापिका या तन्निष्ठ- प्रकारतानिरूपिताविशेष्यता तच्छालित्वमेव । आकाशावित्यादौ द्वित्वनिष्ठ- प्रकारतानिरूपिता या आकाशनिष्ठा विशेष्यता सा च स्वाधिकरणतावच्छे- दकं यद्वित्वं तत्समानाधिकरणो यो घटवृत्तितादृशविशेष्यताभावस्तत्प्रति- योगितावच्छेदकधर्मवत्वेन न तद्व्यापिका इति तदवगाहिनो ज्ञानस्य न तत्त्वम् । द्वित्वादेरपेक्षाबुद्धिजन्यत्वेन अपेक्षाबुद्धेर्व्यक्तिभेदेन भेदात् पदार्थ- द्वयेऽपि द्वित्वन्नानाविधमिति द्वित्वाधिकरणतावच्छेदकत्वं द्वित्वे नानुपपन्नम् । एवं कालाकाशा इत्यादेरपि। धवखदिरावित्यादौ तु द्वित्वस्य धवखदिरोभया- तिरिक्तावृत्तित्वेन तत्समानाधिकरणाभावो न विशेष्यताप्रतियोगिक इति तादृशाभावप्रतियोगितावच्छेदकताशून्यत्वेन विशेष्यताया व्यापकत्वेन तदव- गाहिनः प्रमात्वम । विशेष्यताभेदेन धववृत्तिविशेष्यताभावः खदिरवृत्तिः व्युत्पत्तिवादः [ कारके वित्यादिप्रयोगोपपत्तेः। न चैवमेकैकधवखदिरादितात्पर्येण धवौ खदिरावित्यादिप्रयोगापत्तिः। तादृशवाक्यद्वयविषयकसमूहालम्ब- नजन्यसमूहालम्बनशाब्दबोधस्य नानाधर्मावच्छिन्नोद्वेश्यताकतया शुद्धपर्याप्तेरपि संसर्गतयाऽवगाहनसंभवादिति वाच्यम् । यत्र नाना- धर्मावच्छिन्नविशेष्यतानिरूपिता एकद्वित्वादिप्रकारता तत्रैव खदिरगतविशेष्यताभावो धववृत्तिरिति न व्यापकत्वमिति तु नाशङ्कनीयम् । द्वित्वनिष्ठव्याप्यतानिरूपिता व्यापकता च द्वित्वनिष्ठप्रकारतानिरूपित- विशेष्यतात्वावच्छिन्नाया विवक्षितत्वात् । न द्वित्वनिष्ठप्रकारतानिरूपित- विशेष्यतात्वावच्छिन्नप्रतियोगिताकाभावो धबवृत्तिः खदिरवृत्तिवेत्याहुः । उच्छृङ्खलास्तु उद्देश्यतावदन्यावृत्तित्ववत् पर्याप्तेरेव सर्वत्र संसर्गतां स्वीकृत्याव्याप्त्यतिव्याप्ती परिहरन्ति । उद्देश्यतावच्छेदकत्वावच्छिन्नत्वोप- लक्षितनिष्ठव्यापकतानिरूपितव्याप्यतावत्याः पर्याप्तेस्संसर्गतेत्यपि केचित् । कालाकाशा इति प्रयोगवारणाय स्वविशिष्टापर्याप्तिः स्वसंसर्गतया भासते सर्वत्रैकरूपेणैवोच्यते । वैशिष्टयं च स्वप्रतियोगिकत्वस्वविशिष्ट- धर्मसामानाधिकरण्योभयसम्बन्धेन । धर्मे वैशिष्टयञ्च स्वीयोद्देश्यता- वच्छेदकत्वेन तात्पर्यविषयत्वस्वाभाववत्वोभयसम्बन्धेन । अभावीयप्रति- योगितावच्छेदकश्च स्वविशिष्टाभावप्रतियोगित्वरूपस्सम्बन्धः । अभावे वैशिष्टयञ्च' स्वाधिकरणवृत्तित्वस्वीयोद्देश्यतावच्छेदकत्वावच्छिन्नप्रतियोगि- ताकत्वोभयसम्बन्धेन समन्वयः स्वयं ऊहनीयः । यद्वा स्वविशिष्टा या पर्याप्तिः सा उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टा सती संसर्गतया भासते । अन्या तु शुद्धव । वैशिष्ट्यञ्च स्वतादात्म्यस्वी- योद्देश्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकीभू- तसंख्याधिकसंख्याप्रतियोगिकत्वोभयसम्बन्धेन समन्वय ऊहनीय इति दिक् । प्राप्तिविचारेऽन्ततो गत्वा नानाधविच्छिन्नविशेष्यतानिरूपितद्वि- प्रथमा ] जयाऽलङ्कृतः शुद्धायाः पर्याप्तेः समवायस्य वा संसर्गतया भानात् । धवौ खदि- रावित्यादिनानावाक्यजन्यसमूहालम्वनशाब्दबोधे विशेष्यताभेदेन त्वादिनिष्ठकाप्रकारता यत्रास्ति तत्र द्वित्वादिपर्याप्तेः शुद्धाया एव संसर्गता। यत्र च द्वित्वादिनिष्ठकप्रकारतानिरूपितविशेष्यतावच्छेदकता एकस्मिन् धम्म तिष्ठति तत्रोद्देश्यतावच्छेदकव्याप्यत्वविशिष्टद्वित्वादिपर्याप्तेः संसर्ग- तेति व्यवस्थाप्य धवखदिरावाकाशावित्यादीनां प्रामाण्याप्रामाण्ये उपपादित- वान् । तत्रायमाक्षेपः-कालाकाशघटादिगतबहुत्वपर्याप्तेः कालाकाशेऽपि भवदुक्तयुक्त्या सत्त्वात् तत्र च नानान्वयितावच्छेदकस्य सत्त्वेन शुद्धपर्याप्ते- रेव संसर्गतया धवखदिरावित्यादिवत् कालाकाशा इति प्रयोगस्यापि प्रामा- ण्यापत्तिः। एवं धवखदिरपलाशार्कप्रत्येकगतप्रत्येकद्वित्वबोधेन तात्पर्येण धवखदिरपलाशार्काविति प्रयोग प्रापद्येतेति तन्न । अस्तु उद्देश्यतावच्छेदक- व्याप्तिविशिष्टपर्याप्तेरेव संसर्गताऽविशेषेण व्याप्यत्वं च व्यापकसामानाधि- करण्यमेव व्यापकत्वं च व्याप्यसामानाधिकरण्यात्यन्ताभावप्रतियोगितानव- च्छेदकत्वम् । एवञ्च प्रकृते द्वित्वादिपर्याप्तिसमानाधिकरणो योऽभावः स च स्वान्वयितावच्छेदकत्वेन तात्पर्याश्रयविशेष्यताश्रयव्यधिकरणो विवक्षित इति प्रकृते कालाकाशगतबहुत्वपर्याप्तिसमानाधिकरणो यो घटवृत्तिः काल- त्वाभावः स च बहुत्वपर्याप्त्यनुयोगितावच्छेदकत्वेन तात्पर्य्यविशेष्यीभूतं यत् कालत्वमाकाशत्वञ्च तद्व्यधिकरण इति तत्प्रतियोगितावच्छेदकधर्म- वत्वमेव कालत्वादीनामिति न तस्य व्यापकत्वमिति कृत्वा पर्याप्तेापक- सामानाधिकरण्याभावेनादोषात् । धवखदिरावित्यादावपि द्वित्वपर्याप्ति- समानाधिकरणो योऽभावस्स च न धवत्वखदिरत्वाद्यभावोऽपि तु घटत्वाद्य- भाव इति तत्प्रतियोगितावच्छेदकधर्मवद्धवत्वादिसामानाधिकरण्यस्य पर्या- प्तेः सत्त्वेनाव्याप्तिविरहात् । ननु धवखदिरगतद्वित्वपर्याप्तिसमानाधिकरणो यः स्वान्वयितावच्छेदकत्वेन तात्पीयविशेष्यधवत्वादिव्यधिकरणोऽभावस्त- १६४ व्युत्पत्तिवादः [ कारके प्रकारताभेदेन चोद्देश्यतावच्छेदकधवत्वादिव्याप्तिविशिष्टपर्याप्तः संसर्गतानियमेन एकैकधवखदिरादितात्पर्येण तथा प्रयोगासम्भ- स्याप्रसिद्धतयाऽव्याप्तिर्दुर्बारेति चेन्न । समानाधिकरणो योऽभावः स च स्ववि- शिष्टो ग्राह्य इत्यदोषात् । तत्र वैशिष्टयं स्वतादात्म्यस्वाभाववत्वोभयाभ्याम्। तत्राभावीयप्रतियोगितावच्छेदकः सम्बन्धः स्वप्रतियोगिद्वित्वान्वयिताव- च्छेदकत्वेन तात्पर्य्यविषयीभूतधर्मवद्वृत्तित्वरूपः । तथा च द्वित्वपर्याप्ति- समानाधिकरणो यः धवखदिरादिवृत्तिघटत्वाद्यभावस्तस्य स्वतादात्म्य- मस्ति स्वप्रतियोगिघटत्वादि तस्य निरुक्ततात्पर्य विशेष्यत्वाभावः यच्च तादृशविशेष्यतावत् न स प्रतियोगि इति तद्वद्वृत्तित्वसम्बन्धावच्छिन्नप्रति- योगिताकस्वाभावस्य सत्त्वेन स्वविशिष्टतत्प्रतियोगितानवच्छेदकवत्वं धव- त्वादावव्याहतम् । तादृशसम्बन्धस्यान्यत्र प्रसिद्धत्वान्नाप्रसिद्धत्वशङ्का काला- काशा इत्यादयोऽपि न घटे निरुक्ताभावस्तत्प्रतियोगितावच्छेदकमेव कालत्वा- देर्य्यतः न चैवं सति पुनरपि धवखदिरावित्यादावव्याप्तिः । तथा हि खदिर- वृत्तिर्यो धवत्वाभावस्तस्य द्वित्वसामानाधिकरण्यमस्ति स्ववैशिष्टयं चास्ति स्वप्रतियोगिनिरुक्तविशेष्यताशयधवत्ववद्वृत्तित्वसम्बन्धावच्छिन्नप्रतियोगि- ताकस्वाभावस्य स्वतादात्म्यस्यापि सत्त्वात् तत्प्रतियोगितावच्छेदकवद्ध- वत्ववत्वसामानाधिकरण्यमेव पर्याप्तेरिति वाच्यम् । स्वाभाववनिरुक्तविशे- ष्यताश्रयधवत्वादिसमानाधिकरणपर्याप्तेरेव संसर्गतयाभिमतत्वात् । अभा- वीयप्रतियोगितावच्छेदकसंसर्गश्च स्वविशिष्टाभावप्रतियोगितावच्छेदकवत्व- रूपः । अभावे वैशिष्टयञ्च स्वसामानाधिकरण्यस्वान्वयितावच्छेदकत्वेन तात्पर्य्यविशेष्यीभूतधर्मसामानाधिकरण्यसम्बन्धाभ्याम् । एवञ्च धवादि- वृत्तिरभावो न स्वविशिष्टः धवत्वादेस्सत्त्वात् न वा घटादिवृत्तिरभावः स्व- सामानाधिकरण्यस्यासत्त्वात् इति न स्वविशिष्टाभावप्रतियोगितावच्छेद- कत्ववत्वं धवत्वादेरिति तेन सम्बन्धेन स्वाभावस्य तत्र सत्त्वाल्लक्षणसमन्वयः प्रथमा जयाऽलङ्कृतः वात्। धवखदिरावित्यादिसमासोत्तरद्विवचनेन धवत्वखदिरत्वा- द्यवच्छिन्ननानाविशेष्यतानिरूपितैकद्वित्वादिप्रकारताशालिज्ञानमेव संबन्धस्य तु आकाशत्वादी प्रसिद्धिः। कालाकाशा इत्यादीनां तु न साधुता। तत्र स्वविशिष्टाभावकालत्वप्रतियोगिको घटवृत्तिस्तत्प्रतियोगितावच्छेदकवत्व- स्यैव कालत्वादौ सत्त्वात् । अथवा स्वविशिष्टा या विशेष्यता तद्वत्सामानाधि- करण्यमेव पर्याप्तस्संसर्गता नियामकतयाभिमताम् । विशेष्यतायां स्वान्वयि- तावच्छेदकत्वप्रकारकतात्पर्यनिरूपितत्वस्वसमानाधिकरणात्यन्ताभावप्रति- योगितानवच्छेदकताकत्वसम्बन्धाभ्याम् । वैशिष्ट्यं द्वित्वपर्याप्त्यनुयोगिता- वच्छेदकत्वप्रकारकतात्पर्य विशेष्यन्नास्तीत्याकारकाभावो न धवे खदिरे वा सम्भवति तादृशविशेष्यधवत्वादेस्सत्त्वात् । घटादौ सम्भवत्यपि न प्रकृतार्थोप- योगी पर्याप्तिसामानाधिकरण्यस्यासत्त्वादिति न स्वसमानाधिकरणाभाव- प्रतियोगितावच्छेदकतावती विशेष्यतेति तद्वत्सामानाधिकरण्यस्य पर्याप्तौ सत्त्वाल्लक्षणसमन्वयः । कालाकाशा इत्यादयो न साधवः । तादृशाभावस्य घटे सत्त्वेन तादृशाभावप्रतियोगितावच्छेदिकैव तादृशी विशेष्यता इति तद्वत्सामानाधिकरण्येन लक्षणसमन्वयाभावात् । अथ वा नोद्देश्यतावच्छेदक- व्याप्यत्वमपेक्षितमपि तु उद्देश्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदक- संख्याव्याप्यत्वं तत्र व्यापकतावच्छेदकसंसर्गश्च स्वाश्रयधर्मवत्वरूपः। धव- खदिरावित्यादावुद्देश्यतावच्छेदकतापर्याप्तिर्द्धवत्वखदिरत्वोभयस्मिन् तदनु- योगितावच्छेदिका संख्या द्वित्वं तद्व्याप्यत्वस्य पर्याप्तौ सत्त्वाल्लक्षण- समन्वयः । कालाकाशाश्च न प्रयोगः । तत्रोद्देश्यतावच्छेदकतापर्याप्त्यनु- योगितावच्छेदिका संख्या द्वित्वं तद्व्याप्यत्वं न बहुत्वपर्याप्तेः स्वाश्रयवत्व- सम्बन्धेन तद्वतोऽन्यघटवृत्तित्वादिति सुगमः पन्थाः। अथ वा यथा भवद्भिः कुत्रचिच्छुद्धपर्याप्तेः संसर्गता कुत्रचित् विशेषपर्याप्तेः संसर्गता इत्युच्यते तद्वदस्माभियंत्रान्वयितावच्छेदकमेकं तत्र व्यापकसामानाधिकरण्यमेव जन्यते । व्युत्पत्तिवादः [ कारके तादृशवाक्यजन्यवोधस्य समूहालम्बनानात्मकतया विशेष्यताभेदेन प्रकारताभेदाभावात्। यथा हि समूहालम्बनानात्मके खगी चैत्रः कुण्डलीत्याकारकनानाविशेषणकैकविशेष्यकज्ञाने नाना- प्रकारतानिरूपितैका विशेष्यता तथा तथाविधे धवखदिरावित्याद्या- कारके नानाविशेष्यकैकविशेषणकज्ञाने विशेष्यताभेदेऽप्यभिन्नैव द्वित्वादिप्रकारता अन्यथा समूहालम्बनतस्तद्वैलक्षण्यानुपपत्तेः । समासघटकधवखदिरादिपदानामेकवाक्यतानुपपत्तेश्च । तत्प्रयोज्य- विषयतया साक्षात्परम्परया वा निरूपिता या विषयता तत्प्रयोज- कत्वस्यैव तदेकवाक्यतापदार्थत्वात्। न चैताहशैकवाक्यताविरहेऽपि क्षतिविरहः। तथा सति समासस्यैवानुपपत्तेः। अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राजपुरुषपदादीनां समासवारणाय समर्थपदानामेव समासानुशासनात् । सामर्थ्यस्य च निरुक्तैक- वाक्यतारूपत्वात् । जलपृथिव्योः स्नेहगन्धावित्यादितोऽपि न जले स्नेहः पृथिव्यां गन्ध इत्याकारकसमूहालम्बनबोधः। किन्तु तद्विल- क्षणो द्वित्वादिनिष्ठेकप्रकारतानिरूपितजलत्वपृथिवीत्वाद्यवच्छिन्न- व्याप्तिः, यत्र नानाधर्मेष्वनुयोगितावच्छेदकता तत्र तद्वदन्यावृत्तित्वरूपैवेति। उच्यते--केवलान्वयिशब्दस्य तु न केनापि शब्देन द्वन्द्वसम्भवः, सर्वत्र कर्मधारययोग्यत्वात् । इति न क्वाप्यव्याप्त्यतिव्याप्तीत्यलमति विस्तरेण । अपरे तु पर्याप्तिविशिष्टायाः पर्याप्तेस्सम्बन्धता। वैशिष्ट्यं स्वता- दात्म्यस्वविशिष्टाभावाधिकरणवृत्तित्वोभयसम्बन्धेन । अभावे वैशिष्टयञ्च स्वानुयोगितावच्छेदकत्वेन तात्पर्य्यविषयीभूतधर्मप्रतियोगिकत्वप्रदर्शित- धर्मासामानाधिकरण्योभयसम्बन्धेनाव्याप्त्यतिव्याप्तीति प्राहुः । अत्र सर्वतो लघुवचनरचनाबलम्बिनः स्वविशिष्टप्रतियोगितानवच्छेदकधर्मवत्सामाना- धिकरण्यविशिष्टपर्याप्तेरेव संसर्गताम्वदन्ति । स्वस्य वैशिष्टयञ्च स्वसमा- प्रथमा ] जयाऽलङ्कृतः विशेष्यतात्मकप्रकारताद्वयनिरूपिताधेयत्वप्रकारतानिरूपितं यद्ध- मितावच्छेदकद्वित्वादिनिष्टंकप्रकारतानिरूपकं स्नेहत्वगन्धत्वाद्य- वच्छिन्नविशेष्यताद्वयं तद्वानिति । अतोन कुत्राप्येकवाक्यताभङ्गः। चैत्रो मैत्रश्च गच्छत इत्यादावाख्यातार्थद्वित्वादिप्रकारेण भासमाने चैत्रमैत्रोभयादौ गमनाश्रयत्वाद्यन्वयेन निरुक्तकवाक्यतासंभवेऽपि समासविधेविभाषाधिकारीयत्वादसमासः। तत्र विशेष्यताभेद- भिन्नद्वित्वनिष्टप्रकारताद्वयप्रतियोगी समूहालम्बनात्मकबोध इति तु न सम्यक् । तथा सत्युक्तरीक्त्या एकैकचैत्रमैत्रादितात्पर्येण तथाप्रयोगानुपपत्तेः । आख्यातोपस्थापितद्वित्वादिकं चोभ- नाधिकरणात्यन्ताभावीयविवक्षितस्वानुयोगितावच्छेदकतात्वावच्छिन्नत्वोभ- यसंसर्गेणेति ऊहनीयम् । द्वित्वन्तु स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदक- मेव गृह्यते । साजात्यं च पूर्ववत् इति न द्वितीयशङ्काया अवकाशः। तत्र हि धवो द्वित्ववत्खदिरो नेतिभेदीयप्रतियोगितावच्छेदकमेव खदिरगतं द्वित्वमेव क्रमेण किमपि द्वित्वन्न तद्रूपम् । धवखदिरावित्यादौ द्वित्वस्यैक्येन भेदस्य प्रतियोगितावच्छेदकेन विरोधात् । न खदिरे तद्वित्ववद्धवभेदो नापि धवे तभेद इति नाव्याप्तिः। न चैवं खदिरो न धवखदिरोभयमिति प्रतीतेम्मू - भिषिक्ततया तत्रापि भेदीयप्रतियोगितावच्छेदकमेव द्वित्वमिति वाच्यम् । भेदे प्रतियोग्यवृत्तित्वस्य निवेशनीयत्वात् । यदि च प्रतियोग्यवृत्तित्वमप्रसि- द्धं प्रतियोग्यवृत्तित्वस्य वृत्तिमदवृत्तित्वादित्युच्यते तदा स्वसजातीय- विशिष्टभेदप्रतियोगितानवच्छेदकमेव द्वित्वं द्विवचनार्थमिति बोध्यम् । साजात्यं पूर्ववत्। भेदे वैशिष्टयं च स्ववृत्तित्वस्ववृत्तिधर्मावच्छिन्नप्रतियोगि- ताकत्वाभावत्वोभयसम्बन्धेन । तथा चोभयभेदस्य स्ववृत्तित्वेऽपि स्ववृत्तिय- द्वित्वं तदवच्छिन्नप्रतियोगिताकत्वेन तस्याग्रहणान्न दोषः । उक्तरीत्येति (उक्तयुक्त्येति वा पाठः) । एकैकधवखदिरादितात्पर्येण धवौ खदिरावितिप्रयोगवारणाय नानाधविच्छिन्नविशेष्यतानिरूपितद्वित्व- व्युत्पत्तिवादः [ कारके यत्वादिरूपान्वयिता'वच्छेदकावच्छिन्न एवान्वेतीति व्युत्पत्तिः । तेनोक्तप्रयोगदर्शनात् क्रियापदस्य विशेष्यवाचकपदसमानवचन- कत्वानियमेऽपि घटद्वयादितात्पर्येण घटस्तिष्ठत इत्यादयो न प्रयोगाः। एकवचनान्तक्रियापदं च तादृशविशेष्यवाचकपदप्रयोग एव साधुः । अतो घटास्तिष्ठतीत्यादयो न प्रयोगाः। अथैकघटादि- व्यक्तेरेतदेशवृत्तितादशायामत्र घटौ स्त: घटाः सन्तीति कथं न प्रयोगाः। घटादौ घटत्वादिव्याप्तिविशिष्टपर्याप्तिसम्बन्धेन द्वित्वादेः स्वरूपादिसम्बन्धेन तद्देशवृत्तित्वाश्रयत्वादेश्च सत्त्वात् । न च द्वित्वे- नोपस्थितयोर्द्वयोरेव व्यक्तयोरेवं बहुत्वेनोपस्थितासु बहुषु व्यक्तिषु विधेयान्वयात् व्यक्त्यन्तरेष्वेत्तद्देशवृत्तित्वाश्रयत्वादिबाधान्न तादृश- प्रयोग इति वाच्यम्। व्यक्त्यन्तरेऽयोग्यतया तादृशविधेयानवगाहिन एकघटे तदवगाहिनो बोधस्योत्पत्तौ बाधकाभावात्। तथा तात्पर्येण तथा प्रयोगस्य दुर्वारत्वात् । न च व्यासज्यवृत्तिधर्मो यत्रान्वयितावच्छेदकस्तत्र यावत्सु अन्वयितावच्छेदकस्य पर्याप्ति- स्तावतामेव पदार्थान्तरेणान्वय इति व्युत्पत्तिस्तन्निहाय च ताहशधर्मावच्छिन्ने इतरान्वयबोधजनकसामग्य उभयादिविषय- कपदार्थान्तरान्वयबुद्धित्वमेव'जन्यतावच्छेदकं वक्तव्यमिति द्वित्वा- निष्ठनानाप्रकारतादशायामुद्देश्यतावच्छेदकव्याप्यपर्याप्तेरेव संसर्गतोक्त्या अत्रापि शुद्धपर्याप्तिभानन्न स्यादिति भावः । चैत्रो मैत्रश्चेत्यादौ चार्थोभयत्वावच्छिन्ने एव द्वित्वान्वय इति भावः । द्वित्वादिविशिष्टविशेष्यतानिरूपितैतद्देशवृत्तित्वनिष्ठप्रकारताकबोधं प्रत्येव अत्र पदसमभिव्याहृतद्वितीयान्तादिपदत्वरूपाकाङ्क्षाज्ञानस्य कार- णत्वमिति भावः ।

प्रथमा ] जयाऽलङ्कृतः १६६ दिनैकघटादिमात्रविषयकैतद्देशवृत्तित्वाद्यन्वयबोधो न सम्भवतीति न तादृशबोधतात्पर्येण ताशप्रयोगापत्तिरिति वाच्यम् । योग्यता- भ्रमेणाकाशावत्र स्त इत्यादिवाक्याद्वित्वादिनैकव्यक्तिमात्रविष- यकपदार्थान्तरान्वयबोधात्तादृशव्युत्पत्तेस्तन्निर्वाहककार्यकारणभा - वस्य च कल्पनासम्भवात् । यत्तु द्वित्वाद्यवच्छिन्नोद्देश्यताकबुद्धावुद्देश्यतावच्छेदकव्याप- कता नियमतो विधेयसंसर्गे भासते इति व्युत्पत्तिः यत्र चोहे- श्यतावच्छेदकविशिष्टाधिकरणाप्रसिद्ध्या तद्वथापकत्वमप्रसिद्ध तत्रापि खण्डशः प्रसिद्धानां तत्तद्घटकपदार्थानां विशेष्यविशेषण- भावापन्नानां भानसम्भवान्न पीतशङ्खावत्रेत्यादौ तादृशव्युत्पत्तिभङ्गः। एवं चैकघटादिव्यक्तिमात्राधिकरणपरस्यात्र घटौ स्त इत्यादिवाक्य- स्याप्रामाण्यं सुघटमेवोद्देश्यतावच्छेदकीभूतघटमात्रवृत्तिद्वित्वव्या- पकतायास्तादृशवाक्यप्रतिपाद्याया विधेयसंसर्गे बाधादिति । तदपि तुच्छम् । अत्र घटौ स्त इत्यादौ द्वित्वसमानाधिकरणा- भावप्रतियोगितानवच्छेदकत्वस्य द्वित्ववद्धटनिष्ठाभावप्रतियोगि- तानवच्छेदकत्वस्य च तदधिकरणावृत्तिघटादिनिष्ठाभावप्रतियोगि- तावच्छेदकीभूते तत्तद्विधेयसंसर्गतावच्छेदके बाधाद्घटद्वयाधिकर- णपरतादृशवाक्यस्याप्रामाण्यापत्तेः । तत्तद्वित्वसमानाधिकरणा- भावप्रतियोगितानवच्छेदकत्वस्य तत्तद्विधेयसंसर्गाशे भानोपगमस्तु न सम्भवति । तत्तद्वित्वत्वेनानुपस्थितेः। न च तदवच्छिन्नस्य संसर्गतया भाने तेन रूपेणोपस्थिति पेक्ष्येति वाच्यम्। तत्संसर्गा- अत्रेति । ननु विधेयसंसर्गे यत्किञ्चित् द्वित्वव्यापकत्वं घटनिष्ठ- द्वित्वव्यापकत्वम्वा विवक्षितमिति विकल्प्य यत्त्वितिमतं दूषयति-- अत्र घटौ स्त इत्यादिना ।

१७० व्युत्पत्तिवादः [ कारके वच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिशाब्दबोधपरमित्या- कारकतात्पर्यज्ञाने संसर्गस्य विशेषणतया तद्भाननिहाय संसर्ग- घटकोपस्थितेरपि शाब्दबोधात्यागावश्यकत्वात् प्रकृतसंसर्गेण एक- पदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य' प्रकृतवाक्यार्थविषयक- तया प्रागसम्भवेनोपदर्शिततात्पर्यज्ञानस्यैव शाब्दधीहेतुत्वोपग- मात् । एवं वाक्यार्थघटकसंसर्गस्याननुगमेनात्र घटौ स्त इत्यादौ वाक्यभेदप्रसंगाच्च । अत्रोच्यते। व्यासज्यवृत्तिधर्मावच्छिन्नोद्देश्यताकशाब्दबुद्धौ स्वव्याप्यतादृशधर्मवत्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः । व्याप्यत्वं च तद्वदन्यावृत्तित्वम् । व्यतिरेकिविधेयस्थले तादृशधर्मवत्वं चोद्देश्यतावच्छेदकताघटकसम्बन्धेन बोध्यम् । अत्र घटौ स्त इत्यादौ एतद्देशवर्तमानत्वादिरूपविधेयस्य तद्वदन्यावृत्ति- स्वरूपव्याप्तिमच्चैतद्देशस्यैकघटादिव्यक्तिमात्राधिकरणत्वे घटपटा- दिनिष्ठद्वित्वमेव घटत्वव्याप्तपर्याप्तिरूपोद्देश्यतावच्छेदकताघटक- १ प्रकृतसंसर्गेणकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य प्रकृतवाक्या- थेत्यादि । वस्तुत इदन्न सम्यक् । विशिष्टवाक्यार्थस्य विशिष्टवाक्यप्रतिपाद्य- त्वेन शाब्दबोधात् प्राक् ज्ञानासंभवेऽपि तद्वित्वसमानाधिकरणात्यन्ताभा- वप्रतियोगितानवच्छेदकस्वरूपादिसम्बन्धेनैतद्देशवृत्तित्वविशिष्टबोधपरमेतत् वाक्यम् । एवं घटविषयकबोधपरमित्यादेविशिष्टवाक्याप्रतिपाद्यत्वेन ततः प्रागपि सम्भवात् । ननु कथन्न तदा तस्य संसर्गतोपेयेति चेन्न । प्रतियोग्य- भावान्वयौ तुल्ययोगक्षेमाविति स्मरणात्। संसर्गभेदेन तत्तदभावा एव भासे- रन्। तथा सति अभेदान्वयप्रकरणोक्तरीत्याऽत्र घटौ न स्त इति वाक्यजन्य- प्रमात्मकबोधदशायामपि अत्र घटौ स्त इत्यतोऽभ्रान्तस्यापि बौधापत्तेरिति । घटपटादीति । एतद्देशस्य एकघटव्यक्ति-एकपटव्यक्तिमात्राधि- करणत्वे । ।

प्रथमा ] जयाऽलङ्कृतः १७१ सम्बन्धावच्छिन्नं तद्वत्वं च घटादौ बाधितमिति न तादृशवा- क्यस्य प्रामाण्यम्। अधिकरणस्य घटद्वयादिमत्व च घटत्वा- दिव्याप्यं द्वित्वमेव तथेति घटत्वादिव्याप्यपर्याप्तिसम्ब- न्धेन तद्वत्त्वं घटादाववाधितमिति ताशवाक्यस्य प्रामाण्यं निर्व- हति। केवलान्वयि विधेयकस्थले च द्वित्वत्वाद्यवच्छिन्नव्यापकत्व- मेव संसर्गघटकम् । केवलान्वयिनि तादृशव्यापकताया अक्षत- त्वात् । न तु तत्तद्वित्वत्वावच्छिन्नव्यापकत्वमिति न पूर्वोक्तदो- षावकाशः। घटवानयति चैत्र इत्यादौ चैत्रकर्तकानयनकर्मत्वादि- व्याप्यद्वित्वादिमन्निष्टनिरूपकताकाधेयत्वादिसम्बन्धेन कर्मत्वादी घटादेरन्वयोऽव्युत्पन्नः। तेन चैत्रादेः एकघटादिव्यक्तिमात्रानयन- कर्तृत्वे न तादृशप्रयोगः। द्वित्वादिमत्त्वं च प्रकारतावच्छेदकी- भूतघटत्वादिव्याप्यपर्याप्तिसम्बन्धेन बोध्यम् । तेन चैत्रस्य पटादि- सहितैकघटादिव्यक्त्यानयनकर्तृत्वेऽपि न तादृशप्रयोगः । एवं- मन्यत्राप्यूहनीयम् । यत्रानेकवृत्तिधर्मो द्वित्वान्वयितावच्छेदकतया भासते तत्रोप- दर्शितरीत्योभयादिनैव समं पदार्थान्तरस्यान्वयः । यत्र त्वेकमात्र- वृत्तिधर्मस्तथा तत्रैकेनापि व्युत्पत्तिभेदावलम्बनात्कार्यकारणभाव- वैचिच्योपगमाञ्च सर्व समञ्जसमित्यपि वदन्ति । अथ घटादिव्यक्तिभेदेनानयनकर्मता भिन्नैवेति प्रतिसन्दधा- केवलान्वयोति इदन्तु काकदन्तविचारवत् केवलान्वयिनः सर्वत्र वृत्तित्वात् । घटावानयतीत्यत्रैव प्रकारान्तरमाह-योति । अत्रानेकवृत्तिघटत्वा- दिद्वित्वान्वयितावच्छेदकतया भासते । एकमात्रेति । आकाशावत्र स्त इत्यादावाकाशादिरूपो धर्मः । २ १७२ व्युत्पत्तिवादः [ कारके नस्य पुंसो घटावानयतीति वाक्याच्छाब्दबोधानुपपतिः । तस्य कर्मतात्वावच्छेदेनाधेयतासंसर्गावच्छिन्नप्रतियोगिताकस्य द्वित्वा- द्यवच्छिन्नघटाद्यभावस्य निश्चयसम्भवात् । तस्य द्वित्वादिना ताह- शसंसर्गकघटादिविशिष्टधीविरोधित्वादिति चेत् न । उभयत्वाद्यव- च्छिन्नाभाववत्ताज्ञानमुभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगा- हिज्ञानमेव प्रतिबध्नाति न तु केवलं विशेष्ये विशेषणमिति रीत्या जायमानमुभयत्वादिविशिष्टज्ञानम् । अतो विशेषदर्शिनां तादृश- वाक्याहोषायत्तमाधेयत्वांशे उभयत्वाद्यवच्छिन्ननिरूपितत्वावगाहि- भ्रमात्मकज्ञानं न भवत्वेव । अपि तु तदंशे तदनवगाहिप्रमात्मकं ज्ञानमित्युभयत्वावच्छिन्ननिरूपिताधेयत्वं चोभयादिवृत्तावेकस्मि- न्धर्मे एव न तु प्रत्येकमात्रवृत्ताविति कर्मत्वांशे तादृशाधेयत्वाव- गाहिज्ञानस्य भ्रमत्वमिल्यवधेयम् । संख्याश्च प्रकृत्यर्थतास्वच्छेदकगताः कचित्प्रतीयन्ते। यथा संपन्नौ व्रीहियवावित्यादौ। एतत्तत्वं प्रागेवाभिहितम् । विरुद्ध- संख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्त्युपस्थाप्य संख्या प्रक- त्यर्थतावच्छेदकसंख्यायामेवान्वेति । यथा शतमेकं द्वे शते त्रीणि शतानीत्यत्र शतत्वादौ एकत्वद्वित्वबहुत्वानामन्वयः । अत एव च एकशतद्विशतादितात्पर्येण न शतानीति प्रयोगः। तत्र प्रकृत्यर्थस्य शतस्य बहुत्वाद्यन्वययोग्यत्वेऽपि प्रकृत्यर्थतावच्छेदकशतत्वांशे बहुत्वाद्यन्वय एव बहुवचनस्य साकांक्षत्वात् । तत्र योग्यतावि- रहात् । न चैकशतेऽपि नानापुरुषीयापेक्षाबुद्धिजन्यनानाशतत्वस- म्भवादेकशतनिष्ठशतत्वेऽपि बहुत्वान्वययोग्यताऽक्षतैवेति वाच्यम्। परस्परसमानाधिकरणद्वयावृत्तिबहुत्वस्यैव शतादिपदोत्तरबहुवच- नार्थत्वात् । तादृशबहुत्वस्य चैकशतादिवृत्तिनानाशतत्वादौ बाधात् । अथ वा तत्रापि बहुत्वमेव बहुवचनार्थः। परस्परसमानाधिकर- गद्वयावृत्तिपर्याप्तिरेवाकाङ्क्षानिरूपकः सम्बन्धः।

प्रथमा ] जयाऽलङ्कृतः १७३ यत्तु द्वे शते त्रीणि शतानीत्यादौ संख्यैव शतादिशब्दार्थः, न तु संख्येयं, संख्येयस्य तदर्थत्वे "विंशत्याद्याः सदैकत्वे सर्वाः 'संख्ये- यसंख्ययोः संख्यार्थे द्वित्वबहुत्वे” इत्यनुशासनविरोधात् द्विव- चनादिसाधुतानुपपत्तेः। गवां शतानीत्यादौ षष्ठ्यर्थान्वयानुपप- तेश्च । न चाभेदः षष्ठ्यर्थः । तथासति ब्राह्मणा दश इत्यत्र ब्राह्मणानां दशेत्यपि स्यात् । अस्माकं चादशेभ्यः' संख्याः संख्येये वर्तन्ते । श्रतः परं संख्याने संख्येये चेत्यनुशासनाद्दशादिशब्दानां शतादि- शब्दवत्संख्यानार्थकत्वाभावादशत्वादिसंख्यायाः पदार्थतावच्छेद- कत्वेन तत्र षष्ठ्यर्थसम्बन्धान्वयासम्भवेन न तथा प्रयोग इति । तदसत् । गवां शतं शतानीत्यादौ संख्यायाः प्राधान्येन शता- दिशब्दवाच्यत्वे गवां शतं दद्यादित्यादौ शतादिपदार्थस्य संख्याया दानादिकर्मत्वान्वयायोग्यतया प्रामाण्यानुपपत्तिः। गवां शतं शुक्ल- मित्यादौ संख्यायां शुक्लाद्यभेदान्वययोग्यताविरहात्तद्नुपपत्तिश्च । तस्मादशादिशब्दा इव विंशतिशतसहस्रादिशब्दा अपि संख्या- वच्छिन्नवाचका एव । न तु धर्मिविशेषणतानापन्नसंख्यावाचकाः। १ विशत्याद्याः सदैकत्वे सर्वा इति । विंशत्याद्याः सर्वाः संख्यावाचक- शब्दाःसंख्येयसंख्ययोर्वर्तन्ते । “संख्यार्थे द्वित्वबहुत्वे स्तस्तासु चानरतेः स्त्रियः' इत्युत्तरार्द्ध संख्यारूपेऽर्थे द्वे त्रीणि शतानीति द्विबहुत्वे भवतः इत्युक्तेरवशिष्ट- संख्येयार्थकत्वे विंशत्याद्याः सर्वाः संख्याशब्दा एकत्वे वर्तन्ते इत्यर्थी लभ्यते। तथा च संख्येयार्थकत्वे एकवचनमेव साध्विति दिक् । आदशेभ्यः (आदशतो वा पाठः) इति । एकादारभ्याष्टादशपर्य्यन्ताः संख्यावाचकाः शब्दाः संख्येये वर्तन्ते । संख्येये ह्यादश त्रिष्वित्यनुशासनात् । अतः परा विंशत्यादिशब्दाः संख्याने संख्येये चेत्यर्थः । विंशति ब्राह्मणा इति संख्येये ब्राह्मणानां विंशतिरित्यादि संख्याने इति ।

१७४ व्युत्पत्तिवादः [ कारके स्वार्थैकदेशेऽपि संख्यायां स्वप्रकृतिकविभक्त्यर्थसंख्यान्वयसाका- श्तयाऽन्यप्रकृतिकषष्ठ्यर्थसम्बन्धान्वयसाकाङ्क्षतया च तेषां संख्यानार्थकताप्रवादः, न तु दशादिशब्दानां तथात्वं दशादि- ब्राह्मणतात्पर्येण ब्राह्मणानां दशेत्यादिप्रयोगविरहादिति तेषां संख्येयमात्रवाचिताप्रवाद इति "विंशत्याद्याः सदैकल्वे सर्वाः संख्येयसंख्ययोः। संख्यार्थे द्विबहुत्वे स्त" इत्यनुशासनमप्युक्तार्थे दर्शितव्युत्पत्तिग्राहकमित्यवध्येयम् । एकद्विबहुशब्दोत्तरैकवचन द्विव- चनबहुवचनानि च न संख्याबोधकानि । उद्देश्यतावच्छेदकविधेययो- रैक्येनैकत्वादिविशष्टे एकत्वाद्यन्वये आकाङ्क्षाविरहादिति तदुत्तरं प्रथमाविभक्तिः प्रयोगसाधुतामात्राय नित्यवहुवचनान्ते- भ्योऽयादिशब्देभ्यः परं प्रथमावहुवचनमपि कचिनिरर्थकमेव । यत्रैकव्यक्तिमात्रतात्पर्येण तादृशशब्दः प्रयुज्यते तत्र बहुत्वान्वये योग्यताविरहात् । यत्तु तद्गतगुणादिसाधारणबहुत्वस्य तत्रान्वय इति-तन्न शोभनम् । प्रकृत्यर्थतावच्छेदकव्याप्यपर्याप्तिसम्बन्धेनैवानेकवृत्ति- संख्यान्वयस्य व्युत्पन्नतया तादृशसम्बन्धेन तथाविधबहुत्वान्वय- योग्यताविरहात् । अन्यथोदासीनघटपटादिसाधारणबहुत्वस्याप्य- न्वयसम्भवेन तद्गतगुणादिसाधारणबहुत्वानुधावनस्याकिञ्चित्कर- त्वात् । अथ तत्राजहत्स्वार्थलक्षणया गुणादिसाधारणधर्मा- वच्छिन्न एव प्रकृत्यर्थ इति चेत्तहि बहुत्वेन भासमानेषु गुणादि- ध्वपि पदार्थान्तरान्वयः स्यात् । तथा चापो द्रव्याणि दारा अत्र गृहे सन्तीत्यादिवाक्यानामप्रमाणतापत्तिः। गुणादिषु द्रव्याभेदे गृहवृत्तितादेर्वाधात् मुख्यार्थमात्रपरतादृशशब्दानां बहुवचनान्त- तानुपपत्तेश्चेति न किंचिदेतत् । अवादिपदार्थे एकत्वद्वित्वान्वय- योग्यतासत्त्वेऽप्यसाधुत्वादेव तदुत्तरमेकवचन द्विवचने न प्रयुज्यते इति ध्येयम् ।

प्रथमा ] जयाऽलङ्कृतः १७५ आख्यातैकवचनस्य संख्यार्थकत्वे विवदन्ते निष्कर्षानुसारिणः। घटोऽस्तीत्यादौ सुबेकवचनादेव संख्याबोधकत्वसम्भवात् । चैत्रेण दृष्टो घट इत्यादिस्थलानुरोधेन तस्य तद्बोधकताया आवश्य- कत्वात् । न चैकवचनत्वेनानुगतेनैकत्वशक्तत्वात्तिकवचनस्याप्ये- कत्ववाचकत्वमक्षतमिति वाच्यम् । एकवचनत्वस्यैकत्वशक्तता- वच्छेदकतायाः प्रागेव निराकृतत्वात् । अस्तु वा तेन रूपेण तिङकवचनस्याप्येकत्वे शक्तिस्तथापि तज्जन्यैकत्वोपस्थितेः शाब्द- बोधोपयोगित्वे मानाभावः । न हि सामान्यत एकवचनज्ञानजन्यै- कत्वोपस्थितित्वेन तच्छाब्दबोधहेतुता सम्भवति । तथा सत्ये- कत्वेऽगृहीतसुपदवृत्तिकस्य पुंसः सुपदप्रकृतिघटादिपदोपस्थाप्य- घटादौ पटादिपदोत्तरामादिपदोपस्थाप्यैकत्वाद्यन्वयबोधप्रसङ्गः, किन्तु सुपदत्वादिप्रकारकज्ञानजन्यतदुपस्थितित्वादिनैव। तथा सति घटादिपदोत्तरसुपदत्वादिरूपानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानघटितायां घटादावेकत्वान्वयबोधस्य सामग्यां सुपदत्वादिप्रकारकधीजन्यो- पस्थितेरन्तर्भावात्तादृशापत्तेरनवकाशात् । एवं च तिबादिसमभि- व्याहारप्रकारकज्ञानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुत्वे माना- भाव इति । यत्तु तिबादेः संख्यानभिधायकत्वे चैत्रः पचति तण्डुलं चैत्रेण पच्यते तण्डुल इत्यादौ कर्तृकर्मवाचकपदात्तृतीयाद्वितीय- योरापत्तिः कर्तृकर्मगतसंख्याया अनभिधाने 'कर्तृकरणयोस्तृतीयेति "कर्मणि द्वितीये"तिसूत्राभ्यां तयोरनुशासनात् । नैयायिकमते लकारस्य कर्तृकर्मावाचकतया तदनभिधानस्य द्वितीयातृतीयानियामकत्वासम्भवात् । न च कर्नादिगतसंख्यान- भिधानमेव कथं कादिवाचकपदोत्तरतृतीयादिनियामकं, चैत्रेण पच्यते तण्डुल इत्यादिस्थलेऽपि लकारस्य चैत्रादिगतसंख्या- भिधायकत्वत्वादेकत्वादिना एकत्वादिसामान्यस्यैवैकवचनाभिधे- यत्वादिति वाच्यम् । यतस्तद्गतसंख्यानभिधायकत्वं प्रकृते न व्युत्पत्तिवादः [ कारके तद्गतसंख्यानिष्टवृत्त्यनिरूपकत्वमपि तु तद्विशेष्यकसंख्याप्रकार- कशाब्दबोधाननुकूलत्वमेव । तथा च कर्नादिविशेष्यकसंख्यान्वय- बोधाजनकलकारादिसमभिव्याहृतक दिवाचकपदात् तृतीयादयो भवन्तीत्यत्र तदनुशासनतात्पर्यम् । चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रादिविशेष्यकं संख्यान्वयबोधकत्वं नाख्यातस्य । आख्यातार्थ- भावनाया यत्रान्वयस्तद्विशेष्यकसंख्यान्वयबोधस्यैवाख्यातेन जन- नात्तादृशभावनान्वयबोधे विशेष्यश्च प्रथमान्तपदोपस्थाप्य एव । चैत्रः पचति तण्डुलमित्यादौ चैत्रादिः साक्षादेव भावनावि- शेष्यत्वम्। चैत्रेण पच्यते तण्डुल इत्यादौ तु परम्परया चैत्रा- दिनिष्ठभावनाजन्यपाकजन्यफलशाली तण्डुल इत्याकारकबोधस्यैव तत्रोदयात्। तस्मात्तिबादेरपि संख्याबोधकत्वमावश्यकमिति तन्न विचारसहम् । तथा हि कादिनिष्ठसंख्यान्वयबोधाननुकूलत्वं यदि तादृशबोधफलोपधायकज्ञानविषयत्वाभाववत्त्वं तदा याह- शतिबादिज्ञानेन सहकार्यन्तरविरहात्ताहशबोधो न जनितस्तद्योगे तृतीयाद्यापत्तेः । यदि च तादृशबोधस्वरूपयोग्यज्ञानविषयत्वा- भावस्तदा यगादिसमभिव्याहृतात्मनेपदादिज्ञानस्यापि तादृशबो- धस्वरूपयोग्यत्वात्तत्स्वरूपयोग्यज्ञानाविषयतिबाख्यातस्यैवाप्रसिद्धः। अथ कादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपि- तजनकतावच्छेदकविषयित्वानिरूपकत्वमेव तादृशबोधाननुकूल- त्वम् । चैत्रः पचतीत्यादिवाक्यघटकतिबादिविषयिता चैत्रादिवि- शेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छे- दिका तादृशाान्वयबुद्धित्वावच्छिन्नं प्रति चैत्रादिपदसमभिव्या- हृततिबादिपदज्ञानत्वेनाकांक्षाज्ञानस्य हेतुत्वात्। चैत्रेण पच्यते तण्डुल इत्यादिवाक्यघटकतयादिपदविषयिता च न तादृशी । चैत्रादिपदसमभिव्याहृततादृशपदज्ञानत्वेन तादृशान्वयबुद्धित्वा- वच्छिन्नं प्रत्यहेतुत्वात् । न च चैत्रः पचते इत्यादौ चैत्रविशेष्य- प्रथमा ] जयाऽलङ्कृतः १७७ काख्यातार्थसंख्यान्वयवोधोत्पत्त्या चैत्रादिपदसमभिव्याहृततयादि- पदज्ञानत्वेनापि तादृशान्वयबुद्धित्वावच्छिन्नहेतुताऽक्षतैवेति चैत्रेण पच्यते इत्यादि वाक्यघटकीभूततयादिपदविषयितापि तादृश्येवेति वाच्यम् । चैत्रेण पचते चैत्रः पच्यते इत्यादिवाक्याच्चैत्रादिवि- शेष्यकस्य भावनायाः संख्यायाश्चान्वयवोधस्यानुदयात् । तद्विशे- ध्यकतदुभयान्वयबोधे प्रथमान्तचैत्रादिपदसमभिव्याहृतशबादि- विकरणोत्तरतत्तदाख्यातपदज्ञानत्वेन हेतुत्वाच्चैत्रेण पच्यते तण्डुल इत्यादिवाक्यघटकतयादीनां ताशसमभिव्याहारादिशून्यतया तद्विषयिताया अतादृशत्वात्। चैत्रः पक्ष्यते इत्यादितस्तण्डुलः पक्ष्यत इत्यादितश्चैत्रतण्डुलादिविशेष्यकसंख्यान्वयबोधोत्पत्त्या चैत्रः पक्ष्यते तण्डुल इत्यत्रोभयविशेष्यकसंख्यान्वयबोधौपयिकसम- भिव्याहारज्ञानविषयितायाः तयादिपदे सत्त्वेन कर्तृकर्मणोस्तृती- याद्वितीययोरप्रसक्तावपि न तादृशवाक्यं व्युत्पन्नाः प्रयुञ्जते । कर्तरि साक्षात् कर्मणि च दर्शितपरंपरया युगपद्भावनावि- शेषणकान्वयबोधजनकताया आख्यातस्याव्युत्पन्नतया तादृश- वाक्यादुभयविशेषणकान्वयबोधासम्भवात् । चाकाङ्क्षा- योग्यतादिज्ञानसत्त्वात्कथन तादृशान्वयबोध इति वाच्यम् । अगत्या एकविधान्वयवोधेऽन्यविधान्वयबोधसामाग्यस्तद्घटक- तात्पर्यज्ञानस्य वा प्रतिबन्धकत्वोपगमात् । न च चैत्रेण तण्डुलः पक्ष्यते चैत्रस्तण्डुलं पक्ष्यते इत्यादिवाक्यद्वयविषयकसमूहालम्बन- दशायामपि उभयविधान्वयबोधानुपपत्तिरिति वाच्यम् । ताहशैक- विधान्वयबोधे तादृशान्यविधान्वयबोधपरत्वेनागृह्यमाणतथावि- .. न तादृशेकविधान्वयबोध इति । तद्विशेष्यकसंख्यान्वयबोधे अन्यविशेष्य- कसंख्यान्वयबोधपरत्वप्रकारकतात्प-यविशेष्यतानवच्छेकदधर्मावच्छिन्नध- म्मिताकतद्विशेष्यकतादृशान्वयबोधपरज्ञानं कारणमिति । १२ - १७८ व्युत्पत्तिवादः [ कारके धाख्यातधर्मिकप्रकृतान्वयबोधपरत्वज्ञानस्य हेतुतया चैत्रः पक्ष्यते तण्डुल इत्यादिवाक्यात्ताशद्विविधान्वयबोधवारणस्य दर्शितवा- क्यद्वयात्तदुपपादनस्य शक्यत्वात् । न च निरुक्तसंख्यानभिधानस्य तृतीयाद्वितीयानियामकत्वे चैत्रेण स्वं दृश्यते, चैत्रः स्वं पश्यतीत्यादौ तृतीयाद्वितीययोरनुपपत्ति: । कादिविशेष्यकसंख्याप्रकारकान्वय- वोधौपयिकाकाङ्क्षाज्ञानीयविषयत्वानिरूपकत्वस्य तत्राख्यातेऽस- त्वादिति वाच्यम् । कादिपरयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबोधत्वावच्छिन्नप्रयोजकविषयित्वानिरूपकस्तत्पदोत्तरं तृ- तीयाविभक्तिरित्येवं नियमोपगमेन प्रथमस्थले चैत्रपरवपदाख्या- तपदयोद्वितीये च तत्परचैत्रपदाख्यातपदयोः समभिव्याहारस्यैव तद्विशेष्यकसंख्यान्वयबोधप्रयोजकतया क्रमेण चैत्रपदस्वपदाभ्यां तृतीयाद्वितीययोरनुपपत्त्यनवकाशादिति चेत्-न । अनभिहित इत्य- धिकारे कर्तृकरणयोस्तृतीयेत्याद्यनुशासनस्य किं प्रयोजनमिति वक्तव्यम् । चैत्रः पचति तण्डुलः पच्यते इत्यादौ चैत्रतण्डुलपदाभ्यां द्वितीयातृतीययोरप्रयोग इति चेत्-तकि मणिमन्त्रादिन्यायेन तादृशानुशासनस्य तथाविधप्रयोगविरोधिता येन तदभावस्तत्प्र- युक्तः स्यात् । न चैवं सम्भवति पचति पच्यते इत्यादिक्रियायोगे कर्तकर्मवाचकपदानन्तरं तृतीयाद्वितीययोरसाधुत्वस्य तत्कर्तृत्वत- कर्मकत्वादिबोधौपयिकाकाङ्क्षादिरहितत्वादिरूपस्य प्रतिपत्तिः प्रयोजनं तस्येति चेत्तर्हि उक्तनियमपरतयापि न ततस्तल्लामः । प्रथमान्तचैत्रतण्डुलपदतत्तदाख्यातपदयोः समभिव्याहारस्यैव चैत्रतण्डुलादिविशेष्यकतत्तदाख्यातार्थसंख्यान्वयबोधप्रयोजकतया चैत्रण पचति तण्डुलं पच्यते इत्यादिवाक्यघटकतृतीयान्तद्विती- यान्तचैत्रतण्डुलादिपदतिबादिपदयोः समभिव्याहारस्यातथात्वेन तद्घटकतृतीयाद्वितीययोः साधुत्वस्योक्तनियमाव्यवच्छेद्यत्वात् । तस्मान्मुख्यभाक्तसाधारणकर्तृत्वकर्मत्वयोः कर्तृकर्मवाचकपदसम- प्रथमा ] जयाऽलङ्कृतः १७६ भिव्याहृतलकारकृत्तद्धितसमासैरनभिधानमेव तृतीयाद्वितीया- दिनियामक शिरोमणिभिरत्रव निर्भरमभिहितः । लादीनां तदनभिधायकत्वं च न तदवाचकत्वं तनिष्ठवृत्त्यनि- रूपकत्वं वा। आख्यातसामान्यस्यापि(आत्मनेपदस्यापि?)आख्या- तत्वेन तेत्वादिना वा कर्तृत्वादिनिष्ठशक्तिलक्षणानिरूपकत्वात्। कत- स्वाभिधायकाख्यातस्यैवाप्रसिद्धः। तच्छाब्दबोधौपयिकाकाङ्क्षाशू- न्यत्वमेव तत्। चेत्रेण पच्यते तण्डुल इत्यादावाख्यातस्य कर्तृत्वादि- वाचकत्वेऽपि तच्छाब्दबोधौपयिकाकाङ्क्षाराहिल्यं तत्राक्षतमेव । चैत्रादिपदोत्तरतृतीययैव कर्तृत्ववोधनसम्भवात् । तत्र तादृशाका- झाया अकल्पनात् इत्यपि न । चैत्रेण पक्ष्यते इत्यादौ तृतीयानुप- पत्तेः। पक्ष्यते चैत्र इत्यादितश्चैत्रादौ पाककृतेः केवलात्पक्ष्यत इत्या- दितश्च मुख्यविशेष्यतया तस्य बोधनात्तादृशाख्यातधात्वोरानुपूर्वी- विशेषाकाङ्क्षायाः कृतिबोधौपयिकत्वात् । न च समभिव्याहार- रूपाकाझैव विवक्षणीया । प्रकृते तु प्रकृतिप्रत्यययोरानुपूर्वी रूपा- काङ्क्षा न तु समभिव्याहार इति नोक्तानुपप वाच्यम्। तथा सति चैत्रेण पचतीत्यादावपि तृतीयायाः साधुतापत्तेः । ताह- शचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानौपयिकत्वात् । चैत्रेण विजेष्यते मैत्र इत्यादौ तृतीयानुपपत्तेश्च । विजेष्यते मैत्र इत्या- दितो मैत्रादिकृतिबोधात्ताशाख्यातमैत्रपदयोः समभिव्याहारस्य कृतिबोधौपयिकत्वात् । किं तु तत्तात्पर्यशून्यत्वमेव । तथा च चैत्रेण पक्ष्यत इत्यादावाख्यातस्य कर्तृत्वादितात्पर्यकत्वे तृतीया असा- धुरेव । तथा च चैत्रेण पचतीत्यादावाख्यातस्यार्थाविवक्षायां तृतीयायाः साधुत्वेऽपि परस्मैपदस्यासाधुत्वान्न तादृशः प्रयोगः । 'वृत्तीति । वृत्तिपदेन लक्षणाया अपि ग्रहणात्पूर्वतो वैलक्षण्यं बोध्यम् ।

[ कारके १८० व्युत्पत्तिवादः परस्मैपदस्यासाधुत्वं च। धात्वर्थविशेष्यस्य प्रत्ययेनाविवक्षणे भावकर्मणोरिति सूत्रेणात्मनेपदनियमात्। आख्यातार्थविवक्षायां न चैत्रेण पचते इत्यादिप्रयोगः, शबादिविकरणस्यासाधुत्वात् । कर्तत्वतात्पर्यकसार्वधातुकप्रयोग एव तत्साधुत्वात्। कर्तृत्वकर्म- त्वोभयतात्पर्येण चैत्रः पक्ष्यते तण्डुल इत्यादयस्तु न प्रयोगाः। तदेकतरबोधेऽन्यपरत्वेनागृह्यमाणाख्यातधर्मिकप्रकृतान्वयबोधपर- त्वज्ञानस्य हेतुत्वात् । चैत्रेण पक्ष्यते तण्डुल इत्यादौ कर्तृत्वादावा- ख्यातस्य तात्पर्यग्रहे कर्मत्वाद्यन्वयबोधोऽपि न भवत्येव । अथ पक्कानि भुङ्क्ते चैत्रः ओदनः पक्त्वा भुज्यते इत्यादौ कृतां क्रमेण कर्तृत्वकर्मत्वानभिधानाच्चैत्रपदौदनपदाद्युत्तरं तृतीयाद्वितीये कथन्न स्याताम् । न च कृतानभिधानेऽपि आख्यातेन तदभिधानान्नानभि- हितत्वं समभिव्याहृतपदाभिहितत्वसामान्याभावस्यैवानभिहितप- देन विवक्षणात् । समभिव्याहृते तिकथनाच्च चैत्रेण गम्यते ग्राम- स्तं मैत्रो गच्छतीत्यादौ न तृतीयाद्वितीययोरनुपपत्तिः । गच्छति गम्यत इत्याद्याख्यातस्य तत्तत्पदासमभिव्याहृतत्वादिति वाच्यम् । तथा सति भुञ्जानेन चैत्रेण पच्यते ओदनो भोक्तव्यमोदनं पचती- त्यादौ तृतीयाद्वितीययोरनुपपत्तिः। कृता कर्तृत्वकर्मत्वयोरभिधा- नात्। कृता तत्र भोजनकर्तृत्वतत्कर्मत्वयोरभिधानेऽपि पाककर्तत्वं तत्कर्मत्वं चानभिहितमेवेति चेत्तर्हि प्रकृतेऽपि तदनभिहितमेव । न च प्रधानक्रियानिरूपिततत्तत्कर्तृत्वाद्यनमिधाने तृतीयादेः साधु- 'समभिव्याहृतेति । समभिव्याहृतत्वञ्चैकवाक्यघटकत्वमिति । 'प्रकृतेऽपोति । पक्वानि भुङ्क्ते चैत्रः प्रोदनः पक्त्वा भुज्यत इत्यादौ पाककर्तृत्वपाककर्मत्वयोरनभिधानात्तद्बोधिके द्वितीयातृतीये कथन स्याता- मित्याशङ्कायाः समाधानमाह- --न चेत्यादिना।

प्रथमा ] जयाऽलङ्कृतः १८१ तेति । तदुक्तम् । प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत्प्रकाशते इति शक्तिः कर्तृत्वादिकमिति वाच्यम् । तथापि चैत्रेण दृश्यमान घटं मैत्रः पश्यतीत्यादौ ज्ञानभेदेन विषयताया भेदाभावात्। चैत्र- दर्शनमैत्रदर्शनोभयनिरूपितविषयत्वरूपकर्मतायाः कृताभिधाना- द्वितीयानुपपत्तिरिति चेत्-न। तत्तत्प्रातिपदिकार्थविशेषणत्वमा- त्रेण कर्तृत्वकर्मत्वाद्यविवक्षाया एव तदनभिधानपदार्थत्वात् तत्त- त्प्रातिपदिकार्थविशेष्यतया कर्तृत्वकर्मत्वादिविवक्षायां द्वितीया- विभक्तेः साधुत्वमित्यर्थे तात्पर्यस्य पर्यवसितत्वात् । शेषमाख्याता- र्थविचारावसरे विवेचयिष्यत इत्यलमत्राधिक्येन । आखथातद्विवचनबहुवचनयोस्तु संखथाबोधकत्वमावश्यकम् । चैत्रो मैत्रश्च गच्छतः चैत्रो मैत्रो देवदत्तश्च गच्छन्तीत्यादौ "चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मी: कमलेषु चञ्चला। मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम्” इत्यादौ च द्वित्वबहुत्वबोधकसुपोऽभावात् । न च तत्र सुबेकवचनस्यैव द्वित्वब- हुत्वादी लक्षणास्त्विति वाच्यम्। आनुशासनिकातिरिक्तार्थे सुब्वि- भक्तेर्लक्षणाया अनभ्युपगमात् । अन्यथा चैत्रो मैत्रश्च गच्छत इत्यादाविव छन्दसि लक्षणयैव स्वादिना द्वित्वादिबोधनसम्भ- वात् । औजसादिरूपादेशस्मृतिद्वारा द्वित्वादिबोधनिर्वाहाय छन्दसि सुपां सुलुगित्यादिसूत्रेण औजसादिस्थाने स्वाद्यादेशविधानस्य वैय- र्थ्यात्। चैत्रादिपदोत्तरैकवचनस्य द्वित्वादिलाक्षणिकत्वे तदप्रकृत्य- र्थमैत्रादिसाधारणद्वित्वादिबोधस्योक्तव्युत्पत्तिविरोधेनानुपपत्तेश्च । द्वित्वाद्याख्यातार्थसङ्घयान्वयबोधे च स्वसमानविशेष्यकतदर्थभाव- 'गच्छन्तीत्यादाविति । एतादृशप्रयोगस्य प्रामाणिकत्वं दर्शयति--चन्द्रे कलङ्क इत्यादिना श्रीहर्षश्लोकेन ।

१८२ व्युत्पत्तिवादः [ कारके नान्वयबुद्धिसामग्री अपेक्षिता। भावनामा बाधादिग्रहकाले तत्र तात्पर्यग्रहादिशून्यकाले चोक्तस्थले द्वित्वान्वयाबोधात् । भावनाया अविशेष्ये धात्वर्थादौ सङ्खयान्वयाबोधाच्च तादृशसामग्यः सङ्खयान्वयबुद्धित्वावच्छिन्नं प्रति न स्वातन्त्र्येण हेतुता। तद्- कल्पनेऽपि अाखथातजन्यसंखयोपस्थितियोग्यताज्ञानविशेषादिघ- टितसामग्या भावनानवगाहिसंखयान्वयबोधस्य कदाप्यजन- नात् । संखयान्वयबोधसाधारणभावनान्वयबोधत्वावच्छिन्नहेतू- नामपि तादृशसामग्रीघटकत्वेनानुपपत्त्यभावात्। न च तादृश- कारणानां' भावनान्वयबुद्धित्वं संखयान्वयबुद्धित्वं वा जन्यता- वच्छेदकमुपेयते इत्यत्र विनिगमनाविरहः। सङ्ख्यामविषयी- कृत्यापि भावनान्वयबोधस्यानुभवसिद्धत्वात्। द्वितीये जन्यता- वच्छेदकत्वासम्भव' इति दिक । स्वातन्त्र्येणेति । किन्तु व्यापकसामग्री विधेयेति शेषः। संख्यान्वयबुद्धि- त्वव्यापकत्वाद्भावनान्वयबुद्धित्वस्येतिभावस्तदेवोपपादयत्यग्निमग्रेन्थेनेति । तादृशकारणानामिति । भावनान्वयकारणानामित्यर्थः । जन्यतावच्छेदकत्वासम्भव इति । संख्यान्वयबुद्धित्वस्य न्यूनवृत्तित्वा- दिति भावः । 'प्रथमाविवरणसमाप्तौ दिगितिप्रतीकमुपादाय श्रीमद्गुरुचरणाः । दिगिति । दिगर्थस्तु सन्तीत्यध्याहारस्त्रयः काला इत्यत्र वक्तुं शक्य एव । न च त्रयाणां कालानां युगपद्वर्तमानत्वानन्वयो वर्तमाने लडित्यादौ वर्त- मानत्वादेः प्रयोगकालिकस्यैव ग्रहणादन्यथा अतिप्रसङ्गापत्तिरिति वाच्यम् । सन्तीत्यत्र लडुपात्तवर्तमानत्वस्याविवक्षितत्वात् । प्रत्ययोपात्तवर्तमानत्वं हि न सर्वत्र विवक्षितं भवति । अत एव ग्रामं गमिष्यति ग्राममगमदित्यादौ ग्रामादेः कर्मत्वं सिद्धयति । अन्यथेप्सिततमत्वविरहात्तदनापत्तिः । ईप्सित- SWAMI द्वितीया ] जयाऽलङ्कृतः अथ गुणादिवाचकपदोत्तरद्विवचनबहुवचनयोः कथं द्वित्व- बहुत्वबोधकता संखयागुणत्वेन गुणादौ बाधात् । न च तत्र स्वाश्रयसमवेतत्वादिसम्बन्धेन द्रव्यगतं द्वित्वादिकमेव भासते इति वाच्यम्। एकव्यक्तावपि तादृशसम्बन्धेन द्वित्वादेः परिसमाप्ततया एकमात्रतात्पर्येणापि द्विवचनाद्यापत्तिरिति चेत् अपेक्षाबुद्धिविष- यत्वमेव तदुत्तरद्विवचनादिना बोध्यते । तच्चैकमात्रवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकस्थले प्रकृत्यर्थतावच्छेदकव्याप्यत्वविशिष्टपर्या- प्तिसम्बन्धेन प्रकृत्यर्थेऽन्वेति । अन्यत्र तु शुद्धपर्याप्तिसम्बन्धेनेति न द्वित्वादिस्थलोक्त दोष इति विदुषां परामर्शः । इति व्युत्पत्तिवादे प्रथमाविवरणम् । अथ द्वितीयाविवरणम् कर्मणि द्वितीयेत्यनुशासनात्कर्मत्वं द्वितीयार्थः। तत्र कर्मपदस्य धर्ममात्रपरत्वात्। सप्तम्या वाचकतार्थकत्वात् । कर्मणश्च न पदे हि मतिबुद्धीतिसूत्रेण वर्तमाने क्तः । अत एव कर्तुरिति षष्ठी सङ्गच्छते । अन्यथा न लोकेति निषेधापत्तेः । न च निष्ठतिसामान्यसूत्रविरहितोऽयं क्तः षष्ठी तु शेषत्वविवक्षयेति वाच्यमेवमपि ग्रामं गच्छति गमिष्यतीत्यत्र कर्मत्वानापत्तेरनुद्धारात् । निष्ठेतिसूत्रेऽपि भूते इत्यधिकारात् । वर्तमा- नत्वविवक्षायां ज्ञापकन्तु भूते इत्यधिकारे कर्मणि हन इति णिनिविधायक तच्च सामान्यापेक्षकं तच्च लडुपात्तमपि वर्तमानत्वं क्वचिदविवक्षितं तेन प्रकृतेऽप्यदोषात् । अत एव मौद्गश्चरुर्भवतीत्यनेन सार्वकालिकयागीय- चरुनियमः संगच्छते इति दिगिति ब्रूमः । इति व्युत्पत्तिवादजयायां प्रथमाविवरणम् ।

व्युत्पत्तिवादः [ कारके तथात्वम् । कर्मणि नामार्थस्य ग्रामादेरभेदान्वयसम्भवेऽपि धात्वर्थ- गमनादिना तदन्वयासम्भवात् गौरवाच । कर्मत्वं च क्रियाजन्यफ- लशालित्वम् । तत्र च क्रिया धातुत एव लभ्यते । जन्यजनकभावस्य च विनैव पदार्थत्वं संसर्गमर्यादया भानं सम्भवतीति फलमात्रं कर्मप्रत्ययार्थः । न च संयोगविभागरूपफलमपि धातुलभ्यमेव । गमित्यजिप्रभृतीनां तदवच्छिन्नस्पन्दादिरूपव्यापारवाचकत्वादिति वाच्यम् । व्यापारमात्रस्य धात्वर्थत्वात् । फलविशेषान्वयबोधे च धातुविशेषजन्यव्यापारोपस्थितेर्हेतुतया ग्रामं त्यजतीत्यादौ च धात्वर्थे स्पन्दे ग्रामनिष्ठविभागजनकत्वमेव ग्रामं गच्छतीत्यादौ च ग्रामनिष्ठसंयोगजनकत्वमेव प्रतीयते न तु विपरीतम्। ग्रामं गच्छतीत्यादिवच्च ग्रामं स्पन्दते इत्यादयो न प्रयोगाः। द्वितीया- देर्गम्याद्युपस्थापितस्पन्दादावेव फलान्वयबोधकत्वात् । "स्पन्दि- प्रभृत्युपस्थापिते तस्मिन द्वितीयादिना फलान्वयबोधजनना- सम्भवात् । न हि येन केन चिदुपस्थापितयोरेवार्थयोः परस्पर- मन्वयः प्रतीयते। तथा सति घटकर्मत्वादिपदोपस्थापितयोरपि घटकर्मत्वाद्योः परस्परमन्वयबोधप्रसङ्गात्। कृनादिसमानार्थकय- तधातूपस्थाप्ययत्ने विषयितार्थकद्वितीयार्थान्वयसंभवेन घटं करो- तीतिवद् घटं यतते इत्यादिप्रयोगप्रसङ्गाच्च । अपि तु ययोर्याह- । १ अन्वयासम्भवादिति । ग्रामवृत्तिसंयोगानुकूलत्वसम्बन्धेन कर्मणः संयोगावच्छिन्नव्यापारेऽन्वयस्तर्हि गौरवात्संयोगस्य द्विधा भानादिति । स्वाश्रयबलजनकत्वसम्बन्धेन यथाकथञ्चित्तत्सम्भवादाह-गौरवा- २ दिति । आश्रयत्वस्यापि संसर्गमर्यादयैव भानसम्भवादाह-फलमात्रमिति । * गूढार्थतत्त्वालोके न तु स्पन्दीत्यादिपाठः ।

द्वितीया ] जयाऽलङ्कृतः १८५ शान्वयवोधे आकाक्षा तदुपस्थापितयोरेव तादृशान्वयबोधः । आकाङ्क्षा च द्वितीयादेर्गम्यादिना कृयादिना च कल्प्यते न तु तत्समानार्थकेनापि स्पन्दियतिप्रभृतिनेति । न चाकांक्षात्र सम- भिव्याहारः । स च गम्यादिनेव स्पन्दादिनापि समान एवेति वाच्यम् । यतो द्वितीयादेर्गम्यादिसमभिव्याहारस्यैव फलबला- दन्वयबोधौपयिकत्वमुपगम्यते न तु स्पन्दिप्रभृतिसमभिव्याहा- रस्येति न तस्याकाङ्क्षात्वमन्वयवोधौपयिकसमभिव्याहारस्यैव तथात्वात् । अत एव समानार्थकत्वेऽपि गम्यादेरिव न स्पन्दादेरपि सकर्मकत्वव्यवहारः। फलान्वितव्यापारबोधकधातुत्वस्यैव तन्नि- यामकत्वात्। अथ धातोापारमात्रवाचित्वे त्यजति गच्छति त्यागो ग- मनमित्यादिवाक्यादविलक्षणबोधप्रसङ्गः। न च शक्तिभ्रमाद्य- जन्थयोस्ताहशवाक्यजन्यबोधयोरवैलक्षण्यं कश्चिद्भ्युपैति । तथा सति त्यागादितात्पर्येण गमनादिपदं व्युत्पन्ना अपि प्रयुञ्जीरन् । न च तत्र फलविशेषावच्छिन्नव्यापारे लक्षणा स्वीक्रियते इति विलक्षणबोधोपपत्तिरिति वाच्यम् । लक्षण्या विलक्षणवोधजनने- ऽपि शक्तयाऽविलक्षणबोधजननसम्भवेन दर्शितातिप्रसङ्गस्य दुर्वार- त्वात् । न च गम्यादिशक्तिज्ञानजन्यार्थोपस्थित्या फलाविषय- बोधस्य कुत्राप्यजननात् तादृशोपस्थितिघटितसामग्रीशरीरे फल- विशेषबोधकसामग्री निवेश्यते। तथा च त्यागगमनादिपदयोः शक्त्या नाविलक्षणबोधजनकतेति वाच्यम् । त्यजिगम्योरेकार्थ- वाचकतारूपपर्यायता विपर्यस्यतो गमनादिपदात् त्यागादिपदजन्य- बोधसमानाकारकबोधस्य सर्वानुभवसिद्धतया गम्यादिशक्ति- ज्ञानात्फलाविषयकबोधस्यापि पदजन्यबोधनियामकताया वक्तुम- शक्यत्वात् । तथा चाभ्रान्तस्यापि भवन्मते ततोऽविलक्षणबोध- सम्भवेन एकविधबोधतात्पर्येण व्युत्पन्नानां तादृशप्रयोगप्रसङ्गो १८६ व्युत्पत्तिवादः [ कारके दुर्वार इति चेत्-मैवम् । कर्मप्रत्ययासमभिव्याहृतत्यागगमनादि- पदस्य तत्तत्फलावच्छिन्नव्यापारेऽनादितात्पर्य कल्प्यते न तु केवल- व्यापारे। अनादितात्पर्यमेव च स्वारसिकप्रयोगनियामकमिति एकार्थतात्पर्येण प्रामाणिकानां स्वारसिको न त्यागगमनादिप्रयोगः । एवं त्यजिगमिप्रभृतिसमभिव्याहृतकर्मप्रत्ययस्यापि फलविशेष एव नियतं तादृशं तात्पर्यमिति न विभागादितात्पर्येण ग्रामं गच्छती- त्यादिप्रयोगः । तदर्थबोधकत्वमात्रं तु न तदर्थतात्पर्येण स्वारसिक- प्रयोगनियामकम् । तथा सति शक्तिभ्रमादिना घटपदस्यापि पटादि- बोधकतया पटेऽपि घटादिपदप्रयोगापत्तिः । नापि शक्तया बोधकत्वं तथा । निरूढलक्षणयापि स्वारसिकपदप्रयोगात्। शक्तिभ्रमं लक्षणाज्ञानं चान्तरेण गम्यादेविभागादिरूपफलविशेषितस्पन्दा- दिबोधकत्वाभावनियमोऽसिद्ध एवेति तात्पर्यभ्रमसहकृतशक्ति- प्रमया तादृशबोधजननेऽपि न क्षतिः । विना लक्षणाग्रहं भ्रमा- नधीनताशबोधो गमिप्रभृतितो न सम्भवतीत्येव नियमः । स च तात्पर्यभ्रमेणैव निर्वहतीति विभागाद्यर्थे पूर्वपूर्वेषामनादितात्पर्य- भ्रमवतो वक्तुः स्वकीयतात्पर्येण ग्रामं गच्छतीत्यादिप्रयोगो यत्र तच्छ्रोतुस्तात्पर्यभ्रमासम्भवेऽपि वक्तृतात्पर्यानादित्वभ्रम एव प्रयोगसंपादनद्वारा तदर्थशाब्दबोधप्रयोजक इति न ताशनियम- क्षतिरिति प्राचीनपथपरिष्कारप्रकारः । नव्यास्तु संयोगादिरूपफलविशेषावच्छिन्नस्पन्दो गम्याद्यर्थः। तद्धात्वर्थतावच्छेदकफलशालित्वमेव तद्धातुकर्मत्वम् । नातो गम्यादिकर्मत्वस्य पूर्वदेशादौ प्रसङ्गः । न वा स्पन्देः सकर्मकत्वम् । तत्र फलस्य धात्वर्थतानवच्छेदकत्वात्। एवं च धातोरेव फल- विशेषताभात फलाम्वयिनी वृत्तिरेव द्वितीयार्थः । न च कर्मणि द्वितीयेत्यनुशासनविरोधः। तस्य कर्मणि फलनिष्ठाधेयत्वान्वयिनि प्रकृतितात्पर्य तदुत्तरं द्वितीयेत्यर्थकत्वात् । न चैव न चैव तस्य द्वितीया ] जयाऽलङ्कृतः १८७ शक्तिग्राहकत्वानुपपत्तिः। अनादितात्पर्यग्रहसंपादकत्वेन परंपरया शक्तिग्राहकत्वसम्भवात् । न च फलस्य पदार्थैकदेशतया तत्र द्विती- यार्थवृत्तेरन्वयासम्भवः। व्युत्पत्तिवैचित्र्येण प्रकृते एकदेशान्वय- स्वीकारात् । अथ गमनं न स्पन्द इत्यादितो धात्वर्थतावच्छेदक- फले स्पन्दभेदान्वयबोधसम्भवेन तत्रैतादृशप्रयोगस्य वारणाय फलविशेष्यकान्वयबोधे तद्विशेष्यकवृत्तिज्ञानजन्यफलोपस्थितित्वेन हेतुत्वकल्पनस्यावश्यकत्वात् तादृशकारणबाधन धात्वर्थतावच्छे- दकफले द्वितीयार्थान्वयासम्भवः । न च यादृशपदसमभिव्याहारज्ञानात् फलविशेष्यकस्पन्द- भेदान्वयबोधः प्रसिद्धः 'तादृशपदज्ञानजन्यफलाद्युपस्थितिघटित- सामग्यास्तादृशान्वबोधोत्पादप्रयोजिकाया असत्त्वेनोक्तस्थले तदापत्त्यसम्भव इति वाच्यम् । यत्र गमनादिपदादेव लक्षणया शक्तिभ्रमेण वा स्वातन्त्र्येण फलोपस्थितिस्तत्र फलविशेष्यकस्पन्द- भेदान्वयबोधप्रसिद्धथा गमनपदसमभिव्याहारतज्जन्यफलोपस्थि- तिघटितसामग्य फलविशेष्यकस्पन्दत्वाद्यवच्छिन्नभेदान्वयबोध- प्रयोजकताया आवश्यकत्वात् । तद्बलेन शक्तिप्रमाधीनबोधेऽपि फलांशे स्पन्दभेदादिभानप्रसङ्गः। एवं च फलव्यापारयोः पृथक्शक्ति- स्वीकारपतेऽपि न निस्तारः। तथात्वेऽपि हि गमनं न स्पन्द इत्यादौ फले शक्तिप्रमया स्पन्दभेदान्वयबोधसम्भवेन तादृशप्रयो- गापत्तेर्दुरित्वादिति चेत्-न । तद्विशेष्यकवृत्तिज्ञानजन्यतदुपस्थिति- जन्यतावच्छेदककोटौ तादृशोपस्थित्यव्यवहितोत्तरत्वनिवेशनमाव- श्यकम् । विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोधे 'तादृशपदसमभिव्याहारज्ञानेत्यधिकः पाठः क्वचित्पुस्तकेऽत्र । पृथक्शक्तीति । खण्डशक्तिरित्यर्थः ।

