Hindi Sahataya Samalayan
Arayasaptasati(317)
Front matter
CHOWKHAMBA SANSKRIT SERIES - JOLLECTION OF RARE&EXTRAORDINARY SANSKRIT WORKS NO. 317 STUFFELN grâre GT37TTTEACTiar तत्कृतयैव टीकयोपेता। नेपालदेशीयfacTEIGWUETUT संशोधिता کے روز سے ARYÀ SAPTĂSATI VATIYA SRI VISVESVARA PANDIT. Vith a commentary by the author, 92-2 ed by Vishnu Prasada Bhandari, of Nepal FASCICULUS II-. U BLISTTED & SOLD BY THE SECRETARY CHOWKHAMBẬ SANSKRIT SERIES OFFICE, BENARES. AGENTS: PANDITA JYESHTHARAMA MUKUNDAJI, BOMBAY: OTTO HARRASSO WITZ. LEIPZIG: GERMANY. PRC3STHAIN & CO., BOOKSELLERS, LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press, Benares. 1924.
इंकारवज्या। कापि विप्रियकारिणं नायकमाह-- इथदापि कियदनुभूतं सहृदय ! नैवावधारितं भवता । योऽनुगुणः सम्भोगे स विप्रलम्भोऽन्य एवेति ॥२०॥ इति इकारव्रज्या। सहदयेति तदवधारणयोग्यत्वसूचनम् । "भावो यदा रतिर्नाम प्रकर्षमधिगच्छति ॥ नाधिगच्छति चाभीष्टं विप्रलम्भः स उच्यते ॥" इत्युक्तलक्षणः सम्भोगेच्छाद्वारा तदनुगुणो विप्रलम्भः । "न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते" इत्युक्तवचनरूपस्तु विप्रलम्भो न तथा । अतो मद्वचनं विधाय मत्सम्भोगेच्छाशकैः सहृदयप्रथा नागवारसस्थितैवेति भावः(?)२००॥ काचिद्विराहणी सखीमाह- ईश्वरबाछा जातीलमाश्रयः कषठ पृष्टवकठिना॥ यत्साङ्गिनि विरहाद्रौ ज्वरविषमुद्भिरति रतिसिन्धुः२०१ समाश्रयत्न ताहिपयकत्वात् । पक्षे तदुपारूढत्वात् । कठिना- दुःख दत्वात् । पक्षे स्पर्शविशेषः । विरह एव पर्वतो दुर्वहत्वात् । ध्वरस्य विपत्वं मूच्छ दिजनकत्वात् । रतेः सिन्धुत्वमनेकभेद- तया गाम्भीर्यात् । ईश्वरेच्छाया नित्यत्वेऽपि यदा विरहसाम- श्री तदा ततो विरहोत्पत्तौ दुःखं भवति । दुःख संवलितरतेरेव विमलम्भत्वात् । तदुक्तम्- "सम्भोगः मुखसम्मिन्नो विप्रलम्भस्तु दुःखयुक् ॥ रतिस्तयोः प्रकर्षः स्यादुत्कर्षात्सुखदुःखयोः ।। (१) (३) अत्र उत्पीत् इत्यस्य स्थाने आधिक्यातू इति पाठः सा. हित्यदर्पणस्य यत्र तु रतिः प्रष्टा' इति कारिकायास्तृतीयपरिच्छेद- स्थिताया रामबरणामाचार्थकतटीयां दृश्यते । ।
२८ आर्यासप्तशत्याम् कूर्मपृष्ठ मन्दरं निघाय समुद्रमथने कृते कालकूटमुत्पन्नामिनि पुराणप्रसिद्धम् ।। २०१॥ कश्चिदभिज्ञस्त्वया तदनुरागो न ज्ञात इति वादिनी दूतीमाह- ईषद्धेल्लितकन्धरमतितरलापाङ्गभङ्गिविक्षेपम् ॥ किञ्चिदपदेशनिर्मितमध्येमि विलोकितं तस्याः ॥ २०२ ।। अध्येमीति 'इक स्मरणे' इत्यस्य रूपम् । कर्मणः शे- षत्वेनाविवक्षितत्वाद्विलोकितमित्यत्र न षष्ठी। विलोकितपदेन नायकस्य पश्चादवस्थानद्योतनम् । “विलोकितं पृष्ठतः स्यात्" इति भरतवचनात् । अत एव ईषादित्यादि । मनाक् वक्रीकृता कन्धरा ग्रीवा यत्र । अनेनावनताख्यं ग्रीवाकर्म सूचितम् । तथाच शाङ्गदेवः- "पार्थोन्मुखी तु तुलिता ग्रीवा भङ्गे तथेक्षणे।" तामेत्र प्रक्रम्य सङ्गीतमीमांसाया- "ग्रीवा भङ्गे स्मृतेक्षायां प्रियस्य गुरुसन्निधौ ।" द्वेषादिनापि तथा दर्शनसम्भवादाह-अतितरलेत्यादि । अत्र भरत:- "हर्षप्रसादललिता कान्तात्यर्थसमन्मथा ।। सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिष्यते ॥" तथापि जनान्तरेण ज्ञाते सङ्गमो न स्यादतः किश्चिदित्या- दि। केनचित्-पृष्ठगतसखीसमाभाषणादिना व्याजेन कृतम् । यद्वा केनचित्-अन्ये नाज्ञाततया विलक्षणेन । उक्तरूपेण व्या. जेनेत्यर्थः ॥ २०२ ॥ कश्चिन्मानवयां प्रियायां स्वस्यानुरागं व्यञ्जयन्नाह- ईयाकषायमपि ते वदनमिदं मां धिनीत्येव ।। इन्दुरुदयारुणिम्ना भिन्नोऽपि मुदे चकोराणाम् ॥२०शा - ९१ T MIREMED ईकारव्रज्या। "पत्युरन्यपियासह दृष्टऽथानुमिते श्रुते | इामानो भवेत्स्त्रीणाम्" इति साहित्यदर्पणे । (प०३ का० १९९ । २००) एतेन रक्तमुखरागसूचनम् । धिनोति- प्रणियति । एतेन सर्वावस्थास्वपि प्रियवस्तुनो मनोहरत्वमेवे. ति व्यज्यते ॥ २०३ ॥ कश्चिदनुभूततत्मङ्गममुखस्तामाशास्ते- ईहे तरलिततारं मुक्तकचं मुदिततमजीवम् ।। सङ्गं तस्याः संस्थितजीवनविद्याप्तिदिवसमिव ॥ २०४॥ तरलता-चञ्चलीकृता हर्षाधीना च । तारा बृहस्पतिस्त्री कनीनिका च । कचा केशाः कची गुरुपुत्रश्च । जीव: आत्मा बृहस्पतिश्च । “कचः केशे गुरोः सुने" इति विश्वः । मृतसञ्जीवनविद्यालाभदिवसोऽप्येवम्भूत एवेत्यर्थः । मुक्तके. शमित्यत्र कामशास्त्रम्- "न विना केशनिर्मोकं न विना काममोचनम् ।। कुर्वन्ति कामिनो भोग न च बाह्यरतं विना" इति॥२०४॥ कांचिन्सखी समाश्वसयति- ईदृशमेव विपर्ययमभिसन्धायास्थिरप्रेम्णाम् ।। तत्र न बध्नन्ति रति सम्प्रति किं वा गतानुतापेन२०५ इति ईकारवज्या ईदृशं त्वत्प्रत्यक्षविषयीभूतम् । विपर्ययंवैपरीत्यम् । आस्थिरा- णां प्रेम्णामिति कर्मधारयः । बहुव्रीहौ तु विपर्ययम् अदृढता. नुरागत्वम् । तत्र अस्थिरप्रेमसु । रतिम इच्छामनुरागं वा । पूर्वमेव मया बोधितापि तथा नाकार्षीः साम्प्रतं त्वनुतापेन किं कार्यम् । अतीतस्यान्यथाकर्तुमशक्यत्वात् । अथवा विषयान Maa জাম্বিয়ালু। वाप्तिदुःखितं कश्चित् परमार्थविदुपदिशति । अस्थिरेषु ब्रह्माति. रिक्तपदार्थेषु अनुरागीदृशं दुःखपरिणामरूपं विपर्ययमभिप्रेत्य विदिततत्चास्तत्र रति न बन्नन्ति किन्त्वात्मन्येव । “आत्मन्ये. वात्मना तुष्टः"(भ.गी.अ.२ श्लो.५५)इत्युक्तेः। सम्प्रतीति । तथा चैतदुत्तरं तेषु भावपहायात्मानमेव ज्ञातुं प्रवर्तथा इत्यर्थः ॥२०॥ कश्चित्प्रोषिताय तत्कान्तादशां निवेदयति- उन्नमयन्ती वदनं दिदृक्षया तव कपाटमवलम्ब्य ॥ स्वद्देशं प्रति चलितुं सा भाति गृहीतपक्षेत्र ॥ २०६ ॥ अतिदूरतया दर्शनासम्भवज्ञाने सत्यपि रागौत्कव्येन ततिरस्कृत्य दर्शनार्थ महतिः। कपाटद्वयमध्यवर्तितया उभयपा. ववर्तिनोस्तयोः पक्षसाम्यम् । अवलम्ब्येत्यनेन पदानमात्रेण भूमिस्पर्श सूचनम् । तन्निबन्धनपतनभयादेव कपाटाश्रयणात् । उन्नमनेन प्रियनयनसंयोगप्रतिबन्धकमध्यवर्तिपर्वतादिकृतव्यव. धाननिराकरणेच्छा व्यज्यते ॥ २०६॥ वजुलतरुदोहदसमये प्रथमं तत्पल्लवेन कृतावतंसया नायिकया कृतं तत्पदमहारं पश्यन्प्रिय आह- उत्तंसितं किसलयं श्रवणाभरणारुणमणीनाम् ॥ मिलनात्प्रथममशोकः पदपरिरम्भेण पुष्पितः पश्चात् २०७ पश्चादिति कर्णालङ्कारलग्नपद्मरागसम्बन्धादवतंसतापन- मशोकपल्लव प्रथमं कुसुमितम् । उक्तरत्नानामेव रक्ततत्पुष्प. स्थानीयत्वात् । अशोकस्तु पदप्रहारेण पश्चादव कुसुमितः। तथा. च गृहीतकिशलयस्य कुसुमाभावपयुक्ता विजाती यशोभाशतिर्न शोति भावः । एतेन महत्परिग्रहे स्थानच्युतानां तद्वर्तिनां च समानव फलसम्पत्तिभवतीति व्यजितम् । “पल्लवोऽस्त्री किसल.
অক্ষত । १०१ . यम्" इत्यमरः ॥ २०७॥ कश्चिस्त्रियां प्रीणयितुकाम इदमाह- उन्नतिमानतिकठिनः समुदित नक्षत्रमालोऽयम् ॥ बाले ! पयोधरस्तव कनकाचलवद्वरीवर्ति ॥ २१८ ॥ कठिनान्तमर्थश्लेषः । नक्षत्राणां माला पतिः । अथवा हार. विशेषः । “सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः" इत्यमरः। "वाला स्यात्षोडशाब्दा" इति रतिरहस्यम् । (प.४ श्लो.१) "पयोधरे खेलति कुम्भ एव" (स० ६ श्लो० ६६) इति नैष. धादिप्रयोगादेकस्यापि प्रयोगः सम्पदायसिद्धः ॥२०८ ॥ काश्चिदत्यन्तमानान्निवर्तयितु सखी शिक्षयति- उत्पत्तिशिष्टसौहृदगुणावरुडे मृगीशां हृदये ।। तदनुगुणादतिरिक्तो मानः कथमेति समानम् ॥२०९॥ स्वाभाविकप्तौहृदव्याप्ते कापिनीनां हृदये रसानुकूलकि- श्चिन्मानादधिको मानो न युक्तः । रसप्रतिकूलत्वादमाध्यो मानो रसाभास इत्युपगमात् । अथच गुणविशिष्टकर्मविधिस्थले उत्पन्न शिष्टो गुणो न निविशते । उत्पत्तिशष्टगुणेनैव कर्मणो नि. राकानत्वात् । तेन (द्वितीयाध्यायस्य द्वितीयपादे) नवमे अधि. करणे "तप्ते पयासि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्" इत्यत्र वाक्ये वाजिनद्रव्यकं कर्मान्तरमेव विधीयते । पूर्वकर्मण्यभिहितवाक्योपात्तद्रव्येणावरोधादिति सिद्धान्तः । ['सोमेन यजेत' इत्यत्र सोपविशेषः](१) ॥२०९ ।। - (१) यथा यागस्याप्राप्तत्वेन सोमद्रव्यकयागान्तरस्य विधान तथात्रापि इत्यर्थिकेयं पतिः टिप्पणीरूपा मूले पतितति भाति ! - १०२ आसप्तशत्याम् कस्याश्चिद्विरहावस्था नायकाय काचिन्निवेदयति- उद्यानमेव किंशुककोरकशार्दूलनखभीमम् ।। सुभग ! तव विप्रयोगे जातं कान्तारवत्तस्याः ॥२१०॥ पलाशमुकुला एव सिंहनखा इत्युद्यानपक्षे । तत्सदृशा ये सिंहनखा इति कान्तारपक्षे । तेपामुपवनगतानां दुरालोकत्वेन नखसाम्यम् । यथा सिंहादिभीया वनं गन्तुं न शक्यते तथा किंशुकमुकुलभयेनोपवनमपीयर्थः ।। २१० ॥ कश्चित्पथिकस्य प्रपापालिकायां रागमाह- उद्यत्सत्त्वगुणस्वेदतया पश्यतः प्रपापालीम् ॥ पानीयशालिकायितमपि तनुलतयाऽध्वनीनस्य॥२११॥ "प्रपा पानीयशालिका" इत्यमरः । क्यङन्ताद्भावे क्तः । सत्त्वं मानसविकारविशेषः। तत्कार्यविशेषः स्वेदः । “सवोत्क- टे मनसि ये प्रभवन्ति भावास्ते साविका निगादताः कविभिः पुराणैः” इत्युक्तेः । तनुलतायाः पानीयशालिकात्वे प्रपापाली तामपि पालयिष्यतीयर्थः । स्वविषयकानुरागाचह्नस्वेददर्शनेन तस्या अपि पथिकविषयकानुरागोपपत्तेः ॥ २११ ॥ मृषैव नायकापराधं कल्पयन्ती काञ्चित्सखी पाह- उत्कलिकानांसहचरिसरसानांसहज एष सरसांच ।। सरलमपि स्वान्तरगंकुटिलतयैव प्रकाशयन्तीति॥११२॥ "विद्यादुत्कलिकाशब्दमुत्कण्ठावाचिवाचकम्" इति शा- श्वतः । सरससर शब्दोत्तरे व्यधिकरणे षष्ठयौ । यथा तर. अकौटिल्यरूपदोषाजले क्षिप्तं सरलमपि दण्डादि वक्रमेव प्रतिभा- ति। एवं सरसमनोगतः प्रियादिरपि स्वमात्रासकोऽपि अन्या- नुरक्तत्वेन भासते । स्नेहः पापशङ्की' इतिन्यायान । तथाचाकस्मा.
उकारव्रज्या। १०३ TURES ! : देव नायकागमने मन्युस्यज्यतामियभिप्रायेण निरपराधेऽपि तस्मिंस्त्वयापराधं आरोप्यते न विदानीं तस्यापराधलेशोऽपी- ति भावः ॥ २१२॥ काचिद्वद्धमाना तन्निर्वाहासमी च चित्तमुपालभते- उत्सुकतामेषि कथं हतहृदय ! पुरागृहीतनिर्बन्ध ! ॥ प्रारब्धापरिनिष्ठितमुक्तार्थी माकृथा वहास्यां माम् २१३ उत्सुकतां नायकसङ्गमवाञ्छाम् । हतेति प्रथममेव तथाना- लोचनान्निन्द्यता । अनारम्भे दोषाभावात्-प्रारब्धेति । तथापि तत्सिद्धौ तदभावात्-अपरिनिष्ठितेति । असमाप्तेत्यर्थः । तदु- क्तम्- "अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणम् ॥ आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्" इति ॥ २१३ ।। काचित्कृष्णपक्षमध्ये प्रातः प्रियसदनादायान्ती नायिकामाह- उपसि नभोमध्याश्रतमालि ! निभालय कलारमणम् ।। प्रियसविधादपनेतुं युवती कानीयमईचन्द्रामि॥२१४॥ "यस्याऽङ्गुल्यस्तु विनताः सहाङ्गुष्टेन पूर्ववत् ।। सोऽर्द्धचन्द्र इति ज्ञेयः करः कर्मास्य वक्ष्यते ॥" एतेन बालतरवः(१) शशिलेखाकच्छकलशवलयानां निवा- सनमायातम् । मध्यौपम्यं च पीनं च इत्यादि । निभालयेति परस्मैपदं "त्रपामपाकृत्य निभान्निभालय" (स० १२ श्लो० ५३) इति नैषधभावप्रदीपे प्रातिपादितम् ॥ २१४ ॥ काश्चद्रीष्मतप्त आह- उल्लाघयति निदाघव्याघातेनेह माघवत्सुतनुः ।। स्वेतरहिमहेतूनामनुपादेयत्वमादधती ॥ २१५ ॥ उल्लाघयतीति "अनुपसर्गाफुलक्षावकशोल्लाघाः (८ ।
१०४ आर्यासप्तशत्याम् २। ५५ ) इति निपातितात् 'तत्करोति' इति णिच् । “उल्लायो निर्गतो गदात्" इत्यमरः । निदाघः तपस्तस्य व्याघातस्तत्का- यदुःखोत्पत्तिप्रतिबन्धः तेन । उल्लाघपति-नीरुजं करोति । स्वभिन्नानां शैसहेतूनां चन्दनमृणालादीनाम् । अनुपादेयत्वं शै- सादिप्रवृत्तिविषयस्वभावम् । आदधती-कुर्वाणा। तत्संयोगादेव शैत्योत्पत्तेः । माघमासे पित्तपूगय शैत्यसिया शैत्यहेतुनामनु. पादेयत्वमनुभवसिद्धमिति भावः ॥ २१५ ।। कश्चित्सहदयः काव्यवासनाशून्यनिन्दामाह- उपलानामिव तेषां प्रविशाते न रलः कथश्चियन्तः॥ हृदयविहीनाः कठिना रक्ता अपि येऽभासन्ते।।२१६॥ - हृदयहीनत्वमचेतनत्वात् । पक्षे हृदयपदं रसबोधजनकसं- स्कारविशेषपरम् । तदुक्तम्- "भावना चेन्न हेतुः स्यात्स स्यान्मीमांसकादिषु" अत एव कठिनाश्चमत्कारानुदयात् । पक्ष स्पष्टम् । रक्ताः शृङ्गारिणो रक्तवर्णाश्च । लौकिकशृङ्गाराभिज्ञत्वेऽपि उक्तश- क्तिविशेषविरहान्न तत्र रसोत्पत्तिः। अन्ता मनसि अभ्यन्तरे च । =शृङ्गारादिर्जलं च । रसस्यात्मस्वरूपत्वव्यवस्थापत्तेरनित्य- तया तदभिव्यस्यभिप्रायेण प्रविशतीति । पक्षे स्पष्टम् । उक्तं च- "सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।। निर्वासनास्तु रङ्गान्तः काष्ठकुड्यामसन्निभा यद्वा क्षणिकस्नेहं नायिका निन्दति ॥ २१६ ॥ रमः- - उकारब्रज्या। कृतापराधेऽपि नायके मानं मा कृथा इति वादिनी कांचि. स्काप्याह- उपदशमपि परेषां समाचरन्तो जना विपदि ॥ स्वयमाप्य तामवस्थां हृदयं रोडुं न पारयन्त्यवा२१७॥ । उपदेश: शिक्षा । तथाच भरत:- "इदं कुरु गृहाणेदमुपदेश इति स्मृतः” । विपत् अन्यजननिष्ठा ग्राह्या । ता-यस्यामवस्थायाँ परमुप- दिशन्तः स्थितास्तज्जातीयाम् । स्वयं तादृशदशामवाप्य हृदयं रोर्बु दुःखाद्विमुखीकर्तुं नैव क्षमन्त इति भावः । एतेन तदवस्थापन्नस्य पनःसमाधानमेव दुष्करं न त्वन्योपदेशोऽपीति सूचितम् । तदाह- "विकारहेता सति विक्रियन्ते येषां न चेतांमि त एव धी- राः" ॥ २१७ ॥ गुणेन तद्वेदी अवशो वशीक्रियते इत्याह- उपनीय कमल परिमलमनिलेन सलीलमालनमामृशता स्वागमनावधिभूतां दिशं प्रति प्रेर्यते स हठात् ।।२१८॥ (भ्रमरः) वायूपनीतकमलसौरभमानाय वायुसमागमनापादान- भूतां दिशमुद्दिश्य गच्छति । तस्यां कमलानुमानात् । अथच वायुः नाभिहतं वृणादि यस्यां दिशि वायुगच्छति तदभिमुखमेव प्रया- ति न तु यतो वायुरागच्छति तस्याम् । इह तु विपरीतम् । हठात्त- दनभिमुखमेव प्रयाति। गन्धाघ्राणोत्तरमेव गमनव्यअनम् । सली. लमिति मन्दत्वसूचनम् । तादृशेन वहनेन तृणादिकमयं न भवती. ति व्यतिरेकः । अवधिशब्दोऽपादानार्थः ॥ २१८ ।।
१०६ आर्यासप्तशत्याम MOD कश्चिद्वयस्यमाह- (१)उत्तमयापि मया कृतविप्रियघा मत्त काशिन्या ॥ अयथाग्राहककीरव्यपदेशात्कालिता दृष्टिः ॥ २१९ ॥ "जीवन्त्यां त्वयि जीवामि दासोऽहं त्वं च मे प्रिया । उक्त्वैवं योऽन्यथा कुर्यात्त द्विपियामिति स्त्रियाः ॥" इति भरतः। ममेतादृशकोपकरणे उत्तमत्वव्याघातप्रसङ्गा. दध्याप्यमानमन्यथा गृह्णन्तं शुकशावकमुद्दिश्य मदभिप्रायेण दृष्टिवैकृत्यं विहितवतीत्यर्थः ॥ २१९ ॥ कश्चिद्विधावतामवश्यं द्रव्यलाभो न भवतीत्याह- उदधिः सरस्वतीनां निधिरप्येकः समुद्रतामगमत् ॥ मैवं मंस्थाः स यतस्तास्वपि वैरस्थमारभते ॥ २२०॥ सरस्वतीनां नदीनां वाणीनां च । समुद्रता-समुद्रजाति. विशेष मुद्रावत्वं च । वरस्यम=अत्युत्कटलवणरूपरसवत्त्वं तद्विषयकत्यिभावं च । तथा च वित्तेन सरस्वतीसमुद्रत्वयोः सा. मानाधिकरण्यदर्शनाद्विद्याधनयाविरुद्धत्वब्याप्ती व्यभिचारो न शङ्ख्याः । तत्र वैरस्पारम्भेणैव समुद्रत्वयोगात् । सरस्वतीमात्रा. सङ्गप्रयुक्तधनलाभविरहात् । शुद्धविद्यायाश्च धनेन सह विरोध- (१) का० रा० पु० पुस्तके इदं नास्ति । एतत्स्थाने- उलपस्य सौकुमार्य सर्वजनानुभवसंसिद्धम् । पलमात्रवैपरीत्यात्स्यादुपलत्वं तु तस्यैव ॥ इति पद्यं वर्तते । कोमलचेतस्त्वात्तत्प्रतिकूल करणे स नैष्टुर्य- मवलम्बिष्यते अतो मानं मा कुरु इति नायिका प्रति सख्या उक्तिः । उलपः तृणविशेषः प्रतानवती लता वा। पलमात्रवैपरीत्यातू-उलपश. ब्दः पकारलकारयोरेव तैपरीत्यातू उपलो जायते । पक्षेच क्षणमा- प्रातिकूल्यात्प्रस्तरवत्कठोरत्वं भवतीत्यर्थः । ।
उकारवज्या। - व्याप्तेरिति भावः ।। २२० ।। कश्चिन्मनस्विनं प्रशंसति- उदरम्भरिर्गजश्वतिनिहतीमधुसूदनोऽपि सहनेऽयम् ॥ मघवन्मात्रकृताशा मानीनः स्तोककोऽपि पुनः ॥२२१॥ मधुसूदन इति भ्रमरे विष्णुतादात्म्यप्रतीत्या महतोऽपि प्राति- लोम्येऽपकर्षों भवतीति मुच्यते। गजति मायतीति व्युत्पत्त्या तद. विवेकयोतनम् । निपदेनातिशयार्थेन हन्तेः सर्वाङ्गावच्छिन्नत्वमूच. नम् । निहनीरिति तन्निराकरणेच्छापूर्वस्वसूचनम् । एकवारह- ननस्यान्यतोऽपि सम्भवान्निराकरणतात्पर्यद्योतनाय बहुवचनम् । उदरम्भरिशब्दस्य "फलेग्र हेरात्मम्भरिश्च" (३ । २ । २६) इति चकारेण निपातनात्साधुत्वम् । “ज्योत्स्नाकरम्भमुदरम्भ- रयश्चकोराः" इति मुरारिः। मघवत्पदेनेन्द्रमुखाक्षपात्सात्विकत्व- सूचनम् । स्तोकपदेन क्षुद्रजनोऽपि महदाश्रयेण मान्यतां वहती- ति सूचितम् ।। २२१ ॥ कापि तीरादिसङ्केतस्थान भङ्गाद्विपनायमानेदमाह- उक्षविषाणोल्लिखितप्रतीरमात्रावलम्बमूलत्वात् ॥ रम्यो वेतसकुनो विरलदलः प्रतिदिनं भवति ॥२२२ ॥ पत्रक्षयादृषभशृङ्गण वेतसमूलाश्रयनदीतीरभूमहालेखनात् मूलस्याप्युद्धरणेन प्रतिदिनं पत्रपातात्तस्य दलहानिर्जाता। तथाच जनान्तरदर्शनावरणसामार्थाभावे तरौ तदभिसारस्था. नमनहूँ तदन्यदाश्रीयतामिति भावः । एतेनाश्रयविनाशे तदा श्रितस्य कष्ट स्यादिति व्यञ्जितम् ! लोके स्वाभिपायावरणा- कुलनाशानुशोचनहेतुमुद्धाटयति रम्य इति ।। २२२ ।।
आर्यासप्तशत्याम् । maa केन चिदल्पमेवोपकृत्य दत्ताधिककदर्थनः कोऽपीदमाह- उल्कामुखप्रकाशात्क्षणमध्वदृशोऽपिबाढमन्धाः स्मः॥ उपकारानिर्बहणे वरमस्मादनुपकृतिरेव ॥ २२३ ॥ उल्का वन्हिज्याला मुखे यस्य स शृगालविशेषः । अन्ध- कारे किञ्चित्प्रकाशप्राप्तौ तन्नाशोत्तरं तत्प्राप्तिपूर्ववदेव चाक्षुषं न भवति । अतः क्षणं तदालोकेन मार्ग दृष्ट्वापि पुनस्तदभावे चाक्षु- षानुत्पत्याऽन्धा एव जाताः स्मः। उपकारोऽत्र स्वपूर्वकालीन- दुःखाधिकदुःखजनकव्यतिरेकाप्रतियोगी ग्राह्यः । अतो नानुप- पत्तिरिति ध्येयम् ॥ २२३ ॥ कश्चिन्नायकाय विरहिण्यवस्था निवेदयति- उद्धीविकाविधानात्पदानमात्रेण भूतलं स्पृशती ॥ त्वदवेक्षणाय सुभगाभ्यस्यति सा व्रतावशेषमिव २२४ उन्नता ग्रीवा यस्यां क्रियायां सा उद्दीविका । दूरस्थपदा. र्थदर्शनेच्छायां तथाकरणात् । तदर्थ पदाग्रेण भूमिस्पर्शः । तेनापि किश्चिदौन्नत्योदयात् । अत्र भरत:- "उत्क्षिप्तश्च भवेत्पाणिः सञ्चरोऽत्र तलेन च ॥ अङ्गुल्यश्वान्विताः सर्वाः पादाग्रं तत्र सञ्चरेत् ।" व्रतविशेष-पादाग्रेण भुवं स्पृष्ट्वा स्थितिरूपं तपोभेदमिवाभ्य - स्यति । त्वदर्शनवाञ्छयैवम्प्रायाणि कदर्थनान्यनुभवती. त्यर्थः॥ २२४ ॥ कश्चिद्यौवनावस्था प्रशंसति- उपनिषदन्तररासकं यौवनमद्वैतमात्मभुवः ।। बत मत्तकाशिनीनां दृश्यपि दृश्यत्वमातनुते ॥२२५॥ - इत्युकारव्रज्या।
ऊकारद्रज्या ।
उपनिषद-ब्रह्मप्रतिपादकं वेदवाक्यम्। तदपेक्षयाऽन्यस्यां को-
पनिषदि रसिकमित्यर्थः । तत्रात्मन एवाद्वैतम् । अत्र तु कामस्य ।
आत्मजन्यस्य प्रपञ्चस्य तस्मिन्नभेदारोपः। दृक् ज्ञानं तत्र दृश्यत्वं
तद्विषयत्वं नास्ति । यौवने तु दृशि दृष्टौ दृश्यत्वं रमणीय त्वम् ।
विषयत्वं दृश्यत्वमिति वेदान्तिनः ॥ २२५ ॥
काचिन्मृषवापराधकल्पनयानुराक्तिसंशयितां पाह
अहो विकृतावपि न प्रकृत्यसमवायिनोऽर्थस्य ।।
नाशदशायामपि न स्पृशति कृशानुः शिशिरभावमू२२६
स्वभावविरुद्धस्यानर्थकर्मकरत्वस्य अनुमान न कार्यम् वि.
