Library
Nayay Sudha Face-3
Front matter
प्रथमाध्यायस्य तृतीयः पादः तद्विशेषणीभूतोभयशब्दस्य प्राप्तानुवादकत्वात्तद्विधाने वाक्यभेदाप- तेःतस्मादुभयशब्दस्याविवक्षेति हविरार्त्यधिकरणराद्धान्तः') हवि- द्विवक्षायुक्तत्याशयः । विध्यभावाद वधकर्तव्यत्वस्याप्राप्तेरनुवादा- सम्भवमाशय * द्वेषादीयुक्तम् * नन्वाख्यातयोगित्वेनास्य नओ नास्तीत्यादिवदभावमात्रवाचित्वान्निवर्त्तनार्थत्वं न युक्तमित्या- शङ्य * प्रत्ययेत्युक्तम् * य एवं विद्वान्पौर्णमासी यजतइत्यादाव- नुवादार्थेनापि यजिना सामानाधिकरण्यात्पौर्णमास्यादिशब्दस्य या- गाचित्ववदनुवादार्थेनापि प्रत्ययेन सम्बन्धान्नो ऽर्थान्तरवाचि- त्वेनानुपपन्नमिति सूचयितुं सम्बन्धग्रहणम् । यदा तु नयुक्तेष्व- पि वाक्येषु नञो विषयसमर्पकत्वात्प्रवर्त्तनार्थ एव लिङादिरित्ये- तन्मताश्रयणेन पूर्वग्रन्थो व्याख्यायते । तदा येषां त्विति ग्रन्थस्य तन्निराकरणार्थत्वाद्वावेवेत्येवकारेणैकत्वं निराकृतम् । विधिवच्च निषेधस्यापि वाक्यार्थरूपाभावनाविषय एव न तु धात्वर्थस्येव विष- यिणीति * वाक्यार्थशब्देनोक्तम् * अत्यन्तभिन्नावित्पनेनैकत्वनिरा- करणार्थ विपरीतखभावतोक्ता तथा हि । फलवुद्धिप्रमेयाधिकारिबोधकभेदतः । पञ्चधात्यन्तभिन्नत्वाद्भेदो विधिनिषेधयोः॥ विधिरिष्टफलो ऽनिष्टपरिहारफलो परः।' प्रेरितो ऽस्मीतिं धीः पूर्वे चारितो ऽस्मीति चापरे ॥ विधेयस्येष्टहेतुत्वं विधिना च प्रमीयते । निषेधेन निषेध्यस्य प्रत्यवायनिमित्तता॥ विधिश्चाधिकरोत्यन्यकारणेनाप्रवर्तितम् । रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम् ॥ नवर्जितो लिङादिश्च विधिबोधस्य कारणम् । लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः॥ एतदेवाभिप्रेत्य बृहतूटीकायामुक्तम् । अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः। दृश्यते तागेवेदं विधानप्रतिषेधयोः ॥ इति । शेषं समानम् । अस्मिन्नेव पक्षे स्पष्टीकरणार्थ वचन- व्यक्तिमाह * एषा हीति * तव्ययुक्तवाक्यान्तराभिप्रायो वचनव्य- त्यन्तरोपन्यासः । पूर्वस्मिन्पले कीदृशी वचनव्यक्तिरित्यपेक्षायामा- ह * विध्येकत्वे पुनरिति * विधिशब्दस्य लिङ्गादेरनुवादार्थत्वाभा- वान्ना सहकीकृतस्य तत्सहितस्य निषेधपरत्वं युक्तं, द्वितीये व्या- १ भयं पा० २ पु. ना.
न्यायसुधायाम्। ख्वाने तु विधिरेवैकः सर्वत्र न क चिनिषेधो ऽस्तीति विध्येकत्वं एकपदोपात्तयोर्धातुप्रत्ययार्थयोरुद्देश्योपादानविभागस्य शब्देन वक्तु- मशक्यत्वे ऽप्यर्थमात्रविवक्षया वधस्याप्यविधेयत्वादुद्देश्यत्वमाश्रित्य यद्ब्राह्मणहननमित्युक्तम् शब्दव्यापारपर्यालोचने ब्राह्मणमात्रोहे- शः । विधिशब्दो न पृथिव्यामग्निश्चेतव्य इत्यादिनिषेधानुवादशङ्का- निराकरणार्थः । द्वितीयव्याख्याने प्रतिषेधशब्देनाभावो ऽभिप्रेतः । न कुर्यादिति चाख्यातयोगिनो नो ऽभावचनत्वादभावं कुर्यादि- त्यर्थः न हन्यादित्युक्ते प्रधानभूतेनाख्यातेनैवान्वयात्स एवार्थः । हननव्यतिरिक्त वा प्रागभावपरिपालनं विधीयते यो ब्राह्मणहनना- भावस्तं कुर्यात्पालयेदित्यापि वचनव्यक्त्यन्तरमिह द्रष्टव्यम् । वचन- व्यक्तिभेदप्रपञ्चस्य प्रयोजनमुपसंहरति ॐ सर्वथेति * सुरापाने वैष- म्यमाह* ब्राह्मण इतिव्यतिरेकोपपादनायैकत्रेत्युक्तं ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबोदित्यत्राख्यातप्रत्ययोपात्तक्रियागुणभूतत्वेनोपा- दीयमानस्य संख्याया परिच्छेद्यत्वयोग्यस्य साधनांशस्य कर्तुर्विशे- षणत्वेनोपादानान पेया ब्रह्मवादिभिरित्यत्र च गुणभूतत्वनोपादीय- मानत्वप्रतीतेरित्यर्थः। श्रुतावपीमंन्यायमतिदिशति * तस्मादिति * पार्श्वस्थापादितमतिप्रसङ्गद्धयं परिहृत्य ब्राह्मणानां सुरापानप्रतिषे- १४११४ धाभावशङ्कामुपसंहरति * अतश्चेति * सुरापाने ब्राह्मणस्यानुद्दे- श्यत्वे ऽप्यनुवाद्यत्वाद्विशेषणाविवक्षेति परिहरति * नैतदिति * नन्वनुवाद्यत्वे ऽप्युपादेयत्वाद्विशेषणविवक्षा भविष्यतीत्याशङ्याह * नोपादेयत्वमिति * उद्देश्यविशेषणविवक्षायां वाक्यभेदापत्तस्त- त्परिहारार्थत्वान्नोपादेयत्वस्य विवक्षाकारणत्वे ऽप्यविधयविशेष- णस्य विधिना स्पष्टुमशक्यत्वाद्विधेयत्वमेव प्रधानं कारणमित्यर्थः । शुक्रान्वारम्भणादौ प्रकरणप्राप्तस्यापि यजमानस्य कर्तृत्वेन विधा- नाद्विशेषणविवक्षा युक्तोति भावः । नन्वनुवाद्यत्वे ऽपि ब्राह्मणस्य क्रियाविशेषणत्वाभ्युपगमाच्छुद्धब्राह्मणविशिष्टक्रियानुवादवत्स्ववि- शेषणविशिष्टब्राह्मणविशिष्टक्रियानुवादे ऽपि यत्पुमान् ब्राह्मणः सुरां पिबेदित्येकप्रसरोपपत्तेरावृत्तिलक्षणवाक्यभेदाभावादेकक्रियावशी कारेण चारुणकहायनीवत्परस्परनियमोपपत्तेः । प्रत्युद्देश्यवाक्य- परिसमाप्तिलक्षणस्यापि वाक्यभेदस्याभावात्किामति विशेषणावि- वक्षेत्याशङ्कयाह * अनूद्यमान इति न केवलं प्राधान्येनानूद्यमानस्य प्राप्त्यपेक्षत्वं किं त्वनुवाद्यविशेषणत्वेनाप्यनूद्यमानस्योत सर्वशब्देन सूचितं, तत्रानुवादस्य प्राप्त्यपेक्षत्वे सत्यनूदितस्य सुरापानस्य स्त्री- पुंसकर्तृत्वन प्रागेव प्रतीतेर्लिङ्गविशेषणस्यानाकासितत्वाद्विधये प्रथमाध्यायस्य तृतीयः पादः। ब्रा- ऽप्यकर्तृकपानाप्रसक्तेरनुवाद्यपानविशेषणत्वेनाशातज्ञाप्येभ्यो ह्मणादिभ्यो ऽन्यल्लिङ्गं न विधीयते नानुवाद्यविशेषणत्वेनाशातं ज्ञा- प्यत इत्यर्थः । नन्वप्राप्तनिषेधायोगानिषेध्यप्राप्त्यर्थ ब्राह्मणः सुरां पिबेदित्यवान्तरवाक्यार्थपर्यवसानवेलायां विधेयविशेषणत्वेन लि- ङ्गादिविवक्षाप्रसक्ता पश्चान्निषेधान्वये ऽपि न केन चिद् बाध्यतइ- त्याशङ्कते तावत् * यदि हीति * तत्र किमप्राप्तस्य पानस्य निषे- धायोगादन्यतश्चाप्राप्तेरर्थाद्विधेयत्वं कल्प्यते किं वा वाक्यखरसा- देव विधिपरत्वं प्रतीयते इति विकल्प्याचं तावत्पक्षं दूषयति * यत- स्त्विति * द्वितीयं दूषयति * प्रतिषेधेति * यदा च पानं न वि- धीयते तदा तत्र ब्राह्मणादेः सत्यपि गुणावादे ऽनुवाद्यत्वात्प्रतिषेधे चाक्रियात्मनि गुणत्वायोगात् प्रत्युत प्रत्यवायव्यावृत्त्यानुग्राह्यत्वेन प्राधान्याद्विधानं न सम्भवतीत्याह * तेनति * भेदवादिमते नाद्य- वचनव्यक्तौ पानस्य कर्त्तव्यत्वेनानूदितस्य प्रतिषेधः । विध्येकत्व- वादिमतेन द्वितीयवचनव्यक्तौ पानं स्वरूपेणानूद्य प्रतिषेधेन विधी- यमानेनेति कर्मव्युत्पन्नस्य विधिशब्दस्य प्रतिषेधशब्देन सह कर्म- धारयः द्वितीयव्याख्याने प्रतिषेधस्याभावस्य विधिनेत्यर्थः । एवं सत्यपि यदि स्त्रीकर्तृकंपानं लोके न प्राप्नुयात्ततस्तन्न निषेध्येत न त्वेतदस्तीत्याह * लोके चेति * एवमनूद्यमानः सर्वो हीति पूर्वा- ोक्तमर्थ प्रकृते योजयित्वा तत्रानाकासितमित्युत्तरार्द्धार्थ योजयति * न चेति * नन्वेवं तर्हि यो ब्राह्मणः पिबेत्स पुमानिति बाह्यप- १४२।१ दोपात्तनिषेधपरित्यागेनानुवादपदान्तर्गतसन्निकृष्टब्राह्मणपदोपात्त- लिङ्गसम्बन्ध एव केवलो विधीयतामत आह * न चास्येति * नि- षिद्धश्रुतिवैय्यांपत्तरिति भावः। उपसंहरति * ततश्चेति * प्रा- सङ्गिकाशङ्काशेषनिराकरणावतारायो * भयत्रापीत्युक्तम् * ननु वधनिषेधे लिङ्गाविवक्षायां ब्राह्मणवथे ऽपि ब्रह्महत्यापत्तेर्महापातक- निमित्तकमहान्यादिप्रसङ्गः स्यादित्याशङ्काशेषमाह * नन्विति * अत्र कुशावस्था अस्तीत्यात्रेयी गर्भिणी । अभ्युपगमेनैव परिहरति * ब्राह्मणेति * न च महापातकत्वे प्रायश्चित्ताल्पत्वं विरुद्धय ते पुं- ब्राह्मणवधे ऽपि रहस्ये प्रायश्चित्ताल्पत्वदर्शनादित्याह * न चेति * उपसंहरति * तस्मादिति * सुरापानस्य तु स्त्रीकर्तृकस्यापि प्राय- श्चित्तान्तरानाम्नानान्निः सदिग्धं महापातकमित्यहिच्छत्रब्राह्मणी- सुरापानस्य स्मृतिविरोधो दुःपरिहर इत्याह * सुरापाने पुनरिति नन्वापस्तम्बेन देशव्यवस्थया विरुद्धाचारप्रामाण्याभिधानाद्देशान्त- रनिवासिब्राह्मणीविषया सुरापाननिषेधस्मृतिः कल्पयिष्यत इत्या- २०४ न्यायसुधायाम् । शङ्ख्याह * यापि चेति * स्मृतिविरोधे ऽद्यतनाचाराप्रामाण्यं वि- स्तरेणोपपाधोपसंहरति * इतीति * एवमुत्सूत्रं पूर्वपक्षं कृत्वा सदाचारप्रामारावप्रतियादनपरतया ऽपि वेति सूत्रं व्याख्यायेदानी सूत्रारूढं पूर्वपक्षं कर्तुं न शास्त्रपरिमाणत्वादिति पूर्वाधिकरणसि- द्धान्तसूत्रमाचाराधिकरणपूर्वपक्षे ऽप्यावृत्त्या योजयितुमुपक्रमते * अथ वेति * पूर्ववर्णके दुराचारसरेण पूर्वपक्षाभिधानाय स- वदेशनिवासिशिष्टाचारोदाहरणात्तद्वयावृत्त्यर्थमार्यावर्त्तनिवासिशि- ष्टाचाराणामेवोदाहरणत्वमाह * इहोत * अर्थकामाचारव्यावृत्त्यर्थ धर्माचाराणामेवोदाहरणत्वं दर्शयन्सन्देहमाह * धर्मबुद्धयेति * दुराचारसङ्करस्याप्रामाण्यहेतोरायावर्तनिवासिधर्माचारेष्वसम्भवा- तू सन्देहहेतुं प्रश्नपूर्वकमाह * कुत इति * नन्विदं कर्तव्यमिदं कर्तव्यमिति सदाचाराणां विशेषरूपेणानिबन्धने ऽपि सदाचारः १४३।१ प्रमाणमिति सामान्यतो निबन्धनमस्तीत्याशङ्कते * ननु चेति * स्मृत्यधिकरणसाधितात्स्मृतिप्रामाण्यादेवाचारप्रामाण्यं सिद्धमि- त्यर्थः । अष्टकादिस्मृतीनां मूलश्रुत्यदर्शने ऽपि तदभावे हेत्वदर्श- नादविरुद्धं श्रुत्यनुमानम् । आचारप्रामाण्यस्मृतौ तु मूलश्रुत्यभा- वसाधनस्य हेतोराचारमूलत्वलक्षणस्य स्मृत्यन्तरेभ्यो ऽतिरिक्तत्वा- स्मृत्यन्तरन्यायेनाचारप्रामाण्यस्मृतिप्रामाण्यासिद्धर्न स्मृतिबला- दाचारप्रामाण्यसिद्धिरिति परिहराति * नेति * एतदेव विवृणोति * शाखान्तरोत * आचारदर्शनमात्रप्रवृत्तमेवोपपादायतुं प्रतिजा- नीते * यथैव चेति * उपपादयति * यदि हीति * अतो न्याय- मूलत्वात्स्मृतेायसाध्वसाधुतैव विचार्येत्याह * इतीति * सन्दे- हमुपपाद्य पूर्वपक्षसूत्रगतनअर्थव्याख्यानार्थ सिद्धान्तेनोपक्रमते *त- वेति * विरोधाधिकरणे विरुद्धस्मृतिप्रामाण्यापवादेनाविरुद्धस्मृ- तिप्रामाण्यं निरपवादमुक्तमिति मत्वा द्वयबलेनेत्युक्तं प्रतिज्ञानमुप- क्रमः घअन्ताकरोतेः कारशब्दं व्यापारबचनं व्युत्पाद्य सो ऽस्या- स्तीति मत्वर्थीयेनिप्रत्ययान्तस्य कारिशब्दस्य कर्तृवचनत्वाच्छ्रौतस्मा- तैस्तुल्याः कार एषामिति विग्रहः कार्यः।मन्वादिभिश्चाचारमूल- श्रुतिदर्शने ऽपि तदर्थस्य शिष्टव्यवहारादेव सुज्ञानत्वेनानिबन्धनो- पपत्तेः स्मृतितोऽप्याचारप्रामाण्यं सिध्यतीत्याह * स्मृतिकाति* उपक्रान्तसिद्धान्तनिराकरणार्थत्वेन पूर्वपक्षसूत्रमवतार्य व्याख्यातु- मध्याहारेण पूरयति * तदिति * व्याचष्ट * शास्त्रोति * तृती- यासमासाभिप्रायं कर्मव्युत्पत्तिप्रदर्शन बहुव्रीहौ तु भावव्युत्पत्तिरेव पष्ठीसमासेन चाविद्यास्थानातिरिक्तत्वेन शाक्यादिग्रन्थवदाचारा- प्रथमाध्यायस्य तृतीयः पादः। २०५ णामप्यनेनाप्रामाण्यमुच्यतइत्यन्यथा व्याचष्टे * परिमितानि चेति* १४४ार ननु शब्दात्मकानामेव शास्त्राणामियत्तानियमादशब्दात्मकस्यापि स- दाचारस्य पुरुषहितबोधकत्वाच्छास्त्रत्वं भविष्यतीत्याशय स्वरसे- न त्वेषां धर्मबोधकत्वमाचारश्चैव साधूनामिति स्मृत्यनुसाराद्वति विकल्प्याद्ये पक्षे खरूपेण तावदाचारस्य क्रियारूपस्याबोधकत्वाच्छा- स्त्रत्वमनाशङ्ख्यमेवेत्याह * न चेति * ननु स्वरूपेणाबोधकत्वे ऽपि शिष्टानुष्ठानदर्शनादस्मदादीनां धर्मबुद्धयुत्पत्तेस्तद्वारेण शास्त्रत्वं भविष्यतीत्याशङ्कयाह * नापीति * शिष्टानुष्ठानान्यथानुपपत्त्या- नुष्ठेयस्योत्सवादेर्धमत्वं कल्प्यं भ्रान्त्यादिनापि त्वनुष्ठानोपपत्ते का- न्ततः शिष्टंरनुष्ठीयमानस्याचारस्यास्मदादिभिर्दर्शनं शिष्टाचारानु- ष्ठानं वा धर्मत्वं कल्पयितुं शक्यं विशेषतश्च दर्शनस्यानुष्ठानमात्रा- नुविधायित्वेनात्यन्तपरायतत्वादनुष्ठानस्य च प्रमेयत्वाबोधकत्वा- दित्यर्थः। द्वितीयपक्षे दूषणमाह * स्मृतेस्त्विति * तृतीयप्रका- रेण व्याख्यातुं विकल्पयति * किं चेति * एकश्रुत्यनुमानासम्भवं तावदुपपादयति * न तावदिति * अनेकश्रुत्यनुमानासम्भवमप- रिमितानां पाठाशक्तरपठितानां च मूलत्वासम्भवेनोपपादयति * यावदाचारं हीति * तुशब्दार्थे हिशब्दः । ननु सर्वाचाराणामे- कश्रुतिमूलत्वासम्भवे ऽप्येकदेशादिगतानां भिन्नानामप्येकमूलत्वो- पपत्तेरनेकश्रुत्यनुमाने ऽप्यल्पत्वान्न वेदसम्मितिश्रुतिकल्पनापत्ति- रित्याशङ्याह * एकस्य त्विति * एकदेशादिगतानामप्यनेकेषामे- कोपलक्षणाभावाम्नैकमूलत्वोपपत्तिरिति भावः । अभ्युपगम्याप्य- ल्पत्वेन शक्यपाठत्वमनिबन्धनामूलदर्शनाभावो ऽवसीयतइत्याह * न चेति * ननु प्रत्यक्षोपलम्भाभावे ऽप्याचारदर्शनादेव तत्तदा- चारमूलभूताः श्रुतीरनुमायान्येषामपि तथैव श्रुत्यनुमानसिद्ध्यर्थ सामान्यमात्रेणाचारप्रामाण्यमुपनिबद्धमित्याशयाह * न चेति * मूलत्वेनाचारस्य बलवत्त्वोपपत्तेर्मूलित्वेन च स्मृतेदौर्बल्यापत्तेर्व- क्ष्यमाणं स्मृतिबलीयस्त्वं विरुध्येतेत्याशयः । मूलमूलिभावस्य ब- लाबलभावस्य च विपर्ययप्रसङ्गादिति वा योज्यम् । अस्मिन्नेवार्थे शास्त्रस्य परिमितस्य स्तोकस्यैवानुमातुं शक्यत्वादितिसूत्रं योजयति * अत इति * ननु बहूनामप्याचाराणामेकैव स्मृतिः सरूपाश्रुतिर्मू- लभूतानुमास्यते ऽत आह * न चेति * न केवलमाचाराणां श्रुतिमू- लत्वाभावप्रसङ्गः किं तु श्रुतेरेवाचारपूर्वकत्वापत्तर्विपर्ययो ऽपि प्र- सज्येतेत्यर्थः । एतदेवोपपादयति * शिष्टाचार इति * एतमेवा- थैमर्थान्तरन्यासेन दर्शयितुं शास्त्रशब्दे शास्त्रीयमथै लक्षयित्वा तस्य २०६ न्यायसुधायाम्। १४५।१ परिमितत्वादल्पत्वादिति चतुर्थ व्याख्याप्रकारमाह * शास्त्रेति * यद्वा शास्त्रीयस्यार्थस्य परिमितत्वात्कतिपयत्वान्मानान्तरागोचरत्वा- दिति वदतानेन सूत्रेण परिमिते मानान्तरागोचर एवार्थे शास्त्रं प्रव- तते सदाचाराणां तु शिष्टव्यवहारादव सिद्धत्वेन मानान्तरगोचर- स्वान्न शास्त्रविषयत्वं सम्भवतीत्युक्तमिति पञ्चमं व्याख्याप्रकार- माह * परिमितेति * एतमेवार्थमुपपादयितुं गृहरथादिकर्मणा- मशास्त्रीयत्वप्रतिपादनार्थस्याशास्त्रा रूपसम्प्राप्तिः शास्त्रं स्यादप्रक- ल्पकं तस्मादर्थेन गम्यताप्राप्ये शास्त्रमर्थवदित्यस्य षष्ठाध्यायगतस्य सूत्रस्यैकदेश पठति * अप्राप्ते इति * मानान्तरगोचरत्वमेवार्थ सुखाङ्गत्वेन द्रढयति * दृश्यमानेति * अर्थसुखाङ्गानां धर्मत्वाभावे दृष्टान्तमाह * वैश्यानामिति * पूर्वपक्षमुपसंहरति * तस्मादि- ति * शीलात्मतुष्टिग्रहणेन तयोरपि तुल्यन्यायत्वाद्विचारविषयत्वं दार्शतं स्वभावरचितं शीलं निषेधस्याश्रौतत्वे नमो सामञ्जस्यापत्तेर- परितोषात् सिद्धान्तोपक्रममपि सूत्रारूढं कर्तुमुपक्रमते * यति * अस्मिश्च पक्षे शिष्टाकोपसूत्रमप्यावृत्त्या वेदाविरुद्धशाक्यादिवाक्य- विषये पूर्वपक्षसूत्रत्वेन शिष्टाचारविषये च सिद्धान्तोपक्रमार्थत्वेन योज्यं द्वितीयवर्णकवदत्राप्यार्यावर्त्तनिवासिशिष्टाचारणामेवोदाह- रणत्वमनिबन्धनत्वकर्तृसामान्यरूपधर्मद्वयदर्शनं चसन्देहकारणं सू- प्रयोजनामात्रमतिरिक्तमिति दर्शयन् सिद्धान्तोपक्रमं सूत्रारूढं क- रोति * इहति * तत्राकोपाविरुद्धशब्दयोः पौनरुक्त्यमाशयाये- नाविरोधोऽभिहितो द्वितीयेन प्रामाण्यमिति खरूपतस्तावद्वयाचष्टे * तथा हीति * नन्वविरोधे ऽग्याचाराणां विद्यास्थानातिरिक्तत्वा- च्छाक्यादिग्रन्थवदप्रामाण्यं भविष्यतीत्याशङ्कय स्मृतिकारानुज्ञानेना- तिरेकस्यादोषत्वं दर्शयितुं विरोधे सत्येवाप्रामाण्यं स्थानान्यथेत्येवं परतया व्याचष्टे * यदीदि * ॥ शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम् ॥५॥ समा विप्रतिपत्तिः स्यात् ॥ ८ ॥ शिष्टाकोपाधिकरणे पूर्वपक्षोक्तं विरोधमभ्युपेत्य प्रमेयबला- बलीयस्त्वमात्रेण सिद्धान्ते विरोधादर्शनस्यावक्तव्यत्वात्तेष्वदर्शना दिति सूत्रावयवस्य पूर्वशेषत्वानुपपत्तेरुत्तरसूत्रशेषत्वं तस्मिन्पले ऽङ्गीकार्यमित्याह * तेष्विति * अत्र भाष्यकृता सौत्रविप्रतिपत्तिश- ब्दव्याख्याथै यवमयश्चरित्यादिवाक्यगतान्येव वराहवेतसशब्दानु- १ तेष्वदर्शनाहिरीधस्येति उपक्रम सूत्र वेति वार्तिकम् ।
प्रथमाध्यायस्य तृतीयः पादः। दाहृत्य वाच्यविषयप्रयोगे विप्रतिपत्तिरुक्ता तत्रास्य विप्रतिपत्त्यभि- धानस्य किं प्रयोजनं का च विचारसङ्गतिरित्यपेक्षिते साधितप्रामा- ण्यशिष्टाचारबलाबलविचारात्मकत्वेन सङ्गतिं सूचयन्विचारविष- यप्रदर्शनप्रयोजनमाह * शब्देति * शब्दस्यार्थविषयः प्रयोगः स चासौ शिष्टाचारश्च तस्मिन् विप्रतिपत्ताविति विग्रहः भाष्यक- द्वयाख्याने ऽपि स्मृत्यधिकरणएवाचारप्रामाण्यस्यापि व्युत्पादि तत्वाद्विरोधाधिकरणे तस्यापि स्मृतिवद्वेदविरोधविषये प्रामाण्ये ऽपोदिते शिष्टाकोपाधिकरणे च क्रत्वङ्गपदार्थविषयाचाराणां क्रमा- द्यविरोधाद्विरोधे ऽपि वा प्रमेयबलीयस्त्वादनपवादे ऽभिहिते सम्प्र- त्याचारयोरेव परस्परविरोधे किं बलाबलविरोधो ऽस्तु न वेति चिन्तासङ्गतैवेत्याचारशब्देन सूचितम् । व्युत्पादितप्रामाण्यस्य शि- टाचारस्यैव बलाबलचिन्ता युक्ता नाव्युत्पादितप्रामाण्यस्य म्लेच्छाचा- रस्येति मत्वोद्भाष्यमपि शिष्टाचारविषयत्वं चिन्तायाः शिष्टशब्देन सूचितं कीदृशः सन्देह इत्यपक्षायामाह * एकशब्दमिति * एकः शब्दो ऽस्मिन्ननेकार्थो ऽस्मिन्निति द्वावांप बहुव्रीही । आचर्यतइति भावोत्पन्नलकारान्तेनाचरणं क्रियतइत्युक्तम् । आचरणमन्यपदा- र्थः । अक्षादिशब्दवैलक्षण्यप्रतिपादनार्थविप्रतिपत्तिशब्दव्याख्याना- र्थम् * विगानेनेत्युक्तम् * को ऽर्थ इति किं द्वावप्युतैक एवेत्यर्थः । ननु शास्त्रानुसारिशिष्टव्यवहारावगतस्यैव वाच्यत्वनिर्णयात्सन्देहो न युक्त इत्याशङ्ख्याह * यवेति * अविद्यमानप्रयोगारोपसूचनार्थः १४६ार किलशब्दः वाच्यवाचकसम्बन्धे शास्त्रस्याव्यापारसूचनाय*अनिरू- पितेत्याधुक्तम् * समेति पूर्वपक्षप्रतिपादनार्थसूत्रावयवव्याख्यानार्थ तत्रेति भाष्यं व्याचष्टे * तत्राहेति * भाष्ये च विकल्पशब्देन प्रतिज्ञानार्थत्वमुभयथेत्यनेनास्यैवावृत्त्या हेत्वर्थत्वं व्याख्याता चयितुम् * तुल्यत्वादित्युक्तम् * सबैलोकस्थानां प्रयोगिणा- मित्यर्थः । तुल्यत्वमेवोपपादयति * योति * नन्वेवमपि देश- व्यवस्थया वाच्यव्यवस्थोपपत्तेः समविकल्पो न युक्त इत्याश- झ्याह * तस्याश्चेति * तस्मिन्सर्वगामित्वे न्यायो युक्तिर्यस्याः शक्तेरस्ति सा तन्न्याया तद्भावस्तल्यायत्वम् । कीदृशो न्याय इत्यपे- क्षायामाह * नैकेषामिति * एकस्यैव वस्तुनः सदसत्त्वविरोधादि- त्याशयः । एवं तर्हि सर्वान्प्रत्यसत्त्वमेवास्त्वित्याशय सत्त्वे कस्य चिद्दर्शनानुपपत्तेनिराकरोति * केषां चिद्वेति * सर्वेषामपि पुसां वाचकशक्तिर्न विद्यतइत्येतदपि नास्तीत्यर्थः। ननु सदसत्त्ववदेकस्य ज्ञाताशातत्वंविरोधो ऽपि स्यादित्याशय ज्ञानव्याप्यत्वाव्याप्यत्वोपा- ૨૭૮ न्यायसुधायाम्। धिकत्वादशाताशातत्वयोनिस्य च पुरुषाश्रितत्वेन तद्भेदे सदस- त्वाविरोधान्निराकरोति शातेति * शक्ते सर्वगामित्वमुपपादित- मुपसंहरति * तस्मादिति * नन्वष्टदोषविकल्पापादकमनेकशक्ति- कल्पनमन्याय्यमेवागृह्यमाणविशेषत्वेनागत्या क्व चिदङ्गीक्रियते इह तु प्रयोक्तुरल्पत्वबहुत्वविशेषग्रहणानानकशक्तिकल्पनं युक्तमि- त्याशङ्कयाह * न चेति * दृष्टान्त व्याचष्टे * बिभीतक इति * एकदेशप्रयुक्तानामपिशब्दानां सर्वगामित्वं निरुक्तकृद्वचनेन द्रढयति * तथा चेति * प्रकृतय एवैकेषु जनपदेषु प्रयुज्यन्ते विकृतय एवै- केश्वित्युपक्रम्य निरुक्तकृता शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते विकारमस्यार्या भाषन्ते शवतात्युक्तं तदर्थतः पठितं कम्बोजेष्वेव जनपदविशेषेषु शवतिर्धातुर्गतिवाची दृष्टः गच्छतीत्यस्मिन्नर्थे शव- तीति प्रयोगात् । आर्यास्तु जनपदविशेषाः ऋदोरबित्यप्प्रत्ययान्त- त्वेन विकारापन्न शवतिधातुं न गतौ युञ्जते । शवशब्देन मृतस्या- भिधानादित्यर्थः । महाभाष्यकृता तु विकारापन्नमार्या भाषन्तइ- ति पाठान्तरमुदाहृतम् । तत्र मृतावस्था विकारशब्देनोक्ता न केवलं शवतिरेव देशविशेषे व्यवस्थितः किं त्वन्ये ऽपि बहवो धातवो नामशब्दाश्च व्यवस्थिता एव प्रयुज्यन्ते * इत्यादीति * प्राच्येषु हि जनपदेषु दातिर्धातुर्लवनार्थों दृश्यते लुनातीत्यस्मिन्नर्थे द्यतीति प्रयोगात्तमेव दानमिति ष्ट्रन्प्रत्ययान्तत्वेन विकारापन्नमुदीच्याः प्रयुञ्जते । प्राच्येषु गच्छतीत्यर्थे मध्यमेषु वरं हति । हन्ततिश्च सुराष्ट्रेषु गमिस्त्वार्येषु भाष्यते ॥ महाभाष्यकृतैते ऽन्ये प्रतिदेशे व्यवस्थिताः। उदाहृता धातवो ऽतो त्रादिशब्दस्तदाशयः॥ पूर्वपक्षमुपसंहरति * तस्मादिति * तेष्वदर्शनादित्युपक्रम- सूचनं समेत्यस्य प्रतिज्ञामात्रार्थत्वादुभयशब्दार्थावगम इत्यनेन ते- विति सूवावयवो हेत्वर्थेन योजितः तद्व्याचष्टे * एवं चेति * प्रकृतिवदिति हि चोदकेनारे समाम्नायावगतमेव मन्त्ररूपमतिदिश्य- ते कार्यप्राधान्यात् तदसम्भवे व्रीह्यादिशब्दस्थाने नीवारादिशब्दो- हेनान्यथात्वं कल्प्येत साधारणशब्दे च न तत्कल्पनापत्तिरित्यर्थः। किमिति विकृतिविषयत्वेनायं सूत्रावयवो व्याख्यात इत्यपेक्षिते प्रक- तौ विप्रतिपत्तिदर्शनेनाविरोधायोगादिति कारणमाह * तेष्विति * एतदुपक्रमत्वस्थानभिमतत्वद्योतनार्थ पूर्वोपक्रमाभिप्रायेण समे- त्यस्यैवावृत्त्या हेत्वर्थत्वं दर्शयन्नुपसंहरति * तस्मादिति * शा.
प्रथमाध्यायस्य तृतीयः पादः। स्था वा तन्निमित्तत्वादिति सिद्धान्तसूत्रं स्वयं तावदवतारणपूर्वक व्याचष्टे * इतीति * वाशब्देन साम्यं निराकृत्य पूर्वसूत्रगतस्याच्छ- ब्दानुषङ्गेण शास्त्रस्था स्यादित्युक्ते तस्या एव बलीयस्त्वमर्थादुक्तं भवतीति मत्वा * बलीयसीत्युक्तम् * शास्त्रानुसारावगतशब्दा- १४७१ गतगुणयोगनिमित्तत्वेनाप्यर्थान्तरप्रतीत्युपपत्ते!भयत्र शक्तिः कल्प्येत्येवमर्थत्वेन तन्निमित्तत्वादिति सूत्रावयवं व्याख्यातुम् * लौकिकीत्युक्तम् * एतदेव विवृणोति * नानति * भाष्यकृता त्वे- कस्यापि वाच्यत्वे तत्सादृश्येनेतरप्रतीत्युपपत्तेनोंभयोः साम्यं क- ल्प्यमिति वाशब्दं व्याख्याय कः पुनरित्यादिना शास्त्रस्थेति तिष्ठत्या- वृत्त्या शिष्टपरत्वेन शास्त्रस्थशब्दो व्याख्यातः तन्निमित्तत्वादिति च तेषां शिष्टानां श्रुतिधारणवच्छब्दार्थस्मृतिधारणवच्छब्दार्थस्मृतिधा- रणनिमित्तत्वादित्येवं तेषामित्यादिना व्याख्याय शास्त्रनिमित्तत्वा- च्छिष्टगतायाः प्रतिपत्तेरिति तस्यैवावृत्त्या ते चैवमित्यादिनाव्याख्या- नानन्तरं तत्र शास्त्रस्थशब्दव्याख्यानार्थ तावद्भाष्यं व्याचष्टे * शास्त्र- स्थाइति * तेषामित्यादिभाष्यं व्याचष्टे * सप्रत्ययेति * सप्रत्ययत- रत्वं तेषामुपपादयति * शास्त्रार्थेष्विति * शिष्टानां प्रत्ययिततर- त्वोपपादनस्य प्रकृतोपयोगमाह * तस्मादिति * ननु शिष्टप्रतिपत्ते- बलीयस्त्वे ऽप्यविरोधादर्थान्तरस्यापि वाच्यत्वे भविष्यतीत्याशङ्का- निराकरणार्थत्वं धोतयितुं यवशब्द इत्यादि वाशब्दव्याख्या भा- ज्याभिप्रायमिदानी व्याचष्टे * अनवस्थितेति * ते चैवमित्यादिभा- ज्यं व्याचष्टे * अविप्लुतश्चेति * ननु वाक्यशेषकृतस्य निर्णयस्य यवमयश्चरुरित्यादिषु वाक्यशेषरहितेष्वसम्भवात्प्रस्तुतोदाहरणग- तशब्दार्थनिर्णयो न सम्भवतीत्याशङ्कयाभिधेयनिर्णयस्यैकत्र कृत- स्याविशेषात्सर्वत्र निर्णायकत्वं वक्ष्यमाणमाभिप्रेत्य परिहरति * त- त्रेति * भाष्यकारीयस्य करम्भविधिशेषत्वाभिधानस्य विध्यन्त- रशेषत्वव्यावृत्त्यर्थत्वशङ्कानिराकरणाथै विध्यन्तरं दर्शयति * यव- मतीभिरिति * दीर्घशूककानिति भाष्यमुपपादयति *फाल्गुन इति* तस्माद्वराहमित्यादिवराहवेतसशब्दार्थनिर्णयार्थ वाक्यशेषान्तरो- पन्यासभाष्यं व्याचष्टे * एवमिति * त्रिवृदादिशब्दाभिप्रायं बहु- १४८५ वचनम् । व्युत्पादितप्रामाण्यस्य शिष्टाचारस्यैव परस्परविरो- धे साम्यवैषम्यचिन्ता युक्ता । नाव्युत्पादितप्रामाण्यस्य म्लेच्छा- चारस्य न क चित् शिष्टदेशे यवादिशब्दः प्रियङ्ग्वादिषु प्रयुज्यत इति मत्वोदादरणानि दूषयति * नन्वेतानीति * सस्यैव 'वाच्यति २ पु. भा. १ २१० न्यायसुथायाम्। नन्वेतदुदाहरणासम्भवे ऽप्युदाहरणान्तरेषु न्यायस्य फलवत्त्वोप- पत्तेरुदाहरणदूषणमयुक्तमित्याशङ्कयाह * अध्यारोप्येति * उ- दाहरणान्तरसम्भवे तदेवोदाहार्य न त्वसदध्यारोपो युक्त इत्याश- यः। न चोदाहरणान्तर ऽप्ययं न्यायो व्युत्पाद्यान्यत्र व्युत्पादयिभ्य- माणत्वादित्याह * संन्दिग्धेषु चेति * न केवलं यवायुदाहर- यानि न कार्याणि किं तु विचारणापि न कार्यत्यपि शब्दो योज्यः। यद्वोदाहरणाभावात्तावन्न कार्या पौनरुक्त्यादपीति । ननु तत्रोपा- दाननिर्णयाद्वाक्यशेषबलाश्चैकत्वं घृतोपादाननिर्णये ऽन्यत्र वाक्य- शेषाभावे ऽपि तदेवोपादेयमिति नियमाभावादिह त्वभिधेयनिर्णया- एकत्र चाभिधेयत्वेन निर्णीतस्यान्यनापि ताप्यत्यागायोगात्सर्वत्रा- भिधेयत्वनिर्णयः इत्यपौनरुक्त्यमाशङ्कय न्यायफलवैषम्य ऽपि विधि- स्तुत्यारेकविषयत्वनियमात्स्तुत्यस्यैव विधयत्वमिति व्युत्पाद्य न्याय- खरूपैक्यादपरिहार्य पौनरुत्यमित्याह * यद्यपीति * ननु नात्र दो- घंशूककादीनां यवादिशब्दवाच्यत्वसन्देहो निराक्रियते किंतु दीर्घशू- कादिवत्प्रियङ्ग्वादीनामपि प्रतीतिप्रयोगान्यथानुपपत्त्या प्रसक्तावा- च्चता गौणत्वेनापि प्रतीतिप्रयोगोपपादनेन निराक्रियते नासावन्यत्र निराकृतेत्याशझ्याह * तसिद्धिसूत्रे चति * गौणत्वसम्भवे ऽपि प्रतीतिप्रयोगमात्रण प्रसिद्धार्थत्यागेनाप्रसिद्धार्थकल्पने जहत्स्वार्था- भिधायित्वं स्यात्तस्य च तत्सिद्धिसूत्रे निराकरिष्यमाणत्वात्तेन सह पौनरुक्त्यं स्यादित्याशयः । एव शिष्टाचारयोरेव परस्परविरोधे वा- क्यशेषानुसारिणः शब्दार्थविषयप्रयोगरूपस्य शिष्टाचारस्य प्रामाण्य- मितरस्य गौणत्वेनाप्युपपत्तरप्रामाण्यमिति भाष्याथै मत्वोदाहरणा- भावात्पीनरुक्त्यापत्तेश्च दूषयित्वेदानीमार्यम्लेच्छाचारयोरिह साम्य- वैषम्यचिन्ता वाक्यशेषनरपेक्ष्येण च निर्णय इत्यभिप्रेत्य समाधत्त * तस्मादिति * वाक्यशेषनरपेक्ष्यद्योतनार्थमन्यग्रहणं न तु यवा- दिशब्दोदाहरणनिराकरणार्थम् । अनन्तदेशाग्रहणेन सर्वदेशप्रयो- गाभावस्य केनापि निश्चेतुमशक्यत्वाद्भाष्यकृद्वचनाचार्यदेशप्रयोगा- भावे ऽपि म्लेच्छदेशे कापि प्रयोगो ऽस्तीति निश्चयोपपत्तेः। पूर्व वा व्युत्पादितप्रामाण्यस्यापि म्लेच्छाचारस्यानन्तराधिकरणे शब्दार्थवि- षये व्युत्पादयिष्यमाणप्रामाण्यस्य वक्ष्यमाणालोचनेन विचारोपपत्ते- यिकृतापि शास्त्रस्थशब्दं शिष्टाभिप्रायं व्याचक्षाणेनार्थम्लेच्छप्रयो- गयोरेवात्र साम्यवैषम्यचिन्तति सूचितमित्यविरोधः । वाक्यशेषो- पन्यासस्त्वतिशयार्थः । तत्सिद्धिसूत्रस्य च गौणवृत्तिलक्षणमात्रप- रत्वान्न तेनापि पौनरुक्त्याअड्डत्यनवद्यम् । ननु म्लेच्छाचारस्य प्रा- प्रथमाध्यायस्व तृतीयः पादः। माण्याभावान साम्येन पूर्वपक्षः सम्भवतीत्याशङ्काष्टार्थव्यवहारे- वार्यम्लेच्छयोर्विशेषाभावानिराकुर्वन्पूर्वपक्षयति * समेति * ए- १४९।। तदेव विवृणोति * आर्यास्तावदिति * आर्यम्लेच्छानां प्रयोगणा- मिति विग्रहः । तुल्यत्वोपपादनायोत्तराधिकरणसिद्धं शब्दार्थवि- षये म्लेच्छाचारस्यापि प्रामाण्यं दर्शयति * सर्वो हीति * आर्य- प्रयुक्तवत् म्लेच्छप्रयुक्तस्यापि शब्दस्यार्थप्रत्ययाङ्गत्वप्रदर्शनार्थः सर्व- शब्दः । ननु गाव्यादिशब्दस्याकाचकस्याप्यर्थप्रत्यायकत्वदर्शनान्न त- मात्रेण म्लेच्छप्रसिद्धरर्थान्तरे यवादिशब्दानां वाचकत्वशक्तिः क- ल्पयितुं शक्येत्याशयाह * तत्रेति * शक्तेः कारणाश्रितत्वाद- र्थप्रत्ययकारणस्य च गाण्यादिशब्दस्यादिमत्त्वेनानादिशक्त्याश्रयत्वा- योगाद्वाचकत्वं युक्तं यवादिशब्दस्य तु याहशस्यायेंःप्रयोगस्ताहश- स्यैव म्लेच्छरित्यविशिष्टत्वेनानादित्वावधारणेनानादिशच्याश्रयत्वो- पपत्ते विद्यमानशक्त्यारोपकल्पनाक्लेशो युक्त इत्यविशिष्टशब्देन सू- चितम् । नन्वनादित्वेऽपि यवादिशब्दार्थसम्बन्धानवस्थितत्वादिदो- पापत्तेरेकस्थाने ऽनेकशक्तिकल्पनायोगान म्लेच्छप्रसिद्ध ऽर्थे ऽनादि- सामर्थ्यकल्पनमित्याशङ्कयाह * यथैव हीति * अगृह्यमाणविशे- षत्वादक्षादिशब्दवदगत्यात्राप्यनेकशक्तिकल्पनं युक्तामित्याशयः । अविशिष्टत्वमेवोपपादयति * नेति * ततश्च प्रयोगावध्यदर्शनादा- यम्लेच्छप्रसिद्धार्थविषययोः शब्दशक्तयोरनादित्वात्कथं विशेषो ऽवग- म्यतामित्यर्थः । न च म्लेच्छसम्बन्धमा शक्त्यभावे कारणमिति दृष्टान्तेनोपपादयति * यथैवेति * म्लेच्छैः स्वार्थे प्रयोगात्तस्मि- नंप्यर्थे शब्दो वाचकः परीक्षकाणामिष्ट इति योज्यं मुख्यत्वेनैव प्रयो- गागौणत्वशङ्कानिवृत्त्यर्थः खशब्दः पूर्वपक्षमुपसंहरति *तस्मादिति* वाक्यशेषनरपेक्ष्यप्रदर्शनार्थमुदाहरणान्तरं, ननु थवाधुदाहरणव्या- वृत्त्यमित्युपपादितमेव । उत्तरसूत्रेण सिद्धान्तमाह * इतीति * शास्त्रस्था: पुरुषायेवेति भाष्यानुसारिव्याख्याभप्रायः पूर्ववच्छब्दः । वाक्यशेषस्त्वतिशयार्थ भाष्यकृतोक्तो न निर्णायकत्वेनेत्यविरोधः श- दापभ्रंशवश्चार्थापभ्रंशस्याप्युपपत्तेन प्रतीतिप्रयोगमात्रणकान्ततः स. वेषामनामेकस्माच्छब्दात्प्रतीयमानानां वाच्यत्वनिर्णयः सम्भव- तीति कल्पनालाघवादेकस्यैव वाच्यत्वे निर्णीते कस्यैकस्येत्यपेक्षायां शास्त्रस्थानामभिधेयाभियोगविशेषासत्प्रयोगवशेन वाच्यत्वावधारण- मिति व्याख्यान्तरमाह * चति* यथा गाव्यादिषूत्तमवृद्धेनन- मादेनाशक्त्या वोच्चारितेषु साध्वनुरूपत्वात्तदनुमानेन साधुः पाच्यमर्थ मध्यमवृद्धस्य प्रतिपादयत्सुव्युत्पित्साचिकत्वना २१२ न्यायसुधाथाम् । तिर्जायते । तथा म्लेच्छौण्यावृत्त्या भ्रान्त्या वा हस्त्याद्य- र्थे पील्वादिशब्देन प्रतिपादिते व्युत्पित्सोर्वाच्यत्वाभ्रान्तिर्जा- यतइत्यर्थः । एतदेव विवृणोति * शब्देति * उपसंहरति * अत इ- १५०१ ति * अस्यां च व्याख्यायामार्यप्रयोगयोरपि परस्परविरोधे ऽभि- युक्ततरबलीयस्त्वं सिद्ध्यतीत्यादि * एतेनेति * इदानी भाष्यमनपे- क्ष्य स्मृत्याचारयोर्विरोधे किं योस्तुल्यत्वमाचारो वा बलीया- स्मृतिति नेधा सन्दिह्य साम्यपक्षे समा विप्रतिपत्तिः स्यादित्ये- तावत्सूत्रं योजयंतिं * स्मृतीति-* पक्षद्वयोद्देशार्थो वैषम्यशब्दः । तेष्वदर्शनादित्युपक्रममाचारबलीयस्त्वे योजयत्ति *यद्वेति* अय- माशयः । शिष्टपरिग्रहदायेनोभयोन्त्यिादिमूलत्वासम्भवान्मि- थ्यात्वलक्षणस्तावबाधो न युज्यते किं तु यथा प्रत्यक्षश्रुतिविरोधे यावदेकं श्रुतौ कर्मेत्यादिना स्मृतेरनुष्ठानाख्यफलापहारमात्रलक्षणा बाधो मूलश्रुतिदर्शनं यावदुक्तस्तथात्रापि वाच्यः । न चानुष्ठानात्म- कस्याचारस्यासौ सम्भवतीति । नन्वाचारस्यापि स्मृतिवच्छ्त्यनु- मानेनैव प्रामाण्यं न स्वातन्त्र्येण । न च स्मृत्याचारानुमितयोः श्रु- त्योर्बलाबलविशेषो ऽस्तीत्याशयाह * श्रुतिरिति * स्मृतेर्वाक्या- त्मकत्वेनानेकरूपार्थप्रतिभाने प्रत्यक्षश्रुत्यविरुद्धार्थप्रतिपादनपरश्रु- तिकल्पनेन यथाश्रुतार्थत्यागलक्षणो बाधो युक्तः आचारस्य त्ववा- क्यात्मकत्वेनान्यथात्वकल्पनायोगाद्यथाष्टैिरनुमीयते तथैवानुष्ठे- यमित्यनुष्ठानाख्यफलनिष्ठैव श्रुतिः कल्प्यतइत्याशयः । एतदेव वि- वृणोति * यावद्धीति * अस्मिन्पक्षे तेष्वाचारेषु स्मृतिमूलश्रुत्य- नुमानात्प्राविरोधादर्शनात्प्रतिष्ठितेषु बाधासम्भवाद् बलीयस्त्वमेव तावद्युक्तं तदनङ्गीकरणे वरं साम्यमस्तु न त्वाचारस्य दौर्बल्यामि- ति सूत्रं योज्यं, द्विविधमपि पूर्वपक्षमुपसंहरति *तेनेति शास्त्रस्था वेति सूत्रेण सिद्धान्तमाह * स्मृतीनां वेति * स्मृत्यभिप्रायः शा- स्त्रशब्द इत्याशयः । तन्निमित्तत्वादिति शास्त्रत्वसामान्येन प्रकृतत्वा- द्वेदाख्यं शास्त्रं तच्छब्देन परामृश्य श्रुतिमूलत्वं हेतुरुच्यते तश्चोभ- योः स्मृत्यधिकरणे प्राप्तं विरोधे पुनरुच्यमानमाचाराणां श्रुतिमूल- त्वपरिसंख्याथै तत्रोभयोः श्रुत्यनुमापकत्वाविशेषे विरोधे ऽपि स्मृतेरेव श्रुतिमूलत्वं नाचारस्यति कथमवसीयतइत्यपेक्षायामाह * उभयोरिति * असाम्यमुपपादयति * सप्रत्ययोति * प्रत्ययश- ब्देन ज्ञानं विश्वासो वा ऽभिधीयते ऋषित्वाञ्च मन्वादेः साक्षात्क- तधर्माण ऋषय इति स्मृतः सकलधर्मतत्त्वज्ञानसम्पन्नत्वावसाया- दाचार्यवत्रः प्रमाणमिति च श्रुतेर्धर्मप्रवक्तृत्वेनावधारिताचार्यत्वस्य प्रथमाध्यायस्य तृतीयः पादः । का मन्वादेः सत्यवादित्वावगमादप्रतारकत्वेन विश्वास्यत्वात्तत्प्रणीतायाः स्मृतेर्वेदविरोधे ऽपि श्रुतिमूलत्ववारणाशक्यत्वस्योपपादितत्वादा- चारविरोधे का कथेत्याशयः । अर्वाचीनानां तु सकलधर्मतत्त्वज्ञा- नाभावात्प्रमादाादसम्भवाञ्च तदाचारस्य श्रुतिमूलत्वकल्पने श्रुति- स्मृतिविरोधो विघ्नकारीत्यर्थादुक्तं लिङ्गवाक्यवञ्च सन्निकर्षविप्रक- र्षविशेषादपि स्मृत्याचारयोर्बलाबलविशेषो ऽवसीयतइत्याह * आ- चाराविति * च शब्दार्थे तुशब्दस्मृतेर्वा साक्षाच्छतिकल्पनत्वद्यो- तनार्थः । ननु स्मृतिवदाचारस्यापि साक्षाच्छतिमूलत्वोपपत्तेः किमन्तरा स्मृतिकल्पनयेत्याशङ्कयाह * न हीति * अयमाशयः तदा- नीन्तनानां मन्वादिवत्सकलवेदार्थतत्त्वज्ञानमस्ति यतस्तदाचारस्य साक्षाच्तिमूलत्वं सम्भाव्यतएवं सत्यपि यद्यकैव चिच्छतिः सर्वाचाराणां मूलभूता स्यात्ततस्तस्याः कथं चित्ता- त्पर्यावधारणसम्भवात्साक्षादिदानीन्तनपुरुषाचारमूलत्वं सम्भा- व्येत न त्वसौ * सम्भवतीत्युक्तम् * यद्यपि सदाचारः प्रमाणमि- ति स्मृत्यनुरूपैका श्रुतिः कल्प्येत तथापि तस्याः सिद्धाचारानुवा- देन प्रामाण्यप्रतिपादनमात्रपरत्वेनाचारप्रवर्तकत्वाभावान्मूलत्वं न सम्भवतीति दर्शयितुम् * प्रवर्तिकेत्युक्तम् * यत्तु यद्वाशिष्टात्मतु- ष्टीनामित्यादिनाशिष्टानुष्ठानमात्रेणाचारादीनां श्रेयःसाधनत्वान्न विधायकश्श्रुत्यपेक्षेत्युक्तं तच्छतिस्मृतिविहितो धर्मस्तदलाभे शिष्टा- चारः प्रमाणमिति वशिष्ठवचनपर्यालोचनया मानवीयस्यापि वेदो ऽखिलो धर्ममूलमिति स्मृत्याचारादिष्वनुषक्तस्य धर्ममूलशब्दस्य । वेदः स्मृतिः सदाचारः खस्य च प्रियमात्मनः । पतञ्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ इति लक्षणशब्दस्य च प्रमाणपरत्वावसायात्प्रौढिमात्रमित्य- वगम्यते । भिन्नानामप्याचारमूलभूतानां श्रुतीनां मिलितानामेकन पाठे तात्पर्यावधारणं सम्भाव्यते तासां तु नानाप्रकरणस्थानां वि- ध्यन्तरशेषत्वेन पठितानां पुरुषधर्माचारविधिपरत्वस्याल्पप्रज्ञैरि- दानीन्तनैनि”तुमशक्यत्वाच्छिष्टाचारपारम्पयंस्मृत्यैव कस्य चिद् ब- हुवेदविदः प्रज्ञातिशयसम्पन्नस्याचारमूलश्रुतितात्पर्यावधारणमासी- दिति कल्पयित्वेदानीन्तनशिष्टप्रवृत्तिर्भवति स्मृत्या व्यवायः श्रुतिक- ल्पनस्येति विप्रकीर्णत्वमुपपादयति * नेति * विध्यन्तरशेषत्वेन स्तुतिमात्रत्वेनावभासमानस्यापि सिद्धवत्सङ्कीर्तनान्यथानुपपत्तिप्रा- १५१ पकविध्याक्षेपकत्वकल्पनाक्लेशः कथं चिच्छब्देनोक्तः।