S.P College, Srinagar
The Dela Rama Katha Sara
Front matter
काव्यमाला ७७.
مو
भट्टाह्लादकविरचितो
देलरामाकथासारः।
SAGA
GAR
मूल्यं ७ आणकाः।
0-12
No text on this page.
No text on this page.
Poelm (Sandert
KAVYAMÂLÂ. 77.
THE
DELARÂMÂ-KATHÂSÂRA
OF
RÂJÁNAKA-BHATTA-AHLADAKA.
EDITED BY
MAHÂMAHOPADHYAYA PANDIT SIVADATTA
Head Paņdit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KÂSÎNÁTH PÂNDURANG PARAB.
Second Edition.
PUBLISHED
ta
BY
PÂNDURANG JÂWAJÍ,
PROPRIETOR OF THE “NIRNAYA-SAGAR” PRESS,
Bombay.
1923.
Price 7 Annas.
891262
Si 620
14525
Registered according to Act XXV of 1867.
(All rights reserved by the Publisher. )
PUBLISHER:-Pandurang Jawaji,
PRINTER :-Ramchandra Yesu Shedge,
Nirnaya-Sagar' Press,
23, Kolbhat Lane, Bombay.
काव्यमाला. ७७. 0000 राजानकभट्टाह्लादकविरचितो देलरामाकथासारः। =cccccccce= जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना महामहोपाध्याय- पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिपणशीकरोपाह- लक्ष्मणशर्मात्मजवासुदेवशर्मणा च संशोधितः । (द्वितीयावृत्तिः) स च मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्रकाशितः । शाकः १८४५, ख्रिस्ताब्दः १९२३. (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः।) मूल्यं ७ आणकाः। 0.2
No text on this page.
काव्यमाला।
babeec
राजानकभट्टाहादकविरचितो
देलरामाकथासार।
प्रथमः सर्गः।
नमस्कृतिर्यस्य परं सपर्यावर्याप्रसूनैर्न तु धूपदीपैः ।
सदैव युष्मान्महिमा प्रभूतः पायात्स्वदेवस्य हितस्य तस्य ॥ १ ॥
एषा कथा मौसलशास्त्रदृष्टा भूयिष्ठसद्वाच्यमहाविशिष्टा ।
मनोविनोदाय सतां जनानां गीर्वाणवाण्या क्रियते मयाद्य ॥ २ ॥
धनेशदिग्वारवधूसुवेशो देशो धरामण्डलहारिभूषा ।
अस्ति प्रभूताद्भुतवस्तुलाभो नाम्ना हलाभो जगति प्रतीतः ॥ ३ ॥
यत्राङ्गनालिङ्गनमद्यपानक्रीडाप्रपञ्चेष्वभवद्धि चिन्ता ।
कलिश्च नित्यं शुकशारिकासु मन्युः सपत्नीषु परस्परं च ॥ ४ ॥
कचग्रहस्तत्र मृगेक्षणासु नाशो बभूवाखिलढुर्नयेषु ।
पातोऽपि लीलाधृतकन्दुकेषु घातः स्मरास्त्रैस्तरुणेषु यत्र ॥ ५॥
वराङ्गनानूपुरयुग्म एव यत्र प्रहृद्यं मुखरत्वमासीत् ।
प्रतोदघातस्तुरगेषु चापध्वनिः सुधासूतिवसन्तशत्रौ ॥ ६ ॥
सामर्षनारीपरिसान्त्वनेषु वचोहरप्रेषणमेव चासीत् ।
किं चापि नित्यं रतियुद्धकाले यूनां जनानामतिनिर्दयत्वम् ॥ ७ ॥
यत्राभवद्वाष्पजलप्रपातो बालाङ्गनानां नवसंगमेषु ।
पीडाभवच्चासुरदच्छदेन वातूलचेष्टा मधुपूर्णितेषु ।। ८ ॥
वैवर्ण्यमासीन्मदनातुरेषु कम्पोऽभिषेकावसरे वधूनाम् ।
शङ्काभवत्तत्सुरताप्तिहेतोर्यस्मिन्पुरे चेतसि कामुकानाम् ॥ ९ ॥
काव्यमाला । वक्रोक्तिरासील्लटभाङ्गनासु नैष्ठुर्यमेतत्कुचमण्डलेषु । गर्हाप्यभूहुष्कृतकार्य एव नित्यं नराणां सुकृताश्रयाणाम् ॥ १० ॥ याच्ञाभवत्कामिजनस्य बालवराङ्गनालिङ्गनचुम्बनेषु । अधोगतिर्द्राग्जरतीस्तनेषु तदीयकेशेषु च मन्दभावः ॥ ११ ॥ कृशत्वमासीललनोदरेषु छेदोऽपि पुष्पावचये तरूणाम् । स्तम्भोऽप्यनङ्गप्रभवोऽभिकेषु रते नवोढाकरुणप्रलापः ॥ १२ ॥ मनखिनीसान्त्वन एव चाटु तद्भषु कौटिल्यमभूत्सुहारि । व्यथा हि कामाहिततीक्ष्णबाणपातेन पान्थेषु रतोत्सुकेषु ॥ १३ ॥ धिग्वाद आसीत्परिचुम्बनेन यूनां नवोढानवसंगमेषु । कोपः क्षणं भर्तृषु मानिनीनां कृतापराधेष्वपरारतेन ॥ १४ ॥ तत्राभवद्विश्रुतकीर्तिपूरः संग्राममध्ये प्रवरः सुवीरः । साधुर्दयालुः सरलोऽतिधीरो राजा सुरत्राणमहम्मदाख्यः ॥ १५ ॥ तस्यातिभक्ता हितकार्यसक्ता नानाप्रतीता खलु मेरभक्ता। बभूव चेतोहरकान्तिरूपा भार्या निजान्तःपुरमुख्यभूता ॥ १६ ॥ तया समं चापरकामिनीभिः शृङ्गारकेलीविविधाः स कुर्वन् । बभार नो जातुचिदेव राज्य कार्यादिचिन्तां हृदि निर्विमर्शः ॥ १७ ॥ त्यक्तप्रजाजस्रविचार्यकार्ये तस्मिन्प्रयाते विपुले च काले । अदर्शनालापवशादमात्यवर्या विरक्ता निखिला बभूवुः ॥ १८ ॥ तस्यैकदा भूमिपतेः पुरस्तान्निरीक्षितुं वक्रमुपानिनाय । सुनिर्मलं दर्पणमुच्चशोभं बाह्याङ्गने नापित एक एव ॥ १९ ॥ आदर्शमध्ये स ददर्श राजा वक्र जरापाण्डुररोमकूर्चम् । ततः प्रदध्यौ सहसा विमुच्य तदर्पणं जातघनानुतापः ॥ २० ॥ इयत्यहो भूरितरे च काले यातेऽपदानं न हि किंचिदेव । अकार्षमुच्चैर्नरनाथयोग्य वयोऽनयं निष्कलतावशेषम् ॥ २१ ॥ ध्यात्वेति तां रात्रिमथातिवाद प्रातर्वितीर्य स्खपुरे निजाज्ञाम् । विनिर्ययौ सर्वसहाययोधभृत्यान्वितः सन्मृगयां विधातुम् ॥ २२ ॥ १. 'सुल्तान' इति यावनीभाषायाम्.
३ १ सर्गः ।। देलरामाकथासारः। गच्छन्स मार्गे विशिखावलीभिर्निपातयन्प्राणिगणान्धरित्र्याम् । पाणिप्रहारातिसकोपवाजिवेगेन दूरं कटकाजगाम ॥ २३ ।। प्रधाव्यमानप्रवराश्ववेगादेकं महागह्वरमाससाद । तत्रालुलोके वरवर्णशोभामेकां मृगी निर्भयगामिनी सः ॥ २४ ॥ तामीक्ष्य तत्र नृपतिर्निजचापदण्डा- द्धन्तुं निशातविशिखं विचकर्ष सद्यः । सा व्याजहार हरिणी तु मनुष्यवाचा त्वेकत्र रुद्धगतिरुद्तविस्मयं तम् ॥ २५॥ राजंस्त्वदर्थमधुना हि समागताह- माकृष्य वाणधनुषी इह संहरातः । किंचिद्वदामि सुमते क्षणमात्रमेव यत्सावधानमनसा शृणु तत्समग्रम् ॥ २६ ॥ दुष्कर्मणार्जितविपत्तव भूपतेऽस्ति या सर्वसद्विभववित्तविनाशकी । एतर्हि तर्हि यदि वाञ्छसि तत्समेति त्वां साधुनैव सहसा तु मदीयवाचा ॥ २७ ॥ किं तु त्वमिच्छसि तु चेत्परिणामकाले तत्सांप्रतं भज मदीयगिरा स्वराज्यम् । बेह्यद्य हृद्तयथेष्टनिजाभिलाषं त्वत्कारणात्रिदिवतोऽहमिहावतीर्णा ॥ २८ ॥ श्रुत्वेति तद्विरमसौ पृथुजातदुःखो दोलाधिरूढहृदयोऽथ समभ्यधाचाम् । जायामुपैमि ननु यावदहं क्षणेन पृष्ट्वाम्ब तावदिह मद्दयया भव त्वम् ॥ २९ ॥ उक्ते तथेति स तया खपुरं प्रतस्थे मार्गेऽथ संमिलितसैन्यभटानुयातः ।
४ काव्यमाला । गच्छञ्जवेन सहसा निजराजधानी संप्राप्य वासभवनं निजमाविवेश ॥ ३०॥ आनीय तत्र निकटं किल मेरभक्तां दूरीकृताखिलजनो विजनं समेत्य । तस्याः शशंस नृपतिः स मृगीवचस्त- प्रोद्भिन्नबाष्पजलगद्गदभाषितेन ॥ ३१ ॥ आकर्ण्य तद्विरमुवाच तु मेरभक्तां सा तं विमृश्य विपुलोद्गतचित्तपीडा । राजन्नुपैति यदि दुर्गतिरद्य शक्ति- देहेऽस्ति किंचिदपि सोढुमुरुप्रयत्नम् ॥ ३२ ॥ प्राप्तेऽथ दारुणतरे परिणामकाले शान्ताखिलेन्द्रियनितान्तघनावसादे । कुर्वः किमेव बत कुत्र तदा प्रजा वः सर्वे हसन्ति हि यदङ्गुलिदर्शनेन ।। ३३ ।। तद्गच्छ तूर्णमित एव मृगीसमीपं तां ब्रूहि भूमिप पुरो विनयात्प्रणम्य । मातस्त्वदीयवचसा तु विपन्ममाद्य स्फीतव्यथां तु न सहे परिणामकाले ॥ ३४ ॥ इति निजदयिताया वाचिकं तन्निशम्य रजनिमवनिपालः खावरोधेऽतिवाह्य । उपसि तु मृगयाव्याजेन दूरीकृतख- भृतकसचिवसैन्यः काननं तद्विवेश ॥ ३५ ॥ इति राजानकभट्टाह्लादकविरचिते देलरामाकथासारे मृगीदर्शनानन्तरं नृपगमनं नाम प्रथमः सर्गः। द्वितीयः सर्गः। अथ सपदि कुतोऽप्यागत्य दत्तावधानां स नरपतिरपश्यत्तां मृगी काननेऽत्र ।
१ सर्गः ॥
देलरामाकथासारः।
५
द्रुततरमुपसृत्य प्राह नम्रोत्तमाङ्गो
भवतु जननि हन्त व्यापदद्यैव
सा
मे ॥ १ ॥
वच इदमथ तस्याकर्ण्य सद्यस्तिरोभू-
द्विपुलजनितचेतोविस्मया सा कुरङ्गी ।
त्रिचतुरपदयातस्यावनीशस्य वाजी
सपदि विधिनियोगाद्धन्त पञ्चत्वमाप ॥ २ ॥
निजकटकसमीपप्राप्तमात्रेऽथ पद्भ्यां
सपदि धरणिनाथे दुःखनम्रोत्तमाङ्गे ।
विपुलसुभटचक्राक्रान्तसर्गमृगव्या()
विविधनिशितहेतिफ्धसेना जगाम ॥ ३ ॥
तदथ सकलसैन्यं हन्तुमभ्युद्यतां तां
सपदि शबरसेनां वीक्ष्य सर्वेऽप्यमात्याः।
प्रवरहयगणानारुह्य तूर्णं तु जग्मु-
नगरमवनिपालं तं पदाति विमुच्य ॥ ४ ॥
सकलविपुलसैन्ये विद्रुते ते पुलिन्दा
नरपतिमिममेकं वीक्ष्य दीनं पदातिम् ।
रुरुधुरथ समेत्य ज्यातले संनिपात्य
पृथुतरमुरुरज्वा दोर्युगं चापि बद्ध्वा ॥ ५ ॥
परिहृतसकलालंकारभूयिष्ठरलं
धरणिपतिममन्दप्रत्तगात्रप्रहारम् ।
मुमुचुरथ कथंचिद्रज्जुबन्धं निवार्य
स्रवदपरिमितासृग्धारमेतं किराताः ॥ ६ ॥
तदतिघनरुषाथात्रान्तरे तत्सहायाः
सपदि ददुरमन्दानन्दितास्तत्वराज्यम् ।
द्रुततरमपरस्मै गोपुरे संनिधाय
प्रथितविपुलशौर्यानक्षिणो हेतिहस्तान् ॥ ७ ॥
काव्यमाला ।
द्रुतगामिनी
इति निजपुरवार्ता तामजानन्स राजा
मुषितसकलभूषारत्नविच्छायशोभः ।
द्रुतपदमवरोधोत्कण्ठितोऽथ प्रतस्थे
शबरनिबिडबन्धायासितो राजधानीम् ॥ ८ ॥
कतिपयमथ वर्मातीत्य गच्छन्पुरस्ता-
न्नरपतिरथ पञ्चां मेरभक्तां ददर्श ।
मलिनवसनभाजं स्वप्रियां तां रुदन्ती
विगतनिजपरिष्कारां भिया क्षिप्रयान्तीम् ॥९॥
अथ तां निरीक्ष्य च कथंचिदेव स प्रविभाव्य भूमिपतिरात्मवल्लभाम् ।
घनतप्तबाष्पजलगद्गदखरो निजशोककारणमपृच्छदन्तिके ॥ १० ॥
अयि वैशसकारणं प्रिये वद केनासि नितान्तदुःखिता।
विगतांशुकभूषणा कथं क च यासि
पुरः॥
११ ॥
अथ सा विनतानना पति तमुदीक्ष्यावददश्रुगद्गदम् ।
सचिवैस्तव राज्यमर्पितं ह्यपरस्मै द्रुतमेत्य पत्तनम् ॥ १२ ॥
अहमप्यपनीतभूषणा नगरादद्य पलाय्य चागता ।
त्वमपि क नु यासि सांप्रतं यदि दृष्टो रिपुभिर्निहन्यसे ॥ १३ ॥
तदितस्त्वरितं तु कंचनापरदेशं हि मया सह व्रज ।
अनुकूलविधिस्तथापि ते यदहं संघटिता पुरोऽधुना ॥ १४ ॥
इति तद्वचनेन दुःखितः प्रविहाय स्वपुरस्पृहां नृपः ।
परदेशमथोपचक्रमे सहसा गन्तुमरातिसाध्वसात् ॥ १५ ॥
अथ स भूमिपतिर्दयितासखो गहनभूधरवर्त्म परिभ्रमन् ।
कमपि देशमवाप्य चकार तद्वसतिमध्वघनश्रमखेदितः ॥ १६ ॥
न गुणवान्न च विक्रमलाञ्छनो न कवितापि च यत्र हि पूज्यते ।
परमसौ बत जीवति यः सदा नयति काष्ठचयं गहनान्तरात् ॥ १७ ॥
स नृपतिः सुकुमारशरीरवानपि दरिद्रतया विवशीकृतः ।
अधमवंशजनेऽपि विगर्हितामपि कुवृत्तिमजिग्रहदेव ताम् ॥ १८ ॥
सर्गः।] ३ देलरामाकथासारः। ७ प्रत्युषस्यपि निजप्रियार्पितापूप एव पथि भोजनाय सः दूरवर्तिगहनान्तरं ययाविन्धनानयनहेतवे सदा ॥ १९ ॥ सायमेत्य विपिनात्पुरं प्रविश्यापणे तमपि काष्ठसंचयम् । वृत्तिमेष कुरुते स्म हन्त विक्रीतलब्धमितनिष्कसंख्यया ॥ २० ॥ एवमेव सुचिरं बभार विक्रीतकाष्ठनिचयेन जीविकाम् । प्रातरेव बत संततं व्रजन्सायमेत्य विपिनात्पुरं विशन् ॥ २१ ।। द्वित्रियातपरिवत्सरावधौ काष्ठकष्टनिरतस्य तस्य सा । वल्लभा तु समजीजनत्सुतौ द्वौ क्रमेण शशिकान्तिसुन्दरौ ॥ २२ ॥ वृद्धिमापतुरथो क्रमेण तौ दारको रुचिरराजलक्षणौ । मातृपितृघनहर्षकारिणौ शैशवोचितमनोज्ञलीलया ॥ २३ ॥ .... ॥ २४ ॥ ॥ २५॥ .... इति राजानकभट्टाहादकविरचिते देलरामाकथासारे द्वितीयः सर्गः । नाम तृतीयः सर्गः। .... .... ...... ॥ १ ॥ .. ......... ॥ २ ॥ .. ... ... ॥ ३ ॥ .. ॥ ४ ॥ ५॥ Library Sri Pratap College, Srinagar.
