Shri Jain Swetamber Khartargacch Sangh, Jaipur

The Chandraprabhacharita

Viranandi · 2011/02

PDF Proofread

Front matter

No text on this page.

KAVYAMALA, 30.
THE
CHANDRAPRABHACHARITA
OF
VÎRANANDİ.
EDITED BY
MAILÂMAHOPADHYAYA PANDIT DURGAPRASAD
AD
KASIXATH PANDURANG PARAB
PRINTED AND PUBLISHILD
BY
THE PROPRIETORS
OF
TIIL "MI.XIYA-SÅGARA " PREA
BOMBAY
1892
Price 1! Anak

í Reyistered according to act IV of 1867 ) ( All rights rescrved by the publishers. )

काव्यमाला ३०
श्रीवीरनन्दिविरचितं
चन्द्रप्रमचरितम् ।
जयपुरमहागजाश्रितेन पण्डितव्रजलालसुनना
महामहोपान्यायपण्डितदर्गाप्रमादेन,
पग्वोपावेन पाण्टुरगतनूभुवा
काशीनाथगर्मणा च
मगोशिवम |
मुम्बग्या निर्णयसागराख्ययन्त्रालये तदधिपतिभ्या मुद्राक्षरेरदायित्वा
प्राकाश्य नीतम् ।
१८९२
(भम्य प्रगाय गुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्त्राल्याधि.
पोग्वापिसार )
मूल्य १२ आणका ।

No text on this page.

चन्द्रप्रभचरितस्य विषयानुक्रमणिका। १ मर्ग-मङ्गलाचरणानि । स जनदुर्जनवर्णनम । मनलारतीनायो उगम्य व. र्णनम् । तर रत्नमचयाख्यनगरवर्णनम । रत्नमचयाधिपते कनकप्रभम्य नर्णनम । तन्महिध्या मुवर्णमालाया वर्णनम् । तत्तनयस्य पद्मनाभस्य व. णनम् । एकटा मौराझारुढो गजा निस्टयतिनि पल्यले पानीयपानार्थ- मागतस्य गोपुरम्य मध्ये एक महापद्धनिमग्न म्रियमाण जग्गा विलोक्य पर निर्वेदमगाढिति वर्णनम् । राजा राज्य पद्मनाभाय विर्य तपोऽग्रहीदिति वर्णनम । पद्मनाभोऽपि निनात्मजाय सुषणनाभाय यावगज्य दला राज. भोगाननुभूति वर्णनम् ॥ २ सर्ग -राशो नपालमुसाच्टी पराग्यम्य मुनेगगमनश्रवणम् । मुनेम्तव्यमा- वेणोद्यानस्य च विभूतियणनम् । मपरिकरम्य राजो मुनिदर्शनार्थ गमनन णनम् । मुनिसमीपे मप्रश्रय राजो जीनाजीनादिविषयक प्रभ । राजान प्रति मुनेरुपदेश । पुना राजो मुनि प्रति पूर्वजन्मविषयक प्रन । राजा। प्रति मुनेरुत्तरदानम् । तन मुगन्धिनानो देशस्य वर्णनम् ।। ३ मर्ग:-श्रीपुरास्यनगरवर्णनम । नन्नायमस्य श्रीपेणारयभूपतेर्वर्णनम् । तन्म- हिप्या श्रीकान्ताया वर्णनम् । जनपन्यतया देवीकृतगोकपर्णनम । देवायत्ते वस्तुनि न मोक दति राजोक्तिवणनम् । कदाचिद्वान उद्यानगमनवर्ण- नम् । तन पियतोऽस्मादवतीर्णनानन्ताख्यचारणमुनिना मह राज ममा गमवर्णनम् । मुनिम्तुति । 'अद्यापि मम मानम रिमु गान्ति नोपगच्छति' इति मुनि प्रति राज प्रभ । 'यात्तत्र मनसि सूनुम्पृहा जागर्ति तावत विरतिं यासि' इत्यादि मुनिनाक्यवर्णनम् । नन्दीश्वरारायनमहिना देवी गर्भ दधारेति वर्णनम् । दोहदवर्णनम् । मावितीर्थकरम्य श्रीमणो जन्मोन्स- 1 पवर्णनम ।। 2 मर्ग -श्रीवमणो वर्णनम् । तस्य प्रभावत्या सह परिणय । तस्मै यौवराज्यपद- दानम् । राजो राज्यसौख्यानुभव । पदाचिदाकाशात्पतन्तीमुल्कामालोक्य गजा विरक्तो बभूवेनि वणनम् । विषयगर्हणम् । युवराज प्रति राज उप- देग । राजा राज्य सनने वितीर्य श्रीप्रमाख्यमुने पादमूले तपस्तत्वा पत्यमगादिति वर्णनम् । श्रीपर्मणो दिग्विजयवर्णनम् । तम्य श्रीपुर प्र. यागमनमणाम् । मार्ग नानावग्नुपर्णाम् । पुग्प्रवेश । कदानिच्छारत- जलदावलोकनेन राज्ञो निर्वेदप्राप्तिः । राजा श्रीकान्ताख्याय सूनवे राज्य- भारं समर्प्य समाचरिततपश्चर्यः सौधर्मे श्रीधराग्व्यो देवोऽजनीति वर्णनम् ।। ५ सर्ग:-धातकीखण्डे इपुकारगिरिरस्तीति कथनम् । तत्पूर्वभरतेऽलकायदेश- वर्णनम् । तत्र कोसलाख्यनगरीवर्णनम् । तदधिपतेरजितंजयाख्यस्य राज्ञो वर्णनम् । तन्महिप्या जितसेनाया वर्णनम् । स श्रीधराख्यो देवोऽजितसेन इति संज्ञया तयोः पुत्रत्वमगादिति वर्णनम् । कुमारवर्णनम् । तसै सश्लाघं राजा यौवराज्यपदवी प्रायच्छदिति वर्णनम् । परिष्कृतायां संसदि राज्ञोऽगे चन्द्ररुचिनाम्नासुरेण युवराजोऽपहृत इति वर्णनम् । पुत्रं प्रति राज्ञो विलापवर्णनम् । तपोभूपणाख्यस्य यतेरागमनवर्णनम् । यतिममीपे राज्ञः पुत्रप्राप्तिचिन्तानिवेदनवर्णनम् । 'कतिपयैरहोभिरतन सृनुरागमिष्यति' इति राजानं प्रति मुनेराश्वासनम् ॥ सर्गः-असुरेण मुक्तस्य युवराजस्य मनोरमाख्ये सरसि निपतनवर्णनम् । तत उत्तरणवर्णनम् । परुपाख्याटवीवर्णनम् । पर्वतवर्णनम् । वनसीमान्तपरिज्ञा- नार्थ तदुपरि युवराजारोहणम् । तत्र केनचित्पुरुपेण साकं युवराजस्य विवा- दवर्णनम् । तयोयुद्धवर्णनम् । युवराजेन. पराजितः स पुरुपो दिव्यरूपमा- स्थाय 'अहं हिरण्यनामा त्रिदशोऽस्मि' इत्यभिधाय 'वरं वृणीष्व इत्य- वोचदिति वर्णनम् । तन्मुखेन चन्द्ररुचियुवराजयोर्वैरकारणवर्णनम् । युव- राजो हिरण्यप्रभावेणात्मानं वनसीम्नि व्यलोकयदिति वर्णनम् । तत्र पलाय- मानाञ्जनान्दृष्ट्वा तत्कारण कंचित्पृष्टवानिति वर्णनम् । तन्मुखेन 'अरिंजया- ख्ये देशे विपुलाख्यपुरे जयवर्मराज्ञः शशिप्रभाभिधानां कन्यां महेन्द्राख्यो भूपतिर्बलादपहर्तुमागतः' इति युद्धश्रवणम् । तत्र गमनम् । तत्र महेन्द्र निहत्य जयवर्मणा सह युवराजस्य राजभवनप्रवेशवर्णनम् । युवराजे शशि- प्रभाया अनुरागवर्णनम् । तदाकये संतुष्टो जयवर्मा युवराजाय वाचा कन्यां प्रादादिति वर्णनम् । विजयागिरेदक्षिणत आदित्याख्यस्य नगरस्य वर्ण- नम् । तदधीश्वरो धरणीध्वजाख्यखेचरेन्द्रः कदाचित्सभायां कंचन क्षुल्लक- मद्राक्षीदिति वर्णनम् । तन्मुखाच्छशिप्रभापरिणेतुः सकाशादात्मनो वधम- श्रौषीदिति वर्णनम् । तेन जयवर्मणः पत्तन रुद्धमिति वर्णनम् । जयवर्माण प्रत्युद्धवाख्यस्य दूतस्य प्रेपणम् । दूतोक्तिवर्णनम् । दूतविसर्जनम् । जयव- मसमीपेऽजितसेनस्य धरणीध्वजवधप्रतिज्ञावर्णनम् । संग्रामार्थ दिव्यरथागमन- वर्णनम् । संग्रामवर्णनम् । धरणीध्वजवधः । अजितसेनस्य शशिप्रभया सह (३) परिणयवर्णनम् । सवधूफ्स्य तस्य म्वपुर प्रति गमनवर्णनम् । पुरप्राप्तिक- र्णनम् ॥ ७ सर्ग -अजितमेनस्य लोकोत्तरे-वर्यप्राप्तिवर्णनम् । राभिकरणनम् । स्वय- प्रभास्यस्य जिनपनेरागमनवर्णनम् । अजितजयस्य मुनि प्रति जीवन्धमो. अविषयक प्रभ । तदुत्तरदानम् । जजिनजनोऽनितरा निवेदमधिगत्य अ- वणमेरित पट मिश्रिय इति वर्णनम् । अजितसेनस्य दिग्नयानावर्णनम् । ममृद्धिवर्णनम् । पुरप्रवेगवर्णनम् । पुरस्त्रीवर्णनम् । राज्योपभोगवर्णनम् ।। ८मर्ग-वसन्तपर्णनम् । राजमुसेन वमन्तवर्णनम् ।। . सर्ग --उपनयानावर्णनम् । उपपनरिहारपणनम् । जललिवर्णनम् || १० मर्ग -सायकालवर्णनम् । जत्यकारवर्णनम । चन्द्रोदयवर्णनम् । रानिकी- डावर्णनम् । तारिकमुमेन निधारमानवर्णनम ॥ " मर्ग --राज सभामनेगवर्णनम् । गजमीदारर्णनम् । गजेन निहत चि- दालोम्य राना निवद गतवानिति वर्णनम् । विषयगहणम् । तदव गुणप्र- भाख्यम्य मुनीन्द्रस्योद्यानपाल मुग्गादागमाश्रवणम् । सपरिकरस्य रागो मुनीन्द्रदर्शनार्थं गमनवर्णनम् । तत्रानेरमुनिवर्णनम् । राजमुग्वेन मुनीन्द्र- म्नुनि । राजो मुनीन्द्रम्य च मयादवर्णनम् । राजा राज्य पुनाय समय मुनीन्द्रमामात्तपोऽग्रहीदिति वर्णनम् । तपश्चरणवर्णनम् । राशोऽच्यु- तरल्पलामवर्णनम् । 'स एनेन्द्रकल्पाश्युत्वान रत्नसचयपुरे मुवर्णमालार- नकमभयोतनूज पद्मनाभस्त्वमसि' इति कथनम् । स्वनन्मान्तराण्याकण्य तत्र मदिहान पद्मनाभम्तप्रत्ययार्थ श्रीधरमुनि पुन पप्रच्छेनि वाम् । 'दतो दशमेऽडि तर नगरे यूथ परित्यज्य कश्चिदेको गज जायास्यति त. प्रत्ययाचमरियर मदुत्त निश्चेष्यसि' इसी राजान प्रति मुनेरुक्तिवणाम् । रेग्निानो गजस्यागमनपर्णनम् । तद्वशीररणवर्णनम् ।। १0 मर्गजाय राजान प्रति प्रेषितस्य पृथिवीपाल्दूतस्योक्तिपणनम् । गु- यराजदूतयोगतिप्रयुक्तिवर्णनम् । मप्रपिचारपणनम् ।। १३ मर्ग ---प्रयागारमनन् । मागे प्राताया जल्पाहिन्याग्न्यगरिता यशाम ।। १४ मर्ग ---मायन्य गिरेवर्णनम् । मेनामनिवेगरणनम् । तर गरीन्याय पृथिवीपालनग्पनेगमेगमनम् ।। १५सर्ग-ग्रामणीम् । पृथिवीपारामो यपणनम् । तत्र गन्तरियुधिरोद- मानेन रारा पमनामन्य निरदनानिवर्णनम् । पामो सिनाय नमः (४) र्णनाभाय राज्यभारं वितीर्य श्रीधरमुनेः सकाशाद्दीक्षामादाय नपश्चचानि वर्णनम् । स तनूं परित्यज्यानुत्तरवैजयन्तेऽहमिन्द्रो बभूवति वर्णनम् ॥ १६ सर्गः-पूर्वदेशवर्णनम् । तत्र चन्द्रपुरीवर्णनम् । तदधिपतेर्महासेनाख्यस्य भूभुजो वर्णनम् । तन्महिण्या लक्ष्मणाया वर्णनम् । राज्ञो दिग्विजयवर्णनम् । पुरागमनवर्णनम् । राज्याः स्वप्नदर्शनवर्णनम् । अथ तस्यामहमिन्द्रो गर्भ- त्वेनावतीण इति वर्णनम् ॥ १७ सर्ग:---- जिनोत्पत्तिवर्णनम् । अथ शची मायाजनितं तदनुकृतिरूपमर्भकं मा- तुरुरसि विनिवेश्य जिनमुज्जहारेति वर्णनम् । स्वर्लोक प्राप्तस्य जिनस्य सं. वावर्णनम् । तत्राभिषेकवर्णनम् । पुरंदरमुखेन जिनप्रभाववर्णनम् । पुन- स्तथैव तस्य मात्रुत्सङ्गप्राप्तिवर्णनम् । बालक्रीडावर्णनम् । तदर्थ कुबेरप्रेषि- ताभरणवर्णनम् । विवाहकथनम् । साम्राज्यलाभवर्णनम् । प्रजास्वास्थ्यादि- वर्णनम् । इन्द्राज्ञयागतस्यातिवृद्धविग्रहधारिणो धर्मरुचिनाम्नः सुरस्य रा- जानं प्रत्युक्तिवर्णनम् । राजमुखेन संसारासारत्ववर्णनम् । राज्ञस्तपोग्रहणवर्ण- नम् । 'दिव्यैश्वर्यवर्णनम् ॥ १८ सर्गः-संक्षेपतो जिनसिद्धान्तवर्णनम् ॥ o--ग्रन्थकर्तुः प्रशस्तिः ॥

काव्यमाला। महाकविश्रीवीरनन्दिप्रणीतं चन्द्रप्रभचरितम् । प्रथम मर्ग । श्रिय क्रियाद्यत्स मुरागमे नटल्सुरेन्द्रनेत्रप्रतिविम्बलान्टिता । समा बभौ रत्नमयी महोत्पले कृतोपहारेव स वोइंग्रजी जिन ॥ १ ॥ स पातु यम्य म्फटिकोपलप्रमे प्रभाविताने विनिमग्नमृतिमि । विदिद्युते दुग्धपयोपिमध्यगरिवामरैवं शशिलान्छनो जिन ॥ २ ॥ अनन्तविनानमनन्तवीर्यतामनन्तसौख्यत्वमनन्तदर्शनम् । विमात योऽनन्तचतुष्टय विभु स नोऽस्तु शान्तिर्मवदु ग्वशान्तये ॥ ३ ॥ नराजरत्या स्मरणीयमीश्वर स्वयवरीभूतमन बरश्रिय । निरामय वीतभय भवच्छिद नमामि वीर नृसुरासुरै स्तुतम् ॥ ४ ॥ हित निसवादविवर्जितस्थिति परैग्भेद्य प्रनितीर्णनितिम् । शरण्यभूत शरण जिनागम गतोऽस्म्यह भव्यजनकबान्धवम ॥५॥ गुणान्विता निर्मलवृत्तमौक्तिका नरोत्तमै कण्ठविभूपणीकृता। न हारयष्टि परमेव दुर्लभा समन्तभद्रादिमा च भारती ॥ ६ ॥ गुणानगृहन्मुजनो न निर्वृति प्रयाति दोपानवंदन्न दुर्जन । चिग्ननाम्यासनिवन्धनेरिता गुणेषु दोपेषु च जायते मनि ॥ ७ ॥ १ अग्रज प्रयमनिन श्रीरुपमदेव २ अध्मस्तीर्थकर श्रीचन्द्रप्रमी शेऽम्मि- न्याव्ये पार्णत पोदास्तीर्थकर ४ जरंग जरती राम्री तम्या स्मरणीयमपगे. क्षम् सवदा नरारहितमिति भाव ५ मोक्षम्या स्वरररपतिम् ६ अन्तिम तीय- करम् ७ निर्गतिमाक्ष ८ पर फेवल हाग्यष्टिगिर तुलभा टुप्पापा न, जितु म- मन्तमहादिमवा मारती च दुर्लमा.९ अम्बीन् १० आययन् काव्यमाला। गुणान्यथैवोपदिशन्प्रशंसया गुरुत्वबुद्ध्या सुजनो नमस्यते । तथैव दोषान्देिशतः प्रणिन्दया कृतः खलस्यापि मयायमञ्जलिः ॥ ८॥ सुदुष्करं यन्मनुते गणाधिपोऽप्यति वाग्देव्यपि भारमात्मनः । विधित्सुरर्हच्चरितं तदल्पधीध्रुवं न यास्यामि न हास्यतां सताम् ॥ ९ ॥ तथापि तस्मिन्गुरुसेतुवाहिते सुदुप्प्रवेशेऽपि पुराणसागरे । यथात्मशक्ति प्रयतोऽस्मि पोर्तकः पथीव यूथाधिपतिप्रवर्तिते ॥ १० ॥ अथास्ति शृङ्गोल्लिखितामरालयो द्विपूरणद्वीपगतो गभस्तिभिः । सृजन्नमेघां कलमाग्रपिङ्गलैस्तडिच्छ्रियं व्योमनि पूर्वमन्दरः ॥ ११ ॥ विभूष्य तत्पूर्वविदेहमात्मनः श्रिया स्थितो नाकिनिवाससंनिभः । समस्ति देशो भुवि मङ्गलावतीत्यभिख्यया यः प्रथितोऽर्थयुक्तया ॥ १२ ॥ निरन्तरैर्यत्र शुकाङ्गकोमलैः समानसस्याङ्कुरसंचयैश्चिताः । जनस्य चेतांसि हरन्ति भूमयो हेरिन्मणिवातविनिर्मिता इव ॥ १३ ॥ निशोकरांशुप्रकराच्छवारिभिर्विनिद्रनीलोत्पलरश्मिरञ्जितैः । च्युतैनिरालम्बतया विहायसो विभाति खण्डैरिव यः सरोवरैः ॥ १४ ॥ निशासु शीतांशुमणिस्थलच्युतैः पयःप्रवाहैः परिपूरितान्तराः। वहन्ति यसिञ्जलराशियोषितो निदाघकालेष्वपि कूलमुद्रुजाः ॥ १५ ॥ सदायमस्मत्प्रतिपक्षभूतया कृताधिवासो धनधान्यसंपदा । इतीव यस्मिन्विहिताभ्यसूयया न जातु लोको विपदा विलोक्यते ॥ १६ ॥ विकासवद्भिः शरदभ्रपाण्डुरैः सितातपौरिव यः प्रसारितैः । समस्तदेशाधिपतित्वमात्मनो व्यनक्ति लोके स्थलनीरजाकरैः ॥ १७ ॥ १. निरूपयन्. २. प्रतिपादयतः. ३. गणधरः. ४. अपि तु हास्यतां यास्याम्येव. 'नु' इति पाठे काकुः. ५. गुरव एव सेतवस्तैर्वाहिते आचार्यपरम्पराप्रापिते. ६. क- लभः. श्रीवीरनाथप्ररूपितेऽपि पुराणसमुद्रे श्रीजिनसेनादिसेतुना प्रयतोऽस्मीति भावः. ७. शिखरोद्धृष्टनाकः. ८. द्वयोः पूरणो द्वितीयः स चासौ द्वीपश्च तद्गतः. द्वितीय- द्वीपस्थित इति भावः. ९. पूर्वमेरुनामा पर्वतः. १०. तस्य पूर्वविदेहस्तं तत्पूर्वविदेहमा- त्मनः श्रिया विभूप्य मङ्गलावतीनामको देशः समस्ति विद्यते. ११. मरकतविनिर्मिता इव. १२. चन्द्रकरनिकरनिर्मलजलैः. १३. समुद्रयोपितो नद्यः. १४. कूलं रोध उद्रुज- न्ति उद्धर्धयन्तीति कूलमुद्रुजाः. १५. अयं देशः, १६. स्थलपद्माकरैः ३ १ सर्ग] चन्द्रप्रमचरितम् । समुज्ज्वलामि कनकादियोनिभिविकासिनीमि खनिमि. समन्ततः । कृतास्पदा यत्र जनद्धिहेतुमियथार्थनामा वैसुमत्यजायत ॥ १८ ॥ शिखावलीलीढघनावनाध्वभिर्वहि स्थितैनूतनधान्यराशिमि । विभान्ति यस्मिन्निगमा कुतूहलादिवोपयात कुलमेदिनीधरै ॥ १९ ॥ गते समासत्तिमिवेतरेतरश्रियामनन्यत्र भुवा दिदृक्षया । निरन्तरोद्यानवितानराजितैर्महागृहामपुरैविभाति य ॥ २० ॥ 'वणिकपथम्तूपितरत्नसचय समस्ति तसिन्नथ रेनसचयम् । पुर यदीलानितमत्तवारणैविभाति हय॑श्च समत्तवारणे ॥ २१ ॥ गभीरनादै 'तिमानिपातिभिः पयोधरैर्मन्दसमीरणेरितै । जलेभयूथैरिव सकुलान्तरा विराजते यत्परिखा प्रयीयसी ॥ २२ ॥ 'परीतशृङ्गै स्फुरदशुजालकैनिशासु नक्षत्रगणै समन्तत । निभाति यस्मिन्परिधि स्थिरप्रभैरिव प्रदीपप्रकरै प्रबोर्पिते ॥ २३ ॥ मलीमस भृङ्गनिमेन लक्ष्मणा विलोक्यते यत्र नाघ्नमध्यगम् । गृहैरिवाभ्रलिहशृङ्गकोटिमिनिष्टदेहच्छवि चन्द्रमण्डलम् ॥ २४ ॥ मदाममम्मो विसृजदिल्लसत्तडिलनालकरणैरधोगते । गरीरिणा गोपुरशृङ्गवर्तिना वितन्यते यत्र गजभ्रमो पनैः ॥ २५ ॥ सुगन्धिनि धासमरुन्मनोहरे मनोभुवा पाण्डनि कामिनीमुने । समापतनाहुरिवेन्दुशङ्कया विलोक्यते यत्र मधुनतवन ॥ २६ ॥ निपातयन्ती तरले विलोचने सजीवचित्रामु निवाममित्तिषु । नवा वधूर्यत्र जनाभिशट्या न गाढमालिङ्गति जीविते धरम् ॥ २७ ॥ १ रनकादिधातृत्पत्तिस्थान • आकर 3 पिय ४ शिगनुम्पिनयमांग ६ कुटपर्वत ७ मानि यम् ८ ন মালামানায়। परम्पलक्ष्मीणाम् ९ मान्द्रोपपनसमदशोभित १० ग्रामाणिय पुश च प्रामपुगत H " विपपिपुभितरलसमूहम् १० एतनामक नगर १३ स्तम्मनियारागन ४ प्रीपासदिन १५ प्रतिपिम्मित १६ पारिवारपसमूहाग्य १५ Teniorit १९ प्रसारितदीपमहरित २० आगतम् २१ गोगमाया মন সি ২ ব্লানালি ব্যাংসগাসায় १८मागर ४ काव्यमाला। शशाङ्ककान्ताश्ममयोर्ध्वभूमिकात्पतत्पयः सौधचयाद्विधूद्गमे । शिखण्डिनां यत्र पयोदशतिनां तनोत्यकाण्डेऽपि विकासि ताण्डवम्।।२८|| निशागमे सौधशिरोधिरोहिणो वधूजनस्यामलगण्डमण्डलात् । अभिन्नदेशो विधुराननाम्बुजाद्विभज्यते यत्र कलङ्कलेखया ॥ २९ ।। समुल्लसद्भिः शरदभ्रपाण्डुभिर्वजांशुकैर्यद्विनिवारितातपैः । गृहाग्रभागोल्लिखितस्य निर्मलैविभाति निर्मोकलवैरिवोप्णगोः ॥ ३० ॥ विशालशालोपवनोपशोभिनः शिरःसमुत्तम्भितमेघपतयः । जिनालयाः सिंहसनाथमूर्तयो विभान्ति यस्मिन्धरणीधरा इव ॥ ३१ ॥ मंदेन योगो द्विरदेषु केवलं विलोक्यते धातुपु सोपसर्गता । भवन्ति शब्देपु निपातनक्रियाः कुचेषु यस्मिन्करपीडनानि च ॥ ३२ ॥ द्विजिता यत्र परं फणाभृतां कुलेषु चिन्तापरता च योगिपु । नितम्बिनीनामुदरेषु केवलं 'देरिद्रतौठेप्वधैरत्वसंभवः ॥ ३३ ॥ विभान्ति यस्मिन्बहुधोज्ज्वलोपलप्रणद्धभित्तीनि गृहाणि सर्वतः । निजेपु लीनानि दधत्सु दीप्रतां 'पतंगसंतापभियेव धीमसु ॥ ३४ ॥ स न प्रदेशोऽस्ति न यो जनाकुलो जनोऽप्यसौ नास्ति न यो धनेश्वरः । धनं न तद्भोगसमन्वितं न यन्न यत्र भोगोऽपि स यो न संततः॥ ३५ ॥ विलुप्तशोभानि विलोचनोत्पलैः सितेतराण्यम्बुरुहाणि योषिताम् । मरुञ्चलद्वीचिनि यत्र शीतले लुठन्ति तौंपादिव दीर्घिकाजले ॥ ३६ ॥ १. चन्द्रकान्तमणिनिर्मितो_वेदिकात् राजप्रासादसमूहात्. २. प्रोत्फुल्लबहम्. ३. न भिन्नो देशो यस्य सः. गण्डमण्डलतुल्य इत्यर्थः. ४. विभिद्यते. ५. सौधोपरिदेशप्रघृष्टस्य सूर्यस्य कचुकलेशैरिव ध्वजांशुकैर्यत्पुरं विभाति. ६. शालः प्राकारो वृक्षविशेषश्च. ७. चैत्यानि. ८. एकत्र लेप्यनिर्मितकेसरिभिरपरत्र साक्षादेव. ९. मद्यादिजनितेन ग- र्वेण च. १०. उपसर्गा उपद्रवाः प्रादयश्च. ११. निपाता व्याकरणप्रसिद्धाः निपातनं च मारणम्. १२. करो राजग्राह्यभागः हस्तश्च. १३. जिताद्वययुक्तत्वं पिशुनता च. १४. चिन्तनमेव चिन्ता ध्यानम्; (पक्षे) उद्वेगः. १५. कृशत्वं निर्धनत्वं च. १६. अध- रशब्दवाच्यत्वं हीनजातित्वं च. १७. सूर्यतापभीत्या. १८. महःसु. १९. अनवरतः. २०. अम्बुरुहाणां तापः पराजयजनितः १ सर्ग. चन्द्रप्रभचरितम् । महागुणैरप्यगुणैर्मदोज्झितैरपि प्रवृत्तप्रेमदैर्महाजनै । अधिष्ठित यत्प्रविभाति निर्भयैरपि प्रकाम परलोकभीरुमि ॥ ३७ ॥ स यत्र दोष परमेव वेदिकाशिर शिखाशायिनि मानभञ्जने । पंतत्कुले कूजति यन्न जानते रस स्वकान्तानुनयस्य कामिनः ॥ ३८ ॥ अथाभवद्भरिगुणैरलकृतो नरेश्वरस्तस्य पुरस्य शासिता । न केनचिद्यस्तुलितद्युतिलथाप्युवाह रुंट्या कनकप्रभाभिधाम् ॥ ३९ ॥ यशोमिरेणाङ्ककलासमुज्ज्वलै पुर प्रयातैरिव पूरितान्तरे । विधूपितारातिकुलानि भूतले न यस्य तेजाति मैमुमहौजस |॥ ४० ॥ प्रयासमुच्च कटकेपु भूभृता गणेषु सचारवशादवाप या । बभूव भीतेव तत पुनश्चिर स्थिरा जयश्रीरधिगम्य यद्धजम् ॥ ४१ ॥ अचिन्त्यमाहात्म्यगुणो जनाश्रय स्वविक्रमाकान्तसमस्तविष्टप । श्रिया सनाथ पुरुपोत्तमोऽप्यभून्न यो वृपोच्छेदविधायिचेष्टितः ॥ ४२ ॥ गरीयसा यस्य परार्थसपदो निसर्गजत्यागगुणेन निजिते । शुचेव कैल्पोपपदैर्महीरुहेर्दधे नितान्त विमनस्कवृत्तिता ॥ ४३ ॥ कलासमग्रोऽपि जनाभिनन्यपि श्रिय दधानोऽप्यमिभूतविष्टपाम् । प्रदोपससांगतया यमुज्ज्वल शशाक जेतु न कुरगलाउन ॥ १४ ॥ कुल चरित्रेण विशुद्धवृत्तिना यशोभिराशा शरदभ्रविभ्रम । यपुर्गुणैर्य श्रवणेन शेमुपी निगेपयामास जगद्विशेषक ॥ ४५ ॥ न भूरिदानोऽपि मदेन सगति जगाम य सापितशत्रुपगण । अहीनमसर्गसमन्वितोऽपि वा द्विजिससर्गतया न दपित ॥ ४६ ॥ १ अस्य विष्णोर्गुणा इस गुणा येषु ते • प्रष्टमद परिणतर्पश्च ३ परलोर सनन प्रेसमावण ४ प्रामादोपरिभूमिकाशिवराप्रवामिनि ५ उद्दारकस्य पक्षिा. नितस्य श्रमणादेव माननितिरिति मार ६ पक्षिसमहे ७ रोप्रमिया ८ स. तापिनघुनमहानि न मान्ति म्म १० पर्वा गा च कटरेणु नितम्येषु शि- रिपु च ११ पुरुषोत्तमो विष्णुरपि १२ पारिष्टामुगे धर्मष १३ पल्पाक्ष १४ जहता १५ ग्जामुप प्रष्टो दोपथ प्रदीप १६ पानारर्णनन १० अल. मगर १८ जगतिर १५ काम प्रोषध प मानो रोगम्नथा पद पित मोरिपर्ग क्षितीगाना मान्यगम् ॥ २० ओर साज, (पौ) उराम काव्यमाला। निजैः समस्तानभिभूय धामभिः समुद्धतान्मण्डलिनोऽतिदुःसहः । चकार यो गामपि सर्वविष्टपप्रतीतकीर्तिः कैरिणी वसुंधराम् ॥ ४७ ॥ नितान्तवृद्धेन कैठोरवृत्तिना सनीतिना कञ्चुकिनेव तेजसा । निरन्तरं यस्य विभोर्वधूरिव व्यधीयत श्रीश्चपलापि निश्चला ॥ ४८ ॥ धैराश्रयः संततभूतिसंगमः शशाङ्ककान्तो धृतनागनायकः । अधोभवद्गोपतिरीश्वरोऽपि सन्वभूव यो नासमदृष्टिदूषितः ॥ ४९ ॥ यदीयगाम्भीर्यगुणेन निर्मलप्रसिद्धिना लुप्तयशोमहाधनः । करोति पूत्कारमिवाधुनाप्यसावुदस्तकल्लोलभुजः पयोनिधिः ॥ ५० ॥ नरेन्द्रविद्याधिगमाद्विशुद्धया विमृश्य कार्याणि विधित्सतो धिया । न यस्य निःशेपितशत्रुसंततेरजायताँष्टापदवृत्तिचेष्टितम् ॥ ५१ ॥ रतिप्रदानप्रवणेन कुर्वता विचित्रवर्णक्रमवृत्तिमुज्ज्वलाम् । गुणानुरागोपनता कृतायतिः प्रसाधिता येन वधूरिव प्रजा ॥ १२ ॥ अतीतसंख्यैः परिरब्धकीर्तिभिः शरन्निशानाथमरीचिनिर्मलैः । रुरुत्सुभिदोषचमूमिवाखिलैरकारि यस्मिन्समुदायिता गुणैः ।। ५३ ॥ पराक्रमाक्रान्तमहीभुजो जगल्ललामलक्ष्मीनिलयीकृतोरसः । नृपस्य तस्याथ निशान्तनायिका सुवर्णमालेति बभूव भामिनी ॥ ५४ ॥ यदीयमेणाङ्कमरीचिहारिणा विसारिणा कान्तिमयेन वारिणा । नितान्तनिधौतमिवारिनिन्दितं न जातुचिच्छीलमभून्मलीमसम् ॥ ५५ ॥ वहन्स्मरापाण्डुकपोलमण्डले शशाङ्कशङ्कामिव वक्रपङ्कजे । सहासफेनो विचकास यत्तनावनूनलावण्यमयः पयोनिधिः ॥ १६ ॥ भुवः समुद्धर्तुरधिष्ठितात्मनो 'वैलेन सत्यानुरतैकचेतसः । बभूव लक्ष्मीः पुरुषोत्तमस्य सा मृगेक्षणा तस्य नृपस्य मन्दिरे ॥ १७ ॥ १. मण्डलेशान्. २. हस्तिनीम् ; (पक्ष) करयुक्ताम्. ३. कञ्चुकिपक्षे दाक्षिण्यवजितेन. ४. धरा भूमिर्धरश्च पर्वतः. ५. गोपतयो राजानः; (पक्षे) वृषः. ६. दीनाक्रन्दमिव. ७. अष्टापदो हिस्रो जन्तुविशेषः. ८. रतिरनुरागः सुरतं च. ९. वी ब्राह्मणादयः शुक्लादयश्च, १०. सेना खलु समुदायाभावे जेतुं न शक्यते. ११. सकलान्तःपुरस्वामिनी. १२. 'निघृत' ख. १३. पराक्रमेण बलरामेण च. १४. सत्यं तथ्यं सत्या च सत्यभामा. १५. पुरुषोत्तमः श्रीकृष्णोऽपि. १२ १ सर्ग] चन्द्रप्रभचरितम् । परस्परस्नेहनिबद्धचेतसोस्तयोरभूद्धामनिधिस्तनधयः । स येन दः नरकद्विपा पर न सज्ञयार्थेन च पद्मनाभता ।। ५८ ।। कलासनाथस्य हिमातेरिव हिमेतराशोरिव तीव्रतेजस । न यस्य निरोपजनानुकम्पिनो बभूव वाल्येऽपि विवेकरिक्तता ॥ १९ ॥ समाचरन्य शिशुभावदुर्लमा क्रिया कृतज्ञो नयमार्गशालिनी । समस्तविद्याधिगमप्रबुद्धधीर्वभूव वृद्ध पलिताङ्कुरैविना ॥ १० ॥ गलन्मदस्योन्नतवशंशालिनो गृहीतसम्यग्विनयस्य सोनते । गजाधिपस्येव गरीयसौजसा युतस्य यस्याभवदडशो गुरु ॥ ११ ॥ विभूषित यौवनरूपसपदा विकारवत्या दधतोऽपि विग्रहम् । प्रमाथिमिर्यस्य जितान्तरद्विपो मनो न जढे व्यसनमनखिन ॥ १२ ॥ स बद्धपत्योऽपि विशामधीश्वर सुतेन तेनैव रराज जिष्णुना । विराजतेऽनेकशकुन्तसकुलो न राजहसेन निना जलाशय ॥ ६ ॥ अथ जातु स मेदिनीपतिनिजलक्ष्मीपरिभूपित पुरम् । परिहृष्टमतिर्विलोकयन्नवतस्थे गुरुसधिमूर्धनि ।। ६४ ॥ निनिपातयता यदृच्छया दृशमासन्नतमैकपल्वले । परिपीय पय समुत्तरन्ददृशे तेन तदा गवा गण ॥ १५ ॥ धनपङ्कनिमग्नमक्षम किल तत्रैकमसौ नरद्वम् । नियमाणमवेक्ष्य तत्क्षणादिति निर्वेदमगाद्विचक्षण ॥ १६ ॥ क्षणभङ्गुरवृत्ति जीवित भवभाजामिति नान विस्मय । तदिहाद्भुतमेतदीदृश यदैवस्यद्भिरपि प्रमुग्धते ॥ १७ ॥ क्षणदृष्टतिरोहितैनो विपये स्वप्न दव प्रतार्यते । रतिमेति तथापि तेप्वय जडबुद्धिचिंगनात्मवेदिताम् ॥ ६८ ॥ १ पमनाम पिन नग्कर देन्यविशेषस्य द्विट्, अयमपि नग्यम्य दुर्गतेरि- सवर्थना सदमद्विीचनगन्यत्वम् ३ प्रदेश ४ सयन्मदम्य मदरहितम्य च ५. यस पुर पृष्टवाय ६ गरीयान् पियादिय ७ दारीरम् ८ नरपति ९. युद्ध- सुषम् १० अरस्यद्विजानदि पग्टितर्गिन यावत्, पुस्तकद्वयेऽपि 'अपश्यदिति ११ तरहाट पाट . काव्यमाला। ६ प्रहतं मरणेन जीवितं जरसा यौवनमेष पश्यति । प्रतिजन्तु जनस्तदप्यहो स्वहितं मन्दमतिर्न पश्यति ॥ ६९ ।। यदतीतमतीतमेव तत्सुखमागामिनि को विनिश्चयः । समुपैति वृथा बत श्रमं पुरुपस्तत्क्षणसौख्यमोहितः ॥ ७० ॥ परिणामहिते समीहते पथि सद्यःसुखलिप्सया न यः । स शिवादतिविप्रेकृप्यते ज्वररोगीव विरुद्धसेवया || ७१ ॥ दहनस्तृणकाष्ठसंचयैरपि तृप्येदुदधिर्नदीशतैः । न तु कामसुखैः पुमानहो बलवत्ता खलु कापि कर्मणः ॥ ७२ ॥ वपुरप्यतिमात्रमान्तरं त्यजति प्राणिनमायुपः क्षये । विरहे खलु कोऽत्र विस्मयो बहिरङ्गैर्धनमित्रवान्धवैः ॥ ७३ ॥ सुखमिष्टसमागमे यथा विरहे तस्य तथैव चासुखम् । अत एव संजन्ति निवृतौ सुधियः सङ्गसुखैकनिःस्पृहाः ॥ ७४ ॥ हितमेव न वेत्ति कश्चन भजतेऽन्यः खलु तत्र संशयम् । विपरीतरुचिः परो जगत्रिभिरज्ञानतमोभिराहतम् ।। ७५ ॥ परिणामसुखं शरीरिणां जिनवाक्यं न विहाय विद्यते । सरुजामिव पथ्यमौषधं तदनात्मज्ञतया न रोचते ॥ ७६ ॥ अधिगम्य यथाविधि श्रुतं प्रतिपद्योत्तमसाधुसंगमम् । अवयन्भवफल्गुतामिमामपरः कोऽहमिव प्रमाद्यति ॥ ७७ ।। सुखमायतिदुःखमक्षजं भजते मन्दमतिर्न बुद्धिमान् । मधुदिग्धमुखाममन्दधीरसिधारां खलु को लिलिक्षति ॥ ७८ ॥ असुखैकफलं प्रभज्य यो 'रेसिति प्रेममयं न पल्लवम् । विरक्तमतिः प्रवर्तते पुरुषः श्रेयसि हा स वञ्चितः ॥ ७९ ॥ १. प्रयतते. २. दूरीक्रियते. ३. अपथ्यभोजनादिना. ४. इष्टस्य. ५. सक्ता भवन्ति. ६. निवृतौ मोक्षे. ७. कश्चन मोक्षस्तत्कारणं च हितं तदेव न वेत्ति. अन्यः पुमान् खलु शास्त्रोक्ते तत्र हिते संदेहं भजते; परोऽन्यो विपरीतरुचिः विपरीता अतद्गुणे तद्गुणाभा रुचिः श्रद्धा यस्य सः; एवंविधैस्त्रिभिरज्ञानान्धकारैर्जगदाहतं बाधितम्. ८. ज- इतया. ९. संसारासारतां जानन्, १०. इन्द्रियजन्यं सुखम्. ११. लेदुमिच्छति. १२. 'झटिति'.क. १३. निर्विण्णः.

१ सर्गः] चन्द्रप्रमचरितम् । इति विषयविरक्तश्छन्नया कर्णजाह स्वयमिव स समेत्य व्याहृतो मुक्तिदूत्या । न्यविशत मुनिमार्गे चेतसा चारुचेता भवति हि मतिभाजा काललब्धिर्न वन्ध्या ॥ ८० ॥ प्रपृच्छय सुतमात्मनत्तमपरेधुरुद्यच्छ्यि प्रमृज्य च तदक्षिणी निगलदश्रुणी पाणिना । मुनीन्द्रमनिनिन्दित समभिवन्ध स श्रीधर तप' समधिशिश्रिये नृपतिभिः सम भूरिमि ॥ ८१ ॥ गुरुविरहभवेन पद्मनाभो भृशममुसेन हतस्तदा तैताम । नरपतिपदमास्थितोऽपि लक्ष्मीर्भवति मुदे नहि बान्धवैवियुक्ता ॥ ८२ ॥ विपुलमतिभिर्वृद्धामात्यै कृतप्रतिवोधन पितृविरहन हित्वा शोक कियद्भिरसौ दिन । नयनविगलद्वाप्पापूरा सुधी सममावय- प्रकृतिमुमयी खामिस्नेहाकुलीकृतचेतसम् ॥ ८३॥ एतस्यानूजुरयमष्टमीमृगाको व्याक्षिप्तो विकटललाटपट्टकेन । सनातानतिमिरितीव तत्र भेजे भूपालैन कुटिलता नृपासनस्थे ।। ८४ ॥ तेजोनिधावुदयधाम्नि सुवर्णनाम- नान्नि प्रवर्त्य तनये युवराजशब्दम् । भोगार्नवास्थित संदानुभनन्स भूप सोमप्रमादशनजातक्षिणाद्वितौष्ठ ।। ८५॥ इति श्रीवीरनन्दिकतावुदया? चन्द्रप्रमचरित महाकाव्ये प्रथम मर्ग । १ श्रवणसमीपम् २ आहत इस ३ ग्नत्रय चैतसा न्यविशत तम्यी ४ श्री. धरनामकम्.५ चहाम ६ अमात्यादिरूया स्वभावरूपा च नित ५. सर्वदा निर्विशन् तस्थी काव्यमाला। द्वितीयः सर्गः। अथैकदास्थानगतं प्रतीहारनिवेदितः । वनपालो महीपालमिति नत्वा व्यजिज्ञपत् ॥ १ ॥ देव देवोचितस्थाने सुगन्धिपवने वने । मुनिरेकः समायातः शब्दार्थाभ्यां मनोहरे ॥ २॥ भुवनव्यापिनी भव्यपुण्डरीकाभिनन्दिनीम् । धत्ते श्रीधर इत्याख्या यो भानुरिव दीधितिम् ॥ ३ ॥ दारुणं यस्तपस्तेजःसौम्यां च दधदाकृतिम् । समाहारेण निवृत्तः सूर्याचन्द्रमसोरिव ॥ ४ ॥ मोक्षसंधानचित्तेन गुणमार्गणशालिना । येन चापधरेणेव भूतेभ्योऽदीयताभयम् ॥ ५॥ त्रिकालगोचरानन्तपर्यायपरिनिष्ठितम् । प्रतिबिम्बमिवादशें जगद्यद्वचसीक्ष्यते ॥ ६ ॥ सुवर्णैरभिनिर्वृत्ता दत्तमुक्तोत्तमास्पदाः । यस्याश्चर्यकथाः कर्णपूरायन्ते विपश्चिताम् ॥ ७ ॥ भ्रमन्ति भुवनाभोगे निश्चला अपि यद्गुणाः । असंख्येयाश्च सर्वत्र व्रजन्ति गणनीयताम् ॥ ८॥ यत्पादपांसुसंपर्कादलंकृतशिरोरुहाः । निस्पृहा वासचूर्णेपु भवन्ति नृसुरासुराः ॥ ९ ॥ भाखानपि च यः सेव्यपादोऽभूत्तापवर्जितः । विकासयति चाशेषकुमुदं कुमुदोज्ज्वलः ।। १०॥ मुनेस्तस्य प्रभावेण या विभूतिरभूदने । तां विक्ष्याम्यहं किं तु वक्रं नोक्तं करोति मे ॥ ११ ॥ १. मालाकारे. २. शब्देन मनोहरनामनि अर्थेन च हृदयहारिणि. ३. मोक्षस्य मुक्तेः संधानमेकाग्रता तत्र चित्तं यस्य; (पक्षे) मोक्षो वेध्यम्. ४. परिकलितम्. ५. गणनीयतां गणनाविषयतां गणेन जनवृन्देन नीयतां प्राप्यतां च. ६. सुगन्धिचूर्णेषु. ७. (पक्षे) भूभ्याः प्रमोदम्. ८. वक्तुमिच्छामि.

१ २ सर्गः] चन्द्रप्रमचरितम् । वसन्तमनपेक्ष्यैव तस्यातिशयविस्मिता । रोमाश्चानिव मुञ्चन्ति कोरकाश्तपादपा ॥ १२ ॥ तत्सङ्गादिव सजातशान्तचित्तेन पुष्प्यता । न विसोढमशोकेन कामिनीपादताडनम् ॥ १३ ॥ वकुला अपि दृष्ट्वा तमणुव्रतमिवाश्रिताः । यद्वधूमधुगण्डूपाननादृत्यैव पुष्पिता ॥ १४ ॥ तिलकस्तिलक पृथ्व्यात दृष्ट्वा व्यकसत्क्षणात् । स्वपक्षदर्शनात्कस्य न प्रीतिरुपजायते ॥१५॥ तद्धर्मश्रवणाज्जातनिबोधा इव चम्पका । न मनागप्यनायन्त मलिनालिसमाश्रया ॥ १६ ॥ यथा पलाशालनेश शोभन्ते न च किंशुकै । तथैव नम्वृतरवो विराजन्ते न कि शुकै ॥ १७ ॥ जयशट वय शन्दै कुर्नत्या काननधिय । दन्तावलिरिवामाति कुन्दकुमरसहति ॥ १८ ॥ हासानिव निमुम्चन्त सतोपात्कुमुमोदमान् । शिखण्डिताण्डवाटोप तन्वन्ति कुटनद्रुमा ॥ १९ ॥ भयात्पलायमानस्य कामस्य गलिता करात् । वाणावटिरिवामानि वाणावलिरितस्तत ॥२०॥ शुचिसनाद्विकासो मे कश्चातोऽपि मुने. शुचि । इतीव मन्यमानागाद्विकार्म नामछिका ॥ २१ ॥ कदम्ब महसा नाय विकसकुनुमोत्करै । रोमाचमुकाघानादरमात्ममीकन ॥२२ ।। तिरथा मतितन परस्परविरोपिनी । विरोपं सहन हित्वा वन्धुभावेन यतते ॥ २३ ॥ पपपपुरमा २. दत्तमनापिारा गिफिनतिन धितो भाति. पामाग्यान चिनिमा उपेटामय १२ काव्यमाला । इति श्रुत्वा स तद्वाणी मुनिवृत्तान्तशंसिनीम् । वाङ्गेऽपि न ममौ हर्षाद्वेल इव वारिधिः ॥ २४ ॥ सत्कृत्य स खकीयैस्तं भूषणैः पारितोषिकैः । वनपालमथान्यैश्च कृतार्थमकरोद्धनैः ॥ २५ ॥ यस्य देवस्य गन्तव्यं स देवो गृहमागतः । इत्युक्तिं घोषयन्नुच्चैदस्थादासनादसौ ॥ २६ ॥ दिशि तस्यामवस्थाय यत्रासौ परमेश्वरः । बद्धा लक्ष्यमसौ भूमावनंसीत्तस्य पादयोः ॥ २७ ।। व्यानशेऽथ तदादेशात्पुरं पटहनिःस्वनः । मुनिवन्दनयात्रायां कुर्वन्संकेतिनीः प्रजाः ॥ २८ ॥ पञ्चषानपि कृत्वाने पत्तीन्प्राप्तैनराधिपः । क्रमशः संमिलल्लोकैरक्षुभ्यद्राजगोपुरम् ॥ २९ ॥ सपौरः ससुहृद्वर्गः सकलत्रः सबान्धवः । सतनूजः ससामन्तः स चचाल ससैनिकः ॥ ३० ॥ गच्छंल्लावण्यसंक्रान्तदिदृक्षुनयनो वनम् । नन्दनाभिमुखीभूतशक्रशोभा बभार सः ।। ३१ ।। क्षणादशोकसंयुक्तं पुंनागपरिवारितम् । वनमात्मसमं प्राप्य पिप्रिये पृथिवीपतिः ॥ ३२ ॥ वायुना विदधे किंचित्संजाताध्वपरिश्रमः । वनलक्ष्मीविनिःश्वाससमेन विपरिश्रमः ।। ३३ ॥ सेनापति समादिश्य सेनामावासयेति सः । प्रविवेश महानायादवतीर्य महावनम् ॥ ३४ ॥ राजलीलां परित्यज्य चामरादिपरिच्छदाम् । विनीतः शिष्यव जे देश मुनिसमाश्रितम् ॥ ३५॥ १. उत्तरङ्गः. २. उदतिष्ठत्. ३. ननाम. ४. व्याप्नोति स्म. ५. संकेतयुक्ताः. ६ जगाम. ७. लावण्येन संक्रान्तानि प्रतिविम्बितानि दिदृक्षूणां द्रष्टुमिच्छूनां नयनानि यत्र सा. ८. तुष्टः, ९. विगतखेदः, १०. चामरादिपरिकरोपेताम्.