नश्यदवस्थायामपि वन्ही शैत्याभावात् । एवं त्वन्मात्रानुरक्त
तस्मिन्नपि तद्विप्रियं न कल्प्यम् । अथ च प्रकृतिभूते यागादौ
असमवायिनोऽर्थस्य प्रत्यसमवेतार्थप्रकाशकशब्दस्येति यावत् ।
विकृताव्हो न भवतीत्यर्थः । प्राकृतप्रयोगस्यान्यथाभाव
ऊहः ॥ २२६॥
कश्चित्स्वापकृष्टानामादरदर्शनादिदमाइ-
ऊनस्थाधिकभावो भवति गुणस्थापकर्षहेतुत्वम् ।।
दृश्यादृश्यदर्शनमिति क्रिया भवति विपरीता ॥२२७||
गुणहीनस्योत्कर्षः गुणवतोऽपकर्षतारतम्यं विहाय तदिपरीता-
पादान इति लोकक्रिया. विपरीता दृश्यते इत्यर्थः । अथच
गणिनप्रसिद्धायां विपरीतक्रियायाम् ऋणस्थले भाजन गुण-
नस्थले हानिः क्रियते दृशाददृश्यराशिरीत्यानयनार्थ इति ध्वनिः ।
"छदं गुणं गुणं छेदं वर्ग मूलं पदं कृतिम् ।
ऋणं खं स्वमृशं कुर्यात् दृश्ये राशिप्रसिद्धये ॥” इति
लीलावत्यामुक्तम् ॥ २२७ ॥
११० आर्यासप्तशत्याम् कस्य चिदर्थे दूती नायिकामाह- अरुस्तम्भदिनये रम्भासौभाग्य भोगिनि भवत्याः ॥ कुमुमेषुतापदुःस्था शेतां वैश्रवणनन्दनःस सखि!॥२२८।। भोगिनीत्यन्तं रम्भापदस्य कदलीपरत्वमादाय सप्तम्यन्तं द्वितयविशेषणम् । अप्सरोविशेषार्थत्वमादाय नायिकासम्बुद्धिः । सौभाग्यः सादृश्येनोभयत्र तुल्यः । “रम्भा कदल्यप्सरसोः" इति विश्वः । वै इति निपातः । श्रवणमात्रेण नन्दनः प्रमोद- जनकः । यस्य गुणाकर्णनेनैव एवमानन्दो जातस्तत्सङ्गमेन कियान्न स्यात् । कदल्याः शीतस्वभावतया तापातस्य तत्र शयनौचित्यात् । अथच “किन्नरेशो वैश्रवणः" इत्यमरः । कुवेरस्य नन्दनो नलकूबरः । सोऽपि रम्भादयित इति तदभि- नयोयुवयोरपि सङ्गमो युक्त इति भावः ॥ २२८ ।। कांचित्परवशां दयितदर्शनोत्कण्ठितां नायिका काप्याह- ऊर्वीकृत्य ग्रीवां चकोरि! किंवादिदृक्षसे चन्द्रम् ॥ अयथास्थानस्थापितपञ्जररुडं न वेत्सि स्वम् ॥ २२९ ।। कन्धरोन्नमनमात्रसाध्यचन्द्रचक्षुःसंयोगाभिमायेण किमेवं करोषि चन्द्रनयनयोराक्षेपे मुख्य स्याप्यभावेन ततोऽपि दर्शना. सम्भवादिति भावः । चकोरीति दर्शनावश्यकत्वम् । चन्द्र- मिति दर्शनयोग्यत्वं सूचितम् । तदर्शनार्हदेशगमनवारणाय रुद्धान्तम् । पञ्जररोधेऽपि छिद्रादिनां तत्सम्भवात् स्थापि तान्तं पञ्जरविशेषणम् । स्थानस्याऽयथात्वं स्ववृत्तेश्चन्द्र- दर्शनाननुकूलत्वम् । तथाच किं वृथा प्रयासेनेत्यर्थः ॥२२९॥ अहङ्कारेण गुणहानिभर्वतीति कश्चिदर्शयति- ऊष्मायमाणमधिकप्रकाशमप्यपजहाति दाक्षिण्यम् ॥ अस्मिन्नर्थे भगवानिदर्शनं व्योममणिरेव ॥ २३० ।। MAR NANGIMER ऊकारव्रज्या। उष्मा-गर्वः सन्तापश्च । “वाष्पोष्मभ्यामुद्रमने"(३।१६१६) इति क्यङ् । प्रकाश:-आलोको ज्ञानं च । दाक्षिण्यं परप्रियत्वं दक्षिणदिग्यर्तित्वं च । अतिप्रकाशस्यापि अधिकोष्मवतो भास्कर स्य ग्रीष्मे दाक्षिण्याभावात् । तदानीं तस्योत्तरदिग्गतत्वेन दक्षि- णगतत्वाभावादियर्थः ॥ २३० ॥ क्षुद्रेषु प्रणयो न कार्य इति कश्चित्सहृदयमुपदिशति-. ऊपर इव खललोके सजातसमन्वयोऽपि रसः ।। नैव तदनन्तरेषु क्षणेषु बध्नाति सम्बन्धम् ॥ २३१ ॥ "स्थादूपाक्षारमृत्तिका" इत्यमरः । “ऊपसुषि"(६।२।१०७) इत्यादिना मत्वर्थरप्रत्ययः। रसा=प्रीतिर्नलं च । अत्र रसपदेन खलविषयकान्यनिष्ठप्रीत्युपादानम् । सातः प्रीतिविषय यत्वाभ्यु. पगमानुकूलाचरणरूपः समन्वयो यस्मात् तादशोऽपि तदुत्तर- क्षणेषु सम्बन्धं न ददाति । क्षणमेव खलेन तदाचरणात् । खलनिष्ठपीत्युपादाने तु खलहृदये सञ्जातसमन्वयोऽपि स्वोत्प. याधिकरणक्षणाव्यवहितोत्तरक्षणेषु सम्बन्धं न वहति । क्षणमा- त्रमेव खलहृदि तदुत्पत्तिरिति व्याख्येयम् ॥२३१ ॥ कश्चिज्जनान्तरसन्निधावेव मया मानिन्यनुनीतेति सखायमाह- ऊरीकृतमनुनयनं प्रिथयाथ गुणस्पृशा बृहतिकायाः ॥ स्वादिमतः पूर्वास्मिन्मृद्धीकामलकयोधृते शिरसा(१)२३२ REL इत्यूकारव्रज्या। (१) का. रा.पु. पुस्तके एतत्स्थाने- ऊरीकृतमपि कार्य विजहत्यहहाऽकृतव्यूहाः। भवति विनिवर्तनीयं कृतमपि कार्य हि पाणिनीयानाम् ॥ इति पधं वर्तते ।
११२ आसप्तशत्याम् "द्वौ प्राचारोत्तरासङ्गौ समौ बृहतिका तथा" इत्यमरः । धृते इत्यत्र मयेति शेषः । द्राक्षामलकयोमध्ये पूर्वस्मिन् द्राक्षा. फले । स्वादिमतः स्वादुत्वात् । शिरसि तदुत्कर्षकथनार्थमित्यर्थः । स्वादिप्रत्ययविशिष्टस्य पूर्वस्मिन् प्रकृतिभागे पदसंज्ञे। (१)मृद्वीका- समभिव्याहारात्प्रत्ययस्य हलादित्वलाभः। नायकेन तत्पादाभि- प्रायेण स्वशिरसि तनिधानात्मणामो व्यङ्ग्यः । तया उत्तरीयगुण. स्पर्शेन यथा गुणो मानहीनस्तथाहमिति सूचितम् ॥ २३२ ।। कश्चिञ्चन्द्रं वर्णयति- कक्षाणामग्रण्या परितो विष्णोः पदं भ्रमता ॥ जैवातृकजाम्बवता स्मरसुग्रीवः सहायसम्पन्नः ।।२३३॥ ऋक्षाणां नक्षत्राणां भल्लूकानां च । विष्णोः पदम् आकाशं त्रिविक्रमचरणं च । तथा जैवातृकरूपेण जाम्बवता स्मरसुग्रीवः सहायवान् जान इत्यर्थः । उक्तं च तेन रामायणे- "वैविक्रमे पुरास्माभिः कृतो विष्णुः प्रदक्षिणम् । त्रिसप्तकृत्वः पृथिवी कृता चापि प्रदक्षिणम् ॥" जाम्बवतः सुग्रीवमन्त्रित्वात्सहायत्वम् । चन्द्रस्य शृङ्गारे उद्दीपनविभाव योग्यत्वमिति । ( उक्तं च साहित्यदर्पणे) "चन्द्रचन्दनरोलम्बरुतायुद्दीपनं मतम् ।" (प० ३ १८५) ॥ २३३ ।। सखी नायिका शिक्षयति- ऋतुपर्ण इव सपत्नीजनस्तवैषोऽक्षहृदयज्ञः॥ वैरसनिवत्वं वस स्वरूपं पिधायैव ॥ २३४ ॥ (१) हलादिप्रत्यये परतः पूर्वस्य "स्वादिष्वसर्वनामस्थाने" (१।४।१७ ) इत्यनेन पदसंज्ञाविधानात् । wwwana का० POMRAND ऋकारव्रज्या ११३ ऋतुपर्णोऽयोध्याधिराजविशेषः । अक्षे-चक्षुरादिबहिरि- न्द्रियं हृदयं च जानीते । तद्वृत्तिज्ञानात् । राजापि चूनहृदय. विद्यावेदीति प्रसिद्धः । वैर से निर्नलः । स्वरूप-मियानुरागज. न्यमुल्लासविशेषम् । पिधाय-आच्छाद्यैव । वस-चिन्ताम्लानेव तिष्ठ । नतु दयितसमान प्राप्य उद्धतत्वं कुर्याः । नलोऽपि बाहुकसंज्ञो भूत्वा ऋतुपर्णसमीपे तस्थाविति भारतम् । यदा कृतान्यपुरुषपरिचयां प्रति सख्युक्तिः । यथैता न विदन्ति तथा विधेयमन्यथा प्रकाशप्रसङ्गादित्यर्थः ॥ २३४ ॥ कश्चिद्रसन्तस्योद्दीपकत्वं सूचयनाह- ऋतुराजसखरथोऽयं मलयमरुवर्यते विज्ञैः ।। तत्र मधुव्रतराजी विराजते वैजयन्तीव ।। २३५ ।। ऋतुराजा वसन्तः । सर्वर्तुप्रथमत्वात् । "मुख वा एतहतूनां यद- सन्त" इति श्रुतेः। तस्य सखा मदनः । तथाच वामनपुराणम्- "कन्दर्पश्च दुराधर्षश्चूनाङ्कुरमहायुधः । समं सहचरेणैव वसन्तेनाशु सङ्गतः ॥” इति । "इत्युक्तः प्रययौ कामः सख्या स मधुनाश्रितः ।" इति मत्स्यपुराणम् । कामरथो दक्षिणानिल इति कविसम्प्रदायः । उक्तं हि सौन्दर्यलहाम्- "धनुः पौष्पं मौर्वी मधुकरमयी पश्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः।" "पताका वैजयन्ती स्यात्" इत्यमरः । उत्प्रेक्षया कामोद्दी- पकत्ववस्तुव्यञ्जनम् ॥ २३५॥ कृत्रिमसयवहारे विश्वासो न कार्य इत्यभिप्रायेण कोऽप्याह- ऋच्छान्त केऽपि सत्तामाकृत्या केऽप्युपाधिना लोके ।। सयवहृतिमात्रामा सामान्धेषु सद्धियं कार्षीः॥२३६॥ D স্বাগৰিষ্যাৰ केषांचित्स्वभावेनैव साधुत्वं केषांचित्तु व्याजेन । अतः सयवहारमात्रेण यत्र कुत्रापि साधुरेवायमिति निर्णयो न कर्त. व्यः। किन्तु स्वाभाविकसाधुत्ववत्स्वेव । अपच कोचिन द्रव्यगु. पकमरूपाः पदार्थाः सद्व्यवहारविषयत्वं (आकृत्या) सत्तारूप- जात्या लभन्ते । तत्र तस्याः स्वीकारात् । केचित् सामान्या. दयोऽभावान्तास्तूपाधिना विद्यमानत्वरूपधर्मेण लभन्ते । अतो द्रव्यसामान्यादिसाधारणसयवहारेण सामान्यादिषु सत्ता. जातिमत्ताबुद्धिन विधेया । तत्र सयवहारे निमित्तभेदस्योक्त. स्वादिति भावः ॥ २३६ ।। काचित्मातः मिय विश्लेषयमानेदमाद- ऋम्भिरिह प्रत्युषास द्युतिभिर्भास्वानुदेति सखि ! ॥ अथ युवतीजनजीवनहवने होता कथं न स्यात् ॥ ३७॥ ऋग्भिस्तद्रूपाभिद्युतिभिः। तथाच श्रुतिः-"ऋग्भिः पूर्वाण्हे दिवि देव ईयते । यजुर्भिस्तिष्ठति मध्ये अन्हः । सामवेदेनास्त- समये महीयते । वेदैरशुन्यस्त्रिभिरेति सूर्यः" । ऋग्विद एव होतृत्वादस्य च तथात्वात्स्त्रीजीवनहोमे होतृत्वं युक्तमेवेत्यर्थः । "ऋग्वेदेन होमकुर्वन्यजुबैदेनाध्वर्यवं सामवेदेनौगात्रम् ।" इति श्रुतेः ॥ २३७॥ काचिदेकापराधसहनानन्तरमप्यपराधान्तरकारिणं प्रियं सोत्मासमाह- ऋजुहृद्यया मया तव मृष्यन्त्या तावदपराधान् ।। दृष्टान्तः स्वयमेव स्वहस्तितस्तत्सजातीये ॥ २३८ ॥ इदानीमपराधक्षमायामग्रेऽप्येवं करिष्यतीत्यनालोचना- जुहृदयत्वम् । यथा प्राक्तनानपराधानसहत तथा अग्रिमानपि - न PARIA ऋकारव्रज्या ११५ MA .. सहिष्यत इत्यनुमानेनाग्रेऽप्येवं विधेयमित्यर्थः । एवं चैकापराधस्य कथंचित्सहनेऽप्यतः परं न सहिष्यतीत्युचितम् । धीराधीरेयं नायिका । तथा च साहित्यदर्पणे- "धीराधीरा तु सोल्लुण्ठभाषितैः खेदयेदमुम्” (प० ३ का०६३)॥ २३८ ।। कश्चिचिरपथिकमुपालभते- ऋणमिव यस्त्वयि सुदृशा समुद्रचारिणि समर्पितःप्रणयः। प्रतिदिवसवर्धमानः कियतीमध्वग! स कोटिमारोहेत्३९ समुद्रं सावधिकं तद्विपरीतमसमुद्र चिरकालं चरति परदेशं गच्छ तीति तथा । पक्षे समुद्रे वाणिज्यार्थ चरति । वर्द्धमानः= स्वरूपेण । ऋणपक्षे स्वद्धिद्वारा । कोटिं-(कक्षां पक्षे सङ्ख्याविशेषम् ।) (समुद्रगामिवाणिकर्तृक ऋणेऽधिक ) वृद्धिग्रहस्मरणात् । तथाच योगीश्वरः- (१.)"आरण्यकास्तु दशकं सामुद्रा विंशकं शतम् ।" ( याज्ञः स्मृ० अ० २ श्लोक. ३८) सुदृशेति त्वय्यनुरूप एव रागविधानाचयापि तथैव वि. धेयमिति सूचितम् ॥ २३९ ।। प्रसक्षेऽपि सम्भोगचिन्हे नायिकान्तरसङ्गापलपन्तं नायक काप्याह- ऋतवादिता यदि तव स्तनकुङ्कुमचिह्नसत्त्वेऽपि ।। ग्रावप्लवनविबोधकमृषिवाक्यं त्वन्यथा नयान्ति बुधाः२४० इति ऋकारव्रज्या। (१) मुद्रित याज्ञवल्क्यस्मृतिपुस्तकेषु कान्तारगास्तु इति पाटः ।
आर्यासप्तशत्याम MROS मत्सम्भोगविरहविशिष्टनायिकालिङ्गनलमकुङ्कमादियोगस्य नायिकान्तरसम्भोगं विनानुपपन्या तस्य सिद्धावपि सत्यमहम- न्यत्र नासक्त इति वदन् यदि यथार्थवादी तदा त्वमेव न स्वन्यः। "ग्रावाणः प्लवन्त" इति प्रत्यक्षविरुद्धं वेदवाक्यं तु पण्डिता नहि वाधितमर्थमागमोऽपि बोधयतीत्यभिप्रायेण गौणत्वादिनैव व्याच. क्षते । तथाच वेदवाक्यस्यापि प्रमाणान्तरविरुद्धस्य 'विरोधे गुण- वादः स्यात्' इति न्यायेनान्यथाकरणम् । प्रमाणविरुद्धं त्वद्वाक्यं कथं श्रद्धयमित्यर्थः ॥ २४० ॥ काचित्प्रेमदाार्थ नायकं सूचयन्ती सखीमाह- एतावानेव महानालि ! प्रणयस्थ परिणामः । यावानेवारब्धो यत्तावत एव निर्वाहः ॥ २४१ ॥ अल्पो महान्वा यावानेव यत्र स्नेह उपक्रान्तः तावत एव निवार्हः । न्यूनत्वानापादनमेव प्रशस्तम् । नतु पूर्व महान्तं स्नेह- मुद्भाव्य पुनस्तदपकर्षविधानमियर्थः । एतेन मनस्विनीनां परिभ- वोऽतिवैमनस्यमावहतीति सूचितम् ॥ २४१ ॥ काचिदनुनयेनापि मानमत्यजन्तीमुपदिशति- एकान्तमानयोगात्प्रत्यादिश मा प्रियं प्रणतम् ।। कलयसि किंन तथाविधमानस्याजनकतांजगति २४२ एकान्तः भवत्यैव कल्पितहेतुकत्वेन सार्वदिकः । “प्रत्या. देशो निराकृतिः" इत्यमरः । प्रियमिति तत्कृतापराधाभाव- सूचनम् । तथाच भरत: "यो विप्रियं न कुरुते नचायुक्तं प्रभाषते । तथार्जवसमाचारः प्रिय इत्यभिधीयते ॥" एवं मानस्योत्पत्तिमेवानुचितामभिधाय त्यागावश्यकत्वमूच.
एकारत्रज्या ११७ नाय-प्रणतमिति । तथाविधस्योक्तलक्षणस्य मानस्य । न विद्यते जनस्य दयितस्य कं सुखं यस्मात्तद्भावम् । अथच तथाविधप- देन एकान्तमानोपस्थापनात् एकोऽन्यापेक्षोत्कर्षरहितोऽन्तो- ऽपकर्षों यस्य तादृशस्य मानस्य परिमाणस्य अजनकत्वं कुत्राप्य. हेतुत्वं किं न जानासि । परमाणुपरिमाणस्य कुत्रापि जनकत्वा- नङ्गीकारात् । “कारणत्वं चान्यत्र पारिमाण्डल्यादिभ्यः" (प्रशस्त. पादभा०) इति वैशेषिकवचनादिति भावः ॥ २४२ ॥ कश्चिन्मानपरित्यागाईतां सुचयन्नाह- एजन्ति चन्दनाचलमरुताभिहता बकुलवीयः ॥ भवदासवगण्डूषास्वादनवाञ्छावशादिवोत्तरलाः॥२४३॥ "मलयश्चन्दनाचलः" । भवत्या आसव इत्यत्र "सर्वना. म्नो वृत्तिमात्रे"इत्ति भाष्यवचनात्वद्भावः । गण्डूषाशब्दस्त्री- लिङ्गस्तावत्यसिद्ध एव । पुंस्त्वे च आस्वादनेति छेदः । “गण्डूयो मुखपूर्तिनी' इति रुद्रः। दोहदत्वेन तदिच्छा बोध्या । तदुक्तं - क्षायुर्वेद ॥ २४३ ॥ अतितीक्ष्णस्वभावामपि नायिका कस्यचिगुणेन वशीकृता- मालोक्य काप्याह-- एणनयनेयमासीदग्निशिखोपमतया ख्याता ॥ अस्य विदग्धमणेःपुनरन्वयतःशिशिरशीतला जाता२४४ "काश्मीरजन्माग्निशिखम्" इत्यमरः । एतेनोत्तमत्वमुक्तम् । तदुक्तं कल्पतरौ भविष्ये- "फलिनीरोचनाहेमकुक्षुमत्विष एव च । वर्णाः प्रशस्ता नारीणां पश्च दूर्वाङ्कुरोपमः ॥" अथच तीक्ष्णतया वह्निशिखासादृश्यम् । 'विदग्वाश्चतुःषष्टि- - ११८ आर्यासप्तशत्याम् - कलाभिज्ञा' इति जगद्धरः। तेषां श्रेष्ठस्य । अथच दग्ध दाह: भावक्तप्रत्ययान्तत्वात् । तद्विरोधिनो दाहप्रतिबन्धकमणिविशे- षस्य । शिशिरशीतला-मृदुस्वभावा दाहशक्तिहीना चेत्यर्थः।।२४४॥ काचिन्नायकस्य स्वमात्रानुरक्तत्वविधित्सया एकमात्रा- श्रितानां प्रतिष्ठां दर्शयति- एकत्र वर्तमाना नियमाद्गुणकर्मभेदभाजोऽपि ॥ अणुवृत्तयोऽप्याभिहिताः सधीचि ! विशेषपदभाजः २४५ सध्रीचि हे सहचरि । नियमादिति पूर्वान्धितम् । गुणस्य विद्यादेः कर्मणो भागधेयस्य भेदो विरहः । अणुरल्या वृत्ति विनो. पायो येषां तादृशा अप्येकमात्राश्रिततया विशिष्टा एव गण्यन्ते । सर्वत्र भ्रमणेऽनादरापत्तेः । अथवैकस्मिन्नेव द्रव्ये वर्तमाना गुणकर्मभगो रूपाद्याकुञ्चनादिभ्यो भिन्नाः परमाणुटत्तयो विशेषा इत्युच्यन्ते । ते हि न जायादिवद्धहुषु वर्तन्ते । किंतु तत्तत्परमाणु- वेवेत्यर्थः ॥ २४५॥ काचिद्विरहिणी वर्षासु विद्युदुद्योतेन तप्यमाना सखीमाह एधितवानिह वेधा मेधावी धूमयोनिमपि ॥ काष्ठाख्यांककुभ इति प्रतीत्य मन्दांकृते ताडिबहेः॥४३॥ एधितवान् वर्द्धितवान् । अथच काष्ठीकृतवान् । एधधातोः, "तत्करोति" इतिण्यान्तादेधशब्दात् निष्ठा । धूपयोनि-मेधं वह्नि च ।अपिशब्दो वह्निमेघयोस्तादात्म्याभावरूपविरोधार्थः । काष्ठा- ख्यामिति काष्ठकाष्ठाशब्दयोः श्लेपः । ककुभ इति दिगर्थे बहु. वचनान्तं वृक्षविशेषार्थे एकवचनान्तम् । मन्दाम् अल्पाम् । वि. यदुचितवृत्तिसामान्यस्य विशेषेणोपसंहारात् । “पुरोडाशं चतुर्की कृत्वा" इत्यस्य "आग्नेयं चरुं करोति" इत्येकवाक्यत्वात्पुरोडाश- पदस्याग्नेयपरत्ववत् । तथाच तडिद्रूपाग्नेर्वासु विधित्सितस्यैक-
ऐकारवज्या।
१२९
१
"
जातीयकाष्ठमात्राश्रितत्वे तादृशप्राचुर्यविरहाट्यन्तरस्यापि तदा-
श्रयत्वव्याप्यं काष्ठाभेदः कृत इति अभेदाध्यवसायेन वाक्यार्थ-
सिद्धिः । विद्युतां तदाश्रयाश्रितत्त्वात् । एतेन दिशामाकाशस्य
च मेघतडिदुभयव्याप्तत्वं वर्णितम् ॥ २४६ ॥
काचिन्नदीतीरे कृतसङ्केता कश्चिदिदमाह-
एष सारिन्मात्रजलो ग्राम इति प्रावृषि त्यज विशङ्काम्।।
धार्मिक ! कूपवरोऽयं सन्निहितस्तावदत्रास्ते ॥ २४७ ।।
इत्येकारव्रज्या ।
"सिंहकर्कटयोमध्ये सर्वा नद्यो रजस्वलाः ।
न स्नानादीनि कर्माणि तत्र कुति मानवः ।।"
इति अत्रिवचनात् आप्लवनं ग्रामे जलान्तराभावात्कथं
विधेयमिति शङ्कां मा कार्षीः । अन्यतोऽत्र सन्निहितः कूपस्ति-
ष्ठति । तत्र वृद्धयनुकूलवार्षिकजलयोगाभावेन तत्प्रयुक्तदोषा-
भावात् । तत्र च नियुक्रियादिकं कुर्याः । तथाच-
"अभावे कूपवापीनामन पायिपयोभृताम् ।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति ॥"
इति व्याघ्रपादवचनाजलान्तरालाभे नद्यामेव कर्म कुर्यादिति
श्रवणेन तत्र मागा इति भावः । कूपस्य दूरत्वे नाद्धृतपयसि
रजोदोषाभावात्तेनैव कर्म स्यादत आह–सन्निहित इति ।
उत्पथेन निषेधानादरणाव-धार्मिकेति । जलोद्धरणसामग्री-
विरहे नद्यामेव गमनप्रसङ्गात्-वर इति तद्वत्त्वाभिप्रायकः।।२४७॥
काचिजनान्तरसन्निधाबभिसाराय त्वरस्त्रेति नायिका
ज्ञापयितुमिदमाह-
ऐलविलशैलविलसत्करनिकरैरेव वर्मिताङ्गीनाम् ।।
सिद्धाभिसारिकाणामभिसारोनित्यमेकजातीयः॥२४८॥
: आर्यासप्तशत्याम् सिद्धाः-देवयोनिविशेषाः । इदं चान्येषामुलक्षणम् । ऐलवि. लस्य कुबेरस्य शैलः कैलासः । एतेन स्फटिकमयत्वम्चन. मुक्तम् । “सनद्धो वर्मितः सज" इत्यमरः । एतेन सर्वत आव- वरणव्यञ्जनम् । नित्यं कृष्णपक्षरात्रिष्वपि । एकजातीय:-शुल. पक्षाभिसारसमान एव । तत्र सर्वदा रात्रौ प्रकाशसत्वेन कृष्णाभिसारिकावेषस्याननुष्ठानात् । निसपदेन त्वयाप्पद्यान्या. नुरोधेन न त्याज्यो नायकवैमनस्यप्रसङ्गादिति सूच्यते ॥२४८॥ काचित्खजनादेव प्राप्ततिरस्कारेदमाह ऐरावतमन्दारौ दुर्वासाश्चेति सहभुवो लक्ष्म्याः ॥ एतेषां व्यापारात्सा निकृति प्राप विधिशक्त्या ॥२४९।। त्रयाणां समुद्रोत्पन्नत्वात्स्पष्टं सहजत्वम् । दुर्वाससस्तु अत्रिपुत्रत्वेन चन्द्रस्य तथात्वाञ्चन्द्रस्य च लक्ष्मीसोदरत्वात्तदिति द्रष्टव्यम् । मन्दारः कल्पवृक्षपरः । श्रीपरिभवहेतुत्वं तस्य परम्परया व्याख्येयम् । मन्दारमालायामैरात्रतेन स्त्रकुम्भान्निरस्तायां दुर्वा- ससा लक्ष्म्यास्त्रिलोकीतो निर्वासनात् । त्रयाणामपि वैल- क्षण्यात् सोदरत्वाद्विधिवलेन "आपदामभियान्तीतां हितोऽ. प्यायाति हेतुताम्" इतिन्यायात्तदभिभवो जात इति भावः।।२४९ कश्चिद्विपरीतरतं प्रशंसति-- ऐल इवायं निधुवनभेदो नारीयमाणपुरुषभवः ।। अतिमात्रं रमणीयो न कस्य वा मानसं हरति ॥२५०॥ अत्र कामशास्त्रम् "हस्तमाधुवति हन्ति नो ददात्युज्झितुं झटिति लयेदपि ।। स्वेच्छया श्रमिणि वल्लभेऽथवा योपिदाचरति पूरुषायितम् ।। ( रति० ५० १० श्लो० ४६) AND- एकौरवज्या स्त्रियाः पुरुषायितत्वे पुरुषस्य नायिकायितत्वमप्यर्थतो भ- वतीति नारीयमाणेति पक्षान्तरसाम्यावाप्यर्थप्नुक्तम् । अत एवं "स्त्रीरूपसुम्मस्य नरस्य किं गलम्' इति विपरीतस्तंप्रस्तावे काम- शास्त्रम् । पुरूरवा हि स्त्रीरूपासुत्रुघ्नादुस्पन्न इति पौराणिशा। रमणीयक मुख विशेषावायकवं रूपातिशयवस्वं च । “व्यवा- यो प्राध्यक्षों मैथुनं निधुवनं रलम् ।" इत्यमरः ॥ २५०! कश्चिस्त्रियासमोस्तुको नायिका का मिय सङ्गमोत्सुका যতই অস্থায় কি মিই শুনানি ? हेयस्कर चलाहिल्याह यतः प्रियतमाशात् ॥ २५१ ।। "व्यासो हैपायन: पाराशर्यः सत्यवतीनुतः” इति कोषः । इदमिति बुद्धिस्थवस्तु पर विवक्षितं यस्य स इदम्परः तस्य भाव ऐदम्पर्य तात्पर्यमिति यावत् । इदं स्वैदम्पर्य यदुत नृपतेन- सचिवः सुतादानानिम भवतु सचिवो नन्दिरजनि"(१) इति मालतीमाधकम् । (अं०२श्लो०७) हेयत्वस्य अवचनात् अपि त्वपश्योपादेयत्वस्यैव कथनाप्रियतमस्येत्योक सूत्रार्थ इति भावः। नायकोक्तिपक्षे प्रियपदे प्रियतमपदे च स्त्रीलिङ्गान्तच्छेदः । एवं च "हेयत्वावचनाच" ( अ०१ पा० १ अ० ५ सू०८) इति सूत्रमेवप्रकारेण श्लेषेण योजितम् । तदर्थस्तु पदि प्रकृतिरेर तत्राभिमता स्यात्तदा पूर्व तस्या एवात्मत्वमुद्दिश्य पुनस्तां नि- विध्यान्यमात्मानं ग्राहयेत् स्थूलारुन्धतीन्यायात् । न तु तथोक्त- मत आत्मपरमेव तदिति ॥ २५१ ॥ (१) भवति लहि मे नन्दन इति । इति मुद्रितमालतीमाधवे पाठः ।