आचारमूल- श्रुतीनां तात्पर्यावधारणक्लेशप्रदर्शनायैवोदाहरणानि दर्शयन्पात्र २१४ न्यायसुधायाम्। धारणपूर्वकभोजनाचारमूलभूतां तावच्छतिमुदाहरति * तद्यथे- ति * क्रत्वर्थत्वशङ्कासूचनार्थः प्रकरणोपन्यासः स्तुतिमात्रशङ्कासू- चनार्थ विध्यन्तररोषत्वोपन्यासः । एकेन परिगृह्येतरेणात्तीति श्रुत्य- र्थः। कथं तयाचारपरविधिपरत्वनिर्णय इत्याशय * सत्यपी- त्याधुक्तम् * नन्वनस्कन्दनशङ्कापरिहारार्थत्वेन पात्रधारणस्यार्थ- प्राप्तस्यानुवादोपपत्तेर्नात्र विधिः कल्पनीयो ऽत आह * न चैत- दिति सम्यक्पात्रप्रतिष्ठापनेनाप्यनस्कन्दनशङ्कापरिहारोपपत्तेर्निय- मार्थो विधिः सम्भवतीत्याशयः । स्वभावात्प्रयोजनवशाद्वार्थिकी नियता प्राप्तिः स्यान्न त्वेतदुभयमप्यत्रास्तीति दयितुं वैषम्यदृष्टान्त- द्वयम् । दक्षिणहस्तभोजनाचारमूलभूतां श्रुतिमुदाहरति * एव- मिति * स्त्रीणां पूर्व सव्याक्ष्यं जनाचारमूलमुदाहरति * तथेति * शेषिभूतविध्यन्तरोपन्यासस्य प्रयोजनमुक्तम् । स्त्रीणां पत्यन्तरवर्जना- चारस्य मूलमुदाहरति * तथेति * रजस्वलाचारमुदाहरति * त- थेति * विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीदिति प्रकृत्य तस्य वजूमादाय शीर्षाण्यच्छिनदितीन्द्रस्य त्वाष्ट्रवधनिमित्तब्रह्मह- त्याप्राप्तिमुक्त्वा स पृथिवीमुपासीददस्यै ब्रह्महत्यायै तृतीयं प्रत्यगृ- हाणेत्यादिपृथिव्यादीनां ब्रह्महत्याविभागमुपक्रम्य स स्त्रीसंसदमु- पासीददस्यै ब्राह्महत्यायै तृतीयं प्रतिगृह्णातीन्द्रप्रार्थितानां स्त्रीणां तृतीयं ब्रह्महत्यायै प्रत्यगृह्णनिति ब्रह्महत्यायास्तृतीयस्य विभागस्य प्रतिग्रहं तन्निमित्तं च मलवद्वासस्त्वमुक्त्वा न मलवद्वाससा सह संवदेनास्या अन्नमद्यादिति तदुपगमनं निषिध्य यां मलवद्वासमभि- सम्भवति यतस्ततो जायते सो ऽभिशस्तोयामरण्ये तस्यैतस्यै स्तेनो यां पराची तस्यै छीतस्य मुख्यप्रगल्भा इत्युपगमननिषेधशेषभूतां निन्दा- मुक्त्वा तत्प्रस्तावेनागतानां रजखलाव्रतानांया स्नाति तस्या अप्सुमा- रुकायाभ्यङ्क्ते तस्यै दुश्चर्मायाप्रलिखते तस्यैखलति रपमारी याने तस्यै काणो पादतो धावते तस्यै श्यावदन्ता या नरवानि निकृन्त- ते तस्यै कुनखी या कृणति तस्यै क्लीषो या रज्जु सृजति तस्या उद्बन्धको या खर्वेण पिबति तस्यै खर्वस्तिस्रो रात्रीर्वतं चरेदिति- स्नानादिनिन्दाद्वारेणोक्तानामग्नीषोमीयपुरोडाशयागविधिशेषत्वेन प्रतीयमानानां प्रकरणातिक्रमेण स्त्रीधर्मत्वावधारणमाचारपरम्प- रास्मृत्या विना न शक्यमित्याशयः । अतो नानाप्रकरणस्थत्वेन पुरुषधर्मविधिपरत्वकल्पनविक्षेपलक्षणाद्विप्रकार्णत्वाच्छिष्टाचारपा- रम्पर्यस्मृत्या विनैकार्थे तात्पर्योपसंहारो न सम्भवतीत्युपसंहरति * एवं चेति * ततश्चाचारप्रामाण्यस्य सिद्धान्तस्मृत्यन्तरितत्वमित्या- प्रथमाध्यायस्य तृतीयः पादः। २१५ ह * तेनेति * सिद्धान्तमुपसंहरति * तस्मादिति * लोकवेदगत- १५२।१ योर्वाशब्दार्थप्रसिद्ध्यर्विरोधे साम्यवैषम्यविचारार्थ तेष्वदर्श- नादित्यादिसूत्रद्वयमिति वर्णकान्तरमाह * त्रिवृदिति * एकस्यापि वाच्यत्वे सादृश्येनेतरत्न प्रतीतेः प्रयोगोपपत्तिशानिराकरणार्थम् * विलक्षणइत्युक्तम् * एकति लौकिक्येव वैदिक्येव वेति पक्षद्वयमु- कम् । त्रिवृच्छब्दे विप्रतिपत्तिं दर्शयति * लोके तावदिति* स्तोत्री- यागतनवको विवक्षितः । कथं वेदे स्तोत्रीयानवकार्थत्वप्रसिद्धिरि- स्यपेक्षायामाह * त्रिवृदिति * उपास्मै गायता नरो दिवि धुतत्या रुचा पवमानस्य ते कव इति तृचत्रयानुक्रमणान्नवभिः स्तुवन्तीति स्तुत्यन्तरदर्शनात्स्तोत्रियां नवकविषयत्वं त्रिवृच्छब्दस्यावसीयतइ- त्यर्थः । चरुशब्दे विप्रतिपत्तिं दर्शयति * तथेति * याज्ञिकप्रसि- द्धि दर्शयति * अनवस्रावितति * भक्तव्यावृत्त्यर्थमनवनावित- विशेषणं वैषद्यानपेक्षपाकमात्रनिमित्तत्वदर्शनार्थमन्तरूष्मपक्वग्र- हणं वेदे प्रसिद्धिं दर्शयति * तथेति * आदित्यं चरुं विधाया- ज्यस्यनं चरुमभिपूर्य चतुराज्यभागान्यजति पथ्यां स्वस्तिामष्टा ऽग्नी- षोमो यजति अग्नीषोमाविष्टवा सवितारं यजत्यदितिमोदनेनेनेति क्र- मपरे वाक्ये सिद्धवदनुवादादोदनवाचिता चरुशब्दस्य शा- यते । आश्वलावशब्दे विप्रतिपत्तिं दर्शयति * एवमिति * वेद- प्रसिद्धि दर्शयति * एवं हीति * पेक्षवीशब्दे ऽप्यादिशब्दोपात्तांवि- प्रतिपत्तिं दर्शयति * ऐक्षव्याविति * विषयं दर्शयित्वा साम्यपक्षे तावत्सूत्र योजयति * एवमादिष्विति * आदिशब्दः स्तोमशब्दाभि- प्रायः । भाष्यकृयाख्याने कः पुनरत्र निश्चय इति सिद्धान्तवेला- या प्रश्नदर्शनाद्विप्रतिपत्तिशब्दस्य सन्देहार्थत्वप्रतीतेस्तद्वयावृत्त्यर्थ विपर्ययार्थत्वे विप्रतिपत्तिशब्दं व्याख्यातुम् * प्रतिपत्तिविपर्ययइत्यु- क्तम् * हिशब्दः पादपूरणार्थः । तेष्विति सूत्रावयवव्याख्यातुमा- शङ्कते *ननु चेति * सूत्रावयवेनाशङ्कां निराकरोति *नैतदिति* अनेन च तेषु पदार्थेषु वाक्यार्थवदतीन्द्रियत्वाभावेन लोकविषय- त्वविरोधस्यादर्शनादिति सूत्रावयवो व्याख्यातः । साम्यपक्षमुप- सहरति * तस्मादिति * लौकिकप्रसिद्धिबलीयस्त्वपूर्वपक्षमप्य- नेनैव सूत्रेणाह * यदि चेति * लौकिकप्रसिद्धिबलीयस्त्वहेतुत- या तेष्विति सूत्रावयवेनोक्तमनुपसञ्जातविरोधित्वं साधयितुम * पूर्वभाविवादित्युक्तम् * पूर्वभावित्वमुपपादयति * वेदोत * नन्वेवं सति चेदस्य पदार्थावधारणोपायवाभावेन क्वचिदपि वैदि- १५३१३ कप्रसिद्धयभावाद्विचार एवायं नोपपद्यतेत्याशङ्कयाह * तत्रेति * न्यायसुधायाम। अत्रैव सूत्रं योजयति * तेग्विति * तेवदर्शनाद्विरोधस्येति सूत्रा- वयवस्य तेष्वेवादर्शनाद्विरोधस्येत्यभिप्राय इत्यन्वयः । उभयत्रावि- रोधसाम्यापत्तिशङ्कानिवृत्त्यर्थमवधारणम् । किमस्मिन्वर्णके त- च्छब्देन परामृष्टमित्यपेक्षिते तेग्विति व्याख्यातम् । पूर्वभावित्वं चाविरोधकारणं पूर्वोक्तमभिप्रेतमर्थवादानां चेत्यादिना कारणान्त- रमुक्तम् । अर्थवादानां न पदार्थप्रतीत्यङ्गत्वमवसीयतइत्यन्वयः । हेत्वपेक्षायां संज्ञासंशिसम्बन्धस्य कारणे व्युत्पादने च व्यापाराभा- वादित्युक्तम् । तद्धेतुत्वेनान्यपरत्वे ऽभिहिते किं परतेत्यपेक्षायां प्ररोचनाशेषत्वमुक्तम् । कथं प्ररोचनेत्यपक्षिते गुणेत्युक्तम् । वा- युक्षेपिष्ठादौ श्रुतिप्रवृत्तिसम्भवात्मायग्रहणम् । आदित्यो यूपो य- जमानःप्रस्तरः खर्ग आहवनीय इति वचनत्रयं दृष्टान्तः । एवं तर्हि पदार्थ प्रत्यौदासीन्येन वाक्यशेषेष्वपि विरोधादर्शनादवधारणानर्थ- क्यमित्याशङ्कय पदार्थप्रतिपादनपरत्वाश्रयणे विरोधापादनेनाव- धारणमुपपादयति * तदाश्रयणे चेति * विरोधस्यैवेत्यवधारणेन वा शास्त्रस्य प्रसिद्ध्यानुगुण्यमेवानेन सूत्रावयवेनोच्यत इत्याह *त- थेति * रक्षारम्भकेषु तन्तुषु नवसंख्यासद्भावे ऽप्युपवीतारम्भका- यारक्षास्त्रैगुण्यविधानार्थ त्रिवृच्छब्दः । अस्मिन्पूर्वपक्षे समशब्दा- नुपपत्तिमाशङ्कय काका योजयति * तस्मादिति * वैदिकप्रसिद्धि- बलीयस्त्वे सिद्धान्तसूत्रं योजयति * इतीति * न केवलं श्रेयःसा- धनात्मकं धर्मखरूपमेव शास्त्रं प्रमाणकं किं त्वङ्गमपि फलं च ख- दीति वक्तुम् * साधनेत्युक्तम् * यत्त्वर्थवादानामन्यपरत्वात्प- दार्थप्रतीत्यनङ्गत्वमुक्तं तत्रान्यपरत्वे ऽपि विधिस्तुत्योरेकविषयत्व- नियमात्स्तुतिविषयस्यार्थस्यान्यथानुपपत्त्या विधिविषयत्वप्रतीतेस्तस्य चोपसंहारगतस्यापि विध्युहेशेनाग्रहणं निरालम्बनत्वेनार्थवादानर्थ- क्यापत्तेरानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायादू बली- यस्त्वमित्याह * अर्थवादति * अपिशब्देन बहिष्पवमाने च तृच- प्रयानुक्रमणस्य स्तोत्रीयाविधानार्थत्वान्नार्थवादतेत्यपि सूचितम् । नन्वर्थवादावगतस्यार्थस्य विध्युद्देशेन ग्रहणे भिवृदादिशब्दानां स्तो- त्रियानवकादिवाचित्वेन वृद्धव्यवहारादनवगते विधौ गौणत्वं स्या- दित्याशङ्कयाह * गौणो वेति * प्रमाणाभावेनान्यत्र विधौ गौणत्वं नाश्रीयते इह तु वेदप्रमाणकत्वाद्गौणत्वमप्यतुष्टमित्याशयः । परमार्थ- तस्तु त्रिवृदादिशब्दानां स्तोत्नीयानवकादिष्वपि गुणयोगासम्भवा- न्मुख्यत्वमेवाभिमतम् । नन्वेवमपि तृचत्रयानुक्रमणेन नवभिः स्तु- वन्तीति वचनेन बहिष्पवमाने स्तोत्रीयानवकप्राप्तस्त्रिवृद्भहणमनर्थ- १५४१ प्रथमाध्यायस्य तृतीयः पादः। २१७ कमित्याशय तृचत्रयानुक्रमेण नवकवचनयोरभावे ऽपि त्रिवृदग्नि- टोम इत्यादौ नवंकासद्धिरस्य विचारस्य प्रयोजनमिति दर्शयितुमाह * त्रिवृच्छब्द इति * एतदेवास्य विचारस्य प्रयोजनं दशमे त्रिवृद- ग्निष्टोम इत्युदाहृत्य किमाग्निष्टोमसाधनमात्रगतसंख्याविकारिकेयं त्रिवृत्संख्या स्तोमगतसंख्याविकारिका वोत सन्दिा त्रिवृद्रज्जुरि- त्यादी लोके त्रिवृच्छब्दस्य त्रैगुण्यमानवाचित्वदर्शनाद बहिष्पवमा- नवच्च तृचत्रयानुक्रमणादेः स्तोत्रीयानवकावगतिकारणस्यात्रामा- वातू त्रिवृत्त्वस्य च संख्यात्वसामान्येन संख्यामात्रकार्ये विनियोगप्रती- तेः सर्वसंख्याविकारिका त्रिवृत्संख्यतित्रिवृत्संख्यात्सर्वसंख्याविका- रः स्यादति सूत्रेण पूर्वपक्षयित्वा निवृदबहिष्पवमानमित्युक्त्वा स्तो- त्रीयानवकाम्नामात्रयस्त्रिकपालाः त्रिवृता स्तोमेन सम्मिता इति च नवानां कपालानां त्रिवृत्ता स्तोमेन समानवचनानिवृच्छब्दस्य स्तोत्री- यानवकवाचित्वप्रतीतेरत्रोभयसम्भवे ऽपि वैदिकत्वसामान्येन स्तो- त्रीयानवकविषयत्वावधारणात्स्तोमगतैव पञ्चदशत्वादिसंख्या त्रि- संख्यया बाध्यतइति स्तोमस्य वा तल्लिङ्गत्वादितिसूत्रेण सिद्धान्तं वदतोपपादयिष्यते । प्रसङ्गादादिशब्दोपात्तस्य स्तोमसब्दस्य लोकप्र- सिद्धसमुदायमात्रवचनत्वातिक्रमेण स्तोत्रीयासमुदायवचनत्वं वेद- याशिकव्याकरणप्रसिद्धिबलेनाहैवमिति । तथाप्यवश्यमेव त्रि- दादिषु द्रष्टव्य इत्यध्याहृत्य योज्यं, लौकिक्याः समुदायमात्रवचन- त्वप्रसिद्धः का गतिरित्यपेक्षायां * लोकेत्युक्तम् ननु त्रिवृच्छब्दस्य स्तोत्रीयानवकवचनत्वे विप्रस्योवृतं त्रिवृते त्रिवृता अन्थिनकेनति मनुवचनमयुक्तं स्यादित्याशङ्कय पौरुषेयवाक्येषु लोकवेदप्रसिद्ध्यो- स्तुल्यबलत्वेन यथासम्भवं प्रसिद्ध्यनुसारोपपत्तेरिह त्रैगुण्यवाचि- त्वमाश्रित्य परिहरति * यत्त्विति * उपवीतारम्भिकाया वा रक्षा नवतन्तुकारभ्यत्वात्तस्या एव च ग्रन्थ्यारम्भकत्वाद्वौदिकप्रसिद्ध्यनु- सारेणैव मनुवचनं युज्यतइत्याह * यद्वति * ननु वेदे ऽपि त्रि- द्भवतीति रशनात्रैगुण्यप्रयोगदर्शनाल्लौकिकीप्रसिद्धिराश्रितेत्याश- झ्य तत्रापि प्रौढ्या याज्ञिकप्रसिद्ध्यनादरेण वैदिकप्रसिद्ध्यनुसारान- वगुणत्वं भविष्यतीत्याह * तथेति * • अयं तु पक्षः स्तोत्रीयाव्यति- रेकेणान्यत्र नवकसंख्यायां त्रिवृच्छन्दप्रयोगाभावादयुक्त इति वेदप्र- सिद्धस्तोत्रीयागतनवकसंख्यारूपार्थासम्भवादशनादौ वेदविरोधा- भावाल्लोकप्रसिद्धं त्रैगुण्यमेव ग्राह्यमित्याह *यद्वेति ननु स्तोत्री- यागतनवकवाचित्वेन शोणादिवन्नवकत्वावान्तरजात्यभावादाकृत्य- धिकरणविरुद्धं विशिष्टवाचित्वं प्रसज्यतेत्याशय यथैवेत्युक्तम् ।
न्यायसुथायाम् । यत्र विशेषणमात्रे शक्ती कलितायां' तहविनाभावाविशेष्ये प्रतीसि- युज्यते तदेवाकृत्यधिकरणस्य विषयः । अविनाभावाभावे तु तु. वादिशब्दानां पुत्राभार्याभावे यांचादिविशिष्टवाचित्वामिष्यतएव । वृद्धव्यवहारावसेये चार्थे अन्वयव्यतिरेकाभ्यां निकृष्ट शक्तिः क. ल्प्येतेह तु त्रिवृबहिष्पक्मानमित्युक्त्वा स्तोत्रीयानवकानुक्रमणान- वसंख्यायास्त्रिवृच्छब्दवाच्यत्वं कल्प्यमानं स्तोत्रीयागताया एव क- ल्पयितुं शक्यं न शुद्धायाः प्रमाणाभावादित्याशयः । स्तोत्रीया- विशिष्टस्य नवकत्वस्य वाच्यत्वात्तदेकदेशस्य नवकत्वस्य गौणत्वम. भिप्रेतम् । आश्रयबलाबलानादरेण स्वरूपबलाबलवशात्पदार्थनि- यमभिप्रेत्य * उत्तरसूत्रइत्युक्तम् * चरुशब्दस्य त्वोदनसम्बन्धे- नैव स्थाल्या प्रयोगोपपत्तेोकप्रसिद्ध ऽथै शक्ति व कल्प्येत्याह * त- थेति * सौर्य चळं निर्वपेदित्यादौ वाक्यशेषाभावे ऽप्योदनो वा प्र. युक्तत्वादित्यत्र चरुशब्दस्य वेद्याज्ञिकप्रसिद्धिभ्यामोदनमात्रवाचि- त्वावसायादोदनस्यैव ग्रहणमिति दशमे वक्ष्यमाणं चरुशब्दो ऽपी त्यपिशब्देन सूचितम् । अन्यत्राप्योदनविषय एवेत्यर्थः । अस्मिश्च वर्णके दाशमिकयोस्त्रिवृच्चर्वधिकरणयोः एतदधिकरणप्रयोजनप्रति- पादनार्थत्वान्न पौनरुक्त्यम् । याज्ञिकशब्दस्य पूर्वनिपातेन वेदप्रसिद्धि- निरपेक्षस्य याज्ञिकवृद्धव्यवहारस्य वाच्यबाचकभावावगमे साक्षा- कारणत्वेनाभ्यर्हितत्वं सूचितम् । आश्ववालैक्षवीशब्दयोस्तु स- मुदायप्रसिद्धबलीयस्त्वेनापि दुर्बललौकिकावयवप्रसिद्धिवाधेन काशतन्मूलवाचित्वमेवाबसीयतइत्याह * आश्ववालेति * ननु दीर्घश्लक्ष्णपत्राणां काशानामश्वकेशैः सादृश्यादश्ववालशब्दस्य का- शेषु गौणप्रयोगोपपत्तेर्न समुदायस्य शक्त्यन्तरकल्पनं युक्तमित्यल- ब्धात्मिकायाः समुदायप्रसिद्धः कथं बलीयस्त्वमित्याशङ्ख्याभ्युपग- म्यापि गौणत्वं वेदक्लप्तत्वाद् बलीयस्त्वमाह * अथापीति * यथा श्येनेने यजेतेति विहिते यागे सामानाधिकरण्याच्छचननामत्वेन प्र- सिद्धनैकशक्तिकल्पनाभयाद्धाच्यवाचकभावानभ्युपगमे ऽपि यथा वै श्येनो निपत्त्यादत्तएव मयं द्विषन्तं भ्रातुव्यं निपत्त्यादत्तइत्यर्थवादा- वगतनिपत्त्यादायकत्वसादृश्येन श्यनपक्षिजात्योपमिते गौणत्वद्वारे- णावातप्रसिद्धिः । श्येनशब्दः पुनरिषुयागे धर्मातिदेशाय समानमि- तरच्छयेनेनेति प्रयुज्यमानो गौणोऽपि वेदक्लप्तत्वाधागविषयत्वेनै- पाश्रीयते तथाश्ववालशब्दो ऽप्याश्वबालः प्रस्तर इत्यत्र वाक्यशेषा- काशविषयत्वेन प्रतीयमानोऽनेकशक्तिकल्पनाभयात्तद्राचकत्वानभ्यु- १. कल्पिताबामिबि २ पु. पा.।
प्रथमाध्यायस्य तृतीयः पादः। पगमे ऽपि दीर्घलक्षणत्वादिसादृश्यागौणत्वद्वारेण काशेष्वेवाप्तन- सिद्धिर्वाक्यशेषाभावे ऽपि वेदक्लप्तत्वात् काशविषयत्वेनवाश्रीय- तइत्यर्थः । नन्वश्ववालशब्दस्य गौणत्वाभ्युपगमे गौणतायाः पदा- न्तरसामानाधिकरण्यसापेक्षत्वेनासामर्थ्यापत्तेराश्ववाल इति तद्धि- तानुत्पत्तिप्रसङ्गानाश्वघालशब्दस्य गौणत्वं युक्तमित्याशझ्याभ्युप- गमवादमात्रत्वमस्य प्रकटयितुमाह * अथापीति * यद्यपि गौणत्वं न च ते वालाः काशतां प्राप्ता इति काशरूपेणाश्वस्य वालानां परि- णामाभिधानात्प्रकृतिविकारयोश्च सादृश्यसम्भवाच्छब्दावगतपक- तिविकारभावमात्रेणोत्प्रेक्षितं न वास्तवमिति शब्दग्रहणेन सूचित- म् । वेदस्य सम्बन्धिदृष्टमवगतं चेन्न केनापि वार्यते स्वतन्त्रत्वेना- पौरुषेयत्वेन वेदे दोषाशङ्कानुपपत्तेरित्यर्थः । ननु धर्मातिदेशादि- व्यवहारसिद्ध्यर्थ केन चिदू गुणयोगेन श्येनशब्दस्य यागविशेषनाम- स्वाङ्गीकरणमर्थवत्पुरोडाशानलं कुर्वित्यादौ च लाघवार्थ पुरोडा- शशब्देन धानादिहविःपञ्चकलक्षणार्थे वेतीह तु मुख्येनः काशश- ब्देनैवै प्रस्तरविधिसिद्धेर्गौणलाक्षाणकाश्ववालशब्दानर्थक्यापत्तिः मुख्यत्वे त्वाश्ववालः प्रस्तरः कार्यः काशाश्चाश्ववालशब्देनोच्यन्ते इत्यनेकार्थपरत्वापत्तेर्वाक्यभेदः प्रसज्येतेत्याशयाह * गौणमिति * १५दा काशाश्ववालशब्दयोर्वाच्यवाचकत्वाभावे निरालम्बनवाक्यशेषापत्ते- रगत्या वाक्यभेदो ऽपि वेदाङ्गीकृतत्वान्न दोषमावहति परमार्थत- स्तु विधिस्तुत्येकवाक्यत्वान्यथानुपपत्त्यैवात्र वाच्यवाचकत्वप्रती- तेने वाक्यभेदो ऽन्तीति वाशब्देन सूचितम् । ननु वाक्यशेषबलेन त्रिवृदादिशब्दार्थनिर्णये पूर्वोक्तमेव पौनरुक्त स्यादित्याशङ्याह * म चाति * असन्दिग्धत्वमेव विवृणोति * लौकिकीति * एत- दूवर्णकसिद्धान्तमुपसंहरति * बाधतइति * सुखग्रहणार्थ वर्णक- प्रयसिद्धान्तं सङ्क्षिपति * तस्मादिति * आद्ये वर्णके शास्त्रशब्देन शास्त्रानुसारित्वादार्या विवक्ष्यन्ते । द्वितीये स्मृतिः। तृतीये वेदः । मुक्तकामां नियमशून्यानां म्लेच्छानामाचारित्याद्यवर्णके ऽर्थः । मुक्तकैरनिबद्धरितीतरयोः सदाचाराणां स्मृतिव्यवधानाद्धर्मविप्र- कर्षः * इतरेषां त्वसम्बन्धादेव * ॥ अथ म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणम् ॥६॥ चोदितं तु प्रतीयेताविरोधात्प्रमाणेन ॥ ९ ॥ अत्र भाष्याच्छास्त्रस्थम्लेच्छप्रसिद्धयोर्बलावलचिन्तेति प्रति- भाति तञ्च म्लेच्छाचारप्रामाण्यस्य प्रागव्युत्पादितत्वादयुक्तमाशङ्कर २२० न्यायसुधायाम्। शब्दार्थविषये म्लेच्छाचारप्रामाण्याप्रामाण्यचिन्तापरत्वेन सन्देह- भायं व्याचष्टे * ये शब्दा इति * म्लेच्छप्रसिद्धार्थाग्रहणे ऽपिका- दिशब्दानर्थक्यमाशङ्कय भाष्यकृता धातुतो ऽर्थः प्रकल्पयितव्य इत्य- इत्यभिधानादार्यप्रसिद्ध्यभावे ऽपि म्लेच्छप्रसिद्धार्थो न ग्राह्य इति पूर्वपक्षयचनव्यक्तिः सूचितेत्याशयः । किमत्र सन्देहकारणमित्यपे- क्षायामाश्रयस्वरूपबलाबलविसवादं सन्देहकारणं दर्शयितुमाह * तथेति*प्रकृतचिन्तासिद्ध्यर्थम् । एतदपि चिन्त्यते इति तथाशब्दार्थः । लिरुक्तव्याक्रियाद्वारेत्यनेन शास्त्रस्थत्वमवयवप्रसिद्धित्वं सूचितं स- मुदायप्रसिद्धिर्षा बलीयसीत्यनुषङ्गः । ननु षष्ठे वचनाद्रथकार- स्याधानस्य सर्वशेषत्वादित्यत्राधिकरणे समुदायप्रसिद्धरवयवप्रसि- द्धितो बलीयस्त्वस्य वक्ष्यमाणत्वात्समुदायावयवप्रसिद्वयोर्षलाब- लचिन्ता पुनरुक्तत्याशय * म्लेच्छस्यैवेत्युक्तम् * शास्त्रस्थप्रसिद्धि- बलीयस्त्वे समुदायप्रसिद्धिम्लेच्छेष्वेव तिष्ठति नार्यगामिनी भवति नार्यान्प्रत्यात्मानं लभतइत्यर्थः । अथ वावयवप्रसिद्धित्वेन तस्या दौर्बल्यात्समुदायप्रसिद्धिराचार्यानपि प्रति भवेदात्मानं लभतइत्य. र्थः । समुदायप्रसिद्धेरेवान प्रामाण्याप्रामाण्यरूपात्मलाभसदस- द्भावसिद्ध्यर्थ निरुक्तादिद्वारप्रसिद्धिबलाबलविचारः क्रियतइत्याश- यः । यद्वा किं निरुक्तादिद्वारा प्रसिद्धिः शास्त्रस्थत्वाद् बलीयसी म्लेच्छस्यैवं वा समुदायप्रसिद्धित्वादित्येकं विचारप्रकारमुक्त्वा किं निरुक्तादिद्वारावयवसिद्धिर्वा म्लेच्छस्थत्वादिति प्रकारान्तरसूच- नार्थत्वेन वाप्यथवा शब्दो योज्यः । यद्वा शास्त्रस्थम्लेच्छप्रसिद्धयोः का बलीयसीत्येवं प्रकारमुक्त्वा म्लेच्छस्थैव वा किं म्लेच्छस्थत्वाद् दुर्बला समुदायप्रसिद्धित्वादू बलीयसीत्येवं विचार्या भवेदिति प्र. कारान्तरप्रतिज्ञानार्थो ऽथवा शब्दः म्लेच्छस्थैव प्रसिद्धिर्विचार्या भवेदित्युक्ते कथं विचार्येत्यपेक्षायां विचारस्वरूपं सोपपत्तिकं दर्श- यति * म्लेच्छस्थप्रसिद्धिरिति * पूर्वव्याख्यानयोरष्येतदेव प्रकारा- न्तरमप्रतिज्ञातमेवानेन ग्रन्थेन प्रतिपाद्यतइति विशेषः । निरुक्तादि- द्वारैव वा प्रसिद्धिः किं शास्त्रस्थत्वाद् बलीयसी अवयवप्रसिद्धित्वा- द्वा दुर्बलेति प्रकारान्तरमाह * तथेति * भाष्ये ऽपि निगमनिरु- क्तव्याकरणवशेनेत्यनेनावयवप्रसिद्धः शास्त्रस्थत्वं बलीयस्त्वका- रणमुक्तम् । कल्पयितव्य इति कल्पनीयत्वं दौर्बल्यकारणम् । म्ले- च्छा इति च समुदायप्रसिद्धम्लेंच्छस्थत्वं दौर्बल्यकारणमुक्तम् । आचरन्तीति क्लप्तत्वं बलीयस्वकारणमिति विवेकः । शिष्टाचार- स्येत्यांदिपूर्वपक्षभाष्यं सन्देहभाग्यव्याख्यानोपसंहारपूर्वकं व्याचष्टे प्रथमाध्यायस्य तृतीयः पादः। ૨૨ * एवमिति * म्लेच्छप्रसिद्धौ प्रयोक्तृदौर्बल्यं स्वरूपबलीयस्त्वमि- १५६३३ तरत्र प्रयोक्तृबलीयस्त्वं स्वरूपदौर्बल्यमित्युपपत्तिचतुष्टयान्म्लेच्छ- प्रसिद्धिप्रामाण्याप्रामाण्यसन्देहे सिद्ध इत्यर्थः। पूर्वापवादत्वेनानन्त- रसङ्गतिसूचनार्थ सूत्रोपन्यासः। पिकादिशब्दार्थप्रसिद्धेः शास्त्रस्थाना- मसिद्धत्वात्कथं बलीयस्त्वमित्याशय *कल्प्यापीत्युक्तम्* नावक्ल- तायाःखरूपेणैवासत्त्वात्कथं बलीयस्त्वमित्याशय साधुमूलबलेना- सिद्धाया आपिसाधयितुं शक्यत्वादिति परिहरति * तन्मूलस्येति * ननु समुदायप्रसिद्ध्यावयवप्रसिद्धिबाधात्कथं प्रामाण्यमित्याशङ्का- निराकरणाथै नाशिष्टस्मृतरित भाण्यावयवं व्याचष्टे * न सिद्ध- मपीति * म्लेच्छप्रसिद्ध ऽर्थे वैदिकानां शब्दानां समुदायप्रसिद्धरा- न्मलाभासम्भवान्नावयवप्रसिद्धर्बाधकमस्तीत्याशयः । सिद्धमप्य- सन्मूलं न प्रमाणमिति लुप्तभावप्रत्ययप्रमाणशब्दानुषङ्गेण योज्यम् । ननु शब्दार्थसम्बन्धस्य वृद्धव्यवहारमात्रप्रमाणकत्वान्म्लेच्छव्यवहा- रस्यापि तत्र प्रामाण्योपपत्र्तः कथमाश्रयदोषेण दुष्टत्वमित्याशझ्या- भ्युपगम्यापि तावन्म्लेच्छव्यवहारस्य शब्दार्थसम्बन्धे प्रामाण्यं वै. दिकशब्दानां म्लेच्छप्रसिद्धार्थाभिधायित्वं न सम्भवतीत्याह * क- थमिति * गृहीतसम्बन्धस्य श्रुतस्य शब्दस्यार्थाभिधायकत्वान्म्लेच्छा- नां च सम्बन्धग्रहणसम्भवे ऽपि वैदिकशब्दश्रवणाभावात्तच्छ्राविणां चार्याणां म्लेच्छसम्भाषणनिषेधेन तत्प्रसिद्धार्थसम्बन्धग्रहणास- म्भवानार्यान्प्रति समुदायप्रसिद्धरात्मलाभः सम्भवतीत्याशयः । म्लेच्छप्रसिद्धार्थग्रहणे च निगमादीनामानर्थक्यापत्तेस्तद्ग्रहणं न युक्तमिति प्रतिपादनार्थ निगमादीनां चेति भाष्यं म्लेच्छप्रसिद्धा- र्थाभावे निगमादीनामर्थवत्त्वोपपत्तेरयुक्तमाशङ्कयोपपादयति * एवं चेति * म्लेच्छप्रसिद्धःप्रमाणत्वे सतीत्यर्थः । ननु सर्वम्लेच्छदेशा- न्वेषणे ऽपि यस्यार्थस्याप्रसिद्धिः स निगमादीनां विषयो भविष्य- तीत्याशङ्कयाह * अनन्तेति * शङ्कामेवोपपपादयति * अनन्तेषु हीति * को ऽर्थः क्व देशे सिद्ध इत्यर्थः । सर्वम्लेच्छदेशानन्वेषणे तु बाधशङ्कादुष्परिहरेत्याह * निगमादीति * अस्मत्पक्षे त्वार्यावर्त्तदे- शस्याल्पत्वेन सर्वान्वेषणसम्भवात्तदप्रसिद्धो ऽर्थो निगमादीना वि- षयो भविष्यतीत्याह * म्लेच्छाचारोति * उपसंहरति * तस्मा- दिति * म्लेच्छव्यवहारस्य शब्दार्थसम्बन्धे प्रामाण्यमभ्युपगम्य १५७१६ वैदिकशब्दार्थावधारणं म्लेच्छव्यवहारान * सिद्ध्यतीत्युक्तम् * परमार्थतस्त्वनाभयुक्तत्वान्म्लेच्छानां न तद्वयवहारः शब्दार्थसम्ब- धे प्रमाणमिति प्रतिपादनार्थमनाभयोगश्चेत्यादिभाष्यं व्याचष्ट्रे * રરર न्यायसुधायाम्। धमें चेति * नन्धपन्नष्टस्य शब्दस्यार्थतत्त्वानवधारणे ऽपि संस्कृतस्य शब्दस्य म्लेच्छव्यवहारादप्यर्थतत्त्वावधारणं भविष्यतीत्याशङ्कयाह * न चेति * न म्लेच्छभाषां शिक्षेतेति तद्भापानिषेधसूचनायाप भाषणमित्युक्तम् ननु पिकादिशब्दानां वेदतदभियुक्त प्रयुक्तत्वेन संस्कृतानां म्लेच्छभाषायां दृष्टत्वादसत्त्ववचनमयुक्तमित्याशयाह* संस्कृतेति * अविभक्तिकत्वात्संस्कृतसहशास्तैः प्रयुज्यन्ते न च सादृश्यमात्रेण शालाशब्दस्येव मालाशब्दार्थवाचकत्वं युक्तमित्यर्थः । यवादिशब्दानां चार्थान्तरे प्रयोगान्न म्लेच्छव्यवहारेणार्थतत्त्वाध्य- वसाय इति द्योतनायार्थान्तर * इत्युक्तम् * संस्कृतप्रतिरूपेश्वश्व म्लेच्छप्रयुक्तेभ्यः । संस्कृतशब्दकल्पने अनेकविधोत्प्रेक्षासम्भवा- न व्यवस्थितशब्दार्थावधारणं सम्भवतीत्याह * आर्याश्चेति * कथं पदान्तराक्षरोपेतं कल्पयन्तीत्यपेक्षिते कदा चनेति * प्रकारद्वय- मुक्तम् * यन्म्लेच्छैराधिकाक्षरं प्रयुक्तं तदूनाक्षरं कल्पयन्ति । यत्तु- तैश्चोरित्यादिन्यूनाक्षरं प्रयुक्तं तत्र खराद्यधिकमक्षरं प्रक्षिपन्तीत्य- र्थः । एतदेव विवृणोति * तद्यथति * आदिशब्दो ऽनुस्वारलोपम- स्वर्थीयप्रत्ययाभिप्रायः । स्वरान्तत्वकल्पनामुदाहरति * तद्यथेति* स्वरान्तत्वविभक्त्यन्तत्वकल्पनयोरुदाहरणमाह * पन्थानमिति * खरान्तानुस्वारलोपकल्पनयोरुदाहरणमाह * तत्त्वेति * स्त्रीप्रत्यय- कल्पनामुदाहरति * एवमिति * मत्वर्थीर्यप्रत्ययकल्पनामुदाहरति * वैरशब्दं चेति * विशेषतः प्रत्यन्तवासिम्लेच्छभाषायां व्यव स्थितशब्दार्थावधारणं न सम्भवतीत्याह * तद्यदेति * किं शब्द- खरूपं खभाषानुरूपमुत्प्रेक्ष्य किमर्थरूपं प्रतिपत्स्यन्तइत्यर्थः । उपसं- हरति * तस्मादिति * विविध कल्प्यतइत्यर्थः । तस्मादित्युप- संहारभाष्यं व्याचष्टे * निरुक्तोति* निरुक्तादिभ्यो ऽनेकार्थप्रतिभाने ऽप्यक्षादिशब्दवत्प्रकरणादिना विशेषावधारणं तदभावे ऽप्यसम्भव- द्वयुत्पत्तिपदार्थव्यावृत्त्या सम्भवद्वयुत्पत्तिपदार्थविशेषरूपणावधार- णं भविष्यतीत्याशयः। सूत्रव्याख्यानार्थमेवं प्राप्तइत्यादिसिद्धान्तभाष्यं शब्दाविप्लुत्यभावेनार्थविप्लुतिशङ्कानिराकरणाशक्तरयुक्तमाशयश- ब्दान्तरेषु विप्लुतिशङ्कानिराकरणाशक्तावपि पिकादिशब्दानां वेदा- दिशास्त्रप्रयुक्तत्वेताविभक्तिकम्लेच्छप्रयोगे ऽपि प्रातिपदिकाविप्लु- तिनिश्चयान्मुख्यार्थान्तराप्रसिद्धश्च गौणत्वायोगादनादिम्लेच्छव्य- वहारान्यथानुपपत्त्या वाचकत्वकल्पनं युक्तमित्यभिप्रायेण व्याचष्टे १५८।१ * एवामति * पिकादिशब्दस्वरूपस्य शिष्टैरप्यवगतत्वागौणत्वास- म्भवप्रतिपादनार्थ शिष्धानवगतिविशेषणानुपपत्तिमाशङ्यार्थ इत्युक्त प्रथमाध्यायस्य तृतीयः पादः। २२१ अंतीयतेत्यस्य न्यूनत्वाशङ्कानिराकरणार्थम् * तथैवेत्यक्तुम् * वि. ध्यनुवादविवेकार्थों यत्तच्छदौ । अविरोधत इति तसिला यत्प्रमा- नति यच्छब्दो यस्मादित्यर्थे व्याख्यातः । तदवगम्यमानमिति भाष्यावयवं विप्लुतिशङ्कानिराकरणार्थत्वेन व्याख्यातुम् * पिके- त्युक्तम् * यथाभाष्यं सूत्रपदानामन्वयं कृत्वा पदार्थान्व्याचष्टे * चोदितं हीति * हिशब्दो ऽलङ्कारार्थों ने तद्धर्मप्रमाणेनेत्यत्र चाकृष्य व्याख्येयः । म्लेच्छप्रयुक्तस्यार्थस्यार्यान्प्रत्यप्रसिद्धिमाशय * अवधृतमित्युक्तम्*विरोधाभावाभिप्रायेणाविरोधपदं व्याख्याया- धर्मपदवद्विरोधविपरीतानुसाराभिप्रायेण व्याचष्टे * अपि चेति * अस्मिन्व्याख्याने ऽवगम्यमानमित्यवशब्दो नेकार्थत्वान्निपातोपस- णामनुशब्दार्थे व्याख्येयः । स्वयमन्यथा द्वेधा सूत्रं योजयति * पिकादाविति * मलेच्छप्रसिद्ध स्यार्थस्यारपेक्षणे दृष्टान्तमाह *य- थैवति * तेषामप्युदाहरणत्वाददृष्टान्तत्वमाशय विशस्तपश्ववय- धविभागाविकारेण सामान्यतः पश्ववयंवत्वज्ञानाद्विशेषमात्रापेक्षायां निरुक्तादिना निर्धारितविशेषावधारणासम्भवात् पश्ववयवत्वसा- मान्यांशे ऽथ म्लेच्छप्रसिद्धेः सम्वादाभावादगत्या म्लेच्छप्रसिद्धार्थ- ग्रहणे सिद्धेदृष्टान्तत्वमुपपादयितुम् * पश्ववयंवा इत्युक्तम् * द्रव्यान्तरमिश्रं हिरण्यं कूटमिति कूटशब्दवाच्यज्ञाने ऽपीदं शुद्ध- मिदं मिश्रमिति विवेकाय तदभियुक्तापेक्षा प्रसिद्धैवेति दृष्टान्तान्त- रमाह * यथा चेति * दान्तिके योजयन्खयमेव तृतीये व्या. ख्याप्रकारमाह * तथेहति * सूत्रेण म्लेच्छाचारप्रमाणक- समुदायप्रसिद्धिसद्भावमुपपाद्य शास्त्रस्थप्रसिद्धर्बलीयस्त्वेन त- बाधस्य पूर्वपक्षितस्य निराकरणार्थ यत्तु शिष्टाचार इति भाष्य व्याचष्टे * यत्त्विति * एवमनुभाष्य स्वयं तावच्छब्दा- १५९४२ र्थव्यवहारे ऽपि पूर्वाधिकरणन्यायन शास्त्रस्थप्रसिद्धिबलीयस्त्वम- ङ्गीकृत्य विरोधाभावेनाबाधमाह * नेती * नन्वविरोधे ऽपि शा- क्यादिग्रन्थवच्छिष्टापरिगृहीतत्वान्म्लेच्छव्यवहारस्याप्रामाण्यं भ- विष्यतीत्याशङ्कयाह * यदेवेति * या वेदबाह्याः स्मृतय इत्या- दिना वेदवाह्यस्मृतीनां निष्फलत्वस्मरणाच्छाक्यादिग्रन्थावगत- श्रुत्यादिसम्बादिना ऽपि श्रेयःसाधनत्वाभावप्रतीतेरह- टार्थेषु बेदबाह्यानां विरोधाभावे * ऽप्यप्रामाण्यं युक्तम् * दृष्टार्थे तु शब्दार्थव्यवहारे म्लेच्छानामपिप्रतीतिप्रयोगान्यथानुपपत्तिप्रभव- पाच्यवाचकभावविषयार्थापत्तिज्ञानस्य निराक मशक्यत्वादप्रतिह- से प्रामाण्यमित्याशयः । एतदेव पूर्वाधिकरणव्युत्पादिताभियुक्त ૨ न्यायसुधायाम्। तरार्यप्रसिद्धिबलीयस्त्वेन द्रढयति * अत एवेति * यत एवावि- रोधे दुर्वलस्यापि पाहत्वमत एव वैदिकवाक्यार्थे ये ऽभियुक्ततरा आर्या याशिका ये च स्वविषयप्रयुक्तपदार्थमाने ऽभियुक्ततरा बैं- धास्तेषामितरार्येभ्यो बलीयस्त्वमन्यथा शाखापेक्षया तत्प्रसिद्धरपि दौर्बल्यादग्राह्यत्वं स्यादित्यर्थः । नन्वार्यान्तरेभ्यो ऽप्यभियुक्ततरा- र्याणां बलीयस्त्वे म्लेच्छेश्यः सुतरां स्यादित्याशङ्याह * प्रसिद्धा- विति * श्लोक विवृणोति * अष्टकादिषु हीति * अष्टकाद्यर्थेषु मन्वादीनां शाक्यादिभ्यो बलीयस्त्वं पदखरूपज्ञानेषु वैयाकरणा- नामितरेभ्यः पदार्थज्ञानेषु याशिकानां वैद्यानां च पिकादिषु तुम्लेच्छ- प्रयोगेभ्यो ऽर्थनिर्णये सति न किं चिद्विरुद्ध प्रत्युताकाङ्कितं पदार्थ- शानं सेत्स्यतीत्यन्वयः । ननु विप्लुतिभूयिष्ठत्वेन म्लेच्छप्रयोगेभ्यः शब्दस्य स्वरूपस्यैवानवगतेः कथं चिद् बाह्यस्वरूपावगमे ऽपि स्तोभा- क्षरववाचकत्वस्यापि सम्भवात् कथं पदार्थज्ञानाकाङ्केत्याशया- थैत्युक्तम् । वेदादौ प्रयोगात्स्वरूपावगमः वाक्यान्वयान्यथानुपप- त्या च वाचकत्वावगमः वाच्यविशेषज्ञानमपि तर्हि आर्येभ्य एव भविष्यतीत्याशक्य * वाच्येत्युक्तम् । ननु म्लेच्छप्रयोगान्निर्मूलानार्थ- निर्णयो युक्त इत्याशमय * पदवदित्युक्तम् * म्लेच्छानामपि भूल प्रमाणसम्भवो दृष्टग्रहणेनोक्तः अनादित्वेन दोषनिरासः पदे यथा- प्रत्यक्षत्वान्म्लेच्छैरपि लब्धाप्रसिद्धिः एवं दृष्टो यः कोकिलादिरर्थः तत्प्रतिपत्त्यर्थो यो नादिः पिकादिशब्दप्रयोगः । तेन लब्धशब्दार्थ- सम्बन्धविषया प्रसिद्धियर्लेच्छस्ते तथोक्ताः । नन्वार्यप्रसिद्ध्यभा- वेऽपि निगमादिभ्यो ऽर्थनिर्णये सिद्धेम्लेंच्छंग्रसिद्धिवाधः स्यादि- त्याशङ्याह * निगमेति * ननु निगमादिभिर्निधारितरूपाविशेषा नुदाहरणे ऽप्यवयवव्युत्पत्त्या कश्चिदर्थविशेषो ज्ञाप्यते ऽत आह * काल्पनिक इति * अनेन च सत्यपि विरोधे समुदायप्रसिद्धरेव रथकाराधिकरणन्यायेनावयवप्रसिद्धितो बलीयस्त्वावाध इत्युक्तं भाष्यकृता त्वदृष्टार्थेष्वेव शिष्टाचारस्य म्लेच्छाचाराद् बलीयस्त्वं न लौकिकेष्विति तत्प्रत्यक्षानवगतेष्वति परिहारः कृतः तद्वयाचष्टे * आश्रयाणां चेति * म्लेच्छानामनभियुक्तत्वात्तदाचारस्य शब्दा- र्थसम्बन्धाप्रामाण्यं पूर्वपक्षोक्तं यत्वभियुक्ता इत्यनुभाष्याभियुक्त- तरा इति भाष्येणं परिहृतं तद्वयाचष्टे * तस्मादिति * वाच्य- निर्णये म्लेच्छानांप्रामाण्याभावे कौशलमात्रस्याप्रयोजकत्वातू दृष्टार्थे- षु शिष्टम्लेच्छयोः प्रामाण्येने तुल्यत्वमनन्तरोक्तं तस्माच्छब्देन परा- मुष्टम् । यत्तु शब्दस्वरूपवम्लेच्छप्रसिद्ध ऽर्थे. ऽप्यविश्वास इत्यु- प्रथमाध्यायस्य तृतीयः पादः । कं तत्परिहरति * शब्देति * शिष्टाचार निबन्धनेनाश्वासो न स्व- १६०२ रूपप्रयुक्त इत्याशयः । किं च पिकादिशब्दवाच्यानां कोकिलादीना- मर्थे' देशसद्भावात्पिकादिशब्दवाच्यत्वरूपणार्याणामप्रसिद्धावपि ख- रूपेण प्रसिद्धिसम्भवान्न तत्वरूपशाने म्लेच्छापेक्षा पत्रोणादिश- ब्दवाच्यानां तु स्वरूपज्ञाने ऽपि म्लेच्छापेक्षणादवश्यं तत्प्रसिद्धिरा- दरणीयत्याह * पत्नोणेति * पत्रोणे धौतकौशेयं वारमोषधिरसपा- धनसाधनविशेषः । वाणो वाद्यविशेषः । कञ्चुकं वा । तथा चैकमेवे- दं वारवाणपदम्।