Sringeri Sharada Peetham
Siddhanta Kalpavalli
Front matter
ॐ ॥सिद्धान्तकल्पवल्ली॥ केसरवल्ल्याख्यया व्याख्यया सहिता श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपरम- शिवेन्द्रसरस्वतीपादाब्जसेवापरायण श्रीसदाशिवेन्द्रसरस्वत्या विरचिता। श्रीरङ्गस्थ श्रीवाणीविलासमुद्रायन्त्रालये संमुद्रिता। १९१०. Copyright. Registered.
॥ ओम् ॥ ॥ सिद्धान्तकल्पवल्ली ॥ अङ्कुरितबोधमुद्रिक- मपसव्योरूपरिस्थसव्यपदम् । वस्त्वेकमनुसरामो वटभूरुहमूलवास्तव्यम् ॥ १ ॥ स्वाज्ञानेन विवर्तितत्रिभुवनाकारण यः सर्वतः स्वस्मै यः स्वयमेव चोपदिशति स्वं शिष्यगुर्वात्मना । स्वज्ञानेन च योऽद्वितीयसुखसबोधात्मना शिष्यते तस्मै विस्मयनीयशक्तिनिधये कस्मैचिदस्मै नमः॥ सिद्धान्तलेशसंग्रहाख्यग्रन्थे वर्णितानां मतानां सुखेनाव- धारणार्थ चिकीर्षितस्य सिद्धान्तकल्पवल्ल्याख्यग्रन्थस्य निष्प्र- त्यूहपरिपूरणाय कृतमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्य- शिक्षायै ग्रन्थतो निबध्नाति-- अङ्कुरितेति । अङ्कुरितास-
२
सिद्धान्तकल्पवल्ल्यां
जाताङ्कुरा स्फुरन्ती बोधमुद्रिका यस्य तत्तथोक्तम् , अपसव्य-
स्य दक्षिणस्य ऊरोरुपरि तिष्ठतीति उपरिस्थं सव्यं वामं पदं
पाद: यस्य तत्तथोक्तम् , एतेन वीरासनासीनत्वमुक्तं भवति ।
वटभूरहस्य वटवृक्षस्य मूले वसतीति वास्तव्यम् । 'वसेस्त-
व्यत्कर्तरि' इति कर्तरि तव्यत्प्रत्ययः । तदेकं अव्यपदेश्य
श्रीदक्षिणामूर्तिरूपं वस्तु अनुसरामः उपास्मह इत्यर्थः ॥ १ ॥
बदनतदधोविभाग
व्यञ्जितमातङ्गमानवाभेदम् ।
मदनारिभागधेयं
महिमानं वयमुपास्महे कमपि ॥२॥
'श्रेयांसि बहुविघ्नानि' इति प्रसिद्धेः परमश्रेयःसाधनीभूते
ग्रन्थे बहुतरविघ्नसंभावनया तन्निवर्तनसमर्थ श्रीविघ्नराजानु-
संधानरूपं मङ्गलान्तरमारचयति- वदनेति । वदनं मुखं
तस्य अधोविभागः अधस्तनावयवसंघातः ताभ्यां व्यजितः
ज्ञापित: मातङ्गमानवयोः गजनरयोः अभेदो यस्य स तथोक्तः,
मुखे गजरूपोऽन्यत्र नररूप इति यावत् । मदनारे: परमशि-
वस्य भागधेयं भाग्यरूपं कमपि निरुपाख्यम् । श्रीविघ्नराजा-
त्मकं महिमानं वयं उपास्महे भजामह इत्यर्थः ॥ २ ॥
प्रथमः स्तबकः । ३ P यदपाङ्गिन्तः प्रबोधो भवदुःस्वप्नावसानकरः। तमहं परमशिवेन्द्र वन्दे गुरुमखिलतन्त्रजीवातुम् ॥ ३ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ' इत्यादिश्रुते- गुरूपदिष्टानुपदिष्टसकलार्थावगतिगुरुभक्त्यधीनेति गुरुं नम- स्करोति- यदिति । यदपाङ्गित: येनापाङ्गितः कटाक्षितः । प्रबोधः जीवब्रह्मैक्यसाक्षात्कारः । भवदुःस्वप्नावसानकरः भव: संसार: मिथ्यापरिकल्पितः स एव दुःस्वप्नः सकलान- र्थभाजनत्वात् तस्यावसानकर: सवासनोच्छेदकरः, ज्ञाने- नाज्ञानोच्छेदे तत्कार्यसंसारोच्छेदस्यावश्यंभावित्वात् । एवं च सविलासाज्ञानोच्छेदक्षमसाक्षात्कारः यत्कटाकलभ्यः तं अखिलतन्त्रजीवातुम् अखिलानि यानि तन्त्राणि दर्शनानि तेषां जीवातुं उज्जीवकम् , सर्वेषां तन्त्राणां परमतात्पर्येणाद्वितीय- ब्रह्मावसायित्वस्य तत्र तत्र स्वकृतग्रन्थेषु स्थापितत्वात् । एतादृशं परमशिवेन्द्रं श्रीगुरुम् अहं वन्दे नमस्करोमीत्यर्थः ।। सिद्धान्तलेशसंग्रह- वर्णितनानामतावधानाय ।
सिद्धान्तकल्पवल्ल्यां हृद्यैरहं कतिपयैः पयैः संदर्भयामि कृतिमेताम् ॥ ४ ॥ चिकीर्षितं प्रतिजानीते--सिद्धान्तेति । हृद्यैः बह्वर्थसूच कसरलपदगुम्भितत्वेन मनोहरैः । एतां चिकीर्षितत्वेन बुद्धि- स्थां कृति सिद्धान्तकल्पवल्लयाख्यामित्यर्थः ॥ ४ ॥ १. विधिवादः। इह खलु शान्त्यादिमतः प्रत्यग्ब्रह्मैक्यबोधसंपत्त्यै । आत्मा श्रोतव्य इति श्रुतो विधिः किंविधो ग्रहीतव्यः ॥५॥ तत्र प्रथमं समन्वयाध्यायार्थ दिदर्शयिषुरादौ साधनचतु- ष्टयसंपन्नस्यापातप्रतिपन्नब्रह्मात्मभावस्य तजिज्ञासोस्तज्ज्ञानाय आमा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिद्धयासित- इत्यत्र प्रतीयमानस्य विधेः प्रकारप्रश्नमाह---इहति। तत्र त्रयो हि विधयः सन्ति अपूर्वः नियमः परिसङ्ख्या चेति । तत्र विना वचनं कथमपि अप्राप्तस्य प्राप्तिफलको १ व्यः प्रथमः स्तबकः । " विधिराद्यः, यथा ब्रीहीन प्रोक्षतीति । पक्षप्राप्तस्याप्राप्तांशस्य परिपूरणफलको विधिर्द्वितीयः, यथा ब्रीहीनवहन्तीति । उभ- यत्रैकस्य उभयोर्वा एकत्र युगपत्प्राप्तौ अन्यतरनिवृत्तिफलको विधिस्तृतीयः, यथा अग्निचयनेऽश्वगर्दभरशनयोर्ग्रहणे युगपद- नुष्ठेये सामर्थ्याविशेषेण युगपत्प्राप्तस्य ‘इमामगृभ्णन् रशना- मृतस्य' इति मन्त्रस्य 'इत्यश्वाभिधानीमादत्ते' इति गर्दभरश- नाग्रहणस्य व्यावृत्तिमात्रफलको विधिः ; यथा वा पञ्चपञ्च- नखा भक्ष्याः' इति च । एवं विप्रकारेषु तेषु श्रवणविधिः किंप्रकार आश्रयणीय इत्यर्थः ॥ ५ ॥ अत्र प्रकटार्थकृतः श्रवणं ब्रह्मापरोक्षहेतुतया। अप्राप्तमतो विधिरय- मपूर्व एवेति मन्यन्ते ॥ ६ ॥ वेदान्तश्रवणं ब्रह्मसाक्षात्कारहेतुतया कुत्राप्यप्राप्तं प्रमा- णान्तरेण । कृतश्रवणस्यापि कस्यचित् तदनुदयेनाकृतश्रवण- स्यापि वामदेवादेस्तदुदयेन चान्वयव्यतिरेकाभ्यां व्यभिचारद- र्शनात् , श्रवणमात्रं श्रोतव्यार्थसाक्षात्कारहेतुरिति सामान्य- नियमस्य कर्मकाण्ड श्रवणे व्यभिचाराच्च । अतोऽप्राप्तत्वादय- मपूर्वविधिरेवेति मतेनोत्तरमाह - अत्रेति ।
६ सिद्धान्तकल्पवल्ल्यां वेदान्तश्रवणमिदं नाप्राप्तं किं तु पक्षतः प्राप्तम् । नियमविधिरेष तस्मा- दित्याहुर्विवरणाचार्याः ॥ ७ ॥ ननु वेदान्तश्रवणं नित्यापरोक्षब्रह्मसाक्षात्कारहेतुतया ना- प्राप्तम् , अपरोक्षवस्तुविषयप्रमाणस्य साक्षात्कारहेतुत्वेन, वि- चारस्य विचार्यनिर्णयहेतुत्वेन च विचारितवेदान्तशब्दज्ञान- रूपस्य श्रवणस्य तद्धेतुत्वप्राप्तेः । न चोक्तव्यभिचारः, सह- कारिविरहेणान्वयव्यभिचारस्यादोषत्वात् , जन्मान्तरश्रवणात् फलसंभवेन व्यतिरेकव्यभिचाराभावाच्च । अतो नापूर्वविधि- रिति अपरितोषान्मतान्तरमाह-वेदान्तेति । नियमविधि- रेवायम् , तद्विद्धयभावे मनोगोचरे स्वस्मिन् श्रुतिबोधितसूक्ष्म- तमविशेषावधारणाय मनस एव सप्रणिधानं व्यापारे त- च्छास्त्रश्रवणेऽपि मेधाविनो गुरुनिरपेक्षवेदान्तविचारे मन्द- व्युत्पन्नस्य भाषाप्रबन्धश्रवणे प्रवृत्तिप्रसक्तिरस्तीति साधनत्व- स्य भ्रान्तिप्राप्तेर्मन:प्रणिधानादिभिर्गुर्वधीनाद्वितीयवस्तुपरवे- दान्तश्रवणं पक्षत: प्राप्तमित्यतो नियमविधिरित्यर्थः ॥ ७ ॥ केचित्परोक्षमेव ज्ञानं शब्दादुदेति पश्चात्तु ।
प्रथमः स्तबकः । ७ तस्मान्मननादियुता- दपरोक्षज्ञानमत्र नियम इति ॥ ८ ॥ प्रथमं शब्दानिर्विचिकित्सं परोक्षज्ञानमेवोदेति पश्चान्मन- नादिसहितात्तस्मादेव शब्दादपरोक्षज्ञानम् , भावनाप्रचयस्य बाह्यार्थासमर्थे विधुरचित्ते कामिनीसाक्षात्कारसामर्थ्याधाय- कत्वक्लप्तेः । एवं च परोक्षज्ञान एव प्रागुक्तरीत्या पाक्षिकत्व- प्राप्तो नियमविधिरिति मतान्तरमाह--- केचिदिति । साक्षात्कारे करणं विमलं मन एव न तु शब्दः । शब्दः परोक्षमात्रे तस्मात्तत्रैव नियम इत्यपरे ॥ ९॥ अत्रापरोक्षज्ञाने 'मनसैवानुद्रष्टव्यम्' इत्यादिश्रुतेः शास्त्रा- चार्योपदेशसंस्कृतं मन एव साक्षात्कारे करणम् , न तु शब्दः । शब्दस्तु परोक्षमात्रे । तस्मात्तत्रैव पूर्ववन्नियमविधिरिति मता- न्तरमाह-- साक्षादिति । भवतु मन एव साक्षा- कारे करणं तथापि तत्रैव ।
८ सिद्धान्तकल्पवल्ल्यां सहकारितया श्रवणं नियम्यते न तु परोक्ष इत्येके ।। १० ।। अस्तु नाम साक्षात्कारे मन एव करणम् , तथापि प्रकाश- माने वस्तुन्यारोपिताविवेकनिवारकशास्त्रसद्भावे तच्छ्रवणं तत्साक्षात्कारकरणसहकारीति नियमस्य श्रोत्रसहकारिणि षड्- जाद्यविवेकनिरासके गान्धर्वशास्त्रे क्लप्तत्वात् । ' द्रष्टव्यः श्रो- तव्यः' इति दर्शनमुद्दिश्य श्रवणविधानात्तत्रैव साक्षात्कार- करणीभूतमनःसहकारितया श्रवणं नियम्यत इति मतान्तर- माह-- भवतु मन एवेति ॥ १० ।। संक्षेपाचार्यास्तु श्रवणं न ज्ञानफलकमेवं च । पुरुषापराधशान्त्यै नियम्यते श्रवणमित्याहुः ॥ ११ ॥ श्रवणं नाम न विचारितवेदान्तशब्दज्ञानरूपम् , ज्ञान- स्थाविधेयत्वात् ; किंतु ऊहापोहात्मकमानसक्रियारूपम् । तच्च न परोक्षादिज्ञानफलकम् , ज्ञानस्य प्रमाणफलत्वात् । एवं च तात्पर्यनिर्णयद्वारा तात्पर्यभ्रमरूपपुरुषापराधशान्त्यर्थत्वेन श्रव- णं नियम्यत इति मतान्तरमाह -- संक्षेपाचार्यास्त्विति ।
प्रथमः स्तबकः । ९ पुरुषापराधनिरासः फलम् ; द्रष्टव्य इति दर्शनार्थत्वेन स्तुति- मात्रम्, न श्रवणफलकीर्तनमिति भावः ॥ ११ ।। श्रवणमनुतिष्ठतः स्या- दन्यत्रापि कचित्प्रवृत्तिरिति । तव्यावृत्तिफलां परि- संख्यामभिदधति वार्तिकाचार्याः॥१२॥ ब्रह्मज्ञानार्थ वेदान्तश्रवणं कुर्वतश्चिकित्साज्ञानार्थ चरका- दिग्रन्थे प्रवृत्तस्येव मध्ये मध्ये व्यापारान्तरेऽपि प्रवृत्तिः प्रसज्येतेति तन्निवृत्तिफलकः परिसङ्ख्याविधिरिति मतान्तर- माह-श्रवणमिति। 'ब्रह्मसंस्थोऽमृतत्वमेति' 'तमेवैकं जा- नथ आत्मानमन्या वाचो विमुञ्चथ' इति व्यापारान्तरप्रति- षेधश्रवणादिति भावः ॥ १२ ।। वेदान्तवाक्यजन्यो बोधः श्रवणं तदत्र मानफले । का वा कथा विधीना- मिति वाचस्पतिमतानुगाः प्राहुः ॥ १३ ॥ 'आत्मा श्रोतव्यः' इत्यात्मविषयत्वेन निबध्यमानमागमा- चार्योपदेशजन्यमात्मज्ञानमेव श्रवणम्, न तु विचाररूपम् ।
१० सिद्धान्तकल्पवल्ल्यां तस्मादन प्रमाणफले श्रवणे न कोऽपि विधिः प्रवर्तते, अयोग्य- त्वात् , शिलादौ क्षुरधारेव, इति मतान्तरमाह- वेदान्तेति। एवं च श्रवणविद्धयभावात्कर्मकाण्डविचारवद्ब्रह्मकाण्डविचारो- ऽप्यध्ययनविधिमूलक इति भावः ।। १३ ।। २. कारणत्ववादः। जगदुत्पत्तिस्थितिलय- हेतुत्वं ब्रह्मणः श्रुतावुक्तम् ! तल्लक्षणत्रयमिति प्रसाधयन्ति स्म कौमुदीकाराः ॥१४॥ इत्थं जिज्ञासासूत्रविषयपरिशोधनात्मकं विधिवादं समाप्य इदानीं जन्मादिसूलविषयं परिशोधयितुमाह-- जगदिति । 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतौ जगजन्मादि- कारणत्वं ब्रह्मणो लक्षणमुक्तम् । तत्राप्येकैककारणत्वमनन्यगा- मीति तल्लक्षणत्रयमित्यर्थः ॥ १४ ॥ केचिदभिन्ननिमित्तो- पादानत्वस्य लाभाय।
प्रथमः स्तबकः । ११ इदमेकमेव लक्षण- मस्येति प्राहुराचार्याः ।। १५ ।। उत्पत्तिस्थितिकारणत्वस्य निमित्तसाधारण्यात् लयकार- त्विमालोक्तावुपादानकारणत्वसिद्धावपि निमित्तत्वासिद्धरभि- निमित्तोपादानत्वसिद्ध्यर्थमिदमेकमेव लक्षणमिति मतान्तर- गह-केचिदिति । अस्य जगत इत्यर्थः ॥ १५ ॥ अस्योपादानत्वं विश्वाकृत्या विवर्तमानत्वम् । तत्र विवर्तः खासम- सत्ताकतदन्यथाभावः ॥ १६ ॥ अत्रोपादानत्वं न परमाणुवदारम्भकत्वम् , एकत्वात् । नापि कृतिवत्परिणामित्वम् , अविकारित्वात् । किं तु अविद्यया वेयदादिविश्वाकारेण विवर्तमानत्वमित्याह- अस्येति । वेवर्तलक्षणमाह- तत्रेति । विवर्त इति लक्ष्यनिर्देशः । उपादानविषमसत्ताकत्वे सति अन्यथाभावत्वं लक्षणमिति दिक् ।। १६ ॥ अथ किमिहोपादानं शुद्धं किमुतेश्वरोऽथ जीवो वा।
१२ सिद्धान्तकल्पवल्ल्यां अत्राहुः संक्षेपा- चार्यास्तच्छुद्धमेवेति ॥ १७ ॥ इत्थं लक्षणे निर्णीते लक्ष्यं पृच्छति- अथेति । जन्मा- दिसूत्रतद्भाष्ययोरुपादानत्वस्य ज्ञेयब्रह्मलक्षणत्वोक्तेः शाखाच- न्द्रस्थले तटस्थलक्षणेनापि लक्ष्यसिद्धिदर्शनाच्छुद्धमेवोपादान- मिति संक्षेपशारीरकमतेनोत्तरयति. अत्रेत्यादिना । तथा च 'आमन आकाश: संभूतः' इति श्रुतौ शबलवाचिन आत्मपदस्य शुद्धे लक्षणेति भावः ॥ १७ ॥ विवरणमतैकनिष्ठा यः सर्वज्ञ इति वचनमवलम्ब्य । मायाशबलः सर्ववि- दीश्वर एवैतदित्याहुः ॥ १८ ॥ 'य: सर्वज्ञः सर्ववित्' इत्यादिश्रुत्यवष्टम्भेन सर्वज्ञत्वादि- विशिष्टो मायाशबलः सर्ववित् ईश्वर एवोपादानमिति मतान्तर- माह-विवरणेति। तथा च संक्षेपशारीरकग्रन्थोऽपि विशिष्ट- निरासपरत्वेनानुकूलो व्याख्यातुं शक्य इति भावः ॥ १८ ॥ वियदादावीशोऽन्तः- करणमुखे द्वौ तु जीवेशौ ।