१८८ व्युत्पत्तिवादः [ कारके नानाहेतुताया व्यवस्थापितत्वात् । एकपदाधीनतद्विषयकवृत्तिज्ञान- जन्यशाब्दबोधे पदान्तरवृत्तिज्ञानजन्यतदुपस्थितेर्व्यभिचारस्य प्रका- रान्तरेण वारणासम्भवात्। एवं च धात्वर्थतावच्छेदकफले द्विती- यार्थान्वयबोधेऽपि क्षतिविरहः । तत्रतादृशकारणस्य व्यभिचारा- प्रसक्तेरिति वदन्ति । अत्रेदं चिन्त्यते । व्यापारमात्रस्य धात्वर्थतायामपि सर्वा- नुपपत्तीनामुद्धृतत्वात् फलावच्छिन्नव्यापारस्य गुरुतया तथात्व- मनुचितम् । अथ फले द्वितीयादेः शक्तयन्तरकल्पनामपेक्ष्य धातो- विशिष्ट शक्तिकल्पनमेवोचितम् । न च भवन्मतेऽप्याधेयत्वे द्विती- यादेः शक्त्यन्तरस्य कल्पनीयत्वात्तदंशे साम्यमिति वाच्यम् । ग्राममध्यास्ते ग्राममधिशेते ग्रामं संयुनक्तीत्यादौ द्वितीयायाः सर्वमत एवाधेयत्वबोधकतया द्वितीयादेः फलवाचकत्वमतेऽपि आधेयत्व- वाचकताया आवश्यकत्वात् । न च द्वितीयायाः संयोगादिवाचक- त्वमते प्राधेयत्वे तस्या लक्षणैव न तु शक्तिरिति वाच्यम् । आधेयतात्वस्याखण्डतया संयोगत्वादिसमशरीरत्वात् संयोगत्वा- द्यच्छिन्ने तदवच्छिन्ने वा शक्तिः कल्प्यत इत्यत्र विनिगमकास- म्भवात् । अस्तु वा ममाप्याधेयत्वे लक्षणैव शक्तिस्तु संख्यायामेव । यदि च द्वितीयादेः फलबोधकतामते फलेऽपि तस्या लक्षणैव न तु शक्तिः शक्तिस्तु संख्यायामेव संयोगविभागादिरूपकप्रत्येकफलापे- क्षया संख्यायां तत्प्रयोगप्राचुर्यस्य विनिगमकत्वादित्युच्यते तथापि तन्मते धातुजन्यशुद्धव्यापारोपस्थितेः शाब्दबोधहेतुताकल्पनम- धिकम् । द्वितीयाद्यसमभिव्याहारस्थलानुरोधेन फलविशेषाव- . 'द्वितीयादेरित्यादिग्रन्थस्थाने तत्र शक्तिकल्पनस्योभयसाम्यादित्येव पाठः क्वचिद्धस्तलिखितपुस्तके ।

द्वितीया ] जयाऽलङ्कृतः १८६ च्छिन्नव्यापारे धातोर्लक्षणया भवतामप्यावश्यकत्वाद्धातुजन्य- तादृशव्यापारोपस्थितिहेतुताया उभयसिद्धत्वात् । यदि च स्पन्दत इत्यादित इव शक्तिभ्रमाद्गच्छतीत्यादितोऽपि शुद्धव्यापारबोध आनुभविक इति मन्यते तथापि तन्मते शाब्दबुद्धौ द्वितीयादि- जन्यफलोपस्थितेः कारणतायाः कल्पनाधिक्यं तज्जन्याधेयत्वोप- स्थितिहेतुत्वकल्पनस्य चोक्तस्थलानुरोधेन उभयमत एवावश्यक- त्वादिति चेत्-अस्तु तन्मते तादृशकारणताया आधिक्यम् । नव्यमते तु ग्रामं गच्छतीत्यादिवाक्यज्ञानघटितशाब्दसा- मग्यः समानविषयकानुमित्यादिप्रतिबन्धकतायां फलप्रकार- तानिरूपितव्यापारविशेष्यताशालित्वेन धातुजन्योपस्थितेर्निवेश- नीयतया तस्यास्तादृशेविशेष्यताशालित्वेन व्यापारविशेष्यतानि- रूपितफलप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहात् सामग्रीप्रतिबन्धकताधिक्यमवच्छेदकगौरवं च । प्राचीनमते द्वितीयाजन्यफलोपस्थितेः सामग्यन्तनिवेशस्तु नव्यमतसिद्धतज्जन्याधेयत्वोपस्थितिनिवेशस्थलीय एव इति । नव्य- मते ताशस्थले शाब्दबोधस्याधिकविषयकतया तात्पर्यज्ञानादि- कमप्यधिकविषयकमेव शाब्धीहेतुर्भविष्यति, प्रतिवन्धकसामग्र्या- मप्यन्तर्भविष्यतीति च गौरवम् । अथ फलस्य द्वितीयार्थत्वे भूमि गच्छति न महीरुहमित्यादौ महीरुहवृत्तिसंयोगादेर्जनकतासम्ब- न्धावच्छिन्नाभाव एव नबर्थो वाच्यः। सा च वृत्त्यनियामकसम्ब- न्धस्याभावप्रतियोगितानवच्छेदकतया अप्रसिद्धः । नव्यमते तु द्वितीयार्थस्याधेयत्वस्य फलनिष्ठोऽभाव एव तथेति नानुपपत्तिः । न च भूमिकर्मकगमनकर्तादौ महीरुहकर्मकगमन- कर्तृत्वाद्यभावः प्रतीयते इति वाच्यम् । कर्तृवाचकपदासममि- व्याहारस्थले तदसम्भवात् । न च तत्राप्याख्यातार्थान्वयबोधानु- रोधेन कर्तृवाचकपदाध्याहारस्यावश्यकतया अध्याहृतपदोपस्था- [ कारके अ- १६० व्युत्पत्तिवादः प्यकर्तर्येव लाहशाभावो नया बोधयिष्यत इति वाच्यम् । आख्या- तार्थविशेष्यकस्याप्यन्वयबोधस्य सम्भवेनाध्याहारस्यानावश्यक- त्वाद्भूमेर्गमनं न महीरुहस्येत्यादौ द्वितीयासमानार्थकषष्ठयर्था- भावबोधकतया आवश्यकत्वाच्च । न हि तत्राप्याश्रयतासम्बन्धा- वच्छिन्नप्रतियोगिताकगमनाभावः प्रतीयत इति सम्यक् । अ- नुयोग्यनुपस्थितेर्नमोऽनुयोगिविनिर्मोकेनाभावबोधकताया व्युत्पन्नत्वादिति चेत्-न । वृत्त्यनियामकसम्बन्धस्याभावप्रतियो- गितावच्छेदकत्वे दोषः कः। अथ जनकतादिसम्बन्धावच्छि- अप्रतियोगिताकसंयोगाद्यभावस्यातिरिक्तस्य कल्पने गौरवमिति चेत्-न । तादृशाभावस्य संयोगजनकत्वाद्यभावसमनियतत्वेन तत्स्व- रूपत्वात्तस्य चोभयवादिसिद्धत्वादतिरिक्तप्रतियोगिताकल्पने गौर- वमिति चेत्-अस्त्वेतद्गौरवम् । उपदर्शितबहुविधलाघवेन ईदृश- गौरवस्याकिंचित्करत्वात् । अथ फलस्य द्वितीयार्थत्वे वृत्त्यनि- यामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि द्रव्यं गच्छ- ति न गुणमित्यादौ गुणादिनिष्ठस्य संयोगादिरूपफलस्याप्रसि- द्धचा नवर्थान्वयबोधानुपत्तिरिति चेत्-न । तत्राधेयतासम्बन्धाच- च्छिन्नप्रतियोगिताकप्रकृत्यर्थाभावस्यैव द्वितीयार्थे फले नबा बो- धनोपगमात् । गुणो न गुणं गच्छतीत्यादिवाक्यस्योभयमत एवाप्रमाणता । अस्तु वा तत्रामावस्य द्विधा भानोपगमेन गुणाभा- ववत्फलानुकूलस्पन्दाश्रयत्वाभाववान् गुण इत्याकारकव्यापारस्य एवान्वयबोधः । परे तु वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदक- परे त्विति । वस्तुतो न युक्तमिदम् । वृत्त्यनियामकसम्बन्धस्याभाव- प्रतियोगितावच्छेदकत्वमभ्युपगच्छतामपि ,प्राचान्न निर्वाहः । यतस्तैरपि द्वितीया ] जयाऽलङ्क्तः १६१ त्वे नव्यमतेऽपि द्रव्यं गच्छति नाभावमित्यादौ गतिविरहः । तथा हि समवायसम्बन्धावच्छिन्नाधेयतैव द्वितीयार्थो वाच्यः । अन्यथा कालिकादिसम्बन्धावच्छिन्नप्रामादिवृत्तिसंयोगादिकमा- दायातिप्रसङ्गात् । तथा चाभावादिनिरूपिततथाविधाधेयत्वाद्यप्र- सिद्धथा तदभावबोधासम्भवः । निरूपितत्वसम्बन्धस्य च वृ- त्यनियामकतया समवायसम्बन्धावच्छिन्नाधेयतायां तत्सम्बन्धा- वच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभावबोधो न सम्भवत्येवेत्याहु- रिति । अत्रोच्यते । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगिता- वच्छेदकत्वे प्राधेयत्वं संसर्गः विभक्तेः संख्यामात्रमर्थः फलाव- च्छिन्नो व्यापारो धात्वर्थ इत्येवोचितम् । अस्तु च व्युत्पत्तिवै- चित्र्येण नामार्थधात्वर्थयोरपि साक्षादन्वयबोधस्तथा सत्यतिप्र- सङ्गस्य प्रागुपदर्शितप्रकारेण वारणसम्भवात् । न चैतत्कल्पे लाघवानवकाशः। फले स्वतन्त्रशत्तयकल्पने सामग्रीप्रतिबन्धक- तायां द्वितीयादिजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थितिरिति उभयनिवेशस्थाने (उपस्थित्यपेक्षयति वा पाठः) धातुजन्यविशि- टविषयकोपस्थितेरेकस्या निवेशेन लाघवात् । वस्तुतस्तु शाब्दबुद्धरधिकविषयत्वे राज्ञः पुरुष इत्यादौ स्वत्वादेः संसर्गतानिराकरणावसरे सामग्रीप्रतिबन्धकतायां लाघ- वस्य दर्शितत्वात् । द्वितीयादेराधेयत्वमर्थः, फलावच्छिन्नव्या- द्वितीयार्थे प्रकृत्यर्थस्य कालिकादिसम्बन्धमादायातिप्रसङ्गोपेत्यभावाय सम- वायसम्बन्धावच्छिन्नाधेयत्वस्यैव संसर्गत्वेनाभ्युपगन्तव्यतया तेन सम्बन्धेन चाभावरूपप्रकृत्यर्थस्याप्रसिद्धया तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावो बोधयितुं न शक्य इति ।

१६२ व्युत्पत्तिवादः [ कारके पारश्च धातोरित्येव युक्तम् । कर्माख्यातस्य फलमर्थः । अन्यथा ग्रामो गम्यते इत्यादौ प्रामादेव्यापारजन्यफलाश्रयत्वरूपकर्मत्व- प्रतीत्यनुपपत्तेः । यादृशविशेष्यविशेषणभावापन्नयोः पदवाच्यता तादृशविशेषणविशेष्यभावापन्नयोरेव शाब्दबोधे भानसम्भवात् न तु तद्विपरीतविशेषणविशेष्यभावापन्नयोः । यत्तु फले धातोः पृथक् शक्त्युपगमात् व्युत्पत्तिवैचित्र्येण क ख्यातसमभिव्या- हारस्थले व्यापारविशेषणतया भासमानस्य फलस्य कर्माख्यात- स्थले तद्विशेष्यतया भानमिति तन्न। पृथक् शक्तिस्वीकारे शाब्द- सामग्यः प्रतिबन्धकतायां विशिष्टविषयकोपस्थितिस्थले उपस्थि- तिद्वयकल्पने गौरवात् । गम्यादेः सम्पूर्वयुजिप्रभृतिसमानार्थकता- भ्रमवतामिव विशेषदर्शिनामपि गमनं न स्पन्द इत्यादिवाक्या- संयोगादौ स्पन्दभेदान्वयबोधापत्तेर्दर्शिताया दुर्वारत्वाच्च । संयो- गादिविशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिघटितायास्तथाविधान्वय- बोधसमाग्य अक्षतत्वात् । तत्तद्धातूपस्थाप्यव्यापारांशे तत्तद्वि- शेषणकबोधतात्पर्यज्ञानस्य तादृशान्वयबोधे प्रतिबन्धकताकल्पने गौरवादिति फलस्य द्विधा भानं चेदनुभवविरुद्धं तदा पुनरनायत्या फलव्यापारयोः खण्डशक्तिद्वयमेव धातोः स्वीकरणीयम् । आख्या- तस्याश्रयत्वमेव तत्रार्थः। अधिकमग्रे वक्ष्यते । अथ द्वितीयाया आधेयतार्थकत्वे व्यापार तदन्वयतात्पर्येण सप्तम्या इव द्वितीयाया अपि प्रयोगापत्तिः। नहि गृहे पचतीत्यादि- वद्गृहं पचतीति कश्चित्प्रयुथे। मैवम् । धात्वर्थतावच्छेदकफलांशे आधेयत्वान्वय एव तादृशद्वितीयायाः साकाङ्क्षत्वकल्पनाद्व्यापारे तदुपस्थापिताधेयत्वान्वयासम्भवात् । सप्तम्यधीनाधेयत्वोपस्थिति- सप्तमीसमभिव्याहारज्ञानघटिताया एव सामग्यस्तादृशान्वयबोधे नियामकत्वात् । द्वितीयासप्तम्योः सामानार्थकत्वेऽपि व्युत्पत्तिभेद- ज्ञापनायैव पृथक् पृथक् सूत्रेण तयोविधानात् । अथाधःसंयोगा- द्वितीया ] जयाऽलङ्कृतः १६३ वच्छिन्नस्पन्दस्य पतधात्वर्थत्वात् धात्वर्थतावच्छेदकीभूतफले आधेयत्वान्चयतात्पर्येण भूमि पततीति प्रयोगापत्तिः। न च द्वितीयोपस्थापिताधेयत्वप्रकारकफलविशेष्यकान्वयवोधे गम्यादि- जन्यफलोपस्थितितत्समभिव्याहारज्ञानघटितसामग्येव प्रयोजिका, न तु पतधातुजन्यतदुपस्थितिघटितासामग्रीति नातिप्रसङ्ग इति वाच्यम् । पतधातुनैव यत्र संयोगावच्छिन्नं गमनं लक्षणादिनो- पस्थापितं तत्र संयोगे द्वितीयार्थाधेयत्वान्वयात् । अत्राहुः । धातुजन्यशुद्धसंयोगावच्छिन्नस्पन्दोपस्थितेः शाब्द- बोधकारणतायामवच्छेदकघटकसंयोगविषयतायामधिकरणानव- च्छिन्नत्वं विशेषणं देयम् । तथा च तादृशविषयताशालिसंयोगा- वच्छिन्नोपस्थित्यादिघटितसामग्य एव संयोगविशेष्यकद्वितीयो- पस्थाप्याधेयत्वान्वयबोधप्रयोजकत्वोपगमानातिप्रसङ्गः। न चैवमपि फलावच्छिन्नब्यापारबोधकतया पते: सकर्मकत्वव्यवहारापत्ति- रिवेति वाच्यम् । आश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोध- कत्वस्यैव ताहशव्यवहारनियामकत्वात् । उत्तरदेशानवच्छिन्न- संयोगः फलं गम्यर्थतावच्छेदकमिति नानुपपत्तिः । अत एवाग्नि- संयोगावच्छिन्नक्रियानुकूलव्यापारस्य जुहोत्यर्थतया धात्वर्थता- बच्छेदकसंयोगाश्रयस्याप्यनेन तत्कर्मता। आश्रयानवच्छिन्नावच्छे- दुकनाश्रयफलवत्त्वविरहात् । संयोगनिष्ठाया धात्वर्थतावच्छेदक- ताया आश्रयेणाग्निनाऽवच्छिन्नत्वात् । न चाग्निविशेषितसंयोगस्य धात्वर्थतावच्छेदकफलत्वेऽग्नौ घृतं जुहोतीत्यत्रानन्वयप्रसङ्गः उद्देश्य- तावच्छेदकविधेययोरैक्यादिति वाच्यम् । तत्र संयोगनिष्ठायामुद्दे- श्यतायां वह्नराधेयतासंसर्गेणावच्छेदकतया सप्तम्यर्थस्याग्निवृत्तित्व- स्य च विधेयतया उद्देश्यतावच्छेदकविधेययोरैक्यानवकाशात् । वस्तुतस्तु तत्र वढेरनन्वयेऽपि न क्षतिः। व्युत्पन्नानां ताह- शप्रयोगस्याप्रामाणिकत्वात् । संस्कृते वह्नौ जुहुयादित्यादिस्थले १६४ व्युत्पत्तिवादः [ कारके च विधेयांशेऽधिकावगाहनान्नास्त्येवानुपपत्तिः । घृतादेश्वाश्रयान- वच्छिन्नधात्वर्थतावच्छेदकतावक्रियारूपफलाश्रयत्वात् कर्मत्वो- पपत्तिः । यत्तु धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रहविशेष्यांशे सा- क्षात्प्रकारत्वं तच्च क्रियायामेव न संयोगांशेऽपीति नाग्नेर्जुहोति कर्मतापत्तिरिति । तदसत् । अजां ग्रामं नयतीत्यादौ संयोगा- वच्छिन्नक्रियानुकूलव्यापारादिरूपे धात्वर्थे संयोगादेः साक्षाद- प्रकारतया तदाश्रयीभूतग्रामादेः कर्मत्वानुपपत्त्या नीवहादेर्द्वि- कर्मकत्वव्याघातात् । अथ तत्र ग्रामादेः प्रधानकर्मत्वं नास्त्येवा- पि तु गौणकर्मत्वमेव । अत एव तादृशकर्मत्वमाख्यातेन नाभि- धीयते "प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणामि" "त्यनुशास- नादिति । अजां ग्रामो नीयते इत्यादिको न प्रयोग इति चेत्तर्हि तत्र ग्रामादेरिवानापि धात्वर्थतावच्छेदकतावच्छेदकफलशालि- त्वेन गौणकर्मत्वापत्त्या वह्नि घृतं जुहोतीति प्रयोगापत्तिर्दुरैवेति। अस्मन्मते चाश्रयानवच्छिन्नसंयोगविषयताशालिधातुजन्यो- पस्थितिघटितसामग्या एव संयोगे द्वितीयार्थान्वयबोध- प्रयोजकतया नैतादृशप्रयोगापत्तिरिति । यत्तु अधःसंयोगावच्छिन्न- स्पन्दो न पतत्यर्थः, अपि तु गुरुत्वजन्यतावच्छेदकजातिविशेषा- वच्छिन्न एवात एव फलावच्छिन्नव्यापाराबोधकत्वान्न सकर्मक- त्वमिति-तन्न । फलस्य धात्वर्थाघटकत्व स्पन्द एव सप्तम्यर्थान्वय- स्योपगन्तव्यतया पर्णादिनिष्ठस्य तस्य भूतलाद्यवृत्तितया भूतले पततीति प्रयोगानुपपत्तिः। पर्णादिगतस्पन्दस्य परम्परया भूतला- दिवृत्तित्वमिति चेत्तहिं वृक्षात्पततीतिवत् वृक्षे पततीत्यपि स्यात् । अस्मन्मते चान्यत्र व्यापारे सप्तम्यर्थान्वयेऽपि अत्र व्युत्पत्तिवैचि- च्याधःसंयोगरूपधात्वर्थतावच्छेदक एव तदन्वयबोध इत्यदोषः। अन्ये तु भूम्यादेः कर्मत्वविवक्षायां भूमिं पततीति प्रयोग इष्ट द्वितीया ] जयाऽलङ्कृतः १६५ एव । अत एव द्वितीयाश्रितेत्यादिसूत्रेण नरकं पतित 'इत्यादिस्थले द्वितीयासमासविधानमुपपद्यते । धात्वर्थतावच्छेदकतावच्छेदके फले द्वितीयार्थान्वय एवाश्रयानवच्छिन्नफलोपस्थितेरपेक्षा अग्नि जुहोतीतिप्रयोगवारणाय कल्प्यत इत्याहुः । तदपि न शोभनम् । तथा सति भूम्यादिपदोत्तरं कदा चित्सप्तमी कदा चिद्वितीयेत्यत्र नियामकाभावप्रसङ्गात् । व्यापा- रांशे आधेयत्वविवक्षायां सप्तमी फलांशे तद्विवक्षायां द्वितीये- त्यस्योक्तयुक्तया फलांश एव सप्तम्यर्थान्वयस्यावश्यं स्वीकरणीय- तया वक्तुमशक्यत्वादिति ब्राह्मणाय धनं दातीत्यादौ स्वस्व- त्वध्वंसविशिष्टपरस्वत्वानुकूलेच्छा धात्वर्थः । तादृशस्वत्वरूप- धात्वर्थतावच्छेदकफल एव द्वितीयार्थान्वयः । उपेक्षायाम- तिप्रसङ्गवारणाय परखत्वनिवेशः। दानं च न संप्रदानस्वत्व- जनकमपि तु तत्स्वीकार एवेति मते तु स्वस्वत्वध्वंसानुकूलप- रस्वत्वप्रकारिकेच्चैव ददात्यर्थः। तत्र स्वस्वत्वध्वंसरूपफलाश्रय- त्वाद्धनस्य कर्मता। धनं प्रतिगृह्णातीत्यादौ स्वस्वत्वजनकेच्छारूप: खीकारविशेषो धात्वर्थः । स्वस्वत्वरूपफले च द्वितीयार्थाधेयत्वा- न्वयः। तण्डुलं पचतीत्यादौ रूपादिपरावृत्तिजनकतेजःसंयोगो धात्वर्थः । रूपादिपरावृत्तिरूपफले च तण्डुलादिवृत्तित्वान्वयः। ओदनं पचतीत्यादौ ओदनादिपदस्य तन्निष्पादकतण्डुलादौ लक्षणा । अवयविनि' पाकानभ्युपगमे च तण्डुलं पचतीत्यादौ तण्डु- 'नरकं पतित इत्यादि । स्वमते तु नरकपतित इति सप्तमीसमासेन साधनीयं द्वितीयाघटितस्त्वसाधुरेव' । अकर्मकधातुरित्यादिना द्वितीयायां मासं पतितो मासपतित इत्यादौ सूत्रावकाशोऽवगन्तव्यः । अवयिविनीति । पीलुपाकवादिनो वैशेषिकाः पिण्डपाक (पिठरपाक व्युत्पत्तिवादः [ कारके लादिपदस्य तदारम्भकपरमाणुषु लक्षणा । ओदनं भुङ्के इत्यादौ गलाधोनयनं धात्वर्थः। स च गलाधःसंयोगावच्छिन्नक्रियानुकू- लव्यापारः । तादृशक्रियारूपफल एव अोदनादिवृत्तित्वान्वयः । उक्तयुक्तया गलाधोदेशस्य न कर्मत्वम् । एवमन्यसकर्मकधातूना- मप्यर्थाः स्वयमूह्याः। गां योग्धि पय इत्यादौ द्विकर्मकधातुसमभिव्याहृतगवादि- पदोत्तरद्वितीया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्वं बोध- यति । कारकाधिकारीयेणाकथितं चेति सूत्रेणापादानत्वादिभि- नधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्मसंज्ञाभिधा- नात् । गवां पयो दोग्धीत्यादौ धातुप्रतिपाद्यान्वयिगवादिसंबन्धो न विवक्षितः अपि तु क्षीराद्यन्वयी स इति कर्मत्वाविवक्षया द्वितीयानवकाशः, किन्तु शैषिकी षष्ठ्येवेति। अत्र धातुप्रतिपा- द्यत्वं तदर्थतावच्छेदककोटिप्रविष्टसाधारणम् । गां दोग्धीत्यादौ धात्वर्थतावच्छेदककोटिप्रविष्ट एव द्वितीयार्थान्वयात् । तथा हि क्षरणानुकूलव्यापारो दुहेरर्थः। द्वितीयार्थश्च जनकत्वसंबन्धेन क्षरणान्वयी विभागः । विभागे चाधेयतया प्रकृत्यर्थगवादेरन्वयः । एवं च धात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षीरान्वितद्विती- यार्थवृत्त्यन्वय इति गोनिष्ठविभागानुकूलपयोनिष्ठक्षरणानुकूलव्या- पारकर्ता मैत्र इति गां पयो दोग्धि मैत्र इति वाक्याधीनो बोधः । इत्यप्युच्यते) वादिनो नैयायिकाः। पीलुः परमाणुः वैशेषिकमतमनुश्रित्यो- च्यते-अवयिविन्यादि । 'उक्तयुक्त्येति । आश्रयानवच्छिन्नधात्वर्थतावच्छेदकताशालिफलाश्र- यत्वस्यैव कर्मत्वनियामकत्वादिति भावः । धन्तिरावच्छिन्नस्येति । धन्तिराश्रयस्येत्यर्थः ।

१६७ द्वितीया ] जयाऽलङ्कृतः न च विभागोपादानत्वमेवेति तद्विवक्षायां द्वितीयानवकाश इति वाच्यम् । धातुवृत्तिग्रहविशेष्यान्वयिनो विभागस्यैवापादानत्व- रूपत्वात् । वृक्षात्पर्ण पततीत्यादौ स्पन्दरूपवृत्तिग्रहविशेष्यांशे एव पञ्चम्यर्थविभागान्वयात् । वस्तुतो विभागावच्छिन्नक्षरणानुकूलो व्यापारो दुयर्थः । गोपदोत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेव । न चैवं धात्वर्थ- तावच्छेदकफलशालित्वरूपं कर्मत्वमेवात्रापि प्रतीयते इति नाक- थितं चेत्यस्य विषय इति वाच्यम् । धात्वर्थतावच्छेदकत्वस्य धातु- वृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वरूपत्वात्। यत्र च क्षरणानुकूल- व्यापारमात्रं धात्वर्थतया विवक्षितं क्षरणान्वयिविभागस्य विभक्त्य- र्थतया तत्रापादानत्वबोधिका पञ्चमी। एतेन कदाचिद्रां दोग्धि पयः, कदाचिच्च गोः पयो दोग्धि इत्यत्र नानियमः । अथ वा गोभ्यो दोग्धि पय इत्यत्रापि विभागो धात्वर्थतावच्छेदककोटि- प्रविष्ट एव वृक्षाद्विभजते इत्यत्रेवावधित्वरूपापादानत्वविवक्षायां पञ्चमी, आश्रयत्वविवक्षायां च द्वितीया । अवधित्वं चाश्रयत्वा- दन्य एव स्वरूपसंबन्धविशेषः । अत्र चरणान्वयिनः परसमवेत- त्वस्य द्वितीयार्थत्वात् पयोनिष्टक्षरणस्य पयोनिष्ठविभागजनकत्वेऽपि न पयः पयो दोग्धीति प्रयोगः । परत्वं च विभागान्वयिताव- च्छेदकावच्छिन्नापेक्षया बोध्यम् । दुह्यते गौः क्षीरमित्यादौ क्षरण- जन्यविभागाश्रयत्वरूपं गवादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः । अप्रधाने दुहादीनामित्यनुशासनात् । क्षीरवृत्तित्वस्य धात्वर्थक्षरण एवान्वयः। आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः। तथा च विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्यविभा- गाश्रयो गौरित्याकारको बोधः। अथ वा विभागक्षरणव्यापारेषु विशकलितेषु धातोः शक्तित्रयं विशिष्टलाभोऽन्वयबलात् । कर्मा- ख्यातस्थले चाकाक्षावैचित्र्येण तेषां विशेष्यविशेषणभाववैपरी- .

१६८ व्युत्पत्तिवादः [ कारके त्यात्। व्यापारजन्यक्षरणजन्यविभागपर्यन्तस्य धातुत एव लाभः। आश्रयत्वमेवाख्यातार्थः। एवं च क्षरणविभागयोन द्विधा भानम् । गौणकर्मासमभिव्याहृते दुह्यन्ते क्षीराणीत्यादौ आत्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छिन्नमरणाश्रयत्वरूपप्रधान- कर्मत्वस्य बोधनेऽपि एकदा उभयविधकर्मत्वबोधनस्याव्युत्पन्नत्वात दुह्यन्ते क्षीराणि गौरित्यादयो न प्रयोगाः । पौरवं गां याचते विप्र इत्यादौ स्वोद्देश्यकदानेच्छा याचतेरर्थः। प्रधानकर्मगवाद्यन्वितद्वितीयार्थः विषयत्वे धात्वर्थतावच्छेदकदाने- ऽन्वेति । सविषयकदानादिरूपविषयोपहितेच्छाबोधकधातुस्थले इच्छाविषयविषयत्वमेव प्रधानकर्मत्वम् । अत एव घटो जि- ज्ञास्यते इत्यादौ घटादेः सन्नन्तकर्मता । अथैवं यद्वस्तुवि- षयकं दानमप्रसिद्धं तद्वस्तुरूपकर्मसमभिव्याहृतधातुघटितवचसः का गतिरिति चेत् या गतिर्गगनं दिक्षते इत्यादिकस्य भ्रान्त- पुरुषीयगमनादिप्रकारकदर्शनेच्छाबोधकवाक्यस्य गगनविषयक- त्वप्रकारकदर्शनेच्छाबोधस्तत्रेति चेदिहापि गोविषयिता'प्रका- रतानिरूपितस्वत्वेच्छानिष्ठविषयताशालीच्छाबोधस्तद्वाक्यस्य वि- शेषदर्शिमात्रविषयताऽपि समेति विवेचनीयं चेदमने। पौरवपदो- त्तरद्वितीयायास्तु वृत्तिरेवार्थः। तस्याश्च दानेऽन्वयः । पौरवस्य तादृशदानाश्रयत्वमेवाप्राधानकर्मत्वम् । न चैवमिच्छाविशेषरूप- दानाश्रत्वं कर्तृत्वमेवेति वाच्यम् । धातुजन्यप्रतिपत्तिविशेष्यीभूत- १ अव्युत्पन्नत्वादिति । सकृदुच्चरितः शब्दः सकृदेवार्थं गमतीतिनियमात् । गोविषयितेति । स्वस्वत्वध्वंसानुकूलपरस्वत्वप्रकारिका पौरववृत्तीच्छा एतद्गोनिष्ठविषयतानिरूपिका भवत्वित्याकारिकैवेच्छा तत्र धात्वर्थ इति बोध्यम् ।

द्वितीया ] जयाऽलङ्कृतः दानाश्रयत्वस्यैव तत्कर्तृत्वरूपत्वात् । अत्र च दानस्य तादृशप्रति- पत्ताविच्छारूपधात्वर्थे विशेषणत्वात् । चैत्रेण पौरवो गां याच्यते इत्यादावप्युक्तक्रमेण चैत्रवृत्तीच्छाविषयगोकर्मकदानाश्रयः पौरव इत्यन्वयबोधो बोध्यः । यद्यपि निरुक्तयाच्चाभिक्षा चेति दुहिया- चिरुधिप्रच्छिभिक्षिचिनामित्यत्रार्थपरभिक्ष्युपादानेनैव चरितार्थ- तया' याचेरुपादानमनर्थकं तथापि याचमानः शिवं सुरानित्यादौ याचतेनं निरुक्तंभिक्षार्थकतेति तदुपादानम् । तत्र हि व्यापारजन्य- त्वप्रकारिकेच्छाधात्वर्थः । इच्छायां प्रधानकर्मकल्याणान्वितद्विती- यार्थविषयिताया अन्वयः। व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयार्थस्यान्वयः। तथा च सुरवृत्तिव्यापारजन्यत्वप्रकारक- कल्याणेच्छाश्रय इत्यर्थः । गां ब्रजं रुणद्धीत्यादौ देशान्तरसञ्चार- विरोधिव्यापारो धात्वर्थः। सञ्चारविरोधित्वं च सञ्चारानुत्पाद- प्रयोजकत्वम् । अनुत्पादे प्रधानकर्मणो वृत्तित्वान्वयः । देशविशेषण- भेदे च ब्रजमिति द्वितीयान्तार्थव्रजप्रतियोगिकत्वान्वयः । रुध्यते गां ब्रज इत्यादावन्वयबोधः स्वयमूहनीयः । गुरुं धर्म पृच्छतीत्यादौ जिज्ञासाबोधकव्यापारो धात्वर्थः । - दानाश्रय इति । विशिष्टशक्तिवादे चैत्रवृत्तिविशिष्टेच्छाविषयदाना- श्रयः पौरव' इति बोधः । 'चरितार्थतया। सिद्धतयेत्यर्थः । व्रजप्रतियोगित्वान्वय इति । गोवृत्तिर्यो ब्रजप्रतियोगिकभेदविशिष्ट- देशाधिकरणकसंचारोत्पत्त्यभावस्तदनुकूलव्यापारवानिति बोधः । स्वयमूहनीय इति । अभावप्रतियोगिगोभूदुत्पत्तिमत्सञ्चाराधिकदेश- विशेषणभेदप्रतियोगिकत्वं प्रत्ययार्थस्तदैकदेशेऽभावे धात्वर्थमुख्यविशेष्य- व्यापारस्य जन्यत्वेनान्वयः । खण्डशक्तिवादे प्रदर्शितरीत्यैव बोधः ।

२०० व्युत्पत्तिवादः [ कारके बोधे गुरुवृत्तित्वस्य जिज्ञासायां धर्मविषयकत्वस्यान्वयः। शिष्य धर्मं ब्रूते इत्यत्र ज्ञानानुकूलशब्दप्रयोगो धात्वर्थः। ज्ञाने धर्मवि- षयत्वस्य शिष्यवृत्तित्वस्याप्यन्वय इति तन्न चारुतरम् । तथा सति यत्र जिज्ञासाविषयकचैत्रज्ञानेच्छयाप्रश्नस्तादृशशब्दाच सामग्रीबलेन मैत्रस्यापि पृच्छकजिज्ञासाज्ञानन्तत्र मैत्रं पृच्छतीति प्रयोगस्य, एवं यत्र चैत्रज्ञानेच्छया ब्रूते दैववशाच मैत्रस्यापि ज्ञानं तत्र मैत्रं ब्रूते इति प्रयोगस्य चापत्तेः । साक्षाद्धात्वर्थविशेषणज्ञानरूपफलाश्रयतयो तत्र गुर्वादीनां प्रधानकर्मतया अप्रधाने दुहादीनामित्यनुशासन- विरोधेन पृच्छते गुरुधर्म-"स पृष्टस्तेन कस्त्वं भोः" शिष्य उच्यते- 'धर्म'मित्यादिस्थले च लकारादिना तत्कर्मत्वाभिधानानुपपत्तेश्च । परंतु जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः पृच्छतेरर्थः । ज्ञाने गुरुवृत्तित्वस्यान्वयः। शब्दे च धर्मविषयकत्वस्यान्वयः । शब्दस्य च विषयता व्यापारानुबन्धिनी ज्ञानस्य परम्परया शब्दरूपधात्वर्थ- विशेषणत्वात्। तदाश्रयीभूतगुरोर्गौणकर्मता। धर्मस्य च धात्वर्थ- विषयतया प्रधानकर्मता। 'नश्च ज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दोऽर्थः। ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः । अजां ग्राम नयतीत्यादौ ग्रामं भारं वहतीत्यादौ च उत्तरदेशसंयोगावच्छिन्न- क्रियानुकूलव्यापाररूपं प्रापणं धातोरर्थः। तत्र क्रियारूपे फले अजा- भारादिवृत्तित्वान्वयः। संयोगरूपफले च प्रामादिवृत्तित्वस्यान्वयः। 'तथा च गुरुवृत्ति यज्जिज्ञासाज्ञानं तदुद्देश्यिका या कृतिस्तदधीनो यो धर्मविषयकः शब्दस्तत्प्रयोक्तेरिति बोधः । इत्यस्मत्पितृचरणहस्त- लिखितपुस्तकधृतोऽत्राधिकः पाठः । तत्त्रेयादि अन्वयरित्यन्तस्य स्थाने 'उत्तरसंयोगे ग्रामस्य गौणकर्मणः क्रियायां चाजादिप्रधानकर्मणः इति हस्तलिखितपुस्तकपाठः ।

१ द्वितीया ] जयाऽलङ्कृतः २०१ तथा च प्रामवृत्तिसंयोगजनकाजादिवृत्तिक्रियानुकूलब्यापारानुकूल- कृतिमानित्यन्वयबोधः । अजा ग्रामं नीयते उद्यते भारो ग्राम चैत्रेण इत्यादावुत्तरसंयोगावच्छिन्नक्रियारूपं फलं कर्माख्यातार्थस्तत्र चधात्वर्थस्य तादृशव्यापारस्य जन्यतासम्बन्धन तस्य चाश्रयता- सम्बन्धन अजाभारादिरूपप्रधानकर्मण्यन्वयः। प्रामादिवृत्तित्वा- न्वयस्तु संयोगे एव । एवं च चैत्रकृतिजन्यो यः संयोगावच्छिन्न- क्रियानुकूलव्यापारस्तजन्यग्रामवृत्तिसंयोगानुकूलकर्मवानजादिरि- त्यन्वयबोधः। न च कारकविभक्त्यर्थस्य धात्वर्थ एवान्वयनिय- मात्प्रत्ययोपस्थाप्यसंयोगे कथं ग्रामादिवृत्तित्वान्वय इति वाच्यम्। भूतले घट इत्यादौ घटादिपदार्थेप्यधिकरणसप्तम्यर्थान्वयातादृश- नियमासिद्धः। अस्तु वा धात्वर्थतावच्छेदकतावच्छेदकतया भासमाने संयोग एव तदन्वयः । फलव्यापारयोः पृथक्शक्तिमते चाश्रयत्वमेवात्मनेपदार्थः । संयोगावच्छिन्नक्रियारूपधात्वर्थ एव १ “वृक्षं पुष्पं चिनोतीत्यादौ विभागानुकूलहरणं चिनोतेरर्थः। हरण- ञ्चोद्देश्यीभूतपात्रसंयोगानुकूलक्रियानुकूलव्यापारः । विभागानुकूलत्वं क्रिया- विशेषणं परम्परया धात्वर्थतावच्छेदकविभागस्याश्रयतया वृक्षादौ गौण- कर्मता। अतः पुष्पाणि वृक्षश्चीयत इत्यादौ वृक्षादिपदस्य प्रथमान्तता साक्षा- द्धात्वर्थतावच्छेदिकायाः पुरुषव्यापाराधीनाक्रियाया आश्रयतया पुष्पादेः प्रधानकर्मता । यत्रानुपयुक्तपत्रादीनां वृक्षादिभ्योऽपनयनमेवोद्देश्यं न तु तेषां पात्रसंयोगस्तत्र पत्राणि चिनोतीत्याद्यप्रयोगात् पात्रसंयोगे उद्देश्यत्वं विशे- षणं यद्यपि शिष्यं धर्ममनुशास्तीत्यादौ ब्रुनर्थज्ञानानुकूलव्यापार एव शास्त्यर्थः तथाऽप्युपदेशरूपज्ञापनविशेष एव तदर्थ इति दुहादिगणे पृथगुपादानमुप- देशश्च कर्त्तव्यताज्ञापनमित्यादिकं स्वयमूहनीयम्' । इत्यस्मत्पितामह- भ्रातृचरणहस्तलिखितपुस्तकघृतोऽत्राधिकः पाठः ।

२०२ व्युत्पत्तिवादः [ कारके व्यापाररूपधात्वर्थविशेष्यतया आश्रयत्वविशेषणतया चान्वेति । तदेकदेशे संयोग एव ग्रामादिवृत्तित्वान्वयः। चैत्रीयकृतिजन्यव्यापा- रजन्यग्रामवृत्तिसंयोगानुकूलक्रियाश्रयवानजादिरित्याकारको बोधः। ज्ञानानुकूलशब्दश्च द्रव्यं निरूपयतीत्यादौ धातोरर्थः। तादृशवि- शिष्टकार्थस्य एकदेशे ज्ञानांशे आधेयत्वान्वयबोधे च न द्वितीयायाः साकाङ्क्षता स्वीक्रियते अपि तु विषयतया अन्वयबोध एवेति शिष्यं द्रव्यं निरूपयतीत्यादिर्न प्रयोगः । यत्तु धात्वर्थो ज्ञानमेव तदनुकूलव्यापारश्च णिजर्थ इति–तद्- सत् । धातोश्चुराद्यन्तर्गततया स्वार्थ एव णिचो विधानात् । अन्यथा निरूपयतीत्यस्य ज्ञापयतीत्यादिसमशीलतया शिष्यं ज्ञापयतीत्यादिवच्छिष्यं निरूपयतीति प्रयोगस्य दुर्वारत्वात् । अजां ग्रामं यापयति शिष्यं शास्त्रं ज्ञापयति ब्राह्मणमन्नं भोजयति यजमानं मन्त्रं पाठयति घटं जनयति नाशयतीत्यादौ णिच्प्रत्ययप्रकृतिभू- तधात्वर्थकर्तृवाचकाजादिपदोत्तरद्वितीयायाः मुख्यभाक्तसाधारणं कर्तृत्वमेवार्थः। गतिबुद्धीत्यादिसूत्रेण कर्तुः कर्मसंज्ञाविधानात् । गतिज्ञानोत्पत्त्यादिनिरूपितं कर्तत्वं चाश्रयत्वमेव गलाधःसंयोगानु- कूलक्रियानुकूलव्यापाररूपभोजनं कण्ठताल्वाद्यभिघातरूपपाठनिरू- पितं च तदनुकूलकृतिमत्त्वं नाशनिरूपितं च प्रतियोगित्वम् । तस्य च निरूपकतासम्बन्धेन धात्वर्थेऽन्वयः । नव्यमते च यत्राश्रयत्वं कर्तृत्वं तत्राधेयत्वं द्वितीयार्थः। यत्रानु- । १ नन्वजां ग्रामं यापयतीत्यादौ निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगि- ताकाजादिवृत्तितादृशकर्तृत्वाभाववान् यो ग्रामनिष्ठसंयोगानुकूलो व्यापा- रस्तदनुकूलव्यापारवान् देवदत्त इत्येवं क्रमेणैव बोधो वक्तव्यः । न सम्भवति निरूपकत्वस्य वृत्त्यनियामकतया तदवच्छिन्नप्रतियोगिताका- भावस्य वक्तुमशक्यत्वादित्यरुचेराह-नव्यमते इति । सच द्वितीया ] जयाऽलङ्कृतः २०३ कूलकृतिमत्त्वं तत्र कृतिजन्यत्वं यत्र प्रतियोगित्वं तत्रानुयोगित्वं तेषां चाश्रयतासंबन्धेनैव धात्वर्थेऽन्वयः। गत्यर्थादिभ्योऽन्यत्र च णिच्प्रत्ययप्रकृतिधात्वर्थकर्तृवाचकपदात् न द्वितीया, तादृशकर्तुः कर्मतातिदेशाविषयत्वात् । तेन पाचयत्योदनं सहायेनेत्यादय एव प्रयोगाः न तु पाचयत्योदनं सहायमित्यादयः । के चित्तु पाकादिकर्तुः पाकादिकर्मत्वरिरहेऽपि ण्यन्तसमुदा- यस्यापि धातुत्वेन तत्कर्मतया सहायादेः पाचयत्योदैनं सहायमित्या- दयः प्रयोगा अपि साधवः । अत एवा जिग्रहत्तं जनको धनुस्त'दि- त्यादयो भट्टिप्रयोगाः। गतिबुद्धीत्यादिसूत्रं च नियमपरतया गत्यर्थ- धातुयोगे कर्तृप्रत्ययासाधुत्वज्ञापकम् । तेन पाचयत्योदनं सहायेने- त्यादिवत् अजया ग्रामं यापयतीत्यादयो न प्रयोगा इत्याहुः । एषामयमाशयः। हेतुमति चेत्यनुशासनात् णिजों हेतुकर्तत्वम्। तच्च स्वतन्त्रकर्तृप्रेरणा अन्यनिष्टकर्तृत्वनिर्वाहकव्यापाररूपा। कर्तृत्वं क्वचित्प्रयत्नः कचिदाश्रयत्वादिकं, यादृशधातूत्तराख्यातेन याहशक- तृत्वं बोध्यते तदुत्तरणिच्प्रत्ययेन तादृशकर्तृत्वनिर्वाहकव्यापारो बोध्यते । अत एव पाचयतीत्यादौ पाकादिकृतिनिर्वाहकः, ज्ञापय- तीत्यादौ ज्ञानाश्रयत्वनिर्वाहकः, नाशयतीत्यादौ नाशप्रतियोगित्व- निर्वाहको व्यापारः प्रतीयते । निर्वाहकत्वं च स्वरूपसंबन्धवि- शेषः । न तु जनकत्वम् । अतो न नाशयतीत्यादावुपपत्तिः । एवं च ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं कर्तत्वमेव निर्वाह्यस्यैव फल- त्वात्। तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता, तादृशफलविशेषण- तया स्वतन्त्रकर्तवृत्तित्वविवक्षायां पाचयत्योदनं सहायमित्यादयः प्रयोगाः। यदा तु पाकादिविशेषणतया सहायादिकर्तृत्वं विवक्षित तदा पाचयत्योदनं सहायेनेत्यादयः। अथ यत्र चैत्रमैत्रोभयकर्तृक एक एव पाकस्तत्र चैत्रमात्रं प्रयो- जयति यज्ञदत्तो मैत्रेणान्नं पाचयतीति प्रयोगापत्तिरिति । तत्रापि २०४ व्युत्पत्तिवादः [ कारके ण्यर्थकृतावेव तृतीयान्तार्थमैत्रादिवृत्तित्वस्यान्वयो वाच्यः । एवं च मैत्रं पाचयतीत्यादिवाक्यजन्यवोधावैलक्षण्याद् द्वितीयातृतीययो- स्तात्पर्यभेदेन व्यवस्थाया न संगतिरिति चेत्-न। अगत्या तत्र पाकादिविशेषणकृते: पारतन्त्र्येण व्यापारविशेषणीभूतणिजर्थक- तावभेदान्वयमुपगम्योक्तातिप्रसङ्गस्य वारणीयत्वात्। पदार्थैकदेशे कृतौ पाकादेरिव कृतेरप्यन्वयो व्युत्पत्तिवैचित्र्यात् । वस्तुतः कर्तृत्वं व्यापारश्च पृथगेव णिजथः। विशिष्टलाभोऽन्वयबलात् । केचित्तु अनुकूलव्यापार एव णिजर्थः तदन्वयिनी गमनभोजन- क्रियैव धात्वर्थतावच्छेदकं फलं तत्संबन्धिनस्तादृशक्रियाकर्तुय॑न्त- कर्मता। ताहशक्रियासंबन्धश्चाश्रयत्वकृतिमत्त्वान्यतरो ग्राह्यः । अतो गमनादिसंबन्धिकालादौ नातिप्रसङ्ग इत्याहुः। अत्र च तादृशकर्मतावाचकपदात् कदा चिद्वितीयां कदा चित्तृतीया इत्यत्र नियामकाभावः । तादृशपदोत्तरयोस्तयोस्तुल्यार्थ- कतया विवक्षाभेदरूपनियामकाभावादिति तु चिन्तनीयम् । अजा प्रामं याप्यते चैत्रेणेत्यादौ चैत्रकर्तृकव्यापारनिर्बाह्यं यद्ग्रामवृत्ति- संयोगानुकूलक्रियाकर्तृत्वं तदाश्रयोऽजा इति बोधः । तत्र संयोगा- वच्छिन्नक्रिया धातुलभ्या, संयोगे ग्राममित्यादिद्वितीयान्तार्थग्रामा- दिवृत्तित्वान्वयबलात् प्रामादिवृत्तिसंयोगावच्छिन्नक्रिया लभ्यते तादृश्या जिर्थकर्तृत्वेऽन्वयः। कर्माख्यातादिसमभिव्याहार- नियन्त्रितव्युत्पत्तिबलाच्च तादृशक्रियान्वितकर्तृत्वं तृतीयान्तार्थ- चैत्रादिकर्तत्वविशेषितव्यापाररूपापरणिजथै निर्वाह्यत्वसंबन्धेन विशेषितम्। अजादिरूपकर्मीभूतकर्तृविशेषणीभवदाख्याताश्रयत्वे विशेषणतया भासते। तु गतिबुद्धीत्यादिसूत्रस्य संज्ञाविधायकत्वं वर्णयन्ति तेषामयमाशयः। व्यापार एव णिजर्थः। तत्र धात्वर्थक्रियायाः द्वितीया ] जयाऽलङ्कृतः २०५ स्वकर्तृत्वनिर्वाहकत्वं संसर्गः। अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तम्। याप्यते प्राममजा इत्यादौ स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन अजादौ विशेषणतया भासते। तादृशव्यापारे तृतीयान्तार्थस्य चैत्रादिकर्तत्वस्य धात्वर्थैकदेशे संयोगादिफले च द्वितीयान्तार्थस्य ग्रामवृत्तित्वस्य विशेषणतया भानं एयन्तोत्तराख्यातस्यापि कर्तृत्व- मेवार्थः । तत्र च तस्य वृत्तिः क्लृप्तव । तच्च उक्तस्य धात्वर्थस्य विशेष्यतया प्रथमान्तपदार्थस्य च विशेषणतया भासते। न च यक्समसिव्याहृताख्यातोपस्थाप्यकर्तत्वस्यान्वयबोधोपगमे गम्यते चैत्र इत्यतोऽपि गमनकर्ता चैत्र इत्यन्वयबोध: स्यादिति वाच्यम् । एयन्तोत्तरयक्समभिव्याहृताख्यातस्यैव कर्तृत्वान्वयबोधनियाम- कत्वात्। अथैवमजा याप्यते इत्यादौ कर्तृत्वस्याख्यातबोध्यत्वे कर्तरि शबित्यपवादविषयतया यकोऽसाधुतापत्तिः । न च यादृशधातूत्तरं यत्सार्वधातुकं विहितं तादृशधात्वर्थनिरूपित्तकर्तत्वस्य तेन विवक्षा- यामेव कर्तरि शबित्यादेः शबादिविधायकत्वात् , प्रकृते एयन्तसमु- दायस्य उत्तरमेवाख्यातं तेन तदर्थनिरूपितकर्तत्वं च न बोध्यते, अपि तु ण्यर्थविशेषितधात्वान्वितकर्तृत्वमेवेति न तादृशापवाद- विषयतेति वाच्यम् । कर्माख्यातस्थले विशेष्यविशेषणभाववैपरीत्येन व्यापारविशेषितक्रियाया अपि ण्यन्तधात्वर्थत्वात्। मैवम् । लकारसामान्यवृत्त्या' यत्र कतत्वं प्रतीयते तत्रैव कर्त्तरि शबित्यस्य विधायकता । अत्र कर्मत्वसमशीले कर्तृत्वे आत्मनेपद- , 'प्रतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तमिति । जन्यत्वेन प्रतीयमान- रूपफलाश्रयत्वाभावादित्यर्थः । २लकारसामान्यवृत्त्येति । लत्वावच्छिन्नशक्ततानिरूपितशक्यताश्रय- तया यत्र कर्तृत्वं प्रतीयते इत्यर्थः ।

[ कारके , , , २०६ व्युत्पत्तिवादः त्वेन शक्तिः। वस्तुतः फलव्यापारयोः पृथक्वात्वर्थतामते गच्छ- तीत्यादाविव गम्यते इत्यादावपि लकारेणाश्रयत्वरूपकर्तृत्वाभिधाने यग् अनुपपन्न इति, परस्मैपद'समभिव्याहृतधातुना यादृशविशिष्टो- ऽर्थः प्रत्याय्यते, तादृशविशिष्टार्थान्वितकर्तृत्वाभिधानमेव शब्वि- षयः। एवं च प्रकृतेऽपि नानुपपत्तिरिति ध्येयम् । ग्रामो याप्य- ते, अर्थो बोध्यते, इत्यादौ भावना विशेष्यतया ग्रामादेर्भानेऽपि गमनादिकर्तुः कर्मत्वविवक्षायां तस्यैवाख्यातार्थविशेष्यतया बोधोऽव्युत्पन्नः । ण्यन्ते कर्तश्च कर्मण इत्यनुशासनादतोऽजां ग्रामो याप्यते शिष्यमों बोध्यते' इत्यादयो न प्रयोगाः। ग्रामो याप्यते, अर्थो बोध्यते, इत्यादौ फलं विषयित्वादिरूपं च मुख्यभा- तसाधारणं कर्मत्वमेवाख्यातार्थः । फलव्यापारयोः पृथक्धा- त्वर्थतामते आश्रयत्वमेवाख्यातार्थः। धात्वर्थव्यापारविशेष्यतया तादृशाश्रयत्वविशेषणतया च धात्वर्थफलस्य भानेऽपि, एयर्थ- व्यापारस्य जन्यतासम्बन्धेनैव धात्वर्थक्रियाज्ञानादिविशेषणत्वं पूर्ववदेव । अजां ग्रामो याप्यते इत्यादिकस्तु न प्रयोगः, द्विती- यया कर्मत्वबोधने धात्वर्थव्यापारविशेष्यतया ण्यर्थबोधसाम- ग्याः प्रयोजकत्वात् । यगादिसमभिव्याहृतस्थले च धात्वर्थ- परस्मैपदेति । ननु यादृशधातोनित्यात्मनेपदविधानात्परस्मैपदसमभि- व्याहारोऽप्रसिद्धस्तत्र का गतिरिति चेत्तर्हि आनुकूल्यत्वेनाप्रतीयमानधात्व- थनिरूपितकर्तृत्वविवक्षैव शनिमित्तमिति ध्येयम् । भावनेति । भावनाप्रत्ययार्थमात्रम् । 'शिष्यमर्थो बोध्यत इति । वस्तुतोऽयमसाधुरेव बुद्धिभक्षार्थयोः शब्द- कर्मकाणानिजेच्छयेत्युक्तेः ।

- द्वितीया ] जयाऽलङ्कृतः २०७ विशेषणतयैव ण्यर्थस्य बोधात्, ण्यन्तधातोः सकर्मकत्वे त- दुत्तरभावाख्यातस्य भावे चाकर्मकेभ्य इत्यनुशासनेनासाधुत्वाच्च न तादृशप्रयोगः। ग्रामं याप्यते इति भावाख्याते प्रयोगस्त्विष्ट एव । ण्यन्तकर्मासमभिव्याहारादेकदा कर्तृत्वकर्मत्वबोधकताया आख्या- तस्याव्युत्पन्नतया अजा ग्रामो याप्यते इत्यादयो न प्रयोगाः। एवं तण्डुलः सहायेन पाच्यते चैत्रेणेत्यादौ धात्वर्थे सहायादिकर्तृत्वस्य तद्विशेषणण्यर्थव्यापारे च चैत्रादिकर्तृत्वस्य तृतीयान्तार्थस्य बोधः । शेषं पूर्ववदिति दिक् । प्रामं गच्छतीतिवत्वं गच्छतीति प्रयोगवारणाय परसमवेतत्व- मपि द्वितीयार्थ इष्यते । तस्य च धात्वर्थेऽन्वयः । परत्वे चैकदेशेऽपि आकाङ्क्षावैचित्र्यात्+ प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः। एवं च ग्रामं गच्छति चैत्र इत्यादौ ग्रामभिन्नसमवेता ग्रामनिष्टसंयोगजनिका या क्रिया तदाश्रयतावांश्चैत्र इत्यन्वयबोधः। स्वनिष्टसंयोगजनक- क्रियायां स्वभिन्नसमवेतत्वस्य बाधात्स्वमात्मानं गच्छतीति न प्रयोगः। यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मल्लान्तरसमवे- तक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेऽपि तादृश- क्रियाश्रयतायाः स्वस्मिन् बाधात् मल्लः स्खं गच्छतीति न प्रयोगः । न च स्वनिष्ठसंयोगजनकस्वसमवेतक्रियायां स्वभिन्नसमवेतत्वस्या- ण्यन्तधातोरिति । नन्वभावाख्यातस्थले ण्यर्थस्य धात्वर्थविशेष्यतया भानसम्भवात्तत्रैवास्तु अजां ग्रामो याप्यत इत्यत आह-यन्तधा- तोरित्यादिना। स्वभिन्नसमवेतत्वस्येति । स्वनिष्ठसंयोगजनकत्वे. परसमवेतत्वे च खण्डशो द्वितीयाया शक्तिः तत्र च यत्किञ्चिदंशपरित्यागेऽपि बोधस्यानु- भविकत्वादिति भावः ।

२०८ व्युत्पत्तिवादः [ कारके योग्यतया तदभानेप्यबाधितं स्वनिष्ठसंयोजनकत्वं विषयीकृत्य शाब्दबोधसम्भवात् । तदर्थमात्रतात्पर्येण स्वं गच्छतीति प्रयोगो दुर्वार एवेति वाच्यम्। परसमवेतत्वाविषयकस्य द्वितीयाधीनफलज- नकत्वबोधस्य कुत्राप्यनभ्युपगमेन तादृशबोधे तद्भासकसामग्ऱ्या अप्यपेक्षणीयत्वात् । अथ स्वस्यापि द्वित्वावच्छिन्नस्वभेदवत्त्वात् स्वं गच्छतीति प्रयोगस्य दुर्वारतया द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थता- वच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैव भेदेऽन्वयो बोध्यः। तथा च चैत्रो द्रव्यं गच्छति, मल्लो मल्लं गच्छतीत्यादिवाक्यस्या- प्रमाणतापत्तिः। चैत्रमल्लादिनिष्ठक्रियायां प्रकृत्यर्थतावच्छेदकी- भूतद्रव्यत्वमल्लत्वाद्यवच्छिन्नभिन्नासमवेतत्वात् । तत्तद्व्यक्तित्वा- नुपस्थितावपि शाब्दबोधोदयेन तत्तव्यक्तित्वावच्छिन्नप्रतियोगि- तासम्बन्धेनान्वयोपगमासम्भवात् । उक्तयुत्तया सम्बन्धघटको- पस्थितेरपि शाब्दबोधेऽपेक्षितत्वात् । एकधर्मावच्छिन्नप्रतियोगि- ताया अन्यधर्मावच्छिन्न संसर्गत्वे मानाभावाच प्रतियोगिविशेषि- ताभावबुद्धेविशिष्टवैशिष्ट्यावगाहित्वनियमात् अन्वयितानवच्छेद- कावच्छिन्नप्रतियोगितायाः सम्बन्धत्वासम्भवाचेति चेत्तर्हि क्रिया- न्वयिभेदप्रतियोगितावच्छेदकत्वमेव द्वितीयार्थोऽस्तु । भेदे प्रकृ- त्यर्थस्याधेयतासम्बन्धेनान्वय इतिन का चिदनुपपत्तिः। न चैवमपि विहगो भूमि प्रयातीतिवद्विगो विहगं गच्छतीति प्रयोगो दुर्वारः विहगनिष्ठभूमिसंयोगजनकतक्रियाया विहगान्तरनिष्ठभेदप्रति- योगितावच्छेदकतया विगनिष्ठभेदप्रतियोगितावच्छेदकविहग़- वृत्तिसंयोगजनकक्रियाश्रयत्वस्याबाधितत्वादिति वाच्यम् । विहगो अन्यधर्मावच्छिन्नेति । तथा च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताया मल्लत्वाद्यवच्छिन्नप्रतियोगिकसंसर्गत्वन्न सम्भवतीति भावः ।

द्वितीया ] जयाऽलङ्कृतः २०६ विहगं गच्छतीत्यादौ विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसंयोगस्य क्रियायां जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्ब- न्धेनान्वयोपगमात्, विहगनिष्ठक्रियायास्तद्विहगनिष्ठसंयोगजनकत्वेन तजनकतासम्बन्धेन तत्संयोगवत्वेऽपि विहगवृत्तित्वविशिष्टतत्सं- योगाश्रयतद्विगनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावानोक्तोभयस- म्बन्धेन विशिष्टसंयोगवत्त्वमित्यनतिप्रसङ्गात् । एवं सति पर- समवेतत्वं सम्बन्धघटकमेव न तु द्वितीयार्थ इति चेत्-का क्षतिः। विहगो विहगेन गम्यते इत्यादावपि जन्यत्वस्वावच्छिन्नभेदसामा- नाधिकरण्योभयसंबन्धेन क्रियायाः। संयोगेऽन्वय इष्यते तत्त- क्रियावच्छिन्नभेदवति भूम्यादावेव तादृशभेदसामानाधिकरण्य- सम्बन्धेन तत्तक्रियाविशिष्टसंयोगादिमत्त्वोपगमात् , तत्र तक्रिया- श्रयविहगे तबाधेन नातिप्रसङ्ग इति ध्येयम् । ज्ञानादिरूपसविषयकवस्त्वभिधायकधातुसमभिव्याहृतद्वितीया- याः प्राचीनमते निरूपकतासंबन्धेन धात्वर्थान्वयि विषयत्वमर्थः । तत्र प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। वृत्त्यनियामकसंबन्धस्या- भावप्रतियोगितानवच्छेदकतया घट जानाति पटं नेत्यादावनुप- पत्तेस्तत्र विषयित्वार्थकत्वमेव नवीना उपवर्णयन्ति । तत्र च प्रकृत्यर्थस्य निरूपितत्वसंबन्धेन तस्य च धात्वर्थे आश्रयतासंबन्धे- नान्वयः। घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयित्वमेव । विषयित्वादौ च द्वितीयाया लक्षणैव न तु शक्तिरिति सांप्रदायिकाः। वस्तुतस्तु विषयितात्वस्य संयोगत्वाद्यपेक्षया आधेयतात्वाद्य- पेक्षयाचागुरुतया किंधर्मावच्छिन्ने शक्तिः कल्प्यते इत्यत्र विनिगमकं दुर्लभम् । एकस्मिन् प्रयोगे भूयस्त्वमप्यशक्यनिर्णेयमिति तत्रापि शक्तिः सिद्धथतीत्यवधेयम् । चैत्रेण ज्ञायते घट इत्यादौ कर्माख्या- तस्थले आख्यातेन घटादौ धात्वर्थनिरूपितविषयत्वं बोध्यते । चाक्षुषत्वाद्यवच्छिन्नवाचकदृश्यादिसमभिव्याहृतद्वितीयाया लौकि- १४ २१० व्युत्पत्तिवादः [ कारके कविपयित्वं, ताशकर्माख्यातस्य लौकिकविषयत्वमर्थः। उपनीत- सौरभादिविषयकसुरभिचन्दनमित्याकारकचाक्षुषादिदशायां सौरभं पश्यतीति, सौरभं दृश्यते इत्याद्यप्रयोगात् । अथैवं पुष्पं जिघ्रतीत्या- दिप्रयोगानुपपत्तिः । ब्राणजप्रत्यक्षस्य पुष्पाद्यशे लौकिकत्वविरहात् । तादृशधातुयोगे विषयित्वादिसामान्यस्य कर्मप्रत्ययार्थत्वे गन्धसाक्षा- कारे उपनयमर्यादयाकाशादिभाने आकाशं जिघ्रतीति प्रयोगप्रसंगेन तत्रापि लौकिकविषयिताया एव कर्मप्रत्ययार्थतयोपगन्तव्यत्वादिति चेत्-न । घ्राधातोहि गन्धलौकिक प्रत्यक्षत्वं शक्यतावच्छेदकं, घ्रा ग- न्धोपादाने इत्यनुशासनात्। तत्समभिव्याहृतद्वितीयायाश्चाधेयत्व- मेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादिरूपधात्वर्थैकदेशेनान्वयः। एवं च पुष्पं जिघ्रतीत्यादितः पुष्पवृत्तिगन्धलौकिकप्रत्यक्षाश्रयता- वानित्याकारक एव शाब्दबोधो न तु पुष्पनिरूपितलौकिकविषयि- ताशालिप्रत्यक्षाश्रय इत्याकारक इति नानुपपत्तिः । न चैवं सविष- यार्थबोधकधातुसमभिव्याहृतकर्मप्रत्ययस्य विषयितार्थकत्वनियम- भङ्गप्रसङ्ग इति वाच्यम् । विषयानवच्छिन्नताहशवस्त्वभिधायक- धातुसमभिव्याहृतकर्मप्रत्ययस्यैव तदर्थकत्वनियमात् । अस्य च गन्धात्मकविषयावच्छिन्नप्रत्यक्षवाचकतया तादृशनियमस्याबाधि- तत्वात् । न च ब्राधातुसमभिव्याहृतद्वितीयाया गन्धान्विताधेय- त्वार्थकत्वे आमोदमुपजिघ्रतीत्यादेरनुपपत्तिः । गन्धविशेषरूपामो- दपदार्थाधेयत्वस्य गन्धे बाधादिति वाच्यम् । विषयावच्छिन्नप्रत्य- ज्ञार्थकघ्राधातसमभिव्याहृतद्वितीयाया एवं आधेयतार्थकत्वनिय- मात् । तत्र विषयानवच्छिन्नस्यैव प्रत्यक्षविशेषस्य लक्षणया धात्व- थतोपगमेन विषयिताया एव तदर्थत्वात्। गन्धलौकिकेति । गन्धनिरूपितलौकिकविषयितावत्प्रत्यक्षत्वमित्यर्थः । घ्रा गन्धोपादान इति । अन्यथा घ्रा घ्राणे इत्येव वदेदिति ।

द्वितीया ] जयाऽलङ्कृतः २११ वस्तुतस्तु पुष्पं जिघ्रतीत्यादावाधेयत्वीयसांसर्गिकविषयिता- निरूपितप्रकारितैव द्वितीयार्थस्तस्याश्च गन्धनिरूपितलौकिकवि- पयिताशालिप्रत्यक्षात्मकधात्वर्थंकदेशे विषयितायां निरूपितत्व- संबन्धेनान्वयः । तेन इदानीन्तनपुष्पे गन्ध इत्यादिप्रत्ययस्याधेय- तासंसर्गेण कालादिप्रकारकत्वेऽपि ताशप्रत्यक्षदशायां न काल जिघ्रतीत्यादिप्रयोगः । तादृशज्ञानीयगन्धादिविषयितायां कालादि- प्रकारितानिरूपितत्वविरहात् । अत एव "तदाननं मृत्सुरभि क्षिती- श्वरो रहः समाधाय न तृप्तिमाययौ । "आघातवान् गन्धवहं सुगन्धमि" त्यादौ च उपाधिनिष्टगन्धग्रहतात्पर्येणैव जिघ्रते: प्रयो- गात् । तादृशगन्धे च आननगन्धवहादिवृत्तित्वस्य बाधेऽपि न क्षतिः । तादृशगन्धस्याननाद्यवृत्तित्वेऽपि अानने गन्ध इत्याकारक- बोधीयगन्धविषयिताया अाननादिप्रकारितानिरूपितत्वेन वाक्या- बाधात् । वाय्वानीतचम्पकगन्धस्य यत्र वाय्वादिवृत्तित्वेनैव ग्रहः तत्र चम्पकं जिघ्रतीत्यादिप्रयोगो नेष्यत एव । यत्तु प्राधेयता- मात्रं द्वितीयार्थः न तु समवायावच्छिन्नत्वविशेषितमाधेयत्वं तथा च मुखादिसंसृष्टमृत्तिकादिगन्धे परंपरासंबन्धेन मुखादिवृत्ति- त्वस्य सत्त्वान्न ताशस्थलेऽनुपपत्तिरिति-तदसत् । तथा सति कालं जिघ्रतीति प्रयोगस्य दुर्वारत्वात् । पुष्पमाघ्रायते इत्यादौ च निरुक्तप्रकारत्वमाख्यातार्थः। आश्रयतासंवन्धेन पुष्पाद्यन्विते तस्मिन् धात्वर्थप्रत्यक्षस्य निरूपितत्वसंवन्धेन तद्विशेषणतापन्न- विषयितेति । यादृशप्रकारताविशेष्यतयोनिरूप्यनिरूपकभावस्तन्निरू- पितविशेष्यिताप्रकारितयोरपीति भावः । तदाननं सेवितमृत्तिकालवं नृपः समाघ्राय न तृप्तिमाययावित्य- स्मत्पितृचरणहस्तलिखितपुस्तकधृतः पाठोऽत्र दृश्यते ।

२१२ व्युत्पत्तिवादः [ कारके गन्धविषयतायाश्च तादृशसंबन्धेनान्वयः । एकधर्मिविशेषणतयो- पस्थितस्य स्वातन्त्र्येणान्यविशेषणतयान्वयबुद्धेरेवाव्युत्पन्नत्वात् । अत्र च प्रत्यक्षपारतन्त्र्येणैव गन्धविषयिताया आख्यातार्थेऽन्वयेन व्युत्पत्तिविरोधविरहात् । अस्तु वा गन्धः लौकिकविषयिता- प्रत्यक्ष च विशकलितमेव धातोरर्थः । काख्यातादिसमभिव्याहारे गन्धविपयितायाः प्रत्यक्षविशेषणतया कर्माख्यातसमभिव्याहा- रस्थले च प्रत्यक्ष विशेष्यतयेति न कश्चिद्दोषः। जिघ्रत्यर्थगन्ध- विषयितानिरूपितनिरुक्तप्रकारितानिरूपकत्वमेव पुष्पादिनिष्ट जि- प्रतिकर्मत्वमिति दिक् । अथ दृश्यादिसमभिव्याहृतद्वितीयाया लौकिकविषयितार्थकत्वे सौरभं न पश्यतीत्यादौ सौरभादिनिरूपितलौकिकवियिताशालि- चाक्षुषाद्यप्रसिद्धथा श्राकाशं न पश्यतीत्यादौ चाकाशादिनिरूपित- लौकिकविषयिताया एवाप्रसिद्धया तादृशविषयिताशालिचाक्षुषा- श्रयत्वाद्यभावरूपवाक्यार्थाप्रसिद्धिः। न च सौरमं न पश्यतीत्यादौ सौरभादिनिरूपितलौकिकविषयित्वाभावः चाक्षुषादौ प्रतीयत इति वाच्यम् । एवमप्याकाशं न पश्यतीत्यादावप्रतीकारात् । न च लौकिकविषयितायां निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकाका- शाभावः प्रतीयत इति वाच्यम् । वृत्त्यनियामकसंबन्धस्य संसर्गा- भावप्रतियोगितानवच्छेदकतया तादृशाभावप्रसिद्धः। एतेन निरूप- कतासंबन्धेन चाक्षुषादिनिष्ठलौकिकविषयिताया अभावस्तत्राका- शादौ प्रतीयत इत्यपि निरस्तम् । अन्वयबोधस्य प्रथमान्तार्थमुख्य- १ अन्वय इति । अन्यथा गन्धविषयिताशालिप्रत्यक्षनिरूपितप्रकारतायाः कालादावपि सम्भवेन काल आघ्रायत इत्यस्यापि प्रामाण्यापत्तिरिति भावः । २ निरुक्तप्रकारितानिरूपकत्वमेवेति । प्रकारताश्रयत्वमित्यर्थः ।

द्वितीया ] जयाऽलङ्कृतः २१३ विशेष्यकतायाः सर्वानुभवसिद्धाया भङ्गप्रसङ्गाच्च चानुषादिनिष्ठ- लौकिकविषयितात्वावच्छिन्नस्य पदाद्वाक्याचानुपस्थितत्वात्तदभाव- स्याकाशादौ भानासम्भवाच्च । भावान्वयबोधे च लौकिकविषयिता- प्रकारेण चाक्षुषादेर्भानात् । अभावान्वयबोधे चाक्षुषप्रकारेण तस्या भानमयुक्तम् । अस्तु वा वृत्त्यनियामकोऽपि संबन्धोऽभावप्रतियोगि- तावच्छेदकस्य तथापि निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकस्य विषयिताविशेषनिष्ठाकाशाद्यभावस्य भानोपगमो न संभवति । तथा सति आकाशं पश्यति चैत्र इत्याकारकवाक्यजन्यवोधद- शायां अाकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधप्रसङ्गात् । आकाशं पश्यति मैत्र इत्यादिभ्रमदशायां आकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधस्य दुरपन्हवतया लौकिकविषयिता- त्वासामानाधिकरण्येनैव तादृशाभावबोधकं तद्वाक्यमुपगन्तव्यम्। तादृशबोधश्च लौकिकविषयितात्वसामानाधिकरण्यमात्रेणाकाशा- दिनिरूपितत्वाभावावगाहिदर्शितयोग्यताज्ञानाप्रतिबध्य एव । न च चैत्रीयचाक्षुषादिवृत्तिलौकिकविषयितात्वावच्छेदेनैव तादृशाभावो द- शितवाक्येन प्रत्याय्यते इति चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयि- तायां आकाशीयत्वाद्यवगाही चैत्र आकाशं पश्यतीति वाक्यजन्य- बोधः प्रतिबध्नात्येव तादृश वाक्यजन्यधियमिति वाच्यम् । तादृश- विषयितात्वेन विषयिताया अनुपस्थितेस्तवच्छेदेनाभावप्रत्याय- नासंभवात् चैत्र आकाशं पश्यतीतिवाक्यजन्यबोधे चैत्रांशे दर्शनाश्रयत्वं विशेषणं दर्शनांशे लौकिकविषयिताविशेषणमितिरी- त्यैव पदार्थानां भानात चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयितात्वं 'तादृशेति । चैत्रीयचाक्षुषादिवृत्तिलौकिकविषयितायामाकाशीयत्वाभा- वावगाहिज्ञानमित्यर्थः ।

[ कारके २१४ व्युत्पत्तिवादः नाकाशादिधर्मितावच्छेदकं किन्तु शुद्धलौकिकविषयितात्वमेवेति । तस्य' शुद्धलौकिकवियितात्वावच्छेदेनाकाशाद्यभावावगाह ज्ञानं प्रत्येव प्रतिबन्धकतया निरुक्तधर्मावच्छेदेनाकाशाद्यभावावगाहि- ज्ञानस्य तदप्रतिबध्यत्वाच्च । एतेन तत्राकाशादिपदस्याकाशा- दिनिरूपितत्वार्थकतां द्वितीयायाः खण्डशो निरूपितत्वलौकिकवि- षयितात्वोभयार्थकतां वा स्वीकृत्य लौकिकविषयितायां आश्रय- तासंबन्धावच्छिन्नप्रतियोगिताकतदभावबोधोपगमेनापि न नि- स्तारः। 'घट अाकाशं न पश्यतीत्यादौ नितरामेवागतिः । यत्तु नबर्थस्य द्वधा भानोपगमेन आकाशाद्यनिरूपितलौकिकविष- यिताशालिचाक्षुषाश्रयत्वाभाववान् घट इत्याकारकस्तत्रान्वयवोध इति । तदपि न । तथा सति चैत्रो घटं न पश्यति मैत्र आकाशं न पश्यतीत्यादिवाक्यजन्यशाब्दवोधादविलक्षणबोधस्य सर्वानुभव- सिद्धस्य तादृशवाक्यादनुपपत्तेः । न हि तत्रापि तादृश एव शाब्द- बोधः । तथा सति चेत्रो यदा घटादिकं न पश्यत्यपि तु पटादिकमेव तदा घटाद्यनिरूपिततल्लौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावस्य तत्र बाधात् चैत्रो घटं न पश्यतीति प्रयोगानुपपत्तेः । यदा च भाव- मात्रं पश्यति तदा भावानिरूपितलौकिकविषयिताशालिचाक्षुषाश्रय- त्वाभावसत्त्वात् भावं न पश्यति चैत्र इत्यादिप्रयोगापत्तेः। एवमा- काशं न पश्यति घट इत्यादौ आकाशाद्यनिरूपितलौकिकविषयि- ताशालिचाक्षुषाश्रयत्वाभावस्य वाक्यार्थत्वे यदाऽऽकाशाद्यतिरिक्तप- तस्येति । आकाशं पश्यतीतिवाक्यजन्यबोधस्येत्यर्थः । न निस्तार इति । अत्र कल्पेऽप्याश्रयत्वसम्बन्धावच्छिन्नप्रतियोगि- तकाभावो विषयितायां विषयित्वावच्छेदेन तत्सामानाधिकरण्येन वा बुबो- धयिषितः बोधनन्तु केनापि रूपेणाशक्यं प्रदर्शितप्रतिबन्धप्रतिबध्यभावानुप- पत्तिरूपदोषग्रस्तत्वादिति भावः ।

द्वितीया ] जयाऽलङ्कृतः २१५ दार्थविषयकचाक्षुषाश्रयताभ्रमो घटादौ तदाऽऽकाशाद्यनिरूपितलौ- किकविषयिताशालिचातुषाश्रयत्वनिश्चयरूपप्रतिबन्धकसत्त्वेन ताह- शवाक्यजन्यशाब्दबोधानुपपत्तिः। यथा चैत्रो घटं पश्यतीत्यादिनि- श्चयदशायां पटं न पश्यति चैत्र इत्यादिवाक्यजन्यशाब्दबोधोत्पा- दोऽनुभवसिद्धः तथैवोक्तभ्रमदशायामाकाशं न पश्यति घट इत्या- दिवाक्यजन्यबोधोत्पादोऽपीति न तत्रष्टापत्तिः संभवति । यच्चालौ- किकविषयिताशून्यचाक्षुषत्वाद्यवच्छेदेनाकाशादिविषयकत्वघटादिवृ- त्तित्वोभयाभाव एव आकाशं न पश्यतीतिवाक्यात्प्रतीयते उप- नीताकाशादिविषयकचानुषे आकाशादिविषयकत्वचैत्रादिवृत्तित्वो- भयसत्त्वेन चैत्र श्राकाशं न पश्यतीत्यादिप्रयोगानुपपत्तेः । घटादौ ताशचाक्षुषाद्याश्रयत्वभ्रमदशायां घट आकाशं न पश्यतीतिवा- क्याच्छाब्दबोधानुपपत्तिश्चेत्यलौकिकविषयिताशून्यत्वेन चाक्षुषा- दिकं विशेषितम् । आकाशादिविषयकचाक्षुषाापनीतभानस्यापीत- रांशे लौकिकत्वात् तादृशानुपपत्तितावस्थ्यम् । अतो लौकिक- विशेषणमुपेक्षितम् । अत्रालौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छि- अस्य घटं न पश्यतीत्यादौ शक्त्या धात्वर्थत्वासम्भवेऽपि प्रकृते तस्यैव लक्ष्यतया धात्वर्थत्वमुपेयते, विषयितासामान्यमेव तत्र द्वितीयार्थः, निरूपकत्वमपि लक्षणया तदर्थः । आश्रयत्वं द्वित्व- निरूपकत्वं चाख्यातार्थः । श्राश्रयत्वे व्युत्पत्तिवैचित्र्यात्प्रथमा- न्तपदार्थघटादेस्तनिरूपकत्वे विशेषणतयाऽन्वयः। तादृशनिरूप- कत्वद्वितीयान्तार्थाकाशादिविषयकत्वयोश्च प्रकारतया द्वित्वा- न्वयः। द्वित्वाद्यवच्छिन्नप्रतियोगिताकत्वसंबन्धेन तादृशोभयस्य नयर्थाभावे तस्य चान्वयितावच्छेदकनिरुक्तधर्मावच्छेदेन धात्व- र्थेऽन्वयः। तादृशधात्वर्थश्च प्रकृते मुख्यविशेष्यतयैव भासते । अथ वा स्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वरूपव्याप- कतासंबन्धेन धात्वर्थस्य तादृशोभयाभावेऽन्वयः। तस्य चाख्या- .