कथं चिच्छब्दार्थे नेमशब्दः । यदपि म्लेच्छप्रसिद्धा- Cङ्गीकरणे निगमाद्यानर्थक्यमुक्तं तत्वयं तावद्भिन्नविषयत्वेन प- रिहरति * निरुतादेश्चति * अर्थप्रतिपादनपरत्याभावे निर्विषय- निमित्तादिमात्रप्रतिपादनानुपपत्तिमाशङ्कयान्यतः सिद्धे ऽर्थइत्यु- तम् । ननूतत्वः पश्यन्न ददर्श वाचमित्यादौ त्वादिशब्दानामेका- धपूर्वार्थप्रतिपादनस्य निरुक्त दर्शनात्कथं निमित्तमात्रे व्यापार उ- च्यते व्याकरणे च सधिहिंसायामित्यादौ साध्यादेहिसाद्यपूर्वार्थप्र- तिपादनदर्शनात्कथं शब्दखरूपान्वाख्यानमात्रे व्यापार उच्यते इ- त्याशय स्वरूपत इत्युक्तम् । खनात्मीयेनार्थप्रतिपत्तिशेषत्वेन रूपे- णेलिव्युत्पत्त्या तात्पर्येणेत्यस्यार्थः । श्लोकं व्याचष्टे * निरुक्तेन ता- वदिति * भाष्यकृता तु म्लेच्छानामप्यप्रसिद्ध ऽर्थे निगमादीनाम- र्थवत्तति । यत्तु निगमेत्यादिनानुभाष्येण पूर्वमानर्थक्यं परिहृतं तद्व्याचष्टे * यस्य चेति * सर्व नामधातुजमित्यर्थकल्पनाद्वारं नि- रुक्ते प्रदर्शितम् । यत्र पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च त- दूह्यमिति व्याकरणे म्लेच्छदेशानन्त्ये ऽपि देशान्तरगतपुरुषवार्ताप- रम्परया सर्वदेशप्रसिद्ध्यभावनिश्चयः सम्भवतीत्याशयः । काम- मित्यनेनानावश्यकत्वं दर्शितमुपपादयति * विक्षिप्तेति * प्रकृतिप्र- त्ययार्थयोरेकत्रानन्यारव्यानाद्विक्षिप्तत्वं क्लेशहेतुत्वेनोक्तम् । अने- करूपप्रकृतिप्रत्ययार्थान्वाख्याना बहुरूपत्वं सन्देहहेतुत्वेनोक्तम् ।न- न्वपूर्वार्थप्रतिपादनपरत्वाभावे निमित्तमात्रप्रतिपादनेन प्रयोजना- भावादानर्थक्यं स्थादित्याशङ्मयाह * न चेति * षडङ्गाद्वेदाद्यद्वेदा- र्थविज्ञानं ज्ञानं च तत्पूर्वायाः कर्मणः क्रियाकरणमनुष्ठानं ततो हि फलं भवतीत्यर्थः । निरुक्तजन्यस्य शब्दप्रवृत्तिनिमित्तत्वज्ञानस्य त- त्पूर्वकानुष्ठानद्वारेणादृष्टोपयोगित्वे व्यासवचनं सिद्धं दृष्टान्तं ताव- दाह * यथेति * निर्वचनज्ञानमात्रात्सर्वपापक्षयसिद्धौ भारता- घध्ययनतदर्थानुष्ठानानर्थक्यापत्तेः प्रधानफलमेवेदमङ्गस्तुत्यर्थ की- १ भादति २ पु. पा० । २९ न्यायसुधाया। १६शर तितमित्याशयः दान्तिके योजयन् श्लोक व्याचरे * एवमिति * वेदमात्रात्कर्मावबोधसिद्धोर्निरकाद्यानर्थक्यमाशङ्कयाव्युत्पन्नरूपे चे- त्युक्तम् । निरुक्तादावगतो यो धात्वर्थपूर्वको नामार्थस्तद्भानद्वारा था वाक्यार्थप्रतिपत्तिस्तपूर्वकादनुष्ठानादित्यर्थः ॥ ॥ अथ कल्पसूत्राऽखतः प्रामाण्याधिकरणम् ॥७॥ प्रयोगशास्त्रमिति चेत् ॥ १० ॥ अत्र भाष्यकृता कल्पसूत्रेषु प्रामाण्याप्रामाण्यसन्देहमुपन्य- स्य प्रामाण्यं पूर्वपक्षयित्वा सिद्धान्ते निराकृतं, तत्स्मृत्यधिकरणव्यु- त्पादितसकलविद्यास्थानप्रामाण्यविरुद्धत्वादयुक्तमाशय पूर्वपक्ष- वचनव्यक्तिगतं प्रामाण्यशब्दं स्वतःप्रामाण्याभिप्रायत्वेन द्वेधा व्या- चष्टे * कल्पति * म्लेच्छाचाराणामपि केषां चिदनादित्वेन शि- ष्टाचारतुल्यतया खतःप्रामाण्ये ऽभिहिते वेदातिरिक्तविद्यास्थाना नामप्यध्येतस्मरणेनानादितया वेदत्वेन वेदतुल्यतया वा खतःप्रा- माण्योपपत्तेन वेदमूलत्वं तद्विरोधिनां वा प्रामाण्यं युक्तमित्यनन्त- राधिकरणव्युत्पादितस्वतःप्रामाण्योपजीवनेन स्मृतिविरोधाधिक- रणद्वयाक्षेपादनन्तरसङ्गति प्रकृतसङ्गतिं च सूचयितुं सम्प्रतीत्युक्तम्। विचार्यतइति विचारार्थ पूर्वपक्षवचनव्यक्तिद्वैधोपन्यस्यतइत्यर्थः। ननु मन्वादिस्मृतिवदेषामपि पौरुषेयत्वेन पारतन्त्र्यावगमात्स्वतः प्रामा- ण्यशङ्का न युक्तेत्याशङ्कयाह * वौदिकेति * मन्वादिस्मृतीनां ति- रोहितप्रायवेदार्थनिबन्धनादर्थवत्त्वं कल्पसूत्राणां तुस्पष्टवेदार्थविष- यत्वात्प्रणयनानर्थक्यापत्तेरपौरुषेयत्वावगमात्स्वतःप्रामाण्यशङ्का यु- केत्याशयः। कल्पसूत्रशब्दयोरेकार्थत्वाद् द्वयोरुपादानमनर्थकामिति मन्यमानः पृच्छति *आहति* कार्यतस्तावद्भेदभाह *सिद्धरूप इति* अवयवव्युत्पत्त्या भेदमाह * कल्पनाद्धीति * स्वरूपतो भेदमाह कल्पा इति * प्रतिक्रतुप्रयोगाणां प्रतिपादकतया पाठत एव सिद्धा न तु स्वसंज्ञाभिर्व्याख्यानापैक्षा इत्यर्थः । एतत्तीर्थमित्याचक्षते इ. त्यादिभिः स्वसंज्ञाभिर्ऋचं पादग्रहणमित्यादिभिः स्वपरिभाषाभि- यत्सिद्धमित्यतीतसिद्धशब्दनिःकृष्टविपरिणतानुषङ्गेण योज्यम् । ये यजामहे । यश्चागूर्याज्यादिरित्याधुत्सर्गवदनुयाजवर्जमित्याद्यपवा- द्वद्भक्षयेयुरिति गाणगारितत्संस्कारत्वादित्यादिहेतुमत्सम्प्रेषवदा- देशान्पशुवन्नि ( पातानिति यथाध्वर्युः सम्प्रेषं दद्यात्तद्वद्धोता आदे- शान् द्रव्यादेशान् कुर्यात् । छागपदेन नैषे छागपदे नादेशाः । आज्येन चाज्यपदेन भेद उधृतं पार्श्वतः श्रोणित इत्यादयः शब्दाः प्रथमाध्यायस्य तृतीयः पादः। पश्ववयववाचिनः निपाता इत्युच्यन्ते । तान् पशुवक्रियायां पशु- व द्वयान्नान्यथेत्यर्थः। यस्मिन् कतावग्नीषोमीयस्थाने सवनीयस्थाने वा पश्वेकादशिनी कृता तत्र शालामुखीये त्वाष्ट्रेण पशुना यजेत । तस्य पग्निकरणान्तं कृत्वोत्सर्गः पूर्वमुक्तः । पर्यग्निकृत्वोत्सृजत्य- पुनरायनायेति तस्य तावत्येव समाप्तिः भाज्येन शेषं संस्थापयेदिति वा आज्येन समापने मन्त्रेषु छागशब्देन निगमाः कार्या इत्येकः पक्षः। आज्यस्य प्रतिनिधित्वेन स्थानिवद्भावात् द्रव्यान्तरत्वे त्वा- ज्यशब्देन निगमाः कार्याः इत्यन्यः पक्षः । तत्र प्रयोगमाह । यदि त्वध्वर्यव आज्येन समाप्नुयुस्तथैव होता कुर्यात्सम्प्रेष वदादेशा पशु- वन्निपात्यादिदृष्टान्तवत् पुरस्ताल्लक्षणा पुरोऽनुवाक्ये इत्यादिलक्ष्य व्यापि लक्षणं तत्सूत्रमित्यर्थः ।लक्ष्यव्यापिलक्षणं यस्मिन्निति सप्त- मीबहुव्रीहिः । ननु स्वसंज्ञापरिभाषादियोगे पौरुषेयत्वापत्तेः कथं स्मृतिवैलक्षण्यमित्याशङ्याह * तत्रेति * सकलपुरुषप्रत्यक्षवेदप्रति- १६२।१ पाद्यार्थविषयग्रन्थप्रणयनवैयर्थ्यांपत्तेरपौरुषेयत्वावसायात्सर्वाण्ये- वैतानि प्रशानस्य नामधेयानि भवन्तीत्यादिवदन्यपरसंज्ञादीनीति पूर्वपक्षी मन्यते इत्याशयः । एवं कल्पसूत्राणामपि स्मृत्यधिकरणे वेदमूलत्वं प्रतिपादितमित्यभ्युपेत्य तदाक्षेपेण प्रत्यवस्थानमुफ्पादि- तमिदानीमशब्दत्वेन तत्र पूर्वपक्षकरणात्कल्पसूत्रेषु च तदसम्भवा- देषां स्मृत्यधिकरणविषयत्वाभावादिह विचारो न विरुद्ध इति परिहारान्तरमाह * अप्रामाण्यमिति * अशक्यत्वमुपपादयति * प्रत्यक्षेति * तत्र स्मृत्यधिकरणपूर्वपक्षे ऽपगतशब्दता शब्दशून्य- तोक्ता सा कल्पसूत्रेभ्वशक्या वक्तुमित्यर्थः । म केवलं पूर्वपक्षास- म्भवादेषां स्मृत्यधिकरणाविषयत्वं किं तु भूलभूतवेदानुमानेन तत्र सिद्धान्तकरणात् प्रत्यक्षवेदमूलेषु कल्पसूत्रष्वनुमानायोगात् सिद्धा- तासम्भवेनाप्यषां स्मृत्यधिकरणविषयत्वं नास्तीत्याह * स्मृल्यधि- करणे चति * यत्र न वैदिकं शब्दमुपलभ्यन्ते इति च सम्भवदशब्द- त्वलक्षणपूर्वपक्षहेतुकानामेव तत्रोदाहृतत्वादुदाहणभाष्यपर्यालोच- नयाप्येषां स्मृत्यधिरणाविषयत्वं प्रतीयतइत्याह * एतानि चेति * इदं तु परिहारान्तरमनुपलभ्यमाने मूलस्मृतिप्राण्यसाधने प्रत्यक्षमू- लानां कल्पसूत्राणामविचारितस्यापिप्रामाण्यस्य तुल्यन्यायसिद्धत्वा- दन्यथा च विरोधाधिकरणे सर्ववेष्टनस्मृत्युदाहरणानुपपत्तेः शिष्टा कोपाधिकरणे च ऋत्वर्थस्मृत्युदाहणानुपपत्तेरयुक्तमित्यपरितोषात्पू- र्वमेव परिहारमनुसन्दधाति * न चेति * यद्यप्येषामिहाधिकरणे १ अयं २ पा. २ पु. ना. ।
૨૨૮ न्यायसुधायाम्। पूर्वपक्षे प्रामाण्यप्रतिपादनमाभाति तथापि सिद्धान्ते स्वरनियमवा- क्यशेषाभावाभिधानेन वेदवैलक्षण्यप्रतिपादनात्स्वतःप्रामाण्यनि- राकणप्रतीतेने प्रामाण्यं पूर्वपक्षे प्रतिपाद्यं येनेह तन्निराकरणा- स्मृत्यधिकरणविरोधः स्यादित्यर्थः । परमार्थतस्तु कल्पसूत्राणा- मपि विप्रकीर्णानेकशाखागतश्रुत्यर्थनिबन्धनेन स्मृतितुल्यत्वात्स्मृ- स्यधिकरणविषयत्वमस्त्येवेत्यपरितोषात्स्वमतेन सर्वेषां वेदातिरि- क्तविद्यास्थानानां स्मृत्यधिकरणप्रतिपादितवेदमूलत्वमाक्षिप्येह स- माधीयतइति परिहारमाह * बद्वति * स्वातन्त्र्यलक्षणेनातिशयेन प्रामाण्यमतिप्रामाण्यं, ननु स्मृतीनां प्रत्यक्षवेदार्थोपनिबन्धनाभावेन वेदवैलक्षण्यात्कथं स्वतःप्रामाण्याशङ्केत्यपेक्षायां पौरुषेयत्वानी- करणेन प्रामाण्याभ्युपगमे कल्पनागौरवापत्तेस्तत्परिहारायापौरुषे- यत्वमेवोचितमिति सन्देहोपपादनाय पूर्वपक्षं सम्भावयति * य- दीति * विषयव्याप्त्यर्थ षडङ्गस्यैतद्विचारविषयत्वमाह * यद्वे ति * न्यायवशात्स्वातन्त्र्यलक्षणप्रयोगशास्त्रत्वसम्भवे वेदशब्द- वाच्यत्वस्याभियुक्तप्रयोगाधीनत्वात्तदभावे वेदत्वशङ्कानुपपत्तिमा- शङ्कय * षडङ्गे ऽपीत्युक्तम् * एतदेव विवृणोति * मन्त्रे- ति * विरोधाधिकरणस्य शाक्यादिग्रन्थविषयत्वे तदाक्षेपसमाधा- नार्थ तेषामप्येतदधिकरणविषयत्वं सम्भवतीत्याह * यद्वेति * ननु विरोधाधिकरणं विषयान्तरासम्भवादनङ्गीकृतमपि केन चिच्छा- क्यादिग्रन्थस्य वेदमूलत्वसम्भावनामात्रेणाशङ्कञ्च तन्निराकरणार्थ- स्वेन व्याख्यातमिदं तु विषयान्तरसम्भवात्किमित्यनङ्गीकृतवेदत्व- निराकरणार्थत्वेन व्याख्यायते ऽत आह * शाक्यादयो ऽपि हीति * १६३२ कथं वदन्तीत्यपेक्षायामुत्पादाद्वति शाक्यग्रन्थमुदाहरति *यथेति* उत्पादादिति प्रवाहनित्यत्वमभिप्रेतम् अनुत्पादादिति कूटस्थनित्य- त्वम् । तथागता बौद्धाः । धर्मनित्यत्वस्य तत्प्रतिपादकागमनित्य- त्वमन्तरेणायोगात्तन्नित्यताप्यनेनोक्तेत्याशयः । एतदेवोपसंहरति * ततश्चेति * वाशब्दो ऽत्राध्याहार्यः । एवमपि किमर्थ विचार्यमि- त्यपेक्षायामाह * चोदनेति * ननु शाक्याद्यागमस्य वेदमूलत्वे निराकृतं वेदत्वं वेदतुल्यत्वं वा दूरादेवापास्तम् । कथमत्राशात इत्याशङ्कय रूपकद्वारेणाशङ्कामुपपादयति * काममिति * साक्या- दिचोरः स्वागमप्रामाण्यग्रामं प्रत्यक्षादिमूलत्वेन वेदमूलत्वेन वा द्वारेण प्रवेष्टुमुद्यतो ऽतीन्द्रियार्थदर्शनासामर्थ्यवेदमार्गबाह्यत्वल- क्षणन्यायदण्डपाणिभिर्मीमांसकैर्वारितो वरं न प्रविशत्सम्प्रति तु मी- मांसकानुमतेनापौरुषेयत्वेन महापथेन प्रकटं प्रवेष्टुमिच्छतीत्यर्थः ।
प्रथमाध्यायस्य तृतीयः पादः । २२९ सर्वेषामपि विचारविषयत्वं वाभिमतं द्योतयितुं भाष्यकारीयोदाह- रणस्योपलक्षणार्थतामाह*एवमिति * पूर्वपक्षसूत्रव्याख्यानार्थ प्रयो- गस्येति भाष्यं व्याचष्टे * का गतिरिति * पूर्वाद्धेनेति चेदिति सूत्राव ववो व्याख्यातः प्रयोगशास्त्रशब्दव्याख्यानार्थ सत्यवाचामति भाष्य द्वेधा व्याचष्टे * वेदत्वमिति * पौरुषेयस्य विधायकोपस्थापनमात्र- चरितार्थत्वेन साक्षादनुष्ठानविधायकत्वाभावात्प्रयोगशास्त्रशब्देना- पौरुषेयत्वलक्षणं स्वातन्त्र्यमुक्तमित्याशयः । भाष्यकृता कथमवगम्य तइति पृष्ट्वा वैदिकैरेषां संवादो भवतीत्युक्तं तदपौरुषेयत्वे संवादा नपेक्षत्वादयुक्तमाशङ्कय वेदसंवादेन प्रामाण्यनिश्चयात्पौरुषेयत्वे च पुरुषतन्मूलप्रमाणवेदतन्नित्यत्वकल्पनेन गौरवापत्तेरपौरुषेयत्वे- न प्रामाण्योपपादनार्थतया व्याचष्टे * वेदेनैवेति * ननु माशकादि समाख्यया पौरुषेयावगमात्तेषां वेदत्वं वेदतुल्यत्वं वा न युक्तमित्या- शङ्कते * ननु चेति* प्रवचनयोगेनापि समारव्योपपत्तन तबलेन पौरुषेयत्वसिद्धिरिति परिहरति * नैतेषामिति * वेददृष्टान्तसूचि- समर्थ प्रकटयति * माशकादीति * ननु कल्पादिशब्दानां (चरण- शब्दो ऽध्येतृपुरुषवाची) चरणविशेषवाचित्वाच्चरणानां चानादि. त्वातन्निमित्ततादिसमाख्या युक्तामाशकादिशब्दानां त्वेकपुरुषाभिधा- यित्वात्तत्समाख्यातग्रन्थनित्यत्वेन युक्तमित्याशङ्याह श्यथैवेति * मशकादिव्यक्तीनां वेदसमाम्नानान्यथानुपपत्त्या नित्यत्वं भविष्य- तीत्याशयः । वेदसमाम्नातेन मशकादिना समाख्यातस्य ग्रन्थस्य नित्यतेत्यर्थः । ननु न समाख्यामात्रेणैषां पौरुषेयत्वं ब्रूमः किं तु मशकेनेदं कृतमित्यादिद्दढविच्छिन्नाध्येतस्मरणेनेत्याशङ्कयाह * यथा चेति * मशकादीनामृषित्वप्रसिद्धर्ऋषिगतावित्यस्य धातोरिनित्य- धिकृत्यगुपधात्किदित्यौणादिके इन्प्रत्यये कृते ऋषिशब्दव्युत्पत्तर्गमेश्व ज्ञानार्थत्वाद् दृषिदर्शनादिति च स्मरणाद् ऋषिशब्दस्य दर्शननिमि- तत्वप्रतीतेः । करोतेश्चानेकार्थत्वाद् गन्धनावक्षेपणसेवनसाहसि- क्यप्रतिबन्नप्रकथनोपयोगेषु कृअ इति स्मृतिपर्यालोचनया वा प्रक- थनार्थत्वाद्दर्शनाभिप्रायं कथनाभिप्रायं वा मशकादिकर्तृस्मरणामि- त्याशयः। एतदेव विवृणोति * तथा हीति * प्रयोक्तृग्रहणं दर्शनम- प्युपलक्षयति । नित्यविधिविषयत्वान्यथानुपपत्त्यापि कल्पसूत्राणां नित्यत्वमित्याह * ब्रह्मयज्ञेति *पुराणेतिहासानामष्येतेनैव सामान्ये- नापौरुषेयत्वाभ्युपगमान्न तैरनैकान्तिकत्वाशङ्केत्याशयः । पुरुषक- १६४१५ सानामित्यनेनार्थशब्दो नित्याभिप्रायो व्यतिरेकमुखेन व्याख्यातः । १भयं पा. २ पु. ना. ।
२३० न्यायसुधायाम्। ऋषिणा हष्ट प्रोक्तं वेत्यस्मिन्नर्थे तद्धितोपपत्तेरसतश्च दर्शनप्रवच- नायोगात्कालानवच्छेदेन सर्वदा सत्त्वप्रतीतेरार्षशब्दस्य नित्यपर्या- यत्वसिद्धिः। नन्वर्थवादाद्यभावाद्वेदमुद्रारहितत्वेनैषामवेदत्वं प्रती- यतइत्याशयाह * अरुणति * प्रत्युत वेदतुल्यतैवावसीयतइति दर्शयितुम् * सर्वयाज्ञिकैश्चेत्याद्युक्तम् * आर्षत्वप्रसिद्ध्यापि तुल्य- कल्पत्वं प्रतीयतइत्याह * आर्षमिति * न केवलं न्यायमात्रेण तुल्य- कल्पत्वं प्रतीयेत किं तु सूत्रकारवचनादपीत्याह * लाटेति * सूत्र- काराभ्यामपि ब्राह्मणविहितादप्यापकल्पविहितगरीयस्त्वमङ्गीकृत्य तत्प्रत्यक्षविहितां त्वितीदमुक्तमित्यन्वयः।को त्रार्षः कल्पो विवक्षि- त इत्याकाङ्क्षायाम् * माशकमपेक्ष्येत्युक्तम् * ननु ब्राह्मणस्यापि खतःप्रामाण्यात्कथं तस्मात्कल्पगरयिस्त्वमित्याशय हृढकल्प- प्रामाण्यापेक्षयेत्युक्तम् । कल्पप्रामाण्यं निश्चितमभिप्रेत्यातिशयमा- – गरीयस्त्वाभिधानमित्याशयः । कात्यायनेनापि कल्पगरीयस्त्वम- ङ्गीकृतमित्याह * कात्यायनेन चेति * यज्ञविषयाणां ब्राह्मणगताना स्तोत्रसाधनसामविशेषापेक्षिणां सामविशेषलक्षणार्थे वाक्यशेषे कर्त- व्ये यथा माशकमया लक्षणंकरिग्यतइति कात्यायनवचनस्यार्थान के- चलं प्रतिक्षामात्रं किं तु कृतमपि तथैवेत्याह * तथा चेति * गवा- मयानिकस्य प्रथमस्याह्नः प्रायणीयसंज्ञकस्याग्निष्टोमस्तोत्रसाधनसाम- विशेषापेक्षायां यब्राह्मणेनाग्निष्टोमसाधनत्वेन जरा बोधीय वि- हितम् । तत्कात्यायनेनार्भवपवमानाख्यस्तोत्रान्तरसाधनेषु सप्तसु सामसु लक्ष्यमाणेषु तदीयात्प्रथमागायत्राख्यात्सान्नस्तृतीयत्वेन लक्षितं जरासादिति सूत्रेणेत्यर्थः । कथमनेन सूत्रेण जराबोधीय- मार्भवीयगायत्रतृतीयत्वेन लक्षितमित्यपेक्षायामाह * आर्भवीयति* माध्यन्दिनपवमाने ऽपि गायत्रसद्भावात्तद्वयावृत्त्यर्थमार्भवीयविशेषणं प्रकृतार्भवपवमाने सहितस्य गायत्रानन्तरत्वात्तस्यैव सर्वत्र समिति संज्ञा माभूदिति गायत्रेणोपलक्षणं यद्यत्रार्भवपवमाने गायत्रानन्तरं साम तत्र तस्य समिति संज्ञेत्यर्थः। परशब्देन सादिति पञ्चमी परयो- गेन व्याख्याता कथं जराशब्दस्य जराबोधीयवाचितेत्यपेक्षायां पदै- कदेशइत्युक्तम् । न केवलमन्यत्न विनियोगाद् ब्राह्मणानादरः किं त्व- १६५ार ग्निष्टोमसामत्वेनाविनियोगादपीत्याह * ढेशब्देन चेति * अग्नि- ष्टोमसाम्नो ढेयशायज्ञीयमितिसूत्रेण प्रायणीयाग्निष्टोमसामत्वेन य- झायज्ञीयमेव नियतमित्यर्थः । नन्वार्भवीयगायत्रतृतीयत्वेन पञ्च- विंशब्राह्मणे सामन्तराविधानान जराबोधीयस्य तच विनियोगे ब्राह्मणविरोधः नाप्यग्निष्टोमसामत्वेन यज्ञायज्ञीयनियमे ब्राह्मणे ना.
प्रथमाध्यायस्य तृतीयः पादः । प्यथो खल्वाहुर्यज्ञायशीयमेवाग्निष्टोमसामकार्यामति तस्य नियत- स्वादित्याशङ्कयाह * यदि चेति * यज्ञायज्ञायनियमे जराबोधी- यविध्यानर्थक्यापत्तेरेवकारस्य च यदेव प्रकृती तदेवात्रापीत्येवं प- रत्वेनोपपत्तेर्विकल्पपरमेव ब्राह्मणमित्याशयः । एवं तर्हि कात्याय- नवचनं प्रत्यक्षविरोधादग्राह्यं स्यादित्याशङ्कयाह * बह्विति * यद्यपि कात्यायनसूत्रं पौरुषेयं तथापि तस्य वेदोत्थापिनां न्यायानामध्येयं सम्यन्यायो ऽयं न्यायाभास इति विवेककुशलत्वान्नाकुशलर्मिथ्या- वादित्वमध्यवसातुं शक्यमित्यर्थः । परमार्थतस्त्वस्मिन्पूर्वपक्षे सर्वेषा- मपौरुषेयत्वान्न कस्य चिद् बाध इत्येतावानाशयः । करोतिप्रणय- त्यादिप्रयोगास्तु प्रवचनाभिप्रायेण दर्शनाभिप्रायेण वा व्याख्येया इत्युक्तमेव । श्रुतिबलादप्येवं वेदतुल्यत्वमवसीयत इति प्रतिपाद- नार्थमाचार्यवचनइतिभाष्यं व्याचष्टे * आचार्यवचनानां चेति * ननु प्रामाण्यस्य स्वतस्त्वात्तत्प्रतिपादनपराश्रुतिरनर्थिका स्यादित्या- शङ्कय खतःसिद्धस्यापि प्रामाण्यस्यापवादशङ्कानिरासाय प्रमाणा- न्तरापेक्षायां तादर्सेन प्रामाण्यश्रुतिसाफल्यप्रतिपादनार्थे प्रत्यक्षत इत्यादि भाष्यं व्याचष्टे * यथा चेति * श्लोकाभिप्रायं विवृणोति * यान्यपीति * अनाप्तवाक्येष्वपि सम्वादनापवादाशङ्का निवर्त्तते किमुतापौरुषेयेष्वित्याशयः । एतदेवोपसंहरति * सत्यवाचां चे- ति * तुल्यकल्पत्वएवोपपत्त्यन्तरप्रतिपादनार्थ वेदवाक्यैश्चेति भा- ध्यं व्याचष्टे * अपि चेति * तुल्यत्वोपपादनाथैवातिशयोक्तिः । याशिककर्तृकादरार्थतया व्याख्याय ब्रह्मयज्ञविधिकृतादरार्थतयैतदेव व्याचष्टे *तुल्यं चेति* सम्प्रदायोऽध्ययनं तद्विधायकं य एवं विद्वा- स्वाध्यायमधीतइति ब्रह्मयज्ञविधिवाक्यं तद्वेदवाक्यैः सह कल्पसू- त्राणां तुल्यमित्यर्थः । अध्येतृकर्तृको वादरो ऽनेन भाष्येणोक्त इति तृतीयं व्याख्यानमाह * अथ वेति * यत्मतुल्यत्वमेव दर्शयति * अनुयोगेष्विति * वेदकौशलजिज्ञासाथै तत्तद्वेदभागचिह्नलेख्या- नि घटिकायां कुम्भाख्यायां निक्षिप्य तत्तद्वेदभागपरीक्षाकाले ता- न्याकृष्याकृष्टलेख्यचिह्नितं वेदं पठत्त्यध्येतारो न युञ्जतइति घटिका- मार्गवर्तिनो ऽनुयोगाः तस्मादित्युपसंहारभाष्यं व्याचष्टे * तस्मा- दिति * एतमेव न्यायं विद्यास्थानान्तरेष्वतिदिशति * एतेनेति * स्मृतीनां च धर्मशास्त्रव्यपदेशादपि स्वातन्त्र्यलक्षणा प्रयोगशास्त्रताव- सीयतइत्याह * धर्मेति * तुल्यवच्च विद्यास्थानत्वव्यपदशात्स- र्वेषां तुल्यतेत्याह * अपि चेति * वैदिकमन्त्रप्रकाश्यप्रकाशक- त्वादप्येषां वेदत्वमवसीयतइत्याह * किं चेति * नन्ववेदत्वे ऽपि જરૂર न्यायसुधायाम्। स्मृतीनां वेदमूलत्वेन तत्प्रतिपाद्यानामष्टकादीनां वैदिकत्वाद्वौदिक- मत्र प्रकाश्यं च युक्तमित्याशयाह * एवं घेति * कल्पनागौरवा- पत्तेवेंदमूलकत्वकल्पनातो वेदत्वकल्पनैव ज्यायसीत्यर्थः । ननु नित्यत्वपक्षे तस्य चाप्रामाण्यस्य च कल्प्यत्वाद्वेदत्वपक्षे च तस्यापि तृतीयस्य कल्प्यत्वाद्गौरवं स्यादित्याशङ्याह * सिद्धानामिति * नि- त्यत्वे सति निर्दोषत्वेनैव प्रामाण्यसिद्धेर्नित्यतैवैका साध्या सा चा- वध्यस्मरणेनैव सुसाधा वेदता च वेदार्थविषयत्वात्प्रकल्प्यतइत्यर्थः। पतदेवोपसंहरति * तस्मादिति * किं तु यान्येवेत्युत्तरश्लोको योज्यः । वेदमूलत्वे च तत्समर्पणक्लेशाधिक्यापत्तेरेषामेव वेदत्वं १६७४ युक्तमित्याह * मन्वादिभिरिति * मूलसमर्पणक्लेशाङ्गीकरणे ऽप्येषां प्रति कञ्चुकत्वादग्राह्यत्वं स्यादित्याह * के हीति * प्रति- कञ्चुकानामग्राह्यत्वं दृष्टान्तेनोपपादयति * यथा चेति * ननु वे- दमूलत्वे ऽपि सम्प्रदायविनाथभयेनासमर्पणीयत्वान्न क्लेशापत्ति - प्यग्राह्यत्वापत्तिरित्याशङ्ख्याह * सम्प्रदायोति * एतदेव विवृणोति * वेदेति * अवेदत्वे च तद्विज्ञातस्यार्थस्य श्रेयःसाधनत्वाभावाप- तेः शास्त्रप्रणयनवैयथ्य स्यादित्याशङ्ख्याह * वेदादेव चेति * नन्वस्तु तर्हि वेदवाक्यानामेव विप्रकीर्णानामेकन सन्नि- वेशस्य मन्वादिभिः कृतत्वात्पौरुषेयतेत्याशङ्कयाह * न चे- ति * एतदेव विवृणोति * ईदागति * ननु मूलान्तराणामे- कत्र कल्पना रचना युज्यते सम्प्रदायविनाशापत्तेरिति योज्यम् । उपसंहरति ननु पौरुषेयत्वे ऽपि वेदमूलत्वेन धर्मप्रामाण्योपपत्तेः कथं तदभ्युपगमे नित्यत्वापत्तिरित्याशङ्कयाह * चोदनेति * इष्ट- साधनत्वमात्रेण धर्मत्वे कृष्यादेरपि धमत्वापत्तेर्विध्यनुष्ठापितत्वेन धर्मत्वाद्विधेश्च पौरुषेयेषु पुरुषाभिप्रायप्रतिपादकत्वेनासम्भवाद्धर्म- प्रामाण्यासम्भव इत्याशयः । स एव ब्राह्मणस्याप्यघेदत्वे चोदना- त्वाभावे ऽर्थवादरूपस्य विध्येकवाक्यत्वाभावे धर्मप्रामाण्यं नास्तीति वदता विवृतः । एतदेवोपसंहरति * तेनेति * ननु मूलभूतचोद- नाकल्पनेनैषां धर्मप्रामाण्यं भविष्यत्यत आह * वदन्तीति * चोदनाकल्पने तन्मात्रेणोपक्षीणानां धर्मप्रतिपत्तावव्यापारादप्रामा- ण्यापत्तिरित्याशयः । यावदुक्तं शब्देन विषयीकृतं तावत्येव शब्दः प्र- माणं येषां तैरित्यस्मिन्नर्थे ऽव्ययीभावगर्भो बहुव्रीहिः । ननूक्तार्था- न्यथानुपपत्त्यानुक्तकल्पनमपि युक्तमेवेत्याशङ्कयाद * उक्तमिति * उक्तं धर्मरूपमर्थमादौ परित्यज्यानुक्तं वेदवाक्यं तावत्प्रतीयते क- रूप्यते अनुक्तेन च वेदवाक्येन सपूर्वपरित्यक्तो ऽर्थो ऽपि पश्चात्प्र- प्रथमाध्यायस्य तृतीयः पादः। तीयतइति यत्कल्पनं तत्कथानुपपत्त्येत्यर्थः । विद्यास्थानान्तरेषु पूर्व- पक्षमुक्तमर्थमुपसंहरति * तस्मादिति * शाक्यादिग्रन्थागां वा नित्यत्वमनेन सूत्रेणोच्यतइत्याह * शाक्यादीति * शाक्यादि- अन्थनित्यत्वे को न्याय इत्यपेक्षायामाह * येनैवेति* नन्वेवं सत्या- सत्वलक्षणगुणाभावात्कथं प्रामाण्यसिद्धिरित्याशङ्कय स्वतस्त्वा- ङ्गीकरणेन परिहरति * बोधकत्वादिति * कथमकृतकमित्यपेक्षाया ङ्कर्तृ * स्मरणवर्जनादित्युक्तम् * ननु सामाख्यानिकं कर्तृस्मरणम स्तीत्याशङ्ख्याह * बुद्धति * यथाक्रमं दृष्टान्तद्वयम्मनुपलब्धिविरोधा दिदूषणमपि चेद्वत्परिहत्तव्यामित्याह * यावदेवेति * उप संहरति * तेनेति * नासनियमादिति सिद्धान्तसूत्रं खयं तावद्वया १६९।। चष्टे * एवमिति * यदेतत्सर्वेषामविशेषेण नित्यत्वं वेदत्वं खतःप्र माणत्वं तत्कारणं च कर्तृस्मरणवर्जनायुक्तं न तस्य किं चिन्नित्यं नि बन्धनं नियतं कारणमागमो न्यायो वास्तीत्यर्थः । अनेन चासन्नियमा दिति हेतुर्निबन्धनाभावादित्येवं व्याख्यातः । सर्वसाम्योक्तरसन्निब- न्धनत्वमेवोपपादायतुं चतुर्की वैलक्षण्यमाह * इहेति * वेदतदङ्ग- धर्मशास्त्रशाक्यादिग्रन्थरूपेषु तुल्यत्वेनोपन्यस्तेषु अर्थेषु मध्ये वेदे- षु या वेदत्वनित्यता बुद्धिः सा वेदस्वरूपदर्शनादेव जायते बाधका- भावाच्च पारमार्थिकी तदङ्गेषु तु कल्पसूत्रेषु शिक्षादिषु च वैदिक- ग्रहेष्टकाद्यर्थप्रबन्धान षडङ्गमेक इतिस्मृतेश्च वेदत्वनित्यत्वबुद्धिर्जा- यमाना दृढकर्तृस्मरणान्मन्त्रब्राह्मणयोर्वेद इति नामधेयमिति बहु- मतिविरोधाच्च भ्रान्तिर्द्धर्मशास्त्रेषु वैदिकग्रहाद्यर्थनिबन्धलिङ्गाभा- वाद्वेदत्वास्मरणाच्च वेदत्वनित्यत्वबुद्धिरजायतैव शाक्वादिग्रन्थेषु त्वतीन्द्रियार्थनिबन्धनेन स्थितैवेयं धर्मनित्यतेत्यादिपर्यालोचनया च वेदत्वनित्यत्वबुद्धिर्जातापि स्वसिद्धान्तविरोधाद् दुष्यतीत्यर्थः । ननु शाक्यादिग्रन्थेषु स्वसिद्धान्तविरोधात्कथं वेदत्वनित्यत्वबुद्धिर्जायते इत्याशयाह * परेणेति*उक्तिप्रत्युक्तिरूपं वाकोवाक्यम् । प्रतिभा- ने किं कारणमित्यपेक्षायां परवाक्येभ्यो ऽवगतानां नित्यत्वोपपत्तीनां स्वागमेष्वारोपः । प्रतिभानकारणत्वेनोक्तः । ननु स्वसिद्धान्तज्ञाने परोक्तोपपत्यो ऽरोपो न सम्भवतीत्याशझ्याह * छायामिति * खागमप्रामाण्यप्रतिज्ञाहान्या पराजयान् मुखच्छायां नश्यन्ती रक्ष- यितुमित्यर्थः । यद्यप्यात्मीयं सिद्धान्तं जानन्तीत्यध्याहृत्य तथापिश- ब्दो योज्यः । एतदेवोदाहरणनिष्ठमाह * यथेति * ननु वेदमूलत्वे- नापि स्वागमप्रामाण्यसिद्धेनित्यत्वाभिधानमनर्थकमित्याशङ्ख्याह * प्रद्वेषादिति * ननु खानङ्गीकृतनित्यत्वाभिधानादसत्यवादित्वं स्या- स्यायसुधायाम्। - दित्याशङ्कयाह * वन्मात्रे ऽपि चेति - नित्यत्वाभिधानासत्यवा- दित्वाभावे ऽपि स्वागमप्रामाण्याभिधानविषये सत्यवादिता सेत्स्य- तीत्यर्थः । नन्विहिंसादेवेदमूलस्याभिधानात्कथं तेषां वेदमूलत्वे प्र- द्वेष इत्याशङ्याह * भूयसामिति * शाक्यरप्यहिंसादि वेदवत् खा- तन्त्र्येणैव विधीयते न वेदादुपलभ्येत्यर्थः । नित्यत्वप्रतिपादने किं तेषां प्रयोजनमित्यपेक्षायामाह * ततश्चेति * वेदनित्यत्ववागाभा- भासैर्विमोह्यते विभ्राम्यते विप्रतीयोक्रियते निवार्यतइत्यर्थः । ननु तैर्नित्यत्वस्याप्तत्वलक्षणवाक्यप्रामाण्यकारणगुणाभावापादकत्वेन वे- दप्रामाण्यबाधकत्वादश्युपगन्तव्यं वेदत्वाभिधानेन नित्यत्वाभिधा- नेन वा खागमाप्रामाण्यं विमोहतइत्याशङ्कयाह * याहशेति * यादशं परेणोक्तं तादृशमविचार्यैव ये मन्यन्ते यादृशतादृशा अनिपु- णाः । तैरप्यतीन्द्रियविषये पुरुषवचनप्रामाण्यस्य निराकर्तुं शक्य- त्वानिरुत्तरीकृताः परवाक्यान्यनुकुर्वन्तः स्वागमनित्यत्वमाहुरित्य- न्वयः । ननु चक्षुरादीनामतीन्द्रियार्थग्रहणासामर्थ्य ऽपि भावना- देरतीन्द्रियार्थग्रहणसामर्थ्यस्य तैरुपपादितत्वाकथं निरुत्तरत्वमि त्याशङ्कय * बालेत्यायुक्तम् * अनेन चोपपत्तिवाक्येन स्वाग- गमप्रामाण्यं साधयामो ऽनेन वेति यद्यपि हृदयं व्याकुलयन्ति तथापि प्रक्षीणकुहेतुवचनजालत्वेन तद्वाक्यानां बालानुकरणवाक्यसदेश- त्वान्न स्वपक्षसाधनक्षमतास्तीत्यर्थः । ननु नित्यत्वे ऽपि वा- क्यप्रामाण्यकारणाप्तलक्षणगुणाभावात्प्रामाण्यानुपपत्तेः क्यानुकरणमनर्थकमित्याशङ्कय * अपौरुषेयत्वेत्युक्तम् * मी- मांसकोपपादितखतःप्रामाण्यनिराकरणाशक्तरित्याशयः।परवाक्या- नुकरणे मूर्खवरस्य गोत्रप्रश्नविषयमुत्तरं दृष्टान्तः । की- १७०१ दशमुत्तरमित्यपेक्षायाम् यदेवेत्युदाहरणम् * ननु शा- क्यादीनामागमनित्यत्वोक्तावपसिद्धान्तापत्तिः स्यादित्याशझ्याह *अस्मदीयमिति* आगमनित्यत्वप्रतिपादकं यद्भवतां वाक्यं तदस्म- दीयमिति मीमांसकैरुदिताः शाक्यादयो ऽस्माकमेवैतद्वाक्यं मी- मांसकैः श्रुत्वा हतमिति जल्पन्तीत्यर्थः । कथमेवं ते मिथ्यावदन्ती- त्याशक्याह * त्यक्त लज्जमिति * क्रियाविशेषणत्वान्नझुंसकनिर्देशः एवं शाक्यादिग्रन्थेषु वेदत्वनित्यत्वबुद्धेर्जन्मोपपाद्य दूषणमाह * त- ति * कथं क्षणिकवादित्वप्रसिद्धिस्तेषामित्याशङ्ख्याह *धर्म इति* केन ग्रन्थेनायं धर्मः शाक्येनोपदिष्ट इत्यपेक्षायां तदीयं ग्रन्थं पठति * क्षणिका इति * सर्वेषां संस्काराणां संस्कृतानां कृतकानां क्ष- १ अभिधामाधर.पु.पा. परवा- प्रथमाध्यायस्य तृतीयः पादः। णिकत्वेनास्थिरत्वाक्रियाकालं यावत् स्थायित्वाभावान क्रियाव्या- पारः कुतः सम्भवतीति क्रियापदार्थ निषेधता शाक्येन सर्वस्य सं. स्कृतस्य कृतकस्यानित्यत्वलक्षणां धर्मो भिहित इत्यर्थः । नन्वकृत- कानां प्रतिसख्यानिरांधव्याम्नां शाक्यनित्यत्वाभ्युपगमात्तन्न्यायनी- गमस्यापि नित्यत्वं तेषामभिमतं भविष्यतीत्याशयाह * बुद्धीति * मुद्गरप्रहाराद्युत्तरकालीनस्य घटाद्यभावस्य प्रतिसंख्यानिरोधाख्य- स्य व्योम्नश्चावरणाभावरूपस्यावस्तुत्वात्कृतकत्वादिधर्मयोगासम्भवे sप्यागमस्य वस्तुत्वात्कृतकत्वं क्षणिकत्वं च शाक्यानामभिमतमेवे- त्याशयः । वस्तुत्वं चाक्रियाकारित्वलक्षणं बुद्धग्राहकशक्तियोगा, बोध्यस्य च ग्राह्यशक्तियोगान्नेतरस्येति दर्शयितुम् * बुद्धिबोध्य- त्वमित्युक्तम् * विशेषतश्च पदाद्यनित्यत्वाभिधानादागमनित्यत्वं शाक्यानामनभिमतमिति ज्ञायतइति तदीयग्रन्थोपन्यासनैव दर्शयति * तथेति * शब्देनाभिव्यक्तियुज्यते सा हीन्द्रियसंस्काराद्वा स्या- द्विषयसंस्काराद्वा द्वेधापि दोषो ऽस्ति । कथमित्यपेक्षायां बुद्धेनि- यमादित्युक्तं कश्चिदेव शब्दः केन चिदेव युज्यते इति द्विविधो बु- धिनियमो दृश्यते स चेन्द्रियसंस्कारपक्षे गोशब्दाभिव्यक्त्यर्थ सं. स्कृतन श्रात्रण सर्वगतत्वेन तत्समानदेशस्याप्युपलम्भापत्तर्विषयसं. स्कारपक्षे स्रुघ्नसंस्कृतस्य शब्दस्य पाटलिपुत्रे ऽप्युपलम्भापत्तेर्न यु- ज्यते इति शाक्यग्रन्थार्थः । ननु पदाद्यनित्यत्वे ऽप्यागमनित्यत्वम- वध्यस्मरणादिना सेत्स्यतीत्याशङ्कयाह * यस्तन्तूनिति * पदंसं- वगतात्मकस्यागमस्य पदाश्रितत्वात्तदनित्यत्वे नित्यत्वं न युज्यतइ- त्याशयः । आगमनित्यत्वसिद्ध्यर्थ चोपकल्पिते पदादिनित्यत्वे शा- क्यनिराकृतमागमनित्यत्वमिति रूपकद्वारेणाह * यावदिति * आगमनित्यत्ववेश्मार्थ यावत्पदनित्यत्वादिदारूपकल्पितं तस्मि- श्छाक्योक्तहेत्वाभासाग्निर्निदग्धे तदागमनित्यत्वरूपं वेश्म दुष्कर- मित्यर्थः । ननु कूटस्थनित्यत्वासम्भवे ऽपि व्यवहारनित्यत्वं प्रवाह- नित्यत्वापरपर्यायं भविष्यतीत्याशयाह * व्यवहारोति * अर्थप्र- तिपादनलक्षणक्रियानित्यत्वमिह व्यवहारनित्यत्वं वाच्यम् । न चाश्र- यनित्यत्वं विना तदाश्रितक्रियानित्यत्वं युक्तमित्यर्थः । नन्वाश्रयस्य पदादेः कूटस्थनित्यत्वाभावे ऽपि प्रवाहनित्यत्वात्तदाधितक्रियानि- त्यत्वं भविष्यतीत्याशयाह * न चेति * पदावयवभूतानां वर्णा- नामपि क्षणिकत्वाभ्युपगमाच्च पदार्थनित्यत्वस्यापि जातितो व्य- क्तितो वा ऽनुपपत्तेन पदादेःप्रवाहनित्यतापि शाक्यपक्षे सम्भवती- त्याशयः अतः स्थितैवैषां धर्मनित्यतति पचनाच्छाक्यागम वेदत्वनि- न्यायसुधायाम् । त्यत्वबुद्धिर्जातापि सर्वक्षणिकसिद्धान्तविरोधाद् दुष्यतीत्युपसंहर- १७१।३ ति * स्थितैवेति * किं च क्षणिकत्वं पूर्वोपलब्धाया धर्मताया नि- देशकाले विनष्टत्वादेषेति सर्वनामनिर्देश एव तावन्न युक्तः चिरवि- नष्टत्वाद्वषेत्यस्य तदेकवाक्यतात्यन्तमयुक्तेत्याह * एपेति * अत्रैव सूत्रं योजयति * तेनेति * असत्त्वस्य क्षणिकत्वस्य सर्वपदार्थेषु विशेषतश्च पदादिषु नियमानिबद्धत्वादभ्युपगतत्वादागमनित्यत्वा- नुपपत्ति प्रतिपाद्यमालोच्य प्रागसतश्च कृत्रिमस्यातीन्द्रिये ऽर्थे स्वात- उन्यलक्षणं प्रयोगशास्त्रत्वाभावं प्रतिपाद्यमालोच्यैतत्सूत्रमित्यर्थः । असाधुशब्दाभिप्रायो वायमसच्छब्दो व्याख्येय इत्याह * असाध्वि- ति * पूर्वार्द्ध व्याचष्टे * मागधेति * मागधभाषागता असाधवः शब्दा मागधाः दाक्षिणात्यभाषागता दाक्षिणात्याः । तदुभयापभ्रं- शप्रायाश्चासाधवो ये शब्दास्तर्निबन्धनं येषामागमानामिति विग्रंहः मागधदाक्षिणात्या एव तावदसाधवः शब्दाः तदपभ्रंशास्त्वसाधुतरा इत्याशयाममापि भिक्षवः कर्म वर्ततएवाशरीरपातादित्याद्यागमार्थः उतूक्षिप्ते लोष्ठे उतक्षेपे ति कारणं पतने नास्ति कारणमस्त्युद्भवे चकारणम् इमे च संस्कृता धर्माः सम्भवन्ति सकारणा अ- कारणा विनश्यन्ति । उत्पत्तिमनुकारणमपेक्षन्तइत्याद्यागमान्त- रार्थः उत्तरार्द्ध व्याचष्टे * ततश्चेति * नन्ववध्यस्मरणे ऽप्यसाधुश- ब्दभूयिष्ठत्वादिना शाक्याद्यागमानां कृतकत्वापादने वेदस्यापि पद- सङ्घातात्मकत्वादिहेतुना कृतकत्वमापद्यतेत्याशङ्कां निराकुर्वन्निहैका परमार्थेनतिश्लोकस्य पूर्वार्द्ध व्याचष्टे*वेदेषु हीति * आदिभात्रदर्श- नावेदे पौरुषेयत्वभ्रान्तिनिवर्ततेकिमुत समस्तवेददर्शनादित्याह*आ- दिमात्रमितिकथमित्यपोक्षते पौरुषेयत्वेऽप्यवैलक्षण्यं दर्शयितुंपौरु- षेयग्रन्थानांतावत्प्रमाणान्तरानुसारिपवाक्यनिषिद्धत्वमाह*दृष्टार्थे- १७२२२ स्विति *वेदानांतद्वैलक्षण्यांपौरुषेयत्वासम्भवं दर्शयन्नृग्वेदस्य ताव- दलौकिकप्रायनियतस्वरकपदनिबद्धत्वात्पौरुषेयत्वासम्भवमाह *प्र- पाठकेति * आदिमात्रदर्शनेनाप्पृग्वेदस्यापौरुषेयत्वन्निश्चीयतइत्याह * अग्निमिति * कथमस्य पौरुषेयत्वं न सम्भवतीत्याशङ्कयाह * किमालोच्येति * यजुर्वेदस्याप्यादिमात्रदर्शनेनापौरुषयत्वं निश्चीय- तइत्याह * इषे त्वेति * प्रसङ्गादेतमन्त्रविनियोजकस्य ब्राह्मणस्या- पि विनियोगरूपदर्शनादेवापौरुषेयत्वं निश्चीयतइत्याह * शाखे- ति* द्वितीयमन्त्रविनियोजकस्याप्यपौरुषेयत्वनिश्चयमाह * एव- मिति * ऊर्जयित्ययमितिवक्तव्ये श्लोकाक्षरातिरेकापत्तिभीत्या झा- तारः सन्ति मेत्युक्त्वेति मानवीयश्लोकवदिकारो न युक्तः । तृती- प्रथमाध्यायस्य तृतीयः पादः । २३७ यमन्त्रविनियोजकस्याष्याह * वायवस्थेति * एकशो विनियोगे कानुपपत्तिरित्याशङ्कयाह * वायुशब्देनेति । सामवेदस्याप्यादिमा- प्रश्रवणेनापौरुषेयत्वनिश्चय इत्याह * सामवेद इति * कथं पौरुषे १७३३२ यत्वे निरभिप्रायत्वापत्तिरित्याशङ्कयाह * को नामेति * अर्थाभि- धानपराणामृगक्षराणामित्यनादरे षष्ठयौ । अनवगतपूर्व विकुर्या- दिति क्रियाविशेषणम् । अक्षरान्तरेष्वपि विकारः पौरुषेयत्वेन युज्यतइत्याह * तथेति * वेदे पुरुषप्रदर्शनमात्रेणापौरुषेयत्वनिश्चय- मुपसंहरति * तेनेति * ननु लौकिकवाक्ये विलक्षणरूपदर्शनाद्वे- दस्यापौरुषेयत्वे सूर्य एकाकी चरतीत्यादीनां तत्सादृश्यात्पौरुषेय- त्वापत्तिरित्याशय तत्रापि स्वरादिनियमाद्वैलक्षण्यमाह * किं चि- दिति * अतो निरपवादसिद्धं वेदस्य रूपदर्थनेनापौरुषेयत्वमित्युप- संडरति * एवं चेति * ननु रूपदर्शनमात्रेणापौरुषेयत्वनिश्चये मीमांसकानां न्यायप्रतिपादनक्लेशो ऽनर्थकः स्यादित्याशङ्ख्याह *तावता त्विति* सानुभवरूपा दृढा प्रतीतिरनवच्छिन्नप्रतीतिप्रवाह- वाचकत्वाद्भावनेत्युच्यते । इतिकरणो हेतौ । बाह्यतार्किकपराम- शर्शी तच्छब्दः । शाक्यादिग्रन्थेषु रूपदर्शनमात्रेण पौरुषेयत्वनिश्चयो भवतीति व्यतिरेकमाह * शाक्यादीति * प्रज्ञप्तिविज्ञप्तिशब्दयो- र्जानातेर्णिजन्तत्वाभावे युगागमस्यासाधुत्वं णिजन्तत्वे तु ण्यास- श्रन्थो युजिति विशेषविहितेन युच्प्रत्ययेन स्त्रियां क्तिन्निति सामा- न्यविहितस्य क्तिन्प्रत्ययस्य बाधादसाधुत्वम् शिति प्रत्यये परभूते दृशेः पश्यादेशाविधानात्पश्यनाशब्दस्यासाधुत्वम् । ननु भिक्षुशब्दगतस्य क्ष- कारस्य प्राकृतव्याकरणे स्तुरवकारं इति खकारादेशविधानात्तस्य च शेषादेशयोर्द्वित्वमनादाविति द्वित्वविधानात्कथमन दृष्टतरत्वमि- त्याशङ्याह * द्वितीयेति * इदुद्भ्यां शसोणो इति स्मरणाद्भिनि- त्यस्य स्थाने भिक्षुणो इति प्राप्ते रेकान्तत्वायोगाद्भिक्षणं भिक्षुशब्दाद् द्वितीयाबहुवचनस्य शसोण इति णेकारादेशविधानाद्भक्ष इति भिक्ष- इति घञन्तं भिक्षशब्दं व्युत्पाद्य भिक्षु वाति गच्छति प्राप्नोतीत्य- स्मिन्नर्थे वा गतिगन्धनयोरित्यस्माद्धातोरातोनुपसर्गे क इति कप्र- त्ययोत्पादनेनाकारान्तभिक्षुशब्दमभ्युपेत्यैकारान्तम् * दृष्टमित्यु- क्तम् * आदिशब्दोक्तं शब्दान्तरापभ्रष्टतरत्वं दर्शयति * संस्कृते- ति * स्वयमेव च शाक्येनात्र डकारापत्तिनिषिद्धेत्याह *सो ऽय- १७४ार मिति * नासन्नियमादिति सूत्रस्यासाधुशब्दनिबन्धनाभिप्रायं व्या- ख्यानमुपसंहरति * इतीति * व्याकरणानुगतशब्दनियमाभावा- १खका. २ पु० पा०।