१२२ आर्यासप्तशत्याम् ANDA अत्यन्तानुरक्ते नायके तथैवानुरक्तां काञ्चित्सखी माह- ऐक्यमितरेतरप्रतियोगिकमासेदुषोभवतोः ।। सहचरि! विपर्ययेण त्यांतं च व्यवहरन्ति जनाः २५२(१) अविच्छिन्नभावनावशेन त्वद्रूपतामापन्ने तस्मिन्. त्वमि. ति व्यवहारः । तथैव तद्भपनामापन्नायां त्वयि सब्यवहारः । नतु पूर्वकालीनतादृशव्यवहारविषयविशेष्य इति भावः । तदेतत् विप- ययेणेत्युक्तम् । भवतोरिति निरिणे षष्ठी सप्तमी वा॥२५२॥ इत्यैकारव्रज्या। काचिद्विरहिणी चन्द्रिकातप्यमानदेहा सखीमाह- ओषधिनायतया कि प्रत्येषि ज्वरहरत्वमस्येन्दोः ।। प्रत्यक्षेऽप्युष्णत्वे शैत्यं हनुमायते नाग्नेः ।। २५३ ।। एतत्करसन्तापस्यानुभवासिद्धतया ओषधिपतित्वहेतुकं ता- पनाशकत्वं चन्द्रमसि नानुमातुं युक्तम् । बाधितत्वात् । वन्ही शैत्य बदिति भावः । विरहे एवं वर्णन कविसम्प्रदायसिद्धम् । तथाच कविकल्पलतायाम्- "विरहे श्वासपाण्डत्वम्लानिचिन्ताकृशाङ्गताः । अब्जशय्या निशादै जागरः शिशिरोष्णता' इति ॥२५३॥ काचिद्गृहपतेर्गतत्वसूचनेन सद्भार्यायाः सुखसाध्यता सूचयन्ती दूतीदमाह- ओकसि जरत्तरतया मेघाम्बुनिषेधशक्तिपरिहीणे ॥ पिङ्गा घनाम्बुपृषता हृदयभिदारक्तवत्समीक्ष्यन्ते २५४ अतिजीर्णगृहस्य सच्छिद्रो भागतया दृष्टिचारणसामर्थ्य- RADIO (१) का रा० पु० पुस्तक इदं पद्यं नास्ति।
ओकारवज्या । विरहेण तदन्तः प्रविश्य निपतन्तो धूमलिनावयवसंयोगेन र- ञ्जिता मेघोद बिन्दवः तदीयहृदय भेदशोणिततादात्म्येन वर्ण्य न्ते । हृदयभेदादेव तत्र जल पवेशात् । यद्वा जलवारणशक्य. भावात्तच्चिन्तयैव हृदयभेद उत्प्रेक्ष्यते । एतेन यस्य यदसाधार- णं कार्य तद करणे तस्य हृदय भेद एव लज्जया स्थादिति मू- चितम् । यद्वा काचिद्गृहशूनवख्यापनद्वाराभिमारस्थानना सूचयति ॥ २५४ ॥ कस्याश्चित्सडेनस्थानभङ्गचिन्तामालक्ष्क्ष क.प्याह- ओघो यथायथा निकुञ्जमाकामानि तटिन्याः ॥ केतकलतया सार्ड सितायतेऽयास्तथैव मुखलक्ष्मीः२५५ ओघा वाहः । आक्रामति-आवृणोति । तटिन्या इसोधप- देनान्वितम् । केतकानां वर्षाधिक्येन समृद्ध्या, नायिकायाश्चिन्तया पाण्डुत्वोदयः । यथेत्यस्य द्विरुपादानेऽपि तदुपात्तानामकेनैव त. पदेन परामर्पान्न द्विरुक्तिः तथा नियमाभावादित्यन्यत्र स्पष्ट- म् । सहोत्यलङ्कारः ॥ २२० । शुक्लपक्षे विरहिण्यास्तापाधिक्यं काप्याह- ओजायते यथेन्दुत्यति तस्यास्तथा वदनम् ॥ न खलु विपक्षसमृद्धौ विपदापन्नेऽपि परितोषः(१) २५६ चन्द्रद्धौ सत्यां स्वविपक्षस्त्रमृद्ध्य नुशयेनेव मुखं म्लायती- ति अर्थान्तरन्यासेन हेतृत्प्रेक्षा व्यज्यते । यद्यपि "ओजसो- ऽप्सरसो नियं पयसस्तु विभाषया" इत्यत्र भाष्ये अप्प्लरो- ऽतिरिक्तपाठपत्याख्यानात् । "ओजायमानं योऽहि जघान" इति तु छान्दसत्वादित्युक्तम् । तथापि "तस्य मतान्तरत्वमेवे. - (१) सन्तोषं यान्त्यपि विपत्मशाः इति पाठान्तरम् ।
आर्यासप्तशत्याम् . 9 त्योजायते इत्यादयो भाषायामपि साधय एव" इति कैघटस म्पत्या "ओजायतामभ्युदयस्त्वदीय” इति नैषधभावप्रदीपे दर्शितमस्माभिः ॥ २५६ ॥ कश्चिदनुभूतमियाबिम्बाधरमाधुर्यवानस्य सुधातिशयं साधयति- ओष्ठगतं दयिताया न द्धाति सुधापि माधुर्यम् ॥ कथमन्यथा सुधांशुःस रोहिणीचरणयावकाङ्कशिराः२५७ अधरमाधुर्यस्य सुधातिशापितत्वाभावे सुधांशोरेव रोहि- णीचरणनिपलनप्रधरपानार्थमनुपपन्नं यादतोऽस्य तता आधि- क्यसिद्धिः। तस्य सुधायोगसम्भवदर्शनाय- सुधांशुरिति । लासिद्धिवारणाय स इति स्मृत्यादिप्रसिद्ध्या तदावश्यकत्वपरम् । अनुमानभू-'सुधा नायिकापत्तिमाधुर्यापकृष्टमाधुर्या अध- रपानेच्छानिवर्तकस्वाभावात्' इति बोध्यम् ॥ २५७ ।। इत्योहारव्रज्या नायकस्वार्थे दगी काचिदिदमाह-- और्वणेच ज्वलता तबामुन्ना विप्रलम्भन । अरिशोषहेतुमा हाखि! गुणालिन्युनिर्मितः सधृत शल्यः ।। ज्वलसाम्बई मानेन । पक्षो स्पष्टम् । पानि लोपो= भोगकाश्य जलहानिश्च सुगनीति स्वस्थ्ण विश्वास्थस्नायूचनन् । गुणानां सौन्दर्य वैदश्यादीला या स्थानापमान सिन्धुः स शुद्रः । अन्न- कुपके गाड़ि विमलभान प्रतिकरिष्यसि तदा लस्या मरणमापि सम्भावितनिलि बस्तु उज्यते ॥ २५८ ] शिवशा खुणाहवयं प्रशंसलि- औरसमेव सुधायास्तवावरं तन्धि ! जानीमः ।। अत एव जीवननि श्रेजांगमंत्रादराविशेषः ॥ २५९ ।।
अंकारव्रज्या। उरसो हृदयाद्भवमौरसं पुत्रं, लक्षणया सदृशं च। अत एव श्रु. तिरपि “प्रतिरूपं जातमाहुर्हृदयादिव मृतो हृदयादिव निर्मित" इति । जीवन निधेः प्राणेश्वरस्य नायकस्य । सुधातनयेऽपि जल- निधेः समुद्रस्य दौहित्रत्वेन प्रेमविशेष उचित एवेति भावः । अ. त्राधाविषया रतिनायिकाविषयकवपर्यवसानाद्रमश्लेषाक्षमा समुद्रनिष्ठा तु भाव इति ध्येयम् ॥ २५२ ।। कश्चित्स्वतोऽपि नायकयोः समधिकं मिथोऽनुरागं पश्यन्नाह- औपनिषदा वदन्ति स्वात्मानं प्रियतमं समस्तेम्यः ॥ प्रेयान् रसोपनिषदि स्वस्मादपि केवलं विषयः ॥ २६० ॥ उपनीयात्मतत्त्वं नितरां दुःखं सादयति नाशयतीति उप- निषत् वेदान्तवाक्यं तद्विदन्तीत्यौपनिषदाः । तथाच श्रुति:- "न वा अरे सर्वस्य कामाय सर्व प्रियं भवसात्मनस्तु कामाय सर्ग प्रियं भवति" इति । उत्तरोपनिषत्पदं लक्षगया रहस्याय- कम् । स्वस्मात् आत्मनोऽपि । विषया-नायको नायिका वा॥२६० इत्यौकारवज्या। कश्चित्प्रियायास्तनुतां नाम पञ्चमीमरस्था नायकाय नि. बेदयति- अङ्गं सुवर्णमस्याः सुभग ! भवप्रिलम्मदहनेन । सन्तायनानमधिकं कृशादलले यत्तदाश्चर्यम् ॥ २६१ ।। सुवर्ण-शोभनव कलकाभिनं च । दहनः सन्ताए. कवाद ! परमकाष्टापनसुवर्णस्यात्यन्तानलसंयोगेऽप्यनुच्छेद- र्शनात् । “अग्नौ सुवर्णमक्षीणम्" इत्युक्तेश्च । सुवर्णरूपस्याप्यस्या विरहवन्हि सन्तापात्कृसत्वं चित्रमिति भावः ।। २६१ ॥
१२६ आसप्तशत्याम् - पानोन्नतां कांचिद्विलोक्य नायको दूरादेव तर्कयति- अङ्कुश इव वरवारणकुम्भस्थलमन्तरी भातेि ॥ अलकोऽवनम्रनुख्यास्तस्या वक्षोरुहान्तरालभुधि २६२। (?)आनशत्प्रथमं दौलभ्याभिप्रायकं त-पदम् । कुञ्चिताग्रत- या तस्याङ्कुशसाम्यम् । तेनोत्तमत्वं सूच्यते । तथाच भविष्ये- सूक्ष्माः कृष्णा मृदुस्निग्धाः कुञ्चिता ये शिरोरुहाः । भवन्ति श्रेयसे स्त्रीणामन्ये स्युः क्लेशशोकदाः।।" मुखनमनमत्र नायकापराधभवदुःखादवधेयम् । अलकपा- तोत्पत्त्या केशानां सोचादसंस्कारव्यञ्जनम् । अत्र बिम्बाति- विम्बभावापानयोः कुचकुम्भयोर्विशेष्यताया अन्तरान्तरालप. दाभ्यामेकार्थोक्तैर्वस्तुप्रतिवस्तुभाव इत्यालङ्कारिकसम्प्र- दायः ॥ २६२ ॥ काश्चित्कटाक्षप्रशंसया स्वावस्थां निवेदयति- अङ्कुरयन्ति निरङ्कुशमनङ्गमुग्राक्षिदग्धमपि ॥ पीयूषाकूपारोत्कालिकाकारास्तव कटाक्षाः ॥ २६३ ॥ उत्तरोत्तराधिक्यमूचनाय निरङ्कुशमिति । स्वत एवं स्वस्य पीयूषापेक्षा न स्यादतः अनङ्गामेति । तदेतोरपि दर्शना. य-उप्रेत्यादि । जीवनशक्तिसम्भवदर्शनाय पीयूषेत्यादि । "यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् ।। तारकायाः कलाभिज्ञास्तं कटाक्ष प्रचक्षते ।"(इति भरतोक्तेः) पीयूषेत्यादिना श्वेतकटाक्षवर्णनम् ॥ २६३ ॥ कश्चित्कुचोन्नतिविस्मितः प्रियामाह- अम्बरसंवीतमपि प्रोच्छलितप्रान्तमनकाशत्वात् ॥ वक्षोजमीक्षमाणास्तव तन्मानं कथं परिच्छिद्युः ॥२६४॥ सध्या D अंकारवज्या। १२७ अम्बरं वस्त्रमाकाशं च । बृहत्परिमाणतया तदन्तरवका. शामातादुपान्तदेशस्य बाहिर्गतत्ववर्णनम् । ईदृशस्तनस्य मानं सौन्दर्यादिसंमानं कथं विविच्य जानीयुर्लोकाः । “यथा दृश्यः किञ्चित्पवनचलचीनांशुकतया कुचाभोगः स्त्रीणां हरति न तथा मुद्रितवपुः" इति न्यायेनातिमनोहरत्रात् । अयच परममहताका- शेनापि प्रान्तस्व संवरीतुमशक्यतया तस्य परिमाणं कथं जानी- युरित्यर्थः ॥ २६४ ॥ कश्चित्प्रभातं वर्णयति- अञ्चन्ति दीपकलिका म्लानिं प्रातःसमारम्भे ॥ प्रेयोवियोगकातर ग्धशामन्तरात्माभिः साकम् २६॥ कलिकापदेन स्थूलशिखस्त्र सूचनम् । म्लानि-तेजोमान्धं विषादं च । प्रेय इति प्रियशब्दस्यातिशायनिकप्रत्यये रूपम् । त. त्रानिष्टवियोगे दुःखाभावात् प्रकृन्यंशदुःखातिशयसूचनाय प्र. त्ययांश इति ध्येयम् । अत्र सहोत्यलङ्कारेण प्रथमतो द्वयोरपि दीप्तिमत्त्वादिदानी च म्लानत्वात्तुल्यस्वभावमूचनम् । एतेन नायिकायास्तारुण्यव्यञ्जनम् । यत्कामशास्त्रम्- "वाला नूतनसङ्गमे रतिकरी सान्द्रान्धकारे भवे दालोके सुखमातनोति तरुणी प्रौढा तमिस्त्रेऽङ्गना ।।" इति । ( पञ्चसायके २ सायके श्लो० १५ )। २६५ ॥ कटाक्षेण ज्ञातस्वानुरागः कोऽध्याह--- अञ्जनमासञ्जयसि त्वं वञ्जितखञ्जनमदेऽक्षिण || प्रागेव प्रमितं तद्भावप्रत्यायकत्रिभागत्वात् ॥ २६६ ॥ खञ्जितो इस्वीकृतः खारीटस्य मदो गर्वो येन तत् । अ. ञ्जनपदेन कज्जलव्यञ्जनाख्यव्यापारयोरभेदाध्यवसायश्लाघा !
१२८ হামহাখালু "संयोगाबैरवाच्यार्थधीकृयातिरञ्जनम्" ( उ० २ का०१९) इति प्रकाशलेः। यया त्रिभागेत्यत्र त्रिपदं तृतीयपरम् । कटाक्षेणाभिप्रायवोधात् । तस्याअनवत्वं मया पूर्वमेव गृहीतं त्वया विदानीमेव तद्वत्त्वं सम्पाद्यत इत्यर्थः ॥ २६६ ॥ कश्चिचन्द्रापेक्षया सन्मुखोत्कर्ष वर्णय नायिकामाह- अंहःसंहतियोगादिव मुक्तानां हिमे सरोजानाम् ॥ मलिनं मण्डलमिन्दोर वदातं स्वन्सुरवं सुकृतः ॥२६॥ हिमजन्म पद्मनाशे मुक्तिनादात्म्यमादापोत्प्रेक्षा । अचिरा- दिक्रमेण गतानां हि सगुणविद्यावतां पाप वैरिषु पुण्यं ( सुहृदि) क्रामति । तथाच श्रुतिः-"तस्य प्रिया ज्ञातयश्च सु. कृतमुश्यन्त्यप्रिया दुष्कृतम्" इति । सतश्च चन्द्रमण्डलस्य सङ्को- चकत्वेन पद्मवैरित्वात्तत्पापसंक्रान्त्या मालिन्यं मुखस्य तु सा. म्येन तत्सुहृत्त्वात्तत्पुण्योपसक्रान्त्या उज्ज्वलत्वमित्यर्थः। "मा. लिन्यं व्योम्नि पापे ऽयशसि" (५०७ का० २३ ) इति साहित्यदर्पणे ॥ २६७॥ कस्थाश्चित्प्रौढाङ्गनाया दिवस एव रतिसामग्रीसम्पत्तिमा- लोक्य कोऽप्याह- अचानया नयनयोश्रृंगं त्वया मत्तकाशिनि ! दिनेऽपि ॥ यूनां दृशः प्रविसरत्तिमिरकदम्बाकुलाः कलिताः॥२६८॥ अआनया-कज्जलेन रञ्जयत्या । मत्ता क्षीवेव काशते प्र- तिभातीति मत्तकाशिनी । 'कर्तर्युपमाने' ( ३ । २ । ७९) इति गिनिप्रत्ययः। काममोहेन विषयान्तरदर्शनसामर्थ्यावरहात्ति- मिराकुलत्वोपचारः । तथाच दिवसेऽप्यन्धकारप्रदर्शनादाश्चर्यम् । अथच नेत्रयोरअनयोगे तत्रैव मायिकमाकुलत्वं साम्यादुचि- अंकारव्रज्या। १२९ - - तम् । अत्र तु तत्र कारणं कार्य तु तरुणेष्विति असङ्गत्यल- कारः ।। २६८ ॥ काप्यनुनयमकृत्वैव परिरम्भादि वाञ्छन्तं नायकं दृष्ट्वा सखीमदमाह- अन्धकरिपोः शशिकला गौरीपदयावकद्रवान्वयतः ।। भालविलोचनदहनज्वालारुणितेव निर्भाति ॥२६९।।(१) अन्धको दैत्यविशेषः । तथाच हरिवंशे- "स बजत्यन्धवद्यस्मादनन्धोऽपाह भारत ! । तमन्धकोऽयं नाम्नति प्रोचुस्तत्र निवासिनः ॥" अथ च । अन्ध इव अन्धका उपायानभिज्ञत्वात् । त- द्रिपुत्वेन तद्वैपरीत्यादभिज्ञतया तत्प्रणामकरणीमति ध्वनिः । तथाच भरत:- "योऽपराद्धन्तु सहसा नारी सेवितुमिच्छति । अपसादनबुद्धिश्व निष्ठुरः सोऽभिधीयते।" मानमोक्षणार्थपदप्रणामेनेन्दुकलायां यावकयोगजन्यमारुण्यं भालनयनाग्निपाकजन्यत्वेन सम्भाव्यते ॥ २६९ ॥ कश्चिदीश्वरेष्वपि कामव्यापार सूचयन्नाह- अम्भोरुहमुकुला कृतिनापि करेण गिरिभुवापिहिता प्रतिबिम्बमिलनतोऽम्बुजमुकुलच्छन्नायते हिमरुक २७०॥ एकतः बिम्बप्रतिबिम्बाभ्यां मिलित्वाऽखण्डपमकोरकतिरो- (१) अत्र का० रा० पु० पुस्तके- अंशोऽपि खलु गुणस्य प्रभवति जगति प्रतिष्ठायै। अंशुरिति तन्त्ववयंचं विद्वांसो हि व्यवहरन्ति । इति पद्यमधिकं वर्तते । - SD १४
R-
-
आर्यासप्तशत्याम्
हित इव सम्पन्न इत्यर्थः । मुकुला कारकरेण सर्पशिरा विव-
क्षितः । तथाच भरत:-
"अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य तु ।
तथा निम्नतलश्चैव स तु सर्पशिराः करः ॥ इति ॥२७०॥
कांचिनायकादपरज्यानुशयानां सखीदमाह-
अन्तर्निहिताप्यमुना प्रयत्नतो भावितापि भृशम् ॥
चपलतया निजयैव त्वं रसगुटिकव बहिरासीः॥२७१॥
अन्तः-मनसि यन्त्रमध्ये च । भाविता=यथाकामशास्त्र
सेविता वृत्तशुद्धिजनकौपधादिसंयोगा च। चपलतया अस्थिरा-
नुरागतया उड्डयनस्वभावतया च । रसा=पारदः । स हि य.
बेन शोध्यमानोऽपि यन्त्राबहिनिःसृत्य गच्छतीति प्रत्यक्षसि-
द्धम् । बहिर्भवनं नायिकापक्षेऽनुरागविषयत्वाभावः । गुटिकाप-
क्षे प्रसिद्धम् ॥ २७१ ॥
कश्चिद्वासु स्वगमनशदिनी प्रियामुदीक्ष्य गमनाभावं मू-
चयन्नाह-
अम्बुदकदम्बसंवृतमम्बरतलमम्वुजाक्षि! संवीक्ष्य ॥
प्राणाः कुतुकाराला वियोगिनां मानसं जहति ॥२७२॥
कुतुकमाश्चर्यमित्यर्थः। अराला-चक्राः। नानाविधसुखदुःखा-
नुभावात् । अथच आश्चर्यजनका मराला हंसाः [तदभिन्नाहः ।
ते हि सम्प्रति मानसाख्यं सरः समाश्रयन्ते इति सम्प्रदायः ।
तथाच दर्पणे-"जलघरसमये मानसं यान्ति इंसाः" (५०७
का० २३) इति । एतैस्तु मरणस्य जातप्रायत्वात् चित्तत्याग
एव कृत इति चित्रम् । “मानसं सरसि स्वान्तेऽपि" इति
विश्वः ॥ २७२ ॥
ककारव्रज्या १३१ tul अम्भोदादम्भोले सम्भावयतीह सम्भवं लोकः ॥ वर्णभ्रमात्स्वरस्य च विपर्ययान्मुदिरभिदुरयोर्भेदः२७३(१) (२)स्वविषयान्मुदिरभिदुरमध्ये धा मेघकुलिशयोजन्यजनेषु. मन्यंम्रायज्ञेत्कप्रसिद्धः । वस्तुतस्तु तयोरमतिस्व एकजायतीय. पीडाजनकत्वात् । द्वापनन्तु वर्णभेदाद्विजातीयशब्दजनकत्वाच्च भेदप्रतिभासः । अथ च मुदिरपदं मकारे भकारभ्रमात् मकारो- त्तरस्य उकारस्य दकारोत्तरं दकारोत्तरस्य इकारस्य भकारो- त्तरं च पाठरूपाद्विपर्ययाच भिदुरपदं कुलिशपरमर्थसाम्यात्तत्प्र- सिद्धिः प्रवृत्तेति भावः ।। २७३ ॥ इत्यङ्कारव्रज्या ॥ कस्याश्चिद्रतिविपर्ययं काप्यनुमिमीते कलयन्त्यधीयमानं स्त्रीपुंवच्चेति पाणिनेः सूत्रम् ॥ निभृतस्मितवलिताधरमाननमानमयतिस्म वधूः ॥२७४॥ एतत्सूत्रार्थो हि यूना सहोक्तौ वृद्धसंज्ञा स्त्री शिष्यते सा च पुंवत्स्यात् तल्लक्षणमेव चेत्तयो(रूप्यम् इति । युववृद्धशब्दौ अप- त्यविशेषे परिभाषितौ । यथा गार्गी च गाग्र्यायणश्चेति द्वन्द्वे गा. यायणशब्दलोपः गार्गीशब्दस्य च पुंवद्रूपं ततो गार्याविति रूपसिद्धिः । अनया तु सूत्रान्तर्गतपदानामेव स्वानुभूतार्थपर- त्वेन योजना कृता । स्त्री पुंवद्भवति । चकारात्मकृतरतं विवक्षि- तम् । एवं च पुरुषायितपरमिदमिति लज्जया निभृतेत्यादि । यद्वा कचिहृद्धायामासक्ते नायके तत्परिहासोऽयं वृद्धायाः स्त्रि. याः पुंवद्भावार्थमादाय वोध्यः ॥ २७४ ॥ (१) इदं पद्यं का० रा० पु० पुस्तके नास्ति । (२) अत्र अक्षराणा. मत्यन्तमस्तव्यस्तत्वात् यथालिपि पाठ एव स्थापितः ।
१३२ आर्यासप्तशत्याम् - काचिद्गुरुजनमनादृत्यैव रागाद्रमयाणायां कस्यांचिदिदमाह- कमलाकरपिहितप्रियदक्षिणमुकुलिताब्जगतिदुःस्थ: विधिरेकतानकर्णः कलयति तस्या रतान्तनिः श्वासान्द।। दक्षिणनयनस्य सूर्यात्मकतया तत्तिरोधानेन नाभिपुण्डरी- कमुद्रणे सति तत्रावस्थाने सोचभरेण दुःस्थोऽनवकाशत्वेन स्थितो ब्रह्मा कर्ममात्रे स्वामतस्तदिन्द्रियसंयोगविरहेण विलम्बो मा भूदित्याशये निर्धाय रतान्तकालीनश्वासान् श्रोतुं बद्धाद- रः । रतान्ते सति नयनत्यागेन सूर्यकरयोगात्कमलविकासे सु. स्थो भविष्यामीत्यभिप्रायेणेति भावः ॥ २७५ ॥ कश्चिन्नायिकापरितुष्ट आह- कवितानामिक गुरुरसमायणाम कैणनयनानाम् ॥ कथ्यन्तेऽलङ्कारा एव व्याजोत्स्यनन्वयाक्षेपाः ॥ २७६ ॥ अर्भको बाल एणो मृगस्तत्सदृशलोचनानाम् । गुरुः रसः शृङ्गारो गर्भे आत्मनि यासाम् । अथच रसो गर्भे यासां तदुप- स्थित्यनुकूलविभावाद्युपस्थापकत्वात् । व्याजोक्तिः व्याजेनार्था- न्तरोक्तिः । तदुक्तम्-"अत्यन्ताभिमतेऽपि वस्तुनि विधियांसा निषेधात्मकः । " इति । अनेन विबोकभावो विवक्षितः । तदाह भरत:- "इष्टानां भावानां प्राप्तावभिभावगर्वसम्भूतः । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ॥ अनन्वया=सम्भोगाभावो मानादिकालीनः । आक्षेपः प्रियं प्रति परुषोक्तिः। एतेऽलङ्कारमाया एव । न तु जनान्तरसम्ब- न्धिन इच दोषाः। कवितानामप्यतेऽलङ्काराः । काव्यप्रकाशे- "व्याजोक्तिश्छमनोद्भिन्नवस्तुतत्त्वनिगूहनम्"(उ०१०का०११८) Disa ककारन्त्रज्या । १३३ - - अलङ्कारकौस्तुभे- "यत्रैकावच्छिन्ने स्तामुपमानोपमेयत्वे । अन्यसदृशं निषेधुं तमनन्वयसंज्ञमाचख्युः ॥" "इष्टस्याप्यभिधातुं योऽर्थस्य विशेषबोधाय । स्वयमेव प्रतिषेधः स वक्ष्यमाणोक्तविषय आक्षेपः ॥२७६।। कश्चित्प्रियां प्रशंसन्नाह- करमूलेन मृणालं मुकुलमुरोजेन कुसुममास्येन ॥ मध्वधरेणामोदं जयसि त्वं परिमलेन पद्मिन्याः ॥२७७॥ पद्मिनीत्वस्पर्द्धया तज्जय उच्यते । करस्य मूलेन बाहुना । सर्वत्र तृतीया करणत्वे । मुकुलोपमया सुटत्तत्वादिसूचनम् । तथाच भविष्ये- "सुवृत्तमुन्नतं पानमदोन्मतमायतम् । स्तनयुग्मं सदा शस्तमतोऽन्यदशुभावहम् ॥" तथान "मुमृष्टदर्पणाम्भोजपूर्णबिम्बेन्दुसुप्रभम् । वदनं वरनारीणामदृष्टफलदं शुभम्" ॥ २७७ ॥ कांचिदृढमानां सखीदमाह-. कठिनीभूतेन तवाशयेन नित्यं विलिख्यमानस्य ।। उद्भिद्यतेऽस्य नितरां घरवाणिनि ! विग्रहे सितता २७८॥ अन्तरनुरागसत्त्वेऽपि तत्प्रत्याख्यानात्-कठिनीभूतेति। वि. प्रत्ययः । एतेन नायकानुरागानौचित्यवारणम् । अथच कठिनी खटिका तद्रूपेण । “कठिनी खटिकायां तु" इति विश्वः । एतेन नायकविरहेण तस्या अपि पाण्डुतया तद्विषयकप्रीतिव्यञ्ज. नम् । विलिख्यमानस्य-ज्ञानविषयीक्रियमाणस्य । पक्षे स्पष्टम् ।
आर्यासप्तशत्याम् -- खटिकया यत् विलिख्यते तस्य पाण्डुतौचित्यादिति भावः॥२७८॥ कश्चिदनुरक्त आह-- (१)कमलसखः कुचकल शो लौकिककलशाद्विजातीयः।। यस्य गुणव्यतिरेको विलक्षणैः क्षणमपि न लक्ष्यः॥२७९॥ प्रसिद्धकलशस्योत्पपपवच्छेदेन निर्गुणत्वमिति सिद्धान्तः । कुचकलशस्य तु सर्वदा रम्यत्वादिगुणवत्त्वेन क्षणमपि गुणाभावो नास्ति । अतस्तदपेक्षयाऽस्य वैलक्षण्यं दुर्वारमिति भावः।।२७९।। कश्चिस्पियाकुचयोर्मनोहरवातिशय माइ-- कमनीयता विलक्षणतमैव वक्षोजयोः कुरङ्गायाः ।। यदिहाहर्निशलग्नो देवच्छन्दोऽपि विस्फुरति ॥ २८० ॥ विलक्षणतमत्वं शोभान्तरपतियोगिकोत्कर्पवयम् । अन्यशो- भापेक्षापकर्षवारणाय-तमेति । एवकारेण विषयनिश्चयमूचन- म्। “हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिकः।" इत्यमरः । अथच देवतानां छन्द इच्छा । इच्छावाचकं छन्दपदं तु पुलिङ्ग- मकारान्तम् । “स्वच्छन्दोच्छलद्" इत्यादिदर्शनात् । तथाच दिव्याङ्गनोपभोगिनामपि सुराणामेतद्विषयकोक्तार्थसिद्धिः ॥२८०॥ कांचित्कृष्णाभिसारिकां दूतीदमाह- कस्तूरिकानुलेपाधिवासितेयं भवद्रपुवल्ली ॥ भाति भ्रमरपरीता पुष्पायुधचापयष्टिरिव ॥ २८१ ॥ "संस्कारो गन्धमाल्याद्यैर्यत्स्यात्तदधिवासितम् ।" इत्य- मरः । कस्तूरीभृङ्गाणां बिम्बप्रतिबिम्बभावः । पुष्पायुधपदेन तस्यापि तन्मयत्वसूचनम् । अनेन चापवल्लीव प्रथममेव त्वं तदशीकरणयोग्यासीः । सम्प्रति भ्रमरोपेततत्साम्ये तु तस्या (१)का. रा. पु. पुस्तके नास्ति । m ककारबज्या। - मौर्वीसमवधानेन विजयोपधानमेव सम्भवतीति मूच्यते ॥१८॥ कांचिदनभिज्ञेनानादृतां सखी समाश्वासयति- कमठेन कठिनभावात्कृतापि पृष्ठे विषीद न रसे! त्वम्॥ ननु भोगिनायकेनाहर्निशमारोप्यसे शिरसि ॥ २८२ ॥ रसा-भूमिः । कठोरतया (कमठेन) कच्छपावतारेण ( पृष्ठे धृतापि खेदं मा कापीः ) सर्पराजेन शेषेण सर्वदा शिरस्येव धार्यसे । अथच रसपदस्य मत्वर्थाचप्रत्ययान्तत्वेन रसे रसा- श्रयभूते इति सम्बुद्धिः । कं सुखं, मं ज्ञानं,तदुभयोः समाहारद्वन्द्वे एकवचने कममिति रूपम् । तेन ठः शून्यः। प्रज्ञाशून्यवद्विद्यानाद- रेण ज्ञानशून्यः, रूपवत्सङ्गमजन्यविजातीयमुखशून्यश्च । तादृशेन । कठिनभावात्-गुणानभिज्ञत्वात् । पृष्ठे कृता लक्षणयानादृतापि। विषादं स्वस्य निर्गुणत्वज्ञानजन्यदुःख मा गाः । भोगिना भोगा- भिज्ञेन नायकेन । षष्ठीसमासो वा । तेन गुणग्राहकत्वमूचनम् । शिरसि आरोग्यसे-लक्षणया नायिकान्तरमपेक्ष्य बहाद्रियसे । तथाच "तत्त्वज्ञेन कृतावज्ञः को नामान्तर्न तप्यते" इतिन्यायेन तदवज्ञायामेवानुतापो युक्तो न त्वनभिज्ञकृतावज्ञायामपीति भावः।। २८२ ॥ कांचित्कुलवधू शिक्षयितुं कश्चिदिदमाह- कलभस्य तवोरुभ्यां गुण्डवास्कन्दितावयवभूता ॥ रेफान्तरस्य तस्य तु कृतः स्वरूपेण परिभावः ॥