प्रथमः स्तबकः । १३ योनिरिति संगिरन्ते मायाविद्याभिदाविदः केचित् ।। १९ ॥ एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुष प्राप्यास्तं गच्छन्ति' इति कलाशब्दवाच्यप्राणान्त:करणादीनां विदुषः प्रायणे जीवाश्रिताविद्याकार्यभूतसूक्ष्मपरिणामत्वाभि- प्रायेण विद्ययोच्छेद उक्तः । 'गता: कलाः पञ्चदशप्रतिष्ठाः' इति श्रुत्यन्तरे ईश्वराश्रितमायाकार्यमहाभूतपरिणामत्वाभिप्रा- येण प्रतिष्ठाशब्दितमहाभूतेषु लयोक्तेश्च अन्त:करणादौ जी- वेशावुभावप्युपादानम् , वियदादौ त्वीश्वर एवेति मायाविद्या- भेदवादिषु केषांचिन्मतमाह- वियदिति ॥ १९ ॥ अन्तःकरणप्रभृतेः स्वाविद्यामात्रपरिणतत्वेन । स्याज्जीव एव योनि- स्तत्रेति तदेकदेशिनः प्राहुः ॥ २० ॥ यथा वियदादेः ईश्वराश्रितमायापरिणामत्वेन तत्रेश्वर एवो- पादानम्, तथा अन्तःकरणादेर्जीवाविद्यामात्रपरिणतत्वेन तत्र जीव एवोपादानम् ; 'गता: कला' इति श्रुतिस्तु म्रियमाणे तत्त्वविदि पार्श्वस्था: भूतेषु लयं पश्यन्तीति परदृष्टयभिप्रा- १४ सिद्धान्तकल्पवल्ल्यां येति कलाप्रलयाधिकरणभाष्ये स्पष्टत्वादित्यभिप्रेत्य तदेकदे- शिमतमाह- अन्तःकरणेति ॥ २० ॥ तभेदवादिमध्ये केचिजीवे तदध्यासात् । अन्तःकरणादीनां जीवोपादानतामाहुः ॥ २१ ॥ अन्त:करणादौ जीवतादात्म्यस्यानुभवादद्धयासभाष्ये जीव एव तदद्धयासवर्णनाज्जीव एवोपादानमिति मायाविद्ययोरभे- दवादिष्वेकदेशिमतमाह--- तदभेदेति ॥ २१ ॥ इतरे तु संगिरन्ते यावद्ध्यवहारसिद्धविश्वस्य । ब्रह्मैवोपादानं जीवस्तु प्रातिभासिकस्येति ॥ २२ ।। 'एतस्माजायते प्राणः' इत्यादिश्रुतेर्व्यावहारिकाशेषप्रप- ञ्चस्य ब्रह्मैवोपादानम् , जीवस्तु प्रातिभासिकस्य स्वप्नप्रपञ्चस्य चेति मतान्तरमाह-- इतरे विति । ब्रह्मणो जगदुपादानत्वे कात्स्न्येन जगदाकारपरिणामे जगद्वयतिरेकेण ब्रह्माभावप्र- सङ्गः। तदेकदेशेन तदुक्तौ निरवयवत्वश्रुतिव्याकोप इत्याने- - प्रथमः स्तबकः । पपरिहारायाश्रिते विवर्तवादे तन्निवर्तनाथै आत्मनि चैवं विचित्राश्च हि' इति सूत्रेण जैवस्वप्नसर्गस्य सिद्धवत्कारादिति भावः ॥ २२ ॥ स्वस्मिन्नेव स्वभव- दीशानत्वादिसर्वकल्पनया । जीवः सर्वविकारो- पादानमिति ब्रुवन्त्यन्ये ।। २३ ॥ 'पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् इति श्रुतेर्जीव एव स्वप्नसृष्टगजादिवत् स्वस्मिन्नेवेश्वरत्वादि सर्वकल्पकत्वेन सर्वप्रपञ्चोपादानमिति मतान्तरमाह-- स्व- स्मिन्नेवेति ॥ २३ ॥ अथ तत्त्वनिर्णयकृतः परिणामितया विवर्तमानतया । माया ब्रह्म च विश्वो- पादानं श्रुतित इत्याहुः ॥ २४ ॥ ननु उक्तरीत्या ब्रह्मण एव जगदुपादानत्वे 'मायां तु प्रकृति विद्यात्' इत्यादिश्रुतेः का गतिरित्याशङ्कय श्रुतिद्वयानुरोधात् कार्ये सत्ताजाड्योभयधर्मानुवृत्तिदर्शनाच्च ब्रह्म विवर्तोपादानं १६ सिद्धान्तकल्पवल्ल्यां माया तु परिणाम्युपादानमिति मतेनोत्तरमाह-- अथेति । अत एव स्वाभिन्नकार्यजनकत्वमुपादानलक्षणमुभयसाधारण- मिति भावः ।। २४ ॥ संक्षेपाचार्यास्तु ब्रह्मैवाशेषजगदुपादानम् । द्वारतया मायायाः कार्येष्वनुवृत्तिरित्याहुः ॥ २५ ॥ ब्रह्मैव सकलजगदुपादानम् , कूटस्थस्य स्वत: कारणत्वा- योगेन मायाद्वारा । माया तु द्वारकारणम् । तस्या अपि कार्ये- ध्वनुवृत्तिः संभवति । मृच्छलक्ष्णताया घटादावनुवृत्तिदर्शना दिति मतान्तरमाह-- संक्षेपाचार्यास्त्विति ॥ २५ ॥ वाचस्पतिमिश्रास्तु स्वत एव ब्रह्म जगदुपादानम् । सहकारिण्यपि माया न कार्यमनुगच्छतीत्याहुः ॥ २६ ॥ जीवाश्रितमायाविषयीकृतं ब्रह्म स्वत एव जाड्याश्रय- प्रपञ्चाकारेण विवर्तमानतयोपादानम् । माया तु सहकारि- मात्रम् । तथाविधापि न कार्यमनुगच्छतीति मतान्तरमाह- - प्रथमः स्तबकः वाचस्पतीति । माया न द्वारकारणं अनुपादानगतत्वात् । किं तु सहकारिमात्रम् । अतो न कार्यमनुगच्छतीति भावः ।। मायैवोपादानं ब्रह्म तदाधारभूततया । गौण्योपादानमिति प्राहुर्मुक्तावलीकाराः ।। २७ ।। अत्र मतद्वयेऽपि 'मायां तु प्रकृतिं विद्यात्' इत्यादौ प्रक- तिशब्दो गौणः स्यादिति मतान्तरमाह-- मायैवेति । मा- यैव मुख्यया वृत्त्योपादानम् । ब्रह्म तु उपादानमायाधारतया गौण्योपादानम् , न मुख्यत: । 'न तस्य कार्य करणं च विद्यते' इति श्रुतेस्तनिषेधपरत्वात् । इत्यतस्तादृशमेवोपादन- त्वं लक्षणमिति भावः ॥ २७ ॥ - . ३. जीवेश्वरस्वरूपनिर्णयवादः । जीवेशयोः स्वरूपं निरूप्यतेऽस्यामविद्यायाम् । चित्प्रतिबिम्बो जीवो मायायां तावदीश इति ॥ २८ ॥ S2 सिद्धान्तकल्पवल्ल्यां इत्थं मतभेदेन जीवेश्वरावुपादानमिति व्यवस्थाप्य तयोः स्वरूपं निरूपयितुमाह- जीवेति ।। २८ ॥ मूलप्रकृतिाया तस्याः शक्तिद्वयोपेतः । अंशो भवेदविद्ये- त्युक्तं प्रकटार्थविवरणग्रन्थे ॥ २९ ॥ मायाविद्ययोः स्वरूपं दर्शयति-- मूलेति । अनाद्यनि- र्वाच्या चित्संबन्धिनी मूलप्रकृतिर्माया । तस्या एवैकदेशो विक्षेपावरणशक्तिमानविद्येत्यर्थः ॥ २९ ॥ तत्त्वविवेके तूक्तं सत्त्वे न रजस्तमोभ्यां च । एकव मूलयोनि- मायाविद्या च भवतीति ॥ ३० ।। माया चाविद्या च स्वयमेव भवति' इति श्रुतेः सत्त्वर- जस्तमोगुणात्मिकैव मूलप्रकृति: प्रधानभूतेन सत्त्वेन माया, प्रधानभूताभ्यां रजस्तमोभ्यामविद्या च भवतीति मायावि- द्यास्वरूपं मतान्तरेण दर्शयति-- तत्त्वेति ॥ ३० ॥ एका मूलप्रकृति- विक्षेपावरणशक्तिभेदेन ।
प्रथमः स्तबकः । मायाविद्येति भिदा यातीत्युपपादितं कचिदन्थे ॥ ३१ ॥ एकैव मूलप्रकृतिर्विक्षेपशक्तिप्राधान्येन माया, आवरणश- क्तिप्राधान्येनाविद्येति मतान्तरमाह एकेति ॥ ३१ ॥ संक्षेपके त्वविद्या चित्प्रतिबिम्बो भवेदीशः। तत्कार्यान्तःकरणे चित्प्रतिबिम्बस्तु जीव इत्युक्तम् ।। ३२ ।। 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः' इति श्रुतिमा- श्रित्य मतान्तरमाह --संक्षेपके विति । अविद्याचित्प्रतिबि- म्बः अविद्यायां चित्प्रतिबिम्बः इत्यर्थः ।। ३२ ॥ धीवासनोपरक्ता- ज्ञानं धीश्चेत्युपाधियुगे। प्रतिबिम्बौ जीवेशा- विति भेदश्चित्रदीपोक्तः ॥ ३३ ॥ ब्रह्माश्रिते सकलप्राणिधीवासनोपरक्तेऽज्ञाने प्रतिबिम्बित- चैतन्यमीश्वरः, स्थूलसूक्ष्मदेहद्वयाधिष्ठानकूटस्थकल्पितेऽन्त:- करणे प्रतिबिम्बितं चैतन्यं जीव इति तयोर्भेदं मतान्तरेण दर्श- २० सिद्धान्तकल्पवल्ल्यां , यति-धीवासनेति । उपाधियुगे उपाधिद्वये जीवेशाविति व्युत्क्रमेणान्वयः ॥ ३३ ॥ विवरणदर्शनमेतद- विद्याप्रतिबिम्बलक्षणो जीवः। तद्विम्बभूत ईश- स्तस्मादुभयोविभाग इति ॥ ३४ ॥ जीवो नान्तःकरणप्रतिबिम्बः, योगिनां कायव्यूहे प्रदीप- वदावेशः, 'तथाहि दर्शयति' इत्यधिकरणभाष्येऽन्तःकरणभेदे सत्यपि जीवभेदाभावस्योपपादितत्वात् । ईश्वरोऽपि नाविद्या- प्रतिबिम्बः, तत्पारतन्त्र्यापत्तेः । किंत्वविद्याप्रतिबिम्बलक्षणो जीवः, तत्प्रतिबिम्बभूतः ईश्वरः इति तयोविभाग इति मता- विवरणेति ॥ ३४ ॥ वाचस्पतिमतरीति- स्त्वन्तःकरणेन यद्धयवच्छिन्नम् । चैतन्यं तज्जीवः स्यादनवच्छिन्नचैतन्यमीश इति ॥ ३५ ॥ ईश्वरो जीवश्च न प्रतिबिम्बः, नीरूपत्वेन चैतन्यस्य प्रतिबिम्बायोगात् , सलिले गगनप्रतिबिम्बस्य भ्रान्तिमात्र- न्तरमाह- -- प्रथमः स्तबकः । २१ त्वात् । किं तु घटाकाशवदन्तःकरणावच्छिन्नं चैतन्यं जीवः, तदनवच्छिन्नं चैतन्यं त्वीश्वर इति मतान्तरमाह-- वाच- स्पतीति । अन्तःकरणेन यदनवच्छिन्नं चैतन्यं तदीश इत्यन्वयः ॥ ३५ ॥ वार्तिककृन्मतमित्थं न प्रतिबिम्बो न चाप्यवच्छिन्नः । ब्रह्मैवाविद्यातः संसरतीवाथ मुच्यत इवेति ॥ ३६ ॥ ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यत इति बृह- दारण्यकभाष्योक्तेः, जीवो न प्रतिबिम्बः नाप्यवच्छिन्नः; किं तु व्याधकुलसंवर्धितराजकुमारवदविकृतमेव ब्रह्माविद्यया सं- सरति विद्यया विमुच्यत इवेति मतान्तरमाह- वार्तिकक- दिति । एवं च न परमार्थे बन्धमुक्ती स्तः, 'न निरोधो न चोत्पत्तिर्न बद्धः' इत्यादिनेत्यर्थः ।। ३६ ॥ -- ४. जीवैकत्वनानात्ववादः। अथ जीवः किमु नाना किमुतैकस्तत्र जीव एकोऽसौ।
सिद्धान्तकल्पवल्ल्यां एकं वपुः सजीवं तद्भिन्नं स्वप्नतुल्यमिति केचित् ॥ ३७ ।। एवं जीवधर्मिणि निर्णीते तद्धर्मिसंख्याविषये संशयमुप- न्यस्यानुपदोक्तमतानुसारेण द्वितीयं पक्षं दर्शयति-अथेति । एको जीवः तेन चैकमेव शरीरं सजीवं तदन्यच्छरीरजातं स्वप्नदृष्टशरीरजातवनिर्जीवमित्यर्थः । तदीयः सर्वोऽपि व्यव- हारः स्वाप्निकव्यवहारवदुपपद्यत इति भावः ॥ ३७ ॥ एको हिरण्यगर्भो ब्रह्मप्रतिबिम्ब एव स्यात्। अन्ये तत्प्रतिबिम्बा जीवाभासा भवेयुरित्यपरे ॥ ३८ ॥ 'यः सर्वज्ञः' इत्यादिश्रुतिप्रामाण्यात् बिम्बभूतब्रह्मसृष्ट एव प्रपञ्चः । तत्र प्रथम उपाधौ ब्रह्मणः प्रतिबिम्बो हिरण्यगर्भ एव मुख्यो जीवः । अन्ये तु तत्प्रतिबिम्बभूताश्चित्रपटलि- खितमनुष्यदेहार्पितपटाभासकल्पा जीवाभासा इति सवि- शेषानेकशरीरैकजीवपक्षमाह-एक इति । एकः मुख्य इत्यर्थः ॥ ३८ ॥ एको जीवः सर्व स्वशरीरं मन्यते तदपि ।
प्रथमः स्तबकः। २३ सुखदुःखसङ्करोऽस्मिन् शरीरभेदान्न संभवीत्येके ।। ३९ ।। हिरण्यगर्भाणां प्रतिकल्पं भेदात् कतमो हिरण्यगर्भो मुख्य इत्यत्र विनिगमकाभावादेक एवाविशेषेण योगीव सर्व स्वश- रीरमभिमन्यते । तथात्वे त्वस्मिन् पक्षे न परस्परसुखाद्यनु- संधानं प्रसज्यते शरीरभेदात् , जन्मान्तरीयसुखाद्यनुसंधान- वदिति मतान्तरमाह- एक इति । सुखदुःखसङ्करः सुख- दुःखाद्यनुभव इत्यर्थः ॥ ३९ ।। इतरे त्वन्तःकरणो- पाधिभिराश्रित्य जीवनानात्वम् । श्रुत्यैव बन्धमुक्ति- व्यवस्थितिं प्रत्यपद्यन्त ॥ ४० ॥ अस्मिन्नेकजीववादे बन्धमुक्तिव्यवस्थाया असिद्धेः अन्त:- करणोपाधिभेदेन जीवनानात्वमाश्रित्य 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्' इति श्रुतिदर्शितबन्धमुक्तिव्य- वस्थितिं प्रतिपन्नानां केषांचिन्मतमाह--इतरे विति।। ४० ।। तेषु च केचिद्वोच- ब्रह्माश्रयविषयमेकमज्ञानम् ।
२४ सिद्धान्तकल्पवल्ल्यां अंशेन तस्य नाशे मुक्तिर्भवतीति तव्यवस्थेति ॥ ४१ ।। एकमेवाज्ञानं ब्रह्माश्रयविषयकम् , तस्य च तांस्तान् जीवा- न्प्रति ब्रह्मावारकाभागा भिद्यन्ते। एकैकस्य जीवस्य ज्ञानोदये- नाज्ञाननाशे बन्धनिवृत्त्या मुक्तिरिति बन्धमुक्तिव्यवस्थामुप- गच्छतां जीवभेदवादिष्वेकदेशिनां मतमाह- तेषु चेति ।। हृदयग्रन्थिनियम्यो ऽविद्यासंसर्गलक्षणो बन्धः । हृदयग्रन्थिविनाशे विनश्यतीति व्यवस्थिति केचित् ॥ ४२ ॥ न्यायैकदेशिमतेऽत्यन्ताभावस्य भूतलादिवृत्तित्वे प्रति- योगिसंसर्गाभाव इवाविद्यायाश्चैतन्यवृत्तित्वे हृदयग्रन्थिनि- यामकः, 'भिद्यते हृदयग्रन्थिः' इति श्रुतेः । ज्ञानेन हृदयग्र- न्थिविनाशे प्रतियोगिसंसर्गोदये भूतले घटात्यन्ताभावस्य सं- सर्ग इवाविद्यायाश्चित्संसर्गरूपो बन्धो नश्यतीत्याशयेन बन्ध- मुक्तिव्यवस्थितिं मतान्तरेणाह- हृदयेति ॥ ४२ ॥ जीवाश्रयमज्ञानं जातिनष्टामिव व्यक्तिम् ।
प्रथम: स्तबकः। २५ तत्त्वविदं त्यजतीतर- मायतीति व्यवस्थिति केचित् ।। ४३ ।। न ब्रह्माश्रयमज्ञानम् , किं तु जीवाश्रयम् । तच प्रतिजीवं परिसमाप्य वर्तमान नष्ट व्यक्तिं जातिरिव तत्त्वविदं त्यजति । स एव मोक्षः । अन्यं यथापूर्वमाश्रयतीति तब्यवस्थां मतान्त- रेणाह-जीवाश्रयमिति ॥ ४३ ॥ प्रतिजीवमविद्याया भेदं स्वीकृत्य केचिदेतस्याः । अनुवृत्तिनिवृत्तिभ्या- मुपपन्ना सा व्यवस्थेति ॥४४॥ नानाविद्यापक्षेऽपि बन्धमुक्तिव्यवस्था केषांचिन्मतेनाह-- प्रतिजीवमिति ॥ ४४ ॥ नन्वेतस्मिन्पक्षे कस्याविद्याकृतः प्रपञ्चः स्यात् । विनिगमकाभावादिह सर्वाविद्याकृतः स इत्येके ।। ४५ ॥ नन्वस्मिन् पक्षे कस्याविद्यया प्रपञ्च: कृतोऽस्त्वित्याशङ्कथ विनिगमनाविरहात् सर्वाविद्याकृतः अनेकतन्त्वारब्धपटवदि-
२६
सिद्धान्तकल्पवल्ल्यां
ति केषांचिन्मतेनोत्तरमाह नन्विति । एवं चैकतन्तुना-
शे महापटस्येव तत्साधारणजगतो नाशे शेषतन्तुभिः पटा-
न्तरस्येव जगदन्तरस्योत्पत्तिरिति भावः ॥ ४५ ॥
अन्ये तु संगिरन्ते
तत्तदविद्याविनिर्मितं विश्वम् ।
प्रतिपुरुषमेव भिन्नं
भवति यथा शुक्तिरजतमिति ।। ४६ ।।
तत्तदज्ञानकृतप्रातिभासिकरजतादिवत् तत्तदविद्याकृतः प्र-
पश्च: प्रतिपुरुषं भिन्न एवेति मतान्तरमाह-अन्ये विति ।
शुक्तिरजते त्वया यदृष्टं तदेव मयापीत्यैक्यप्रत्ययोर्धममात्र-
मिति भावः ॥ ४६॥
जीवगताज्ञानचया-
द्भिन्ना मायेश्वराश्रिता जगतः ।
योनिर्जीवाविद्या-
स्त्वावरणायेति जगुरेके ॥ ४७ ॥
जीवाश्रिताविद्यानिवहाद्भिन्नेश्वराश्रिता मायैव प्रपञ्चस्य
कारणम् । जीवानामविद्यास्त्वावरणमात्रे प्रातिभासिकशुक्ति-
रजतादिविक्षेप इवोपयुज्यन्त इति मतान्तरमाह--जीवगते-
ति ॥ ४७ ॥
प्रथमः स्तबकः। ५. कर्तृत्ववादः । अथ कीदृगीश्वरस्य प्रपञ्चकर्तृत्वमिह केचित् । कार्यानुकूलभूत- ज्ञानचिकीर्षादिमत्त्वमिति ॥ ४८ ॥ इत्थं लक्षणोपोद्धाते लक्षणैकदेशमुपादानत्वं विचार्य तदे- कदेशं कर्तृत्वं कीदृशमिति प्रश्ने ‘तदैक्षत' 'सोऽकामयत' 'तदात्मान स्वयमकुरुत' इति श्रवणात् न्यायमत इव कार्या- नुकूलज्ञानचिकीर्षाकृतिमत्वं तदिति केषांचिन्मतेनोत्तरमाह- अथ कीगिति । ज्ञानं चिकीर्षा च ते आदी यस्याः कृते: सा ज्ञानचिकीर्षादिः, कार्य प्रत्यनुकूलभूता या ज्ञानचिकीर्षादिः तद्वत्त्वं कर्तृत्वमित्यर्थः ॥ ४८ ॥ अन्ये तु तदनुकूल- ज्ञानाश्रयतैव कर्तृतेत्याहुः। इतरे तु तदनुकूल- स्रष्टव्यालोचनाश्रयत्वमिति ।। ४९ ।। इच्छाकृत्योरपि कार्यत्वेनात्माश्रयात्तयोरिच्छाकृत्यन्तरेण कर्तृत्वं चेत् अनवस्थानात् कार्यानुकूलज्ञानवत्त्वमेव ब्रह्मणः
२८
सिद्धान्तकल्पवल्ल्यां
कर्तृत्वमिति मतान्तरमाह- अन्ये विति। न च ज्ञानस्यैष
प्रसङ्गः, तस्य ब्रह्मरूपत्वेनाकार्यत्वादिति भावः । न च
कार्यानुकूलब्रह्मरूपज्ञानवत्त्वमीश्वरस्य कर्तृत्वम् , तस्य जीवं
प्रत्यविशेषेण जीवस्यापि तत्प्रसङ्गात् । कार्यानुकूलस्रष्टव्यालो-
चनात्मकज्ञानवत्त्वं तदिति मतान्तरमाह--- इतरे त्विति ।।
.