न्यायसुधायाम् । दिति तृतीयं व्याख्यानं कर्तुमथै तावदाह * यावांश्चेति * उक्ते 5थै सूत्रं व्याचष्टे * असनियमादिति वेति * प्रागविद्यमानस्य अ-, न्थस्य निबन्धनादितिं चतुर्थ व्याख्यानमाह * क्षणिकत्वति * स्वसिद्धान्तप्रसिद्धसर्वक्षाणकत्वनिराकृतेन स्थिते वेयं धर्मनित्यने- त्युक्तेन धर्मप्रतिपादकागनित्यत्वेन सिद्धमनित्यत्वं यस्य ग्रन्थस्य स तथोक्तः अत एव निबन्धनात्प्रागत्यन्ताविद्यमानत्य निबन्धनाभ्युप- गमादित्यभिप्रायेणेति योज्यम् । अविद्यमानानां क्षणभङ्गादीनां नि- बन्धनादिति पञ्चमं व्याख्यानमाह * असतो वेति * असाधुभि- हेतुभिर्निबन्धनादिति षष्ठं व्याख्यानमाह * असद्धेतुभिश्चेति * ननु क्षणभङ्गादीनामविद्यमानानां हेत्वाभार्निबन्धने ऽपि धर्माध- मनिबन्धनानां कथमप्रामाण्यमित्याशङ्याह * तदेककर्तृकेति * एवं तावदसाधारणैहेतुभिः शाक्याद्यागमानां पौरुषेयत्वमुपपादितमि- दानी वेदातिरिक्तविद्यास्थानसाधारणेन कर्तृस्मृतिदायनोपपादय- ति * कर्चिति । अनेनैव हेतुना वेदातिरिक्तविद्यास्थानानामपि सर्वेषां पौरुषेयत्वमित्याह * एवमिति * अनेन चापौरुषेयत्वहेतोः कर्तृ- स्मरणस्य धर्मशास्त्रेष्वभावाद्वेदत्वबुद्धिर्न जायतइत्यभिधानादजा- तापि त्वन्येति श्लोकावयवो व्याख्यातः । ननु कल्पसूत्रेष्वितरेषु च वेदाङ्गेषु च वैदिकार्थप्रबन्धात्षडङ्गमेक इति च स्मृतेर्वेदत्वबु- द्धिर्जाता केन हेतुना बाध्यते इत्याशङ्ख्याह * तेनेति * अङ्गत्वा- विशेषे ऽपि कल्पसूत्रेषु वैदिकार्थप्रबन्धाधिक्यात् कल्पसूत्रग्रहणे प्रतीयमानापि खतन्त्रता कर्तृस्मरणेन प्रत्याख्यातेति वदता ऽन्या भ्रान्तिरिति श्लोकावयवो व्याख्यातः । ननूभयत्र हेतुसद्भावे कथं पौरुषेयत्वस्यैव निश्चय इत्याशङ्कयाह * येनेति * स्मर्त्तव्यास्मरण- मेव दृश्यादर्शनवत्कर्षभावे प्रमाणं,तञ्च कल्पसूत्रे नास्ति वैदिकार्थ- प्रबन्धस्तु वेदमूलत्वेनाप्युपपत्तेन वेदत्वसाधनायालम् । अध्येतृणां चाङ्गेषु वेदत्वस्मृत्यभाशत् षडङ्गमेक इत्यपस्मृतिरित्याशयः । न- न्वीश्वरप्रणीतो वेद इति तार्किकाणां कर्तृस्मरणे सत्यपि वेदस्य नित्य- त्वमुक्तं तथाङ्गेष्वपि भविष्यतीत्याशङ्याह * यथैव हीति * अनध्ये- तृस्मृतेरनभियुक्तगतत्वेनाप्रामाण्यान्न वेदे कर्तृसिद्धिः कल्पादिषुत्व- ध्येतृणामेव कर्तृस्मृतेः पौरुषेयत्वमित्याशयः। अत्रापिप्रागसतां वेदा- ९७१ तिरिक्तविद्यास्थानानां निबन्धनादित्येवं सूत्रं योजयति*ततश्चेति * नन्वत्र माशकादिसमाख्यानिमित्ताध्येतृणां कर्तृस्मृतिर्वाच्या साच प्रवचनयोगेनाप्युपपत्तेर्न कर्तृसाधनमित्याशङ्ग्याह * न ति * मशकादिशब्दानां च कठादिशब्दवदनादिचरणानभि- प्रयमाध्यायस्य तृतीयः पादः। धायित्वान्नानादिसमाख्याव्युत्पत्तिनिमित्तत्वं सम्भवतीत्याह * य- था चेति * अलाप्यर्थे माशकादिसमाख्यायाः प्रागवि- धमानग्रन्थविषयत्वादित्येवं सूत्रं योजयति * अतश्चेति * खस- म्वेद्यालौकिकरूपाभावादिति तृतीयं व्याख्यानमाह * वेदेति-* अ- नध्यायनियमाभावादिति चतुर्थ व्याख्यानमाह * कामं त्विति * भाष्यकृता तत्सूत्रं खरनियमाभावाभिप्रायेण व्याख्यतवदिष्टविघात- कारित्वादयुक्तामत्याह * यत्त्विति * समाधत्ते * तस्मादिति * प्रपाठकचतुःषष्ठीत्यादिना यत्वसम्वेद्यमलौकिकं वेदरूपमुक्तं तस्य कल्पसूत्रेष्वभावो ऽत्र भाष्ये प्रयोगशास्त्रत्वाभावकारणं विवक्षितम्। खरग्रहणरूपलक्षणार्थमित्यर्थः * अवाक्यशेषात् * अनेनसूत्रेणा- र्थवादरहितत्वात्कल्पसूत्राणामवेदत्वमुक्तमिति प्रतिभाति तदप्यरुण- पराशरशाखाब्राह्मणस्य वसन्ताय कपिञ्जलानालभतइत्यादीनां चार्थ- वादरहितत्वेनावेदत्वापत्तेरयुक्तमित्याशङ्कयालौकिकवेदरूपाभावोप- लक्षणार्थत्वेन व्याचष्टे * अतश्चेति * तच्छब्देन खसम्वेद्यरूपाभावः परामृष्टः वाक्यशेषाणामलौकिकरूपत्वमुपपादयति * बहव इति * श्लोकं व्याचष्टे * बृहस्पतिरिति * नन्वर्थवादानामपि विध्येकवा- १७६ार क्यत्वेनानुष्ठानोपयोगित्वात्प्रणयनमर्थवदित्याशङ्कयाह * नित्यत्वे सतीति * नित्यत्वे पर्यनुयोगासम्भवात्कथं चिद्गतिः कार्या प्रणयनं तु क्लिष्टार्थस्य मूढतामापादयतीत्यर्थः । वाक्यशेषाणामलौकिकरू- पत्वमुपपाद्य कल्पादिषु तदभावान्नापौरुषेयत्वमिति सूत्रार्थसिद्धि- माह * न चेति * भाष्यकृता तु विधानार्थाच्छिषेः शिष्यते विधी- यते ऽनेनेत्यस्मिन्नर्थे घजुत्पत्तेर्विधायकवचनं शेषशब्दमङ्गीकृत्य वि- धायकवाक्यरहितत्वादित्येवं तावत्प्रथमं सूत्रं व्याख्यातं तस्य सा- ध्यप्रयोगशास्त्रत्वाभावोपयोगितामाह * विधीति * ननु वर्तमा- नापदेशस्यापि समिधो यजतीत्यादेर्विधित्वाङ्गीकरणान्न तेन विध्य- भावः शक्यो वक्तुं वचनानामित्याशय वाक्यशेषान्वयान्यथानु- पपत्त्या तत्र विधिपरत्वं कल्प्यते न तु कल्पादिष्वसावस्तीत्येवं पर- तया पुनरेतत्सूत्रव्याख्यानार्थ ।न चाति भाष्यं व्याचष्टे * वर्तमा- नेति * विधित्वे ऽङ्गीकृते तत्प्ररोचकत्वेनार्थवादान्वयोपपत्तस्तदुप- पादकत्वेन विधिकल्पनमभिप्रेत्यार्थवादप्ररोचितइत्युक्तम् । ननु विध्येकवाक्यत्वं विना लाक्षणिकप्ररोचनार्थत्वं युक्तमिति प्रागेवोप- पादितम् । ननु वसन्ताय कपिञ्जलानालभतइत्यादौ वाक्यशेषाभावे ऽपि वर्तमानापदेशस्य विधित्वदर्शनात् कल्पादिष्वपि तथा भवि- ध्यतीत्याशङ्कयाह * पञ्चमेनेति * छन्दसीत्यधिकृत्य लिथै ले- २४० न्यायसुधायाम्। सायत डिति स्मृतेर्नान्यत्र पञ्चमलकारो ऽस्तीत्याशयः । ननु छन्दःशब्दस्य वेदविषयत्वात्पूर्वपक्षे च कल्पादीनामपि वेदत्वाभ्युपगमात्पञ्चमल- कारो युज्यतएवेत्याशङ्याह * यद्यपीति * यथैव छन्दःशब्दस्य गायच्यादिछन्दोयोगाहग्मात्रविषयत्वप्रतीतावपि मन्त्रान्तरेषु ब्राह्म- णे ऽपि छन्दोनिमित्ता यस्य पादिविधिदर्शनात्तद्विषयताप्यव- तथैव मन्त्रब्राह्मणव्यतिरेकेण वेदशब्दाभिलप्ये ऽपि तर्के छन्दोनिमित्तविध्यदर्शनान्मन्त्रब्राह्मणमात्रविषयत्वावसायान वेदमात्रविषयश्छन्दःशब्द इत्याशयः । एतदेव विवृणोति * यथैव हीति * विधिाह्मणं विधेयो मन्त्रः तों मीमांसा यद्यप्यध्ये- तृभिर्मीमांसायां वेदशब्दाप्रयोगात्तदनपेक्षया चैतया स्मृत्या विध्यादीनां वेदत्वोक्ता श्रुत्या विध्युद्देशस्यैव विधिशब्दवाच्यत्वे नार्थवादमन्त्रोपनिषदामवेदत्वापत्तेविषयत्वतर्कत्वाभ्यां चाग्निहो- त्रादिन्यायविस्तरादीनामपि वेदत्वापत्त नया स्मृत्या तर्कस्य वे- दत्वमुच्यते किं तु कश्चिद्वेदभागो विधायकः कश्चिद्विधेयः कश्चिञ्च स एष नेति नेत्यादिरनित्यशरीरादिव्यतिरेकेण नित्यात्मप्रतिपादना- दिरूपतर्कानुरूपत्वात्त इति त्रैविध्यं वेदस्योच्यते तथापि विध्या- दित्रयस्य वेदत्वप्रतिपादनार्थेयं स्मृतिरिति परमताभ्युपगमेनायं ह- टान्त इति सूचनार्थमेतस्मिन्दर्शने सतीत्युक्तम् । भाष्यकृता कल्प- सूत्राणां वेदवाक्यैस्तुल्यादरत्वं पूर्वोक्तं यश्चादर इत्यनुभाष्य स ना- न्तरीयकत्वादिति परिहारमुक्त्वा कथं नान्तरीयकत्वमित्यपेक्षायां शाखान्तरगतकर्माङ्गभूतमन्त्ररूपवेदवाक्यामिश्राणां कल्पसूत्राणांपा- ठान्मत्रकौशलार्थे घटिकादिष्वादरे नान्तरीयकः कल्पसूत्रादर इत्युक्तं तदतिस्पष्टत्वान्न व्याख्यातम् । ब्रह्मयज्ञविधिविषयत्वतुल्यताभिप्राये- ण तुल्यादरभाध्यव्याख्याने स्वयमनुभाषणपूर्वकं परिहारमाह *या- त्विति * कल्पसूत्राण्येवात्रोदाहरणमित्यभिमानेनानैकान्तिकत्वो- पन्यासः । अतो ऽनकान्तिकत्वान्न विधेयत्वमात्रेणाकृतकत्वनिश्चय १७७।२ इत्याह * तस्मादिति * प्रवाहनित्यत्वाच्च नित्यानित्यसंयोगवि- रोधपरिहार इत्याह * वेदार्थेति * ननु प्रवाहनित्यत्वे ऽप्यपूर्वस्य ग्रन्थस्य कल्पसंज्ञाकरणान्नित्यसंयोगविरोधः प्रसज्येतेत्याशङ्कयाह * वेदार्थेति * यौगिकेयं संज्ञा न ग्रन्थव्यक्तिनियन्धनेत्यर्थः । प्रयोगप्राशुभावोपयोगिकर्मानुसन्धानप्रयोजनत्वाच्चास्य विधेस्तस्य च येन केन चित्प्रयोगकल्पनात्मकेन शब्देनोपपत्तेर्ग्रन्थाविशेषस्य वि- धिविषयत्वाभावान्न नित्यतापत्तिरित्याह * कर्मेति * कर्मणो झ्या- सेनानुसन्धान विधिप्रयोजनमित्यर्थः । प्रयोजनवचनो ऽर्थशब्दः प्रथमाध्यायस्य तृतीयः पादः। ર यद्वा नात्र कल्पाख्यग्रन्थाध्ययन विधेयं कि विक्स्मरणइत्यस्य धा- तोरधीतइति रूपमङ्गीकृत्य कर्मणो वेदार्थस्याहरहरभ्यासेन स्मरण विधेयमिति ।परिहारान्तरमनेनोच्यते चशब्दो वाशब्दार्थः । ऋङादी वेङध्ययनइत्येतद्धातुरूपत्वेनावधारितस्याधीतइत्यस्य कल्पानित्यत्रा- नुषक्तस्य धात्वन्तररूपत्वायोगादन्वाचयोपपत्तित्वसूचनार्थः । वै- दिकार्थप्रबन्धस्य वेदत्वहेतोर्भाष्यकारेणापरिहतत्वात्स्वयमनुभाष- णपूर्वकं परिहारमाह * पुनरिति * अत एव स्वातन्त्र्यमपि न- सम्वादात्सिध्यतीत्याह * तदर्थेति * ननु षडङ्गमेक इति कल्पा- दीनां वेदत्वस्मृतेः किमित्यन्यथा सम्वादो नीयतइत्याह * वेदेति* षडङ्गे ध्येतृभिर्वेदशब्दाप्रयोगादपस्मृतिरेषेत्यर्थ ततश्चैतन्न सिद्धा न्तभाषितमित्येवं चशब्दो योज्यः।यञ्च कल्पसूत्राणां वैदिकार्थानुवा दत्वं तदानुगमाञ्चेत्यनेनोक्तम् तदुपपादयति * संवादे चेति * ननु शाखान्तरन्यायेनैषामपि विधित्वमविरुद्धमित्याशङ्ख्याह*न चे- ति* एतदेव विवृणोति * सर्वेतिं * किं च होतुर्वषट्कारे चमसा नीयन्ते उद्गातुब्रह्मणो यजमानस्येति भक्षणार्थ नयनमुक्त्वाकेनादौ भक्षणीयमित्यपेक्षायां तेषां होताग्रे भक्षयदिति प्रतिज्ञाय तस्य वषट्- कारान्वयत्वादित्यादिभिर्वषट्कर्तुः प्रथमभक्ष इत्यादिब्राह्मणोत्थैर्हे- तुभिर्व्याख्यानदर्शनात्कल्पसूत्राणां ब्राह्मणोक्तानुवादकतावसी- यतइत्याह * विवृण्वन्तश्चेति * तथा प्राश्य घृतं शंसेद्यथा चाह वा इदमनो वा रथो वाक्तो वर्त्ततएवं हैवाक्तो वर्तते इत्यादिभि - तप्राशनादिविधिशेषभूतैर्ब्राह्मणैर्नाचामेद्विशदिति विवायते देवरथो वा यद्धोता नाक्षमद्भिः करवाणीत्यादिवाक्यैराचमनाभावादिज्ञाप- नादनुवादकत्वनिश्चय इत्याह * अन्याथैरिति * उपसंहरति * अथैति * आचार्यवचः प्रामाण्यं श्रुत्यैवोक्तमिति पूर्वोक्तस्य यत्त्वि- त्याद्यनुभाषणपूर्वकं परिहारभाष्यं व्याचष्टे * आचार्येति * वेद- १७वार वचः प्रमाणमित्येवमन्यार्थताभाष्यकृतोदितेत्यर्थः। अव्युत्पन्नो वा ऽयमाचार्यशब्दो व्याख्यात्रध्यापयितृविषयो न तु कल्पसूत्रकारविष- य इति परिहारान्तरं यद्वेति भाष्यणोक्तं तद्वयाचष्टे * व्याचक्षाण- स्येति * शिष्याणां स्वप्रत्यये संवादनरपेक्ष्यप्रदर्शनार्थ स्वयम्प्रमाण- तेत्युक्तम् । अयमेवपरिहारः स्मृत्यानुगुण्याद्युक्त इत्याह * आचार्ये ति * नन्वाप्तवाक्यप्रामाण्यस्य लोकप्रसिद्धत्वाद्वचनमनर्थकमित्याश- ड्याह * वेदेति * अनेन भाष्येण यत्प्रमाणमाचर्यवचनं तदपेक्षेयं श्रुतिरित्युक्त्वा कतरदितिपृष्टे यत्प्रमाणगम्यमित्यभिधानात् व्या- ख्यातृवचनमध्यापकवचनमपि वा सम्भवन्मूलप्रमाणकमेव सत्यं न्यायसुधायाम्। न सर्वमित्युक्तं तदुपपादयति * न चेति * अनृतवादिनी घागिति- श्रुतेः प्रायाभिप्रायत्वेन रूपात्मायादित्यत्र व्याख्यातत्वात्प्रायादित्यु- क्तम् । श्रुत्यन्तरमुदाहरति * अन्यत्रापीति * यदि च वेदसंवादा- स्कल्पसूत्राणां वेदत्वं वेदतुल्यत्वं वोच्यते ततः क चिद्विसंवादा- द्वैपरीत्यमपि शक्यं वक्तुमित्येतदर्थत्वेन सर्वत्र च प्रयुक्तत्वात्सन्नि- धानशास्त्राचेति सूत्रं यच्चोक्तमिति भाष्येणावतारितं तद्वयाचष्टे * वेदादेवेति * यज्ञायझीयमेव प्रायणीयाग्निष्टोमसामकार्यमित्यादेः पञ्चविंशब्राह्मणे जराबोधीययज्ञायज्ञीययोः प्रायणीयाग्निष्टोमसाम- कार्यवैकल्पिकविधानेन साक्षाद्वेदेन विसंवाददर्शनादपि वा नाना- गोत्राः स्युरित्यादेस्तनूनपान्नाराशंसकल्पाद्यवैगुण्याय समानकल्पा- नामेव सनेष्वधिकार इति वेदोत्थेन न्यायेन विसंवाददर्शनात्कल्प- सूत्रकारवाचां वेदादेवानृतत्वावगतिरित्यर्थः । इह च यञ्चोक्तमिति सूत्रावतारणार्थानुभाषणभाष्ये च शब्दप्रयोगात्तुल्यादराचार्यवचः प्रामाण्यश्रुत्योः परिहारौ सर्वत्र चेति सौत्रेण चशब्देन सूचितौ कल्प्येते । यद्वा पूर्वमेव सूत्रं नअमपनीय व्यवधारणकल्पनया वा तस्मिन्परिहारद्वये योज्यम् । शेषस्य शेषिमिश्नत्वेन लक्षणया वेद- वाक्यमिश्रत्वप्रतीतेरर्थवादे च वाक्यशेषशब्दस्य प्रसिद्धत्वाद्ययंयं न वाक्यशेषः स्यादेतच्छङ्काद्वयामिति च व्यवधारणकल्पनयापि व्याख्योपपत्ते!त्सूत्रत्वाशङ्का । उक्ते ऽर्थे सूत्रं योजयति * सर्वत्र चेति * पूर्वेण सूत्रावयवेन विसंवादविषयोदाहरणे उत्तरेण वि- संवादाभिधानमित्यर्थः । अतिशयार्थो ऽभ्यासः अत्र भाष्यकृता सर्वत्र तिथिषु कल्पसूत्रकारैः पौर्णमास्यामावास्याख्यकर्मणः प्रयु- क्तत्वादनुष्ठापितत्वादित्येवं सूत्रावयवं व्याचक्षाणेन शुक्लपक्षे यस्यां कस्यां चित्तिथावमावास्याख्यं कर्म कार्यमिति कल्पसूत्रकारवचनत्वे- नोदाहृतं तद्दूषयति * तत्रेति * यवृत्तिकारणोदाहरणं दत्तंत- दनादृत्य इत्यन्वयः । अत्यन्तासिद्धस्याध्यारोपेण कल्पसूत्रकाराणा- मभिभवः कार्य इत्यभिप्रायेण युक्तत्वादिति हेतुः ।किमत्यन्ताभूत- मध्यारोपितमित्यपेक्षायां दर्शेत्युक्तं दर्शपूर्णमासयोश्चरकं गमकं त- द्विषयं कल्पसूत्रकारवचनं चेत्यसदेवाध्यारोपितमित्यर्थः । नन्वमा- वास्यापौर्णमासीशब्दयोर्दर्शपूर्णमासयोर्दर्शनात् कथं तद्विषयस्यास- त्वमित्याशय पार्वणेत्युक्तम् । गृह्यकारवचनत्वेन श्रवणादिति त- द्विषयत्वे हेतुः । गृह्यशब्दस्योपासनाग्न्यधिकरणकमविषयत्वेन त- त्प्रतिपादनाधिकृतानां वैतानिककर्मप्रतिपादनस्यानुचितत्वादिति भावः। एतदेव दृष्टान्तेनोपपादयति * गृह्येति * प्रदोषान्तो होम- प्रथमाध्यायस्य तृतीयः पादः । २४३ कालः सङ्गवान्तः प्रातस्तमतिनीय चतुर्ग्रहीतमाज्यं जुहुयादित्यग्नि- होत्रस्य खकालातिक्रमे प्रायश्चित्तस्मरणादपस्मृतेस्तद्विषयत्वाभा- वनिश्चयादू दृष्टान्तत्वम् । गृह्यकारवचनत्वेन खयंदृष्टत्वाद्भाष्यकारो- दाहृतसमानविषयमुदाहरणान्तरमुक्तम् । किं तत्रोदाहरणमित्य- पेक्षायामाह * तस्मादिति * सर्वाणि हवींषि पर्यग्निकरोतीति १७९४ कल्पसूत्रकारैः पर्यग्निकरणस्य सर्वत्र हविःषु प्रयुक्तत्वात्तद्विरु- द्धस्य च पुरोडाशं पर्यग्निकरोतीति शास्त्रस्य सन्निधानादित्येवं व्याख्येयमित्यर्थः। ॥ अथ होलाकाधिकरणम् ॥९॥ सामान्यश्रुतिकल्पनाधिकरणम् ॥ अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् ॥११॥ अनुमानादित्यादिभाष्यात्स्मृत्याचाराणां किं व्यवस्थया प्रामाण्यमव्यवस्थया वति चिन्ता प्रतिभाति तत्र प्रमाणस्य ता- वदालोकवत्सर्वपुरुषसाधारण्यान्न व्यवस्थाशङ्कोपपतिमती अथ स्मृत्याचारमूलभूता श्रुतिः किं व्यवस्थितविषया सर्व विषया वेत्य- भिप्रायः । तथा ऽप्यष्टकादिस्मृतीनां प्रदीपाद्याचाराणां च व्यव- स्थितविषयमूलाशङ्का निर्बीजैव मूलविशेषविषयचिन्तात्वाच्च स्मृ- त्यधिकरणानन्तरं सङ्गच्छत तस्माद्धोलाकादयः प्राच्यैरेवेत्यादि- भाष्यात्त्वधिकारिव्यवस्था सदसद्भावाचिन्ता सा च प्रमाणेन लक्षणेन सङ्गतेत्याशझ्याह * देशधर्मानिति * व्यवस्थिताव्यवस्थितमूल- चिन्तैवेयमधिकारव्यवस्था सदसद्भावप्रयोजनेत्याशयः। सा च देशा- चारमात्रविषया न सर्वस्मृत्याचाराविषयति देशधर्मानित्यनेनोक्तम् । पूर्वाधिकरणे च स्वातन्त्र्यनिराकरणेन वेदमूलत्वे दृढीकृते तद्विशे- षविचार इति सम्प्रतिशब्देनोक्तम् । तत्र किं कल्पकानामाचाराणां व्यवस्थादर्शनात्तदनुसारेण व्यवस्थितिविषयमेव मूलं कल्प्यं व्यव- स्थितमूलासम्भवाद्वा तदनुसारेणाचाराणां सर्वधर्मता कल्प्यति । कल्प्यकल्पकविप्रतिपत्तेः सन्देहकारणत्वं दर्शयितुमप्रतियोगभूत- वचनव्यक्तिद्वयोपन्यासः । नन्वनुष्ठेयानामेव भाष्यकृतोदाहृतत्वा- कथमाविशेषेण देशधर्माणामुदाहरणत्वमुक्तमित्याशङ्योपलक्षणार्थ भाष्यमित्याह * विध्यर्थेति * विषयवचनो ऽर्थशब्दः । विधिनिषे- धयोराचारकल्पत्वात्के विधिविषयभूताः के वा निषेधविषयभूता इति कथं शेयमित्यपेक्षायां क्रियेत्युक्तम् । करणं विधिविषयचिह्न १ वार्तिक व्याख्या नमूते ऽस्मिन् ग्रन्थे बार्तिकाभिमता एव तत्तत्स वैष् वा निविशिता इति कुन चित् स्थले भाष्यपुस्तकस्थाङ्कती वेलक्षख्य मस्ति ।
२४४ न्यायसुधायाम्। पर्जनं निषेधविषयचिहामित्यर्थः । एतदेव प्रपश्चयति *प्राच्या इति* नन्वाचाराणामेवोदाहरणत्वे स्मृतराचाराणां चेति भाष्ये स्मृति- ग्रहणमनर्थकं स्यादित्याशब्याह * आयेति * सूत्रान्तराणां देशाचा- रमात्रविषयत्वात्सर्वसूत्रव्यापिविचाराविषयप्रदर्शनार्थ वेशधर्मानित्यु- क्तमित्याशयः । सूत्रशब्दो धर्मशास्त्रविषयः । सर्वेषां गृह्याणां गौ- तमादिप्रणीतानां च धर्मशास्त्राणां किं व्यवस्थोत सर्वगामितेत्यर्थः। एतदपि प्रपञ्चयति * पुराणेति * प्रामाण्यस्यानुष्ठातृनननुष्ठातृरुच प्रति साधारण्याद्राह्यत्वाभिप्रायः प्रमाणशब्दः किं यानि यः पठ्यन्ते तानि तैरेव ग्राह्याण्युत सर्वाणि सरित्यर्थः । इह च नानागृह्यवि- हितानामपि स्थालीपाकादीनां शाखान्तरन्यायेनाभेदात्तदङ्गानामपि व्यवस्थानुपपत्तेः पूर्वपक्षे ऽपि सर्वधर्मत्वावधारणाद्यदेव किं चित्पु- रुषधर्मत्वेन गृह्यादौ कचिदेव विहितं तदेव पूर्वपक्षे व्यवस्थयानुष्ठे- यम् । यथा कपालं भगालमिति ब्रूयादिति गौतमीये पूर्वपक्षचन्दा- गत वा ऽनुष्ठेयं सिद्धान्तछन्दागतं वा । उपनयनोपाकरणादीनां वे- दाध्ययनाङ्गतत्तच्छाखाध्ययनानुग्राहकोपकारभेदसिद्ध्यर्थेतिकर्तव्य- ताभेदापेक्षोपपत्ते बह्वस्पं वा खगृह्योक्तं यस्य कर्म प्रकीर्तितम्। तस्य तावति शास्त्रार्थ कृते सर्वः कृतो भवेत् ॥ इत्यादिवचनानां चात्यन्तानर्थक्यापत्तेः। सिद्धान्ते ऽपि सर्वधर्मत्वान्नोदाहरणत्वमनुमानादित्यादिपूर्वपक्षसूत्रव्याख्यानार्थ भाष्यं व्यवस्थितविषयमूलप्रतिपादनपरत्वेन व्याचष्टे किं १८०२ तावदिति * किं व्यवस्थितमूला इति सन्देहावसरे पूर्वपक्षवच- नव्यक्त्युपन्यासात्स्मृत्याचारमूलानां व्यवस्थितविषयत्वेन व्यवस्था पूर्वपक्षार्थः । पाठग्रहणेनाचारो ऽप्युपलक्षितः पाठादाचारा- द्वा व्यवस्थिताद्वयवस्थितविषयैव श्रुतिः कल्प्येतेत्यर्थः । अनेन चानुमापकस्य कल्पकस्य पाठस्याचारस्य वा व्यवस्थानाद्वयवस्थि- तविषयोपपदसंयुक्तं मूलप्रमाणं स्यादिति सूत्रं योजितं भवति । ननु मूलश्रुत्यनुमानेन स्मृत्याचारप्रामाण्यायेनैव श्रुत्यनुमानन हेतुना स्मृत्याचाराःप्रमाणं तेनैव व्यवस्थितविषयश्रुत्यनुमानन हेतुना व्य- वस्थितविषयमेव स्मृत्याचारप्रामाण्यामति वदता भाष्यकृता व्यव- स्थितविषयमूलत्वस्यैव स्मृत्याचारप्रामाण्यव्यवस्थायां हेतुत्वाभिधा- नाद्विपरीतहेतुमद्भावाभिधानं भाष्यविरुद्धं स्यादित्याशङ्याह * अ- १ पूर्वपचे छब्दोगैरेवानुष्ठ यम् । २ सिद्धाने ऽप्यन्दीगैरपि सवैः।
प्रथमाध्यायस्य तृतीयः पादः । नुमीयते ऽनेनेति * मूलव्यवस्थायाः कल्पत्वेन हेतुत्वायोगात्प्रामा- ण्यस्य च सर्वपुरुषसाधारण्याव्यवस्थानुपपत्तेर्नेदं व्यवस्थितमूलत्वेन स्मृत्याचाराणां धर्माधर्मी प्रति व्यवस्थितप्रामाण्यप्रतिपादनपरं भा- व्यं किं तु व्यवस्थितत्वाद्वयवस्थितविषयामेव श्रुति प्रति प्रामण्याप्र- तिपादनपरमिति भावः । तेनैवं भाध्यं योज्यम् । अनुमापकत्वेन स्मृत्याचाराणां मूलं प्रति प्रामाण्यायेनैवान्यथानुपपत्तिलक्षणेन है- तुना तेषां मूलश्रुतिं प्रति प्रामाण्यं तेनैव व्यवस्थितत्वात्तादृशीमेव प्रतिप्रामाण्यमिति । कल्पकाभिप्रायो वार्तिके लिङ्गशब्दः । व्यव- स्थितस्य स्मृत्याचाररूपस्य कल्पकस्य व्यवस्थितविषयश्रुतिकल्पक- त्वौचित्यमुक्त्वा दृष्टान्तद्वारेण प्रकृते योजयति * तच्चेति * श्लोकं व्याचष्टे * ग्रन्थेति * न चादृष्टधूमरिति दृष्टान्ततयाक्तम् । यथा नादृष्टस्य लिङ्गत्वमेवमपक्षधर्मस्थापीत्यर्थः । ननु लिङ्गस्य पक्षधर्मत्वेन गमकत्वाद्वयवस्थितलिङ्गानुमापकत्वं युक्तं स्मृत्याचाराणां त्वनुपप- त्या कल्पकत्वात्तस्याश्च तद्विषयश्रुतिकल्पनमात्रेण परिहारानियत- कर्तृकल्पना निष्प्रमाणिकेत्याशङ्याह * यथेति * यथाग्निहोत्रादीनां नियतकर्तृकाधानोपनयनमन्यानि विद्यासाधनकत्वान्यथानुपपत्त्या नियतविषयत्वं कल्पितं तथात्रापि नियतकर्तृविषयश्रुतिकल्पनं विना नियतकर्तृत्वानुपपत्तेनियतकर्तृविषयैव श्रुतिः कल्प्येत्याशयः । दृष्टं च केषां चित्स्मृत्याचाराणां नियतकर्तृविषयश्रुतिकल्पकत्व- मिति प्रतिपादनार्थ यथेति भाष्यं व्याचष्टे * यथा चेति * जातयो ब्राह्मणाद्यास्तद्भेदा गोत्रचरणानि तदवान्तरभेदाः कुलानि । ननु तत्र जात्यादिवाचकोपपदसम्भवाद्वयवस्था युक्ता होलाकाद्यनुष्ठातृवा- चकोपेपदासम्भवान्नेह व्यवस्था युक्तेत्याशङ्कयाह *यदि स्यादिति* अत्राप्यनुपपत्त्या किं चिदुपपदं कल्प्यामिति भावः । एवं व्यवस्थि- तविषयोपपदरहितश्रुतिकल्पनमात्रेणानुपपत्तरपरिहारादुपपदमपि कल्प्यमित्युक्तमिदानीं सर्वविषयश्रुतिकल्पने प्रमाणमेव नास्तीत्या- ह* अन्यथेति * श्लोक व्याचष्टे * यस्मादिति * व्यवस्थितविषय- स्य नियतश्रुतिकल्पकत्वं दृष्टान्तेनोपपादयतिं * तथा चेति * १८०१ अनुमानशब्दस्य स्मृत्याचारविषयत्वं प्रमाणशब्दस्य च श्रुतिविषय- त्वं दर्शयन्पूर्वपक्षमुपसंहरति * अनुमानेति * अपि वा सर्वधर्मः स्यात्तन्न्यायत्वाद्विधानस्येति सिद्धान्तसूत्रं व्याचष्टे * अपि चेति * तस्य सर्वधर्मत्वस्योपपादको न्यायो विधेः सर्वविषयत्वं यस्मिन्क- १ वाच्य की १०२ पु. पा. ! २ बाथे की इ.२ पु. पा. ।
२४६ न्यायसुधायाम् । ल्पे विधाने विधायके वाक्ये ऽस्ति तत्तन्न्यायं तस्य भावस्तन्याय त्वम् । कथं कल्पे विधायके वाक्ये सर्वविषयविधित्वन्याय इत्य- पेक्षायाम * शक्तेत्युक्तम् * यस्माच्छक्तमात्रं पुरुषं विधायकवा- च्यमधिकरोति नातिरिक्तं विशेषणमपेक्षते तस्मात्तस्य सर्वविषयवि- धित्वं न्याय्यामित्यर्थः । ननु कर्तृविषयज्ञानं विना नैराकाङ्क्षयाभावा- कथं विधेः प्रवृत्तिरित्याशङ्कय साध्यसाधनेतिकर्तव्यताविशिष्टभा- वनाविधानमात्रेण भावनाक्षेपादेव तनिष्पादनसमर्थकत्रवगमसि- द्धनैराकाझ्यं वक्तुं यावता विना नैराकाझ्यं न भवति तावद्द- शयति * इहेतिं * भावना च नाम विशेषणव्यवच्छिन्नो यागा- दिधात्वर्थविशेषश्च स्वर्गादिफलं च द्रव्यदेवतादिकारकं च यावद- ष्टेतिकर्तव्यता च तद्विधायको विधिश्च श्रुतिष्वनुमीयमानास्वनुमी- यतइत्यन्वयः । अवश्यामित्येतावतामनुमाने कारणत्वमुक्तम् । तदेव कुत इत्यपेक्षायाम् * कारणानुविधायीत्युक्तम् * कारणात्तथावि- धत्वं विना कार्यतथाविधत्वानुपपत्तिः । कार्यानुरूपकारणानुमाने हेतुरित्यर्थः । निषेधे कियता नैराकाक्ष्यमित्यपेक्षायामाह * एव- मिति * नन्वेतावत्यनुमिते ऽपि निरधिकारयोविधिनिषेधयोरप्रवृत्ते- रधिकारिविशेषोपादानं विना नैराकाझ्यं न सम्भवतीत्याशङ्कया- ह*तावता चेति*अशक्यविधानानुपपत्तेरसमर्थव्यावृत्त्यवगमाच्छ- क्तमात्रस्य कर्तृत्वावधारणात्कर्तृत्वस्य चाधिकारं विनानुपपत्तेः कर्तृ- विशेषेणैवाधिकारिविशेषावधारणसिद्धेर्न होलादौ दिग्देशपरिच्छि- नस्यैव कर्तृविशेषस्याधिकार इति नियता प्रतिपत्तिर्लभ्यतइत्यर्थः। ननु शक्तस्यापि विधिमन्तरेणाप्रवृत्तेस्तस्य चानाचारकल्पत्वात्तदानुरू- प्येण दिग्देशपरिच्छिन्नकर्तृविशेषविषयत्वप्रतीतः कथं तन्निराकर- णमित्यभिप्रायेण पृच्छति * कुत इति * उत्तरमाह *त्रिधैवेति* स्वर्गकामो यजेतेत्यविशेषश्रवणे ऽप्यग्निविद्यारहितत्वेनायोग्यस्य शूद्रादेः कर्तृत्वासम्भवाद्योग्यत्वेन त्रैवार्णिकः कर्ता विशेषरूपण ज्ञायते पतितपण्ढयोर्द्विजातिकर्मभ्यो हानीति निषेधात्तद्वर्जितो प्रतिषिद्धत्वेन ज्ञायते । राजा राजसूयेन यजेतति विशेषापादकत्वे येन क्षत्रियः कर्ता विशेषरूपेण ज्ञायते । न त्विषां मध्ये किं चि. दिग्देशपरिछिन्नकर्तृविशेषज्ञानकारणमस्तीत्याशयः । यत्र योग्य- त्वस्य तावदविशिष्टत्वान्न दिग्देशपरिच्छिन्नकर्तृविशेषज्ञानकारणता- स्तोत्याह * तादहेति * श्रावयेच्चतुरो वर्णानित्यादिश्रुतिपर्यालो- चनया शूद्राणामपि वैदिकमन्त्ररहितेषु स्मृत्याचारप्राप्तेषु कर्मखाधि- कारोऽस्तीति समस्तशब्देनोक्तं, सर्वधर्मबहिस्कृतत्वस्मृत्या म्लेच्छा- प्रथमाध्यायस्य तृतीयः पादः । २४७ नां धर्मानधिकारावगमादार्यावर्त्तनिवासिग्रहणं निषेधाधिकारे त्व- विशेषात्सर्वाधिकारोपपत्तेराचारकल्प्यत्वाद्विधेयस्याचारस्य याव- द्भिर्वर्णैराश्रमिभिर्लेच्छादिभिर्वानुष्ठानं दृश्यते तावतां तस्मिन्नाचारे ऽधिकार इति प्रतिपादनायानवक्लप्तिरुक्ता। अप्रतिषिद्धत्वस्य कर्तृ- विशेषज्ञानकारणत्वं पूर्वोपन्यस्तमप्युपपदनिराकरणाधीननिराकर- णत्वादुपेक्ष्योपपदं तावनिराकरोति * न त्वति * यथा चात्र १८२२२ यः कर्तृविशेषः कल्पः तद्वाचकत्वेन तदनुसारियदुपपदमनुमीयते तन्न सम्भवतीत्यर्थः । प्राच्याद्युपपदशङ्कानिराकरणार्थम् * देश- श्वेत्युक्तम् * गृह्यादौ त्वाचारशब्दपाठोपलक्षणार्थमङ्गीकृत्य नात्र गृह्यगौतमीयादौ यथापाठं छन्दोगादिकर्तृविशेषानुसार्युपपदं किं चिदुपात्तं यत्तन्मूलभूतायां श्रुतावनुमीयेतति योज्यम् । प्रतिषेध्य- वाच्युपपदासम्भवनाप्रतिषिद्धत्वमपि कर्तृविशेषज्ञानकारणं नेह स- म्भवतीत्याह * ये ऽपि चेति * आचारानुरूपकर्तृविशेषवाच्युपप- दासम्भवं न तस्याकृतिवचनतेति भाष्योक्तेन मार्गेणोपपादयितुमुप- क्रमते * योग्यत्वेनेति * प्रश्नपूर्वकमुपपादयति * कुत इति * श्लोकं व्याख्यातुमाकृतिवाच्युपपदासम्भवं तावत्प्रपञ्चयति * न तावदिति * व्यक्तिवाच्युपपदासम्भवं प्रपञ्चयति * व्यक्तिवाचि- त्विति * एतदेवोपपादयति * न हीति * नन्वनन्तभेदानामपि पु- रुषव्यक्तीनां शुक्लो होतेतिवदकेन केन चिद् गुणेनैष्टव्यो विवक्ते इति वद्वा कया चिदेकया क्रिययोपलक्षितानामेकमभिधानमवकल्पिष्य- तइत्याशङ्कयाह * एतेनेति * आचारानुरूपविशेषणानुपपत्तिरेत- च्छब्देन परामृष्टा गुणस्य क्रियाया वा विशेषरूपेणानेकपुरुषव्यक्त्यु- पलक्षणशक्त्यसम्भवाजातिग्रहणम् । एतदेवोपपादयति * न ही- ति * ननु व्यक्त्याकृतिवाच्युपपदासम्भवे ऽप्यर्थान्तरवाचिकिञ्चि- द्भविष्यतीत्याशङ्कयाह * व्यक्तीति * उक्ते ऽर्थे न तस्याकृतिवचन- १८३२ तेति भाष्यं योजयति * एतदेवति * विधानपरामर्शिनस्तच्छब्दा- त्परा षष्ठी विधानविशेषणार्थोपपदव्यतिरेकजनितेत्याशयः । विधा- नविशेषणार्थस्योपपदस्य व्यक्त्याकृतिवचनत्वासम्भवेनोपपादनार्थ न चेति भाष्यं हि शब्दार्थे च शब्दमङ्गीकृत्य व्याचष्टे * न हीति * व्यक्तिवाचित्वनिराकरणे ऽनुष्ठातृविशेषाणां यदेकं सामान्य साधा- रणमुपलक्षणं न तन्निमित्तानुष्ठातृविशेषाणां वाचको ऽस्तीति तस्यो- पलक्षणार्थत्वेन सर्वेषां शब्द इति शब्दव्यतिरेकजनितषष्ठयङ्गीकरणेन योज्यम् । नञ्चवर्जितपाठान्तरमाकृतिवाच्युपपदासम्भवादयुक्तमा- शङ्कयोपन्यासपूर्वकंन्याचष्टे * केषाश्चित्त्विति * वर्गकामो यजेते- ૨૨૮ न्यायसुधायाम्। त्याख्यातोपात्तभावनाक्षिप्तकर्तृविशेषणोपादेयार्थे खर्गकामपदे पुल्लि- ङ्गनिर्देशास्त्रिया नाधिकार इति पूर्वपक्षं कृत्वा कर्तृविशेषणत्वेनाप्य- न्वितस्य वर्गकामस्य विध्यन्यथानुपपत्त्या प्राधान्यावगतरुद्देश्यत्वा- द्विशेषणाविवक्षति षष्ठे सिद्धान्तयितुं यथा विशेषणाविवक्षाभिप्रायण जातिशब्दः प्रयुक्त इति नैव वयं ब्रूमो जातिवचन इह शब्दोऽधिका- रक इति किंतर्हि स्वर्गकामशब्देनोभावपि स्त्रीपुंसावधिक्रियेते इत्य- विवक्षितं पुल्लिङ्गमिति भाष्ये वक्ष्यते तथात्रापि विशेषणाविवक्षाभि- प्रायणाकृतिशब्दः प्रयुक्त इत्यर्थः। अस्मिंश्च पाठे ननु दिनेशपरि- च्छिन्नकर्तृविशेषमात्रवर्त्यवान्तरजातिवाच्ये च तर्युपपदं कल्पयि- ध्यतइत्याशङ्कानिराकरणार्थत्वेन न चेति भाष्यं स्वार्थचशब्दकं यो- ज्यं, पूर्वस्मिन्नेव पाठे वैयाकरणगन्धिनो मीमांसकस्य व्याख्यानं दू- षयितुमुपन्यस्यति * कश्चित्पुनरिति * शब्दान्तरानाख्येयार्थत्वे- नांख्यातशब्दमनेन भाष्येणोपवर्णयन्नेवमाहेत्यन्वयः । किमाहेत्यपे- क्षिते भावइति तदीयो ग्रन्थः पठितः । तस्यार्थों भावाख्यो यो लि. ङाद्यर्थः।सो ऽतो लिङादिशब्दजनिताद्भानादन्येन शब्दान्तरजनितेन शानेनानाख्येयः । तृतीयान्तमन्यादित्यव्ययम् । भावादिशब्दैराख्यात- दर्शनाच्छब्दान्तरानाख्येयत्वानुपपत्तिमाशङ्कय स्वधर्मेण पूर्वापरीभा- वेन कालत्रयासंसृष्टत्वेन लिङ्गसम्बन्धायोग्यत्वेन च शब्दान्तरेण *नाख्यायतइत्युक्तम् * यद्वा शब्दान्तरानाख्येयत्वकारणम् *स्वध- मणेत्यनेनोक्तम् * शब्दान्तरेण ह्याख्यायमानो ऽर्थः सामान्यरूपे- ण विशेषरूपेण व्याख्यायते न च लिङाद्यर्थस्य सामान्यरूपता वि- शेषरूपता वा खधर्मः तस्याव्यपदेश्यत्वेनानुवृत्तिव्यांवृत्तिप्रत्ययगो- चरत्वाभावादित्याशयः । यथा कारक क्रियायां व्याप्रियमाणत्वरू- पेण खधर्मेण द्वितीयादिविभक्तितोऽन्येन शब्देन नाख्यायते तथा भावो ऽनाख्यातादन्येन शब्देन स्वधर्मणाख्यायतइति दृष्टान्तार्थः । नन्वाकृतिवचनत्वस्यात्र न्याय्यत्वाभिधानात्तस्याश्च सत्वरूपत्वेन श. ब्दान्तरैराख्यातुं शक्यत्वान्नेदं भाष्यं शब्दान्तराख्येयत्वनिराकरणस- मर्थमित्याशङ्कयेममित्युक्तम् । ननु पूर्वपाठे ऽप्युक्तेन प्रकारेणोपपद- स्याव्यक्त्याकृतिवाचित्वनिराकरणप्रतीते ख्यातार्थोपवर्णनसामर्थ्य, मित्याशङ्कय * सूत्रेत्युक्तम्*सूत्रगतस्याख्यातवाचिनो विधानशब्दस्य यावच्छ्तस्य खसम्बन्ध्युपपदप्रतिपादनानपेक्षस्य व्याख्येयत्वेन प्र- कृतत्वान्न तस्य विधायकस्याख्यातस्य कर्तृविशेषव्यवस्थापकव्यक्त्या- कृतिवचनता न्याय्या।न चान्यो ऽपि कश्चिच्छब्दः सर्वेषामनुष्ठातृणां व्यवस्थापकस्य सामान्यस्य वाचको ऽस्तीति भाष्यार्थभ्रान्तिर्जायतइ- प्रथमाध्यायस्य तृतीयः पादः। २४९ त्यर्थः। सूत्रगतेन यावच्छतेन विधानशब्देन जनिता भ्रान्तिर्यस्यति विग्रहः । नन्वेवमपि विधायकाख्यातार्थस्य विधेः शब्दान्तरानाख्ये यत्वं वाच्यं न भावशब्दाभिधेयाया भावनाया इत्याशङ्कय * विधी- त्युक्तम् * ननु भावार्थाधिकरणे यज्याद्यर्थश्चातो ऽवगम्यते भाव- येदिति चेति भाष्ये विध्यतिरिक्तभावनाव्युत्पादनादभेदाङ्गीकरणं न युक्तमित्याशयोभयेत्युक्तम् । क्रियारूपत्वे भावनाया धात्वर्थादभे- दापत्तेः कार्यरूपता वाच्या ततश्च कार्यरूपाद्विधेर्विलक्षणं कीदृशं तस्याः स्वरूपमिति निरूपणीयामत्येवं रूपात्पर्यनुयोगस्तेन भावार्था- धिकरणसिद्धान्तो नाशित इत्यर्थः । नन्वेवं सति को लिङाद्यर्थ इति पृष्ट कीहशमुत्तरं देयमित्याशझ्याह * तेनेति * आख्वातश- ब्दो लिङाद्यभिप्रायः । भावनाशब्दो विध्याभप्रायस्तं प्रति कुर्याच्छ- ब्द उत्तरं दास्यतइत्यन्वयः । यथा कः पिक इति पृष्टे कोकिल इ- त्युत्तरं दीयते तथा को विधिरिति पृष्टे कुर्यादित्युत्तरं देयमित्यर्थः । ननु करोतेः क्रियासामान्यवाचित्वात्तदर्थस्य शब्दान्तराख्ययत्वं प्र- सज्येतेत्याशय लिङादीत्युक्तं करोत्युच्चारणं तर्हि किमर्थमित्याश- य केवलेत्युक्तम् । ननु धात्वन्तरेण प्रत्ययानुग्रहसिद्धेः करोति- नियमः किमर्थ इत्याशय * सर्वेत्युक्तम् * सर्वविधिव्याप्तयर्थः । करोतिप्रयोग इत्याशयः । शब्दान्तरानाख्येयत्वे कोपपत्तिरित्यपेक्षा- यां भाष्योक्तामेवोपपत्तिमाह * सर्वश्चोत * अत्रैव भाष्यं योजय- १८४ार ति * तदेव चेति * किलेत्यपारमार्थिकत्वं द्योतितं विधानेत्या- दिना भाष्यस्य सामर्थ्य दर्शितम् । व्यक्त्याकृतिवचनत्वाभावमुप- पादयति * कुर्यादिति * करोतीति कार्यतामात्रं प्रपद्यते ऽङ्गीक- रोति न तु विधेः सामान्यरूपतां व्यक्तिरूपतां वावगच्छतीत्यर्थः । विध्यतिरिक्तभावनावादिमते तस्या अपि विधायकाख्यातात्कार्यतया च प्रतीतेः सिद्धरूपत्वाभावेनानुवृत्तिव्यावृत्तिप्रत्ययगोचरत्वासम्भ- वात्सामान्यविशेषरूपत्वप्रतीत्यसम्भवं दर्शयितुम् * भावनाया वे- त्युक्तम् * दूषयति * तदिदमिति * तदिदमन्यार्थमेव सदन्य- स्मिन्नेवार्थे योजितमित्यन्वयः किमर्थमित्यपेक्षायाम् * भाष्यकारे- त्युक्तम् । अयमेवाभिप्रायः कस्माद्भाष्यकृतो ऽभिप्रेतो न भवतीत्या- शय * असम्बद्धत्वानुपपत्तिकत्वाश्यामित्युक्तम् * कथं तत्र योजितमित्यपेक्षिते श्रुतीत्युक्तम् । यथा चत्वारि शृङ्गोति मन्त्री विषुवति होतुराज्ये विनियोगादादित्यरूपेणाग्नेः स्तुत्यर्थो ऽन्यत्रापि विनियोगाद्यज्ञमात्रस्तुत्यर्थो वैयाकरणैर्नामाख्यातोपसर्गनिपाताः श- ब्दा ब्रह्मणः चत्वारि शृङ्गेति भूतभविष्यद्वर्त्तमानकालवाचिनःप्रत्यया न्यायसुधायाम्। उदात्तानुदात्ता खरिता वा खरास्त्रयः पादाः वर्णनादात्मको शब्दो प्रकृतिप्रत्ययौ च द्वे शीर्षे नामिक्यो विभक्तयः सप्त हस्ताः उर. कण्ठ- शिराश्च नाभ्युरः कण्ठेषु वा त्रिधा बद्धः खर्गादिसाधनकविधान- द्वारेण वर्षणादृषभः शब्दात्मकत्वाद्रोरवीति सर्वगतत्वान्महत्सर्व- व्यवहारसाधनत्वादेव मनुष्यैरुच्चार्यमाणत्वान्मानाविवेशतिनि- योगानपेक्षेण श्रुतिसामान्यमात्रेण शब्दप्रतिपादनरूपे ऽर्थे योजित इति दृष्टान्तार्थः । कथं पूर्वोक्तस्यार्थस्य भाष्यकारानभिप्रेतत्वामत्या- शझ्याह * देशेति * परव्याख्यानस्यासम्बद्धत्वं निरुपपत्तिकत्वं च पूर्वोक्तमुपपादयितुं विवृणोति * यदि त्विति * न प्रकृतेन सू- त्रव्याख्यानन सम्बन्ध्यते नापि सर्वधर्मत्वोपपत्तिं प्रत्युपयुज्यतइत्य- सम्बद्धत्वाद् द्वेधा व्याख्यातं तत्रासम्बद्धत्वं तावदुपपादयति * त- था हीति * एतदेव विवृणोति * यदि नामति * निरुपपत्तिकत्वं त्वन्यानाख्येयार्थत्वमुक्त्वा खयमेव च लिङाधर्थस्य पर्यायान्तरैरा- १८५।