Allahabad University

Gopathabramhana

Pandit Jibananda Vidyasagarab · 25.06.06

PDF Proofread

Front matter

GOPATHABRÁMHANA
OF THE ATHARVAYEDA
DITED AND PUBLISH D
BY
PAIDIT JIBANANDA VIDYASAGARABA
Sivper intendent Free Sanskrit College, Calcutta.
QALGUPTA
PRINTED AT TH
NARAYAN PR SS
CATALOGUED.
1891

ष्णावतारः] दशावतारचरितम् । ततस्तालवने दैत्यं धेनुकं खररूपिणम् । जघान गोकुले विघ्नं हेलयैव हलायुधः ॥ ५१ ।। अथ गोपालरूपेण प्रलम्बो नाम दानवः । कन्दुकक्रीडया प्रीतिं विदधे रामकृष्णयोः ॥ ५२ ॥ कदाचित्स्कन्धमारूढस्तेन वेगवता हृतः । रामस्तस्याकरोन्मुष्टिपातेन शतधा शिरः ॥ ५३ । अथ गोवर्धनगिरौ शक्रयागमहोत्सवे । भक्ष्यभोज्यमहारम्भसंभारो गोकुलेऽभवत् ।। ५४ ।। पूज्यः पर्वत एवायमित्युक्त्वा शक्रपूजनम् । निवार्य कृष्णस्तद्भोज्यं बुभुजे दिव्यरूपभृत् ॥ ५५ ॥ ततः प्रम्लानमानेन मन्युना शतमन्युना । प्रेरिता घननिर्घोषघोरमेघाः समाययुः ॥ ५६ ॥ तैर्ग्रस्तवासरालोकैनिंगीर्णभुवनैर्धनैः । आहूतेव महारावैः कालरात्रिरदृश्यत ॥ ५७ । विरावकृतहृद्धट्टमेघसंघट्टविप्लवे । खं क्षितौ जलरूपेण भयभग्नमिवापतत् ॥ ५८ ॥ ते शक्रक्रोधसंनद्धाः शक्रचापचिता घनाः । सद्यः पीतमिवाम्भोधि वमन्तः मामपूरयन् ॥ ५९ ॥ संरम्भेण घनाघनैर्धनतरैः संपीड्यमानैमिथः प्रोद्भूतेऽथ पृथुव्यथारवनिमे संस्फूर्जिते गर्जिते । भीत्या क्वापि ययुः क्षितिच्युतनभःसंभावनाकम्पिताः कल्पान्तागमशङ्किता इव महानीहाररुद्धा दिशः ।। ६०॥ धारासाराशनिनिपतनक्लेशसंपीडितानां सीदद्वत्सप्रणिहितदृशां शीतवातार्दितानाम् । .

काव्यमाला।
अङ्गभङ्गं गवां दृष्ट्वा गोविन्दः करुणाकुलः ।
त्राणाय गिरिमुद्धृत्य गोवर्धनमधारयत् ॥ ६२ ॥
छत्रीकृते गिरौ तस्मिन्दोर्दण्डधृतिनिश्चले।
गोगणानां सगोपानां पुनर्जीवागमोऽभवत् ॥ ६३ ॥
उत्क्षिप्तेऽसुरवैरिणा क्षितिघरे क्षीरोदधिः क्षोभवा-
न्भेजे भीतिमकाण्डदण्डमथनक्षोभाभिशङ्की पुनः ।
विन्ध्यस्यासमयोद्मं विगणयन्मन्ये श्वसन्कम्पवा-
न्हस्तन्यस्तसमस्तशापसलिलः क्षोभादगस्त्योऽभवत् ॥ ६४ ॥
अवहदहतधैर्ये दोष्णि कृष्णस्य भार-
श्रमशमनधियेव क्ष्माधरः सोपरोधः ।
अविरतनिपतद्भिर्निर्झराणां सहस्रैः
स्फटिकविकटर्जम्भस्तंभसंभारशोभाम् ॥ ६५ ॥
गोवर्धनस्य धरणे ब्रजसुन्दरीणां
साहाय कोच्चचरणोचितदोलतानाम् ।
अप्राप्तिलोलकरविभ्रममाकलय्य
कृष्णः स्मितांशुधवलाधरपल्लवोऽभूत् ॥ ६६ ॥
कृष्णेनाश्चर्यनिधिना गोगणे परिरक्षिते ।
लज्जयेव न्यवर्तन्त पवनोच्छासिनो घनाः ॥ ६७ ॥
ततः शक्रः स्मभ्येत्य प्रसाद्य विजने हरिम् ।
कामधेनुगिरा तस्मै गोपालाधिपतां ददौ ॥ ६८ ॥
अथ प्रपेदे गोविन्दः प्रौढं मदमिव द्विपः ।
सहकारतरुः कान्तं वसन्तमिव यौवनम् ॥ ६९ ॥
तस्य सानन्दशृङ्गारे वयसि व्यक्ततां गते ।
बभूवाभिनवोत्साहः प्रतापाभरणेन सः ॥ ७० ॥

८ श्रीकृष्णावतारः]
दशावतारचरितम् ।
.
व्यामूढस्खलितार्धविक्लवपदा वाणी गतिश्चास्फुटा
चित्तं भ्रूयुगलं च वीचिरचनासंवादि दोलायितम्
निद्रा किं च दरिद्रतामुपगता लज्जा च सजा सरे
क्षैब्यं माधवयौवनद्युतिपदे गोपाङ्गनानामभूत् । ७२ ।
खैराचारसरपरिचये तत्र शौरेः प्रवृत्ते
वेषालापोद्धतगतितयान्योन्यसंभाव्यमाने ।
आसील्लज्जाविनयनिभृता व्यक्तसंसक्तमन्यु-
स्तासामन्तः कलुषकलनानल्पसंकल्पजल्पः ।
कर्णाभ्यर्णविकीर्णलोचनरुचः सन्त्येव चन्द्रानना-
स्त्वत्तोऽन्या नवयौवनोन्नतिलसल्लावण्यगण्याः परम्
यासामेष हरिर्मनोरथशतैरर्थी क्षणालोकने
किं कृष्णेन विलोकिताहमिति ते रूढः प्रमूढे मदः । ४॥
अन्तर्लोचनयोविंशत्यविरतं लमश्च पाणौ गतिं
निर्बन्धेन रुणद्धि धावति मुहुर्दशा भिकामोऽधरे ।
सख्यः किं करवाणि वारणशतैर्नैवापयाति क्षणं
कृष्णः षट्चरणः प्रयाति चपलः पुष्पोच्चये विनताम् ॥ ५।
कर्षत्यंशुकपल्लवं परिहृतः प्रत्याहृतिं नोज्झति
प्रक्षिप्तश्चरणे लैंगत्यविरतं तिष्ठत्यदृश्यः पथि ।
अङ्गान्युल्लिखति प्रसह्य यदि वा लब्धावकाशः क्वचि-
किं शौरिर्धनकुञ्जव ललताजालान्तरे कण्टकः ।
खच्छाम्बुप्रतिबिम्बवऋतिलकोल्लेखादरालोकनं
यत्नेनोचितचूतपल्लवलवे कर्णावतंसस्पृहा ।
एतस्याः कुसुमेषु बन्धनधिया केशावकाशक्रिया
केनायं नवरागयोगगुरुणा वेषोपदेशः कृतः ।

काव्यमाला कोऽयं याति लघुक्रमेरहमहं कस्त्वं सखि श्यामला श्वासायासवती क यासि तिमिरे तं नष्टमिष्टं मृगम् । अन्वेष्टुं यमुनातटीमुपगता भीतास्मि भूतभ्रमा- न्मूढे कृष्णभुजंग एष विटपे कौटिल्यलीनः स्थितः । संतप्तैव हता करोमि किमहं तां प्रेषयन्त्या मया लब्ध मौग्ध्यफलं भुजंगनिकटं वक्रां द्विजिह्वां सखीम् धिग्दूती तरुणीं करोति किल या स्वीकृत्य दूरे प्रियं हस्तोत्सृष्टखगः प्रयत्ननिचयै याति तृप्तोऽन्यतः ॥ ९ जानेऽन्यासहितं विलोक्य कुटिलं तं कूटकोषं त्वया प्रत्यक्षागसि निवासहनया कोपेन दष्टोऽधरः । श्वासायासविसंस्थुला न च कुचोत्कम्पं विमुञ्चस्यहो मोहाद्दुःसहविप्लवे चपलया किं प्रेषिता त्वं मया ॥ ८ । न स सखि यमुनायास्तीरवानीरकुले गहनसुवि भवत्या मत्प्रियः क्वापि दृष्टः । सुमुखि फलमियत्तु स्नेहमोहात्त्वयाप्तं कुचमुखलिखितेयं कण्टकोल्लेखरेखा ॥ ८१ ॥ इत्यभून्मदनोद्दामयौवने कालियद्विषः । गोपाङ्गनानां संरम्भगर्भोपालम्भविभ्रमः ॥ ८२ ॥ प्रीत्यै बभूव कृष्णस्य श्यामानिचयचुम्बिनः । जाती मधुकरस्येव राधैवाधिकवल्लभा ।। ८३ । लावण्यं नवनीतसारममृतस्येवोद्वहन्त्यो नवं तन्वाना द्युतिदिग्धदुग्धधवलां मुग्धस्मितांशुच्छटाम् माद्यद्यौवनकुम्भिकुम्भसुभगाभोगस्तनोत्तम्भिता धैर्य कस्य न दीर्घनेत्रवलनैर्मश्नन्ति गोपाङ्गनाः ॥ ८ । कदाचिदथ यातेऽस्तं गभस्तिमति शर्वरी । आययौ गोपकान्तेन शनैः कृष्णाभिसारिणी। ८५ ८ श्रीकृष्णावतारः] दशावतारचरितम् । शशाङ्काकृतसंकेतसमागमविलोकिनी । क्षपा प्रतीक्षमाणेव तमःश्यामाम्बरा बभौ ॥ ८६ । अथोद्ययौ सुधास्यन्दखेदाप्रसरत्करः । तुल्यालिङ्गनजामा दिशन्निव दिशां शशी ॥ ८७ ॥ ततस्तारुण्यवानिन्दुर्मीलत्तरलतारकम् । मुखं चुचुम्ब श्यामायाः कराकृष्टतमःपटः ॥ ८८ ॥ त्यक्त्वा पूर्वां स्पृशन्किंचिदक्षिणां च तथोत्तराम् । शिश्रिये पश्चिमामाशां सुधांशुबहुवल्लभः ।। ८९ । अत्रान्तरे समभ्यायादरिष्टो दुष्टचेष्टितैः । जङ्गमः शृङ्गवानद्रिरिव दैत्यो वृषाकृतिः॥९० ॥ किंचित्कुञ्चितकण्ठकायकषणक्लेशत्रुटत्पादप- प्रोद्भुतोत्कटटांकृतैर्गललुठद्गम्भीरघोरखनैः । सीत्कारश्वसितैः खुराप्रविषमोत्खातावकीर्णक्षिते- स्तस्योद्धारभरेण भग्नमभवत्कम्पाकुलं गोकुलम् ॥ ९१ ।। तद्भीतिच्युतगर्भासु गोषु गोपगणे गते । ष्णं गोपाङ्गनाः कण्ठे जगृहुर्भयविहलाः ॥ ९२ । शृङ्गप्रहाराभिमुखं दोष्णा कृष्णस्तमुद्धतम् । निपीड्य कण्ठे कुण्ठेच्छं चकार गतजीवितम् ॥ ९३ ॥ निष्पिष्टे शौरिणारिष्टे कंसामात्ये महौजसि । सत्कथा पप्रथे लोके पृथुविसयकारिणी ॥ ९४ ॥ ततः प्रभाते कंसस्य सुहृत्केशी महासुरः । आययौ हयरूपेण खुराघातक्षतक्षितिः ॥ ९५ करालो मांसलः शृङ्गी कृष्णतालुस्त्रिकर्णवान् । क्षितः ककुदावर्ती जगत्संक्षयलक्षणैः ॥ ९६ ॥ १. 'यामिन्याः २. 'चेतनः ३. 'सीत्कारोच्छुसितैः' काव्यमाला। तस्य हेषितनिर्घोषैरैः खुररवेण च । त्रस्तगोगणमुद्विग्नगोपं वनमकम्पत ॥ ९७ ॥ शूत्कारश्वसितेन तर्जितमरुत्कोपात्तमृत्युस्थिति- तेजोनिर्जितपावकः श्रमजलैर्विक्षिप्तपाथःपतिः । निश्चेष्टां वसुधां विधातुमुदितः कल्पान्तकालोपमः सोऽभूदाकुललोकपालविभवावष्टम्भकृदुःसहः ।। ९८ । दन्ताभिघातसज्जस्य तस्यास्ये द्विगुणीकृतम् । उत्क्षिप्तानखुरस्याशु न्यदधद्भुजमच्युतः ॥ ९९ ।। तद्दन्तकषणेनापि निर्विघ्नधनविभ्रमः । कृष्णप्रसारितो बाहुः केशिवकं द्विधा व्यधात् ॥ १० । भने निपतिते तस्मिन्कंसस्येव मनोरथे । अभूजम्भारिभवने तार्थ्यध्वजजयखनः ॥ १०१ । अत्रान्तरं वृष्णिवृद्धैः सह खसचिवक्षयम् । चिन्तयन्मन्त्रभवने कंसः प्रोवाच निःश्वसन् ॥ १०२ । इयं जनितलज्जेव मानम्लानिर्महीयसी । यन्मेरुतुल्यैर्युष्माभिः क्रियते तृणचिन्तनम् ॥ १०३ ॥ उद्धवः शनिरक्रूरः शतधन्वा विदूरथः । मोजाद्याश्च ममापूर्व शृण्वन्त्वसमविग्रहम् ॥ १४ ॥ पितुः खसुः पतिर्वृद्धः स्नेहसंमानवृत्तिभिः । वसुदेवः स चास्माभिः पूजितः परिपूरितः ॥ १०५ । खसुतौ तेन निन्यस्तौ गोकुले गूढचारिणौ । शोकातकाङ्कुरौ यौ मे विषपादपतां गतौ ॥ १०६ ॥ ज्ञातिभ्यो भयमस्तीति सत्यमाह महामतिः। विभीषणमतोपायैर्हन्यमानो दशाननः ॥ १०७ । १. 'मन्त्रि' ३. 'शङ्कातडाकुलौ' .

८ श्रीकृष्णावतारः] दशावतारचरितम् । मर्मज्ञः खजनः पुंसां क्षये जागर्ति नापरः । शिक्षापक्षिभिराकृष्टाः क्षयं यान्त्येव पक्षिणः । १८॥ सदा दारूणि दह्यन्ते दारुजेन चे वह्निना । क्रिमिणा वाङ्गजातेन पात्यन्ते प्रौढपादपाः ॥ १९॥ मृज्जातलोहकुद्दालैः खन्यते मृण्मयी मही । खजातैर्निर्झरैर्नीताः कषद्भिर्भूधराः क्षयम् ॥ ११० ॥ ज्ञातिप्रहारो निःशर्ममर्मपाती पराधिकः । लोहाधिका व्यथामस्नः करोत्यस्थिसुखः शरः ॥ १११ ॥ सहभोग्यामपि ज्ञातेर्नेच्छन्ति ज्ञातयः श्रियम् । काङ्क्षन्ति भूतिमन्येषां दूरालोकननिष्फलाम् ॥ ११२ ।। किं कृतं सुकृतं तावद्वसुदेवेन धीमता। बन्धुद्रोहविदग्धेन गोपालौ कुर्वता सुतौ ॥ ११३ ॥ उपेक्षितौ बन्धुधिया तत्सुतौ दयया मया । भुजच्छेदप्रवृत्तौ मे प्रयातौ चिन्तनीयताम् ॥ ११ ॥ कृष्णेन निहतोऽरिष्टः स च केशी सुहृन्मम । तद्भात्रा मुष्टिना पिष्टः प्रलम्बः स च धेनुकः ॥ ११५ ॥ अधुना कोपविवलद्भूलतां नीतिमैतयोः । करोम्यहं यथा बालौ पुनर्नैवं करिष्यतः ॥ ११६ इति कंसेन सावज्ञमन्तर्गम्भीरमन्युना। उक्ते तमुद्धवः प्राह पाङ्गुण्यविनयेद्धधीः ॥ ११ ॥ राजन्न खजने कोपं कुपितः कर्तुमर्हसि । खीकार्याः सर्वथा क्रुद्धलुब्धमीतावमानिताः । १ ८॥ क्रुद्धान्प्रसादनैर्लुब्बान्धीतांश्च सान्त्वनैः । माननैरवमानान्नियेद्भिन्नानभिन्नताम् ॥ ११९ विभिन्नखीकारः शमयति नृपाणां रिपुभयं निजैर्जीवोच्छित्तिर्भवति कुपितैर्धातुभिरिव । १. 'समन्युः २. 'एव' ३. 'चर्म .

,८६ काव्यमाला। न वैरं वैरेण प्रशममुपयाति क्वचिदपि प्रदीप्तोऽग्निः शान्ति व्रजति जलपुजैन शिखिना ॥ १२ बान्धवौ पुत्रसदृशौ रामकृष्णौ न ते परौ । लक्ष्मीरक्षा क्षितीशानां राजपुत्राभिरक्षणम् ॥ १२१ ।। समीपे सामः परमुपसरन्मेषहननः खलपामे मूर्खः (मुख्यः) परपुरगतः शत्रुबलकृत् । हते तस्मिन्पापं किमपि कुलबीजाङ्कुरहति- न दूरे नादूरे भवति सुखरक्ष्यः क्षितिपजः ॥ १२२ । निरस्तः माभुजा बन्धुः क्षीणवृत्तिर्विपद्दतः । तन्नामविक्रयोत्क्षेपैर्लक्षितो दिक्षु भिक्षते ॥ १२३ ॥ परमं श्रीमतामेतन्माननामविनाशनम् । यद्यात्यपूरितो बन्धुः परस्योत्तानपाणिताम् ॥ १२४ । त्वबन्धुसुतयो३व युक्ता गोपकुले स्थितिः । न यावद्विप्रकिर्णौ तौ तावत्खीकरणक्षमौ ॥ १२५ । इत्युद्धवेनाभिहिते हिते सुविहिते श्रियः । अच्छिन्नदानव्रतवानक्रूरः कंसमभ्यधात् ॥ १२६ ॥ एकपात्रोचितां यस्य श्रियं नानन्ति बान्धवाः । तस्यात्मपोषतोषस्थकोषक्लेशाय संपदः ।। १२७ ।। त्यागभोगभरोद्धृष्टा मानोन्मृष्टा महात्मनाम् । भान्ति भृत्यगृहोत्सृष्टा बन्धूच्छिष्टा विभूतयः ।। १२८ । भूतिमालोक्य विमुखा यस्य निःश्वस्य बान्धवाः । गच्छन्ति न विशेषोऽस्ति श्मशानस्य च तस्य च ॥ १२९ । रसाकरसमृद्धश्रीबन्धुर्यस्य त्वमीदृशः । स कृष्णः कानने शष्पशय्यापरिचिताकृतिः ।। १३० । १. 'वन्धु . ८ श्रीकृष्णावतारः] दशावतारचरितम् । खकर्मभागिनः सर्वे निष्फलः खजनोऽर्थवान् । नातरङ्गस्य शङ्खस्य हृता सुषिरताब्धिना ॥ १३१ ॥ ज्ञातिर्नदीनः कृष्णस्तु दयया संविभज्यते । हेलोमिनिर्मितं मन्ये तेनैश्वर्य दिवौकसाम् ॥ १३२ ॥ धेनुत्राणे शिखरिपतिना कृष्णदोष्णि स्थितेन श्रान्ते शके विफलजलदे लज्जिते शैलशत्रौ । लब्धाकाशप्रसभगतिना निर्झरोद्धातघोषै- हर्षस्पर्शः प्रकटित इव स्फीतफेनाट्टहासः ॥ १३३ । मददलनविधाने कालियस्याहिभर्तु- दमनशमितशक्तेर्देहसंदेहभाजः । शरणगमनदैन्यम्लानमानस्य कृष्णः शिरसि चरणमुद्रां तार्थ्यरक्षां चकार ।। १३४ । नाम्ना मानमहोन्नतिं प्रतनुते बध्नाति शोभा गुणैः पुष्णात्याजिषु जिष्णुना शशिसितं भ्राजिष्णु दोष्णा यशः । हर्ष वर्षति निश्चलेन सहजप्रेम्णा च चित्तस्य यः स श्लाघ्यः सुकृतेन बान्धवमणिर्भाग्योद्भवैर्लभ्यते ॥ १३५ । अबन्ध्यसंगतिबन्धुः कृष्णतुल्योऽस्ति कस्तव । येन शक्रोऽपि गोपानां गौरवावनतः कृतः ॥ १३६ ॥ उक्तं निःशल्यकल्याणमस्माभिर्यदि मन्यसे । तत्त्वद्रािहं गच्छामि कृष्णाहानकृतार्थताम् ॥ १३ ॥ विपुलः प्रस्थितश्चायं धनुर्यागमहोत्सवः । करोम्यहं तमुद्दिश्य केशवस्य निमन्त्रणम् ॥ १३८ ॥ इत्यक्रूरवचः श्रुत्वा कंसः कुटिलचेष्टितः । बजेति निःश्वसन्नुष्णमभ्यधात्तमधोमुखः ।। १३९ । .. है 'गिरा तव' काव्यमाला अथ सज्जरथै हन्तुमरे ब्रजमुद्यते । अभूञ्चन्द्रोदयोबूत इव वृष्णिकुलाम्बुधिः ॥ १४ ॥ अतिक्रम्याथ मथुरामक्रूरः प्रथितो रथी । अवापाग्रसरत्सैन्यः पर्यन्तग्राममेखलाम् ॥ १४१ ॥ प्रत्यग्रपाकविनमत्कलमक्षेत्रपक्तिभिः । हरितालरज पुञ्जरञ्जिताभिरिवाचिताम् ॥ १४२ ॥ कदलीश्यामलारामवटवाटलतावृताम् । लम्बमानधनालाबुतुम्बकूष्माण्डमण्डलाम् ॥ १४३.॥ वलत्कुटिलकल्लोलकुल्याकलकलाकुलाम् । द्राक्षासुशीतलतलस्थलीशय्याश्रयाध्वगाम् ॥ १४॥ अध्वन्यजग्धपूर्वेक्षुशल्कशुक्लीकृतस्थलाम् । पाकपिङ्गलनारङ्गीवनैः संध्यान्वितामिव ।। १४५ । ययौ स पश्यन्निःशङ्कशुकाशननिवारणे । उदञ्चद्भुजलक्ष्योच्चकुचाग्राः शालिपालिकाः ॥१६॥ स व्रजन्गोकुलोपान्तवनमालां व्यलोकयत् । उत्सरन्निर्झरासारस्निग्घश्यामलशाद्वलाम् ॥ ११ ॥ गोरक्षादक्षशबरैः कृतक्षुद्रर्भसंक्षयाम् । घोरव्याघ्रपथावद्धयन्त्रकूटधैंटावटाम् ॥ १४८ ॥ लीतालतम्मलसालकदलीपथ्यामलीश्यामलं खजूरार्जुनसर्जबिल्वबकुलप्लक्षाक्षलक्षाकुलम् । पर्यन्ते स ददर्श हर्षजननं स्फीतोपदेशं गवां निःश्वभस्थलपुष्पशष्पशबलं निःसङ्गुलं गोकुलम् ॥ १९॥ मच्छिन्नोदितमन्थमन्थररवं निर्घोषमेघभ्रम- प्राम्यन्मत्तमयूरनृत्तरुचिरं गोपाङ्गनागीतिभिः . २. 'शेणी' -1. 'पथि ता' ५. सालो' -ग. टापटाम्' गः ९ ८ श्रीकृष्णावतारः] दशावतारचरितम् । निःस्यन्दस्थितमुक्तशष्पकवलक्लीबाङ्गसारङ्गकं प्रीतिं प्राप स वीक्ष्य यामुनवलद्वीचिव्रजं गोकुलम् ॥ १५० । ततस्तत्सैनिकैः कृष्णः प्रथमाप्तैर्निवेदितम् । पितः पितृव्यमक्रूरं शुश्रावाभ्यय॑मागतम् ॥ १५१ घृतकुम्भदधिस्थालिसहस्रोपायनैः पुरः । प्रणम्यमानं गोपाग्र्यैर्ददर्शाङ्करमच्युतः ॥ १५२ । रथाप्रादवरुह्याथ लोलकुण्डलकङ्कणः(णम्) । दृष्या दामोदरं दूरादक्रूरः समचिन्तयत् ॥ १५३ ।। अयं स भगवान्विष्णुरवतीर्णः सनातनः । भुवो भारावताराय मां जगादेति नारदः ॥ १५४ । एष पद्मपलाशाक्षः श्रीमान्मरकतद्युतिः । स्निग्धलावण्यपीयूषैर्लिम्पतीव मनो मम ॥ १५५ ॥ वृष्णियादववंशस्य कियती स्पृहणीयता अवतीर्णः खयं यस्मिन्भगवानेषु केशवः ॥ १५६॥ इति ध्यायन्प्रहर्षाश्रुसंरुद्धनयनः स्खलन् । अकुण्ठोत्कण्ठया शौरेरक्रूरोऽन्तिकमाययौ ॥ १५ । पपात पादयोस्तस्य साग्रजः प्रणतोऽच्युतः । गाढालिङ्गनसंगत्या हृदयं प्रविशन्निव ॥ १५८ । प्राप्तपूजासनः कृष्णं सोऽवदत्तन्मुखे दिशन् । प्रमोदविस्मयस्नेहबहुमानमयीं दृशम् ॥ १५९ । कृष्ण त्वदर्शनानन्दसुधासंपूरिते हृदि । त्वत्संभाषणहर्षस्य कावकाशो विधीयताम् ॥ १६ वसुदेवस्य पुण्यानां पूर्णता किं दरिद्रता । यस्त्वां तनयमासाद्य खशाद्यापि नेक्षते ॥ १६१ । १.' वाङ्ग ९ काव्यमाला भवतस्त्रिजगज्जन्मस्थितिसंहृतिकारिणः । गूढजन्मकथा केन कथ्यते सर्ववेदिनः ॥ १६२ ॥ सततं सहते तीनां त्वत्कृते कंसवाच्यताम् । वसुदेवश्चलत्येषा नूनं न भवितव्यता ॥ १६३ ॥ जगद्धरणधीरेयं धन्या देवी वसुंधरा । भारावतारसंनद्धश्चित्ते वहसि यां सदा ॥ १६४ ॥ विस्मृता देवकी किं ते त्वन्नाम्नापि स्तुतस्तनी । त्वां विना या सुतं रामं कौसल्येवावसीदति ॥ १६५ ॥ धनुर्यागे विसृष्टोऽहं कंसेन त्वनिमन्त्रणे । त्वदागमनमानेन धन्या नन्दन्तु यादवाः ॥ १६६ ॥ तत्सर्वं करमादाय प्रातः कंसस्य शासनात् । आयान्तु नन्दगोपाद्याः सर्वे समयवर्तिनः ॥ १६७ ॥ इत्यक्रूरवच श्रुत्वा तमाभाषत केशवः । प्रातरेवाहमागन्ता त्वदाज्ञा केन लवयते ॥ १६८ ॥ ततः प्रभाते संनद्धं रथमारुह्य सानुगाः । मथुरां ययुरक्रूरसंकर्षणजनार्दनाः ॥ १६ ॥ कथं राधामनामन्यागतोऽहमिति माधवः । अरर्ति म्लानतां चिन्तां ब्रजन्भेजे विनिःश्वसन् ॥ १७० ॥ यच्छन्गोकुलगूंढकुञ्जगहनान्यालोकयन्केशवः सोत्कण्ठं वलिताननो वनभुवा सख्येव रुद्धाञ्चलः । राधाया न न नेति नीविहरणे वैक्लन्यलक्ष्याक्षराः समार स्मरसाध्वसाद्भुततनो रावोक्ति(?)रिक्ता गिरः ॥ १७१ ॥ गोविन्दस्य गतस्य कंसनगरी व्याप्ता वियोगाग्निना स्निग्धश्यामलकूललीनहरिणे गोदावरीगहरे (१) । १. 'संहार' २. 'न्ये . ३. 'कु गूढ' . ४. 'हरिणी' गू-घ.