८
काव्यमाला।
॥६॥
-
॥ ७॥
॥ ८ ॥
॥९॥
...
॥ १० ॥
..
॥ ११॥
॥ १२ ॥
ह मातः ।
तुभ्यमद्य तु ददानि समग्रांस्तान्गृहाण सहसैव हि मत्तः ॥ १३ ॥
द्रव्यमन्यदधिकं ह्यत एतन्नैव रत्नमिह चार्हति लब्धुम् ।
नेयता यदि ददासि भवत्या नीयतामपरधाम तदद्य ॥ १४ ॥
सा निशम्य गिरमित्थममन्दानन्दितस्य वणिजस्तु विमृश्य ।
एवमस्त्विति जगाद पुरस्तात्संनिधाय धरणीपतिपत्नी ॥ १५॥
सोऽथ सार्थपतिरुद्धतहर्षस्तूर्णमेव विगणय्य समग्रम् ।
तत्समर्प्य च शतत्रयमस्सै भासुरं मणिमजिग्रहदण्डम् ॥ १६ ॥
तां ततः प्रमुदितः स बभाषे सन्ति चान्यमणयोऽस्य समानाः।
तर्हि यद्यपि तवाद्य समीपं तान्समानय जनन्यखिलांस्त्वम् ॥ १७ ॥
दीयते खलु मयास्य समानं वित्तमम्ब विगणय्य समग्रम् ।
तन्निशम्य मुदिता नृपपत्नी सा तथेति तमथो निजगाद ॥ १८ ॥
३ सर्गः 1] देलरामाकथासारः। an साप्यशेषमथ तत्परिगृह्य स्फीतहर्षभरपूरित चित्ता। आययौ निजगृहं नृपपत्नी व्यापदन्तसमयं प्रविदन्ती ॥ १९ ॥ गूढमेव तदुपार्जितवित्तं सा निधाय विजने नृपजाया । कस्यचिन्न समभाषत नैवादर्शयच्च कृतसंवृतिरुच्चैः ॥ २० ॥ सा परेऽह्नि च समेत्य विहङ्गीपञ्जरान्तिकमुपात्तघनास्था । अद्वितीयमपरं च तदण्डं पश्यति स्म गुरुदीप्ति सुदीप्तम् ॥ २१ ॥ तं मणिं च परिगृह्य सहर्षाकृष्य मञ्जुलसुपञ्जरगर्भात् । तस्य नैगमवरस्य समीपं सा पणान्तरमथैत्य जगाम ॥ २२ ॥ तत्र तस्य तु यथा प्रथमस्मिन्वासरे ननु तथैव तदह्नि । अण्डमेकमपरं च ततो विक्रीय वित्तमनयन्निजधाम ॥ २३ ॥ अथ सा तृतीयदिवसेऽपि तथा परिलब्धरत्नकृतविक्रयतः । समुपात्तवित्तनिचयेन तदा बहुशो जहर्ष सुखमाप भृशम् ॥ २४ ॥ इति संतताप्तगुरुरत्नचया विहगीप्रसादवशतो ननु सा । सह तेन सार्थपतिना व्याधित व्यवहारमत्र न परेण समम् ॥ २५॥ अथ संभृतप्रवरचित्तचया खपतिं कदाचिदवदद्दयया । सततं कुटुम्बभरणाय विभो नितरां प्रताम्यसि कुवृत्तिवशात् ॥ २६ ॥ निजशिल्पकर्मवशतो द्रविणं मम विद्यतेऽद्य ननु किंचिदिह । परिगृह्यते तदत एव मया सदनप्रयासकरदासजनः ॥ २७ ॥ ननु सर्वथा खपतिरेव सदा परिरक्ष्यते वरकुलाङ्गनया । तदितः परं भव सुखी सुचिरं त्यज काष्ठकष्टकृतवृत्तिमिमाम् ॥ २८ ॥ करवै कुटुम्बभरणं तु कथंचिदपि स्वयं विविधयत्नशतैः । न सहे त्वदीयवपुषः सततं पृथुखेदमुत्तमगुणस्य विभो ॥ २९ ।। इति भारती प्रियहितां नृपतिः स निशम्य तामथ निजां दयिताम् । प्रशशंस जातघनहर्षभरो विरराम चेन्धनचयाहरणात् ॥ ३० ॥ १. 'प्रथमे च' इति पाठः कल्पनीयः, प्रथमशब्दस्य सर्वनामसंज्ञकत्वाभावात्स्मिन्ना- देशाप्रवृत्तेः । २
१०
काव्यमाला।
स ततः प्रभृत्यभवदत्र सुखी सुकुलीनसाधुविबुधैर्गुणिभिः ।
सह धर्मशासनकथाविबुधा धरणीपतिविरचयन्सततम् ॥ ३१ ॥
विहगीप्रसादपरिलब्धमहादविणेन सा विपुलदासजनान् ।
समजिग्रहन्नरपतेर्दयिता निजमन्दिरे विविधकर्मकृते ॥ ३२ ॥
अपि केवलं स्वयमसौ नितरां सह तेन सार्थपतिना सततम् ।
मणिभिर्धनैर्विदधती प्रवरैर्व्यवहारमास्त सुखितात्र पुरे ॥ ३३ ॥
सततं तदीयसदनागमना परिजातसंस्तववशेन तु सा ।
गतयन्त्रणा विविधनमहृता वणिजा समं रतिमचीकमत ॥ ३४ ।।
खगृहात्सदैव घनभोज्यसुरादिकमेतदीयसदनं सधनम् ।
उपनीय तेन वणिजैव समं ह्यघसत्पपौ भृशमरंस्त च सा ॥ ३५ ॥
प्रतिवासरं प्रचुररागहृता समभूत्तथैव किल सार्थपतौ ।
खधनेन रुच्यतममस्य कृते खयमेव भोज्यमपचत्तु यथा ॥ ३६ ॥
तं भर्तारमपि खकीयतनयौ तौ राजचिहाङ्कितौ
सर्वखं मनुते स्म नैव च तदा सा मेरभक्ता तथा ।
रागग्रस्तमतिर्यथैव वणिजं तं दुष्कुलीनं शठं
स्त्रीणां दुश्चरितं न जातुचिदहो पापावहं शाम्यति ॥ ३७ ॥
इति देलरामाकथासारे वित्तप्राप्यनन्तरं वणिजा सह राजपत्नीसंगमो नाम
तृतीयः सर्गः।
चतुर्थः सर्गः ।
ज्ञानतीक्ष्णधिषणा बभूव तत्कालमस्य वणिजः खमन्दिरे ।
वृद्धयोषिदपि काचिदुच्चकैस्तत्कृपापरमना हि शाकिनी ॥ १ ॥
भोज्यभाण्डनिचयं सदा समादाय तत्र जरती विलोक्य सा।
तां गतागतकरी दिवानिशं सार्थवाहसदने विसिस्मिये ॥ २ ॥
एकदा समुपसृत्य साब्रवीत्सार्थवाहमथ वृद्धकामिनी ।
पुत्र सेयमिह संततं किमागच्छति प्रचुरभाण्डधारिणी ॥ ३ ॥
एतदागमनहेतुमत्र मे ब्रूहि पुत्र मम तथ्यमेव तत् ।
नैव गोपयितुमर्हसि ध्रुवं त्वं मया तनयवद्धि मन्यसे ॥ ४ ॥
४ सर्गः।]
देलरामाकथासारः।
११
हृद्गतं वद ममाधुना भृशं कौतुकं मम किलात्र वर्तते ।
वेद्यहं सकलबुद्धिचेष्टितं तद्रवीमि हितकाम्यया तव ॥ ५॥
सोऽभ्यधादिति निशम्य भारती वृद्धयोषितमिमामथो वणिक् ।
मातरत्र तव किं वदाम्यहं स्त्रीमनो हि तरलं प्लवंगवत् ॥ ६ ॥
आययाविह निजात्पदाच्चयुतः कोऽपि भूमिपतिरम्बिके पुरा ।
सेयमस्य दयिता मदन्तिके जातुचियधित रत्नविक्रयम् ॥ ७ ॥
तत्ततः प्रभृति जातसंस्तवा मां सदैव भजतेऽनुरागिणी ।
नैव मुञ्चति कदाचिदप्यसौ स्नेहबन्धमनिवारितं मयि ॥ ८ ॥
तत्स्वकीयधनसंचयाययं नित्यमेव कुरुते निरन्तरम् ।
मामकं न हि तु किंचिदेव गृह्णाति वित्तमपि कल्पितार्थना ॥९॥
भारतीमिति निशम्य सा ततस्तं जगाद जरती वणिक्पतिम् ।
पुत्र चेदतिघनानुरागिणी सा भवत्यपि भवत्यनारतम् ॥ १० ॥
तत्स्वगेहविहगी निहत्य चेत्त्वानुपानयति भोक्तुमद्य सा ।
मन्यते तदतिविस्मयान्मया प्रेम पूर्णमतिमात्रशोभनम् ॥ ११ ॥
सोऽब्रवीदिति निशम्य तामथो मातरत्र बत को हि संशयः ।
यत्र दुर्लभसुपीनमेष मां शासनं तु कृपयानयात्र किम् ॥ १२ ॥
साप्यभाषत विहस्य शाकिनी तत्त्वमत्र न हि वेत्सि नन्दन ।
विस्मयप्रदमिहाद्य विद्यते कारणं न वितथं मयोच्यते ॥ १३ ॥
तन्निशम्य गुरुजातकौतुकः सोऽत्र सार्थपतिरुच्चकैस्ततः ।
पक्षिणीपिशितभक्षणोद्यतस्तत्प्रतीक्षणरतोऽभवत्तदा ॥ १४ ॥
सा जगाम नरनाथवल्लभा सार्थवाह निकटं तदन्तरे ।
सोत्सुका प्रचुरहर्षमानसा भोज्यपानभृतभाण्डधारिणी ॥ १५ ॥
तां विलोक्य स पराङ्मुखोऽभवन्नैव किंचिदपि चावदत्ततः ।
संजहार च तदाननोत्सुकां दृष्टिमुच्चतरमन्युमानभूत् ॥ १६ ॥
सा तथाविधमवेक्ष्य तं प्रियं जारमाह समुपेत्य तत्क्षणम् ।
भूतले विविधभोज्यसंभृतस्थापिताभिनवभाण्डसंचया ॥ १७ ॥
१२
काव्यमाला ।
त्वत्कृतेऽहमविमृश्य तत्क्षणं तत्करोमि तदपि ब्रवीषि यत् ।
नापराधमपि वेनि चात्मनः स्तोकमप्यथ हि येन खिद्यसे ॥ १८ ॥
तावकीनवचनामृतं मया केवलं दयित काश्यते सदा ।
किं पराङ्मुखमवस्थितो भवान्मन्दभाग्यवशतो मम प्रभो ॥१९॥
वेत्सि किंचिदपराधमद्य मे यद्यहो तदपि किं प्रतीक्ष्यसे ।
रोचितं यदिह तत्कुरु प्रभुस्त्वं ममाहमपि चेटिका तव ॥ २० ॥
नाथ किंचिदपि नोऽभवत्समाराधनाय मम चास्ति दुष्करम् ।
तत्प्रसीद वद सांप्रतं द्रुतं हृद्तं यदिह तन्महामते ॥ २१ ॥
अर्थ्यतां च भवता यदीप्सितं विद्यते मम यदेव दुर्लभम् ।
जीवितं यदनुरागतो मया दीयते परधने तु का कथा ॥ २२ ॥
इत्यस्या गिरमुपकर्ण्य सार्थवाहः प्रत्याहाथ सपदि मन्दमन्दवाचा ।
किं ब्रमो यदपि नितान्तनीरसं तन्मांसं मे निकटमिहानयस्यजस्रम् ॥२३॥
रुन्ध्यो यत्पिशितमतीव पुंश्चलि त्वं तां गेहे स्थगयसि सर्वदा विहंगीम् ।
पक्त्वा तत्सविधमिहानयाद्य तूर्ण प्रीतिस्ते यदि मयि विद्यते नितान्तम्॥२४॥
श्रुत्वैतत्तमथ जगाद मेरभक्ता व्यक्तीभूतनिजविहंगिका सदुःखा ।
क्रीडार्थ पृथुककृते स्थिता हि सा मे किं तस्याः कृशतरमांसचर्वणेन ॥२५॥
अन्यान्कांश्चिदपि सुपीवरान्विहंगान्भूरीस्त्वत्सविधमिहानयामि तूर्णम् ।
मेषादीनपि विविधान्पृथूनथो वा तां सूक्ष्माकृतिविहगीं त्यजस्ख नाथ ॥२६॥
उक्तोऽप्येवमथ स भूरिशो यदासौ निर्बन्धान्न तु विचचाल सार्थवाहः ।
तां हन्तुं सपदि तदैव सा विहंगीमङ्गीकारमकृत तस्य चित्ततुष्टयै ॥२७॥
प्रातस्तामथ विहगीं निहत्य गूढं सा क्रूरा विगतघृणा हि मेरभक्ता ।
जाराराधनवशतो निरस्तदुःखा तन्मांसं सपदि पपाच सूक्ष्मभाण्डे ॥२८॥
पक्त्वा तहसि निधाय चैकदासी रक्षायै निजसदने प्रयुज्य तूर्णम् ।
तं द्रष्टुं वणिजमगच्छदस्य तच्च व्याख्यातुं त्ववसरमाप्नुमात्मभोगे ॥ २९ ॥
तत्काले नृपतनयौ विधाय लीलामन्योन्यं विपुलतरोद्गतश्रमातौं ।
क्षुत्क्षामौ किमपि तु भोजनं विधातुं तत्तूर्ण सदनमथाविवेशतुस्तौ ॥ ३०॥
-९॥ रक्षार्थ निजसदने तया प्रयुक्ता तस्याः शासनमपहाय किं करोमि ॥ ४ ॥ ५ सर्गः। देलरामाकथासारः । १३ एकान्तौ नृपतनयौ तु तत्र दृष्ट्वा दासीमेत्य सविधमूचतुस्तदानीम् । भद्रे त्वं वद जननी क चागमत्सा कावाभ्यामशनमिहाधुना ददाति ॥३१॥ ८॥ दासी सा तदिति निशम्य तौ बभाषे कापीतो झगिति गताभवत्स्वमाता । रक्षार्थ निजसदने तथा प्रत्युक्ता किं चाहं बत करवै विना तदाज्ञाम् ॥३२॥ श्रुत्वैतद्विरमवधूय चेटिकायाः क्षुत्क्रान्तौ स्वयमथ किंचिदेव भोज्यम् । अन्विष्य क्षणमपि नापतुर्यदा तौ तद्भाण्डं रहसि तदात्र पश्यतः स्म ।। ३३॥ आनिय द्रुतमथ तत्सुगन्धिनानाद्रव्येण प्रसभमनोहरं समीपम् । तत्रान्तः सपदि निवार्य तत्पिधानं तां पक्त्वा बत विहगीं ददर्शतुस्तौ॥३४॥ दृष्ट्वा तद्विपुलबुभुक्षयाग्रजोऽसौ तन्मध्यात्सपदि शिरो निगीर्य सास्थि । पक्षिण्याः खयमघसच्च तत्कनीयांस्तद्वक्षोऽपि च स तथैव तूर्णमेव ॥ ३५॥ तन्मांसावयवद्वयं च युगपद्भुक्त्वा बुभुक्षावशा- तद्भाण्डं च तथैव मातृभयतः कृत्वा पिधानाचितम् । तत्रैवापि निधाय किं तु विजने निर्याय वेश्मान्तरा- क्रीडां कर्तुमथो प्रजग्मतुरिमौ भूपालपुत्रौ बहिः ॥ ३६ ॥ इति देलरामाकथासारे विहगीव्यापादनानन्तरं राजपुत्रकृततदङ्गद्वयकवलीकारो नाम चतुर्थः सर्गः। पञ्चमः सर्गः। तत्काले निजसदनं समेत्य तूणे पप्रच्छ क्षितिपतिवल्लभा खदासीम् । भद्रे कोऽत्र हि मदसंनिधौ प्रविष्टः श्रुत्वैतद्विरमिति चेटिकाचचक्षे ॥१॥ त्वं याता जननि यतः प्रभृत्यपीतः केनापि द्रुततरमेव कारणेन । आरभ्य ध्रुवमिह नस्ततस्तु गेहे नान्यः कश्चिदपि समागतो न दृष्टः ॥२॥ । किं तु क्षुक्लमविवशौ त्वदीयपुत्रौ मामेत्याहतुरुपकण्ठमम्बिकेऽद्य । २८॥ भद्रे किं भवति हि नौ कृते स्वभोज्यं माता साक च विगता गृहं विहाय ॥३॥ श्रुत्वैतत्त्वहमवदं नृपात्मजौ तौ माता वां क च विगतेति नैव वेद्मि । ॥२३॥ म् २१ २५॥ । २६॥ । २७॥ उक्तौ ताविति च मया स्वयं प्रविश्य क्षिप्रं मन्दिरमथ भोजनं प्रलब्धुम् । खवायास्तलमपिधानसूक्ष्मभाण्डास्किचिन्मांसशकलयुग्ममाशतुश्च ॥ ५ ॥ ३०॥