३ ख्यानात्स्पष्टीकृतमित्याह * अनाख्येयत्वामिति * एतदेव विवृणोति * विधीति * विध्युपदेशशब्दयोः. पर्यायत्वेऽपि कर्तव्यताशब्दस्य विधिविषयत्वरूपाभिधायित्वाद्भावनाशब्दस्य च पुन्यापाराभिधा- यित्वादत्यन्ताविद्यमानपर्यायत्वारोपाभिधानमतीव स्थापितमित्युप- हासः। ननु नानेन ग्रन्थेन भावनाख्यस्य विध्याख्यातार्थस्य व्यक्त्या- कृतिरूपेणानभिधानात्सर्वधर्मत्वं साध्यते किं त्वनेन दृष्टान्तेन कर्तु- राख्यातार्थत्वेन व्यक्त्याकृतिरूपेणानभिधानाद्वयक्त्याकृतिद्वारकर्तृ- व्यवस्थाशङ्कानिरासेन सर्वधर्मत्वसिद्ध्यर्थमन्यानाख्येयत्वोपपत्तिमि- षेण व्यक्त्याकृतिवाचित्वनिराकरणं नासम्बद्धमित्याशङ्याह * य- द्यपि तावदिति * व्यक्त्याकृतिरूपेण कर्तुराख्यातवाच्यत्वेऽपि कृ- दन्तयजमानपदोपात्तकर्तृवदुपपदं विना व्यवस्थानुपपत्तेः । कधि- करणे चाख्यातवाचित्वनिराकरणात्कर्तृव्यक्त्याकृतिवाचित्वनिराक- रणमनुपयोगीति भावः । ननु माभूत कर्तृव्यत्त्याकृतिवाचित्वस्य व्यवस्थानापादकत्वान्निरासः किं तु खरूपमात्राभिधाने विशेषाभा- वेन सर्वधर्मत्वसिद्ध्यर्थमित्याशङ्कयाह * यदि चेति * ननु राज- सूयादीनामप्याख्यातवशात्सर्वधर्मत्वं प्राप्नोति च किं तूपपदं विशे- षणापोदितमिह त्वपवादाभावानत्सिद्धिरित्याशङ्कते *अथति* ए- वमप्यपवाद निरासं विना सर्वधर्मत्वासिद्धराख्यातार्थनिरूपणं व्य- र्थमिति परिहरति *एवं तत्रापीति * अतो ऽस्मदीयमेव पाठद्वये व्याख्यानं युक्तमित्युपसंहरति * तच्चति * उत्तरसूत्रसङ्गत्यर्थ- मपि उपपदनिरासार्थतयैवायं ग्रन्थो व्याख्येय इत्याह * तद्यथा प्रथमाध्यायस्य तृतीयः पादः। २५१ चेति * तन्न्यायत्वादिति सूत्रावयवव्याख्यानार्थ तस्मादिति भाष्य सर्वधर्मत्वस्यैव साध्यत्वाद्धेतुत्वानुपपत्तेरयुक्तमाशय सर्वधर्मत्व- साधकसर्वाधिकारन्यायत्वादित्येवं व्याचक्षाणाः सर्वधर्मत्वप्रतिज्ञा- या योजयति * तस्मादिति * दर्शनाद्विनियोगः स्यात् ॥ १२ ॥ एतत्सूत्रावतारणार्थमथेत्यनुभाषणभाध्यं व्याचष्टे * यस्त्वि- १८६ ति * आर्षेयपश्चार्षेयगोत्रव्यवस्थया शिखाकल्पव्यवस्थादर्शनाद् गो- विशेषवाच्युपपदानुमानेन कर्तृविशेषविनियोगः स्यादित्येवं सूत्र- व्याख्यानार्थ गोनेति भाष्यं व्याचष्टे * तत्रेति * श्लोकं व्याचष्टे * यथैवेति * वसिष्ठादिगोत्रस्यान्वयतो नाराशंसो व्यतिरेकस्तनूनपा- दित्युपलक्षणतेत्यर्थः। लिङ्गाभावाच्च नित्यस्य ॥ १३ ॥ श्यामादिचिह्नविशेषवाच्युपपदानुमानाशङ्कानिरासाथमेत- सूत्रमिति प्रतिपादनार्थ वेदमिति भाष्यं व्याचष्टे *व्यक्तीति * ए- तदेव विवृणोति * व्यक्तीति * नित्यस्य व्यवस्थिताचारान्नियतस्य कर्तुरुपलक्षणभूतस्य लिङ्ग-स्याभावात्तद्वाच्युपपदानुमानानुपपत्तेः । सर्वधर्मतेति लिङ्गीभूतकर्तृविशेषणनित्यशब्दाङ्गीकरणेन खयं सूत्र व्याचष्टे *लिङ्गेति* नियमाभावमुपपादयदन्ये ऽपीति भाष्यं व्याच- ष्टे * यञ्चिह्नमिति * अन्वयव्यभिचारार्थ भाष्यं व्याख्याय नैवं लिङ्गा इति व्यतिरेकव्यभिचाराथै भाष्यं व्याचष्टे * दृष्टमिति * तस्मादित्युपसंहारभाष्यं व्याचष्टे * तस्मादिति * ननु नास्ति तन्नित्यमेषां लिङ्गमिति भाष्यानित्यशब्दस्य लिङ्गविशेषणत्वप्रतीते। कर्तृविशेषणत्वेन व्याख्यानमयुक्तमित्याशझ्याह * यस्त्विति * नित्यक रुपलक्षणाशक्तिप्रदर्शनार्थ लिङ्गस्य नित्यत्वं भाष्यकृता निराकृतम् । ननु सौत्रो नित्यशब्दो लिङ्गविशेषणत्वेन व्याख्यात इति मन्यते इति काक्वा सूचितम् । नित्यशब्दसापेक्षत्वाल्लिङ्गशब्द- स्याभावशब्देन सह * असमासप्रसङ्ग इत्युक्तम् * ननु राजपुरुषः शोभन इति पुरुषशब्दस्य शोभनशब्दसापेक्षस्यापि राजशब्देन सह समासो दृष्ट इत्याशय * उपसर्जनीभूतेत्युक्तम् * भवति. हि प्र- धानस्य सापेक्षस्यापि समास इति स्मृतेः । पुरुषस्य राजानं प्रति- प्राधान्याधुक्तः समासः । लिङ्गस्याभावं प्रत्युपसर्जनत्वात् वृद्धस्य राज्ञः पुरुष इति वदयुक्त इत्याशयः । ननु नित्यशब्दस्य प्रतिपाद्यं नि- यतत्वं विना लिङ्गशब्दार्थस्य लिङ्गत्वानुपपत्तेर्लिङ्गशब्दार्थेनैव नित्यश- ૨૨ न्यायसुधायाम्। ब्दार्थाक्षेपाच्छब्दस्यान्यत्र व्यापाराभावेन सामर्थ्याविघातादुपसर्जन- सापेक्षत्वे ऽपि देवदत्तस्य गुरुकुलमितिवन्नित्यसापेक्षत्वात्समासा- विरोध इत्याशङ्कते * नन्विति * यदि हि सम्बन्ध्यन्तरस्य नित्यश- ब्दस्यार्थों नियतत्वं लिङ्गशब्दार्थेनैव खार्थसम्बन्धितया समभिव्या- हारान्यथानुपपत्त्याक्षिप्येत ततो ऽन्यत्र व्यापृतत्वात्तावत्सम्बन्धा- क्षेपे सामर्थ्य स्याल्लिङ्गशब्दार्थेनैव तु हेतुत्वेन नित्यशब्दार्थापान तेन लिङ्गशब्दस्याभावात् शब्द प्रति सामर्थ्य विहन्यतइत्यर्थः । गुरु- शब्दस्य सम्बन्धिशब्दत्वाच्छिष्यसम्बन्धिरूपं विना स्वार्थप्रतिपाद- नाशक्तेस्ताद्रूतप्यमन्तरेण स्वार्थाभिधानापर्यवसानादपर्यवसितस्वा- र्थाभिधानएव शब्दान्तराभिधानसंयोगात्स्वार्थाभिधानवेलायामेवस- म्बन्ध्यन्तरशिष्यमात्रप्रतीतौ निर्विशेषसामान्यानुपपत्तेस्तद्विशेषापे- क्षायामपि पर्यवसितस्वाभिधानव्यापारस्य शब्दस्य सम्बन्ध्यन्तरा- न्वयसिद्धौ व्यापारान्तराभावेन सामर्थ्याविघातात्समासो युक्तः लिङ्गशब्दस्य तु सम्बन्धिशब्दत्वाभावात्सम्बन्ध्यन्तरमनपेक्ष्यैव पर्यव- सिते स्वार्थाभिधाने ऽर्थापेक्षया प्रतीतस्यापि सम्बन्ध्यन्तरस्याशाब्द- त्वेनान्वयात्पर्यवसितव्यापारस्यापि शब्दस्यैव सम्बन्ध्यन्तरापेक्षाक- ल्पनायामभावशब्देन सहकार्थलक्षणं व्यपेक्षालक्षणं वा सामर्थ्य न १८७२ सम्भवतीत्यभिप्रायेण परिहरति * नैतदिति * सम्बन्धिशब्देषु हि सम्बन्ध्यन्तरापेक्षा विना शब्दप्रवृत्त्यसम्भवाच्छब्दप्रवृत्तिनिमित्तत्वेन सम्बन्ध्यन्तरापेक्षा सम्भवति इह तु तदभावाच्छब्दकृतापेक्षातो ऽपे क्षान्तरेणार्थकृतेन लिङ्गशब्दस्य नित्यशब्देन सह सङ्गतेनैतल्लिङ्गशब्द- स्य नित्यशब्दसापेक्षत्वमनेन गुरुशब्दस्य देवदत्तशब्दसापेक्षत्वेन तुल्य- मित्यर्थः । एतदेवोत्तरार्थत्वेन तूपपादितं लिङ्गत्वं चेन्नित्यत्वमेव प्रति सतां लभते यथा भार्या त्वं पर्तिमेव पति न स्त्री त्वमिव सर्वसाधा- रणं ततो लिङ्गशब्दः स्वार्थस्य लिङ्गशब्दस्य नित्यापेक्षां विनात्मला- भायोगात्तदपेक्षेत न त्वेतदस्ति । तथा हि । नित्यशब्दो ऽयं नियता- भिप्रायो वा स्यात्तद्धर्मनियतत्वाभिप्रायो वा तत्राग्न्यादिनियामक- मेव प्रतिधूमादर्लिङ्गत्वदर्शनानियतापेक्षा तावदनाशङ्कनीयैव निय- तत्वेन तु विना यद्यपि लिङ्गत्वं नास्ति तथापि नियतत्वप्रतियोगि- कत्वाभावान्न तत्प्रत्येव लिङ्गत्वस्य सत्ता साधारणसत्तानिबन्धनापे- क्षिकत्वाभावेन तत्प्रतिपादकस्य लिङ्गशब्दस्य स्वार्थाभिधानकाले नि- त्यशब्दप्रतिपाद्यार्थान्तरापेक्षा निरस्ता तत्पर्यवसितखार्थाभिधान- व्यापारस्यार्थान्तरान्वयसिद्धेापारान्तरापत्तेः सामर्थ्यविधात इ- १ सिद्धाविति २ पु. ना० ।
प्रथमाध्यायस्य तृतीयः पादः। । न्याशयः । दृष्टान्तं तावद्वैधर्म्यपरत्वेन व्याचष्टे * गुरुशब्दस्य हीति * गुरुशब्दार्थस्य गर्भाधानादिपूर्वकवेदाध्यापनस्य शिष्यापेक्षात्मकलाभ- त्वमुपचाराच्छब्दे ऽभिहितं देवदत्तशब्देन षष्ठयन्तेनोपात्तो यः शिष्य- सम्बन्धः सो ऽनतिरेकेण स्वार्थसत्तालाभादनाधिक्येनान्तर्णीतो यस्य गुरुशब्दस्य स्वार्थः स तथोक्तः तस्य भावस्तत्त्वम् । ननु लिङ्गत्वस्यापि गुरुत्ववत्सर्वान्प्रत्यसत्त्वेनासाधारणसत्तानिबन्धना- पेक्षिकत्वसद्भावात्तद्वाचकस्य लिङ्गशब्दस्यापि गुरुशब्दवत्सम्ब- न्धिशब्देन नित्यसापेक्षत्वात्सामर्थ्याविघात इत्याशङ्ख्याभ्युपगम्य तावत्सम्बन्धिशब्दत्वं * लिङ्गयपेक्षया न तु नित्यशब्दार्थापेक्ष- येति परिहरति * ननु नित्यशब्दार्थनियतत्वं विना लिङ्गत्वा- योगादस्त्येव तदपेक्षापीति कथमुच्यते लिङ्गयपेक्षयैव लिङ्गत्वं ननि- त्यापेक्षयेत्याशङ्याह * यद्यपि चेति * लिङ्गनैव प्रतिलिङ्गत्वस्य स- त्ता लिङ्गशब्दस्य सम्बन्धिशब्दत्वाय लिङ्गशब्देन विवक्षिता । न च नित्यत्वप्रतियोगिकी लिङ्गत्वस्य सत्ता प्रतीयते यथा परिणयनं विना भार्यात्वाभावे ऽपि न परिणयनं प्रति भार्यात्वस्य सत्ता किं तु पति- मेव प्रतीत्याशयः । गम्यगमकयोनियमलक्षणे सम्बन्धे सतीत्यर्थः। यद्वाक्षेपकस्यैवाक्षिप्यमाणेन नियतत्वादाक्षेप्याक्षेपकाभिप्रायौ गम्य- गमकशब्दौ । यथा यद्यपि गुर्वादिशब्दः स्वसम्बन्धिना विना प्र- वर्त्तते तथापि शिष्यादिसम्बन्धापेक्षाकृतगुर्वादिशब्दप्रवृत्तिनिमित्ता गुर्वादिशब्दस्य सम्बन्धिशब्दत्वप्रसिद्धिः तथास्य लिङ्गशब्दस्य न नि- यमलक्षणसम्बन्धापेक्षा कृतशब्दप्रवृत्तिनिमित्ता सम्बन्धिशब्दत्वप्र- सिद्धिरित्यर्थः । ननु सम्बन्धिशब्दत्वाभावे ऽपि यौगिकत्वाद्यथा लिङ्गिशब्दस्य शब्दप्रवृत्तिनिमित्तभूतयोगसिद्ध्यर्थ प्रतियोगिलिङ्गापेक्षा तथा लिङ्गशब्दस्यापि यौगिकत्वाच्छन्दप्रवृत्तिनिमित्तभूतयोगापेक्षेति तयोर्योगश्च सम्बन्धः स च लिङ्गत्वापयिको नियमरूप एवेति नि- त्यशब्दवाच्यनियमापेक्षासिद्धेः सामर्थ्य विघात इत्याशझ्याह * लि- ङ्गीति* अयमाशयःयद्यप्यवयवयोगेन प्रवृत्तेरुभयोयोगिकत्वं तुल्यम्। तथापि लिङ्गिशब्दस्य तद्धितान्तत्वात्प्रातिपदिकाच्च तद्धितोत्पत्तेः प्रातिपदिकार्थलिङ्गापेक्षा लिङ्गशब्दस्य तु कृदन्तत्वात्तस्य च धातो रुत्पत्तेर्द्धात्वर्थलिङ्गेन क्रियायोगनिमित्तत्वाच्छब्दप्रवृत्तिनिमित्तभूत- स्य योगस्य प्रतिसम्बन्धिधात्वर्थमात्रेण सिद्धर्नान्यापेक्षेति ॥ ननु लिङ्गशब्दस्य सम्बन्धिशब्दत्वाभावाल्लिङ्गियोगनिमित्तत्वाभावाच्च लिङ्गिनो लिङ्गयनंपेक्षणे लिङ्गदर्शनमित्यभियुक्तप्रयोगो नोपपद्यत- इत्याशङ्ख्याह * लिङ्गयत इति * सम्बन्धिशब्दानां गुर्वादीनां समुदा- २५४ न्यायसुधायाम्। यशक्त्यैवाध्यापनादिक्रियाजन्याद् व्याप्याद्यवच्छिन्नाध्यापयित्रादि- गतातिशयवाचित्वादद्वयवार्थयोगनिमित्तप्रवृत्तित्वलक्षणयौगिकत्वा- नुपपत्तिर्लिङ्गेन क्रियायोगनिमित्तत्वेन यौगिकस्य लिङ्गशब्दस्य स. म्बन्धिशब्दत्वासम्भवे ऽपि ज्ञानाख्याया लिङ्गनक्रियाया शेयलिङ्गिनि- रूपणाधीननिरूपणत्वाच्छब्दप्रवृत्तिनिमित्तभूतयोगप्रतिसम्बन्धिज्ञा- नापरपर्यायलिङ्गनाख्यधात्वर्थनिरूपणाय शेयलिङ्ग चपेक्षा सदास्तीति सामर्थ्याविघात इत्याशयः सबन्धिशब्दवञ्च वाच्यासाधारण्यनिब- न्धनापेक्षा नितरां प्रतिसम्बन्धिधात्वर्थनिरूपणवेलायामेव नित्यं त- दपेक्षानान्यदेति सूचयितुकाममित्युक्तमपिशब्देन क्लेशः सूचितः।न- न्वेवं सति नित्यशब्दाभिधेयस्य नियमलक्षणसम्बन्धस्यापि लिङ्गन- क्रियासिद्ध्युपयोगित्वेन तत्कारकतया लिङ्गेनैव नित्यमपक्षणात्त- सापेक्षत्वे ऽपि सामर्थ्याविघातः स्यादित्याशङ्कयाह * नित्यत्वं पुन- रिति * नियमाधीनन्वे ऽपि लिङ्गनक्रियायास्तदधीननिरूपणत्वाभा- वान्नित्यत्वनिरपेक्षेणैव लिङ्गशब्देन स्वार्थे लिङ्गलब्धे लिङ्गत्वस्य नि- यतत्वं विना ऽनुपपत्तेरर्थेन स्वसिद्ध्यर्थ नित्यत्वमपेक्षितं न शब्देने- त्यर्थः । लब्धेन स्वार्थेन लिङ्गेनापेक्षितमिति विग्रहः । नन्वेवं तर्हि शब्दस्य नैरपेक्ष्यात्सामर्थ्यस्याविघातः स्यादित्याशझ्याह * तद्धर्म- तयेति * विगृहीतया षष्ठया लिङ्गधर्मतया नित्यत्वं लिङ्गस्य सम- र्थ्यते लिङ्गेनान्वीयतइत्यन्वयसिद्ध्यर्थ लिङ्गस्य नित्यत्वे * सम्ब- न्धापेक्षायामित्युक्तं* तस्माद्भाष्यकृतोऽपि कर्तृविशेषणमधिकारिवि- शेषणं वा नित्यशब्दो भिमतो न लिङ्गाविशेषणमित्याह * तस्मादि- ति * उभयत्रापि सूत्रं योजयति * नियतस्येति * तस्मादित्युप- संहारभाष्यं व्याचष्टे * इतीति * आख्या हि देशसंयोगात् ॥ १४ ॥ अथेत्यादिभाष्येणेदमपि सूत्रं पदोत्तरत्वेन व्याख्यातं प्राच्या- दिसमाख्याकविशेषणत्वेनाशङ्किता तत्र संस्थादिवत्समाख्याया अपि व्यभिचारदर्शनात्केन चिद्विशेषेणोपन्यास इत्याशङ्ख्याह * इ- १८८१ दानीमिति * ननु देशान्तरादागत्य प्राद्गशे वसतां प्राच्यत्वे सत्य- पि होलाकाद्यनुष्ठानादर्शनात्प्रादेशाच्च निर्गत्य देशान्तरे वसतां प्रा- च्यत्वाभावे ऽप्यनुष्ठानदर्शनात्कथं समाख्याया अप्यत्यन्तानुवृत्तिरि- त्याशङ्कयाह * सर्वे हीति * नेयं देशनिमित्ता समाख्या किं तु जा- त्यादिनिमित्ता ऽभिमानमात्रनिमित्ता वेत्युत्तरसूत्रे वक्ष्यमाणो ऽभि- प्रायः । एतदेव पूर्वपक्षिणो विशेषणमभिमतमिति सूचयितुमत्रैवार्थे प्रथमाध्यायस्य तृतीयः पादः । 5नुमानव्यवस्थानादिति पूर्वपक्षसूत्रं योजयति * तस्मादिति * सूत्रव्याख्यानार्थ नैतदेवमिति भाष्यं व्याचष्टे * तत्रेति * सर्वप्रा- च्यादिसमाख्यातपुरुषव्यक्तिवर्तिनस्तदसमाख्येभ्यश्च व्यावृत्तस्य जा- त्यादेरदर्शनान्निर्मूलस्य चाभिमानस्यायोगादित्याशयः । देशविशेष- णत्वे को दोष इत्यपेक्षायां नैतदेवमिति भाष्येण सूचितं तावदोषमा- ह * देशश्चेति * ननु दिगूपानवस्थाने ऽपि विन्ध्यापेक्षया निरूढो- दीच्यादिदेशव्यवस्थादर्शनान्न देशविशेषणत्वे ऽपि कश्चिद्दोष इत्या- शङ्कानिराकरणाथै दक्षिणादित्यादिभाष्यं व्याचष्टे * न चेति * दे- शविशेषणत्वाभिधानाभिप्रायविवरणपूर्वकं श्लोक व्याचष्टे * समा- ख्यायास्तावदिति * उभयशब्दोऽन्वयव्यतिरेकाभिप्रायः । न स्यादेशान्तरेष्विति चेत् ॥ १५ ॥ इत्याशङ्कासूत्रं पूर्वपक्षानौपयिकत्वेनायुक्तमाशङ्कय देशनिर्मि- त्तायाः समाख्यायाः व्यभिचारित्वेन विशेषणत्वायोगादव्यभिचारि- निमितान्तरकल्पनार्थत्वेन पूर्वपक्षोपयोगितां दर्शयन्नवतारयति * परस्त्विति * यथैव देशसंयोगव्यभिचारलक्षणयोपपत्त्या तन्नि- मित्तायाः समाख्यायाः व्यभिचारो ऽभिहितः तथैव देशनिमित्तत्वा- योगान्न देशव्यभिचारेण समाख्याव्यभिचार इत्यस्ति यस्य समा- ख्याविशेषणत्वं पक्षस्योपपत्तिलब्धपूर्वपक्षिणेत्यर्थः । कीदृशं प्रत्यव- स्थानमित्यपेक्षायामाह * यदीति * सूत्रव्याख्यानार्थमिति चेदित्या- दिभाष्यं व्याचष्टे * सतीति * किं तझैतनिमित्तमित्याशङ्कयाह * तस्मादिति * अनौपाधिकसन्तानविशेषव्यवस्थितप्राच्यांदिव्यवहा- रान्यथानुपपत्त्या ब्राह्मण्यादिवत्प्राच्यत्वादिजातिरपि कल्पयितुं श- क्यते तदसम्भवे ऽपि वा सन्तानविशेषएव प्राच्यादिशब्दवाच्यो भविष्यतीत्याशयः । निमित्तान्तरासम्भवे ऽपि प्राच्यादिशब्दप्रयोग- परम्परामूलाभिमानमाननिबन्धना भविष्यतीत्याह * अस्तु वेति * ननु शब्दप्रयोगपरम्परैव किं निमित्तेत्याशङ्कयाह * लब्धेति * लब्धं प्राच्यादिसमाख्याख्यमाचारनिमित्तं यैरिति विग्रहः । नो ऽस्माक- मित्यन्यपदार्थः । सूत्रतात्पर्यप्रदर्शनार्थ तस्मादित्युपसंहारभाष्यं व्याचष्टे * तस्मादिति * १८९१ स्याद्योगाख्या हि माथुरवत् ॥ १६ ॥ इति सूत्रमाशङ्कानिराकरणार्थत्वेनावतारयति * इत्युक्त इति * देशसंयोगनिमित्तायामित्यादिभाष्येण देशसंयोगविशेषव्य- २५६ न्यायसुधायाम्। भिचारे ऽपि देशसंयोगमात्रस्याव्यभिचारानिमित्तत्वाभिधानार्थत्वे- नैतत्सूत्रं व्याख्यातं तत्र भूतादिशब्ददर्शनात्कालाविशेषावच्छेदेन देशसंयोगस्य विशेषणरूपत्वोक्ता प्रतिभाति सा च देशसंयोगनिमि- तानां तद्धितानां कालविशेषविषयत्वेनास्मृतरयुक्तेत्याशङ्कयाह *स- म्बन्धरिति * भूतशब्देन तदागमनहेतुकः सम्बन्धो ऽभिप्रेतः । वर्त्त- मानशब्देन निवासहेतुकः । गर्भसम्भवलक्षणभवहेतुकस्य प्रसवल- क्षणजातत्वहेतुकस्य चोभयरूपतोक्ता । भविष्यच्छब्देन बहुशब्दः सूचितः प्रस्थानहेतुको ऽभिप्रेतः । श्लोकं व्याचष्टे * सो ऽस्यति * नन्वेवं सति देशसंयोगमात्रनिमित्ता समाख्याप्यव्यभिचाराच्छनो- त्येव कर्तारं विशेष्टुमित्याशङ्कयाह * न चैनामिति चिरनिर्गतस्य पुरुषस्य पुत्रादीनां पूर्वदेशगर्भसम्भवस्याप्ययोगादित्याशयः । अनेन यस्य त्वतो ऽन्यतमः सम्बन्धो नास्ति न स माथुर इति दृष्टान्तभाष्य सूचितम् । यस्य चिरनिर्गतपुरुषपुत्रादेरतो ऽन्यतमः सम्बन्धो ना- स्ति न स प्राच्यसमाख्यो ऽथ च होलाकादीन्करोतीति समाख्या- व्यभिचारप्रतिपादनं विवृतम् । तस्मादित्युपसंहारभाष्यं व्याचष्टे * इतीति * ननु मथुरामभिप्रस्थित इति भाष्यं किमित्युपेक्षितमि- त्याशझ्याह * यत्त्विति * नन्वेवं दूतविषयत्वेन कस्मान्न व्या- ख्यातामत्याशङ्कयाह * अप्रत्ययितेति * प्राद्गशमाभप्रस्थितो दूतः प्राच्यो ऽनेन दृष्टान्तेनापाद्यत न दौत्ये व्यापृतस्य होलाकाद्यनुष्ठानं दृश्यतइत्याशयः। कर्मधर्मो वा प्रवणवदिति ॥ १७ ॥ सूत्रं कर्माङ्गदेशविशेषणवाच्युपपदशङ्कार्थत्वेनाथेत्यादिभाष्ये- ण व्याख्यातं तथा मन्वादिकर्तृविशेषणवत् कृष्णमृत्तिकाप्रायत्वादे- देशविशेषणस्यापि व्यभिचारेण निरस्तत्वात्प्राच्यादिवच्च प्राक्त्वा- देरपि निरस्तत्वात्केन विशेषेणोपन्यस्यतइत्याशझ्याह * इदानी- मिति * कर्तृणामानन्त्यादसम्भवे प्राक्त्वादरपि देशस्यैक्यादेव वि- शेषणोपपत्तेरित्येतावानाशयः । भाष्ये कृष्णमृत्तिकाप्रायग्रहणं प्रा- क्त्वादेरुपलक्षणार्थ प्राचीनप्रवणोदाहरणं च प्रागुदक्प्रवणस्यापी- ति व्याचष्टे * प्रागिति * तुल्यं तु कर्तृधर्मेणेति सूत्रमव्यवस्थित- तुल्यत्वाभिप्रायेण व्यभिचारतुल्यत्वाभिप्रायेण व्याचष्टे * तुल्यं त्विति दिक् * कृष्णमृत्तिकाप्रायप्रभृति यत्तस्य देशस्य चिह्न तदा- चारानुमेयश्रुतिगतोपपदवाक्यत्वेनाशङ्कितं तद्नवस्थितत्वाद्वयाभ- चाराच्च कर्तृधर्मेण प्राच्यत्वादिना श्यामत्वादिना चतुल्यमित्यर्थः।
प्रथमाध्यायस्य तृतीयः पादः। दिशस्तावद्देशविशेषचिह्नत्वासम्भवमुपपादयति * प्राद्शइति * कृष्णमृत्तिकादेरनवस्थितत्वं यथेत्यादिभाष्यक्तिमुपपादयति * मृ- १९०१ त्तिकाद्यपीति * तत्र दक्षिणदेशे ऽन्यत्र च देशान्तरे तत्सममित्यर्थः। व्यभिचारानवस्थितत्वयोरितरेतरनरपेक्ष्ये ऽप्युपपादननिराकरणार्थ- त्वं दर्शयितुं तस्मादित्युपसंहारभाष्यं तावद्वयाचष्टे * होलाकादी- ति * कृष्णमृत्तिकाप्रायेणापीति व्याभिचार इत्यादिभाध्यं याचष्टे * पुरुषापेक्षयेति * अत्राप्युपसंहारभाष्यमावृत्त्या योजयति * त- स्मादिति * कर्तृविशेषवद्देशो ऽपि होलाकादिव्यवस्थाकरणं न भवतीत्यर्थः॥ इति श्रीमत्रिकाण्डमीमांसामण्डनप्रतिवसन्तसोमयाजिभट्ट- माधवात्मजभट्टसोमेश्वरविरचितायां तन्त्रवार्तिकटीकायां सर्वा- नवद्यकारिण्यां न्यायसुधाख्यायां प्रथमाध्यायस्य तृतीयस्ट- तिचरणपूर्वाद्धम् ॥
No text on this page.
न्यायसुधायाम् । प्रथमाध्यायस्य तृतीयपादस्य उत्तराधों भागः । ॥ साधुपदप्रयोगनियमाधिकरणम् ॥९॥ प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषुन व्यवस्था स्यात्॥१८॥ अत्र भाष्यकृता गोगाव्यादिशब्दानुदाहृत्य किमेते सर्वएव सानादिमतोऽर्थस्य वाचकाः सन्तो वाक्यार्थे प्रमाणम् उत एक एवेति सानादिमतो वा पदार्थस्य कार्यायां वाक्यार्थप्रमायां कारणं किमेते सर्व एवोत एक एवेति सन्देहमुपन्यस्य प्रयोगभेदेनाविरोधा- त्सर्वेषां ब्रीहियवादिवद्विकल्पेन प्रामाण्योपपत्तेः । सिद्धान्ताभावेन सन्देहानुपपत्तिमाशय किमत्रेति भाष्येण शक्त्या विना शब्दस्यार्थप्र- त्यायकत्वं सम्भवत्युत नेति सन्देहकारणमुक्त्वा सर्वइत्यादिना भाष्येण पूर्वपक्षः कृतः। तत्र यववराहाधिकरणे शास्त्रस्थप्रयोगवलेन लौकिकप्रयोगबाधस्योक्तत्वात् पूर्वपक्षानुपपत्तिमाशङ्कयाह*एकस्मा- दिति * व्यवस्थितशास्त्रस्थप्रयोगबलेनाव्यवस्थितलौकिकप्रयोगबाध- मङ्गीकृत्य यवादिशब्दानां दीर्घशूकाद्यर्थनिर्धारणं यत्प्रतिपादितं त- द्विकल्पदोषभयादनेकादृष्टशक्तिकल्पनाप्रसङ्गागौणमुख्यविभागाश्र- यणाञ्चेति योज्यम् । एतत्कारणत्रयोपपादनायैकस्मादित्युक्तं, यवैर्य- जेतेत्येकस्माद्यवपदाहीर्घशूकैर्वा यष्टव्यं प्रियङ्गुभिर्वेत्यनेकार्थप्रतीतेर्वि- कल्पोऽनेकशक्तिकल्पना ह्येकस्य शब्दस्यापद्यत एकस्मिश्चार्थे शब्दस्य शक्तौ क्लप्तायां गौणत्वेनेतरत्र प्रयोगोपपत्ते नेकशक्तिकल्पनं युक्तम् 'ह तु गोशब्दश्रवणात्ततो ऽर्थप्रतीतिर्गावीशब्दश्रवणे तस्मादिति व्य- स्थोपपत्तेर्न तावच्छोतुर्विकल्पापत्तिः । वक्तुरप्ययमेव शब्दः प्र- योज्य इति नियमाभावात्प्रसज्यम्बनो ऽपीच्छया विकल्पेन दोषमाव- हति यत्र च कारणात्कार्यदर्शनं तत्र शक्तेरस्तित्त्वं सम्प्रतीयतइति न्यायेन शक्तेः कारणाश्रितत्वेन शब्दसमवेतत्वात्तद्भेदे युक्त एव भेदो गाव्यादीनां चार्थान्तरे मुख्यगौणाभावात्सानादिमति गौणत्वायो- न्यायसुधायाम् । , गात् शब्दसादृश्यमात्रेण शब्दस्य शब्दान्तरार्थप्रत्यायकत्त्वे शालाश- ब्दस्यापि मालाशब्दार्थप्रत्यायकत्वापत्तेर्मुख्यत्वमवश्यं प्रतीयतइति वैषम्यं, प्रियङ्गुदीर्घशुकयाश्चैकपदोक्तयोर्वकल्पे तस्यैव यवपदस्य युगपदेकार्थापेक्षया प्रामाण्यमर्थान्तरापेक्षया चाप्रामाण्यामित्यत्यन्त- विरोधं वक्तुम् * एकस्मादित्युक्तम् * केषां चिद्दीर्घशूकेषु प्रयोगो ऽन्येषां प्रियङ्गुष्वित्युनेकार्थप्रतिभानकारणमुक्तम् । यववराहाधिक- रणन्यायमुक्त्वा तद्वैषम्यमत्रैव दर्शयन् पूर्वपक्षयति * यत्र पुनरि- त्यादिना * साधुत्वेनावधार्यन्तइत्यन्तेन तत्र सत्यप्यकविषयानेक- शब्दत्वे ऽर्थसाधनत्वात्साधुत्वेनावधार्यन्तइति वक्ष्यमाणसाध्यालो- चनेन शक्तिभेदोपपत्तेरविरोधादिति च पञ्चमीद्वयं योज्यं, शब्दाधि- तत्वाच्छक्तस्तद्भदे शक्तिभेदौचित्यं समवायिशब्देनोक्तम् । अर्थविशे- पावच्छिन्नशब्दाश्रितैकशक्तिकल्पनामात्रेणोभयनियमोपपत्तेरनवच्छि- नशक्तिकल्पने वा शक्तिद्वयकल्पने ऽप्यर्थस्य सर्वशब्दवाच्यत्वापत्तेः शब्दस्य च सर्वार्थवाचकत्वापत्तेराश्रितशक्त्यभावात् अर्थक्ये ऽप्येकस्यानेकशक्तिकल्पनादोषो नास्तीत्याशयः । यवादिविधेश्च शास्त्र- स्थप्रयोगेण दीर्घशुकादिविषयत्वावधारणात्तद्विरुद्धलौकिकप्रयोगा- वगतप्रियङ्ग्वादिविषयत्ववाचोदाहृतगवादिशब्दप्रयोगमात्रेण गा- व्यादिशब्दानामप्रयोगत्वावगमात्सर्वपर्यायप्रयोगानियमाच्चाविरो- धान्न शास्त्रस्थप्रयोगेण लौकिकप्रयोगबाध इति शास्त्रस्थत्यस्यार्थः । अस्यैव पूर्वपक्षहेतुद्वयस्य यववराहाधिकरणन्यायवैषम्यप्रतिपादना- र्थत्वप्रदर्शनार्थ सत्यपि विरोधे शास्त्रस्य साध्वसाधुत्वप्रतिपादन- व्यापाराभावाच्छास्त्रस्थप्रयोगस्य निर्मूलत्वेन लौकिकप्रयोगाबाधक- त्वादपि सर्वे साधुत्वेनावधार्यन्तइति उत्तरोपपत्तिर्वक्ष्यमाणसाध्य- व्यवधायकरूपेण पदपूर्वकत्वाच्चेति खोपपादकोपन्यासपूर्वमुपन्य- स्ता अनेन व्याकरणस्मृत्यप्रामाण्येन पूर्वपक्षकरणाद्विचारस्य पादा- ध्यायसङ्गतिदर्शिते। अनन्तराधिकरणसङ्गतिस्त्वीहगसम्भवप्रतिपाद- नार्थमेव वेत्यत्र होलाकाधिकरणोक्तव्यक्त्याकृत्यादिवाच्युपपदास- म्भवोपजीवननात्र पूर्वपक्षोत्थानाद्वक्ष्यते व्याकरणशास्त्रव्यापारस्य पदपूर्वकत्वोपपादनार्थ वाक्यात्मकत्वं विशेषणम् । अनेन च व्या- करणशास्त्रस्य लोकप्रसिद्धपदप्रयोगादुत्पत्तेः ।साध्वसाधुव्यवस्थायाः शास्त्रविषयत्वायोगादित्येवम्प्रयोगोत्पत्त्यशास्त्रत्वादिति सूत्रावयवो व्याख्यातः । लोकप्रसिद्धसाधुशब्दवशात् व्याकरणशास्त्रं प्रवर्त्तते तस्माञ्च लौकिकशब्दानां साध्वसाधुत्वनिर्णय इतीतरेतराश्रयोपपा- दनार्थम् * तथा हीत्युक्तम * शब्दरूपश्चासावर्थश्चेत्येवं वस्तुव- प्रथमाध्यायस्य तृतीयः पादः । चनत्वेनार्थशब्दो व्याख्येयपदार्थज्ञानाय वा शब्दशास्त्रस्य पदरूपश- ब्दापेक्षाप्रदर्शनार्थो ऽर्थशब्दः । नन्वेवमप्यर्थप्रतिपादकत्वेन गोगा- व्यादिशब्दानां लोके प्रसिद्धत्वात्साधुत्वं भेर्यादिशब्दानां त्वर्थप्रति- पादकत्वाप्रसिद्धरसाधुतेति व्यवस्थोपपत्तेः शब्देषु न व्यवस्था स्या- दित्ययुक्तमित्याशय * अत इत्युक्तम् * लोकप्रयुक्तेष्वेव गोगा- व्यादिषु साध्वसाधुत्वव्यवस्थानिरासार्थमेतदित्याशयः । नन्वेवं स- त्याचारेण स्मृतिबाधः स्यात्स च पूर्वोक्तस्मृतिबलाबलीयस्त्वविरुद्ध इत्याशङ्कय * वाक्यार्थेषु हीत्युक्तम् * तत्र आचारानपेक्षायाः स्मृतेस्ततो बलीयस्त्वमिह तु स्मृतेराचारापेक्षत्वेन विपरीतबलाबल- क्रमत्वाल्लोकादेव साध्वसाधुता निर्णेतव्यत्याचारेण स्मृतिबाधो युक्त एवेत्याशयः ननु लोकस्य सङ्कीर्ण व्यवहारित्वा- साध्वसाधुत्वनिर्णायकत्वं न युक्तमित्याशङ्कय * वाचकेत्युक्तम् * अर्थप्रत्यायको यो गोगाव्यादिशब्दः ससाधुरप्रत्यायको भेर्यादिशब्द- श्वासाधुरिति व्यवस्था लोकसिद्धवेत्यर्थः । ध्वनिमात्राणीत्यनेनैतदे- व विवृतम् । मात्रिका वर्णसमाम्नायः। ननु वेदादिविद्यास्थानप्रयु- तेष्वेव गवादिशब्देपु साधुत्वप्रसिद्धेर्गाव्यादिशब्देपु च तत्राप्रयुक्ते- ज्वसाधुत्वप्रसिद्ध लोके चैवंविधव्यवस्थानुपलब्धेर्न ततो निर्णयः स- म्भवतीत्याशय साध्वसाधुशब्दयोरर्थप्रत्ययसाधनत्वासाधनत्वनि- मित्तत्वेन रूढित्वाभावाल्लोके च भेर्यादिशब्दानामप्रत्यायकत्वनिश्च- यात् । गोगाव्यादिशब्दानां प्रत्यायकत्वनिश्चयात्सिद्धैव व्यवस्थेति * तेनेत्यादिनोक्तम् * अपशब्दत्वमप्यर्थप्रत्ययापगमनिमित्तत्वाद्भर्यादि- शब्देष्वेव व्यवस्थितमित्यनर्थकत्वादित्यनेनोक्तम्। नन्वेकेनैवार्थप्रत्यय- सिद्धेः कथम्मेकस्मिन्नर्थे अनेकेषां साधुतेत्याशङ्का गवादिदृष्टान्तेन निरस्ता एवं वाचकशक्तिभेदोपपत्तिरविरोधादिति च पञ्चमीद्वया- न्वयायैतावद्भन्थतात्पर्यमेकवाक्यतया व्याख्यातम् ।यद्वा तत्र वाचके शक्तिभेदोपपत्तिप्रतिरोधत्वं पर्यालोच्य यो निर्णयो भवति सर्वेषां साधुत्वमित्येवंरूपः स्वीकार्यः । न तु शास्त्रस्थप्रयोगबलेन लौकिक- प्रयोगबाधं पर्यालोच्येति ल्पब्लोपे पञ्चमीद्वयमङ्गीकृत्य पूर्वफक्कि- कागतनिर्णयशब्दानुषङ्गेण वैषम्यप्रतिपादनार्थत्वेनाविरोधादित्यन्तं ग्रन्थं व्याख्याय ननु वाचकशक्तिभेदोपपत्तौ शास्त्रस्थप्रयोगाविरो- धे च सत्यपि व्याकरणशास्त्रेण गवादिशब्दानामेव साधुत्वान्वा- ख्यानेनेतरेषामसाधुत्वप्रतिपादनान्न तद्विरुद्धाचारबलेन सर्वेषां सा- धुत्वं युक्तमित्याशङ्कानिराकरणार्थतयोत्तरग्रन्थो व्याख्येयः । अत्र भाष्यकृता सर्व इति बम इत्यनेन शब्देषु न ब्यवस्था स्यादिति सूत्रा- દર न्यायसुधायाम् धयवं सर्वशब्दानादित्वपूर्वपक्षप्रतिज्ञानार्थत्वेन व्याख्याय कुत इ- त्यादिनार्थप्रत्ययान्यथानुपत्त्या गाव्यादिशब्दानामपि सास्नादिम. तार्थेन सह वाच्यवाचकसम्भवं प्रश्नपूर्वमुपपाद्याशक्तिजत्वेनापभ्रं- शत्वशङ्कामबाध्यस्मृत्या निराकृत्य कर्बस्मृत्या च सामयिकत्वाशङ्का सम्बन्धग्रन्थे निराकृतामुक्त्वा तस्मात्सर्वे साधव इत्युपसंहृत्य स- वैषामर्थवत्त्वात्सर्वैभाषितव्यमिति पूर्वपक्षप्रयोजनमुक्त्वा तेन सर्वेषां दृष्टार्थसाधनत्वाविशेषे ऽप्यदृष्टार्थों गवादिशब्दनियमो भविष्यती- त्याशङ्कानिरासार्थत्वेन प्रयोगोत्पत्तेरुच्चारणनियमस्याशास्त्रीयत्वादि- त्येवं प्रयोगोत्पत्त्यशास्त्रत्वादितिसूत्रावयवो व्याख्यातः। तत्र भाष्य- तात्पर्यविवेकार्थ दृष्टार्थत्वे साधनत्वाद् गाव्यादिशब्दानामसाधुत्वा- १९१६ सम्भवमुपपादितमुपसंहरति * ततश्चेतिं * न च दृष्टार्थसाधनत्व- निबन्धनत्वात् साधुशब्दस्य गाव्यादिशब्दानां तदभावात्साध्वसाधु- व्यवस्था भविष्यतीत्याशङ्कते * अदृष्टेति * साध्वसाधुव्यवस्थेत्यर्थः। यद्वा श्रेयोरूपादृष्टसानधत्वनिबन्धना साधुता प्रत्यवायरूपादृष्टसाध- नत्वनिबन्धनात्वसाधुतेत्यर्थः साधूनामेवाइष्टसाधनत्वमदृष्टसाधन- त्वमेव वा साधुत्वमित्युभयथापि व्यवस्था वेदाधीना न च सा वे- दवाक्यनिर्दिष्टा अदृष्टसाधनत्वं वान्यप्रमाणविषय एव न भव- तीति निराकरोति * वेदवाक्यैरिति * न च दृष्टसाधनत्वस्य प्रमाणान्तराविषयत्वे ऽपि तद्धेतुभूतयोः साध्वसाधुत्वयोः प्रमा- णान्तरावगतयोर्वेदेनादृष्टसाधनत्वबोधो भविष्यतीत्याशङ्ख्याह * प्रत्यक्षेण तावदिति * उपमानस्य सादृश्यमात्रविषयत्वेना- नाशङ्कनीयत्वादर्थप्रत्यायन्यथानुपपत्तेश्चान्याापत्त्या सर्वेषां वा- चकत्वप्रतीतेर्व्यवस्थापकत्वस्य दूरनिरस्तत्वादनिराकरणम् । ननु प्रमाणान्तरासम्भवे ऽपि वेदवाक्यं साधुत्वासाधुत्वाना- हक भविष्यतीत्याशझ्याह * वेदेति * साध्वसाधुत्वयोः श- दावान्तरजातिरूपत्वे वस्तुस्वरूपान्वाख्यनपरमेते साधवस्त्वन्य इत्येवं रूपं वाक्यं कल्प्यं धर्मान्तरत्वे साधुत्वगुणान्वाख्यानपरम- साधुत्वदोषान्वाख्यानपरं तस्य च पुरुषार्थानुबन्धित्वाभावेनानर्थ- क्यापतेरध्ययनविधिना तात्पर्यानवधारणात्प्रामाण्यं न युक्तमित्या- शयः । आत्मखरूपप्रतिपादकानां तूपासनादिविध्यपेक्षितार्थाभिधा नात्सरस्वतीविनशनादिना वाक्यानां सारखतसत्रादिकर्मविशेषौ- पयिकत्वानामानर्थक्यापत्तिरिति वैषम्यसूचनार्थ विधीत्युक्तम् । अस्तु तर्हि विधिनिषेधरूपमेव वाक्यं साध्वसाधुत्वप्रतिपादकाम- त्याशङ्कयाह * न वेति * ननु माभूत्खरूपेण विधिनिषेधविषयत्वं प्रथमाध्यायस्य तृतीयः पादः । साधुभिरभिदध्यादसाधुभिनेत्यभिधानकरणत्वेन तु भविष्यतीत्या- पडते * अभिधेति * गोशब्देनाभिदध्यादश्वशब्देनाभिदध्यान्न गावीशब्देनाभिदध्यान्न गोणीशब्देनाभिदध्यादित्यादि खरूपा प्रत्येक वा विधिनिषेधा कल्प्यन्ते साधुभिरभिदध्यादसाधुभिर्नेति द्वावेव वा तत्रानन्त्यापत्तेराद्यं पक्षं तावद् दूषयति नेति * कथं कल्पना- नुपपत्तिरित्यपेक्षायां व्याकरणस्मृतिमूलत्वेन कप्यत्वादनन्तानांचा- ध्येतुमशक्यत्वादनुपपत्तिरित्याह * यो हीति * यो हि व्याकरण- प्रणेता तद्गुणतया य एव पदानां प्रतिपत्तौ प्रतिपदं पाठ इति महा- भाष्यकारोक्तन्यायेन साधूनां प्रतिपदं पाठन्नाध्यवस्यतीत्यर्थः। स एकै- कस्य शब्दस्य गावीगोण्याद्यनेकापशब्ददर्शनात्तेषां विशेषमाह*अपश- ब्दाश्चेति*कलञादिवदिति वैधर्म्यदृष्टान्तं विवृणोति *व्रीह्यादीनि ही- ति*कलादिग्रहणेन तुल्यन्यायतया ब्रीह्यादीनां विधेयत्वसम्भव- सूचनार्थ ब्रीह्यादिग्रहणम् । अनन्तरोक्तव्यातरेकमुखेन द्वितीयपक्षं निराकरोति * न त्विति * सर्वानुगतैकधर्ममात्रोपलक्षणार्थों जा- तिशब्दः तत्र एकोपलक्षणत्वाभावेनैकविधिनिषेधविषयत्वासम्भव- मुपपादयति * न तावदिति * अयमाशयः न तावच्छन्दत्वाति- १९१ रिका सर्वसाधुशब्दानुयायिन्यासाधुभ्यो व्यावृत्ता विलक्षणैकाका- रप्रत्ययवेद्या साधुत्वजातिरसाधुत्वजातिर्वा साधुशब्दानुगता सा- धुभ्यो व्यावृत्तोपलभ्यते न वान्यो ऽपि कश्चिद्धर्मः साध्वसाधुश- ब्दाभिधेयः सम्भवति तथा हि न तावच्छन्दव्यतिरिक्तस्यन्द्रियलि- ङ्गादेः शब्दस्यापि वा वक्तृज्ञानविवक्षाविषयप्रत्यायकत्वं साधुत्वं कस्य चिदिष्टम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वं गाव्यादिश- ब्देष्वप्यापत्तेः । न च शब्दस्य शक्त्यर्थप्रतिपादकत्वं साधुत्वं गङ्गायां घोषो ऽग्निर्माणवक इत्यादी गङ्गाग्निशब्दयोस्तीरमाणवकादिषु श- क्यभावे ऽपि तत्र साधुत्वप्रसिद्धार्थान्तरविषयशक्त्या अर्थान्तर- विषयसाधुत्वाभ्युपगमे गोणीशब्दस्याप्यावपनविषयशक्तिसद्भावात् सास्नादिमति साधुत्वापत्तिः देवदत्तादिशब्दानां च संस्कृतेनार्थप्र. तिपादनं, न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वं गाव्यादिशब्देष्व- प्यापत्तेः। न च शब्दस्य शक्त्या अर्थप्रतिपादकानां शक्त्यभावादसा- धुत्वापत्तिः । स्नुषादिशब्दानां पुत्रभार्यादिवाचिता पुत्राद्यनभिधाय तद्विशिष्टभार्याद्यभिधानशक्तः पुत्रादौ शक्तिसद्भावात्साधुत्वापत्तिः। अर्थविषयानादिप्रयोगत्वे तु साधुत्वलक्षणे गाव्यादिशब्दानाम- पि सास्नादिमदर्थविषयप्रयोगावध्यस्मरणेनानादित्वावगमात्साधु- त्वमशक्यं निराकर्नु स्वाभाविकार्थपरत्वमपि प्रतीतिप्रयोगाविशेषा- .