२ सर्गः] चन्द्रप्रमचरितम् । ददृशे च मुनिस्तेन स्थितो नीलशिलातले । शरप्रसन्ने शीताशुरिवाकाशैकमण्डले ॥ ३६॥ त्रि परीत्य प्रणम्य त्रिस्त्रियेति निगद्य सः । निरुक्तमखिलं कृत्वा न्यविक्षत मुने पुर. ॥ ३७ ॥ नृपतेर्मुकुलीकुर्वन्स कराम्भोरुहद्वयम् । शीतगुत्व व्यनक्ति स खकीय मुनिपुगव ॥ ३८॥ भुव शोभाभवद्योगाथाजिनेन्द्रसुरेन्द्रयो । तयो' सगतयोरासीत्सा नरेन्द्रमुनीन्द्रयो ।। ३९ ।। शान्ते जयजयेत्युच्चैर्भव्यकोलाहले तत । दत्ताशीर्मुनिना तेन जगाद जगतीपति ॥ ४०॥ निरालोके जगत्यस्मिन्नदृष्टशिववमनि । सन्मार्गदर्शनान्नाथ त्वमालोक इवोद्गत ॥ ४१ ।। खपुप्प तदह मन्ये भुवने सचराचरे । दिव्यज्ञानमये यन्न स्फुरित तव चक्षुपि ॥ ४२ ॥ ततोऽवगन्तुमिच्छामि त्वत्तस्तत्त्व जगप्रभो । सदिग्ध हि परिज्ञानं गुरुप्रत्ययवर्जितम् ॥ १३ ॥ केचिदित्य यत प्राहुर्नास्तिकागममाश्रिता । न जीव कश्चिदप्यस्ति पदार्थो मानगोचर ॥ ४४ ॥ अजीवश्च कथ जीवापेक्षस्तैस्यात्यये भवेत् । अन्योन्यापेक्षया तौ हि स्थूलसूक्ष्माविव स्थितौ ॥ ४५ ॥ कथ च जीवधर्मा म्युर्वन्धमोक्षादयस्तत । सति धर्मिणि धर्मा हि भवन्ति न तदत्यये ।। ४६ ॥ तम्माऎपंप्लुत सर्व तत्त्व तिष्ठतु सवृतम् । प्रसार्यमाण शतधा शीर्यते जीर्णवस्त्रवत् ॥ ४७ ॥ १ वर्षान्तनिर्मले २ नि प्राक्षिणीकृत्य ३ उपविष्टवान् ४ चन्दत्वम् ५ उ. परते ६ गुरुविश्वामरित्तम् ७ चावाससिद्धान्तम् ८ प्रमाणविषय १ जीनामाव. ऽजीव फर्य वक्ता युज्यते, जीवानीवयो सापेक्षत्वान्. १० याधितम् ११ अप्रमारितम् जीयो नास्ति मजीवोऽपि नास्ति ततस्तलमुपपुतमति तत्वोपास्यपादिन १४ काव्यमाला । जीवमन्ये प्रपद्यापि तद्धर्म प्रति वादिनः । विवदन्ते प्रबन्धेन विविधागमवासिताः ॥ ४८॥ कूटस्थनित्यतां केचित्केचिदाहुरकर्तृताम् । अन्ये तु जडतामेन्ये चित्तसंततिरूपिताम् ॥ ४९ ।। इत्याद्यनेकसिद्धान्तगहने गहने स्थितः । यातु दिग्भ्रमसंभ्रान्तः पुरुषः केन वर्मना ॥ ५० ॥ इत्युक्त्वा वाचमुच्चार्थी विरराम नरेश्वरः । भारतीमथ गम्भीरां जगाद परमेश्वरः ॥ ११ ॥ त्वयैवं ब्रुवता सूक्तं नृप सत्यमिदं कृतम् । उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ॥ १२ ॥ जीवाजीवादि यत्पृष्टमस्पृष्टपरदूषणम् । यथा भवति तत्सर्वं तथाहं कथयामि ते ॥ १३ ॥ जीवो नास्तीति पक्षोऽयं प्रत्यक्षादिनिराकृतः । तत्र हेतुमुपन्यस्यन्कुर्यात्कः स्वविडम्बनाम् ॥ १४ ॥ प्रतिजन्तु यतो जीवः स्वसंवेदनगोचरः । सुखदुःखादिपर्यायैराक्रान्तः प्रतिभासते ॥ ५५ ॥ नचास्वविदितं ज्ञानं वेद्यत्वात्कलशादिवत् । स्वात्मन्यपि क्रियादृष्टेःपादेः स्वप्रकाशनात् ॥ १६ ॥ १. मिथ्या जल्पन्ति. २. सांख्याः. ३. मीमांसकाः. ४. नैयायिकाः, ५, बौद्धाः. ६. दुष्प्रवेश वने. ७. परोपकल्पितदूषणसंपर्करहितं यथा स्यात्. ८. जीवो नास्तीति चार्वा- कैरुपन्यस्यते. प्रसिद्धो धर्मी पक्षः. तत्र चार्वाकाप्रसिद्धस्य जीवस्य पक्षत्वकरणे स्वविडम्बना कः कुर्यात् ? प्रसिद्धपक्षस्य हेतुविषयत्वं क्रियते. अथवा जीवो नास्ति अनुपलब्धेरिति भव- तानुपलम्भविषयीक्रियमाणो जीवः पक्षः प्रत्यक्षेणोपलम्भन स्वसंवेदनलक्षणेनैव निराकृत इति. ९. न चदं स्वसवेदनगौचरत्वमसिद्धं सुखदुःखादिपर्यायैराक्रान्तत्वात. १०. अस्वविदितं पानं न भवनि वेद्यत्वात् . यद्वेद्यं तदस्वविदितं यथा कलशादिरिति न वाच्यम्, स्वात्मन्यपि दियादानान् दीपादेः स्वप्रकाशनवन , यधा दीपः स्त्र प्रकाशयनेवार्थ प्रकाशयति तथा ज्ञानं स्वं विदनेवार्य बत्तीति.

२ सर्ग] चन्द्रप्रभचरितम् । विषयान्तरसचारो न च स्यादस्ववेदिन । अपरापरवोधस्य वेदनीयस्य सभवात् ॥ ५७ ॥ अनवस्थालता च स्यान्नमस्तलविसर्पिणी। यदेवाविदित तेषु तन्न पूर्वस्य वेदकम् ॥ ५८ ॥ तस्माद्विपयविज्ञानमप्रत्यक्षमवस्थितम् । तदप्रत्यक्षताया च विषयस्यापि सा गतिः ॥ १९ ॥ परोक्षादपि चेज्ज्ञानादाधिगतिरिप्यते । परेण विदितोऽप्यर्थस्तया खविदितो भवेत् ।। ६० ॥ तस्मात्स्ववेदने सिद्धे प्रत्यक्ष सति युक्तित । प्रत्यक्षबाधा न भवेत्कथ नास्तित्ववादिनाम् ॥ ६१ ॥ जीवे सिद्धेऽपि गर्भादिमरणान्ते खवेदनात् । प्रागूर्व च कथ सिद्धिस्तस्येति यदि मन्यसे ।। ६२ ॥ सदकारणवत्त्वेन सिद्धा तत्राप्यनादिता । अनन्तता च वाय्वग्निपृथिवीपयसामिव ।। ६३ ।। (युग्मम्) न चासिद्धमहेतुत्व हेतो कस्याप्ययोगत । भूताना च न हेतुत्व सह प्रत्येकपक्षयो ॥ ६४ ॥ प्रेत्येकपले जीवाना भूतसस्या प्रसज्यते । सहपक्षेऽप्यसनिन्यस्तेभ्य स्याचेतन कथम् ॥६५॥ सनातीय घुपादान दृष्ट पटपटादिपु । मृदादीना हि हेतूनां घटाधनुगमेक्षणात् ॥ १६ ॥ १ अस्ववेदिन म्वपिनरहितस्य विषया तो पतनाननान्तरे गवागे न म्यार २ भन्योन्यपरिक्षानस्य ३ अपराग्योधेषु यदेविदित तदेव पूस्य म्यम्य वेदक न स्यात् । तत्परोक्षन्ये विषयस्यापि परोक्षवमेर ५. अत' म्याद्वादमतापेक्षया जीव स्व. पीर पाये स्वमवेदनमायसिट् परसीये चानुमानादिरक्षात्परोक्षादिति मात्र मा जीवनामुमानाना तेरा प्रयदर जीयव्याम्याप भरदिति मात्र न ८ नमुपमशान ना इति गंभ, मद प्रत्येपक्षयो प्रभा गुगपदा माना नुन कालम ९ रामनारनीयोगाती १..अगतोय १६ काव्यमाला। युज्यते व्यभिचारोऽपि न शृङ्गादेः शरादिना । तत्रापि पुद्गलत्वेन सजातीयत्वसंभवात् ॥ ६७ ॥ विजातिभ्योऽपि भूतेभ्यो जायते यदि चेतनः । पयसोऽपि भवेत्पृथ्वी तेन्न तत्त्वचतुष्टयम् ॥ ६८ ॥ न चान्यदस्त्युपादानं भूम्यादिव्यतिरेकतः । भूतानां संहतिर्येन कल्प्येत सहकारिणी ॥ ६९ ॥ न चोपादानधर्मोऽपि काये कोऽप्यवलोक्यते । शरीरे तदवस्थेऽपि जीवे विकृतिदर्शनात् ॥ ७० ॥ घटादिकारणेवेतन्मृदादिषु न चेक्ष्यते । ततोऽनुमानबाधापि पेक्षं व्याघ्रीव वीक्षते ॥ ७१ ॥ हेतुश्चानुपलम्भादिरसिद्धोऽभावसाधने । तस्य खवेदनाध्यक्षादुपलम्भस्य संभवात् ॥ ७२ ॥ न चात्मभूतयोरैक्यं चिदचिद्रूपभेदतः । विभिन्न प्रतिभासित्वाद्भेदलक्षणसंभवात् ॥ ७३ ॥ इत्थमात्मनि संसिद्धेऽनित्यत्वैकान्तकल्पना । तस्यान्यैः क्रियते तेऽपि प्रत्यक्षेणैव बाधिताः ।। ७४ ॥ यतः स्ववेदनावात्या सुखदुःखादिपर्ययैः । विवर्तमाना सततं प्रतिप्राणि प्रकाशते ।। ७५ ॥ सुखदुःखादिपर्याया जीवान्न च विभेदिनः । तस्यामी इतिसंबन्धकल्पनानुपपत्तितः ॥ ७६ ॥ नित्यस्यानुपकारित्वात्समवायो न युज्यते । उपकाराश्रया सर्वा संवन्धसमवस्थितिः ॥ ७७ ॥ - १. पुद्गलत्वजात्या. २. एव च तत्त्वसंकरः स्यात्. ३. ननु भूतानां चैतन्योत्पत्ती सहकारित्वमेवेति चेन्न, उपादानान्तराभावात्. ४. विविधाकृत्यवलोकनात्. ५. यथा प्रत्यक्षेण पक्षबाधा तथानुमानेनापीति भावः. ६. स्वसवेदनस्य तद्भावसाधकत्वात्. ७. चिदचितोः प्रतिभासभेदात्.

१७ २ सर्ग.] चन्द्रप्रमचरितम् । उपकारोऽपि भिन्नत्वात्तस्येति कयमुच्यते । उपकारान्तरापेक्षा विध्यादनवस्थितिम् ।। ७८ ।। स्यादभिन्नस्ततो जीव सुखद खादिपर्ययै । तथापि परिणामित्वात्कथ कूटस्थनित्यता ॥ ७९ ॥ एतेन जडता तस्य त्रुवाणा गिनिवारिता । चिद्रूपसुम्बदु खादिपर्यायरैक्यसभवात् ॥ ८ ॥ न चाप्यकर्तृता तस्य बन्धाभावादिदोपत । कथ ह्यकुर्वन्वध्येत कुशलाकुशलक्रिया ॥ ८१ ॥ भुतिक्रियाया कर्तृत्वं भोक्तात्मेति स्वय वदन् । तदेवापबुवान सन्कि न जिद्देति कापिल ॥ ८२ ॥ अचेतनस्य बन्धादि प्रधानस्याप्ययुक्तिक । तस्मादकर्तृता पापादपि पापीयसी मता ॥ ८३ ॥ चित्तसततिमात्रत्वमप्ययुक्त प्रकल्पितम् । सतानिव्यतिरेकेण यत काचिन्न सतति ॥ ८४ || ध्यतिरेकेऽपि नित्यत्व सतानस्य यदीप्यते । प्रतिज्ञाहानिदोष स्यात्क्षणिकैकान्तवादिनाम् ।। ८५॥ क्षणिकत्वेऽपि सतानिपक्षनिक्षिप्तदूपणम् । कृतनाशादिक तस्य सर्वमेव प्रसज्यते ।। ८६ ।। नं च व्यापकता तस्य घटनामुपदौकते । म्बसविदितरूपस्य बहिर्देहादवेदनात् ।। ८७ ॥ तस्मादनादिनिधन स्थितो देहप्रमाणक । कर्ता भोक्ता चिदाकार सिद्धो जीव प्रमाणत ॥ ८ ॥ १ अलि नित्यम्योपकारित्वमिति चेत् तम्मादपकारोऽभिगो मिनो वा । अभिग श्वेत्तत्सम भिमधेसमन्यासिद्धि । उपकारान्तरमपेक्ष्य सयन्धकरणेऽनरस्थिति सात् २ परिणामित्वेनस्यघटनात् ३ चित्तसननिमानमात्मेन्य ८ सतानिन मसागात. ५ सतानस्य ६ तम्प च्यापरसेन कृतनाशादरभार इति चेन्न ३ १८ काव्यमाला । येऽप्यजीवादयो भावास्तदपेक्षा व्यवस्थिताः । तेऽपि संग्रति संसिद्धालन्न तत्त्वमुपातम् ।। ८९॥ जीवाजीवादिपड़वर्ग प्रतिपद्यापरे पुनः । मोक्षे विप्रतिपद्यन्ते मीमांसापक्षपानिनः ॥१०॥ तेपामप्यनुमावाधा परिधावति पृष्ठतः । यतः कर्मक्षयो मोक्षः स च सिद्धोऽनुमाननः ।। ९१ ॥ तथाहि कचिदप्यस्ति पुंसि कृत्स्नावृतिक्षयः । तत्कार्यसकलज्ञत्वस्यान्यथानुपपत्तितः ॥ ९२ ॥ सर्वज्ञत्वं न चासिद्धं कस्यचिहाधकात्ययात् । सर्वत्र बाधकामावादेव वस्तुव्यवस्थितिः ॥ २३ ॥ न तस्य वाधकं तावत्प्रत्यक्षमुपपद्यते । तस्याक्षजत्वादैत्यक्षे न विधिन निपेधनम् ॥ ९४ ॥ न चानुमानं तद्वाधां विधातुं भवति क्षमम् । तल्लिङ्गं पुरुपत्वादि व्यभिचारि यतोऽखिलम् ॥ ९५ ॥ यथाहि पुरुपत्वेऽपि वेदार्थज्ञानगोचरः । कस्याप्यतिशयस्तद्वत्सर्वार्थज्ञानगोचरः ।। ९६ ॥ रासभो न यथा शृङ्गी देशकालान्तरेऽखिलः । तथा पुमान्न सर्वज्ञो देशकालान्तरेऽखिलः ॥ ९७ ॥ इत्यादि नोपमानं च युक्तमिष्टविघाततः । तथा हि खचरादीनां न स्यात्खगमनादिकम् ॥ ९८ ॥ तस्मान्नरविशेषोऽसौ यस्य सा सकलज्ञता । तथा खरविशेषश्चेदिष्टा तस्यापि शृङ्गिता ॥ ९९ ॥ न चार्थापत्तिरप्यस्ति सर्वज्ञाभावसाधनी । को ह्यर्थोऽसंभवी तेन विना यस्तं प्रकल्पयेत् ॥ १०० ॥ १. आवृत्तिक्षयः कार्य सर्वज्ञत्वं कारणम्. २. अतीन्द्रिये. ३. यथावत्येदानींतनाः पुरुषाः खगामिनो न तथा देशान्तरे कालान्तरे च नैवेतीष्टविघातः. ४, अनुत्पद्यमानः. ५. सर्वज्ञभावेन. ६. सर्वज्ञाभावम्.

२ सर्गः] चन्द्रप्रभचरितम् । नाप्यागमेन सर्वज्ञ कृतफेनेतरेण वा । बाध्यते कर्तृहीनस्य तस्यात्यन्तमसभवात् ॥ १०१ ।। कर्तुरस्मरणादिम्य. कर्जमावो न सिध्यति । अज्ञातकर्तृकर्वाक्यैर्व्यभिचारस्य सभवात् ।। १०२ ॥ न च कश्चिद्विशेषोऽस्ति पौरुपेयेप्वसभवी । अतीन्द्रियार्थसवाद सर्वज्ञोक्तेऽपि समवेत् ॥ १०३ ॥ विवादविषयापन्न तत शास्त्र सकर्तृकम् । दृष्टकर्तृकतुल्यत्वादकलकादिशास्त्रवत् ॥ १०४ ॥ तस्मादकर्तृक शास्त्र नास्ति सर्वक्षबाधकम् । कृतक च द्विधाभिन्न सर्वक्षेतरहेतुकम् ॥ १०५ ॥ असर्वज्ञकृत तावन्न प्रमाणमतीन्द्रिये । सकलनप्रणीत तु तस्य प्रत्युत साधकम् ॥ १०६ ॥ प्रस्तुतस्यानुमानस्य माधकत्वेन सभवात् । प्रेमाणपञ्चकामावोऽप्यखिलज्ञ न बाधते ॥ १०७ ।। तम्मादोपवित्कश्चिदम्तीत्यागमसभवात् । प्रमाण वाधकामावाहुद्धिरतादिबुद्धिवन् ।। १०८ ॥ ततो मोक्षोऽपि ससिद्धो रत्नत्रयनिवन्धन । जीवाजीवाश्रवन्धनिर्जरासवर समम् ।। १०९ ।। वचोभिरिति तत्त्वार्यशसिभिश्चुम्बकैरिव । स शल्यमिव सदेहमाचर्प महीपते ॥ ११० ॥ यदुक्त सरिणा तेन तत्तथेति प्रपद्य स । पप्रच्छ पुनरामायान्भवान्मुदितमानस ॥ १११ ।। मुनिना यत्तुमारेभे न मापरम्परा । चके भव्यमभा नित्तमवधानपर पग ॥ ११२ ॥ २ अरस गम नुम्मणान , सगरमाहारी चरि । प्रत्यक्षारिनिगानि ५ प्रत्याटिगाना ६ रत्ननग विधा या याय , सम्परपाधि १ भगमम्म २० काव्यमाला। । द्वीपे नृप तृतीये यो विद्यते पूर्वमन्दरः । क्रीडत्किनरसंकीर्णलताभवनसुन्दरः ।। ११३ ॥ तस्यापरविदेहेऽस्ति सुगन्धिरिति नामतः । देशो विभूष्य शीतोदानयुत्तरतटं स्थितः ॥ ११४ ॥ विभ्राणैर्वृहदुद्दण्डपिच्छच्छत्रावलिश्रियम् । राजन्ते राजवद्यस्य प्रदेशाः क्रमुकद्रुमैः ॥ ११५ ॥ सुगन्धिकुसुमामोदैः सुगन्धयति यो दिशः । सर्वतोऽपि निजामाख्या कर्तुमर्थवतीमिव ॥ ११६ ॥ अकृष्टपच्यसस्यान्ये निरीतौ निरवग्रहे । यत्र नित्यप्रमोदिन्यो मोक्षप्राप्ता इव प्रजाः ॥ ११७ ॥ ग्रामैः कुक्कुटसंपात्यैः सरोभिर्विकचाम्बुजैः । सीमभिः सस्यसंपन्नैर्यः समन्ताद्विराजते ॥ ११८ ॥ अर्थ धर्माय सेवन्ते कामं संतानवृद्धये । यत्र न व्यसनाल्लोकाः परलोकक्रियोद्यताः ॥ ११९ ॥ यस्मिन्निरन्तरारामविश्रामैर्विधुतश्रमाः । मन्यन्तेऽध्वानमध्वन्या गृहप्राङ्गणसंनिभम् ॥ १२० ॥ यथाभिलषितं वस्तु शश्वत्संपादयन्नृणाम् । जिगीपतीव यः कल्पपादपैर्मण्डितां महीम् ।। १२१ ॥ विद्युतश्चञ्चला यत्र स्वभावेन न संपदः । कृष्णानि प्रावृडभ्राणि चरितानि न देहिनाम् ॥ १२२ ॥ क्वचिद्गोधनहुंकारैरिक्षुयन्त्रारवैः क्वचित् । क्वचिच्छिखण्डिनां नादैनिंगमा यस्य सुन्दराः ॥ १२३ ।। मजत्सीमन्तिनीसार्थकुचसंक्रान्तकुङ्कुमैः । रक्तांशुकैरिवाभान्ति यस्मिञ्जलधियोषितः ॥ १२४ ॥ महाविभवसंपन्नं तत्रास्ति श्रीपुरं पुरम् । लोकपुण्यैः समुत्पन्नं त्रिविष्टपमिवापरम् ॥ १२५ ॥ १. कुमुटसंघाते वसन्तीति तैः । अतिसंनिकटैरिति यावत्. २. ग्रामाः, ३. नद्यः. ។

२ सर्ग]
चन्द्रप्रभचरितम् ।
२१
प्रासादसलनरत्नोपलमरीचिमि ।
मदैवान्तरिता यत्र ज्योतिर्गणविमाभवत् ।। १२६ ॥
चन्द्रकान्तनुतेर्यत्र सूर्यकान्तोद्भवाग्नित ।
मिमीते सालसरुद्धरविचन्द्रोदय जन ॥ १२७ ॥
ययासादशिगेलग्नपद्मरागाशुमिनम ।
भिन्न करोत्यकाण्टेऽपि सध्याशदा शरीरिणाम् ॥ १२८ ॥
वासराधिपतिन्तुगमतोलीशिखर गर्ने ।
यत्रानिकह्य पूर्वाद प्रपूर्णकलगायते ॥ १२९ ।।
प्राकारशिवरासन्नस्तारतारकदम्बके ।
यत्र दीपोत्मवन्नान्निम्नन्यतेऽनुदिन निशि ॥ १३० ॥
प्राकार परितो यत्र शृटैरेंत्तम्भितोमि ।
नामरोकनोत्कण्ठा निभ्राण हर भामते ॥ १३१ ।।
मानोन्नता महाभोगा मैत्तवारणशालिन ।
बहुभूमिमुना यत्र प्राप्सादा पाथिवोपमा ॥ १३२ ॥
अम्युना पनकिनल्कच्छादितेन निरन्तरम् ।
बीरणा कनिहमी हिरप्यमनितक्षिते ॥ १३३ ॥
तोरननरुगतान पयमि प्रतिविम्बिने ।
पानारोपवनारे ऊर्यत्यन्यत्र पप्रिणाम् ॥ १३४ ॥
विभीमाशनाशपक्षविक्षपशोमिन ।
हसान्यापि मन्लोगनपुनानिगमन ॥ (१५॥
नम्पादपमा निगम्यमग्गिनिद ।
नागा नियाग विपटिशनमम् ॥ १३६ ॥

२२ काव्यमाला। * मज्जत्पुरध्रिधम्मिल्लगलदुज्ज्वलमल्लिका । यत्र तारकितेच द्यौः सर्वतो भाति खातिका ।। १३७ ॥ (पञ्चभिः कुलकम्) तीक्ष्णत्वं केवलं यत्र बोधे न वचने नृणाम् । कठिनत्वं कुचद्वन्द्वे कामिनीनां न मानसे ॥ १३८ ॥ भङ्गः कुचेपु नारीणां तेषु न तपस्विनाम् । विरसत्वं कुकाव्येषु मिथुनेषु न कामिनाम् ॥ १३९ ।। विरोधः पञ्जरेप्वेव न मनःसु महात्मनाम् । नाभिष्वेव च नीचत्वं नाचारेषु कुटुम्बिनाम् ॥ १४० ॥ प्रोकारपरिखावप्रैः परितः परिवेष्टितम् । परिवेपत्रयान्वीतचन्द्रवद्यद्विराजते ।। १४१ ॥ प्रसिद्धेनाविरुद्धेन मानेनाव्यभिचारिणा । वणिजस्तार्किकाश्चापि यत्र वस्तु प्रैमिन्वते ॥ १४२ ॥ वापीवनायतनसौधतडागरम्य वर्गाभिभाविविभवोदयवर्धमानम् । शक्येत तन्न गुरुणापि पुरं यथाव- दाख्यातुमल्पमतिना किमु मद्विधेन ॥ १४३ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये द्वितीयः सर्गः । - तृतीयः सर्गः । तत्राभिनन्दितनिजाखिलबन्धुपद्मो न्यायांशुजालनिहतापनयान्धकारः । संकोचितारिवनितास्यनिशाकरश्रीः श्रीषेण इत्यजनि भानुनिभो नरेन्द्रः ॥ १ ॥ १. वैरं पक्षिरोधश्च. २. प्राकारेण, परिखया खातिकया, वप्रेण धूलिशालेन. ३. मा. नेन प्रस्थादिना प्रमाणेन च. ४. प्रमाणविषयीकुर्वते.

३ सर्ग.] चन्द्रप्रभचरितम् । २३ यस्य प्रतापदहनेन विलवयमान- मूर्तिनिरन्तरमरातिगण समस्त । द्रष्टु दिश न विदिश चकित प्रभूष्णु- —कोपम समभवद्भिरिगदरम्थ ॥ २ ॥ यस्य स्फुरद्भिरनुरागकरैर्यशोभि- रुद्रासिनासु सकलामु दिगगनासु । तन्मात्रकार्यकरणप्रवणाय लोक शीताशवे न नितरा स्पृहयाबभूव ॥ ३॥ सपूर्णशारदनिशाकरकान्तकीर्ति- वल्लीवितानपरिवेष्टितविष्टपान्त । य. पोपणाद्विनयनाद्यसनापनोदा- त्वामी गुरु सुहृदभूदखिलप्रजानाम् ॥ ४ ॥ यत्र प्रशान्तसकलव्यसने विनीते स्वाभाविक मंतिमहातिशय प्रपन्ने । चक्रुर्निवासमखिला नरनाथविद्या पर्युत्सुका इव परस्परदर्शनस्य ॥ ५ ॥ तुङ्गत्वमंद्रिपतिना हरिणेश्वरत्व शीताशुना सुभगता वंशिता मुनीन्द्र । शौर्य मृगाधिपतिना गुरुणा मनीपा गाम्भीर्यमम्बुनिधिना तुलित यदीयम् ॥ ६ ॥ नागा पदातिवृपभास्तुरगा रथाश्च शोभानिमित्तमभवन्खलु यस्य सर्वे । आक्रम्य मण्डलपतीनखिलान्स यमा- त्सवी वुभोज वसुधा निजतेजसैव ॥ ७ ॥ १ सौ २ प्रकाशमानकार्यरणसमयि ३ परिवष्टित पिष्टयान्त येन ४ युद्धि- माहात्म्यम् ५ मेरुणा ७ जितेन्द्रियता ८ भृत्यप्रधाना , पदातयो गरमाथा २४ काव्यमाला। यंत्र क्वचिद्गुणगणो गतवान्सहैव वृद्धि मया नृपतिरेप पुनर्न जाने । मां द्वेष्टि शंसति शमप्रभृतीनितीव यो जातनिर्भररुषा मुमुचे मदेन ॥ ८ ॥ वक्षः श्रियो भुजयुगं वरवीरलक्ष्म्याः कान्तेः शरीरमखिलं हृदयं क्षमायाः । यस्यास्पदं मुखमजायत वाग्विभूते- नत्वाश्रयाय सकलस्य सतां प्रयासः ॥ ९ ॥ भेजे नितान्तमजलोऽपि नैदीनभावं यश्चाभवद्वसुमतीतिलकोऽप्यंशोकः । दोषाकरश्च न बभूव कलाधरोऽपि सर्व हि विस्मयकरं महतां स्वरूपम् ॥ १० ॥ धर्मोऽर्थसंचयनिमित्तमुदारमर्थः कामस्य हेतुरितरः सुखयोनिरेते । यत्र त्रयोऽप्यविरतं न परस्परस्य जैनेश्वरा इव नया विजहुर्व्यपेक्षाम् ॥ ११ ॥ वाञ्छद्धिराश्रयविशेषमिवात्मयोग्य- मौदार्यधैर्यविनयादिगुणैरशेषैः । अभ्यर्थितः सततमादरवद्भिरेष वेधाः ससर्ज नृपमालयभूतमेनम् ।। १२ ।। भानुर्भवेद्यदि मनागिह सौम्यरूप- स्तेजस्वितामुपगतो मृगलाञ्छनो वा । धामाधिको विदधदेष जनानुरागं तेनोपैमानपदवीं प्रभुरुद्वहेत ॥ १३ ॥ १. यस्मिन्कस्मिश्चित्पुरुषे. २. जलरहितः अजडः पण्डितश्च. ३. समुद्रभावं दीनभावं दीनत्वं च न. ४. वृक्षविशेषो ललामभूतश्च. ५. वृक्षविशेषः शोकरहितश्च. ६. सूर्येण चन्द्रेण च.

२५ ३ सर्गः] चन्द्रप्रभचरितम् । श्रीकान्तया सरसिजाकरसनिवासि- श्रीकान्तया सकललोकमनोभिराम । देव्या स्वकीयवपुरव्यतिरिक्तयोप योग शशीव कलयामलया स भूप ॥ १४ ॥ दावण्यसपदमलाम्भसि सनिमज्ज्य देह स्वमुज्वलमिवातितरा विधातुम् । लाय शरद्विशदचन्द्रगभस्तिगौरो यस्यास्तनौ समुदित मकलो गुणोध ॥ १५ ॥ शीलक्षमाविनयरूपगुणैर्महाघी- मुचित्य यामग्विलविष्टपसुन्दरीपु । भर्तुर्मनो रमयितु स्वसहायभूता लक्ष्मीरिवादरपरा खयमेव वने ॥ १६ ।। चन्द्रोउज्वलेन यशसा कथित मुराणा- मीशस्य ससदि परीतवता त्रिलोकीम् । रूप ग्रहीतुमनस स्पृह्यन्ति यस्सा देव्यो दिवोवतरणाय तपासि कर्तुम् ॥ १७ ॥ दोपानुवन्धरहिता तमसा विमुक्ता रम्या निजोदयविकासितनन्धुपमा । प्रामातिकी द्युतिरिवाम्बुजवान्धवस्य या कान्तिमोपधिपते परिभूय तस्थौ ॥ १८ ॥ पार्ययोरनिदधत्स निशामपीशो वाधा विधूपमयशोपवलीकृताश । साधं तया प्रणयकोपकृतान्नराणि देव्या मुग्वान्यनुभवन्दिनसानिनाय ॥ १९ ॥ कृत्वापरेगुरविलासर स याव- दन्त पुर नमति निरगीतरीति । । নাসা ? বলি যথাবািলানি : বিশ २६ काव्यमाला। 6 तावत्कराग्रविनिविष्टकपोलमला देवीमुदश्रुनयनां सहसा ददर्श ॥ २० ॥ तां तादृशी समवलोक्य समानदुःखी दुःखं विभक्तुमिव तन्मनसि प्रवृत्तम् । स व्याकुलेन मनसा त्वरमाणवृत्तिः पप्रच्छ हेतुमतिशोकसमुद्भवस्य ॥ २१ ॥ दुर्वारवीर्यरिपुनिर्दहनप्रवीणे पृथ्वीतलप्रसृतदुर्विपहप्रतापे । पद्मयताक्षि मयि जीवति जीवितेशे संभाव्यते परभवो न पराभवस्ते ॥ २२ ।। संतापमूलसुहृदं विरहं विसोढु- मुन्मेषमात्रमपि तावकमप्रभूष्णोः । मत्तोऽपि मत्तगजगामिनि निश्चयेन जानीहि संभवति न प्रणयस्य भङ्गः ॥ २३ ॥ त्वत्पादपद्मशरणे वैदधीनवृत्तौ त्वत्प्रेमनिघ्नमनसि त्वदभिन्नदेहे । शाठ्यं मनागपि मृगाङ्कमुखि त्वदीये संभावयामि सरले न सखीजनेऽपि ॥ २४ ॥ छन्दानुवर्तिषु पदातिषु बान्धवेषु दास्यं गतेषु च निशान्तवधूजनेषु । भ्रूभङ्गमात्रमपि सोढुमशक्नुवत्सु संजायते न तव तन्वि निदेशभङ्गः ॥२५॥ एतेषु सत्स्वपरितोषनिबन्धनेषु किं कारणं कथय देवि शुचस्तवास्याः । पृष्टेति सा क्षितिभुजा त्रपया न किंचि- दूचे परं मुखमलोकत बालसख्याः ॥ २६ ॥ १. कथय कथयेति शीघ्रवर्तनः. २. असमर्थात्. ३. त्वदायत्तजीवने. ४. असमर्थेषु. .

३ सर्ग:] चन्द्रप्रभचरितम् । २७ सा हीवशादथ गिरा किमपि स्खलन्त्या- म्तम्या सखीति निजगाद परेगितज्ञा । सत्य न समवति देव पराभवादि- रस्या भवत्प्रणयभारमहाधिकाया ॥ २७ ॥ कि त्वत्र कारणमभूदपर विपादे दैव विहाय न यदन्यजनस्य साध्यम् । देवस्य तत्सकलमेव निवेदयामि कर्तव्यवस्तुनि पुननियति प्रमाणम् ॥ २८ ॥ एपा पुर त्वदनुभावविवृद्धशोम द्रष्टु मयाद्य सह मन्दिरमध्यरुक्षत् । चेकीडतो निजकराहतकन्दुकेन तत्रेक्षतान्यपृथुकान्गृथुकान्तियुक्तान् ॥ २९ ॥ तानिन्दुसुन्दरमुखाननलोकयन्ती चिन्तामगादिति विषण्णमुखारविन्दा | वन्यास्त्रियो जगति ता स्पृहयामि ताभ्यो यासाममीभिरफला तनयैर्न सृष्टि ॥ ३० ॥ या मद्विधा पुनरसचितपूर्वपुण्या पुप्प सदा फलनिवर्जितमुवहन्ति । ता सर्वलोकपरिनिन्दितजन्मलामा वन्ध्या लता इव भृश म निमान्ति लोके ॥ ३१ ॥ या स्त्यानधर्मिणि पुरध्रिजने प्रसिद्ध स्त्रीशब्दमुद्वहति कारणनियंपेक्षम् । सा हास्पभावमुपयाति जनेषु यह- दन्ध सुलोनन इति व्यपदेशकाम ॥ ३२ ॥ १ आमार प्रभार धनिरामागन् ३ गर्भधारणधर्मपति ल्यान गम. धारणमुच्यते २८ काव्यमाला। चन्द्रोज्झितां रविरलंकुरुते बनानां वीथीं सरोजनिकरः सरसीमहंसाम् । पुत्रं विहाय निजसंततिबीजमन्यो न त्वस्ति मण्डनविधिः कुलपुत्रिकाणाम् ॥ ३३ ॥ तेनोज्झितां निजकुलेकविभृपणेन सौभाग्यसौख्यविभवस्थिरकारणेन । मां शक्नुवन्ति परितर्पयितुं विपुण्यां न ज्ञातयो न सुहृदो न पतिप्रसादाः ॥ ३४ ॥ कृत्वा विपादमिति दुःस्थितचित्तवृत्ति- दुःखं निवेद्य मयि तल्पतले न्यपप्तत् । संबोधितापि न मया बहुभिः प्रकारैः शोकं विमुञ्चति मनागपि देव देवी ॥ ३५ ॥ सख्या मुखादिति निशम्य विपादहेतुं निःश्वस्य किंचिदथ भूमिपतिर्बभापे । शोकः शरीरहृदयेन्द्रियशोपहेतु- युक्तो न देवि तव वस्तुनि दैवसाध्ये ॥ ३६ ॥ दुःखेन ते प्रथममस्म्यहमेव दुःखी मढुःखतो भवति सर्वजनस्य दुःखम् । इत्थं समस्तजनतापरितापहेतो- मी गाः कृपावति शुचो वशमुद्धतायाः ॥ ३७ ।। जन्मान्तरे शुभमथाप्यशुभं यदेव यैरजितं स्वपरिणामवशेन कर्म । तद्योग्यमेव फलमिष्टमनीप्सितं वा तैः प्राप्यते किमिति शोचसि हेतुहीनम् ॥ ३८ ॥ अत्यन्तदुर्घटमिदं नहि वस्तुनोऽस्य निष्पत्तिरित्यलसगामिनि मावमंस्थाः । १. दैवमित्यर्थः.

३ सर्ग.] चन्द्रप्रमचरितम् । २९ सपत्स्यते तव मनोरथ एप शीत्र- मेकान्ततो यदि भवेन्न विधिविपक्ष ॥ ३९ ॥ मन्त्येव केवलदृशोऽवधिलोचनाश्च तीर्थे जिनस्य मुनयो विविद्धियुक्ता । जाग्रत्वपत्प्रचलदप्रचलच्च विच येपामिद करतलस्थितवच्चकास्ति ॥ ४० ॥ तेभ्योऽधिगम्य तव सततिलोपहेतु- मभ्युद्यत प्रतिविधातुमह यतिप्ये । कैचोभिरिति लोकपति प्रियाया शोकापनोदमकरोत्करदीकृताश ॥ ४१ ॥ युक्तोऽन्यदा क्षितिपति स निजै सुहृद्धि- रालिगित समधिगम्य वसन्तलक्ष्म्या । क्रीडावन समवलोकितुमभ्ययासी- दुद्दामकौतुकरसप्रसरप्रणुन्न ॥ ४२ ॥ नृत्यच्छिखण्डिनि मृदुक्कणदन्यपुष्टे मुस्खादुसुन्दरफले सुमन सुगन्धौ । तस्मिन्वने शिशिरमन्दमरुत्प्रचारे सवेन्द्रियोत्सवकरे विजहार भूप ॥४३॥ अत्रान्तरे पृथुतप श्रियमुन्नतश्री- रुन्मीलितावधिदृश मुनिशुद्धदृष्टि । तारापथादवतरन्तमनन्तसज्ञ- मैक्षिष्ट चारणमुनि सहसा नरेन्द्र ॥ ४४ ॥ रोमाञ्चचर्चिततनू रममेन गत्वा भूपलमालनरुमूलगतस्य तस्य । १ मवया २ नानासुदगदिग्मिहिता ३ मनोहर ४ कोमरजयोफिले ६ गेमचर्चितशरीर ५ अभ्यगत् ३० काव्यमाला। मूळ ननाम गुरुभक्तिभरानतेन संसारसिन्धुतरणौ चरणी महर्षेः ॥ १५ ॥ सोऽप्यात्मनः परिसमाप्य समाधियोग- माशीर्वचांसि निपपाठ विशुद्धपाठः । संस्नापयन्नरपति कुमुदोज्ज्वलेन धर्माभिपेकपयसेव निजरिसतेन ।। ४६ ।। कृत्वा करावथ स संकुचदव्जकान्ती सप्रश्रयामिति जगाद गिरं क्षितीशः । दन्तावलीविशदरश्मिवितानकेन लिम्पन्मुनीन्द्रचरणाविव चन्दनेन ।। ४७ ॥ गत्वा सुदूरमपि यस्य विलोकनीयो पादौ पवित्ररजसौ रंजसः क्षयाय । तस्यागमे तव मुनीन्द्र न हेतुरन्यो मुक्त्वा ममान्यभवसंचितपुण्यपाकम् ॥ ४८ ।। श्रेयस्तनोति परिवर्धयते विवेक- मुन्मूलयत्यघमुदीरयते विभूतिम् । त्वदर्शनं सुचरिताखिलभद्रहेतु- ल्पीयसो भवति गम्यमिदं शुभस्य ॥ ४९ ।। यद्भावि भूतमथवा मुनिनाथ तत्ते बाह्यं न वस्तु कथयेदमतः प्रसीद । संसारवृत्तमखिलं परिजानतोऽपि नाद्यापि याति विरतिं किमु मानसं मे ॥९० ॥ श्रुत्वेति तद्वचनमेवमुवाच चिन्ता चेतोगतां स नृपतेरैववुध्यमानः । यावत्तव स्फुरति चेतसि सूनुवाञ्छा तावन्न यासि विरतिं नृपपुंगव त्वम् ॥ ११ ॥ १. मुकुलितो. २. पापस्य. ३. वैराग्यम्. ४. परिजानन्.

३ सर्गः चन्द्रप्रमचरितम् । सा च प्रणश्यति न तावदसौ न याव- पुत्रो भवत्यरिकुलोन्मथनैकवीर । पुत्रोदयेऽपि भवतोऽस्ति विवन्धहेतु- रन्यो भवान्तरगत शृणु त ब्रवीमि ॥ ५२ ।। एपा तवाग्रमहिपी पुंटभेदनेऽभू- दत्रैव पूर्वमभिनन्दितसर्वबन्यो । देवागदस वणिजस्तनया सुनन्दा श्रीकुक्षिजा गुणगणाभरणाभिरामा ॥ १३ ॥ सान्या विलोक्य नवयौवन एव नारी गर्भेण पीडिततनु गलिताङ्गशोभाम् । जन्मान्तरेऽपि वयसि प्रथमेऽहमी- मा भूवमित्यकृत मन्दमतिर्निदानम् ॥ १४ ॥ सागारधर्मनिरता प्रतिपद्य काल सौधर्मकल्पमुपगम्य बभूव देवी । च्युत्वा तत पुनरभूदिह पुण्यपा- दुर्योवनस्य दुहिता भनतश्च पत्नी ॥ ५५ ॥ तस्माद्भवान्तरमवादशुभान्निदाना- दस्या वयो नवमगादनपत्यमेव । कैश्चिद्दिनै प्रशममीयुपि तस्य दोपे नि सशय तव भविष्यति पुत्रजन्म || ५६ ॥ तस्मिन्मृगाङ्क इव सनमनोभिरामे मूनी निकाय पृथुवानि धुर धरित्र्या । मपत्स्यसे त्वमधिगम्य जिनेन्द्रदीक्षा सिद्धालयातिथिरैशेपितकर्मबन्ध ॥ १७ ॥ । अतगयराणम् २ नगरे ३ प्रतीक्ष्य ८ निम्तरमर धन ३२ काव्यमाला । ३ संक्षेपतो गिरमिमाभभिधाय सम्य- गानन्द्य भूमिपतिमिष्टनिवन्धनेन । धामेप्सितं मुनिरगानृपतिश्च राज- धानीमणुव्रतविभूपणभूपिताङ्गः ॥ १८ ॥ पुंसां पुरोपचिंतपुण्यनिवद्धमिष्ट- मित्याकलय्य निवबन्ध मतिं स धर्मे । तत्रोन्मुखं भवति भाग्यवतां हि चेतो यत्संपदा नियतमझामनागतानाम् ।। ५९ ।। दानेन संयमिजनस्य जिनार्चनेन तस्य प्रभोरविरतं नयतो दिनानि । प्रक्षोभिताखिलसुरासुरनागलोकं नान्दीश्वरं परमपर्व समाससाद ॥६० ॥ तस्मिन्विधाय महतीमुपवासपूर्वी पूजां जगद्विजयिनो जिनपुंगवस्य । स्नानं समीहितनिमित्तमधस्तदीय- बिम्बस्य स प्रविदधे सहितोऽग्रदेव्या ॥ ६१ ॥ प्रहादनं विदधती शशिनः कलेव संपादयन्त्यभिमतं कुलदेवतेव । गर्भ कियद्भिरथ सा दिवसैर्वभार मुक्ताफलं परममम्बुधिशुक्तिकेव ॥ ६२ ।। किंचिद्वपुः शिथिलतामगमत्तदानी- मापाण्डुरं वदननीररुहं बभूव । गर्भस्थबालगुणभूरिभरादिवागा- न्मन्दापि मन्दतरतां गतिरायताक्ष्याः ॥ ६३॥ नीलाननं प्रसृतपाण्डिम धारयन्ती वक्षोरुहद्वयमधःकृतचन्द्रकान्त । १, अभिलषितप्ररूपणेन. २. प्रधानं कारणम्. ३. आजगाम. १ ३ सर्ग.] चन्द्रप्रभचरितम् । ३ गन्धान्धपट्चरणचुम्बितपद्मयुग्मा- मम्मोजिनीमनुचकार चकोरचक्ष ॥ ४ ॥ सर्पत्कुचद्वयविपाण्डुरतागुणेन हारो हतद्युतिरिवास्य मुखे चकार । 'सर्घपणेन मलयोजनिका कुतोऽपि निमत्सरो हि विरलो गुणिना गुणेषु ॥ १५ ॥ जृम्भाभवत्सततसनिहिता सखीव नान्त मुमोच वरमित्रमिवालसत्त्वम् । राजाभर सममगादुदरेण वृद्धि- मभ्युद्यम सह ननाश वलित्रयेण ॥ ६ ॥ नीलोत्पलानि निजया निजितानि ताव- त्कान्त्या मया सहजया सह पुण्डरीकै । म्पर्धेऽधुनान्वहमितीर विचिन्त्य तस्या नेत्रद्वय पलनामगमत्कृशाङ्गया ॥ ७ ॥ गर्मस्थितस्य जननान्तरवीनबन्ध बालस्य तस्य वचनेन बिना वेदन्ति । तम्या गिरीपसुकुमारतनोर्वभूवु- रेकान्ततोऽपि निनपूजनदोर्ददानि ॥१८॥ प्राप्त प्रसूतिसमयेऽथ तिथा शुभाया- मुञ्चम्थितेषु सकलेपु शुभग्रहेषु । सा मानितीर्थकरमुग्ज्वलदेहदीप्ति प्रध्यमितान्तमस गुपुवे बुमारम् ।। ६९ ।। शुन नमोऽभवदभीपुमनीर तम्मि- लम्युनते परमधामनिशानभृते । मी मर रमदिनी महमाम्यनन्द- गाइना मरिनिमापगमाद्विरेजु ॥४०॥ Pre- ३४ ४ काव्यमाला। . निःशेपमम्बुधरधीरगभीरनाद- स्तूर्यैर्वभूव मुखरं नरनाथवेश्म पौरो जनस्त्वरितमेव निजे निजेऽसौ गेहे महोत्सवमकारयत प्रहृष्टः ॥ ७१ ॥ स्वसमावहिर्भवनतः प्रकटं निरित्य नृत्यान्यतन्वत गणो गणिकाजनानाम् । लब्धोऽधुना वसुमति प्रभुरद्वितीयो नन्द त्वमित्यजनि जन्मवतां प्रघोपः ॥ ७२ ॥ तुष्टया ददत्वसुतजन्म निवेदयन्यो देयं न देयमिदमित्यथवा क्षितीशः । नाजीगणत्प्रमदंबिवलचित्तवृत्ति- विक्षिप्तवृत्ति हि मनो न विचारदक्षम् ॥ ७३ ॥ गायत्प्रनृत्यदभितो रभसेन वल्ग- दुन्मत्ततामिव जगाम पुरं समस्तम् । तत्राभवन्न खलु कोऽपि स यस्य ना- न्तर्जज्ञे विकासि हृदयं सहसा द्विपोऽपि ॥ ७४ ।। सर्वज्ञं कनकमयैः सम> पुष्पैः कल्याणेऽहनि सह तेन वंशवृद्धैः । श्रीवर्मत्यवनिभुनाथ तस्य नाम श्रीशब्दानुगतमकारि मङ्गलाय ।। ७५ ॥ विदधदखिलास्तेजस्तीव्रान्पराननतान्नता- नवनिममितामोजोभिः स्वैर्वशं विवशां नयन् । निधिशतमहालाभैर्भूभृच्छताहितैर्धन- रुदयनिलये जाते तस्मिन्ननन्द स नन्दने ॥ ७६ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये तृतीयः सर्गः । १. निर्गत्य. २. प्राणिनामू.

४ सर्ग] चन्द्रप्रभचरितम् । चतुर्य सर्ग । अथ प्रजाना नयनाभिरामो लक्ष्मीलतालिङ्गितसुन्दराङ्ग । वृद्धि स पद्माकरवप्रपेदे दिनानुसारेण शनै कुमार |॥ १ ॥ अजत्सहैवोन्नतिमुज्ज्वलामि कलाभिरानन्दितसर्वलोक । स कान्तिमाश्चन्द्रमसा तदानीं जनैरुपामीयत राजपुत्र ॥२॥ गुरुन्गुरून्सम्यगुपास्य तेम्यो विद्योपविद्या विधिना विदित्वा । तद्वेदिनोऽसौ गणितैरहोभिरघो व्यधादीधितिमानिवद्ध ॥ ३ ॥ जनादशेषाद्वयसा लघीयानपि प्रवृद्ध स महान्बभूव । कलागुणेरुज्ज्वलरश्मिजालैरिव स्वकीयैर्मणिराकरोत्य. ॥ ४ ॥ धनुधेरै खगिभिरश्ववारैर्गजेन्द्रशिक्षाधिकृतैश्च लोकै । व व गुणोत्कर्पमसाववाप्नु सदोभियुक्तैरुपजीव्यते स्म ॥ ५ ॥ तुपाररश्मि भजते निशाया दिनागमे याति सरोजगवण्डम् । इति प्रकृत्या चपलापि लक्ष्मीरियेष मोक्तु न तनु तदीयाम् ॥ ६ ॥ वदान्यता तस्य निलोक्य गुर्वी तद्वद्भिरत्याजि वृथाभिमान । गतत्य लोके परतोऽभिभूति न मानिनो राजति मानयोग ॥ ७ ॥ तदीयसङ्कादम्बिलोऽपि भीरुरन्यो जन शूरतरो बभूव । महात्मनस्तस्य पुनर्महीय स्वाभाविक शौर्यमिव द्विपारे ॥ ८ ॥ त्यागश्च शौर्य च तथैव सत्य महागुणा नीतिविदामभीष्टा । त्रयोऽप्यमी तस्य तनो विवृद्धि स्पर्धादिवान्योन्यकतात्मनग्मुः ॥९॥ 4पूरयन्धान्यधनरशेप नियोजयश्चापि महागुणेषु । पति स एवाजनि नीतिनेत्रो गुरु स एवाधयिणा जनानाम् ॥ १० ॥ न केवल सर्वगुणाश्रयेण प्रहर्पितम्तेन भृश स्वपक्ष । कि तु द्विपन्तोऽपि सलखभावास्तन्नास्ति यत्पुण्यवतामसाध्यम् ॥१२॥ अलोत्यशोभाभिमवप्रवीण नून निधिम्नस्य पिलोक्य रूपम् । ययावतृप्तश्चतुराननत्व नान्यद्वय कारणमत्र निमः ॥ १२ ॥ . भामुर 'न्दु'हमपि पाठ : मंगापरस्पजीवनवि- नीपत दायलागुन २ मिमग ६ सिपात् ७ पोषयन् मदन पाध्यायान काव्यमाला । स संपदामायतनं जयश्रीसमाश्रयः सर्वमनोभिरामः । भेजे न चोत्सेकमनूननीतिर्मदं भजन्ते न महानुभावाः ॥ १३ ॥ निरस्तपैड्डर्गरिपुः कृतज्ञो गुणाधिकानां धुरि वर्तमानः । स मत्सरेणेव समं गुणौधैर्न पस्पृशे दोपगणैः कुमारः ॥ १४ ॥ पितुर्निदेशादथ सुन्दराङ्गी स राजकन्यां विधिनोपयेमे । प्रभावतो देहगतप्रभायाः प्रभावतीति प्रथिताभिधानाम् ॥ १५ ॥ तं यौवराज्ये परिणीतभार्य नियोज्य धुर्य वशिनां तनूजम् । स राज्यसौख्यं विगतान्तरायं निश्चिन्तचित्तोऽनुवभूव भूपः ॥ १६ ॥ भोगैः स वाञ्छाकृतसंनिधानमनोहरेर्मोहितचित्तवृत्तिः । कालं न गच्छन्तमपि प्रजज्ञे प्रज्ञां हि मोहः शिथिलीकरोति ।। १७ ॥ स्थितोऽथ हर्ये स नृपः कदाचिदुल्कां विलोक्याम्वरतः पतन्तीम् । विरक्तबुद्धिर्विषयेपु चिन्तामगादिति प्रोद्गतकाललब्धिः ॥ १८ ॥ समस्तमेवंविधमेव पुंसामशाश्वतं जीवितयौवनादि । तथापि जानाति न मन्दवुद्धिरस्मादृशः पुत्रकलत्रमूढः ॥ १९ ॥ नगापगातोयतरङ्गलोलैविलोभ्यमानो विपयैर्वराकः । नारम्भदोषान्गणयत्यनन्तदुःखप्रदान्मोहवशेन जीवः ॥ २० ॥ क्षणक्षयिप्यायुषि मूढबुद्धिः स्थिराभिमानं यदि नैष कुर्यात् । न कर्मपाशैविवशीकृतात्मा योनिष्वनन्तासु सहेत दुःखम् ॥ २१ ॥ मुहुः प्रणष्टा मुहुरेव दृष्टाः समागमाः स्वप्नसमागमाभाः । विश्वासमृच्छत्यत एव विद्वान्न तेषु संयोगनिबन्धनेषु ॥ २२ ॥ या दुःखसाध्या चपला दुरन्ता यस्या वियोगो बहुदुःखहेतुः । तस्याः कृते जन्तुरुपैति लक्ष्म्याः परिश्रमं पश्यत मोहमस्य ॥ २३ ॥ विहाय ये निवृतिमव्यपायां बहुव्यपायां वृणुते विभूतिम् । हित्वा हिमं ते शुचिचन्दनाम्भः पिबन्त्यपो मूढधियः सपङ्काः ॥२४॥ १. गर्वम्. २. 'कामः क्रोधश्च हर्पश्च मानो लोभस्तथा मदः । अन्तरङ्गोऽरिषड्वर्गों नृपतीनां भवत्ययम् ॥'. ३. मुख्यम्. ४. पुत्रकलत्रादयः. ५. गच्छति. .