२१६ व्युत्पत्तिवादः [ कारके तार्थनिरूपकत्वे तस्य च प्रथमान्तपदार्थे घटादौ घटादेः प्रतियोगितावच्छेदकघटकतया ताशाभावनिरूपकत्वात्। एवं चान्वयवोधस्य प्रथमान्तपदार्थमुख्यविशेष्यकत्वनियमस्यापि न क्षतिरिति । तदपि न सम्यक् । घटादिविषयकचाक्षुषादेः कालि- कादिसंबन्धेन घटादिवृत्तितया घटो घटं न पश्यतीति प्रयोगानुप- पत्तेः । आकाशादिविषयकत्वावच्छिन्ने चाक्षुषे कालिकादिसंबन्धेन घटादिवृत्तित्वनिश्चयदशायां घट आकाशं न पश्यतीतिवाक्याच्छा- ब्बोधानुपपत्तेश्च । समवायेन घटादिवृत्तित्वाकाशादिविषयकल्वो- भयाभावस्यैव स्वीकरणीयतया अभाव आकाशं न पश्यतीत्यादौ अभावसमवेतत्वाप्रसिद्धया वाक्यार्थाप्रसिद्धर्दुरत्वात् । चैत्रादेर- तीतचाक्षुषस्य घटादिविषयकत्वेऽपि समयविशेषे चैत्रो घटं न पश्यतीतिप्रयोगाद्वर्त्तमानतादृशचाक्षुषत्वाद्यवच्छेदेन उभयाभावभा- नस्य प्रतियोगिकोटौ वर्त्तमानत्वमन्तर्भाव्य त्रित्वावच्छिन्नाभावभा- नस्य वा स्वीकरणीयतया यदा यत् किंचिदंशेऽलौकिकमेव घदादि- चाक्षुषं तस्य वर्तते तदा चैत्रो घटं न पश्यतीत्यादिप्रयोगापत्तेर्दुर्वा- रत्वाच्च । वर्तमानालौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छेदेन चैत्र- वृत्तित्वघटविषयकत्वोभयाभावसत्त्वात् । समानेन्द्रिय जन्योपनीत- 'प्रथमान्तार्थमुख्यविशेष्यत्वस्यापि नानुपपत्तिरिति हस्तलिखित- पुस्तकपाठः। समानेन्द्रियेति । ननु घटविषयकचाक्षुषे किञ्चिदंशेऽलौकिकत्वेन यद्य- पि अलौकिकविषयिताशून्यत्वन्नास्ति परन्तु तत्रैव घटनिरूपितलौकिक- विषयिताशालित्यावच्छेदेनालौकिकविषयिताशून्यत्वमस्त्येव । मूलावच्छेदेन कपिसंयोगसत्त्वेऽप्यग्रावच्छेदेन तदभाववदिति अलौकिकविषयिताशून्यत्वा- वच्छेदेन चाक्षुषे घटविषयकत्वचैत्रवृत्तित्वोभयसत्त्वेनोभयाभावस्य बाधान्ना- पत्तिरित्यत आह-समानेति ।

द्वितीया ] जयाऽलङ्कृतः २१७ भानादौ लौकिकप्रत्यक्षसामग्य विरोधित्वस्य निष्प्रामाणिकत'- याऽलौकिकविषयितानियामकोपनायकज्ञानादिसमवहिततल्लौकिकस- निकर्षात्, घटादिनिरूपितलौकिकालौकिकोभयविषयिताशालिवत- मानचाक्षुषादेरप्युत्पत्त्या तादृशचाक्षुषादिदशायामुक्तप्रयोगापत्तेः। आकाशादिनिरूपितालौकिकविषयिताशालिवर्तमानचाक्षुषाद्यंशे घ- टादिवृत्तित्वस्य आकाशीयत्वादिना लौकिकविषयितायाश्च भ्रम- दशायां घट आकाशं न पश्यतीत्यादिवाक्याच्छाब्दबोधापत्तेदुर्वा- रत्वाच्च । घटादिनिरूपितालौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छे- देन घटादिविषयित्वघटितोभयाभावभानोपगमेऽप्यनिस्तारात् एतेना- ख्यातार्थवर्तमानत्वाद्यवच्छिन्नसमयावच्छिन्नाश्रयत्वाद्यवच्छिन्ने आ- काशादिविषयकप्रतियोगिकत्वलौकिकान्यविषयिताशून्यचाक्षुषप्रति- योगिकत्वघटाद्यनुयोगिकत्वैतत्रितयत्वावच्छिन्नाभावो भासतेऽतो- ऽभाव आकाशं न पश्यतीत्यादौ नानुपपत्तिः । तत्र विषयितावत्प्र- तियोगिकत्वं द्वितीयार्थः। निरुक्तचाक्षुषप्रतियोगिकत्वं त्रित्वं च धातोरर्थः । घटाद्यनुयोगित्वं च प्रथमान्तार्थ इत्यपि निरस्तमिति चेत् अगत्या घट आकाशं न पश्यतीत्यादिवाक्यानामप्रामाण्यमुप- गन्तव्यमिति । इति प्रथमखण्डम् निःप्रामाणिकतयति । विषयतासम्बन्धेनोपनीतभानं प्रति विषयता- सम्बन्धेन प्रत्यक्षसामग्रयाः प्रतिबन्धकतया नैकस्मिन् पदार्थे लौकिकालो- किकोभयविषयत्वस्य सम्भव इति शङ्कां समादधाति-निःप्रामाणिकतये- त्यदिना।

२१८ व्युत्पत्तिवादः [ कारके अनुमित्यर्थकधातुयोगे विधेयत्वं विधेयित्वं' वा द्वितीयार्थः। तेन वह्नयादिपक्षकानुमितिपरस्य वन्हिमनुमिनोमीत्यादिवाक्यस्य न प्रामाण्यम् । यदि च वन्हिसाध्यकपर्वतपक्षकानुमितिपरस्य वन्हिमत्त्वेन पर्वतमनुमिनोमीत्यादिवाक्यस्यापि प्रामाण्यमनुमन्यते तदा तादृशधातुयोगे उद्देश्यत्वमुद्देश्यित्वं वा द्वितीयार्थः। तस्य च तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वेन विशिष्टेऽन्वयः। अतो वन्हिमत्त्वेनेत्याद्यसमभिव्याहारेण तत्र पर्वतमनुमिनोमीत्यादयो न प्रयोगाः । विधेयत्वाद्यर्थे तृतीयानुशासनविरहात् । तृतीयान्तेन वह्नयादिविधेयकत्वं कथमुपस्थापनीयमिति न शङ्कथम्। वैशिष्ट्य- रूपार्थे तृतीयानुशासनसत्त्वात् विधेयतादेरपि वैशिष्ट्यरूपत्वात् । अत एव रजतत्वेन शुक्तिं जानातीत्यादौ ज्ञाने रजतत्वादिप्रकारक- विधयित्वम्वेति । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेद- कत्वमभिप्रेत्याह स्वमते-वियित्वम्बेत्यादिना । २ विशिष्टेऽन्वय इति । द्वितीयार्थोद्देश्यित्वप्रकारकानुमितिविशेष्यक- बोधे तृतीयान्तपदोपस्थाप्यसाध्यविधेयतानिरूपकत्वप्रकारकानुमितिविशेष्य- कबोधजनकसामग्रीकारणमिति भावः । नन्वेवं कार्यकारणभावस्वीकारेऽपि बह्निमत्त्वेन पर्वतमनुमिनोमीति समूहालम्बनवाक्यात् पर्वतनिरूपितद्वितीयार्थोद्देश्यित्वप्रकारकानुमित्यादिवि- 'शेष्यकबोधापत्तिनिरुक्तकारणसद्भावादिति चेन्न । द्वितीयार्थोद्देश्यित्वप्रकार- कानुमितिविशेष्यकबोधे तृतीयान्तार्थसाध्यविधेयतानिरूपकत्वप्रकारकानुमि- तिविशेष्यकबोधजनकत्वेन तात्पर्यविषयीभूतधातुर्मिकद्वितीयान्तार्थोद्देश्यि- त्वप्रकारकानुमितिविशेष्यकबोधजनकत्वप्रकारकतात्पर्यज्ञानस्य कारणत्वा- भ्युपगमात् । तृतीयानुशासनसत्त्वादिति । इत्थं भूतलक्षणे इति । अत एवेति । तृतीयाया वैशिष्टयार्थकत्वादेवेत्यर्थः । ४ द्वितीया ] जयाऽलङ्कृतः २१६ त्वस्य घटत्वेन वह्निर्नास्तीत्यादौ सौंदडमते अभावे घटत्वावच्छिन्न- प्रतियोगिताकत्वस्य तृतीयान्ततो बोधः। तृतीयान्तार्थरजतत्वादि- प्रकारकत्वद्वितीयान्तार्थशुक्तयादिविषयकत्वयोः विशिष्टवैशिष्ट्य- वोधमर्यादयाऽवच्छेद्यावच्छेदकभावभानम् । रजतत्वेन शुक्ति जानातीत्यादौ नियतं केवलमेकत्र द्वयमितिरीत्या तदुभयबोधस्य तत्राव्युत्पन्नत्वात् । अत इमे शुक्तिरजते इत्यादिप्रमापरस्य ताह- शवाक्यस्य न प्रामाण्यम् । घटत्वाद्यवच्छिन्न प्रतियोगिताकवह्न- यभावादिनिष्ठेन वह्नयादिनिरूपितानुयोगिताविशेषरूपवह्नयाद्य- भावत्वेन तदभावनिष्ठघटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्यावच्छे- द्यावच्छेदकभावः स्वीक्रियते। घटत्वेन वह्निर्नास्तीत्यादौ च तद्वोधस्योक्तरीत्यावश्यकत्वमिति' घटत्वावच्छिन्नवह्नयाद्यभावस्य ३ १ व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकाभाववादिनोऽन्यथाख्यातिमतं निराकर्तुरुपाध्यायोपनामकस्य सोन्दल, सुन्दल, सौन्दलादिविविधनामधेयस्य मते इति भावः। विषयकत्वयोरित्यादि । यादृशविषयतयोः परस्परनिरूप्यनिरूपकभा- वस्तादृशविषयतानिरूपकत्वयोरवच्छेद्यावच्छेदकभावोऽभ्युपेयते । घटत्वाद्य वच्छिन्नेत्यादि । यद्धविच्छिन्नयनिष्ठप्रतियोगिता भव- ति तद्धविच्छिन्नप्रतियोगितानिरूपकत्वतन्निरूपितानुयोगितयोरेवावच्छेद्या- वच्छेदकभावः । * उक्तरीत्येति । वह्निघटोभयन्नास्तीतिवाक्यजन्यबोधतात्पर्येण घटत्वेन वह्निन्नस्तिीति वाक्यस्य प्रामाण्यवारणाय तथाकल्पनस्यावश्यकत्वादिति भावः। ५ अावश्यकत्वमिति । अन्यथा वह्निघटोभयन्नास्तीत्यादिप्रतीतिविष- यस्याप्यभावस्य वह्निनिरूपितानुयोगिकत्वस्य घटत्वावच्छिन्नप्रतियोगिताक- त्वस्य च सत्त्वेन तद्वोधतात्पर्येणापि घटत्वेन वह्निास्तीति प्रयोगापत्तिः ।

२२० व्युत्पत्तिवादः [ कारके वह्नित्वावच्छिन्नघटाद्यभावसमनियतत्वेन तदभिन्नतया तत्र घट- त्वाद्यवच्छिन्नप्रतियोगिताकत्वघटाद्यभावत्वसत्त्वेऽपि तादृशाभाव- परस्य घटत्वेन घटो नास्ति, वह्नित्वेन वह्निर्नास्तीत्यादिवाक्यस्य न प्रामाण्यम् । उक्तस्थले च तृतीयान्ताद्यर्थस्य द्वितीयान्ताद्यर्थेऽवच्छे- द्यावच्छेदकभावसम्बन्धेनान्वय इत्यपि कश्चित् । तन्न। विभक्तयर्थे विभक्तयर्थान्वयस्याव्युत्पन्नत्वात् । न च रजतत्वेनेदं ज्ञायते इत्यादौ आख्यातार्थविषयतायां तृतीयार्थप्रकार- ताया निरूपितत्वसंबन्धेनान्वयानोक्तव्युत्पत्तिकल्पनमिति वाच्यम् । तत्रापि रजतत्वादिप्रकारकत्वविशिष्टधात्वर्थ ज्ञाननिरूपितत्वस्या- ख्यातार्थे भानस्वीकारेणैवातिप्रसङ्गभङ्गात् । न च तस्मात्पचति १ २ ययोः परस्परनिरूप्यनिरूपकभावस्तयोरेवावच्छेद्यावच्छेदकभावनियमा- दिति भावः। उक्तस्थल इति । रजतत्वेन शुक्ति जानातीत्यादावित्यर्थः । तृतीयान्ताद्यर्थस्येति । तृतीयान्तार्थप्रकारतायाःस्वनिरूपकत्वसम्बन्धेन ज्ञानेऽन्वयः स्वावच्छेदकत्वसम्बन्धन द्वितीयार्थविषयतायामित्याशयः । ३ रजतत्वेनेदमित्यादि । रजतत्वप्रकारतानिरूपितज्ञानीयविशेष्यतावदि- दमिति बोधः । विशिष्टधात्वर्थेति ननु रजतत्वादिप्रकारकज्ञाननिरूपितत्वस्यैवा- ख्यातार्थेऽन्वयोऽस्तु किं विशिष्टधात्वर्थेत्यादिनिवेशेनेति चेन्न । इमे शुक्ति- रजते इति वाक्यजन्यबोधपरकरजतत्वेन शुक्तिं जानातीतिवाक्यस्योक्तरीत्या प्रामाण्यापत्तिवारणाय तस्यावश्यकत्वात् तादृशप्रकारतानिरूपकत्वविशिष्ट- ज्ञाननिरूपितत्वतादृशप्रकारतानिरूपितविशेष्यतायामेवेति न दोषः । 'तस्मात् पचतीत्यादि । तद्धेतुका पाकक्रिया त तुकं चैत्रनिरूपि- तस्वत्वमिति बोधः। ४ द्वितीया ] जयाऽलङ्कृतः २२१ तस्माच्चैत्रस्येत्यादौ विभक्तथर्थे कृतिसंवन्धादौ हेतुविभक्तथर्थान्वय- दर्शनानास्त्युक्ताव्युत्पत्तिरिति वाच्यम् । हेतुविभक्तचतिरिक्त- विभक्तथर्थस्याविभक्तयर्थेऽनन्वयनियमात् न च रजतत्वेनेदं जाना- तीत्यादौ तृतीयायाः कारकविभक्तित्वाभावान्न तदर्थस्य क्रियायामन्व- यसंभव इत्यगत्या द्वितीयार्थ एव तदन्वय उपगन्तव्य इति वाच्यम् । मणिकारमते तस्माज्जानातीत्या'दौ ज्ञानादिरूपधात्वर्थ एव हेतुविभक्तथर्थस्य तस्मात् स्थीयते इत्यादौ च सर्वसम्मत एव धात्वर्थस्थित्यादौ तस्यान्वयेन षष्ठयर्थसंबन्धस्यापि “गुरुविप्र- तपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैरि"त्यादौ धात्वर्थेऽन्वयेन कर्मासमभिव्याहते रजतत्वेन जानातोत्यादौ धात्वर्थे तृतीयार्था- न्वयस्यावश्यकत्वेन कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियाया- मनन्वय इत्यनियमात् । एवं घटत्वेन वहिर्नास्तीत्यादौ प्रथमार्थो नानुयोगित्वम् । प्रथमायाः संख्यातिरिक्तविभक्तथर्थाबोधकत्वनिय- मात् । अतो नबर्थाभावे संबन्ध एव तत् । तत्र च न तृतीयार्थान्व- यसंभवः। मम तु अनुयोगितासंबन्धेन वह्नयादिविशिष्टाभावे तृतीया- न्तार्थघटत्वावच्छिन्नप्रतियोगिताकत्ववैशिष्ट्यभानाद्विशिष्टवैशिष्ट्य- । मणिकारमते इति।तन्मते आश्रयतारूपार्थकत्वस्याख्याते निराकरणात आश्रयतायां नान्वयसम्भवः । जानातीति । तन्मते ज्ञानार्थकधातुसमभिव्याहृताख्यातस्य निरर्थकत्व- स्योपपादितत्वात् अन्यत्रान्वयासम्भवादिति भावः । अत्र प्रथमार्थस्याभावात् विभक्त्यर्थान्वयस्वीकारे पूर्वप्रयोगे निर्वाह- सम्भवेऽप्यत्रानिर्वाहादनिच्छतापि मद्रीतेरेवानुसतव्यतया अर्द्धजरतीयः स्यादित्येतदुच्यते-एवमिति ।

२२२ व्युत्पत्तिवादः [ कारके बोधमर्यादया वह्नयाद्यनुयोगिकत्वस्थलीयस्यानुयोगितया संबद्ध- वह्नयादेस्ताशप्रतियोगिताकत्वेनावच्छेद्यावच्छेदकभावभानोपगमेन सामञ्जस्यात् । अनुयोगिताया नअर्थतावच्छेदकत्वे तत्रैव वह्नयादेः प्रतियोगिनोऽन्वयः । अतस्तत्र तृतीयान्तार्थघटत्वावच्छिन्नप्रति- योगिताया निरूपकत्वेनान्वयं खीकृत्यातिप्रसङ्गवारणं सम्यक् प्रति- भाति । रोऽभेदेन रजतारोपस्थले रङ्गरजतेन जानातीत्यप्रयोगात् । तादात्म्यभिन्नसंबन्धावच्छिन्नप्रकारितैव तृतीयार्थः। तत्र च रङ्ग रजतं जानातीति प्रयोगात्तादात्म्यसम्बन्धावच्छिन्नप्रकारताकत्वं कर्मत्वानुशिष्टद्वितीयादेरेवार्थः। तस्य च तादृशप्रकारवाचिपदसमा- नविभक्तिकपदोपस्थाप्यविशेष्यताविशिष्टायामेव ज्ञानरूपक्रियाया- मन्वयः। तेन भेदारोपस्थले रङ्गे रजतत्वं जानातीतिवदभेदारोपस्थले रङ्गे रजतं जानातीति न प्रयोगः । उक्तस्थले च रङ्गरजताद्योः समानविभक्तिकपदोपस्थाप्ययोरभेदान्वये साकाङ्क्षत्वेऽपि नायोग्य- तया तादृशान्वयः। एवं सति रङ्गरजतादिपदयोः सामानाधिकर- ण्यानुपपत्तिरिति चेत्-का क्षतिः । न चैवं रजतगतैकत्वबहुत्वाविव- क्षायां रङ्गानि रजतं जानातीति प्रयोगस्य स्त्रियं पांसुलान् जानातीति प्रयोगस्य च प्रसङ्गः । सामानाधिकरण्यस्यैव समानवचनलिङ्गकत्व- नियतत्वादिति वाच्यम् । समानाधिकरणयोरिव यत्पदार्थविशेण्य- कत्वविशिष्टेऽभेदसंबन्धावच्छिन्नयत्पदार्थप्रकारकत्वस्यान्वयस्तयोर- पि समानलिङ्गवचनत्वनियमात् । यज्ञपतिमतानुयायिनस्तु रङ्ग रजतं जानातीत्यादौ सामानाधि- करण्यानुरोधात् रजतादिपदस्य रजताभेदज्ञानविषये लक्षणा । अत एवं भ्रान्तिज्ञविशेषदर्शिना प्रयुक्तस्य लोहितवहिं जानातीत्यादिवा- क्यस्यापि प्रामाण्यनिर्वाहः । न ह्यसमासस्थल इव लोहितवह्नया- घोरभेदाविवक्षा ज्ञानांशे लोहितादेः स्वातन्त्र्येणान्वयो वा सम्भवति. कर्मधारयस्य साधुतानुपपत्तेः । लोहितपदोत्तरं प्रकारताबोधक- द्वितीया ] जयाऽलङ्कृतः २२३ विभक्तरभावात् । धात्वर्थे साक्षान्नामार्थस्य भेदान्वयेऽव्युत्पत्तेः । द्वन्द्वस्थलवकर्मधारयोत्तरविभक्तेः पूर्वपदप्रकृतिकत्वाभावात् तस्याः पूर्वपदार्थान्वितप्रकारताबोधकत्वायोगात् न च द्वन्द्वसमास एवासौ अल्पाचो वह्निपदस्य पूर्वनिपातप्रसङ्गात् । समाहारपक्षे पुल्लिङ्ग- ताया इतरेतरपक्षे च एकवचनस्यानुपपत्तेः । एतन्मते शुक्लो वह्निरित्यादिनमायां लोहिताभेदारोपविषयवह्निविषयकत्वेऽपि शुक्लो वह्निर्लोहिता जपेतिसमूहालम्बनप्रमाया लोहिताभेदावगाहिख- विषयवह्निविषयकत्वेऽपि च तद्दशायां लोहितवह्नि लोहितं वह्नि वा जानातीति न प्रयोगः । तादृशपदोपस्थाप्यविषयताया धर्मिपा- रतन्त्र्येण द्वितीयार्थविषयतायामभेदसम्बन्धेन विशेषणताया नियमोपगमात् । अथ वा लोहिताभेदविषयतानिरूपितविषयता- पन्नस्य वह्नयादेानान्वयिविषयितानिरूपकत्वं भासते। समूहा- लम्बनादौ च तादृशविषयतानापन्नस्यैव विषयितानिरूपकत्वमिति नातिप्रसङ्गः। विषयतापन्नस्य निरूपकत्वमित्यस्य च विषय- तावच्छिन्नं निरूपकत्वमित्यर्थः । एतच्च विलक्षणविषयितानिरूपक- तावच्छेदकत्वमविषयस्यापि विषयत्वस्योपेयते, रक्तदण्डवानित्यादौ दण्डादिरूपप्रकारांशेऽप्रकारेणापि रक्तत्वादिप्रकारतानिरूपितविशे- प्यत्वेन दण्डादिप्रकारताया अवच्छेद्यावच्छेदकभाववदित्याहुः । न च द्वन्द्वसमास एवेति । वस्तुतो द्वन्द्वप्राप्तिरेव न एकधर्मावच्छिन्ने एकसम्बन्धेनान्वितानामेव द्वन्द्वविधानात्प्रकृते प्रकारिताविशेष्यितोभयसम्ब- न्धेनोभयोरन्वितत्वात् । अथेति । अभेदसम्बन्धावच्छिन्नलोहितनिष्ठप्रकारतानिरूपितविशेष्य- तावच्छिन्ननिरूपकतानिरूपितनिरूप्यतावद्विषयिताशालिज्ञानवानयमिति बोध एव लोहितवह्नि जानातीतिवाक्याज्जायते इति भावः ।

२२४ व्युत्पत्तिवादः | कारके तन्न शोभनम् । उक्तरीत्या विनैव लक्षणामुपपत्तौ तस्या न न्याय्यत्वात्। 'अथोक्तस्थले आरोप्यारोपविषयबोधकपद्यो - न्वितार्थकत्वे कर्मप्रत्ययस्थले लोहितो वन्हिर्जायते इत्यादौ विशेष्य- भेदाद्वाक्यभेदापत्तिः । न च लोहिताभेदज्ञानविषयो वद्भिरित्येव शाब्दधीरु पगम्यते न तु ज्ञाने प्रकारो लोहितो विशेष्यश्च वह्निरिति समूहालम्बनं, तथा सति शुक्लो वह्निर्लोहिता जपेत्यादावपि तथा प्रयोगप्रसङ्गात् । दर्शितविशिष्टवैशिष्ट्यवोधस्वीकारे लोहितादि- प्रकारकत्वविशिष्टनिरूपितविशेष्यतायाः शुक्लवह्नयादौ बाधितत्वेन तादृशप्रयोगापत्तिविरहादिति वाच्यम् । तत्र लोहितादिपदोत्तर- प्रकारतार्थकद्वितीयादिविरहेण लोहितादिप्रकारकत्वेन ज्ञानभाना- संभवात् । नामार्थधात्वर्थयोः साक्षादन्वयस्याव्युत्पन्नतया प्रकारितायाः संसर्गतया भानासंभवादिति चेत्-न । यथा हि-घटो नीलो भवति, वृक्षो नौका भवति, काष्ठं भस्म भवतीत्यादौ धात्वर्थेऽसाधारण- धर्मरूपे भावे व्युत्पत्तिवैचित्र्येण नीलनौकाभस्मादेः साक्षादेवा- न्वयः, प्रथमाया अन्तराभासमानार्थकत्वाभावात, नौकादिपदस्य स्वारम्भकावयवारब्धार्थलाक्षणिकतया प्रकृतिविकृत्यो दमतेऽपि वृक्षो नौका भवतीत्यादौ योग्यताया उपपत्तिः, तथा धात्वर्थे प्रकृतेऽपि प्रकारितासंवन्धेन लोहितादेः साक्षादन्वयस्यागत्योपग- मात् । यथा प्रकृतिविकृतिभावस्थले वृक्षः पञ्च नौका भवतीत्यादौ 'वस्तुतो लोहितवह्नि जानातीतिवाक्यमप्रमाणमितिध्येयमित्यधिकः पाठो हस्तलिखितपुस्तकेऽत्र दृश्यते । शाब्दधीरिति । लोहितनिष्ठाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपकज्ञा- नीयविषयताश्रयो वह्निरित्येवं रूप इति भावः ।

द्वितीया ] जयाऽलङ्कृतः २२५ प्रकृतिभूतवृक्षादेविशेष्यतया भावनान्वयित्वात् , तद्गतसंख्या- बोधकतया प्रकृतिवाचकपदसमानवचनत्वमाख्यातस्य तथा एको द्वौ ज्ञायते इत्याद्युभयार्थाभेदारोपस्थलीयवाक्ये एकादिपदार्थस्या- रोपविशेष्यस्याख्यातार्थविशेष्यतयान्वयविशेष्यतया तत्पदसमान- वचनत्वमाख्यातस्य। न चैवं 'अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरः स्थितम्' इत्यत्र कथमारोपविशेष्यवाचकपदविरुद्धवचन- त्वममानीतिक्रियापदस्येति वाच्यम्, तत्रायशोद्वयस्य वास्तवत्वं न चिकुरभागद्वयस्य राज्ञा आरोप्यत्वेन कवेरुत्प्रेक्षितत्वात् । आख्या- तार्थविशेष्यतान्वयविशेष्यत्वेनायशोयुगस्यैव विवक्षितत्वात्। इच्छा- र्थकधातुस्थले मुख्यविशेष्यत्वरूपं कर्मत्वं द्वितीयार्थः। अतो वृष्टिसाध्यं सुखं भवत्वित्यादीच्छास्थले सुखमिच्छतीत्यादिवष्टि- मिच्छतीत्यादयो न प्रयोगाः। अथ अहं सुखी स्यामित्यादीच्छायाः सुखादिविशेषणकतया तत्र सुखमिच्छतीत्यादिप्रयोगानुपपत्ति- रिति चेत्-न । मम सुखं भवत्वित्यादिसुखविशेष्यकेच्छाया एव कदा चित्सुखादिविशिष्टात्मबोधकशब्देन विषयाभिलापात्। स्व- कृत्यधीनसिद्धिकत्वरूपस्वकृतिसाध्यत्वप्रकारकपाकविशेष्यकेच्छाया इव पाकं कृत्या साधयानीति पाकसिद्धयनुकूलकृत्यभिन्नव्यापार- विशिष्टात्मबोधकशब्देन विषयामिलापवत् । यदि चोद्देश्यसुखा- देविशेषणतयाऽपि क्वचिद्भानमानुभाविकं तदोद्देश्यादिव्यवहारनि- यामकः कचित्किचिद्विशेषणसाधारणो विषयताविशेषोऽभ्युपेयः । अनमितौ विशेष्यतया काचित्कभानविषय साध्यनिष्ठविधेयताख्य- भानविषयेति । पर्वते वह्निरित्यनुमाने हि साध्यस्य वह्नविशेष्यत्वं, वह्निमान् पर्वत इत्यत्र च प्रकारत्वमिति भावः ।

२२६ व्युत्पत्तिवादः [ कारके विषयतावत् । स एव च सुखमिच्छतीत्यादौ द्वितीयार्थः । ग्राममिच्छतीत्यादौ ग्रामादिपदं ग्रामस्वत्वादिपरम्। अत एव च सिद्धस्य ग्रामादेमुख्यविशेष्यताया उपदर्शितविलक्षणविषयताया वा विरहेऽपि न क्षतिः । प्रामादेः सिद्धत्वेऽपि स्वस्वत्वाद्यसिद्धोपरक्तस्य इच्छायां प्राधान्येन कचिद्भानं विशिष्टस्यासिद्धत्वात् । तत्रैव च ग्राममिच्छतीत्यादिप्रयोग इत्यपि वदन्ति । पाकं चिकीर्षतीत्यादौ द्वितीयाया विशेष्यतारूपकर्मत्वार्थकतया कृतिप्रकारकपाकविशेष्यकेच्छा प्रतीयते । सा च पाकं कृत्या साधयानीतीच्छा । अथ वा सनो धात्वर्थविशेष्यकेच्छा वाचि- त्वात्कृतिविशेष्यकेच्छा चिकीर्षापदार्थः । सा च पाककृतिर्भवत्वि- तीच्छैव । प्रवर्त्तिका च सा भवतु मा वेत्यन्यदेतत् । पाकादेश्च कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते, न विच्छाया विषयत्वरूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासतीत्यादिप्रयोगापत्तेः । युक्तं चैतत् । सनो धात्वर्थप्रकारकेच्छावाचित्वे श्रोदनभोजनेच्छा- दशायामोदनं बुभुक्षते इति प्रयोगो न स्यात् । तत्र भोजनस्याप्रकार- त्वात् । न च कर्मता सम्बन्धेन भोजनप्रकारिका यदा ओदन- विशेषियकेच्छा तदैवैतादृशप्रयोगः । सा चेच्छा भोजनधर्मिकेष्ट- साधनताज्ञानाद्भोजनविशिष्टौदनधर्मिकेष्टसाधनताज्ञानाद्वा। ओद- नस्य सिद्धतादशायामपि विशिष्टधर्मिकेष्टसाधनताज्ञानाद्विशिष्ट- धर्मिकासिद्धत्वज्ञानसहिताद्विशिष्टेच्छासम्भवात् । यत्र भोजनसिद्ध- तादशायां भोजनोत्तरकालीनगमनत्वादिप्रकारिका भुक्तौदनजन्य- पुष्टित्वादिप्रकारिका वा इच्छा तत्र बुभुक्षत इति प्रयोगस्य न प्रसङ्गः। मुख्यविशेष्यविशेषण'तापन्नकर्मत्वांशे इच्छाप्रकारताया एव सन्प्र- 'मुख्यविशेष्यविशेषणेति । मुख्यविशेष्यविशेषणतापन्नकर्मत्वनिष्ठविशे- ध्यतानिरूपितेच्छाप्रकारतैव सन्प्रकृत्यर्थनिष्ठतया भासत इति भावः ।

२२७ द्वितीया ] जयाऽलङ्कृतः कृत्यर्थे भानोपगमादिति वाच्यम् । भोजनं भवत्वित्यादिभोजनवि- शेष्यकेच्छादशायामपि बुभुक्षते इति प्रयोगस्य सर्वसिद्धत्वेन धात्वर्थविशेष्यकेच्छाबोधकतायाः सन्प्रत्ययस्यावश्यमुपेयत्वात् । न च द्वयी व्युत्पत्तिरेवोपयते । एकव्युत्पत्त्यैव निर्वाहे व्युत्पत्ति- द्वयकल्पने गौरवात् । अत एव च स्थित्यादिगोचरेच्छाया गृहा- दिविशेष्यकत्वस्योक्तरीत्या सम्भवेऽपि गृहं तिष्ठासतीत्यादयो न प्रयोगाः । भोजन प्रकारकौदनविशेष्यकेच्छाविशेषदशायां बुभुक्षत इति प्रयोगसत्त्वेन उद्देश्यताख्यविषयताया एव धा- स्वर्थे भानोपगमेन तस्य निर्वाहात्। न च धात्वर्थविशेष्यकेच्छायाः सन्प्रत्ययार्थत्वे पाकं चिकीर्षति ओदनं बुभुक्षते इत्यादौ पाकौदना- देर्द्वितीयया कृतिभोजनादिकमत्वप्रत्यायनसंभवेऽपि पाकश्चिकीयते अोदनो बुभुक्ष्यते इत्यादौ कर्माख्यातेन तत्प्रत्यायनासंभवः । तत्प्र- कृतिभूतसन्नन्तधात्वर्थकृतिभोजनेच्छाकर्मत्वस्यैव तत्प्रत्ययेन बोध्य- त्वात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वात् । इच्छाविष- यत्वविशेषितकृतिभोजनादेश्व प्रकृत्याऽप्रतिपादनादिति वाच्यम्। कर्तृप्रत्ययस्थले सन्प्रत्ययार्थेच्छाया धात्वर्थविशेष्यतया भानेऽपि कर्मप्रत्ययस्थले तस्या' धात्वर्थविशेषणतया भागोपगमात् । 'गृहमित्यादि। तन्मते इच्छीयमुख्यविशेष्यताश्रयत्वमेव कर्मत्वं तच्च गृहेऽप्यस्तीतितादृशप्रयोगापत्तिरिति भावः । धात्वर्थविशेष्यकेच्छा सन्नर्थ इति वदतान्तु नेयमापत्तिः कृतिकर्मत्वरूपद्वितीयार्थस्य तत्र बाधादिति । भोजनेत्यादि । कर्मतासम्बन्धेन भोजनविशिष्टमोदनं भवत्विति भावः । 'तस्या इति । स्वनिरूपितविषयत्ववत्वसम्बन्धेनेति भावः ।

२२८ व्युत्पत्तिवादः [ कारके चिकीर्घ्यते पाक इत्यादौ इच्छाविशेषितकृत्यादेरेव सन्नन्तेन प्रतिपादनात् , तादृशकृत्यादिकर्मताया आत्मनेपदादिना प्रत्यायन- संभवात् । आख्यातायुपस्थितवर्त्तमानत्वादेश्च कृत्यादिविषयकेच्छा यत्र प्रकृत्यर्थः यत्र वा इच्छा विषयकृतिस्तत्रोभयत्रैवेच्छायाम- न्वयः । प्रकृत्यर्थंकदेशेऽपि नीलतरो घट इत्यादिस्थले नीलरूपादौ तरबाद्यर्थातिशयान्वयानुरोधात् । न चैवं कर्मप्रत्ययस्थलेऽपि कृति- विशेषितैवेच्छा' सना प्रत्याय्यतां विशेषणीभवन्ती कृतिरेव कर्म- वेनान्धीयतां भवन्मते विशेणीभूतेच्छायां वर्त्तमानत्वाद्यपराख्या- तार्थान्वयवदिति वाच्यम् । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयाऽन्वयोऽव्युत्पन्न इति प्रथमान्तार्थविशेषणकर्मत्वे इच्छा- यां विशेषणतयोपस्थितस्य धात्वर्थस्य विशेषणतयान्वयायोगात् । विशेष्यतया चान्वयस्याप्रसक्तत्वात् धात्वर्थविशेषणतया इच्छा- भानेपि तस्या वर्तमानत्वादिविशेष्यतयैव भानेनोक्तव्युत्पत्ति- विरोधविरहात्। एवं धात्वर्थस्येतरविशेषणतयोपस्थितस्य स्वातंत्र्येण कर्मताविशेषणत्वमयुक्तमेव । 'प्रकृत्यर्थस्यैकदेशेऽपि प्रकृत्यर्थान्तर्गत- कृतिविशेष्यतयैवेच्छेति हस्तलिखितपुस्तकपाठः । अन्वीयतामिति । नन्वेवमाख्यातस्य प्रकृत्यर्थंकदेशान्वितकर्मत्वबोध- कत्वेन प्रकृत्यान्वितस्वार्थबोधकत्वमेव प्रत्ययानामिति नियमानुपपत्तिरत आह-भवन्मते इत्यादि। ३ प्रकृत्यर्थस्येत्याद्यारभ्य स्वातन्त्र्येण भासमाने इत्यन्तस्य स्थानेऽस्म- पितृव्यचरणमधुसूदनशगंमिश्राणां मते वक्ष्यमाणरीत्या पाठो युक्तः। तथा हि-नीलतरो घट इत्यादौ प्रकृत्यर्थंकदेशे प्रत्ययार्थान्वयदर्शनेऽपि प्रत्ययार्थे प्रकृत्यर्थंकदेशस्यान्वयादर्शनात् न स्वातन्त्र्येण भासमाने कर्मत्वरूपप्रत्ययार्थे प्रकृत्यर्थंकदेशस्य एकत्र विशेषणस्य कृत्यादेरत्वयः ।

द्वितीया ] जयाऽलङ्कृतः २२६ तया भासमाने एव प्रत्ययार्थान्वयदर्शनात् , न तु स्वातन्त्र्येण भासमाने इच्छारूपविशेष्यपारतन्त्र्येण कर्मत्वान्वयोऽपि इच्छायां कर्मत्वानन्वयेन दुर्घटः । विशेष्यान्वयिन्येव विशेषणस्य पारतन्त्र्ये- णान्वयस्य विशिष्टान्वयस्थले व्युत्पत्तिसिद्धत्वात् न तु विशेष्याना- न्वयिनि । अथास्तु विषयतारूपकर्मत्वे चिकीयते पाक इत्यादा- विच्छायास्तत्पारतन्ध्येण कृतेश्चान्वयः। एवञ्च कृतिविषयकेच्छा- विषयत्वावच्छिन्नकृतिविषयताश्रयः पाक इत्यन्वयबोधः । उभयत्रैव पाकादेविपयत्वात् । स्थित्यादिकर्मत्वाप्रसिद्ध्या गृहं तिष्ठास्यते इत्यादेरप्रसङ्गादिति चेत् । श्रोदनो बुभुक्ष्यते इत्यादी का गतिः । तत्रेच्छाकर्मताया विषयतारूपत्वात् भोजनादिकर्मतायाश्च तदन्य- खात् । विशेष्यीभवदिच्छान्वयिनि कर्मत्वे भोजनाद्यन्वयायोग्यत्वेन तविशिष्टान्वयासंभवात्। वस्तुत: पाकश्चिकीयंत इत्यत्राप्यगति- रेख। कृतिविशेषणतया पाकनिष्ठेच्छाविषयतायाः कृत्यविशेषणतया तनिष्ठकृतिविषयताभिन्नतया इच्छान्वयिनो विषयत्वरूपकमत्वस्य कृत्यन्वयायोग्यत्वात्। यदि च विशेष्यान्वयिव्यक्तावेव तत्पारतन्त्र्येण विशेषणान्वय इति न नियमः अपि तु तदन्वयितावच्छेदकावच्छिन्न एवेति। तथा च विषयतात्वावच्छिन्नस्योभयान्वययोग्यतया न प्रकृतेऽन्वयानुपपत्तिः। अत एवारुणये त्यादावारुण्यनिरूपितसाध्यताया गोनिरूपित- साध्यताभिन्नत्वेऽपि न तृतीयार्थे विशिष्टान्वयानुपपत्तिः। तत्र १ । कृतिविशषेणतयेति । कृतिनिष्ठविशेष्यतानिरूपितविशेषणतारूपपाक- निष्ठेच्छाविषयतायाः कृतिनिष्ठविशेष्यतानिरूपितविशेषणताभिन्ना या कृतिनिरूपिता पाकनिष्ठा विषयता तद्भिन्नतयेत्यर्थः । 'अरुणयेति-अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रोणातीतिवाक्ये ।

२३० व्युत्पत्तिवादः [ कारके परम्परया विशेष्यान्वयिसोमक्रयव्यक्तः परम्परया विशेषणान्वयि- व्यक्यभेदवत् प्रकृतेऽपि परम्परयोभयान्वयिकर्मव्यक्त्यभेदोऽक्षत एवेत्युच्यते तदा भोजनकृतिर्भवतु पाकश्च भवतु इति समूहालम्ब- नेच्छामादाय पाकश्चिकीर्ण्यते इति प्रयोगस्य कालान्तरीयकृति- विषयतामादाय दुरितैब । विषयितासम्बन्धेनेच्छाविशेषणीभू- तकृतिव्यक्तिकर्मत्वान्बयस्यैव तदिच्छाम्वयिनि कर्मण्यन्वया- नायमतिप्रसङ्ग इति चेत्तथापि तदिच्छाकाले पाक इदानीं न चिकीयते इति प्रयोगानुपपत्तिः । अन्वयितावच्छेदककृति- विषयतात्वकृतिगोचरवर्तमानेच्छाविषयतात्वावच्छिन्नाभावयोस्तदा पाकेऽसम्भवात् । न च वर्तमानकालावच्छिन्नकृतिविषयतात्वा- वच्छिन्नाभाव एव तत्र प्रतीयते, स च पाकेऽबाधित इति वाच्यम् । यद्यतीतेच्छाधीनपाककृतिरपि तत्र वर्तते तदा तादृशाभावस्यापि तत्र वाधात् पाककृतीच्छायामसत्यामुक्तेच्छासत्त्वेऽपि च तथा प्रयोगात् । कृत्यसत्त्वेऽपि पाककृतीच्छासत्त्वे तथा प्रयोगविरहात्। कृतिविषयत्वाभावमात्रबोधस्य तत्राभ्युपगमासंभवाचेति । कर्मप्रत्य- यस्थले इच्छाधात्वर्थविशेषणमेव । इदन्तु तत्त्वम् । कर्मप्रत्ययस्थलेऽपि धात्वर्थविशेषितैवेच्छा सन्प्रत्ययेन प्रत्याय्यते। तत्कर्मत्वमेव कर्माख्यातार्थः । तच्च धात्वर्थ- कर्मतया तद्विषयत्वम् । श्रोदनकर्मक भोजनं भवतु, पाकविषयककृ- तिर्भवतु इत्यादीच्छायां च पाकभोजनादीनां तथेच्छाविषयतया तत्कर्मत्वमक्षतम् । गृहस्थितीच्छायां गृहादेः स्थित्याधारत्वादिनैव विषयत्वमिति न गृहादेस्तिष्ठासादिकर्मत्वम् । अत एव यदोदन- । 'प्रोदनकर्मकेत्यादि । धात्वर्थकर्मत्वनिष्ठविषयतानिरूपितचैत्रवृत्तीच्छी- यविषयतावान् पाकादिरिति बोधः ।

द्वितीया ] जयाऽलङ्कृतः २३१ व्यक्तिकर्मकभोजनमप्रसिद्धम् अथ च भोजनकर्मतया तदिष्ट तत्रायमोदनो बुभुक्ष्यत इत्यादेर्दर्शनादिविषयत्वेन गगनादिगोचरे- च्छास्थले च गगनं दिदृक्षते इत्यादेश्च प्रयोगस्य नानुपपत्तिः । न वा श्रोदनादिरूपकर्ममात्रोपरागेण यत्र भोजनादीच्छा दैववशेन च तद्भोजनादिकं विषादिकर्मकमपि तत्र विषं बुभुक्ष्यते इत्यादयः प्रयोगाः। कर्तप्रत्ययस्थले च तादृश विषयतारूपं कर्मत्वमेव इच्छा- विशेषणतया भासते न तु धात्वर्थकर्मत्वं धात्वर्थविशेषणतया । तत्पदार्थकर्मत्वविशिष्टभोजनादिनिरूपितविषयिताया नियमत इ- च्छायां भानोपगमेनोक्तस्थले विषं बुभुक्षते चैत्र इत्यादिप्रयोग- वारणेऽपि गगनं दिक्षते चैत्र इत्यादिप्रयोगस्य दुरुपपादत्वात् । इदन्तु बोध्यम् । सन्प्रतिपाद्येच्छायां धात्वर्थकृतिभोजनादेः केवलविशेष्यतासम्बन्धेन न विशेषणत्वम् । तथा सति परकर्तृकक- तिभोजनादिगोचरेच्छावति अयं चिकीर्षति बुभुक्षत इति प्रयोगप्र- सङ्गात्, किन्तु विशेष्यितासमानकर्तृकत्वोभयसम्बन्धेनैव उक्तातिप्र- सङ्गवारणाय इच्छासमानकर्तृकत्वेऽपि सन्प्रत्ययवाच्यतां स्वीकृत्य 'तादृशेत्यादि । धात्वर्थकर्मत्वनिष्ठविषयतानिरूपितेच्छीयविषयता- रूपमेवेत्यर्थः । तथावबोधः भोजनादिकर्मत्वनिष्ठविषयतानिरूपितेच्छीय प्रोदनादिनिष्ठविषयतानिरूपितविषयितावदिच्छावानिति । तदिति । द्वितीयाप्रकृत्यर्थः । दुरुपपादत्वादिति । अत्र गगनवृत्तिकर्मतानिरूपकदर्शनाप्रसिद्धेरिति भावः। * अपोति । अपिशब्दादिच्छायामपीत्यर्थः । तथा च पाकादिनिष्ठ- कर्मत्वनिरूपिका या इच्छासमानकर्तृककृत्यादिविशेष्यिका इच्छा तद्वानिति बोध इत्युक्तस्थले न दोष इति भावः ।

[ कारके २३२ व्युत्पत्तिवादः क्रियायां तदन्वयो न साधीयान् । इच्छान्तर समानकर्तृकत्वमादाय दर्शितस्थलेऽतिप्रसङ्गतादवस्थ्यात् । स्वसमानकर्तृकत्वस्य वाच्यत्वे तत्तदिच्छारूपस्वपदार्थानामननुगमेन व्युत्पत्त्यनुपपत्तिः । न च स- मानकर्तृकत्वस्य सम्बन्धत्वोपगमे तत्र शक्तिप्राहकानुशासनविरोधः । यतो धातोः कर्मण: समानकर्तृकादिच्छायां वेतिसन्प्रत्ययविधायक- सूत्रं सनः समानकर्तृकत्वार्थकतां न प्रतिपादयति । तस्य हीच्छा- कर्मत्वेन तत्समानकर्तृकत्वेन च स्वार्थपराद्धातोरिच्छारूपाथें सन्प्रत्ययो भवतीत्येवार्थः । इच्छाधात्वर्थयोः संसर्गतया समान- कर्तृकत्वविवक्षायामपि समानकर्तृकत्वोपरक्तार्थपरत्वं धातोर्निर्वह- तीति इच्छामात्रे शक्तिग्राहकं तत्सूत्रमिति । सुबन्तोत्तरेच्छार्थ- विहितक्यच्काम्यजन्तस्य धातोरिच्छार्थकतया सन्प्रत्ययान्ता- विशेषेऽपि सन्नन्तधातुवन्न सकर्मकता । तदन्तर्गतप्रातिपदिकस्यैव कर्मबोधकतयेच्छायाः कर्माकाङ्क्षाविरहात् । न च पुत्रीयति पुत्रकाम्यतीत्यादौ क्यजादिप्रकृत्यर्थपुत्रादेः क्रियात्वाभावेनाकर्मकत्वेऽपि आत्मनः पाकमिच्छति पाकीयतीत्यादौ प्रकृत्यर्थपाकादे: सकर्मकतया सन्नन्तसमुदायवत् क्यजन्तपाकादि- समुदायम्य सकर्मकताया दुर्वारतया तण्डुलं पाकीयतीत्यादिप्रयोगा- पत्तिरिति वाच्यम् । कृधातुसमानार्थकयतेरिव सन्नन्तसमानार्थ- कस्य क्यजन्तादेरपि कर्मबोधकसुप्साकाङ्क्षत्वानुपगमेन तथा इच्छान्तरेति । अयम्भावः । यदा चैत्रस्यौदनभोजनो भवत्वितीच्छा मैत्रवृत्तिरस्ति चैत्रस्य पाककृतिर्भवत्वितीच्छाऽस्ति तदा चैत्रवृत्तेरिच्छा- समानकर्तृकत्वमप्यबाधितमेव इति मैत्रो बुभुक्षति इत्यादिप्रयोगो दुर्वार एवेति । वाच्यत्वे इति । सन् प्रत्ययवाच्यत्वे इत्यर्थः ।

द्वितीया ] जयाऽलङ्कृतः २३३ प्रयोगाप्रसङ्गात् कृदन्तकर्मत्वविवक्षायां तु षष्ठया बाधाद् द्वितीयाया अप्रसक्तेश्च । न च धात्ववयवकृद्योगे कर्तकर्मणोः कृतीत्यस्य द्वितीया- वाधकत्वे कंसकर्मकवधमाचष्टे कंसं घातयतीत्यत्र द्वितीया न स्यात् । कंसस्याख्यानकर्मत्वायोगेन वधकर्मतयैव तदुत्तरं द्वितीयासमर्थना- दिति वाच्यम् । कृदन्तोत्तरं यत्राख्यातार्थे णिच् तत्र प्रकृतिवच्च कारकमित्यनेन कृदन्तकारकस्य प्रयन्त तत्प्रकृतिप्रतिपाद्यक्रियाकार- कतुल्यत्वातिदेशात् राजानं गमयति सूर्यमुद्गमयतीत्यादौ ण्यन्त- धातुयोगे यथा प्रकृत्यर्थक्रियाकर्तुः कर्मत्वं तथा कृदन्तोत्तरणिच्- प्रत्यययोगेऽपीत्याख्येयगत्युद्गत्यादिकर्तुः कर्मतया तदुत्तरं द्वितीयेति। ण्यन्तधातुयोगे यथा प्रकृतेः कर्मणो द्वितीयान्तता तथा णिच्प्रत्य- यान्तकृदन्तकर्मणोऽपीति लाभात् कृदन्तकर्मणः कंसादेर्द्वितीयान्त- तोपपत्तिः । तथा' विवक्षायां तण्डुलस्य पाकीयतीति प्रयोग इष्यत एव । कारकविभक्तयर्थस्य वृत्त्येकदेशेनाप्यन्वयस्य व्युत्पन्नत्वात् । सम्बन्धविवक्षायां च न तथा प्रयोगः । वस्तुतः संबन्धविवक्षायामपि तथा प्रयोग इष्यत एव । न च तत्र वृत्त्येकदेशेन षष्ठयर्थान्वये प्रतियोगिपदादन्यद्य दन्यत्कारकाद- पीतिव्युपत्तिविरोध इति वाच्यम् । तादृशव्युत्पत्तेरभेदान्वयस्थल एव स्वीकारात्। वृत्त्येकदेशेन भेदान्वये बाधकाभावात् । अत एव ऋद्धस्य राजमातङ्गा इत्यादिप्रयोगो नेष्यते । इष्यते च पितुः स्वर्ग- १ ण्यन्तेति । यथा कंसं घातयतीत्यादौ कृतप्रकृतिण्यन्तहननिरूपित- कर्मकत्वं कंसस्यास्तीति कृदन्तनिरूपितकर्मत्वमपि तस्यैवेति भावः । तथेति । धात्ववयवपाकादिकृदन्तार्थान्वयविवक्षायामित्यर्थ । अन्यदित्यादि । तस्य वृत्त्येकदेशेनान्वयो न भवतीत्यर्थः । 'पितुरित्यादि । पितृसम्बन्धिसुखकाम इत्यर्थः । ४.

२३४ व्युत्पत्तिवादः [ कारके काम इत्यादिप्रयोगः । न च कारकपदप्रतियोगिपदयोर्मेदनिवेश- नमफलमिति वाच्यम् । तन्निवेशस्य दृष्टान्तविधयोक्तत्वात् । यथा प्रतियोगिपदार्थस्य कुत्रापि अभेदान्वयो न भवति तथा वृत्त्येकदेशे- नान्यपदार्थस्येत्यर्थे तात्पर्यादिति ध्येयम् । अभेदविवक्षायां पण्डितं पुत्रीयति प्रवीरं पुत्रकाम्यतीत्यादि- प्रयोगाभाववत् परपुत्रादिगोचरेच्छावति पुंसि पुत्रीयतीत्यादयो न प्रयोगाः । सुप अात्मन: क्यजित्यादिना इच्छाकर्तृसम्बन्धि यदि- च्छाकर्म तद्बोधकसुबन्तात् क्यचकाम्यचोर्विधानात् । संबन्धित्वं च सम्बन्धित्वेन भातत्वम् । अन्यथा यस्येच्छाकर्तुः पुत्रोऽप्रसिद्धस्त- स्यापि स्त्रीयत्वेन पुत्रेच्छादशायां पुत्रीयतीत्यादिप्रयोगस्य सर्वसिद्ध- स्यानुपपत्तेः। उक्तस्थले पुत्रीयतीत्यादिवाक्यस्य प्रामाण्यवार- णाय च क्यजाद्यर्थेच्छायां पुत्रादेविषयित्वमात्रं न सम्बन्धः किन्तु 'स्वांशे भासमानसंबन्धस्य प्रतियोगितया यो विषयस्ताह- शपुरुषवृत्तित्वसहितमभ्युपेयम्। संबन्धस्य क्यजाधवाच्यत्वेऽप्यु- क्तसम्बन्धेनैवेच्छायां सुबन्तार्थस्यान्वय इति व्युत्पत्तिप्रदर्शनायैव सूत्रे आत्मन इत्युपात्तम् । आत्मन इति षष्ठ्यर्थसम्बन्धश्चन धातोः कर्मण इत्यादि सूत्रानुवृत्तायामिच्छायामन्वेति, अव्यावर्तकत्वादु- तार्थलाभाप्रयोजकत्वाच्च, अपि तु सुप इत्यर्थे सुबन्तादित्यत्र स 'निवेशनमिति । तयोरभेदान्वयबोधौ वृत्त्येकदेशेनादर्शनादितिभावः । २ उक्तसम्बन्धेनैवेत्यादि। स्वनिष्ठकर्मतानिरूपकत्वस्वानुयोगिकभासमा- नसम्बन्धप्रतियोगिवृत्तित्त्वोभयसम्बन्धेनैवेत्यर्थः । सुबन्तार्थस्य पुत्रादेरि- त्यर्थः । अन्वय इत्यस्येच्छायामिति शेषः । 'इत्यर्थे इति । इत्यर्थभूते इत्यर्थः । ४स इति । सम्बन्ध इत्यर्थः ।

द्वितीया ] जयाऽलकृतः २३५ चेच्छाकर्तुः सम्बन्धितयेच्छाविषयर्थीकत्वम्। एवं च इच्छाकर्मण: सुबन्तादिच्छाकर्तुरिच्छायामिति वृत्तावपीच्छाकर्तुः सुबन्ता- दित्येव योजना कार्या । यथाश्रुते दर्शितानुपपत्तेरिति ध्येयम् । भृत्यं पुत्रीयतीत्यादावाचारार्थविहितक्यजन्तस्य सकर्मकत्वं युज्यत एव । तथा हि-तमिवाचरतीत्यर्थे उपमानवाचिन: क्यच विहितः। तमिवाचरतीत्यस्य तत्तुल्यं जानातीत्यर्थः । आचारपदस्य व्यवहारमूलज्ञानपरत्वात् । तुल्यतया ज्ञानं च क्यजर्थः। तच्च सकर्मकमेव । तत्र तुल्यत्वे प्रतियोगितया पुत्रादेरन्वयः पुत्रादि- पदमेव वा गोण्या पुत्रादितुल्यपरम् । ज्ञानमात्रं क्यजर्थस्तत्र च स्वाभेदावगाहित्वसम्बन्धेन पुत्रादितुल्यस्यान्वयः । न चैवं पुत्रा- दिपदमुपमेयार्थकमेव न तूपमानार्थकमिति कथमुपमानादाचार इत्यनेन तदुत्तरं क्यचो विधानं सङ्गच्छत इति वाच्यम् । पुत्रादि- पदस्य तुल्यार्थकत्वेऽपि तुल्यत्वप्रतियोगितयोपमानपुत्राद्यर्थकत्वात्। अत एव तस्य कर्मवाचकत्वं पुत्रादितुल्यस्याचारकर्मत्वात् सम्यगुप- पद्यते । पूर्वमते उपमानपदस्य कर्मवाचकत्वं आचारकर्मविशेषण- तुल्यताप्रतियोगिबोधकत्वरूपं बोध्यम् । वस्तुतः पुत्रमिवाचरतीत्यस्य पुत्रं यथा व्यवहरति तथा व्यवहरतीत्येवार्थः । व्यवहारश्च प्रतिपा- ल्यत्वादिना ज्ञानं प्रतिपालनादिरूपोव्यापारो वा। एवं च पुत्रीयती- त्यस्य पुत्रकर्मकव्यवहारतुल्यव्यवहारकर्तेत्यर्थः। मुखचन्द्रादेर्यथा स्वजन्याह्नादस्य तुल्यतयोपमानोपमेयभावस्तथा पुत्रभृत्ययोरपि स्वकर्मकव्यवहारतुल्यतया स इति पुत्रपदस्योपमानवाचिता । आचारनिष्ठसादृश्यप्रतियोग्याचारकर्मवाचिता च आचारसदृशाचार एव क्यचोऽर्थः । प्रथमाचारे कर्मतासंबन्धेन पुत्रादेरन्वयः । अमा- द्यन्तात् क्यच्प्रत्ययविधानेऽपि धात्ववयवतया लुप्तस्यामादेनियम- नानुपस्थिते: कर्मत्वस्य सम्बन्धतया भानमुपेयते । यथा राजपुरुष इत्यादिसमासरूपप्रातिपदिकावयवतया लुप्तषष्ठयादिप्रतिसंधाना- २३६ व्युत्पत्तिवादः [ कारके नियमाद्विभक्तयन्तार्थविशिष्टे पूर्वपदलक्षणोपेयते । द्वितीये आचारे भृत्यस्य कर्मतया क्यजन्तस्य सकर्मकत्वमिति कुट्यां प्रासादीयती- त्यादावाधाररूपोपमानवाचि सप्तम्यन्तोत्तरविहितक्यजन्तस्य न सकर्मकता। तत्र चप्रासादाधिकरणकाचारतुल्याचारः क्यजन्तार्थः। स चावस्थानरूप एवेत्यकर्मक इति कुट्यास्तत्राधिकरणतया ततः सप्तम्येव । अवस्थानयोः साम्यं चैकजातीयसुखजनकत्वादिना - विशेषज्ञानविषयत्वेन वा । हंस इवाचरति हंसायते हंसतीत्यादावु- पमानवाचिकर्तृवाचकपदोत्तरविहितक्यङन्तक्विबन्तधातुरप्यकर्मक- स्तत्र हंसादिकतकाचारतुल्याचारस्य गमनादिरूपस्य क्यङन्ताद्य- र्थत्वेऽपि गम्यादिप्रतिपाद्यतावच्छेदकसंयोगादिरूपफलानवच्छिन्न- स्यैव तदर्थत्वोपगमात् । शब्द'ज्ञानादिरूपसविषयकव्यापारात्मक- स्याचारस्य क्वचित्तदर्थत्वेऽपि विषयरूपकर्मावरुद्धस्यैव तस्य तदर्थ- त्वोपगमात् । कर्मावरुद्धस्य च कर्मान्वय निराकाङ्क्षत्वादित्यादिक स्वयमूह्यम् । कृत्यर्थकधातुयोगइष्टसाधनत्वादिज्ञानविशेष्यताप्रयो- ज्यसाध्यताख्यविषयताविशेष एव कर्मत्वं द्वितीयादेरर्थः, न तु विष- यतामात्रम् । यत्र घट करोतीति प्रयुज्यते तत्र कपालं करोति जला- हरणं करोतीत्याद्यप्रयोगात् । अथ काशान् कटं करोति काष्ठं भस्म करोतीत्यत्रकाशकाष्ठादिपदोत्तरद्वितीयानुपपत्तिः। तत्र कृतिनिरूपि- तोक्तविषयताविरहादिति चेदुपादानीयविलक्षणविषयतापि द्विती- यार्थः । सा च द्वितीयान्तरोपस्थाप्यसाध्यीयविषयताविशिष्टायामेव कृतावन्वेति । अतः कटादिरूपकर्मान्तरासमभिव्याहारेण काशान् करोतीत्यादयो न प्रयोगाः। अथैवमपि काष्टं भस्म करोति दुग्धं १ स इव जानाति स इव पठतीत्यादौ । २ कर्मणो धात्वर्थेनोपसङ्ग्रहादकर्मकत्वमिति भावः ।

द्वितीया ] जयाऽलङ्कृतः २३७ दधि करोतीत्यादौ काष्ठदुग्धादेः कर्मत्वानुपपत्तिः। तस्य भस्मध्या- धुपादानताविरहात्। काष्ठदुग्धादिनाशानन्तरमेव तदारम्भकपरमा- णुभिर्भस्मध्याद्यारम्भादुत्पत्त्याश्रयस्यैवोपादानत्वात् । विभिन्नका- लीनयोश्चाधाराधेयभावविरहात् कारणस्यैवोपादानत्वमिति निय- माच्च । नच परिणामवादविद्वेषिणां नैयायिकानां काष्ठादेर्भस्मादि- रूपद्रव्यान्तरकारणत्वमपि तु प्रतिबन्धकत्वमेव । द्रव्यवति द्रव्या- न्तरानुत्पत्तेरिति चेन्न। कर्म हि त्रिविधं भवति-प्राप्यं प्रकृतिविकृती च। तत्र प्राप्यं कर्म क्रियाजन्यफलशालि गम्यादेामादि, ज्ञाना- देविषयश्च क्रियानिष्पाद्यं यत्तद्विकृतिरूपम् । यथा पाकादेरोदनादि यथा वा कृतेर्माल्यादि कटादि च । प्रथमे तण्डुलादिरूपं पूर्वद्रव्यं विनाश्यौदनादेनिवर्तनम् । द्वितीये पुष्पादिरूपं पूर्वद्रव्यमविनाश्यैव संदर्भादिरूपविशेषणनिष्पादनेन विशिष्टस्य माल्यादेर्निवर्तनम् । तृतीये च काशादिरूपपूर्वधर्मिणमविनाश्य तत्रैव कटादिरूपधर्मि- निष्पादनं क्रियया। ईदृशं च तत्र कर्म प्रकृतेरसममिव्याहारस्थलेऽपि निवर्त्यमुच्यते। तण्डुलानोदनं पचति, कुसुमानि स्रजं करोति, काशान् कटं करोतीत्यादौ प्रकृतिसमभिव्याहारस्थलेऽपि निर्वयते निष्पाद्यते यदिति व्युत्पत्त्या, यद्यप्योदनादेरपि निर्वयंतास्ति तथापि तव्यावृत्तमेव पारिभाषिकं निर्वय॑त्वम् । तदुक्तमभियुक्तैः- "सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रियते तस्य निर्वय॑त्वं प्रचक्षत" इति । यस्य विकृतिकर्मणो नाश्रियते न प्रयुज्यत इत्यर्थः । एवं च तत्र तत्रौदनादेर्विकार्यकर्मण्येवान्तर्भावः । तदुक्तम्- "क्रियाकृतविशेषाणां सिद्धिर्यत्र न दृश्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ।

२३८ व्युत्पत्तिवादः [ कारके यदसज्जायते पूर्व जन्मना यत्प्रकाश्यते । तन्नित्यं विकार्य तु कर्म द्वेधा व्यवस्थितम् ।। प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्टादिभस्मवत् । किंचिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवदिति" ॥ अत्र प्रकृतिरपि ग्राह्या। अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः । विकार्यपदेनैकव्युत्पत्त्या प्रकृतिविकृत्युभयाबोधनेऽपि उभयसाधा- रणरूपावच्छिन्नपारिभाषिकमेव विकार्यपदम् । प्रकृतिरूपं कर्म च क्रियया वस्त्वन्तरनिष्पत्तये पूर्वभावविशिष्टस्य यस्यासत्त्वरूपो विकारो निर्वाह्यते तद्यथा पाकादेः तण्डुलादिकृतेश्च पुष्पकाशादि। तत्र प्रथमस्थले तण्डुलादिरूपधर्मिनाशादेव पूर्वभावविशिष्ट तदसत्त्वमोदनादिरूपकर्मान्तरनिष्पादकम् । इतरत्र धर्मिणः काश- कुसुमादेः सत्त्वेऽपि कटसंदर्भादिविरहरूपपूर्वभावासत्त्वेन तद्विशिष्ट- स्यासत्त्वं कटसंदर्भादिनिष्पादकक्रियातो निर्वहति । एवं च तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मोत्तरद्वितीयाया नाशकत्व- मर्थस्तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । विकृतिकर्मोत्तर- द्वितीयायाश्च उत्पादकत्वमर्थः। श्रोदनाद्यन्वितस्य तस्य नाशकत्व- विशिष्टे पाकेऽन्वयः। नाशे चोत्पत्तेः प्रयोजकत्वमुद्देश्यतावच्छेदक- विधेयभावमहिम्ना नियमतो भासते। अत: पाकस्य तण्डुलाद्या- रम्भकसंयोगनाशजनकत्वेऽपि तन्नाशस्य द्रव्यान्तरोत्पत्तौ द्रव्यनाशे- नान्यथासिद्धतया प्रयोजकत्वबाधेन संयोगमोदनं पचतीति न । प्रयोगः। २ अत्रेति । विकार्यकर्मणीत्यर्थः । पूर्वभावविशिष्टस्येति । तण्डुलत्वादिविशिष्टस्येत्यर्थः । अतः पाकस्येत्यादि । ततश्च तण्डुलनाशप्रयोज्या या प्रोदनोत्पत्ति- स्तत्प्रयोजकः पाक इति बोधः । ३ द्वितीया ] जयाऽलङ्कृतः २३६ वस्तुतस्तु निर्वय॑कर्मासमभिव्याहारस्थले संयोगं पचतीति प्रयोगवारणाय संयोगनाशद्वारा नाशकत्वमेव द्वितीयार्थो वक्तव्य इति कृतं प्रयोज्यप्रयोजकभावबोधेन । तण्डुलमोदनं करोति, काष्ठं भस्म करोति, दुग्धं दधि करोतीत्यादावपि प्रकृतिकर्मोत्तरद्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते विकृतिकर्मोत्तरद्वितीयया च विषयता- विशेष उत्पादकत्वं वा मिलितं वा कृतौ बोध्यते। काशान् कटं करोति कुसुमानि मौक्तिकानि वा खजं करोतीत्यादौ काशादिपदोत्तर- द्वितीयाकृतौ विषयता विशेषमेव बोधयति । काशाधुच्छेदकतायास्तत्र बाधात् । कटमित्यादौ द्वितीयार्थः पूर्ववत् । स्रगादिपदार्थविन्यास- विशेषविशिष्टकुसुमादेनं कुसुमाग्रुपादानककृतिविषयता अपि तु विन्यासादिरूपविशेषणस्यैव तस्यैव कृत्यधीनोत्पत्तिरिति सज- मित्यादिद्वितीयान्तस्य विशिष्टसत्त्वनिर्वाहकत्वमर्थः। विशेषणोत्पाद- कस्यापि स्वरूपसंबन्धविशेषरूपं विशिष्ट सत्त्वनिर्वाहकत्वमक्षतमेव । अग्निः श्यामं रक्तं करोतीत्यादावचेतनकर्तृकव्यापारबोधकतया तत्समभिव्याहृतश्यामादिपदोत्तरद्वितीयाया अपि नोपादानताख्य- विलक्षणविषयतार्थकत्वसम्भवः अपि तु तादृशद्वितीयान्तेन श्यामरूपादिविशिष्टासत्त्वनिर्वाहकतारूपं विशिष्टोच्छेदकत्वं ताश- व्यापार प्रत्याय्यते। घटं रक्तं करोतीत्यादावपि घटादिपदस्या- रक्तत्वविशिष्टघटादिलाक्षणिकतया विशिष्ट घटाद्यसत्त्वनिर्वाहकत्वं प्रतीयते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्याय्यते। अतः काष्ठानि भस्मराशिः क्रियन्ते इत्यादावाख्यातार्थ- । 'निर्वय॑कर्मेति । तण्डुलम्पचतीत्यादौ प्रयोज्यस्याभावेन नाशप्रयोज्य- त्वस्यापि तादृशस्थले भानास तद्वत्संयोगं पचतीत्याद्यापत्तिरिति भावः। २ विषयतेति । उपादानताख्येति यावत् ।