१४ काव्यमाला । श्रुत्वैतत्सपदि ससंभ्रमं सदुःखं तद्भाण्डं खयमुपसृत्य मेरभक्ता। शीर्षेणापि च ननु वक्षसा विहीनं हर्षोन्मुक्तनिजमना ददर्श तत्र ॥६॥ अन्यथातितशकुन्तकर्षितोरःशिरःसु परिपूरिताङ्गकम् । तच्चकार सहसा तथैव सा द्रव्यगौरवनितान्तसौरभम् ।। ७ ॥ गूढमेव ननु तत्ततः समादाय भाण्डमतिमात्रहर्षिता । रम्यकल्पितसुवेशशोभिता सार्थवाह निकटं जगाम सा ॥ ८ ॥ आगतामथ स भाण्डधारिणीं तां निरीक्ष्य गुरुजातसंपदः । गाढरामपरिरम्भचुम्बनाद्यैरतोषयदतीव भूरिशः ॥९॥ शाकिनी गदितशिक्षयादरात्तच्चखाद सकलं खयं पलम् । अन्यमांसमपि सा जघास तचित्तरञ्जनकृतेऽनुरागिणि ॥१०॥ सोऽथ सार्थपतिरेतया समं राजयोग्यवरभोगरूपया । उच्चकैर्विविधचेष्टितं व्यधात्स्वात्मगुप्तसदने यथेप्सितम् ॥ ११ ॥ क्षणं सघनसंमदं ललितकुन्तलाकर्षणं क्षणं च परिचुम्बनं सुभगतत्कपोलद्वये । क्षणं मधुरमद्यपानमपि जानुयुग्मं पुरो निधाय च ससंभ्रमं मणिमये महाभाजने ॥ १२॥ मुहुश्च परिरम्भसंभवसुखामृतास्वादनं मुहुर्मदनविभ्रमं............"मुहुर्नर्म च । मुहुः खगुणकीर्तनं मुहुरपि प्रियाः सत्कथा मुहुश्च कमनीयचेष्टितमलं रतिव्यत्ययम् ॥ १३ ॥ वणिक्स इति भूरिशो ह्यनुभवन्समं चैतया निनाय रजनी मुहूर्त'""बलं सुखं हर्षवान् । ततः समुदिते रवौ प्रतिमुमोच तां वल्लभां खकीयसदनं प्रति प्रचुरभोगसंतर्पितः ॥ १४ ॥ (तिलकम्) ततः समुपसृत्य तां स वणिगाह हर्षान्वितो गृहस्थजरतीस्त्रियं कृतनमस्कृतिस्तत्पुरः।
१५ ५ सर्गः ।] देलरामाकथासारः। यदेव भवती जगाद जननि प्रियं मे हितं तदद्य विहितं मया सपदि सावहेलं निशि ॥ १५ ॥ निशम्य वणिजो वचस्तदिति सा विमृश्य क्षणं जगाद जरती विहस्य वणिज गुरुज्ञानवित् । यदत्र तनया भवद्वरतरं हि सारं परं न जग्धमपि तत्त्वया प्रचुरकाम्यसिद्धिप्रदम् ॥ १६ ॥ स चावददथो किमन्यदधिकं ब्रवीषि द्रुतं ह्यतो जननि कथ्यतां हृदि विमृश्य मे निर्णयात । मयैव ननु खादितं सकलमेव चैकाकिना तयार्पितममन्दरागवशतः सगात्रं पलम् ॥ १७ ॥ उवाच जरती पुरः शृणु वदामि सत्यं तव भृशं तनयसारभूतमभवद्विहंग्याः शिरः । उरश्च यदहो तदेव खलु तत्सुतौ जक्षतु- स्त्वया यदपि भुक्तमद्य च तदन्यमांसोपमम् ॥ १८ ॥ खपुत्रयुगखादितावयवहीनभाण्डं ततो विलोक्य सहसा भृशं तनयभूरिदुःखाकुला । त्वदीयभयकारणादपि कुतश्चिदानीय सा निहत्य शकुनि परं किल तदङ्गतोऽपूपुरत् ॥ १९ ॥ स सार्थपतिराह तामथ विचिन्तयन्वात्मनः कुभाग्यपरिजृम्भितं प्रसभविप्रतीसारवान् । क एतदशनेन संभवति मातरुच्चैर्गुण- प्रभावगरिमा च को यदनिशं प्रशंसस्यलम् ॥ २० ॥ तमाह जरती ततस्तनय यो हि भुङ्क्ते शिर- स्तदीयमुत यत्र यत्र स हि तिष्ठति प्राज्यधीः । अवाक्ष्यति स तत्र तत्र सहसैव राज्यं मह- त्सुखं च कमनीयमेव नितरां यथेष्टं शुभम् ॥ २१ ॥ कम्) १६ काव्यमाला। वहारवरमध्यशोभितसुरत्नधाम्नि ध्रुवं शतत्रयमवाप्य संततमुदारदीनारतः । सुखं भजति मङ्गलं श्रयति सोऽपि सद्भाग्यवा- नुरश्च सुत यस्तदीयमपि चात्ति कश्चिन्नरः ॥ २२ ॥ भवान्पलमखादयिष्यदपि भूरिसिद्धिप्रदं तदव्ययदितत्प्रभाववशतोऽभविष्यत्सुत । महाधरणिवल्लभः प्रवरभागधेयावहो निरन्तरधनाढ्यकोशसुखसंस्थिताम्भोधिजः ॥ २३ ।। तदेव विहगीपलं खलु यथा त्वया खाद्यते तथा कुरु यथा तथा तनय चैवमेव प्रियम् । त्वदीयहितकाम्यया निजगदे मया संततं तदभ्यधिकरुच्यमांसमिह विद्यते तेन किम् ॥ २४ ॥ अपृच्छदथ तामसौ विपुलजातकौतूहलो विधातृपरिवञ्चितं खमशुभं विनिन्दन्मुहुः । उपाय इह कथ्यतां जननि मे त्वया सांप्रतं किमत्र तु विधीयते वरमते क्षणं चिन्तय ॥ २५ ॥ प्राज्यं प्राज्यं जननि यदि तन्मेऽभविष्यच्च बह्वी वित्तत्राप्तिः प्रतिदिनमथो तावकीनप्रसादात् । यद्यत्किंचित्सपदि भवती खात्मबुद्ध्याकरिष्य- त्तत्तत्को वा सदसदपि वालजयिष्यद्वराकः ॥ २६ ॥ आकासौ तदिति जरती सार्थवाहं बभाषे शीर्षे वक्षस्यपि च तु विहंग्यास्तु तस्या यदस्थि । काम्यं रत्नं तनय रुचिरं वाञ्छिता मेयसिद्धि- प्राप्तिप्राज्ञानुपमविभवं माननीयं तदस्ति ॥ २७ ॥ नैतत्केनापि खलु सुमते जीर्यते नाम भुक्त्वा तस्मात्तस्यास्तनययुगवक्षोन्तरे विद्यतेऽद्य ।
१७ ५ सर्गः ।। देलरामाकथासारः। तत्तत्प्रेम्णा यदि निजसुतौ साहनिष्यन्निगूढं किं चैतद्वयस्थियुगलमतोऽप्रापयिष्यद्भवांस्तत् ।। २८ ॥ अद्य त्वं तनय तथा कुरुष्व तूर्ण सद्यो यद्रुचिरतरास्थिनी निगीर्य प्राप्नोषि प्रवरमते धराधिपत्यं वित्तं च प्रतिदिनमुच्चकैर्यथैव ॥ २९ ॥ अन्यत्किंचित्तदपि न हि तद्विद्यते नात्र मन्त्रः पुत्रैतच्चेत्सपदि बत संपत्स्यते ते स्वभाग्यैः । किं भूयिष्ठैः सततविफलायासदैः कार्यभारै- स्तस्मादत्रैव शुभदमहाकर्मणि प्रेरयैताम् ॥ ३० ॥ उक्त्वा चैवं सपदि विरतायां तु तस्यां जरत्यां स्फीतोत्कण्ठातिविविधमहाभोज्यसंपूर्णभाण्डा । रन्तुं तस्यान्तिकमुरुमुदा सा ययौ मेरभक्ता सालंकारा रुचिरतरसंकल्पिताकल्पशोभा ॥ ३१ ॥ तामायान्ती सपदि स वणिग्वीक्ष्य सोत्कण्ठचित्तां चेटीस्कन्धार्पितवरमहाभोज्यभाण्डां सहर्षाम् । कोपाटोपं विगतहसितं धारितादत्र मौनं त्यक्तालापं परिहृतगुणं सावमानं चकार ॥ ३२ ॥ आलोक्यैवंविधमुपगता कामिनं तं प्रदध्यौ धिङ्मां भाग्यैः सततपरिहीनामुदारावसादाम् । दीनाराणां त्रितयशतदा प्रत्यहं तां विहंगी हत्वा यः सेवित इह बत प्रत्युतासौ समन्युः ॥ ३३ ॥ ध्यात्वैवं तं सविनयमसावाचचक्षे सदुःखा केनैवं त्वं प्रकुपित इवालोक्यसे प्राणनाथ । जानाम्यत्र प्रियतम विचार्यापि हेतुं न किंचि- त्तन्मा मिथ्या मयि घनरुषा वक्रवकं कुरुष्व ॥ ३४॥ जानीषे किंचिदपि खलु चेद्रोषलेशं मम त्वं यद्र्यास्त्वं किमिह तु करोष्युच्चकैश्चावहित्थाम् । Library Sri Pratap College, Srinagar १८ काव्यमाला। मह्यं याज्ञा यदिह भवता दीयते सादरेण क्षिप्रं सा चेद्यदि न विहिता तद्रुषं धत्व चित्ते ॥ ३५ ॥ दैवान्निष्कारणमपि विभो चेत्प्रकुप्यस्यमीक्ष्णं तन्नो युक्तं सदयमनसां त्वादृशानां जनानाम् । भूयोभिर्वा किमिह वचनैः किं प्रलापैश्च मिथ्या मां पादान्ते ध्रुवमपरथा विद्धि संत्यक्तजीवाम् ॥ ३६॥ उक्त्वैवं तच्चरणयुगले संनिपत्य प्रभूत- प्राप्तस्वान्तस्मरशरभरासारसंभूतपीडा । तत्कालं सा करुणकरुणं गाढरागंगृहीता वक्षोजोलच्युतनयनबाष्पाम्बुधारा रुरोद ॥ ३७ ॥ त्यक्त्वा मौनं सपदि कुपितः स्वार्थलोभगृहीतो दूरं कृत्वा विधिमपि हठात्सिद्धिमिच्छन्वराकः । तां रागान्धामथ स शनकैराचचक्षे कथंचि- तद्वकालोकननिरतदृष्टिं निजां संनियम्य ॥ ३८ ॥ त्वं मे भर्ता त्वमसि दयितः प्राणनाथस्त्वमेव त्वं सर्वखं मम यदपि चास्ति प्रभो तत्त्वदीयम् । वाङ्मात्रेण प्रतिदिनमहो भाषसे चैवमद्धा प्रत्यक्षं तन्न हि तु फलतो लभ्यते किंचिदेव ॥ ३९ ॥ इत्थं तद्वचनेन जातकुतुका सोद्वाष्पनेत्रा ततः पप्रच्छाशितले निपत्य सहसा साभ्यर्थनं सादरम् । किं गूढं भवता विनाप्यकरवं कार्य ममेहोच्यतां ज्ञात्वा तत्सदसद्विनिर्णयमहो यद्रोचते तत्कुरु ॥ ४० ॥ इति देलरामाकथासारे सरोषकामुकानुनयो नाम पञ्चमः सर्गः । षष्ठः सर्गः। श्रुत्वा तत्स वणिगुवाच दुर्मतिस्तां नैवासीन्मम विहगीपलेऽतिलिप्सा । वक्षःशीर्षमपि तदीयमेव भोक्तुं वाञ्छाभूत्किमपरमांसचर्वणेन ॥१॥ :
६ सर्गः।। देलरामाकथासारः। १९ तद्वस्तुद्वयमपि सर्वमेव सद्यः स्नेहेन खसुतयुगाय पूर्वमद्धा । दत्त्वा मन्निकटमथागतासि भाण्डं संपूर्ण परखगगात्रतो गृहीत्वा ॥२॥ साकोक्तिमिति तमेव मन्यमाना विज्ञानप्रवरमहाधियं तु कंचित् । प्रत्याह प्रिय मदसंनिधौ तु ताभ्यां जग्धं तद्वद किमहं करोमि तत्र ॥ ३ ॥ सोऽवादीद्यदि दयितेऽधुना ध्रुवं मां जानीषे प्रियतममेव कामुकाग्र्यम् । तत्तूर्ण निजतनयौ यथा तथा तौ हन्यास्त्वं युगपदलं निगूढमेव ॥ ४ ।। उत्पाट्य हृदयमथो तयोः स्वयं तद्वक्षोन्तर्गतविहगीवरास्थियुग्मम् । आकृप्य द्रुतमधुना प्रयच्छ मह्यं मन्युमें न च परथा प्रशाम्यति द्राक् ॥५॥ विद्युन्निपातमिव मन्दिरवह्निदाहं खङ्गप्रहारमिव सागरमज्जनं वा । जारानुरोधवशतः शिशुमारणं हा साङ्गीचकार धिगहो वनितानुरागम् ॥ ६ ॥ श्रुत्वेत्यथाभ्युपगमं नितरां प्रतुष्टो दुष्टो वणिक्सपदि तां दृढमालिलिङ्ग । गेहे निजे द्रविणभूरितरव्ययेन प्रोच्चैस्तदा वरमहोत्सवमादिदेश ॥ ७ ॥ आनीय सोऽन्तिकमहो विविधं प्रभूतं पक्कान्नहारिमदिरादियथेष्टभोज्यम् । आरोप्य तां निबिडरागहृतां निजाके प्रीतां परामनुबभूव रतादिभोगैः ॥ ८ ॥ आलिङ्गय तां निबिडमेव नरेन्द्रपत्नी भोगान्सुदुर्लभतरांश्च पुरो निरीक्ष्य । आखण्डलं च मदनं धनदं तदानी- मात्मानमेव स विवेद वणिक्प्रमोदात् ॥९॥ कृत्वा क्षणं तदधरामृतपानलीलां स प्रोगतप्रमदजातनितान्तदर्पः ।।
२०
काव्यमाला ।
पीयूषलाभमथिताम्बुनिधिप्रभूत-
संभूतखेदविवशांत्रिदशान्निनिन्द ॥१०॥
तन्नेत्रवत्रकरकण्ठकुचोदराति-
शोभां निरीक्ष्य रुचिरां स चिरं विचार्य ।
इन्दीवरेन्दुकमलाच्युतशङ्खहेम-
कुम्भाशनिप्रविहितानुकृतिं न सेहे ॥ ११ ।।
एवं तदा विरचयन्वमनोविनोदं
साकं तया विविधनर्मकथाश्च कुर्वन् ।
संसेवयन्सुरतसौख्यमलं यथेच्छं
तामत्यवाहयदसौ क्षणवत्रियामाम् ॥ १२ ॥
उत्थाय साथ वणिजः शयनाद्गतायां
रात्रौ स्वपुत्रयुगमारणबद्ध कक्ष्या ।
कर्तुं युपायमतिदुःखकरं प्रभूत-
पापावहं च निजमन्दिरमाजगाम ॥ १३ ॥
ध्यात्वा चिरं निबिडरागविनष्टबुद्धिः
सा दुष्टकामुकसमागमतुष्ट चित्ता ।
अन्विष्य कंचिदपि दासमतीव पापं
जग्राह विचनिचयेन दयाविहीनम् ॥ १४ ॥
स्थूलाकृति शमनहुंकृतितुल्यवाचं
कृष्णाननं दुरितकर्मनिरस्तशङ्कम् ।
आनीय तं विजनमाह नितान्ततीव्र
चात्यन्तनिघृणमतीव भयानकं च ॥ १५ ॥
त्वत्स्वामिने हि विगणय्य वितीर्य दीना.