८ श्रीकृष्णावतारः] दशावतारचरितम् । ९१. रोमन्थस्थितगोगणैः परिचयादुत्कर्णमाकर्णितं गुप्तं गोकुलपल्लवे गुणगणं गोप्यः सरागा जगुः ॥ १७२ ॥ ललितविलासकलासुखखेलनललनालोभनशोभनयौवनमानितनवमदने अलिकुलकोकिलकुवलयकज्जलकालकलिन्दसुताविवलज्जलकालियकुलदमने केशिकिशोरमहासुरमारणदारुणगोकुलदुरितविदारणगोवर्धनधरणे कस्य न नयनयुगं रतिसज्जे मज्जति मनसिजतरलतरङ्गे वररमणीरमणे १ ३ उद्गीयमाने गुणसागरस्य गुणे गुणे रागरसेन शौरेः । गोपाङ्गना गूढरसानुरागा मुहुर्मुहुर्मोहहता बभूवुः ॥१४ । गोविन्दे गुरुसंनिधौ परवशावेशादनुक्त्वा गते सुप्तानां बकुलस्य शीतलतले खैरं कुरङ्गीदृशाम् । खप्नालिङ्गनसंगतेऽ लतिकाविक्षेपलक्ष्या मुहु- मुग्धा वञ्चक मुञ्च मुञ्च कितवेत्युच्चेरुरुचैर्गिरः ॥ १७५ । राधा माधवविप्रयोगविगलज्जीवोपमानैर्मुहु- बर्बाष्पैः पीनपयोधरापगलितैः फुल्लत्कदम्बीकुला । अच्छिन्नश्वसनेन वेगगतिना व्याकीर्यमाणैः पुरः सर्वाशाप्रतिबद्धमोहमलिना प्रावृण्नवेवाभवत् ॥ १७६ । ज्ञात्वा कंसः समायान्तौ कुमारौ रामकेशवौ । चाणूरमुष्टिको मल्लौ विदधे तद्वधोद्यतौ ॥ १७ ॥ अथ राजपथं प्राप्तौ बलात्संकर्षणाच्युतौ ।. राजाह चक्रतुश्चारुमाल्याम्बरविलेपनम् ॥ १७८ ॥ तौ विचित्राम्बरधरौ स्रग्विणौ चन्दनाचितौ । जनतानन्दजननौ राजद्वारमवापतुः ॥ १७९ । हर्म्यस्था देवकी दृष्ट्वा कृष्णं कमललोचनम् । बाष्पसंरुद्धनयना मुमोह प्रसुतस्तनी। १८० । अथ राजाज्ञयोत्सृष्टं महामात्राङ्कुशेरितम् । गजं कुवलयापीडं ददर्शायान्तमच्युतः । १८१ ।

९२ काव्यमाला। क्रोधान्धं ममदोषदुःसहतरं भूभारभूताकृति कुर्वाणं करदण्डकृष्टजनताजीवापहारं मुहुः। मातङ्गं कुनृपोपमं मुररिपुदृष्ट्वा प्रहारोद्यतं हस्तोत्पाटितया जघान निजया निर्दारितं दंष्ट्रया ॥ १८२ ॥ अथ राजाज्ञया मल्लनागौ चाणूरमुष्टिको । कुमारयोरभिमुखौ चक्रतुर्जनसंक्षयम् ॥ १८३ ।। जानुबन्धभुजाकर्षतलाघातघने रणे । कृष्णश्चाणूरमवधीन्मुष्टिकं च हलायुधः ॥ १८४०॥ भुजयोरिव कंसस्य मल्लयोश्चयुतयोस्तयोः । भ्रूभङ्गभीषणस्योच्चैरुच्चचारोत्कटं वचः ॥ १८५ ।। वध्यतां वसुदेवोऽयं क्रियतां तत्सुतक्षयः । विधीयतां च गोपानामुचितं राजशासनम् ॥ १८६ ॥ कंसस्येति ब्रुवाणस्य मदोदामस्य गर्जतः । दुष्टद्विपस्येव हरिर्वेगेनान्तिकमाद्रवत् ॥ १८ ॥ संत्रस्ते वेत्रिसंघे नवभयसमयोद्धान्तसामन्तचके हस्तस्रस्ते तरुण्याः शशिकरधवले चामरे विह्वलायाः । कृष्णः कंसं चकर्ष प्रविलुलितसितोष्णीषविश्लेषकेशैः क्रोधागेघूममालामिव कुसुमचलद्धृङ्गमालां दधानम् ॥ १८८ ॥ आकृष्टस्य सुरारिणारुणमणिव्याकीर्णदीर्घद्युति- मौलिर्वक्षसि मौक्तिकांशुशबलः कंसासुरस्य च्युतः । व्यक्तोऽभून्नरसिंहशुभ्रनखरव्यापारविश्रः क्षणं दीर्णस्येव पुनर्हिरण्यकशिपोः स्फीतः सुतासृग्भरः । १८२ ।। हत्वा दूरतराकृष्टं मदान्धं कंसकुञ्जरम् । उग्रसेनं विदधे राज्ये तज्जनकं हरिः १९ । *धिक २. 'पुरो" ३. 'च विदधे ८ श्रीकृष्णावतारः] दशावतारचरितम् । ९३ पादयोर्वसुदेवस्य देवक्याश्वाच्युतः पतन् । बभूवानन्दनिस्पन्दनिबिडालिङ्गनातिथिः ॥ १९१ ॥ आविर्भूताः खयं विद्या कलाश्च सकलास्ततः। निनाय स्पृहणीयत्वमवधानेन माधवः ॥ १९२ ॥ दक्षिणापथनाथस्य भीष्मकस्यात्मजां हरिः । जहार रुक्मिणी कन्यां लक्ष्मी जन्मान्तरागताम् ॥ १९३ । रुक्मिण्यामथ कृष्णस्य प्रद्युम्नः प्रथमः सुतः। जाम्बवत्यामभूत्साम्बः प्रतिबिम्बनिभौ पितुः ॥ १९ ॥ सुन्दरीणां सहस्राणि षोडशान्तःपुरे हरेः। बभूवुस्तासु पुत्राणां लक्षसंख्योऽभवद्गणः ॥ १९५ ॥ नाडायनीं चन्द्रसेनां प्रद्युम्नः प्राप वल्लभाम् । यस्यामजीजनत्पुत्रमनिरुद्धं मनोभवम् ॥ १९६ ॥ ततः शक्रगिरारुह्य गरुडं गरुडध्वजः । गगने दैत्यचक्राणां चक्रे चक्रायुधः क्षयम् ॥ १९७ ॥ मुरसुन्दहयग्रीवनरकाद्या महासुराः । प्रययुश्चकिचक्रानौ क्षिप्रासङ्गपतङ्गताम् ॥ १९८ ॥ जरासंधेन संरुद्धां मागधेन प्रमाथिना । मथुरामथ संतज्य सानुगः प्रययौ हरिः ॥ १९९ ॥ द्वारकामथ कंसारिः पश्चिमाब्धितटे व्यधात् । जितलङ्कालकानाकनागेन्द्रनगरीं पुरीम् ॥ २० ॥ बलात्क्षीरोदजन्मानं पारिजातं जनार्दनः । हृत्वा शक्रपुरोद्यानाद्वारकायां न्यवेशयत् ॥ २ १ । अत्रान्तरे कंससुहृत्करालः कालविग्रहः । प्रतिज्ञां कालयवनश्चक्रे वृष्णिकुलक्षये ।। २०२ । कृष्णस्तं दुर्जयं मत्वा निःसहायो भुजायुधः । बुद्धियुद्धे धियं धृत्वा ययौ यवनमण्डलम् ॥ २०३ ।। 'दशा० ९ काव्यमाला। हेमरत्नमयं तस्य प्रविश्य भवनं हरिः । भयप्रदं यमस्यापि ददर्श यवनेश्वरम् ॥ २०४ ॥ सोऽपि कृष्णं विलोक्यैव पतितं भुजगोचरे । मनोरथशतावाप्तं जिघृक्षुस्तं समाद्रवत् ॥ २०५ ।। तस्मिन्नभिद्रुते रौद्रे जवेन प्रययौ हरिः । न च पश्चाञ्चचालास्य यवनः पूर्वकर्मवत् ॥ २०६॥ चतुःसमुद्ररशनां विगाह्यापि महीं हरिः । दृष्ट्वा तमचलं पश्वाद्विवेश हिमवद्गुहाम् ॥ २०७ ॥ तत्रेन्द्रार्थे हताशेषदत्यस्य युगविस्तरः । यातः कालः प्रसुप्तस्य मुचकुन्दस्य भूपतेः ॥ २०८॥ अर्धनिद्रादरिद्रं मां शयानं यः करिष्यति । स भस्मसाद्यास्यतीति राजर्षिः समयं व्यधात् ॥ २०९ ॥ तस्य शय्याङ्कपर्यवक्रपादतलान्तरे । तस्थावलक्षितः शौरिः शङ्कासंकोचिताकृतिः ॥ २१० । प्रविश्य कालयवनः शयानं वीक्ष्य भूपतिम् । कृष्णोऽयमिति निश्चित्य निर्निद्रमकरोत्पदा ॥ २११ ॥ प्रबुद्धः कालयवनं पादस्पृष्टवपुर्नृपः । दृशा ददाह निःशेषं निद्राशेषकषायया ॥ २१२ ॥ निर्दग्धे कालयवने पर्यचरणाञ्चले। कायसंकलनालीनं दृष्ट्वा कृष्णमभाषत ।। २१३ ।। कस्त्वं परिमिताकारः कान्ताकर्णोत्पलद्युतिः । बिभर्षि गुणगम्भीरमहो माहात्म्यमुन्नतम् ॥ २१४ ॥ इयती हसतां याता सृष्टिः कालनिमीलिता । मद्गुल्फपरिमाणं यद्वपुः स्वल्पतरं तव ।। २१५ ॥ इत्युक्तो मुचकुन्देन प्रश्रयप्रणयी हरिः। खवृत्तं लोकवृत्तं च सर्व तस्मै न्यवेदयत् ॥ २१६ ॥ १. 'उत्तमम्' ८ श्रीकृष्णावतारः] दशावतारचरितम् । ९५ कालं विशालं विज्ञाय क्ष्मापालः क्षणवद्गतम् । दीर्घशय्यामिवोत्सृज्य भोगाशां समचिन्तयत् ॥ २१७ ॥ अहो कालगलत्सर्वभावभोगाभिमानभूः । खनप्रकारः संसारः पर्यन्तासत्यविभ्रमः ।। २१८ ॥ भूमिः संकुचिता ग्रीष्मातपन्यस्ताईचर्मवत् । वैराग्यं जनयत्येव जराजीर्णेव कामिनी ॥ २१९ ॥ तानि मित्राण्यतीतानि ते भृत्यास्ते च बान्धवाः । परेषु रमते नात्मा यूथभ्रष्ट इव द्विपः ॥ २२० ॥ यस्मिन्नित्यमधूपमं तदखिलं कालेन लीढं सुखं यातं हन्त पुरातनं विरसतां क्षुण्णेक्षुशल्कोपमम् । आमाम्रप्रतिमस्य नास्त्यभिनवस्याखादने खादता नेदानीं मम कृत्यमस्ति महता राज्येन भोगेन वा ॥ २२१ ॥ मलिनाक्षमता(१) भूतिः सा भूतिः शोभनेऽधुना। मुक्तिकान्ताधवलतां करोत्युभूलनेन या ॥ २२२ ॥ इति संचिन्त्य राजर्षिः कैलासं तपसे ययौ । गत्वा कृष्णश्च वृष्णिभ्यः खवृत्तान्तं न्यवेदयत् ॥ २२३.॥ बलेर्बाणासुरः सूनुरासीद्वाहुसहस्रवान् । यस्यास्थानसभासभ्यो भगवानभवद्भवः ॥ २२४ ॥ दीप्तरत्नगृहालोकैः सृजन्सध्यामिवानिशम् । बभूवाकाशगं यस्य नगरं शोणिताभिधम् ॥ २२५ ॥ उषा नामाभवत्तस्य कन्या लावण्यवाहिनी । आललम्बे स्तनतटीं यस्यां मजन्निव मरः ॥ २२६ ॥ युद्धं विना मे मिथ्यैव भाराय भुजकाननम् । इति तेनार्थितः शर्वः प्राप्स्यसीति तमभ्यधात् ॥ २२७ ॥ १. 'मनूपमं' -ग. २. 'मलिनं क्षमता' घ.

काव्यमाला हरं कदाचिदुद्याने देव्या सह विहारिणम् । दृष्ट्वोषा खविवाहाय स्पृहां चक्रे घनस्तनी ।। २२८ ।। यः करिष्यति ते खप्ने कन्याभावव्यतिक्रमम् । भविष्यति स ते भर्ता तामुवाचेति पार्वती ॥ २२९ ॥ अथाययौ यौवनकृद्वल्लीनां कुसुमाकरः । कुर्वाणः सरसां प्रीतिलतां जनमनोवने ॥ २३० ॥ चञ्चबूतरजःपुञ्जपीताम्बरमनोहरः । अतसीकुसुमश्यामः शुशुभे नवमाधवः ॥ २३१॥ नम्रानना नवोद्भूतरजसा स्तबकस्तनी । मालती यौवनवती कन्येवोच्छासिनी बभौ ॥ २३२ ॥ ववुर्मलयनिःश्वासा इव चन्दनचुम्बिनः । पवनाः पन्नगीदंशशङ्कयेव शनैः शनैः ॥ २३३ ।। कूजत्कोकिलकण्ठवंशविरुतैः स्फायिन्यवाप्ते परं चूतामोदमदाकुलालिपटलीवीणाखनखादुताम् । शिक्षाचक्षणदक्षदक्षिणमरुदत्तोपदेशकमै- मञ्जयों ननृतुर्मधूत्सवलसत्पुष्पायुधाराधने ॥ २३४ ॥ हेमहर्म्यप्रसुप्ताथ नीता खने मनोमुषा । उषा केनापि कान्तेन शीलांशुकदरिद्रताम् ॥ २३५ ॥ तस्या धी तिचौरेण विज्ञाय हृदयं हृतम् । हेलाहरणभीत्येव हारस्तरलतां ययौ ॥ २३६ ॥ लज्जामजनविह्वला ननननेत्यल्पप्रलापोद्गति- नींवीमुक्तिनिरोधनिधुतिविधौ पाणिः कणत्कङ्कणः । शीतेनेव विकूजिता जवजुषः श्वासस्य शीत्कारिता तस्या अंशभयोच्चलत्कलकला काञ्ची सकम्पाभवत् ॥ २३७ ॥ 'घटस्तनी . २. 'दक्षिण' ग. ३. 'धीवृत्ति' • ४. 'शत्कारिता' ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । ९७. प्रबुद्धा वृत्तकर्तव्या सा मुग्धा खमसत्यताम् । मन्यमाना मुहुर्मोहं कुललज्जाकुला ययौ ॥ २३८ । शयनं विप्लवस्थानं भयेनेव विहाय सा । हर्म्यस्था प्रददौ प्रातर्दिक्षु चक्षुर्विलजिता ॥ २३९ ॥ सा सोत्कम्पकुचन्यस्तहस्तानभ्यस्तमन्मथा । मुमूर्छाच्छादयन्तीव प्रविष्टं हृदये प्रियम् ॥ २४० ॥ सा निशश्वास बाष्पाम्बुबिन्दुभिमौक्तिकैरिव । छिन्नस्य शीलहारस्य कुर्वाणा ग्रथनं पुनः ॥ २४१ ॥ प्रदध्यौ नवविध्वंससाध्वसायासिता चिरम् । क्षितौ सा चिन्तयानेव च्युतं चित्तमधोमुखी ॥ २४२ ॥ किं कस्य कथयाम्येतत्कं पृच्छामि करोमि किम् । का गतिः केन दृष्टाहं कुतस्तत्संगमः पुनः ॥ २४३ ॥ इति संदेहनिःस्पन्दां चिन्ताविक्रीतचेतनाम् । विलोक्य चित्रलेखाख्या सखी प्राणसमावदत् ॥ २४४ ॥ तन्वि कः खेदभारोऽयं भीरु किं भयकारणम् । पुत्री त्रैलोक्यभर्तुस्त्वं वध्यः कस्तेऽपराध्यति ॥ २४५ ॥ किं शय्यावलनाविमर्दगलितैः कर्णोत्पलस्य च्छदै- लीनः कामकृपाणलेशसदृशैाप्ता तवेयं तनुः । भ्रश्यन्मौक्तिकयोर्बिभर्षि कुचयोर्भिन्नेभकुम्भभ्रमं स्पष्टोऽयं रतिसंगमव्यतिकरः कस्येति मे संशयः॥ २४६ । इत्युक्ते सस्मितं सख्या सनिःश्वासाश्रुवर्षिणी । उषा शनैरवोचत्तां लिखन्ती मामधोमुखी ॥ २४ ॥ दृष्टः स्वप्ने मया कोऽपि रमणस्तनुकम्पनः । पीयूषवर्षी संस्पर्शे स्मरणे मरणोपमः ॥ २४८ ॥ जाने कम्पतरङ्गिताङ्गलतिका खनेऽहमालिङ्गिता संस्पर्शे कुचयोर्निरर्गलतया हारोऽपि पार्श्वे कृतः। १. 'न लज्जिता' -घ. २. 'कन्येति' काव्यमाला। एतावत्तु सखि स्मरामि यदतो वृत्तं परं तत्पर धैर्यस्योद्दलनं शरीरशमनं ध्यात्वापि नो वेद्मि किम् ॥ २४९ ।। मूर्छाच्छादितमीक्षते न नयनं तापे तनुः पच्यते कम्पः सूचयतीव जीवगमनं मोहे मनो मज्जति । प्राग्जन्मार्जितकर्मणा बलवता कामेन कालेन वा नो जानामि स केन मे धृतिहरः कण्ठे भुजंगोऽर्पितः ॥२५०॥ त्यज्यते सहजा लज्जा सह्यते गुरुवाच्यता । गण्यते न घना कीर्तिर्यत्कृते सोऽपि दुर्लभः ॥ २५१ ।। इयं शीलविलुप्तिम मानम्लानिर्महीयसी । दुर्लभे वल्लमे प्रीतिस्तनुत्यागेन शाम्यति ।। २५२ ॥ इति ब्रुवाणां तामश्रुकणाकीर्णकुचस्थलीम् । संतापपिशुनोच्छ्रासां चित्रलेखावदत्सखीम् ।। २५३ ।। किं न स्मरसि मुग्धे त्वमहो विरहकातरा । देव्यादिष्टः स ते स्वप्नदृष्ट एव वरो वरः ॥ २५४ ॥ समाश्वसिहि हे तन्वि तनुस्तापक्षमा न ते । करोमि योगशक्त्याहमुपायं त्वत्समीहिते ॥ २५५ ॥ उल्लिख्य निखिलं चित्रपटे त्रिभुवनं तव । सदृशं दर्शयाम्येव तत्रालोकय वल्लभम् ।। २५६ ।। इत्युक्त्वा चित्रलेखायां गतायां व्योमवर्त्मना । उषा जीवमिवापेदे प्रियसंदर्शनाशया ॥ २५७ ॥ साभ्येत्य तस्यास्त्रैलोक्यचित्रं पटमदर्शयत् । किं दुष्करमदृश्यं वा योगिनां ज्ञानचक्षुषाम् ।। २५८ ॥ उषा चित्रपटे दृष्ट्वा सुरासुरनरोरगान् । ददर्श दयितं खप्नदृष्टं जितशशिस्मरम् ॥ २५९ ।। अयं स सखि मे धैर्यहारी हृदयतस्करः । इत्युषावचनं श्रुत्वा चित्रलेखा जगाद ताम् ॥ २६० ॥ १. 'अश्रान्तविपुलोच्छ्वासा' .

८ श्रीकृष्णावतारः] दशावतारचरितम् । ९९ दिष्टया धन्यासि सुभगे यस्यास्ते नवमन्मथः । लक्ष्मीवल्लभपौत्रोऽयमनिरुद्धाभिधः प्रियः ॥ २६१ ॥ प्रद्युम्नतनयस्यास्य लावण्यामृतदीधितेः । कान्त्या क्षैब्यमिवायान्ति सुरविद्याधराङ्गनाः ॥ २६२ ॥ रूपेणाप्रतिमेन नेत्रसुखदः कंदर्पदर्पच्छिदा शौर्ये वज्रघरोपमां न सहते धीरः सुमेरोग्यम् । अस्यामर्त्य मृगेक्षणाभिरनिशं सोत्कण्ठमाकर्णितं चन्द्रोत्सङ्गमृगापहं गुणगणं गायन्ति खे खेचराः ॥ २६३ ॥ पश्चिमाब्धौ हरिपुरी द्वारका वृष्णियादवैः । सिंहैरिव महोत्साहैर्गुप्ता हैमवती गुहा ॥ २६४ ॥ तस्यामन्तःपुरे श्रीमान्वसत्येष प्रियासखः । आनीयते कथं तावदिति दोलायते मनः ॥ २६५ ॥ त्वद्भाग्यानि पुरस्कृत्य गच्छामि गगनेन ताम् । हेलार्पिताद्भुतनिधिविधिः सिद्धिं विधास्यति ॥ २६६ । इत्युक्त्वाकाशमाविश्य सा ययौ द्वारकां क्षणात् । कुर्वाणा रशनारनैः शक्रापचिता दिशः ॥ २६७ ॥ सा गूढमायया हृत्वा रत्नपर्यङ्कशायिनम् । आनिनाय मुहूर्तेन व्योम्ना प्रद्युम्ननन्दनम् ॥ २६८ ॥ खप्नवृत्तान्तमावेद्य स कन्यान्तःपुरान्तरम् । प्रवेशितस्तयापश्यदुषां रतिमिव स्मरः ॥ २६९ । स तां दृष्ट्वा नवोन्मेषनिर्माणातिशयं विधेः। अचिन्तयत्सुधापूरैरिव पूरितलोचनः ॥ २७० ॥ इन्दोः संक्षयरक्षणाक्षतसुधा किं वेधसा निर्मिता किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः । किं तारुण्यवसन्तकान्तिललिता शृङ्गारसिक्ता लता किं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ॥२१॥ १. 'प्रधास्यति' काव्यमाला। कटाक्षः संधत्ते कुवलयकुलक्लैव्यकलनां मुखे दृश्यश्चन्द्रद्युतिहरणहेलापरिचयः । असंरुद्धा बाधाधरदलरुचिर्विद्रुमतरो- रहो सारङ्गाक्ष्याः प्रसभविजयी रूपविभवः ॥ २७२ ।। इति सर्वाङ्गनिर्मग्नलोचनस्तां विलोकयन् । अनिरुद्धोऽधरे तस्या बभूवाशापथातिथिः ।। २७३ ॥ सापि साङ्गमिवानङ्गं तमभ्यस्तं मनोरथैः । विलोक्य प्रत्ययासत्ये पुनः स्वप्नमशङ्कत ॥ २७४॥ सोत्कम्पा कररोधेन राविणीं मणिमेखलाम् । मुहुर्मोनवती चक्रे पैशुन्यचकितेव सा ॥ २७५ ।। नवे मौनवति प्रेम्णि तयोः प्राह सखी पुरः । दन्तांशुसूत्रैः कुर्वाणा ग्रथनं चित्तयोरिव ।। २७६ ॥ यस्त्वया प्रेमकुसुमैर्देवैश्चित्रपटेऽर्चितः । अहो भक्त्वा स ते तुष्टः सखि प्रत्यक्षतां गतः ॥ २७७ । खमसंपादितप्रीतिर्योऽर्थितस्तैर्मनोरथैः प्राक्पूजा कीदृशी तस्य ब्रूहि त्वमुपपद्यते ॥ २७८ मौनमालम्बसे पृष्टा दृष्टा क्षोणी निरीक्षसे । लतेव कम्पसे कम्पाकोऽयं ते चित्तविभ्रमः ॥ २७९ ॥ मानस्तत्क्षणशासनागतजने खप्नाभ्यस्तसमागमेऽपि नववत्ति लज्जया लीयसे। का तस्मिन्परता सदा वसति यश्चित्ते निबद्धो गुणैः प्रारब्धा सखि कस्य तावदियती प्रेम्णि त्वयापह्नुतिः ॥ ८० इति सख्यां ब्रुवाणायामनिरुद्धः प्रगल्भताम् । निनाय दयितां प्रौढः प्रणयैः प्रेमपेशलैः ॥ २८१ ॥ तदा प्रीतेर्यदायत्तं चिन्तितं यन्मनोरथैः । मन्मथेन यदादिष्टं खैरं तत्तदभूत्तयोः ॥ २८२ ॥ सुश्रु क संभाव्यते १.' वः' -ग.