२४० व्युत्पत्तिवादः [ कारके विशेष्यकाष्टादिवाचकपदसमानवचनत्वमाख्यातस्य, न तुनिवर्त्यभ- स्मादिरूपविकारवाचकपदसमानवचनता । अथैवं निर्वर्त्यकर्मवाचकपदात्प्रथमा न स्यादपि तु द्वितीयैव तत्कर्मताया लकारेणानभिधानात् । यत्तु उभयकर्मत्वमेव लकारेणा- भिधीयते, प्रधानाप्रधानकर्मसमभिव्याहृतनीवहादिदुहादिरूपद्वि- कर्मकोत्तरकर्मप्रत्ययस्यैव कर्मद्वयानभिधायकत्वनियमात्, प्रकृते च कर्मद्वयस्यैव तुल्यत्वात् , विकृतेराख्यातार्थविशेष्यत्वेऽपि आख्या- तस्य तत्समानवचनत्वनियमः, “गृह्णाति वाचक: संख्यां प्रकृते- विकृतेन ही” त्यनुशासनसिद्धप्रकृतिविकृतिसमभिव्याहृतलकारीय- विकारसंख्याबोधकत्वाभावव्युत्पत्तिनिर्वाह्य इत्युक्तस्थले न क्रियाप- दस्यैकवचनान्तता, तदान्वितसङ्ख्याबोधकस्यैवाख्यातस्य तत्पद- समानवचनत्वनियमात्, न तु तद्विशेषणक स्वार्थकर्मवादिबोधजन- काख्यातमात्रस्येति-तदसत् । विकारविकारिणोद्वयोराख्यातार्थ- विशेष्यत्वे वाक्यभेदापत्तेः । घटपटौ स्त:, घटपटौ दृश्यत इत्यादौ विशेष्यभेदेऽपि विशेष्यतावच्छेदकद्वित्वादेरेकधा भानान्न वाक्य- भेदः । अत्र च न तादृशविशेष्यतावच्छेदकभानमस्ति येन तत्रेवात्रा- प्येकवाक्यतानिर्वाहः । न चागत्येष्यत एवात्र वाक्यभेद इति वाच्यम् । तथा सत्येकवाक्यार्थपरस्य काष्ठं क्रियते भस्म क्रियते इत्येताहशप्रयोगण्यापत्तेः । काष्ठं भस्म क्रियत इति वाक्यजबोधस्य काष्ठविकृतिभस्मान्यविकृतिर्वेति संशयनिवर्तकत्वानुपपत्तेश्च । काष्ठ- भस्मनोः प्रकृतिविकारभावामानात् । अस्मन्मते च काष्ठोच्छेदकत्वरूपकाष्ठकर्मकत्वभस्म निर्वत- वाचकरिति । आख्यातरिति । २'तद्विशेष्यक' इति पाठो हस्तलिखितपुस्तके ।

a द्वितीया ] जयाऽलङ्कृतः २४१ कत्वरूपतत्कर्मकत्वयोरेकविशिष्टेऽपरान्वये एव पूर्वोपदर्शितरीत्या काष्ठोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठप्रकृतिकत्वस्य भस्मनि लाभ- सम्भवादिति चेत्-सत्यम्। भस्म क्रियत इत्यादौ भस्मादिनिर्वयकर्म- ताया लकारेणानभिधानेऽपि तत्कर्मताया धात्वर्थे संसर्गतया भानोप- गमेन तादृशकर्मोत्तरं प्रथमायाः साधुता। प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तेः साधुत्वात् । यथाऽर्यो नम इत्यादौ नमः पदार्थत्यागेऽादिकर्मत्वबोधेऽपि अादिपदात्प्रथ- मैव । निपातार्थे त्यागे कर्मतासम्बन्धेनैव नामार्थस्यान्वयात् । एवं भूतले न घट इत्यादावपि सम्बन्धस्याभावे संसर्गतया भानात् षष्ठीविषयेऽपि प्रथमा। न च धात्वर्थे नामार्थस्य साक्षा- दन्वयोऽव्युत्पन्न इति प्रकृतेः कर्मतायाः संसर्गतया भानं न सम्भव- तीति वाच्यम् । घटो नीलो भवति, काष्ठं भस्म भवतीत्यादौ भवना- दिक्रियायां नीलादेः कर्तृतासम्बन्धेन साक्षादन्वयवदत्रापि व्युत्पत्ति- वैचित्र्येण कर्मत्वान्तरविशेषणतापन्नक्रियायामपरकर्मणः कर्मता- सम्बन्धेन साक्षादन्वयोपगमात् । न चैवमपि कर्मत्वस्य प्रकृत्यर्थ- विशेष्यत्वेन विवक्षया काष्ठं भस्मराशिं क्रियत इत्यादिप्रयोगापत्तिः। कर्मत्वान्तरविशेषणतानापन्नक्रियायामेव द्वितीयया कर्मत्वं बोध्यत इतिव्युत्पत्तिकल्पने गौर्दुह्यते क्षीरमजा नीयते ग्राममित्यादौ दोहन- नयनादि क्रियायां क्षीरग्रामादिकर्मकत्वानन्वयप्रसङ्ग इति वाच्यम् । प्रकृतिविकृत्युभयकर्मकस्थले तथा व्युत्पत्तेः। यथोक्तातिप्रसङ्ग- वारणाय दर्शिता व्युत्पत्तिः कल्प्यते तथा कर्तत्वविशेषणतयाऽ- भासमानायां क्रियायां तृतीयार्थकर्तृत्वान्वय इत्यपि व्युत्पत्तिः कल्प्या। अन्यथा प्रकृत्यर्थविशेष्यतया कर्तृत्वविवक्षया काष्ठं भस्मना भवतीति प्रयोगस्य दुर्वारत्वात् । उत्पत्तिप्रयोजकनाशप्रतियोगित्व- रूपविकार एव काष्ठं भस्म भवतीत्यादौ धात्वर्थः। आधेयत्वरूपं तत्कर्तृकत्वमेव सम्बन्धमर्यादया भासते। काष्ठेन भस्मना भूयत २४२ व्युत्पत्तिवादः [ कारके इत्यादौ भस्माद्याधेयत्वमुत्पत्तौ काष्ठाद्याधेयत्वं च नाशप्रतियोगित्वे तृतीयोपस्थाप्यं प्रकारतया भासते । कर्तृत्वविशेषणतया भासमानस्य निरुक्तभवनस्यान्तर्गतायामेवोत्पत्ती भस्मादेराधेयत्वं सम्बन्धतया भासत इति व्युत्पत्तेः, काष्ठेन भस्म भूयते इत्यादयो न प्रयोगाः। भावाख्यातस्य कर्तृत्वाबोधकत्वात्। कर्मत्वान्तरविशेषणतानापन्न- कृत्यादौ कर्मत्वस्य संसर्गतया भानमव्युत्पन्नमिति काष्ठं भस्मराशिः करोतीत्यादयो न प्रयोगाः। अधिशीस्थासां कर्मत्यादिना यत्राधारस्य कर्मसंज्ञा तत्रा- धारत्वमाधेयत्वं वा द्वितीयार्थः । स्थलीमधिशेत इत्यादौ तादृशार्थे द्वितीयायाः स्थल्या अधिशयितेत्यादौ कृत्प्रयोगे षष्ठयाश्च साधुत्वार्थ- मेवाधारस्य कर्मसंज्ञाविधानात् । अथ कुञर्थव्यापाररूपक्रियान्तरं धात्वर्थेऽन्तर्भाव्य शयनादिरूपफलावच्छिन्नव्यापारार्थकसोपसर्ग- शीप्रभृतिधात्वर्थतावच्छेदकशयनादिरूपकफलाश्रयतयाऽऽधारस्य कर्मत्वोपपादनसम्भवात् तादृशसूत्राणां वैयर्थ्यमेव । अध्याद्युपसृष्ट- शीप्रभृतीनामेव च तादृशार्थे निरूढलक्षणा, न त्वनुपसृष्टानामतो 'न स्थली शेत' इत्यादयः स्वारसिकप्रयोगा इति चेन्न। धातोमुख्या- र्थपरत्वेऽपि दर्शितप्रयोगनिहाय भगवता पाणिनिमुनिना तादृश- सूत्रप्रणयनात् । तदप्रणीतवतां सर्ववर्मप्रभृतीनां मुख्यार्थपराणां स्थल्यामधिशेत इत्यादिप्रयोगाणां साधुताया दुर्वारत्वाच्च । कालाध्वदेशानामकर्मक क्रियायोगे कैश्चित्कर्मप्रत्ययार्थं वि- भाषया कर्मत्वमनुशिष्यते। अन्ये तु क्रियान्तरान्तर्भावेणोक्तरीत्या तत्र पाक्षिकं कर्मप्रत्य- यमुपपादयन्तस्तन्नानुशासति । उक्तञ्चैतत्- * क्रियान्तरेति । व्याप्त्यनुकूलमध्ययनधात्वर्थ इति भावः ।

२४३ द्वितीया ] जयाऽलकृतः "कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः। सर्वैरकमकोंगे कर्मत्वमुपजायते” इति । तन्मते च मासमधीते मासमास्ते योजनं धावतीत्यादावभिव्या- प्त्यर्थे कालाधवचनोरत्यन्तसंयोग इत्यनेन द्वितीयाविधानं यद्यप्यनर्थक धात्वर्थेऽध्ययनस्थित्यादिविशेषणतयाऽभिव्यापनार्थकक्रियाया अ- न्तर्भावेण तत्कर्मतया तत्र द्वितीयोपपत्तेः । तादृशधात्वर्थे व्याप्त्यन- न्तर्भावे मासमास्त इत्यादौ द्वितीयया तद्बोधनेऽपि प्रास्यते मास इत्यादौ मासादौ स्थित्यादिव्याप्यत्वलाभानिर्वाहात् तथापि मासं रमणीया क्रोशं कुटिला नदीत्यादौ भवतीत्यस्यानध्याहारेऽपि द्विती- यायाः साधुतानिर्वाहकत्वेन भाष्यकृतस्तत्सूत्रं सार्थकयन्ति । तन्त्र हि रमणीयत्वाभिव्याप्यत्वं मासादौ प्रतीयते । न च तत्र क्रिया- समभिव्याहारोऽस्ति यत्राभिव्याप्तिरन्तर्भविष्यति तत्कर्मतया द्वितीया च स्यात् । एवं मासमासितेत्यादावभिव्याप्तचन्तर्भावेण मासस्य कर्मत्वोपपादनेऽपि कृद्योगात् षष्ठयेव स्याद् न द्वितीये- त्यतोऽपि तत्सूत्रं सार्थकम् । अथ केयमभिव्याप्तिर्याऽत्यन्तसंयोग उच्यते। न तावदव्या- प्यवृत्तिः कालिकसंबन्धः। कालिकसम्बन्धस्य व्याप्यवृत्तित्वं व्याप्य- कालानवच्छिन्नत्वं दिवसादिमात्रवृत्तिर्मासादिनिष्ठसम्बन्धो दिव- साद्यवच्छिन्न इति तत्र मासमास्त इति न प्रयोगः । मासपदार्थश्चात्र त्रिंशदिनमात्रस्थायी कश्चिदखण्डः पदार्थः, न तु क्रियापचयस्तथा सति दिनकादिमात्रस्थायिनोऽपि सम्बन्धस्य कासु चित् क्रियासु व्याप्यवृत्तितया तत्र तथा व्यवहारापत्तेरिति युक्तम् । चैत्रो मासं काश्यां तिष्ठतीत्यादौ काशीसंयोगस्य मासव्यापकस्यैकस्याभावेऽ- प्रामाण्यप्रसङ्गात् । संयोगव्यक्तीनां मासनिष्ठकालिकसम्बन्धस्या- वान्तरदिनाद्यात्मककालावच्छिन्नत्वात् । न च संयोगानां भेदेऽपि चैत्रीयसंयोगात्वाद्यवच्छिन्ननिरूपितकालिकसंबन्धावच्छिन्नाधारता २४४ व्युत्पत्तिवादः [ कारके मासव्यापिकैकैव । सा च नावान्तरकालावच्छिन्नेति तत्र तदन- वच्छिन्नत्वबोधकमुक्तवाक्यं भवेदेव प्रमाणमिति वाच्यम् । सामान्य- घटितविशेषर्मावच्छिन्नाधिकरणताकूटादेव सामान्यधर्मावच्छिन्न- वताप्रत्ययोपपत्तेः । शुद्धसामान्यधर्मावच्छिन्ननिरूपिताधिकरणता- यामतिरिक्तायां मानाभावात् । यत्र त्रिंशदिनेषु कमपि कालमधीतं तत्र मासेऽध्ययनसम्बन्धस्याव्याप्यवृत्तितया मासमधीत इति प्रयो- गानुपपत्तिरपि न शक्यते वारयितुम् । उच्यते । अभिव्याप्तिर्यावदवयवसम्बन्धः । यत्समुदायो मासा. दिपदार्थस्त एव तद्वयवाः । एवं च त्रिंशदिनानां मासपदार्थतया निशदिनेषु किञ्चित् किश्चित् कालावच्छेदेनाध्ययनसम्बन्धेऽपि मास- मधीत इति प्रयोगोपपत्तिः। त्रिंशदिनसम्बन्धश्च दिनपर्याप्तत्रिं- शत्वव्यापकत्वम् । तादृशत्रिंशत्वादेश्च मासादिपदप्रवृत्तिनिमित्तस्य मासादिपदादेव लाभाद्वथापकत्वमानं द्वितीयार्थः। व्यापकत्वं च व्याप्यविशेषाघटितमखण्डं दुर्वचमिति खण्डशोऽभावप्रतियोगिता- वच्छेदकत्वमभावश्च द्वितीयार्थः। प्रथमाभावे प्रकृत्यों मासा- दिराधेयतासम्बन्धेनान्वेति । मासादिनिष्ठाभावप्रतियोगितावच्छेद- कत्वत्वावच्छिन्नस्य च प्रतियोगितयाऽभावान्तरेऽन्वयः। तस्य चान्व- यितावच्छेदकचैत्रकर्तृकाध्ययनत्वादिरूपस्वाश्रयघटितपरम्परासम्ब- बन्धेनाध्ययनादावन्वयः। प्रथमाभावे च प्रतियोगिव्यधिकरणत्वं विशेषणमुपादेयम् । तेन त्रिंशदिनेष्वेव च यत्राधीतं तत्र दिनावान्त- रदण्डादावध्ययनाभावेऽप्युक्तप्रयोगोपपत्तिः । मासपदं च त्रिंशद्दि- नपरमेव न तु तावत्कालस्थाय्यखण्डवस्त्वन्तरपरम् । एकदिनाध्य- यनस्थलेऽपि तादृशाखण्डकाले प्रतियोगिव्यधिकरणाध्ययनाभावा- सत्त्वेन मासमधीत इति प्रयोगापत्तेः । मासघटकं च दिनं सूर्योद- यावधि सूर्योदयान्तरपर्यन्तावस्थाय्यखण्डवस्तुरूपं न तु क्रियादि- प्रचयः। तथा सत्येकैकक्रियादिव्यक्तरपि मासत्वादिकरणतया तत्र द्वितीया ] जयाऽलङ्कृतः २४५ प्रतियोगिव्यधिकरणाध्ययनाभावसत्त्वेन व्यापकत्वरूपद्वितीयार्थस्य वाधापत्तेः। दिवसं स्वपितीत्यादौ च दिवसादिपदं सूर्योदयाव- धिसूर्योदयान्तरपर्यन्तक्षणकूटपरमेव । अतो नैकदण्डादिमात्र- खप्ने तथा प्रयोगः । अथ व्यापकत्वस्य द्वितीयार्थत्व एकमासादि- व्यापकाध्ययनस्थलेऽपि मासान्तरेऽध्ययनाभावसत्त्वेन मासत्वादि- व्यापकताया अध्ययने बाधेन मासमधीत इत्यादिप्रयोगानुपपत्तिः। न च मासपदेन यत्किञ्चित् त्रिशदिनमात्रवृत्तिविशेषधर्मप्रकारेणा- नुपस्थापनेऽपि तद्धर्मवत्स्वनिरूपिताधेयत्वसम्बन्धेन मासपदार्थ- स्याभावेऽन्वयोपगमात् यत्किञ्चिन्मासनिष्टाभावप्रतियोगितानवच्छे- दकत्वमन्वयितावच्छेदके लभ्यत इति न काप्यनुपपत्तिरिति वाच्यम्। तत्तन्मासमात्रवृत्तिधर्मविशेषाणां सम्बन्धघटकत्वेऽपि शाब्दबोधे संसर्गतात्पर्यज्ञानस्य हेतुतया संसर्गविशेषोपस्थितेरपे- क्षितत्वात् । सम्बन्धघटकतादृशधर्मान् विशिष्याविदुषः शाब्दबो- धानुदयप्रसङ्गात् । न चेष्टापत्तिरनुभवविरोधात् । अनागता'दिमा- सवृत्तितादृशधर्माणां विशिष्यज्ञानसामग्रथा असर्वज्ञस्य दुर्लभत- याऽस्मदादीनां सर्वेषामेव तादृशमासत्वव्यापकताबोधोच्छेदप्रस- ङ्गात् । न च ताहशवाक्यार्थतात्पर्यमेव संसर्गतात्पर्यमुक्तज्ञाने च वाक्यार्थघटकः सम्बन्धः संसर्गमर्यादयैव भासत इति विशेषरूपेणा- नुपस्थितस्यैवोक्तधर्मघटितसम्बन्धस्य तात्पर्यज्ञाने बाधाभावबला- च्छाब्दबोधे च तात्पर्यज्ञानबलाद्भानमनपवादमेवेति वाच्यम् । एक- पदार्थविशिष्टापरपदार्थरूपवाक्यार्थविशेषिततत्प्रतीतीच्छारूपतात्प- यविषयकनिश्चयस्य प्राग्वाक्यानिश्चये दुर्घटतया तस्य १ अनागतेति । मासमध्येष्यत इत्यादिप्रयोगाणामुच्छेदप्रसंग इत्यु- पपादयति ।

२४६ व्युत्पत्तिवादः [ कारके शाब्दधीहेतुत्वे च योग्यतासंशयाच्छाब्दबोधानुपपत्तेर्विशकलिततत्प- दार्थतत्तत्संसर्गविषयकत्वविशेषितप्रतीतीच्छाज्ञानस्यैव शाब्दधीहेतु- ताया उपेयत्वात् । तत्र च तादृशसंसर्गोपस्थितेरवश्यापेक्षणीयत्वा- दिति चेत् । सत्यम्। मासादिघटकतावदिनादिनिष्ठत्रिंशत्वादिरूप- मासत्वादिर्मासादिभेदेन नानैव । मासादिपदप्रवृत्तिनिमित्तपरमनुग- तरूपेण । अन्यथा शक्त्यानन्त्यप्रसङ्गात् सर्वोपसंहारेण व्युत्पत्ति विना प्रागप्रतीतमासादेः शाब्दानुभवानिर्वाहाच । न च त्रिंशत्वादिकं बुद्धिविशेषविषयत्वरूपं वाच्यम् । दिनादेद्रव्यानात्मकत्वेन तत्र गुण- रूपसङ्गयाया असम्भवात्। द्रव्यात्मकत्वेऽपि क्रमिकेषु तेषु सङ्खयोत्पत्तरसम्भवात् । तत्र बुद्धेरनतिप्रसक्तं वैलक्षण्यमनुगतं दुर्वचम् । जातिरूपस्य तस्य सङ्करप्रसङ्गान्निरस्तत्वात् । तत्तदिवस- विषयकत्वरूपस्य तत्तदिनाद्यननुगमेनाननुगतत्वादिति वाच्यम् । ता- वकालस्थायिनो द्रव्यस्यापि दिनादिरूपत्वसम्भवात् । मीमांसकानु- यायिभिर गत्या सङ्घयायाः पदार्थान्तरत्वोपगमाच्च । सङ्ख्यादिरू- पनानादिनादिनिष्ठानुगतत्रिंशत्वादेः सुवचत्वात् । एवं च मासमधीते चैत्र इत्यादावधिकरणतैव द्वितीयार्थः । मासादिपदार्थतावच्छेदकदि- नपर्याप्तत्रिंशत्वादेर्धर्मिविशेषणतापन्नस्य द्वितीयार्थाधिकरणतायां चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नं स्वरूपसम्बन्धरू- पमवच्छेद्यत्वं संसर्गतया भासत इत्युपगमेन सामञ्जस्यात् । यत्कि- अनुगतरूपेणेति । बुद्धिविशेषविषयत्वोपलक्षिततत्तत्तिशत्वावच्छिन्न- शक्तिरिति भावः । २ मीमांसकानुयायिभिरिति । स्वमते तु त्रिंशत्वरूपसंख्यात्वव्याप्यधर्मा- वच्छिन्नजन्यतानिरूपितजनकतावच्छेदकीभूतविषयिताशालित्वरूपानुगतान- तप्रसक्तधर्मेण तादृशबुद्धिविशेषस्थानुगमसम्भवान्नानुपपत्तिरिति भावः ।

द्वितीया ] जयाऽलङ्कृतः २४७ ञ्चिदेकमासं व्याप्य यत्राधीतं तत्राध्ययनाधारतानामवच्छेद्यता- वच्छेदकाधारतावृत्त्यन्यतमत्वविशेषादिरूपोक्तधर्मावच्छिन्नानतिप्र- सक्तत्वेन तवृत्तित्रिंशत्वेनावच्छेदात् न्यूनकालाध्ययनस्थले च अति- प्रसक्ततया तादृशस्य मासत्वस्योक्तरूपावच्छिन्नाधारतानवच्छेदक- त्वाचानतिप्रसङ्गातिप्रसङ्गयोरनवकाशात् । मासादिपदप्रवृत्तिनिमित्त- धर्मे चैत्राध्ययनाधारताया व्याप्यत्वस्य शब्दादलाभेऽप्यर्थतस्तल्लाभा- दिति । द्वितीयाया अत्यन्तसंयोगार्थपरत्वमिति नानुशासनविरोधः। न च भूतले घटः भूतलं घटवदित्यादिप्रत्ययवलादतिग्रसक्तोऽपि धर्म प्राधेयत्वाधारत्वयोरवच्छेदक इति वाच्यम्। ताशप्रत्ययेऽ- वच्छेदकत्वभानानुपगमात् । आधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वे साध्यसामानाधिकरण्यावच्छेदकधर्मात्मकच्याप्तिशरीरे मिश्रादीदा स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशस्य व्यभिचारिण्यतिव्याप्ता न ह्यतिप्रसक्तमवच्छेदकमिति तत्स्थलीयचिन्तामणिफक्किकाविरोधेन चासम्भवदुक्तिकतापत्तेः। आधारताया अतिप्रसक्तधर्मावच्छेद्यत्वे यद्धत्वधिकरणत्वं साध्याधिकरणतावच्छेदकमिति तल्लक्षणव्या- ख्यापक्षे स्वरूपसम्बन्धरूपावच्छेदकत्वप्रवेशं व्यभिचारिण्यतिव्या- तथाऽदूषयित्वा विरुद्धदिक्कालावच्छिन्नवृत्तिकस्येत्यादिदूषणान्तरेण तत्परित्यज्य दीधितिकृतामनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविव- क्षाया असङ्गत्यापत्तेः। अस्तु वाऽव्यासज्यवृत्तिधर्मस्यातिप्रसक्तस्यापि दर्शितप्रतीतिब- लादाधाराधेयभावावच्छेदकत्वम्। व्यासज्यवृत्तेस्त्वतिप्रसक्तस्य तद- वच्छेदकत्वमप्रसक्तम् । नितिजलोभयं गन्धवत् स्नेहगन्धोभयं क्षिता- वित्याद्यप्रतीतेः । अथ वा द्वितीयाद्यर्थेऽध्ययनाधारत्वे तत्तन्मासादि- रूपप्रकृत्यर्थविशेषणतापन्नतत्तन्मासादिव्यक्तीनां व्यापकतासम्ब- न्धेन पारतन्त्र्येण विशेषणत्वमुपेयते । तादृशं च व्यापकत्वं स्वसमानाधिकरणव्याप्यवृत्त्यभावप्रतियोगितावच्छेदकत्वसम्बन्धेन २४८ व्युत्पत्तिवादः [ कारके स्वावच्छिन्नस्य यो भेदस्तदानयधर्मवत्त्वं, तादृशधर्मश्च चैत्रोऽधीत इत्यादौ चैत्रीयाध्ययनाद्यधारतात्वं विशेष्यैव सम्बन्धेऽन्तर्भावनी- यम् । मासान्तरनिष्ठतादृशाभावप्रतियोगितावच्छेदकत्वस्य तादृश- धर्मे सत्त्वेऽपि तत्तन्मासत्वसमानाधिकरणाभावप्रतियोगितानव- च्छेदकताहशधर्म उक्तसम्बन्धेन तत्तन्मासत्वाद्यवच्छिन्नस्य यो भेद- स्तदाश्रयत्वमक्षतमेवेति यत्किञ्चिदेकमासादिमात्रव्यापकाध्ययना- दिस्थलेऽपि ताशप्रयोगनिर्वाहः । प्रतिमासमधीत इत्यादौ प्रत्या- दिशब्दानां मासादिपदोपस्थाप्यानुगतरूपावच्छिन्नमासत्वादिमन्नि- ष्ठाभावप्रतियोगितावच्छेदकत्वसामान्याभावघटितव्यापकताबोध- कतया यत्किञ्चिदेकमासव्यापकाध्ययनादिस्थले न तादृशः प्रयोगः । अथात्यन्तसंयोगार्थकद्वितीयाया एकादिपदं विनापि यत्किञ्चि- देकमासादिव्यापकताबोधकत्व उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीत्यत्र एकपदवैयर्थ्यमिति चेत्-न।मासाधिककालव्यापकत्वे- ऽपि मासव्यापकतयाधिककालव्यापकस्य होमस्य शास्त्रार्थतावार- णायैकपदोपादानात् । तथा सति तस्य केवलार्थकतया मासमात्र- व्यापकतालाभात्तादृशप्रयोजनोपपत्तेः । अत एव च यावज्जीवमग्नि- होत्रं जुहोतीतिश्रुतिबोधिताग्निहोत्रानुवादेन सतिलव्रीहिचरुरूपद्र- व्यस्य मासैकरूपकालस्य विधाने वाक्यभेदः स्यादिति तादृशद्रव्य- कालोभयविशिष्टस्य गौणाग्निहोत्रपदप्रतिपाद्यस्य कर्मान्तरस्यैव वि- धायिका ताहशी श्रुतिरिति सिद्धान्ते यावज्जीवकालान्तर्गतमासरू- पकालांशेऽप्यनुवादकतासम्भवात्प्राप्ताग्निहोत्रानुवादेन द्रव्यस्यैव वि- धानमुचितमिति पूर्वपक्षो निरस्तः। यावज्जीवमित्यादिश्रुत्या याव- ज्जीवव्यापकत्वे बोधितेऽर्थतो मासैकव्यापकतालाभेऽपि उपसच्च- रुकरणकत्वविशिष्टहोमे तन्मात्रव्यापकताया अलाभेन तस्यापि वि- धेयतया चाक्यभेदस्य प्राप्ताग्निहोत्रानुवादेन द्रव्यविधिपक्षे दुर्वार- स्वात् । अथ तादृशश्रुतेद्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रप्रति- द्वितीया ] जयाऽलङ्कृतः २४६ पाद्यस्य कर्मान्तरस्य विधायकत्वेऽपि न कथं वाक्यभेदः। विधेय- भेदस्य तावताप्यपरिहारात् । प्रत्युत धर्मिणोऽप्यधिकस्य विधा- नात् । एवं च- 'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः।' इत्यपि नियुक्तिकमिति चेन्न । यत्र विधेयांशे युगपदनेकधर्माणां विशेषणतया भानं तत्र विधेयविशेषणभेदेऽपि विशिष्टनिष्ठविधेय- त्वाभेदेन वाक्यभेदविरहात्। अन्यथा भूतलं नीलघटवदित्या- दावपि नीलवघटवदित्यादाविव वाक्यभेदप्रसङ्गात् । अनुवा- द्यांशे विशेषणतया यत्रानेकेषां विधानं तत्र तेषां विधेयता भिन्नैवेति वाक्यभेदः । यद्यपि तत्रोपसच्चरुकरणकहोमाधि- करणतात्वेन वाधिकारिविशेषकृतताडशहोमाधिकरणतात्वेन वा मासैकव्यापकता मासन्यूनकालहोतृकृतहोमाधिकरणतायामप्यन्या- न्यदिने पुरुषान्तरकर्तृकहोमाधिकरणतासत्त्वेनाक्षतैव. तत्तत्पुरुष- कर्तृकतादृशहोमाधिकरणतात्वेन व्यापकतायाः श्रुतितात्पर्यविषयत्वे च विधेयानन्त्यं तथापि विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वया- वृत्तितादृशचरुहोमाधिकरणतामात्रवृत्तिधर्मत्वेनानुगतीकृत्य तत्तत्पु- रुषकर्तृकतादृशचरुहोमाधिकरणतात्वावच्छिन्नव्यापकतानां संस- र्गविधया विवक्षितत्वान्न दोषः । तादृशाधिकरणताद्वयावृत्तित्वं च स्ववृत्तित्वस्वनिरूपकहोमकर्तृनिष्ठभेदप्रतियोगिकर्तृकहोमाधिकरण- तावृत्तित्वोभयसम्बन्धेनाधिकरणताविशिष्टान्यत्वरूपमनुगतं बोध्य- म् । मासमधीत इत्यादावपि चैत्रादिककाध्ययनाधिकरणतात्वरू- पव्यापकतावच्छेदकधर्मस्योक्तानुगतरूपेणैवानुगमः कार्यः। अतो मासमधीयानो दृष्ट इत्यादौ विशिष्य चैत्रत्वाद्यनुपस्थितावपि नान्व- यबाधानुपपत्तिः । अन्यत्स्वयमूहनीयम् । दण्ड विना न घट उत्पद्यते, रासमं विनाऽपि घट उत्पद्यत २५० व्युत्पत्तिवादः [ कारके इत्यादौ विनापदार्थोऽभाववान् तत्पदसमभिव्याहृतद्वितीयाया अभा- वान्वयिप्रतियोगित्वमनुयोगित्वं वार्थः। अभाववतश्चोत्पत्तावाधार- त्वेनान्वयः । तथा च दण्डाभावववृत्त्युत्पत्तिकत्वाभाववान् घटो रासभाभाववद्वृत्त्युत्पत्तिको घट इत्याकारको बोधः । यद्यपि निपा- तार्थे नामार्थस्य साक्षादपि भेदेनान्वयः तथापि सम्भवति सार्थकत्वे विभक्तनिरर्थकत्वमनुचितमिति द्वितीयायाः सार्थकत्वमुपेयते । भूतले न घटश्चन्द्र इव मुखमित्यादौ प्रथमायाः प्रतियोगिताद्यर्थकत्वे प्रथ- मैव न साधुः स्यात् । प्रातिपदिकार्थान्वयिनोऽन्यपदेनाभिधानस्थल एव प्रातिपदिकार्थेत्यादिसूत्रेण प्रथमाविधानादिति तत्र प्रतियोगि- त्वादिः सम्बन्धविधयैव भासत इत्युपेयते । दण्डं विना न घटोत्पत्ति- रित्यादौ च विनान्तार्थे घटोत्पत्त्याद्यभावान्वयेऽनुयोगिविशेषण- दण्डाद्यभावस्य च तदनुयोगितावच्छेदकत्वं भासते। द्रव्ये न गन्ध इत्यप्रयोगात् उपलक्षणीभूतधर्मावच्छिन्ने न नयर्थाभावान्वय इति- व्युत्पत्तेरिति रासभं विना न घटोत्पत्तिरिति न प्रयोगः । अतिप्रस- क्ततया रासभाभावस्य घटोत्पत्त्याद्यभावानुयोगितावच्छेदकताविर- हात् । अथ वा अभाव एव विनार्थः । दण्ड विना न घट इत्यादौ च विनान्तार्थस्याभावस्य नबर्थे घटादयभावे प्रयोज्यतासम्बन्धेनैवा- न्वयः । अत एव रासभं विना न घट इत्यादयो न प्रयोगाः । अत एव दण्डाद्यभाववति घटादेवृत्तावपि जायते इत्यस्याध्याहारः । विनैव दण्ड विना न घट' इत्यादौ च विनार्थस्याभावस्य सामाना- धिकरण्यसम्बन्धेन घटादावन्वयः। दीधितिकृताप्यविनाभावो व्या- प्तिरित्यत्र साध्यं विना साध्याभाववति योऽभाव इति यद्वयाख्यातं १ इत्यत्र 'इति प्रयोगोपपत्तिः । रासभम्विना घट इत्यादौ च विना- पदर्थस्याभावस्य सामानाधिकरण्यसम्बन्धेनैव घटादावन्वयः' इति हस्त- लिखितपुस्तकपाठः ।

MADARATISH द्वितीया ] जयाऽलङ्कृतः २५१ तत्र सप्तम्यन्तेन मतुपा संसर्गविधया भासमानं तदधिकरणनिष्ठत्व- मेवोपात्तं न तु विनार्थत्वेनाधिकरणम् । अभावाधिकरणपर्यन्तस्य विनापदार्थत्वेऽपि सप्तम्याधेयत्वरूपापदार्थविवरणरूपताया आव- श्यकत्वात्। न च विनापदोत्तरलुप्तसप्तम्यर्थ एवाभाववतीति सप्तम्या विवृत इति वाच्यम्। निपातोत्तरविभक्तनिरर्थकत्वात् । अत एव सर्वत्र निपातोत्तरं साधुत्वार्थं प्रथमैवेति शाब्दिकाः । पृथिव्यामेव गन्ध इत्यादावेवकारप्रकृतिकसप्तम्या यदाधेयत्वबोधकत्वमङ्गीकृतं दीधितिकृद्भिस्तत्रापि तेषां न निर्भरः । अस्तु वा तत्र प्रतियोगितया पृथिव्यन्यवृत्तित्वभानानुरोधेनैव- कारस्यान्यवृत्तित्वार्थकत्वं गौरवादुपेक्ष्य तत्राधेयत्ववाचकत्वेन क्ल- तायाः सप्तम्या कल्पनम् । प्रकृते चाधेयत्वस्य संसर्गतयैवोपपत्तौ विनापदसाकाङ्क्षाधेयत्वार्थकसप्तमीकल्पनं दुष्कल्पनमेव । एवकार- स्थले चाभावरूप एवार्थेऽन्यरूपतदर्थान्तरस्याधेयतासम्बन्ध इति न सम्भवति । आधेयतादेस्तद्वत्येव सम्बन्धत्वात् न तु तदभावे । न च तत्राधेयत्वाभावो न प्रतीयते अपि तु तत्सम्बन्धावच्छिन्नप्रतियोगि- ताकपृथिव्याद्यन्याभाव इत्युपेयम् । तादृशप्रतियोगितांकत्वमेवाभावे- ऽन्यस्य सम्बन्धोऽस्त्विति वाच्यम् । आधेयतासम्बन्धस्य प्रतियोगिन आधारस्यानुयोगिन्याधेये वृत्त्यनियामकत्वेनाभावप्रतियोगितानव- च्छेदकत्वात् । चैत्र: पचतीत्यादौ कृत्यादिसम्बन्धस्यापदार्थ- त्वेऽपि पाककृतिमानित्यादौ मतुवादिपदेन विवरणात् उक्तस्थले सामानाधिकरण्यस्य पदेन विवरणमपि न विरोधमासादयति । विवरणीयार्थस्याप्यन्यलभ्यत्वेऽपदार्थतोपपत्तेरित्यलमसदावेशेन । विना वातं वृक्षः पतित इत्यादौ विनापदार्थस्याभावस्याश्रयतासम्ब- १ निपातार्थत्वेऽपीति हस्तलिखितपुस्तकपाठः ।

२५२ व्युत्पत्तिवादः [ कारके न्धन वृक्षेऽन्वयाद्वातामावविशिष्टो वृक्षः पतित इति शब्दतो लभ्यते । पतनेऽनुभवसिद्धौ वातजन्यत्वाभावलाभश्वार्थः, जन्य- तायाः पदानुपस्थाप्यत्वात् । तदभावस्य तस्यावृत्त्यनियामकसम्ब- न्धत्वात्तदवच्छिन्नवाताभावस्य च शब्देन बोधयितुमशक्यत्वात् । पुत्रं विना गत इत्यादौ पुत्रादिपदं लक्षणया पुत्रगमनादिपरम् । विनापदबोध्यतदभावश्च समानकालीनत्वादिसंबन्धेन गमनेऽ- न्वेति । समानकालीनत्वघटकं कालनिष्ठं स्वाधिकरणत्वमनव- च्छिन्नं बोध्यम् । अतो गमनादिकाले तदनधिकरणदेशावच्छेदेन गमनाद्यभावसत्त्वेऽपि नातिप्रसङ्गः। केचित्तु उक्तस्थलेऽसाहित्यमेव विनापदार्थः। तस्य च गम- नादिकर्तय॑न्वयः। असाहित्यं च स्वकर्तृकसमभिव्याहतगमना- दिक्रियासमानकालीनतादृशक्रियाकर्तृत्वरूपसाहित्याभावः। क्रिया- न्वयिस्वकर्तृकताहशक्रियाकालीनत्वाभाव एव वा विनार्थः । कर्तृत्वे पुत्रादेराधेयत्वेनान्वयः। विभक्तिः साधुत्वाथैव । अस्तु वा आधे- यत्वं द्वितीयार्थः । सप्तम्या आधेयत्वार्थकत्वेऽपि नात्र सप्तमीप्रसक्ति- स्तस्याः कारकविभक्तित्वेन क्रियान्वयिस्वार्थबोधकत्वात् । अतः शेषषष्ठीप्रसक्तथा तामेवोपपदविभक्तिद्वितीया वाधत इति सर्वा उप- पदविभक्तयः षष्ठयपवादिका इत्यस्याविरोध इति विनासमानार्थक- योतेऽन्तरणेति निपातयोरपि दर्शितैव रीतिः। एवं विनायुक्तत- तीयापञ्चमीस्थलेऽपि मर्यादाभिविध्यर्थकयावच्छब्दयोगेऽपि द्विती- या दृश्यते तत्र मर्यादार्थको यावच्छब्दः । 'प्रारभ्य तस्यां दशमी तु यावत्प्रपूजयेत्पर्वतराजपुत्री'मित्यादौ मर्यादासीमाकालरूपादेशरूपा च । कालनिष्ठं तत्कालनिष्ठस्वसमभिव्याहृतकाल'प्रागभावानधिकर- 'स्वसमभिव्याहृतकालेति। स्वसमभिव्याहृतकालेत्यस्य स्वसमभिव्या- द्वितीया ] जयाऽलङ्कृतः २५३ णस्वप्रागभावाधिकरणस्वसजातीययावत्कालवृत्तिसमभिव्याहृत- क्रियानधिकरणत्वम् । एवं चोक्तस्थले यावच्छब्देन पूजारूपक्रियायां शुक्लदशमीनिष्ठताहशसीमात्वनिरूपकत्वं प्रत्याय्यते । तावतैवार्थतः शुक्लदशम्यां मर्यादात्वं लभ्यते । तनिष्ठसीमावनिरूपकत्वं च तद्- वृत्तित्वे सति कृष्णनवमीप्रागभावानधिकरणशुक्लदशमीप्रागभावा- धिकरणतिथिकूटव्यापकत्वम् । तावता षोडशतिथ्यधिकरणकषोड- शपूजारूपस्यैककर्मणो विधेयताया लाभः। ब्याप्यकालसमुदाये सजा- तीयत्वविशेषणात्सूजाया उक्तविशेषणद्वयाक्रान्तदण्डादिसमुदाया- व्यापकत्वेऽपिन बाधः । अन्वयितावच्छेदकरूपेण साजात्यस्य विव- क्षणादुक्तस्थले चतिथिमित्यस्याध्याहारेण दशमीपदार्थतावच्छेदकस्य तिथित्वघटितत्वेन वा यावत्पदार्थान्वयितावच्छेदकतया तिथित्व- भानात्तेन रूपेण दण्डादेर्दशमीसजातीयत्वाभावात् । तिथिश्चाखण्ड- कालविशेषरूपा, न तु चन्द्रमण्डलकलारम्भाद्यनुगुणक्रियापचयरू- पा। पूजायास्तावक्रियावृत्तित्वासम्भवात् । अत्र च प्रागभाव एव यावत्पदार्थः। द्वितीयार्थः प्रतियोगित्वमनुयोगित्वं वा । तत्र त- त्प्रकृत्यर्थदशम्या अन्वयः। तावता दशमीप्रतियोगिकप्रागभाव- लाभः । तस्य स्वप्रतियोग्यवृत्तित्वविशिष्टव्यापकतासम्बन्धेन पूजा- रूपसमभिव्याहृतक्रियायामन्वयः । व्यापकत्वं च स्वाधिकरणति- थिनिष्ठाभावप्रतियोगितानवच्छेदकपूजाविशेषत्ववत्त्वम् । स्वाधि- करणत्वं च स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदविशिष्ट- कालिकविशेषणतासम्बन्धेन । एतेन कृष्णनवमीप्रागभावाधिकरण- प्रतियोगिकभेदस्याव्यावर्तकतया तत्सामान्यभेदनिवेशे भाविकृष्ण- । हृतपदप्रतिपाद्यकालेत्याद्यर्थः । तेनारभ्यतस्यामित्यादौ दशमीपदसमभिव्या- हृततच्छब्दप्रतिपाद्य नवम्या ग्रहणम् ।

२५४ व्युत्पत्तिवाद: [ कारके नवमीप्रागभावाधिकरणत्वमादाय नाप्रसिद्धिः। तथा सत्यपि तत्त- दशमीप्रागभावाधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावा- वच्छिन्नभेदवत्त्वसम्बन्धेन तत्तत्प्रागभावाधिकरणत्वाक्षतेः। न चैव- मपि व्यवहितपूर्वकृष्णनवमीप्रागभावावच्छिन्नभेदघटितसम्बन्धेना- व्यवहितपूर्वकृष्णनवमीपूर्वतिथीनामपि तत्तद्दशमीप्रागभाववत्त्वा- त्तदधिकरणतिथिव्यापकत्वं पूजायां न संभवतीति वाच्यम् । स्वा- वच्छिन्नकृष्णनवमीप्रागभावाधिकरणत्वसम्बन्धेन स्वावच्छिन्नभे- दस्यैव प्रागभावसम्बन्धे निवेशनीयत्वात् । स्वाधिकरणनिष्ठाभाव- प्रतियोगितानवच्छेदकत्वमपि तादृशावच्छेदकत्वसम्बन्धेन स्वाव- च्छिन्नस्य भेदः। अतस्तादृशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे यत्किञ्चिदशमीप्रागभावाधिकरणनिष्ठाभावप्रतियोगितामादायासि- द्धिवारणाय विशिष्य तत्तत्प्रागभावरूपस्वपदार्थस्य सम्बन्धमध्ये प्रवेश्यतयाननुगम इति निरस्तम् । देशरूपस्य सीमा च काशीतः कौशिकी यावद् यातीत्यादौ तत्र कौशिक्यां गमनसीमात्वं प्रतीयते । तच्च काशीपूर्वकौशिकी- पश्चिमदेशव्यापकगमनानधिकरणत्वम् । यावत्पदेन च कौशिक्य- नधिकरणकत्वे सति काशीपूर्वकौशिकीपश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते। तत्र द्वितीयार्थोऽवधित्वमवधिमत्वं वा प्रतीचीत्वा- द्यन्वयि । निष्कर्षः पूर्ववत्स्वयमूहनीयः ।। अभिविध्यर्थो यावच्छब्दः कार्तिकमारभ्य चैत्र यावच्छीतं भवतीत्यादौ काशीतः पाटलिपुत्रं यावदृष्टो देव इत्यादावभिविधि- स्तत्पर्यन्ताभिव्याप्तिः। एवं च प्रथमे कार्तिकपूर्वकालोत्तरचैत्रोत्तर- कालपूर्वकालव्यापकत्वं चैत्रोत्तरकालाऽवृत्तित्वसहितं शीतभवने द्वितीये च काशीपश्चिमदेशपूर्वपाटलिपुत्रपूर्वदेशपश्चिमदेशब्याप- कत्वं पाटलिपुत्रपूर्वदेशांवृत्तित्वसहितं वृष्टौ यावत् प्रत्याय्यते । ।