४ सर्ग] चन्द्रप्रभचरितम् । ममेदमस्याहमिति ग्रहेण ग्रस्तो वराक कथमेप जन्तु । अणुप्रमाणस्य सुखस्य हेतोर्दुःख गिरीन्द्रोपममभ्युपैति ॥ २५ ॥ न काकतालीयमिद कथचित्क्लेशक्षयान्मानुपजन्म लब्धा । युक्त प्रमाद स्वहिते विधातु ससारवृत्तान्तविदा नरेण ॥ २६ ॥ इति प्रजानामधिप स्वचित्ते विचिन्तयन्समृतिफल्गुमावम् । जगाम वैराग्यमपेतरागो बुद्धे फल यात्महितप्रवृत्ति ॥ २७ ॥ अन्येाराहूय युवेशमीश कृतप्रणामाञ्जलिमित्युवाच । मन्दीभवोमरसानुबन्धा तदीयवक्रे विनिवेश्य दृष्टिम् ॥ २८ ॥ वात्येव यावन्न वपु कुटीरमेतज्जरा जर्जरयत्युपेत्य । प्रवर्धमान तिमिर विहन्तु यावन्न वा दर्शनशक्तिमीष्टे ॥ २९ ॥ यावन्न तीर्थोपगमप्रवीणौ पादौ निजप्रस्फुरण जहीत । कालेन यावद्भजतेऽवसाद न च श्रुतिधर्मकथावसक्ता ॥ ३० ॥ वयोनुरूपेण निवर्धमानो यावस्मृति भ्रशयते न मोहः । यावच्च शास्त्राध्ययनप्रवीणा प्रवर्तते प्रस्खलितु न वाणी ॥ ३१ ॥ तावद्भवान्मोचयितु प्रयत्नादात्मानमिच्छाम्यसुखानलार्तम् । जिनेन्द्रदीक्षानिधिनात्र कायें त्वया न भाव्य परिपन्थिना मे ॥ ३२ ॥ पुरव ससारपरम्पराया हेतो त्रियश्चित्तमपेतमेव । अपेक्षमाणोऽनुदिन त्वदीयमेवोदय राज्यपदेऽवतिष्ठे ।। ३३ ॥ भवानपास्तव्यसनो निजेन वाम्नाब्धिमर्यादमिमामिदानीम् । महीमशेषामपहस्तितारिवोदय पाल्यतु प्रशान्त ॥ ३४ ॥ यया भवत्यम्युदिते जनोऽयमानन्दमायाति निरस्तखेद । सहवरम्मानिव चक्रवाको वृत्त तदेवाचर चारचक्षु ॥ ३५ ॥ वाञ्छन्विभूती परमप्रमावा मोहीविनम्त्व जनमात्मनीनम् । जनानुराग प्रथम हि तासा निवन्धन नीतिविदो वदन्ति ॥ ३६ ॥ समागमो निर्व्यसनस्य राज्ञ स्यात्सपदा निर्व्यसनत्वमस्य । यट्ये म्बकीये परिवार एष तलिन्नवश्य व्यसन गरीय ॥३७ ॥ गुनगानम् . पदारपीदितम् ३ उगविषय मा गया 3 १ ४ कारण ३८ काव्यमाला। विधित्सुरेनं तदिहात्मवश्यं कृतज्ञतायाः समुपैहि पारम् । गुणैरुपैतोऽप्यपरैः कृतघ्नः समस्तमुद्वेजयते हि लोकम् ॥ ३८ ॥ धर्माविरोधेन नयस्व वृद्धिं त्वमर्थकामौ कलिदोषमुक्तः । युक्त्या त्रिवर्ग हि निषेवमाणो लोकद्वयं साधयति क्षितीशः ॥ ३९ ॥ वृद्धानुमत्या सकलं खकार्यं सदा विधेहि प्रहतप्रमादः । विनीयमानो गुरुणा हि नित्यं सुरेन्द्रलीलां लभते नरेन्द्रः ॥ ४० ॥ निगृह्णतो बाधकरान्प्रजानां भृत्यांस्ततोऽन्यान्नयतोऽभिवृद्धिम् । कीर्तिस्तवाशेषदिगन्तराणि व्याप्नोतु बन्दिस्तुतकीर्तनस्य ॥ ४१ ॥ कुर्याः सदा संवृतचित्तवृत्तिः फलानुमेयानि निजेहितानि । गूढात्ममन्त्रः परमन्त्रभेदी भवत्यगम्यः पुरुषः परेषाम् ॥ ४२ ॥ तेजस्विनः पूरयतोऽखिलाशा भूभृच्छिरःशेखरतां गतस्य । दिनाधिपस्येव तवापि भूयात्करप्रपातो भुवि निर्विबन्धः ॥ ४३ ॥ इति क्षितीशः सह शिक्षयासौ विश्राणयामास सुताय लक्ष्मीम् । सोऽपि प्रेतीयेष गुरूपरोधात्पितुः सुपुत्रो ह्यनुकूलवृत्तिः ॥ ४४ ॥ ततः स पुत्रापितराज्यभारः पृष्टाखिलज्ञातिरपास्तसङ्गः। तप्त्वा तपः श्रीप्रेभपादमूले समासदत्सिद्धिवधूवरत्वम् ॥ ४५ ॥ श्रीवर्मराजोऽपि पितुर्नियोगादिनानि भूत्वा कतिचित्सशोकः । संबोधितो मन्त्रिसुहृत्समूहैविनिर्ययौ साधयितुं धरित्रीम् ॥ ४६ ॥ विधाय मौलं वलमात्ममूले स नीतिमानाटविकं बहिस्थम् । मध्ये च सामन्तवलं वलीयश्चचाल चूलामणिभासिताशः ॥ ४७ ॥ समुच्छलत्तस्य तुरंगमोत्थं सेनारजो रासभरोमधूम्रम् । परं दिशामेव मलीमसानि नास्यानि चक्रे रिपुयोषितां च ॥ ४८ ॥ सैन्यध्वजैरप्रतिकूलवातव्याधूननप्रोल्लसितैस्तदीयैः । नान्तर्दधे केवलमेव सूर्यः शत्रुप्रभावस्य महाप्रभावैः ॥ ४९ ॥ प्रयाणकालप्रभवैरुदारैस्तदीयमातङ्गमदप्रवाहैः । पांसुप्रतानः शमयांबभूवे न केवलं धाम च शात्रवीयम् ॥ ५० ॥ १. परिवारम्. २. बृहस्पतिना वृद्धेन च. ३. दत्तवान्, ४. जग्राह. ५. श्रीप्रभो नाम मुनिः.

४ सर्ग] चन्द्रप्रमचरितम । मूर्च्छन्दरीणा निवरेपु तस्य प्रस्थानशसी पटहप्रणाद | न पातयामाम पर तटानि क्षोणीवराणा द्विपता व चेत ॥ ११ ॥ पोरे. समागत्य गृहीतरत्नस्याले सुदूरान्ननपूर्वकार्य । प्रदशितानेकपयोविकार प्रत्युद्यये याममहत्तरैश्च ॥ १२ ॥ निशम्य तस्यातुलपुण्यशक्ते प्रस्थानमाविप्कृतरिक्रमस्य । महाभयव्याकुलमानसाना द्विपामभूवन्निति चेष्टितानि ॥ ५३॥ दारान्सुतानप्यनपेक्ष्य केचित्खदेहरक्षा बहुमन्यमाना । तसैन्यसचारविमर्दभीता भेजुर्दिगन्तान्हरिण साँव ॥ ५४ ॥ कटोरधार विनिवेश्य कण्ठे कुठारमन्ये भयविकलाङ्गा । मता शरण्य शरण तमीयुर्जिन यथा मानमपोह्य भव्या ॥ ५५ ॥ सना सन्य सह शौर्यगोण्डेरेके महामानगजाधिरूढा । तदीयशस्त्राग्निशिखावलीपु प्रपेदिरेऽभ्येत्य पतनवृत्तिम् ॥ १६ ॥ पत्र धन धान्यमोपरत्नान्युपायनीकृत्य निरस्तदा । हिमतुरक्षा इव गातिताना खजीनितान्येव ररक्षरन्ये ।। ५७ ॥ बद्धाञ्जलीन्खण्डितमानजान्गृहीतमारानय तान्विधाय । न्ययुत म म्वेषु पदेषु भूय सता हि कोपो नमनावसान ॥ ५८ ॥ निपातिताना रणभ्यरीणामुपेयुप कण्टकुटारवृत्त्या । सोऽन्वग्रहीदार्टमनालन्नान्युक्तव दीनेषु कृपोन्नतानाम् ॥ ५९ ॥ गतापलेप प्रनिशद्भिरेत्य दत्तामयमण्डलिना ममूह । दिने दिने तत्कटक ममन्तादताम्भोपिनिगीपयेव ॥६॥ गण्डम्याटामोदद्विरेफेमंदात्रुविदितभरजोमि । तत्तोरणद्वारमभूदुदान नातुनिच्छन्नमुपायने ॥ ६१ ॥ गजेन्द्रदन्नधमरीकनी पगेन्द्रशारिपि पजरस्य । न पार्याया मापेत्य भीता मिपपिर मेरस्वृत्त्यभिज्ञा ॥१२॥ यम्नुपदीत्य यिनितम्पनीपोभा द्वीपपतीनुपेनान् । समारयामाम मुदृष्टिटानशेत प्रभृणा ना नोतिनम् ॥ ६॥ ants काव्यमाला। यातेन मुक्ता रविणेव साभूदङ्गारिणी शत्रुचिताभिराशा । प्रधूमिता यां च चकाङ्क यातुं पलायमानारिचमूरजोभिः ॥ ६४ ॥ कल्लोलहस्तैः स्फुरदंशुजालं मुक्ताफलौघं विकिरंस्तटेषु । वेलावनप्राप्तबलस्य तस्य भयादिवारात्करमर्णवोऽपि ॥ ६५ ॥ द्वीपेषु दुर्गेष्वथ मण्डलेषु विदिक्षु दिक्षु प्रतिकूलिताज्ञः । न कोऽपि तस्याजनि पुण्यराशेर्दैवेऽनुकूले किमु नानुकूलम् ॥ ६६ ॥ संस्पृश्य पूर्व परितः करेण नीता पुनस्तेन रतिं समानाम् । .. वधूरिवाम्भोनिधिवारिवस्त्रा बभूव वश्या सकला धरित्री ॥ १७ ॥ इति प्रसाध्याखिलभूतधात्री धात्री चतुर्वारिधिवारिसीमाम् । स वन्दिवृन्दैरभिवन्द्यमानः श्रीमान्पुनः श्रीपुरमाससाद ॥ ६८ ॥ नवोदयं प्रस्फुरितप्रतापं प्रसाधिताशेषदिगन्तरालम् । प्रत्यागतं भानुमिव प्रणन्तुं तमघहस्ता जनता निरीयुः ॥ ६९ ॥ मनोहरैः संहतकच्छवाटैहि वां श्यामरुचः प्रदेशान् । विलोकयनराजगजाधिरूढः स गोपुरस्याभिमुखो बभूव ॥ ७० ॥ भरक्षमक्ष्मारुहमूलबद्धस्कन्धान्मदान्धानलिशोभिकुम्भान् । व्यलोकतासौ धुनतः शिरोधीन्कृतप्रणामानिव वारणेन्द्रान् ।। ७१ ।। कलं नदन्ती परिखातटेषु निषेदुषी शङ्खसिता समन्तात् । हंसावलिस्तस्य जहार चित्तं सहैव गत्या गमनोत्सुकस्य ॥ ७२ ॥ स खातिकायाः पयसो विनिर्यत्कुतूहलेनेव विलोकनस्य । ददर्श पाठीनकुलं समन्तात्सरोजजैः पिञ्जरितं रजोभिः ॥ ७३ ॥ गवाक्षनिक्षिप्तमुखारविन्दा पौराङ्गनास्तं नयनाभिरामम् । संभूय नेत्राञ्जलिभिः पिबन्त्यो न सस्मरुः खं श्लथनीविबन्धम् ॥७४ ॥ समधिकनवयौवनोदयश्रीविदधदधः शशिनं शरीरकान्त्या । - स नृपतिरविशत्पुरं पुरान्तर्गतवनिताहृदयं च पञ्चवाणः ॥ ७५ ।। सह शशिसमकान्त्या शीलसौभाग्यवत्या विधृतविमलमूर्त्या कामशक्त्येव देव्या । १. रविणा मुक्ता दिगद्गारिणीत्युच्यते, गन्तव्या तु प्रधूमितेति. २. पृथिवीम्.

५ सर्ग] चन्द्रप्रमचरितम् । रतिसुखमसमान मानयन्वैविलासै- रकृत निकृतशत्रुस्तत्र राज्य स भूप || ७६ ॥ दृष्ट्वा कदाचिदथ शारदमभ्रवृन्द- मुत्पत्त्यनन्तरविनाशि निनाशितारि । निर्वेदमाप सहसा स भवस्थितिज्ञ सन्त. प्रयान्ति विषयेषु हि नातिसक्तिम् ॥ ७७ ॥ श्रीकान्ताय समर्प्य राज्यमखिल नत्वा मुनिश्रीप्रम प्रव्रज्य प्रशमानुरक्तहृदयस्तप्त्वा तपो दुश्चरम । सौधर्मे परमोदय प्रमुदितो व्यब्धिप्रमायु स्थिति- देव श्रीधर इत्यभूत्स विबुधस्त्रीनेत्रनित्योत्सव ॥ ७८ ॥ इति श्रीवीरनन्दिकृतावुल्याङ्के चन्द्रप्रभचरित महाकाव्ये चतुर्थ मर्ग । पञ्चम सर्ग । अध धातकीत्युपपदेन युताममिभूप्य याम्यदिशि खण्डभुवम् । प्रविमासमानवपुरस्ति गुरु सुरसेव्यसानुरिपुकारगिरि. ॥ १ ॥ अपि तस्य पूर्वमरते भरतप्रमुखक्षितीश्वरकृतावतरे । कविवेधसा श्रुतिपथाविषयो विषयोऽलकेति दधदस्त्यभिधाम् ॥ २ ॥ कमलानना मधुकरीनयना नवनालदण्डतनुबाहुलता । हृदयगमा वहति य परितस्तरुणीरिव स्थलसरोरुहिणी ॥ ३ ॥ वितताखिलक्षितितला. पृथव शिखरावलीवलयलीढघना । समता यदीयनिगमान्तगता धरणीपरैर्दधति वान्यचया ॥ ४ ॥ विमलाकृतीरपरिदृष्टतला विहितादरैरपि गभीरतया । प्रविमति य सकरलोकमता महता मतीरिव महासरसी ॥ ५ ॥ जलदीर्विका जनविगाह्यजला सरित शकुन्तरवरम्यतटा । प्रनिमाति य परिदधत्परित सरसीश्च पङ्कजवनामरणा ॥ ६ ॥ खरशीतमारुतरजोरहिते समयोचितोष्णहिमवर्पसुसे । निवसन्कदाचिदपि नाकुलता सकर्तुपु ब्रजति यत्र जन. ।। ७ ।।

४२ काव्यमाला। सिकतास्थलोज्ज्वलबृहजघना भ्रमनाभिकारुचिरमध्यभुवः । सुपयोधरा वहति योऽङ्कगता निजवल्लभा इव महासरितः ॥ ८ ॥ न नवं वयो व्यसनवर्गहतं न जरा मतिस्मृतिविमोहहता। न हता गुणा मलिनदोषगणैर्न च यत्र मृत्युरपमृत्युहतः ॥ ९ ॥ निरवग्रहैर्नवनवैः परितः परिपूर्णया विविधसस्यचयैः । प्रतनोति योऽखिलजनस्य भुवा नयनोत्सवं सुरकुरूपमया ॥ १० ॥ तरुराजयः सकुसुमाः कुसुमं फलवत्फलं मधुरतानुगतम् । नहि तत्र किंचिदपि वस्तु न यज्जनतामुदं प्रविदधात्यथवा ॥ ११ ॥ अथ कोशलेति भुवनत्रितयप्रथितास्ति तत्र विषये नगरी । अलकेव भूरिविभवानुगतैः परिवारिता प्रचुरपुण्यजनैः ॥ १२ ॥ तनुकुक्षयोऽप्यतनुधारमपो विसृजन्ति यत्र शरदागमने । अतितुङ्गसौधशिखरावततिप्रविदारितोदरभुवोऽम्बुधराः ॥ १३ ॥ मणिदीपकप्रकटनिर्वृतये क्षिपती शिखासु निजमाल्यरजः । दयितेन यत्र नवमुग्धवधूरवहस्यते नतमुखी त्रपया ॥ १४ ॥ विविधासु धन्यजनहर्म्यततेर्मणिभूमिषु प्रतिमया निपतन् । निशि यत्र कुन्दसदृशः कुसुमप्रकरायते ग्रहगणो निखिलः ॥ १५ ॥ असतीजनं जिगमिषु बहुलक्षणदामुखेषु दयितावसथम् । निज एव विघ्नयति यत्र मुहुर्मुखचन्द्रमाः सितविभिन्नतमाः ॥ १६ ॥ रजनीषु यत्र गुरुहर्म्यशिखागतनीलरत्नरुचिविच्छुरितः । हिमदीधितिर्भवति कृष्णवपुः पुरयोषितामिव मुखैर्विजितः ॥ १७ ॥ शिखराणि यत्र परिधेः परितः परिवारितानि शरदभ्रलवैः । रविवाजिनामिव विलङ्घयतां श्रमजैविभान्ति मुखफेनचयैः ॥ १८ ॥ सति मानसेऽप्यकलुषाम्भसि यद्गृहदीर्घिका निरतहंसकुलैः । न विमुच्यते सततसंनिहितैरिव सुन्दरीगतिशिशिक्षिषया ॥ १९ ॥ अतुलप्रतोलिशिखराग्रगतस्फटिकोपलांशुचयसंवलितः । भजते सहस्रकिरणत्वमुडप्रकरोऽपि यत्र रजनीसमये ॥ २० ॥ , ४८ काव्यमाला। श्रुतान्वितस्यान्त्यशरीरभाजस्तत्त्वावबोधक्रममाणबुद्धेः । भवस्थितिस्ते विनिवेद्यमाना शतक्रतोनीककथेव भाति ॥ ८६ ॥ अनिष्टयोगप्रियविप्रयोगौ साधारणौ सर्वशरीरभाजाम् । इत्यात्मबुद्ध्या विगणय्य विद्वान्न खेदयत्यात्ममनो विपादैः ॥ ८७ ॥ अर्हस्यतस्त्वं प्रविधातुमेनं शरीरसंतापकरं न शोकम् । विपत्सु देवोपनिवन्धनासु प्रखिद्यते कातरधीन धीरः ॥ ८८ ॥ विशङ्कमानोऽकुशलं तनूजे खेदं महीमण्डन मा स यासीः । संयुज्यसे त्वं दिवसः कियद्भिः समृद्धिभाजा निजनन्दनेन ॥ ९ ॥ इति गिरमभिधाय निश्चितार्थी गतवति तत्र निजाश्रमं मुनीन्द्रे । स निखिलमकृतादिकं विधेयं प्रहितनरेन्द्रनियोगिमन्त्रिवर्गः ॥ ९० ॥ दिनैरल्पैरेव प्रथितगुणराशेस्तनुभुवो विदित्वा संयोगं परममुदयं चोग्रमहसः । न्द स्तुकलार यशसा सुखं तस्थे राज्ञा मुनिवचनविश्वस्तवचसा ॥ ९१ ॥ दक के चन्द्रप्रभचरिते महाकाव्ये पञ्चमः सर्गः । ए - षष्ठः सर्गः। भ्रमय्य मुक्तः सरुषासावसुरेण राजसूनुः । मामि सरसि प्रोन्मिषदुग्रनक्रचक्रे ॥१॥ तस्य घातादपविद्धेषु पयःसु सर्वदिक्कम् । स्थलीबभूव स्थलमासीच्च जलाशयो मुहूर्तम् ॥ २ ॥ क. द न । तमा प्रविलङ्घय वारि दोाम् ॥ ३ ॥ तः ककुभः कर्बुरयन्सरोन्तिकस्थः । ऽपि वीरः परुषाख्यामटवीमगम्यरूपाम् ॥ ४ ॥ निवहैश्छन्नसमस्तदिङ्मुखायाम् । तिग्मरश्मेरपि पादा इव दर्भसूचिभीत्या ॥ ५ ॥ . .

४८
काव्यमाला।
श्रुतान्वितस्यान्त्यशरीरभाजस्तत्त्वावबोधक्रममाणबुद्धेः ।
भवस्थितिस्ते विनिवेद्यमाना शतक्रतो ककथेव भाति ।। ८६ ॥
अनिष्टयोगप्रियविप्रयोगो साधारणौ सर्वशरीरभानाम् ।
इत्यात्मवुद्ध्या विगणय्य विद्वान्न खेदयत्यात्ममनो विपादैः ॥ ८७ ॥
अर्हस्यतस्त्वं प्रविधातुमेनं शरीरसंतापकरं न शोकम् ।
विपत्सु देवोपनिवन्धनासु प्रखिद्यते कातरधीन धीरः ॥ ८ ॥
विशङ्कमानोऽकुशलं तनूजे खेदं महीमण्डन मा म यासीः ।
संयुज्यसे त्वं दिवसः कियद्धिः समृद्धिभाजा निजनन्दनेन ॥ ८९ ॥
इति गिरमभिधाय निश्चितार्थी गतवति तत्र निजाश्रमं मुनीन्द्रे ।
स निखिलमकृतादिकं विधेयं प्रहितनरेन्द्रनियोगिमन्त्रिवर्गः ॥ १० ॥
दिनैरल्पैरेव प्रथितगुणराशेस्तनुभुवो
विदित्वा संयोगं परममुदयं चोग्रमहसः ।
पठद्वन्दिवातस्तुतशशिकलाशुभ्रयशसा
सुखं तस्थे राज्ञा मुनिवचनविश्वस्तवचसा ।। ९१ ॥
इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये पञ्चमः सर्गः ।
३
षष्ठः सर्गः ।
अथ तेन परिभ्रमय्य मुक्तः सरुषासावसुरेण राजसूनुः ।
निपपात मनोरमाभिधाने सरसि प्रोन्मिषदुग्रनक्रचक्रे ॥ १ ॥
गगनात्पतितस्य तस्य घातादपविद्धेपु पयःसु सर्वदिकम् ।
जलधाम तदा स्थलीबभूव स्थलमासीच्च जलाशयो मुहूर्तम् ॥ २ ॥
परितः परिचूर्णयन्नुपेतान्मकरादीन्धनमुष्टिपाणिघातैः ।
प्रकटीकृतपूर्वपुण्यशक्तिस्तटमाप प्रविलङ्घय वारि दोाम् ॥ ३ ॥
धवलारुणकृष्णदृष्टिपातैः ककुभः कर्वरयन्सरोन्तिकस्थः ।
स ददर्श समं ततोऽपि वीरः परुषाख्यामटवीमगम्यरूपाम् ॥ ४ ॥
पृथुतुङ्गनिरन्तरैस्तरूणां निवहैश्छन्नसमस्तदिङ्मुखायाम् ।
निपतन्ति न यत्र तिग्मरश्मेरपि पादा इव दर्भसूचिभीत्या ॥ ५ ॥

६ सर्गः]
चन्द्रप्रभचरितम् ।
४९
मृगराजविदारितेभकुम्भच्युतमुक्ताफलपतय. समन्तात् ।
पतिता इव तारका नमस्तस्तरुशाखास्खलनेन भान्ति यस्याम् ॥ ६ ॥
अतिरौद्रकिरातमल्लभिन्नप्रियकावारुणिता दधाति भूमि ।
रुचिरत्वमरण्यदेवताना चरणालक्तकचर्चितेव यस्याम् ॥ ७ ॥
शवराहतपुण्डरीकयूथैविटपालम्बिभिरेकतोऽपरत्र ।
हरिहिसितसामजास्थिकूटैर्जनसत्रासकरी पुरीव मृत्यो ॥ ८ ॥
मदगन्धिषु सप्तपर्णकेपु प्रचुरप्रान्तलतान्धकारितेपु ।
करिशङ्कितया क्रम दधाना हरयो यत्र भवन्ति वन्ध्यकोपा ।। ९ ।।
सततप्रयतैरपोढशीता शयुनि चासचयोणितर्मरुद्भिः ।
गमयन्ति महीधराधिरूटा शिशिरतु प्लवगा सुखेन यस्याम् ॥ १० ॥
वनपादपसकटान्तराले गहने यत्र स जातदिक्प्रमोहः ।
निनिचाय्य चिराहनेचराणा पदवी निर्भयमानस प्रतस्थे ॥ ११ ॥
गुरुवशमथाप्रमाणसत्त्व स्थितिमत्युन्नतिशालिनी दधानम् ।
रुनिराकृतिमेकमालुलोके स्ससमान स नग गजेन्द्रगामी ॥ १२ ॥
बहुनागमनेकखगिसेव्य तमिलानाथमिव प्रसापिताशम् ।
गगनस्पृशमारुरोह शैल वनपर्यन्तबुभुत्सया कुमार ॥ १३ ॥
स्फुरदोष्ठनल कराल्वको भुजदण्डभ्रमितप्रचण्डयष्टि ।
महसानिरभूत्पुरोऽस्य तसिन्पुरुप प्रातृपिनाम्युवाहनीर ॥ १४ ॥
प्रनिनादिनसनशैलरन्ध्र स समेत्य त्वरया समीपदेशम् ।
वनन परुपाक्षराविपवेरिति त तनयति स्म राजपुत्रम् ॥ १५ ॥
किनु कोऽपि बलोद्धतम्त्वमुच्चैरन विद्यातिशय दधामि कनित् ।
यदकारि मनम्नया मदीरा भुवमाकान्तुमिमामनन्यभोग्याम् ॥ १६ ॥
निदशो यदि या दितेलनृनो न माज्ञामनाप्य कोऽपि शक्त ।
परिरक्षितमम्मदीयदोया गिरिमाकान्नुमिम विशालगृहम् ॥ १७ ॥
जानीरमशीतवाते धरणीधे शिशिरत्यमादधाना ।
प्रान्ति न यामिदा किरणा कारणमन मत्मनाप ॥ १८ ॥

५० काव्यमाला। इदमात्मवधाय मद्विरुद्धं विदधानो बुध केन विप्रलब्धः । अथवा न गतः श्रुति तवाहं नहि विद्वानसमीक्षितं विधत्ते ॥ १९ ॥ इति तस्य निशम्य गर्वगभी स गिरं मर्मनिकृन्तनीमिवेपुम् । कुपितः कृतसौष्ठवं वभापे जयलक्ष्मीनिलयो नरेन्द्रसूनुः ॥ २० ॥ भजते भयमेभिरर्थशून्यैर्वचनैः कापुरुपो न धीरचेताः । अहमस्मि सुरासुरैकमल्लो गणना कैव भवद्विधे नृकीटे ॥ २१ ॥ तदलं परिभापितैरमीभिर्वहुभिः सस्मितभाषिणो हि सन्तः । यदि पौरुपमस्ति मुञ्च घातं न भवत्येप मदीयमुष्टिपिष्टः ॥ २२ ॥ इति वादिनि तत्र राजपुत्रे तरसापातयदायसी स यष्टिम् । तमसावपि वञ्चितप्रहारः स्वभुजाभ्यन्तरवर्तिनं चकार ॥ २३ ॥ इतरेतरवाहुपीडिताङ्गौ मिलितो लोकपती इवाजिकण्ड्वा । निभृताभिररण्यदेवताभिर्दशाते तरुजालकान्तरेण ॥ २४ ॥ करणैर्विविधैरशेपबन्धैश्चरणाभ्याहतिभिर्भुजमहारैः । क्रमजातजयं प्रचण्डशक्त्योश्चिरमङ्गेन तयोर्वभूव युद्धम् ॥ २५ ॥ अथ भूपतिसूनुना कराभ्यां स समुत्फाल्य नभस्तले विमुक्तः । कृतषोडशभूषणाभिभूपं वपुरादर्शयति स्म दिव्यरूपम् ।। २६ ।। इति चाभिदधे हिरण्यनामा परमद्धिस्त्रिदशोऽस्मि नाकलोके । अभिवन्ध जिनालयान्सुराद्रौ सुभग क्रीडितुमागतोऽत्र शैले ॥ २७ ॥ कृतकप्रधनेन रूपमन्यत्समुपादाय मया परीक्षितोऽसि । अमुना तव साहसेन चेतः परतन्त्रीकृतमेतदस्मदीयम् ॥ २८ ॥ विभृतोऽसि ययाम्बुजाक्ष कुक्षौ जननी धन्यतमा तवैव सैका । कृतिनः ससुरासुरेऽपि लोके चरितं यस्य चमत्कृतिं विधत्ते ॥ २९ ॥ हृदयाभिमतं वरं वृणीष्वेत्यभिधातुं त्रपया न मेऽस्ति शक्तिः । नहि पुण्यवतां भवद्विधानां पैरनिष्ठं भुवने समस्ति किंचित् ॥ ३० ॥ तदपि वचन प्रयत्नसाध्ये विपयेऽहं मनसि त्वया विधेयः । न सहायविनाकृता कदाचित्पुरुपस्योद्यमशालिनोऽपि सिद्धिः ॥ ३१॥ १. युद्धकण्डूत्या. २. पराधीनम्.

६ सर्ग] चन्द्रप्रमचरितम् । अपर च निवेदयाम्यह ते शृणु जन्मान्तरवृत्तमेकचित्तः । अभवस्त्वमितो भवे तृतीये नृपति श्रीपुरभुक्सुगन्धिदेशे ॥ ३२ ॥ गृहिणौ शशिसूर्यनामधेयावथ तत्रैव कृपीवलावभूताम् । अपरेधुरुपेत्य दत्तखातसकल सूर्यधन शशी जहार ॥ ३३ ॥ अवगम्य निपातितस्त्वयासौ स्वधनेन प्रतियोजितश्च सूर्य. । परिवृत्य भवे प्रभूतयोनावसुरश्चन्द्रसचि शशी बभूव ॥ ३४ ॥ समुपानितपूर्वपुण्यलेशादभव सूर्यचरस्त्वह हिरण्य । अजनिष्ट तत स पूर्ववैरात्तव हर्ता रिपुरस्म्यह च मित्रम् ॥ ३५ ॥ मधुराक्षरहारिणी स वाणीमभिधायेति तिरोबभूव देव । नरनाथसुतोऽपि तत्प्रभावात्सहसात्मानमलोकयद्वनान्ते ॥ ३६ ॥ किमिद परमाद्भुत मया यद्वनमुत्तीर्णमदर्शि काननान्त । मनसेति निचिन्तयस्तदा त महिमान स हिरण्यन विवेद ॥ ३७॥ गहनान्तमथापहाय राष्ट नगरपामनिरन्तर प्रविष्ट ॥ सकलास्वपि दिक्षु जातभीति विलुलोके स जनं पलायमानम् ॥ ३८ ॥ उपसृत्य पुमासमेकमाराद्भयरोमाञ्चितसर्वगात्रयष्टिम् । उपनातकुतूहल. कुमार. परिपप्रच्छ पलायनस्य हेतुम् ॥ ३९ ॥ पृथिवीपतिपुत्रपृच्छयासाविति निर्विण्णमना जगाद वाचम् । गगनात्पतितोऽसि किं प्रसिद्ध न विजानासि यदेतमप्युदन्तम् ॥ ४०॥ प्रथितोऽयमरिंजयामिधानो वनधान्याट्यजनाकुलो जनान्त । निजहाति सदा न यत्र शोमा नवसस्याङ्कुरशाद्वला परित्री ॥ ४१ ॥ विपुल विपुलाभिवा दधान पुरमस्त्युत्तममस्य नाभिभूतम् । प्रनिभाति यदुचप्सौधशृङ्गेर्विरिखत्ख सचराधिवासकल्पम् ॥ ४२ ॥ जयवाञ्जयवर्मनामधेयो नगर तत्पृथिवीपति प्रशास्ति । यदतीनकरापनीततापा निरपेक्षा वसुघोदये हिमाशो ॥ १३ ॥ दिननाथायमेव पूरिताशा लरपत्नीन वितीर्णकाममौस्या । रणव्यजयश्रियो जयश्रीरभात्तव वधूर्विधूपमासा ॥ १४ ॥ ५ मारित • रहितम् ३ दंग ५२ काव्यमाला। उदपादि तयोः शशिप्रभाख्या दुहिता सर्वजगल्ललामभूता । तरतीव शशाङ्कचारु यस्या निजलावण्यपयोनिधौ शरीरम् ॥ ४५ ॥ अथ तामपरो महेन्द्रनामा जयवर्माणमयात्रत क्षितीशः। वितरन्नचिरायुपे तनूजां किल तस्मै स निमित्तिना निपिद्धः ॥ ४६ ।। स निरस्तमनोरथस्तदानीं सह संभूय समस्तराजलोकैः । जयवर्मवलं निहत्य युद्धे पुरमावृत्य वितिष्ठते तदीयम् ॥ ४७ ॥ तदयं स्वविनाशमीक्षमाणः सकलो राष्ट्रजनः प्रयाति भग्नः । गिरमित्यवगम्य तस्य हृप्यन्युवराजो विपुलं प्रति प्रतस्थे ॥ ४८ ॥ ददृशे च गतेन तेन तस्मिन्नगरं तद्रिपुसैनिकैः परीतम् । शिशिरांशुसमुद्गमे प्रवृद्धैरिव वेलावनमम्वुधेस्तरङ्गैः ॥ ४९ ॥ अविकम्पितधीरसंस्तुतत्वात्प्रतिपिद्धोऽपि नृपाज्ञया प्रगच्छन् । करिकीर्णपथां प्रतिप्रतोलीमिति तैः सोऽभिदधे महेन्द्रयोधैः ॥ १० ॥ शिरसा न निजेन तेऽस्ति कार्य परिनिविण्णमतिः खजीविते वा । नृपशासनमप्रसह्यमन्यैर्यदतिक्रम्य पथैपि निर्विशङ्कः ॥ ५१ ॥ स तदीयवचःप्रवृद्धमन्युर्धनुरेकस्य कराजहार धीरः । खनृपेण सहैव रक्षतासून्यदि शक्तिर्भवतामिति ब्रुवाणः ॥ ५२ ॥ नगतुङ्गमतङ्गजोगनके पवनस्पर्धितुरङ्गवीचिचके । विचरंश्चतुरङ्गसैन्यसिन्धौ ददृशे मन्दरवत्स पौरलोकैः ॥ १३ ॥ विषवह्निशिखामिवेषुमालां क्षिपतः संततधारमेकवक्रम् । विदधद्विमुखान्भटानिवाहीन्स गरुत्मेव महेन्द्रमाप कोपात् ॥ १४ ॥ प्रलयाहिमदीधितेरिवोल्का सृजतो मार्गणसंहति कुमारः । सविलासनिपातितैकबाणो विधवां तस्य चकार राज्यलक्ष्मीम् ॥ ५५ ॥ तमकारणबान्धवं ततोऽसौ समुपादाय विपक्षकक्षदावम् । प्रविवेश समुत्सवैर्महद्भिर्जयवर्मा नगरं कृतादृशोभम् ॥ ५६ ॥ पुरनाथपुरःसरः कुमारः प्रविशन्राजनिकेतमुत्पताकम् । विदधे विविधान्वधूजनानां हृदयोन्मादविधायिनः स भावान् ॥ ५७ ॥ १. आसन्नमृत्यवे.

६ सर्ग]
चन्द्रप्रमचरितम् ।
वपुपा जयतामरेन्द्रलक्ष्मीमितरासंभविना च पौरुपेण ।
परिसूचनया विनापि राज्ञा बुबुधे जातिकुलोन्नतिस्तदीया ।। १८ ॥
निवसन्कृतसत्कृति. स तस्मिन्विनमय्यावनिपान्निजप्रतापै ।
निपुलाधिपतेश्चकार वश्या सुरराजोपमविक्रमो धरित्रीम् ॥ ५९ ।।
सह वल्डमया पति प्रजाना शयनीयस्थितमेकदा समेत्य ।
विहितप्रणति परेगितज्ञा निजगादेति सखी शशिप्रभायाः ॥ ६ ॥
नरनाय युवा यदा स दृष्टो भवतो देहजया महेन्द्रमदी।
निदधाति तत प्रभृत्यनास्था स्वशरीरेऽपि विमुक्तगन्धमाल्या ॥६१ ॥
परिशून्यमना विचिन्तयन्ती किमपि क्षामनिपाण्टुगण्डलेखा ।
परिवारसमाहतेऽन्नपाने ज्वरहीनापि दधात्यरोचकत्वम् ॥ १२ ॥
हिमदग्धसरोरुहोपमाङ्गया हृदि तस्या विनिपत्य तत्क्षणेन ।
कथता नयनाम्युनान्तरङ्ग परिताप परिगम्यते गरीयान् ॥ १३ ॥
श्वसितैरहिमैनितान्तदीरिव धूमप्रसरैवियोगवते ।
सरसीरुहशकया मुखेऽस्या निपतरमुदस्यतेऽलिवृन्दम् ॥ १४ ॥
मुपिता वदनश्रिया मम श्रीरनयेतीव रुपोपजातमू म् ।
विदधाति मुहुर्मुहुर्मुगाक्षी निपनि स्यन्दिमिरशुभि शशाङ्क ॥ १५ ॥
परितापविनाशनाय शय्या क्रियते या नवपल्लचे सग्वीभि ।
दववद्विशिखावठीव सापि पलयत्यम्बुनकोमल तदगम् ॥ १६ ॥
निदधातु भुजगसङ्गमाजो रससेक सलु चन्दनस्य तापम् ।
प्रविभाति महत्तदत्र चित्र यदमू छुप्यति दक्षिणोऽपि वात ॥ ६७ ॥
नितरा परिकोपितो मनोभू रतिरूप ध्रुवमेतया हरन्त्या ।
विदधाति विनाशहेतुमस्या किमसाधारणमन्यथा प्रयत्नम् ।। १८ ॥
सपदि प्रविधीयता तन्त्र प्रविधेय गुणवद्विमृश्य बुद्ध्या ।
हरिणायतचक्षुरीश यावद्दशमी याति दशा न पुप्पकेनो ॥ १९ ॥
श्रुतवानिति तहिर गरीय प्रमदोद्यत्पुलको बभूव भूप ।
दुहितुविंगणव्य चित्तवृत्ति सहशीमात्मन एव चित्तवृत्ते. ॥ ७० ॥

५४ काव्यमाला। अपरेधुरपृच्छदाहतात्मा सहसास्य निमित्तिनं नरेन्द्रः । विदधे च शुभे शरीरजाया दिवसे तत्प्रतिपादिते प्रदानम् ॥ ७१ ॥ स ततः प्रभृति प्रतीततेजा निजपाणिग्रहवासरं कुमारः । गणयन्सरवाणभिन्नमा दयितासङ्गसमुत्युकोऽवतस्थे ॥ ७२ ॥ गिरिरस्त्यथ खेचराधिवासः शिखरोत्तम्भिततारकासमूहः । विजयार्ध इति प्रसिद्धनामा निजविस्तारनिरुद्धदिग्विभागः ॥ ७३ ।। कलधौतमयोऽखिलासु दिक्षु प्रकिरन्यः शशिशुभ्रमंशुजालम् । प्रविभाति विशालमेदनीकः शुचिनिर्मोक इवाम्बरोरगस्य ॥ ७४ ॥ पृथु दक्षिणतोऽस्ति तत्र रम्यं पुरमादित्यपुराभिधां दधानम् । रजताच्छतयेव देवलोकात्प्रतिविम्बं पतितं मनोभिरामम् ॥ ७९ ॥ धरणीध्वज इत्यभूत्प्रशास्ता वलवांस्तस्य पुरस्य खेचरेन्द्रः । अमरेन्द्र इवोद्धतान्व्यधाद्यः सकलान्खेचरभूभृतो विपक्षान् ॥ ७६ ।। अथ स प्रियधर्मनामधेयं परमाणुव्रतपालनप्रसक्तम् । यतिचिह्नधरं सभान्तरस्थः सहसा क्षुल्लकमागतं ददर्श ॥ ७७ ॥ प्रेतिपत्तिभिरर्थपूर्विकाभिः स्वयमुत्थाय तमग्रहीत्खगेन्द्रः । मतयो न खलूचितज्ञतायां मृगयन्ते महतां परोपदेशम् ॥ ७८ ॥ प्रविसर्जितसर्वपादसेवागतविद्याघरबन्धुमन्त्रिवर्गः । गुरुविष्टरमास्थितेन तेन सितपूर्व स कृताशिषा बभापे ॥ ७९ ॥ खचराधिप योगिनोऽपि कामं किमपि स्निह्यति मानसं न जाने । त्वयि बान्धववत्सले ममाहो बलवान्सर्वजगत्सु मोहराजः ॥ ८० ॥ तव मानधनाखिलप्रकारैः प्रविधातुं प्रियमीहते मतिर्मे । तमिमं शृणु यो मया मुनीन्द्रात्त्वदुदन्तो विदितः सुधर्मनाम्नः ॥ ८१ ॥ विपुलाख्यमरिंजयामिधाने पुरमस्तीन्द्रपुरोपमं जनान्ते । तदपास्तसमस्तवैरिव! जयवर्मेति भुनक्ति भूमिपालः ॥ ८२ ॥ मृगदृष्टिरपि भ्रमप्रंहीणा शशभृत्कान्तिरलाञ्छनप्रसङ्गा । करदीकृतमण्डलस्य जिष्णोस्तनया तस्य शशिप्रभाभिधाना ॥ ८३ ॥ १. दुहितुः. २. वर्णिनम्. ३. सपर्याभिः.

६ सर्गः] चन्द्रप्रभचरितम् । परिणेप्यति ता य एव धन्यो मदनस्येव धनुर्लता नताशीम् । स भविप्यति पुण्यराशिरेकस्तव हन्ता भरतस्य च प्रभोक्ता ॥ ८४ ॥ इति वाचमदृष्टमुद्रामा सहसा तस्य निशम्य सेचरेन्द्रः । हृदये विपसाद साध्वसोद्यत्प्रचुरस्वेदजलप्लुताशयष्टि. ॥ ८५ ।। गुणवत्सल मा गमस्त्वमस्मिन्विपये मामकचिन्तयाकुलत्वम् । कमपि प्रतिकारमत्र योग्य प्रविधास्याम्यहमप्रमत्तचित्त ॥ ८६ ॥ इति देशयति नभश्चराणामधिपस्त विससर्ज नम्रमौलि । अवधार्य च कृत्यमात्मचित्ते तमनैपीदिवस निगूढभाव ।।८७॥(युग्मम्) अपरेचुरशेपसैन्ययुक्त स विमानमणिकिङ्किणीकराले । जयवर्मपुर रुरोव गत्वा समयै पौरजनैविलोक्यमान ॥ ८ ॥ प्रजियाय च दूतमुद्धतास्य वचनज्ञ विनिवेदितामिसधिम् । स सभामुपगम्य सूचितात्मा जयवर्माणमिद वचो बभापे ॥ ८९ ॥ वरणीवन इत्यमोधनामा प्रयितः सेचरचक्रचक्रवर्ती । वदतीति भवन्तमक्षताज्ञो नृप मद्वनिवेशितैर्वचोमि ॥९० ॥ तर कापि शशिप्रमाभिधाना दुहितास्त्यर्यसमन्वितेन नाम्ना । भवता फिल सा विदेशकाय प्रवितीर्णेति मया श्रुत जनेभ्य ॥ ११ ॥ तदिद शरदभ्रशुभ्रकीर्तेस्तव युक्त न कुलोन्नतस्य कर्तुम् । भरतो भाति पकीतिरेव सति गुर्गी पृथिवीतले समस्ते ॥ ९२ ॥ विदधाति मति जुताविमोहागृहनामातरि यद्यपीह कोऽपि । अमिनातिरवश्यमेव तेनाप्यभिमृग्या ननु सा वरेषु मुख्या ॥ ९३ ॥ भवतो ननु पुण्यमत्र हेतुर्यदविनातकुलेन तेन नोटा । तदिय न्यारेण दीयना ने हठकार क्रियते मना न यावत् ।। ९४ ॥ दी तद्वननविदचेता पचन भूपतिरभ्यधात्समासात् । मनिमानपि दूत कोचिदम्य न मनागप्यमि लौकिकक्रियायाम् ॥९॥ उछनोऽन्टनोऽगवानु मोऽन्न नहि दत्ता तनया भात्यदत्ता । यदि योऽपि बगहरीतुर्माशम्परितोऽभ्येतु निलम्बते किमर्थम॥२६॥ पान २ परम ५६ काव्यमाला। इति दूतमसौ विसृज्य राजानितसेनाय तदाख्यदाशु कार्यम् । रचित कुटिस्तदा स कोपादिदमूचे श्वशुरं विलोक्य बाहू ॥ ९७ ॥ तव तात न युक्तमाकुलत्वं मयि तिष्ठत्यरिमस्तकैकशूले । त्वमिमं प्रविलोकयाद्य मृत्योर्वदने दुष्टनभश्चरं विशन्तम् ॥ ९८ ॥ इति चित्तममुष्य धीरयित्वा हृदि सस्सार दृढस्मृतिहिरण्यम् । स्मृत एव पुरोऽभवद्गृहीत्वा स रथं रोपितदिव्यशस्त्रजालम् ॥ ९९ ।। अधिरुह्य स तत्र विस्मितास्यैः पुरलोकैश्च परैश्च दृश्यमानः । सुरसारथिरुत्पपात शत्रोरभिसैन्यं शरसंहतीविमुञ्चन् ॥ १०० ॥ तमुदीक्ष्य खरांशुवहुरीक्ष्यं प्रभुलज्जाविवशीकृताः प्रहर्तुम् । शरशक्तिरथाङ्गकुन्तहस्ताः सह संभूय डुढौकिरे नभोगाः ॥ १०१ ॥ निखिलानमितानलक्षमोक्षैः सममक्षत्रधियागतान्पृपत्कैः । समकोचयदप्रकम्पधैर्यः कुमुदानीव करैः सरोजवन्धुः ॥ १०२ ॥ तमसाध्यमवेत्य मानुषास्त्रैरवलोक्य स्ववलं विहन्यमानम् । मुमुचे धरणीध्वजेन कोपादरिमोहप्रवलेन तामसास्त्रम् ॥ १०३ ॥ तिमिरप्रविधायि धावमानं स तदुद्वीक्ष्य तिरोहिताखिलाशम् । सुरदत्तविसर्जितेन सद्यस्तपनास्त्रेण निवारयांवभूव ॥ १०४ ।। भुनगान्गरुडेन वहिमब्दैः कुलिशेनाचलमुद्यमेन तन्द्राम् । पवनेन पयोधरान्स शत्रो रुरुधे विघ्नविनायकेन सिद्धिम् ॥ १०५॥ स ततो हतहेतिरुग्रकोपादसिमुद्यम्य समापतज्जवेन । विगतासुरकार्यमोघशक्त्या हृदि निर्भिद्य शशिप्रभाप्रियेणे ॥ १०६ ॥ निहतप्रमुखे ततोऽरिसैन्ये नगमुड्डीय गते समं वयोभिः । प्रविसृज्य हिरण्यमक्षताङ्गः स पुरं पौरकृतोत्सवं विवेश ॥ १०७ ।। अथ पुण्यदिने मुहूर्तमात्रान्मिलिताशेषपरिच्छदो महेच्छः । गुरुणा निरवर्तयद्विवाहं जयवर्मा दुहितुर्महोत्सवेन ॥ १०८ ॥ विधिना परिणीय राजपुत्री युवराजः कतिचिद्दिनान्युषित्वा । श्वशुरानुमतो जगाम शीघ्र स्वपुरीसुत्सुकसर्ववन्धुलोकाम् ॥ १०९ ।। १. अभ्यागच्छतु. २. एकस्योपरि बहूनामागमने क्षात्रवृत्ति स्ति. ३. बाणविशेपेण.