६. ईश्वरस्य सर्वज्ञत्ववादः।
ननु जगतः कर्तृत्वा-
क्षिसं सार्वज्यमीश्वरस्य कथम् ।
जीववदन्तःकरणा-
भावेन ज्ञातृतायोगात् ॥ ५० ॥
ननु जगत्कर्तृत्वेनाक्षिप्तं शास्त्रयोनित्वेन च समर्थितमीश्वर-
स्य सर्वज्ञत्वं कथं संगच्छताम् ? जीववदन्तःकरणाभावेन ज्ञा-
तृत्वाभावादिति शङ्कते--नन्विति ॥ ५० ॥
अत्र प्राणिगताखिल-
गोचरधीवासनैकसाक्षितया ।
सार्वज्यमीश्वरस्य
प्रसाधयन्ति स्म भारतीतीर्थाः ॥५१॥
प्रथमः स्तबकः । २९ सर्ववस्तुविषयकप्राणिधीवासनोपरक्ताज्ञानोपाधिः ईश्वरः, अतस्तस्य प्राणिगतसर्वविषयकधीवासनासाक्षितया सर्वज्ञत्व- मिति भारतीतीर्थानां मतेन समाधत्ते- अत्रेति ।। ५१ ॥ चित्प्रतिबिम्बग्राहक- मायावृत्त्येश्वरस्यापि। सर्वज्ञतोपपन्ने- त्याहुः प्रकटार्थकाराद्याः ॥ ५२ ।। यथान्त:करणवृत्त्या जीवस्य ज्ञातृत्वम् , एवमीश्वरस्यापि चित्प्रतिबिम्बग्राहकसात्त्विकमायावृत्त्या त्रैकालिकसकलपदा- र्थगोचरापरोक्षज्ञानाश्रयत्वेन सर्वज्ञत्वमुपपन्नमिति मतान्तर- माह-चिदिति ।। ५२ ।। स्रष्टव्यालोचनया साक्षात्कृत्या तदुत्थसंस्मृत्या । त्रैकालिकधीमत्वात् सार्वज्यं तत्त्वशुद्धिकृत आहुः ॥ ५३ ॥ भूतभाविनोर्मायावृत्त्यसंभवादापरोक्ष्यासंभवं संभावयतः पुरुषान्प्रति मतान्तरमाह-- स्रष्टव्येति । स्रष्टव्यालोचन- येति तृतीया धान्येन धनवानितिवदभेदविषया द्रष्टव्या । तथा चालोचनात्मकत्रैकालिकवस्तुविषयकधीमत्वादित्यर्थः ।। ५३ ।।
३०
सिद्धान्तकल्पवल्ल्यां
स्वेनैव ज्ञानेन
स्वनिष्ठसर्वावभासकत्वेन ।
सर्वज्ञत्वमितीत्थं
समर्थयन्ति स्म कौमुदीकाराः ॥ ५४ ।।
आत्मस्वरूपज्ञानेनैव ब्रह्मणः स्वाध्यस्तसर्वप्रपञ्चावभास-
कत्वात् सार्वज्ञ्यमिति मतान्तरमाह-स्वेनैवेति । चित्रभित्तौ
विमृष्टानुन्मीलितचित्रयोरिव स्वरूपे सूक्ष्मरूपेणातीतानागतयो-
रपि सत्त्वादिति भावः ॥ ५४ ॥
अत्र च सर्वज्ञत्वं
सर्वज्ञानस्वरूपतेत्येके।
दृश्यावच्छिन्नस्व-
ज्ञानं प्रति कर्तृता तदित्यपरे ।। ५५ ॥
अत्र सर्वावभासकज्ञानस्वरूपत्वमेव सार्वज्ञ्यम् , न तु ज्ञान-
कर्तृता; 'वाक्यान्वयात्' इत्यधिकरणभाष्ये ज्ञानकर्तृताया
जीवलिङ्गत्वोक्तेरिति केषांचिन्मतमाह- अत्रेति । अव
शङ्कायामित्यर्थः । चितः कार्योपहितरूपेण कार्यत्वात् कर्तृता
सुवचेति वाचस्पतिमिश्राणां मतमाह-- दृश्येति ॥ ५५ ॥
प्रथमः स्तबकः । ३१ ७. जीवाल्पत्ववादः। नन्वीश्वरो यथा किल वृत्त्यनपेक्षः स्वरूपभासैव । विषयानवभासयति स्याजीवोऽप्येवमित्यत्र ॥ ५६ ॥ ननु ईश्वर इव जीवोऽपि वृत्त्यनपेक्षस्वरूपचैतन्येन विष- यान् कुतो नावभासयतीति शङ्कते-नन्विति ॥ ५६ ।। विषयासंसर्यपि स- नन्तःकरणेन संसृष्टः । विषयोपरागसिडथै जीवस्तावत्समीहते वृत्तिम् ॥ ५७ ।। ब्राह्मणः सर्वोपादानतया स्वसंसृष्टं सर्वमवभासयति जीवस्त्वविद्योपाधिकतया सर्वगतोऽपि न सर्वविषयैः संमृज्यते, अनुपादानत्वात् । तथाविधोऽपि सन् व्यक्तौ जातिरिव अन्त:करणेन संसृष्टो वृत्तिद्वारा विषयं व्याप्नोतीति विषयैः संबन्धसिद्ध्यर्थ वृत्तिमपेक्षत इति विवरणोक्तं परिहारमाह- विषयेति ॥ ५७ ॥ .. - ३२ सिद्धान्तकल्पवल्ल्यां विषयावच्छिन्नचिता- भेदाभिव्यक्तिसिद्धयेवायम् । जीवोऽन्तःकरण- परिच्छिन्नतया वृत्तिमभिलषति ॥ ५८ ॥ अन्तःकरणोपाधिकत्वेन जीवः परिच्छिन्नः तत्संसर्गाभा- वान्न विषयमवभासयति । वृत्तिद्वारा स्वसंसृष्टविषयावच्छिन्न- ब्रह्मचैतन्याभेदाभिव्यक्तौ तु तं विषयमवभासयतीति तत्सि- द्धयर्थ वृत्तिमपेक्षत इति तदुक्तमेव परिहारान्तरमाह-वि- षयेति ।। ५८ ॥ अथवा घटादिविषया ज्ञानावरणाभिभूतये जीवः । द्वारीकरोति वृत्ति वेधेत्थं विवरणे परीहारः ॥ ५९॥ जीवः सर्वगतोऽप्यविद्यावृतत्वात् स्वयमप्यप्रकाशमानतया विषयान्नावभासयन् विषयविशेषे वृत्त्युपरागादावरणतिरोधा- नेन तत्रैवाभिव्यक्तस्तमेव प्रकाशयतीति तदभिभवार्थ वृत्ति- मपेक्षत इति तदुक्तमेव परिहारान्तरमाह-- अथवेति ॥
प्रथमः स्तबकः । ३३ ८. संबन्धवादः। अत्र प्रथमे पक्षे सर्वगतस्यापि जीवस्य। वृत्त्यायत्तः को वा विषयैरुपराग इत्यत्र ।। ६० ।। इत्थं प्रदर्शितेषु पक्षेषु प्रथमं पक्षं प्रश्नव्याजेनाक्षिपति- अत्रेति । निष्क्रिययोभिन्नदेशीययोर्विषयचैतन्ययोस्तादात्म्य- स्य संयोगस्य वा आधानासंभवादिति भावः ॥ ६० ॥ विषयविषयित्वमेवे- त्याहुः केचित्परे तु जीवस्य । तादात्म्यापन्नाया वृत्तेः संयोग एवेति ॥ ६१ ॥ स्वाभाविकविषयविषयिभान एव संबन्ध इति मतेन समा- धत्ते-विषयेति। न हि विषयविषयित्वं संबन्धः, अनुमि- त्यादौ वृत्त्यनिर्गमेऽपि बाह्यवह्नयादिविषयतासत्त्वेन बहिर्निर्ग- मनकल्पनावैयापत्ते: । किंतु जीवतादात्म्यापनाया मनो- वृत्तेविषयैः संयोगो जीवस्यापि तहारा परंपरासंबन्धो लभ्यत ४ सिद्धान्तकल्पवल्ल्यां इति । स एव चिदुपरागोऽभिमत इति मतान्तरमाह--- परे त्वित्यादिना ॥ ६१ ॥ खावच्छेदकवृत्ते- विषयैरुन्मिपति संयोगे। तजन्यः संयोगो जीवस्यास्तीति जगुरेके ॥ ६२ ।। साक्षात्प्रमातृसंबन्धे सत्येव सुखादेरापरोक्ष्यदर्शनात् प्र- मात्रवच्छेदिकाया वृत्तेविषयैः संयोगे तदवच्छेदेन प्रमातु- जीवस्यापि संयोगजसंयोगोऽस्तीति स एव चिदुपराग इति मतान्तरमाह-~-स्वावच्छेदकेति । कारणाकारणसंयोगात्का- र्याकार्यसंयोगवत् कार्याकार्यसंयोगात्कारणाकारणसंयोगस्या- प्यभ्युपगमादिति भावः ।। ६२ ।। अन्तःकरणोपहितो जीवो विषयावभासकस्तस्य । विषयचिदैक्यद्वारा विषयैस्तादात्म्यमेष इत्यपरे ॥ १३ ॥ अन्त:करणोपहितस्य विषयावभासकस्य जीवचैतन्यस्य
प्रथमः स्तबकः ।
३५
विषयतादात्म्यापन्नब्रह्मचैतन्यैक्याभिव्यक्तिद्वारा विषयतादा-
त्म्यमेव चिदुपराग इति मतान्तरमाह---- अन्तःकरणति ।
न चैवं द्वितीयपक्षसांकर्यम् । जीवस्य सर्वगतत्वे प्रथमः
पक्षः, परिच्छिन्नत्वे द्वितीयः इत्येवं तयोर्भेदसंभवादिति
भावः ॥ ६३ ॥
९. अभेदाभिव्यक्तिवादः ।
का च द्वितीयपक्षे-
ऽभेदाभिव्यक्तिरत्राहुः ।
विषयावच्छिन्नान्त:-
करणप्रतिबिम्बचेतनैक्यमिति ॥ ६४॥
द्वितीयं पक्षं प्रश्नपूर्वकं निरूपयति--का चेति । तटाक-
केदारसलिलयोः कुल्याद्वारेव वृत्तिद्वारा विषयावच्छिन्नान्त:-
करणप्रतिबिम्बचैतन्ययोरेकीभावोऽभेदाभिव्यक्तिरित्यर्थः ।।
वृत्तौ यः प्रतिबिम्बो
विषयावच्छिन्नचियक्तः।
तखान्तःकरणपरि-
च्छिन्नचितैकत्वमित्यपरे ॥ ६५ ॥
सिद्धान्तकल्पवल्ल्यां बिम्बस्थानीयस्य विषयावच्छिन्नचैतन्यस्य वृत्तौ यः प्रति- बिम्बः तस्यान्तःकरणपरिच्छिन्नजीवचैतन्येनैकीभावोऽभेदा- भिव्यक्तिरिति मतान्तरमाह-वृत्ताविति ॥ ६५ ॥ यच्चैतन्यं विषया- वच्छिन्नं बिम्बभूतमेतस्य । बिम्बत्वोपहितस्यै- कत्वं जीवेन सेत्यन्ये ।। ६६ ।। अस्तु वा बिम्बस्थानीयस्य विषयावच्छिन्नब्रह्मचैतन्यस्य चैतन्यात्मना उपलक्षितरूपेणैकीभावोऽभेदाभिव्यक्तिः । तथा- पि न जीवब्रह्मसांकर्यम् , न वा ब्रह्मणः सर्वज्ञत्वाभावापत्तिः, तस्य च बिम्बत्वविशिष्टरूपेण प्रतिबिम्बा देऽपि तदुपलक्षित- रूपेणाभेदात् । एवं च बिम्बत्वोपलक्षितस्य विषयावच्छिन्न- बिम्बचैतन्यस्य जीवचैतन्येनैकीभावोऽभेदाभिव्यक्तिरिति म- तान्तरमाह- यच्चैतन्यमिति ।। ६६ ॥ १०. आवरणाभिभववादः । का वा तृतीयपक्षे- ऽज्ञानावरणाभिभूतिरिह केचित् ।
प्रथमः स्तबकः । ३७ अज्ञानांशविनाशः कटवद्वेष्टनमथापसरणमिति ॥ ६७ ॥ तृतीयं पक्षं प्रश्नव्याजेनाक्षिपति-केति। आवरणाभि- भवस्याज्ञाननाशरूपत्वे घटज्ञानेऽपि तन्नाशे मोक्षप्रसङ्ग इति भाव: । चैतन्यमात्रावारकस्य मूलाज्ञानस्य विषयावच्छिन्नप्र- देशे खद्योतादिप्रकाशेन महान्धकारस्येव ज्ञानेनैकांशनाशो वा कटवत्संवेष्टनं वा भीतभटवदपसरणं वा अभिभव इति पक्षभेदेनोत्तरमाह- अज्ञानेति ॥ ६७ ॥ वृत्त्या संसृष्टं य- द्विषयावच्छिन्नचैतन्यम् । तदनावारकताखा- भाव्यं सेत्यामनन्त्येके ॥ ६८॥ अज्ञानस्यैकांशेन नाशे तद्विषये सकृद्वगते समयान्तरे- ऽप्यावरणाभावप्रसङ्गात् , निष्क्रियस्य वेष्टनापसरणयोरसंभ- वाच्च न यथोक्तरूपोऽभिभवः, किंतु तत्तदाकारवृत्तिसंसृष्टाव- स्थविषयावच्छिन्नचैतन्यानावारकत्वस्वाभाव्यमेवाभिभूतिरिति मतान्तरमाह- वृत्त्येति ॥ ६८ ॥ . - ३८ सिद्धान्तकल्पवल्ल्यां मूलाज्ञानस्यैवा- वस्थानेदात्मकं किंचित् । अज्ञानान्तरमास्ते तस्मात्तन्नाश एव सेत्यन्ये ।। ६९॥ शुद्धब्रह्ममात्रावारकं मूलाज्ञानम् । तस्यैवावस्थाभेदरूपं विषयावच्छिन्नचैतन्यावारकमज्ञानान्तरमस्तीति तन्नाश एवा- भिभव इति मतान्तरमाह- मूलाज्ञानस्येति । एवं च एकज्ञानेनाज्ञाननाशे ज्ञानान्तरवैयापत्त्या तन्नाश्यानेका- ज्ञानान्यभ्युपगम्यन्त इति भावः ।। ६९॥ ११. अवस्थाज्ञानसादित्वाना- दित्ववादः। तच्चानेकमवस्था- ज्ञानमनादीति केचिदिच्छन्ति । निद्रासुषुप्त्यवस्था- साम्यात्सादीत्युदाहरन्त्यपरे ॥ ७० ॥ तच्चानेकमवस्थाज्ञानं मूलाज्ञानवदज्ञानत्वादनादीति केषां- चित् मतमाह तच्चेति । व्यावहारिकजगजीवावावृत्य - प्रथमः स्तबकः । ३९ स्वाप्नजगज्जीवौ विक्षिपन्त्या निद्राया अज्ञानावस्थात्वं प्रसि- द्धम् । सुप्तेरपि न किंचिदवेदिषमित्यनुभवस्य कादाचित्क- त्वात्सादित्वम् । तत्साम्यादन्यदप्यज्ञानावस्थारूपं सादीत्य- परेषां मतमाह-निद्रेत्यादिना ॥ ७० ॥ नन्वज्ञानमनादी- त्यस्मिन्पक्षे कियन्निवर्त्य स्यात् । अत्र व्यवस्थयैक- ज्ञानेनैकं निवर्त्यमित्येके ॥ ७१ ॥ अनादित्वपक्षे घटे प्रथमोत्पन्नज्ञानेन तदवच्छिन्नसर्वाज्ञा- ननाशे पुनरावरणानापत्तिः । एकतरनाशे विनिगमकाभाव इत्याशयेन शङ्कते नन्विति । यथा न्यायनये सत्स्वप्यने- केषु तद्विषयभ्रमसंशयादिहेतुज्ञानप्रागभावेष्वेकज्ञानेनैक एव प्रागभावो निवर्त्यते संशयादिनिवृत्तिर्विषयावभासश्च भवति, तथैकेन ज्ञानेनैकाज्ञानं निवर्तते संशयादिनिवृत्तिर्विषयावभा- सश्चेत्यभिप्रेत्य केषांचिन्मतेन परिहरति-अत्रेत्यादिना ॥ आवृण्वन्ति घटादिक- मज्ञानानि क्रमेण न तु युगपत् ।
४०
सिद्धान्तकल्पवल्ल्यां
यद्यद्यदावृणोति
ज्ञानात्तत्तन्निवर्त्यमित्यपरे ॥ ७२ ॥
यावद्विशेषाभावकूटस्यैव संशयादिहेतुत्वेनैकेनापि ज्ञानेन
तत्कूटविघटने संशयाप्रसक्त्या प्रागभाववैषम्यात् आवृतप्र-
काशायोगादेकावृतेऽन्यस्यानुपयोगाच्च । अतोऽज्ञानानि क्र-
मेण घटादिकमावृण्वन्ति, न तु एकदा । तथा च यदा यद्यद-
ज्ञानमावृणोति तदा ज्ञानात्तत्तदज्ञानमेव निवर्तत इत्यभिप्रेत्य
मतान्तरमाह-आवृण्वन्तीति ।। ७२ ॥
संततमेव समस्ता-
ज्ञानान्यावारकाणि विषयस्य ।
ज्ञानेनैकविनाशे
भवति परेषां तिरस्क्रियेत्यन्ये ॥ ७३ ।।
अज्ञानस्य सविषयत्वस्वाभाव्यादुत्सर्गतः सर्वत: सर्वदैव
सर्वाज्ञानानि विषयस्यावारकाणि भवन्ति । तथा च ज्ञाने-
नैकाज्ञाननाशेऽन्येषां ज्ञानकाले तिरस्कारो भवति । संनि-
पातहरौषधेनैकदोषनाशे दोषान्तराणामिवेति मतान्तरमाह
-संततमेवेति ॥ ७३ ॥
प्रथमः स्तबकः । १२. धारावाहिकद्वितीयादिज्ञानवैफ- ल्यपरिहारवादः। नन्वेवं सति धारा- स्थले द्वितीयादिसफलता न स्यात् । प्रथमज्ञानेनैवा- वरणाभिभवस्य सिद्धत्वात् ॥ ७४ ।। एतन्मते धारावाहिकस्थले प्रथमज्ञानेनैव नाशतिरस्का. राभ्यां सर्वावरणाभिभवस्य सिद्धत्वात द्वितीयादिज्ञानानां विफलता स्यादिति शङ्कते---- नन्विति ।। ७४ ।। अत्र प्रथमज्ञानति- रस्कृतमज्ञानमुपरते तस्मिन् । पुनरावृणोति वृत्त्य- न्तरोदयेनेति सफलतामाहुः ॥ ७२ ।। प्राथमिकज्ञानतिरस्कृतमज्ञानं दीपतिरस्कृतं तम इव त- स्मिन् ज्ञाने उपरते पुनरावृणोति । दीपान्तरस्येव ज्ञानान्तर- स्योदये नावृणोति । किंतु तथैवावतिष्ठत इत्यावरणाभिभ- सिद्धान्तकल्पवल्ल्यां वपरिपालकतया द्वितीयादिज्ञानानां सफलतास्तीति मतेनो- त्तरमाह-अत्रेति ॥ ७५ ।। अज्ञानानि हि तत्त- त्कालिकविषयावृतिप्रगल्भानि । ज्ञानानि च स्वकाला- वृतिनाशकराणि तेन तामपरे ॥७६ ॥ अज्ञानानि हि तत्तत्कालोपलक्षितविषयावारकाणि । ज्ञा- नानि च स्वकालोपलक्षितविषयावरणनाशकानि । तेन धा- रावाहिकद्वितीयादिज्ञानानामपि तत्तत्कालिकविषयावरणना- शकत्वेन सफलतति मतान्तरमाह-अज्ञानानीति । ताम् सफलताम् ॥ ७६ !! आद्यज्ञानेन घटा- द्यज्ञानं तदितरैस्तु विज्ञानैः । देशादिविशिष्टघटा- द्यज्ञानं नाश्यमिति केचित् ॥ ७७ ॥ प्रथमज्ञानेन केवलघटाद्यज्ञानमेव निवर्तते । द्वितीयादि- ज्ञानस्तु देशकालादिविशिष्टघटाद्यज्ञानमेव । अतस्तेषां सफ- लतेति मतान्तरमाह- आद्यति । अत एव सकृद्दष्टे जाना- प्रथमः स्तबकः । म्येव चैत्रम् , इदानीं स केति न जानामीत्यनुभव इति भावः ॥ ७७ ॥ १३. परोक्षज्ञानस्याज्ञाननिवर्तकत्वा- निवर्तकत्ववादः। नन्वेष नास्ति नियमः परोक्षवृत्तेरनिर्गत्या । विषयाज्ञाननिवर्तक- भावायोगादिह प्राहुः ॥ ७८ ॥ ननु नायमपि नियम: परोक्षप्रमाणवृत्तिषु व्यभिचारा- दिति शङ्कते- नन्विति ।। ७८ ॥ द्विविधं विषयाज्ञानं विषयगतं पुरुषगतं चेति । तत्र च परोक्षवृत्त्या पुरुषगतस्यैव तख नाश इति ॥ ७९ ॥ समाधत्ते-- द्विविधमिति । विषयावारकमज्ञानं द्विवि- धम् , विषयाश्रितं पुरुषाश्रितं चेति । तत्र आद्यमावरणं विक्षेप- ।
४४ सिद्धान्तकल्पवल्ल्यां कार्यानुमेयम् ; द्वितीयं साक्षिसिद्धम् । तत्र परोक्षवृत्त्या आद्यस्य विप्रकर्षात् संनिहितस्य द्वितीयस्यैव नाश इत्यर्थः । शास्त्रार्थश्रवणानन्तरं स्वस्य तद्विषयकाज्ञाननाशानुभवादिति भावः ॥ पुंगतमेवाज्ञानं विक्षेपावरणकारणं तत्र । आवरणांशविनाशो वृत्त्या तावत्परोक्षयेत्येके ॥ ८० ॥ पुरुषाश्रितमेकमज्ञानमक्षिपटलमिव विप्रकृष्टविषयस्याप्या- वरणविक्षेपहेतुः ब्रह्मण्यपि जीवकृताज्ञानविषयीकृते जगद्विक्षे- पाभ्युपगमात् । तत्र परोक्षवृत्त्या आवरणांशस्यैव नाशमाह- पुंगतमिति ॥ ८० ॥ अपरे त विषयमात्रा- श्रितमिदमज्ञानमत्र नाशस्तु । अपरोक्षरूपवृत्त्या तस्मानियमो न भग्न इति ॥ ८१ ॥ शुक्त्यादितादात्म्यापन्नरजताद्यनुभवोऽसत्यः स्यात् । तदु- पादानमज्ञानं विषयगतं तदावारकम् । न चैवं सति तम्य