२८३ ।। कलभस्यावयवभूता शुण्डैव विजिता । कलभपदमध्ये रेफ- दाने तु करभस्य स्वरूपेणैव तिरस्कारः कृतः। “मणिबन्धादाक- निष्ठं करस्य करभो वहिः ।" इत्यमरः । अथच रेफो दुर्जनो मध्यगतो यस्य । तत्स्वरूपस्य तिरस्कारादन्यस्यामि दुष्टसमायो- आर्यासप्तशत्याम् ma गिनः परिभवः स्यादतस्तथा न कार्यमिति व्यङ्गयम् । तथाच कन्दर्पचूडामणौ- "रक्षेदारान्स्वीयानेभ्यः संयोगहेतुभ्यः । कामोपधाविशुद्धानन्तःपुररक्षिणः कुर्यात् । इसके तेऽथ न भयलोभाभ्यां हि योजयन्त्याभिः । तस्मात्स्यादुपधात्रयशुचिरधिको न गणिकापुत्रः" ॥२८३॥ कस्यचिदतिविदग्धस्य जनापवादमालोक्य कोऽप्याह- कलयैक्रयैव विधुना सम्प्रापि निवास ऐश्वरे शिरसि ॥ बह्वीभिः पुनराभिः सर्वजनानुभव सिद्धोऽङ्कः ॥ २८४ ॥ कलया-पोडशभागेन शास्त्रादिनाच। ईश्वर शिवो राजा- दिश्च । शिरसि निवासः चूडामणीकृतत्वात् । पक्षे आहतत्वमेव । अतो बहुज्ञेन सर्वत एकस्यामेवादर उचित इति भावः । यद्वा एकया मुख्यया वशिष्ठविहितया "द्धिर्यद्धनबर्द्धनम्" इति स्मृत्यु क्तया । कलया मूलद्रव्यद्ध्या प्रत्यवायो न भवति । वहीभिः= स्वरूपतो वृद्धरपि पुनईद्धिरूपाभिश्चक्रकलाभिर्दोषो भवतीति व्यगायः ॥२८४॥ कश्चित्सदरमुपदिशति- कथितजडत्वाः शिशिरा उष्णस्पशास्तु कृष्णवनिः॥ केचिदनुष्णाशीतस्पी अचला जगत्प्राणाः ॥ २८५ ।। शीतस्पर्शवज्जलम् । उष्णस्पर्शवत्तेजः। वह्निपदं(१)तृपलक्ष- णम् । अनुष्णाशीतस्पर्शवन्तौ पृथिवीपवनौ इति दीपिकादि- प्रसिद्धोऽर्थः। अथच शीतलस्वभावाः कथितजाड्याः। मृदुतराणां लोके शत्त्यभावख्यापनात् । अतितीवास्तु कृष्णं मलिनं वर्म (१) वह्निपदं वह्निवाचककृष्णवर्मपदामित्यर्थः । - ककारत्रज्या। १३७ भाचरणं येषां तथा । तदाह स्मृ(अ)ति:-"यत्क्रोधेन जपति यज्जुहोति यद्वा तपस्तप्यति यइंदाति वैरोचनिस्तद्धरतेऽस्य सर्व, मोघः श्रमो भवति क्रोधनस्य ।" हारीतोऽपि क्रोधं प्रक्रम्य-"स्वेषामप्यबहुमतो भवति'' इत्याह । अनुरुणाशीतस्पर्शा नात्यन्तमृदवो नाप्यतितीक्ष्णास्तु अचलाः। सर्वदा पदभ्रंशाभा- वात् । जगतः प्राणभृताश्च । सर्वप्रियत्वात् । अत एतादृशेन भाव्यमित्यर्थः ॥ २८५ ॥ कश्चित्मियावचनमाधुर्य स्तौति- कलकण्ठकामिनीनामप्रतिक्षानां पुरस्तवालपितुम् ।। अर्थविशेषविहीनास्तुहीतिवाचः समुद्यन्ति ।। २८६ ।। पक्ष्यन्तरापेक्षया मधुर स्वरत्वलाभाय कलकण्ठेति यौगिक पदम् । कलो मधुरः कण्ठः शब्दो येषाम् । 'स्वरे कण्ठः प्रकीर्तित' इति रत्न कोषः। ततोऽपि स्त्रीजातीयानां तदति- शयातदर्थ कामिनीति बालद्धे तरपरम् । “प्रज्ञा नवनवोल्लास- शालिनी प्रतिभा मता'। इति रुद्रः। तुहीति कोकिलशब्दानु. करणम् । अथच वादिनः प्रतिवाद्यग्रे कथासामर्थ्यविरहे निरर्थकाः पादपूरणमात्रमयोजनाः तु हीत्यादिनिपाता यथा निर्यान्ति । "तु हि च स्म ह वै पादपूरणे" इत्यमरातू । तद्वदनापीति भावः ॥ २८६ ॥ कश्चित्केशकलापावलोकनोन्मुदित माह कच एष पठितसंस्थितजीवनविद्या कविनिरुक्तः ।। धूर्जदिगनलदग्धं सञ्जीवपति स्मरं यस्मात् ॥ २८७ ।। कचा केशो बृहस्पतिमुतश्च । कविः-शुक्रः । पक्षे कवीनां काव्यकर्नृणाम्(निरुक्तेः=)सम्प्रदायात् । कचेन शुक्रसकाशान्मृन- आर्यासप्तशत्थाम् सञ्जीवनविद्या पठितेति पुराणविदः । "कविः काव्यकरे सूरी कविल्मीकिशुक्रयोः" इति विश्वः ॥ २८७ ॥ कस्यचिद्विदेशगमननित्तिं पृष्टा सखीदमाह- कलरवमाला मौक्तिकसङ्घानादाय तण्डुलभ्रान्त्या ।। विसृजत्यकाण्डकरकोत्करभ्रमाधायिनः सौधे ॥२८८ ।। रतिकलहत्रुटितहारान्निपतितानि मौक्तिकबीजानि तण्डु- लभ्रमेण पारावतैगृहीतानि । ततः काठिन्येन निगरणाभावाद्वि. शेषदर्शनेन विमुक्तानि । तत्र विरहव्यग्रतया करकादृष्टिभ्रमादश. कुनज्ञानेन निवृत्त इति भावः । “पारावतः कलरव" इत्यमरः । ( उत्कर:-राशिः) यद्वा कुत्रचिद्गृहे उक्तविधमुक्ताफलानि दृष्ट्वा करकाभ्रमेण वर्षासमयारम्भमभिमन्यमानामवधिदिनेऽपि नायकानागमनेन विभूतदुरवस्था नायिका सखी भ्रमखण्डनेन समाश्वासयति ॥ २८८ ॥ कश्चिद्धनवतामकार्यमपि लोकसङ्ग्राह्यं पश्यन्नाइ- कर्मणि न खलु विशेषो विभववतां गण्यते जगति ।। पद्मान्वयेन कथितः सरसः पङ्कोऽपि कीर्तिरिति॥२८९।। विशेषः विहितनिषिद्धाविहितनिषिद्धभेदः। (पद्मान्वयेन=) पद्मस्य कमलस्य पद्मायाः लक्ष्म्याश्च सम्बन्धेन । पङ्कः-कर्दमः पापं च । कीर्तिः पङ्को यशश्च । “अस्त्री पङ्क पुमान्पाप्मा" इत्यमरः । "कीर्तिः प्रतापयशसोविस्तारे कर्दमेऽपि च"इति विश्वः। तथाच श्रीसम्बन्धेन पापापापे कीर्तिरेवोच्यत इति भावः । यद्वा दृती कांचिद्भहुद्रव्ये उपपतौ स्थिरीकर्तुमिदमाह ॥ २८९ ॥ काचिद्विरहिण्याह कल्पयति यो दिनानि ज्वलयति कान्तंपरंहराति निद्राम्॥ उद्यन्नेवासुसहः स कथं घिरहो न तीक्ष्णांशुः ॥२९० ॥ - ककारव्रज्या . कल्पवत्करोति कल्पयति । विरहेण दिनानामतिदीर्घत्वाभि- मानात् । पक्षे दिनानि करोति । कान्तं नायकम् । वलयति दुःखाकरोति । पक्षे सूर्यकान्तं दीपयति । "कान्तो रातिप्रिये चारौ"इति विश्वः । निद्राहरणमत्यन्ताभावः । प. क्षे प्रबोधेन तद्विध्वंसः । एवंच तदसाधारणधर्मवत्वाद्विरहस्य सूर्यरूपत्वं युक्तमित्यर्थः ।। २९० ॥ कांचित्कृतकान्तसङ्गमादि सखीदमाह- कलधौतकलशभावभृदेतद्वक्षोजयोस्तव द्वितयम् ॥ मदनाचनाय नखपदकिंशुदामाश्चितं रचितम् ॥२९१।। "कलधौतं रूप्यहेम्नोः" इति विश्वः। नखपदरूपं यत्किं. शुकदामेत्यन्वयः । देवार्चादावपि मालायलङ्कृताः कनककुम्भा भवन्तीति तथोत्प्रेक्षा । एतेन तदुत्तरमपि कान्तस्य सम्भोगे- च्छाव्यानेन कारणसत्त्वेऽपि कार्यानुत्पत्तिरूपा विशषोक्ति- न्यते ॥ २९१ ॥ काचित् दूती नायिकामाह- कर्कशताश्रितहृदया गजराजगतिः पदातिरम्यासि ॥ सम्प्रति भूषितरथ्या बलसर्वस्वं स्मरस्य भव ॥२९२॥ कर्कशता मध्ये कुलस्थित्यनुरोधाद्विलम्बविधानात् । पले- कः श्वेताश्वैराश्रिता । "सितः कर्क" इत्यश्वप्ररकणे अमरः। गजराजगतिरिव गतिर्यस्याः। उपमानपूर्वपदो बहुव्रीहिरुत्तरपद- लोपश्च । पक्षे गजराजानां गतिर्यस्याम् । पदेन चरणेनात्यन्तं रमणीया । अथच पदातिभिः सहिता । भूषिता अभिसारगमनार्थी रथ्या यया । "रथ्या प्रतोली विशिखा" इत्यमरः । पक्षे सं. स्कृता रथ्या रथसमूहो यत्र ।"रथ्या रथकक्षा रथवजे"इति कोषः। ।
१४० आर्यासप्तशत्याम् बलस्य सर्वस्वम् । त्रैलोक्यजयसाधनत्वात् । अथच "हस्त्यश्वरथ- पादातं सेनाङ्गं स्याचतुष्टयम्" इत्युक्ताङ्गयोगात् त्वमेव तस्य सै- न्यकार्य करोषीत्यर्थः ।। २९२ ॥ कश्चित्प्रियामाह- कलशेन भवदुरोरुहसंस्पर्शनजापराधमपमाष्टुम् ।। कम्युग्रीवायत्त्वं मुग्धाक्षि! समर्पितं तुभ्यम् ॥ २९३ ।। "कम्बुग्रीवा त्रिरेखा सा" इत्यमरः । तस्य त्वत्कुचस्प- मा॑नधिकारेऽपि तत्स्पर्धाविधाननिबन्धनदोषशुद्ध्यर्थ तेन स्वा. साधरणधर्मभूनं कम्बुग्रीवायचं तुभ्यमेव दत्तम् । अन्योऽपि स्वोत्कृष्टसन्तोषाय स्वीयं विशेषधर्म तस्मै प्रयच्छतीति भावः । भविष्ये- "स्फुटं रेखात्रयं यस्था ग्रीवायाश्चतुरङ्गुलम् । मणिकाञ्चनभूषाव्यं सा दधाति त्रिभूषणम्" ॥ २९३ ॥ कोचिद्धमानां सखीदमाह- कलिरेष भीमतनयाप्रियं प्रविष्टोऽपि ते हृदयम् ।। न स्पात्सुचिरस्थायी दष्टः सहसाहिनायकेनैव ॥२९४॥ भीमानानिर्वाहादिजं भयम् । मतं सख्याद्यनुमतिः । न. यो-नीतिः। एषामप्रियम् । एतदपर्यालोचनात् । तादृशं तव हृद. यं प्रविष्टोऽपि कलिमानः नायकेन प्रियेण दष्टो दर्शनानुनयाभ्यां निरस्तः चिरकालं न स्थास्यति । पक्षे भीमस्य राज्ञस्तनयाया दमयन्त्याः प्रियं नलं प्रविष्टोऽपि कलियुगविशेषः अहीनां स- पाणां नायकेन कर्कोटकेन दष्टश्चिरं न स्थितवानिति भा. रते स्पष्टम् । एवं विश्लेषेण हृदये नलाभेदमारोप्येयमुक्तिः॥२९४॥ .
ककारवज्या। १४१ ma a AMROSAD कश्चिदयितामाह- कर्णेन सहजकुण्डलभृताङ्गनेत्रामुना नियतम् ।। ध्रियते शक्तिरमोघा समस्तहृदयावभेदिनी चित्र२९५॥॥ सहज कर्णभूषणत्वेन योग्यत्वात् । पक्षे शरीरसहोत्पत्ति- कं यत्कुण्डलं तद्वता । अङ्गाने इति सम्बुद्धिः । अत्र-शरीरे । अमुना तव कर्णेन-श्रोत्रेण । पक्षे अङ्गदेशस्य नेत्रा-नायकेन राधेयेन । अमोघा-फलाव्यभिचारिणी । (समस्तहृदयाव भेदिनी)सर्वजनहृदयमोहक्षमा । शक्तिः सौन्दर्यातिशयः । (ध्रियते) धार्यते । तेन ( राधेयेन ) तु यस्य कस्यचिदेकत्य- व हृदयविदारिणी शक्तिरायुधविशेषो दधे इति व्यतिरेक:२९५।। कांचित्सखीदमाह- कन्यकयैव भवत्या कुन्त्येव सुसिद्धमन्त्रया नियमात् । केनचनाऽनाकलितः सहस्रकरसङ्गमः प्राप्तः ॥ २९६ ॥ कन्यकया=अनूढ यैव । नियमेन=सर्वदा। सुनरां सिद्धो मन्त्री नायक सङ्गयनो यस्याः । फलायोगव्यवच्छेदेनाऽन्यैरज्ञानेन सिद्ध- स्वम् । सहस्रसङ्घयपुरुषाणां करैः सह सङ्गमो लब्धः। कुन्त्यापि कन्यादशायामेव नियमाव-दुर्वासःसमाराधनात् मुतरां सिद्धः प्राप्तो यथेष्टदेवतासपाकर्षणसमर्थो मन्त्री यया। तादृश्या। केनाप्य. ज्ञातः सहस्रकिरणस्य सूर्यस्य सङ्गमः प्राप्त इत्यर्थः ।। २९६ ॥ कंचित्सत्पुरुषेण प्रेमविषयीकर्तुमारब्धमप्यसिद्धं तथाव- भावमालोक्य कोऽप्याह- कर्तुमपीष्टो हृदशे न लभेत तदास्पदं दुष्टः ।। ईशेनापिजिघरिलतमस्थात्कण्ठेहि कालकूटविषम् २९७ हृदयकरणेच्छा प्रीतिविषयीभावेन तदन्तःसंयोगेन च । नि-
१४२
आर्यासप्तशत्याम्
घत्सितं भोक्तुमिष्टमपि । दुष्टत्वरूपसामान्यधर्मावच्छिन्नत्वदर्श-
नाय विषमिति । तस्य कण्ठ एव स्थित्या हृदयप्राप्तिन जातैवेति
भावः ॥ २९७॥
काचित्सङ्केतस्थानरक्षणेन नायकं प्रशंसन्ती सखीमाह-
कच्छपता यन
धृता तेनैव नृसिंहतापि सखि! ॥
कोलतया सह सङ्गो भवेन्न चेदेवमस्यैव ।। २९८ ।।
"जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः" इत्यमरः ।
नदीतीरगतनिकुञ्ज पाति रक्षति भङ्गादिति कच्छपः । तद्भावो
येन धृतः । नृसिंहत्व- पुरुषश्रेष्ठतापि तेनैव धृता । एवंचेन्न कु.
यति तर्हि लतया वल्लीमात्रेणावशिष्टेनापि उत मया सह को वा
सङ्गो भवेत् । तावन्मात्रेण जनदर्शनानावरणादावयोस्तत्र संयो.
गो न स्यादेव । अथच कच्छपता कूर्मता येन धृता तेनैव नृ.
सिंहतापि। कोलतया-वराहत्वेनापि । अस्यैव-उभयोः प्रकृति-
भूतस्य । संयोगो न भवेत् ? किन्तु स्यादेव । त्रयाणामेकविष्णुशरी-
रत्वादिति भावः ॥ २९८ ।।
कश्चिन्नायिकासम्भोगं सूचयनाह
करकावली पयोधरदेशाद्वर्षाकुरङ्गाक्ष्याः ॥
मुक्तावलिरिव पतिता विराजते गन्धवाहपरिमर्दात्२९९
"वर्षोंपलस्तु करका" इत्यमरः। पयोधरो मेघ एव पयो.
धरः स्तनः तस्मात् । गन्धवाहःपवनः मुरभिद्रव्यानुलिप्तो ना.
यकश्च । तत्कृतात् परिमर्दा सङ्घात् मदनाच्च । पतिता मुक्ताफ-
लानां राजिरिव भाति । वर्षासु नायिकारोपेण मेघे स्तनाभेदारोप
इति परम्परितरूपकम् । तन्मूलं च गन्धवाहेति रूपकम् । तस्य
करकापतौ मुक्ताफलोत्प्रेक्षाङ्गत्वमिति सङ्करः ॥ २९९ ॥
कारज्या १४३ कश्चिदशजनेन मूर्खपण्डितयोः समानकक्षां क्रियमाणां पश्यन्नाह- कषदृषदां न परिषदा स्वरूपमेषां विभावितं यावत् । तावत्काञ्चन ! कृत्रिमकनकैः समशीर्षिकामपिसहस्व ।। कपषदः सुवर्णपरीक्षणपाषाणाः । स्वरूपं न विभावितं-न विचारितम्। काश्चन-पारमार्थिकसुवर्ण कृत्रिमकनकैः कनकाका- रीकृतधात्वन्तरैः सह । समं शीर्ष शिरो यस्यां क्रियायां सा समशी- र्षिका । पककक्षागणनमिति यावत् । कृते तु परीक्षणे स्वयमेवा. न्येषामपकर्षमाकलयतीति भावः । तवापि गुणग्राहकसन्निधाव- तिशयाविर्भावे कृतकपाण्डित्यदुर्मदानां खण्डनादन्येषां भ्रमो निवर्यतीति भावः ॥ ३०० ।। कांचिद्विरहिणी सखी प्राह- फर्बुरता भ्रमरकुलैः पलाश निघहेषु समधायि ।। बत सखि! विरहिनिबर्हण एषामद्याप्यनाश्वासः॥३०१॥ स्वत एव विरहिमारणक्षमेषु किंशुकपुष्पेषु भृङ्गः स्वसंयोगेन कर्बुरता चित्ररूपवत्ता सम्पादिता । केवलानां तेषां तद्वधशक्त्य भावमाशङ्म-स्वसंयोगेनेति । अधिकदुःखं विधातुमित्यर्थः । अथच पलाशकर्बुरयो राक्षसरूपार्थाभेदात् पलाशानां कर्बुरत्व- करणं सिद्धसाधनमेव तथापि पूर्व तद्रूपत्वे अप्रामाण्यज्ञानेन पु- नरपि तत्कृतमिति भावः ॥ ३०१ ।। काचिन्नायिकावस्था प्रियायाऽऽवेदयति- कल्याणप्रकृतिरयं सुन्दर ! तस्यास्त्वयि प्रणयः । मदनानलप्तापादपि न कचिदपकर्षमावहति ॥ ३०२ ।। कल्याणी प्रशस्ता प्रकृतिर्यस्य । रमणीयविषयकत्वात् । पक्ष . ARE ! ।
१४४ आर्यासप्तशत्याम् कल्याणं सुवर्ण प्रकृतिर्यस्य । तदुपादानकस्य तस्यापि (१)तळू. पत्वाक्षेपात् । तदुपादानकस्य उपादानवृत्तिद्रव्यत्व साक्षायाप्यजा. तिमत्तानियमात । सुवर्णस्यात्यन्ताग्निसंयोगेऽप्यनपचयादनुरा. गस्यापि तथावे न हानिरिति भावः ॥ ३०२ ॥ कस्याश्चित्तौभाग्य सूचयन्ती काप्याह- कान्तस्य कुन्तलान्दरासिन्दूरपरागराजितान्वीक्ष्य । अनुमितवालानिधुबनविपर्ययाभिः सखीभिरुच्छसितम्॥ हेवन्तरविरहामास्वीकारेण नायककुन्त लेषु नापिका. सीमन्तसिन्दूरानिपतनस्य पुरुषायितमन्तरेणानुपपत्तेस्तदनुमान. मित्यर्थः । तत्स्वरूपं तु इयं स्वकान्ते कृतपुरुषायिता नायक- कुन्तलत्तिा त्तिसिन्दूरनिपातना(धायि)सीमन्तकत्वा दिति बोध्यम् । नायकानुरागविषयत्वज्ञानन सखीनामानन्दः ॥ ३०३ ।। कश्चिदोषगमाह- कार्य नितान्तनिन्छ निबन्धनं केवलं भवति दोषः। मिथ्याभावे साध्ये जगतो हेतुः किल जडत्वम् ॥३०४॥ निन्द्रा कार्य दोषेणैव भवति । यथा जडत्वेन प्रपञ्चमिथ्या- स्वछ । जडत्वस्य दोषत्वात् । मिथ्यात्वस्यापि निन्यत्वादिनि भा. कः । अथवा कश्चित्तत्वविदाह । अतिनिन्द्ये वधहेतौ विहितनि- षिद्ध कार्ये दोषी मिथ्याज्ञानमेव हेतुः । यतो जडत्वेन हेतुना प्रपञ्चस्याऽसत्त्वं सिध्यति । तथाच कर्मानुष्ठानादिकं सर्वमविद्या- विलसितमेवेति भावः । विमतं मिथ्या जडत्वात् शुक्तौ रजत. बत् । इति प्रयोगः। मिथ्यात्वं प्रतिपद्यमानाधिकरणात्यन्ताभाव. प्रतियोगित्वम् । जडत्वमस्त्रप्रकाशत्वमिति वेदान्तविदः॥३०४॥ (१) अनलसंयोगेऽप्यनुच्छिद्यमानत्वस्याक्षेपादित्यर्थः । ma ककारवज्या। १४५ E- HRIS काचिन्मायाचारो मायिनि वर्तनीय इति न्यायेन सखीमाह- काममतिचित्ररूपः सुरभिरयं तावदप्यरस एव ।। कथमत्र क्रियतां सखि भावय नैसर्गिकः लेहः॥३०॥ चित्रमद्भुतजनकं रूपं सौन्दर्यं यस्य। पक्षे चित्रत्वं नानारूप- वदवयवारब्धावयविवृत्तिविजातीयरूपत्वम् । सुरभिः-सुगन्धिः कमनीयश्च । अरस: अतिप्रेमरतत्वादधमशीलः । पक्षे रसपदस्य भावप्रधानत्वात् (न विद्यते) तन्निमित्तं जलत्वं यत्र तथा । ततश्व स्नेहस्य सङ्ग्रहजनकगुणविशेषस्य जलमात्रगुणत्वात् अन्यत्रास म्भवः । अतोऽत्र नैसर्गिकः प्रयाख्यानभावेऽप्यभिन्नः प्रणयः कथं स्यादिति भावः ॥ ३०५॥ कश्चित्प्रियामाह- कारीरी सुषमा तव वहन्ति हारे हरिन्ति रत्नानि ।। अत एवेह पयोधरसमुन्नतिर्भवति रसहेतुः ॥ ३०६ ॥ "पालाशो हरितो हरित्" इत्यमरः । करीराणामियं का- रीरी तद्वृत्तिहरितत्वसजातीयत्वात् तादृशी सुषमां वहन्ति । "वं. शाङ्कुरे करीरोऽस्त्री" इत्यमरः। पक्षे सुष्ठु समां-साङ्गाम् । कारीरीम् इष्टिविशेषम् । “कारीर्या दृष्टिकामो यजेत" इति विहिताम् । पयोधरा स्तनो मेघश्व । रसा-शृङ्गारो जलं च। कारीर्यापि दृष्टिप्रतिबन्धकनिरासे जलं वर्षतीत्यर्थः ॥३०६॥ कोऽपि नायिकामाह कालीयकधूमेनाप्युपस्कृता या विशेषसंसेव्या॥ कबरीकलिन्दजेयं वहति विजातीयमेव रसम् ॥३०७॥ कालीयक-सुगन्धिविशेषः । तधूमेन संस्कृता कबरी विशेषेण सेवनीया भवति । प्रसिद्धकालिन्दी तु कालीयकाख्य-
आर्यासप्तशत्याम्
-
सर्पविषानलधूमयोगेन असेव्याभूत् । अतोऽस्यां विलक्षणरस.
योगो युक्त इति भावः । “नागे कालीयकोऽपि च" इति
द्विरूपकोषः ।। ३०७ ॥
काचित्सङ्केतस्थानं सूचयन्ती सखीमाह--
कालिन्दीयं सहचरि ! तमालनीलायमानतीरान्ता ।
कैवर्तकन्यकायां पराशरो यत्र रतिमापत् ।। ३०८ ॥
(नीलायमानेति) तीरान्तस्य लताघनत्वेन निविडत्वसूचनम् ।
तीरस्य वर्षासु जलाततया कथं तत्र सङ्केत इत्यत उक्तम्-
अन्तेति । यत्र पूर्व तीरमासीत्तत्र तथात्वेऽपि तत्समीपदेशे तद्यो
तनम् । यदि जलानुपेतदेशमात्र तीरपदेन लक्ष्यते तदान्तपदं
स्वरूपार्थकम् । अन्तशब्दादकारान्तात्" "प्रियपान्थमनुव्रजे"(?)
इत्यादौ स्वरूपपरत्वस्य भाष्ये दर्शनात् । तथा च यत्र ता.
शसंयमवतः पराशरस्यापि मनःक्षोभोदयादगम्यागमनं जातं
तत्रान्येषां का वातेति भावः॥ ३०८ ॥
अकस्मादेव नायिकान्तरसंसर्गिणि प्रिये कुपिता नायिका सखीदमाह-
कालवशेन विपक्षे वृत्तिरभूत्प्रियत्तमस्थ यदि तस्य ।।
तदपि न सुच! तथाविधसम्बन्धेनेति माविषदः॥३०९॥
तथाविधेन-त्वदपेक्षोत्कर्षवत्ताज्ञानपूर्वकेण । ततश्चाकस्मा-
तथाभूतेऽपि तस्मिंस्त्वय्येत्र दृढमनुरक्ते विषण्णा माभुः। यथा
वह्निमान् धूमादित्यादौ संयोगसम्बन्धेन बन भाववति काले का.
लिकसम्बन्धेन धूमस्य वृत्तित्वेऽपि तथाविधेन हेतुतावच्छेदक
सम्बन्धेन तस्मिन्नतेने व्यभिचारस्तथा । साध्याभारवति हेतु.
तावच्छेदकसम्बम्धेन (हेतोः) वृत्तित्वस्व व्यभिचारपदार्थत्वा-
दिति भावः ॥ ३०९॥
ककारवज्या। .. काप्यभिसारादागस सखीमाह-- कापि लता सखि सेवनमात्रेण परं प्रमुयते श्रेयः। प्रकृतेः प्रपञ्चहेतोबन्धः पुरुषस्य यन्त्र गुणभुभेः ॥३१०॥ कापि=परमाश्चर्यजनिका । लता वेतस्यादिः । स्वस्य परि- शीलनेन परममाल्हादं जनयति । यस्यामधिकरणभूतायां प्रपञ्च. स्य प्रियमिलनानुकूलपापारसमुदायस्य हेतोः कारणभूतायाः अत एव प्रकष्टायाः कृते यन्नात् गुणानां भूमेराश्रयस्य पुरुषस्य नायकस्य वन्धः स्ववशीकरणं भवति । अथच कपिलोक्तत्वा- स्कापिळं साङ्खयं तज्जानन्ति कापिलाः । तद्भावः । (सेवन- मात्रेण=) स्वज्ञानमात्रेण । परं मोक्षलक्षणं श्रेयः सूते। गुणानां सत्वरजस्तमसा भूमेः स्थानात् । प्रपञ्चस्य जगतो हेतोः । ए- तादृश्या प्रकृतेः अव्यक्ता पुरुषस्य ईश्वरस्य बन्ध इत्र बन्यो भवति । तत्र प्रकृतिर्गुणत्रयवती मूल कारणं भवति । ईश्वरस्य नाऽपि बन्धो नापि मोक्षः । किंतु विवेकाग्रहमात्रम् । तदुक्तम्- "तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥" ( स० का० ६२ ) इत्यर्थः ॥ ३१० ॥ दूनी कस्याश्चिदवस्थां नायकाय वदति- काश्चन दशामुपेता भवद्वियोगानलज्वलिता ॥ शैवालनिकषलग्ना सा रागाधिक्यमाचष्टे ॥ ३११ ॥ काश्चन-विशिष्य निर्वक्तुमशक्यदुःखजनिकाम् । अथच काञ्चनस्य सुवर्णस्य दशामिति समासः। शैत्यार्थितया शैवाल- योगः । एतादृशतयाऽनुरागोत्कर्ष प्रत्याययति । मुवर्णमपि वहित- निकोपलमंयोगात्स्वरागं प्रकाशयतीत्यर्थः ॥ ३११ ॥ -- १४८ आर्यासप्तशत्याम् कस्यांचिदपकृष्टगुणायामासक्ते नायके काप्याह-- कारणमष्टमेव प्रणये गुणराशिरन्यथासिद्धः ॥ इति हतविधिना सहचरि! वैफल्यमनायि गुणसृष्टिः३१२ कचिद्गुणवत्यप्यननुरागात्कचित्तदभाववत्यनुरागोदयाचान्व- यव्यतिरेकव्यभिचारेण गुणानां नानुरागहेतुत्वम् । न चानुराग- विशेषे एव तद्धेतुत्वं स्यादिति वाच्यम् । निर्गुणविषयकस्थलीया. वश्यकल्प्यादृष्टविशेषकारणतयैव तस्यान्यथासिद्धेः । अन्यथा घट- विशेषे रासभादेहेतुत्वापत्तेरिति भावः । यद्वा काचिदखासक्तव ल्लभाऽदृष्टमात्रेणानुरागोत्पत्त्या स्वस्य गुणाभावमाशङ्कमानां कांचिदिदमाह ॥ ३१२ ॥ कश्चिदत्युदार हृदय आह- कार्मुकवतजीवा अपि ते चैतन्यविरहिता एव ।। कोटिजुषामपि येषामासक्तिर्माणत्यागे ॥ ३१३ ॥ धृतजीवाः जीवन्तोऽपि । आत्मविशेषगुणजनकात्मनःसंयो. गो जीवनमिति वर्द्धमानः । पक्षे धृता जीवा मौवीं येन । चैत- न्यविरहः सत्कार्यरहितत्वात् । पक्षे स्पष्टम् । कोटिः तत्सङ्ख्या- वछिन्नद्रव्यम् अग्रं च । मार्गणा-याचका बाणाश्च । त्यागः अ. नादरः प्रक्षेपश्च । “मार्गणो याचके शरे" इति विश्वः ॥३१३॥ कास्यांचिन्मृदुमकृतावपरज्य तीक्ष्णस्वभावायामनुरक्त नायके 0- काप्याह-- -- काठिन्यं मृदुता वेत्येतदकिश्चित्करं द्वितयम् ॥ स गुणोऽन्य एव येन प्रविशत्यन्तर्बहिर्गतोऽप्यर्थः ३१४ काठिन्यं नानुरागप्रतिबन्धकम् मृदुत्वं न तजनकमिय- किञ्चित्करशब्दार्थः । गुणा-भाग्भवीयसंस्कारादिः । अन्तःप्रवि.