७ सर्ग] चन्द्रप्रभचरितम् । अतिदूरतरोऽपि तेन सोऽध्वा जनकाचासनलोलमानसेन । दिवसैरतिसमितैल्लचे जनयत्युत्सुकता न कस्य वन्धु ॥ ११ ॥ श्रुत्वा त सकलत्रमुद्धृतरिपु भूत्या महत्यागत विभ्राण प्रमदोदयान्निजतनु पुप्प्यत्कदम्बाकृतिम् । निर्गत्यानुगत पिता परिजन. पौरैश्च जातोत्सवै- रानन्दाश्रुतरङ्गितेक्षणयुगः प्रावेशयत्पत्तनम् ॥ १११ ॥ इति श्रीवीरनन्दिकृतावुदयारे चन्द्रप्रभचरिते महाकाव्ये पष्ठ सर्ग । सप्तम सर्ग । पूर्वजन्मकृतपुण्यकर्मण पाकशासनसमानतेजस । चक्ररत्नमथ तस्य खण्डितारातिचक्रमुदपादि चक्रिण ॥ १ ॥ रश्मिनालजटिलीकृताखिलव्योमदु सहनिरीक्ष्यविग्रहम् । यद्यभाव्यत विलोक्य मानवैर्भानुविम्बमिव सेवयागतम् ॥ २ ॥ त्रासितारिरुदभून्निजद्युतिद्योतितद्युविवरो महानसि । दृश्यजित इव तेन चक्रिण छद्मना स्वयमसेवतान्तक ॥ ३ ॥ वज्रपासुजलधर्मवारण जातमिन्दुरुचि धर्मवारणम् । व्यजितु कमलया स्वसेवन पाणिपद्ममिव सप्रदर्शितम् ॥ ४॥ सिन्धुतोयतरणादिपु क्रियासूपयोगगमनेन गर्वितम् । पुण्यवैभववशीकृत विभोश्चर्मरत्नमगमद्विधेयताम् ॥ ५॥ ज्योतिरुज्ज्वलमनल्पमण्डल यद्यराजदवनी प्रसारितम् । चकभृन्महिमनिर्जित नभ सप्रकुच्य तमिवाश्रय गतम् ॥ ६ ॥ वृत्तिमद्रिकुलिशादिभेदनप्रायकर्मसु दधत्पटीयसीम् । दण्डरत्नमभवद्भवान्तरोपार्जितोर्जितशुभाभ्युदीरितम् ॥ ७ ॥ यदराज निजभासुरप्रभाभासिताखिलनभोदिगन्तरम् । तद्भयाधिगतपथोश्युत वासवस्य कुलिश करादिव ॥८॥ भास्करादिरगगोचरीभवद्धान्तपाटन विधौ पटीयसी । किंकरत्वममनत्समुज्ज्वला तारकाधिपकलेव काकणी ॥ ९ ॥ १ छत्रम् ८ ५८ काव्यमाला। प्रोबभूव नवमेघमेचकप्रान्तवर्तितिमिरक्षतिक्षमः । रत्नदर्पण इव. श्रियः स्फुरद्दीपभासुरशिखः शिखामणिः ॥ १० ॥ स्यन्दमानमदनिर्झरश्चलच्चारुचामरविराजितो गजः । तद्गुरुत्वगुणनिर्जितश्छलाच्छैलराडिव ययावुपानतिम् ॥ ११ ॥ अस्खलद्गति बृहद्बलान्वितं वाजिरत्नमसिधन्मनोजवम् । तन्निभेन विदधे समीपगस्तस्य वायुरिव पर्युपासनम् ॥ १२ ॥ शत्रुदुर्विषहशक्तिभीषणस्तेजसा विजिततारकाधिपः । शौर्यभूररिभियामभूरभूत्कार्तिकेय इव वाहिनीपतिः ॥ १३ ॥ देवमानवशुभेतरग्रहप्रापितापदपहस्तनक्षमः । देहबद्ध इव पुण्यसंचयः संबभूव भवने पुरोहितः ॥ १४ ॥ तत्क्षणाभिलषितामराधिपावासकल्पसदनादिसाधकः । ब्रह्मणा सकलशिल्पकर्मणा संनिभः स्थपतिरप्यजायत ॥ १५ ॥ चित्रपट्टलिखितव्ययागमो नित्यकृत्यगृहकार्यकोविदः । लोकवृत्तविदुदारधीरधीसंगतो गृहपतिः समुद्ययौ ॥ १६ ॥ प्रासिधन्निति शशिप्रभान्विता रत्नशब्दगदिताश्चतुर्दश । तस्य भाग्यभवनस्य भूपतेर्दुर्लभं किमथवा शुभोदये ॥ १७ ॥ नित्यसंनिहितदेहदेवतादत्तचिन्तितविचित्रवस्तवः । रत्नवच्च निधयः सुकर्मणस्तस्य सनि नवोपतस्थिरे ॥ १८ ॥ तेषु मापचणकातसीतिलव्रीहिशालियवमुद्गकोद्रवान् । पाण्डुकः सततमेवमादिकान्क्षुन्मयामयहरान्व्यशिश्रणत् ॥ १९ ॥ कान्तकुण्डलमनोज्ञमुद्रिकातारहारमणिमेखलादिकम् । रत्नरश्मिरुचिरं विभूपणं चित्तवाञ्छितमदत्त पिङ्गलः ॥ २० ॥ वृक्षगुल्मलतिकासमुद्भवं चित्तहारि सकलर्तुगोचरम् । पुप्पपल्लवमथोत्तमं फलं तस्य कालनिधिरीप्सितं ददौ ॥ २१ ॥ १. दूरीकरणे. २. सिध्यन्ति स्म. ३. अदात. ४. एतनामको निधिः.

५९ ७ सर्गः] चन्द्रप्रमचरितम् । रंन्धनद्धनिबिडादिभेटतो भिद्यमानवपुरुत्तमोत्तमम् । वाद्यवस्तु सुखकारि कर्णयोस्तस्य शङ्कनिधिना व्यतीर्यत ॥ २२ ॥ चित्रनेत्रपटचीनपट्टिकारत्नकम्बलपटीपटादिकम् । वस्त्रमातमखिल महागुण चित्तहारि विततार पद्मकः ॥ २३ ॥ कम्रताम्रतपनीयनिर्मित त्रापुप रजतलोहसभवम् । मन्दिरोपकरण ददौ महाकालनामनिधिरेवमादिकम् ॥ २४ ॥ पाससायकरथाङ्गमुद्गर शक्तिशङ्कुतरवारितोमरम् । शस्त्रजालमिदमादिमाणव शात्रवघ्नमनदादुरुप्रभम् ॥ २५ ॥ सोपधानशयनासनादियदेहनिर्वृतिविवायि मार्दवम् । तत्समस्तमननिष्ट तस्य नैपूर्वसर्पनिधिसप्रपादितम् ॥ २६ ॥ चित्ररत्नकिरणे प्रवर्तयन्व्योमनीन्द्रधनुरुद्भवा श्रियम् । सर्वरत्ननिपिरस्य सदा सर्ववाञ्छितफलप्रदोऽभवत् ॥ २७ ॥ नोदेसिक्त स मदप्रवर्तिनी तादृशीमपि विलोक्य ता श्रियम् । धर्म एप हि सता क्रमागतो यन्न यान्ति विमोन विक्रियाम् ॥२८॥ वीतरागचरणौ समर्च्य सद्गन्धधूपकुसुमानुलेपन । सपदा परमया सवान्यव स व्यपत्त निधिरत्नपूजनम् ॥ २९ ॥ चक्रवतिविभवोचितोत्सव तस्य पार्थिवसमूहसगत । पट्टबन्धविधिमन्यदा स्वय सनिधाय निरवर्तयद्गुरु ॥ ३० ॥ केवल तदभिपेकनारिभिर्दूरमुच्छसदभून्न भूतलम् । हर्पसागरनिवर्तवर्तिना सर्वबन्धुसुहृदा च मानसम् ॥ ३१॥ सप्रसादसविकासतारक निर्मलाम्बरतया मनोहरम् । केरल न पुरलोफयोपिता मण्डल समभवदिशामपि ॥ ३२ ॥ व्यसौरभगुणैर्मधुननत्रातचुम्बितविकासिकेसरै । पर्यपूरि कुसुमोत्कर पर भूमिर्न दिविनरपि सिति ॥ ३३ ॥ १ मा नयादर, नद्रा मुग्जादय , निषिनास्तम्यादय नमपरिधिना दत्तम् ३ गो म पृतरान, काव्यमाला। संततोत्सवनिविष्टचेतसां संबभूव सुहृदां न केवलम् । विद्विषामपि भविष्यदापदां सर्वतोऽप्युदितकेतु मन्दिरम् ॥ ३४ ॥ प्राप वारवनिताप्रवर्तितैर्गीतनृत्यविधिभिमनोज्ञताम् । मेदिनी विहितलोकविस्मयोश्च किंनरवधूसमुद्भवैः ॥ ३५ ॥ पेठुरेत्य नटगायनादयो मङ्गलं नृपतिमन्दिराङ्गणे । तुम्बरुप्रभृतयश्च कोकिलालापकोमलगिरो नभोङ्गणे ॥ ३६ ॥ वारिकैर्मूदुजलच्छटोद्यतैः केवलं न खलु राजवर्त्मसु । वारिदैरपि मनाक्प्रवर्षिभिः पांसवः प्रशममाशु निन्यिरे ॥ ३७ ॥ केवलं न मणिबन्धमासुरं तेन पुण्यजयिना नृपासनम् । चक्रिरे गुरुजनाशिषोऽप्यधस्तन्मनोरथपथातिगश्रिया ॥ ३८ ॥ प्राप्य चक्रधरराज्यसंपदा संगमं गुरुकृताभिषेचनः । सोऽधिकं सहजदीधितिर्बभौ सूर्यकान्त इव सूर्यरोचिषा ॥ ३९ ॥ अन्तरेऽत्र नखचन्द्रचन्द्रिकाचुम्बितत्रिदशराजमस्तकः । भव्यलोकनिवहं प्रबोधयन्नाययौ जिनपतिः स्वयंप्रभः ॥ ४० ॥ सिंहविष्टरनिविष्टमच्युतं तं निशम्य निकटव्यवस्थितम् । निर्जगाम रभसेन वन्दितुं चक्रवर्तिसहितोऽजितंजयः ॥ ४१ ॥ तीर्थभूतमुरुभक्तिभावितस्तं प्रणम्य मुनिहंससेवितम् । मस्तकस्थकरकुङ्मलोऽमलं प्रश्नमित्यकृत बन्धगोचरम् ॥ ४२ ॥ बध्यते कथय कर्मभिः कथं नाथ जन्तुरिह मुच्यतेऽथवा । देव संशयविपर्ययाकुलं तिष्ठते त्वयि जगद्यतोऽखिलम् ॥ ४३ ॥ वस्तुतत्त्वमधिगन्तुमिच्छतो भारतीमिति निशम्य भूभृतः । योजनप्रमितया गिराधरस्पन्दवर्जितमुवाच तीर्थकृत् ॥ ४४ ॥ सप्रमादहृदयः कषाययुग्योगवान्विरतिवर्जिताशयः सम्यगीक्षणविपर्ययस्थितः कर्मवन्धमुपयाति चेतनः ॥ ४५ ॥ १. शत्रुपक्षे उ इत्यव्ययमाश्चर्ये, दितकेतु खण्डितध्वजम्. २. वारिणि नियुक्तैः. मिथ्यादर्शनस्थितः.

७ सर्ग:] चन्द्रप्रभचरितम् । ६१ तेन स ववशभावमाहृत कर्मणाष्टविधमेदभागिना । ससरत्यशरणो भवाम्बुधौ लोहकान्तमणिकृष्टलोहवत् ॥ ४६॥ कर्ममि परवशीकृतात्मनो भ्राम्यतो बहुविधासु योनिषु । खल्वबिल्वविधिना प्रमादतो जायते मनुजजन्मसगम ॥ ४७ ।। प्राप्तमानवभवोऽपि कृच्छूतः पुत्रवान्धवकलत्रमोहितः । कर्म तत्किमपि सचिनोत्यसौ येन गच्छति पुनः कुयोनिपु ॥४८॥ इत्यवेत्य भवदु खभीरव सगम विदधते सुमेधसः । कर्मवन्धनविपक्षभृतया ज्ञानदर्शनचरित्रसपदा ॥ ४९ ॥ ज्ञानमर्थपरिवोधलक्षण दर्शन जिनमतामिरोचनम् । पापकार्यविरतिस्वभावक कीर्तित चरितमात्मवेदिमि ॥ ५० ॥ सगत त्रयमिद प्रजायते कृत्स्नकर्मविनिवृत्तिकारणम् । पगुलोचनविहीनवद्भवेदेकक न पुनरर्थसाधकम् ॥ ११ ॥ ज्ञानमागमनिरोधिकर्मणो भाविनश्चरितमजितासनम् । दृष्टिराचरति पुष्टिमेतयोरित्यमेतदुपयोगवत्रयम् ॥ १२ ॥ ज्ञानमात्रमिह ससूतिक्षये करिपत यदबुधैर्न तत्तथा । भेपश्च विदितर्यत शम व्याधिरेति किमनुष्ठितैविना ।। ५३ ॥ शुश्रुवानिति स बन्धमोक्षयो कारण जिनमुग्वारविन्दतः । तत्क्षणादुपययौ निरक्तता श्रेयसि त्वरयते हि भव्यता ॥ ५४ ॥ स प्रहाय शमसक्तमानसः प्रेम चन्धुसुतदारगोचरम् । देहजापितपरिच्छद पर शिश्रिये श्रमणसेवित पदम् ॥ ५५ ॥ चक्रवर्त्यपि गृहीतदर्शन कायवाल्मनसशुद्धिसयुत । त्रि. प्रणम्य निनमर्चित सता प्राविशत्पुरमुदारगोपुरम् ॥ ५६ ॥ अन्यदा नृपतिवृन्दवेष्टित सनियोज्य स पुर प्रयाणके । वाहिनीपतिमसद्यतेनस निर्जगाम दशदिग्जिगीपया ॥ १७ ॥ उत्रमुल्लसितफेनपाण्डुर निर्वभावुपरि तस्य गच्छत । धर्मवारणमिपेण सेरितु चन्द्रमण्डलमिवागत स्वयम् ॥ १८ ॥ १ सल्वाटपिवफलवत.

६२ काव्यमाला। चित्ररत्नपरिपूर्णकुक्षयो मन्द्रगर्जितकृतोऽर्णवा इव । संचरिष्णुरथ रूपधारिणः स्खं विकृत्य निधयः प्रतस्थिरे ॥ ६९ ॥ स्वस्वकृत्यकरणोद्यताशयं व्यन्तरामरसहस्ररक्षितम् । सर्वमध्वनि रथाङ्गपूर्वकं तस्य रत्नमभवत्पुरःसरम् ॥ ६० ॥ तस्य वाजिखुरजै रजश्चयैरुच्छ्रितैस्तपनवमरोधिभिः । पूरिताः करभयादिव स्वयं भेजिरे भृशमदृश्यतां दिशः ॥ ६१ ।। चित्रमेतदतिदूरवर्तिनाप्यस्य सैन्यरजसा प्रसर्पता । यन्निरन्तरमरातियोषितश्चक्रिरे विगलदश्रुलोचनाः ॥ ६२ ॥ सिद्धरत्नमवगम्य संमुखीभूतमप्रतिमपौरुषाश्रयम् । मूर्धदेशनिहिताग्रपाणयः प्राभृतस्तमुपतस्थिरे नृपाः ॥ ६३ ॥ नामयन्नतुलदैवपौरुषान्सिद्धशक्त्युपचितान्स पार्थिवान् । प्राप वारिधितटं समुच्छलत्कीर्तिभासितसमस्तदिङ्मुखः ॥ ६४ ॥ तत्क्षणक्षुभितसिंहविष्टरः संनिकृष्टमवगम्य चक्रिणम् । तं प्रभासविवुधः कृताञ्जलिदिव्यरत्ननिकरैरपूजयत् ॥ ६५ ॥ एत्यढौकितविचित्रभूषणो देव नन्द जय रक्ष मेदिनीम् । तं वचोभिरिति साञ्जलिः स्तुवन्मागधोऽप्यजनि सत्यमागधः॥६६॥ द्वीपसिन्धुविविधाकरोद्भवैः प्राभूतैर्वरतनुर्मनोहरैः । तं विनम्रमुकुटः कुटुम्बिवत्पर्युपास्त मदमानवर्जितः ॥ १७ ॥ प्रागपाग्वरुणदिग्व्यवस्थितानानमय्य नृपखेचरामरान् । व्योमसंचरणगवितानसौ निर्जिगाय विजयार्धवासिनः ॥ ६८ ॥ शक्तिभिस्तिसृभिरन्वितोऽभवद्यः समस्तविजयस्य भाजनम् । तस्य कः खलु जितांशुमद्दयुतेविस्मयोऽत्र विजयार्धसाधने ॥ १९ ॥ साधयन्विविधरत्नमण्डितां मेदिनीमधरितारिविक्रमः । वर्धमानविभवोऽनुवासरं सोऽभवत्सकललोकवत्सलः ॥ ७० ॥ प्रत्यहं द्विगुणपोडशावनीमुख्यपार्थिवसहस्रमूर्धसु । तस्य संसदि गतस्य चक्रिरे वासचूर्णरुचिमविरेणवः ॥ ७१ ॥ :

७ मर्ग] चन्द्रप्रमचरितम् । ६३ पूर्वजन्मकृतपुष्पकर्मणा सोऽजनिष्ट भुवनातिवतिना । पण्णवत्यचिररोचिरुज्ज्वलस्त्रीसहस्रमुखपद्मपट्पद || ७२ ।। तस्य मन्थरचतुष्टयाधिकाशीतिलक्षकरिदानकर्दमै । मन्दिराङ्गणमभूदनारत दुप्पलव्यमघनागमेप्वपि ॥ ७३ ॥ तम्य मारुतविलोलमूर्तिमिहिनवोत्तमतुरगकोटिभि । क्षुभ्यति स परितश्चम्चयो वीचिपतिभिरिवापगापतिः ॥ ७४ ॥ शुद्धकुन्ददलरोचिपा गवामाचितास्तिसृभिरस्य कोटिभिः । रेजिरे गहनभृमयो दिश शारदीभिरिव मेघपङ्गिमि ॥ ७५ ।। तस्य पारिनिषिवारिमेखला मेदिनी मदनसनिमाकृते । सस्यमपदममूत वान्छितामेकसन्यहलकोटिवाहिता ॥ ७६ ।। सैन्यनाट्यनिधिरत्नभोजनान्यासन शयनभाजने पुरम् । वाहनेन सममित्यभीप्सित भोगमाप स दशाङ्गमीश्वर ॥ ७७ ॥ सोऽपिगम्य वसुधावियोपक पोडशामरसहस्रसेव्यताम् । नाकनायक इव स्वतेजसा दु सहेन निततान रोदसी ।। ७८ ॥ सकुल नरनभश्चरामरैराकरैश्च बहुरत्नयोनिभि । म्लेच्छग्वण्डसहित स समितैरार्यखण्डमनयद्वश दिनै ।। ७९ ॥ पटखण्डमण्डितमखण्डवल प्रचण्ड- कोदण्डखण्डितरिपुर्भरत प्रसाध्य । प्रत्याजगाम जगतीतिलक' स सम्रा- टुत्कण्ठमाननिजनन्धुजनामयोभ्याम् ॥ ८०॥ तस्या वणिपथकृताधिकसम्कियाया हारप्रदेशनिनिवेशिततोग्णायाम् । त कामझरपवपुप प्रविशन्तमच्च- शुलोम वीक्ष्य निवर पुरसुन्दरीणाग ।। ८१ ॥ प्रादेशिकानकनिनादविबोधितम्य भृपालमार्गममिपाचनतत्परस्य ।

काव्यमाला।
योषिद्गणस्य गुणवानपि संबभूव
श्रोण्या सहानभिमतः कुचकुम्भभारः ।।.८२ ॥
तद्रूपलोकनविलोभितलोचनायाः
कस्याश्चिदुद्भथितनीवि नितम्बबिम्बे ।
संसक्तमिन्दुरुचिरं दधदन्तरीयं
स्वेदाम्बुबुद्धिमदिव स्खलितं ररक्ष ।। ८३ ॥
काचिद्विहाय गृहभित्तिगतं विचित्रं
चित्रं गवाक्षवदनाभरणीकृताक्षी ।
तद्रूपदर्शनसमुद्भवमन्यदेव
चित्रं स्वचेतसि चकार चकोरनेत्रा ।। ८४ ॥
कस्याश्चिदन्यजनसंकुलमार्गगाया
घर्मोदबिन्दुरुचिरे कुचकुम्भमध्ये ।
जातत्रपेव परभागमनश्चवाना
तुत्रोट हारलतिका सहसा कृशाङ्गयाः ॥ ८५ ॥
आर्द्रदत्तनवयावकमण्डनेन
काचिद्विकासिरुचिराधरपल्लवेन ।
तद्रूपदर्शनसमुत्थममान्तमन्त-
बभ्राम रागमतिरिक्तमिवोद्विरन्ती ॥ ८६ ॥
अन्योन्यसंहतकराङ्गुलि बाहुयुग्म-
मन्या निधाय निजमूर्धनि जृम्भमाणा ।
तदर्शनात्प्रविशतो हृदये स्मरस्य
माङ्गल्यतोरणमिवोत्क्षिपती रराज ॥ ८७ ॥
संभावितैकनयना रुचिराञ्जनेन
तद्रिक्तमेव दधतीक्षणमन्यदन्या
लोकस्य सस्मितविलोकनकारिणोऽर्ध-
नारीश्वरस्मरणकारणतां जगाम ॥ ८८ ॥

८ सर्ग.] चन्द्रप्रभचरितम् । ६५ वन गलद्विगतनीनितया दधाना रोमोदमोपचयगाटतया रुजन्ती । निलस्तकेगनियमाकुलिताग्रपाणे- डेप्या प्रिया च समभूद्रशना परस्याः ॥ ८९ ॥ कादम्बरीमद इवाशयसप्रमोह संस्कारनाश देव च स्मृतिनिप्रमोपम् । कुर्वन्प्रभजन इवाग्विलदेहभङ्ग चिकीड तासु मदनो ग्रहतुल्यबृत्तिः ॥ ९ ॥ इत्य नारी क्षणरुचिरुच क्षोभयन्नीतिदक्ष क्षीणक्षोभ क्षपितनिखिलारातिपक्षोऽम्बुजाक्ष । क्षोणीनाथो निनिहितमहामङ्गलद्रव्यशोभ प्रापत्तेजोनिजितनपनो मन्दिरद्वारदेशम् ॥ ११ ॥ प्रविश्य भवनान्तर क्षणचंतुष्कमध्यस्थित प्रतीक्ष्य जरतीकृत कुशलमङ्गलारोपणम् । नमन्नपि स पादयोर्गुरुजनस्य बद्धाञ्जलि- बभूव भृशमुन्नतो यदिदमद्भुतादद्भुतम् ॥ ९२ ॥ कृतनरणनमस्कियास्तदाना सह मुकुटेन शिरोमिरवहन्त । नृपपनरगणा यथायथ ते ययुरपरेऽदि स्थागिना निसृष्टा ॥९३ ॥ दिव्यान्दिव्याफारवान्नासहायो भोगान्भोगी निगिन्निपिशवः । राज्य गज्यभ्रशिनारातिलोषश्चके चक्री पूर्वपुण्योदयेन ॥ ९४ ॥ दशी श्रीग्निन्दिानागदपा चन्द्रप्रभाग्तेि महारावे मप्तम मर्ग । अटम मर्ग । तर गामति महीं जनतायानातरि ममगेननताया । मोदयन्मधुग्भून्मधुपाना ना नगढन्मधुपानाम् ॥ १॥ . in माना मिल पामरमरममाया .

६६ काव्यमाला। संहति नवनवाङ्करलीनां नेक्षितुं तरुषु शेकुरलीनाम् । साश्रुभिर्विरहिणो रमणीयैर्लोचनैरपहृता रमणी यैः ॥ २ ॥ अस्सरत्पतति चम्पकरेणौ वल्लभां कुसुमचापकरेऽणौ । अध्वगो विधुरधीरमराणां कामिनीमिव मैनोरमराणाम् ॥ ३ ॥ विभ्रती मधुकरं कलिकालं नागकेसरतरोः कलिकालम् । मन्मथातिमकरोदनितानां चित्तनाथवसतावनितानाम् ॥ ४ ॥ पुप्पमम्बुरुहनाम धुनाना भृङ्गपतिरदती मधु नाना । कामिनीजनमनोऽभिनदन्तः कोकिलाश्च परितोऽभिनदन्तः ॥ ५ ॥ वीक्ष्य जातमुकुलं सहकारं कामिनी प्रणयिना सह कारम् । पैञ्चसायकशरैर्वितता न प्रीतिकारि सुरतं विततान ॥ ६ ॥ शीतलो वनभुवामनिलोऽलं स्त्रीजनं दयितधामनि लोलम् । उत्कयन्प्रविकसत्कमलास्यं पल्लवं प्रविदधे कमलास्यम् ॥ ७ ॥ तापकृत्कुरबकः स्तवकेन हेतुना न नमितस्तव केन । प्रावसो य इति नो किल नादः पान्थमभ्यधित कोकिलनादः ॥ ८॥ योऽभवत्प्रियतमैः सह मानस्तं पुरंधिनिवहोऽसहमानः । वायुनाम्ररजसा शबलेन प्रत्यवाध्यत रतीशवलेन ॥९॥ याः प्रसूनविगलन्मधुरागास्तेनिरे मधुलिहो मधुरा गाः । प्रोषितस्य सकलं विपमामिहृद्यवस्तु विदधे विर्षमाभिः ॥ १० ॥ अप्यनारततपोनियतीनां तान्यजायत दिनानि यतीनाम् । मानसं प्रविकसत्कुसुमेषु वीक्षितेपु सुरभेः कुसुमेपु ॥ ११ ॥ मन्दधूतबकुलोपवनेन स्पृश्यमानवपुषां पवनेन । सुभ्रुवामवधिना विकलेन पञ्चमेन समभावि कलेन ॥ १२ ॥ १. कामजनके सूक्ष्मे. २. मनोहरशब्दाम. ३. कलियुगश्यामलम्. ४. अप्राप्तानाम्. ५. भक्षयन्ती. ६. भिनत्ति स्म. ७. कूजन्तः. ८. का अरमत्यर्थम्. ९. कामशरैर्व्याप्ता. १०. यस्त्वं प्रावसः प्रोषितोऽभवः. प्रियां परित्यज्येति शेषः. ११. न अदः वचनम्. १२. पान्थसहायेन. १३. भ्रमरविशेषणम्. १४. विषं आभिः, १५. अनवरततपो- निष्ठानाम्. १६. प्राप्येति शेषः. १७. मर्यादया रहितेन.

८ सर्ग] चन्द्रप्रभत्ररितम् । माग्रह सखि भजस्व स माया यत्करोति दयित स्वसमाया। गोप्यते तव कय तनु तेन पुष्टिमङ्गकमिद तनुते न ॥ १३ ॥ नास्ति तस्य मयि यन्ममतापि तेन मानसमिद मम तापि । तन्ममास्तु सखि तन्नमनेन नासुखप्रतिविधानमनेन ॥ १४ ॥ योऽपराधरचनासु खलेशस्तेन क प्रणयिना सुग्खलेश. । तद्वर विदधत महिमान युक्तमेव विदधीमहि मानम् ॥ १५ ॥ तापहारि वपुपो निधुरस्य चन्दनाम्वु न न वा विधुरस्य । गन्तुमप्रियकृतो नियतेह न प्रिय तदपि वाग्नि यतेऽहम् ॥ १६ ॥ यान्यदास्त वचनानि वदन्ती दूतिकामिति महानिव दन्ती । माधवोऽकृत वो मधुरस्य ता प्रियस्य धृतकामधुरस्य ॥ १७ ॥ (पञ्चमि कुलकम्) त्याशी पटुरकारि वयस्या मच्नुभैहपतेरिव यस्या । मूर्तिरत्सवकरी सफलस्य सज्जनम्य सनिकासकलस्य ॥ १८ ॥ तत्प्रगम्य दयित रुचिताभिर्वाग्मिरालि निगंटेरुचितामि । यत्प्रियैकवचसामपरस्य जायते न तदसामपरस्य ॥ १९॥ किकरी तर भवामि सदाह मन्मनः सुरतकामि सदाहम् । सादय प्रियतमानयनेन त्व समान न मृगीनयने न ।। २० ।। तापयन्ति मम मानिनि तान्त मानस मधुदिनानि नितान्तम् । तद्विधेहि दयित दयमान साममिर्मम महोदयमानम् ॥ २१ ॥ पानिदुत्पन्तुलासहनेत्रा रन्तुमुत्सुकमना सह नेत्रा। दृनिकामिति जगी विनयेन दु रामुद्भवति मानि न येन ॥ २२ ।। (पञ्चभि मुल्कम्) राक्षता दयभूशबरस सायफन विननाश वरस्य । मम्मरन्त्यनुपमामहितस्य प्रोषितस मधुमासहितव ॥ २३ ॥ अनेन mein न माग • पिपुजन । भनिट- पाणे मिला. ८ र ९ नाका १. स. 1. पिग्मानी , आगमार काव्यमाला। प्रीणिताहिनरदेवकुलानि प्रोल्लसन्ति नितरां बकुलानि । नीररिक्तजलवाहसितानां साम्यमापुरवलाहसितानाम् ॥ २४ ॥ काञ्चनारकुसुमे द्युतिमत्तापितामलिनविद्युति मत्ता । कुर्वती ध्वनिमंतारमतारं कालिनी न सरसारमतारम् ॥ २५ ॥ तां शशाङ्ककिरणा विदहन्ति मन्मथश्च नयकोविद हन्ति । पीडितां निजमनःकमलेन त्वद्वियोगभवशोकमलेन ॥ २६ ॥ शीतदग्धनलिनीसमदेहां वल्लभां च्युतविलासमदेहाम् । पासि तां यदि गुणो भवतोऽयं देहि वा जितमनोभव तोयम्॥२७॥ यः प्रविश्य हृदये रजनीपु स्थैर्यवान्रतिपतेरैजनीपुः । सुभ्रवः स तव संगमनेन नोद्धृतो व्रजति सङ्गमनेन ॥ २८ ॥ गच्छ तत्सुभग सारर्मयत्वं संग्रहाय दयितां रमय त्वम् । मन्मथव्यसनलाविरहस्य न क्षमेन्दुवदना विरहस्य ॥ २९ ॥ दूतिकोक्तमिति कोऽपि निकामं शुश्रुवान्मनसि कोपिनि कामम् । तत्क्षणादुपययौ परमेण दीर्घमानकलुषोपरमेण ॥ ३०॥ (पञ्चभिः कुलकम्) कर्णिकारमंधवाजनितान्तं चारु गन्धगुणतोऽजनि तान्तम् । सर्जने हि विधिप्रतिमोहस्तस्य युक्तघटनां प्रति मोहः ॥ ३१ ॥ वृक्षपतियुवतेरधरेण चारुतापरमपारधरेण । किंशुकेन शुशुभे समयोऽसौ बिन्दुनेव सविलासमयोऽसौ ॥ ३२ ॥ गायनेष्वलिवधूनिकरेपु जातवत्सु शमहानिकरेपु । पुष्परेणुकृतपांसुलतानां नर्तको मरुदभूत्सुलतानाम् ॥ ३३ ॥ कन्तुना भवदशोकवलेन मृत्युनेव सकलोऽकैवलेन । ग्रस्यते स विरही प्रमदायाः संस्मरन्मुहुरकम्प्रमदायाः ॥ ३४ ॥ १. शरन्मेघशुभ्राणां हसितानाम्. २. मन्दमन्दम्. ३. सतिलं जलाञ्जलिम्. ४. अजनि इपुः. ५. तव संगमनेन उद्धतः अनेन हृदयेन सङ्ग न व्रजति. ६. लोहमयत्वं कठिनत्वं विहाय. ७. हे कामव्यथाच्छेदकरहस्य. ८. विधवानां जनितोऽन्तो येन. ९. रिक्तम्. १०. अनुपमतर्कः. ११. असौ खड्ने बिन्दुना पुलकेन अयो लोहमिव. १२. कामेन. १३. ग्रासक्रमं विना युगपदेव ग्रस्यते स्म.

८ सर्गः] चन्द्रप्रमचरितम् । प्रागतीव मनसा समुदा यस्तस्थिवान्विरहिणीसमुदायः । सोऽतिदु सहमनोमवदूनो माधवे सुखितयाभवदून ॥ ३५ ॥ कामशोकजलरुदितानि सहरालि सतत रुदितानि । मेरुभूधरसदृक्षममुक्त धैर्यमापदसनक्षममुक्तम् ॥ ३६ ॥ यस्तवावधिरकारि वसन्त प्रेयसा निजगुणैरिव सन्तः । यत्र भान्ति कुसुमैरमलामै शाखिनो जनमनोरमलाभ ॥ ३७॥ निप्रयोगकृशदारहितेन चेतसा कठिनतारहितेन । उत्सुको नहि विकासमयन्त सोऽतिवर्तितुमल समय तम् ॥ ३८ ॥ रक्ष तद्वपुरिद नियमेन मा विधेहि लघुहानि यमेन । रम्यसेऽरपदिवस सह तेन स त्वदीयविरह सहते न ॥ ३९ ॥ मन्ददीप्तिरसुखावहमाना जीविते शिथिलता वहमाना । दूरदिक्पतिरपोहितमाल्या काचनेति जगदे हितमाल्या ॥ ४० ॥ (पञ्चमि कुलकम्) दारुणा विरचना भृकुटीना साम्यमावहति सुभ्र, कुटीनाम् । विभ्रति प्रियतमे तव दास्स कोपन किमिति जीतपदास्यम् ॥ ४१ ।। का वृतिलव रतेन निना मे नोद्यताञ्जलिरह न निनामे । कि वृधन मयि मानममाने सतनोति भवती नममाने ॥ ४२ ॥ कान्तियारिणि नभोवदनन्ते मग्नमम्वुजनिभ बदन ते । पातुमुत्सुक इव भ्रमरोऽह जायमानबहुविभ्रमरोहम् ॥ ४३ ।। मन्मन मुतनु भीमंदनेन वाध्यमानमनिश मदनेन । वर्तते भन रुपलनिमान मुञ्च पीवरतरलनि मानम् ॥ ४४ ॥ काचिदित्यमुदिता दयितेन प्रेम सार्धमकृतोदयि तेन । क वचासि रममारचितानि प्रीणयन्ति न बुधै रचितानि ॥ १५ ॥ (पश्चमि कुलकम्) , आपनिगरपसमर्थम् . विद्वाम दा निनगुम : यगेन प्राशर पुर्मा पिदि ८ मिति पतियम्या' ५. परंशा याप्टेन च ६ जातं मुसम ७ महीमा ८ आरामदन याने ९ मायुताम् १० उदययुक्त प्रेम ७० काव्यमाला। कंदरावनुकृताहिमवन्तं ध्वान्तराशिमचलं हिमवन्तम् । भानुराप शशिशुद्धनदायां भाति यो दिशि वसद्धनदायाम् ॥ ४६॥ लीनषट्पदकुला तिलकाली यद्विकासमगमत्तिलकाली। प्राप तेन मनसापमुदार मानिनी मदनतापमुदारम् ॥ ४७ ॥ संनिषेव्य सततं कमलिन्या रागकारि मधु साकमलिन्या । यानि चक्रुरलयो ध्वनितानि के निशम्य ययुरध्वनि तानि ॥ ४८ ।। शीतला इति विभाव्य जनेन पातिताः ससलिलव्यजनेन । को न जातविरहोऽतनुतापः क्वाथिताम्बुसदृशोऽतनुतापः ॥ ४९ ॥ वीक्ष्य जातरुडिवासमहानि पद्मखण्डमविकासमहानि । तिग्मगुविहितवानहिमानि भास्वतां न हृदयं नहि मानि ॥ ५० ॥ इत्थं मधौ मधुकरीमुखरीकृताशे व्याजृम्भिते मकरकेतुनिसर्गबन्धौ । भूयः प्रविश्य मुदितः सहसा निशान्तं विस्रब्धमित्यभिदधेऽङ्कगतां स देवीम् ॥ ११ ॥ पश्य प्रिये परभृतध्वनितच्छलेन मामेष दर्शयितुमाह्वयतीव चैत्रः । प्रादुर्भवत्तिलकपत्रविचित्रशोभा सीमन्तिनीमिव पुरोपवनस्य लक्ष्मीम् ॥ ५२ ॥ संभावयामि तदहं तमनङ्गबन्धु गत्वा वने मलयमारुतनृत्तशाखे । तत्र त्वमप्यवनताङ्गि तिरोहितानां नेत्रोत्सवं कुरु गता वनदेवतानाम् ॥ १३ ॥ हीतो विहाय मम लोचनहारि नृत्तं गन्तुं शिखी सुमुखि तत्र यदि व्यवस्येत् । १. सर्पवत्कृप्णमन्धकारसमूहम्. २. तिलवत्काली कृष्णा. ३. अपमुदा विगतहर्षेण मनसा. ४. कृतवान् जलानि. ५. जातक्रोधः. ६. असदृशहानियुक्तम्. ७. दिनानि. ८. अशिशिराणि, उष्णानीति यावत्.

८ सर्गः]
चन्द्रप्रभचरितम् ।
कार्यस्त्वया सरनिवासनितम्बचुम्बी
चीनाशुकेन पिहितो निजकेशपाश ॥ ५ ॥
माधुर्यमिच्छरतिशायि परिग्रहीतुं
चूताङ्कुरग्रसनजातकपायकण्ठ ।
मूकीभवन्परभृता निवहोऽपि नून-
माकर्णयिप्यति तवानतगानि वाणीम् ॥ ५५ ॥
तत्र त्वदीयचरणाम्बुजताड्यमानौ
द्वी यास्यत. सुवदने सदृशीमवस्थाम् ।
सद्यो वहन्मुकुलजालमशोफशाखी
रोमाञ्चकञ्चक्रितमूर्तिरह द्वितीय ॥ १६ ॥
गत्या निसर्गपरिमन्थरया भ्रमन्ती
त्वा सनिरीक्ष्य निवसद्वनदीपिकासु ।
हसीकुल न हरिणाशि जनिप्यते न
त्वच्छिप्यभावगमने स्पृहयालु मन्ये ।। ५७ ॥
हस्तेन मुन्दरि मुहुविनिवारितोऽपि
भृगस्तवापरदले नवविद्रुमामे ।
बावन्नशोकनवपल्लवशतिःचेता
मेर करिप्यति न कस्य मुख वनान्ते ॥ १८ ॥
पर्यन्तनातनरुजालनिरुध्यमान-
भास्वत्कोप्वपि यनान्तलतागृहेषु ।
त्वहमचन्द्रमचिभि प्रतिहन्यमानो
मुग्धाक्षि न परिभविष्यति नान्धकार ॥ ५९ ॥
दृष्टेमंदालिपु लामु शरीरयष्टे-
स्वामिचित्रकदीप्यघरम्य विम्ये ।
समाहिताप्रियुगरा स्वमगीननेन
साहमिन्दुवदने निहरेक्षमाणा ॥ ६ ॥

७२ काव्यमाला। क्षणिमिति मधुराभिर्भूपतिर्भारतीभिः स रहसि रमयित्वा वल्लभां बद्धभावाम् । निजनगरनिवेशे लोकमानन्दयन्ती वनविहरणयात्राघोषणामादिदेश ॥ ६१ ।। दिङ्गागान्प्रतिदन्तिशङ्किमनसः थ्योतत्कटान्कोपय- नम्भः पूर्णपयोदरेकिहृदयानुत्कण्ठयन्केकिनः । नागानुत्फणयंश्चमत्कृतिभृतो भूभृत्तटांश्चालय- न्व्योम व्याप मृदङ्गभूरुदयवान्प्रस्थानशंसी ध्वनिः ॥ १२ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्येऽष्टमः सर्गः । नवमः सर्गः । मधुविनिहितविभ्रमाभिरामां मदकलकोकिलनादिनीं नरेन्द्रः । परिजनपरिवारितो वनान्तश्रियमबलामिव वीक्षितुं प्रतस्थे ॥ १ ॥ ललितघनतमालका मनोज्ञद्विजसुभगास्तिलकाहितोरुशोभाः । स्तनजघनभरालसं प्रचेलुस्तुलितवनावलिविभ्रमा रमण्यः ॥ २॥ प्रणदितकलकाञ्चिनूपुरोत्थं ध्वनिमनुबध्नति राजहंसयूथे । सदृशगतिकुतूहलेन दृष्टिर्मुहुरपतद्वनिताजने च यूनाम् ॥ ३ ॥ सुललितगमनो न राजहंसः कलभपतिनं च मन्थरप्रयातः । अलसगतिपु वामलोचनानां गुरुरजनिष्ट निजो नितम्बमारः ॥ ४ ॥ गगनमुभयतः प्रपूर्यमाणं हरिणदृशां चटुलैः कपाक्षपातैः । पवनविधुतनीलनीरजौघव्यतिकरिणः सरसो बभार लक्ष्मीम् ॥ ६ ॥ ललिततिलकमण्डनानि मुग्धे रचयितुमेष वृथा तव प्रयासः । मुखकमलमलं करोति यत्ते पतदलिनीकुलमेव पद्ममोहात् ॥६॥ विरचयसि यमादरेण हारं तमपि तवाहमवैमि शुद्धभारम् । कमलमुखि पयोधरान्तराले श्रमजलविन्दुविभूषिते वजन्त्याः ॥ ७ ॥ १. सजलजलधरशड्मिनसः.

२ सर्ग] चन्द्रप्रभचरितम् । श्रवणतटविलम्बि सविधत्ते नयनयुग न किमेतदीयशोभाम् । वरतनु विफलक्रिय विधातु यदसितमुत्पलमुद्यतासि कर्णे ॥ ८॥ चिरयसि परमेव निक्षिपन्ती रसमतिसान्द्रमलतकस्य कान्ते । ननु किसलयमासि रागवन्धस्तव पदपद्मतले निसर्गसिद्धः ॥९॥ लघु जिगमिपुणेति काचिदूचे खवपुरलकरणाकुला प्रियेण । प्रतिपदमवगच्छता तदीय जघनमहाभरविनित प्रयातम् ॥ १० ॥ सकृदवुधतया कृतेऽपराधे भवति ततो विनिवृत्तिरेव दण्ड । तदहमपि न त पुनर्विधास्ये सुतनु तवेति स वल्लभो ब्रवीति ॥ ११ ॥ अपि च सुवदने नरो न दोषाद्विरमति शिक्षयते न यावदन्य । स च कुसुमशरेण शिक्षितस्त्वद्विरहसखेन निनीपुणा विनाशम् ॥१२॥ न च सखि सुसहस्त्वयापि तावत्प्रियविरह क्षयहेतुरङ्गयटे । कथयति हि तवोष्ठविम्बमुप्णश्वसितविरुक्षतमान्तरङ्गमाधिम् ॥ १३ ॥ त्यन मम विरहोऽधुनेव पश्चादपि न रुजाकर इत्यपि स्वमानम् । नहि भवति यथास्थिर क्रियादावधिकृतनिर्वहणे तयैव चेत ॥ १४ ॥ इति हितमधुरैरिवाहिमन्त्रैरपहृतमानविपा सखीवचोभि । दयितमनुजगाम मन्दमन्द निहितपदा फिल नेच्छतीव काचित् ॥१५॥ (कुलकम्) स्मरपरवशवुद्धिरसपृष्ठप्रगमितपाणिधृतप्रियाकुचाग्र । गनपतिरिव मन्थरेण कश्चित्समुपजगाम शनै पदक्रमेण ॥ १६ ॥ कृतमनसिनवेगमरुयुग्म पथिजपरिश्रमनोदनापदेशात् । मुहुरल्सगते स्पृशन्प्रियाया समुपययावपरोऽल्पकेऽपि मार्गे ॥ १७ ॥ इति कृतविविधप्रकारचेष्टा मनसिशयाकुलचेतस सभार्या । निनिशुरुपवन पुर प्रयातक्षितिपतिसेवितकृत्रिमाद्रि पौरा ॥ १८ ॥ तटविटपशिखावसक्तहस्ताश्चिरमनुपात्तनिमेपनेत्रयुग्मा । फलकुमुमसमृद्धिाक्षमाणा हरिणदृशो वनदेवता इवाभु ॥ १९ ॥ सति निनकरजारुणाशुभिन्ने जरठपलाशचये महीरुहाणाम् । समननि वनिताजनस्य हेतुम्रदिमगुणो नवपल्सनावबोधे ।। २० ।। १० ७४ काव्यमाला। प्रगमितमरविन्दलोचनायाः प्रणयवता श्रवणावतंसभावम् । स्वयमतिविहितादरेण शोकं व्यतरदशोकमपि प्रतीपपल्ल्याः ॥ २१ ॥ कुसुमकिसलयं विचेतुकामां विटपिनि सत्यपि नम्रनम्रशाखे । तरुमनयत तुङ्गमेव भर्ता भुजयुगमूलदिदृक्षया मृगाक्षीम् ॥ २२ ॥ तिलकमिति यदत्र पूर्वमासीद्भुवि विदितं खलु नाममात्रकेण । कुवलयनयनाभिरुत्तमाङ्गे निहितमवाप यथार्थतां तदानीम् ॥ २३ ॥ वपुषि कनकभासि चम्पकानां सुदति न ते परभागमेति माला । स्तनतटमिति संस्पृशन्प्रियाया हृदि रमणो बकुलस्रज बबन्ध ॥ २४ ॥ स्फुटमिह कमनीयमन्यथा वा न किमपि भावकृतस्त्वयं विभागः । समजनि यदशोकतः पलाशं प्रियमवतंसितमीश्वरेण वध्वाः ॥ २५ ॥ ऋतुजनितरुचिर्वधूसमूहैरवचितपुष्पचयश्च यस्तरूणाम् । मुदित इव परार्थयात्मलक्ष्म्या पवनधुतैनवपल्लवैननर्त ॥ २६ ॥ इति वनविहृतिप्रसङ्गखिन्नं निखिलमवेत्य जनं स्वमप्यधीशः । सरसि शुचिजले ममज्ज सज्जीकृतजलकेलिपरिच्छदप्रपञ्चः ॥ २७ ॥ हृषिततनुरुहाश्चिरेण भीरुप्रकृतितयाम्भसि नाभिमात्रकेऽपि । प्रियकरधृतपाणयो रमण्यः प्रविविशुराहितमन्दमन्दपादाः ॥ २८ ।। तदखिलमपि वारि निक्षिपन्त्यः कठिनपयोधरपीडनैः पुरस्तात् । पृथुतरनिजकुम्भनुन्नतोया वनकरिणीरनुचक्रुरजनेत्राः ॥ २९ ॥ जलमकलुषमन्तरानुबध्नन्युवतिमुखप्रतिमां पयोजबुद्ध्या । श्रममफलमवाप मत्तभृङ्गो न खलु हितं मदमूढधीरवैति ॥ ३० ॥ सरलनवमृणालनालबाहुश्चपलशिलीमुखलोचना कृशाङ्गी । निजतनुमनुकुर्वती कयाचित्सरभसमम्बुजिनी समालिलिङ्गे ॥ ३१ ॥ अपहृतवसना वधूस्तरङ्गैः पृथुनि नितम्बतटे निविष्टदृष्टिम् । प्रियतममवलोक्य जातलज्जा कलुषयति स्म जलं विलोडनाभिः ॥ ३२॥ पयसि समवतीर्य नाभिदघ्ने विलुलितकेशकलापवन्धनायाः । समजनि रभसोत्कटं तरन्त्याः स्तनयुगमेव तरण्डकं तरुण्याः ॥ ३३ ॥ १.पवः.