प्रथमः स्तबकः।
साक्षिसंसर्गाभावे तद्भास्यत्वं न स्यादिति वाच्यम् । तत्सं-
सर्गाभावेऽप्यवस्थावस्थावतोरनतिभेदात् अवस्थावतो मूला-
ज्ञानस्य साक्षिसंसर्गमात्रेण तदवस्थारूपस्य तूलाज्ञानस्यापि
साक्षिभास्यत्वोपपत्तेः । अस्य च नाशस्त्वपरोक्षवृत्त्यैव । अत:
परोक्षवृत्तिषु न व्यभिचार इति मतान्तरमाह-अपरे त्वि-
ति । परोक्षवृत्त्या अज्ञाननाशानुभवस्तु अर्थसत्तानिश्चयपरो-
क्षवृत्तिप्रतिबन्धकप्रयुक्ताज्ञाननाशानुभवनिबन्धनो भ्रम इति
भावः ॥ ८१ ।।
ननु नासावपि नियमः
सुखादिवृत्तेस्तु तदनिवर्तनतः।
मैवं सुखदुःखादे-
न वृत्तिरस्त्यस्य साक्षिभास्यत्वात् ।। ८२॥
सुखादिवृत्तेरज्ञाननिवर्तकत्वाभावाव्यभिचार इत्याशङ्कथ
सुखादिवृत्ते: साक्षिभास्यत्वेन तत्र वृत्त्यनभ्युपगमान्न व्य-
भिचार इति परिहरति-नन्विति ॥ ८२ ॥
सिद्धान्तकल्पवल्ल्यां १४. साक्षिस्वरूपनिर्णयवादः । अथ कोऽयं साक्षीति प्रश्ने कूटस्थदीपोक्तम् । तनुद्वयाधिष्ठान चैतन्यं यत्तु कूटस्थम् ।। ८३ ॥ साक्षिणमेव सप्रश्नं निरूपयति-अथेति । देहद- याधिष्ठानभूतकूटस्थचैतन्यं स्वावच्छेदकदेहद्वयस्य साक्षादीक्ष- णानिर्विकारत्वाच्च साक्षीत्युच्यत इत्यर्थः ।। ८३ ।। नाटकदीपे साक्षी जीवो नेति प्रदर्शितः स पुनः। नेशोऽपि किंतु शुद्धं प्रत्यग्ब्रह्मति तत्त्वदीपेऽपि ॥ ८४ ॥ कूटस्थदीपोक्तसाक्षी किं जीवकोटिः, उत ईश्वरकोटिरिति विशये, तन्निर्णयार्थमिदमाह-नाटकेति । नाटकदीपे यथा नृत्तशालास्थितो दीपः प्रभ्वादिकं प्रकाशयन् तदभावेऽपि प्रकाशते, एवं साक्षी जीवादिकं प्रकाशयन् सुषुप्तौ तदभावे- ऽपि प्रकाशत इति साक्षी न जीव इति दर्शितम् । तत्त्वदीपे- प्रथमः स्तबकः । ऽपि साक्षी न जीव: नापि ईश्वरः, 'केवलो निर्गुणश्च' इति श्रुतिविरोधात् । किं तु अस्पृष्टविभागं सर्वप्रत्यग्भूतं ब्रह्मेति दर्शित इत्यर्थः ॥ ८४ ॥ एको देव इति श्रु- त्यनुरोधादीश्वरस्यैव । कश्चिद्भेदः साक्षी- त्युपपादितमस्ति तत्त्वकौमुद्याम् ॥ ८५ ॥ * एको देवः' इति देवत्वश्रुतिविरोधात् परमेश्वरस्यैव कश्चिद्रूपभेदो जीवप्रवृत्तिनिवृत्त्योरनुमन्ता स्वयमुदासीन: साक्षीति मतान्तरमाह-- एक इति ।। ८५ ।। उक्तं हि तत्त्वशुद्धा- विमंशो रूप्यकोटिरिव । स ब्रह्मकोटिरेव प्रतिभासाजीवकोटिरिति ॥ ८६ ॥ यथा इदं रजतमिति भ्रमस्थले वस्तुतः शुक्तिकोट्यन्त- गतोऽपि इदमंशः प्रतिभासतो रजतकोटिः, रजताभिन्नः, तथा ब्रह्मकोटिरेव साक्षीति प्रतिभासतो जीवकोटिरिति मतान्तरमाह- उक्तं हीति ॥ ८६ ।।
४८ सिद्धान्तकल्पवल्ल्यां केचिदविद्योपाधि- जीवः साक्षीति भाषन्ते । अन्ये त्वन्तःकरणो- पाधि वः स हीति मन्यन्ते ॥ ८७ ॥ अविद्योपाधिको जीव: साक्षाद्रष्टुत्वात् कर्तृत्वाद्यारोपभा- क्त्वेऽपि स्वयमुदासीनत्वात् साक्षीति मतान्तरमाह- के- चिदिति । ‘एको देवः' इति श्रुतिस्तु वास्तवब्रह्माभेदाभिप्रा- येति भावः । अविद्योपाधिको जीवो न साक्षी, पुरुषान्तरा- न्तःकरणादीनामपि पुरुषान्तरं प्रति स्वान्तःकरणभासकसा- क्षिसंसर्गाविशेषेण प्रत्यक्षत्वापत्तेः। किंतु अन्त:करणोपाधि- को जीव एव स इति मतान्तरमाह-अन्ये विति । विशि- टोपहितयोर्भेदस्य सिद्धान्तसंमतत्वादन्तःकरणविशिष्टः प्र- माता तदुपहितः साक्षीति विवेक इति भावः ॥ ८७ ।। . १५. अविद्यादीनामावृतानावृतसाक्षि- चैतन्यप्रकाश्यत्ववादः। ननु चिन्मात्रावारक- तमसा स्वयमावृतः साक्षी।
प्रथमः स्तबकः । ४९ स कथमविद्यादीना- मवभासयिता भवेदिति चेत् ॥ ननूक्तरूप: साक्षी चैतन्यावारकाविद्यावृतः सन् कथम- विद्यादिकमवभासयदिति शङ्कते-- नन्विति ॥ ८८ ।। राहुच्छन्नश्चन्द्रो राहुं यत्प्रकाशयति । तमसावृतोऽपि साक्षी तमः प्रकाशयति तददित्याहुः ॥ ८९॥ राहुवदविद्या स्वावृतप्रकाशप्रकाश्येति मतेन परिहरति -राहुच्छन्न इति ।। ८९ ॥ साक्ष्यवभास्यसुखादौ संदेहादेरदर्शनतः। साक्षिणमपहाय तमो- ऽन्यत्रैवावृतिकृदित्यपरे ।। ९० ॥ वस्तुतस्तु साक्षिभास्याविद्याहंकारसुखादावावरणकार्यसं. देहाद्यदर्शनादज्ञानं साक्षिचैतन्यं विहायान्यत्र चैतन्ये आव- रणं करोतीति मतान्तरमाह- साक्षीति ॥ ९० ।। S.4 ५० सिद्धान्तकल्पवल्ल्यां साक्षी चेदज्ञाना- नावृतरूपो भवेत्तर्हि। तद्रूपोऽप्यानन्दः संततमेव प्रकाशेत ॥ ९१ ॥ ननु साक्षिण्यावरणानभ्युपगमे तस्यानन्दरूपतापि भासे- तेत्याशङ्कय इष्टापत्त्या परिहरति श्लोकद्वयेन- साक्षीति ॥ इति चेदयमानन्दो भासत एवात एव खलु। आत्मनि परमप्रेमा- स्पदत्वमिति केचिदत्राहुः ॥ ९२ ॥ इति चेदिति । निगव्याख्यानमेतत् ॥ ९२ ।। आनन्दो मयि नास्ति न भासत इत्यनुभवानुसारेण । आनन्दांशे साक्षिण आवरणं केचिदाचख्युः ॥ ९३ ॥ अनुभवानुसारिणां मतमाह-आनन्दो मयीति । सुग- ममेतत् । साक्षिण्यविद्याकल्पितभेदेनावरणानावरणयोरवि- रोधादिति भावः ॥ ९३ ।।
प्रथमः स्तबकः । १६. अहंकारादिस्मृतिसिद्धार्थसंस्कारा- धानवादः॥ नित्येन साक्षिणा त- संस्कारोत्पादनायोगात् । तद्भाखाहंकारा- द्यनुसंधानं कथं भवेदिति चेत् ॥ ९४ ॥ ननु कथं साक्षिभास्याहंकारादीनामनुसंधानम् , नष्ट- ज्ञानसूक्ष्मावस्थानरूपसंस्कारस्य ज्ञाने सति अयोगेन नित्येन साक्षिणा तदाधानासंभवादिति शङ्कते-नित्येनेति ॥९४॥ यवृत्त्युपहितसाक्षिणि यद्भाति तया तदीयसंस्कारः । इति नियमाद्विषयान्तर- वृत्तिजसंस्कारतस्तदित्याहुः ॥ ९५ ।। यद्वृत्त्यवच्छिन्ने साक्षिणि यत्प्रकाशते तद्वृत्त्या तद्गोचरसं- स्कार आधीयत इति नियमात् अहंकारादीनां च स्वगोचर- वृत्त्यभावे घटादिविषयान्तरगोचरवृत्त्यवच्छिन्नसाक्षिभास्य- त्वेन तादृशवृत्तिजन्यसंस्कारवत्तया अनुसंधानमुपपद्यत इति मतेन समाधत्ते-यवृत्तीति । एतन्नियमानभ्युपगमे स्ववृ- ५२ सिद्धान्तकल्पवल्ल्यां त्या स्वगोचरसंस्काराधानापत्तेवृत्तिगोचरवृत्त्यन्तराभ्युपगमे- ऽनवस्थाप्रसङ्गादिति भावः ॥ ९५ ॥ केचिदहंकाराव- च्छिन्नतया साक्ष्यनित्यतः । संस्कारस्तेना- कारस्मरणोपपत्तिरिति ॥ ९६ ।। अन्याकारवृत्त्या अन्यगोचरसंस्काराधाने विषयव्यवस्था- नुपपत्ते: स्वाकारवृत्त्यैव स्वगोचरसंस्काराधानमिति नियमः । तथा च अहंकारादिषु स्वाकारवृत्त्यभावेऽपि स्वभासकस्य साक्षिणः स्वावच्छिन्नत्वेनानित्यतया तेन संस्काराद्युपपत्ति- रिति मतान्तरमाह केचिदिति ॥ ९६ ॥ अहमाकारां वृत्तिम- विद्यावृत्तिं समाश्रित्य । संस्कारसंभवेन स्मृत्युपपत्तिं प्रसाधयन्त्यन्ये ॥ ९७ ॥ सुखमहमस्वाप्समिति सुप्तोत्थितस्मृतेरुपपादनायावश्यक ल्प्यामहमाकारां वृत्तिमविद्यावृत्तिमङ्गीकृत्याहंकारादिषु संस्का- रायुपपत्तिं प्रसाधयतां मतमाह- अहमाकारामिति ॥ - प्रथमः स्तबकः । अपरे त्वहमिति वृत्तिरु- पासनवन्मानसी न तु ज्ञानम् । मानाजन्यतयातः संस्कारादिर्भवेदिति प्राहुः ॥ ९८ ॥ अहमित्याकारा अन्त:करणवृत्तिरेव । सा च उपासनावन्न ज्ञानम् , क्लप्तप्रमाणाजन्यत्वात् । ततश्च संस्काराद्युपपत्तिरिति मतान्तरमाह-- अपरे विति ॥ ९८ ।। अन्ये तु न क्रिया- वृत्तिानं प्रमाणजन्यत्वात् । नातश्चाहंकारा- द्यनुसंधानेन दोष इत्याहुः ॥ ९९ ।। उपास्तिर्हि वस्तुप्रमाणातन्त्रत्वात् पुरुषप्रयत्नाधीनत्वा- वास्तु मानसी क्रिया । अहमाकारवृत्तिस्तु ज्ञानमेव मनोरू- पप्रमाणजन्यत्वात् वस्तुतन्त्रत्वाच । अत: संस्कारसंभवेना- हंकाराद्यनुसंधाने न काचिदनुपपत्तिरिति मतान्तरमाह--- अन्ये त्विति ।। ९९ ।। इत्थं च बाह्यविषया- परोक्षवृत्त्यावृतिक्षतिः सिद्धा।
सिद्धान्तकल्पवल्ल्यां
नन्वेवमिदंवृत्त्या-
ज्ञाने नष्टे भ्रमो न स्यात् ॥ १०० ।।
इयता प्रबन्धेन प्रतिपादितं बाह्यापरोक्षवृत्त्यैवावरणाभि-
भव इति नियममुपसंहृत्यास्यापि नियमस्य शुक्तिरजतभ्रम-
स्थलेऽतिप्रसङ्गं शङ्कते-- इत्थमिति । आवृतिक्षति: आव-
रणाभिभव इत्यर्थः । उपादानाभावादिति भावः ।। १०० ।।
अनेदंवृत्त्यापर-
मिदमंशाज्ञाननाशेऽपि ।
शुक्त्यंशाज्ञानवशा-
द्रजताध्यासोपपत्तिरित्याहुः ॥ १०१ ॥
इदमाकारवृत्त्येदमंशाज्ञानस्य नाशेऽपि न पश्यामीत्यनु-
भवेन शुक्त्यंशाज्ञानसत्त्वेन तद्वशाद्रजताध्यासोपपत्तिरिति
परिहरति--अत्रेति ॥ १०१ ।।
अन्ये त्विदमाकारक-
वृत्त्यावरणांशनाशेऽपि ।
विक्षपांशोपहिता-
दिमंशाज्ञानतः सेति ॥ १०२ ॥
प्रथमः स्तबकः । इदमंशसंभवेन प्रतीयमानस्य रजतस्येदमंशाज्ञानमेवोपा- दानम् । तस्येदमाकारवृत्त्यावरणांशनाशेऽपि विक्षेपांशानि- वृत्त्या तत्सहितेदमंशाज्ञानाद्रजताध्यासोपपत्तिरिति मतान्तर- माह---अन्ये त्विति ॥ १०२ ॥ अपरे त्विदमाकारा वृत्तिर्नास्त्येव रूप्यधीभिन्ना। तस्याः कथमावरणा- भिभावकत्वप्रसङ्ग इत्याहुः॥ १०३ ॥ इदं रूप्यमिति विशिष्टगोचरैव वृत्तिर्दोषादिसहकृतेन्द्रियसं- प्रयोगादुत्पद्यते, न तव्यतिरेकेणेदमाकारा वृत्तिरस्ति । तस्या आवरणाभिभावकत्वप्रसङ्गो निरालम्बन इति कवितार्किकच- क्रवर्तिमतमाह--अपरे त्विति ॥ १०३ ॥ इतरे त्वेकैवेदं- वृत्तिर्धमहेतुरन्यवैफल्यात्। अध्यस्तं त्विह रूप्यं साक्षिप्रतिभास्यमित्याहुः ॥ १०४ ॥ अधिष्ठानज्ञानस्याध्यासकारणत्वाद्रूप्याध्यासकारणमिदमा- कारा वृत्तिरेकैव । न त्वन्या रूप्याकारा, प्रयोजनाभावात् ।
सिद्धान्तकल्पवल्ल्यां
,
रूप्यभानं तु इदंवृत्त्यभिव्यक्तसाक्षिचैतन्येनैवोपपद्यत इति म-
न्यमानानां मतमाह-इतरे त्विति ॥ १०४ ॥
ज्ञानद्धयमिति पक्षे
त्विमिति वृत्तिर्धमे हेतुः।
अन्येदं रजतमिति
स्यादिमध्यस्तगोचरेत्येके ॥१०५ ॥
ज्ञानद्वयाङ्गीकारपक्षे रजताध्य
ध्यासहेतुभूतेदंवृत्तिरेका, अन्या
तु इदमध्यस्तरजतोभयगोचरा, इदं रजतं जानामीतीदमर्थता-
दात्म्येन रजतानुभवादिति मतान्तरमाह-ज्ञानद्वयमिति ॥
इदमिति मानसवृत्तिर-
विद्यावृत्तिस्तु तद्भिन्ना।
रजताकारा तस्या
नेदंविषयत्वमित्यपरे ॥ १०६ ॥
अध्यासात्पूर्वमिदमिति जायमाना वृत्तिमानसी, रजताका-
रा तु इदमाकारवृत्त्यवच्छिन्नचैतन्यस्थाविद्यापरिणामरूपतया-
विद्यावृत्तिः । तस्याश्च नेदंविषयत्वम् । इदमर्थतादात्म्यानु-
भवस्तु अधिगतेदंत्वविषयत्वसंसर्गेण युज्यत इति मतान्तर-
माह- इदमिति ॥ १०६ ॥
प्रथमः स्तबकः । १७. अपरोक्षानुभूत्यर्थं वृत्ते- निर्गमवादः ॥ नन्वविनिर्गतवृत्त्या- वच्छिन्नेनैव साक्षिबोधेन । सकलविषयावभासो- पपत्तिरिति वृत्तिनिर्गमो व्यर्थः ॥१०७॥ परोक्षस्थल इवापरोक्षवृत्तिस्थलेऽप्यविनिर्गतवृत्त्यवच्छि- नसाक्षिचैतन्येनैव सकलविषयावभासोपपत्तेरनुमितिशाब्द- योरिव कारणवैलक्षण्योपपत्ते: वृत्तर्विषयदेशकल्पनं वृथेति शङ्कते--नन्विति ॥ १०७ ।। अत्र वदन्त्यपरोक्षे विषयाधिष्ठानभूतवियत्यै । तमिर्गमाभ्युपगमो युक्तो न तु परोक्ष इति केचित् ॥ तादात्म्यसंबन्धसंभवे स्वरूपसंबन्धस्य कल्पनायोगात् प्र- त्यक्षस्थल तादात्म्येन विषयाधिष्ठानचैतन्यमेव विषयप्रकाश- इति तदभिव्यक्त्यर्थं युक्तो वृत्तिनिर्गमाभ्युपगमः । परोक्ष- स्थले तु न तथा । तत्र वृत्तिनिर्गमद्वाराभावेनागत्या स्वरू- सिद्धान्तकल्पवल्ल्यां पसंबन्धेनाविनिर्गतवृत्त्यवच्छिन्नचैतन्यमेव विषयप्रकाश आ- श्रियत इति मतेन समाधत्ते-अत्रेति ॥ १०८ ॥ साक्षाच्चित्संसर्गा- हुःखादिष्वापरोक्ष्यदर्शनतः । तत्सिद्धये घटादौ वृत्तेर्निर्गमनमित्यन्ये ॥ १०९ ॥ अहंकारसुखदुःखादिषु साक्षाच्चैतन्यसंसर्गेणैवापरोक्षदर्श- नादत्रापि तथैवेति तत्सिद्धये घटादौ वृत्तनिर्गम: समभ्यु- पगम्यत इति मतान्तरमाह--साक्षादिति ॥ १०९ ॥ प्रत्यक्षे गन्धादौ स्पष्टत्वं वृत्तिनिर्गमाधीनम् । दृष्टमतोऽन्यत्रापि स्पष्टत्वायतदित्यपरे ॥ ११० ।। परोक्षापेक्षया प्रत्यक्षे गन्धादावनुभूयमानं स्पष्टत्वं वृत्त्यभि- व्यक्तचैतन्यतादात्म्यप्रयुक्तं दृष्टमित्यतोऽन्यत्रापि स्पष्टत्वार्थ वृत्तिनिर्गमनमपेक्षत इति मतान्तरमाह- प्रत्यक्ष इति ॥ नन्वेवं स्पष्टत्वं विषयावरणाभिभूतिरस्खाश्च ।
प्रथमः स्तबकः । - अविनिर्गतया वृत्त्या सिद्धेः किं वृत्तिनिर्गमेनेति ॥ १११ ॥ नन्वेवमावरणाभिभूतिरेव स्पष्टतेति पर्यवसन्नम् । तस्या- श्वानिर्गतवृत्त्यैव सिद्धेः किं वृत्तिनिर्गमनेनेति शङ्कते-- नन्विति । नन्वेवं वृत्तेर्भिन्नदेशस्थत्वात् कथं तया विषयग- ताज्ञाननिवृत्तिरिति चेन्न । यदज्ञानं यं पुरुषं प्रति यद्विषया- वारकम् , तत् तदीयतद्विषयकज्ञाननिवर्त्यमिति ज्ञानाज्ञान- योर्विरोधप्रयोजकस्य नियमस्य सत्त्वादिति भावः ॥११॥ अबैतदनिर्गमने न ज्ञानाज्ञानयोर्विरोधस्य । निर्वाहः स्यादिति त- लाभार्थं वृत्तिनिर्गमापेक्षा ॥ ११२ ॥ वृत्तिनिर्गमानभ्युपगमे ज्ञानाज्ञानयोर्विरोधप्रयोजकस्य दु- निरूपत्वेन तयोविरोधनिर्वाहो न स्यात् । न च यदज्ञानं यं पुरुषं प्रति इत्यादि तत्प्रयोजकमुक्तमिति वाच्यम् । परोक्षज्ञाने- नापि विषयगताज्ञाननिवृत्तिप्रसङ्गात् । तन्निर्गमाभ्युपगमे तु यदज्ञानं यं पुरुषं प्रति यद्विषयावारकम् , तत् तदीयतदज्ञाना- श्रयचैतन्यसंसर्गनियतात्मलाभज्ञाननिवर्त्यमिति तत्प्रयोजक- ६० सिद्धान्तकल्पवल्ल्यां स्य निरूपयितुं शक्यत्वेन तयोविरोधनिर्वाहो भवतीति तद- थं वृत्तिनिर्गमापेक्षेति मतेन समाधत्ते--अत्रेति ।। ११२ ।। विषयगताज्ञानस्य खसमानाधिकरणबोधनाश्यत्वे । सिद्धे वृत्तेरा- निर्गमनं पर्यवस्यतीत्यन्ये ॥ ११३ ॥ विषयगताज्ञानस्य लाघवात् स्वसमानाधिकरणज्ञाननि- वय॑त्वसिद्धावाद्वृत्तिनिर्गमः फलतीति मतान्तरमाह----वि- षयेति ॥ ११३ ॥ सामानाधिकरण्ये सत्येव तमः प्रकाशनाश्यामिति । दृष्टानुरोधतस्त- निर्गमनं सिध्यतीत्येके ॥ ११४ ।। बाह्यप्रकाशस्य बाह्यतमोनिवर्तकत्वं सामानाधिकरण्ये स- त्येव दृष्टमिति दृष्टानुरोधाद्वृत्तिनिर्गम: सिध्यतीति मता- न्तरमाह--- सामानाधिकरण्य इति ॥ ११४ ॥ आवरणाभिभवार्थ मा भूत्तन्निर्गमापेक्षा।