राणां सहस्रमधुनैव समग्रमेव ।
दासीकृतस्त्वमिह वान्छितकर्महेतोः
क्षिप्रं मया प्रकुरु तद्यदहं ब्रवीमि ॥ १६ ॥
६ सर्गः।। देलरामाकथासारः। २१ सहसाधुनैव यद्येकमेव भवता क्रियतेऽद्य काये सद्यस्तु तेन भविता तव दास्यमुक्तिः। तत्त्वं करोषि यदि नैव तु मूर्खभावा- च्छास्ति परामनुभवस्यधुनैव मत्तः ॥ १७ ॥ श्रुत्वेत्यसौ समुपजातनितान्तहर्ष- खान्तर्व्यथाभयविषादनिरस्तधैर्यः । पप्रच्छ तां जननि किं क्रियते मयाद्य तद्यत्र दुष्करतमेऽस्ति मनोरथस्ते ॥ १८ ॥ सा प्रत्यभाषत कुरागविनष्टबुद्धि- मौसं पुनः स्थितमिमं विकरालवक्रम् । एतौ मदीयतनयौ गूढं निहत्य कुरु वाञ्छितपूरण मे ॥ १९ ॥ आकस्मिकोद्गततडिद्विनिपाततुल्यं श्रुत्वा तदेवमतिमात्रगतत्रपोऽपि । कर्णी पिधाय स बभूव दयाचित्तः कश्चतचम्पकतरू जडधीश्छिनत्ति ॥ २० ॥ तां व्याजहार धरणौ प्रणिपत्य दासो बृह्यन्यदद्य ननु यत्तदहं करिष्ये । निष्कारणं जननि रम्यगुणाभिरामो कान्ताकृती तव सुतौ तु कथं निहन्याम् ॥ २१॥ कन्दर्पदर्पहरकान्तिसुरूपरम्या- वेतौ निहन्तुमपि सर्वजगत्कृतान्तः । कारुण्यमावहति चेतसि हा कृतान्तो मातः प्रसीद विपरीतधियं त्यजातः ॥ २२॥ देशेऽस्मिन्नप्यखिल एव हि विश्रुतौ तौ राजोचितप्रवरलक्षितलक्षणत्वात् । ३ २२ काव्यमाला। हन्यां कथं यदि च केनचिदेतदेवं दृष्टं श्रुतं च भविता मम ते च शास्तिः ॥ २३ ॥ तेनापि निर्दयतरेण तथाविधेन प्रोक्ता विधाय विनयं च भयं च दत्त्वा । नो दुर्गृहात्तु विचचाल कुकामिराग- ग्रस्तखबुद्धिरतिनिर्दयतां जगाम ॥ २४ ॥ तस्या नितान्तमिति दुर्ग्रहमाकलय्य खातिसाध्वसवशीकृतचित्तवृत्तिः । अङ्गीचकार स कथंचिदहो तदीय- पुत्रद्वयप्रलयकर्म ततो भुजिष्यः ।। २५ ॥ अत्रान्तरे हि विहगीविनिगीर्णमस्थि- वक्षःप्रभावसमुपार्जितवित्तराशिः। ज्येष्ठानुजस्य तु बभूव सदैव दीना- राणां शतत्रितयलाभवशेन तस्य ॥ २६॥ क्रीडानिमित्तमथ तो विजनं स नीत्वा बाली नरेन्द्रतनयौ विगतात्मशकौ । जग्राह वक्षसि निधाय बत खमुष्टिं हन्तुं रुषा सपदि राहुरिवार्कचन्द्रौ ॥ २७ ॥ पप्रच्छतुस्तमवनीशसुतावकस्मा- कस्मात्प्रकुप्यसि सखे बत निर्निमित्तम् । दासत्वमेव कुरुषे सततं हि नस्त्वं नास्माभिरप्रियमकारि तवाद्य किंचित् ॥ २८ ॥ श्रुत्वेत्युवाच स ततः परिचारकस्तो केनापि कारणवशेन भवजनित्री। रोषाकुलास्ति युवयोरधुना नितान्तं सोऽहं प्रयुक्त इह वामनया निहन्तुम् ॥ २९॥ - ६ सर्गः। देलरामाकथासारः। २३ किंचित्तदीयवपुषोस्तु भवान्न कुर्या- चौ त्वं निहत्य सहसा प्रकटं समेहि । इत्यादिदेश जननी युवयोरिदानी मां किं करोमि परतन्त्रनिजक्रियस्तत् ॥ ३० ॥ दृष्ट्वा युवां हि निहतौ धनजातहर्षा- दङ्गीचकार मम किंकरकर्ममुक्तिम् । सा चान्यथा विविधया तनयातिपीडां खार्थान्स भीतिवशगः किमहं करिष्ये ॥ ३१ ॥ तावूचतुः सविनयं प्रणिपत्य दासं संभूतभूरितरभीतिसकम्पचित्तौ । नैवाहसि त्वमिह हन्तुमनागसौ नौ साधो विचारय मनस्यधुना स्वयं तत् ॥ ३२ ॥ निष्कारणं च यदि हंसि सखेऽधुनावां पापं भविष्यति नितान्तममन्ददुःखम् । त्वं घातयन्सपदि नौ यदि केनचिच्च दृष्टः खलीकृतिमवाप्स्यसि चानिवार्याम् ॥ ३३ ॥ अङ्गीकृता यदि तया हितया जनन्या हत्वा हि नौ तव तु किंकरकर्ममुक्तिः । तत्पुंसु सत्सु कथमर्हति मङ्कु रामा कर्तुं यथेच्छमधिकारममन्ददात् ॥ ३४ ॥ कर्तुं सखे स्वपरिचारककर्ममुक्तिं ह्यावां विलिख्य निजलेखमिहैव तुल्यम् । व्यक्ताक्षरैः स्वयमुताद्य तथा ददाव त्वां जातुचिन्न तु रुणद्धि यथैव कश्चित् ॥ ३'५ ।। भोगार्थमप्यतनुहर्षकरं च दीना- राणां सहस्रमपि संप्रति दीयते ते ।
२४ काव्यमाला । स्वार्थो भवत्यभिमतो भवतो नितान्तं पुण्यं च नौ तदपि रक्षसि चेद्विचार्य ।। ३६ ॥ किं चान्यथा तव सखे गुरु पातकं स्या. स्वार्थोऽपि नश्यति न तुष्यति कोऽपि बुवा । नो सा भविष्यति च किंकरकर्ममुक्तिः स्त्रीणां मतं हि विफलं सति पुंसि यस्मात् ॥ ३७ ।। तद्भोः प्रसीद कुरु मा गुरु पातकं नौ त्रायस्व संप्रति सखे श्रय साधुवादम् । कीर्तिं नितान्तमिह चापरलोकपथ्यां श्रेयस्करं प्रबलपुण्यमलं गृहाण ॥ ३८ ॥ श्रुत्वेत्यभाषत ततो मुदितः स दीना- राणां सहस्रमिह मे त्वरितं युवाभ्याम् । तद्दीयते यदि च संप्रति लेखपत्रं रक्षामि वां भवतु यत्तदतो ममाद्य ॥ ३९ ॥ तस्मै विलिख्य च ददौ नितरां प्रतुष्टो ज्येष्ठः स्खलेखमथ किंकरकर्ममुक्त्यै । तस्यानुजश्च सहसैव यथोक्तदीना- राणां सहस्रमपि जीवितरक्षणार्थम् ॥ ४० ॥ ततः प्रमुदितो भृशं द्रविणतः सदा मेरकः उवाच नृपतेः सुतौ भयविकम्पिताङ्गौ पुरः पलाय्य ननु कुत्रचिद्विपुलरंहसा गम्यतां व्रजाम्यपरदेशमध्यमहमप्यलं साध्वसात् ।। ४१ ।। श्रुत्वैवं गिरमुच्चकैः प्रमददां तौ भूमिपालात्मजो मार्तण्डातपतप्तधन्वधरणौ पीयूषवृष्टिं यथा । दूरं क्वापि तु जग्मतुः प्रतिभयास्त्वं मन्यमानौ पुन- र्जातं भूरिजवोद्गतामिततरोच्छासे प्रकम्पाकुलौ ॥ ४२ ।। इति देलरामाकथासारे कामुकाराधनार्थ दासविमुक्त्यनन्तरं पुत्रद्वयपरदेशगमनं नाम षष्ठः सर्गः।
क्षुत्क्षामकण्ठौ भृशं ७ सर्गः। देलरामाकथासारः। २५ सप्तमः सर्गः। गच्छन्तौ विपुलाध्वखिन्नवपुषौ नानारम्यगवाक्ष्यहर्म्यरुचिरागारावलीदन्तुरम् । तीक्ष्णानल्पसुशिल्पमूर्तिजनितासंसेवितं कंचिद- प्येक सत्पुटभेदनं पृथुधनं संप्रापतुस्तौ क्रमात् ॥ १ ॥ तत्काले विधियोगतो नरपतिस्तत्रागमत्पञ्चतां तदुःखाकुलसाधुवर्यसचिवान्बाप्पाम्बुसिक्ताननान् । खप्ने दिव्यपुमाञ्जगाद सहसा कश्चित्समभ्येय ता- प्रत्येकं दयया निशीथसमये व्योम्नोऽवतीर्य खयम् ॥ २॥ युष्मद्भाग्यवशान्महम्मदसुरत्राणात्मजः सद्गुण इब्राहीम इति प्रसिद्धनिजनामेह भ्रमँश्चागतः । राजद्वारि निशाक्षये रुचिरसद्पो हि यो दृश्यते तस्मै राज्यमिदं भवद्भिरधुना सर्वैर्दुतं दीयताम् ॥ ३ ॥ इत्युक्त्वा सचिवान्स दिव्यपुरुषोऽप्येकैकशोऽन्तर्दधे खप्ने तेऽपि तदित्थमत्र वचनं चेतोहरं दुर्लभम् । अन्योन्यं जगदुः प्रहृष्टमनसः प्रातस्ततस्तत्यजुः वक्षोणीपतिमृत्युकालजनितवान्तव्यथावैशसम् ।। ४ ॥ अत्रान्तरे तौ क्षितिपालपुत्रावितस्ततः संभ्रमतो भ्रमन्तौ । पुरं प्रविश्य श्रियमीक्षमाणामेकां मसेदामथ पश्यतः स्म ॥ ५॥ तत्रोपविश्य श्रम विश्लथाङ्गो ज्येष्ठोऽनुजं प्राह स राजपुत्रः । भ्रातः श्रियं पश्य पुरोत्तमेऽस्मिन्नदृष्टपूर्वी विविधां मनोज्ञाम् ॥ ६ ॥ एतस्य रम्यां पुटभेदनस्य द्रष्टुं श्रियं संप्रति किं तु बह्वीम् । भ्रातस्तदेकेन पथा ब्रज त्वं गच्छामि चान्येन च वर्त्मनाहम् ॥ ७ ॥ दिनावसाने च ततो मिलित्वा भ्रातर्मसेदान्तर एव चात्र । कथासुखं चानुभवाव उच्चैः परस्परालोकितकौतुकेन ॥ ८ ॥ श्रुत्वेति तद्वाक्यमथो कनीयांस्तथेति चोक्त्वा प्रययौ सुदूरम् । उत्थाय सोऽप्यग्रज उच्चकैस्तां द्रष्टुं श्रियं तत्र पुरे चचार ॥ ९॥ ॥ नाम २६ काव्यमाला । स चाग्रजोऽगच्छदुदारलक्ष्मी पश्यन्पुरे तत्र सविस्मयोऽलम् । समाससाद क्षितिपालसिंहद्वारं निबद्धामितवारणाश्वम् ॥ १० ॥ सुलक्षणालोकनकौतुकेन पृष्टो जनैरन्वयनामनी सः । खकीयवृत्तान्तमशेषमेव व्यावर्णयामास नरेन्द्रसूनुः ।। ११ ।। निवेदितं तत्र जनैः सहर्ष ततः ससैन्याखिलमन्त्रिमुख्याः । पौराश्च बद्धाञ्जलयः समन्तादुपागता राजसुतं प्रणेमुः ॥ १२ ॥ खप्नोक्तसल्लक्षणदर्शनेन प्रहृष्टचितैः सचिवैस्तदानीम् । हिरण्यकुम्भैर्विमलाम्बुपूर्णे राज्येऽभिषिक्तः स रराज राजा ॥ १३ ॥ प्राज्यं स राज्यं समवाप्य नानाभोगोपभोगोत्सुकमानसोऽभूत् । कनीयसो भ्रातुरहो कदाचित्सस्मार नो राजसुतस्य तस्य ॥ १४ ॥ अत्रान्तरे स क्षितिपालसूनुर्मो(M)रादभक्षो(बख्शो) दिवसावसाने। अदर्शनाद्भातुरहो मसेदासमीपमागत्य शुशोच दुःखात् ॥ १५ ॥ दूराध्वखेदेन बुभुक्षया च भ्रातुर्दियोगेन च पीड्यमानः । कथंचिदाहारमसौ किंचिच्चकार तत्रापणमध्यमेत्य ॥ १६ ॥ इतस्ततो भ्रातृगवेषणार्थ भ्रमन्प्रभूतव्यसनान्तचेताः । स्खलद्गतिर्दूरतराध्वखेदादेकं वरोद्यानमथाविवेश ॥ १७ ॥ व्याकोशपुष्पस्तबकप्रनम्रप्रतानिनीराजिविराजमाने । तत्र क्षणं शाखितलोपविष्टस्तुतोष नानाश्रियमीक्षमाणः ॥ १८ ॥ इतस्ततो यावदसौ खदृष्टिं क्षिपन्क्षणं शाखितलेऽत्र तस्थौ । तदन्तिके तावदथारुरोह प्रोत्तुङ्गसौधं वनिता तु काचित् ॥ १९ ॥ विराजितां साञ्जनहारिनेत्रद्वयेन सभृङ्गजितोत्पलेन । प्रोत्तुङ्गपीनस्तनयुग्मशोभाहिरण्यकुम्भाहितकान्तिगा( )म् ॥२०॥ आश्यामधम्मिल्लविधुतुदेन प्रान्त्या सुसंपूर्णतुषाररश्मेः । व्योनोऽवतीर्य द्रुतमेव भूमौ रुषेव पश्चात्समुपात्तवक्राम् ॥ २१ ॥ लावण्यपाथोनिधिरत्नवीचिं तारुण्यहेमाद्रिहिरण्यवल्लीम् । सुकान्तिगङ्गानलिनी प्रफुल्लां शृङ्गारमभूमिरुहालवालाम् ॥ २२ ॥ तु ७ सर्गः । देलरामाकथासारः। २७ दम्भोलिमध्यामपि वंशनासामानन्ददामन्दसुसुन्दरत्वात् । तां सुन्दरीं वीक्ष्य ननन्द तत्र पूर्णन्दुवक्रां स नरेन्द्रसूनुः ॥ २३ ॥ (चतुर्भिः कुलकम्) ततः स दध्यौ नरनाथसूनुर्नवीनसंभूतमनोभवातिः । इयत्यहो नो ददृशे न काचिन्मया पुरेऽस्मिन्भ्रमता पुरंध्री ॥ २४ ॥ किमप्सराः काचिदियं तु नाकाच्छापावतीर्णा धरणीतलेऽत्र । पुरान्तरास्किं बहिरन्यथेयं व्यक्तं समारुह्य करोति हर्म्यम् ॥ २५ ॥ ध्यात्वेति निर्याय नरेन्द्रसूनुरुद्यानमध्यात्सहसा ततः सः । तदन्तिके कांचिदुपेत्य दासी पप्रच्छ केयं ललना स्थितेति ॥ २६॥ सा चेटिका भूमिपतेस्तनूजं जगाद जातामितकौतुकं तम् । इयं पुरेऽस्मिन्प्रथिताभिरामा वेश्यास्ति नाम्ना खलु देलरामा ॥ २७ ॥ दीनारराशिं विगणय्य सद्यः शतत्रयं यो हि ददाति चास्यै । एकां स रात्रिं भजते विचित्रभोगैः सुखं साकमथानयेह ॥ २८ ॥ श्रुत्वेति संचोदितचित्तवृत्तिर्लब्धावकाशेन मनोभवेन । अद्य प्रयच्छामि शतत्रयं यत्तूर्णं समावेदय चेत्युवाच ॥ २९ ॥ ततस्तया हर्षपुरःसरं तत्समीपमागत्य निवेदितः सः । तदीयवाचा प्रविवेश देलरामाभिरामालयमुच्चशोभम् ॥ ३० ॥ विलोक्य तं साद्भुतरूपकान्ति मनोहराकारमुदारशोभम् । प्रत्युद्ययौ जातनितान्तहर्षा निजासना सविधे निधाय ॥ ३१ ।। नानाखलंकारभराभिरामां सदान्यरामाधिककान्तिकान्ताम् । विलासहास्यादिगुणाविरामां हर्षादथ देलरामाम् ॥ ३२ ॥ अन्योन्यमालिङ्गय ततोऽतिगाढं कपोलयुग्मं परिचुम्व्य चैव । प्रीतिं प्रकल्प्य प्रथमं नितान्तं चैकं त्वलंचक्रतुरासनं तौ ॥ ३३ ॥ चेटीगिरा तत्पुरतस्तदानीं दीनारराशिं विगणय्य सद्यः ॥ स सर्वमेवात्र तु सावहेलं चिक्षेप वस्त्रान्तरतो विकृष्य ॥ ३४ ॥ तदन्तिके चाथ विचित्रशोभं पर्यङ्कमारुह्य नितान्तरम्यम् । नानाविधैर्भोगचयैर्यथेच्छं संभोगसौख्येन च पिप्रिये सः ॥ ३५ ।। Library Sri Pratap College, Srinagar, ददर्श