९ सर्ग] चन्द्रप्रभचरितम् । ७५ जनभयपरिविद्रुतेऽपि पत्यौ युवतिधनस्तनविन्धमोहिताया. । सलिलगतविमुग्धकोकवध्वा विरहभवव्यथया न सबभूवे ॥ ३४ ॥ इयमिह पुलिने निसर्गरम्ये चकिततया स्थिरतामनश्चवाना । गतिमिव परिशिक्षितु त्वदीया सुतनु करोति गतागतानि हसी ॥३५॥ अयमपि मधुरखरोऽभिसर्पन्मधु मधुप परिहृत्य पद्मिनीजम् । अहमिव परिपातुमानन ते सुमुग्वि निसर्गसुगन्धि वाञ्छतीव ॥ ३६ ।। अयमनभिमुखी सुकेशि कोक समनुनयन्वहुचाटुभि खजायाम् । प्रकुपितदयिताप्रसादहेतूनुपदिशतीव ममापि चाटुकारान् ॥ ३७ ।। इयमपि शफरी समुत्पतन्ती गगनमित' सलिलादनेकवारान् । ध्रुवमपहृतविभ्रमा भवत्या नयनयुगेन नताङ्गि पूत्करोति ॥ ३८ ॥ इदमिदमिति दर्शयन्नशेप सलिलनिवासिमनोज्ञसत्त्ववृत्तम् । अरमयत युवा चकोरनेत्रा सरसि तदसविलम्बिवामवाहु ॥ ३९ ॥ मुखमसदृशविभ्रमैविदित्वा सुभगतनोररविन्दमध्यगाया । सरसिजमिदमित्युपेत्य शाठ्यादविदिततत्त्व इवापरचुचुम्ब ॥ ४० ॥ सरसिजरजसारुणे सपत्न्या स्तनयुगले नखशङ्कया कृतेर्ष्या । किमपि न दयित जगाद काचित्परमवधीत्परिभङ्गुरै कटाक्षे ॥४१॥ निजमधुरविलासशोभिताना सलिलविहारजुपा विलासिनीनाम् । वदनशशिजिताम्बुजानुमम्लौ दरमलिना नु मृणालिनी जनौधै ॥४२॥ अधरदलगत निधाय राग स्खवपुपि यावकसभृत वधूनाम् । विदधति हृदय स रागमासा विनिमयवृत्तिमशिश्रियञ्जलानि ॥ ४३ ॥ कठिनकुचविचूर्णितोऽप्यपप्तदृदि मुहुरूमिचयो विलासिनीनाम् । ब्रजति खलु बुधोऽपि विप्रमोह युवतियु कैव कथा जलात्मकानाम् ॥४४॥ कृतदयितविवञ्चना मुहूर्त यदकृत वारिणि मज्जन मृगाक्षी । स्फुटमननि तदङ्गरागगन्धादुपरि परिभ्रमतालिनीकुलेन ॥ ४५ ॥ ब्रजति मम जलक्रिया समाप्ति वरतनु तावक एव कान्तितोये । फिमपरमधिक जलेविंगाटैरिति दयिता दृढमालिलिङ्ग कश्चित् ॥४६॥ १ पूकरणमातव्याहरणम् ७६ काव्यमाला। मुखमिदरविन्दसुन्दरं नः प्रकृतिभवं मुषितं न पङ्कजिन्याः । इति पयसि चिरं निमज्य नार्यो ददुरिव दिव्यविशुद्धिमीश्वराय ॥४७॥ विचकृषुरलकान्विलासिनीनामधिरुरुहुर्जघनान्युरांसि जन्नुः । अनवरतनिपातिनस्तरङ्गा निपुणमिवाभ्यसितुं भुजंगवृत्तिम् ॥ ४८ ॥ मदनरसमिवातिरिच्यमानं मुखगतवारिपदेन विक्षिपन्ती । प्रियतममभि काचिदाबभासे स्मितरुचिराजितमुग्धवक्रचन्द्रा ॥ ४९ ॥ निपतति कुचमण्डले रमण्याः प्रियरचितः सलिलाञ्जलिर्न यावत् । हृदयमभिषिषेच तावदेव प्रतियुवतेनयनाम्बुनः प्रवाहः ॥ ५० ॥ सितकुसुमचयैश्च्युतैः कबर्या वियदिव तारकितं बभौ यदम्भः । समजनि मृगमुग्धलोचनाया वदनसरोरुहमेव तत्र चन्द्रः ॥ ११ ॥ उदककणचितैर्नितम्बिनीनां नयनयुगैः सरसश्च कृष्णपद्मः । उपहितमतिविभ्रमा बभूवुः क्वचिदपि न स्थितिशालिनो द्विरेफाः॥१२॥ क्षणमरुणितलोचना रमण्यः सलिलविहारमपास्य जातखेदाः । ममुरुपरि निपत्य कौतुकिन्यो निजजघनैरलघूनि सैकतानि ॥ ५३ ॥ अयमुदकहतो व्यथिष्यते त्वां यदि विदधे न मुखानिलेन सेकम् । इति कृतकृतकश्चिरं स दन्तव्रणमधरं दयितः पपौ प्रियायाः ॥ ५४ ॥ अनिमिषकुलसंकुले विशद्भिः पयसि निजप्रतिमानिभेन नेत्रैः । ध्रुवमभिलषितो विलासिनीनां चलशफरीकुलविभ्रमापहारः ॥ ५५ ॥ वनजवनगताः करेण लीलाकमलमुदूढशिलीमुखं वहन्त्यः । श्रियमनुविदधुनरेन्द्रजाया जलकणमण्डितपीनपाण्डुगण्डाः ॥ १६ ॥ निजभुजयुगलैरुदस्य जाया जघनभरेण पदे पदे स्खलन्तीः । कुतमुदमुदतारयंस्तदीयस्तनपरिमर्शनलोलुपा युवानः ॥ १७ ॥ कुवलयनयनाभिरस्यमानान्यनुपुलिनं सरसानि रागवन्ति । मुमुचुरिव शुचाचणः प्रवाहं स्रवणपदेन पुरातनांशुकानि ॥ १८ ॥ विश्रान्त्यर्थ समनुसरति प्रस्थमम्भोधराध्व- भ्रान्त्युद्भूतश्रम इव रवौ पश्चिमस्याचलस्य ।

१० सर्ग:]
चन्द्रप्रमचरितम् ।
७७
गत्वा भूय पुरमुदयवास्त्यक्ततोयावगाह-
चके कृत्स्न सह परिजनैरन्नपानादिकृत्यम् ॥ ५९ ॥
इति श्रीवारनन्दिकृतावुयाद्दे चन्द्रप्रभचरित महाकाव्ये नवम सग ।
दशम सर्ग ।
इतरेषु जनेपु का कथा न मुरेप्वप्युदया निरत्यया ।
इति सूचयितु शरीरिणा रविरस्ताद्रिमथाधिशिश्रिये ॥ १ ॥
प्रियसङ्गसमुत्सुकाइनानयनप्रान्तगररिव क्षत ।
तनुमावहति म्म भानुमानरुणाम्भोरुहमारसनिभाम् ॥ २ ॥
दिवसाधिपवल्लभागमे वरुणागा परिलोहितानना ।
स्वयमेव समेत्य कुङ्कुमे कृतचर्चेव ररान सध्यया ॥३॥
परकृत्यविधौ समुद्यत पुरुप कृच्छगतोऽपि पूज्यते ।
शिरसास्तमयेऽप्यदीपरद्यदशीतद्युतिमस्तभूधर ॥ ४ ॥
मयि पश्यति मामिभूयता तमसेद मलिनात्मना जगत् ।
इति तर्कयतेव मण्डल दिनभनीन्तरधीयतात्मन ॥५॥
बलवान्विधिरेव देहिना न सहाया न मतिर्न पौरुपम् ।
तमसा स तथा प्रतापजान्दिननायोऽपि यदम्यभूयत ॥ ६ ॥
विषये गुणवृद्धिवजिते गुणहीना प्रभवन्ति का गति ।
गगन हि तमोभिरावृत मलिनरस्तमिते दिनापिपे ॥ ७ ॥
कृतदीप्तरवैविहगमैनिजनीडामिमुखे समाकुला ।
वियुता इव पद्मवन्धुना प्रविलाप विदधुदिंगगना ॥ ८ ॥
ककुमो मलिनात्मनाम्बिल तमसा व्याप्तमवेत्य विष्टपम् ।
ययुरस्तमुपागते रवाविन विश्वसमयाददृश्यताम् ॥९॥
अपमास्य जगद्गृह कर रविदीपे विरति गते तम ।
प्रसग्द्ददृशे शंन शनरिव तत्कजलमम्बरे जन ॥ १०॥
तमसाग्विलमेर उता निजसनेन जगन्मलीमसम् ।
इति देवता मुटीकृत गुणदोषा सदमटामगजा ॥ ११ ॥

काव्यमाला। विनिवृत्तनिजाहिकक्रियं विगतालोकमुपात्तसंभ्रमम् । परिवृत्तिमगादिवाखिलं भुवनं संतमसावगुण्ठितम् ॥ १२ ॥ न जहाति पुमान्कृतज्ञतामसुभङ्गेऽपि निसर्गनिर्मलः । रविणा गमितः समुन्नति सह तेनास्तमियाय वासरः ॥ १३ ॥ गुणवान्समुपैति सेव्यतां गुणहीनादपरज्यते जनः । दिवसापगमे मलीमसं कमलं पश्य समुज्झितं श्रिया ॥ १४ ॥ ककुभां विवरेषु तारका विहतध्वान्तलवाश्चकासिरे । गलिता इव मित्रविप्लवे गगनस्योग्रशुचोऽश्रुबिन्दवः ॥ १५ ॥ गलिताश्रुभिरातनिःस्वनैर्बहलध्वान्तमपीमलीमसैः :। विरहानलधूमधूसरैरिव चक्राह्वयुगळयुज्यत ॥ १६ ॥ विसरन्बिसतन्तुनिर्मलो विवभासेऽथ नभः पयोनिधौ । निकरो रजनीपते रुचामिव मुक्ताफलरोचिषां चयः ॥ १७ ॥ प्रसृतालकतुल्यलाञ्छनातिरयन्तरितार्धमण्डल: व्रजति स्म ललाटपट्टतां क्षणमात्रं बलभिदिशः शशी ॥ १८ ॥ विदधत्तिमिरं तिरोहितं करजालैर्गगनान्तगामिभिः । अभवद्रजनीकरः क्रमादुदयाद्रीन्द्रशिरःशिखामणिः ॥ १९ ॥ उदयादिशिरः श्रितः शशी शशमन्तर्गतमाजिघांसुना । तमसा शबरेण सायकैरिव विद्धोऽधिजगाम रक्तताम् ॥ २० ॥ घनवीथिरथं क्षपापतावधिरूढे धृतधामधन्वनि । उपभुक्तनिशं तमो भयात्परदारग्रहजादिवाद्रवत् ॥ २१ ॥ विगलत्तिमिरावगुण्ठनामुडधर्मोदकविन्दुसंभृताम् । ददृशुः शिशिरांशुसंगमे सुरतस्थामिव शर्वरी जनाः ॥ २२ ॥ भवतीह विनापि हेतुना घटना कस्यचिदेव केनचित् । विकसद्भिरिति स्फुटीकृतं कुमुदैरेव निशाकरोदये ॥ २३ ॥ प्रविकासिनि यन्यलीयत भ्रमराणां कुमुदानने कुलम् । तिलकं तदभूत्प्रसाधनं कुमुदिन्यास्तुहिनांशुसंगमे ॥ २४ ॥ :।

१० सर्गः]
चन्द्रप्रभचरितम् ।
७९
अपहन्ति नरो निसर्गनानपि दोपान्गुणवन्तमाश्रितः ।
नमसा हि हिमाशुसगमादपनीत मलिनत्वमात्मन. ॥ २५ ॥
उदितेन पयोपिरिन्दुना परमा कोटिमनीयतोन्नते ।
महता हि परोपकारिता सहजा नाद्यतनी मनागपि ॥ २६ ॥
विकसत्कुमुदाकर सर प्रकटोटुप्रकर नम स्थलम् ।
द्वयमाप परस्परोपमा करजाले शशिन प्रसर्पति ॥ २७ ॥
रजनी तमसान्त्यजातिना परिमृष्टा घनवमवर्मनि ।
प्रविधातुमिवात्मशोधन परिवेशेन्दुमहोमहावदे ॥ २८ ॥
तिमिरेभमदर्न हिसितु शशिसिंहाय गुहावित नगा ।
शरणागतरक्षण सता नहि जातु व्यभिचारमेप्यति ॥ २९ ॥
निवभावधिरोहदम्बरे निधुविम्ब क्षणमुद्गमारुणम् ।
जनयद्धरिदिमधूनपाकुसुमापीडवितर्कमगिनाम् ॥ ३० ॥
समभूत्सुविचक्रवाकयोमिथुन सगमहटमद्दियत् ।
निशि तद्विरहातिनिहल पिगिमा दग्यविधेविडम्बनाम् ॥ ३१ ॥
यदधु प्रियकोपधूपिते हृदि मानग्रहशल्यमझना ।
निधुरुद्धरति म दुर्धर करसदशकताइनेन तत् ॥ ३२ ॥
हिमादिमकरापमारिते तिमिरे काण्डपटस्फुटोपमे ।
रुरुचेऽम्बरकुट्टिम स्थिते मितपुप्पप्रररिव ग्रहै ॥ ३३ ॥
रजनीपतिना प्रतनिन करकुन्तर्भुवनान्तवनि यत् ।
प्रनिवेश वियोगिनीमन स्थिव मूर्गकृतकेन तत्तम ३४ ॥
सणदानिलमामुरीमपहिरहाग्निज्यरितेन चेतमा ।
वनिताभिरनिन्ति नित्तभूगरगाणाकृति चन्द्रमण्डम् ॥ ३५ ॥
शिशिरागुरुगभिमननादनमानिर्भवता समन्नन ।
मकरन्दमयेन निर्बमारिव निर्यत्पुटया उमट्टती ॥ १६ ॥
रजनीपतिविम्बदर्शनानियमहत्यग्माणचेतमाम ।
परिगतिमिगाय गोपिया टिये यामपि रागमागर ॥ १७ ॥

८० काव्यमाला। सुहृदर्थपरैर्महात्मभिर्न पुनः स्वार्थपरैरुदीयते । यदभूद्रजनीकरोदयः परिवृद्ध्यै स्मरशक्तिसंपदः ॥ ३८ ॥ वभुरौषधयः समन्ततः शिखरे भूमिभृतां ज्वलच्छिखाः । क्षणदाङ्गनयेव दीपिका हरिणाङ्काभिगमे प्रदीपिताः ॥ ३९ ॥ निजधामविवृद्धिकारिणी न परं चन्द्रमसा विभावरी । कुमुदिन्यपि भासिता सतां निरपेक्षा हि परोपकारिता ॥ ४० ॥ परिणामिनि यामिनीमुखे हरिणाङ्के च कठोरतेजसि । जगृहेऽथ विविक्तमास्पदं रतये रागिभिरङ्गनासखैः ॥ ४१ ॥ विरहे तनुतामतीव ये दधुरङ्गावयवा नतभ्रुवाम् । प्रियसंगमजन्मभिर्ययुः पुलकैस्ते पुनरेव पीनताम् ॥ ४२ ॥ हठकारिणि यावदङ्गनाः प्रतिकूलं क्षणमाचरन्प्रिये । . निजशासनभङ्गसेय॑धीरिव तावद्धनुराददे स्मरः ॥ ४३ ॥ नवसंगमजन्मना हिया नतमूमिरविन्दचक्षुषाम् । भयमिश्रमपीयताधरो हठवृत्त्युन्नमिताननैः प्रियैः ॥ ४४ ॥ पतिरङ्गनया न्यषेधि यत्परिरम्भेऽधरपीडनेऽपि वा। विपरीततया मनोभुवस्तदभूद्रागविवृद्धयेऽखिलम् ॥ ४५ ॥ हतहक्प्रसरा निरन्तरस्तनभारेण ददर्श नाङ्गना। वसनं च्युतमप्यधः पतत्प्रियदृष्टयान्वमिमीत केवलम् ॥ ४६ ॥ सहसापहृताधरांशुकः किल यावज्जघनं कुतूहली । परिपश्यति तावदङ्गना प्रियमासञ्जयति स्म चुम्बने ॥ ४७ ॥ करताडनमास्यचुम्बनं परिरम्भो दशनच्छदग्रहः । विविधेति विलासिनां क्रिया मदनाग्नेरभवद्धृताहुतिः ॥ १८ ॥ हृदये हरिणीदृशां प्रियप्रथमालिङ्गनगाढपीडिते पुलकैः प्रमदाकुरैरिवानवकाशैः पदमादधे बहिः ॥ ४९ ॥ अनुरागपरापि विभ्रती ह्रियमासन्नगते सखीजने । मुखचुम्बनलोलुपं प्रियं परिरम्भेण वधूरंजीगमत् ॥ ५० ॥ १. विलम्बयति स्म.

१० सर्ग] चन्द्रप्रभचरितम् । पिरहसितोप्णनीरसाधरविम्वा वनिता समीयुपे । न ददौ क्षणमास्यचुम्बन दयितायान्यकथाप्रवर्तिनी ॥ ११ ॥ बहुश प्रणिपत्य बोषिता प्रियवाग्मि प्रणयेन मानिनी । म्मरकातरमात्मवल्लभ परिरेभे श्लथवाहुबन्धनम् ॥ ५२ ।। परिरम्भभवो वधूवपु परिपुष्टिं निदधद्विलासिनाम् । । बहुल पुलकोदमोऽगमत्सचिवत्व दृढनीविमोक्षणे ॥ ५३॥ परिरम्भिणि जीनिते धरे विगलम्वेदपदेन सतत । सुदृशा हृदयेप्वसभवन्निव शृङ्गाररसो निनिर्ययौ ॥ १४ ॥ दयितामतिपीवरस्तनी परिरव्धु दृढबन्धमक्षम । स्मृहयालुरभूत्समाकुलो भुजदैर्ध्यातिशयाय कश्चन ॥ ५५ ॥ प्रियचाटुपु कोनिदोऽपरो दधतीं मानकपायमङ्गनाम् । परिसान्त्व्य रसैस्तदोष्ठजैर्मदनाग्निं मनसि व्यदिध्यपत् ॥ ५६ ॥ अदय दयितेन पातितैरपि काठिन्यगुणेन योपिताम् । नवकुङ्कुमकेसरैरिवोपरितम्थे स्तनयोर्नखक्षते ॥ १७ ॥ करताडनमोष्टखण्डन नखपातप्रसर कचग्रह । अजनीप्टजनेऽपि कामिना चरित वाममहो मनोभुव ॥१८॥ त्रुटिताप्यतिमात्रसस्तवान्मणिमालेव गुणैर्विलासिनाम् । रमणीमणितमनोहरै सुरतेच्छा पुनरेव सदधे ॥ १९ ॥ मुभगाकृतिसीत्कृत कलकणित चाटुमनोहर वच । दयितासुरतेषु शृण्वता बहु मेने त्रिदिवो न कामिना ॥ ६॥ इति वृद्धिमिते रतोत्सने रमयित्वा क्षितिप शशिप्रभाम् । मुग्वनिद्रमोत कोमले शयने तद्भुजपाशवेष्टित ॥ ११ ॥ प्रक्षुभ्य क्षणमय महरैकहेतौ निश्रान्ति समुपगते प्रभाततूर्ये । यामिन्या निरतिमिति प्रविश्य सूता भूमर्तु सपदि निवेदयावभूवुः ॥१२॥ यात्येपा नृवर निभावरी निकीण मट्टत्याशुक्रमिव वाम तारकाणाम् । चन्द्रेऽस्त निगमिपति त्वदाननेन्दु शोभाय नगत इव प्रयोधयन्ती ॥६॥ १ दियापयतिम्म ८२ काव्यमाला। सिन्दूरद्युतिरिव पूर्वदिक्पुरंध्याः सीमन्तान्तरविसृता विभाति संध्या । मुञ्चो:प्रिय शयनं तव स्मितेन व्यामिश्रां दधतु रुचिं विभातदीपाः ॥६४॥ एतच्च प्रविकसदम्बुजाभिमुख्यं गच्छद्भिर्धमरगणैर्विमुच्यमानम् । ब्रह्माण्डप्रसृतभवद्यशोजितश्रि संकोचं कुमुदवनं शुचेव धत्ते ॥ ६५ ॥ पिङ्गत्वादिव विरहानलप्रलिप्तमौत्सुक्यात्सरसि मिलद्रथाङ्गयुग्मम् । वक्षोजद्वयमिव नाथ कुङ्कमाक्तं कामिन्यास्तव हृदयस्थले विभाति ॥ ६६ ॥ धर्माशोरुदयमहीध्ररुद्धमूर्तेः कुन्तायैरिव किरणाङ्कुरैः प्रणुन्नम् । संश्लिष्यद्वनगिरिगह्वरेषु वृत्ति ध्वान्तं त्वविषदनुशीलतां दधाति ॥ ६७ ॥ प्रत्यूषोद्भवहिमबिन्दुभिः पतद्भिर्मुक्ताभैरवनिरुहाः परिष्कृताङ्गाः । रत्युत्थश्रमसलिलो भवानिवैते लक्ष्यन्ते तरुणलतावधूपगूढाः ॥ ६८ ॥ गच्छन्ती क्षितितलरोपितैकपादा शय्यास्थं यदतिरसेन चुम्बतीशम् । पाथेयं धरणिपते वधूर्भुवं तद्गृहीते गुरुविरहाध्वलंघनाय ॥ ६९ ॥ खिन्नं ते वपुरनपायिनामुनैव मारेणोन्नतिजयिनः कुचद्वयस्य । मुञ्चेमं सुतनु वृथैव रोषभारं नो किंचित्फलमतिभग्नपीडनेन ॥ ७० ॥ नत्वाहं विरहभयाद्भणामि यस्माद्दुष्टापि त्वमसि हृदि स्थिता सदा मे । किं त्वम्भोजमुखि तवैव देहतापी कोपोऽयं नियतममङ्गलावसानः ॥ ७१ ॥ कालुष्यं त्यज भज तुङ्गमार्द्रभावं कः कोपः प्रणयिनि चक्रवाकवृत्तौ । इत्येवं निजविरुतैनिशान्तशंसी वक्ति त्वामिव मुहुरेष ताम्रचूडः ॥ ७२ ॥ काठिन्यं तव हृदये स्तनद्वयस्य सांनिध्यान्न खलु सुकेशि कल्पयामि । किं जातु त्यजति महामृतस्य वृक्षो माधुर्य विषवनमध्यसंप्रसूतः ॥ ७३ ॥ कोऽपीत्थं प्रणयरुषा विवृत्त्य सुप्तां प्रेमान्धः प्रियवचसानुनीय कान्ताम् । संपूर्णाधिगतलतोपमानभावामालिङ्गन्नखपदपल्लवैविधत्ते ॥ ७४ ॥ सप्तीनां रुचिरनवातपप्लतानामज्ञात्वातिशयमरञ्जितेतरेभ्यः । तिग्मांशोर्विदधति वाजिभूषकांस्ते प्रौढत्वे करकृतकुङ्कुमाः प्रतीक्षाम्॥७९॥ शन्नोतीक्षितुमधरीकृतप्रतापी भूपालो न खलु ममोपरि प्रयातम् । रोचिष्मानिति भवतो भयादिवायमाकाशप्रणयि शनैः करोति बिम्बम् ॥७६ ११ सर्गः] चन्द्रप्रभचरितम् । वन्दिभ्यो ललितपदक्रमाभिरामा सशृण्वन्निति दयितोपमा स वाणीम् । निःस्यन्दोच्छसदुदरप्रसुप्तभृङ्गैरम्भोजे सममभजन्नृप प्रबोधम् ॥ ७६ ॥ अथ कथमप्यपास्य दयिताभुजपाशमसा- वरुणरुचा प्रसाधयति पूर्वदिश तपने । रतिकलहप्रसङ्गगलितोज्ज्वलहारमणि- प्रकरचित पयोनिधिमिव व्यमुचच्छयनम् ॥ ७८ ॥ द्वारागग्रथितामलारुणमणिज्योतिमिरुत्सपिभि- भिन्नागावयव खभावमहता दीप्तो वपुस्तेजसा । घमीशोरुदयाचलेन्द्रशिखरादम्युधियासो थिय भेजे भूमिपति स वासभवनान्निर्यजनानन्दित ॥ ७९ ॥ इति श्रीवीग्नन्दिकृतावुदया। चन्द्रप्रभचरिते महाकाव्ये दशम सर्ग । एकादश सर्ग । अथ प्रवृद्धे दिवसे निशापतिर्विधाय स स्नानपुर सरा क्रिया । गृहीतवस्त्राभरणोऽविशिश्रिये समागृह कल्पितसिंहविष्टरम् ॥ १॥ तमेत्य सर्वावसरव्यवस्थित प्रधानदौवारिकसूचितागमा । महीतलाश्लिष्टशिसेन मौलिना नृपा प्रणेमु प्रणतैकवत्सलम् ॥ २ ॥ तत प्रतीहारकृतप्रवेशने यथायथ सभ्यजने व्यवस्थिते । पिलोकयामास स सेवयागत सभाजिरे राजगज प्रजापति ॥ ३ ॥ अनल्पसत्त्व गुरुवशशालिन प्रलम्बहस्त स्वमिवावलोक्य तम् । मतगन क्रीडयितु कुतूहलादचूचुदद्वीरनरान्नराधिप ॥ ४ ॥ तदाज्ञयेक ममुपेत्य धीरधीजवान मुष्टया पनपीवरे करे । तमेति यावत्स जनेन पृष्ठतस्तुतोद तावद्भशमारयापर ॥५॥ निवृत्य यावकिल पृष्ठतिन प्रतिप्रधावत्यतिकोपदीपित । निपत्य तावन्निजलापवात्परश्चकार पाचे पमलोष्टताडनम् ॥ ६ ॥ मिनीयमानो नृपशासनान्नर कृतक्रियरित्यमसी मतदान । प्रघानितु कचिदशक्तमुद्धत करेण जन्नाह पुर प्रसारिणा ॥ ७ ॥ राहमूचीविशेषण

८४
काव्यमाला ।
ग्रहागतं तं मदमूढमानसो जनस्य हाहेतिरवेण पश्यतः ।
तथा समास्फालयति स भूतले यथा स सर्वावयवैर्व्ययुज्यत ॥ ८ ॥
विलोक्य तं शारदमेघवत्क्षणाद्विलीनमङ्गेन च जीवितेन च ।
कृपाङ्गनालिङ्गिततुङ्गमानसो जगाम निर्वेदमिति क्षितीश्वरः ॥ ९ ॥
अहो नराणां भवगर्तवर्तिनामशाश्वतीं पश्यत जीवितस्थितिम् ।
ययातिदूरेण जिताः स्वचापलात्तडिद्विलासाः शरदम्वुदैः समम् ॥१०॥
गदेन मुक्तोऽशनिना कटाक्ष्यते तदुज्झितः शस्त्रविषाग्निकण्टकैः ।
अनेकमृत्यूद्धवसंकटे नरः कियद्वराकश्चिरमेप जीवति ॥ ११ ॥
वपुर्धनं यौवनमायुरन्यदप्यशाश्वतं सर्वमिदं शरीरिणाम् ।
तथाप्ययं शाश्वतमेव मन्यते जनः प्रमोहः खलु कोऽप्ययं महान्॥१२॥
इदं करोम्यद्य परुद्दिनेष्विदं परार्यदश्च प्रविधेयमित्ययम् ।
अनेककर्तव्यशताकुलः पुमान्न मृत्युमासन्नमपीक्षितुं क्षमः ॥ १३ ॥
बिभेति पापान्न सतामसंमतान्न मन्यते दुर्गतिदुःखमुद्धतम् ।
विलोभ्यमानो विषयामिषाशया करोत्यकर्तव्यशतानि मानवः ॥ १४ ॥
मदान्धकान्तानयनान्तचञ्चलाः सदा सहन्ते न सहासितुं श्रियः ।
ज्वलज्जरावज्रहविर्भुजो जये कियच्चिरं स्थास्यति यौवनं वनम् ॥१५॥
क्रियावसाने विरसैर्मुखप्रियैः स्वयं विहास्यैविषयविनाशिभिः ।
विलेख्यते कालमरीचिमालिनः करैर्हतं हा हिमसंनिभं वपुः ॥ १६ ॥
शनैविहास्यन्ति गतश्रियं न मां न बान्धवा बद्धधद्धिबुद्धयः ।
फलप्रसूनप्रलये हि कोकिला भवन्ति चूतावनि जिहासवः ॥ १७ ॥
प्रपित्सु संपक्वफलोपमान्वितं जगत्यहो जीवितमत्र जीविनाम् ।
विलीयमाना निचयाः क्षणक्षयाः शुभाशुभं नंष्टुमनीश्वरं परम् ॥ १८ ॥
कपायसारेन्धनबद्धपद्धतिर्भवाग्निरुत्तुङ्गतरः समुत्थितः ।
न शान्तिमायाति भृशं परिज्वलन्न यद्ययं ज्ञानजलैनिषिच्यते ॥१९॥
दुरात्मकादेव भवाद्भयंकराद्भवन्त्यनर्था वधवन्धनादयः ।
न ते स्युरुत्खाततलः स चेद्भवेदहेतुकाः क्वापि न कार्यसंपदः ॥२०॥

११ सर्ग]
चन्द्रप्रभचरितम् ।
नरो विवध्येत सरागता गतो न कर्मभिस्तद्विपरीतभावन ।
निरन्तर मुश्चति वारि वारिदे विगाहितु धूलिरल हि नाम्वरम् ॥२१॥
चराचरे नास्ति जगत्यभोजि यन्न जन्तुभिर्जन्मपयोधिमध्यग ।
किमेप लोको विपयान्धलोचन पराङ्मुखो रूपति मोक्षसाधनात्॥२२॥
दुरन्तभोगाभिमुखा निवर्तयेन्न शेमुपी य सुसलेशलोभित ।
कथ करिप्यत्युपरूढिमागतामिमा स जन्मव्रतति विनाशिनीम् ॥२३॥
मनुष्यजन्मेदमवाप्य दुर्लभ क्षयात्कयचिन्मलिनस्य कर्मण ।
भवाम्धुराशौ पुनरापदा पदे पतन्ति ते ये न हिते निजाग्रति ॥ २४ ॥
यदीदमागन्तुकदु खकारण प्रशस्यते समृतिसौस्यमज्ञकैः ।
तदा प्रशसापदमेतदप्यहो विपान्वितस्यास्तु गुडस्य भक्षणम् ॥ २५ ॥
निहत्य नून शमखड्गधारया विबन्धकानद्य कपायविद्विप ।
वरीतुमिच्छोर्मम सिद्धिकामिनी निवन्दुमीप्टे जगतीह क पर ॥२६॥
समुद्धतान्पापरिपून्हनिष्यतो वश खकर्म प्रकृतीश्च नेप्यत ।
तपोवन प्राप्तवतोऽप्यखण्डित तदेव राज्य मम सिद्धिभागिन ॥ २७॥
त्वमेव भोगामिपलोभ्यलोकय कदर्यनीश्चित्त चिर चतुर्गती ।
प्रशान्तिमायाहि ममावुनापि कि करिप्यसि क्लेशमत पर परम् ॥२८॥
विवेकिनो जन्मविपत्तिभीरवो निरापदा सपदि बद्धचेतस ।
अपीन्द्रियानीकजये यदीशते नमद्विधा सिद्धिवधूरभर्तृका ॥ २९ ॥
निवर्तितात्मा विपयेभ्य इत्यसौ पुनर्मविप्यद्भवभारभीलुक ।
चकार चित्त चतुरस्तपोवने हितान्न योऽपैति स एव पण्डित ॥३०॥
विहर्तुमत्रावसरे समागत महीपतिभूरिगुण गुणप्रभम् ।
सवृन्दमज्ञानतमस्लमोरिपु मुनीन्द्रमुद्यानचरादवुद्ध स ॥ ३१ ॥
निशम्य तस्यागमन स पावन शिवकरोद्यानमुपेत्य तस्थुप ।
मुदाम्युदस्थादचिरेण निष्टरात्कृती कृतार्थोऽहमिति वन्वच ॥ ३२ ।।
जनेन पौरेण वृत पुरादसौ निरित्य तद्धाम जगाम भूपति ।
प्रचालयन्धर्मकथा सम नृपै समन्विते ससृतिटु खमीरुभि ॥ ३३ ॥

काव्यमाला।
गतस्य तस्योपवने महीपतिनिदर्शयामास समुत्कचेतसः ।
विविक्तमत्यन्तमजन्तुकं शुचिं महामुनेराश्रममाश्रितं श्रिया ॥ ३४ ॥
गृहीतयोगं तपसा कृशीकृतं ददर्श कंचिन्मुनिमातपस्थितम् ।
दिवाकरांशुप्रकरैकलक्ष्यतां प्रयान्तमुन्मूलितमोहविद्विषम् ॥ ३५ ॥
प्रभावनायां जिनवम॑नो रतं विशुद्धसिद्धान्तपयोधिपारगम् ।
समुद्यतं धर्मकथाप्रवर्तने यति धरित्रीपतिरेक्षतापरम् ॥ ३६ ॥
नयप्रमाणांशुभिरुज्ज्वलात्मभिः प्रवादि खद्योतचयं पराभवम् ।
नयन्तमुद्दयोतितलोकमैक्षत प्रजापतिः कंचन साधुभास्करम् ॥ ३७ ॥
त्रिकालमध्यस्थमनन्यगोचरं परोक्षवस्तूपदिशन्तमञ्जसा ।
खमार्गमाहात्म्यनिदर्शनोद्यतं व्यलोकतान्यं स नृपस्तपोधनम् ॥ ३८ ॥
अनेकचेष्टैरिति पर्युपासितं तपस्विवृन्दैरविनिन्द्यवृत्तिभिः ।
नरेश्वरस्तं प्रणिपत्य योगिनामधीश्वरं स्तोतुमिति प्रचक्रमे ॥ ३९ ॥
मनस्विभिर्नाथ भवान्भवान्तकृद्विचिन्त्यते यैः क्षणमात्मवेदिभिः ।
व्रजन्ति तेऽप्यात्तशुभाः कृतार्थतां कृतार्थ दृष्टे त्वयि का विचारणा ४०
जगन्महामोहतमःपटावृतं कुदृष्टि सेवापरिवृद्धविभ्रमम् ।
कथं विबुध्येत तवांशुमालिनो न संचरेयुर्यदि वामरीचयः ॥ ४१ ।।
निराश्रयाणां पततामधोगतावसि त्वमालम्बनमीश देहिनाम् ।
त्वमेव सोपानपथः स्थिरश्रियो विमुक्तिसौधाग्रभुवं यियासताम् ॥४२॥
स्वभावजैः क्षान्तिदयादमादिभिः परिस्फुटत्कुन्दसमानकान्तिभिः ।
प्रकाशितं विश्वममेयतां गतस्त्वया गुणैश्चन्द्रमसा च रश्मिभिः ॥४३॥
जगत्यमुष्मिन्दिवसाधिपोपम त्वदीयवाग्भासुररश्मिभासिते ।
न मार्गशुद्धिर्हतकैरलम्भि यैर्न तैर्न घूकायितमत्र जन्तुभिः ॥ ४४ ॥
विभिन्दतो हार्दमनेकजन्मजं तमस्तवाशेषजगद्रो न यैः ।
विलोकितं वक्रमपूर्वभावतो वृथैव तेषां बत जन्म जन्मिनाम् ॥ ४५ ॥
अपायमुक्तां पदवीं परे न यां चिरादपि प्रापयितुं परिक्षमाः ।
त्वदाश्रयस्तामचिरेण लम्भयन्करोति नश्चेतसि नाथ विस्मयम् ॥ ४६ ॥

११ सर्ग]
चन्द्रप्रमचरितम् ।
कपायनाम्ना विजयेन वैरिणामनश्वर श्रीप्रतिबन्धकारिणाम् ।
तवेश य प्रादरभून्महोदयो भवादृशामेव गिरा स गोचर ॥ ४७ ॥
स्तुति विधायेति मुनेर्मनोहरा पुरो निपण्णे विनयेन भूपतौ ।
सविग्रहप्रश्रयपुञ्जशङ्किना निपेतुरक्षीणि सम तपोभृताम् ॥ १८ ॥
प्रवृत्तसभापणयोर्मियस्तयोरुदशुदन्तयुतिदीपिताशयो ।
धृतकचन्द्रद्युजिगीपया खय मही तदा द्वीन्दुरिव व्यजायत ॥ १९ ॥
महीभृतस्तस्य सता प्रणायक स वर्मवृद्धि परिघुप्य पावनीम् ।
विलोकिताशेपमुखेन्दुरस्टहो गुणानुरागादिरमित्युपाददे ॥ ५० ॥
निमित्तभावेन मदस्य भूयसो निसर्गत पार्थिवता व्यवस्थिता ।
महानुभावे पुनरत्र सान्यथा प्रवर्तते पश्यत पश्यताद्भुतम् ॥ ११ ॥
नयेण नृणा विभवेन नाकिना गतस्पृहाणा विनयेन योगिनाम् ।
महीभुजामेप निजेन तेजसा तनोति चित्ते सतत चमत्कृतिम् ॥ १२ ॥
तुला व्यतीतो विनय क चेदृश क सार्वभौमीप्रभुतेयमीदृशी ।
निपेव्यते मनगुणो गुणैरय परस्परप्रीतिमुपागतरिव ॥ १३ ॥
न तादृशी स्वे विभवे न वान्धवे न चापि ससारसुसे मनोहरे ।
यथास्य चिन्ता परलोकसाधने हितानुवन्ध्याचरित महात्मनाम् ॥५४॥
वदन्नमेव तमुवाच भूपति समासत प्रश्रयनम्रमस्तक ।
पिपामतस्तावकमेव धाम मे त्वदागम पूर्वकृत कृत शुभे ॥ ५५ ॥
पदातिपूर्वा विभवाश्च बान्धवा भवन्ति पाते शरण न दुर्गतौ ।
समाकल्य्येति मम प्रवर्तते त्वदीयसेवाम्गृहमेन मानसम् ॥ ५६ ॥
प्रमीद नतद्वरदात्मदीक्षया यत प्रसादो भवत फियानपि ।
शुम तनोत्याशु निहन्ति चाशुभ करोति किं वा न सतामनुग्रह ॥५७॥ :
निवेदितान्त करणस्य भूभुज परीसितु साहसिकस्य माहमम् ।
तदीयवान्यानिनिर्ननोचित पतिर्मुनीना पुनरित्यवोचत ।। ५८ ॥
तपो वपुर्मि कठिनै मुदप्कर यदर्पित साधुजनेन मादृशा।
कथ सहेरन्सुकुमारमृर्तयो भवादृशा कुङ्कुमलेपलालिना ॥ ५९॥

काव्यमाला। दयावतो धर्मधनस्य धीमतामनिन्द्यवृत्तस्य परार्थसंपदः । चरित्रमेतद्गृहमेधिनोऽपि ते तपोभृतामाचरणान्न भिद्यते ॥ १० ॥ दयापरः साधुरतः परत्रधीरतस्त्वमेतामनुशाधि मेदिनीम् । समुद्धरल्लोकमनाथमायुगं किमस्ति दीनोद्धरणात्परं तपः ॥ ६१ ॥ उदीरितायामिति वाचि सूरिणा पतिः प्रजानामचलान्तराशयः । समाहितः श्रेयसि पक्षमात्मनः पुनढीकर्तुमथोपचक्रमे ।। ६२ ।। शिरःसमभ्यय॑मपीश लङ्घयते मया यदेतद्भवतोऽनुशासनम् । विहाय जन्मव्यसनानि विद्यते मुनीन्द्र नैवापरमत्र कारणम् ॥ १३ ॥ बहुप्रकारा यदि न स्युरङ्गिनामनिष्टयोगादिकृता दुराधयः । जिनेन्द्रचन्द्राचरितं सुदुःसहं सहेत कः सत्यमिदं महाव्रतम् ॥ ६४ ॥ विचित्रदुःखा भवमृत्युसंततिः प्रलीयते चेद्गृहमेधिनामपि । भवादृशामेव विवेकचक्षुषां भवेद्वृथा तर्हि तपःपरिश्रमः ॥ ६५ ॥ इति ब्रुवन्तं तमुदारचेष्टितं जिनेन्द्रदीक्षानिहितैकमानसम् । विनिश्चितैकान्ततदीयनिश्चयो विशामधीशं मुनिरन्वमन्यत ॥ ६६ ॥ ततः स तेनानुमतो महीपतिर्वितीर्य राज्यं जितशत्रु सूनवे । तपोऽग्रहीत्संयमभारभूषणं विमुक्तये मुक्तपरिग्रहग्रहः ॥ १७ ॥ तपश्चरन्धोरमघोरमानसः स्थिरैकपर्यङ्ककृतस्थितिबहिः । निनाय निस्त्रिंशहिमानिलाहतो निशा धृतिप्रावरणः स हैमनीः ॥६८॥ बिभीषणोल्काशतपातदुःसहे घनागमे घोरघनान्धकारिणि । स वारिधारा मुसलाकृतीः कृती क्षपासु सेहे तरुमूलमास्थितः ॥६९|| तपेऽभिसूर्यप्रतिमं व्यवस्थितः स तप्तसूचीसदृशै रवेः करैः । न तुद्यमानोऽपि चचाल योगतः स्थिरा हि सन्तः करणीयवस्तुनि ७० मनो दधद्वादशसु प्रतिक्षणं स भावनासु ध्रुवमध्रुवादिषु । क्षुदादिभिः क्षुण्णमदो न बाधितुं परीपहर्जातुचिदप्यशक्यत ॥ ७१ ॥ इत्थं विधाय विविधं स तपस्तपश्री- व्यालिङ्गितः परिणतोज्ज्वलधर्मलेश्यः ।

११ मर्गः]
चन्द्रप्रमचरितम् ।
८
९
ध्यायन्गुरुन्गुणगुरुन्हृदयेन पञ्च
प्राणान्समाधिमरणेन मुनिर्मुमोच ।। ७२ ॥
प्राप्याच्युत सपदि कल्पमयाच्युतेन्द्रो
भूत्वा सरोजनयनो नयनाभिराम ।
सम्यक्त्वरत्नरुचिरोऽनुमवन्स तस्यौ
दिव्य सुख व्यधिकविंशतिसागरायु ॥ ७३ ।।
च्युत्वा ततो विगलिनायुरसाविहाभ-
स्त्व रत्नसचयपुरे नृप पद्मनाभः ।
पुत्रो जगद्विजयिन कनकप्रभस्य
माता च ते जनमनोज्ञ सुवर्णमाला ॥ ७४ ॥
जन्मावलीमिति यथावदमौ निगद्य
तूणीमभून्मुनिपतिर्मुनिवन्धपाद ।
राजापि पूर्वमकीर्तनहृष्टरोमा
बद्धाञ्जलिमुनिवृप पुनरित्युवाच ॥ ७५ ॥
जन्मान्तराणि भगवन्मवत प्रमादा-
ज्ज्ञातानि समयमुपति तथापि चेत ।
तत्प्रत्यय कमपि नाथ कुरुप्व येन
नि सशया भाति धीमम सशयाना ॥७६ ॥
तदारतीमिति निशम्य जगाद भूप
सदेपदामपहतयितु मुनीन्द्र ।
यूथ त्वदीयनगरे दशमेऽदि हित्या
दन्ती मदान्धमतिरप्यति कश्चिटेक ॥ ७७ ॥
तत्प्रत्ययात्म्ययमिट न चिरेण राज-
निश्प्यसि सममित वचन मटतम् ।
प्रत्यक्षमन्यतया जगति प्रमाण
सवादक मनिमता मकल प्रमाणम् ॥ ७८ ॥

९० काव्यमाला। प्रह्लादिनेति वचसा वदतां वरस्य निधूय संशयमलं विरतस्य साधोः । पादौ प्रणम्य शिरसा व्रतभूषिताङ्गः प्रत्याययौ निजपुरं प्रति पद्मनाभः ॥ ७९ ॥ आकस्मिकोद्तबृहत्परचक्रशङ्का- त्रस्यजनोक्तकिमिदंध्वनिपूर्यमाणः । तस्मिन्मुनीन्द्रकथितेऽथ दिने तुरंगा- नुत्कर्णयन्कलकलोऽतिमहान्वभूव ।। ८० ॥ किं किं किमेतदुपयाहि विलोकयेति संप्रष्टरि क्षितिभुजि त्वरितं प्रगत्य । कश्चिन्निवृत्य पुनरित्यवदद्वचस्वी निर्णीतलोकविषयाकुलतानिमित्तः ॥ ८१ ॥ कोऽपि क्षरत्करटभित्तिरुपेत्य देव दन्ती कुतोऽपि सुरदन्तिसमानसत्त्वः । हन्त्युद्धतः सकलमेव पुराहहिःस्थं लोकं त्वदीयभुजरक्षितमारटन्तम् ।। ८२ ॥ निष्कामति प्रविशति प्रकटोऽथ वा यः सर्वः स तत्करपराहतिचूर्णिताङ्गः । दिग्भ्यो बलिर्भवति किं बहुना जनानां संहारकाल इव स द्विपरूपधारी ॥ ८३ ॥ इत्यागमं करटिनो मुनिसूचितस्य श्रुत्वा जहर्ष हृदयेऽधिपतिर्धरिच्याः । भेजे विषादमपि किंचिदुदारवुद्धि- दुःसाध्यतां परिमृशन्मनसा तदीयाम् ॥ ८४ ॥ तस्मान्न दुष्टकरिणो यदि पौरलोकं रक्षामि तन्मम वृथा क्षितिपालशब्दः ।

चन्द्रप्रभचरितम् । सचिन्तयन्निति स वाहुबलद्वितीयो निर्गत्य तस्य वलिनोऽभिमुखीवभूव ॥ ८५॥ बडा दृढ परिकर विनिवार्य दूरे सामन्तलोकमिममाजुहुवे तमेकः । सोऽप्युन्नमय्य करमुन्नतपूर्वकाय- स्तत्समुख प्रचुररोपवशादधावत् ।। ८६ ॥ तस्यायत करिवधूज्झितमूत्रसिक्त चिक्षेप वस्त्रमभिवक्रमसौ करेणो। यावत्स शक्तिमुपगच्छति तत्र ताव- त्पार्श्वे निपत्य लकुटेन जवाजधान ॥ ८७ ॥ यावत्पुन' स वलतेऽभिमुख जवेन तावद्वभूव वसुधापतिरन्यपाधैं । तत्रापि वाहयति यावदसौ विवृत्य हस्त तलेन निरियाय स तावदीश ॥ ८८ ॥ पश्चात्पुरोऽप्युभयतश्च गजाधिपस्य वभ्राम तस्य स तथा निजलाघवेन । सर्वैर्यथा परिधिसौधतलाधिरूदै सर्वासु दिक्षु युगपद्ददृशे जनौधै ॥ ८९ ।। नि सन्द गजमिति सविधाय तस्य स्कन्धेऽसौ विधृतमृणि. समारोह । तुष्टेनामरनिवहेन लोलभृरै पुप्पौर्दिवि दिविजेविकीर्यमाण ॥९॥ अनुपमवल्वी समुखीभूय सर्वे करिपतिरुरुधैथैर्य सुरैरप्यसाध्य । तमकुरुत स वश्य लीलया चारुलीलो नहि जगति नराणा पुण्यभानामसाध्यम् ॥ २१ ॥ यत्सात्केलिमसाबुवास विदधल्लव्धोदय सबने तस्मात्त वनकेलिरित्यवितय नाम्ना प्रपोप्यामुना।

९२
काव्यमाला ।
प्राविक्षत्क्षितिपो महेन महता चञ्चत्पताकं पुरं
शृण्वन्पौरजनैः प्रहृष्टहृदयैरुद्दीयमानं यशः ॥ ९२ ॥
इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्य एकादशः सर्गः ।
द्वादशः सर्गः ।
अथ कश्चिदुपेत्य शासनान्निजभर्तुविदितः सभागतम् ।
तमिलाधिपतिं कुशाग्रधीरिदमूचे वचनं वचोहरः ॥ १ ॥
रविणेव निजेन तेजसा कठिनांस्तापयता महीभृतः ।
विहिताः सह मित्रवान्धवै रिपवो येन महापदाश्रिताः ॥ २ ॥
परया प्रभुशक्तिसंपदा परिरक्षन्सकलां वसुंधराम् ।
नयति प्रथितं यथार्थतां पृथिवीपाल इति स्वनाम यः ॥ ३ ॥
नयविक्रमशक्तिशोभितो मतिमान्यो द्वितयेन मानदः ।
प्रणतेषु ददातिनाभवद्दयतिना तद्विपरीतवृत्तिषु ॥ ४ ॥
परिरभ्य दृढं स मत्प्रभुर्मयि संक्रामितवाक्यपद्धतिः ।
वदतीति भवन्तमक्षतप्रणयं दूतमुखा हि पार्थिवाः ॥ ५ ॥
महतामतिदूरवर्तिनोऽप्यनुरागं जनयन्ति ते गुणाः ।
शरदभ्रनिभा गभस्तयः कुमुदानामिव कौमुदीपतेः ॥ ६ ॥
तव कीर्तिभिरेव सर्वदिग्वितताभिविनयैकवृत्तिता ।
सुमनोभिरिवानुमीयते फलसंपन्महती महातरोः ॥ ७ ॥
विधिना द्रवरूपताम्बुधेर्विहिता मूलत एव शान्तये ।
तव धैर्यजितेन लज्जया द्रवता नाभिभवो यदीक्षितः ॥ ८ ॥
विवृणोति मनोगतामियं नयवृत्तिर्भवतः सुशीलताम् ।
अनुकूलतया प्रकाशते निजनेतुः करिणो हि भद्रता ॥ ९ ॥
गुणवानपि स त्वमीदृशो मदनिश्चेतनधीरिवेक्ष्यसे ।
कियतापि पुरातनं क्रमं यदतिक्रम्य विचेष्टसेऽन्यथा ॥ १० ॥
प्रणमन्ति मदन्वयोद्भवं तव वंश्या इति पूर्वजस्थितिः ।
करिणेव मदनुतार्गला भवता सा सकलापि लङ्घिता ॥ ११ ॥

१२ सर्गः]
चन्द्रप्रमचरितम् ।
करिणो मदमूढचेतस परिपश्यन्वयमेव बन्धनम् ।
भजते मदवृत्तिमात्मवान्क इवानात्महितप्रवर्तिनीम् ॥ १२ ॥
मदमूढमतिर्हिताहित न हि जात्यन्ध इवावलोकते ।
परिपश्यति सोऽयवा धिया न मदान्वस्तु पिया न चक्षुपा ॥१३॥
पडमी रिपव शरीरजा नयनिद्भिर्गदिता मदादय ।
निजचेतसि य पुरैव तानृपति गास्ति स शास्ति मेदिनीम् ॥१४॥
क्षमते निजमेव रक्षितु रिपुषर्गहत मनो न यः ।
परिभूतिभयादिवात्मनस्लमपास्यापसरन्ति सपद ॥ १५ ॥
शठता मवतोऽडशक्रिया द्विरदेनेर मयावधीरिता ।
चिरकालमिय त्वयाधुना विहितो योऽपना स दुसह ॥ १६ ॥
वनकेलिरिति द्विपाधिप स्वयमागत्य तवाविशत्पुरम् ।
स धतो भवतेति सत्वरैर्मम निश्चित्य चरैनिवेदितम् ॥ १७ ॥
स्वयमेव किल प्रहेप्यसि द्विरद त ननु नष्टवस्तु मे ।
स पुनर्भवतात्मसात्कृतो मदपेक्षारहितेन वारण ॥ १८ ॥
इति ते रिनिवेदित मया कुरु जानासि यदात्मशान्तये ।
हितमज्ञजनो हि शिप्यते न भवान्नीतिसमुद्रपारग ॥ १९ ॥
तदवेत्य वच प्रमोरिद भव नम्रोऽर्पय त मतगजम् ।
न भवन्ति हि जातुचिन्नदा जलयो तिष्ठति रनभाजनम् ॥ २० ॥
अपरानपि यच्छति द्विपानमुनकेन रिभु प्रसादित ।
परिकुप्यति चेत्स दारुणो न तपाय भविता न चापरे ॥ २१ ॥
प्रनिहाय निगीपुतामिमा भा गत्वा प्रभुपादवत्सर ।
अधिक तव लाममिच्छतो ननु तन्मूलमपि प्रणश्यति ॥ २२ ॥
क्षमते विनयानिलाइन स यथा ते गदिताम्मि ते तथा ।
ननु तत्र मात्यसशय मम वाक्येन पयोऽपि गोरस ॥ २३ ॥
हितमिच्छमि चेटकतवा कुरु महाचमय प्रियप्रिय ।
रहमि ग्रन तिष्ठ भापयजय जोति गिर स्खयोपित ॥ २४ ॥

९४ काव्यमाला । इति भाषिण एव भारती रिपुदूतस्य सगर्वमाक्षिपन् । नरनाथदृशा कटाक्षितो युवराजो गिरमित्युदाहरत् ॥ २५ ॥ विनयप्रशमैकभूषणं परमन्यायसमर्थनोद्यतम् । प्रविहाय भवन्तमीदृशं वचनं वक्तुमुपक्रमेत कः ।। २६ ॥ सचिवैरधुना भवद्विधैः परमेधोद्यमयोग्यतान्वितैः । सहितस्य कथं भवेत्प्रभोस्तव भूतिः प्रचुरा न मन्दिरे ॥ २७ ॥ विनयैकरतिर्महागुणः सकलेऽस्मिन्भुवने स गण्यते । नृपतिः प्रविनिन्दितं सतामुचितं तस्य विधातुमीदृशम् ॥ २८ ॥ यदि भाग्यवशेन वारणो गृहमस्माकमयं व्यगाहत । इयतैव किमक्षमा प्रभोः परवृद्धिष्वसतां हि मत्सरः ॥ २९ ॥ इह तावददातुमिच्छतां निजमस्माकमयं किलाक्रमः । परवस्तु जिगीषतां पुनर्भवतामेष किमुच्यते क्रमः ॥ ३० ॥ वचनं व खलूपयुज्यते प्रभुरसि क्रमतोऽहमित्यदः । ननु खड्गबलेन भुज्यते वसुधा न क्रमसंप्रकाशनैः ।। ३१ ॥ करिणीपतिरन्यदेव वा कृतपुण्यं समुपैति वस्तु यत् । बलिना तदपास्य ते बलान्नहि लोके क्वचिदीदृशः क्रमः ॥ ३२ ॥ अथ सप्रणयेन याचते करिणीनाथमनाथवत्सलः । इति ते विनिवेदितं मयेत्यभिधत्ते भयदर्शि किं वचः ॥ ३३ ॥ किमु तस्य न सन्ति वारणा बहवोऽन्ये परपक्षवारणाः । अमुना स पदेन मन्दधीध्रुवमस्मानभियोक्तुमिच्छति ॥ ३४ ॥ वलवानहमित्यहंक्रिया नहि सर्वत्र भवेत्प्रशान्तये । अधिकक्रमतैव मृत्यवे ननु सिंहस्य घन लिलविषोः ॥ ३५ ॥ बलगर्वितयैव निष्फलं प्रविधित्सुमहतामतिक्रमम् । स्वयमेव खलः स भोक्ष्यते कटुनो यन्मधुरस्य चान्तरम् ॥ ३६ ॥ शयितस्य हरेः प्रबोधनामितिकुर्वन्तमुपेत्य मत्प्रभुः । सहसैव हिनस्ति किं न तं यदि न स्यात्क्षमया निवारितः ॥३७॥ प्र १२ सर्ग.] चन्द्रप्रमचरितम् । अमियुज्य निहन्ति यो रिपूनमियुक्त स पुनर्विशेषतः । ज्वलितु स्वयमुत्सुक शिम्बी सुतरा मारुतसप्रधुक्षितः !॥ ३८ ॥ क्षयवान्विजिगीप्यते परैर्व्यसनी देवविवर्जितोऽथवा । कलिता वद तत्र के वयं प्रसम त्वत्प्रभुणा जिगीपता ॥ ३९ ॥ भवति प्रियमिष्टसाधक महति क्षुद्रजने हठक्रिया । इति किं न स वेत्ति मूढधीरयवा को विभवे सचेतनः ॥४०॥ न भवान्किमवैति यवलात्कुरुते राज्यमसावकण्टकम् । प्रहरन्ति न सास्यपूरुपं ननु त मप्रभुशङ्कयारय ॥ ४१ ॥ इति तस्य निशम्य भारती रिपुदूत परिवृद्धमत्सर । न्यगदीद्गुरुगर्वगद्दाममिसर्पन्गिरमग्रतोऽग्रत ॥ ४२ ॥ स्वहित स्ववियैव बुध्यते पुरुष सत्युदये सुकर्मण । अविधेयविधिर्न बुध्यते स्वधिया नापि परेण वोधित ॥ ४३ ॥ न निमित्तमिहोपदेशको न च शास्त्र न च साधुसगति । कुशलाकुशला च जायते धिषणा दैववशेन देहिनाम् ॥ ४४ ॥ अवभाति निज स पौरुष कथयन्निवहते तथैव यः । निजविक्रमगर्विणो रणे हसनीया बहवो मयेक्षिता ॥ ४५ ॥ प्रविचिन्त्यमुदेतुमिच्छता प्रथम स्वस्य परस्य चान्तरम् । परिमृश्य कृतो न हि क्रम शरभस्येव विपाकदारुण ॥ ४६ ॥ अधमेन समेन वाधिकामधिगच्छन्निजभाग्यसपदम् । मतिमान्विदधातु विग्रह बलवद्भि सह कोऽस्य विग्रह. !॥ १७ ॥ बहुमि परिवारितोऽखिल हतबुद्धिजितमेव पश्यति । अवगच्छति नेदमुद्गते गुरुकार्य मम नात्र कश्चन ।। ४८ ॥ खयमैक्षि यतो नदीरयात्पतन स्तब्धतस्तटीतरो । अमात्यलु तेन समत प्रणिपातो विदुपा बलाधिके ।। १९ ।। यसत्वयुनो स्थिराशयापनिलहमी यदि नाम तावुमी । महदेव तयापि दूरतो नदभर्तुश्च तदस्य चान्तरम ॥ १० ॥ १. भकिचित्तरम्

