University Library,gurukul Kangri Vishwavidyalaya

Uttararamacharitam

2005/07/25

PDF Proofread

Front matter

RA
(2)THE
UTTARA-RÂMCHARITA
COMPILED
BY
OTHERB
OF
BHAVABHẬTI
With the Commentary Vîrarâghava.
EDITED
T. R. RATNAM AIYAR, B. A.
FORMERLY PROFESSOR OF MATHEMATICS AND SANSKRIT
S. P. G. COLLEGE, TRICHINOPOLY,
WÂSUDEV LAXMAN SHASTRI PANSIKAR.
K. M. JOGLEKAR CHE
Seventh Editio,
Initrol
PÂNDURANG JAWAJÍ,
PROPRIETOR OF THE NIRNAYA-SAGAR' PRESS,
BOMBAY.
1925.
LAHORE.
Price 1 Rupee.
AND
REVISED BY
) 1;
PUBLISHED BY

$
1
( All rights reserved by the publisher. ]
PUBLISHER :-Pandurang Jawaji, at the Nirnaya-sagar' Press,
PRINTER :-Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombay.
}
5
..

॥श्रीः॥
महाकविश्रीभवभूतिप्रणीतं
C80
उत्तररामचरितम् । ४२ (
वीरराघवकृतया टीकया समेतम् ।
टी. आर. रत्नम् ऐयर
वासुदेव लक्ष्मण शास्त्री पणशीकर
इत्येताभ्यां संशोधितम् ।
सप्तमं संस्करणम् ।
कृ. म. जोगळेकर एम्. ए. इत्येतैः
संस्कृतम्।
मुम्बय्यां
पाण्डुरङ्ग जावजी
इत्येतैः स्वीये निर्णयसागरमुद्रणयालये
मुद्रयित्वा प्रकाशितम् ।
शाके १८४७ वत्सरे, सन १९२५.
मूल्यं १ रूप्यकः।

॥श्रीः॥ उत्तररामचरितम् । प्रथमोऽङ्कः । इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे । वन्देमहि च तां वाणीममृतामात्मनः कलाम् ॥ १॥ तलस्पर्शिनी। पुरि भुवि महितायां भूमिसाराभिधायामधिमुनिभृगुतीर्थोपान्तमाबद्धखेलम् । किमपि नतशरण्यं मजलं मङ्गवल्लीजगदधिपतिसंज्ञ द्वन्द्वमानन्दयेन्नः ॥ ज्ञानं सर्वपराधीनं तद्धेतुश्चेयाननः । स चेद्रतपराधीनस्तं विना कं व्रजाम्यहम् ॥ भूसारपुरवास्तव्यो वाधूलो वीरराघवः । भवभूविकृति हृद्यां व्याचष्टे करुणामयीम् ॥ भवभूतः कवीन्द्रस्य क गम्भीरो गिरां भरः । क मन्मतिरतिस्थूला सहायोऽत्र हयाननः ॥ चापल्बमथवा बाल्यं कृतावस्या प्रवर्तकम् । तथापि कृपया सन्तः संतन्वन्तां शुभां दृशम् ॥ अथ तत्रभवान्भवभूति म कविकण्ठीरवः 'एकः शब्दः सम्यग्ज्ञातः सुषुप्रयुक: खर्गे लोके कामधुग्भवति' इत्यादिश्रुत्या परिनिष्ठितशब्दप्रयोगस्य धर्मखमवगच्छन् 'काव्यं यशसेऽर्थकते इत्यादिना काव्यरूपस्य तस्य प्रकर्ष विभाव्य, शैवा वयं न खलु तत्र विचारणीय पञ्चाक्षरीजपपरा नितरां तथापि । चेतो मदीयमतसीकुसुमाव- भासं स्मेराननं स्मरति गोपवधूकिशोरम् ॥' इत्यादिन्यायेन अङ्कुरितभगवद्भक्तिकतया 'स वाग्विसर्गो जनतापविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्सपि । नामान्यनन्तस्य यशो- ऽहितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥ इत्यादिन्यायेन 'प्रबन्धानां प्रबन्- णामपि कीर्तिप्रतिष्ठयोः । मूलं विषयभूतस्य नेतुर्गुणनिरूपणम् ॥' इत्यादिन्यायेन च भगवगुणान्विवक्षुः, तत्रापि 'यदि क्षुण्णं पूर्वैरिति जहति रामस्य चरितम्' इत्यादि- न्यायेन रामकथा प्रतिपिपादयिषुः, दृश्यस्य श्राव्यापेक्षया 'देवानामिदमामनन्ति मु. नयः कान्तं क्रतुं चाक्षुषम्' इत्युकनाव्याश्रयखप्रयुक्तप्राधान्यात्प्रकरणादीनां यथायथं रसवस्तुनायकापकर्षात्तत्प्रकर्षाभाटकं चिकीर्षुः, पूर्वचरितस्य महावीरचरितत्वेन वर्णि- तत्वात् उत्तरं चरितं वर्णयितुमभिसंधाय पूर्वप्रधानाजभूतां नान्दीमाह-दं कविभ्य इति । 'इदं' 'कविभ्यः' इति पर्दद्वयमिदम् । अतो द्वादशपदवसिध्या न नान्दीपदनियममाः । इममिति चोदेश्यसमर्पकं द्वितीयान्तं विशेष्यवाचकम् , नमोवा- उत्तररामचरिते ws कमिति च विधेयसमर्पकं विशेषणवाचकं च । तथा च-इदं प्रारिप्सितप्रन्यादौ चिकी. र्षितत्वेन बुद्धिस्थं मङ्गलं पूर्वेभ्यः कविभ्यो नमोवाकं प्रशामहे । पूर्वकालप्रसिद्धप्राचे. तसादिकविविषयकनमउकिं निर्दिशामः-इति वाक्यार्थः । प्रशासनं तु निर्देशः' इति कोशः । 'आङःशासु इच्छायाम्' इति धातोः आयूर्वकत्वं प्रायिकमित्युः प्रपूर्वक- त्वेनेच्छार्थकत्वं च । 'नमउतिर्नमोवाकः' इति कोशः। भावे पञ्। कुत्वम् । एतन्म- अलोद्देश्यपूर्वककविविषयकनमउक्तिविधेयकबोधजनकशब्दप्रयोगवानहम् , एतन्म- लोद्देश्यकपूर्वकविविषयकनमोवाकविधेयकेच्छावानहम्, इत्यन्वयबोधः । नमोवाक- मित्यत्रैकदेशनमःशब्दापेक्षया कविभ्य इति चतुर्थी । 'नमःखस्ति-'इत्यायनुशास- नात् । अत्र नान्दीप्रभृतिप्रशस्विरूपचरमाङ्कपर्यन्तस्य कर्तव्यस्य बुद्धिस्थत्वेऽपि प्रत्या. सत्तिन्यायानमोवाकमिति विधेयानुसाराच मङ्गलस्यैव इदंपदेन विवक्षा । इदमिति च सामान्ये नपुंसकम् । नमोवाकमिति तु पुंलिङ्गम् । तथा च-शुक्किं रजतं जानाती- सादाविव विशेष्यनिम्नत्वाभावेन समानलिङ्गत्वाप्रसक्त्या न तद्वाधरूपदोषः। इदं नमो वाकमित्यत्र नमोवाकमित्यस्य विशेष्यवाचकत्वमभ्युपगम्य तद्विशेषणवाचकस्य इदंप. दस्य 'सामान्ये नपुंसकं'इति नपुंसकत्वाश्रयणे तु विशेष्यविशेषणवाचकपदयोः समान- लिङ्गत्वं बाधितव्यमित्यखारस्यम् । इदंपदप्रयोजनं च मृग्यं स्यात् । उकरीत्याश्रयणे तु मालतीमाधवादी अन्यादृशमङ्गलेच्छायामपि एतनाटककर्तव्यमङ्गलं पूर्वकविविषय. कनमोवाकमिच्छाम इत्यर्थलाभेन सप्रयोजनत्वम् , विशेष्यविशेषणवाचकयोः समान. लिङ्गबाधाभावश्चेति न दोष इति बोध्यम् । अत्र पूर्वेभ्यः कविभ्यो नमोवाकमिदं प्रशा- स्महे इति योजयित्वा पूर्वकविविषयकनमोवाकरूपमेतन्मालमिच्छाम इत्युद्देश्यभाव- विरहेण पक्षान्तरमपि । अत्रापि इदमिति सामान्ये क्लीवम् । नमोवाकमिति च पुंलिङ्ग- मेव । 'राज्यश्रीप्रथमावतारपदवीमारुह्य सिंहासनम्' इत्यादाविव विशेष्यनिघलामा- वेन समानलिङ्गकवप्रसके । अमात्यानुवर्तनपुरःसरराजदर्शनन्यायेन गुणकृतात्मस- स्कारः प्रधानोपकाराय महते प्रभवति । तत्र गुणोऽपि संस्कारमनुभवतीति न्यायेन, कविनमस्कारानन्तरं वाणी नमस्करोति-वन्देमहीति । एतेन अनुप्राहकवाणीनम. स्कारात्पूर्वमनुप्राधप्राचेतसादिनमस्कारायोग इत्यपास्तम् । 'भगवद्वन्दनं लायं गुरुव. न्दनपूर्वकम्' इति विधेश्च । 'मधुमयफणितीनां मार्गदर्शी महर्षिः' 'काव्यज्ञशिक्षया. भ्यासः' इति च प्राचेतसादीनां गुरुखानपायाच्च । तां प्रसिद्धां पूर्वोकनमस्कारार्हत्वेन बुद्धिस्थामिति वा । अमृतां शाश्वतीम् । 'यज्ञशेषसुधामोक्षेष्वमृतं शाश्वते त्रिषु' इत्यभि- धावात् । अत्र यज्ञशेषसुधामोक्षखरूपेति कश्चित् । तन्न । अमृतामिति स्त्रीलालाभात् । तलामेऽपि खरूपामित्यर्थालाभात्। आत्मनः परमात्मनः। त्रियःपत्युः कलामंशभूताम्। विप्रहाध्याये तथा प्रतिपादनात् हयप्रीवांशखाच । तदुकमाचार्यैः-'दाक्षिण्यरम्या गिरिशस्य मूर्तिदेवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तव शक्तिशः । इति । वाणी वन्देमहि च प्रणमाम च । वन्दतेलिङयुत्तमपुरुषबहु- वचनम् । पूर्वोकप्रशासनसमुच्चायकश्चकारः । अत्र पूर्वार्धे सर्वलोकनमस्कार्याः पूर्व- कालप्रसिद्धार प्रायः केचिद्वा इति सूध्यते । लोकनमस्कार्या इत्यनेन धूर्तवर्यक- भाण्यादिव्यावृत्तिः । पूर्वेयनेन कल्पितवर्ण्यकप्रकरणादिव्याः । भरतस्य च काप्यव. .

प्रथमोऽ:1 र्णनात् रामलक्ष्मणशत्रुनानां त्रयाणामेव कथांशोपयोगित्वेनात्र बहुवचनस्य कपिल. लाधिकरणन्यायेन त्रिलपर्यवसानमव्याहतम् । कविभ्य इत्यनेन यथा कविषु वाल्मीके- राद्यत्वेन प्राधान्यम् , अन्येषामानन्तर्यादप्राधान्यम्, एवं तत्सूचितवाना मध्ये रामचन्द्रस्य वर्णनायां ज्येष्ठत्वेन प्राधान्यं लक्ष्मणादेवाप्राधान्यमिति सूचितम् । एवं च नानेकनेतृत्वप्रयुक्तनाटकबहानिः । अतएव लक्ष्मणशत्रुनयोरुपसर्जनवावगमात् सीतापरित्यागे लक्ष्मणप्रेषणस्य, लवणवघार्थ शत्रुघ्नप्रेषणस्य च ध्वननात्प्रथमावार्थः सूच्यते । उत्तरार्धे प्राज्ञी काचन स्त्री वर्ण्यत इति सूचितम् । आत्मनः कलामित्यनेन तस्या देवतांशसंभवत्वं कस्यचिद्धर्मपत्नीत्वं च सूच्यते । अर्थो वा एष आत्मनो यत्पनी' इति पल्या अवयवस्वोपचारात् । कलाशब्दस्यावयववाचिसात् । अतएव नायकस्यापि देवतांशसंभवत्वं सूच्यते । देवतांशसंभूतत्रियं प्रति ताशस्यैव नायकस्यौचित्यात् । अमृतामिति मरणस्य प्रसक्तिपूर्वकप्रतिषेधाङ्गापतनसंभावितख सीतामरणस्य गङ्गा- पृथिवीभ्यां सह तदागमनेन भावनिश्चयरूपो द्वितीयाकप्रभृतिसप्तमाकान्तार्थः सूच्यते। नमस्कारसमुच्चयेन संमप्राधान्यावगमाच्छाकुन्तलादाविव नासाध्याया वयेवम् । अपि तु साध्याया एष वर्ण्यसमिति सूच्यत इति सुधियो विभावयन्तु ॥ अस्य श्लोकस्य योजनान्तरमपि-इदमित्यादि । 'इदंकविभ्यः' इत्येकं पदम् । 'नमः' 'वाकम्' इति च पदद्वयम् । एतेन द्वादशपदवसिया न नान्दीनियमहानिः । अयमर्थः-पूर्वेभ्यः प्राचीनेभ्य इदकविभ्योऽस्या बुद्धिस्थरामकथायाः कविभ्यः। रामकथासंबन्धिकविभ्य इत्यर्थः । वाल्मीकिवसिष्ठादिभ्य इति तदर्थः । कथाया बुद्धिस्थलात् 'पाप्मभ्यश्च पु. नाति वर्धयति च श्रेयांसि सेयं कथा' इत्युपसंहारे वक्ष्यमाणलाच इदंशब्देन परामर्श इत्युपपनम् । प्राथमिकथादर्शिखरूपमुपकारं ख्यापयितुं पूर्वेभ्य इत्युकम् । कथा- न्तरकविनमस्कारे प्रयोजनाभावात् इदंकविभ्य इत्युक्तम् । उच्यतेऽनेनेति वाकमुकि- साधनीभूतम् । कवेर्वश्ववाक्त्वेऽपि प्रारिप्सितप्रन्थसमाप्तौ कविनमस्कारस्य साधनत्वे तात्पर्यम् । करणे धम् । तस्य चोपदेशाप्रवृत्तावित्यत्रैव बाहुलकलम् । अन्यथा ल्युटा भाव्यम् । 'संज्ञायामिति च प्रायिकम्' इत्युक्तलान्न दोषः। यद्वा उच्यते यत्तद्वाकम् । कर्मणि घञ्। 'अकर्तरि च कारके-' इत्यनुशासनात् वाचिकं नमः प्रशामहे इच्छामः निर्दिशाम इति वा। तां पूर्वोपस्थिताम् । प्रवृत्तिनिमित्तविधयास्याः कविपदेनोपस्थितेः। अमृतामानुपाभित्याम् । शब्दस्य नित्यखपक्षे खरूपेण नित्यामित्यर्थः । यद्वा अमृतं मोक्षस्तदस्या अस्तीत्यमृताम् । मखर्थीयोऽप्रत्ययः । तेन स्त्रीत्वोपपत्तिः। प्रयोजकता- संबन्धेन मोक्षवतीमित्यर्थः । रामायणादिना मोक्षप्रयोजकत्वं च 'एकैकमक्षरं पुंसां महापातकनाशनम्' इति स्फुटम् । अत्र हेतुमाह-आत्मनः कलां परमात्मप्रतिपादक- विद्याम् । 'विद्यायां कालभेदे च मुक्ती शिल्पे कलेति च' इति वैजयन्ती। रामायणा- दिकाम् । परमात्मप्रतिपादकत्वं च 'वेदवेथे परे 'सि' इत्यादौ सष्टम् । रामायणा. ध्यात्मरामायणरूपां वन्देमहि प्रणमाम । 'विषयमालद्वयसंग्रहो विजयते' इति बाल- रामायणनाटके स्फुटम् । अस्यां योजनायां पूर्ववत्काव्यार्थसूचनं बोद्धव्यम् । केचि. तु-'इदम्' इति मिन्नपदम् 'नमः वा कं' इति च पदत्रयम्। कविभ्यः इदं नमःप्रथा- महे इत्यन्वयः । वाशब्दः समुन्वयार्थः । कमित्यस्य ब्रह्माणमित्यर्थः । एवं च वाणी उत्तररामचरिते . सरखती देवीं कं वा ब्रह्माणं च वन्देमहि च प्रणमाम च । क्रियाद्वयसमुच्चायकश्च - कारः । वन्दनक्रियानिरूपितकर्मद्वयसमुच्चायकस्तु वाशब्द:-इत्यादि, तन्न । व्यवहि- तान्वयात् । 'यत्राष्टभिर्वादशभिरष्टादशभिरेव वा । द्वाविंशत्या पदैर्वापि सा नान्दीति प्रकीर्तिता ॥' इत्यत्र चतुर्दशपदानुक्तेश्च । अन्ये तु-'पूर्ववदेव पदानि । इदं नमो वा पूर्वेभ्यः कविभ्या के प्रशास्महे । तां वाणीं वन्देमहि' इत्यन्वयमुक्त्वा 'इदं नमो वा पूर्वेभ्यः कविभ्यः अन्यं कं प्रशामहे । तामेव वाणी वन्देमहि । इतः प्राचीनं नमः पूर्वकविभ्यः । अन्यं प्रति न कृतमेव । इदं वा तदन्यं वा कं प्रति प्रशामहे इत्यर्थः' इति वदन्ति, तदपि न । प्रतीत्यध्याहारापत्तेः । नच 'शासिदुहिरुधि-' इत्यादिना द्विकर्मकत्वं माणवकं धर्म शास्तीतिवदिति वाच्यम् । तत्र 'शास अनुशिष्टौ' इत्य- स्यैव प्रहणाच । नच 'तदेवेदम्' इति वाच्यम् । तस्य परस्मैपदिलात् अर्थासंगतेः च. कारस्यावधारणार्थकलाश्रयक्लेशात् पदनियमासिद्धेश्च । यदप्युक्तम्-'पूर्वेभ्यः कविभ्यः इदं नमः इत्येकं वाक्यम् , अन्यं वा के प्रशास्महे इत्यपरं वाक्यम्, प्रशास्महे वाच- मिच्छाम इत्यर्थः' इति, तदपि मन्दम् । फवाक्यलसंभवे वाक्यमेदस्यान्याय्यखा. स्कवेर्वश्यवाक्त्वेन वागिच्छाया असंभवाच्च त्रयोदशपदखापत्तेश्च । यदपि चोकम्- 'इदंकविभ्यः इदानींतनकविभ्यः पूर्वेभ्यो वा पूर्वकविभ्यश्च नमः प्रणामं कं शिरसा प्रशास्महे । 'कं विरोम्बुनोः' इति मान्ताव्ययवात्तृतीयार्थलाभः' इति, तदपि न । पूर्वेभ्य इत्यत्र कविभ्य इत्यध्याहारापत्तेः कविभ्य इत्येतावन्मात्रोकौ उभयकविलामे निर्देशद्वयाश्रयणे प्रयोजनाभावात् । भाविकविद्वेष मूलाभावात् । त्रयोदशपदखाप- तेश्च । यचोकम्-'पूर्वेभ्यो नमः इदंकविभ्यः कं वा सुखं वा प्रशास्महे प्राचीनकविभ्यो नमः प्रशास्महे इदानींतनकविभ्यः सुखं प्रशास्महे' इति, तन्न । क्रमिकैकान्वयालाभात् पूर्वोकदोषाच । यत्तूकम्-'पूर्वेभ्यो वा पूर्वकविभ्य इव इदंकविभ्य इदानींतनक- विभ्यः नमः इत्येकं वाक्यम्, कं वा प्रशास्महे इत्यपरम्, सुखं इच्छामः इति तदर्थः इति, तन्न । विनध्वंसस्यैवापेक्षितत्वेन सुखप्रार्थनाया असांगत्यात् पूर्वदोषप्रसनाथ । केचित्तु-'पूर्वेभ्यः वैदिकेभ्यः कविभ्यः गजाननाय । 'गणानां खा गणपतिं हवा. महे' इति श्रुतेः । 'कवी शुक्रगजाननौ' इति, तन्न । बहुवचनखारस्यात् । पूजायां बहुलस्य गुरुपित्रादिवाचकशब्देभ्य एव दर्शनात् । किंचात्र: गजाननस्य प्राचेतसा. दिसाधारणकान्तदर्शिखरूपकवित्वेन कविपदादुपस्थितिर्न शक्या । सामान्यशब्दस्य विशेषव्यवस्थापकाभावाद पूर्वेभ्यः इत्यस्य च साधारणखा न तयवस्थापकम् । 'कवी शुक्रगजाननौ' इति कोशागजाननत्वेन तदुपस्थितिरपि न शक्या । पूर्वशब्द- वैयर्थ्यांपतः । नयापूर्वः कश्चिद्गजाननोऽस्ति येन तद्यावृत्त्या तत्सार्थक्यं स्यात् । 'सं. योगो विप्रयोगश्च साहचर्य विरोधिता' इत्यारभ्य 'शब्दार्थस्थानवच्छेदे विशेषे स्मृति- हेतवः' इत्युक्तरीत्या शुक्रादिव्यवच्छेदकखपूर्वकं गजाननोपस्थापकप्रकरणाधभावाच । नच वक्तुरपि संयोगादिप्रमाणेष्वन्यतमत्वेन परिगणनात् भवभूतेश्च मालतीमाधवे 'वैनायक्यधिरं वो बदनविधुतयः पान्तु' इत्युक्त्या विनायकभकलावगमात् अत्रापि तत्परत्वं युक्तमिति वाच्यम् । तस्य महावीरचरिते परित्यागात् । अत्र औचित्यरूपदु. बलप्रमाणमवष्टभ्य बहुवचनश्रुतेः पूजालाक्षणिकत्वस्यान्याय्यत्वाच । यत्तु तेनैवोक- .

प्रथमोऽका (नान्दन्ते) सूत्रधार:-अलमतिविस्तरेण । अद्य खलु भगवतः कालप्रिया- नाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि-एवमत्रभवन्तो विदाकुर्वन्तु । अस्ति खलु तत्रभवान्काश्यपः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूति म जतुकर्णीपुत्रः। म्-'अनुग्राहक-'इत्यादि, तत्तु अमात्यानुवर्तनपुरःसरराजदर्शनादिन्यायविरोधादु. पेक्ष्यम् । तेनैव 'कवीन्द्राः कल्पन्ते खयमपि विरिञ्चिप्रभृतयः' इत्यानन्दलहर्याद्युपष्ट- म्भेन चतुर्मुखपरलमुपक्षिप्य 'केतकीकुसुम-' इत्यादिना, 'या ब्रह्माच्युतशंकरप्रभृति. मिः' इत्यादिना च दूषितम् । तत्तुच्छम् । भवव्रतधरा ये च ये च तान्समनुव्रताः' इत्या. दिभागवतप्रामाण्येन गजाननस्य नमस्कारानहत्वशापदानात् । 'या ब्रह्माच्युतशंक- रप्रभृतिभिः सर्वैः सुरैः सेविता' इति ब्रह्मशंकरापेक्षया प्राधान्ये विनायकापेक्षया तस्य कैमुत्य सिद्धत्वाचेति प्रन्यगौरवभिया विरम्यत इत्यलम् ॥ १॥ नान्दीलक्षणं तु- 'यत्राष्टमिर्झदशभिः' इत्यादि दशरूपकादिषु स्फुटम् । नाटकलक्षणं च-'वीरथ. कारयोरेकः प्रधानं यत्र वर्ण्यते । प्रख्यातनायकोपेतं नाटकं तदुदाहृतम् ॥' इति । यद्यपि करुणरस एवामित्राटके प्रधानमिति सर्वजनीनं सूचितम् , मरणस्य प्रसक्किपूर्व- कप्रतिषेधो नाटकप्रतिपाद्य इति सूचयता नान्दीस्थामृतपदेन करुण एवास्मिन्नाटके प्रधान इति, तथापि वीरशृङ्गारौ प्रायिकी इत्युके न दोष इत्याहुः । पूर्वरङ्गलक्षणं तु- 'यमाव्यवस्तुनः पूर्व रङ्गाविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥' इति । प्रस्तावनालक्षणं तु-'सूत्रधारो नटी ब्रूते मारिषं वा विदूषकम् । खकार्य- प्रस्तुताक्षेपिचित्रोक्त्या प्रत्तदामुखम् ॥ प्रस्तावना वा तत्र स्यात्' इति । नान्द्यन्त इति । नान्द्याः पूर्वोकाया अन्ते समाप्तौ सूत्रधारः। प्रविश्याहेति शेषः। तदुक्तम्- 'पूर्वर विधायादौ सूत्रधारे विनिर्गते। प्रविश्य तद्वदपरः काव्यमासूत्रयेनटः ॥' इति ॥ प्ररोचनां प्रस्तोतुं सामाजिकावधानायाह-अद्य खलु भगवत इति । भगवतो ज्ञानशक्त्यादिगुणवतः कालप्रियानाथस्य कालप्रियानामाम्बिकाया नाथः शिवस्तस्य । इयं च कथा पौराणिकी वेदितव्या । यात्रायामत्सवे आर्याः पूज्या मिश्रा ज्ञानिनस्तथाविधान्विज्ञापयामि । एवं वक्ष्यमाणप्रकारेण अत्रभवन्तः पूज्या यूयम् । अत्रभवत्तत्रभवच्छदौ पूज्यार्थों' इत्युके। यद्वा अनास्मिनगरे भवन्तः। यूयमित्यर्थः । विदांकुर्वन्तु । 'विदांकुर्वन्त्वित्यन्यतरस्याम्' इति सूत्रानुशिष्टोऽयं शब्दः । यात्रायामिति काल उक्तः । अत्रेति देश उक्तः । 'निर्देशो देशकालयोः' इत्युक्तः । अस्ति खल्विति । काश्यपः कश्यपगोत्रोद्भवः । ऋष्यण्प्रत्ययः । 'पश्यकः कश्यपो भवति' इति सर्वज्ञतया श्रुतिप्रसिद्धकश्यपवंश्यः । श्रीकण्ठ इति पदं शब्दः लाञ्छनं यस्य स तथोकः । श्रीकण्ठनामक इत्यर्थः । 'द्वादशेऽहनि पिता नाम कुर्यात्' इति पैतृकं नामधेयमिदम् । पदवाक्यप्रमाणज्ञः । व्याकरणन्या- यमीमांसापरिझातेत्यर्थः । भवभूतिनाम भवभूतिरिति प्रसिद्धनामवान् । एतत्कृतः 'साम्बा पुनातु भवभूतिपवित्रमूर्तिः' इति श्लोकश्रवणसंतुष्टो राजा भवभूतिरियेनं - उचररामचरिते १ ये ब्रमाणमियं देवी वाग्वश्यवान्ववर्तत । उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥२॥ एषोऽस्मि कविवशादायोध्यकतदानींतनश्च संवृत्तः । (समन्तादवलोक्य ।) ख्यापयामासेति कथात्रानुसंघेया। एवमन्यत्रापि कवितानुसारेण तत्तनामधेयम् । यथा-रनखेटकः, कोटिसारः, इति । उदयरक्कं चन्द्रबिम्बं रतिपतिरनखेटकत्वेनो. लेक्षितवानित्यैतिलस्य, कामिनीस्तनमण्डलं प्रति 'कुलायलेन्द्रादपि कोटिसारः' इत्यु- सवानित्यतिलस्य च तन्मूलखात् । किंचास्सै कवये ईश्वर एव भिक्षुरूपेणागत्य भूति दत्तवानिति वदन्ति । एवं च भवाद्भगवतो भूतिर्यस्येति भवभूतिरित्यन्वर्थ इत्याहुः। यमिति । ब्रह्माणम् । यजनादिषट्रकसंनिरतमित्यर्थः । लाक्षणिकोऽयं मुख्यार्थपरत्वे प्रयोजनाभावात् । तथाविधं यं भवभूतिमियं देवताप्रसादादिना साध्यत्वेन प्रसिद्धा वाग्देवी वश्या सत्येव विधिप्रतिषेधार्हा सत्येवान्ववर्ततानुवर्तितवती । यद्वा ब्रह्माणं यमेव वश्या सत्यन्ववर्तत । नखन्यमित्यर्थः। पूर्वस्मिन्नर्थे वश्यैवान्ववर्तत नववश्यान्व- वर्तत । अलामेन कालिदासादिषु खयमवश्यैव कालिदासप्रभृत्यनुरोधेनागताया वाग्दे. व्या यदनुवर्तनं तवावर्तते। अत्र 'यं ब्रह्माणमियं देवी वाग्वश्येवान्ववर्तत' इति द्विती. यान्तब्रह्मशब्देन इवशब्देन च युक्तं पाठान्तरमपि क्वचिदृश्यते। तत्रायमर्थः-इयं. वाग्देवी यं भवभूति ब्रह्माणमिव खमार चतुर्मुखमिव वश्या...सत्यन्ववर्वतानुवर्ति- तवती । देवस्य श्री देवी । दीव्यति प्रकाशयति प्रकाशते इति वा देवी । देवद' इति टित्वात् डीए । यद्वा-यं देवी यादशभवभूतिविषयकेच्छावती सती इयं वाग्देवी ब्रह्माणं वश्येवान्ववर्तत । वश्यानुवर्तनाभिनयमानं खभर्तरि, भावबन्धस्तु भवभूता- वेवेति भावः । 'साविश्याः प्रथमं यमुज्वलगुणं वब्रे खयम्' इतिवत्खयंवर कृतपती- त्यर्थः । विवुधातोः 'कान्तिगतिषु' इत्युक्त इच्छायां वृत्तिः । दीव्यति कामयत इति देवीति कृदन्तदेवीपदयोगेऽपि तदर्हम्' इति ज्ञापकात् , 'धयैरामोदमुत्तमम्' इति. प्रयोगाच्च । कृद्योगषष्ठया अनित्यत्वात् षष्ठया अप्राप्त्या द्वितीया उत्तमपरिमलकर्मक- पानकर्तरि तदा षष्टीप्रसङ्गात् । परत्वत्र पाठे व्यवहितान्वयो दोष इत्याहुः। 'उत्तर रामचरितं यत्प्रणीतं प्रयोक्ष्यते' इति यच्छन्दपाठ इति मत्वा यं वाग्देव्यन्ववर्तत । यत्प्रणीतं प्रयोक्ष्यतेऽमिनेष्यते स भवभूति म कविः अस्तीति पूर्वेणान्वयः। यत्त. दोनित्यसंबन्धात्स इत्यस्य लाभः इति केचित् । परे तु तत्प्रणीतम्' इति तच्छन्द- युक्तमेव पाठमपष्टभ्य 'इयं वारदेवी यं भवभूतिमन्ववर्वत स भवभूतिनाम कविर- ति । तत्प्रणीतं उत्तर-रामचरितं प्रयोक्ष्यत इत्यन्वयम् अन्यथा विधेयस्य स्फुटप्रतीत्य- नापत्तेश्च इति वदन्ति । इयं प्ररोचना प्रस्तुता।तबुकम्-'निवेदनं प्रयोज्यस्य निर्देशो देशकालमोः। कविकाव्यनटादीनां प्रशंसा तु प्ररोचमा ॥' इति ॥ २॥ एषो- स्मीति । कविवशात्काव्यनुरोधेनायोध्यकः । अयोध्यासंबन्धिक इत्यर्थः । धन्य योपधागुम्' इति सूत्रेण धुम् तस्याकादेशश्च । तदानींतनश्व रामपचाभिषेकका- लीनच संवृत्तोऽस्मीति योजना । निष्पनोऽस्मीत्यर्थः । अयमाशयः यद्यपि भोज- राजमतरीत्या सूत्रधारनटीप्रभृतिभिः प्रकृतदेशकालावलम्बिनीं प्रस्तावनामुक्ला ।

प्रथमोऽ भो भोः, यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायं पट्टाभिषेकसमयो रात्रिंदिवमसंहृतनान्दीकः, तत्किमिदानी विश्रान्तचा- रचरणानि चत्वरस्थानानि । (प्रविश्य) नटः-भाव, प्रेषिता हि खगृहान्महाराजेन लकासमरसुहृदो महा- त्मानः प्लवनमराक्षसाः समाजमोपवायिना नानादिगन्तपावना ब्रम- पयो राजर्षयश्च, यत्समाराधनायैतावतो दिवसान्प्रमोद आसीत् । सूत्रधारः-आ, -आ, अस्त्येतन्निमित्तम् । सूत्रधारादीनिष्कास्य भूमिका प्रवेश्य प्रवर्तिष्यमाणकाव्याभिनयकथासूचकविष्कम्भो वक्तव्यः, तथापि सूत्रधारस्यैव काव्यकथाघटकदेशकालसंबन्धमनीकृत्य विष्कम्भव मेकथोपन्यासः सूत्रधारलापरित्यागाच प्रस्तावनालाहानिरिति कवेर्मतम् । तदनुसारे. णाहमायोध्यकः संवृत्तोऽस्मीति । अयोध्यासंबन्धित्वं च तस्मां कादाचित्कावस्थानरूप- म् । तेन वैदेशिकोऽस्मीति उपरितनप्रन्थेन न विरोधः। यदा तावदिति । भत्रम.. वतः पूज्यस्य पौलस्त्यकुलस्य रावणवंशस्य धूमकेतोरमिदमीक रुपातमहाविशेषस वा । महाराजचासौ रामख इति विमः तस्य । रात्रिंदिवमहर्निशम् । अचवर-' इति सूत्रे निपातितोऽयं शब्दः । असंहलवादीको प्रतिलिनमः। शेषाद्विभाषा' इति कए। हखप्रतिषेधः। अयं पट्टाभिषेकसमयः पट्टामिषेकमुहूर्तः यदा यस्मिन्काले। यद्वा समय आचारः पद्याभिषेकरूप आचारो यदा यस्मिन्काले।इदानीमसिन्काले पहाभिषेकसमये चखरस्थानान्यजणभागाः विश्रान्तमवसितं चाराणामधिकारिपुरुषाणां घरणं संचरणं येष तानि । विधान्ताधाराणामधिकारिपुरुषाणां चरणा अङ्गयो येष्विति वा । चारा निवृत्तव्यापाराः सन्तः चत्वरेषूपविश्य विश्राम्यन्तीति भावः । तत्किमिदानी पहाभिषे. ककाले चत्वरस्थानानि विश्रान्तचारचरणानीति यत् तत् किमिति योजना। यस्मिन्दि. बसे कलयातीर्थसेचनरूपपट्टाभिषेकक्रियाधिकरणमुहूर्तस्वदिवसात्पूर्वोकदिनानां तदुत्स. वकालस्वेन यथायमभिषेकसमय इत्युकिरविरुद्धा। सूक्ष्मकालं प्रति स्थूलकालस्थाधार- खात् । प्रासादखटापर्यकन्यायोऽत्रानुसंधेयः ॥ भाव, प्रेषिता इति । महात्मानो महाधैर्याः । समाजनं सपर्वामुपविष्ठन्ते प्रामुक्तीति प्रभजनोपवाधिनः । 'सुप्य- जातौ' इति णिनिः । इदं च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति । ब्रह्मर्षयो गौतम विश्वामित्रादयः, राजर्षयस्तु जनकप्रभृतयः । देवर्षीणां ऊर्ध्वदिग्गमनाभानादिगन्तेत्यु. क्तिः। यत्समाराधनाय येषां पूवामानां समाराधनाय पूजनायैतावतो दिवसाने तावत्सु दिवसेषु।अत्यन्तसंयोगे द्वितीया।प्रमोदः। चारगतागतहेतुभूतप्रहर्ष इत्यर्थः । यत्समाराधनाय प्रमोद भासीत्, ते प्रेषिता इत्यन्वयः । 'तत्समाराधनाय' इति तत्पदयुरूपाठे तु न विश्रान्तचारचरणत्वे हेतुरुको भवतीत्यत्राह-तत्समाराधना- येति । एवं चारचरणहेतुर्गत इति भावः। आ, अस्त्येतनिमित्तम् । बा इति सरणका- उत्तररामचरित नट:-अन्यच वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः । अरुन्धती पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥ ३ ॥ सूत्रधारः-वैदेशिकोऽसीति पृच्छामि । कः पुनर्जामाता । कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् । अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ ॥ ४ ॥ विभाण्डकमुतस्तामृष्यशृङ्ग उपयेमे । तेन द्वादशवार्षिकं सत्रमारब्धम् । तदनुरोधात्कठोरगर्भामपि जानकी विमुच्य गुरुजनस्तत्र यातः । बकम् । अतएव 'निपात एकाजनाइ' इति प्रगृह्यलात् आ अस्तीति संध्यभावः । 'वाक्यमरणयोरहित्' इत्याधुः। एतनिमित्तमस्ति । मया विस्मृतमिति भावः ॥ वसिष्ठाधिष्ठिता इति । अरुन्धती पुरस्कृत्य वसिष्ठाधिष्ठिता इत्यन्वयः । गुरुपनी- खप्रयुजप्राधान्यादन्यती मुख्यां कुखा वसिष्ठेन व्यापारिता इत्यर्थः । वसिष्ठः कर्तव्यं अरुन्धतीमुखमवलोकमानोऽनास्ति । ततो देव्योऽरुन्धत्या सह कर्तव्यमनुतिष्ठन्तीति भावः । जामातुरित्येतन्मध्यमणिन्यायेन यज्ञाश्रमाभ्यामन्वेति । यहे यज्ञनिमित्तम् । 'निमित्ताकर्मयोगे' इति सप्तमी। सतीसध्याहारेण यहे सति माश्रमे गता इति वार्थः ॥ ३॥ वैदेषिको विदेशो देशान्तरं तत्रभवो वैदेशिकः। अध्यात्मादिलाहम् । विषेशस्थस्यापि कदाचिदयोध्यास्थितिसंभवादित्याहुः ॥ कन्यामिति । व्यनीजनद. जनयत् । 'जनी प्रादुर्भावे' इति धातोणिच् । तां शान्तां रोमपादाय रोमपादनाने. ऽपत्यस कृतियापारो यस्याखयाविधाम् । शेषाद्विभाषा' इति कप् । कन्यां ददा- वित्युके कलत्रार्थमिति प्रतीतेस्तद्वारणायापत्यकृतिकामिति । ददौ दत्तवान् ॥ ४ ॥ तेन ऋष्यशोण । द्वादशवर्षाणि भविष्यतीति द्वादशवार्षिकम् । 'तमधीष्टो मृतो भूतों भावी' इत्यधिकृत्य विहितष्ठम् द्विगुः । 'वर्षाल्लुक च' इति पाक्षिको लुगभावः । अनुशतिकादिवादुमयत्र वृद्धिः। नतूत्तरपदवृद्धिमात्रम् । 'अभविष्यति' इति प्रति- षेधात् । न च द्वादशवर्षाणि भूतमित्यर्थोऽस्विति वाच्यम् , आरब्धमित्युक्तरसाहला- पत्तेः। तदनुरोधात्कठोरगीमपीत्यादिना कठोरगर्भेति नानीता सीतेत्युकतया सीता- याः गर्भिणीदशायामेतत्सत्रमारब्धमिति सष्टमवगम्यते । एवं द्वितीयाविष्कम्मे- 'समनन्तरं च गर्भकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीमध्यापितो' इत्युक्त्वा - प्रति परिसमाप्तं द्वादशवार्षिक सत्रम्' इति वक्ष्यमाणतया अत्रत्यद्वादशवार्षिकशब्दस द्वादशवर्षाणि भूतमिवांभ्युपगमेन तद्विरोधापत्तेरिति ध्येयम् । तदनुरोधात रणादेतो: कोपर्मा पूर्वसभाम् । कठोरशब्दः पूर्णवाची । तदुजमुमादिषु यार- भयं पूर्णतायामपि' इति । यात इति । 'अनाहूतोऽन्वरे गम्वति प्रथमोऽङ्कः। १३ सूत्रधार:-तत्किमनेन । एहि । राजद्वारमेव खजातिसमयेनो- पतिष्ठावः । नटा-तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धति भावः। सूत्रधार: -मारिष सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता । यथा स्त्रीणां तथा वाचां साधुले दुर्जनो जनः ॥ ५॥ नट:- -अतिदुर्जन इति वक्तव्यम् । देव्या अपि हि वैदेयाः सापवादो यतो जनः । रक्षोगृहस्थितिमूलममिशुद्धौ त्वनिश्चयः ॥६॥ विधेः, किं पुनायादिति भावः ॥ तत्किमिति । खजातिसमयेन खजातिमर्याद- या। उपतिष्ठावस्तोषयावः । रामस्य 'आत्मानं मानुषं मन्ये रामं दशरथात्मजम्' इति देवत्वाभावात् 'उपाद्देवपूजा-' इत्यादिना नात्मनेपदम् । तथा च खजात्यनु- गुणरूपं यत्स्तोत्रं तत् कुर्व इति बोधः ॥ तेनेति । स्तोतव्यमिति यत्तेनेत्यर्थः । सुपरिशुद्धां सुष्टु दोषरहिताम् । स्तुवन्त्यनेनेति स्तोग ग्रन्थः तस्य पद्धतिरानुपूर्वी । उपस्थानाय गुणिनिष्ठगुणाभिधानाय स्तोत्रपद्धतिमित्यर्थः । समासस्तु षड्यन्तस्येति बोध्यम् । निरूपयतूत्पादयतु। वदत्वित्यर्थः ॥ ननु यदुक्तं स्तुति निरूपयत्विति तदव, गच्छामि, सुपरिशुद्धामिति नाभ्युपगच्छामि, दोषरहितत्वरूपपरिशुद्धखस्य प्रयोजना- भावात् । स्तुतिवचनं तु कर्तव्यमेव स्वजातिनियतव्यापारखादित्याह-सर्वथेति । सर्वेण प्रकारेण सर्वथा व्यवहर्तव्यं व्यवहारः कर्तव्यः । भावे तव्यप्रत्ययः । व्यवहार शब्दः स्तुतिकरणरूपव्यापारपरः । अवचनीयता वचनीयं दोषस्तद्रहितता । सुपार- शुद्धतेत्यर्थः । कुतः किमर्थम् । यद्वा कुतः कस्मै । 'सार्वविभक्तिकस्तसिः' इति चतु- र्थ्यर्थे तसिः । अयमाशयः-दोषवत्तया वा दोषरहिततया वा गुणवत्तया वा स्तुति- करणरूपव्यापारः कर्तव्यः । तस्य खजातीयधर्मवात्त्वदुक्तसुपरिशुद्धतया तु किम् । तस्याः फलाभावादिति । ननु जनाभिनन्दनमेव तत्फलमस्तु, कुतः फलाभाव इत्य- त्राह-यथा स्त्रीणामित्यादिना । पूर्वपादस्थहिशब्दस्यात्र संबन्धः । हि यस्माजनः स्त्रीणां साधुत्वे दुर्जनस्तस्मादवचनीयता किमर्थेति पूर्वेण संबन्धः। जनः स्त्रीणां साधुत्वे यथा पातिव्रत्यविषय इव. वाचां साधुत्वे माधुर्यौजवल्यादिविषये दुर्जनो दोषदी। दोषदर्शित्वमेव हि दौर्जन्यमिति भावः । यथा त्रीणां साधुत्वे जनो दुर्जनस्तथा वाचां साधुत्वेऽपि जनो दुर्जनः, हि यस्मातस्मादवचनीयता किम. थेत्यर्थः ॥५॥ प्रकृतकथासंगतये यथा स्त्रीणामिति यथेति दृष्टान्त उक: तदुपजीव्य प्रकृतमवलम्बते-नटः-अतिदुर्जन इति वक्तव्यमिति । तत्र हेज- माह-देव्या इति । हि यत इत्यनयोर्यथाक्रमं पूर्वोत्तरार्धगोरन्वयः । हि यमाच्या २३०रा० ।

उत्तररामचरिते सूत्रधारः-यदि पुनरियं किंवदन्ती महाराज प्रति स्यन्देत सतः कष्टं स्यात् । नट:-सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति । (परिक्रम्य ।) भो भोः, केदानी महाराजः । (आकर्ण्य ।) एवं जनाः कथयन्ति- स्नेहात्सभोजयितुमेत्य दिनान्यमूनि नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् । देव्यास्ततो विमनसः परिसान्त्वनाय धर्मासनाद्विशति वासगृहं नरेन्द्रः ॥७॥ (इति निष्क्रान्तौ ।) इति प्रस्तावना। दीतिमत्ता अपि । खभावतो दोषप्रतिभटाया अपीत्यर्थः। वैदेह्या विदेहराजपुत्राः। संबन्धसामान्ये षष्ठी । जनः सापवादः । अपवादो दोषकथनं तेन सहित इत्यर्थः सथाच वैदेहीसंबन्ध्यपवादसहित इत्यर्थः । नित्यसापेक्षवात्समासः । तदुष्कर 'संवन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते' इति । यतश्च रक्षोगृहस्थितिः राक्षस- यूझवस्थानमात्रम् । नखन्यदिति भावः । मूलं दोषकथनहेतुः । अग्निशुद्धौ. अनिश्च- यतु निश्चयाभावश्च । तुशब्दश्वार्थकः । अत्र देव्या इति दोषाभाव उक्तः । रक्षोय. हस्थितिरित्यनेन असाधारणहेत्वभाव उक्तः । अग्निशुद्धावित्यनेन बाधकप्रमाणमा कम् । तथाच एतत्सर्वमपि नावलोकितमिति भावः । विषयप्रभावमविगणय्य ससतोऽपि दोषस्य कथनं सुतरां दुर्जनकार्यम् । तत्राप्यसाधारणहेतुमप्यदृष्टा विषयप्रभावमप्यविगणय्यासतोऽपि दोषस्य कथनं ततोऽप्यतिदुर्जनकार्यम् । तत्रापि बाधकप्रमाणमप्यविश्वस्यासाधारणकारणमप्यदृष्ट्वा विषयप्रभावमप्यविगणय्यास- तोऽपि दोषस्य कथनं ततोऽप्यतिदुर्जनकार्यमिति । अत्र हि यस्मात्सापवावः । गतश्च रक्षोगृहस्थितिमूलम् । अग्निशुद्धावनिश्चयश्च जनस्य । तस्माजनोऽतिदुर्जन. इति वक्तव्यमित्येवं पूर्वेणान्वयः ॥ ६ ॥ यदि पुनरिति । किंवदन्ती लोकपादः स्यन्देत प्रत्रवेत् । श्रवणविषयीभवेदिति यावत् । अनेन प्रथमात्रार्थः सब 'सर्वथा ऋषयः' इत्याधनेन शेषावार्थः सूचितः । एष ऋषिकर्तृकश्रेयोनिधा- नरूपतीजन्यासादुपक्षेपो नाम संध्यमुक्तम् । यथा-'पीजन्यास उपक्षेपः, इति ॥ भाकयेति । इदमाकाशभाषितमुच्यते । तदुक्तम्-'अप्रविष्टैः सहा- लापो भवेदाकाशभाषितम्' इति । नेहादिति । सभाजयितुं पूजमितम् । उत्सवेन हर्षजनकव्यापारेण । विमनसो दुःखितहृदयायाः परिसान्खनीय तह पमयनक्षममधुरवचनप्रयोगाय । 'तुमर्थाच' इति चतुर्थी । धर्मासनाद । क्षत्रिय- धर्मभूतराज्यपरिपालनार्य सिंहासनादित्यर्थः । वासराई खावासयहम् । विशति प्रति- .

प्रथमोऽङ्कः । (ततः प्रविशत्युपविष्टो रामः सीता च.।) रामः-देवि वैदिहि, विश्वसिहि । ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् । किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति । संकटा ह्याहितामीनां प्रत्यवायैर्गृहस्थता ॥ ८ ॥ सीता-जाणामि अजउत्त, जाणामि । किंदु संदावआरिणो बन्धु- जणविप्पओआ होन्ति । रामा-एवमेतत् । एते हि हृदयमर्मच्छिदः संसारभागाः । येभ्यो 'बीभत्समानाः संत्यज्य सर्वान्कामानरण्ये विश्राम्यन्ति मनीषिणः । (प्रविश्य ।) कञ्चकी-रामभद्र-(इत्यधोक्त साशङ्कम् ।) महाराज- रामः-(ससितम्।) आर्य, ननु रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य । तद्यथाभ्यस्तमभिधीयताम् । १. जानामि आर्यपुत्र, जानामि । किंतु संतापकारिणो बन्धुजनविप्र- योगा भवन्ति । शति ॥७॥ एवं प्रस्तावना प्रस्तुता । अथाङ्कः प्रस्तूयते-ततःप्रविशतीत्यादिना । अलक्षणं तु-'प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अको नानाप्रकारार्थसंविधा- नरसाश्रयः ॥ इति । विश्वसिहि संतोषं प्रामुहि । 'समाश्वसिहि' इति पाठान्तरम् । विहातुं त्यक्तुम् । किंत्विति । किंतु अनुष्ठानस्य नित्यनैमित्तिकादिकर्मकलापनिर्व- तनस्य नित्यत्वं नियतता । अनुष्ठानाभावविरहरूपनियम इत्यर्थः। खातन्यं खैरावस्था- नमपकर्षति न सहते । अपकर्षतीत्युक्त्यातिकामदपि स्वैरावस्थानं निरुन्ध इति लामेन, कदाचिदप्यजीकृतमपि खैरचरितं तदाननुष्ठितकर्मानुष्ठापनेन, तदनुष्ठानाभावप्रायश्चि- सावनपनेन च लभ्यते जनैरिति तदाशयः । तदाह-संकटा हीति । हि यस्मात् । आहितामीनां गृहस्थता गृहस्थाश्रमः प्रत्यवायैर्विहितानाचरणजन्यपातकैः संकटा नि- बिडा दुःखरूपावा।जाप्रसत्यवायेत्यर्थः॥८॥एवमिति येभ्य इति संसारभागेभ्यः। संसारेऽवश्यानुभाव्यभाग इत्यर्थः। संसारो हि शरीरसंबन्धानुबन्धिसुखदुःखसमुदायः। तमाच गुरुबन्दवियोगादीनां तदेकदेशत्वं संगतम् । बीभत्समाना जुगुप्समानाः। एतदोषानुबन्धाजनितचित्तवृत्तिनिवृतियुका इत्यर्थः । बीभत्साया जुगुप्सावस्थायिक- माविल्यं व्याख्यातम् । अतएव बीभत्समाना इत्यस्य 'जुगुप्साविराम-' इत्यादिना पदमी । जब बन्धने इलमात्खार्थे सनि रूपमिदम् । बिषेचित्तविकारे इति उत्तररामचस्तेि कचकी-देव, ऋष्यशृङ्गाश्रमादष्टावक्रः संप्राप्तः । सीता-अज्ज, तदो कि विलम्बीआदि। राम:-त्वरितं प्रवेशय । (कञ्चकी निष्क्रान्तः। प्रविश्य ।) अष्टावक्र:-खस्ति वाम् । रामः-भगवन् , अभिवादये । इत आस्यताम् । सीता-भैअवं, णमो दे । अवि कुसलं सजामातुअस्स गुरुअ- णस्स अज्जाए सन्ताए । रामः-निर्विघ्नः सोमपीथी भावुको मे भगवानृष्यशृङ्गः, आर्या च शान्ता। सीता-अम्हे वि सुमरेदि । अष्टावक्र:-(उपविश्य ।) अथ किम् । देवि, कुलगुरुभगवान्वसि- ठस्त्वामिदमाह- विश्वंभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते । - - १. आर्य, ततः किं विलम्ब्यते । * २. भगवन्, नमस्ते । अपि कुशलं सजामातृकस्स गुरुजनस्सार्यायाः शान्तायाश्च । ३. असानपि स्मरति । वार्तिकादस्य चित्तविकारे वृत्तिः। काम्यन्त इति कामाः । कर्मणि घञ् । गृह- क्षेत्रपुत्रादयस्तानित्यर्थः ॥ उपचारो व्यवहारः । यथाभ्यस्तमभ्यस्तमनतिक्रम्य । यथा- थत्वात्समासः। अभिधीयताम् ॥ अष्टावक्रस्तदाख्यः । अष्टौ वक्राण्यस्येति विग्रहः । योगरूढशब्दः । 'अष्टनः संज्ञायाम्' इति दीर्घः । हास्यरसानुप्रवेशार्थमष्टावक्रप्रवेशः। अवि कुसलं सजामातुअस्सेति । सजामातुअस्स सजामातृकस्य । 'प्रायो लु- कगचजतदपयवाम्' इति सूत्रेण ककारलोपः । तस्मिन्नवशिष्यकारस्येषत्स्पृष्टयकार- श्रुतिश्च प्राकृतव्याकरणसिद्धा.॥ निर्विन इति । सोमपीथी । सोमपा इत्यर्थका मा. शुकः पूज्यः । शान्तापतित्वादिति भावः ॥ विश्वभरेति । नन्दिति 'उनदि समृद्धौ' इत्यमा भावे घमि अत इनिठनौ इति इनिप्रत्ययः । एकामरा- प्रथमोऽ। तेमां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां कुलेषु सविता च गुर्खयं च ॥ ९ ॥ तत्किमन्यदाशास्महे । केवलं वीरप्रसवा भूयाः । रामः-अनुगृहीताः स्मः । स्कृतोऽजाताविति निषेधस्तु प्रायिकः । प्रह्यादिणिनिर्वा । नान्तलात् डीप् । नन्दिनि पुत्रि । संबोधनम् । इदं च 'अस्माकं तु जनकसुता दुहितैव' इति वक्ष्यमाणरीत्या दशरथमतानुसारेण भगवती पाहण्यपरिपूर्णा विश्वंभरा भूमिः। भूरित्याद्यनुक्ता विश्वंभ- रोक्तिः क्षान्तिप्रधानतासूचनाय । भवती पूज्यां वामसूत सूतवती । 'घूङ् प्राणिप्रसवे' लङ् । शपो लुक् । विश्वंभराशब्दस्तु 'संज्ञायां भृतृ-' इत्यादिना खच्प्रत्ययमुमागमाभ्यां निष्पन्नः । प्रजापतिना ब्रह्मणा समः । खाध्यायादिना ब्रह्मतुल्य इत्यर्थः । 'मान्धाता- रमपारसंसदि महद्भावे यशोराशिः' इत्युक्तरीत्या ब्रह्मवत् माहात्म्यशालीति वा। राजा । राजते दीप्यते इति । 'कनिन् युवृषितक्षि-' इत्यादिना कनिन्प्रत्ययः । प्रम- ज्ञानपरिपूर्णतया नैष्ठिकवनिरतिशयदीप्तियुक्त इत्यर्थः । इदं चौक मीमांसायाम् 'क्षत्रियत्वगतेश्च' इति सूत्रविषयवाक्यप्रकरणे जानश्रुतीनां क्षत्रियवृत्तान्ते स्पष्टम् । यद्वा ज्ञानभक्तिवैराग्यैरस्मदादीनपि रजयतीति राजा धातूनामनेकार्थवादिति । ज. नकः पूर्वोक्तप्रकारेण श्रुतिषु प्रसिद्धः । 'जनको ह वैदेहः', 'कर्मणैव हि संसिद्धिमा- स्थिता जनकादयः' इत्यादिषु प्रसिद्ध इत्यर्थः । ते पिता । येषां राज्ञां कुलेविति बहुत्वं पूजायाम् । उद्भूतावयवविवक्षया, कुलं ह्युत्पादकप्रबन्धः । सर्व जगत्सुवति कर्मानुष्ठाने प्रेरयतीति वा सविता सूर्यः । गुरुः पिता। वयमहम् । अस्मदो द्वयोश्च' इति एकरके बहु- वचनम् । 'सविशेषणस्य प्रतिषेधः' इति तु न विधेयविशेषणविषये । 'ततो नुवं प्रे- यान्वयमपि हताशाः प्रियतमाः' इत्यादिप्रयोगात् । 'यद्वा वसिष्ठाङ्गिरसौ ऋषी प्राचे- तसस्तथा' इति वक्ष्यमाणरीत्या वाल्मीकेः, जृम्भकास्त्रसंप्रदानेन विश्वामित्रस्य, वामदे- वादेश्व ग्रहणात् वयमिति बहुवचनम् । गुरुरित्यनुषकस्य वचनविपरिणामात् गुरवो हितोपदेष्टारः । गृणातीति गुरुः । 'कृमोरुच्च' इत्यौणादिकसूत्रेण निष्पनोऽयं शब्दः । 'गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तनिवर्तकः' इति निरुक्त्या अज्ञाननिवर्तक इत्यर्थः। गुरवः पितर इत्येव वार्थः । स हि विद्यातस्तं जनयति' इति स्मृतेः, 'पुत्रका इति होवाच' इत्यादि पुराणाञ्च । तेषां पार्थिवानाम् । 'सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुंधरा' इत्युक्तमुख्यपृथिवीपतिलधर्माणां वधूरसि ब्रुषासि ॥९॥ तदिति । तस्मात् अन्य- किं वक्ष्यमाणादितरत्किमाशास्महे । 'आङः शासु इच्छायाम्' इति धातोर्लट् । अयं भावः-तव गुणातिशयो नाशास्यः, तस्य 'विश्वंभरा भगवती' इत्युक्तमातृसंबन्धक्शादेव तत्सिद्धेः । नापि ज्ञानभक्तिवैराग्यादिकम् , तस्य ब्रह्मवित्तमजनकसंबन्धादेव तल्ला- भात् । न वा हितप्राहिखमैश्वर्यं भर्तृसंबन्धप्रयुक्तनिकर्षाभावश्च प्रार्थ्यः । तेषां सद्गु- रुसंबन्धशालिमहाराजमहाकुलप्रसूतराजकुलस्नुषालादेव सिद्धत्वात् । अत एतेषां ना. शास्यखम्, किंतु वीरप्रसववस्येति । एष ऋषिश्रेयोविधामभूतवसिष्ठानुप्रहरूपवीजस्ता बहूकरणात्परिकरः । तदुक्तम्-'बीजस्य बहूकरणं परिकरः' इति ॥ अनुगृहीता . - - लौकिकानां हि साधूनामथे वागनुवर्तते । ऋषीणां पुनसद्यानां वाचमर्थोऽनुवर्तते ॥ १० ॥ अष्टावक्र:-इदं च भगवत्यारुन्धत्या देवीमिः शान्तया च भूयो भूयः संदिष्टम् । यः कश्चिद्गर्भदौहृदोदयो भवत्यस्याः सोऽवश्यमचि- रान्मानयितव्य इति । प्य: MAHA: दोह रामः-क्रियते यद्येषा कथयति । THEta अष्टावक्र: -ननोन्दुः पत्या च देव्याः संदिष्टम् 'वत्से, कठोरग- भेंति नानीतासि । वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः । तत्पुत्र- पूर्णोत्सङ्गामायुष्मती द्रक्ष्यामः' इति । रामः-(सहर्षलज्जास्मितम् ।) तथास्तु । भगवता वसिष्ठेन न किंचि- दादिष्टोऽस्मि । अष्टावक्र:-श्रूयताम् । जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् । युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः ॥ ११ ॥ इति । एतन्मनुष्यानुग्रहरूपवीजाङ्गीकरणरूपं समाधानं नाम संध्यङ्गमुक्तम् । तदु. कम्-'बीजाङ्गीकरणं समाधानम्' इति । लौकिकानामिति । लौकिकानामित्य- तो व्यतिरेकनिर्देशाल्लोकान्यस्य वेदस्यैव झटित्युपस्थितेः ऋषीणामित्युक्तम् । ऋषीणां पुनः । तपखिनामित्यर्थः । वाचमर्थोऽनुवर्तते वागधीनोऽर्थो भवति । तपखिनामु- क्तिर्हि तपःप्रभावेनानासन्नमप्यर्थमुत्पादयतीति भावः। यद्वा 'ऋष गतौ' इत्यस्य बुद्ध्यर्थतात्कालत्रयवर्तिवस्तुसाक्षात्कर्तृत्वं ऋषिपदप्रवृत्तिनिमित्तम् । तथाच भाविन- मर्थ दृष्ट्वा ते वदन्ति । ततः खकाले प्राप्ते सोऽर्थस्तामनुसरतीति भावः । हि यस्मा- देवं तस्मादनुगृहीता वयमित्यन्वयः । एतत् ऋषिश्रेयोवितरणरूपबीजगुणवर्णनात् वि- लोभनं नाम संध्यङ्गमुक्तम् । यदुक्तम्-'बीजगुणवर्णनं विलोभनम्' इति ॥१०॥इदं चेत्यादि ।गर्भस्य दौ«दं लक्षणम् 'सकीचकैर्मारुतपूर्णरन्धेः'इतिवत् विशेष्यमात्रपरम् । अन्यथा दौहृदशब्दस्यैव गर्भचिह्नवाचिवात् । तच्च विशिष्टवस्तुविषयामिलाषादिरूप. म्। तस्योदय आविर्भावः। मानयितव्यः संभावयितव्यः । तथा संपादनेन सफलीकार्य इति भावः ॥ क्रियत इति। एषा कथयति यदि क्रियत इत्यन्वयः। ननान्दुरिति। ननान्दुः । शान्ताया इत्यर्थः । देव्या इत्यस्य पूर्वोत्तराभ्यां संबन्धः। तथाच देवी- संबन्धिननान्टपतिना देव्याः संदिष्टम् । देवी प्रति संदिष्टमित्यर्थः । पुत्रपूर्ण उत्सलो- ऽङ्को यस्या इति बहुव्रीहिः । यद्वात्र पूर्णपदेन यमाविल्यपि सूच्यते, अन्यथा पुत्रपदु- सज्ञामिति वक्तुं शक्यत्वात् । द्रक्ष्याम इति । एतत् बीजानुगुणप्रयोजनविभावमापा युक्तिर्नाम संध्यङ्गमुक्तं भवति । तदुक्तम्-'बीजानुगुणप्रयोजन विभावना पुर्या इति ॥ जामाविति । ऋष्यशृङ्गेति वक्तव्ये जामात्रियुक्तं पूज्यतास्फोरणाय। एवं च तदिङ्गितं शालवामाभिस्तत्रासितव्यम् । किं पुनसत्कृतबहुनिर्बन्धे सीवाना-- ।

रामः-यथा समादिशति भगवान्मत्रावरुणिः- प्रथमोऽ। स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ १२ ॥ ह-निरुद्धा इति । अनेन सर्वप्रकारेणापि नगरं प्रत्यागमने बरातिशयो वसिष्ठस्येति व्यज्यते । ननु कुत ईदृशत्वसतिशय इत्यत आह-त्वं बाल एवासीति । नतु रा- ज्यतत्रविचारोपमर्दाभिज्ञ इत्यर्थः। किंच दशरथजामातरं ऋष्यशृशं जामातेति निर्दिशन्वसिष्ठः खस्य दशरथस्थानीयतामभिप्रेति । तच रामबुद्ध्या खबुद्ध्या च । एवं चात्रस्यबालशब्दः पुत्रत्वाभिप्रायमूलकः । ततश्च ननु यद्यत्राचार्यकं प्रस्तुतं स्यात् इति तदागमने त्वरातिशय इति । न केवलमहमाचार्यः, किंतु त्वबुद्ध्या दशरथस्थानी. यश्च । तथाच खदीयराज्यतन्त्रविषयकास्थानानर्थशङ्का मामसंनिकृष्टं बाधत इत्याह- त्वं बाल एवासि । नत्वन्यादृशरघुकुलराजवत् शिष्य इत्यर्थः । तथाच। तव शिष्यमा- त्रत्वे पौरोहित्यादिकं वामदेवादयो निर्वयन्तीति तदर्थ नास्माकं बरा । किंतु तत्पु- त्रत्वात् त्वां युवराजीकृत्य महाराजस्थानीयेन मया राज्यतन्त्रो विचारयितव्यः । अन्यथा न मामतिशङ्का मुञ्चतीति भावः। नन्वस्त्वेवम् , तथापि युद्धादिषु लब्धवर्णस्य यौवराज्यस्य पालने सहापेक्षा नास्तीत्यत्राह-राज्यामिति । नवं च नवमेव । नतु युद्धादिवत् परिचितपूर्वमित्यर्थः । ननु तर्हि किं कर्तव्यमित्यत्राह-युक्त इति । युक्तः संनद्धः । 'योगः संनहन' इति कोशात् स्वस्मादात्मन आत्मीयाद्वा । परमं सर्वो- स्कृष्टं प्रसिद्धधनस्य क्षयित्वमिति, तद्यावृत्तिः परमशब्देन विवक्षिता । धनं लब्धांश- परिपालनालब्धांशार्जमाभ्यां धनतुल्यमित्यर्थः॥११॥यथेति। मैत्रावरुणिः मित्रावरु णयोरपत्यमित्यर्थे बाादित्वादिप्रत्ययः। 'देवताद्वन्द्वे च' इत्यानङ् । इयं च कथा पौरा- णिकी वेदितव्या। समादिशत्याज्ञापयति।तथा करोमीति शेषः। स्नेहमिति । स्नेहो हि सुखरूपः सुखान्तरहेतुश्च । किंच 'शरीरं वसु विज्ञानं मित्रार्थे संपरित्यजेत्' इत्युक्तरीत्या सर्वापेक्षया प्रशस्तश्च । अपिच 'अहेतुः पक्षपातो यस्तस्य नास्ति' इत्युक्तरीत्या दुनि- वत्यश्च । तथाच तत्परित्यागोऽपि मम न दुःखायेति भावः । स्नेहस्य व्यवस्थित विष- यस एव गुणवम् , अन्यथा तु दोषसमस्तीति निष्कर्षः। दया तु सर्व विषयापि गुणत्वं न मुश्चति । यथा 'सर्वभूतेषु सर्वत्र संतुष्ट्या येनकेनचित् । सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥' इत्युक्त्या धर्मरूपतया च । किंच परदुःखाधीनसत्तया तनि- वृत्तिं विना दुर्निवा । तामपि मुञ्चतो मम न व्यथेति भावः । एतेषां व्यतिरेकेऽप्या- त्मनो न व्यतिरेक इत्यस्यापकर्षः । सीता तु 'प्राणेभ्योऽपि गरीयसी' इत्युक्तरीत्या जीवितं प्रत्यपि प्रधानभूता । किंच 'अद्यावसितं रामस्य जीवितप्रयोजनम्' इति वक्ष्यमाणरीत्या मद्यतिरेक प्रयोजनव्यतिरेकवती । पूर्वोक्तस्नेहदयासौख्यैः संतुष्टोऽहं तामवलम्ब्य । तथाभूतामपि मुश्चतो मम न व्यथेति भावः। सीतामित्यनुक्त्या जान. कीमित्युकिर्लोकाराधनापेक्षया ब्रह्मवित्तमजनकानुरोधोऽप्यकिंचित्कर इति सूचयति। लोके हि अभिमतवस्तुपरित्यागात्पूर्वकाले तस्य संनिधानात् न दुःखभूयस्वम् । खागापरमपि तस्यातीतत्वात् । न दुःखभूयस्त्वम् । तत्परित्यागकाले तु भवति दुःख- Ox7 २० उत्तररामचरित सीता-अदो जेव्व राहवधुरंधरो अजउतो । रामः-कः कोऽत्र भोः । विश्राम्यतादष्टावकः । अष्टावक्र:-(उत्थाय परिक्रम्य च ।) अये, कुमारलक्ष्मणः प्राप्तः (इति निष्कान्तः।) (प्रविश्य) लक्ष्मण:-जयति जयत्यार्यः । आर्य, अर्जुनेन चित्रकरणास्मदुप- दिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखितम् । तत्पश्यत्वार्यः । रामः-जानासि वत्स, दुर्मनायमानां देवीं विनोदयितुम् । तत्कि- यानवधिः। लक्ष्मणः-यावदार्याया हुताशनशुद्धिः । रामः-शान्तं पापम् । (ससान्ववचनम् ।) उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः । तीर्थोदकं च वहिश्च नान्यतः शुद्धिमहतः ॥ १३ ॥ १. अत एव राघवधुरंधर आर्यपुत्रः । भूयस्त्वं तावद्वर्तमानत्वात् । मम तु वर्तमानकालेऽपि न दुःखमिति वर्तमानार्थकमु. श्चत इति पदतो लभ्यते । व्यथेति सामान्यशब्देन मनोव्याधिरपि नेत्यर्थः ॥ १२ ॥ राघवधुरंधरः। रघुवंशश्रेष्ठ इत्यर्थः। राघवपदोपादानं साभिप्रायकम्।शरणागतसंरक्ष. णभूतदयालोकाराधनकपररघुवंशजस्य तवेदमनुरूपमित्यभिप्रायः । विश्राम्यताद्विधर्म प्राप्नोतु । आशिषि परस्मैपदलोटस्तातङ् । 'विश्राम्यतम्' इति पाठे तु परिजनैरिति शेषः। विश्रमवान्क्रियतामित्यर्थः । णिजन्तात्कर्मणि लोट् ॥ अर्जुनेन तन्नाना । वीभ्यां चित्रमयश्रेण्याम् ॥ दुर्मनायमानां दुःखितमनस्काम् । जनकस्य खदेशान्प्रति गम- नादिति भावः। 'कर्तुः क्यङ् सलोपश्च' । डित्वादात्मनेपदम् । शानच् । विनोदवितुं दुःखविस्मरणपूर्वकं संतोषं ग्राहयितुम् । 'नुद प्रेरणे' । उपसर्गबलेन उतार्थलाभः । तत्कियानवधिः तदित्यव्ययम् । तस्येत्यर्थः । अवधिरन्तः कियान् । किंप्रमाणक इत्यर्थः । अनेकसंख्याकेषु मध्यापारेषु कीदृशसंख्यायुक्तोऽस्मद्व्यापारः अस्य चित्रस्था- वधिरित्यर्थः॥यावदिति । हुताशनेन शुद्धिरिति विग्रहः । यावच्छब्दोऽवधारणा- र्थकः । हुताशनशुद्धिर्यावत् । हुताशनशुद्धिरेवावधिरित्यर्थः । अवधिरिति पूर्वमादनु- पङ्गः ॥शान्तं पापमिति। योऽयमलीकोपन्यासस्तस्य पीडाहेतुभूतपापशान्तिको भवलिति तात्पर्यम् । लोकोक्तिरियमिष्टजनं प्रत्यनिष्टवचनाक्षमजनाशीर्वचनरूपा । ससान्ववचनम् । अत्यर्थमधुरवाक्सहितमित्यर्थः ॥ उत्पत्तीत्यादि । उत्पत्या परिपूतायाः परिशुद्धायाः। कृत्रिमत्वनिरासार्थमिदम् । खभावतो शेषप्रतिमाथा इत्यर्थः । अस्याः सीतायाः । पावयन्तीति पावनानि । नन्द्यादिलालप्रलया है - 1 . प्रथमोऽङ्कः। २१ सोत देवि देवयजनसंभवे, प्रसीद । एष ते जीवितावधिः प्रवादः । ४३, र अपना क्लिष्टो जनः किल जनैरनुरञ्जनीय- योभनी स्तन्नो यदुक्तमशुभं च न तत्क्षम तें। नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिन चरणैरवताडनानि ॥ १४ ॥ .. न्यानि पावनानि पावनान्तराणि । तैरित्यर्थः । किम् । न किमपीत्यर्थः । शुद्धिर्हि दोषनिर्हरणम् । अविद्यमानदोषायाः कथं शुद्धिरिति भावः। किंच अन्तरशब्देन दोष- रहितमात्रस्य पावकवस्त्वपेक्षा नास्ति । पावकस्य तु तन्नरपेक्ष्यं कैमुतिकम् । इयं च केवलं दोषरहिता न किंतु पावका चेति सूच्यते । 'अपि मां पावयेत्साची मात्वे- तीच्छति जाह्नवी' इति न्यायात् । उक्कमर्थमुत्तरार्धेन दर्शयति-तीर्थोदकमिति । गङ्गादिपावनजलम् । तीर्थशन्दो विशेषणमात्रपरः । यथाश्रुते तीर्थशब्दस्यैव परिशु- द्धोदकवाचिलात् । यद्वा तीर्थानां गुरूणामुदकं पादावनेजनाम्भः । 'आपः पादावने- जनीषिन्तं निर्दहन्तु में' इति श्रुतेः । वहिश्च अन्यतः शुद्धिमन्यहेतुकशुद्धिं नार्हतः। यथा पावकत्वाविशेषातीर्थोदकवयोरितरापेक्षा नास्ति तद्वदस्या अपि पावकलावि- शेषेण तदपेक्षा नास्तीत्यतिस्फुटम् । किंच विनिगमनाविरहात् वर्तेर्वा सीतासंबन्धतः शुद्धिः किं न स्यादित्याशयः । अमिप्रवेशानुमतिर्मूढप्रत्यायनार्था वा अभिप्राश. स्त्यार्थी वा ॥१३॥ जीवितावधिरिति । जीवितस्यावधिर्यस्येति बहुव्रीहिः । यदी. यावधिः जीवितावधिः । स इत्यर्थः। प्रसीद। 'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसा- दिनी' इत्युकरीत्या बहुतरापराधानां क्षिप्रंक्षमापकोऽयमजलिरपराधभूयस्वानुगुण्या- छरीरपातपर्यन्तमनुष्ठेयः। स चाशक्त्या तन्त्रेणानुष्ठीयत इति भावः । क्लिष्ट इति । यद्यस्मात्कारणाक्लिष्टो जनो दुःखितो जनो जनैरनुरञ्जनीयः। क्लेशं विस्मार्य लालनीय इत्यर्थः । नतु पूर्वानुभूतदुःखस्मारणेन क्लेशयितव्य इत्यर्थः । तत्तस्मात् । अशुभम- मङ्गलम् । 'अशिवम्' इति पाठान्तरम् । ते वद्विषये । शेषे षष्ठी। नः आवयोः। 'अस्मदो द्वयोश्च' इति द्वित्वे बहुवचनम् । यदुक्तम् । अस्मत्कर्तृकं यद्वचनमित्यर्थः । 'नपुंसके भावे क्तः' । 'यावदार्याया हुताशनशुद्धिः' इत्युक्तलक्ष्मणवचनमित्यर्थः । अत्र लक्ष्मणवचनस्य रामस्य खोकितैक्याभिसंधिना । 'रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः' इत्युक्तः। तत् । वचनमित्यनुषज्यते । नः। त्वदेकजीवितयोस्तव नि. र्दोषतां च जानतोरित्यर्थः । न क्षमं नोचितम् । अयं भावः-बन्धुत्वमित्रत्वानादरेण जनवरूपसामान्यधर्म एवानुरञ्जनीयानुरजकभावे पर्याप्तो हेतुः। तत्र 'प्रेयो मित्रं बन्धु. ता वा सममा सर्वे कामाः संपदो जीवितं वा। स्त्रीणां भर्ता धर्मदाराश्च पुंसाम्' इत्यु- करीत्या सर्वप्रकारप्रियतमायास्तव विषये तथाविधानां अस्माकं पूर्वानुभूतदुःखमा- रणमहापराधो नोचित एव। तत्राप्यलीकनिन्धतत्मारणं तु सुतराम् । किंच निर्दोषतां चजानतो राघवयोस्तत्कथनं तु दूरोत्सारितमिति । सुरभिणः कुसुमस्य सुगन्धप्रधानस्य पुष्पस मूभि स्थितिनैसर्गिकी निसर्गत एव । विनयादिखात्खार्थे ठक्प्रत्ययः । सिद्धा) .