२८
काव्यमाला।
ततो गतायां कमनीयभोगैर्मुहूर्तवत्तत्र तु यामवत्याम् ।
प्रविश्य चेटी तमुवाच कोपान्निाहि तूर्ण सदनादमुष्मात् ॥ ३६ ॥
दत्ता यथा ह्यो भवता स्वभाटी तथाद्य योऽस्यै हि ददाति कामी ।
स एतया साकमिह करात्रि भोगान्यथेच्छं भजते मनोज्ञान् ॥ ३७ ॥
श्रुत्वेति तद्वाक्यमथाभ्यधातां मयैव भाटी प्रतिपाद्यतेऽद्य ।
तथैव ह्यः किं तु यथैव नूनं मिथ्यातिकोपं त्यज चेटिके त्वम् ॥ ३८ ॥
उक्त्वेति संरम्भवशेन तूर्ण प्रक्षिप्य भाटी पुरतो यथोक्ताम् ।
तथैव भेजे विविधान्नपानखेच्छाहितानल्परतोपभोगान् ॥ ३९ ॥
तस्यां गतायामपि यामवत्यां तथैव दासीवचनेन सद्यः ।
प्रक्षिप्य भाटी पुरतो यथोक्तां निशामुखं प्राग्वदसौ सिषेवे ॥४०॥
इत्थं तदानी कतिचिदिनेषु यातेषु दध्यावथ वारयोषित् ।
यथोक्तदीनारसमर्पणेन प्रभूतसंभूतकुतूहला सा ॥ ४१ ।।
अहो न कोशादि विलोक्यतेऽस्य स्वहस्तगं नो द्रविणं च किंचित् ।
न चापि कश्चिद्भुतकोऽनुयायी बहिश्च नो निर्गमनं कदाचित् ।।४२॥
कुतः समानीय ददाति वित्तं चेटीगिरा संप्रति तूर्णमेषः ।
यथोक्तदीनारचयं हि मह्यं को हेतुरत्रेति न वेद्मि हन्त ॥ ४३ ॥
इत्थं विमृश्य सुचिरं हृदये तदानीं
ज्ञातुं तदीयधनसंभवकारणं सा ।
कर्तुं च किंचिदपि कौतुकमात्मसिधै
तं चापि वञ्चयितुमेव समुद्यताभूत् ॥ ४४ ॥
इति देलरामाकथासारे देलरामासमागमनानन्तरं राजपुत्रस्य वञ्चनोपायो नाम
सप्तमः सर्गः।
अष्टमः सर्गः।
अथ समारभतात्मधनेन सा वरतरं खमहोत्सवमेकदा ।
मधु नितान्तमपाययदत्र तं सविनयं प्रणिपत्य पुनः पुनः ॥ १ ॥
मधुमदेन तु निष्कलमीक्ष्य तं विनयपूर्वमपृच्छदसौ स्वयम् ।
किमिति वित्तचयेन भवेद्विभो यदि भवद्विध एति सुकामुकः ॥ २ ॥
८ सर्गः।]
देलरामाकथासारः।
२९
अहमतो ह्यधुना तव किंकरी ललितकान्तिवशीकृतमानसा ।
त्वमपि जीवितनाथ इहास्ति यन्मम धनं त्वदधीनमिदं हितम् ॥ ३ ॥
तदपि कौतुकमेकमिहाद्य मे मनसि जीवितनाथ विजृम्भते ।
यदसितोत्कलिकावशतः सदा न रसिकास्मि तु कुत्रचिदप्यहो ॥ ४ ॥
तदहमस्मि तवाद्य यदि प्रिया यदि च वेत्सि तु मामनुरागिणीम् ।
मयि चिकीर्षसि चेत्त्वमनुग्रहं कथय तत्कुतुकं विनिवारय ॥ ५ ॥
इति निशम्य तदीयगिरं ततो मधुमदापहृताखिलचेतनः।
सपदि तां तदपृच्छदसौ तदा किमिति संभ्रमतो नृपनन्दनः ॥ ६ ॥
अथ ततो गणिका निजगाद सा यदि विवर्णयसि स्फुटमद्य मे ।
यदि न कुप्यसि नाथ मनागपि प्रियतम ध्रुवमद्य वदामि तत् ॥ ७ ॥
वद तदद्य तु वेनि यदि प्रिये ध्रुवमिह द्रुतमेव मयोद्यते ।
इति निशम्य नृपात्मजभारती सपदि वक्तुमसावुपचक्रमे ॥ ८ ॥
न निजधाम न चानुचरागमो न च बहिर्गमनं तव दृश्यते ।
न हि तु किंचिदपि खकरेऽप्यहो किमपि नैव च भाण्डमपि प्रभो ॥९॥
इयदहो प्रतिवासरमेव तत्कुत इदं द्रविणं तव विद्यते ।
इति हि जीवितनाथ कुतूहलं मनसि संप्रति तिष्ठति मेऽनिशम् ॥१०॥
अथ स वारवधूमविदन्निमां कुसृतिवञ्चनतत्परमानसाम् ।
सुपरिपीतघनासवमोहितः सरलहृत्समभाषत सत्यतः ॥ ११ ॥
शृणु पुरैकविहंगसुता हि नः समभवत्सवने सदने कृशा ।
बत निहत्य तु तामपचत्कदाचिदपि मजननी विजने खयम् ॥ १२॥
अथ तमेव तदीयमुरस्तदा द्रुततरं विनिगीर्य निजे गृहे ।
किमपि कर्म विधातुमथो बहिर्विगतमातरि जातबुभुक्षया ॥ १३ ॥
यतः प्रभृति खादितं तदपि किं तु वक्षो मया
ततः प्रभृति सर्वदा द्रविणमेतदुत्पत्स्यति ।
निजोरसि च वल्लभे किल तदस्ति जानेऽस्ति मे
तदन्तिकतमांशुके कथमिदं भवेदन्यथा ॥ १४ ॥
فلم काव्यमाला। इति स्फुटतरं गिरं सपदि सा समाकर्ण्य तां विधाय मधुना समं मुदितमानमामिश्रितम् । तथाविधघनासवापहृतचेतनाय द्रुतं ददौ तु वमनौषधं नृपसुताय तस्मै तदा ॥ १५ ॥ ववाम सकलं ततो यदपि जग्धमेवाशनं महामणिमनोहरं तदपि चास्थि वक्षोऽन्तरात् । निपीतमदिरालवस्रवदमन्दनासाम्यवा- न्स भूमिपतिनन्दनः सपदि खेदितो विव्यथे ॥ १६ ॥ नरेन्द्रतनये ततो वमनखेदसुप्ते निशि प्रहृष्टगणिकाप्यसौ तदतिवान्तभोज्यान्तरात् । गवेष्य च विलोक्य निर्मलतरं विधायास्थि त- निगीर्य च तदन्तिके व्यधित तत्र निद्रासुखम् ॥ १७ ॥ प्रभातसमये तया सपदि चोदिता चेटिका जगाद घनमन्युना नृपतिनन्दनं निर्धनम् । इतोऽपसर सांप्रतं त्वपर एति वित्तप्रदः किमत्र कुरुषे रुषेति करमाचकर्ष स्वयम् ॥ १८ ॥ उवाच स तु पूर्ववत्समहिमास्थिरत्नास्थया मयैव खलु दीयते तदखिलं यथोक्तं धनम् । त्वमद्य कुरुषे रुषं किमपि चेटिके दुर्मते यदा न मम विद्यते वसु तदा व्रजामि खयम् ॥ १९॥ उदीर्य वसनान्तरं निजमिति स्वयं वीक्षते प्रलव्धुमथ पूर्ववद्रविणमत्र यावच्च सः । न तावदपि चाप्तवान्किमपि किं तु संस्मृत्य तां निशान्तरजनश्रुतिं सपदि विव्यथे छिद्रतः ॥ २० ॥ ततः सपदि कुट्टनीप्रमुखसर्वचेटीजनै- धनं हि परिदीयते त्यजत संभ्रमं निष्फलम् ।
९ सर्गः ॥ देलरामाकथासारः। ३१ इति प्रतिपदं वदन्बत निरुद्धजङ्घाभुजो हतेन सदनान्तरान्नृपसुतः स निर्वासितः ॥ २१ ॥ गर्हागालिगलार्धचन्द्रमुखभूयिष्ठावमानोद्गत- ब्रीडामन्युविषादसाध्वसवशात्संत्रस्तचित्तस्ततः । ध्यायं ध्यायमतीव वारवनिताछमांनुतापावहो गन्तुं वापि स हन्त भूपतिसुतो दूरं प्रतस्थे तदा ॥२२॥ इति देलरामाकथासारे गणिकाकल्पितकपटवञ्चनानन्तरं राजपुत्रखलीकारो नाम अष्टमः सर्गः । नवमः सर्गः । खचापशरमात्रपाणिरतिमात्रदुःखाकुलो व्रजन्नृपतिनन्दनो बत स निर्धनः प्रस्खलन् । अवृत्तिवशतो मुमूर्षुरटवीमथैकां क्रमा- दवाप गणिकाकुचेष्टितमतीव निन्दन्मुहुः ॥ १ ॥ वजन्स पुरतो घनोद्गतबुभुक्षया पीडितः स्खलत्पतिपदं विषादहतशक्तिरायासवान् । परस्परविवादतः प्रकुपितं त्वरण्यान्तरे ददर्श मनुजत्रयं सपदि तत्र भूपात्मजः ॥ २ ॥ उपेत्य सहसा ततो नृपसुतः स पप्रच्छ ता- विवादमिह निर्जने कुरुत किंनिमित्तं रुषा । ममाद्य वदत स्वयं कलहहेतुमङ्ग ध्रुवं विचार्य करवै च वो निजसमीहितं हृद्दतम् ॥ ३ ॥ इत्थं निशम्य वचनं हृदयंगमं त- स्कंचिन्महान्तमपि तं प्रविभाव्य कान्त्या । तन्मध्यतः सपदि कश्चिदुवाच तत्र त्वेको नरः सविनयं च सहर्षमेव ॥ ४ ॥ भस्त्रांशुकश्च रुचिरोऽभिनवस्थलस्था चेति दृशाभिमतमस्ति विभो स्वकीयम् ।
३२
काव्यमाला।
वस्तुत्रयं वरमिदं तदिहाद्य भागी-
कत विवाद उदभूदितरेतरं नः ॥ ५ ॥
त्वं कोऽपि संप्रति किलावसरेऽस्मदीय-
भाग्यैरिहागत उदारतरखबुद्धिः ।
भागीकुरुष्व तदिदं कृपया क्षणं नो
यद्यस्य वेत्सि तदितस्तु विचार्य देहि ॥ ६ ॥
पप्रच्छ राजतनयः स ततः प्रभूत-
संभूत कौतुकवशेन नरं तमेकम् ।
वस्तुत्रयस्य वद को महिमास्य साधो
यत्कारणेन भवतां जनितो विरोधः ॥ ७ ॥
एको नरः स निजगाद नरेन्द्रसूनुं
श्रुत्वेति वाक्यमथ तत्र पुरः प्रणम्य ।
भस्त्रेयमङ्ग ननु यस्य करेऽस्ति दीना-
राणां शतत्रयमसौ लभते सदैव ॥ ८ ॥
नित्यं वहस्तनिजदत्तयथेच्छनिष्क-
भोज्यादिकं सपदि दूरतरादपि द्राक् ।
नेदिष्टमानयति तस्य सुभाग्यभाजः
कीरोऽप्यसौ प्रवरधीरुत यस्य पुंसः ॥९॥
एषापि यस्य कृतिनो भवति स्थलस्था
स्थानं स यत्सपदि वाञ्छति गन्तुमद्धा ।
प्राप्नोति तत्त्वरितमेव परैरदृष्टो
वैमानिकोपमजवेन नितान्तसौख्यात् ॥ १०॥
श्रुत्वेति तं स निजगाद नरेन्द्रसूनु-
र्जानाम्यहं वरगुणान्हि परस्परं वः ।
कस्मै मयाधिकतमो रुचिरः स्वभाग-
स्तद्दीयतेऽलमिति चेतसि संशयो मे ॥ ११ ॥
९ सर्गः। देलरामाकथासारः। ३३ आकृष्य चापमित एव शिलीमुखांस्त्री- न्मुञ्चामि वो जवगुणं विनिरीक्षितुं तत् । एकैकशः परिगृहीतमदीयबाणो यः पूर्वमन्तिकमिहैति स ज्येष्ठभागी ॥ १२ ॥ आकर्ण्य वाचमिति तैस्तु तथेति चोक्ते कर्णान्तकृष्टहठगाढतरखचापः । वेगेन दूरतरगामिनरेन्द्रसूनु- र्बाणत्रयं सपदि दिवित्रतये मुमोच ॥ १३ ॥ तेषु द्रुतं तदभिधावनसोद्यमेषु त्यक्त्वा खवस्तुचयमस्य समीप एव । प्राहोपविश्य नृपसूनुरथो स्थलस्थां भस्त्रां शुकं च निजहस्तगतं विधाय ॥ १४ ॥ माहात्म्यतस्तव जनन्यधुनैव देल- रामान्तिकं द्रुततरं घनरंहसैव । प्राप्नोम्यहं ननु यथैव तथा कुरुष्व त्वं मे प्रसादमवसाद निगर्हणाहम् ॥ १५ ॥ वाङ्मात्रतः सपदि भूपसुतः स तस्याः शय्यासमीपमथ तत्क्षणमाससाद । साश्चर्यमेव च ससाध्वसमन्तिके तं दृष्ट्वा व्यचिन्तयदसावपि वारयोषित् ॥ १६ ॥ अस्मद्गृहे बहुविधामिति रक्षिवर्गे नावेदितो न हि च केनचिदेव दृष्टः । सोऽयं कथं सपदि मे निकटं प्रविष्टो भूयिष्ठविस्मयकरः खविशिष्टबुद्ध्या ॥ १७ ॥ कोऽपि ध्रुवं समहिमायमुदारकीर्ति- स्तत्सांप्रतं विनयमेव करोमि चास्य ।
३४ काव्यमाला। ..- ध्यात्वेति वारवनिता विततार सद्यः खटातलात्प्रमुदितेव समुत्सुकेव ॥ १८ ॥ अभ्यर्णमेत्य चरणद्वितयं प्रणम्य तज्जानुयुग्ममपि सा परिचुम्ब्य सद्यः । बाहुद्वयेन च बलिं विरचय्य चाग्रे भूमौ ततः समुपविश्य च तं बभाषे ॥ १९ ॥ दिष्ट्या चिरेण मम लोचनगोचरत्वं यातः प्रभो कथय कुत्र तदद्य तावत् । आसीद्भवान्विपुलसद्गुणवान्खकान्ति- लावण्यवान्प्रवरवारणबन्धरज्जुः ॥ २० ॥ पापा गुणैर्विरहिता बत कुट्टनीयं चेट्योऽपि दुष्टमतयः सदने वसन्ति । वैरं कुकर्म रचयन्ति निकाममद्धा याभिः कुबुद्धिवशतो नरिनर्तितास्मि ॥ २१ ॥ प्राणप्रियस्त्वमपि याभिरहो हठेन निर्वासितः सपदि हन्त हि कद्वदाभिः । मद्धारतीमपि निरस्य विहस्य ताभि- राक्रान्तवेश्मवशतः किमहं करिष्ये ॥ २२ ॥ नाथ प्रसीद कुरु मा मयि चावहेलां लीलां कुरुष्व किल पूर्ववदेव तस्मात् । उक्त्वेति वाररमणी रमणीयवाणी तं भूमिपालतनयं दृढमालिलिङ्ग ॥ २३ ॥ सोऽपि क्षणेन विनिवार्य मौनमुद्रां भस्त्रां निधाय वसनान्तर एव गूढम् । आलप्य किंचिदपि हास्यकरं खदीना- राणां शतत्रितयमक्षिपदेतदने ॥ २४ ॥ है. तु ९ सर्गः॥ देलरामाकथासारः। ३५ तस्यासने तु विनिरीक्ष्य नवां स्थलस्था मेकं शुकं च करगं परितुष्टचित्ता । पप्रच्छ वस्तुयुगलस्य तु तस्य वार्ता संजातविस्मयवशेन नरेन्द्रसूनुम् ॥ २५ ॥ सोऽमुं मृषैव निजगाद तु सावहित्थं छिद्रं विदन्पुनरपि क्षितिपालसूनुः । एकस्य कस्यचिदिदं करगं बभूव वस्तुद्वयं स च ददौ प्रणयेन मह्यम् ॥ २६ ॥ उक्त्वेत्यथो बहुवि धामितभोजमद्य- पानादिकं सह तया स विधाय रात्रौ । खट्वातलेऽतिरुचिरे शयनार्थमुच्चै- रभ्यर्थितोऽपि न मुमोच निजां स्थलस्थाम् ॥ २७ ॥ तस्यानुरोधवशतो निजतूलितव्य- मुत्सृत्य वारवनितापि तदन्तिके सा । शय्यां व्यधात्कृतकरागवशावतीर्णा पर्यतः सपदि भूरितरादरेण ॥ २८ ॥ याते ततो नृपसुतः स निशैकयामे याम्ये तया कचिदितः सह चिन्तयेति । निर्निद्र एव समभाषत तां स्थलस्थां सुप्तां विभाव्य तदुपर्यबलां समीपे ॥ २९ ॥ यत्रास्ति नो वसतिरेव हि यत्र रथ्या न ज्ञायते जननि कुत्रचिदप्यजस्रम् । अम्भोनिधिः परित एव विभाति यत्र द्वीपं तदद्य नय मामनया समेतम् ॥ ३० ॥ इत्थं राजसुतो निगद्य स ततो रात्र्यन्धकारे घने भस्त्राकीरकरश्च वारवनितायुक्तस्तदानीं सुखम् ।