१०१ ८ श्रीकृष्णावतारः] दशावतारचरितम् । दिनेष्वथ प्रयातेषु प्रच्छन्नधृतवल्लभा । उषाभूदभिमानाकव्यक्तसंभोगलक्षणा ॥ २८३ ॥ व्याकीर्णा कबरी मुखं वितिलकं ताम्बूललिप्तेऽक्षिणी कण्ठे कङ्कणलक्ष्म हारविरतिर्दशोऽधरे निर्ऋणः । प्रातः प्रच्युतचन्दना स्तनतटी सायं स्ववेषक्रिया संभोगाभरणा तनुर्वरतनोः शङ्कास्पदत्वं ययौ ॥ २८४ ।। किंचिन्मुकुलिते लोके कन्यायाः कामलक्षणे । फुल्ले शनैः कर्णपथं बाणस्यापि कथा ययौ ॥ २८५ ॥ ततस्तभ्रमादिष्टाः किंकराः क्रूरकारिणः । आययुयुद्धसंनद्धाः कन्यकान्तःपुराङ्गणम् ॥ २८६ ॥ निरुद्धः प्रियया यत्नादनिरुद्धोऽथ सस्मितः । घोरकिंकरसधाताञ्जघान परिघायुधः ॥ २८७ ।। हतेऽयुते किंकराणां स्वयं बाणः समाययौ । रथी बाहुसहस्रात्तसमस्तायुधमण्डलः ॥ २८८ ॥ शस्त्रवृष्टिं तदुत्सृष्टां प्राधुनिः खगचर्मभृत् । छित्त्वा धैर्यनिधिश्चके रणे बाणस्य विस्मयम् ।। २८९ ।। उषा संत्रासतरला पितुः पत्युश्च संगरे । प्राणेशपक्षपातेन भेजे संदेहसाध्वसम् ॥ २९ ॥ बाणेन प्रहितां शक्तिं मृत्युदंष्ट्रामिवोत्कटाम् । आदाय तस्मै प्राधुम्निस्तामेव प्राहिणोद्बली ॥ २९१ । परहस्तगता शक्तिः प्रविष्टान्तः कृतव्यथा । निजा सुतेव बाणस्य हृदये शल्यतां ययौ ॥ २९२ ।। वीरं विज्ञाय तं बाणः स्पष्टयुद्धेन दुर्जयम् । आदाय तामसी मायामदृष्टः प्रविवेश खम् ॥ २९३ ॥ 'मानार्थ घ. २. अत्र संधिरनुचितः. ३. 'अपि' an १. 'मानात्तु' ४. 'चर्म ग १०२ काव्यमाला। निरन्तैरस्मदुत्सृष्टैर्वेष्टिताङ्गं भुजंगमैः । दृष्ट्वानिरुद्धं संरुद्धमुषाभून्मोहमीलिता ॥ २९४ ॥ बद्धेऽनिरुद्धे तनयां बाणः खैरापचारिणीम् । आकृष्टः स्नेहकोपाभ्यां न तत्याज न चाग्रहीत् ॥ २९५ ।। असंस्पृष्टं याच्यावचनघनदैन्येन वदनं न कृच्छेऽप्यारूढा गुणमणिततिर्विक्रयतुलाम् । असेवासंतापं वपुरननुभूतप्रभुभयं कुलं कन्याहीनं नहि नयति मानं मलिनताम् ॥ २९६ ॥ अत्रान्तरे द्वारकायामनिरुद्धापहारजः । वृष्णीनामभवत्क्षोभः शोकचिन्तानुबन्धवान् ॥ २९७ ।। बाणस्य नगरे रुद्धमनिरुद्धं सहोषया । विज्ञाय नारदगिरा सस्मार गरुडं हरिः॥ २९८ ॥ हलायुधेन सहितः प्रद्युम्नेन च सूनुना । प्रययौ शोणितपुरं तार्थमारुह्य माधवः ॥ २९९ ॥ खे योजनसहस्राणि विलय गरुडध्वजः । दीप्तं बाणपुरं दूराद्ददर्शार्कशतोपमम् ॥ ३०० ॥ अग्निमाहवनीयाख्यं तायः प्राकाररक्षिणम् । पीतोद्वान्तखगङ्गाम्बुनिझरेण न्यवारयत् ॥ ३०१ ॥ पुरद्वारमथोन्मथ्य प्रविष्टं शाङ्गिणं बलात् । निःसंख्याः सख्यसंनद्धा दितिजाः पर्यवारयन् ॥ ३०२ ॥ चक्रिचक्रनिकृत्तानां शरीराणि सुरद्विषाम् । चक्रुः पक्षक्षयक्षिप्तनिपतत्क्षितिभृशमम् ॥ ३०३ ॥ अत्रान्तरे नागपाशपञ्जरे सिंहविक्रमः। बद्धोऽनिरुद्धः सस्मार दुर्गा स्तुतिपदार्चिताम् ॥ ३०४ ॥ निपिष्टमत्तमहिषासुरमस्तकाम- प्रत्यग्रनिर्गतधनस्रुतिशोणिताम् ।

८ श्रीकृष्णावतारः] दशावतारचरितम् । पादाम्बुजं पुनरलक्तकभक्तिचित्रं वन्दे भवप्रभवतापहरं भवान्याः ॥ ३०५ ॥ शूलपहारसृतरक्तभरैकबिन्दु संजातघोररुरुलक्षगुरुप्रमाथे । पातालमूलगगनान्तविकासितास्य- प्रस्तोगदानवतनुं प्रणमामि कालीम् ॥ ३०६ । भीमोद्भवद्विभवशुम्भनिशुम्भकाय- निष्पेषदुःसहतराश निघातघोराम् । कात्यायनी स्वकरकृत्तशिरःशरीर- वीरोपंहारपरितोषवतीं नमामि ॥ ३०७ ॥ क्षुभ्यत्सप्तार्णवघनरवः पद्मगर्भाण्डखण्डा- काण्डभ्रंशभसरभसः सप्तपातालभेदी । धैर्योन्माथी जयति चकिताशेषलोकेश्वराणां चण्डश्चण्ड्याः प्रलयसमयोत्साहलीलाट्टहासः । ३०८॥ इति स्तुता भगवती दुर्गा दुर्गापहारिणी। खकरस्फोटितोग्राहिपञ्जरं तममोचयत् ॥ ३९॥ भुजंगपाशनिर्मुक्तः प्राधुम्निः समराङ्गणम् । प्रययौ युध्यमानस्य समीपं कालियद्विषः ॥ ३१० ॥ अथ कल्पान्तपर्जन्यगर्जितोर्जितविभ्रमः । बाणासुररणारम्भदुन्दुभिध्वनिरुद्ययौ ॥ ३११ ॥ दैत्येन्द्रायुधवृष्टिनष्टगगने सेनारजःस्फूर्जित- प्रस्ताग्रे(र्के) प्रसरत्पिनाकिविशिखवातावकीर्णे रणे । कल्पान्तागमशङ्किते त्रिभुवने चेरुः शरीरच्छिदः शूराणामनिरुद्धराममुरजित्प्रद्युम्नमुक्ताः शराः ॥ ३१२ ॥ २. 'वीरोपहारनमितां प्रणमामि कालीम्' १. 'खवर' खः 'खशर' ग. ३. 'प्रसर ख. ४. ४. 'हेला' -१ काव्यमाला। गरुडादवरुह्याथ बलेन बलिना रणे । हलेन हलिना कृष्टा दैत्यदेहा द्विधा ययुः ॥ ३१३ ॥ ततस्त्रिनेत्रानुचरः प्रदीप्तस्त्रिंशिखज्वरः । क्षिप्तेन भस्सना रामं भ्रममूर्छाकुलं व्यधात् ॥ ३१४ ॥ संतापमूछितं कृष्णस्तं परिष्वज्य विद्रुतम् । कृत्वा जटाभिराकृष्य जग्राह ज्वरमञ्जसा ॥ ३१५ ॥ कृष्णोऽप्यथ ज्वराविष्टः श्वसन्रोमाञ्चकर्कशः । असृजद्वैष्णवं घोरं ज्वरं रौज्वरापहम् ॥ ३१६ । ज्वरयोः संप्रवृत्तेऽथ भुवनाकम्पने रणे । वैष्णवः प्रलयार्काभः शार्वं ज्वरमपातयत् ॥ ३१७ ॥ कण्ठे निपीड्य निष्पिष्टस्तेन रुद्रज्वरः क्षितौ । प्रयातः शरणं कृष्णमवदद्वाष्पगद्गदः ॥ ३१८ ।। देवेन त्रिपुरारिणा त्रिजगतीजीवापहारक्षमः सृष्टः स्पष्टविनष्टधैर्यसरणिर्देव त्वयाहं कृतः । त्वां यातः शरणं शरीरधृतये त्वन्नाममन्त्राक्षर- क्षिप्ताप्तस्मृतिजापिनां न भविता मत्स्पर्शतापः क्वचित् ॥३१९॥ इति भीत्या ब्रुवाणं तं ररक्ष गरुडध्वजः । शरणाप्ते विरुद्धेऽपि वैरक्रूरा न साधवः ॥ ३२० ॥ ततः श्रीकण्ठवैकुण्ठौ व्याप्तदेहौ बभूवतुः । पिनाकशाइनिर्गच्छदाणजालैर्निरन्तरैः ॥ ३२१ ॥ क्षणं तुल्ये तयोर्युद्धे जगत्संक्षयकारिणि । धनैः शौरिशरासारैर्ययौ विमुखतां हरः ॥ ३२२ ॥ प्रस्तशक्तेः कुमारस्य जितस्य हरिणा रणे । रक्षायै शंभुना सृष्टा तस्थौ नग्नाङ्गना पुरः ॥ ३२३ । अथ बाणः खयं योद्धं मधुसूदनमाययौ । क्षिपन्बाहुसहस्रेण दीप्तायुधपरम्पराम् ॥ ३२४ ॥ १. 'बलिना' ग. २. 'त्रिशिराः' ३. 'कञ्चुक' घ. ४. 'रुद्र' .

: श्रीकृष्णावतारः] दशावतारचरितम् । सहस्राश्वं रथं तस्य मनोरथमिवायतम् । ससूतं शरवर्षेण प्रममाथ मुरान्तकः ।। ३२५ उपनीतं गणैस्तूर्ण शासनात्रिपुरद्विषः । मयूरमारुरोहाथ बाणः षण्मुखवाहनम् ॥ ३२६ ॥ यत्नेन युध्यमानस्य च्छिन्नास्त्रस्य मुरारिणा । मुक्तकेशी विवस्त्रा स्त्री बाणस्याग्रे व्यदृश्यत ॥ ३२ रक्षायै कोटवीं सृष्टां तस्य देवेन शूलिना । वञ्चयित्वाच्युतश्चक्रं पार्धाञ्चितमथासृजत् ॥ ३२८॥ चक्र क्रमेण पतितं स्कन्धयोः कीर्णपावकम् । चकर्त क्रकचक्रूरं बाणस्य भुजकाननम् ॥ ३२९ ॥ चक्रोत्कृत्तभुजदुमत्रणमुखोद्भूतैर्धनासम्मरैः प्रोद्यद्विद्रुमपादपानुकृतिभिस्तुल्यप्रमाणैः क्षणम् । अप्राप्तोद्धतयुद्धतृप्तिरधिकश्रद्धः स वीरोऽभव- व्याप्तः संततरक्तचन्दनचितैर्जातैरिवान्यैर्भुजैः॥ ३३० ॥ बाणश्छिन्नभुजोऽभ्येत्य शंभोर्भगवतश्विरम् । ननर्त प्रियनृत्तस्य तोषाय प्रणयी पुरः ॥ ३३१ ॥ भक्त्याभवद्भगवतः स भवस्यातिवल्लमः । वरान्नन्दिसमः श्रीमान्महाकालश्चतुर्भुजः ॥ ३३२ ॥ कल्याणं तनुते यशःपरिचितां लक्ष्मी ददात्यक्षया- माक्रान्ति विदधाति सप्तभुवनन्यस्तेप्सिताज्ञाक्षराम् । संसारं कुरुते विकारिनिकरं निःशेषमेव क्षणा- द्भक्तिः कल्पलता चराचरागुरोः किं किं न सूते फलम् ॥३३३॥ उषासहितमादाय प्रद्युम्नतनयं ततः । द्वारकां विजितारातिर्जगाम गरुडध्वजः । ३३४ ॥ कदाचिदथ देवर्षिारकामेत्य नारदः। अवाप्य पूजामुचितां कथान्ते कृष्णमभ्यधात् ॥ ३३५ ॥ १. 'निकरां' -ग; 'निरतं' घ. २. 'अब्रवीत्. -घ. दशा. १० काव्यमाला। गङ्गाभिलाषी नृपतिर्ब्रह्मशापान्महाभिषः । भरतस्य कुले जातः शंतनुः प्रतिपात्मजः ॥ ३३६ ॥ गङ्गापि धातुः शापेन पतन्ती वसुभिः पथि । वसिष्ठशापपतितैहोंमधेनुनिकारतः ॥ ३३७ ॥ खजन्मनेऽर्थिता जाता वधाय च महीं गता। स्वतीरोपवनोपान्ते विचचार सुलोचना ॥ ३३८ ॥ तत्र शंतनुना गङ्गा संगमं गजगामिनी । भेजे यथेष्टकरणप्रत्याख्यानधृतावधिम् ।। ३३९ ।। सा जातानवधीत्सप्त वसून्खेच्छाविधायिनी । जातेऽष्टमे सुते राज्ञा निरुद्धा प्रययौ दिवम् ॥ ३४० ॥ देवव्रताख्यः स शिशुर्दिवि देवैः कृतव्रतः । सर्व विद्यापगाम्भोधिर्ववृधे वसुरष्टमः ॥ ३४१ ।। दृष्ट्वा कदाचित्कालिन्दीकूले कुवलयेक्षणाम् । शंतनुशतनयां तत्पितुर्याचकोऽभवत् ॥ ३४२ ॥ गाङ्गेयस्त्वत्सुतः क्षमा दौहित्रो मे न राज्यभाक् । इत्युक्त्वा न ददौ दाशस्तस्मै सत्यवती सुताम् ॥ ३४३ ।। देवव्रतः पितुर्ज्ञात्वा तीवस्मरशरव्यथाम् । गत्वा ययाचे दाशेशं तनयां विनयोन्नतः ॥ ३४४ ॥ दौहित्रवंशराज्यार्थी स सुतां न ददौ यदा । तदा राज्ये विवाहे च गाङ्गेयः समयं व्यधात् ॥ ३४५ ॥ भीषणीयप्रतिज्ञात्वादीष्मोऽयमिति खे चिरम् । विचचारोदिताश्चर्य खेचरोच्चारितं वचः ॥ ३४६ ॥ आनीतामथ भीष्मेण कन्यामासाद्य शंतनुः । परितोषाददौ तस्मै खच्छन्दनिधनं वरम् ॥ ३४७ ।। कालेन जनयित्वाथ पुत्रं चित्राङ्गदाभिधम् । तस्यां विचित्रवीर्यं च शंतनुस्तनुमत्यजत् ॥ ३४८ ८ श्रीकृष्णावतारः] दशावतारचरितम् । १७ ततश्चित्राङ्गदो राजा गन्धर्वेण प्रमाथिना । चित्रा देन समरे नामद्वेषान्निपातितः ॥ ३४९ ॥ शिशोर्विचित्रवीर्यस्य प्राप्तराज्यश्रियः कृते जहार काशिराजस्य भीष्मः कन्याः खयंवरे ॥ ३५० ।। प्रात्रे विचित्रवीर्याय हस्तिनापुरमेत्य सः । त्यक्त्वा साल्वोत्सुकामम्बामम्बिकाम्बालिके ददौ ॥ ३५१ ।। राजचूततरौ तस्मिन्नवयौवनमाधवे । कान्तालतावलयिते पातिते कालदन्तिना ॥ ३५२ ।। विच्छिन्ने शंतनोवंशे तत्पुत्रक्षेत्रजार्थिना । मीष्मेण प्रेरिता साध्वी प्राह सत्यवती शनैः ॥ ३५३ ।। कानीनस्तनयो मेऽस्ति तत्तु कामात्पराशरात् । संजातो यमुनाद्वीपे कृष्णद्वैपायनो मुनिः ॥ ३५४ ॥ तं स्मरामि सुतक्षेत्रपुत्रोत्पत्त्यै तपोनिधिम् । उक्त्वेति सा भीष्ममते तं सस्मार स चाययौ ॥ ३५५ ॥ अम्बाश्व वा विसृष्टाथ तेजोराशिं विलोक्य तम् । निमीलिताक्षी तदृष्टिस्पृष्टा गर्भ समाददे ॥ ३५६ । अन्धोऽक्षिमीलनात्सूनुर्भावीयुक्ते महर्षिणा । द्वितीयं जनयापत्यमिति माता जगाद तम् ॥ ३५७ । भयपाण्डुरवान्या लेभे गर्भ मुनेईशा । अप्रसूतिः सुतः पाण्डुर्भवितेत्यभ्यधान्मुनिः ॥ ३५८ ।। तस्यां भयाद्विसृष्टायां शूद्रायां गर्भसंभवे । धर्मावतारमुक्त्वास्याः पुत्रं प्रायान्महामुनिः ॥ ३५९ ।। जातेऽन्धे धृतराष्ट्रेऽथ पाण्डौ च भुजशालिनि । माण्डव्यशापभूधर्मः शूद्रायां विदुरोऽभवत् ॥ ३६० ॥ २. 'हस्तिना' -ग. ३. 'माता' क-घ. ४. 'उक्ता १. 'कान्त' ५. 'जात्यन्धे' -ग.

काव्यमाला धृतराष्ट्राय गान्धारी सुबलस्तनयां ददौ । कुन्तिभोजेसुतां कुन्ती पाण्डुर्माद्रीमवाप च ॥ ३६१ ।। युवा दिग्विजयी पा डुम॑गयाव्यसनी वने। मृगरूपरतासक्तमवधीत्किन्दमं मुनिम् ॥ ३६२ ।। भविष्यसि त्वं दयितारतिपर्यन्तजीवितः । तेनेति शप्तस्त्यक्तश्रीर्ययौ पाण्डुस्तपोवनम् ॥ ३६३ ।। ततः पुत्रशतं लेभे गान्धारी तुल्यगर्भजम् । ज्येष्ठो दुर्योधनस्तेषां तस्य दुःशासनोऽनुजः ॥ ३६४ । कुन्ती मुनिवरावातमन्ना भर्तुरनुज्ञया । धर्मानिलेन्द्रानाहूय वने पुत्रानजीजनत् ॥ ३६५ ॥ युधिष्ठिरं भीमसेनमर्जुनं च सुरोचितान् । सपल्या दत्तमन्त्रा च माद्री प्रापाश्विनौ यमौ ॥ ३६६ ॥ खातां पुष्पोच्चये माद्रीं विलोक्य कुसुमागमे । आलिजानङ्गसङ्गेऽभूत्पाण्डुः शापादजीवितः ॥ ३६७ । प्रयाते त्रिदिवं पाण्डौ पा डुपुत्राः पितृव्यजैः वृद्धिं गता धार्तराष्ट्रैः सह दुर्योधनादिभिः ॥ ३६८ ॥ भीष्मः पितामहस्तेषां चापाचार्य कृपं व्यधात् । द्रोणं च सर्वशिष्यस्य शिष्यं रामस्य धन्विनः ॥ ३६९ । अश्वत्थामा प्रियः सूनुयॊणस्य तनयोऽभवत् । यथार्जुनः समस्तास्त्रविद्याविमलदर्पणः ॥ ३७० ॥ कन्यायां गूढजन्मा यः कर्णः कुन्त्यां विवखतः । प्रयातः सूतपुत्रत्वमस्त्राणि प्राप भार्गवात् ।। ३७१ ॥ संस्पर्धयार्जुनरणाहानधारोऽस्त्रदर्शने । नीतस्तत्प्रतिमल्लत्वात्कौरवेणाङ्गराजताम् ॥ ३७२ ।। : कर्णेन संम य ात्रा दुःशासनेन च । दुर्योधनः पाण्डवानां धियं गूढवधे व्यधात् ।। ३७३ ।। -ग. २. 'राज' -ग. ३. 'किन्दिर' ग, ४. 'तत्र' ग. , १.' भ ८ श्रीकृष्णावतारः] दशावतारचरितम् १९ तेन विहिते दीप्ते जतुवेश्मनि निर्गताः। विदुरेण रहः स्नेहानिर्दिष्टबिलनिर्गमाः। ३७४ । युधिष्ठिरार्जुनौ कुन्तीं वहन्भीमो महाबलः। नकुलं सहदेवं च विवेश निशि काननम् ॥ ३७५ ॥ तत्रोग्रविग्रहं हत्वा हिडिम्बं राक्षसेश्वरम् । भीमस्तदनुजां भेजे हिडिम्बां दिव्यरूपिणीम् ॥ ३७६ ॥ जाते घटोत्कचे तस्याः पुत्रे भीमपराक्रमे । एकचक्रां पुरी जग्मुः प्रच्छन्नाः पाण्डुनन्दनाः ।। ३ ७ । प्रजाक्षयक्षमस्तत्र राक्षसोऽभूलकाभिधः । यसै राजान्नशकटं प्राहिणोत्सनरं सदा ॥ ३७८ ॥ स्थिता विप्रगृहे कुन्ती सह भिक्षाशनैः सुतैः । बकवारे द्विजस्याप्ते भीमं तद्दययादिशत् ॥ ३ ९॥ व्रजन्भीमोऽन्नशकटं भुञ्जानः क्रोधसंमुखम् । बकं हत्वा द्विजगृहं विवेशालक्षितो निशि ।। ३८० । अथ दूरपथायातैः कथितं पथिकद्विजैः । नानाकथाप्रसङ्गेन शुश्रुवुः पाण्डुनन्दनाः ॥ ३८१ पाञ्चाल्यो द्रुपदः पूर्व द्रोणस्य सुहृदः शिशुः । व्यधादास्यामि ते प्राप्तराज्यामिति संविदम् ।। ३८२ । द्रोणेन प्राप्तराज्योऽथ सोऽर्थितः प्रददौ न तत् । भिक्षाभुब्राह्मणो राज्ञः कथं मित्रमिति वन् ।। ३८३ इति द्रोणः कृतस्तेन राज्ञा भग्नमनोरथः । अर्जुनेन रणे बद्धं तं राज्याधमदापयत् ।। ३८ । ततस्तेनावमानेन पुत्रं द्रोणवधक्षमम् । अभिचारोग्रयागेन द्रुपदः समवाप्तवान् ॥ ३८५ ॥ यागामिमध्याज्जातोऽस्य धृष्टद्युम्नाभिधः सुतः । कृष्णा च कन्यका यस्याः प्रत्यासन्नः स्वयंवरः ३८६ ।

११ . काव्यमाला। वयं तत्रैव गच्छामः सर्वराजसमागमे । प्राप्तुं प्रतिग्रहाभ्यर्चामित्युक्त्वा प्रययुर्द्विजाः ॥ ३८७ ।। ततः पाञ्चालनगरं व्रजन्तः पाण्डवा निशि । गन्धर्वराजं ददृशुर्गङ्गाम्भसि विहारिणम् ।। ३८८ ॥ विवस्त्रान्तःपुरवधूदर्शनक्रुद्धमर्जुनः। व्यधादग्धरथं युद्धे तमाग्नेयास्त्रतेजसा ॥ ३८९ ॥ युधिष्ठिरेण कृपया रणे रक्षितजीवितः । सख्यं करीटिना कृत्वा जितश्चित्ररथो ययौ ।। ३९० ॥ ततः प्रभाते प्रच्छन्नाः पाण्डवा विप्ररूपिणः । प्रविश्य पाञ्चालपुरं कुम्भकारगृहे स्थिताः ॥ ३९१ ॥ इत्युक्त्वा नारदे याते संकर्षणजनार्दनौ । जग्मतुर्लक्ष्यभेदाकं द्रष्टुं कृष्णाखयंवरम् ॥ ३९२ । तौ पाञ्चालपुरं प्राप्य सर्वराजसमागमे । पूज्यमान विविशतुः स्वयंवरसभागृहम् ॥ ३९३ ॥ हेमासनोपविष्टेषु द्रौपदी सर्वराजसु । जगज्जयपताकेव कंदर्पस्य समाययौ ॥ ३९४ ॥ राधावेधपणे तस्मिन्भुजलभ्ये खयंवरे । अशक्ताः पार्थिवाः सर्वे ययुर्लज्जानिलीनताम् ॥ ३९५ ॥ विलक्षेषु क्षितीशेषु द्विजमध्यादथोत्थितः । विद्या धनंजयो लक्ष्यं क्षितौ क्षिप्रमपातयत् ॥ ३९६ ॥ हारं कण्ठे विनिक्षिप्य द्रौपद्या फाल्गुने वृते । युद्धोद्धताः समुत्तस्थुः क्रुद्धाः सर्वे क्षितीश्वराः ॥ ३९ ॥ जित्वाथ शल्यकर्णादीन्वीरान्भीमधनंजयौ । पुरः कृष्णां समादाय ययतुर्भ्रातृभिः सह ॥ ३९८ ॥ भिक्षेवोपनता कृष्णा सहेयं भुज्यतामिति । चकुस्ते शासनान्मातुः सह भोगाय संविदम् ।। ३९९ । १. 'विलीनताम्' -ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । रामकृष्णौ निशि खैरं कुम्भकारगृहे स्थितान् । पाण्डवानेत्य सानन्दौ प्रेम्णा संभाष्य जग्मतुः ।। ४०० ।। अन्विष्य द्रुपदस्तेषां विज्ञायाधर्मनिश्चयम् । कृष्णाया बहुपत्नीत्वं विरुद्धं नाभ्यमन्यत ॥ ४०१ ॥ ततस्तं भगवान्न्यासः समभ्येत्यावदन्मुनिः । पञ्चेन्द्राः समदाः पूर्वं क्रुद्धा बद्धाः पिनाकिना ॥ ४०२ ॥ ते एव पाण्डवा जाताः खर्गश्रीस्तव चात्मजा। तेषामेकैव सा पत्नी नैवायं धर्मसंकरः ।। ४०३ ।। इत्युक्त्वा मुनिना दत्तदिव्यदृष्टिनरेश्वरः । सत्यं विज्ञाय तत्सर्वं तद्विवाहममन्यत ।। ४०४ । ज्ञात्वा जतुगृहान्मुक्तान्पाण्डवान्प्राप्तसंश्रयान् । हस्तिनापुरमानाय्य धृतराष्ट्रोऽभ्यपूजयत् ॥ ४०५ ।। इन्द्रप्रस्थेऽभिषिक्तोऽथ तेन राजा युधिष्ठिरः । गुणैः श्रियं श्रिया धर्म धर्मेण प्राप्तवान्यशः ॥ ४०६ । निर्दिष्टां नारदेनाथ मुनिमा भेदभीरुणा । भूतये पाण्डवाश्चक्रुर्मर्यादां दृढनिश्चयाः ॥ ४०७ ॥ अन्तःपुरे भ्रातरं यः पश्येत्कृष्णासखं रहः । अविश्रान्तः स तीर्थानि व्रजेद्वादशवत्सरीम् ॥ ४०८ ॥ चौरात्तं गोगणं विप्राक्रन्दाकृष्टस्ततोऽर्जुनः । आजहार समादाय धर्मजान्तःपुराद्धनुः ॥ ४०१ ॥ स्मृत्वाथ संविदं पार्थस्तीर्थार्थी जाह्नवीजले । मज्जन्नुलूपीं पाताले नागकन्यामवाप्तवान् ।। ४१.० । जनयित्वा सुतं तस्यामिरावन्तं जगाम सः । नगरं मणिपूराख्यं चित्रवाहनभूपतेः ॥ ४११ ॥ प्राप्य तस्य सुतां कन्यां पार्थः पृथुललोचनाम् । चित्राङ्गदां सुतं तस्यां बभ्रुवाहनमाप्तवान् ॥ ४१२ ॥ १. 'त एव पाण्डवा नाथ' क; 'उवाच पाण्डवा थि' घ. २. 'लोचनः' क- -ग.