२२ उत्तररामचरिते सीता-होर्दु अजउत्त, होदु । एहि । पेक्खा दाव दे चरितम् । (इत्युत्थाय परिकामति ।) लक्ष्मण:-इदं तदालेख्यम् । सीता-(निर्वर्ण्य ।) के ऐदे उवरिणिरन्तरहिदा उवत्थुवन्दि विष अज्जउत्तम् । लक्ष्मणः-देवि, एतानि तानि सरहस्यानि जम्भकास्त्राणि । यानि भगवतो मृशाश्वात्कौशिकमुपसंक्रान्तानि । तेन च ताटकावधे प्रसादी- कृतान्यार्यस्य । रामः-वन्दख देवि, दिव्यास्त्राणि । ब्रह्मादयो ब्रह्महिताय तत्वा परःसहस्रं शरदां तपांसि । एतान्यदर्शन्गुरवः पुराणाः खान्येव तेजांसि तपोमयानि ॥ १५ ॥ १. भवत्वार्यपुत्र, भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् । २. क एते उपरिनिरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् । प्रसिद्धा चेतनाचेतनसाधारण्येन प्रसिद्धा । चेतनैरवचूडरूपेणाचेतनैः शाखाने च धारणात् । चरणैरवताडनानि न । न दृष्टानीत्यर्थः । अयं भावः-त्रिविधानि ताव- कुसुमान्यवगन्तव्यानि। यानि कान्तिप्रधानानि, सौरभ्यप्रधानानि, उक्कोभयप्रधानानि चेति । तत्र कान्तिप्रधानानि शाल्मलीकुसुमादीनि, सौरभ्यप्रधानानि दमनकादीनि । उभयप्रधानानि मालतीप्रमृतीनि।तत्र सौरभ्यमात्रप्रधानस्यापि न चरणावताडनाई. त्वम्। तस्य घ्राणैकनिरन्तरानुभाव्यत्वात् । एवं नाद्यस्यापितस्य दर्शनकानुभाव्यत्वात् । उभयप्रधानस्य तु सुतरां न चरणावताडनाहत्वमिति । सुरभिणः कुसुमस्येति पदद्व- योपादानादित्थं व्याख्यातम् । अत्र 'न मुसलैः' इति केचित्पठन्ति । अत्र प्राज्ञस्य पू. जनीयस्य लक्ष्मणस्यैकस्य सकृत्किंचिद्वचनमुपमेयमुक्ता निहीनबहुतरचरणकरणकाना- मुपमानतावचनात् तादृशताडनजन्यं सुरभिकुसुमस्य यावदत्याहितं ताक्लक्ष्मण. वचनजन्यं सीताया अत्याहितमिति व्यज्यते ॥ १४ ॥ प्रेक्षामहे । पश्याम इत्यर्थः॥ आलेख्यं चित्रम् ॥ उपरि निरन्तरस्थिताः अविरलं स्थिताः। अनुपविष्टा इत्याशयः। तेषां दिव्यास्त्रत्वादुपरिस्थितियुक्तेत्युपरिलेखनम् । उपस्तुवन्ति स्तोत्रं कुर्वन्ति । सर- हस्यानि । प्रयोगप्रतिसंहारौपयिकमन्त्रादयो रहस्यानि । तत्सहितानीत्यर्थः । जृम्भका- खाणि । भृशाश्वात्तत्रानो मुनेः कौधिकं विश्वामित्रमुपसंक्रान्तानि प्राप्तानि । उपसं- क्रान्तानीति कर्तृप्रत्ययेन खयमेव तानि कौशिकं प्राप्तानीति लभ्यते। तथाच-'भृ- शाश्वः परःसहसपरिवत्सरान्तेवासिने कौशिकाय' इति वक्ष्यमाणं पर सहस्रपरिवत्स- रान्तेवासित्वं जुम्भकास्त्ररूपफलगुरुस्वमपेक्ष्यासत्कल्पमिति हृदयम् । वेन च विश्वामि- श्रेण प्रसादीकृतानि । प्रसादतकार्यऋम्भकास्त्रयोरमेदाध्यवसायादित्यमुत्कम् । केपल- प्रसादेन दत्तानीत्यर्थः॥ ब्रह्मादय इति। पुराणा ब्रह्मादयश्चतुर्मुखप्रभृतयः। गुरवस्तप- प्रथमोऽङ्कः। २३ - सीता णमो एदाणम् । रामः-सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति । सीता-अणुगहीदमि । लक्ष्मण:-एष मिथिलावृत्तान्तः। सीता-अह्महे, दलन्तणवणीलुप्पलसामलसिणिद्धमसिणसोहमाण- मसलेन देहसोहग्गेण विह्मअस्थिमिदताददीसन्तसोम्मसुन्दरसिरी अ- णादरत्थुडिदसंकरसरासणो सिहण्डमुद्धमुहमण्डलो अजउत्तो आ- लिहिदो। १. नम एतेभ्यः। २. अनुग्रहीतास्मि । ३. अहो, दैलन्नवनीलोत्पलश्यामलस्निग्धमणशोभमानमांसलेन देहसौ-1 भाग्येने विस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरीरभदिरत्रुटितशंकरशरासन: शिखण्डमुग्धमुखमण्डल आर्यपुत्र आलिखितः । उपदेष्टारः । तमोनिवर्तका इत्यर्थः । 'शरदस्तपांसि' इति वा पाठः। तपस्यन्तःकरण- नैर्मल्यापादनद्वारा भगवत्साक्षात्कारहेतुभूतकायशोषणव्रतानि । परःसहस्रम् । सहला- त्परा इत्यर्थः । 'कर्तृकरणे कृता बहुलम्' इति बहुलग्रहणात्समासः । सुप्सुपेति वा। परस्परादितत्वसहस्रशब्दस्य सुडागमः । सहस्रसंख्याधिकसंख्याका इत्यर्थः । 'विश- त्यायाः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यनुशासनादेकत्वात् । शरदः संवत्सरान् । अत्यन्तसंयोगे द्वितीया ।तथाच सहस्रसंख्याधिकसंवत्सरेषु निरन्तरं तहवेत्यर्थः । ब्रह्म परमात्मा, प्रधानं च तत्कार्यत्वाज्जगत् ब्रह्मशब्देनोच्यते । तदुक्तम्-'तादादुप- चारोस्ति क्वचित्खखामिभावतः । अङ्गाङ्गीभावतात्काद्वैपरीत्यादपीष्यते ॥ इति । तस्य हिताय तदपेक्षितेष्टानिष्टप्राप्तिपरिहारसाधनाय तपःफलभूतम्भकोपदेशेन राजभिर्विरोधिनिरसनेन जगतः पुरुषार्थसाधननिर्वर्तनसिद्धेरिति भावः । अथवा ब्रह्म वेदस्तस्य हिताय धारणाय । धारणार्थकधाञ्धातोर्नपुंसके भावे कः । 'दधातेहिः' इति हिभावश्च । अनुत्सादायेति भावः । तपोमयानि तपःखरूपाणि । खार्थिको मयट् । खानि खकीयानि तेजांसि एतान्यदर्शन्जृम्भकास्त्राण्यपश्यन् । कार्यकारण- निबन्धनमिदं सामानाधिकरण्यम् । 'दृशिर् प्रेक्षणे' इति धातोः लुङ् । तथाच-बहु- तरतपःकार्यभूतानामेतेषां केवलगुरुप्रसादसाध्यत्वम् । नतु शुभूषादिसाध्यत्वमिति भावः ॥ १५ ॥ खत्प्रसूर्ति खत्प्रसवम् । वत्पुत्रावित्यर्थः । द्विवागर्भप्रन्थिस्तदनुदि- वसैः' इति वक्ष्यमाणरीत्या यमलखवत्'प्रजाखमपि निर्णीतमिति सूच्यते । अन्यथा स्त्रीप्रजावे जम्भकाभ्यनुज्ञानमसंगतं स्यात् । उपस्थास्यन्ति प्राप्स्यन्ति । मामिव खो- ध्यन्तीति वार्थः ॥ अयह इति । दलितनीलोत्पलवच्छचामलं निग्धं च बाकवाक्य- २४ उत्तररामचरिते लक्ष्मणः-आर्ये, पश्य पश्य । संबन्धिनो वसिष्ठादीनेष तातस्तवार्चति गौतमश्च शतानन्दी जनकानां पुरोहितः ॥ १६ ॥ रामः-सुश्लिष्टमेतत् । जनकानां रघूणां च संबन्धः कस्य न प्रियः । यत्र दाता ग्रहीता च खयं कुशिकनन्दनः ॥१७॥ เวลา : . । युक्तम् । मांसलं स्फीतं तेन । तथाविधेनेत्यर्थः । विशेषणसमासः। देहसौभाग्येन देह- सौन्दर्येण । विस्मिता आश्चर्ययुक्ताः । अतएव स्तिमिता निश्चलास्तातास्तदृश्यमाना सौम्या आह्लादकरी सुन्दरश्रीर्यस्य स तथोक्तः । प्राकृते आत्मनेपदाभावादीसन्ते. त्युक्तिः । त्रुटितं भमं शरासनं येन स तथोक्तः ॥ संबन्धिन इति । जनकानां जनकापत्यभूतानाम् । लाक्षणिकोऽयं शब्दः । पुरोहितो गौतमो गौतमपुत्रः । 'ऋष्य- न्धकवृष्णिकुरुभ्यश्च' इत्यणप्रत्ययः । शतानन्दस्तन्नामा । तथाच-एष तव तातो वसिष्टादीन्संबन्धिनोऽर्चति पूजयति । जनकानां पुरोहितो गौतमः शतानन्दश्चार्च- तीत्यनुषङ्गः । यथाक्रमं तव तातो जनकः संबन्धिनो दशरथप्रभृतीनचयति । जन- कानां पुरोहितो गौतमः शतानन्दश्च वसिष्ठादीनर्चयति चेत्यन्वयः ॥ १६ ॥ सुश्लि- टमिति । हेमारविन्दपरिमलन्यायादिति भावः । जनकानामिति । जनकानां जनकवंशोद्भवानां रघूणां रघुवंशोद्भवानां च । लाक्षणिकोऽयं शब्दः। संबन्धो- उपत्यसंबन्धः कस्य न प्रियः। सर्वस्यापि प्रिय इत्यर्थः । यत्र संबन्धे कुशिकनन्दनो विश्वामित्रः खयं दाता खयं प्रतिग्रहीता च । दशरथं प्रति दाता, जनकं प्रति प्रति- प्रहीता चेत्यर्थः। अयं भावः-तव मम च परिणयरूपोऽयं संबन्धो जनकदशरथयो. रावयोर्जनानां च मध्ये कस्यचिदपि नाप्रियः । तथाहि-जनकानां रघूणामित्यनेन रघुवंश्याजनकवंश्यांश्च प्रति नाप्रियत्वमिति लभ्यते । अत्र निमीनामित्यनुक्ला जन. कानामिति पदोपादानेन 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इति जनके प्रसिद्ध कर्मयोगशीलत्वमिह स्फार्यते। एवं काकुत्स्थानामित्यनुक्खा रघूणामित्युक्त्या 'श्रुतस्य न्यायादयमन्तमर्कस्तथा परेषां युधि चेति पार्थिवः' इत्यादिकालिदासनिरुक्त्या 'ल. विबंडोनलोपश्च' इत्यनुशासनेन च लब्धया लङ्घते जानाति सर्वमिति व्युत्पत्त्या 'मनुरिक्ष्वाकवेऽब्रवीत्' इत्यैक्ष्वाकवं रघुकुलासाधारणज्ञानयोगशीलत्वं सूच्यते । तथाचान्यादृशजनकविषये जातोऽपत्यसंबन्धः संबन्धिनामित्यभिमतो भवति। तत्र क्षीरशकरावदन्योन्यसंपर्करमणीयज्ञानकर्मशीलजनकविषयत्वे तु तस्य हेमारबिन्द- परिमलन्यायेनातिलाध्यत्वमिति तान्प्रत्यप्रियखव्यावृत्तिः । अतएव चावां प्रत्यपि नाप्रियत्वं यत्र दातेत्यादिनापि जनकदशरथौ प्रत्यप्रियत्वं व्यावय॑ते । तत्र दशरथ प्रत्ययाचितोपनतलाजनकं प्रति दुष्करधनुर्भङ्गप्रतिज्ञानिवर्तनरूपमहोपकारकरणाच गुर्वनुज्ञाप्राप्तवान्महर्षिकारितत्वाच नावां प्रत्यप्रियत्वम् । खयमित्यनेमानहारिसूल- कत्रिशङ्खयाजनहरिश्चन्द्रोपप्लवव्यावृत्तिः। अतएव जनान्प्रत्यप्रियत्वं निरस्तम् । शि.

Ianwr प्रथमोऽङ्कः। २५ -- वा रामाका नी/सामानामा " सीता-एदें क्खु तकालकिदगोदाणमजला चत्तारो भादरो । वि- आहदिक्खिदा तुले । अझो जाणामि तस्सि जेव्व पदेशे तस्सि जेव्व काले वत्तामि। रामः- समयः स वर्तत इवैष यत्र मां समनन्दयत्सुमुखि गौतमार्पितः। अयमागृहीतकमनीयकङ्कण- स्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥ लक्ष्मणः-इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रु- तकीर्तिः। सीता-वच्छ, इअं वि अवरा का । १. एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरः । विवाहदीक्षिता यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते 1108 २. वत्स, इयमप्यपरा का। ष्टानुमतस्य धर्मत्वे शिष्टकारिते तस्य कैमुतिकसिद्धत्वात् । तथा चापस्तम्बस्मृतिः 'यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः' इति । ब्रह्मर्षिविश्वामित्र इत्याद्यनुक्खा कु- शिकनन्दन इति पदोपादानं विश्वामित्रः खब्रह्मर्षित्वमविगणय्य भूतपूर्वगत्या क्षत्रियत्वं स्वीकृत्य बन्धुभावेनास्मत्संबन्धिभावेनास्ति असति संबन्धे ब्रह्मर्षिकृत्यानीति व्यजयति ॥१७॥ एदे क्खु इति । गोदानमङ्गलं क्षौरकर्म तस्य मङ्गलार्थत्वान्मङ्गलत्वम् । विवा- हेन दीक्षिता विवाहदीक्षिता इति । विवाहहेतुकव्रतवन्त इत्यर्थः । 'दीक्ष मौख्येज्योप- नयनव्रतादेशेषु' इति दीक्षधातोः कर्तरि क्तः। तस्मिन्नेव प्रदेश इति प्रत्यभिज्ञादा Tw- मिति ॥समय इति। यत्र समये गौतमार्पितः पुरोधसा शतानन्देन प्रतिपादित आगृ. हीतकमनीयकरणः समन्तागृहीतकमनीयवलयः, तथापि मूर्तिमान् महोत्सव इव स्थि- तः समनन्दयत् , स एष समयो वर्तत इव ।स्मृतिवैशसमिदम् । अत्र सुमुखि 'आगृहीत- कमनीयकरणः' इत्युक्त्या सिद्धसाध्यसमभिव्याहारन्यायेनागृहीतकमनीयकङ्कणत्वं प्र- ति सीताया वदनकमलसौन्दर्यातिशयो हेतुरित्यवगम्यते । अन्यथा 'पाणिं गृह्णीष्व पा- णिना' इत्युक्तपाणिपीडनस्य प्रकोष्ठवर्तिमणिवलयग्रहणासंगतेः । तथाच-सीतामुख- चन्द्रदर्शनानन्दपारवश्येन सम्यक्करग्रहणाभावात्संवृत्तः। तथात्व शव स पाणिर्मूर्तिमा- महोत्सव इव स्थितः । सम्यक्स्पर्शे तु निःसीमानन्दकर इति व्यज्यते । आगृहीताः सम्यग्गृहीताः शृङ्गारमूलकसात्विकभावविशेषरूपत्वेन स्पृहणीयाः कङ्कणाः स्वेदजल- बिन्दयो यस्मिन्स तथोक इत्यप्याहुः । आगृहीतवैवाहिकप्रतिसर इत्यपि केचित् ॥१८॥इयमार्या माण्डवीति भरतमार्यालात्, इयमपि वधूरिति शत्रुघ्नभार्या- ३उ०रा० - २६ उत्तररामचरिते लक्ष्मणः-(सलमास्मितम् । अपवार्य) अये, अमिलां पृच्छत्यार्या । मवतु । अन्यतः संचारयामि । (प्रकाशम् ।) आर्य, दृश्यतां द्रष्टव्यमेतत् । अयं च भगवान्भार्गवः । सीता-(ससंभ्रमम् ।) कम्पिदसि । रामः-ऋषे, नमस्ते । लक्ष्मण:-आर्ये, पश्य । अयमार्येण-(इत्योंके।) रामः-(साक्षेपम् ।) अयि, बहुतरं द्रष्टव्यम् । अन्यतो दर्शय । सीताः-(सस्नेहबहुमानं निर्वर्ण्य ।) सुष्टु सोहसि अजउत्त, एदिणा विणअमाहप्पेण । .लक्ष्मणः-एते वयमयोध्यां प्राप्ताः। राम:-(सास्रम् ।) स्मरामि हन्त स्मरामि । जीवत्सु तातपादेषु नूतने दारसंग्रहे । भ्रातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९ ॥ १. कम्पितास्मि । २. सुष्टु शोभसे आर्यपुत्र, एतेन विनयमाहात्म्येन । खात् मुषात्वेन प्रहणम् ॥ अयमिति । भार्गवः परशुरामः ॥ कम्पितास्मि । येनेति शेषः ॥ अयमार्येणेत्यादि । अत्र वैष्णवं धनुरारोपयित्वा समाकृष्टतेजस्क इति वक्तुमुधुप्तवान् लक्ष्मणः, तावदात्मप्रशंसामसहमानो रामः प्रतिषिद्धवानित्याशयः॥ साक्षेपं सप्रतिषेधम् । 'क्षिपु निरसने' इत्यस्मात् भावे घञ्प्रत्ययः। अन्यतो दर्शय । अन्यत्र लिखितं दर्शयेति भावः ॥ विनयमाहात्म्येन विनयस्य स्वोत्कर्षतानाविष्करण- रूपस्य खस्मिन्निकर्षानुसंधानरूपस्य वा माहात्म्यं भूयसा तेनेत्यर्थः । एते क्यमयोध्या प्राप्ताः । तथालिखिता इत्यर्थः ॥ जीवत्स्विति । तातपादेषु । पितरीत्यर्थः । पूजायां पादशब्दो बहुवचने। 'उत्तमानां स्वरूपं तु पादशब्देन भण्यते' इति । जीवरसु सप्राणेषु । 'यस्य च भावेन----'इति सप्तमी । दारसंग्रहे नूतने सति मातृभिश्चिन्यमा- नानां नस्ते दिवसा गता इत्यन्वयः । गता दिवसास्ते हीति स्मरणाकार प्रदर्शन वा । अबन्धोरपि रक्षकस्य जीवनमानन्दाय । सर्वविधसंरक्षणशीलस्य पितुनावनं निरवधिकाहादजनकम् । किं च दाराणां सततपरिचयेऽपि प्रियकवेषलम् , नूतन- संग्रहे तु अमन्दानन्दहेतुलम् । स्वरूपसत्यैव माता निरतिशयसौख्यकारिणी । तत्रापि सा लोकप्रसिद्धसर्वविधसंरक्षणानि कृत्वा ततोऽप्यधिकानि चिन्तयति चेत् निःसीमान. न्दलामः । एवमपरिच्छिन्नानन्दकन्दलहेतुत्वादिवसानों तच्छन्देन निर्देश मातृभिरिति न यथा खसंबन्धः सर्वासां रामसर्व विषयहितचिन्तावत्यम् । सो मानाभावात् । कैकेय्याः क्रौर्योपाधिकम् । एवं वेदप्यतिशयितानन्दहेतः सपनीमार प्रथमोऽङ्कः। out of coursele इयमपि तदा जानकी पतनविरलैः प्रान्तोन्मीलन्मनोहरकुमलै. र्दशनकुसुमैर्मुग्धालोकं शिशुर्दधती मुखम् । कलितललितैयॊत्सापावरकृत्रिमविनमै- रकृत मधुरैरङ्गानां मे कुतूहलमङ्गकैः ॥ २०॥ प्रयुक्तोपप्लवस्य सगरादिषु प्रसिद्धत्वेन तदभावस्याभिमतवात् । तातपादजीवनादीनां मध्य एकैकमेवानन्दहेतुः। समुदितानि तु सुतरामिति भावः ॥१९॥ 'नूतने दारसंग्रहे' इत्युक्तं विशिनष्टि-इयमपि तदेत्यादिना । पतनेति । शिशुः शैशवान्तवती । शिशुप्रायेत्यर्थः । 'पतिसंयोगसुलभं वयो दृष्ट्वा च मे पिता' इत्युक्तेः । पतनेन प्रस्थि- तदशनपतनेन । प्रान्तोन्मीलदित्युक्तः । विरलैः सान्तरालैः । प्रान्तेत्याद्यत्र उन्मील- च्छब्दः प्ररोहहन्तपरः। दशनकुसुमैरिति रूपकसाहचर्यात् । तथा च उन्मीलदेव उद्यनूतनदशनाङ्कुर एव मनोहरकुमलमुन्मीलन्मनोहरकुड्यलं प्रान्ते उन्मीलन्मनो. हरकुङ्मलं येषामिति बहुव्रीहिः । यद्वा कुड्बलशब्दो मुकुलसदृशदशनपरः। प्रान्तो- न्मीलन्ति मनोहरकुडमलानि येषामित्यर्थः । रूपकातिशयोकिरलंकारः। दशनकुसु- मैरिति तु रूपकमुपमा वेति संकर इत्यपि वदन्ति । दशना एव कुसुमानि तैर्धावल्य. शिखरिलादिसादृश्याद्रूपणम् । उपमा वा हेतुभिः । मुग्धः सुन्दर आलोको यस्य तत्त- शोकम् । यद्वा दशनकुसुमैरिति इत्थंभूतलक्षणे तृतीया। दशनकुसुमैरुपलक्षितमि- त्यर्थः । मुग्धालोकं सुन्दरकटाक्षं मुखं दधती इयं सीता ललितादपि कुसुमादपि ल. लितैः सुकुमारैः । यज्ञ ललितं नाम हासाद्यन्यतमविशेषः । तदुक्तम्-'सुकुमाराङ्ग- विन्यासो ललितं परिकीर्तितम्' इति । तेन ललितैः । विलसितैरित्यर्थः । 'लड विलासे' कर्तरि कः । लडयोरेकत्वम् । ज्योत्स्नाप्रायैर्योत्स्नासदृशैः । यद्वा ज्योत्स्ना कान्तिः। लावण्य मिति यावत् । तत्प्रायैः । तत्प्रचुरैरित्यर्थः । प्रायशब्दः प्रचुरवाची। जलप्रायो देश इतिवत् । लावण्यस्वरूपं तु 'भूयिष्ठं तेज एवाद्भिर्बहुलाभिम॒दूकृतम् । चक्षुरान- न्दजननं लावण्य मिति कथ्यते ॥' इति । अकृत्रिमाः खाभाविका विभ्रमा विलासा येषां तानि । तैरित्यर्थः । विभ्रमशब्दो गोबलीवर्दन्यायेन माधुर्यललितान्यपरः। यद्वा 'विश्रमस्त्वरयाकालभूषास्थान' इत्युक्तविभ्रमपरः । सोऽकृत्रिमो येषु तथोकैरित्यर्थः । मधुरैः । प्रियरित्यर्थः । 'अभूषणेऽपि रम्यत्वं माधुर्यमिति कथ्यते' इत्युकमाधुर्ययु. कैरित्यर्थः । अनुकम्पितैरभैरग कैः । 'अनुकम्पायाम्' इति कन्प्रत्ययः। अतिसुकुमार- तया माढालिङ्गनादिषु दयनीयरित्यर्थः । तदाह कालिदासः--'सदयं सुन्दरि गृह्यते रसोऽस', 'पीतं मया सदयमेक रतोत्सवेषु' इति । उद्दण्डकविश्च 'इमां काढेऽहमारभ्य उरसि सदयम्' इति । यद्वा अल्पैरजैरङ्गकैः। 'अल्पे' इति सूत्रेण कन्प्रत्ययः । अस्पत्वं चेह सनुसमभिप्रेतम् । तदुकम्-'स्वभावतनुका नूनम्' इति । अनेन 'सुश्लिष्टसंधि- बन्यत्वं सौन्दर्यमिति कथ्यते' इत्युकसौन्दर्यमप्युक्तं भवति । तेन विना तनुलस्य दोषलाद । मेजानां कुतुहलमकृत कृतवती । 'कम् करणे' सिचो लोपः । कर्म ।

सच सातुनः रातो उत्तररामचरिते सुना M लक्ष्मणः-एष मन्थरावृत्तान्तः । रामः-(सत्वरमन्यतो दर्शयन् ।) देवि वैदेहि, इमुदीपादपः सोऽयं शृङ्गिवेरपुरे पुरा । निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥ २१ ॥ लक्ष्मणः-(विहस्य । खगतम् ।) अये, मध्यमाम्बावृत्तान्तमन्तरित- मार्येण । जो सीता-असो, एसो जडासंजमणवुत्तन्तो । लक्ष्मण:- पुत्रसंक्रान्तलक्ष्मीकैयदृढेक्ष्वाकुभिधृतम् । हा धूतं बाल्ये तदार्येण पुण्यमारण्यकवतुम् ॥ २२ ॥ 'सीता-ऐसा पसण्णपुण्णसलिला भअवदी भाईरही। रामः-रघुकुलदेवते, नमस्ते । १. अहो, एष जटासंयमनवृत्तान्तः । २. एषा प्रसन्नपुण्यसलिला भगवती भागीरथी । भिप्राय आत्मनेपदेन रामाजकुतूहलकरणफलं सीताया इत्यवगम्यते । 'अद्वैतं सुखदुः- खयोः' इति वक्ष्यमाणत्वात् । केचित्तु 'अम्बानाम्' इति पाठ इत्याहुः ॥२०॥ मन्थ- रावृत्तान्तस्तत्प्रयत्नफलपट्टाभिषेकान्त रायरूपः ॥ इङ्गुदीति । स्निग्धेन स्नेहवता. निषा- दपतिना गुहेन समागमः संबन्धः ॥२१॥ मध्यमाम्बावृत्तान्तमिति क्लीबत्वं प्रामादि. कम् । अन्तशब्दं त्यक्त्वा मध्यमाम्बावृत्तमन्तर्हितमिति पठनीयमित्याहुः ॥ जटासं. यमनं जटाबन्धनम् ॥ पुत्रेति । पुत्रेषु संक्रान्ता वयमेवाश्रयशैथिल्यादागता । खतः संक्रान्तेत्यर्थः । 'गत्यर्थी दिसूत्रेण कर्तरि कः । तथाविधा लक्ष्मीर्येषां ते तथोक्तास्तैः। उरःप्रभृतित्वात्कए । वृद्धाश्च ते इक्ष्वाकवश्चेति विग्रहः । इक्ष्वाकुवंश्या इयर्थः । तैर्य द्रतं धृतं तत्पुण्यं व्रतमार्येण बाल्ये धृतमिति योजना । आरण्यकानां व्रतम् । अरण्यचरमनुष्यसंबन्धि व्रतमित्यर्थः । अत्र पुत्रसंक्रान्तलक्ष्मीकैरित्यनेन पुत्रवत्वमु- पभुकराज्यलम् , संक्रान्तेति क्तप्रत्ययेन यावच्छरीरशैथिल्यमुपभुक्तराज्यक्त्वम् , वृद्धत्यनेन वार्धकं चावगम्यते । एवं चैतेषां समुदितानां सत्त्व एव पूर्वेषामारण्यक- व्रतधारणं न तु यत्किंचित्सत्वे ।रामस्य तु एतेषां सर्वेषामभावेऽप्यारण्यकव्रतधारणम्। बाल्ये इत्यनेन पुत्रवत्त्वोपभुक्तराज्यकत्लशरीरशैथिल्यवार्धकाभावानां लाभात् । अतमित्यनेन असमजादिव्यावृत्तिः। व्रतस्य पुण्यलाव्यभिचारात् पुण्यमिति विशेषणं प्रसिद्धव्यावृत्त्यर्थम् । तद्धि अनुष्टातुरेव पुण्यफलसाधनम् । इदं तु सकलभुषनामी. साधनामिति । आर्येणेसनेनासामर्थ्यनिबन्धनलोकवादभीत्यादिना न कृतम् । किंतु क Add प्रथमोऽङ्कः। २९ अपने 7th And Bharat Blundio Puloj cousa तुरंगविचयव्यग्रानुवर्तीभिदः सुगराध्वरे कपिलमहसा रोषात्प्लुष्टान्पितुश्च पितामहान् । madhan अगणिततनूतापस्तत्वा तपांसि भगीरथो भगवति तव स्पृष्टाननिश्चिरादुदतीतरत् ॥ २३ ॥ Arfantant, सा त्वमम्ब, उषायाँमरुन्धतीव सीतायां शिवानध्याना भव I Cand लक्ष्मणः-एष भरद्वाजावेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम । (रामः सस्पृहमवलोकयति ।) सीता-सुमरेदि वा तं पदेसं अजउत्तो । रामः-अयि, कथं विस्मर्यते । अलसललितमुग्धान्यध्वसंपातखेदा- दशिथिलपरिरम्भैर्दत्तसंवाहनानि । परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥ २४ ॥ १. स्मरति वा तं प्रदेशमार्यपुत्रः । वैदिकश्रद्धामूलमित्यवसम्यते ॥ २२ ॥ प्रसन्नपुण्यसलिला स्वच्छपरिशुद्धजला ॥ तुर- गेति । सगराध्वरे तुरंगस्येन्द्रापहृताश्वस्य विचयेऽन्वेषणे व्यप्रान्ससंभ्रमान् । अत ए. वोर्वीमिदो भूमिखानिनः । भिदेः क्वि । कपिलमहसा तन्नामकमुनितेजसा रोषाद्धेतोः मुष्टान्दग्धान् । 'प्लुष दाहे' । कर्मणि क्तः । तवाद्भिः स्पृष्टानुदतीतरदुत्तारयति स्म । तरतेणिचि लुङ् ॥ २३ ॥ शिवे मङ्गलेऽनुध्यानं यस्या इति विप्रहः । एतेन बीजानुगुण- प्रोत्साहनरूपं भेदो नाम संध्यङ्गमुक्तम् । तदुक्तम्-'बीजानुगुणप्रोत्साहनं भेदः' इति। वनस्पतिरपुष्पत्वे सति फलवान् । वटःश्यामो नाम तथा प्रसिद्धिमान् ॥अलसेत्या. दि। अध्वनि मार्गे संपातः सम्यग्गमनम् । रामलक्ष्मणापेक्षया बरितगमन मिति भावः। 'अप्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्ट कान्'इत्युक्तत्वात् ।तेन यः खेद आयासस्तस्मा- द्धेतोरलसललितमुग्धान्यलसानि प्रसरणाकुञ्चनासमर्थानि ललितानि मृदूनि मुग्धानि सु. न्दराणि। खभावतःसौन्दर्यसौकुमार्ययोः सत्त्वेऽप्यध्वसंपातखेदादलसललितमुग्धानी- स्युक्त्या मार्गगमनायासेन तयोर्द्विगुणीभाव इति भावः। 'तथापि दृशोः प्रिया' इत्युक्तः अशिथिलपरिरम्भदृढतरालिङ्गनैः। बहुवचनमालिङ्गनावृत्त्यभिप्रायकम् , कामतन्त्रप्रसि- द्वालिङ्गनभेदबाहुल्याभिप्रायकं वा । दत्तानि संवाहनानि येभ्य इति चतुर्थीबहुव्रीहिः। संवाहनं नामाङ्गानां गमनादिजनितायासशमनौपयिकदृढतमस्पर्शविशेषः। परितः साकल्येन मृदिता निष्पीडिता या मृणाली तद्वहुर्बलानि खखधारणसामर्थ्यरहिता- D - लक्ष्मणः-एष विन्ध्याटवीमुखे विराधसंवादः सीता-अलं दाव एदिणा । पेक्खम्मि दाव अजउत्तसहत्तधरि- द्वतालवुन्तादवत्तं अत्तणो अञ्चाहिदं दक्खिणारण्णपहिअत्तणम् । inf4 एतानि तानि गिरिनिर्झरिणीतटेषु Eun त्रि: वैखानसांश्रिततरूणि तपोवनानि । raine) येष्वातिथेयपरमा यमिनो भजन्ते नीवारमुष्टिपचना गृहिणो गृहाणि ॥ २५ ॥ लक्ष्मण:-अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसरारण्य- रिणद्धगोदावरीमुखकन्दरः संततमभिष्यन्दमानमेघमेदुरितनीलिमा जन- स्थानमध्यगो गिरिः प्रस्रवणो नाम । रामः स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि । १. अलं तावदेतेन । पश्यामि तावदार्यपुत्रस्वहस्तधृततालवृन्तातपत्रमात्मनो- ऽत्याहितं दक्षिणारण्यपथिकत्वम् । न्यङ्गकानि । 'अनुकम्पायाम्' इति कन्प्रत्ययः । त्वं ममोरसि कृला यत्र यस्मिन्प्रदेशे निद्रामवाप्ता स कथं विस्मयत इति योजना। अयं भावः-पूर्वमध्वसंपातखेदा, ततो ललितखसौकुमार्यद्विगुणीभावः, ततस्तद्दर्शनवशादशिथिलालिगनबाहुल्यम्, त- तथ तत्संवाहनता, ततः खधारणसामर्थ्य विरहदौर्बल्यम् , ततो रामवक्षःस्थल एव समता, ततस्तदीयसौकुमार्यपारवश्यात्तत्रैव निद्रावाप्तिरिति ॥२४॥वहस्तधृततालपत्र- मेव तालवृन्तं तदेवातपत्रं यस्मिन्निति विग्रहः । आत्मनोऽत्याहितं जीवितनिरपेक्ष कियारूपम् । दक्षिणारण्ये पथिकत्वमिति विग्रहः ॥ एतानीति । येषु तपोवनेषु । अतिथिषु विषये साधुरातिथेयोऽतिथिसत्कारः परमः येषां ते पुरुषा इत्यर्थः । यमिन इति द्वितीयान्तम् । पक्कानाधिकारिणो यतीन् भजन्ते सेवन्ते । किं च नी- वारमुष्टेः पचनं यैस्ते गृहिणो गृहाणि भजन्ते। यद्वा यमिन इति गृहिविशेषणपद प्रथमान्तम् । यमवन्तः । इदं धर्मादीनामप्युपलक्षणम् । आतिथ्यपरमा गृहिणो गृहस्था गृहाणि भजन्त इत्यन्वयः । यद्वा आतिथ्यपरमा आतिथ्यापेक्षिणो नीवार- मुष्टेः पचनं येभ्य इति तथोक्ता यमिनः पक्वान्नाधिकारिणः कर्तारो गृहिणो गृहस्थय गृहाणि भजन्ते । तानि वैखानसैर्मुनिभिराश्रितास्तरवो येषु तथोक्तानि एतानीलम्बया ॥ २५ ॥ अयमविरलेत्यादि । अरण्यपरिणद्धा गोदावरी मुखेषु येषां तानि छन्द राणि यस्य स तथोकः। पर्वतानां खतोऽपि नीलत्वाम्मेदुरितेत्युक्तम् । समयसीति । हे सुतनु शोभना तनुर्यस्या इति विग्रहः । तनूरित्यूअन्ताद्वा सौ हत्या प्रथमोऽ। स्मरसि सरसनीरां तत्र गोदावरी वा स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि ॥ २६ ॥ किं च । किमपि किमपि मन्दं मन्दमासक्तियोगा- दविरलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोष्णो- रविदितगतयामा रात्रिरेव व्यरंसीत् ॥ २७ ॥ तस्मिन्पर्वते । प्रस्रवणइत्यर्थः । विहिताश्च ताः सपर्याश्च विहितसपर्याः। विहितसपर्यासु विहितसपर्यासु (2)इति प्रति विहितसपर्यम् । वीप्सायामव्ययीभावः। तत्र आसमन्ता- त्सुखेन स्थितयोरित्यर्थः । 'सुः पूजायाम्' इति कर्मप्रवचनीयलात् षत्वाभावः। यद्वा प्र; तिविहिताभिः। प्रत्युपकारीकृताभिरित्यर्थः । अस्मत्कृतवनानुगमनानुज्ञामहोपकारस्येति शेषः । आवयोरित्याकृष्यते। सरसनीरां स्वाभाविकमधुररसयुक्तजलवतीम् । अनेन समुद्रसंगमसमीपस्थजलं व्यावय॑ते । तत्रास्याः क्षारप्रसिद्ध किमित्यर्थः । अत एव पूर्वोत्तरयोः किमिति लभ्यते । अत्र प्राथमिकत्वाबाह्यलाच प्रथमं तान्यहानीति दिन- स्योक्तिः। आनन्तर्यादहस्यत्वाच आवयोर्वर्तनानीत्यस्यानन्तरोक्तिः तदुभयोपका. रित्वाद्रोदावर्या मध्योक्तिरिति ध्येयम् ॥ २६ ॥ किमपीति । आसक्तिः रत्समिनि. वेशो विषयानुभूत्यानवस्थानलक्षणस्तस्याः योगात् संबन्धादेतोः अविरलितो निर. न्तरीकृतौ कपोली यस्मिन्कर्मणि तथोक्तम् । मन्दं मन्दमतिसूक्ष्माक्षरं यथा तथा- अक्रमेणान्योन्यखभाच विरुद्धप्रक्रियया किमपि किमपि । इदं च गुप्तकथनम् । जल्पतोरशिथिले गाढे परिरम्भे व्यापृतमेकैकं दोः ययोरिति पूर्वस्मादनुषङ्गः । शेषे षष्ठीयम् । अविदितं यथा तथा गता यामा यस्यास्तथाविधा रात्रिरेव व्यरंसीत् घिरमति स्म । नैवासक्तियोगविसम्भसंलापक्रीडादय इत्यर्थः । 'व्यापरिभ्यो रमः' इति परस्मैपदम् । 'यमरम-' इति सगिटौ । अत्र अविदितगतेति वाविदितगत. नाडीमा वा अकृला यामपदोपादानादयमाशयोऽवगम्यते । 'व्रजति रतिसुखार्थ चित्रिलीमग्रयामे व्रजति दिनरजन्या हस्तिनी च द्वितीये । गमयति च तृतीये शक्षिक्षीमाभावं रमयति रमणीयां पद्मिनी तुल्ययामे ॥' इत्युक्तप्रकारेण पग्रिन्या- दीनपासुरतसौख्यातिशयाय यामविशेषा विधीयन्ते । तथा च पद्मिनीपाश्चालादीनां खखलिहितयामप्रतीक्षणं विहितेतरयामानां कथंचिदतिवाहनं च सिद्धम् । एवं च सीतामयोः पद्मिनीपाश्चालयोस्तुर्ययामस्यैव सुरतयोग्यत्वेन निरतिशयसुखावच्छे- दकागखात्तस्याविदितगतत्वं किंतु तदुच्यमानं तदितरयामेषु पर्यवस्थतीति तद्व- तेषातिशयितसुखकालत्वं सिद्ध्यति । तेषामतिशयितकालखमान्तरसंभोगेनैवेति कि- मपि कमपीस्यादिमिरवगम्यते । तथाहि किमपि किमपीत्यस्य पुरतकालीनवकव्य- जातवार्थः । गुप्तकथनादेवं च किमपि किमपि जल्पतोरित्यत्र मन्दमन्दमविरलितक- त्युभयत्र जल्पनेऽन्वेति अक्रमेणेत्सपि तथा। एवं च सुरतकालीनजल्पनस्य पोला उत्तररामचरिते मा 13ति. लक्ष्मण:-एष पञ्चवथ्यां शूर्पणखाविवादः। सीता-हाँ अजउत्त, एत्ति दे दंसणम् । रामः- अइ वियोगत्रस्ते, चित्रमेतत् । सीता-जेहा तहा होदु । दुजणो असुहं उप्पादेह । रामः-हन्त, वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति । लक्ष्मण:- अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्ये विकलकरणैरार्यचरितै- रपि पावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ २८॥ १. हा आर्यपुत्र, एतावत्ते दर्शनम् । २. यथा तथा भवतु । दुर्जनोऽसुखमुत्पादयति । मान्द्यातिशयोक्तिकथनादावाक्त्वं सीताया गम्यत इत्युक्तादतिविशेषात्फुल्ल ऋम्भि- ताख्यबन्धविशेषौ सूच्यते। तदुक्तं कांचीनादेन-'उत्फुल्लजृम्भितयोः स्त्रिया आर्द्रवचो न क्रोधः' इति । तल्लक्षणं तु अविरलितकपोलवमुपविष्टयोरेव सुलभमिति । अमे. णेति पुरुषायितं सूच्यते । तच्च भ्रामरादिभेदात्रिविधमप्यत्र बोध्यम् । अत्र पुरुषामि तस्य 'स्वेच्छया भ्रमणीवल्लभ-' इत्युक्तत्वात्स्वेच्छैव निमित्तमिति बोध्यम् । अधिधि- लेत्यादिना पार्श्वशायिनोः सुरतमिति लभ्यते । अन्यथा उभाभ्यामेव बाहुभ्यां किन स्यात् । एवं कतिपयैरेव बन्धविशेषै रात्रेरेवावसितत्वादहूनां क्रीडाविशेषाणां तहेतु- भूतासक्तियोगस्य वाविरतलाद्रात्रिरैव व्यरंसीदित्युक्तम्। इदमेवाभिसंधाय बिन्दुमात्र विशिष्यते' इति कालिदासेनोक्तम् । वस्तुतस्तु संलापादिबाह्यसंभोग एव खारस्यामिति सुधियो विभावयन्तु ॥२७॥ एष इति । शूर्पणखाविवादः। रामेण लक्ष्मणं तेन रामं प्रति प्रेषणादिरिति भावः । 'नखमुखात्संज्ञायाम्' इति ङीषो निषेधः। 'पू' इति णवम् ॥ वियोगत्रस्तेति । वियोगात्रस्त इति विग्रहः । 'पञ्चमी' इति यो गात्समासः । असुखं दुःखम् ॥अथेति । अथ विकलकरणैरार्यचरितः। यथापि रोदिति, वज्रस्यापि हृदयं दलति, तथा पापै रक्षोभिर्जनस्थाने शून्ये सति कनका रेण. च्छन्नविधिना वृत्तमिदं क्षालितमपि व्यथयतीत्यन्वयः। अथ शूर्पणखाचित्रदर्शनानातर- म् । यथा येन प्रकारेण विकलानि खखव्यापारशून्यानि करणानि चक्षुरादीनि योहितयो- कैरार्यचरितैर्मूर्छाप्रभृतिव्यापारीवापि शिलापिरोदिति रोदनं करोति । 'रुदान इवीट् । वज्रस्यापि वादन्येनामेधस्य वज्रस्यापि हृदयं मध्यप्रदेशो दलति विमिन भवति, तथा तेन प्रकारेण वृत्तमिति संबन्धः । जनस्थाने पापै रक्षोभिः शून्नीशिति खरदूषणादिवधानन्तरमित्यर्थः। कनकहरिणच्छद्मविधिना खर्णमारीचमाथिकानडच्या. व अगमा नि निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया - "प्रथमोऽङ्कः सीता-(सास्रमात्मगतम् ।) अझो, दिणअरकुलाणन्दणो एव्वं. विमह कालणादो किलन्तो आसि । लक्ष्मण: -(रामं निर्वर्ण्य साकूतम् ।) आर्य, किमेतत् । अयं तावद्वाष्पस्त्रुटित इव मुक्तामणिसरो han विसर्पन्धाराभिलठति धरणी जर्जरकणः MH0 परेषामुन्नेयो भवति चिरमाध्मातहृदयः ॥ २९॥ राम:-वत्स, तत्कालप्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवान्छया विसोढः दुःखामिर्मनसि पुनर्विपच्यमानो हृन्मर्मव्रण इव वेदनां तनोति ॥ ३० ॥ सीता-हेद्धी हद्धी । अहंवि अदिभूमि गदेण रणरणएण अज- उत्तमुण्णं विअ अत्ताणं पेक्खामि । PERS / ما همه EMINI MA राgran Site शाल670 १. अहो, दिनकरकुलानन्दन एवमपि मम कारणालान्त आसीत् । २. हा धिक् हा धिक् । अहमप्यतिभूमि गतेन रणरणकेनार्यपुत्रशून्यमिवा- स्मानं पश्यामि । मनातलेलात Ayynish fayya:- जकरणेन वृत्तं निष्पन्नमिदमिति सीताहरणादेश्चित्रस्याङ्गुल्या निर्देशः।क्षालितमपि प्रति. कृतमपि व्यथयति दुःखं जनयति । शूर्पणखानन्तरं सीताहरणं लिखितमिति भावः। अत्र प्रावापि रोदितीत्यादिकं नायोगे योगकल्पनम् । किंतु वास्तवमेव । 'अपि वृक्षाः परिम्लानाः' इतिवदुपपत्तेः । एवं स्मृवाद्यापि रोदितीत्यवगम्यते ॥२८॥ आर्येति । एतद्रक्ष्यमाणम् ॥ अयं तावदिति । त्रुटितश्छिन्न आवेगो दुःखातिशयः। अधरव नासापुटश्चेति विप्रहः । तयोर्द्वन्द्वश्च अतो न नासाशब्दे ह्रखः । उन्नेयोऽनुमेय आध्मात- हृदयो गद्गदशब्दयुक्तकण्ठः। 'धमा शब्दे' इति धातोः कर्मणि क्तः। नेदं चित्रकथनं किंतु झात्विकवास्तवावस्थाकथनमेव। तत्कथयेत्यादि प्रतिवचनानुरूप्यात् ॥२९॥तत्का- लेति। प्रतिकृतिषु प्रतिक्रियासु वाञ्छयौदरेण विपच्यमानः । खयमेव परिपाकमाश्रि- स्येत्यर्थः कर्मणः कर्तृत विवक्षया कर्मवत्कर्मणा' इत्यातिदेशिकयगात्मनेपदम् । इदं च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति । तनोति । विस्तारयतीत्यर्थः॥३०॥भूमिमतिका- तोऽतिभूमिः । अत्यादयः' इति समासः। भावप्रधानो निर्देशः । अतिभूमित्वं गतेने- त्यर्थः । वैपुल्यं प्राप्तेनेति यावत्। रणरणकेन भवसंभ्रमेण । आक्षिपाम्यन्यतो मनःप्र. यो काम | विषार: सनसंशयः ... आपसमेनानि यो - ५ ।

उत्तररामचरिते लक्ष्मणः-(स्वगतम् ।) भवतु । आक्षिपामि । (चित्रं विलोक्य प्रकाशम् ।) अर्थतन्मन्वन्तरपुराणस्य तत्रभवतस्तातजटायुषश्चरित्रविक्रमो- दाहरणम् । सीता -हो ताद, णिव्वूढो दे अवच्चसिणेहो। राम: -हा तात काश्यप शकुन्तराज, क नु खलु पुनस्त्वाशस्य महतस्तीर्थभूतस्य साधोः संभवः । लक्ष्मण:-अयमसौ जनस्थानस्य पश्चिमतः कुञ्जवान्नाम पर्वतो दनु- कुबन्धाधिष्ठितो दण्डकारण्यभागः। तदिदममुष्य परिसरे मतङ्गाश्रमपदम् । तत्र श्रमणी नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसरः । सीता-जत्थ किल अजउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्क- कण्ठं परुण्णं आसि । -देवि, परं रमणीयमेतत्सरः । एतस्मिन्मदकलमल्लिकाक्षपक्षः । व्याधूतस्फुरदुरुदण्डपुण्डरीकाः । १. हा तात, निव्यूढस्तेऽपत्यस्नेहः । २. यत्र किलार्यपुत्रेण विच्छिन्नामर्षधीरत्वं प्रमुक्तकण्ठं प्ररुदितमासीत् । वर्तनेन पूर्वोकं विस्मारयामि । अथैतदिति।अन्यो मनुमन्वन्तरम्। मयूरव्यंसकादि- वात्समासः।मन्वन्तरात्पुराणस्येति विग्रहः। सुप्सुपेति समासः।तातजटायुषः पितृस- खखात्तातपदव्यपदेशः। चरित्रं स्ववृत्तम् । विक्रमः शौर्यम् । उदाहरणम् । सशचित्र- लेखनमिति भावः। हा तातेति । काश्यपः कश्यपपुत्रः । तीर्थभूतस्य हितोपदेष्टुः ॥ एतस्मिन्निति । मदेन कलं कूजितं येषां ते तथोक्ताः। तथाविधानां मल्लिकाक्षाणां हंस विशेषाणां पक्षैर्गरुद्भिाधूताः कम्पिताः स्फुरन्त उरवो दण्डा येषां तानि पुण्ड- रीकाणि येषु ते तथोक्ताः। कुवलयिनश्च विभागाःप्रदेशा बाष्पाम्भसः परिपतनोगमयोरें- न्तराले मया संदृष्टाः । निरन्तरं दृष्टा इत्यर्थः। तथा कुवलयिन इत्यत्रप्रशंसायों मतुपा प्रशस्तकुवलययुक्ता इत्यर्थलाभेन रात्रौ दृष्टा इति सूच्यते । केचित्तु-मदकलमलिकाक्ष. पक्षव्याधूतस्फुरदुरुदण्डपुण्डरीका विभागा बाष्पाम्भःपरिपतनोगमान्तराले कुवलयि- नो दृष्टा इत्यन्वयमुक्ता बाष्पाम्भःप्रसरणमलिनीकृतपुण्डरीका:कुवलयवन्तो उचाइख- र्थमाहुः । परे तु-मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः कुवलयिनच विभागाः । विभज्यन्त इति विभागाः । परस्परसंकीर्णप्रदेशा बाष्पाम्भःपरिपतनोडू- मान्तराले संदृष्टा एकीकृत्य दृष्टाः । समित्येकीकारे। भविभागेन दृष्टा इत्याहुहितरे तु-'ननु रमणीयमेतत्पद्मसरः' इत्युक्तं लया तत्कथमुपपद्यते विरहोद्दीपककलकूषित कहंसाधिष्ठितपुण्डरीकयुक्तस्य सरसो द्रष्टुमशक्यखादित्यत्राह-एतमिम्मदकलेति ।। मत् अकलेति पदच्छेदः। मदिति पञ्चम्येकवचनम् । पृथक्पदं समस्तं वा । मन्मानिमितं प्रथमोऽङ्कः । बाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्टाः कुवलयिनो मया विभागाः ॥ ३१ ॥ लक्ष्मण:-अयमार्यो हनूमान् । सीता-एसो सो चिरणिव्वूढजीवलोअपच्चद्धरणगुरुओवारी महानुभावो मारुदी। - दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः । यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥ ३२ ॥ .. १. एष स चिरनियूंढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो मारुतिः । विरहव्यथातुरमद्धतोर्न विद्यते कलं कूजितं येषां ते तेषां मल्लिकाक्षाणां हंस विशेषाणां प. क्षाधूतानि कम्पितानीति यावत् । अत एव स्फुरदुरुदण्डानि निवृत्ताधारतया चलदु- रुदण्डानि पुण्डरीकाणि येषु तथोक्ताः कुवलयिनः पुण्डरीकवद्दिवा विकासाद्यभावेनाकि- चित्करलाद्धंसैरव्याधूततया कुवलयसत्तामात्रवन्तः। एतस्मिन्विभागा बाष्पाम्भःपरि- पतनोद्मान्तराले संदृष्टाः सम्यग्दृष्टाः। परिहाससंभावितवादवस्थि तिव्यतिरेकनिश्चय- पर्यन्तं दृष्टा इत्यर्थः । निवृत्तोपप्लवतया सम्यग्दृष्टा इति भावः । मल्लिकाक्षाः खलु विर- होद्विग्नस्य मम कृते खयं विरहसमुद्दीपकं कूजितं त्यक्त्वा तदुद्दीपकानि पुण्डरीका- ण्यप्यनाशयन् । ततोऽहं निवृत्तोपप्लवतया नान्तरीयकतयावस्थितिपर्यन्तं तान्वि- हंगान्दृष्टवानिति भावः । युक्तं चैतत् । विरहखिन्नं रामं प्रति मल्लिकाक्षाणाम् 'अपि ग्रावा रोदिति' इति न्यायेन करुणायाः संभवात् । दृप्तचक्रवाकशापदर्शनेन चक्रवाक- शापदाता रामोऽस्माकमपि शापं दास्यतीति भीत्या शब्दासंभवात् । 'कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतम्' इत्यादिविषय विशेषस्तिरश्चामपि विरहिजना- • नुरोधः प्रसिद्धश्चेति वदन्ति ॥ ३१ ॥ एष इति । चिरानियूढं निष्पादितं यज्जीव- लोकप्रत्युद्धरणं तेन गुरु यथा भवति तथा । उपकरोतीत्युपकारी दशमासपरिमित- रावणगृहवासस्यातिभूयस्वामिसंधिना चिरादित्युक्तम् । खसत्तयैव जीवलोकममता- संभावनया खोद्धरणेन तदुद्धरणसंभावनया च जीवलोकप्रत्युद्धरणमित्युक्तम् ॥ दि- प्रयेति । दिष्ट्येत्यानन्दे । यस्य वीर्यणेत्यादि । वयम् । लक्ष्मणभरतशत्रुघ्नसीता- विभीषणसुप्रीववानराः अहं चेत्यर्थः । कृतिनः सुकृतिनः । यद्वा कृतमुपकारतद्वन्तः । उपकत इत्यर्थः। अन्योन्यवृत्तान्तकथनेन सीतारामयोः,खानवधानप्रयुक्तसीताविरहप- रिहारेण लक्ष्मणस्य, वहिप्रवेशपरिहारेण भरतशत्रुघ्नयोः शरणागतखपरिप्रहसिद्धान्तेन विभीषणस्य, सुखोत्पादनेन सुग्रीवस्य,मधुवनभशापराधवारणेन वानराणाम्, खसंजी- वनादिना भुवनानां च कृतिसमिति यथायथमूहनीयम् ॥ ३२॥ अनुभावः प्रभावः। सौभाग्य सौन्दर्यम् । प्ररुदिवेन रोदनको । 'आदिकर्मणि क्रः' । रोदनप्रारम्भ एव ।

उत्तररामचरिते TRA सीता-वच्छ, एसो सो कुसुमिदकदम्बताण्डविअबंहिणो किंणा- महेओ गिरी । जत्थ अणुभावसोहग्गमेत्तपरिसेससुन्दरसिरी मुच्छन्दो तुए परुण्णेण ओलम्बिओ तरुअले अजउत्तो आलिहिदो । लक्ष्मण:- सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मि- नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः । आर्येणास्मिन् रामः- विरम विरमातःपरं न क्षमोऽस्मि प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः ॥ ३३ ॥ लक्ष्मणः-अतःपरमार्यस्य तत्रभवतां राक्षसानां चापरिसंख्यान्यु- त्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि विश्रा- म्यतामिति। सीता-अन्ज उत्त, एदिणा चित्तदंसणेण पचुप्पण्णदोहलाए मए विण्णावणिजं अस्थि । राम:-नन्वाज्ञापय। सीता-जाणे पुणोवि पसण्णगम्भीरासु वणराईसु विहरिअ पवि- तणिम्मलसिसिरसलिलं भअवदि भाईरहिं ओगाहिस्सं ति । १. वत्स, एप स कुसुमितकदम्बताण्डवितबर्हिणः किनामधेयो गिरिः । यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरश्रीमूंछेस्त्वया प्ररुदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः। २. आर्यपुत्र, एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदाया मम विज्ञापनीयमस्ति । ३. जाने पुनरपि प्रसन्नगम्भीरासु वनरीजि विहत्य पवित्रनिर्मलशिशिर- सलिलां भगवतीं भागीरथी अवगाहिष्य इति । अवलम्वितः पतन् यथा धारित इति ॥ शैल(सोऽयं)इति । ककुभा वृक्षविशेषा- स्तेषां पुष्पैः सुरभिः । 'पुष्पमूलेषु बहुलम्' इति लुप् । विप्रयोगः वियोगः । प्रत्याक्तः पुनरागतः॥३३॥ अपरिसंख्यानि परिसंख्यानिषेधः । अवधिरिति यावत् । तहितानि संख्याशून्यानीति वा ॥ प्रत्युत्पन्नदोहदायाः। उत्पन्नाभिलाषाया इत्यर्थः । उत्पन्नमनो. ...

सीता-एव्वं होदु । ओहरिदमि परिस्समणिहाए Graha प्रथमोऽ राम:-वत्स लक्ष्मण । लक्ष्मण:-एषोऽस्मि । रामः-वत्स, अचिरादेव संपादनीयो दौहृद इति संप्रत्येव गुरुभिः संदिष्टम् । तदस्खलितसंपातं रथमुपस्थापय । ame सीता-अजउत्त, तुझेहिं वि आअन्दव्वम् । रामः-अतिकठिनहृदये, एतदपि वक्तव्यम् । सीता-तेणे हि पि मे पिअं मे । लक्ष्मणः-यदाज्ञापयत्यार्यः । (इति निष्कान्तः रामः-प्रिये, वातायनोपकण्ठे संविष्टा भव । न 44 an रामः-तेन हि निरन्तरमवलम्बस्व मामनुगमनाय । जीवयन्निव ससाध्वसश्रमखेदबिन्दुरधिकण्ठमर्प्यताम् । बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३४ ॥ ३४॥ (तथा कारयन्सानन्दम् ।) प्रिये, किमेतत् । विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । autofco १. आर्यपुत्र, युष्माभिरप्यागन्तव्यम् । २. तेन हि प्रियं मे प्रियं मे । ३. एवं भवतु । अपहृतास्मि परिश्रमनिद्रया । विकाराया इति वा ॥ वत्स, अचिरेत्यादि । एष गूढप्रकाशनादुद्भेदः॥ जीवय. निति । साध्वसं भयम् । अधिकण्ठम् । कण्ठ इत्यर्थः । इन्दोरिमे ऐन्दवाः। चन्द्रमणि- चन्द्रकान्तशिला । जीवयनर्यतामिवेत्यन्वयः । इवशब्द ईषदर्थकः । जीवयमिति च 'लक्षणहेत्वोः' इति शतृ । तथा च मत्संजीवनफलकं यदीषदर्पणं तत्कर्म क्रियतामि- त्यर्थः। अथवा एतद्विरहे 'न जीवेयं क्षणमपि' इत्युक्तम् । अत्र ऐन्दवेत्यादिना सादृश्य- मुक्ला जीवयनिति विशेषस्योफेर्व्यतिरेकालंकारः। 'व्यतिरेको विशेषश्चेदुपमानोपमे- ययोः' इति ॥३४॥ तथा कारयनिति । सहजलज्जाजडदृशः' इति वक्ष्यमाणरीत्या लज्जयाविष्टायां तस्यां स्वयं तथा कारयनित्यर्थः। पूर्वोकश्रमवशाच खयमेव तथा कार- यतीत्युकम्॥ विनिश्चेतुमिति। अत्रत्यमुखदुःखशब्दौ प्रियाप्रियमित्रशत्रुसंश्लेषादि- जन्यमानसमुखदुःखपरौ शारीरसुखदुःखमदविषविसर्पयोः पृथग्रहणावामुखदुःखयो सारीरमानसलविभागस्तु 'कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम्' इति सूत्रतहपा. ४२० रा ' - ३८ उत्तररामचरिते - तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च ॥ ३५॥ सीता-धीरप्पसादा तुझेत्ति एत्थ दाणिं अच्चरिअम् । राम: म्लानस्य जीवकुसुमस्य विकासनानि संतर्पणानि सकलेन्द्रियमोहनानि । I course १. धीरप्रसादा यूयमित्यत्रेदानीमाश्चर्यम् । ख्यानयोः स्पष्टः । अत्र सीते इति संबुद्ध्यन्तमध्याहार्यम् । तवेत्युक्तः। हे सीते, तव स्पर्श स्पर्शे वदीययावत्स्पर्शेषु परिमूढः खखविषयग्रहणासमर्थ इन्द्रियगणश्चक्षुरादीन्द्रि- यसमूहः येन स तथोक्तो मम विकार आन्तरावस्थाविशेषः। चैतन्यमन्तःकरणावच्छि- चैतन्यम् । जीवचैतन्य मिति यावत् । अद्वैतमतप्रक्रिययेदमुक्तम् । मदन्तरात्मानमिति फलितोऽर्थः। भ्रमयति प्रतिकूलतया भासमानः सन् क्षुब्धं करोति । संमीलयति च अनु. कूलतया भासमानः सन् उल्लासयति च। अयमित्यध्याहार्यम् । अयं विकारः सुखमिति विनिश्चेतुं न शक्यः। दुःख मिति वा विनिश्चेतुं न शक्यः। प्रमोहो वा प्रकृष्टमूर्छात्वेन संशयितुं योग्यो निद्रा वा सुषुप्तित्वेन संशयितुं योग्यो विषविसर्पः किमुाविषेण विसृप्यत इति विग्रहः । कर्मणि घन् । विषप्रसरणजन्यत्वेन संशयितुं योग्य इत्यर्थः । मदः किमु । मदत्वेन संशयितुं योग्य इत्यर्थः । अस्य विकारस्य स्पर्शजन्यत्वात्परिमूढेन्द्रि- यगणवादन्तरात्मक्षोभकरवाच तथाविधशाववादिस्पर्शजन्यमानसदुःखत्वेन संश- ययोग्यत्वम् । एवं स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मोल्लासकारिखाच्च तथा- विधमित्रादिस्पर्शजन्यमानसमुखत्वेन संशयाईत्वं भवति च मित्रादिस्पर्शजन्यसुखं परिमूढेन्द्रियगणम् । 'नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि' इत्युक्तेः । एवं स्पर्शजन्यत्वात्परिमूढेन्द्रियगणवादन्तरात्मक्षो- दण्डाद्यमिघातजन्यपरिमूढेन्द्रियगणवान्तरात्मक्षोभकरवविशिष्ट- सूक्ष्मप्राणसंचाररूपमूर्छात्वेन संभवनाई खम् । एवमस्य विकारस्य स्पर्शजन्यखात्प- रिमूढेन्द्रियगणवादन्तरात्मानुकूलखाच मृदुतरतल्पादिस्पर्शजन्यत्वनिवृत्तेन्द्रियव्या- पारखपरमात्मसुपरिष्वङ्गप्रयुक्तसुखरूपत्वविशिष्ठनिद्रात्वेन संशयाईलम् । एवमस्य स्पर्शजन्यखात्परिमूढेन्द्रियगणवादन्तरात्मप्रतिकूललाच तथाविधविषस्पर्शजन्यवि- कारत्वेन संशयाईवम् । एवमस्य स्पर्शजन्यत्वात्परिमूढेन्द्रियगणलादन्तरात्मानुकू- लत्वात्तथाविधमदत्वेन संशययोग्यत्वम् । मदस्य क्षीरसुराद्याप्यायकवस्वायत्तता- स्पर्शजन्यत्वं परिमूढेन्द्रियगणखमन्तरात्मानुकूलत्वं च । तदुक्तम्-'मदिरादिकृतो मोहहर्षव्यतिकरो मदः' इति । सर्वमिदं सीताया भोग्यताप्रकर्षे तात्पर्यमाविष्क- रोति । हिशब्दः प्रसिद्धौ । तथाच मदीयोऽयं विकारस्त्वयापि ज्ञायत इति व्यज्यते ॥३५॥ म्लानस्येति । म्लानस्य हर्षक्षयवतो जीवकुसुमस्य जीव एव कुसुमं तस्य विकासनानि विकासजनकानि हर्षोत्पादकानि संतर्पणानि तृप्तिजनकानि भोग्यान्तरा- पेक्षानुत्पादकानि अतएव सकलानामिन्द्रियाणां मोहनानि खव्यापारनिरोधीनि कर्ण- योरमृतानि । यथा 'अमृतस्य दृष्ट्वा तृप्यन्ति' इति दर्शनमात्रेण तृप्तिजनकला, तद्वद्वे- भकरखाच्चास्य नि प्रथमोऽङ्कः। १३९ एतानि ते सुवचनानि सरोरुहाक्षि कर्णामृतानि मनसश्च रसायनानि ॥ ३६॥X सीता-पिअंवद एहि । संविसह्म । राम:-अपि संदेष्टव्यम् । आविवाहसमयागृहे वने शैशवे तदनु यौवने खापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥ ३७ ॥ सीता--(निद्रा नाटयन्ती) अस्थि एदम् । अजउत्त, अस्थि पुनः। सुन्दर एदम् । (इति खपिति ।) रामः-कथं प्रियवचनैव मे वक्षसि प्रसुप्ता । (निर्वर्ण्य ।) १. प्रियंवद, एहि । संविशावः । २. अस्त्येतत् । आर्यपुत्र, अस्त्येतत् । षामर्थपोलोचनं विनापि रमणीयत्वमिति भावः । मनसश्च रसायनानि । रसायनं ना- मानेकरसवस्तुसमुदायात्मकरसवस्तुविशेषो बाहटे प्रसिद्धः । बहुवचनेनानेकरसायन- सदृशानीति व्यज्यते । किंचानेकरसायनवस्त्वाखादनेन सर्वेषां रसानां तत्रोपलम्भः, एवं शब्दान्तरश्रवणजन्यसुखानामेतद्वचनैलोभ इति व्यज्यते । अपि च यथा रसायनस्य रसमयलाद्भोग्यत्वम्, औषधात्मकवादोगनिवर्तकत्वं च एवमेतेषामपि प्रियत्वं हित- त्वं चेति व्यञ्जयितुं रसायनत्वोक्तिः। सरोरुहाक्षि, आयामल विपुलवाभ्यां सादृश्यममि- प्रेतम् । एवं च खस्या अपि स्ववचनवैलक्षण्यप्रयुक्तविस्मयातिशयाचक्षुषोरायतबविपुः लवद्विगुणीभाव इति भावः । ते सुवचनानि स्वकीयवचनवैलक्षण्यातिशयतः सीताया- खवचनेषु स्वीयतासंशयः स्यादिति ते इत्युक्तिः। सुशब्देन सीतावचनेष्वपि एतादृशं सौभाग्यं नानुभूतपूर्वमिति व्यज्यते । 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणी. यतायाः' इति न्यायेन न दोषः ॥ ३६ ॥ प्रियंवद प्रियवादिन् । 'प्रियवशे वदः खच्' । संविशावः । 'खप्नः संवेश इत्यपि' इत्यमरः ॥ अपि संदेष्टव्यम् । संदेश उक्तिः । भृकुटीभशन सूचयितव्ये किमर्थमुक्तिप्रयास इति भावः । यद्वा यथा शयनदशायामुपधानादीनामुपकरणत्वं तद्वन्ममापीति विधिर्वा किमर्थ इति भावः। उपकरणसमेवाह-आविवाहेति । आविवाहसमयाद्विवाहसमयादारभ्येत्यर्थः । गृहे शैशवे यौवने च खापहेतुः । वने पुनयौवने खापहेतुरित्यन्वयः । न तु यथासंख्यम् । अन्ययानुपाश्रितः खापहेतुतयानुपाश्रित इत्यर्थः । अतः 'जुष्टं परम- नारीणां भुजैः परमसुन्दरैः' इत्यनेन न विरोधः । चेटीविधया संवाहने तात्पर्यात् 'न रामः परदारान्वै चक्षुामपि पश्यति' इत्युक्तेः । मदाहुरुपधानमित्यनुक्खा रामबा- उत्तररामचरिते Hone इयं गेहे लक्ष्मीरियममृतवतिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः । अयं बाहुः कण्ठे शिशिरमहगो मौक्तिकसरः त्राट क्रिमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ ३८ ॥ इसतार वापतागकर (प्रविश्य।) यस्तो प्रतीहारी -देव, उवट्ठिदो। रामः-अयि, कः। प्रतीहारी–आसण्णपरिआरओ देवस्स दुम्मुहो घR रामः-(खगतम् ।) शुद्धान्तचारी दुर्मुखः स मया पौरजानपदेष्व- पसर्पः प्रहितः । (प्रकाशम् ।) आगच्छतु । (प्रतीहारी निष्क्रान्ता।) (प्रविश्य ।) दुर्मुख:-(खगतम् ।) है। कहं दाणि देवीमन्तरेण ईरिसं अचिन्त- णिजं जणाववादं देव्वस्स कहइस्सं । अहवा णिओओ क्खु मह मन्दभाअहेअस्स एसो। १. देव, उपस्थितः। २. आसन्नपरिचारको देवस्य दुर्मुखः । ३. हा कथमिदानी देवीमन्तरेणेशमचिन्तनीयं जनापवादं देवस्य कथयि- ष्यामि । अथवा नियोगः खलु मम मन्दभागधेयस्यैषः । हुरित्युक्तिः प्रसिद्धिद्योतनार्था । 'उपधाय भुजं तस्य' इत्यादिवचनात् ॥ ३७ ॥ इय. मिति । इयं गेहे लक्ष्मीर्लक्ष्मीसदृशी । इयममृतवर्तिनयनयोः । तथा नयनानन्दक- रीत्यर्थः । किमेतत्पर्यन्तानुधावनवचनेन । एतदीयमेव यत्किंचिन्मम पर्याप्तमित्याह- असावस्या इति वपुषि प्रसिद्धचन्दनव्यावृत्तिः । अस्याः किं न प्रेयः एतत्संबन्धि किं न प्रियम् । सर्वमपि प्रियमेवेत्यर्थः । अत्र सीतापेक्षया तत्संबन्ध्येव प्रियमिति रामचन्द्रमतमिति कवेराशयोऽवगम्यते । उपसंहारे किमस्या न प्रेय इत्युकखात् । इतरया कथमेषेत्येव न वदेत् । भर्तृमीढश्च--'मनसिजरुजः सा वा दिव्या ममालम- पोहितुं रहसि लघयेदारब्धा वा तदाश्रयिणी कथा' इत्याह । अत्र रामबाहुरुपधानमिति सीतां प्रति खबाहोरुपधानवमुक्त्वा 'अयं बाहुः कण्ठे शिशिरमसुणो मौक्तिकसरः' इ. स्युकं रामेण । तदिदं वैलक्षण्यातिशयकार्यम् । अत्र 'इयं गेहे लक्ष्मीः' इत्यादिभिरेकस्या एव सीतायाः गृहविषये दीपकलिकाकार्यकारित्वं चक्षुर्विषये ज्योत्नादिकार्यकारिवं कण्ठे हारकार्यकारित्वं च व्यज्यते । रूपकमुल्लेखो वा अलंकारः॥३८॥आसन्नपरिचारको ।