द्वितीया ] जयाऽलङ्कृतः २५५ विशेषः पूर्ववत् । यावच्छब्दसमानार्थकाशब्दस्थलेऽपि दर्शितैव रीतिरवसेया। तद्योगे च पञ्चमी साधुः। यज्ञमनु प्रावर्षदित्यादावनुशब्दार्थः कारकत्वरूपं हेतुत्वम् । अनुर्लक्षणे इत्यत्र कर्मप्रवचनीयसंज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात् । तत्र च यज्ञान्वितस्याधेयत्वरूपद्वितीयार्थस्या- न्वयः । हेतुतायाश्च निरूपकत्वसम्बन्धेन वृष्टावन्वयः। जन्यत्वं वानुशब्दार्थः। तत्र निरूपितत्वरूपद्वितीयार्थस्य यज्ञान्वितस्या- न्वयः । जन्यतायाश्चाश्रयत्वसम्बन्धेन वृष्टावन्वयः । अन्वर्जुनं योद्धार इत्यत्राप्रकर्षरूपं हीनत्वमनुशब्दार्थः । अर्जुनावधिकत्वं द्वितीयान्तार्थस्तस्य चापकर्षेऽन्वयः । अवधित्व- स्यापादानतारूपत्वेऽपि क्रियान्वयाभावान्न पञ्चमीप्रसक्तिः । अस्मा- दयं दीर्घ इत्यादौ भवतीत्यस्याध्याहारेणैव पञ्चम्युपपादनात् । अतः षष्ठ्यपवादतानिर्वाहः । वृक्षं प्रति विद्योतते विद्युत्, मातरं प्रति साधुः, यो मां प्रति स्यात्, वृक्षं प्रति सिञ्चतीत्यादी लक्षणेत्थं भूतेत्यादिसूत्रानुशिष्टकर्मप्रवचनीयसंज्ञकप्रत्यादिशब्दः प्रथमे परि- चायकत्वरूपं लक्षणत्वं परिशेषत्वरूपं लक्ष्यत्वं वा कर्मप्रव- चनीयार्थः । वृक्षप्रकाशेन विद्युद्विद्योतनज्ञानाद्वक्षस्य परिचायकता। द्वितीयार्थश्चाधेयत्वं निरूपितत्वं वा। द्वितीये साधुत्वं प्रियकारित्वं साधुत्वघटकप्रियान्वयी सम्बन्धः कर्मप्रवचनीयार्थः । सम्बन्धा- न्वयि प्रतियोगित्वं तन्निरूपकत्वं वा द्वितीयार्थः भागः स्वत्वाश्रयः प्रत्याद्यर्थः। तदन्वयी सम्बन्धो द्वितीयार्थः । इत्थं चास्मत्सम्बन्धी यो भागः स्यादिति बोधः। चतुर्थे कर्मण्येव द्वितीयार्थत्वबाध एव संज्ञाफलम् । प्रतिश्च निरर्थकः। गृहे गृहे श्वा इत्यादाविव व्यापकताया द्विरुक्तिबललभ्यत्वात्प्रतिशब्दस्य व्यापक- तार्थकत्व उक्तार्थकत्वेन गृहे व्याप्नुवतेऽश्वा इत्यादाविव द्विरुक्तिरेव न स्यात् । न च प्रतिशब्दस्यापि व्यापकतार्थकत्वं प्रतिदिनमधीत । तृतीये व्युत्पत्तिवादः [ कारके इत्यादौ क्लुप्तम् । द्विरुक्तेरपि वृक्षवृक्ष सिञ्चतीत्यादौ क्लृप्तमिति प्रकृते संभेदेनान्यतरवैयर्थ्यमिति न्यायाद्वयोरेव व्यापकताबोध- कत्वमवर्जनीयमिति वाच्यम् । प्रतिमासमधीत इत्यादावव्ययीभावे हि प्रथमातिरिक्तविभक्तरसाधुत्वेन प्रतिशब्देन मासान्वितव्यापकत्वं क्रियायां बोध्यते । विभक्तिः साधुत्वार्था । वृतं वृक्ष प्रतिसिञ्चती- त्यत्र तु सेके द्वितीयार्थकर्मत्वावरुद्धप्रकृत्यर्थवृक्षविशेषितव्यापकता बोधयितुं न शक्यते । एकविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वे व्युत्पत्तिविरोधात् । कर्मत्वसम्बन्धस्यैव च व्यापकताघटकत्वेन स्वीकरणीयतया वृत्त्यनियामकस्य तस्य तथात्वासंभवाच्च । तस्य सेककर्मत्वं श्राश्रयतासम्बन्धघटितव्यापकताप्रत्यायनमपि न युज्यते। प्रकृत्यर्थसुबर्थयोरन्तरा नअतिरिक्तमानस्य व्युत्पत्तिविरुद्धत्वात् । नामूढस्येतरोत्पत्तेः । 'नानुपमृद्य प्रादुर्भावादित्यादौ नअर्थमात्रस्य पञ्चम्यर्थहेतुताया विशेषणत्वेन प्रकृत्यर्थस्य च विशेष्यत्वेनान्वयात् । तस्मात्प्रतिरनर्थक एव । द्विरुक्तान्वये तात्पर्यवलाञ्च सेचनकर्मत्वे वृक्षादेापकत्वं संसर्गतयैव भासते । यदि च वृक्ष प्रति सिञ्चती- त्यादावुपसर्गस्य प्रतेर्वाच्यो द्योत्यो वा कश्चिदन्योऽर्थस्तदास्तु स एवात्रापि तदर्थः। अत एव तस्येवास्यापि प्रतिशब्दस्य प्रयोगो नानर्थकः। वस्तुतोऽनर्थकयोः कर्मप्रवचनीयाधिपरिशब्दयोः प्रयोगवत्ता- दृशप्रतेरपि प्रयोगस्य प्रयोजनान्तरानुपपत्तिश्चिन्त्या। प्रतेर्यत्र व्यापकतार्थकत्वं तत्र प्रति वृक्ष सिञ्चतीत्यव्ययीभावसमास एव नियतः। तदर्थकाव्ययस्याव्ययीभावसमासविधेर्विभाषाधिकारीय- ताविरहेण नित्यत्वादतो. वीप्सया प्रतिवृक्ष सिञ्चतीतिववृक्ष प्रति सिञ्चतीति न प्रयोगः। यत्र व्यापकत्वार्थकेनाव्ययेनाव्ययीभाव- समासस्तदुत्तरं सर्वत्र प्रथमा विभक्तिरेव । न तूपकुम्भे गच्छती- तिवत् प्रतिगृहेऽश्वा इत्यादिरपि प्रयोगः । उक्तयुक्त्या तत्र प्रतिना- तृतीया ] जयाऽलङ्कृतः २५७ ऽश्वादौ गृहादिव्यापकताया बोधयितुमशक्यत्वात् । तदाधारता- दिरूपसप्तम्याद्यर्थे च समासपदार्थस्य गृहादिव्यापकत्वस्याश्रयता- सम्बन्धेन तदर्थस्य व्यापकरूपधर्मिणो वा भेदसम्बन्धेनान्वये मेयत्वे घट: घटवृत्तौ घट इत्यादिप्रयोगवारणाय कल्प्यायाः सप्तम्यर्थाधार- ताया आश्रयत्वसम्बन्धेनाभेदसम्बन्धेन वा प्रकृत्यर्थानन्वयव्युत्पत्ते- विरोधात् । उपकुम्भे निधेहि उपकुम्भादागत: उपकुम्भेन कृत इत्यादौ च विवक्षितस्याधारत्वापादानत्वकर्तृत्वादौ कुम्भसमीपादेराधेयता- सम्बन्धेनान्वयस्याधेयत्वादौ निरूपितत्वसम्बन्धेन तदन्वयस्य वा बोधे न कश्चिद्व्युत्पत्तिविरोध इत्युपपद्यन्ते तथा प्रयोगा इति ध्येयम् । त्वां च मां चान्तरेत्यादावन्तरान्तरेण युक्त इति द्वितीयाया निरूपितत्वमर्थः । तस्यान्तरापदार्थतावच्छेदकमध्यत्वेऽन्वयः। एव- मन्यत्रापि तदर्थस्तूक्तदिशा स्वयं परिच्छेद्यः। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे द्वितीयाविवरणम् । । m अथ तृतीयाविवरणम् कारकविभक्तितृतीयायाः क्रियान्वयि कर्तृत्वं करणत्वं चार्थः कर्तृकरणयोस्तृतीयेत्यनुशासनात् । कर्तृत्वं च मुख्यं क्रियानुकूलक- तिरेव । सा च क ख्यातसमभिव्याहृते चैत्रः पचतीत्यादौ क्रिया- विशेष्यतयाख्यातेन प्रतिपाद्यते चैत्रेण पच्यते, शय्यते, इत्यादिकर्म- भावाख्यातस्थले च क्रियायां विशेषणतया तृतीयया सा प्रत्याय्यते। यत्तु तत्राख्यातार्थ एव कृतिः, तृतीयार्थश्चाधेयत्वम्, तस्य चाख्या- तार्थकृतिविशेषणतयान्वयः, कृतेश्च क्रियाविशेषणतया तथा कृति- बोधने चात्मनेपदरूपस्थाख्यातस्य यगादिसमभिव्याहारज्ञानमपे- क्षितम्, पचति पचत इत्यादौ तथा कृत्यन्वयाबोधात्, चैत्रेण ज्ञायते १७ , २५८ व्युत्पत्तिवादः [ कारके गम्यत इत्यादौ तृतीयाथा आधेयतार्थत्वं कृष्तमेवेति न तत्कल्पनम- धिकमिति-तन्न । चैत्रेण पक्वमित्यादौ तृतीयायाः कृत्यर्थंकताया आवश्यकत्वात् । तत्र कृत्यर्थकाख्यातविरहेण कृतः कर्तकर्मवाचक- वेन कृत्यर्थताविरहात्। यदि च कर्तृकृतः कृतावेव शक्तिर्न तु विशिष्टे ज्ञातेत्यादौ त्वाश्रयार्थकतायाः T: स्कृप्तत्वेन तत्र कृत्यन्वयादेव कर्तृलाभ- संभवादित्युच्यते तथापि कर्मकृतः कृत्यर्थत्वमप्रसक्तमेव । उक्त- प्रत्ययस्य कचित्कर्तृवाचकत्वेऽपि चैत्रेण पाच्यः दुष्पचश्चैत्रेणौदनः चैत्रेणौदनस्य पाक इत्यादौ कृतां न कृतिबोधकत्वमिति तत्र कृति- बोधानुरोधेन तृतीयायाः कृतिवाचकत्वमावश्यकमेव । एवं च चैत्रण पच्यत इत्यादावपि तृतीययैव कृतिर्बोध्यते । तत्र चैत्रादेः संबन्ध एवाधेयत्वमित्यत एव निर्वाहे कृतावाधेयत्वस्य विशेषणतया भानो- पगमस्यानुचितत्वात् । तथा सति तत्संसर्गस्यापि विषयताकल्पना- धिक्यात् ताशवाक्यज्ञानघटितशाब्दसामग्र्यामधिकौपस्थितिनि- वेशने च गौरवात् । अथ तत्र कृतेस्तृतीयार्थतोपगमे चैत्रेण पच्यते न मैत्रणेत्यादौ तृतीयान्तार्थमैत्रीयकृतेरभाव: पाकेऽन्वेतीत्युपेयम् । तस्याश्च समवायसंबन्धावच्छिन्नाभावो मैत्रकर्तकपाकेऽपीत्यति- प्रसङ्गः । जन्यतायाश्च वृत्त्यनियामकतया तत्संबन्धावच्छिन्नाभावः प्रसिद्धयत्येव न । मैत्रकर्तृकपाककर्मत्वाभावस्य कर्मणि तण्डुलादौ प्रतीतिश्च कर्मवाचकपदासमभिव्याहारस्थले दुर्घटा । श्राधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते । न च तथा सति मैत्रचैत्रोभयकर्तृकपाकसत्त्वे चैत्रीयपाककृतौ मैत्रवृत्तित्वाभाव- सत्त्वात् मैत्रेण न पच्यत इति प्रयोगापत्तिरिति वाच्यम् । मैत्रेण न पच्यत इत्यतो वर्तमानपाकानुकूलकृतित्वावच्छेदेन मैत्रवृत्तित्वा- भावबोधनादुक्तस्थले च ताशकृतित्वसामानाधिकरण्येन मैत्रवृत्ति- त्वसत्त्वात्तादृशवाक्याप्रामाण्यात् । वर्तमानत्वस्य कृतिविशेषणतया च चैत्रेण पक्ष्यतेऽपच्यत न तु पच्यत इत्युपपद्यते । क्रियाविशेषस्य तृतीया ] जयाऽलङ्कृतः २५६ तथात्वात् । यदा मैत्रेणान्यत्क्रियते न तु पच्यते तदा मैत्रेण न पच्यत इति प्रयोगश्च । न चाख्यातेन कालस्य कृतिविशेषणतया बोध- नात्कालविशेषविशेषितकृतित्वस्यान्वयितावच्छेदकतया तदवच्छे- देन नजाभावः शक्यो बोधयितुम् । न तु कालक्रियोभयविशेषितक- तित्वावच्छेदेन कर्मप्रत्ययस्थले क्रियायाः कृतिविशेषणत्वाभावेन त- द्घटितधर्मस्यान्वयितावच्छेदकत्वाभावादिति वाच्यम् । क्रियावि- शेषघटितधर्मस्यान्वयितानवच्छेदकत्वेऽपि तदवच्छिन्नत्वविशिष्ट- विशेषणताया अमावसंसर्गतया भानसंभवेन सामञ्जस्यात् । न चान्वयितावच्छेदकावच्छिन्नत्वमेव विशेषणसम्बन्धे भासत इति नियमः । तथा सति शरदि पुष्पन्ति सप्तच्छदा इत्यादौ सप्तच्छ- दपुष्पोत्पत्तित्वादेः शरद्वत्तित्वान्वयितानवच्छेदकतया आख्याता- न्तप्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वावच्छेदेन च शरद्वत्तित्वान्वये बाधादवच्छेदकावच्छेदेनान्वयानुपपत्तेरन्वयितावच्छेदकसामाना- धिकरण्यमात्रेण च तदन्वयोपगमे शरदि पुष्पन्ति सप्तच्छदाः शरदि पुष्पन्ति चम्पका इत्यविशेषेण प्रयोगापत्तेः । यदि च तत्र शरत्संबन्धः सप्तच्छदविशेपणतया भासते न पुनराख्यातार्थे धातु- मानार्थे वा पुष्पोत्पत्तौ । अत एव कारकविभक्तिरूपसप्तम्यनुपपत्त्या कालरूपविशेषणपदोत्तरं स्वातन्त्र्येण सप्तमी सर्ववर्मणा सूत्रिता। एवं च क्रियानिमित्तत्वरूपकारकत्वगर्भकर्तृत्वस्याख्यातार्थत्वेन पुष्पो- त्पत्तिनिमित्तत्वरूपाख्यातार्थस्य विशिष्टान्वयानुरोधेन शरत्संबन्धेष्व- प्यन्वय उपगन्तव्य इति कारकत्वस्याख्यातार्थत्वानुपगमेऽपि शीतलं सरोऽवगाढवतो निदाघदुःखं व्यपैतीत्यादाविवोद्देश्यविधेयभावम- हिन्नोद्देश्यविशेषणशरत्संबन्धेन विधेयभूतपुष्पोत्पत्तेः प्रयोज्यप्रयो- जकमावस्य संसर्गमर्यादया भानमिति चम्पकादिपुष्पोत्पत्तौ शरत्सं- बन्धनिमित्तकत्वाभावान्नोक्तातिप्रसङ्ग इत्युक्तस्थलेऽवच्छेदकावच्छे- देनान्वय एव नोपेयत इत्युच्यते, तथापि तादृशनियमो निष्प्रामाणिक २६० व्युत्पत्तिवादः [ कारके एव । न च तादृशनियमानुपगम इह भवने मैत्रेणैव पक्ष्यते तेमनमि- त्यत्रैतद्भवनाधिकरणकतेमनपाकत्वेन रूपेण शब्दात्पाकानुपस्थित्या तदवच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वव्यवच्छेदबोधा- संभवकथनं दीधितिकृतां विरुध्येत इति वाच्यम्, अवच्छेदका- वच्छेदेन विशिष्टबुद्धौ धर्मिणि विशेषणतया भासमानमेव रूपं विशेषणे अवच्छिन्नत्वसंबन्धेन विशेषणमित्याशयेन तेषां तदभि- धानात् । विशेषणसंवन्धे तदवच्छिन्नत्वमेव तदवच्छेदेन विशिष्ट- बुद्धौ भासत इत्युपगमे शब्दानुपस्थितरूपावच्छेदेन विशेषणान्वये बाधकाभावात् । न चावच्छेदकावच्छिन्नत्वस्यावच्छेदकावच्छेदेन विशिष्टबुद्धौ विशेषणांशे भानमसंभवदुक्तिकम् । घटो द्रव्यमित्यादौ घटत्वावच्छेदेन द्रव्यत्वादिमत्त्वबुद्धौ द्रव्यत्वादिविशेषणस्य स्वरूप- त एव भानादिति वाच्यम् । तादृशशाब्दबोधे द्रव्यत्वाद्यवच्छि- अस्यैवाभेदसंबन्धेन विशेषणत्वात् घटत्वादिविशिष्टे द्रव्यत्वादिवि- शेषणकताहशप्रत्यक्षेऽवच्छेदकावच्छेदेनभानानुपगमे क्षतिविरहात्, तथा च मैत्रेण न पच्यत इत्यादौ पाककृतित्वस्यान्वयितानवच्छेद- कत्वेऽपि अर्थलभ्यतादृशधविच्छिन्नत्वस्य संसर्गाशे भानं निरा- बाधमेवेति चेन्न । मैत्रेण न पक इत्यादौ कृतौ मैत्रादिवृत्तित्वाभाव- बोधासंभवेन कृतिजन्यत्वस्य तृतीयार्थतां स्वीकृत्य क्रियायां मैत्रादि- कृतिजन्यत्वाभावबोधस्योपगन्तव्यतया मैत्रेण न पच्यत इत्यादावपि तबोधोपगमेन सामञ्जस्यात् । न च यदा मैत्रः सुप्तस्तदा मैत्रेण पक्ष्यते न तु पच्यत इति प्रयोगानुपपत्तिः । मैत्रवृत्तिवर्तमानकृतेर- प्रसिद्धथा तादृशकृतिजन्यत्वाभावप्रत्यायनासम्भवात् वर्तमानत्वा- विशेषिततदीयकृतिजन्यत्वाभावस्य बाधितत्वादिति वाच्यम् । आख्यातार्थवर्तमानत्वादेर्नसमभिव्याहारस्थलेऽभावांश एवान्व- यस्य व्युत्पन्नत्वात् अन्यथा विनष्टघटं न पश्यतीत्यादौ ताशघट- कर्मकवर्त्तमानदर्शनाद्यप्रसिद्धथाऽन्वयबोधानुपपत्तेः । प्रकृते च २६१ तृतीया ] जयाऽलङ्कृतः मैत्रीयवर्तमानकृत्यप्रसिद्धावपि वर्तमानकालावच्छिन्नतज्जन्यत्वा- भावस्यैव पाके प्रतीत्या सामञ्जस्यात्। पाकत्वाद्यवच्छेदेनैव मैत्रादि- कर्तृकत्वाभावबोधोपगमान्मैत्रादिकर्तृकपाकदशायामन्यकर्तृकपाके मैत्रादिकर्तकत्वाभावसत्त्वेऽपि न पच्यते मैत्रणेत्यादयोन प्रयोगाः। यत्र मैत्रणोदनं पच्यते न तु तेमनं तत्र मैत्रेण न पच्यते तेमन- मित्यादिप्रयोगनिहाय तेमनपाकत्वाद्यवच्छेदेनैवाभावान्वयबोध उपगम्यते, न तु शुद्धपाकत्वाद्यवच्छेदेन, बाधितत्वात् । यथा च तेन रूपेण शब्दादनुपस्थितावपि तदवच्छेदेनान्वयबोधनिर्वाहस्तथोप- पादितमाधेयत्वस्य तृतीयार्थत्ववादिनैव। घटेन न पच्यत इत्यादयः प्रयोगाः श्राकाशं न पश्यतीत्यादिप्रयोगसमानयोगक्षेमाः। अचेत- नकाष्ठस्थाल्यादेरपि कर्तृत्वविवक्षया काष्ठं पचतीत्यादिवत्काष्ठेन पच्यत इति प्रयोगात् । तत्र व्यापाररूपे कर्तृत्वे तजन्यत्वरूपे तत्कर्तृकत्वे वा तृतीयाया लक्षणा । एवं चैत्रेण ज्ञायते, इष्यते, गम्यत इत्यादावाश्रयत्वरूपे कर्तत्व आधेयत्वरूपे कतृमत्त्वे वा, नश्यते घटेनेत्यादौ प्रतियोगित्वरूपे कर्तत्वेऽनुयोगित्वरूपे कर्तमत्त्वे वा लक्षणा । कर्तृपदमपि व्यापारादिमत्यचेतनादौ भाक्तमेव अचेतनादौ स्वरसतः कर्तृपदाप्रयोगात्। अत एव च कृबो यत्नवाच- कत्वम्। न च यत्नवत एवं कर्तृपदार्थत्वे कर्तृकरणयोस्तृतीयेत्यादौ क- तपदस्य मुख्यार्थत्यागे युक्तिविरहादचेतनकाष्ठादिवाचकपदयोगे कर्तप्रत्ययानुपपत्तिरिति वाच्यम् , सूत्रस्थकर्तपदानां स्वतन्त्रः कर्ते- तिसूत्रकृत्परिभाषितकर्तृपरत्वात् । अन्यथा तत्प्रणयनवैयर्थ्यप्र- सङ्गात् । स्वतन्त्रत्वं च कारकान्तरानधीनत्वे सति कारकत्वम् । पुरुषव्यापाराधीनक्रियानुकूलव्यारवतामेव काष्ठादीनामन्यव्यापा- रानधीनक्रियानुकूलव्यापारवत्त्वरूपस्वातन्त्र्यस्य काष्ठं पचतीत्यादौ विवक्षया काष्ठादेः कर्तृत्वम् । न च स्वातन्त्र्यविवक्षणेऽपि स्वातन्त्र्यस्य वास्तविकस्याभावात् तद्बोधकविभक्तीनामप्रामाण्यं २६२ व्युत्पत्तिवादः [ कारके दुर्वारमेवेति वाच्यम्। समभिव्याहृतक्रियाकारकान्तरव्यापारान- धीनतक्रियानुकूलव्यापारस्यैव तत् । क्रियावाचकपदसमभिव्याह- तविभक्त्यर्थत्वात् । अनधीनान्तविशेषणप्रयोजनं च चैत्रः काष्टः स्थाल्यां पचतील्यादिस्थले चैत्रः स्थालीकाष्टानि पचतीति प्रयोगा- पत्तिवारणम् । यत्र च चैत्रः पचति काष्ठं पचतीत्यादौ समभिव्या- हृतकारकांतराप्रसिद्धिस्तत्रानधीनान्तविशेषणं न प्रतीयत एव । त- निर्वाहश्च तत्र लकारादेः स्वतन्त्रशक्त्यन्तरकल्पनात् । विशिष्टविध- यकशक्त्या विशेषणाविषयकबोधाजननात् । न च मैत्र: चैत्रेण पा- चयतीत्यादौ हेतुकर्तसमभिव्याहारस्थले कर्तरि तृतीयानुपपत्तिः, क- र्तृव्यापारस्य समभिव्याहृतहेतुकर्तृव्यापाराधीनत्वादिति वाच्यम् । तत्र ण्यन्तप्रतिपाद्यपाचनादिक्रियायामेव हेतोः कारकतया स्वतन्त्र- कर्तृव्यापारस्य पचादिक्रियाकारकव्यापारानधीनत्वात् । स्वतन्त्रं प्र- युञ्जानस्य पुंसो व्यापारस्तण्डुलक्रयणादिवत्पाकादावन्यथासिद्धत- या नकारणमिति पाकादिप्रयोजकव्यापारवत्त्वेऽपि तस्य तक्रिया- कारकत्वाभावात् । अत एव चैत्रो मैत्रेण पाचयतीत्यादौ चैत्रः पच- तीति न प्रयोगः । न च पञ्चभिर्हलैः कर्षति गृहीत्यादौ भूमिलेखनरू- पकृष्यादिक्रियायां स्वतन्त्रकर्तृन् प्रयुञ्जानस्य गृहिणो व्यापारस्य दर्शितयुक्त्या लकारादिनाऽभिधानासंभव इतिकर्षतीति न स्यात्कर्षय- तीति च स्यादिति वाच्यं, तत्र कृषेः प्रति विधानार्थत्वात् । उक्तं च- 'याजका यजन्तीति यजिहविःप्रक्षेपार्थः। हलैः कृषतीति कृषिः प्रतिविधानार्थ' इति याजेवतोद्देश्यकद्रव्यत्यागेच्छाविशेषरूपार्थे मुख्यतया तत्र च यजमानस्यैव कर्तृतया हविःप्रक्षेपरूपलक्ष्यार्थपरत्वं दर्शितम् । तत्र च ऋत्विजामेव स्वातन्त्र्यम् । होतेत्यत्रापि हविःप्रक्षेप एव हुधातोरर्थो न तु तादृशफलावच्छिन्नस्त्यागः। तथा सति ऋत्वि- जस्तत्र स्वतन्त्रकर्तृताविरहेण होतृपदेन प्रतिपादनासंभवात्। धात्व- र्थतावच्छेदकफलकर्तृत्वमेव कर्तृप्रत्ययेन प्रतिपाद्यत इति ऋत्विजि तृतीया ] जयाऽलङ्कृतः होतृव्यवहारो न यष्टरि । अतः प्रतिग्रहीतृव्यापारो न स्वत्वजन- कस्तथा सति तन्न दातृव्यवहारापत्तेरिति तु जीमूतवाहनः । अधास्तु चैत्रेण मैत्रेण पाच्यत इत्यादौ स्वतन्त्रव्यापारस्य हेतुकर्तृव्यापारा- धोनत्वेऽपि दर्शितरीत्या तस्य स्वतन्त्रकर्तृत्वनिर्वाहस्तथापि तद्वाचक- पदोत्तरं तृतीयानुपपत्तिः कर्तत्वस्य णिच्प्रत्ययेनाभिधानादिति चेन्न। कर्तृत्वनिर्वाहकत्वसंबन्धेन पाकाद्यन्वयिनो हेतुकर्तृव्या- पारस्य गिजर्थत्वेन स्वतन्त्रकर्तत्वस्य णिचानभिधानात्। कर्तृत्वरूप- फलावच्छिन्नस्य ताहशव्यापारस्य णिजयंतामतेऽपि आश्रयोप- परक्तस्यान्यतो भानानिर्वाण कर्तुरनभिधानात्तृतीयोपपत्तेः । श्रा- ख्यातस्य धर्म्यवाचकत्वेऽपि कृतिविशिष्टबोधकत्वरूपस्य कत्रभि- धानस्याक्षतत्वाञ्चैत्रः पचतीत्यादौ न तृतीया । न चैवं मुख्यविशेष्य- तया कृतिविवक्षया चैत्रेण पचतीति स्यादिति वाच्यम् । आश्रया- तिरिक्तांशे विशेषणतया कृतिबोधनस्यैव कत्रभिधानरूपत्वात्। तथा तदभिधानं च लकृत्तद्धितसमासानामेव । अत एव तैरेवाभिधानं वृत्तिकृता विवृतम् । इदं त्ववधेयम् । यद्यपि स्वतन्त्रव्यापारमात्र एव तृतीयादेरनुशासनं तथापि लाघवात्कृतिरूप एव कर्तृत्वे तृती- यादेः शक्तिः । अचेतनव्यापारे निरूढलक्षणैव । अनुशासनस्याना- दितात्पर्यमात्रग्राहकत्वात् । लाघवसहकृतस्यैव तादृशतात्पर्यस्य शक्तिकल्पकत्वात् । व्यापारे तत्सत्त्वेऽपि गौरवेण शक्त्यसिद्धेः । एवं च कर्तृत्वरूपकृतिबोधस्थले कारकान्तरव्यापारानधीनत्वं न प्रतीयत इति तदन्तर्भावेण शक्तिकल्पने मानाभावः। व्यापारला- क्षणिकेन कर्तप्रत्ययेन लक्षणया तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गवारणात् । अन्यथा तदन्तर्भावेण कृतिशक्तावपि तादृशातिप्रसङ्गस्य दुर्वारत्वादिति घटो जायते, अोदनः सिद्धयती- त्यादौ सत्यकार्यविद्वेषिणां नैयायिकानां कारकत्वं कर्तृत्वं च घटा- देर्यथाश्रुतसूत्रानुसारेण दुरुपपादमेव । मुख्यं च क्रियाकर्तृत्वं क्रिया- २६४ व्युत्पत्तिवादः [ कारके नुकूलकृतिमात्रम् । एकक्रियाविषयककृतितो यत्र नान्तरीयकक्रिया- न्तरनिर्वाहस्तस्कृतिमतस्तत्क्रियाकर्तृत्वाभावात् । अत एव मत्तो भूतं, न तु मया कृतमिति व्यपदेश इति । तक्रियानुकूलत्वे सति तद्विषयककृतिस्तत्कर्तृत्वम् । अन्योद्देशेन नाराचक्षेपात्र ब्राह्मण- वधस्तत्र मरणानुकूलस्य नाराचक्षेपरूपव्यापारस्य कृतिविषयत्वेऽ- पि ब्राह्मणमरणानुकूलव्यापारत्वेन तस्यानभिसंहितत्वात्तेन रूपेण कृतिविषयत्वं न तादृशव्यापारस्येति ब्राह्मणवधत्वविशिष्टकर्तत्वं न तादृशव्यापारकर्तुरिति न तस्य संपूर्णप्रायश्चित्तम् । अत एव संपूर्णप्रायश्चित्तप्रयोजकस्य कर्तव्यापारस्य लक्ष्यताभिप्रायेण हिंसा- लक्षणे मणिकृतां मरणोद्देशेनानुष्ठीयमानत्वादृष्टाद्वारकत्वविशेष- ण्योरुपादानमिति मिश्राभिधानसङ्गतिः । मरणोद्देशेनानुष्टीयमान- स्य व्यापारस्यावश्यं मरणानुकूलव्यापारत्वेन प्रतिसंहितत्वात्तादृश- रूपेण कृतिविषयत्वमिति ताशविशेषणस्य विशिष्टकततानिर्वाह- कत्वात्तद्विशेषणवतो व्यापारस्य नियमेन लक्ष्यत्वात् । तच्छून्यस्य चालक्ष्यत्वनियमात् । अथ मरणोद्देशेनानुष्ठितस्यापि यत्र खड्गाभि- घातत्वादिनैवेष्टसाधनत्वकृतिसाध्यत्वधीविषयता न तु मरणानुकूल- त्वविशेषिततद्रूपेण तत्र न मरणानुकूलत्वविशिष्टविषयिणी कृति- रिति तादृशव्यापारकर्तुळ वधत्वविशिष्टकर्तृत्वमिति कथमुक्त- विशेषणस्य विशिष्टकर्तृतानिर्वाहकत्वम् । यदि च मरणोद्देशेना- नुष्ठीयमानत्वस्य मरणानुकूलत्वेन कृतिविषयत्वमेवार्थ इत्युपेयते तदा व्यापारे तादृशविशेषणस्य तत्कर्तरि विशिष्टकतानिर्वाह- कत्वेऽप्युक्तस्थले खड्गाभिघातादौ तादृशलक्षणाव्याप्तिारैव । तत्र संपूर्णप्रायश्चित्तस्य निर्विवादतया लक्ष्यताया आवश्यकत्वात् । न च विशेषणीभूतफलनिष्ठोद्देश्यताख्यविषयतानिरूपकत्वे सति व्यापार- निष्टसाध्यताख्यविषयतानिरूपकत्वमेव विशिष्टविषयकत्वं कृतेरित्यु- पदर्शितस्थलेऽनुपलतासंबन्धेन मरणवैशिष्ट्यस्य साध्यतारूपविषय- तृतीया ] जयाऽलङ्कृतः २६५ तावच्छेदकताविरहेऽपि न विशिष्टकर्तत्वानिर्वाह इति मरणोद्देशे- नानुष्ठीयमानत्वस्य मरणकामनाधीनकृतिविषयत्वरूपतैवेति वा- च्यम् । ब्राह्मणं न हन्यादित्यादौ धात्वर्थतावच्छेदकस्य मरणस्य स्वोद्देश्यकत्वसंबन्धेन कृतावन्वयसंभव एव निरुक्तविशिष्टकतत्वस्य निषेधविधिविषयत्वसंभवात् , व्यापारविशेषणतयोपस्थितस्य कृत्यंशे विशेषणत्वस्य व्युत्पत्तिविरुद्धत्वात् । अथ मरणोपलक्षितव्यापार- कर्तृत्वस्य तादृशनिषेधविषयत्वेऽपि न क्षतिः । अन्योद्देशेन नाराच- क्षेपस्यापि ब्राह्मणमरणोपधायकस्य नरकसाधनत्वात् । परन्तु मरण- रूपप्रायश्चित्तविधेरेव तदविषयकत्वमुपपादनीयम् । तच्च मरणोद्देशेन तदनुकूलव्यापारे कर्तृत्वबोधकस्य शब्दस्य तद्विधावन्तर्भाव एवोप- पद्यत इति चेत् । एवमपि ब्राह्मणमरणकामनया यत्र न तन्मरणानु- कूलव्यापारानुष्ठानमपि तु फलान्तरकामनाधीनतन्मरणानुकूलव्या- पारत्वप्रकारकचिकीर्षया तद्नुष्ठितं तत्राव्याप्तिरेतन्मते दुर्वारैव । तत्रापि संपूर्णस्यैव प्रायश्चित्तस्याचरणादलक्ष्यतोपगमासम्भवादिति मैवम् । यत्र हि मरणानुकूलव्यापारत्वेन कृतिसाध्यतादिधीस्तत्रैव यत्र व्यापारविशेषत्वेनैव तद्धीस्तत्रापि मरणरूपफलकामनाधीन- व्यापारविषयिणी कृतिमरणानुकूलत्वेन व्यापारमवगाहते । कृतेः कामनाविषयफलोपरागेणोपायविषयतोपगमात् । विशृङ्खलफलमा- नोपगमे यत्र तृप्तिकामनया भोजनं फलान्तरकामनया च गमनम- वगाहमाना समूहालम्बनकृतिस्तत्र तृप्तये गमनं करोतीति व्यवहारा- पत्तेः । उपायांशे मरणस्यानुकूलत्वं संबन्धः प्रकारो वेत्यन्यदेतत् । एवं च मरणावच्छिन्नव्यापारविषयकत्वमुभयत्रैव कृतेरिति विशेष- णावच्छिन्नविषयककृतिमत्त्वं विशिष्टकर्तत्वमुभयस्थले निष्यत्यूहम् । मरणोद्देशेनानुष्ठीयमानत्वमपि मरणानुकूलत्वोपरागेण कृतिविषय- त्वरूपं लक्षणघटकमिति न काचिदनुपपत्तिः। यद्यप्यदृष्टद्वारा पाकानुकूलकृतिमतोपि न पाकादिकर्तृत्वमिति तत्तत्रक्रियाकर्तृत्व- २६६ व्युत्पत्तिवादः [ कारके घटककृतिनिष्ठतदनुकूलत्व एवादृष्टाद्वारकत्वमपेक्षितं, न तु क्रियानि- फलानुकूलत्वे तत्तत्रापेक्षितमिति व्यापारनिष्ठमरणानुकूलत्वेऽदृष्टा- द्वारकत्वरूपमणिकारोक्तविशेषणस्य न कर्तृताघटकत्वं तथाप्य- नुष्ठीयमानत्वप्रविष्टकृतेरेवादृष्टाद्वारकमरणानुकूलत्वं विवक्षितम् । विशिष्टकर्तृत्वं चादृष्टाद्वारकत्वविशेषितमरणानुकूलत्वेन कृति- विशेषणेन घटितमिति मिश्राशयः। तथा चैवं पर्यवसितम्-हिनस्तेः प्रवृत्तिनिमित्तं मरणरूपफलावच्छिन्नव्यापारत्वमेव । न हिंस्यादि- त्यादौ फलविशिष्टस्वनिरूपितकर्तृत्वसंबन्धेन हिनस्त्याद्यर्थस्यानिष्ट- विशेषसाधनत्वं प्रतीयते । श्येनस्य हिनस्त्याद्यर्थत्वेऽपि न तस्य तादृशकारणतावच्छेदकसंबन्धेन क्वचिदपि सत्त्वम् । तत्कर्तुरदृष्टा- द्वारकानुकूलताघटितफलकर्तृत्वविरहेण विशिष्टाकर्तृत्वादिति ना- निष्टविशेष प्रति हिंसात्वेन साधनत्वमिति न क्रियायां विध्यर्था- न्वयमतेऽपि श्येनविध्यर्थवाधः । वस्तुतः श्येनानुकूलकृतेर्मरण- प्रयोजकत्वमेव न तु मरणकारणत्वमन्यथासिद्धत्वात्। मरणोप- लक्षितान्यकर्तृकखड्गाभिघातादिरूपवैरिवधं प्रत्येव हेतुताया वेदेन बोधितत्वात् । क्रियाजन्यकायें तक्रियानुकूलकृतिहेतुतानियमेऽपि खड्गाभिघातादावेव श्येनकृतेर्हेतुत्वात् तथा चानिष्टविशेषजनकता- वच्छेदकप्रत्यासत्तिप्रविष्टमरणानुकूलत्वं मरणजनकत्वमेव न तु प्रयोजकत्वमतो दृष्टाद्वारकत्वं न तत्र निवेशनीयम् । कारणत्वपर्य- न्तनिवेशलाभायैव तदुपादानम् । यदि च विशिष्टान्वयपरताया वेदे औत्सर्गिकपरत्वेन बधसाधनताबोधकश्रुत्या विशेषणीभूतमर- साधनतापि श्येनस्य प्रत्याय्यते तदापि श्येनानुकूलकृतेमरणसा- धनत्वमप्रामाणिकमेव । क्रियाजनककृतेस्तज्जन्यजनकतानियम- स्याप्रामाणिकत्वात् । अथान्योद्देशेन नाराचक्षेपकक्षुर्विशिष्टविषय- ककृतिमत्त्वघटितविशिष्टकर्तृताविरहेऽपि यथार्थवधजन्यपापप्राय- श्चित्तं तथा श्येनकर्तुर्विशिष्टाकर्तृत्वात्पापार्द्धस्यावश्यकत्वाद्बलवदनि- तृतीया ] जयाऽलङ्कृतः २६७ ष्टाननुबन्धित्वबाधो दुर्वार एवेति चेन्न । अकामकृतेऽप्यर्द्धप्रायश्चि- न्तश्रवणेन मरणावच्छिन्नव्यापारस्य विषयतामनन्तर्भाव्यविशिष्ट- जनककृतिमत्त्वसंवन्धेन न्यूनपापे स्वतन्त्रहेतुत्वकल्पनात् । तद्वलेन विशिष्टकर्तः श्येनकतहिंसाजन्यपापानुत्पत्तेः। न च लाघवेन मरणो- पलक्षितव्यापारजनकत्वमेव प्रत्यासन्तिमध्ये निवेश्यतामिति वा- च्यम् । श्रुत्यर्थवाधापादकलाघवस्याप्रयोजकत्वात् । वेदस्थले विशि- ष्टान्वयस्यौत्सर्गिकत्वेऽपि श्येनस्य मरणजनकत्वे विध्यर्थबाधप्रस- ङ्गन मरणं प्रति श्येनस्यान्यथासिद्धताया एवोपगन्तव्यतया तस्य जनकतागर्भहिनस्त्यर्थतावच्छेदकरूपशून्यताया अपि सूपपाद- त्वात् । न च यदि खड्गाभिघातजनकादृष्टव्यवहितस्य श्येनस्य मरणेऽन्यथासिद्धत्वं तदा हन्तकृतिजन्यव्यापारोऽपि तत्रान्यथा- सिद्धः स्यात् । यश्च व्यापारो मरणेऽव्यवहितसाधनं तत्र तद्धेतुः कृतिरेवान्यथासिद्धेति मरणकारणव्यापारकारणकृतिमत्त्वं न कस्या- पि हेतु: स्यादिति वाच्यम् । तण्डुलविक्लित्यादिरूपफलव्यवहित- स्यापि तुषादिप्रक्षेपस्य तत्करणदशायां पचतीत्यादिव्यवहारानुरो- धेन यथानन्यथासिद्धत्वे तथा खड्गप्रक्षेपादिकरणदशायां हन्तीति व्यपदेशानुरोधेन तत्र व्यवहितस्यापि मरणेऽनन्यथासिद्धत्वमव- श्याभ्युपेयमिति सामञ्जस्यात् । तण्डुलक्रयणदशायां पचतीत्याद्य- भाववत् खड्गादिनिर्माणदशायां हन्तीत्यव्यवहारात्तद्वयापारो मर- णेऽन्यथासिद्धतया न हिंसा । व्याघ्रमरणोद्देशेन कृतो यन्त्रार्पणा- दिर्यत्र तत्र देवाद्वादिमरणेऽपि न हिंसारूपस्तथा न व्याघ्रादिहिं- सारूपोऽपि तत्करणदशायां हन्तीत्यप्रयोगात् । अतथात्वेऽपि तन्म- रणोद्देश्यकादृष्टद्वारकतन्मरणप्रयोजककृतिजन्यव्यापारस्यापि हिं- सावत् पापजनकत्वादुक्तस्थले गोवधाभिसंधाने गोवधप्रायश्चि- त्ताचरणमित्यवधेयम् । एवं च चैत्रः पचतीत्यादौ विषयताघटितक- र्तृत्वबोधनिहाय यथा कृतौ पाकादेरुपधायकत्वविषयित्वोभयसं- २६८ व्युत्पत्तिवादः [ कारके बन्धेनान्वयः, विषयितायाः संबन्धत्वेऽपि उपधायकत्वनिवेश था- वश्यकः । पाकाद्यनिष्पत्तिस्थले पचति पश्यतीत्यादिप्रयोगस्य प्रामा- एयवारकत्वात्। तथा चैत्रेण पच्यत इत्यादावपि तृतीयार्थकृतेजन्य- त्वविषयित्वोभयसंबन्धनान्वयो बोध्यः । कृतिजन्यत्वस्य तृतीया- र्थत्वे जन्यत्वसंबन्धमध्य एव स्वनिरूपकविषयत्वं प्रवेशनीयम् । कृ- तिविषयत्वमेव वा तृतीयार्थः । स्वनिरूपकजन्यत्वं विषयतायाः सं- बन्धमध्येऽन्तर्भावनीयम् । काष्ठेन पचतीत्यादौ करणत्वं तृतीयार्थः। तच व्यापारवत्कारणत्वम् । व्यापारे कर्तृव्यापाराधीनत्वं निवेश- नीयम् । अन्यथा कर्तुरपि करणतापत्त्या चैत्रश्चैत्रेण पचति, काष्ठं चैत्रेण पचतीत्यादिप्रयोगापत्तेः। न च कर्तुश्चेष्टादिरूपव्यापारस्य तदीयकृत्यादिरूपव्यापाराधीनतया तद्विशेषणदानेऽपि कर्तुः कर- णत्वं दुर्वारमेवेति वाच्यम् । स्वभिन्नत्वेन कर्तुविशेषणीयत्वात् । य- त्रैकैव पाकादिक्रिया चैत्रेण काष्ठादिना मैत्रेण तुषादिप्रक्षेपेण नि- पाद्यते तत्र चैत्रस्तुमैत्रः काष्ठैः पचतीति प्रसङ्गः समभिव्याहृतक- स॒व्यापाराधीनत्वस्य तत्तत्करणव्यापारे भानमुपगम्य वारणीयः। न च समभिव्याहृतक–न्तर्भावेण तृतीयार्थत्वे कत्रसमभिव्याहारस्थले करणे तृतीयाया अप्रयोगापत्तिरिति वाच्यम् । तत्रापि हेताविति सूत्रेण हेतुतामात्रार्थकतृतीयासंभवाद् धनेन कुलं विद्यया यश इत्या- दिवत् न हि तत्र करणे तृतीया क्रियायोगाभावात् । न चैवमुक्तस्थले चैत्रस्तुषेण पचतीति प्रयोगस्य हेताविति सूत्रबलादापत्ताविष्टापत्तिं विनोत्तराभावात्समभिव्याहृतक–न्तर्भावस्य करणे स्वतन्त्रतृतीया- नुशासनस्यैव वा वैययमिति वाच्यम् । उक्तस्थले पाके तुषहेतुक- स्वाभावबाधेऽपि चैत्रस्तुषेण न पचति किन्तु दारुणैवेति प्रयोगोप- पत्तये समभिव्याहृतकत्रंन्तर्भावेण तृतीयायाः शक्तिकल्पनाया आ- वश्यकत्वात् । तद्ग्राहकतयैव करणे तृतीयानुशासनस्यावश्यक- त्वात् । शरैः शातितपत्रोयमित्यादौ तृतीयायाः कारकविभक्तित्व एव तृतीया ] जयाऽलङ्कृतः २६९ तदर्थान्वितार्थकशातितादिपदेन समासस्य साधुतानिर्वाहाच्च । न च तृतीयायाः समभिव्याहृतकत्रन्तर्भावेण करणत्वार्थत्वे तत्र स- मभिव्याहृतकप्रभावादकारकविभक्तित्वं करणे तृतीयानुशासनेऽपि दुर्वारमेवेति वाच्यम् । एतदनुरोधेन तत्र कर्तुरध्याहरणीयत्वात् । वस्तुत: समभिव्याहृतकर्तृव्यापाराधीनत्वे व्यापारवत्कारणत्वे च तृतीयायाः शक्तिद्वयम् । कर्बसमभिव्याहारस्थले व्यापारवत्कारण- त्वमात्रं प्रतीयते। कर्तृसमभिव्याहारस्थले च व्यापारे तद्वयापाराधी- नत्वमपीति सामञ्जस्यम् । एवं हेत्वनुशिष्टतृतीयाया अकर्तणे पञ्च- मीत्यनेन बाधनात्करणत्वविवक्षायां धनवता ऋणेन बद्धोयमित्यत्र तृतीयाया उपपत्तये करणे तृतीयानुशासनस्यावश्यकता। करणत्वं च फलोपधानरूपमेव करणताघटकम् । अन्यथा कुठारादिकरण- कच्छिदादौ दात्रादेरपि स्वरूपयोग्यतया करणत्वापत्तेः। लिङ्गज्ञानस्यानुमितिकरणतामते धूमेन वह्निमनुमिनोतीत्यादौ धूमादिपदं तज्ज्ञानपरम् । व्याप्तिविशिष्टहेतुज्ञानस्य व्यापारस्तद्विशि- ष्टवैशिष्ट्यावगाही परामर्शः। स चात्ममनोयोगादिरूपानुमातृपुरुष- व्यापाराधीन इति तस्य निरुक्तकरणत्वमबाधितमेव । धूमादिलिङ्ग- कवह्नयनुमितौ यत्र लिङ्गान्तराद्घटादिभानं तत्र तेन घटमनुमिनो- मीति न प्रयोगः। अन्वयितावच्छेदकतद्विधेयकानुमितित्वावच्छेदे- नैवान्वयितावच्छेदकधूमादिविषयकज्ञानत्वावच्छिन्नत्वेन भास- मानस्य करणत्वस्य निरूपकत्वभानोपगमात्। निरूपकत्वं तु कर- णतामात्रस्य तृतीयार्थतावादिनां प्राचां मते संसर्गः। नव्यमते तु करणतानिरूपकत्वस्यैव नबर्थाभावे प्रतियोगित्वेनान्वयात्तावत्पर्य- न्तस्य तृतीयार्थतया प्रकारतेत्यन्यदेतत् । परे तु लिङ्गज्ञानस्य करणत्वेऽपि धूमेनानुमिनोतीत्यादौ धूमा- दिपदं मुख्यार्थमेव हेताविति सूत्रेण तत्र तृतीया । हेतुत्वस्य कारण- तावच्छेदकसाधारणप्रयोजकत्वरूपस्य तत्र विवक्षितत्वात् । जन- २७० व्युत्पत्तिवादः [ कारके कज्ञानविषयधूमादेश्वानुमितिकारणतावच्छेदकतया प्रयोजकत्वम- क्षतमेव । उक्तसमूहालम्बनस्थलेऽतिप्रसङ्गश्च वनिविधेयकानुमिति- त्वावच्छेदेन प्रयोजकतानिरूपकत्वभानाभ्युपगमेन वारणीयः । वस्तुतो जनकतावच्छेदकादिनिष्ठप्रयोजकतानिरूपकत्वं कार्यस्येव कार्यतावच्छेदकस्याप्यक्षतं प्रतीतिसाक्षिकं च। तथा चानुमिति- विशेषणतत्तद्विधेयकत्वरूपसुबन्तार्थ एव तृतीयान्वय उपगम्यते । समूहालम्बनानुमितिनिष्ठघटादिविधेयकत्वस्य धूमाद्यप्रयोज्यतया नोक्तार्थातिप्रसङ्गः। धूमेन वह्निमनुमिनोति न घटेनेत्यादावनुमितौ घटादिप्रयोज्यत्वाभावो नान्वेति । अपि तु नबर्थाभावप्रतियोग्यन्व- यिनि बह्नथादिविधेयकत्व एवातो यत्र धूमादिलिङ्गवह्नयनुमितौ घटादिरूपलिङ्गाधीनं द्रव्यत्वादिभानं तत्र धूमैन वह्निमनुमिनोति न घटेनेति प्रयोगोपपत्तिः। समूहालम्बनरूपतादृशानुमितौ घटादि- रूपलिङ्गप्रयोज्यत्वाभावस्यासत्त्वेऽपि वहयादिविधेयकत्वे तदया- धात् । न ह्यनुमितावपि द्रव्यत्वादिविधेयकत्वावच्छिन्नघटादिलिङ्ग- प्रयोज्यत्वस्य वयादिविधेयकत्वावच्छेदेनाभावो बाधित इति संभवति । प्रयोज्यताया व्याप्यवृत्तित्वात् । एतेनानुमितौ धूमादि- लिङ्गज्ञानकरणकत्वं तृतीयया प्रत्याय्यते । करण एव तृतीया तत्रेति मतं प्रत्युक्तम् । उक्तस्थलेऽनुमितौ नजान्वययोग्यताया अनुपपत्तेः। वह्नयादिविधेयकत्वे धूमादिज्ञानरूपकरणजन्यतावच्छेदकत्वतद्- भावौ तृतीयान्ततत्समभिव्याहृतनभ्यां प्रत्याय्येत इत्यपि न सत् । कारकविभक्त्यर्थस्य क्रियातिरिक्तेऽनन्वयात् । न चोक्तस्थले वह्नया- दिविधेयकत्वावच्छेदेन घटादिरूपलिङ्गज्ञानजन्यतावद्नुमितिम- त्त्वाभावः पुरुषनिष्ठो नया प्रत्याय्यते । तादृशानुमितिघंटादौ वह्नया- दिलिङ्गत्वभ्रमदशायां प्रसिद्धति वाच्यम् । धूमेन वहेरनुमानमिदं न घटेनेत्यादावनुमितिमत्त्वाद्यभावबोधानुपपत्तेरिति प्राहुः । पर्वतो घूमेन वह्निमानित्यादौ क्रियायोगाभावाद्धेतुतृतीयैव तत्र ज्ञापकज्ञा- तृतीया ] जयाऽलङ्कृतः २७१ नविपयत्वं हेतुत्वं ज्ञानज्ञाप्यत्वरूपं वा हेतुमत्त्वं तृतीयार्थः । हेतु- शब्दो यद्यपि कारणपर्यायो न तु ज्ञापकपर्यायस्तथापि हेताविति- सूत्रस्थहेतुपदं न समभिव्याहृतनिरूपितहेतुतामात्रपरमपितु समभि- व्याहृततज्ज्ञानान्यतरनिरूपितहेतुतापरमेवेति समभिव्याहृतवह्नया- दिज्ञानहेतुज्ञानविषयधूमादिपदादपि तृतीया तत्सूत्रेणानुशिष्यते । गुणहेतौ पञ्चम्या विकल्पेन विधायकसूत्रान्तरमप्यन्यतरनिरूपि- तहेतुताविषयकमेवातो जाड्याबद्धो जाड्येन वेत्यत्र जाड्यहेतु- तावद्भूमाह्निमान् धूमेन वेत्यादौ धूमादेवयादिज्ञानहेतुता प्रती- यते । हेतुत्वं च पूर्वोक्तं प्रयोजकत्वमेव । गुणपदं च न रूपादि- चतुर्विंशतिपरम्। धूमादिहेती तत्त्वासम्भवात् । न तत्र धूमादि- पदं तज्ज्ञानपरमेवेति तादृशगुणत्वमेव वह्नयादिहेतोरिति वाच्यम् । तत्र धूमादिज्ञानलाक्षणिकत्वेऽप्यज्ञानाबद्ध इत्यादावभावरूपब- न्धादिहतोस्तथात्वासंभवात् । नापि धर्ममात्रपरम् । गगनादेरपि कालिकसंबन्धेन धर्मतयाऽव्यावर्तकत्वात् । समवायादिना धर्मत्वं चाभावाद्यसंग्राहकम् । नापि द्रव्याश्रितत्वम् । सत्तावान् गुणत्वा- दित्यादौ पञ्चम्यन्तस्यालाक्षणिकत्वपक्षे पञ्चम्यनुपपत्तेः । किन्तु कार्यस्य ज्ञाप्यस्य वाश्रये आश्रितत्वम् । जाड्यादेः स्वप्रयोज्यव- न्धाश्रये धूमादेश्च स्वज्ञाप्यवह्नयाद्याश्रय आश्रितत्वाद्गुणत्वम् । हेतौ तद्विशेषणप्रयोजनं च पितुः पाण्डित्येन पुत्र आहूतो धूमस्य स्वस्मि- न्सत्त्वेन पर्वतो वह्निमानित्यादौ पञ्चमीवारणम् । ज्ञापकत्वं च तज्ज्ञानजनकप्रमाविषयत्वं ज्ञाप्यत्वमपि प्रमाजन्यज्ञानविषयत्वम् । अतो वह्नयादेाप्यताभ्रमेण धूमादिज्ञापकल्वसत्त्वेऽपि वह्निना वर्वा धूमवानयमित्यादयो न प्रयोगाः। प्रमात्वं च यावद्भ्रमभि- नत्वरूपं विवक्षणीयम् । तेन धूमव्याप्यो वह्निरित्यादिज्ञानस्य वह्नित्वाद्यंशे प्रमात्वमादाय नोक्तातिप्रसङ्गः। द्रव्यत्वादेः प्रमेयत्वा- वच्छिन्नवह्नयादिज्ञापकत्वेऽपि विशिष्टद्रव्यत्वादिना वह्नित्वाद्यव- - २७२ व्युत्पत्तिवादः [ कारके च्छिन्नज्ञापकत्वेऽपि च पर्वतो वह्निमान द्रव्यत्वाद् द्रव्यत्वेन वेत्या- दिर्न प्रयोगः। अन्वयितावच्छेदकवह्नित्वद्रव्यत्वत्वादिना ज्ञाप्य- ज्ञापकमावस्य तृतीयादिना बोधनात् । तत्र तेन रूपेण ज्ञाप्यज्ञापक- भावविरहात् । एवं ज्ञाप्यवह्नयादिमत्त्वान्वयितावच्छेदकपर्वतत्वा- वच्छिन्नांशे ज्ञापकत्वं ज्ञाप्यत्वं वा प्रतीयत इत्यपि नियमः । तेन पर्वतो वह्निमान महानसत्वान्महानसेन वेत्यादयो न प्रयोगाः । अत्रेदमवधेयम् । पर्वतो बह्निमान् धूमान्न द्रव्यत्वान्नापि महा- नसत्वादित्यादौ नजा वह्नयादौ द्रव्यत्वमहानसत्वादिज्ञाप्यत्वाभाव- बोधने बाधः । तत्र प्रमेयत्वादिना द्रव्यत्वादिज्ञाप्यत्वस्य महानसादौ महानसत्वादिज्ञानज्ञाप्यत्वस्य च सत्त्वात् वह्नित्वादिना द्रव्यत्वा- दिज्ञाप्यत्वस्य पर्वतादौ महानसत्वज्ञाप्यत्वस्य चाप्रसिद्धथा नाभा- वप्रत्यायनसंभव इति ज्ञानप्रयोज्यत्वं ज्ञानजन्यतावच्छेदकत्वरूपं समभिव्याहृतपर्वतादिविशेष्यतानिरूपितं विधेयत्वञ्च विशकलितं पञ्चम्यर्थः विशिष्टलाभोऽन्वयबलात् । एवं चोक्तस्थले नजा विधेय- तायां द्रव्यत्वमहानसत्वादिज्ञानप्रयोज्यत्वाभावः प्रत्याय्यते । तत्प्र- योज्यत्वं च प्रमेयत्वाद्यवच्छिन्नविधेयतायां प्रसिद्धम् । न चैवं पर्वतो वह्निमान न धूमादित्यादेरपि प्रसङ्गः । धूमत्वाद्यवच्छिन्नविषयक- ज्ञानाप्रयोज्यतत्तद्वह्नित्वाद्यवच्छिन्नविधेयताया बह्नथादावबाधित- त्वादिति वाच्यम् । पर्वतादिविशेष्यतानिरूपितवह्नित्वावच्छिन्नवि- धेयतात्वावच्छेदेन विधेयतायां नयाऽभावान्वयबोधोपगमात् । यत्र वह्नित्वावच्छिन्नविधेयतात्वमन्वयितावच्छेदकं तत्रैव तदवच्छेदेने- तरान्वयः संभवति । अत्र च वह्नित्वावच्छिन्नत्वाविशेषितं विधेय- तात्वमेव तथेति कथं तदवच्छेदेनाभावान्वय इति तु न शङ्कथम् । पञ्चम्याद्यर्थविधेयताया वह्नयादौ वह्नित्वाद्यवच्छेदेनान्वयोपगमा- त्तदवच्छेदेन तदन्वये चावच्छेदकतद्रूपस्य तद्विशेषणांशे धर्मिपार- तन्त्र्येण प्रकारत्वात् । प्रकृते स्वरूपसंबन्धरूपवह्नित्वाद्यवच्छि- । तृतीया ] जयाऽलङ्कृतः २७३ नत्वेन सहितस्य विधेयतात्वस्यैवान्वयितावच्छेदकत्वात् । वह्रथा- दिपदमेव तदवच्छिन्नविधेयताशालिज्ञानपरम् । तदुत्तरमतुबादिप्र- त्ययो विशेष्यतारूपसंबन्धपर इति प्राचीनमते तु वह्नित्वाद्यवच्छि- नविधेयतात्वस्यान्वयितावच्छेदकत्वमविवादमेव । विधेयताया- स्तत्तत्संबन्धावच्छिन्नविधेयतात्वेन पञ्चम्याद्यर्थत्वं स्वीकरणीयम् । तेनायं जानाति अात्मत्वान्न द्रव्यत्वादिल्यादौ विषयतासंबन्धाव- च्छिन्नायां प्रकृतविशेष्यतानिरूपितज्ञानविधेयतायां द्रव्यत्वादिरूप- लिङ्गज्ञानप्रयोज्यत्वसत्त्वेऽपि नावच्छेदकावच्छेदेनाभावान्वयायो- ग्यत्वम्। संबन्धविशेषावच्छिन्नविधेयतात्वरूपान्वयितावच्छेदका- वच्छेदेनाभाववत्त्ववोधात् । एवं ज्ञानप्रयोज्यत्वप्रविष्टं ज्ञानमपि तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशेषितमर्थः । तेन समवायेन हेतु- त्वपरस्यायं वह्निमान् तद्रूपान्न तु धूमादिति, प्रयोगस्य नायोग्यता। वह्निविधेयतायां संयोगेन धूमप्रकारकज्ञानप्रयोज्यत्वसत्त्वेपि सम- वायसंबन्धावच्छिन्नतत्प्रकारताशालिज्ञानप्रयोज्यतात्वरूपान्वयिता- वच्छेदकावच्छिन्नाभावस्यावाधात्संबन्धविशेषघटितधर्मस्यान्वयि- तावच्छेदकतया भाननियामकं तु तात्पर्यमेव वह्नयादिविधेयताया व्याप्त्यादिघटकाभावादिज्ञानप्रयोज्यत्वसत्त्वेऽपि पर्वतो वह्निमान- भावादित्यादिर्न प्रयोगः । मुख्यविशेष्यतानिरूपितप्रकारताया एव निवेशनीयत्वादिति दिक् । केन हेतुना कस्मै हेतव इत्यादौ विभक्ति- भिर्हेतुताविशिष्टे हेतुताबोधयितुमशक्या पौनरुक्त्यादिति न शङ्कथम् । हेतुशब्दस्य स्वरूपयोग्यपरत्वात् । विभक्तेः फलोपधानपरत्वात् । दण्डवान् रक्तदण्डवानितिबत् कार्यविशेषानुपरक्तहेतुताविशिष्टे कार्यविशेषोपरक्तहेतुताबोधेऽनाकाङ्क्षताविरहाच्च । न चान्वयबोध- संभवेऽपि हेतुशब्दप्रयोगवैयर्थ्यम् । फलोपधायकतालाभे स्वरूपयो- ग्यताया अल्लाभसंभवादिति वाच्यम् । विभक्तरन्यार्थताया अप्यन्यत्र दृष्टत्वाद्धेतुतापरत्वनिश्चयार्थं तत्प्रयोगात् । १८ २७४ व्युत्पत्तिवादः [ कारके सहार्थयोगेऽपि साहित्यप्रतियोगिवाचकपदात्तृतीया पुत्रेण सहागत इत्यादौ । अथ यदि सहशब्दार्थः समभिव्याहृतपदोप- स्थाप्यक्रियासमानकालीनक्रियान्वयित्वम् , तदन्वयित्वं च समभि- व्याहृतक्रियाबोधकपदेन क्रियाया यादृशः सम्बन्ध साहित्यान्ययिनि प्रत्याय्यते ताब तत्संबन्ध एव, स च पुत्रणेत्यादौ कर्तृत्वम् । दन्ना सहौदनो भुज्यत इत्यादौ कर्मत्वादिस्तृतीयार्थोऽपि स एव संबन्धः, तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तृत्वदधिकर्मकभोज- नसमानकालीनभोजनकर्मत्वादिकं पुरुषौदनादौ तत्र तत्र प्रतीयत इत्युच्यते तदा सहशब्देनैव तत्तत्क्रियाकर्तृत्वबोधने क्रियापद- वैयर्थ्यम् । क्रियान्वयिनि क्रियान्वयबोधस्योद्देश्यतावच्छेदकविधेय- योरभेदेन निराकाङ्क्षतयाऽसंभवाच । न च तत्तक्रियासमानकाली- नत्वमात्रं सहशब्दार्थः । तस्य च क्रियापदोपस्थापितक्रियायामेवा- न्वय इति क्रियापदसहितसहशब्दादेवोक्तविशिष्टार्थलाभ इति वाच्यम् । एवं सति पुत्रेण सहागत इत्यादौ सहशब्दार्थस्य क्रिया- पदार्थान्वयित्वेनान्यसापेक्षतया तेन सह पुत्रशब्दस्य समासासंभवेन सपुत्र इत्यादिप्रयोगानुपपत्तेः । न ह्यत्र समासे सहार्थस्य प्राधान्यम् । येनान्यसापेक्षत्वेऽपि समासो भवेत् किंतु बहुव्रीहित्वादन्यपदार्थ- प्राधान्यमेवेति चेन्न । समभिव्याहृतपदोपस्थाप्यक्रियाकाल एव सहशब्दार्थः तस्य क्रियान्वयिनि नामार्थ एवान्वयः । तादृशका- लविशिष्टे नामार्थे क्रियान्वये च क्रियायामपि तादृशकालावच्छि- नत्वं भासते । उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य व्युत्पत्ति- सिद्धत्वात्। अतः क्रियाद्वयसमानकालीनत्वलाभ इति सामञ्जस्यात् । अथवा आगमनसमानकालीनागमनादिकमेव सहशब्दार्थः।त- स्य कर्तृत्वादिसंबन्धेन पुरुषादावन्वयः। तादृशसंबन्धेन तद्विशिष्टेचा- गत आगच्छतीत्यादिपदोपस्थाप्यागमनकर्तृत्वादीनामन्वयेन व्युत्प- त्तिविरोधः। विधेवस्योद्देश्यतावच्छेदकप्रकाराभेदविरहात्।नच सह- तृतीया ] जयाऽलङ्कृतः २७५ शब्दार्थान्वयबलादेव तक्रियाकर्तृत्वस्य पुरुषादौ लाभे प्रकारतयापि क्रियापदेन तत्प्रतिपादनमफलमिति तत्प्रयोगो व्यर्थ इति वाच्यम् । समभिव्याहृतपदेन तत्तक्रियाया अनुपस्थापने सहशब्देनापि तत्तक्रियाघटितसाहित्यस्याशक्यस्य बोधनं न संभवतीति क्रिया- पदप्रयोगस्यावश्यकत्वात्। सहशब्दार्थक्रियायाः कर्तत्वादिसंबन्धेन नामार्थेऽन्वयश्च न व्युत्पत्तिविरुद्धः। सहशब्दस्याधातुत्वात् , निपा- तत्वाच्च । न च 'प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेने'- त्यादौ शत्रुन्नप्रसवलक्ष्मणप्रसवयोः समानकालीनत्वाभावात् क्रियाद्वयसमानकालीनतायाः सहशब्दार्थत्वासंभव इति वाच्यम् । तत्रापि स्थूलकालघटितसमानकालीनत्वसत्त्वात् । न च कालत्वेनैव कालस्य तदर्थान्तर्भावे पुत्रागमनपूर्वमागन्तरि आगतोऽयं न पुत्रेण सहेति प्रयोगानुपपत्तिः । पुत्रागमनाधिकरणस्थूलकालवृस्यागमनक- र्तृत्वसत्त्वेनान्वयितावच्छेदकरूपावच्छिन्नप्रतियोगिताकसाहित्या- भावबाधादिति वाच्यम् । तत्र क्षणत्वेनैव कालस्य सहशब्दार्थेऽ- न्तर्भावनीयत्वात् । एवं यत्र एककालेऽपि विभिन्नस्थले भुञ्जानमधि- कृत्य न सह भुङ्क्त इति प्रयुज्यते तत्रैकशालारूपभोजनाधारोऽपि सहशब्दार्थेऽन्तर्भावनीयः । अत एवा'लापागात्रसंस्पर्शानिःश्वासा- त्सहभोजनादित्यादिना पतितभोजनसमानकालीनभोजनमात्रस्य पापजनकत्वं न बोध्यते । एकपङ्क्तेरपि विवक्षणात् । एवं 'याजनं योनिसंबन्धं स्वाध्यायं सह भोजनम् । सद्यः पतति कुर्वाण: पति- तेन न संशय' इत्यादावेकदैकपात्रभोजनस्यैव सद्यःपातहेतुत्वं प्रत्याय्यते । तत्र तादृशार्थस्यैव सहशब्देन विवक्षणात् । अथ नामार्थस्यैव सहार्थविशेष्यतयान्बयोपगमे पुत्रेण सह नागच्छत्य- यमित्यादौ सहशब्दार्थपुत्रसाहित्याभाव एव पुरुषांशे नया बोध्यत इत्युपगन्तव्यम् । तच्च नोपपद्यते। तथासत्याख्यातार्थोद्देश्यतावच्छेद- कतयैव नबर्थभानस्योपगन्तव्यतया प्रसज्यप्रतिषेधस्थले निषेधस्य [ कारके २७६ व्युत्पत्तिवादः तं प्रति प्राधान्येन भाननियमव्याघातात् । एवमनागच्छन्तमपि पुरुषमधिकृत्य तथा प्रयोगात्तत्रायोग्यताप्रसङ्गाच्च । एतेन तत्र पर्युदासनवक्रियायोगपरित्याग इत्युक्तावपि न प्रतीकारः । न च तत्रागमनाभावकाल एव पुरुषान्वयी सहशब्दार्थः। तथा च पुत्रागम- नाभावकालावच्छिन्नपुरुषे वर्तमानकालावच्छिन्न आगमनाभावः प्रतीयत इति न काचिदनुपपत्तिरिति वाच्यम् । यत्रास्य पुत्र अायाति न त्वयं तत्रापि तादृशप्रयोगात् । तत्र च पुत्रागमनकाला- वच्छिन्नस्यागमनकर्तत्वाभावस्य सत्त्वेऽपि पुत्रागमनकालावच्छिन्न एव पुरुषे वर्तमानकालावच्छिन्नागमनाभावस्य सत्त्वेनायोग्यता- पातात् । मैवम् । सहशब्दार्थस्तत्तक्रियाकालः क्वचित्तत्तक्रियान्वयि- प्रथमान्तपदार्थेऽन्वेति । कचिच्च समभिव्याहृतक्रियायाम् । सपुत्र आगच्छतीत्यस्य पुत्रेण सहागच्छति य इति विग्रहात प्रथमान्ता- न्यपदार्थ एव पुत्रागमनकालान्वयो न तु क्रियायामिति न समा- सानुपपत्तिः । न वान्यपदार्थपुरुषालाभः । न चैवं समासलभ्यस्य पुत्रागमनकालावच्छिन्नस्य पुंसो विग्रहवाक्येनापि प्रतिपादनाद्बहु- ब्रीहिमात्रस्यैव नित्यसमासत्वमिति भज्येतेति वाच्यम् । बहुव्री- हिमात्रस्य तथात्वानियमात् । प्रथमान्तानुपस्थाप्यान्यपदार्थबोधक- बहुव्रीहेरेव तत्त्वाभ्युपगमात् । अत्र चान्यपदार्थस्य प्रथमान्तोपस्था- प्यत्वात्। न च वृष्टे देवे गत इतिवत् प्रथमार्थे बहुव्रीहेरसाधुत्वमिति वाच्यम् । अनेकमित्याद्यनुशिष्टबहुव्रीहावेव तन्नियमात् । अत्र च सूत्रान्तरेण तद्विधानात्। अत एव तदारम्भोऽपि । पुत्रेण सह नागच्छतीत्यादौ च क्रियायामेव तादृशसहार्थान्वय इति पुत्रागमन- कालीनागमनकर्तृत्वाद्यभावः प्रथमान्तार्थे प्रतीयत इति सर्वं सुस्थम्। भारमनुद्वहन्तं पुत्रमनुद्वहन्त्यामपि गर्दभ्यां 'सहैव दशभिः पुत्रै'- रित्यादौ वर्तमानेत्यध्याहाराद्वर्त्तमानत्वक्रियामादायैव साहित्यबोध इति वदन्ति ।

तृतीया ] जयाऽलङ्कृतः २७७ इत्थंभूतलक्षण इत्यनेन लक्षणवाचिपदात्तृतीयाऽनुशिष्यते। ल- क्षणत्वं च व्यावर्तकत्वं तच्च विशेष्यतावच्छेदकसमानाधिकरणा- भावप्रतियोगित्वम् । तदाश्रयश्च धर्मो द्विविधो विशेषणमुपलक्षणं च । विद्यमानं सद्वथावर्तकं विशेषणम् । पुरुषादौ वर्तमानकाला- घच्छेदेन विद्यमानो दण्डादिः। अविद्यमानं व्यावर्तकमुपलक्षणम् । तापसादेः कालान्तरीणजटादिकम् । विशेषणस्य संबन्धो मतुबा- दिभिः प्रत्याय्यते। अस्तीत्यर्थे विहितानां वर्तमानसंवन्धार्थकत्वात्। अतो जटाभिस्तापस इत्यादावविद्यमानजटादेः संबन्धविवक्षया मतुबाद्यनवकाशात् तृतीया । तथा च विद्यमानत्वस्याविद्यमानत्व- स्येवाप्यप्रत्यायनात् विशेषणवाचिपदादपि तृतीया। यथा ज्ञाय- मानत्वेन लिङ्ग करणमित्यादौ । अथ तत्र ज्ञायमानत्वादिवैशिष्टय तृतीयया लिङ्गादौ न प्रत्याय्यते अपि तु पदार्थैकदेशे करणत्वादा- वेव । तदवच्छिन्नत्वमिति चेत्तथापि सा विशेषणतृतीयैव अनुशा- सनान्तराभावात् । वस्तुतो लिङ्गादौ ज्ञायमानत्वादिवैशिष्टयबोधने- ऽपि संबन्धविधया करणत्वज्ञायमानत्वाद्योरवच्छेद्यावच्छेदक- भावभानसंभवादेकदेशान्वयस्वीकारोऽनुचितः। न च संबन्धविधया करणत्व एकदेशेऽवच्छिन्नत्वभानेऽप्येकदेशान्वयध्रौव्यमिति वाच्य- म् । करणाभेदरूपे करणत्वे करणस्य संबन्धविधया भासमाने ज्ञायमानत्वावच्छिन्नत्वस्यावच्छेदकतया भानोपगमेनैकदेशान्वयं विनाप्यवच्छेद्यावच्छेदकभावभानात् । अथ दण्डवानयमासीद्दण्डी गतवानित्यादौ दण्डस्यातीततया विशेषणत्वासंभवान्मतुबाद्यनुप- पत्तिरिति चेन्न । प्रकृतशब्दप्रयोगाधिकरणकालावच्छिन्नस्येव विधेयान्तरसमभिव्याहारस्थले तदधिकरणकालावच्छिन्नस्य संव- न्धस्यापि मतुबादिना प्रत्यायनात् । तत्रातीतकालसत्त्वादिरूप- विधेयाधिकरणातीतादिकालावच्छिन्नसंबन्धस्यैव मतुवाद्यर्थत्वात् । अविद्यमानोऽपि दण्डादिर्धर्मान्तरसंबन्धसमानकालीनतया धर्मा- व्युत्पत्तिवादः [ कारके न्तरान्वयिनि विशेषणम्। तत्प्रकारेण भासमाने धर्मान्तरान्वयबोधो विशिष्टवैशिष्ट्यबोध इत्युच्यते। न त्वसाबन्वयिन्युपलक्षणम् । न वा तादृशबोधस्तदुपलक्षितान्वयबोध इत्युच्यते । कचिद्विधेयान्तरसमा- नकालीनमपि विशेषणं तदन्वयितया तदन्वयिन्युपलक्षणमुच्यते । यथा रूपवान् रसवानित्यादौ रूपादिकं रसान्वयिनि । सास्नावान् गोपदवाच्य इत्यादौ सानादिकं गवादिपवाच्ये । कचिद्धर्मि- संबद्धधर्मान्तरसंबन्धितानवच्छेदकतया धर्मान्तरसंबन्धिन्युपल- क्षणमतो दण्डपुरुषावित्यादिसमूहालम्बनबोधो दण्डाद्युपलक्षित- पुरुषादिविषयको न तु विशिष्टविषयक इत्युच्यते । विशेष्यसंबन्धा- संबन्ध्यपि तत्संबन्धितावच्छेदकतया तद्वति विशेषणम् । अत एव संज्ञाविशिष्टसंश्यादिज्ञाने संज्ञादेविषयत्वमनङ्गीकुर्वतां प्राभाकराणां प्राचीननैयायिकानां च मते तटस्थज्ञानविषयतयैव विषयतावच्छेद- कत्वात्संज्ञादेः प्रकारस्य ज्ञानविषयविशेषणत्वम् । अत एव द्वित्व- नाशकालीनायां द्वे द्रव्य इति बुद्धौ न द्वित्वविषयकत्वमपि तु द्वित्व- विशिष्टविषयकत्वमेव, द्वित्वरूपविशेषणधीजन्यत्वादित्याचार्याः । एवमप्रतियोगित्वाविशेषेऽपि घटसामान्याभावादिप्रतियोगिनि घटत्वादिकं विशेषणं नीलादिकमुपलक्षणमित्युच्यते। कचिच्च विद्यमानमप्यतव्यावृत्तिन्यूनाधिकवृत्तितया तत्र न विशेषणमित्यु- च्यते किंतूपलक्षणम् यथा । विद्यमानापि जटा तापस उपलक्षणं, न तूपलक्ष्यतावच्छेदकशमदमादिवद्विशेषणमित्यलम् । क्वचिदविशेषणस्यापि संबन्धो मत्वर्थीयेन बोध्यते घटोऽयं विनाशीत्यादिप्रयोगदर्शनादिति दीधितिकृतः। तदसत्। आव- श्यकार्थधातूत्तरणिनिप्रत्ययेनापि तत्र विनाशिपदव्युत्पत्तेरिति । इति महामहोपाध्यायगदाधरभट्टाचार्य विरचिते व्युत्पत्तिवादे तृतीयाविवरणम् ।

चतुर्थी ] जयाऽलङ्कृतः २७६ अथ चतुर्थीविवरणम् ब्राह्मणाय गां ददातीत्यादौ संप्रदानचतुर्थ्या ब्राह्मणादिसंप्र- दानकत्वं दानादौ बोध्यते। संप्रदानत्वं च मुख्यभाक्तसाधारण- क्रियाकर्मसंबन्धितया कत्रंभिप्रेतत्वम् । क्रियाकर्मत्वं क्रियाजन्यफल- शालित्वं तद्वतस्संबन्धस्तनिष्ठफलभागित्वमेव । तथा च क्रियाजन्य- फलभागितया कतरिच्छाविषयत्वं पर्यवसन्नम् । कर्मणा यमभिप्रै- तीत्यस्य कर्मणा यममिसंबद्धमिच्छतीति शाब्दिकविवरणादुक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागितया दातुरिच्छाविषयो ब्राह्मण इति तस्य संप्रदानत्वम् । अथ निरुक्तस्य संप्रदानत्वस्य कर्मत्वस्या- विशेषः । कर्तुरीप्सितेति सूत्रेण कर्तुः क्रियया व्याप्तुमिष्टस्य कर्म- संज्ञाविधानात् । क्रियाया व्यासुमिष्टत्वमपि हि क्रियाजन्यफल- भागितयेच्छाविषयत्वमेव । न च तथायुक्तमित्यनेन तद्भागितया- ऽनभिप्रेतस्यापि तदाश्रयस्य तत्संज्ञाविधानात् । कर्मत्वं क्रियाजन्य- फलशालित्वमेव न विच्छागर्भम्। संप्रदानत्वं विच्छागर्भमतो भेदः। कर्मत्वस्येच्छाऽघटितत्वे सूत्रे तद्वैयापत्तेः । न च तदाश्रयत्वेनान- भिप्रेतस्यापि कमत्वेन तत्साधारणक्रियाजन्यफलशालितयेष्टस्यापि ग्रामादेः कर्मतोपपत्ताविच्छाघटिततत्सूत्रवैयर्थ्यमेवेति वाच्यम् । इच्छाघटितस्य निरुक्तरूपस्य यत्र बाधस्तत्र ताशरूपमपि कर्म- प्रत्ययेन प्रतिपाद्यत इत्येतत्प्रतिपादनाय सूत्रद्वयप्रणयनात् । अत एव यत्रौदनस्य गलाधःसंयोगेच्छया यो व्यापारस्ततो विषादेरपि तत्संयोगस्तत्र विषादौ क्रियाजन्यफलशालित्वाभावबाधेऽपि तेन रूपेणेच्छाविषयत्वाभावोऽबाधितस्तत्र विषमनेन न भुज्यत इति प्रयोगोपपत्तिः। इच्छाघटितकर्मवतात्पर्येण च देवाद्विषं भुज्यत इति प्रयोगस्य चोपपत्तिः । न च धात्वर्थतावच्छेदकफलशालित्वेनोद्देश्यत्वं कर्मत्वम् । तदनवच्छेदकफलशालित्वेनोद्देश्यत्वं संप्रदानत्वमिति २८० व्युत्पत्तिवादः [ कारके विशेषः । स्वस्वत्वध्वंसावच्छिन्नत्याग एव ददात्यर्थो न तु परस्वत्व- फलावच्छिन्नोऽपीति वाच्यम् । उपेक्षायामपि ददातेमुंख्यार्थतापत्तेः। मैवम् । फलाश्रयतयेष्ठत्वमेव हि कर्मत्वम् । फलसंबन्धितयेष्टत्वं संप्रदानत्वम् । ब्राह्मणादिश्च न त्यागजन्यस्वत्वाश्रयतया दातुरिष्टो- ऽपि तु तन्निरूपकतयैवातो न तस्य कर्मता। न चाश्रयत्वमपि संबन्धविशेष इति गवादेरपि संप्रदानत्वं दुर्वारम् । आश्रयत्वेनाभि- प्रायस्थले कर्मसंज्ञया बाधादन्य एव हि संबन्धः संप्रदानताघटक इति याच्येत तदा वृक्षायोदकमासिञ्चति, पत्ये शेत इत्यादौ सेकजन्यजलसंयोगशयनजन्यप्रीत्याद्याश्रयतयाभिप्रेतस्य वृक्षपत्यादेः संप्रदानत्वानुपपत्तिरिति वाच्यम् । धात्वर्थतावच्छेदकफलाश्रयत्व- भिन्नफलसंबन्धस्य संप्रदानत्वशरीरे निवेशेन सामञ्जस्यात् । वृक्षा- योदकमासिञ्चतीत्यादौ द्रवद्रव्यक्रियानुकूलव्यापारोधात्वर्थः। सम्प्र- दानतानिर्वाहकसंयोगश्च न तादृशधात्वर्थतावच्छेदक इति तदा- श्रयत्वं निरुक्ताश्रयताभिन्नमेवेति तत्प्रकारकाभिप्रायविषयवृक्षादेः संप्रदानतानिर्वाहात् । न च पत्ये शेत इत्यादौ धात्वर्थतावच्छेदक- फलाप्रसिद्धथा तदनुपपत्तिः। भेदप्रतियोगिप्रविष्टधात्वर्थतावच्छे- दके फलत्वानिवेशेन प्रसिद्धिसंभवात् । एवं च ब्राह्मणायेत्यादौ ब्रा- झणनिरूपितत्वेनेच्छाविषयगोनिष्ठस्वत्वजनकत्यागकर्तेति बोधः । निरूपितत्वेन कर्तरिच्छाविषयत्वं द्वितीयान्तार्थगोवृत्तित्वान्वयि- धात्वर्थतावच्छेदकस्वत्वान्वयिचतुर्थ्यर्थः। स्वत्वजनकत्यागश्च ददा- त्यर्थः। अत्र केचित् । ददातियोगे धात्वर्थतावच्छेदकस्वत्वनिरू- पकत्वमेव संप्रदानत्वं तदेव च मुख्यम् । तथा च तत्र निरूपितत्व- मात्रं चतुर्थ्यों धात्वर्थतावच्छेदकस्वत्वेऽन्वेति । अत एव श्राद्धस्य पित्रपेक्षया यागत्वमेव दानत्वं तु ब्राह्मणापेक्षयेति शूलपाणिः । तत्र त्यज्यमानेऽर्थे पितॄणां स्वत्वानुत्पत्त्या संप्रदानत्वासंभवात् स्वत्वभा- चतुर्थी ] जयाऽलङ्कृतः २८१ गित्वेनोद्देश्यत्वं यदि संप्रदानत्वं स्यात्तदा पितृणामपि तथात्वाक्षतेः, पित्रपेक्षयापि दानत्वं स्यात् । न हि श्राद्धे पितॄणां स्वत्वभागित्वेन नोद्देश्यत्वम् । पितरेतत्तेऽग्नं स्वधेत्यादिश्राद्धरूपत्यागाभिलापस्य स्व- धार्थे त्यागे चतुर्थ्याः स्वत्वभागित्वेन पित्रादेरुद्देश्यत्वबोधकत्वात् । स्वत्वभागित्वेनोद्देश्यस्यापि पिनादेः स्वीकाराभावान्न स्वत्वं ब्राह्म- णानां तत्रानुद्देश्यत्वेऽपि स्वत्वं प्रतिपत्तितो जायते । अनुद्देश्यत्वेऽपि च संप्रदानत्वमुपपादितमेव । पितृणामिव ब्राह्मणानामपि च स्व- त्वभागित्वेनोद्देश्यत्वमप्यविरुद्धम् । धात्वर्थतानवच्छेदकफलभागि- तया यत्र संप्रदानत्वं वृक्षायोदकं सिञ्चति, पत्ये शेत इत्यादौ त- त्रोद्देश्यत्वांशनिवेश आवश्यकः । यत्रान्योद्देशेन क्षिप्तजलस्य दैवाढ्- क्षसंयोगोऽन्योदेशेन शयनादितश्च पत्यादेः फलसबन्धस्तत्र तथा प्रयोगविरहात् । अत एव तत्र चतुर्थ्यर्थः वृक्षादिनिष्ठतया कत्रंभिप्रेत- तत्तत्फलं प्रति जनकत्वम् । तच्च सेकादिक्रियायामन्वेति ।भाक्तं च तत्र संप्रदानत्वम् । उद्देश्यत्वागर्भसंप्रदानत्व एव लाघवाच्छतेरितरत्र लक्षणाया अभ्युपगमात् । पितृभ्यो दयादित्यादावनिर्धारितकर्तक- संप्रदाने चतुर्थी। तत्त्वं च तत्र त्यागजन्यस्वत्वभागितयोद्देश्यत्वमेव । अथ जनान्तरस्य वृक्षादिनिष्ठजलसंयोगादिरिच्छाविषयोऽन्येन च जनेनान्योद्देशेन क्षिप्तजलादेव॒क्षादिसंयोगस्तत्रापि वृक्षायोदक- मासिञ्चति जन इत्यादिप्रयोगापत्तिः। तत्तद्वयक्तित्वस्य पदेनानु- पस्थापनात् । तेन रूपेण विशेष्यभूतकर्तव्यक्तीनामिच्छांशे भाना- संभवादुपस्थितजनत्वावच्छिन्नेच्छाविषयत्वस्य च वृक्षसंयोगादा- ववाधात् । एवं तदीयकालान्तरीणेच्छामादायाप्यतिप्रसङ्गतादव- स्थ्यमिति चेन्न । वृक्षादिनिष्ठत्वेनेच्छैव हि चतुर्थ्यन्तार्थः । तस्याञ्च स्वविषयसंयोगादिजनकत्वस्वजन्यत्वोभयसंबन्धेन सेकादिक्रिया- यामन्वयः । उक्तस्थले च यक्रियाव्यक्त्या जलसंयोगादिवृक्षादौ जन्यते तत्र कालान्तरीणपुरुषान्तरीणेच्छायाः स्वविषयसंयोगा- २८२ व्युत्पत्तिवादः [ कारके दिजनकत्वसंबन्धसत्त्वेऽपि स्वजन्यत्वाभावान्नोभयसंवन्धेनेच्छा- वैशिष्टयमित्ययोग्यतैवेति वदन्ति । अत्रेदं बोध्यम् । उद्देश्यत्वागर्भत्यागजन्यस्वत्वभागित्वस्य ददातिसंप्रदानतारूपत्वे मैत्रोद्देशेन यद्दत्तं तत्र ताशदानेन दम्पत्योर्मध्यगं धनमित्यतस्तत्पत्न्या अपि स्वत्वस्य प्रामाणि- कतया संप्रदानत्वेन चैत्रपत्न्यै दत्तमिति व्यवहारापत्तेः। न च पत्युः स्वत्वमेव पत्नीस्वत्वं जनयति । न तु तत्सामग्रीति वाच्यम्। स्वत्ववति स्वत्वान्तरानुत्पत्तेः। तथा च सर्वत्रैवोद्देश्य- त्वान्तर्भावः । भवतु च पितृभ्यो दयादित्यत्रापि मुख्यमेव संप्रदा- नत्वं चतुर्थ्यर्थः । अस्तु वा स्वस्वत्वेच्छाधीनतत्कत्वमेव मुख्यदान- रूपक्रियासंप्रदानत्वं पितृस्वत्वाप्रसिद्धथा न तेषां संप्रदानत्वं चतु- Wों धात्वर्थतावच्छेदकस्वत्वान्वयि निरूपितत्वं स्वत्वस्य च स्वत्वध्वंसेच्छारूपे त्यागे जनकत्वस्वेच्छाधीनत्वोभयसंबन्धः। तल्लाभश्च विशिष्टस्य धातुशक्यतामते शक्तिलभ्य एव, तद्न्तर्भा- वेणैव शक्त्यभ्युपगमात् । फलव्यापारयोः पृथक् धात्वर्थतामते आकाङ्क्षाबलादेव तादृशसंबन्धलाभः । पितृभ्यो दद्यादित्यत्र च धात्वर्थान्तर्गतस्वत्वे चतुर्थ्या पित्राद्यन्वयी निरूपितत्वरूपो मुख्यो- ऽर्थो बाधितत्वान्न प्रत्याय्यते, अपि तु निरूपितत्वेनेच्छाविषयत्व- रूपो लक्ष्यार्थ एव । ददातिस्तु तत्र मुख्य एव, श्राद्धस्यापि ब्राह्मणापे- क्षयादानत्वात् । श्राद्वे ब्राह्मणस्य संप्रदानतानिहायास्ति चोद्देश्य- तापि ब्राह्मणस्येत्यादिकमभिदधानस्य शूलपाणेरपि संप्रदानत्व- शरीर उद्देश्यत्वांशपरित्यागे निर्भरोऽवगम्यते। कर्मणा यमभि- प्रैतीति प्रणयतो महर्षेः पाणिनेरपि संमतोऽयमर्थः। शत्रवे भयं ददातीत्यादौ जनयतीति भाक्तोऽर्थः। एवं चोत्पादक- व्यापाररूपे धात्वर्थे भयरूपं कर्म तद्योगितयोद्देश्यत्वात् शञ्चादेः संप्रदानत्वम्।