ककारव्रज्या । १४९ शति-अनुरागविषयीभवति । अथच पाषाणकुसुमादौ प्र- तिबिम्बानुदयात् कठिनमृदुत्वानादरेण स उज्ज्वलत्वरूपी गुणोऽन्य एव । येन बहिःपदार्थोऽपि तत्र प्रतिविम्बितो भवतीत्यर्थः : । स्वच्छद्रव्याभिहतं चक्षुः परावृत्त्य बिम्बमेव गृहातीति शास्त्रविदः ।। ३१४ ।। कश्चिदुत्कण्ठितः प्रियामाह-- काश्मीरेण तुषाराक्षितिधरसंयोगकुतुकमनुभूय ॥ लब्धं स्तनसङ्गात्ते कनकाद्रिस्पर्शसौख्यमपि ॥ ३१५ ॥ कुङ्कुमस्य हिमवत्संयोगोपपादकं काश्मीति पदम् । अङ्ग- रागाय कुङ्कुमेन कुचयोः स्पर्शेन सुमेरुस्पर्श कौतुकमप्यनुभूतमियर्थः। अत्र कुचस्पर्शेन सुमेरुस्पर्शजन्यविजातीयमुखानुपपया तयोस्त- तादात्म्यं ध्वन्यत इति रूपकालङ्कारध्वनिः । एतेन त्वत्कुचप. रिरम्भेणैव स्वर्गसुखानुभवो भवतीति व्यङ्गथम् ॥ ३१५ ।। काचित्खण्डिता नायकमाह- कान्तारतोपलव्ध्या दुर्दर्श वहसि विग्रहं यदपि ॥ सन्ततमनन्यगतिकास्त्वामवगाहामहे तदपि ॥ ३१६ ॥ कान्ताया इष्टनायिकाया रतस्य प्राप्त्या यया दुर्दर्शत्वम् । अथच कान्तारत्वं दुर्गत्वम् । “कान्तारं वर्म दुर्गमम्" इत्यमरः । यथा मार्गान्तराभावे दुर्गमार्गेणापि सञ्चरन्ति तथा नायकान्तर• गमनान हतया त्वय्येव रज्याम इति भावः ॥ ३१६ ॥ कश्चित्सदसतां स्वभावमाह- कालागुरुरतिदाहे सौरभमुादति सारसमदाहे ।। उभयत्रापि सिताभ्रो न कदापि सखे ! पुनः काष्ठम्३१७ कालागुरुर्दाह एव सौरभं प्रकाशयति (सारसं-,पनं त्वदाह -- , १५० आर्यासप्तशत्याम् एवातस्य दाहे रम्यगन्धाभावात् । उभयत्रापि-दाहे तदभावे च । "सिताभ्रो हिमवालुका इत्यमरः" । कपूरस्य दग्धस्यापि सौ. रभातिशयदर्शनात् । काठपदं मुगन्ध्यतिरिक्तपरम् । अथच कालो मलिनाचारः अगुरुर्लघुहृदयश्च पीडनादेव द्रव्यादि ददाति । पद्मवत्कोमलहृदयस्तु स्वयमेव । एवं पूर्वार्दैन सद. सताः स्वभावमुक्त्वोत्तरार्द्धनात्यन्तसदसतोराह । अतिकारुणि. को हि कर्पूरवद्विशदचरितो विपदि सम्मादि वा परोपकारमेव करोति । काष्ठवत्कठिनस्तु नोभयत्रापीति भावः ॥३१॥ काचित्खण्डिता धृष्टनायकमाह- कालिकया स्वयमेव त्वदाननं सुभग ! सम्यगाकान्तम् ।। पाचोयुक्तिपटुत्वं तवेति किंनाम तचित्रम् ।। ३१८ ।। कालिका-नयनचुम्बनलग्नाञ्जननिवन्धनं श्यामत्वम् । वा- चोयुक्तिरित्यत्र “वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु' इति अलुक् "वाचोयुक्तिपटुर्वाग्मी" इत्यमरः । कृतापराधस्य तदुन्मा- र्जनोपायावश्यकत्वात् । अथच यस्य मुखे कालिका सर्ववाङ्म. यजननी देवी सन्निहिता भवति तस्य वाचोयुक्तिपाटवे किमा- श्चर्यमित्याशयः॥ ३१८ ॥ (कामनायक) कश्चिद्विषयान्तराद्विविच्याह- किमपि कमनीयतायाः कवितानांमुभ्रयां च वैजात्यम् ।। हृदयानि तदवमाहात्तदितरविषयानिवर्तन्ते ॥३१९ ॥ किमपि निर्वतमशक्यत्वेऽपीक्षुक्षीरमाधुर्यादिनिष्ठजात्यवदनु- भवसिद्धतया दुरपन्हवं कमनीयतानिष्ठं वैजात्यमस्ति । काव्यवि. शेषाणां स्त्रीविशेषाणां च विजातीयकामनीयकावगाहनेन मनसो विषयान्तरल्यावृत्तेः । रसस्य क्षणिकभावमयत्वेऽपि धारावाहिक- ककारवज्या। 4- - च्छया पुनःपुनस्तस्यैवावगाहन मिति। विषयान्तरे च तथा निय. माभावात् । तेन सर्वज्ञानस्यैव स्वविषयेतरविषयाविषयकत्वा कोऽत्र विशेष इति शङ्कानवसरः ॥३१९ ॥ काचित्कुलटायाः सखीमाह - कीचकवृन्दं सहचरि ! भीमेन ज्वलनतेजसा दग्धम् ॥ येनाकारि विहाराकाङ्क्षा निभृतव कान्तायाः ॥ ३२० ॥ महता ज्वलनमयेन तेजसा वंशवनं दग्धम् । येन नायिकाया अभिसरणं गुप्तमेव स्थापितमिति विवक्षितार्थः । वह्निसदृशमभा. वेन भीमसेनेन कीचककुलं नाशितमनीत्या येन द्रौपद्याः स. म्भोगेच्छा विहितेति यथाश्रुताः । इदं च विराटपर्वणि प्रसि. द्धम् । तथाच स्थानान्तरपन्विष्यतामिति भावः ॥ ३२० ॥ काचिद्विरहिणी वर्षासु सखीमाह- कीलाल सत्तयापि प्रत्यक्षविशेष्यधूमयोनितया ।। किं नेह सिध्यति घनानेहसि तादात्म्यमनलस्य॥३२१॥ कीलालं जलं तस्य सत्तया । प्रत्यक्षविपयो धूमयोनिर्मेघो यत्र तद्भावेनापीसपिभिन्नक्रमः । मेघभावस्यान्यदापि प्रयक्षात् विशे. ष्यधूमयोनितयेति । पक्षे “वढेईयोलिकीलो" इत्यमरः । कीलाभिर्लसत्तया दीप्यमानत्वेन प्रत्यक्षगम्यधूमजनकत्वेन चे. त्यर्थः । तयोस्तादात्म्यसम्बन्धेन वह्निव्याप्यत्वात्तद्वति वह्य भेद- सिद्धियुक्तेत्यर्थः ॥ ३२१॥ कश्चिदसनीमाह- किं कुर्मश्चर सुचिरं कुलाचलाध्वानमेवमतिलय ॥ स्वयमीश्वरेण जगतांनुरापगे! शिरसि निहितासि ३२२ कुलस्य अचलमविच्छिन्नं पारम्पर्यागतमध्वानमाचारमपहाय । - १५२ आर्यामप्तशत्याम् पक्षे कुलाचलस्य हिमाद्रेमार्गमतीत्य । सुरां पिवतीति सुरापो दुराचारः तं गच्छतीति सुरापगा तादृशीति सम्बुद्धिः । केनचि. महता समाहतासि । अथ च सुराणामापगा गङ्गा जगदीश्वरेण शिवेन शिरस्यारोपितेति भावः ॥ ३२२ ॥ कस्याश्चित्सौभाग्यं सूचयन्ती काप्याह- कुचोई येऽईचन्द्रस्पर्शिनि वैमुख्यमहमेतस्याः ॥ चित्रं प्रतियुधनीनां तव्य तिरेकेऽपि यत्तद्भूत् ॥ ३२३॥ अर्द्धचन्द्रो-नखक्षनविशेषः प्रागुक्तहस्तविशेषश्च । वैमुख्य वृत्तत्वं पराङ्मुखत्वं च । तव्यतिरेके अर्द्धचन्द्राभावेऽपि । तत्-वैमु- ख्यम् । स्वस्मिन्नायकाननुरागमाशङ्कय तामां वैमुख्यम् । अत्राई- चन्द्ररूपवैमुख्यजातीयकारणाभावेऽपि तदुक्तेर्विभावना ।। ३२३ ।। काचिन्नायकस्य सौभाग्यं मूचयति- कुलिशं मनस्तवेदं न यदप्यन्येन शक्यनादातुम् ॥ तदपि विबुधाधिपेन स्वहस्तपरिवर्ति तेन कृतम् ३२४ कुलिशं काठिन्यात् । आदातुं स्वस्मिन् स्थिरीकर्तु हस्तेन धारयितुं च । विबुधाधिपेन =परमविदग्धेन,देवराजेन इन्द्रेण च । स्वहस्तपरिवर्ति स्वाधीनं स्वकरसंयुक्तं च । तथाच बहुषु समास- जग कुत्राप्य स्थिरी भूता त्वमत्रैव स्थिरा जातेति भावः ॥३२४॥ कांचित्प्रियानुरागादेव स्त्रीणां प्रतिष्ठा स्यादिति सूचयन्ती काप्याह- कुम्भप्रदेशमभ्रमुदापितस्य गरुत्मतो नखैभिन्नम् ॥ गायन्ति वीक्ष्य देव्यः सौभाग्यं सत्यभामायाः ३२५ "एरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः" इत्यमरः। स- त्यभामानुरोधेन पारिजातं जिहीर्षति भगवति तद्रक्षणार्थमुद्यते ककारवज्या। इन्द्र गरुडरावतयोयुद्धं प्रवृत्तं तदभिप्रायं पूर्वार्द्धम् । एतेन स्तन- विपक्षतत्कुम्भाविपत्त्या तासामानन्दोत्पत्तिः सूचिता । तदाह- "गुप्तः साक्षन्महानल्पः स्वयमन्येन वा कृतः । कगोति महती प्रीतिमपकारोऽपकारिणः॥" ॥३२॥ काचित्प्रातर्वर्ण यति- कुरुवृन्दकन्दलरुचः किरणास्तरणेगवाक्षमार्गेण || प्रविशन्ति देवयुवतीविच्छे दादुधदज इव ॥ ३२६ ॥ कुरुविन्दो रक्तमणिः । युवतीशब्दो 'यु मिश्रण' इत्यस्य शतमत्यये "उगितश्च"(४।१।६)इति डीप्प्रत्यये साधुः। विच्छेदः- प्रियवियोगः श्लेषाद्गात्रभेदश्च । श्लेषाद्गात्रभेदश्च । एवंच प्रिय गाढालिङ्ग- नसम्पन्नाभेदतद्विभागलग्नशोणितत्वमुत्प्रेक्ष्यते(१)। एवं चाना- प्येषां प्रियविश्लेषहेतुत्वमिति व्यज्यते ।। ३२६ ।। कश्चित्मियामाह-- कुरुराज इव कटाक्षस्तवैष कर्ण समाश्रित्य ।। सुग्वसाध्यमेव विजयं मनुते सर्वाधिकमपीह ॥ ३२७ ।। कुरुराजो दुर्योधनः । कर्ण-श्रवणं राधेयं च । समाश्रित्य: तेन सह संयुज्य । पक्षे तमात्ममित्रीकृत्य । विजयंचशीकारम- र्जुनं च । “बीभत्सुर्विजयः कृष्ण" इति भारतात् । अर्जुनस्य सर्वाधिक्यं स्वरूपेण । जयस्य तु जेतव्योत्कर्षण। सुखेन साध्य कार्य विजेतव्यं च । उक्तं च भारते- "दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव !! भयमर्जुनसातं क्षिप्रमन्तरधीयत" इति ॥ ३२७ ।। (१) प्रियगाढालिङ्गनेन सम्पन्नो योऽभेदस्तस्य विभागोविशेषः।
१५४ आर्याससशस्याम् कांचिद्भावनोपनीतप्रियचुम्बनादिमुदितां घियोगिनी सखीदमाह- कुवलय मुकुललकुल्यं वरवर्णिनि! नयनयोस्तव द्वितयम् । प्रियवदनसुधादीधितिचुम्बनमा ख्याति काल्पनिकम् ३२८ विशेषणेन दृष्टेमुकुलत्वमूचनम् । तदाह भरत:- "स्फुरदाश्लिष्टपक्ष्माना मुकुलोर्ध्वपुटान्विता । मुखामीलिततारा च मुकुला दृष्टिरिष्यते ॥" "हृद्ययोः स्पर्शगन्धयोः" इति तत्प्रक्रमे सङ्गीतमीमांसायाम् । चन्द्रसम्बन्धनैव मुकुलतौचित्यात् सुधादीधितीति । कुवल. यपदमत्र कमलमात्रपरम् । नीलस्य चन्द्रविकासित्ववर्णनात् । एतेन तत्स्पर्शसुखेन नयनमुकुलत्वमप्युपपादितम् । पियवदनस्य तत्र कल्पिततया चुम्बने काल्पनिकत्वोपचारः । यद्वा कांचित्म- त्याख्यातानुनयां मानिनी सखी प्राह । तथाच परमार्थप्रियमनाह. त्य किमनेनेति भावः ।। ३२८ ॥ कांचिदुर्जनासक्तां कोऽप्याह- कुम्भीनसीसुतेन प्रतीरभूमिः पुरैव नेऽदृषि ॥ सम्प्रति वहसि तमन्तः कालिन्दि ! त्वां कथमुपेमः ३२९ कुम्भीनसीमध्वसुरस्त्री तस्याः सुतेन लवणनाम्ना राक्षसेन । तस्य यमुनातीरे मधुन ने वास इति पुराणप्रसिद्धा तं-कुम्भीन सुतं कालियाख्यं नागम् । "कुम्भीनसी जनन्यां च लवणाख्य स्य रक्षसः। कुम्भीनसो विषज्वालाकुलदृष्टिभुजङ्गमे ।" इति विश्वः । तथाच लवणस्य तीरत्रासेऽपि तद्भयेनैव त्वमसेव्या आसीः । कालियस्यान्तर्वहने तु सुतराम् । अथच तत्प्रायेण क्रूरपुरुषे त्व. गृहसमीपवर्तिन्यपि भयमासीत् । किंपुनरधुना तत्रैवानुरक्तायां स्वयीति भावः ।। ३२९ ।। -- ककारवज्या। १५५ -gama काचिद्वर्षातु विरहिणीदमाह -- कुटजैरपि निष्कुटरतिमात्रं सखि ! दृशौ प्रतप्यते ॥ संसर्गः सुखहेतु खलु विरुद्वस्वभावानाम् ॥ ३३० ।। "हारामास्तु निष्कुटाः' इत्यमरः । संसर्गश्चक्षुःयो. गः । विरुद्धोति ! दशाविशेषेण दुःखदस्वभावानाम् । अथच निष्कुटजपदेन कुटजवापात्रोक्तया कुटजवनदभात्याविरोधात्त- था । तथाच विरुद्धधर्मिणां मङ्गो दुःखापैवेति भावः ॥ ३३० ॥ कांचिदभिसारं गोपयन्ती काप्याह-- कुञ्जरताश्रयिणी त्वं गमनोरुपयोधरैः कलिता। अत एव पद्मिनीनामशेषमुन्मूलयसि भानम् ॥ ३३१॥ गमनस्यालसतया ऊरुस्तनस्य च नखपदाङ्कितत्वात् कु. प्राधिकरणकं यद्रतं तदनी त्वं (कलिता=) ज्ञाता। अथच गमनस्य करिगमन नादृश्यादुर्योश्च तत्करसाम्यात्स्तनयोश्च तत्कुम्भसा- म्यात् । कुञ्जरस्य भावः कुअरता । तुल्यमन्यत् । गमनस्य प्राण्य. ङ्गत्वाभावान्नैकवद्भावः । पद्मिनीनां-स्त्रीणां नलिनीनां च । सौ. भाग्यातिशयास्त्रीमानोन्मूलनम् गजस्यापि नलिन्युन्मीलनं स्व. भाव एव ।। ३३१ ।। कश्चित्नियामाह- कुण्डलिनौ यदि कर्णावथ कञ्चुकिनौ स्तनौ जातौ ॥ स्यात्को नाम विशेषो जीवनहरणे लदा सुतनु!।।३३२॥ कुण्डलिनौ-गृहीतकर्णभूषणौ । कञ्चुकिनौ परिहितचोलो। एकनैन जीवनहरणसम्भवादभावे वैजात्याभावाच किपिति द्वयमादधासीति रामणीयकातिशय सूचनम् । अथच कुण्डलिक- चुकिपदयोः सर्परूपैकार्थवाचकवादेकेनापरवैयर्थमापद्यत एवे- ।
१५६ অাগামহাকালু mos- - ति भावः ॥ ३३२॥ कश्चिद्वल्लभां स्तौति- कुन्तल ललिता काञ्चीपरिष्कृता रुचिरचीलासि ॥ कर्णाटमालवकुला सुननु ! कथं दक्षिणा न स्याः ॥३३३॥ दक्षिण =विदग्धा दिग्भेदश्च । कुन्तलः केशो देशविशेषश्च । काञ्ची-रसना तद्देशश्च । चोलम् = अम्बरं देशश्च । कर्णषटति प्राप्नोति तादृशी माला पतिर्येषां तादृशानि बकुलानि तत्पुष्पा- णि यस्याः तेषामवतंसीकृतत्वात् । पक्षे कर्णाटपालवौ देशौ त. सम्बन्धि कुलं यस्याम् । एवंधर्मसाम्यादाक्षिण्यमुचितमेवेति भावः ॥ ३३३ ॥ कस्याश्चित्स्वैरिया आशयं कश्चिसर्कयति- कुलटेतिपदमशक़ पररूपेणैव संसाध्यम् ॥ इत्थमनुशिष्यमाणा स्मयतेस्म तिरोवलवदनम् ॥३३४॥ कुलान्यटतीति शकन्ध्वादित्वात्पररूपे कृते कुलटापदास द्धिरिति वैयाकरणाः । इयं तु कुलटेतिपदं परेण लोकोत्तरेण, रूपेण-सौन्दर्येण, साध्यं संप्राप्यम् । पदेति शब्दपरत्वे तु साध्य स्वविषयकशक्तिमत्कर्तव्यम् । अल्परूपायां सर्वानुरागाभावेन कुलटापदप्राप्यसम्भवादित्यर्थं बुद्धा स्वानुभवसंवादेन हसितेति भाव: ।। ३३४॥ प्रथममेव नायकन परित्यक्तां नायिकान्तरविरागिणि नायके तस्य स्वपरिग्रहमाशङ्कपानां कांचित्काच्याह- कुर्वन्ति रिपुविपक्षाश्रयणं नैव स्वनामशक्तिभृतः ।। श्रीभारत्यौ हे अपि निर्वासयतिस्म दुर्वासाः ॥ ३५॥ श्रीनिर्वामनप्रमाणं प्रागुक्तम् । भारतीतथात्वे तु श्रीहर्ष- .
ककारव्रज्या। -- चरितामिदं सङ्गृह्योच्यते- दुर्वासा उपमन्युमंज्ञमुनिना साई विवाद चरन् सानो विम्वरतां चकार विहितं सर्न किश्चिद्भयात् । तिष्ठन्ती तु सरस्वती कमलभूपार्वे प्रहामं व्यधात् तत्क्रोधादथ तेन सा क्षितिलं नीता विधेर्लोकतः।। श्रीभारत्योर्वैरं तु प्रायशः परस्परात्यन्ताभावसामानाधिक- रण्यदर्शनात्सम्प्रदायसिद्धम् ॥ ३३५ ।। कश्चित्प्रियामाह- कुन्दे तनुं निधत्ते वरवर्णि नि ! वीक्ष्यतां भ्रमरः ॥ स्वत्कुन्तलनीलिना विजितो देहं जिहासुरिव॥३३६ ॥ कुन्दपदं तत्पुष्पपरम् । पक्षे कुन्दसंज्ञस्तक्षणसाधनविशेषः । त्वत्केशश्यामतया तिरस्कृतो निर्वेदेन देहत्यागमिच्छनिवेत्यर्थः । एतेन तिरश्चामपि स्वपराभवे दुःखं भवती सन्येषां कथं न स्या. दिति सूचितम् । एवं चैतादृशोद्दीपनसमये मानत्यागं कथं ना. वहसीति व्यङ्ग्यम् । यद्वा मानिनी प्रति प्रियस्योक्तिः ॥ ३३६ ॥ कांचिदुपनायकार्थे तीदमाह- कुश इव कुमुद्रतीप्रियतमोऽयमिन्दुः समुल्लसति ॥ अस्य रुचिप्रकरोऽयं पुनरतिथि तले स्फुरति ॥ ३३७ ॥ कुशो-रायपुत्रः "कुमुदती कुशपत्न्यां कुमुदिन्यां कुमुदती" इलिबिश्वः । अतिथिः अभिनवागतः। रुचीना ज्योत्स्नानां प्र. करः समूहः। अथच अस्येति जन्यत्वं सम्बन्धः। रुचीनामिच्छा- नां प्रकरो यत्रेति प्रियत्वसूचनम् । “अतिथिः कुशपुत्रेऽपि कोपे माधुणिकेऽपिच" इति विश्वः ॥ ३३७ ।। ..
१५८ आर्यासप्तशत्याम् -- काश्चिदिरहस्य सर्वदुःखातिशयमाह-- कुटिलादेकस्मादपि भवति भयं दुःसहं भुबने । अष्टावक्रस्य गिरा गोपीभिरलम्भिबल्लभवियोगः ३३८॥ कुटिलपदेन दुर्ननग्रहणम् । (दुःसह)लक्षणया भयानरापे- क्षयाभ्याधिकं भयम् एकस्मादेव कुटिलाद्भवति । गोपीनां मियवि. रहदुःखं तु अष्टावक्रस्य वाक्याजातम् । एवंचैकवक्रमात्रमा- ध्यभापेक्षया बहुपक्रसाध्यविर हस्थभयम्याधिक्यमर्थसिद्धपेवेति भावः । अष्टसु स्थानेषु तस्य वक्र वनिति प्रसिद्धिः । पूर्वजन्म- न्यप्सरोविशेषैरष्टावक्रं प्रति भगवत्याप्त्युपायः पृष्टस्तस्य वैरूप दृष्ट्वा हासश्च विहितः ततस्तेन तत्प्राप्त्युपाय मुक्त्वा मम हास्या तद्विरहो भावीति कथितमिति पुराणविदः ।। ३३८ ।। कश्चिद्वसन्तागमं सूचयन्नाह- कुसुमशिलीमुख योगं विदधानेनेह लोचने मधुना ॥ सख्यं स्मरस्य विशदितमन्तः करणे तमाचरतः॥३३९॥ कुसुमानां शिलीमुखानां भ्रमराणां च संयोग लोचन कुर्वता वसन्तेन । दर्शयतेति यावत् । ( पक्षे पुष्पमयबाणसम्बन्धं विद. धत इति विभक्तिविपरिणामेन योज्यम् । ) कामेनान्तः करणे, मधुना च बाह्य करणे तदाचरणाव ( सख्यम् ) ॥ ३३९ ॥ काचिनायकस्याननुरूपनायिकासक्तिं द्योत यन्तीदमाह- (१) कुब्जायामनुरागो मधुद्विषा सखि ! समभ्युपेतो यः।। सङ्घटत एव सोऽयं वामनरूपानुरूप तया ॥ ३४० ॥ (१) का० रा पु० पुस्तके इदं नास्ति । एतत्स्थाने- कुत्सोद्भवमपि लोकं नियमादुपकुर्वते महोदाराः ॥ निर्जित्याप्यैलविलं रघुरपुपूरद्धि कौत्साशाम् ।। इति पधं वर्तते।
ककारवज्या। १५९ ते तच्छरीरावच्छिन्नतदनौचियेऽपि शरीरान्तरावच्छिन्नतदनु- रूपत्वादिदं युक्तमेवेति भावः । तुल्यमन्यत् । मालिकूलमा- त्रार्थ तत्रासक्त इति भावः । यद्भरत:- "वार्यते यत्र यत्रार्थ तं तमेव करोति यः । विपरीतनिषेवी च स वाम इति संज्ञितः" इति ॥ ३४० ॥ कश्चिदत्यन्तोद्धतां नायिकामाह-- कूलङ्कषैः कलय मा केलिं कालिन्दि ! कल्लोलैः ।। तालाङ्कहलावेल्लनकवलगता लोकितास्येव ।। ३४१ ॥ कूलं कषन्ति भजन्ति कूलङ्कषाः । “सर्वकूलाभ्रकरीषेषु कषः" ( ३२४२) इति खच् । एतादृशस्थले निरनुबन्धो माशब्द इति प्रामाणिकाः । “तालाङ्को मुशली हली" इत्यमरः आवेल्लनं तदाकर्षणं तद्रूपः कवलो ग्रासस्तदनुरोधेनैव गमनात् स्वदपकर्षदशाप्यस्माभिर्टष्टैवेत्याशयः । यद्वा सङ्केतकुञ्जभङ्गकुपिता कापि वर्षासु यमुनां प्रत्येवाह ॥ ३४१ ॥ अस्थिररागनायकानाहता काप्याह--- कूटतपनीयवद्ये क्रमेण परिशीलनाद्गलितरागाः ॥ तेषां विशंदतथापि स्फुरति न कश्चिन्मुदो लेशः॥३४२।। कूटं कृत्रिमं तपनीयं सुवर्णम् । परिशीलनं सहवासादि । पक्षे परिधानादि । रागः= स्नेहो वर्णश्च । विशदतया= स्फी- तषतया विद्यादिमत्तया वा । पक्षे पूर्ववर्णापेक्षरूपापकर्षात्मक- श्वेतत्वादिना रजतादिबुद्ध्यैव तद्ग्रहे न विषादः मुवर्णधियो- पादाने तु पश्चाद्विनंदादेन दुःख भवतीयर्थः । यद्वा किमिति कुत्राप्यनुज्ज्वलपरिच्छदे रक्तासीति बदन्ती सखी कायाह । कृत्रिमसुवर्ण इवेति सप्तम्यन्ताद्वतिः । ( परिशीलनात् ) विषय- NDAR ART आर्यासप्तशत्याम् "अङ्गं भोगात् ये तेषु गलितरागाः अस्थिरत्वाद्यालोचनात्तदिच्छाही. नाः । तेषां (विशदत या) विशिष्टं मानुषादिसुखापेक्षयोत्कृष्ट- मिन्द्रब्रह्मलोकादिभवं शं मुखं ददातीति कप्रत्ययः तद्भावेनापि प्रीतिन भवति । तेषामपि क्षयित्वाविशेषात्तदातर्यपि न रज्यन्त इति भावः ॥३४२॥ कस्यचिद्विरहान्नायिकावस्थां दूती तं प्रत्याह- (१)कृशतामपि संस्पृशति प्रतीकजाते सुभग ! तस्याः ॥ अपचीयमानतत्तत्वस्वावयव प्रभास्ति समवेता॥३४३॥ सुभगेति स्वविषयकसमुपधायकत्वमूचनम् । प्रतीकोऽवयव" इत्यमरः । जात-समूहः । यस्य यस्यावयव- स्यावयवा गतास्तत्तनिष्टप्रभा तत्तदवयवेषु मक्रान्ता न तु गतावयः सह नष्टेति न कान्त्यपकर्षसम्भावनेति भावः।।३४३॥ कश्चित्प्रियामाह- कृतमाला कण्ठतटी दृगच्छगोला कबर्यसौ कृष्णा॥ कुचभूः सचन्द्रभागा न कथं स्यात्वयि रसाधिक्यम्३४४ (कृता) स्थापितामाला यस्यां,कृतमालाख्यनदी च । रूपस- मतयोपस्थितयोयोरभेदान्वयबोधात् । एवं सर्वत्र । अच्छो विशदो गोलो यस्याः । एतेन पिङ्गलत्वादिनिरासः। अच्छाचा सौ गोला चेति । गोला गोदावरी। सा यस्यामिति वा । आये नदीहशोरन्त्ये नदीगोलकयोश्चाभेद इति विशेषः । कृष्णा-श्यामवर्णा सरिद्वि- DS (१) का० रा० पु० पुस्तके इदं नास्ति । एतत्स्थाने- कृत्रिमरागविशेङ्कां क्षणमात्रेणापनेतुकामेव । कलयत्यग्निशिखान्वयमियमम्बुजलोचना हृदये ।। इति पद्यं वर्तते ।
ककारत्रज्या शेषश्च । चन्द्रस्य कर्पूरस्याङ्गरागे भागो यस्याः । चन्द्रभागा. ख्या नदी तत्सहिता च । रसः शृङ्गारो जलं च ॥ ३४४ ॥ कश्चिद्वल्लभामाह- कृष्णोऽर्जुनश्च लोके सुन्दरि ! कर्ण तिरस्कुर्वन् । आकर्ण्यते किरीटी त्वदपाङ्गो दृश्यते नान्यः ॥३४॥ (कृष्णोऽर्जुनश्च) श्यामरूपः श्वेतवर्णश्च । अनेन श्यामश्वेतक- टाक्ष उक्तः । पक्षे तदुभयसंज्ञः । तथाच भारतम्- 'अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः" || कर्ण-श्रवणं राधेयं च । एकावच्छेदेन विरुद्धगुणद्वयवतो. ऽप्रसिद्ध्या दर्शनश्रवणासम्भवादिति विरोधपक्षाभिप्रायः ॥३४॥ बहुभार्येण केनचिद्भार्यात्वमुद्देश्यतावच्छेदकीकृस कस्य- चिद्वस्तुनः प्रेषणेऽपि तत्प्रियायामेव पर्यवसानात् स्वस्या बहि- भीवं कापि कस्याश्चिद्वदति- केषाश्चित्सङ्ग्राहकमध्येऽपि समीयुषामर्थात् ॥ न भवति फलोपधानं तदसाधारणनिबन्धनं किमपि ४६ स सङ्ग्राहकधर्मोऽसाधारणं निबन्धनं निमित्तं यत्र । तादृशं फलोपधानं फलसम्बन्धो न कश्चिद्भवति । जादिप्रत्याहारान्तर्भूतानामपि णकाराधनुबन्धानामच्मयुक्त का- र्याणि न प्रवर्तन्ते "उणादयो बहुलम्" (३।३।१) इत्यादिप्रयो- गादिति । इदं च तेषां संज्ञासम्बन्धपक्षाश्रयेणोक्तम् । तेषां सं- जैव नास्तीति पक्षद्वये अच्त्वाचनवच्छिन्नत्वात् । "प्रयाहारेऽनुबन्धानां कथमज्ग्रहणेषु न ! -- अथच अ. २१ .