काव्यमाला ।
प्रियवादपरेषु विश्वसीत्कुभटेष्वेषु वृथैव मा भवान् ।
परिवारितमप्यगैनगं क्षुभितः प्लावयितुं क्षमोऽम्बुधिः ॥ ५१ ॥
खयमेतदुदाहृतं मया प्रधने तत्प्रकट भविष्यति ।
स्फुटतामुपयाति कस्यचिद्रसभेदो नहि जिह्वया विना ॥ १२ ॥
अहितस्य हितोपदेशनैरथवा किं मम कुर्वभीप्सितम् ।
प्रतिकूलजने ह्युपेक्षणं हितशिक्षानुगतैकवृत्तिषु ॥ १३ ॥
ससुतः समुपेत्य तत्सभां क्षितिमभ्यर्चय मुक्तमत्सरः ।
प्रणति गमितैः शिरोम्बुजै रणभूमीमथवा गलच्युतैः ॥ ५४ ॥
क्षुभितामिति तस्य भाषितैर्युवराजप्रमुखामसौ सभाम् ।
परवागनुवादिनोऽस्य कः खलु दोषः प्रभुरित्यवारयत् ॥ ५५ ॥
ब्रज योग्यगृहासनादिकं व्यवहारोचितमस्य कारय ।
अभिधाय नियुक्तमित्यसावुदतिष्ठत्प्रविसर्जिताखिलः ॥ ५६ ॥
अथ मन्त्रगृहे स मन्त्रवित्सममाहूय समस्तमन्त्रिणः ।
युवराजसमन्वितोऽभ्यधादिति वाचं वचने विचक्षणः ॥ ६७ ।।
वयमप्यगमाम कौशलं नयंमार्गे यदयं भवद्गुणः ।
अवभासयतेऽखिलं जगद्दिवसोऽयं महिमा स्वेरसौ ॥ ५८ ।।
परिवर्धयति खकौशलैः कुशलं शास्त्यवति प्रमादतः ।
जननी जनिकेव तत्फलं कुरुते नः सकलं भवन्मतिः ॥ ५९ ॥
अपि मेरुसमे समुद्गते मम का व्याकुलता प्रयोजने ।
अभिजाग्रति यस्य सर्वतो गुरवः कार्यविधौ भवद्विधाः ॥ ६० ॥
द्विरदानिव मद्विधान्सदा मदमूढान्स्खलतः पदेपदे ।
अपथाद्विनिवर्तयेत को गुरवश्चेन्न भवेयुरङ्कुशाः ॥ ६१ ॥
क्रमतेऽरिषु मत्पराक्रमो भवतामेव धिया पुरस्कृतः ।
नहि धामधनोऽप्यसारथिनभसः पारमुपैति भास्करः ॥ ६२ ॥
स्वयमेव भवद्भिराहितश्रुतिभिः किं न सभागतैः श्रुतम् ।
निजदूतमुखेन निष्ठुरं मयि यत्तेन शठेन भाषितम् ॥ ६३ ॥

१२ सर्ग.] चन्द्रप्रभचरितम् । परुप मम शृण्वतस्तथा सहसा क्षोभमुपजन्मनः । किममन्त्रि गृह तदीयमित्यपवादेन जनस्य वारितम् ॥ १४ ॥ भजते गदवन्न विक्रियामुदयन्नेव रिपुश्चिकित्सित. । इति वक्रमति स कैतवाहृतमसानभिहन्तुमीहते ॥ १५ ॥ अत एव च दण्डवर्जितः सदुपायोऽसि न तस्य सिद्धये । वदतासि स चेप्रकृप्यते मतिरासर्वविदो हि देहिनाम् ॥ १६ ॥ अभिधाय गिर स सौष्ठवामिति तूप्णी नृपताववस्थिते । न्यगदीदिति नीतिमद्वचः पुरुभूति पुरुभूतिकारणम् ॥ १७ ॥ अभवाम भवत्प्रसादतो वयमृद्धेश्च मतेश्च भाजनम् । अत एव भुवि त्वमेव नो गुरुरीश सुहृदेकवान्धव ॥१८॥ तव कार्यविदोऽभिजल्पितु पुरतो दृष्टपरम्परस्य च । नयशास्त्रलवैकलिप्तधी परिजिह्वेति कथ न मादृश ॥ १९ ॥ नहि कार्यविपश्चित पुरो निगदनराजति शास्त्रपण्डितः । सकल पुरुषस्य लक्षण ननु सदिग्धमलक्षवेदिन ॥ ७० ॥ अधिकारपदे स्थितैस्तथाप्यनुशिष्य. प्रभुरात्मशक्तितः । तुपराशिफणक्रमाद्भवेदपि बालाद्विरल सुभाषितम् ॥ ७१ ॥ पुरुपेण निगीषुणा सदाप्यवलम्व्यौ नयविक्रमद्रुमौ । नहि तावपहाय निद्यते फलसिद्धेरपर निबन्धनम् ॥ ७२ ॥ नयविक्रमयोर्नयो बली नयहीनस वृथापराक्रम । प्रविदारितमत्तकुञ्जर शररेणापि निहन्यते हरि ॥ ७३ ।। बलवानपि जायते रिपु सुखसाध्य' खलु नीतिवर्तिनाम् । मदमन्थरमप्युपायतो ननु बध्नन्ति गज वनेचरा ॥ ७४ ॥ नयमार्गममुञ्चत स्वय निघटेतापि यदि प्रयोजनम् । पुरुपस्य न तत्र दूपण स समस्तोऽपि विधे पराभव ॥७५ ॥ नयशास्त्रनिदर्शितेन यः सतत सचरते न वर्मना । शिशुवत्स कुबुद्धिरुल्मुक स्वयमाकर्पति कृच्छमात्मन || ७६ ॥ १ अमममम्य

९८
काव्यमाला ।
त्वमतः प्रथमो विवेकिनां सहसा दण्डमरौ प्रयुझ्व मा ।
सहि शाम्यति साममात्रतः पृथिवीपाल नृपोऽभिमानवान् ॥ ७७ ॥
अभिमानधनो हि विक्रियां व्रजति प्रत्युत दण्डदर्शनैः ।
प्रशमं न तु याति जातुचित्परिनिर्वाति किमग्निरग्निना || ७८ ॥
प्रथमं द्विषि साम बुद्धिमानथ भेदादि युनक्ति सिद्धये ।
गुरुदण्डनिपीडना रिपोरियमन्त्या हि विवेकिन क्रिया ॥ ७९ ॥
प्रभु दोषशतं प्रमानितुं पुरुषस्यैकमपि प्रियं वचः ।
पयसैव जनस्य वल्लभा ननु वज्रादिमुचः पयोमुचः ॥ ८० ॥
धनहानिरुपप्रदानतो बलहानिनियमेन दण्डतः ।
अयशः कपटीति भेदतो बहुभद्रं नहि सामतः परम् ॥ ८१ ॥
प्रणिगद्य नयान्वितं वचः पुरुभूताविति मौनमास्थिते ।
युवराडथ पौरुषाश्रयामिति सासूयमुदाहरद्गिरम् ॥ ८२ ॥
पठितव्यमिहान्यथा स्थितं करणीयप्रतिपत्तिरन्यथा
नहि पृष्ठभरे नियुज्यते हलसंभावितयोग्यतः पशुः ॥ ८३ ॥
अनिरूपितकृत्ययानया ह्रियते कः खलु कूर्चशोभया ।
ननु बीजपदे व्यवस्थितं फलमन्यः पदवाक्यडम्बरः ॥ ८४ ॥
परवृद्धिनिबद्धमत्सरे विफलद्वेषिणि साम कीदृशम् ।
सुतरां स भवेत्खरः प्रियैरविभाव्यप्रकृतिहि दुर्जनः ॥ ८५ ॥
विषये खलु संनियोजितः सदुपायः फलवान्न चान्यथा ।
नहि वज्रधरायुधोचिते क्रमते ग्रावणि लौहमायुधम् ॥ ८६ ॥
मदभाजि परापमानताप्रवणे दण्डमुशन्ति सूरयः ।
उपयाति सुखेन वश्यतां किमनड्वानपनाथनासिकः ॥ ७ ॥
पुरुषस्तपनीयवद्गुरुर्न पर्यावदसौ निगृह्यते ।
तुलितस्तु स एव तत्क्षणात्तृणराशौ निपतत्यसंशयम् ॥ ८ ॥
शिवहेतुरुदाहृता क्षमा वतिनामेव न मेदिनीभुजाम् ।
बहुना ननु विप्रकृष्यते पदवी संसृतिमुक्तिधर्मिणोः ॥ ८९ ॥

१२ सर्गः] चन्द्रप्रभचरितम् । . अभिवाञ्छति पादसङ्गमप्यखिल कर्तुमतिग्मदीपिते । तपन न दृशापि वीक्षितु महिमा नन्वखिल स तेजस ॥ ९ ॥ कृपणस्य परानुवर्तन. सततार्तस्य धिगस्तु जीवितम् । अनुनीय पर निमोचितैललितर्जीवति कि न मण्डल ॥९१ ॥ अनुगच्छति य शठ प्रियै प्रविहायोचितमात्मसौष्ठवम् । स निजा विवृणोत्यसारतामपवृष्टिनिनदन्निवाम्बुद ॥ ९२ ।। मृत एव विलीन एव वा वरमप्राप्तभव पुरैव च । न पुमाग्परिभूतिजीवित. सहते क खलु मानखण्डनम् ॥ १३ ॥ रहित सहजेन तेजसा पशुवत्केन वलान्न वाह्यते । महतामत एव वल्लभा ननु वृत्तिर्मंगराजसेविता ॥ ९४ ॥ अवगाच्युतनीति मा भवानिदमेकान्तत एव मद्वच । अहमीश यतो ब्रवीम्यद. सकल कालवलव्यपेक्षया ॥ ९५ ॥ स्वयमेव न वेत्ति किं प्रभु स यथा क्षीणवलो बलाहवे । ससुहृव्यसनश्च वर्तते विगृहीत कुलजैर्महावलैः ॥ ९ ॥ अभियातुमत प्रयुज्यते भवतो वृद्धिमत क्षये स्थित । प्रभवेत्खलु भाग्यसपदा सहित स्थानगतोऽप्यरातिषु ॥ ९७ ॥ अवधार्य सुवर्णनाभजामिति वाणी करणीयपेशलाम् । भवभूतिरुदाहरद्वच. प्रभुणा स्निग्धशावलोकित ॥ ९८ ।। निखिले निधिवद्विवेचिते युवराजेन निधेयवन्तुनि । अपरोऽत्र यदाह सोऽखिल प्रतिशद शुकशारिकादिवत् १९९|| विशदामसमुज्मितान्वया नयसारामविहीनसौष्ठवाम् । गिरमेप कदाचिदीडशीमभिदध्यादथवा बृहस्पति ॥ १० ॥ न तथाप्यनुवर्तनामह सहसास्य प्रविधातुमुत्सहे । न निमुह्यतु मद्विध कथ गहने कृत्यविधी निघेरपि ।। १०१ ॥ सुनिचार्य करोति युद्धिमानथवा नारमते प्रयोजनम् । रभसात्करण हि कर्मणा पशुपम स कथ नु मानुपे ॥ १०२ ॥ १ युधर

१००
काव्यमाला।
प्रविचेष्टितमेवमेव चेदुभयोरप्यविवेकपूर्वकम् ।
पशुमानुपयोस्तदा भवेत्किमृते शृङ्गयुगाद्विभेदकम् ॥ १०३ ॥
युवराण्मतमस्तु किं तु नः प्रतिपाल्यः समयः कियानपि ।
विदितारिवलाः प्रयुञ्जते ननु पाड्गुण्यमुदारबुद्धयः ॥ १०४ ॥
सकलं प्रविगाह्यतां चरै रिपुसर्वस्वमुपेत्य सर्वतः ।
स्वपरप्रविभागवेदने स्वयमस्तूद्यतधीमेवानपि ।। १०५ ॥
तरसोभयवेतनैर्वशीक्रियतां भृत्यगणो यथोचितम् ।
कृतकग्रथितैश्च शासनैः परिदृष्या रिपुसामवायिकाः ॥ १०६ ॥
विनिवेद्यमिदं प्रयोजनं सकलं भीमरथस्य रंहसा ।
स न तिष्ठति लेखदर्शनात्समदुःखोऽस्ति सुहन्न तादृशः ॥१०७॥
तनयः स तनोति यः कुलं स सुहृयो व्यसनेऽनुवर्तते ।
स नृपः परियाति यः प्रजां स कविर्यस्य वचो न नीरसम् ॥ १०८॥
तमनन्यसमानतेजसं समनुप्राप्य सहायमूर्जितम् ।
सवितेव घनात्यये भवान्भविता भासुरधामदुःसहः ॥ १०९ ॥
करिणं प्रदिशामि निश्चितं समरं वाहनि मासपूरणे ।
भवतेऽहमिति प्रहीयतां रिपुदूतो वचनैर्द्वयाश्रयैः ॥ ११० ॥
हितमिति वचनानि मन्त्रिमुख्यादिति सकलाभिमतान्यसौ निशम्य ।
अनलसमतिरर्थतोऽनुतस्थौ गुरुवचनं हृदयैपिणामलङ्घयम् ॥ १११ ॥
इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये द्वादशः सर्गः ।
त्रयोदशः सर्गः।
अथ स विक्रमवान्नयभूषणो मिलितभीमरथप्रमुखः प्रभुः ।
निरगमत्प्रतिशत्रु जिगीषया प्रशमितप्रकृतिव्यसनो नृपः ॥ १॥
सकललोकमनोरममुल्लसत्कुमुदपाण्डु विभावितदिङ्मुखम् ।
पथि रराज धृतं धरणीपतेः स्वयशसा सममातपवारणम् ॥ २ ॥
जलदवीथिविशालमुरः प्रभोः पृथुलहारलतामणिभिर्बभौ ।
मुखसरोजमुपासितुमागतैरुडुगणैरिव जातशशिभ्रमैः ॥ ३ ॥

१३ सर्गः]
चन्द्रप्रमचरितम् ।
१०१
प्रसूतया वभतुर्वरकुण्डलग्रथितवारिजरागमणित्विषा ।
सरसगरिकपकपरिष्कृतौ करिकराविव भूमिभुजो भुजौ ॥ ४ ॥
मुकुटरत्नचयेन परस्परव्यतिकरोसितामलरोचिपा ।
जलदकाल इवेन्द्रधनु श्रिय प्रविततान महीपतिरम्बरे ॥ ५॥
परिभवत्यरिनिर्जयनिर्गतो निखिलमाण्डलिकाननतानयम् ।
इति भयेन तदीयभुजद्वय शशिरवी इव भेजतुरङ्गदे ॥ ६ ॥
शिखिगलाकृतिना रशनाश्मना रुचिचयेन निरन्तरपूरितम् ।
क्षितिपतेरखिला यमुनादश्रियमलुम्पत नाभिसरोरुहम् ॥ ७ ॥
गुरुमताभिरतामलमानस विहितदिव्यशरीरपरिग्रहम् ।
त्रिदिवनाथमिव त्रिदिवौकसस्तमवनीपतयो नृपमन्वयु ॥ ८ ॥
तुरगवारकठोरकरद्वयीघृतकशागुणपीडितकधरै ।
पथि भयापसरच्छिशुसकुले स्खलितवेगमगामि तुरगमै ॥ ९॥
तुरगियननिरुद्धमहाजहरिभिरुत्पतितैर्नलदोन्मुसे।
गगननीरनिधिनिखिलस्तदा समजनीव तरङ्गितनिग्रह ॥ १० ॥
चलितवद्भिरजीयन वाजिमिस्त्वरितमभ्यधिकेन निजीजसा ।
कृतपर्दनिम्पिलेऽपि महीतले यदनिल किमिवान महाद्भुतम् ॥ ११ ॥
निरवधि प्रसतमुधातले नृपवलमहिमा मम खण्डित ।
इति नभनपयेव तिरोभवद्रनसि वाजिनुराहतिबृहिते ॥ १२ ॥
सनडिदाभरणा प्रनितन्यते धृतजला जलदा दिपि या श्रियम् ।
स्फुरितरत्नकुथैरलिकोमलै प्रचलिन नि सा निदये गर्न ॥ १३ ॥
पथिपु हस्तिपसाहतडिण्डिमध्वनितनष्टननेषु यदृच्छया ।
गुपितधीरनिवर्तितदृष्टिभि पदमदीयत मत्तमतहजे ॥ १४ ॥
नृपतिरेकक एप कुल हिपा क्षपयितु क्षम एष फिमन व ।
नगुरिती सर्वन दन्निना श्रितमटाकटा मधुरिगणा ॥ १५ ॥
यमानी गमायमरे मट नहिरे करिणो नयामिन ।
रनसि तेन तुरनगेत्यिते प्रशमिते दहशु पहनी नना ॥ १६ ॥

१०२ काव्यमाला। खुरनिपातविदारितभूमिभिः प्रजविभिस्तुरगैर्विपमीकृते । पथि परिस्खलनेन समुच्छलच्चरणया चलितं रथकट्यया ॥ १७ ॥ न सहते करपातमयं नृपो विजयवानपरस्य महीतले । रविरितीव रथध्वजचीवरैरविरलैर्विदधेऽन्तरितं वपुः ॥ १८ ॥ नृपपराक्रमबीजविवप्सुभिरिव रथैर्यदकृष्यत भूतलम् । मदपयोभिरपूर्यत तन्मधुव्रतकुलाकुलगण्डतलैगजैः ॥ १९ ॥ चलितशैलचयेन गरीयसा बलभरेण निपीडितदेहया । बधिरिताखिलदिग्रथमण्डलध्वनिपदैरिव निःखनितं भुवा ॥ २० ॥ कतिपयानि न यावदयुः पदान्यनुचरै रभसेन विनिर्गताः । कतिपयैः पथि तावदुपेत्य तान्भटगणा नृपतीन्परिवत्रिरे ॥ २१ ॥ परिहितायसकञ्चकमेचकं पिहितभूमि पदातिकदम्बकम् । नरपतेररुचच्छरणागतं तिमिरशत्रुभयादिव तामसम् ॥ २२ ॥ कृतसमुन्नतवंशपरिग्रहा गुणविशेपविभूपितविग्रहा । कुलवधूरिव मुष्टिगता मुदं व्यधित योधजनस्य धनुर्लता ॥ २३ ॥ घनघटासदृशीषु कृतासना गजवधूप्ववरोधपुरंध्रयः । विपुलकान्तिपरिप्लुतविग्रहा विदधिरे श्रियमाचिररोचिपीम् ॥ २४ ॥ तदखिलं पुटभेदनमुद्भटैः स्फुटदिवाभवदात्तकुतूहलैः । न निरतैर्यदवेक्षितुमीश्वरं दशतयीप्वपि दिक्षु जनैर्ममे ॥ २५ ॥ परिचिते बहुशोऽप्यवनीश्वरे कमलिनीकुसुमैरिव भास्करे । विचकसे नयनैः पुरयोषितां न रमणीयमपोहति कौतुकम् ॥ २६ ॥ जनरवानसतो निपतन्त्यधस्तरलवेगसरादवरोधिका । युवजनं विद्धे गलदम्बरप्रकटितावयवा सुकुतूहलम् ॥ २७ ॥ कृतकटुस्वरमायतकंधरं सपदि भाण्डमपास्य पलायितः । करिभयात्कटके समपूपुषन्नट इवाधिकहास्यरसं मयः ॥ २८ ॥ पथि वृषैः करिसूत्कृतिविद्रुमैर्मुदितधूद्वितये शकटे सति । विपुललाभकृते वणिजोऽटतो घृतवटैमनसा सह पुस्फुटे ॥ २९ ॥ : १. उष्ट्र

१३ सर्गः]
चन्द्रप्रमचरितम् ।
अविदितागतवारणमीमवत्पतनमनबृहद्दधिपात्रया ।
निववृते क्षणशोचितनाशया नृपपयात्किल बल्लवयोपिता ॥ ३० ॥
गुरुभरग्रहकुलितविग्रहैश्चिरतराचलितैरपि चक्रिरे ।
कटकिनः प्रथम कृतनिर्गमा सपदि वैवधिकैरनुयायिनः ॥ ३१ ॥
नृपवधूजनयानवितानकैरलघुभि कटक निचितान्तरम् ।
तमवलोक्य जनैन स सस्मरे प्रचुरपोतचित सरितापति ॥ ३२ ॥
सरमसनरनायनिनिर्गमे क्षितिभुजा प्रतिपालयता बलै ।
रुरुचिरे निचिता पुरवीथयो गुरुतरगचयैरिव निम्नगा ॥ ३३ ॥
तुरगरोहकरायसमुत्पतत्तरलतुगतुरगतरगया ।
बहुमुख मधेरिव वेलया क्षुभितया प्रसृत नृपसेनया ॥ ३४ ॥
पटहजेन पटुध्वनिना मुहुर्मुहुरिवाहयता प्रतिनि स्वनैः ।
क्षितिपती-धरनिर्गमशसिना सकलसैनिफसद्ममु बनमे ॥ ३५ ॥
अधिकमेधितया मुदितैर्जने मुहतदृष्टिमना पुरशोभया ।
क्षितिपति सहसव सविस्मयो रयमलोकत शालतले निजम् ॥ २६ ॥
कृतपरस्परवानिविघटनानमितवारणरोहशिरोधरा ।
व्यधिन तिर्यगुपाहितफेतना निरयण पुरगोपुरतश्चमू ।। ३७ ।।
निधुतपट्वरुहो मधुपायिनामिव रवर्विदधत्परिभापणम् ।
वमुमतीदयित परिरम्य त मुहदिवामुखयत्परिग्वानिल ॥ ३८ ॥
फिसिताम्बुरुहाणि मरोरहाण्यफलुपाश्च पयोनिधियोपित ।
पथि निटोफयत गृहणीयया क्षितिभुजोऽननि शारदयात्रया ॥३९॥
हृदयद्धयमो विमगम्बरा पृथुसमुन्नतपाण्टुपयोधरा ।
नरवरेण पुन पुनरादरादगिरे दयितामदृशो दिश ॥ ४० ॥
रनिररटकरानितविग्रहविहिनमभ्रमगोष्ठमहत्तरै ।
पथि पुरो दरिमपिस्पायनान्युपरितानि लियोय म पिप्रिये ॥ ११ ॥
युनपरादमहा शुभयारणे कारमगोपाधूमारोकयन् ।
गितमुग. समनिन्नयरित्यमा पनिदनीय गुणोऽप्पगुणायने ॥ ४२ ॥

१०४
काव्यमाला।
बृहदलावुकगौरववामनां वृतिमुपर्युपरि प्रसृतैः पपे ।
सतृपितैरिव गोकुलयोषितां विपुलकान्तिजलो नयनैर्नृपः ॥ ४३ ॥
समधिगम्य समस्तसमीहितामवनतर्महती फलसंपदम् ।
क्षितिभृतः कलमैरवलोकितैः स्मृतिरजायत सज्जनगोचरा ॥ ४४ ।।
क्षणमुपास्य परां प्रियमागतं सरसि हंसवधूमवजानतीम् ।
समवलोक्य विवेद स भूपतिः सहजमेव पुरंध्रिपु कैतवम् ॥ ४५ ॥
शशिकराङ्कुरनिर्मलगून्वहिःकृतखलान्निजसीमपरिष्कृतान् ।
वुधनिभान्निगमान्स विलोकयन्नजनि हृष्टमना वसुधाधिपः ॥ ४६ ॥
अनुपदाय विसं प्रणयार्पितं सरसि चञ्चधृतं परिकोपिताम् ।
अनुनयन्तमथो हृदयेश्वरीमभिननन्द स कोकमिलाधिपः ॥ ४७ ॥
जलदनादगभीरमथिध्वनिश्रवणजातसमुत्सुकमानसम् ।
नटदुदीक्ष्य कुलं भुजगद्विपामभिशशंस स गोकुलवासिताम् ॥ ४८ ॥
कलमगोपकवंशरवाहितश्रुति कुरङ्गकुलं पृतनाचरैः ।
हतमुदीक्ष्य जनैरिति सोऽध्यगाद्विषयिणो नियतं विपदां पदम् ॥४९॥
सुगतिगामिनी भावितमानसे विमलपक्षतया परिभूषिते ।
न स शशाक निवर्तयितुं दृशौ स्वसदृशे नृपहंसकुले नृपः ॥ ५० ॥
फलितसस्यसमूहनिरन्तराखतिमनोरमलाङ्गलराजिषु ।
क्षितिषु गौरिव गौर्जगतीभुजश्चिरतरं विचचार निरङ्कुशा ॥ ११ ॥
जनमनःशयने शयितं मनोभवमिव प्रतिवोधयता कृतः ।
समदहंसकुलेन कलध्वनिनुपतिनावहितश्रुति शुश्रुवे ॥ ५२ ॥
परिमितैर्गमनैः कुथवाहिनीं पथिषु विश्रमयन्गजवाहिनीम् ।
जलधिधीरजलां जलवाहिनीं वसुमतीपतिराप स वाहिनीम् ॥ १३ ॥
विविधभङ्गतरङ्गशिरःस्थितैस्तुहिननिर्मलफेनकदम्बकैः ।
वसुमतीव विराजति या सरिद्धनघनाघनरुद्धमहीधरा ॥ १४ ॥
समवगाढवतां वनदन्तिनां कटतटाद्गलितस्य मदाम्भसः ।
उपरि संचरतामलिनां कुलैः सतिलकाभरणेव विभाति या ॥ १५ ॥

१४ सर्ग:]
चन्द्रमभचरितम् ।
कृतपरस्परकेलिभिरुच्छलन्मधुरगीतरवानुगनि खनै ।
उभयकूलगतै पतता कुलैर्निजविनोदकरैरिव भाति या ॥ १६ ॥
तटगतामलनीलशिलातलोल्लसितदीधितिरञ्जितनीरया ।
पतितया सततायतवर्मन प्रतिमयेव विभाति मही यया ॥ १७ ॥
मकरमूत्कृतदूरसमुच्छलत्सलिलविन्दभिरिन्दुमणिप्रभैः ।
सनतमम्वुधराध्वनि तारकाकुलकृता क्रियतेऽभिरचिर्यया ॥ १८ ॥
पुरिनभूमिपु यत्र तट्टमव्यवहिताशुमदशुसु मारुत ।
मुरतजश्रमवारिकणान्पिवत्रमयते मिथुनानि नभ सदाम् ॥ ५९॥
घनतरैरुपरजितवारिभिः सुरभिताखिलदिग्बलयान्तर ।
परिमलैरुपरिस्थितसेचरीसलिल्केलिममो निवृणोति या ॥ १० ॥
दानाम्भोभिभूरिभिरणाना श्रान्त्युद्भतेर्वाजिना वक्रफेनै ।
चके पुप्यत्रोतस तुल्यनाम प्रीत्येवासी वाहिनी वाहिनी ताम् ॥११॥
ससर्पत्तटगतकर्कटा समीनामुन्मजन्मकरनिराजमानमध्याम् ।
तीवा तामुदयसमन्वितो जगाम क्षोणीभृत्सरितमिवाम्बुवाहवीथीम् ॥ १२॥
इति श्रीवीग्नन्दितावुया चन्द्रप्रमचरिते महाकाव्ये त्रयोदश सर्ग ।
चतुदेश सर्ग ।
मणिप्रभाभिर्मणिकृटमदि सदीपमुच्चैदृषद ददर्श ।
च्युत दिवोऽन्योन्यविघटनेन तडित्वता वारिमुचामिवीयम् ॥ १ ॥
विचित्ररत्ने कटकै स्वकीयरिवाद्वितीया वहतो निभूपाम् ।
निशाफरो यस्य निशानु शोभा करोति चूडामणिमात्रजन्याम् ॥ २ ॥
पर्यन्तचर्य कनको वलासु यन्मेग्वलरासूच्चतरामु तारा ।
परिस्फुरद्दीधितिमामुराणा कुर्नन्ति कृत्य मणिकिङ्गिणीनाम ॥ ३॥
धूमोहमैरागुरव सुरस्त्रीप्रवयमाने पटवामहेनो ।
सदाम्बरे यन तपान्नल्दीपितन्यते बद्धपयोदवृन्दे ॥ ४ ॥
दत्तश्रुति किंनरकामिनीना गीतेषु मूर्यगतनिश्चलान ।
मृगनगो यत्र सनीपशिल्पशवा विधत्ते गगनेचराणाम् ॥५॥

१०६ काव्यमाला। निवारयन्तोऽपि दरीमुखस्थाः करप्रवेशं सवितुः पयोदाः । तडित्प्रभादर्शितवल्लभास्या ब्रजन्ति यत्र घुसदां प्रियत्वम् ॥ ६ ॥ प्रभावतो लब्धमहर्द्धिकस्य प्रभावतो योगिजनस्य यस्मिन् । नरो गतो रम्यविशालशृङ्गे न रोगतो गच्छति कोऽपि पीडाम् ॥ ७ ॥ नितम्बवाप्यः खचराङ्गनानामधःप्रवर्षिष्वपि वारिदेपु । विच्छिन्दते यत्र न तोयकेलिं परिस्रवन्निर्झरपूर्यमाणाः ॥ ८ ॥ परित्रुतानीन्दुमणिप्रतानात्पयासि पीयूषवदापिवन्तः । नित्यप्रसूताभिनवप्रवाला भजन्ति यत्राजरतां द्रुमौघाः ॥ ९ ॥ महौषधीगन्धगतप्रभावान्निर्वीर्यकृष्णाहिपु चन्दनानाम् । वनेष्वनाशङ्कितशेमुषीकाः क्रीडन्ति कान्तैः सह यत्र कान्ताः॥ १० ॥ शिलातले यस्य घनायमाने घनायमाने कमनीयभावम् । विराजते देहविभा सुराणां विभासुराणामचिरांशुदेश्या ॥ ११ ॥ गन्तुं पतझोपलवहितप्तादपारयन्त्यः सहसा प्रदेशात् । द्विषन्ति यस्मिन्निजमेव तुझं तुरंगवत्राः कुचकुम्भभारम् ॥ १२ ॥ समुद्गतैवतले पतित्वा जडीकृतो निर्झरवारिपूरैः । न तापितायोमयपिण्डतुल्यस्तपेऽपि यत्रोत्तपते पतंगः ॥ १३ ॥ प्रभञ्जनः खेचरसुन्दरीणां रतिश्रमापोहकृतोपकारः । यस्मिन्सुगन्धीक्रियते तदास्यश्वासैरिव प्रत्युपकर्तुकामैः ॥ १४ ॥ कान्तैर्विचित्रोज्ज्वलचन्द्रकान्तै रूढलतानां निवहैः प्ररूद्वैः । यस्य द्युतिः केकिभिरक्षयस्य तेने तटे शाखितिरोहितेन ॥ १५॥ मध्वासवापानमनोज्ञगानाः समुन्नयन्तो मनसो विकारम् सकोपकान्तानुनयेषु यूनां साहायकं यत्र भजन्ति भृङ्गाः ॥ १६ ॥ श्रुत्वा धनध्वाननिभं नटन्तः शिखण्डिनो निर्भरवारिनादम् । कुर्वन्ति यत्सानुगतं सुरौघं दिव्याङ्गनानृत्यविधौ वितृष्णम् ॥ १७ ॥ गुहोदरे ध्येयहिमे हिमर्तु निदाघमब्यत्रिपु गहरेषु । सानुष्वधोगामिघनेषु वर्षाः सुखेन यस्मिन्गमयन्ति सिद्धाः ॥ १८ ॥ १. निःशङ्कमतिः. २. घना निबिडा अयमाने नीयमाने. ३. जलयन्त्रयुक्तेषु.

१४ सर्गः] चन्द्रप्रभचरितम् । १०७ जयन्रुचा निस्तमसौ समुत्क गीतेतराशूतमसौ समुत्क । द्रष्टु चमून्या जगदेकपाली बलेन साक्षाजगदे कपाली ॥ १९ ॥ निपेव्यविवरो वरो विविधनिरालकृत. सदन्तिचमरोऽमरोपहितमाधवीमण्डप । विकासिकमलोऽमलोपलविचित्रमामासुरो न विस्मयमय नग. प्रविदधाति कस्येक्षितः ॥२०॥ तुहिनपाण्टुरतीरजसकता कमलजेन गता रजसैकताम् । वहति सिन्धुमय सरसामलकृतदिशा च चय सरसामलम् ॥ २१ ॥ सुरयुवतिजनस्य सानुभाजो वदनसरोरुहमण्डनोद्यतस्य । विगलिततिमिरासु सप्रसर्पन्मवति निशाखिह दर्पणो मृगाङ्क ॥२२॥ न महीरुहा परिहृता कुसुमर्मणिदीपकैविरहिता न गुहा । म नितम्बभू सुरजनैर्विकला न सर समुज्झितमिहाम्बुरुहै ॥ २३ ॥ इह गगनचरै कदरागोचरै सुरभिशुचिपटै कामिनीलम्पटै । अवसितसुरतै सानुसेवारतै समधुकररुत सेव्यते मारुत ॥ २४ ॥ अलिनीनिकुरुम्बचुम्बिताग्रे शिखरेऽस्य स्थलपुण्डरीकखण्डैः । भवतीव विकासशालिमि-रुदितानेकसलान्छनेन्दविम्बा ॥ २५ ॥ निध्यातेऽप्यनिलवोन मङ्गलार्थे दीपानामिह निकरे लतागृहेषु । वीक्षन्ते गगनचरा महापपीनामुद्दयोंते रतिपु वधूमुग्वाम्बुजानि ॥२६॥ मत्वानुपल्लरशिखानिह रत्नदीपा- न्गत्यन्तरव्यपगमात्पिदधत्करण । नेत्रे नितम्बगतवस्त्रहता प्रियाणा प्रीत्यै भवत्यधिगुह खचराङ्गनौर ॥ २७ ॥ विम्वितपुष्पगुच्छनिचितव्रततिपु निपत- नस्य तडिल्लतानुकरणक्षमरुचिपु गिरे । काञ्चनमेदिनीपु जनयति धिपणा नीरदटोपहारविपया मधुकरनिकरः ॥ २८ ॥ १ सहर्ष २ सुतरामुकण्ठित ३ सेनान्या ४ ईश्वर

१०८
काव्यमाला ।
तटगतासितरत्नविनिःसृतैरविरलैः परितो निकरै रुचाम् ।
इह कदाचनमेचकितत्विपो निजरुचि न भजन्ति शरद्धनाः ॥ २९ ॥
मानोन्मादव्यपनयचतुराश्चैत्रारम्भे विदधति मधुराः ।
यूनामस्मिन्घटितयुवतयो दूतीकृत्यं परभृतरुतयः ॥ ३० ॥
ध्वनन्नितम्बावनि तारमन्ते गीत्वा प्रियाणां वनिता रमन्ते ।
इहाहतैहेममही नभोगैनिपेव्यते काममहीनभोगः ॥ ३१ ॥
व्योम्ना यातः पत्रिणोऽत्र प्रविष्टं रत्नक्षोण्यां वन्यमार्जारपोतः ।
बिम्बं लौल्येनानुबध्नन्न दत्ते दिव्यस्त्रीणां गन्तुमन्यत्र दृष्टेः ॥ ३२ ॥
अयं मुनिघनोऽधनोदनसहः सहस्तिचमरोऽमरोचिततटः ।
सुराद्विसदृशो दृशोऽम्बरसदा सदाञ्चितविभो विभो रमयते ॥ ३३ ॥
नीलोपलोल्लसितलोलमरीचिजाल-
सान्द्रीकृतान्धतमसेष्विव गहरेषु ।
क्रीडातिरोहिततनूर्युवतीः पतीनां
तच्छ्वाससङ्गसुरभिर्विवृणोति वायुः ॥ ३४ ॥
तीरेण्वेताः कुसुमितवानीरालीरालीनालीरनिलरयोद्भूतान्ताः ।
तान्ता धर्मेरविरतमूलापातीः पातीहायं प्रसृतनदीनीरौघः ॥ ३५ ॥
घातिनिर्मथनलब्धकेवला योगिनोऽत्र परिनिर्विवासवः ।
कुर्वते प्रतरपूरणादिभिः कर्मणां समबलत्वमायुषा ॥ ३६ ॥
शिखरमणिशिलानां शाखिशाखान्तरालैः
प्रसृतरविकराणामुल्लसन्रोचिरोधः ।
तडिदनुकृतिकारी शङ्किताम्भोदकाला-
न्मदयितुमलमस्मिन्नीलकण्ठानकाले ॥ ३७ ॥
तटरुहकुटजावनीरुहाणामतिमहतीषु शिखासु सक्तबिम्बः ।
जनयति रजनीषु तारकाणामिह कुसुमस्तवकश्रियं समूहः ॥३८॥
निकरै रुचां तिमिरहानिकरैरमितै रवेवियदपारमितैः ।
विहतैः स्फुरन्मणिरुचाविह तै रजनीष्विव ग्रहपतेरजनि ॥ ३९ ॥

१४ सर्ग:]
चन्द्रप्रमचरितम् ।
१०९
निष्फ्रान्त शिखरचयान्निरन्तरालेरालोढा सरसिजरागरश्मिजाले. ।
श्रीमत्ता दधति दिशो दशाप्यमुप्मिन्नीरक्तैरिव वसनै परिष्कृताझा ॥४०॥
सेनापतेरिति वचो ललितैकवर्ण-
माकर्ण्य भूमिपतिरप्रतिवार्यवीर्यः ।
तस्मिन्नुदीर्णमणिरोचिपि शैलराजे
रन्तु कियन्त्यपि दिनानि ववन्ध बुद्धिम् ॥ ४१ ॥
सपश्यता कुसुमवासितदिग्विमागा
राजीगिरेरनुतट विविधद्रुमाणाम् ।
मध्याह्नवर्तिनि रवावुदितश्रमेण
प्रापे नृपेण पृतनानिनिवेशदेश ॥ ४२ ॥
धर्मादविन्दुभिरुपाहितभूरिशोभा
गण्डस्थली• पयि विलोकयत प्रियाणाम् ।
बाधाकरोऽपि शिशिरेतररश्मिरासी-
त्तस्यावनीतलभुजोऽभिमतलदानीम् ॥ ४३ ॥
द्वापीयसीरविरल रचिता वणिग्मि-
रने गते पटमयापणराजितान्ता ।
पश्यन्क्रयाकुलजना सितिपोऽदृवीथी-
स्त्तुगतोरणमियाय निज निवासम् ॥ ४४ ॥
यान्तीभिरात्मनिलयाय तुरगिणीभि
मामन्तसहतिभिरीगनिमर्जितामि ।
घेद्रामिरुद्धततरझनिभगुराभि-
रतुभ्यम्युपिरित ध्वजिनीनिमेश ४५॥
राजाधिरानमतेर्हयमन्दुराया
पण्पादनापरिपटो विपणि पनन्य ।
पर्याय परिनो निनिवेशदेश
म्यागासभूमिरनुपासिननेन जने ॥ १६ ॥

११० काव्यमाला। वेश्यागणाः परिचितानुपचारहेतो- रध्वश्रमातुरतनूननुपालयन्तः। द्वारि स्थिताः पटमयस्वनिवासपढ़ें- वस्तिव्यवद्ददृशिरे पृतनाजनन || ४७ ॥ प्राप्तश्विरादुरुपरिश्रमखिन्नजङ्घः पYहितं निजनिवासपदान्यशक्तः । वभ्राम मुग्धधिपणः परितः स्ववर्य- व्याहारनादनिहितश्रवणो जनौषः ॥ ४८ ॥ प्रत्यग्रपाकविततं सुरभीकृताश- माघ्राय चित्तहरमिन्दुरिकादिगन्धम् । पर्याकुलं कटकिभिः समुपव्रजद्भिः क्षत्क्षामकुक्षिभिरैज्ञायत धाम कन्द्राः ॥ ४९॥ शैलानिलः शिथिलकम्पितदेवदारु- रच्छाच्छनिर्झरपयःकणसङ्गशीतः । मार्गश्रमव्ययपटुः पटमण्डलस्थै निद्रालसैर्वसुमतीपतिभिः सिपेवे ॥ ५० ॥ प्रस्वेदफेनलवविच्छुरितारेखै- रुत्तीर्णपल्ययनभूरिभरेस्तुरङ्गैः। भूवेल्लनाय परितः परिवर्तमान- रावर्तवानिव बभौ शिविराम्बुराशिः ॥ ११ ॥ अन्योन्यदर्शनसमुच्छलितेन भूयः संमूर्छताद्रिविवरे हयहेषितेन । सेनाचरैर्वधिरितश्रुतिभिर्मुहूर्त मूकैरिव प्रकृतवस्तुकथासु तस्थे ॥ ५२ ॥ मध्येजलं प्रकटचञ्चलपृष्ठभागे पानाय सप्तिनिकरे परितोऽवतीर्णे । १. पुस्तकद्वयेऽप्ययं छन्दोमगदूषितः पाठः; 'अज्ञायत ज्ञातम्' इति च टीका.

१११
१४ सर्गः]
चन्द्रप्रभचरितम् ।
सचारिमाद्विसदृशैः सलिनाशयाना
प्राचुर्यवद्भिरिव वीचिचयैर्बभूवे ॥ ५३ ॥
पीताम्भस. श्रमलवानिव वारिविन्दु-
व्याजेन वाजिनिवहा स्नपिता क्षरन्त ।
सयेमिरे युगपदेव समापतन्त
क्षिप्वोपलावथ कथचन मन्दुरासु ॥ ५४ ॥
तोयावगाहचकितैरलिनीलदेहै-
रुत्सारितध्वजकुथाभरणास्त्रभारे ।
कल्पान्तमारुतपरिक्षभितैरिवाद्रि-
कूटै रराज वसुधा वरवारणेन्द्र ॥ ५५ ॥
यानि द्विपेन्द्रनिवहो निजपुप्फराणि
सजाततुष्टिरुदमीमिलदम्वुमन्न ।
तान्येव सैनिकविलुण्ठितवारिजेपु
रक्ताम्बुजश्रियमधु सलिलाशयेषु ॥ १६॥
कुर्वन्ति यामनुकृताचलतुगशृङ्गा
सध्यारुणाभ्रनिवहा नभसस्तटेषु ।
सा श्रीईदेपु सरिता विदधे विशद्धि
सिन्दूररागरुचिरावयवर्गजेन्द्र ॥ १७ ॥
जज्ञे पय प्रतिशत सुतर यदेव
भूभृत्सरित्यु पृतनाकरिणा कुलस्य ।
गण्डस्थलप्रनिगलन्मदपूरपूर्ण-
मासीत्तदेव सुदुरत्तरमुत्तितीर्पो ॥ ५८ ॥
कृत्या क्षण जनकुतूहलकारि युद्ध
दोद्धतरगजितकाशिनस्ते ।
जग्मु सलीलमदमन्टपद करेणु-
पाश्चात्यभागनिहितात्मकरा करोन्द्रा ॥ ५९॥

११२ काव्यमाला। वन्येभगण्डकपणाहितदानगन्धे नीतस्तरौ नियमनाय करी नियन्त्रा। रोपाइभञ्ज निजतापनुदोऽस्य शाखा न श्रेयसे खलु भवत्यपदेऽपि कोपः ॥ ६० ॥ आनीलनीरदनिभैः सुविशालवंशै- नांगैः प्रवृत्तमदनिर्झरवारिपूरैः। रेजे समुन्नतमहीरुहमूलबद्धै- स्तैङ्गमैरिव निजावयवेगिरीन्द्रः ॥ ११ ॥ यत्सल्लकीकिसलयं रुचये रुचिज्ञा ग्रासान्तरेपु ददिरे खलु हस्तिपालाः । तत्प्रत्युताहितवनस्मृति वारणेन्द्र सावज्ञमेव कवलग्रहणे चकार ।। ६२ ॥ उत्तीर्णभारलघवः परितो महोक्षाः पीताम्भसः श्रमभिदां नगनिम्नगानाम् । कूलानि बभ्रमुरुदाररवाः खनन्तः शान्त्यै भवत्युपकृतं व खलप्रियेषु ॥ ६३ ॥ छायासु यत्क्षितिरुहां तृणतोयतृप्त रोमन्थतत्परमुखैर्वृषभैर्बभूवे । तन्नूनमध्वजपरिश्रम एव तेन व्याजेन तैरलसनेत्रयुगैश्चर्वे ॥ १४ ॥ विच्छिन्नकर्णसुखकृन्निजकाकलीक- मश्रावि किंनरगणैः कटु कंदरस्थैः । भारावतारसमये रसितं मयानां रम्यं कुतूहलकरं न यथा ह्यपूर्वम् ।। ६५ ॥ क्षुद्रेतरक्षितिरुहां करभैः प्रवाल- जाले भृशायतशिरोधिभिरस्यमाने । १. उष्ट्राणाम्

-
१५ सर्गः]
चन्द्रप्रभचरितम् ।
सीरापदेशमगलप्रमदानु नून
युक्तः परार्थवटने महता प्रमोदः ॥ ६ ॥
चन्द्राकारम्थलममलिनोत्तुङ्गडिण्डीरपिण्ड-
श्चञ्चद्वाजिब्रजमविरतोद्धान्तकल्लोलमाल ।
सर्पन्मत्तद्विपमभिसरन्नक्रचको जयेत्त
स्कन्धावार यदि कथमपि स्यादपार पयोधिः ॥ १७ ॥
इति तत्र गिरौ निविष्टसैन्य चरवादवगम्य पद्मनाभम् ।
स्ववलेन सम समेत्य कोपात्पृथिवीपालनृपोऽन्तिके बभूव ॥ १८॥
तयोर्द्वयोरपि नृपयो प्रतापिनोविलोकितु बलमिव जातकौतुका ।
समाययौ सपदि शशाङ्कभूपणा विभावरी निकसिततारकेक्षणा ॥६९॥
तस्या रक्षा श्रुतपरवल सविधाय स्वसैन्ये
किंचित्कृत्वा सह निजमटैविसमामचर्चाम् ।
वित्वा शय्या शयनभवने मासुरा पद्मनाभ-
तम्यौ वीर समदवनितालिङ्गनायैविनोदै ॥ ७० ॥
भुवनभवनदीपीभूतबिम्बे नियत्या
गतिमुदयनिरुद्धा नीयमाने मृगाङ्के।
मुकुलिततनुतारालोचना लोचयन्ती
विरहमिव तदीय सा पिलिल्ये त्रियामा ॥ ७१ ॥
इति श्रीवीग्नन्दितादया। चन्द्रप्रमचरित महाकाव्य चतुर्दश सर्ग ।
पबदा सर्ग ।
द्वयेपामप्यथ प्रात स्थावरेतरभूभृताम् ।
उदस्थात्कटकक्षोभी मनाहपटहननि ॥ १ ॥
तन्मिन्नम्वुदगम्भीरे दिगन्तरनिसपिणि ।
प्रकम्प भूरपि प्रापदाला रिपुपताकिनी ॥ २ ॥
मदो मदोद्धताकारदिपुअरफुलरपि ।
तत्यजे मस्तचेतोमिररिकीटेपु का कथा ॥३॥

११४ ४ काव्यमाला। . भटानां भाविसङ्ग्रामभवदुत्साहशालिनाम् । मनांस्यानशिरे हर्वपि पुलकोद्गमैः ॥ ४ ॥ हृष्यदङ्गतया सद्यः स्फुटत्पूर्वरणवणैः । वीरैर्वीररसाविष्टैः संनद्भुमुपचक्रमे ॥ ५ ॥ कश्चित्तनुच्छदं योग्यं समरे समरेखकम् । देहे हृष्यत्यपर्याप्तं नामुञ्चन्नामुचत्पुनः ॥ ६ ॥ तव संनहनं नाथ लघुभूतमिवाधुना । इत्युचे खकरस्पर्शात्पुष्टाङ्गः कोऽपि कान्तया ॥ ७ ॥ शृङ्गारद्विगुणीभूतैरमाति पुलकैस्तनौ । संनाहेऽन्यस्य चतुरा क्षणमन्तर्दधे प्रिया ॥ ८ ॥ रिपुरोषारुणीभूतच्छविच्छुरितकण्टकैः । रेजे संध्याघनाकारैर्भीषितारिघटैटैः ॥ ९ ॥ भूरिभैरवधीराया रुष्टैः प्रतिगजश्रुतेः । भूरिभैरवधीरायाः समदानैः स्वपाणिना ॥ १० ॥ पुण्यैः कवचितस्यास्य किं कृत्यमपरं मया । इतीव नृपतेरङ्गे संनाहोऽनिष्ठयाविशत् ॥ ११ ॥ जयलक्ष्मीपरिष्वङ्गव्यवायेन ममामुना । किमित्यासीद्दयुवेषस्य संनाहेनातिगौरवम् ॥ १२ ॥ तेजो मूर्तमिवात्मीयं सुदुर्भेदमरातिभिः । बभौ भीमरथो बिभ्रत्कवचं विकचाननः ॥ १३ ॥ अभूमरंथेरङ्गे समरोत्कर्षशालिनः । द्वितीय इव संनाहो धनकण्टकितच्छवौ ॥ १४ ॥ दीनानाथकृतोत्सर्गः स जयश्रीसमुत्सुकान् । प्रसादैः पूजयामास सामन्तात्रणदीक्षितान् ॥ १५ ॥ १. बहुभयानकगभीरायाः. २. भूः इभैः अवधि ताडिता । इरायाः सुरायाः समान- मदजलैः.