२६४ न्यायसुधायाम् । द्वादिशब्दवद्गाव्यादिशब्देष्वपि तुल्यं लक्षणानुगमो ऽपि च सिद्धरुभयानर्थक्यमाशय चम्पतीत्यादिशब्देषु वृद्धाप्रयुक्तत्वेना- साधुतया भिमतेषु भावान्न साधुत्वलक्षणमिति न कथं चित् सा- धुत्वं निरूपयितुं शक्यमनेनैव मार्गेणासाधुत्वमपि निराकार्यमिति एतदेव विवृणोति *अविभक्ता हीति* अतश्चैकोपलक्षणाभावात्सा- मान्यरूपेण साध्वसाधूनां विधिनिषेधविषयत्वानुपपत्तेः । व्यक्ति- रूपेण विधिनिषेधविषयत्वानुपपत्तेः । पूर्वोक्तमेव विधिनिषेधान- न्त्यप्राप्तमित्युपसंहरति * तेनेति * ननूपलक्षणान्तरासम्भवे ऽपि स्वाभाविकार्थपरत्वलक्षणसाधुत्वतद्विपर्ययलक्षणासाधुत्वोपल- क्षणयोगेन विधिनिषेधविषयत्वं भविष्यतीत्याशङ्कयाह * न चेति* अर्थप्रत्यायनोद्देशेन सर्वेषां प्रयोगदर्शनेनार्थप्रत्यायनार्थत्वावसायाद- र्थप्रत्ययनार्थत्वलक्षणस्य वाचकत्वस्याव्यावर्तकत्वात्तद्विपर्ययलक्षण- स्य वा वाचकत्वस्यासत्वान्नोपलक्षणत्वं सम्भवतीत्याशयः। ननु गाव्या- दिशब्दाव्यावर्तकत्वे ऽपि प्रसिद्धावाचकत्वभेर्यादिशब्दव्यावर्तक- त्वाद्वाचकत्वस्य विधेयशब्दोपलक्षणत्वोपपत्तेरवाचकत्वस्य निषेध्य- भेर्यादिशब्दोपलक्षणतोपपत्तेस्तन्निबन्धनौ विधिनिषेधौ भविष्यत इ- त्याशङ्कयाह * वाचकैरिति * प्राप्ताप्राप्ततया विधिनिषेधविषय- त्वाभावे दृष्टान्तमाह * न हीति * द्रवदव्यमात्रोपलक्षणार्थमुदकन- हणम् । ननु विधिनिषेधरूपश्रुतिमूलानपेक्षव्याकरणपरम्परामात्रे ण साध्वसाधुविवेकसिद्धेविधिनिषेधनिराकरणमनर्थकं मूलश्रुत्यपे- क्षायामपि वा साध्वनुशासनात्मकत्वेन व्याकरणस्य साधुविधिमा- त्रापेक्षत्वादसाधुनिषेधनिराकरणमनर्थकमित्याशङ्कयाह * अवश्य चेति * निर्मूलत्वे अन्धपरम्परान्यायापत्तन साध्वसाधुविवेकसि- द्धिरित्याशयः । साधुविधानेनासाधुवर्जनसिद्धरसाधुनिषेधेन वा साधुप्रयोगसिद्धरुभयानर्थक्यमाशय * संयोगेत्युक्तम् * विधेये- संयोगो विधेः फलं निषेध्यानिष्टसंयोगो निषेधस्येत्यर्थः । ननु उप- लक्षणमूलत्वे निषेधमूलसाध्वनुशासनं न युक्तमित्याशङ्कयाह * त्रिष्वपि चेति*साधूनामसाधुभ्यो ऽल्पत्वाद्वयवस्थितत्वाञ्च सौकर्य- म् । एतदेव विवृणोति * यदीति * यथा-पञ्चनखानाम्मध्ये पश्चैव शशादयो भक्ष्या इति नियमे कृते ततो ऽन्येषां श्वादीनामभक्ष्यत्वं गम्यते तथा गवादय एव साधव इति नियमे कृते ऽन्येषामसाधु- त्वावगतिरित्यर्थः । एतदेवोपसंहरति * स एष इति * प्रासङ्गिक व्याकरणस्य त्रिविधश्रुतिमूलत्वे ऽपि साध्वनुशासनमात्रात्मकत्वस- म्भवमुपसंहृत्य प्रकृतं मूलश्रुत्यनुमानासम्भवमुपसंहरति * नन्वि- प्रथमाध्यायस्य तृतीयः पादः। २६५ ति * मूलासम्भवमेव द्रढयितुं व्यवस्थापकोपपदासम्भवं पूर्वाधि- करणोक्तमत्रापि योजयन्नाह * इहगीति * एवमेकोपलक्षणास- म्भवेन विधिनिषेधासम्भवमुक्त्वा विधिविषयासम्भवादपि विध्य- सम्भवमाह * अथ प्राप्तश्चेति * अनेन च शब्दप्रयोगस्य लोक- १९३१४ व्यवहारार्थत्वेनैवोत्पत्तेः । सिद्धरशास्त्रविषयत्वादित्येतत्सूत्रावयवो व्याख्यातः । नन्वत्र महावार्तिककारेण सिद्धे शब्दार्थसम्बन्धे लो- कतो ऽर्थ प्रयुक्त शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिकवै- दिकेष्विति व्यवहारलक्षणेनैवार्थेन साध्वसाधुशब्दप्रयोगे आक्षिप्ते धर्मार्थ शास्त्रेण साधुनियमः क्रियते यथा लोके क्षुत्प्रतीघातार्थे प्राप्ते भक्षणे भक्ष्याभक्ष्यनियमो वेदे वा पयोव्रतं ब्राह्मणस्येत्यादिवदि- ति नियम इति वदता समाधानमुक्तमित्याशङ्कते * अथेति * धर्मजिज्ञासापह्नवेन धर्मस्य नियम इति षष्ठीविग्रहे ऽपि स- म्बन्धमात्रोत्पन्नायाः षष्ठयास्तादर्थ्यलक्षणविशेषनिष्ठत्वसन्दर्शना- थै धर्मायेति चतुर्थीनिर्देशः । साधूनां नियमाविषयत्वासम्भवे- नैतन्निराकरोति * तदिति * नित्यप्राप्तस्य नियमाविषयत्वा- सम्भवे हेतुमाह * यस्य हीति * ननु गाव्यादिभ्यो ऽप्यर्थप्रत्यय सिद्धेस्तत्प्रसक्तौ गवादिशब्दस्य पाक्षिकत्वापत्तेर्गाव्यादिनिवृत्त्यर्थों नियमो भविष्यतीत्याशङ्कयाह * यस्यापीति * गाव्यादिशब्दानां साध्वसाधुत्वपक्षद्वये ऽपि व्यावय॑त्वायोगादित्याशयः । एतदेवो- पपादयितुं विकल्पयति * कीदृशश्चेति * उभयत्र दोषमाह * यदीति * न च साधूनामप्यर्थप्रत्ययहेतुत्वादस्तिप्रसक्तिरित्याश- झ्याह *यदि हीति* शब्दव्यापारसाध्यमर्थप्रतिपादनं, भाषणं नार्थ- प्रतिपादनमात्रं शब्दस्य च मुख्यार्थे साक्षावयापारो गौणलाक्षणि- कयोस्त्वभिधेयसादृश्याविनाभावद्वारा गाव्यादीनां तु कथं चि- द्वयापारालाघवशब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे हेतु- तास्तीत्याशयः । ननु साधूञ्चारणायैव प्रवृत्तस्य प्रमादेनाशक्त्या वा प्रसज्यमानस्यासाधोनिवृत्त्यर्थों नियमो भविष्यतीत्याशङ्कते * अथे- ति * प्रमादाशक्तिजानां दोषाणां परिहर्जुमशक्यत्वात्तनिवारणमन- र्थकमिति परिहरति * तदसदिति * नन्वव्यग्राणां शक्तानामपि १९४१ च गाव्यादिशब्दप्रयोगदर्शनादप्रयुक्ताभिधानमयुक्तमित्याशङ्कते * हष्ट इति * मत्पक्षे गाव्यादिशब्दानामप्यर्थप्रतिपादने व्यापारस- द्भावाद्युक्ता प्रसक्तिः । त्वत्पक्षे तु तेषां कथं चियापाराभावान तावच्छब्दव्यापारसाध्यार्थप्रातिपादनात्मके भाषणे प्रसक्तिः । यथा कथं चिदर्थप्रतिपादने तु प्रसकस्य गाव्यादर्निवृत्त्यर्थ नियमाभ्यु- न्यायसुधायाम्। पगमे अक्षिनिकोचादेरपि प्रसक्तेस्तनिवृत्त्यों नियमः कल्प्यः, ततश्च शब्दव्यतिरिक्तसर्वप्रमाणोच्छेदः स्यादित्यभिप्रायेण परिहरति * उच्यतहाति * निवृत्त्यर्थत्वे च नियमत्वं व्याहन्यतेत्याह * न चेति* साध्वसाध्वोश्च द्वयोनित्यप्राप्त्यभावात्परिसंख्या युक्तेत्याह * निय- मेति * किं चादृष्टार्थस्य यागादीष्टसिद्ध्यर्थे पुरोडाशादिद्रव्यनियम- स्तत्प्रकृतित्वादिनियमस्तदपेक्षितावघाताद्युपायनियमश्च युक्तः। शब्द- प्रयोगस्य तु परप्रतिपत्त्यर्थत्वेन दृष्टार्थत्वान्न तत्साधनसाधुनियमो युक्त इत्याह * न चति * नन्वेकः शब्दः सम्यग् शातः सुप्रयुक्तः शास्त्रान्वितः स्वर्ग लोके कामधुग्भवतीतिं शब्दप्रयोगस्य स्वर्गसाध. नत्वावगमात्तदन्यथानुपपत्तिरस्त्येवापूर्वकल्पनायां प्रमाणमित्याश- ध्याह * परार्थत्वाञ्चेति * ननु यथा दृष्टार्थस्यापि भोजनादेः आयु- ज्यं प्राङ्मुखोभुङ्क्तइत्यदृष्टार्थः । प्राङ्मुखत्वनियमस्तथा दृष्टार्थस्या- पि शब्दप्रयोगस्यादृष्टार्थः साधुनियमो भविष्यतीत्याशङ्कयाह * न चेदमिति * शब्दादीनां विषयाणां गोचरे समुदाये तन्मध्यइत्यर्थः। शब्दस्य तावनियमजन्यादृष्टाश्रयत्वस्य सम्भवमुपपादयति * शब्द- स्येति * कर्तृत्वेन परार्थस्यापि स्वर्गकामादेः कर्मफलभोक्तृत्वेन प्राधान्यस्यापि भावेनापूर्वाश्रयत्वदर्शनात्तद्वैषम्यप्रदर्शनार्थम् * अ- त्यन्तग्रहणम् * यत्पुनः परार्थस्याप्याहवनीयादेस्सम्मार्गादिजन्या- पूर्वाश्रयत्वप्रदर्शनात * दृष्टार्थग्रहणम् * नन्वर्थस्य भाषणं प्रति प्राधान्यादपूर्वाश्रयत्वं भविष्यतीत्याशङ्कयाह * सत्यापि चेति * क्रत्वङ्गभूतानामप्यर्थानामाक्षिप्तस्याभिधानस्यापि वैधत्वेन केवल- दृष्टार्थत्वान्नापूर्वेणोपयोग: इत्याशयः । ननु श्रोतुरनुष्ठेयादृष्टार्थक्रि- याफलभोक्तृत्वयोग्यताधानायापूर्वापेक्षणात्तदाश्रयत्वं भविष्यती- त्याशङ्कयाह * श्रोतुः पुनरिति * शब्दार्थविषययोस्तु श्रोतृबुद्ध्योः क्षणिकत्वान्नापूर्वाश्रयत्वशडत्याह * बुद्ध्योश्चेति वक्तुरपि बुद्धिव- वद्गुणभूतत्वान्नापूर्वाश्रयतेत्याह*वक्तेति ननु कामधुकशब्देन शब्द- प्रयोगस्य फलसाधनत्वावगमात्प्रयोक्तुः फलभाक्त्वात्प्राधान्यं भवि- ध्यतीत्याशङ्कयाह * नेति * वर्गकामादिशब्दात्काम्यौपयिकत्वा- वगतेस्तदनुरोधेन क्रियाफलभाक्त्वावगतिः। इह तु साधुशब्दप्रयोग- स्य फलसाधनत्वमात्र प्रतीयते तञ्चार्थवादमात्रत्वेनोपपत्तेर्न प्रयोक्तुः फलभाक्त्वमाक्षिपतीत्याशयः । यदि वात्र वक्तुः कामधुगीति षष्ठी स्यात्ततः सप्तदश वैश्यस्येत्यादिवत् षष्ठयुक्तसम्बन्धसामान्यस्यापे- क्षावशात्स्वस्वामिलक्षणविशेषरूपत्वप्रतीतेः प्राधान्यं स्यान्न त्वसा- १९५१ वस्तीत्याह * न चेति * ननु यथा कमिपदाद्यभावे ऽपि प्राङ्मुखो प्रथमाध्यायस्य तृतीयः पादः। नानि भुञ्जीतत्याख्याताक्षिप्तस्य भोक्तुर्गुणभूतस्य दिनियमापूर्वाश्र- यत्वं तथात्रापि साधुशब्दप्रयोगाक्षिप्तस्य प्रयोक्तुः । साधुनियमा- पूर्वाश्रयत्वं भविष्यतीत्याशङ्याह * यत्त्विति * कमिपदाद्यभावे ऽपि भोजनं प्रति भोक्तुर्लोकादेव प्राधान्यावगतरपूर्वाश्रयत्वं युक्त- मिति भावः । अपूर्वाश्रयत्वमुच्चारणस्यानाशङ्कयमवत्याह * ख- रूपेण पुनरिति * अतो विषयाभावाद्वयवस्थाभावाददृष्टार्थत्वाभा- वाच नियमानुपपत्तेस्साधुनियमार्थस्य व्याकरणस्य वेदमूलत्वायो- गाच्छास्त्रेण धर्मनियम इति यन्महावार्तिककारेणोक्तं तदयुक्तमि- त्युपसंहरति * एवं चेति * अनेन च साधुशब्दप्रयोगाणामुत्पत्ति- रस्मादिति व्युत्पत्त्या व्याकरणं प्रयोगोत्पत्तिशब्देनाभिप्रेत्य तस्या:: शास्त्रमूलत्वाच्छब्दब्यवस्थानियमो. न प्रयोजनमिति सूत्रं योजितम् । ननु खयमेवैतस्य वेदवच्छास्त्रत्वं भविष्यतीत्याशङ्कयाह * न चेति* अत्रापि प्रयोगोत्पत्तेाकरणस्य शास्त्रत्वाभावादिति योज्य, साधित चास्य स्वातन्त्र्यं कल्पसूत्राधिकरणइत्याह * तदुतामिति * एत- देव विवृणोति * न हीति * यद्वा पौरुषेयत्वात् व्याकरणस्य, व- ऋभिप्रायमात्रपर्यवसानेनार्थपरत्वाभावात्साधुप्रयोगनियमं प्रत्यशा- स्वत्वादिति षष्ठेन प्रकारेण योज्यमित्याह * सर्वत्र हीति * स्मृ- तिशास्त्रान्तरसम्वादाभावादिति सप्तमी योजनामाह * न. चेति * पतदेव विवृणोति * प्रायेणेति * अस्तु तावत्स्मृत्यन्तरेणासम्वादः परस्परमपि व्याख्येयव्याख्यानग्रन्थानां न सम्वादोऽस्तीत्याह * प. रस्परेण चेति * सूत्रवार्तिकभाष्यषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः । कीदृशं विगानमित्यपेक्षायां निः प्रयोजनं व्याकरणं सूत्रकृतो ऽभिप्रेतं, साधुशब्दप्रयोगद्वारेण धर्मप्र- योजनत्वं वार्तिककृतः, साधुशब्दशानद्वारेण भाष्यकारस्येति वि- गानं दर्शयितुमाह * न तावदिति * तेन तस्य प्रयोजनाभावाभिप्रायो लक्ष्यतइति भावः । ननु विस्मृत्याप्यनुक्त्युपपत्तेः । कथं प्रयोज- नाभावाभिप्रायो लक्ष्यतइत्याशयाह * कथं चेति * एतावत्त्वेन वह्वायासत्वमभिप्रेतम् । एतदेव विवृणोति * येविति * मोक्षाणामिति निर्धारणे षष्ठी न चानादरेणानुक्त्युपपत्तिरित्याह * न चेति * सुज्ञानत्वेनापि नोपपत्तिरित्याह * सुज्ञानत्वं पुन- १९६५ रिति * यद्यपि वार्तिककृता शास्त्रेण धमनियम इति धर्मप्रयो- जनत्वं व्याकरणस्योक्तं तद्व्याकरणे धर्मस्याप्रतिपाद्यमानत्वादयुक्त- मित्याह * धर्मश्चेति * ननु न साक्षाद् धर्मप्रयोजनत्वं व्याकर- णस्याभिप्रेतं किंतु तदनुगतशब्दप्रयोगद्वारेण शानद्वारेण वेत्याशङ्कया- न्यायसुधायाम् ( * धर्मत्वमिति * एतदेव विवृणोति * शास्त्रार्थों हीति * किं पुनः शब्दस्य ज्ञाने धर्म आहो खित्प्रयागइति सन्दिग्धो वार्ति- ककृता ज्ञाने धर्म इति चेत्तथाधर्म इत्यनेन साध्वसाधुविवेकका- रिणो व्याकरणवत्साधुत्वज्ञाने ऽर्थान्तरो लक्षणरहितानामसाधुत्वा- शानापत्तेस्तस्य च न म्लेच्छभाषां शिक्षेतेत्यादिनिषेधपर्यालोचनेनाध. मर्मसाधनत्वावसायादधर्मः प्रसज्येतेत्युक्त्वा प्रयोगे तर्हि धर्मों भविष्यतीत्याशय तस्मिन्पक्षे व्याकरणानभिज्ञानामपि साधुशब्द- प्रयोगात् धम्मोत्पत्तेाकरणानर्थक्यमिति । प्रयोगे सर्वलोकस्ये- त्यनेनोक्त्वा दोषद्वयभयाच्छास्त्रपूर्वके प्रयोगे ऽभ्युदयस्तस्य च वेद- शब्देनेत्यनेन व्याकरणजनितज्ञानपूर्वकसाधुशब्दप्रयोगो धर्मसाध- नं यथा वेदशब्दपूर्वको ऽग्निष्टोमादिदजनितज्ञानपूर्वकमनुष्ठितो धर्मसाधनं यथा वा वेदरूपः शब्दो नियमपूर्वमधीतो धर्मसाधन- मित्युक्तं भाष्यकृता तत्सर्व व्याख्यायाथ वा पुनरस्तु ज्ञाने धर्म इ- त्युक्तम् । न चैवमव्यवस्थितशास्त्रार्थावधारणं युक्तमित्यर्थः । ननु स- म्यग् ज्ञातः सुप्रयुक्त इत्युभयोर्ज्ञानप्रयोगयोरेकवाक्योपादानात्समु- च्चितयोर्धम्मित्वं भविष्यतीत्याशङ्कयाह * सम्बद्धयोश्चेति * एकवाक्योपात्तयोरप्याख्यातनामार्थयोः समुच्चयः प्रतिपदमपूर्वाणि एकपदे एवापूर्वमित्यधिकरणं यदैकस्मादपूर्व तदेतरत्तदर्थमित्येतदि- त्यर्थः प्रतिपदाधिकरणे निराकरिष्यतइत्याशयः । सामान्यन्यायमु- क्त्वा प्रकृते योजयति * तदिहेति * एकस्मिन्वाक्ये साधनद्वय- विध्ययोगात्सति ज्ञाने साधुशब्दप्रयोगो ऽप्यनुषङ्गानिष्पद्यतइत्येवं ज्ञानस्तुत्यर्थत्वेन सुप्रयुक्तस्तु शब्दो ज्ञानस्य धर्मसाधनत्वपक्षे व्या- ख्येयः। प्रयोगपक्षे तु ज्ञातमात्रो पि साधुशब्दः खर्ग साधयति कि- मुत प्रयुक्त इति प्रयोगस्तुत्यर्थत्वेन सम्यगज्ञानशब्दो व्याख्येयः। ततश्च ज्ञानधर्मत्वे प्रयोगस्य धर्मत्वायोगात् लोकसिद्धस्यैव ज्ञानानुनिष्पा- दित्वेन सत्यामपि व्याकरणादुपकारनिवृत्तौ व्याकरणं प्रति प्रयो- जकत्वाभावान भावाभिप्रेतद्वारेण व्याकरणस्य धर्मप्रयोजनत्वं युक्तं प्रयोगस्य तु धर्मत्वे यदै कस्मादपूर्व तदेतरत्तदर्थमितिन्यायेन शा- नस्य प्रयोगाङ्गत्वेन पारार्थ्यज्ञानात्फलश्रुतेः सुप्रयुक्त इतिवत्सम्य- गज्ञात इत्यनेनाप्यन्वये कल्प्यमाने ऽर्थवादत्वावसायेन ज्ञानस्य ध- मैत्वायोगात्तद्वारेणापि व्याकरणस्य धर्मप्रयोजनत्वं न युक्त- मित्यर्थः । आदिमध्याद्वयाकरणानुगतशब्दप्रयोगस्यानादिशास्त्रविष- यत्वाभावादित्यष्टमी योजनामाह * किं चेति * व्याकरणपूर्वकशा- १९७३ -नप्रयोगयोरित्यर्थः । एतदेव विवृणोति * यन्नामेति * मन्त्रार्थवा- प्रथमाध्यायस्य तृतीयः पादः। दगतस्थानित्यसंयोगस्य परिहारो यो न्यायो नित्यानित्यसंयोगविरो- धरूपस्तेनेत्यर्थः। न च व्याकरणस्यापि नित्यत्वं शङ्कनीयमित्याह * न चेति * ननु व्याकरणस्य कूटस्थानित्यत्वाभावे ऽपि प्रवाहनित्य- त्वाद्वैदिकविधिविषयत्वं भविष्यतीत्याशयाह * अथापीति * उ- कमौत्पत्तिकसूत्रे ऽध्येतॄणामस्मरणादिभिश्शब्दपूर्वत्वमिति वेदाधि- करणसिद्धान्तसूत्रोक्तेन न्यायेन सर्वपुरुषेभ्यो वेदस्य प्राथम्यान्न पौरूषेयग्रन्थविषयत्वं युक्तमित्यर्थः। ननु व्याकरणत्वजातेः कूट- स्थनित्यत्वाद्वेदविषयत्वं भविष्यतीत्यत आह * न चेति * ननु व्या- करणस्य सूत्रमिति षष्ठयर्थस्य भेदं विनानुपपत्तेः सूत्रमात्राच्छब्दा- प्रतिपत्तेः । व्याकरणाच्छब्दान्प्रतिपद्यामहइति प्रयोगानुपपत्तेः । न सूत्रस्य व्याकरणत्वं युक्तं नापि शब्दस्य व्याक्रियन्ते शब्दा अनेनेति व्याकरणमिति ल्युडर्थानुपपत्तोगस्य च शब्दवत्त्वाभावादू ब्या- करणे भवो योगो वैयाकरण इति भवतद्धितानुपपत्तेः । शब्दस्य च पाणिन्यादिभिरप्रोक्तत्वेन पाणिनिना प्रोक्तं पाणिनीयमिति प्रोक्त- तद्धितानुपपत्तरिति वार्तिककारेण व्याकरणशब्दस्य सूत्रपरत्वश- ब्दपरत्वरूपे पक्षद्वये इत्यर्थः । पक्षद्वये ऽपि दूषिते भाष्यकारेण श- ब्दपक्षे तावद् दोषपरिहारार्थ प्रस्कन्दनं प्रपतनमित्यपादानादिष्वपि दर्शनेन करणाधिकरणयोरेव ल्युट्प्रत्ययनियमाभावाद् व्याक्रियत इति व्याकरणमिति कर्मव्युत्पत्त्या लुडर्थोपपत्तिमुक्त्वा भवप्रोक्तादि- तद्धितोपपत्त्यर्थ लक्ष्यलक्षणे व्याकरणमिति लक्ष्यलक्षणयोः शब्द- सूत्रयोः समुदितयोाकरणत्वाभिधानात्सूत्रात्मकस्य व्याकरण स्य कृत्रिमत्वे ऽपि शब्दात्मकस्य नित्यत्वाद्वेदविषयत्वं युक्तमित्याश- ङ्कते * अथेति * लक्षणनिरपेक्षाणां शब्दानामानन्त्याद्विधिविषय- त्वानुपपत्तिन तु गवादिगाव्यादीनां जातिरूपेण व्यक्तिरूपेणं वा विधिप्रतिषेधौ उपपद्यते इत्यादिनोक्तेन परिहरतिं * तदिति * ननु यथा यदितिहासपुराणानि कल्पानीति ब्रह्मयज्ञविधिविषयत्वान्यथा- नुपपत्त्या कल्पसूत्राणां कर्तृस्मृतिदाात्कूटस्थानित्यत्वाभावेऽपिप्र- वाहनित्यत्वमुक्तं तथात्रापि, तस्मादेषा व्याकृता वागुद्यतइति व्याक- करणानुगताया अर्थवाचा वदितव्यत्वश्रुतेर्व्याकरणस्य नित्यत्वं भवि- व्यतीत्याशङ्कते *ननु वेदेति * तद्ग्रन्थस्याध्येतव्यत्वायोगाद् ग्रन्थ- नित्यत्वं कल्पितम् । इह तु श्रुतिसामान्यमानेणापि व्याकृतशब्द- व्याख्यानोपपत्तेन ग्रन्थनित्यत्वकल्पने प्रमाणमस्तीति परिहरति * नैतदिति * ननु वैदिक्या वाचः खराद्यविप्लुतरूपेणानिरूपिता- कारत्वरूपस्य व्याक्तत्वस्य प्राप्तत्वाद्विध्यानर्थक्यमित्याशय कर्म- २७० न्यायसुधायाम। है -- काले खाध्यायकाले घोच्यमाने *इयमनूदितेत्युक्तम् * श्लोकं ब्या- चष्टे * अव्याकृताया हीतिं * अस्य च व्याख्यामेकः शब्दः इत्येषापि श्रुतिर्वैदिकस्यैव शब्दस्य खराद्यविप्लुतिरूपेण ज्ञानप्रयोगयोद्धमत्वप्र- १९८।२ तिपादनार्थतया व्याख्यातुं शक्येति सुचयितुमाह * तस्याश्चेति * नन्वेकः शब्दः सम्यग् शातः सुप्रयुक्तः शास्त्रान्वित इत्यत्र शा- स्त्रशब्दस्य ग्रन्थविषयत्वाद्वयाकरणग्रन्थस्य वेदविषयत्वप्रतीतेनि- त्यत्वकल्पना भविष्यतीत्याशयाह * यदपि चेति * प्रशंसार्थ- त्वमेवोपपादयति * अहरहरिति * शास्त्रशब्दस्तर्हि कथमत आह * शास्स्रति * लोकव्युत्पत्त्या शिक्षणात्मकशासनवाचि- ना शास्त्रशब्देन ग्रहणाध्ययनकालीनः खस्यात्मीयस्य गुरोर- ध्यायः शिक्षणार्थः पाठो विवक्षितो ग्रन्थ इत्याशयः । ननु सुप्रयु- क्तशब्दस्तहि पुनरुक्तः स्यादित्याशङ्कयाह * सम्यगिति * उपनय- नमाचार्यकर्तृको माणवकसंस्कारः उपसदने सुश्रूषे माणवककर्तृके नयं वै तद्हणाध्ययनकालीनमपि विशिष्टेतिकर्तव्यताकग्रहणं सं- स्कृतस्य तस्यैव वेदस्य ब्रह्मयज्ञोपयाोगत्वादुपन्यस्तम्। ननु तस्माद् ब्राह्म- णेन न म्लेच्छितवै म्लेच्छो हवा एष यदपशब्द इत्येषा श्रुतिगाव्या- धपशब्दनिषेधार्थत्वाच्छब्दापशब्दविवेकस्य च व्याकरणाधीनत्वा- द्वयाकरणापेक्षा भविष्यतीत्याशङ्कयाह * यदपि चेति * कृत्यार्थे तवैकेनकेन्यत्वन इति कृत्याथै छन्दसि तवैप्रत्ययस्मरणात् कृत्यानां च प्रेषातिसर्गप्राप्तकालेषु कृत्याश्चेति प्रैषार्थत्वस्मरणादप्राप्तप्रेषणस्य च विधित्वान्नयोगेन निषेधार्थतोक्ता कथं वैदिकविषयत्वावगतिर- पशब्दनिषेधस्येत्यपेक्षायां वैदिकशब्दापेतत्वरूपव्युत्पत्तिसम्भवं सु- शानत्वं च कारणद्वयमाह * वैदिकाच्चेति * सर्वेभ्यः शब्देश्यो पेत इति च व्युत्पत्तिः शब्दस्य अशब्दत्वयोगान्न सम्भवतीत्याह * न चेति* ननु नायमभाववचनो ऽपेत्युपसर्गः किं तु वर्जनवचनः अतो गाव्यादीनां सत्यपि शब्दत्वे शास्त्रकावर्जितत्वादपशब्दत्वं भ- विष्यतीत्याशङ्कयाह * अथापीति * वर्जने ऽथै बर्बरादिभाषाशि- क्षणस्य स्मृत्या निषिद्धत्वाच्छतौ चापशब्दत्वस्य म्लेच्छितशब्दसामा- नाधिकरण्येन निर्देशाद बर्बरादिभाषागतस्य शब्दस्याफ्शब्दत्वज्ञाना- दित्यर्थः । म्लेच्छितत्वशब्देन म्लेच्छि व्यक्तायां वाचीत्यव्यक्तोञ्चा- रणार्थस्य म्लेच्छशब्दस्य म्लेच्छो व्यक्कोच्चारित इत्यर्थो दर्शितः । किं चान्येषामपि बर्बरादिसम्बन्धिनामाचाराणां निषिद्धत्वाच्छब्द- प्रयोगरूपस्याप्याचारस्य तत्सम्बन्धिन एव निषेधो ऽवसीयतइत्याह * युक्तं चेति * गाव्यादीनां तु प्रसिद्धम्लेच्छबर्बरादिसम्बन्धित्वे- प्रथमाध्यायस्य तृतीयः पादः। २७१ नाव्यकोच्चारणत्वेन या म्लेच्छतिधात्वर्थानुगमाभावादार्यप्रयुक्तश- ब्दायत्तत्वाभावाद्वा नापशब्दतत्याह * नत्विति * यथावृत्तादार्या- चारादपेतत्वात्तदपवृत्तमित्युच्यते नैवं गाव्यादिश्वार्यप्रयुक्तशब्दापे- तत्वमस्ति तेषामप्यायः प्रयुक्तत्वादिति वैधHदृष्टान्ताथै, नन्वाहिता- ग्निरपशब्दं प्रयुज्यति श्रुतम्लेंच्छशब्दसामानाधिकरण्याभावाद व्या- करणानुगतशब्दापेतत्वनिमित्तलब्धापशब्दव्यपदेश्यत्वगाव्यादिप्र- योगनिमित्तप्रायश्चित्तविधानार्थत्वादू व्याकरणापेक्षा भविष्यती- त्याशङ्कयाह * यदपि चेति * निषिद्धाचरणानिमित्तत्वात्प्राय- १९९।। श्चित्तस्य गाव्यादीनां च शिष्टावर्जितत्वेनानिषिद्धत्वावसायाद्यथास- म्भवमन्यविषयतैवेयं श्रुतिर्भवेदित्याशयः । व्याकरणानुगतव्यात- रिक्तशब्दविषयत्वासम्भवमुपपादयति * तथा हीति * गाव्यादि शब्दप्रयोगलक्षणस्य कार्यस्य सर्वशिष्टपरिगृहीतत्वेनापरिहरणयित्व- मीडशशब्देनोक्तं श्लोकं विवृणोति * प्रायण हीति * ननु सर्व- स्यापि व्याकरणानुगतशब्दप्रयोगनियमो न दृश्यतइत्याह * न चेति * एतदेव प्रपञ्चयितुमाह * कल्पति * कल्पकारस्यापश- ब्दमुदाहरति * समानर्मिति * छान्दोग्यसूत्रकारस्योदाहरति *सू- ति * बढ्च्सूत्रकारस्यापशब्दद्वयमुदाहरति * तथेति * कल्पादिग्रहणस्योपलक्षणार्थत्वात् शिक्षाकारस्यापशब्दमुदाहरति * तथेति * स्मृतिकारस्योदाहरति * मनुनापीति * स्मृतिग्रन्थ- कारेणापि साक्षिणः सन्ति मेत्युक्त्वा वदेत्युक्त्वा वदेत्तु य इत्यत्र मेशब्दस्येतीकारे परभूते संहितायामेचो ऽयवायाव इत्ययादेशे कृते लोपः शाकल्पस्येति च यकारलोपे कृते म इतीतिव्याकरणानुगतां सहितामनपेक्ष्यान्यथा तेत्यर्थः । मीमांसाकारस्यापशब्दद्वयमुदा- हरति * तथेति * सम्वत्सरसत्रेषु गवामयनिकविध्यन्तातिदेश- २००१ प्रतिपादनायाष्टमे गवामयनोत्तरकालविहितेष्वादित्यानामयनप्रभृ- तिषु गवामयनस्य विध्यन्तः प्रवर्ततइति वक्तव्ये तस्य विकारावयवे च प्राण्यांषधिवृक्षेभ्य इत्यधिकृत्य गोपयसोर्यदिति विकारावयवयो- विहितो यत्प्रत्ययो ऽर्थवादावगतगोकर्तृकत्वमाननिमित्तप्रयुक्तः। न चैवाग्नीषोमीयप्रकरणाधीतः स्यादिति मासामुमोक्ते तानिति बहुव- चनान्तस्यापि मन्त्रस्य प्रातिपदिकार्थसमवायाद् बहुवचनस्य प्रातिप- दिकार्थलक्षितावयवबहुत्वाभिधानार्थत्वेनोपपत्तेरनुत्कर्ष इति सि- द्धान्तिते द्यावापृथिव्यारहं देवयज्ययोभयोलॊकयोद्ध्यासमित्या- दीनां दर्शपूर्णमासप्रकरणाधीतानां द्यावापृथिव्याद्यनुमन्त्रणानामपि केन चिद्गुणयोगेन दर्शपूर्णमासदेवताप्रकाशकत्वोपपत्तेरनुत्कर्ष इ- ર૭ર न्यायसुधायाम्। त्याशङ्काथै सूत्रे सरूपाणामेकशेषः इत्याद्यकशेषलक्षणहीनं द्यावोरि- त्युक्तमित्यर्थः । गृह्यकारेणापि जिघ्राणामिति ल्युडन्तजिघ्रादेशः पाघ्रादिसूत्रेण शित्येव प्रत्यये परभूते घ्रातेर्जिघ्रादेशमन्वाख्यातमन- पेक्ष्यैव कुत इत्याह * तथति * व्याकरणसर्वस्वे निरुक्ते ऽपि व्याकरणाननुगताः शब्दाः सन्तीत्याह * कात्य॑ इति * आर्द्धधा- तुके परभूते ब्रुवो वच्यादेशस्याभिधानात्तदकरणं हीनलक्षणमित्य- र्थः । एतदेव विवृणोति *सम्वत्सरमिति पुराणेतिहासहस्तिशिक्षा- दिकारिणस्तु नात्यन्तं व्याकरणमान्द्रियन्तइत्याह * अन्तइति* ह- स्तिशिक्षादिग्रन्थकारिणो ये उभाभ्यादिरूपा अपशब्दास्तेषामन्तो नास्तीत्यर्थः । एतदेव विवृणोति * युगपदिति * वेदप्रयुक्तानां च शब्दानामपशब्दत्वाशङ्कानुपपत्तेनिश्चितसाधुत्वानामनन्याख्या- नादव्यापकं लक्षणं स्यादित्याह * वेदेष्वपीति* सामान्य छन्दसि भाषायां च साधारणं चातुर्वर्ण्यादिवत्स्वार्थे तद्धितः । ननु व्य- त्ययो बहुलमिति बहुलग्रहणन विकरणवत्सुबादीनामपि व्यत्ययसू- चनाद् बहुलं छन्दसीति च लोपाद्यनियमविधानादस्ति सर्वशब्दानां छान्दसं लक्षणमित्याशङ्ख्याह * न हीति * सुप्तिङपग्रहलिङ्गनराणां कालहलच्खरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकदेषांसोऽपि च सिध्यात बाहुलकेन। इति वचनान्नियतविषय एव ब्यत्ययविधिः दक्षिणायामि- ति हि प्राप्ते धुरि दक्षिणाया इति सुपो व्यत्ययः । तक्षन्तीति प्राप्ते ये अश्वयूपाय तक्षतीति तिङः स्रुवन्तीति प्राप्ते सामगाः स्रुवत इत्युपग्रहस्य इन्द्रः सोमस्य कामुक इति प्राप्ते कामुकोत लिङ्ग- स्य । ममृवां आवाहाइत्यत्रावाहादिति प्रथमपुरुषप्राप्ती आवाहाइति पुरुषस्य । अग्निमद्यहोतारन्यमवृणीतेत्यत्राद्यतनकालवाचिनि लका- रे प्राप्ते अनद्यतनकालवाचिलङ्प्रयोगात्कालव्यत्ययः । काण्डकेत्यत्र कामुकेइति प्राप्ते णकारप्रयोगाद्धलव्यत्ययः । अभ्यासात इत्यत्रामे- त्याकारे प्राप्त अभ्यगिति संहितादर्शनेनाकारप्रयोगादच्व्यत्ययः । अश्वावतीर्गोमतीरित्यत्रान्तोदात्तत्वे प्राप्ते ऽश्वावतीरित्याधुदात्तत्वा- खरव्यत्ययः । कर्तृशब्दस्य कारकोपलक्षणत्वादद्भिर्ददातीत्यत्र स- म्प्रदानस्य दातृत्वेन प्रत्युपकारार्थदानकरणत्वाभिधानाद्दश्य इति प्राप्ते ददद्भिरितिकर्तृव्यत्ययः यशब्दस्य प्रत्याहारत्वेन योगाद्यन्त- विकरणप्रत्ययसाहित्वादृत्रं हनतीत्यत्र हन्तीतिप्राप्ते हनतीति यङ्- व्यत्ययः । बहुलं छन्दसीति च आदिप्रभृतिभ्यः शप इत्याधिका- रविशेषेण शबादिविषयमेवावसीयते न सर्वविषयमित्यर्थः । तत्रोदा- २७४ न्यायसुधायाम्। त् । प्राप्तिपूर्वकत्वाञ्च निषेधस्य अतः तृन्ग्रहणम् उत्तरसूत्रे ऽनुवृ- त्यर्थमेव कृतं नात्र तस्य प्रयोजनम् । अकस्य तूभयत्रोपयोगः । ता- मुत्तरसूत्रे तृजकयोरेनुवृत्तिं वक्तुमाद्यसूत्रं वार्तिकपठितमित्यर्थः')। कर्तवैव तृज्विधेस्तत्प्रयोगे कर्तृषष्ठयभावादकस्य निन्दहिसक्लिशखा- दादिधातुविहिततच्छीलादिवाचिवुप्रत्ययादेशत्वेनानेकार्थत्वात्तद्यो- गे कर्तृवाचिन्याः षष्ठयाः समासनिषेधार्थमाद्यसूत्रमुत्तरसूत्रे तृज- काभ्यामित्यस्यानुवृत्तिप्रतिपादनार्थ पठितम् । कर्तृवाचिभ्यां तृज- काभ्यां यांगे कर्तरि चेति सूत्रे षष्ठीसमासनिषेधादपशब्दतेत्यर्थः । तृच्प्रत्यययोगनिमित्तनिषिद्धं षष्ठीसमासमुदाहृत्याकप्रत्यययोगनि- मित्तनिषिद्धमुदाहरति * एवमिति * वार्त्तिककृतो ऽप्यक्प्रत्यय- योगनिमित्तनिषिद्धषष्ठीसमासापशब्दोदाहरणं तावदाह * तथेति* हलन्ताञ्चेति सूत्रेणेक्समीपाद्धलः परो झलादिः सन् किद्भवतीत्युक्त दम्भेः सनि कृत दम्भ इट चोति किति सत्यपि नकारेण व्यवधानातू दम्भिधातुसम्बन्धिनो हलो झकारस्य इक्सामीप्याभावात् तत्प रस्य झलादेरपि सनः कित्त्वासिद्धौ गुणापत्तर्धिसतीतिरूपं न सिद्धयेदित्याशय हल्ग्रहणस्य जातिवाचकत्वादम्भेर्द्धातोः पर- स्य झलादेः सनः * कित्त्वं सिद्धमित्युक्तम् * (अत्र जा- तिवाचकपदे कप्रत्ययान्तस्य षष्ठीसमासो ऽपशब्दः) तस्यैवापशब्दा- न्तरमुदाहरति * तथेति * अइउणिति प्रत्याहारसूत्रगतेन णका- रानुबन्धकेनाकारेण धात्वादिगतस्याकारस्य णकारानुबन्धरहित- त्वाद्भहणं न प्राप्नोतीति शङ्कित्वा भेदाभावाद्धात्वादिष्वस्यापि ग्रहणं सिद्धमिति परमतेन परिहारमुक्त्वा तन्निराकरणार्थम् * वार्तिक- कृतेदमुक्तम् * दण्ड अग्रमिति व्यस्तोच्चारणे दण्डपदान्त्यस्याग्रप- दाद्यस्य वाकारस्यान्तरालकालानुपलम्भलक्षणात्कालव्यवायाद्वच- घधानादू * अन्यत्वमित्युक्तम् * नन्वेकत्वे ऽपि व्यञ्जकाभावान्मध्ये ऽनुपलब्धियुज्यत इत्याशय * शब्दव्यवायादित्युक्तम् * दण्ड इ- त्यत्र दकारडकारपरयोरकारयोर्मध्ये व्यञ्जकाभावे णकारडकारयो- रप्यनुपलम्भः स्यान्न च व्यञ्जकानां प्रतिनियतविषयत्वं दीपादौ दृष्टं येन णकारडकारयोर्व्यञ्जकसद्भावादुपलब्धिरकारस्य तु व्यञ्जका- भावादनुपलब्धिरिति व्यवस्था युज्यतेत्याशयः। अत्र चान्यभाव्यमि- त्यन्यशब्दः तथा हि निष्कर्षलक्षणगुणाभिधायी भाव्यशब्दो यदि १ अयं पा० २ पु. ना. २ अनिदितां हलउपधाया: किडकितीत्युक्ते नखोपो न सिहावीत्यर्थः । गतीपासि । ३ अयं पा० २ पु. ना. ।
प्रथमाध्यायस्य तृतीयः पादः । निष्कर्षणीयान्यशब्दवाच्यगुण्युपसर्जनत्वेन निष्कर्षलक्षणं गुणं धृते ततो गुणमुक्त्वा गुणिनि वर्तमानत्वेन गुणवचनसंज्ञापत्तेः। पूरणगु- सुहितार्थसदव्ययतव्यसमानाधिकरणेनेति षष्ठीसमासनिषेधादपश- ब्दत्वं स्वप्रधानगुणाभिधायित्वाभ्युपगमेन तु षष्ठीसमासकल्पने गुणवचनसंज्ञाबाधाद् गुणवचनसूत्राननुगतष्यप्रयोगायोगादपश- ब्दतेत्यर्थः । कर्मधारयस्तु (कर्मण्युपपदे धातोरणप्रत्ययोक्तेर्नित्य- समासाच्च कुम्भकार इति वत् हिमवत् भावः इत्यादिप्रयोगमा- शय अनाभिधानात्ताहशप्रयोगाभावादित्युत्तरे अविरविकेति दृष्टा- न्तः। भावशब्दस्यान्यत्वगुणविशिष्टगुणिपरत्वेनान्यशब्दसमानार्थत्वा- त्पर्यायाणां सहप्रयोगाभावाद्वैयर्थ्यमित्यर्थः) भावशब्दस्यानर्थक्या- पत्तेरयुक्त इत्याशयः । भाष्यकृतापि कर्मण्यणिति सूत्रे हिमवन्तं शृणोत्यादित्यं पश्यतीप्ति इशिशृणोतिभ्यामणप्रत्ययः कस्मान्न भ- वतीत्याशढ्यानभिधानादिति परिहारमुक्तम् । यथाविकशब्दस्य खा- र्थिककप्रत्ययान्तस्याविशब्दसमानार्थत्वे ऽपि तस्य विकार इति वि- कारतद्धिते लक्षणानुगते ऽप्याविकं मांसमितिप्रयोगदर्शनादविक- शब्दादेवोत्पद्यते नाविशब्दात्तथात्रापि प्रयोगाभावेनाभिधानसाम- •भावान्न इयाप्रत्ययोत्पत्तिरित्युपपादनायाविरविकन्यायेनेति ह- ष्टान्तेऽभिहिते ऽपशब्दःप्रयुक्त इत्याह * भाष्ये ऽपीति* अविश्चाविक- चाव्यविको तयोाय इति द्वन्द्वगर्भस्तत्पुरुषः तस्यैवापशब्दान्तरमु- दाहरति * तथेति * ऋलगित्यत्र सूत्रे वार्तिककारेण लकारस्य स्वातन्त्र्येण कचिदप्यप्रयोगात् क्लपिस्थस्य च यणादिकार्य प्रत्य- सिद्धत्वादुपदेशानर्थक्यमित्याशङ्कय यहच्छाशब्दादिषु (कुमारी ऋ- तकमिति वाच्ये लतकमित्यनुकरणशब्दो यहच्छाशब्दः । तत्र ल- कारे परे ईकारस्यानुकार्य यणादेशः कुमारी लतकमित्येवलकारस्य प्रयोजनमित्यर्थः) यणादिकार्यसिद्धिर्लकारोपदेशप्रयोजनमुक्त्वा य- इच्छाभावात्तद्विषयाच्च कार्यसिद्धिप्रयोजनत्वासम्भवे ऽभिहिते भा- ध्यकारेणान्यथाकृत्वा प्रयोजनमुक्तमन्यथा कृत्वा परिहारः सन्ति- यदृच्छाशब्दा इति कृत्वा प्रयोजनमुक्तं न सन्तीति परिहारदूषण- माशङ्कितं तत्र अन्यथैवं कथमित्थं सुसिद्धाप्रयोगश्चेदिति सूत्रंणा- न्यथादिषु चतुर्षपपदेषु करोतेर्णमुल्विधानादन्यथाकारमिति प्रयो- क्तव्ये ऽन्यथाकृत्वेति क्त्वाप्रत्ययप्रयोगादपशब्द इत्यर्थः । अन्येन प्र. योजनमुक्तमन्येन प्रकारेण परिहार इत्यस्यार्थस्यान्यथाशब्दमात्रेण १ अयं पा. २ पु. ना. । २पयं पा. २ पु. ना.