आयासप्तशत्याम् आचारादप्रधानत्वाल्लोपश्च बलवचरः" । इति वार्तिको. तेः॥ ३४६॥ स्वार्थसाधनपरस्वभावमनुभूय कोऽप्याह- केवलमात्मार्थपराः प्रकृतेरुल्लयन्ति वचनादि ।। इति परिभाषणमह प्राय इति त्वनुचितं नियमात् ३४७ "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि" इति. शाब्दिकपरिभाषा । तदर्थस्तु-'प्रकृत्यर्थातिरिक्तार्थानवबोधका ये प्रत्ययाः कचित्तदन्तानां लिङ्गान्यन्यथापि भवन्ति । यथा मुक्तापदात्स्वार्थे उकि मौक्तिकमिति क्लीबम्' इसादि। अत्र स्वन्यथा योज्यते । केवलं परार्थतात्पर्यराहित्येन स्वार्थसाधन- तात्पर्यकाः ( जनाः ) प्रकृतेः ( स्वभावात् ) वचनादि-स्वका- यसिद्धिपूर्वकालीनम् उक्तवादि,(उल्लङ्घयन्ति) स्वकार्थसिद्ध्युत्तर त्यजन्ति इत्येतदर्थकं परिभाषणं युक्तमेव । अपिशब्देन कचिदन. तिवर्तनस्याप्युक्तः प्राय इति त्वयुक्तम् । नियमात् । नियमेनैव प्रतिज्ञात्यागात् । अनियमबोधकमायोऽर्थकस्यापिपदस्यानुचि. तत्वादिति भावः ।। ३४७ ।। कस्याश्चित्प्रियानुरागमुदिता सखीदमाह- केशकलापः प्रकरं समुद्गिरन्कुन्दमुकुलानाम् ।। प्रियपरिरम्भानन्दाङ्गातितरां वाष्पविनुष इवोज्झन् ४८ तस्य (केशकलापस्य ) श्लथतया गुम्फनसमयदत्तकुन्दमु. कुलपतने शरीरतदवयवबहिभूतानां केशानामवच्छेदकतासम्बधेन सुखाद्युत्पत्त्याश्रयत्वेऽपि तदुत्प्रेक्षया यत्र तेषामपि तथा वृत्तं तत्र तस्यां कियानाम प्रमोदो नाविर्भवेदिति व्यज्यते । “कला. पायाः कचात्परे” इत्यमरः । कचार्थक शब्दोत्तरत्तिनः mausi ककारव्रज्या कलापादिशब्दाः कबरीवाचका इत्यर्थः ॥ ३४८ ॥ कश्चिच्छरदं वर्णयति- केदारे कलमानां पलाशवदना शिरीषगरुदेषा ॥ राजी भाति शुकानां विहितऋतुत्रयसमाजेव ॥३४९॥ पलाशं किंशुकपुष्पं तत्तुल्यरक्तवदना । शिरीषरजोवत ह- रितवर्णा गरुतः पक्षा यस्याः । अत्र पलाशशिरीषाभ्यां विशे- षणाभ्यां वसन्तग्रीष्मयोः विशेष्यशुकांशेन च शरदो लाभा. हतुत्रयसमाजसिद्धिः । एतेन तस्या उद्दीपकत्वातिशयव्यञ्ज- नम् । यद्वा कस्याश्चित्सङ्केतस्थानसूचनमेतत् । एवंच यत्र वि- रुद्धानामपि समाजस्तत्र परस्परानुरक्तानां कथं न स्यादिति भावः ॥ ३४९॥ अनुनयमगृहीत्वैव नायिकायाः परावर्तनेनाननुरागशङ्किन नायकं सखीदमाह- केतकाशिखया स्तनयोर्मूर्धनि परिवर्तनेन निपतन्त्या ॥ त्वत्परिरम्भोज्झितयोस्तयोर्वितीर्णोऽर्धचन्द्र इव ॥३५०॥ सरभसपराङ्मुखीभवनेन कर्णावतंसीकृतकेतकदकस्य स्तनयोनिपतनं त्वदाश्लेषमुखवश्चितयोस्तयोस्तिरस्काराय दत्तो. ऽर्द्धचन्द्र इवेत्यर्थः । एवं चाननुरागशङ्का न युक्तेनि व्य- नयम् ॥ ३२० ॥ अविचार्यच मवर्तमाने कुत्रचित्कश्चित्पुरात्मनुवदति- केशी हत इति भवताकिमुपक्रान्ता सुकेश्यपि निहन्तुम्॥ इतरजनोवेयं कृतिरुचिता कथमविदितार्था ॥ ३५१ ।। केशी दैत्यविशेषः । शोभनाः केशा यस्याः। अथच शोभ- नः केशीति भ्रमेणास्याः स्वविप्रलम्भेन वधो न युक्तः । तथा- या ० RABAD आर्यासप्तशत्याम् चार्थमपालोच्यैव न कचिदपि प्रवर्तितव्यमिति ध्वनिः ॥३५१॥ काचिदन्यासक्तं नायकमाह - कैतवमासाद्य पुरा सुभगाभ्युपयासि दासतामधुना ॥ मायासमाश्रयतया भवति विशुद्धात्मता भवतः ३५२ पूर्वं शठत्वं कृत्वा पश्चात्तवैव दासोऽस्मीत्युक्तावपि माया. विनस्तव कथं विशुद्धत्वामिति भावः । अथच "ब्रह्म दासा ब्रह्मेमे कितवा उत" इसाथर्वणश्रुत्या कितवदासयोरपि ब्रह्म- रूपत्वोक्तेर्मायाश्रयत्वस्य शुद्धब्रह्मण्येव स्वीकारात् । "आश्र- यत्वविषयत्वभागिनी निर्विभागचितिरेव केवळा" ( सङ्केप शा० अ० १ श्लो० ३१९) इति ध्वनिः ॥ ३५२ ॥ कश्चित्पक्षपानस्वभावमाह- कैरव एव सुधांशुवहति प्रणयं रविः कमल एव ।। गुणमात्रेोपादानव्यसनिन उभयत्र भृङ्गास्तु ॥ ३५३ ।। पक्षानुरोधिनां व्यक्तिविशेषावच्छेदेनैव भेदो भवति, गुण. मावग्राहिणां तु उपादेयधर्मवत्त्वावच्छेदेनैवेति भावः । उभयत्रैव- काराभ्यां कमलकैरवव्यवच्छेदः ॥ ३५३ ।। काश्चिदभिसारायाङ्गसंस्कारमाचरन्ती सखादमाह- कैवल्यमेव परमप्रमोदजननं न तु प्रपञ्चोऽपि ।। इति परमार्थविदां धीः सुतनु ! प्रियमेहि शुढेव ॥३५४॥ कैवल्य भूषणाङ्गरागादिविरहेण स्वरूपमेव, परमाल्हादहेतु: तद्भहणाधीनविलम्बचिरहेणोत्कठाधिक्यपर्यवसानात् । प्रपश्चो भू. षणाद्युपादानं तु न तथा। तन्मान्द्यसूचकत्वात् अङ्गदर्शनप्रतिरो- धित्वाच इति रसतत्त्वज्ञानाम् (सिद्धान्तः)। अथच कैवल्यं-मु. क्तिरेव दुःखासंवलितानन्दहेतुः। “मुक्तिः कैवल्पनिर्वाण" इत्य- Ram ककारत्रज्या। १६५ - मरः। कैवल्यपदमत्राविद्याध्वंसपरम् । प्रपञ्चः संसारस्तु न तागिति तत्वज्ञानां सिद्धान्तः । एतेन त्वं विनैव भूषणादिकं ब्रह्मस्वरूपानन्दतुल्या तद्वती तु प्रपञ्चानन्दसमेति शुद्धाया एवं रमणीयत्वातिशयध्वनिः ॥ ३५४ ॥ कस्याश्चिदर्थे सखी नायकमाह- कैलासवनितान्तोत्तुङ्गं तस्या महोज्ज्वलं हृदयम् ।। मन्दोदरीप्रियेण त्वया प्रसह्याद्धृतं सुभग ! ॥३५५॥ उत्तुङ्ग सदर्थनिरतत्वात् । पक्षे स्पष्टम् । महानुज्ज्वलः शृङ्गार यत्र । पक्षे अलिश्वेतम् तेन । कैलासेनार्थादन्ययः । (तृतीयान्ता- इतिः) कृशोदर्याः प्रियेण । अथच रावणेन । उद्धृतं स्वासक्ती- कृतम् उन्मुलितं च । तदारम्भात् । सुभगति अनुरागयोग्यत्व. व्यञ्जनम् ॥ ३५५ ॥ कोपेऽपि मामप्रसाद्यैव कथं स्पष्टुमिच्छ सीति शङ्कमानां ना. यिकां कोऽप्याह- कोपकषायितमीक्षणमुदीक्षमाणेन पक्ष्मलाक्षि! तव ॥ माणिक्यकर्णभूषणसङ्क्रान्तारुणिम निरणायि ॥३५६॥ ईक्षणमिति प्रथमान्तम् । निरणाधीति कर्मणोऽभिधानात्। उदीक्षमाणेनेत्यत्र स्वर्थादीक्षणस्यैव कर्मत्वम् । प्रशस्तं पक्ष्म यस्य पक्ष्मलं तादृशमक्षि यस्याः । तथाच कर्णालङ्कारकान्तियो- गादौपाधिकमारुण्यमिति ज्ञात्वा तस्य कोपजन्यत्वं न गृहीतमि. त्यर्थः ! सामान्यालङ्कारः ॥ ३५६ ॥ कश्चिपियामाह- कोकविपक्षौ वक्षोरुही तवैतौ कुरङ्गाक्षि ! ॥ करजपदचन्द्रशकलैः संयुक्तौ यन्मुदं वहतः ॥ ३५७ ॥ .
आर्यासप्तशत्याम्
"कोकश्चक्रश्चक्रवाक" इत्यमरः । कोकस्य चन्द्रसंयोगेन
विप्रयोगात् दुःख भवति । अनयोस्तु नखक्षतार्द्धचन्द्रसंयोगात्म
खमेव । अतस्तद्विपक्षत्वं सादृश्येनेत्यर्थः । यत्कामशास्त्रम्-
"पञ्चमी गतिमुपेत्य वीक्ष्यते स्थाणुवारिततुरङ्गमो यथा ।
कामुकावपि तथा स्मराहवे दन्तघातकरजान्न पश्यतः"
( २० २० सुरताधिकारे प० १० श्लो० ६५) ॥ ३५७ ।।
कश्चिन्मानिनीमाह-
कोकिलकुलं कुहूरुतमार्गेडयतीदमानविपिनेषु ।।
मकरध्वजस्य सुहृदपि मलिनात्मसु कोहि विश्रम्भः३५८
"कुहूः स्यात्कोकिलालापे दर्शन्दुकलयोरपि" । इति वि.
श्वः । " आनेडितं द्विस्विरुक्तम्" इत्यमरः। कामसुहृत्वेन
प्रसिद्धोऽपि कोकिलः कामसुहृच्चन्द्रविरोधिकुह समाहानं करो-
ति । तथाच मित्रवैरिणोऽपि स्ववैरित्वाचत्मियत्वमस्य कामसौ.
हृदविरुद्धमेवेसर्थः ।। ३५८ ॥
कश्चित्सुहृद्विपत्ताबुल्लसतां निन्दामाह-
कोकनदेऽपि निर्मालत्युल्लासो भवति कोकनादानाम् ।।
दीर्घोत्तरपदभाजामपि भावोऽन्यः सरूपाणाम् ३५९
"रक्तोत्पलं कोकनदम्" इत्यमरः । सायङ्काले तत्सङ्को.
चात्तदानीं च विश्लेषदुःखेन कोकानां नादोदयो भवति ।
दीर्घयुक्तमुत्तरपदं येषां तादृशानां समानरूपाणां-बहुसादृश्ययु-
क्तशब्दानामपि अन्य एव भावा-प्रवृत्तिनिमित्तम् । तथाच
किञ्चिद्वैसादृश्येनाप्यर्थभेदः । अथच आतिदीर्घ पदं स्थानं
भजनां समानरूपाणां समधर्मणामपि अन्य एवाभिप्रायः।
पदारोहे ससन्यथैव भवन्तीति भावः ॥ ३५९ ॥
ककारवज्या। १६७ अतिप्रसिद्धायामप्यननुरक्त कस्यांचिदनुरज्यमाने नायके काप्याह- को वेद वस्तुविभवं गिरिराजभुवोऽपि विप्रकृष्टेन ॥ वल्मीकभुवमवाप्य प्रोद्भूतिरलम्भि काव्येन ॥३६०॥ वस्तूनां पदार्थानां, विभव-शक्तिं, को जानाति । यतः पर्वताग्रभूमितोऽप्यतिरेण शुक्रेण वल्मीकभुषमासाद्य उदयः प्राप्तः । अथच कवित्वेन वल्मीकभुवं वाल्मीकिं प्राप्य उदयो लब्धः । पर्वतावधिकविप्रकर्षाश्रयशुक्राभिन्नत्वाद्यध्यवासितस्य काव्यस्य वल्मीकाभेदाघध्यवासितवाल्मीकिसकाशादुदय उ- . कस्याश्चित्प्रियानुराग काप्याह- कौसुम्भवसनपिहितं बालावक्षोजमीक्षमाणाभिः ॥ मुदितं कुङ्कुमपङ्कालेपभ्रान्त्या सपत्नीभिः ॥ ३६१ ॥ कुसुम्भेन रक्तं कौसुम्भम् । “तेन रक्तं रागात्" (४।२।१) इत्यण् । प्रातर्महारजतरञ्जितकञ्चुकेन वक्षोजमातमुदीक्ष्य सरोरुहाक्ष्याः । तत्रैव कुङ्कुमाविलेपनमार्जनस्य भावादसम्भुजिीरहानुमिता पियस्य ।। तथाच कुङ्कुमानुन्मार्जनेन तस्याः प्रियानुपभोगमनुमाय तासां प्रमोद इति भावः । एतेन भ्रमजन्यं सुखमचिरमेव स्था- स्यतीति सूचितम् ॥ ३६१ ॥ तत्सौधगवाक्षाभिमुखमार्गेण सञ्चरन्नपि तयाहं न दृष्ट १६८ आर्यासप्तशत्याम् इति वदन्तं नायकं सखीदमाह--- कौतूहलाकुलतया दिदृक्षया तव गवाक्षमायाता ॥ त्वयि दूरगे जिहासुः प्राणान्वातायनं तमनुमने ॥३६२॥ गवामक्षीव गवाक्षः। गोशब्दो नेत्रस्यापि वाचकः । ततश्चायं नेत्रस्यापि नेत्रं दर्शनसाधनत्वादिति त्वदर्शनार्थं तत्रागता । दर्शन- साधनताज्ञानस्य तद्गमनानुकूलकृतिजनकत्वात् । तथाच तदानी तस्य गवाक्षत्वज्ञानमासीत् त्वयि दूरगे तु वद्दर्शनमप्राप्य दुःखेन प्राणांस्त्यक्तुमिच्छन्ती तं वातायनमेव मन्यते । वातस्यायनं गमन. मार्ग इति व्युत्पत्तेः । प्राणानामपि वातत्वेन तन्मार्गेणैव तेषां गमनाभिलाषादिति भावः ॥ ३६२ ॥ कश्चिन्नायिकामा कौटिल्यं बिभ्राणस्त्वदपाङ्गः सुभु ! चन्द्रगुप्त इव ॥ सहसा नन्दपदस्यानुशासकत्वं स्वयं वहति ॥ ३६३ ।। कौटिल्यं वक्रत्वं चाणक्यं च । "कौटिल्यः कुटिलमतिः स एष येन क्रोधानौ प्रसभमदाहि नन्दवंशः" ( मुद्रा० रा० अं०१ श्लो०७) इत्यादिदर्शनात् । चन्द्रगुप्तो मौर्यवंश्यो राजविशेषः । आनन्दपदस्यानुशासको भवति । आनन्दस्यैतद्विजृम्भिताधी- नत्वात् । चन्द्रगुप्तोऽपि चाणक्याश्रयेण नन्दराज्यं प्रापेति वा प्रसिद्धम् ।। ३६३ ॥ कश्चित् दूतीदमाह- (१)कौशलकल्पयितव्यं स्वस्यापि परोक्षतापन्नम(२) ॥ सुकृतमिव सा भवन्तं सुभग ! सदा वहति हृदयेन ३६४ (१) अत्र उभयोः पुस्तकयोः कौशलेति पाठः । टीकानुरोधेन केवलेति पाठोऽपेक्षितः समीचीनश्च । (२) परोक्षतामाजम् इति का० रा० पु० पुस्तके पाठः । stude १६९ -- कल्पयितव्यम् अविच्छिन्नभावनाजन्यसाक्षात्काराविषयीक- रणात् । चक्षुःसंयोगाभावेन चाक्षुषाभावसूचनाय-केवलेति । तदेवाह-स्वस्यापीति । कदाप्यदर्शनात्परोक्षत्वम् । विश्ल. म्भस्यापि रतिरूपत्वेन सुखत्वात्तजनकतया सुकृतमिवेति । हृदयेन वहति सर्वदा त्वत्स्मरणरतत्वादापुण्यमपि कल्पनीयमेव । देवदत्तशरीरस्य तद्भोगसाधनतया तन्निीमैतमृगादिदृष्टान्तेन तदीयगुणविशेषपूर्वकत्वे साध्ये अदृष्टपर्यवसानात् , स्वस्यात्मनो- ऽपि परोक्षमतीन्द्रियत्वादिति भावः ॥३६४॥ कश्चित् खलसङ्गमवैमुख्यार्थमाह-- कौक्षेयकाः खला अपि तीक्ष्णत्वादुभयतो नियतम् ।। स्पृष्टाः प्रमादतोऽपि च्छेदविधेर्न व्यभिचरन्ति ॥३६॥ "कौशेयको मण्डलानः करवाला कृपाणवत्" इत्यमरः । उभयतः अशेषावस्थासु धाराद्वये च । तीक्ष्णत्वात्-क्रूरत्वाद संयो- गभेदाच्च । नियतमिलस्याप्यत्रैवान्वयः । यथा खड्गस्य यदव- च्छेदेनैव स्पर्शः क्रियते तत्रैव नियमेन च्छेदो भवति तथा यत्रैव खलसंसर्गोऽस्ति तत्राऽवश्यं कार्यहानिर्भवतीति भावः॥३६५॥ अङ्कुरितयौवनाकारवती नायिका कापि मुग्धायां प्रियानु- रागमाह-- कञ्चुलिकाया ग्रन्थिं पूर्वग्रन्थेविलक्षणं वीक्ष्य || शिथिलोऽप्यबोधि सख्या बालायाः प्रियपरीरम्भः ३६६ स्तनाभरणमपसार्य वल्लभेनालिङ्गितायां तस्यां मौग्ध्येन दृढमनालिङ्गनात्स्तनयोः स्वाभरणमणिमुद्रादिलिङ्गाभावेऽपि प- रिरम्भपूर्वकालीनसखीदत्तकञ्चुकिग्रन्थिविलक्षणं परिरम्भोत्तर- कालीनग्राथि विभाव्य तेन लिङ्गन कञ्चुकोन्मोचनमनुमाय mo २२ आर्यासप्तशत्याम् तस्य चेतरबाधेन वल्लभकर्तृकत्वमाश्लेषार्थत्वं च साधयित्वा तस्यां प्रियाश्लेषानुमानमिति भावः ॥ ३६६ ॥ काञ्चित्प्रिय आह कङ्केल्लितरुः किसलयमयमकठिनमासनं समुपहृत्य ॥ तव पदमिलनस्पृहया नवाकुरैर्जातपुलक इव ॥३६७॥ कङ्केल्लिा=अशोक देशीशब्दोऽप्ययं बहुप्रयोगवशात्संस्कृते. ऽपि साधुरिति वामनः । “पशुनामीशानः प्रमदवनकङ्केल्लि. तरवे” इति सौन्दर्यलहरी। पदयोरतिमुकुमारतया स्कन्धा- दियोगेन व्यथा माभूदित्याशयेन पल्लवमयासनोपहरणम् । ए. तेन वृक्षस्यापि त्वत्पदाश्लेपच्छायां सहृदयस्य सा कथं न स्यादिति सूचितम् ॥ ३६७ ॥ फश्चित्मियामाह- कण्ठतले तव लग्ना विभाति मुक्तावलिनी बाले । शब्दार्थतनयोस्थ ध्वनिभेदानामिव श्रेणी ॥ ३६८ ॥ एतेन त्वद्वाक्यमेतादृशध्वनिप्रायमिति सूचितम् । तदुभयं शब्दार्थों । तथाहि ध्वनिस्त्रिीवधः । शब्दशक्तिमूलोऽर्थशक्तिमूल उभयशक्तिमूलश्च । तदुक्तं काव्यप्रकाशे- "अनुस्वानाभसंलक्ष्यक्रमव्यङ्गयस्थितिस्तु यः । शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः"। (उ०४ का० ३७-३८ ) यत्र पर्यायान्तरोगादाने व्यङ्गयोऽर्थो न प्रतीयते स आद्यः । यत्र तदुपादानेऽपि प्रतीयते स द्वितीयः । यत्र वाक्ये एतद द्वयं तत्र तृतीयः । यथा- "अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् । mmam ककारव्रज्या D - अत्र चन्द्रनारकाश्यामाशब्दाः परिवृत्त्यसहाः अन्ये तु तत्सहा एव । एतेषां भेदास्त्वनन्ता एवेति ॥ ३६८ ॥ कश्चित्मियालङ्गमार्थ तामाह- कम्बुग्रीवेति भवदीवाव्यवहारलब्धसौभाग्यः ॥ शङ्खः करेऽपि विषजति सुन्दरि ! ते बलयरूपेण ॥३६९।। ग्रीवायां रेखात्रयवच्चन कम्बुसादृश्यव्यवहारात् ग्रीवासा- दृश्यप्रतियोगित्वेन लब्धप्रतिष्ठः शङ्खः संयोगरूपसाक्षात्सम्बन्धेन ततोऽपि सौभाग्यातिशयो भविष्यतीति कङ्कणात्मना त्वत्पाणौ लगतीति भावः । एतेन यस्य येन प्रतिष्ठा जाता स तदुत्कषार्थ तदुत्कर्ष एव यत्न करोतीति सूचितम् ॥ ३६९ ॥ कश्चिन्मानिनीमाह- कण्ठीरवावलग्ना गिरिलब्धसमुद्भवा श्यामा । रसराशिवृत्तिसहजा त्वं किल चण्डीत्युचितमेव ॥३७०॥ सिंहमध्यसदृशं मध्यं यस्याः तनुत्वात् । “सिंहश्च कण्ठीरवः" इति हलायुधः । “मध्यमं चावलग्नं च" इत्यमरः । पक्षे सिंहाव. लग्ना तद्वाहनत्वात् । गिरि वाण्यामिति सप्तम्यन्तम् । लब्धः समुत् जन्यत्वेन प्रीतिसहितो भव उत्पत्तिर्यस्याः । पक्षे गिरेः पर्वताल्ल- ब्धः समुद्भवो जन्म यया। श्यामापोडशवार्षिकी नीलरूपा च । शृङ्गारसमूहवृत्तिः सहजः स्वभावो यस्याः । पक्षे जलराशिः समुद्रः तत्तिः सहजो भ्राता मैनाको यस्याः । एवंविधा त्वं चण्डी कोपनेति युक्तम् । अन्यादृश्या मानानधिकारात् । अथच तद्वृत्तिधर्मवचात् चण्डी देवी तत्तादात्म्यमुचितमेव ।। ३७० ॥ कश्चित्सवास्वभावमाह काकुलं लोकेऽस्मिन्नूनं जानाति सेवकावस्थाम् ।। बध्नाति मुकुल दम्भादञ्जलि मुद्दिश्य राजानम् ॥३७१।।
१७२ आर्यासप्तशस्थाम सेवकस्य अवस्थां धर्मम् । सोऽपि हि प्रभुमभिलक्ष्य नि. त्यमञ्जलिं बध्नाति । इदमपि नृपाभेदाध्यवसितं चन्द्रमुद्दिश्य (मुकुलच्छलेनाञ्जलिं बध्नाति)। राजपदेनोभयोपस्थापनादयमः। यद्वा कश्चित्सेवानिर्विण्ण आह । संवकस्यावस्थां दुःखरूपं परि- णामं जानाति । यतो राजोद्देशेनालिं वध्नाति । निवृत्तिवि- षयेऽप्यनलिबन्धस्य लेोके प्रसिद्धः। कदापि राजसेवां न करोतीत्यर्थः । यद्वा कश्चिपियाविरहदून आह ।। ३७१ ।। काञ्चित्प्रियदर्शनेन रोमाञ्चितां सखीदमाह- कण्टकभरेण भवतीमावृणुते कुसुमसायको युक्तम् ॥ अधरकुचस्मितपल्लबगुलुच्छकुसुमा हि वीरुदसि ३७२ "स्त्रीरोमाञ्चे द्रुमाङ्गे च कण्टकः परिकीर्तितः" इति विश्वः । कुसुमसायकपदं साभिप्रायम् । अधरादीनां पल्लवा- दिभिः सह यथासङ्ख्यमभेदः । ततश्च कुसुमार्थिनो लतारक्षार्थ कण्टकावरणं युक्तमेवेत्यर्थः । एतेन तस्याः कामजयसाधनत्वं सूचितम् । अथचैतादृशरमणीयायाः प्रियावलोकनानन्देन रो. माञ्चो युक्त एवेति भावः ॥ ३७२ ।। कश्चित्प्रियामाह- कन्दलितमृगमदात भालतलं वीक्षमाणैस्ते ।। चन्द्रशकलान्तरालं कलङ्कमालिनं निभालितं लोकैः ३७३ कन्दलित-उत्पन्नः। अन्यवैलक्षण्यं व्यङ्यम् । कस्तू- अ- ङ्कास्तिलको यत्र । “ललाटे तिलकश्चैव नानाशिल्पप्रयोजितः" । इति भरतोक्तः । अर्द्धचन्द्रस्य प्रान्ते कलङ्कसवात्ततो विशेष. सूचनाय-अन्तरालमिति । तथाच तस्य मध्येऽङ्काभावेऽपि भालस्यापि तदभेदादत एच मध्यगमाङ्कचन्द्रार्द्धदर्शनकौतुकं प्राप्त स्वकारतज्या। मिति भावः। रूपकवनिरयम् । एतदर्शनेनामासिद्धोक्तविधार्ध- चन्द्रदर्शनस्यापि सिद्धर्विशेषालङ्कारः । एतेनोत्तमत्वमप्युक्तम् । तथाच भविष्ये- "अर्द्वन्दुप्रथितामोगं रोमशं सुसमाहितम् । भोग्यभोगकरं श्रेष्ठं ललाटं वरयोषिताम्" ॥ इति ॥३७३॥ इति ककारव्रज्या। कश्चिद्विषयसत्वेऽपि तदनुपभोगिनं कंचिदुद्दिश्याह- खट्वाङ्गं पाणितले निधाय यो भूतले स्वपिति ॥ दिग्वासा नेत्रत्रययुतोऽपि किं सर्ववित्तया तस्य ॥३७४।। खट्वाङ्गम् आयुधविशेषः शयनसामग्री च। नहि तत्सत्त्वे भूतले शयनमई,खट्वासम्पादनस्यैव कर्तुमुचितत्वात् । नेत्रनयनं वस्त्रं च। नेत्रं प्रक्रम्य-"वस्त्रे मूले विलोचने" इति विश्वः। वस्त्रत्रय- सत्त्वे नग्नताया अनौचित्यात् । एतादृशस्य सर्वज्ञतया किं प्र- योजन, न किमपि । सर्वपदं बहुपरम् । ईश्वरपक्षे यावद्वस्तुप- रम् ॥ ३७४ ॥ कश्चिन्नीरसमधिकृत्याह- खरहृदयस्य हि रामाजिह्मगहरभङ्गिदुष्करभिदस्य ।। शक्यं किं वा विबुधैराधातुं दूषणानुगतेः ॥ ३७५ ।। खरं रसाभावेन तीक्ष्णं हृदयं यस्य । रामाणां स्त्रीणां जि- झगाभिः कुटिलगतिभिः दृशोभीङ्गभिः कटाक्षरूपाभिः दुष्करा भिदा भेदो यस्य । तेनाप्यक्षुब्धस्येति यावत् । दूषणानामनुगतिर्य- स्मिन् । दोषवत्त्वात् । तादृशस्य विबुधैर्विशेषज्ञैरपि किं कर्तुं श- क्यम् । तादृशहृदयस्य दुर्घहत्वात् । अथच श्रीरामस्याऽजिह्मगैः बाणैः क्रोधदृष्टया च दुष्करभिदस्य । भिदा-विदारणम् । ममैव ---
S
आर्यासप्तशत्याम्
दूषणाख्यराक्षसानुगस्य खरनामराक्षसहृदयस्य देवैः किं कर्तुं
शक्यम् । यः श्रीरामेणापि यत्नाज्जितस्तद्विजयस्य देवान्त-
रासाध्यत्वादिति भावः ॥ ३७२ ।।
काचित्सखीमाह-
खद्योतैर्बहुभिरपि स्फुट भूतैः प्रावृषि प्रकाशो न ।।
सखिं! वस्तुतत्त्वमन्यद्भिन्नं च समानशब्दवाच्यत्वम्३७६
"खद्योतो ज्योतिरिङ्गणः" इत्यमरः । प्रकाशो द्रव्यान्तर-
परिग्रहहेतुः । अन्यदा त्वेकेनैव सूर्यात्मकेन खद्योतेनालोकोऽ-
भूत् । अत एकपदवाच्यतामात्रेण तत्सादृश्यभ्रमो न कार्य
इत्यर्थः । यद्वा कांचिदभिसारिकां प्रति इयमुक्तिः । एतैः प्रका-
श्यताभावान्न भेतव्यमिति भावः ॥ ३७६ ॥
कश्चिन्नायिकामाह
खर्वयता पर्वतमपि कुचकुम्भभुवोन्नतत्वेन ।।
इन्द्रपदमनुभवन्नपि शक्यस्तावद्भुजङ्गतां नेतुम् ॥३७७॥
खर्वयता-स्वनिष्ठोन्नतत्वप्रतियोगिकापकर्षाश्रयोन्नतत्वं कु-
वता इन्द्रोऽपि भुजङ्गतां कामुकत्वं नेतुं शक्यः । एतद्दर्शनेन
तस्यापि सम्भोगेच्छासम्भवात् । कुम्भभुवा-अगस्सेनापि बि.