मिनाहात् मृगाः सर्यन्तं परिणते पीरणार्यशाप्त प्रथमोऽङ्कः। सीता-(उत्स्वप्नायते ।) अजउत्त, कर्हिसि । राम:-सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः खप्नोद्योगं करोति । (सनेहमङ्गमस्याः परामृशन् ।) बन्धपताणोनादि समाने अद्वैत सुखदुःखयोरनुगतं सर्वाखवस्थासु य. द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । ana कालेनावरणात्ययात्परिणते यूप्रेमसारे स्थितं भद्रं तस्य सुभानुषस्य कथमप्येकं हि तत्मार्थ्यते ॥ ३९ ।। सन १. आर्यपुत्र, कुत्रासि । भारत भूषण गुरुकुलमड़ी झरत सहारनपत्र दुर्मुखखनामा ॥ अपसो गूढचरः। प्रहितः प्रयुक्तः। न तुवास्तव्य इत्यर्थः ॥रणरण- कदायिनी विक्षोभकारिणी । विरहभावना वियोगध्यानम् । चित्रदर्शनादिति स्मरणहेतु. रुक्तः। स्वप्ने निद्रायामुद्योगं वचनादिप्रयत्नम् । 'उद्वेगम्' इति पाठे भयसंभ्रममित्यर्थः। अङ्गमस्याः परामृशन् । एतेनोपरितनश्लोकस्यापत्यविषयत्वकल्पना परास्ता, तथा सति उदरमस्याः परामृशन्निति वक्तव्यतापत्तेः । न च 'मयैवादी हातः करतलपरामर्श- कलया द्विधा गर्भग्रन्थिः' इति वक्ष्यमाणानुवादस्य पुरोवादसापेक्षतया अत्रत्यागश- ब्दस्य तद्विशालोदरपरत्वं कवेः संमतमिति वाच्यम् । तत्र 'सहजलज्जाजडशः' इति जागरप्रतीतेः, अत्र च सुषुप्तिप्रतीतेस्तदयोगादिति ध्येयम् । अद्वैतमिति । यत्स. खिवस्थासु सुखदुःखयोरद्वैतमनुगतम् । जाग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थासु ये सुख- दुःखे तयोः संवन्धि यदद्वैतममिन्नत्वं तदनुगतम् । तद्विशिष्टमित्यर्थः । सर्वास्तवस्था- खमिन्नसुखदुःखापादकमित्यर्थः । द्वयोर्भावो द्वैतम् । इदमेवाद्वैतं चक्रवाकमिथुनवर्णन. व्यपदेशेन नवेन कविना व्याख्यातम्-'भुक्तं तद्विमृणालयोमिथुनयोः पीतं द्विराजी- वयोः सुप्तं तद्विफलाशयोरविरलं संश्लिष्टयोर्यद्यपि । पर्यायात्समयद्वयेन विरुतं भिन्न- प्रयत्नेन वा मूर्तिद्वैतवशान्मतिमिथुनमित्यद्वैतमेवानयोः॥' इति । पर्यायादिति पर्यायश- ब्दमन्तर्भाव्य न विरुद्धमिति ल्यब्लोपे पञ्चमी व्याख्येया। नातः समयद्वय इत्यनेम पौनरुक्त्यम् । यत्र दाम्पत्ये हृदयस्य गुरुकुलशिष्टमनस इत्यर्थः। विश्रामः श्रमापन- यनकरसुखविशेषानुभवः । अत्र विश्राम इत्यपाणिनीयम् , नोदात्तेति वृद्धिप्रतिषेधात्' इति वैयाकरणाः । श्रीहर्षस्तु विश्रामो विश्रमश्च' इति द्विरूपकोश उक्तवान् । यस्मि- न्दाम्पत्ये रसः स्पृहारूपो जरसा जरया अहार्यो हर्तुमशक्यः । यद्वा यस्मिन्सति रस आह्वादो जरसाप्याहार्यः । आवरणात्ययात् । पदद्वयमिदम् । वरणं विवाहः, अत्ययः शरीरसंपातः, वरणं चात्ययश्चेति समाहारद्वन्द्वः। आवरणात्ययात् । वरणात्ययमभि. व्याप्येत्यर्थः । वरणमारभ्य शरीरपातपर्यन्तं वर्तमानेन कालेन परिणते उपचयं प्राप्ते प्रेमसारे उत्कृष्टप्रेम्णि स्थितं स्थितिमत् । 'मालत्याःप्रथमावलोकदिवसादारभ्य विस्ता- रिमिभूयः स्नेहविचेष्टितैर्मंगहशो नीतस्य कोटिं पराम्' । 'परां कोटिं नेहो परिचयविका- सादधिगते' इत्यादि समानार्थकम् । 'कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितम् '४२ उत्तररामचरिते दुर्मुखः—(उपसृत्य ।) 'जेदु देव्यो । रामः-ब्रूहि यदुपलब्धम् । दुर्मुखः-उवटुवन्ति देवं पौरजाणपदा जहा विसुमरिदा अझे महाराअं दसरहं रामदेवेणेत्ति । रामः-अर्थवाद एवैषः । दोषं तु मे कथंचित्कथय येन प्रति- विधीयते । दुर्मुखः-(सास्रम् ।) सैंणादु महाराओ । (कर्णे ।) एवं विअ । इति । रामः-अहह, अतितीव्रोऽयं वाग्वजः। (इति मूर्च्छति ।) दुर्मुखः-आस्ससदु देव्वो। रामः-(आश्वस्य ।) हा हा धिक्परगृहवासदूषणं य- द्वैदेयाः प्रशमितमद्भुतैरुपायैः । १. जयतु देवः। २. उपस्तुवन्ति देवं पौरजानपदा यथा विस्मारिता वयं महाराज दशरथं रामदेवेनेति । ३. शृणोतु महाराजः । एवमिव । ४. आश्वसितु देवः। भारत भूषण द्वादश गुरुकुल काँगडी हरिद्वार इति वाक्यं वेदितव्यम् । केचित्तु आवरणात्ययात्प्रतिबन्धकनिवृत्तेरिति व्याचक्षते। प्रेम्ण उत्कृष्टत्वं च परकीयावेश्योपपत्त्याद्यविषयत्वम् । तस्य समानुषस्य दाम्पत्यस्य । 'सुमानुषं तु दाम्पत्यम्' इत्यभिधानादिति प्राश्च आहुः । अत एवैतद्विकृतिभूत. दाम्पत्यार्थकमनिच्छितिशब्दस्य द्रविडभाषाप्रसिद्धिरपि । अन्ये तु 'प्रकरणानुगुण्या- द्विशेषणखारस्यात्तच्छब्देन दाम्पत्ये लब्धे सुमानुषस्येति तद्विशेषणतया योजनीयम्। 'शोभनो मानुषो येन' इत्याहुः। केचित्तु 'सुमानुषस्य सौजन्यस्य' इत्याहुः । कथमपि सर्वप्रकारेणापि तत्प्रसिद्धमेकं मुख्यं भद्रं क्षेमं प्रार्थ्यते प्रकर्षेण याच्यते । अमिल- ध्यते वा । हि यस्मात्सुमानुषस्य भद्रमेकं प्रार्थ्यते तस्मात् सैव रणरणकदायिनीत्यादि- पूर्वेणान्वयः । अनर्थशङ्की नि बन्धुमित्रहृदयानीति न्यायेनेति भावः । प्रेमसारे स्थितमित्यनेन मधुकटाहनिक्षिप्तरसालफलसादृश्यं व्यज्यते । अत्र फलविषयकौत्सुक्य- प्रतिपादनादारम्भ उक्तः । तदुक्तम्-'औत्सुक्यमात्रमारम्भः फललामाय भूयसे' इति ॥ ३९ ॥ कणे एवमिवेति । 'अर्थस्त्वेकेन विज्ञेयः पश्चाज्ज्ञाला प्रसङ्गतः । कर्णे एवमिवेत्युक्ला काव्यबन्धे प्रयुज्यते ॥' इत्युक्तवात् ॥ हा हेति । परगृहवास प्रथमोऽङ्कः। ४३ एतत्तत्पुनरपि दैवदुर्विपाका- दौलक विषमिव सर्वतः प्रसक्तम् ।। ४० ।। तत्किमद्य मन्दभाग्यः करोमि (विमृश्य सकरुणम् ।) अथवा किमेतत् । सतां केनापि कार्येण लोकस्याराधनं परम् । तत्प्रतीतं हि तातेन मां च प्राणांश्च मुश्चता ॥ ४१॥ संप्रत्येव च भगवता वसिष्ठेन संदिष्टम् । अपि च । यत्सावित्रैर्दीपितं भूमिपालै- र्लोकश्रेष्ठैः साधुचित्रं चरित्रम् । मत्संबन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन्हन्त धिङ्मामधन्यम् ॥ ४२ ॥ हा देवि देवयजनसंभवे, हा खजन्मानुग्रहपवित्रितवसुंधरे, हा मुनिजनकनन्दिनि, हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि, हा एव दूषणम् । नान्यदिति भावः । आलर्क श्वसंबन्धि प्रसकम् । पाठान्तरे 'प्रसृप्तम्' इति वा । एकत्र स्पर्शः कालान्तरेण सर्वतः प्रसरणमिति भावः ॥४०॥ मन्दभा- ग्योऽल्पभाग्यः। सतामिति । केनापि कार्येण । 'स्नेहं दयां च सौख्यं च यदि वा जानकीमपि' इत्युक्तरीत्या लोकस्याराधनं लोकस्य प्रीतिजनकव्यापारः। सतां धर्म- शास्त्रस्मृत्यादीनां परं धर्मः श्रेष्ठत्वेनाभिमतः। तथा चापस्तम्बः-'यत्वार्याः क्रिय- माणं प्रशंसन्ति स धर्मः' इति । न चेदमननुष्टानपराहत मित्याह-तत्प्रतीतमिति । 'अवश्यं पितुराचारः' इति स्फोरणार्थमिदम् । मां च मुख्यतममत्परित्यागानु- षङ्गिकः तातस्य खप्राणत्याग इत्याह-~-प्राणांवति । मुचतेति हेतौ शतृ । प्राणत्याग- हेतुकं पूरणमित्यर्थः ॥४१॥ संप्रत्येव संदिष्टमिति । 'युक्तः प्रजानामनुरजने ऽस्याः' इति संदिष्टमिति भावः । यदिति । सावित्रैः सवितुः पुत्रैः। 'तस्यापत्यम्' इत्यण्प्रत्ययः । अनेनाभिजन उक्तः । भूमिपालैरित्यनेन क्षत्रधर्मभूतभूमिपालनात्म- कवृत्तमुक्तम् । परिशेषाल्लोकश्रेष्टैरित्यनेन विद्योक्ता । एवमभिजन विद्यावृत्तैः सर्वाभ्य- हमनुप्रभृतिराजभिर्दीपितं प्रकाशितं स्वयमनुष्ठितमनुष्ठापितं च चित्रमाश्चर्यभूतम् । कश्मला हेया। किंवदन्ती लोकवादः ॥४२॥ खतो निदोषेत्याह-हा देवि । उत्पत्तिवंशदोषोऽपि नास्तीत्याह-देवयजनसंभवे ।वोत्पत्तिभूमेरपि शुद्धिजननीत्याह -खजन्मेति । संपर्कवशदोषोऽपि नास्तीत्याह-मुनिजनकेति । नन्दिनीत्यनेन औरसकन्यापेक्षयाभिमतेति व्यज्यते । गुरुदेवताभिमतेत्याह-पावकवसिष्ठेति । शीलेन वृत्तेन शाज्यते श्लाध्यत इति शीलशालिनी । 'शाङ्क श्लाघायाम्' इत्य- स्माद्बाहुलकारकर्मणि णिनिः । डलयोरेकत्वम् । तद्विवृणोति-राममयेति । अनेन उत्तररामचरिते - राममयजीविते, हा महारण्यवासप्रियसखि, हा तातप्रिये, हा स्तोकवा- दिनि, कथमेवंविधायास्तवायमीदृशः परिणामः । त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः। नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥ ४३ ॥ (दुर्मुखं प्रति ।) दुर्मुख, ब्रूहि लक्ष्मणम् । एष नूतनो राजा रामः समा- ज्ञापयति । (कर्णे ।) एवमेवम् । इति । नता अनीता रावणस्मरणमपि दूरोत्सारितमिति व्यज्यते । रामस्य रावणस्मरणगन्धासहलाने खिदमनुमेयम् । कि बनुष्ठानेन प्रकटितमित्याह-महारण्येति प्रियख विशेषणम् । निर्बन्धलोकवादादिव्यावृत्तिः । सखीत्यनेन दण्डकारण्यगमने पत्नीलप्रयुक्तप्राधान्य नाङ्गीकृतम् । किं तु पुरुषसिंहरामसमप्रधानलमेवेति । 'समानं ख्यायते इति सखा' इति व्युत्पत्तरुपलक्षणमिदं रामापेक्षया प्राधान्यस्यापि । 'अग्रतस्ते गमिष्यामि मृदन्ती कुशकण्टकान्' इत्युक्तलात् । तातस्य प्रिये अभिमते । 'वधू. चतुष्केऽपि' इत्यादिवक्ष्यमाणरीत्येति भावः । स्तोकं मितं वदन्तीत्यर्थः । 'सत्याय मितभाषिणाम्' इत्युक्तरीत्या । निमित्तलेशाभावेऽपि कथमयं परिणाम इति भावः। स्वयेति । लया जगन्ति पुण्यानि पुण्यवन्ति । मत्वर्थीयाच्प्रत्ययः । 'पापानां वा शुमानां वा वधार्हाणां प्लवङ्गम । कार्य करुणमायेंण न कश्चित्रापराध्यति ॥ इति त्वन्मतानुसारेण पापपुण्ययोरनुप्रहतौल्यादिति भावः । जनानामुपजीव्यविरोध इत्याह-स्वय्यपुण्या जनोक्तयः । अत्र त्वया जगन्ति पुण्यानीति भुवनानां पुण्य- त्वमुक्त्वा जनोकय इति जनशब्दोपादानान्नैवं लोकान्तरस्थानामुपजीव्यविरोध इति व्यज्यते । उकिपदेन वस्तुस्थित्यभावाद्विषयप्रभावाञ्च । इत्यं मनसा संभावनमपि नोचितम् । सुतरां बहिस्तदुतिः सापि जातेति व्यज्यते । जनानामुक्तय इति विप्र. हाद्यः कश्चिदित्यं प्रलपतीत्यपि न किंतु बहुजना एवं वदन्तीति व्यज्यते । षष्ठीबहुव- चनेन विप्रहे प्रमाणं तु-'रेरे पौरजानपदाः, न खलु भवतां देव्याः स्थानं गृहेऽभि- मतं ततः' इत्यादिवक्ष्यमाणरामवचनम् । तेऽपि कदाचिदित्युक्त्वा विरमन्तीत्यपिन बहुकृत्वो वदन्तीति बहुवचनार्थः । अपुण्या इति व्यतिरेकोक्त्या कश्चिदपि कदाचिदपि न यथार्थ प्रत्येतिनापि वतीति व्यज्यते। नाथवन्त इति। अहं लोकानामधीशः, ममत्वं नाथा। तथाच-'यस्यैते तस्य तद्धनम्' इति न्यायेन लोकानामपि त्वमेव नायिकेत्या- शयः। यद्वात्वं मय्यात्मतयावस्थिता, अहं च त्वयि तथावस्थितः।माह च हनूमान्- अस्या देव्या मनस्तस्मिस्तस्य चास्यां प्रतिष्ठितम् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ इति । तथा च लौकिकैर्मयि प्रतिपद्यमानं लोकनाथत्वं त्वदीयमित्यर्थः । इत्यायूहनीयम् । त्वमनायेति त्वत्सत्तामा मम लोकनाथत्वे प्रयोजनम् । अहं तु त्वदते व्यर्थ इति भावः। विपत्स्यसे विपन्ना भविष्यसि । पूर्ववियोगोऽपि रावणवधे- प्सितत्वादसत्कल्प इति न तस्मिंस्त्वं विपन्ना, अस्य तु वियोगस्य सौमित्रेरपि पत्रिणा मविषये तत्र प्रिये कासि मे' इति वक्ष्यमाणरीत्या पूर्वोपायाविषयत्वात् इतः परमेव ।

प्रथमोऽङ्कः।
सक
दुर्मुख:-हो, कहं अग्गिपरिसुद्धाए गब्भट्ठिदपवित्तसंताणाए
देवीए दुजणवअणादो एदं ववसिदं देव्वेण ।
रामः-शान्तं पापम्, शान्तं पापम् । दुर्जना नाम पौरजानपदाः।
इक्ष्वाकुवंशोऽभिमतः प्रजानां
जातं च दैवाद्वचनीयबीजम् ।
यच्चाद्भुतं कर्म विशुद्धिकाले
प्रत्येतु कस्तद्यदि दूरवृत्तम् ॥ ४४ ॥
तद्रच्छ।
दुर्मुखः हा देवि । (इति निष्कान्तः ।)
रामः-हा कष्टम् । अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः ।
शैशवाप्रभृति पोषितां प्रियां
सौहृदादपृथगाश्रयामिमाम् ।
छद्मना परिददामि मृत्यवे
on : सौनिको गृहशकुन्तिकामिव ॥ ४५ ॥
तत्किमस्पृश्यः पातकी देवीं दूषयामि । (इति सीतायाः शिरः समुन्नमय्य
बाहुमाकृष्य)।
१. हा, कथममिपरिशुद्धाया गर्भस्थितपवित्रसंतानाया देव्या दुर्जनवचना-
दिदं व्यवसितं देवेन ।
विपना भविष्यसीति लटा व्यज्यते । पूर्वार्धे विभावनाविशेषोऽलंकारः । 'विरुद्धात्का-
र्यसंपत्तिदृष्टा काचिद्विभावना' इति लक्षणात् ॥ ४३ ॥ इक्ष्वाकुवंश इति । विशु-
द्धिकाले यदद्भुतं कर्म तद्यदि तदस्तीति यद्युच्यते दुरवृत्तं कः प्रत्येति । न कोऽपी-
त्यर्थः ॥ ४४ ॥ हा कष्टमिति । नृशंसः क्रूरः । अतिबीभत्सकर्मेति प्रसिद्ध-
नृशंसायावृत्तिः । शैशवादिति । शैशवात्प्रभृति पोषितां बाल्यमारभ्य वर्धिताम् ।
अनेन 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' इति न्यायः स्फोर्यते । ननु खा-
प्रियत्वे त्याज्यवमित्यत्राह-प्रियामिति । ननु तथापि दोषप्रसकौ का गतिरित्य-
पाह-अपृथगाश्रयामिति । पृथगाश्रयरहितामित्यर्थः । ननु तथापि मनोवृत्तिरन्य-
त्रैत्यत आह-सौहृदादिति । इमामितीदंपदेन तात्कालिकान्तर्वनीवनिद्रावत्त्वादिक
परामृश्यते । छाना व्याजेन । सीताभिलषितनवप्रस्थापनव्याजेनेत्यर्थः । मृत्यवे परि.
ददामि । देयसाकल्यादानसाकल्यम् । तदिमाम् । गर्भस्थ शिशुद्धयं चेत्यर्थः । सौनिके
जीवहिंसाजी विनि । 'कर्मणा यमभिप्रेति स संप्रदानम्' इति चतुर्थ्यर्थे सप्तमी।
प्रथमान्तपाठोऽप्यस्ति । गृहशकुन्तिकाम् । तत्र 'अनुकम्पायां कन्' ॥ ४५ ॥

उत्तररामचरिते अपूर्वकर्मचण्डालमयि मुग्धे विमुश्च माम् । श्रितासि चन्दनम्रान्त्या दुर्विपाकं विषद्रुमम् ॥ ४६॥ (उत्थाय ।) हन्त हन्त, संप्रति विपर्यस्तो जीवलोकः । अद्यावसितं जीवितप्रयोजनं रामस्य । शून्यमधुना कीारण्यं जगत् । असारः संसारः। अपूर्वेति । अत्र मुग्धे विमुञ्च मामिति सिद्धसाध्यसमभिव्याहारन्यायेन अद्यतन- मोचनप्रसजकवतीत्यर्थो लभ्यते । मौरभ्यस्य मोचनप्रसजकत्वं च तदापादकसं- पर्कापादनद्वारा । स च संबन्धो रावणप्रत्याख्यानपूर्वको लकादेशीय एव । तथाहि-भवितव्यः परगृहवासो जातः, तथापि नैतावता ममात्याहितं प्रसज्जति । रावणो न मां बलात्कर्तुमर्हति । ततश्च सदभिमततदसंपादनेनैव कालयापनं सुकरम् । प्रत्याशया च स मा न हनिष्यति । रामस्तु इदानीं मां निर्दोषां परी- क्ष्यानुमन्यमानोऽपि कदाचित्कस्यचिद्वचनमनुसरंल्लोकाराधनश्रद्धया मामरण्ये परित्य- जेत् इत्यादिको विचारः सीतायाः स्यात् । तदा नैवंविधदुःखानुभवप्रसक्तिरिति तदिदं मौग्ध्यस्यायतनविपत्प्रयोजकत्वमित्याशयः । सर्वमिदं निर्वेदातिशयद्योतकम् । अपूर्वश्चासौ कर्मचण्डालश्चेति विग्रहः । चण्डालो हि क्रूरतमः । कर्मचण्डालस्तु सुत- राम् । यस्तत्रापूर्वो विलक्षणः अहं कर्मचण्डालो रावणादपि क्रूर इति भावः। स हिरा- वणो न सीतायाः प्राणहानिकरोऽभवत् । अहं तु तत्कारी भवामीति पूर्वोक्तमौव्यहेतु- कारमसंश्रयणमेवाह-श्रितासीति । द्रुमत्वोतिर्भूयस्वाभिप्रायात् । दुर्विपाकववचनम- त्यन्तक्रौर्यातिशयप्रतिपत्त्यर्थम् । चन्दनभ्रान्त्येत्येतदुःखभूयस्वावर्जनीयवख्यापना- र्थम् । अन्यभ्रान्तौ प्रवृत्तिमान्दादिकं स्यात् । असीत्यनेनाद्यापि न मुश्च सीत्यपि व्यज्यते। श्रितेति कर्तृवाचकनिष्ठान्तम् । तेन श्रवणस्य लङ्कादेशीयखलाभः । अयमाशयः- लोके हि फलवज्जातीयानामपि वृक्षाणामफलत्वे छेद एवोचितः । अनर्थावहत्वे तु सुत- राम्।विषवृक्षस्य तु छेदे का प्रतिहतिः। तस्यापि दुर्विपाकत्वे सर्वथा छेद्यखमेव । तथापि 'विषवृक्षोऽपि संवर्ध्य वयं छत्तमसांप्रतम्' इति न्यायेन यदि छेदप्रतिषेधः, तर्हि तस्य परित्यागे का प्रतिहतिः । अत्र क्रूररामकर्मकसंश्रयणप्रतिबिम्बस्य सीताप्रस्तुतकर्तृकदु. विपाकविषहमाश्रयणस्य वर्णनाललितालंकारः। प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्ण- नम् । ललितम्' इति लक्षणात् ॥४६॥ हन्तेति दुःखे । संप्रति सीताविरहे। विपर्य-तो- ऽन्यथाभूतः। साहित्ये 'यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना' इति रामायणोक्त- रीत्या जीवलोकस्य वर्गलम् । वियोगे तु नरकवमेवेति । स्वर्गान्यस्य नरकस्यैव वा- रसिकलात्प्राणिनां नरकप्राप्तावपि नात्मवस्तुनाशः । मम तु सीतामयजीवितलात्त.. माशे जीवितनाश इति । अद्यावसितमिति समाप्तं जीवितमेव प्रयोजनम् । जीवित- मिति वक्ष्यमाणमिहानुसंधेयम् । सीताविरहितजीवितं निष्प्रयोजनमित्यर्थः । यत एवं ततोऽधुना जीर्णारण्यं जगत्स्वर्गादिकं ह्यात्मनः स्थिरत्वे कालान्तरानुभाव्यं स्यात् । 'अनादौ संसारे' इति न्यायात् । आत्मवस्तुनाशे तु खानुपभोगात् जीारण्यत्वम् सीतासाहित्ये हि अरण्यस्यापि पञ्चवव्याः यस्यां ते दिवसाः इति रीत्या खगृहत्वात् तद- प्रथमोऽङ्कः। काष्ठप्रायं शरीरम् । अशरणोऽस्मि । किं करोमि । का गतिः। अथवा । दुःखसंवेदनायैव रामे चैतन्यमागतम् । मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥ ४७॥ हा अम्ब अरुन्धति, भगवन्तौ वसिष्ठविश्वामित्रो, भगवन्पावक, हा देवि भूतधात्रि, हा तात जनक, हा मातः, हा प्रियसख महाराज सुग्रीव, सौम्य हनूमन् , महोपकारिन् लङ्काधिपते विभीषण, हा सखि त्रिजटे, परिमुषिताः स्थ परिभूताः स्थ रामहतकेन । अथवा को नाम तेषामहमिदानीमाहाने । योगे तु स्वगृहस्यापि जीर्णारण्यत्वमित्याशयः । असारः शून्यः । काष्ठप्रायं शरीरम् । 'ज्योत्स्नेव हिमदीधितेः' इत्युक्त्या यथा चन्द्रस्य कौमुद्यभावे काष्ठप्रायता तद्वत्वस्येति भावः । अद्य पूर्ववत् 'सुग्रीवं शरणं गतः', 'सागरं शरणं गतः' इत्यादिकस्य नाव- काश इत्याह-अशरणोऽस्मीति । पूर्ववत्सेतुबन्धनादि कर्तव्यं नास्तीत्याह-किं करो- मीति । अद्य पूर्ववद्रावणवधादिरूपप्राप्यं नास्तीत्याह-का गतिरिति । गम्यत इति गतिः । यतश्चैवं ततः क्व गच्छामि, किमरण्यं गच्छामि, उत पातालविवरम् । किंवा मरणं गच्छामि इति विकल्पाशयः न तूक्तः कल्पः सर्वोऽपि न कल्पत इत्याह-अथ वेति पूर्वोक्तक्षेपकः । दुःखेति । चैतन्यमात्मा ज्ञप्तिर्वा । दुःखसंवेदनायैव रामे आगतम् । आगतमित्यनेन दुर्मुखवाक्यश्रवणानन्तरं गतं चैतन्यं पुनरागतमिति व्य- ज्यते यद्वा शक्तिप्रहारादिषु गतं पुनरागतमिति वा। पट्टाभिषेकादिनान्तरीयकसुखं तु असत्कल्पमिति हृदयम् । 'अर्पितम्' 'आहितम्' इति पाठयोस्तु आदितःप्रभृति 'राज्याझंशो वने वासः सीता नष्टा द्विजो हतः। ईदृशीयं ममालक्ष्मीनिर्दहेदपि पाव- कम् ॥' इत्युक्तरीत्या दुःखानुभवायैव चैतन्यसद्भाव इति भावः । खर्मिणां चैतन्य दुःखासंभिन्नसुखानुभवाय । जनानां दुःखमिश्रसुखानुभवाय । मम सुखासंभिन्नदुःखा- नुभवाय । तस्मात्पातालविवरगमनेऽप्यपरिहार्य दुःखमिति भावः । तर्हि मरणं गमि- ध्यामीति कल्पः कल्प्यतामित्याह-मर्मोपघातिभिरिति ।मम हृदयादिप्रदेशानुपनन्तीति विग्रहः । 'सुप्यजाती-' इति णिनिः। न केवलं दुःखानुभवापादकाः किं तु स्वयमपि दुःखप्रदा इति भावः। वज्रकीलवदुरुद्धरतया स्थिरीभूयते । भङ्गानहत्वेन वा सादृश्यम् । तथा च मरणमपि दुर्लभमित्यर्थः ॥४७॥ हेति । अरुन्धति। अरुन्धतीकृतसीतापाति- व्रत्यानुमोदनं न प्रमाणीकृतमिति भावः । भगवन्ताविति । भवतां ज्ञानशक्किमपि खला न पश्यन्तीति भावः । पावकेति । तव वचनप्रवेशौ व्यर्थाविति भावः । भूत- धात्रि, त्वत्सुतायामनिमित्तदोषवादिनोजनान्कथं बिभर्षीति भावः। सौम्येति । सी. वावृत्तान्तकथनजनितानन्दप्रयुक्तमत्कृतालिङ्गनमद्विज्ञातशरीरसौभगभवदीयप्रयासो .. .

उत्तररामचरिते ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना । मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥ १८ ॥ योऽहम् । विसम्भादुरसि निपत्य जातनिद्रा- मुन्मुच्य प्रियगृहिणी गृहस्य लक्ष्मीम् । आतस्फुरितकठोरगर्भगुवी क्रव्याञ्यो बलिमिव दारुणः क्षिपामि ॥ ४९ ॥ (सीहायाः पादौ शिरसि कृत्वा ।) अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः। (इति रोदिति ।) (नेपथ्ये ।) अब्रह्मण्यमब्रह्मण्यम् । रामः-ज्ञायतां भोः, किमेतत् । (पुनर्नेपथ्ये ।) ऋषीणामुग्रतपसां यमुनातीरवासिनाम् । लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥ ५० ॥ रामः-कथमद्यापि राक्षसत्रासः । तद्यावदस्य दुरात्मनो माधुरस्य कुम्भीनसीकुमारस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । (परिक्रम्य पुनर्निवृत्य ।) हा देवि, कथमेवंविधा गमिष्यसि । भगवति वसुंधरे, सुश्लाध्यां दुहितरमवेक्षख जानकीम् । व्यर्थ इति भावः । परिमुषिताः मुषितद्रव्यकाः । ते हीति । कृतं उपकार हन्तीति कृतघ्नः । एतत्कृतपूर्वोपकारविस्मरणादिति भावः ॥ ४८ ॥ विनम्भादिति । विसम्भादन्तरगत इति ज्ञानादिति भावः । गृहस्य लक्ष्मी शोभा तदलंकारभूताम् । कठोरगर्भः पूर्णगर्भः । गुर्वीमित्यनेन यमलत्वं सूचयति । क्रव्याद्भयो मांसभक्षकेभ्यः। क्रव्यं मांसमदन्ति खादन्तीति विग्रहः । 'क्रव्ये च' इति विद ॥ ४९ ॥ अब्रह्मण्यं ब्राह्मणानामत्याहितम् । 'अब्रह्मण्यमवध्योत्तौ' इत्यमरः ॥ ऋषीणामिति । लवणो नाम राक्षसस्तेन त्रासितो ऋषीणां स्तोम इत्यन्वयः ॥५०॥ कथमित्यादि । निःशे- षितराक्षसकुलवात्वस्येति भावः । यद्वा कथमद्य राक्षसत्रासोऽपीत्यन्वयः । न केवलं सीताविश्लेषदुःखप्राप्तिः किं तु राक्षसभयं चेति समुच्चयार्थः । कथमिति विसये। पूर्ववदेवोभयं मिलितमिदमाश्चर्यमिति भावः । दुरात्मनो दुर्बुद्धेः । माधुरस्य मधुरेश्व- रस्य । कुम्मीनसी नाम तन्माता । उन्मूलनाय मूलेन सहोत्पाटनायेति यावत् । प्रेष- यामि प्रेषयिष्यामि । 'यावत्पुरानिपातयोर्ल' । एवंविधा मया वश्चिता गर्मिणी सती ।

प्रथमोऽङ्कः। उन ४२ जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् । यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥ ५१ ।। (इति रुदनिष्कान्तः।) सीता-हाँ सोह्म अजउत्त, कहिंसि । (इति सहसोत्थाय ।) हद्धी हद्धी । दुस्सिविणरणरणअविप्पलद्धा अजउत्तसुण्णं विअ अत्ताणं पेक्खामि । (विलोक्य ।) हद्धी हद्धी। एआइणि पसुत्तं मं उज्झि कहिं गदो गाहो । होदु । से कुप्पिस्सं जइ तं पेक्खन्ती अत्तणो पहविस्स। को एत्थ परिअणो। (प्रविश्य ।) दुर्मुखः-देवि', कुमारलक्खणो विण्णवेदि-'सजो रहो । तं आरुहदु देवी' ति। सीता-ईआरूढमि । (उत्थाय परिक्रम्य ।) फुरइ मे गन्भमारो। सणि गच्छद्म । दुर्मुखः-ईदो इदो देवी। १. हा सौम्य आर्यपुत्र, कुत्रासि । हा धिक् हा धिक् । दुःस्वप्मरणरणक- विप्रलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि । हा धिक् हा धिक् । एकाकिनी प्रसुप्तां मामुज्झित्वा कुत्र गतो नाथः । भवतु । अस्मै कोपिष्यामि यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि । कोऽत्र परिजनः । २. देवि, कुमारलक्ष्मणो विज्ञापयति-'सज्जो रथः । तदारोहतु देवी' इति । ३. इयमारूढास्मि । स्फुरति मे गर्भभारः । शनैर्गच्छामः । ४. इत इतो देवी। - कथं गमिष्यसीति भावः । भगवति सर्वज्ञे। सुश्लाध्यां निर्दोषां निरुपप्लवां वा । जन- कानामिति । यत्कृत्स्नं गोत्रमङ्गलम् । यदिति विधेयापेक्षया क्लोबम् । अजीजनः । उत्पादितवत्यसीत्यर्थः । अत्र बिन्दु म संध्यङ्गमुक्तम् । दाम्पत्य विशेषविच्छेदहेतु- खात्पुनरच्छेदकारणत्वाच । तदुक्तम्-'अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्। इति ॥५१॥ कोऽत्र परिजनः । परिजनस्य मध्ये कोऽत्र संनिहित इत्यर्थः। परिज- नस्येति निर्धारणे षष्ठयेकवचनान्तम् । निर्धारणे षष्ठीप्रयोगोऽप्यति ॥ सद्यो गमनाय ५उ० रा.

उत्तररामचरिते
सीता-मो रहुउलदेवदाणं ।
(इति निष्क्रान्ताः सर्वे ।)
इति महाकविश्रीभवभूतिविरचित उत्तररामचरिते
प्रथमोऽदः
१. नमो रघुकुलदेवताभ्याम् ।
संनद्धः ॥ रघुकुलदेवते लक्ष्मीनारायणाथिति प्रसिद्धमेव । तन्नमस्कारो यात्राकाले
विहितः । 'आदित्यमण्डले विष्णुं ध्यात्वा यात्रां प्रवर्तयेत्' इति स्मरणात् ॥
दाशरथिवंशजनुषो भूसारजवीरराघवार्यस्य ।
उत्तररामचरित्रव्याख्याकेष्वादिमः प्रायात् ॥
इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पर्शिनी-
समाख्यायामुत्तररामचरितव्याख्यायां प्रथमोऽङ्कः ।

उत्तररामचरितम् HAR द्वितीयोऽङ्कः। (नेपथ्ये।) खागतं तपोधनायाः। (ततः प्रविशत्यध्वगवेषा तापसी।) तापसी -अये वनदेवता फलकुसुमगर्भण पल्लवायेण दूरा- न्मामुपतिष्ठते । (प्रविश्य ।) वनदेवता-(अर्घ्य विकीर्य ।) यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति । तरुच्छाया तोयं यदपि तपसां योग्यमशनं फलं वा मूलं वा तदपि न पराधीनमिह वः ॥१॥ तापसी-किमत्रोच्यते । प्रियप्राया वृत्तिविनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरेनवगीतः परिचयः। परिचिता:जत नेपथ्यइति। 'कुशीलवकुटुम्बस्य स्थली नेपथ्यमिष्यते' इत्युक्ततिरस्करिणीति रोहितनर्तनभूमिकापरिग्रहौपयिकस्थानविशेष इत्यर्थः ॥ वनदेवतेति । पल्लवायेण पल्लवयुक्तपूजाद्रव्येण दूरात् प्रविष्टा सती उपतिष्ठते पूजयति । देवतात्वारोपादात्म. नेपदम् । दूरादित्यपादाने पञ्चमी । यद्वा मामुपतिष्ठते संगता भवति । 'गङ्गा यमु- नामुपतिष्ठते' इतिवत् उभयत्रापि 'उपाद्देवपूजा-' इत्यादिना तङ् ॥ अर्घ्य विकीर्य दत्वा । यथेच्छेति । इदम् । मदीयमित्यर्थः । वनं वनमेव न तु स्पृहणीयपु. रप्रासादादिकमित्यपरितोषो व्यज्यते । तथापि. 'अविद्यमानं कर्णोऽपि' इति न्यायेन यथाधिकार सभाजयितव्यमेवेत्याह-यथेच्छाभोग्य इच्छामनतिक्रम्य यथेच्छम् । यथेच्छं आभोग्यमिति विग्रहः । इच्छानिवृत्तिपर्यन्तमसंकोचेनोपभोगाहमित्यर्थः । व इति पूजायां बहुवचनम् । अतिथिसामान्याभिप्रायकं वा । अयं मे सुदिवसः साधुजनसंपर्कादिति भावः । सतां विद्यमानानामेव, नतु प्रसादनादि कुर्वतामित्यर्थः । सद्भिः साधुभिः सह सङ्गः संपर्कः कथमपि कृछ्रेण पुण्येन भवति साधुजनसंपर्क- लाभः प्रणिपातादिसाध्यो भवति । तदभाववतां तु दृष्टहेत्वभवात् केवलादृष्टसाध्यो • भवतीति भावः । यद्वा कथमपि सतां येन केन प्रकारेण वर्तमानानाम् । कामचारे स्थितानामित्यर्थः । सद्भिः । ब्रह्मविद्भिरित्यर्थः । 'अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रुतेः । सरः संपर्कः पुण्येन हि भवति । अयमाशयः-'तस्मादेवं विदा नासीत' इति श्रुत्या ब्रह्मज्ञानवतां तच्छून्यैः सहवासादिकं प्रतिषिद्धम् । एवं च तेषां तैः समः पुण्यैकसाध्य इति । इदं च खनिकर्षभावनाकार्यम् । फलं वा मूलं वा इतोऽन्य- दपि तपसा योग्यमशनम् । नीवारपाण्डुपत्रवातजलादिकमित्यर्थः । तदपि च परा- - .

५२ उत्तररामचरिते। निरासपद .. - पुरो वा पश्चाद्वा तदिदमूविपर्यासितरसं रहस्य साधूनाम पधि विशुद्धं विजयते ॥ २ ॥ (उपविशतः।) वनदेवता-का पुनरत्रभवतीमवगच्छामि । तापसी-आत्रेय्यस्मि । वनदेवता-आर्ये आत्रेयि, कुतः पुनरिहागम्यते किंप्रयोजनो दण्डकारण्योपवनप्रचारः।। आत्रेयी- अस्मिन्नगस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथ विदो वसन्ति । तेभ्योऽधिगन्तुं निगमान्तविद्यां वाल्मीकिपार्धादिह पर्यटामि ॥ ३ ॥ वनदेवता- यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृर्षि ब्रह्मपारायणायोपासते । तत्कोऽयमार्यायाः प्रवासः । ' धीन नेति ॥ १ ॥ प्रियेति । प्रियप्राया प्रियप्रचुरा युक्ता चेत्यर्थः । वृत्तिः कायि- कव्यापारः । तथापि वाक्रौर्ये महान्दोष इत्यत आह-विनयमधुरो वाचि नियमः विन- येन खनिकर्षभावनारूपेण खोत्कर्षाननुसंधानरूपेण वा मधुरः प्रियः वाचि नियमः सत्याय मितभाषित्वम् । तथापि मनोवृत्तिदौष्ट्यं स्यादत आह-प्रकृत्या क्रमाणी मतिः प्रकृत्या खभावतः कल्याणी प्रेयखिनी । तथाप्यसत्सङ्गवशाद्वैपरित्यं स्वादत बाह-अनवगीतः । अनिन्दित इत्यर्थः। तदिदं वृत्तिवाचिनियमादिपरिचयसमुदाय- रूपं विजयते सर्वोत्कर्षेण वर्तते । तत्कथंभूतमित्याह-पुरो वा पश्चाद्वा भूतभविष्यत्का- लयोः। तत्तत्पुरुषसंनिधानयोरिति वार्थः। अविपर्यासितरसं अन्यूनस्वभावम् । रसपदेन प्रियत्वं व्यज्यते । अनुपधि निर्व्याजं विशुद्ध प्रामादिकदोषरहितं रहस्यम् । 'शीलं संव- सता ज्ञेयम्' इति न्यायेन चिरकालशुश्रूषादिभिरेव ज्ञातुं शक्यं नतु दाम्भिकवृत्तिवत्वयं प्रकटमित्यर्थः । तथाविधं तदिदं विजयत इति योजना ॥२॥ अवगच्छामि जानामि ॥ किंप्रयोजन इति । प्रचारः संचारः॥ अस्मिन्निति । अगस्त्यप्रमुखा अगस्त्यप्रभृ. तयो भूयांसो बहव उद्गीथविदः । 'ओमित्युद्गीथमुपासीत' इति परस्मिन् ब्रह्मणि उदी. भदृष्टिं कुर्वन्त इत्यर्थः । दहरविद्यादीनामुपलक्षणम् । सकलवेदान्ततात्पर्यपालोचने- शीला इति भावः । तेभ्यः अधिगन्तुं तत्कृतव्याख्यानेन ज्ञातुम् । 'आख्यातोपयोगे' इति पञ्चमी । पर्यटामि। 'अट गतौ ॥३॥ यदा तावदिति । पुराणश्चासौ ब्रमवादी चेति विग्रहः। ब्रह्म परमात्मानं वेदान्वा वदतीति णिनिः । पुराणत्वेषाचेतसमिति हेतु- कथनम् । ब्रह्मपारायणाय वेदान्तविद्याध्ययनाय । पारायणं नाम आदित आरम्या: । .

द्वितीयोऽङ्कः । ५३ अतु आत्रेयी-तस्मिन्हि महानध्ययनप्रत्यूह इत्येष दीर्घप्रवासोऽङ्गीकृतः। वनदेवता-कीदृशः One प्लतया आत्रेयी-तत्र भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं खन्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम् । तत्खलु न केवलं तस्य, अपि तु तिरश्वामप्यन्तःकरणानि तत्त्वान्युपलेहयति । वनदेवता-अपि तयोर्नामसंज्ञानमस्ति । आत्रेयी-तयैव किल देवतया तयोः कुशलवाविति नामनी च प्रमावश्चाख्यातः। वनदेवता-कीदृशः प्रभावः । आत्रेयी-तयोः किल सरहस्यानि जृम्भकास्त्राणि जन्मसिद्धानीति । वनदेवता-अहो नु भोश्चित्रमेतत् । आत्रेयी तौ च भगवता वाल्मीकिना धात्रीकर्मत; परिगृह्य पोषितो रक्षितौ च । निवृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधा- नेन परिनिष्ठापिताः । तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीविद्यामध्याक्तिौ । न त्वेताभ्यामतिदीप्तिप्रज्ञाभ्यामस्मदादेः सहाध्य- यनयोगोऽस्ति । यतः। नीनाले न्तादविच्छेदेनाध्ययनमुपासते। तदिति । प्रवासो देशान्तरगमनम् ॥ तसिन्निति। प्रत्यूहः विघ्नः । तस्येति । स्तन्यत्यागमात्रं यस्मिन्निति बहुव्रीहेः कप्प्रत्ययः । दारक- द्वयं शिशुद्वयम्। तदिति । तस्य वाल्मीकेः तिरश्चामपि मृगाणामप्यन्तःकरणानि हृद. यरूपाणि तत्त्वानि पदार्थानुपनेहयति संनिधानीकरोति ॥ अपीति । नानोऽमिला- पकशब्दस्य संज्ञानं संकेतसंबन्धकरणम् ॥ तयोरिति । जन्मसिद्धानि जन्मना ज्ञा- तानि न तूपदेशेन ॥ तौ चेति । धात्रीकर्मत उपमातृव्यापारेण । पोषितौ क्षीरादिना वर्धितो रक्षितौ । पिपीलिकादिभ्य इति भावः । निवृत्तेति । निवृत्तं निष्पन्नम्। त्रयी- वर्ज वर्जयिला अशान्यपीति शेषः । इतराः 'आयुर्वेदोधनुर्वेदतथा गान्धर्वनामकः' इत्युका इत्यर्थः । सावधानेन । वाल्मीकिनेति शेषः । परिनिष्ठापिताः सम्यनिष्पादि. ताः । तदनन्तरमिति । एकादशानां पूरणं एकादशम् 'तस्य पूरणे-' इति डटप्रत्य- यः गर्भात गर्भवर्षात एकादशं गर्भेकादशं तस्मिनित्यर्थः । गर्भकादशेषु राजन्यम्' इति स्मकल्प्यतेऽनुष्ठीयतेऽनेनेति कल्प:। अनुष्ठानपरिपाठीप्रकाशकप्रन्यान खेता- * ५४ उत्तररामचरिते 511- लक्ष्मीर वितरति गुरुः प्राशे विद्यां यथैव तथा जडे न तु खलु तयो ने शक्तिं करोत्यपहन्ति वा । भवति हि पुनर्भूयान्भेदः फलं प्रति तद्यथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥ ४ ॥ वनदेवता -अयमध्ययनप्रत्यूहः। आत्रेयी-अन्यश्च । वनदेवता-अथापरः कः। आत्रेयी-अथ स ब्रह्मर्षिरेकदा माध्यंदिनसवनाय नदीं तमसामनु- प्रपन्नः । तत्र युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन वध्यमानं ददर्श । आ- कस्मिकप्रत्यवभासां देवीं वाचमानुष्टुभेन छन्दसा परिणतामभ्युदैरयत् । मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ ५॥ वनदेवता-आनायादन्यत्र नूतनच्छन्दसामवतारः । आत्रेयी-तेन हि पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमृ- षिमुपसंगम्य भगवान्भूतभावनः पद्मयोनिरवोचत्-ऋषे, प्रबुद्धोऽसि भ्यामिति । दीप्ति प्रतिभा । प्रज्ञा ज्ञानं उतार्थग्रहणम् । वितरतीति । तयोः प्राज्ञ. जत्योः हाने शफि न करोति, प्राज्ञस्य हाने अपूर्वा शक्ति न जनयति । जडस्य झाने शफि नापहन्ति जडस्य ज्ञाननिष्ठां शक्ति न नाशयति । बिम्बमाहे प्रतिबिम्बज्ञानो. त्पादने मणिः वजं रनसामान्य वा । मृदादयः । भादिपदात् वृक्षपाषाणलोष्टप्रहणम् ॥४॥ अथेति प्रश्ने ॥ अथेति ।माध्यंदिनसवनाय मध्यंदिनसंबन्धिकर्मणे । अनु- प्रपन्नः प्राप्तः । तत्रेति । युग्मं द्वन्द्वं यथा तथा चरत इति युग्मचारिणौ तयोः को- चयोः पक्षि विशेषयोः । व्याधेन पुलिन्देन । ददर्श अपश्यत् । आकस्मिकप्रत्यय भासां निर्हेतुकाविर्भावाम् । आनुष्टुमेन छन्दसा । स्वार्थिकोऽणप्रत्ययः । मा निषा. देति । प्रतिष्ठा तु अम गमः इति पदचतुष्टयं निषादपक्षे बोध्यम् । एवं च माङ्- योगेऽडागमनिषेध उपपद्यते । अमेत्यस्य न विद्यते मा लक्ष्मीः यस्येति विप्रहः । एवं च अलक्ष्मीकेति निषादं प्रति मन्युर्गम्यते । अतएव भगवन्तं प्रति रावणवध- जनितप्रीत्यतिशयेन मानिषादेति सलक्ष्मीकलप्रतिपादनम् । भगवत्परत्वे मा लक्ष्मीः निषीदत्यस्मिन्निति मानिषादः । बाहुलकादधिकरणे घञ् । तस्य संबुद्धिः निषेधार्थ- माशब्देन भडागमसमर्थनं तु क्लिष्टम् । प्रतिष्ठा आस्पदम् । व्याधपक्षे मा गमः न गच्छेः । भगवत्पक्षे अगमः प्राप्तवानिति । समाः संवत्सरान् । अत्यन्तसयोगे द्वितीया ॥५॥ आनायात् वेदात् ॥ तेनेति । तेन समयेन कालेन । भूतेन प्रजाः भावयति उत्पादयतीति विग्रहः । यद्वा भूतं सत्यम् , निनिरोधमिति वा भावना व्यवसाय: यस्येति वा पायोनिः भगवन्नाभिकमलजातः । अनेन पूर्वोकभूतभावनत्वप्रयुक ।

द्वितीयोऽङ्कः । . वागात्मनि ब्रह्मणि । तद्रूहि रामचरितम् ।अव्याहतज्योतिरार्षे ते चक्षुः प्रतिभातु । आद्यः कविरसि' इत्युक्त्वान्तर्हितः । अथ स भगवान्प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय । वनदेवताहन्त पण्डितः संसारः । आत्रेयी-तस्मादेव हि ब्रवीमि तत्र महानध्ययनप्रत्यूह इति । वनदेवता-युज्यते । आत्रेयी-विश्रान्तास्मि भद्रे संप्रत्यगस्त्याश्रमस पन्थानं ब्रूहि । वनदेवता-इतः पञ्चवटीमनुप्रविश्य गम्यतामनेन गोदावरीतीरेण। आत्रेयी-(सास्रम् ।) अप्येतत्तपोवनम् । अप्येषा पञ्चवटी। अपि सरिदियं गोदावरी । अप्ययं गिरिः प्रसवणः। अपि जनस्थानवनदेवता त्वं वासन्ती। वनदेवता-तथैव तत्सर्वम् । आत्रेयी-हा वत्से जानकि । स एष ते. वल्लभशाखिवर्गः प्रासङ्गिकीनां विषयः कथानाम् । स्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृष्टामिव नः करोति ॥ ६ ॥ वासन्ती-+(सभयम् । खगतम् ।) कथं नामशेषेत्याह । (प्रकाशम् ।) किमत्याहितं सीतादेव्याः। आत्रेयी-न केवलमत्याहितम् , सापवादमपि । वर्ग ।) एवमिति । वासन्ती हा दारुणो देवनिर्धातः । (इति मूर्च्छति ।) आत्रेयी-भद्रे, समाश्वसिहि समाश्वसिहि । त्वशका निराकृता। प्रबुद्धोऽसि प्रकृष्टज्ञानवानसि । वागेव आत्मा यस्य तस्मिन् ब्रह्मणि शब्दब्रह्मणि । वाचो वैपुल्यामिप्रायकं ब्रह्मत्वरूपणं ब्रह्मतत्त्वमेव शब्दरूपेण भातीपर्व इति कैयटमतानुसारेण वा । अव्याहतज्योतिः अप्रतिहतप्रकाशं आर्ष ऋषिसंबन्धि योगजन्यज्ञानं चक्षुः नेत्रं ज्ञानमिति फलितोऽर्थः । 'तत्सर्व मप्रसादेन विदितं ते भविष्यति' इत्यादि रामायणे द्रष्टव्यम् । आयः कविरसीत्युक्खा अनुगृह्य । अन्तर्हितः परोक्षता गतः ॥ स इति । दृश्यमानः दृष्टिविषयीभूतः। प्रासङ्गिकीनां प्रसक्खनु- असल्या जातानां कथाना प्रश्नप्रतिवचनरूपाणां वाक्यसंदर्भाणां विषयः प्रतिपाद्यः बलभशासिनो खयं वर्धितखात् अत्यर्थप्रीतिविषयाणां वृक्षाणां शाखिनामिति वचनं सीताकरसप्रयुकस्मीतत्वाभिप्रायकम् ॥६॥ दैवनिर्धातः दैवप्रहारः । दारुणः तीवः।

T उत्तररामचरिते निजी कर्म वासन्ती हा प्रियसखि, ईदृशस्ते निर्माणभागः । हा रामभद्र । अथवा अलं त्वया । आर्ये आत्रेयि, अथ तस्मादरण्यात्परित्यज्य निवृते लक्ष्मणे सीतायाः किं वृत्तमिति काचिदासीत्प्रवृत्तिः । आत्रेयी -नहि नहि । a वासन्ती-कष्टम् । आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु जीव- न्तीषु च वृद्धासु राज्ञीषु कथमिदं जातम् । आत्रेयी-ऋष्यशृङ्गसत्रे गुरुजनस्तदासीत् । संप्रति परिसमाप्तं द्वा- दशवार्षिक सत्रम् । ऋष्यशृङ्गेण च संपूज्य विसर्जिता गुरवः । ततो भगवत्यरुन्धती नाहं वधूविरहितामयोध्यां गच्छामीत्याह । तदेव राममातृभिरनुमोदितम् । तदनुरोधाद्भगवतो वसिष्ठस्यापि श्रद्धा वाल्मी- किवनं गत्वा वत्स्याम इति । वासन्ती-अथ स रामभद्रः किमाचारः । आत्रेयी-तेन राज्ञा राजक्रतुरश्वमेधः प्रक्रान्तः । वासन्ती-अहह धिक् । परिणीतमपि । आत्रेयी-शान्तम् । नहि नहि । वासन्ती- '-का तर्हि यज्ञे सहधर्मचारिणी । आत्रेयी-हिरण्मयी सीताप्रतिकृतिर्गृहिणीकृता । वासन्ती-हन्त भोः वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ७ ॥ हा प्रियसखीति । निर्माणभागः सृष्टिफलम् । अथवेति जनवापिधानस्य दुःशक- त्वादिति भावः । किं वृत्तमिति निष्पन्नमिति । प्रवृत्तिः वार्ता । आसीत् अभूत् । किमिति काका योजनीयम् ॥संप्रति परिसमाप्तमिति । इदमेवाभिसंधाय पूर्वोकव्याख्या नमिति न विस्मर्तव्यम् । वधूविरहिता स्नुषाविरहिताम् । तदन्धिति । तदनुरोपात तदनुसरणात् । श्रद्धा निश्चयः। यथेति । किमाचारः कीदृशव्यापारवान् ॥ तेनेति। राजक्रतुः राज्ञां साधारणो यः क्रतुः क्रतुराजो वा अश्वमेधः । राजदन्तादित्वात् पर- निपातः ॥ सीतेति । सीतायाः प्रतिकृतिः प्रतिमा । गृहिणीकृता धर्मपनीकता । वजादपीति । अयमाशयः-निर्दोषायां सीतायां रामहृदयस्य मृदुत्वमेव खामा. विकम् । कठोरत्वं तु मूर्खलोकानुसरणार्थत्वादागन्तुकमिति प्रतिकृतिकरणादगम्मत इति । नच 'यस्य भार्या विदूरस्था यदि सा दूषितापि वा । अनिच्छुः प्रविका क ।

- द्वितीयोऽङ्कः। arvet - आत्रेयी-विसृष्टश्च वामदेवानुमत्रितो मेध्याश्वः । प्रक्लृप्ताश्च तस यथाशास्त्रं रक्षितारः । तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतुर्दत्तदि- व्यास्त्रसंप्रदायश्चतुरङ्गसाधनान्वितोऽनुप्रहितः । वासन्ती-(सहर्षकौतुकास्रम् ।) कुमारलक्ष्मणस्यापि पुत्र इति मातर, जीवामि। आत्रेयी-अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुरिक्षप्य राजद्वारे सोरस्ताड- मब्रह्मण्यमुद्घोषितम् । ततो न राजापचारमन्तरेण प्रजानामकालमृत्युः संचरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचरत्- शिम्बूको नाम वृषलः पृथिव्यां तप्यते तपः । शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् ॥ ८॥ इस्युपश्रुत्य कृपाणपाणिः पुष्पकमधिरुह्य सर्वा दिशो विदिशश्च शूद्रता- पसान्वेषणाय जगत्पतिः संचारं समारब्धवान् । वासन्ती-शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति । अपि नाम रामभद्रः पुनरिदं वनमलंकुर्यात् । आत्रेयी-भद्रे, गम्यतेऽधुना । वासन्ती-आर्य आत्रेयि, एवमस्तु । कठोरश्च दिवसः । कण्डूलद्विपगण्डपिण्डकषणाकम्पेन संपातिभि- धर्मसंसितबन्धनैश्च कुसुमैरर्चन्ति गोदावरीम् । तस्याः प्रतिकृती क्रिया ॥ इति स्मरणात् । प्रतिकृतिकरणं मृदुत्वानुपपादकमिति वाच्य. म् । तस्य परिणयान्तराशकनिरवकाशक्रियाविषयत्वात् । अश्वमेधादेः सावकाशवात् परिणयान्तरशकलात् । किंच सीतासदृशप्रतिमाकरणं मृदुखापादकमेव । एतादृशवि. अरसाध्यलात् 'को हि विज्ञातुमर्हति' इति तज्ज्ञानखरूपयोग्यतापि दुर्लमेत्युक्तम् । अवार्थान्तरन्यासालंकारः ॥ ७॥ वामदेवेन अनुमत्रितः अनुज्ञातः । वसिष्ठासंनिधा- नादिति भावः । मेध्याश्वः यज्ञीयाश्वः । प्रकृप्ता इति । यथाशास्त्रं शास्त्रोक्तन्यायेन । तेषामिति 'चतुःशता रक्षन्ति यज्ञस्याघातये' इत्यादिश्रुतिमनुल्लङ्घय अधिष्ठाता निया- मकः अनुप्रहितः । अत्रान्तर इति । अब्रह्मण्य मिति वचनम् । उद्घोषितं उच्चैरुच्चा. रितम् । तत इति । राजापचारं राजदोषम् । निरूपयति मीमांसमाने । करुणामये परदुःखदुःखिखरूपानुकम्पाप्रचुरे। उदचरत् उद्गतवती।शम्बूक इति। तपः तप्यते तपश्चरति । 'तप ऐश्वर्ये वा' इति तङ् । दिवादित्वात् श्यन् । शीर्षच्छेद्यः 'शिरश्छेदा- च' इति यत्प्रत्ययः ॥८॥ दिशः प्राच्यादयः, विदिशः आग्नेय्यादयः ॥ अपिनामेति अलंकर्यादिसनेनान्वयः । संभावनायामपिशब्दः ॥ कण्डूलेति । कण्डमानो सुन उचररामचरिते २ truf छायापस्किरमाण विष्किरमुखव्याकृष्टकीटत्वचः कूजकान्तकपोतकुकुटकुलाः कूले कुलायद्रुमाः ॥९॥ (इति परिक्रम्य निष्कान्ते।) इति शुद्धविष्कम्भः। (ततः प्रविशति सदयोद्यतखगो रामभद्रः ।) हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसुज शूद्रमुनौ कृपाणम् । कण्ड्मतां द्विपगण्डपिण्डानां पिण्डाकारगजकपोलानां कषणेन संघटनया आकम्पेन अत्यर्थचलनेन संपतन्तीति संपातिनः तथाविधैः धर्मेण निदाघौष्ण्येन संसितब. न्धनैः शिथिलितवृन्तः छायायां अनातपे । अपस्किरमाणाः भक्षार्थ चश्वा भूमि लिखन्तः । 'किरतेहर्षजीविकाकुलायकरणेविति वाच्यम्' । 'अपाच्चतुष्पाच्छकु. निष्वालेखने' इति सूत्राभ्यां तङ्सुटौ । तथा विधानां विष्किराणां वायसादीनां मुखैः व्याकृष्टा कीटवक् येषामिति विग्रहः । कपोताः पारावताः कुकुटाः चरणायुधाच ते कूजन्तः क्लान्ताश्च येष्विति विग्रहः । कूले । तीरवर्तिन इत्यर्थः । कुलायमाः पक्षिनीडयुक्तद्रुमाः स्वकुसुमैः गोदावरी अर्चन्ति पूजयन्ति इति संबन्धः । अत्र वृक्षवर्णनया वैदिकशिरोमणीनां गृहमेधिनां मध्याह्नकालवृत्तान्तः प्रतीयते । कण्डू- लेस्यादिविशेषणेन द्रव्याणां दुरूहुशास्त्रार्थसंदेहनिर्णयार्थमुपसत्रैः तैः तत्कृतोपदेश- निवृत्तसंशयतया संतुष्टैः भूमिपतिभिः समर्पितत्वं प्रतीयते । धर्मसंसितैरित्यनेन तेषां कषाये कर्मभिः पक्के' इति निवृत्तकामलोभादितया द्रव्याणां देवताराधनतया प्रतिहतप्रदानं प्रतीयते । छायापस्किरमाणेत्यनेन तेषां गृहेषु अतिथयः खयमा. गत्य भोज्यानि भुजत इति प्रतीयते। कूजलान्तेत्यनेन तेषां मध्याह्नकालप्रयुकः श्रान्तियुक्तनानाशाखाध्येतृनानाबटुपमाजपौष्कल्यं प्रतीयते । कुलायेत्यनेन तेषाः मनेककुटुम्बभरणं प्रतीयत इति सहृदया दयां कुर्वन्तु ॥ अत्र कुसुमपतनस्य गोदा- वरीपूजावोत्प्रेक्षा कृता । सा च गम्या वाचकशब्दप्रयोगाभावात् । 'तस्य भगवत- केनापि' इत्यारभ्य 'अयमध्ययनप्रत्यूहः' इत्यन्तेन अष्टावक्रप्रवेशात् लक्ष्यस्य सीतावनप्रापणेनालक्ष्यस्य बीजस्योद्भेदात् प्रतिमुखसंधिरियम् । 'लक्ष्यालक्ष्यस बीजस्य व्यकिः प्रतिमुखं मतम्' इति लक्षणात् । 'अप्येतत्तपोवनम्' इत्यारम्य दृष्टनष्टपदार्थानुसरणरूपपरिसर्प उक्तः । 'हा रामभद्र' इति प्रमुखनिष्ठुरवचनरूपं बज मुक्तम् । 'सीताप्रतिकृतिः' इत्यादिनानुरागप्रकाशनरूपप्रगम उकः । 'वज्रादपि' इत्यत्रारत्युपशमनात्मकः शम उत्कः । 'विसष्टश्च वामदेवानुमश्रितः' इत्यारभ्य 'जनस्थान एव तपश्चरति' इत्यन्तेन ब्रह्मक्षत्रियशुदाणां कीर्तनात् वर्णसंकर उक:- इयं चूलिका । तदुक्तम्-'नेपथ्यान्तःस्थितैः पात्रैश्चूलिकार्थस्य सूचनम्' इति ॥ ९ ॥ उयतः उन्नमितः ॥ हे हस्तेति । दक्षिणहस्त अपसव्यहस्त, कृपाणं खा शूद्रमुनी विसृज विमुञ्च । निर्भरः पूर्णः । विवासनं निष्कासनम् । पटोरियनेन । परिवदामि' इत्येतद्विवक्षितम् । अत्र विध्यलंकारः ॥ १० ॥ प्रहत्य प्रक्षिप्त्यर्थः । .

द्वितीयोऽयः पीपूर्ण .. रामस्य बाहुरसि निर्भरगर्भखिन्न- सीताविवासनपटोः करुणा कुतस्ते ॥ १० ॥ (कथंचित्प्रहृत्य ।) कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणपुत्रः । (प्रविश्य ।) दिव्यपुरुषः-जयतु देवः । दत्ताभये त्वयि यमादपि दण्डधारे संजीवितः शिशुरसौ मम चेयमृद्धिः । शम्बूक एष शिरसा चरणौ नतस्ते सत्सङ्गजानि निधनान्यपि तारयन्ति ॥ ११ ॥ रामः-द्वयमपि प्रियं नः तदनुभूयतामुग्रस्य तपसः परिपाकः । यत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च संपदः । वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥ १२ ॥ शम्बूकः-स्वामिन् , युष्मप्रसादादेवैष महिमा । किमत्र तपसा । अथवा महदुपकृतं तपसा । अन्वेष्टव्यो यदसि भुवने लोकनाथः शरण्यो मामन्विष्यनिह वृषलकं योजनानां शतानि । इदं चिन्त्यम् -'दूराध्वानं वधम्' इत्यारभ्य एतान्युद्वेगकारिखात्प्रयोगानुचितानि' इति तनिषेधात् । अत्रानिष्टवस्तुविक्षेपात् विधूतम् । कृतमिति । रामसदृशं कर्म, न तु दशरथसदृशं कर्म । दशरथो त्यबुद्धिपूर्वकं शुगतापसवधं कृतवान् । तथाच 'पितुः शतगुणं पुत्रः' इति न्यायेन दोष विषय एव, न तु गुणविषय इति खोपालम्भ इह व्य- न्यते । अपिजीवेदिति ।अपिः संभावनायाम् । अशरीरवाण्या शिशुजीवननिश्च- येऽपि पावकवचनेन सीतायाः निर्दोषत्वनिश्चयेऽपि फलाभाववत् खीयदैवविपर्यये- गात्रापि तथा स्यादित्याशयः ॥प्रविश्येति । दिव्यपुरुषः । शम्बूकशरीरं विहाय • देवत्वेनेति भावः । दत्ताभय इति । यमादपि दत्ताभये त्वयि दण्डधारे सतीत्य- बयः । यमहेतुकभयनिवारणदातरि यमशासितरि त्वयि सति असौ शिशुः बुद्धिस्थो प्राणशिशुः । निधनानि मरणानि तारयन्ति । संसाराब्धिमिति शेषः ॥ ११॥त. दिति । परिपाकः फलभूतः अनुभूयताम् । यत्रेति । आनन्दाः आत्मानुभवजन्या हर्षाः । मोदाच दिव्यविषयानुभवजन्या हर्षाः । संपद अणिमादिविभूतयः । वैराजा माम वैराजा इति प्रसिद्धाः ॥ १२ ॥ युष्मत्प्रसादेति । 'धातुः प्रसादान्महिमान- भीशम् इति श्रुतिः प्रत्यभिज्ञायते । किमत्र तपसा । तपसा किमत्रेत्यर्थः । अथ. दितिः। तपःकर्तृको महोपकार इति भावः । तदुपपादयति-अन्वेष्टव्य इति । मददीति प्रसिद्धवनिर्देशात् सोऽन्वेष्टव्यः' इति श्रुतिः प्रत्यभिज्ञायते । अनेन कारण- उत्तररामचरिते orie mo दश द्वारा क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा तु कायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥ १३ ॥ रामः-किं नाम दण्डकेयम् । (सर्वतोऽवलोक्य ।) हा, कथम् - खिग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झांकृतैर्निर्झराणाम् । एते तीर्थाश्रमगिरिसरिद्र्तकान्तारमिश्राः संदृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥ १४ ॥ शम्बूकः-दण्डकैवैषा । अत्र किल पूर्व निवसता देवेन चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः ॥ १५ ॥ येन सिद्धक्षेत्रेऽस्मिन्मादृशामपि जानपदानामकुतोभयः संचारः संवृत्तः । स्वमप्युक्तम् । 'कारणं तु ध्येयः' इति श्रुतेः । न केवलं प्रधानहिरण्यगर्भादिवत् कारणत्वम् , किंतु निरुपाधिकखामित्वं स्वीकृतमित्याह-लोकनाथ इति । 'एष सर्व. भूताधिपतिः' इति श्रुतिः प्रत्यभिज्ञायते । पूर्वोक्तान्वेष्टव्यत्वादिफलमाह-शरण्य इति । 'एष सर्वभूतपालः' इति श्रुतिः प्रत्यभिज्ञायते । तेन हि पालनसामर्थ्यमृते सर्वेश्वरत्वहानिरित्युपबृंहणात् हरहिरण्यगर्भादीनां रक्षकत्वशानिरासः । इदं च घण्टाकर्णादिविषये स्पष्टम् । वृषलकं अज्ञातो वृषलो वृषलकः तम् । अज्ञाते कन्प्र: त्ययः । अनेन प्रयासेनान्वेषणीयत्वं खस्य सूच्यते । अन्विष्यन् । नतु चारादिना- न्वेषयनिति भावः । योजनानां शतानि अयोध्यादण्डकयोः योजनेयत्तानिश्चयेऽपि एवमुक्तिः कृत्स्नभूमण्डलान्वेषणानन्तरं अत्र प्राप्त इति सूचयति । तन्मूलं तु 'पृथिव्यां तप्यते तपः' इति अशरीरवाण्यां पृथिव्यामिति सामान्योक्तिः । प्राप्तः । नतु मां दूतैः प्रापितवानित्यर्थः । वृषलक इत्यत्र वृषं धर्म लुनातीति वृषल इति व्युत्पत्त्या 'शुश्रूषा शूद्रस्य' इत्युक्तखधर्मच्छेदेन खतन्त्रतपश्चरणरूपखदोषाधीनत्वं विवक्षितम् । तपसा. संप्रसादः तपःकृतानुग्रहः । पुनरित्यनेन अपूर्ववनविलोकनस्पृहयान्यथासिद्धिरिता। वनपदं दण्डकायामपि गमनप्रदेशत्वसूचनार्थम् । एवं सर्वप्रकारेणापि दुर्घटभवदामम- नसंघटकल्वात् तपसां प्रसाद इति भावः॥१३॥निग्धेति।श्यामाः नीलाआमोगः विपुलावकाशः। रूक्षाः चित्तक्षोभकराः । गर्ताः अवटाः ॥१४॥ चतुर्दशेति । वृषण- खरत्रिमूर्धान इति । समासान्तविधेरनित्यवात् 'द्वित्रिभ्यां ष मूर्खः' इति षप्रत्ययाभावः केचित्तु दूषणखरत्रिमूर्धानः इति पदद्वयं कृत्वा नः अस्माकं रणे दूषणखरत्रिमूखी हता इति षप्रत्ययान्तमेव समर्थयन्ते । अस्माकमिति रामेण समाधिना दिया वचनं पक्षक्याभिप्रायकम् । वस्तुतस्तु नोशब्दः पृथक्पदमित्याश्रित्य अत्र निवसता देवेन दूषणखरत्रिमूर्धाः हताः नो किमिति काका योजनीयम् । इयं च प्रत्यभिज्ञापन शैली गौरव्यविषयेष्वनुभवसिद्धा ॥१५॥येनेति । सिद्धक्षेत्र सिसिप्रदपुण्यक्षेत्रे महतो द्वितीयोऽ रामा-न केवलं दण्डकैव, जनस्थानमपि । शम्बूका-बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्ड- श्वापद कुलाकान्तविकटगिरिगहराणि जनस्थानपर्यन्तदीर्धारण्यानि द. क्षिणां दिशमभिवर्तन्ते । तथाहि । निष्कूजस्तिमिताः कचित्कचिदपि प्रोच्चण्डसत्त्वस्वनाः खेच्छासुप्तगभीरभोगभुजगश्वासपदीसामयः । सीमानः प्रदरोदरेषु विरलखल्पाम्भसो याखयं तृष्यद्भिः प्रतिसूर्यकैरजगरखेदद्रवः पीयते ॥ १६ ॥ राम:- पश्यामि च जनस्थानं भूतपूर्वखरालयम् । प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥ १७ ॥ (सर्वतोऽवलोक्य ।) प्रियारामा हि वैदेह्यासीत् । एतानि नाम कान्ताराणि । किमतः परं भयानकं स्यात् । (सानम् ।) त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु । इतीवारमते हासौ स्नेहस्तस्याः स तादृशः ॥ १८ ॥ न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ १९ ॥ .. भयः नास्ति कुतो भयं यस्येति विग्रहः। एतानीति रोमहर्षणानि रोमाञ्चजनकानि। निस्कूजेति । निर्गताः कूजा: कूजितानि येभ्य इति विप्रहः । कूजितशून्या इत्यर्थः । कज अव्य के शब्द' इत्यस्मात् भावे घप्रत्ययः। सत्त्वानो जन्तूनाम् ।प्रदरोदराणि पु. हामभ्याः। प्रतिसूर्यकैः वक्रवकलासकैः॥१६॥ पश्यामीति । भूतपर्वो यः खरालयः तथाविधामित्यर्थः । भूतपूर्वः खरालयः खरगृहं यस्मिन्निति वा । प्रत्यक्षानिव पुरोवल- मानानिव । अनुभवामि स्मृतिवैशयेन प्रत्यक्षीकरोमि ॥१७॥ कान्ताराणि दुर्गमव- मानि । भयानक भयजनकम् । त्वयेति । मधुगन्ध एषु अस्तीति मधुगन्धीनि तेषु बनेषु इह कान्तारेषु आरमते प्रीति प्राप्तवत्येव । कुत इत्यत आह-हस्तस्याः स पक्ष इति । 'दयं त्वेव जानाति प्रीतियोगं परस्परम्' इत्युक्तरीत्या परिच्छेदातीत ॥१६॥ नेति। यस्य प्रियः प्रीतिमान् प्रीति विषयो वा यः जनः किंचिदपि न कर्मामा सन् किंचित्कारलेशेनापि शून्यः सन् सौख्यैः स्वीयसुखैः करणैः दुःखान्यपो, पनि प्राशयति । तत् दुःखनाशहेतुभूतो जनः । विधेयप्राधान्यान नपुंसकतम् । सस ६०रा० ६२ उत्तररामचरिते शम्बूका-तदलमेभिर्दुरासदैः । अथैतानि मदकलमयूरकण्ठको- मलच्छविभिरवकीर्णानि पर्यन्तरविरलनिविष्टनीलबहुलच्छायातरुषण्ड- मण्डितान्यसंभ्रान्तविविधमृगयूथानि पश्यतु महाभागः प्रशान्तगम्भी- राणि श्वापदकुलशरण्यानि महारण्यानि । इह समदशकुन्ताक्रान्तवानीरमुक्त- प्रसवसुरभिशीतखच्छतोया वहन्ति । फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ २० ॥ अपि च। दधति कुहरभाजामत्र भल्लूकयूना- मनुरसितगुरूणि स्त्यानमम्बूकृतानि । शिशिरकटु कषायः स्त्यायते सल्लकीना- मिभदलितविकर्णग्रन्थिनिष्यन्दगन्धः ॥ २१ ॥ राम:-(सबाष्पस्तम्भम् ।) भद्र, शिवास्ते पन्थानो देवयानाः। प्रली. यख पुण्येभ्यो लोकेभ्यः । शम्बूका-यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाद्य शाश्वतं पदमनुप्रवि. शामि । (इति निष्कान्तः।) . अपोहनीयदुःखवतः पुरुषस्य किमपि विलक्षणं द्रव्यं भव्यवस्तु । 'द्रव्यं च भव्ये' इत्य- नुशासनम् । यद्वा सौख्यै रिति इत्थंभूतलक्षणे तृतीया। तथा च सौख्यैः विशिष्टः मुखितः प्रियः इष्टः यः जनः यस्य न किंचिदपि कुर्वाणः खरूपातिरेकिव्यापारलेशशस्यः सन् दुःखानि अपोहति तदित्यादि पूर्ववत् । दुःखनिवृत्तिहेतुव्यापारलेशशून्यः समपि खोय. सुखविशिष्टः यः खरूपेणैव यदुः :खनिवृत्तिं प्रति कारणं तं प्रति तस्य निस्तुलभव्याव्य- समिति भावः। एवं चाहं सीताविषये किंचित्कारलेशशून्योऽपि सुखितः सन् तदुःखनि- वर्तक इति कान्तारगमनं युक्तमेवेति हृदयस्थितोऽर्थः॥१९॥अथेति ।पर्यन्तैः अभ्य- प्रदेशैः । छायाप्रधानास्सरवः छायातरवः । प्रशान्तानि अनुद्वेगजननानि।दति। शकुन्ताः पक्षिणः । वानीराः वेतस विशेषाः । मुखराणि शब्दवन्ति भूरीणि स्रोतासि यासां ताः॥२०॥द्धतीति। कुहरभाजा गुहावर्तिनां भल्लूकयूनां ऋक्षाणां अनुरसितेन अनुरणनेन गुरूणि महान्ति अम्बूकृतानि निष्टीवनशब्दानि स्त्यानं वृद्धि वैपुल्यं वा दध- ति भजन्ति । निष्यन्दः खरसद्रवः स्त्यायते वर्धते विसरति वा ॥२१॥ देवयाना: देव याननामकाः। ते च 'अमिज्योतिरहः शुक्लः षण्मासा उत्तरायणम्' इत्युकाः । लोकेभ्यो A यसिन्नभूम चिरमेव पुरा वसन्तः। 3:17. द्वितीयोः । एतत्पुनर्वनमहो कथमद्य दृष्टं ६३ आरण्यकाश्च गृहिणश्च रताः खधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥ २२ ॥ एते त एव गिरयो विरुवन्मयूरा- स्तान्येव मत्तहरिणानि वनस्थलानि । आमञ्जवजुलरुतानि च तान्यमूनि नीरन्ध्रनीपनिचुलानि सरित्तटानि ॥ २३ ।। मेघमालेव यश्चायमारादिव विभाव्यते । गिरिः प्रसवणः सोऽयमत्र गोदावरी नदी ॥ २४ ॥ अस्यैवासीन्महति शिखरे गृध्रराजस्य वास- स्तस्याधस्ताद्वयमपि रतास्तेषु पोटजेषु । गोदावर्याः पयसि विततानोकहश्यामलश्री- रन्तः कूजन्मुखरशकुनो यत्र रम्यो वनान्तः ॥ २५ ॥ अत्रैव सा पञ्चवटी यत्र निवासेन विविधविसम्भातिप्रसङ्गसाक्षिणः प्रदेशाः प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता। किमिदमाप- तितमद्य रामस्य । संप्रति हि । चिराद्वेगारम्भी प्रसृत इव तीतो विषरसः कुतश्चित्संवेगात्प्रचल इव शल्यस्य शकलः । लोकाननुभवितुम् । एतदिति । गृहिणः गृहमेधिनः । सांसारिकेषु जन्मफलभूतेषु ॥ २२॥ एत इति । विरुवन्मयूराः कूजर्हिणः ॥ २३ ॥ मेघमालेति। मेघमालेव मेघमालासदृशः अयं पुरोवर्तिपदार्थः आरादिव समीपस्थ इव विभाव्यते ज्ञायते । यत्र गिरी गोदावरी नदी सः प्रस्रवणो गिरिः ॥ २४ ॥ अस्यैवेति । मुखरशकुनः कूजत्प- क्षियुक्तः अतएव अन्तः कूजन खयं कूजग्निव स्थितः ॥२५॥ यत्रेति । विसम्भाः खैरविलासाः । चिरादिति । तीव्रः स्पर्शदशायामपि दुःसहः । अनेन अज्ञातस्पर्श- विषविशेषव्यावृत्तिः । चिरात् भूयांसं कालं शमिला। वेगं वेदनाशैध्य आरम्भयति उ. 'त्पादयतीति वेगारम्भी। अनेन पूर्वोक्तविषविशेषव्यावृत्तिः। प्रसूतः यत्राङ्गुल्यादौ पर्शः ततोऽन्यत्र सर्वाङ्गेषु प्रसृतः दलनादिना दुःसहप्रसरणः यः विषरसः तत्सदृश इत्यर्थः। रसशब्देन विशेषोत्कर्षो विवक्षितः । कुतश्चित् यस्मात्करमाचित् संवेगात् संभ्रमा- ..