काव्यमाला सर्वतीर्थाप्लुतः प्राप्य प्रभासं श्वेतवाहनः । रैवताचलयात्रायां प्राप वृष्णिसमागमम् ॥ १३ ॥ अर्जुनोऽथ धृतोत्कण्ठः शैलारोहसमुत्सवे । उत्साहोच्छलितं चेतः सानुगस्य हरेय॑धात् ॥ ४१ । तत्र कृष्णानुजां दृष्ट्वा सुभद्रां कामकौमुदीम् । कन्यामनुमते शौरजहार श्वेतवाहनः ॥ ४१५ । युद्धोद्धतान्वृष्णिवीरान्पेरिसान्त्व्य जनार्दनः । निःसंख्यं द्रविणं दातुमर्जुनाय ययौ खयम् ॥ १६ ॥ इन्द्रप्रस्थमथासाद्य सुभद्रासहितोऽर्जुनः । प्रणम्य धर्मजं भेजे कृष्णेन सहितः सुखम् ॥ ४१७ । अभिमन्यु सुभद्रायां पार्थः पुत्रमजीजनत् । द्रौपदी प्रतिविन्ध्याद्यान्पतिभ्यः पञ्च चात्मजान् ॥ १८ । ततः कदाचिद्यमुनाजलकेलिविहारिणम् । सकृष्णमर्जुनं विप्ररूपः प्राह हुताशनः । ४१९ उचितं दीयतां मह्यं भवभ्यां भोजनं हितम् । अर्थिनामर्थनावन्ध्या न भवन्ति भवद्विधाः ।। १२ । श्वेतकेतृपतेः पूर्वं यज्ञे द्वादशवार्षिके । अच्छिन्नाज्यभरेणाहमनलो जडतां गतः ॥ ४२१ ॥ वनं स्वास्थ्याय सत्त्वाव्यं दग्धुमिच्छामि खाण्डवम् । रक्षतीन्द्रः सुहृन्मेधैस्तक्षकस्यास्पदं हि तत् ॥ २२ । व्यस्तमेघौघविनोऽहं भवत्सायकसंचयैः । अखण्डः खाण्डववनं ज्वलाम्येतन्ममाशनम् ।। ४२३ ॥ इति वह्रिर्वदन्नर्थी ताभ्यामङ्गीकृतेप्सितः । धनुः पार्थाय गाण्डीवं ददौ चक्रं च चक्रिणे ॥ २४ तद्दत्तं रथमारुह्य तदीयाक्षयसायकः । हरिणा सह संनद्धः किरीटी खाण्डवं ययौ ।। ४२५॥ १.' यानन्दः' -घ. २. 'परिमच्य' ३. 'मह' .

त ८ श्रीकृष्णावतारः] दशावतारचरितम् । अनौ प्रज्वलिते वराहमहिषव्याघ्रद्विपद्वीपिनां निष्पीतायुषि गाढलीढगगने दैत्याहिदेह हि । रुद्धे मेधजलेऽर्जुनास्त्रपटलैयुद्धोद्धतं वत्रिणं वि(जि)ष्णुः सायकवर्षिणं विमुखतां बाणैर्निनायाक्षयैः ॥४२६॥ सुतमथ भयलोलं तक्षकस्याश्वसेनं जठरमपि जनन्याः संप्रविश्य द्रवन्तम् । अकृत दिवि किरीटी पत्रिणा खण्डपुच्छं मयमपि शरणाप्तं चक्रिमीतं ररक्ष ॥ ४२७ ॥ : कृष्णाज्ञया दिव्यां सभां मणिमयीं मयः विदधे धर्मपुत्रस्य प्राणरक्षाप्रतिक्रियाम् ॥ ४२८ । तस्यां सभायामाश्चर्यनलिनी निर्ममे मयः । नीलरत्नोत्पलवती हेमाजां स्फटिकोदकाम् । ४२९ ॥ सभासीनमथाभ्येत्य धर्मजं नारदोऽवदत् । राजन्न लोकपालानां त्वत्सभासदृशी सभा ॥ ४३ ॥ यजख राजसूयेन कुरुष्व सफलां श्रियम् । इति त्वामवदत्पाण्डुः पिता शक्रसमास्थितः ॥ ४३१ ॥ इत्युक्त्वा नारदे याते राजसूयमनोरथम् अकुण्ठोत्कण्ठया राजा वैकुण्ठाय न्यवेदयत् ॥ ३२ । कृष्णस्तमूचे श्लाघ्यैषा धर्मधीः किं तु मागधे । न जीवति जरासंधे ऋतुः कर्तुं स शक्यते ॥ ४३३ । रुद्रयागोपहाराय तेन रुद्धा गिरिजजे । षडशीतिर्नृपतयस्तस्य शेषाश्चतुर्दश ॥ १३ ॥ शरीरार्धद्वयं जातं जरा निशि निशाचरी । संधाय विदधे बालं जरासंघ तमुत्कटम् ॥ ४३५ ।। तत्संनिरोधविश्वस्ताः संत्यज्य मथुरां वयम् । विधाय द्वारकां दुर्गा पश्चिमाब्धितटे स्थिताः ॥ ४३६ ॥ १.'च -ग.

काव्यमाला। इति खैरं ब्रुवाणेन नृपः संमत्र्य शौरिणा । व्यादिशन्मागधवधे भीमपार्थों भुजाविव ॥ ४३७ ।। ततः स्नातकवेषेण प्रच्छन्नक्षत्रवृत्तयः । जरासंधपुरी जग्मुः कृष्णभीमधनंजयाः ॥ ४३८ ॥ तत्र त्रयोदशाहानि युयुधाते भुजायुधौ । वीरौ भीमजरासंधौ श्रान्तोऽभून्मगधस्ततः ॥ ४३९ ॥ ततः संधि द्विधा कृत्वा हते भीमेन मागधे । मुमोच कृष्णः क्षितिपान्यज्ञागमनसंविदा ॥ ४४० ॥ भीमः किरीटी नकुलः सहदेवश्व दिग्जये । आजहुर्विपुलं वित्तं राज्ञे यज्ञभरक्षमम् ॥ ४४१ ॥ कृतेषु शैलतुल्येषु रत्नकाञ्चनराशिषु । राजसूयसमारम्भः प्रावर्तत महीपतेः॥ ४४२ ॥ प्राप्ता निमन्त्रितास्तस्मिन्भीष्मद्रोणादयः क्रतौ । धृतराष्ट्रः सविदुरः सामात्यश्च सुयोधनः ॥ ४४३ ॥ अशेषदेवर्षि ते सर्वराजमये मखे । अर्ध्यार्चितं हरिं सेहे शिशुपालो न भूपतिः ॥ ४४४ ॥ तस्याधिक्षेपदक्षस्य मापतेः क्षयलक्ष्मणा । न्यपातयत्क्षितौ क्षिप्रं चक्रेणाधोक्षजः शिरः ॥ ४४५ ॥ क्रतौ समाप्ते यातेषु महर्षिषु नृपेषु च । तस्थौ दुर्योधनस्तत्र शकुनिश्वास्य मातुलः ॥ ४४६ ॥ पद्मिन्यां विहरवारिशङ्कया स्फाटिके जले । चरचुत्क्षिप्तवसनः सत्याम्भसि ममज्ज सः ॥ ४४७ ॥ तस्य स्खलितमालोक्य हर्म्यस्था राजवल्लभाः । जहसुर्भीमसेनश्च बभूवाङ्कुरितस्मितः ॥ ४४८॥ लज्जावमानमलिनः कौरवः स्वपुरं व्रजन् । पृष्टः शकुनिना प्राह ग्लानिवैवर्ण्यकारणम् ॥ ४४९ ॥ 'शान्तो' -ग. २. 'वृते' ख-ग. .

८ श्रीकृष्णावतारः] दशावतारचरितम् । १५ धर्मसूनोखे सा श्रीस्ते भूपालाः करप्रदाः । संख्यातीतं च तंदानं मर्मशल्यायते मम ॥ ४५० ॥ पद्मिन्यामुपहासो मे पद्मस्येव हिमाशनिः । पतितः क्षीयते जाने न शरीरक्षयं विना ॥ ४५१ ॥ इति प्रलापी शोकोष्णं द्वेषावेशात्सुयोधनः । वार्यमाणः शकुनिना न्यवर्तत न दुर्मतिः ॥ ४५२ । परोत्कर्षद्वेषः खरखदिरचूर्णानलनिभ- श्युतश्चिचे दाहं दिशति निशितक्लेशमसताम् । परोत्साहे चन्द्रप्रचयसचिवः किं च महता- मनन्तः संतोषश्वरति हृदये चन्दनरसः ॥ ४५३ ॥ ततः स धृतराष्ट्राय विवर्णः पाण्डुरः कृशः। निवेदितः शकुनिना तं द्यूताज्ञामयाचत ॥ ४५४ ॥ कृच्छ्रात्कृताभ्युपगमः स पित्रा द्यूतकैतवे । अकारयन्मणिमयैः कुशलैः शिल्पिभिः सभाम् ॥ ४५५ ।। स धर्मजं राजसूयसमयादैनिवर्तिनम् । आहूय विदधे छद्मद्यूतं शकुनिमायया ॥ ४५६ ॥ कूटाक्षक्षपिताशेषकोषसैन्यपरिच्छदः । पणं भ्रातृनथात्मानं कृष्णां च विदधे नृपः ॥ ४५७ ॥ दुःशासनकराकृष्टकेशीमथ रजखलाम् । कृष्णां द्यूतजितां दासीमानिनाय सुयोधनः ॥ ४५८ ॥ तत्कोपादकरोद्भीमः प्रतिज्ञामूरुभञ्जने । युधि दुर्योधनस्यासृक्पाने दुःशासनस्य च ॥ ४५९ ॥ वने द्वादशवर्षाणि निवासाय पणे कृते । त्रयोदशे तथाऽज्ञाते विजिताः पाण्डवा ययुः ॥ ४६० ।। हाराहे तनुचीनपट्टपवनत्वङ्गत्तरङ्गोद्भवे धृत्वाङ्गे हरिचन्दनेन्दुमृगजाभ्यङ्गे कुरङ्गत्वचम् । १. 'कूट' क २. 'अतिवर्तनम्' ग-घ.. ३. 'तुरजोद्भवे' ख-ग.

काव्यमाला। कृत्वा रत्नकिरीटघानि च जटा जग्मुर्वनं पाण्डवा निःसत्या भ्रमयन्ति पण्यवनिताप्रेमोपमाः संपदः । ४६१ ॥ स्खलद्विद्युल्लेखाङ्करमुखमयूखोपमसुखाः श्रियश्चापाकर्षोच्चलितहरिणीवेगगमनाः । विवाहोत्साहाप्ताः क्षणमिव सुहृद्वान्धवजना न संसारे स्वप्नभ्रमपरिचये किंचिदचलम् ॥ ४६२ ॥ ततः स्तुतिप्रसन्नार्कनिर्दिष्टाक्षयभोजनैः । द्विजपूजाजुषस्तस्थुः काम्यके पाण्डवा वने । ४६३ ॥ धृतराष्ट्र परित्यज्य भ्रातृजच्छद्मखेदवान् । विदुरः काम्यकं यातः प्रार्थितः पुनराययौ ।। ४६४ ॥ सोऽवदद्भातरं राजन्पुत्रस्नेहवता त्वया । कुललक्ष्मीलतामूले कुठारः कठिनोऽर्पितः ॥ ४६५ ॥ यत्प्राह भगवान्व्यासः पथ्यं तन्न कृतं हितम् । श्वभ्रसुप्ता प्रबुध्यन्ते न निपातव्यथां विना ॥ ४६६ ॥ बन्धुसंध्यर्थनाभङ्गकोपशापः क्षयक्षमः । मैत्रेयमुनिना दत्तः कष्टं न गणितस्त्वया ॥ ४६७ ॥ भीमाद्भीमं भय शङ्के येन रावणसंनिभः । स क्रूरकर्मा किर्मीरः कानने राक्षसो हतः ॥ ४६८ ॥ विदुरेणेत्यभिहितं नामन्यत महीपतिः । दैवादिष्टनिपातानां मिथ्यैवालम्बनक्रिया ॥ ४६९ ॥ वने पाण्डुसुतान्दृष्ट्वा क्रुद्धः कौरवदुर्नयात् । अभिमन्युं सुभद्रां च समादाय हरिययौ ॥ ४७ ॥ भीष्मद्रोणास्त्रमाहात्म्यचिन्ताकुलनृपाज्ञया । अथास्त्रार्थी ययौ पार्थस्तपसे तुहिनाचलम् ॥ ४ १ ॥ • २. 'भोजना ३. 'पाण्डवाः काम्यके १. 'धामनि जटा' हरिः ४. 'ययौ ८ श्रीकृष्णावतारः] दशावतारचरितम् । तीनं तपस्यतस्तस्य सत्त्वसारपरीक्षकः । देवः किरातरूपेण त्रिपुरारिः समाययौ ॥ ४७२ ।। एकसूकरनिर्भेदस्पर्धाबन्धविरुद्धयोः । युद्धमत्युद्धतं कूटकिरातार्जुनयोरभूत् ॥ ४७३ ॥ स्मरारिशबरेणाथ प्रस्तशस्त्रः प्रमाथिना । युयुधे बाहुयुद्धेन धैर्यराशिर्धनंजयः ॥ ४७४ । निपीड्य चण्डीपतिना निश्चेष्टः पातितः क्षितौ । गाण्डीवधन्वा प्रत्यक्षं निरीक्ष्य त्र्यक्षमब्रवीत् ॥ १५॥ दर्पोद्धतत्रिपुरकाननपावकाय भक्तार्तितापतुहिनद्युतिमण्डलाय । संसारघोरतिमिरोत्कटभास्कराय तुभ्यं त्रिधामशबलाय नमः शिवाय ॥ ४ ६ ॥ इति स्तुतिकृतानन्दसुधासंपूर्णमानसात् । अस्त्रं पाशुपतं तुष्टाकिरीटी प्राप धूर्जटेः ।। ४७७ ।। संप्राप्तलोकपालास्त्रः सहस्रतुरगं रथम् । शक्रप्रेषितमारुह्य विजयस्त्रिदिवं ययौ ॥४८॥ प्रणम्य तत्र वृत्रारिं तदाढालिङ्गनातिथिः। तदासनाधं तत्प्रीतिनिर्दिष्टं प्राप पाण्डवः ।। ४ ९ । पार्थमिन्द्रासनार्धस्थं दृष्ट्वा शक्रगिरा मुनिः । तद्वृत्तान्तं ययौ वक्तुं लोमशः पाण्डवान्वनम् ॥ १८ ॥ प्राप्तपूजासनस्तेभ्यः स निवेद्यार्जुनोदयम् । तीर्थयात्राधृतोत्साहं विदधे धर्मनन्दनम् ।। ४८१ ॥ नैमिषाद्येष्वथ स्नाताः सर्वतीर्थेषु पाण्डवाः । गन्धमादनशैलाई बदर्याश्रममाययुः ।। ४८२ ।। पवनप्रेरितं तत्र दिव्यपद्म पुरश्च्युतम् । आदाय द्रौपदी भीमं कटाक्षेण निरक्षत ।। १८३ ॥ १. 'अत्यद्भुतं' -ग. २ 'मानसः' क-घ. दशा० ११ काध्यमाला। अन्यपद्मार्थितां तस्य धीमान्विज्ञाय मारुतिः । ययौ सौरभमार्गेण धनदाध्युषितां दिशम् ॥ ४८४ ॥ स व्रजन्काञ्चनलतानिचयाचितवम॑ना । दिदेश मददारियं सिंहनादेन दन्तिनाम् ॥ ४८५ । पादन्यासाद्भुतगिरेस्तस्य शब्देन विस्मितः । हनुमान्मार्गमाश्रित्य तस्थौ खल्पवपुः पुरः ॥ ४८६ ॥ सोऽल्परूपं कपिं दृष्ट्वा जानुसंधिकृताननम् । चकारोत्सारणरवं धनं घट्टितदिक्तटः ॥ ४८७ ॥ शनैरुन्मील्य नयने तं जगाद प्लवंगमः । किमयं मदसंरम्भस्तव मिथ्यैव निर्जने ॥ ४८८ ॥ नादेन मां खेदयता विश्रान्तं रोगदुर्बलम् । दर्शितं कृशशूरेण भवता बत पौरुषम् ॥ ४८९ ॥ इतःपरं न गन्तव्यं देशोऽयं सिद्धसेवितः । सर्वथा यदि गन्तासि पुच्छमुत्सार्य गम्यताम् ।। ४९० ।। इत्युक्ते कपिना भीमस्तत्पुच्छोत्सारणाक्षमः । श्रान्तः पतन्मुखेनाधस्तमभाषत विस्मितः ॥ ४९१ ॥ को भवान्किमनन्तात्मा कि मेरुः किं हिमाचलः । मार्ग देहि न लङ्घयो हि देही देहितनुस्थितः ॥ ४९२ ।। यदि न स्यात्तवान्तःस्थः परमात्मा सनातनः । साचलं लङ्घयेय त्वां हनुमानिव सागरम् ॥ ९३ ॥ श्रुत्वैतत्कपिना पृष्टः क एष हनुमानिति । भीमोऽस्मै हनुमद्वृत्तं श्रौतृत्वं च न्यवेदयत् ॥ ४९४ । अहं स हनुमान्भीम तेनेत्युक्ते तदर्थितः । कपिः सूर्यपथावाप्तं दीप्तं वपुरदर्शयत् ॥ ४९५ ॥ संनिधानं करिष्यामि धनंजयरथध्वजे । इत्युक्त्वालिङ्गितस्तेन भीमः प्रायात्स विस्मयः ॥ ४९६ ॥ १. 'आवृत्य' ग. २. 'जनार्दनः' -ग, ३. 'भ्रातृव्यं' -घ.

८ श्री ष्णावतारः] दशावतारचरितम् । १९ कुबेरनलिनीं प्राप्य भीमः कनकपङ्कजम् । जहार हेमपद्मानि हत्वा गुह्यककिंकरान् ।। ४९७ ॥ सानुगं खयमायातं जित्वा वैश्रवणं रणे । मणिमन्तं च तन्मित्रं हत्वा नक्तंचरेश्वरम् ॥ ४९८ ॥ द्रौपद्यै कनकाजानि दत्त्वा पवननन्दनः । मायाप्रच्छन्नमवधीद्यातुधानं जटासुरम् ॥ ४९९ ।। अथ शक्ररथारूढः पार्थः पूर्णमनोरथः । आयातः पञ्चभिर्वर्षेः प्रणनाम युधिष्ठिरम् ॥ ५०० ।। हतान्यवेदयत्सोऽसै हिरण्यपुरवासिनः । निवातकवचान्दैत्यान्खशौर्याख्यानलज्जितः ॥ ५०१ । वने महानजगरः कदाचिदचलोपमः। बवा भुजयुगे भीमं चक्रे निश्चेष्टविग्रहम् ॥ ५०२ ॥ संरुद्धभुजनिःस्पन्दभ्रातृदर्शनदुःखितम् । उवाचाजगरः प्रश्नं दारयेति युधिष्ठिरम् ।।०५०३ ।। को विप्रः किं च वेद्यं स्याब्रूहि भीमस्स मुक्तये । भुजगेनेत्यभिहिते तं जगाद युधिष्ठिरः ॥ ५०४ ॥ क्षमा सत्यं शान्तिस्तरुणकरुणं यस्य च मनः स शूद्रो विप्रत्वं प्रगुणगुणसङ्गेन भजते । द्विजोऽपि व्यर्थात्मा गुणविरहितः शूद्रसदृशः कृतैः कण्ठे विप्रस्त्रिगुणगुणसूत्रैर्न भवति ॥ ५०५ ॥ सुखेन दुःखेन च वर्जितं यत्तदेव वेद्यं विदितात्मधाम । शीतोष्णहीनप्रतिमैव यत्र संतोषविश्राममयी प्रशान्तिः॥५०६॥ धर्मजेनेत्यभिहित मुक्त्वा भीमं भुजंगमः । अगस्त्यादिष्टशापान्तो नहुषस्त्रिदिवं ययौ ॥ ५०७ ।। अथ पाण्डुसुतान्द्रष्टुं सहितः सत्यभामया । मार्कण्डेयादिभिः सार्ध मुनिभिः शौरिराययौ ॥ ५०८ ॥ १. 'द्विजो पि व्यक्तात्मा' -ग; 'द्विजोऽप्यव्यकामा घ. २. 'त्यक्ला' -ग.

. २ काव्यमाला। - नानाकथामृताख्यानैः स्थिते तत्राच्युते चिरम् । सत्यभामावदत्कृष्णामेकान्ते कृष्णवल्लभा ॥ ५९॥ वश्यास्ते पतयः कृष्णे केनाराधनकर्मणा । कैर्द्रव्यमन्त्रसूत्राज्ञातिलकाञ्जनलेपनैः ॥ ५१ ॥ ममोपदिश जानासि यत्किंचित्प्रीतिकारणम् । इत्युक्ते कृष्णकामिन्या श्रुत्वा कृष्णा जगाद ताम् ॥ ५११ । अयुक्तमुक्तं सुभगे भवत्या धर्मवर्जितम् । वश्यदोषक्रिया स्त्रीणां भर्तृदोहार्हपातकम् ॥ ५१२ । वश्यप्रयोगैर्योषिद्भिः कुष्ठापसाररोगिणः। भग्नभाग्याश्च पतयो मूकान्धबधिराः कृताः ॥ ५१३ ॥ भक्तिश्चित्तग्रहः शीलं सतीनां भर्तृ भेषजम् । इत्युक्ते लज्जया भेजे सत्यभामा निलीनताम् ॥ ५१४ ॥ यातेऽथ द्वारकां कृष्णे घोषयात्रापदेशवान् । पाण्डवानाययौ द्रष्टुं श्रीभ्रष्टान्धृतराष्ट्रजः ॥ ५१५ ॥ वने विहारिणस्तस्य तुल्यावरणकारणे। रणे बभूव संमर्दो गन्धर्वैः सैन्यदारणः ॥ ५१६ ॥ भन्मेषु कर्णमुख्येषु सानुजं कौरवेश्वरम् । बबन्ध गन्धर्वपतिश्चित्रसेनः शरादितम् ॥ ५१७ ॥ बद्धं सुयोधनं बन्धुधिया राजा युधिष्ठिरः । भीमपार्थो विसृज्याजौ म्लानमानममोचयत् ॥ ५१८ ॥ अपि विस्मृतवैरेषु प्राणदानोपकारिषु । द्वेषदोषं न तत्याज पाण्डवेषु सुयोधनः ॥ ५१९ ॥ दृष्ट्वा चन्द्रं सकलजनतालोचनानन्दहेतुं सद्यो वऋद्युतिरलसतामेति पद्माकरस्य । नान्तःस्यूता चैलति रिपुता किं च संकोचभाजः प्रायेणैते खजनविमुखाः श्रीमदान्धा भवन्ति ॥ ५२० ॥ 'बन्धु' ग. २. 'स्फीता ३. 'चरति' क.. . .

८ श्रीकृष्णावतारः] दशावतारचरितम् । १२१ . तेन तीवावमानेन राज्यत्यागनिबद्धधीः । से समाश्वासितोऽभ्येत्य दैत्यैः पातालवासिभिः ।। ५२१ ।। अत्रान्तरे पाण्डवेषु यातेषु मृगयारसात् । आययौ वैनयात्रायां सिन्धुराजो जयद्रथः ॥ ५२२ ॥ स कृष्णामाश्रमे दृष्ट्वा सीतामिव दशाननः । जहार हारितमतिः करुणाकन्दिनी बलात् ।। ५२३ ॥ ततः प्रत्यागता दृष्ट्वा पाण्डवाः शून्यमाश्रमम् । ध्वजिनीं च रजोग्रस्तगगनां समुपाद्रवन् ।। ५२४ शराशनिविनिष्पिष्टसैन्यानालोक्य पाण्डवान् । रथाज्जयद्रथः कृष्णां तत्याज ज्वलितामिव ॥ ५२५॥ अभिसृत्याथ भीमेन गृहीतं वधकम्पितम् । ररक्ष सिन्धुनृपतिं शरणाप्तं युधिष्ठिरः ॥ ५२६ ॥ पादेनालोडितं प्र(स्रोस्तमुकुटं तस्य मारुतिः। क्षुरप्रेण प्रलपतश्चक्रे पञ्चसटं शिरः ॥ ५२७ ॥ रुद्रमाराध्य तपसा सैन्धवः फाल्गुनं विना । वरमेकदिनं प्राप पाण्डवावरणं रणे ॥ ५२८ ।। अत्रान्तरेऽर्जुनस्नेहाकर्णमेत्य शतक्रतुः । ययाचे कवचं दिव्यं कुण्डले च शशिप्रभे ॥ ५२९ । पित्रापि वारितोऽर्केण तस्मै वर्म सकुण्डलम् । एकवीरवधायास्मै शक्तिं वैकर्तनो ददौ ॥ ५३० ॥ शूरा भवन्ति विदुषामपि नास्ति संख्या पूर्ण वनं व्रतरतैर्विरलस्तु दाता। म्लानिं प्रयाति सितसत्त्वमयस्य यस्य देहप्रधानसमयेऽपि न चित्तवृत्तिः ।। ५३१ । अरणी हरिणेनाथ ब्राह्मणस्य हृतां वने । जवेन जग्मुराहतु धन्विनः पाण्डुनन्दनाः ।। ५३२ । १. अपमानामितो' -घ. २.'वर' -ग. ३. फाल्गुणं' -ग. ४.'वधायात्त' पा १२२ काव्यमाला निर्जलारण्यतापातैरन्वेष्टुमथ तैः पयः । माद्रीसुतः प्रेषितोऽये ददर्श विपुलं सरः ५३३ ॥ प्रश्नमुक्तिकृता पेयमन्यथा नेति खाद्वचः । श्रुत्वापि पाण्डवः पीत्वा तोयं तत्याज जीवितम् ॥ ५३४ ॥ क्रमान्माद्रीसुते पार्थे भीमे च प्रच्युते तटे। युधिष्ठिरः प्रश्नगिरं बमन गगनेरिताम् ।। ५३५ ।। निर्जीवः कः सजीवोऽपि योऽश्नात्येकोऽर्थिवर्जितः । खक्ष्माधिको को पितरौ किं लोलमनिलान्मनः ॥ ५३६ ॥ किमनन्तं नृणां चिन्ता धनं किमधिकं श्रुतम् । लाभात्किमुत्तमं स्वास्थ्यं किं सुखं चित्तनिर्वृतिः ॥ ५३७ ।। संधि स्थिरः कैः सुजनैः किं शोककृदहंकृतिः । किमैश्वर्यमलुब्धत्वं किं निःशल्यमकोपता ॥ ५३८ ।। किं विषं याचनं श्राद्धकालः कः श्रोत्रियागमः । उच्यते जुरुषः कश्च भुवनव्यापि यद्यशः ॥ ५३९ ॥ इति प्रश्नोत्तरैस्तुष्टः पिता धर्मः क्षमापतेः । जीवयित्वानुजान्गुप्तिमज्ञातसमयेऽप्यदात् ॥ ५४० ॥ अथ वनसमयान्ते गूढवासप्रवृत्ताः प्रययुरजिनखिन्नाः पाण्डवा मत्स्यदेशम् । प्रगुणगुणगणानामापदो दैवदिष्टाः सुरपतिसदृशानामप्यहो दुर्निवाराः ॥ ५४१ ॥ अथाभून्मत्स्यराजस्य राजराजशिरोमणेः । विराटस्य सभास्तारः कङ्कनामा युधिष्ठिरः ॥ ५४२ ॥ सूदस्तस्याभवद्भीमः क्षमापतेर्वल्लभाभिधः । गायत्यलिकुलैः कीर्ति लोला यस्यालकाजिनी ॥ ५४३ ॥ श्रीकण्ठशबराकुण्ठकण्ठक्रमणकर्मठः। शंण्ठाकृतिरभूजिष्णुर्तृत्तवृत्तिव॒हन्नडः ॥ ५४४ ॥ १. 'सलिल' -ग. २. ढाकृति' .