चतुर्थी ] जयाऽलङ्क्तः २८३ युद्धाय संनयत इत्यादौ संनहनादिक्रियाजन्यफलासंबन्धाधु- द्धादेर्न संप्रदानतानिर्वाह इति नेयं संप्रदानचतुर्थी अपि त्वेन्धानाहतुं बजतीत्यर्थे एधेभ्यो ब्रजतीत्यत्रेव युद्धं कर्तुं सोढुं वा संनह्यत इत्य- थविवक्षया क्रियार्थोपपदेति सूत्रान्तरेण तस्य च स्थानिनोऽश्रूयमा- णस्य क्रियार्थोपपदस्य तुमुन्नन्तधातोः कर्मणि स्वार्थनिष्टकर्मत्वे विवक्षिते स्वोत्तरं चतुर्थीत्यर्थः। तथा चाहरणकरणसंनहनायुद्देश्य- कत्वं तादृशचतुर्थ्यर्थ इत्यवधेयम् । अथ यदग्नये च प्रजापतये च सायं जुहोतीत्यादावन्यादेरिव ' सर्वभूतेभ्य उत्सृष्टं मयैतज्जलमूर्जि- तमि'त्यादौ सर्वप्राणिनामिव पशुना रुद्रं यजत इत्यादावपि त्याग- विशेषरूपक्रियायां रुद्रादेरनिराकर्तृसंप्रदानतया चतुर्थी स्यादिति चेन्न । गौरवितप्रीतिहेतुक्रिया यज्यर्थः। तदर्थतावच्छेदकफलं प्रीति- स्तदाश्रयतया रुद्रस्य विवक्षितत्वात्कर्मसंज्ञकत्वेन द्वितीयैव न तु च- तुर्थी । त्यागात्मकतादृशक्रियायां निरुक्तानिराकर्तृसंप्रदानत्वे सत्यपि तदविवक्षणात्। प्रीतिभागितयोद्देश्यत्वरूपसंप्रदानत्वविवक्षायां च रुद्राय यजत इत्यपि प्रयोगः। उभयविवक्षायां परत्वेन कर्मसंज्ञया बाधाद्वितीयैव । जुहोत्युत्सृजतीत्यादेः प्रीतिरूपफलावच्छिन्नत्या- गावोधकतया त्यागरूपक्रियाजन्यप्रीतिभागिनो देवतादेस्तत्कर्मता- विरहान्नैव प्रजापतिं जुहोति भूतान्युत्सृजतीत्यादयः प्रयोगाः। रजकस्य वस्त्रं ददातीत्यत्र ददातिर्न त्यागार्थकोऽपि तु परायत्ती- करणार्थको गौणः । तदायत्तीकरणं च प्रकृते तत्कर्तृकनिर्णेजनेच्छा- प्रकाशको व्यापारः। तदेकदेशे कर्तृत्वे रजकस्य संबन्धविवक्षायां शैषिकी षष्ठी। हन्तुः पृष्ठं ददातीत्यत्र तत्कर्तृकताडनानुमिति- प्रकाशकव्यापार एव ददात्यर्थः । तदेकदेशे कर्तृत्वे हन्तुः संबन्ध- विवक्षायां षष्ठी । एवं संवाहकस्य चरणं ददातीत्यादावूहनीयम् । नारदायरोचते कलह इत्यादौ रुच्यनामित्यनुशासनेन प्रीति- जनकतारूपरुच्यर्थघटकप्रीतिभागिनः संप्रदानसंज्ञा विहिता, तत्र २८४ व्युत्पत्तिवादः [ कारके चतुर्थ्यर्थ आश्रितत्वं प्रीतावन्वेति। तादृशक्रियाश्रयतया कलहादेः कर्तृता। पुष्पेभ्यः स्पृहयतीत्यत्र स्पृहाविषयपुष्पस्य स्पृहेरीप्सित इत्यनेन संप्रदानत्वाच्चतुर्थी तदर्थो विषयित्वं तस्येच्छारूपक्रियायामन्वयः । पुत्राय क्रुध्यतीत्यत्र क्रुधदुहेत्यादिसूत्रेण कर्मणः संप्रदानसंज्ञा। तत्रापि चतुर्थ्यर्थो विषयित्वं कोपेऽन्वेति । क्रोधस्य द्वेषविशेषात्म- कतया भक्तिश्रद्धादिवत् ज्ञानविशेषरूपत्वेन वा सविषयकत्वात् । एवं शत्रवे द्रुह्यतीत्यादावपि तेनैव संप्रदानत्वं, द्रोहोऽपचिकीर्षा अहितेच्छेति यावत् । अहितभागितयेच्छाविषयता तन्निरूपकत्वं चतुर्थ्यर्थ इच्छाम्बयी, अहितान्वय्याधेयत्वं बा । अतः कर्मणेत्यादि- सूत्रस्याविषयः। ईर्ष्या अक्षान्तिः । परोत्कर्षासहिष्णुता परोत्कर्प- गोचरो द्वेष इति तद्विषयस्य परस्य तेनैव संप्रदानता। असूया गुणिनि दोषाविष्करणम् । तद्विषयस्याप्यनेन संप्रदानता विषयता- विशेषस्तत्र चतुर्थ्यर्थः। विप्राय शतं धारयतीत्यादौ धारेरुत्तमर्ण इत्यनेन धनिकविप्रादेः संप्रदानता । अथ कोऽयं धार्यर्थः ? न तावद्रव्यान्तरदानमङ्गीकृत्य परदत्तद्रव्यादानम् । तथा सत्यादानात्परतो धारयतीति प्रयोगा- नुपपत्तेः आदानस्यावर्त्तमानत्वात् । न चेष्टापत्तिराविशोधनं तथा प्रयोगात् । नापि ताशादानध्वंसः, अधमर्णस्य तदकर्तृत्वात् । नचा- दानमिच्छाविशेषस्तद्वतः पुंसस्तदाश्रयतया तत्कर्तववत्तद्धवंसाश्रय- तया तत्कर्तृत्वमप्यक्षतमिति वाच्यम् । एवमण्यादानध्वंसस्य परि- शोधनोत्तरमपि सत्त्वेन तदानीमपि धारयतीति प्रयोगापत्तेः । न च परिशोधनप्रागभावविशिष्टो निरुक्तादानध्वंसस्तथा। ऋणीकृतद्र- व्यान्तरपरिशोधनप्रागभावदशायां परिशुद्धमृणमादायधारयतीत्या- पत्तेः। न च स्वप्रतियोगिनिर्वाहकाङ्गीकारविषयद्रव्यदानप्रागभाववि- शिष्टादानध्वंसस्तथा यहणं परिशोधितं तावद्व्यं च पुनर्गृहीत्वा चतुर्थी ] जयाऽलङ्कृतः २८५ पुनः परिशोधनीयं तदादाय धारयतीत्यापत्तेः । तदीयपरिशोधन- स्यापि स्वकर्त्तव्यतयापूर्वाभ्युपगमविषयत्वात् तत्प्रागभावस्य पूर्व- परिगृहीतशोधनोत्तरमपि सत्त्वात् । न च स्वप्रतियोग्यादाननिर्वाह- काभ्युपगमविषयीभूतं यद् द्रव्यदानं एकक्षणावच्छिन्नैकाधिकरण- वृत्तित्वसंबन्धेन तद्विशिष्टान्यप्रागभावविशिष्टादानध्वंसस्तथा । उक्त- स्थले चोदीच्यपरिशोधनप्रागभावः प्रथमादानप्रयोजकाभ्युपगम- विषयपरिशोधनविशिष्टः। प्रथमपरिशोधनप्रागभावश्च प्रथमपरि- शोधनोत्तरं नास्त्येवेति नोक्तातिप्रसङ्ग इति वाच्यम् । एवमपि यस्य ऋणस्य परिशोधनमप्रसिद्धं तदादानपूर्वकालीनस्य तावद् द्रव्यं मया तुभ्यं देयमित्यभ्युपगमस्य तदुत्तमर्णोद्देश्यकत्वेन स्वकर्तृकान्योद्देश्य- कतावद्रव्यदानमेव विषय इत्युपेयम् । तदुत्तमर्णोद्देश्यकतकर्तृक- तावद्व्यदानस्याप्रसिद्धत्वात् । तथा चान्योद्देश्यकताबद्रव्यदा- नोत्तरं तदभ्युपगमविषयद्रव्यदानविशिष्टान्यप्रागभावासत्वाद्वारय- तीति व्यवहारानुपपत्तिरिति चेत् । अत्राहु:-ऋणग्रहणेनाधमर्णनिष्टः परिशोधननाश्योऽदृष्टवि- शेषो जन्यते । तेनैवादृष्टेन ऋणमपरिशोध्य मृतस्य नरकादिकम् । तथा च द्रव्यान्तरदानाभ्युपगमपूर्वकपरदत्तद्रव्यादानजन्यादृष्टविशे- पवत्त्वमेव धारयतेरर्थः । तद्धटकदानान्वयि कर्तृत्वं तत्र चतुर्थ्यर्थः । न च ऋणाशोधनमेव दुरदृष्टजनकमुपपातकमध्ये तस्य परिगणनात्। न तु ऋणादानम्। तस्य तथात्वे मानाभावादिति वाच्यम् । ऋणा- दानस्य दुरदृष्टविशेषजनकत्वेऽपि परिशोधनेन तस्य नाश इति बोधनायापरिशोधनस्य नरकरूपफलोपधानप्रयोजकत्वाभिप्रायेण तस्योपपातकमध्ये परिगणनोपपत्तेः । ऋणमादायापरशोधकस्य नरकभागितया ऋणादानस्यैव दुरदृष्टसाधनतायाः कल्पनीयत्वात् । गृहीतर्णपरिशोधनापेक्षया लघुत्वात् । अपरिशोधनस्य हेतुत्वे परि- शोधनपूर्वकालेऽप्यपरिशोधनसत्त्वे दुरदृष्टोत्पत्तेरावश्यकतया परि- - [ कारके २८६ व्युत्पत्तिवादः शोधनस्य तन्नाशकताया आवश्यकतयाऽस्माकं तत्कल्पनाधिक्य- विरहात् । परिशोधनोत्तरकालं परिशोधनाभावसत्त्वेन तद्वला- त्तदुत्तरमदृष्टवारणाय परिशोधनध्वंसस्य प्रतिबन्धकतायाः कल्प- नीयतया भवन्मते गौरवाञ्च । न च परिशोधनानुत्तरमरणमेव पाप- जनकं वाच्यं, तथा च नोक्तातिप्रसङ्ग इति वाच्यम् । गृहीतद्रव्य- मपरिशोध्यमरणस्थले तद्रव्यपरिशोधनाप्रसिध्या तदनुत्तरत्वादि- घटितरूपेण हेतुतायाः कल्पयितुमशक्यत्वादित्यलम् । यूपाय दारु इत्यादौ न संप्रदानचतुर्थी, अपि तु तादर्थ्यर्थे सूत्रान्तरेण। तादर्थ्यं च स एवार्थः प्रयोजनमस्य तत्त्वम् । समभि- व्याहृतपदार्थे तादर्थ्यविवक्षायां तद्वाचकाच्चतुर्थीति तदर्थः । प्रयोज- नत्वं चात्र न जन्यत्वं, दुःखादेः पापादिजन्यतया दुःखाय पापमित्या- द्यापत्तेः । नापि जन्यतयेच्छाविषयत्वम् , स्वर्गादेः पुण्यादिजन्यत्वे- नेच्छाविषयत्वात् स्वर्गाय पुण्यमित्याद्यापत्तेः । तथा सति पक्तुं व्रज- तीत्यर्थे पाकाय व्रजतीति निर्वाहाय तुमर्थेतिसूत्रप्रणयनवैयर्थ्यात् । पाकादेर्निरुक्तबजनाद्यर्थतयैव तद्वाचकपदाच्चतुर्युपपत्तेः। अपि तु समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छाविषयत्वं तत्प्रयोजन- कत्वरूपतादर्थ्यं च तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वं दारुणो यूपेच्छाधीनेच्छाविषयलक्षणादिरूपव्यापारवत्तया यूपार्थत्वमिति तद्विवक्षया यूपपदाच्चतुर्थी । इच्छाधीनेच्छाविषयव्यापाराश्रयत्वं चतुर्थ्यर्थः । प्रममेच्छायां यूपादेः प्रकृत्यर्थस्य विषयतयाऽन्वयः । एवं रन्धनाय स्थालीत्यादावूह्यम् । तत्र तादृशव्यापारस्तण्डुलधार- णादिः । पुण्यादेः स्वर्गच्छाधीनेच्छाविषयव्यापारानाश्रयतया न स्वर्गाय पुण्यमित्यादिप्रयोगो ब्रजनादेः पाकानुकूलव्यापाराना- श्रयतया न पाकाय व्रजतीत्यादावनेन चतुर्थीति तुमर्थाच्चेत्यादि- सूत्रम् । तदर्थश्च तुमुन्नन्तयद्धातुना यादृशोऽर्थः प्रत्याय्यते समभि- व्याहृतक्रियाऽन्विततदर्थपरात्तद्धातुघटितभावकृदन्ताचर्थीति पक्तुं , चतुर्थी ] जयाऽलङ्कृतः २८७ व्रजतीत्यत्र तुमुन्नन्तेन ब्रजने पाकविषयेच्छाधीनेच्छाविषयत्वं बोध्यते। तुमुन्ण्वुलावितिसूत्रेण समभिव्याहृतक्रियायां प्रकृत- क्रियासमानकर्तृकत्वसहिततदिच्छाधीनेच्छाविषयत्वरूपतदर्थकत्वेन विवक्षितायां तुमुन्ण्वुलोविधानात् । एतत्सूत्रस्यापि वर्गाय पुण्य- मित्यादिर्न विषय इति सोऽसाधुरेव । एधानाहतुं व्रजतीत्यर्थे एधेभ्यो ब्रजतीत्यत्र एधस्य न ब्रजनप्रयोजनत्वं सिद्धत्वात् । ब्रजनस्य तदनु- कूलव्यापारानाश्रयत्वाच्चेति न तादर्थ्य इति सूत्रस्य प्रवृत्तिर्नापि तुम- र्थादित्यादेरेधपदस्य क्रियारूपभाववचनत्वाभावादिति तत्रक्रियार्थी- पपदस्येति चतुर्थी । तदर्थश्च क्रियार्थोपपदस्तुमुन्नन्तो यो धातुरप्रयु- क्तस्तस्य यत्कर्म तत्प्रयोगं विना तदर्थकर्मतया यद्विवक्षितं तद्वाचका- च्चतुर्थीति । तत्र चाहर्तुमिति तुमुन्नन्तार्थः समभिव्याहृतक्रिया- न्वयिस्वार्थकत्वान्वय्यहरणं, तादृशार्थकर्मतया एधस्य विवक्षित- त्वात्तत्र चतुर्थी । चतुर्थ्या एवार्थस्तत्कर्मकाहरणप्रयोजनकत्वम् । पाकाय ब्रजतीत्यादौ पाकं कर्त्तमित्यर्थविवक्षायामनेनैव सूत्रेण चतु- थुपपत्तावपि यदा पाककृतीच्छाधीनेच्छाविषयत्वरूपं पाककर्मक- कृतिप्रयोजनकत्वं न ब्रजनस्य विवक्षितमपि तु पाकेच्छाधीनेच्छा- विषयत्वरूपं पाकार्थकत्वमेव तत्रापि चतुर्युपपत्तये तुमर्थादिति सू- त्रम् । अश्वाय घास इत्यादावश्वपदस्याश्वभोजनपरतया तादर्थ्यच- तुर्येव । आहियत इत्यस्याध्याहारेणाव भोजयितुमाहियत इत्य- विवक्षया क्रियार्थोपपदेत्यादिसूत्रेण चतुर्युपपत्त्या अश्वपदस्य मुख्यार्थपरत्वोपपादनेऽपि अश्वघास इत्यत्राश्वपदस्य तद्भोजनपरता- यास्तादर्थ्यचतुर्थ्याश्चावश्यकता। अन्यथाऽऽहतपदसापेक्षतया च- तुर्थीसमासानुपपत्तेः । न च तथापि समासानुपपत्तिः, रन्धनाय स्था- लीत्यादौ तद्वारणाय चतुर्थी तदर्थेतिसूत्रेण समासे प्रकृतिविकारभा- वस्य नियामकत्वानुसरणादिति वाच्यम् । आरामगृहाश्वघासादौ चतुर्थीतियोगविभागेन शाब्दिकैः समासोपपादानात् । नमःस्वस्त्या- २८८ [ कारके व्युत्पत्तिवादः दिशब्दयोगेऽपि तदर्थविशेषणवाचकपदानमःस्वस्तीत्यनेन चतुर्थ- नुशिष्यते । नमःशब्दार्थस्त्यागो नमस्कारश्च एषोऽर्घः शिवाय नम इत्यादौ त्यागार्थकः । चतुर्थ्यां च तत्र प्रकृत्यर्थस्य शिवादेरुद्देश्यत्वं प्रत्याय्यते । त्यागश्च यदि शिवस्यायं भवत्वित्यादिफलेच्छाधीन- स्वस्वत्वाभावेच्छारूपस्तदा त्यागोद्देश्यत्वं त्यागजनकेच्छायाः स्व- त्वभागितया विषयत्वम् । यदि च त्यागरूपेच्छैव स्वस्वत्वाभावमिवा- न्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि तत्र विषयीकरोति न तु तज्ज- नकेच्छा तदा स्वत्वभागितया त्यागविषयत्वमेव तदुद्देश्यत्वम् । शि- वादेविग्रहवतोऽपि स्वीकाराभावात् तदाकारतया ध्यातमन्त्रस्य त्यागोद्देश्यतामते सुतरां तदभावाच्च । त्यज्यमानोपचारादौ स्वत्वा- भावेऽपि तदीयत्वेन द्रव्ये स्वत्वावगाहिनीच्छा विसंवादरूपैव । द्रव्यनिष्ठेऽन्यदीयस्वत्वे वाधितं शिवादिनिरूपितत्वं शिवादिनि- रूपित प्रसिद्धस्वत्वान्तरे वा बाधितं तत्तद्रव्यसंबन्धमवगाहते। न च खत्वान्तररूपफलेच्छां विना स्वस्वत्वाभावगोचरेच्छैव न संभवतीतिशिवादिखत्वं त्यागस्यैव विषय इति पक्षोऽसंभव- दुक्तिक इति वाच्यम् । स्वस्वत्वाभावविषयकेच्छायाः पुण्यादि- रूपफलजनकत्वात्तद्विषयस्य पुण्यादिजनकतावच्छेदकस्यापि पुण्या- दिफलकत्वात्। अन्यथा तत्स्वत्वस्यापीष्टाजनकतया स्वतोऽपु- रुषार्थतया च प्रथममपि तदिच्छाया असंभवेन प्रथमकल्पस्यापि हेयत्वापातात् । तत्र च प्रथमकल्पे स्वस्वत्वप्रकारकेच्छाजन्यत्वं, ज- न्यतासंबन्धन ताशेच्छावत्त्वं वा चतुर्थ्यर्थः । तत्र प्रकृत्यर्थस्य शि- वादेविषयताविशेषसंवन्धेनान्वयः। द्वितीयकल्पे च विषयिताविशेष एव चतुर्थ्यर्थः। तत्र च निरूपितत्वसंवन्धेन शिवादेरन्वयः। नमःपदा- र्थत्यागस्य च विषयताविशेषसंवन्धेन द्रव्येऽन्वयः। द्रव्यस्यैव वा वि- शेष्यतया भासमानत्यागे विषयिताविशेषसम्बन्धेनान्वयः। न च प्र- थमान्तपदार्थस्य मुख्यविशेष्यतानियमः । भूतले न घट इत्यादौ नि- चतुर्थी ] जयाऽलङ्क्तः २८९ पातार्थस्यापि मुख्यविशेष्यतया भानात् । शिवायोत्सृजतीत्यादाविव नामानिराकर्तृसंप्रदानतास्य नमःपदार्थक्रियात्वाभावात् । नमःपदेन च स्वप्रयोक्तपुरुषकर्तकत्वोपरागेणैव त्यागोऽभिधीयते । अन्योच्च- रितनमःपदेनान्यदीयल्यागाबोधनात् । तत्पुरुषोच्चरितनमःपदात त्यागबोधे सति त्यागे त्यज्यमाने द्रव्ये चान्यदीयत्वसंशयानुदयात्। अत एव त्यागे तदीयत्वबोधनायाहं दद इत्यादिवदहन्नम इति न प्रयु- ज्यते । न वा परकीयत्ववोधनाय चैत्रो नम इत्यादि । ऋत्विजा च यजमानरूपपुरुपान्तरीयतत्तद्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते । स चारोपस्तस्य विशेषदर्शनदशायामप्याहर्यत- योपपद्यत इति प्रतिनिधिप्रयुक्तस्य दानवाक्यस्यैव पूजायां तादृशन- म:पदघटितवाक्यस्य बाधितार्थत्वेऽप्यदृष्टजनकत्वं न विरुद्धम् । अ- स्मच्छब्दादिवत्स्वोच्चारणकर्तृत्वोपलक्षितपुरुषविशेषवाचकानमः- पदाद्विशेषरूपेण पुरुषभानम् । अशक्यस्य चैत्रत्वादेर्भानासंभवे त- स्यापि वाच्येऽन्तर्भावः स्वीकरणीयः। तदनुगमकं चोपलक्षणीभू- तमेककालीनोभयावृत्तिस्वोच्चारयितृशरीरवृत्तिजातित्वम् । स्वत्वान- नुगमेऽपि शक्त्यैक्यं कथंचिदुपपादनीय, सर्वनामशक्त्यैक्यवत् । उप- लक्षणरूपप्रविष्टमुच्चारणं वेदीयत्वेन विशेषणमत: पूजाभिन्नयाह- च्छिकान्नत्यागबोधनायान्नं दीयत इतिवदन्नं नम इति न प्रयोगः । योग्यतासत्त्वेऽपि तत्र नमःपदप्रयोगस्य वेदाबोधितत्वेन तद्धटितत- त्पदशक्यपुरुषोपलक्षणरूपाप्रसिद्धयाऽवाचकत्वात् । अत एव यथा नीचप्रीतिहेतुक्रियास्थले पूजयतीत्यादिवारणाय पूजयतीत्यादिवाच्य- प्रीती गौरवित्तवृत्तित्वं, स्वसमभिव्याहृतपदार्थकर्तृपुरुषावधिकोत्क- र्षवद्वृत्तित्वरूपमुपलक्षणमुपेयते। उक्तस्थले च योग्यतासत्त्वेऽपि नीच- वृत्तिप्रीतेस्तत्त्वाभावेन तत्तात्पर्येण पूजयत्यादेर्न प्रयोगः। तथा नीचो- द्देश्यकल्यागतात्पर्येण नमःपदाप्रयोगात्तदतिप्रसङ्गवारणाय गौरवि- तोद्देश्यकत्याग एव नमःपदशक्तिरित्यनादेयम् । गौरवितोद्देश्यकत्वस्य १६ , [ कारके २६० व्युत्पत्तिवादः नमःपदार्थशरीरे निवेशेऽपि गौरवितोद्देश्यकपूजातिरिक्तद्रव्यत्याग- बोधनाय नमःपदप्रयोगवारणायोक्तविशेषणस्योच्चारणेऽप्यवश्यं निवेशनीयतया तत एव तदतिप्रसङ्गवारणात् । इन्द्राय स्वाहा तुभ्यं स्वधेत्यादौ अग्निप्रक्षेपोपहितदेवोद्देश्यकत्यागबोधकस्वाहापदेपित्रुद्दे- श्यकत्यागबोधकस्वधापदयोरपि नमःपदवद्देशनादेशितोच्चारणक- र्तृत्वोपलक्षितपुरुषीयत्यागवाचकता । अन्यथा पूर्ववदेवातिप्रसङ्गः। एवं च देवोदेश्यकत्वादेरपि न वाच्यान्तर्भावः । अतादृशल्यागतात्प- येण स्वाहादिप्रयोगस्य देशनादेशितत्वविरहेणैवानतिप्रसङ्गात् । अत एव तान्त्रिकपूजायामाचमनीयादिदानेऽग्निप्रक्षेपोपहिनपित्रु- द्देश्यकत्वविरहेऽपिस्वाहास्वधाप्रयोगस्य नासमवेतार्थता। एवं च सति नमःस्वाहास्वधाशब्दानामेकस्थलेऽन्यप्रयोगस्य वेदबोधितत्वाभावे- नैवनातिप्रसङ्गः। नतिरूपो नमःपदार्थश्व स्वापकर्षवोधनानुकूलः स्वी- यव्यापारः।चतुर्थ्याचापकर्षान्वय्यवधित्वमवधिमत्त्वं वाप्रत्याय्यते। स्वमुच्चारयिता। तथा च चैत्रायुच्चारितान्नमो हरय इत्यादिशब्दाद्ध- र्यवधिकचैत्रापकर्षबोधानुकूलश्चैत्रीयव्यापार इत्याकारको बोधः। ना- रायणं नमस्कृत्येत्यादौ नमःशब्दयोगेऽपि न चतुर्थी । द्वितीयया कारकविभक्तित्वेन बलीयस्या बाधात्। अथात्रनारायणादेनमस्कारघ- टकापकर्षावधित्वमेव तच्च नकर्मत्वम्। कर्मत्वं च क्रियाजन्यफलशा- लित्वादिरूपमेव । तच्च न तस्येति द्वितीयाया नायं विषयः । न चापक- र्षबोधरूपफलाश्रयत्वरूपकर्मत्वं तत्राबाधितमेवेति वाच्यम् । एवं- सति नारायणावधिकापकर्षबोधकदण्डवत्प्रणिपातादिजन्यताहशा- पकर्षबोधाश्रयतायाः पुरुषान्तरसाधारणतया नारायणप्रणामद- शायां मनुष्यं नमस्करोतीत्यादिप्रयोगापत्तिः। यदि चापकर्षावधि- त्वप्रकारकबोधानुकून्तव्यापारो नमस्कारस्तद्घटकबोधविशेष्यतया नारायणादेः कर्मत्वम् । क्रियाजन्यफलशालित्वरूपे कर्मत्वे च व्या- पारांशेऽनुकूलतासंबन्धेन विशेषणीभूतं फलमेव विवक्षणीयम् । अत्र चतुर्थी ] जयाऽलङ्कृतः २६१ चानुकूलत्वमेव व्यापारांशे विशेषणमित्यपकर्षावधित्ववोद्भुः पुरु- पान्तरस्य न कर्मतेत्युच्यते तदापि नारायणं प्रणम्येत्यादावेव कर्म- त्वमुपपद्यते न तु नारायणं नमस्कृत्येत्यादौ, नम:पदार्थघटकज्ञानस्य धात्वर्थताविरहेण तद्विषयतायाः कर्मतानात्मकत्वात् । कृतिविषय- तायाश्च नमःपदार्थव्यापार एव सत्त्वात् । मैवम् । नमस्करोतीत्यादौ कृधातुनैव व्यापारबोधात् । अत्र च स्वापकर्षावधित्वप्रकारक- बोधविषयतामात्रं निपातार्थः। अत्र स्वं समभिव्याहृतः कर्ता। तथा च तादृशबोधविषयताप्रयोजकव्यापारानुकूलकृतिमानिति समुदायाधीनो बोधः । तादृशविषयताश्रयतया नारायणादेः कर्म- त्वम् । यतो धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यत्र धात्व- र्थतावच्छेदकत्वं न धातुशक्यतावच्छेदकत्वमपि तु व्यापाररूपार्थे- अनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यत्वम् । प्रकृते निपा- तार्थे धात्वर्थस्य साक्षादन्वये ताशबोधविषयत्वरूपस्य तदवच्छेद- कत्वमक्षतमेव । न चैवं पूर्वदेशादेर्गम्यादिकर्मत्वं दुर्वारं विभागादौ क्रियाजन्यत्वसत्त्वेऽपि निरुक्तधात्वर्थतावच्छेदकत्वाभावात् । न हि विभागादिर्गम्याद्यर्थे कथमपि विशेषणतया भासते । एवं च ना- रायणादेः करोतिकर्मत्वेऽपि नमःपदादिकं विना न तद्योगे नाराय- णादिपदोत्तरं द्वितीया। तदर्थान्वयिफलोपस्थापकाभावेन तदर्थान- न्वयात् । नापि नारायणं फलं करोतीति प्रयोगापत्तिः । फलस्यात्र धात्वर्थव्यापारे साक्षादविशेषणत्वात् । निपातातिरिक्तनामार्थस्य धात्वर्थे भेदेनान्वयस्याव्युत्पन्नत्वात् । धात्वर्थे साक्षाद्विशेषणीभव- त्येव फले द्वितीयार्थाधेयत्वान्वयात् । अत एव 'पुरस्कृत्य शिखण्डि- न'मित्यादावपि शिखण्ड्यादेः कृतिकर्मता धात्वर्थव्यापारविशेषण- पुर:पदरूपनिपाताग्रदेशावस्थानरूपफलाश्रयत्वात्। नारायणो नमस्क्रियते, ज्यायान् पुरस्क्रियत इत्यादौ निपातार्थफलं धात्वर्थ- व्यापारविशेष्यतयैव भासते। तदन्वितमाश्रयत्वं कर्माख्यातादिना २६२ व्युत्पत्तिवादः [ कारके प्रत्याय्यते । अथैवमपि कारकविभक्तेः साक्षाद्धात्वर्थान्वयित्वनिय- मभङ्ग इति चेन्न। तादृशनियमे निपातातिरिक्तार्थमन्तराऽकृत्वेत्य- स्यैव साक्षादर्थत्वात् । अन्यथा घटो दण्डाजायते न पारिमाण्ड- ल्यादित्यादौ कारकपञ्चम्या जन्याद्यन्वयिनि नअर्थाभावे प्रतियो- गितया स्वार्थप्रयोज्यत्वादिबोधनासंभवात् । पारिमाण्डल्यादिनि- रूपितमपि प्रयोज्यत्वं विपयितया तदवच्छिन्नजनकताकज्ञानादौ प्रसिद्धम्। प्रयोज्यत्वविशिष्टोत्पत्तिरेव वा तत्र धात्वर्थः । तत्र पञ्च- म्यन्तार्थपारिमाण्डल्यनिरूपितत्वस्याभावो नया बोध्यते। उक्त- रीत्या क्रियायोगे नमस्कार्यस्य कर्मत्वेऽपि स्वयंभुवे नमस्कृत्येत्यादौ चतुर्थी अपकर्षावधित्वमात्रविवक्षया । केचित्तु नारायणं नमस्कृत्येत्यादौ नमःपदं नतिकर्मपरम्। तथा च नारायणं नतिकर्मीकृत्येत्यर्थविवक्षया घटं शुक्ल करोति शुक्ली- करोतीत्यादौ घटादेरिव नारायणादेः कृतिकर्मता। शिखण्डिनं पुर- स्कृत्येत्यादौ पुरःपदमपस्थितपरम् । एवं घटं साक्षात्करोतीत्या- दौ साक्षात्पदं प्रत्यक्षविषयपरम् । एवं दुःखमाविष्करोतीत्यादा- वप्याविःपदं ज्ञानगोचरार्थकमिति सर्वत्र पूर्ववद्वितीयानिर्वाह इत्याहुः । नमःपदस्य धर्मिबोधकत्वे हरिराविर्भवतीत्यादिव- नमो भवतीति प्रयोगप्रसङ्गात् । तस्मानमस्करोतीत्याविष्करोति पुरस्करोति अलंकरोतीत्यादौ नमःप्रभृतयो निपाता धर्मवाच- का एव, लाघवात् । तत्तद्धर्माश्रयस्य दर्शितरीत्यैव कर्मतोपप- तेः। आविर्भवतीत्यादिप्रयोगानुरोधेन चाविरादिशब्दानां प्रक- टताश्रये धर्मिणि लक्षणोपेयते । शुक्ल: पट इत्यादौ शुल्लादिशब्दा- नामिव । अस्तु वा तत्रापि प्रकटतादिरूपो धर्म एव तदर्थस्तस्यैव धात्वर्थभावे धर्मरूपेऽभेदान्वयः । क्रियायां स्वार्थाभेदान्वये आवि- रादेरेवाकाङ्क्षा स्वीक्रियते न तु नमःपदादेरिति न नारायणो नमो भवतीत्यादेः प्रसङ्गः । शुक्लीकरोतीत्यादौ विप्रत्ययान्तस्यापि शौ- ।

चतुर्थी ] जयाऽलङ्कृतः २६३ क्लथादिधर्म एवार्थः । अभूततद्भावे तदननुशासनात् । अभूतस्य पूर्वकालावच्छेदेन शुक्लादिभावरहितस्य तद्भावः शौक्लथादिः । अथ वा अभूतः पूर्वकालावच्छेदेन धर्मिण्यविद्यमानस्तद्भावः शौल- यादिः, शुक्लीभवतीत्यादौ तु दर्शिता गतिः । न चाभूततद्भावपर्य- न्तस्य विप्रत्ययवाच्यत्वे गौरवाच्छुक्लादिपदोपस्थाप्यपदार्थता- वच्छेदकशौलथाद्यन्वयि अभूतत्वं विप्रत्ययार्थोऽस्तु। शुक्लतर इत्यादौ तरबाद्यर्थोत्कर्षस्येव व्यर्थस्यापि व्युत्पत्तिवैचित्र्येण पदा- थतावच्छेदकेऽन्वयसंभवादिति वाच्यम् । मन्मतेऽपि शौलथादि- भावस्यैव च्चिप्रत्ययार्थतोपगमेन गौरवानवकाशात् । पूर्वकाला- वच्छिन्नस्वनिष्ठाभावप्रतियोगित्वसहितस्याधेयत्वस्य प्रत्ययार्थे प्र- कृत्यर्थस्य संबन्धतया भानोपगमात् । शौलथादावभूतत्वलाभेनैव जलपरमाणुः शुक्लीभवतीति प्रयोगाप्रसङ्गात् । शौलथादेर्धर्मत्वेनैव वाच्यता न तु ताद्रूप्येणेति न शक्त्यानन्त्यम्। प्रकृत्यर्थतावच्छेद- कतत्तद्धर्मनिष्ठाधेयताविशेषाणामेव संबन्धतया भानोपगमाद्धर्मा- न्तरस्याभूतत्वमादाय न जलपरमाणुः शुक्लीभवतीत्यादिप्रसङ्गः। प्रकृत्यर्थतावच्छेदकगतप्रागविद्यमानत्वस्य च्चिप्रत्ययार्थत्वमते तु शुक्लीभवतीत्यादौ प्रकृत्यर्थतावच्छेदकशौक्लयाद्यभावस्य प्रागपि कचिद्विद्यमानतया तद्भावान्वये योग्यतानुपपत्तिः। तत्तद्धर्मिण्य- विद्यमानत्वस्य च्व्यर्थत्वे शक्त्यानन्त्यमितिपूर्वकालावच्छिन्नो- ऽभाव एवाविद्यमानत्वम् । तस्य च प्रकृत्यर्थतावच्छेदके सामाना- धिकरण्यसहितप्रतियोगित्वसंबन्धेनान्वयो वाच्यः । प्रकृत्यर्थे च तादृशसंबन्धेनाभावविशिष्टस्य वैशिष्टयभानमुपयेम् । अन्यथाऽन्यत्र स्वाभावसमानाधिकरणस्याशौक्लयादेः सर्वदाऽशुक्लकाकादावपि सत्त्वेन काकोऽशुक्लीभवतीति प्रयोग: स्यात् । अत्राभावरूपप- दार्थान्तरविशिष्टप्रकृत्यर्थतावच्छेदकवैशिष्टयभानं च प्रकृत्यर्थे न संभवति । प्रकृत्या स्ववृत्तिसहकारेण स्वार्थे यादृशविशेषणावच्छि- २६४ व्युत्पत्तिवादः [ कारके नप्रकृत्यर्थतावच्छेदकीयसंबन्धो न प्रत्याय्यते पदान्तरसमभिव्या- हाररूपाकाझ्यापि प्रकृत्यर्थतावच्छेदकीयताहशविशेषणसंबन्धा- वच्छिन्नसंबन्धाप्रत्यायनेन प्रकृत्यर्थतावच्छेदकीयसंबन्धे विप्र- त्ययार्थाभावविशिष्टप्रतियोगित्वरूपविशेषणस्य प्रकृतिवृत्त्याऽभास- मानस्य भानासंभवादित्यनुपपत्तिः । अस्मन्मते तु भवत्यर्थे भावे बिप्रत्ययान्तार्थस्याधेयतासंबन्धेन पूर्वकालावच्छिन्नस्वाभावाधिकरणविशिष्टस्य शौक्ल्यादेः सामाना- धिकरण्यसंबन्धेनैवान्वयस्योपगन्तव्यतया तेन संबन्धेन चाधिकरण- विशिष्टाशौक्ल्यादिना विशिष्टस्य भवत्यर्थस्यैवाख्याताद्यर्थे श्राश्रय- त्वे निरूपितत्वसंबन्धभानात् । तादृशविशिष्टनिरूपिताश्रयत्वस्य च पूर्वकालावच्छेदेनाशौक्ल्याद्यभावाधिकरण एव सत्त्वेन नोक्तातिप्र- सङ्गः। अन्यत्स्वयमूह्यम् । स्वस्ति भवत इत्यादावाशीः स्वस्त्यर्थः । सा च परहितविषयकस्वेच्छा । स्वमुच्चारयिता, हितान्वयी संवन्ध- श्चतुर्थ्यर्थः । एवं च भवदीयहितविषयिणी मदीयेच्छेति बोधः। कल्याणाद्यर्थकोऽपि स्वस्तिशब्दः, 'स्वस्त्यस्तु मह्य' मित्यादौ । त- त्रापि चतुर्थ्यर्थः संबन्धः स्वस्त्यर्थान्वयीत्यलम् ।। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे चतुर्थीविवरणम् । अथ पञ्चमीविवरणम् वृक्षात्पर्णं पततीत्यादौ पञ्चम्या प्रकृत्यर्थस्य वृक्षादेः पतनादिक्रि- यापादानत्वं प्रत्याय्यते । अपादानत्वं च स्वनिष्ठभेदप्रतियोगिताव- च्छेदकीभूतक्रियाजन्यविभागाश्रयत्वम् । पर्णादेः स्वनिष्ठवृक्षादिवि- भागजनकस्वपतनाद्यपादानत्ववारणाय भूतान्तं क्रियाविशेषणम् ।

पञ्चमी ] जयाऽलङ्कृतः २६५ भेदप्रतियोगितावच्छेदकत्वे विभागे पञ्चम्याः शक्तिद्वयम् । भेदे विभागे च वृक्षादेः प्रकृत्यर्थस्याधेयतासंबन्धनान्वयः। प्रतियोगिता- वच्छेदकत्वमानयत्वसंवन्धन विभागश्च जनकतासंबन्धेन क्रिया- यामन्वेति । जनकतासंबन्धस्य प्रतियोगितानवच्छेदकतया नना तत्संबन्धावच्छिन्नविभागाभावः क्रियायां बोधयितुं न शक्य इति चेत्तर्हि विभागजनकत्वमेव पञ्चम्यर्थोऽस्तु प्रतियोगितावच्छेदक- त्वस्येव तस्याप्याश्रयतासंबन्धेन क्रियायामन्वयः । एवं च वृक्षनिष्ठ- भेदप्रतियोगितावच्छेदकतन्निष्ठविभागजनकपतनाश्रयः पर्णमित्या- द्याकारक उक्तस्थले बोधः। अथ पञ्चमीसमभिव्याहृतनोक्तयोः पञ्चम्यर्थयोईयोरेवाभावद्वयं बोध्यते, यथायोगमेकतरस्य वा । नाद्यः पक्षः । पर्ण वृक्षात्पतति न स्वस्मादित्यत्र स्वनिष्ठपतने स्वनिष्ठभेदप्र- तियोगितावच्छेदकत्वाभावासत्त्वेऽपि स्वनिष्ठविभागजनकत्वाभा- वासत्त्वेन वृक्षात्पतति न भूतलादित्यत्र पतने भूतलादिनिष्ठविभागा- दिजनकत्वाभावसत्त्वेऽपि तनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावा- सत्त्वेनायोग्यतापत्तेः । नापि द्वितीयः । वृक्षात्पर्ण पतति न पर्णादि- त्यत्र पत्रनिष्ठपतने पत्रनिष्ठविभागाजनकत्वस्येव पत्रान्तरनिष्ठभेद- प्रतियोगितावच्छेदकतया पत्रनिष्ठभेदप्रतियोगितानवच्छेदकत्व- स्यापि बाधाद्योग्यताया निर्वाहयितुमशक्यत्वादिति । अत्राहुः। विभागो जनकत्वं च पञ्चम्यर्थः । विभागे प्रकृत्यर्थ- स्यावधिकत्वं संवन्धस्तेन संबन्धेन प्रकृत्यर्थविशिष्टस्य विभागस्य निरूपितत्वविशेषसंबन्धेन जनकत्वेऽन्वयः। जनकत्वं च फलो- पधानरूपं विशिष्टनिरूपिततादृशजनकत्वस्य क्रियायां नसम- भिव्याहारस्थले च क्रियान्वयिन्यभावे प्रतियोगित्वेनान्वयः । वृक्षपत्रादिविभागजनकपत्रादिकर्म च न पत्राद्यवधिकत्वविशिष्ट- विभागोपधायकम् । पत्रादेः स्वावधिकत्वविशिष्टविभागानधि- करणत्वेन तत्कर्मणि विशिष्टविभागसामानाधिकरण्याभावात् ।

२६६ व्युत्पत्तिवादः [ कारके फलोपधायकत्वस्य सामानाधिकरण्यगर्भत्वानोक्तानुपपत्तिः । वृक्षाद्विभजते इत्यादावपि वृक्षावधिकत्वं विभागे प्रतीयते । तत्रापादानतायाः अवधितारूपत्वाद् वृक्षाद्यवधिकत्वविशिष्ट- विभागनिरूपितमेवाश्रयत्वमाख्यातेन बोध्यतेऽतो वृक्षः स्वस्मा- द्विभजत इति न प्रयोगः । यथा हि-स्वप्रतियोगिकत्वविशिष्ट- संयोगः स्वस्मिन्न वर्तते तथा स्वावधिकविभागस्य स्ववृत्तित्वेऽपि स्वस्य न विशिष्टविभागाधिकरणत्वमित्यविवादमेव। अवधित्वा- दिकं च स्वरूपसंबन्धविशेषः । यद्वा विभागोऽवधिकरणता । प्रयो- जकत्वं च वृक्षात्पततीत्यादौ पञ्चम्यर्थः । विभागेऽवधित्वसम्बन्धेन प्रकृत्यर्थान्वयः तद्विशिष्टविभागस्य निरूपितत्वविशेषसंबन्धेनाधि- करणतायामन्वयः । पत्रादिकर्मणि च न तदवधिकत्वविशिष्टवि- भागनिरूपितान्यमात्रनिष्ठाधिकरणताप्रयोजकत्वम्। कारणस्यापि स्वाश्रयनिष्ठकार्याधिकरणतामात्रप्रयोजकत्वादिति सामञ्जस्यात् । अथ वृक्षात्पतति, वृक्षाद्विभजत इतिवत् वृक्षात्त्यजतीत्यादिर्न कथं प्रयोगः । पञ्चम्यर्थस्य विभागजनकत्वस्य विभागावच्छिन्नक्रिया- रूपत्यागेऽवधिमत्त्वरूपपञ्चम्यर्थस्य च विभागरूपधात्वर्थतावच्छे- दकफलेऽन्वये बाधकाभावात् । न च विभागावच्छिन्नक्रियायां विभा- गान्वयोऽव्युत्पन्नः। उद्देश्यतावच्छेदकविधेययोरैक्यादिति वाच्यम् । जनकतासंबन्धन विभागावच्छिन्ने प्रकृत्यर्थविशेषितविभागजनक- त्वान्वये व्युत्पत्तिविरोधविरहात् । न च पञ्चम्यर्थविभागजनकत्वा- वधिमत्त्वयोरन्वयबोधे धातुविशेषाधीनव्यापारविभागोपस्थितेहे- तुत्वोपगमात्तदभावेन त्यजधातूपस्थिततत्तदर्थे न पञ्चम्यर्थान्वय इति वाच्यम् । त्यजिपत्योस्त्यजिविभज्योश्च पर्यायताभ्रमदशायां त्यजत्यर्थव्यापारविभागयोः पञ्चम्यान्वयात् त्यजधातुजन्यतत्तद्- र्थोपस्थितेरपि पञ्चम्यान्वयहेतुताया अवश्यं वाच्यत्वात् । न च पञ्चम्यर्थविभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानव- । पञ्चमी ] जयाऽलङ्कृतः २६७ च्छिन्नव्यापारोपस्थितिस्तादृशावधिमत्त्वान्वये च धातुजन्यविभा- गमुख्यविशेष्यकोपस्थितिहेतुरिति त्यजधातुजन्यविभागावच्छिन्न- व्यापारोपस्थितिविषयव्यापारविभागयोः पञ्चम्यर्थविभागजनक- त्वावधिमत्त्वान्वयासंभव इति वाच्यम् । फलव्यापारयोः पृथग्धा- त्वर्थतामते त्यजधातोरपि प्राधान्येन विभागस्य तदनवच्छिन्नस्प- न्दस्य चोपस्थित्या तदुपस्थितिविषयतादृशार्थयोरपि तत्तत्पञ्चम्य- र्थान्वयसंभवादिति चेन्न । फलावच्छिन्नव्यापारस्य धात्वर्थतामते उक्तरीत्यैव सामञ्जस्यात् । तयोः पृथग् धात्वर्थतामते च फलविषय- कबोधं जनयतु धातुपदमित्येताहशेच्छारूपा फलव्यापारयोरेकैव शक्तिः, पुष्पवन्तादिपदवत् । न तु फलविषयकं व्यापारविषयकं बो- धं जनयत्विति समूहालम्बनात्मकबोधनिष्ठतत्तद्विषयकत्वावच्छिन्न- विभिन्नविषयताशालिसंकेतरूपा। तथा सति नानार्थत्वाविशेषण कदाचित्फलव्यापारयोरेकैकपरित्यागेनाप्येकैकस्य बोधप्रसङ्गात् । तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयवोधे सङ्केतीयबोधनिष्ठवि- पयत्वांशे विभागेतरविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं क्रियांशे विभागजनकत्वरूपपञ्चम्यान्वयबोधे च तादृशबोधनिष्ठ- विषयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं हेतुरुपेयत इति त्यजधातोस्तादृशज्ञानमभ्रान्तस्यासंभवीत्यति- प्रसङ्गानवकाशात् । शक्तिद्वयादिवद्दर्शितैकशक्तेरपि कर्मप्रत्ययस्थले फलव्यापारयोर्विशेषणविशेष्यभाववैपरीत्येन शाब्दबोधसंभवात् । विशिष्टशक्तावेव विशेषणविशेष्यभावविपर्यासानिर्वाहात् । यदि च फलव्यापारयोः शक्तिभेदे एकार्थपरित्यागेनापरार्थबोधप्रसङ्गवदुक्त- रूपसङ्केतोपगमेऽपि पुष्पवन्तपदशक्त्यविशेषेण तत इव सकर्मक- धातुतोऽपि विशेषणविशेष्यभावानापन्नस्यैवान्वयबोधः स्यान्न तु तदापन्नार्थद्वयविषयक इत्युच्येत तदा संकेतस्य बोधांशे विशेषणतया भासमानयोः फलव्यापारविषयकत्वयोरवच्छेद्यावच्छेदकभावाव- [ कारके २६८ व्युत्पत्तिवादः गाहित्वमपि स्वीकरणीयम् । विशेषणविशेष्यभावेन भासमान- योरेव फलव्यापारयोर्विषयताद्वयमवच्छेद्यावच्छेदकभावापन्नमिति तथैव तयोर्भानम् । पुष्पवन्तपदसंकेते च चन्द्रसूर्यविषयतयोरवच्छे- द्यावच्छेदकभावो न भासते। अतस्तयोर्विशृङ्खलमेव भानमिति न काप्यनुपपत्तिः । यदि च वृक्षात्स्यन्दत इत्यादिर्न प्रयोगस्तदा सक- मकधातोः फलविशिष्टव्यापारवाचकतामते पञ्चम्यर्थविभागजनक- त्वबोधे विभागानवच्छिन्नफलावच्छिन्नव्यापारविषयकधातुशक्ति- ज्ञानजन्योपस्थितिः फलव्यापारयोर्वैशिष्टयानुपरक्तयोर्धात्वर्थता- मते च संकेतीयबोधनिष्टविषयतांशे विभागविषयकत्वानवच्छि- नत्वफलान्तरविषयकत्वावच्छिन्नत्वोभयावगाहिज्ञानजन्योपस्थितिः कारणमभ्युपगन्तव्येत्यलमधिकेन । व्याघ्राद्विभेति दस्युभ्यो रक्षतीत्यादी भीत्रार्थानामित्यनेनापा- दानत्वम्। भयं च परतोऽनिष्टसंभावना। त्राणं चानिष्टनिवृत्त्यनुकूलो व्यापारः। तदर्थकधातुयोगे तादृशानिष्टजनकमपादानसंज्ञमिति सूत्रार्थः । एवं च पञ्चम्यर्थस्तत्र प्रयोज्यत्वम् । तच्च निरुक्तधात्वर्थ- घटकानिष्टेऽन्वेति । अथ यस्य व्याघ्राधीनमनिष्टमप्रसिद्धमथ च व्याघहेतुकत्वेन मरणादिकं संभावयति तत्पुरुषपरो व्याघ्रायं विभेतीति कथं प्रयोगः प्रमाणम् । अनिष्टे व्याघ्राधीनत्वस्य बाधा- दिति चेत् भयार्थकधातुयोगे प्रयोज्यताप्रकारकत्वं पञ्चम्यर्थः । तच्चानिष्टसंभावनायामन्वेति । प्रकृते च व्याघ्राधीनत्वस्य तत्पुरुषी- यानिष्ट बाधेऽपि अनिष्टसम्भावनायां तत्प्रकारकत्वमबाधितमेवेति नानुपपत्तिः। एवं च शत्रुभ्रमेण मित्रादपि बिभेतीत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः । एवं च भयार्थकधातुयोगे भयहेतुत्वेन संभावि- तमपादानमित्येकः सूत्रार्थः। अनिष्टविरहानुकूलव्यापाररूपत्राणा- र्थकधातुयोगे तदनिष्टप्रयोजकं तदित्यपरः। अनिष्टं दुःखमेव सर्व- त्रानुगतम्। यज्जन्यं दुःखं कस्यापि न प्रसिद्धथति तादृशस्याप्यहि- पञ्चमी ] जयाऽलङ्कृतः २६४ कण्टकादेरपादानत्वं स्यादिति चेत्तहि तनिष्टदुःखोपधायकव्यापार- विरहानुकूलव्यापारस्तदपादानकं स्वकर्मकं रक्षणमिति वक्तव्यम् । घटाद्यचेतनकर्मकरक्षणं विनाशोपधायकव्यापारविरहगर्भ निर्वा- च्यम् । यवेभ्यो गां वारयति कूपादन्धं वारयतीत्यादौ वारणार्था- नामित्यतेनापादानत्वम् । वारणं क्रियाप्रतिषेधस्तदर्थकधातुयोगे ईप्सितस्तत्तत्क्रियाजन्यफलभागितया तत्तत्क्रियाकर्तुरभिप्रेतोऽपा- दानमिति सूत्रार्थः। क्रिया च भक्षणगमनादिरूपा। तात्पर्यव- शात्कचित्कस्याश्चित्प्रतिषेधो वारयतीत्यादिना बोध्यते । प्रतिषेधः कर्तृत्वाभावानुकूलव्यापारः। कर्तृत्वाभावरूपधात्वर्थतावच्छेदक- फलशालितया गवान्धादेः कर्मता । यवादिपदोत्तरपञ्चम्या यवादिगतत्वेनेच्छाविषयफलकत्वं भक्षणादौ प्रत्याय्यते । इच्छा च भक्षणादिक्रियाकर्तृनिष्ठा तदर्थेऽन्तर्भावनीया। एवं चोक्तस्थले यवकूपादिनिष्ठत्वेन गवान्धादीच्छाविषयो यो गलाधःसंयोगोत्तर- देशसंयोगादिर्गवादिनिष्टतत्तत्फलकव्यापारावशेषकर्तृत्वाभावानुकूल- व्यापारानुकूलकृतिमानित्याकारको बोधः । अन्धादेर्यद्यपि कूपगम- नत्वादिना नेच्छा तथाप्यभिमुखोपगमनत्वादिना कूपगमनादेरिच्छा वर्तत एवेति। वस्तुगत्या यः कूपादिदेशस्तद्गतत्वेन क्रिया- जन्यसंयोगस्य तदिच्छाविषयत्वमक्षतमेव । न च प्रकृतयवकूपा- दिनिष्ठफलविशेषजनकत्वमेव पञ्चम्यर्थोऽस्तु किमिच्छान्तर्भावणेति वाच्यम् । यत्र चैत्रादेर्नान्तरीयकतया विषभोजनादिकं न तु स्वेच्छा- तस्तत्र तद्भोजनविरोधिव्यापारकर्तरि चैत्रं विषाद्वारयतीति न प्रयोगोऽपि तु सविषाद्वारयतीत्यादिरेव । तत्र पूर्वप्रयोगवारणाय सूत्रकृता ईप्सित इत्यनेन सन्प्रत्ययेनेच्छोपादानात् । अत एव यद्यवादिकं केनापि न भुक्तं तत्कर्मकभोजनाप्रसिद्धावपि भोजनफले संयोगविशेषे तद्यवादिगतत्वेनेच्छाविषयत्वप्रसिद्धथा तद्यवाद्गा वारयतीत्यादिप्रयोगोपपत्तिः। एवं च तत्र भक्षणादौ तद्यवादिकर्म- ३०० , , व्युत्पत्तिवादः [ कारके कत्वगवादिकर्तृकत्वोभयाभावबोधाय केषां चित्प्रयासोऽनादेय एवेति । पण्डितात्पुराणं शृणोति, उपाध्यायादधीते, रामादधीतसं- देश, इत्यादावाख्यातुराख्यातोपयोग इत्यनेनापादानता। तत्र प्रकृत्य- र्थपण्डितादिकर्तृकोच्चारणाधीनत्वं पञ्चम्यर्थः। तस्य च श्रवणोच्चार- णार्थविशेषज्ञानादिक्रियायामन्वयः। मृत्पिण्डाद् घटोजायते इत्यादौ जनिकर्तुःप्रकृतिरित्यनेनापादानत्वम् । तत्र प्रकृतित्वं न विकारित्वम्। प्रकृतिविकृतिभावाभावेऽपि प्राक्केकयीतो भरतस्ततोऽभूद्', 'वायो- र्जात' इत्यादौ पञ्चमीदर्शनात् । न हि सुतवपुषो मातापितृशरीरवि- कारत्वमपि तु तदीयशुक्रशोणितादिविकृतित्वमेव । शुक्रशोणितादेः शरीरस्थत्वेऽपि मलमूत्रादेरिव शरीरावयवत्वाभावात् । न च तत्र हेतुपञ्चम्येव नापादानपञ्चमीति वाच्यम् । गुणातिरिक्तहेतौ पञ्चम्य- नुशासनविरहात्। अन्यथा दुग्धाधि जायते, मृत्तिकाभ्यो घटो जायते, शृङ्गाद्धनुर्जायत इत्यादावपि हेतुपञ्चम्यैवोपपत्तौ जनिकर्तु- रित्यादिसूत्रस्यैव वैयर्थ्यांपत्तेः । तस्मात्कारणत्वमेव प्रकृति- त्वम् । दण्डाद्धटो जायत इत्यादयोऽपि प्रयोगा इध्यन्त एव । अत- एवेश्वरस्य द्रव्यादिकार्याप्रकृतित्वेऽपि यतो द्रव्यं गुणाः कर्मेत्यादौ पञ्चमी न च प्रकृतिपदेन कारणमात्रविवक्षायामपि क्रियाविवक्षा- भावादपादानपञ्चम्यनुपपत्तिहेतुपञ्चमी च प्रकृतेऽनुपपन्नैवेति वाच्यम् । अगत्या जायत इत्यादिक्रियाध्याहारेण तत्र पञ्चम्या उप- पादनीयत्वात् । हिमवतो गङ्गा प्रभवतीत्यादौ भुवः प्रभव इत्यनेना- पादानता। यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः। प्रथम- प्रकाश एव प्रभवत्यर्थः । पञ्चम्यर्थः संबन्धाधीनत्वं तादृशक्रिया- यामन्वेति । संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः। उपाध्याया- दन्तर्द्धत्ते छात्र इत्यादावन्तौं येनादर्शनमिच्छतीत्यपादानता। अन्तर्द्धिरन्तर्धानम् । स्वनिष्टान्यकर्तृकदर्शनविषयताविरहोद्देश्यको व्यापारः। एवं च व्यापारानुकूलतयान्तानघटको यत्कर्तृकदर्श- पञ्चमी ] जयाऽलङ्कृतः ३०१ नविषयताविरहोद्देशः सोऽपादानमिति सूत्रार्थः। उक्तस्थलीय- पञ्चम्या अन्तर्द्धिघटकदर्शनान्वयि कर्तृतानिरूपकत्वमेवार्थ इत्युपा- ध्यायकर्तकदर्शनविषयताया य: स्वनिष्ठोऽभावस्तदुद्देश्यकव्यापार- कर्ता छात्र इति तत्रान्वयबोधः । इदन्तु बोध्यम् । अस्मादयं दीर्घोऽस्मादयं तार इत्यादौ नापा- दानपञ्चमी, दैाद्यवधेरपादानत्वस्याननुशासनात् । ध्रुवमपाय इ- त्यनेन हि अपाये विभागरूपक्रियायां क्रियान्तरजन्यविभागे च यद- वधिभूतं तस्यापादानत्वं विधीयते न त्ववधिमात्रस्य । यदि चापायपदं वस्तुमात्रोपलक्षणं तदा तदुपादानमर्थकं स्यात् । अथ तत्पदेन क्रिया- मात्रमुपलक्ष्यते। अस्माद्दीर्घ इत्यादीचभवतीत्यध्याहार्यम्। दीर्घभवनं च दीर्घतैवेति क्रियायाः सावधित्वम् । आवश्यकश्च क्रियाध्याहारस्त- द्योगमन्तरेण कारकत्वास्यानिर्वाहात् । एवं बलाहकाद्विद्योतते विद्य- दित्यादौ द्योतनादिक्रियायाः सावधिकत्वविरहेण निःसृत्येत्यध्याति- यते। अत एव नैतद्पादानम् । निर्दिष्टविषयमपि तूपात्तविषयमिति वै- याकरणाः। निर्दिष्टत्वमुच्चरितत्वम्। उपात्तत्वमध्याहृतत्वम्। विषयोऽ- वधित्वनिरूपकः। निःसरणं च विभाग एवेति उक्तस्थलेऽध्याहृतक्रिया- याः सावधिकत्वमिति चेत् । एवं सति वृक्षात्पततीत्यादौ वृक्षादेरसं- ग्रहः। तत्रापि विभागक्रियाऽध्याहियत इति चेत्, तत्र निर्दिष्टविषय- ताप्रवादविरोधः । एवमस्मादीर्घ इत्यादावपि क्रियाध्याहारे तत्सम- शीले माथुराः सौन्नेभ्यः आढ्यतरा इत्यादावपि क्रियाया अध्या- हरणीयतया तत्रापादानस्यापेक्षितक्रियात्मकस्योपात्तविषयान्तर्भा- वप्रसङ्ग इति तादृशापादानयोरविशेषापत्तिः। एवं च "उपात्त- विषयं किञ्चिन्निर्दिष्टिविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादा- नमुच्यते” इति शाब्दिकविभागविरोधः। अथापायपदेन क्रिया- सामान्य क्रियाजन्यविभागश्च विवक्षितः । एवं च वृक्षात्पततीत्यादौ न विभागात्मकक्रियाध्याहार इति तदपादानमपि निर्दिष्टविषयम् ।

३०२ व्युत्पत्तिवादः [ कारके यत्रापादानतानिर्वाहार्थमेव क्रियाध्याहारो बलाहकादित्यादौ तद्- पादानमुपात्तविषयम् । यत्र वाक्यसमाप्त्यर्थं तदध्याहारस्तत एव चापादानतानिर्वाहो यथा माथुराः स्रौघ्नेभ्यः अस्मादीर्घ इत्यादौ तत्रापेक्षितक्रियत्वमिति चेत् । एवमप्ययमस्मात्तार इत्यादावगति- स्तत्र हि तारभवनं तारत्वं जातिः। जातेश्च न सावधिकत्वमिति कुतोऽपादानता। अन्यथाऽयमस्माद्गौरित्याद्यापत्तिः । न च जाते- रपि तारत्वस्यैवायमस्मात्तार इति प्रतीतिबलाद्भवत्येव सावधिकत्व- मिति वाच्यम् । यदेव ह्येकापेक्ष तारत्वं तदेवान्यापेक्षया मन्दत्वं समनियतजातिद्वयानभ्युपगमात् । समनियतत्वानभ्युपगमे जाति- सङ्करप्रसङ्गात् । तथा च तारत्वादेः सावधिकत्वे स्वापेक्षया यस्ता- रस्तमपेक्ष्य स्वस्मिन्मन्दव्यवहार इव तारव्यवहारोऽपि स्यात् । स्वापेक्षया यो मन्दस्तमपेक्ष्य तारव्यवहारवत्तमपेक्ष्य स्वस्मिन्मन्द- व्यवहारोऽपि स्यात् । अथ तदपेक्षया तारव्यवहारस्तत्सजाती- यत्वे सति साक्षात्कारप्रतिबन्धकतावच्छेदकजातिमत्त्वमवलम्बते- ऽतो न स्वापेक्षया यस्तारस्तदपेक्षया तारव्यवहारोन्यापेक्षया तारे- ऽपि भवतीति चेत्तहिं अस्मात्तार इत्यत्र साजात्यसमानाधिकरण- साक्षात्कारप्रतिबन्धकतावच्छेदकजातिरूपतारपदप्रवृत्तिनिमित्तघ- टकसाजात्ये साक्षात्कारे च पञ्चम्यान्वयो वाच्यः। तावतैव दर्शि- तातिप्रसङ्गवारणसंभवात् । साजात्यं तवृत्तिशब्दत्वजातिस्तस्याः साक्षात्कारस्य च न सावधिकत्वमिति न सावधिकत्वरूपमपादा- नत्वं तत्र पञ्चम्यर्थः । न च साजात्यघटकजातेः सावधिकत्वाभावे- ऽपि वृत्तेः सावधिकत्वमस्त्येव । एवं साक्षात्कारो विलक्षणविषयि- ताशालिज्ञानविषयिता च सावधिकैवेति तत्र पञ्चम्यान्वयेन साम- ञ्जस्यमिति वाच्यम् । यतो वृत्तेविषयितायाञ्च स्वाधारविषयप्रति- योगिकत्वमेव न तु तवधिकत्वम् । तदवधिकत्वतत्प्रतियोगिकत्व- योवस्तुनोर्भेदात् । अन्यथा घटे वर्त्तते घटमवगाहत इत्यत्र घटाद्व- पञ्चमी ] जयाऽलङ्कृतः तते घटादवगाहत इति प्रयोगस्य घटस्यापादानत्वेन दुर्वारत्वात् । अत एव प्रतियोगिताया अपादानत्वानात्मकतयाऽन्यादिशब्दयोगे प्रतियोगिवाचकपदात्पञ्चमी सूत्रान्तरेणानुशिष्टा। प्रतियोगित्व- स्यापादानतारूपत्वे तद्वैयापत्तेः। अथान्यादिशब्दार्थभेदादेः क्रियात्वाभावेन कारकत्वासंभव इति मुनिः सूत्रान्तरं प्रणिनायेति चेत् । तत्किं तारादिघटकवृत्त्यादेः क्रियात्वमनुमन्यते भवता । तस्मादत्र पश्चम्युपपादकं सूत्रान्तरमनुसर्तव्यमिति गुणो द्रव्याद्भिन्न इत्यादौ अन्यारादिति सूत्रेणैव पञ्चमी । अन्यपदस्यान्यार्थकपर- त्वादिति बहवः । न चान्यपदेन तदर्थकविवक्षणे तत्समानार्थकेत- रपदोपादानवैयर्थ्यम् । अन्येतरपदयोरेकस्यान्योन्याभावविशिष्टा- र्थपरत्वात् । अपरस्य पृथक्त्वरूपगुणविशिष्टार्थपरतया सार्थक्यात्। पृथग्विनेत्यादिसूत्र पृथक्पदोपादानं तद्योगे वैकल्पिकतृतीयोप- पत्त्यर्थम् । वस्तुतस्तत्र पृथक्पदमसाहित्यार्थक, न तु गुणवदर्थ- कम् । चन्द्रात्पृथगप्यनङ्ग इत्युदाहरणेऽसाहित्यस्यैव प्रतीतेः । यत्तु अन्यादिपदं नान्योन्याभावार्थंकपदपरं, घटः पटो नेत्या- दावपि नबस्तदर्थंकतया तद्योगे पञ्चम्यापत्तेः। न चान्यपदमन्यो- न्याभावविशिष्टार्थपदपरम् । तस्यापि विशिष्टार्थवाचकत्वात् । नब्पदं च न तथा तदुपस्थितार्थस्य नामान्तरार्थे भेदान्वयसंभवेन तत्र धर्ममात्रवाचकत्वादिति वाच्यम्। द्रव्याद्गुणस्य भेद इत्यादौ पञ्चमीनिहाय भेदार्थकपदस्यैवोपादेयत्वात् । अन्यादिपदस्यापि वाच्यविशेषणभेदार्थकत्वादित्याचार्यानुसारिमतं तन्न । अन्योन्या- भाववाचकपदस्य पञ्चम्यनुपयोगित्वे द्रव्यादन्यो गुण इत्यादौ पञ्चम्यनुपपत्तेः । गुणादौ पृथक्त्वरूपगुणासंभवेनान्योन्याभावस्यै- वान्यपदार्थत्वात् । अन्योन्याभावार्थकपदस्य पञ्चमीप्रयोजकत्वे- तत्र निपातातिरिक्तविशेषणप्रवेशेनापि नब्योगे पञ्चमीवारण- संभवात् । वस्तुतस्त्वन्योन्याभावीयप्रतियोगित्वरूपार्थविवक्षायां ३०४ व्युत्पत्तिवादः [ कारके पञ्चमी नञ्पदोपस्थापिताभावस्य च प्रतियोगिता न विभक्त्या बोध्यते। नबर्थे प्रतियोगितयैवाधेयत्वातिरिक्तविभक्त्यर्थान्वयस्य व्युत्पन्नत्वान्न चैत्रस्येत्यादौ पष्ठ्याद्यर्थस्य नबर्थप्रतियोगित्वादतो न तद्योगे पञ्चमी। श्रथ पृथक्त्वगुणानङ्गीकर्तृमीमांसकमते सूत्रे अन्यतरपदयोरेकतरोपादानवैयर्थ्यं दुर्वारमुक्तरीत्या सार्थकत्वा- संभवादिति चेन्न । तन्मत्तेऽप्येकपदस्य प्राधान्येनान्योन्याभाववा- चकस्यापरपदस्य तद्विशिष्टवाचकस्य संग्राहकतया सार्थक्यात् । न च पटाद्भेद इत्यादौ क्रियायोगादपादानपञ्चम्येव । धातूपस्थाप्य- पदार्थप्रतियोगिताया अपादानतारूपत्वे घटे वर्तत इत्यादौ पञ्चमी- प्रयोगस्य परत्वेनाधिकरणसप्तम्यादिना बाधादेवानवकाशात् । अभावीयविलक्षणप्रतियोगिताया एव वा तथात्वात् । घटादन्यत्व- मित्यादौ चापादानत्वासंभवेऽप्यन्यपदयोगेनैव पञ्चमी। तत्रान्य- पदाद्विशेषणतया भासमानभेद एव पञ्चम्यान्वयोपगमात् । न तु भावप्रत्ययात्प्राधान्येन भासमाने तस्मिन् पदार्थैकदेशेऽपि ससंब- न्धिके प्रतियोगिसंबन्धान्वयख्य व्युत्पत्तिसिद्धत्वादिति वाच्यम् । प्राधान्येन भावप्रत्ययाद्भासमानेऽप्यन्यत्वे घटपटादिप्रतियोगिक- त्वान्वयविवक्षया घटादग्यत्वमिति प्रयोगात्तन्निर्वाहायैवान्येतर- पदद्वयोपादानम् । अथ वा ध्रुवमपाये इत्यत्रावधित्वमेव विवक्षितं न तु प्रतियोगित्वमुभयानुगतरूपाभावादिति पटाद्भेद इत्यादौ पञ्च- म्युपपत्तयेऽन्येतरपदोपादानम् । वस्तुतोऽन्येतरपदं स्वरूपपरमेव । अर्थपरत्वे घटादन्य इतिवद्धटादेक इति प्रयोगापत्तेः। यद्येकपद- स्यान्यत्वरूपेण नाल्यार्थकताऽपि तु समभिव्याहतान्यत्वोपलचिते वस्तुनि बुद्धिविषयतावच्छेदकघटत्वादिनैव । चैत्र एकमानयति मैत्रश्चापरमित्यादौ घटत्वपटत्वादिनैवानयनकर्मतादिप्रतीतेन तु पटघटान्यत्वादिना । अन्यत्वान्वयिप्रतियोगिवाचकपदासमभिव्या- हारात् । अन्यथा तद्योगे पञ्चम्या असाधुत्वेऽपि घटस्यैक इति प्रति- पञ्चमी ] जयाऽलङ्कृतः ३०५ योगिनि षष्ठ्यापत्तेरित्युच्यते तदाप्यन्यार्थकतदादिपदयोगे पञ्चमी- प्रयोगापत्त्यार्थग्रहणासंभव इति । तथा च पटाद्भिन्नं घटाद्भिद्यत इत्यादौ पञ्चमीनिहाय तत्रापादानत्वमेव कथं चिदुपपादनी- यम् । तथा हि-भिदधातोर्नान्योन्याभावोऽर्थो घटाद्भिनत्ति पट इति प्रयोगापत्तेः । भिद्यते पट इत्यादिप्रयोगानुपपत्तेश्च । कर्तरि यगात्म- नेपदासंभवात् । अदैवादिकाच्च नश्यन्संभवः । परस्मैपदित्वाच्च । अकर्मकधातुयोगे कर्मकर्तविवक्षाया अप्ययोगात् । कस्यचिदकर्म- कस्य योगे एयर्थान्तर्भावेणैव कर्मकर्तत्वस्योपपादनीयत्वात् । अन्यो- न्याभावस्याजन्यतया तदर्थकधातोय॑र्थान्तर्भावस्य दुष्करत्वात् । भिद्यते कुसूल इत्यादौ भिदेविदारणार्थकत्वेन सकर्मकतया कर्म- कर्तृत्वसंभवात् । अतोऽन्यत्वेन ज्ञापनं भिद्धातोरर्थः । ज्ञापनं ज्ञान- विषयताप्रयोजकव्याप्तिपक्षधर्मता। तदाश्रयोऽसाधारणधर्म एव भिदादिकर्तकत्वाद्भेदक उच्यते। अन्यत्वप्रकारकानुमितिविषयतारू- पधात्वर्थतावच्छेदकफलाश्रयो भिदाकर्मतया भेद्यः । एवं च पृथिवी इतरेभ्यो भिद्यते इत्यादौ पृथिव्यादेः कर्मतैव न केवलकर्तृता । अन्योन्याभावे साध्ये सर्वतान्त्रिकाणां तादृशप्रतिज्ञालिखनं केषां- चिदनवधानेन प्रतिज्ञास्थवथादिपदं वह्नथादिज्ञानविषयतार्थ- कम् । हेत्ववयवस्थपञ्चम्या ज्ञाप्यत्वं नार्थोऽपि तु प्रयोज्यत्वमेवेति मणिकारादिमतांनुसारेणैव केषांचिदिति सूक्ष्मविवेचनचतुराः । अर्जुनः क्रोशाल्लक्ष्यं विध्यति । अद्य भुक्त्वायं द्वथहाद्भोक्ता इत्यादौ सप्तमीपञ्चम्यौ कारकमध्ये इति पञ्चमी प्रकृत्यर्थयोरध्वाकलयोः का- रकद्वयव्यवधायकतामभिधत्ते। तथा च स्वाधिष्ठितदेशानन्तरकोशा- त्मकाध्वभागानन्तरदेशस्थं विध्यत्यर्जुन इत्यादिप्रथमस्थले बोधः । समभिव्याहृतकःधिष्ठितदेशानन्तय विशेषणतया प्रकृत्यर्थान्वयि, विशेष्यतया प्रकृत्यर्थान्वयि चानन्तरदेशस्थत्वं पञ्चम्यर्थः । स्वी- यैकार्यान्वितापरपदार्थान्वितापरस्वार्थबोधकत्वमप्यत्र व्युत्पत्ति- २० व्युत्पत्तिवादः, [ कारके वैचिच्यादेकपदस्य स्वीक्रियते । भोजनकृत्यधिकरणैतदिवसानन्तर- द्वथहानन्तरदिनवृत्तिभोजनकृतिमानयमित्याकारकवोधश्चरमस्थले। कारकपदेन क्रियानुकूलव्यापाररूपकारकपदार्थतावच्छेदकस्यापि विवक्षितत्वात् । एकक्रियानुकूलकृत्यन्वयिनः प्रकृत्यर्थाधिकरणका- लानन्तरकालीनत्वस्य प्रकृत्यर्थविशेषणीभवदपरक्रियानुकूलकृत्यधि- करणकालानन्तर्यस्य बोधकत्वेऽपि पञ्चम्युपपत्तिः । कारकद्वयमध्य- वर्तिताचात्र कालस्य नोपपद्यते कतुरैक्यात् । अत एवोक्तम्-कर्तृ- शक्त्योर्मध्ये चैकः काल इति ।। इति महामहोपाध्यायश्रीगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे पञ्चमीविवरणम् । अथ षष्ठीविवरणम् संबन्धविवक्षायां कारकविभक्त्यप्रसक्तेः शेषे षष्ठीत्यनेन चैत्र- स्येदमित्यादौ षष्ठी। चैत्रस्य द्रव्यमित्यादौ स्वत्वस्य, चैत्रस्य स्वं, घटस्य कारणं, चैत्रस्य हस्त:, इत्यादौ निरूपितत्वावयवत्वादीनां सं- बन्धत्वेनैव षष्ठ्यर्थता न तु विशिष्य शक्त्यानन्त्यप्रसङ्गात् । संयो- गादिसंबन्धसत्त्वेऽपि चैत्रस्य नेदं वास इत्यादौ स्वत्वादिसंबन्धवि- शेषबोधतात्पर्येण यत्र नञ् प्रयुज्यते तत्र विशेषरूपेण षष्ठ्या लक्ष- णैव । विभक्तौ न लक्षणेति प्रवादस्यानुशासनासत्त्वे एक विभक्त्य- र्थेऽपरविभक्तर्ने लक्षणेत्येतत्परत्वात् । अत एव च कृद्योगापि हि षष्ठी संबन्धत्वेनैव बोधयतीति मिश्राः । इत्थमेव च संबन्धत्वेन कर्मत्वा- दिविवक्षया मातुः स्मृतमित्यादावधीगर्थेत्यनुशासनस्य नियम- परतया सार्थक्योपपादनं वृत्तिकृतामुपपद्यते। संबन्धत्वविशिष्ट- संबन्धविवक्षायां शेषे षष्ठीत्यस्य षष्ठयविधायकत्वे तादृशानुशा- षष्ठी ] जयाऽलङ्कृतः ३०७ . सनस्य विधित्वमेव स्यात् । अत एव च "आमं शूद्रस्य पक्वान्नं पक्क- मुच्छिष्टमुच्यत" इत्यत्र पक्कमित्यनुपज्यमानायाः षष्ठयाः संबन्ध- त्वेन कर्तृत्वमर्थः न तु स्वत्वम् । शूद्रकर्तृकवृषोत्सर्गे चरुहोमानुप- पत्तेरिति नवीनस्मार्त्तानां मतमप्युपपद्यते । न च तत्र कृद्योगा षष्ठी कर्तुत्वत्वेनैवं बोधयतीति वाच्यम् । निष्ठायोगे तस्या निषेधात् । अत एव "नाग्निस्तृप्यति काष्ठानां न पुंसां वामलोचना" इत्यादी करणत्वादेः संवन्धत्वेन विवक्ष्या पष्ठयुपपत्तिः । तृतीया- दिविधिविषयतया विशेषरूपेण करणत्वादिसंबन्धविवक्षायां षष्ठथ- नुपपत्तेः । अथ संबन्धत्वेन संम्बन्धस्य षष्ठीवाच्यत्वे पुरुषस्य दण्ड इत्यादौ दण्डस्य पुरुष इत्यादिरपि प्रयोग: स्यात् । दण्डी पुरुषो रूपवान् घट इत्यादिवण्डरूपादेः पुरुषघटाद्यनाधारत्वेऽपि पुरुषी दण्डो घटवढ़पमित्यादिः प्रयोगो दुर्वारः, तदन्नास्तीत्यर्थं इव तस्येत्यर्थे मतुपो विधानात् । दण्डरूपादिपदोत्तरषष्टया चैत्रघदा- दिनिष्ठतदर्थसंवन्धप्रतिपादने तदुत्तरमत्वर्थीयस्य प्रसंगादिति चेत् । विशिष्य केषांचित्संबन्धानां षष्ठयर्थतोपगमेऽपि घटस्य रूपमित्या- दिप्रयोगानुरोधेन समवेतत्वादेः षष्ठयर्थताया आवश्यकत्वेन हस्तस्य चैत्रः, चैत्रवान हस्तः, शाखाया वृक्षः, वृक्षवती शाखेति कथं न प्रयु- ज्यते, पूर्वप्रयोगाभावादिति चेत्तुल्यम् । नराणां क्षत्रियः शूरो नरेषु वा, अध्वगानां रथगामिनः शीघ्रतरा अवगेषु वा, गवां कृष्णा संपन्नक्षीरा गोषु वेत्यादौ यतश्च निर्धारणमित्यनेन षष्ठीसप्तम्यौ वि- धीयते । तदर्थश्च जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य ताह- शविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्वविशिष्टविधेयवत्तया प्रति- पादनं तद्धर्मावच्छिन्नार्थकपदास्पष्ठीसप्तम्याविति । प्रकृते च क्षत्रिय- त्वादिविशेषणविशिष्टे नरादौ तच्छून्यनरादिव्यावृत्तत्वेन शौर्यविशे- षादिरूपविधेयसंबन्धोऽभिमत इति नरादिपदात्षष्टी । नरेभ्यो रा- क्षसाः शूरतमा इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तच्छून्यनरा- , ३०८ व्युत्पत्तिवादः [ कारके दिव्यावृत्तशूरतमत्वविवक्षायामपि न निरुक्तनिर्धारणं राक्षसत्वा- दिविशिष्टस्य नरत्वादिसामान्यधर्मानवच्छिन्नत्वात् । नराणां क्षत्रियः शूरतम इत्यादौ क्षत्रियादिनिष्ठशूरतमत्वादौ नरादिसामान्यव्या- वृत्तत्वबाधात् शून्यत्वान्तं व्यावृत्त्यवधेर्विशेषणम् । तद्धर्माश्रयय- किंचिद्वधावृत्तत्वविवक्षणे द्रव्येषु घटो गन्धवानित्यपि स्यात्। गन्धा- देर्यत्किचिद्रव्यव्यक्तिव्यावृत्तत्वात्। तादृशविशेषणशून्यसामान्य- व्यावृत्तत्वनिवेशे नराणां क्षत्रियः शूरतम इत्यादावेव तदसंभवः । शूरतमत्वादेः क्षत्रियत्वादिशून्यराक्षसाद्यव्यावृत्तत्वादतस्तद्धर्मा- वच्छिन्नेति । अथ विधेये जात्यादिविशेषणशून्यसाधारणधर्माव- च्छिन्नान्वितं व्यावृत्तत्वं साधारणधर्मावच्छिन्नवाचकपदोत्तरपष्टया- देवार्थो वाच्यः । तावता च नरत्वादिरूपसाधारणधर्मावच्छिन्नवृत्त- त्वस्यैव लाभः संभवति । न तु क्षत्रियत्वादिशून्यत्वविशेषितनरादि- व्यावृत्तत्वस्य प्रकृत्यर्थे नरादौ तादृशविशेषणशून्यत्वबोधकाभावात्। न च षष्ठया एव तदर्थः,शक्त्यानन्त्यप्रसङ्गात्। न च भेद एव षष्ठयर्थः । तत्र च क्षत्रियादिपदार्थस्य प्रतियोगित्वेनान्वयात् क्षत्रियान्यनरादि- व्यावृत्तत्वलाभः शक्तिभेदं विनैवेति वाच्यम् । एवमपि संख्या- तिरिक्तविभक्त्यर्थस्य प्रकृत्यर्थविशेष्यतयैव भानमिति व्युत्पत्तिविरो- धापरिहारात् । नरेषु क्षत्रियाणामेव शौर्यमित्यादौ क्षत्रियादेवि- भक्त्यर्थविशेषणतयोपस्थितस्य भेदे विशेषणतया भानोपगमे व्युत्पत्त्यन्तरविरोधाच्च । अस्तु लक्षणया नरादिपदादेव क्षत्रियान्य- नरत्वादिविशेषरूपेणोपस्थितिरिति चेत् । अस्तु । व्यावृत्तत्वं किं तावत् कुत्र वा तदन्वयः । व्यावृत्तत्वं तदवृत्तित्वम्। शूरतमादि- पदोपस्थापिते धर्मे तदन्वय इति चेन्न । पदार्थतावच्छेदकेन पदा- र्थान्तरानन्वयात् । पदार्थानां जातिमति सत्तेत्यादौ जातिमदन्यप- दार्थवृत्तित्वसामान्याभावस्य सत्तादौ बाधितत्वात् । तादृशपदार्थ- समवेतत्वाद्यभावस्य चाप्रसिद्धावृत्तिबोधासंभवाच्च । एवं द्रव्येषु षष्ठी ] जयाऽलङ्कृतः ३०४ कम्बुग्रीवादिमान् घट इत्यादी घटत्वादिधर्मस्यान्वयितावच्छेदक- रूपेणानुपस्थितत्वात्तत्र व्यावृत्तत्वान्वयबोधो दुर्घट इति । अत्र केचित् नराणां क्षत्रियः शूर इत्यादौ क्षत्रिय इव लक्षणया क्षत्रियान्योऽपि क्षत्रियपदार्थः । शूरपदस्यापि शूर इव तदन्योऽप्यर्थः षष्ठयर्थोऽभेदः क्षत्रिये तदन्यस्मिंश्चान्वेति। तथा च नराभिन्नः क्षत्रियः शूरो, नराभिन्नक्षत्रियान्यो न शूर इत्यर्थः। नराणां क्षत्रियेषु शौर्यमित्यत्रापि क्षत्रियपदं प्राग्वदुभयार्थकम् । शौर्यपदं च तत्तदत्य- न्ताभावार्थकम् । तथा च नराभिन्नक्षत्रिये शौर्यं तदन्यस्मिंस्तदभावः इति बोधः । उद्देश्यविधेययोर्याशसंवन्धो भावान्वयवोधे भासते तत्संबन्धावच्छिन्नविधेयाभावः उद्देश्यवाचकविधेयवाचकपदयोग्य- धिकरण्यस्थले विधेयपदलक्ष्यार्थः। तयोः सामानाधिकरण्यस्थले तु विधेयधर्मिभिन्न इति सामान्यतो व्युत्पत्तिरित्याहुः । तन्न । तथा- सति तस्मै पुरुषोत्तमाय नम इत्यत्र तत्पदार्थतदन्ययोरेव पुरुष- पदार्थाभेदविवक्षणे उत्तमपदेनासामर्थ्यात्समासाप्रसक्तेर्न निर्धारण- इति निषेधाश्रयणेन प्रकाशकृतां षष्टीसमासखण्डनानौचित्य- प्रसङ्गात् । एवं नरेषु शूरस्य क्षत्रियस्येदं राज्यमित्यादौ शूरपदार्था- शूरान्वितक्षत्रियपदार्थक्षत्रियान्यस्य षष्ठयर्थसंबन्धादौ नान्वयः, किंतु शूरान्वयिक्षत्रियादेरन्वय इत्येतन्नोपपद्यते । श्वेतं सैन्धवं भुङ्क्त इत्यादौ कर्मतादिविशेषणतया लवणादिबुद्धौ मुख्यविशेष्यतयाऽ- श्वादेरभानादेकपदोपस्थापितयोयोस्तत्प्रकृतिकविभत्तयर्थे एकस्य विशेषणतयाऽपरस्य तदविशेषणतया भानस्याव्युत्पन्नत्वात् । एवं द्रव्येषु तितिपाथसी रसवती इत्यादौ क्षितिजलोभयत्वाद्यवच्छिन्न- भिन्न रसवदाद्यन्यत्वबोधो न संभवति । रसादिमत्यपि प्रत्येकमुभ- यत्वावच्छिन्नभेदसत्त्वात् । नापि प्रत्येकभेदावछिन्ने तथैव बाधात् । नाप्येकभेदविशिष्टापरभेदावच्छिन्ने एकपदस्य तादृशभेदावच्छिन्न- लक्षकत्वे परपदार्थे रसवदाद्यन्यरूपविधेयानन्वयात् । द्वन्द्वघटकै- व्युत्पत्तिवादः [ कारके कपदार्थमात्रे विधेयान्वयस्याव्युत्पन्नत्वात् । नापि पदाभ्यां लक्षणया तत्तद्भिन्नोपस्थितौ अभेदेनैकभिन्नान्विते अपरभिन्ने तथापि पदार्थद्वये विधेयान्वयानुपपादनात् । द्वंद्वे समस्यमानपदार्थानां परस्परम- नन्वयादित्यपि चिन्त्यम् । यत्तु नराणां शूरः क्षत्रिय इत्यादौ शूरत्वान्वयी अभेदः षष्टयर्थः । नराभिन्नशूरत्वाचवच्छेदेन क्षत्रियाभेदाद्यन्वयः। एवं च क्षत्रियान्ये (?) नरेऽर्थतः शौर्यव्यवच्छेदलाभ इति । तदत्यन्तमसत् । नराणां क्षत्रिये शौर्यमित्यादौ क्षत्रियाणां कर्णः प्रचुरं ददातीत्यादौ चानिर्वाहात्। इदं तु तत्त्वम् । निर्धारणविभक्तेावृत्तत्वमेवार्थः । व्यावृत्तत्वं चाभेदान्वयिविधेयसमभिव्याहारस्थलेऽन्योन्याभावप्रतियोगित्वम् । भेदान्वयिस्थले चात्यन्ताभावप्रतियोगित्वम् । तस्य च विधेयता- वच्छेदकावच्छेदेनान्वयः। अतो न द्वित्वाद्यवच्छिन्नाभावमादाया- तिप्रसङ्गः । अभावे च प्रकृत्यर्थस्य नरादेः क्षत्रियत्वादिरूपोद्देश्यता- वच्छेदकावच्छिन्नभेदविशिष्टप्रकृत्यर्थतावच्छेदकनरत्वादिव्यापका- धिकरणतानिरूपिताधेयतासंबन्धेनान्वयः । एतावतैव जात्यादिरूप- विशेषणशून्यप्रकृत्यर्थनरादिसामान्यव्यावृत्तेविधेयधर्मे लाभः । द्रव्याणां क्षितिपाथसी रसवती इत्यादौ भेदद्वयादिविशिष्टद्र- व्यत्वादिव्यापकतैव संबन्धः। विधेयस्य शूरतमादेर्निर्धारण- विभक्तिप्रकृत्यर्थतावच्छेदकनरत्वादिविशिष्टतादात्म्यादिरेव संब- न्धतया भासते। अतो नराणां राक्षसः शूर इत्यादे पत्तिः । अन्यत्स्वयमूह्यम् । इति महामहोपाध्यायश्रीगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे षष्ठीविवरणम् ।