उत्तररामचरिते . व्रणो रूढप्रन्थिः स्फुटित इव हृन्मर्मणि पुनः पुराभूतः शोको विकलयति मां नूतन इव ॥ २६ ॥ तथाविधानपि तावत्पूर्वसुहृदो भूमिभागान्पश्यामि । (निरूप्य ।) अन- वस्थितो भूतसंनिवेशः । तथाहि । TRA पुरा यत्र स्रोतः पुलिनमधुना तत्र सरिता विपर्यासं यातो धनविरलभावः क्षितिरुहाम् । बहोईष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥ हन्त हन्त । परिहरन्तमपि मां पञ्चवटी स्नेहालादाकर्षतीव । (सकरुणम्।) यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे यत्संबन्धकथाभिरेव सततं दीर्घाभिरास्थीयत । एकः संप्रति नाशितप्रियतमस्तामेव रामः कथं पापः पञ्चवटीं विलोकयतु वा गच्छत्वसंभाव्य वा ॥२८॥ दिजन्यात् निर्घातात् प्रचलः शल्यस्य बाणाग्रस्य शकलः खण्ड इव स्थितः । स हि मरणभयादनुद्दत एव तिष्ठति। रूढाःप्रादुर्भूताः ग्रन्थय उपव्रणाः यस्मात् स तथोकः। स्फुटितः दलितः हृन्मर्मणि व्रण इव हृदयमर्मवर्तिवणसदृशः काचित्कस्पर्शसार्वत्रिक- प्रसरणाभ्यां प्रथमो दृष्टान्तः। प्रतिकार्यवशङ्काव्युदासाय द्वितीयः । खल्पकालखव्या. वृत्तये तृतीयः। विशेषमाह-नूतन इवेति । विकलयति शून्यं करोति ॥ २६॥मन- वस्थितो भूतसंनिवेशः अनियता पदार्थस्थितिः। पुरेति । बहोः कालात् दृष्ट बहुका- लमदृष्ट्वा दृष्टम् । ल्यब्लोपे पश्चमी । यद्वा पूर्वदर्शनकालबहुविप्रकृष्टकाले दृष्टम् । सप्तमी. पञ्चम्यौ' इति पञ्चमी । तदिदमिति बुद्धिं प्रत्यभिज्ञानम् । अत्र प्रस्तुतवृत्तान्तवर्णनात् अप्रस्तुतप्राणिकुटुम्बोपचयापचयपरिस्फूर्तिरिति कुवलयानन्दकृत् ॥ २७ ॥ यस्या. मिति । खे गृहे यथा यस्यां ते दिवसाः नीताः निरुपप्लवलरामणीयकादिभिःख- हतुल्यायो यस्यां पञ्चवथ्यां नीता अतिवाहिताः । न केवलं रात्रयो नीताः किंतु दि. वसा अपि नीता इति दिवसपदेन व्यज्यते । तेन खगृहापेक्षया वैलक्षण्यमपि पाचव- व्याः । तत्र हि-राज्यतन्त्रादिना दिवसेषु न सहावस्थानं घटते तया सह मयेति वा. न्वयः खगृहे गुरुसंनिधितिरोहितप्रणयपारतछ्यसंकोचात् खगृहाद्विशेषःायत्संबन्धक थाभिः कीमिः । आस्थीयत। तिष्ठतेर्भावे लङ् । एवकारेण वाग्व्यापारान्तरप्रतिषेधः। यत्कथाभिः इत्यनुक्ता यत्संबन्धकथाभिरित्युक्तेः पञ्चवटीवरिसरवर्तिनामपि रामणी- यकं व्यज्यते । अत्र 'स्मरन्कमलपत्राक्षी रामः संध्यामुपागमत्' इत्युक्तरीत्या सर्वकालं बुद्धिस्थत्वात् तथेत्युक्तम् । तामेव, न तु या कांचिदित्यर्थः । वियोगे हि रमणीयच.

द्वितीयोऽद । (प्रविश्य।) शम्बूका-जयतु देवः । भगवानगस्त्यो मत्तः श्रुतसंनिधानस्त्वा. माह-'परिकल्पितावरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा, सर्वे च महर्षयः । तदेहि । संभावयास्मान् । अथ प्रजविना पुष्पकेन खदेश- मुपगत्याश्वमेधसज्जो भव' इति । रामा-यथाज्ञापयति भगवान् । शम्बूका-इत इतो देवः । राम:-(पुष्पकं प्रवर्तयन् ।) भगवति पञ्चवटि, गुरुजनादेशोपरो- धात्क्षणं शम्यतामतिक्रमो रामस्य । शम्बूक:-देव, पश्य । गुजत्कुञ्जकुटीरकौशिकघटाघुक्कारवत्कीचक- स्तम्बाडम्बरमूकमौकुलिंकुलः क्रौञ्चाभिधोऽयं गिरिः । एतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै- रुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः ॥ २९ ।। दर्शनमात्रं दुःसहम् , किं पुनः सहानुभूतरमणीयदर्शनं दुःसहमिति । एकः केवलः । सीताशून्य इति भावः । ननु राज्ञः शुद्धान्त एव स्थित्यायाः कथं सहगमनं घटते । पुरं प्रतिगमने तु सुलभमेव तद्दर्शन मिति किमत्याहितमित्यत्राह-नाशितप्रियतम इति । नाशितखमपि दैवाधीनं चेत् कथंचित् सह्यत एव, नतु तथा । किंतु मदधीन एव नाश इति दुःखातिशयो व्यज्यते। ननु तर्हि यत्र सा तत्रैव गम्यतामित्यत्राह-पाप इति । मरणप्रतिबन्धकपापवानित्यर्थः । तथाप्येष प्राणः स्फुरति न तु पापो विर. मति' इत्युक्तेः । असंभाव्य असंमान्य रामः पञ्चवटीं विलोकयतु । वेत्यन्याशशैल्यात् सर्वथान मत्वरूपविलोकनमसंभाव्य गमनं वेति व्यज्यते । संप्रति नाशितप्रियतम इ. बनेन आईदुःखत्वं व्यज्यते।सर्वथा प्रियारामेत्यारभ्य एतच्छ्रोकपर्यन्तमनुरागप्रकाश- नविविष्टवचनरूपं पुष्पं नाम संध्यङ्गमुकम्॥२८॥भगवानिति । मत्तः श्रुतं संनिधानं वत्सामीप्यं येन सः। मत्त इति रामागमनाख्यातुः दिव्यपुरुषस्यागस्त्यं प्रति गुरुप्रायत्वं कवेरभिमतमिति व्यज्यते । 'आख्यातोपयोगे' इति पञ्चमीविधानात् । परिकल्पि. तेति । आवरणमङ्गलं नीराजनादिकम् । लोपामुद्रा अगस्त्यपनी । प्रतीक्षते कृत. क्षणा तिष्ठति । त्यफसर्वव्यापारा तिष्ठतीत्यर्थः । अथ प्रजाविना प्रकृष्टवेगवता । एक- देशिनेति मापनातू कर्मधारयादिनिः॥ प्रवर्तयन् गमयन् । गुरुजनस्य अगस्त्यस आदे. शोपरोधात् आज्ञानुसरणाद्धेतोः । अतिक्रमः असंभाव्यगमनरूपः । अत्रेष्टजनाजुन- यात् पर्युपासनं नाम संध्यङ्गमुक्तम् ॥ गुजदिति । कुजा एव कुटीराः गुअन्तः अव्यकशब्दवन्तः कुनकुटीराः येषां वे कौधिकघटाः धूकपडयः तासां धुकाराः उत्तररामचरिते अपि च । एते ते कुहरेषु गद्गदनदगोदावरीवारयो मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दाक्षिणाः। अन्योन्यप्रतिघातसंकुलचलत्कल्लोलकोलाहलै- रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्संगमाः ॥ ३०॥ (इति निष्क्रान्ताः सर्वे ।) द्वितीयोऽङ्कः। एष सन्तीति तद्वन्तः कीचकाः तेषां रन्ध्रवतां वेणुविशेषाणां खम्बाः काण्डाः तेषा- माडम्बरः संभ्रमः तेन मूकानि जोषमासीनानि मौकुलिकुलानि यस्य स तथोक्तः । क्रौचामिधः तन्नामकोऽयं गिरिः। प्रचला किनां मयूराणाम् । रोहिणतरवः हरिचन्दन- वृक्षाः । कुम्भीनसाः सर्पाः । उद्वेलन्ति वेपन्ते । 'वेल्ल चलने ॥२९॥ एत इति । कुहरेषु गुहासु गद्दं यथा तथा नदन्ति शब्दवन्ति गोदावरीवारीणि येषु तथोकाः। शिखराधे मौलिः । पर्वतानं शिखरमिति इह भेदः । क्षोणीभूतः पर्वताः । दाक्षिणाः दक्षिणदिशावर्तिनः । एते ते पूर्व भवता दृष्टाः । अन्योन्यप्रतिघातेन परस्परप्रत्या- स्फालनेन संकुला निबिडाः चलन्तः कल्लोलाः तरङ्गाः तेषां कोलाहलैः कलकलैः उत्ताला उल्बणाः सरिरसंगमाः नदीसंगमा: ॥ ३० ॥ वाधूलवंशजनुषो भूसारजवीरराघवार्यस्य । उत्तररामचरित्रव्याख्यायामवसितो द्वितीयोऽदः ॥ प्रति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पर्शिनी- समाख्यायामुत्तररामचरितव्याख्यायां द्वितीयोऽ। । ' 15 संवाद उत्तररामचरितम् । तृतीयोऽ। (ततः प्रविशति नदीद्वयम् ।) एका-सखि मुरले, किमसि संभ्रान्तेव । मुरला-सखि तमसे,प्रेषितासि भगवतोऽगस्त्यस्य पल्या लोपामुद्रया सरिद्वरा गोदावरीमभिधातुम् । जानास्येव यथा वधूपरित्यागात्प्रभृति । अनिर्भिन्नो गभीरत्वादन्तर्गुढघनव्यथः । पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥ १ ॥ तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकृष्टगद्देन दीर्घशो- कसंतानेन संप्रति परिक्षीणो रामभद्रः । तमवलोक्य कम्पितमिव कुसुमसमबन्धनं मे हृदयम् । अधुना च रामभद्रेण प्रतिनिवर्तमानेन नियतमेव पञ्चवटीवने वधूसह निवासविसम्भसाक्षिणा प्रदेशा द्रष्टव्याः । तत्र च निसर्गधीरस्याप्येवंविधायामवस्थायामतिगम्भीराभोगशोकक्षोभसं- वेगात्पदे पदे महाप्रमादानि शोकस्थानानि शङ्कनीयानि । तद्भगवति गोदावरि, त्वया तत्रभवत्या सावधानया भवितव्यम् । वीचीवातः सीकरक्षोदशीतै- राकर्षद्भिः पद्मकिञ्जरकगन्धाम् । वधूपरित्यागात् स्नुषापरित्यागात् । अनिभिन्न इति । करुणो रसः इष्टजनवियो- गजन्यदुःखातिशयात्मकरसः पुटपाकप्रतीकाशः लोहादिमयसंपुटान्तर्वतिसंतापन. सदृश इत्यर्थः ॥ १॥ तेनेति । तथाविधेष्टजनस्य सीतायाः कष्टविनिपातात् दुःख- मय विक्षेपात जन्म उत्पत्तिः यस्य तथोकेन । प्रकृष्टोऽधिकः गद्दः गद्गदशन्दः येन तथोफेन । 'प्रकर्षगद्देन' इति पाठे प्रकर्षेण गद्दो यस्मिन्निति विग्रहः । दीर्घशोक- संतानेन दीर्घदुःखपरिवाहेण परिक्षीणः कार्यदौर्बल्यादियुक्तः। कुसुमेन समं बन्धनं यस्पति विग्रहः । कुसुमसमबन्धनम् । तद्वत्सुच्छेदमित्यर्थः । अधुनेति । वधूसह. निवासे ये विनम्भाः खैरलीलाः तत्साक्षिणः तत्साक्षात्कारः प्रदेशाः बनोरेशाः नियतमिलसंदेहवाचि। तत्रेति । गम्मीरः आभोगः आयामः यस्य तथोकः यः शोकः तेन जातस्य क्षोभस्य प्रकृतिविपर्यासस्य संवेगात् वेगातिशयात् । महान् प्रमादः 'अनवधानता येषु तथोकानि । संक्षाच्छेदकारीणीत्यर्थः । शोकस्थानानि जगतां शोक- निमित्तानि ।रामात्याहितानीति भावः । सावधानया अवधानं मनसो विषयान्तर- संचारविमुखता तरसहितया ॥वीचीति । सीकराणां क्षोदैः सूक्ष्मांशः। पाकि- अल्कानां बरविन्दकेसराणां गन्धान सौरभ्याणि आकर्षति हरद्भिः। सीकरक्षोदेत्य- . क उत्तररामचरिते मोहे मोहे रामभद्रस्य जीवं खैरं खरं प्रेरितैस्तर्पयेति ॥ २॥ तमसा-उचितमेव दाक्षिण्यं मेहस्य । संजीवनोपायस्तु मूलत एव रामभद्रस्य संनिहितः। मुरला-कथमिव । तमसा-तत्सर्वं श्रूयताम् । अस्ति खलु वाल्मीकितपोवनोपकण्ठा- परित्यज्य निवृत्ते सति लक्ष्मणे सीता देवी प्राप्तप्रसववेदनमतिदुःख. संवेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती । तदैव तत्र दारकद्वयं च प्रसूता भगवतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महर्षेर्गङ्गादेव्या समर्पितं स्वयम् । - मुरला-(सविस्मयम् ।) ईदृशानां विपाकोऽपि जायते परमाद्भुतः । यत्रोपकरणीभावमायात्येवंविधो जनः ॥ ३ ॥ तमसा-इदानीं तु शम्बूकवृत्तान्तेनानेन संभावितजनस्थानं राम- भद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी यदेव लोपामुद्रया नेहादभि- । शङ्कितं तदेवाभिशक्य सीतासमेता केनचिदिव गृहाचारव्यपदेशेन' 'गोदावरीमुपागता। पूर्वी akti नेन शैत्यमुक्तम् । पद्मकिचल्कगन्धानित्यनेन सौरभ्यमुक्तम् । आकर्षद्भिरित्यनेन मान्यमुक्तम् । वहनाशकावेव कर्षणसंभवात् । स्वैरं निःशकम् । अत्र स्वैरमित्युच्या सुरभिशीतलमृदुवाता अपि विरहिणामनर्थकारिण इति न शङ्कथम् । विरहिणां चैतन्य- दशायामेव दुःसहा इमे मूच्छितानां तु प्राणप्रतिष्ठापनकरा एव । नातस्त्वयातिशा कर्तव्येति व्यज्यते ॥ २॥ उचितमिति । दाक्षिण्यं सामर्थ्य ऊहापोहात्मकहान- वत्वं वा । मूलतः सीतारात् । मूलमिति सीतोच्यते । मौलिक इति पाठेऽभ्यर्थः प्रागिव । वाल्मीकीति। प्राप्तप्रसववेदनं जातप्रसवदुःखम् । आत्मानं खम् । दार- कद्वयं शिशुद्धयम् । प्रसूता प्रसूतवती । अभ्युपपना संगता । स्तन्यत्यागात्सरेण वन्य त्यागानन्तरम्॥ईशानामिति । विपाकः दशा । उपकरणीभावमुपकरणखम् ॥३॥ इदानीं विति। उपश्रुत्याकर्ण्य । तत् सर्व श्रूयतामित्यारभ्य ऋषिश्रेयोवितरणरूपमी. जस अन्वेषणात् गर्भसंधिरयम् । 'गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः इस्युके केन्विदिव ग्रहाचारख्यपदेशेनेत्यत्र प्रस्तुतोपयोगिच्छमाचरणरूपं भभूताहरणं नाम - ।

तृतीयोऽङ्कः। ६९ - मुरला-सुष्ठु चिन्तितं भगवत्या भागीरथ्या। राजनीतिस्थितस्यास्य खलु तैश्च तैश्च जगतामाभ्युदयिकैः कार्येाऽपृतस्य रामभद्रस्य नियता- श्चित्तविक्षेपाः। अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति । कथं सीतया रामभद्रोऽयमाश्वासनीयः स्यात् । तान. तमसा-भगवत्या भागीरथ्या 'वत्से देवयजनसंभवे सीते, अद्य खल्वायुष्मतोः कुशलवयोर्द्वादशस्य जन्मवत्सरस्य संख्यामङ्गलग्रन्थि- रभिवर्तते । तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं खहस्तापचितैः पुष्पैरुपतिष्ठख । न त्यामवनिपृष्ठवर्तिनीमस्मप्रभावाद्वनदेवता अपि द्रक्ष्यन्ति किमुत माः' इति । अहमप्याज्ञापिता 'तमसे, त्वयि प्रकृष्टप्रेमैव वधूर्जानकी । अतस्त्वमेवास्याः प्रत्यनन्तरीभव' इति । साहमधुना यथादिष्टमनुतिष्ठामि । मुरला-अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि । रामभद्रोऽप्यागत एवेति तर्कयामि । तमसा-तदियं गोदावरीहदानिर्गत्य- परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकबरीकमाननम् । करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी ॥४॥ संध्यङ्गमुक्तम् ॥ सुष्ठिति । राजनीतिस्थितस्य क्षत्रियोचितराज्यपरिपालनात्मक धर्मनिष्ठस्य । अभ्युदयाय भवन्तीत्याभ्युदयिकानि इति विग्रहः । तैः आभ्युदयिकैः । चित्तविक्षेपाः हृदयतोदाः । अव्यग्रस्य व्यापारान्तरशून्यस्य । अनर्थः तद्दुःखहेतुः । एष तत्वार्थानुकीर्तनरूपो मार्ग उकः ॥ द्वादशस्य जन्मवत्सरस्य संख्यामङ्गलप्रन्थि. रमिवर्तते संख्यापूर्तिहेतुकमङ्गलप्रन्थिः । वत्सरे वत्सरे शिशूनां जन्मनक्षत्रे शान्त्यु. त्सवं कृता मङ्गलार्थ करे पट्टसूत्रादिना स्त्रियो प्रन्थि कुर्वन्ति । स तु करे बलयरूपेण तिष्ठतीत्युपदेशः । मानवस्य मनुसंवन्धिनः । प्रसवितारं जनकम् । अपहतपाप्मानं निरस्तसमस्ता विद्यादिदोषगन्धम् । देवं जगत्सृथ्यादिलीलाशालिनम् । अत्र एष सर्वेभ्यः पाप्मभ्य उदेति' इत्यन्तरादित्य विद्या प्रत्यभिज्ञापिता । तत्र च कप्यासश्रुत्या नारायण एव प्रतिपाद्य इति स्पष्टमेव । उपतिष्ठख सेवख । अत इति । प्रत्यनन्तरीभव अनुचरीभव ॥ रामभद्र इति । तर्कयामि अनुमिनोमि । परिपाण्ड्विति । करु णस्य इष्टवियोगजन्यदुःखातिशयस्य मूर्तिः आकारो वा । विरहव्यथा विरहजन्योता। Fum . ।

उचररामचरिते मुरला -इयं हि सा किसलयमिव मुग्धं बन्धनाद्विप्रलनं हृदयकमलशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ ५॥ (इति परिकम्य निष्क्रान्ते।) इति शुद्ध विष्कम्भः। प्रभादः एमादः (नेपथ्ये।) जात जात। (ततः प्रविशति पुष्पावचयव्यमा सकरुणौत्सुक्यमाकर्णयन्ती सीता।) सीता-अम्हहे, जाणामि पिअसही वासन्दी व्याहरदिति । (पुनर्नेपथ्ये ।) सीतादेव्या खकरकलितः सल्लकीपल्लवा- र लोलः करिकलभको यः पुरा वर्धितोऽभूत् । सीता-कि तस्स । (पुनर्नेपथ्ये।) वध्वा साधैं पयसि विहरन्सोऽहमन्येन दर्पा- दुद्दामेन द्विरदपतिना संनिपत्याभियुक्तः ॥ ६ ॥ १. अहो जानामि प्रियसखी वासन्ती व्याहरतीति । २. किं तस्य । पादिरूपा ॥ ४ ॥ किसलयमिति । परिपाण्डु उक्तरीत्या अतिम्लानत्वेऽपि लाव- ण्याविरोधिपाण्डुतोका । ग्रीष्मविरहतापयोरयमेव विशेषः यत् प्रीष्मस्य लावण्यना. शकलम् , विरहस्य तु तदभाव इति । तथाच कालिदासः-'समस्तापः कामं मनसिज- निदाघप्रसरयोर्नतु प्रीष्मस्यैवं सुभगमपराद्धं युवतिषु' इति। एवं सुभगं न एवं लावण्या- परित्यागेन रमणीयं न भवतीत्यर्थः। तथाह भगवान्वाल्मीकिः-'ज्योत्सा तुषारमणिना पौर्णमास्यां हि लक्ष्मण । शीतेन चातपश्यामा दृश्यते न च शोभते॥' इतिाप्रीष्मस्यातप- श्यामेति लावण्यनाशकसम्ाक्षामं कृशं ग्लपयति म्लानं करोति।शरदिजः शरत्कालजः। 'प्रावृदशर-' इत्यादिसूत्रेणालुक् । अत्र लिङ्गादभ्यूहनरूपं अनुमानं नाम संभ्यामुत्कम् ॥५॥शुद्धविष्कम्भ इति। संस्कृतात्मकविष्कम्भ इत्यर्थः । विष्कम्भखरूपं तु-वृत्त- बर्तिध्यमाणानां कांशानां निदर्शकः। संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः।' इति । केवसंस्कृतप्रायः शुद्ध इति ॥ व्याहरति वदति ॥ सीतेति । खकरकलितः तृतीयोऽ सीता-(ससंभ्रमं कतिचित्पदानि गत्वा ।) अजउत्त, परित्ताहि परित्ताहि मह पुतअम्। (विचिन्त्य ।) हद्धी हद्धी। ताई एव्व चिरपरिइदाई अक्खराई पञ्चवटीदंसणेण मं मन्दभाइणि अनुबन्धन्ति । हा अज उत्त । (इति मूर्च्छति।) (प्रविश्य।) तमसा-समाश्वसिहि समाश्वसिहि । (नेपथ्ये।) विमानराज, अत्रैव स्थीयताम् । सीता--(ससाध्वसोल्लासम् ।) अम्हहे, जलभरभरिअमेहमन्थरस्थणि- अगम्भीरमंसलो कुदो णु भारईणिग्घोसो भरन्तकण्णविवरं में वि मन्द. भाइणि झत्ति उस्सुआवेइ। तमसा-(सस्मितास्रम् ।) अयि वत्से, अपरिस्फुटनिकाणे कुतस्त्येऽपि त्वमीहशी। स्तनयित्नोर्मयूरीव चकितोत्कण्ठितं स्थिता ॥ ७ ॥ सीता-भैअवदि, किं भणासि अपरिप्फुडेत्ति । सरसंजोएण पञ्च- हिजाणामि णं अजउत्तेण एव्व एदं वाहरिदम् । १. आर्यपुत्र, परित्रायस्व परित्रायख मम पुत्रकम् । हा धिक् हा धिक् । तान्येव चिरपरिचितान्यक्षराणि पश्चवटीदर्शनेन मां मन्दभागिनीमनुबन्नन्ति । हा आर्यपुत्र । २. अहो, - जलभरभरितमेघमन्थरस्तनितगम्भीरमांसलः कुतो नु भारती- निर्घोषो भ्रियमाणकर्णविवरां मामपि मन्दभागिनी झटित्युत्सुकापयति । ३. भगवति, किं भणस्यपरिस्फुटेति । स्वरसंयोगेन प्रत्यभिजानामि नन्वा- र्यपुत्रेणैवैतद्व्याहृतम् । खकराभ्यां दत्तरित्यर्थः । वध्वा साध स्त्रिया सह। उद्दामेन उत्कटेन संनिपत्य स्वयमा. पत्य । अभियुक्तः प्रत्यर्थितया संगतः॥६॥आर्यपुत्रेति। परित्रायस्वेति। एष ह्यप- कारिजनात् भीतिरूप उद्वेग उक्तः । तानिति । अक्षराणि आर्यपुत्रेति वर्णाः । अनु- बधन्ति अनुसरन्ति । मन्दभागिनी अल्पपुण्यफलाम् ॥जलेति । मांसलः स्फीतः। भारतीनिर्घोषः वर्णोचारणध्वनिः । उत्सुकापयति उत्कण्ठितां करोति । स्वरसंयोगेन taaraan ७२ उत्तररामचरिते तमसा-श्रूयते तपस्यतः किल शूद्रस्य दण्डधारणार्थमैक्ष्वाको राजा दण्डकारण्यमागत इति । सीता-दिढिआ अपरिवीणधम्मो सो राआ । (नेपथ्ये।) यत्र द्रुमा अपि मृगा अपि बन्धवो मे यानि प्रियासहचरश्चिरमध्यवात्सम् । एतानि तानि बहुकन्दरनिर्झराणि गोदावरीपरिसरस्य गिरेस्तटानि ॥ ८॥ सीता-दिट्टिआ कहं पहादचन्दमण्डलापण्डरपरिक्खामदुब्दलेन आआरेण णिअसोम्हगम्भीराणुभावमेत्तपञ्चहिजाजो एव्व अजउत्तो होदि । भअवदि तमसे, धारेहि मम् । (इति तमसामाश्लिष्य मूर्च्छति ।) तमसा-वत्से, समाश्वसिहि समाश्वसिहि । (नेपथ्ये।) अनेन पञ्चवटीदर्शनेन । अन्तर्लीनस्य दुःखामेरद्योदामं ज्वलिष्यतः । उत्पीडा इव धूमस्य मोहः प्रागावृणोति माम् ॥ ९॥ हा प्रिये जानकि । १. दिष्ट्या अपरिहीनधर्मः स राजा । २. दिष्ट्या कथं प्रभातचन्द्रमण्डलापाण्डरपरिक्षामदुर्बलेनाकारेण निजसौ- म्यगम्भीरानुभावमात्रप्रत्यभिज्ञेय , एवार्यपुत्रो भवति । भगवति तमसे, धारय माम्। खरसंदर्भण प्रत्यभिजानामि तदिदमिति वेद्मि ॥ श्रूयत इति। तपस्यतः तपश्च- रतः । कण्ड्डादिरयम् । दण्डधारणार्थ अपराधानुगुणशिक्षणार्थम् । ऐक्ष्वाकः इक्ष्वाकु- बंश्यः । 'दाण्डिनायन-' इत्यादिसूत्रेण टिलोपः ॥ अपरिहीनधर्मः अन्यूनधर्मः॥ योति । अध्यवात्सम् उषितवानस्मि । 'उपान्वध्यासः' इति कर्मत्वम् । एतानीति । गोदावरीपरिसरस्य गोदावरीसमीपवर्तिनः ॥ ८ ॥ परिक्षामदुर्बलेन दुर्बलायमानेन । पाठान्तरम् 'परिक्षामधूसरेण' इति । अतिकृशेन दुर्बलेन चेत्यर्थः ॥ अनुभावमात्र. प्रत्यभिज्ञेयः प्रभावेन केवलं प्रत्यभिज्ञातुं शक्यः॥ अन्तर्लीनस्येति । अन्सलीन- स्य अन्तर्गृढस्य । उद्दाम उल्बणं यथा तथा अद्य ज्वलिष्यतः एतदव्यवहितोत्तरक्षणभा. , तृतीयोऽङ्कः । cours तमसा-(खगतम्।) इदं तावदाशङ्कितं गुरुजनेन । सीता-(समाश्वस्य ।) हो, कहं एदम् । (पुनर्नेपथ्ये।) हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुत्रि । (इति मूर्च्छति ।) सीता-हैद्धी हद्धी । मं मन्दभाइणिं वाहरिअ आमीलिदणेत्तणी- लुप्पलो मुच्छिदो एव्व । हा, कहं धरणिपिढे णिरुद्धणिस्सासणीसह विप- न्हत्थो । भअवदि तमसे, परित्ताएहि परित्ताएहि । जीवावेहि अजउत्तम् । (इति पादयोः पतति ।) तमसा- त्वमेव ननु कल्याणि संजीवय जगत्पतिम् । प्रियस्पर्शी हि पाणिस्ते तत्रैष निरतो जनः ॥ १० ॥ सीता-जं होदु तं होदु । जह भअवई आणवेइ । (इति ससंभ्रम निष्कान्ता।) १. हा कथमेतत् । २. हा धिक् हा धिक् । मां मन्दभागिनी ब्याहृत्यामीलितनेत्रनीलोत्पलो मूछित एव । हा, कथं धरणीपृष्ठे निरुद्धनिःश्वासनिःसहं विपर्यस्तः । भगवति तमसे, परित्रायस्व परित्रायस्व । जीवयार्यपुत्रम् । ३. यद्गवतु तद्भवतु । यथा भगवत्याज्ञापयति । विज्वलनवतः धूमस्य उत्पीड इव धूमसंबन्धिसंघात इव संमद इवेति वा । मोहः मूर्छा प्राक् ज्वलनात् पूर्वम् । आवृणोति संछादयति ॥९॥ इदमिति । गुरुजनेन । लोपामुद्राप्रभृतिनेत्यर्थः । एष संचितार्थप्राप्तिरुपक्रम उक्तः ॥ हेति । धरणीपृष्ठे भूतले निरुद्धनिःश्वासनिःसहं निरुद्धः प्रवृत्तिहीनः निःश्वासः यस्मिन् कर्मणि तद्यथा भवति तथा निःसहं दुर्बलं विपर्यस्तः ॥ त्वमेवेति । खमेव ननु कल्याणीत्यस्यायं भावः। लौवायं संजीवनीय इति चिरंतनी प्रसिद्धिः। 'आनीदवातं खधया तदेकम्' इति श्रुत्यायमर्थोऽवगम्यते । एकं जगतां प्रलीनबादसहायम् । अतो निर्व्यापारम् । तत् परं ब्रह्म खधया 'त्वं सिद्धिस्त्वं स्वधा खाहा' इति खधाशब्दवाच्यया लक्ष्म्या आनीद- जीवत् इति । एवं च भय कथमहं वैदेशिकी जीवयामि खमेव जीवयेति । अत्र मां मन्दभागिनीमित्यारभ्य परित्रायखेत्यन्तसंदर्भेण शङ्कात्रासरूपसंभ्रम उक्तः ॥ १९॥ उ.रा.

उसररामचरिते (ततः प्रविशति भूभ्यो निपतितः साप्तया सीतया स्पृश्यमानः साहादोच्छासो रामः।) सीता-(किंचित्सहर्षम् ।) जाणे उण पञ्चाअदं विअ जीविक्ष तेल्लोकस्स । रामा-हन्त भोः, किमेतत् । आश्योतनं नु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः । आतप्तजीवितपुनः परितर्पणोऽयं संजीवनौषधिरसो हृदि नु प्रसक्तः ॥ ११ ॥ अपि च । स्पर्शः पुरा परिचितो नियतं स एव संजीवनश्च मनसः परितोषणश्च । संतापजः सपदि यः परिहृत्य मूछा- मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥ सीता-(ससाध्वसकरुणमुपसृत्य ।) ऐत्ति एव्व दाणिं मह बहुदरम् । रामः-(उपविश्य) न खलु वत्सलया देव्याभ्युपपन्नोऽस्मि । सीता-हैद्धी हद्धी । किंति अज उत्तो मं णिन्दिस्स दि । रामः-भवतु । पश्यामि । १. जाने पुनः प्रत्यागतमिव जीवितं त्रैलोक्यस्य । २. एतावदेवेदानीं मम बहुतरम् । ३. हा धिक् हा धिक् । किमित्यार्यपुत्रो मां निन्दिष्यति । आहादः आनन्दः, उच्छ्वासः श्वाससंचारः, ताभ्यां सहितं यथा तथा ॥ जान इति। प्रत्यागतं पुनरागतम् । त्रयाणामपि लोकानां राममयजीवितखात् रामजीवने तज्जी. वनमिति भावः । तदुक्तम्-'रामो रामो राम इति प्रजानामभवनकथाः । रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥' इति ॥ आश्च्योतनमिति । हरिचन्दनपल्लवानां भाश्चयोतनं नु कल्पतरुकिसलयरक्षरणाद्रवीकरणं किम् । कन्दलजः अकुरजः ॥ ११ ॥ स्पर्श इति । संजीवनश्च प्राणधारणहेतुभूतश्च परितोषणश्च आहादज- नकश्च मूच्छी प्रज्ञाशन्यतां आनन्दनेन जडतां आनन्दाधिक्यप्रयुक्तप्रज्ञाशून्यता आतनोति आ समन्तात् विस्तारयति ॥ १२॥ एतावदेव मत्स्पर्शे पुरा परिचितलकथन- मेव । इदानी वियोगसमये । वत्सलया प्रीतिमत्या मदीयदोषं सहमानया का। अभ्युपप. नोऽस्मि अनुगृहीतोऽस्मि । इदं इष्टजनातिसंधानात्मकमतिबलं नाम संध्यगमुक्तम् ।। PAT तृतीयोऽङ्कः । सीता-भअवदि तमसे, ओसरम दावं । में पेक्खिअ अणब्मणु- ण्णादेण संणिहाणेण राआ अहिअं कुपिस्सदि । तमसा-अयि वत्से, भागीरथीप्रसादाद्वनदेवतानामप्यदृश्यासि संवृत्ता। सीता-अस्थि खु एदम् । राम:-हा प्रिये जानकि । सीता-(ससाध्वसगद्गदम् ।) अजउत्त, असरिसं खु एवं इमस्स वुत- न्दस्स । (सानम्) भअवदि, किंति यजमई जम्मन्तरेसु वि पुणो वि असं. भाविअदुल्लहदसणस्स में एव्व मन्दभाइणि उहिसिअ एव्वं वच्छलस्स एव्वंवादिणो अजउत्तस्स उवरि णिरणुकोसा भविस्सम् । अहं एव्व एदस्स हिअरं जाणामि, मह एसो। रामः-(सर्वतोऽवलोक्य सनिर्वेदम् ।) हा, न किंचिदत्र । सीता-भैअवदि, णिकारणपरिच्चइणो वि एदस्स देसणेण एवंवि- घेण कीलिसी मे हिअआवत्था । १. भगवति तमसे, अपसराव तावत् । मां प्रेक्ष्यानभ्यनुज्ञातेन संनिधानेन राजाधिक कोपिष्यति । २. अस्ति खल्बेतत् । ३. आर्यपुत्र, असदृशं खल्वेतदस्य वृत्तान्तस्य । भगवति, किमिति वज्र. मयी जन्मान्तरेष्वपि पुनरप्यसंभावितदुर्लभदर्शनस मामेव मन्दभाग्यामुद्दिश्यैवं वत्सलस्यैवंवादिन आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि । अहमेवैतस्य हृदयं जानामि, ममैषः । ४. भगवति, निष्कारणपरित्यागिनोऽप्येतस्य दर्शनेनैवंविधेन कीदृशी मे हृदयावस्था। 2 अनभ्यनुज्ञातेन अननुमतेन । संनिधानेन समीपस्थित्या । आर्यपुत्रेति । एतत् प्रिये- त्यामन्त्रणम् । अस्य वृत्तान्तस्य । परित्यागरूपस्येत्यर्थः । वज्रमयी अत्यन्तकाठिन्यः युका । मन्दमाग्यां मामुद्दिश्य वत्सलस्य निर्दोषत्वनिश्चयपूर्वकं मयि प्रीतिमतः निरनु- क्रोशा निर्दया । अनुक्रोशपदेन रामदशामिमां दृष्ट्वा मुक्तकण्ठं मया रोदितव्यम्-तत् किमेवं कठिना भवामीति व्यज्यते। अनुक्रोशति मुक्तकण्ठं रोदित्यनेनेति अनुक्रोशः' इत्यमरव्याख्या। कीदृशी मे हृदयावस्था। आर्यपुत्र, परित्रायख मम पुत्रकमित्यारभ्य एवान उत्तररामचरिते . सदापी तमसा-जानामि वत्से, जानामि । तटस्थं नैराश्यादपि च कलुषं विप्रियवशा- द्वियोगे दीपेऽस्मिञ्झटितिघटनास्तम्भितमिव । प्रसन्नं सौजन्यायितकरुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन्क्षण इव ॥ १३ ॥ रामः-देवि, प्रसाद इव मूर्तस्ते स्पर्शः स्नेहाशीतलः । अद्याप्यानन्दयति मां वं पुनः कासि नन्दिनि ॥ १४ ॥ सीता-एदे क्खु अगाधमाणसदंसिदसिणेहसंभारा आणन्दणिस्स- न्दिणो सुहामआ अजउत्तस्स उल्लावा। जाणे पच्चएण णिकालणपरि- चाअसल्लिदोवि बहुमदो मह जम्मलाहो । १. एते खल्वगाधमानसदर्शितस्नेहसंभारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । जाने प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मम जन्मलाभः। ममाप्येष इत्यन्तेन संदर्भेण प्रतिपादिता मम हृदयावस्था कीदृशीत्यर्थः ॥ तटस्थ. मिति । तव हृदयं अस्मिन् क्षणे नैराश्यात् तटस्थमिवेत्यादि विभिन्नवाश्यतया योजना । नैराश्यात प्रत्याशाभावात् । तटस्थं प्रसादकालुष्यादिरहितम् । विप्रियवशात् कलुषं परित्यागरूपादप्रियाद्धेतोः कलुषं क्रोधयुक्तम् । दीर्धे अस्मिन् वियोगे आमरणा- न्तभावित्वेन ज्ञातेऽस्मिन् विरहे झटितिघटनात् आकस्मिकसंघटनात् स्तम्भितमिव विस्मयस्तिमितमिव सौजन्यात् प्रकृत्या कल्याणलात् प्रसन्नं भविष्यतानुसंधानेन निव- तकालुष्यम् । दयितकरुणैः रामस्य दुःखात्मकावस्था विशेषैः गाढ करुणं परदुःखदुःखि- बरूपकरुणासान्द्रम् । प्रेम्णा प्रणयेन द्रवीभूतं विलीनम् । अत्र तठस्थं नैराश्यादित्यनेन तान्येव चिरपरिचितान्यक्षराणीति वाक्याभिमता सीतावस्था प्रतिपादिता । अपि च कलषं विप्रियवशादित्यनेन असदृशं खल्वमुष्य वृत्तान्तस्येत्येतद्वाक्यामिमतावस्था प्रतिपादिता। वियोगे दीपेऽस्मिन्नित्यनेन कथं प्रभातचन्द्रमण्डलेयादिविवक्षितावस्था प्रतिपादिता । कथमित्यस्य विस्मयार्थकलात् । प्रसन्नं सौजन्यादित्यनेन अथवा किमिति वज्रमयीवेत्यादिप्रतिपादितावस्था दर्शिता । दयितकरुणैर्गाढकरुणमित्यनेन हा धिक इदं मां मन्दभागिनीं व्याहृत्येत्यादिवाक्यविवक्षितावस्था प्रतिपादिता । द्रवीभूतं प्रेम्णेत्यनेन उत्सुकयति उत्कण्ठितं स्थितमित्यादिवाक्यप्रतिपादितावस्थोक्का ॥ १३ ॥ प्रसाद इति। नेहा शीतलः स्नेहाईश्वासौ शीतलश्चेति विग्रहः । स्नेहहेतुकलात् स्नेहा. देवम् ॥ १४ ॥ प्रत्ययेन विश्वासेन । शल्यितोऽपि शल्यवान्कृतोऽपि । 'तदस्य संजा.

सृतीयोऽङ्कः ।
रामः-अथवा कुतः प्रियतमा । नूनं संकल्पाभ्यासपाटवोपादान
एष भ्रमो रामभद्रस्य ।
(नेपथ्ये।)
अहो, महान्प्रमादः प्रमादः । ('सीतादेव्याः खकरकलितैः' इत्यर्थ
पल्यते ।)
रामः---(सकरुणौत्सुक्यम्) किं तस्य ।
(पुनर्नेपथ्ये।)
('वधा साध' इत्युत्तरार्धं पठ्यते ।)
सीता–को दाणिं अभिजुजइ ।
राम: -कासौ
दुरात्मा यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति ।
(इत्युत्तिष्ठति ।)
(प्रविश्य ।)
वासन्तिका-(संभ्रान्ता ।) देव, त्वर्यताम् ।
सीता-हाँ कहं मे पिअसही वासन्तिआ ।
रामः-कथं देव्या, प्रियसखी वासन्तिका ।
वासन्तिका-देवः त्वर्यतां त्वर्यताम् । इतो जटायुशिखरस्य दक्षिणेन
सीतातीर्थेन गोदावरीमवतीर्य संभावयतु देव्याः पुत्रकं देवः ।
सीता-हाँ ताद जडाओ, सुण्णं तुए विणा इदं जणट्ठाणम् । .
रामः-अहह हृदयमर्मच्छिदः खल्वमी कथोद्धाताः ।
वासन्ती-इत इतो देवः ।
सीता-भैअवदि, सच्चं एव्व वणदेवदावि मं ण पेक्खदि ।
१. क इदानीमभियुज्यते ।
२. हा, कथं मे प्रियसखी वासन्तिका ।
३. हा तात जटायो, शून्यं त्वया विनेदं जनस्थानम् ।
४. भगवति, सत्यमेव वनदेवतापि मां न पश्यति ।
तम्' इति सूत्रेणेतच् ॥ नूनमिति । संकल्पाभ्यासस्य स्मृतिसंतानस्य पाटवं स्फूर्तिः
तदेव उपादानं कारणं यस्य तथोक्तः भ्रमः सीता स्पृष्टवतीयाकारकान्यथाज्ञानम् ॥
अहहेति । हृदयमर्माणि छिन्दन्तीति विग्रहः । कथोद्धाताः पुरावृत्तोपन्यासाः ।।

उत्तररामचरिते। तमसा-अयि वत्से, सर्वदेवताभ्यः प्रकृष्टतममैश्वर्य मन्दाकिन्याः। तत्किमिति विशङ्कसे। सीता-तदो अणुसरा । (इति परिक्रामति ।) रामः-भगवति गोदावरि, नमस्ते । वासन्ती-(निरूप्य ।) देव, मोदख विजयिना वधूद्वितीयेन देव्याः पुत्रकेण । रामः-विजयतामायुष्मान् । सीता-अमहे ईदिसो मे पुत्तओ संवुत्तो । रामः-हा देवि, दिष्ट्या वर्धसे । येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्कुरेण व्याकृष्टस्ते सुतनु लवलीपवः कर्णमूलात् । सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः॥१५॥ सीता-अविउत्तो दाणिं दीहाऊ इमाए सोमतादसणाए होदु । रामः-सखि वासन्तिके, पश्य पश्य । कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन । लीलोत्खातमृणालकाण्डकवलच्छेदेषु संपादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः । सेकः शीकरिणा करेण विहितः कामं विरामे पुन- येत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६॥ १. ततोऽनुसरावः । २. अहो, ईदृशो मे पुत्रकः संवृत्तः । ३. अवियुक्त इदानीं दीर्घायुरनया सौम्यदर्शनया भवतु । अयीति । प्रकृष्टमुत्कृष्टम् । अत्र प्रस्तुतोत्कर्षामिधानरूपोदाहृतिरुक्ता ॥ येनेति । तरुणे वयसि यत् कल्याणं अङ्गनापरिष्वङ्गरूपं मङ्गलं तस्य भाजनं पात्रं जातः॥१५॥ लीलेति। लीलया उत्खाताः उद्धृताः मृणालकाण्डा एव कवलाः प्रासाः तेषां छेदेषु अवसानेषु पुष्यद्भिः वर्धमानैः पुष्करैः पद्मः वासितस्य सुरमितस्य पयसः जलस्य गण्डूषसंक्रान्तयः पयःसंबन्धिगण्डूषसंक्रमणानि संपादिताः नियूढाः । अथवा पुष्यति .

webmarawww.saas.-... 01 DAMusaMLWAN तृतीयोऽङ्कः। सीता-भअवदि तमसे, अयं दाव ईरिसो जादो । दे उण ण आणामि एत्तिएण कालेण कुसलवा कीरिसा संवुत्तेत्ति । तमसा-यादृशोऽयं तादृशौ तावपि । सीता-ईरिसंमि मन्दभाइणी जाए ण केवलं अजउत्तविरहो पुतविरहो वि। तमसा-भवितव्यतेयमीहशी। सीता-किंवा मए पसूदाए जेण एआरिसं मह पुत्त आणं ईसि- विरलधवलदसणकुमलुज्जलं अणुबद्धमुद्धकाअलीविहसिदं णिचुजलं मुहपुण्डरीअजुअलं ण परिचुम्बिअं अजउत्तेण । तमसा-अस्तु देवताप्रसादात् । सीता-भैअवदि तमसे, एदिणा अवञ्चसंसुमरणेण उस्ससिदप. ण्हुदत्थणी दाणिं वच्चाणं पिदुणो संणिहाणेन खणमेत्तं संसारिणी संवु- तमि । तमसा-किमत्रोच्यते । प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य । परं चैतदन्योन्यसंश्लेषणं पित्रोः १. भगवति तमसे, अयं तावदीदृशो जातः । तौ पुनर्न जानाम्येतावता कालेन कुशलवौ कीदृशौ संवृत्ताविति । २. ईदृश्यस्मि मन्दभागिनी यस्याः न केवलमार्यपुत्रविरहः पुत्रविरहोऽपि । ३. किंवा मया प्रसूतया येनैतादृशं मम पुत्रकयोरीषद्विरलधवलदशनकु- मलोज्वलमनुबद्धमुग्धकाकलीविहसितं नित्योज्वलं मुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण । ४. भगवति तमसे, एतेनापत्यसंस्मरणेनोच्छसितप्रस्तुतस्तनी इदानीं वत्सयोः पितुः संनिधानेन क्षणमात्रं संसारिणी संवृत्तास्मि । M उपचयवति पुष्करे शुण्डाग्रे वासितस्य संजातवासस्य पयस्यः जलस्य गण्डूष संक्रान्तयः। लीलोत्खातमृणालकाण्डरूपकवलच्छेदेषु कवलार्धखण्डेषु अधिकरणे सप्तमी। संपादि- ताः नियूंढाः । तत्र हि 'अच्छिद्राणि भूयासि' इति भावः । अनरालं अवक्रम् ॥१६॥ अनुबद्धमुग्धकाकली विहसितं उत्पन्नसूक्ष्ममधुरास्फुटध्वनिमुग्धस्मितम् ॥ देवताप्रसा- दाद्देवतानुप्रहात् ॥ प्रसव इति। पर्यन्तः परा कोटिः । अन्योन्यसंश्लेषणं अविना- उत्तररामचरिते -ऐत्वं होदु। अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रवात् । आनन्दप्रन्थिरेकोऽयमपत्यमिति पठ्यते ॥ १७ ॥ वासन्ती-इतोऽपि देवः पश्यतु । अनुदिवसमवर्धयत्प्रिया ते यमचिरनिर्गतमुग्धलोलबर्हम् । मणिमुकुट इवोच्छिखः कदम्बे नदति स एष वधूसखः शिखण्डी ॥ १८ ॥ सीता-(सकौतुकस्नेहासम् ।) एसो सो। रामः-मोदख वत्स । वयमद्य वर्धामहे । सीता रामः- भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षु:- प्रचलितचटुलभूताण्डवैर्मण्डयन्त्या । करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥ १९ ॥ १. एष सः। २. एवं भवतु। भावहेतुभूतम् । तदुभयमपीत्याह-अन्तःकरणेति । दम्पत्योः जायापत्योः अन्त:- करणतत्त्वस्य हृदयवस्तुनः स्नेहसंश्रयात् । स्नेहः प्रीतिः संश्रयः संश्रयणम् । अविश्लेष इति यावत् । स्नेहश्च संश्रयश्चेति समाहारद्वन्द्वः । तस्मानिमित्तादित्यर्थः अनाद्धेतोर्वसती. त्यत्र अनफलको वास इति बोधः तद्वदत्रापि स्नेहसंश्रयणफलकानन्दप्रन्थिरिति । आन. न्दप्रन्थिः आनन्दमयप्रन्धिः । आनन्दपदेन प्रन्थ्यन्तरव्यावृत्तिः । अपत्यमिति पठ्यते परिभाष्यते ॥१७॥ अनुदिवसमिति । अचिरनिर्गतमुग्धलोलबह प्रत्यप्रोत्पन्नसु. न्दरचलतिपच्छं यं अवर्धयत् स एष शिखण्डी वधूसखः सन् कदम्बे वृक्षे मणिमुकुट इवाआनुपूर्व्यात् पृथुकृशलात् नानावर्णलाच रत्नमयकिरीटसादृश्यम् ।नदति केको क. रोति ॥१८॥ भ्रमिष्विति । मण्डलं यथा भवति तथा आवृत्तिः मण्डलावृत्तिः । पुटे अन्तः पुटान्तः । पुटान्तः मण्डलावृत्तिः पुटान्तमण्डलावृत्तिः। भ्रमिषु भ्रमणेपु । मयू. रस्य मण्डलाकारनाट्य चारिध्वितियावत्।कृता रचिता पुटान्तर्मण्डलावृत्तिर्ययोस्तथोक्त चक्षुषो यैस्तथोक्तानि कृतपुटान्तर्मण्डलावृत्तिचक्षुषि । प्रचलितयोः चटुलयोः सुन्दरयोः भ्रुवोः ताण्डवानि नर्तनानि कृतपुटान्तर्मण्डलावृत्तिचक्षूषि च तानि प्रचलितचटुलभू- ताण्डवानि चेति विग्रहः । तैः तदुक्तं कनककविना-'किंचाधस्तादुपरि च नयन्त्यानतो .

हन्त, तृतीयोऽङ्कः। तिर्यञ्चोऽपि परिचयमनुरुन्धन्ते । कतिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितोऽयमासीत् । सीता-(सानम् ।) सुष्टु पञ्चहिजाणिदं अजउत्तेण । राम: स्मरति गिरिमयूर एष देव्याः खजन इवात्र यतः प्रमोदमेति ॥ २० ॥ वासन्ती-अत्र तावदासनपरिग्रहं करोतु देवः । एतत्तु देवस्याश्रमम् । (राम उपविशति ।) वासन्ती- नीरन्ध्रवालकदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते । अत्र स्थिता तृणमदाद्वनगोचरेभ्यः सीता ततो हरिणकैर्न विमुच्यते स ॥ २१ ॥ रामः-इदमशक्यं द्रष्टुम् । (इत्यन्यतो रुदनुपविशति ।) सीता-सैहि वासन्ति, किं तुए किदं अजउत्तस्स मह अ एवं दसअ- न्तीए । हद्धी हद्धी । सो एव्व अजउत्तो । तं एव्व पञ्चवडीवणम् । सा एव पिअसही वासन्दिआ । दे एव विविह विस्सम्भसक्खिणो गोदा- वरीकाणणुद्देसा । दे एव्व जादणिव्विसेसा मिअपक्खिणो पाअवा अ। F १. सुष्टु प्रत्यभिज्ञातमार्यपुत्रेण । २. सखि वासन्ति, किं त्वया कृतमार्यपुत्रस्य मम चैतदर्शयन्त्या । हा धिक् हा धिक् । स एवार्यपुत्रः । तदेव पञ्चवटीवनम् । सैव प्रियसखी वासन्तिका । त एव विविधविसम्भसाक्षिणो गोदावरीकाननोद्देशाः । त एव जातनिर्विशेषा . निद्रपक्षमा चक्राकारं भ्रमयति मुहुर्विश्वमावर्तयन्ती' इति । करकिसलयतालैः करसंघ- हनजाततालध्वनिभिः । जातिभेदाभिप्रायकं बहुवचनम् । वत्सलेन सस्नेहेन ॥१९॥ अनुरुन्धन्ते अनुसरन्ति । कतिपय इति । कतिपयकुसुमानामुद्गम उत्पत्तिः यस्मि- निति विग्रहः । स्मरतीति । एष गिरिमयूरः गिरिप्रियो मयूरः गिरिमयूरः । शाकपा- र्थिववत्समासः। गिरेः प्रियत्वं उन्नतत्वनिरुपप्लवत्वादिना । अत्र अस्मिन् प्रियतमापरि- वर्धितकदम्बवृक्षे वजन इव खबन्धुविषय इव यतः यस्मात्कारणात् प्रमोदं प्रीति एति उत्तररामचरिते मह उण मन्दभाइणीए दीसन्तं वि सव्वं एव्व एवं गस्थि । ईरिसो जीवलोअस्स परिणामो संवुत्तो। वासन्ती-सखि सीते, कथं न पश्यसि रामभद्रस्तावस्थाम् । नवकुवलयखिग्धैरङ्गैर्ददन्नयनोत्सर्व सततमपि नः खेच्छादृश्यो नवो नव एव सः। विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥ २२ ॥ सीता-सहि, पेक्खामि । तमसा-पश्य प्रियं भूयः । सीता-हो देव, एसो मए विणा अहंवि एदेण विणेत्ति केण संभाविदं आसि । ता मुहुत्तमेत्तं जम्मन्तरादोवि दुल्लहलद्धदंसणं बाह- सलिलन्तरेषु पेक्खामि दाव वच्चलं अजउत्तम् । (इति पश्यन्ती स्थिता ।) तमसा-(परिष्वज्य सानम् । विललितमतिपूर्वाष्पमानन्दशोक- प्रभवमवसृजन्ती पक्षमलोत्तानदीर्घा । सपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः ॥ २३ ॥ मृगपक्षिणः पादपाश्च । मम पुनर्मन्दभाग्याया दृश्यमानमपि सर्वमेवैतनास्ति । ईदृशो जीवलोकस्य परिणामः संवृत्तः । १. सखि पश्यामि । २. हा दैव, एष मया विना अहमप्यतेन विनेति केन संभावितमासीत् । तन्मुहूर्तमात्रं जन्मान्तरादपि दुर्लभलब्धदर्शनं बाष्पसलिलान्तरेषु पश्यामि तावद्वत्सलमार्यपुत्रम् । प्राप्नोति । तस्मादेष देव्याः स्मरति । सीता स्मरतीत्यर्थः ॥ २० ॥११॥नवेति । विकलकरणः शून्यचक्षुरादिकरणः शुचा दुःखेन परिदुर्बलः खधारणेऽऽप्यसमर्थः। व हि धारणसामर्थ्यम् । उन्नेतव्यः अनुमेयः। तथापि दृशोः प्रियः। अनुपहतलावण्यकला. दिति भावः ॥२२॥हा इति।केन संभावितमासीत् केन हेतुना संभावित उत्पादितम् । स्वयेति शेषः। दुर्लभलब्धदर्शनं यदृच्छया लब्धदर्शन मिति व्याख्यातार॥विलुलित. मिति। 'विलुठितम्' इति पाठान्तरम् ।अतिपूरैः अतिशयितस्रोतोमिः विलुलितं विकीर्ण आनन्दशोकप्रभवं आनन्दशोकहेतुकं बाष्पं अश्रु अवसृजन्ती उत्पादयन्ती।पक्ष्मला च ..

तृतीयोऽङ्कः। ३ वासन्ती- ददतु तरवः पुष्पैरध्ये फलैश्च मधुश्च्युतः स्कुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः । कमलविरलं रज्यत्कण्ठाः कणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः ॥ २४ ॥ रामः-एहि सखि वासन्ति, नन्वितः स्थीयताम् । वासन्ती-(उपविश्य सास्रम् ।) महाराज, अपि कुशलं कुमारल- क्ष्मणस्य। रामः-(अनाकर्णनमभिनीय ।) करकमलवितीर्णैरम्बुनीवारशष्पै- स्तरुशकुनिकुरङ्गान्मैथिली यानपुण्यत् । भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्रवोद्भेदयोग्यः ॥ २५ ॥ वासन्ती-महाराज, ननु कुशलं पृच्छामि कुमारलक्ष्मणस्येति । रामः-(आत्मगतम् ।) अये, महाराजेति निष्प्रणयमामन्त्रणपदम् । सा उत्ताना च सा दीर्घा च इति विग्रहे विशेषणसमासः। उत्तानविपुला। नेहस्य अनुरा- गस्य निष्यन्दः यस्यामस्तीति विग्रहः। दुग्धकुल्येव सुधामयकृत्रिमाल्पसरिदिव नपयति स्मानं करोति।आदन्तलात् पुगागमे 'ग्लानावनुमां च' इति वैकल्पिको ह्रखः॥२३॥ ददत्विति । मधूनि मकरन्दानि श्चोतयन्ति क्षरन्तीति विग्रहः । 'श्रुतिर् क्षरणे' इत्यस्मादन्त वितण्यर्थात् कर्तरि विप्प्रत्ययायद्वा मधुभिः मकरन्दैः श्योतन्ति आदी. • कुर्वन्तीति विग्रहः। युतिर आसेचने' इत्यस्मात् कि । इदं च वनानिलानां विशेषणम् । तृतीयान्तपाठे फलविशेषणं पुष्पविशेषणं वा । 'च्यु च्यवने' इत्यस्मात् भावे कप्रत्यये मधूनां च्युतं च्यवनं येभ्य इति पुष्पपक्षे, फलपक्षे तु कर्मणि क्तप्रत्ययेन मधुभ्यः च्युतैरि- ति पञ्चमीतत्पुरुषः। पुष्परससमृद्धौ तात्पर्यम् । तदेवं पक्षत्रये-आद्यःशकारचकाराभ्यां युक्तःपाठद्वितीयः शकारचकारयकारैर्युक्तातृतीयस्तु चकारयकाराभ्यामिति विवेकः। ख्यत्कण्ठाः रागयुक्तकण्ठाः क्वणन्तु गीतवायभेदेन शब्दं कुर्वन्तु । अतएव कूजन्विति नोकम् ॥ २४ ॥आकर्णनं अनाकर्णनाभावम् । करकमलेति। करकमलवितीर्णैः । करकमलतः अम्बुनीवारशष्पैः नीवारोधान्यविशेषः । शष्पं बालतृणं तैः अपुष्यत् अवर्धयत् । अत्राम्बुना तरून् , अम्बुनीवाराभ्यां शकुनीन् , अम्बुनीवारशष्पैः कुरजा- निति विवेकः। तेषु दृष्टेषु सत्सु प्रस्रवोद्भेदयोग्यः प्रसरणोत्पत्तियोग्यः द्रव इव कोऽपि विकारः मम हृदयस्य भवति उत्पद्यते ॥२५॥ महाराजेत्यामन्त्रणपदं संबोधनशब्दः ।

उत्तररामचरिते - सौमित्रिमात्रके बाष्पस्खलिताक्षरः कुशलप्रश्नः । तथा मन्ये विदितसी- तावृत्तान्तेयमिति । (प्रकाशम् ।) आः, कुशलं कुमारलक्ष्मणस्य । वासन्ती-(रुदति ।) अयि देव, किं परं दारुणः खस्वसि । सीता-सहि वासन्ति, किं तुमं एव्वंवादिणी होसि । पूआरुहाँ सध्वस्स अजउत्तो विसेसदो मह पिअसहीए। वासन्ती- त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे । त्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतःपरेण ।। २६ ।। (इति मुह्यति ।) तमसा-स्थाने वाक्यनिवृत्तिर्मोहश्च । रामः-सखि, समाश्वसिहि समाश्वसिहि । वासन्ती-(समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन । सीता-सैहि वासन्दि, विरम विरम । रामः-लोको न मृष्यतीति । वासन्ती-कस्य हेतोः । १. सखि वासन्ति, किं त्वमेववादिनी भवसि । पूजाहः सर्वखार्यपुत्रो वि. शेषतो मम प्रियसख्याः। २. सखि वासन्ति, विरम विरम | माः इति सोपालम्भाङ्गीकारे ॥ त्वमिति।वं जीवितं प्राणाः । त्वं मे द्वितीयं हृदय. मसि । त्वं नयनयोः कौमुदी तद्वदानन्दिनी । 'कौ मोदन्ते जना यस्मात्तेनेयं कौमुदी मता इति कौमुदीपदनिरुतालमझे विषये अमृतं पीयूषम् । तद्वजराप्रतिबन्धेन नित्ययौवना- वहेत्यर्थः । अत्र प्राणाः प्राणा एव, हृदयं हृदयमेव, कौमुदी कौमुथेव, अमृतं अमृतमेव। त्वं तु प्राणा हृदयं कौमुद्यमृतमेतत् सर्वमिति प्राणाद्यपेक्षया वैलक्षण्यमपि सूच्यते । देक तायाः खस्या अपि ज्ञातुं वक्तुं चाशक्यतादाह इत्यादिभिरिति। प्रियाणां प्रियवचनानां शतैः।अनन्तवाची शतशब्दः । 'शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्' इत्युः। मुग्धां भनुरुध्य । 'उदयद्यौवना मुग्धा' इति लक्षणलक्षितां सुन्दरीम्। खनौर्यमजामन्तीमिति वार्थः। अनुरुध्य अनुनीय तामेव पूर्वोकानुनय विषयभूतामेवात्र कथं यकवानसिना- शितवानसीति वा । वाक्यशेषस्य दुःखातिशयेन वक्तुमशक्यतया प्रकरणायनुप्रहेणा- तृतीयोऽङ्कः। - राम:-स एव जानाति किमपि । तमसा-चिरादुपालम्भः। वासन्ती- अयि कठोर यशः किल ते प्रियं किमयशो ननु घोरमतः परम् । किमभवद्विपिने हरिणीदृशः कथय नाथ कथं बत मन्यसे ।। २७ ।। सीता-सैहि वासन्दि, तुम एव्व दारुणा कठोरा अ । जा एव्वं पलवन्तं पलावेसि। तमसा-प्रणय एवं व्याहरति शोकश्च । रामः-सखि, किमत्र मन्तव्यम् । त्रस्तैकहायनकुराविलोलदृष्टे- स्तस्याः परिस्फुरितगभरालसायाः । ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥ २८॥ सीता-अजउत्त, धरामि एसा धरामि । रामः-हा प्रिये जानकि, कासि । सीता-हैद्धी हद्धी । अण्णो विअ अजउत्तो पमुक्तकण्ठं परुण्णो होदि। तमसा-वत्से, सांप्रतिकमेवैतत् । कर्तव्यानि खलु दुःखितैर्दुःख- निर्धारणानि । १, सखि वासन्ति, त्वमेव दारुणा कठोरा च । यैवं प्रलपन्तं प्रलापयसि । २. आर्यपुत्र, धराम्येषा धरामि । ३. हा धिक् हा धिक् । अन्य इवार्यपुत्रः प्रमुक्तकण्ठं प्ररुदितो भवति । ध्याहारवादे विवक्षितार्थलाभासंभवात् शब्दाध्याहारवादे तस्य सुलभखात् प्रयोगे हेतुभूततत्स्मरणेन मूर्योत्पत्तेश्वाह-मुह्यतीति । अथवेति पूर्वोकाक्षेपे। शान्तं खामुप- लभ्यालम् । अतःपरेण किम् । अतिकान्तत्वादिति भावः ॥२६॥२७॥त्रस्तेति।ज्यो- सामयीव ज्योत्नाविकृतिरिव स्थिताक्रव्याद्भिः विलुप्ता नाशितेति भावः। नियतमिति संभावनायाम् । अत्र प्रकरणे उपायापायशङ्काभ्यां कार्यसंभवरूपप्राप्त्याशा प्रतिपादिता ८उ० रा. ..

८६ उत्तररामचरिते पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया । शोकक्षोभे च हृदयं प्रलापैरवधार्यते ॥ २९ ॥ विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः । इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोकं जीवं कुसुममिव धर्मो ग्लपयति । खयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ- स्तदद्याप्युच्छासो भवति ननु लाभो हि रुदितम् ॥ ३० ॥ रामः-कष्टं भोः, कष्टम् । दलति हृदयं शोकोद्वेगाद्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसा- प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥ हे भगवन्तः पौरजानपदाः, न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत- स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता । चिरपरिचितास्ते ते भावास्तथा द्रवयन्ति मा. मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥ ३२ ॥ वासन्ती-(खगतम् ।) अतिगभीरमापूरणं मन्युभारस्य । (प्रकाशम् ।) देव, अतिक्रान्ते धैर्यमवलम्ब्यताम् । राम:--किमुच्यते धैर्यमिति । ॥२८॥ अन्य इव पृथग्जन इव। पूरोत्पीड इति ।पूरोत्पीडे स्रोतोभूयस्त्वे। परीवाहः जलनिःसारणम् । प्रतिक्रिया प्रतीकारः चिकित्सा। शोकक्षोमे शोकाधिक्यप्रयुक्तप्रकृति- विपर्यासे। प्रलापैः परिदेवनैः ॥२९॥ बहुप्रकाराणि कष्टानि बहुविधानि दुःखानि यस्मिन् तथोक्तः। इदमिति।अमियुक्तेन तत्परेण विधिवत् यथाशास्त्रं विलपनं चासौ विनोद- श्वेति विग्रहः । उच्छासः प्राणधारणम् ॥३०॥ दलतीति । दलति स्फुटति । द्विधा, न भियते । पृथकारेण शकलद्वयं न भवतीत्यर्थः । न कृन्तति न छिनति ॥३१॥ न किलेति । देव्याः सीतायाः गृहे स्थानं गृहस्थितिः न चाप्यनुशोचिता । तत्परित्याग- हेतुकशोकोऽपि युष्माकं नेति भावः । भावाः अभिप्रायाः तथा द्रवयन्ति वाचामगोचरं यथा तथा विलापयन्ति । परिद्रवयन्ति' इत्यपि पाठः। रुद्यते रोदनं करोमि भावे लटू। प्रसीदत प्रसादं कुरुत ॥ ३२ ॥ मन्युभारस्य कोपातिशयस्य आपूरणमाविष्करणम् ।

तृतीयोऽङ्कः। देव्या शून्यस्य जगती द्वादशः परिवत्सरः । प्रणष्टमिव नामापि न च रासो न जीवति ।। ३३ ।। सीता-ओहरामि अ मोहिआ विअ एदेहिं अजउत्तस्स पिअव- अणेहिं । तमसा-एवमेव क्त्से, नैताः प्रियतमा वाचः स्नेहाः शोकदारुणाः । एतास्ता मधुनो धाराः श्योतन्ति सविषास्त्वयि ॥ ३४ ॥ रामः-अयि वासन्ति, मया खलु यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दन्तः । तथैव तीव्रो हृदि शोकशङ्कु- मर्माणि कृन्तन्नपि किं न सोढः ॥ ३५ ॥ . सीता -ऐव्वंवि मन्दभाइणी अहं जा पुणो आआसआरिणी अज्जउत्तस्स। रामः-एवमतिगूढस्तम्भितान्तःकरणस्यापि मम संस्तुतवस्तुदर्श- नादद्यायमावेगः । तथाहि । १.वेलोल्लोलक्षुभितकरुणोजृम्भणस्तम्भनार्थ यो यो यत्नः कथमपि समाधीयते तं तमन्तः । १. अपहरामि च मोहितेव एतैरार्यपुत्रस्य प्रियवचनैः । २. एवमपि मन्दभागिन्यहं या पुनरायासकारिणी आर्यपुत्रस्य । अतिगभीरमतिगूढम् । अवलम्ब्यता आश्रीयताम् । त्वयेति शेषः ॥ देव्या इति । द्वादशानां पूरणः द्वादशः। 'तस्य पूरणे डट्'। परिवत्सरः संवत्सरारामःनजीवतीति न । जीवस्येवेत्यर्थः । जीवनाभावो न्याय्य इति व्यज्यते ॥ ३३ ॥ नैता इति । प्रियतमा इष्टतमाः स्नेहार्द्राः अनुरागशीतलाः शोकदारुणाः दुःखेन रूक्षाः एता वाचः न । किंतु एताः सविषाः मधुनो धाराः श्योतन्ति स्रवन्ति । अत्रापहतिरलंकारः ॥ ३४ ॥ यथेति । तिरश्वीनं तिर्यग्भूतं प्रत्युप्तं निखातं अलातशल्यं उल्कामयं लोहकीलाग्रं स. विषो दन्तश्च यथा तीव्रः तथैव तीव्रः मर्माणि हृदयादीनि कृन्तन्सनपि छिन्दन्स- अपि हृदि शोकशङ्खः दुःखात्मककीलं किं न सोढः न व्यषहत किम्। सहतेः कर्मणि क्तः ॥३५॥ वेलेति । वेलायाः मर्यादायाः उल्लोलः उद्गतः। अतिवेल इत्यर्थः। क्षुभितः प्रवाहभूयतया नदीवत् क्षोभवांश्च यः करुणः प्रियजनविश्लेषजन्यदुःखातिशयः तस्य ८८ उत्तररामचरिते हित्वा भित्वा प्रसरति बलात्कोऽपि चेतोविकार- स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोषः ।। ३६ ।। सीता-अजउत्तस्स एदिणा दुव्वारदारुणारम्भेण दुःखसंजोएण परिमुसिअणिअदुःखं पमुक्कजीविअं मे हिअअं फुडइ । वासन्ती-(स्वगतम्) कष्टमत्यासक्तो देवः । तदाक्षिपामि तावत् । (प्रकाशम्) चिरपरिचितामिदानीं जनस्थानाभोगानवलोकनेन मान- यतु देवः। राम:-एवमस्तु । (इत्युत्थाय परिकामति ।) सीता-संदीवेण एव दुःखस्स पिअसहीए विणोदणोवाओ त्ति- तकेमि । वासन्ती-देव देव, अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुमलनिभो मुग्धः प्रणामाञ्जलिः ॥ ३७ ।। १. आर्यपुत्रस्यैतेन दुर्वारदारुणारम्भेण दुःखसंयोगेन परिमुषितनिजदुःखं प्रमुक्तजीवितं मे हृदयं स्फुटति । २. संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि । उज्जृम्भणमभिवृद्धिः तस्य स्खम्भनं प्रतिहतिः तदर्थम् । 'करणस्तम्भनार्थम्' इति पाठे वेलोलोलं वेलातिकान्तं क्षुमितं क्षोभः यस्य तथोक्तस्य करणस्य । हृदयादेरित्यर्थः । कथमपि प्रयासेन समाधीयते उत्पाद्यते। चेतोविकारः संभ्रमातिशयः । ओघः दीर्घः प्रवाहः ॥३६॥आर्यपुत्रस्येति । दुर्वारः दुर्निवर्त्यः दारुणानां क्रूरमू संतापादीनां आरम्भः उपादानं येनेति विग्रहः । परिमुषितं निजदुःखं खीयदुःखं यस्येति यथोकम् । स्फुटति दलति ॥ आक्षिपामि । अन्यत्र नयामीत्यर्थः॥ संदीपन इति। विनोदनोपायः चिरपरिचितजनस्थानाभोगावलोकनरूपः दुःखस्य संदीपन एव उद्दीपनहेतुरेवेति तर्क- यामि जानामि ॥ अस्मिन्निति । अस्मिन्नेव लतागृहे त्वं अभवः स्थितवान् । तन्मार्गे सीतया आगमनमार्गे दत्तं ईक्षणं नेत्रं येन तथोकः । हंसैः कृतं उत्पादितं कौतुकं हर्षः यस्यास्तथोक्ता । गोदावरीसैकते पुलिनोचये । आयान्त्या आगच्छन्त्या तया सीताया परिदुर्मनायितमिव परिकुपितमनस्कमिव स्थितम् । नतु वस्तुतः कुपितहदि- व्यर्थः । त्वां वीक्ष्य कातर्यात अपराधप्रविसंधानजनितसावसात् अरविन्दकाल.