न्यायसुधायाम् । सिद्धेनियमेन प्रयोज्यत्वाभावान्नायं करोति अन्यथाकृत्वा शिरो ङ्क्त इति वदसिद्धप्रयोग इत्याशयः । एतच्च प्रयोजनं परिहारश- ब्देन निराकार्यतयोपन्यस्तमिति सूचितत्वादाशङ्कामानं नाभिमत- मिति द्योतनार्थ महाभाष्यगतं प्रयोजनमुक्तमिति पाठं तात्पर्यतो व्याख्यातुं चोदितपदं तत्स्थाने प्रयुक्तम् । नन्वृत्विगादिशब्दव- सिद्धवत्प्रयोगरूपनिपातानां साधुत्वं भेत्स्यतीत्याशङ्कयाह * न २०२।१ चेति * ननु प्रयोगमूलत्वाद्वयाकरणस्मृतेस्तबाधकत्वं न युक्त- मित्याशङ्कय प्रयोगमूलताद्याप्यसिद्धेति मत्वा पूर्वोक्तं स्मृतिबली- यस्त्वमाह * स्मृतीति * अतो नैषां निपातनात्साधुत्वसिद्धिरित्युप संहरति * प्रत्यक्षेति * नन्वेवं सत्येकप्रयोगमात्रणेतरासाधुत्वानिश्च- यात्प्रकृतिप्रत्ययान्वाख्यानं विना प्रयोगमात्रेण साध्वसाधुत्वविवे- कासिद्धेनिपातनानर्थक्यं स्यादित्याशङ्कयाह * प्रत्यक्षति * निपातनानर्थक्यपरिहारायान्वाख्यानमनुमीयतइत्याशयः। ननु ल- क्षणवाक्यगतानां शब्दानां खात्मनि क्रियाविरोधेन तद्वाक्यगतैर्ल- क्षयितुमशक्यत्वाल्लौकिकवैदिकशब्दलक्षणार्थत्वेन च व्याकरण- स्यात्मार्थत्वाभावात्प्रदेशान्तरस्थानामप्यलक्षणीयत्वेनानुगमानादरा- न व्याकरणकाराणां व्याकरणाननुगतशब्दप्रयोगो दोष इत्याशङ्ख्या- ह * न चेति * व्याकरणगतानामपि शब्दानां लोकवेदाधिक- रणन्यायेन लौकिकेभ्यो भेदाभावाल्लक्षणीयत्वोपपत्ति वक्तुम * लक्ष्यभूतइत्युक्तम् * अत एव व्याख्यातृभिवृद्धिरादौजित्यादिषु वृद्धिरादैजदे गुण इति जस्त्वदर्शनेन पदसज्ञत्वावगमाञ्चोः कुरि- ति कुत्वेन भवितव्यमित्याशय अयस्मयादीनि च्छन्दसीति सूत्रे- ध्वपि छन्दोवद्भावेन भसञ्ज्ञत्वात्ससुष्टुभा (सऋक्वतेत्यत्र ऋग्युक्तेने- त्यर्थके पदे ऋचशब्दस्य वतिपरे पदसञत्वाच्चोः कुरिति कुत्वे ऋक्वतति सिध्यति । अत्र पदसञत्वात् झलाञ्जशोन्ते इति ज- श्त्वेन नम्रस्य जकारः कस्य ढकारो वा न भवति । अयस्मयादीनि च्छन्दसीयुक्तया भसञ्ज्ञया पदसञ्जाबाधात् । न च पदत्वाभा- वात्कुत्वमपि न स्यादिति वाच्यम् । प्रयोगानुसारित्वाद्वयाकरण- स्य तेन यथा तत्र मत्वा जश्त्वाभावः । पदत्वाच्च कुत्वमिति सजा- द्वयसमावेशः । तथा प्रकृते ऽपीति भावः । अत्र वृद्धिरादौजित्यादि- सहोच्चारणं सिद्धं कृत्वोक्तम्)अन्यदेव तु उपदेशे ऽजनुनासिक इती त्याधुदाहार्यम्)।सऋक्वता गणेनेतिवत्सज्ञाद्वयाविरोधात्कुत्वाभा- वोपपत्तिरित्यादिपरिहाराभिधानवतू समर्थः पदविधिरित्यत्र च पपा. २ पु. ना.।
प्रथमाध्यायस्य तृतीयः पादः । विधिशब्दः कर्मसाधनो भावसाधनः करणादिसाधनो वेति पृष्ट्या विपूर्वाधातोः कर्मसाधन इकारो विधीयतइति कर्मसाधनतया व्याख्यानाल्लक्षणसूत्रेष्वपि लक्षणानुगमादरः कृत इत्याह * तथा चेति * अन्यथा न क चिदपि साधुशब्दादरः स्यादित्याह * यदि चेति * न त्वाचारे नियम इत्यत्र वार्तिके भाष्यकृता याने कर्म- णि स नियमो ऽन्यत्रानियम इत्युक्तत्वान्न व्याकरणे कल्पसूत्रादिषु वा ऽपशब्दप्रयोगो दुष्यतीत्याशङ्कते *अथेति * फलवत्वेन त्वर्थ- त्वायोगाऋतुविषयत्वानुपपत्तिरिति परिहरति *तदसादति* आ- हिताग्निग्रहणानर्थक्यापनश्च न यज्ञविषयतेत्याह * सारखतीति * ननु • तस्माद् ब्राह्मणे न म्लेच्छितवै इत्यपशब्दानषेधस्य प्रकर- णाज्ज्योतिष्टोमाङ्गत्वावगतेरन्यत्रानियमो ऽवसीयतइत्याशङ्कयाह * यो ऽपि चेति * आदित पर च व्याकरणे निरुपपत्तिकपूर्वापर- विरुद्धाभिधानादनाप्तप्रणीतता ऽवसीयतइत्याह * यदपि चेति * २०३।१ भाष्यकृता हि शास्त्रादावथ शब्दानुशासनमिति शास्त्रस्य विषयम- क्त्वा केषां शब्दानामिति पृष्ट्वा लौकिकानां वैदिकानां चेत्त्युत्तरं दत्तं तत्तावदूबहूनां शब्दानां लोकवेदसाधारण्यादयुक्तमित्यर्थः । उभ- यत्रापि च साधारणशब्दोदाहरणमत्यन्तमयुक्तमित्याह * न चेति* ननु वेदादिवाक्योदाहरणत्वेनैषां लौकिकेभ्यो भेदो ऽस्तीत्याशङ्कया- ह * न चति * कानि तर्हि वैदिकत्वेनोदाहार्याणीत्यपेक्षायामाह* अत इति * ननु गाव्यादिपदानामपिनियतखरत्वादिना छान्दसत्वा- धुक्तोदाहरणतेत्याशङ्कयाह * छान्दसेति * एवमपि सिद्ध शब्दा- र्थसम्बन्धइति शास्त्रारम्भवार्तिकव्याख्यानावसरे कथं पुनर्ज्ञायते सिद्धः शब्दो ऽर्थः सम्बन्धश्चेत्याशङ्कानिराकरणार्थत्वेन लोकत इति वार्तिकावयवस्य यद्वयाख्यानं करिष्यते तद्वयाहन्येत स्वर- नियमादेर्लोकतः सिद्ध्यभावादित्याशयः । गाव्यादिशब्दानन्याख्या- नातू लौकिकान्वाख्याने प्रतिज्ञा न युक्तेत्याह * यदि चेति * गवा- दिशब्दानां तु केवलवैदिकत्वस्यापि वक्तुं शक्यत्वात्तदव्याख्यान- मात्रेण लौकिकान्वाख्यानासिद्धिरित्याह * गवादयः पुनरिति * एतदेव च सर्वेषां च स नामानि कर्माणि च पृथक्पृथगित्यादिना म- नुवचनेनोपादयति * तथा चेति * ननु लौकिकार्थविवक्षायां वैदिकशब्दप्रयोगो न युक्त इत्याशङ्याह * दृश्यन्ते चेति * वैदिकानां च पाठसिद्धत्वादनर्थकं लक्षणमित्याह * न चेति * दीधीवेवीटामित्येतत्सूत्रदूषणार्थ च दीधीवेव्योश्छन्दोविषय- त्वाद् दृष्टानुविधित्वाच्च छन्दस्यदीधेददीधयुरिति च गुणदर्शना- २७८ न्यायसुधायाम् दप्रतिषेध इति पार्तिके दीधीवेव्यौ छन्दोविषयौ दृष्टानुविधिः छन्दसि भवति। तत्र च होत्राय वृत्तः कृपयनदीधेतू अदीधयुर्दाशरा- शे वृतास इति गुणस्य दर्शनादनर्थकः प्रतिषेध इत्येवं व्याचक्षाणेन भाष्यकृता स्वयमेव वैदिकशब्दलक्षणानर्थक्याभिधानाच्छान्दसोदा- हरणं व्याहतमित्याह * दृष्टेति * मन्दशब्दो मृदूक्त्यर्थः । आनर्थ- क्यमेव दृष्टान्तेनोपपादयति * यथैवेति * न च भाष्यकृतैव कानि पुनरस्य शब्दानुशासनस्य प्रयोजनानीति पृष्ट्वा रक्षोहागमलध्वस- न्देहाः प्रयोजनमिति मुख्यानि च पञ्चप्रयोजनान्यभिधायेमानिभूयः शब्दानुशासनस्य प्रयोजनानीत्यानुषङ्गोकाणां त्रयोदशानामुक्तत्वात् कथमानर्थक्यमित्याशङ्ख्याह * रक्षाद्यपीति * वेदरक्षणस्यान्यतः २०४१ सिद्धिमुपपादयति * शिष्यति * महच्छब्देन व्यापकतोक्ता तच्च क्रमरक्षानादरणीयेत्याह * तद्विनाशे ऽपि चेति * ननु लोपागमव- णविकारद्वारा पदरक्षा व्याकरणधीनेत्याशङ्कानिराकरणार्थत्वेना ल्पसिद्धः स्वतो ऽपि चंति व्याख्यातुं वृद्धवाक्यमुदाहरति * उक्तं चति * नन्बाम्नायप्रसिद्धानामपि प्रस्तावोद्गीथप्रतोहारोपद्व- निधनानां सामपर्वणां लक्षणार्थस्यौच्छिक्याख्यग्रन्थस्येव व्याकरण- स्याप्यर्थवत्त्वं भविष्यतीत्याशङ्कते * समाम्नायेति * वैषम्यमाह * तयुक्तति * प्रतिकृत्स्नस्य साम्नः सिद्धिर्यस्मात्तत्कृत्स्नसिद्धिः तस्य भावः कृत्स्नसिद्धित्वम् । ननु कृत्स्नसिद्धित्वं ऽप्याम्नाय- सिद्धत्वाल्लक्षणानर्थक्यमित्याशय कर्तव्यन ऋगन्तरसञ्चारणी येन प्रस्तावादिनार्थेनार्थवादित्युक्तम् । कृत्स्नसिद्धित्वादिति व्याचष्टे * औच्छिक्ये हीति * कर्तव्याथेन वेति व्याचष्टे * ब्राह्मणेति * यथा योन्यां गायति तदुत्तरयोर्गायतीत्यादिब्राह्मणगतविधिवशेन योन्यामप्याम्नातस्य साम्न उत्तर ऋगन्तरे सञ्चारणायामित्यर्थः। व्याकरणे त्वेतद्वयमपि नास्तीत्याह * पदेति * विशिष्टपदरचना- त्मकानां वाक्यानां संघातो रूपं येषां वेदानामिति व्याकरणसाध्य- संज्ञाभिधानं न सम्भवति कर्तव्यानि पदानि वाक्यानि वा येषु वे- देविति कर्तव्यार्थत्वाभावाभिधानम् । ननु प्रकृतिप्रत्ययान्वाख्या- नरूपस्य पदानुगमस्यान्यतः सिद्धेः कर्तव्यत्यान्न कर्त्तव्यार्थत्वा- भाव इत्याशब्याह * लक्षयेदिति * वेदरक्षार्थत्वे च व्याकरणस्य वैदिकवर्णमात्रादिनिर्णयो वैयाकरणाधीनः प्रसज्येतेत्याह * किं चति * एतदेव दृष्टान्तेनोपपादयति * कक्षेति * ननु करकवत् वैयाकरणानां सन्निधानाभावादनादरो भविष्यतीत्याशङ्कयाह * लोक इति * यस्य यदर्थत्वमित्यत्रोदाहरणमापादयन्नाह * आयुर्वे- प्रथमाध्यायस्य तृतीयः पादः। दमिति * आप्तावेत्यत्रोदाहरणमाह * व्याधितेति * ननु वेदाध्या- यिना व्याकरणं वैय्याकरणैर्वाद्रियन्तइत्याह * न त्विति * कस्तर्हि २०५।। घेदरक्षाहेतुरित्यपेक्षायामाह * सहाध्यायिभिरेवेति * एतदेव वि- वृणोति * तस्मादिति * उपाध्यायग्रहणं सहाध्याय्युपलक्षणार्थ दानभोजनादिषु वेदपरीक्षाधिकारः करणशब्देनाभिप्रेतः तत्संयुक्ताः कारणिकाः तेषां दयालूनां दोषान्वेषणतात्पर्याभावात् * द्विष्टैरि- त्युक्तम् । अध्येतृणामेव वेदरक्षाहेतुतेति तात्पर्यार्थः । वेदरक्षाप्रयो- जनत्वाभावमुपसंहरति * तस्मादिति * एवं वेदरक्षार्थत्वे निराकृते यदि कश्चिल्लौकिकवाक्यरक्षार्थत्वं ब्रूयात्तं प्रत्याह * लोके त्विति* ननु सुव्यवहारवाक्यरक्षार्थत्वाभावे ऽपि काव्यादिरक्षार्थ व्या- करणं भविष्यतीत्याशङ्ख्याह * काव्यादिष्वपीति * एतदेव वि- वृणोति * यदि त्विति * यथा काव्यस्य नाटकस्य वा लक्षणं प्राकृतभाषायाश्च व्याकरणं शुद्धाखण्डा च मात्रादिः सम्पूर्णेति च. तुर्विधा द्विपदीकरणाख्येन तालेन परिगीयतइत्यादि च द्विपदीनां लक्षणमष्टादशमात्रा विरतिरपि यस्य रासकनामास चतुरंघ्रि- ाकशीत्यादि च व्यसकाणां लक्षणमादिशब्दाच्च ध्रुवकादीनां लक्षणं संव्यवहारवाक्येष्वनुपयुज्यमानमपि कागनामकप्रबन्धार्थ- त्वेनोपयुक्तं तथेदमपि संस्कृतमात्रं काव्यप्रबन्धार्थत्वेनोपयोक्ष्यतइ- त्याशङ्कार्थः । संस्कृतभाषानियमप्रयोजनाभावाभिप्रायेण परिहारः सूत्रारूढः कृतः काव्यशोभापि न नियमप्रयोजनं वैपरित्यापत्तेरि- त्याह * काव्यति * किं च लोकप्रसिद्धर्वा शब्दैः काव्यप्रबन्धार्थ लक्षणं स्यादप्रसिद्धर्वा नोभयथाऽपियुक्तम् । अप्रसिद्धौ सम्बन्धस्या- शास्त्रहेतुत्वादित्यनेन न्यायेन सत्यपि लक्षणानुगमे वचन्तीत्यादिव- लौकिकशब्दप्रयोगे ऽर्थप्रत्ययाभावापत्तेः । प्रसिद्धौ वानर्थक्याप- तेरित्याह * न चेति * ऊहार्थत्वं निराकरोति * ऊहार्थमपी- ति * यथोह्यानूह्यविभागो मीमांसासिद्धत्वान्न व्याकरणापेक्षस्त- थोहखरूपमपि लोकवेदप्रयोगसिद्धत्वादित्यर्थः । दृष्टान्तं विवृणोति * तथा चेति * इयं गौस्तया क्रीणामि तस्यै नृतमित्यादौ सोम- क्रया/कहायनीप्रकाशनार्थे मन्त्र क्षीरादिवाचिनां शृतादिशब्दानां विक्रेनानमनार्थत्वाद् दृष्टार्थत्वे ऽपि क्रमसाधनार्थत्वाच्च खार्थत्वे ऽपि कालान्तरे चैकहायन्या अपि क्षीरादिसम्भवात्समवेतार्थत्वे ऽप्येकहायन्यवस्थायामुच्यमानस्य क्षीरादिसम्भवस्य मुख्यत्वाभावा- दौपचारिकस्य क्षीरादिसम्भवस्य साण्डोत्पादयिष्यमाणधेनुद्वारेण साण्डेषूपपत्तेबहाभावान्मुख्येत्युक्तम् । पत्नी सन्नयति यजमानप- म्यायसुधायाम्। लीसनहवत्प्रेषाथै मन्त्रे पत्नीमित्येकवचनस्य विद्यमानार्थत्वेन ख्यत्वे ऽपि सन्नहनीयपत्नीसंख्याप्रकाशनाच खार्थत्वे ऽप्येकत्वस्य चानेकपत्नीकप्रयोगे ऽपि पत्नीत्वसामान्यसमवायात्समवेतार्थत्वे ऽपि प्रकृतावपूर्वसाधनीभूतपत्नीव्यक्तिपरत्वात्सामान्यसंख्याप्रका- शनस्यादृष्टार्थत्वेनोहाभावाद् * दृष्टार्थतेत्युक्तं * इडोपह्वानमन्त्रे यज्ञपतिं व निति यज्ञपतिशब्दस्य यजमाने मुख्यत्वे ऽपि तत्प्रोत्सा- हनार्थत्वेन दृष्टार्थत्वसम्भवे ऽपि यजमानस्य च कर्मसमवायात्स- मवेतार्थत्वे पीडास्तुत्यर्थवृद्धिविशेषणत्वाभावेनोहाभावात्खार्थइ- त्युक्तम् । इन्द्रागच्छ हरिव आगच्छोति सुब्रह्मण्यामन्ले हरिवशब्द- स्य हरिवत्त्व लक्षणे गुणे मुख्यतति तस्य चेन्द्राय हरिवते धाना निर्वपेदिति सवनीयहविरादिषु देवतात्वान्तर्गतेईष्टार्थत्वे ऽपि यक्ष्य- माणेन्द्रप्रकाशनाच्च स्वार्थत्वेऽपि वस्तुवृत्त्येन्द्रे हरिवत्त्वासमवायात समवेतार्थत्वाभावेनोहाभावातू * समवेतार्थतेत्युक्तम्* सत्यपि मु- ख्यत्वादिष्वर्थप्रकाशनवच्छब्दस्वरूपस्याप्यादरे सत्यर्थान्तरयुक्तायां विकृतावन्द्रीवद्गौणत्वोपपत्तेरूहासम्भवात्प्रकृती यथोत्पत्तिवचन- मर्थानां तथोत्तरस्यान्ततो तत्प्रकृतित्वादर्थे चाकार्यत्वादित्येतदधि- करणसिद्धशब्दखरूपनादरसूचनायादिशब्दः । नवमएव हि तृतीय- पादाद्यधिकरणेऽग्नये जुष्टान्निर्वपामि ब्रीहीणामेधःसुमनस्यमान इति ब्रीह्यग्निशब्दौ द्रव्यदेवतान्तरयुक्तायां विकृतावूह्यावनुह्यौ वेति नि- र्णयार्थ किमर्थप्रकाशनवच्छब्दखरूपमपि विवक्षितं न वेति सन्दिह्य शब्दस्वरूपानादरे समाम्नानार्थक्यापत्तावौत्पत्तिकसमाम्नायावग- तशब्दस्वरूपमनतिक्रम्यार्थानां वचनमाभिधानं प्रकृतान्वयीति कृत्वो- त्तरस्यामपि ततो विकृतिविस्तारे तथाभूतमविकृतमेव शब्दस्वरूपं प्रयोक्तव्यं प्रकृतिदृष्टस्यैव शब्दस्वरूपस्य प्रकृतिवच्छब्देन विनियुक्त- त्वादिति प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततो तत्प्रक- तित्वादिति सूत्रावयवेन पूर्वपक्षयित्वा कर्मसमवेतार्थप्रकाशनोद्दे- शेन विहितानां मन्त्राणां प्रधानवशवर्तित्वेन प्रकृताविति कृत्वा चास्यार्थप्रकाशननिरपेक्षस्वरूपादरायोगाद्वैकृते च सूर्यनीवाराद्यर्थे ऽग्निव्रीह्यादिशब्दानां प्रकाशनाख्यकार्याभावात्तत्समर्थशब्दोपादानेन विकृतौ मन्त्रोच्चारणं युक्तमित्यर्थे चाकार्यत्वादित्युत्तरावयवेन सि- द्धान्तयिष्यते । ननु प्रकृतिमन्त्राणां मुख्यत्वादिरूपेण प्रयोगे सत्यपि विकृतावर्थान्तरयुक्तायामतिदेशेन प्राप्तानां तदीयद्रव्यदेवतादिप्र- काशनसामर्थ्येन प्राकृतकार्यार्थत्वायोगादातिदेशिकवचनवशात्का- यन्तिरकल्पनैवोचिता नोहेन प्राकृतकार्यसामर्थ्यकल्पनेत्याशय र प्रथमाध्यायस्य तृतीयः पादः। विकारेषु कार्यातिदेशतो गता * इत्युक्तम् * प्राकृतकार्यनिरपे- २०६१ क्ष्येण पदार्थातिदेशे शास्त्रातिदेशे वा कार्यान्तरकल्पना युज्येत वै- कृतभावनाकाङ्क्षावशात्तु करणोपकारलक्षणकार्यद्वारस्यैवातिदेशस्य दशमाये वक्ष्यमाणत्वान्न कार्यान्तरकल्पनेत्याशयः । कार्यद्वारातिदेशे ऽपि कार्यान्तरार्थे ब्रीह्यादी बीहीणां मेधेत्यादिमन्त्रप्रयोगस्यैवाभा- वात्प्राकृतकार्यार्थत्वे यर्थान्तरत्वाभावेनाविकृतस्यैव प्रयोगोपपत्ते- रूहाभावात्प्राकृतकार्यतापत्तेश्च * अर्थान्तरोध्वित्युक्तम् * कथं कार्यापत्त्यवगतिरित्यपेक्षायाम् * पञ्चधेत्युक्तम् * नैवारश्चरुरिति विकारतद्धितेन नीवाराणां चरुप्रकृतित्वाभिधानात्प्रत्यक्षविधिना प्रदेयप्रकृतित्वलक्षणव्रीहिकार्यापत्तिरवसीयते सस्थिते षडहे म- ध्वाशयेद् घृतं वेति मधुघृताशनयोः षडहाभावे विधानात्प्रत्यक्षवि- धिना षडहकार्यापत्तिः सत्रायावगूर्य विश्वजिता यजेतेति वा स- त्राभावे विश्वजितो विधानात्सत्रकार्यापत्तिः । नैवारश्चरुनखावपू- तानामिति वैतुष्यलक्षणविकारफलकनिलच्छनापरपर्यायावपनाङ्ग- त्वेन नखानां विधानाद्विकारेण वैतुष्योत्पादनलक्षणोलूखलमुसल- कार्यापत्तिः। परिधौ पशुं नियुञ्जन्तीति परिधेर्नियोजनविधानात्स्व- शब्देन विनियोजनलक्षणरूपकार्यापत्तिः । न गिरागिरेति ब्रूयादैरं कृत्वोद्यमितीरापदविध्येकवाक्यतया गिरापदस्य निषेधानुवादाव- गतेरेकार्थत्वाभावे चेरापदेन गिरापदबाधायोगानिषेधानुवादानुप- पत्तेर्निषेधानुवादेन गिरापदकार्यापत्तिरिति पञ्चप्रकारत्वम् । प्र- त्यक्षविधिना भावे विधानेन विकारतः स्वशब्दाच्च निषेधानुवा- दात्तत्कार्यकारितेति संग्रहश्लोकः । ननु ब्रह्मादिकार्याय तेष्वपि नीवारादिषु व्रीह्यादिप्रकाशनार्थानां मन्त्राणां व्रीह्यादिस्वरूपस्या- भावेनाप्राप्ते!हः स्यादित्याशङ्कय * अपूर्वार्थद्वारेणेत्युक्तम् * स्व- रूपप्रयुक्तत्वनिराकरणेनापूर्वप्रयुक्तत्वस्य नवमाये वक्ष्यमाणत्वानी- वारादिषु ब्रीह्यादिस्वरूपाभावे ऽपि ब्रीह्यादिलक्षितापूर्वार्थत्वसद्भा- वात्तद्वारेणास्ति प्राप्तिरित्याशयः । नन्वर्थान्तरेष्वप्यूहेन मन्त्राणां प्रयोगोपपत्तौ याज्यानुवाक्ययोरनुपदेशे गायध्यादिना लक्षणेनानु- वाक्यकल्पनवचनं त्रिष्टुबादिना च लक्षणेन याज्याकल्पनवचनं ता- दृशलक्षणयोश्चासम्भवेन असञ्ज्ञकयाोनिमामशृणुधीहवं स्तीर्ण बहि- रानुषासवेतदित्यनयोरिरागमवचनमनर्थकं स्यादित्याशङ्कय * अनि- षिद्धोहा इत्युक्तम् * पूयति वा एतद्दचो ऽक्षरं यदेतदूह इति त- स्माचं नोहेदित्यादावूहनिषेधान्न देवतान्तरवत्यां विकृतौ प्राकृत- योर्याज्यानुवाक्ययोःप्राप्तिः सम्भवतीत्याशयः । न माता वर्द्धते न ૨૮૨ न्यायसुधायाम्। पितेति तु यशपतिन्यायप्राप्तनिषेधानुवादत्वान्नोदाहरणमेवम्भूतस्य वोहोपपत्तिकलापस्य मीमांसागम्यत्वादस्माकमेवोहः सिद्ध्यति न वैयाकरणानामिति * न इत्यनेनोक्तम् * न त्ववधातादिसंस्कार- विषयस्य हढादृढप्रहारादिरूपस्योहस्य सामविषयस्य वोत्तराकृता वृ- द्धतालव्याश्रितापि भावरूपस्य व्याकरणानपेक्षत्वे ऽपि मन्त्रोहस्य वैयाकरणाधीनत्वेन महाभाष्यकृतोक्तस्य शब्दरूपत्वाद्वैयाकरणापे- क्षा भविष्यतीत्याशय बीह्यादिसम्बन्धित्वेनावगतानां धर्माणां नी- वारादिसम्बन्धित्वापादकरूपवितर्कणात्मकस्योहरूपस्य मन्त्रविषये ऽप्यूहे साम्याद्वितर्कणायाश्च मीमांसाधीनत्वान वैयाकरणापेक्षेति * मन्त्रशब्देनोक्तम् * ननूह्यानूह्यविभागस्य मीमांसकाधीनत्वे ऽप्यूह्यपदस्वरूपज्ञानं वैयाकरणापेक्षं भविष्यतीत्याशङ्कयाह * ए- तावतीति * ननु कथं साध्वसाधुशब्दविवेकानभिज्ञस्य योग्यप- दलाभ इत्याशङ्कयाह * वेद एव हीति * यत्किश्चिच्छब्दोहेनापि वा मन्त्रवाक्यनैराकाङ्क्षयसिद्धर्न योग्यपदादरो युक्त इत्याह * अथ वेति * एतच्च देवतापदव्यतिरिक्तविषयमुक्तं तेषां विधिगतव्य- तिरेकेण साधूनामप्यप्रयोज्यत्वादिति दर्शयंश्लोक व्याचष्टे * देव- तेति * आग्नेयादियागाङ्गभूतेष्वावाहनादिषु निगमनस्थानेषु किं येन केन चित्पर्यायेण देवताभिधेयार्थविधिगतेनैव शब्दनति सन्दिह्य येन केन चिदर्थसिद्धरनियमे प्राप्ते देवतायाः प्रतिग्रहादिव्यापाराभावा- स्वरूपेण कर्मसमवायानुपपत्तेः शब्देनाग्निमुद्दिश्य हविस्त्यजेदिति विध्यर्थावगमात्केन शब्देनेत्यपेक्षायां बुद्धिस्थाग्निशब्दातिक्रमे कार- णाभावादग्निशब्देनैवाग्निमुद्दिशेदिति विधिगतेनैव शब्देन देवता- त्वविधानान्मन्त्रकार्ये तस्यैवोच्चारणं कार्यमिति विधिशब्दस्य म- न्त्रत्वे भावः स्यात्तेन चोदनेति सूत्रोक्तदाशमिकन्यायेन विधिग- तप्रयोगानुसारेणैव विकृतौ देवतापदान्यूह्यमानानि प्रयोक्ष्यन्तइत्य- र्थः ननु सौर्य चरुमिति विधौ प्रातिपदिकमात्रश्रवणादग्नये जु- टमिति चतुर्थ्यन्ताग्निपदस्थाने सूर्यपदं कीदृशं प्रयोज्यमिति व्या- करणं विना न ज्ञायतइत्याशय * तद्वाक्यशेषेत्युक्तम् * तस्य विधिवाक्यस्य शेषे वाक्यान्तरे वा महोदेवाय सूर्याय शंसतेत्यादौ यदधिगतमर्थाभिधानमित्यन्तेनेत्यर्थः । नन्वेवं सति शब्दव्यवस्थाया- मपि प्रयोगोत्पत्तिशास्त्रत्वदर्शनात्कथं तेनाव्यवस्थासिद्धिरित्याशङ्कय *तेषु हीत्युक्तम् * किं विषयं त_व्यवस्थितोह्यपदप्रयोज्यत्वाभिधान- मित्यपक्षिते * यानीत्युक्तम् * पौण्डरीके बर्हिषि दर्भेस्तृणीत हरि- तैः सुपर्णरित्यतिदन्यप्राप्ते मन्त्रे दर्भपदस्थाने पुण्डरीकैरिति द्रव्यपद- प्रथमाध्यायस्य तृतीयः पाद: २८३ -- मादिशब्दात्सुपर्णपदस्थाने पुण्डरीकावयववाचिपम् । एवं श्रीही- णां मेधः सुमवस्यमान इत्यादौ यथासम्भवं नीराणामित्यादीनि यथासम्भवं द्रव्यादिपदान्युदाहार्याणि । ननु नीवारादिपदव्यतिरि क्तानां तत्पर्यायाणां साध्वसाधूनां मानाप्राप्तत्वेनाप्रतीतरूपाणांप्रयो- गविधिविषयत्वाभावात्प्रयोगानुपपत्ते व्यवस्था युक्तेत्याशय*स- निहितेत्युक्तम् । सन्निहितेन नीवारादिविधित. प्रतीतेन नीवारादि- नार्थेन पर्युपस्थापितानि समस्तानि पर्यायभूतानि साध्वसाधूनि रू- पाणि येषामिति विग्रहः । पूर्वमेव तर्हि नीवाराद्यर्थस्य स्मृतत्वानी- वारादिपदोहो ऽनर्थकः स्यादित्याशङ्ख्या * असन्निहितेत्युक्तम् * अ- सन्निहितार्थस्य व्रीह्यादिपदस्य निवृत्त्या हेतुभूतया न्यूनत्वात्साका- झं यबीहाणां मेधेत्यादिमन्त्रवाक्यं तस्य निराकाङ्क्षीकरणायेति विग्रहः। द्रव्यादेहि श्रुतिसमवायित्वाभावेन विधिगतशब्दप्रयोगनिय- भाभावात्कर्मविधानार्थस्यैव शास्त्रस्य शब्दप्रयोगोत्पत्तिशास्त्रत्वा- उपपत्तेमन्त्राम्नानरूपेण वा शास्त्रेण प्रयोगोत्पत्तेः शास्त्रवत्त्वं वाच्यं व्याकरणाख्येन वा तत्र मन्त्राम्नानं तावद्विकृतौ नास्तीत्याह *प्र- कृती हीति * व्याकरणस्य च सम्भाव्यमानमूलशास्त्रत्वात्कृतकल्वा- दिदोषग्रस्तत्वात्पौरुषेयत्वेन चानादियज्ञगतशब्दविषयत्वायोगान्न प्रयोगोत्पत्तिशास्त्रत्वं युक्तमित्याह * व्याकरणस्यापीति * कृतकत्व- स्थानाप्तप्रणीतत्वाशङ्कापादकत्वेन दोषत्वं व्याकरणानुगतशब्दप्रयो- नियामकत्वाभावेन *. अविधायकत्वस्योक्तम् * इत्युपसंख्याना- नामादिशब्दोपात्तानां च वक्तव्यानामाचार्यसूत्राणां च दीधीवेवी- टामित्यादीनां प्रत्याख्यानं सूत्रवार्तिकभाष्याणां परस्परविरोधे विशे- षाग्रहेण इदमेव प्रमाणमित्यनिश्चयादनवस्थितं प्रमाणत्वं विकरण- स्य के चित्प्रकृत्यन्तर्भावमिच्छन्ति, अन्ये प्रत्ययान्तर्भावमिति,यथारु- चि कल्पितं प्रकृतेःप्रत्ययस्य.वा परिमाणं धातुप्रातिपदिकादिलक्षण- दूषणान्यादिशब्देनोपात्तानि सत्यप्याप्तप्रणीतत्वे नित्यानित्यसंयोग- विरोधेनानादियज्ञगतशब्दविषयत्वं निराकृतम् । ऊहस्यान्यतः सि- खेाकरणप्रयोजनवासम्भवमुपसंहरति * तेनेति * प्रकृति- २०७१ विकृतिविभागज्ञानं कर्मशानं प्रकृती द्रव्यदेवतामन्त्राणां विक- तो द्रव्यदेवतान्तरस्य प्राकृतानां च मन्त्राणां ज्ञानं कर्मा- ङ्गज्ञानं प्रकृतावपूर्वप्रयुक्तत्वं कार्यातिदेशेन विकृतिग- मनं वैकृतानां चाङ्गानां प्राकृतकार्यापत्तिज्ञानं वाक्यार्थज्ञानं तेषु कौशलैः कर्तव्यतया लोकवंदप्रयोगाश्च स्वरूपेणोहसिद्धाकरणा- मर्थक्यमित्यर्थः । व्याकरणतः सिद्धरप्यूहस्यः तत्प्रयोजनत्वं. न. यु- ૨૪ न्यायसुधायाम्। क्तमित्युपपादयितुं व्याकरणपर्यालोचनया कर्त्तव्यत्वेनावगतस्याहस्य मीमांसानुसारेणापवादः कल्पसूत्रव्याख्यातृभिः कृत इत्याह *अपि चेति * देव्याः शमितार आरमध्वम् इत्यादिः पशुविशसनप्रैषमन्त्रः अध्रिगुशब्दवत्वेनाध्रिगुरुच्यते तत्र पुराणन्यायादीन्यङ्गानि अस्वत्वेवं मातेत्यादीनि शातिनामानि श्यनमस्येत्याद्या उपमाः सूर्य चक्षुरित्या- दीनीन्द्रियाणि यज्ञपतिशब्दवत्पारायेंनैषामन्यैरूहविषयवैषम्याना- ध्रिगावूह्यते इत्यर्थः । यथागमः खल्वपीत्युपक्रम्य ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदो ऽध्येयो शेयश्चेति स्मरणमावश्यकधर्मज्ञानार्थ षडङ्गवेदाध्ययनविधानार्थ व्याकरणाध्ययनप्रयोजनत्वेनोपन्यस्तं त- प्रयोजनं प्रयोजनिभाववैपरीत्येन दूषयतिं * आगम इति * यथा वेदाध्ययन प्रति प्रयोजनभूतानां कर्मणां नाध्ययनं प्रयोजनं तथा षडङ्गवेदाध्ययनविधायकमागमं प्रति प्रयोजनभूतस्य व्याकरणा- ध्ययनस्य नागमप्रयोजनमित्युपालम्भार्थः । न त्वागमप्रयोजनत्व- प्रतिपादकं भाष्यमनुष्ठापकत्वाभिप्रायं व्याख्यातृभिर्व्याख्यातं तत्क- थं फलपरत्वं प्रयोजनशब्दस्यारोप्य दुषणमुक्तमित्याशङ्कानिराकर- णार्थः फलपदप्रयोगः । रक्षोहागमलध्वसन्दहाः प्रयोजनमिति सकच्छतस्य प्रयोजनशब्दस्य रक्षादौ फलपरत्वमागमे ऽनुष्ठापक- परत्वं न युक्तमित्याशयः । एतदेव विवृणोति * सर्वस्य हीति * न चागमप्रयोजनत्वाभिधानेन लक्षणया धर्मशा- नाख्यमागमोक्तं प्रयोजनमाभिमतमित्याशङ्कते * अथेति * षडङ्ग- वेदाध्ययनवद्धर्मज्ञानस्याप्यनुष्ठेयत्वमनेनागमेनोक्तं न प्रयोजनत्वमि ति मत्वा परिहरति * तदपीति * नन्वेकस्मिन्वाक्ये विधिद्वया- योगाद्धर्मस्य शेयत्वाभिधानं प्रयोजनत्वेनैव व्याख्येयमत आह * निष्कारणतयेति * श्रेयःसाधनत्वेन धर्मस्य निष्प्रयोजनत्वायोगा- निष्कारणशब्दस्य षडङ्गशब्देनैवान्वयात्पौरुषेययु च वाक्यभेदस्या- दोषत्वादित्याशयः । एतदेव विवृणोति * निष्कारणति * कार्यते ऽनुष्ठाप्यते ऽनेनेति व्युत्पत्त्या प्रयोजनवचनो ऽयं कारणशब्द इति वक्तुं निष्प्रयोजनत्वशब्दः । अवेदत्वाच्चास्यागमत्वं नास्तीत्याह * आगम इति * नन्ववेदत्वे ऽपि वेदमूलत्वेनागमत्वं भविष्यतीत्याश- झ्याह * कथं चेति * नन्वेवं तर्हि तस्याः स्मृतेर्वेदमूलत्वाभावे वे- दाध्ययनस्यावैधत्वं स्यादित्याशङ्ख्याह * तस्मादिति * न च केव- लवेदविषयस्य विधेनित्यानित्यसंयोगविरोधो ऽस्तीत्याह * उपप- नं चेति * ननु व्याकरणादेरपि प्रवाहनित्यत्वान्नित्यविधिविषय- त्वं न विरोत्स्यतइत्यत आह * व्याकरणादीति * प्रत्यक्षवीतीवषय- प्रथमाध्यायस्य तृतीयः पादः । २८५ त्वं सति तदन्यथानुपपत्त्या प्रवाहनित्यत्वं कल्प्येत तदभावे ऽप्यप- स्मृतित्वेनाप्युपपत्तेर्न कल्पनागोरवाश्रयणं युक्तमित्याशयः । न चास्य वदत्वेन तत्तुल्यत्वेन वा खयमागमत्वं सम्भवति कल्पसू- प्राधिकरणे निरस्तत्वादित्याह * न चेति * किं च प्रधानं च षडङ्गषु व्याकरणमिति भाष्येण वेदाङ्गत्वाद्वयाकरणस्यैतदागमप्र- योजनत्वमुक्तम् । अङ्गशब्दश्च तादर्थ्यवाची वा स्यादवयववाची वा नोभयथापि व्याकरणस्याङ्गतास्तोत्याह * न चेति * उभय- रूपाभावमुपपादयति * श्रुतीति * कस्तह्यस्याः स्मृतेरर्थ इत्य- पेक्षायामाह * तस्मादिति * लिङ्गादेरशब्दरूपत्वे ऽपि तत्कल्प्या- २०८।। नां श्रुतीनां वेदावयवत्वं भविष्यतीति भावः । अभिधानसमथीनां वा मन्त्राणां लिङ्गत्वमङ्गानां सापेक्षवाक्यार्थप्रतिपादकवाक्यसमु- दायस्य प्रकरणत्वम् । सन्निधिपठितानां वाक्यानां क्रमत्वम् । यौ- गिकस्य शब्दस्य समाख्यात्वमभिप्रेत्य * अवयवत्वमुक्तम् * एवं विधषडङ्गवेदाध्ययनस्य वान्वयव्यतिरेकाभ्यां धर्मज्ञानहेतुत्वाव- सायाद्धर्मों ज्ञेय इत्यस्य तत्प्रयोजनत्वाभिधायकत्वोपपत्ते नेकवि- धान निमित्तवाक्यभेदापत्तिरिति सूचयन्नाह * तैः षभिरिति * नववं सात वेदाध्ययनेनैव तदवयवाध्ययनसिद्धेः विशेषणानर्थ- क्यापत्तिं शङ्कते * नन्विति * प्रविभक्तरूपश्रुत्यादिज्ञानार्थत्वन विशेषणसाधुत्वमाह * उच्यतइति * श्रुतेर्विनियोजकत्वे हे- तुर्मुख्यं गौणं वा सामर्थ्य तेन विना विनियोजकत्वस्यासम्भवा- द्विनियोजकाक्षरश्रवणरूपं व्यर्थ लक्षित पूर्व साधनांशे वि- नियोगः फलं सामान्यसम्बन्धाख्यः क्रतुसम्बन्धो लिङ्गस्य विनियोजकत्वे हेतुः सामर्थ्य रूपं मुख्ये ऽर्थे विनियोगः फलं सम- भिव्याहारान्यथानुपपत्तिर्वाक्यस्य विनियोजकत्वे हेतुः । सन्निहि- ताकाङ्गितयोग्यपदार्थप्रतिपादकपदसमुदायो रूपं पूर्वापरपदाविरो- धेन विनियोगः फलं प्रकरणस्य विनियोजकत्वे फलसंयोगाभावो हेतुः साकाङ्क्षफलवत्सन्निधानं रूपं फलवति विनियोजकत्वे सा- दृश्य हेतुः । निराकाङ्क्षफलवत्सन्निधानं रूपं फलवत्याकाङ्क्षो- स्थापनेन विनियोगः फलं सामान्यतः प्राप्तिः समाख्याया विनियो- जकत्वे हेतुः यौगिकशब्दत्वं रूपं प्रतियोगिनि विनियोगः फलमिति । पृथग्भूतैर्हेतुरूपफलैः प्रविभक्तरूपेण श्रुत्यादिज्ञानं मीमांसानिरपेक्षा- द्वेदाध्ययनमानान्न सिध्यतीत्याशयः । ज्ञात्वेति च ज्ञास्यामीत्यध्यव- सायेत्येवमग्निष्टोमसाम कृत्वोतवद्व्याख्येयं विधेरर्थमित्यनेन षडङ्गो वेदोऽध्येयो शेयश्चेत्यागमस्य वेदः पठितव्यः स च परस्परवि- २८६ न्यायसुधायाम् । विक्तश्रुत्यादिषडङ्गरूपण क्षेय इत्यर्थः । सूचितं मीमांसाधीनत्वं चास्यार्थस्य न इत्यस्मदा सूचितम् । ननु ज्ञेयशब्दस्य षडङ्गशब्दा- न्वये धर्मशब्दस्यानन्वयापत्ते नेन श्रुत्यादीनां चोक्तरूपेण ज्ञानं वि- धियतइत्याशय अध्येयशब्दस्यैवेण गतावित्येतद्धातुरूपत्वाङ्गीकर- णेन ज्ञानविधायकतेति व्याख्यानान्तरमाह * अधीति * अका- रप्रश्लषरहितेन वानेन ध्यानं विधीयतइति तृतीयं व्याख्यानमाह * ध्यायतरिति * अध्ययनविधित एक नान्तरीयकतयाध्ययनसिद्ध- विधानानर्थक्यमित्याशय श्रुत्याद्युपायकार्थप्रतिपादकत्वरूपेण षड- ङ्गस्य वेदस्य ध्यानं विवक्षितं न स्वरूपेण तस्यापि च वेदार्थावधा- रणकालसिद्धत्वात्पश्चादप्यनुष्ठेयत्वसिद्धयर्थ विधानमिति दर्शयितु- माह * श्रुत्यादीति * एवं च मीमांसाध्ययनानुष्ठापकतैवास्या- गमस्यावसीयते न व्याकरणाध्ययनानुष्ठापकतेत्यनुष्ठापकत्वेनागम- स्य व्याकरणप्रयोजनस्वाभिधानं न युक्तमित्याह * ततश्चेति * अनुष्ठानार्थत्वाद्वा विधिवाक्याध्ययनमात्रेण स्वाध्यायविध्यर्थसिद्धे- रर्थवादान्तर्गतव्याकरणाद्यङ्गसहितवेदाध्ययनाविधानार्थत्वनास्या- गमस्य न पाणिन्यादिनमतप्रन्थाध्ययनानुष्ठापकतास्तीति चतुर्थी व्याख्या तामाह * वेद इति * श्लोक व्याचष्टे * तहन इति * तदेनमधिनोत्तद्दनोदधित्वमिति धिनोतेः प्रीणातिकर्मणो दाधत्वश- ब्दनिर्वचनादेतन्निरुक्तोदाहरणं तदाहुर्यदन्यो जुहोत्यथ यो ऽनुषाह- यति तं च कस्मान होतेत्याचक्षतइति पृष्टे यद्वावः स तत्र यथाभा- जनं देवता अमुमावहामुमावहेत्यावाहयति तं देवहोतुर्वोतृत्वमिति व्हयतेः कृतसम्प्रसारणस्यैतद्रूपं न तृजन्तं जुहोतेरिति प्रकृतिविशेषा- न्वाख्यानान्न व्याकरणोदाहरणम् आदिशब्दोपात्तस्य छन्दोविचि- त्यादरष्टाक्षरा गायत्रीत्यायुदाहरणं यथासम्भवं मृग्यम् । अस्तु वा निरुक्तादिग्रन्थानां षडङ्गाध्ययनस्मृतिविषयत्वम् । ननु व्याकरणस्य प्रातिशाख्यः संख्याः पूरयिष्यतइति पञ्चमीव्याख्यामाह * प्रातिशा- ख्यानि वेति * यानि प्रातिशाख्यान्यध्यतारो ऽधीयते तेष्वेव संख्यापूरणार्थ सङ्गतं न व्याकरणेवित्येवकारार्थे द्वितीयो वाशब्दः गृह्यमाणं लिङ्गन स्वाध्यायार्थत्वं ह्येषामिति हेत्वर्थः वेदसंहिताध्य- यनानुगतखरसन्ध्याद्यनुसाराभिधानार्थः । खाध्यायत्ववदिति व- तिः स्वाध्यायानुगतखरायुच्चारणनियामकत्वरूपं प्रयोगशास्त्रत्वं ता- दर्थ्यग्रहणहतुतया स्वाध्यायवदित्यनेनोक्तमुपपादयति * यानि हीति * तदुपपादितं गृह्यमाणतदर्थत्वं व्याचष्टे * तेग्विति * अतस्तेवित्यध्याहारेण योज्यम् । एवकारार्थस्य वाशब्दस्य व्याव- प्रथमाध्यायस्य तृतीयः पादः । य॑माह * नन्विति * ननु कतिपयानामपि तावदिकशब्दानामुश्चा- २०९।। रणनियामकत्वात् व्याकरणानामपि प्रयोगशास्त्रतास्तीत्याशङ्ख्याह * प्रातिशाख्यानीवति * अन्वाख्यायमानेष्वपि वैदिकशब्दष्व- ध्ययनानुगतवरसन्ध्यादियुक्त रूपे व्यापाराभावान्नैषां प्रयोगशा- स्त्रतास्तीति नियामकत्वाद्वयाकरणानामपि प्रयोगशास्त्रतास्तीति प- रिहरति * नेति * प्रातिशाख्यानां वेदखरूपे व्यापार विवृणोति * प्रातिशाख्यैः पुनरिति * उदात्तपौर्वापर्यत्वे तयोर्मध्ये काल: खरसन्धिः सर्वानुदात्तपदसंहतिः प्रयतिः असंहिता विवृतिः खरितस्योदात्तों इशः पूर्वाङ्गः, अनुदात्तः पराङ्गः आदिशब्दे- नाङ्गाद्युक्तम् । एवं तावद्वयाकरणाध्ययनाविधायकत्वान्नास्यागमस्य व्याकरणं प्रत्यनुष्ठापकत्वरूपप्रयोजकत्वान्नास्य किमपि प्रयोजनत्वम् *सम्भवतीत्युक्तम् इदानीमस्यागमस्य व्याकरणाध्ययनविधायक- त्वे ऽपि निष्कारणशब्देनाध्ययनमात्रपर्यवसानावसायादर्थज्ञाननिर- पेक्षेणाध्ययनमात्रेण शब्दानामनुशासितुमशक्यत्वाच्छब्दानुशासन- स्य रक्षोहागमलध्वसन्देहाः प्रयोजनमिति पूर्वोक्तेन प्रतिज्ञानेन तव प्रयोजनत्वेनाभिमतस्यागमस्यानुसन्धानसंवादो नास्तीत्याह * पूर्वो- केनेति * यो हायमागमस्त्वया प्रयोजनत्वेनोपन्यस्तः सो ऽध्यय- नं प्रति तन्मात्रे पर्यवस्यति न शब्दानुशासनपर्यन्तं गच्छति प्राक्- शब्दानुशासनमागमप्रयोजनत्वेन प्रतिज्ञातमित्यध्याहारेण योज्यम् । अस्माच्चागमाध्ययनमात्रे धर्म इति प्रतीतेमहाभाष्यकृता ज्ञाने- धर्म इति वक्ष्यते शास्त्रपूर्व प्रयोगेषूदय इति च वार्तिककृता तदु- भयमप्यागमविरुद्धं स्यादित्याह * ब्राह्मणेनेति * यश्च लाघवा- थै चाध्येयं व्याकरणमित्यादिभाष्येण लघुनोपायेन शब्दज्ञानं व्याक- रणस्य प्रयोजनमित्युक्तं तदत्यन्तक्लिष्टत्वेन व्याकरणस्य लघूपायत्वा- योगप्रयोजनातिक्लिष्टव्याकरणाध्ययनमध्येतुर्लाघवं मन्दबुद्धित्वमा- पादयतीत्यध्येतृलाघवमेवास्य प्रयोजनमित्यवं व्याख्येयमित्युपहसति * यदपि चेति * उपहासान्तरमाह * यदि वेति * श्लोक व्याचष्टे * लोकप्रसिद्धानामेवेति * धातुशब्देन धातुपाठो विवक्षितः गण- शब्देन गणपाठ उणादिशब्देन दशपादी पञ्चपादी वा सूत्रशब्देनाष्टा- ध्यायी आदिशब्देन वार्त्तिकादीनां तेषां पाठतो ऽर्थतश्च क्लिष्टत्वाद- त्यन्तवैषम्यं विशेषणं क्लिष्टार्थत्वोपपादनायोत्तरवदत्रापि विग्रहद- यम् । अलौकिकीभिवृद्धिरादैजित्यादिभिः संज्ञाभिरिकोगुणवृद्धी- त्याद्याभिश्च परिभाषाभिर्निबद्धा प्रक्रिया येषां धात्वादीनामिति प्रथमविग्रहः द्वितीयस्त्वनवस्थितौ स्थापनाक्षेपौ यस्य सिद्धान्तस्य स ૨૮ न्यायसुधायाम्। सिद्धान्तो यस्य विचारस्य स विचारो येषु धात्वादिष्विति द्वन्द्वग- र्भबहुव्रीहिगर्भो बहुव्रीहिः । तद्यथा सिद्धे शब्दार्थसम्बन्धे इति शा- स्त्रारम्भवार्तिके भाष्यकृता सिद्धे शब्दे ऽर्थे सम्बन्धे चेति विग्रह कृत्वा नित्यपर्यायवाचित्वेन सिद्धशब्दं व्याख्याय कं पुनः पदार्थ मत्वैष विग्रहः क्रियत इति विचारमुपक्रम्याकृतिमित्याहेत्याकृत्य- भिप्रायत्वं प्रतिज्ञायाकृतिर्हि नित्या द्रव्यमनित्यमिति हेतुमुक्त्वा ऽथ वा द्रव्यपदार्थ एष विग्रहो द्रव्यं हि नित्यमाकृतिरनित्येति द्रव्यातीन्द्रियत्वमुक्त्वा पुनराकृतावपि पदार्थएष विग्रहो न्याय्य इत्युक्त्वा नित्याकृतिरेकद्रव्यविनाशे ऽपि द्रव्यान्तरे प्रत्यभिज्ञाना- दिति चाक्षेपं परिहृत्य कूटस्थनित्यत्वाभावे ऽपि वा पट्टकुटीवंद्विन- टा वा अथाकृतव्यान्तरभावे ऽयमिति तत्त्वप्रतिज्ञानान्नित्यतेति प- रिहारान्तरमुक्त्वा ऽथ वा किं न एतेन इदं नित्यमिदमनित्यमिति यन्नित्यं तं पदार्थ मत्वैष विग्रहः क्रियतइति पदार्थविचारसिद्धा- न्तस्थापनाक्षेपानवस्थितहेतूपन्यासेनानवस्थितौ कृते एवमत्यन्तविष- मैर्धात्वादिभिर्लोकप्रसिद्धानामेव शब्दानां क्लेशेनान्तं गत्वा यथाव- स्थितानुवादमात्रकरणान्निष्फलश्रमापत्तिरित्यर्थः। तत्रापि चेत्यनेन यथावस्थितशब्दज्ञानमपि सर्वप्रतिपतॄणां न भवतीत्युक्तम् । स्तु- त्यर्थमित्यन्तासम्भाविता स्तुतिरपि न सम्भवतीति सूचितम् । ननु भाष्यकृता न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या वि- ज्ञातुमिति लघूपायान्तराभावाभिधानाद् गुरोरप्यस्य प्रतिपदपाठा- त्मकगुरुतरोपायापेक्षया लघुत्वं भविष्यात एतदेव चान्यरुपपादित- मित्याशयानुभाषणपूर्वकमुपसंहरति * यदपीति * तत्त्वावबोधो रूपादेर्नास्ति व्याकरणाहतइत्याद्यपि वक्तव्यमित्यर्थः । ननु रूपा- देः प्रत्यक्षगम्यत्वान्न व्याकरणापेक्षा तत्साध्वसाधुशब्दविवेकस्य तु व्याकरणमन्तरेणाज्ञानान्नोपहासो युक्त इत्याशङ्ख्यार्थप्रतीतिसाधन- त्वात्सर्वेषां गोगाव्यादिशब्दानां साधुत्वे तेषां च श्रोत्रेन्द्रियाग- म्यत्वान्न व्याकरणपेक्षेत्यभिप्रायेण परिहरति * को हीति * प्रमा. णान्तरागोचराविषयत्वं शास्त्रस्य खभावः प्रमाणान्तरगृहीतार्था- नुवादित्वं लोकस्य इतिकरणार्थवाची इदृशशब्दप्रयोगात्तत्वावधा- रणमिति प्रथमा कीदृशं तीर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धन- २१०१२ मिति श्लोकस्योत्तरार्द्ध वक्तव्यमित्यपेक्षायामाह * अत इति * य- द्यप्यसन्देहाथै चाध्येयं व्याकरणमित्यादिभाष्येण वेदार्थगतसन्देह- निवृत्तिप्रयोजनत्वं व्याकरणस्योक्तं तदपि दूषयति * असन्देहश्चे- ति * पदार्थगतस्य चासन्देहस्य निवृत्तिाकरणस्याप्रयोजनं वाक्या- प्रथमाध्यायस्य तृतीयः पादः । ૨૮૨ र्थमन्तरा वा उभयथाप्यन्यतः सिद्धत्वात् व्याकरणाचासिद्धर्न व्या- करणप्रयोजनमित्यर्थः । पदार्थसन्देहनिवृत्तेरन्यतः सिद्धिमुपपादयति * पदार्थेति * व्याकरणेन चासिद्धिमुपपादयति * व्याकरणेन पुनरिति * नन्वीहथं पदमस्मिन्नर्थे साध्वित्यर्थविशेषावच्छिन्नस्यैव पदखरूपस्यान्वाख्यानादर्थज्ञानमपि व्याकरणात्सम्भवतीत्याश- व्य शब्दान्वाख्यानोपायमात्रकेन व्याकरणे ऽर्थकथनं न तात्पर्येणेति निदर्शयितुमाह * तथा हीति * व्याकरणाद्धि सर्वनाम्नां धातु- जत्वेन क्रियायोगनिमित्तता प्रतीयते न च वृद्धव्यवहारे तथा प्रती- तिरित्यर्थः । अत्रैवोदाहरणमाह * गमेरिति * अनेन सूत्रेण गत्य- र्थात् गमेर्धातोरोणादिके डोप्रत्यये विहिते डितूकरणाच्च टिलोपे कृ- ते कर्तरि कृदिति गन्तरि गोशब्दव्युत्पादनार्थान्वाख्यानादरे लोके सिद्धा जातिवाचिता हीयेत लोकमूलत्वाच्च व्याकरणस्य नैता- तमित्यर्थः (उदाहरणान्तरमाह * तथा चेति* कुशला दातरि कु- शलशब्दस्य दातरि च दारशब्दस्य व्याकरणे ऽनुगमः । लोके च प्रवीरा ये कुशलशब्दस्य दातृमहत्त्वयो वाश्च दारशब्दस्यत्यर्थः।) अकृदन्तेष्वपि कृदन्तत्वान्वाख्यानात व्याकरणस्य लोकविरोधमु- क्त्वा समासाभावे ऽपि समासान्वाख्यानात्सर्वविरोधमाह * अ- श्वति * अतद्धितान्तेष्वपि तद्धितान्तवद्व्याख्यानाद्विरोधमाह * एवमिति * वेदविरुद्धार्थान्वाख्यानाद्यङ्गव्याघाताशङ्कापत्तेन व्याकरणस्यार्थे तात्पर्यमित्याह * तथेति * अत्रैवोदाहरणद्वयमाह * कलेरिति * आपो वा ऋत्वियमार्छन्तासां वायुः पृष्ठेत्यवर्तते ततो वसुवामं समभवत्तस्मिन्मित्रावरुणौ पर्यपश्यतां तावतां वामं मर्याइदं देवेष्वाजनीति तस्माद्वामव्यामति वामदेवेविति समभिव्याहृतशब्दद्वयोञ्चारणनिमित्तवामदेव्यशब्दव्युत्पत्तिः कल- नक्रियानिमित्तकालयशब्दव्युत्पत्तिश्च वैदिकी वैयाकरणी दर्शननि- मित्ततां बाधतइत्यर्थः। कल्पसूत्रकारैश्च कृष्णशम्वास इति कृष्ण- शशब्दस्य व्याकरणाननुगतदकारापगमेन कृष्णदशब्दवाचितया व्याख्यानाकृष्णवलक्षे अजिने इति च वलक्षशब्दस्य लोकव्याकर- णानवगतशुक्लत्ववाचितया व्याख्यानाडूपादिशब्दानां च व्याकर- मनात्यैव व्याख्यानान्न व्याकरणस्य पदार्थनिश्चायकत्वमस्तीत्याह * तथेति * नन्वस्तु नाम पदान्तरेषु व्याकरणानपेक्षो ऽर्थनिर्णयः। २१२४ यत्तु भाष्यकृता स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभंतेत्यत्र किं स्थूला चासौ पृषती चेति कर्मधारयः। स्थूलानि पुषन्ति यस्याःसेयं १ अयं पा. २ पु. ना० ।