१५ सर्गः]
चन्द्रप्रभचरितम् ।
भीम भासुरवासोमि. सुभीम मणिकङ्कणैः ।
मुकुटेन महासेन सेन मौक्तिकमालया ॥ १६ ॥
चूडारत्नेन चित्राङ्ग प्रालम्बेन परतपम् ।
रत्नकण्ठिकया कण्ठ कुण्डलाम्या सुकुण्डलम् ॥ १७ ॥
अनमणिना मीमरथ हारेण हारिणा ।
महीरथं स्वाभरणैश्चतुर. सच्चकार स. ॥ १८ ॥ (कुलकम्)
अन्योऽपि यस्य यो योग्य स वाहस्तुरगो रथ ।
वारणो वा विशेपज्ञस्तत्सादकृत त नृप ॥ १९॥
सेना सेना यती बद्धराजिराजिसमुत्सुका ।
चक्रे चकेपुखड्गास्त्रसारा सारातिसाध्वसम् ॥ २० ॥
सज्जीकत महामात्रै रोपितास्त्र पुरोधसा ।
वनकेलिमथारुह्य निरगादमिशत्रु स ॥ २१ ॥
रथिना युवराजेन सोऽनुसते नराधिपः ।
ऐरावतसमारूढो रविणेव सुराधिप ॥ २२ ॥
नगोत्तुङ्ग समारुह्य नागेन्द्र रणविग्रहम् ।
तमन्वगागीमरय प्रताप इव पूपणम् ॥ २३ ॥
परिज्वलन्महास्त्रीच रथ सारथिसज्जितम् ।
मनोरथमिवास्थाय निर्जगाम महीरय ॥ २४ ॥
परित परिवत्रुस्तमन्येऽप्येत्य नराधिपा ।
चतुरङ्गबलोपेताश्चतुरम्युधिविश्रुता ॥ २५ ॥
प्रयाणतूर्यनिर्योपसमिलत्सर्वसैनिका ।
सासीद्वहादिसस्येस व्यक्तेयत्ता न वाहिनी ॥ २६ ॥
विमलान शिवा तस्य वामत शिवशसिनी ।
तामेव दिशमात्रित्य रराम मृदु राममः ॥ २७ ॥
भारद्वाज कुतोऽप्येत्य परीयाय प्रदक्षिणम् ।
सीरिण वृतमारय वाशे यल्गु वायस ॥ २८ ॥

: । ११६ काव्यमाला। सहसैव समुद्भिद्य सुनुवे करिणां कटैः । भेजे कोऽपि महोत्साहो रोमाञ्चकवचैमेंटैः ॥ २९ ॥ इष्टैरिष्टार्थपिशुनैः परितोपितसैनिकैः । शकुनैरेभिरन्यैश्च स वक्तव्य(व्यक्तवि)जयोऽभवत् ॥ ३० ॥ इत्युत्थितं तमाकर्ण्य पद्मनाभं सराजकः । संनह्य पृथिवीपालोऽप्यमर्षादभिनिर्ययौ ॥ ३१ ॥ दक्षिणं गणयामास नाशिवं स शिवारुतम् । क्षुतं न पौनःपुनिकं न मार्गमहिखण्डितम् ॥ ३२ ॥ न कण्टकद्रुमस्थस्य काकस्य परुपं रवम् । न वाजिपुच्छज्वलनं न चार्तरुदितं खरम् ॥ ३३ ॥ न प्रातिकूल्यमत्यन्तं मनः पवनगोचरम् । नासृक्प्रवर्षमाकाशे क्रोधान्तरितचेतनः ॥ ३४ ॥ क्षयानिलचलत्पूर्वपश्चिमार्णवतुल्ययोः । तयोर्बभूव संघट्टः सैन्ययोरुभयोरपि ॥ ३५ ॥ अन्योन्यालोकनोद्भूतत्वरांस्तुरगसंभवः । पांसुर्निवारयामास कृपयेव क्षणं भटान् ॥ ३६ ॥ माघद्दन्तिमदोत्सेकच्छन्नपांसौ रणाजिरे । वल्गत्यन्योन्यमुद्दिश्य रराज भटसंहतिः ॥ ३७ ।। हेपासक्तहये गर्जद्गजे प्रध्वनदानके । तस्मिन्बलद्वये शब्दमयमासीदिवाखिलम् ॥ ३८ ।। 'रैरोरा रैररैरेरी रोरो रोरुररेररिः। रु(उ)रूरूरुरुरूरूरोरारारीरैरुरोररम् ॥ ३९ ॥ १. अरेः अरिः शत्रोः शत्रुः आर आढौकति स्म। किविशिष्टः । रैरोराः राय द्रव्यं राति ददाति रैरो धनदस्तद्वदुरो हृदयं यस्य । त्यागशील इत्यर्थः । रैरेरी रायं रातीति रेरो धनदाता स चासौ रैरो धनदश्च रैरैरैरो धनव्ययकर्ता धनद इति तमीरयति परिभव- तीति । किविशिष्टस्यारेः । रोरोः शब्दं कुर्वतः । 'रु शब्दं । किविशिष्ट: । रोरुः शब्दं कु- वन् । किंविशिष्टः । उरूरूरुः स्थूलस्थूलोरुः । किविशिष्टस्य । उरूरूरोः । आर । अरीरैश्च- ऋक्षेपैः । उरोमहतः । अरमत्यर्थम्. ~- १५ सर्ग.] चन्द्रप्रभचरितम् । ११७ तुरङ्गिणा पदातीना रथिना गजरोहिणाम् । यस्य येन समा कक्षा स तमादास्त वीतमी. ॥ ४० ॥ युद्धमार्गनिदो योद्धमारभन्त महाभटाः । प्राणैरस्यास्नुभि स्यात्नु यशश्वेतुमभीप्सव ॥ ४ ॥ स्वामिप्रसादमासीद्यो मुग्वरागः प्रतीच्छताम् । तेपामभूत्स एवारिशरजाल प्रतीच्छताम् ॥ ४२ ॥ निजेपुरचितम्फारमण्डपोत्सारितातपा । तत्र नाज्ञासिपुर्योधा प्रहरन्त परिश्रमम् ॥ ४३ ॥ स्वामिसमानयोग्य यद्यत्स्वसभावनाचितम् । यच्चान्नायसम तत्ते सारस्सार दृढौकिरे ॥ १४ ॥ शस्त्रप्रहारैगुरुमि समुदा येन यो नित । तेनामात्पुन सोऽत्रसमुदायेन योजित. ॥ ४५ ॥ कल्याप्यश्वगतम्येभकुम्भ निर्भिन्दतोऽसिना । तत पतन्त्यमात्पुप्पसृष्टिवन्मोक्तिकालि ॥ ४६ ॥ योधा शस्त्रक्षता पेतुर्भूरितापा रणाशया । भूतैर्वभुसितैयुद्धभूरिता पारणाशया ॥ १७ ॥ भन्ने चापे गुणे हिने रिक्तीभूते च बाणधी । कस्याप्यासीद्विपा दीर दण्डादण्डि कचाकचि ॥ १८ ॥ धीरधीगरिरुधिरेनरधाराधरैररम् । घरा घराघराधारा रुरुषेोऽधराघरा ॥४९॥ ये तत्र नतिरेऽवाणा प्रगुजन्निनदा नदा । तेप्यासन्मूलनि ना' करिणा माग करा ॥१०॥ कश्चिदाटोएनिमी प्रत्य पूरित गरे । मारम्परि निकसम्म मप्ररोह इव द्रुम ॥ ५१ ॥ १ भाग गिनिया भर धमागधाहkinभारया माTrn भाग गेटपरम्ना परमार भगाना Tril rile, काव्यमाला। १ ~ कैन तत्रसुरालोकं गतेन प्रेतवर्तिना। के न तत्र सुरा लोकं त्यक्त्वा स्वं कौतुकागताः ॥ १२ ॥ जज्ञे भांसोपदंशासृगासवोन्मत्तचेतसाम् । डाकिनीनां नटन्तीनां कबन्धैर्नाट्यसूरिभिः ॥ १३ ॥ निरन्तरनिपातीषुजालप्रच्छन्नमूर्तिना । भयादिव कुतोऽप्यासीद्धानुनापि पलायितम् ॥ ५४ ॥ योधानामायुधच्छिन्नविरेजे रणरङ्गभूः । शिरोभिः शतपत्रौधैरिव व्योमसरच्युतैः ॥ ५५ ॥ येनैकोऽपि जितः श्लाघ्यः स्वामिनामा न ना नृता । बभूव तस्य न कृता स्वामिना माननानृता ॥ १६ ॥ न पपात रणे तावद्वीरच्छिन्नेऽपि मूर्धनि । तत्कालोद्वीर्णखड्ड्रेन रिपुर्यावन्न पातितः ॥ ५७ ।। पाणिभिर्गलितास्त्रौघाश्चरणैश्छिन्नपाणयः । छिन्नाङ्गयों दुर्वचनैः प्रजहुः शौर्यशालिनः ॥ ५८ ॥ दन्तिनो दन्तिभिर्भिन्नाः पत्तयः पत्तिसादिताः। पेतू रथा रथिच्छिन्नास्तुरगास्तुरगिक्षताः ॥ १९ ॥ क्वचित्पतितपत्त्यश्च क्वचिद्भग्नमहारथम् । क्वचिद्भिन्नेभमासीत्तद्दुःसंचारं रणाजिरम् ॥ ६० ॥ भङ्गं गृह्णत्यथात्मीये सैन्येऽरिशरजर्जरे । पृथिवीपालसेनानीरुत्तस्थौ चन्द्रशेखरः ॥ ११ ॥ भटाः किं प्रपलायध्वं मार्गोऽयमुचितो न वः । दैवादुपस्थिते कृच्छ्रे शूराणां विक्रमक्रमः ॥ ६२ ॥ W , + - १. प्रेतवर्तिना मृतकसंबन्धिना केन मस्तकेन आलोकं दृष्टिगोचरतां गतेन स्वं लोकं त्यक्त्वा तत्र कौतुकागताः सुराः के न तत्रसुत्रस्ताः. २. स्वामिनामा प्रभुशब्दवाच्यो ना पुमान् येनकोऽपि ने जितः तस्य नृता पुरुपत्वं न बभूव । स्वामिना प्रभुणा च तस्यान्ता असत्या मानना न कृता. ।

१५ सर्गः] चन्द्रप्रमचरितम् । ११९ सभ्रमं मा वृथा कृद्ध रूढे रणधुरा मयि । अदृष्टपूर्व भवता ननु पृष्ठमरातिमि ॥ १३ ॥ प्राणरस्थानुमि म्यास्नु यशश्चेदधिगम्यते । क्रियते स्वामिकार्य च नाकृत्य मरण रणे ॥ ६४ ॥ इति सधीरयन्नात्ममैन्य रणपराङ्मुखम् । हुदौके चण्डदोर्दण्डकृष्टकोदण्डदारुणः ॥ १५ ॥ शरपञ्जरसउन्नसमस्तगगनोदर । चकार क्षणमात्रेण स शत्रुकुलमाकुलम् ॥६६॥ त रथस्य रथारूढ स्वानुरिव भास्करम् । भीम कटाक्षयामास पद्मनाभचमूपति ॥ १७ ॥ त्रिमि कुलकम् (विशेषकम्) तयोर्बभूव तुमुल रणधूर्धरयो रणम् । व्योमव्यापीपुसपतिर्दूरमुत्सारितामरम् ॥ ६८ ॥ परस्परास्नसवट्टमोच्छलद्भुतभुक्छिखम् । तीक्ष्णरोपपरिक्षेपपण्डितान्योन्यकेतनम् ॥ १९॥ प्रध्धनद्धनुरारावरोपितक्षीवकुजरम् । महानिगलद्रतधारारचितदिनम् ॥ ७० ॥ रन्ध्र प्राप्यार्थचन्द्रेण ततो भीमस्य भासुरम् । किगट पातयामास सचिद शशिशेरार ॥७१ ॥ भीमेनापि हत. शस्त्या कोषादरिकर म्पले । निपपात यमनग्य सह न्यामिनयाशया || ७२ ॥ पुर पतिनमालोक्य त प्रतापनिर प्रमाः । पेनु फेनुरिवोत्तम्या प्रामय गिल ननम् ॥ ७ ॥ म मुदेन मुभीमेन कुग्दर्पमहानिष । माध्यणाशीपिपय निरिपीटत्य तजिन ॥ ७४ ।। रसम्येन समुत्तम्य म पनी गर्दनुना । सुर प्रदर्शिता गायमागशनुमा ।। ७५ ॥

१२० काव्यमाला । ३ तं महास्वैर्महासेनश्चकार शतशर्करम् । दुर्धरप्रलयाम्भोदवचैरिव महीधरम् ॥ ७६ ॥ वीक्ष्य ता_मिव च्छिन्नपक्षं तं पतितं रणे । विरोचन इवासह्यधामाधावद्विरोचनः ॥ ७७ ।। तं गजस्थं गजारूढः सेनः सेनासमन्वितः । संमुखैविमुखं बाणैविदधे पुरुविक्रमः ॥ ७८ ॥ धनुर्महारथेनाथ दुधुवे धैर्यशालिना । स्वपक्षव्यसनालोकसमुद्दीपितचेतसा ॥ ७९ ॥ नग्नश्रावितनामासौ बद्धभृकुटिभीपणः । ववर्ष शरधाराभिरभिशत्रुपताकिनीम् ॥ ८० ॥ क्वासौ भीमरथो यस्य वलेन किल जेष्यति । पद्मनाभो नटत्क्रूरकबन्धामरिवाहिनीम् ॥ ८१ ॥ गर्वगद्गदमित्युक्त्वा चिह्नोद्देशेन संमुखम् । धावन्प्रत्यवतस्थेरिः शरैभीमरथेन सः ॥ ८१ ॥ चिरमक्षतदेहौ तौ शरैरप्राप्तखण्डितैः । युयुधाते महाविरौ विस्मितामरवीक्षितौ ॥ ८३ ॥ ककुप्पर्यन्तविश्रान्ततहाणभयविह्वलम् । नूनं व्योम तदा ह्यासीन्मुक्तमूर्तिपरिग्रहम् ॥ ८४ ॥ वीराभिलाषात्सर्पन्ती समीपमुभयोर्मुहुः । गतागतपरिक्लेशं न जयश्रीरजीगणत् ॥ ७५ ॥ मन्त्रेणेव ततः शत्रोः शङ्कुना मूर्ध्नि ताडितः । मूछी भीमरथो भीमभुजंगम इवागमत् ॥ ८६ ॥ क्षणं प्रतीक्षते यावत्क्षात्रधर्माश्रयादरिः । उत्तस्थौ दशनैस्तावत्स दशन्दशनच्छदम् ॥ ८७ ॥ क्रोधस्तदङ्गे यः पूर्व मनाक्सुत्त इव स्थितः । गाढारातिप्रहारेण स प्रबुद्धः क्षणादभूत् ॥ ८८ ॥ - :

१२१
१५ सर्गः]
चन्द्रप्रभचरितम् ।
स रोपाटिगुणोत्साहो दन्तिना प्रेर्य दन्तिनम् ।
प्रतीच्छन्सुरसेनौव जीवग्राह तमग्रहीत् ।। ८९ ॥
तत. पितुर्ग्रहामासमुत्तेजितसारथिः ।
रधी सूर्यस्थोऽधावद्धीरध्वनिध्वनद्धनुः ॥ १० ॥
समायात समालोक्य पितुः श्रान्तस्य समुखम् ।
महीरथस्तमावास्त दत्त्वा खरथमन्तरा ॥ ९१ ॥
प्रहत्य च चिर चञ्चञ्चारुचामीकरच्छवौ।
निचखान तदीयोर स्थलस्थाले शिलीमुखम् ।। ९२ ॥
सप्रहार तमादाय सारथिर्ववले वले ।
सुरमुक्तानि पुप्पाणि पेतुर्माहीरथे रथे ॥ ९३ ॥
तत. कलकलाराववधिरीकृतदिमुखम् ।
डदौके धर्मपालेन पृथिवीपालसूनुना ॥ ९४ ॥
वपुः कोपारुण विभ्रद्धृतदिव्यशरासन ।
स वर्षञ्चारधाराभिर्वन साध्य इवावमौ ॥ ९५ ॥
सभूयाभिमुखीभूत बलिनस्तस्य राजकम् ।
शरवनस्येव सचुकोच गवा कुलम् ॥ ९६ ॥
कृत्स्नमायासित दृष्ट्वा सामन्तकुलमाकुलम् ।
सुवर्णनाभोऽभिमुखीवभूव रिपुवस्मर ॥ ९७ ॥
त वाहितरथ वीक्ष्य धर्मपालो ज्वलन्कुधा ।
विव्याधेति वचोवाणैरविक्षेपनिपोसितै. ॥ ९८ ॥
अपसर्प प्रयाहीत. कि पुरो धृष्ट तिष्ठसि ।
माद्विधे न महाहु प्रहर्तुमयमिच्छति ॥ ९९ ॥
नूनमिच्छति नो जेतु भवतैव भवत्पिता ।
त्वन्मतेनान्यथा कम्मात्करोत्यसमनिग्रहम् ॥ १०॥
कस्त्व भीमरथ. को वा कियन्मान स ते पिता।
सभूय मेऽग्रत संर्व यदि शकुय तिष्ठथ ॥ १०१ ॥

१२२
काव्यमाला।
नीचोचितां समाकर्ण्य तदीयामिति भारतीम् ।
जगाद युवराडित्थं धनुामामृशन्मुहुः ॥ १०२ ॥
किमेभिरधमालापैर्मातुश्चापलसूचनैः ।
अस्ति कोऽप्यभिमानश्चेड्डौकस्खालं विलम्वनैः ॥ १०३ ॥
गदितुं युज्यतेऽस्माकं न भवद्भापितं वचः ।
तुलयन्ति महान्तो हि नात्मानमधमैः समम् ॥ १०४ ॥
खैरेव दुर्नयैः पापाः पच्यन्ते येन दुर्जनाः ।
विभाषमाणान्सुजनस्तेन तानवमन्यते ॥ १०५ ॥
इत्यालापर्युवेशस्य मानवानपमानितः ।
अलक्ष्यमोक्षसंधानान्सरोषादमुचच्छरान् ॥ १०६ ॥
अर्धमार्गगतामेव तदीयामिषुसंहतिम् ।
सोऽप्यच्छिनदविच्छिन्नै रोपै रोपितकार्मुकः ।। १०७ ॥
शिलीमुखक्षये प्रासैः कुन्तैः प्रासपरिक्षये ।
कुन्तक्षयेऽसिभिर्वीरौ सार्वकम्पौ प्रजहतुः ॥ १०८ ॥
द्वावप्यतुलसामथ्यौँ द्वावप्यस्त्रकृतश्रमौ ।
न जानीमो जयः क्वेति समशेत बलद्वयम् ॥ १०९ ॥
चिरयुद्धपरिश्रान्तः प्रहृत्य स ततोऽसिना ।
दः सुवर्णनाभेन पृथिवीपालनन्दनः ॥ ११० ॥
बन्दिभिस्तूयमानस्तं बन्दीकृत्य सुदुर्जयम् ।
हर्षास्त्राविलनेत्रस्य निनाय पितुरन्तिकम् ॥ १११ ॥
परंतपस्तंडिद्वक्र चित्राङ्गः सिंहविक्रमम् ।
विजिग्ये वरुणं कण्ठश्चन्द्रकीर्ति सुकुण्डलः ॥ ११२ ॥
अन्येऽपि रिपुपक्षस्था राजानो ये डुढौकिरे ।
ते पद्मनाभसामन्तैः कृता भग्नमनोरथाः ॥ ११३ ॥
अत्रान्तरे क्रुधाधावत्स्वयमेव महाबलः ।
पृथिवीपालभूपालः करालीकृतलोचनः ॥ ११.४ ॥

--
१५ सर्ग.]
चन्द्रप्रमचरितम् ।
१२३
तमसाधारणैश्विकै प्रत्यभिज्ञाय मन्त्रिण. ।
पद्मनाममिति स्थित्वा कर्णमूले व्यजिज्ञपन् ॥ ११५ ॥
देव कोऽप्ययमत्यन्तममानुपवल. खल ।
स्तूयते पृथिवीपालः समस्तकपटालय ॥ ११६ ।।
तदसिनप्रमत्तेन प्रहर्तु स्वयमुत्यिते ।
योद्धव्य स्वामिना नायमवज्ञाविषयो रिपुः ॥ ११७ ॥
इति मन्त्रिगिर कृत्वा हृदये दयितामिव ।
बभूव समुख शत्रो. सज्जीकृतशरासनः ॥ ११८ ।।
पादरक्षसमूहेन परिवारितकुञ्जरौ ।
तावभीयतुरन्योन्यमनन्यसमविक्रमौ ॥ ११९ ॥
उमावुभयमायोद्ध निपिध्य वलमुद्यतम् ।
दर्पादेकाकिनावेव प्रारेभाते महाहवम् ॥ १२० ॥
शिलीमुखशतैश्छन्नास्तयोस्तिर्यग्विसर्पिमि ।
अदृश्यन्त दिगाभोगा. पतदुल्कोत्करा इव ॥ १२१ ।।
तच्छनकौशलालोकविनिश्चलविलोचनम् ।
भुवि भूमिभुजा सैन्य तस्थौ दिवि दिवौकसाम् ॥ १२२ ।।
चलनवलनै स्थानैर्नल्गनैमर्मवञ्चनै ।
तयोरभूद्धनुयुद्ध दृप्तदोर्दण्डचण्डयो ॥ १२३ ॥
यान्यानमुञ्चतारातिरनिष्ठितशर शरान् ।
रोपैरर्धागतानेव पद्मनाभो लुलाव तान् ॥ १२४ ।।
शिलीमुग्वैरजय्योऽय धनुर्वेदविशारदः ।
इति मत्वाक्षिपठासान्स प्रयासविवर्जित ।। १२५ ॥
खण्डयामास तानर्धचन्द्रश्चन्द्रोज्ज्वलानन ।
गुरु मुवर्णनामस्य सुवर्णाचलनिश्चल ॥ १२६ ।।
स चक्राणि निचिक्षेप क्षेपेण रहितो रुपा ।
तानि सौवर्णमालश्च चूर्णयामास मुद्गरै ॥ १२७ ॥

१२४
काव्यमाला ।
शक्ति शक्तित्रयाक्रान्तविष्टपो विससर्ज सः ।
गदाभिघातैस्तां वन्ध्यां व्यधाद्रत्नसुराधिपः ।। १२८ ॥
परशुं वाहयामास कृत्वासन्नं स दन्तिनम् ।
वनकेलिधरेणासौ वज्रमुष्ट्या कणीकृतः ।। १२९ ॥
ततो मुमुक्षतः शङ्ख तस्य सोमप्रभाप्रियः ।
चञ्चचक्रेण चिच्छेद कदलीकन्दवच्छिरः ॥ १३० ।।
विद्रुते विद्विपां सैन्ये विलोक्य पतनं प्रभोः ।
रणं संशोधयामास वनकेलिशिरः स्पृशन् ।। १३१ ॥
युद्धमूर्ध्नि शवीभूतान्बन्धूनुच्चित्य वान्धवाः ।
संस्कार प्रापयामासुरिन्धनीकृतसायकाः ॥ १३२ ।।
अथ केनचिदानीय सेवकेन कृतं पुरः ।
पश्यन्निति शिरः शत्रोनिर्वेदमगमन्नृपः ॥ १३३ ॥
धिकष्टमीदृशं कर्म करोति कथमीरितः ।
लक्ष्मीकुलटयालोकः क्षणरक्तविरक्तया ॥ १३४ ॥
विपत्संपदि जागर्ति जरा जागर्ति यौवने ।
मृत्युरायुपि जागति वियोगः प्रियसंगमे ॥ १३५ ॥
नावियोगः सुहृत्सङ्गो न जन्मामृत्युदूषितम् ।
यौवनं नाजराग्रस्तं श्री पदकटाक्षिता ॥ १३६ ॥
रक्षायै प्रजया दत्तं षष्ठांशं वेतनोपमम् ।
गृह्णन्भृतकवन्मूढो राजाहमिति मन्यते ॥ १३७ ॥
क्रोधादिभिरयं जीवः कषायैः कलुषीकृतः ।
तत्किचित्कुरुते कर्म यत्स्वस्यापि भयावहम् ॥ १३८ ॥
भ्रातॄन्हन्ति पितॄन्हन्ति बन्धूनपि निरागसः ।
हन्त्यात्मानमपि क्रोधाद्धिकोधमविचारकः ॥ १३९ ॥
हन्ता यथाहमस्यात्र परत्रैष तथैव मे ।
संरारे हि विवर्तन्ते बलवीर्यविभूतयः ॥ १४०॥

१५ सर्गः] चन्द्रप्रभचरितम् । भोगान्धिग्धिग्धन विग्विग्धिग्विगिन्द्रियज सुखम् । विग्धिक्परोपघातेन यदन्यदपि जायते ॥ १४१॥ हा कथ वञ्चित पाप पापरिन्द्रियगोचरै । विज्ञाताखिलससारदुरवस्थितिरप्यहम् ॥ १४२ ॥ न पर बन्धन प्रेम्णो न विष विषयात्परम् । न कोपादपर शत्रुर्न दुःख जन्मन परम् ॥ १४३ ॥ तस्मात्करोमि तत्किचिन्नृजन्मनि सुदुर्लमे । छिननि कर्मणा येन गतागतपरिश्रमम् ॥ १४४ ।। त्रिभि कुलकम् (विशेषकम्) दौ स्थित्यमिति सचित्य ससारस्य नरेश्वर । वितीर्य युवराजाय राज्य सपुरवाहनम् ॥ १४५॥ आज्ञा सुवर्णनाभस्य कुस्तिष्ठ पितु पदे । सान्तयित्वेति शोकात पृथिवीपालनन्दनम् ॥ १४६ ॥ पदानतानवज्ञाय सामन्तान्सह सूनुना। स श्रीधरमुनेरन्ते शिश्रिये श्रमणश्रियम् ॥ १४७ ॥ ज्ञानर्धीवुपजाताया सहैव वनरोपणै । दीक्षासमय एवास्य शिक्षासमयता ययौ ॥ १४८ ॥ द्वादशाङ्गश्रुताधारो द्वादशादित्यभासुर । प्रत्यह वृहयामास स द्वादशघि तप ॥ १४९ ।। निधिभिर्विनिधाकार सिंहनिप्क्रीडितादिभि । कर्मणा सह तस्यासीत्तनुस्तनुरतन्द्रिण ।। १५० ।। त्रयोदशनिध तस्य चारित्र चरतश्चिरम् । तीर्थकृत्कारणानीति ममपद्यन्त पोडश ।। १५१ ।। सम्यग्दर्शनसशुद्धि शङ्कादिपरिवनिता । समिणि गुरा वृद्धे श्रुते च विनयोऽधिक ॥ १२ ॥ व्रतेप्वहिसाप्रभृतिप्वतिवारनिपर्यय । तदनेषु च शीलेपु कोषसत्यननादिपु ॥ १५३ ।।

१२६ काव्यमाला । ज्ञानोपयोगः सततमुपधानादिपूर्वकः । संवेगो घोरसंसारदुःखभीरुत्वलक्षणः ॥ १५४ ।। त्यागश्चाभयदानादिप्रविभेदसमन्वितः । तपश्चागूढसामर्थ्यशरीरक्लेशलक्षणम् ॥ १५५ ॥ समाधिस्तपसो विघ्ने कुतश्चित्समुपस्थिते । गुणिनां दुःखसंपाते वैयावृत्त्यसमुद्यमः ॥ १५६ ॥ भक्तियोगोऽहंदाचार्येष्वनुरागैकलक्षणः । बहुश्रुतेषु चाशेपशास्त्रार्थग्रन्थवेदिषु ॥ १५७ ।। श्रुते च द्वादशाङ्गादिवहुभेदसमन्विते । पण्णामवश्यकार्याणां क्रियाणामपरिच्युतिः ॥ १५८ ॥ मार्गप्रभावनाज्ञानतपःप्रभृतिकारणैः । तथा दर्शनवात्सल्यं सद्धर्मस्नेहलक्षणम् ॥ १५९ ॥ इति शिवसुखसिध्यै भावयन्षोडशैता रहितसकलसङ्गो भावनाः शुद्धभावः । परहितकरचर्याबद्धबुद्धिर्बबन्ध व्रतनियमसमृद्धस्तीर्थकृन्नामकर्म ॥ १६० ।। संन्यस्य सङ्गमखिलं निरवद्यवृत्ति- राराध्य दृक्करणबोधतपांस्यपांसुः । त्यक्त्वा तपोभरतर्नु स्वतनुं स धीरो भेजे सुरालयमनुत्तरवैजयन्तम् ।। १६१ ॥ फुल्लन्मल्लीकुसुमसदृशामोदमामोदिताशं रत्नज्योत्स्नारुचिरमचिराइहमासाद्य सद्यः । दिव्यैः पुण्योदयपरिणतैस्तत्र भूत्वाहमिन्द्रो रेमे भोगैस्त्रयसमधिकत्रिंशदब्धिप्रमायुः ॥ १६२ ।। इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये पश्चदशः सर्गः । -- १६ सर्गः] चन्द्रप्रभचरितम् । १२७ पोडश सर्ग। लक्ष्मीवानिह भरते सरोजखण्डैरुद्दण्डैरथ विधुदीधितिप्रकाशैः । स्वैश्विद्वैरिव परितो विराजमानो देशानामधिपतिरस्ति पूर्वदेश. ॥ १ ॥ भारेण स्खनकलशद्वयस्य यस्मिन्नुत्यातु मुहुरसहा विदग्धगोप्यः । गीतेन स्फुटकलभागमञ्जरीणा लुण्ठाक हरिणगण विमोहयन्ति ॥ २॥ चीत्कारारववधिरीकृताखिलाशैर्यत्राहामिव विदधद्भिरिक्षयन्त्रै । व्याकृष्टा सरसरसामृत पिबन्त पान्यौघा न पथि परिश्रम विदन्ति ॥३॥ सतापप्रसरमुप समाश्रितानां तुङ्गत्वे सति फलसपदा नमन्त । सच्छायाः सरसतया सदैव यत्र सादृश्य दधति महीरुहा महद्धि ॥ ४ ॥ नीरन्धविपुलफलैरकृष्टपच्यै सपन्न सुरकुरुवत्समस्तसस्यैः । न स्पष्टु यमलमवग्रहा गृहोत्था निर्दीप नरमिव दुर्जनापवादा ॥५॥ संगीतध्वनिमुखरविराजमाना प्रासादै शशधरविम्वचुम्बनोत्कै । तत्रास्ति त्रिदशपुरीव राजधानी विख्याता त्रिजगति चन्द्रपूर्यभिख्या ॥६॥ लिस्तीन्नितशिखरावली करारुत्तम्मामिव विदधन्निराश्रयस्य । कारुण्यात्पवनपयस्य भाति यस्या प्राकारो ध्वजरमणीयगोपुरान. ॥ ७ ॥ काचाद्रिप्रतिमविलोलवीचिनाम्म खातेनापरिमितकुक्षिणा निजेन । या शोमा वहति समन्तत परीता तन्नान्यभिलपता पयोधिनेव ॥ ८ ॥ यत्रोरुहनिचय पर वियोगी सादि' समजनि केवल विलापी। वरम्य परमतिपीडितेसुदण्डे सग्रामे परमभवद्गदाभिात ॥ ९ ॥ पानालोदरमिर सेपित सबै गाना हृदयमिवोरु सजनानाम् । शाक्याना मतमिव यत्र भूमिकाभिर्वीमि म्यितमनमाति रानवेश्म ॥१०॥ प्रन्यान मामरत प्रतापराशिलत्रामीदवनिपतिर्महादिसेन । य क्रान्नाग्निलभुवनैर्गुणरुदाररिक्ष्याको कुलममलरलचकार ॥ ११ ॥ उन्देन्दुशुतिनिश्रारदातयान्यान्यपुर्वजगति महीभृत. स्वकीयां । पायाणप्रकृतितया न केवर य पर्यणाप्यनुविदो मुरानन्द्रम् ॥१२]] १ उम्मन्न, २ मीरा गन्यास गriमनि १२८ काव्यमाला । लावण्यं भृशमदधादभूदगाधो रत्नानामपि परमालयो बहूनाम् । अन्वेतुं तदपि शशाक यं महेच्छं नाम्भोधिः प्रलयपराकृतव्यवस्थः ॥१३॥ शौर्य नातिशयि समुज्झितं नयेन न क्षान्त्या रहितमुदारया प्रभुत्वम् । यस्यासीद्विनयविनाकृता न विद्या वित्तं नानवरतदानभोगहीनम् ।। १४ ॥ तस्योर्वीवलयविशेषकस्य राज्ञः पर्याप्ताननुगुणवर्णनेयतैव संसारार्णवमथनस्य भव्यभानोर्य जे सकलजगद्गुरोर्गुरुत्वम् ॥ १५ ॥ तस्य श्रीरिव कमलालयादुपेता पातालादिव परिनिर्गताहिकन्या । पुष्पेषो रतिरिव लक्ष्मणेति जाया सर्वान्तःपुरपरमेश्वरी वभूव ॥ १६ ॥ सच्छाया विपुलमहातरोलतेव मेघानामिव पदवी सतारतारा । चापश्रीरिव वरवंशलब्धजन्मा या रेजे सुकविकथेव चारुवर्णा ॥ १७ ॥ लोलत्वं नयनयुगे न चित्तवृत्तौ मन्दत्वं गतिषु न सज्जनोपकारे । कार्कश्यं कुचयुगले न वाचि यस्य भङ्गोऽभूदलकचये न चापि शीले ॥१८॥ सौभाग्यं क्वचिदितरत्र रूपमात्रं क्वापि स्याद्विनयगुणोऽपरत्र शीलम् । यस्यां तत्समुदितमेव सर्वमासीत्प्रायेण प्रभवति तादृशी न सृष्टिः ॥ १९ ॥ सर्वेषामपि तमसां स्थितः परस्तात्तीर्थस्य क्षतरजसोऽष्टमस्य कर्ता । यद्गर्भ गुणनिधिरात्मनाधिशिष्ये कस्तस्या गुणगणनां विधातुमीशः ॥२०॥ तां क्षोणीमिव चतुरर्णवावसानामायातां तनुमनुकृत्य मानवीयाम् । प्राप्योर्वीपतिरखिलेन्द्रियार्थसारामात्मानं स कलयति स्म सार्वभौमम् ॥२१॥ व्यासक्तस्तदधरपल्लवे स राज्यश्रीचिन्तामपि शिथिलीचकार भूपः । प्रायेण स्थिरमतयोऽपि विप्रमोहं नीयन्ते मदनफलैरिवेन्द्रियार्थैः ॥ २२ ।। निर्मनं विषयसुखाम्बुधावगाधे तं मन्दोद्यममवधार्य राजकायें । स्वातन्त्र्यं ययुरखिलानि मण्डलानि मन्दत्वं भवति न कस्य वाभिभूत्यै ॥२३॥ व्युत्थानं सचिवमुखान्निशम्य राज्ञां राजेन्द्रो निजमभिनिन्ध च प्रमादम् । निर्जेतुं स दश दिशोऽन्यदा प्रतस्थे सामन्तैः परिकरितः सहस्रसंख्यैः॥२४॥ प्राक्पूर्वी दिशमुपसृत्य धूतधन्वा कृत्वाथ स्वशरशरव्यमङ्गराजम् । कारुण्यात्प्रणतिपरे रराज राज्यं तत्सूनौ विदधदुपायनीकृतेभे ॥ २५ ॥ १. अष्टमस्तीर्थकरः.

१६ सर्ग.]
चन्द्रप्रभचरितम् ।
१२९
प्रोद्दामद्विरदरदप्रभेदनिर्यद्योधामृक्प्लुतरथचक्रचक्रवाले ।
तेनाजौ प्रविदधिरे कलिङ्गमर्तु कामिन्यो वलयविहीयमानहस्ता ॥ २६ ॥
पादालद्वितयशिलीमुखायमान स्वग्रीवानिहितकुठारमेकवीर ।
पञ्चालाधिपतिमसौ व्ययुत रत्नैर्न प्राणैः प्रणतकृपालवो महान्त ॥ २७ ॥
सउन्नाखिलककुमो धनानिवोग्रान्निधूमायुधजनिताचिराशुशोमान् ।
चेदीश द्रुममिव निघ्नत समूल तस्यासीन्मरुदनुकारकारि वीर्यम् ॥२८॥
सप्राप्तस्तटभुवि पूर्ववारिराशेरुद्वेल क्षितितलपालिनो बलौष ।
प्रोत्सातद्विपदवनीरुहप्रतानो जज्ञेऽसावपरपयोधिसगमाभः ॥ २९ ॥
कहोलोच्छलितविदीर्णशुक्तिमुक्ता ते मुक्तावलिमनुवेलमिन्दुगौरीम् ।
गच्छन्तीमिव रिपुकीर्तिमधिपार गृहन्त क्षितिपतिसैनिका विरेजु ॥३०॥
ते पीत्वा प्रहरणधारिणामरीणामायुभि. सह शुचिनालिकेरनीरम् ।
वेलान्तर्वणविवरेपु तस्य योधाः कङ्को(लो)लानिलविहतश्रमा ववल्गु ॥३१॥
स स्तम्म जयककुद निपूदितारिर्वेलाने शिरसि निखानया बभूव ।
प्रभ्रान्ताखिलककुम, स्वकीयकीर्विश्रान्त्यास्पदमिव नाकमारुरुक्षो ॥३२॥
भूमर्तुर्दिशमभिदतिणा यियासो. सैन्योत्थैरथ पथि सैकतै रजोभिः ।
कुर्वद्भिः सितमुडुवम॑ तस्य कार्य शत्रूणामिव समधार्यताननेषु ॥ ३३ ॥
तत्रासो
समुपगत समुद्यतासिरान्धीणा रणविनिपातितप्रियाणाम् ।
सपूर्ण तुलितकलङ्कगण्डमित्ति व्यालम्बालकमकृताननेन्दुबिम्बम् ॥ ३४ ॥
यत्काचेप्विव भृशमन्यपाधिवेषु न व्यक्ति व्यपगतधामसु प्रपेदे ।
कर्णाटेप्वजनि परिस्फुटं तदीय तद्भानोरिव तपनोपलेषु तेन ॥ ३५ ॥
सामन्तोपचितचमूपयुक्ततोया रिक्तत्व ययुरचिरेण या सरस्य ।
तास्तत्र द्रमिलवधूपियोगनाश्रुस्रोतोमि स पुनरपूरयत्प्रवृ? ॥ ३६ ॥
धर्षद्भिर्मलयगिरी महागनाना अवेयरकृपत चन्दनेषु येऽका ।
तम्योतितिलकायमानकीर्तम्तेमाचीप्रविनयसाक्षिणो बभूवु ॥ ३७ ।।
पम्पनीमिव समुपात्तपत्रपूगैस्तै क्त्वा मलयन पितामपाचीम् ।
समर्पपरिमल कुमामिरामा तद्योपद्वैतमकटाति पश्चिमाशा |॥ ३८ ॥

१३० काव्यमाला। भूपाले विजितसमस्तदक्षिणाशे यत्राभूप्रतिहतशक्तिरन्तकोऽपि । कस्तत्र त्वमिति मरुच्चलैः प्रचक्रे तच्चिदैरिव वरुणोपसारसंज्ञः ॥ ३९ ॥ लाटीनां कठिनबृहत्पयोधराग्रसंघट्टप्रतिहतिजर्जरे पुरैव । लाटीये हृदयतटे पतस्तदीयः शस्त्रौषः परमजनिष्ट कीर्तिभागी ॥ ४० ॥ तत्तेजो विहितविपक्षकक्षदाहं लेशेनाप्यजनि न वाडवाविहीनम् । गम्भीरे स्थितिमति सत्त्वभाजि सिन्धुनाथेऽपि ज्वलितुमलं यतो बभूव ॥४१॥ दर्पान्धाञ्झटिति हठेन पारसीकान्वैतस्या विनतरिपुर्विनीय वृत्त्या । तैर्दत्तां बहुविधरत्नगर्भदण्डव्याजेनादित गुरुदक्षिणामिवासौ ॥ ४२ ॥ भूभर्तुः कुसुमशरानुकारिकान्तेः संपर्क समुपगता करेण सद्यः । सा वल्गत्तुरगखुरोत्थरेणुरूपात्रोमाञ्चानमुचदिवोच्चकैः प्रतीची ॥ ४३ ॥ संप्राप्तैस्तटमपराम्बुधेवलेभैः संरम्भादभिपततो निहत्य मुक्तान् । वेलान्तोच्छ्रिततरुषूदलम्बयत्स स्वख्यातिस्मृतिकरणक्षमाञ्जलेभान् ॥ ४४ ॥ तत्राशामभिचलिते कुबेरगुप्तां संच्छन्नं तुरगखुरोत्थितै रजोभिः । व्योमासीद्दलभरपीड्यमानमूर्नामुच्छ्वासैरिव फणिनां रसातलोत्थैः ॥ ४५ ॥ प्राप्तस्योत्तरदिशमेति तीव्रभावं तिग्मांशोरपि न विना क्रमेण तेजः । व्याक्षेपक्षणमनपेक्ष्य सद्य एव स त्वासीदरिजनदुःसहप्रतापः ॥ ४६ ॥ तस्योर्वीवलयभुजः समस्तदिक्कैः सामन्तैः समुपगतैः प्रबृंहितेभ्यः । सैन्येभ्यः परिददतावकाशदेशं स्वानन्त्यं प्रकटितमुत्तरापथेन ॥ ४७ ॥ तत्रेन्दूपलशकलोज्ज्वलैः समन्तात्सर्पद्भिर्नभसि करेणुशीकरौघैः । कौवेर्या इव निजनायकाभिभूति शङ्किन्याः प्रविगलदश्रुभिश्चकाशे ॥४८॥ हृत्वापि द्रविणमसावभोगवृद्धं टैकानां वधकरणोद्यतासिरासीत् । नाज्ञासीत्तदपहृतेविधानमात्रादेवामून्स्वयमसुभिर्विमुक्तदेहान् ॥ ४९ ॥ काश्मीरप्रभविपु भूमिभृत्सु वज्रीभूयासौ पृथुकटकान्वितेपु भूपः । कीरीणामभिनवयौवनोद्धतानां लावण्यश्रियमैजनिष्ट शोचनीयाम् ॥ ५० ॥ कापोताङ्गरुहविधूसरः समन्ताद्यः पांसुर्नभसि ससर्प तच्चमूत्थः । संत्रासोदयपरिकम्पमानपक्षे संजज्ञे खेशमशके स एव धूमः ॥ ५१ ।। १. अष्टमस्तीर्थकरः. २. उत्तरदेशोद्भवानां भिल्लानाम्. ३. चकार. ४. खशा उत्तरवा- सिनः केचन जनाः. . , १६ सर्ग] चन्द्रप्रभचरितम् । १११ कम्नूरीमृगमुरभौ हिमाचलेन्द्रे प्रच्योतत्पयसि निवेशितात्मसैन्यः । खर्वीणाकरितकरै. स किंनराद्यै शुश्रावेन्दुरुचि यश प्रगीयमानम् ॥१२॥ इत्याशा समदवधूरिव क्षितीश सक्षेपात्करमिलिताः स सविधाय । सतुष्टाखिलजनवधितोत्सवाया प्रत्यागादतुलपराक्रम स्वपुर्याम् ॥ ५३ ॥ भूपाना वसनयुगादिसत्कृताना सघात सपदि यथायथ विसर्थे । सपश्यन्मुग्वकमल स लक्ष्मणाया. साम्राज्य समनुवभूव दीर्घकालम् ॥१४॥ प्रागेव प्रमुदितधीर्जिनावतारादत्नानाममुचदहिद्विपा प्रयुक्त । कोट्य प्रतिदिवस त्रिकोटियुक्त पण्मासानय वनदस्तदीयगेहे ॥ ५५ ॥ अष्टौ च त्रिदशपतेनिदेशवाक्यात्तस्यान्त पुरमुपगम्य दिकुमार्य । व्यानम्रा स्वमभिनिवेद्य लक्ष्मणाया कर्तव्य व्यरिपत गर्भशोधनादि ॥५६॥ सापोत्सझे तुङ्गपल्यङ्कमुप्ता कल्याणागी यामिनीपश्चिमार्वे । चिट्ठीभूताजैनजन्मानुमाने स्वप्नानेतान्साथ देवी ददर्श ।। ५७ ॥ शैलेन्द्राभ शुभ्रमैन्द्र गजेन्द्र दत्सेिकोटेकमाण गवेन्द्रम् । नागेन्द्रौर द्रावयन्त मृगेन्द्र लक्ष्मी हस्तन्यस्तलीलारचिन्दाम् ॥ १८ ॥ मारायुग्म प्रान्ननिभ्रान्नभृग सान्द्रज्योत्स्न पार्वण शीतभानुम् । भानु भासा भासिताशान्तराल मीनद्वन्दु क्रीडदन्योन्यरक्तम् ॥ ५९ ॥ कुभावम्मोनावृतावम्बुपूर्णी शुभ्राम्भोजोद्भासितोय तडागम् । वीचीचश्रुम्विताकाशमधि सिंहव्यूढ निष्टर शैलतुगम् ।। ६० ।। दिव्य दे सेव्यमान निमान नागावास नागकन्याभिरामम् । सर्पत्तेजोमण्डल रत्नराशि धूमत्यागादुग्ज्वल धूमकेनुम् ॥ ११ ॥ म्यमानतान्भूरिकल्याणहेतून्गत्या प्रात प्रीतिपिस्नारिताक्षी । मा भूमर्तु सूचयामाम देवी चक्रे तेनापीति सा तत्फलज्ञा ॥ ६२ ॥ मृते नागम्ने त्रिोफैशमुख्य कल्याणास्ये सूनुमुक्षागभीरम् । मिह मिरोदारटलच्यीय पदमार्देवेन्द्राभियोग्यम् ॥ १३ ॥ दामहन्द्वात्न मोऽनन्तीतिर्मात्री नन्द्रात्तृप्तिहेतु प्रनानाम् । मोह पानामानिमभाम पाटीनाभ्या सर्वशोकनिमुना ॥४॥ 1TTI

१३२
काव्यमाला।
कुम्भालोकाल्लक्ष्मणैः पूर्णदेहस्तृष्णावह्निच्छित्सरोवीक्षणेन ।
यादोनाथात्केवलज्ञानभागी लब्धा सिद्धेहेमसिंहासनेन ॥ १५ ॥
स्वर्गादेता देवि देवालयेन नागावासाद्धर्मतीर्थस्य कर्ता ।
क्रीडाशैलो रत्नपुञ्जाद्गुणानां धक्ष्यत्युग्रं वहिना कर्मकक्षम् ॥ ६ ॥
फलं स्वग्नावल्याः सकलमिति निश्चित्य दयिता-
दधाना रोमाञ्चं प्रकटमपरं कचुकमिव ।
प्रमोदं सा भेजे कमपि वचनानामविषय
मुदे केषां न स्यादभिलषितसंप्राप्तिरथवा ॥ १७ ॥
अथाहमिन्द्रः स ततोऽवतीर्य स्वायुःक्षयेऽनुत्तरवैजयन्तात् ।
कुक्षौ प्रशस्तेऽहनि लक्ष्मणाया विवेश शुक्ताविव वारिविन्दुः ॥ ६८ ॥
तस्मिन्गर्भावतारं कृतवति भुवनक्षोभसंपादिपुण्ये
सर्वाटोपेन गत्वा क्षितिपतिभवने सासुरेन्द्रा सुरेन्द्राः
कृत्वा कल्याणमुच्चैहतपटुपटहा- वेणुवीणाभिरामं
नृत्यन्तः खं निवासं कृतजिनजननीपादपूजाः प्रजग्मुः ॥ १९ ॥
श्रीहीधृत्यादिभिः स्वान्वपुषि वरगुणाकान्तिलज्जादिरूपा-
न्देवीभिस्तन्वतीभिः सततमनुपमप्रीतिभिः सेव्यमाना ।
पश्यन्ती रत्नवृष्टिं स्वयमुदयवती प्रत्यहं स्वर्गिमुक्तां
मासान्गर्मप्रभावान्नवनलिनमुखी सा सुखेनैव निन्ये ॥ ७० ॥
इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये षोडशः सर्गः ।
सप्तदशः सर्गः।
अथ सा प्रसूतिसमयेन जिनमिव दिदृक्षुणेरिता ।
पौषमलिनदशमीक्षयां तिथिमाप्य सुन्दरमजीजनत्सुतम् ॥ १॥
ककुभः प्रसेदुरजनिष्ट निखिलममलं नभस्तलम् ।
तस्य जननसमये पवनः सुरभिर्ववौ सुरभयन्दिगङ्गनाः ॥२॥
वियतः पतद्भिरतिहृष्टहृदयसुरवृन्दवधितैः ।
दिव्यकुसुमनिकरैररुचत्क्षितिमण्डलं भ्रमरवद्धमण्डलैः ॥ ३ ॥

१७ सर्ग] चन्द्रप्रमचरितम् । १३३ मणिघण्टिका सदसि रेणुरकरहति कल्पवासिनाम् । ज्योतिरमरसदने सहसा प्रनगर्नुसर्जितरवं गजारयः ॥ ४ ॥ प्रणनाद भावनगृहेषु जलदपटुशससहतिः। व्यन्तरसुरभवनेप्वहता पटहाः प्रतिध्वनिमुच प्रदध्वनु. ॥ ५॥ इति हेतुमि प्रचलितैश्च समसमयमात्मविष्टरै । ज्ञातजिनपतिभवाः परितो गगन प्रपूर्य विवुधा प्रतस्थिरे ॥ ६ ॥ प्रचलत्सुरासुरकिरीटकिरणनिकुरुम्बरजिता । मण्डनमिव जगृहु ककुमोऽप्यथवा न कस्य जिनजन्म वृद्धये ॥ ७ ॥ अधुना व्यनक्ति जिन एव भुवनमिदमत्र किं मया । कृत्यमिति सुरविमानचयनपयेव भानुरभवत्तिरोहित ॥ ८॥ सुरपतिरानृपतिगेहमरुचदमरालयातता । अन्तरमकलयता युभुवोरिव मानरज्जुरुदतारि वेवसा ॥९॥ स चतुर्विधोऽपि नृपसद्म विविधमणिरत्नमासुर । माप भृतसकलभूमितलो जलराशिवत्सुरगण. सवासव ॥ १० ॥ अथ मायया जनितमात्रतदनुकृतिरूपमर्मकम् । मातुरुरसि विनिवेश्य शची जिनमुज्जहार गुरुमक्तिमाविता ॥ ११ ॥ तमुदीक्ष्य मामुरमशीतरुचिमिव शचीसमाहृतम् । पद्मवनमिन विकासमगाद्युगपत्सहस्रमपि चक्षुपा हरे ॥ १२ ॥ मुरबृहिते जयजयेति भुवनमभिसर्पति ध्वनौ । हस्तधृतवपुपमात्मगज तमरोपयवाथमकल्पनायक ॥ १३ ॥ इतरे च त परमभक्तिभरनतकिरीटकोटयः। भेजुरमरपतयोऽन्तगता विभृतातपत्रकलशादचामराः ॥ १४ ॥ सुरयोपितो विविधधूपनलिकुमुमरुद्धपाणय. । मलमुखरमुखाम्बुरुहा करिणीगता समुपतस्थिरेऽग्रत ॥ १५ ॥ चलितेऽपिनेरु सुरनायनिहपरिवारिते जने । नेदुरप सिबुधहसहता परित प्रयाणपरिशसिमेरिका ॥ १६ ॥ १ गरमाग्न हिना वारं सु • अन्दो दगण इनि टीका