तृतीयोऽङ्कः ।
सीता-दालुणासि वासन्ति, दालणासि । जा एदेहि हिअअम-
म्मुग्धाडिअसल्लसंघटनेहिं पुणोपुणोवि में मन्दभाइणिं अजउत्तं अ-
सुमरावेसि ।
रामः-अयि चण्डि जानकि, इतस्ततो दृश्यसे नानुकम्पसे ।
हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः
शून्यं मन्ये जगदविरलज्वालमन्तवलामि ।
सीदन्नन्धे तमसि विधुरो मजतीवान्तरात्मा
विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ ३८ ॥
(इति मूर्च्छति)
सीता-हैद्धी हद्धी । पुणोवि मुद्धो अजउत्तो ।
१. दारुणासि वासन्ति, दारुणासि । या एतैर्हृदयमर्मोद्घाटितशल्यसं-
घट्टनैः पुनः पुनरपि मां मन्दभागिनीमार्यपुत्रं च मरयसि ।
२. हा धिक् हा धिक् । पुनरपि मूढ आर्यपुत्रः ।
निभः पद्मकोशसशः मुग्धः सुन्दरः प्राणमाजलिः । मस्तकन्यस्तकरपुटादिप्रणामाङ्ग-
भूताञ्जलिरित्यर्थः । अथवा 'नामयत्यपि वा देवं प्रहीभावयति ध्रुवम् । प्रवीभवति नी.
चे हि परो नैच्यं विलोकयन् ॥ अतो वा नम उक्तीदं यत्तं नामयति खयम्। वाचा नम
इति प्रोच्य वपुषा मनसा च यत् ॥' इति भगवच्छात्रोकरीत्या प्रणामः कोपोद्धतराम-
हृदयनमनहेतुभूतोऽअलिरित्यर्थः । उक्तं च-'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसा.
दिनी' इति । अतएव रामायणे-'कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्। अन्तरे-
णाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्॥' इति । बद्धः घटितः॥३७॥ दारुणेति। हृदयम-
मोद्घाटितशल्यस्य हृदयमर्मणि स्थितकीलाग्रस्थसंघनैः संचलनैः एतैः पुरावृत्तान्तक-
थनैः आर्यपुत्रं मां च स्मरयसि । मद्विषयकस्मृति आर्यपुत्रस्य जनयसीत्यर्थः । या स्मर-
यसि सा त्वं दारुणेति पूर्वेणान्वयः । चण्डि कठिने जानकि जनकपुत्रि, नानुकम्पसे दयां
न करोषि । जानकीत्युक्खा परमदयालुजनकराजपुत्र्यास्तवेदं निर्दयत्वं नोचितमिति
व्यज्यते । हा हेति । हाहाशब्दो दुःखातिशयद्योतकः । हृदयं स्फुटति दलति । देह-
बन्धः शरीरावयवानां संधिः । जातावेकत्वम् । ध्वंसते विशीर्णो भवति । जगत् लोकं
शून्यं असत्कल्पम् । अभावप्रतियोगीति यावत् । मन्ये जानामि । अविरलाः अवि-
च्छिन्नाः ज्वालाः यस्मिन्कर्मणि तत्तथोक्तम् । अन्तः शरीरान्तः ज्वलामि । काष्ठवज्ज्व.
लामीति यावत् । विधुरः ज्ञानादिशून्यः सीदन् विशीभवन् अन्तरात्मा अन्धे अन्ध-
यति लोकानित्यन्धं तस्मिन् तमसि मजति अवगाढं भवति । मोहः मूर्छा विध्वक
परितः स्थगयति संछादयति। कथं करोमि किं करोमि । किं हृदयस्फोटादि निवारयामि,
उत खदागमनार्थ लोकाननुनयामि, अथवा तानिगृह्य त्वामानेष्यामि वेति भावः॥३०॥

९० उत्तररामचरिते - वासन्ती-देव, समाश्वसिहि समाश्वसिहि । सीता-अजउत्त, मं मन्दभाइणि उद्दिसिअ सअलजीवलोअमङ्ग- लिअजम्मलाहस्स दे वारंवारं संसइदजीविअदालुणो दशापरिणामो त्ति हा हदमि । (इति मूर्च्छति ।) तमसा-वत्से, समाश्वसिहि समाश्वसिहि । पुनस्ते पाणिस्पर्शी रामभद्रस्य जीवनोपायः । वासन्ती-कथमद्यापि नोच्छ्रसिति । हा प्रियसखि सीते, कासि । संभावयात्मनो जीवितेश्वरम् । (सीता ससंभ्रममुपसृत्य हृदि ललाटे च स्पृशति ।) वासन्ती-दिष्ट्या प्रत्यापन्नचेतनो रामभद्रः । रामः- आलिम्पन्नमृतमयैरिव प्रलेपै- रन्तर्वा बहिरपि वा शरीरधातून् । संस्पर्शः पुनरपि जीवयन्नकस्मा- दानन्दादपरमिवादधाति मोहम् ॥ ३९ ॥ (सानन्दमुन्मीलिताक्ष एव ।) सखि वासन्ति, दिष्ट्या वर्धसे । १ आर्यपुत्र, मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमाङ्गलिकजन्मलाभस्य ते वारंवारं संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि । पुनरपि मूढो मूर्छितः वारंवारं पदेपदे संशयितजीवितः संशयितं संशयविषयं जीवितं यस्मिंस्तथोक्तः। मरणपर्यवसायीति भावः । अतएव दारुणः क्रूरः दशापरिणामः द- शापरिपाकः॥हा प्रियसखीति। जीवितेश्वरं प्राणनाथं रामं संभावय संभावितं कुरु । रामसंभवं परिहरस्वेत्यर्थः ॥ हृदि ललाटे च स्पृशति । इदं च लोकेऽनुभवसिद्धम् ॥ दि. टयेति । दिष्टयेत्यानन्दे। प्रत्यापन्ना पुनरागता चेतना प्रज्ञा यस्य स तथोक्तः॥आलि- म्पन्निति । अमृतमयैः अमृतस्वरूपैः । चिन्मय मित्यादाविव खार्थिको मयदप्रत्ययः। प्रकृष्टो लेपः यैस्ते । लेपसाधनद्रव्यैः अन्तर्वा बहिरपि वा अन्तर्बहिश्च शरीरं धातूंश्च । नाडीश्च अन्तर्नाडीः बहिः शरीरमिति विवेकः । आलिम्पन्निव । सर्वाङ्गीणः लेपनक- तेति संभावनीयः। जीवयन् प्राणप्रतिष्ठाहेतुभूतः अकस्मात् निर्हेतुकः संस्पर्शः पुनरपि आनन्दात् आनन्दमुत्पाद्यापर मोहं दुःखहेतुपूर्वकमूर्छातिरिक्तमूर्छाम् , आनन्दादिति ल्यब्लोपे पञ्चमी । यद्वा आनन्दादिति हेतौ पञ्चमी। तथा च दुःखजन्यपूर्वमूर्छातिरि. ताम् । आनन्दहेतुका मूळमादधतीव उत्पादयतीव । अन्ये तु परो न भवतीत्यपरः। अनन्य इत्यर्थः । आनन्दादपरं मोहं आनन्दात्मकमूर्छामित्याहुः ॥ ३९ ॥ सानन्द. ..

तृतीयोऽङ्कः । ९१ वासन्ती-कथमिव । रामः-सखि, किमन्यत् । पुनरपि प्राप्ता जानकी । वासन्ती-अयि देव रामभद्र, क सा । रामः-(स्पर्शसुखमभिनीय।) पश्य नन्वियं पुरत एव । वासन्ती-अयि देव रामभद्र, किमिति मर्मच्छेददारुणैरतिप्रलापैः प्रियसखीविपत्तिदुःखदग्धामपि मां पुनः पुनर्मन्दभाग्यां दहसि । सीता-ओसरितुं इच्छम्मि । एसो उण चिरप्पणअसंभारसोम्मसी- अलेण अजउत्तप्परिसेण दीहदारुणंवि झत्ति संदावं उल्लाहअन्तेण व- जलेहोवणद्धो विअ परिअद्धवावारो आसंजिओ विअ मे आगहत्थो । रामः-सखि, कुतः प्रलापः । गृहीतो यः पूर्व परिणय विधौ कंकणधरः सुधासूतेः पादैरभृतशिशिरैर्यः परिचितः । सीता-अजउत्त, सो एव्व दाणिसि तुमम् । १. अपसर्तुमिच्छामि । एष पुनः चिरप्रणयसंभारसौम्यशीतलेन आर्यपुत्र- स्पर्शन दीर्घदारुणमपि झटिति संतापं उल्लाघयता यज्रलेपोफ्नद्ध इव पर्यस्त- व्यापार आसञ्जित इव मेऽग्रहस्तः । २. आर्यपुत्र, स एवंदानीमसि त्वम् । मुन्मीलिताक्ष एव उन्मीलिते त्यक्तमुकुलीभावे अक्षिणी यस्य तथोक्तः । अत्र हृदि ललाटे चेत्यादिना इष्टार्थोपायानुसरणात्मकाक्षेप उक्तः ॥ अयीति । मर्मच्छेदवत् हृदयाद्यवयवक्षतिवत् दारुणैः दुःसहैः प्रलापैः अनर्थकवचोमिः दहसीत्यत्रान्वयः । प्रियसख्याः सीतायाः विपत्त्या विपदा यदुःखं तेन दग्धां भस्मीक्रियमाणाम् ॥ अप- सर्तुमिति । चिरस्य बहुकालरूढस्य प्रणयस्य स्नेहस्य संभारेण अतिशयेन हेतुना सौम्यः आह्लादकरः शीतलः शीतश्च तथाविधेन । दीर्घश्चासौ दारुणश्चेति विग्रहः । खजकुब्जादिवत् समासः । तथाविधं संतापं झटिति उल्लाघयता लघूकुर्वता आर्यपुत्र- स्पर्शेन वज्रलेपेन उपनद्ध इव घटित इव पर्यस्तव्यापारः । निष्पन्द इत्यर्थः । मे अप्र. हस्तः आसजित इव लग्न इव । प्रलापैरिति वासन्तीवाक्यस्योत्तरमाह--'सखि, कुतः प्रलापाः' इति । गृहीत इति । यः परिणयविधौ विवाहविधौ कंकणधरः गृहीतः यः करः सुधाया अमृतस्य सूतिरुत्पत्तिः यस्मात्तस्य चन्द्रस्य अमृतशिशिरैः सुधाशी- तलैः पादैः किरणैः परिचितः संश्लिष्टः । उक्तविशेषणसाम्यादाह-आर्यपुत्र, स एवेदानी खमसि' इति । यः करः कंकणधरो गृहीतः यः सुधासूतेः पादैः परिचितः ..

९२ उत्तररामचरिते ५ - राम:- स एवायं तस्यास्तदितरकरौपम्यसुभगो- मया लब्धः पाणिर्ललितलवलीकन्दलनिमः ॥४०॥ (इति गृह्णाति ।) सीता-हैद्धी हद्धी। अजउत्तप्परिसमोहिदाए पमादो मे संवुत्तो । रामः-सखि वासन्ति, आनन्दमीलितः प्रियास्पर्शसाध्वसेन पर- वानस्मि । तत्त्वमपि धारय माम् । वासन्ती-कष्टमुन्माद एव । (सीता ससंभ्रमं हस्तमाक्षिप्यापसर्पति ।) रामः-धिक प्रमादः। करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः । परिकम्पिनः प्रकम्पी करान्मम खिद्यतः खिद्यन् ॥ ४१॥ सीता-हैद्धी हद्धी । अजवि अणुबद्धबहुघुम्मन्तवेअणं ण संठावेमि अत्ताणम् । तमसा-(सस्नेहकौतुकस्मितं निर्वर्ण्य ।) सखेदरोमाञ्चितकम्पिताजी जाता प्रियस्पर्शसुखेन वत्सा । १. हा धिक् हा धिक् । आर्यपुत्रस्पर्शमोहितायाः प्रमादो मे संवृत्तः । २. हा धिक् हा धिक् । अद्याप्यनुबद्धबहुघूर्णमानवेदनं न संस्थापया- म्यात्मानम् । स एव लमिदानीमित्यर्थः। उभयत्रापि परिणयविधी कंकणधरत्वं लावण्यसंश्लिष्टत्व- रूपसुधासूतिकिरणपरिचितत्वं चावशिष्टमिति कृत्वा सीतावाक्यं प्रवृत्तम्। राम माह- स एवायमिति । ललितेन सुकुमारेण लवलीकन्दलेन लवलीनामकलताङ्कुरेण निभः सदृशः तदितरकरेण गृहीतान्यकरण औपम्येन सादृश्येन सुभगः मनोज्ञः। सव्यकरसा- दृश्यं दक्षिणकरस्य तथा दक्षिणकरसादृश्यं सव्यकरस्येति भावः । तस्याः स एव पाणिः मया लब्धः॥४०॥गृह्णाति ग्रहणममिनयति ॥प्रमादःअनवधानम् ॥ प्रियास्पर्शसाध्व. सेन प्रियायाः सीतायाः स्पर्शेन यत् साध्वसं शृङ्गारजं भयं तेन परवान् परवशः ॥ उ- न्मादः चित्तविभ्रमः ॥ हस्तमाक्षिप्य रामहस्तं निरस्य ॥ करपल्लव इति । प्रकम्पी चश्चलः खिद्यन् स्वेदवान् तस्याः सः करपल्लवः परिकम्पिनः चञ्चलात् जडात् मम करात् अनवधानतो जडात्मनः मम करात् सहसा परिभ्रष्टः परिच्युतोऽभवत् ॥ ४१ ॥ अनुबद्धा उत्पन्ना बह्री घूर्णमाना उद्गच्छन्ती वेदना यस्य तमात्मानं - -- - तृतीयोऽङ्कः । ९३ मरुन्नवाम्भःपरिधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव ॥ ४२ ॥ सीता--(स्वगतम् ।) अवसेन एदेण अत्ताणएण लज्जाविदसि भअ- वदीए तमसाये । किंति किल एसा मण्णिस्सदि एसो परिच्चाओ एसो अहिसङ्गेत्ति । रामः-(सर्वतोऽवलोक्य ।) हा कथं नास्येव । नन्वकरुणे वैदेहि, सीता-अकरुणझि जा एव्वंविहं तुमं पेक्खन्दी एव जीवेमि । राम:-कासि प्रिये । देवि, प्रसीद प्रसीद । न मामेवंविधं परित्यक्तुमर्हसि । सीता-अयि अजउत्त, विप्पदीवं विअ । वासन्ती-देव, प्रसीद प्रसीद । खेनैव लोकोत्तरेण धैर्येण संस्त- म्भयातिभूमिं गतमात्मानम् । कुत्र मे प्रियसखी। रामः-व्यकं नास्त्येव । कथमन्यथा वासन्त्यपि न पश्येत् । अपि खलु खप्न एष स्यात् । न चास्मि सुप्तः । कुतो रामस्य निद्रा । सर्व- १. अवशेषैतेनात्मना लज्जापितास्मि भगवत्या तमसया । किमिति किलैपा मंस्थत एष परित्याग एषोऽभिषङ्ग इति । २. अकरुणामि यैवविधं त्वां पश्यन्त्येव जीवामि । ३. अयि आर्यपुत्र, विप्रतीपमिव । न संस्थापयामि न स्थिर करोमि ॥४२॥ कथं नास्त्येवेति व्यक्तम्। स्फुटमित्यर्थः। कथम- न्यथा वासन्ती न पश्येत् । अन्यथा सीताया अस्तित्वे वासन्ती कथं कस्माद्धेतोः न । पश्येत् । खस्य भ्रान्तिशङ्कया वन देवतायाः प्रमितिप्रकर्ष क्भिाव्य वासन्तीत्युक्तम् । एवं योग्यानुपलम्मेन सीताया नास्तित्वं निश्चित्य पूर्वोकस्पर्शनस्य भ्रमरूपत्वं मीमांसते॥ अपि खलु खप्न एषः स्यात् । एष सीतास्पर्शः स्वप्नः स्यात् । खानिकज्ञान विषयः स्यादिति संभावना । यद्वा एष सीतास्पर्शः स्वप्नः स्यात्स्वप्नावस्थोत्पादितः किमु । खप्नावस्थाया हि 'संध्ये सृष्टिराह हि' इति सूत्रप्रमाण्यात् । तत्पुरुषानुभाव्यतत्तत्पदार्थसृष्टिः पर. मात्मकर्तृकाभ्युपगम्यते । विस्तरस्तूत्तरमीमांसायां द्रष्टव्यः । खमं प्रति सुप्तेः कारण त्वादाह-न चास्मि सुप्त इति । तदुपपादयति-कुतो रामस्य निद्रेति । 'अनिद्रः स- ततं रामः' इति सीतावियोगेरामस्य निद्रा नास्तीति प्रसिद्धमेवेति नतूपपत्तिरिति भावः। पर्यवसितमाह-सर्वथेत्यादिना । मम वासन्न्याश्चानुपलम्भान्निद्राया अभावेन खप्ना- नुपपत्तेश्च सर्वप्रकारेणापि सीतास्पर्शनं भ्रमरूपमिति भावः। विप्रलम्भः भ्रमः । भगवा. नित्यनतिलकनीयलप्रयुक्तपूज्यताख्यापनार्थम् । अनुबन्धात्यनुसरति ॥ दारुणया कठि. .

उत्तररामचरिते थापि स एवैष भगवाननेकवारपरिकल्पितो विप्रलम्भः पुनः पुनरनुब- नाति माम् । सीता-मए एव्व दारुणाए विप्पलद्धो अजउत्तो । वासन्ती-देव, पश्य पश्य । पौलस्त्यस्य जटायुषा विघटितः काष्र्णायसोऽयं रथ- स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः। खड्गच्छिन्नजटायुपक्षतिरितः सीतां चलन्तीं वह- नन्तापृतविद्युदम्बुद इव द्यामभ्युदस्थादरिः ॥ ४३ ।। सीता-(सभयम् ।) अजउत्त, तादो वावादीअदि । ता परित्ताहि परिचाहि । अहं वि अवहरिजामि । रामः-(सवेगमुत्थाय ।) आः पाप तातप्राणसीतापहारिन् लङ्कापते, क यास्यसि। वासन्ती-अयि देव राक्षसकुलप्रलयधूमकेतो, किमद्यापि ते मन्यु- , वियषः । सीता-अह्महे, उन्मत्तमि । १. मयैव दारुणया विप्रलब्ध आर्यपुत्रः । २. आर्यपुत्र, तातो व्यापाद्यते । तस्मात्परित्रायस्व परित्रायस्व । अहम- प्यपहिये । ३. अहो, उभान्तास्मि । नया। विप्रलब्धः वञ्चितः । भ्रान्त इति वा ॥ पौलस्त्यस्येति । अयं दृश्यमानः । उद्देश्यसमर्पकमिदम् । कृष्णायसविकारः कामयसः । लोहमय इत्यर्थः । जटायुषा विघटितः प्रध्वंसितः पौलस्त्यस्य रावणस्य रथः स्यन्दनम् । विधेयसमर्पकमिदम् । एते पुरतः पुरोवर्तमानाः कङ्कालशेषाः शरीरास्थिरूपशिष्टांशाः । ते पिशाचवदनाः खराः रावणस्यन्दनीयाः पिशाचमुखाः रासभाः खनेन छिन्ना कृत्ता च सा जटायु- पक्षतिश्चेति समानाधिकरणसमासः । इतः अत्र । पक्षतिः पक्षमूलम् । अन्तर्व्यापृता अन्तश्वलन्ती विद्युत्तडिद्यस्य तथोक्तः । अनेन दृष्टान्तेन रावणस्पर्शवशदोषो नास्तीति सूचितम् । अरिः रावणः । द्यां खमभ्युदस्थादभ्युद्गतवान् । इति इत्यस्माद्देशादिति वा ॥ ४३ ॥ आः पापेत्यादि । अत्र रोषसंभ्रमवचनरूपं तोटकं नाम संध्यङ्गमु- कम् ॥ प्रलयधूमकेतो प्रलयसूचकधूमकेतुनामकग्रहसदृशेति भावसंबुद्धिः । यद्वा राक्षसकुलस्य प्रलये धूमकेतुरग्निः । राक्षसकुलदाहे प्रलायग्निसदृशेत्यर्थः । मन्युवि. षयः क्रोषविषयः ॥ अन्य एव पूर्वसीतावियोगाद्विलक्षण एव विपर्ययः सीतावियोग- तृतीयोऽकः । । राम:-अन्य एवायमधुना विपर्ययो वर्तते । उपायानां भावादविरलविनोदव्यतिकरैः विमर्दैवीराणां जनितजगदत्यद्भुतरसः । वियोगो मुग्धाक्ष्याः स खलु रिपुधाताव घिरभू- स्कटुस्तूष्णीं सद्यो निरवधिरयं तु प्रविलयः ॥ ४४ ॥ सीता-बहुमाणिदझि पुव्वविरहे । णिरवधिति हा हदमि । राम:- कष्टं भोः। व्यर्थ यत्र कपीन्द्रसख्यमपि मे वीर्य हरीणां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्ग यत्र न विश्वकर्मतनयः कर्तु नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिये कासि मे ॥ ४५ ॥ १. बहुमानितास्मि पूर्वविरहे । निरवधिरिति हा हतास्मि । रूपविपर्यासः। वलक्षण्यमेवाह-उपायानामिति । उपायानां सेनासंनाहसेतुबन्धा- दिसाधनानां भावात्सत्त्वादविरलाः संतताः विनोदानां दुःखविस्मरणहेतूनां व्यतिकराः ' संबन्धा येषु तथोक्काः तथाविधैः वीराणां सुप्रीवप्रभृतीनां विमर्दैः परस्परसंप्रहारैर्जनित उत्पादितः जगतामत्यद्भुतरसो वीररसमयरसो येनेति तथोक्तः । वीररसादद्भुतरसस्यो- त्पत्तिरिति रसविदः । तदुक्तम्-'हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मणः। अद्भुतच तथा वीराद्वीभत्साश्च भयानकः॥' इति । मुग्धे सुन्दरे अक्षिणी यस्या इति बहुव्रीहिः । 'न खामिहस्थां जानीते रामः कमललोचने । तेन त्वां नानयत्याशु शचीमिव पुरंदरः।' इत्युक्तम् । स वियोगः पूर्वकालिकविरहः। रिपुधातावधिरभूद्रावणसंहारपर्यन्तोऽभूत् । कटुः क्रूरः। तूष्णी सह्यः उपायाद्यभावात् जोषंभावेन सत्यः । अयं तु प्रविलयः इदा. । नींतन वियोगः । पुनर्दर्शनाभावाभिप्रायेण वियोगस्य प्रलयत्वोक्तिः । निरवधिर्यावजी. वभावीत्यर्थः ॥४४॥ बहुमानितास्मि पूर्वविरहहेतुकबहुमानवत्यस्मि । रिपुघाताव- धिरिति रावणसंहारस्य तन्मूलकत्वोक्तरिति भावः । 'न खदर्थ मया कृतम्' इति हि पूर्व रामेणोक्तम् । निरवधिरिति हा हतास्मि । अस्य वियोगस्य निरवधित्वोकेः प्र- त्याशा छिन्नेति भावः । व्यर्थमिति । यत्र प्रदेशे कपीन्द्रसख्यं सुप्रीवमैत्रम् । इद- मुपलक्षणं सुप्रीवापेक्षयोपसर्जनत्वस्यापि । तदुक्कं रामायणे-'लोकनाथः पुरा भूबा सुग्रीवं नाथमिच्छति' इति, ‘स रामो वानरेन्द्रस्य प्रसादमभिकाङ्कते' इति च । व्यर्थ निरर्थकम् । हरीणां वानराणां वीर्य पराक्रमः यत्र वृथा निष्प्रयोजकः । जाम्बवतः प्रज्ञा युक्तायुक्तकुशलता यत्र न सार्थिकेत्यध्याहारः । वायोः पुत्रस्य हनूमतः गतिरपि न सार्थिका । मार्ग सेतुम् । न क्षमः न योग्यः । सौमित्रेरपि लक्ष्मणस्य । अपिशब्दातू खस्य । पत्रिणां बाणानामविषये अगोचरे तत्र तथाविधे क कस्सिन्देशे ।

उत्तररामचरिते सीता-बहुमाणिदमि पुव्वविरहे । रामः-सखि वासन्ति, दुःखायैव सुहृदामिदानी रामदर्शनम् । कियचिरं त्वा रोदयिष्यामि । तदनुजानीहि मां गमनाय । सीता-(सोद्वेगमोहं तमसामाश्लिष्य ।) हो भअवदि तमसे, गच्छदि दाणिं अज्जउत्तो किं करिस्सम् । (इति मूर्च्छति ।) तमसा-वत्से जानकि, समाश्वसिहि समाश्वसिहि । विधिस्तवानु- कूलो भविष्यति । तदायुष्मतोः कुशलवयोवर्द्धिमङ्गलानि संपादयितुं भागीरथीपदान्तिकमेव गच्छावः । सीता-भैअवदि, पसीद । खणमेत्तं वि दुल्लहदसणं पेक्खामि । राम:-अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे । सीता-(साक्षेपम् ।) अजउत्त, का। वासन्ती-परिणीतमपि किम् । रामः-नहि नहि । हिरण्मयी सीताप्रतिकृतिः । १. बहुमानितास्मि पूर्वविरहे। २. हा भवति तमसे, गच्छतीदानीमार्यपुत्रः । किं करोमि । ३. भगवति, प्रसीद । क्षणमात्रमपि दुर्लभदर्शनं पश्यामि । ४. आर्यपुत्र, का। असि भवसि ॥४५॥ सुहृदां मित्राणां रामदर्शनं दुःखायैव दुःखफलदमेव । रोदयिष्यामि रुदन्तीं करोमि । अनुजानीहि अनुमतिं कुरु ॥ वर्षर्द्धिमङ्गलानि द्वादशवर्षपूर्तिमङ्गलानि देवतापूजादीनि शुभानि। आयुष्मतोः कुशलवयोः कुशलवोद्देशेन संपादयितुमुत्पाद. यितुम्। भागीरथ्याः संबन्धद्योतनायेयमुक्तिः। अश्वमेधस्य सहधर्मचारिणीति विग्रहः । दम्पत्योः सहाधिकारत्वात्। अश्वमेधनिरूपितकर्तृकत्ववती जायास्तीति भावः ॥ साक्षे. पम् । आक्षेपश्चोदनं तेन सह वर्तत इत्यर्थः। क्रियाविशेषणम् । आर्यपुत्र का । सह- धर्मचारिणीति शेषः॥परिणीतमपि भावे कः। परिणयोऽपि, किमिति काका योजनी- यम् ।सीतापरित्यागानन्तरं न केवलं शरीरधारणं किंतु परिणयोऽपि जातःकिमिति समु- चयार्थः । सीतावियोगे रामस्य शरीरधारणमाश्चर्यमिति प्रसिद्धम् । तदुक्तं हनूमता- 'दुष्करं कृतवान्रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न शोकेनावसीदति ॥' इति, 'दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् । विना सीतां महाबाहुर्मुहूर्तमपि जीवति ॥' इति च ॥ नहि नहि । परिणयप्रसक्तिरप्यनिष्टेति द्विरुक्त्या व्यजते । इदा- नीमसि त्वम् । 'खापहेतुरनुपाश्रितोऽन्यया' इत्युक्तरीत्या एकदारव्रतत्वं तवेदानीमेव - तृतीयोऽङ्कः। ९७ सीता-(सोच्छ्वासास्रम् ।) अजउत्त, दाणिं सि तुमम् । अझहे, उक्खाइदं दाणिं मे परिच्चाअसल्लं अजउत्तेण । रामः-तत्रापि तावद्वाष्पदिग्धं चक्षुर्विनोदयामि । सीता-धण्णा खु सा जा एव्वं अजउत्तेण बहुमण्णीअदि । जा एव्वं अजउत्तं विणोदयन्दी आसाबन्धणं खु जादा जीअलोअस्स । तमसा-(सस्मितस्नेहा परिष्वज्य ।) अयि वत्से, एवमात्मा स्तूयते। सीता--(सलज्जम् ।) पैरिहसिदमि भअवदीए । वासन्ती-महानयं व्यतिकरोऽस्माकं प्रसादः । गमनं प्रति यथा कार्यहानिर्न भवति तथा कार्यम् । राम: -तथास्तु । सीता-पंडिऊला दाणिं मे वासन्दी संवुत्ता । १. आर्यपुत्र, इदानीमसि त्वम् । अहो, उत्खातितमिदानी मे परित्यागश- ल्यमार्यपुत्रेण । २. धन्या खलु सा यैवमार्यपुत्रेण बहुमन्यते । यैवमार्यपुत्रं विनोदयन्त्या- शाबन्धनं खलु जाता जीवलोकस्य । ३. परिहसितास्मि भगवत्या । ४. प्रतिकूलेदानी मे वासन्ती संवृत्ता । प्रकटितमिति भावः । परित्याग एव शल्यं परित्यागशल्यम् । निष्कारणपरित्यागस्य प्रत्यवायहेतुलप्रयुक्तदुःखजनकखाच्छल्यवरूपणम् । ननु वास्तवदोषाभावेऽपि दोष- वत्ता वृथारूपमित्यभिशस्तिमतां परित्यागो धर्मशास्त्रसिद्ध इति चेन्मैवम् । अमिप्रवे. शादिना मिथ्याभिशस्तेरनवकाशात् । उत्खातितमुद्धृतम् ॥ तत्रापि हिरण्मयीसीताप्र. तिकृतौ बाष्पदिग्धमश्रुणा लिप्तम् । विनोदयामि विस्मृतदुःखं करोमि । एवं च सीताप्र. तिकृतेरश्वमेधसहधर्मचारिणीसमानुषङ्गिकम् । मुख्यं तु चक्षुर्विनोदनमिति सूचितम् । यवं बहुमन्यते चक्षुर्विनोदहेतुखप्रयुक्तबहुमानविषयीक्रियते सा प्रतिकृतिर्धन्या यैव- मार्यपुत्रं विनोदयन्ती विस्मृतदुःखं कुर्वन्ती जीवलोकस्याशाबन्धनं रामजीवनप्रत्या- शाहेतुत्वात्खख विषयकाशाहेतुर्जाता सा धन्येत्यन्वयः॥परिष्वज्यालिङ्गय । एवं 'धन्या खलु सा' इत्यादिपूर्वोकरीत्या आत्मा स्तूयते स्तुति विषयीक्रियते । स्वयेति शेषः ॥ भगवत्या । तमसयेत्यर्थः ॥ अयं व्यतिकरः एष समागमः । अस्माकं महान्प्रसादः । अस्मद्विषयानुग्रहप्रयोजित इत्यर्थः । यथा येन प्रकारेण कार्यस्य कर्तव्यस्य हानिर्लोपो न भवति तथा तेन प्रकारेण गमनं प्रति गमनोद्देशेन कार्य यनः कर्तव्यः ॥ इदानीं वासन्ती मे प्रतिकूलानिष्टकारिणी संवृत्ता जाता। रामगमनं प्रत्यनुनाकरणादिति भावः। ९. रा.

९८ उत्तररामचरिते एवं करम्ह । - १ तमसा-वत्से, एहि गच्छावः । सीता तमसा-कथं वा गम्यते । यस्यास्तव प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः । मर्मच्छेदोपमैर्यत्नैः संनिकों निरुध्यते ॥ ४६॥ सीता-जमो सुकिदपुण्णजणदंसणिजाणं अजउत्तचलणकमला- गम् । (हति मूर्च्छति।) तमसा-वत्से, समाश्वसिहि । सीता-(आश्वस्य ।) केचिरं वा मेहान्तरेण न पुण्णचन्ददंसणम् । १. एवं करिष्यावः। २. नमः सुकृतपुण्यजनदर्शनीयाभ्यामार्यपुत्रचरणकमलाभ्याम् । ३. कियच्चिरं वा मेघान्तरेण न पूर्णचन्द्रदर्शनम् । एवं कुर्वः । गच्छाव इत्यर्थः । यस्यास्तव । प्रत्युत्तस्येवेति । तृष्णया अवलोक- । नस्पृहया । दीर्घस्य आयतस्य । दयिते रामे प्रत्युप्तस्येव कीलितस्येव स्थितस्य यस्या- स्तव चक्षुषो नेत्रस्य संनिकर्षः दयिते संबन्धः । मर्मच्छेदोपमैहृदयादिप्रदेशकृन्त- नसदृशैर्यनैर्निरध्यते निवर्त्यते । तथाविधया त्वया कथं गम्यत इति पूर्वेणान्वयः । तृष्णादीर्घस्येत्युक्त्या दयिते प्रत्युप्तस्येवेति दयितपदविवक्षितरामस्यामृतसादृश्यं व्यज्यते ॥४६॥ नम इति । प्राकृते चतुर्थीस्थाने षष्ठीद्विवचनस्य बहुवचनत्वम् । मुकृतानि पुण्यानि यैस्ते सुकृतपुण्याः । सुकृतपुण्याश्च ते जनाश्चेति विग्रहे कर्मधा- रयः। तथाविधैः दर्शनीयाभ्यां सेवितुं शक्याभ्याम् । नतु माशपापकृननदर्शना. होभ्यामित्यर्थः । 'न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्' इत्यादि दशरथोकरीत्या पुण्यकृद्दर्शनीयत्वं रामचरणयोरिति भावः। 'ममैव दुष्कृतं किंचिन्महदस्ति न संशयः' इत्युक्तरीत्या खस्याः पापकृत्वमिति तात्पर्यम् । अत्र सुष्टु कृतं यैस्ते सुकृताः। तथावि. धाश्च ते पुण्यजना राक्षसाश्चति ते । विभीषणादयः इति कश्चित् । उक्तरीत्याश्रयणे कृतस्यापि संग्रह इति धिक् । इति मूर्च्छति मूर्छामभिनयति । कियश्चिरं मेघान्तरेण पूर्णचन्द्रदर्शनं मेघमध्ये पूर्णचन्द्रदर्शनम् ॥ 'वीरक्षारयोरेकः प्रधानं यत्र वर्ण्यदे इत्यौत्सर्गिकस्य शृङ्गारवीरान्यतरप्राधान्यस्य वीरशारौ प्रायिकावित्यपवादेऽपि करुण- रसप्राधान्यकरणे भानाभावः । रसान्तराणां सत्वात् । नपत्र विनिगमकमस्ति येन करुणरसस्य प्राधान्यमुपपद्यते । किंच करुणस्य दुःखात्मकत्वेन रसत्वं नास्ति । येन रस- प्रधाननाटके तस्योक्तिसंभवः स्यादिति शङ्कां कविस्वमसावाक्यव्याजेन परिहरति ॥ -- CARD तृतीयोऽङ्कः। ९९ तमसा-अहो संविधानकम् । विस्मयकारक एको रसः करुण एव निमित्तभेदा- द्भिन्नः पृथक्पृथगिव श्रयते विवर्तान् । आवर्तबुहुदतरंगमयान्विकारा- नम्भो यथा सलिलमेव हि तत्समस्तम् ॥ ४७ ।। राम:-विमानराज, इत इतः। (सर्वे उत्तिष्ठन्ति ।) अहो संविधानकमिति । अपूर्वरूपकनिर्माणं विस्मयनीयमित्यर्थः । एक इति । रस्यते खाद्यत इति रसः काव्यानुशीलिनाभ्यासवश विशदीभूतवर्णनीयतन्मयीभवन. योग्यसामाजिकमनोमुकुरभाव्यमानतया निर्भरानन्दसंविद्रूपः । करुणः इष्टजनविगो- गजन्यदुःखातिशयः । एक एव सन्नपि निमित्तभेदात् व्याकविभावादिविच्छित्तिविशे- षाद्भिन्नः विलक्षणः। पृथकूपृथग्विवर्तान् परस्परविलक्षणशृङ्गाराद्यात्मना परिणामान्। 'व्यत्यस्तपरिणामः स्याद्विवर्तः' इति कपिलः । श्रयते भजते । एकस्यानेकधा विकार- माने दृष्टान्तमाह-आवर्तेति । आवर्तः जलस्य भ्रमः, बुबुदः कुल्मलाकारजलसंस्था. नविशेषः, तरङ्गः भङ्गः एतद्रूपान्विकारान् । अवस्थान्तराणीत्यर्थः । तत्समस्तमावर्ता- दिकं सर्व सलिलमेव जलमेव । तरजादीनां जलविवर्तलाभावाद्विकारमात्रे दृष्टान्तार्थक- मिदम्। अतएव विवर्तानित्युक्तिः । इदमत्र कवेर्मतम्-'यद्यपि शृङ्गार एक एव रस इति शृङ्गारप्रकाशकारादिमतम् , तथापि प्राचुर्याद्रागिविरागिसाधारण्याकरुण एक एव र. सः। अन्ये तु तद्विकृतयः इति । करुणस्यानुकार्ये रामादौ दुःखरूपत्वेऽपि सहृदयानामा- नन्दात्मना परिणमतीयुक्तरीत्या सामाजिके आनन्दरूपलमेव । तर्हि भावकानां क. रुणात्मककाव्यश्रवणे अश्रुधाराविर्भावः कथमिति चेदत्राहुः-संभोगसमये स्त्रीणामध- रदशनादौ कृत्रिमदुःखानुभवसीत्कारवदत्राप्युपपत्तिः। सुखेऽपि दुःखवदुपचारः कुदृ. मिति तल्लक्षणात् । ययस्य सहजदुःखात्मकत्वं स्यात्,न कोऽपि सामाजिकस्तत्र प्रवर्तेत, ततश्च करुणैकरसानां रामायणादीनामुच्छेदप्रसङ्गः स्यात् । तस्माद्रसान्तरवत्करुणस्या- प्यानन्दात्मकलमेवेति । एवंच रसान्तरापेक्षया प्रकृतिलमेव करुणस्य प्राधान्ये विनि. गमकं शृङ्गारवीरयोःप्रायिकत्वोस्तदभावे अस्यैवोचितत्वादिति । यद्वा एको रसः रस. शब्दवाच्यः । अत्र ओदनं पचति' 'अस्य सूत्रस्य पटो वातव्यः' इत्यादाविव भाविनी वृत्तिमाश्रित्य रसशब्दप्रयोगः । एवम् 'पुटपाकप्रतीकाशीरामस्य करुणो रसः' इत्यत्रापि बोध्यम् । करुणः अनुकार्यरामादिगतेष्टजन वियोगजन्यदुःखातिशयः । एक एव सन्नपि निमित्तभेदात्सखिखपतिलपत्नीत्वाद्युपाधिभेदाद्भिन्नः विलक्षण इव पृथक्पृथग्विवर्तान् श्रयते। वासन्तीसीतारामप्रभृतिषु परस्परविलक्षणावस्थाविशेषान्भजति । अत्र विवर्त- शब्दो विकारमात्रपरः । एवं दृष्टान्तसामअस्यमुपपद्यते । शेषं पूर्ववत् । अस्मिन् पक्षे रसान्तरसत्वे करुणरसप्राधान्यं तूक्तयुक्त्या प्रन्थादहिः समर्थनीयम् । तथाचैता- दृशकरुणरसप्रधानत्वादपूर्वोऽयं कथासंनिवेश इति पूर्वेणान्वयः॥ ४७ ॥ तमसा- १०० उत्तररामचरिते . तमसावासन्यौ-(सीतारामौ प्रति ।) अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता । स च मुनिरनुयातारुन्धतीको वसिष्ठ- स्तव वितरतु भद्रं भूयसे मङ्गलाय ॥ ४८ ।। (इति निष्क्रान्ताः सर्वे ।) तृतीयोऽङ्कः। वासन्यौ सीतारामौ प्रति यथासंख्यं प्रति उद्दिश्य । अवनिरिति । अवनिर्भूमिः । अमरसिन्धुः गङ्गा । अस्मद्विधाभिः । तमसापक्षे मुरलागोदावरीप्रभृतिमिरित्यर्थः । वासन्तीपक्षे अन्याभिर्देवताभिः सहेत्यर्थः । यश्छन्दसांप्रयोक्ता वेदानां प्रवका आद्यः कुलपतिः स च सूर्यश्च । मुनिर्मननशीलः सःप्रसिद्धः । अनुयातानुगता अरुन्धतीय. मिति विप्रहे द्वितीयाबहुव्रीहिः। शेषाद्विभाषा' इति कप् । 'न कपि' इति हवप्रतिषेधः। तथाविधो वसिष्ठः । तव भूयसे प्रचुराय मङ्गलाय भद्रं मङ्गलं वितरतु ददातु । अत्र ग. भवीजस्य ऋषिश्रेयोवितरणरूपस्योद्भेदनादाक्षेपो नाम संध्यगमुक्तं भवति । 'यदत्रोच्छ- वलं किंचित्कविनानेन बध्यते । निरङ्कुशतया तत्तु समाधेयं मनीषिभिः ॥ भावस्य तु गभीरत्वात्सा कश्चिदिह कथ्यते । कोशव्याकरणे प्रायेणोच्यते प्रन्थगौरवात्' ॥४॥ वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य । उत्तररामचरित्रव्याख्यायामवसितस्तृतीयोऽङ्कः ॥ इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पर्शिनी- समाख्यायामुत्तररामचरितव्याख्यायां तृतीयोऽङ्कः।

उत्तररामचरितम् । चतुर्थोऽङ्कः । (ततः प्रविशतस्तापसौ ।) एक:-सौधातके, दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्य सम- धिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य । तथाहि । नीवारोदनमण्डमुष्णमधुरं सद्यः प्रसूतप्रिया- पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति । गन्धेन स्फुरता मनागनुसृतो भक्तस्स सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥ १ ॥ तत इति । तापसौ तपःशीलौ । एकः। तयोरन्यतर इत्यर्थः । सुधातुरपत्यं सौधातकिः । 'सुधातुरकङ्च' इत्यकट्टादेश इञ्प्रत्ययश्च । तस्य संबुद्धिः सौधातके इति । अद्य मध्याह्ने भूयिष्ठं यथा भवति तथासनिधापितः निकटागामितः अतिथिजनो यस्मिन्निति तथोक्तस्य भगवतो वाल्मीकेः ज्ञानशक्त्यादिपूर्णस्य प्राचेतसस्य यदाश्र. मपदं आश्रामस्थानं तस्य समधिकारम्भेण प्रचुरतरमारभ्यमाणातिथिजनसत्कारादिना रमणीयता हृद्यता दृश्यतां चक्षुर्विषयीक्रियताम् । त्वयेति शेषः । नीवारेति । तपो. वनमृगः तपोवनाश्रयो मुनिसंवर्धितहरिणः । सद्यः समानेऽह्नि । तस्मिन्दिन इत्यर्थः ॥ प्रसूता प्रसववती । कर्तरि क्तः । तथाविधया प्रियया प्रियविषयहरिण्या पीतात् पानं प्राप्य । भावे क्तः । ल्यब्लोपे पञ्चमी । अभ्यधिकं अवशिष्टं प्रचुरं वा हरिणीकर्तृक वा पानं प्राप्यापि प्रचुरमित्यर्थः । उष्णं च तत् मधुरं च माधुर्ययुकं चेति विशेषणस. मासः । तथाविधं नीवारोदनमण्डं नीवारो धान्य विशेषः तत्संबन्थ्योदनस्य यन्मण्ड घनीभूतद्रव विशेषः तत्पर्याप्तं यावदिच्छानिवृत्ति आचामति पिबति । यद्वा सद्यःप्र- सूतप्रियापीतादिति हेतौ पञ्चमी । सद्यःप्रसूतप्रियाकर्तृकपानाद्धेतोः अभ्यधिक यथा भवति तथा प्रचुरं यथा भवति तथा उष्णं मधुरं चेत्यर्थः । अत्र सद्यःप्रसूत- त्वमुष्णत्वे हेतुः । उष्णत्वं हि प्रसवविह्वलशरीरतोदपरिहारकम् । प्रियात्वं च मधुरत्वे हेतुः । अतएव मधुरत्वोक्तिः प्रयोजनवती । अन्यथा तस्य माधुर्याव्य- भिचारात्तद्वैयर्थ्य स्पष्टमेव । इदमेवाभिसंधाय 'अम्बुनीवारशष्पैः' इत्यत्र अम्बुना तरून् अम्बुनीवाराभ्यां शकुनीन् अम्बुनीवारशष्पैः कुरङ्गानिति विवेक उक्त इति बोध्यम् । अतएव पर्याप्तं यावदिच्छानिवृत्ति आचामति पिबति । सर्पिष्मतः घृत- वतः भक्तस्यान्नस्य स्फुरता प्रसरता गन्धेन सौरभ्येण मनागीषदनुसृतः अनुगतः कर्कन्धूफलमिश्रस्य बदरीफलमिश्रस्य शाकपचनस्य पच्यमानशाकस्य । बदरीफ- लानि हि आत्मरसार्थ शाकेन सह पच्यन्ते । आमोदः सौरभ्यं परिस्तीर्यते विस्ती- येते विततीक्रियते । वायुनेति शेषः । यद्वा परिस्तीर्यते निस्तीर्णो भवतीत्यर्थः। लयते केदारः खयमेवेत्यादाविव कर्मवद्धावाद्यगात्मनेपदे। अयवा सर्पिष्मतो भक्तस्य स्फुरता गन्धेन का अनुसृतः अनुक्षणं प्रसर्पन कर्कन्धूफलमिश्रशाकपचनामोदः कर्म १०२ उत्तररामचरिते सौधातकिः-साअदं अणीअपिआराणं जिण्णकुच्छाणं अणज्झा- अकालणाणं तपोषणाणम् । प्रथम:-(विहस्य ।) अपूर्वः खलु बहुमानहेतुर्गुरुषु सौधातके । सौधातकि:-भो दण्डाअण, किंणामहेओ दाणिं एसो महत्तस्स इस्थिआसत्थस्स धुरंधरो अज अदिही आअदो । दण्डायन:-धिप्रहसनम् । नन्वयमृष्यशृङ्गाश्रमादरुन्धती पुर- स्कृत्य महाराजदशरथस्य दारानधिष्ठाय भगवान्वसिष्ठः प्राप्तः । तत्कि- मेवं प्रलपसि । सौधातकिः-हुं वैसिहो। दण्डायन:-अथ किम् । सौधातकि:-मए उण जाणिदं कोवि वग्यो विज एसोति । १. खागतमनेकप्रकाराणां जीर्णकूर्चानामनध्यनकारणानां तपोधनानाम् । २. भो दण्डायन, किंनामेधय इदानीमेष महतः स्त्रीसार्थस्य धुरंधरोऽद्यान तिथिरागतः। ३. हुं वसिष्ठः। ४. मया पुनर्जातं कोऽपि व्याघ्र इव एष इति । अभिव्याप्यत इति व्याख्येयम् ॥ १॥ साअदमिति । खागतम् । सकारस्य न लुक् । गकारस्य प्रायो लुक । 'कगचजतदपयवाम्' इति प्राकृतव्याकरणसूत्रेण लोपः । अकारस्य ईषत्स्पृष्टतया श्रुतिरपि । सूत्रे प्रायोग्रहणाहकारस्य न लुकू । अनेकप्रकारा. णाम् । बहुविधाना मित्यर्थः । पूर्ववदेष लोपः । यः श्रुतिबोध्यम् । अत्र चकारशब्दस्य धजूति प्राकृतव्याकरणसूत्रेण पूर्वस्य वैकल्पिकत्वात् 'पिआर' इति दीर्घः । 'पाआ- राणा इति खासुपो' रिति सूत्रेणानुस्वारः । अनध्ययननिमित्तानामित्यर्थः । शिष्टानध्य- यनस्य धर्मशास्त्रसिद्धलादिति भावः । जीर्णकूर्चानां मिथिलभ्रूमध्यानाम् । जीर्णशब्दे 'संयोगे च' इति प्राकृतव्याकरणसूत्रेण हवः । गुरुषु वसिष्ठादिषु । भोदण्डाअणेति। नामधेयं तस्य संबुद्धिः । महतः प्रचुरस्य स्त्रीसार्थस्य अजनासमूहस्य धुरंधरो निर्वापकोऽतिथिरागतः किंनामधेय इत्यन्वयः । दण्डाणेति खरस्य बिन्दवामिति हखः । किंणामहेय इत्यत्र 'खघषधभाम्' इति सूत्रेण धकारस्य हकारः । स्त्रीश- ब्दस्य 'स्त्रीभगिनीदुहितवनिताना इथिबहिणीधूआविलआ' इति प्राकृतसूत्रेण इथिआदेशे कप्रत्ययस्य कलोपः । सार्थस्येत्यत्र 'संयोगे' इति हखः । धिप्रहसनं हासहेतुभूतं त्वदीयवचः । निन्दनीयमिति भावः । दारानू कौसल्याप्रभृतीन् । अधि- ।

चतुर्थोऽदः । १०३ दण्डायन:-आः, किमुक्तं भवति । सौधातकिः-जेणं परावडिदेण एव्व सा वराई कविला कल्लाणी बलामोडिअ मडमडाइआ। दण्डायनः-समांसो मधुपर्क इत्याम्नायं बहुमन्यमानाः श्रोत्रिया- याभ्यागताय वत्सतरी महोक्षं वा पचन्ति गृहमेधिनः । तं हि धर्म धर्मसूत्रकाराः समामनन्ति । सौधातकिः-भो, णिगिहीदोसि । दण्डायन:-कथमिव । सौधातकि:-जे0 आअदेसु वसिट्ठमिस्सेसु वच्छदरी विससिदा । अज एव्व पञ्चाअदस्स राएसिणो जणअस्स भअवदा वम्मीइणा धहि- महूहिं एव णिव्वत्तिदो महुवको । वच्छतरी उण विसजिदा । दण्डायन:-अनिवृत्तमांसानामेवंकल्पं व्याहरन्ति केचित् । निवृ- तमांसस्तु तत्रभवान् जनकः । १. येन परापतितेनैव सा वराकी कपिला कल्याणी बलात्कृत्य मडम- डायिता। २. भोः, निगृहीतोऽसि । ३. येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता । अद्यैव प्रत्यागतस्य राज- पर्जनकस्य भगवता वाल्मीकिना दधिमधुभ्यामेव निर्वर्तितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता। टाय । तनियामको भूत्वेत्यर्थः । प्रलपसि अनर्थकं वदसि ॥ हुमिति प्रश्ने ॥ अथ किमित्यङ्गीकारे।एष कोऽपि व्याघ्र इति मया ज्ञातमित्यन्वयः। 'संयोगे' इति ह्रखः॥ किमुक्तं भवति कुत एवमुक्तं ॥ हि तेन वसिष्ठेन हि । वराकी प्रतिकूलदैवा । कपिला नाम गवामवान्तरजातिः। कल्याणी वत्सतरी। द्विहायनीत्यर्थः । बलात्कृत्य म. डमडायिता।आलम्भनशब्दानुकरणमिदम् । तथाविधशब्दयुक्ता कृतेत्यर्थः।आलब्धेति यावत् । मडायितेत्यर्थः । मृगातेमापरिहखडववन्नाजचडभल्लमडा' इति प्राकृतव्याक. रणसूत्रेण मृदुधातोर्मड इत्यादेशः । तेन व्याघ्र इति ज्ञातमिति पूर्वेण संबन्धः॥आनायं धर्मशास्त्रम् । महांश्चासौ उक्षा चेति विग्रहः । निपातनादकारान्तत्वम् । पचन्ति श्रप- यन्ति । समामनन्ति उपदिशन्ति । अत्र मया व्याघ्र इत्यादिना गुरुतिरस्कृतिरुपद्रव उक्तः ॥ भो निगृहीतोऽसि पराजितोऽसि ॥ आगतेष्वेवेति । मिश्रशब्दः पूज्यता. योतकः । 'एवार्थे एव्व' इति प्राकृतसूत्रेण एव्वादेशः। दधिमधुभ्यामित्यनेन दधिम. धुसंसृष्टमित्यापस्तम्बवचनममिप्रेतम् । निर्वर्तितः निष्पादितः । वत्सतरी पुनरिति । विसर्जिता मुक्ता । न त्वालब्धेत्यर्थः ॥ व्याहरन्ति केचिदिति । केचिधर्मशास्त्र, ..

१०४ उत्तररामचरिते सौधातकि:-'किणिमित्तम् । दण्डायनः-यदेव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखा- नसः संवृत्तः, तस्य कतिपयसंवत्सरश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य । सौधातकिः-तेदो किंति आअदो । दण्डायन:-संप्रति च प्रियसुहृदं भगवन्तं प्राचेतसं द्रष्टुम् । सौधातकिः -अवि अज्ज संबन्धिणीहिं समं णिउत्तं दसणं से णवेति । दण्डायन:-संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता। यथा स्वयमुपेत्य स्नेहादयं द्रष्टव्य इति । सौधातकिः-जह एदे दृविरा परप्परं एव्व मिलिदा, तह अह्मे वड्डहिं सह मिलअ अणज्झाअमहस्सवं खेलन्तो मणेम्ह । अह कुत्थ सो जणओ। दण्डयनः-तथायं प्राचेतसवसिष्ठावुपास्य संप्रत्याश्रमस्य बहि- वृक्षमूलमधितिष्ठति । य एषः हृदि नित्यानुषक्तेन सीताशोकेन तप्यते । अन्तःप्रसृप्तदहनो जरन्निव वनस्पतिः॥२॥ (इति निष्कान्तौ।) इति मिश्रविष्कम्भः। १. किंनिमित्तम् । २. ततः किमित्यागतः । ३. अप्यद्य संबन्धिनीभिः समं निर्वृत्तं दर्शनमस्य नवेति । ४. यथैते स्थविराः परस्परमेव मिलिताः, तथावामपि बटुमिः सह मिलि- त्वानध्यायमहोत्सवं खेलन्तो मानयावः । अथ कुत्र स जनकः । कारा आपस्तम्बादयः । एवंकल्पं मांसव मधुपर्कानुष्ठानपरग्रन्थं व्याहरन्ति वदन्ति । निवृत्तमांसो वर्जितमांसः ॥ यहेव्या इत्यादि । वैखानसः वानप्रस्थः । चन्द्रद्वीपतपोवने तपस्तप्यमानस्य तपश्चरतः कतिपयः संवत्सरः । गत इति शेषः । चन्द्रद्वीप इति कश्चिद्वीपविशेषः ॥ प्राचेतसं वाल्मीकिम् ॥ संबन्धिनीमिः दर्शनं निवृतं नवेति ज्ञायते अपीति योजना ॥ अपि अयम् । जनक इत्यर्थः । स्नेहाइष्टव्यः प्रेम्णा दर्शनीयः॥ स्थविरा वृद्धाः । अनध्यायः अध्ययनाभावः स एव महोत्सवः । आनन्द- हेतुलादुत्सवत्वरूपणम् ॥ उपास्य परिचर्य । हृदीति । य एषः । जनक इत्यर्थः ।

चतुर्थोऽङ्कः। : (ततः प्रविशति जनकः।) जनक:- सीमा अपत्ये यत्तादृग्दुरितमभवत्तेन महता विषक्तस्तीत्रेण व्रणितहृदयेन व्यथयता । पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥ ३ ॥ कष्टं एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसांतपनप्रभृति भिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव महानद्यापि मम दग्ध- देहो न पतति । अन्धतामिस्रा ह्यसूर्या नाम ते लोकाः प्रेत्य तेभ्यः प्रति ? विधीयन्ते य आत्मघातिन इत्येवमृषयो मन्यन्ते । अनेकसंवत्सरातिक- मेऽपि प्रतिक्षणपरिभावनास्पष्ट निर्भासः प्रत्यग्र इव न मे दारुणो दुःख- संवेगः प्रशाम्यति । अयि मातः देवयजनसंभवे, ईदृशस्ते निर्माण- भागः परिणतः, येन लज्जया स्वच्छन्दमप्याक्रन्दितुं न शक्यते । दि नित्यानुषकेन नित्यलमेन सीताशोकेन सीतानिमित्तदुःखेन तप्यते तप्तो भवति । जरन् वृद्ध मन्यःप्रज्वलद्वह्निः वनस्पतिः पुष्पहीनफलवृक्षः॥२॥मिश्रविष्कम्भः। सं- स्कृतप्राकृतात्मकविष्कम्भ इत्यर्थः॥अपत्य इति । यस्मात् अपत्ये। सीतायामित्यर्थः । तादृग्दुरितं कौलीनरूपपापं व्यसनं वाभवत् । तीव्रणातिप्रचुरेण तेन दुरितेन व्यथयता दुःखं प्रापितेन व्रणितहृदयेन विषकः प्रसक्तः। पटुः तीक्ष्णः। धारया वहतीति धारावाही। अत्यन्तनरन्तर्येण प्रवाहीत्यर्थः । चिरेणापि चिरकालेनापि नव इव स्थितः मर्माणि हृदयादीनि निकृन्तन् छिन्दन् ककच इव कराल इव स्थितः । मन्युः शोकः कोषो वा न विरमति न शाम्यति ॥३॥ जरया वयोहान्या। दुरासदेन दुःसहेन । दुःखेन सीता- विश्लेषजेन । पराको द्वादश दिनोपवासकृच्छ्रम् , सांतपनं चान्द्रायणविशेषः, एवमा- दिभिः कायशोषकनियमविशेषैः शोषितान्तःशरीरधातोर्मे कथमवष्टम्भ एव पातप्रति- बन्धकावलम्बनमेव । दग्धदेहः हतहृदयमितिवत् निन्दायां दग्धशब्दः । अद्यापि न पततीति योजना । अनेकसामग्रीसमवधानेऽपि पाताभावो विस्मयनीय इति भावः । तर्हि भृगुपतनादिना त्यज्यतामित्यत्राह-अन्धतामिस्रा इति । आत्मानं नन्तीति आत्मघातिन इति विग्रहः। 'सुप्यजातौ' इति णिनिः । ये बलाक्रियन्ते तेभ्यः तान् पातयितुं । क्रियार्थे चतुर्थी । असूर्या सूर्यरहिता अन्धतामिना अन्धतमसमयास्ते प्र. सिद्धा लोका नरकविशेषाःप्रेत्य मरणानन्तरं प्रतिविधीयन्ते इत्येवमृषयो मन्यन्ते। 'अ. सूर्या नाम ते लोका अन्धेन तमसावृताःतांस्ते प्रेत्याभिगच्छान्ति ये के चात्महनो जनाः' इति श्रुतिः । इति धर्मशास्त्रकाराणां मतम् । प्रतिक्षणपरिभावनया संततविचारेण । 'भू अवकल्कने'। अवकल्कन चिन्तनम्। स्परनिर्भासः विशदप्रकाशः। प्रत्यम इव नव्य इव उत्तररामचरिते। .. हा पुत्रि, अनियतरुदितसितं विराज- कतिपयकोमलदन्तकुमलायम् । वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमजु जल्पितं ते ॥ ४ ॥ भगवति वसुंधरे, सत्यमतिदृढासि । त्वं वहिर्मुनयो वसिष्ठगृहिणी गङ्गा च यस्या विदु- माहात्म्यं यदि वा रघोः कुलगुरुर्देवः खयं भास्करः । विद्यां वागिव यामसूत भवती शुद्धिं गतायाः पुन- स्तस्यास्त्वदुहितुस्तथाविशसनं किं दारुणे मृष्यथाः ॥ ५ ॥ .. न प्रशाम्यति न नश्यति । निर्माणभागः सृष्टिफलम्। येन निर्माणभागेनाक्रन्दितुमपिरो. दितुमपि। भपिशब्दाक्रियान्तरानहत्वं सूच्यते । दोषवादहेतुकत्वात्त्यागस्येति भावः। अनियतेति । अनियतरुदितस्मितं अव्यवस्थितरोदनहासनम् । विराजन्तः कतिपय त्रिचतुराः कोमला ललिताः दन्ता एव कुड्मलाग्राणि यस्य तथोक्तं तेन कुमला शब्दस्य न पूर्वनिपातः। न वा दन्तशब्दस्य दतादेशः । स्खलदपूर्णमसमजसं पूर्वा- परसंगतिरहितं मञ्जु सुन्दरं जल्पितं वचनं यस्य तथोक्तं ते वदनकमलकं वदन- मेव कमलम् । अनुकम्पायर्या कन् । स्मरामि उत्कण्ठापूर्वकं चिन्तयामि । अत्रानिय- तरुदितस्मितं स्खलदसमजसमिति विशेषणानुगुण्याद्वदनकमलकमित्यत्र परिणामालं. करः। केवलकमलस्य प्रकृतक्रियान्वयित्वानुपपत्तेः । 'परिणामः क्रियार्थश्चेविषयी विषयात्मना' इति लक्षणात् । दन्तकुमलाप्रमित्यत्रापि क्रियान्वयविवक्षायां परिणा- मः रूपकं वा ॥४॥भगवतीति ।अतिदृढासि काठिनासीति सत्यम् । अत्र यो वा बिभर्ति काठिन्यं तस्मै भूम्यात्मने नमः' इति वचनं द्रष्टव्यम् । तव वसुंधरावप्रयुक्त- धैर्येण पुत्रीनाशोऽप्यकिंचित्कर एवेत्युपालम्भो व्यज्यते । त्वमिति । यस्याः सीताया माहात्म्यममानुषत्वं त्वं वेत्थ । विदुरित्यस्य विभक्तिवचनयोर्विपरिणामेन योजना । वहिर्वेद, मुनयो विदुः, वसिष्ठगृहिणी अरुन्धती वेद जानाति, गङ्गा च वेद जानाति । यदि वा किंच रघोः कुलगुरुः रघुवंशजनकस्तदाचार्यों वसिष्ठो वा । देवः दीप्तिशील: भास्करः खयं वेद परानपेक्षं जानाति । अत्र भूम्यादीनामन्योन्यनिरपेक्षप्रामाण्यप्रति- पत्त्यर्थ क्रियैकशेषाकरणाद्विदुरित्यत्र न मध्यमपुरुषः प्रयुक्तः । अतएव पुरुषवचन- विपरिणामेन भिमानि वाक्यानि । यो प्रसूतवती तस्यास्तथाविधायाः पुनः शुद्धिं गतायाः अमिप्रवेशादित्यर्थः । त्वहुहितुः सीतायास्तथाविशसनमन्याशहिंसनं किं मृध्यथाः कथं सोढवत्यसि ॥५॥ गृष्टिः दशरथकधुकी तेन । निरूप्य हेतुमिर्विचार्य । इयं सैवेति एता का प्रत्येति प्रत्यमिजानाति । नाम प्रसिद्धौ । न कोऽपीत्यर्थः ।

चतुर्थोऽङ्कः। १०७ इत इतो भगवतीमहादेव्यो। जनक:-अये, गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती (उत्थाय।) का पुनर्महादेवीत्याह । (निरूप्य ।) हा हा, कथमयं महाराजस्य दशरथस्य धर्मदाराः प्रियसखी मे कौसल्या । क एतां प्रत्येति सैवेयमिति नाम । आसीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैषा । कष्टं बतान्यदिव दैववशेन जाता दुःखात्मकं किमपि भूतमहो विकारः ॥ ६॥ य एव मे जनः पूर्वमासीन्मूर्ती महोत्सवः । क्षते क्षारमिवासचं जातं तस्यैव दर्शनम् ॥ ७ ॥ (ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च ।) अरुन्धती-ननु ब्रवीमि द्रष्टव्यः खयमुपेत्यैव वैदेह इत्येवं वः कुलगुरोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महान- ध्यवसायः। कचकी-देवि, संस्तभ्यात्मानमनुरुध्यख भगवतो वसिष्ठस्यादेश- मिति विज्ञापयामि। कौसल्या-'ईरिसे काले मिहिलाहिवो मए दिद्वन्वो ति समं एव्व सव्वदुःखाई ओदरन्ति । ता ण सकणोमि उव्वट्टमाणमूलबन्धणं हिअ पज्जवस्थावेदुम् । १. ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यवत- रन्ति । तस्मान्न शक्नोम्युद्वर्तमानमूलबन्धनं हृदयं पर्यवस्थापयितुम् । आसीदिति । इयं कौसल्या दशरथस्य गृहे श्रीरिवासीदथवा श्रीरेवासीत् । उपमान- वबोधकयथाशब्देन किम् । न किमपीत्यर्थः । अत्रोपमालंकारः, रूपकालंकारः, आक्षेपालंकारश्च । सैषा श्रीसदृशी श्रीभूता वा इयं कौसल्या दैववशेन देवेच्छया अन्यदिव जातान्यद्भूतमिव संवृत्ता। अलक्ष्मीरिव जातेत्यर्थः । अत्रेवेति वर्तते । दुःखा- त्मकं दुःखैकरसं किमपि वाचामपरिच्छेद्यं भूतं प्राणिविशेषः जाता । साक्षादलक्ष्मीः जातेत्यर्थः । यथा श्रीः श्रीरेव वेत्यनयोः प्रतिद्वन्द्वभूतमिदमहो विकारः प्राणिनामुप- चयापचयरूपागन्तुको विस्मयनीय इत्यर्थः । कष्टं बतेति दुःखातिशये ॥६॥ यति। य एष जनः कौसल्या ॥७॥ आदेशः आज्ञा । अनध्यवसायः संशयः ॥ आत्मान उत्तररामचरिते अरुन्धती-अत्र कः संदेहः । संतानवाहीन्यपि मानुषाणां दुःखानि संबन्धिवियोगजानि । दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहनैरिव संप्लवन्ते ॥ ८॥ कौसल्या-कहं णु खु वच्चाए मे वहूए वनगदाए तस्सा पिदुणो राएसिणो मुहं दंसम्ह । अरुन्धती- एष वः श्लाध्यसंबन्धी जनकानां कुलोद्वहः । याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥९॥ कौसल्या-ऐसो सो महाराअस्स हिअअणिव्विसेसो वच्चाए वहूए पिदा विदेहराओ सीरद्धओ । सुमरिदमि अणिव्वेदरमणीए दिवहे हा देव, सव्वं तं णत्थि । मे १. कथं न खलु वत्साया मे वध्धा वनगतायास्तस्याः पितू रार्जर्मुखं दर्शयामः । २. एष स महाराजस्य हृदयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजः सीरध्वजः । स्मारितास्मि अनिर्वेदरमणीयान्दिवसान् । हा देव, सर्व तन्नास्ति । धृतिम् । संस्तभ्य प्रतिहतगतिं कृत्वा । अनुरुध्यस्खानुतिष्ठेत्यर्थः ॥ समं युगपत् । अवत- रन्ति प्राप्नुवन्ति । उद्वर्तमानमुद्तं मूलबन्धनं मूलनियन्त्रणं यस्य तथोक्तम् । शिथिलब न्धनमित्यर्थः । पर्यवस्थापयितुम् ॥ संतानेति । संतानेन अविच्छेदेन वाहीनि प्रवहन्यपि दुःखानि प्रेयसि जने दृष्टे सतीत्यन्वयः । स्रोतःसहरनन्तैः स्रोतोमिः । उपलक्षणे तृतीया । संप्लवन्ते महोवीभवन्ति ॥ ८ ॥ वध्वाःनुषायाः ॥ एष इति। यस्मै यं जनकं सार्थयितुम् । 'क्रियार्थ-' इति चतुर्थी । ब्रह्मपारायणं खरूपे गुणैश्च अ- नवधिकातिशयब्रह्मलयुक्तपरमात्मप्रतिपादकवेदान्तभागं जगौ उपदिदेश । स एष इति योजना ॥९॥ हृदयनिर्विशेषः । अन्तरङ्ग इत्यर्थः । सीरः ध्वजो यस्य तथोक्तः । अनि र्वेदाच ते रमणीयाश्च । न विद्यते निर्वेदश्चित्तग्लानिर्येषु तथोकाः। रमणीया मानन्द- हेतवः। तथाविधान्दिवसान्स्मारितास्मि दिवसविषयकस्मरणवती कृतास्मि । सर्वमेतदु. पलभ्यमानं सर्व नास्ति असत्कल्पम् । हा दुःख्यते ॥ अभिवादयते । प्रणामेनाशीर्वा- . चतुर्थोऽङ्कः। जनका-(उपसृत्य।)भगवत्यरुन्धति, वैदेहः सीरध्वजोऽभिवादयते। यया पूर्तमन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खल गुरूणां गुरुतमः। त्रिलोकीमाङ्गल्यामवनितललीनेन शिरसा जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम् ॥ १०॥ अरुन्धती-अक्षरं ते ज्योतिः प्रकाश्यताम् । स त्वां पुनातु देवः परोरजसा य एष तपति । जनक:-आर्य गृष्टे, अप्यनामयमस्याः प्रजापालकस्य मातुः । कञ्चकी-(खगतम् ।) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः । (प्रकाशम् ।) राजर्षे, अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम् । रामभद्रस्यापि दैवदुर्योगः कोऽपि । यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः । न चामिशुद्धिम- नल्पकाः प्रतियन्तीति दारुणमनुष्ठितं देवेन । जनकः-(सरोषम् ।) आः, कोऽयममिनामास्मत्प्रसूतिपरिशोधने । कष्टमेवंवादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे । चयतीत्यर्थः ॥ ययेति । पूर्तमन्यः आत्मविषयकपुतलप्रकारकज्ञानवान् । त्रिलो- कीमाङ्गल्या लोकत्रयमङ्गलहेतुभूतामुषसमिव प्रातःसंध्यादिदेवतामिव स्थिताम् । अवनितललीनेन शिरसेत्युपलक्षणमष्टाङ्गप्रणामस्य ॥१०॥अक्षरं प्रकृतिपुरुषवत्खरूप- खभाव विकाररहितं ज्योतिः खयंप्रकाशं प्रकाश्यतां प्रतिभासताम् । 'अक्षरमम्बरान्त. धृतेः''ज्योतिश्वरणाभिधानात्' इत्यधिकरणद्वयार्थः प्रत्यभिज्ञापितः। देवः जगत्सृष्ट्या- दिलीलावान् । रजसा समस्तदोषजातेभ्यः परः । संबन्धसामान्ये षष्ठी। 'परोरजाः' इति वा पाठः । रजसः पर इति विप्रहः बाहुलकात्समासः । पृषोदरादिलादोकारष । य एष तपति स खां पुनातु । अनेन 'अन्तस्तद्धर्मोपदेशात्' इत्यधिकरणार्थः सूचितः। परोरजसामित्यनेन 'उदेति ह वै सर्वेभ्यः पाप्मभ्यः' इति श्रुतिश्चोदिता । अनामयमा- रोग्यम् । प्रजापालकस्य मातुः राममातुः कौसल्यायाः। इदं च सामिप्रायम् । अनाम- यमित्यनेन एवं दुःखिनी कियचिरं जीविष्यतीत्युपालम्भो व्यज्यते ॥ निरवशेषं निःशे- षमतिनिष्ठुरं अतिरूक्षम् । अनेनैव मन्युना 'अप्यनामयं प्रजापालकस्य मातुः' इत्यनेन व्यज्यते न क्रोधेन । दैवस्य भवितव्यतायाः दुर्योगः दुःखजननसन्नाहः । यत्किल यस्मा: खेतोः प्रवृत्ता प्रसूता बीभस्सा जुगुप्सनीया किंवदन्ती जनश्रुतिः येषां तथोक्ताः। 'किं- वदन्ती जनश्रुतिः' इत्यमरः। पौराः पुरे भवाः। तस्माद्देवदुर्योगः कोऽपीति पूर्वेणान्वयः। अनल्पकाः अत्यल्पाः । अग्निशुद्धिं न च प्रतियन्ति न विश्वसन्ति च । इति पूर्वोक्ताद्धेतो दारुणं परित्यागात्मकं रौक्ष्यम् ॥ अग्निशुद्धिरितिक इति योजना । प्रस्ताव इति शेषः । १.उ.रा. ..