३६
काव्यमाला।
तन्माहात्म्यवशेन वासभवनान्निर्याय चालक्षित-
स्तद्वीपं समवाप वाञ्छिततरं मध्येसमुद्रं द्रुतम् ॥ ३१ ।।
इति देलरामाकथासारे वस्तुत्रयप्राप्त्यनन्तरं देलरामां वासभवनादाकृष्य तया साकं
राजपुत्रस्य सिन्धुद्वीपगमनं नाम नवमः सर्गः।
दशमः सर्गः।
प्रातरत्र सहसा विहाय निद्रामसावथ विलासिनी तदा ।
न व्यलोकत निजं गृहादिकं केवलं च परितः पयोनिधिम् ॥ १ ॥
सा ततो विपुलजातसाध्वसातङ्कसंकुचितदर्पगौरवा ।
तत्र वारवनिता व्यचिन्तयद्भूमिपालसुतमायया छलम् ॥ २ ॥
हन्त मे प्रतिकृतिर्दुरात्मनाश्वास्य किं तु विहितामुनाधुना ।
क्व व्रजामि तदितो महार्णवालोल्लसद्विपुलवीचिसंचयात् ।। ३ ।।
मामकं सदनमाययौ यथा गूढमेष नितरामलक्षितः ।
तत्तथेह च हि मां द्रुतं ममाकृष्य वासभवनादिहागतः॥४॥
किं प्रलापनिवहैर्वृथा कृतैः सावहित्थमिह वस्त्रमद्य मे ।
युक्तमेव परथा त्वहं रुषा चेदनेन निहता शृणोति कः ॥ ५ ॥
एवमत्र तु विचिन्त्य तं प्रबुद्धं जगाद मुदितेव तत्क्षणम् ।
शोभनं हि भवता विनिर्मितं कर्मतोऽर्थयति मामकं मनः ॥ ६ ॥
कुट्टिनी गतघृणा हि तत्र मां त्वत्परायणतमां विलोक्य सा।
संततं भृकुटिमेव मन्युना दुर्मतिः प्रकुरुते स्म भूरिशः ॥ ७ ॥
अद्य तावकधिया नृशंसधीः सा क चाहमपि च क दूरतः ।
एकया तदपि हन्त चिन्तया व्याकुलास्मि नितरामिह प्रभो ॥ ८ ॥
ग्राम एव न च पत्तनं विभो दृश्यतेऽत्र न तु मानुषागमः ।
केवलं जलधिरेव सर्वतः सांप्रतं किमुपभुज्यते हि तत् ॥९॥
सोऽभ्यधान्नृपसुतः प्रहर्षवान्वारयोषितमथो विहस्य ताम् ।
भुझ्व यन्मनसि रोचते प्रिये तुभ्यमद्य भव धीरधीः सदा ॥ १० ॥
इत्युदीर्य सभयां प्रियां समाश्वास्य कीरमवदपुरःस्थितम् ।
किंचिदेव किल तत्करे समर्प्य स्खवित्तमवनीशनन्दनः ॥ ११ ॥
१० सर्गः। देलरामाकथासारः। ३७ मत्समीपमिह सन्मतेऽधुनान्विष्य भद्र हि कुतश्चिदुत्तमात् । तूर्णमेव पुटभेदनाद्धनाद्भोज्यमानय वरासवान्वितम् ॥ १२ ॥ सोऽथ तद्वचनमात्रतस्तदोत्पत्य खं सपदि सन्मतिः शुकः । आनिनाय ललितं कुतश्चिदस्यान्तिकं विविधमासवाशनम् ॥ १३ ॥ आसवं बहुविधं च भोजनं तच्छुकाहृतमनेन दुर्लभम् । सा सुधाफलसमे समं समाखाद्य वारवनिता विसिस्मिये ॥ १४ ॥ प्रत्यहं स तु तथैव कीरराडाजहार वरमासवाशनम् । सोऽपि भूमितनयस्तया समं निर्विशङ्कमघसत्पपौ सुखम् ॥ १५ ॥ एवमत्र शुकमन्त्रताहृतानल्पभोज्यमधुमुख्यभोग्यवान् । कालमेष दयितासखस्तदा कंचिदेव सुखमत्यवाहयत् ॥ १६ ॥ जातुचित्तमवदन्नृपात्मजं वारयोषिदथ छिद्रदर्शिनी । आर्यपुत्र न हि विद्यते"नौ कर्म किंचिदपि देहखेददम् ॥ १७ ॥ मन्दमन्दमपि तच्छनैः शनैर्भोजनं ह्यविरतं विधीयताम् । किं न नाथ सततं महामते स्वैरमत्र विजने मनोहरे ॥ १८ ॥ वासरद्वयकृते यदानया माससंततमसौ शुकः सुधीः । तत्समाहरतु भोज्यमुच्चकैः सासवं सकृदनल्परंहसा ॥ १९ ॥ एष चापि न भवेद्गतागतैः खेदितो हि शुकराट् पुनः पुनः । हृप्रमोद उत(?)जावयोः प्रभो जायते बहुविधाशनेन तत् ॥ २० ॥ सोऽब्रवीन्नृपतिनन्दनस्ततस्तां तदा कपटवञ्चनोद्यताम् । ह्यस्तनं कथमिहोपभुज्यते नव्यमेव परिवयं भोजनम् ॥ २१ ॥ वारितापि नितरां पुनः पुनः सा तदेव गणिका समभ्यधात् । सोऽपि राजतनयस्तथाकरोत्कीरमाशु विनियोज्य(?)सर्पतिम् ॥ २२ ॥ रंहसैव सहसागते शुके भोज्यमत्र परिगृह्य सासवम् । न्यस्तजानु नितरामपाययत्सा नरेन्द्रतनयं भृशं मधु ॥ २३ ॥ क्षीवतामुपगतं विलोक्य तं सा समञ्जसतरार्धभाषितम् । वारयोषिदतिहर्षितः स पप्रच्छ स प्रणयमुच्चकैरिति ॥ २४ ॥ 4.78** Sri Pratap College, ३८ काव्यमाला। ॥ नाथ तुष्यति मदीयमानसं ह्यत्र रम्यतलभूरिशाद्वले । संगमेन तव भोगसंचयैर्हत्प्रियैः परमदुर्लभैः सदा ॥ २५ ॥ कौतुकं तदपि नाथ विद्यते चैकमेव नितरां मनस्यतः । नागदुर्लभतराप्तभोगहृष्टापि सम्यगिह नो भजे सुखम् ॥ २६ ॥ सोऽथ तामवददत्र वल्लभे ब्रूहि यन्मनसि वर्तते तव । त्वत्कृते हि सहसा करोमि तत्किं न सिध्यति ममाद्य सुन्दरि॥२७॥ तोषिताथ सुतरां जगाद सा भूपनन्दनमिदं निशम्य तत् । संततं व्ययकृते कुतस्त्वया दीयते धनमियद्वनान्तरे ॥ २८ ।। एष चापि शुकराट् त्वया कुतो लब्ध उत्तममहागुणः सुधीः । मां कथं च निजवेश्मनः समाकृष्य चानयदहो भवानिह ॥ २९ ।। स्वर्गभूमिरियमेव मन्यते सांप्रतं ननु मया त्वया सह । किं तु तावकवराद्भुतक्रियां श्रोतुमस्मि नितरां समुत्सुका ॥ ३० ॥ तन्निशम्य मदिराविमोहितो विस्मृताधमतदीयकैतवः । सर्वमेव स शुकादिवस्तुवृत्तान्तमत्र सहसा व्यवर्णयत् ॥ ३१ ॥ तन्निगद्य सुरतासवाशनोद्वेगतः सपदि भूपनन्दनः । तत्र पादयुगलं प्रसार्य निद्रां चकार रजनीनुखे ततः ॥ ३२ ॥ तत्काल एव सहसा शनकैः स्थलस्था पृष्टाद्भुवस्तलनिषण्णमिमं विधाय । तस्यां स्वयं समुपविश्य तदन्तिकात्सा भस्त्रां शुकं च निजहस्तगतं चकार ॥ ३३ ॥ वाणी जगाद ननु वासगृहं खकीयं तत्यामुयां सपदि सांप्रतमेव रात्रौ । इत्युक्तिमात्रवशतो गगनाध्वना सा खं वेश्म वारवनिता द्रुतमाससाद ॥ ३४ ॥ दृष्टा साथ चिरेण तीव्रकुतुकात्कासीति पृष्टा तदा दासीभिः परिचुम्ब्य जानुयुगलं भक्त्या प्रणम्याग्रतः ।
११ सर्गः। देलरामाकथासारः । ३९ आख्यास्यन्नृपनन्दनस्य विहितच्छद्मक्रियावञ्चना- वृत्तान्तं सकलं सहास्यवचना हर्षेण वाराङ्गना ॥ ३५ ॥ इति देलरामाकथासारे द्विर्विहितराजपुत्रकैतववञ्चनानन्तरं सिन्धुद्वीपाद्देलरामास्व. गृहागमनं नाम दशमः सर्गः एकादशः सर्गः । अत्रान्तरे स नरनाथसुतः समुद्र- द्वीपे प्रभातसमये सहसा प्रबुद्धः । भस्त्रां शुकं च रुचिराभिनवां स्थलस्थां तां चापि वारवनितां न ददर्श तत्र ॥ १ ॥ स्मृत्वा ततो रजनिमध्यनिरुक्तवाचं निन्दन्खकीयमतिविप्लवमुच्चकैस्तम् । सर्व तयैव विहितं ननु वारवध्वा मेने विमृश्य कपटं प्रकटं खबुद्ध्या ॥२॥ उच्चैः शुशोच स ततो नरनाथसूनु- र्जानन्मृतं स्वमुपवासनितान्तयत्नात् । अनामि किं कथमितश्च तरामि सिन्धो- रेकोऽधुना बत किमत्र करोमि शून्ये ॥ ३ ॥ आदौ ययैव बत वञ्चित एव योऽह- माश्वास्य हृद्दतमवोचमहो हि तस्याः । धिङ्मां विमर्शरहितं सहितं नितान्तं मौख्येण येन विपदं बहुशो भजामि ॥ ४ ॥ निर्वासितः प्रथममेव यदानयाहं दत्त्वार्धचन्द्रमवमानमलं विधाय । रथ्या तदा मम बभूव सुखेन गम्या तन्निर्मिता प्रतिदिनं निजजीवरक्षा ॥ ५ ॥ काहं व्रजामि तदितस्त्वधुनातिदुर्गा- द्रत्नाकरं कथमिमं बत लवयामि ।
४० काव्यमाला। एवं प्रलापमुखरो निजपाणिपृष्ठे ध्यात्वा मुखं क्षणममन्दशुचा निदद्रौ ॥ ६॥ तत्काल एव(?)विधिनियोगवशेन दिव्यं मञ्जीरम तरशिञ्जितमुल्ललास । आकर्ण्य तत्सपदि भूपसुतः प्रबुद्ध उत्थाय चाक्षिपदसौ परितः स्वदृष्टिम् ॥ ७ ॥ बभ्राम काननमितस्तत एव ताव- दाप्लावसज्जमथ तावदसौ ददर्श । सीमन्तिनीत्रितयमत्र विनग्नगात्रं तीरस्थितानुपमवस्त्रचयखरूपम् ॥ ८ ॥ उद्वीक्ष्य जातकुतुकः स ततः प्रदध्यौ नैवेह कस्यचिदपश्यमहं हि वक्रम् । प्राप्तं ततो वनितात्रयं तु भूयिष्ठदृष्टसुविशिष्टगरिष्ठधाम ॥ ९॥ जाने हि काश्चिदपि दिव्यवरप्रभावा एताः स्त्रियो ललितकान्तिवशाद्भवन्ति । यत्तन्ममास्तु सहसाभरणादि वस्तु क्षिप्रं हरामि तदथो किमिवावदन्ति ॥ १० ॥ ध्यात्वेति वारिनिधितीरतलाजहार सद्यस्तदीयवसनाभरणादि सर्वम् । आलोक्य तास्तदिति ननसमग्रदेहा भूपालसूनुमवदन्नितरां हसन्तम् ॥ ११ ॥ भो भो महापुरुष नैतदिहोचितं ते योगिन्य एव हि वयं त्रिदिवावतीर्णाः । स्वातुं समुद्रसलिले विमलेऽधुना त- न्मा बालचापलवशात्कुरु नर्मलीलाः ॥ १२ ॥ द्रुततरं ११ सर्गः।। देलरामाकथासारः। ४१ त्वं वञ्चितो ननु यया कपटेन तुभ्यं तत्प्राप्युपायवरमद्य वरं वदामः लज्जामहे तदपि ते पुरतो विनमा नीत्वास्मदीयवसनाभरणानि देहि ॥ १३ ॥ श्रुत्वेति ताः स निजगाद नरेन्द्रसूनु- रादौ वरं ददत मह्यमिहाद्य तूर्णम् । मुश्चामि युष्मदखिलाभरणादि वस्तु- जातं ततः सपदि नापरथा कदाचित् ॥ १४ ॥ आकर्ण्य तस्य वचनं नृपनन्दनस्य चैका जगाद वनसंमुखदत्तदृष्टिः । संवर्धितः खयमसौ हि मयात्र शाखी कृत्वालवालमयमेव महाप्रभावः ।। १५ ।। एतत्पलाशमपि यो मनुजो हि धत्ते वस्त्रान्तरे यदथ वा निजपाणिमध्ये । स प्रत्यहं प्रकुरुतेऽतिसुखेन दीना- राणां शतत्रयमवाप्य यथेष्टभोगान् ॥ १६ ॥ अन्याप्युवाच तरुरेष महान्मदीयो यो धारयेद्विटपमस्य महाप्रभावम् । यद्यत्पुरं समभिवाञ्छति गन्तुमद्धा तत्तत्समाश्रयति स क्षणमात्रमेव ॥ १७ ॥ भूपालनन्दनमवोचदथो तृतीया योगीश्वरी निजकराङ्गुलिदर्शनेन । पश्याग्रतो विकचभूरितरप्रसूनः शाखी महामहिमवानिह मामकोऽयम् ॥ १८ ॥ अस्य त्वगेव नृपनन्दन यस्य चूर्णी- कृत्वा शिरस्यमितरोषवशेन नूनम् । -- ४२ काव्यमाला । प्रक्षिप्यते सपदि गर्दभतां स गच्छे- खेच्छावशेन निजकर्मकृते विधेयः ॥ १९ ॥ कारुण्यपुण्यवशतः खरजन्ममुक्तिं वाञ्छेत तस्य यदि किं तु रुषं विहाय । भूपोऽपि मस्तकतले त्वचमेतदीयां प्रेम्णा क्षिपेत्सपदि सोऽपि तथाविधः स्यात् ।। २० ॥ श्रुत्वेति हृष्टहृदयः स परस्परं त- द्वाक्यं यथाभिलषितं च वरं प्रलब्ध्वा । ताभ्यो ददौ खवसनाभरणानि सर्व यन्नीतमेव सहसा नरनाथसूनुः ॥ २१ ॥ आप्लावनिर्मलतरङ्गनितान्तजात- कान्तिप्रभातुलितशारदचन्द्रशोभाः। आमुक्तदिव्यवसनाभरणाः स्त्रियस्ता- स्तत्कालमेव सहसाथ तिरोबभूवुः ॥ २२ ।। सोऽथ प्रहृष्टवदनो नरनाथसूनु- रेकैकशः क्षितिरुहत्रितयात्तदानीम् । पणे त्वचं च विटपं च महाप्रभावं तस्मादजिग्रहदनल्पकुतूहलेन ॥ २३ ॥ वस्तुत्रयं तदथ हस्तगतं विधाय प्रोवाच वाचमिति राजसुतस्तदानीम् । तस्या इतस्त्वरितमेव हि वारवध्वाः संप्राप्तधामनिकटोपवनो भवेयम् ॥ २४ ॥ इत्युक्त्वा विटपस्य तस्य सहसा माहात्म्यतः प्राप्तवा- निच्छामात्रवशेन वारवनितावेश्मान्तिकस्थं तदा । उद्यानान्तरमेव राजतनयः प्रोउङ्घय रत्नाकर ध्यायश्चेतसि तत्पराभवमसौ भूयिष्ठरोषाकुलः ॥ २५ ॥ इति देलरामाकथासारे योगिनीवरप्रसादेन सिन्धुद्वीपादुत्तीर्य राजपुत्रस्य गणिकोप- वनागमनं नामैकादशः सर्गः ।
१२ सर्गः।]
देलरामाकथासारः।
४३
द्वादशः सर्गः।
अत्रान्तरे नृपसुतापहृतखवस्तु.