२९० न्यायसुधायाम्। स्थूलपृषतीति बहुव्रीहिर्वेति सन्देहनिवृत्तिनावैयाकरणस्य भवती- त्युक्तं तत्र कः परिहार इत्याशङ्याह * यथा चेति * पदार्थसन्दे- हनिवृत्नाकरणप्रयोजनत्वं निराकृत्य वाक्यार्थसन्देहनिवृत्तिरपि निराकरोति * किं चेति * ननु वाक्यार्थसन्देहनिवृत्तिप्रयोजनत्वं भाष्यकृतानुक्तत्वान्न निराकार्यमित्याशङ्ख्य प्रसङ्गापादनाथै तन्निरा- करणमित्याह * यदीति* किं चिदित्यक्रियार्थत्वमभिमतम् । औ- दुम्बराधिकरणस्य साध्यांशविचारार्थत्वाभावे किमौदुम्बरत्वस्य फलसमभिव्याहारः साधारणत्वप्रतिपत्त्यर्थः । प्रशंसाओं वोत व्याख्येयं प्रमाणान्तरेणान्नकरणत्वस्य होमसम्बन्धहेतुत्वमशातं ज्ञा- प्यतइत्यशातज्ञापनाभिप्रायो विधिशब्दः हेतुद्वारोऽर्थवाद इति शाक- पार्थिववन्मध्यमपदलोपी समासः दृष्टार्थत्वशब्देमार्थतात्पर्यमा सर्वमन्त्रसाधारणं मन्त्राधिकरणे व्युत्पादितं न स्मारकत्वं स्तोत्रश- स्त्रादिमन्त्रव्यापकत्वादिति दर्शितं व्याकरणानपेक्षोदाहरणान्युक्कै कत्वविवक्षायामेकवचनस्मृतेर्व्याकरणेनैकत्वविवक्षाप्रतीतेर्विरोधो ऽप्यस्तीति दर्शयितुम् * अहेत्युक्तम् * न त्वनन्यलभ्यस्य प्रयोज- नवदर्थवादत्वादिनिर्णयस्य च मीमांसासिद्धत्वान्न व्याकरणप्रयोज- नत्वोपपत्तिरिति स्वयमेवाशङ्ख्याह *अथोति * स्थूलपृषत्यादिशब्दा- र्थस्यापि कल्पकारादिव्याख्यानानिर्णयः सेत्स्यतीत्याशयः। ननु मूल- प्रमाणानिरपेक्षस्य व्याख्यानमात्रस्य निर्णायकत्वं न युक्तमित्याशय त्वया ऽपि व्याख्यानिर्णायकत्वाभ्युपगमान्नेदं दूषणमित्याह * अपि चेति * लक्षणोत्थसन्देहे व्याख्यानस्य निर्णायकत्वप्रतिपादकं भा- व्यं वेदोत्थसन्देहेन योजयितुमाह * व्याख्यानत इति * भाष्यक- ता हि शास्त्रारम्भवार्तिकगतस्य सिद्धशब्दस्य (एकपरिहारयुक्तानि सार्थत्वमुपपाद्य चतुर्थः परिहारोऽभिहित इत्यन्वयः सिद्धशब्दस्य) कः पदार्थ इति पृष्ट्वा सिद्धा द्यौः सिद्धा पृथिवी सिद्धमाकाशमिति नित्येषु प्रयोगान्नित्यपर्यायवाची सिद्धशब्द इत्युक्त्वा सिद्ध ओदनः सिद्धः सूपः सिद्धा यवागूरिति कार्येष्वपि प्रयोगात्कथं निर्णय इत्याशङ्कय संग्रहे तावत्कार्यप्रतिद्वन्द्विभावप्रसिद्धामति भाष्येण सं- ग्रहाख्ये वार्तिककारकृते ग्रन्थान्तरे किं कार्यः शब्दः सिद्धो वेति कार्यप्रतियोगित्वेन नित्यार्थत्वावसायादिहापि तादर्थ्यनिर्णय इत्येक परिहारमुक्त्वा ऽथ वा सन्त्येकपदान्यप्यवधारणानीति भाष्येणाभ- क्षो वायुभक्ष इतिवत्सिद्ध एव न साध्य इत्यवधारणेन नित्यार्थत्व- मुपपाद्याथ वा पूर्वपदलोपो ऽत्र द्रष्टव्यः । अत्यन्तसिद्धः सिद्ध इति १अयं पा. २ पु. ना.। H प्रयमाध्यायस्य तृतीयः पादः तद्यथा देवदत्तो दत्त इति सत्यभामा भामेति भाष्यणात्यन्तत्ववि- शेषणेन नित्यार्थत्वमुपपाद्याथ वा व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणामिति नित्यपर्यायवाचिनो ग्रहणमिति व्याख्यास्याम इति भाष्येण चतुर्थः परिहारो ऽभिहितः । ननु लक्षणोत्थसन्देह- निवृत्तिलक्षणकारिपुरुषकृतव्याख्यानपरम्परयोपपद्यते वेदे तु क- र्तृभावेन तत्कृतस्य व्याख्यानस्य मूलत्वायोगात् व्याकरणं वेदव्या- ख्यापरम्पराया मूलं भवतीत्याशङ्कयाह * न चेति * कल्पादि- २१२।१ भ्यो वेदार्थाग्रहणे व्याकरणमात्रेण व्याख्यानाशक्तेः कल्पादीनामेव मूलत्वे युक्तमित्याशयः । वेदवद्वानादित्वात् व्याख्यानपरम्परा न मूलान्तरमपेक्षतइत्याह * यथैवेति * ननु भाष्यकृता यदि पूर्व- पदप्रकृतिखरत्वं ततो बहुवीहिः अथ समासान्तोदात्तत्वं ततस्तत्पु- रुष इति भाष्येण बहुव्रीही प्रकृत्या पूर्वपदमिति बहुव्राह्याद्यस्य पदस्य प्रकृतित्वाभिमतायुदातस्वरत्वस्मृतेरुदाताधिकार चान्तोवत्या इत्यतो ऽन्त इत्यनुवर्तमाने समासस्येति सूत्रेण समासविशेषनिर्णयान्तरंधू- त्सर्गःअन्तोदासत्वस्मृतेरनुदात्तं पदमेकवर्जमिति च विहितखरवर्ज- नमुदात्तत्वस्मृतेर्बहुव्रीहिं विना आद्यपदोदात्तत्वायोगाद्वयाकरणस्य समासविशेषनिर्णयद्वारार्थविशेषनिर्णायकत्वाभिधानाद्वयाकरणस्य निर्णायकत्वाभिधानाद्वयाकरणाधीनादध्यतृप्रसिद्धाधुदात्तत्वाद् ब- हुव्रीहित्वन स्थूलपृषत्यादिशब्दव्याख्येत्याशड्याह *न चति * श्लोक ब्याचष्टे *वृद्धति * वेदे तु खरविवेके सत्यप्यर्थविशेषेण सह खर- विशेषस्य सम्बन्धग्रहणाभावान खरविशेषं कृत्वार्थविशेषव्यवस्था युज्यतइत्याह *यन त्विति*ननु वेदे सम्बन्धग्रहणाभावेऽपि लोकतो ऽनेकार्थतया विगतस्य पदस्य वेदे श्रवणात्सन्देहे सत्यर्थप्रकरणा- दिभिर्निर्णयो भ्युपगम्यते तत्र चार्थद्वयसाधारणस्य पदस्यकत्रैवार्थे कथं वृत्तिरित्यपेक्षायां स्वरविशेषश्रवणात्तत्स्वरयुक्तस्यैव पदस्यासा- वर्थविशेषनिर्णयोपायत्वं स्वरस्याप्यस्तीत्याशङ्ख्याहः * तत्रापीति * साधारणस्यापि शब्दरूपस्य लोकावधारितार्थप्रकरणादिनिर्णयोपाय- वशेनैव एकार्थपरत्वावधारणोपपत्तेर्न लोकानवगतस्य स्वरस्याप्य- र्थनिर्णयसामग्रीमध्ये निवेशकल्पना युक्तत्याशयः । ननु स्वरस्या- भिधानङ्गत्वे निर्थकः पाठः स्यादित्याशङ्ग्याह * तेनेति * न कदा चिददृष्टार्थतास्तीति दर्शयितुम् * सर्वदेत्युक्तम् * ब्रह्मयज्ञेषु ज्यो- तिष्टोमादिषु ये जपमन्त्रास्ते ऽप्यङ्गमिति निष्कृष्य योज्यम् । जप- न्यूङ्घसामव्यतिरेकेण यज्ञकर्मण्येकश्रुत्यस्मृतेश्चकारेण न्यूङ्घसा- स्नामुपादानम् । एवं च व्याकरणेन स्वरानुगमो ब्रह्मयज्ञाद्युपयो- २९२ न्यायसुधायाम् । गित्वेनार्थवानस्तु न त्वर्थनिर्णयार्थतत्याशङ्कयाह * व्याकरणेति * अलौकिके ऽर्थे सम्बन्धग्रहणासम्भवेनावश्यकत्वाज्ञानात् * लो- किकेत्युक्तम् * न वर्णवद्वाचकत्वेन लोके खरः प्रयुक्तो ना. ज्यानुपूर्व्यादिवद्वाचकसहकारिता * इत्यत्यन्तशब्देनोक्तम् * ननु लोकाप्रयुक्तेष्वप्युणादिशब्देषु वाचकत्वोपलक्षणाल्लोकप्रयोगादे- व वाचकत्वज्ञानमिति नियमायोगाद्वयाकरणादपि खरावि- शेषस्यार्थविशेष प्रतिवाचकत्वज्ञानं भविष्यतीत्याशङ्याह * न चेति * शास्त्रारम्भभाष्ये ऽथ शब्दानुशासनमिति शब्दान्वा- ख्यानार्थत्वाख्याने तात्पर्याभावान व्याकरणस्य प्रामाण्यमित्याश- यः । अत्रैव सूत्रावयवं योजयन्नसन्देहप्रयोजनत्वासम्भवमुपसंह- रति * तस्मादिति * रक्षादीनामपि पूर्वोक्तप्रयोजनत्वासम्भवोपसं- हारार्थो ऽपिशब्दः । एवं मुख्यानि पञ्चप्रयोजनान्युपन्यासपूर्वकं दूष यित्वा ते ऽसुराः दुष्टः शब्दः यद्धीतं यस्तु प्रयुङ्क्ते अविद्वांसः वि- भक्तिं कुर्वन्ति यो वा इमां चत्वारि उत त्वः सक्तुमिव सारखती द- शम्यां पुत्रस्य सुदेवो असि वरुणेत्यानुषीङ्गकाण्यपि त्रयोदश संक्षे- पतस्तावत् दूषयति * थान्यपि चेति * अम्लेच्छत्वमदुष्टोक्तिर्विज्ञानं फलभागिता । अस्त्रीसाम्यं विभक्त्युक्तिः सप्तमं चाविजीनता ॥ मनीषिवत् सम्मतत्वं देवेन महताष्टम् । वाक्खरूपप्रकटनं लक्ष्म्या वाचि निधापनम् ॥ अप्रायश्चित्तभाक्तं च द्वादशं पुत्रनाम च । प्रयोदशं सुदेवत्वमुक्तं भाष्ये प्रयोजनम् ॥ प्रथमं च द्वितीयं च सप्तमं चाप्रयोजनम् । दशमैकादशौ चेति व्याक्रिया न ह्यपेक्ष्यते ॥ तृतीयादीनि चत्वारि नवमद्वादशे अपि । प्रयोजनवदाभान्ति किं तु नान्येन सिद्धितः ॥ सुदेव इति मन्त्रस्य चत्वारीति द्वयोरपि । असामये न चरममष्टमं वा प्रमाणकम् ॥ मुख्यप्रयोजनैश्च प्रयोजनवत्त्वासम्भवेनानुषङ्गिकेष्वाशा यु- तत्याह * अपि चेति * नद्या वेगेन नीयमानो यस्तीरगतं वृ- क्षमप्यवष्टभ्य स्थातुं न शक्नोति तस्य यथा कुशावष्टम्भनं काशावष्ट म्भनं चानर्थकं तथैतदपीत्यर्थः। पूर्वोक्तमेव प्रपञ्चयितुं प्रत्येकमुप- २१२३ न्यस्योपन्यस्य दूषयति * तत्रेति * भाष्यकृता ते ऽसुराहे ऽलयो हे ऽलय : इति ब्रुवन्तः पराबभूवुस्तस्माद् ब्राह्मणेन न म्लेच्छितवै प्रथमाध्यायस्य तृतीयः पादः । २९३ म्लेच्छो हवा एष यदपशब्द इत्यपशब्दनिषेधवाक्यमुपन्यस्य म्ले- च्छा माभूमेत्यध्येयं व्याकरणमिति भाष्येण म्लेच्छरूपापशब्दप्रयोगा- प्रयोक्तुम्लेंच्छत्वापत्तेरज्ञातस्यापशब्दस्य वर्जनायोगाच्छब्दापशब्दवि- वेकज्ञानार्थम् * व्याकरणमित्युक्तम् * यस्मादसुरा अरय इति रेफस्थाने लकारप्रयोगेण हैहेप्रयोगे हैहेयोरित्येतत्सूत्राविहितप्लुतप्र- योगेण प्लुतप्रगृह्या अचीति च प्रकृतिभावविधानाद्ध अरय इति प्रयोक्तव्ये हे ऽलयः इति त्रिविधापशब्दभाषणरूपम्लेच्छनात्पराभवं प्राप्तास्तस्माद् ब्राह्मणेन न म्लेछितव्यं नापभाषितव्यमिति समभि- व्याहारेणापशब्दनिषेधस्यापराभवार्थत्वप्रतीतम्लेंच्छा माभूमेति म्ले- च्छत्वपरिहारस्य प्रयोजनत्वं भाष्यकारोक्तमयुक्तमाशङ्कय पराभवा- ख्यानस्थापभाषणफलप्रदर्शनार्थत्वे प्रतीते म्लेच्छो हवा एष यदपश- ब्द इत्यस्यानर्थक्यापत्तेरपशब्दस्य म्लेच्छशब्दप्रयोक्तुमर्लेच्छत्वं भव- तीत्यपशब्दम्लेच्छत्वाभिधानार्थवादस्य फलपरत्वसुचनायोपन्यस्या- र्थवादतोक्ता निषेधस्य तु प्रयोजनत्वमागमवत्प्रयोजकत्वेनाक्षेपकत्वे- नोक्तं स निषेधो यथा गुरुसम्प्रदायागतवैदिकशब्दविषयो म्लेच्छ- भाषाविषयो वा न तु गाव्यादिशब्दविषयग्रन्था यदपि च तस्माद् ब्राह्मणेनेत्यादिग्रन्थेन प्रागुक्तमित्यर्थः । ततश्च व्याकरणानपेक्षत्वा- न तत्प्रयोजनत्वयोग्यतेत्याशयः । यच्च भाष्यकृता । दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमान हिनस्ति यथेन्द्रशत्रुः स्वरतो ऽपराधाद्॥ इति श्लोकमुपन्यस्य दुष्टाँश्छब्दान्माप्रयुझ्महीत्यध्येयं व्याक- रणमिति भाष्येण दुष्टशब्दवर्जनं व्याकरणप्रयोजनमुक्तं तदपि मन्त्र- विनाशविषयत्वस्य च व्याकरणानपेक्षत्वान्न व्याकरणप्रयोजन- त्वयोग्यमित्यर्थान्तरन्यासेनाह * दुष्ट इति * अत्रापि पूर्वव. द्वयाकरणानपेक्षत्वात्तत्प्रयोजनत्वयोग्यतेत्यपिशब्देन सूचितम् । ननु दुष्टादुष्टशब्दज्ञानस्य व्याकरणाधीनत्वात्कथं तदनपेक्षेत्याशय दुष्टः शब्द इति पाठे भवेद् व्याकरणापेक्षा न त्वीहशःपाठोऽस्तीति दर्श- यितुमाह * वाग्धीति * मन्त्रो हीनः खरतो वर्णतो वेति बहुजन- प्रसिद्धस्य शिक्षाकारपठितस्य मन्त्रपदस्योद्धारेण पदान्तरप्रक्षेपःख- पक्षानुरागमात्रेण कृतो न वस्तुत इत्यर्थः। मन्त्रविनाशविषयत्वे चा. स्य वाक्यस्य श्रुतिमूलत्वं भविष्यतीत्याह * दुष्टेति * दुष्टपदप्रक्षेपे ऽपिमन्त्रदोषविषयत्वेनोपपत्तेयाकरणापेक्षानापादकत्वात्पाठान्तरो- त्प्रेक्षानर्थक्यसूचनार्थो दुष्टशब्दःशब्दमात्रदोषविषयत्वे ऽस्य वाक्यस्य निर्मूलत्वसूचनार्थस्तुशब्दः उदाहरणपर्यालोचनयापि मन्त्रविनाश- २९४ न्यायसुधायाम् । विषयतैवास्य श्लोकस्यावसीयतइत्याह * तथा चेति * स यज्ञवैशसं कृत्वा प्रासहाया ममापिच तस्य यदशिष्यत तत्त्वष्टाहवनीयमुपप्राव- र्तयत्स्वाहेन्द्रशत्रुर्वर्द्धखेति यदवर्तयत्तदृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहे- न्द्रशत्रुर्वर्द्धखेति तस्मादस्येन्द्रःशत्रुरभवदित्याधुदात्तेन्द्रशत्रुपदप्र- योगेणेन्द्रो यस्य शत्रुरिति बहुव्रीह्यर्थसम्पत्तेस्त्वष्टुः पुत्रस्य वृत्रस्ये- न्द्रः शातयिता हिंसिता जात इत्याधुदात्तत्वलक्षणखरदोषेण वृत्रश- त्रोरिन्द्रस्योद्यत्वादिन्द्रवधसमर्थपुत्रोत्पादनार्थ यागंकुर्वाणस्य त्वष्टु- यजमानस्याभिप्रेतार्थासिद्धिलक्षणा हिंसा जातेति स्वरापराधलक्षण- मन्त्रविनाशानिमित्तयजमानगामिदोषोदाहरणं कृतमित्यर्थः । इन्द्र- शत्रुरिति मन्त्रपदं स्वरापराधात् यथा यजमानं हिनस्तीत्युदाहर- णार्थः । तस्मादिन्द्रस्य शत्रुभूत्वा वर्द्धस्वोति तत्पुरुषार्थविवक्षायां मन्त्रोदाहृतमिदं प्रयोज्यमित्याशयः । यच्च नाम भाष्यकृता । यदधीतमविज्ञातं निगदेनैव शब्दयते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हि चित् । इति श्लोकमुपन्यस्य तस्मादविज्ञातमनर्थकमाधिगीष्महीत्य- ध्येयं व्याकरणमिति वेदाध्ययनसाध्यं वेदार्थज्ञानं व्याकरणप्रयो- जनत्वेनोक्तं तद्व्याकरणप्रयोजनत्वेनाभासमानमप्यन्यतः सिद्धर्न व्याकरणप्रयोजनमित्याह * यत्त्विति * अध्ययनविधेदृष्टार्थत्वाभि- धानान्मीमांसाप्रयोजनत्वेनैतद्युक्तं भवतीत्याशयः । ननु मीमांसाव- द्वयाकरणमपि वेदार्थज्ञानसाधनं भविष्यतीत्याशयाह * नन्वि- ति * शब्दानुशासनार्थत्वेनार्थपरत्वाभावः सूत्रावयवयोजनया सू- चितः । नन्वर्थविशेषविषयशब्दानुशासननान्तरीयकत्वेनार्थानुशास- नमपि सेत्स्यतीति स्वयमेवाशङ्कयोत्तरं सूत्रावयवं परिहारे योजय- ति * शब्देति * नन्वर्थगतसन्देहविपर्ययनिरासमात्रस्य मीमांसासा- ध्यत्वाद्धदार्थवरूपज्ञानं व्याकरणाद्भविष्यतीत्याशङ्कां निरस्यन्नुपसं- हरति * तस्मादिति * यच्च यस्तु प्रयुक्त कुशलो विशेषे शब्दान्यथावद्वयवहारकाले। सो ऽनन्तमाप्नोति फलं परत्र वाग्योगविद् दुष्यति चापशब्दैः॥ इति श्लोकेन शब्दव्यवहारकाले ऽर्थविशेषे सम्यक्शब्दप्रयोगस्य पारलौकिकफलप्राप्तिहेतुत्वाभिधानात्तत्सिद्धियाकरणस्य प्रयोजन- मिति भाष्यकृतोतं तदप्यन्यथा व्याख्यातुं शक्यत्वात्प्रयोजनाभास- मित्याह * यस्त्विति *. गुरुसम्प्रदायागते खरादिविशेषे कुशलः सन्वेदाध्ययनादिव्यवहारकाले वैदिकांश्छब्दान्प्रयुक्तइति व्या- ख्येयमित्याशयः। ननु मन्त्रब्राह्मणेष्वपशब्दाभावात्तद्विषयत्वे दुष्य- प्रथमाध्यायस्य तृतीयः पादः। ति चापशब्दरित्ययुक्तं स्यादित्याशङ्याह * यथेति * कथं वैदिकश ब्दविनाशविषयता ऽस्या ऽवसीयतइत्यपेक्षायामाह * खाध्याये ति * पौरुषेयत्वेनास्य प्रमाणान्तरावगतदोषानुवादत्वावसायादुदा- हृतेन वचनेन यजनयाजनगतवेदशब्दविनाशहेतुकदोषावगतेरादिश- ब्दाञ्चेतिकरणसूचितेन च । हस्तहीनं तु यो ऽधीते वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥ इति स्मृत्यनुमितेन वचनेनाध्ययनाध्यापनगतवेदशब्दविनाशहे- तुकदोषावगतेस्तद्विषयत्वनियम इत्याशयः । यद्यप्येषामृगादिशब्दा- नामुपक्रमानुरोधेन वेदपरत्वं तृतीये वक्ष्यते तथापि ऋग्वेदादिवि- हितमन्त्रविषयाया अप्यार्विनाशाख्यायाः पदार्थान्तरार्तिवत्सामा- न्यशब्देनोपपादानादविरोधः । ननु प्रकृतिप्रत्ययरूपयोर्वाचोर्योगं सम्बन्धं वेत्तीति व्युत्पत्त्या वाग्योगविच्छब्देन वैयाकरणाभिधानात्त- समभिव्याहारेणास्य वाक्यस्य व्याकरणानुगताननुगतशब्दप्रयोग- विषयतावगम्यतइत्याशङ्कय त्रेधा परिहरति * वागिति * वाचः प्रतियोगितयाक्षिप्तेनार्थेन यो वाचं वेत्तीति प्रथमे परिहारे निगमनि- रुक्तादिकुशलो वाग्योगवित् द्वितीये तु वाचो वचनस्य योगं पदा- वयवविशेषरूपां व्यक्तिं ब्राह्मणवाक्येषु मन्त्रेषु च वाचो भासन- स्य प्रकाशनस्य योग्यं योगमह वेत्तीति मीमांसको ऽभिधीयते चो- दितत्वेनावगतस्य स्वार्थत्वात्प्रकाशनाहत्वम् अनूदितत्वेनावगतस्य परार्थत्वात्प्रकाशनानहत्वं वेत्तीति समासार्थः । निर्वापमन्त्रे त्व- ग्नेश्वोदितत्वेनानुष्ठानाय स्मर्त्तव्यत्वात्प्रकाशनार्हत्वं सवित्रादीनां वा चोदितत्वेन निर्वापकस्तुत्यर्थत्वात्प्रकाशनानहत्वं प्रसिद्ध विदे- विचारणार्थत्वसूचनार्थ प्रकाशनानहत्वं प्रतियोगितयोक्तं वैयाकर- णस्य वाग्योगवित्त्वासम्भवोपपादनायास्य पदस्यान्येनार्थेन प्रकृष्टो योगः स्वाभाविकसम्बन्धो ऽस्य वचनस्यैवम्भूतपदान्वयरूपाव्यक्ति- रस्य वा मन्त्रस्यायमर्थः प्रकाशनयोग्य इत्येवं विविधप्रयोगोत्पत्ति प्रति व्याकरणस्याशास्त्रत्वादिति त्रेधा सूत्रावयवं तन्त्रेण योजयति * वैयाकरणस्यति * यच्च २१४५ अविद्वांसः प्रत्यभिवादे नाम्नो येन प्लुर्ति विदुः । कामं तेषु तु विप्रोग्य स्त्रीष्विवायमहं वदे ॥ इति श्लोकमुपन्यस्य स्त्रीवन्माभूमेत्यध्येयं व्याकरणमिति भा- ज्येण स्त्रीसाम्यपरिहारो व्याकरणप्रयोजनमित्युक्तं तदपि प्रयोजना- भासमित्याह * यदपीति * तत्प्लुतस्यति तच्छब्दो ऽव्ययं तत्रेत्य- २९६ न्यायसुधायाम्। थै तस्मिन् विषये तद्वयाकरणं प्लुतप्रयोगोत्पत्तिं पूज्यशास्त्रप्लुतख- रूपस्य लोकसिद्धत्वान्नामान्ते च प्लुतप्रयोगस्य मन्वाद्युपदिष्टत्वा- दित्यर्थः । ऊकालो ऽज्झखदीर्घप्लुत इत्येतत्सूत्राधीनत्वं प्लुतस्वरूप- ज्ञानस्य एपगम्य प्रकृतिप्रत्ययान्वाख्यानाद्वाशब्दापशब्दविवेकार्थस्य नैकसूत्रमात्रसाध्यं प्रयोजनं युक्तमितिशब्देषु न व्यवस्था स्यादित्यु- त्तरसूत्रावयवयोजनया दर्शयति * न चेति * शब्दविषया व्यव- स्था या व्याकरणेन न क्रियते सा न कर्तव्या स्यादित्येवं सूत्रावयवो ऽनेन योजितः । यच्च विभक्तिं कुर्वन्तीत्युपक्रम्य याशिकाः पठन्ति प्रयाजाः सविभक्तिकाः कर्तव्या इति न चान्तरेण व्याकरणं प्रया- जाः सविभक्तिकाः शक्याः कर्तुमिति भाष्येण विभक्तिज्ञानं व्याक- रणप्रयोजनमुक्तं तदपि प्रयोजनाभासामत्याह * एवमिति * त- दित्यव्ययं तत्रेत्यर्थे तत्रापि व्याकरणमशास्त्रमित्यपिशब्दाध्याहारण योज्यं कस्मादित्यपेक्षिते सौत्रं प्रयोगोत्पत्तिपदं समासान्निष्कृष्य हेत्वर्थत्वेन त्रिविधोपपत्तिपूर्वकं याज्ञिकेत्यादिना योजितं समिधः समिधो ऽग्नआज्यस्य व्यन्तु तनूनपादग्निमग्न आज्यस्य वेतु इडोग्नि- मग्नआज्यस्य व्यन्तु बर्हिरग्निरग्नआज्यस्य वेत्विति याज्ञिकदोषो- द्देशेन सम्बुद्धिद्वितीयातृतीयाप्रथमानां विभक्तीनां प्रयाजेषु सि- द्धत्वाच्छान्दोग्यब्राह्मणे च षडहविभाक्तर्नानारूपेत्युपक्रम्याग्नइति प्रथमस्याह्नोरूपमग्निमिति द्वितीयस्याग्निनति तृतीयस्याग्निरिति चतुर्थस्याग्नेरिति पञ्चमस्याग्नइति षष्ठस्यति परस्परविभक्तसम्बु- द्धिद्वितीयातृतीयाप्रथमाषष्ठीसम्बुद्ध्याख्यविभक्तिप्रयोगदर्शनान्मत्रेषु चाग्निवृत्राणीत्यादिषु विभक्तविभक्तिप्रयोगदर्शनात्प्रयोगदर्शनाभावे ऽपि वा सिद्धशब्दानुक्रमाख्यवैभक्तिकग्रन्थमात्रालोचनेनापि विभ- क्तिप्रयोगसिद्धोरत्यर्थः । यच्च यो वा इमां पदशः खरशो ऽक्षरशो वाचं विदधाति स आविजीनो भवतीति श्रुतिमुपन्यस्यार्विजीनाः स्यामेत्यध्येयं व्याकरणमिति भाष्येणार्विज्याहत्वं व्याकरणप्रयोज- नमुक्तं तद्गुरुसम्प्रदायसिद्धत्वाद्वयाकरणप्रयोजनत्वं योग्यमेव न भवतीत्याह * यो इमामिति * चत्वारि शृङ्गेत्यूचं महाभाष्यकृता पूर्वोपन्यस्तामपि मन्त्राधिकरणे न्यविषयत्वेन व्याख्यातत्वादुपे- क्ष्यापर आहेत्युपक्रम्य चत्वारि वाक्परिमिता पदानि तानि विदुा- ह्मणा ये मनीषिणः गुहा त्रीणि निहिता नेङ्गायन्ति तुरीयं वाचो मनुष्या वदन्तीत्यचमुपक्रम्य चत्वारि पदजातानि नामाख्यातोपसर्ग- निपाताश्चति भाष्येण ये ब्राह्मणास्तानि विदुस्ते मनीषिण इत्य- र्थाश्रयणेन पदचतुष्टयज्ञानसाध्यं मनीषित्वं व्याकरणप्रयो- प्रथमाध्यायस्य तृतीयः पादः। २९७ जनमुक्तं तदस्या ऋचो ऽन्यपरत्वादप्रमाणकमित्याह * तयेति * निरुक्त यान्योङ्कारो भूर्भुवः स्वरिति महाव्याहृतित्रयं वेति चतुष्टय- मादिशब्दावेदचतुष्टयं मृगपक्षिसरीसृपमनुष्याः वाक्चतुष्टयमनपा यिनी पश्यन्ती मध्यमा वैखरीति सूक्ष्मतमसुक्ष्मतरसूक्ष्मस्थूलरूपा- वस्थाभेदभिन्नवाक्चतुष्टयमिति चतुष्टयबाहुल्यरूपप्रयोजनानुसारेण चत्वारि पदजातानि प्रपश्चितानि तन्न व्याकरणस्य व्यापार इत्यर्थः । एतश्च पदनिर्वचनसामर्थ्ये ऽपि तद्विषये सचार्यसंख्यामात्रसामा- न्यादुक्तं न प्रामाणिकमित्यर्यः। अध्यक्षरोति निरुक्ताकारवचनोपन्या- सेन सूचितं, ननु वैयाकरणाभिमतं नामादिचतुष्टयमपि निरुक्तैरुक्तं तयाकरणापेक्षं भविष्यतीत्याशयाह * यत्त्विति * परमार्थतस्तू- त्तरार्द्धर्चविरोधातद्विषयताप्यस्या ऋचः सम्भवतीत्याह * पत- द्विषयत्वे चेति कस्तीस्या ऋचः पारमार्थिको ऽर्थः पूर्वापरार्द्धर्चा- विरोधीत्यपेक्षायामाह * तस्मादिति * अस्मिन् व्याख्याने वागिति २१५ार पदं षष्ठयन्तत्वेन विपरिणमयितव्यं प्रवो देवायानयइति शंसतीति प्रतीकविधिप्रभवमवयवान्तरानुमानं विश्वजिता यजेतेत्यत्राव्यक्त- चोदनात्वरूपप्राकृतवाक्यसारूप्यसम्भवं ज्योतिष्टोमवदिति पदोप- मानं विधिप्रत्ययावगतफलव्यतिरेकेणानुपपद्यमानयागकर्तव्यत्वप्र- भवा खर्गकामपदकल्पिकार्थापत्तिः दध्नेन्द्रियकामस्येत्यत्र सास- प्याभावे ऽपि सन्निधानमात्रेणाग्निहोत्रवदिति पदोपमानसूचनाया- दिशब्दः ननु प्रमाणषट्कस्य प्रथमपादे व्युत्पादितत्वाश्चतुष्ट्वं प्र- माणानां न युक्तमित्याशङ्याह * षडिति * अपोद्धारे कारणमाह * अभावस्तावदिति * न चैरं कृत्वोद्गेयमित्यागमाद्यज्ञायशीयस्ये- रापदवत्त्वागतेरागमस्याप्यागमप्रामाण्यमस्तीत्याशयाह * प्रत्यक्षे- ति * खरूपोपादानेनात्र प्रत्यक्षत्वसम्भवानागमगम्यतेत्याशयः । ननु नामादिपदचतुष्टयविषयत्वे भाष्यकृता पूर्व चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्ता सो अस्य त्रिधा बद्धो वृषभो रोरवीति महो देवो मल् आधिवेशेतीयमृगुपन्यस्ता सा किमित्यपे- क्षितत्याशझ्याह चत्वारीति * ननु भाष्यकृता चत्वारि शृङ्गेति च- त्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च त्रयो अस्य पादा भूत- भविष्यतूवर्तमाना द्वे शीर्षे शब्दात्मनो नित्यः कार्यश्चेति सप्त हस्ता सो अस्य सप्त विभक्तयः त्रिधा बद्धो वृषभो रोरवीति त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसीति वृषभो वर्षणात रोरवीति शब्दं करोति महोदेवो मया आविवेश महान्देवः शब्दः मान्मरणधर्माणी मनु- ज्यानाविवैशेति व्याख्याय महता देवेन नः साम्यं स्यादित्यध्येयं न्यायसुधायाम् । ध्याकरणमिति भाग्येण शब्दब्रह्मसाम्यं व्याकरणप्रयोजनमुक्तं का तत्रानुपपत्तिरित्याशङ्कयाह * यत्त्विति * विनियोगनिरपेक्ष मन्त्र- स्यार्थतात्पर्यावधारणमशक्यमित्याशयः । संख्यासामान्यमात्रेण च विनियोगनिरपेक्षमन्त्रयोजनायां पैशेषिकादिग्वपि तन्त्रेषु योजयितुं शक्यत्वाव्यवस्था स्यादित्याह * तादृशं चेति * पार्थिवाप्यते- जसवायवीयान्यवयविद्रव्याणि चत्वारि शृङ्गाणि त्रयो भस्य लोकस्य पादा महत् कार्यारम्भकाणि इयणुकानि द्वे शीर्षे प्रधानाप्र- धानपुरुषौ सप्त हस्ता द्रव्यगुणकर्मसामान्यविशेषसमवायास्याः षड्भावरूपाः सप्तमश्चाभावः त्रिधा बद्धः । समवाय्यसमवा- यिनिमित्तकारणबद्धः । वृषभो भोगहेतुः रोरवीति शब्दवा- महो देवो द्योतनातू मोनाविवेश मत्यैर्भाग्य इत्येवमादियो- जनोपपत्तेरतिप्रसक्तिः स्यादित्याशयः । यश्च भाष्यकृतोत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसनं जायेव पत्यउशती सुवासा इत्युचमुपन्यस्याप्येकः पश्यन्नपि न पश्यति शृण्वन्नपि न शृणोत्येनामिति पूर्वार्द्धर्चमविद्वांसमा- हार्धमिति भाष्येणाविद्वांसमधे पूर्वार्द्ध वा वदतीत्यभिधानादवेदा- विद्विषयत्वेन व्याख्यायोतो त्वस्मै तन्वं विसने तनुं विवृणुते जायेव पत्यउशती सुवासाः तद्यथजाया पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते एवं वाग्वाग्विदे स्वमात्मानं विवृणुतइत्युत्तरा- चर्च व्याख्याय वाङ्नो विवृणुयादित्यध्येयं व्याकरणामति भाग्येण वाक्प्रकाशनं व्याकरणप्रयोजनमुक्तं तदन्यतः सिदः प्रयोजना- भासमित्याह * उतत्व इति * यत्तु भाष्यकृता सक्तुमिव तितउ- ना पुनन्तो यत्र धीरा मनसा वाचमकत अत्रा सखायः सख्यानि जानते भट्टैषां लक्ष्मीनिहिताधिवाचीत्यूचमुपन्यस्य सक्तुः सचते- दुर्वावो भवतिकसते विपरीताद्विकसितोभवतीति तितउ परिपवनं ततवद्वा तुन्नवद्वा धीरा ध्यानवन्तः मनसा प्रज्ञानेन वाचमकृषत अन सखायः सन्तः सख्यानि जानते व एष दुर्गो मार्गः एकगम्यो वाग्विषयः के पुनस्ते वैयाकरणाः कुत एतत् भट्टैषां लक्ष्मीनिहिता- धिवाचि भद्रा ह्येषां लक्ष्मीनिहिता भवति क्क अधिवाचि लक्ष्मी- लक्षणाल्लाञ्छनाद्वा परिवृढा भवतीति व्याख्यानेन लक्ष्मीनि- धानं व्याकरणप्रयोजनमुक्तं तद्गुरुसम्प्रदायसिद्धत्वातू व्याकरण- प्रयोजनत्ययोग्यं न भवतीत्याह * एवमिति * यश्च सारखतीमित्यु- पक्रम्य याशिकाः पठन्त्याहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारखतीमिष्टिं निर्वपेदिति श्रुतिमुपन्यस्य प्रायश्चित्तीया मा- प्रथमाध्यायस्य तृतीयः पादः । भूमेत्यध्येयं व्याकरणमिति भाष्येण प्रायाश्चत्ताभाजनत्वं व्याकरण- प्रयोजनमुक्तं तदपि वैदिकशब्दविनाशविषयत्वात् व्याकरणप्रयो- जनत्वयोग्यं न भवतीत्याह * आहिताग्निरिति * यच्च दशम्यां पुत्रस्येत्युपक्रम्य याशिकाः पठन्ति दशम्युत्तरकालं पुत्रस्य जातस्य पिता नाम विदध्यात् घोषवदाद्यान्तरस्थमवृद्धं त्रिपुरुषानूकमनरि प्रतिष्ठितं तद्धि सुप्रतिष्ठिततमं भवति द्वयक्षरं चतुरक्षरं वा कृतं कु- यान्न तद्धितमिति न चान्तरेण व्याकरणं कृतस्तद्विता वा शक्या विज्ञातुमिति भाग्येण पुत्रनामशानं व्याकरणप्रयोजनमुक्तं तदन्यतः सिद्धेः प्रयोजनाभासमित्याह * यदपीति * घोषवन्तो वर्गतृ- तीवाद्या वर्णा आदी यस्य नाम्नस्तद्धोषवदादि अन्तस्था यरलवा अ- न्तमध्ये यस्य तदन्तरं तस्य घोषवदादरेन्तरस्थस्य द्विचतुरादिवर्णस्य कृदन्तस्य नाम्नः परिग्रहस्तद्धितस्य वर्जनं वा तयोर्यनामकरणे व- चनं तत्र न व्याकरणं नामप्रयोगोत्पत्तिशास्त्रत्वेनापेक्षणीयमिति तत्कृत्तचितसञ्जयोरिति तदित्यव्ययं लुप्तसप्तमीकमङ्गकृित्य योज्यं तदुपपादनार्थ कृत्तद्धितसञ्जयोरित्याधुक्तम् । यच्च भाष्यकृता सुदेवो असि वरुण यस्य ते सप्तसिन्धवः । अनुक्षरन्ति काकुंदं सु- म्य सुषिरामिवेत्युचमुपन्यस्य सुदेवो असि वरुणसत्यदेवो यस्य ते सप्तसिन्धवः सप्तविभक्तयः अनुक्षरन्ति काकुदं तालुकाकुर्जिह्वा- सास्मिन्नुद्यतइति काकुदं सूर्य सुषिरामिव तद्यथा सूर्य सुषिरा- मग्निरनुप्रविश्य तदन्तर्गतं मलमषहन्ति एवं सप्तसिन्धवः ताल्वनु- क्षरन्ति तेनासि सत्यदेव इति व्याख्याय सत्यदेवाः स्यामेत्यध्येयं व्याकरणमिति भाग्येण सत्यदेवत्वप्राप्तिाकरणप्रयोजनमुक्तं त- वास्या ऋचः सङ्खयासामान्यमानेण विभक्तिविषयत्वमभ्युपगम्या- प्यन्यतः सिद्धत्वान्नातीव व्याकरणापेक्षति तावदाह * सुदेव इति* २१६३६ परमार्थतस्तु सिन्धुशब्दस्य नदीवाचित्वेन प्रसिद्धत्वान्नद्य एवात्र सप्त विवक्षिताः । अथापि वरुणशब्देन यज्ञमृत्विजं यजमानं घा ऽभिप्रेत्य तत्प्रशंसापरेयमृगिष्यते तथापि होत्रीयाप्रशास्त्रीयाब्राह्य- णाच्वंसीयापोत्रीयानष्ट्रीयाच्छावाकीयाग्नीध्रीयाख्यहोत्रागताः स. सवाचः षड्ऋषभगान्धारमध्यमपञ्चमधैवतनिषादाख्यसामस्वरगता घा प्रस्तावप्रणवोद्गीथहिङ्कारप्रतिहारोपद्रवनिधनाख्यसामभक्तिगता वावाचः सप्तेत्यन्यपरत्वात् व्याकरणप्रयोजनत्वं निष्प्रमाणकामित्याह * यदा पुनरिति * नदीनामैतिहासिकगोचरापन्नत्वादितरासां याक्षिकगोचरापन्नत्वादित्यर्थः । एवं महाभाष्योक्तमुख्यानुष- निकप्रयोजननिराकरणेन न चाभितप्रतिपदपाठानां वैदिकानां न्यायसुधायाम। लक्षणेन कार्यमित्यादिग्रन्थोक्त व्याकरणस्य निष्प्रयोजनत्वे समर्थिते यदि कश्चित्तस्मादव्याकृता वागुद्यतइति श्रुतिपर्यालोचनेन व्याक- रणसंस्कृतानां शब्दानामइष्टसाधनत्वलक्षणसाधुत्वावगमात्साधु- स्वसिद्धिाकरणप्रयोजनं वदेत्तं प्रत्याह * संस्कृतानां चेति * श्लोकं व्याचष्टे * व्याकरणनति * शब्दत्ववर्णत्वतद्वयक्तितत्स- मुदायावयविस्फोटगोशब्दत्वक्रमग्रहणोच्चारणतत्साधनपुरुषाणां मध्ये किं वस्त्विति कस्येत्यस्य व्याख्या। उत्पत्त्यादीनां चतुर्णी मध्ये कः संस्कार इति को वेत्यस्य शब्दत्ववर्णत्वजातिव्यक्तिपक्षेषु ताव- होषमाह * न तावदिति*जातिपक्षे तावदुभयत्र प्रसङ्गं विवृणोति * शब्दत्वइति * वर्णव्यक्तीनां तु संस्कारः प्रत्येकं वा स्यात्स- मुदितानां वा तत्र प्रत्येकपक्षे ऽतिप्रसङ्गं विवृणोति * एतेनेति * समुदायाभावात् समुदितानामपि संस्कारो न भवतीत्याह * समु- २१७१४ दायस्त्विति किं च नित्यानां वर्णव्यक्तीनां संस्कारः स्यादनित्यानां वा । तत्रानित्यपक्षे तावद्विनष्टानुत्पन्नानामसंस्कार्यत्वादुत्पन्नाना- मपि संस्कारक्षणं यावदनवस्थानान्न संस्कारः सम्भवतीत्याह *ये- षां तावदिति * संस्कारक्षणं यावदवस्थानाभ्युपगमे ऽपि व्यवहा- रकाले विनष्टत्वेन कार्यानुपयोगित्वात्संस्कारो न तु युक्त इत्याह *न चेति * एतदेव विवृणोति * यथैवेति * ननु भाष्यकृता किं पुनर्नित्यः शब्दः आहो खित्कार्य इति पृष्ट्वा सङ्ग्रहएतत्प्राधान्येन प- रिक्ष्यते नित्यो वा स्यात्कार्यों वेति भाष्येण सङ्ग्रहाख्ये वार्तिककार- कृते ग्रन्थान्तरे तात्पर्येणैतद्विचार्यते नात्र तेन विचारेण प्रयोजनामि- त्युत्तरे दत्ते कथं तत्रि लक्षणप्रवृत्तिरित्याशय यद्यपि नित्यो ऽथापि कार्य उभयथापि लक्षणं प्रवर्त्यमित्युक्त्वा कथमनित्यपक्षे संस्कारा- नुपपत्तिरित्याशयाह * ततश्चेति * अत्यन्तविरुद्धत्वाच्च नित्या- नित्यत्वयोरानियमाभिधानं न युक्तमित्याह * अदूरेति * कार्यत्वे च शब्दस्योत्पत्तिलक्षणः संस्कारः स्यात्तत्र च नित्यस्य वेदस्यानित्य- शब्दव्युत्पत्तिविषयत्वायोगेन व्याकरणस्य वेदमूलत्वासम्भवादनि- त्यशब्दोपयुक्तत्वेन च नित्यवेदाङ्गत्वाभावादुभयविधमपि शास्त्रत्वं हीयेतेत्याह * उत्पादश्चैवेति * श्लोकं व्याचष्टे * व्याकरणोति * वेदोत्पादकत्वेन तु व्याकरणस्य वेदाङ्गत्वे वेदो ऽप्यप्रमाणं स्यादि- २११ त्याह * अयेति * कार्यत्वे च शब्दस्य संस्कारो ऽशक्यो ऽनर्थकश्चे- ति दोषद्वयं पूर्वोक्तमप्यनियमनिरासायाह * शब्दश्चोति * नित्यत्वे तु शब्दस्य विक्रियाख्यो ऽपि शब्दादुत्पत्त्याख्यश्च तावत्संस्कारो न सम्भवतीत्याह * तस्मादिति * न च भानरूपप्राप्तिलक्षणःसं-