0 ११० उत्तररामचरिते + अरुन्धती-(निश्वस्य ।) एवमेतत् । अमिरमिरिति बरसा प्रति लघून्यक्षराणि । सीतेत्येव पर्याप्तम् । हा वरसे, शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धरुत्कर्षस्त्वयि तु मम भक्ति द्रढयति । शिशुत्वं स्त्रैणं वा भवतु ननु वन्द्यासि जगतां गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः॥११ ।। कौसल्या-अहो समुम्मूलअन्ति विअ वेअणाओ । (इति मूर्छति ।) जनका हन्त, किमेतत् । अरुन्धती-राजर्षे, किमन्यत् । स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसाः स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टे तदखिलम् । विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी पुरंध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥ १२ ॥ १. अहो, समुन्मूलयन्तीव वेदनाः । एवंवादिना अग्निशुद्धिरिति वादिना जनेन परिभूयामहे अवमन्यामहे। उपसर्गवशेन भवतेः कर्मणि लकारः । एतत्परिभूयामहे इत्येतत् । एवं जनकोक्तदशासद्भाव एव । लघून्यक्षराणि लाघवापादकशब्दः । सीतेत्येव पर्याप्तम् । वहिसीतयोः पावनत्वे सम. कक्ष्यत्वात्प्रत्युत सीतायाः प्रकर्षात्सीताशब्द एव परिपूर्ण इति भावः । शिशुरिति । त्वं मम शिशु शिष्या वासीति यत् तत्तिष्ठत्विति योजना । विशुद्धः निर्दोषतायाः उत्कर्षः अतिशयः । तथा भक्ति अन्यादृशीं पूजनीयताप्रतिपतिं त्वयि मम द्रढयति स्थिर करोति । शिशुत्वं स्त्रैणं स्त्रीत्वं वा 'स्त्रीपुंसाभ्यां नसी' इति नन्प्रत्ययः । भवतु स्यात् । नतु तावता वन्द्यावहानिः । जगतां वन्द्यासि अभिवादनीयासिन- वित्यवधारणे । गुणाः गुणिषु अहिंसाशौचमस्तेयमित्याधुक्तगुणवत्सु पूजास्थानमन्वय- व्यतिरेकाभ्यां पूजाप्रयोजकाः। लिङ्गं जटोपवीतादिकं न पूजाप्रयोजकम् ॥११॥ वेदना दुःखानि । समुन्मूलयति मूलमुत्पाटयन्ति । इति मूर्च्छति मूर्छामभिनयति ॥ हन्त किमेतत् । शस्त्राभिघातादिकमन्तरा मूर्छा विस्मयनीयेत्यर्थः ॥ अन्यत्किम्।वक्ष्यमाणा. दन्यन्न किमपीत्यर्थः। स राजेति। स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसा इति यत्तदखिलं सुहृदि खयि दृष्टे सति स्मृतावाविर्भूतं कस्याप्यंशस्य प्रतोषेण स्मृ. तिविषयीभूतम् । 'सदृशा दृष्टचित्तायाः स्मृतिबीजस्य बोधकाः' इत्युक्तः । घोरे भयंकरे अस्मिविपाके प्रकृतसीतात्यागरूपदैवपर्यवसाने तव सखी कौसल्या विमूढा नेति न । अप्यनामयमस्या इत्यादिभवचनभनयाविष्कृतो भवन्मतरीत्या योऽस्याः कठिनचित्त. ।

॥ चतुर्थोऽरः १११ जनका हन्त सर्वथा नृशंसोऽस्मि । यचिरस्य दृष्टोन्षियसुहृदः प्रियदारानस्निग्ध इव पश्यामि । स संबन्धी श्लाघ्यः, प्रियसुहृदसौ तच हृदयं स चानन्दः साक्षादपि च निखिलं जीवितफलम् । शरीरं जीवो वा यदधिकमतोऽन्यप्रियतरं महाराजः श्रीमान्किमपि मम नासीदशरथः ॥ १३ ॥ कष्टमियमेव सा कौसल्या। यदस्याः पत्युर्वी रहसि परमन्त्रायितमभू- दभूवं दम्पत्योः पृथगहमुपालम्भविषयः । प्रसादे कोपे वा तदनु मदधीनो विधिरभू. दलं वा तत्स्मृत्वा दहति यदवस्कन्ध हृदयम् । ताप्रयुक्तमूर्छाभावो वा नेत्यर्थः। पुरंध्रीणां चित्तं हि यस्मात्कुसुमवन्मृदु तस्माद्विमूढा नेति न ॥ १२॥ एवमरुन्धत्या बोधितोऽनुतपति-हन्तेति। योऽहं चिरस्य दृष्टान् चिरा- दृष्टान्प्रियसुहृदो दशरथस्य प्रियान्मत्प्रीतिविषयान्मयि प्रीतियुक्तान् हि दारान् कौस. स्वामस्निग्ध इव शत्रुरिव पश्यामि शत्रुकर्तृकदर्शनसदृशदर्शनवानसिं । सोऽहं सर्वप्र. ) कारेण क्रूरोऽस्मि । हन्त अनुतप्यते । ससंबन्धीत्यादि।श्रीमान् लक्ष्मीवान्महारा- जः सार्वभौमः स दशस्थः मम इलाध्यः संबन्धी अभूत् । असौ संबन्धीभूतो दशरथः प्रियमुहदभूत् प्रीतिमान शोभनहृदयवांश्चाभूत् । 'सुहृदुईदौ मित्रामित्रयोः' इति हृदय- शब्दस्य हृदादेशः । तदन्तरङ्गत्वेन प्रसिद्ध हृदयं चाभूत् । चकारेण संबन्धिसुहृत्त्व. समुच्चयः तदिति दशरथपरं विधेयप्राधान्यात्क्लीबत्वम् । एवं च तत् संबन्धिसुह- दूतदशरथः हृदयं चाभूदिति वा । स पूर्वोत्तत्रयात्मा दशरथः साक्षादानन्दश्च । सा- छब्देनानन्दहेतावानन्दत्वात्कोपो व्यावर्तते । साक्षान्मुख्य इत्यर्थः । निखिलं जी. वितफलमपि च कर्मज्ञानभक्तिरूपं जीवनप्रयोजनं च । चकारः पूर्वसमुच्चायकः। श- रीरमभूदुर्लभो मानुषो देह इत्युकं शरीरं चाभूत् । सकलधर्मसाधनलात् । जीवो वाभूत् जीवश्चाभूत् । तस्य हि ज्ञानानन्दमयलात्प्रेमास्पदत्वम् । अतो जीवादधिकं समस्तकल्या. णगुणामृतोदधित्वेनानन्दमयत्वेन च प्रकृष्टं प्रियतरं प्रियो जीवः प्रियतरं ब्रह्म तथाविधं यस्परं ब्रह्म तदभूत् । यत एवं ततः किं नाभूत् । सर्वमप्यभूदित्यर्थः । लोके संबन्धि. सुहृदादीनां तत्तन्मात्रसमस्य तु सर्वदा सर्व विधल मिति भावः ॥ १३॥ यदस्या इति अस्या वा पत्युर्दशरथस्य वा यत्परमन्त्रायितमभूद्रहसि गुप्तभाषणं विचारो वा जातः। भाचारणिजन्तात्कर्तरि कः । तत्राहं दम्पत्योर्जायापत्योः पृथगुपालम्भविषयोऽभूर्व परस्परपरिहारेण परस्परविषये अयमेवमुक्तवानयमेवं कृतवानियमेवमुकवती इयमेवं कृतवतीत्यादिपरस्परापराधकथनपात्रमासम् । 'परमत्याहितमभूत्' इति पाठोऽपि - खते। प्रणयकलहरूपजीवनापेक्षकर्मेति तदर्थः । शेषं पूर्ववत् । तदनु उपालम्भानन्तरं उत्तररामचरिते अरुन्धती-हा कष्टम्। अतिचिरनिरुद्धनिःश्वासनिष्पन्दहृदयमस्याः। जनक:-हा प्रियसखि । (इति कमण्डलुदकेन सिञ्चति ।) कचकी- - सुहृदिव प्रकटय्य सुखप्रदा प्रथममेकरसामनुकूलताम् । पुनरकाण्डविवर्तनदारुणः परिशिनष्टि विधिर्मनसो रुजम् ॥ १५ ॥ कौसल्या-(आश्वस्य ।) हा वच्छे जाणइ, कहिं सि । सुमरामि दे णवविवाहलच्चीपरिग्गहेक्कमङ्गलं संफुल्लमुद्धमुहपुण्डरीअं आरुहन्तकौ- मुदीचन्दसुन्दरम् । एहि मे पुणो वि जादे, उज्जोएहि उच्चङ्गम् । सव्वहा महाराअ एवं भणादि । एसा रहुउलमहत्तराणं वहु अमाणं दु जणअसुदा दुहिदेव । १ १. हा वत्से जानकि, कुत्रासि । मरामि ते नवविवाहलक्ष्मीपरिग्रहैकमङ्गा• लं संफुल्लमुग्धमुखपुण्डरीकमारुहत्कौमुदीचन्द्रसुन्दरम् । एहि मे पुनरपि जाते, उद्योतयोत्सङ्गम् । सर्वदा महाराज एवं भणति । एषा रघुकुलमहत्तराणां वधू- रमाकं तु जनकसुता दुहितैष । प्रसादानुष्ठानं कोपानुष्ठानं वा । मदधीनमभूदित्यर्थः । स्मृखालम् । तत्मरणेन साध्य नास्तीत्यर्थः। यद्धृदयमक्स्कन्याक्रम्य दहति भस्मीकरोति । तत्स्मृत्वालं कोपप्रसादयो- रन्यवि च पाठद्वये क्रमाद्विवक्षितम् । तत्र हि परस्परेत्युक्तिरुपलक्षणार्या ॥१४॥ निरुद्धाः संचाररहिताः श्वासाः प्राणवायवो यस्मिन् तथोक्तं निष्पन्दं च ॥सुहदिति। विधिः प्रथममादौ सुहृदिव मित्रमिव सुखप्रदामेकरसामेकप्रकारामनुकूलता योगक्षेम- हेतुभूतां प्रकटय्य प्रकाशयित्वा पुनरनन्तरमकाण्डेन निर्निमित्तेन विवर्तनेन व्यत्यस्त. परिपाकेन दारुणः सन् क्रूरः सन्मनसो. रुजं हृदयपीडां परिशिनष्टि परिशिष्टां करोति । मकाण्डनिवर्तनेन दारुणोऽकाण्डनिवृत्तो भूत्वेत्यप्याहुः । सुहृदपि त्यक्त्वा गतश्चेन्मनः. पीडां करोतीति साम्यम् ॥१५॥ नव विवाहलक्ष्म्याः परिग्रहेण एकं मुख्य मजलं यस्य तथोक्तम् । कौमुद्या कृत्तिकापौर्णमास्यां भवश्चन्द्रः कौमुदीचन्द्रः । आरोहन्ती प्रादु. भवन्ती या कौमुदी चन्द्रचन्द्रिका तद्वत्सुन्दरमहं यस्यास्तथोक्तां। उत्सङ्गममुद्योतय उपवेशेन प्रकाशय । सर्वदा सर्वस्मिन्काले महाराजो दशरथः । एषा सीता रघुकुले महत्तरा ये मनुप्रभृतयस्तेषां वधूः सुषा । जनकसुता सीता अस्माकं तु मम तु हिसैव मदभिप्रायेण दुहितैवेत्येवं भणति ॥ देवी कौसल्या यथाह तथैवेति शेषः ।

चतुर्थोऽ। कञ्चुकी-यथाह देवी। पञ्चप्रसूतेरपि तस्य राज्ञः प्रियो विशेषेण सुबाहुशत्रुः। वधूचतुष्केऽपि तथैव नान्या प्रिया तनूजास्य यथैव सीता ॥ १६ ॥ जनका-हा प्रियसख महाराज दशरथ, एवमपि सर्वप्रकार- हृदयंगमः । कथं विस्मयते । कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं संबन्धे विपरीतमेव तदभूदाराधनं ते मयि । त्वं कालेन तथाविधोऽप्यपहृतः संबन्धबीजं च त. द्धोरेऽस्मिन्मम जीवलोकनरके पापस्य घिग्जीवितम् ॥१७॥ कौसल्या-जोदे जाणइ, किं करोमि। दिढवजलेवपडिबद्ध- णिञ्चलं हदजीविदं मं मन्दभाइणी ण पडिच्चअदि । १. जाते जानकि, किं करोमि । दृढवज्रलेपप्रतिबन्धनिश्चलं हतजीवितं मां मन्दभागिनी न परित्यजति । पञ्चप्रसूतेरिति । पञ्च प्रसूतयः पुत्राः यस्य तथोक्तस्थापि । तस्य राज्ञः पतिरथस्य सुबाहुशत्रुः रामः विशेषेण प्रियः इष्टः । पञ्च प्रसूतयो यस्मिन् वृन्दे इति वा विग्रहः । निर्धारणे षष्टी। 'तृतीयादिषु भाषितपुंस्कं पुंवद्वालवस्य' इति पाक्षिकः पुंवद्भावः । पञ्चा- नां मध्ये रामः प्रिय इत्यर्थः। रामादयश्चत्वारःशान्ता चेति पश्च । वधूचतुष्केऽपि सीता- दिनुषाचतुष्टयेऽपि अस्य जनकस्य तनूजा सीता यथा तस्य राज्ञो दशरथस्य प्रिया तथा अन्या ऊर्मिलाप्रभृतिः राज्ञः प्रिया न । अस्य तनूजा सीतेत्यनेन सीताया एव जन- कामिसंधिनातनूजात्वं नान्यासामिति व्यज्यते। वधूचतुष्केऽपीति निर्धारणे सप्तमीदर्श- नात् ॥१६॥ सर्वैः प्रकारैर्धमैः हृदयंगमः। कन्याया इति। संबन्धे कन्यावरसंबन्धे । कन्यायाः पितरो जनन्यः जनकाच जामातुर्वरस्याप्तं संनिहितबन्धुं जनं पूजयन्ति किल संभावयन्तीति प्रसिद्धम् । तदाराधनं पूजनं ते मयि विपरीतमभूत् । वत्कर्तृकम- द्विषयकपूजनं सत् प्रतिलोमं जातमित्यर्थः। तथाविधोऽपि त्वं कालेनापहृतः मया पूज्यमानं भवन्तं द्रष्टुं न्याय्यं तावद्भाग्याभावेऽपि केवलं वा भवन्तं द्रष्टुं मदीयदै- वदुर्विपाको नाक्षम्यतेति भावः। संबन्धबीजं सीता चापहतं लिङ्गविपरिणामः । पूर्वो- कयोरभावेऽपि तादृशभवदमिमता सीतापि दैवेन नाक्षम्यतेति भावः । घोरे भयंकरे अस्मिन्नेवंविधबहुदुःखभाजने जीवलोकबिले पापस्य पूजनविपर्यासादिहेतुभूतदुर तप्रचुरस्य मम जीवितं प्राणधारणं धिक् । तत्कमिका निन्देत्यर्थः । अत्रेदानी भवत्पू उत्तरयमचरिते अरुन्धती-आश्वसिहि राज्ञि, बाष्पविश्रामोऽप्यन्तरेषु कर्तव्य एव अन्यच्च किं न स्मरसि । यदवोचदृष्यशृङ्गाश्रमे युष्माकं कुलगुरुः भवितव्यं तथेत्युपजातमेव । किंतु कल्याणोदकै भविष्यतीति । कौसल्या-कुंदो अदिक्कन्दमणोरहाए मह एदम् । अरुन्धती-तत्किं मन्यसे राजपत्नि, मृषोधं तदिति । न हीदं क्षत्रिये, , मन्तव्यम् । आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भूत् । भद्रा ह्येषां वाचि लक्ष्मीनिषक्ता नैते वाचं विप्लुतार्थी वदन्ति ॥ १८ ॥ (नेपथ्ये कलकलः । सर्वे आकर्णयन्ति।) जनक:-अये, शिष्टानध्ययन इत्यस्खलितं खेलतां बटूनां कोलाहलः। १. कुतोऽतिक्रान्तमनोरथाया ममैतत् । जायभावेऽपि यत्र तल्लाभो लोकान्तरे तत्र गमनस्यापि मदीयजीवनयोनिदुरितप्रति- बन्धकमिति भावः ॥१७॥ ढेण वजलेपेन बन्धकद्रव्यलेपेन यः प्रतिबन्धो विश्लेषानु. स्पादस्तेन निश्चलं हतजीवितं निन्यजीवितम् ॥ आश्वसिहि आश्वासं दुःखलघूकरणं प्राप्नुहि । वाष्पस्य दुःखाश्रुणः विश्रामो विच्छेदोऽपि । अपिशब्देन बाष्पादिकं समुवी. यते । अन्तरेषु मध्ये मध्ये । अन्यच्च बाष्पविश्रामादन्यदपि । यत्कुलगुरुर्वसिष्ठः अ. पोचत्तम स्मरसि किम् । भवितव्यं तथेति परित्यागरूपेण भवनमपरिहार्यमिति हेतोः। उपजातमापाततो जातम् । न लन्ततस्तथेत्यर्थः । कल्याणोदक मालपर्यवसायि भविष्यतीति यदवोचत्तम स्मरसि किम् । अतिक्रान्तमनोरथाया असंभाव्यामिलापविष. यायाः॥मृषोद्यमिति मिथ्यावचनमिति । आविर्भूतेति । आविर्भूतज्योतिषां परज्यो. तिविषयकापरोक्षज्ञानवतां ब्राह्मणानां विप्राणां ये व्याहारा उकयस्तेषु संशयःप्रामा. व्यसंदेहो माभूत् नोत्पत्तुमर्हः। हि यस्मादेषां ब्राह्मणानां वाचि भद्रा मजलकरी लक्ष्मीः अर्थोपधायकवातिशयः। निषका नित्यसङ्गिनी भवति।एते आविर्भूतज्योतिषो ब्राह्मणाः विष्ठतार्थामसदों वाचमेकामपि गिरं न वदन्ति नोचारयन्ति । पूर्वत्र बहुवचनं तदी- यसर्ववाचामपि प्रामाण्यषोधनार्थम् , अत्रैकवचनं तु तदीययत्किचितचोऽप्यप्रामाण्य नैति बोधनार्थमिति द्रष्टव्यम् । अत्र श्लोके 'सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रमत। अत्रा सखायः सख्यानि जानते भबैषां लक्ष्मीनिहिताधिवाचि॥'

चतुर्थोऽङ्कः । ११५ कौसल्या-सुलहसोक्खं दाणिं बालसणं होदि । (निरूप्यो अमहे, एदाणं मज्झे को एसो रामभहस्स कोमारलच्छीसावट्ठम्भेहिं मुद्धललि. देहि अङ्गेहिं दारओ अह्माणं लोअणे शीअलावेदि । अरुन्धती-(खगतम् । सहर्षोत्कण्ठम् ।) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम् । नत्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति । (प्रकाशम् ।) कुवलयदलस्निग्धश्यामः शिखण्ड कमण्डनो बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् । पुनरपि शिशुभूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥ १९ ॥ कञ्चकी-नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये । जनकः-एवमेतत् । अस्य हि चूडाचुम्बितकङ्कपत्रमभितस्तुणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलान्छनमुरो धत्ते त्वचं रौरवीम् । १. सुलभसौख्यमिदानी बालत्वं भवति । अहो, एतेषां मध्ये क एष राम- भद्रस्य कौमारलक्ष्मीसावष्टम्मैर्मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति । इति श्रुतिः स्फोरिता ॥१८॥ शिष्टागमनप्रयुक्ताध्ययनाभावः शिष्टानध्ययनः ॥ सुलभ सौख्यं यस्मिंस्तथोक्तम् । अनेन 'वृद्धो जनो दुःखशतानि भुते' इत्युक्तवार्धकनिन्दा व्यज्यते । रामभद्रस्य कौमारलक्ष्म्या चन्द्रवदाहादकारिरामशैशवस्य योऽयमवष्टम्भः आलम्भनं तत्सहितैः । लक्ष्मीपदेन शैशवस्य स्पृहणीयत्वं व्यज्यते । संबन्धशब्दखा. सापेक्षत्वेऽपि समासः । मुग्वललितैः सुन्दरसुकुमारैः ॥ हर्षः इष्टागमात्प्रीतिः । उ- स्कण्ठा आकारादिविषयामिलाषः । भागीरथीनिवेदितं गङ्गया कथितं रहस्यं गूढं यत्क- र्णयोरमृतवद्भोग्यम् । तदिदं नामायुष्मतोः कुशलवयोर्मध्ये कतरोऽयमिति कुश इति वा लव इति वा न विद्मः न जानामि । 'अस्मदो द्वयोश्च' इत्येकत्वे बहुवचनम् । कुघल- येति । शिखण्डकमण्डनः काकपक्षधरो बटुना ब्रह्मचारिणां परिषदं सदः श्रिया कान्या सभाजयनलंकुर्वन् । अमृताजनममृतमयमजनं शीतलखादिभिः तद्धि रमणीयमिति कविसमयप्रसिद्धिः ॥१९॥ मन्ये अनुमिनोमि । एतद्भवता संभाव्यमानमेवंवस्तुभूतम् । चूडाचुम्बितेति । चूढाचुम्बितानि संयुक्ताप्राणि कङ्कपत्राणि बाणपक्षा यस्मिंस्तथो. कम् । पृष्ठतोऽभितः पृष्ठे । यो गयोरित्यर्थः । भस्ममयं स्तोकमल्पं पवित्र पावन लाञ्छनं पुण्ड्रं यस्य स तथोकम् । उरः रौरवीं ऐणेयी खचं धते । मौर्यात्मकरा- उत्तररामचरिते मौा मेखलया नियन्त्रितमधो वासश्च मालिष्ठकं पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥ २० ॥ भगवत्यरुन्धति, किमित्युत्प्रेक्षसे कुतस्त्योऽयमिति । अरुन्धती-अद्यैव वयमागताः- जनक:-आर्य गृष्टे, अतिकौतुकं वर्तते । तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ । इमं च दारकं ब्रूहि वत्स केऽप्येते प्रवयसस्त्वां दिदृक्षव इति । कञ्चकी-यदाज्ञापयति देवः (इति निष्कान्तौ ।) कौसल्या-किं' मण्णेध। एवं भणिदो आअमिस्सदि वा ण वेत्ति । जनकः-भिद्यते वा सद्वृत्तमीदृशस्त्र निर्माणस्य । कौसल्या-(निरूप्य ।) केहं सविणअणिसमिदगिहिवअणो विस- जिदासेससरिसदारओ एत्तोमुहं अवसरिदो एव स वच्छो । जनका-(चिरं निर्वर्ण्य ।) भोः किमप्येतत् । महिनामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो विदग्धैनियो न पुनरविदग्धैरतिशयः । १. किं मन्यध्वे । एवं भणित आगमिष्यति वा न वेति । २. कथं सविनयनिशमितगृष्टिवचनो विसर्जिताशेषसदृशदारक इतोमुखम. पसरित एव स वत्सः। नया नियन्त्रितं माजिष्ठ मनिष्ठरकं वासः अधः उरसोऽधस्तात् । क्षत्रियब्रह्मचारिणां मेखलेत्युक्तं 'माजिष्ठं राजन्यस्य'इति च । पाणौ कार्मुकं धनुरक्षसूत्रवलयं जपमालिका- बलयम् । अस्तीति शेषः। 'अपरे पैप्पलः' इति पाठे अपरे पाणौ अश्वत्थदण्ड । 'अपरः पैप्पलः' इति पाठे धनुर्दण्डादपरः। अन्य इत्यर्थः ॥२०॥ कुतस्त्यः कस्माद्भवः॥अतिश- यितं कौतुकं विशिष्टवस्तुजिज्ञासौत्कण्व्यम् । प्रवयसो वृद्धाः । दिदृक्षवः द्रष्टुमिच्छवः ।। यदाज्ञापयतीत्यत्र तदनुतिष्ठामीति शेषः । एवं भणितः प्रवयसस्वां दिदृक्षव इत्युक्तः सन् आगमिष्यति किमिति मन्यध्वे । किं संदिग्धे ॥ ईशस्य लोकोत्तरस्य निर्माण- स्याकारस्य । निर्मीयते तन्निर्माणम् । कर्मणि ल्युट । 'कृत्यल्युटो बहुलम्'इत्युक्तः । सवृत्तं सदाचारो भिद्यते वा । छिन्नं भवति किमित्यर्थः । 'कर्मवल्कर्मणा' इति यगात्मने- पदे । सविनयं निशमितं श्रुतं गृष्टिवचनं येन तथोक्तः।एतद्वक्ष्यमाणं किमपि अपूर्वमि. त्यर्थः । तदाह-महिनामित्यादि । विनयेन ज्ञानवृद्धशीलवृद्धसन्निधौ खनिकर्षप. यवसाय्यवस्थानेन शिशिरः शीतलः मौग्ध्येन बाल्येन मसूणः पौरुषरहितः । विदग्धैः सूक्ष्मदर्शिभिनियो निर्णेयः । अविदग्धैः पुनर्न प्रायो निर्णेतुमशक्यः एतस्मि- महिनामविशयः लवनिष्टप्रकृष्टशावतेजप्रकृतिगुणादिमाहात्म्पानामुत्कर्षः । संमो. . R चतुर्थोऽधः I ११५ मनो मे संमोहस्थिरमपि हरत्येष बलवा- नयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥ २१ ।। लव:-(प्रविश्य।) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथ- मभिवादयिष्ये । (विचिन्य।) अयं पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते । (सविनयमुपसृत्य ।) एष वो लवस्य शिरसा प्रणामपर्यायः । अरुन्धतीजनकौ-कल्याणिन्, आयुष्मान्भूयाः । कौसल्या-जाद, चिरं जीव । अरुन्धती-एहि वत्स । (लवमुत्सङ्गे गृहीला । आत्मगतम् ।) दिल्या न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः। कौसल्या-जाद, इदो बिदाव एहि । (उत्सङ्गे गृहीला ।) अनहे, ण केवलं दरविप्पट्टकन्दोट्टमंसलुजलेण देहबन्धणेण कवलिदारविन्दकेसर- कसाअकण्ठकलहंसघोसघग्घराणुणादिणा सरेण अ रामभई अणुसरेदि । णं कठोरकमलगब्भप्पम्मलसरीरप्पस्सो वि तारिसो एव । जाद १. जात, चिरं जीव । २. जात इतोऽपि तावदेहि । अहो न केवलं दरविस्पष्टकुवलयमांस. लोज्वलेन देहबन्धनेन कवलितारविन्दकेसरकषायकण्ठकलहंसघोषधधरानु- नादिना स्वरेण च रामभद्रमनुसरति । ननु कठोरकमलगर्भपक्ष्मलशरीरस्पों हेन मूर्छया स्थिरमपि काष्ठवन्निष्पन्दमपि मे मनश्चित्तं परिलघुरमः अयस्कान्तशकल: अयस्कान्तखण्डः अयोधातुं यद्वल्लोहपिण्ड मिव हरति कर्षति । अत्र विनयशिशिरो मौग्ध्यमसण इत्याभ्यां सलिल हिमोपष्टम्मेन ज्योनीभवतां सूर्यतेजसां सादृश्यं व्य. ज्यते ॥२१॥ क्रमः सत्काराद्यानुपूयं वयः स्थाविरादिकं वयःक्रमस्तस्यौचित्यं प्राप्तता ज्ञातं च तद्वयःक्रमौचित्यं तस्याभावः अज्ञातवयःक्रमौचित्यम् । अर्थाभावे अव्ययीभा- वः । अपञ्चम्या इति प्रतिषेधादम्भावो न । तथा च वयःक्रमौचित्यज्ञानाभावादित्यर्थः। कथमभिवादयिष्ये केन क्रमरूपप्रकारेण नमस्करिष्ये । अविरुद्धः अविपरीतः। प्रका- रोऽनुष्ठान विशेषः । सामान्यवृद्धविषयकप्रणामकरणरूप इति भावः। सभायां प्रत्येक न नमस्कुर्यादिति गौतमस्मरणमिहाभिप्रेतम् ॥ उत्सङ्गे अङ्के ॥ दिष्टयेत्यानन्दे । उत्सङ्ग- केवलं न पूरितः किंतु मनोरथोऽपि पूरित इत्यर्थः ॥ जातेति संबोधनम् । विप्प. दृमिति विस्तृतवाचकम् । कन्दोशब्दः कुवलयवाची । घर्घरच कांस्यध्वनिस्तद्वद- नुकरणं तथाविधेन । अनुसरति अनुकरोति । कठोरस्य समग्रस्य कमलस्य गर्भव. दान्तरपत्रवत्पक्ष्मलः स्फीतः तादृश एव रामभद्रस्पर्शसदृश एव । चुबुकमधराधो. देशम् । निपुणं निरूप्यमाणः हेतुभिः पटुतर विचार्यमाणः। अयमिति शेषः । मुख ..

उत्तररामचरिते पेक्खामि दे मुहपुण्डरीअम् । (चुबुकमुन्नमय्य निरूप्य सवाष्पाकृतम् ।) राएसि, किं ण पेक्खसि णिउणं णिरूवजन्तो बच्छाए मे वहूर मुहच- न्देण वि संवददि एव। जनक:-पश्यामि सखि, पश्यामि । कौसल्या ब्रह्महे,उम्मत्तीभूदं वि अमे हिअअंकुदो मुहं विलवदि। जनक:- वत्सायाश्च रघुदास्य च शिशावस्मिन्नभिव्यज्यते संवृत्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः । सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा देवि किमुत्पथैर्मम मनः पारिप्लवं धावति ॥ २२॥ कौसल्या-जोद, अस्थि दे मादा, सुमरसि वा तादम् । लव:-नहि। कौसल्या-तेंदो कस्स तुमम् । ऽपि तादृश एव । जात, पश्यामि ते मुखपुण्डरीकम् । राजर्षे, किं न पश्यसि । निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवदत्येव । १. अहो, उन्मत्तीभूतमिव मे हृदयं कुतो मुखं विलपति । २. जात, अस्ति ते माता, सरसि वा तातम् । ३. ततः कस्य त्वम् । चन्द्रेण संवत्येव । सीतामुखचन्द्रेति यौगिकसादृश्यप्रमाणविषयो भवति ॥ पश्यामि सखि पश्यामीति आदराद्भिक्तिः ॥ उन्मत्तीभूतमिव विभ्रान्तमिव कुतोमुखं यत्र- कापि असंभाव्यविषये लममिति यावत् । विलपति परिदेवयति। 'विवलते' इति च पाठः ॥ वत्साया इति । अस्मिन् शिशौ लवे वत्सायाः सीताया रघद्वहस्य रामचन्द्रस्य च संवृत्तिः संपर्कः। संबन्ध इत्यर्थः । प्रतिबिम्बितेवाभिव्यज्यते अभिव्य- का भवति। दर्पणादौ बिम्बवदृश्यत इत्यर्थः । निखिला कृत्स्ना आकृतिरवयवस्थानवि- शेषः सैव सीता रघूद्वहसंबन्धिन्येव । द्युतिर्लावण्यं तयोरेव संबन्धिनी । वाणी लवस्य वाक् सा तयोरेव संबन्धिनी। विनयः प्रश्रयः स एव सहजः खाभाविकः । पुण्य- वासौ पावनश्चासौ अनुभवः समीचीनव्यवसायः। असौ सीतारघूद्वहसंबन्ध्येव । अबू रविप्रकृष्टवाच्योऽदःशब्दः । 'अनुभावः प्रभावे च सतां च मतिनिश्चये' इत्यमरः देकि सीते,मम मनः पारिलवं सत् चञ्चलं सत् उत्पथैरमार्गः धावति अनवस्थितं भवति। हा हा। दुःख्यत इत्यर्थः। देवीसनेन देवभूयंगतायास्तव कथमिदं संगच्छत इति व्यज्यते। अतएव झुत्परित्युक्तम् ॥ च 'ऋक्पूरन्धूःपथाम्-' इति समासान्तः॥२२॥ कस्य ।

चतुर्थोऽङ्कः। ११९ लवा-भगवतः सुगृहीतनामधेयस्य वाल्मीकेः । कौसल्या-अयि जाद, कहिदव्वं कहेहि । लव:-एतावदेव जानामि । (नेपथ्ये।) भो भोः सैनिकाः, एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न केनचि. दाश्रमाभ्यर्णभूमय आक्रमितव्या इति । अरुन्धतीजनको-अये, मेध्याश्वरक्षाप्रसङ्गादुपागतो वत्सश्चन्द्रके- तुर्द्रष्टव्य इत्यसौ सुदिवसः। कौसल्या-वच्छलक्खणस्स पुत्तओ आणवेदित्ति अमिदबिन्दुसु- न्दराई अक्खराइं सुणीअन्दि । लव:-आर्य, क एष चन्द्रकेतुर्नाम । जनकः-जानासि रामलक्ष्मणौ दाशरथी । लव:-एतावेव रामायणकथापुरुषौ । जनक:-अथ किम् । लव:-तत्कथं न जानामि । जनकः-तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः । लवा-ऊर्मिलायाः पुत्रस्तर्हि मैथिलस्य राजर्षौहित्रः । अरुन्धती-आविष्कृतं कथाप्रावीण्यं वत्सेन । जनक:-(विचिन्त्य ।) यदि त्वमीदृशः कथायामभिज्ञस्तद्रूहि तावत्प- १. अयि जात, कथितव्यं कथय । २. वत्सलक्ष्मणस्य पुत्रकः आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्तै । खम् । कस्माजात इत्यर्थः । सुगृहीतं सुष्टु प्रतिपादितं नामधेयं यस्य तथोक्तस्य वाल्मीके- स्तस्माज्जातः॥सैनिकाः सेनासमवायिनः । अभ्यर्णभूमयः समीपदेशाः । ताः नाक्रमि- तव्या न केनापि स्प्रष्टव्या इति । आज्ञापयतीत्यर्थः । मेध्याश्वस्य यज्ञाशाश्वस्य प्रसझादव- इयानुरोद्धव्यत्वाद्धेतोः द्रष्टव्य इति सुदिवसः। चन्द्रकेतुदर्शनाच्छोभन दिवसोऽयं विस्मय. नीय इत्यर्थः ॥ अमृतबिन्दुसुन्दराण्यक्षराणि सुधापृषत इव भोग्याः वर्णाः ॥ दाशरथी दशरथपुत्रौ जानासि किमिति काका योजनीयम् ॥ रामायणकथायाः रामायणनाम- कवाक्यप्रबन्धस्य पुरुषौ प्रतिपाद्यौ ॥ अथ किमित्यङ्गीकारे ॥ तर्हि ऊर्मिलापुत्रत्वे मैथिलस्य मिथिलाधिपतेः॥आविष्कृतं प्रकाशितम् । वत्सेन लवेन ॥ कथायामभिज्ञत.

उत्तररामचरिते श्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किनामधेयान्यपत्यानि केषु दारेषु प्रसूतानि । लव-नायं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः । जनक:-किं न प्रणीतः कविना । लव:-प्रणीतो न प्रकाशितः । तस्यैव कोऽप्येकदेशः प्रबन्धान्त- रेण रसवानभिनेयार्थः कृतः । तं च स्वहस्तलिखितं मुनिर्भगवान्व्यसृजद्भ- गवतो भरतस्य तौर्यत्रिकसूत्रधारस्य । जनक:--किमर्थम् । लव:-स किल भगवान्भरतस्तमप्सरोभिः प्रयोजयिष्यतीति । जनक:-सर्वमिदमाकूततरमस्माकम् । लव:-महती, पुनस्तस्मिन्भगवतो वाल्मीकेरास्था । यतः केषां- चिदन्तेवासिनां हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम् । तेषामनुया- त्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मदाता प्रेषितः । कौसल्या-भादावि दे अस्थि । लव:-अस्त्यार्यः कुशो नाम । कौसल्या-जेठेति भणिदं होदि । १. भ्रातापि तेऽस्ति । २. ज्येष्ठ इति भणितं भवति । प्रतिपाद्यार्थज्ञानवान् । किंनामधेयानीत्यारभ्य केषु प्रसूतानीत्यन्तस्य ब्रूहीसनेना- न्वयः । पश्यामः अस्मझातविषयकत्वद्वचनं शृणुम इत्यर्थः ॥ कथाविभागः कथै- कदेशः ॥ प्रणीतः किं न प्रबन्धः किं नोकः किमिति वा न प्रकाशितः न श्रावितो नाध्यापितश्च ।। तस्य रामायणस्य कोऽपि अनिर्धारितः एकदेशोंऽशः । स च सप्तमे वक्ष्यमाणान्तर्नाटकार्थक इति ज्ञेयम् । प्रबन्धान्तरेण श्राव्यप्रबन्धातिरिकदृश्यप्रब. न्धरूपकरूपेण वा रसवान् करुणाद्भुतरसप्रतिपादकः सर्वाकर्णनादितररसप्रतिपादकः अभिनेयः सत्याङ्गिकादिचतुर्विधाभिनयप्रकाश्योऽर्थः अभिधेयः यस्य तथोकः कृतः । मुनिर्वाल्मीकिः । तौर्यत्रिकसूत्रधारस्य नृत्तगीतवादित्रशास्त्राचार्यस्य भरतस्य भावराग- तालशास्त्राचार्यत्वमूलकृत्तदाद्यक्षरघटितभरतनामकस्य तं प्रबन्धं अप्सरोभिः प्रयो. ज्यकर्तृभिः। प्रयोजयिष्यतीत्येतदर्थम् ॥ सर्वमिदं प्रणीतस्याप्रकाशनं प्रबन्धान्तरेण क. रणं भरतं प्रति प्रेषणं चाकूततरं गूढार्थकम् ॥आस्था आवश्यकत्वप्रकारकेच्छा । अनु. यात्रिकोऽनुचरः प्रमादस्यानवधानप्रयुक्तप्रतीतस्य च्छेदनार्थ निवृत्यर्थममदाता मत्सहजः ॥ आर्यः पूज्यः ज्येष्ठ इति भणितं भवति अग्रज इति ध्वनितं भवति ॥

१२१ चतुर्थोऽङ्कः। लव:-एवमेतत् । प्रसवानुक्रमेण स किल ज्यायान् । जनक:- यमावायुष्मन्तौ । लव:-अथ किम् । जनक:-वत्स, कथय कथाप्रपञ्चस्य कियान्पर्यन्तः । लवः-अलीकपौरापवादोद्विमेन राज्ञा निर्वासितां देवी देवयजन- संभवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति । कौसल्या हा वच्छे मुद्धमुहि, को दाणिं दे सरीरकुसुमस्स झत्ति देवदुबिलासपरिणामो एकाइणीए निवडिदो । जनकः-हा वत्से, नूनं त्वया परिभवं च वनं च घोरं तां च व्यथां प्रसवकालकृतामवाप्य । क्रव्याद्गणेषु परितः परिवारयत्सु संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम् ॥ २३ ॥ लव:-आर्ये, कावेतौ। अरुन्धती-इयं कौसल्या । अयं जनकः । (लवः सबहुमानखेदको- तुकं पश्यति ।) जनकः-अहो निर्दयता दुरात्मनां पौराणाम् । अहो रामभद्रस्य क्षिप्रकारिता। १. हा वत्से मुग्धमुखि, क इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलास- परिणाम एकालिन्या निपतितः । प्रसवानुक्रमेणोत्पत्तिप्रकारेण । ज्यायान् ज्येष्ठः । यमसाधारणपूर्वजानुजलव्यवस्थाप- कजननानुपूर्येण ज्येष्ठ इति भावः ॥ अतएव पृच्छति-किं यमाविति ॥ कथाप्रपञ्चस्य कथाविस्तरस्य। पर्यन्तोऽवसानम्। यद्वा प्रपञ्चनं प्रकाशनं प्रपञ्चस्तस्य कोऽवधिः। किय- त्पर्यन्तं प्रकाशित इत्याशयः ॥ अलीको मिथ्याभूतः पौरापवादः पौरकर्तृकदोषकथनं तेनोद्विग्नेन संभ्रान्तेन राज्ञा रामेण निर्वासितां गृहाच्यावितां देवयजनसंभवां याग. भूमिजातां परित्यज्य लक्ष्मणः प्रतिनिवृत्त इति यत् एष पर्यन्त इति योजना ॥ शरी- रकुसुमस्य कुसुमसदृशशरीरस्य । दैवदुर्विलासस्य दैवदुश्चेष्टितस्य परिणामः फलोपधा. नम् । क इति दुःख्यते ॥ नूनमिति । व्याद्गणेषु व्याघ्रादिषु परितः समन्तात्परि- वारयत्सु सत्सु मण्डलीकृत्य व्याप्नुवत्सु सत्सु । संत्रस्तया बयाहं शरणमिति स्मृतः नूनं संभावये ॥ २३ ॥ दुरात्मनां दुर्बुद्धीनाम् । क्षिप्रकारिता असमीक्ष्यकारिखम् ॥ ११ उ.रा.

१२२ उत्तररामचरिते एतद्वैशसवाघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्वापेन शापेन वा । कौसल्या-(सभयकम्पम् ।) भअवदि, परित्ताअदु । पसादेहि कु- विदं राएसिम् । एतद्धि परिभूतानां प्रायश्चित्तं मनखिनाम् अरुन्धती- राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥२४॥ जनक:- शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे। भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः ॥ २५ ॥ (प्रविश्य संभ्रान्ता पटवः।) कुमार कुमार । अधोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रू- यते, सोऽयमधुनामाभिः स्वयं प्रत्यक्षीकृतः । लव:--अश्वोऽश्व इति नाम पशुसमानाये सांग्रामिके च पठ्यते तद्त कीदृशः। १. भगवति, परित्रायताम् , प्रसादय कुपितं राजार्षम् । पतद्वैशसेति । एतद्वैशसमेव महाव्यसनमेव वज्रस्थाशनेोरै पतनं तीक्ष्णपातनं शश्वदुरपश्यतो मम क्रोधस्य शापेनानिष्टोपधायकसंकल्पेन चापेन च मारकधनुषा व झटिति ज्वलितुमवसरः प्राप्तकालता राजर्षित्वादिति भावः ॥ प्रसादय प्रसन्नं कुरु॥ पतदिति । परिभूतानामवमताना मनस्विनां महामनसां प्रायश्चित्तं कोपप्रतीकारः एतत् प्रसादनमित्यर्थः ॥ अपत्यं रामः कृपणजनाश्च ते पाल्याश्च रक्षणीयाः ॥२४॥ शान्तं वेत्यादि । वा अथवा । शापेन चापेन च ज्वलनाभावे इत्यर्थः । यद्य. स्मात्पुत्रभाण्डं पुत्र एव भाण्डं मूलधनं पुत्रभूतरामात्मकमूलधनम् । भूयिष्ठानि भूयांसि द्विजाः बालाः शिशवः वृद्धाः स्थविराः विकलाः अन्धवधिरादयः स्त्रैणं स्त्रीस. मूहः यस्य तथोक्तः पौरो जनश्च मे हि मदीयाः किल । तस्मात्तदुभयं शापश्चापश्च शान्तं भवतु निवृत्तं भवतु । रुषं न दधे कोपं न धारयामि । यद्वा यद्यस्मादूयिष्ठ- द्विजबालवृद्धविकलस्त्रैणः पौरो जनः । चकारेण रामः समुच्चीयते । तदुभयं पौरज. नरामात्मकोभयं मे पुत्रभाण्डं पुत्रात्मकमूलधनवन्मम संरक्षणीयं तत्तस्मात् शान्त क्रोधेन ज्वलिला भलं रुषं न दधे क्रोधं न धारयामि । स्थैर्यद्योतनाथ द्विःकथनम् ॥२५॥ बटवः प्रविश्य । अत्र आहुरिति शेषः । भूतविशेषः प्राणिविशेषः। जनपदेषु कोसला. दिदेशेषु । आरण्यकखादेवमुक्तिः। श्रूयते शाब्दबोधविषयो भवति । प्रत्यक्षीकृतः च. क्षुर्विषमीकृतः । पशुसमानाये पशुद्रव्यकयागप्रतिपादकवेदभागे, सांसामिके युद्धका- चतुर्थोऽङ्कः । १२३ बटव:-अये, श्रूयताम् । पश्चात्पुच्छं वहति विपुलं तश्च धूनोत्यजसं दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव । शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रा. निक व्याख्यानैर्बजति स पुन(रमे।हि यामः ॥ २६ ॥ (इत्यजिने हस्तयोश्चाकर्षन्ति ।) लवः-(सकौतुकोपरोधविनयम् ।) आर्याः पश्यत । एभिनीतोऽस्मि । (इति त्वरितं परिकामति ।) अरुन्धतीजनको -महत्कौतुकं वसस्य । कौसल्या-अरण्णगन्भरूवालावेहिं तुझे तोसिदा अझे अ । भअ- वदि, जाणामि तं पेक्खन्ती वश्चिदा विअ । ता इदो अण्णदो भविल पेक्खम्ह दाव पलायन्तं दीहाउम् । अरुन्धती-अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते । कचकी-(प्रविश्य ।) भगवान्वाल्मीकिराह ज्ञातव्यमेतदवसरे भव- द्विरिति । १. अरण्यगर्भरूपालापैयं तोषिता वयं च । भगवति, जानामि तं प्रेक्ष्यन्ती वश्चितेव । तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत्सलायन्तं दीर्घायुषम् । ण्ड़े च । कीदृशः किंलक्षणः ॥ पश्चादित्यादि । सः अश्व इत्युच्यमानः विपुलं पुच्छं पश्चाद्वहति । 'वनमहिषः कोऽयमुभमतःपुच्छ' इत्यारण्यवासनानुरूपेण व्यावृत्त्यर्थ प. श्वात्पदम् । अन्यथा पुच्छस्य पश्चाद्वहनाव्यमिचारात् । विपुलमित्यनेन खरव्यावृत्तिः। तस्य हि पुच्छं गोवद्रकृतं भवति । एवं च वक्ष्यमाणविशेषणानां तत्साधारणत्वेऽपि न दोषः । धूनोति चालयति । दीर्घप्रीवो भवति आयतकण्ठो भवति । तस्य खुराश्च. स्वार एव नाधिका इत्यर्थः । शष्पाणि बालतृणानि अत्ति खादति। शकृत्पिण्डकान् पुरीषपिण्डकानाममात्रांन रसालशलाटुपरिमितान प्रकिरति विक्षिपति । स पुनरं व. जति गच्छति ॥ २६ ॥ कौतुकं हर्षः, उपरोधः बलास्क्रियमाणत्वम् ॥ अरण्यगर्भाणां भरण्य चरपिशूनां रूपैरालापैश्च तोषिता यूयम् । अहं तं पश्यन्ती वञ्चतेति जानामि । रामभद्रसंवादेन प्रलोमिताहमिति भावः । कचुकी । गृष्टिरित्यर्थः । अवसरे प्राप्त- काले। एतद्वाल्मीकिवाक्यमतिगम्भीर गूढाशयं किमपि अपूर्वम् ॥ वृद्धानामरुन्ध.

उत्तररामचरिते। जनकः-अतिगम्भीरमेतकिमपि । भगवत्यरुन्धति, सखि कौसल्ये, आर्य गृष्टे, खयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः । (इति निष्कान्तो वृद्धवर्गः ।) (प्रविश्य बटवः।) पश्यतु कुमारस्तावदाश्चर्यम् । लव:-दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः । बटव:-कथं ज्ञायते । लवः-ननु मूर्खाः, पठितमेव हि युष्माभिरपि तत्काण्डम् । किं न पश्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः। तत्प्रायमेवान्यदपि दृश्यते । यदि च विप्रत्ययस्तत्पृच्छथ । बटव:-भो भोः, किंप्रयोजनोऽयमश्वः परिवृतः पर्यटति । लव:-(सस्पृहमात्मगतम् ।) अश्वमेघ इति नाम विश्वजयिनां क्ष- त्रियाणामूर्जखलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः । (नेपथ्ये ।) योऽयमश्वः पताकेयमथवा वीरघोषणा। सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः ॥ २७ ॥ लव:-(सगर्वमिति ।) अहो संदीपनान्यक्षराणि । तीप्रभृतीनां वर्गः समूहः ॥ दृष्ट चक्षुर्विषयीकृतम् । नूनमाश्वमेधिकोऽयमश्व इत्यवग. तम् अनुमितम् । अश्वमेधाय प्रभवत्याश्वमेधिकः ॥ तत्काण्डमश्वमेधप्रतिपादकश्रुति- भागः । बालकाण्ड वा तत्रापि ह्यश्वमेधः प्रसक्तः। 'काण्डोऽस्त्री'त्युक्तः क्लीबत्वम् । शतं कवचिनः शतं निषङ्गिणः सरचिवन्तः। शतमित्यर्थः। शतं दण्डिनः शतं रक्षितार इत्ये. तन्न पश्यथ किमित्यर्थः । तत्प्रायमेवान्यदपि कवचिप्रभृतिसुसदृशं चान्यदपि । अनीक मित्यर्थः । विप्रत्ययो यदि संशयश्चेत् ॥ किंप्रयोजनः किंफलकः । परिवृतः । रक्षितृभि- रिति शेषः । पर्यटति परिवृतः संचरति परिगतो गच्छति ॥ अनागते वस्तुनीच्छा स्पृहा। सर्वक्षत्रपरिभावी सकलराजकुलपरिभवजनकः। उत्कर्षनिकष उपादेयवैलक्ष- म्यज्ञापकदृषद्विशेषः । ऊर्जखलः बलिष्ठः। अविचाल्यनिकष इत्यर्थः ॥ योऽयमिति । योऽयमाश्वमेधिकोऽश्वः । इयम्। अश्व इत्यर्थः । विधेयप्राधान्यात्स्त्रीत्वं पताकात्वं विधे. यम् । सप्तावयवेषु लोकेषु एकवीरस्य एकेषु प्रधानेषु वीरयति पराक्रमत इत्येकवीरः तस्य । सप्तलोकेत्यत्र मध्यमपदलोपवत्समासःपात्रादित्वं वा वीरैक इत्यापत्तिवारणाय एकेषु वीरयतीति विग्रहोऽजीकृतः। दशकण्ठकुलस्य रावणवंशस्य द्विद शासिता। तस्य राघवस्य पताका विजयध्वजोऽथवा पूर्वोक्तातिरेकेण वीरघोषणा वीर इति जगदा- कर्णनानुकूलव्यापारः ॥ २७ ॥ गर्वः परोत्कर्षांनादरः । संदीपनानि क्रोधजनकानि ।

चतुर्थोऽक। १२५ । वटव:-किमुच्यते । प्राज्ञः खलु कुमारः। लव:-भो भोः, तत्किमक्षत्रिया पृथिवी यदेवमुद्धोष्यते । (नेपथ्ये।) रे रे, महाराजं प्रति कुतः क्षत्रियः । लव:-धिग्जाल्मान् । यदि नो सन्ति सन्त्येव केयमद्य विभीषिका । किमुक्तैरेभिरधुना तां पताकां हरामि वः ॥ २८ ॥ बटवः, परिवृत्य लोष्ठेरभिन्नन्त उपनयतैनमश्वम् । एष रोहितानां मध्येचरो भवतु। (प्रविश्य सक्रोधः ।) पुरुषः-धिक्चपल, किमुक्तवानसि । तीक्ष्णतरा ह्यायुधश्रेणयः शि- शोरपि दृप्तां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः सोऽप्यपूर्वारण्य- दर्शनाक्षिप्तहृदयो न यावदायाति तावत्वरितमनेन तरुगहनेनापसर्पत । बटव:-कुमार, कृतं कृतमश्वेन । तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः । दूरे चाश्रमपदम् । इतस्तदेहि । हरिणप्लुतैः पलायामहे । 'मनःप्रज्वलनं क्रोधः' इति युक्तम् ॥ एवं पूर्वोक्तरीत्या उद्घोष्यत इति यावत्तत्कि- मक्षत्रिया पृथिवीत्यन्वयः ॥ महाराज प्रति तदौन्मुख्येन कुतः कस्माद्धेतोः क वा ॥ धिग्जाल्मानसमीक्ष्यकारिणः । भवद्विषयका निन्देत्यर्थः । अक्षत्रिया इत्यनुषज्यते । क्षत्रिया न सन्तीति भवद्भिरुच्यते यदि सन्त्येवेत्यवगन्तव्यम् । अद्य क्षत्रियसत्ताधि. करणे अस्मिन्दिवसे इयं विभीषिका भयोत्पादन का। कीदृशीत्यर्थः । एभिरुक्कैरधुना किम्। न किमपीत्यर्थः । तां वः पताका हराम्यन्यत्र प्रापयामि ॥ २८ ॥ अभिनन्तस्तर्ज- यन्तः।रोहितानां मृगविशेषाणाम्॥ आयुधश्रेणयः शस्त्रपतयस्तीक्ष्णतरा हि । बत्तोऽपि क्रूरा इत्यर्थः । दृप्तां दर्पयुक्तां वाचं न सहन्ते । शिक्षणाभाववन्तो न भवन्तीत्यर्थः । सोऽपि चन्द्रकेतुरिति योजना । दुर्दान्तोऽमर्षशीलः । अपूर्वारण्यदर्शनेन अननुभूतवि. पिनावलोकनेनाक्षिप्तहृदयो व्यासक्तमनाः । तरूणां गहनेन दुर्गमसंनिवेशेनापसर्पत पलायध्वम् ॥ कृतमश्वेनेति । अश्वेन साध्यं किमपि नास्तीत्यर्थः । गहीयां द्विरुक्तिः । अज्ञानादेव वयमत्र प्रवृत्ता इति भावः । विस्फारितशरासनाः घोषवद्धनुषः । तर्ज- यन्ति भयमुत्पादयन्ति । आश्रमपदं चाश्रमस्थानं च दूरे । विप्रकर्ष इत्यर्थः । हरि- णानां यानि प्लुतानि अभूस्पर्शगमनानि । तत्सदृशगमनैरित्यर्थः । पलायामहे परागता भवामः। 'अय गतौ' तस्य परेत्युपसर्गपूर्वकत्वम् 'उपसर्गस्यायतौ' इति लखम् ॥ विस्फु- स ।

१२६ उत्तररामचरिते लव:-किं नाम विस्फुरन्ति शस्त्राणि । (इति धनुरारोपयन् ।) ज्याजिया वलयितोत्कटकोटिदंष्ट्र- मुद्भरिघोरघनघर्षरघोषमेतत् । ग्रासप्रसक्तहसदन्तकवक्त्रयन- जृम्भाविडम्बि विकटोदरमस्तु चापम् ॥ २९ ॥ (इति यथोचितं परिक्रम्य निष्कान्ताः सर्वे ।) चतुर्थोऽङ्कः। रन्ति घोषयुक्तानि । धनुरारोपयन् । ज्यामिति शेषः । ज्याजियेत्यादि । ज्या मौर्वी सैव जिह्वा रसना तया वलयिता वेष्टिता। उत्कटकोटिरेवोत्तुङ्गाप्रभाग एव दंष्ट्रा यस्य तथोकम् । उद्भूरयोऽसंख्याता घोरा भयजनकाः धनाः सान्द्रा घर्घरघोषा यस्य तथोक्तम् । एतचापम् । क्लीवत्वं विचारयितव्यम् , सामान्ये नपुंसकत्वं वा । अथवा 'भयामृतसकृद्ववचाराभरणलाञ्छन' मिति नपुंसकशेषो के क्लीवलम् । प्रासे कवलने प्रसकं उद्युक्तं हसत् हासयुक्तमन्तकवक्रयग्नं व्याघ्रादिमारणयत्रसदृशकृ. तान्तस्य कुहरे तस्य जृम्भाविडम्बि जम्भानुकारि विकटं विषमं उदरं मध्यं यस्य तथाविधमस्तु । यस्य चापस्य तथाभवनं प्राप्तकालमित्यर्थः । जिह्वेव ज्या।ज्याजिह्वेत्यु- पमालंकारो व्याख्येयः । कोटिदंष्ट्रमित्यत्र तु कोव्यात्मकं यइंष्ट्रासहशमिति व्याख्येयम्। विशेष्य विशेषणभावस्य च कामचारत्वाम दोष इत्यप्याहुः ॥ २९ ॥ वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य । उत्तररामचरित्रव्याख्यायामवसितस्तुरीयोऽः ।। इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल. स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां चतुर्थोऽङ्कः।

उत्तररामचरितम्। . पञ्चमोशः। (नेपथ्ये।) भो भोः सैनिकाः, जातमवलम्बनमस्माकम् । नन्वेष त्वरितसुमन्ब्रद्यमान- प्रोद्वगत्पजवितवाजिना रथेन । उत्खातप्रचलितकोविदारकेतुः श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥१॥ (ततः प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः।) चन्द्रकेतुः-आर्य सुमन्त्र, पश्य पश्य । किरति कलितकिंचित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जकोटिना कार्मुकेन । समरशिरसि चश्चत्पश्चचूडश्चमूना• मुपरि शरतुषारं कोऽप्ययं वीरपोतः ।। २ ।। । साश्चर्यम् । मुनिजनशिशुरेकः सर्वतः संप्रकोपा- अव इव रघुवंशस्याप्रसिद्धिप्ररोहः । नेपथ्ये इत्यादि।भो भोः सैनिकाः सेनासमवायिनः, जातमवलम्बनम् । आश्रयो लब्ध इत्यर्थः । नन्विति । सुमन्त्रनुद्यमानाः सुमन्त्रेण प्रेर्यमाणाः प्रोद्वल्गाः प्रकर्षण चश्चलाः प्रजविताःप्रकृष्टवेगयुकाः वाजिनोऽश्वा यस्मिंस्तथोक्तेन । उत्खातेषु निम्नोन- तप्रदेशेषु प्रचलितकोविदारयुक्तध्वजवान् । प्रधनं युद्धं श्रुत्वा उपैति । ननु किल चूलिका । 'नेपथ्यान्तः स्थितैः पात्रैधूलिकाङ्कस्य सूचनम्' इत्युक्तेः ॥ १॥ किर. तीति । कलितेनाहृतेन किंचित्कोपेन ईषन्मन्युना रज्यन्ती रतीभवन्ती मुखश्रीरा- ननशोभा यस्य तथोक्तः । अत्र प्रत्यर्थिनामकिंचित्करवात्किचित्कोपेत्युक्तम् । चच. त्पश्चचूडश्चलितशिखण्डकः कोऽप्यपूर्वोऽयं वीरपोतः बीरशिशुः अविरतं विश्रान्तिर- हितं यथा तथा गुणे ज्यायां गुजन्यौ अव्यक्तशब्दवत्यौ कोटी अग्रे यस्य तथोकेन कार्मुकेन । करणत्वात्तृतीया । समरशिरसि युद्धरले चमूनामुपरि शरतुषार बाणवर्ष किरति । तुषारो हि अतिसूक्ष्मसलिलवृष्टिः । अत्र रज्यन्मुखश्रीः कार्मुकेण चञ्चत्पश्च- चूड इत्येतैः शरतुषारमित्यनेन च तडित्त्वतः शक्रचापयुक्तस्य चलिताप्रस्य मेघशिशो. रस्य च साम्यं व्यज्यते ॥ २ ॥ मुनिजनेत्यादि । एकः असहायः संप्रकोपात्प्रकृ- टमन्युना । लवकोपस्य तदृष्ट्याल्पत्वेऽपि चन्द्रकेतुबुध्या महत्त्वादोषः । सर्वतः समन्ता- दलितानां करिकपोलप्रन्थीना संधीना टंकारेण दलनध्वनिना घोरं भयजनकं ज्वलितं . । क .

१२८ उत्तररामचरिते -- .. दलितकरिकपोलग्रन्थिटंकारपोर- ज्वलितशरसहस्रः कौतुकं मे करोति ॥ ३ ॥ सुमत्रः-आयुष्मन् , अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥ चन्द्रकेतुः-मम त्वेकमुद्दिश्य भूयसारम्भ इति हृदयमपत्रपते अयं हि शिशुरेकको मदभरेण भूरिस्फुर- करालकरकन्दलीजटिलशस्त्रजालैबेलैः । कणकनककिङ्किणीझणझणायितस्यन्दनै- रमन्दमददुर्दिनद्विरदडामैररावृतः ॥ ५ ॥ सुमन्त्रः-वत्स, एभिः समस्तैरपि नालमस्य, किं पुनर्व्यस्तैः । चन्द्रकेतुः-आर्य, त्वर्यतां त्वर्यताम् । अनेन हि महानाश्रितजन. प्रमारोऽस्माकमारब्धः । तथा हि । आगर्जगिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वर- ज्यानि?षममन्ददुन्दुभिरवैराधमातमुज्जम्भयन् । शराणां सहस्रं यस्य तथोक्तम् । आनन्त्यवाची सहस्रशब्दः। नवः प्रत्यप्रः रघुवंशस्य अ- प्रसिद्धिप्ररोह इव स्थितः अप्रख्यात्यङ्कुरवस्थितः मुनिजनशिशुः । मुनिजनाः शमप्रधा. नास्तेष्वपि बाल इत्यर्थः। मे कौतुकं हर्ष करोत्युत्पादयति ॥ ३ ॥ अतिशयि. तेति । तथैव तुल्यरूपम् । यथा रामेण तुल्यप्रभावस्तथैव तुल्याकार इत्यर्थः । तथाविधं कुशिकसुतमखद्विषां सुबाहुप्रभृतीनाम् । अत्र स्मृतिमदलंकारः ॥ ४ ॥ अपनपते लज्जते । अयं हीति । अयमेककः शिशुः एकाकी बालः । मदभरेण वीरपानेन समुपजनितमदातिशयेन भूरि अधिकं स्फुरन्ति चलितानि करालानि क्रूराणि करक- न्दलीषु करशाखाग्रेषु जटिलानि निबिडानि शस्त्रजालानि येषां तथोकैः । क्वणन्तीभिः शब्दवतीभिः कनककिङ्किणीभिः हेममयक्षुद्रघण्टिकामिः झणझणायितैः शब्दविशेषयु- तरमन्दमदैरतिशयितदानवारिभिर्दुर्दिनैरन्धकारितैरिदैर्गजैः कारणैः डामरैः भयंकर. बेलैः सैन्यैरावृतः॥५॥ समस्तैः सहितैय॑स्तैः पृथविस्थतैर्नालम् । न पर्याप्तिरित्यर्थः।आ. श्रितजनानामुपजीविजनानां प्रमारःमारणम् । आगजेदिति । वीरः अयं लवः अम- न्ददुन्दुभिरवैरतिशयितमेरीशब्दैराध्मातं द्विगुणीकृतम् । आगर्जतां भयवशादाढगर्जन कुर्वतां गिरिकुमकुजराणां पर्वतगृहावर्तिगजानां घटायै पङ्खये निस्तीर्णो दत्तः कर्णज्वरो पञ्चमोऽङ्कः १२९ ब mint... वेल्लभैरवरुण्डखण्डनिकरैवीरो विधत्ते भुवं तृष्यत्कासकरालवक्रविघसव्याकीर्यमाणामिव ॥ ६ ॥ सुमत्र:-(खगतम् ।) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसं- प्रहारमनुजानीमः । (विचिन्य ।) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् । प्रत्युपस्थिते रणे का गतिः। चन्द्रकेतुः-(सविस्मयलज्जासंभ्रमम् ।) हन्त धिक् । अपावृत्तान्येव सर्वतः सैन्यानि मम । सुमत्र:-(स्थवेगं निरूप्य।)आयुष्मन्, एष ते वाग्विषयीभूतः स वीरः। चन्द्रकेतुः-(विस्मृतिमभिनीय।) आर्य, किंनामधेयमाख्यातमाहायकैः । सुमत्रः-लव इति । चन्द्रकेतु:- भो भो लव महाबाहो किमेभिस्तव सैनिकैः । एषोऽहमेहि मामेव तेजस्तेजसि शाम्यतु ॥ ७ ॥ सुमत्र:-कुमार, पश्य पश्य । विनिवर्नित एष वीरपोतः पृतनानिर्मथनात्त्वयोपहूतः । स्तनयिनुरवादिभावलीना- मवमर्दादिव दृप्तसिंहशावः ॥ ८॥ (ततः प्रविशति धीरोद्धतपराक्रमो लवः ।) लव:-साधु राजपुत्र, साधु । सत्यमैक्ष्वाकः खल्वसि । तदहं परागत एवास्मि । येन तथोकश्चासौ ज्यानिर्घोषस्तम् । उज्जृम्भयनुल्बणयन्सन वेल्लद्भिर्लठद्भिभैरवै- भयंकरैः । रुण्डखण्डानां शिरःकपालानां निकरैः समूहैर्भुवम् । तृष्यतः कालस्य पि. पासितस्य कालस्य मृत्योः करालवक्रस्य विघसैर्भुक्तविष्टः । 'विघसो यज्ञशेषभोजन. शेषयोः' इत्यमरः । व्याकीर्यमाणामिव संस्त्रीर्यमाणामिव विधत्ते करोति। तृष्यदित्यनेन पिपासयान्यपरेण मृत्युना अर्धजग्धानि मुक्तानीति व्यज्यते ॥ ६॥ द्वन्द्वसंप्रहार द्वन्द्वयुद्धमनुजानीमः अनुज्ञां करोमि । इक्ष्वाकुकुलवृद्धाः। खल्वित्यनेन विमृश्यकारिख- मवश्य मिति व्यज्यते । अत्र प्रकाशानुक्तिश्चिन्या ॥ अपावृत्तानि पराङ्मुखीभूतानि ।। आह्वायकैः आह्वानं कुर्वद्भिः॥भो भो इति । तेजः शौर्य तेजसि शाम्यतु निर्वाणं भवतु ॥ ७॥ विनिवर्तित इति । पृतनानिर्मथनात्सेनाप्रहारात् । अपादाने प. श्चमी । उपहूतः आहूतः । स्तनयिनुरवात् मेघध्वनेः सिंहशावः सिंहशिशुरिव विनि- वर्तित इत्येतत्पश्येत्यर्थः ॥८॥ ततः प्रविशतीति । धीरोद्धतो युद्धोद्भटः १३० उत्तररामचरिते में। (नेपथ्ये महान्कलकलः।) लवा---(सावष्ठम्भं परावृत्य।) कथमिदानी भमा अपि पुनः प्रतिनि. वृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः । घिग्जास्मान् । अयं शैलाघातक्षुभितवडवावक्त्रहुतभु- क्प्रचण्डक्रोधार्चिनिचयकवलत्वं व्रजतु समन्तादुत्सर्पद्धनतुमुलहेलाकलकलः पयोराशेरोघः प्रलयपवनास्फालित इव ॥ ९॥ (सवेगं परिकामति ।) चन्द्रकेतु:-भो भोः कुमार, अत्यद्भुतादपि गुणातिशयात्मियो मे तस्मात्सखा त्वमसि यन्मम तत्तवैव । तरिक निजे परिजने कदनं करोषि नन्वेष दर्पनिकषस्तव चन्द्रकेतुः ॥ १०॥ लव:-(सहर्षसंभ्रमं परावृत्य ।) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तस्किमेभिरेनमेव तावत्संभा- वयामि । (पुननेपथ्ये कलकलः।) लव:-(सक्रोधनिर्वेदम् ।)माः, कदर्थीकृतोऽहमेमिवीरसंवादविनका- रिभिः पापैः । (इति तदभिमुखं परिक्रामिति ।) चन्द्रकेतुः-आर्य, दृश्यतां द्रष्टव्यमेतत् । पराक्रमो यस्येत्यर्थः । धीरोदात्तादयश्चत्वारो नायकाः प्रसिद्धाः, तेषु प्रायेण भटानामेन धीरोद्धतलमायाति । सर्वे भमा अपि पराजिता अपि पर्यवष्टम्भयन्ति समीपस्थिता भवन्ति । अवाचालम्बनाविदुर्ययोः' इति पलम् । अयं शैलेत्यादि । अयमोघः यु. माकं समूहः शैलाघातेन मन्दरसंघटनेन क्षुमितो विपर्यस्तः यः वडवावकहुतभुग्वाड- वमुखाग्निस्तद्वत्प्रचण्डस्य तीक्ष्णस्य क्रोधार्चिनिचयस्य कोपानिज्वालासमूहस्य कवलत्वं भक्ष्यत्वं ब्रजतु । क इवेसत्राह-पयोराशेरोधःप्रवाह इवेत्यर्थः ॥९॥ अत्यदुता. दिति । मम त्वं सखा तस्मान्मदीयं यद्वस्तु तत्तवैव त्वदीयमेव । तमिजे परिजने किमर्थमेवं कदनं युद्धं करोषि । तव दर्पपरीक्षास्थानमेष चन्द्रकेतुरित्यर्थः ॥ १०॥ प्रसादवतीकर्कशा च कठिना.च आपाततो हृद्या पर्यालोचने तु कठिनेत्यर्थः। वीरवच- नप्रयुक्तिः वीरवादप्रयोगः । संभावयामि पुरस्करोमि ॥ कद(कृतः अनुचितव्यापा- .

. पञ्चमोऽ। दर्पण कौतुकवता मयि बद्धलक्ष्यः पश्चाङ्कलैरनुसृतोऽयमुदीर्णधन्वा । द्वेषा समुद्धतमरुत्तरलस्य धते मेघस्य माधवतचापधरस्य लक्ष्मीम् ॥ ११ ।।. सुमत्रः-कुमार एवैनं द्रष्टुमपि जानाति । वयं तु केवलं पर- वन्तो विस्मयेन । चन्द्रकेतुर-भो भो राजानः, संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता- बकस्मिन्कवचनिचितैर्नद्धचोचरीये । कालज्येष्ठेरपरवयसि ख्यातिकामैर्भवद्भि- योऽयं बद्धो युधि समभरस्तेन घिग्वो घिगस्मान् ॥ १२ ॥ लव:-(सोन्माथम्)आः, कथमनुकम्पते नाम । (संभ्रमं विचिन्त्य ।) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि । (इति ध्यानं नाव्यति।) , सुमत्रः-तत्किमकस्मादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति । लवा-पश्याम्येनमधुना प्रगल्भम् । सुमत्रा-(संभ्रमम् ।) वत्स, मन्ये कुमारकेणानेन जृम्भकास्त्रमा- मन्त्रितमिति । रवान्कृतः। वीरसंवादस्य चन्द्रकेतोरुक्तिप्रत्युक्तिकायाः युद्धस्य वा ॥दणेति । कौतु- कवता सामर्थ्यदर्शनेच्छायुक्तेन दर्पण बलेन मयि बद्धलक्ष्यः दत्तचक्षुमयि व्यवसितल- 'क्ष्यतवान् । उदीर्णधन्वा उत्क्षिप्तचापः। द्वेधा मयि बले चाभिमुखोऽयं लवः द्वेधा समु. बतस्य चलितस्य मघवरसंबन्धिचापधरस्य वर्षाकालमेघस्य लक्ष्मी श्रियं धत्ते ॥११॥ संख्येति । संख्यातीतैरसंख्येयैः । द्विरदतुरगस्यन्दनेषु तिष्ठन्तीति द्विरदतुरगस्यन्द. नस्थास्तथाविधैः कवचनिचितैर्वारबाणपिहितैः । अपरवयसि वार्धके ख्यातिकामैः विजयप्रशस्तिकामनावद्भिः कालज्येष्ठेर्वयोधिकैः । न तु शौर्येणेत्यर्थः । भवद्भिरेकस्मि. सहाये पदाती पादचारिणि नद्धचर्मोत्तरीयेऽस्मिन् शिशौ विषये योऽयं समभरः ए. कौधभारः बद्धः तेन वः धिक् । युष्माकमव्यवधानेन निन्दा, अस्माकं तु युध्मद्वारा ॥ १२ ॥ अनुकम्पते मम दौर्बल्यमाशय महुःखं परिजिहीर्षति । कालहरणप्रतिषे. धाय कालयापननिवृत्तये संस्तम्भयामि निवृत्तव्यापाराणि करोमि । प्रशाम्यन्ति विर. म्यन्ति ॥ प्रगल्भ प्रौढम् ॥ आमश्रितमाहूतम् ॥ का संदेहः आमन्त्रित इत्यत्र संशयः क इत्यर्थः । मन्ये इत्यस्य संभावनावाचिवात्तस्याश्चोत्कटैक्तरकोटिसंशयरूपत्वात् । -- इचललामचरिते चन्द्रकेतु:-अत्र कः संदेहः । व्यतिकर इव भीमस्तामसो वैद्युतम प्रणिहितमपि चक्षुर्घस्तमुक्तं हिनस्ति । अथ लिखितमिवैतत्सैन्यमस्पन्दमाते नियतमजितवीर्य जृम्भते जुम्भकास्त्रम् ॥ १३ ॥ आश्चर्यमाश्चर्यम् । पातालोदरकुञ्जपुञ्जिततमश्यामैनेभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्योतिर्वलहीप्तिभिः । कल्पाक्षेपकठोरभैरवमरुभ्यस्तैरभिस्तीर्यते लीनाम्भोदतटित्कडारकुहरैविध्याद्रिकूटैरिव ॥ १४ ॥ सुमन्त्रा-कुतः पुनरस्य जम्भकाणामागमः स्यात् । चन्द्रकेतु:-भगवतः प्राचेतसादिति मन्यामहे । सुमत्रः-वत्स, नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः । भृशाश्वतनया ह्येते भृशाश्वात्कौशिकं गताः। अथ तत्संप्रदायेन रामभद्रे स्थिता इति ॥ १५ ॥ चन्द्रकेतुः-अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः खयं सर्व मन्त्रदृशः पश्यन्ति । व्यतिकर इति । तमःसंबन्धी तामसः विद्युत्संबन्धी वैद्युतश्च । तथाविधो व्यति. करः संपर्कः प्रणिहितमपि । प्रयत्नेन निक्षिप्तमपि प्रस्तं च तन्मुक्तं च। खजकुब्जादिव. समासः । तमसा प्रस्तं ज्योतिषा मुक्तम् । तमस्यसत्कल्पवादस्तखम् , ज्योतिषि च कार्यकरलात्ततो मुक्कलम् । चक्षुर्हिनस्ति बाधते । नियतं निश्चितम् ॥ १३॥ आश्च. यमभूतपूर्वम् । पातालेति । पातालोदरमेव कुन्जः गुहा तस्मिन्पुञ्जितानि संहतभावं प्राप्तानि यानि तमांसि तद्वत् श्यामैः । उत्तप्तं स्फुरत्तेजिष्ठं च यदारकूटं त्रपुधातुविशे. पस्तस्य यत्कपिलं पिशङ्ग ज्योतिस्तद्वज्वलद्दीप्तिमिः । अतएव कल्पाक्षेपे कल्पावसाने कठोरेण दृढेन भैरवेण भीतिजनकेन मरुता व्यस्तैर्वियोजितैर्लीनाम्भोदानि तटित्कडारा- णि च कुहराणि एषां तथोक्तैः । कडारः कपिलः । विन्ध्याचलशृङ्गैरिव स्थितैः जृम्भकै. नमः अभिस्तीर्यते आच्छाद्यते ॥ १४ ॥ कुतः पुनः कस्मात्पुरुषात्पुनरस्य लवस्य ॥ मन्त्रेषु विषये एतदागमनमेवं न बन्मतरीत्या न घटते । जृम्भकास्त्रेषु विषये एतत्प्रा. चेतसादधिगम इत्येतद्विशेषत एव तु न घटते । भृशाश्वेति । भृशाश्वतनया- येते एते अस्त्रदेवताविशेषाः भृशाश्वमुनिना आदौ जनिताः । हीति प्रसिद्धौ । कौशिकं विश्वामित्रम् । अथानन्तरं तत्संपदायेन विश्वामित्रोपदेशेन ॥ १५ ॥ अप- - पञ्चमोऽक। सुमन्त्र:-वत्स, सावधानो भव । परागतस्ते प्रतिवीरः । कुमारी-(अन्योन्यं प्रति ।) अहो प्रियदर्शनः कुमारः । (सन्नेहानुरागं निवार्य।) यहच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः। निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो ममैतमिन्दष्टे हृदयमवधानं रचयति ॥ १६ ॥ सुमत्र:-भूयसां जीविनामेव धर्म एष यत्र स्वरसमयी कस्यचि. क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षुराग इति । तद- प्रतिसंख्येयनिबन्धनं प्रमाणमामनन्ति । अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया । स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ १७ ॥ M रेऽपि भवदुक्केभ्योऽन्येऽपि प्रचीयमानसत्त्वप्रकाशाः व्यामुवत्संवित्प्रकाशाः। मन्त्रदशः खयमेव संप्रदायेन विनापि ॥ सावधानोऽनन्यमनाः भव ॥ कुमारौ लवचन्द्र केतू । प्रियं सुखजनके दर्शनं यस्य तथोक्तः । स्नेहः मैत्री । अनुरागो भोग्यताज्ञानम् । यहच्छेति । यदृच्छया दैवेन संवादः समागमः यस्य तथोक्तः । यदृच्छया देवेन संवाद एकरूपं यस्य तथोक्तो वा । रामादिगुणगणैरेकरूप इति हृदयम् । तथाविधो गुणगणानामतिशयः किमु । पुराणः पुरापि भवः । जन्मान्तरेष्वन्येषु जन्मसु निबि. डबद्धः दृढारूढः परिचयो वासना किमु । विधिवशाईवेच्छया अविदितः कोऽपि निजः संबन्धः जननसंबन्धः किमु । यत एवं ततो हृदयं कर्तृ अवधानं व्यापारान्त- ररहिततां रचयति करोति । अथवा एतस्मिन्दृष्टे सति मम हृदयं कर्म गुणाविशयादिषु त्रिषु अन्यतमावधानता अवधानं अवहितं करोतीति । द्विकर्मणि च ल्युडित्यप्याहुः १६ भूयसामित्यादि । यत्र यस्यां प्रीतौ । तारामैत्री मैत्री तारा कनीनिका तत्प्रेम वा। चक्षुरागः आदराद्वीक्षणम् । 'चक्षुःप्रीतिर्भवेद्यत्र' इत्युकचक्षुराग इति च लौकिकानां , जनानामुपचारो व्यवहारवादशी कस्यचित्पुरुषस्य कचित्पुरुषे खरसमयी अङ्कररसा अकृत्रिमा वा प्रीतिरिति यत् एषः । विधेयप्राधान्यात्पुंस्वम् । भूयसां महीयसां जी- विनां प्राणभृतां धर्मःखभावः । अप्रतिसंख्येयनिवन्धनमविचारणीयमूलं तत्प्रेम प्रमाण यथार्थानुभविषयमामनन्ति असकृद्वदन्ति । अहेतुमिति । यः अहेतुर्निष्कारणकः पक्षपातः आत्मीयत्वप्रतिसंधानमूलकानुकूलझानरूपस्तस्य अहेतुकपक्षपातस्य प्रति- क्रिया निवर्तकव्यापारः नास्ति न संभवति । अहात्मकः प्रेममयः सः तन्तुः भूतानि १२ उ०रा० उत्तररामचरिते कुमारी-(अन्योन्यमुद्दिश्य ।) एतस्मिन्मसृणितराजपट्टकान्ते मोक्तव्याः कथमिव सायकाः शरीरे । यत्प्राप्तौ मम परिरम्भणाभिलाषा- - दुन्मीलत्पुलककदम्बमङ्गमास्ते ॥ १८ ॥ किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येशः। किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १५ ॥ सुमत्रा-(लवं निर्वर्ण्य सास्त्रमात्मगतम्।) हृदय, किमन्यथा परिप्लवसे। मनोरथस्य यहीजं तदैवेनादितो हृतम् । लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ॥ २० ॥ चन्द्रकेतु:-अवतराम्यार्य सुमन्त्र, स्यन्दनात् । सुमत्र:-कस्य हेतोः। चन्द्रकेतुः-एकस्तावदयं वीरपुरुषः पूजितो भवति । अपि च प्राणिनः अन्तः सीव्यति अन्तः स्यूतानि करोति ॥ १७ ॥ एतस्मिन्निति । राजपर्ट नीलरकपट्टवस्त्रं तद्वत्कान्ते कमनीये एतस्मिन् लवे चन्द्रकेतौ वा । परिरम्भणामिला- पादालिजनेच्छया। उन्मीलत्पुलककदम्बमुद्यद्रोमाञ्चनिकुरम्बम् ॥१८॥ किंचेति । किंच पूर्वोक्कादन्यत् । आक्रान्तकठोरतेजसि आक्रान्तं प्राप्तं कठोरं पूर्ण तेजः पराभिभ- वनसामर्थ्य यस्य तस्मिन्विषये शस्त्रं विना का गतिः शस्त्रसाधनकयुद्धाहते किं कर्तव्यम् । न किमपीत्यर्थः । तर्हि शरीरसौभाग्यानुरोधेन शस्त्रन्यासः क्रियतामित्यत्राह-शने- मेति । यस्य शस्त्रस्य ईदृशः महावीरः न जायेत तेन शस्त्रेणापि किम्। न किमपीत्यर्थः। तर्हि सौकुमार्यवीर्ययोः प्राबल्यदौर्बल्यविचारेण सौकुमार्यानुसारेण शस्त्रन्यासः क्रियतामि- त्यत्राह-उद्यतेऽप्यायुधे युद्धविमुखं मामयमेव किं वक्ष्यति यत एवं ततः दारुणरसः क्रौर्येकवेषः शूराणां समयः आचारः स्नेहक्रमं स्नेहव्यापारपरिपाटी बाधते निवर्त- यति ॥ १९ ॥ अन्यथा संभाव्यविषयानुसारेण परिप्लवसे चश्चलीभवसि । रामसा. दृश्यात्तदपत्यं लव इति किं शङ्कसे इति भावः । मनोरथस्येति । मनोरथस्य अभि. लष्यमाणलवनिष्धरामापत्यत्वस्य यद्बीजं सीतारूपं तदादितो हृतं गर्भिणीदशायामेव नष्टम् । 'लूनपूर्वायाम् इति पाठे पूर्व लूना छिना तथाविधायाम् । भूतपूर्वनिर्देशातू लन- शब्दस्य पूर्वनिपातः । 'पूर्वसनायाम् इति पाठे तु पूर्वस्मिन् काले बनेयर्थः । प्रस- बस्स पुष्पस्सः ॥ २०॥ वीरपुरुषः लवः पूजितवावद्भवति । द्वयोरवतरणप्रयोजनयो।