८ श्रीकृष्णावतारः] दशावतारचरितम् । १२३ मत्स्यपल्याः सुदोष्णायाः कृष्णा सैरिन्ध्रिकाभवत् । अभूतामश्विपुत्रौ च यमौ गोतुरगाधिपौ ॥ ५४५ ॥ इति ते तुरगाधीशसेव्याः सेवकतां ययुः । विश्वासः श्रीविलासेषु कस्यान्यस्य भविष्यति ॥ ५४६ ॥ अथायातं हतानेकमल्लं भूमिपतेः पुरः । मल्लं जीमूतनामानं मारुतिः क्रीडयावधीत् ।। ५४७ । सुदोष्णायाः प्रियो भ्राता कदाचिदथ कीचकः । विलोक्यान्तःपुरे कृष्णामभवत्काममोहितः ।। ५४८ । व्याजेन प्रेषितां खस्रा भयसंभ्रमविद्रुताम् । कीचकस्तामभिद्रुत्य चकर्ष चरणाहताम् ॥ ५४९ । सा सभामेत्य भूभर्तुरग्रे प्राह पराभवम् । राजापि कीचकस्नेहाचक्रे गजनिमीलितम् ॥ ५५० । आर्ताक्रन्दश्रवणबधिराः सेवकालोकनान्धाः प्रत्यालापप्रणयिनि जने निश्चलोत्सेकमूकाः । भूपाः प्रायः पिशुनवचनाकर्णने हस्तिकर्णा नीचप्रीतिप्रसृतनयनाश्चञ्चलानेकवाचः ॥ ५५१ ॥ भीमं महानसे सुप्तं सा प्रबोध्य तमभ्यधात् । बाष्पैः करतलस्पृष्ट क्षालयन्तीव वाससी ।। ५५२ ।। क्रुद्धेन तेन निर्दिष्टां सा समादाय संविदम् । कीचकस्याकरोत्प्रातः संकेतं नाट्यवेश्मनि ॥ ५५३ ।। रात्रौ पूर्वप्रविष्टोऽथ भीमः कीचकमागतम् । केसरीव द्विपं मत्तमवधीन्मूढकामुकम् ॥ ५५४ ।। पतयो मम गन्धर्वाः कृष्णयेत्युदितं पुरा । तैरेव निहतं मेने प्रभाते कीचकं जनः ।। ५५५ ।। १. भारते सुदेष्णेति नामास्ति. २. अस्मदीयं घ-पुस्तकं 'की' इति पर्यन्तं तते. ३. 'निमीलनम्' ख-ग.

“१२ काव्यमाला। तस्य भ्रातृशतं देहसंस्काराय समुद्यतम् । कृष्णां चितानले क्षेप्तुमनयदुःखदायिनीम् ॥ ५५६ ॥ मीमस्तत्करुणाक्रन्दमाकर्ण्य क्रूरकोपवान् । शतं वृक्षप्रहारेण कीचकानामपातयत् ॥ ५५७ ॥ प्रेरितः कौरवेन्द्रोऽथ त्रैगर्तेन सुशर्मणा । हतु कीचकहीनस्य विराटस्याययौ धनम् ॥ ५५८ ॥ संरुद्ध नगरे मत्स्यः पूर्वमेव सुशर्मणा कङ्कवल्लभगोवाजिपत्तिभिः सह निर्ययौ ।। ५५९ ॥ ततः प्रवृत्ते समरे मिथः सुभटसंक्षये । जवाद्विराटमहरत्सुशर्मा शरवर्षिणम् ॥ ५६ ॥ भीमोऽभिसृत्य निष्पिष्टरथस्यास्य सुशर्मणः । पादेन मौलिमुन्मथ्य मत्स्यराजममोचयत् ॥ ५६१ ॥ त्रिगर्तकटके भग्ने सामात्यः कौरवेश्वरः । विराटगोधनं सर्व जहारान्येन वर्मना ॥ ५६२ ॥ शूरशून्येऽथ नगरे विराटसुतमुत्तरम् । अभ्येत्य जगदुर्गोपाः कौरवैर्गोधनं हृतम् ॥ ५६३ ॥ सोऽब्रवीचौरचरितं कौरवं हन्म्यहं रणे । गुप्तं भीष्मकृपद्रोणकर्णमुख्यैर्महारथैः ॥ ५६४ ॥ किं तु मे सारथिर्नास्ति रणभारभरक्षमः । इत्युक्ते राजपुत्रेण द्रौपदी तमभाषत ॥ ५६५ । उत्तरायाः स्वसुर्यस्ते नृत्ताचार्यों बृहन्नडः । स सारथिरभूत्पूर्वं खाण्डवे सव्यसाचिनः ।। ५६६ । अथोत्तरार्थितः पार्थः प्रतिपन्नरथग्रहः । चकार कवचाबन्धवैपरीत्यैर्जनस्मितम् ।। ५६ ॥ अथोत्तरे रथारूढे जवेनाश्वानचोदयत् । क्रीडायै कुरु वस्त्राणि जिष्णुरुत्तरयार्थितः ।। ५६८ .

८ श्रीकृष्णावतारः] दशावतारचरितम् । २५. दृष्ट्वोत्तरः कौरवेन्द्रसैन्यं शस्त्रजलार्णवम् । निवर्तखेति भीभग्नस्त्राणार्थी पार्थमभ्यधात् ॥ ५६९ । तमर्जुनोऽवदन्निन्धं क्षत्रियस्य पलायनम् । एकवारक्षये काये मरणं न पुनः पुनः॥ ५७० ॥ श्रुत्वैतत्कातरतया रथमुत्सृज्य विद्रुतम् । आनिनायोत्तरं केशैः पश्चादाकृष्य फाल्गुनः ॥ ५७१ ।। योत्स्येऽहं कुरुभिधैर्य भजख भव सारथिः । अर्जुनोऽहं भवद्हे कङ्कायाः पाण्डवाः स्थिताः ॥ ५७२ । श्मशानान्तःशमीवृक्षस्कन्धे सन्त्यायुधानि नः । प्रयच्छ मम गाण्डीवमित्युवाच तमर्जुनः ॥ ५७३ । उत्तराहृतमादाय धनुरास्फाल्य पाण्डवः । तत्प्रेरितरथस्तूर्णं विवेश कुरुवाहिनीम् ॥ ५७४ ।। एकैकशः समस्तांश्च शराशनिघनागमः ! भीष्मकर्णकृपद्रोणमुख्यानजयदर्जुनः ॥ ५७५ ॥ प्रखापनास्त्रसुप्तानां कुरूणामुत्तराकृते । जहार जिष्णुर्वासांसि यशांसीवाभिमानिनाम् ॥ ५७६ । प्रत्याहृते गोधनेऽथ विजयेन जितारिणा । चक्रे विराटः पुत्रस्य सभायां विक्रमस्तुतिम् ॥ ५७७ । बृहन्नडप्रभावेण पुत्रस्ते विजयोर्जितः। वदन्निति विराटेन प्रहतोऽयुधिष्ठिरः ॥ ५७८ ॥ हेमपात्रे धृते रक्ते द्रौपद्या चक्रवर्तिनः । प्रविवेशार्चितः पौरैवाप्तोन्नतिरुत्तरः ॥ ५७९ ।। अक्षाभिघातरक्ताक्तललाटं वीक्ष्य धर्मजम् । स प्रसाद्य प्रयत्नेन निनिन्द कुकृतं पितुः ॥ ५८ । अज्ञातवाससमये पूर्णे पाण्डुसुतानथ । हृ : प्रकटतां यातान्विराटः समपूजयत् ॥ ५८१ १२६ काव्यमाला तेषामभ्युदयं ज्ञात्वा प्राप्तेष्वखिलबन्धुषु । विराटस्तनयां प्रादादुत्तरामभिमन्यवे ॥ ५८२ ।। ते कृष्णसात्यकिहलायुधकुन्तिभोज- पाञ्चालशैब्यमगधेशशिखण्डिमुख्यैः । साध सभामुवमुपेत्य विराटजुष्टां प्रापुः श्रियं कनकविष्टरसनिविष्टाः ॥ ५८३ ॥ अखण्डितान्पाण्डुसुतान्विज्ञाय कुरुभूपतिः । अलवयशासनं देवं मेने दलितपौरुषम् ॥ ५८४ तेषामक्षौहिणीः सप्त ज्ञात्वाथ समुपागताः । दुर्योधनः प्रविदधे भूपालबलसंग्रहम् ॥ ५८५ ॥ पाण्डवार्थे समायातं पथि 'संमानभोजनैः । आराध्य तुष्टमहरत्स शल्यं मद्रभूपतिम् ॥ ५८६ ॥ द्वारकायां ततः कृष्णं सुयोधनधनंजयौ । तुल्यमभ्येय साहाय्यं ययाचाते रणोद्यमे ।। ५८७ । अक्षौहिण्या परिवृतं कृतवर्माणमच्युतः। दत्त्वा कुरुपतेभीगमयोद्धा पाण्डवान्ययौ ॥ ५८८ ॥ वृतः सौबलहार्दिक्यभगदत्तजयद्रथैः । एकादशाक्षौहिणीभिः कौरवः प्रमदं ययौ ॥ ५८९ ।। अत्रान्तरे रणारम्भसंशयाकुलिताशयम् । धृतराष्ट्र समभ्येत्य प्रणम्योवाच संजयः ॥ ५९० ॥ अराज्यदानसंधानदूतोऽहं तव शासनात् । गतः पाण्डुसुतान्द्रष्टुं लोमाभ्यासेन लज्जितः ॥ ५९१ ॥ मयोक्तं भवतोक्तं यत्प्रत्युक्तं यत्तु पाण्डवैः । देव वक्तासि तत्प्रातः सभायां भूभुजां पुरः ॥ ५९२ ।। इत्युक्त्वा संजये याते धृतराष्ट्रः खदुर्नयात् । तद्वाक्यशङ्काकुलितः प्राप निद्रादरिद्रताम् ॥ ५९३ ।। १. 'संमान्य क.

१२ ८ श्रीकृष्णावतारः] दशावतारचरितम् । प्रजागरगंदावस्थं द्वाःस्थाहूतः सुखोज्झितम् । तमेत्य विदुरः प्राह संजयोक्ताप्तसंशयम् ॥ ५९४ ॥ अयं ते सुमते कस्सान्निद्राद्रोही महाज्वरः। तापं नायान्ति निष्कामा निर्लोभा निर्भया अपि ।। ५९५ । त्यक्ताभिमानः संतोषी निषः शीलवान्क्षमी । दुःखैकसारे संसारे पञ्चैते सुखनिर्वृताः ॥ ५९६ ॥ लोभाभ्यासव्यसनमसमं चिन्तया हन्ति निद्रां खस्थः शेते प्रसृतचरणः किं तु निर्लोभ एव । लौभः पुंसामसमविषमः कृष्णवां विधत्ते तीव्र तापं जनधनघनस्नेहसंपूर्यमाणः ॥ ५९७ ॥ असेवाप्ता वृत्तिः खलपरिभवायासरहिता वचः सत्यस्वातं परगुणगणोदीरणपरम् । अनुत्तानः पाणिः परधनकणस्पर्श विमुखः प्रकृत्या निर्वैरं हृदयममलं यस्य स सुखी ॥ ५९८ ॥ राज्याध भ्रातृपुत्रेभ्यः प्रयच्छ त्यज लुब्धताम् । बन्धुवैररजोदिग्धं प्रक्षालय धिया मनः ॥ ५९९ ।। त्यजैकं कुमतिं पुत्रं संरक्ष सकलं कुलम् । गोनासदष्टमेकाङ्गं त्यज्यते जीविताप्तये ॥ ६०० ॥ विदुरेणेत्यभिहिते धृतराष्ट्रस्तम वीत् । युक्तमुक्तं त्वया किं तु त्यक्तुं शक्नोमि नात्मजम् ॥ ६ १॥ हेलास्थलीकृताम्भोधिस्तृणीकृतहिमाचलः । खातन्त्र्यचित्रचरितः केन वा लङ्घयते विधिः ॥ ६०२ ।। श्रुतं न मृत्युरस्तीति मया किल वचः पुरा । तहीति क्षितीशेन पृष्टस्तं विदुरोऽवदत् ॥ ६०३ ।। खयं वक्तुं न युक्तं मे राजन्नुपनिषत्पदम् । सनत्सुजातो योगीन्द्रः सर्व ते कथयिष्यति ॥ ६०४ ॥ १. 'गराखस्थंक. २. 'निर्दोषः' ४. 'तीव्र.क.५. 'गोनसा' क- .

.१२८ काव्यमाला अभिधायेति विदुरस्तं सस्सार स चाययौ । प्राप्तपूजासनः पृष्टः क्ष्माभुजेति तमभ्यधात् ॥ ६०५ ॥ राजन्देहभृतां मृत्युः क्रोधः सर्वदनोदितः। येनाहतश्च हन्ता च मर्मदाहेन शोचितः ॥६६॥ रागद्वेषादयो दोषा जनानां जन्मकारणम् । जन्मैव मृत्युः संसारे नास्ति मृत्युरजन्मनाम् ॥ ६०७ ॥ न मुक्तिर्वेदवादेन देहान्ते स पलायते । वीणावंशेषु भनेषु न क्वचित्तिष्ठते ध्वनिः ॥ ६ ८॥ आत्मप्रत्यवमर्शेन पुनर्जन्म न विद्यते । आत्मप्रकाशं पश्यन्ति योगिनस्तं सनातनम् ॥ ६०९॥ इत्युक्त्वान्तर्हिते तस्मिन्योगीन्द्रे तेजसां निधौ । राजा राजसभां प्रातर्भेजे भीष्मादिभिः सह ।। ६१ आहूतः संजयस्तत्र पाण्डवोक्तिं न्यवेदयत् । श्रूयतामविरुद्धैर्वा क्रुद्धैर्वा तैरुदाहृतम् ॥ ६११ ॥ खं राज्यं प्रददाति यद्यवनिपस्तत्किं हतैर्बान्धवै- डूंते किं तु कृतां न विस्मरति तां भीमः प्रतिज्ञां निजाम् । पाणिः किं च पितृव्यपादविनतौ चापे च धावत्ययं तुल्यं चित्तममन्युमन्युशबलं संधौ च युद्धे च नः ॥ ६१२ ।। श्रुत्वैतद्धृतराष्ट्रेण तनयक्षयभीरुणा । भीष्माद्यैश्चार्थितः संधिं बुबुधे न सुयोधनः ॥ ६१३ ॥ अत्रान्तरे लोकगुरुर्लोकप्रत्यायनोद्यतः । संध्यर्थी कौरवान्कृष्णः स्वयमेव समाययौ ॥ ६१४ ॥ भक्त्या पुरः समायातैीष्मद्रोणकृपादिभिः । सहितः स विवेशाथ धृतराष्ट्रस्य मन्दिरम् ॥ ६१५ ॥ हृष्टेन पूजितम्तेन प्रणयेन निमन्त्रितः । खेहे विपदि वा भोक्तुं युक्तमित्याह केशवः ॥ ६१६ ॥ १. 'क्ष्माभुजा च' -ग. २. 'चनो' ३. 'अलं' -ग. ४. 'पुरा' ख. .

२९ ८ श्रीकृष्णावतारः] दशावतारचरितम् । विदुरस्य गृहे भुक्त्वा नीत्वा तत्कथया क्षपाम् । प्रभाते राजभिर्जुष्टां प्रविवेश सभां हरिः ॥ ६१७ ॥ हेमासनोपविष्टेऽथ सामात्ये कौरवेश्वरे । भेजे रत्नासनं शौरिः सहायातैर्महर्षिभिः ॥ ६१८ ॥ अथ प्रथमजीमूतश्यामः सामसुधामयीम् । उज्जगार गिरं स्निग्धगम्भीरां गरुडध्वजः ॥ ६१९ ।। कौरवेन्द्र स्वपुत्रास्ते प्रोतृपुत्रास्तु पाण्डवाः । सदृशाः किं त्वया तेषां भेदात्कलिरुपेक्षितः ॥ ६२० । भवान्विद्यासिन्धुस्तव सुमतिदाता च विदुरः प्रणेता भीष्मोऽयं गुरुरपि भरद्वाजतनयः । अहो तत्राप्येषा प्रभवति मतिर्दुर्नयमयी न विद्मः कस्यायं कृतपरिपाकस्य विभवः ॥ ६२१ ॥ कलङ्क या दत्ते प्रसरदपवादास्पदतया सुहृद्भिर्नैराश्यात्कृतमुख विकारैः परिहृता । अभोग्या बन्धूनां कृशविवशभृत्यार्थिविफला सशापा सा संपद्विपदिव जनोद्वेगजननी ॥ ६२२ । यद्वृत्तं खलकेलिकैतवकलिक्लेशेन कालुण्यकृ- चिते तत्किल संकलय्य सकलं लोकक्षयाशक्तिभिः । संधिर्वैररजोविरामविमलैरभ्यर्थ्यते पाण्डवै- ग्रामैः किं च कुशस्थलप्रभृतिभिः प्रीत्यार्पितैः पञ्चभिः । ६२३॥ कौस्तुभाभरणेनेति भरतान्वयभूतये । सभ्यानां भीष्ममुख्यानां भाषितेऽभिमते सताम् ॥ ६२४ ॥ प्रबोधितोऽपि मुनिभिः कण्वभौगवनारदैः । मदनिद्रालसः प्राह संधिद्वेषी सुयोधनः ॥ ६२५ ॥ मया सूच्यग्रमात्रापि न त्याज्या पाण्डवेषु भूः । किं मिथ्यानीतिचिन्ताभिर्दैवाधीना विभूतयः ॥ ६२६ ॥ १. 'श्यामः' क. २. 'भ्रातुः पुत्राश्च' क. ३. नारदभार्गवे. दशा० १२ ३ काव्यमाला। भवति भिषगुपायैः पथ्यभुङ्गित्यरोगी धनधरणविनिद्रश्छिद्रगोप्ता दरिद्रः । अनयचयविधायी निश्चलैश्वर्यधैर्यः खवशनियंतशक्तेः शासनेनैव धातुः ॥ ६२७ ॥ इत्युक्त्वोत्थाय दर्पान्धः कर्णेन सह कौरवः । सभान्तराद्विनिर्गत्य बन्धं शौरेरचिन्तयत् ॥ ६२८ ॥ सह स्थितेन कथितं कर्णे सात्यकिना हरिः। ज्ञात्वा तन्मतमापेदे विश्वात्मा विश्वरूपताम् ॥ ६२९ ९॥ विश्वाकारव्यतिकरलसद्ब्रह्मरुद्रेन्द्रचन्द्र- प्प्तः सर्वैः सुरमुनिगणैः सिद्धगन्धर्वसाध्यैः । निष्पर्यन्ताकृतिकृतजगद्गौरवः कौरवाणां निद्रामुद्रामदिशदशिवामच्युतः प्रच्युतानाम् ॥ ६३० ॥ विना भीष्मं सविदुरं मोहलीनेषु राजसु । सभामुत्सृज्य भगवान्प्रतस्थे गरुडध्वजः। ६३१ ।। पश्चात्कर्णमथायातमारोप्य खरथे हरिः। प्रेम्णा प्राहार्कतनयं कौन्तेयस्त्वं न सूतजः ॥ ६३२ ॥ सहोदरान्पाण्डुसुतान्भजस्व त्यज कौरवान् । राज्यं तव क्रमायातं कुरु मद्वचनं हितम् ॥ ६३३ ।। इत्युक्तं शौरिणा श्रुत्वा कर्णस्तं प्रत्यभाषत । सर्व वेद्मिन निन्द्यं तु मित्रद्रोहमहं सहे ॥ ६३४ ॥ देव त्वमेव वद कौरवभूमिभर्तु- रुत्सङ्गसक्तशिरसः कथमर्कजोऽहम् । व्यापारयामि सुहृदः परिपीय लक्ष्मी कण्ठे शठः कठिनधारमकुण्ठशस्त्रम् ॥ ६३५॥ साम्राज्यं निहतारातिरवाप्स्यति युधिष्ठिरः । स दृष्टः श्वेतवाहस्थः खप्ने पायसभुङ्मया ॥ ६३६ ॥ १. निशित' क. २. 'शै स्थः' -ग. ..

८ श्रीकृष्णावतारः] दशावतारचरितम् । दृष्टाश्च कौरवाः सर्वे तैलाक्ताः खरवाहनाः । रक्तमाल्याम्बरोष्णीषा व्रजन्तो दक्षिणां दिशम् ॥ ६३७ ॥ इति वैकर्तनेनोक्तं विचिन्त्योचितमच्युतः । तं विसृज्य समामय प्रययौ पाण्डवान्तिकम् ॥ ६३८ । प्रातः कुन्ती समभ्येत्य कर्ण सूर्यार्चनोन्मुखम् । मुक्तमौनं तदेवाह नामन्यत स चाचलः ॥ ६३९ ॥ उवाच च विना जिष्णुं ने हन्न्यन्यं तवात्मजम् । मयि तेन मया तस्मिन्हते त्वं पञ्चपुत्रिका ॥ ६४ ॥ श्रुत्वैतत्प्रययौ कुन्ती भन्मार्थितमनोरथा । ससैन्याश्च कुरुक्षेत्रमाजग्मुः कुरुपाण्डवाः ॥ ६४१ ॥ बलद्वये कुरुक्षेत्रे संनिविष्टे सुयोधनः । भीष्मं सेनापति चक्रे धृष्टद्युम्नं युधिष्ठिरः ।। ६४२ ॥ रथसंख्याक्षणे कर्णं भीष्मोऽर्धरथमभ्यधात् । तयुद्धावधि युद्धं च कोपात्तत्याज सूतजः ॥ ६४३ ॥ ततः सुयोधनं भीष्मः प्राहोत्साहाहवोन्मुखः । योद्धाहं त्वद्विपक्षाणामेकं मुक्त्वा शिखण्डिनम् ॥ ६४४ । काशिराजसुतां पूर्व बलात्कन्याः स्वयंवरे । अम्बाम्बिकाम्बालिका च भ्रातुरर्थे समाहृताः॥ ६४५ ॥ साल्वाभिलाषिणी नीता त्वयासीत्यार्तवादिनी । संत्यक्ताम्बा ययौ साल्वं सोऽपि तां नाग्रहीद्भिया ॥ ६.६ ॥ पुनः प्राप्ता मया त्यक्ता भनमानमनोरथा । सा जगामोभयभ्रंशखिन्ना मुनितपोवनम् ॥ ६४७ ॥ ततस्तद्दुःखकारुण्याद्गुरुर्मामेत्य भार्गवः । अम्बां गृहाणेत्यवदत्प्रत्याख्यातः पुनः पुनः॥ ६४८॥ आज्ञाभङ्गेन कुपितः स मया समरे जितः । ययौ क्षत्रोपदेशात्तनियमः खं तपोवनम् ॥ ६४९ ॥ १. 'उक्तो' ख-ग. २. 'नाहं हन्मि' ख-ग. ३. 'पुत्रपञ्चका' क.४. 'अब्रवीत्' -ग.

'१३२ काव्यमाला मन्मन्युत्यक्तदेहाम्बा जाता मत्क्षयकाङ्किणी । कन्या पाञ्चालराजस्य द्रुपदस्य शिखण्डिनी ॥ ६५० ॥ प्रख्यापिता पुत्रतया सा पित्रा पुत्रकाविणा। लेभे दशार्णराजस्य विवाहविधिना सुताम् ॥ ६५१ । शय्यारूढा दशार्णेशकन्या कन्यां विलोक्य ताम् । दूत्या न्यवेदयत्पित्रे स च क्रुद्धः समाययौ ॥ ६५२ ॥ दशार्णरुद्ध नगरे द्रुपदे विद्रवोद्यते । खिन्ना शिखण्डिनी रात्रौ प्रययौ शून्यकाननम् ॥ ६५३ ॥ तत्र स्थूणाख्ययक्षेण कृपयैकदिनार्पितम् । विधातृशक्तिवैचित्र्यात्सा लेभे लक्ष्म पौरुषम् ॥ ६५ ॥ दर्शितं द्रुपदेनाथ पुरुषव्यञ्जनं सुतम् । दृष्ट्वा विमन्युर्दाशार्णः खां ययौ लज्जितः पुरीम् ॥ ६५५ । वनं वैश्रवणः प्राप्तस्तं समीपमनागतम् । स्थिरस्त्रीलक्षणं यक्षं शापेन विदधे क्रुधा ॥ ६५६ ॥ भगृहीतेऽथ यक्षेण खलक्ष्मणि शिखण्डिनी । पुरुषत्वं गता वयः स्त्रीपूर्वः स मया युधि ॥ ६५७ ॥ न संत्रस्ते न निःशस्त्रे नान्यविद्धे न विद्रुते । न स्त्रीपूर्वे न साक्रन्दे निपतन्ति ममेषवः ॥ ६५८ ॥ उक्त्वेति दिव्यतटिनीतनयस्तरखी वृद्धोऽपि शौर्यतरुणस्तरणिप्रतापः । प्रम्लानतां परबले निजकार्मुके ज्यां चित्ते च कौरवपते तिमाबबन्ध ॥ ६५९ ॥ दिव्यं युद्धेक्षणं चक्षुः कृष्णद्वैपायनार्पितम् । अगृहीतमैथ प्राप धृतराष्ट्रेण सजयः ॥ ६६० ।। कुरुपाण्डवसभामं कुरुक्षेत्रे विलोक्य सः । धृतराष्ट्राय निखिलं दिव्यचक्षुर्त्यवेदयत् ॥ ६६१ ॥ २. 'विच्युते' क. ३. 'अपि' क. . 'देहा ।

८ श्रीकृष्णावतारः] दशावतारचरितम् अथ युद्धाय संनद्धे भूमिपालबलद्वये। गुरून्भीष्मकृपद्रोणमुखान्संबन्धिबान्धवान् ॥ ६६२ ।। दृष्ट्वा युद्धोद्यतानने श्वेताश्वः कृष्णसारथिः । मुमोह करुणाकान्तः प्रशान्तसमरोद्यमः ।। ६६३ ।। तं समाश्वास्य शोकात जगाद गरुडध्वजः । त्रिजगत्सर्गसंहारक्रीडापरिचितोऽच्युतः ॥ ६६४ ॥ मनुष्यजन्मजनिता केयं ते मोहवासना । क्षयं यदक्षयस्यापि शङ्कसे परमात्मनः ॥ ६६५ ॥ स्फटिकस्येव कुरुते रागयोगाच्चिदात्मनः । मिथ्याकलङ्ककलनां कायाहंकारसंकरः ॥ ६६६ ।। मेघव्योमसमागमप्रतिनिधिधूमामिसङ्गोपमः श्लेषः कायचिदात्मनोः प्रकुरुते भिन्नोऽप्यभिन्नक्रमम् । छिन्नेच्छाघनमूलनिष्फलतया नित्यप्रवृत्तक्रियैः संमोहः स्वपरावभेदरहितैर्युक्तैः स संत्यज्यते ॥ ६६ ॥ इत्युक्त्वा प्रत्ययोत्पत्त्यै विश्वव्याप्तिनिदर्शनम् । अर्जुनस्योर्जितं विष्णुर्विश्वरूपमदर्शयत् ॥ ६६८ ॥ तत्सर्वदेवमयमद्भुतमच्युतस्य रूपं सहस्रकरकोटिनिभं बभासे । निःशेषभूपतितरङ्गितसैन्यसिन्धु- प्रासाभिलाषवडवानलतुल्यवक्रम् ॥ ६६९ ॥ वचः श्रुत्वा वपुदृष्ट्वा दिव्यं मोहहरं हरेः। निर्विकल्पमतिर्जिष्णुः सङ्ग्रामाभिमुखोऽभवत् ॥ ६७ रथायादवरुह्याथ रणारम्भे युधिष्ठिरः । प्रणनाम प्रसादाान्भीष्मद्रोणमुखान्गुरून् ॥ ६७१ ।। ते तमूचुर्गुणोदारं विधाय विजयाशिषम् । परं लज्जामहे राजन्प्रयातास्त्वद्विपक्षताम् ॥ ६७२ । १. 'युद्धोद्धतान्' २. 'प्रवृत्ता क्रिया' ar 'प्रवृत्ती....