प्रथमः स्तबकः । स्याच्चिदुपरागसिध्यै तभेव्यक्तयेऽथवेत्यन्ये ।। ११५ ॥ चिदुपरागोऽभेदाभिव्यक्तिर्वा वृत्तिफलमिति मतयोस्तु तदर्थमेव वृत्तिनिर्गमनकल्पनमित्याह-- आवरणेति ।। इत्थं प्रत्यगभिन्ने ब्रह्मणि वेदान्तवाक्यानाम् । तात्पर्येणान्वयतो जीवपराभेदसंसिद्धिः॥ ११६ ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीपरमशिवेन्द्र- पूज्यपादशिष्य श्रीसदाशिवब्रह्मेन्द्रविरचित- वेदान्तसिद्धान्तकल्पवल्ल्यां प्रथमः स्तबकः समाप्तः ॥ प्रासङ्गिक परिसमाप्य सर्ववेदान्तसिद्धं प्रत्यग्ब्रह्माभेदमुप- संहरति- इत्थमिति ॥ ११६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्परमशिवेन्द्रपूज्यपाद- शिष्यश्रीसदाशिवब्रह्मेन्द्रप्रणीतश्रीवेदान्तसिद्धान्त- कल्पवल्लीव्याख्यायां केसरवल्ल्याख्यायां प्रथमः स्तबकः ।।
द्वितीयस्तबकः॥
*
१. श्रुतिप्रत्यक्षयोः प्राबल्यदौर्बल्यवादः ।
नन्वते ब्रह्मणि
वेदान्तसमन्वयः कथं सिध्येत् ।
विश्वगतसत्वविषय-
प्रत्यक्षविरोधदर्शनादिति चेत् ॥ १ ॥
प्रथमस्तबके सर्ववेदान्तानामद्वितीयब्रह्मणि समन्वयं व्यु-
त्पाद्य तस्य दृढीकरणाय प्रमाणान्तराविरोधं व्यवस्थापयि-
ध्यन् प्रथमं घट: सन्नित्यादिघटादिप्रपञ्चगतसत्त्वग्राहिप्रत्यक्ष-
विरोधात्कथमद्वितीये ब्रह्मणि वेदान्तानां समन्वयः सिध्येदिति
प्रत्यक्षविरोधं शङ्कते-नन्विति ॥ १ ॥
इह तत्त्वशुद्धिकाराः
प्रत्यक्षं नो घटादि गृह्णाति ।
किं तु घटाद्यनुविद्धं
सन्मात्रमतो न विरोध इति ॥ २ ॥
द्वितीयः स्तबकः । ६३ यदि प्रत्यक्षं घटादिप्रपञ्चं तत्सत्त्वं वा गृहीयात् , तदा परं विरोधः । न तथा गृह्णाति । किं तु अधिष्ठानत्वेन घटाद्य- नुगतं सन्मात्रमेव । तथा च प्रत्यक्षमपि सद्रूपब्रह्माद्वैतसि- ध्यनुकूलमेवेति मतेन परिहरति-इहेति । यथा भ्रमेष्वि- न्द्रियान्वयव्यतिरेकयोरधिष्ठानेदमंशग्रहण एवोपक्षयः अध्य- स्तरजतादेस्तु भ्रान्त्यैव प्रतिभासः, तथा सर्वत्रेन्द्रियैः सन्मा- त्रग्रहणम् । मायिकघटतद्भेदादेस्तु भ्रान्त्यैव प्रतिभास इति भावः ॥ २ ॥ अस्तु घटादेरिन्द्रिय- वेद्यत्वमथापि न विरोधः । न्यायसुधोदितरीत्या सहुद्धेब्रह्मसत्त्वविषयत्वात् ।। ३ ॥ अस्तु घटादिप्रपञ्चस्य प्रत्यक्षवेद्यत्वम् , तथापि न विरो- धः, घटः सन्नित्यादिसद्बुद्धेराधिष्टानब्रह्मसत्त्वविषयत्वात् । स- त्त्वान्तरविषयत्वकल्पने गौरवादिति मतान्तरमाह- अ- स्त्विति ॥ ३ ॥ संक्षेपकोत्तरीत्या- क्षस्यापि घटादिसत्त्वविषयत्वम् ।
६४ सिद्धान्तकल्पवल्ल्यां भवतु तथापि न तत्त्वा- वेदकता मानतेति न विरोधः ॥ ४ ॥ प्रत्यक्षस्य घटादिगताध्यस्तसत्त्वग्राहित्वेऽपि पराविषय- त्वेन तस्य न तत्त्वावेदकत्वं प्रामाण्यम्। श्रुतेस्तु तत्प्रामाण्य- मस्तीति न तद्विरोध इति मतान्तरमाह-संक्षेपकेति ॥ प्रत्यक्षसमधिगम्यं सत्वं जात्यादि न त्वबाध्यत्वम् । न विरुध्यते तदेत- मिथ्यात्वेनेति चक्षते केचित् ॥५॥ वर्तमानमात्रगोचरप्रत्यक्षेण कालत्रयाबाध्यत्वरूपसत्त्वग्रह- णायोगात् , तद्वेद्यं जात्यादिरूपमेव सत्त्वम् । तच्च मिथ्या- त्वेन न विरुध्यत इति मतान्तरमाह प्रत्यक्षेति ।। ५ ॥ यावह्मविनिश्चय- मबाध्यतारूपसत्वस्य । प्रत्यक्षग्राह्यत्वे- ऽप्यविरोधः श्रुतिभिरित्यन्ये ॥६॥ द्विविधं सत्त्वम् । यावद्ब्रह्मज्ञानमबाध्यत्वरूपं सर्वदैवा- बाध्यत्वरूपं चेति । तत्राद्यस्य प्रत्यक्षग्राह्यत्वेऽपि मिथ्यात्व- - A द्वितीयः स्तबकः। प्रतिपादकश्रुतिभिर्न विरोध इति मतान्तरमाह-याव- दिति ॥ ६॥ अस्तु विरोधस्तदपि श्रुत्या निर्दोषया कनीयस्या । ज्यायोऽपि प्रत्यक्ष शङ्कितदोषं च बाध्यमित्यपरे ॥ ७ ॥ प्रपञ्चस्य मिथ्यात्वसत्यत्वग्राहिणोः श्रुतिप्रत्यक्षयोर्विरो- धेऽपि दोषशङ्काकलङ्कितं प्रथमप्रवृत्तमपि प्रत्यक्षं निर्दोषत्वा- दपच्छेदन्यायेन परत्वाद्बलीयस्या श्रुत्या बाध्यत इति मता- न्तरमाह-अस्त्विति ॥ ७ ॥ श्रुतिरपि तात्पर्यवती बलीयसीत्याह भामतीकारः। विवरणवार्तिककारा- स्त्वाहुः श्रुतिमात्रमिह बलीय इति ॥ नन्वेवं यजमान: प्रस्तर इति यजमानस्य प्रस्तराभेद- बोधकश्रुत्या तद्भेदप्रत्यक्षमपि बाध्यतामित्याशङ्कयाह-श्रुति- रपीति । तात्पर्यवत्येव श्रुतिर्मानान्तरादलीयसी । प्रस्तरस्तु- त्यर्थवादस्य तु स्तुतौ तात्पर्यम् , न तु स्वार्थे । अतस्तत्र S.5 ६६ सिद्धान्तकल्पवल्ल्यां मानान्तरविरोधे गौण्यादिकल्पनं युक्तमिति भावः । न तात्पर्येण श्रुतेः प्राबल्यम् । कृष्णलं अपयेदित्यत्रोष्णीकरण- लक्षणानापत्तेः, किं तु श्रुतित्वादेव प्राबल्यमित्युत्सर्गः । स- च मानान्तरस्य विषयान्तरसंभवस्थले चरितार्थः । तदसं- भवेऽपोद्यत इति मतान्तरमाह---विवरणेति ॥ ८ ॥ २. श्रुतिप्रत्यक्षयोरुपजीव्योपजीवकभाव- विरोधपरिहारवादः। ननु वर्णाद्यवगाहि- प्रत्यक्षस्यागमोपजीव्यत्वात् । उपजीव्याविरोधे सति हन्त प्राबल्यमागमय कथम् ॥९॥ वर्णपदादिगोचरत्वेन तत्प्रत्यक्षस्य श्रुताद्वितीयब्रह्मज्ञान- हेतुत्वेनोपजीव्यत्वात्तद्विरोधे सति कथमागमस्य प्राबल्य- मिति शङ्कतेनन्विति । अपच्छेदाधिकरणे हि उपजीव्यत्वा- भावात्परेण पूर्वस्य बाधो युक्तः, इह तु न तथेति भावः ।। शाब्दप्रमितौ वर्णा- द्यध्यक्षं तु भ्रमप्रमानुगतम् ।
द्वितीयः स्तबकः । हेतुर्न तत्त्वरूपं तस्मान्न विरोध इत्याहुः ॥ १० ॥ वृषमानयेत्यादिवाक्यं श्रवणदोषाद्वृषभमानयेत्यादिरूपेण शृण्वतोऽपि शाब्दप्रमितिदर्शनेन शाब्दप्रमितौ वर्णपदादेः प्र- त्यक्षं भ्रमप्रमासाधारणमेव हेतुः । न तु वर्णपदादिस्वरूपम् । तस्मादद्वैतागमेन वर्णपदादिस्वरूपोपमर्देऽपि नोपजीव्यविरोध इति मतेन समाधत्ते-शाब्देति ॥ १० ॥ अन्ये तू योग्यतासि- ध्यपेक्षणेऽप्यत्र न विरोधः । आमुक्त्यसद्विलक्षण- सत्त्वोपगमादिति प्राहुः॥११॥ यद्यप्ययोग्यवाक्याच्छाब्दप्रमानुदयेन योग्यतास्वरूपसि- ध्यपेक्षास्ति, तदपेक्षायामपि मुक्तिपर्यन्तं व्यावहारिकासद्विल- क्षणत्वार्थक्रियासमर्थत्वाभ्युपगमानोपजीव्यविरोध इति म- तान्तरमाह- अन्ये त्विति ॥ ११ ॥ तात्त्विकसत्त्वेन जग- निषिध्यते नेह नानेति ।
६८ सिद्धान्तकल्पवल्ल्यां तेन पदाद्युपमर्दन- शङ्काविरहान्न दोष इत्येके ॥ १२॥ नेह नानास्तीति श्रुत्या पारमार्थिकसत्त्वेनैव प्रपञ्चो निषि- ध्यते, न तु व्यावहारिकसत्त्वेन । न चाप्रसक्तप्रतिषेधः । शु- तौं रजताभासप्रतीतिरेव सत्यरजतप्रसक्तिरिति तन्निषेधवत् प्रपञ्चे सत्यत्वाभासप्रतीतिरेव पारमार्थिकसत्यत्वप्रतीतिरिति तनिषेधोपपत्तेः । अतो व्यावहारिकसत्त्वानिषेधेन वर्णपदयो- ग्यतादिस्वरूपोपमर्दनशङ्कानवकाशान्नोपजीव्यविरोध इति म- तान्तरमाह-ताविकेति ॥ १२ ॥ केचित्तात्त्विकमेव हि सत्त्वं तस्यानुवेधतो जगति । सत्त्वाभिमते तस्मि- न्सत्त्वनिषेधेऽप्यदोष इति ॥ १३ ॥ ब्रह्मणि पारमार्थिकं सत्यत्वम् , प्रपञ्चे व्यावहारिकम् , शुक्तिरजतादौ च प्रातिभासिकमिति सत्तात्रैविध्यं नोपेयते । अधिष्ठानब्रह्मसत्तानुवेधादेव प्रपञ्चे शुक्तिरजतादौ च सत्त्वा- भिमानोपपत्त्या सत्त्वाभासकल्पनख्य निष्प्रमाणत्वात् । एवं
द्वितीयः स्तबकः ।
च प्रपञ्चे सत्त्वनिषेधेऽपि नोपजीव्यविरोध इति मतान्तर-
माह-केचिदिति ॥ १३ ॥
इत्थं तात्त्विकसत्ता-
भिन्नतदाभासकल्पनाभावे ।
सत्यरजतातिरिक्तो
रजताभासः प्रकल्प्यते किमिति ॥१४॥
नन्वेवं ब्रह्मगतपारमार्थिकसत्त्वातिरेकेण प्रपञ्चे सत्त्वाभा-
सानभ्युपगमे व्यवहितसत्यरजतातिरेकेण रजताभासोत्पत्तिः
किमित्युपेयत इति शङ्कते-इत्थमिति ।। १४ ।।
इति चेदसंनिकर्षा-
दपरोक्षानहमेव रूप्यमिति ।
अपरोक्षानुभवबला-
द्रूप्याभासस्य कल्पना युक्ता ॥ १५ ॥
व्यवहितस्यासंनिकृष्टस्यापरोक्ष्यासंभवाच्छुक्तिरजतादौ च
तदनुभवात्तन्निर्वाहाय तदुपगम इति परिहरति--इति चे-
दिति । अनेनासंनिकृष्टभ्रमस्थलेऽनिर्वचनीयविषयोत्पत्तिरिति
नियमो दर्शितो भवति ॥ १५ ॥
सिद्धान्तकल्पवल्ल्यां ३. प्रतिबिम्बस्य बिम्बाभेदभेदाभ्यां सत्यत्वमिथ्यात्ववादः॥ नन्वित्थं प्रतिबिम्ब- भ्रमस्थले संनिकर्षवैकल्यात् । मुकुरे मुखान्तरं स्या- द्रीवास्थितनिजमुखातिरेकेण ॥ १६ ॥ अस्मिन्नियमेऽतिप्रसङ्गमाशङ्कते--नन्विति । संनिकर्षवै- कल्यादिति, ललाटादिप्रदेशावच्छेदेन मुखस्य संनिकर्षाभा- वादित्यर्थः । बिम्बातिरिक्तप्रतिबिम्बाभ्युपगमे ब्रह्मप्रतिबि- म्बस्यापि जीवस्य ततो भेदेन मिथ्यात्वापत्त्या मुक्तिभा- क्त्वानुपपत्तिरिति भावः ॥ १६ ॥ इह न मुखस्याध्यासो मुकुराहतदृष्टिसंनिकृष्टत्वात् । किं त्वस्य मुकुरगत्वं भ्रम इति निगदन्ति विवरणानुगताः॥ भवेदेवं यदि दर्पणे मुखस्याध्यास: स्यात् ; न त्वेतदस्ति; तस्य दर्पणप्रतिहतपरावृत्तदृष्टिसनिकृष्टत्वात् । किंतु ममेदं - द्वितीयः स्तबकः । ७ मुखं दर्पणे भाति नात्र मुखमस्तीति दर्पणस्थत्वबाधयोरनुभ- वादस्य दर्पणस्थत्वमेवाध्यस्यत इति मतान्तरमाह-इहेति ॥ बिम्बमुखात्पार्श्वस्थै- .देन निरीक्ष्यमाणमार्शे । प्रतिबिम्बितं मुखं त- न्मिथ्येत्यद्वैतविद्याकृत् ॥ १८॥ बिम्बमुखाद्भेदेन तत्सदृशत्वेन च पार्श्वस्थैः स्पष्टं निरी- क्ष्यमाणं दर्पणे प्रतिबिम्बितं ततो भिन्नं स्वरूपतो मिथ्यैव । स्वकरगतादिव रजताच्छुक्तिरजतम् । दर्पणे मे मुखमिति व्यपदेशस्तु स्वच्छायामुखे स्वमुखव्यपदेशवद्गौण इति जीव- त्रैविध्यवाद्यभिप्रायमाविष्कुर्वतां मतमाह-बिम्बेति । अ- स्मिन्पक्षे प्रतिबिम्बजीवस्य मिथ्यात्वेऽपि अवच्छिन्नजीवस्य सत्यत्वात् न पूर्वोक्तमुक्तिभाक्त्वानुपपत्तिरिति भावः ॥ ननु कथमयमध्यास- स्तत्विज्ञानसंक्षयादिति चेत् । विक्षेपशक्तिमात्रव- दज्ञानं तत्र हेतुरित्याहुः ॥ १९ ॥ दर्पणप्रत्यक्षेणोपादानाज्ञाननाशात् कथं प्रतिबिम्बाध्यास ।
सिद्धान्तकल्पवल्ल्यां इत्याशङ्कय तत्प्रत्यक्षेण तदज्ञानस्यावरणांशनाशेऽपि बिम्ब- संनिधानादिप्रतिबन्धाद्विक्षेपांशेन नाशाभावात्तादृशमेवाज्ञानं प्रतिबिम्बोपादानमिति परिहरति-नन्विति ॥ १९ ॥ मूलाज्ञानं हेतु- बिम्बासंनिहितमुकुरधीधः । बिम्बादिदोषजत्वा- त्पातीतिकता च घटत इत्येके ।। २० ।। न तावद्विक्षेपशक्तिमदवस्थाज्ञानं प्रतिबिम्बोपादानम् । यत्र पूर्वमेव दर्पणप्रत्यक्षं पश्चात् बिम्बसंनिधौ तत्र प्रतिब- न्धकाभावाद्विक्षेपांशस्य नाशे प्रतिविम्बानुदयप्रसङ्गात् । किंतु विक्षेपशक्तिमन्मूलाज्ञानमेव तदुपादानम् । न च तत्रापि तुल्यो दोषः, पराग्विषयवृत्तीनां स्वस्वविषयावच्छिन्नचैतन्य- प्रदेशे मूलाज्ञानावरणशक्त्यंशाभिभावकत्वेऽपि तदीयविक्षे- पानिवर्तकत्वस्य व्यावहारिकघटादिविक्षेपानिवृत्त्या क्लप्त- त्वादिति मतान्तरमाह-मूलेति । ननु तर्हि बिम्बापसरणेऽपि यावद्ब्रह्मज्ञानोदयं प्रतिबिम्बानुवृत्तिः स्यात् , उपादानाज्ञान- सत्त्वादित्याशङ्कयाह- बिम्बासंनिहितमुकुरधीर्बाध इति । बिम्बासंनिधिसहकृतमुकुरप्रत्यक्षं मूलाज्ञानानिवर्तकमपि स्व- द्वितीयः स्तबकः । विरुद्धतत्कार्यविक्षेपनिवर्तकमेवेत्यर्थः । तथा च ब्रह्मज्ञानस्य निवर्तकत्वपक्षेऽपि तादृङ्मुकुरप्रत्यक्षं मुद्रप्रहारो घटस्येव प्रतिबिम्बस्य तिरोधायकमेवेत्युभयथा न प्रतिबिम्बानु- वृत्तिरिति भाव: । ननु तर्हि तस्य व्यावहारिकत्वाप- त्तिरित्याङ्कयाह--बिम्बादीति बिम्बसंनिधानस्वच्छ- त्वादिदोषजन्यत्वात् प्रातिभासिकमित्यर्थः । तथा च अविद्या- तिरिक्तदोषाजन्यत्वमेव व्यावहारिकत्वप्रयोजकमिति भावः ।। ४. स्वप्नाधिष्ठानवादः। केचित्स्वप्नोऽप्येवं मूलाज्ञानैकहेतुको भवति । निद्राजन्यतया प्रति- भामात्रो ब्रह्मबोधबाध्य इति ॥ २१ ॥ एवं स्वप्नोऽप्यवस्थाशून्येऽहंकारोपहिते शुद्धे वा चैतन्ये अध्यासान्मूलाज्ञानोपादानक एव, आगन्तुकनिद्रादिदोषज- न्यत्वात् प्रातिभासिकः, ब्रह्मज्ञानबाध्यश्चेति मतान्तरमाह--- केचिदिति । ब्रह्मज्ञानैकबाध्यत्वेऽपि स्वप्नस्य प्रबोधे सति तिरोधानान्न जाग्रहशायामनुवृत्तिरिति भावः ।। २१ ॥
सिद्धान्तकल्पवल्ल्यां स्वप्राध्यासस्य परे प्राहुर्जाग्रत्प्रबोधतो बाधम् । ब्रह्मज्ञानेतरधी- बाध्यतया प्रातिभासिकत्वं च ॥ २२ ॥ 'बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे' इति भाष्यो- तेर्जागरिते स्वप्नमिथ्यात्वानुभवाच्च स्वप्नाध्यासस्य जाग्रत्प्र- बोधादेव बाधः । ब्रह्मज्ञानेतरज्ञानबाध्यतया प्रातिभासिकत्वं चेति मतान्तरमाह-- स्वमेति । उपादानाज्ञाने सत्यपि भ्रमरूपेणापि जाग्रत्प्रबोधेन स्वप्नभ्रमस्य रजौ दण्डभ्रमेण सर्पभ्रमस्येव बाधो युक्त इति भावः ।। २२ ।। केचिदविद्यावस्था- लक्षणनिद्रानिदानकः स्वप्नः । सांव्यवहारिकजीव- ज्ञानाद्विनिवर्त्य इत्याहुः ॥ २३ ॥ जाग्रद्भोगप्रदकर्मोपरमे व्यावहारिकजगज्जीवावावृण्वन्ती मूलाज्ञानावस्थाभेदरूपा निद्रव स्वाप्नप्रपञ्चस्योपादानम् , न मूलाज्ञानम् । पुनश्च जाग्रद्भोगप्रदकर्मोद्बोधे व्यावहारिकजीव-
द्वितीयः स्तबकः ।
--
स्वरूपज्ञानात् स्वोपादाननिद्रारूपाज्ञाननिवृत्त्या तस्य निवृत्ति-
रिति मतान्तरमाह--
केचिदिति ॥ २३ ॥
निद्रादोषयुताया-
मन्तवृत्तावभिव्यक्ते।
शुद्धे चैतन्ये स्या-
त्स्वप्नाध्यास इति मन्वते केचित् ॥
अहंकारोपहिते शुद्धे वा प्रागुक्तस्वप्नाध्यासो न युक्तः ।
आद्ये अहं गज: गजवान्वेति भानापत्ते: । द्वितीये, प्रमातृ-
संबन्धाय चक्षुरादिवृत्त्यपेक्षोपपत्तेरित्याशङ्कय अन्त:करणस्य