Ani ri पचमोद खस्वार्य, क्षत्रधर्मः परिपालितो भवति । न रथिनः पादचारमभियुद्ध- न्तीति शास्त्रविदः परिभाषन्ते । सुमत्रा-(खगतम् ।) खगतम् ।) आः, कष्टां दशामनुप्रपन्नोऽसि । कथं हीदमनुष्ठानं माहशः प्रतिषेधतु । कथं वाभ्यनुजानातु साहसैकरसां क्रियाम् ॥ २१ ॥ चन्द्रकेतुः-यदा तातमिश्रा अपि पितुः प्रियसखं स्वामर्थसंशयेषु पृच्छन्ति तरिकमार्यों विमृशति । सुमत्र:-आयुष्मन् , एवं यथाधर्ममभिमन्यसे । एष सांग्रामिको न्याय्य एष धर्मः सनातनः । इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥ चन्द्रकेतु:-अप्रतिरूपं वचनमार्यस्य । इतिहासं पुराणं च धर्मप्रवचनानि च । भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥ २३ ॥ सुमत्र:-(सस्नेहास्रं परिष्वज्य।) 'जातस्य ते पितुरपीन्द्रजितो निहन्तु- र्वत्सस्य वत्स कति नाम दिनान्यमूनि । . ग प्रथमं वीरपुरुषपूजा भवति । क्षत्रधर्मः खल्वपि परिपालितोऽनुष्ठितो भवति । पाद. चार पदाति रथिनो नामियुजन्तीति न युध्यन्तीति शास्त्रविदः क्षत्रधर्मप्रतिपादकार्य. शास्त्रज्ञाः परिभाषन्ते नियच्छन्ति ॥ कथं हीति । इदमनुष्ठानं राजपुत्रस्य रथादव. तरणं प्रतिषेधतु निषिद्यात् । निवर्तयेदित्यर्थः । साहसैकरसां साहसप्रकृत्येकवेशां क्रियां - अनुष्ठानमभ्यनुजानातु अनुमन्येत् ॥२१॥ तातमिश्रा अपि । मिश्रशब्दः पूज्यवाची। रामादयोऽपि अर्थसंशयेषु अनुष्ठेयाननुष्ठेयसंदेहेषु पितुः प्रियसखं दशरथप्रियसखं स्वां पृच्छन्ति जिज्ञासा बोधयन्ति ॥ यथाधर्म क्षत्रधर्मानतिक्रमेण । एष इति । संग्रामे भवः सांप्रामिकः एषः वीरपुरुषपूजारूपः न्याय्यः उचितः । एष धर्मः क्षत्र. धर्मपरिपालनरूपः सनातनश्चिरंतनः । इयं पूर्वोकद्वयी वीरचारित्रपद्धतिः वीरव्या- पारपरिपाटी ॥२२॥ अप्रतिरूपं निस्तुलम् । इतिहासमिति । इतिहास रामायण. भारतादिकम् । पुराणं 'सर्गश्च प्रतिसर्गश्च' इत्याद्युक्तलक्षणकम् । धर्माः नित्यनैमित्ति. कादयः प्रोच्यन्ते प्रकाश्यन्ते एमिरित्यर्थे 'करणाधिकरणयोश्च' इति ल्युट् । मन्वादि- स्मृतयस्ता इत्यर्थः । कुलस्थिति कुलमर्यादाम् ॥२३॥ जातस्येति । वत्स चन्द्रकेतो, पितुर्जातस्य बस्पितुरस्मच्छिशोरिन्द्रजितो निहन्तुर्वत्सस्य लक्ष्मणस्य अमूनि दिनानि । एतावान् जीवितकाल इति यावत् । कति नाम कियन्ति नाम । यद्वा वत्सस्य जातस्या- उत्तररामचरिते तस्याप्यपत्यमनुतिष्ठति वीरधर्म दिल्यागतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २४ ॥ चन्द्रकेतु:-(सकष्टम् ।) अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः । इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥ २५ ॥ सुमत्र:-हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि । लव:-हन्त, मिश्रीकृतक्रमो रसो वर्तते । यथेन्दावानन्दं ब्रजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम् । रणत्कारक्रूरकणितगुणगुअनुरुधनु- धृतप्रेमा बाहुर्विकचविकरालत्रणमुखः ॥ २६ ॥ चन्द्रकेतु:-(अवतरणं निरूपयन् ।) आर्य, अयमसावैश्वाकश्चन्द्रके- तुरभिवादयते । २१, सुमत्र:-अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । wel/t'น अपि च । मूनि दिनानि कति नामेत्यन्वयः । वत्सस्य लक्ष्मणस्य यज्जातं जन्म तत्संबन्धिदिनानि। जन्मप्रभृतिदिनानीत्यर्थः। तस्याप्यपत्यं कर्तृ वीरधर्ममनुतिष्ठति अनुष्ठितं करोति । प्रति- छामागतमास्पदं प्राप्तं माहात्म्यं प्राप्तम् । 'प्रतिष्ठा स्थितिमाहात्म्ये' इति यादवः । दिष्टयेत्यानन्दे ॥ २४ ॥ अप्रतिष्ठे इति । कुलज्येष्ठे रामे अप्रतिष्ठे अनास्पदे । जन- पत्ये सतीति यावत् । त्रयः पितरः लक्ष्मणभरतशत्रुमाः ॥२५॥ हृदयमर्मणां हृदय- मध्यप्रदेशानां दारणानि छेदकानि । दुःखजनकानीत्यर्थः । यथेति । कुमुदिनी कुमु- द्वती सरस्योषधिर्वा इन्दौ चन्द्रे समुपोढे सति समुपागते सति यथानन्दं संतोष व्रजति तथा मम दृष्टिरस्मिन् चन्केतौ समुपोढे सति आनन्दं ब्रजति । एवकारः साह श्यद्योतनार्थः । रणत्कारेण रणदिति शब्देन क्रूर भयंकरं कणितं घण्टादिरणितं येन तथोक्तेन गुणेन ज्यया गुजदव्यक्त गुरु महद्यद्धनुस्तस्मिन्धृतः प्रेमा कृता प्रीतिर्येन तथोक्तः । विकचानि विस्तृतानि, विकरालानि अतिदृढानि व्रणानि मुखे अने यस्य तथोक्तः । अयं मम बाहुः पुनः बाहुस्तु । दृष्टिवैषम्यार्थः पुनःशब्दः । कलहकामः युद्धाकाडी । भवतीत्यर्थः। अतो रतिक्रोधस्थायिकयोः शृङ्गारवीरयोर्मेलनानिमश्रितयोः रसयोः क्रमः परिपाटिर्वर्तत इति पूर्वेण संबन्धः। 'मुभावं मनसा ययुः' इति न्यायेन कुमुदिनीदृष्टान्तात् शाररसोत्पत्तिरिति द्रष्टव्यम् ॥ २६ ॥ अहितस्यैवानमिमतस्यैव पराभवायावमानायादिवराहः प्रलयार्णवममभूमेरुद्धर्ता वराहरूपेणावतीर्णो भगवान् ।

पचमोऽ देवस्त्वां सविता विनोतु समरे गोत्रस्य यस्ते पति. स्त्वां मैत्रीवरुणोऽभिनन्दतु गुरुयस्ते गुरूणामपि । ऐन्द्रावैष्णवमामिमारुतमथो सौपर्णमोजस्तु ते देयादेव च रामलक्ष्मणधनुर्व्याघोषमत्रो जयम् ॥ २७ ॥ लव:-अतीव नाम शोभसे रथस्थ एव । कृतं कृतमत्यादरेण । चन्द्रकेतुः-तर्हि महाभागोऽप्यन्यं रथमलंकरोतु । लव:-आर्य, प्रत्यारोपय रथोपरि राजपुत्रम् । सुमत्र:-त्वमप्यनुरुध्यख वत्सस्य चन्द्रकेतोर्वचनम् । लव:-को विचारः खेषूपकरणेषु । किं त्वरण्यसदो वयमनभ्य- स्तरथचर्याः। सुमत्रा-जानासि वत्स, दर्पसौजन्ययोर्यदाचरितम् । यदि पुन. स्वामीदृशमैवाको राजा रामभद्रः पश्येत्तदायमस्य खेहेन हृदयमभि- प्यन्दयेत् । लवः-अन्यच्च चन्द्रकेतो, सुजनः स राजर्षिः श्रूयते । (सलज्जमिव ।) यदि च बयमप्येवंप्रायाः क्रतुद्विषतामरौ क इव न गुणैस्तं राजानं जनो बहु मन्यते । N 19.net कल्पतां तस्मिन् समर्थो भवतु । देव इति । देवः सविता सूर्यः । धिनोतु प्रीणयतु । मैत्रावरुणः वसिष्ठस्त्वामभिनन्दतु। इन्द्रस्य विष्णोश्च इदं ऐन्दावैष्णवम् । 'देवताद्वन्द्वे च' इति आनङ् । अग्नेर्मारुतस्य चेदमाग्निमारुतम् । 'इदृद्धौ' इति इत् । सौपर्ण गरुड- दैवत्यमोजः पराक्रमः । ज्याघोष एव मन्त्रः । अयं पराभिभवं देयाद्दद्यात् । एतेर्लिङि' इत्येवम् ॥ २७ ॥ शोभसे हृयो भवसि । अत्यादरेण कृतम् । अवरोहणं न कार्यमिति भावः ॥ तर्हि मदवरोहणे अनिष्टे ॥ प्रत्यारोपय आरोपय । राजपुत्रं चन्द्रकेतुम् ॥ लमप्यनुरुध्यख यथा चन्द्रकेतुस्वद्वचनं रथादनवरोहणेनानुरोधितवान् तथा लमपि तद्वचनं रथारोहणेनानुसर ॥ खेषु खीयेषूपकरणेषु रथादिषु । अरण्ये सीदन्ति वस. न्तीत्यरण्यसदः। 'सत्सूद्विष-' इत्यादिना क्विम् । अनभ्यस्तरथचर्याः अपरिचितरथग- तयः॥ दर्पसौजन्ययोः यदाचरितं पराक्रमसख्यमत्योरगुणोऽयमाचारस्तं जानासी- त्यर्थः । अयं लवः अस्य रामभद्रस्य हृदयमभिष्यन्दयेत् द्रावयेत् ॥ यदि चेति। वयमहं ऋतुद्विषतां यज्ञादिधातुकानामरौ शासितरि रामभद्रविषये एवंप्राया यदि प्रेमपात्रभूता. श्वेत्क इव को वातं राजानं रजकं तं रामभद्रं गुणैः शीलादिभिः हेतुभिः न बहु मन्यते ।

उत्तररामचरिते तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणा विकृतिमखिलक्षवाक्षेपप्रचण्डतयाकरोत् ॥ २८॥ चन्द्रकेतु:-किनु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः । लवा-अस्त्विहामः माभूद्वा । अन्यदेतत्पृच्छामि । दान्तं हि राजानं राघवमनुशुश्रुमः । स किल नात्मना दृप्यति नाप्यस्य प्रजा वा दृप्ता जायन्ते । तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति । ऋषयो राक्षसीमाहुर्वाचमुन्मत्तहप्तयोः। ANATA सा योनिः सर्ववैराणां सा हि लोकस्य निष्कृतिः ॥ २९॥ इति ह म तां निन्दन्ति । इतरामभिष्टुवन्ति । Calia has कामं दुग्धे विप्रकर्षत्यलक्ष्मी कीर्ति सूते दुहृदो निष्पलान्ति । शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥ सुमत्रा-परिभूतोऽयं बत कुमारः प्राचेतसान्तेवासी। वदत्यय- मभ्युपपन्नामर्षेण संस्कारेण । लवा-यत्पुनश्चन्द्रकेतो, वदसि किंतु भवतस्तातप्रतापोत्कर्षेऽप्य- मर्ष इति तत्पृच्छामि किं व्यवस्थितविषयः क्षत्रधर्म इति । सर्वोऽपि तं संभावयतीत्यर्थः । सौजन्यस्य को विरोध इत्याह-तदपि तथापि अखिल. क्षत्राक्षेपः सकलराजतिरस्कारस्तेन प्रचण्डतया क्रूरतया तुरङ्गमरक्षिणामश्वमेधाश्व- रक्षकाणां विकृति मन्युं स व्याहारश्च 'तां पताका हरामि वः' इत्यादिकः । अथवा तुर. अमरक्षिणां व्याहारः 'सप्तलोकैकवीरस्य' इत्युक्तिः मे विकृति मन्यु अकरोत् ॥२८॥ दान्तमनहंकारमनुशुश्रुमः श्रुतवानस्मि । आत्मना खयं न दृप्यति नाहंकरोति, प्रजावा हप्ता न आयन्ते । राक्षसीं वाचं दृप्तवाचम् । तदाह-ऋषय इति । योनिः कारणम् । निष्कृतिः परिभवहेतुः ॥ २९ ॥ इतरां वक्ष्यमाणाम् । काममिति । काममभिल- षितं दुग्धे प्रपूरयति । अलक्ष्मी विप्रकर्षति दूरीकरोति । कीर्ति गुणवत्ताप्रथा सूते जनयति । दुहुँदः शत्रून निष्पलान्ति अतिशयेन नाशयति । सूनृता वागिति शेषः । शुद्धा दोषशून्यां शान्ता कार्कश्यरहिता मङ्गलानां मातरं हेतुं धेनुं खरूपेण भोग्यां धीराः ध्यानशीलाः सूनृतां शुद्धामाहुरिति योज्यम् । इतीतरामभिष्टुवन्तीति पूर्वेणा- न्धयः ॥ ३० ॥ अभ्युपपन्नामर्षेण उत्पन्नासहनेन संस्कारेण वासनया । तातप्रतापो. स्कर्षेऽप्यमर्षे इति यद्वदसि अत्रोच्यते इति शेषः । व्यवस्थितविषयः रामभद्रमात्रनिय.. ताधिकरणकः क्षत्रधर्म: क्षत्रियासाधारणपराक्रमातिशयादिः ॥ अतिप्रसादनिष्टप्रस- 4 पञ्चमोऽङ्कः । सुमत्रः-नैव खलु जानासि दैवमैक्ष्वाकम् । तद्विरमातिप्रसन्नात् । सैनिकानां प्रमाथेन सत्यमोजायितं त्वया । जामदग्यस्य दमने न हि निर्बन्धमर्हसि ॥३१॥ लव:-(सहासम् ।) आर्य, जामदायस्य दमनः स राजेति कोऽय- मुच्चैर्वादः । सिद्धं ह्येतद्वाचि वीर्य द्विजानां बाह्रोर्वीर्य यत्तु तत्क्षत्रियाणाम् । शस्त्रग्राही ब्राह्मणो जामदग्य- स्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ॥ ३२ ॥ चन्द्रकेतुः-(सोन्माथमिव ।) आर्य सुमन्त्र, कृतमुत्तरोत्तरेण । कोप्येष संप्रति नवः पुरुषावतारो वीरो न यस्य भगवान्भृगुनन्दनोऽपि । पर्याप्तसक्तभुवनामयदक्षिणानि पुण्यानि तात चरितान्यपि यो नं वेद ॥ ३३ ॥ लव:-को हि रघुपतेश्वरितं महिमानं च न जानाति यदि नाम किंचिदस्ति वक्तव्यम् । अथवा शान्तम् । वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हु वर्तते सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते । अनाद्विरम विरतो भव । 'जगुप्साविराम-' इति पञ्चमी। सैनिकानामिति।प्रमाथेन प्रकृष्टविलोडनेन ओजायितमोजखीभूतम् । भावे कः । जामदग्न्यस्य दमने परशुरामस्य जेतरि रामभद्रे विषये । निर्बन्धं रूक्षवादम् ॥३१॥ सिद्धिमिति । द्विजानां विप्राणां बाचि वीर्य पराभिभवनसामर्थ्य मिति यत् । क्षत्रियाणां बाह्वोर्वीय मिति यत् एतत्सिद्ध प्रसिद्ध किल । जामदग्यः शस्त्रप्राही ब्राह्मणः । तस्मिन्दान्ते तस्य राज्ञः तद्दमनकराम- भद्रस्य स्तुतिः गुणाभिधानिका का । न किमपीत्यर्थः ॥३२॥कोऽपीति । यस्य परशु- रामश्च वीरो न । यज्ज्ञानविषयावीरलवान् भृगुनन्दनः । यः पुरुषः सप्तानां भुवनानां समाहारः सप्तभुवनं तस्याभयं भयनिवारणं तदेव दक्षिणा प्रत्युपकारनिरपेक्षं खाभ्यु- दयमुद्दिश्य दानं सा पर्याप्ता पूर्णा येषु तथोक्तानि तातचरितानि पुण्यानि रामभद्रवृत्त- लक्षणगुम्फकर्माणि शुभकर्माणि तथा तु न वेद न जानाति । एषः नवः पुरुषावतारः कोऽपि । क्षेपेऽयं किंशब्दः । अत्र रामचरितलक्षणक्रतूनां जगदभयदानमेव दक्षिणेवि वर्णनापकालंकारः ॥ ३३ ॥ यदि नाम किंचिदस्ति वक्तव्यम् । वकव्यं किंचिदस्ति किमित्यर्थः । वृद्ध इति । अविचारणीयचरितास्ते वृद्धास्तिष्ठन्तु । वयोमानं तेषां उत्तररामचरिते यानि त्रीण्यकुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥ चन्द्रकेतु:-आः तातापवादिन् , भिन्नमर्याद, अति हि नाम प्रगल्मसे। लंव:-अये, मय्येव भृकुटीमुखः संवृत्तः । सुमत्रा-स्फुरितमनयोः क्रोधेन । तथा हि । क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः किंचित्कोकनदच्छदस्य सदृशे नेत्रे खयं रज्यतः । धत्ते कान्तिमिदं च वक्रमनयोभङ्गेन भिन्नध्रुवो- श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्धान्तभृङ्गस्य च ॥ ३५ ॥ लव-कुमार, कुमार, एोहि । विमर्दक्षमां भूमिमवतरावः । (इति निष्कान्ताः सर्वे ।) इति पञ्चमोऽङ्कः। गौरवहेतुरिति भावः। सुन्दस्त्रीमथने ताटकावधेऽपि अकुण्ठयशसः अप्रतिहतकीर्तयः। कुतोमुखानि पराङ्मुखानि पदानि पादन्यासपराङ्मुखानीति वाचा वक्तुमपि जगुप्सया कुतोमुखानीत्युक्तम्। तदिदं शौर्यातिशयकार्यम् । अत्रात्यन्तमासन्नो भूला खरः स्थितः तदा रामभद्रश्चापकर्षणार्थ पदत्रयं निवृत्य तं जघानेति प्रसिद्धिः। इन्द्रसूनुनिधने वालि. वधे यत्कौशलं नैपुण्यमन्तर्धानपूर्वकवरूपं तत्राप्यभिज्ञो जनः वर्तते । हुमिति परिहासे ॥ ३४ ॥ तातापवादिन् रामभद्र विषयदोषवादिन् । भिन्नमर्याद अतिक्रान्तसमुदा- चार ॥ भ्रुकुटीमुखः क्रोधप्रयुक्तभ्रूभङ्गयुक्तवदनः ॥ अनयोर्लवचन्द्रकेस्वोः । क्रोधे- नेति । उद्धताः धूताश्चलन्तः कुन्तलाः केशभराः यस्मिन् स तथोक्तः । कोकनदच्छ. दस्य रक्तारविन्दपत्रस्य रज्यतः रक्तीभवतः । ध्रुवोर्भनेन भीमम् । अनयोरिदं वकं च । उद्भटलाञ्छनस्य प्रकटलक्ष्मणः चन्द्रस्य उद्धान्तभृङ्गस्य कमलस्य च कान्ति धत्ते । वक- मित्येकवचनोक्तिः संतानैक्यप्रयुक्तात्यन्तसारूप्यद्योतनाय । निदर्शनालंकारः॥३५॥ एमागच्छ । विमर्दक्षमा युद्धयोग्यो भूमिमवतरावः । इति निष्क्रान्ताः सर्वे ॥ वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य । उत्तररामचरित्रव्याख्यायामवसितः पञ्चमोऽः॥ इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल- स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां पञ्चमोऽङ्कः।

... उत्तररामचरितम् । षष्ठोऽङ्कः। (ततः प्रविशति विमानेनोज्वलं विद्याधरमिथुनम् ।) विद्याधर:-अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलह- प्रचण्डयोरुद्दयोतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्धान्तदेवासुराणि विक्रान्तवि- लसितानि । तथाहि प्रिये, पश्य । रणत्करणझंझणकणितकिङ्किणीकं धनु- वनद्गुरुगुणाटनीकृतकरालकोलाहलम् । वितत्य किरतोः शरानविरतं पुनः शूरयो- विचित्रमभिवर्तते भुवनभीममायोधनम् ॥ १ ॥ जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि । स्तनयिनोरिवामन्ददुन्दुभेदुन्दुमायितम् ॥ २ ॥ तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकम- नीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः । विद्याधरी-ता किं ति पुरो आआसं दुइंततरलतडिच्छडाकडारं अवर विअ झति संवुत्तम् । विद्याधरः-तत्किं नु खल्वद्य । १. तत्किमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडारमपरमिव झटिति संवृत्तम् । युद्धस्य 'दूरावानवधम्' इति दृश्यत्वप्रतिषेधाद्विष्कम्मेन तदाह-विद्याधरमिथुन. मित्यादिवा ॥ विकर्तनः सूर्यः । अकाण्डकलहेन उभयोरप्येकत्वेन वास्तवहेतुरहितवै. रेण प्रचण्डयोः क्रूरयोरुद्योतिता क्षत्रलक्ष्मीः ययोस्तथोक्तयोः । अत्यद्भुतेनातिविस्मयेन उद्घान्ता देवासुरा यैस्तथोक्तानि विक्रान्तस्य विक्रमस्य विलसितानि । अहो विस्मयनी- यानीत्यर्थः । रणमिति । रणत्करणेन रणदिति शब्दहेतुव्यास्फालनेन झणझणत्कार- कणितयुक्तम् । ध्वनन् गुरुगुणः ज्या यया तथोक्तया अटन्या धनुष्कोव्या कृतः करालो भीषणः कोलाहलो यस्य तथोक्तं धनुर्वितत्य मण्डलीकृत्य विस्तार्य शरानविरतं किर- तोर्वर्षतोः लवचन्द्रकेत्वोः ॥ १॥ स्तनयित्नोरिव गर्जन्मेघस्येव । अमन्ददुन्दुभेदुन्दु. मायितं दुन्दुमशब्दः जृम्भितं प्रवृत्तम् ॥ २॥ अनयोलवचन्द्रकेत्वोस्तादर्थेन अवि- रलमिलिता कमलकमनीयसंहतिर्येन तथोक्तः पुष्पनिपातः पुष्पवृष्टिः ॥ तडिच्छटया विद्युज्जालेन कडारं कपिलं आकाशमन्यदिव जातमित्यर्थः ॥ तत्किं नु खलु नु किमिति १४२ उत्तररामचरिते नहाय huta erilne त्वष्ट्रयत्रश्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलम् । पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥ g आं ज्ञातम् । जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरूपमामेयमस्त्रम् , . यस्यायममिवच्छरसंपातः। संप्रति हि । अवदग्धरितकेतुचामरै- रपयातमेव हि विमानमण्डलैः । दहति ध्वजांशुकपटावलीमिमां नवकिंशुकद्युतिसविश्रमः शिखी ॥ ४ ॥ आश्चर्यम् । प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटस्फुलिङ्गगुरुरु- चालतुमुललेलिहानोज्ज्वलज्ज्वालासंभारभैरवः भगवानुषबुधः । प्रचण्ड- श्वास्य सर्वतः संपातः । तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि । (तथा करोति । अक्ति पदद्वयमस्य च वक्ष्यमाणवाक्यद्वयेनान्वयः। त्वष्ट्रिति । बष्टशाणचक्रभ्रमिभ्रान्तमा- तण्डज्योतिः किम् । उज्जवल ललाटस्थनीललोहितचक्षुषः रुद्रललाटनेत्रस्य पुटमेदो नु उन्मीलनु । अथवा किंन्वित्येकमेव पदम् । मार्तण्डज्योतिरुज्ज्वल इत्येकपदं पुटभेदवि- शेषणम् । ज्योतिरिवोज्वलतीति तदर्थः ॥३॥ जातक्षोभेण प्रकृतिविपर्यासता । आग्नेयमग्निदेवत्यम् । शरसंपातः इषुधारा । अवदग्धेति । अवदग्धानि प्रायेण दग्धानि बर्षरितानि यानि दाहजबर्बरध्वनियुक्तानि केतवः क्षुद्रध्वजाचामराणि वाल. व्यजनानि येषां तथोकैः । अपयातम् । भावे कः । नवपलाशकुसुमकान्तिसदृशः विखी अमिः। ध्वजाः महाकेतवः तेषामंशुकानि चीरांशुकानि तान्येव पटाः । सामा- न्य विशेषशब्दयोः कर्मधारयः। 'उत्तरीये वस्त्रमात्रे सूक्ष्मवस्त्रेऽपि चांशुकम्' इति रत्न. माला । अंशुकपदं सूक्ष्ममात्रपरं गोबलीवर्दन्यायेन । तेषामावलीम् । ध्वजलक्षणकान्ति- व्याजपुञ्जानिति वार्थः । अत्र ध्वजाश्च अंशुकपटाश्चेति विग्रहः । व्याजपर्यायः कपट- शब्दः । अंशव एव ध्वजव्याजेन वर्तन्त इति लाभात्तजिष्ठत्वं ध्वजानां लभ्यते। किं चायमानेयाग्निरग्निमपि दहतीति असंबन्धेऽपि संबन्धादतिशयोक्तिरिति अपहवेन सह संकरः॥४॥बनखण्डस्याशनिशकलस्य अवस्फोटः स्फुटनं तद्वत्पटु तीक्ष्णं यथा तथा रटन स्फुलिङ्गगुरुः कणबहुलः । उत्तालतुमुलं यथा तथा अतिशयितसंकुलं यथा तथा लेलिहानः भृशं कवलनपरः । लिहधातोर्यलकि चानश् । उज्जवलजवालासंभारेण ज्वालातिशयेन भैरवः भयंकरः । उपर्बुधः अग्निः । अस्याः संपातः सम्यक्पतनम् । प्रचण्डः अतितीक्ष्णः ॥ विमलमुक्काशैलवत् निर्दोषमौक्तिकपर्वतवतू शीतलेन स्निग्धेन षष्ठोऽका १४३ विद्याधरी-दिहिआ एदेण विमलमुत्चासेअसीअलसिणिद्धमसिण- मंसलेण णाहदेहप्पंसेण आणन्दसदलिदधुण्णामाणवेषणाए अद्धोदिदो एव्व अन्दरिदो मे संदायो। विद्याधरः-अथि, किमत्र मया कृतम् । अथवा । न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ ५ ॥ विद्याधरी-कई अविरलविलोलघुण्णमाणविज्जुल्लदाविलासमंस- लेहिं मत्तमयूरकण्ठसामलेहिं ओत्थरीअदि णभोङ्गणं जलहरेहिं । विद्याधर:-कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः । कथमवि- रलप्रवृत्तवारिधारासंपातैः प्रशान्तमेव पावकास्त्रम् । विद्याधरी-पिअं मे पि मे । विद्याधरः-हन्त भोः, सर्वमतिमात्रं दोषाय । यत्प्रलयवातोरक्षो- भगम्भीरगुलुगुलायमानमेघमेदुरितान्धकारनीरन्ध्रनद्धमिव एकवारविश्व- असनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगानिद्रानि- १. दिष्ट्या एतेन विमलमुक्ताशैलशीतलस्निग्धमसृणमांसलेन नाथदेहस्पर्शे- नानन्दसंदलितघूर्णमानवेदनया अर्धोदित एवान्तरितो मे संतापः । २. कथमविरलविलोलघूर्णमानविद्युल्लताविलासमांसलैमत्तमयूरकण्ठश्यामलैर- वस्तीर्यते नभोङ्गणं जलधरैः ३. प्रियं मे प्रियं मे। स्नेहयुक्तेन महणेन चाकचक्यवता मांसलेन स्फीतेन । सर्वत्र विशेषणसमासः । आनन्देन संदलिता वर्तिता वेदना यस्मिंस्तथोक्तः । अन्तरितस्तिरोहितः ॥ मया किमत्र कृतम् । न किमपीत्यर्थः । न किंचिदपीत्यादि । पूर्व व्याख्यातम् ॥५॥ * विलोलाः वेपमानाः घूर्णमानाः वेष्टमानाः । अवस्तीर्यते आच्छाद्यते । 'अवतीर्यते' इति च पाठः ॥ आमेयास्त्रप्रतिद्वन्द्ववाद्वारुणास्त्रं प्रयुक्तम् । धारासंपातैर्धारासम्यक्प. वनैः प्रशान्तं निर्वापितम् ॥ अतिमात्रं प्रमाणातिकान्तं दोषाय । कल्पत इति शेषः। प्रलयवातेन कल्पान्तमारुतेन उत्क्षोभाः अतिशयितक्षोभयुक्ताः गम्भीराअनल्पाः गुलगुलपयमानाः गुलगुल इत्याकारकवर्णध्वनियुक्ता ये मेधास्तैर्मेदुरितेन सान्द्रितेन अन्धकारेण नीरन्ध्रमविरलं नद्धमिव बद्धमिव । एकेन वारेण क्षणेन विश्वस्य प्रपञ्चस्य १४४ उत्तररामचरिते रुद्धसर्वद्वारं नारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो, साधु । स्थाने वायव्यमस्त्रमीरितम् । यतः । विद्याकल्पेन मरुता मेघानां भूयसामपि । ब्रह्मणीव विवर्तानां कापि प्रविलयः कृतः ॥ ६॥ विद्याधरी-णाध, को दाणिं एसो ससंभमोक्खित्तकरम्भमदुत्री- अञ्चलो दूरदो एव्व महुरसिणिद्धवअणपडिसिद्धजुद्धष्वावारो एदाणं अन्दरे विमाणवरं ओदरावेदि । विद्याधरः-(दृष्ट्वा ।) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः । शान्तं महापुरुषसंगदितं निशम्य तद्गौरवात्समुपसंहृतसंप्रहारः। १. नाथ, क इदानीमेष ससंभ्रमोत्क्षिप्तकरभ्रमदुत्तरीयाश्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोरन्तरे विमानवरमवतारयति । असनेन कवलनेन । एकवारः इहानावृत्तिर्वा । विकटं निनोन्नतं विकरालं विशेषेण भीषणं कालमुखं मृत्युवकं तस्मिन्विवर्तमान मिव विकुर्वाणमिव । युगान्ते कल्पान्ते योगनिद्रया ध्यानात्मकखापेन निरुद्धानि सर्वाणि द्वाराणि यस्य तथोकम् । यन्नाराय- गोदरं समस्तवस्वाधारभूतलक्ष्मीनायकोदरम् । तस्मिन्निविष्टमिव भूतम् । जात्येकवच. नम् । प्राणिन इत्यर्थः। विपद्यते विपदं प्राप्नोति । वायव्यं वायुदैवत्यम्। 'वास्तु-' इति यत्प्रत्ययः । ईरितं प्रेरितमिति यत्तत्स्थाने युक्तम् । यतः यस्मात् । विद्येति । विद्या- कल्पेन तत्त्वमस्यादिवाक्यविहिततत्त्वज्ञानसदृशेन मरुता वायुना का भूयसां बहुत- राणां मेघानां ब्रह्मणि निर्विशेषसन्मात्रे कूटस्थे चैतन्ये विवर्तानामिव अधिष्ठानविष. यसत्ताकव्यावहारिकघटपटादिविकल्पानामिव प्रविलयः निवृत्तिः कृतः। इदं चाद्वैतप्र- क्रियया व्याख्यातम् । परमार्थतस्तु विद्याकल्पेन दर्शनसमानाकाराविच्छिन्नस्मृतिसं- तानात्मकसद्विद्यादिसदृशेन मरुता ब्रह्मणि निखिलचेतनाचेतनशरीरके समस्तकल्याण- गुणाकरे श्रीमति नारायणे विवर्तानामिव विशेषणीभूतचिदचिद्वारकविलक्षणविकार- भूतदेहेन्द्रियादीनामिव प्रविलयः कृतः जगदुपादानस्य ब्रह्मणः कार्यस्खनियतनामरूप. प्रहाणलक्षणात्यन्तिकलय एव तदपृथक्सिद्धविशेषणभूतजीवस्य मोक्षः। स च 'तमेवं विविला-'इत्यादिश्रुतिभिर्भक्तिसाध्य इति । एवमुक्तिः 'ब्रह्मैव सन ब्रह्माप्येति' इत्युक्तः ॥ ६ ॥ प्रतिषिद्धः निवर्तितः युद्धव्यापारो येन तथोकः । अन्तरे मध्ये प्रतिषेधवा- क्येन तयोस्तत्प्रतिघाताय मध्ये रथस्थापनेन तन्निवर्तयतीति भावः । शम्बूकंपधातू शम्भूकवचं निवर्त्य । ल्यब्लोपे पञ्चमी । शान्तमिति । शान्तं कार्कश्यरहितं महा. पुरुषस्य रामस्य संगदितं वचनं निशम्य तगौरवादामविषयकगरीयस्खबुग्या समुपस- ..

षष्ठोऽकः । शान्तो लवः प्रणत एव च चन्द्रकेतुः कल्याणमस्तु सुतसंगमनेन राज्ञः ॥ ७॥ तदितस्तावदेहि । (इति निष्क्रान्तौ।) मिश्रविष्कम्भः। (ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च ।) रामा-(पुष्पकादवतरन् ।) दिनकरकुलचन्द्रचन्द्रकेतो सरभसमेहि दृढं परिष्वजख । तुहिनशकलशीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः ॥ ८ ॥ (उत्थाप्य सस्नेहास्रं परिष्वज्य ।) अप्यनामयं नूतनदिव्यास्त्रायोधनस्य तव । चन्द्रकेतु:-कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन । तद्विज्ञापयामि मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तातः । रामः-(लवं निरूप्य ।) दिष्ट्या अतिगम्भीरमधुरकल्याणाकृतिरयं सवयसो वत्सस्य । त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्यै । हृतः निवृत्तः संप्रहारः युद्धं येन तथोक्तः । लवः शान्तः निवृत्तव्यापारोऽभूत् । चन्द्रकेतुश्च प्रणत एव । यत एवं ततः सुताभ्यां लवचन्द्रकेतुभ्यां संगमनेन समागमेन राज्ञः रामस्य कल्याणमस्तु । विद्याधरेण ज्ञातत्वात्सुतेत्युक्तिः ॥ ७॥ दिनकरेति । दिनकरकुलचन्द्र सूर्येण सह तदीयस्यास्मद्वंशस्य आहादकप्रसिद्धचन्द्र । सूर्य प्रति चन्द्रत्वाभावेनास्य तं प्रत्यपि चन्द्रलमाधिक्ये पर्यवस्यति । अतएव ममापि चित्तदाह इत्युक्तिः संगच्छते । ममापि एवमत्यन्ततप्तस्यापि मम । अनेन सहस्रभानुतापापेक्ष- यापि खतापस्य भूयस्त्वं गम्यते । शमं निर्वाणमुपयातु प्राप्नोतु ॥ ८॥ नूतनदिव्यास्त्रा- योधनस्य नूतनामानुष्यास्त्रकरणकयुद्धस्य । नूतनं दिव्यास्त्रैरायोधनं यस्येति बहुव्रीहिः। तवेति शेषः । अनामयमारोग्यम् ॥ अत्यद्भुतस्य आश्चर्यकरस्य प्रियवयस्यस्य लाभ एवाभ्युदयस्तेन । स्निग्धेन स्नेहवता चक्षुषा । अनरालसाहसमकुटिलयुद्धादिव्यापारम् । अमुं लवम् । अतिगम्भीरा अक्षोभ्या कल्याणी मङ्गलावहा आकृतिराकारो यस्य तथोक्तः । दिष्टया आनन्दहेतुः । त्रातुमित्यादि । लोकान् चतुर्दशभुवनानि त्रातुं रक्षितुं कायवान्मूर्तिमान सन् परिणतः जातः अत्रवेदः अस्त्रमन्त्रभागस्तद्वस्थितः । ब्रह्मकोशस्य ब्रह्माण्डस्य गुप्त्यै रक्षणाय तनुं मूर्ति त्रितः प्राप्तः क्षात्रो धर्म इव १३ उ.रा.

उत्तररामचरिते सामर्थ्यानामिव समुदयः संचयो वा गुणाना- माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥ ९ ॥ लव:-(खगतम् ।) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः । आश्वास इव, भक्तीनामेकमायतनं महत् । प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥१०॥ आश्चर्यम् । विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तदौद्धत्यं वापि व्रजति विनयः प्रहृयति माम् । झटित्यस्मिन्दृष्टे किमिति परवानस्मि यदि वा महाघस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥ ११ ॥ रामः-तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपस्नेहयति मिति .. ཁ ར 5. ཁ་ स्थितः शौर्यवीर्यादिरूपक्षत्रियस्वभाव इव स्थितः। सामर्थ्यानामारब्धकार्यनिर्वहण- शकीनां समुदय इव स्थितः । गुणानां धैर्यादीनां संचयो वा समूह इव स्थितः । "वा स्याद्विकल्पोपमयोः' इति कोशः। जगत्पुण्यनिर्माणानां जगत्पुण्यानुष्ठानानां राशि- "रिव स्थितोऽयं वत्सस्य वयस्य इति पूर्वेण संबन्धः । आविर्भूय प्रत्यक्षीभूय स्थितः । जगत्पुण्यनिर्माणरागिरिव स्थितः । अभूतोपमा ॥ ९ ॥ पुण्ये अनुभावदर्शने यस्य तथोक्तः । अनुभावः प्रभावः दर्शनं साक्षात्कारः आश्वास इति । भकीनां स्नेहपूर्वानुध्यानानामाश्वास इव स्थितः दुःखविस्मरणपूर्वकाहाद इव स्थितः । भक्त. योऽन्यत्र हि क्रियमाणा विषयदोषेण दुःख्यन्ति । तासां रामे क्रियमाणानां विषय- सौष्ठवेणालादो जायते । तद्धेतौ तत्त्वारोपः । एकमद्वितीयं महद्विपुलं भक्तीनामायतनं स्थानं च । 'आश्वासनेहभक्तीनामेकमालम्बनं महत्' इति च पाठान्तरम् । आश्वासः द्वेषभावः । स्नेहः प्रणयः भक्तिः स एव भावनाप्रकर्षेण प्रत्यक्षसमानाकारतामापन एव तासां मुख्य विषयभूत इत्यर्थः । प्रकृष्टस्य लोकोत्तरस्य धर्मस्य सुकृतस्य मूर्तिसुन्दरः प्रसाद इव स्थितः महापुरुष इति पूर्वेणान्वयः । उकं च 'रामो विग्रहवान्धर्मः' इति । प्रसाद इह फलप्रदानोन्मुखता ॥१०॥ विरोध इति । विरोधः वैरम् । विश्रान्तः विरतः । निर्वृतिधनः आनन्दसान्द्रः । रस्यते चर्यत इति रसः अपरोक्षावभासरूपः प्रसरति प्राप्नोति । तद्विपुलमौद्धत्यं दर्पहेतुकसंभावनारूपं कापि व्रजति । विनयः महाजनसंनिधौ स्वोत्कर्षाननुसंधानरूपः । मां प्रह्वयति नमयति । अस्मिन्महापुरुषे दृष्टे सति साक्षात्कृते सति किमिति परवानस्मि कस्माद्धेतोः परतोऽस्मि । यदि वा अथवा तीर्थानामिव गङ्गादिपावनसलिलानामिव महतां पुरुषाणां महाघः अमूल्यः । लाध्य इति यावत् । अतिशय उत्कर्षः कोऽपि । अन्याश इत्यर्थः । इमं च श्लोक बहवो बहुं मन्यन्ते ॥ ११॥ एकपद एव एकक्षण एवं दुःखविश्राम दुःखनिति rare.arx 2 षष्ठोऽ। -- ने च कुतोऽपि निमित्तादन्तरात्मानम् । अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत् । व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते । विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ १२ ॥ लवा-चन्द्रकेतो, क एते । चन्द्रकेतु:-प्रियवयस्य, ननु तातपादाः । लव:-ममापि धर्मतस्तथैव यतः प्रियवयस्येति भवतोक्तम् । किंतु चत्वारः किल भवन्त्येवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथापु- रुषाः । तद्विशेषं ब्रूहि । चन्द्रकेतु: -ज्येष्ठतात इत्यवेहि । लव-(सोल्लासम् ।) कथं रघुनाथ एव । दिष्टया सुप्रभातमद्य यदयं देवो दृष्टः । (सविनयं निर्वर्ण्य ।) तात, प्राचेतसान्तेवासी लवोऽभि- वादयते । रामः-आयुष्मन् , एह्येहि । (इति सस्नेहमालिङ्गय ।) अयि वत्स, कृतमत्यन्तविनयेन । अङ्गेन मामपरिश्लथं परिरम्भख । ददाति । कुतोऽपि निमित्तादनिर्धारिताद्धेतोरन्तरात्मानमुपस्नेहयति स्नेहयुक्तं करोति । अथवा पूर्वोक्तपक्षाभावे निमित्तसव्यपेक्षः हेतुसापेक्षः स्नेहश्च निमित्तसव्यपेक्षश्चेति । यत् महत्खनिमित्तसापेक्षवरूपं विप्रतिषिद्धं व्याहतम् । व्यतिषजतीति । कोऽपि हेतुः भवितव्यतारूपः यस्यान्तरसमलौकिकत्वं पदार्थानन्तःकरणप्रभृतिवस्तुजातं व्यतिषजति अन्योन्यलमान्करोति । अन्तर्भावितण्यर्थोऽयं धातुः । कर्तरि कर्मव्य- तिहाराभावानात्मनेपदम् । प्रीतयः अत्यन्तानुकूलखज्ञानरूपस्नेहः बहिरुपाधीन बायहेतून संश्रयन्ते खलु खोत्पादकत्वेन नापेक्षन्त इति प्रसिद्धम् । दृष्टान्तमाह- विकसतीत्यादि । पतङ्गस्य सूर्यस्य । चन्द्रकान्तः शिलाविशेषः । अत्र मार्दवस्याप्र. योजकलसूचनाय द्वितीयदृष्टान्तः ॥ १२॥ धर्मतः पुण्यात् । मित्रस्य पिता वस्य पितेति शास्त्रस्यायमर्थः खपितृविषये यादृशमनुवर्तनं तादृशं मित्रपितृविषयकं महते श्रेयसे कल्पत इति । एवं च मद्धर्महेतुकपितृलवानित्यर्थः । एवंव्यपदेशस्य तातपादश. ब्दस्य भागिनः खामिनः । भागो हि खं भागी खामी । तातपादशब्दस्य वाच्यतया खामिनः अर्थप्रत्यायनार्थखाच्छब्दस्य वाच्यशेषत्वं वाचकस्य । तत्रभवन्तः पूजनीयाः रामायणकथापुरुषाः रामायणनामकवाक्यप्रबन्धप्रधाननायकाः। तद्विशेषं तेषु विशेष 7 Ye redtT 1 T EX.

उत्तररामचरिते pritnA ki हानि : परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः। नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः ॥ १३ ॥ लव:-(खगतम् ।) ईदृशो मां प्रत्यमीषामकारणस्नेहः । मया पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः । (प्रकाशम् ।) मृष्यन्तां त्विदानी लवस्य बालिशता तातदापाः । राम:-किमपराद्धं वत्सेन । चन्द्रकेतुः-अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरा- यितमनेन । राम:-नन्वयमलंकारः क्षत्रियस्य । न तेजस्तेजखी प्रसृतमपरेषां विषहते स तस्य खो भावः,प्रकृतिनियतत्वादकृतकः । मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमानेयो ग्रावा निकृत इव तेजांसि वमति ॥ १४ ॥ चन्द्रकेतुः-अमर्षोऽप्यस्यैव शोभते महावीरस्य । पश्यन्तु हि तातपादाः । प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि । रामः-(सविस्मयखेदं निर्वर्ण्य । स्वगतम् ।) अहो, वत्सस्य ईदृशः प्र- तातपादलव्याप्यरामखाद्यन्यतमधर्मविशिष्टत्वं ब्रूहि बोधय ॥ प्राचेतसान्तेवासी वा- ल्मीकिशिष्यः॥परीतिपरिणतस्य विकसितस्य कठोरस्य समग्रस्य पुष्करस्य पद्मस्य गर्म- च्छदवदातपाद्यनमिहतान्तरपत्रवत् पीनः मांसलः मसृणः दन्तुरतारहितः सुकुमारः मृदुलः चन्दननिष्यन्दवचन्दनद्ववत् जडः शीतलः। अत्र एकमात्राधिक्यम् । 'चन्द. ननिष्यन्दजड' इति संबुद्ध्यन्तपाठोऽपि ॥१३॥ अमीषाम् । रामस्येत्यर्थः। एभ्यः अभि- दोग्धुमेतद्विषये अपकर्तुम् । 'क्रिया-' इति चतुर्थी । आयुधपरिग्रहः कृतः। बालिशतां मूर्खतां मृष्यन्तां सहन्ताम् ॥ किमपराद्धं कोऽनिष्टाचारः ॥ अश्वस्य मेध्याश्वस्य आनु. मात्रिकाः अनुयात्रायां नियुक्तास्तेभ्य इति पञ्चमी। आविष्करणं प्रकाशनमुपश्रुत्याकर्ण्य वीरायितं वीरवदाचरितम् ॥ अयं वीरायितम् । विधेयप्राधान्यात्पुंस्वम् । अलंकारः शोभाकरः। न तेज इति । प्रसृतमपरेषां तेजः पराभिभवनसामर्थ्य न विषहते न सहत इति यत् सः प्रकृतिनियतलादुपादानकारणव्याप्तवादकृतकः अनागन्तुक; स्वोभावः धर्मः सत्कार्यवादे कारणगुणाः कार्ये उपलभ्यन्ते। मयूखैः किरणैरश्रान्तमवि. रतमामेयो प्रावा अग्युत्पादकसूर्यकान्तशिला निकृत इव परिभूत इव तेजांसि बमति उद्भिरति । दृष्टान्तालंकारः ॥ १४ ॥ अमर्षोऽपि न केवलं तेजः किंतु मन्युरपि शोभते षष्ठोऽ १४९ भावः । (प्रकाशम् ।) वत्स, संहियतामस्त्रम् । त्वमपि चन्द्रकेतो, निा. पारतया विलक्षणानि सान्त्वय बलानि । (लकः प्रणिधानं नाटयति ।)) चन्द्रकेतुः यथा निर्दिष्टम् । (इति निष्क्रान्तः ।) लव:-तात, प्रशान्तमस्त्रम् । रामः-सरहस्यप्रयोगसंहारजृम्भकास्त्राणि दिया वत्सस्यापि सं. पद्यन्ते । ब्रह्मादयो ब्रह्महिताय तत्वा परःसहस्रं शरदस्तपांसि । एतान्यदर्शन्गुरवः पुराणाः खान्येव तेजांसि तपोमयानि ॥ १५ ॥ अर्थतामस्त्रमन्त्रोपनिषदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्सरपरिचर्या- निरतायान्तेवासिने कौशिकाय प्रोवाच । स भगवान्मह्यमिति गुरुपूर्वा- नुक्रमः । कुमारस्य कुतः संप्रदाय इति पृच्छामि । लव:-खतःप्रकाशान्यावयोरस्त्राणि । रामः-(विचिन्त्य ।) किं न संभाव्यते । प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात् । द्विवचनं तु कथम् । लव:-भ्रातरावावां यमौ । रामः-स तर्हि द्वितीयः क । mubunanimuin- हृद्यो भवति । स्तम्भितानि निर्व्यापाराणि ॥ संह्रियतामाकृष्यताम् । जम्भकास्त्रप्रयु- कपीडाया अननुभूतलात्, निर्व्यापारतया विलक्षणानि विस्मयान्वितानि । सान्त्वय मधुरोक्तिमिर्मोदय ॥ प्रणिधानं ध्यानम् , प्रयोगो नियोजनम् , संहार आकर्षणम् । सर. हस्यौ अङ्गन्यासाधनुष्ठानसहितौ प्रयोगसंहारौ येषां तथोक्कानि । संपद्यन्ते स्थितानि भवन्ति । ब्रह्मादय इति । व्याख्यातम् ॥ १५ ॥ अस्त्रमन्त्रोपनिषदं अस्त्रमन्त्रमयी. मुपनिषदम् । परःसहस्राधिकसंवत्सरं परिचर्यानिरताय कौशिकाय विश्वामित्राय । भगवान् कौशिकः । पूर्वेषां गुरूणामनुक्रमः परम्परासंप्रदायः गुरुमुखोपदेशः । कुतः कस्मात् ॥ खतःप्रकाशानि गुरूपदेशं विना ज्ञातानि ॥ किन संभाव्यते। सर्व समा वितमेवेति भावः । प्रकृष्टपुण्योपादानकः प्रभूतसुकृतादिकरणकः । द्विवचनं तु आवयो- ।

१५० उत्तररामचरिते (नेपथ्ये ।) दाण्डायन, आयुष्मतः किल लवस्य नरेन्द्रसैन्यै- रायोधनं ननु किमात्थ सखे तथेति । अद्यास्तमेतु भुवनेषु च राजशब्दः क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥ १६ ॥ अथ कोऽयमिन्द्रमणिमेचकच्छवि- @निनैव बद्धपुलकं करोति माम् । नवनीलनीरधरधीरगर्जित- क्षणबद्धकुमलकदम्बडम्बरम् ॥ १७ ॥ लव:-अयमसौ मम ज्यायानार्यः कुशो नाम भरताश्रमात्पति- निवृत्तः । रामः-(सकौतुकम् ।) तर्हि वत्स, इत एवैतमाह्वयायुष्मन्तम् । लव:-यदाज्ञापयति । (इति निष्क्रान्तः ।) (ततः प्रविशति कुशः।) कुशा-(सक्रोधं कृतधैर्य धनुरास्फाल्य ।) दत्तेन्द्राभयदक्षिणैर्भगवतो, वैवस्वतादामनो- ईप्तानां दमनाय दीपितनिजक्षत्रप्रतापामिभिः । आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुअदीधितिशिखानीराजितज्यं धनुः ॥ १८ ॥ रिति षष्ठीद्विवचनं तु ॥ आयुष्मत इति। आयुष्मतः अनुजतया तथोक्तिः नरेन्द्र सैन्यैः राजसैनिकैरायोधनं ननु युद्धं किम् । तथेत्यात्थ किम् । भुवनेषु राजशब्दः अस्तं नाशमेतु प्राप्नोतु । क्षत्रस्य क्षत्रियजातेः शस्त्राण्येव शिखिनः वहयः शमं निर्वाणं यान्तु प्राप्नुवन्तु ॥१६॥ अथेति । इन्द्रमणिमेचकच्छविः इन्द्रनीलवनीलच्छविः । अथेति प्रश्ने । कदम्बस्येव डम्बरं विभ्रमो यस्येति विग्रहः ॥१७॥ ज्यायानप्रजः ॥ इत एव अत्रैव । एतं कुशम् ॥ सक्रोधं कृतधैर्य च यथा तथा। दत्तेति । अभयमेव दक्षिणा अभयदक्षिणा । इन्द्रस्य अभयदक्षिणा दत्तायैरिति बहुव्रीहिः। भगवतःषाहण्य. वतः वैवखताद्विवखतपुत्रादामनोः मनुमारभ्य दृप्तानां दमनाय शिक्षणाय दीपितः ज्वलितः निजः असाधारणः क्षत्रप्रताप एवामियैस्तथोक्तैः । 'दहनाय' इत्यपि पाठः। आदित्यैः सूर्यवंश्यैः। दित्यदित्या-'इति ण्यः। नृपतिमिः विप्रहो यदि विरोधश्चेत्ततः तदा षष्ठोऽङ्कः । १५१ (विकट परिकामति ।। रामा-कोऽप्यस्मिन्क्षत्रियपोतके पौरुषातिरेकः । तथाहि । दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ १९ ॥ लव:-(उपसृत्य ।) जयत्वार्यः । कुश:-नन्वायुष्मन् , किमियं वार्ता युद्धं युद्धमिति । लव:-यत्किंचिदेतत् । आर्यस्तु दृप्तं भावमुत्सृज्य विनयेन वर्त- ताम् । कुश:-किमर्थम् । लव:-यदत्र देवो रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता। कुशः-आशंसनीयपुण्यदर्शनः स महात्मा । किंतु स कथमस्मा- भिरुपगन्तव्य इति संप्रधारयामि । दीप्तानामस्त्राणां स्फुरन्त्यस्तरलाः उग्रास्तीक्ष्णाः या दीधितयस्तासां शिखया कोट्या नीराजिता आर्तीकृता ज्या मौर्वी यस्य तथोकं ममैतद्धनुः । धनं प्रशस्तम् ॥ १८ ॥ विकटं विषमं परिकामति ॥ दृष्टिरिति । तृणीकृतः अनादृतः जगत्रय- सत्त्वसारः लोकत्रयबलोत्कर्षों यया सा। धीरोद्धता धीरा चासौ उद्धता चेति विग्रहः । कौमारेऽपि बाल्येऽपि गिरिवत्पर्वत इव । गिरिहि उत्पत्तिप्रभृतिगुरुत्ववान् वृक्षादयस्तु नैवम् । किंतु परिणाम विशेषेण गुरुत्वं भजन्ति । किं वीरो रस एति शत्रुकृतापराधादिना प्रज्वळनरूपक्रोधस्थायिकखसंवेद्यः प्रकाशविशेषः किमेति । रसालम्बने रसत्वारोपा. द्धत्वलंकारः । दर्पः युद्धकण्डूलता ॥१९॥आयुष्मन् , लवं प्रति संबोधनम् । युद्ध युद्धमिति वार्ता प्रवृत्तिः युद्धमासीदिति जनवादः श्रूयते । स किं सत्य इत्यर्थः ॥ एत. युद्धं यत्किंचिदल्पम् । न प्रश्नाह मित्यर्थः । आर्यस्तु । ज्येष्ठभ्रातृप्रयुक्तपूजाद्योतनाय आर्यशब्दप्रयोगः । दृप्तं भावं दर्पात्मकखभावमुत्सृज्य त्यक्त्वा । दृप्तमित्यत्र भावे कः । विनयेन निकर्षप्रतिसंधानेन । उपलक्षणे तृतीया ॥ देवः पूज्यः रघुनन्दनः रामः अत्र स्थित इति यत्तस्माद्विनयेन वर्ततामिति पूर्वेणान्वयः । ब्रह्मकोशस्य ब्रह्माण्डस्य गोप्ता रक्षकः ॥ स महात्मा अनन्यसामान्यखभावः रामः। आशंसनीयम. भिलषणीयं पुण्यं सुकृतमूलं दर्शनं साक्षात्कारो यस्य तथोकः। भवतीति शेषः। भस्ति- भवन्तीपरः' इत्युक्तेः। अप्राप्तस्य प्रयोजनस्य प्राप्तुमिच्छा आशंसा। किंतु एवं सत्यपि अस्माभिर्मया कथमुपगन्तव्य इति संप्रधारयामि केन प्रकारेण उपस्थातव्यमिति १५२ उत्तरामचरिते लव:-यथैव गुरुस्तथोपसदनेन । कुशः कथं हि चामैतत् । लवः-अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते । तेन संबन्धेन धर्मतस्तात एवायं राजर्षिः। कुश:-संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः । (उभौ परिकामतः।) लवा--पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसंभाव्यमान- विविधलोकोत्तरसुचरितातिशयम् । कुशा-(निर्वर्ण्य ।) अहो प्रासादिकं रूपमनुभावश्च पावनः । स्थाने रामायणकविर्देवीं वाचमवीवृधत् ॥ २० ॥ तात , प्राचेतसान्तेवासी कुशोऽभिवादयते । रामः-एलेह्यायुष्मन् । अमृताध्मातजीमूतस्निग्धसंहननस्य ते । परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः ॥ २१ ॥ (परिष्वज्य । खगतम् ।) तत्किमित्ययं च दारकः । मीमांसे ॥ यथैवेति । यथा गुरुः पिता । उपसदनेन समीपानुभजनेन । प्राप्य इति पूरणीयम् । तथैव उपसदनेनात्रापि प्राप्य इत्यध्याहारः ॥ एतद्गुरुवदुपसदनीयत्वं कथं कस्माद्धेतोः ॥ अत्युदात्तः अत्युच्चखभावः । सुजनः समीचीनजनः । सौजन्यवानिति यावत् । औमिलेयः ऊर्मिलापुत्रः । स्त्रीभ्यो ढक् । सख्येन सखित्वेन मामुपतिष्ठते संश्लिष्यते । 'उपाद्देव-'इत्यात्मनेपदम् । तेन संबन्धेन चन्द्रकेत्वभ्युपगतमैत्रीरूप. संबन्धेन ॥ संप्रति धर्मतस्तातत्वे राजन्ये रामेऽपि प्रश्रयो विनयः अवचनीयो निर्दुष्टः॥ आकारः महापुरुषलक्षणयुक्तविग्रहसनिवेशः, अनुभावः प्रभावः, गाम्भीर्यमक्षोभ्य- दवम् , एतैः संभाव्यमानोऽनुमीयमानः विविधः नानाप्रकारः लोकोत्तरो विश्वातिशायी सुचरितानां सुकर्मणामतिशय उत्कर्षः यस्य तथोक्तम् ॥ अहो इति । प्रसादः पारु. प्यराहित्यं तस्मिन् भवं प्रासादिकम् । प्रसादगुण एवास्य रूपस्य उपादानकारणमिति भावः । रूपं विप्रहः । पावनः स्वसंबन्धानामन्येषामपि शुद्धिहेतुः । अनुभावः व्यव- सायविशेषश्च । अहो विस्मयनीयावित्यर्थः । रामायणकविः रामायणप्रणेता वाल्मीकि- लक्षणकविः देवीं वाचं वाग्देवीमवीवृधत् इति स्थाने युक्तम् । वृधधातोर्णिचि लुकि चङि द्वित्वम् ॥२०॥अमृताध्मेति । अमृतामातजीमूत इव सुधापूरितकालमेघवत् निग्धं संहननं गात्रं यस्य तथोकस्य । गात्रं वपुः संहननम्' इत्यमरः । ते तव परिष्व- गाय आलिङ्गितुमुत्कण्ठते । 'सर्वेन्द्रियमुखाखादो यत्रास्तीत्यमिमन्यते । तत्प्राप्तीच्छा ससंकल्पामुत्कण्ठां कवयो विदुः॥' इत्युकामिलाषवान्भवति । अयं जन इत्युक्तः दय.

षष्ठोऽङ्कः १५३ . ना. अङ्गादङ्गात्सृत इव निजस्नेहजो देहसारः प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः । सान्द्रानन्दक्षुभितहृदयप्रस्रवेणावसिक्तो गाढाश्लेषः स हि मम हिमच्योतमाशंसतीव ॥ २२ ॥ लवः-ललाटंतपस्तपति धर्माशुः । तदत्र सालवृक्षच्छायायां मुहू- तमासनपरिग्रहं करोतु तातः । रामः- यदभिरुचितं वत्सस्य । (परिक्रम्य यथोचितमुपविशन्ति ।) रामः-(खगतम् ।) अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः । साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च ॥ २३ ॥ वपुरवियुतसिद्धा एव लक्ष्मीविलासाः प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति । नीयवरूपवस्तुध्वनिः ॥२१॥ किमित्ययं च दारकः । अङ्गादङ्गादित्यादि । अत्र ग- यस्थायंपदस्य पद्यस्थसशब्देन संबन्धातु दारकविशेषणलम् । एवं च सोऽयं समस्त- विलक्षणो बुद्धिस्थश्च दारकः बालकः । अङ्गादङ्गात् सर्वेभ्योऽजेभ्यः सूतः झरितः स्नेहजः खेह एव मैव्येव नेहः द्रवद्रव्यं तस्मिन् जातः निजः नैसर्गिकः । देहे रूपला. वण्यसौन्दर्यसमुदायात्मके शरीरे यः सारः उत्कृष्टरूपलावण्यसौन्दर्यसमुदाय इव स्थितः । खरसमाहिणो जलादिद्रवद्रव्यं संयोज्यैव खरसं गृह्णन्ति । तद्वत्कृष्टेऽपि मेह- लक्षणद्रवद्रव्यसंबन्धेन गाढाश्लेषरूपसंघटनवशाबहिःसृतः । खदेहसार इवेत्युत्प्रेक्षा नेहज इति श्लिष्टरूपकानुप्राणिता च । 'अत्र 'अजादङ्गात्संभवसि हृदयादधिजायसे' इति श्रुतिः प्रत्यमिझाप्यते । एकः चेतनाधातुश्चैतन्यैकरसे आत्मवस्तुनि एकदेशे बहिः प्रादुर्भूय स्थित इव साक्षात्कारार्हः सन् स्थित इव । सान्द्रानन्दक्षुभितस्य घनतरान- न्देन क्षोभं प्राप्तस्य हृदयस्य प्रस्रवेण प्रकृष्टसेकेनावसिक्तः आीकृतः गाढः दृढः श्लेष आश्लेषो यस्य तथोक्तः सन् सोऽयं दारकः गाढाश्लेषः सन् हिमच्योतं हिमवर्षमाशं. सतीव सूचयतीव । किमिति विस्मये ॥२२॥ ललाटंतपः ललाटं तपतीति विग्रहः । खच्प्रत्यये मुमागमः । मध्याह्नसूर्य इति भावः। तदा हि सर्वासु दिक्षु ललाटातपसंयोगो. परिहार्यः । अन्यदा न तथा । यथोचितं पितृलपुत्रलानुगुणम् । अहो इति । प्र. श्रययोगेऽपि विनयसंबन्धेऽपि । साम्राज्यशंसिनः सार्वभौमलसूचकाः गतिस्थित्यास. नादयः। आदिशब्देनोक्तिवीक्षणादिपरिग्रहः। भावाः कियाः सन्ति । अहो विस्मयनीय- म् ॥२३॥ वपुरिति । अवियुतसिद्धाः अपृथक्सिद्धाः लक्ष्मीविलासाः लावण्याति- शयाः प्रतिकलकमनीयामनुक्षणरमणीयां कान्ति चारुतां वपुः शरीरं कर्म । वपुः कान्तिमुद्भेदयन्ति । द्विकर्मकोऽयं धातुः । उत्पादयन्तीत्यर्थः । स्वे खीयाः रश्मयः . a १५४ उत्तररामचरिते अमलिनमिव चन्द्रं रश्मयः खे यथा वा विकसितमरविन्दं बिन्दवो माकरन्दाः ॥ २४ ॥ भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि । कठोरपारावतकण्ठमेचक वपुर्वृषस्कन्धसुबन्धुरांसयोः। प्रसन्नसिंहस्तिमितं च वीक्षितं ध्वनिश्च माङ्गल्यमृदङ्गमांसलः ॥ २५ ॥ (निपुणं निरूपयन् ।) अये, न केवलमस्मद्वंशसंवादिन्याकृतिः । अपि जनकसुतायास्तच्च तच्चानुरूपं द स्फुटमिह शिशुयुम्मे नैपुणोन्नेयमस्ति । ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो- रभिनवशतपत्र श्रीमदास्यं प्रियायाः ॥ २६ ॥ शुक्लाच्छदन्तच्छविसुन्दरेयं सैवोष्ठमुद्रा स च कर्णपाशः । नेत्रे पुनर्यद्यपि रक्तनीले तथापि सौभाग्यगुणः स एव ॥ २७ ॥ मयूखाः अमलिनं निष्कलई चन्द्रमिव । माकरन्दाः मकरन्दसंबन्धिनः बिन्दवः कणाः विकसितं त्यकमुकुलीभावमरविन्दमिव च वपुःकान्तिमुद्रेदयन्ति ॥ २४ ॥ अनयोः कुशलवयोः भूयिष्ठं अतिशयेन बहु रघुकुलकौमार रघुवंशसंबन्धिबालखम् । कठोरेति । कठोरपारावतकण्ठवत प्राप्तयौवनकपोतकण्ठवन्मेचकं नीलम् । वृषस्क. न्धवदृषभककुदिव सुबन्धुरै सुन्दरमंसं भुजशिखरं यस्योस्तथोकयोः प्रसन्नसिंहवत्का. कश्थरहितसिंहवीक्षितवत् स्त्रिमितमतरलम् । मानल्यमृदङ्गवन्मङ्गलार्थमृदङ्गध्वनिक न्मांसलः स्फीतः । हितादिवायत्प्रत्यये सति प्रज्ञाद्यणि च आदिवृद्धौ माङ्गल्यशब्द. सिद्धिः ॥ २५ ॥ निपुणं निरूपयन् सम्यग्विचारयन् । आकृतिरस्मद्वंशसंवादिनी केवलं न भवति असद्वंशसंवादः असत्कुलसादृश्यं सोऽस्यास्तीति विग्रहः । अ. पीति । तच्चतचावयवादिकं गुणजातमेवं च जनकसुतायाः सीतायाः अनुरूपं सदृशं तचावयवादिकमिह शिशुयुग्मे कुशलवयोः स्फुटं व्यक्तम् । तच्च गुणजातं च नैपुणेना- वहिततया उन्नेयं निश्चयाईमस्ति विद्यते । क्रियाद्वयानैकशेषः । अभिनवशतपत्रस्य नूतनकमलस्य श्रीरिव श्रीर्यस्य तथोकमास्यं पुनरक्ष्णोर्गोचरीभूतमिव ननु भूयोऽपि चक्षुर्विषयीभूतमिव ननु संभाव्यते । द्वादशसु संवत्सरेषु चक्षुरगोचरमय गोचरतां गतमिति विप्रत्ययेन लभ्यते ॥ २६ ॥ शुक्लाच्छदन्तच्छविसुन्दरेयं ओष्ठमुद्रा अप- रोत्तरोष्ठसंनिवेशः सैव सीताया एव । कर्णपाशः स एव सीतासंबन्ध्येव । नेत्रे Hari का +Livray 27 ना करते ne का

त
af 21 - 27.53
षष्ठोऽ
Net:
(विचिन्त्य ।) तदेतत्याचेतसाध्युषितमरण्यं यत्र किल देवी परि-
त्यक्ता । इयं चानयोराकृतिर्वयोऽनुभावश्च । यत्वत:प्रकाशान्यस्त्राणीति
च । तत्रापि स्मरामि खलु तदपि चित्रदर्शनप्रासङ्गिक शस्त्राभ्यनुज्ञानं
प्रबद्धं स्यात् । न ह्यसंप्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुमः । अयं
विस्मयसंप्लवमानसुखदुःखातिशयो हृदयस्य मे विप्रलम्भः । यमाविति
च भूयिष्ठमात्मसंवादः । जीवद्वयापत्यचिहो हि देव्या गर्भिणीभाव
आसीत् । (सास्रम् ।)
परां कोटिं लेहे परिचयविकासादधिगते
रहो विस्रब्धाया अपि सहजलज्जाजडदृशः।
मयैवादी ज्ञातः करतलपरामर्शकलया
द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥
(रुदिला ।) तत्किमेतौ पृच्छामि केनचिदुपायेन ।
..
पुनः अनयोः सीतायाश्च दृशौ तु रक्तनीले यद्यपि अनयोः रक्ते सीताया नीले एव ।
तथापि सौभाग्यगुणः सौन्दर्यगुणः स एव एकरूप एव ॥२७॥ प्राचेतसाध्युषितं वा-
ल्मीकिकर्तृकवासाधिकरणम् । यत्रारण्ये । आकृतिरवयवसंस्थान विशेषः । इयमीहशम्।
वयः द्वादशवत्सरपरिमितमित्यर्थः । अनुभावश्च प्रभावश्व ईदृश इति शेषः । अत्राणि
जृम्भकाणि खतःप्रकाशानि गुरूपदेशेन विना ज्ञातानीति यत् । तत्रापि चित्रदर्शने प्रा.
सङ्गिकं प्रसमानुप्रसकं शस्त्राभ्यनुज्ञानं सर्वथा तत्प्रसवमुपस्थास्यन्तीत्यत्र कृतं प्रबुद्धं
स्यात्तथा संपादनेन प्रकटं भवेदिति स्मरामीत्यन्वयः । हि यस्मादसंप्रदायकानि गुरूप-
देशक्रमरहितानि अत्राणि पूर्वेषामपि मनुप्रभृतीनामपि नेति शुश्रुमस्तस्मात्प्रबुद्धं स्या-
दिति तत्रापि सरामीति पूर्वेण संबन्धः । विस्मये संप्लवमानः अमजन सुखदु-
खातिशयः हृदयस्य विप्रलम्भः विप्रयोगशृङ्गारः । प्रायेण हि खरूपसंतापेन प्रियजन-
संयोगविप्रयोगौ सुखदुःखहेतू भवतः । विस्मयसंप्लवमानेत्यनेन विस्मयस्य प्रवाहात्म-
कत्वं ध्वन्यते । अजले प्लवनासंभवात् । यमाविति द्वाविति । आत्मसंवादः प्रकृतानु-
भूयमानयमलानुरूपखपूर्वानुभवः भूयिष्ठम् । बहुतम इत्यर्थः । सामान्ये क्लीबलम् ।
जीवद्वयं यदपत्यं तस्य चिहं सूचितं यस्मिंस्तथोक्तः। परामिति । स्नेहे परिचयस्य
संततसाक्षात्कारस्य विकासादतिशयात्परां कोटिमपकर्षसमानाधिकरणोत्कर्षमधिगते
प्राप्ते सति । रहो विस्रब्धाया अपि लज्जाविरोधिखैरस्थित्यापादकदशाविशेषार्हाया
अपि । अर्हे क्तः। सहजलज्जाजडदृशः अपरिहरणीयलज्जागुणेनाधीरलोचनायां आदौ
प्रथमं करतलपरामर्शकलया पाण्युदरपरिमार्जनविद्यया । कलाशब्देन सूक्ष्मदर्शन
ध्वन्यते । प्रन्थिः भस्त्रिका द्विधा अपत्यद्वयरूपप्रकारद्वययुक्त ज्ञातः निश्चितः । तदनु
मज्ज्ञानानन्तरं कैर्दिवसैः कतिपयदिवसैस्तयापि ज्ञातः सीतयाप्यवगतः ॥ २८ ॥

उत्तररामचरिते। . लव:-सात, किमेतत् । बाष्पवर्षेण नीतं बो जगन्मङ्गलमाननम् । अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ।। कुश:-अयि वत्स, विना सीतादेव्या किमिव हि न दुःखं रघुपतेः प्रियानाशे कृत्वं किलं जगदरण्यं हि भवति । स च स्नेहस्तावानयमपि वियोगो निरवधिः किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥ रामः-(स्वगतम् ।) अये, तटस्थ आलापः । कृतं प्रश्नेन । मुग्ध. हृदय, कोऽयमाकस्मिकस्ते संप्लवाधिकारः । एवं निर्मिन्नहृदयावेगः शि- शुजनेनाप्यनुकम्पितोऽस्मि । भवतु तावदन्तरयामि । (प्रकाशम् ।) वत्सौ, रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरखतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य तत्कौतूहलेन यत्किचिच्छ्रोतुमिच्छामि । कुशः कृत्स्न एव संदर्भोऽस्माभिरावृत्तः स्मृतिप्रत्युपस्थितौ ता- वदिमौ बालचरितस्यासाते द्वौ श्लोकौ । राम:-उदीरयतं वत्सौ। केनचिदुपायेन अनिर्धारणीयेन व्याजेन ॥ बाष्पवर्षेणेति । जगन्मङ्गलं जगदभ्यु- दयहेतुभूतं वः आननमवश्यायेन हिमेनावसिक्तस्य पुण्डरीकस्य सिताम्भोजस्य । । विरहपाण्डिना पुण्डरीकत्वोक्तिः । चारुतां शोभा नीतं प्रापितम् । निदर्शनालंकारः ॥३९॥ विनेति । सीतादेव्या विना सीतावियोगं विना रघुपतेः किंवा दुःखं न । सर्व दुःखात्मकम् । कृत्नं जगत्प्रियानाशे प्रियाया अदर्शने अरण्यं भवति हि । स च नेहः सीताविषयकः प्रणयः स तावानपरिमितः। वियोगः निरवधिरवसानशून्यः । अनधिगतरामायण इवानधीतरामायण इव पृच्छसि ॥ ३० ॥ तटस्थः असजिज्ञा- सितसीतापुत्रलात्स्पर्शनेन उक्तमित्यर्थः । आकस्मिकः निष्कारणिकः संप्लवाधिकारः सुतगमनान्वयः दुर्लभविषयमनोरथायासः किमर्थ इति यावत् । अन्तरयामि छाद. यामि । सरखत्याः वाण्याः निष्यन्दः द्रवः । आदित्यवंशस्य प्रशस्तिः प्रख्यातिहेतुः। रामायणं रामायणमिति श्रूयते । श्रवणबहुवाभिप्रायं द्विरुक्तम् । तत्र तदेकदेशं यत्किंचिच्छोतुं, इच्छामि । कौतूहलं हर्षः ॥ कृत्स्न एव सकल एव संदर्भः प्रन्यः आवृत्तः उपाध्यायासहकारेण खमात्रेणोचारणानुकूलावृत्तिविशेषः कृतः। स्मृति प्रत्यु. पस्थिती अद्य स्मृतिविषयभूतौ । बालचरितस्य बालकाण्डस्यान्ते सर्गान्ते द्वौ श्लोको वे प्रये ॥ वत्सौ संबोधन द्विवचनम् । उदीरयतं वदतम् । विधौ लोमध्यमद्विवचनम् ।

षष्ठोऽङ्कः ।। कुशः प्रिया तु सीता रामस्य दाराः पितृकृता इति । गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत ॥ ३१ ॥ तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् । हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥ राम:-कष्टमतिदारुणो हृदयमर्मोद्धातः । हा देवि, एवं किलै- तदासीत् । अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनस्तावकाः संसारवृत्तान्ताः। क तावानानन्दो निरतिशयविसम्भवहुलः क वान्योन्यप्रेम क च नु गहनाः कौतुकरसाः । प्रियात्विति । सीता पितृकृता दारा इत्येव रामस्य गुणैः शीलादिभिः । रूपगुणैरभूषि- तेष्वप्यनेष्विति लक्षणलक्षितरूपप्रभृतिगुणैश्च प्रीतिर्भूयोप्यवर्धत ॥३१॥ तथैवेति। तथैव यथा रामस्य सीता प्रिया तथा रामः सीतायाः प्रियोऽभवत् । हृदयं त्वेव । एव. कारेण सीतारामयोरपि स्वप्रीतिज्ञानव्यावृत्तिः। प्रीतियोगं प्रीतेस्त्तरोत्तरवृद्धिसंनाहम् । 'योगः संनहन-'इत्युक्तेः।जानाति ॥ ३२ ॥ हृदयमेव मम मर्मस्योद्धातःप्रहारः दारुणः दुःसहः । हा देवीत्यादि । एतद्वक्ष्यमाणमेवमासीद्वक्ष्यमाणप्रकारेणासीत् । यद्वा 'प्रिया तु-'इत्यादिश्लोकद्वयोकमेवमासीद्यथोक्तमभूत् । हा दुःख्यते । अहो इत्यादि। निरन्वयविपर्यासे निरन्वयविनाशे। अयं तु विप्रलम्भः' इत्युक्तेः विश्लेषस्य निरन्वयवि- नाशत्वोक्तिः । दीपस्य निर्वाणजन्यो ध्वंसः निरन्वयविनाशः। तस्यैव उत्तरोत्तरदशा- संक्रमणलिङ्गानुमेयो ध्वंसोऽन्यः। सीताया मरणरूपेऽस्मिनिरन्वय विनाशे विप्रलम्भ- स्मृतिपर्यवसायिनः । विप्रलम्भश्च स्मृतिश्च विप्रलम्भस्मृती । विप्रलम्भो वञ्चनं तच्च परेच्छाधीनभ्रमः । स्मृतिर्भूतपूर्व विषयकं ज्ञानम् । तत्पर्यवसायिनस्तद्विषयतामात्र वन्तः दैववञ्चनास्मरणमात्रविषयाः संसारवृत्तान्ताः प्रणयभोगादयः । नतु वस्तुसत्ता- वन्त इति भावः । यद्वा । निरन्वय विपर्यासात्मको विप्रलम्भः अन्यतरनाशात्मकविरह- हेतुकविप्रलम्भशृङ्गारस्तस्मिन् स्मृतिपर्यवसायिनः स्मृतिविषयतामात्रवन्तो भवन्ती- त्यर्थः । अभिलाषाप्रवासकलहविरहहेतुत्वेन विप्रलम्भङ्गारस्य पञ्चविधत्वात् । 'संभोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः । संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्त- योः ॥ इत्यादिकमिहानुसंधेयम् । युक्तश्चायमर्थो नाटकस्थविप्रलम्भारपरलखा- रस्यात् । केचित्तु अन्वयश्च विपर्यासश्च अन्वय विपर्यासौ । अन्वयव्यतिरेकावित्यर्थः । तौ न विद्यते येषां ते निरन्वयविपर्यासाः। अन्वयव्यतिरेकशून्या इत्यर्थः । विप्रल. भ्यन्ते प्राम्यन्ते एभिरिति विप्रलम्भाः। बाहुलकात्करणे घञ्प्रत्ययः। अन्वयव्यतिरेक- शून्यत्वेन सद्विलक्षणतया तुच्छत्वेन विषयतासंबन्धेन भ्रममात्रहेतवः स्मृतिपर्यवसा- यिनः स्मृतिमात्रविषयातीतघटादिवदर्थक्रियाकारित्व विधुरा इति व्याचक्षते । केति । १४ उ० रा.