काव्यमाला ।
।
सुरपेटकैः पटु नटद्भिरतिललितगीतवादितैः ।
नृत्तमयमिव तदा सकलं सदिगन्तरं समभवन्नमस्तलम् ॥ १७ ॥
भुवनातिशायिजिनरूपविनिहितविलोचनोत्पलैः ।
लचितमपि बुबुधे विवुधैर्न सुराद्रिवर्त्म तदुपातविस्मयैः ॥ १८ ॥
अथ ते परीत्य सुरशैलमुरुरुचिरचैत्यमन्दिरम् ।
पाण्डुकहपदि सुरप्रमुखा हरिविष्टरे सुखमतिष्ठयञ्जिनम् ॥ १९ ॥
सुरपतिमाशु विरचय्य कृतविततिमा पयोम्बुधेः ।
चक्रुरमलतरदुग्धघटैरभिपेचनं त्रिदशलोकनायकाः ॥ २० ॥
अभिषिच्य तं ललितनृत्तमधुररवगीतवादितः ।
वज्रमयनिशितसूचिकया विविधुर्युगं श्रवणयोः सुरेश्वराः ॥ २१ ॥
मणिकुण्डलाङ्गदकिरीटकटकरशनादिभूपणैः ।
दिव्यकुसुमवसनैश्च सुरास्तमभूषयं त्रिभुवनैकभूषणम् ॥ २२ ॥
प्रविधाय ते.समयमेकममरपतयः कृतोत्सवाः ।
चन्द्रसमरुचिरयं भगवानिति चन्द्रपूर्वममुमाह्वयन्प्रभुम् ॥ २३ ॥
अथ भक्तितः प्रथमकल्पपतिरितरवासवान्वितः ।
स्तोतुमिति विरचिताञ्जलि तं सहजत्रिबोधसहितं प्रचक्रमे ॥ २४ ॥
सकलावबोधमकलङ्कमनुपममचिन्त्यवैभवम् ।
जन्मरहितमजरामरणं जितमत्सरं जिनमभिष्टुवेऽष्टमम् ॥ २५ ॥
स्तुतिशक्तिरस्ति न ममेश तदपि हितकाङ्क्षया स्तुवे ।
शक्यमिदमिदमशक्यमिति प्रविचारबाह्यमतयो हि कार्यिणः ॥ २६ ॥
हरिविष्टरस्थितमशेपजननयनहारि ते वपुः ।
कान्तिरुचिरमुदयाद्रिशिरोगतमिन्दुमण्डलमिवावभासते ॥ २७ ।।
जिन यः समाश्रयति मार्गमखिलजनवत्सलस्य ते ।
तस्य न भवभयमस्ति पुनः किमु नौस्थितो जलनिधौ निमजति ॥२८॥
तव नाथ यश्चरणयुग्ममविचलितभक्ति सेवते ।
तस्य किमु खलु करोति यमो नहि बाधते तुहिनमग्निसेविनम् ॥ २९ ॥

१७ सर्ग]
चन्द्रप्रभचरितम् ।
१३६
तव दर्शन जगदधीश विदधदजरामर जगत् ।
कस्य न कथय रसायनवद्विदुपामभव्यमपहाय रोचते ॥ ३० ॥
सुखमाश्रिताय जिननाथ वितरसि यदिच्छया विना ।
शक्तिरियमनय ते सहना किमु विखसा श्रमहर न चन्दनम् ॥३१॥
स कृती कृतार्थमपि तस्य जगति कलयामि जीवितम् ।
यस्य हृदयसरसि स्फुरति प्रतिवासर जिन तवाभिपङ्कजम् ॥ ३२ ॥
सुरपूज्य य सततमेव वहति हृदयेन नाम ते ।
मन्त्रकुशलमिव शाकिनिका. प्रभवन्ति न च्छलयितु तमापद.॥ ३३ ॥
मतिमातनोति हरतेऽधमुपनयति सर्वसपदः ।
कि तदधिप निदधाति न यद्भवद्धिपकरुहसेवन नृणाम् ॥ ३४ ॥
सफलोऽप्यपेक्ष्य किमपीश परहितरत प्रजायते ।
न कचिदियमुपलब्धचरी तव नियंपेक्ष भुवनोपकारिता ॥ ३५ ॥
हरयोऽभिषेकमुपगम्य विदधति शची प्रसापिका ।
वारि वहति निवहो धुसदामपरस्य कस्य महिमा जिनेदृश ॥ ३६ ।।
पशवोऽपि सनिधिमवाप्य तब जिन मान्ति भाक्तिका ।
मानुफ्तनुरपि यस्तु मति त्वयि नातनोतु स पशु पगोरपि ॥ ३७ ॥
भयरोगशोकमरणानि भवभयगिचित्रवेदना ।
तावदभव भजते भाभृत्त्वयि यावदस्य ह्दय न ीयते ॥ ३८ ॥
नम इत्यपि त्वयि जिनेन्द्र पिनिगदितमक्षरद्वयम् ।
पापमसिलमपन्ति नृणामपरन्तु वामिमा एम वाग्मिनाम् ॥ ३९॥
इनि मनचार्य भुवनेश मपनि निनुनि प्रवघ्नना ।
मिदनुनिकृतफरेन मया न नितन्यते जिन ततो नमोऽनु ते ॥ ४० ॥
तमिनि प्रणुत्य गुरुमतिभग्ननतनु पुरवर ।
सौरमामनयत चन्द्रपुरी परिवारित मुरगर्णन नृत्यता ॥ ४ ॥
प्रविधाय तर पुनग मुदितादया महोत्सवम् ।
मेरमनिपत म्या विनिवेद्य त ननयोनिनाभी ॥ १२ ॥

१३६ काव्यमाला। खकराङ्गुलीनिजमुखेन विबुधपतियोजितामृताः । प्रीतिविकसितमुखः स लिहन्न चकार मातृकुचयोरतिस्पृहाम् ॥ ४३ ॥ विदधज्जितस्फटिककान्तिरखिलजनलोचनोत्सवम् । वृद्धिमभजत जिनाधिपतिः प्रतिपच्छशाङ्क इव सोऽनुवासरम् ॥ ४ ४ ॥ तमरीरमत्सुरकुमारसमितिरभिगम्य सुन्दरम् । पौरजनहृदयहृष्टिकरैः करकन्दुकप्रभृतिभिर्विनोदनैः ॥ ४५ ॥ प्रकृतिस्फुटं ग्रहगणस्य गमनमिव चापलं शिशोः । क्रीडनमकृत पृथग्जनवत्प्रतिवद्धबुद्धिरपि यजिनेश्वरः ॥ ४६॥ विचरन्स कुट्टिममहीपु परिजनकराङ्गुलीः श्रितः । मन्दनिहितचरणो रुरुचे सरसीषु हंस इव वासरद्युतिः ॥ ४७ ॥ शुशुभे करात्करतलानि सकलसुहृदां स संचरन् । दीधितिरुचिरवपुर्वणिजामविवुद्धमूल्य इव वारिधेर्मणिः ॥ ४८ ॥ मणिमुद्रिकाकटकहारवसनरसनादिभूषणम् । तस्य सुरपतिगिराधनदः प्रजिघाय सर्वमपि शैशवोचितम् ॥ ४९ ॥ स कुमारयोग्यजलकेलिगजतुरगरोहणादिभिः । कर्मभिरतिशयितान्यजनैरनयत्कियन्तमपि कालमूर्जितः ॥ ५० ॥ हरिपीठमास्थितवतोऽथ निखिलनिजपार्थिवान्वितः । तस्य विरचितविवाहविधीरकरोत्पिता नृपतिपट्टबन्धनम् ॥ ११ ॥ प्रशशास पूज्यवचनस्य स पितुरुपरोधतो महीम् । मुक्तिसुखविनिहितैकमतेनहि तस्य कापि विषयाभिलाषिता ॥ ५२ ॥ वसुधामवत्यतुलधाम्नि चतुरुदधिवारिमेखलाम् । तत्र भृशमभिननन्द जनो जनवृद्धिहेतुरुदयो हि तादृशाम् ॥ ५३ ॥ न बभूव कस्यचिदकालमरणमखिलेषु जन्तुषु । जातुचिदपि न जनाकुलतां व्यदधादवृष्टिरतिवृष्टिरेव वा ॥ १४ ॥ न समीरणः श्रवणभेदिपरुषरवदारुणो ववौ । नास्पदमलभत रोगगणः समपादि नातिहिममुष्णमेव वा ॥ ५५ ॥ 1

१७ सर्गः]
चन्द्रप्रमचरितम् ।
१३७
न विवाधन जनपदस्य समजनि कदाचिदीतिमि ।
फरमृगसमुदयोऽप्यभवन्न पुरे च हिंसनविपक्तमानस ॥१६॥
तमुपायनैः समुपगम्य सदसि परचक्रपार्थिवा ।
दाम्यकथितनिजनामकुलाः शिरसा प्रणेमुरवनीतलम्पृश. ॥ १७ ॥
रजनीमहश्च स विभज्य पिबुधनुतबुद्धिरष्टधा ।
कर्ममिरनयत सर्वजगन्नयमार्गदर्शनपरो ययोचित ॥ १८ ॥
तमुपेत्य शक्रवचनेन नरपतिसहस्रमध्यगम् ।
भेजुरमरवनिता विविधै प्रतियासर ललितगीतनर्तने. ॥ ५९॥
कमलप्रमाप्रभृतिदिव्यनिजयुवतिवृन्दवेष्टित ।
मोगमुग्वमिति यथाभिमत त्रिरमन्वभूत्स जगदेकनायक. ॥ १० ॥
अपरेशुरुन्नमितवाहुरधिकजरया निपीडित ।
तन्य सदसि समुपेत्य शनै वितयष्टिरित्यकृत कोऽपि पूत्कृतिम् ॥६॥
मुरवृन्दवन्ध करणाई शरणगतलोकवत्सल ।
वातरपिटनगना कृपण भयभीतमस्तमय रक्ष रक्ष माम् ॥ ६२ ।।
कपितो निमित्तिपुरुषेण रजनिसमये समेत्य माम् ।
मृत्युरविहतगतिप्रसरतव पश्यतोऽद्य जगदीश नेप्यति ॥ १३ ॥
समने तनो यदि न पातुममि जिन वृथान्तकान्तक ।
पानमिति सममिचाय पुर महमा तिरोहितवपुर्वभूव स ॥ ६४ ॥
पद देश कोऽयमिति सभ्यजनाचनमारतेरित ।
दृष्टनिविठभुवनोऽवपिना भगवान्हसन्निति जगाद कारणम् ॥ ६॥
मम पर्नुमेष रिपयेषु पिरनिममराषिपाज्ञया ।
धर्मरचितिी सुरग्निदिवात्मगुपायया हितद्धनिग्रह ॥ ६६ ॥
विनिमेय मम्यनिएस्स हनपरमपिन्मयन्य तम् ।
मोगाग्निादय ममाथि नित्यनिलयानित्यवेटित ॥१७॥
नयापनममी ममनुगामिद गगेरिणाम ।
पिसी रिमविनानिमानपचनभये ॥१८॥

१३८ काव्यमाला। विषयेषु शत्रुसदृशेषु विविधपरितापहेतुपु । सक्तिमविरतमतिः कुरुते हतबुद्धिरेव न तु बोधभासुरः ॥ ६९ ॥ विविधासु योनिषु वपूंषि विविधरचनानि धारयन् । इन्द्रियसुखलवलुब्धमतिर्नटवत्प्रयाति तनुमान्विडम्बनाम् ॥ ७० ॥ वपुरादधत्मविजहच्च विविधमिह यैर्विवञ्चितः । कर्मभिरहमधुना तपसा क्षिपयामि तानि निखिलानि मूलतः ॥ ७१ ॥ इति चिन्तनाकुलमुपेत्य सदसि जगदन्तिकामराः । चिन्तितमखिलहितं भवता जिन साधु साध्विति तमभ्यनन्दयन् ॥७२॥ विमलाभिधानशिबिकास्थममरपतिरेत्य सामरः । प्रापदथ सकलर्तुवनं तमुरूत्सवेन कृतदुन्दुभिध्वनिः ॥ ७३ ॥ प्रवितीर्य राज्यमवदातचरितवरचन्द्रसूनवे । षष्ठ(2)युगभिहितसिद्धनुतिः स तपोऽग्रहीद्दशशतैर्महीभुजाम् ॥ ७४ ॥ मणिभाजने समधिरोप्य विबुधपतिरात्मभक्तितः । क्षीरजलनिधिजले निदधे दृढपञ्चमुष्टिभिरपाकृतान्कचान् ॥ ७५ ॥ प्रविधाय तत्र पटुवाद्यनिनदरमणीयमुत्सवम् । क्षोभितसकलमहीवलयं प्रययुः पुनः सुरगणा यथायथम् ॥ ७६ ॥ अथ सोमदत्तनृवरस्य नलिनपुरपालिनो गृहे । पञ्चवसुनिपतनप्रभृतीन्यकृतामृतानि स गृहीतपारणः ॥ ७७ ॥ प्रशमादिभिः स चतुरोऽपि चतुरमतिरूर्जितैर्गुणैः । नाशमनयत कषायरिपून्विहरंस्तपखिननयोग्यधामसु ॥ ७८ ॥ न परीषहास्तमसहन्त धृतिकवचिनं प्रबाधितुम् । क्षुत्तुडवनिशयनप्रमुखा युधि संवृताङ्गमिव शत्रुपत्रिणः ॥ ७९ ॥ अपरापरैः स समुपेत्य समयगततत्त्वगोचरम् । संशयमलमपहस्तयितुं प्रतिवासरं मुनिजनैरसेव्यत ॥ ८० ॥ १. रत्नपुष्पगन्धोदकदृष्टयः, सुरभिमृदुपवनः, देवदुन्दुभिश्चेति पञ्चवसूनि. २. क्रोधो मानो माया लोभश्चेति कषाय इति सर्वदर्शनसग्रहः.

१७ सर्गः] चन्द्रप्रमचरितम् । १३९ प्रकृती यस्तनुतरत्वमतनुतपसामकर्मणाम् । तत्र पुनरपि जगाम वने समपादि यत्र निजमेव दीक्षणम् ॥ ८१ ॥ मुनिमि. स्थित सहसमेत्य तलभुवि स नागशाखिन । ध्यानमतुलमवलम्व्य सित हतघातिकर्मरिपुराप केवलम् ॥ ८२ ॥ तसिन्काले सह परिजनैर्यक्षराजेन गत्वा शक्रादेशासमवशरण निर्ममे तस्य भर्तुः । जैनादाद्यात्समवशरणाद्योजनार्धापहान्या सार्धान्यष्टौ यदनुगदित योजनान्यागम: ।। ८३ ॥ धूलीसालो वलयसदृशस्तस्य बभ्राम पार्थे मानस्तम्भाश्चतसूपु महादिक्षु तस्यान्तरस्थाः। चत्वायू विकचकमलाम्मासि तेभ्य सरासि तेभ्यश्चोर्ध्व विविधकुसुमा खातिका वारिकर्णा ॥ ८४ ॥ नानापुप्पा समजनि तत: पुष्पवाटी विशाला प्राकारोस्या विरचितचतुर्गोपुरोऽभ्यन्तराले । द्वाराट्टारात्परमुभयतो द्वे शुभे नाट्यशाले चत्वार्यासन्नमरनिचितान्यूर्ध्वमाभ्या वनानि ॥ ८५ ॥ चत्वारोऽवा रुचिरवपुपो यागवृक्षा वनेषु तिखस्तिस्रो मणिमयतरैमण्डितास्तेषु वाप्य । तत्रैवासन्बहुविधसभामण्डपा क्रीडशैला धारायन्त्रैरमिवृतलतामण्डपेभ्रीजमाना ॥ ८६ ॥ तेभ्योऽप्यूर्व मणिमयचतुस्लोरणा वेदिकाम- द्यस्यामोगे ममननि परे केतुपतिविचित्रा । तस्याश्चोर्ध्व मणिमयचतुर्गोपुरो हेमसालो रम्य कल्पद्रुमवनमतोऽभूत्परस्मिन्विभागे ॥ ७ ॥ । तस्मिन्येवगत्पत्तिममये २ समाविशेष ३ पनवाचूर्णताकार ४ अर्या प्रगिमा, धनमाग १४० काव्यमाला। तस्माजज्ञे पुनरपि चतुर्गोपुरा हेमवेदी तस्या रेजुर्दश दशपराण्युल्लसत्तोरणानि । तेषां स्तूपा नव नव वभुमध्यदेशेषु सर्वे तत्रैवासन्मुनिजनसभामण्डपास्तुङ्गशृङ्गाः ॥ ८ ॥ प्राकारोऽच्छस्फटिकघटितोऽभूत्पुरस्ताञ्च तेभ्यः कोष्ठास्तस्य स्फुरितरुचयो द्वादशान्ते बभूवुः । तेभ्यः स्थानं परमनुपर्म गन्धकुट्याख्यमासी- जज्ञे तत्र स्फुरदुरुमणिभ्राजितं सिंहपीठम् ॥ ८९ ।। तस्योपरि स्फुरितभासुररत्नरश्मेः स प्रातिहार्यपरिभूषितदिव्यमूर्तिः । निर्वाधवीर्यसुखबोधनिधिर्जिनेन्द्र- स्तत्त्वोपदेशकथनाभिमुखोऽवतस्थे ॥ १० ॥ दत्ताद्या मुनिभिः समं गणधराः कल्पस्त्रियः सज्जिता ज्योतिय॑न्तरभावनामरवधूसंघास्ततो भावनाः । वन्या ज्योतिषकल्पजाश्च विबुधाः स्वस्योदयाकाविण- स्तस्थुर्द्वादशसु प्रदक्षिणममी कोष्ठेषु मा मृगाः ॥९१ ।। इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये सप्तदशः सर्गः । अष्टादशः सर्गः। सर्वभाषाखभावेन ध्वनिनाथ जगद्गुरुः । जगाद गणिनः प्रश्नादिति तत्त्वं जिनेश्वरः ॥ १ ॥ जीवाजीवाश्रवा बन्धसंवरावथ निर्जरा । मोक्षश्चेति जिनेन्द्राणां सप्त तत्त्वानि शासने ॥ २ ॥ बन्ध एव प्रविष्टत्वादनुक्तिः पुण्यपापयोः । तयोः पृथक्च पक्षे च पदार्था नव कीर्तिताः ॥ ३ ॥ चेतनालक्षणो जीवः कर्ता भोक्ता स्वकर्मणाम् । स्थितः शरीरमानेन स्थित्युत्पत्तिव्ययात्मकः ॥ ४ ॥ १. मध्ये.

१८ सर्गः] चन्द्रप्रमचरितम् । १४१ भव्यामव्यप्रमेदेन द्विप्रकारोऽप्यसी पुनः । नरकादिगतेर्मेदाच्चतुर्धा भेदमश्नुते ॥ ५॥ सप्तधा पृथिवीभेदान्नारकोऽपि प्रमिद्यते । अधोलोकस्थिता सप्त पृथिव्य परिकीतिता ॥६॥ आद्या रत्नप्रभा नाम द्वितीया शर्कराप्रभा । सिकतादिप्रमान्या च परा पङ्कप्रमा मता ॥ ७ ॥ धूमप्रमा ततो नेया परा तस्यास्तम प्रमा । महातम प्रभा चेति तासा नामान्यनुक्रमम् ॥ ८॥ प्रथमाया पृथिव्या ये नारकास्तेषु कीर्तिताः । उत्सेध सप्त चापानि त्रयो हस्ता पडडला. ॥९॥ द्विगुणो द्विगुणोऽन्यासु पृथिवीपु यथाक्रमम् । द्वितीयादिपु विज्ञेयो यावत्पश्चधनु.शतीम् ॥ १० ॥ एकत्रयस्तत सप्त दा सप्तदश क्रमात् । द्वाविंशतिस्त्रयस्त्रिंशत्तास्वायु सागरोपमम् ॥ ११ ॥ दशवर्षसहस्राणि जपन्य प्रथमक्षितौ । द्वितीयादी जघन्य तत्प्रथमादा यदुत्तमम् ॥ १२ ॥ त्रिशन्नरकलक्षाणि प्रथमाया तत परम् । पञ्चविंशतिरुद्दिष्टास्तत पञ्चदश क्रमात् ॥ १३ ॥ दश त्रीणि ततो हीन पञ्चमिलक्षमीरितम् । तन पञ्चैव नरकाश्चरमाया प्रकीर्तिता ॥ १४ ॥ बहारम्मादिसभूतै पाप परवशीकृता । तत्र जीना प्रपद्यन्ते द ख भृत्वापपादिका ॥ १५ ॥ इति नारकमेदेन कृता जीवस्य वर्णना । तिर्यग्गतिकृतो मेद माप्रत वर्णयिप्यते ॥ १६ ॥ दिवायान्मध १५ चापानि, ' हम्ना, १२ अनुनानि । उनीगोत्नेध ३१ चा०, ११., अ.। चतुर्थोत्मेर ६० चा०, १०, .अ. । पभमोमेश १०५ चा०, • अपमेध २५० चा०, . ह., • अ01 मतमोरमेय ५०० या., .

१४२ काव्यमाला। . त्रसस्थावरभेदेन तिर्यग्जीवो द्विधा स्मृतः । तत्र द्वीन्द्रियमारभ्य त्रसः पञ्चेन्द्रियावधि ॥ १७ ॥ स्थावराः कायभेदेन पञ्चधा परिकीर्तिताः । पृथिवीकायिकाः केचित्केचिदप्कायिकाः स्मृताः॥१८॥ तेजःकायभृतः केचिदपरे वायुकायिकाः । स्युर्वनस्पतिकायाश्च सर्वेऽप्येकेन्द्रियाः स्मृताः ॥ १९ ॥ सहस्रं मानमुत्कर्षाद्योजनानां प्रकीर्तितम् । पञ्चेन्द्रियशरीरस्य तदेवैकेन्द्रियेऽधिकम् ॥ २० ॥ द्वीन्द्रिये द्वादशैव स्युर्योजनानि यथागमम् । त्रिकोषं त्रीन्द्रिये प्रोक्तं योजनं चतुरिन्द्रिये ॥ २१ ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । वर्धनीयं क्रमादेतेष्वेकैकं द्वीन्द्रियादिषु ॥ २२ ॥ संवत्सरसहस्राणि द्वाविंशतिरुदाहृतम् । पृथिवीकायिकेष्वायुरुत्कर्षेण जिनागमे ॥ २३ ॥ तान्यकायिषु सप्त स्युस्त्रीणि मारुतकायिषु । वनस्पतौ दशोक्तानि तेजःकायिष्वहस्त्रयम् ॥ २४ ॥ वर्षाणि द्वादशैवायुीन्द्रियाणां प्रकीर्तितम् । दिनान्येकोनपञ्चाशत्रीन्द्रियेषु शरीरिषु ॥ २५ ॥ षण्मासप्रमितं प्रोक्तं चतुरेन्द्रियदेहिषु । पञ्चेन्द्रियेषु पूर्वाणां कोट्येका परिकीर्तिता ॥ २६ ॥ तिर्यगादिप्रभेदस्य क्रमोऽयं संप्रदर्शितः । कीर्त्यन्ते सांप्रतं केचिद्भेदा नरगतेरपि ॥ २७ ॥ भोगकर्मभुवो भेदान्मानुषा द्विविधाः स्मृताः । देवगुर्वादिभेदेन स्युनिशद्भोगभूमयः ॥ २८ ।। मध्योत्तमजघन्येन क्रमात्रेधा व्यवस्थिताः । पट्सहस्राणि चापानामुत्तमासु नृणां प्रमा ॥ २९ ॥ १. द्वीन्द्रियाः शड्सगण्डोलप्रभृतयः.

१८ सर्ग] चन्द्रप्रभचरितम् । १४३ मध्यमासु च चत्वारि द्वे जघन्यासु कीर्तिते । त्रीणि पल्योपमान्यायुढे चैक ताखनुक्रमात् ॥ ३० ॥ मद्यानादिभिदाभिन्न दशकल्पद्रुमोद्भवम् । पात्रदानप्रभावेण भुजते तत्र ते फलम् ॥ ३१ ॥ आर्यम्लेच्छप्रभेदेन द्विविधाः कर्मभूमिजा । भरतादिभिदा पञ्चदश म्यु. कर्मभूमय ॥ ३२ ॥ शतानि पञ्च चापाना कर्मभूमिनिवासिनाम् । पञ्चविंशतियुक्तानि मानमुत्कृष्टवृत्तित ॥ ३३ ॥ पूर्वकोटिप्रमाण च तेषामायु प्रकीर्तितम् । वृद्धिधासौ विदेहेन भरतैरावतेप्विव ॥ ३४ ॥ भरतैरावते वृद्धिदासिनी कालभेदत । उत्सर्पिण्यवसर्पिण्यो कालभेदावुदाहृतौ ॥ ३५ ॥ सागरोपमकोटीना दश कोट्योऽवसर्पिणी । प्रमाण तावदेवाहुरुत्सपिण्याश्च तद्विद ॥ ३६ ॥ मुपमोपपदा प्रोक्ता सुषमासुपमा तत । दुःपमा मुपमाद्यान्या मुपमान्ता च दुःपमा ॥ ३७ ॥ पञ्चमी दुपमा ज्ञेया पष्ठी चात्यन्तद् पमा । प्रत्येकमिति पभेदालयोरुका द्वयोरपि ॥३८॥ सागरोपमकोटीना चतस्त्र कोटय स्मृता । पूर्वा तिलो द्वितीया च द्वे तृतीया प्रकीर्तिता ॥ १९ ॥ द्वाचत्वारिंशता वर्पसहस्त्र परिकीर्तिता । एका कोटी च कोटीना चतुर्थी परिकीर्तिता ॥१०॥ पञ्चमी च महलाणि वर्षाणामेकविंशति । पष्टी तावटामाणैव जिन कारकला स्मृता ॥११॥ रेच्छग्वण्डप्रभेटेन पञ्चधा परिकीर्तिता । मोठमण्डा यत पञ्च कश्यन्ते कर्मभूमिषु ॥ १२॥ पुरान्ती' ein'नि दिया . पा. irrmनि पाटोति १४४ ४ काव्यमाला। - आर्याः षटुर्मभेदेन पोढा भेदमुपागताः । ते गुणस्थानभेदेन स्युश्चतुर्दशधा पुनः ॥ ४३ ॥ मिथ्यासासादनविधौ मिश्रा विरतिदर्शनौ । प्रदेशविरतस्तस्मात्प्रमत्तविरतस्ततः ॥ ४४ ॥ स्यादप्रमत्तविरतस्ततोऽपूर्वक्रियः स्मृतः । अनिवृत्तिक्रियस्तम्भात्ततः सूक्ष्मः प्रकीर्तितः ॥ ४५ ॥ शान्ततीक्ष्णकषायौ च स योगः केवली स्मृतः । अयोगकेवली चेति गुणस्थानान्यनुक्रमम् ॥ ४६ ॥ इति मानुषभेदेन कृता जीवनिरूपणा । सांप्रतं देवभेदेन कुर्वे किंचित्प्रपञ्चनम् ॥ ४७ ॥ चतुर्णिकायभेदेन स्मृता देवाश्चतुर्विधाः । असुराहिकुमाराद्या दशधा तेषु भावनाः ॥ ४८ ।। किंनरादिप्रभेदेन व्यन्तराश्चाष्टधा स्मृताः । सूर्यचन्द्रादिभेदेन ज्योतिष्काः पञ्चधा स्मृताः ॥ ४९ ।। वैमानिका द्विधा प्रोक्ताः कल्पातीताश्च कल्पजाः । सौधर्मादिषु कल्पेषु कल्पजाः परिकीर्तिताः ॥ ५० ॥ नव ग्रैवेयकादिस्थाः कल्पातीताः प्रवर्णिताः । सर्वार्थसिद्धिपर्यन्ताः समृद्धावधिचक्षुषः ॥ ११ ॥ तत्रासुरकुमाराणां प्रमाणं पञ्चविंशतिः । धनूंषि दश चापानि शेषाणां भवनसिताम् ॥ ५२ ॥ दशसप्तधनुर्माना व्यन्तरा ज्यौतिषामराः । सौधमैशानयोर्मानं सप्त हस्ता दिवौकसाम् ॥ ५३ ॥ सनत्कुमारमाहेन्द्रकल्पयोः षट् प्रकीर्तिताः । ब्रह्मकापिष्ठयोः पञ्च तन्मध्यगतयोरपि ॥ १४ ॥ चत्वारः शुक्रमारभ्य हस्ताः प्रागानताः स्मृताः । आनते प्राणते चापि त्रयः सार्धाः प्रवर्णिताः ॥ ५५ ॥ 4.

१८ सर्गः] चन्द्रप्रभचरितम् । आरणाच्युतयोर्हस्तास्त्रय समनुवर्णिता । अधोग्रैवेयकेपूक्तौ त्रिपु द्वावर्धसयुतौ ॥ १६ ॥ द्वारवन्नी समानातौ मध्यप्रैवेयकत्रये । अर्धन सहितो रनिरूज़वेयकत्रये ॥ १७ ॥ ग्रैवेयकविमानेभ्य परे हस्तप्रमा सुराः । सागरोपममुत्कर्षादायुभवनवासिनाम् ॥ १८ ॥ अधिक व्यन्तराणा तु पल्योपममुदाहृतम् । दशवर्पसहस्राणि जवन्यमुभयेप्वपि ॥ ५९ ॥ ज्योतिप्काणा तु देवानामधिक पल्यमीरितम् । पल्यस्यैवाष्टमो भागो जघन्येन प्रकीर्तित ॥६० ॥ जिने साक्षात्कृताशेपत्रिजगद्वस्तुमि स्मृतम् । द्वौ सागरोपमावायु सौधर्मेशानकल्पयो ॥ ६१ ॥ सनत्कुमारमाहेन्द्रकल्पयोः सप्त कीर्तिता । ब्रह्मब्रह्मोत्तरे कल्पे दशैव परिवर्णिता. ॥ १२ ॥ स्मृता लान्तवकापिष्ठकल्पयोश्च चतुर्दश । तत शुक्रमहाशुक्रकल्पयो पोडशोदिताः ॥ १३ ॥ अष्टादश शतारे च सहस्रारे च समता। आनते प्राणते चापि विंशति समुदीरिता ॥ १४ ॥ आरणाच्युतकल्पे च द्वाविंशतिरनुस्मृता । एकैकेन ततो वृद्धिर्यावत्रिंशध्यापिका ॥१५॥ इति गत्यादिभेदेन कृता जीवनिरूपणा । कुर्वे सनत्यजीवस्य किंचिद्रूपनिरूपणम् ॥ ६६ ॥ धर्माधर्मावयाफाश काल पुदल इत्यपि । अनीन पञ्चधा ज्ञेयो निनागमविशारदै ॥ १७ ॥ एतान्येन सनीरानि पदद्रव्याणि प्रचक्षते । कालहीनानि पोस्तिकायान्तान्येर कीर्तिता ॥१८॥ १ गियन्दो परिभाषा तयार सन 'प्रतिनिन्तिप्रति पामध्यराम

१४६
काव्यमाला।
-
जलवन्मत्स्त्ययानस्य तत्र यो गतिकारणम् ।
जीवादीनां पदार्थानां स धर्मः परिवर्णितः ॥ ६९ ॥
लोकाकाशमभिव्याप्य संस्थितो मूर्तिवर्जितः ।
नित्यावस्थितिसंयुक्तः सर्वज्ञज्ञानगोचरः ॥ ७० ॥
द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् ।
लोकेऽभिव्यापकत्वादिधर्मो धर्मोऽपि धर्मवत् ॥ ७१ ॥
नित्यं व्यापकमाकाशमवगाहैकलक्षणम् ।
चराचराणि भूतानि यत्रासंबाधमासते ॥ ७२ ॥
धर्माधर्मैकजीवानामसंख्येयाः प्रकीर्तिताः ।
प्रदेशाः सकलज्ञानोमानन्तप्रदर्शकम् ॥ ७३ ।।
वर्तनालक्षणः कालः स स्वयं परिणामिनाम् ।
परिणामोपकारेण पदार्थानां प्रवर्तते ॥ ७४ ॥
क्रियां दिनकरादीनामुदयास्तमयादिकाम् ।
प्रविहायापरः कालो नास्तीत्येके प्रचक्षते ॥ ७९ ॥
तन्न युक्तं क्रियायां हि लोके काल इति ध्वनिः ।
प्रवृत्तो गौणवृत्त्यैव वाहीक इव गोध्वनिः ॥ ७६ ॥
न च मुख्याते गौणकल्पना नरसिंहवत् ।
तस्माद्र्व्यस्वभावोऽन्यो मुख्यः कालोऽस्ति कश्चन ॥ ७७ ।।
रूपगन्धरसस्पर्शशब्दवाः पुद्गलः स्मृतः ।
अणुस्कन्धप्रभेदेन द्विस्वभावतया स्थितः ॥ ७८ ॥
पृथिव्यादिस्वरूपेण स्थूलसूक्ष्मादिभेदतः।
छायातपादिरूपेण बहुधा स विभिद्यते ॥ ७९ ॥
शरीरेन्द्रियरूपेण प्राणापानादिपर्ययैः ।
प्राणिनामुपकाराय स सर्वेषां प्रवर्तते ॥ ८ ॥
विरक्तमित्यजीवस्य रूपमागमवर्णितम् ।
संप्रत्याश्रवतत्त्वस्य किंचिद्रूपं निरूप्यते ॥ ८१ ॥

१८ सर्ग] चन्द्रप्रभचरितम् । कर्मणामागमद्वारमाश्रव सप्रचक्षते । स कायवाड्मनःकर्मयोगत्वेन व्यवस्थित ॥ ८२ ॥ शुम पुण्यस्य पापस्य विपरीतः प्रकीर्तितः । सकपायोऽकपायश्च तस्य द्वौ स्वामिनौ स्मृतौ ॥ ८३ ॥ तत्रासादनमात्सर्यगुरुनिद्रवनादयः । ज्ञानावृतिहगावत्योराश्रवत्वेन वर्णिता ॥ ८४ ॥ परिदेवनसतापशोकाक्रन्दवधादय । असातवेदनीयस्य कर्मणः समनुस्मृता ॥ ८५ ॥ सरागसयमो दान शौच क्षान्त्यनुकम्पने । इत्येवमादयो ज्ञेया सातवेद्यस्य कर्मण ॥८६॥ केवलिश्रुतधर्माणा देवस्य च गणस्य च । अवर्णवदन दृष्टिमोहनीयस्य कीर्तितम् ॥ ८७ ॥ य कपायोदयात्तीव्र परिणाम प्रजायते । चारित्रमोहनीयस्य कर्मण सोऽनुवणित ॥८८॥ नारकस्यायुपो आयो वद्दारम्मपरिग्रह । माया बहुविधाकारा तैर्यग्योनस्य कीर्तिता ॥ ८९ ॥ मानुपस्याचगन्तव्य स्वल्पारम्मपरिग्रह । सरागसयमत्वादिदेवस्य परिवणितम् ॥ ९ ॥ निसवादनमत्यन्तयोगवझत्वमित्यपि । नानोऽशुमस्य विज्ञेय विपरीतं शुभस्य च ॥ ११ ॥ विज्ञेयाम्तीर्यकृनान्नो दृक्शुयाद्याश्य पोडश । स्वप्रशसान्यनिन्दादि नीचेगोत्रम्य वर्णितम् ॥ ९२ ॥ म्यनिन्दान्यप्रशसादिरुधैगोत्रस्य वणितम् । दानादिविनकरणमन्तरायम्य कीर्तितम् ॥ १३ ॥ इत्याधपदार्थस्य तत्व समुपाणितम् । अधुना बन्यतत्वस्य सरप व्याकरिप्यो । ९४ ॥

१४८ काव्यमाला। असम्यग्दर्शनं योगाविरतेश्च विपर्ययः । प्रमादाश्च कपायाश्च पञ्च बन्धस्य हेतवः ॥ ९५ ॥ सकषायतया जन्तोः कर्मयोग्यनिरन्तरम् । पुद्गलैः सह संबन्धो बन्ध इत्यभिधीयते ॥ ९६ ॥ विभेदात्प्रकृतिस्थित्योरनुभागप्रदेशयोः । जिनागमनदीनानैर्विज्ञेयः स चतुर्विधः ॥ ९७ ॥ ज्ञानदृष्ट्यावृतीवेद्यं मोहनीयायुषी तथा । नामगोत्रान्तरायाश्चेत्यष्टौ प्रकृतयः स्मृताः ॥ ९८ ॥ भेदाः पञ्च नव द्वौ च विंशतिश्चाष्टसंयुताः। चतुर्द्विचत्वारिंशद्वौ पञ्च तासामनुक्रमम् ॥ ९९ ॥ ज्ञानावृतिहगावृत्योर्वेदनीयान्तराययोः । सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः ॥ १०० ॥ सप्ततिौहनीयस्य विंशतिर्नामगोत्रयोः । आयुषश्च त्रयस्त्रिंशत्सागरोपमसंमिताः ॥ १०१ ॥ मुहूर्तावेदनीयस्य द्वादशैवापरा स्थितिः। स्यान्नामगोत्रयोरष्टौ शेषाश्चान्तर्मुहूर्तकम् ॥ १०२ ॥ कर्मणां यो विपाकस्तु भवक्षेत्राद्यपेक्षया । सोऽनुभावः समाम्नातो जिनैः केवललोचनैः ॥ १०३ ॥ योगभेदादनन्ता ये प्रदेशाः कर्मणः स्थिताः । सर्वेष्वात्मप्रदेशेषु स प्रदेश इति स्मृतः ॥ १०४ ॥ एवमेष चतुर्भेदभिन्नो बन्धो निरूपितः । संवरस्याधुना रूपं किंचिदुद्योतयिष्यते ॥ १०५ ॥ आश्रवस्य निरोधो यः संवरः स निगद्यते । कर्म संत्रियते येनेत्येवं व्युत्पत्तिसंश्रयात् ॥ १०६ ॥ चारित्रगुप्त्यनुप्रेक्षापरीषहजयादसौ । दशलक्षणधर्माच्च समितिभ्यश्च जायते ॥ १०७ ॥ m

१८ सर्गः]
चन्द्रप्रमचरितम् ।
२४९
इति सवरतत्त्वस्य रूप सक्षिप्य कीतितम् ।
इदानीं क्रियते किचिन्निर्जराया निरूपणम् ॥ १०८ ॥
ययाकालकृता काचिदुपक्रमकृतापरा ।
निर्जरा द्विविधा ज्ञेया कर्मक्षपणलक्षणा ।। १०९ ॥
या कर्मभुक्तिःश्वभ्रादौ सा यथाकालना स्मृता ।
तपसा निर्जरा या तु सा चोपकर्मनिर्जरा ॥ ११०॥
स्थित द्वादशमि दैनिर्जराकरण तप. ।
बाह्यमाभ्यन्तरं चेति मूलभेदद्वयान्वितम् ॥ १११ ॥
उपवासावमोदर्ये वृतिसख्या रसोप्सनम्()।
निरिक्तवासना कायक्लेशश्चेति बहिर्मवम् ॥ ११२ ॥
खाध्यायो व्यावृतिर्ध्यान व्युत्सर्गो विनयस्तया ।
प्रायश्चित्तमिति ज्ञेयमान्तर पविध तप ॥ ११३ ॥
स्वाध्यायानस(श)नादीना व्यक्तत्वादप्रपञ्चनम् ।
क्रियते दुर्विबोधत्वाच्यानस्यैव प्रपञ्चनम् ॥ ११४ ॥
आत्त रौद्र च धर्म च शुरु चापि चतुर्विधम् ।
ध्यानमास्यातमर्हद्धि शुमाशुपगतिप्रदम् ॥ ११५ ॥
अनिष्टसगमे तस्य वियोगपरिचिन्तनम् ।
निप्रयोगे मनोक्षस्य समागमनिचिन्ननम् ॥ ११६ ॥
रोगादिननितायाश्च वेदनाया मुह स्मृति ।
निदानं चेति चत्वारो भेटा पूर्वस्व कीर्तिता ॥ ११ ॥
रोः रिसानृतलेयविषयप्रतिपालने ।
चतुर्भाियमानत्यात्यारण. न्यायनुर्विधम् ॥ ११८।।
आज्ञा निपाफपिचयापायपिनयनया।
मस्थानपिपयति धर्मध्यान भतुर्विधम् ॥ ११९॥
पृषकत्वारिक्तिकान शुरूमापनुरिनम् ।
पत्तादिनिन्न दिनांगागपने ॥ १२ ॥

१५० काव्यमाला ॥ अन्यत्सूक्ष्मक्रियापूर्व प्रतिपात्यन्तमुच्यते । चतुर्थ प्रतिपात्यन्तं समुच्छिन्नक्रियोदकम् ॥ १२१ ।। कथितेतिसमासेन निर्जरा संनिवन्धना । सांप्रतं मोक्षतत्त्वस्य रूपं व्यावर्णयिष्यते ॥ १२२ ॥ कृत्स्नकर्मक्षयो मोक्षो भव्यस्य परिणामिनः । ज्ञानदर्शनचारित्रत्रयोपायः प्रकीर्तितः ॥ १२३ ॥ तत्त्वप्रकाशकं ज्ञानं दर्शनं तत्त्वरोचकम् । पापारम्भपरित्यागश्चारित्रमिति कथ्यते ॥ १२४ ॥ संसारव्याधिविध्वंसे भाव्यमानमिदं त्रयम् । हेतुरेकाङ्गविकलो न हेतुरिव भेषजम् ॥ १२५ ॥ केवलं न यथाज्ञानं रुचितं समनुष्ठितम् । औषधं ध्वंसयेद्व्याधि तथा तत्त्वं च संसृतिम् ॥ १२६ ॥ यथा सम्यक्परिज्ञातं रुचितं समनुष्ठितम् । औषधं ध्वंसयेद्व्याधि तथा तत्त्वं च संसृतिम् ॥ १२७ ।। कर्मणां प्रतिपक्षत्वान्मुक्तेर्सानादि कारणम् । ज्ञानादीनां विवृद्ध्या हि रागादिक्षयदर्शनात् ।। १२८ ॥ रागादेश्च क्षयात्कर्मप्रक्षयो हेत्वभावतः । तस्माद्रत्नत्रयं हेतुर्विरोधात्कर्मणां क्षये ॥ १२९ ॥ क्षीणकर्मा ततो जीवः स्वदेहाकृतिमुद्वहन् । ऊर्ध्व स्वभावतो याति वह्निज्वालाकलापवत् ॥ १३० ॥ लोकाग्रं प्राप्य तत्रासौ स्थिरतामवलम्बते। गतिहेतोरभावेन धर्मस्य परतो गतिः ॥ १३१ ॥ इति तत्त्वोपदेशेन प्रह्लाद्य सकलां सभाम् । भव्यपुण्यसमाकृष्टो व्यहरद्भगवान्भुवि ॥ १३२ ॥ निवेदत्वादिभिस्तस्य सहजैर्दशभिर्गुणैः । बभासे भुवनोझासि वपुर्भास्करभासुरम् ॥ १३३ ।।

१५१ १८ सर्गः] चन्द्रप्रभचरितम् । व्यहरद्यत्र यत्रासो तत्र तत्र सुभिक्षता । अजायत जनप्रीत्यै योजनाना शतद्वये ॥ १३४ ॥ गगने गमन तस्य सर्वेपामपि हृष्टये । बभूव प्राणिना प्राणिविरोधेन विवर्जितम् ॥ १३५ ॥ तस्य भक्त्युपसर्गाम्या मनागपि न पस्पृशे । शीतेतरकरस्येव च्छायाविरहित वपु ॥ १३६ ॥ चतुराननतारूपमहातिशयशालिन । चतुरा न नता तस्य काभ्युत्थाय स्वय प्रजा ॥ १३७ ॥ पक्ष्मस्पन्दविनिर्मुक्ते बभतुस्तस्य लोचने । नीलोत्पले इवात्यन्तनिर्वातस्थानसस्थिते ॥ १३८ ।। सर्वविद्येशितुस्तस्य यथास्थानखमूर्धनम् । असाधारणता तस्य वपुर्वक्तुमिवाभवत् ।। १३९ ।। स वातिक्षय रेभिरपरैर्दशमिर्गुणै । रराज रजसा मुक्तो मुक्तिसगमनोत्सुक ॥ १४॥ सनमापात्मिका तस्य सर्वतत्त्वावबोधिनी । मागधी या बमौ मापा मैत्री चाखिलगोचरा ॥ १४१ ।। जज्ञे निहारतस्तस्य सर्व फलशालिनी । कृतरक्तनिनिर्माणा भूर्दर्पणतलोपमा ॥ १४२ ।। पादौ विरेजतुस्तस्य हेमानरुनिपिञ्जरौ । नितेन रागमछेन मयादिव ममाश्रिती ॥ ११३ ।। इत्येवमादिमिश्चान्य स चतुर्दशमिनिन । विद्यतेऽतिशयवनिकायपरिकत्पिते ॥ १४ ॥ प्रातिहार्यश्च सोऽष्टाभि शुशुमे शुमचेष्टित । अत्रयादिमि सननगदै-धर्यसिभि ॥ १४५॥ 1 गतुगानमा गागा, मा गयर म , म गामी मटातिशयय, ताशाने तिविपद १५२ काव्यमाला । नवतित्यधिका तस्य सभार्या गणिनोऽभवन् । द्वे तीक्ष्णतरबुद्धीनां सहस्से पूर्वधारिणाम् ॥ १४६ ॥ शिक्षकाणामुभे लक्षे चतुर्भिरधिकैः शतैः । अवधिज्ञानिनामष्टौ सहस्राणि महाधियाम् ॥ १४७ ॥ दश केवलनेत्राणां सहस्राण्यमलात्मनाम् । चतुर्दश सहस्राणि विक्रियधिमुपेयुषाम् ॥ १४८ ॥ मनः पर्ययिणामष्टौ सहस्राणि सतेजसाम् । सह षभिः शतैः सप्त सहस्राणि च वादिनाम् ॥ १४९ ॥ वरुणाद्यार्यिकाणां च विशुद्धतरचेतसाम् । अशीतिश्च सहस्राणि लक्षमेकं क्षतैनसाम् ॥ १५० ॥ श्रावकाणां च लक्षाणि त्रीणि सम्यक्त्वशालिनाम् । लक्षाणि पञ्च पूतानां श्रावकाणां व्रतादिभिः ॥ १५१ ॥ इत्थं विहृत्य भगवान्सकलां धरित्री- मध्यासितो गणधरैर्मुनिवृन्दवन्द्यैः । धर्मोपदेशजलवर्धितभव्यसस्य- संमेदशैलशिखरं स समाससाद ॥ १५२ ॥ तत्रासौ परिमुक्तमासविहृतिः पक्षे सिते सप्तमी- तिथ्यां भाद्रपदे स्थितः प्रतिमया साधै मुनीनां गणैः । निर्बाधं दशपूर्वलक्षपरिमाणस्यायुषः प्रक्षये शुक्लध्याननिरस्तकृत्स्नकलुषः सिद्धेः पदं शिश्रिये ॥ १५३ ॥ संश्लिष्टामथ तस्य भूधरपतेश्चैत्यालयोद्भासिनः पूते मूर्धनि सार्धकार्मुकशतोत्सेधां तदीयां तनुम् । संस्कृत्यागुरुचन्दनप्रभृतिभिः प्राप्तोरुपुण्योदयाः कल्याणं प्रविधाय पञ्चममगुः खं खं पदं स्वर्गिणः ॥ १५४ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्येऽष्टादशः सर्गः ।

१९ सर्गः] चन्द्रप्रभचरितम् । ग्रन्थकर्तुः प्रशस्तिः। वभूव भव्याम्बुजपद्मवन्धुः पतिर्मुनीना गणभृत्समानः । सदग्रणीर्देशिगणाग्रगण्यो गुणाकर' श्रीगुणनन्दिनामा ॥ १ ॥ गुणग्रामाम्भोधे सुकृतवसतेर्मित्रमहसा- मसाध्य यस्यासीन्न किमपि महीशासितुरिव । स तच्छिप्यो ज्येष्ठ. शिशिरकरसौम्य समभव- त्मविख्यातो नाम्ना विबुधगुणनन्दीति भुवने ॥ २ ॥ मुनिजननुतपाद. प्रास्तमिथ्याप्रवाद' सकलगुणसमृद्धस्तस्य शिप्यः प्रसिद्ध । अभवदभयनन्दी जैनधर्मामिनन्दी स्वमहिमजितसिन्धुर्भव्यलोकैकवन्धु ॥ ३ ॥ भव्याम्मोजविबोधनोद्यतमते स्वत्समानत्विप' शिप्यस्तस्य गुणाकरस्य सुधियः श्रीवीरनन्दीत्यभूत् । स्वाधीनाखिलवाङ्मयस्य भुवनप्रस्यातकीर्ते सता ससत्सु व्यनयन्त यस्य जयिनो वाच कुतकोङ्कुशा ॥ ४ ॥ शब्दार्यसुन्दर तेन रचित चारुचेतसा । श्रीजिनेन्दुप्रमस्येद चरित रचनोज्ज्वलम् ॥ ५ ॥ य श्रीवर्मनृपो वभूव विबुध. सौधर्मकल्पे तत- स्तस्साच्चाजितसेनचक्रभृदभूद्यश्वाच्युतेन्द्रस्ततः । यश्चाजायत पद्मनामनृपतियों वैजयन्तेश्वरो य स्यात्तीर्यकर स सप्तमभवे चन्द्रप्रम पातु न• ॥ ६ ॥ इति प्रन्यस्तु प्रशस्ति ।

No text on this page.

चन्द्रप्रभचरितस्य शोधनपत्रम् । " पृष्टम् । पनि । पृष्टम् । पति । १५ धन्या त्रियो १० जनप्रमोद २० भृश न विभान्ति ८ पुमान्परि २१ मुग्यारचिन्दा १२ परिपाति ४१ ७ गज्यमसिल १०४ १५ गामिति ४ जने १११ १ सलिलाशयाना ८ मेदिनीक ११६ १७ माद्यद्दन्ति ५५ २६ ऽभ्येतु (अम्य टिप्पण्या ५६ ११७ १६ क्षितैयुद्ध पृष्टपादस्य 'अभ्यागच्चतु' १२१ ३ मीत्समु इति शब्दी निवेशनीय ।) ४ रथी सूर्य ११ सममक्षत्र १९ बन्दिभि स्तूप १२७ ११ विराजमाना १३ रावलीकरा ८ मादि मात्र १२८ १२ यस्या ६५ २६ स्वादनाम् १२९ १३ निसानयायभूत्र मेपुर्वीक्षितेषु १३१ १७ कुम्भावम्भो २७ बिन्दुना तिलकेन १३५ २० वाग्मिनाम् १८ विन "

No text on this page.

No text on this page.

The Chandraprabhacharita

Author
Viranandi
Title
The Chandraprabhacharita
File name
The Chandraprabhacharita
Text
OCR done
Citation
1892
Published
2011/02
Publisher
Bombay, Nirnaay Sagar Press
Language
Sanskrit
Pages
162
Library
Shri Jain Swetamber Khartargacch Sangh, Jaipur
Classification
Devotional
DLI number
549945
Barcode
99999990030783.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
LEWGcSYRIhK
Download PDF

The Chandraprabhacharita