मध्यपर्वतं स्वपरिमाणापकृष्टपरिमाणं कुर्वता उन्नतत्वेन महत्त्वेन
हेतुना इन्द्रपदस्थोऽपि नहुषः सर्पत्वं नीत इति पुराण.
विदः ॥ ३७७॥
काचित्सखीमाह-
खुरकोटिभिरिव मन्मथतुरगाणामाहतात्सहसा ॥
सखि ! पश्य केतकवनात्परागनिकरान्परापततः॥३७८॥
खकारज्या .. मदनहयखुराभिहतादिव केतकसमुदायात्पतता रजोवृन्दा- नां मदनोद्दीपकत्वं व्यङ्गयम् । वाताभिघाते कामहयखु. राभिघातसम्भावनात् पातहेतूत्प्रेक्षा । तथाचैवंविधे समये प्रवासो- धमोऽनुचित इति प्रियं प्रति ध्वनिः । यद्वा तत्र कृतसङ्केता कापि व्यापारान्तरानुरोधात्माप्तविलम्बा तत्र नायकगमनं कलपि. त्वा स्वगमनावश्यकत्वं व्यञ्जयति ॥ ३७८ कश्चिदुष्टसंसर्गनियर्थमाह- खलहृदयसान्निविष्टा भूयोगुणशालिसमुदायाः ।। अन्योन्यसंहता अपि दधते नचिरात्पृथग्भावम् ३७९ भूयोभिर्गुणैः शोभमानानां समूहाः । दुर्जनहृदये भेद्यत्वज्ञान- विषयत्वेन प्रविष्टाः सन्तः परस्परप्रीतिमन्तोऽपि (नचिरात् शीघ्र- मेव) पृथक्त्वं वहन्ति । तेन तेषां प्रणयविच्छेदोपायविधानात् । अ- थच खलं धान्यादिमर्दनस्थानं तन्मध्यप्रविष्टाः। बहुगुणानां शाली- नां धान्यविशेषाणां सङ्घाः मअरीदशायां मिलिता अपि मर्दनेन पृथगेव भवन्तीसर्थः । “खलं भूस्थानकल्पेषु क्रूरे नीचे खलेऽ- धमे" इति विश्वः ।। ३७६ ।। कश्चित्मियामाह- खेलति पयोधरे तव समुन्नते प्रादुरस्ति हंसगतिः ॥ अतिसौरभविस्तारस्तारोल्लासोविजातीयः ।। ३८० ॥ पयोधरा-स्तनो मेघश्वा प्रसिद्धमेघसमयविपर्ययेणात्र वर्ण्यते। हंसगतिसदृशी गतिः । अनेन पभिनीत्वसूचनम् । "व्रजति मृदु सलीलं राजहंसीव तन्वी" इति रतिरहस्यात् । अतिशयि- तस्य (सौरभस्य) विस्तारः स्फुटत्वम् । तारयोर्नेत्रकनीनिकयो- विलक्षणः कटाक्षरूप उल्लासः। तत्र (मेघसमये) तु हंसरसा.
Sams १७६ भार्यासप्तशत्याम् लनक्षत्राणां विरह एवेति व्यतिरेकः ॥ ३८० ॥ काचित्सखीमाह- खजनयुगमिव भुवने रसरहितं न प्रपश्यामः ॥ तिरयति यद्रतिमेव हि शेवधिगर्भस्थलालाभे ॥३८१॥ खञ्जरीटयोनिधिगर्भदेश एव रतमिति प्रसिद्धम् । तथाच वराहा "तस्मिन्निधिभवति मैथुनमेति पस्मिन् यस्मिन्पुनर्वमति रत्नतलेक्षिका च ॥ अङ्गारतामुपदिशान्ति पुरीषणेऽस्य तत्कौतुकाय नयनस्य खनेद्धरित्रीम् ॥" तथाच निधिव्यतिरेकेण रतितिरस्कारात्तस्य रत्यपेक्षया निधावुत्कर्षज्ञानाद्वतिराहित्यमिति भावः ।। ३८१ ॥ काचिन्नायिकामाह- खण्डनमिव भेदासहमिदमुभयोः प्रेम युवयोर्यत् ॥ तेन विपक्षजनानामुल्लसति कथासु मूकत्वम् ॥३८२॥ विपक्षतिरस्कारः खण्डनम् । अथच ग्रन्थाविशेषः। भेदासहं पर- स्परमभेदावगाहित्वात् । तदपि सर्वपदार्थानां भेदखण्डकम् । अद्वैतपरत्वात् । विपक्षाणां-सपत्नीरूपाणां जनानाम् प्रतिवा दिनां च । तथाच तत्रोक्तम्- "शब्दार्थनिर्वचनखण्डनया नयन्तः सर्वत्र निर्वचनभावमखर्वगर्वाः । धीरा ! यथोक्तमपि कीरवदेतदुक्त्वा लोकेषु दिग्विजयकौतुकमातनुध्वम् ।। ३८२ ॥" इति खकारव्रज्या। - गकारतच्या १७७ कश्चिपियाकुचशोभामनुभवन्नाह- (१)गजवदनगण्डघर्षणलग्नमदद्वजनीलिमामोदे ॥ मेरुशिखरे मृगीमदादग्धत्वत्कुचरुचिप्रचयः ॥ ३८३ ।। नीलिमामोदपदयोर्द्वन्दं कृत्वा द्रवजान्तेन सह सप्तमीबहुव्री- हिः । तथाच शुदकुचयोस्तादृशमेरुशिखरासाम्येऽपि कस्तूरीले. पकालीनयोस्तयोर्यथोक्तमेरुशिखरसाम्यमेवे सर्थः ॥ ३८३ ।। कश्चिद्विरही चन्द्रकरस्पर्शमसहमान आह-- गरसहितः सगरोऽजनि हालाहलमुज्जगार सिन्धुरपि । उग्रेणाप्पविषह्यं विषमिन्दुः सूत इत्युचितम् ॥ ३८४ ॥ सगरस्य राज्ञः पुत्रः समुद्रः तस्य चन्द्र इति प्रसि. द्धम् । तत्र सगरो गर्ने सपत्नीदत्त गरयोगादिति स्पष्ट तस्य तत्साहित्यम् । "अन्यरुपचितैस्तीत्रैरेकीकृत्य तु मूरिभिः । फलान्तरविधानाय क्रियते यद्गरं तु तत्" इति वैद्यकम् । गरापेक्षयाभ्यधिकं शिवमात्रसहनीयं कालकूटं समुद्रोऽपि जनितवान् । एवमुग्रेण तीक्ष्णप्रकृतिना शिवेनापि सोदुमशक्यं किरणरूपं विषं यच्चन्द्रोऽजनयत्तद्युक्तमेव । समुद्रेण सगरविषो- स्कृष्टविषस्येव चन्द्रेणापि स्त्रजनकजन्यविषातिशयितस्य तस्य(२) प्रसवौचित्यादिति भावः ।। ३८४ ॥ (१) का० रा ० पुस्तके इदं नास्ति । एतत्स्थाने- गतिरतिचित्रा लोकव्यवहाराणां निरीक्ष्यते सकला। यस्य पिता जगदीशो विनायकः सोऽप्यभिहितो यत् ॥ इति पधं वर्तते। (२) तस्य-विषस्य। २३ १७८ आर्यासप्तशत्याम् RAND कश्चिन्महात्मनां स्वभावमाह- गच्छति गुणभूमानं जन कादपि पूर्वजादापि सशक्तिः॥ समजनि यथा षडास्थस्तथैव पाण्मातुरोऽपि गुहः ३८५ शक्तिः सामर्थ्यमायुधभेदव। पण्णां मातृणामपत्यं पाण्या- तुरः । कृत्तिकाभिस्तथात्वेन (१)स्वीकारात् । एवंच यथा पञ्च- मुखाजनकादधिकमुखत्वं षडास्यत्वेन गुहः प्राप । एवं पाण्मातुरत्वेन द्वैमातुरायजादपीति भावः ॥ ८ ॥ ( ? )कश्चिज्जनात्समनिधोत्प्रेक्षप्रस्वानुरागो नायकज्ञानविषयत्वं कृत इत्याह- (२)गहनं महद्रहस्यं संघ (प)त्य सदस्य समुहायात् ।। प्रत्यापयति प्रियतमसम्भोगं कानयनायाः ॥ ३८६ ॥ गहन प्रकारान्तरेण बोधयितुमशक्यम् । महत्-प्रकाशे सत्यपि नेष्टप्रभञ्जकम् । असन्निहितागोपनकारित्वात्सद- स्येति । एकस्मादपि तथात्वासमुदायादिति । तद्वोपनस्या- वश्यकत्वार्थ प्रियतमसम्भोगवैलक्षण्यम् ।। ३८६ ॥ समानस्वभावानामेव सम्बन्धः श्लाघ्य इति कोऽप्याह- गलगरयोरविभिन्न प्रकृतिप्रत्ययभावमवधार्य ॥ सर्वज्ञनान्योन्यं संयोगो जनित इत्युचितम् ॥ ३८७ ।। 'गृ निगरणे' इसस्याचप्रत्यये कृते “अचि विभाषा" (८।२ । २१ ) इति लत्वस्य व्यवस्थितविभाषया प्राण्यङ्गे विधिरव विषे तु निषेध एव । एतावन्मात्रविशेषः । प्रकृति- प्रत्ययौ तुल्यावेव । अथच ययोः स्वभावो विज्ञानं च समानमेव (१) तथात्वेन अपत्यत्वेन । (२) का० रा० पु पुस्तके इयमार्या नास्ति । om अकारवज्या तयोः सम्बन्धो युक्त इत्यभिप्रायवता भगवता कालकूटरूपग- रस्य स्वगले स्थापनं कृतमित्यर्थः ॥ ३८७ ।। कश्चिद्रूपवतां गुणवत्ता स्यादित्याह- गदता गुणवादस्त्विति रूपात्मायादिति परस्तात् ।। जैमिनिना रूपगुणावव्यधिकरणाविति निरुक्तम् ३८८ "रूपात्प्रायात्" (पू० मी० अ० १ पा० २ अधि० १ सू० ११) इति सूत्रं "गुणवादस्तु" ( पू० मी० अ० १ पा० २ अधि० १ ० १०) इति मूत्रात्परतोऽर्थवादाधिकरणे [रूपं] ठ्यते । तत्र गुणवादातद्वत्ताप्रसिद्धिश्च प्रायेण रूपाद्भवतीसेवम- र्थतया सूत्रं योज्यते । तथा च सामुद्रिकम् -“यत्राकृतिस्तत्र गुणा वसन्ति" इति । "गुणवादस्तु" इति सूत्रस्य च "वायु क्षेपिष्ठा देवता" इत्यादयो गौणवृत्त्या क्षिपदेवता कर्म क्षिण- मेव फलं ददातीति "बायव्यं श्वेतमालभेत" इति यागस्य स्तु- तिपरा इत्यर्थः । “रूपात्मायात्" इत्यस्य तु "स्तेनं मनोऽनृतवा- दिनी वाक्" इत्ययं "हिरण्यं हस्ते भवति" इति विधेः स्तुतिपर इत्यर्थः। अत्यन्तप्रशस्तयोरपि वाअनसयोरप्राशस्त्याच'न हि नि- न्दा निन्धं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुम्' इति न्यायेन हिरण्यस्तुतिरिति ॥ ३८८ ॥ कश्चित्प्रभातं वर्णयति- गर्भिण्यासीद्भास्वत्प्रेयस्यम्भोजिनी तदासङ्गात् ।। कालिन्दी भृङ्गालीच्छलेन निर्याति तत एषा ॥३८९॥ तदासङ्गात् पूर्वदिवसीयादिति बोध्यम् । अम्भोजिन्यां नायिकाव्यवहारप्रतीतेः समासोक्तिः । तस्याश्च नेयं भ्रमरपतिः किंतु कालिन्दीति अपन्हुत्यङ्गत्वात्सङ्करः । यमुनापि सूर्यरमण्या:
१८० आर्यासप्तशत्यामू संज्ञायाः प्रसूतेति प्रसिद्धम् ॥ ३८९ ॥ कश्चिदुभयोः प्रेमातिशयमाह- गाढालिङ्गनकुतुकात्परस्परस्मिन्परस्पराभेदम् ॥ कलयद्यांतद्बुद्धेःप्रमात्वमिव विस्कुट विहितम्॥३९०॥ नायकेन नायिकायां तया च तस्मिन् अभेदेऽवगाह्यमाने नायकनिष्ठेन स्वप्रतियोगिकाभेदाश्रयत्वज्ञानेन नायिकानिष्ठ- ज्ञाने स्वप्रतियोगिकाभेदस्य नायकस्यानुयोगित्वेन बोधे समान- वृत्तिवेद्यत्वात्परस्पराभेदः प्रतिभातीत्युभय ज्ञानविषयत्वात् अभेदस्य च कृतकत्वाक्षेपादुभयोः प्रमात्वं सूचितमित्यर्थः॥३९॥ कश्चित्प्रियामिदमाह- गायन्ति किश्चिदुच्छ्वसदम्भोरुह कोरकान्तरालगता। निजनिर्गमरविकिरणप्रवेशगाथामिव भ्रमराः ॥३९१॥ सम्यक्तदविकासाद्गमनप्रतिवन्धमूचनाय-किश्चिदिति । निर्गमान्तप्रवेशान्तयोद्वन्द्वः । तथाच प्रच्छन्ननायिकतया मद्विर- हस्य, स्वगेहगमनेन प्रसिद्धनायकसामानाधिकरण्यस्य वायमव- सर इति व्यङ्गयम् ॥ ३९१ ।। कश्चित्सुजनमाह- (१)गिरिराजसुत! न तावत्स्वरूपमात्रेण पक्ष उपयुक्तः ॥ परमात्मगौरववशात्तं विनिमज्यापि पालयसि ॥३९२।। (१) अत्र का० रा० पु० पुस्तके- गाम्भीर्य जीवनमपि मरुकूपानां च पिशुनानाम् ॥ केवलमायतिभाजः परकीयगुणस्य निगरणाय ॥ इत्यधिकं वर्तते । गाम्भीर्यम्=अगाधता दुर्बोधं च । जी- वनम् जलं वर्तनं च । आयतिः देयम् उत्तरकालश्च गुणः रज्जुः सौन्दर्यादिश्च । - गकारत्रज्या ९८१ मुतान्ता मैनाकसम्बुद्धिः । स्वरूपमात्रण कार्यानुपधानेन । पक्षा=पत्रं सहायश्च । गौरव-गुरुत्वं महत्त्वं च । गौरव-गुरुत्वं महत्त्वं च । विनिमज्ज्य= समुद्रान्तीनो भूत्वा । पक्षे कुतश्चिदपकृष्टो भूत्वा । तथाच उड्डयनादितकार्यविरहस्याविशेषेण पक्षाभावेऽपि यद्यपि क्षति- नास्ति तथापि स्वमाहात्म्यादेव रक्षसीति भावः ॥ ३९२ ॥ काचित्मियमाह- गीर्वाणराजमहिषी पुलोमजायाः सपत्न्यसौ प्राची ॥ तत्सक्ते सति दयिते क्रुधारुणं वहति विधुवदनम् ।। ३९३।। महिषीपर्यन्तेन सपत्नीत्वमुपपादितम् । ( तत्सते )तस्यां पुलोमजायामासक्ते । तथाच यदि त्वमप्येवं विधास्यासि तदा ममापीयमेव गतिरिति भावः । यद्वा कृतापराधे नायके शृण्वाति सखी प्रति नायिकाया उक्तिः। विषयसाम्यान्ममापि कथमेवं न स्यादिति भावः ॥ ३१३ ।। कस्याश्चिदर्थे सखी नायकमाह- गुणमिलिता रागमयी वंशावष्टम्मतः स्थिरीभूता। अन्तर्दधती सा त्वां शुष्यति तापेन पटकुटीव ।।३९४॥ पटकुटी वस्त्रमयं गृहम् । गुणाः सौन्दर्यादयो रज्जवश्च । प्राचु. ये मयत् । ननु स्वयमेव कथं सहसा नायातीत्यत आह वंशेति । कुलजत्वेन तदनुरोधादनुरागसत्वेऽप्येवं कर्तुमशक्का। पक्षे वेण्यवष्टम्भेन वितता। अन्त: मनसि मध्ये च । तस्या अप्यभ्यन्तरे केनचिदवस्थानात् ।। ३९४ ॥ महतामपि कामेन विक्षोभो भवतीसाशयवान्कोऽप्याह- (१)गुहवदनप्रतिबिम्बान्वयेन गौर्याः कुचद्वयं भाति ॥ अन्तकृतसशरासनपञ्चाशुगमार्गणौघमिव ॥३९॥ (१) इयमार्या का० रा० पु० पुस्तके नास्ति । । st १८२ आर्यासप्तशत्याम् - सशरासनेति मार्गणौघविशेषणम् । षण्णां स्कन्दमुखानां स्तने प्रतिफलने तेषां पद्माकारतया मदनस्य धनुःसहितपश्च. शररूपत्वमुत्प्रेक्षितम् । पञ्चाशुगपदेन शराणां पञ्चसङ्ख्यत्वम्मू- चनम् । एवं कुचान्तरेऽपीत्यर्थः ॥ ३९५ ॥ कश्चिन्नायिकामाह- गुम्फितुमादित्ससि यदि कदम्बकुसुमानि मानिनीमानि दत्ताः स्मराय गुलिकास्तन्मम वेधाय कण्टकप्रायाः ३९६ कामस्य पुष्पायुधतया गुलिकायामपि तदीयानामेव (उपा. दानस्य) युक्ततया कदम्बोपादानम् । तेन कामस्य गु. लिकासम्पत्तिर्भवतीति भावः । गुलिकान्तरवैलक्षण्यसुचना. य-कण्टकेति । असन्निधापितेषु गुलिकासादृश्यसत्वेऽपि कामाय दान सिद्धयर्थम्-आदित्ससीति । (१)भोगार्थ- त्वलाभाय-गुम्फितुमिति । स्थिरमानशैथिल्यानुमानात्पति- बन्धकामावनिश्चयात्कामविकारातिशयः । आदानेहायामेव दाने अतिशयोक्तिविशेषः । वाक्यार्थद्वयाभेदारोपपर्यवसानानि. दर्शना ॥ ३९६ ॥ कांचिद्भूषणग्रहासक्ता सखीदमाह- गुच्छं करोषि हृदये यत्त्वं प्रियमानसापहाराय ।। कुचमुकुलेन तदेतत्कार्य किं दुष्करं मनुषे ॥३९७॥ गुच्छो हारविशेषो मुकुलश्च । “गुच्छः सप्ततियष्टिका" इत्युक्तेः। तथाच कुचनिबन्धनसौन्दर्येणैव तदीय वशीकरणसम्भ- वाकिमनेन । अथच मुकुलेन दुष्करस्य गुच्छेनापि करणानु पपत्तेः। तयोरभेदात् । नहि घटासाध्यं कलसेन भवतीति भावः ॥ ३९७ ॥ (१) माल्यार्थत्वेति पाठ उचितः । S .
गकारवज्या।
१८३
Durat
कश्चिदशाविशेषे मियां पश्यन्नाह
गुलिकाधनुर्गुण इव स्मरस्य मध्यप्रकाशमानबिलः ।
स्फुरति हिफाललग्नो ललाटबिन्दोरलकसङ्घः ।।३९८॥
पापाणादिगुटिकाक्षेपसाधनं गुलिकाधनुरिति प्रसिद्धम् !
तत्रोभयतो मौद्वियम् , मध्ये क्षेपसमये गुलिकानिधानार्थ सूत्रा.
दिमयं विलं भवति । ततश्च भालभूषणीभूतबिन्दोरुभयतः प.
तितोऽलकसमूहः तदीयमौर्वीत्वेन सम्भाव्यते । एतेन तस्य
मदनोद्दीपकत्व सूचनम् ॥ ३९८ ॥
कश्चित्मातराह-
गुमां मुखेन दधतस्तरणिमयूखप्रसङ्गपुनरुक्ताम् ॥
पश्य विनिर्यान्त्यलयो मध्याद्राजीवमुकुलस्य ॥३९९॥
गुञ्जांशब्दविशेषम् । सन्मुखानां श्यामवर्णतया निर्गमन-
समयसमासक्तसौरमयूखसम्वन्धेन गुजाफलसादृश्याद्धान्त्युदया-
त् पुनरुक्ताम् द्विविधगुञ्जाधारणात् । पश्य मृगो धावतोतिवत्
एतन्निर्गमनस्यैव दर्शनक्रियायां कर्मत्वेनान्वयः । यद्वा तान्पश्ये.
त्यध्याहारेण वाक्यार्थः ॥ ३९९ ॥
काचि सङ्केतस्थानं सूचयन्ती सखीमाह-
गुल्मविवृद्धिनिरन्तरजठरं सखि ! काननं तदिदम् ॥
निष्कुन्थतीच विचरविरे फगुञापदेशेन ॥४०॥
गुल्मा वंशादयः । "अप्रकाण्डे स्तम्बगुल्मौ" इत्यमरः ।
उक्तं च-"गुल्माः सङ्घातजन्मान एकरूपा नलादयः"
पक्षे रोगविशेष: गुल्मः । निष्कुन्थतीवेति तिरस्कारव्या-
-
नमू ॥ ४०० ॥
१८४
आर्यासप्तशत्याम्
Re-
काचित्सखीमुपनायकगुणानाह-
गूढचरणा भिदोज्झितहक्श्रुतयो जिह्मगतिभाजः ॥
नवभोगशालिनोऽमी कथ्यन्ते सहचरि भुजङ्गाः॥४०१॥
भुजङ्गाः कामुकाः सर्पाश्च । गूढं जनान्तरैवेद्यं चरण-
माचारो येषाम् । पक्षे चरणं-पदम् । भिदया भेदेन त्यक्ता
दृक् श्रुतिश्च येषाम् । सर्वदा एकरूपानुरागा रहस्यरक्षकाश्च ।
पक्षे भेदरहिता दृष्टिः श्रोत्रं च येषाम् । चक्षुःश्रवस्त्वात् । तेषां
गोलकस्यैव इन्द्रियद्वयाश्रयत्वात् । तदुक्तम्- "चक्षुःश्रवसां गो.
लकं चक्षुःश्रोत्राधिष्ठानम्" इति । जिह्मा लोकोत्तरा गतिर्मार्गः।
पक्षे वक्रगमनाः। भोगा=सम्भोगः सर्पफणा च ॥४०१॥
काचिदुपपत्यनुरागादिदमाह-
गृहपतिरयं हुताशः समयान्तरमात्रचिन्तनीयफलः ॥
विधिमात्रगौरवबलात्सायं प्रातश्च परिचर्यः ॥४०२।।
गृहपतिपदेन स्वानुरागानास्पदत्वसूचनम् । हुता नाशिता-
आशा उपपतिमिलनेच्छा येन । तत्प्रतिवन्धकत्वात् । अथ च
गृहपतिः-(यजमानः) तत्संयुक्तो गार्हपत्यरूपो हुताशो वह्निः ।
साम्प्रतिकफलाभावात् - कालान्तरेति । फलं सम्भोगादिः
स्वर्गश्च । तत्राप्यप्रामाण्यशङ्कामूचनाय-चिन्तनीयेति । सन्निहि-
तफलत्वे तत्सत्त्वासचनिर्णयः स्यादतो मात्रेति । विधिः-
"मम वाचमेकमना जुषस्व" इत्यादिविवाहकालीनः। तस्य गौ-
रवं स्वयं तदुल्लङ्घनेऽपि अन्यैरनुल्लवितत्वेन ज्ञानसम्पादनावश्य-
कत्वम् । पक्षे विधिः "अग्निहोत्रं जुहोति" इत्यादिः । गौ-
रवं-तदभावेन प्रसवायबोधकत्वम् । तथाच तदानीमेवानवसरः
सङ्केतस्येति भावः ॥ ४०२ ॥
গমস্থা । १८५ कश्चिद्गुणवानाह- गृह्णन्ति गुणाः सुदृढा एव परान्धारणानिव मदान्धान् ॥ अढास्ते लूतावनिजबन्धायैव पर्यवस्थन्ति ॥४०३॥ गुणा-विद्यादयस्तन्तवश्च । दृढाः-प्रतिवादिनिराकरणस- मर्थाः । पक्षे स्पष्टम् । गृहन्ति-वशीकुर्वन्ति बध्नन्ति च। लुता. या इव लूतावत् "तत्र तस्येव" (५।१ । ११६) इति ष- ठयन्तादतिः । यथा लूतातन्तवो भङ्गुरतरास्तद्वन्धनमेव कुर्वन्ति । एवं विचारासमर्थगुणा अपि तदपकर्षमेव जनयन्तीति भावः । यद्वा अन्यनायिकामपहाय तत्सत्ते प्रिये सखी नायिकामाह॥४०३॥ कस्याश्चित्कन्यादशायामेव कुत्राप्यनुरागं काचित्सूचयति- गृह्य ककलापिनि बलाहलयति भुजङ्गभ्रमात्कचकलापम्।। मेनापुरतो जयति ग्रीडाप्रापप्रमोदभृगौरी ॥ ४०४ ॥(१ "गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्य काश्च ते" इत्यमरः । तेन विश्वासासूचनम् । एतादृशमयूरेण मातुरग्र एव पन्नगभ्रान्त्या कवरीसमाकर्षणे क्रियमाणे मयूरस्य नीलकण्ठसंज्ञतया प्रिय. तमाभेदारोपात्तत्कृत केशविसं लनाभिमानादानन्दः, मातृसनि- धाने तादृशानुसन्धानाच लज्जेति भावः। लज्जाहर्षयोः सन्धिः ।।४०४॥ ( कश्चित्कस्याश्चिदुपपत्त्यनुरागातिशयमाह-) गेहपताबायास्पति दायिततमे च प्रवत्स्यति गृहिण्या। तनुतोदयेन तत्क्षणमनर्थबीजं समर्थितप्रायम् ॥४०॥ (गेहपतिपदेन केवलं गृहस्वास्येव न तु प्रिय इत्यनुरा- गानाश्रयत्वसूचनम् । आयास्यतीति शत्रन्तात्सप्तमी । एवं ( १ ) इयम् अग्रेतनी च आर्या का० रा० ७ पुस्तके नास्ति ।
योस प्रवरस्पतीत्यत्राणि । दयिल लम-उपानिः । तमपा तस्मिन्प्रेमा- लिशयो बोध्यते । लनुता कृपत्वम् । अनर्थस्य मृतिरूपस्या बीजं कारणम् । समाथिलायम् न तु समर्थितमेव । भावि- प्रियतमश्वासोद्देश्य कोकजन्यशताया दर्शनन तत्पवासान- न्तरं प्रायोऽकथनीयावस्थाऽस्याः सम्पत्स्यते इति सम्भाव्यते इति भावः ) ॥ ४०५ ॥ प्रियधिरहेऽपि तहानसमये प्रिय संयोगमाप्तवतोः स्वनेत्र- योरेव दर्शनं क्रियताम् तत्संयुक्तदर्शनस्यापि सुखावहत्वादि- त्यादर्शयन्ती हवी कायाह- (१)गोलकरूपं चनुपदि तदलब्धप्रियासयोगम् ॥ तदतीन्द्रियं यदि तदा सुकुमकुलेनापि किं कार्यम्।।४०६॥ गोलकमेव चक्षुरिन्द्रियमिति नास्तिकाः। तवृत्त्यतीन्द्रिय- मिति तार्किकादयः । आचे प्राप्यकारिवालदसंयुक्तस्यैव चा- क्षुषत्वात् तत्संयोगाश्रयत्वमेव नास्ति । अन्त्ये तु न ( प्रत्यक्षं सम्भवतीति भावः)॥४०६॥ (१) का रा०० गुस्तके - गोत्रविभेदो शुक्तः सहस्त्रनयनस्य सुन्दर ! तवायम् । यद भोलिका धुनान्यशाशयं वहसि तशिनम् ॥ इत्यधिक वर्तते। गोस्वलितं प्रिय प्रति नायिकाया उक्तिः । गोत्रविभागोत्रस्खलन पर्वतोदनं च। सहस्त्रनयनस्य-लह- स्त्रशब्दो बहुत्वपरः । नयनशब्दस्यानुराग लक्षणा । तथा च अनेकनायिकानुरक्तस्येत्यर्थः । पक्षे शकस्य । अदभःछल- शून्योऽपि । अलिक अमृतम् । अलि शब्दो हस्वदीर्घमध्य” इति राजदेवः। आशयमिति च्छेदः। छल रहितस्यावलीकाभिप्रायवत्वमा- यजनकमिति भावः। पक्ष दम्भोलिर्वजम् तद्रहितं शयं-पाणिम् ।
हकारज्या .. काचिदभिसारिकेदमाह- गौतमि ! सचनिशतानन्दे ! रमणीयदेहलने ! ।। उचितं वालवदेवाश्रितालि यइषितामृज्य ।।४०७।। गौतमी गोदावरी ! तत्सम्युद्धिः । संजनितः शलसङ्ख्याक आनन्दो यया । उपपतिस्मानमाधिकरणत्वात् रमणीयदेहा लता यस्याम् । तेन निकुञ्जसम्पत्तिः कालेन देन तुल्यं बा- सवत् । भर्तारमुत्सृज्य भयाश्रिताति। तत् युक्तम् । पक्षे गौत- मीपदमहल्पापरब् । उत्पादितः शतानन्दो मुनिर्यय।। तस्य तत्पु. प्रत्वात् । रमणीया देहलता पक्ष्याः। वासवरूपं देवं श्रितासि गौ- तममपहाय । “द्वितीयाश्रिता." (२ । १ । १४) इति समासः । "अहल्यायै जार" इति श्रुतिदर्शनात् ।। ४०७ ।। काचिद्रहस्यवार्ता भेदक केलिशुनमाह-- गौरमुखत्वादुचितं लव कीर ! सनीकदायितत्वम् ।। किन्तु शुभत्वानुचित लागलायक बुखत्वम् ।।४०८॥ "गौरोऽगे लिते पीते" इति विक्षः । अथच गौरमुखो-शु- निविशेषः । समीक-युद्धम् । तेन रहस्यवातीप्रकाशने सपन्या- दिकलहोदयात् । अथच गौरमुखस्य समीकाख्याधुनिशिष्यत्वात्त- त्मियत्वमहम् । पक्षे शुको व्यासात्मजः। रागो-रक्तस्वं विषयास. ङ्गश्च । शुकस्य नीरामत्वादागवत्वमेवानुपपनम् । सति तु तस्मिन् गौरमुखत्वोदयादुत्तरीया समीकप्रिय पुसमेति भावः ।।४०८|| कांचित्प्रियाभिमत सखीदमाह- गलायां प्रतिफलित गौशालपधारागेऽया। जयति कः नसलिलामल नङ्गधिन अनाया (३) मण्डस्थली बिमाण्डं सन्धती करविललधेन । तामरतान्तरसंशितचन्द्रविलोमाद्भुतं मनुष्ये ॥ Sann १८८ आर्यासप्तशत्याम् तत्पदं गौरीपरम् । अस्था इति गङ्गापरम् । प्रियसम्भोगप- रिश्रमेण गौरीब पुषि जलान्तर्गतत्वम् , विशेन गङ्गावपुषि अ- मर्षेऽपि तद्दहनतादात्म्यकपद्मरागप्रवेश उत्प्रेक्ष्यते । एवं नायि- कान्तरे प्रियानुरागदर्शने सपत्नीनां सन्तापातिशय एव स्या- दिति दुःसहत्वमेव सूचितम् ॥ ४०९ ॥ कश्चित्सत्पुरुषमाह गन्धद्विप ! तव शक्ता नैव विपक्षद्विपाः पुरोभवितुम्॥ तत्सानिध्यनिबन्धननिकर्षशङ्का स्थितैव मन्दानाम् ४१० "यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपाः । तं गन्धवारणं विद्यान्नृपतेर्विजयावहम् ।।" ततश्च गजान्तराणां त्वदग्रोपसर्पणसामर्थ्य मेव नास्ति । एतज्जानन्तस्तु यद्येनं विपक्षगजा अभियुजीरन तदास्य ज. यः स्यान्नवेति संशयेन पक्षे तवापकर्षमपि न सम्भावयन्ती. त्यर्थः :॥४१०॥ इति गकारव्रज्या। गन्धारजा सुरेखा ऽऽसीमन्तात्पाण्डुपूर्वलहजाते ॥ जनयत्यङ्गजमङ्गीकृतविजयानीयवैभवं जगति ॥ इत्यार्याद्वयं का० रा०पु० पुस्तकेऽधिकं वर्तते । गन्धारजेति । प्रियां प्रति कस्य चिदुक्तिः। गन्धारः सिन्दूर देशभेदश्च । “गन्धारः सिन्दुरे रागदेशयोः" इति विश्वः । पाण्डु- पूर्वसहजातू-पाण्डुगुणः पूर्व सहजः स्वाभाविको यस्मिन् । आसी. मन्तात्-सीमन्तमभिव्याप्य स्थिता । पक्ष सीमन्तपर्यन्तं शोभनरे- खावती। यद्वा असुरेखालीमन्तात् इत्येकं पदं पाण्डुपूर्वेत्यस्य विशे- षणम् । असुरेखायाः प्राणरेखायाः सीमन्तभूतात् प्राणप्रियादित्यर्थः। पाण्डोः पूर्वः अग्रजः सहजो भ्राता धृतराष्ट्रः तस्मात्। अङ्गजा कामः पुत्रश्च। अङ्गीकृतेति।धृतविजयश्रेष्ठचिह्नम् । पक्षे अङ्गीकृतं हृतविजयस्य अर्जुनस्य अग्रीयः पूर्वजो युधिष्ठिरस्तस्य वैभवम् ऐश्यर्य येन तम् ।
घकारव्रज्या। १८९ कश्चित्पात: प्रियामाह- घटमान मम्वुजस्य स्तबके बाले ! निभालय अमरम् ॥ शल्यमिव तत्पलाशान्योन्यविभागाय कृतमन्तः॥४११ कमलकोरकोपरि समासीनो अमरस्तद्विकाशार्थ पत्राणां परस्परविभागाय मध्ये निखन्यमानो लोहशङ्कुरिव दृश्यत इ. सर्थः : । तथाच यत्र यस्यानुरागः स तत्र विलम्बासहिष्णुतया सज्जत्येवेति ममापि त्वयि समासक्तिरुचितेति व्यङ्ग्यम् ॥४११॥ कश्चिद्रतान्तावस्थायां प्रियामाह- घर्मोदबिन्दुभिस्तव करम्बितं भाति वदनमिदम् ।। मुक्ताजालकतिलकितमुदन्वतोऽन्तः सुधांशुबिम्बामिव१२ "मन्यौदन" ( ६ । ३ । ६०) इत्यादिनोदकशब्दस्यो- दादेशः । "करम्बो मिश्रिते बान्तो भान्तस्तु दधिसत्तुषु" इति विश्वः । मुक्तानां स्वेदबिन्दूनां च विम्बप्रतिबिम्बभावः । तमुद्रा- न्तर्गतत्वं तु चन्द्रविशेषणं तत्र मौक्तिकसंयोगोपपादनार्थमेवो. पात्तम् । अतो मुख ताहशविशेषणाभावेऽपि न दोषः । स्वेदस्य प्रकृते धर्माजन्यत्वेऽपि तज्जन्यस्वेदसाधारण्यात् धर्मेत्युक्तम् । अभिसारगमनादिसमयेऽप्येतदुक्तिसङ्घटनार्थं तदिति ध्येयम्४१२ कश्चित्मियादर्शनमुदित आह- घनविशदारुणकरया सम्पन्नपयोधरोदयया ।। प्रणयिन्या घनसमयश्रियेव चेतः समुच्छ्वासति ॥४१३ घनमत्यन्तं स्वच्छौ रक्तवौँ करौ यस्याः । एतेनोत्तमत्व- सूचनम् । तथाच सामुद्रिकम्- "नेत्रौष्ठजिह्वाचरणकरं रक्तं भवेद्यदि । नरो भवेन्नृपो नारी राजपत्नी भवेटुवम् ॥” इति ।
শুকনা হায়
पक्ष मेघमध्ये विशन्तस्तिरोधीया यह माना आरुणाः सूर्यसम्ब-
धिनः करा किरणा यस्याम् । स्पष्टमन्यत ।। ४१३ ।।
इति धकारवज्या॥
सकलामपि निशं मानबहीतायामेत्र नायिकायां प्रभातवे.