सप्तमी ] जयाऽलङ्कृतः अथ सप्तमीविवरणम् आधारसप्तम्या आधेयत्वमर्थः । तस्य क्रियायामन्ययः। आधा- राधेयभावश्च न संयोगादिरूपसंबन्धात्मकः । कुण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् । अपि तु पदार्थान्तरमेव । स च संवन्धविशेषावच्छिन्नः संयोगेनाधिकरणं समवायेनाधिकरणमि- त्यादिव्यवहारात्। अथ वोक्ताऽतिप्रसङ्गभिया संयोगेनाधारत्वमेवा- तिरिक्तम् । समवायसंबन्धावच्छिन्नं च समवायादिरूपमेव । न च समवायस्य संवन्धत्वेन द्विष्टतया रूपादेरपि पटाद्यधिकरणताप्रसङ्गः। तथा सति तुल्ययुक्त्याधिकरणत्वस्यापि द्विष्ठतया तादृशातिप्रसङ्गस्य दुर्वारत्वात् । यदि चाधारताया आधारेऽनुयोगित्वं संबन्धः श्राधेये च प्रतियोगित्वमिति संबन्धलक्षण्यानातिप्रसङ्गः, आधारतानुयो- गिताया एवाधारव्यवहारप्रयोजकत्वादित्युच्यते, तदा समवायस्या- पि तद्वैलक्षण्येनातिप्रसङ्गवारणादतिरिक्ताधारतायां मानाभावात् । स्पर्शाद्याधारवाय्वादेः रूपाद्याधारतावारणायाधेयभेदेनाधारत्वमति- रिक्तमिति न सत् । आधेयभेदभिन्नाधिकरणतानामतिरिक्तसमवाय- स्य च कल्पनामपेक्ष्याऽऽधेयभेदेन समवायभेदस्यैवोपगन्तुमुचित- त्वात् । अथ संयोगेनाधिकरणत्वमपि संयोगरूपमस्तु । कुण्डबद- रादिसंयोगानां कुण्डादिकमनुयोगि न तु बदरादिकमिति नाति- प्रसङ्गः। न चैवमपि कुण्डादेः कुण्डादिनिष्ठसंयोगानुयोगितायाः कुण्डाधारतापत्तिः। ताहशसंयोगस्य कुण्डादिनिष्ठत्वेऽपि तत्प्रतियो- गिकत्वानुपगमात्तत्प्रतियोगिकसंबन्धानुयोगिताया एव तदाधार- व्यवहारप्रयोजकत्वात् । न चासौ संयोगो बदरादौ कुण्डविशिष्ट- बुद्धिप्रयोजकतयोभयानुयोगिक एक एवमुभयप्रतियोगिकोऽपीति वाच्यम् । आधेये संयोगेनाधिकरणविशिष्टबुद्धेरप्रामाणिकत्वात् , कुण्डे वदरमित्यादिविशिष्टबुद्धी संयोगप्रतियोगिताया एव संबन्ध- ३१२ व्युत्पत्तिवादः [ कारके त्वात् । पटे रूपमित्यादौ समवायप्रतियोगितावत् । अन्यथा तादृश- विशिष्टबुद्धिबलाद्रूपादावपि घटादिसमवायानुयोगिताप्रङ्गादिति चेन्माभूत्तत्संबन्धावच्छिन्नाधारत्वमप्यतिरिक्तम् । यत्तु तत्पतनप्रतिबन्धकसंयोगवत्त्वं तदाधारत्वं कुण्डादिपतन- प्रतिबन्धकसंयोगवत्त्वं च न बदरादौ, तत्संयोगसत्त्वेऽपि तस्य पतनादिति तदसत् । यस्य पतनमप्रसिद्धं तदाधारत्वासंग्रहात् । स्वस्मिन्स्वपतनप्रतिबन्धकसंयोगसत्त्वेन स्वस्यापि स्वाधारताप्रस- गाच । स्वान्यत्वे सति स्वनिष्ठपतनानुत्पादकप्रयोजकसंयोगवत्त्वं तदिति चेन्न । एतदनुपस्थितावष्यधिकरणव्यवहारादित्यलम् । अथाधारसप्तम्या आधेयतार्थकत्वे भूतले वर्तते घट इत्यादौ धात्व- र्थस्य वृत्तेराधेयतारूपत्वेन तत्र भूतलाद्याधेयत्वाभावेनायोग्यताप्रसङ्ग इति चेन्न। तत्र निरूपकत्वस्यैवाधारतारूपत्वेन निरूप्यत्वस्यैव सप्तम्यर्थत्वात् । भूतलादिनिरूप्यत्वस्य च घटादिनिष्ठवृत्तावबाधात् । अत एव 'इतिहेतुस्तदुद्भव'इत्यादौ हेतौ हेतुतायां चोद्भवपदार्थोत्प- त्तिवृत्तित्वाभावेऽपि हेतुतायामुत्पत्तिनिरूपितत्वसत्त्वेन सप्तम्युप- पत्तिः। अथ वा वृद्धातोरपि आधारत्वमेवार्थस्तन्निरूपकत्वमेव घटा- देस्तत्कर्तृत्वम् । एवं च तादृशधात्वर्थे भूतलाद्यधिकरणकत्वमेव सप्तम्यन्तेन बोध्यते। तत्र तदबाधात्। अथाधारसप्तम्या क्रियायां प्रकृत्यर्थाधिकरणकत्वं यदि योध्यते तदा चैत्रे चैत्रो गच्छतीत्यादि प्रयोगापत्तिः। तत्र धात्वर्थस्य स्पन्दादेः कादिवृत्तित्वात् । भुवि गच्छतीत्यादिश्च न स्यात् । चैत्रनिष्ठक्रियाया भुवि बाधादिति चेन्न। तत्र कर्तघटितपरम्परासंबन्धावच्छिन्नाधारताया एव सप्त- म्यर्थत्वेन सर्वसामञ्जस्यात् । परम्परासंबन्धस्यापि प्रतीतिबलेन कचिदाधारतानियामकत्वोपगमात्। अवच्छेद्यताविशेषोऽप्याधारसप्तम्यर्थः । यथा वीणायां शब्दः, कणे शब्दः, वृक्षाये कपिसंयोग इत्यादौ । एषु कारकतानिहाय - सप्तमी ] जयाऽलङ्कृतः भवतीत्यध्याहारः। अथ वा सप्तम्यधिकरणे चेति चकारेणाकारका- धारवाचिनोऽपि सप्तमी। अत एव साध्यवद्भिन्नसाध्याभावववृत्ति- त्वमित्यत्र साध्यवद्भिन्ने यः साध्याभाव इति सप्तमीतत्पुरुषेण व्या- ख्यानं संगच्छते तत्र क्रियाध्याहारे सापेक्षतयाऽसामर्थ्येन समासा- नुपपत्तेः। चर्मणि द्वीपिनमित्यादौ निमित्तात्कर्मयोग इत्यनेन सप्तमीप्रकृ- त्यर्थचर्मादेहननादिक्रियानिमित्तत्वं बोधयति । निमित्तत्वं च न कारणत्वम् । चर्मादेहननादिक्रियाकारणत्वे मानाभावात् । पूर्ववर्त्ति- वेऽपि इच्छाकृत्यादिना अन्यथासिद्धत्वात् । अपि तु क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषयत्वं स्वविषयकतादृशेच्छाधीनत्वमेव । तत्र क्रियान्वयी सप्तम्यर्थः। तदेकदेशविषयितायां निरूपकत्वेन प्रक- त्यर्थान्वयः । चर्मादेर्धात्यव्याघ्रादेः संवन्धश्च न सप्तम्यर्थः। अपि तु सप्तम्याः साधुत्वे स्वरूपसन्नपेक्षितः। गोषु दुह्यमानासु गत इत्यादौ यस्य च भावनेत्यनेन गवादिपदा- सप्तमी तत्समानाधिकरणदुह्यमानादिपदाच्च नीलं घटमानयेत्यादौ नीलादिपदाद्वितीयावद्विशेषणपदस्य विशेष्यपदसमानविभक्ति- कत्वनियमात् । सप्तमीविधायकसूत्र च भावपदं क्रियापरम् । तथा च यद्विशेषणकृदन्तार्थविशेषणतापन्नक्रियया क्रियान्तरस्य लक्षणं व्यावर्तनं तद्वाचकपदात्सप्तमीति तदर्थः। उक्तस्थले गमना- दिक्रियादोहनादिसमानकालीनत्वादिपुरस्कारेण बोध्यतयाभिप्रेता। अतो व्यावर्तकविशेषणप्रविष्टताहशक्रियाया अपि व्यावर्त्तकतया तत्कर्माद्यभेदान्वयविशेष्यगवादिपदात्सप्तमी । अतस्तादृशसप्तम्याः समानकालीनत्वादिकमात्रमर्थः। तत्र दुह्याद्युपस्थापितदोहनादेनि- रूपकत्वेनान्वयादोहनसमानकालीनत्वादिकं गमनादौ लभ्यत इति न युक्तम् । दुह्याद्युपस्थापितक्रियायाः कृदर्थविशेषणतयोपस्थितायाः समानकालीनत्वादिविशेषणत्वासंभवात् , प्रकृत्यर्थगवादिनान- व्युत्पत्तिवादः [ सम्बोधने न्वितस्य सप्तम्या बोधनासंभवाच। किन्तु समभिव्याहृतदोह- नादिक्रियैव सप्तम्यर्थः । तस्याश्च समानकालीनत्वादिकं क्रियान्त- रे संवन्धः । तत्र वर्तमानार्थककृत्समभिव्याहारस्थले समानका- लीनत्वं दोग्धव्यासु गत इत्यादि भविष्यदर्थकृत्स्थले प्राक्कालीनत्वं दुग्धासु गत इत्यादावतीतार्थकृत्स्थले उत्तरकालीनत्वं संबन्धतया भासते। पाथसि पीते तृषा शाम्यतीत्यादावतीतार्थककृत्समभि- व्याहारात्कार्यकारणभावोऽपि संबन्धतया भासत इत्यादिकमूह- नीयम् । गुणान्यत्वे सति सत्त्वादित्यादौ सतीत्यनन्तरं सत इत्यध्या- हार्यमन्यथा लक्षणीयक्रियाभावेनोक्तसूत्राविषयतया सप्तम्यनुपपत्तेः। तत्र चास्धातोरर्थ आधारता गुणान्यत्वाद्याधारतायाश्च सत्ताधार- तायां तद्वनिष्टत्वं संवन्धतया भासत इति चिन्तामणिकारोक्तसामा- नाधिकरण्यलाभनिर्वाहः। शयानेन चैत्रेण मुक्तमित्यादौ शयनभो- जनादिक्रिययोः समानकालीनत्वभानेऽपि तत्र लट्प्रत्ययेनैव सम- भिव्याहाराद्भोजनादिसमानकालीनत्वं शयनादिक्रियायां बोध्यतेऽ- तो न सप्तमी अन्यतस्तदनभिधान एव सप्तमीविधानात्। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे सप्तमीविवरणम् । अथ सम्बोधनविवरणम् चैत्र त्वया भुज्यतामित्यादौ संबोधने चेति प्रथमा संबोधनमे- वाह । तच्च वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा। प्रथमार्थ- ताशेच्छाया विषयतासंबन्धेन प्रकृित्यर्थविशेषणतया भानम् । अथ संबोध्यत्वज्ञानं विनापि त्वया भुज्यतामित्यादिवाक्याधीनस्य चैत्रा- प्रथमा ] जयाऽलङ्कृतः ३१५ देर्वाक्यार्थबोधस्य भोजनादिप्रवृत्तेश्च निर्वाहात् चैत्रेत्यादिप्रथमा- न्तपदप्रयोगोऽनर्थक इति चेन्न । संघोध्यतानुमापकासाधारणाभि- मुख्यादिविरहे विशिष्यचैत्रत्वाद्यवच्छिन्ने युष्मत्पदशक्तिमहनिर्वाह- स्यैव तत्प्रयोजनत्वात् । चैत्रत्वाद्यवच्छिन्ने बोध्यत्वग्रहं विना संबो- ध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नवाचकयुष्मत्पदस्य विशिष्य- चैत्रत्वाद्यवच्छिन्ने शक्तनिश्चेतुमशक्यत्वात् । न चैवमपि यत्रानन्त- रवाक्यं न युष्मच्छव्दघटितं चैत्रात्र घटोऽस्तीत्यादौ तत्र संबोधन- पदसार्थक्यं दुरुपपादमेवेति वाच्यम् । तत्रापि तत्तद्वाक्ये स्वीयवा- क्यार्थबोधार्थोच्चरितत्वरूपतात्पर्यनिश्चयार्थमेव तत्पदप्रयोगात् । तादृशतात्पर्यनिश्चयं विना श्रुतादपि तत्तद्वाक्याच्चैत्रादेः शाब्दवोधा- संभवात् । चैत्रस्याश्वानयनादिबोधाय मैत्रस्य च लवणानयादिबो- धायोचरितात्सैन्धवमानयेति वाक्याद्वैपरीत्येन चैत्रमैत्रयोस्तत्तद्वा- क्यार्थबोधवारणाय तदीयतदर्थबोधे तदीयतबोधार्थोच्चरितत्वरूप- तात्पर्यनिश्चयस्य हेतुताया आवश्यकत्वात् । 'संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासत इति नियमे संख्याभेदवत्संबोधनभे- दोऽपि निवेशनीयः । अतः संबोधनस्य प्रकृत्यर्थविशेषणतया भानेऽ- पिन क्षतिः। संबोधनस्य प्रकृत्यर्थविशेष्यतयैव वा भानमुपेयम् । व- स्तुतो नामार्थस्य प्रकृतिप्रत्ययार्थमन्तरा कृत्वैव क्रियान्वय इत्यनु- रोधात्सुवर्थकर्मत्वादेः प्रकृत्यर्थविशेष्यतयैव भानमुपेयते न तूक्तनि- यमानुरोधेन । तथा नियमे मानाभावात्। संबोधनविभक्तयन्त- प्रकृत्यर्थस्यान्यत्र विशेषणतयाऽन्वयात्संबोधनस्य विशेष्यतया भानं नियुक्तिकमिति कृतं विस्तरेण। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे सम्बोधनविवरणम् ।

व्युत्पत्तिवादः [ लिङ्गार्थे अथ लिङ्गार्थविवरणम् प्रातिपदिकप्रकृतिकाः स्त्रियामित्यनेन विहिताष्टाबादयः कचि- स्त्रीत्वं प्रकृत्यर्थविशेषणतया बोधयन्ति । अजा अश्वा शूद्रा श्यामा चपला ब्राह्मणी गौरी सुकेशी गर्भिणीत्यादौ । स्त्रीत्वं च योनिम- त्वम्। न च स्त्रीपरपदात्सातुत्वार्थष्टाबादिप्रत्ययो न तु स्त्रीत्वं तस्यार्थः । कचित् खीत्वबोधश्च स्त्रीप्रत्ययप्रकृतितात्पर्यविषयत्वरूप- लिङ्गज एवेति वाच्यम् । खट्वादौ व्यभिचारेण तादृशहेतोः स्त्रीत्वा- साधकत्वात् । प्राणित्वेन विशेषणेऽपि देवतादौ व्यभिचारात् । वस्तुतस्त्वजवत्यपि अजा नास्तीत्यादिप्रयोगात्स्त्रीत्वस्य नबर्था- न्वयितावच्छेदकतया भानमावश्यकम् । अन्यथा पुंसाधारणजाति- विशेषावच्छिन्नाभावस्य बाधेन ताशप्रोगस्य प्रामाण्यानुपपत्तेः । न च प्रातिपदिकार्थ एव स्त्रीत्वं तस्य च तदर्थ एव जात्यादिमति विशेषणत्वेनान्वयः । स्त्रीप्रत्ययास्तु द्योतका एव । अत एव "स्वार्थो द्रव्यं च लिङ्ग च संख्या कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रयः केषांचिदग्रिमा" इति शाब्दिकानां कारिकापि सङ्गच्छते। तत्र स्वार्थो जात्यादिरूपो गवादिपदमुख्यार्थः । द्रव्यं गवादिरूपस्तद्धर्मी तन्मते औपचारिको गवादिपदार्थः। लिङ्गस्य प्रातिपदिकार्थत्वमावश्यकमेव । नात्र ब्राह्मणोऽपि तु ब्राह्मणीत्यादौ पुंस्त्वबोधकपदान्तराभावेन तद्बो- धानुपपत्तेः । ब्राह्मणादिपदाच्च जात्यादेव्यस्य च भानं नियतमेव । लिङ्गभानं तात्पर्ययोग्यताधीनं काचित्कम् । ब्राह्मणीत्यादौ पुंस्त्वाद्य- बोधादिति वाच्यम् । उक्तयुक्त्या पुंस्त्वस्य प्रातिपदिकार्थत्वेऽप्यन- न्तानां प्रातिपदिकपदानां स्त्रीत्वार्थकत्वे गौरवात् । लाघवेनाल्पीयसां स्त्रीप्रत्ययानां तदर्थकत्वकल्पनौचित्यात्। अत एव स्त्रीत्वसंग्रहाय प्रातिपदिकार्थेत्यादिसूत्रे लिङ्गग्रहणम् । अन्यथा प्रातिपदिकार्थ एव स्त्रीप्रत्ययाः ] जयाऽलङ्कृतः ३१७ तदन्तर्भावेन पृथक् तदुपादानानुपपत्तेः। क्वचित्स्त्रीप्रत्ययः स्त्रियं भार्यात्वेन प्रकृत्यर्थविशेष्यतया बोधयति आचार्याणी मानवी शूद्रीत्यादौ। भार्यात्वं संबन्धविशेषः। तत्रैव च निरूपकत्वेन प्राकृत्यर्थान्वयः । खट्वाटवीदेवतापदे च स्त्रीप्रत्यया नार्थवोधकाः। तत्र प्रकृत्यर्थे योनिमत्त्वरूपस्त्रीत्वस्यायोग्यतयाऽनन्वयात् । न च शब्दगतं स्त्रीत्वादिरूपधर्मान्तरमेव तत्र परम्परासंबन्धे- नार्थगततयाभासत इति श्रीपतिदत्तोक्तं युक्तम् । तद्भाने मानाभावात्। यूच्याख्यावित्यत्र च्याख्यपदं स्त्रीलिङ्गशब्दपरं न तु स्त्रीत्वविशि- ष्टार्थकशब्दपरम् । तेनाटव्यादिशब्दानां स्त्रीत्वविशिष्टाबोधकत्वेऽपि न नदीसंज्ञानुपपत्तिः । अत एव स्त्रीभूप्रभृतीनां स्त्रीप्रत्ययान्तत्वा- भावेन स्त्रीत्वविशिष्टबोधकत्वेऽपि नदीसंज्ञाप्रसक्तथा नेयङवस्था- नाविति निषेधसंगतिः। न चैवं सेनान्ये स्त्रियै इत्यादावपि नदीसंज्ञा स्यात्। सेनान्यादिशब्दस्य तत्र विशेष्यनिन्नतया स्त्रीलिङ्गत्वादिति वाच्यम् । प्रयोगानुसारेण विशेष्यसमभिव्याहारानधीनायाः स्त्री- लिङ्गवाया विवक्षणीयत्वादिति संक्षेपः।। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे लिङ्गार्थविवरणम् । अथ तद्धितार्थविवरणम् तद्धितप्रत्यया अपि नामप्रकृतिकाः कचित्प्रकृत्यर्थेन स्वार्थंक- देशस्य कचिच्च तेन स्वार्थस्यान्वयबोधं जनयन्ति । तत्र गार्गिरित्य- त्रापत्यार्थविहिततद्धितार्थस्यापत्यस्यैकदेशेजन्यत्वे निरूपकतया प्रकृ- त्यर्थगर्गाद्यन्वयः । गार्ग्य इत्यादौ तद्धितार्थस्य गोत्रापत्यैकदेशपुत्रघ- टकजन्यत्वे तथा तदन्वयः। गाायण इत्यादौ तद्धितार्थस्य युवाप- ३१८ व्युत्पत्तिवादः [ तद्धिते त्यस्यैकदेशे जन्यत्वे गाय॑स्य जीवति तु वंश्ये युवेतिपरिभाषितयुवा- र्थघटकजीवने च गदेरन्वयस्तेन गर्गादिजीवनकालीनो गर्गगोत्रा- पत्यस्यापत्यमयमिति बोधः । माञ्जिष्टं वास इत्यत्र तेन रक्तमित्य- थै तद्धितो विहितः । तत्संबन्धाधीनतदीयरूपारोपविषयत्वं तेन रक्तत्वम् । शङ्खः पीत इत्यारोपमादाय शङ्खादेरारोप्य पीतिमाद्याश्र- यहरितालादिरक्तत्वस्य वारणायाधीनान्तमारोपे विशेषणम् । पटादे- श्चक्षुरादिना रक्तत्वस्य वारणाय तदीयत्वं रूपविशेषणम् । अत्र च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धिताथैकदेशसंबन्धे प्रतियो- गितया रूपे चाश्रयतयाऽन्वयः। शूल्यमुख्यमित्यादौ तद्धितार्थसं- स्कृतैकदेशे पाकादिरूपसंस्कारे शूलोखादेः प्रकृत्यर्थस्याधिकरणत्वे- नान्वयः । पौषी रात्रिरित्यादौ नक्षत्रयुक्तकालार्थे तद्धितः । कालस्य नक्षत्रयुक्तत्वं च तन्नक्षत्रशशिभोगाश्रयत्वं, तदेकदेशे शशिभोगे च कर्मतया तनक्षत्रान्वयः। पौषो मासः पौषो वर्ष इत्यादौ सास्मिन्नि- त्यनेन विहितस्य तद्धितस्य पौर्णमासीघटितत्वावच्छिन्नोऽर्थः पौर्ण- मास्यां प्रकृत्यर्थपोष्यादेरभेदेनान्वयः। पौषादिपदं च न केवलं यौगि- कम्। पौषः पक्ष इत्यादिव्यवहारविरहात् अतो रूढमपि । अत एव सूत्रे संज्ञाग्रहणं रूढिनिरूपकतावच्छेदकं च मासनिष्ठशुक्लप- तिपदादिदर्शान्ततिथिसमुदायत्वं न तु त्रिंशत्तिथिरूपमासत्व- मात्रम् । यत्किंचित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासव्यवहारे- ऽपि चान्द्रसौरपौषादिबहि तपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात् । अथैवमपि सौरे पौषादिव्यवहारस्व निर्वि- वादतया धनुःस्थरविविशिष्टत्वमेव न कथं पौषादिपदशक्यतावच्छेद- कमुपेयत इति चेन्न । सौरे पौषादौ पौष्यादिपूर्णिमाया अलाभे योग- रूढिलभ्यपौषपदार्थविलोपापत्तेः । न च तत्र रूढिमात्रमवलम्ब्येव पौषादिव्यवहारः सौरपौषादौ मुख्य इति वाच्यम् । तथा सति यो- गार्थव्युत्पादनवैयर्थ्यात् । अथ विलुप्यतां वर्ष विशेषे पौषादिपद्- पौषादिपदार्थ० ] जयाऽलङ्कृतः मुख्यार्थः का क्षतिः । तत्र लक्षणया सौरमासे पौषव्यवहारस्योप- गन्तव्यत्वात् । स्थलपद्मादौ पङ्कजव्यवहारवदिति चेत्तर्हि तत्र पौषा- दिपदमुख्यार्थमासनिमित्तकाब्दिकश्राद्धादिविलोपप्रसङ्गः। यथाश्रुत- शूलपाणिग्रन्थानुसारिणस्तु धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादि- दर्शान्तेषु धनुरादिस्थरविसमाप्यमकरादिस्थरविसंक्रान्तिमन्मासा- भिन्नधनुरादिस्थरव्यधिकरणशुक्ल प्रतिपदादिन्तेिषु वा पौषादि- पदस्य रूढत्वमेव स्वीकुर्वन्ति, न तु यौगिकत्वम् । “अन्त्योपान्त्यो त्रिभौ ज्ञेया" विति वचनात् । पौधादिमासीयपौर्णमास्यां पुष्यादि- योगस्यानियमात् । न च योगानादरे लाघवात्तत्तद्राशिस्थरविवि- शिष्टकालरूपसौरादिमास एव पौषादिपदशक्तिरुचितेति वाच्यम् । सा वैशाखस्यामावास्या या रोहिण्या संम्बध्यते इत्यादिश्रतिबला- चान्द्र एव वैशाखादिपदशक्तिसिद्धेः । वस्तुतो नक्षत्रेण युक्तः काल इत्यत्र नक्षत्रयोगयोग्यत्वमेव विवक्षितम् । पुष्याद्ययुक्तायामपि पौषा- दिपूर्णिमायां पौष्यादिव्यवहारात्। अन्यथा माध्यां यदि मघा नास्तीत्यादेरसंगत्यापत्तेः पुष्यादियोगयोग्यता च धनुरादिस्थर- व्यारब्धपक्षीयत्वं तद्रूपाक्रान्तपौर्णमासीघटितत्वरूपयोगलभ्यता- वच्छेदकं नियतमेव पौषादेरिति नोक्तानुपपत्या यौगिकत्वनिराक- रणसंभवस्तत्पदानाम् । अथैवं निरुक्तरूपस्य पुष्याचघटिततया तेन रूपेण पूर्णिमाबोधकपौष्यादिशब्दानां यौगिकत्वप्रसक्तिरेव नास्ति पौषी रात्रिरित्यादौ पुष्यादियोग एव प्रतीयते न तु निरुक्तं योग्यत्वम् । मकरादिस्थरव्यारब्धकृष्णपक्षीयरान्यादावपि तथा व्यवहारादिति नक्षत्रेण युक्तः काल इत्यत्र योग एव विवक्षणीयो न तु योगयोग्यत्वमिति पौर्णमास्यां पौष्यादिपदस्य न यौगिकत्व- संभवश्चेद्भवतु पौष्यादिपदं निरुक्तरूपावच्छिन्नपूर्णिमारूढमेव पौषा- दिपदानां तद्योगपुरस्कारेण मासवाचकत्वे बाधकामावाद्यौगिकत्वं कथं प्रत्याख्येयम् । न च सास्मिन्पौर्णमासीति सूत्रस्यास्मिन् पौष्या- ३२० व्युत्पत्तिवादः [ तद्धिते दिपूर्णिमायोग्यतेत्यर्थविवक्षया धनुरादिराशिस्थरव्यारब्धशुलपति- पदादिदर्शान्ते तद्धितान्तसमुदायरूढिग्राहकतयोपपत्तौ योगरूढि- स्वीकारोऽनुचित इति वाच्यम् । केवलरूढिपने समुदायशक्यताव- च्छेदकशरीरे आरब्धान्तविशेषणप्रक्षेपण गौरवात् । पौषतैषमाघा- दिनानापदानां गुरुधर्मावच्छिन्ने शक्तिकल्पनमपेक्ष्य सास्मिन्नित्यर्थे- ऽण: प्रत्ययस्यैकशक्तिकल्पनाधिक्यस्योचितत्वात्। न च योगरूढिपक्षे पौषादिपदानां योगार्थरुढ्यर्थाभेदान्वयबोधजनकत्वकल्पनाधिक्येन गौरवमिति वाच्यम् । भवन्मतेऽपि तत्तदर्थे यौगिकरूढत्वभ्रमदशायां सति च तत्तदर्थाभेदान्वयपरत्वग्रहे तथान्वयबोधस्य दुरपह्नवतया तत्र तादृशबोधहेतुताकल्पनस्यावश्यकत्वादिति दिक् । वैष्णवी ऋक् ऐन्द्र हविरित्यादौ देवतार्थविहिततद्धितस्य तद्देव- ताकत्वमर्थः। मन्त्रस्य तद्देवताकत्वं तदुद्देश्यकत्यागकरणत्वेन वेद- बोधितत्वम् । अथ मन्त्रस्य त्यागकरणत्वं वाधितमेव। विनापि मन्त्रमिच्छाविशेषरूपस्य तस्योत्पत्त्या व्यभिचारात्। इष्टसाधनता- ज्ञानघटितक्तृप्तसामग्र्या अन्यथासिद्धत्वाचेति मन्त्रस्य करणतां कथं वेदो बोधयेद् बोधयन्वा प्रमाणं भवेत्। सत्यम्। मन्त्रस्य त्यागकर- णत्वं त्यागाङ्गोच्चारणकत्वं न तु तज्जनकत्वमतो न दोषः । हविषस्त- देवताकत्वं च तदुद्देश्यकत्यागकर्मत्वम्। तत्त्यागोद्देश्यताया एव तद्दे- वतापदार्थत्वात् । न चैवं घृतादिसंप्रदानब्राह्मणस्य घृतादिदेवतात्वा- पत्तिः । उद्देश्यपदेन वेदबोधितद्रव्यस्वामित्वप्रकारेण विषयताया एव विवक्षितत्वात् । संप्रदाने च स्वामित्वस्यावाधितत्वात् । न च त्यागोद्देश्यतायाश्चतुर्थ्यापि बोधनात्तद्धितचतुर्योर्दैवतात्वबोधकता- यामविशेषात्। "तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गन वा पुनः । देवतासङ्गतिस्तत्र दुर्बलं तु परं परम्" इत्यनेन विरोध इति वाच्यम्। त्यागोद्देश्यतायां वेदमेयत्व- तद्धितचतुर्योर्बलाबल० ] जयाऽलङ्कृतः ३२१ स्याधिकस्य निवेशनीयतया चतुर्थ्या तदंशाबोधनेन तस्योपाया- न्तरबोध्यतया चतुर्थ्यधीनदेवतात्वबोधस्य विलम्बिततया तद्धिता- पेक्षया चतुर्थ्या जघन्यतोपपत्तेः। देवतार्थविहिततद्धितेनैव देव- तात्वघटकतदंशस्यापि बोधनात् । अथ चतुर्थ्या वेदमेयत्वांशस्य साक्षादबोधनेऽपि त्यागोद्देश्यत्वस्य साक्षाद्बोधनेन पित्रादीनां साहित्यावच्छिन्नानां पितृभ्यो दद्यादिति चतुर्थ्यधीनत्यागोद्देश्य- ताबोधस्य पितरो देवता इति तद्धितसमानार्थकदेवतापदाधीन- निरपेक्षत्यागोद्देश्यत्वबोधापेक्षयाऽविलम्बितत्वेन साहित्यावच्छि- नानां निरपेक्षाणां वा श्राद्धोद्देश्यत्वमित्यत्र चतुर्थ्यपेक्षया देव- तापदस्य बलवत्त्वरूपं शूलपाणिपर्यालोचितं विनिगमकं न संग- च्छत इति चेन्न । पितृभ्यो दद्यादिति चतुर्थ्या साहित्यावच्छिन्नस्य त्यागोद्देश्यताबोधे तत्र वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहे सत्ये- वाप्रामाण्यशङ्कानुदयः। तादृशग्रहश्च विलम्बितः। देवतापदात्त्यागो- द्देश्यताबोधश्च तदुद्देश्यतांशे वेदबोधितत्वावगाही स्वस्मिन्नप्रामा- एयशङ्काव्युदासाय न ज्ञानान्तरमपेक्षते । स्वस्यैव स्वात्मकोद्देश्यता- बोधांशे व्यावर्त्तकवेदजन्यत्वावगाहनात्। अप्रामाण्यशङ्काकलंकि- तश्च बोधो जातोऽप्यकिंचित्कर इति देवतापदस्य झटिति निश्चीय- मानप्रामाण्यकबोधजनकतया बलवत्त्वेन विनिगमनाया उपपत्तेः एवं श्राद्धार्थावाहनप्रकाशकात् पितर इत्यादिमन्त्रबहुवचनोपस्थापि- तसाहित्यावच्छिन्नावाहनबोधेन साहित्यावच्छिन्नानां श्राद्धदेवता- त्वलाभेऽपि मन्त्रलिङ्गस्य विपक्षबाधकतर्कादिसापेक्षव्याप्तिनिश्चया- धीनतया सुतरां पितरो देवता इत्यतो दुर्बलतेति बोध्यम् । का- पोतं राजतं जनतेत्यादौ समूहार्थविहितस्य पर्याप्तसमुदायत्वावच्छि- नोऽर्थः पर्याप्तौ प्रकृत्यर्थकपोतत्वाद्यनवच्छिन्नस्यान्वयः । कपोतशु- कसारिकादिपर्याप्तसमुदायत्वस्य पर्याप्तिश्च न न्यूनवृत्तिकपोतत्वा- दिनाऽवच्छिद्यते । अतो न तादृशसमुदाये कापोतादिव्यवहारः । २१ ३२२ व्युत्पत्तिवादः [आख्याते पर्याप्त्यवच्छेदकत्वे चान्यूनवृतित्वमेव च तन्त्रं न त्वनतिरिक्त- त्तित्वमपि । अन्यथा आकाशत्वादेवि घटत्वादेरपि द्वित्वादिपर्या- प्त्यवच्छेदकता न स्यात्। आकाशावितिवत् घटावित्यपि न स्यात् । इत्थं च कपोतमात्रवृत्तिशतत्वादिपर्याप्तावपि अतिरिक्तवृत्तिकपोत- त्वादेरवच्छेदकतानिर्वाहात् । कपोतशतादावपि कापोतादिव्यवहा- रोपपत्तिः। पर्याप्त्यतिप्रसक्तधर्मस्य तदनवच्छेदकत्वे गत्यन्तरं चिन्तनीयम्। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे तद्धितार्थविवरणम् । अथाख्यातविवरणम् धातुप्रकृतिकाश्च लकारकृत्सन्यणिच्प्रभृतयः प्रत्ययाः केचि- द्धात्वान्वितसाधकतमत्वं ब्रुवते । अर्थान्तरमनभिधानाश्च के- चिदाकाङ्क्षानिर्वाहकतया प्रकृतिभिः स्वीयार्थबोधन एवोपकुर्वते । तत्र लडादिदशलकाराणां लः कर्मणि च भावे चाकर्मकेभ्य इति सूत्रण कर्तृकर्मभावेष्वनुशिष्टानां कर्तृत्वसामान्यमर्थः। तावन्मात्रा- भिधानेनैव प्रथमान्तपदोपस्थाप्यविशेषणतया तदन्वयेन कृतिवि- शिष्टस्य कर्तुर्बोधनिर्वाहात्। लकारस्य तद्बोधकतया न लःकर्मणीति- सूत्रविरोधः,बोधकताया एव तत्र सप्तम्यर्थत्वात्, न तु वाचकतायाः। गौरवेण विशिष्टधर्मिणि शक्तेर्बाधात् । मैत्रः पचतीत्यादौ लकारे प्रथमान्तपदसामानाधिकरण्यप्रवादस्याभेदेन तदर्थान्वितस्वार्थबो- धपरत्वाभावेऽपि कथंचिदुपपादनसंभवात् । तृतीयायाः साधुतानि- यामकं लकारादिना कर्तुरनभिधानमपि कर्तृत्वविशिष्टाबोधनमेव, न तु विशिष्टशक्त्याऽबोधनपर्यन्तमतो विशिष्टस्य लकारावाच्यत्वेऽ- , . ३२३ कर्तृत्वानभिधान जयाऽलङ्कृतः पि चैत्रः पचतीत्यादौन तृतीयापत्तिः। अन्वयबलेन विशिष्टयो- धात् । चैत्रः पक्तेल्यादौ कृत्प्रत्ययस्य धर्मिणि शक्तावपि न क्षतिः । शक्त्यधीनविशिष्टवोधसाधारणबोधस्यैवानभिधानपदार्थप्रतियोगि- त्वात् । अथानभिहिते कर्तरि तृतीयेत्यनुशासनेऽपि सप्तम्यर्थो बो- धकत्वमेव । तथा च चैत्रेण पच्यत इत्यादौ तृतीयार्थकर्तृत्वस्य प्रक- त्यथेविशेष्यतयैव भानान कर्तृत्वविशिष्टधर्मियोधकत्वमिति सूत्रवि- रोधः। यदि च तत्र कादिपदं धर्मपरम् । तथा च समभिव्याहृत- लकाराद्यनभिहितं कर्तृत्वं तृतीयार्थ इति सूत्रार्थः चैत्रेण पच्यत इ- त्यादौ कतत्वस्य तृतीयामात्रार्थत्वाल्लकारेण तदनभिधानं सुघटमि- त्युच्यते तदा तत्रानभिधानशब्दार्थो भवतैव वक्तव्यः । न तावदवा- चकत्वं तदर्थः । लकारसामान्यस्यैव कर्तृत्वशक्तत्वेनानुक्तिसंभवात्। कर्तरि यकोऽसाधुत्वादेव चैत्रः पच्यते इत्यादिप्रयोगवारणात्। यगा- द्यनुत्तरत्वस्य कर्तृत्वशक्ततावच्छेदककोटावनिवेशात्। तत्र तनिवेशे पच्यन्ते माषाः, भिद्यते कुसूलः, लूयते केदार इत्यादौ कर्मकचुः माषकुसूलकेदारादेः कर्तृत्वबोधानपपत्तिः । न च तत्र स्वयमेवेत्यस्या- ध्याहारेणाव्ययस्वयंपदोत्तरतृतीयया कर्तृत्वं बोध्यते न तु लकारेणेति वाच्यम् । स्वयमित्याद्यध्याहारं विनापि तत्र कर्तृत्वबोधाभ्युपगमात्। तत्र लकारेण कर्तृत्वाबोधने कर्मकर्तुः 'कर्मवत्कर्मणा तुल्यक्रिय' इत्यतिदेशवैयापातात्। लकारस्य कर्मत्वबोधकतयैव यगात्मने- पदचिचिण्वद्भावरूपातिदेशफलनिर्वाहात् । न च कर्मकर्तरि ल- काराधीनकर्मत्वबोधस्याप्यावश्यकता। वस्तुगत्या कर्मकर्तुः कर्मत्वा- तिदेशे चैत्रः स्वं पश्यति स्वं हन्तीत्यादावपि यगात्मनेपदादिप्रस- ङ्गात्। लकारण कर्मत्वविवक्षायामेव कर्मत्वातिदेशस्य स्वीकरणी- यत्वात् । तथा च त्वन्मतेऽपि कर्मत्वातिदेशासंगतिरिति वाच्यम् । कर्मत्वविवक्षायामपि कर्तृत्वविवक्षणे कर्तृकर्मादिसंज्ञासमावेशविरो- धेन परत्वाकर्तृसंज्ञया कर्मसंज्ञाया बाधेनात्मनेपदचिण्वद्भावाद्यनु- ३२४ व्युत्पत्तिवादः [ आख्याते पपत्तेः । कर्तरि शवित्याद्यपवादविषयतया यकोऽप्यनिर्वाहादिति सार्थकत्वात् । न च कर्मत्वकर्तृत्वयोरुभयोस्तत्र बोधस्वीकारे तदेक- तरस्याख्यातार्थतयोद्देश्यतावच्छेदकतया भानासंभवात्समूहालम्बन- बोध एव स्वीकरणीय इति वाक्यभेदापत्तिरिति वाच्यम् । एकत्र द्वयमिति रीत्या तदुभयबोधस्य समूहालम्बनविलक्षणस्य स्वीकारा- त्। यदि च विधेयद्वयत्वज्ञानं समूहालम्बनात्मकमेव । अत एव विधे- यभेदेवाक्यभेद इतिमीमांसकसिद्धान्तोऽपीत्युच्यते, तदास्तुधातोरेव स्वकर्मकक्रियायां लक्षणा। कर्तृत्वसंबन्धमध्य एव वा स्वनिरूपकक्रि- याकर्मत्वस्याप्यन्तर्भाव इत्यलम्। एवमकर्मकत्वेऽपि प्रसूते गौःप्रासोष्ट गौः, नमते दण्डमूलमनस्त दण्ड इत्यादौ ण्यर्थान्तर्भावेणैव कर्मकर्तृतानिर्वाहे "न दुहस्नुनमा यचिणा" विति यचिनिषेधोपपत्तिः। एवं चैत्रेण पक्ष्यत इत्यादौ कर्तृत्ववाचकताया दुरपह्नवत्वात् तृतीया नुपपत्तिः। चैत्रः पक्ष्यत इत्यादौ लकारेण कर्तृत्वबोधनात्स्याल्लकारसाधारणरूपस्य तद्वाचकतावच्छेदकताध्रौव्याच्च । नापि तदबोधकत्वं तदनभिधानं चैत्रेण पच्यत इति वाक्यजबोधे कर्तृत्वविषयके तादृशवाक्य- घटकसकलपदानामेव जनकतया तद्घटकलकारस्यापि कर्तृत्व- बोधकताया वाङ्मात्रेणाप्रत्याख्येयत्वात् । कर्तृत्वविषयत्वाप्रयोज- कत्वं लादीनां तदनभिधायकत्वं चैत्रेण पच्यत इत्यादौ धात्वर्थ- विशेषणतया कुर्तत्वविषयता तृतीयाप्रयोज्यैव न त्वाख्यातप्रयोज्या। आख्यातस्याश्रयतासंवन्धावच्छिन्नकर्तृत्वप्रकारताया एव कार्यता- वच्छेदकत्वादित्यपि न सम्यक् । पचतीत्यवान्तरवाक्यार्थबोधा- संग्राहकतया प्रकारताया एवाख्यातजन्यतावच्छेदकत्वासंभवात् । प्रथमान्तसमभिव्याहारज्ञानस्य योग्यताज्ञानादेर्वा जन्यतायामुक्त- प्रकारताया अवच्छेदकत्वात्। यदि च प्रथमान्तपदसमभिव्याहृता- ख्यातपदजन्यतावच्छेदकतयैव धर्मिविषयतानिरूपितकर्तृत्वविषय- ३२५ , कर्तृत्वानभिधान० ] जयाऽलङ्कृतः ताया आख्यातप्रयोज्यत्वम् । कतत्वविषयतासामान्यं च नाख्यात- पदज्ञानसामान्यजन्यतावच्छेदक ताशसामान्यकार्यकारणभावे मानाभावादित्युच्यते, तदापि चैत्रेण पच्यते तण्डुल इत्यादिवाक्यार्थ- बोधस्य परस्परसमभिव्याहतपदसमूहरूपवाक्यज्ञानहेतुकतया तद्वा- क्यार्थविषयतान्तःपातिकर्तृत्वविषयताया वाक्यघटकाख्यातप्रयो- ज्यत्वं दुर्वारमेवेति । मैवम् । अनभिहितेति कर्तरि तृतीयेत्यस्य कर्तृत्वविशेष्यतया प्रातिपदिकार्थेऽविवक्षिते तृतीयेत्यर्थः । प्रातिप- दिकार्थविशेषणतयैव कर्तृत्वेऽविवक्षिते इति यावत् । अवधारण- परतया प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तदुत्तरं तृतीयेति पर्यवसितम् । अतश्चैत्रः पचतीत्यादावाख्यातेन कर्तृत्वबोधनादुक्तार्था- नामप्रयोग इति न्यायात्तृतीयापत्तिविरहात् । प्रातिपदिकार्थान्वयि- तया कर्तृत्वविवक्षायामित्येव सम्यक्किं विशेष्यतयान्वयित्वपर्यन्तनि- वेशनेनेति नाशङ्कयम् । संख्यातिरिक्तसबर्थस्य प्रकृत्यर्थविशेष्यत- यैवान्वय इति व्युत्पत्तिसूचकत्वेन विशेष्यतयान्वयित्वपर्यन्तस्याव- श्यं विवक्षणीयत्वाद्यथाश्रुतसूत्रार्थानुरोधेन कर्तरि लकारविभक्त्योः शक्तिवादिभिर्वैयाकरणैरपि प्रातिपदिकार्थविशेष्यतया कर्तरि विव- क्षिते तृतीयेत्येव सूत्रार्थो वाच्यः । अन्यथा चैत्रेण पच्यत इत्यादौ कर्तुरनभिधानस्योक्तक्रमेण दुर्वचतापत्तेरित्यलमधिकेन । अथानभि- हिते कर्तरि तृतीयेत्यस्योक्तार्थकत्वे चैत्रादिकर्तृकत्वविशेषितपाकादि- विवक्षया चैत्रेण पचतीत्यादिप्रयोगापत्तिः । न च परस्मैपदार्थकर्तृ- त्वान्वयिविशेष्यविरहान्न तथा प्रयोगः। विशेष्यतयापि कर्तृत्वबोध- सम्भवात् । चैत्रमैत्रोभयकर्तृकपाकस्थले चैत्रकर्तकपाककर्ता मैत्र इत्य- न्वयतात्पर्येण चैत्रेण पचति मैत्र इति प्रयोगस्य दुर्वारत्वाच्च । न च कर्तृत्वातिरिक्त विशेषणतापन्नायां कतत्वे वा विशेषणतानापन्नायां क्रियायामेव तृतीयार्थकर्तृत्वान्वयो व्युत्पन्न इति वाच्यम् । चैत्रेण पाचयति मैत्र इत्यादौ ण्यर्थकर्तृत्वविशेषणतापन्ने पाकादौ चैत्रादि- ३२६ व्युत्पत्तिवादः [पाख्याते कर्तृकत्वान्वयेन तादृशव्युत्पत्तेरसिद्धेः । न च लकारार्थकर्तृत्वविशे- षणतानापन्नक्रियाविशेषणतया कर्तृत्वबोधकत्वं सुपां व्युत्पन्नमिति न कश्चिद्दोष इति वाच्यम् । उक्तस्थले चैत्रेण पकवान मैत्र इति प्रयोगापत्तेः । मैवम् । आश्रयातिरिक्ताविशेषणतापनकर्तृत्वविशेषण- तानापन्नक्रियायां तृतीयार्थकतत्वान्वयव्युत्पत्तौ न किंचिद्वाधकम् । मैत्रेण पाचयतीत्यादौ कर्तृत्वनिर्वाहकव्यापारो णिजर्थः । तत्राश्रयातिरिक्त व्यापारे विशेषणं कर्तृत्वमिति तद्विशेषणतापन्न- क्रियायां तृतीयार्थकतत्वविशेषणत्वे न किंचिद्वाधकम् । चैत्रेण पचति मैत्र इत्यादयश्च न प्रयोगाः । तत्राश्रय एव कृतेर्विशेषणतया तद्विशेषणतानापन्नक्रियायां तृतीयया कर्तृत्ववोधनासंभवात् । कृति- विशेष्यकबोधाभिप्रायेण चैत्रेण पचतीति वारणायाश्रयविशेषण- त्वमुपेक्ष्याश्रयातिरिक्ताविशेषणत्वं निवेशितम् । अनभिहिते कर्तरि तृतीयेत्यस्यापि निरुक्तक्रियाविशेषणतया प्रातिपदिकार्थान्वयि- कर्तृत्वविवक्षायां तदुत्तरं तृतीया भवतीत्येवार्थ इति दिक् । कर्तृत्वं च चैत्रः पचतीत्यादौ क्रियानुकूला कृतिरेव । तस्या एवानुकूलकृति- त्वेन कृतित्वेन वाऽऽख्यातवाच्यता । रथो गच्छति, काष्ठं पचती- त्यादौ च क्रियानुकूलव्यापाररूपे कर्तृत्वे निरूढलक्षणा कृतित्वजाते: प्रवृत्तिनिमित्तत्वे लाघवात् । मीमांसकास्तु व्यापारत्वेनैव शक्तिः । पचतीत्यादावपि तेनैव रूपेण बोधोपगमात् । एवं चाचेतनेऽपि प्रयोगो मुख्य एव । कृतित्वस्य लाघवं चाकिंचित्करम् । यत्र लघुगुरुरूपाभ्यां बोधो निर्विवादस्तत्रैव लघुरूपावच्छिन्ने शक्त्युप- गमात् । प्रकृते च कृतित्वेन बोधस्य सविवादत्वात् , तथापि तदव- च्छिन्ने शक्त्युपगमे तत्रामुख्यार्थेऽनादितात्पर्यकल्पनायां गौरवात् । एवं बीजादिनाङ्करः कृत इत्यादौ विनापि यनं कृषः प्रयोगात्, तस्यापि व्यापारसामान्यार्थकता । अतः करोतिविवरणीयार्थकत्वेऽ- पि नाख्यातस्य यत्नत्वावच्छिन्नवाचकता न वा किं करोति पचतीति नैयायिकमतम् ] जयाऽलङ्कृतः ३२७ प्रश्नोत्तरयोः समानप्रकारकबोधजनकत्वानुरोधेन तथात्वम् । अत्र केचित् । पचतीतिवाक्यजन्यबोधेसति यत्नत्वावच्छिन्ने ब- र्तमानत्वसंशयानुदयात्तत्र यत्नत्वावच्छिन्ने वर्तमानत्वयोधकत्वसिद्धौ तदवच्छिन्ने शक्तिबधवासिध्यति। न हि यत्नाविनाभूतक्रियाविशेष- लिङ्गकानुमानलभ्येन यत्नत्वावच्छिन्नेन समं वर्तमानत्वान्वयबोध- कत्वमाख्यातस्यार्थाध्याहारमतेऽपि संभवति, लडादिकृतवर्तमान- खान्वयबोधे लडादिसमभिव्याहृतधात्वन्यतरजन्यविशेष्योपस्थितेः कारणताया आवश्यकत्वात् । अन्यथा निराकाङ्क्षयत्नादिपदमात्रा- द्यन्नाद्युपस्थितावपि तत्र वर्तमानत्वादेर्लडादितो बोधप्रसङ्गात् । न चा- ध्याहारवादिनां द्वारं पिधानं कृत्तिरित्यादितो द्वारकर्मककृतेरिव पचति यत्न इत्यादितः पाकयत्नो वर्तमान इत्याद्याकारको वर्तमान- त्वादेर्बोध इष्ट एवेति वाच्यम् । परस्परसाकाङ्क्षपदार्थद्वयान्व- याबोध एवाध्याहृतस्येव निराकाङ्क्षपदादुपस्थितस्यार्थस्य विषय- तायास्तैरुपगमात् । तत्रान्वयानुभावकसाकाङ्क्षपदसत्त्वात् । प्रकृते चान्वयबोधस्याऽऽकाङ्क्षानुपयोगिपदार्थान्वयविषयकत्वेन तेषामप्यसंमतत्वात्। तत्स्वीकारे निराकाङ्क्षस्याप्यनुभावकत्वस्वी- कारापत्तेः । शाब्दबोधे आकाङ्क्षानुपयोगप्रसङ्गाचेति तन्न। तात्पर्यलिङ्गन यत्नत्वावच्छिन्ने वर्तमानत्वानुमितेरेवोपगमात् । ताशवर्तमानत्वप्रतीतौ शाब्दत्वप्रतीते: सविवादत्वादित्याहुः । अत्र नैयायिकाः। रथो गच्छतीत्यादावाश्रयत्वमेवाख्यातार्थो न तु व्यापारः। अन्यदीयगमनानुकूलनोदनादिविलक्षणव्यापारवति गच्छतीत्यप्रयोगात् । एवं च काष्ठं पंचतीत्यादिप्रयोग एव व्यापार- शक्तिमाख्यातस्य साधयेद् यदि स्वारसिकः स्यात् । तदेव न । न हि चैत्रः पचतीत्यादिप्रयोगेण काष्ठं पचतीत्यादिप्रयोगस्याविशेषः । एवमचेतने स्वरसतः कर्तृपदाप्रयोगात् कृमोऽपि यत्नत्वविशिष्टोऽर्थः । एवं चैत्र एव पचति पाककर्ता न त्वचेतनं काष्ठादीत्यादिप्रयोगाल्लका- ३२८ व्युत्पत्तिवादः [ आख्याते रस्य यत्नत्वविशिष्टार्थकताया आवश्यकत्वात् । लाघवात्तत्रैव शक्ति- ापारे लक्षणेति । न च यत्नत्वस्याख्यातावाच्यनिवृत्तिजीव- नयोनियत्नसाधारणतया लकारशक्यतावच्छेदकत्वासंभव इति वाच्यम् । निवृत्त्यादियत्नस्याख्यातवाच्यतोपगमे क्षतिविरहात् । निवृत्त्यादेः पाकानुकूलताविरहेण तत्काले पचतीतिप्रयोगापत्तिविर- हात्, इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेवाख्यातप्रवृ- त्तिनिमित्तत्वोपगमाद्वा । अत एवेश्वरकृतेर्जन्यमात्रजनकत्वेऽपीश्वरः पचति ईश्वरो भुङ्क्त इत्यादयो न प्रयोगाः । न चैवमीश्वरो वेदं वक्ति मथुरायां कृष्णो विहरतीत्यादिप्रयोगानुपपत्तिः। अत्राख्यातस्य लक्ष्यार्थव्यापारबोधकतोपगमात् । ईश्वरकृतिसाधारणधर्मस्याख्या- तप्रवृत्तिनिमित्तत्वेऽपि तत्र व्यापारलक्षणाया आवश्यकत्वात् । त- था हि । आत्मा पचति शरीरं पचतीत्यादिखारसिकप्रयोगविरहादा- ख्यातार्थकृतेरुद्देश्यतावच्छेदकशरीरविशेषावच्छेदेन समवायेनान्व- यनियमः स्वीकरणीयः । चैत्रादिपदस्य शरीरविशेषविशिष्टात्मपर- तया चैत्रः पचतीत्यादौ शरीरविशेषात्मकोद्देश्यतावच्छेदेकावच्छेदे- नात्मनि समवायेनान्वयसंभवात् । गौरः पचतीत्यादावपि गौरादि- पदस्य गौरशरीराद्यवच्छिन्नात्मनि आख्यातस्यैव वा व्यापारे लक्षणोपगमात् । एवं चेश्वरकृतेः शरीरानवच्छिन्नत्वादुक्तस्थले कृतेस्तथान्वयासंभव इति व्यापारलक्षणा आवश्यकी । ईश्वरकृति- साधारणयत्नवावच्छिन्न एवाख्यातार्थः । असाधारणानुकूलत्वं यत्ने क्रियायाः संबन्धतया भासते न त्वनुकूलतामात्रम् । असाधारणानु- कूलताया एवाकाङ्क्षानिरूपकत्वोपगमादतोऽस्मदादिकर्तृकपाकादि- क्रियानुकूलकृतिमादाय नेश्वरः पचतीतिप्रयोगः । वेदवचनादौ च ईश्वरकृतेरेवासाधारणकारणत्वात् ईश्वरो वेदं वक्तीत्यादयः प्रयोगा इत्यपि केचित्। अथ कृतेराख्यातस्य कृनश्च वाच्यत्वे करोतीत्यादौ कृतेविधा । आख्यातार्थ० ] जयाऽलङ्कृतः ३२६ भानं स्यात् । धातुप्रत्यययोर्द्वयोः कृतिबोधकत्वादिति चेन्न । एको द्वावित्यादौ एकत्वद्वित्वादिबोधकप्रकृतिप्रत्ययोभयसत्त्वेऽप्येकधैवै- कत्वादिधीवत्प्रकृतेऽपि बाधकाभावात् । तत्र विभक्तेः साधुत्वार्थ- कत्वेऽत्रापि तथात्वात् । अथ तर्हि करोति चैत्र इत्यादौ प्रातिपदि- कार्थे साक्षादेव कृत्यन्वयः स्यात् । स च नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्याव्युपनत्वात् तथा न संभवतीति नामार्थधात्वर्थयोः साक्षादन्वयोपगमे कर्मतादिबोधकविभक्तरसत्त्वेऽपि तण्डुलः पचतीत्यादौ कर्मतादिसंबन्धेन तण्डुलादेः पाकादावन्वयसंभवेन तादृशवाक्यात्तण्डुलकर्मकपाकादिवोधापत्तेः । न च प्रातिपदिकार्थ- प्रकारकक्रियान्वयवोध एवाव्युत्पन्नो न तु क्रियाप्रकारकग्रातिपदि- कार्थविशेष्यकबोधोऽपीति वाच्यम् । घट: करोतीत्यादितः कर्मता- संबन्धेन कृत्यादेः घटादावन्वयाभावात् क्रियाप्रकारकनामार्थविषय- कबोधस्याव्युत्पन्नत्वादिति चेन्न । उक्तातिप्रसङ्गवारणाय धातोः कर्मतादिसंबन्धेन क्रियान्वयाबोधकत्वव्युत्पत्तेरुपगमान त्वाश्रयता- संबन्धेन कृत्यादिरूपक्रियान्वयाबोधकत्वव्युत्पत्तेरित्यदोषात् । न च तादृशातिप्रसङ्गवारणाय धातुजन्यकृत्यादिप्रकारकान्वयबोधे प्रत्य- यजन्यविशेष्योपस्थितेर्हेतुता वाच्या। तादृशकारणाभावात् प्राति- पदिकार्थविशेष्यकबोधोपि न संभवतीति वाच्यम्। कर्मत्वादिसंबन्धेन कृत्यादिप्रकारकबोधस्याप्रसिद्वथा सामग्रथकल्पनेनापादुकाभावात् तादृशकारणताया अकल्पनात् । न च क्रियते चैत्र इत्यादौ कृतिप्र- कारकबोधवारणायैव उक्तकारणताकल्पनमावश्यकमिति वाच्यम् । सति तात्पर्ये इष्टत्वात् । कर्तविशेष्यकान्वयबोधपरधातूत्तरयकोऽ साधुत्वाच्च प्रामाणिकानां न तथा प्रयोगः । करणं चैत्र इत्यादौ चैत्रादौ धात्वर्थकृतेराश्रयतासंबन्धेनान्वयबोधवारणाय ताश- कार्यकारणभावकल्पनमित्यपि न । तादृशबोधे आख्यातान्तधातुना समभिव्याहारज्ञानहेतुतयैवोक्तस्थले तादृशबोधवारणसंभवात्।

३३० व्युत्पत्तिवादः [पाख्याते दीधितिकृतस्तु गच्छति जानाति करोतीत्यादौ आख्यातस्या- श्रयत्वे निरूढलक्षणायाः स्वीकारान्न नामार्थे क्रियायाः साक्षा- दन्वय इत्याहुः । तन्मते यद्यप्याश्रयत्वसंवन्धस्याधिकस्य जानाति चैत्र इत्यादिवाक्यजन्यबोधविषयताकल्पनेन गौरवं तथापि यत्र धातोर्ज्ञानाश्रयत्वे लक्षणाग्रहः शक्तिभ्रमो वा तत्र चैत्रादिविशेष्यको ज्ञानाश्रयत्वादिप्रकारको बोध आश्रयतायाः संसर्गतावादिनाम- प्यनुमतः । चैत्रादिविशेष्यकाश्रयतासंसर्गज्ञानादिप्रकारकशाब्द- बोधस्तु दीधितिकारमते कचिदपि न प्रसिध्यतीति तादृश- शाब्दबोधे योग्यताज्ञानादेहेतुताकल्पनं तथाविधशाब्दबोधाङ्गीक- मिरिणकारस्य मते आवश्यकमिति गौरवम् । वस्तुतस्तु चैत्रेण ज्ञायते घट इत्यादौ कर्मप्रत्ययस्थले यावतां पदार्थानां प्रकारता तावतां चैत्रो जानाति घटमित्यादि कर्तप्रत्य- यस्थले तथात्वं, परंतु विशेष्यविशेषणभाववैपरीत्यम्। एवं कर्म- प्रत्ययस्थले यस्य ससंबन्धिकपदार्थस्य यदंशे विशेष्यता कर्तृप्रत्यय- स्थले तन्निरूपकतायास्तदंशे प्रकारता इत्यनुभवस्य दुरपह्नव- त्वाभिप्रायेणाश्रयत्वस्याख्यातार्थतां दीधितिकार उररीचकार । चैत्रेण ज्ञायते इत्यत्राधेयत्वरूपतृतीयार्थस्य चैत्रविशेष्यत्वात् । चैत्रो जानातीत्यत्राधेयतानिरूपकत्वरूपाधारतायाश्चैत्रांशेऽप्रकारचे तादृशानुभवविरोधात् । न च चैत्रेण ज्ञायत इत्यत्राप्याधेयत्वं संसर्ग एव न तु विशेष्यमिति वाच्यम् । तथा सति आत्मना ज्ञायते न घटेनेत्यादौ घटादिवृत्तित्वाभावबोधानुपपत्तेः। आधेय- त्वस्य तृतीयार्थताविरहेण तृतीयान्ताद्घटादिवृत्तित्वरूपप्रतियोग्य- नुपस्थितेः । आधेयत्वसम्बन्धस्याभावप्रतियोगितानवच्छेदकतया च तत्सम्बन्धावच्छिन्नघटाभावबोधस्य तत्रोपगमासंभवात् । ताह- शसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वे ज्ञाने न घट इत्यादि. वाक्यजन्यप्रत्यये ज्ञानाद्यधिकरणकताहशसंबन्धावच्छिन्नघटाद्य- कर्तृत्वशक्ततावच्छदेक० ] जयाऽलङ्कृतः भावस्याप्यवगाहनसंभवाद्घटे ज्ञानं न वेत्यादिसंशयनिरासाय कदाचिज्ज्ञाने न घट इत्यादिकमपि प्रयुज्येत । अत एवानुकूलकृति- मत्त्वादिरूपकर्तृत्वादेरपि चैत्र: पचतीत्यादौ प्रकारता मणिकृतापि स्वीक्रियते न तु संसर्गता। न पचतील्यादावन्वयबोधानिर्वाहात् । ताशसंबन्धस्य वृत्त्यनियामकतया अभावप्रतियोगितानवच्छेदक- त्वेन तत्संबन्धावच्छिन्नक्रियाविरहप्रत्ययस्य तत्रोपगमासंभवात् । एवं चैत्रेण ज्ञायत इत्यादावाधेयत्वस्य तृतीयया अविवक्षणे प्राति- पदिकार्थमात्र विवक्षया तद्विषयानुशिष्टप्रथमैव स्यात् । जानाति चैत्र इत्यादौ चाख्यातेन कर्तत्वाविवक्षणे धात्वर्थरूपभावमात्रपरतया परस्मैपदस्य नादिविकरणस्य वा साधुतापत्तिः। भावकर्मणो- रित्यात्मनेपदविधायकानुशासनविषयत्वात् कर्तरीत्यधिकारीयत्र्या- दिभ्यः ना इत्यनुशासनाविषयत्वाच्चेति। तत्राख्यातस्य कर्तृत्वा- बोधकतायुक्तिस्तु न साधीयसी इतराविशेषणतया · क्रियाबोध- परत्वरूपभावविवक्षायामात्मनेपदानुशासनविषयतोपगमादुक्तस्थले परस्मैपदसाधुतायास्तादृशभावविवक्षादिविरहस्य श्राद्यनुशासन- विषयत्वोपगमेन नादिविकरणस्य साधुतायाश्च निर्वाहसंभवात् । पचन् पचतीत्यादाविवोद्देश्यतावच्छेदकविधेयाभेदेन जानन् जा- नातीत्यादेनिराकाङ्क्षतानिर्वाहायापि जानातीत्यादावाख्यातस्या- श्रयतार्थकतोपगम आवश्यकः । अन्यथा कृदन्तप्रतिपाद्यताव- च्छेदकस्य ज्ञानादिरूपविधेयभिन्नतया निराकाङ्क्षताविरहेण तथा प्रयोगापत्तेः । एतेन तत्राश्रयतायाः प्रकारतोपगमे जानाति चैत्र इत्यादिवाक्यज्ञानघटितशाब्दसामग्रथा भिन्नविषयप्रत्यक्षादिप्र- तिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थित्यादिरूपाधिककारणानां निवेशे गौरवेणाश्रयतायाः संसर्गत्वमेवोचितमित्यादिकमनुपादेयम् । नश्यतीत्यादौ प्रतियोगित्वरूपकर्तत्वमाख्यातार्थस्तादृशसंबन्धस्या- भावप्रतियोगितानवच्छेदकत्वेन नश्यतीत्यादौ नाशप्रतियोगित्वाभा- व्युत्पत्तिवादः [ आख्याते वबोधस्यैव स्वीकरणीयतया न संसर्गतासंभवः । अथाख्यातस्य कर्तृ- त्वशक्ततावच्छेदकं रूपं दुर्वचम् । न च तिङ्त्वं तथा तसादिसाधा- रणस्य तित्वस्य दुर्वचत्वात्। न च पाणिनीयसङ्केतसंबन्धेन तिङ्प- दवत्त्वमेव तित्वं तिवाद्यष्टादशसु तत्पदसंकेतग्राहकं च आदिर- न्त्येनेति सूत्रमेव तत्संकेतमविदुषामनधीतपाणिनीयतन्त्राणां तिप्त्वा- दिना शक्तिभ्रमादेव शाब्दबोध इति वाच्यम् । एवं सति घटादिवा- चकघटादिपदेष्वपि कस्य चिच्छब्दस्य पुरुषविशेषीयसंकेतसंभवेन तुल्ययुक्तया तत्रापि तच्छब्दस्यैव शक्ततावच्छेदकतापत्त्या तिबादि- षु पाणिनेस्तिपदसंकेतवत्तत्र शब्दान्तरसंकेतस्यापि अन्यपुरुषी- यस्य संभवात् । तत्तच्छब्दानामपि प्रवृत्तिनिमित्ततायाः सुवचत्वा- द्विनिगमनानुपपत्तेः। अत्र केचित् । तिबादिस्थानिनो लकारस्य लत्वजातिपुर- स्कारेण कृतिवाचकता। पचतीत्यादी लकाराश्रवणेऽप्यादेशेन तिबादिना स्थानिनः स्मरणात्तत एवार्थोपस्थितिः। आदेशादेशि- भावमविदुषां तु तिप्त्वादिना शक्तिभ्रमादेवार्थोपस्थितिः। यत्र तिबादेर्लादेशत्वज्ञानं नास्ति श्रुतलकाराच्चार्थोपस्थितिस्तत्र पच- तीत्यादिवाक्याच्छाब्दवोधवारणाय पचतीत्याद्यानुपूर्वीज्ञानजन्य- बोधे तिबादेलादेशत्वज्ञानमपि हेतुः। न चोक्तस्थले धातुसाकाङ्क्षत्व- ज्ञाने भवत्येव शाब्दबोधस्तदसत्त्वे च कारणाभावादेव नापत्तिरिति वाच्यम् । पचतीत्यादौ तिवादिना लकारस्योपस्थापनेऽपि तत्तद्धा- तुसाकाङ्क्षतया तत्स्मारकाभावेन शाब्दबोधानुपपत्तेः लकारे धातु- साकाङ्क्षत्वप्रहस्य शाब्दबोधहेतुत्वासंभवात् । न हि तत्तद्धातुसा- काङ्क्षत्वेन लरितबादिस्थानीयेन तद्रूपावच्छिन्नमेव तिबादिः स्मा- रयेत् अपि तु लत्वेनैव तथात्वमिति। एवं तत्तद्धातुपदाव्यवहितोत्तर- त्वरूपतत्साकाङ्क्षत्वेन येन पुंसा न लकारः श्रुतस्तस्य तेन रूपेण तत्तत्स्मरणासंभव इति ।

आत्मनेपद० ] जयाऽलङ्कृतः अत्रेदं चिन्त्यते। लकारतिवाद्योरनतिप्रसक्तस्थान्यादेश- भावस्य दुर्वचत्वात् । तिबादिस्मारितलकारस्य वाचकत्वं न विचार- सहम्। तिबादेरेव यत्र वाचकताग्रहस्तदनुरोधेन पचतीत्या- द्यानुपूर्वीज्ञानस्य तिबादिजन्योपस्थितिसहकारेण शाब्दबोधो- पधायकताकल्पनस्यावश्यकतया लकारजन्योपस्थितिसहकृत- तादृशानुपूर्वीज्ञानतिवादिधर्मिकलादेशत्वज्ञानघटितसामग्रथन्तरक- ल्पने गौरवेण लाघवात्तिबादेरेव ताप्येण शक्तिकल्पनाया उचित- त्वं चेत्याख्यातसामान्यस्य कर्तत्व इव तद्विशेषस्यात्मनेपदस्य कर्मत्वे शक्तिर्न तु यथाश्रुताग्राहिवैयाकरणमत इव कर्मरूपधर्मिवाचकत्वं गौ- रवात् । प्रथमान्तपदार्थे कर्मत्वान्वयवलादेव कर्मता विशिष्टधर्मिला- भसंभवात् । न चात्मनेपदस्य शानच्प्रत्ययस्य धर्मिणि शक्तेः पच्य- मानमानयेत्यादौ पच्यमानादिनिष्ठानयनकर्मत्वाद्यनरोधेनावश्यक- त्वात्तत एवोपपत्तौ आख्यातरूपात्मनेपदस्य धर्मवाचकत्वं नियुक्ति कमिति वाच्यम् । तङ्शानच्साधारणस्यात्मनेपदत्वस्य शक्तताव- च्छेदकत्व एव तथोक्तिसंभवात् । तादृशात्मनेपदत्वस्य चागुरोर्निर्व- चनासंभवात् । पाणिन्यादिसंकेतसंबन्धनात्मनेपदवत्त्वस्य शक्तता- वच्छेदकताया उक्तरीत्याऽनवकाशात् । अतस्तादीनां तत्तद्रूपेण शक्तिकल्पनस्यावश्यकतया लाघवात्कर्मत्व एव तत्कल्पनात् । कर्म- त्वं च त्यज्यते ग्रामो, गम्यते ग्राम, इत्यादौ धात्वर्थतावच्छेदकीभू- तसंयोगविभागादिरेव विशेष्यतया तिङ्वाच्यः । चैत्रेण गम्यते ग्रा- मः इत्यत्र तृतीयार्थस्तत्कर्तकत्वरूपमाधेयत्वं तस्य धात्वर्थे संयोगा- त्मकफलावच्छिन्ने स्पन्दलक्षणे व्यापार तस्य च जन्यतासंबन्धेना- त्मनेपदार्थसंयोगरूपफले तस्य चाश्रयतासंबन्धेन प्रथमान्त- पदोपस्थाप्यग्रामेऽन्वय इति चैत्रवृत्तियः संयोगावच्छिन्नस्पन्द- स्तजन्यसंयोगवान् ग्राम इत्याकारकः शाब्दबोधः । चैत्रेण त्यज्यते ग्राम इत्यत्र संयोगस्थाने विभागमन्तर्भाव्य बोध उपपाद- ३३४ व्युत्पत्तिवादः [ आख्याते नीयः । अथ चैत्रनिष्ठक्रियाजन्यसंयोगविभागादेामादाविव चैत्रा- दावपि सत्त्वात् चैत्रेण त्यज्यते गम्यते चैत्र इत्यपि स्यात् । न स्याच चैत्रेण न गम्यते, न त्यज्यते चैत्र, इत्यादीति चेत् । अत्र दीधितिकारप्रभृतयः फलमिव तत्र क्रियान्वयिपरसमवे- तत्वमपि कर्माख्यातार्थः । परत्वे च भेदरूपे प्रतियोगितया फले आश्रयतयान्वयिनः प्रथमान्तपदोपस्थाप्यस्यान्वयः। चैत्रे चैत्रान्य- समवेतक्रियाजन्यसंयोगादिमत्वस्यान्वयायोग्यत्वात् । तादृशसंयो- गाद्यभावस्य च तत्रान्वययोग्यत्वान्न तत्रापत्त्यनुपपत्त्योरवकाश इत्याहुः। तत्रेदं चिन्तयन्ति । प्रथमान्तपदोपस्थाप्यकर्मणोऽन्वयिताव- च्छेदकावच्छिन्नत्वाविशेषितप्रतियोगितया भेदांशेऽन्वयोपगमेऽपि चैत्रेऽपि चैत्रस्य द्वित्वादिनाभेदसंभवेन तत्समवेतक्रियायां परसम- वेतत्वाक्षतेरुक्तदोषोद्धारासंभवः । अन्वयितावच्छेदकावच्छिन्नप्रति- योगितया तत्र तदानस्वीकारे चैत्रेण द्रव्यं गम्यते इत्यादावनुप- पत्तिः, द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वादेः क्रियादौ बाधात् । न च तत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरमिति वाच्यम् , मन्देन गम्यते मन्द इत्यादौ मन्दस्य मन्दान्यमन्दपरत्वासंभवात् मन्दा- न्यसमवेतमन्दवृत्तिक्रियाया अपसिद्धथानुपपत्तितादवस्थ्यात् । अननुगतमन्दगततत्तद्वयक्तित्वोपस्थित्यनैयत्वात् । कर्तृव्यक्तिभिन्न- मन्दत्वेन लक्षणाग्रहस्य तादृशवाक्यजन्यधीपूर्वत्वस्य नियमतोऽसं- भवात् । न च फलविशेष्यव्यक्तीनां तत्तद्वयक्तित्वावच्छिन्नप्रतियो- गितासंबन्धेन परत्वेऽन्वयात्संबन्धोपस्थितेश्चानपेक्षणानानुपपत्ति- रिति वाच्यम् । संसर्गतात्पर्यज्ञानानुरोधेन तदुपस्थितेरपि शाब्द- बुद्धावपेक्षणीयत्वात्। तद्वयत्त या तद्वयक्तिर्न गम्यते इत्यादावभाव- प्रतियोगिकोटिप्रविष्टतद्वयक्तित्वावच्छिन्नभिन्नसमवेततद्वयक्तिसम- वेतक्रियाया अप्रसिद्धः। G - कर्माख्यातार्थः ] जयाऽलङ्कृतः ये तु फलं भेदञ्च कर्मप्रत्ययार्थः, फले जन्यतासंबन्धेन भेदे च स्वावच्छिन्नप्रतियोगिताकत्वसंवन्धेन क्रियाया अन्वयः भेदफलयोश्च कर्मण्याश्रयतासंवन्धेनान्वयः, चैत्रसमवेतक्रियावच्छिन्नभेदस्य चैत्रो नाश्रय इति ताहशक्रियाजन्यफलाश्रयत्वेऽपि तस्य चैत्रेण चैत्रोगम्यत इति न प्रयोगः, मन्दो मन्देन गम्यते इत्यादेरेकमन्दादिनिष्ठक्रि- यावच्छिन्नभेदसहितस्य तज्जन्यफलस्य मन्दान्तरे सत्त्वान्नानुपत्ति- रिति ब्रुवते–तन्मतेऽपि चैत्रेण चैत्रो न गम्यते इत्यादेरनुपपत्तिर्दु- चारैव । चैत्रे चैत्रसमवेतक्रियावच्छिन्नभेदाभावसत्त्वेऽपि तादृशक्रि- याजन्यफलाभावस्य बाधात्। न च फलाभावो नया न तत्र प्रत्याय्यो- ऽपि तु भेदाभाव एव कर्मणीति वाच्यम्। यदा चैत्रेण ग्रामो न ग- म्यते तदापि तादृशप्रयोगानुपपत्तेः। तादृशभेदाभावस्य ग्रामे बा- धात् । न च भेदस्य सामानाधिकरण्यसंबन्धेन फलेऽन्वयः । तादृश- सम्बन्धेन क्रियावच्छिन्नभेदविशिष्टस्य क्रियाजन्यफलस्यैव चाभावो नषा कर्मणि प्रत्याय्यत इति न दोषः। विशिष्टामावस्योभयत्र सत्त्वादिति वाच्यम् । एवमपि मन्देन यत्रापरमन्दो न गम्यतेऽ- पि तु ग्रामादिरेव तत्र प्रामादिगन्तरि मन्द मन्दान्तरनिष्टक्रिया- वच्छिन्नभेदसहितस्य स्वात्मकमन्दनिष्ठक्रियाजन्यग्रामादिसंयोगस्य सत्त्वेन विशिष्टाभावबाधान्मन्देन मन्दो न गम्यते इत्यादेरनुप- पत्तिः। यदि फलमेव कर्माख्यातार्थस्तस्याश्रयत्वखानुकूलक्रियाव- च्छिन्नभेदवत्त्वोभयसंबन्धेन कर्मण्यन्वयः। नसमभिव्याहा- रे च तदुभयसंबन्धावच्छिन्नक्रियाजन्यफलाभाव एव तत्रान्वयी- त्युच्यते, तदापि यत्र चैत्रमैत्रयोरुभयकर्मजसंयोगस्तत्र चैत्रनिष्ठता- दृशसंयोगस्य चैत्रे आश्रयत्वस्वानुकूलक्रियावच्छिन्नभेदवत्त्वोभय- संबन्धेन सत्त्वाच्चैत्रेण चैत्रो न गम्यते इत्यस्यानुपपत्तेः । चैत्रेण चैत्रो गम्यते इत्यापत्तेश्च । अत्रोच्यते । भेदः फलं च कर्माख्यातार्थः। स्वावच्छिन्नप्रति- ।