१३४ काव्यमाला। किं कुर्महे परायत्ता वेतनोत्तानपाणयः । कौरवस्य परं याताः सेवाकार्पण्यपण्यताम् ॥ ६७३ ।। अग्रे संकुचिताकृतिर्लघुतया यात्युन्मुखत्वं विभो- राशापाशनिवेशयन्त्रिततनुः संख्याक्षणे लम्बते । अल्पेनापि समर्पितेन सुतरां वित्तेन धत्ते रतिं साकम्पः किल कायविक्रयतुलारूढः सदा सेवकः ।। ६७४ ।। इत्युक्त्वा तैर्विसृष्टेऽथ रथारूढे युधिष्ठिरे । चेरुर्वीरा यशःपुष्पलुब्धा इव शिलीमुखाः ॥ ६७५ ॥ प्रवृत्ते धनसंमर्दे नृत्यत्खनशिखण्डिनि । पेतुर्भूभृत्कुले भीष्मशरधारापरम्पराः ।। ६७६ ॥ द्वन्द्वसक्तेषु शूरेषु विराटसुतमुत्तरम् । निनाय समरे शल्यः क्षयारम्भोपहारताम् ॥ ६७७ ॥ नवमे युद्धदिवसे नागीतनयमा निम् । इरावन्तं जधानाजौ रक्षःपतिरलम्बुसः ॥ ६७८ ॥ प्रत्यहं युधि भीष्मेण भूभृतामयुते हते । दशमेऽह्नि क्षयाशङ्का पाण्डवानामजायत ॥ ६७९ ।। भीष्माभिमुखमाप्तस्य रणे गाण्डीवधन्वनः । शिखण्डी पुरतस्तस्थौ मेघस्येव प्रवर्षिणः ॥ ६८० ॥ स्त्रीपूर्वदेर्शनोद्वेगशिथिलीकृतकार्मुकः । प्राह दुःशासनं मीष्मः किरीटिशरपूरितः ॥ ६८१ ॥ एते ते त्रिपुरारातिकिरातपतनोन्नताः। शराः खाण्डवशौण्डस्य चण्डा गाण्डीवर्धन्वनः ॥ ६८२ ॥ एते दुःसहदस्यवः कुरुपतेर्वस्त्रग्रहे गोग्रहे कोपव्याकुलकालखञ्जजयिनः पौलोमनिर्मूलनाः । जिष्णोर्लक्ष्यभिदः स्वयंवरमणेः (हे) मापालवैलक्ष्यदा न स्त्रीपूर्वशिखण्डिनस्तनुतृणक्लीबाननाः सायकाः ॥ ६८३ ॥ 'मेघस्येवेषु वर्षिणः' ग.. 'दर्शनोद्योग' -ग. ३. 'धन्विन. ख-ग. .

१३५ ८ श्रीकृष्णावतारः] दशावतारचरितम् । इति ब्रुवन्कौरवेशं शरनिर्विवराकृतिः । स पपात रथादस्तशैलादिव दिवाकरः॥ ६८४ ॥ पितुर्वरेण स्वच्छन्दमृत्युर्योगपरायणः । उत्तरायणमाकान्स जीवितमधारयत् ।। ६८५ ।। दिव्यास्त्रभिन्नभूजाततोयाप्यायकृदर्जुनः । शिरस्तस्य निराधारमुचिक्षेप शरैस्त्रिभिः ॥ ६८६ ॥ कर्णेन प्रणिपातकीर्णचरणः पूरेण बाष्पाम्भसा- माशापाशविमुक्तिनिश्चलसुखः संसारविस्तारिणम् । सस्मार स्मरणीयमन्तसमये संतोषविश्रान्तधीः शान्तानन्तविकल्पतैल्पविमले चित्तेऽच्युतं सोऽच्युतम् ॥६८७॥ अथ भीष्मविहीनस्य धृतिहीनस्य पश्यतः। सैन्यस्याधिपतिं चक्रे द्रोणाचार्य सुयोधनः ॥ ६८८ ॥ प्राप्ताभिषेकः प्रददौ वरं दुर्योधनाय सः । युधिष्ठिरं गृहीत्वा ते दास्यामि समरादिति ॥ ६८९ ॥ ततः प्रवृत्ते सङ्ग्रामे प्रथमेऽह्नि नृपक्षयः । इतोऽभूद्रोणविशिखैधृष्टद्युम्नशरैरितः ॥ ६९० ॥ द्वितीये युद्धदिवसे सारितः कुरुभूभृता । गतेऽर्जुने धर्मसुतं ग्रहीष्यामीति सोऽभ्यधात् ॥ ६९१ । ततः संशप्तकाः शूराः शपथादनिवर्तिनः । त्रिगर्ताः समरादूरं निन्युराहूय फाल्गुनम् ॥ ६९२ ॥ कौरवैः पाण्डवानीके कुरुसैन्ये च पाण्डवैः । त्रिगर्ताब्धौ च पार्थेन दारितेऽभून्नृपक्षयः ॥ ६९३ ।। सुप्रतीकगजारूढस्ततः प्राग्ज्योतिषेश्वरः। मृगन्गजरथानीकं पाण्डुसेनां व्यलोकयत् ॥ ६९४ ॥ . १. 'निराधारं स चिक्षेप' -ग. २. 'विस्तारणम्' ख. ३. 'विश्रान्तये' ४. 'जल्प' ५. 'इति' ६. 'भूभुजा' क.

काव्यमाला। श्रुत्वास्य सैन्यसंमदं त्वरितः श्वेतवाहनः । मुरारिप्रेरितरथः कुञ्जरस्याभवत्पुरः ॥ ६९५ ।। घोरे प्रवृत्ते समरे किरीटिभगदत्तयोः । ऊर्ध्वाधःपातिनामासीत्संघर्षः पत्रिणामपि ॥ ६९६ ॥ विश्वक्षयक्षमं क्षिप्तं भगदत्तेन वैष्णवम् । जग्राहार्जुनरक्षायै वक्षसास्त्रमधोक्षजः ॥ ६९७ ।। स्त्रकृत्ते पतिते भगदत्तेऽथ भूभृति । भमभूभृत्कुला पृथ्वी चकम्पे कुरुवाहिनी ॥ ६९८ ॥ तृतीये युद्धदिवसे प्रतिज्ञाभङ्गलज्जितः । चक्रव्यूह व्यधाकुँद्धः संसारगहनं गुरुः ॥ ६९९ ॥ पार्थे संशप्तकान्याते व्यूहं धर्मसुताज्ञया । सौभद्रः केसरिशिशुर्गजयूथमिवाविशत् ॥ प्रवेष्टुमुद्यतान्व्यूहमभिमन्युविदारितम् । अवारयद्भर्गवरात्पाण्डुपुत्राञ्जयद्रथः ॥ ७ १॥ अभिमन्युशरोत्कृत्तशिरसां कङ्कटक्षये। भूभृतां वज्रभिन्नानां शृङ्गभङ्ग इवाभवत् ॥ ७०२ ॥ नृपान्कर्णकृपद्रौणिशल्यहार्दिक्यसौबलान् । एकैकशः समस्तांश्च स शरैर्विमुखान्व्यधात् ॥ ७०३ ॥ कृत्तचापः स कर्णेन हताश्वः कृतवर्मणा । कृपेण हतसूतश्च हतः सर्वैर्महारथैः ॥ ७०४ ॥ हत्वा त्रिगर्तानायातः सव्यसाची दिनक्षये । मुमोह तनयं श्रुत्वा हतमेकं महत्तरैः ॥ ७०५ ॥ व्यूहद्वारनिरोद्धारं ज्ञात्वा हेतुं जयद्रथम् । अनस्तगे रवौ जिष्णुः प्रतिज्ञां तद्वधे व्यधात् ।। ७ ६ । तत्प्रतिज्ञाभयागन्तुं रात्रौ सैन्धवमुद्यतम् । गोप्ता तवाहमित्युक्त्वा दर्पाद्गुरुरवारयत् ॥ ७०७ ॥ १. 'लुब्ध' का 'नृपकर्ण' श.

८ श्रीकृष्णावतारः] दशावतारचरितम् १३७ खमे स कृष्णः श्वेताश्वः स्तुत्वा देवं पिनाकिनम् । विधि पाशुपतास्त्रस्य तदादिष्टमवाप्तवान् ॥ ७०८ ॥ प्रभाते शकटव्यूहे सूचीपाशे जयद्रथम् । निवेश्य यत्नादाचार्यश्चक्रे दैवजयोद्यमम् ॥ ७०९ ॥ व्यूहद्वारस्थितं द्रोणं प्रणम्याथ धनंजयः । कम्पलोलं विवेशाशु सैन्यं वनमिवानलः ॥ १० ॥ मनोजवस्य विशतः शरैर्गाण्डीवधन्वनः । शिरःसमूह आच्छिन्नः पपात भुवि भूभृताम् ॥ ७११ ।। दूरं प्रविष्टे श्वेताश्वे शङ्खशब्दमशृण्वता । विवेश सात्यकिलो॒हं विसृष्टो धर्मसूनुना ॥ १२ ॥ तस्य निर्दारितारातेर्विशिखाशनिवर्षिणः । भूरिश्रवा धैर्यनिधिर्वेगं गिरिरिवाग्रहीत् ॥ ७१३ ॥ तौ कृत्तकार्मुकरथौ खड्गचर्मधरौ मिथः । युध्यमानौ ददृशतुर्नान्तरं चित्रचारिणौ ॥ ७१४ ॥ सात्यकः पातितस्याथ शिरश्छेत्तुं समुद्यतम् । जिष्णोरदर्शयद्राद्भूरिश्रवसमच्युतः ॥ ७१५ ॥ पार्थस्तस्यार्धचन्द्रेण सखड्गं भुजमुद्यतम् । कङ्कणारावसाक्रोशमिव च्छित्त्वा न्यपातयत् ॥ ७१६ ॥ स कृत्तबाहुर्घिकृत्य निन्दनकृष्णकिरीटिनौ । तालुरन्ध्रोगतज्योतिर्योगेनात्मानमत्यजत् ॥ ७१७ ॥ अवाप्य संज्ञामज्ञातवृत्तः सात्यकिराकुलः । धिकृतः सर्वभूपालैश्चकर्तास्यासिना शिरः ॥ ७१८ ॥ युधिष्ठिराज्ञया व्यूहं प्रविशन्नथ मारुतिः । द्रोणं सरथमुत्क्षिप्य चिक्षेपाद्भुतविक्रमः ॥ ७१९ ॥ स निष्पिष्टगजानीकः प्रविष्टः कर्णमग्रतः । कृतायुधाश्वं पटकृत्वश्चकाराहतकौरवः ।। ७२० ॥ 'प्रकर' . 'समूह' ख. २. 'षट्कृला' ग.

१३८ काव्यमाला। ततः कर्णः समुत्कृत्तकवचायुधवाहनम् । तुदन्भीमं धनुष्कोट्या नावधीज्जननी स्मरन् ॥ ७२१ ॥ दिनस्य शिरसीवार्के लम्बमाने क्षणक्षये । दृष्ट्वा जयद्रथं दूरात्संदधेऽस्त्रं धनंजयः ॥ ७२२ ॥ क्षितौ तस्य शिरः क्षेप्तुः शिरः पूर्व पतेदिति । पित्रा दत्तं वरं कृष्णः फाल्गुनाय न्यवेदयत् ॥ ७२३ ॥ कुरुक्षेत्राबाहिर्जिष्णुः संध्यासीनस्य तत्पितुः । चिक्षेपाङ्के शरोत्कृतं शिरस्तस्मारिक्षतिं ययौ ॥ ७२४ ॥ अक्षौहिणीः सप्त हेत्वा जिष्णुना सैन्धवे हते । दैवमेव जनो मेने सर्वथा निष्प्रतिक्रियम् ॥ ७२५ ।। उक्त्वापि गुरुणा रक्षां रक्षिते न जयद्रथे। लज्जितेन समादिष्टं रात्रियुद्धमवर्तत ॥ ७२६ ॥ समुद्धततमःकेशी रणे तरलतारका। ननर्तासिमुंजा वीररक्तक्षीबेव सा क्षपा ॥ ७२७ ।। अर्धरात्रेऽथ निष्पिष्टकौरवानीकनायकः । शस्त्रानलशिखावर्षी खं विवेश घटोत्कचः ॥ ७२८ ।। तस्याट्टहासविस्पष्टदंष्ट्रांशुपटलैर्मुहुः । पाट्यमानमिवाकृष्टं रुरावाघट्टितं तमः ॥ ७२९ ॥ कुरुसैन्ये रणे भन्ने हैडिम्बस्य प्रमाथिनः । कर्ण एव पुरस्तस्थौ पौलस्त्यस्येव राघवः ॥ ७३० ।। एकवीरवधव्यक्त्या शक्त्या वैकर्तनोऽथ तम् । जघान घनसंमर्द कुमार इव तारकम् ॥ ७३१ ।। पञ्चमे युद्धदिवसे प्रातर्दिव्यास्त्रदुःसहः । पंजागरगरक्षीबान्क्षितीशानवधीद्गुरुः ॥ ७३२ ॥ 'दत्तवर' ३. 'अ निनशरावर्षी' ख; 'अ निलशिलावर्षी' ग. ४. 'हरावाघटितं' -ग. ५. 'क्षपाप्रजागरक्षीबान्' क. . २. 'जिला' ८ श्रीकृष्णावतारः] दशावतारचरितम् । १३९ : हत्वा विराटं द्रुपदं पा लं च ससृञ्जयम् । ब्रह्मास्त्रेणाकरोद्रोणः कल्पन्ताविर्भवभ्रमम् ॥ ७३३ ॥ अश्वत्थामा हतः संख्ये स्पष्टमुक्त्वेति धर्मजः । हस्तीत्यसत्यचकितः पश्चात्स्वैरमभाषत ।। ७३४ ॥ श्रुतपुत्रवधस्याथ त्यक्तशस्त्रधृतेर्गुरोः । उत्क्रान्तधाम्नः खड्नेन धृष्टद्युम्नः शिरोऽहरत् ।। ७३५ ।। हते द्रोणे प्रकुपितः कृतान्त इव तत्सुतः । नारायणास्त्रमसृजज्वालालीढजगत्रयम् ॥ ७३६ ॥ अस्त्रानले प्रज्वलिते वीराः सर्वे हरेगिरा । रथेभ्योऽवातरन्यस्तशस्त्राः पवनजं विना ॥ ७३७ ।। एकीभूतास्त्रदहनव्याप्तं भीममथाच्युतः । हृतायुधं समाकृष्य रथापादनयद्भुवम् ॥ ७३८ ।। शान्तेऽस्त्रे द्रौणिनाग्नेयं घोरमस्त्रमुदीरितम् । ब्रह्मास्त्रेणार्जुनः शान्ति निनाय प्रलयोद्यतन ॥ ७३९ ॥ अथ मोहविषावेशसमनीलमणिप्रभम् । प्राप्तं दृष्ट्वा मुनि द्रौणिः प्रणम्य व्यासमभ्यधात् ।। ७४ ॥ कस्मान्मे भगवन्नस्त्रवैकल्यम्लानमानता । मदस्त्रदैहनान्मुक्तौ कस्मात्कृष्णधनंजयौ ॥ ७४१ ॥ तमब्रवीन्मुनिद्रोणे त्वमंशस्त्रिपुरद्विषः । नरनारायणौ देवौ जातौ कृष्णधनंजयौ ॥ ७४२ ॥ मूर्ती त्वयार्चितः शंभुराभ्यां लिङ्गे सुपूजितः । एतौ तेनाधिकौ त्वत्तस्त्यजैतां कोपविक्रियाम् ॥ ७४३ । मुनिमाश्वासितद्रौणिं व्रजन्तं फाल्गुनः पुरः। दृष्ट्वा रथादवलुत्य प्रणम्य तमभाषत ।। ७४४ ॥ १. 'कल्पान्तविभव' ग. २. 'वैक्लव्य' क. ३. 'दहनोन्मुक्ती' क. ४. 'द्रौणिं' ५. 'स पूजितः' १४ काव्यमाला। भगवन्कौरवव्यूहं प्रविष्टेन मया पुरः । अस्पृष्टभूमिः पुरुषो दृष्टः शूलकरः स कः ॥ ७४५॥ मुनिः प्राहार्जुनं देवः स स्वयं शशिशेखरः। त्र्यम्बकस्त्रिपुरारातिख्यक्षस्त्रिपथगाधरः ॥ ७४६ ।। स्मर मरारिं तमुमासहायं शिवं जगद्रासविलाससक्तम् । भयापहं मीममनेकरूपमुक्त्वेति पार्थ प्रययौ मुनीन्द्रः ॥ ४७ ॥ हते द्रोणे प्रिय मित्रं कौरवश्चिरचिन्तितम् । कर्ण सेनापतिं कृत्वा जगज्जितममन्यत ॥ ७४८ ॥ अभ्यर्थ्य सारथिं शल्यं चक्रे तस्य सुयोधनः । " रुद्रस्य त्रिपुरारातः संनद्धस्येव वेधसम् ॥ ७४९ ॥ कीर्णास्त्रकिरणः कर्णस्ततः पाण्डववाहिनीम् । शरत्तीत्र इवोष्णांशुर्निनायाल्पावशेषताम् ॥ ७५० ।। मीमः कुरुचमूमध्ये क्षपयन्धृतराष्ट्रजान् । कृष्णाकेशाम्बराकर्षकुशलं प्राप कौरवम् ॥ ७५१ ॥ असिकृत्तोरसस्तस्य भीमः शोणितमापपौ । प्रकोपराक्षसावेशविवशः कुरुते न किम् ॥ ७५२ ॥ कर्णास्त्रपीडनक्रुद्धयुधिष्ठिरगिरादितः । राधेयनिधनाधानसंनद्धोऽभूद्धनंजयः ॥ ७५३ ॥ प्रवृत्ते संभृतामर्षे रणे कर्णकिरीटिनोः । मृगस्त्वं जिष्णुसिंहाने कर्णमित्याह मद्रपः ॥ ७५४ ॥ खण्डपुच्छामिधं नागमथ संधाय संचितम् । प्राहिणोत्पाण्डुपुत्राय कर्णः खाण्डवखण्डितम् ।। ७५५ ।। हरिगौरवनम्रश्च(स्य) विनतस्य स पन्नगः । जहाराप्राप्तकण्ठाग्रः किरीटांशं किरीटिनः ॥ ७५६ ॥ भूग्रस्तचक्रमुद्धर्तुमथ स्वरथमुद्यतः । क्षणक्षमार्थे राधेयः पार्थस्यातिथितां ययौ ॥ ७५७ ॥ १. 'परः' ख-ग. २. 'वेधसा' ख-ग.३.'गिरार्पित 'ख-ग. ४. 'कण्ठाश-'ख-ग. ५. 'क्षमार्थी' क.

८ श्रीकृष्णावतारः] दशावतारचरितम् । कृष्णस्तमब्रवीद्रीडाकरशल्योक्तिपीडितम् । धर्मः स्मृतोऽद्य राधेय नाभिमन्युवधे त्वया ॥ ७५८॥ यथा तप्तस्यान्ते भवति मृदुता संनतिमयी तथा सा स्यात्पूर्व यदि जनमता वृत्तिरथ सः (१) । घनाघातोत्कर्षापरपुरुषहुंकारविहिता न तस्यासीत्पीडा निबिडजडतावाप्तविकृतेः॥ ५९ । इत्युक्ते शौरिणा कर्णः समारुह्य रथं पुनः । संदधे भार्गवादिष्टं महास्त्रं शिथिलस्मृतिः ।। ७६ ॥ बाणेन कृत्तगलमञ्जलिकाभिधेन तस्यार्जुनस्तरलकुण्डलदीप्तगण्डम् । वत्रं जहार पृथुहारविलम्बिशोण- रत्नप्रभानिभनभःप्रसृतप्रकाशम् ॥ ७६१ ॥ हते कर्णे वहन्नन्तःशोकशल्यं सुयोधनः । शल्यं सेनापतिं कृत्वा युयुधे निधनोत्सुकः ॥ ७६२ ॥ शल्येन पीडितं दृष्ट्वा निजसैन्यं युधिष्ठिरः। भ्रूमङ्ककङ्कवत्राङ्कस्तं समुद्धर्तुमाद्रवत् ॥ ७६३ ॥ तस्येषुवर्षिणश्छित्त्वा रथसारथिकार्मुकान् । पाहार्षीत्पाण्डवः शक्तिं कालदंष्ट्रामिवोत्कटाम् ।। ७६४ ॥ प्रविश्य शल्यहृदयं शक्तिर्बिलमिवोरगी । वेगशूत्कारनिःश्वासा साविशद्वसुधातलम् ॥ ७६५ । खयं राज्ञा हते शल्ये सहदेवेन सौबले । सैन्ये शेषे च भीमेन निःसैन्योऽभूत्सुयोधनः ॥ ७६६ ॥ कृतवर्मकृपद्रौणिशेषः कुरुपतिस्ततः । विरथस्तान्समामन्य विवेशालक्षितो हृदम् ॥ ७६७ ॥ हृदस्यान्तर्नुपे तस्मिन्प्रविष्टे शत्रुशङ्किते । मीम भीमभयेनेव पयश्चिरमकम्पत ।। ७६८ ॥ २. 'तले' -ग. १. 'प्राहेषीत् दशा. १३ १४२ काव्यमाला यस्याशेषनरेशरत्नमुकुटैः पीडाभवत्पादयो- स्तस्यारातिनिपातशतितमतेरेकाकिनोऽन्तर्जले। क्रोधव्याधुतनक्रचक्रमकरक्रूरान्तदन्ताहति- क्लेशक्लान्तिरभूद्धिगस्थिरपदाः शोकप्रदाः संपदः ॥ ७६९॥ ऋणशेषमिव ध्यायन्धार्तराष्ट्र युधिष्ठिरः । लुब्धकानां गिरा ज्ञात्वा ससैन्यस्तूर्णमाययौ ॥ ७७० ॥ स्तिमितं सलिलस्थं तं जगाद च तटस्थितः । राजन्नुत्तिष्ठ लज्जेयं युक्तं नान्ते पलायनम् ॥ ७७१ ॥ कृत्वा क्षत्रक्षयं शेषां रक्षसि क्षत्रियस्तनुम् । एकेन सह युध्यस्व जिते तस्मिञ्जिता वयम् ॥ ७७२ ॥ श्रुत्वैतत्सहसोत्थाय तमभाषत कौरवः । एष क्षपाक्षपणधीः प्रविष्टोऽहं जलान्तरम् ॥ ७७३ । न मे राज्ये शरीरे वा तृणे वापि स्पृहा कचित् । इत्युक्त्वा सहितः सर्वैः स कुरुक्षेत्रमाययौ ॥ ७७४ ।। अत्रान्तरे हलधरः श्रुत्वा कुरुकुलक्षयम् । सारखतेषु तीर्थेषु स्नात्वा तं देशमाययौ ॥ ७७५ ॥ प्रधानक्षेत्रके तस्मिन्नुपविष्टे सहामरैः । भीमकौरवयोश्चित्रं गदायुद्धमवर्तत ॥ ७७६ ॥ वर्ण्यमानेऽथ भीमेन प्रहारे कौरवेण च । तदाघातच्युते भीमे भीमाघातेन चापरे ।। ७७७ ।। सुचिरं संशयतुलारूढे खभटमण्डले । न तयोरन्तरं कश्चिद्ददर्शाश्चर्ययोधिनोः ॥ ७७८ ।। अथ भीमगदाघातभिन्नोरुः कौरवेश्वरः। पपात कीर्णहाराश्रुधारां कुर्वन्निव क्षितिम् ॥ ७७९ ॥ पदा भीमेन तन्मौलौ स्पृष्टे क्रुद्धं हलायुधम् । शमयामास कंसारिर्वदन्कौरवदुर्नयम् ॥ ७८० ॥ १. शाक्रान्ति' ग. २. 'जलान्तरे' -ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १४३ प्रयातेष्वथ सर्वेषु द्रौणिहार्दिक्यगौतमाः । निशि देशं तमभ्येत्य ददृशुः पतितं नृपम् ॥ ७८१ ॥ भिन्नोरुमध्यव्यथया दन्तदष्टमहीतलम् । वारयन्तं गदाग्रेण गृध्रगोमायुवायसान् ॥ ७८२ ॥ तं दृष्ट्वा द्रौणिरवदत्तीब्रहृन्मर्मवेदैनः । किं त्वया निःसहायेन शत्रुवह्नौ हुता तनुः ॥ ७८३ ॥ अकृष्णपाण्डवं लोकं करोमि तव शासनात् । इत्युक्त्वा तद्विरा गत्वा प्रविवेश महद्वनम् ॥ ७८४ ॥ कृपभोजसखस्तत्र रात्रौ काकान्निपातितान् । उलूकैर्वृक्षमूलस्थः स दृष्ट्वाचिन्तयच्चिरम् ॥ ७८५ ॥ काकान्कालबलेनैते नन्त्येषारिवधे स्थितिः । हन्तुं पाण्डुसुतान्रात्रौ सुप्तानेव व्रजाम्यहम् ॥ ७८६ ॥ ध्यायन्निवार्यमाणोऽपि कृपेण कृतवर्मणा । क्रोधादगणयन्पापं स ताभ्यां प्रययौ सह पाण्डवेषु गिरा शौरेः सुप्तेष्वन्यत्र शङ्कया । पाञ्चालसेनाशिबिरद्वारं द्रौणिरवाप्तवान् ।। ७८८ ॥ तत्र दृष्ट्वा महद्भूतं सर्पकेयूरकङ्कणम् । प्रादुर्भूतं शिरश्छित्त्वा वह्नौ क्षेप्तुं समुद्यतः ॥ ७८९ ॥ प्रीत्या भगवता तेन रुद्रेण खयमर्पितम् । द्रौणिनिस्त्रिंशमादाय विवेशारिक्षयोत्सुकः ॥ ७९ ॥ पन्यामशस्त्रनिधनं धृष्टद्युम्नं विधाय सः । शिखण्डिनं द्विधा कृत्वा जघानाक्षौहिणी क्षणात् ॥ ७९१ । स सुप्तवधपापेन प्रलिप्तः शोणितेन च । कृतान्तक्रूरचरितः प्रययौ कौरवान्तिकम् ॥ ७९२ ॥ निःशेषशत्रुनिघुनं श्रुत्वा द्रौणिनिवेदितम् । खर्गेऽस्तु सङ्ग इत्युक्त्वा नृपस्तत्याज जीवितम् । ७९३ ॥ १. 'हिबोरु' २. 'व्याघ्र' -ग. ३. 'वेदनम्' -ग. ४. 'मथनं' . .