१५८ उत्तररामचरिते सुखे वा दुःखे वा क न खलु तदैक्यं हृदययो- स्तथाप्येष प्राणः स्फुरति न तु पापो विरमति ॥ ३३ ॥ भोः कष्टम् । प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः । य एव दुःसहः कालस्तमेव सारिता वयम् ॥ ३४ ॥ यदा किंचित्किंचित्कृतपदमहोमिः कतिपयै- येदेतद्विस्तारि स्तनमुकुलमासीन्मृगहशः । वयःलेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारः स्फुरति हृदि मुग्धश्च वपुषि ॥ ३५ ॥ लव:-अयं तु चित्रकूटवर्मनि मन्दाकिनीविहारे सीतादेवीमु- द्दिश्य रघुपतेः श्लोकः। त्वदर्थमिव विन्यस्तः शिलापट्टोऽयमायतः । यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६॥ निरतिशयेनानपकृष्टेन विलम्भेण भोगदशायां खैरस्थित्युपपादकलज्जाविरोधिज्ञानवि- शेषेण बहुलः स्फारः सःतावानपरिमेय आनन्दः। क गत इति शेषः । अन्योन्यस्य प्रेम परस्परविषयकं परस्पराधिकरणकं न प्रेम प्रणयः क्व । गहना अगाधाः कौतुकरसाः भोगाभिलाषाः क्व । हृदययोः मम तस्याश्च मनसोः सुखे वा दुःखे वा सुखदुःखानुभव- काले तदैक्यमभिन्नत्वं च । तच्छब्देन हृदयैक्यस्य दौर्लभ्यं द्योत्यते । तथापि एतेषु सर्वेषु गतेष्वपि पापः मरणप्रतिबन्धकपापवान् । पापगुणसारत्वात्पापत्वव्यपदेशः । एषःप्राणः आत्मा स्फुरति न विरमति न नश्यति ॥३३॥प्रियेति । प्रियागुणसहस्राणां सौन्दर्यसौजन्याद्यनन्तगुणानाम् । 'संख्यायां द्विबहुत्वे स्तः' इत्युक्तेः बहुवचनम् । क्रमेण उन्मीलनतत्परः प्रकाशनासकः क्व कालः दुःसहस्तमेव कालं वयं स्मारितास्त. द्विषयक स्मरणवन्तः कृताः ॥ ३४ ॥ यदेति । कृतपदं सूचितरेखाकारसंनिवेशं तत् मृगदृशः सीतायाः स्तनमुकुलं कतिपयैरहोमिर्दिवसैरीषद्विस्तारि यस्मिन् काले अभवत् । यतः स्नेह-' इति पाठे स्नेहाकूतयोः अनुरागाभिलाषयोर्व्यतिकरस्य संपर्कस्य धनः मेदुरता यतः। यादृशकालहेतुक इत्यर्थः । 'वयःनेहाकूत-' इति पाठे तु-यत्र काले वयसस्तारुण्यस्य स्नेहस्यानुरागस्य आकूतस्याभिप्रायस्य च व्यतिकरेण धनः सान्द्रः।धर्मपरो धर्मिपरश्चायं शब्दः मदनविशेषणम् । मदनः मन्मथः कर्ता हृदि प्रग. ल्भव्यापारः सन मनस्यतिशयितशरपातनादिचेष्टायुक्तः सन्वपुषि मुग्धश्च सन्नप्रकटः सन् स्फुरति वर्तते । तमेव कालं स्मारिता वयमित्यन्वयः । अनेन श्लोकेन मुग्धालक्षणं स्फोरितम्। पादत्रयेण 'उदयद्यौवना मुग्धा' इति दलमुक्तम् ।तुरीयपादेन च 'लज्जावि- जितमन्मथा' इति दलमुक्तम् ॥३५॥ चित्रकूटवर्मनि चित्रकूटपर्वतमार्गे मन्दाकिनी. विहारे गङ्गातीरनीरक्रीडायां सीतामुद्दिश्य सीताबोधेच्छया । त्वदर्थमिति । अयं षष्ठोऽङ्कः। १५९ रामः-(सलज्जास्मितस्नेहकरुणम् ।) अति हि नाम मुग्धः शिशुजनः विशेषतस्त्वरण्यचरः । हा देवि, स्मरसि वा तस्य तत्समयविसम्भाति- प्रसङ्गस्य। श्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनी- मरुत्तरलितालकाकुलललाटचन्द्रद्युति । अकुङ्कुमकलकितोज्वलकपोलमुत्प्रेक्ष्यते निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७॥ (स्तम्भित इव स्थित्वा । सकरुणम् ।) अहो न खलु भोः, चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः प्रवासे चाश्वासं न खलु न करोति प्रियजनः । जगजीर्णारण्यं भवति च कलत्रेऽप्युपरते कुकूलानां राशौ तदनु हृदयं पच्यत इव ॥ ३८॥ केसरः बकुलवृक्षः यस्यामितः यदीयेषु चतसूषु पार्थेषु प्रष्ट इव पुष्पकरणकप्रवर्षणक- तॆत्युत्प्रेक्षते । सोऽयमायतः शिलापट्टस्वदर्थ विन्यस्त इव । उत्प्रेक्षाद्वयम् । अयमभितः केसरः परितो वर्तमानः केसरवृक्षः। यस्य प्रवृष्ट इव भविष्यत्त्वदुपदेशमूलकयद. धिकरणकपुष्पवृष्टिकर्तेत्युत्प्रेक्षते । अयं त्वदर्थ विन्यस्त इव । अयं श्लोको रामायण- लेखकैः प्रभ्रंशित इति वदन्ति ॥ ३६ ॥ लज्जा रहस्यप्रकाशनात् हृदयसंकोचः । मितं विस्मयात् । शिशुजनः अतिमुग्धो हि नामेति योज्यम् । अरण्यचरस्तु विशेषतो मुग्धः। तस्य पूर्वानुभूतस्य तस्मिन्समये 'त्वदर्थम्-' इत्यादिश्लोकार्थसमये यो विनम्भः लज्जाप्रतिघातेन खैरस्थित्यापादकज्ञानविशेषः तेन योऽतिप्रसङ्गः भोगातिमात्रता तस्यामित्यर्थः। स्मरसि । अधीगर्थदयेशां-' इति कर्मणि षष्ठी।श्रमाम्ब्विति।श्रमा. म्युशिशिरीभवत् इदं मिन्नं पदं मुखविशेषणम् । सुरतकालजखेदसलिलेन शीतली. - भवत् । अलकाकुला चूर्णकुन्तलैयक्ता चन्द्रसदृशललाटद्युतिः यस्य तथोकम् । संजातः कलको यस्मिन् कलङ्कितः । कुङ्कुमेन कलङ्कितो न भवतीत्यकुकुमकलङ्कितः। अत एवोज्ज्वलः लावण्यातिरोधानेन प्रकाशमानः कपोलो यस्य तथोक्तम् । कुखमस्य कलकत्वोक्त्या न केवलमाभरणस्याभरणं किंतु आभरणासह मिति व्यज्यते। निराभरण- स्वाटङ्कमौक्तिकगुच्छादिभूषणरहितोऽपि सुन्दरः यः श्रवणपाशः पाशसदृशकर्णसंनि- वेशस्तेन मुग्धं सुन्दरमुत्प्रेक्ष्यते संभाव्यते ॥ ३७॥ चिरं ध्यात्वेत्यादि । अत्र श्लोके स्थितस्य जनस्येत्यध्याहार्यम् । प्रियजनः कर्ता प्रवासे देशान्तरगमने चिरं ध्यात्वा ध्यात्वा स्थितस्य पुरतो निर्माय निहित इव । अनवरतभावनाप्रकर्षयुक्तस्य जनस्य पुरस्तावत्तेन भावनाप्रकर्षण सृष्ट्वा स्थापित इव । आश्वासं न करोतीति न खस्य पुनरागमनेन संतोषं करोत्येव । प्रियजने प्रोषितं ध्यायति सति तदानीमागतप्रोषि- तस्तेन ध्यानेन मृष्ट इत्युत्प्रेक्षाह इति भावः । कलत्रे [परते च कलत्रनाशे तु १६० उत्तररामचरिते (नेपथ्ये।) वसिष्ठो वाल्मीकिर्दशरथमहिण्योऽथ जनकः सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः। जराग्रस्तैर्गात्रैरथ खलु सुदूराश्रमतया चिरेणागच्छन्ति त्वरितमनसो विश्लथजटाः ॥३९॥ रामः-कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव । कथं खलु ते द्रष्टव्याः। (सकरुणं विलोक्य ।) तातजनकोऽप्यत्रैवायात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः । संबन्धस्पृहणीयताप्रमुदितैज्येष्ठैर्वसिष्ठादिभि- दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः संगमम् । पश्यन्नीशमीदृशः पितृसखं वृत्ते महावैशसे दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् ॥ ४०॥ (नेपथ्ये।) भो भोः, कष्टम् । अनुभावमात्रसमवस्थितश्रियं सहसैव वीक्ष्य रघुनाथमीदृशम् । जगत्कर्तृ जीर्णारण्यं शून्यकल्यं भवति । प्रवासवत्पुनरागमनशङ्काभावेन भावनाप्रकर्ष. स्यालीकत्वान्नाश्वासहेतुरिति भावः। तदनु जगज्जीारण्यकानन्तरं हृदयं कर्तृ कुकूलानां राशौ तुषानीनां समुदाये पच्यत इव पक्कं भवति । कर्मकर्तृलकारोऽयम् । आतिदे. शिकयगादयः ॥ ३८ ॥ दशरथमहिष्यः कौसल्यादयः शिश्वोर्लवचन्द्रकेत्वोः कलहं युद्धमाकर्ण्य जरया वार्धकप्रयुक्तशैथिल्येन प्रस्तैर्व्याप्तैर्गात्रैरुपलक्षितः । सुदूर आश्रमो यस्माद्रणरजात्तथोक्तम् । तस्य भावः सुदूराश्रमता। तया चिरेण बहुकालेन ॥३९॥ कथं द्रष्टव्याः केन प्रकारेण द्रष्टव्याः। तात जनकोऽपि भार्यापितृत्वात्स्वपितृत्वोपचारः।व- जेणेव अशनिघातेनेव ताडितोऽस्मि व्यथितोऽस्मि ।संबन्धेति। संबन्धस्यापत्यसंब- न्धस्य स्पृहणीयतया श्लाध्यतया प्रमुदितैः प्रकृष्टमोदयुक्तैः वसिष्ठादिभिः । आदिशब्देन गौतमकौशिकादिपरिग्रहः । अपत्य विवाहमङ्गलविधौ मम तस्याश्च पाणिग्रहणकर्मणि । तत्तातयोस्तथाविधजनकदशरथयोः संगम संमलेनं दृष्ट्वा महावैशसे वृत्ते सीतात्याग- रूपमहाहिंसायां पितृसुखं जनकमीदृशमत्यन्दुःखितमीदृशः पश्यन् वैशसनिमित्तभूतः पश्यन्नहं कि कुतः सहस्रधा अनन्तभासतया न दीयें विदारितो न भवामि । अथवा विदारणाभावे रामेण दुष्करं किं । न किमपि। रामेण दुष्करं दारणाभावो वा इतोऽप्य. न्यद्वा सर्व सुकरमिति भावः ॥ ४० ॥ अनुभावमात्रेति । अनुभावमात्रेण अनित- रसाधारणमहापुरुषत्वेन समवस्थिता समवस्थाही निश्चयाही श्रीरश्वैर्य यस्य तथो- । .

षष्ठोऽङ्कः। १६१ प्रथमप्रबुद्धजनकप्रबोधिता विधुराः प्रमोहमुपयान्ति मातरः ॥४१॥ राम:- जनकानां रघूणां च यत्कृत्वं गोत्रमङ्गलम् । तत्राप्यकरुणे पापे वृथा वः करुणा मयि ॥ ४२ ॥ यावत्संभावयामि । (इत्युत्तिष्ठति ।) कुशलवौ-इत इतस्तातः । (सकरुणं परिक्रम्य निष्कान्ताः सर्वे।) इति षष्ठोऽङ्कः। . तम् । प्रथमप्रबुद्धेन कौसल्याद्यपेक्षया पूर्वोत्पन्न प्रत्यभिज्ञापकेन जनकेन प्रबोधिताः प्रत्यभिज्ञापिताः मातरः अनुभावमात्रसमवस्थितश्रियमीदृशं रघुनाथं वीक्ष्य विधुराः सत्यः शून्यकरणाः सत्यः प्रमोहं प्रकृष्टां मूर्छामुपयान्ति प्राप्नुवन्तीत्यन्वयः॥४१॥जन - कानामिति । जनकानां रघूगां च कृत्स्नं गोत्रमङ्गलमखण्डं कुलश्रेयः। तत्रापि तथा- विधसीतायामपि अकरुणे तदुःखाधीनदुःखवत्त्वरूपकरुणारहिते मयि वः युष्माकं करुणा मदुःखाधीनदुःखवत्ता वृथा । दयया सर्वभूतेषु इत्युक्तादृष्टविशेषमात्ररूपप्रयो जनेनापि शून्येत्यर्थः ॥ ४२ ॥ यावत्संभावयामि अभ्युत्थानाभिवादनादिभिः पुरस्क- रिष्यामि । यावत्पुरानिपातयोर्भविष्यदर्थे लट् । इत्युत्तिष्ठति उत्थानमभिनयति ॥ इत इतस्तातः । अत्रागच्छत्विति शेषः । मार्गदर्शनपरमिदं वाक्यम् ॥ निष्क्रान्ताः रङ्गस्थानादिति शेषः । सर्वे । वसिष्ठायेतदकाभिनेयभूमिकाधारिण इत्यर्थः ॥ दाशरथिवंशजनुषो भूसारनिवासवीरराघवार्यस्य । उत्तररामचरितनाटकव्याख्यायामवसितोऽङ्कः षष्ठः ॥ इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल. स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां षष्ठोऽङ्कः। हरदम And M ल.

उत्तररामचरितम् । सप्तमोऽः। (ततः प्रविशति लक्ष्मणः।) लक्ष्मण:-भोः, किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौर- जानपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यनिकायः सचराचरो भूतग्रामः खप्रभावेन संनिधापितः । आदिष्टश्चाहमार्येण- 'वत्स लक्ष्मण, भगवता वाल्मीकिना खकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः । गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समा- जसंनिवेशः' इति । कृतश्च मामय॑स्य भूतप्रामस्य समुचितस्थानसं- निवेशो मया । अयं तु- राज्याश्रमनिवासोऽपि प्राप्तकष्टमुनिव्रतः । वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥१॥ अथ समप्रप्रयोजनकोडीकाररूपनिर्वहणसंधि सप्तमेन वक्ष्यन् चमत्कृतिविशेषला- भाय परित्यागानन्तरभाविनी सीतायाः दशामन्तर्नाटकेन विवक्षस्तदुपक्षेपिकां लक्ष्म- णप्रवेशवती रङ्गरचनामाह-ततः प्रविशति लक्ष्मण इति । ततः षष्ठाङ्कप्रयोगाद- नन्तरम्।भोः किं नुखल्वित्यादि।भो इति हृदयंप्रति संबुद्धिः । किं नु संनिधापित इति योजना । भगवता पाहुण्यवता । ब्रह्म ब्राह्मणाः, क्षत्रं क्षत्रियाः, पौरा अवशिष्टाः पुरवासिजनाः, जानपदा देशवासिजनाः, एतैः सहिताः अस्माभिः सह प्रजा आहूय कृतन एवाखिल एव देवाः इन्द्रादयः, असुराः निर्ऋतिप्रभृतयः, तिर्यञ्चः नागादयः, एतेषां निकायो वर्गस्तेन सहितः भूतानां प्राणिनां ग्रामः समूहः। सचराचरः सस्थावर- जनमः । खप्रभावेन खतपःशक्त्यतिशयेन किं नु संनिधापितः। किं न्विति विस्मये। आर्येण रामेणादिष्ट आज्ञप्तः । खकृति स्वग्रन्थम् । अप्सरोभिः उर्वशीप्रभृतिभिःप्र. युज्यमानाममिनीयमानां द्रष्टुमुपनिमन्त्रिताः स्मः आवश्यकत्वेनाहूता भवामः । गङ्गा- तीरं गङ्गाकूलम् । आतोद्यस्य नृत्तगीतवाद्यसमुदायस्य स्थानं प्रवर्तनाधिकरणमुपगम्य प्राप्य समाजस्य सदसः संनिवेशः यथोचितस्थानविभागः क्रियतामित्यादिष्टश्चाहमिति पूर्वेणान्वयः । सीताया गङ्गाजलादुद्गमनसोकर्याय गङ्गातीरस्य रङ्गखकल्पनम् । स- लिलादुपैति हि वक्ष्यते । मर्त्यः मरणार्हः, अमर्त्यः तदनहः । मर्त्यश्वासावमर्त्यश्चेति विशेषणयोः समासः । नित्यानित्यात्मकस्येत्यर्थः । भूतप्रामस्य पृथिव्यादिभूतसमुदा. यस्य समुचितस्थानस्याधिकारानुरूपस्थानस्य संनिवेशं प्रतिष्ठापनम् । पूर्वमाज्ञापनप्रका- रकथनमद्य बनुष्टानकथनमिति पुनरुक्तिः । अयं तु-राज्येति । राज्यं भूमिपरिपा. लनात्मकराजकर्म तदेवाश्रमः खैराचारप्रतिबन्धकनियमविशेषः । सुखाल्पबदुःखभू. यस्वाभ्यामाश्रमलरूपणम् । प्राप्तं कष्टं दुःखरूपं मुनिव्रतं येन तथोकः । वाल्मीको सप्तमोऽङ्कः। १६३ (ततः प्रविशति रामः।) राम:-वत्स लक्ष्मण, अपि स्थिता रङ्गप्राभिकाः। लक्ष्मण:-अथ किम् । रामः-इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमां प्रतिपत्तिं लम्भयितव्यौ। लक्ष्मणः-प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्ण राजासनम् । तदुपविशत्वार्यः। रामः-(उपविश्य ।) प्रस्तूयतां भोः । सूत्रधार:-(प्रविश्य ।) भगवान्भूतार्थवादी प्राचेतसः स्थावरज- ङ्गमं जगदाज्ञापयति-यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं वचनामृतं करुणाद्भुतरसं च किंचिदुपनिबद्धम् । तत्र काव्यगौरवादव- धातव्यमिति। वाल्मीकेर्वा गौरवाद्गुरुत्वप्रतिपत्त्या पूजनीयत्वानुसंधानेन ॥ १॥रमस्य नाव्यस्थानस्य प्राश्निकाः सामाजिकाः । रङ्गस्थले राज्ञा सह द्रष्टार इत्यर्थः । प्रश्नं ज्ञातव्यार्थजिज्ञासाम- र्हन्तीति प्राश्निकाः । तदर्हाधिकारीयष्ठञ् । समस्तशास्त्रनिष्णातहृदया इति भावः ॥ अथ किमित्यङ्गीकारे ॥ इमौ वत्सौ । कुशलवावित्यर्थः । कुमारवासी चन्द्रकेतुश्च तेन समां प्रतिपत्ति लालनीयत्वादिधियं लम्भयितव्यौ प्रापयितव्यौ ॥ प्रभो राज्ञः स्नेहेन कुशलव विषयप्रीत्या यः प्रत्ययस्तथैव कार्यमिति व्यवसायः। तस्मादिदं चास्तीर्ण राजा. सनं सिंहासनस्यास्तीर्णासंभवेऽपि अन्यत्तद्योग्यमासनमास्तीर्णमिति मन्तव्यम् । कृत्ल एव सदेवासुरेति ब्रह्मेन्द्रादीनामपि तत्र संनिधापितत्वोक्त्या तदैकरूप्याय सिंहास- नातिरेकेणास्तीणाहसिनस्यैव युक्तत्वात् । एतेनात्र कवेः प्रमादवचनं प्रयुक्तम् , अत. एव ‘स चापि रामः परिषद्गतः शनैर्बुभूषयासकमना बभूव ह' इति बालकाण्डलोके परिषद्गत इति सिंहासनादवरुह्य परिषदि जनानामुत्थानाशझ्या शनैः स्थित इति व्या. ख्यातमस्मदाचार्यैः। सर्वे रामादय इत्यर्थः । प्रस्तूयतामभिनय आरभ्यतामित्यर्थः ॥ प्रविश्य सूत्रधारः । अन्तर्नाटकीयसूत्रधारः प्रविश्याहेत्यर्थः । भगवान् ज्ञानादिषाहु- ण्यपूर्णः। भूतार्थ सत्यमभिधेयं वदतीति भूतार्थवादी । 'सुप्यजातो' इति णिनिः। 'युके मादावृते भूतम्' इति कोशः। प्रचेतसो वरुणस्यापत्यं पुमान् प्राचेतसः। स्थावरं च तज. ङ्गमं च विशेषणयोः समासः । आज्ञापयति अकरणदण्डप्रयोजकविधिराज्ञा तां करोती- त्यर्थः । आर्षेणालौकिकेन चक्षुषा दृष्टया योगजप्रत्यासत्तिसहकृतपरिशुद्धान्तःकरणेन समुद्वीक्ष्य सम्यगतिशयेन साक्षात्कृत्य । अत्र 'रहस्यं च प्रकाशं च यथावत्संप्रपश्यसि' इत्यादिकं द्रष्टव्यम् । पावनं खदर्शनादन्येषां शुद्धिजननम् । अनेन 'काव्यालापांध वर्जयेत्' इति निषेधोऽन्यपर इति सूचितम् । वचनरूपममृतं सुधा यस्मिंस्तथोक्तम् । भोग्यत्वेन सादृश्यरूपणम् । करुणचाद्धतश्च करुणाद्रुतौ रसौ यस्मिंस्तत्तथोक्तम् । इष्टजनवियोगजन्यदुःखातिभूमिरूपः शोकः सहकारिभूतविशिष्टदेशकालकाव्यनि.

१६४ उत्तररामचरिते राम:-एतदुक्तं भवति । साक्षात्कृतधर्माणो महर्षयः। तेषामृतं- भराणि भगवतां परोरजांसि प्रज्ञानानि न कचिच्याहन्यन्त इति नहि शङ्कनीयानि । (नेपथ्ये।) हो अजउत्त कुमार लक्खण, एआइणिं असरणं आसण्णप्पसववेअणं अरण्णे हदासं सावदा अहिलसन्दि । हा दाणिं मन्दभाईणी भाईरईए अत्ताणं णिक्खिविस्सम् । १. हा आर्यपुत्र कुमार लक्ष्मण, एकाकिनीमशरणामासन्नप्रसववेदनामरण्ये हताशां श्वापदा अभिलषन्ति । हा इदानीं मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि । पुणनटचेष्टादिवशात्सामाजिकैर्भाव्यमानो निरतिशयखप्रकाशानन्दमयरसता प्रतिपा- द्यत इति रसविदां संप्रदायः। अद्भुतश्च तथाविधो विस्मयः । गङ्गाप्रवाहपतनं तत्र. त्यप्रसववर्णनादिनाद्भुतरसयुक्तलम् । किंचिन्मार्गरूपकमित्यर्थः । उपनिबद्धं प्रथितम् । तत्र रूपके काव्यगौरवात्काव्यस्य रूपकरूपस्य तद्गौरवान्महनीयत्वावधातव्यं मनसो विषयान्तरसंचारराहित्यरूपमवधानं कर्तव्यमित्याज्ञापयतीति संवन्धः ॥ साक्षात्कृतो धर्मोऽलौकिकश्रेयःसाधनरूपो यैस्तथोक्ताः । महान्तश्च ते ऋषयः महर्षयः । 'ऋषयः सत्यवचसः' इत्यमरः । 'अमृतंभराणि' इति क्वचित्पाठः । इदं च पदद्वयम् । बिभर्तीति भरम् । पचायच् । त्रिलिङ्गत्वानपुंसकबहुवचनोत्पत्तौ भराणीति भवति । अमृतमिति क- मणि द्वितीया|अमृतकर्मकभरणकर्तृणीत्यर्थः। 'कर्तृकर्मणोः कृति'इत्यस्यानित्यवान षष्ठी। तज्ज्ञापकं तु तदहम्','अन्तों येनादर्शनम्'इति निर्देशद्रयमिति स्पष्टं व्याकरणपरिशी- लनशालिनाम् । 'धयैरामोदमुत्तमम्' इति भटिप्रयोगानाप्रयुक्तत्वशङ्का । एतेन 'अमृतं. भराणि' इति कवेःप्रमाद इति वदन व्याख्याता निरस्तः । अमृतरणकर्तृत्वं चेह मोक्षसा- घनत्वरूपम् । यद्वा । 'ऋतंभराणीति दारानर्थयन्ति' । 'ऋतंभरां च मां प्राहुः' इत्युक्तः संज्ञाशब्दत्वात्संज्ञायां खच्प्रत्ययः । 'ऋतंभराभिधानम्' इत्युक्तेश्च । रजसः पराणि परोरजांसि परिशुद्धानीत्यर्थः। शुद्धमरजस्कं परोरजः' इति कोशः। तेषां भगवतां प्रज्ञा- नानि प्रमादरहितानि ज्ञानानि न व्याहन्यन्ते । अयथार्थानि न भवन्तीत्येतदुक्तं भव- तीति पूर्वेणान्वयः। नहि शङ्कनीयानि । अप्रामाण्यसंशयानहर्हाणीत्यर्थः॥नेपथ्ये इति। इंदं चाामिनेयसीताप्रवेशाद्युपक्षेपम् । एकाकिनीमेकाम् । आसन्नप्रसववेदनां समीपा. गतप्रसूतिव्यथाम् । हताशां व्यर्थमनोरथाम् । श्वापदाः दुष्टमृगाः अमिलषन्ति भक्षितु- सप्तमोऽङ्कः। १६५ - लक्ष्मण:-कष्टं बतान्यदेव किमपि । सूत्रधार:- विश्वंभरात्मजा देवी राज्ञा त्यक्ता महावने । प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥२॥ (इति निष्कान्तः।) प्रस्तावना। रामः-(सावेगम् ।) देवि देवि, लक्ष्मणमवेक्षख । लक्ष्मण:-आर्य, नाटकमिदम् । रामः-हा देवि दण्डकारण्यवासप्रियसखि, एष ते रामाद्विपाकः । लक्ष्मणः-आर्य, आश्वस्य दृश्यताम् । प्रबन्धस्त्वार्षः । रामः-एष सजोऽस्मि वज्रमयः । (ततः प्रविशति उत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामालम्बिता प्रमुग्धा सीता।) रामः-वत्स, असंविज्ञातपदनिबन्धने तमसीवाहमद्य प्रविशामि धारय माम् । देव्यौ- समाश्वसिहि कल्याणि दिष्ट्या वैदेहि वर्धसे । अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥ ३ ॥ मिच्छन्ति । भागीरथ्यां गङ्गायामात्मानं निक्षिपामि पातयामि ॥ विश्वंभरेति । विश्वभरात्मजा भूमेः सुता । देवी कृताभिषेका । राज्ञा लक्ष्मणेन । प्राप्तः प्रसवः यं प्राप्तप्रसवस्तम् । गङ्गा च सा देवी च तस्याम् ॥२॥प्रस्तावनेति। अन्तर्नाटकीय- प्रस्तावना वृत्तेत्यर्थः ॥ सावेगं सभयम् । लक्ष्मणमवेक्षख । मयि सापराधेऽपि वत्पुत्रं लक्ष्मणं दृष्ट्वा गङ्गायां न पतितव्यमित्यर्थः । नाटकमिदमुच्यमानगङ्गापतनं नाटकं नाटकप्रयोज्याभिनयात्मकम् । न वास्तवमित्यर्थः॥रामाद्विपाकः रामहेतुकः दुःखानुभव इत्यर्थः । दण्डकेति विशेषणं तु साभिप्रायम् । मत्सुखं बदधीनं बद्दुःखं तु मदधीनमि- त्यर्थः ॥ आर्य, आश्वस्य दुःखं लघूकृत्य । आर्षः ऋषिप्रणीतः । दर्शनाभावे मुनिः कुप्येदिति हृदयम् ॥ वज्रमयः अत्यन्तकठिनः । सज्जोऽस्मि सीताविपत्तिनाटकं द्रष्टुं बद्धपरिकरोऽस्मि ॥ उत्सङ्गितः उत्सङ्गेन गृहीतः एकैको दारको याभ्यां तथोक्ता- • भ्यामवलम्बिता धारिता प्रमुग्धा प्रकृष्टमूविती ॥ असंविज्ञातमविदितं पदनि- बन्धनं स्थानसंबन्धो यस्मिंस्तथोक्ते । पदनिबन्धनः पादन्यासो वा । मां धारय पतनप्रतिघातं कुरु ॥ समाश्वसिहीति । हे कल्याणि मङ्गलवति । संबुद्धिरियम् । वर्धसे श्रेयखिनी भवसि । दिष्ट्या आनन्देऽयं शब्दः । अन्तर्जले जले अन्तः । प्रसू. तासि उत्पादितवत्यसि । रघुवंशधरौ रघुसंतानैकदेशौ दिष्ट्या देवेन दुष्टसाधनसंपत्त्य- भावात्प्रसूतिप्रतिबन्धकसद्भावादैवमेवात्र कारणमिति भावः । सुन्दरकाण्डस्थदिष्टयेति उत्तररामचरिते सीता-(आश्वस्य ।) दिहिआ दारए पसूदसि । हा अजउत्त । लक्ष्मण:-(पादयोर्निपत्य ।) आर्य, दिष्ट्या वर्धामहे । कल्याणप्ररोहो. रघुवंशः । (विलोक्य ।) हा कथं क्षुमितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः। (वीजयति ।) देव्यौ-वत्से, समाश्वसिहि । सीता-(समाश्वस्य ।) भैअवदीओ, का तुझे । मुञ्चह । पृथिवी-इयं ते श्वशुरकुलदेवता भागीरथी । सीता-जमो दे भअवदि । भागीरथी-चारित्रोचितां कल्याणसंपदमधिगच्छ । लक्ष्मण:-अनुगृहीताः स्मः। भागीरथी-इयं ते जननी विश्वंभरा । सीता-हाँ अम्ब, ईरिसी अहं तुए दिट्टा । पृथिवी-एहि पुत्रि वत्से सीते। (उभौ आलिङ्गय मूर्च्छतः।) लक्ष्मण:-(सहर्षम् ।) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना । रामः-दिल्या खल्वेतत् । करुणान्तरं तु वर्तते । भागीरथी-अत्रभवती विश्वंभरा व्यथत इति जितमपत्यस्लेहेन । १. दिष्ट्या दारको प्रसूतास्मि । हा आर्यपुत्र । २. भगवत्यौ, के युवाम् । मुञ्चतम् । ३. नमस्ते भगवति । ४. हा अम्ब, ईदृश्यहं त्वया दृष्टा । पदस्य दैवेनेत्युत्तानार्थो वर्णितः॥३॥ कल्याणःशुभकरः प्ररोहोऽङ्कुरो यस्य तथोकः। मुन्धतं त्यजतम् । लोटमध्यमद्विवचनम् । मामिति शेषः॥ श्वशुरकुलस्य पत्युः पितृ. वंशस्य देवता योगक्षेमनिर्वाहिका भागीरथी । साभिप्रायं नामेह निर्दिष्टम् ॥ चारि- त्रस्य पातिव्रत्यसञ्चरितस्य उचितामनुरूपां कल्याणसंपदं श्रेयःसंपत्तिम् ॥ अनुगृहीताः सः। रामः सीता अहं च क्षेमोपधायिका आशीविषयीकृता इत्यर्थः । सीताक्षेमे सर्वक्षेम इति हृदयम् ॥ जननी माता । विश्वंभरेति सामिप्रायम् । पुश्यां लयि एव- मलीकवादिनोऽपि जनान् बिभर्तीति क्षमातिशयव्यञ्जनात् ॥ ईशी एवमलीकपौ. रवादेन त्यका विपद्यमाना सती दृष्टा ॥ उभौ सीतापृथिव्यौ ॥ अभ्युपपन्ना अनुगृ- हीता ॥ एतन्मातापुत्र्योरालिङ्गय मूर्छारूपं करुणान्तरं मदुःखातिरिक्तं दुःखम् ॥ अत्र सप्तमोऽङ्कः। १६७ यद्वा सर्वसाधारणो ह्येष मनसो मूढग्रन्थिरान्तरश्चेतनावतामुपप्लवः संसा- रतन्तुः । सखि भूतधात्रि वत्से वैदेहि, समाश्वसिहि । पृथिवी-(आश्वस्य ।) देवि, सीतां प्रसूय कथमाश्वसिमि । सोढश्चिरं राक्षसमध्यवास- स्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः । को नाम पाकाभिमुखस्य जन्तु- द्वाराणि दैवस्य पिधातुमीष्टे ॥ ४ ॥ पृथिवी भगवति भागीरथि, युक्तमेतत्सर्वं वो रामभद्रस्य । न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः । नाहं न जनको नामिर्न तु वृत्तिन संततिः ॥ ५॥ winni सीता-हाँ अजउत्त, सुमरेसि । पृथिवी-आः, कस्तवार्यपुत्रः । १. हा आर्यपुत्र, स्मरसि । भवती पूज्या विश्वंभरा क्षमाप्रधाना भूमिः व्यथत इति दुःख्यत इति हेतोरपत्यनेहेन जितमभिभवः कृतः । अपत्यस्नेहो बलवान्धीरानप्यमिभवतीत्यर्थः । यद्वति पूर्वक- ल्पातिरिककल्पद्योतकम् । मनसः हृदयस्य मूढप्रन्थिः मोहात्मको विभागाभावप्रयो- जकसंपर्कजनकः । चेतनावतां प्रेक्षावतामान्तर उपप्लवः अभ्यन्तर उपद्रवः संसार. तन्तुः संसारसंधायकः एषः अपत्यस्नेहः सर्वसाधारणः । न केवलं विश्वंभरायाः किं तु सर्वेषां समानः । दधातीति धात्री पोषयित्री । यद्वा दधत्येताविति धात्री। प्राणिनां वर्धयित्रीत्यर्थः । इदं च संबोधनं पृथ्वी प्रति अभिप्रायगर्भम् ॥ सीतां प्रसूय कथमाश्वसिमि कथं केन प्रकारेणाश्वसिमि क्षीणदुःखा भवामि । मत्सुता संपन्नप्रजेति वा (स्वाधीनपतिकेति वा केन हेतुना क्षीणदुःखा भवामीत्यर्थः । सोढ इति । राक्षसम- ध्यवासाचिरं सोढः । भूयांसं कालमनुभूत इत्यर्थः । सुदुःसह इति । अस्याः द्वितीय. • स्त्यागस्तु अलीकजनवादप्रयुक्तत्यागस्तु सुदुःसहः पूर्ववत्सहनानह इत्यर्थः ॥ इदमन्तं पृथ्वीवाक्यमनन्तरं गङ्गावाक्यम् ॥ गङ्गेति । आहेति शेषः। को नाम जन्तुःप्राणी पाकाभिमुखस्य फलोपधानप्रवृत्तस्य दैवस्य सुकृतदुष्कृतात्मकभाग्यस्य द्वाराणि अनुभ- वमार्गान् पिधातुं रोद्भुमीष्टे समर्थो भवति ॥ ४ ॥ वः रामभद्रस्य युष्मद्वंश्यस्य राम- भद्रस्य । अनेन खसंबन्धः परिहत इति ध्वनितम् । एतद्वक्ष्यमाणम् । युक्तं संगतम् । न प्रमाणीकृत इति । बाल्ये बालभावे । बालेन स्वेनेति शेषः। पीडितः उद्वाहक- मणि गृहीतः पाणिः न प्रमाणीकृतः युक्तायुकविचारे निर्णयहेतुर्न कृतः । गृहीत इत्यनुक्त्वा पीडित इत्युक्तरयं भावः । सामुद्रिकतत्रवेत्ता खयं रामो मत्सुतापाणि- स्थसाध्वीलनिश्वायकं रेखाविशेष दृष्ट्वा निर्दोषेयं चिरानुभवाहेति सूचनाय दृढं पाणिं गृह्णन्नध तद्विसमारेति । अन्यथा पाणिग्रहणस्य दोषवत्यास्त्यागाप्रतिषन्त्रकखादिति .

! Songrera कृत्वो लोकस्तदिह विषमे किं स वत्सः करोतु ॥६॥ उत्तररामचरिते सीता-(सलज्जास्रम् ।) जैह अम्बा भणादि । रामः-अम्ब पृथिवि, ईदृशोऽस्मि । गङ्गा-भगवति वसुंधरे, शरीरमसि संसारस्य । तत्किमसंविदानेव जामात्रे कुप्यसि । घोरं लोके विततमयशो या च वह्नौ विशुद्धि- लकाद्वीपे कथमिव जनस्तामिह श्रद्दधातु । इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः (कत लक्ष्मणः-अव्याहतान्तःप्रकाशा हि देवताः सत्त्वेषु । गङ्गा-तथाप्येष तेऽञ्जलिः । रामः-अम्ब, अनुवृत्तस्त्वया भगीरथकुले प्रसादः । पृथिवी-नित्यं प्रसन्नामि तव । किं त्वसावापातदुःसहः स्नेहसं- वेगः न पुनर्न जानामि सीतास्नेहं रामभद्रस्य । १. यथाम्बा भणति। मन्तव्यम् । प्रमाणीकृत इत्येतदुत्तरत्र यथालिङ्गं विपरिणमयितव्यम् । वृत्तिः शीलम् । संततिर्वशः॥५॥ यथाम्बा भगति अत्र तथैवेति शेषः ॥ ईशोऽस्मि अना- र्यपुत्रोऽस्मि ॥ संसारस्य दम्पतिमातृपुत्रखमृदुहित्रादिकुटुम्बसंबन्धस्य शरीरमसि शरीरवत्प्रवृत्तिनिवृत्तिनिबन्धनभूतासि । जामाने कुप्यसि जामातृविषयकप्रतिकूलप्र. तिसंधानरूपमनःप्रज्वलनवती भवसि । 'क्रुधगृह-' इति चतुर्थी । घोरमिति । अयशः दोषवत्ताप्रथा । लङ्का चासौ द्वीपश्च लवाद्वीपस्तस्मिन् द्विर्गता आपो यस्मिन्स द्वीपः। 'यन्त-' इति अकारस्य ईकारः। लङ्काद्वीपे या वह्नौ विशुद्धिस्तामिह जनः कथं श्रद्दधातु प्रत्येतु । कृत्स्नो लोकः समाराधनीय इति यदिदमिक्ष्वाकूणां कुलधनं कुलक. मागतं धनम् । तत्तस्मादिह विषमे एतस्मिन्धर्मसंकटे स वत्सः रामः किं करोतु ॥६॥ अव्याहतः अकुण्ठितः अन्तःप्रकाशः परोक्षज्ञानरूपः यासां तथोकः । सत्त्वेषु पदार्थेषु । पृथिव्यपि जानात्येवेति भावः ॥ तथापि एवं सत्यपि एषोऽञ्जलिस्ते । 'अबलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इति प्रसादन इत्यर्थः ॥ अम्ब भागीर- थीति संबुद्धिः । अनुवृत्तः भगीरथप्रभृतिमत्पर्यन्तं संबन्धित इत्यर्थः ॥ तव नित्यं प्रसन्नास्मि नित्यं वदीयविषयकमनःकालुष्यरहितास्मि । किमर्थोऽजलिरि. त्यर्थः । किंत्वेवं प्रसन्नत्वेपि स्नेहस्य संवेगस्वरा आपाते श्रवणोत्तरक्षणे दुःसहः सोमशक्यः । 'दर्शनक्षण आपातस्तथैवाकर्णनक्षणे' इति कोशः । स्नेहेन पुत्रीविषय- प्रेम्णा संवेगस्वरलत्वं भयं वा । 'ओविजी भयचलनयोः' इत्यमाद्भावे घञ्प्रत्ययश्च । ।

सप्तमोऽङ्कः। १६९ - दह्यमानेन मनसा देवाद्वत्सां विहाय सः। लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७ ॥ रामः-सकरुणा हि गुरवो गर्भरूपेषु । सीता-(रुदती कृताञ्जलिः।) गेदु मं अत्तणो अङ्गेसु विलअं अम्बा। गङ्गा-किं ब्रवीषि ! अविलीना वत्से, संवत्सरसहस्राणि भूयाः । पृथिवी-वत्से, अवेक्षणीयौ ते पुत्रौ । सीता-किं एहिं अणाहेहिं । रामः-हृदय, वज्रमसि । गङ्गा-कथं वत्सौ सनाथावप्यनाथौ। सीता-कीरिसं मे अभग्गाए सणाहत्तणम् । देव्यौ- जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे । आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते ॥ ८॥ लक्ष्मणः-आर्य, श्रूयताम् । रामः-लोकः शृणोतु । (नेपथ्ये कलकलः।) रामः-अद्भुततरं किमपि । १. नयतु मामात्मनोऽङ्गेषु विलयमम्बा । २. किमेताभ्यामनाथाभ्याम् । ३. कीदृशं मे अभाग्यायाः सनाथत्वम् । 'स्तोः' इति कुत्वं च । रामभद्रस्य सीताविषयकं स्नेहं पुनः प्रेम तु न जानामीति न जानाम्येव । दह्यमानेनेति । दह्यमानेन भस्मीक्रियमाणेन मनसा करणेन दैवाद्धेतोः वत्सां सीतां विहाय त्यक्त्वा लोकोत्तरेण सत्त्वेन धैर्येण प्रजानां पुण्यैः सुकृतैश्च जीवति प्राणं धारयति ॥७॥ गर्भाणामिव रूपं येषां तथोक्तेषु । अस्माखिति शेषः। गर्भस्य यथा खरक्षणीयानहत्वं मन्त्ररक्षणीयत्वं तद्वद्गुरूणां वयमित्यर्थः ॥ विलयमदर्शनम् ॥ किं ब्रवीषि । किमिति क्षेपे । संवत्सरसहस्राणि । सहस्रशब्दोऽनन्तवाची । अत्यन्तसं. योगे द्वितीया ॥ अवेक्षणीयौ कटाक्षणीयौ। तदर्थ स्थातव्यमिति भावः ॥अभाग्यायाः • पुण्यरहितायाः। सनाथत्वं नाथवत्त्वम् ॥ जगन्मङ्गलमिति । जगन्मङ्गलं जगतां मङ्गलं यस्मादिति बहुव्रीहिः । अनेन मङ्गलदेवतेति समाख्या मारिता । अवमन्यसे परिभवसि । यस्य खदात्मनः सङ्गात्संपर्कादावयोरपि जगत्पवित्रत्वेन प्रसिद्धयोरपि पवित्रत्वं खसंपन्धादन्येषामपि दोषापनोदकत्वं प्रकृष्यते पूर्वापेक्षया अतिशयितं भवति । कर्मकर्तरि तङ् ॥८॥ लोकः शृणोतु । मम हि सीतायाः शुद्धता व्यक्ता । कौलीनवादिजन एव शृणोत्वित्यर्थः ॥ नेपथ्ये इति। जुम्भकास्त्राणां प्रयोगायोग्य- १५ उ० रा.

उत्तररामचरिते FACHARY 141 सीता-कित्ति आबद्धफलकलं पजसि अन्तरिक्खम् । देव्यौ---ज्ञातम् । भृशाश्वः कौशिको राम इति येषां गुरुक्रमः । प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥९॥ (नेपथ्ये ।) देवि सीते नमस्तेऽस्तु गतिर्नः पुत्रको हि ते । आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥ १० ॥ सीता-दिट्टिआ अत्थदेवदाओ एदाओ । अजउत्त, अजावि दे पसादा पडिप्फुरन्दि । लक्ष्मणः-उक्तमासीदार्येण सर्वथैतानि त्वत्प्रसवमुपस्थास्यन्तीति । देव्यौ- नमो वः परमास्त्रेभ्यो धन्याः सो वः परिग्रहात् । काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥ ११ ॥ राम:- </b क्षुभिताः कामपि दशां कुर्वन्ति मम संप्रति । विस्मयानन्दसंदर्भजर्जराः करुणोर्मयः ॥ १२ ॥ १. किमित्याबद्धकलकलं प्रज्वलितमन्तरिक्षम् । २. दिष्टया अस्त्रदेवता एताः । आर्यपुत्र, अद्यापि ते प्रसादाः परि- स्फुरन्ति । त्वेन तदागमनसूचनार्थ नेपथ्ये इत्युक्तम् ॥ प्रज्वलितं प्रकाशवत् ॥ भृशाश्व इति । गुरुक्रमः आचार्यानुपूर्वी। जृम्भकैः सह शस्त्राणि वारुणादीनि प्रादुर्भवन्ति प्रक- टीभवन्ति ॥९॥ देवीति । पुत्रको नो गतिः अस्माकं प्राप्यौ। आलेख्यदर्शनात्प्रथमा- कोकचित्रदर्शनात् ॥१०॥ दिष्टयेति । एताः अस्त्रदेवताः । आनन्दहेतव इत्यर्थः । अद्याप्येवं दोषवादप्रयुक्तपरित्यागकालेऽपि ते प्रसादाः खदनुप्रहाः परिस्फुरन्ति प्रकाशन्ते । उक्तमासीत् । प्रथमात्र इति शेषः॥नम इति । वः परिग्रहाधुष्मकर्तृक- खीकारात् धन्याः स्मः क्षेमलाभयुक्ता भवामः। काले युद्धादिसमये ध्यातैरागन्तव्यमिति चिन्तितः। काले युद्धादिसमये वत्सयोरुपस्थेयं संनिधातव्यं युष्माभिरिति शेषः ॥११॥ क्षुमिता इति । क्षुमिताः क्षोभं प्राप्ताः। विस्मयः अपूर्ववस्तुसंदर्शनजन्यान्तःकरणवि- कारविशेषः।स चात्र गङ्गापतनतत्रत्यप्रसवजृम्भकप्रात्यादिमूलकः। आनन्दा खसंबन्ध- संभावनार्हताप्रयुक्तप्रीतिविशेषः। ताभ्यां जर्जराः व्याकुलिताः। करुणस्य सीतावियोग- जन्यदुःखातिशयस्य ऊर्मयः तरक्षाः मम कामपि दशामनिर्वाच्यामवस्थां कुर्वन्त्युत्पाद- - सप्तमोऽङ्कः। देन्यौ-मोदस्य वत्से, मोदख । रामभद्रतुल्यौ ते पुत्रकाविदानी १४१ सवृत्तौ। सीता-भअवदीओ, को एदाणं खत्तिओइदविहिं कारइस्सदि । एषा वसिष्ठशिष्याणां घूणां वंशनन्दिनी । कष्टं सीतापि सुतयोः संस्कर्तारं न विन्दति ॥ १३ ॥ गङ्गा-भद्रे, किं तवानया चिन्तया । एतौ हि वत्सौ स्तन्यत्या- गात्परेण भगवतो वाल्मीकेरर्पयिष्यामि । वसिष्ठ एव ह्याचार्यों रघुवंशस्य संप्रति । स एव चानयोब्रह्मक्षत्रकृत्यं करिष्यति ॥ १४ ॥ यथा वसिष्ठाङ्गिरसौ ऋषिः प्राचेतसस्तथा । जनकानां रघूणां च वंशयोरुभयोर्गुरुः ।। १५ ।। रामः-सुविचिन्तितं भगवत्या । लक्ष्मणः-आर्य, सत्यं विज्ञापयामि । तैस्तैरुपायैरिमौ वत्सौ कुश- लवावुत्प्रेक्षे । एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ । आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दकौ ॥ १६ ॥ १. भगवत्यौ, क एतयोः क्षत्रियोचितविधि कारयिष्यति । यन्ति । ऊर्मिपदेन करुणस्य समुद्रत्वं व्यज्यते ॥ १२ ॥ मोदख मोदं प्राप्नुहि। इदानीं जृम्भकास्त्रलामे । संवृत्तौ संजातौ ॥ क्षत्रियोचितं क्षत्रियजात्यनुरूपं विधिमु. पनसनसंस्कारादिशास्त्रार्थ कः कारयिष्यति । एषेति । वसिष्ठशिष्याणां रघूणां वंशनन्दिनी संततेरानन्दहेतुः एषा सीतापि सुतयोः संस्कारमुपनयनादिसंस्कारका- चार्य न विन्दति न लभते। कष्टम् । दुख्यत इत्यर्थः॥१३॥ भद्रे मङ्गलवति । एतौ वत्सौ। द्वितीयान्तम् । स्वन्यत्यागात्परेण स्तन्यत्यागकालान्तरकाले । अर्पयिष्यामि विद्यादि. प्रदानार्थमिति शेषः । एतेन द्वितीयाविष्कम्भस्थं केनापि देवताविशेषेणेति वाक्यं व्याख्यातम् । वसिष्ठ इति । ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे । तयोरुचितं कृत्यं ब्राह्मणव- जात्यनुगुणत्रय्यध्यापनं क्षत्रियत्वोचितधनुर्वेदाध्यापनं च करिष्यति ॥१४॥ यथेति। अनकाना रघूणां च उभयवंशयोः यथा वसिष्ठाङ्गिरसौ वसिष्ठशतानन्दौ गुरू तथा प्रा- चेतसः ऋषिगुरुः । इदं गङ्गावचनम् ॥१५॥ तैस्तैरुपायैः बहुमिः हेतुभिः वत्सौ कुश- लची उत्प्रेक्षे वत्सकुशलवत्वेन अभिनेयशिशुद्वयं संभावयामि । हेतूनाह-पतौ हीत्यादिना । तत्रेणायं श्लोकचतुष्टयपरः अभिनेयशिश्वोः कुशलवयोश्च जन्मसिद्धा- उत्तररामचरिते राम:-वत्सावित्येवाहं परिप्लवमानहृदयः प्रमुग्धोमि । प्रथिवी-एहि वत्से, पवित्रीकुरु रसातलम् । रामः-प्रिये, लोकान्तरं गतासि । सीता-णेर्दु मं अत्तणो अङ्गेसु विलअं अम्बा । ण सहिस्स ईरिसं जीअलोअस्स परिभवं अणुभविदुम् । लक्ष्मण:-किमुत्तरं स्यात् । पृथिवी-मन्नियोगतः स्तन्यत्यागं यावत्पुत्रयोरवेक्षख । परेण तु यथा रोचिष्यते तथा करिष्यामि । गङ्गा- -एवं तावत् । (इति निष्क्रान्ते देव्यौ सीता च ।) रामः कथं प्रतिपन्न एव तावत् । हा चारित्रदेवते; लोकान्तरे पर्यवसितासि । (इति मूर्च्छति ।) लक्ष्मणः-भगवन्वाल्मीके, परित्रायख परित्रायख । एष ते काव्यार्थः। (नेपथ्ये ।) अपनीयतामातोद्यम् । भो जङ्गमस्थावराः प्राणभृतो मामाः, पश्य. न्त्विदानी वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम् । १. नयतु मामात्मनोऽङ्गेषु निलयमम्बा । न सहिष्यामीदृशं जीवलोकस्य परिभवमनुभवितुम् । लादिकं समानं योज्यम् । वयसा जीवनकालेन हेतुना । द्वादशाब्दको द्वादशसंख्या- कसंवत्सरयुक्तौ । अभिनेयशिश्वोरप्यभिनयकालापेक्षया द्वादशाब्दकत्वं बोध्यम् ॥१६॥ वत्साविति । परिप्लवमानहृदयस्तरलहृदयः। प्रमुग्धोऽस्मि प्रमूढोऽस्मि ॥ रसातल- मधोभुवनम् ॥ लोकान्तरमन्यं लोकम् ॥ विलयं तिरोहितत्वम् । जीवलोकस्य परिभवं जीवलोककर्तृकतिरस्कारम् ॥ उत्तरं पृथिव्याः प्रतिवचनं किं स्यात् । उत्तरमनन्तरभावि वा ॥ मनियोगतः मदादेशेन वन्यत्यागं यावत्स्तन्यत्यागमभिव्याप्य पुत्रयोरवेक्षख पुत्रौ पश्येत्यर्थः । परेण तु परस्तात्तु यथा रोचिष्यते येन प्रकारेण रुचिर्भविष्यति ते तथाहं करिष्यामीत्यर्थः । एवं तावदेवमेव । देव्यौ गङ्गापृथिव्यौ । निष्कान्ते । रजस्था- नादिति शेषः ॥ लोकान्तरे पर्यवसितासि । पर्यवसानं विश्रान्तिः। लोकान्तरमेव गता- सीति प्रतिपनं निश्चितम् । स्तन्यत्यागात्परत्र रसातलगमनस्य पृथिव्याभ्यनुज्ञातखात् द्वादशानां वत्सराणामतीतखाच लोकान्तरं गतासीत्येतावनिश्चितमिति भावः ॥ एष ते काव्यार्थः । पर्याप्तं दृष्ट इति शेषः । इतः परं निवर्तितव्यमिति हृदयम् ॥ आतोयं मृत्तगीतसमुदायः।अपनीयतां निवर्त्यताम् । मामा देवमनुष्यात्मकाः जङ्गमस्था- ।

सप्तमोऽङ्कः। ७ . लक्ष्मणः-(विलोक्य ।) मन्थादिव क्षुभ्यति गाङ्गमम्भो व्याप्तं च देवर्षिभिरन्तरिक्षम् । आश्चर्यमार्या सह देवताभ्यां गङ्गामहीभ्यां सलिलादुपैति ॥ १७ ॥ (नेपथ्ये।) अरुन्धति जगद्वन्द्ये गङ्गापृथ्व्यौ जुषख नौ । अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः ॥ १८ ॥ लक्ष्मणः-अहो आश्चर्यमाश्चर्यम् । आर्ये, पश्य पश्य । कष्टम- * द्यापि नोच्छुसित्यार्यः। (ततः प्रविशत्यरुन्धती सीता च ।) अरुन्धती- त्वरख वत्से वैदेहि मुञ्च शालीनशीलताम् । एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना ॥ १९ ॥ सीता-(ससंभ्रमं स्पृशति ।) समस्ससदु समस्ससदु अजउत्तो । रामः-(समाश्वस्य सानन्दम् ।) भोः, किमेतत् । (दृष्ट्वा सहर्षाद्रुतम् ।) कथं देवी जानकी । (सलज्जम् ।) अये, कथमम्बारुन्धती । कथं सर्वे ऋष्यशृङ्गादयोऽस्मद्गुरवः । अरुन्धती-वत्स, एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना। १. समाश्वसितु समाश्वसित्वार्यपुत्रः । वरात्मकाश्च प्राणभृतः । वृक्षादीनामपि प्राणवत्त्वात्स्थावरोक्तिरविरुद्धा। वाल्मीकिना. भ्यनुज्ञातं करुणाद्भुतरसमित्यत्राद्भुतपदेन प्रकाश्यत्वेन बोधितं पवित्रं निर्दोषमाश्चर्य पश्यन्तु ॥ मन्थादिवेति । गाङ्गमम्भः मन्थादिव मथनादिव क्षुभ्यति क्षोभं प्राप्नो- ति । अन्तरिक्षं देवैः ऋषिमिश्च व्याप्तम् । कौतुकादिति भावः । आर्या सीता देवताभ्यां गङ्गामहीभ्यां सह सलिलादुपैति प्राप्नोति ॥ १७ ॥ नेपथ्ये अरुन्धतीति । नौ द्वितीयाद्विवचनम् । गङ्गापृथ्व्यौ जुषख जानीहि नौ जुषख प्रीयख । तव वधूः नुषा इयं सीता आवाभ्यां तवार्पिता ॥ १८ ॥ आर्ये । अरुन्धती प्रति संबोधनम् । नोच्छ्वसिति उच्छ्रासं न प्राप्नोति । त्वरस्वेति। शालीनशीलतामधृष्टस्वभावत्वं मुख यज । सौम्यस्पर्शेन चन्द्रवच्छीतलेन पाणिना मे वत्सं जीवय सप्राणं कुरु ॥१९॥ एतत्सीतास्पर्शरूपं किं किंहेतुकम् । कथं देवी जानकी । विस्मयद्योतकः कथंशब्दः ।

उत्तररामचरिते (नेपथ्ये ।) जगत्पते रामभद्र, मर्यतामालेख्यदर्शने मां प्रत्यात्मवचनम् । सा त्व- मम्ब सुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति । तदनृणामि । अरुन्धती-इयं ते श्वश्रूभगवती वसुंधरा । (नेपथ्ये ।) उक्तमासीदायुष्मता वत्सायाः परित्यागे 'भगवति वसुंधरे, श्लाघ्यां दुहितरमवेक्षख जानकीम्' इति । तदधुना कृतवचनास्मि । रामः-कृतापराधोऽपि भगवति, त्वयानुकम्पयितव्यो रामः प्रणमति । अरुन्धती-भो भोः पौरजानपदाः, इयमधुना वसुंधराजाह्नवीभ्या- मेवं प्रशस्यमाना मया चारुन्धत्या च समर्पिता पूर्व भगवता वैश्वानरेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्च देवैः स्तुता सावित्रकुलवधूर्देवयजनसं- भवा जानकी. परिगृह्यताम् । कथमिह भवन्तो मन्यन्ते । लक्ष्मण:-आर्य, एवमम्बयारुन्धत्या च निर्भसिताः पौरजानपदाः कृत्स्नश्च भूतग्राम आर्यो नमस्कुर्वन्ति । लोकपालाः सप्तर्षयश्च पुष्पवृ- ष्टिभिरुपतिष्ठन्ते। अरुन्धती-जगत्पते रामभद्र, नियोजय यथाधम प्रियां त्वं धर्मचारिणीम् । हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥ २० ॥ लज्जा मनःसंकोचः। स चेहारुन्धतीदर्शनात् ॥भागीरथी भगीरथानीता रघुकुलदेवता। देवी दीप्तिशालिनी । सुप्रसन्ना अनुग्रहं कृतवती ॥ आलेख्यदर्शने चित्रदर्शने । आत्म- वचनं त्वद्वचनम् । अनृणास्मिनिर्यातितऋणास्मि । ऋणं ह्यवश्यप्रतिविधेयमिति साह. श्यादेवमुकम् ॥ आयुष्मता। त्वयेति शेषः। वसुंधरायै वसुंधरा बोधयितुमुक्तमासी. दिति वचनं जातम् । श्लाघ्यां दुहितरमवेक्षख जानकी मितीदं वस्तु उतमासीदिति कर्मणि को वा ज्ञेयः । कृतवचनास्मि । उच्यत इति वचन उक्कार्थः । कृतः अनुष्ठितः उत्कार्थो यया तथोकास्मिः ॥ अनुकम्पयितव्य इति दयाविषयः कर्तव्य इति प्रणमति प्रकर्षेण नमस्यति ॥पौराःपुरवासिनः । जानपदाः देशवासिनः। एवं प्रशस्यमाना 'भाव. योरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते' इत्यभिष्टुता । पूर्व रावणवधानन्तरकाले । वैश्वानरे। णामिना । निर्णातपुण्यचारित्रा निश्चितपातिव्रत्या। परिगृह्यतां राज्ञीत्वेन खीक्रियताम् । इहास्मिन्नर्थे कथं मन्यन्ते किं वो मतमिति भावः ॥ भूतप्रामः गोबलीवर्दन्यायेन पौर- जानपदातिरिका प्राह्याः । आर्या सीता नमस्कुर्वन्ति । लोकपालाः इन्द्रादयः । सप्त- र्षय अत्र्यादयः। पुष्पवृष्टिभिः करणैरुपतिष्ठन्ते पूजयन्ति । आर्यामित्यनुषजः ॥ नियो.

सप्तमोऽङ्कः। सीता -(खगतम् ।) अवि जाणादि अजउत्तो सीदाए दुक्ख पडिमज्जिदुम् । रामः-यथा भगवत्यादिशति । लक्ष्मण:-कृतार्थोऽस्मि । सीता–पञ्चुज्जीविदसि । लक्ष्मण:-आर्ये, अयं लक्ष्मणः प्रणमति । सीता-वैच्छ, ईरिसो तुमं चिरं जीअ । अरुन्धती-भगवन्वाल्मीके, उपनयेदानी सीतागर्भसंभवौ रामभ. द्रस्य कुशलवौ । (इति निष्क्रान्ता।) रामलक्ष्मणौ-दिष्ट्या तथैवैतत् । सीता-कहिं ते पुत्तआ। (ततः प्रविशति वाल्मीकिः कुशलवौ च ।) वाल्मीकिः-वत्सौ, एष वां रघुपतिः पिता । एष लक्ष्मणः कनि- ष्ठतातः । एषा सीता जननी । एष राजर्षिर्जनको मातामहः । सीता-(सहर्षकरुणाद्भुतं विलोक्य ।) कहं तादो । कहं जादा । १. अपि जानात्यार्यपुत्रः सीताया दुःखं परिमाटुंम् । २. प्रत्युज्जीवितास्मि । ३. वत्स, ईशस्त्वं चिरं जीव । ४. क तौ पुत्रको । ५. कथं तातः । कथं जाती। जयति। प्रियां वद्विषयकप्रीतियुक्ताम्। धर्मचारिणीं धर्मानुष्ठानशीलाम्। अध्वरे यागे। हिरण्मय्याः प्रतिकृतेः प्रतिमायाः प्रकृतिपावनी प्रकृति प्रतिमां सीतां यथाधर्म नियोजयाज्ञापय। पुण्यामित्यनेन 'यस्य भार्या विदूरस्था पतिता दूषिताथवा । अनिच्छु: प्रतिकूला वा' इत्याधुदासः ॥२९॥ यथा भगवत्यादिशति । तथास्विति शेषः ॥ कृतार्थोऽस्मि सीतारामयोः समागमरूपप्रयोजनसिद्धिमानस्मि । त्यागस्य खद्वारकला- देवमुकम् ॥ प्रत्युज्जीवितास्मि 'यस्त्वया सहस खर्गः' इत्युक्तरामसमागमात्मकपु- नरुज्जीवनवती कृतास्मि ॥ ईदृशः सन् चिरं जीव मम पत्युश्च समागमं परमं श्रेयो मन्वानः सन् चिरं जीव ॥ रामभद्रस्य उपनय रामभद्रसमीपं प्रापय ॥ दिष्ट्या तथै- वैतत् । एतत्कुशलवोत्पत्त्यादिकं तथैव पूर्वमस्मचिन्तितप्रकारेणैव आसीदिति शेषः। क तौ पुत्रौ । इदं वाल्मीकिप्रवेशसूचकम् ॥ मातामहः मातुः पिता । 'मातृपितृभ्यां १७६ उत्तररामचरिते वत्सौ-हा तात, हा अम्ब, हा मातामह । रामलक्षणौ-(सहर्षमालिङ्गय ।) ननु वत्सौ, युवां प्राप्तौ स्थः । सीता-एहि जाद कुस, एहि जाद लव, चिरस्स मं परिस्सजह लोअन्दरादो आअदं जणणिम् । कुशलवौ-(तथा कृला।) धन्यौ खः । सीता-भअवं, एसा हं पणमामि । वाल्मीकिः-वत्से, एवमेव चिरं भूयाः । (नेपथ्ये ।) उत्खातलवणो मधुरेश्वरः प्राप्तः । लक्ष्मण:-सानुषङ्गाणि कल्याणानि । रामः-सर्वमिदमनुभवन्नपि न प्रत्येमि । यद्वा प्रकृतिरियमभ्यु- दयानाम्। वाल्मीकिः-रामभद्र, उच्यतां किं ते भूयः प्रियमुपहरामि । रामः-अतः परमपि प्रियमस्ति । किं त्विदं भरतवाक्यमस्तु १. एहि जात कुश, एहि जात लव, चिरस्य मां परिष्वजेथां लोकान्तरा- दागतां जननीम् । २. भगवन् एषाहं प्रणमामि । पितरि डामह' । कथं जातौ कुशलवौ । जातौ कथमिति चित्तविकासे ॥ हा ताते- त्यादि । सर्वत्र हाशब्दो हर्षद्योतकः ॥ ननु वत्सौ, युवां प्राप्तौ स्थः । ननु वत्साविति संबोधनम् ॥ चिरस्य परिष्वजेथां बहुकालमालिङ्गयतम् । न तु यत्किचित्क्षणालिङ्गनेन तृप्तिरिति भावः । परिष्वजेथामिति लोण्मध्यमद्विवचनम् ॥ लोकान्तरादसातलात् ॥ तथा कृत्वा आलिङ्गय । धन्यौ खः प्रशस्यौ भवावः ॥ एवमेव चिरं भूयाः एवमेव पत्यपत्याभ्यां संगतैव भूयाःn नेपथ्ये । उत्खात उन्मूलितः लवणः लवणनामकासुरो येन तथोक्तः । मधुरायाः तन्नाम्न्याः नगर्या ईश्वरः खामी । शत्रुघ्न इत्यर्थः । अस्यापि प्रथमाकारब्धप्रयोजनत्वाग्निर्वहणे निवेशः॥कलत्रपुत्रसमागमादिश्रेयांसि सानुषङ्गाणि । अनुषज्यन्ते अनुसंबध्यन्ते यदित्यनुषझं मालान्तरम् । कर्मणि घम्। संबन्धमनु. वर्तिष्यत इत्याचार्यभगवत्पतजलिप्रयोगेण नपुंसकत्वम् । संपत्संपदमनुषधातीति मग. लान्तरसहितानीत्यर्थः । शत्रुवधतद्राज्यप्राप्त्योश्च श्रेयस्वादनुभवन्नपि साक्षात्कुर्वमपि न प्रत्येमि नियतमिति न विश्वसिमि । यद्वेति । न मद्दोष इति भावः । इयमनियतमि- त्ययं प्रत्ययः। अभ्युदयानां श्रेयसां प्रकृतिः खभावः। विधेयप्राधान्यानीखम् ॥ भूया पुत्रकलत्रसमर्पणात्परमिष्टं किमुपहरामि उपहारीकरोमि । इदमेव सर्वथा ऋषयः श्रेयो सप्तमोऽ पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा माङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च । तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम् ॥ २१ ॥ (निष्कान्ताः सर्वे ।) इति सप्तमोऽङ्कः। विधास्यन्तीति प्रथमाङ्के सूचितः॥अतः परमपि उक्कादन्यदपि । किं त्विदं भरतवाक्य. मस्तु । एवं सत्यपि वक्ष्यमाणं भरतवचनमस्तु भवनाहम् । अर्हे लोद । पाप्मभ्य इति । इयं च प्रशस्तिः। सा प्रसिद्धा इयं बुद्धिस्था कथा रामायणात्मकवाक्यप्रबन्ध- रूपा कथा। 'कथ वाक्यप्रबन्धे' इति धातुः । सा च वाल्मीकीयचतुर्विंशतिसहस्रिका। पाप्मभ्यः दुरितेभ्यः जगत्पुनाति विभाजयति । जगत इति षष्ठ्यन्तं विपरिणम्य योजनीयम्। पूधातुः यद्यपि दुरितविभजनात्मकदोषनिहरणवाची तथापि पाप्मभ्यः पुनातीति 'सकीचकैर्मारुतपूर्णरन्धैः' इतिवद्याख्येयम् । जगतः श्रेयांसि पुत्रमित्रा- दीनि वर्धयति मोक्षपर्यन्तानि उत्तरोत्तरमधिकानि करोति । अत्र 'कुटुम्बवृद्धिं धन- धान्यवृद्धिं' इत्यादिश्लोकद्वयमनुसंधेयम् । मातेव गङ्गेव मानल्या मनोहरा च ।माता हि दुःखविस्मारिणी सुखदा च भवति । गङ्गा पापनाशनी मोक्षदा च भवति । तद्वद्रा- मायणमपीति भावः । शब्दब्रह्मविदः शब्द एव ब्रह्म परिच्छिन्नत्वापरिच्छिन्नलाभ्य! परब्रह्मसाम्याद्रूपणम् । तद्विदन्तीति शब्दब्रह्मविदः । बुधाः सहृदयाः । अभिनयाः सात्विकाशिकाहार्यवाचिकभेदेन चतुर्विधाः । अभिनयरितीत्थंभूतलक्षणे तृतीया । अभिनयविशिष्टो यो विन्यासः रचनावैशिष्ट्यं च प्रतिपादकवरूपं विन्यस्तं विन्यासेन निष्पन्नं यस्यास्तथोक्तम् । शरीरं चेदानुपूर्वी । प्राज्ञस्य सर्वज्ञशिरोमणेः कवेः भवभूति- कवेः इमां वाणी परिगतामेनामुत्तररामचरितनाटकरूपभवभूतिवागात्मना यः परि- शामः तद्वतीमेनां श्रीरामायणात्मककथां परिभावयन्तु परितश्चिन्तयन्तु । 'भू अवक- ल्कने' । अवकल्कनं चिन्तनमित्युक्तम् । इयं कथा श्रेयांसि वर्धयति एनां परिभाव- यन्वित्सन्वादेशादेनादेशः।वाल्मीकिवागेव भवभूतिवागात्मना परिणवेत्युक्तिः। उत्तर- रामचरितस्य गाम्भीर्यमाधुर्ये लभ्येते । परिभावयन्वित्यनेन 'बद्धा यदर्पणरसेन विम- दंपूर्वम्' इति श्लोकार्थो ध्वनितः। परिपूर्वकस्य 'भूसत्तायाम्' इति पठितस्यैवावज्ञानार्थ- कलमिति नास्य तत्प्रसक्तिः। शब्दब्रह्मविदो बुधाः अभिनयैः सह विन्यस्वरूपां प्राज्ञस्य कवेरिमां वाणी परिणतामेनां परिभावयन्विति योजना। एतेन 'एनाम् 'इमाम्' इत्य- नयोन पौनरुक्त्यम् । अभेदसंबन्धेनान्वयवाचकयोरिव प्रकृतिविकृतिवाचकयोरपि समानविभक्तिकत्वनियमादुभयोर्द्वितीयान्तत्वम् । एवं सामं नाटकं वृत्तम् ॥ २१ ॥ ।

उत्तररामचरिते
यदप्यत्राखिलं किंचित्कविनानेन बध्यते ।
निरङ्कुशतया तत्तु समाधेयं मनीषिभिः॥
कोशव्याकरणे नात्र लिखिते ग्रन्थगौरवात् ।
भावस्य तु गभीरखात्स कश्चित्कथितो मया ॥
भवभूतेः कवीन्द्रस्य क गम्भीरो गिरा भरः ।
क मे मतिरतिखल्पा सहायोऽत्र हयाननः ।
अनवरतभावनाभिर्योऽर्थः क्लेशान्मया लब्धः ।
तस्य प्रकाशनीयं व्याख्या विदधातु कौतुकं सुधियाम् ॥
इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल.
स्म्रर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां
सप्तमोऽङ्कः।
समाप्तमिदं नाटकम् ।

No text on this page.

Uttararamacharitam

Author
Not Available
Title
Uttararamacharitam
File name
Uttararamacharitam
Text
OCR done
Published
2005/07/25
Publisher
Gurukul Kangri Vishwavidyalay
Language
Sanskrit
Pages
178
Library
University Library,gurukul Kangri Vishwavidyalaya
DLI number
476958
Barcode
99999990169202.00
Scanning centre
Gurukul Kangri Vishwavidyalaya, Haridwar
Digital publisher
Digital Library Of India
VMLT id
LSO90DajmQz
Download PDF

Uttararamacharitam