बहिरस्वातन्त्र्येऽपि देहान्तःस्वातन्त्र्यात् तदन्तःकरणवृत्तौ
निद्रादोषोपेतायामभिव्यक्ते शुद्धचैतन्ये तदाश्रिताविद्यापरिणा-
मरूप: स्वप्नाध्यास इति विवरणोपन्यासकृन्मतेन द्वितीय-
पक्षे दोषमुद्धरति--निद्रेति । साक्षात्प्रमातृसंबन्धेन तद्भा-
नोपपत्तेस्तदर्थं न चक्षुरादिवृत्त्यपेक्षेति भावः ॥ २४ ॥
केचित्तस्मिन्नेवा-
विद्याप्रतिबिम्बचैतन्ये ।
स्वयमपरोक्षतयास्य तु
तद्भासार्थ न वृत्त्यपेक्षेति ॥ २५ ॥
सिद्धान्तकल्पवल्ल्यां अविद्याप्रतिबिम्बे पूर्वोक्तशुद्धचैतन्य एव स्वप्नाध्यासः । अस्य शुद्धचैतन्यस्य स्वत एवापरोक्ष्यादध्यासावभासकत्वो- पपत्तेस्तदर्थं न चक्षुरादिवृत्त्यपेक्षेति द्वितीयपक्ष एव मतान्त- रेण दोषमुद्धरति- केचिदिति । प्रमात्वस्वप्नदृष्टत्वानुभ- वस्तु तदधिष्ठानशुद्धचैतन्यगोचरतत्समनियतान्त:करणवृत्ति- कृताभेदाभिव्यक्तेरिति भावः ॥ २५ ॥ केचिदहंकृत्युपहित- तत्प्रतिविम्बे तध्यासः। नाहंकारविशिष्टे येन स्यादहमिति प्रतीतिरिति ॥ २६ ॥ नाहंकारविशिष्टे स्वप्नाध्यासः । येन गजोऽहमित्यादिप्र- त्ययः प्रसज्येत । किंतु अहंकारोपहिते तत्प्रतिबिम्बचैतन्य इत्याद्यपक्षेऽपि दोषमुद्धरति- केचिदिति । विशेषणवदु- पाधेः कार्यान्वयाभावादिति भावः ॥ २६ ॥ शुक्तीदंचैतन्य- प्रतिबिम्बे वृत्तिमन्मनोनिष्ठे । अध्यासो रजतादे- रत एवानन्यवेद्यतेत्याहुः ॥ २७ ॥ ।
द्वितीयः स्तबकः । एवं स्वप्नाध्यासस्य मतभेदेनाधिष्ठानमुक्त्वा रजताध्यास- स्यापि तदाह- शुक्तीति । शुक्तीदंचैतन्यं शुक्तीदमंशाव- च्छिन्नचैतन्यम् , तस्य प्रतिबिम्ब इत्यर्थः । अत एव, प्रतिबि- म्बाध्यासादेवेत्यर्थः । बिम्बेऽध्यासे तु शुक्त्यादिवदन्यवेद्यता स्यादित्यर्थः ॥ २७ ॥ इदमंशावच्छिन्ने बिम्बेऽप्यध्यासमभ्युपेत्य परे । तत्तदविद्याश्रयपु- ग्राह्यत्वान्नान्यवेद्यतेत्याहुः ।। २८ ।। इदमंशति । नन्वेवं तर्हि पुरुषान्तरवे- द्यता स्यादित्याशङ्कयाह---- तत्तदिति ॥ २८ ॥ मतान्तरमाह- ५. स्वप्नपदार्थानुभववादः । नन्वस्तु शुक्तिरूप्ये चाक्षुषताप्रत्ययः कथंचिदपि । स्वामगजादिष्वेषो- ऽनुभवः कथमाविरस्त्विति चेत् ।। २९ ॥
७८
सिद्धान्तकल्पवल्ल्यां
ननु शुक्तिरजते चाक्षुषत्वानुभव: साक्षाद्वा अधिष्ठानद्वारा
वा कथंचित्समर्थ्यताम् । स्वाप्नगजादिषु तथानुभवः कथ
समर्थनीय इति शङ्कते-नन्विति ॥ २९ ॥
अत्राहुस्तदवसरे
चक्षुःप्रमुखेन्द्रियोपरमात् ।
स्वामेषु चाक्षुषत्वा-
नुभवो भ्रम एव भवतीति ॥ ३० ॥
स्वप्नावस्थायां चक्षुरादीन्द्रियोपरमात् स्वयंज्योतिष्ट्ववादेन
स्वाप्नेन्द्रियकल्पनाया असंप्रतिपत्तेश्च दोषसंस्कारानुरोधेन
चाक्षुषत्वानुभवो भ्रम इति मतेन परिहरति-- अत्रेति ।।
दृष्टिसमकालसृष्टी
दृष्टेः प्रागर्थमात्रविरहेण ।
स्याजाग्रदर्थबोधे-
ऽप्यन्द्रियकत्वोपलम्भनं भ्रान्तिः ॥ ३१ ॥
दृष्टिसृष्टिवादे दृष्टिसमकाला सृष्टिरिति पक्षे दृष्टेः पूर्व
घटे घटार्थमात्राभावेन तत्संनिकर्षाभावात् स्वप्नवजाग्रद्वच्च
जाग्रद्धटाद्यनुभवे चाक्षुषत्वानुभवो भ्रम इति केषांचिन्मत-
माह-दृष्टीति ॥ ३१ ॥
द्वितीयः : स्तबकः । ७९ ६. दृष्टिस्तृष्टिकल्पकवादः । इह दृष्टिसृष्टिवादे साविद्यस्य प्रपञ्चजातस्य । पूर्वाविद्यासचिवः कल्पक आत्मति मेनिरे केचित् ।। ३२ ॥ नन्वस्मिन् दृष्टिसृष्टिवादे कृत्स्नस्य जगतः कल्पको नि- रुपाधिक: सोपाधिको वा आत्मा ? प्रथमे, मुक्तस्यापि तत्क- ल्पकत्वापत्तिः । द्वितीये, उपाध्यसिद्धिरित्याशङ्कय पूर्वपूर्वा- विद्योपहित एवोत्तरोत्तरसाविद्यसर्वप्रपञ्चस्य कल्पक इति केषांचिन्मतमाह- इहेति । अविद्याया अनादित्ववादस्तु स्वाप्नाकाशादेरिवानादित्वेनैव कल्पनादिति भावः ॥ ३२ ॥ केचिदनादित्वेना- विद्यादे३ष कल्पकस्तस्य । किंत्वेतद्ध्यतिरिक्त- प्रपञ्चमात्रस्य तावदिति ॥ ३३ ॥ अस्मिन्नेव वादे वस्तुतोऽविद्यादेरनादित्वेन तदन्यत्रात्मा कल्पक इति मतान्तरमाह केचिदिति । एषः, पूर्वोक्त आत्मत्यर्थः ।। ३३ ।। --
सिद्धान्तकल्पवल्ल्यां
केचित्तु दृष्टिरेव
प्रपञ्चसृष्टिस्ततो नान्या ।
दृश्यस्य दृष्टिभेदे
मानाभावादिति प्राहुः ॥ ३४ ॥
दृष्टिसृष्टिवादे सिद्धान्तमुक्तावल्युक्तं विरोधान्तरमाह--
केचिदिति । प्रस्तुतप्रपञ्चस्य दृष्टयभेदे 'ज्ञानस्वरूपमेवाहुर्ज-
गदेतद्विलक्षणम्' इत्यादि विष्णुपुराणवचनं प्रमाणमस्तीति
भावः ॥ ३४ ॥
सृष्टस्य दृष्टिवादे
जगतोऽस्मभान्त्यकल्पितत्वेऽपि ।
सदसद्विलक्षणतया
मिथ्यात्वमिहोपपन्नमित्यन्ये ॥ ३५ ॥
ईश्वरसृष्टस्य जगतो दृष्टिरिति पक्षे अध्यासकारणदोषसं-
स्काराभावेनास्मदादिभ्रान्त्यकल्पितत्वेऽपि सदसद्विलक्षणत्वेन
श्रुतिप्रमाणकमिथ्यात्वं संभवतीति पूर्वोक्तमतद्वये मनःप्रत्यय-
मलभमानानां केषांचिन्मतमाह--सृष्टस्येति ॥ ३५ ॥
द्वितीयः स्तबकः । ८१ ७. मिथ्याभूतस्यापि व्यावहारिक- सत्यार्थक्रियाकारित्ववादः। मिथ्यात्वं यदि जगत- स्तत्कथमर्थक्रियासमर्थत्वम् । अत्र स्वमवदर्थ- क्रियां वदन्ति खतुल्यसत्ताकाम् ॥ ३६॥ दृष्टिमृष्टिवादे सृष्टिदृष्टिवादे च मिथ्यात्वसंप्रतिपत्तेः कथं मिथ्याभूतस्यार्थक्रियाकारित्वमित्याशङ्कय स्वप्नसमानसत्ता- कार्थक्रियाकारित्वं संभवतीति केषांचिन्मतेन परिहरति-- मिथ्यात्वमिति ।। ३६ ।। अन्ये तु स्वप्नोदित- साध्वसकम्पस्य जाग्रदनुवृत्त्या । नैवार्थतक्रियाणां समसत्ताकत्वनियम इत्याहुः ॥ ३७ ।। स्वप्नभुजङ्गव्याघ्रादिजनितभयकम्पादेर्जाप्रदशायामप्यनुवृ- त्तिदर्शनादर्थानां तक्रियाणां च समानसत्ताकत्वनियमो ना- स्तीति मतान्तरमाह- अन्ये विति ॥ ३७ ॥ S. 6 ८२ सिद्धान्तकल्पवल्ल्यां सालोकेऽप्यपवरके प्रविशत्पुरुषेण कल्पितं ध्वान्तम् । अर्थक्रियासमर्थ दृष्टमितीत्थं निदर्शयन्त्यपरे ॥ ३८ ॥ अत्रान्तर्गृहे तत्रत्यपुरुषान्तरीयघटादिदर्शनसमर्थप्रकाशव- यकस्मात् प्रविशता पुरुषेणाध्यस्तं तमः तं प्रति घटाद्यावर- णाद्यर्थक्रियासमर्थ दृष्टमिति निदर्शनपूर्वकं पूर्वोक्तमेव मतम- नुसरतां मतमाह- सालोक इति ॥ ३८ ।। अन्य तु नार्थसत्ता- मपेक्षते तक्रिया किं तु । सत्यं वासत्यं वा तत्तत्स्वरूपमात्रमिति प्राहुः ॥ ३९ ॥ अर्थक्रियाप्रयोजकत्वं न सत्यत्वम् । अर्थक्रियानुत्पत्तिद- शायां घटादेरसत्यत्वप्राप्तेः । किं तु सत्यं वासत्यं वा तत्तद्वय- क्तिमात्रमिति मिथ्यात्वेऽप्यक्रियाकारित्वसंभवादिति मता- न्तरमाह-अन्ये विति ॥ ३९ ॥ मरुपयसि जात्यभावा- त्पानाद्यर्थक्रिया तु नेत्येके।
द्वितीयः स्तबकः ।
अस्त्येव जातिरर्थ-
क्रियापि काचिन्न चाखिलेत्यन्ये ॥ ४०॥
नन्वेवं सति मरुमरीचिकोदकेनापि पानाद्यर्थक्रियाप्रसङ्ग
इत्याशङ्कथ तत्र तोयत्वजात्यभावान्नैवमिति तत्त्वशुद्धिकारा.
दिमतेनोत्तरमाह-मरुपयसीति । अत्र तोयत्वभानं तु सं-
स्कारबलेनेति भावः । अन्यथाख्यात्यनभ्युपगमात्तोयत्वजाती-
यत्वानुसंधानं विना तोयार्थिनस्तत्प्रवृत्त्ययोगाच्च तोयत्वजा-
तिरस्त्येव । तल्लिप्सया धावनादिजननादक्रिया च काचिद-
स्त्येव । तथापि कचिद्दोषसामान्यज्ञानाध्यासहेतूच्छेदोपर-
मात् क्वचिद्विशेषदर्शनादधिष्ठानज्ञानेन बाधान्न सर्वार्थक्रियेति
मतान्तरमाह- अस्त्येवेति ॥ ४० ॥
८. मिथ्यात्वस्य मिथ्यात्वेऽपि न प्रपञ्च-
मिथ्यात्वहानिरिति वादः ।
मिथ्यात्वं यदि मिथ्या
जगतः सत्यत्वमापतेत्तर्हि ।
सत्यं चेदद्वैत-
क्षतिरत्राद्वैतदीपिकाकाराः ॥४१॥
८४ सिद्धान्तकल्पवल्ल्यां तदेवं मिथ्यात्वेऽपि अर्थक्रियासिद्धयविरोधाजगतो मि- थ्यात्वं सिद्धम् । तत्र माध्वः शङ्कते---मिथ्यात्वमिति । अत्रे- त्यादेहत्तरेणान्वयः ॥ ४१ ॥ स्वाश्रयसमसत्ताको धर्मः स्वविरुद्धधर्महरः। इति नियमान्मिथ्यात्वं सत्यत्वनिवृत्तिहेतुरित्याहुः ॥ ४२ ।। सर्वत्र धर्माणां स्वविरोधिप्रतिक्षेपकत्वे धर्मिसमसत्ताकत्व- मेव तन्त्रम् । न पारमार्थिकत्वमपि । व्यावहारिकेणापि घट- त्वेनाघटत्वादिप्रतिक्षेपदर्शनात् । अतो जगत्समसत्ताकेनापि मिथ्यात्वेन सत्यत्वप्रतिक्षेपसिद्धिरित्याशयेन परिहरति- स्वाश्रयेति । स्वविरुद्धधर्महरः स्वविरुद्धधर्मप्रतिक्षेपक इत्यर्थः। सत्यत्वनिवृत्तिहेतुः सत्यत्वप्रतिक्षेपहेतुरित्यर्थः ॥ ४२ ॥ ९. औपाधिकजीवभेदेन सुखदुःखाद्य- सांकर्यव्यवस्थावादः। ननु भिन्नै वैः स- द्वितीयता ब्रह्मणः कुतो न स्यात् ।
द्वितीयः स्तबकः ।
नैषां भेदाभावा-
दुपाधिभेदात्सुखादिवैचित्र्यम् ॥ ४३ ॥
नन्वेवमचेतनस्य जगतोऽपि मिथ्यात्वे चेतनानामपव-
र्गभाजां मिथ्यात्वायोगात्कथं तैः सुखदुःखादिवैचित्र्यात्पर-
स्परं भिन्नैर्ब्रह्मणः सद्वितीयता न स्यादिति शङ्कते-नन्वि-
ति । एवं च अद्वितीयब्रह्मणि वेदान्तसमन्वयो न युक्त इति
भावः । नैवं सद्वितीयता ब्रह्मणः, जीवानां परस्परं भेदाभा-
वात् । ननु तर्हि सुखादिवैचित्र्यं न स्यादिति चेन्न । अन्त:-
करणोपाधिभेदेन तद्वैचित्र्योपपत्तेरिति केषांचिन्मतेन परि-
हरति-नैषामिति ॥ ४३ ॥
सत्यप्युपाधिोदे
तभेदस्यानपायितया।
उपपद्यतां कथं वा
सुखदुःखादिव्यवस्थितिस्तत्र ॥ ४४ ॥
ननूपाधिभेदे सत्यपि तदुपहितानां सुखदुःखाद्याश्रयाणा
जीवानामभेदानपायात् कथं सुखदुःखादिव्यवस्थोपपद्यतामि-
ति शङ्कते- सतीति । तत्रेत्युत्तरेणान्वयः ॥ ४४ ॥
सिद्धान्तकल्पवल्ल्यां अन्तःकरणस्यैव श्रुत्या तद्धर्मकत्वोक्तेः। तद्भेदादेवोक्ता व्यवस्थितिः स्यादिति प्राहुः ॥ ४५ ॥ 'कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिः' इत्यादिश्रुत्यान्त:करणस्यैव सुखदुःखाद्याश्रयत्वाभिधानात् 'अ- सङ्गो ह्ययं पुरुषः' इति जीवस्योदासीनत्वश्रवणादन्त:- करणोपाधिभेदादेव सुखादिव्यवस्थोपपद्यत इति मतेन समाधत्ते-- अन्तःकरणस्येति । कथं तात्मन्यहं सु- खीत्यादिभोक्तृत्वादिप्रत्ययः ? अभीषणायामपि रज्जो भी. षणसर्पतादात्म्यारोपेणायं भीषण इत्यभिमानवदसङ्गात्म- नि भोऋहंकारतादात्म्यारोपाद्भोक्तृत्वाभिमानोपपत्तेरिति भावः ॥ ४५ ॥ अन्ये तु चिदाभासः सुखदुःखाद्याश्रयस्ततः सेति । अन्तःकरणविशिष्ट- स्तदाश्रयस्तेन सेत्यपरे ॥ ४६ ॥ जडस्य भोक्तृत्वानुपपत्तेः अन्तःकरणाध्यस्तश्चिदाभास द्वितीयः स्तबकः । ८७ s- एव बन्धाश्रयः । अतस्तत्तद्भेदादिव्यवस्थेति मतान्तरमाह-- अन्ये विति । चिदाभासाभेदाध्यासात् कूटस्थसंसाराभि- मान:, स एव बन्ध इति न बन्धमोक्षवैयधिकरण्यमिति भाव: । ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इत्य- तःकरणादिविशिष्टस्य भोक्तृत्वादिश्रवणादन्तःकरणभेदेन त- वशिष्टभेदादिव्यवस्थेति मतान्तरमाह--- अन्तःकरणेत्या- देना । न चैवं विशिष्टस्य बन्धः शुद्धस्य मोक्ष इति वैय- धेकरण्यम् । विशिष्टगतस्य बन्धस्य विशेष्येऽन्वयाभावा- द्वैशिष्टस्यानतिरेकादिति भावः ॥ ४६ ।। भोक्तृमनःसांनिध्या- दात्मनि भोक्तृत्वमन्यध्यस्तम् । तदुपाधिभेदतस्त- व्यवस्थितिः साधुरित्यन्ये ॥ ४७ ॥ जपाकुसुमोपाधिसांनिध्यात् स्फटिके लौहित्यान्तरवत् भो- क्वन्त:करणोपाधिसांनिध्यात् शुद्धेऽप्यात्मनि भोक्तृत्वान्तरम- ध्यस्तमस्ति । तस्यैकत्वेऽपि तदुपाधिभेदात् सुखादिव्यवस्थो- पपन्नेति मतान्तरमाह- भोक्तमन इति । न च अन्य- भेदादन्यत्र विरुद्धधर्मव्यवस्था न युज्यत इति वाच्य- ८८ सिद्धान्तकल्पवल्ल्यां म् । मूलाग्ररूपोपाधिमात्रेण वृक्षे संयोगतदभावदर्शनादिति भावः ॥ ४७ ॥ इतरे त्वेकस्मिन्नपि शुद्धे भेदप्रकल्पनास्तीति । आश्रयभेदादेव प्रकृते सुवचा व्यवस्थेति ॥ ४८ ॥ आश्रयभेदादेव विरुद्धधर्मव्यवस्थेति नियमाभ्युपगमे- ऽप्येकस्मिन्नेव निष्कृष्टचैतन्ये उपाधिभेदेन भेदकल्पना संभ- वतीति मणिमुकुराापाधिकल्पितप्रतिबिम्बरूपाश्रयभेदादव- दातश्यामत्वादिव्यवस्थेव प्रकृतेऽपि कल्पिताश्रयभेदेन सुख- दुःखादिव्यवस्था सुवचेति मतान्तरमाह---इतरे त्विति ।। १०. जीवानां सुखाद्यननुसंधानप्रयोज- कोपाधिवादः। एवमुपाधिवशेन व्यवस्थितियदि भवतु नामैवम् ।
द्वितीयः स्तबकः । ८९ -- तदननुसंधाने का प्रयोजकः स्यादुपाधिरत्राहुः ।। ४९ ।। एवमुपाधिभेदेन सुखदुःखादिव्यवस्थासंभवमुपपाद्य जी- वानां परस्परं सुखाद्यननुसंधाने प्रयोजकोपाधिं पृच्छति-- एवमिति ॥ ४९॥ भोगायतनभिदाननु- संधानस्य प्रयोजिकेत्येके । विश्लेषशालिभोगा- यतनभिदा तत्प्रयोजिकेत्यपरे ॥ ५० ॥ उक्तमाह-भोगायतनेति । ननु हस्तपादादिशरीरावय- वानां भोगायतनत्वाविशेषात् तद्भेदोऽप्यननुसंधाने , प्रयो- जकः स्यात् ; न च इष्टापत्तिः । तथात्वे पादलग्नकण्टकोद्धाराय हस्तव्यापारो न स्यात् । हस्तावच्छिन्नस्य वेदनाननुसंधाना- दिति चेत् , न । हस्तावच्छिन्नस्य तदननुसंधानेऽप्यवयवावय- विनोः पादशरीरयोरभेदसत्त्वेन पादावच्छिन्नवेदनावानहामिति शरीरावच्छिन्नस्यानुसंधानाद्धस्तव्यापारोपपत्तेरिति भावः । हस्तावच्छिन्नस्यापि चरणावच्छिन्नवेदनाननुसंधानमभ्युपगम्य मतान्तरमाह विश्लेषशालीत्यादिना। अत्र विश्लेषशब्देन ९० सिद्धान्तकल्पवल्ल्यां एकस्मिन्नवयविनि घटकत्वेनाननुप्रविष्टत्वं विवक्षितम् । तेन मातृगर्भस्थ शरीरयोर्विश्लिष्टतया न गर्भस्थस्य मातृसुखानुसं- धानप्रसङ्गः । हस्तपादयोस्तु संश्लिष्टत्वेन तदवच्छिन्नयोः परस्परानुसंधानमिष्टमेवेति भावः ॥ ५० !। इतरे शरीरभेद- स्तथेति केचिन्मनोभिदैवमिति । अज्ञानभेद एव प्रयोजकः स्यादिहेत्येके ॥ ५१ ।। मतान्तरमाह--इतर इति । तथा, प्रयोजक इत्यर्थः । न- न्ववयवोपचयादिना शरीरभेदात् कथं यौवने बाल्यसुखाद्य- नुसंधानमिति चेत्, न । ऐन्द्रजालिकशरीरादाविव सर्वत्र माय- यैवोपचयादिकल्पनौचित्यात् तत्कल्पितोपचयादेः शरीरभेद- कत्वायोगादिति भावः । प्रागुक्तान्त:करणभेद एव प्रयोजक इति मतान्तरमाह--- केचिन्मनोभिदेति । एवं प्रयोजक इत्यर्थः । पूर्वोक्ताज्ञानभेद एव प्रयोजक इति मतान्तरमाह- अज्ञानेति ॥ ५१ ॥ तस्माज्जडस्य जगतो मिथ्यात्वाद्देहिनां पराभेदात् । - द्वितीयः स्तबकः । मानान्तराविरोधा- ब्रह्मणि वेदान्तसंगतिः सिद्धा ॥ ५२ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपरम शिवेन्द्र- पूज्यपादशिष्य श्रीसदाशिवब्रह्मेन्द्रविरचित- वेदान्तसिद्धान्तकल्पवल्ल्यां द्वितीयः स्तबकः समाप्तः ॥ प्रासङ्गिक परिसमाप्य प्रपञ्चितं प्रकृतमविरोधमुपसंहृत्य पूर्वस्तबकसिद्धसमन्वयेन संगमयति- तस्मादिति ॥५२॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्परमशिवेन्द्रपूज्यपाद- शिष्यश्रीसदाशिवब्रह्मेन्द्रप्रणीतश्रीवेदान्तसिद्धान्त- कल्पवल्लीव्याख्यायां केसरवल्ल्याख्यायां द्वितीयः स्तबकः ॥