काव्यमाला। प्रातर्बन्धुवियोगातौं कृष्णाशोकामितापितौ । भीमार्जुनौ प्रययतुः क्रुद्धौ द्रौणिजिघांसया ॥ ७९४ ॥ द्रौणिः सरखतीतीरे चरन्त्रणघृताप्लुतः। दृष्ट्वा भीमार्जुनावस्त्रं ब्रह्मशीर्षमवासृजत् ॥ ७९५ ॥ अर्जुनो ब्राह्ममस्त्रं च सघर्षेणास्त्रयोस्तयोः । अकालप्रलयारम्भसंरम्भोऽभूदिवौकसाम् ॥ ७९६ ॥ तद्रौणिमुक्तमपतन्महास्त्रं व्यासशासनात् । अभिमन्युवधूगर्भे द्रौणिचूडामणौ परम् ॥ ७९७ ॥ पाण्डवाः पुत्रशोकात धृतराष्ट्रं प्रलापिनम् । गान्धारीसहितं गत्वा प्रणेमुर्लजिताः शनैः ॥ ७९८ ॥ क्रमादोलिङ्गने भीमः शौरिबुध्यायसः कृतः । चूर्णतामंगमगाढं धृतराष्ट्रेण पीडितः ॥ ७९९ ॥ युधिष्ठिरस्य गान्धारी सतीं प्रणमतः पुरः। तदृष्टिः सानलज्वाला पादाङ्गुष्ठयुगेऽपतत् ॥ ८० ॥ स्नुषामिः सह गान्धारी खयं गत्वा रणावनिम् । दृष्ट्वा हतान्सुतान्कृष्णं शशाप क्षयकारिणम् ॥ ८०१ ॥ षट्त्रिंशवत्सरे कृष्ण तवाप्येवं कुलक्षयः । भविष्यतीति तद्वाक्यं श्रुत्वा तामच्युतोऽवदत् ।। ८०२ ।। पुनरुक्तस्त्वयायं मे दत्तः शापः पतिव्रते । अवश्यमेव भविता तस्मिन्वर्षे यदुक्षयः ॥ ८०३ ।। ततः कृतोदकविधिर्बान्धवक्षयदुःखितः । राज्यं न लेभे मुनिभिर्बोधितोऽपि युधिष्ठिरः ॥ ८०४ ॥ कर्ण कुन्तीगिरा ज्ञात्वा प्रातरं निहतं रणे । स शुशोच शुचाक्रान्तस्ततस्तं नारदोऽवदत् ॥ ८ ५॥ क्षत्रियाचार्यके भीष्मनिकारात्कृतसंयमम् । अस्त्रार्थी भार्गवं कर्णः प्रययौ विप्रवेषवान् ॥ ८०६ ।। २. 'आलि नम् ३. 'प्रययौ' -ग. १. 'द्रोणेः ८ श्रीकृष्णावतारः] दशावतारचरितम् ५. रामस्तदङ्कसुप्तोऽर्धनिद्रासंक्षयभीरुणा क्रूरक्रिमिक्षतेनापि कर्णेन न विबोधितः ॥ ८ ७ ॥ तद्रक्ताक्तः प्रबुद्धोऽथ दृष्ट्वा शेऽपि निश्चलम् । रामः कर्णं न विप्रोऽसीत्युक्त्वास्त्रं विफलं व्यधात् ॥ ८०८ ।। गुरुशप्तः स शक्रेण हृतसंनाहकुण्डलः । घटोत्कचे नष्टशक्तिः शल्याधिक्षेपशल्यवान् ॥ ८०९॥ द्विजवत्सापराधेन भूग्रस्तरथनिष्फलः । हतः कर्णः कुरुपतेः कुमन्त्रकृतसक्षयः ॥ ८१० ॥ नारदेनेत्यभिहिते व्यासमुख्यैर्महर्षिभिः । कृष्णेन भ्रातृभिः सर्वैः प्रयत्नेन विबोधितः ॥ ८११ ॥ राज्यं कथंचिज्जग्राह शल्यतुल्यं युधिष्ठिरः। कस्य बन्धुवियोगार्तिनिःश्वासोष्णाः श्रियः प्रियाः ॥ ८१२ ।। अभिषेकामुकुटं समेत्याथ युधिष्ठिरम् । उवाच ब्राह्मणाकारश्चार्वाको नाम राक्षसः ॥ ८१३ । छत्रं त्रपाकरमहो व्यजनं जनाये दुःखप्रदं प्रविसृताश्रुकणानुकारः । हारः परं खजनमित्रवियोगशोक- पीडावतां बत विडम्बनमेव लक्ष्मीः ।। ८१४ । चार्वाकस्येति वचसा राज्यत्यागोद्यते नृपे । राक्षसः कौरवसुहृद्विप्रकोपात्क्षयं ययौ ।। ८१५ ॥ ज्ञात्वोत्तरायणं प्राप्तं शरशय्याश्रयस्ततः । मुनिमध्येऽस्मरद्विष्णुं भीष्मः पर्यन्तबान्धवम् ।। ८१६ ॥ दोषाश्रयाखिलतमःशमसूर्यधाम- संसारसर्पविषवारणसिद्धमन्त्रः। शुद्धात्मनां भवति पुण्यपणोपपन्नं पाथेयमन्तसमये स्मरणं मुरारेः ।। ८१ ॥ १. 'स्मरत' काव्यमाला। स्तुतिप्रवृत्तं विज्ञाय भगवान्भीष्ममच्युतः । सहितः पाण्डवैर्द्रष्टुं ययौ प्रीत्या ससात्यकिः ॥ ८१८ ॥ प्रणतं भीष्ममभ्यर्च्य हरिः सुरमुनिस्तुतः । शरशल्यव्यथाहीनं स्निग्धक्सुघया व्यधात् ॥ ८१९ ॥ देहसंन्याससंनद्धं राजा लज्जानतः शनैः । शासनेन हरेभीष्मं श्रेयः पप्रच्छ धर्मजः ॥ ८२ ॥ सोऽब्रवीद्भूभुजां राजन्भूषणं जनरञ्जनम् । धर्मः प्रजापरित्राणं कोषः सद्धृत्यसंग्रहः ।। ८२१ ॥ प्रजाकार्ये सक्तिः श्रवणमभिभूतार्तवचसां स्पृहा कामक्रोधप्रमदमदमानव्युपरमे । क्षितेः कायस्थेभ्यः कृपणपरिरक्षा प्रतिपदं गुणासङ्गः श्रेयानयमुदयलक्ष्म्या क्षितिभृताम् ॥ ८२२ ।। विरक्तखीकारः कृतकविरतिः कोषभरणं बलाधिक्ये शत्रोः शरणर्गमनं पादपतनम् । प्रहारश्छिद्राप्तौ निहतरिऍमिथ्याश्रुपतनं धिया दैवादिष्ट शरणमिदमापन्निपतने ।। ८२३ ॥ आशापाशविमुक्तनिश्चलसुखा खायत्तचित्तस्थितिः, स्नेहद्वेषविषादलोभविरतिः संतोषतृप्तं मनः । चिन्ता नित्यमनित्यतापरिचये सङ्गेऽपि निःसङ्गता संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः । ८२ ॥ कारुण्यागलितं प्रदानसमये चित्तं प्रसन्नं सदा क्षीणः पुत्रकलत्रदुःखकृपणः पात्रं पवित्रं परम् । सश्रद्धं परवित्तशल्यरहितं वित्तं स्वधर्मार्जितं तदानं दयितं फलप्रियतया वाणिज्यसजं न यत् ॥ ८२५ ॥ इत्युक्त्वा विविधं भीष्मः सर्वधर्मार्थसंग्रहम् । विष्णोर्नामसहस्राख्यं मन्त्रराजमुंदीर्य तम् ॥ ८२६ ॥ १. 'क्षितिः' -ग.२. 'गमने' -ग.३. नृप' -ग.४. 'उदीर्यत' , 'इदीयते'ख.

८ श्रीकृष्णावतारः] दशावतारचरितम् । कर्मोदितबलोत्क्षिप्तबिन्दुभेदपैथोदितम् । तालुरन्ध्रोच्चलज्योतिर्योगेनात्मानमत्यजत् ॥ ८२७ ॥ अथ भीष्मवियोगातः पापशान्त्यै युधिष्ठिरः। अश्वमेधाभिधे चक्रे यज्ञे व्यासाज्ञया मतिम् ।। ८२८ ॥ अथैकान्तस्थितः कृष्णः पुनः पृष्टः किरीटिना । यत्प्राह समरारम्भे ज्ञानयोगं तदुक्तवान् ॥ ८२९ ।। कदाचिदथ कंसारिं दृष्ट्वा पथि रथस्थितम् । ऊचे मुनिरुतङ्काख्यः कुरुसंक्षयदुःखितः ।। ८३० ।। शक्तेनोपेक्षितः कस्माद्भवता भरतक्षयः । न युक्तं कृतमित्युक्त्वा कोपाच्छापोद्यतोऽभवत् ।। ८३१ ॥ ततस्तस्मै सितमुखः शौरिदेहतमोहरम् । भासुरार्कसहस्राभं विश्वरूपमदर्शयत् ॥ ८३२ ॥ अथाभिमन्युदयिता दिव्यास्त्रहतमुत्तरा । मत्स्यराजसुतासूत भस्मीभूताकृति शिशुम् ॥ ८३३ । सुभद्रयार्थितः खस्रा भगवान्भूतभावनः । द्रोणपुत्रास्त्रनिर्दग्धं शौरिः शिशुमजीवयत् ॥ ८३४ ॥ कुरुवंशे परिक्षीणे संजातस्याङ्कुराकृतेः । परीक्षिदिति बालस्य नाम चक्रे त्रिविक्रमः ॥ ८३५ ॥ अथ यज्ञाश्वरक्षायै व्रजञ्जिष्णुर्जगज्जयी । मणिपूरपुरे प्राप बभ्रुवाहनमात्मजम् ॥ ८३६ ॥ तेनाविज्ञाय समरे सायकैः पातितोऽर्जुनः । उलूप्या नागसुतया रत्नेनार्पितजीवितः ॥ ८३७ ।। प्रययौ हयमादाय स्वपुरं भातुरन्तिकम् । प्रावर्तत च भूभर्तुयज्ञः काञ्चनवर्षिणः ॥ ८३८ ॥ १. 'छन्दोदित' क. २. पथोत्थितम्' ग... योगज्ञानं' ४. 'कोपशापो ५. 'ससुराक' -ग. ६."पुत्रं' क. ७. 'परिक्षिदिति' क. ८. 'यज्ञ' .१४८ काव्यमाला। अथैकपाधै कनकधुतिभृन्नकुलोऽद्भुतः । विप्रकोटिशतोच्छिष्टभुवं भेजे लुठत्तनुः ॥ ८३९ ॥ सोऽब्रवीद्भूभुजा पृष्टः शिलोञ्छवच्छवृत्तिना । सुचिरावाप्तमशनं प्राप्तायातिथयेऽर्पितम् ॥ ८४० ॥ तदुच्छिष्टजलस्पृष्टं पार्थ मे हेमतां गतम् । द्वितीयपार्श्ववर्णाप्त्यै प्राप्तोऽहं त्वत्क्रतुक्षितिम् ॥ ८४१ ॥ निःसंख्यब्राह्मणोच्छिष्टस्पृष्टस्यापि न मे द्युतिः । जाता सत्त्वोज्ज्वलं याति दानमल्पमनल्पताम् ॥ ८४२॥ इत्युक्त्वा नकुले याते दानमानमहोन्नतिः। सर्वखदक्षिणे यज्ञे राजा(ज्ञः) शिथिलतां ययौ ॥ ८४३ ।। अथ दैवतवन्नित्यं पूज्यमानोऽपि भूभुजा । मीमोग्रवचनोद्वेगी धृतराष्ट्रः शनैरभूत् ॥ ८४४ ॥ स सदा पुत्रशोकेन भूमिशायी फलाशनः । मिथ्याराज्योपभोगाप्तिं धर्मजाय न्यवेदयत् । ८४५ ॥ स जातगाढवैराग्यः पन्या सह वनं ययौ । व्यासाज्ञया संजयेन कुन्त्या च विदुरेण च ॥ ८४६॥ दयितजनवियोगोद्वेगरोगातुराणां विभवविरहदैन्यम्लानमानाननानाम् । शमयति शितशल्यं हन्त नैराश्यनश्य- द्भवपरिभवतान्तिः शान्तिरन्ते वनान्ते ॥ ८४७ ॥ यातस्तपःस्थितं द्रष्टुं धृतराष्ट्र युधिष्ठिरः । ददर्श विदुरं ज्ञानयुक्तित्यक्तकलेवरम् ॥ ८४८ ॥ प्राप्तः खनगरं राजा शुश्राव कुरुपुंगवम् । सानुगं दावदहने प्रविष्टं संजयं विना ॥ ८४९ । त्रिंशेऽब्दे सुखक्षीबा वृष्णयः कृष्णनन्दनम् । साम्बं स्त्रीवेषमादाय पप्रच्छुः सस्मिता मुनीन् ॥ ८५० ॥ १. 'वैराग्य'. -ग. २. 'विशाब्दे' क.

८ श्रीकृष्णावतारः] दशावतारचरितम् । भावी सुतः सुता वा स्यात्किमिति श्रीविशृङ्खलाः । क्रुद्धास्तान्मुनयः प्राहुभविष्यति कुलान्तकः ।। ८५१ ॥ कालेन लोहमुसलं जातं साम्बस्य वृष्णयः । घृष्ट्वा घृष्ट्वाम्बुधेस्तीरे तत्यजुः क्षयशङ्किताः ॥ ८५२ ॥ तचूर्णजातवल्लीभिः क्षीबाः स्पर्धाकथाक्रुधा । निर्बन्धाधुध्यमानास्ते क्षणेन क्षयमाययुः ॥ ८५३ ॥ कृष्णः कुलक्षयोद्विग्नस्तेजः खं घानि वैष्णवे । हेम हेनीव निक्षिप्य प्रययौ कायशेषताम् ।। ८५४ ॥ याते प्रविश्य पातालमनन्तत्वं हलायुधे । लुब्धकेन हरिः सुप्तः कृष्णसारधिया हतः॥ ८५५ ।। अनल्पं कल्पान्तस्थिरमिव जनः कल्पयति य- न्न यस्मिन्नाशङ्का सुरगिरिगरिम्णि प्रैचलने । तदेवाक्ष्णः पक्ष्माञ्चलतरलविक्षेपतुलया क्षयक्षीबः कालः किल गिलति नैवाभवदिति ॥ ८५६ । अथ वृष्णिक्षयं ज्ञात्वा द्वारकामेत्य फाल्गुनः । शोकार्तस्तद्वधूवृन्दं स्वपुरं नेतुमुद्ययौ ॥ ८५ ॥ जतस्तस्य गोपाला बॅहल्लगुडपाणयः । बहुराकृष्टजापस्य स्त्रैणमाकीर्णपत्रिणः ॥ ८५८ ॥ ते द्विषत्खण्डनां प्रापुः शरा गाण्डीवधन्वनः । निष्फलत्वं विलक्षस्य याचकस्य गुणा इव ॥ ८५९ ॥ नहि हीनमनाक्रान्त्या फाल्गुनस्य गलगुणम् । कलत्रं निर्धनस्येव विधेयं नामवद्धनुः ॥ ८६० ॥ रुद्राभिद्रवमुद्रितादिशिखराः शक्रोन्मुखाः खाण्डवे खेलोत्ताललतायुधोद्यतकृताटोपेषु गोपेष्वहो । गुड' . १. 'तेजस' ग. २. 'अनन्तं' ख-ग.३. 'प्रदलने' ५. 'खण्ड । -ग. ६. निर्गुणस्येव' -ग..

काव्यमाला। जग्मुर्जिष्णुशरा मुरारितरुणीत्राणे तृणक्लीवतां यस्यायन्त्रविचित्रपाककलया कालाय तस्मै नमः ॥ ८६१ ।। युधिष्ठिरोऽथ विभवं ज्ञात्वा पर्यन्ततादृशम् । भ्रातृभिः सह पत्न्या च महाप्रस्थानमाविशत् ।। ८६२ ॥ कृष्णायाः पतने प्राह राजा विजयरक्तताम् । प्रियस्य दोषाकलनं वियोगे दुःखभेषजम् ॥ ८६३ ॥ सोऽवदत्तच्युतस्याथ सहदेवस्य धीमदम् । नकुलस्यादरं रूपे जिष्णोर्विजयदृप्तताम् ॥ ८६४ ॥ मीमस्य बह्वशनतां व्रजन्नेव शुना सह । पर्यन्तेऽचिन्तयन्नन्तः संसारविशरारुताम् ॥ ८६५॥ अथ व्योमपथायातं विमानं सुकृतोज्ज्वलम् । देवदूतार्पितं राजा नारुरोह शुना विना ॥ ८६६ ॥ तत्तस्याश्रितवात्सल्यं धर्मस्त्यक्तश्वविग्रहः । तुष्टः खं रूममोस्थाय प्रशशंस पुनः पुनः ॥ ८६७ ॥ अथ राजा समारुह्य विमानं त्रिदिवं व्रजन् । ददर्श नरकं घोरं देवदूतप्रदर्शितम् ॥ ८६८ ॥ ततस्तदर्शनोद्विमं देवदूतस्तमब्रवीत् । राजन्द्रोणवधामत्यान्मिथ्यैतत्तव दर्शितम् ।। ८६९ ॥ प्रजापीडाक्रीडार्जितधनभरैर्भोगसुखिना- मकर्णानां क्लाम्यत्कृपणकरुणाक्रन्दसमये । अवश्यं भूपानां भवति विभवोन्मादकुधियां दुरन्ता पर्यन्ते नरककलुषक्लेशकुगतिः ॥ ८७० ॥ इत्युक्ते देवदूतेन शक्रलोकं युधिष्ठिरः । धर्मधाम निजं भेजे खं खं चान्ये सुरांशजाः ॥ ८७१ । लक्ष्मीश्चामरतारहारहसिता मत्तेमकुम्भस्तनी त्रैलोक्याक्रमणः पराक्रमभरः संभोगयोग्यं वयः । १. "विहेयं च ग. २. 'आदाय' -ग.

९ बुद्धावतारः] दशावतारचरितम् १५१. पूर्व सर्वमखर्वगर्वसुखदं संचय॑माणं पुनः पर्यन्ते परिणाममीलदृखिलाखादं विषादास्पदम् । ८७२ । इति स भुवनभूत्यै भूतभर्ता विधाय प्रसभविभवशक्त्या भूमिभारावतारम् । अगमदमरसधैः कीर्त्यमानप्रभावः सह नरमुनिना खं धाम नारायणांशः ॥ ८७३ ।। इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते श्रीकृष्णावतारो मः। बुद्धावतारो नवमः। काले प्रयाते कलिविप्लवेन रोगग्रहोगे भगवान्भवाब्धौ । मज्जत्सु संमोहजले जनेषु जगन्निवासः करुणान्वितोऽभूत् ॥ १॥ स सर्वसत्त्वोपकृतिप्रयत्नः कृपाकुलः शाक्यकुले विशाले । शुद्धोदनाख्यस्य नराधिपेन्दोघंन्यस्य गर्भेऽवततार पत्याः ॥ २॥ मायाभिधाना नरनाथपत्नी गर्ने हरिं विश्वगुरुं वहन्ती । आसन्नचन्द्रेव सुधाब्धिवेला निधानधन्येव वसुंधराभूत् ॥ ३॥ कुक्षिं ततस्तत्क्षणमक्षताया विभिद्य मातुर्भगवान्प्रजातः । गर्भोदकास्पृष्टविशुद्धमूर्तिर्जाम्बूनदेनेव विनिर्मिताङ्गः ॥ स जातमात्रस्त्रिदशप्रमुक्तनभोनदीवारिमराभिषिक्तः । पदत्रयी कम्पितसर्वलोकां दत्त्वा दिशन्दिक्षु भृशं जगाम ॥५॥ पूर्वा स्थितेयं मम निर्वृति, धीः सर्वसत्त्वोद्धृतिदक्षिणेयम् । जन्मस्थितिः संप्रति पश्चिमेयं संसारबन्धादियमुत्तरा च ॥ ६॥ इति ब्रुवाणं नृपतिस्तमेत्य दृष्ट्वा त्रिलोकीपतिलक्षणाङ्कम् । स जातदिव्यानुभवाभिमानः कुलस्य भूत्यै धृतिमाबबन्ध ॥ ७ ॥ तं लक्षणज्ञा जगदुः सहर्षमयं शिशुर्लक्षणलक्ष्यमाणः । प्रभुभविष्यत्यवनीश्वराणामनुत्तरज्ञाननिधिGनिर्वा ।। ८॥ १. 'सझै' का 'सख्यैः' ख-ग. २. 'रागोरगोने' क. ३. 'लक्ष्मणाङ्कम' ४. 'भिमान' क. ५. 'स्म' ग.

१५२ काव्यमाला स सर्वविद्याविदितार्थसत्त्वः संप्राप्तशस्त्रास्त्रगजाश्वशिक्षः । सर्वार्थसिद्ध्या पितुराप्तकीर्तिः सर्वार्थसिद्धाभिधता जगाम ॥९॥ सर्वखदानाभिमुखोऽर्थिसाथै स देहदाने तृणवत्कृतेच्छः । लीलाविहारी विचरन्रथेन ददर्श वृद्धं पथि जीर्णकायम् ॥१ । तं वीक्ष्य विच्छायमशक्तिलुप्तमवाप्तपर्याप्त विरक्तभावः । सोऽचिन्तयनिश्चितमन्तसक्ता कायस्य निर्वेदमयी दशेयम् ॥ ११ ॥ अहो बतायं जरयाभिभूतः कुरूपतां क्लेशमयीं प्रयातः । तारुण्यमाकुञ्चितकृष्णकेशं शोचन्निवान्तः श्वसिति प्रेकामम् ॥ १२ ॥ महीनिविष्टाकृतिरल्पदृष्टिः किं कष्टचारी नगरे करोति । संतोषशीतं श्रयति प्रशान्त्यै किमाँश्रमं श्रान्ततनुर्न वृद्धः ॥ १३ ॥ अमः कासश्वासः कफभररवः कण्ठकुहरे श्रुतौ नेत्रे घ्राणे त्वचि सरसनायां विफलता। अहो वृद्धयाँस्सिन्सकलविरहक्लेशसमये प्रमोहस्तृष्णां यत्त्यजति दयितां नैव तरुणीम् ।। १४ ।। क्षणं विचिन्त्येति नरेन्द्रसूनुजन्पुरप्रान्तविलोकनाय । शोकाश्रयं हर्षविषादधाम श्मशानमाकीर्णशवं ददर्श ॥ १५ ॥ सन्सारथिं प्राह विलोक्य लीनं शरीरिणां कायमपायभूमौ । अनित्यताचिन्तनजातखेदः संसारवैरस्यविचारसक्तः ॥ १६ ॥ क्लेदामोदविविग्नवायसशुनः कुत्सापदस्याशुचे- रन्ते यस्य दशेदृशी क्षयमयी कायस्य भूशायिनः । मूढास्तस्य कृते परार्थहरणोद्योगं परस्त्रीरति- व्यासक्तिं परदेहदारणघनद्रोहं नराः कुर्वते ॥ १७ ।। नासत्यं न परापवादपिशुनं नो मर्मभिद्भाषते नैराश्येन विशेषशीतलतनुः सेवाप्रवासोज्झितः । १. 'नि यं' -ग. २. 'प्रकाशम् ग. ३. 'आश्रयं' ५. 'प्रवाोज्झितः .४. 'अस्य ख-ग. ।

५३. ९ बुद्धावतारः] दशावतारचरितम् पापोपार्जनवर्जितः परगृहे द्वाःस्थैरसंतर्जितः कामद्वेषविषादमोहरहितः पश्यैष शेते शवः ॥ ८॥ क्षितिप्रति स्य कलेवरस्य पर्यन्तभूमावियमेव निष्ठा । यत्काष्ठपाषाणसमानचेष्टं प्रयाति मृद्भस्मशकृत्क्रिमित्वम् ॥ १९ ॥ उक्त्वेति वैराग्यमयीं प्रशान्ति श्रयन्विचिन्त्यान्तविनाशि सर्वम् । अन्तःपुराभ्यन्तरमेत्य सोऽभूद्विभूतिभोगे शिथिलाभिलाषः ॥२०॥ अन्तःपुरे तस्य नृपात्मजानां सहस्रषट्या हरिणेक्षणानाम् । चित्रार्पितानामिव संगमोऽभून्न शान्तिसक्तस्य सुखानुभावः॥ २१ ॥ ततः क्षितीशं समुपेत्य सर्वे मौहूर्तिकाः संसदि तत्त्वमूचुः । राजन्सुतस्ते भविता त्रिलोकीपतिः प्रभावे भगवाञ्जिनो वा ॥ २२ ॥ श्रुत्वेति राजा भुवनाधिपत्यं पुत्रस्य यत्नेन समीहमानः। वनामिकामस्य तपो निरोद्धं चक्रे पुरद्वारविशेषगुप्तिम् ॥ २३ ॥ अत्रान्तरे शान्तिपथं प्रवेष्टुमाशापरित्यागधृतावधानः । अस्ताद्रिशृङ्गाश्रमधाम्नि सूर्यः संध्याकषायाम्बरमाललम्बे ॥ २४ ॥ रवौ प्रयाते ककुभां बभूव घनोऽनुरागः क्षणमात्रलक्ष्यः । प्रेमाणि चित्तानि च जीवलोके विद्युद्विलोलानि न कस्य नाम ॥ २५॥ रवेवियोगे गुणिवल्लभस्य शोकानुकारेण तमोभरेण । मेहेन साधोरिव बन्धुवर्गः पद्माकरः क्लेशनिमीलितोऽभूत् ॥ २६॥ दिक्केशपाशप्रतिमं तमस्तद्दीपावलीचम्पकमालिकाङ्कम् । लेभे वियोगाच्च(त)वधूस्मराग्निस्थानस्फुलिङ्गाकुलधूमलीलाम् ॥ २७ ॥ अथोद्ययौ सत्त्वसितप्रकाशः सुधां दधानः करुणामिवान्तः । निवारयन्मोधनान्धकारं विश्वोपकाराय शशीप्रवृत्तः ॥ २८ ॥ चन्द्रोदयेऽन्तःपुरसुन्दरीणां प्रसाधनव्यग्रपरिग्रहाणाम् । शृङ्गारलीलासमयं विलोक्य क्षणं प्रदध्यौ नरनाथसूनुः ॥ २९ ॥ १. 'दोष' क. २. 'विनं' -ग. इतः प्रभृति एकोनचलारिंशश्लोकस्य प्रथमपादप- र्यन्तं -ग-पुस्तकयो टितमस्ति. दशा. १४ १५४ काव्यमाला। इमाः संमोहाघ्रप्रसरतडितश्चारुनयना ; यदक्षिक्षेपोऽन्तर्विशति हृदयं सूचिसचिवः । सुखादिग्धं मुग्धं विषमिव समुत्सृज्य विषयं श्रयेऽहं पर्यन्तस्थितिपरिचितां शान्तितरुणीम् ॥ ३० ॥ संचिन्तयन्नित्यवनीशसूनुर्दारेषु रुद्धेषु निशान्तपालैः । दिव्यप्रभावाप्तगतिर्विचार्य विनिर्ययौ हर्म्यपथेन तूर्णम् ॥ ३१ ॥ खच्छन्दकाख्यं प्रविबोध्य सूतं हयं समारुह्य च कन्थकाख्यम् । व्योम्ना जबावादशयोजनानि गत्वा वनं निर्जनमाससाद ॥ ३२ ॥ तत्रावरुह्याश्ववरात्प्रभाते केयूरहाराङ्गदकु डलानि । मुक्त्वा किरीटं च वितीर्य सर्वं सूताय सत्त्वाभरणस्तमूचे ॥ ३३ ॥ हहो निवर्तखं हयं गृहीत्वा गृहाण सर्वाणि विभूषणानि । एतैर्न किंचिन्मम कृत्यमस्ति भूभृत्कुले श्लिष्टविनष्टशिष्टैः ॥ ३४ ॥ एको वनेऽस्मिन्निति नैव कार्यस्त्वया मयि नेहमयोऽनुतापः । संजायते जन्मनि जन्तुरेकः प्रयाति चान्ते परलोकमेकः ॥ ३५ ॥ द्रुमश्छत्रं मित्रं सरलहृदयोऽयं मम मृगः स्थली लीलाशय्या तनुतरतरुत्वनिवसनम् । खकोषः संतोषः कृपणकरुणैव प्रियतमा न संसारः कश्चिद्भवति विभवेऽस्मिन्परिभवः ॥ ३६॥ उक्त्वेति सूतं क्षितिपालसूनुः खयं कृपाणेन निकृत्तजूटः । "तमश्रुधारार्द्रपटं विसृज्य शृङ्गं गिरेरुन्नतमारुरोह ॥ ३७ ॥ पर्यङ्कबन्धेन सुखोपविष्टे समाधिसंनद्धविरुद्धचित्ते । तस्मिन्क्षणे विश्वगुरौ गिरीन्द्रः स भन्मशृङ्गः शकलीबभूव ॥ ३८ ।। गिरीन्द्रमङ्गेन विविग्नवकं दृष्ट्वामरा व्योमचरास्तमूचुः । जगद्गुरुं त्वं गिरिरेष धर्तुं प्रभो प्रसीदात्र शुभं न शक्तः ॥ ३९ ॥ ततः स निष्कम्पमवाप्य देशं वज्रासनाख्यं विकसद्विवेकः । अनुत्तरज्ञाननिधानमाप्तुं धीरः स्थिरध्यानधुरंधरोऽभूत् ॥ ४० ॥ १. "प्रसीद कुशलं' क.