लासम्पत्ती काप्याह-
चरणायुध इति विदितो विस्तिानचूडजनः ।।
प्रहरति मनस्विनीनां हमालि पर भिवायम् ॥४१४||
अपामाग्यकल्पनावारणाय-विदितितद्विरोधवारणाय बहु-
वचनम्। ततश्च चरणायुधेन चरणेनैव प्रहारः कार्यः। अयं तु माता-
कालज्ञापनेन बच सैव तासां महारं करोति दुःख जनकत्वादि-
त्यर्थः। किंवा प्रातः प्रियविरहना काचिदिदमाह ।। ४१४ ॥
दूती नायकमाह-
चपलीकरोषि हृदयं त्वं तस्याः कुवलयश्यामः ॥
रससम्भृतान्तरात्मा मुदिर इव ज्योतिरकस्य ।।४१५॥
कुवलयेत्यादिकमुभयानुगतम् । रसा-शृङ्गारो जलं च।
"धनजीमूतमुदिर-" इत्यमरः । चपलीकरोषि स्वविषयकाभि-
लापाश्रयं करोषि । अथच "चञ्चला चपला अपि" इत्यमरः । वि.
ादूपं करोपि। मेघान्तर्गतं सौर ज्योतिरेप विद्युभूपेण भासत इति
ज्योतिषशास्त्रम् ।।४१५॥
प्रतिसन्देशं गृहीत्वाऽऽगता दृती तदनुरागे संशयानं ना.
यकमाह-
चक्षुस्त्वदीक्षणोत्सुकमाकर्णित मजबुदन्तवृन्देन ॥
तस्याः श्रोत्रेण समं मिलितुमिव तदन्तिकं याति॥४१६॥
अन्योऽपि यस्य दर्शनाभिच्छति तद्वृत्तान्तवेदिना सह प्रथम सङ्घटा इति भावः । अत्र मिलितुमित्यत्र मिलनं सौहृदेन किञ्चित्कार्यानुरोधरूपविशेषपरम् । अतो मिलन लदन्तिकगमन- योरभेद इति न शङ्कथम् । एतेन सौन्दर्यमपि सुचिता । अनेन त्वनिगलनोपायर्यालोचनायरा कथं निषेध विधास्यतीति व. नितम् ॥ ४१६ ॥ कश्चिदधरं पातुमिच्छमाह चासभित्र हारियोजनसधरं तव सरसमिन्दुमुखि ! ॥ विहितामलकर्माणो लिाज सर्व एव लिप्सन्ते ॥४१॥ हारि मनोहरं योजनं सम्बन्धी यस्य । सरसं मधुरत्वात् । विहितममलं पुण्यरूपं कर्म यस्तादृशाः। कर्मपदस्योभयार्थत्वान् । लिप्सन्ते-पातुमिच्छन्ति । अथच सोमरसवन्तं हारियोजनना- मकं चमसं-सोमपानविशेष सर्व एव ऋत्विजो भक्षयन्ति । "अर्थतस्य हारियोजनस्य सर्व एव लिप्सन्ते' इति श्रुत्या हारि- योजनचमसस्य स भक्षणं कार्यमिति (पूर्वमीमांसायाः) तृतीया- ध्याये ( पञ्चमे पादे नवमेऽधिकरणे ) निर्णीतम् ॥ ४१७ ॥ काचित् दृती नायिकामाह- चाभीकर पशहटकुलं यनावमाति कुचानात् ।। लम्मान हं सुतनु ! लेविणाहते धन्ध एव जनः ।।४१८॥ "चामीकरं जातरूपम्" इति सुवर्णपर्यायेऽमरः । मानस चित्तमेव मानसं सर इति परम्परितरूपकम् । “पुण्यवान् धन्य" इत्यमरः। विगाहनं प्रेमविषयीभावः स्नानं च । यस्तव हृदयं प्रविशति स एवं धन्य इत्युक्तया नायकस्य त्वत्प्रणयार्थि- त्वमिति तस्या गुणकीर्तनं च व्यज्यते । पूर्वार्द्धगम्या.
१९२ आर्यासप्तशत्याम् - पन्हुतिरूपकयोरङ्गाङ्गिभावात्सङ्करः । एकपदोपादानेन रूप. कोल्लाससम्भवेऽपि धर्मोपन्यासपुरःसरस्य तस्याभ्यर्हितत्वा- दित्यर्थः ॥ ४१८ ॥ कश्चित्सखायमाह- चापाचार्यकभिव सा कुर्वाणा कुलुमविशिखस्य ॥ सविलासवेल्लिनपूर्वशंवदत्वं मनो नयति ॥ ४१९ ॥ आचार्यस्य भाव आचार्यकम्-अध्यापकत्वम् । भरत:- "स्थानासनगमनानां हस्तधूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ।" (सबिलासं) वेल्लिता कपिता भूर्यया । एतेन कुञ्चिताख्यं कर्म भूचितम् । "मोहायिते कुट्टमिते विलामे किलकिञ्चिने । निकुञ्चितं तु कर्तव्यम्" इति भरतोक्तेः। यद्वा स्निग्धदृष्टया नायकदर्शनात्तदनुरोधनोत्क्षेप एव वेल्लनम् । तथाच शाईदेवः- "अत्रैकभ्रूसमुत्क्षेपमाहुः कीर्तिधरादयः।" इति। ध्रुवोस्तच्चापाका- रत्वात्तद्वेल्लनेन कामस्य धनुर्विद्यामिव शिक्षयतीत्युत्भेक्षया तस्य मनोवशीकरण शक्तिय॑या ।। ४१९ ।। कश्चित्स्नानोत्तीर्णा प्रियामाह- चातक इव तब कुन्तलबलाहकाभ्यन्तरादालतान् ॥ वरवर्णिनि!चारिकणाम्पियन्नवामोमि मुदमुच्चैः॥४२०॥ पिबन्=पश्यन्नास्वादयंश्च । चातकोपमया स्त्रस्य तन्मात्र. गतिकत्वं व्यज्यते । बलाहकोपमया केशानां घनत्वसूचनात् तदन्तर्गतजलस्य चिरकालपर्यन्तं गलनं मुच्यते ॥ ४२० ॥ - D चकारत्रज्या। C CILMS चाक्षुषमपि च पार्शनमेकासामनुमितिश्च शाब्दं च ॥ अत्यन्त निरवकाशं मानसमप्यस्मदीयं तु॥ ४२१ ॥ ॥ ४२१ ॥ कश्चिनायिकामाह- चापलतानमिता तब यावयुज्यते सह दृशा मे ॥ वरचाणिनि ! वैसारिणकेतोरपि कर्णवीरुधा तावत्४२२ "मीनो वैसारिणोऽण्डजः" इत्यमरः । चापलस्य=विला- सजन्यस्पन्दविशेषस्य तान-विस्तारमिताः ताप्राप्ता भूर्यावन्मम चक्षुषा युज्यते तावदेव नमिता-दृढतरमाकृष्टा कामस्य चापल- ता-धनुर्वल्लिरपि कर्णलतयाऽतियोगमाप्नोति । तत्समकालमेव मद्देदादित्यर्थः ॥ ४२२ ॥ ( कश्चित्प्रियतमायाह-) चाम्पेयमालिकारसितव तनुभासै लम्भिताभिभवम्।। मिलितापि मीलितेयं मिलिन्दमालेन्द्रनीलगुलिकाभिः ॥ (तनुभासा-शरीरकान्त्या। मीलिता=अभिभूता। मिलि. न्दमाला-भ्रमरपतिः । अत्र इन्द्रनीलमणिहारविशिष्टनायिकादेहे- ऽलिपटलसम्बद्धचम्पकमालाया अभेदेन भानात् सामान्यालङ्कारः। उक्तं च-अलङ्कारकौस्तुभं-"स्वगुणसजातीयगुणाश्रयैकरूप्यं तु सामान्यम्" इति । तेन च कान्सतिशयो व्यज्यते ॥४२३॥) काचिद्विदेशस्थ नायके सन्देशमाह- चाप इव सुन्दर ! त्वं वैदूर्यस्यैकबन्धुरसि ॥ येषां स्वमक्षिपथगः समलं जीवितं मन्ये ॥ ४२४ ॥ वैदृर्य-विदूरस्य भावो विपकृष्टत्वम् । तस्यैकबन्धुः सर्वदा विदेशावस्थानात् । पक्षे वैदूर्यमणेः सदृशो लक्षणया। “वैदृर्य २५ !
भार्यासप्तशत्याम् बालवायजम्" इत्यमरः। “बन्धुप्रख्यमुहृदादि'' इति सदृशार्थेषु क- विकल्पलतायाम्। येषामिति । अस्माकं तु त्वदर्शनाभावाय- थमेतदिति भावः । चाषदर्शनमपि सफलमिति प्रसिद्धिः ॥४२४॥ कश्चित्प्रियामाह- चिकुर कलापान्तरगाः करुणभवास्ते चकासति स्तबकाः॥ अर्द्वन्दुसायका इव मौा मदनेन योजितास्त्वरया ॥ करुणस्य मुकुलान्येव केशेषु अथ्यन्ते इति सम्प्रदायः । धनुरभिमुखं बाणयोजनौचित्येऽपि स्वरातिशयेन केवलं गुणे- नैव योजितत्वात्तथोत्मक्षा । एतेन तद्दर्शने कामस्यान्यवेधे त्वरा भवतीति द्योत्यते । अत्रोपमाशङ्का न कार्या । अद्धचन्द्रसायक- मात्रेण तत्सिद्ध्या मौयिोजितत्वरूपसम्भावनोपयुक्तविशेषणवै. यापत्तेः : ॥ ४२५ ॥ काचिदभिसारसमयमाह- (१)चिररुचिरचिररुचिश्च प्रोत्साहयतो निकुञ्जगमनाय ॥ चरमा घनेन जनित्ताऽचरमा पुनरपघनेन दयितस्य ॥४२६॥ चिरकालादुत्पन्ना रुचिरिच्छा । अचिररुचिः विद्युत् । प्र- काशेन गमनानुकूलत्वात् । “अपघनोऽङ्गम्" (३ । ३ । ८१ ) इति निपातितः । स्वरूपतः कारणतश्च बिरोधेऽपि द्वयोरेकका. नुकूलस्वमिति चित्रमभिसाविलसितमियर्थः ॥ ४२६ ॥ (१) इयमार्या का० रा० पु० पुस्तके नास्ति । एतत्स्थाने- चिरतरमिह दोषाणामासङ्गाद्भवति तेजलो हानिः । जाड्यास्पदतां भजतो हिमसमयस्येव पिशुनस्य ॥ इति वर्तते।
चकारवज्या। १९५ RE Don काचित्सखीदमाह- चिक्षेप यं प्रदीपे कुक्लपकर्णावतंसमेणाक्षी ॥ स तदन्तरात्मनि पतन्ननोसुबो विशिख इव रेजे ॥४२७॥ अवतंसपदेनैव सिद्ध कर्णपदं सन्निधानप्रतीत्यर्थम् । तदुक्तं काव्यप्रकाशे- "कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । सन्निधानादिबोधार्थम्" ( उ० ७ का० ५८ ) इति । "प्रदीपकलिकाकारम्" इत्युक्तेस्तत्र दीपसाम्यम् । वस्त्रा- पहरणलज्जया दीपनिर्वाषणेच्छा । तथाच भरत:- "नास्त्विपहृते वस्त्रे दीपाच्छादनमेव च" । इति । उत्प्रेक्षया नायकस्य तदुत्तरमत्यन्तमदनोद्दीप्तिः स्युच्यते॥४२७॥ कश्चित्प्रियामाह- चिन्वाना वजुलजाः करप्रवालेन सुमनसः सुतनु ! ॥ तासां तदीयपल्लवविश्लेषदशामपन्हुते भवती ॥४२८॥ "स्त्रियः सुमनसः पुष्पम्" इत्यमरः । करं प्राप्यापि अशोक- पल्लवविभागस्तासां(१) न जातः। त्वत्करस्यापि तथात्वादित्यर्थः। अत एव चिन्यानेत्यनेनैव सिद्ध न करग्रहणवैयर्थम् । वस्तुतो जातेऽपि तद्विभागे तदनुपलक्षणसुचनाय-अपन्हुते इति । अत एव नेयं विशेषोक्तिः । ज्ञानाभावेऽपि कार्यस्य जातत्वात् । कि- न्तु रूपकध्वनिः ॥ ४२८ ॥ कश्चित्कटाक्षं स्तौति- चित्रीयत एव मनो निभालनाक्यवान्तराणां ते ।। वैलक्षण्येन पुनस्त्वदपाङ्गः सुहृदनङ्गस्थ ॥ ४२९ ।। (१)अत्र तत्पदेन सुमनसा परामर्शः।
१९६
आर्यासप्तशत्याम्
सर्वावयवानां लोकोत्तरगुणशालितयाद्भुतजनकत्वेऽपि क-
टाक्षस्य ततोऽप्युत्कृष्टविस्मयजनकत्वम् । अपगतमङ्गं यस्यापाङ्ग
इति व्युत्पत्या तस्थानङ्गसमानधर्मकतयाऽङ्गान्तरापेक्षया मन्म-
थसम्बन्धोत्कर्षादिति भावः ॥ ४२९ ।।
कांचित्स्मयमानां कुलवधू प्रिय आह-
चीनासचथाञ्चलेनापिहितादधराछिनिर्यान्ती ।।
अतिनिस्तुषेय पयसो धारा तव भाति हस्तितश्री॥४३०॥
मुखमास हास उत्तमखभानः । कुलजां प्रक्रस्य-
"स्मयते सा निगूढं च वाक्यं चाधोमुखी वदेत्" इति भर-
तोक्तः । हसितलक्षणमाह भरतः-
"उत्फुल्लानमनेनं तु गण्डैर्विकसितैरथ ।
किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते" ॥
"स्मितहसितं ज्येष्ठानाम्" इत्यपि तेनोक्तम् । चीनपदं प्रक्रम्य
"ब्रीहिभेदेऽशुकान्तरे” इति विश्वः । वस्त्रान्तरात्पतनन
शुद्धं दुग्धमिव भातीत्यर्थः ॥ ४३० ॥
नायका सहचरमाह
चुम्बितलोचनवल्लभविम्बाधरचुम्बनेन धृतनैल्यम् ।।
तस्था वीक्ष्य स्तनमुखमालीभिः सिष्मिये निभृतम् ४३१
चुम्बिते नेत्रे नायिकासम्बन्धिनी येनेति समासोऽत्र । ए-
तेनाधरस्य कज्जलसंयुक्तत्वसूचनम् । तादृशप्रियाधरकर्तृकेण
स्तनकर्मकचुम्बनेन स्तनयोर्मुखस्य नीलतामालोक्य तस्या
गर्भधारणशङ्कया प्रमोदात्सख्यो हसिता इति भावः । तस्या-
स्तथाज्ञानेन लज्जोत्पत्तिवारणाय-निवृतामिति । स्तनमुख.
नीलत्वं दोहदचिह्नम् ॥ ४३१ ॥
चकारज्या। १९७ - .. काश्चिन्नायकसमादृतनायिकाद्वेषपरां हितैषिणी शिक्षयति- चूडामणीकृतायाः स्पर्धाबन्धन चन्द्रलेखायाः ।। अधिकेतकि परमेशितुरनादरं स्पष्टमुरसति ॥४३२॥ कुटिलतया चन्द्रलेखासादृश्यम् । “नाऽक्षतैरर्चयेद्विष्णुं न केतक्या महेश्वरम्" इति निषेधादनादरः । पक्षे चन्द्रलेखात्व- माल्हादकत्वादिना। चूडामणीकृतत्त्वमतिपुरस्कृतत्वात् । एते. न प्रभुप्रिये वैरं न कार्यमित्युपदेशः सेवकानां दर्शितः ॥४३२॥ काचिन्नायिकार्थ कंचिदिदमाह- चेतसि सन्नपि सुन्दर ! संयोग इवात्मना साकम् ।। प्रत्यक्षविषयभावं दधासिन त्वं कदाचिदपि तस्याः ४३३ मनास वर्तमानोऽपि ज्ञानविषयत्वात्कदापि तचक्षुर्गोचरे नावतरसीत्यनुचितम् । आत्ममनासंयोगोऽपि ज्ञानहेतुभूतः सन्नपि अतीन्द्रियतया प्रत्यक्षो न भवतीति भावः । तथाचात्य- न्तानुरक्ता यथा त्वां प्राप्य कृतार्था स्यात्तथा विधेयमिति हृद- यम् ॥ ४३३ ॥ कश्चित्प्रियामाह- चले सति परवर्तिनि पुंवड़ावं न लभते स्त्री ॥ हस्वत्वं प्रत्युत सा पायादिति शुद्धरीतिरियम् ॥४३॥ "चलं वसनमंशुकम्" इत्यमरः । परवर्तिनि=अङ्गवाहिते सति लज्जया पुरुषायितं न लभते । किंतु तथाकृते तस्या अप. कर्ष एव भवतीति शुद्धानां रीतिनतु रसज्ञानाम् । “न विनाम्ब. रमोचनम्" इत्युक्तेः । तादृशरतेन तस्या उत्कर्षोदयाछ । अथ च चेलपदे कुत्सितार्थक परतः सति ब्लीलिङ्गान्तं पदं पुत्रत्वं न भ. जति किन्तु इस्वत्वमेवेति शब्दसाधुत्वार्था रीतिः । विदुषिचेली- १९८ आर्यासप्तशत्याम् memuna त्यादौ "घरूपकल्पचलड्ब्रुव० (६ । ३ । ४३ ) इत्यादिवच. नेन पुंवद्भावं बाधित्वा इस्वत्वस्यैव विहितत्वादिति भावः॥४३४॥ काचित्खण्डिता दूरान्नायकं पश्यन्ती सखीमाह- (१)चन्दनपीरुत्परिमलमनिलस्य दवीयसोऽपि विवृणोति। कुसुमान्तरात्ससम्भ्रममापतयालुदिरेफसमुदायः॥४३५॥ दवीयसो-दूरतरस्य । घ्राणसंयोगे तत्प्रत्यक्षस्थाप्युत्पत्तेः । अ. न्तरं-मध्यम् । तेन पुष्पं विहायेति लभ्यते । सौरभसाम्यवारणाय ससम्भ्रमामिति । एकस्यान्यथापि गमनसम्भवास्तमुदाध. इति । अथच चन्दनलतासादृश्यात्काचिन्नायिका। "परिमलो विमर्दे च स्यान्मनोहरगन्धवत् । रतोपमदविकसदेहरागादिसौरभे” इति विश्वः । अत एव- परिमलरुचिराभियंकृतास्तु प्रभाते युवतिभिरुपभोगानी- रुचः पुष्पमाला:" (स० १० श्लो० २७)इति माघः॥ ४३५ ॥ कश्चिद्रतिसामग्री सज्जयन्ती नायिकामवलोकयन्नाह- चम्पककलिका सूचीशिखया ग्रथनाय विध्यन्त्या ।। नियतितमिव वैरं रतिप्रतीपेषु दीपेषु ।। ४३६ ।। ग्रथनाय-मालारूपत्वसिद्धये । सूच्यग्रेण चम्पककोरकभेद- नेन नायककतकस्वाङ्गदर्शनादिलज्जयारतप्रतिबन्धात्तत्पतिकूलेषु प्रदीपेषु वैरशुद्धिरिव कृतेत्यर्थः । एतेन मौग्ध्यं सम्भोगेच्छा च - (१) का० रा० पु० पुस्तके नास्ति । एतत्स्थाने- चन्दनलते ! विकसता विष्वदीचा परिमलेन । न क्षणमात्रमपि त्वं वहसि वियोगं भुजङ्गवरैः ॥ इति वर्तते ।
छकारवज्या। १९९ ध्वन्यते । “बाला नूतनसङ्गमे रतिकरी सान्द्रान्धकारे भवेत्" (पञ्चसायके २ सायके श्लो० १५ ) इति कामशास्त्रम् । फुल्लेषु दीपसाम्याभावात्कलिकति । तस्याः प्रदीपाभेदप्रतीते रूपक- ध्वनिः॥ ४३६ ॥ इति चकारव्रज्या। काचिद्विस्तब्धनवोढावृत्तमाह- छानिमीलतनयना प्रियपाणिस्पर्शपुलकितकपोला ॥ रक्षति च सुग्धभावं मानयति च मान्मधीमाज्ञाम् ॥४३७॥ प्रबोधदशायां दायितकरानपलारणे मुग्धतायाः तदपसारणे च कामाज्ञाया व्याघातः स्यात् । व्याजेन नयननिमीलने तु इयं निद्रया मकरं नापास्यतीति नायकेन ज्ञानान्मौग्ध्यरक्षा तत्स्पर्शसुखानुभवाच कामानुज्ञापालनमिति उभयमपि सम्पन्न मिति भावः । एतेन लज्जामदनयोः समबलत्वं व्याच. तम् ॥ ४३७॥ ताशरूपरहितायामपि कस्यांचिदनुरज्यमाने नायके काप्याह- छायाया बाहुल्ये लिङ्गान्तरमाह पाणिनियुक्तम् ।। हृदयवशीकरणं खलु विलक्षणादृष्टसंसाध्यम् ॥४३८॥ हृदयानुरागोत्पत्तिमात्रेण शोभाबाहुल्यं नानुमेयम् तस्य प्रा. ग्भवीयादृष्टविशेषादेवोत्पत्तेः । अतस्तदर्थ लिङ्गान्तरम् अन्य एवं हेतुरन्वेष्य इसभिप्रायेण'छाया बाहुल्ये"( २ । ४ । २२) इति सूत्रं प्रणीतमित्यर्थः । तत्रानुरागातिरिक्तो हेतुरिति शेषं दत्त्वा- तदेव योजितम् । तदर्थस्तु बहुवचनान्तकिञ्चिच्छब्दोचरवर्तिन- छायापदस्य तत्पुरुष स्त्रीलिङ्गातिरिक्तं क्लीवलिङ्गं भवति । यथा इक्षुणां छाया इक्षुच्छायमित्यादौ ।। ४३८ ॥
आर्यासप्तशत्याम् कश्चिदल्पगुणोप्याकिश्चित्कर एवेसाह- छिदुरेण गुणगणेन व्याप्तं येषां सदा हृदयम् ॥ तेषां कृणालकानां सुखमुद्राजीवमित्युचितम् ।। ४३९ ॥ छिदुरः अस्थिरः । कर्मकर्तर्ययं प्रयोगः। विस्तरो नैष- घभावप्रदीपे । गुणातन्तवो विद्यादयश्च । हृहयं-मध्यमात्मा च । मुखम् =अग्रं वदनं च । उद्गतं राजीवं कमलं यत्र तथा । अथ च आजीव-जीवनपर्यन्तं मुखस्य मुद्रा-सङ्काचः। प्रतिवा. दिभिः सममुद्राहासामर्थ्यात् ॥ ४३९ ।। कश्चिन्नायिकामाह- छुरिकेष भृशान शाता करिणीवोन्नमदुरोजकुम्भतटा ।। निपुणं निरूप्यमाणा प्रिये!त्वमसि धेनुका सत्यम् ॥४४०॥ "धेनुकं करणे स्त्रीणाम्" इति विश्वः । इदं च बन्धमा- त्रमत्रोपलक्षयति । तदस्त्यस्याः तदभिज्ञत्वादिति धेनुका । मत्वर्थे अच्प्रत्ययः । तागसि । निशाता-तीक्ष्णा।मानावसरे कोधन- त्वात् । छुरिकाप्यसिधेनुका भवति । “छुरिका चासिधेनुका" इत्यमरः । उरोजौ स्तनावेव कुम्भौ । पक्षे उरोजतुल्यौ कु. म्भौ । करिण्यपि धेनुका भवति । "करिणी धेनुका वशा" इत्यमरः॥ ४४० ॥ इति छकारवज्या ॥ कवित्प्रकृतिर्जन्यान्तरेऽप्यनुवनातीत्याशयवानाह- जन्मान्तरेऽपि नूनं तद्भाववतां न तत्सङ्गः ॥ समजनि दिगम्बरः किल रूपेऽन्यत्रापितुर्वासा॥४४१॥ तत्पदं प्रकरणदशाङ्गुद्धिस्थतत्तद्वस्तुपरम् । पस्यैकज- पनि यः पदार्थो नास्ति तस्य स जन्मान्तरेऽपि न भवत्येव S