व्रातप्रभावगरिमार्जितवित्तराशिः ।
नानाविधाहितमहोत्सवहृष्टचित्ता
सा वारयोषिदपि हर्म्यमथारुरोह ॥ १ ॥
आमुक्तभूषणवरांशुकभूषिताङ्गी
संत्रस्तबालमृगचञ्चनलोचनश्रीः ।
वातायनोपरि रराज नितान्तमेषा
दिव्याङ्गनेव वरवारवधूस्तदानीम् ॥ २ ॥
शिञ्जानमञ्जुलसुरञ्जितचित्ररत्न-
मञ्जीरयुग्मललितात्रियुगं रराज ।
तस्या विकोशमुखरालिभृतस्थलाम्बु-
जन्मानुकारि सरलाङ्गुलिपत्रहारि ॥ ३ ॥
करभाधिकोच्चमसृणं त्वधरं ललितोरुबिम्बयुगलं शुशुभे ।
मदनद्विपेन्द्रदशनद्वितयं मुनिचित्रशाखिपरिभञ्जनकृत् ॥ ४ ॥
नाभिबलित्रितयहारितरातिरम्या
तस्या बभौ विरचिता तदहं हि मन्ये ।
स्थित्यर्थमीश्वरभयान्मकरध्वजेन
सोपानलाञ्छितमनोरमदीर्घिकेव ॥ ५॥
तस्या उरोजद्वयमूर्ध्वगामि रराज सत्काञ्चनकुम्भकान्ति ।
पश्याव एतद्वदनं कदा वामित्थं हि सोत्कण्ठतयेव नुन्नम् ॥ ६ ॥
शिरोधरा चापि रराज तस्या भूष्याद्वितीयाखलभूषणालम् ।
कंसारिहस्तस्थितकम्बुशोभां विडम्बयन्ती धवलोच्चकान्तिः ॥ ७ ॥
तस्याः पाणियुगं रराज रुचिरं रक्ताजशोभाधिक
प्रान्तप्राज्यविराजमाननखरं स्पष्टाङ्गुलीलान्छितम् ।
मन्ये शंकरदग्धपञ्चविशिखामशेण चेतोभुव-
श्चक्रे तड्विगुणं खबाणदशकं यद्व्याजतो नूतनम् ॥ ८ ॥
४४ काव्यमाला । ॥ दशनपङ्किरलं शुशुभेऽमिता धवलकान्तिविडम्बितचन्द्रिका । प्रवरमौक्तिकराजिविराजिता स्मरवशंकरचूर्णसुसंनिभा ॥ ९॥ नात्युन्नतेन न च वामनताश्रितेन नैवातिपीवरतरेण न कार्यभाजा । नातीव किं च विनतेन सुकान्तिनासा- वंशेन चापि शुशुभे ललितार्जवेन ॥ १० ॥ नेत्रद्वयं तत्र रराज तस्या निरन्तरामन्दसुपक्ष्मशोभम् । तिरस्कृतैणेक्षणकान्तिदर्प व्याकोशराजीव पलाशरम्यम् ॥ ११ ॥ शोभां भ्रूयुगलं बभार नितरां तस्या महाकान्तिभृ- द्रम्यं काम्यतमं विजिह्यमनघं संदर्शनानन्दकृत् । जानेऽहं नु नवीचकार मदनश्चापद्वयं शंभुना निर्दग्धाद्य निजैककार्मुकवशामर्षेण जैत्रं स्थिरम् ॥ १२ ॥ बभार शोभां नितरां ललाटपट्टं तदीयं विमलखकान्ति । शङ्के रुषा शंकरशीर्षपृष्ठादचूचुरचन्द्रकलामनङ्गः ॥ १३ ॥ स च्छोभालकराजिराजितमलं लावण्यकान्त्या करं वकं चारुतरं तदीयमनघं सद्रूपगर्वावधि । शङ्के नानुचकार पार्वणसुधासूतिः कलङ्काश्रया तत्पङ्केरुहसाम्यवर्णनविधौ किं चित्रमुच्चैर्भवेत् ॥ १४ ॥ उवाह शोभां च तदुत्तमाङ्गं नितान्तसीमन्तविराजमानम् । विनिर्जितालिब्रजबर्हिबर्हनितम्बबिम्बाश्रितकेशपाशम् ॥ १५ ॥ तत्केशपाशधवलस्तबकापदेशा- चन्द्रो विवादमकरोदिति राहुणेव । मां चेबसस्यशरणं किमिदं मदीय- भ्रान्त्या रुणत्सि वदनं मदनोऽत्र रक्षी ॥ १६ ॥ चान्द्रीं त्विषं दशनशुभ्रमरीचिकान्त्या लीलालसेन गमनेन च राजहंसीम् ।
१२ सर्गः॥
देलरामाकथासारः।
४५
कर्णान्तसर्पिनयनद्वितयेन बालां
संत्रासितां च हरिणीमपि सा जिगाय ॥ १७ ॥
नात्युन्नतं नैव तथातिहखं खमुष्टिमेयोदरराजमानम् ।
सरोरुहाकारमदोषगात्रं वपुश्च तस्याः शुशुभे नितान्तम् ॥ १८ ॥
विराजते स्मापि तदीयवाणी शनैः शनैर्मन्द्रतरोल्लसन्ती ।
वसन्तसंतुष्टपिकालिवीणानिकाणहृयातुलतुल्यशोभा ॥ १९ ॥
कण्ठे हारलतां महामणियुतां श्रोत्रद्वये कुण्डले
सौवर्णे भुजयोश्च रत्नवलयान्यधिद्वये नूपुरे ।
अन्यत्प्राज्यतमांशुकादिविविधाकल्पं वहन्ती बभौ
सा हर्थे गगनात्स्वशापवशतो विद्याधरीव च्युता ॥२०॥
तस्याः स्मितोद्गतमनोहरशुभ्रदन्त-
दीप्त्या रराज नितरां धवलः स सौधः ।
संपूर्णशीतकरमण्डलमध्यनिर्य-
ज्योत्स्नाप्रभाप्रकरतो हि यथा हि मानी ॥ २१ ॥
एवं खकान्तिविभवादिसहर्षचित्ता
कर्णान्तगामिवरदृष्टिमितस्ततः सा ।
चिक्षेप यावदपि तावदिमं नरेन्द्र-
सूनुं ददर्श सरुषं निजनिष्कुटान्तः ॥ २२ ॥
तं वीक्ष्य जातगुरुसाध्वसविस्मया सा
विच्छायतामगमदाशु ततस्तदानीम् ।
चन्द्रत्विषेव नलिनी खलिनीव साधोः
संमानती रविरुचा च कुमुद्वतीव ॥ २३ ॥
कोपाकुलं तमबलोकयितुं तदानीं
भूपालनन्दनमसौ न शशाक भीत्या ।
वाराङ्गना सपदि विह्वलमानसालं
पञ्चाननं हि करिणीव निरस्तधैर्या ॥ २४ ॥
४६ काव्यमाला। साचिन्तय वमसौ गुणवान्महात्मा कोऽपि प्रभूतमहिमा हिमरश्मिधामा । प्रायो मया कपटतः परिवञ्चितोऽयं तत्किं चिकीर्षति रुषाद्य न वेनि हन्त ॥ २५ ॥ उल्लङ्घयवारिनिधिमेष मुहूर्तमात्रा- प्राप्तोऽधुनैव हनुमानिव रंहसान्यः । कुत्र व्रजामि तदितो निजहर्म्यपृष्ठा- दृष्टा सरोषममुना च बताहमद्धा ॥ २६ ॥ किं चाधुना मम विधिः शरणं भयेऽस्मि- न्यत्तन्ममास्तु निजकर्म हि कः प्रमाटि । एतत्समीपमपि सान्त्वयितुं व्रजामि जानामि नापरमुपायमलं विचार्य ॥ २७ ॥ ध्यात्वेति सा निकटमस्य तु मन्दमन्दं गन्तुं वकीयपरिवारजनैरदृष्टा । एकाकिनी विपुलसाध्वसकम्पमाना वातायनादवततार ततस्तदानीम् ॥ २८ ॥ यान्ती प्रभूतभयतस्तु शनैः शनैः सा दूराद्ददर्श सरुषं नरनाथसूनुम् । गत्वा ततस्त्रिचतुरेषु पदेषु भूमी विन्यस्य जानुयुगलं प्रणनाम चाग्रे ॥ २९ ॥ सोऽप्यग्रतः सविनयां प्रणतोत्तमानां प्रक्षिप्तजानुयुगलां गलदश्रुधाराम् । उत्तुङ्गपीनकुचकुम्भनिवेशितख- पाणिद्वयामतिभयामथ तामपश्यत् ॥ ३० ॥ कोपाकुलः स सहसा नरनाथसूनु- रुत्थाय तां भुजयुगेन हठानिरुध्य ।
सर्गः।]
४७
१२
देलरामाकथासारः।
चूकृितामथ मुमोच तदीयशीर्षे
वृक्षत्वचं भव खरीति निगद्य वाचा ॥ ३१ ॥
तद्वाक्यमात्रवशतः सहसा तदानीं
वाराङ्गनाविगतसर्वनिजस्वरूपा।
सा गर्दभी समभवन्नरनाथसूनो-
स्तच्चेष्टितं मनसि रोषवशात्स्मरन्ती ॥ ३२ ॥
दन्तालिकामथ वितीर्य स राजपुत्रः
पीडामतीव जनयंलगुडप्रहारैः ।
ईर्ष्यावशेन सहसा खयमेव पृष्ठं
तस्या अशिश्रयदसूक्ष्मघृतप्रमोदः ॥ ३३ ॥
श्वभ्राद्रिकान्तारवनप्रदेशान्बभ्राम कान्तोऽधिकरूपहीनाम् ।
आरुह्य नित्यं स तु गर्दभी तां भीतां प्रहारैः स्रवदश्रुधाराम् ॥ ३४ ॥
तदीjया खात्मकृते समं सा वहन्नपूपाः स नरेन्द्रसूनुः ।
खल्पं ददौ वारि तृणं च तस्यै पृष्ठादिनेनावततार जातु ॥ ३५ ॥
अत्रान्तरे तत्परिवारवेद्यो दिनेष्वनल्पेषु गतेषु तत्र ।
तां स्वामिनी नैव कुतोऽप्यवापुर्गवेषितामप्यखिलाध्वयानैः ॥ ३६ ।।
लब्धं ततस्तां परिवर्जिताशाश्चेट्यः समग्रा अपि कुट्टनीश्च ।
खमस्तकन्यस्तसमस्तहस्ताश्चक्रन्दुरुच्चैर्गलदश्रुधाराः ॥ ३७ ॥
जग्मुः समग्रा अपिराजधानी तच्चेटिका बाप्पनिरुद्धवाचः ।
आस्थानसंस्थं ददृशुर्नरेन्द्र निवेदिता द्वाःस्थगुणेन सद्यः ॥ ३८ ॥
विन्यस्य जानुद्वयमग्रतस्ताः कृत्वाशिषं साश्रुदृशः सदुःखाः ।
चेट्यः समग्रा अपि कुट्टनी च व्यजिज्ञपन्भूमिपति प्रणम्यं ॥ ३९ ॥
राजन्वती भूर्भवता नरेन्द्र प्रजापरित्राणकरस्त्वमेव ।
श्रीमान्सुरत्राणवरस्त्वमद्धा तद्दीनवाक्यं शृणु सावधानः ॥ ४० ॥
केनापि पिङ्गेन हृताद्य राजन्विलासिनी सा बत देलरामा ।
अन्वेषिताप्येव नितान्तयत्नात्कुतोऽपि नास्माभिरहो प्रलब्धा ॥ ४१ ॥
४८
काव्यमाला।
धुरंधरे तत्त्वयि नाथ भूमिपुरंदरे पौरविचारदक्षे ।
विटादयश्चेत्प्रभवन्ति पापास्तत्कस्य गर्दा क्रियते परस्य ॥ ४२ ॥
श्रुत्वेति तद्वाक्यमसौ नरेन्द्रः ससंभ्रमं दीनतरं तदानीम् ।
आश्वासमाशां विरचय्य सद्यो व्यसर्जयच्चारगणांस्तु दिक्षु ॥ ४३ ॥
अन्विष्य ते चारगणा यदा न प्रापुः कृतश्चित्रमतिप्रयत्नात् ।
तदा नरेन्द्रस्य भिया पलाय्य चाशिश्रयन्देशमथान्यमेव ॥ ४४ ॥
देशेऽस्मिन्बत जाल्मतस्करविटा वृद्धिं कियन्तो घना
जग्मुः केन नितान्तमेव दुरितासक्ता महानिष्कृपाः ।
यत्कश्चित्कमिता जहार गणिकां तां देलरामाभिधां
हाहाकारमिति प्रकाममुदभूप्रत्यालयं प्रत्यहम् ॥ ४५ ॥
इति देलरामाकथासारे तद्रूपवर्णनानन्तरमेतस्यास्तिरस्कारो नाम द्वादशः सर्गः ।
त्रयोदशः सर्गः ।
याते तु काले विपुले कदाचित्कृशाकृति तां रुधिराईदेहाम् ।
खरीस्वरूपामुपरिस्थितक्ष्मापालात्मजप्रत्तघनप्रहाराम् ॥ १ ॥
सबाष्पनेत्रां बत देलरामां ददर्श मार्गे खसुतानुयाता ।
योगीश्वरी काचिदमन्दजातकुतूहला ज्ञानवती सुदूरात् ॥ २॥
(युगलकम् )
आलोक्य तां साह ततः स्वकन्यामेकं महत्कौतुकमग्रतस्त्वम् ।
पुत्रि द्रुतं पश्य न यावदेति दृग्गोचरादूरतरं प्रयाति ॥ ३ ॥
साप्यब्रवीत्तां जननी न किंचित्पश्याम्यहो मातरहं विचार्य ।
प्रत्याह कन्यामथ योगिनी सा येयं खरी सैव हि देलरामा ॥ ४ ॥
आरुह्य यस्तिष्ठति पुत्रिपृष्ठे चास्याः प्रहारैर्जनयन्हि पीडाम् ।
स राजपुत्रो बहुशोऽनयायं विवञ्चितश्छद्म विधाय पूर्वम् ॥५॥
श्रुत्वेति संजातकुतूहला सा निर्बन्धतस्तां जननीमपृच्छत् ।
आमूलवृत्तान्तमशेषमेव व्यावर्णयामास तु योगिनी सा ॥ ६ ॥
१३ सर्गः ।। देलरामाकथासारः।
४९
कन्याथ सा तां जननी ययाचे मातः खरी देहविमुक्तिरस्याः ।
यथा भवेत्त्वं हि तथा कुरुष्व क्ष्मापालसूनोः प्रणयं विधाय ॥ ७॥
निर्बन्धतः सा निजकन्ययैवमभ्यर्थिता सादरगौरवेण ।
भूपालसूनोर्निकटं तदानीं योगीश्वरी तत्सहिता प्रतस्थे ॥ ८ ॥
तमाह दूरान्नरनाथसूनुं क्षणं प्रतीक्षख महाजन त्वम् ।