व्युत्पत्तिवादः [ आख्याते योगिताकत्वसंबन्धेन चैत्रादिनिष्टक्रियाविशेषितभेदस्य स्वसामा- नाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वोभयसंवन्धेन फलेऽन्वयः। विशिष्टफलस्य नसमभिव्याहारे विशिष्टफलाभावस्य नब्सम- भिव्याहारे च कर्मण्यन्वयः । । चैत्रमैत्रयोरुभयकर्मजसंयोग- स्थले चैत्रवृत्तिक्रियावच्छिन्नभेदस्य चैत्रेऽसत्त्वेन विशिष्ट- फलाभावोऽक्षतः। यत्र मन्देन ग्रामो गम्यते न तु मन्दान्तरं तत्र मन्दनिष्ठग्रामसंयोगे मन्दान्तरनिष्ठक्रियावच्छिन्नभेदसामा- नाधिकरण्यस्य तन्मन्दान्तावेण सत्त्वेऽपि तादृशभेदप्रतियोगि- तावच्छेदकमन्दान्तरनिष्ठक्रियाजन्यत्वस्यासत्वात्तद्घटितोभयसंब- न्धेन मन्दनिष्ठक्रियावच्छिन्नभेदविशिष्टस्य फलस्याभावो मन्देऽक्षत एवेति न कश्चिद्दोषः । कर्तृप्रत्ययस्थले चाधेयतया प्रकृत्यान्वितस्य फलस्य भेदरूपापरार्थे सामानाधिकरण्यस्वजनकक्रियावच्छिन्नप्रति- योगिताकत्वोभयसंबन्धेनान्वयः तादृशभेदस्य च स्वप्रतियोगिता- वच्छेदकत्वसंबन्धेन क्रियायाम् । यत्र चैत्रक्रियया ग्रामे न संयोगोऽपि त्वन्यत्र तत्र ग्रामं गच्छति चैत्र इति प्रयोगवारणाय स्वजनकक्रिया- वच्छिन्नप्रतियोगिताकत्वस्य चैत्रो ग्रामंगच्छतीत्यादौचैत्रश्चैत्रं गच्छ- तीति प्रयोगवारणाय सामानाधिकरण्यस्य संबन्धमध्ये निवेशः । चरमस्थले चैत्रग्रामसंयोगस्य ग्रामनिष्ठचैत्रक्रियावच्छिन्नभेदे संबन्ध- द्वयसत्त्वेपि चैत्रवृत्तित्वविशिष्टस्य तत्संयोगस्य तादृशभेदे सामाना- धिकरण्यविरहाचैत्रक्रियायां तद्भेदप्रतियोगितावच्छेदकत्वसत्त्वेपि नातिप्रसङ्गः। चैत्रश्चैत्रं न गच्छतीत्यादौ च तादृशभेदान्वितक्रिया- कर्तृत्वाभाव एव चैत्रे प्रतीयते, न तु क्रियायां द्वितीयार्थविशिष्टभेदस्य प्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नाभावः । तादृशसंबन्धस्य वृ- त्यनियामकत्वात् । यदि तात्पर्यविशेषवशात् क्रियानुयोगिकोऽप्य- भावः कचित्प्रतीयते इत्यनुभवसिद्धं तदा प्रतियोगितावच्छेदकत्वेऽपि द्वितीयाद्यर्थत्वमुपगम्यविशिष्टभेदप्रतियोगितावच्छेदकत्वाभावान्वय , सकर्मकार्थ० ] जयाऽलङ्कृतः ३३७ एव तत्रोपगन्तव्य इति दिक् । फलावच्छिन्नव्यापारबोधकधातूनां फले व्यापारे च शक्तिद्वयम् । काख्यातस्थले फलं धात्वर्थव्यापार- विशेषणतया भासते तत्र द्वितीयार्थाधेयत्वान्वयः। कर्माख्या- तस्थले फलं धात्वर्थव्यापारस्य विशेष्यतया भासते तस्य विशेष्यतया आख्यातार्थ आश्रयत्वे तद्विशेष्यतया कर्मेति दीधिधिकृतः । केचित्तु संयोगादिरूपफलावच्छिन्नव्यापारबोधकानां गमिप्रभृ- तीनां कर्मप्रत्ययापेक्षया बहूनां फले शक्तिकल्पनामपेक्ष्य कर्मप्रत्ययानां फले शक्तिकल्पनमेव लघीयः,धातूनांच व्यापारमात्रवाचिता। धातोः फलबोधकतामते नामार्थधात्वर्थयोराधाराधेयभावसंबन्धेन साक्षाद- न्वयासंभवात्फलाश्रयत्वस्य कर्मणि प्रकारतया भानस्योपगन्तव्यतया तत्संसर्गस्याधिकस्य भानकल्पनेनापि गौरवं फलस्य प्रत्ययार्थत्वे च तदाश्रयत्वं संबन्ध एवेति लाघवम् । न च धातूनां व्यापारमात्रवा- चित्वे ग्रामं त्यजतीत्यादितोऽपि ग्रामं गच्छतीत्यादित इव संयोगा- दिरूपफलावच्छिन्नस्पन्दबोधापत्तिः। ग्रामस्त्यज्यते इत्यादितोऽपि ग्रामो गम्यत इत्यत इव स्पन्दजन्यसंयोगादिमत्त्वेन भानप्रसङ्ग इति वाच्यम् । कर्मप्रत्ययस्य संयोगविभागादिरूपनानाफलवाचित्वेऽपि तत्तत्फलबोधे धातुविशेषसमभिव्याहारज्ञानस्यापेक्षयातिप्रसङ्गविर- हात् । त्यजति गच्छति स्पन्दते इत्यादौ कर्मासमभिव्याहृते बोध- बैलक्षण्यं च तत्तद्धातूनां फलविशेषावच्छिन्नव्यापारलक्षणोपगमे- नोपपादनीयम् । फलान्वितस्वार्थव्यापारबोधकत्वं गम्यादेः स्वभावा- धीनं तदभावात्स्यन्दिप्रभृतिष्वकर्मकत्वव्यवहार इत्याहु:-तन्न । यागमिप्रभृतीनामिव त्यजिगमिप्रभृतीनामपि पर्यायतेति भ्रमदशायां याति गच्छतीत्यादाविव त्यजति गच्छतीत्यादितोऽप्यविलक्षणबो- धोत्पत्त्या धातुविशेषसमभिव्याहारस्य फलविशेषबोधनियामकता- कल्पनासंभवात् । न च ग्रामं त्यजतीत्यादितः संयोगावच्छिन्नव्या- पारबोधस्तात्पर्यसत्त्वे इष्यत एव । त्वन्मतेऽपि तात्पर्यानुरोधेन लक्ष- २२ व्युत्पत्तिवादः [पाख्याते णया तद्बोधोत्पत्तेरावश्यकत्वात् । परंतु तत्र विभागादिरूपफल एव फलप्रत्ययतात्पर्यस्यानादितया संयोगादिरूपफलप्रत्यायनेच्छया स्व- रसतो न ताशप्रयोग इति वाच्यम् । विना शक्तिभ्रमं लक्षणाग्रहं च ग्रामं त्यजतीत्यादितः सत्यपि तात्पर्य संयोगावच्छिन्नव्यापारा- प्रतीतेरानुभविकतया धातोः फलविशेषवाचिताया आवश्यकत्वात् । ज्ञायते इष्यते क्रियते घट इत्यादौ विषयत्वरूपं कर्ममत्वं तर्थः । न च कृतिविषयतायाः फलतत्साधनतदुपादानसाधारणतया यत्र घटः क्रियते इत्यादिप्रयुज्यते तत्र जलाहरणं कपालं क्रियत इत्यादिप्रयो- गस्यापत्तिरिति चेत् । कृत्यर्थकधातुसमभिव्याहृतकर्मप्रत्ययस्य चि- कीर्षाप्रयोज्यसाध्यताख्यविलक्षणविषयत्वमेवार्थः । उक्तस्थले च क- पालादौ कृतेस्तादृशविषयत्वाभावानोक्तप्रयोगप्रसङ्गः । काशाः कटंक्रियन्ते इत्यादौ साध्यताख्यविषयताश्रयकर्मान्तरसमभिव्याहृत- कर्मप्रत्ययेन व्यापार्यतारूपविषयतापि प्रत्याय्यते तदुपादानतया कृतिविषयकाशादौ साध्यत्तारूपकृतिविषयताविरहेऽपि न तादृशप्रयो- गानुपपत्तिः। तादृशकर्मसमभिव्याहाररूपतत्प्रयोजकविरहात् काशाः क्रियन्ते इत्यादी काशादौ व्यापार्यताबोधानुपपत्तेन ताशप्रयोग इति काशाः कटाः क्रियन्ते इत्यादावपि विशेष्यभेदेन वाक्यार्थभेदा- कर्मद्वयवाचकपदयोः समभिव्याहारे व्यापार्यताबोधानुपपत्तिश्च । क्रियते इत्यत्र विषयतायाः कर्मप्रत्ययार्थत्वे पाकानुपधायककृतिमादाय पाकोऽकारीत्यादिप्रयोगापत्तिरित्यादिकन्तु दूषणनिराकृतमधस्ता- त्कर्तृकर्मत्ववत्कालविशेषेऽनुशिष्टा लडादयः कालविशेषमपि बोध- यन्ति । तत्र लट्प्रत्ययस्य वर्तमानकाले शक्तिः । पचतीत्यादौ कृत्या- दिरूपव्यापारबोधकप्रत्ययोपस्थाप्यकालस्तादृशव्यापार एवान्वेति न तु क्रियायाम् । यदा पुरुषो व्यापारशून्यस्तदधीनाग्निसंयोगादि- रूपः पच्यादेरर्थो विद्यते तदायं न पचतीति प्रयोगादयं पचतीत्युक्ते इदानीमयं पाकयत्नवान्न वेति संशयनिवृत्तः पूर्वापरीभावापन्नस्था- लट्प्रत्ययः ] जयाऽलङ्क्तः ३३६ ल्यारोपणादिव्यापाराणां विशिष्य पच्याद्यर्थघटकत्वेन प्रत्येकतद्वया- पारेषु कालान्वयबोधापेक्षया कृत्यादिरूपैकार्थे तदन्वयस्यैव लाघवे- नोचितत्वाच्च । वर्तमानकालश्च तत्तच्छब्दप्रयोगाधिकरणकालरूप- स्तत्तच्छब्दार्थः । अतो नैककालप्रयुक्तलडादितोऽपरलडादिप्रयोगा- धिकरणकालीनत्वस्य कृत्यादावन्वयः। स्वप्रयोगाधिकरणकालत्वेन स्ववाच्यत्वे स्वत्वाननुगमात् शक्त्यानन्त्यम् । सामान्यतो व्युत्पत्तेई. घंटतया पूर्वव्यक्तिबोधानुपपत्तिः सर्वनामविचारदर्शितरीत्या समा- धास्यते। विशिष्य तत्तत्कालत्वावच्छिन्नबोधस्यानुभवसिद्धतया सर्व- नामशक्तौ बुद्धिस्थत्वादिवच्छब्दप्रयोगाधिकरणत्वमुपलक्षणविधया व्यावर्तकं वाच्यम्। न च तत्कालस्यैवं सत्यवाच्यत्वे तज्ज्ञानानुपप- त्तिरसमाधेयैवेति वाच्यम् । शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्य- धर्मत्वेन तत्तत्कालत्वानामेवोपलक्षणीयत्वात् । अथ शब्दप्रयोगाधि- करणवृत्तिकालत्वव्याप्यधर्मो वर्षत्वादिकमपि कालद्वयावृत्तिधर्मत्व- निवेशेपि एतद्रूपमासत्वादिव्यावर्त्तनमशक्यम् । क्षणद्वयावृत्तिक्षण- वृत्तिधर्मत्वेन तद्वयावर्तने चाध्ययनाद्यनधिकरणेऽप्यध्ययनाद्यधिकर- रणस्थूलकालान्तर्गतक्षणेऽसमाप्तारब्धाध्ययने पुंसि चिन्तामणिमयम- धीत इत्यादिप्रयोगानुपपत्तिः। यदि च स्वप्रागभावानधिकरणस्वाश्रय- कर्तृकप्रकृतक्रियाप्रागभावाधिकरणशब्दप्रयोगाधिकरणकाल एव व- र्तमानकाल प्राधेयतासंबन्धेन कृतावन्वेत्यतोनोक्तस्थले चिन्तामणि- मयमधीत इत्यादिप्रयोगानुपपत्तिः। प्रारम्भावधिसमाप्तिपर्यन्तस्य स्थूलकालस्यापि तथात्वेन शब्दप्रयोगाधिकरणक्षणादिरूपान्तराल- कालेऽध्ययनाद्यनुकूलकृतिविच्छेदेऽपि शब्दप्रयोगाधिकरणत्वोपल- क्षिततादृशस्थूलकालवृत्तित्वस्यापि तादृशक्रियानुकूलकृतावबाधेन यो- ग्यतानिर्वाह इत्युच्यते, तदा येन समग्रचिन्तामणिमधीत्य किंचित्का- लोत्तरं पुनश्चिन्तामणिमध्येष्यते तत्रान्तरालदशायामप्ययं चिन्तास- णिमधीत इति प्रयोगापत्तिः। यदि स्तुतिपाठादिविच्छेददशायामपि ३४० व्युत्पत्तिवादः [ आख्याते प्रत्यहमयं स्तुतिं पठतीत्यादिवदुक्तस्थलेऽपि दर्शितप्रयोग इष्ट एवेत्यु- च्यते तदापि स्वपदेन विशिष्य तत्तत्कृतीनामुपादानेनाननुगमो दुरु- द्धर एवेति चेन्न। शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेनोप- लक्षणेनानुगतीकृततत्क्षणदिनमासवर्षत्वाद्यवच्छिन्न एव काले लट: शक्ति.। क्रियारम्भात्पूर्व कर्मसमाप्त्युत्तरं चाधीते पचतीत्यादिप्रयोग- वारणाय कृत्यादिरूपव्यापारे तादृशकालस्य स्ववृत्तिप्रागभावाप्रति- योगित्वस्ववृत्तिध्वंसाप्रतियोगिप्रकृतक्रियाकर्तुनिष्ठत्वाभ्यां विशेषिते- नाधेयतासंबन्धेनान्वयनियम उपगन्तव्यः। तत्तक्रियारम्भपूर्वमपि त- समाप्त्युत्तरमपि वा वर्तते यस्तत्तक्रियानुकूलकृत्यधिकरणकालस्तस्य दर्शितविशिष्टाधेयत्तासंबन्धस्तादृशकृतौ बाधितोऽप्रसिद्धो वेति नश- ब्दप्रयोगाधिकरणतादृशकालमादाय दर्शितप्रयोगापत्तिः । सम्बन्धे स्वपदार्थस्य विशिष्य निवेशेऽप्युपपत्तिश्चिन्त्या। न च क्रियानुकूलक- तिशून्यान्तरालदशायां स्थूलकालमादाय पचति अधीते इत्यादिव- त्तादृशकृत्यधिकरणक्षणेऽपि स्थूलकालावच्छिन्नाभावमादाय न पचति नाधीते इत्यादिप्रयोगः। तत्र नबो वर्तमानक्षणमात्रान्विततादृशक्रि- यानुकूलकृत्यभावबोधकतानियमात्। उक्तरीत्या विशिष्यशब्दप्रयोगा- धिकरणक्षणादिरूपकालस्यापि लट्प्रत्ययेन बोधनसंभवात् । नञ्स- मभिव्याहारस्थलेऽपि प्रतियोगिन्येव कालान्वय इति तु न सत् । तत्त- क्षणवृत्तिपाकादिकृतेरभावस्यान्यक्षणावच्छेदेन तदानींतनस्थूलका- लावच्छेदेन ताशकृतिमति सत्त्वेनोक्तातिप्रसङ्गस्य दुर्वारत्वात् । न च कालानवच्छिन्नाधारतासंबन्धेन नबर्थस्य पुरुषेऽन्वयानोक्ताति- प्रसङ्ग इति वाच्यम् । तादृशस्थूलकाले यत्रात्मनि पाकादिकृतिस्ता- दृशकालान्तर्गतताशकृत्यनाधिकरणक्षणे न पचतीत्यादिप्रयोगोप- पत्तये तत्क्षणावच्छिन्नपाकादिकृत्यभावबोधस्यैव तत्र तत्र स्वीकर- णीयतया कचित्प्रतियोग्यप्रसिद्धरत्वात्। व्यापाराबोधकेन च लडादिप्रत्ययेन क्रियायामेव वर्तमानत्वान्वयो बोध्यते जानातीत्या- लुट्प्रत्ययः ] जयाऽलङ्कृतः ३४१ दौ न तु लडाश्रयत्वादौ ज्ञानाद्यसत्त्वेऽपि तदाश्रयत्वादिसंबन्धे सति जानातीत्यादिप्रयोगापत्तेः । ज्ञानादिविशिष्टे आश्रयत्वादौ का- लान्वयमुपगम्यातिप्रसंगवारणे विशेषणे ज्ञानादावपि तदन्वयस्या- वश्यकत्वे तस्यैव स्वीकारौचित्यात् । नश्यतीत्यादौ क्रियायां कालान्वयखीकारे विनष्ठादावपि नश्य- तीत्यादिप्रयोगः स्यादिति तत्रोत्पत्तेरपि लडाद्यर्थत्वमुपगम्य तत्रैव कालान्वयं दीधितिकृदुपजगाम । वस्तुतस्तु नाशत्वमुत्पत्तिमभाव- त्वम्। तथा च धातुप्रतिपाद्यतावच्छेदकोत्पत्तावेव कालान्वय इत्येव साधीयः। वर्तमानकालस्योत्पत्तिसंबन्धेन धात्वर्थेऽन्वय इत्यपि वदन्ति। लुट्प्रत्ययेन पक्ष्यतीत्यादौ प्रत्ययार्थकृती ज्ञास्यतीत्यादौ क्रिया- यां भविष्यत्त्वं प्रत्याय्यते । यद्यपि भुव उत्पत्त्यर्थकतया अनागतका- लोत्पत्तिकत्वं भविष्यच्छब्दार्थस्तथापि पक्ष्यतीत्यादौ कृत्यादावना- गतत्वमात्रस्य प्रतीतिरुपेयते उत्पत्तिप्रतीतेर्निष्फलत्वाद्भविष्यत्युत्प- त्स्यत इत्यादौ धातुनैव तादृशोत्पत्तिः प्रत्याय्यते, नञ्जयतीत्यादौ च दर्शिता गतिः। तथा च वर्तमानप्रागभावाप्रतियोगित्वं प्रतियोगि- तासंबन्धेनान्वयो वर्तमानप्रागभावो वा लुट्प्रत्ययार्थः। प्रागभावान- ङ्गीकारे वर्तमानकालध्वंस एव तदर्थः। ध्वंसस्य कालोपाधित्वेन स्वस- मानकालपदार्थाधारतया अनागतकृतेर्वर्तमानकालध्वंसोत्पत्तिमत्तया उत्पत्तिसंबन्धेन कृत्यादावन्वयः । अथ पचमानेऽप्युदीच्यपाकानु- कूलकृतिमादाय पक्ष्यतीत्यादिप्रयोगापत्तिः । पाकानुकूलकृतित्वाव- च्छेदेन चानागतत्वबोधस्वीकारो न संभवति । पूर्वपूर्वपाकानुकूलकृतौ तद्बाधात्पक्ष्यमाणेऽपि पक्ष्यतीति प्रयोगानुपपत्तेः । तत्तत्पाकानुकू- लकृतित्वावच्छेदेनापि तदन्वयासंभवः तत्तत्पाकत्वेन पदादनुपस्थि- तेः । नापि यत्किंचित्पाकानुकूलाद्यकृतित्वावच्छेदेन तदन्वयः । श्रा- द्यत्वोपस्थापकपदाभावात्। तत्तद्वयक्तिमनन्तर्भाव्य दुर्वचत्वाच्चेति ३४२ व्युत्पत्तिवादः [ आख्याते चेत्-न।प्रागभावस्य वर्तमानत्वं शब्दप्रयोगाधिकरणक्षणवृत्तित्वम् , वर्तमानप्रागभावस्य प्रत्ययार्थत्वे तस्य स्वविशिष्टकालवृत्तिकृतिजन्य- पाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन वर्तमानकालध्वंसस्य तदर्थत्वे च स्वपूर्वकालीनकृतिजन्यपाकाननुकूलत्वविशिष्टाधेयत्वसं- बन्धेन कृत्यंशेऽन्वयोपगमे उदीच्यकृतौ वर्तमानप्रागभावादेर्दशि- तविशिष्टसंबन्धासत्त्वेनातिप्रसङ्गविरहात् । ध्वंसपूर्वत्वं च तदनधि- करणत्वमेव। न चान्तरालिककृतिजन्यस्य पच्यर्थव्यापारस्य पूर्व- व्यापारानुकूलकृत्यजन्यतया आन्तरालिककृतेः पूर्वकृतिजन्यपाका- ननुकूलत्वमक्षतमेवेति तस्या अपि निरुक्तविशिष्टसंबन्धेन वर्तमान- प्रागभावादिमत्त्वमक्षतमेवेति वाच्यम् । कृतिजन्यपाकेत्यत्र कृतिज- न्यव्यापाराधीनफलानुकूलव्यापारस्य विवक्षितत्वात् । पक्तेत्यादौ लुटोऽनद्यतनभविष्यत्त्वमर्थः। अनद्यतनभविष्यत्त्वं च शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सति शब्दप्रयोगकालीनप्राग- भावप्रतियोगित्वम्। शब्दप्रयोगाधिकरणदिवसध्वंसोत्पत्तिकत्वं वा। केचित्तु भविष्यत्त्वमेव तस्यार्थः । क्रियायाः कृतेर्वा स्वरूपसदन- द्यतनत्वमेव तत्साधुतानियामकम् । असाधुत्वादेवाद्य पक्ष्यतीत्यादौ पक्तेति न प्रयोग इत्याहुः–तन्न। तथा सति भविष्यत्त्वादिकमपि नाख्यातार्थः स्यात् । स्वरूपसद्भविष्यत्त्वादिकमेव लुडादिप्रत्ययस्य साधुतानियामकम् । असाधुत्वादेव पक्ष्यति पक्ततिवत्वचतीत्यादी पक्ष्यतीत्यादिप्रयोगविरह इत्यस्यापि वक्तुं शक्यत्वात् । पचति पक्ष्य- तीत्यादेरविलक्षणबोधजनकत्वमनुभवविरुद्धमिति कालविशेषबोध आवश्यक इति चेत्-तदा पक्ता पक्ष्यतीत्यादेरपि विलक्षणबोध- जनकत्वस्यानुभविकतया अनद्यतनत्वान्वयबोधोऽपि दुर्वारः। यदि च पक्ष्यतीत्यादिवाक्यजन्यबोधे सति भविष्यत्त्वादिसंशयानुदयाभू- विष्यत्त्वादेः शाब्दधीविषयत्वमावश्यकमित्युच्यते तदानद्यतनत्वबो- धेऽपि ईदृशीमेव युक्तिं गृहाण । एवं न पक्ष्यतीत्यादावभावे अनागत- लुट्प्रत्ययः ] जयाऽलङ्कृतः ३४३ कालावच्छिन्नत्वभानमावश्यकम् । अन्यथा पक्ष्यत्यपि वर्तमानव- तपाककृत्यभावमादाय न पक्ष्यतीत्यादिप्रयोगप्रसङ्गात्। न च पक्ष्य- त्यप्यनागतयत्किंचित्कालावच्छेदेन वर्तमानमभावमादाय न पक्ष्य- तीति प्रयोगो दुर्वार एवेति वाच्यम् । अनागतकालावच्छिन्नत्वं हि तत्र वर्तमानक्षणध्वंसावच्छिन्नत्वम् । तादृशध्वंसनिष्टा अवच्छेदक- ताऽनवच्छिन्ना ग्राह्या, अनागतकृतिमति च पुंसि तदभाववृत्तौ व- तमानक्षणध्वंसरूपः कालः प्रतियोगी वृत्तावप्यवच्छेदक इति वि- रोधभञ्जनाय ताशकृत्यनवच्छेदकावान्तरकालावच्छिन्न एवाव- च्छेदक उपेय इति नोक्तातिप्रसङ्ग इत्युक्तयुक्त्या अनागतत्वस्य यथा लुडाद्यर्थत्वं तथाऽद्य पक्ष्यति न पक्तत्यत्रानद्यतनकालावच्छिन्नत्व- स्याभावेऽभाने श्वः पक्ष्यत्यप्यद्यतनानागतकालावच्छिन्नपाककृत्य- भावमादाय न पक्तेति प्रयोगप्रसङ्गन लुटोऽनद्यतनार्थत्वमावश्यक- म्। अनागतानद्यतनकालावच्छिन्नत्वमपि उक्तरीत्यातिप्रसङ्गवार- णाय प्रकृतशब्दप्रयोगाधिकरणदिनध्वंसनिष्ठानवच्छिन्नावच्छेदक- ताकत्वरूपं ग्राह्यम् । अवच्छेद्यावच्छेदकभावश्च संबन्धविधया भा- सते ध्वंस एव पदार्थ इत्यवधेयम् । अथ नब्समभिव्याहारस्थलेऽपि कृतावेव कालान्वयोऽस्तु । अनागतकृतिश्च महाप्रलयस्याप्रामाणिकतया सर्वत्रैव प्रसिद्धच- तीति न प्रतियोग्यप्रसिद्धिः। अभावान्वयश्चात्मनि कालानव- च्छिन्नाश्रयतासंबन्धेनोपगम्यतामिति चेत्-न । यदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानी चैत्र ओदनं न पक्ष्यतीति प्रयोगानुपपत्तेः । अनागतचैत्रीयौदनकर्मकपाकानुकूलकृत्यप्रसिद्धथा तभावप्रत्यायनासंभवात्। न चाभावे कालान्वयोपगमेपि यत्त- ण्डुलव्यक्त्यादिकर्मकपाक एवाप्रसिद्धस्तद्वयक्त्यादिपरस्यैतत्तण्डुलं न पक्ष्यतीत्यादिवाक्यस्याप्रमाणत्वापत्तिः । प्रतियोग्यप्रसिद्धेदुर्वार- त्वादिति तत्र पाके तद्वयक्तिकमकत्वाभाव एव नबा बोध्यत इति ३४४ व्युत्पत्तिवादः [पाख्याते उपगन्तव्यम् । तथा चोक्तस्थलेपि तत्तत्पाके चैत्रीयौदनकर्मकत्वाभा- वबोधोपगमेनोपपत्तिरिति वाच्यम् । पाके तत्कर्मकत्वाभावबोधोप- गमे तादृशपाकानुकूलानागतकृतेः कर्तरि भानस्योपगन्तव्यतया तदुत्तरं कदाचिदपि येन न पक्ष्यते तादृशकर्तृसमभिव्याहृतदर्शित- वाक्यस्य प्रामाण्योपपादनासंभवात् । अगत्या तु यत्कर्मको यत्कर्तृकः पाकोऽप्रसिद्धस्तादृशकर्मकर्तृघटितार्थकनब्पदवद्वाक्यस्यायोग्यतो- पगम्यते । केचित्तु तत्रापि पाके तत्कर्मकत्वाभावस्य तादृशे च कर्तरि पाककृत्यभावस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति । तात्पर्यसत्त्वे एकेनापि नबाऽभावद्वयबोधनसंभवात् । न चैवं तण्डुलमात्रं पचति पक्ष्यति वा चैत्रेऽपि तण्डुलमयं न पचति न पक्ष्यतीति प्रयोगः स्यात् । तत्तण्डुलाकर्मकपाकानुकूलवर्तमानादिकृत्यभावाबाधादिति वाच्यम् । यतः सुवर्थप्रतियोगिकस्वार्थाभावान्वितक्रियाकर्तृत्वाभाव- बोधकत्वं नबः आकाशं न पचति घट इत्यादावपि न स्वीक्रियते तादृशबोधजनकताया अव्युत्पन्नत्वात् येनोक्तातिप्रसंगः स्यात् । किन्तु पाक आकाशाकर्मक: पाककृत्यभाववान् घट इत्यादिसमूहा- लम्बनबोध एवोक्तस्थले च चैत्रे पाककर्तृत्वाभावबोधान्न प्रामा- ण्यप्रसंगः । अस्तु वा तत्राभावान्वितक्रियाकर्तृत्वाभावविषयकोs- समूहालम्बनरूप एव बोधस्तथापि न दर्शितातिप्रसंगः। ताशबोधे- न्वयितावच्छेदकावच्छेदेन प्रथमाभावभाननियमात् । पाकत्वावच्छे- देन च तण्डुलादिकर्मकत्वाभावान्वये योग्यताविरहात् । अन्ध आकाशं न पश्यतीत्यादावपीदृशी गतिः । अथ यत्तण्डुलादिकर्मको यत्पुरुषकर्तृकः पाकोऽप्रसिद्धस्तत्पुरुषेऽन्यकर्मकपाककर्तृत्वस्य तण्डु- लादौ चान्यपुरुषपच्यमानत्वादेर्धमदशायां तण्डुलमयं न पक्ष्यती- त्यादिवाक्यस्य बोधकताया अनुभवसिद्धत्वेनापाकर्त्तमशक्यत्वानोक्त- प्रकार: साधीयान् । विरोधिनिश्चयसत्त्वेन तत्पुरुषे पाककर्तृत्वसामा- Paint + AKERALA लिट्प्रत्ययः ] जयाऽलङ्कृतः ३४५ न्याभावस्य पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावस्य च प्रतीत्य- संभवादिति चेन्न । तत्र ताशवाक्यस्य एकाभावावगाहिभ्रमजन- कत्वोपगमात् । न च सर्वत्रैव तदुपगमौचित्येन प्रयासवैफल्यमिति वाच्यम् । विशेषदर्शिमिरप्रतारकैरपि तथाविधवाक्यप्रयोगात् तस्य प्रसिद्धार्थकतासंपादनस्यावश्यकत्वात् । न च तत्तण्डुलादिकर्मकत्वं तनिष्ठविक्लित्तिजनकत्वं तदपि वा प्रसिद्धमिति कथं पाके तदभाव- प्रत्यय इति वाच्यम्। विक्लित्त्यादावेव तत्तद्वृत्तित्वाभाववोधोप- गमात्। अपाक्षीदित्यादौ लुङोऽतीतकालोर्थः। तस्याप्याख्यातसामान्या- र्थकृत्यादावन्वयः । तस्य च सम्बन्ध प्राधेयत्वम् । अथवा कालविशे- षणतयैवातीतत्वं लुडोर्थः । आश्रयतासम्बन्धेन च तस्य कृत्यादाव- न्वयः कालान्तर्भावस्य व्यर्थत्वात् । अतीतत्वं वर्तमानध्वंसप्रतियो- गित्वम् । वस्तुतो वर्तमानध्वंस एव लुङाद्यर्थः। तस्य प्रतियोगिता- संबन्धेन कृत्यादावन्वयः । मध्यदशाथामपाक्षीदित्यादिप्रयोगवारण- मुक्तरीत्या बोध्यम्। लङ्प्रत्ययस्यातीतत्ववदनद्यतनत्वमप्यर्थः । अद्य पचत्यपचदि- त्यप्रयोगात् । 'अभून्नप' इत्यादावनद्यतनत्वसत्त्वेपि तदविवक्षया न लङ्प्रत्ययेन लुब्बाधः । अतोप्यनद्यतनत्वबोधकत्वं लङ्प्रत्यय- स्यावश्यकम् । स्वरूपसदनद्यतनत्वस्य लङसाधुतानियामकत्वेऽनद्य- तनत्वस्य वस्तुसतोऽविवक्षामात्रेणोक्तस्थले लबारणानुपपत्तेः । इदमप्यनद्यतनत्वं प्रकृतशब्दप्रयोगाधिकरणदिनावृत्तित्वम् । अथ वा स्वातन्त्र्येणानद्यतनत्वं न लङर्थः किंतु तादृशदिनाचक्षणवृत्तिध्वं- सप्रतियोगित्वरूपमनद्यतनातीतत्वं विशिष्टमेव । अतीतत्वमनद्यतनत्वं परोक्षत्वं च लिटोर्थः। 'अध्यास्त सर्वतु- सुखामयोध्या'मित्यादौ परोक्षत्वसत्त्वेपि परोक्षत्वाविवक्षया न लिट् । परोक्षत्वं वक्तुः साक्षात्काराविषयत्वम् ।

व्युत्पत्तिवादः [आख्याते केचित्तु स्वभिन्नकर्तृकत्वमेव परोक्षत्वमत एव लिडुत्तमपुरुषासं- भवेनापरोक्षतायामपि लिटः साधुत्वे 'णलुत्तमो वे'त्यादेआपकत्वमु- पायकारोक्तं संगच्छते । अन्यथा निद्रादिदशायां स्वकर्तृकगमनादि- क्रियायाः स्वपरोक्षत्वसंभवेन ज्ञापकत्वासंगतेरित्याहुः। 'कलिङ्ग दृष्टोसि', 'नाहं कलिङ्गान् जगामे'त्यादावत्यन्तापह्नव- स्थले सूत्रान्तरेण क्रियाया अपरोक्षत्वेपि लिड्विधानात् तादृशज्ञाप- कुबलेन 'व्यातेने किरणावली'मित्यत्र लिट: साधुत्वोपपादनमुपाय- कृतामयुक्तमेवेति बोध्यम् । अत्यन्तापहवश्चाबाधितपरोक्तविपरीत- बोधनाय तदुपपादकाभावप्रतिपादनेच्छा कलिङ्गाधिकरणकदर्शना- देरुपपादकं कलिङ्गगमनादिकं तेन विना तदसंभवात् । अत्यन्ताप- हवः स्वरूपसन्नेव लिट्साधुतानियामकः । लिङलोटोविधिरर्थः। परप्रवृत्त्यर्थं तत्प्रयोगात्। विधिः प्रवर्त्त- कज्ञानविषयो धर्मः। स च धर्मो न्यायनये कृतिसाध्यत्वं बलवदनि- ष्टाननुबन्धित्वसहितमिष्टसाधनत्वं च । 'श्रोदनकामः पचेत्स्वर्गकामो यजेते त्यादावोदनस्वर्गादिरूपं यत्फलं तत्साधनत्वं पाकयागादि- क्रियायां प्रतीयते। तादृशफलानां च तत्तद्रपेण लिङादिशक्यतावच्छे- दककोटिप्रवेशे शक्यानन्त्यं सर्वसाधारण्येन व्युत्पत्त्यनुदयेनापूर्व- फलसाधनबोधानिर्वाश्वेतीष्टत्वेन तेषामनुगमः । इष्टत्वं समभिव्या- हृतपदोपस्थापितकामनाविषयत्वम् । अतः 'स्वर्गकामः पचेते'त्यादौ शक्तिभ्रमशून्यस्य नौदनादिसाधनत्वधीनं वा तत्तात्पर्येण तथा प्रयोगः प्रामाणिकानाम् । इष्टत्वज्ञानस्याप्रवर्तकत्वेपि शक्यफलानुगमार्थं तस्य शक्यता । वस्तुतस्तु अशक्यस्यैव तस्य शक्यानुगमकता सर्वनाम- स्थले बुद्धिस्थत्ववत्तेन रूपेण फलानां संकेतविषयतां विनाशक्यै- क्यासंभवात् । तस्य संकेतविषयत्वोपगमेपि यथा न तस्य वाच्यता तथा प्रपञ्चितमन्यत्र । अत्र चेष्टत्वस्य शाब्दबोधेऽभानाद्विशिष्टेष्टता- विधिप्रत्ययः ] जयाऽलङ्कृतः ३४७ वच्छेदकस्वर्गवादिप्रकारेण शाब्दबोधोत्पत्त्या विधिवाक्यात्प्रवर्तक- ज्ञाननिर्वाहः। यत्तु इष्टत्वेन फलभानेपि स्वर्गकामादिपदैकदेशोपस्थितस्वर्ग- त्वावच्छिन्नस्य विध्यर्थंकदेशे इष्टेऽभेदान्वयात्प्रवर्तकज्ञाननिर्वाह इति-तदपि न सत् । वृत्तिशब्दैकदेशे इतरानन्वयनियमात् । स्वर्गत्वादिप्रकारेण कामनाधीनप्रवृत्तौ स्वर्गत्वादिविशेषितफलसा- धनताज्ञानस्य हेतुतया अभेदेन वर्गादिविशेषितफलसाधनताज्ञा- नस्यानुपयोगित्वाच्च । अभेदेन स्वर्गादिप्रकारकस्वर्गादीष्टसाधनता- ज्ञानमपि स्वर्गत्वादिप्रकारकप्रवृत्तौ हेतुः । अत एव 'स्वर्गकामो यजेते'त्यादितः प्रवृत्तिरिति तु न युक्तम् । स्वर्गत्वप्रकारकका- मनाया अधिकारत्वानुपपत्तेः । अथेष्टत्वस्य शक्योपलक्षणत्वे तदं- शाभाननिर्वाहेपि स्वर्गत्वादेरशक्यस्य भानं न संभवति । अशक्यस्य भानोपगमेतिप्रसङ्गादिति चेत् । स्वर्गत्वाद्यवच्छिन्ने समभिव्याह- तकामनाविषयत्वज्ञानसहकृतस्य तादृशकामनाविषयतावच्छिन्नश- तिज्ञानस्य स्वर्गत्वादिप्रकारकशाब्दधीहेतुत्वोपगमेतिप्रसङ्गानवका- शात् । वस्तुतस्तादृशकामनाविषयतावच्छेदकत्वोपलक्षितस्वर्गवा- दिविशिष्टसाधनत्वं शक्तिस्वीकारात्सर्वसामञ्जस्यम् । न च स्वर्गत्वा- दिविशिष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्वं न संभवति । स्वर्गत्वादेर्ग- ङ्गास्नानादिजन्यस्वर्गादिसाधारण्येन यागादिजन्यतानवच्छेदक- तया यागादौ स्वर्गत्वादिविशिष्टसाधनत्वबाधात् न हि जन्यतान- वच्छेदकधर्मो जनकत्वनिरूपके विशेषणमिति वाच्यम् । स्वर्गवादेः शक्यविशेषणत्वेपि तदुपलक्षितवैजात्यावच्छिन्ननिरूपितजनकताया यागादावबाधितायाः स्वर्गादिजनकतात्वेन विधिप्रत्ययतो भानसंभ- वात् । घटत्वादिविशिष्टवाचकपदघटिताद् घटं द्रव्यत्वेनैव जाना- तीत्यादिवाक्यात् घटत्वाद्युपलक्षितघटादिविशेष्यकत्वभानवत्।। न च तद्धर्मावच्छिन्ननिरूपिततत्साधनत्वज्ञानं विना तद्धर्मप्र- ३४८ व्युत्पत्तिवादः [ आख्याते कारकफलेच्छाधीनप्रवृत्त्यनिर्वाह इति शङ्कयम् । वह्नित्वादिप्रकार- केच्छातोपि तृणादिसमवधानेऽभ्रान्तप्रवृत्तरानुभविकत्वात् । भूयः सुखार्थिनामपि भ्रमं बिना क्रियाविशेषे प्रवृत्तेश्च तद्धर्मावच्छिन्नफला- र्थिप्रवृत्तौ तद्धर्मप्रकारेण भासमानफलं प्रति साधनताज्ञानस्यैव प्रवर्तकत्वात् । स च धर्मः कार्यतावच्छेदकतया भासतां कार्याशे उपलक्षणतयैव वेत्यन्यदेतत् । न हि वह्नित्वादिकं तृणादिजन्यताव- च्छेदकं व्यभिचारिसाधारणत्वात् । न वा भूयस्त्वादिकं कस्यचिज- न्यतावच्छेदकमर्थवशसंपन्नत्वात् । एवं सति घटत्वावच्छिन्नफलार्थी तन्त्वादौ कथं न प्रवर्तते ? तन्त्वादेरपि घटत्वाद्युपलक्षितजन्यस- त्त्वादिबिशिष्टनिरूपितद्रव्यत्वावच्छिन्नसाधनतावत्वादिति चेत्- फलानुपधाननिश्चयात्तस्य खातत्येण प्रवृत्तिप्रतिबन्धकत्वात्। फलोपधायकसाधनत्वस्य वा विधिप्रत्ययार्थतया घटकामस्तन्तुमुंपा- ददीतेत्यादिन प्रयोगः। न च तथापि स्वर्गवादेर्यागादिनिष्ठकारणताघटकव्यापकतानि- रूपकतानवच्छेदकतया स्वर्गवावच्छिन्ननिरूपितव्यापकताघटित- कारणताया बाधः स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य च कार- णताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननिरूपित- व्यापकताबोधासंभव इति स्वर्गकाम इत्यादौ विध्यर्थबोधानुपपत्ति- दुर्वारैवेति वाच्यम्। स्वरूपसंबन्धरूपाया एव कारणताया विध्य- र्थत्वोपगमात् । अन्यथा सिद्धिनिरूपकतानवच्छेदकनियतोत्तरवर्ति- तावच्छेदकधर्मवत्स्वर्गकत्वमेव स्वर्गकारणल्वम् । नियतोत्तरवर्ति- तावच्छेदकश्च धर्मो विशिष्य उत्तरकालकल्प्यो जातिविशेष एव नियतोत्तरवर्त्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते । नियतोत्तरवर्त्तितावच्छेदकत्वं च कारणतावच्छेदकत्वाभिमतधर्माव- च्छिन्नतद्वयापाराभावाधिकरणताविशिष्टोत्पत्तिक्षणावच्छिन्नाधिक- रणतानिरूपकतानवच्छेदकत्वम् । अधिकरणतावैशिष्टयं च स्वाव- स्वर्गकारणत्वम् ] जयाऽलङ्कृतः ३४६ च्छेदकक्षणाव्यवहितोत्तरक्षणावच्छिन्नस्वाश्रयनिष्ठत्वसंबन्धेन । वस्तुतः स्वर्गनिष्ठधर्मावच्छिन्ननिरूपितनियतपूर्ववर्तितावच्छेद- कधर्मवत्वमेव स्वर्गकारणत्वम् । नियतपूर्ववर्तितावच्छेदकत्वं चाव्य- बहितपूर्वकालावच्छिन्नवृत्तिकाभावघटितदैशिकव्यापकतायाः स्वाश्र- यत्वस्वाश्रयनिरूपितव्यापारवत्त्वान्यतरसम्बन्धेनावच्छेदकत्वमेव । व्यापकत्वनिरूपकतावच्छेदकवैजात्यस्य विशिष्यानुपस्थितावपि स्वर्गधर्मत्वेन ज्ञानं संभवत्येव । व्यापकताघटकाभावप्रतियोगितायां स्वरूपतोवच्छेदककोटिप्रविष्टाया अपि जातेापकताभाने स्वर्ग- धर्मवादिना भाने न बाधकम् । स्वर्गधर्मत्वादेरुपलक्षणतया भानात् । प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञान एवं प्रतियो- गिकोटावुपलक्षणप्रकाराभाननियमात् । प्रकृते च कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेण भाननियमात् । अत एव स्वरूपतो वह्नित्वाद्यवच्छिन्नप्रतियोगिता- काभावस्य वह्नित्वाद्यवच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्माव- च्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता। इत्थमेव चेष्टतावच्छेदकधर्माणामुपलक्षणीभूतेनेष्टतावच्छेद- कत्वेन व्यापकताघटकाभावप्रतियोगितावच्छेदककोट्यप्रविष्टेनापी- टतावच्छेदकधर्माणां सर्वसाधारणशक्तिग्रहे भानमुपपद्यत इति । एतेन नियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वस्य विध्यर्थ- तामते यागादिधर्मिकतादृशकारणताग्रहस्य प्रवृत्तिहेतुता वाच्या । तदपेक्षया च स्वर्गादिधर्मिकनियतोत्तरवर्त्तितावच्छेदकधर्मरूपया- गादिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वे तादृशसाध्यताविशिष्टमात्रस्य विध्यर्थत्वे च लाघवम् । तादृशसाध्यताया निरुक्तसाधनान्तर्गतत्वा- द्वितीष्टसाधनत्वस्य विध्यर्थत्वं प्रवर्तकत्वं च व्याहन्येत । एवं यत्र कारणतावच्छेदकधर्मोप्यनुपस्थितोतिप्रसक्तेन न्यूनवृत्तिना वा धर्मेण कारणमुपलक्षितं तत्र शब्दात्कारणताग्रहानुपपत्तिश्चेति विधिप्रत्ययार्थत्वे ३५० व्युत्पत्तिवादः [पाख्याते निरस्तम् । व्यापकताघटितकारणतायाः साध्यतामपेक्ष्यागरीयस्या एवोक्तरीत्या प्रवर्तकत्वादिसंभवात् । तादृशसाधनताशरीरे व्यापक- तावच्छेदकत्वेनैव कारणतावच्छेदकप्रवेशात्तद्ग्रहे विशिष्य तदुप- स्थित्यनुपस्थित्यनुपयोगाचेति । केचित्तु विजातीयस्वर्गनिरूपितसमवाय एव स्वर्गादिनिष्ठया- गादिजन्यतावच्छेदकसम्बधः । तथा च वैजात्यस्य सम्बन्धघट- कतयैव व्यापकताशरीरे निवेशान्नोपस्थित्यपेक्षा । न वा कारण- ताविघटकव्यभिचारावकाश इत्याहुः । तदसत्। विजातीयस्वर्गनिरूपितसमवायत्वेन संबन्धतायां मानाभावात् । तादृशसंबन्धघटितव्यापकताया तस्य स्वर्गादिनिष्ठवैजात्यभेदेन शक्तिबाहुल्यप्रसङ्गात्। तादृशका- यसंबन्धघटितेष्टकारणतायाश्च प्रमाणान्तरेणाप्रत्यायितत्वात् । तत्र शक्तिग्रहानुपपत्त्या शाब्दबुद्धौ तद्भानानुपपत्तेश्च । न चेष्टतावच्छेदकत्वोपलक्षितवर्गल्वावच्छिन्ने कारणताघट- काधिकरणादिपदार्थे च खण्डशः शक्तिरुपेया। आकाङ्क्षावशा- च्चाधिकरणरूपविध्यर्थे विजातीयस्वर्गनिरूपितसमवायस्य संब- न्धतया भानात्तादृशकार्यसंबन्धघटितकारणतायाः शाब्दबोधे भानमुपगन्तव्यं न तु तादृशसंबन्धान्तर्भावेण शक्तिरिति न काचिदनुपपत्तिरिति वाच्यम् । एवं सति संसर्गतात्पर्यज्ञानानु- रोधेन तादृशसंसर्गोपस्थित्यपेक्षाया दुर्वारत्वात् । न च तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव संसर्गभाननियामकम् । तत्रापि च संसर्गः संसर्ग एव न तु विशेषणमिति न ज्ञानापेक्षेति वाच्यम् । विशेषणविशिष्टविशेष्यस्य वाक्यार्थत्वेन पूर्वमनिश्चिततया तत्पर- त्वग्रहस्य शाब्दबोधात्पूर्वमसंभवात् । तत्तत्संबन्धविषयतानिरूपित- विशेषणादिविषयताशालिबोधपरत्वज्ञानस्यैव हेतुतया तत्र संबन्ध- स्य विशेषणतया तदुपस्थितेरावश्यकत्वात् । एवं विजातीयस्वर्गनि- यागसाध्यताः ] जयाऽलङ्कृतः ३५१ रूपितसमवायसंबन्धेन स्वर्गवावच्छेदेन जन्यतोपगमे 'स्वर्गत्वस्या- श्वमेधजन्यत्वसामानाधिकरण्यमात्रमेव हि शब्देनापि प्रतीयते न तु स्वर्गत्वस्य जन्यतावच्छेदकत्वमसामर्थ्यादसंभवाच्चे'त्यादिमिश्न'प्र- न्थविरोधः । यत्तु वैजात्यमेव कार्यतावच्छेदकं तच्च संबन्धविधयैव कारण- ताघटक कार्यतावच्छेदकधर्मविशिष्टनिरूपितकार्यतावच्छेदकसंब- न्धेन कार्यवनिष्ठाभावाप्रतियोगित्वस्य कारणताशरीरे निवेश्यत्वा- दिति-तदप्यसत् । कार्यस्य कार्यतावच्छेदकरूपेणैव निवेशनीयतया तदुपस्थित्यपेक्षाध्रौव्यात् । न च संबन्धसंकोचे प्रमेयत्वेनैव कार्य- प्रवेशः संभवतीति वाच्यम् । विजातीयस्वर्गवनिष्ठाभावप्रतियोगि- तात्वस्यागुरोरवच्छेदकत्वसंभवे विजातीयस्वर्गीयसमवायसंबन्धेन प्रमेयवनिष्ठाभावप्रतियोगितात्वरूपगुरुधर्मावच्छिन्नाभावाप्रसिद्धः । एतेन स्वर्गत्वमेव यागजन्यतावच्छेदकमवच्छेदकताघटकसम- वायसंबन्धसंकोचे न व्यभिचार इत्यपि निरस्तम् । तादृशसंबन्ध- विशेषणेष्टतावच्छेदकविशिष्टस्य प्रमाणान्तरावेद्यतया तत्र शक्तिनि- श्चयासंभवात् । न हि समभिव्याहृतफलबोधकपदोपस्थाप्यतावच्छे- दकत्वरूपोपलक्षणधर्मेण यथा स्वर्गवादीनां शक्तिबहे भानं तथोप- लक्षणीभूततादृशपदोपस्थाप्यतावच्छेदकसंबन्धत्वेन विजातीयस्व- गनिष्ठसमवायादेरपि तत्र भानसंभवः । स्वर्गपदाच्छुद्धसमवाये- नैव स्वर्गत्वविशिष्टस्योपस्थितौ विशिष्टसमवायेन स्वर्गत्वविशिष्टस्य स्वर्गपदार्थत्वोपगमे लक्षणाप्रसङ्गात्। शुद्धसमवायेन स्वर्गत्वविशि- ष्टविषयककामनावतोऽनधिकारप्रसङ्गात् । मीमांसकास्तु 'अहरहः संध्यामुपासीते'त्यादौ नित्यतया नि- मिश्रेति । मुरारिमिश्रेति यावत् ।

'३५२ व्युत्पत्तिवादः [आख्याते एफले संध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनान्वयासंभवान्नेष्ट- साधनत्वं लिङर्थः। अथ संध्यावन्दनादेरप्यर्थवादोपस्थापितब्रह्मलोकावाप्त्यादिफ- लसाधनत्वमव्याहतम् । यत्र नित्येऽर्थवादादपि न फलोपस्थितिस्त- त्रापि फलाभावनिश्चायकप्रमाणाभावाद्योग्यतासंशयसंभवेन फल- साधनत्वप्रत्ययो लिङादितः संभवत्येव । न च तद्बोधो नोपयोगी। निष्फलतया ज्ञाते चैत्यवन्दनादौ प्रवृत्तिवारणायेष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतावश्यकत्वेन नित्यविधेः प्रवृत्तिनिर्वाहाय तस्य फलसाध- नताबोधकताया आवश्यकत्वादिति चेत्-न। “संध्यामुपासते ये च सततं संशितव्रता” इति श्रुतौ सततमिति श्रुतेः कदाचिद्यस्य संध्या- वन्दनादिबाधस्तेन स्वीयसंध्यावन्दने ब्रह्मलोकावाप्तिफलानुपधानस्य निश्चिततया हरहः संध्यावन्दने ब्रह्मलोकावाप्तिसाधनताबोधनेऽपि तस्य संध्यावन्दने प्रवृत्त्यनिर्वाहात्। यत्र च नित्ये विशिष्यफल- बोधकोऽर्थवादादिर्नास्ति तत्र विधिप्रत्ययेन इष्टत्वेन फलसाधनता- बोधस्य जननेऽपि इच्छाविषयताऽवच्छेदकस्वर्गत्वादिरूपविशेष- धर्मप्रकारेण फलविषयकतत्साधनताबोधस्यानिहिण प्रवृत्त्यनिर्वा- हात् । इष्टसाधनताज्ञानाघटितकारण स्तोमाल्मिकायाः संध्यावन्दना- द्यभावगोचरनरकादिसाधनताज्ञानाधीनतद्गोचरद्वषघटितसामग्र्या एव संध्यावन्दनादौ प्रवर्तकताया उपगन्तव्यतया नित्यस्थले इष्ट- साधनताबोधस्यानुपयोगिताया दुरित्वात्। न च 'विश्वजिता यजे- ते'त्यत्र विशिष्टफलाश्रवणेऽपि यथा स्वर्गकामपदस्याध्याहारेण तत्समभिव्याहाराद् विशेषरूपावच्छिन्नस्वर्गसाधनताबोधस्तथा नित्यस्थलेऽपि विशेषधर्मप्रकारकस्वर्गसाधनबोधसंभवात् उक्तप्रवृ- त्तिसामग्र्यन्तरकल्पनमयुक्तमिति वाच्यम् । बहुवित्तव्ययायाससा- ध्यविश्वजिद्यागेन तत्तग्रामपश्वादिफलोद्देशेन प्रवृत्त्यनुपपत्तेः । तद्विधेः स्वर्गफलतात्पर्यनिश्चयात्संध्यावन्दनादौ चाल्पायाससाध्ये Solanes NRN नित्यकर्म० ] जयाऽलकृतः ३५३ प्रामादिफलोद्देशेनापि प्रवृत्त्युपपत्तेः । तद्विधेः स्वर्गपरत्वनिश्चया- योगात् । स्वर्गादिफलकामनारहितैर्मुमुक्षुभिरपि संध्यावन्दनाद्या- चरणादुक्तप्रवृत्तिसामग्रीकल्पनस्यावश्यकत्वाच्च । तादृशसामग्री विना प्रायश्चित्तादाविष्टासाधने प्रवृत्त्यनिर्वाहाच्च । न च तत्रापि पापध्वंसेष्टसाधनताज्ञानात्प्रवृत्तिनिर्वहति। सुख- दुःखाभावेतरगोचरेच्छायां इष्टसाधनताज्ञानस्य नियमतोऽपेक्षायां निष्फलपापध्वंसस्येष्टत्वासंभवात् । नरकसाधनगोचरद्वेषस्य तध्वंस- गोचरेच्छाजनकत्वोपगमेऽस्मत्समीहितायामिष्टसाधनत्वज्ञानाघटि- तप्रवृत्तिसामग्र्यामविवादात् । कृतिसाध्यताज्ञानसहितेच्छासामा- न्यसामग्रीतश्चिकीर्षोत्पत्तेनिष्फलेऽपि संध्यावन्दनादौ निर्वाण प्रवृत्त्युपपत्तेः। न च नरकानुत्पाद एव प्रायश्चित्तस्य संध्यावन्दना- देश्च फलमितीष्टसाधनताज्ञानघटितैव प्रवृत्तिसामग्री। नरकद्वेषवतां च तदनुत्पादे नियमत एवेच्छेति तेषां नित्यसंध्यावन्दनाद्यनुष्ठान- मुपपद्यते । अन्यैश्च तत्रानुष्ठीयते इति वाच्यम् । नरकानुत्पादस्य तत्प्रागभावात्मकस्य प्रतियोगिविकल्पग्रासेन फलत्वासंभवात् । अ- त्यन्ताभावस्य प्रतियोगिविरोधितया कदाचित्पापान्तरेण यस्य नर- कदुःखं जनितं जनिष्यते वा तदात्मन्यसत्त्वान्नित्यत्वेन चोभयोः फ- लत्वासंभवात् । योगक्षेमसाधारणसाधनतायाश्च गुरुशरीरत्वेन प्रवृ- त्यनुपयोगित्वात्। यदपि 'मण्डली कुर्या'दित्यादिवाक्यप्रामाण्यवारणायेष्टसाध- नत्वस्य विध्यर्थत्वमावश्यकमिति–तदपि न । मण्डलीकरणादि- जन्यतद्ध्वंसादिरूपफलेऽपि कदाचित्कस्यचिदिष्टसाधनताभ्रमेणे- च्छोत्पत्त्या मण्डलीकरणादावपीष्टसाधनत्वाबाधेनेष्टसाधनत्ववि- ध्यर्थतामतेऽपि तद्वाक्यप्रामाण्यस्यावश्यकतया इष्टापत्तेः। 'स्वर्ग- कामो मण्डली कुर्यादिति वाक्यजन्यबोधे च स्वर्गकामनाया म- एडलीकरणादिनिष्ठकर्तव्यत्वप्रयोजकत्वभानेन तदर्थबाधेन तद्वा- २३ ३५४ व्युत्पत्तिवादः [पाख्याते क्याप्रामाण्योपपत्तेः । न चेष्टसाधनत्वस्य विधिप्रत्ययार्थत्वानुपगमे 'स्वर्गकामो यजेते त्यादिवाक्याद्यागादौ प्रवृत्त्यनुपपत्तिः । तत्रामा- वगोचरद्वेषघटितसामाग्र्यसंभवात् यागाद्यभावस्य नरकादिरूपद्विष्ट- साधनत्वाभावात् इष्टसाधनत्वबोधकमानाभावेन तज्ज्ञानघटितसा- मग्र्या अपि भवन्मते दुर्घटत्वादिति वाच्यम् । इष्टसाधनत्वस्य विध्यर्थताविरहेऽपि स्वर्गासाधनं न स्वर्गकामनाधीनकृतिसाध्य'मि- तीतरवाधबलात्स्वर्गकामकृतिसाध्यतान्वयितावच्छेदकतया स्वर्ग- साधनत्वस्योक्तविधिजन्यबोधे भानाद्यागादाविष्टसाधनताज्ञानादेव प्रवृत्तिनिर्वाहात् । इत्थं च सन्ध्यावन्दनादौ तत्कालावच्छिन्नशौ- चादिकमेवाधिकारो न तु फलकामनापि । अत: फलकामनाशून्य- स्यापि शौचादिमत: सन्ध्यावन्दनाकरणं प्रत्यवायजनकम् । फल- कामनायास्तत्राधिकारत्वे तच्छून्यस्यानधिकारितया तदकरणं न प्रत्यवायमावहेत् । न च मुमुक्षापवादेन स्वर्गादिरूपफलकामनायाः कदाचिदसंभवेऽपि नरकाभावरूपफले नियमत एवेच्छा संभवतीति न शौचादिमतः सन्ध्यावन्दनाद्यकरणस्य प्रत्यवायजनकत्वानुपप- त्तिरिति वाच्यम् । नरकाद्यनुपस्थित्यैव तदभावाज्ञानेन तदिच्छा- विरहोपपत्तेरित्याहुः। तदसत् । ध्वंसादेरत्यन्ताभावविरोधिताया निष्प्रमाणकतया नरकात्यन्ताभावस्यैव प्रायश्चित्तसन्ध्यावन्दनादिफलत्वसंभवादिष्ट- साधनताज्ञानाद्यघटितप्रवृत्तिसामग्र्या असिद्धेः। करणान्तरकल्प- नापेक्षया गुरुशरीरक्षेमसाधनताज्ञानस्यैव सर्वत्र प्रवृत्तिहेतुतेति । दण्डाद्धट इत्यादिप्रतीतिबलात्स्वरूपसंबन्धविशेषरूपस्य क्षेमसा- धारणसाधनत्वस्योपगमे तच्छरीरगौरवस्याप्यभावाचेति। नित्यस्थले शौचादिफलकामनयोरुभयोरधिकारत्वेऽपि प्रत्येकमेव तयोरधि- कारिता न तु मिलितयोरिति फलकामनाशून्यस्यापि शौचादिम- तोऽधिकारितया तस्यापि नित्याकरणं प्रत्यवायजनकम् ।

इष्टसाधत्वम् ] जयाऽलङ्कृतः अथ वा सन्ध्यावन्दनाकरणेन प्रत्यवायजननेऽधिकारैकदेशशौ- चादिमत्त्वमेव सहकारि न तु फलकामनापि तदसत्त्वेपि प्रत्यवायो- त्पत्तेः सर्वसिद्धत्वात् । एतेन संवलिताधिकारानुपगमे शौचादिशून्य- फलकामनावतो दैवाग्नित्याकरणं प्रत्यवायं जनयेदिति निरस्तम् । अत एव नित्यकाम्यजयन्तीव्रतादौ फलकामनाया अधिकारत्वस्य सर्वसिद्धतया शौचादिमतः फलकामनारहितस्य तदकरणं प्रत्यवायं जनयतीति । अपरे 'तु चैत्यं न वन्देते'ति वाक्यप्रामाण्यानुरोधेनेष्टसाधन- त्वस्य विध्यर्थत्वमावश्यकम् । कृतिसाध्यत्वादिमति चैत्यवन्दनादौ कृतिसाध्यत्वाद्यभावस्य नबा बोधने तद्वाक्यस्याप्रामाण्यापत्तेः । कृतिसाध्यतायाश्च विधित्वं नियुक्तिकम् । तदनङ्गीकारेऽपि कृतेरा- ख्यातसामान्यार्थतया विधिप्रत्ययस्यापि तदर्थकतया पचेतेत्यादौ कृते: पाकानुकूलत्वभानस्यावश्यकतयार्थात्पाकादावपि कृतिसाध्य- ताभानात् । कृतिसाध्यताया विधित्वेऽपि तत्तत्कालतत्तत्पुरुषविशे- षितकृतिसाध्यताविषयकस्य प्रवर्तकज्ञानस्य शाब्दबोधोत्तरमेव स्वीकरणीयतया विधिवाक्यजशाब्दवोधतः साक्षात्प्रवृत्त्यनि- हात्। अस्तु वा साध्यतासंबन्धेनैवाख्यातसामान्यार्थकृतेः क्रियायां विधिप्रत्ययजन्यबोधे भानम् । प्रवर्तिका चिकीर्षापि साध्यतासंब- न्धेन कृतिप्रकारिका क्रियेच्छैव । न च लडादिस्थले आख्यातार्थकृतेः क्रियाविशेष्यतयैव भानमिति व्युत्पत्तेः क्लप्तत्वात्पचेतेत्यादौ न तस्याः क्रियाविशेषणतया भानसंभव इति वाच्यम् । व्युत्पत्तिवैचित्र्येण तदुपपत्तेः । शक्त्यभेदेपि व्युत्पत्तिभेदे बाधकाभावात् । अत एव प्रा- चीनैराख्यातार्थस्यैव कृतेः कर्मप्रत्ययस्थले क्रियाविशेषणतया भान- मुपेयते । एवं कचित्पाकादाविव सर्वत्रैव यागपाकादेः लौकिकप्रमा- णादेव कृतिसाध्यताबोधो निर्वहतीति वदन्ति ।

व्युत्पत्तिवादः [पाख्याते 'न कलशं भक्षये'दित्यादिनिषेधविधेः प्रामाण्यानुरोधतः बल- वदनिष्टाननुबन्धित्वस्य विध्यर्थे प्रवेशः । निषिद्धेऽपि कलञ्जभक्ष- णादौ तृप्त्यादिरूपेष्टसाधनत्वसत्त्वेन तदभावस्य ना बोधने प्रा- माण्यानुपपत्तेः । बलबदनिष्ठाननुबन्धित्वस्य विधित्वे तस्यैवाभावो बलवदनिष्टनरकानुबन्धिनि तत्तत्कर्मण्यबाधितो बोध्यत इति तत्प्रा- माण्योपपत्तिः। बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया वाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानम् । सोऽपि विशेषणा- भावो यतोऽबाधितः कलञ्जभक्षणादौ विशिष्टाभावबोधानन्तरमेव तल्लिङ्गकानुमानगम्यो बलवदनिष्टानुबन्धित्वरूपस्तदननुबन्धित्वा- भावः प्रवर्तकमिव निवर्त्तकमपि ज्ञानं श्रुतिवाक्यात्परम्परयैव न तु साक्षात्। एतन्मते च न तादृशाभावस्य शाब्दबोधे भानं पदार्थंकदेशतया इतरविशेषणतयोपस्थितत्वेन नबर्थविशेषणतयाऽनिष्टाननुबन्धि- त्वान्वयासंभवात् । बस्तुतो विशिष्टशक्ती विशेष्यविशेषणभावे विनिगमनाविरहात् पृथगेय बलवदनिष्टाननुबन्धिताया वाच्यत्वम् । न च बलंवदनिष्टाननुबन्धित्वे इष्टसाधनत्वस्य विशेष्यत्वे विधि- वाक्यतः क्रियाविशेष्यकेष्टसाधनताज्ञानासंभवात् क्रियागोचरचि- कीर्षाद्यर्थ विधिवाक्यजशाब्दबोधोत्तरमिष्टसाधनत्वप्रकारकक्रिया- विशेष्यकज्ञानान्तरं कल्पनीयमिति तदकल्पनप्रयुक्तलाघवमेव बलवदनिष्टाननुबन्धित्वस्य विशेषणत्वे विनिगमकमिति वाच्यम् । क्रियायां बलवदनिष्ठासाधानत्वज्ञानस्यापि तद्गोचरेच्छाहेतुतया बलवदनिष्टासाधनत्वस्येष्टसाधनत्वविशेषणत्वमते क्रियाविशेष्यक- तत्प्रकारकज्ञानान्तरस्य कल्पनीयतया मतद्वये कल्पनासाम्यात् । यदि च बलवदनिष्टसाधनत्वज्ञानमेव द्वेषसामग्रीत्वेनेच्छाप्रतिबन्धक न तु तदसाधनत्वज्ञानमिच्छाहेतुस्तदोक्तस्य विशेष्यविशेषणभावे विनिगमकस्य संभवेऽपि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थवाच्येन श्येनवाक्यार्थ ] जयाऽलङ्कृतः ३५७ दद्विधायक श्रुतेरप्रामाण्यप्रसङ्ग इति शक्तिभेदस्य श्येने केवलेष्टसा- धनताबोधस्य चोपगम आवश्यकः । मणिकृतापि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थबाधेन तत्र बलव- दनिष्टासाधनत्वस्याभानं लिखितम् । तदभानं विशिष्टशक्तिपक्षे न संभवति । विशिष्टशक्तविशेषणविनिर्मोकेण विशेष्यांशाभासक- त्वात्। तत्तद्धर्मप्रकारेण पदार्थविषयकशाब्दबोधे तत्तद्धमाशे शक्य- तावच्छेदकत्वपर्याप्त्यवगाहिज्ञानस्य हेतुत्वात् । अन्यथा विशिष्ट- स्वर्गादिवाचकस्वर्गादिपदाद्विना लक्षणां केवलं सुखत्वादिप्रकारक- शाब्दबोधापत्तेः। यदि च केवलसुखत्वादिना स्वर्गादिरूपसुखबोधो लक्षणामन्तरेण स्वर्गादिपदादिष्यत एव । नेष्यते परं सुखान्तरवोध- स्तत्र शक्तिविरहादिति शक्यतावच्छेदकतापर्याप्त्यवगाहित्वमनु- पयोगीत्युच्यते तदापि बलबदनिष्टाननुबन्धित्वविशिष्टेष्टसाधन- त्वस्य शक्यतायां श्येननिष्ठवैरिवधसाधनत्वस्य बलवदनिष्टसाधन- त्वनियतत्वेन तदसाधनस्वविशिष्टत्वेन विधिप्रत्ययावाच्यतया सुतरां तत्र विध्यर्थत्वानिर्वाह एव । यत्तु श्येनस्यादृष्टाद्वारकत्वघटितहिंसालक्षणानाक्रान्ततया बल- वदुःखाजनकत्वमिति मतान्तरम्-तदसत्। तथा सति श्येने तात्त्विक प्रवृत्तिवारणाय बलबहुःखाप्रयोजकत्वज्ञानस्यैव प्रवृत्तिहे- तुताया उपगन्तव्यतया तस्यैव विध्यर्थताया आवश्यकत्वेन श्येने तद्बाधाच्छ्रतेरप्रामाण्यप्रसङ्गतावस्थ्यात् । श्येनस्य हिंसात्ववि- रहेऽपि अभिचारतया नरकजनकत्वस्य दुर्वारत्वाच्च । यत्तु 'अभिचरन्नि'त्यस्य वैरिवधगोचरप्रबलकामनाविशिष्टार्थ- तया तादृशकामनाविशिष्टस्यैव पुरुषस्य बलवद्वेषविषयाजनकत्व- रूपबलवदनिष्ठाननुबन्धिबघटकद्वेषानुदयात् ताशकामनावि शिष्टवृत्तिबलबद्वेषविषयाजनकत्वं श्रुतिवाक्यात् प्रत्येतव्यं, तच्च ३५८ ब्युलत्तिवादः [ प्राख्याते श्येनेऽबाधितमेव चैरिवधे उत्कटरागवतस्तज्जन्यनरके बलवद्वेषानु- त्पत्त्या तादृशनरकस्य वैरिवधोत्कटकामनाविशिष्टवृत्तिद्वेषाविषय- त्वात्। न ह्येकदा एकत्रावर्त्तमानयोरेकत्तरमपरविशिष्टवृत्तीति मि- श्राणां मूलाभिप्रायवर्णनं-तदपि न, बलबद्वेषविषयदुःखजनकत्व- प्रतियोगिकामावस्यातिप्रसक्ततया बलवद्वेषविषयदुःखजनकत्व- स्वावच्छिन्नाभावस्य वाच्यतास्वीकारे पुरुषविशेषीयबलवद्वेष- विषयदुःखजनकत्वाभावस्य प्रत्ययासंभवात् तादृशदु:खजनकत्वे अभावे च खण्डशक्तिस्वीकारे विशिष्टशक्तिस्वीकारपरित्यागात् । एवं यत्रोत्कटरागो यदा तत्रैव नोत्कटद्वेषस्तदा तज्जन्ये फले उत्कट- रागदशायां च तजन्यदुःखरूपफलान्तरे उत्कटद्वेष न किंचिद्बाध- कमिति वैरिवधे उत्कटरागदशायां च श्येनजन्यनरके बलवद्वेषो दुरपवाद एव । अस्तु वा फलविशेषोत्कटरागघटिता उपायगोचरो- कटरागसामग्री। तत्रैव तज्जन्यतया ज्ञाते सति फलान्तरेप्युत्कटद्वेष- विरोधिनी तथापि नरकवैरिवधयोरेकतरं प्रति श्येनस्य हेतुत्वाग्रहद- शायां तयोर्बलववेपरागयोर्चुगपत्संभव एव । यत्तु दीक्षाङ्गपशुघातस्य नरकासाधनतया 'मा हिंस्यादि'त्यत्रा- वैधहिंसैव विवक्षितेति श्येनस्य नरकासाधनत्योपपादनं, तदपि न । तावतापि अभिचारविधया तथात्वस्य दुर्वारत्वात् । अथ खण्डश- क्तिमवलम्ब्यानिष्टासाधनत्वविनिर्मोकेरण कचिद्विधिबोधोपगमे श्वेतं छागमालभेते'त्यादावपि तत्परित्यागसंभवात् अविरोधेन 'मा हिंस्या'दित्यत्र श्रुत्यर्थसंकोचो न स्यादिति सांख्यमतमेव साधीय इति चेत्-म्यादेव अविरोधेऽपि 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौ- ण्डिन्यायेत्यत्रेव सामान्यविधेविशेषतरपरत्वं व्युत्पत्तिसिद्धमिति 'मा हिंस्या दित्यत्र संकोचः। अथ वा कथंचिद्वाधकापनयसं- भवेनौत्सर्गिकार्थपरित्याग इति हिंसानिषेधसंकोचेनैवोपपत्तौ न विध्यर्थनिष्कर्षः ] जयाऽलङ्कृतः ३५६ 'श्वेतं छागमालभेते'त्यादौ विधिप्रत्ययस्य बलवदनिष्टासाधनत्वा- र्थपरित्याग इत्यर्थः। अथ यागपाकादिजन्यश्रमादावपि कदाचि- कस्यचिद्बलवद्वेषोदयात् यजेत पचेतेत्यादौ अप्रामाण्यप्रसङ्गो दुर्वारः। यत्तु बलवदनिष्टासाधनत्वं न लौकिक विध्यर्थः किं तु न कल- अमित्यादिश्रुतेः प्रामाण्योपपत्तये वैदिकलिङ्ग एव तदर्थकता तत्रापि बलवदनिष्टं नरकमेव ताद्रूप्येणार्थः । अत इष्टोत्पत्तिनान्त- रीयकश्रमादेः कदाचित् द्वेषविषयतया न यागादौ विध्यर्थबाध इति तदपि न, 'शाकं न भुञ्जीते त्यादिवैद्यकवाक्ये बलवदनिष्टाज- नकत्वनिषेधपरत्वं विना प्रामाण्यानुपपत्तेः। तत्रापि रोगाजनकत्वं विध्यर्थस्तदभावो नबा बोध्यत इति चेद् 'रिक्तायां न गच्छेत्', 'पुष्य नोहे दित्यादिज्योतिःशास्त्रवचनस्य 'नैकः पर्वतमारोहे दि- त्यादिवाक्यस्य च का गतिः । तत्रापि विशिष्य तत्तदुनिष्टासाधन- त्वस्य विधिप्रत्ययार्थत्वे शक्त्यानन्त्यप्रसङ्गो व्युत्पत्त्यनुपपत्तिश्च । अत्र वदन्ति-द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्या- श्रयसाधनतात्वावच्छिन्नप्रतियोगिताकाभावकूटे तादृशाभावत्वेना- नुगते एकैव विधिप्रत्ययस्य शक्तिः । उपलक्षणीभूतद्वेषविषयताव- च्छेदकत्वं परित्यज्य नरकाद्यसाधनत्वं प्रतीयते । कुत्रचिन्नरकासा- धनत्वं कुत्रचिद्रोगासाधनत्वं प्रतीयत इत्यत्र तात्पर्यमेव नियामकम् । प्रतीयोगितायाः प्रकारतया भानात् प्रतियोगितावच्छेदकघटकन- रकत्वादौ द्वेषविषयतावच्छेदकत्वस्योपलक्षणतया शक्तिग्रहे भानम- विरुद्धम् । न च प्रमेयत्वादेरपि उपलक्षणतया भानमविरुद्धमिति प्रमे- यत्वादेरुपलक्षणतया नरकत्वाद्यनुगमकत्वं कथं न स्वीक्रियते विनि- गमकाभावादिति वाच्यम् । सुखाद्यसाधनत्वस्य विध्यर्थताविरहेण व्युत्पत्तिवादः [ आख्याते प्रमेयत्वादेः सुखत्वादिसाधारण्यं नोक्तरूपस्येत्यस्यैव विनिगम- कत्वात् । न च तात्पर्याभावात् सुखाद्यसाधनत्वबोधकत्वोपपत्तौ विध्यर्थत्वेऽपि क्षतिविरह इति वाच्यम् । तस्य विध्यर्थत्वेन तत्तात्पर्ये- णाधुनिकानां न भुञ्जीतेत्यादिप्रयोगापत्तेः ।। इति महामहोपाध्यायगदाधरभट्टाचार्यकृते व्युत्पत्तिवादे पाख्यातविवरणं समाप्तम् । समाप्तश्चायं ग्रन्थः (New Delhi SANDA LIBRARY

Vyutapattivadah

Author
Gordhanbhai I. Patel
Title
Vyutapattivadah
File name
Vyutapattivadah
Text
OCR done
Citation
1940
Publisher
University Of Allahabad
Language
Sanskrit
Pages
368
Library
Central Archaeological Library_asi_new Delhi
Classification
Literature
DLI number
284113
Barcode
5990010905205.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
L2QjSgsc3M1
Download PDF

Vyutapattivadah