१ बुद्धावतारः] दशावतारचरितम्। जात्यैव मारः शमनिश्चलानां वैराग्यवैरेण विकारकारी । तस्येन्दुकान्त्येव कृताः समाधिभङ्गाय कान्ताः स समादिदेश ।। ४१॥ कटाक्षैः कुर्वाणाः कुवलयकुलं कान्तिविकलं सृजन्त्यः पादाजैः स्थलकमलमालामलिनताम् । दिशन्त्यः शीतांशोर्मुखरुचिभिरायासमसमं ययुस्तास्तस्याने धृतदृढसमाधेर्विफलताम् ॥ ४२ ॥ अथागतैर्दुःसहमारसैन्यैः शस्त्राश्मवह्निद्रुमपांसुवर्षेः । क्षिप्तैरनल्पप्रकरैः कुमारः पुष्पैरिवाकीर्णतनुर्बभूव ॥ ४३ ॥ खयं समुत्सृष्टशरे सरेऽपि याते विलक्ष घनदैन्यसैन्ये । वज्रासनध्यानधृतिः स सम्यक्संबुद्धतां सर्वविदाससाद ॥ ४४ ॥ ब्रह्मप्रधान स्त्रिदशैः प्रदत्तं पात्रं समादाय स चीवरं च । संसारमुक्त्यै सुरमर्त्यनागसंघस्य सद्धर्ममथादिदेश ॥ ४५ ॥ ह्यं समादाय चिरेण सूते शून्यासनं शाक्यपुरं प्रविष्टे । जनस्य सान्तःपुरमण्डलस्य समुद्ययौ तीव्रविषादनादः॥ ४६॥ महीपतिः पुत्रवियोगतप्तः प्रसुप्तजीवः क्षणमोहनिद्राम् । निद्रामिवासाद्य धनानुबन्धां निःस्पन्दवृत्तिर्न विवेद किंचित् ॥ ४७ ।। अवाप्तसंज्ञं सुचिसत्तमूचुर्नभश्चरा मुञ्च विचार्य मोहम् । राजन्सुतस्ते सुगतत्वमाप्तः सुरासुरैर्वन्दितपादपद्मः ॥ १८ ॥ ततः क्षितीशस्त्रिजगत्प्रसिद्ध ज्ञात्वापि तं जैनवने जिनेन्द्रम् । द्रष्टुं ययौ हर्षसुधानिधानं सामात्यमित्रखजनः ससैन्यः ॥ १९ ॥ तदाश्रमोपान्तमहीमवाप्य वनं विलोक्य प्रशमाभिरामम् । शुद्धोदनः स्यन्दनपार्श्वसंस्थमुदायिनं बान्धवमित्युवाच ॥ ५० ॥ क्रव्यादोऽपि न भुञ्जते परतनुद्रोहेण हिंसाशनं क्रूराणामपि वैरवह्निविरहान्न क्रोधदिग्धं मनः । व्यालुम्पन्ति न तु खयं निपतितादन्यत्फलं वानरा निर्दोषावरणं वनं भगवतः शंभोः प्रसादादिदम् ।। ५१ ॥ १. "वि सि ३. 'पुरी क. .२. 'शान' .

१५६ काव्यमाला। अक्षोमनिर्भरजलाः सरितो वहन्ति निर्विप्लवा विरजसः सुखयन्ति वाताः। सध्यानमौनमुनितां दधतीव वृक्षा निश्चेतनेष्वपि बत प्रसृता प्रशान्तिः।। ५२॥ उक्त्वेति भूपरिवृढः शमसंनिधानं प्राप्याश्रमान(य)मवरुह्य रथात्प्रहृष्टः । दूराद्ददर्श सुरसिद्धनरोरगाणां रागादिदोषशमने सुगतं प्रवृत्तम् ॥ ५३ ॥ भूनिर्गतप्रततकाञ्चनपद्मपृष्ठ- पद्मासनस्थमविसंस्थुलधामधीरम् । मेरुं सदेहमिव चन्द्रसहस्रकान्ति- पूरैर्नवामृतचितैः कृतरूपकायम् ॥ ५४ ॥ सद्धर्मकायमुपदेशदिशा दिशन्तं ज्ञानाकरश्मिहृतमोहमहान्धकारम् । सिंहोन्नतांसयुगमुन्नतबाहुनेत्रं बालप्रवालतरुपल्लवलोहितौष्ठम् ॥ ५५ ॥ लावण्यराशिवदनं सरलोरुनासं निर्भूषणश्रवणपाशविशेषशोभम् । तं निर्जितस्सरमुदारगुणं प्रणम्य लेभे प्रतिप्रणतिमानधनप्रमोदम् ॥ ५६ ॥ शक्रादिभिः सुरवरैरपि बिम्बसार- मुख्यैश्च भूमिपतिभिर्गुरुंगौरवेण । नागैश्च नम्रवदनैरभिनन्धमानः शुद्धोदनः कनकविष्टरमाससाद ।। ५७ ॥ १. "निर्झर' -ग. २. 'महोरगाणा' क. ३. "दिगन्त' रि . ४. 'लोहिताशम्' -- • ६. 'नम्रश्च' ९ बुद्धावतारः] दशावतारचरितम् ५ आनन्दबन्धुमवलोक्य तथागतेन्दु चित्तप्रसादमसमं समवाप्य भूपः । तं प्राप्य हर्षसहजाश्रुनिरुद्धदृष्टि- स्तदर्शनामृतरसे सुतरामतृप्तः ॥ ५८ ।। देव प्रकामकरुणादृशा सहर्ष- निःशेषदोषरहिता विहिता त्रिलोकी । कस्मादहो निजजनस्य कृतस्त्वयायं संमोहकृद्विरहशोकदशोपदेशः ॥ ५९ ।। नीत्वा क्षपां स्फटिकहर्म्यतले सुखेन शय्यासु चीनवसनद्युतिसस्मितासु । शेषे कथं हरिणसंहतिदन्तदष्ट- शिष्टाशिष्पपरुषासु वनस्थलीषु ॥ ६० ॥ तच्चन्द्रकान्ति मणिशुक्तिषु संक्तशैत्यं पीत्वा पयः कथमहो पिबसि त्वमद्य ग्रीष्मोष्ममूढमहिषद्विरदावगाह- क्लिद्यत्करीषकलुषोदरतिक्तमम्भः ॥ ६१ ॥ कस्मादेष विहारतामुपगतः कण्ठः कठोरेण किं संवीतं मृगचर्मणानिलचलच्चीनींशुकाह वपुः । किं ते रत्नकिरीटधानि च जटाजूटो निबद्धादरः क्रूरक्लेशसखी सुखेषु विमुखी केनोपदिष्टा स्थितिः ॥ ६२ । इत्यार्जवाजनपतौ जनकाभिमाना- त्पुत्रोचितं सदसि रागमयं वाणे । स्नेहोपलिप्तरजसा मलिनखभावं तं तापसंभवभिषग्भगवान्बभाषे ॥ ६३ ॥ . १. 'देवः' ग. २. 'सकला' क. ३. 'स्वच्छशीतं' -ग. ४. 'चीनां ते वपुः' ग. ५. 'जटाजूटेन बद्धो भर' क. ६. 'जनकाभिधानात्' संभव' ग. • ७. 'तद्दो- १५८ काव्यमाला किं जीवावधिबन्धनैर्गुणगणेनाराधितैर्बन्धुभि- ये यान्त्यन्त्यदिने क्षणाश्रुपतनप्रत्यायनापात्रताम् । सद्धर्माधिगमः क्रियाव्युपरमः सत्संगमः संयमः पर्यन्तेऽप्यचला विरक्तमनसामेते सतां बान्धवाः ॥ ६४ ॥ आकृष्याटविकैः परैरपहृता सामन्तसीमान्तभू- रीार्ता मरणोद्यता प्रियतमा मुख्यस्तुरङ्गो मृतः । मन्त्री द्रोहसमुद्यतोऽतिबलवानित्यात्तचिन्ताशतै- भूपालः किल कोमलेऽपि शयने निद्रादरिद्रः सदा ॥ ६५ ।। आशापाशनिवेशबन्धनपृथुग्रन्थिव्यथावर्जित- स्तृष्णातापनिवृत्तिशीतलतनुर्मानावमानोज्झितः । रागद्वेषविषप्रशान्तिसुखितश्चिन्ताविहीने वने पाषाणे घनदर्भसूचिनिचिते शेते सुखं निर्वृतः ॥ ६६ ॥ भोगी नित्यमजीर्णभोजनरुजा जिह्वां सदा दर्शय- वैद्यं पृच्छति तद्भयादभिमतं नानाति तृष्णातुरः । भुक्त्वा खल्पकमप्रयत्नपतितं मूलं फलं वा जलं पीत्वा जातु रुजं जनेश भजते कांचिन्न निष्किञ्चनः ।। ६७ शय्यास्तास्तनुतूलपेशलतलाः सा हेमहर्म्यस्थिति- स्ताः केयूरकिरीटहोररचनास्ते कुञ्जरास्ते हयाः । भोगास्तेऽभिमता न कस्य सुखदाः किं त्वक्षिपक्ष्माञ्चल- च्छेदे सर्वमनन्त्य(गण्य)मन्यवशगं दृश्यं न किंचित्कचित् ॥६८॥ ग्रीष्मे हारतुषारचन्दनचयश्चीनांशुकं चन्द्रिका शीते राङ्कवकुङ्कुमाङ्कतरुणीपीनस्तनालिङ्गनम् । रात्रौ वेणुरवोग्रवाररमणीगीतं दिने सत्सभा यस्यैतक्रियते स कस्य नृपते कायः कृतघ्नः स्थिरः ॥ ६९ ।। १. 'गणैः' ख-ग. २ 'आकृष्याटविकैः परैपहृता सा सान' क. ३. 'अल्पयत्नप- तितं, क. ४. 'जातु रुज जनो न भजते किचिन्न' -ग. ५. 'भार' ख-ग. ६.'व- गमन्यगण्य शगं ग. ७. 'तेऽमी' ख-ग. ८. 'रवापरावरमणी' क. ७ १ कय॑वतारः] दशावतारचरितम् । नैराश्ये शमशीतचित्तसुखिनां नानन्दनं चन्दनं कारुण्याभरणाभिरामहृदये हारेण भारेण किम् । रत्नालंकरणादिकं गुरुगिरामाकर्णनं कर्णयो- नेष्टं शीलदुकूलशीलनवतां चित्राम्बराडम्बरम् ॥ ७० ॥ राजन्संत्यज मोहदुर्ग्रहमिमं सेहव्यथां मा कृथाः संसारस्य विचारय प्रचलतां मा मज जन्माम्बुधौ । नित्यापूर्वजनोद्भवे भवपथे प्रस्थानपान्थभ्रम- क्षिपालापसमागमप्रणयिनां को बान्धवः कः परः ॥ ७१ ॥ इत्युक्त्वा भगवान्नृपस्य विदधे प्रबोधिनी बोधनां दीप्तज्ञाननिशातवज्रशिखया कायाभिमानाभिधम् । भित्त्वा विंशतितुङ्गशृङ्गगहनं स्थूलाचलं याकरो- संसारावरणप्रहाणकलनावैमल्यलीनं मनः ॥ ७२ ॥ शाक्यानामथ तत्र मैत्रमनसां सप्ताधिकाः कोटयः सप्त प्राप्तविवेकपूर्वकुशलाश्चित्तप्रसादात्परम् । स्रोतःप्राप्तसकृत्समागमफलान्योगामिकाहत्पदा- न्यापुः सर्वज॑नाशयक्षयधिया सर्वज्ञसंदर्शनात् ॥ ७३ ॥ अथ स भगवान्कृत्वा सर्व जगजिनभास्कर- स्तिमिररहितं ज्ञानालोकैः क्रमाद्गुणिबान्धवः । जनकरुणया सद्धर्माख्यं निधाय परं वपु- स्तरणशरणं संसाराब्धावभूत्पुनरच्युतः ॥ ७४ ।। इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते बुद्धावतारो नवमः। कळवतारो दशमः। अथ खं वैष्णवं धाम गते सुगतभाखति । कलौ प्रबलतां याते तमसीव सुदुःसहे ॥१॥ १. 'नीलदुगूल' ख-ग. २. 'जनूद्भवे' क. ३. 'प्रावेविकी' ख-ग. ४. 'काया- भिधाना' -ग.५. 'न्यागामिका तत्पदा' ख-ग.. 'जनाश्रम' क.७. 'विधाय' -ग. .

काव्यमाला मर्त्यभूमि परित्यज्य सदाचारविवर्जिताम् । जग्मुः कलापियामाख्यं दिव्यदेशं महर्षयः ॥२। अवदन्मुनयस्तत्र मार्कण्डेयं चिरायुषम् । भगवन्कलिकालोऽयं कलुषः प्रत्युपस्थितः ॥ ३ ॥ अतोऽपि कीहक्पर्यन्ते मलिनत्वं प्रयास्यति । जानीमहि (हे) नहि मही भारार्ता किं करिष्यति ॥ ४ ॥ विप्रा मद्यघृतक्षीरलाक्षालवणविक्रयैः । जीवन्ति प्रेष्यनिरता निराचारा निरमयः ॥ ५ ॥ अश्रोत्रियाः क्रियाहीनाः श्रुतिस्मृतिविवर्जिताः । विप्राः सुखेन मोक्षाप्त्यै याताः पाषण्डिशिष्यताम् ॥ ६ ॥ वृषलीपतयः प्राप्ताः क्रीडाहासकतां द्विजाः । नृत्तगीतकलाजालशिल्पिचारणवृत्तयः ॥ ७ ॥ क्रोधलोभपराः क्रूरास्तमोमूढा द्विजातयः । त्यजन्ति जीवितं रज्जुविषशस्त्रानलाश्मभिः ॥ ८ ॥ अक्षत्रिया क्षितिः सर्वा क्षत्रसंज्ञाः क्षितीश्वराः । ये रक्षितारः पौराणां ते प्राणधनहारिणः ॥९॥ प्रजोपतापशापोष्णैः पापाप्तैर्भूभुजां धनैः । जलैः सलवणैः पीतैरिव तृष्णा प्रवर्धते ॥ १० ॥ कृपणाक्रन्दबधिरा मदान्धा न्यायमौनिनः । भूपालाः कुजहृदया लोकपीडारताः सदा ॥ ११ ॥ अलक्ष्यं भक्षयन्त्येव क्षितीशानां दिवानिशम् । समुद्रं कोषमखिलं कायस्था वडवाग्नयः ॥ १२ ॥ गायनक्षपिता लक्ष्मीर्दस्युनिर्दलिता दिशः। कायस्थदुःस्था पृथिवी राज्ञामज्ञावृताः सभाः ॥ १३ ॥ १. 'वसु -ग. २. 'प्रवर्तते' क. ३. 'मानिनः' -ग. ४. 'कुब्जवृतयः शत्रुस- श्रामपुङ्गवाः' क; 'कुब्जहृदया....... ग. ५. एतत्पूर्वार्धं -ग-पुस्तकयोखुटितम्.

१६१. १ कळवतारः] दशावतारचरितम् मन्त्रिसेनापतिद्वाःस्थसभापतिपुरोहितैः। उत्कोचद्रविणोत्तानपाणिभिः क्षपिताः प्रजाः ॥ १४ ॥ वैश्यस्य क्रौर्यवक्रत्वकार्कश्यैः क्रकचोपमाः। सरलच्छेदिनो वैश्या वैरमरणतत्पराः ॥ १५ ॥ निर्माल्यमलिनां जाति वर्जयन्ति शनैः शनैः । वैश्या विविवाहेन मिण्याभिनिवेशिनः ॥ १६ ॥ दृश्यते सरलः शङ्खः फणी च विषवर्जितः । कृतान्तः करुणा” वा न तु वैश्यः कदाचन ॥ १ ॥ जीव्यते कालकूटेन जीव्यते खदिरामिना । जीव्यते संनिपातेन न तु वैश्येन वैरिणा ॥ १८ ॥ निशिताः सविषा वैश्या रोषनिर्घर्षघूमिनः । दृश्यन्ते कलिकालस्य कठिना दशना इव ॥ १९ । शूद्राः क्षत्रियतां याता वैश्यतामपरे श्रिताः। विप्रोहाँ गुरुतामन्ये होतारो ब्रह्मवादिनः ॥ २ ॥ श्राद्धेषु शूद्राः शूद्राणां भुञ्जते गुरुतापसाः। ब्रह्मखदारहरणे प्रवृत्ताश्च महीभुजः ॥ २१ ॥ शूद्रस्य ह्मिणो दासः शिष्यश्च चरणच्युतः। भूमिश्च ब्रह्मदेयाख्या प्रवृत्तमघरोत्तरम् ।। २२ । इत्येष चातुर्वर्ण्यस्य जातः कलिविपर्ययः । प्रतिलोमेन दृश्यन्ते प्रजानां वर्णसंकराः॥२३॥ ब्रह्मचर्यमतिक्रान्तं गृहिणो वेश्ययोषितः । वानप्रस्थस्थितिर्नास्ति यतीनां संयतिः कुतः ।। २४ ।। उक्तं खयं भगवता गिरिशेन शास्त्रं यद्वेद विद्भिरधिगम्यमशेषविद्यैः । १. 'तत्कोश' -ग. २ 'वैश्यस्य' -ग.३. एतदुत्तरार्धं -ग-पुस्त योबुटितम्. -ग. पुस्तकयोः र्वत्र 'जीवते' इति पाठः, ५. 'विप्राईगुरुतां' -ग. ६, 'गृहिणा शेषयोषितः' -ग. ७. 'वानप्रस्थातिथिः' ग. 4. 'अधीतवेदैः .१६२ काव्यमाला। तन्मे(?)प्रमूर्खगुरवः प्रविहाय कष्टं कुर्वन्ति कल्यकुरवै(?)रुपदेशचर्चाम् ॥ २५ ॥ चक्रस्थितौ रजकवायकचर्मकार- कापालिकप्रमुखशिल्पिभिरेकपात्रे । पानेन मुक्तिमविकल्परतोत्सवेन वृत्तेन चोत्सववता गुरवो वदन्ति ॥ २६ ॥ लब्धं निर्मलमोक्षधाम मुनिभि ग्वगिरःकश्यपा- गस्त्यात्रेयमुखैर्युगैरपि न यत्तत्प्राप्तमेवाबुधाः । मन्यन्ते खलु कौलगोलगुरुभिम्रस्तार्थधाराः क्षणा- दुच्छिष्टार्पणवेदधूननकथामात्रेण नियन्त्रणाः ॥ २७ ॥ दम्भः सर्वस्य लोभान्निरवधिरधिकक्रोधकामस्तपस्वी द्रष्टा मूढः सभायां वणिगतिधनतामल्पकालेन यातः । वैद्यः कायोपजीवी गृहपतिरदयः क्रूरकर्माधिकारी वन्धुरोपहारी नवकलिकलिकाकोमलश्रेणिरेषा ॥ २८ ॥ श्माशानव्रततापसार्पितचिताभस्मास्थिचूर्णादिभिः सूनाबद्धपशूपमं निजपतिं निःशङ्कशून्याशयम् । कृत्वा गर्वगृहीतगेहविभवाः प्रागल्भ्यलब्धोदयाः खातन्येण चरन्ति शीलविरहव्यापारधीराः स्त्रियः ।।२९॥ इत्येष विपुलः कालः कलेः प्रबलतां गतः । भगवन्कीदृशः प्रान्ते भविता भविता जनः ॥ ३० ॥ श्रुत्वैतदुक्तं मुनिभिर्देवर्षिस्तानभाषत । यास्यत्यतोऽपि मालिन्यं सहस्रगुणतां कलेः ॥ ३१ ॥ कलिंविषतरोः प्रातः प्रातर्धनप्रसरः परं नवनवभरः पाके पाके प्रमोहकृदुत्कटः । १. 'कुदुरैः' ख; 'कुररै.' ग. २. 'मुक्ति.' ख. ३. 'नृतेन चोत्पलवता' ना. ४. 'गुरुमिः' ५. 'मानापहारी' ख-ग. ६. 'नाना' -ग. ७. 'शूदाशयं' १ कर्त्यवतारः] दशावतारचरितम् १६३ अतिबहलतां पापामोदः प्रयाति सुदुःसहः पतति जनता येनाघोषः कृतेव पदेपदे ॥ ३२ ॥ सप्तवर्षासु नारीषु पुरुषा दशवत्सराः । तनयाञ्जयिष्यन्ति हखाः खल्पबलायुषः ॥ ३३ ॥ दरत्तुरुष्कयवनाव(फ)गानशकनन्दनैः । संकोचमेष्यति महीं कुष्ठैरिव विसर्पिभिः ॥ ३४ ॥ म्लेच्छाच्छादितसर्वाशा कृपणाक्रन्दनादिनी । मेदःकर्दमिनी क्लेदं रक्तैर्यास्यति मेदिनी ॥ ३५ ॥ तस्मिन्काले निरालोके लोके पापतमोदये। उत्पत्स्यतेऽर्कसंकाशः शिशुः कर्किकुले द्विजः ॥ ३६ ॥ विष्णुर्भूभारशान्त्यर्थी सोऽथ विष्णुयशाः क्षितौ । चरिष्यत्यश्वमारुह्य म्लेच्छसंक्षयदीक्षितः ॥ ३७ ।। तत्खड्गाघातकृत्तच्युतभुजशिरसां म्लेच्छयूथाधिपानां रक्तैः प्रक्षाल्य लीनं कलिकलुषजनासङ्गसंक्रान्तपापम् । कङ्कालाङ्का कपालव्यतिकरशबला व्यावलत्केशकन्या त्यक्ष्यत्यन्तेऽनुतापं व्रतमिव दधती भूतभृद्भूतधात्री ॥ ३८ ॥ निर्लेच्छां वसुधां विधाय सकलां देवः खयं माधवः फुल्लाशोकदलोज्ज्वलां कृतयुगाविर्भावभव्यां विभुः । लोकानां कुशलोदयाय दशभिः खेच्छावतारक्रमै. 'धर्माधानधिया करिष्यति पुन रावतारं भुवः ॥ ३९ ॥ श्रुत्वेति देवर्षिगिरं यथार्थी तथेति निश्चित्य महर्षयस्ते । विष्णोः क्षितौ कर्किकुलावतारनिवेशिताशाः सुखिनो बभूवुः ।। ॥ इत्येष विष्णोरवतारमूर्तेः कथामृताखादविशेषभक्त्या । श्रीव्यासदासान्यतमाभिधेर्ने क्षेमेन्द्रनाम्ना विहितः स्तवायः ॥ ४१॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते कळवतारो दशमः। १. 'बालकान्' क. २. 'हख' क. ३. 'वन्दनैः' क. ४. 'शापपापतमोमये' -ग. ५. 'कर्किकुले द्विजः शिशुः' क. ६. 'उत्खगाघात' -ग. ७. 'प्रत्यक्षन्ती न ताप' ख-ग. ८. धर्मादान' -ग. ९. 'भिधानक्षेमेन्द्र -ग.

१६४ काव्यमाला यो मत्स्यकूर्मादिविचित्ररूपैराश्चर्यकारी हृदयस्थरत्नः । श्रीमाननन्तः स्फुटशैङ्खचक्रः श्रियेऽस्तु विष्णुर्विभवोदधिर्वः ॥ १॥ कश्मीरेषु बभूव सिन्दुरधिकः सिन्धोश्च निम्नाशयः प्राप्तस्तस्य गुणप्रकर्षयशंसा पुत्रः प्रकाशेन ताम् । विप्रेन्द्रप्रतिपादितान्नधनभूगोसंघकृष्णाजिनैः प्रख्यातातिशयस्य तस्य तनयः क्षेमेन्द्रनामाभवत् ॥ २॥ तेन श्रीत्रिपुरेशशैलशिखरे विश्रान्तिसंतोषिणा विष्णोः वल्पविलोकिताकृतिसुधासंवर्धितोत्कण्ठया । वाक्पुष्पैरमलैर्गुणप्रणिहितैरम्लानशोभैः स्थिरै- भक्तिव्यक्तदशावतारसरसः पूजाप्रबन्धः कृतः ॥ ३ ॥ स्तुतिसंकीर्तनाद्विष्णोर्विपुलं यन्मयार्जितम् । तेनास्तु सर्वलोकानां कल्याणकुशलोदयः ॥ ४ ॥ एकाधिकेऽब्दे विहितश्चत्वारिंशे सकार्तिके । राज्ये कलशभूभर्तुः कश्मीरेष्वच्युतस्तवः ॥ ५ ॥ संतोऽयं स्थः। १. 'रलेख-ग. २, 'शक्ति' ख-ग. ३. 'कृत'' -ग. ४. एकचलारिंशनि ते लौकिकाग्दे १०६६ मिते खिताब्द इत्यर्थः. ५, अनन्तदेवसूनोहर्षदेवपितुः.

Gopathabramhana

Author
Pandit Jibananda Vidyasagarab
Title
Gopathabramhana
File name
Gopathabramhana
Text
OCR done
Citation
1891
Published
25.06.06
Publisher
Narayan Press Calcutta
Language
Sanskrit
Pages
87
Library
Allahabad University
Classification
Literature(sanskrit)
DLI number
485206
Barcode
5990010098274.00
Scanning centre
IIIT, Allahabad
VMLT id
LPzYX2vymJa
Download PDF

Gopathabramhana