तृतीयस्तबकः ॥ १. कर्मणां विद्योपयोगप्रकारवादः । ज्ञानेनैव ब्रह्मा- वाप्तिः कथमन्यतोऽपि तत्स्मरणात् । नान्यानुपयोगात्त- त्प्राप्तावज्ञाननाशरूपायाम् ॥ १॥ प्रथमस्तबकेन सर्ववेदान्तानामद्वितीये ब्रह्मणि समन्वये द्वितीयेन तदविरोधे समर्थिते तादृशब्रह्मप्राप्तौ ज्ञानमेव साधनं नान्यदिति समर्थनाय शङ्कते---ज्ञानेनैवेति । अन्यतः, ज्ञाना- दन्येन कर्मणेत्यर्थः । तत्स्मरणादिति, 'कर्मणैव हि संसिद्धि- मास्थिता जनकादयः' इति कर्मणा ब्रह्मप्राप्तिस्मरणादित्यर्थः । विस्मृतकण्ठचामीकरस्येव नित्यप्राप्तस्य ब्रह्मणोऽज्ञाननिरास- रूपायां तत्प्राप्तौ ज्ञानमात्रस्योपयोगेन तदन्यस्य कर्मणोऽनु- पयोगान्नैवमिति परिहरति- नान्यानुपयोगादित्यादिना। 'नान्यः पन्था विद्यतेऽयनाय' इत्यादिश्रुत्या साधनान्तरप्र- तृतीयः स्तबकः । तिषेधात् । स्मृतेश्च ब्रह्मावाप्तो कर्मणः परंपरासाधनत्वपर- त्वान्न विरोध इति भावः ॥ १ ॥ कर्मनिकरोपयोग वाचस्पतिराह वेदनेच्छायाम् । जगुरिष्यमाण एव ज्ञाने तं विवरणानुगताः ॥ २ ॥ क तर्हि कर्मणामुपयोग इत्यत आह-- कर्मेति । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन' इत्यादि- श्रुतेर्यज्ञादीनां कर्मणां सन्प्रत्ययार्थत्वेन प्रधानभूतायां वेदने- च्छायामुपयोग इत्यर्थः । प्रकृतिप्रत्ययार्थयो: प्रत्ययार्थस्य प्रा- धान्यमिति सामान्यन्यायादिच्छाविषयतया शब्दबोध्य एव वस्तुनि शाब्दसाधनतान्वय इति स्वर्गकामवाक्ये क्लप्तवि- शेषन्यायस्य बलीयस्त्वादिष्यमाणे ज्ञान एव यज्ञादीनामुप- योग इति मतान्तरमाह- जगुरित्यादिना । तं उपयोग- मित्यर्थः ।। २ ।।
सिद्धान्तकल्पवल्ल्यां
२. आश्रमकर्मणामेव विद्योपयोगवादः।
तत्राश्रमविहिताना-
मुपयोगं कर्मणां विदुः केचित् ।
अन्ये कल्पतरूत्त्या
विधुरकृतानामपीममभिद्धति ॥ ३ ॥
श्रुतौ वेदानुवचनग्रहणं ब्रह्मचारिकर्मणाम् , यज्ञदानग्र-
हणं गृहस्थकर्मणाम् , तपोऽनाशग्रहणं वानप्रस्थकर्मणामुप-
लक्षणमिति आश्रमकर्मणामेव विद्योपयोगः न विधुराद्यनु-
ष्ठितकर्मणामिति मतं दर्शयति-तत्रेति । 'अन्तरा चापि तु
तदृष्टेः' इत्यधिकरणभाष्ये विधुराधनुष्ठितजप्यादिकर्मणामपि
विद्योपयोगोक्त्या ‘विहितत्वाच्चाश्रम कर्मापि' इति सूत्रे आ-
श्रमग्रहणं त्रैवर्णिकोपलक्षणमिति कल्पतरूक्त्या च विधुरक-
तानामपि कर्मणामुपयोग इति मतान्तरमाह-अन्य इत्या-
दिना । इमम् उपयोगमित्यर्थः ।। ३ ।।
तत्रापि क्लप्तफलतो
नित्यानामेव कर्मणामितरे ।
काम्यानामपि तेषां
संयोगपृथक्त्वनयतोऽन्ये ॥ ४ ॥
तृतीयः स्तबकः । - तेष्वपि नित्यानामेव कर्मणामुपयोगः, क्लप्तस्य तत्फल- स्यैव दुरितक्षयस्य विद्ययापेक्षणात् । प्रकृतौ क्लप्तोपकारकाणा- मङ्गानां विकृताविव द्वारान्तरकल्पनालाघवेन यज्ञादिश्रुते: काम्यसाधारण्यायोगादिति मन्यमानानां मतान्तरमाह- तत्रेति । उपयोगमाहुरित्यध्याहारः । नात्र प्राकृताङ्गन्यायः । किंतु विकृत्युपदिष्टाङ्गन्यायेन विनियोगोत्तरकालमुपकार- द्वारकल्पनात्काम्यादीनामपि संयोगपृथक्त्वन्यायेन विवि- दिषोपयोगसंभव इति मतान्तरमाह-काम्यानामित्या- दिना । अत्रापि पूर्ववदध्याहारः ॥ ४ ॥ ३. संन्यासस्य विद्याविनियोगवादः। तर्हि कया वा द्वारा संन्यासस्योपयुक्तिराचक्ष्य । कर्माविनाइयरित- ध्वंसद्वारेति चक्षते केचित् ॥ ५ ॥ कर्मणां झानोपयोगं प्रदर्य संन्यासस्य तं दर्शयितुं पृच्छति- तौति । उपयुक्ति: उपयोग इत्यर्थः । 'संन्यासयोगाद्यतयः शुद्धसत्त्वाः' इति श्रुतेः कर्मवद्दुरितक्षयलक्षणचित्तशुद्धिद्वारैव
९६
सिद्धान्तकल्पवल्ल्यां
संन्यासस्योपयोग इति मतेन समाधत्ते-- कर्माविनाश्ये-
त्यादिना। कर्मभिरेव दुरितक्षयसिद्धः संन्यासवैयर्थ्यमि-
त्याशङ्कापरिहारार्थ कर्माविनाश्येति दुरितविशेषणम् ॥ ५ ॥
केचिदृष्टद्वारा तस्याः
श्रवणाङ्गतामाहुः।
दृष्टद्वारा त्वपरे
विक्षेपाभावलक्षणया ॥ ६॥
मतान्तरमाह---अदृष्टति। 'शान्तो दान्तः' इति श्रुता-
वुपरतिशब्दितस्य संन्यासस्य श्रवणाद्यङ्गसाधनचतुष्टयान्तर्भा-
वदर्शनात् संन्यासपूर्वकत्वावश्यकत्वादिति भावः । मतान्तर-
माह-दृष्टेति । दृष्टे संभवति अदृष्टकल्पनाया: अन्याय्यत्वा-
द्विक्षेपाभावस्यावहितबुद्धिसाध्ये सर्वत्र लोकत एवाङ्गत्वसिद्धेः
वचनाद्वैधसंन्यासलक्षणो विक्षेपाभावो नियम्यत इति
भावः ॥ ६ ॥
संन्यासे त्वधिकारं
ब्राह्मणवत्क्षत्रवैश्ययोरेके ।
ब्राह्मणजातेरेव
प्राहुस्तं नान्ययोरितरे ॥ ७ ॥
तृतीयः स्तबकः । ९७ संन्यासस्य ज्ञानोपयोगं द्वधा प्रदर्य तदधिकारिणं नि- रूपयति- संन्यासे खिति । 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्' इत्यादिश्रुतौ सामान्यत: क्षत्रियादिसाधारण्येन सं- न्यासविधानादिति भावः । ब्राह्मणो निर्वेदमायात्' 'ब्राह्मणो व्युत्थाय' 'ब्राह्मणः प्रव्रजेत्' इत्यादिसंन्यासविधिषु ब्राह्मणग्र- हणात्, 'अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः । न सं- न्यासविधिर्यस्माच्छ्रुतौ क्षत्रियवैश्ययोः' इति वार्तिकोक्तेश्च ब्राह्मणस्यैव संन्यासेऽधिकारः, न क्षत्रियवैश्ययोः । तयोस्तु संन्यासं विनैव श्रवणाद्यधिकारितेति मतान्तरमाह-- ब्रा- ह्मणजातेरित्यादिना ॥ ७ ॥ - ४. श्रवणाधिकारवादः । संन्यासिन एव परं श्रवणाधिकारिता मुख्या। गौणी राजन्यादे- जन्मान्तरसंभवत्फलेत्यपरे ॥ ८॥ 'ब्रह्मसंस्थोऽमृतत्वमेति' इति श्रुतेः ‘आ सुप्तेरा मृतेः कालं नयेद्वेदान्तचिन्तया' इति स्मृतेश्च अनन्यव्यापारतालक्ष- S. 7 सिद्धान्तकल्पवल्ल्यां णब्रह्मसंस्थाशालिसंन्यासिन एव श्रवणाद्यधिकारिता मुख्या। स्वाश्रमधर्मव्यग्रक्षत्रियादेरनन्यव्यापारतासंभवात् जन्मान्त- रीयविद्याप्रापिका श्रवणाद्यधिकारिता गौणीति मतान्तरमाह -संन्यासिन एवेति ॥ ८ ॥ ५. श्रवणस्यामुख्याधिकारिकृतस्य जन्मा- न्तरीयज्ञानोपयोगित्ववादः ॥ ननु कथमस्तु श्रवणं जन्मान्तरभावि बोधफलम् । दृष्टफलकत्वक्लप्ते- रमुष्य चादृष्टजनकतायोगात् ॥ ९॥ ननु सर्वत्र विचारस्य तात्कालिकविचार्यनिर्णयफलकत्व- क्लप्तेः क्षत्रियादिश्रवणं कथं जन्मान्तरीयब्रह्मनिर्णयफलकम् । न च विधिबलात् कथंचिद्दृष्टद्वारकल्पनेन तत्फलकत्वसिद्धि- स्तस्येति वाच्यम्। साङ्गस्यैवादृष्टजनकतया तस्य संन्यासरूपा- ङ्गवैकल्येनादृष्टजनकत्वासिद्धेरिति शङ्कते--- नन्विति ॥ ९॥ यज्ञाद्यपूर्वमेव श्रवणस्य स्वकारितस्य विद्यायाम् ।
तृतीयः स्तबकः । ९९ जन्मान्तरभाविन्या- मप्युपकारित्वघटकमित्याहुः ॥१०॥ अमुख्याधिकारिणाप्युत्पन्नविविदिषेण क्रियमाणं श्रवणं द्वारीभूतविविदिषोत्पादकप्राचीनविद्यार्थयज्ञाद्यनुष्ठानजन्यापू- र्वप्रयुक्तमिति तदेवापूर्व विद्यारूपफलपर्यन्तं व्याप्रियमाणं जन्मान्तरीयायामपि विद्यायां स्वकारितस्य श्रवणस्योपकारं घटयतीति श्रवणस्यादृष्टार्थत्वेऽपि नानुपपत्तिरिति परिहरति -यज्ञादीति ।। १० ॥ यावब्रह्मज्ञानो- दयमाचरितं पुनः पुनः श्रवणम् । नियमादृष्टं जनय- त्यतो न दोष इति विवरणाचार्याः ॥ श्रवणनियमविधिपक्षेऽपि ब्रह्मज्ञानोत्पत्तिपर्यन्तं पुनः पुनः क्रियमाणं श्रवणं नियमादृष्टं जनयति, न तत: प्राक् । अत- स्तबलात् श्रवणस्य जन्मान्तरीयज्ञानफलकत्वं न विरुद्धमिति मतान्तरमाह-यावदिति ॥ ११ ।। कृच्छ्राशीतिफलोक्तेः श्रवणमपूर्व क्रमेण जनयित्वा ।
सिद्धान्तकल्पवल्ल्यां तहारा भाविफलं जनयेदिति केचिदभिद्धति ॥ १२ ॥ दिने दिने च वेदान्तश्रवणाद्भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात्कृच्छ्राशीतिफलं लभेत्' इति स्मृत्या श्रवणस्य कृच्छा- शीतिफलोक्तेः प्रतिदिनमनुष्ठितं श्रवणमपूर्वद्वारा जन्मान्तरे ज्ञानं जनयतीति मतान्तरमाह--कृच्छ्रेति । यथाग्न्यर्थस्या- प्याधानस्य पुरुषसंस्कारेषु परिगणनात् पुरुषार्थत्वम् , तथा दृष्टस्यापि श्रवणस्य दिने दिने चेत्यादिवचनबलाददृष्टार्थ- त्वमपि संभवतीति भावः ॥ १२ ॥ ६. निर्गुणस्याप्युपास्यत्ववादः । विद्यारण्यमुनीन्द्राः श्रवणस्येवात्मविद्यायाम् । निर्गुणविषयोपास्ते- मुख्यामुपकारितामाहुः ।। १३ ।। इत्थं श्रवणादेरेव ज्ञानसाधनत्वे निरूढेऽपि श्रवणादिव- निर्गुणब्रह्मोपास्तेरपि तत्साधनत्वमिति मतं दर्शयति- तृतीयः स्तबकः । १०१ विद्यारण्येति । प्रश्नोपनिषदि 'यः पुनरेतं त्रिमात्रेणोमित्येते. नैवाक्षरेण परं पुरुषमभिध्यायीत' इति निर्गुणोपासनां प्रकृत्य अनन्तरं स एतस्माजीवधनात्परात्परं पुरिशयं पुरुषमीक्षते' इति तत्समानकर्मसाक्षात्कारफलकीर्तनादिति भावः ॥ १३ ॥ . ७. ब्रह्मसाक्षात्कारकारणवादः। अथ किं साक्षात्कारे करणं ब्रह्मैकगोचरे ब्रूहि । ब्रुवते केचित् प्रत्यय- पौनःपुन्यं प्रसंख्यानम् ॥ १४ ॥ ब्रह्मसाक्षात्कारप्रमासाधकेषु निर्णीतेषु तत्साधकतमनि- र्णिनीषया पृच्छति अथ किमिति । उत्तरमाह--ब्रुवत इत्यादिना । विधुरकामिनीसाक्षात्कारे करणत्वेन क्लप्तस्य प्रत्ययावृत्तिलक्षणस्य प्रसंख्यानस्य क्लप्पप्रमाणानन्तर्भावेऽपि तजन्यसाक्षात्कारस्येश्वरमायावृत्तिज्ञानवदर्थाबाधमात्रेण प्रमा- त्वसंभवादिति भावः ॥ १४ ॥ अपरे तु मनो हेतु- स्तत्सहकारि प्रसंख्यानम् ।
१०२ सिद्धान्तकल्पवल्ल्यां तस्य करणत्वक्लप्से- रहमनुभूताविति प्राहुः ॥ १५ ॥ 'मनसैवानुद्रष्टव्यम्' इति श्रुतेः मन एव साक्षात्कारे कर- णम् । प्रसंख्यानं तु तत्सहकारिमात्रम् । मनसश्च अहंकारोप- हितसाक्षात्कारे ' अहमेवेद सर्वोऽस्मीति मन्यते' इति श्रुत्यु- पदर्शितस्वाप्नब्रह्मसाक्षात्कारे करणत्वक्लप्तेरिति मतान्तर- माह-अपरे त्विति ॥ १५ ॥ इतरे तु महावाक्यं प्राहुरसाधारणो हेतुः। यन्मनसेति निषेध- अवणान्न मनोऽत्र हेतुरिति ॥ १६ ॥ 'तद्धास्य विजज्ञौ, तस्मै मृदितकषायाय तमस: पारं दर्शयति भगवान् सनत्कुमारः' इत्यादिश्रुतिध्वाचार्योपदेशा- नन्तरमेव साक्षात्कारोदयाभिधानात् , “वेदान्तविज्ञानसुनि- श्चितार्थाः' तं त्वौपनिषदं पुरुषं पृच्छामि' इत्यादिश्रुतिषु च ब्रह्मण उपनिषदेकवेद्यत्वस्य प्रतिपादनाच्च, ब्रह्मसाक्षात्कारे महावाक्यमेव करणम् , न तु मनः, “यन्मनसा न मनुते' इत्यादितत्करणत्वप्रतिषेधश्रवणादिति मतान्तरमाह इतरे - तृतीयः स्तबकः । १०३ खिति । ‘मनसैवानुद्रष्टव्यम्' इत्यादिश्रुतिस्तु साक्षात्कारे हेतुत्वमात्रपरा न तु कारणत्वपरा, तावतैव मनसेति तृतीया- या उपपत्तेरिति भावः ॥ १६ ।। ८. शाब्दापरोक्षवादः। साक्षात्कारं जनयेत् प्रत्ययसंतानसहकृतं वाक्यम् । अग्निविशेषोपेतो होम इवापूर्वमित्यपरे ॥ १७ ॥ ननु वाक्यस्य परोक्षज्ञानजनकत्वक्लप्तेः कथमपरोधज्ञान- जनकत्वमित्याशङ्कय स्वत: परोक्षज्ञानजननसमार्थमपि वाक्यं वैधाग्न्यधिकरणसहकृतो होमोऽपूर्वमिव विहितभावनाप्रच- यसहकृतं सत् अपरोक्षज्ञानमपि जनयतीति मतान्तरमाह- साक्षात्कारामिति । औपनिषदे ब्रह्मणि मानान्तराप्रवृत्ते: प- रोक्षज्ञानेनापरोक्षभ्रमनिवृत्त्ययोगाच्छब्दादपरोक्षज्ञानानुदये- ऽनिर्मोक्षप्रसङ्ग इति भावः ।। १७ ।। ध्यानाभ्याससहाया- न्मनसो नष्टेष्टवस्तुविषयेव ।
१०४ सिद्धान्तकल्पवल्ल्यां साक्षात्कृतिरिह युक्ता वाक्याब्रह्मावलम्बिनीत्यपरे ॥१८॥ बहिरसमर्थादपि भावनाप्रचयसहितादन्त:करणान्नष्टेष्टका- मिन्यादिवस्तुविषयकसाक्षात्कारो दृष्ट इति तद्वदिहापि नि- दिध्यासनप्रचयसहकृताद्वाक्यादेव ब्रह्मविषयकः साक्षात्का- रो युक्त इति दृष्टानुरोधेन समर्थयमानानां मतमाह- ध्यानेति ।। १८ ॥ अन्ये तु संगिरन्ते स्वत एव ब्रह्मणोऽपरोक्षतया । तद्विषयं हि ज्ञानं वाक्यजमपरोक्षमेव भवतीति ॥ १९ ॥ ज्ञानापरोक्ष्ये विषयापरोक्ष्यमेव प्रयोजकम् , न करण- विशेषः । विषयापरोक्ष्यं च वृत्तिद्वारकं स्वाभाविकं वा । तत्र 'यत्साक्षादपरोक्षाद्ब्रह्म' इति श्रुतेः ब्रह्मणः स्वभावत एवापरो- भत्वेन तद्विषयकं ज्ञानं वाक्याज्जायमानमपरोक्षमेव भवतीति मतान्तरमाह- अन्ये विति ॥ १९ ॥ स्फुटचित्त्वमापरोक्ष्य साक्षात्तब्रह्मणोऽस्ति विषयादेः ।
तृतीयः स्तबकः । तभेदावोणमिति प्रवदन्त्यद्वैतविद्यार्याः ॥ २० ॥ न अपरोक्षवस्तुविषयकत्वं ज्ञानापरोक्ष्यम् , स्वप्रकाशस्व- रूपसुखाव्यापनात् । किं तु अभिव्यक्तचित्स्वरूपमेव । तच्च ब्रह्मण एव साक्षादस्ति । विषयादेस्त्वभिव्यक्तचैतन्याभेदा- गौणमिति मतान्तरमाह-स्फुटचित्त्वमिति ॥ २० ॥ ९. अज्ञाननिवर्तकवादः॥ अथ चाक्षुषवृत्त्यापि ब्रह्माज्ञानं निवर्ततामिति चेत् । अत्राचार्याश्चाक्षुष- वृत्तिश्चिद्गोचरैव नेत्याहुः ॥ २१ ।। नन्वेवं घटादिविषयकचाक्षुषवृत्त्या घटाद्यधिष्ठानब्रह्मचैत- न्याभेदाभिव्यक्त्या ब्रह्मावारकमूलाज्ञानं कुतो न निवर्तेत । घटाद्याकारवृत्तेरप्यभिव्यक्तचिदंशे मूलाज्ञानसमानविषयकत्व- सत्त्वादिति शङ्कते- अथ चाक्षुषेति । न चाक्षुषवृत्तिश्चैत- न्यविषयिणी न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति .
१०६
सिद्धान्तकल्पवल्ल्यां
कश्चनैनम्' इत्यादिश्रुत्या चैतन्यस्य परमाणुवच्चक्षुराद्ययोग्य-
त्वादिति मतेन परिहरति- अत्रेत्यादिना ।। २१ ॥
चिद्विषयिण्यपि सा न
ब्रह्माज्ञानस्य वारिका किं तु ।
वेदान्तजैव वृत्तिः
श्रुतिनियमादृष्टसहकृतेत्यपरे ।। २२॥
अस्तु घटादिचाक्षुषवृत्तिरपि चिद्विषयिणी, तथापि सा
न ब्रह्मावारकमूलाज्ञाननिवृत्तिहेतुः । किं तु श्रवणनियमादृष्ट-
सहकृतवेदान्तवाक्यजन्यवृत्तिरेवेति मतान्तरमाह -चिद्वि-
षयिणीति ।। २२ ।।
वाक्योद्भव बृत्तिः
स्वरूपसंबन्धभेदेन ।
ब्रह्माज्ञानं क्षपये-
न तु चाक्षुषवृत्तिरित्यपरे ।। २३ ॥
प्रत्यग्ब्रह्माभेदगोचरा 'तत्त्वमसि' इत्यादिवाक्यजन्यैव वृत्तिः
पदार्थशोधनासहितस्वरूपसंबन्धविशेषेण तदभेदगोचरं मूला-
ज्ञानं निवर्तयेत् , न तु चाक्षुषवृत्तिरिति मतान्तरमाह----
वाक्यति ॥ २३ ॥
तृतीयः स्तबकः । १०७ अथ निजहेतुमविद्या विद्या विनिवर्तयेत्कथं नाम । इह केचन वेणूत्थित- वहिज्वालेव वेणुमित्याहुः ॥ २४ ॥ ननु प्रत्यगभिन्नब्रह्माकारा वृत्ति: स्वहेतुभूतामविद्यां कथं निवर्तयेदित्याशङ्कय नायं नियमः, साक्षाद्वेणुजन्याया अप्य- ग्निज्वालायास्तद्विरोधित्वदर्शनादिति परिहरति- अथेति । घटादिज्ञानेषु समानविषयकाज्ञानबाधकत्वस्य क्लप्तत्वाञ्चेति भावः ॥ २४ ॥ १०. ब्रह्माकारवृत्तिनाशकवादः। अज्ञानोन्मूलनकं ज्ञानं वृत्त्यात्मकं कथं नश्येत् । अत्राहुः कतकरजो- न्यायात्स्वयमेव नश्यतीत्येके ॥ २५ ॥ तप्तायापतितपयो- न्यायमिहोदाहरन्त्यन्ये।
१०८
सिद्धान्तकल्पवल्ल्यां
दग्धतृणकूटदहनो-
दाहरणं केचिदबाहुः ॥ २६ ।।
ननु स्वकार्याविद्यानिवर्तकवृत्तेः केन निवृत्तिः ? वृत्त्यन्त-
रेणेति चेदनवस्था । अनिवृत्तौ तु तयैव वृत्त्या द्वैतापत्तिरि-
त्यर्धनाशङ्कय, तत्र मतत्रयोक्तदृष्टान्तत्रयेण सार्धश्लोकेन परि-
हरति-अज्ञानेति । यथा वारिक्षिप्तकतकरेणुस्तद्गतं पदं नि-
वर्य स्वयमप्यन्यानपेक्षो निवर्तते, यथा तप्ताय:पिण्डनिक्षिप्तो
जलबिन्दुः तद्गतं भस्म क्षालयित्वा स्वयमपि शुष्यति, यथा
वा तृणकूटं दग्ध्वा वह्निभूमौ स्वयमेव शाम्यति, तथा अखण्डा-
कारवृत्तिरज्ञानं दग्ध्वा ब्रह्मणि स्वयमेव शाम्यतीत्यर्थः ।।
वृत्त्यारूढः साक्षी
शमयेत्सविलासमज्ञानम् ।
आरुह्य सूर्यकान्तं
दहति तृणं रविकरो यथेत्येके ॥ २७ ।।
रक्तदृष्टान्तेषु कालादृष्टादिकारणान्तरसंभवेन तद्वैषम्यमा-
मतान्तरमाह-वृत्तीति। वृत्त्यभिव्यक्तं ब्रह्मैव अज्ञानं
तदन्तर्गतां वृत्तिं च नाशयति । यथा सूर्यकान्तशि-
मूर्यकर: तृणं दहति, तद्वदित्यर्थः । तथा च न
ति भावः ॥ २७ ॥
तृतीयः स्तबकः १०९ अज्ञानमेव साक्षा- ज्ज्ञानानश्यति जगत्तु तन्नाशात् । जीवन्मुक्तिरपीत्थम- विद्यालेशेन घटत इत्यन्ये ।। २८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपरमशिवेन्द्र- पूज्यपादशिष्य श्रीसदाशिवब्रह्मेन्द्रविरचित- वेदान्तसिद्धान्तकल्पवल्ल्यां तृतीयः स्तबकः समाप्तः॥ न तावत् ज्ञानात् सविलासाज्ञाननाशः, तथात्वे प्रारब्ध- स्यापि नाशग्रस्तत्वेन जीवन्मुक्त्ययोगात् । किं तु परस्परवि- रोधात् ज्ञानादज्ञानमात्रं नश्यति, प्रपञ्चस्तूपादाननाशात् । एवं च उपादानमन्तरेण कार्यस्थित्ययोगात् जीवन्मुक्तिसिद्धये प्रारब्धकर्मणा तच्छरीराद्युपादानाविद्यालेशनाश: प्रतिबध्यत इत्यविद्यालेशेन जीवन्मुक्तिरप्युपपद्यत इत्याशयेन मतान्तर- माह-अज्ञानमिति ॥ २८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्परमशिवेन्द्रपूज्यपाद- शिष्यश्रीसदाशिवब्रह्मेन्द्रप्रणीतश्रीवेदान्तसिद्धान्त- कल्पवल्लीव्याख्यायां केसरवल्ल्याख्यायां तृतीयः स्तबकः ॥ .
चतुर्थस्तबकः ॥
१. अविद्यालेशवादः।
कोऽयमविद्यालेशो
जीवन्मुक्तिर्हि यदनुषङ्गेण ।
अत्राचख्युः कतिचिद-
विद्याविक्षेपशक्तिरेष इति ॥१॥
एवं मुक्तिसाधने निर्णीते तत्फलनिरूपणं प्रकृतजीवन्मु-
क्तिनिर्वाहकाविद्यालेशपरीक्षामुखेनारभते---- कोऽयमिति ।
ज्ञानेनाविद्याया आवरणशक्त्यंश एव नश्यति ; विक्षेपशक्त्यं-
शस्तु प्रारब्धेन प्रतिबद्धत्वान्न नश्यति । स एष एवाविद्या-
लेश इति मतेनोत्तरमाह- अत्रेत्यादिना ॥ १ ॥
अपरे क्षालितमदिरा-
घटगन्धसमैव वासना स इति ।
अन्ये स दग्धवासो-
न्यायादनुवृत्तिभागविद्येति ॥ २ ॥
चतुर्थः स्तबकः । १११ .. 'तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति' इति वार्तिकविरोधमाश- कथ मतान्तरमाह-अपर इति । निराश्रयवासनावस्थाना- योगमाशङ्कय मतान्तरमाह- अन्ये स इत्यादिना । सः अविद्यालेश इत्यर्थः ॥ २ ॥ सर्वज्ञात्ममुनीन्द्रा स्त्वाहुब्रह्मात्मविज्ञानात् । खाविद्याविनिवृत्ती नाविद्यालेशसंभवोऽस्तीति ॥ ३ ॥ विरोधिज्ञानोदयेऽविद्याया: निवृत्तौ लेशतोऽपि तस्याः शेषो न संभवति, तत्संभवे तन्नाशाय ज्ञानान्तरकल्पने तस्यैव लाघवादविद्यानाशकत्वौचित्यादिति मतान्तरमाह- सर्वज्ञेति । ' तस्य तावदेव चिरम्' इति श्रुतेरात्मज्ञानप्रशंसा- थत्वेन जीवन्मुक्तौ तात्पर्याभावादर्थवादमात्रत्वादिति भावः ।। , २. अविद्यानिवृत्तिस्वरूपवादः । अथ केयमविद्याया विनिवृत्तिर्नाम तच्छृणुत।
११२ सिद्धान्तकल्पवल्ल्यां -- -- ब्रह्मैव नातिरिक्ता सेत्याहुब्रह्मसिद्धिकाराद्याः॥४॥ तत्राविद्यानिवृत्तिरूपज्ञानफलस्वरूपनिर्णयाय पृच्छति--- अथेति । नित्यसिद्धस्य ब्रह्मस्वरूपस्यासत्त्वापादकत्वाद- विद्यैवाभावः । तन्निवृत्तिश्च ब्रह्मस्वरूपैवेति मतेनोत्तरमाह- ब्रह्मैवेत्यादिना । तथा च यस्मिन् सति यत्सत्त्वं यदभावे च यदभावः तत् तत्र कारणमिति, ज्ञानस्य ब्रह्मस्वरूपमुक्तिं प्रति योगक्षेमसाधारणहेतुत्वं संभवतीति भावः ॥ ४ ॥ आनन्दवोधगुरवो- ऽविद्याविनिवृत्तिरात्मनो भिन्ना । सदसत्सदसन्मिथ्या- प्रकारभिन्नप्रकारिकेत्याहुः ॥ ५॥ आत्मान्यैवाविद्यानिवृत्तिः । सा च न सती, द्वैतापत्तेः ; नाप्यसती, ज्ञानसाध्यत्वायोगात् ; नापि सदसती, विरोधात् ; नाप्यनिर्वाच्या, अनिर्वाच्यस्योपाधेरज्ञानापादकत्वनियमेन मु- क्तावपि तदनुवृत्तिप्रसङ्गात् , ज्ञानानिवर्त्यत्वापत्तेश्च । किं तु उक्तप्रकारचतुष्टयातिरिक्तप्रकारेति मतान्तरमाह- आन- न्दबोधेति ।। ५ ॥ ..
चतुर्थः स्तबकः । अद्वैतबोधगुरव- स्त्वात्मज्ञानककालीना। विनिवृत्तिरविद्यायाः क्षणिका सा भावविक्रियेत्याहुः ॥ ६ ॥ अस्त्वनिर्वचनीयैव सा, तथापि नोपादानाविद्यालेशप्रस- क्तिः। उत्पत्तिद्वितीयक्षणे उत्पन्नोऽयं घट: नोत्पद्यत इति उत्पत्तेरवर्तमानत्ववत् निवृत्त्यनन्तरमपि द्वितीयक्षणे निवृत्तो- ऽयं न निवर्तते इति व्यवहारेण निवृत्तेरप्यवर्तमानत्वेन क्षणि- कभावविकारविशेषरूपत्वम् । तथा च अविद्यानिवृत्तिरात्मज्ञा- नोदयानन्तरक्षणवर्तिनी भावविक्रियेति न कश्चिद्दोष इति मतान्तरमाह- अद्वैतेति ॥ ६ ॥ ३. मुक्तिस्वरूपवादः। नन्वज्ञाननिवृत्तेः क्षणिकत्वान्मुक्तिरस्थिरा खाचेत् । ब्रह्मानन्दस्फुरणं दुःखाभावश्च मुक्तिरित्याहुः ॥ ७ ॥ S.8 सिद्धान्तकल्पवल्ल्यां नन्वेवमविद्यानिवृत्तेः क्षणिकत्वे मोक्षस्य स्थिरपुरुषार्थत्वं न स्यादित्याशङ्कय नाविद्यानिवृत्तिः स्वत: पुरुषार्थः, तस्याः सुखदुःखाभावान्यतरत्वाभावात् । किं तु अखण्डानन्दस्फुरणं संसारदुःखोच्छेदश्च । तदुपयोगितया च तस्यास्तत्त्वज्ञान- साध्यत्वमुपेयत इति केषांचिन्मतेन परिहरति-- नन्विति ॥ ननु तस्याः क्षणिकत्वे मुक्तिन स्थिरपुमर्थ इति मैवम् । सुखदुःखाभावान्यत- रत्वाभावान्न हि तथेत्याहुः ॥८॥ एतच्छलोकार्थ एव पुन: श्लोकान्तरेणोच्यते--ननु त- स्या इति ॥ ८॥ चित्सुखचरणास्त्वाहु- दुःखाभावोऽपि न पुमर्थः । सुखशेषत्वात्तस्य स्वरूपसुखमेव तादृगिति ॥ ९ ॥ दुःखाभावो न स्वतः पुरुषार्थः, सर्वत्र दु:खाभावस्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभावतया सुखशेषत्वात् । स्व- चतुर्थः स्तबकः । ११५ रूपसुखमेव पुरुषार्थ इति मतान्तरमाह-चित्सुखचरणा इति ॥ ९॥ ४. ब्रह्मानन्दस्य प्राप्यत्ववादः। नित्यप्राप्तोऽप्ययमा- नन्दः स्वाविद्यया तिरोभूतः । तन्नाशे प्राप्यत इव कण्ठाभरणं यथेत्याहुः ॥ १० ॥ नन्वयमानन्दः प्रत्यगात्मरूपत्वान्नित्यप्राप्त इति कथं त- प्राप्तिानफलमित्याशङ्कायां केषांचिन्मतमाह-नित्येति । एवं च आनन्दस्य गौण्येव प्राप्ति नफलमिति भावः ॥१०॥ आनन्दो नास्तीति व्यवहारात्संमृतौ तदप्राप्तिः । साविद्यया निवृत्ते- त्याहुः प्रासिं परे मुख्याम् ॥ ११ ॥ संसारदशायां आनन्दो नास्ति न भातीति व्यवहारादा- वरणप्रयुक्ता काचित्तस्य अप्राप्तिरध्यस्यते । विद्ययावरणनि-
सिद्धान्तकल्पवल्ल्यां
वृत्तौ तत्प्रयुक्ता प्राप्तिर्निवर्तत इत्यप्राप्तिः प्राप्तिश्च मुख्यैवेति
मतमाह-- आनन्द इति ॥ ११ ॥
आनन्दः संसारे
सन्नपि पारोक्ष्यतो न पुरुषार्थः ।
अपरोक्षतया मुक्ति-
दशायां पुरुषार्थ इत्येके ॥ १२ ॥
संसारदशायां आनन्दस्यावृतत्वेन परोक्षत्वान्न स पुरुषा-
र्थः । मुक्तिदशायां तु आवरणभङ्गेनापरोक्षत्वात् पुरुषार्थो
भवतीति मतान्तरमाह-- आनन्द इति । न च संसार-
दशायां आनन्दस्य स्वरूपज्ञानेनापरोक्ष्यमस्ति, तदास्य तद-
भिन्नत्वादिति वाच्यम् । न हि स्वव्यवहारानुकूलचैतन्याभेद-
मात्रमापरोक्ष्यम् , येन तथा स्यात् । किं तु अनावृतचैतन्या-
भेद एव । तथा च अनावृतत्वस्य तदानीमभावेन न दोष इति
भावः ॥ १२ ॥
अज्ञानेनाध्यस्त-
श्चैतन्यानन्दयोः पुरा भेदः ।
तन्नाशे भेदलया-
त्तदापरोक्ष्यं भविष्यतीत्यन्ये ॥ १३ ॥
चतुर्थः स्तबकः ।
११७
अस्तु स्वव्यवहारानुकूलचैतन्याभेदमात्रमापरोक्ष्यम् ।
तथापि अज्ञानमहिम्ना जीवभेदवञ्चैतन्यानन्दयोर्भेदोऽप्यध्यस्त
इति संसारदशायां पुरुषान्तरस्य पुरुषान्तरचैतन्यापरोक्ष्यवद-
नवच्छिन्नानन्दापरोक्ष्यमपि नास्ति । अज्ञाननाशे तु चिदानन्द-
भेदविलयात्तदापरोक्ष्यमिति मतान्तरमाह--
--
अज्ञानेति॥
५. मुक्तस्य ब्रह्मभाववादः।
अथ मुक्त ईश्वरः स्या-
दाहो शुद्धात्मनावशिष्येत ।
अत्रैकजीववादे
स शिष्यते शुद्धरूपेण ॥ १४ ।।
ज्ञानफलप्राप्तौ निर्णीतायां प्राप्यस्वरूपनिर्णयाय पृच्छति-
अथेति । तत्र प्रथममेकजीववादेन समाधत्ते--अत्रेत्यादि-
ना । एकजीववादे तदेकाज्ञानकल्पितस्य जीवेश्वरविभागा-
दिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदये विलयानिर्विशेषचैतन्यरूपे-
णावशिष्यत इत्यर्थः ॥ १४ ॥
११८ सिद्धान्तकल्पवल्ल्यां नानाजीवमतेऽपि प्रतिबिम्बेशानदर्शने तस्य । प्रतिबिम्बान्तरभावा- योगाद्विम्बात्मनास्ति परिशेषः ॥ १५ ॥ 'नानाजीववादेऽपि मायाप्रतिबिम्ब ईश्वर इति मतेऽवि- द्याप्रतिबिम्बजीवस्य खोपाधिविनाशे प्रतिबिम्बान्तरभूतेश्वर- भावप्राप्त्ययोगाद्विम्बभूतशुद्धचैतन्यात्मना परिशेषो भवतीति समाधानान्तरमाह-नानाजीवेति ॥ १५ ॥ बिम्बेश्वरवादे त्वी- श्वरताप्रासिर्विमुक्तस्य । आसर्वमुक्त्यमुष्मि- बिम्बत्वापहवायोगात् ॥ १६ ॥ अविद्यायामन्त:करणे वा चित्प्रतिबिम्बो जीवः । बिम्ब- भूतस्त्वीश्वर इति मते मुक्तस्य यावत्सर्वमुक्तिपरमेश्वरभावा- पत्तिरिष्यते । यथानेकेषु दर्पणेष्वेकस्य मुखस्य प्रतिबिम्बे सति एकदर्पणापनये तत्प्रतिबिम्बो बिम्बभावेनैवावतिष्ठते, न तु मुखमात्ररूपेण । तदानीमपि दर्पणान्तरसंनिधानप्रयु- चतुर्थः स्तबकः । ११९ . क्तस्य मुखे बिम्बत्वस्यानपायात् । तथा एकस्य ब्रह्मचैतन्य- स्यानेकेषूपाधिषु प्रतिबिम्बे सति विद्योदयेनेकोपाधिलये तत्प्र. तिबिम्बस्य बिम्बभावेनावस्थानमुचितम् , न तु शुद्धरूपेण । तदानीमप्यविद्यान्तरस्य सत्त्वेनेश्वरे तत्प्रयुक्तबिम्बत्वस्यापह्रो- तुमशक्यत्वादिति समाधानान्तरमाह-बिम्बेति । अमु- ष्मिन् ईश्वर इत्यर्थः । नन्वेवं ज्ञानस्येश्वरभावापत्तिफलकत्वे तस्य दहरायुपासनाविशेषप्रसङ्ग इति चेत् , न । ज्ञानस्याज्ञान- निवृत्त्यानन्दावाप्तिफलकत्वेन विशेषसत्त्वादिति भावः ॥ परमार्थतस्तु मुक्तः सर्वेशत्वादिधर्मनिर्मुक्तम् । विगलितसर्वविकल्पं विमलं ब्रह्मैव केवलं भवति ॥ १७ ॥ मुक्तस्य सर्वमुक्तिपर्यन्तं ईश्वरभावापत्तिरपि बद्धपुरुषान्त- रदृष्टया । वस्तुतस्तु अस्पृष्टेश्वरत्वादिधर्मनिर्पष्टनिखिलभेदप्र. पञ्चनित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीयाखण्डैकरसब्रह्मा- त्मनावस्थानमिति परमसिद्धान्तमाह- परमार्थत इति ।। इत्थं परमशिवेन्द्रा- नुग्रहभाजनसदाशिवेन्द्रकृतौ ।
१२० सिद्धान्तकल्पवल्या सिद्धान्तकल्पवल्ल्यां तुर्यः स्तबकश्च संपूर्णः ॥१८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपरमशिवेन्द्र- पूज्यपादशिष्य श्रीसदाशिवब्रह्मेन्द्रविरचित- वेदान्तसिद्धान्तकल्पवल्ल्यां चतुर्थः स्तबकः समाप्तः॥ स्पष्टोऽर्थः ॥ १८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्परमशिवेन्द्रपूज्यपाद- शिष्यश्रीसदाशिवब्रह्मेन्द्रप्रणीतश्रीवेदान्तसिद्धान्त- कल्पवल्लीव्याख्यायां केसरवल्ल्याख्यायां चतुर्थः स्तबकः ॥ इति सिद्धान्तकल्पवल्ली समाप्ता ।। LE