किंचिद्रवीतुं मम विद्यतेऽद्य तवोपकण्ठे विपुलाभिलाषः ॥९॥
श्रुत्वेति भीत्याथ पुरःसरन्तीं दन्तालिकाकर्षणतो निरुद्ध्य ।
तां गर्दभी वर्मनि राजपुत्रो मुहूर्तमात्रं विनयेन तस्थौ ॥ १०॥
अभ्येत्य सा तं कुशलादिवा पृष्ट्वा नरेन्द्रात्मजमाचचक्षे ।
कथान्तरे सा खसुतासमक्षं योगीश्वरी पादतले प्रणम्य ॥ ११ ॥
योगीश्वरी तद्गुणहृष्टचिता सिद्धा प्रसक्ता तव चाहमद्धा ।
विमृश्य तस्मात्तव नैव कांचिद्गहीं तु वेद्मि पृथुसद्गुणस्य ॥ १२ ॥
भवादृशं नैव तथापि वैरं महात्मनां दीनजनेऽतिपापे ।
चिरं प्रधत् सुतयुक्तमद्धा कुलीनपुंसामपरो गुणः कः ॥ १३ ॥
मुञ्चाधुनैतां तु खरीखरूपां दुष्कर्मसक्तामिह देलरामाम् ।
कृत्वा विवाहं सुमते खकीयां कन्यामिमां तुभ्यमहं ददानि ॥ १४ ॥
यथेतरे पुत्र विरोधसक्ता भवद्विधा नैव तथाविधाः स्युः ।
यदिच्छसि त्वं तदसौ ददाति तुभ्यं यथा किं तु तथा करिष्ये ॥ १५॥
प्रसीद तत्पुत्र दयां कुरुष्व गृहाण कीर्तिं श्रय साधुवादम् ।
पुण्यं च वृद्धिं नय(?) दार्यसेव्यं भज स्वमार्गे त्यज कोपमस्याम् ॥१६॥
इयं सुता मे तव धर्मपत्नी यथा भवत्येवमुताधुनैव ।
तथा करिष्येऽधमवंशया तु किमेतया दुर्मतिवारवध्वा ॥ १७ ॥
तन्निशम्य नरनाथनन्दनस्तां जगाद वरयोगिनी ततः ।
एतया गणिकयातिपापया यन्ममापकृतमेव वेत्सि तत् ॥ १८ ॥
यातना बहुविधा विधाय तद्धर्तुमेव गणिकामिमां ध्रुवम् ।
विद्यते मम मनोरथोऽम्बिके किं करोमि भवदीयशासनात् ॥ १९ ॥
५० काव्यमाला। यन्मदीयमहरजनन्यनल्पं हि वस्तुनिचयं सुदुर्लभम् । तद्ददातु सकलं तदुद्गतं खापतेयमपि चानुवासरम् ॥ २० ॥ प्रत्यहं च मम दास्यसेवनं चेत्करोति हि विलोक्य सांप्रतम् । लेखमम्ब रुचिरं भवत्समक्षं स्फुटाक्षरततिप्रशोभितम् ॥ २१ ।। तत्करोमि भवदीयशासनान्मातरद्य हि तथाविधामिमाम् । रासभीजनिमथो निवार्य पूर्ण प्रभाववशतः पुरस्तव ॥ २२ ॥ वाचमेवमथ सा निशम्य तां व्याजहार नरनाथनन्दनम् । योगिनी प्रमुदिता विहस्य संकल्पमाशिषममन्दसिद्धिदम् ॥ २३ ॥ दुर्मतिं कुगणिकां करोषि चेद्रासभीजनिविवर्जितामिमाम् । यद्यदिच्छसि ददाति तद्रुतं साक्षिणी ह्यपरथा त्वहं सदा ॥ २४ ॥ योगिनीगिरमिमां निशम्य सच्छद्मशतितमनोनिमित्ततः । त्रिर्मनोरथमवोचदात्मनः साक्षिणोऽप्यकृत तत्र पञ्चषान् ॥ २५ ॥ पादपत्वचमथो मुमोच तां प्राप यां प्रवरयोगिनीवरात् । मूर्ध्नि भूमिपतिनन्दनः स तस्यास्तदा सपदि वारयोषितः ॥ २६ ॥ तत्प्रभाववशतः क्षणेन सा गर्दभीसमुचिताकृति जहौ। प्राप साभरणचित्तहारिकाम्यात्मविग्रहह्मथो तथाविधम् ॥ २७ ॥ वारयोषिदथ सा तदोपसृत्य प्रणाममकरोत्महर्षिता भूमिपालतनयस्य तस्य विन्यस्य जानुयुगलं ससंभ्रमम् ॥ २८ ॥ सोऽपि मन्युवशतस्ततोऽभवत्तां विलोक्य पुरत पराङ्मुखः । योगिनी किल तदिङ्गितं च तस्यै न्यवेदयदमर्षदर्शनात् ॥ २९ ॥ वारयोषिदपि योगिनीगिराङ्गीचकार विनयात्प्रणम्य सा । अञ्जसा सकलमेव राजपुत्रेप्सितं बहुविधं यथोदितम् ॥ ३०॥ तद्दिने निजगृहं समानयद्योगिनी नृपतिनन्दनं ततः । वारयोषिदपि तस्य शासनाद्रीनता निजगृहं जगाम सा ॥ ३१॥ भूमिपालतनयाय तत्र तस्मै निजां दुहितरं समर्पयत् । पाणिपीडनमथो विधाय सा योगिनी प्रमुदिता यथाविधि ॥ ३२ ॥ " १३ सर्गः ।। देलरामाकथासारः ५१ साथ वाररमणी तदीयवस्तुव्रजं च तदुपार्जितं धनम् । आनिनाय नृपनन्दनान्तिकं दास्यलेखमिह योगिनीगृहे ॥ ३३ ॥ अत्रान्तरे तत्र पुरे हि देलरामाप्रवृत्ति प्रथितामितीमाम् । प्रत्यालयं सर्वजनो निशम्य नरेन्द्रसूनुं प्रशशंस हर्षात् ॥ ३४ ॥ राजापि चाकर्ण्य जनश्रुतिं तां प्रभूतसंभूतकुतूहलेन । खराजधानीमनयद्विसृज्य भृत्यान्प्रियान्भूपसुतस्ततस्तम् ॥ ३५॥ ततः परिज्ञाय निजं कनिष्ठं सहोदरं भूमिपतिस्तदानीम् । आनन्दबाष्पाम्बुकणार्द्रनेत्रो गाढं समुत्थाय तमालिलिङ्ग ॥ ३६ ॥ तमग्रजं सोऽपि विभाव्य हर्षात्तज्जानुयुग्मं परिचुम्ब्य चैव । कृत्वा प्रणामं निकटोपविष्टो बाष्पाम्बुधाराकुलितो बभाषे ॥ ३७ ॥ यातो मसेदान्तिकतः सुदूरं यदा पुरा मां प्रविहाय तूर्णम् । दिनावसानेऽपि तदा मया त्वं कुतोऽपि नान्विष्य चिरं हि लब्धः ॥३८॥ श्रुत्वेति राजा निजगाद तत्र स्वभ्रातरं तत्त्रपया विनम्रः । ममेह संप्राप्तनरेन्द्र तस्य त्वं विस्मृतोऽपूर्णमतेस्तदानीम् ॥ ३९ ।। श्रुत्वेत्यसौ तस्य शशंस देलरामाप्रवृतिं पुरतोऽग्रजस्य । स चाप्यवोचन्निखिलं स्वराज्यप्राप्त्यादिवृत्तान्तमशेषमेव ॥ ४० ॥ कथान्तरे तं निजगाद राजा मो(मुरादभक्षं(बख्शं) खसहोदरं सः ॥ इहत्यसर्वामितसेनया खं देशं व्रजावोवरमद्य जेतुम् ॥ ४१ ॥ यत्रैव हेति जनकश्चकार यत्रैव नो ज्ञातिजना वसन्ति । हलाभदेशं स्वमनोरथो मे प्रयातुमद्यैव हि विद्यते तम् ॥ ४२ ॥ श्रुत्वेति सोऽपि प्रशशंस हर्षान्मो(मुरादभक्षो(बख्शो)वचनं तदेव । आज्ञां ददौ सोऽथ पुरेऽत्र सेवाकृते नरेन्द्रः पृतनाधिपाय ॥ ४३ ॥ अल्पैर्दिनैः सर्वबलेऽपि सज्जीकृतेऽथ सेनापतिना नरेन्द्रः । विनिर्ययौ खं नगरं विजेतुं दत्त्वा परस्मै निजराज्यमत्र ॥ ४४ ।। दासीपाणो(?)पार्जितदेलरामासमन्वितस्तद्धनपूरितोष्ट्रः । योगीश्वरीपुत्रिकया च साकं तमन्वगच्छत्स निजानुजन्मा ॥ ४५ ॥ ..
५२ काव्यमाला। गच्छन्क्रमात्प्राप स भूमिपालः सहानुजो भूरिबलं पुरं तत् । राजच्युतो यत्र स भारजीवी स जानिरेतजनको बभूव ॥ ४६ ।। दीर्घाध्वखिन्नामितसिन्धुवारः स भूमिपालः स्वसहायवाक्यात् । एकां त्रियामामथ तत्र तस्थौ सहानुजः खेदनिवारणार्थम् ॥ ४७ ॥ आकस्मिकोल्काविनिपाततुल्यं पितुर्जनेभ्यो मरणं निशम्य । शुशोच राजा ससहोदरोऽलं तदीयनाम्नात्र चकार धर्मम् ॥ ४८ ॥ खमातरं चाहितसंगमां तां तेनैव साकं वणिजाशृणोत्सः । निनिन्द तदुश्चरितं नितान्तं ददौ न तस्यै निजदर्शनं च ॥ १९ ॥ प्रातस्ततः सद्गतिकुञ्जरेन्द्रमारुह्य राजा वपुरीं प्रतस्थे । विराजमानोपरिहमछत्रः सहानुजो भूरिबलानुयातः ॥ ५० ॥ क्रमेण गच्छन्स शनैः शनैः खभ्रात्रान्वितो वीरभटानुयातः । समाससादाथ तमात्मदेशं नाम्ना हलाभं वरवस्तुलाभम् ॥ ५१ ॥ आमुक्तवा निशितातुखड्गः सज्जीकृतायोधनदक्षवीरः । भ्रात्रा समं तन्नगरं हठात्स द्वाःस्थान्निहत्य द्रुतमाविवेश ।। ५२ ।। योद्धं विनिर्यातविपक्षवृन्दं निहत्य संख्ये भटपत्यसंख्ये । पितुः खकीयस्य सहानुजन्मा विवेश राजा निजराजधानीम् ॥ ५३ ।। तत्रानुयातान्सुभटान्यथेच्छं दानेन मानेन च तोषयित्वा । समुत्सुकांस्तान्प्रति स खदेशं व्यसर्जयद्भूमिपतिस्ततः सः ॥ ५४ ॥ प्राज्यं स राज्यं खयमेव तस्मिन्हलाभदेशेऽखिलमन्त्रिवाचा। जग्राह तस्मै च निजानुजाय ददौ क्रमोपागतयौवराज्यम् ॥ ५५ ॥ इब्राहीमनराधिपो निजपितुः संप्राप्य सिंहासनं हत्वा वैरिगणान्रराज नितरां सिंहानुकारी तदा । दासीभावयथेष्टकर्मनिरतां ता देलरामां पुनः पश्यन्सोऽपि बभूव तत्र नगरे मो(मुरादभक्ष:(बख्शः) सुखी ५६ इति देलरामाकथासारे खदेशराज्यप्राप्ति म त्रयोदशः सर्गः । समाप्तोऽयं ग्रन्थः। ای است از ایمان ، بالائے Srincision
No text on this page.
No text on this page.
निर्णयसागरेऽङ्कितानि विक्रेयसंस्कृतपुस्तकानि । चरकसंहिता। अग्निवेशमहर्षिकृता, चरकप्रतिसंस्कृता, चक्रपाणिदत्तप्रणी- तया आयुर्वेददीपिकाव्याख्यया समलंकृता । मूल्यं ८ रूप्यकाः, मार्गव्ययः १ रूप्यकः। सर्वेष्वायुर्वेदनिबन्धेष्वयं ग्रन्थो महत्त्वेन प्राधान्येन च वरीवति । प्राचीनस्या- स्यातिगाम्भीर्येण दुरवगाहत्वात्सर्वेषामध्ययनाध्यापनयोरतीवासौकर्यमासीत् तन्मा- जनार्थ प्रयतमानैरस्माभिर्महता प्रयत्नेनोपरि निदर्शितनाम्नी व्याख्या लब्धा तां भिषग्वरद्वारा संयोज्य संशोधय्य च प्रकाशितास्ति । मीमांसाशास्त्रसारः। ( निवीतान्तमीमांसासिद्धान्ततत्वार्थप्रकाशः) मूल्यं १ रूप्यकः, मार्गव्ययः ४ आणकाः। अधीतेष्वपि बहुग्रंथेष्ववसरे कस्यापि निर्णयो यथावन्मीमांसाज्ञानमंतरा दुःशक एव । प्रायः पूर्वमीमांसोत्तरमीमांसयोज्ञानमतीव दुरवगममेवास्तीति व्युत्पित्सवोत्र विषये प्रवेशाभावादत्यन्तमुदासते तेन संप्रति मीमांसाशास्त्रं नामशेषमिव बभूव । अतोऽत्र सहजप्रवेशेन तत्प्रावण्यार्थमयं ग्रन्थो वेदान्तविशारदबिरुदेन अनन्तकृष्ण- शास्त्रिनाम्ना सुलभया रीत्या विरचितोस्ति । भाट्टदीपिका। महामहोपाध्यायसर्वतत्रखतन्त्रखण्डदेवप्रणीता श्रीशम्भुभट्टप्रणीतप्रभावलीव्याख्या (निवीतान्तो भागः १) मूल्यं ६ रूप्यकाः, मार्गव्ययः१ रूप्यकः। अखिलेष्वपि वाङ्मयेषु सुप्रसिद्धानां षड्दर्शनानामेव सिद्धेपि महत्त्वे मीमां- सादर्शनमेव तेषूच्चपदमारोहति । भादृसांप्रदाये प्रणीतमीमांसानिबद्धसिद्धान्तानूहा- पोहैः खण्डदेवेनात्रैव समीचीनतया समावेशः कृतोस्ति । अग्रेच तच्छात्रेण शंभुभट्टेन प्रभावलीनाम्या मूलग्रन्थादर्शरूपया सनाथीकृत्यायं ग्रन्थोस्माभिर्मुद्रितोस्ति । पाण्डुरङ्ग जावजी, निर्णयसागरयत्रालयाधिपतिः।